{ "11001": { "sa": "आ, ऐ, औ - एतेषां त्रयाणां 'वृद्धिः' इति संज्ञा भवति ।", "sd": "व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु प्रथमा संज्ञा 'वृद्धिः' इति अनेन सूत्रेण पाठ्यते । 'आ', 'ऐ', 'औ' एते त्रयः वर्णाः अनेन सूत्रेण वृद्धिसंज्ञकाः भवन्ति । यथा, राम: इत्यत्र रकारोत्तरः आकारः ; शैवः इत्यत्र शकारोत्तरः ऐकारः ; तथा च गौरवः इत्यत्र गकारोत्तरः औकारः वृद्धिसंज्ञकः वर्तते । \nवृद्धिसंज्ञायाः प्रयोजनम्\nवृद्धिसंज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्यां भिन्नाः विधयः उक्ताः सन्ति । कानिचन उदाहरणानि एतादृशानि —\n1. <<अत उपधायाः>> [[7.2.116]] इत्यनेन अकारस्य वृद्धिः विधीयते । अत्र अकारस्य स्थाने वृद्धिसंज्ञकः आकारः आदिश्यते इति आशयः । यथा -\n\nपठ् + घञ् [कृत्संज्ञकः घञ्-प्रत्ययः]\n→ पठ् + अ [इत्संज्ञालोपः]\n→ पाठ् + अ [<<अत उपधायाः>> [[7.2.116]] इत्यनेन पकारोत्तरस्य अकारस्य वृद्धिः आकारः]\n→ पाठ ।\n\n2. <<अचो ञ्णिति>> [[7.2.115]] इत्यनेन इकारस्य वृद्धिः विधीयते । अत्र इवर्णस्य स्थाने वृद्धिसंज्ञकः ऐकारः आदिश्यते। यथा -\n\nनी + णिच् [स्वार्थिकः णिच्-प्रत्ययः]\n→ नी + इ [इत्संज्ञालोपः]\n→ नै + इ [<<अचो ञ्णिति>> [[7.2.115]] इत्यनेन नकारोत्तस्य ईकारस्य वृद्धिः ऐकारः]\n→ नाय् + इ [<<एचोऽयवायावः>> [[6.1.78]] इति आयादेशः]\n→ नायि [<<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञा]\n\n3. <<तद्धितेष्वचामादेः>> [[7.2.117]] इत्यनेन उकारस्य वृद्धिः विधीयते । अनेन उवर्णस्य स्थाने वृद्धिसंज्ञकः औकारः आदिश्यते । यथा -\n\nउपगु + अण् [तद्धितसंज्ञकः अण्-प्रत्ययः]\n→ उपगु + अ [इत्संज्ञालोपः]\n→ औपगु + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इत्यनेन आदिस्थस्य उकारस्य वृद्धिः भवति । अनेन उकारस्य स्थाने वृद्धिसंज्ञकः औकारः विधीयते]\n→ औपगो + अ [<<ओर्गुणः>> [[6.4.146]] इति उकारस्य गुणः ओकारः]\n→ औपगव् + अ [<<एचोऽयवायावः>> [[6.1.78]] इति अवादेशः]\n→ औपगव\n\nवृद्धिसंज्ञा तथा वृद्धिसन्धिः\nयस्मिन् सन्धौ द्वयोः स्वरयोः एकत्रीकरणम् कृत्वा उभयोः स्थाने एकः वृद्धिसंज्ञकः वर्णः विधीयते, सः सन्धिः सामान्यरूपेण वृद्धिसन्धिः इति नाम्ना ज्ञायते । यथा, वन + ओषधिः → वनौषधिः इत्यत्र प्रक्रियायाम् <<वृद्धिरेचि>> [[6.1.88]] इति सूत्रेण अकार-ओकारयोः स्थाने इति वृद्धि-एकादेशः भवति । अत्र वृद्धिसंज्ञकः वर्णः आदेशरूपेण विधीयते, अतएव अस्य सन्धेः नाम वृद्धिसन्धिः इति दीयते ।\nवृद्धिसंज्ञायाः सूत्रेषु प्रयोगः\nअष्टाध्याय्यां 'वृद्धिः' इयं संज्ञा नवसु सूत्रेषु साक्षात् प्रयुक्ता दृश्यते —\n\n1. <<इको गुणवृद्धी>> [[1.1.3]]\n2. <<वृद्धिर्यस्याचामादिस्तद् वृद्धम्>> [[1.1.73]]\n3. <<वृद्धिरेचि>> [[6.1.88]]\n4. <<उत्तरपदवृद्धौ सर्वं च>> [[6.2.105]]\n5. <<इद्वृद्धौ>> [[6.3.28]]\n6. <<वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे>> [[6.3.39]]\n7. <<सिचि वृद्धिः परस्मैपदेषु>> [[7.2.1]]\n8. <<मृजेर्वृद्धिः>> [[7.2.114]]\n9. <<उतो वृद्धिर्लुकि हलि>> [[7.3.89]]\n\n अनुवृत्तिरूपेण तु अन्येषु सूत्रेषु अपि अस्याः संज्ञायाः प्रयोगः भवितुम् अर्हति ।\n'आदैच्' इत्यत्र तपरकरणस्य प्रयोजनम्\nआदैच् इत्यत्र आत् तथा ऐच् इति पदद्वयम् विद्यते । तत्र आत् इत्यत्र आकारात् अनन्तरम् स्थापितः तकारः तात्कालिकभेदग्रहणार्थम् स्थापितः अस्ति । अयम् तकारः ऐच् इत्यनेन सह अन्वेति । इत्युक्ते, ऐच्-प्रत्याहारस्थवर्णाभ्याम् जायमानम् सवर्णग्रहणम् अत्र तकारनिर्देशसामर्थ्यात् <<तपरस्तत्कालस्य>> [[1.1.70]] इति सूत्रस्य साहाय्येन नियम्यते, येन केवलम् दीर्घभेदानाम् एव अत्र ग्रहणं भवति, न हि प्लुतभेदानाम् । प्लुत-ऐकार-औकारयोः 'वृद्धिः' इति संज्ञा न इष्यते, अतः अत्र तपरकरणम् कृत्वा सा निवार्यते ।\nअत्र विद्यमानः तकारः आकारेण सह न हि अन्वेति, यतः आकारेण सवर्णग्रहणं नैव क्रियते । इत्युक्ते तकारं विना अपि अनेन सूत्रेण प्लुत-अकारस्य वृद्धिसंज्ञा मूलतः एव न प्राप्नोति, अतः तस्य विषये वृद्धिसंज्ञायाः निषेधः अपि नैव आवश्यकः ।\n<pv>तद्भावितस्य, अतद्भावितस्य च वृद्धिसंज्ञा\nप्रकृतसूत्रस्य व्याख्याने काशिकाकारः तद्भावितानाम् अतद्भावितानां च इति वाक्यं प्रयुङ्क्ते । अत्र विद्यमानयोः द्वयोः शब्दयोः अर्थौ एतादृशौ —\n1. तद्भावितः वर्णः — यः आकारः / ऐकारः / औकारः 'वृद्धिः भवति' इति निर्देशेन सिद्ध्यति, सः आकारः / ऐकारः / औकारः अत्र तद्भावितवर्णः इत्यनेन निर्दिष्टः अस्ति । यथा, उपरिनिर्दिष्टे उदाहरणे औपगव इत्यस्मिन् शब्दे विद्यमानः औकारः उकारस्य 'वृद्धिं' कृत्वा सिद्ध्यति, अतः अयम् तद्भावितवर्णः अस्ति इति उच्यते ।\n2. अतद्भावितः वर्णः — यः आकारः / ऐकारः / औकारः 'वृद्धिः भवति' इति निर्देशं विना एव उपस्थितः अस्ति, सः वर्णः अतद्भावितवर्णः नाम्ना ज्ञायते । यथा, माला इत्यत्र विद्यमानः मकारोत्तरः आकारः मा-धातोः आकारः अस्ति, लकारोत्तरः विद्यमानः च आकारः सवर्णदीर्घेण सिद्ध्यति । अतः अत्र विद्यमानौ द्वौ अपि आकारौ अतद्भावितवर्णौ उच्येते ।\nएतादृशम्, आकार-ऐकार-औकाराणाम् द्वयोः गणयोः विभाजनं कृत्वा काशिकाकारः प्रकृतसूत्रस्य व्याख्याने इदं स्पष्टीकरोति, यत् उभयोः प्रकारयोः आकार-ऐकार-औकाराणाम् (इत्युक्ते, तद्भावितानाम्, अतद्भावितानाम् च) प्रकृतसूत्रेण वृद्धिसंज्ञा भवति । अतएव माला शब्दस्य आदौ विद्यमानः आकारः वृद्धिसंज्ञकं स्वीकृत्य माला शब्दस्य <<वृद्धिर्यस्याचामादिस्तद् वृद्धम्>> [[1.1.73]] इति सूत्रेण वृद्धसंज्ञा भवति, येन अग्रे <<वृद्धाच्छः>> [[4.2.114]] इत्यनेन छ-प्रत्यये कृते मालीय इति शब्दः अपि सिद्ध्यति । \n<pv>चकारस्य कुत्वप्राप्तिः\nअस्मिन् सूत्रे आदैच् इत्यत्र पदान्ते विद्यमानस्य चकारस्य वस्तुतः <<चोः कुः>> [[8.2.30]] इत्यने कुत्वे कृते गकारः भवितुम् अर्हति । परन्तु <ऽछन्दोवत्सूत्राणि भवन्तिऽ> इति वचनेन एतत् सूत्रम् छन्दसः वचनम् (वैदिकवचनम्) मत्वा <<अयस्मयादीनि च्छन्दसि>> [[1.4.20]] इत्यत्र निर्दिष्टे अयस्मयादिगणे ऐच् पदस्य समावेशं कृत्वा अस्य भसंज्ञा क्रियते, येन एकसंज्ञाधिकारमनुसृत्य पदसंज्ञा निषिध्यते, येन च अनिष्टं कुत्वमपि निवार्यते ।\n" }, "11002": { "sa": "अ, ए, ओ - एतेषां त्रयाणां 'गुणः' इति संज्ञा भवति ।", "sd": "व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'गुण' इति संज्ञा । 'अ', 'ए', 'ओ' एते त्रयः वर्णाः अनेन सूत्रेण गुणसंज्ञकाः भवन्ति । यथा, हरिः इत्यत्र विद्यमानः हकारोत्तरः अकारः, देवः इत्यत्र विद्यमानः दकारोत्तरः एकारः, तथा च गोविन्दः इत्यत्र विद्यमानः गकारोत्तरः ओकारः - एते सर्वे गुणसंज्ञकाः सन्ति । \nगुणसंज्ञाः प्रयोजनम्\nगुणसंज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्यां भिन्नाः विधयः उच्यन्ते । कानिचन उदाहरणानि एतानि —\n1. <<ऋतो ङिसर्वनामस्थानयोः>> [[7.3.110]] इत्यनेन सूत्रेण ऋकारस्य गुणः भवति । अत्र ऋकारस्य स्थाने गुणसंज्ञकः अकारः आगच्छति । यथा -\n\nपितृ + औ [प्रथमाद्विवचनस्य 'औ' प्रत्ययः]\n→ पितर् + औ [<<ऋतो ङिसर्वनामस्थानयोः>> [[7.3.110]] इत्यनेन ऋकारस्य गुणः अकारः । <<उरण् रपरः>> [[1.1.51]] इति सः रपरः]\n→ पितरौ \n\n2. <<जसि च>> [[7.3.109]] इत्यनेन सूत्रेण इकारस्य गुणः भवति । अत्र इकारस्य स्थाने गुणसंज्ञकः एकारः विधीयते । यथा,\n\nमति + जस् [प्रथमाबहुवचनस्य जस्-प्रत्ययः]\n→ मति + अस् [इत्संज्ञालोपः]\n→ मते + अस् [<<जसि च>> [[7.3.109]] इत्यनेन इकारस्य गुणादेशः एकारः]\n→ मतय् + अस् [<<एचोऽयवायावः>> [[6.1.78]] इति अयादेशः]\n→ मतयः [<<ससजुषो रुः>> [[8.2.66]], <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]]]\n\n3. <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इत्यनेन सूत्रेण उवर्णस्य गुणः भवति । अत्र उकारस्य स्थाने गुणसंज्ञकः ओकारः विधीयते । यथा,\n\nभू + अनीयर् [कृत्संज्ञकः अनीयर्-प्रत्ययः]\n→ भू + अनीय [इत्संज्ञालोपः]\n→ भो + अनीय [<<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति उकारस्य गुणः ओकारः]\n→ भव् + अनीय [<<एचोऽयवायावः>> [[6.1.78]] इति अवादेशः]\n→ भवनीय ।\n\nगुणसंज्ञा तथा गुणसन्धिः\nयस्मिन् सन्धौ द्वयोः स्वरयोः एकत्रीकरणम् कृत्वा उभयोः स्थाने एकः गुणसंज्ञकः वर्णः विधीयते, सः सन्धिः सामान्यरूपेण गुणसन्धिः इति नाम्ना ज्ञायते । यथा, महा + ईशः‌ →‌ महेशः इत्यत्र प्रक्रियायाम् <<आद्गुणः>> [[6.1.87]] इति सूत्रेण आकार-ईकारयोः मिलित्वा इति गुण-आदेशः भवति । अत्र गुणसंज्ञकः वर्णः आदेशरूपेण विधीयते, अतएव अस्य सन्धेः नाम गुणसन्धिः इति दीयते ।\nतद्भावितस्य, अतद्भावितस्य च गुणसंज्ञा\nप्रकृतसूत्रस्य व्याख्याने काशिकाकारः तद्भावितानाम् अतद्भावितानां च इति वाक्यं प्रयुङ्क्ते । अत्र विद्यमानयोः द्वयोः शब्दयोः अर्थौ एतादृशौ —\n1. तद्भावितः वर्णः — यः अकारः / एकारः / ओकारः 'गुणः भवति' इति निर्देशेन सिद्ध्यति, सः अकारः / एकारः / ओकारः अत्र तद्भावितवर्णः इत्यनेन निर्दिष्टः अस्ति । यथा, महेशः इत्यस्मिन् शब्दे विद्यमानः एकारः आकार-ईकारयोः एकत्ररूपेण 'गुणं' कृत्वा सिद्ध्यति, अतः अयम् तद्भावितवर्णः अस्ति इति उच्यते ।\n2. अतद्भावितः वर्णः — यः अकारः / एकारः / ओकारः 'गुणः भवति' इति निर्देशं विना एव उपस्थितः अस्ति, सः वर्णः अतद्भावितवर्णः नाम्ना ज्ञायते । यथा, अन्तिइति प्रत्ययस्य आदौ विद्यमानः अकारः अतद्भावितवर्णः उच्यते ।\nएतादृशम्, अकार/एकार/ओकाराणाम् द्वयोः गणयोः विभाजनं कृत्वा काशिकाकारः प्रकृतसूत्रस्य व्याख्याने इदं स्पष्टीकरोति, यत् उभयोः प्रकारयोः अकार/एकार/ओकाराणाम् (इत्युक्ते, तद्भावितानाम्, अतद्भावितानाम् च) प्रकृतसूत्रेण गुणसंज्ञा भवति । अतएव अन्ति इति प्रत्ययस्य आदौ विद्यमानम् अकारम् गुणसंज्ञकं स्वीकृत्य पठ् + अ+ अन्ति इत्यत्र <<अतो गुणे>> [[6.1.97]] इति सूत्रेण पररूप-एकादेशः भवति, येन पठन्ति इति रूपं सिद्ध्यति ।\nसूत्रेषु प्रयोगः\nअष्टाध्याय्यां 'गुणः' इति संज्ञा पञ्चदशसु सूत्रेषु साक्षात् प्रयुक्ता दृश्यते —\n\n1. <<इको गुणवृद्धी>> [[1.1.3]]\n2. <<आद्गुणः>> [[6.1.87]]\n3. <<अतो गुणे>> [[6.1.97]]\n4. <<ओर्गुणः>> [[6.4.146]]\n5. <<स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः>> [[6.4.156]]\n6. <<मिदेर्गुणः>> [[7.3.82]]\n7. <<गुणोऽपृक्ते>> [[7.3.91]]\n8. <<ह्रस्वस्य गुणः>> [[7.3.108]]\n9. <<ऋतश्च संयोगादेर्गुणः>> [[7.4.10]]\n10. <<ऋदृशोऽङि गुणः>> [[7.4.16]]\n11. <<शीङः सार्वधातुके गुणः>> [[7.4.21]]\n12. <<गुणोऽर्तिसंयोगाद्योः>> [[7.4.29]]\n13. <<मुचोऽकर्मकस्य गुणो वा>> [[7.4.57]]\n14. <<निजां त्रयाणां गुणः श्लौ>> [[7.4.75]]\n15. <<गुणो यङ्लुकोः>> [[7.4.82]]\n\nअनुवृत्तिरूपेण तु अन्येषु सूत्रेषु अपि अस्याः संज्ञायाः प्रयोगः भवितुम् अर्हति ।\n'अदेङ्' इत्यत्र तपरकरणस्य प्रयोजनम्\nअदेङ् इत्यत्र अत् तथा एङ् इति पदद्वयम् विद्यते । तत्र अत् इत्यत्र अकारात् अनन्तरम् स्थापितः तकारः तात्कालिकभेदग्रहणार्थम् स्थापितः अस्ति । अयम् तकारः अकारेण सह, तथा च एङ् इत्यनेन सह अपि अन्वेति । इत्युक्ते, अकारेण जायमानम् सवर्णग्रहणम् (आकार-अ3कारयोः ग्रहणम्), तथा च एङ्-प्रत्याहारस्थवर्णाभ्याम् जायमानम् अपि सवर्णग्रहणं अत्र तकारनिर्देशसामर्थ्यात् <<तपरस्तत्कालस्य>> [[1.1.70]] इति सूत्रस्य साहाय्येन नियम्यते, येन केवलम् ह्रस्व-अकारस्य तथा च दीर्घ-एकार-ओकारयोः एव 'गुण'संज्ञा भवति ।" }, "11003": { "sa": "यत्र 'गुण'शब्देन गुणादेशः निर्दिश्यते उत 'वृद्धि'शब्देन वृद्ध्यादेशः निर्दिश्यते, तत्र सः आदेशः इक्-वर्णस्य स्थाने भवति । ", "sd": "यत्र गुणः इति शब्देन गुणादेशः निर्दिश्यते, अथ वा यत्र वृद्धिः इति शब्देन वृद्ध्यादेशः निर्दिश्यते, परन्तु कस्य गुणादेशः वृद्ध्यादेशः वा भवति इति स्पष्टीकृतम् नास्ति, तत्र इकः इति षष्ठ्यन्तम् पदम् संस्थाप्य इक्-वर्णस्य स्थाने (इत्युक्ते, इवर्ण-उवर्ण-ऋवर्ण-ऌवर्णानाम् स्थाने) गुणादेशः / वृद्ध्यादेशः भवति इति अर्थः स्वीकरणीयः —‌ इति प्रकृतसूत्रस्य आशयः । उदाहरणे एतादृशे —\n1. <<मिदेर्गुणः>> [[7.3.82]] अनेन सूत्रेण मिद्-धातोः शित्-प्रत्यये परे गुणादेशः उच्यते । अत्र गुणः इति शब्देन गुणादेशस्य विधानम् कृतम् अस्ति, अतः अत्र प्रकृतपरिभाषायाः आधारेण इकः इति पदं संस्थाप्य मिदेः इकः गुणः भवति इति अर्थः सिद्ध्यति । प्रक्रिया इयम् —\n\nञिमिदाँ (स्नेहने, दिवादिः, <{4.158}>)\n→ मिद् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ मिद् + तिप् [प्रथमपुरुषैकवचनस्य विवक्षायाम् <<तिप्तस्झि...>> [[3.4.78]] इति तिप्-प्रत्ययः]\n→ मिद् + श्यन् + ति [<<दिवादिभ्यः श्यन्>> [[3.1.69]] इति श्यन्]\n→ मेद् + य + ति [शित्-प्रत्यये परे <<मिदेर्गुणः>> [[7.3.82]] इति मिद्-धातोः अङ्गस्य गुणः । अत्र <<इको गुणवृद्धी>> [[1.1.3]] इत्यनेन 'इकः' इति पदम् उपस्थाप्यते, अतः अत्र 'इक् वर्णस्य स्थाने' गुणः भवति । इत्युक्ते इकारस्य स्थाने उच्चारणस्थानसाधर्म्यात् एकारः आदेशरूपेण विधीयते ।]\n→ मेद्यति ।\n\n2. <<मृजेर्वृद्धिः>> [[7.2.114]] अनेन सूत्रेण मृज्-धातोः वृद्ध्यादेशः विधीयते । अत्र अपि वृद्धिः इति शब्देन वृद्ध्यादेशस्य विधानम् कृतम् अस्ति, अतः अत्र प्रकृतपरिभाषायाः आधारेण इकः इति पदं संस्थाप्य मृजेः इकः वृद्धिः भवति इति अर्थः सिद्ध्यति । प्रक्रिया इयम् —\n\nमृजूँ (शुद्धौ, अदादिः, <{2.61}>)\n→ मृज् + अनीयर् [<<तव्यत्तव्यानीयरः>> [[3.1.96]] इति अनीयर्-प्रत्ययः]\n→‌ मार्ज् + अनीयर् [<<मृजेर्वृद्धिः>> [[7.2.114]] इति मृज्-धातोः अङ्गस्य वृद्धिः भवति । अत्र <<इको गुणवृद्धी>> [[1.1.3]] इत्यनेन 'इकः' इति पदम् उपस्थाप्यते, अतः अत्र 'इक् वर्णस्य स्थाने' वृद्धिः भवति । इत्युक्ते ऋकारस्य स्थाने उच्चारणस्थानसाधर्म्यात् रपरः आकारः आदेशरूपेण विधीयते ।]\n→ मार्जनीय \n\nदलकृत्यम्\n1. 'इकः' इति किमर्थम् ? \nयत्र अङ्गे इक्-वर्णः न विद्यते, तत्र प्रक्रियायाम् गुणः / वृद्धिः सम्भवति चेद् अपि इक्-वर्णस्य अभावात् तादृशं कार्यं नैव सम्भवति । यथा, या इति धातोः अनीयर्-प्रत्यये कृते <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इत्यनेन अङ्गस्य अन्तिम-स्वरस्य गुणादेशः प्राप्नोति । परन्तु अत्र अङ्गस्य अन्ते इक्-वर्णः न विद्यते । अतः अत्र गुणादेशः अपि न हि प्रसज्यते । प्रक्रिया इयम् —\n\nया (प्रापणे, अदादिः, <{2.44}>)\n→ या + अनीयर् [<<तव्यत्तव्यानीयरः>> इति अनीयर्-प्रत्ययः]\n→ यानीय [अत्र आर्धधातुकप्रत्यये परे <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इत्यनेन अङ्गस्य अन्तिमवर्णस्य (आकारस्य) गुणः प्राप्नोति । परन्तु अत्र प्रकृतपरिभाषया 'इकः' इति पदम् अपि उपतिष्ठते । अस्यां स्थितौ अतः अत्र गुणादेशः नैव सम्भवति, यतः आकारः इक-प्रत्याहारे न अन्तर्भवति । अतः अत्र <<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घं कृत्वा एव रूपसिद्धिः भवति ।]\n\n2. 'गुणशब्देन' / 'वृद्धिशब्देन' इति किमर्थम् ? \nयत्र केवलम् गुणसंज्ञकः वृद्धिसंज्ञकः वा वर्णः आदेशरूपेण विधीयते, परन्तु 'गुणः भवति' अथवा 'वृद्धिः भवति' इति निर्दिष्टं नास्ति, तत्र इयम् परिभाषा न हि प्रयुज्यते, अतः तत्र तादृशः आदेशः इक्-भिन्नवर्णस्य अपि भवति । यथा, <<दिव औत्>> [[7.1.84]] इति सूत्रेण दिव् शब्दस्य सुँ-प्रत्यये परे औ-आदेशः विधीयते । अत्र यद्यपि इति वृद्धिसंज्ञकः वर्णः अस्ति, तथापि अस्य विधानम् 'वृद्धिः भवति' इति स्वरूपेण नैव क्रियते, अतः अत्र प्रकृतपरिभाषा न हि उपतिष्ठते । अतएव <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यनेन दिव्-शब्दस्य अन्तिम-वकारस्य औकारादेशः भवति । प्रक्रिया इयम् —\n\nदिव् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः]\n→ दिऔ + स् [<<दिव औत्>> [[7.1.84]] इति औकारादेशः । <<अलोऽन्त्यस्य>> [[1.1.52]] इति अयम् अन्तिमवर्णस्य स्थाने भवति, अतः अत्र वकारस्य स्थाने औकारः विधीयते ।]\n→ द्यौस् [<<इको यणचि>> [[6.1.77]] इति यणादेशः]\n→ द्यौः [<<ससजुषो रुँः>> [[8.2.66]] इति रुँत्वम् ]\n\nअनियमे नियमकारिणी परिभाषा\nइदं सूत्रम् परिभाषासूत्रम् अस्ति । <ऽअनियमे नियमकारिणी परिभाषाऽ> इति व्याख्यया परिभाषासूत्रस्य तदा एव प्रयोगः भवति यदा कुत्रचित् अनियमः / सन्देहः जायते । इत्युक्ते, 'कस्य वर्णस्य गुणः वृद्धिः वा स्यात्' — इत्यस्मिन् विषये सन्देहः यदा उपपद्यते, तदा एव प्रकृतसूत्रस्य प्रयोगः करणीयः । यत्र एतादृशः सन्देहः न भवति, इत्युक्ते यत्र स्थानिनः स्पष्टरूपेण निर्देशः कृतः अस्ति, तत्र तु प्रकृतसूत्रस्य प्रयोगः न हि भवति । यथा —\n1) <<अचो ञ्णिति>> [[7.2.115]] इति सूत्रेण अच्-वर्णस्य स्थाने वृद्धिः विधीयते । अत्र सूत्रे 'अच्' इति स्थानिर्देशः स्पष्टरूपेण कृतः अस्ति, अतः अत्र कस्य अपि सन्देहस्य अभावात् प्रकृतपरिभाषायाः साहाय्यम् नैव आवश्यकम् वर्तते, अतः अत्र इकः इति पदम् अपि नैव स्वीक्रियते । अतएव 'गो' शब्दस्य ओकारस्य अपि <<अचो ञ्णिति>> [[7.2.115]] इति सूत्रेण वृद्धिः सम्भवति —\n\nगो + सुँ [गो-शब्दात् प्रथमैकवचनस्य सुँ-प्रत्ययः । <<गोतो णित्>> [[7.1.90]] इति सूत्रेण अयं सुँ-प्रत्ययः णिद्वत् कार्यं करोति ।]\n→ गौ + स् [णित्-प्रत्यये परे <<अचो ञ्णिति>> [[87.2.115]] इत्यनेन अजन्तस्य अङ्गस्य अन्तिम-अच्-वर्णस्य वृद्धिः विधीयते । अत्र सन्देहस्य अभावात् प्रकृतपरिभाषायाः साहाय्यं नैव स्वीक्रियते, अपि तु ओकारस्य वृद्धिं कृत्वा तस्य स्थाने औकारः विधीयते]\n→ गौः [<<ससजुषो रुः>> [[8.2.66]] इति रुँत्वम् । <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n\n2) <<अत उपधायाः>> [[7.2.116]] इति सूत्रेण अङ्गस्य उपधा-अकारस्य स्थाने वृद्धिः विधीयते । अत्र सूत्रे 'अतः' इति स्थानिनिर्देशः स्पष्टरूपेण कृतः अस्ति, अतः अत्र कस्य अपि सन्देहस्य अभावात् प्रकृतपरिभाषायाः साहाय्यम् नैव आवश्यकम् वर्तते, अतः अत्र इकः इति पदम् अपि नैव स्वीक्रियते । अतएव 'पठ्' शब्दस्य अकारस्य अपि <<अत उपधायाः>> [[7.2.116]] इति सूत्रेण वृद्धिः सम्भवति —\n\nपठ् + ण्यत् [<<ऋहलोर्ण्यत्>> [[3.1.124]] इति ण्यत्-प्रत्ययः]\n→ पाठ् + य [<<अत उपधायाः>> [[7.2.116]] इति उपधावृद्धिः । अकारस्य वृद्धिः आकारः]\n→ पाठ्य \n\n3. <<आद्गुणः>> [[6.1.87]] इत्यनेन सूत्रेण अवर्णस्य अच्-वर्णे परे गुण-एकादेशः विधीयते । अत्र सूत्रे 'आत्' तथा च (अनुवृत्तिरूपेण) 'अचि' इति स्थानिनिर्देशः कृतः अस्ति, अतः कस्य अपि सन्देहस्य अभावात् प्रकृतपरिभाषायाः साहाय्यम् अत्र नैव आवश्यकम् वर्तते । अतएव गण + ईशः इत्यत्र अकार-ईकारयोः गुणैकादेशे कृते उभयोः स्थाने एकारः विधीयते, येन गणेश इति शब्दः सिद्ध्यति ।\n4. <<वृद्धिरेचि>> [[6.1.88]] इत्यनेन सूत्रेण अवर्णस्य एच्-वर्णे परे वृद्धि-एकादेशः विधीयते । अत्र सूत्रे 'एचि' तथा च (अनुवृत्तिरूपेण) 'आत्' इति स्थानिनिर्देशः कृतः अस्ति, अतः कस्य अपि सन्देहस्य अभावात् प्रकृतपरिभाषायाः साहाय्यम् अत्र नैव आवश्यकम् वर्तते । अतएव वन + ओषधिः इत्यत्र अकार-एकारयोः वृद्ध्येकादेशे कृते उभयोः स्थाने औकारः विधीयते, येन वनौषधिः इति शब्दः सिद्ध्यति ।\nनिषेधः\nप्रकृतसूत्रात् अनन्तरम् विद्यमानैः त्रिभिः सूत्रैः प्रकृतसूत्रस्य निषेधः उच्यते —\n\n1. <<न धातुलोप आर्धधातुके>> [[1.1.4]] — आर्धधातुकप्रत्ययस्य कारणेन धातोः कश्चन अंशः लुप्यते चेत् अवशिष्टस्य अंशस्य इक्-वर्णस्य गुणः/वृद्धिः न भवति ।\n2. <<क्ङिति च>> [[1.1.5]] —‌ कित्/गित्/ङित्-प्रत्ययः निमित्तरूपेण प्रयुज्यते चेत् धातोः अङ्गस्य इक्-वर्णस्य प्राप्तः गुणः/वृद्धिः न भवति । \n3. <<दीधीवेवीटाम्>> [[1.1.6]] — दीधीङ् तथा वेवीङ् एतयोः धात्वोः विद्यमानस्य इक्-वर्णस्य गुणः/वृद्धिः न भवति ।\n\nएतेषाम् उदाहरणानि तत्तत्स्थले एव द्रष्टव्यानि ।" }, "11004": { "sa": "यः आर्धधातुकप्रत्ययः धातोः कस्यचन अंशस्य लोपम् करोति, सः आर्धधातुकप्रत्ययः अवशिष्टस्य अंशस्य इक्-वर्णस्य गुणं वृद्धिं वा न करोति । ", "sd": "धातोः विहितः कश्चित् आर्धधातुकप्रत्ययः यदि तस्य धातोः कस्यचन अंशस्य लोपस्य निमित्तम् भवति, तर्हि तादृशे लोपे कृते अवशिष्टस्य अंशस्य यः इक्-वर्णः, तस्य गुणस्य/वृद्धेः निमित्तम् सः आर्धधातुकप्रत्ययः न भवति — इति अस्य सूत्रस्य आशयः । \nअस्य सूत्रस्य प्रयोगः यङ्-लुगन्तप्रक्रियायाम् एव दृश्यते । द्वे उदाहरणे एतादृशे —\n1. लुञ्-धातोः यङ्लुगन्तप्रक्रियायाम् अस्य सूत्रस्य गुणनिषेधार्थम् प्रयोगः —\nलूञ् (छेदने) अस्मात् धातोः पुनः पुनः लुनाति अस्मिन् अर्थे <<धातोरेकाचो हलादे क्रियासमभिहारे यङ्>> [[3.1.22]] इत्यनेन यङ्-प्रत्ययः भवति । अस्य प्रयोगेण लोलूय इति आतिदेशिकः धातुः सिद्ध्यति । अस्मात् धातोः <<नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः>> [[3.1.134]] इत्यनेन कर्त्रर्थे यदा अच्-प्रत्ययः विधीयते, तदा प्रक्रियायाम् अच्-प्रत्ययम् निमित्तरूपेण स्वीकृत्य लोलूय-धातोः -इत्यस्य लोपः भवति । एतादृशे लोपे कृते अवशिष्टे अंशे विद्यमानस्य लकारोत्तस्य उकारस्य <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इत्यनेन प्राप्तः गुणः प्रकृतसूत्रेण निषिध्यते । प्रक्रिया एतादृशी —\n\nपुनः पुनः लुनाति सः \n= लूञ् (छेदने, क्र्यादिः, <{9.16}>)\n→ लू + यङ् + अच् [<<धातोरेकाचो हलादे क्रियासमभिहारे यङ्>> [[3.1.22]] इत्यनेन यङ् । <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञा । ततः कर्त्रर्थे <<नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः>> [[3.1.134]] इति अच्-प्रत्ययः]\n→ लूय् लूय + अ [<<सन्यङोः>> [[6.1.9]] इत्यनेन यङन्तस्य प्रथम-एकाच्-अवयवस्य द्वित्वम् भवति । द्वित्वे कृते प्रथमस्य 'लूय्' इत्यस्य <<पूर्वोभ्यासः>> [[6.1.4]] इत्यनेन अभ्याससंज्ञा भवति ।]\n→ लू लूय + अ [<<हलादिः शेषः>> [[7.4.60]] इति यकारलोपः]\n→ लू + लू + अ [<<यङोऽचि च>> [[2.4.74]] इत्यनेन अच्-प्रत्यये परे यङ्-प्रत्ययस्य लुक्-भवति । अच-प्रत्ययनिमित्तकः लुक् यङ्-प्रत्ययनिमित्तकस्य द्वित्वस्य अपेक्षया बहिरङ्गः अस्ति, अतः अयं लुक् द्वित्वकार्यात् अनन्तरम् एव विधीयते ।]\n→ लो + लू + अ [<<गुणो यङ्लुकोः>> [[7.4.82]] इति यङ्लुकि कृते इगन्तस्य अभ्यासस्य गुणः ओकारः भवति ।]\n→ लो + ल् उवङ् + अ [ अच्-प्रत्ययं निमित्तरूपेण स्वीकृत्य <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इत्यनेन लू-इत्यस्य ऊकारस्य गुणादेशः प्राप्नोति । परन्तु अयम् अच्-प्रत्ययः धातोः अंशस्य ('य' इत्यस्य) लोपस्य निमित्तम् अस्ति, अतः प्रकृतसूत्रेण अयं गुणः निषिध्यते । गुणाभावे <<अचि श्नुधातुभ्रूवाम् य्वोः इयङ्-उवङौ>> [[6.4.77]] इत्यनेन लू-इत्यस्य उवङ्-आदेशः विधीयते । <<ङिच्च>> [[1.1.53]] इति अयम् अन्त्यादेशरूपेण विधीयते ।]\n→ लोलुव् + अ [ङकारस्य इत्संज्ञा, लोपः । वकारोत्तरः अकारः उच्चारणार्थः अस्ति, अतः तस्यापि लोपः भवति ।]\n→ लोलुव ।\n\n2. मृज्-धातोः यङ्लुगन्तप्रक्रियायाम् अस्य सूत्रस्य वृद्धिनिषेधार्थम् प्रयोगः —\nमृजूँ (शुद्धौ) अस्मात् धातोः पुनः पुनः मार्ष्टि अस्मिन् अर्थे <<धातोरेकाचो हलादे क्रियासमभिहारे यङ्>> [[3.1.22]] इत्यनेन यङ्-प्रत्ययः भवति । अस्य प्रयोगेण मरीमृज्य इति आतिदेशिकः धातुः सिद्ध्यति । अस्मात् धातोः <<नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः>> [[3.1.134]] इत्यनेन कर्त्रर्थे यदा अच्-प्रत्ययः विधीयते, तदा प्रक्रियायाम् अच्-प्रत्ययम् निमित्तरूपेण स्वीकृत्य मरीमृज्य-धातोः -इत्यस्य लोपः भवति । एतादृशे लोपे कृते अवशिष्टे अंशे विद्यमानस्य मकारोत्तरस्य ऋकारस्य <<मृजेर्वृद्धिः>> [[7.2.114]] इत्यनेन प्राप्तः वृद्धिः प्रकृतसूत्रेण निषिध्यते । प्रक्रिया एतादृशी —\n\nपुनः पुनः मार्ष्टि सः \n= मृजूँ (शुद्धौ, अदादिः, <{2.61}>)\n→ मृज् + यङ् + अच् [<<धातोरेकाचो हलादे क्रियासमभिहारे यङ्>> [[3.1.22]] इत्यनेन यङ् । <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञा । ततः कर्त्रर्थे <<नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः>> [[3.1.134]] इति अच्-प्रत्ययः]\n→ मृज्य् मृज्य + अ [<<सन्यङोः>> [[6.1.9]] इत्यनेन यङन्तस्य प्रथम-एकाच्-अवयवस्य द्वित्वम् भवति । द्वित्वे कृते प्रथमस्य 'मृज्य्' इत्यस्य <<पूर्वोभ्यासः>> [[6.1.4]] इत्यनेन अभ्याससंज्ञा भवति ।]\n→ मृ मृज्य + अ [<<हलादिः शेषः>> [[7.4.60]] इति यकारलोपः]\n→ मृज् मृज् + अ [<<यङोऽचि च>> [[2.4.74]] इत्यनेन अच्-प्रत्यये परे यङ्-प्रत्ययस्य लुक्-भवति । अच-प्रत्ययनिमित्तकः लुक् यङ्-प्रत्ययनिमित्तकस्य द्वित्वस्य अपेक्षया बहिरङ्गः अस्ति, अतः अयं लुक् द्वित्वकार्यात् अनन्तरम् एव विधीयते ।]\n→ मर् मृज् + अ [<<उरत्>> [[7.4.66]] इति ऋकारस्य अकारः । <<उरण् रपरः>> [[1.1.51]] इति सः रपरः]\n→‌ म मृज् + अ [<<हलादिः शेषः>> [[7.4.60]] इति रेफलोपः । ]\n→ म रीक् मृज् + अ [<<रीगृदुपधस्य च>> [[7.4.90]] इति अभ्यासस्य रीक्-आगमः । <<आद्यन्तौ टकितौ>> [[1.1.46]] इति अन्त्यावयवः ।]\n→‌ मरीमृज् + अ [ककारस्य इत्संज्ञा, लोपः।]\n→ मरीमृज [अत्र अच्-प्रत्ययं निमित्तरूपेण स्वीकृत्य <<मृजेर्वृद्धिः>> [[7.2.114]] इत्यनेन मरीमृज्-इत्यस्य उपधा-ऋकारस्य गुणादेशः प्राप्नोति । परन्तु अयम् अच्-प्रत्ययः धातोः अंशस्य ('य' इत्यस्य) लोपस्य निमित्तम् अस्ति, अतः प्रकृतसूत्रेण अयं वृद्धिः निषिध्यते ।]\n\nदलकृत्यम्\n1. लोपे इति किमर्थम् ? यदि धातोः कस्य अपि अंशस्य लोपः न भवति, तर्हि प्रकृतसूत्रेण गुणवृद्धिनिषेधः न हि क्रियते । यथा, भू-धातोः अनीयर्-प्रत्यये कृते प्रत्ययनिमित्तकः लोपः न भवति, अतः अत्र <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इत्यनेन अवश्यम् गुणादेशः भवति, येन भवनीय इति रूपं सिद्ध्यति ।\n2. धातोः इति किमर्थम् ? यदि अन्यपदार्थस्य लोपः भवति (न हि धात्वंशस्य) तर्हि प्रकृतसूत्रेण गुणवृद्धिनिषेधः न क्रियते । यथा, रिष् + विच् इत्यत्र प्रत्ययस्य सम्पूर्णरूपेण लोपः भवति । परन्तु अयम् धातुलोपः नास्ति, अतः अत्र एतादृशे लोपे कृते अपि प्रत्ययनिमित्तकम् गुणकार्यम् अवश्यं सम्भवति । प्रक्रिया इयम् —\n\nरिषँ (हिंसायाम्)\n→ रिष् + विच् [<<अन्येभ्योऽपि दृश्यन्ते>> [[3.2.75]] इति विच्-प्रत्ययः]\n→‌ रिष् + ० [चकारस्य इत्संज्ञा, लोपः । वकारोत्तरः इकारः उच्चारणार्थः, तस्यापि लोपः भवति । अपृक्तवकारस्य <<वेरपृक्तस्य>> [[6.1.67]] इति लोपः क्रियते ।]\n→ रेष् [विच्-प्रत्ययस्य लोपे कृते अपि तल्लक्षणः गुणः अवश्यं भवति, अतः <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति इकारस्य गुणादेशः विधीयते ।]\n→ रेड् [<<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वम् ]\n→ रेड् / रेट् [<<वाऽवसाने>> [[8.4.56]] इति वैकल्पिकं चर्त्वम् ।]\n\n3. आर्धधातुके इति किमर्थम् ? यदि धात्वंशस्य लोपः आर्धधातुकप्रत्ययनिमित्तः नास्ति, तर्हि तत्र प्रकृतसूत्रस्य प्रयोगः न क्रियते । यथा, भू-धातोः यङ्-प्रत्यये कृते, अग्रे लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रियायाम् अदादित्त्वात् यङ्-प्रत्ययस्य लोपे कृते अपि अङ्गस्य इक्-वर्णस्य गुणः अवश्यम् भवति, यतः यङ्-प्रत्ययस्य लोपस्य निमित्तम् अत्र कोऽपि आर्धधातुकप्रत्ययः नास्ति । प्रक्रिया इयम् —\n\nभू (सत्तायाम्, भ्वादिः, <{1.1}>)\n→ भू + यङ् + लट् [<<धातोरेकाचो हलादे क्रियासमभिहारे यङ्>> [[3.1.22]] इति यङ् । <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञा । ततः <<वर्तमाने लट्>> [[3.2.123]] इति लट् ।]\n→ भू + यङ् + तिप् [प्रथमपुरुषैकवचनस्य विवक्षायाम् <<तिप्तस्झि..>> इति तिबादेशः ।]\n→ भू + तिप् [<<यङोऽचि च>> [[2.4.74]] इत्यत्र 'बहुलम्' इति अनुवृत्तिरूपेण स्वीकृत्य अच्-प्रत्ययं विना अपि यङ्-प्रत्ययस्य लुक् भवति । लुकि कृते अपि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यनेन प्रत्ययनिमित्तकम् द्वित्वकार्यम् अवश्यम् भवति ।]\n→ भू + भू + ति [<<सन्यङोः>> [[6.1.9]] इति अङ्गस्य एकाच्-अवयवस्य द्वित्वम् । अनैमित्तिकस्य लुकः अपेक्षया इदं द्वित्वं बहिरङ्गम् अस्ति अतः इदं कार्यं लुकः अनन्तरम् एव, प्रत्ययलक्षणं स्वीकृत्य क्रियते ।]\n→ भो + भू + ति [<<गुणो यङ्लुकोः>> [[7.4.82]] इत्यनेन यङ्लुकि इगन्तस्य अभ्यासस्य गुणः भवति ।]\n→ भो + भू + शप् + ति [<<कर्तरि शप्>> [[3.1.68]] इति शप्-विकरणप्रत्ययः]\n→ भोभू + ति [अदादिगणे <<चर्करीतं च>> इति गणसूत्रविधानसामर्थ्यात् यङ्लुगन्ताम् अदादिगणत्वं स्वीक्रियते, अतः <<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शप्-प्रत्ययस्य लुक् भवति ।] \n→ भोभो + ति [<<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति ऊकारस्य गुणः । अत्र शप्-प्रत्ययस्य कृतः लुक् आर्धधातुनिमित्तकः नास्ति, अतः अस्मिन् सन्दर्भे प्रकृतसूत्रं नैव प्रवर्तते । अतः यङ्लुकि कृते अपि धातोः अङ्गस्य इक्-वर्णस्य गुणः अवश्यं भवति ।\n→ बोभोति [<<अभ्यासे चर्च>> [[8.4.54]] इति अभ्यासस्य जश्त्वम् ।]\n\n4. आर्धधातुके धातुलोपे इति किमर्थम् ? यदि धातोः अंशस्य लोपः अवश्यं भवति परन्तु सः गुणवृद्धिविधायकम् आर्धधातुकप्रत्ययं निमित्तरूपेण स्वीकृत्य न हि भवति, अपितु अन्यत् निमित्तं स्वीकृत्य विधीयते, तर्हि तत्र प्रकृतसूत्रस्य प्रयोगः नैव भवति, अतः एतादृशस्य लोपस्य आधारेण आर्धधातुकप्रत्ययनिमित्तकः गुणः वृद्धिः वा नैव निषिध्यते । यथा, क्नूयीँ धातोः णिच्-प्रत्यये कृते अङ्गस्य पुक्-आगमः भवति; अस्मिन् आगमे परे धातोः अन्ते विद्यमानस्य यकारस्य <<लोपो व्योर्वलि>> [[6.1.66]] इति लोपः विधीयते । अयं लोपः प्रत्ययनिमित्तकः नास्ति (वर्णनिमित्तकः अस्ति), अतः अस्मिन् लोपे कृते अपि अङ्गस्य ऊकारस्य गुणः अवश्यं विधीयते । प्रक्रिया इयम् —\n\nक्नूयीँ (शब्दे, उन्दने च, भ्वादिः, <{1.558}>)\n→ क्नूय् + णिच् + अनीयर् [<<हेतुमति च>> [[3.1.26]] इति प्रेरणार्थे णिच् । णिजन्तस्य <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञा । ततः <<तव्यत्तव्यानीयरः>> [[3.1.96]] इति अनीयर्-प्रत्ययः]\n→ क्नूय् + पुक् + इ + अनीय [<<अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ>> [[7.3.36]] इति पुगागमः । अयम् <<आद्यन्तौ टकितौ>> [[1.1.46]] इति अन्त्यावयवरूपेण विधीयते ।]\n→ क्नू + प् + इ + अनीय [यकारस्य <<लोपो व्योर्वलि>> [[6.1.66]] इति लोपः भवति ।]\n→ क्नो + प् + इ + अनीय [णिच्-प्रत्ययं निमित्तरूपेण स्वीकृत्य पुगन्तस्य अङ्गस्य उपधावर्णस्य <<पुगन्तलघूपधस्य च>> [[7.3.86]] इति गुणः भवति । पूर्वं जातः यकारलोपः प्रत्ययनिमित्तकः नास्ति, अतः यकारलोपे कृते अपि प्रकृतसूत्रं न प्रवर्तते, अतः अत्र गुणः नैव निषिध्यते । ]\n→ क्नोप् + अनीय [<<णेरनिटि>> [[6.4.51]] इति णिलोपः]\n→ क्नोपनीय\n\n5. इकः इति किमर्थम् ? प्रकृतसूत्रेण अङ्गस्य इक्-वर्णस्यैव गुणवृद्धी निषिध्येते, अन्यवर्णानाम् न । यथा, रन्ज् धातोः उपधानकारस्य घञ्-प्रत्यये <<घञि च भावकरणयोः>> [[6.4.27]] इति सूत्रेण लोपः भवति । अस्मिन् लोपे कृते अपि घञ्-प्रत्ययनिमित्तकम् <<अत उपधायाः>> [[7.2.116]] इति उपधावृद्धिकार्यम् अवश्यं सम्भवति, यतः अत्र अकारस्य वृद्धिः क्रियते, न हि इक्-वर्णस्य; अतश्च प्रकृतसूत्रेण अस्याः लोपः अपि न सम्भवति । प्रक्रिया इयम् —\n\nरन्जँ (रागे, भ्वादिः, <{1.1154}>)\n→ रन्ज् + घञ् [<<भावे>> [[3.3.18]] इति घञ्]\n→ रन्ज् + अ [इत्संज्ञालोपः]\n→ रन्ग् + अ [<<चजोः कु घिण्ण्यतोः>> [[7.3.52]] इति कुत्वम्]\n→ रग् + अ [<<घञि च भावकरणयोः>> [[6.4.27]] इति उपधानकारलोपः]\n→ राग् + अ [<<अत उपधायाः>> [[7.2.116]] इति उपधावृद्धिः ।इयं वृद्धिः प्रकृतसूत्रेण न बाध्यते, यतः इयम् इक्-वर्णस्य स्थाने नैव उच्यते ।\n→ राग\n\nअनुबन्धलोपः धात्वंशलोपः न, सः आर्धधातुकप्रत्ययनिमित्तकः अपि न\n<ऽअनेकान्ताः अनुबन्धाःऽ> इत्यनया परिभाषया धातौ विद्यमानाः अनुबन्धाः धात्ववयवरूपेण नैव स्वीक्रियन्ते । अपि च, तेषाम् लोपः अनिमित्तकः अस्ति, सः च प्रत्ययविधानात् पूर्वम् एव भवति । अतः आर्धधातुकप्रत्ययम् अस्य लोपस्य निमित्तरूपेण नहि स्वीकर्तुं शक्यते । अतः अनुबन्धलोपस्य विषये प्रकृतसूत्रं नैव प्रयुज्यते ।\n<pv>भाष्ये सूत्रस्य प्रत्याख्यानम्\nभाष्यकारेण प्रकृतसूत्रम् अनावश्यकम् उक्त्वा तस्य प्रत्याख्यानम् कृतम् अस्ति । तदर्थम् भाष्यकारः अकारलोपे कृते तस्य स्थानिवद्भावात् गुणवृद्धी न भविष्यतः इति ब्रूते । अस्य अर्थः अयम् —‌ आदौ भाष्यकारः <<यस्य हलः>> [[6.4.49]] इति सूत्रस्य योगविभागं करोति । तत्र 'यस्य' इति शब्देन सह <<अतो लोपः>> [[6.4.48]] इति सम्पूर्णं सूत्रम् अनुवर्त्य <<यस्य अतः लोपः>> इति नूतनं सूत्रं सिद्ध्यति । अस्य सूत्रस्य अर्थः — यङ्-प्रत्ययस्य अकारस्य लोपः भवति—‌ इति क्रियते । एतादृशम् अकारस्य लोपे कृते, ततः <<यङोऽचि च>> [[2.4.74]] इति यकारस्यापि लोके कृते, अग्रे विद्यमानम् अच्-प्रत्ययम् अच्-प्रत्ययं निमित्तरूपेण स्वीकृत्य <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति अङ्गस्य गुणे प्राप्ते; लुप्त-अकारस्य स्थानिवद्भावेन अयं गुणः नैव सम्भवति । प्रक्रिया एतादृशी —\n\nलूञ् (छेदने, क्र्यादिः, <{9.16}>)\n→ लू + यङ् + अच् [<<धातोरेकाचो हलादे क्रियासमभिहारे यङ्>> [[3.1.22]] इत्यनेन यङ् । <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञा । ततः कर्त्रर्थे <<नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः>> [[3.1.134]] इति अच्-प्रत्ययः]\n→ लू + य् + अच् [<<यस्य हलः>> [[6.4.49]] इत्यत्र योगविभागं कृत्वा, 'यस्य' इत्यत्र <<अतो लोपः>> [[6.4.48]] इति सूत्रम् अनुवर्त्य <<यस्य अतः लोपः>> इति नूतनं सूत्रं सिद्ध्यति, येन यङ्-प्रत्ययस्य अकारस्य लोपः क्रियते । ]\n→‌लूय् लूय् + अ [<<सन्यङोः>> [[6.1.9]] इति यङन्तस्य प्रथम-एकाच्-अवयवस्य द्वित्वम्]\n→ लू लूय् + अ [<<हलादिः शेषः>> [[7.4.60]] इति यकारः लुप्यते]\n→ लू लू + अ [<<यङोऽचि च>> [[2.4.74]] इति यङ्-प्रत्ययस्य अवशिष्टस्य अंशस्य अपि लोपः भवति ।]\n→ लो + लू + अ [<<गुणो यङ्लुकोः>> [[7.4.82]] इगन्तस्य अभ्यासस्य गुणः]\n→ लो + ल् उवङ् + अ [ अत्र <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इत्यनेन लू-इत्यस्य ऊकारस्य गुणादेशः प्राप्नोति, परन्तु यङ्-प्रत्यस्य लुप्तः अकारः स्थानिवद्भावेन उपस्थीय अन्तिम-ऊकारम् उपधास्थाने प्रेषयति, येन अत्र <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इत्यनेन न हि कश्चन गुणः सम्भवति । गुणस्य अभावे <<अचि श्नुधातुभ्रूवाम् य्वोः इयङ्-उवङौ>> [[6.4.77]] इत्यनेन लू-इत्यस्य उवङ्-आदेशः भवति । उवङ्-आदेशस्य पि स्थानिवद्भावेन बाधः भवति, परन्तु तन्निवारणार्थम् <<अचि श्नुधातुभ्रूवाम् य्वोः इयङ्-उवङौ>> [[6.4.77]] इत्यस्मिन् सूत्रे <<दीङो युडचि क्ङिति>> [[6.4.63]] इत्यस्मात् 'अचि' इति पदम् अनुवर्त्य अस्य सूत्रस्य — 'अजादि-प्रत्यये परे, अच्-प्रत्यये च परे उवङ्-आदेशः भवति' एतादृशः अर्थः क्रियते, येन विधानसामर्थ्यात् अत्र अवश्यम् उवङ्-आदेशः भवति ।]\n→ लोलुव\n\nअनेन प्रकारेण भाष्यकारेण अत्र विविधाः कॢप्तीः उक्त्वा, अन्ते प्रकृतसूत्रम् अनावश्यकम् प्रतिपाद्य तस्य प्रत्याख्यानम् कृतम् अस्ति । अस्मिन् सन्दर्भे अधिकम् पिपठिषवः भाष्यम् प्रदीपोद्योतम् च पश्येयुः । \n" }, "11005": { "sa": "कित्/गित्/ङित्-प्रत्ययस्य उपस्थितौ इग्लक्षणम् गुणकार्यम् वृद्धिकार्यं च निषिध्यते । ", "sd": "यस्मिन् प्रत्यये ककारः, गकारः उत ङकारः इत्संज्ञकः अस्ति, तं प्रत्ययं निमित्तरूपेण स्वीकृत्य अङ्गस्य इक्-वर्णस्य गुणवृद्धी न भवतः —‌ इति अस्य सूत्रस्य अर्थः ।\nक्रमेण उदाहरणानि एतानि —\n1. कित्-प्रत्ययनिमित्तकः गुणवृद्धिनिषेधः\n1. भिद्-धातोः क्त-प्रत्यये कृते, <<पुगन्तलघूपधस्य च>> [[7.3.86]] इति अङ्गस्य प्राप्तः लघूपधगुणः प्रत्ययस्य कित्त्वात् निषिध्यते । प्रक्रिया इयम् —\n\nभिदिँर् (विदारणे, रुधादिः, अनिट्. <{7.2}>)\n→ भिद् + क्त [<<निष्ठा>> [[3.2.102]] इति क्तप्रत्ययः]\n→ भिद् + त [प्रत्ययस्थककारस्य <<लशक्वतद्धिते>> [[1.3.8]] इति इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ भिन्न [<<रदाभ्यां निष्ठातो नः पूर्वस्य च दः>> [[8.2.42]] इति दकारस्य, तकारस्य च नकारः]\n\n2. मृज्-धातोः क्यप्-प्रत्यये कृते <<मृजेर्वृद्धिः>> [[7.2.114]] इति अङ्गस्य प्राप्तः वृद्धिः प्रत्ययस्य कित्त्वात् निषिध्यते । प्रक्रिया इयम् —\n\nमृजूँ (शुद्धौ, अदादिः, <{2.61}>)\nमृज् + क्यप् [<<मृजेर्विभाषा>> [[3.1.113]] इति क्यप्-प्रत्ययः]\n→ मृज् + य [ककारस्य <<लशक्वतद्धिते>> [[1.3.8]] इति इत्संज्ञा, पकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति द्वयोः अपि लोपः]\n→ मृज्य [<<मृजेर्वृद्धिः>> [[7.2.114]] इत्यनेन प्राप्ता वृद्धिः <<क्ङिति च>> [[1.1.5]] इति निषिध्यते ।]\n\n2. गित्-प्रत्ययनिमित्तकः गुणवृद्धिनिषेधः\nगित्-प्रत्ययस्य विषये केवलम् द्वे एव उदाहरणे स्तः — <<ग्लाजिस्थश्च क्स्नुः>> [[3.2.139]] इति सूत्रेण जि-धातोः तथा च भू-धातोः ग्स्नु-प्रत्यये कृते, अङ्गस्य जायमानः गुणः प्रत्ययस्य गित्त्वात् निषिध्यते । प्रक्रिया इयम् —\n\nजि (अभिषवे, भ्वादिः, <{1.1096}>) / भू (सत्तायाम्, भ्वादिः, <{1.1}>)\n→ जि / भू + ग्स्नु [<<ग्लाजिस्थश्च क्स्नुः>> [[3.2.139]] इति ग्स्नु-प्रत्ययः]\n→ जि / भू + स्नु [प्रत्ययस्थगकारस्य <<लशक्वतद्धिते>> [[1.3.8]] इति इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति लोपः । अत्र अङ्गस्य <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इत्यनेन प्राप्तः गुणादेशः प्रत्ययस्य गित्त्वात् <<क्ङिति च>> [[1.1.5]] इति निषिध्यते ।]\n→ जिष्णु / भूष्णु [<<आदेशप्रत्यययोः>> [[8.3.59]] इति षत्वम्]\n\n3. ङित्-प्रत्ययनिमित्तकः गुणवृद्धिनिषेधः\n1. तृष्-धातोः नजिङ्-प्रत्यये कृते अङ्गस्य उपधावर्णस्य गुणः प्रत्ययस्य ङित्त्वात् निषिध्यते । यथा —\n\nञितृषाँ (पिपासायाम्, दिवादिः, <{4.141}>)\n→ तृष् + नजिङ् [<<स्वपितृषोर्नजिङ्>> [[3.2.172]] इति नजिङ्-प्रत्ययः]\n→ तृष् + नज् [ङकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति लोपः । जकारोत्तरः इकारः उच्चारणार्थः, सोऽपि लुप्यते । अत्र <<पुगन्तलघूपधस्य च>> [[7.3.86]] इत्यनेन प्राप्तः गुणः <<क्ङिति च>> [[1.1.5]] इति निषिध्यते ।]\n→ तृष्णज् [<<रषाभ्यां नो णः समानपदे>> [[8.4.1]] इति णत्वम्]\n\n2. <<सार्वधातुकमपित्>> [[1.2.4]] इति सूत्रेण अपित्-सार्वधातुकः प्रत्ययः ङिद्वत् भवति; अतः एतादृशम् प्रत्ययं निमित्तरूपेण स्वीकृत्य अङ्गस्य प्रातः गुणः वृद्धिः वा प्रकृतसूत्रेण अवश्यं निषिध्यते । यथा, मृज्-धातोः लट्लकारस्य प्रथमपुरुषस्य द्विवचनस्य 'तस्' प्रत्ययस्य प्रक्रियायाम् अङ्गस्य वृद्धिः प्रत्ययस्य ङित्त्वात् निषिध्यते ।\n\nमृजूँ (शुद्धौ, अदादिः, <{2.61}>)\n→ मृज् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ मृज् + तस् [प्रथमपुरुषद्विवचनस्य विवक्षायाम् <<तिप्तस्झि..>> [[3.4.78]] इति तस्-प्रत्ययः]\n→ मृज् + शप् + तस् [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ मृज् + तस् [<<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शब्लुक् । अत्र तस्-प्रत्ययः सार्वधातुकः अस्ति, अपित् अपि अस्ति, अतः <<सार्वधातुकमपित्>> [[1.2.4]] इति तस्य ङिदतिदेशः भवति । अतः <<मृजेर्वृद्धिः>> [[7.2.114]] इत्यनेन प्राप्ता वृद्धिः <<क्ङिति च>> [[1.1.5]] इति निषिध्यते ।]\n→ मृष् + तस् [<<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> [[8.2.36]] इति षत्वम्]\n→ मृष् + तः [<<ससजुषो रुँः>> [[8.2.66]] इति षत्वम् । <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n→ मृष्टः [<<ष्टुना ष्टुः>> [[8.4.41]] इति ष्टुत्वम्]\n\n'क्ङिति' इति निमित्तसप्तमी\nप्रकृतसूत्रे 'क्ङिति' इत्यत्र विद्यमाना सप्तमी निमित्तसप्तमी अस्ति, न हि परसप्तमी, यतः कित्/ङित्-प्रत्ययस्य व्यवहित-परत्वे अपि गुणस्य / वृद्धेः निषेधः अवश्यम् इष्यते । यदि अत्र परसप्तमी स्वीक्रियेत, तर्हि <<पुगन्तलघूपधस्य च>> [[7.3.86]] इत्यनेन प्राप्तस्य गुणस्य बाधः उत <<मृजेर्वृद्धिः>> [[7.2.114]] इत्यनेन प्राप्तायाः वृद्धेः बाधः अत्र नैव स्यात्, यतः एतयोः स्थलयोः इक्-वर्णात् अव्यवहित-पररूपेण प्रत्ययः नैव विद्यते । परसप्तम्यर्थम् तु <<तस्मिन्निति निर्दिष्टे पूर्वस्य>> [[1.1.66]] इत्यनेन अव्यवहितपरत्वम् एव आवश्यकम् । निमित्तसप्तम्यर्थम्के तु केवलम् निमित्तस्य उपस्थितिः एव इष्यते, तस्य अव्यवहितत्वं न । अतः अतः अस्मिन् सूत्रे निमित्तसप्तमी एव स्वीक्रियते, येन इक्-वर्णात् अनन्तरम् व्यवधाने सति अपि गुणस्य वृद्धेः वा निषेधः सम्भवति । \nइग्लक्षणस्य एव गुणस्य प्रतिषेधः, अन्यप्रकारस्य गुणस्य न\nप्रकृतसूत्रेण उक्तः गुणवृद्धिनिषेधः केवलम् <<इको गुणवृद्धी>> [[1.1.3]] इत्यस्मिन् सन्दर्भे; इत्युक्ते इक्-वर्णस्य गुणादेशे वृद्ध्यादेशे वा कर्तव्ये एव भवति । इत्युक्ते, यत्र इग्लक्षणे गुणवृद्धी न स्तः, तत्र प्रकृतसूत्रेण तयोः निषेधः अपि न भवति । यथा, <<ई च खनः>> [[3.1.111]] इति सूत्रेण खन्-धातोः क्यप्-प्रत्यये कृते प्रक्रियायाम् <<आद्गुणः>> [[6.1.87]] इति गुणैकादेशः अवश्यमेव भवति, यतः <<आद्गुणः>> [[6.1.87]] इत्यनेन उक्तः गुणादेशः इग्लक्षणः नास्ति । प्रक्रिया इयम् —\n\nखनुँ (अवदारणे, दिवादिः, <{1.1020}>)\n→ खन् + क्यप् [<<ई च खनः>> [[3.1.111]] इति क्यप्-प्रत्ययः]\n→ ख ई + य [<<ई च खनः>> [[3.1.111]] इत्यनेनैव सूत्रेण नकारस्य ईकारादेशः]\n→ खेय [<<आद्गुणः>> [[6.1.87]] इति गुणैकादेशः । अयम् इग्लक्षणः गुणः नास्ति, अतः अयम् प्रकृतसूत्रेण नैव निषिध्यते ।]\n\nसूत्रे गकारप्रश्लेषः भाष्यकारकृतः\nवस्तुतः पाणिनीयसूत्रपाठे अस्मिन् सूत्रे केवलम् ककारः ङकारः च श्रूयते, न हि गकारः । परन्तु भाष्यकारेण अस्मिन् सूत्रे गकारस्य अपि प्रश्लेषं कृतः अस्ति । ग् + क् + ङ् इति अत्र मूलस्थितिः अस्ति इति भाष्यकारस्य मतम् । अत्र अग्रे एतादृशी प्रक्रिया भवति —\n\nग् + क् + ङित्\n→ क् + क् + ङित् [<<यरोऽनुनासिकेऽनुनासिको वा>> [[8.4.45]] इति ककारस्य विकल्पेन अनुनासिकादेशः न भवति । अग्रे <<खरि च>> [[8.4.55]] इति गकारस्य चर्त्वे ककारः विधीयते।]\n→ क् + ङित् [निपातनेन प्रथमककारस्य लोपः]\n→ क्ङित् \n\nअतः प्रकृतसूत्रे क्ङिति इति शब्दः प्रयुक्तः अस्ति, इति अत्र भाष्यमतम् । एतादृशम् गकारग्रहणम् <<ग्लाजिस्थश्च क्स्नुः>> [[3.2.139]] इति सूत्रस्य प्रयोगार्थम् आवश्यकम् अस्ति इत्यपि भाष्यकारेण स्पष्टीकृतम् अस्ति । एतत् उदाहरणम् उपरि प्रदर्शितम् अस्ति । \n
\nविशेषः — केषुचन पुस्तकेषु क्ङित्-शब्दस्य प्रक्रिया केनचित् भिन्नरूपेण दीयते —\n\nग + क् + ङित्\n→ क् + क् + ङित् [<<खरि च>> [[8.4.55]] इति गकारस्य चर्त्वे ककारः]\n→ क् + ङ् + ङित् [<<यरोऽनुनासिकेऽनुनासिको वा>> [[8.4.45]] इति ककारस्य अनुनासिकादेशे ङकारः]\n→ क् + ङित् [<<हलो यमां यमि लोपः>> [[8.4.64]] इति मध्यङकारस्य लोपः]\n→ क्ङित्\n\nपरन्तु इयम् प्रक्रिया दोषपूर्णा अस्ति, यतः अत्र प्रथमसोपाने <<खरि च>> [[8.4.55]] तथा <<यरोऽनुनासिकेऽनुनासिको वा>> [[8.4.45]] इत्येतयोः युगपत् प्राप्तौ सत्याम् <<यरोऽनुनासिकेऽनुनासिको वा>> [[8.4.45]] इत्येतं प्रति <<खरि च>> [[8.4.55]] इत्यस्य असिद्धत्वात् आदौ अनुनासिकादेशः एव प्रवर्तेत । अनुनासिकादेशे कृते ततः तु <<खरि च>> [[8.4.55]] इति चर्त्वम् नैव सम्भवति । अतः ककारलोपस्य निपातनेन एव क्ङिति इति शब्दः साधनीयः इति उचितम् । \n" }, "11006": { "sa": "दीधीङ्-धातोः, वेवीङ्-धातोः तथा च इडागमस्य इक्-वर्णस्य गुणवृद्धी न भवतः । यथा - दीध्यनीयः, वेव्यनीयः, भविता । ", "sd": "दीधीङ् (दीप्तिदेवनयोः) तथा च वेवीङ् (गतिव्याप्तिप्रजनकान्त्यसनस्वादनेषु) एतौ अदादिगणस्य धातू । एतौ द्वौ अपि धातू छान्दसौ स्तः (इत्युक्ते, केवलं वेदेषु एव एतयोः प्रयोगः दृश्यते) । एतयोः धात्वोः विद्यमानस्य अन्तिम-ईकारस्य इक्-वर्णस्य गुणः वृद्धिः वा न भवति । एवमेव इडागमस्य इकारस्य अपि गुणादेशः न भवति (इडागमस्य वृद्धिः नैव सम्भवति, अतः तस्य निषेधस्य अपि न प्रयोजनम्, अतः केवलम् गुणनिषेधः एव अत्र क्रियते) । क्रमेण उदाहरणानि एतानि —\n1.दीधीङ्/वेवीङ्-धातोः गुणनिषेधः\nदीधीङ्/वेवीङ्-धात्वोः अनीयर्-प्रत्यये परे <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] अनेन अङ्गस्य प्राप्तः गुणादेशः प्रकृतसूत्रेण निषिध्यते —\n\nदीधीङ् (दीप्तिदेवनयोः, अदादिः, <{2.71}>) / वेवीङ् (गतिव्याप्तिप्रजनकान्त्यसनस्वादनेषु, अदादिः, <{2.72}>)\n→ दीधी / वेवी + अनीयर् [<<तव्यत्तव्यानीयरः>> [[3.1.96]] इति अनीयर्-प्रत्ययः]\n→ दीध्यनीय / वेव्यनीय [<<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इत्यनेन अङ्गस्य गुणादेशे प्राप्ते <<दीधीवेवीटाम्>> [[1.1.6]] इति सः निषिध्यते, अतः अत्र <<एरनेकाचोऽसंयोगपूर्वस्य>> [[6.4.82]] इति यणादेशे कृते रूपं सिद्ध्यति ]\n\n2.दीधीङ्/वेवीङ्-धातोः वृद्धिनिषेधः\nदीधीङ्/वेवीङ्-धात्वोः ण्वुल्-प्रत्यये परे <<अचो ञ्णिति>> [[7.2.115]] अनेन अङ्गस्य प्राप्तः वृद्ध्यादेशः प्रकृतसूत्रेण निषिध्यते —\n\nदीधीङ् (दीप्तिदेवनयोः, अदादिः, <{2.71}>) / वेवीङ् (गतिव्याप्तिप्रजनकान्त्यसनस्वादनेषु, अदादिः, <{2.72}>)\n→ दीधी / वेवी + ण्वुल् [<<ण्वुल्तृचौ>> [[3.1.133]] इति ण्वुल्-प्रत्ययः]\n→ दीधी / वेवी + अक [<<युवोरनाकौ>> [[7.1.1]] इति अक-आदेशः]\n→ दीध्यक / वेव्यक [<<अचो ञ्णिति>> [[7.2.115]] इत्यनेन अङ्गस्य वृद्ध्यादेशे प्राप्ते <<दीधीवेवीटाम्>> [[1.1.6]] इति सः निषिध्यते, अतः अत्र <<एरनेकाचोऽसंयोगपूर्वस्य>> [[6.4.82]] इति यणादेशे कृते रूपं सिद्ध्यति ]\n\n3. इडागमस्य गुणनिषेधः\nयत्र विकरणप्रत्ययस्य इडागमः भवति, तत्र अयं इडागमः तस्मात् अग्रे विद्यमानस्य प्रत्ययस्य कृते अङ्गावयवरूपेण स्वीक्रियते । अस्यां स्थितौ इडागमस्य गुणादेशे प्राप्ते प्रकृतसूत्रेण सः निषिध्यते । यथा, भू-धातोः लुट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपे अस्य सूत्रस्य इत्थं प्रयोगः भवति —\n\nभू (सत्तायाम्, भ्वादिः, <{1.1}>)\nभू + लुट् [<<अनद्यतने लुट्>> [[3.3.15]] इति लुट्]\n→ भू + तास् + लुट् [<<स्यतासी लृलुटोः>> [[3.1.33]] इति तास्-विकरणप्रत्ययः]\n→ भू + ता + तिप् [प्रथमपुरुषैकवचनस्य विवक्षायाम् <<तिप्तस्झि...>> [[3.4.78]] इति तिप्-प्रत्ययः]\n→ भू + ता + डा [<<लुटः प्रथमस्य डारौरसः>> [[2.4.85]] इति तिप्-प्रत्ययस्य डा-आदेशः । अनेकाल्त्वात् सर्वादेशः]\n→‌ भू + इट् ता + आ [<<आर्धधातुकस्येड् वलादेः>> [[7.2.35]] इति तकारादिविकरणप्रत्ययस्य इडागमः]\n→ भू + इता + आ [टकारस्य इत्संज्ञा, लोपः]\n→ भो + इता + आ [<<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति विकरणप्रत्ययस्य अङ्गस्य गुणः]\n→‌ भो + इत् + आ [<<टेः>> [[6.4.143]] इति डित्-प्रत्यये परे अङ्गस्य टिसंज्ञकस्य लोपः । अत्र डा-इति डित्-प्रत्ययस्य अङ्गम् 'भो + इता' इति अस्ति । अस्य टिसंज्ञकस्य अत्र लोपः विधीयते । एतादृशे लोपे कृते <<पुगन्तलघूपधस्य च>> [[7.3.86]] इति अङ्गस्य उपधा-इकारस्य गुणः प्राप्नोति । परन्तु अयम् इकारः इडागमस्य इकारः अस्ति, अतः प्रकृतसूत्रेण अयम् इडागमः प्रतिषिध्यते ।]\n→ भव् + इत् + आ [<<एचोऽयवायावः>> [[6.1.78]] इति अवादेशः]\n→ भविता\n\nभाष्ये सूत्रस्य प्रत्याख्यानम्\nभाष्यकारेण अस्य सूत्रस्य विषये अयं योगः शक्यः अवक्तुम् इति उक्त्वा अस्य सूत्रस्य अनावश्यकता स्पष्टीकृता अस्ति । तत्र भाष्यकारस्य आशयः अयम् — दीधीङ् तथा वेवीङ् धात्वोः केवलं वेदेषु एव प्रयोगः भवति, तत्र च गुणं कृत्वा अपि एतयोः रूपाणि दृश्यन्ते, अतः <ऽसर्वे विधयः छन्दसि विकल्प्यन्तेऽ> इति परिभाषया एव एतयोः यथायोग्यं गुणं गुणनिषेधं वा कृत्वा रूपाणि साधयितुम् शक्यन्ते, तदर्थम् प्रकृतसूत्रे एतयोः निर्देशः नैव आवश्यकः — इति । एवमेव, इडागमस्य विषये भाष्यकारः ब्रूते — आर्धदातुकस्येड्वलादेः इत्यत्र इड् इति अनुवर्तमाने पुनः इड्ग्रहहणस्य प्रयोजनम् इट् इट्-एव यथा स्यात्; यदन्यत् प्राप्नोति तत् मा भूद् इति । अस्य आशयः अयम् — <<नेड् वशि कृति>> [[7.2.8]] इत्यस्मात् सूत्रात् इड् इति पदस्य वस्तुतः <<आर्धधातुकस्येड् वलादेः>> [[7.2.35]] इत्यत्र अनुवृत्तिः अवश्यं सम्भवति । तथापि पाणिनिना <<आर्धधातुकस्येड् वलादेः>> [[7.2.35]] इत्यत्र पुनः इड् इति शब्दः स्थापितः अस्ति । अस्याः पुनरुक्तेः प्रयोजनम् 'इडागमः इट्-स्वरूपे एव भवेत्, तस्य अन्यः कोऽपि आदेशः नैव करणीयः' इति अस्ति । अतश्च भविता इत्यादिषु उदाहरणेषु इडागमस्य गुणः मूलतः एव न सम्भवति, अतश्च अप्राप्तस्य गुणस्य निषेधार्थम् प्रकृतसूत्रं नैव आवश्यकम् —‌ इति । अस्मिन् विषये अधिकं ज्ञातुम् जिज्ञासवः भाष्यम् पश्येयुः । " }, "11007": { "sa": "स्वरस्य विरामस्य च व्यवधानं विना उच्चारितानां व्यञ्जनानां समूहः 'संयोगः' नाम्ना ज्ञायते ।", "sd": "अष्टाध्याय्यां पाठितासु संज्ञासु अन्यतमा अस्ति 'संयोगः' इति संज्ञा । यत्र द्वे वा अधिकानि व्यञ्जनानि स्वरस्य विरामस्य वा व्यवधानं विना उच्चार्यन्ते, तत्र तेषाम् समूहस्य संयोगः इति संज्ञा भवति । कानिचन उदाहरणानि एतानि -\n\n1. 'अग्नि' - इत्यत्र ग्+न् अयं संयोगः ।\n2. 'ज्ञानम्' - इत्यत्र ज्+ञ् अयं संयोगः ।\n3. 'कृष्णः' - इत्यत्र ष्+ण् अयं संयोगः ।\n4. 'बुद्ध्या' - इत्यत्र द्+ध्+य् अयं संयोगः ।\n5. 'दत्त्वा' - इत्यत्र त्+त्+व् अयं संयोगः ।\n6. 'सूर्क्ष्य्' - इत्यत्र र्+क्+ष्+य् अयं संयोगः ।\n7. 'पुत्त्र्या' - इत्यत्र त्+त्+र्+य् अयं संयोगः ।\n8. 'कार्त्स्न्य' - इत्यत्र र्+त्+स्+न्+य् अयं संयोगः ।\n\n'संयोगः' इति संज्ञा समुदायस्य संज्ञा अस्ति \\ तस्मिन् समुदाये विद्यमानानाम् व्यञ्जनानाम् पृथक् रूपेण इयं संज्ञा न भवति ।\nसंयोगसंज्ञायाम् अनुस्वारस्य, विसर्गस्य, जिह्वामूलीयस्य, उपध्मानीयस्य च ग्रहणं न भवति । अतः 'फलंपतति', 'रामःपठति', 'पिक≍कूजति', 'राम≍खनति', 'राम≍पातु', 'तरु≍फलतु' एतादृशेषु उदाहरणेषु संयोगः न विद्यते । परन्तु अनुस्वारस्य स्थाने अनुनासिकव्यञ्जनं प्रयुज्यते चेत् तत्र तु संयोगः अवश्यं भवति । अतः सङ्करोति, सन्ददाति, फलम्पतति एतेषु उदाहरणेषु संयोगः तु अस्ति एव । एवमेव, यकार-वकार-लकाराणाम् अनुनासिकभेदानाम् अपि संयोगसंज्ञाविधानार्थम् अवश्यं चिन्तनं करणीयम् । अतः 'सय्ँयोगः', 'सल्ँलापः', 'सव्ँवादः' इत्यत्र सर्वत्र संयोगः निश्चयेन विद्यते ।\nसंयोगसंज्ञायाः प्रयोजनम्\nसंयोगसंज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्यां भिन्नाः विधयः उक्ताः सन्ति । यथा, <<सान्तमहतः संयोगस्य>> [[6.4.10]] इत्यनेन 'न्स्' इत्यस्मात् संयोगात् पूर्वं विद्यमानस्य स्वरस्य दीर्घादेशः भवति; तथा च <<संयोगान्तस्य लोपः>> [[8.2.23]] इत्यनेन 'न्स्' इत्यस्य संयोगस्य सकारस्य लोपः क्रियते । 'विद्वान्' शब्दस्य रूपसिद्धौ एते द्वे अपि कार्ये प्रयुक्ते दृश्येते —\n\nविद्वस् + सुँ [प्रथमैकवचनस्य प्रत्ययः]\n→ विद्व् न् स् + सुँ [<<उगिदचां सर्वनामस्थाने अधातोः>> [[7.1.70]] इति नुमागमः]\n→ विद्वान् स् सुँ [<<सान्तमहतः संयोगस्य>> [[6.4.10]] इति संयोगे विद्यमानस्य नकारस्य उपधावर्णस्य दीर्घः]\n→ विद्वान् स् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इत्यनेन सकारस्य लोपः]\n→ विद्वान् [<<संयोगान्तस्य लोपः>> [[8.2.23]] इत्यनेन सकारस्य लोपः]\n\nअष्टाध्याय्यां संयोगसंज्ञायाः प्रयोगः\nअष्टाध्याय्याम् 'संयोगः' इति संज्ञा द्वादशसु सूत्रेषु साक्षात् प्रयुक्ता दृश्यते -\n\n1. <<संयोगे गुरु>> [[1.4.11]]\n2. <<स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्>> [[4.1.54]]\n3. <<न न्द्राः संयोगादयः>> [[6.1.3]]\n4. <<सान्तमहतः संयोगस्य>> [[6.4.10]]\n5. <<न संयोगाद्वमन्तात्>> [[6.4.137]]\n6. <<वाऽन्यस्य संयोगादेः>> [[6.4.68]]\n7. <<संयोगादिश्च>> [[6.4.166]]\n8. <<ऋतश्च संयोगादेः>> [[7.2.43]]\n9. <<ऋतश्च संयोगादेर्गुणः>> [[7.4.10]]\n10. <<संयोगान्तस्य लोपः>> [[8.2.23]]\n11. <<स्कोः संयोगाद्योरन्ते च>> [[8.2.29]]\n12. <<संयोगादेरातो धातोर्यण्वत्>> [[8.2.43]]\n\nअनुवृत्तिरूपेण तु अन्येषु सूत्रेषु अपि अस्याः प्रयोगः भवितुम् अर्हति ।\nत्रयाणाम् उत अधिकानाम् व्यञ्जनानाम् संयोगः\nयत्र त्रीणि वा अधिकानि व्यञ्जनानि एकत्ररूपेण विद्यन्ते, तत्र सर्वेषाम् मिलित्वा एका एव संयोगसंज्ञा भवति उत द्वयोः द्वयोः मिलित्वा पृथक्-पृथक् संयोगसंज्ञाः भवन्ति — इत्यस्मिन् विषये भाष्ये विस्तरेण चर्चा कृता दृश्यते । अस्मिन् विषये भाष्यकारेण अन्ते 'केनापि प्रकारेण संयोगसंज्ञा क्रियते चेदपि न दोषाय' - इति निर्णयः कृतः अस्ति । अस्मिन् सन्दर्भे भाष्यकारस्य साक्षात् वचनम् इत्थम् —\nअथ यद्येव बहूनां संयोगसंज्ञा, अथ अपि द्वयोः द्वयोः, किं गतम् एदत् इयता सूत्रेण, आहोस्वित् अन्यतरस्मिन् पक्षे भूयः सूत्रं कर्तव्यम् ? गतमित्याह ।\nCan the current sutra imply both the versions, or should a more elaborate sutra be made for one of these two versions? Yes, the current sutra can imply both these versions.\n\nअस्मिन् विषये अधिकं जिज्ञासवः अस्य सूत्रस्य भाष्यम् एव पश्येयुः ।\n\n" }, "11008": { "sa": "यस्य वर्णस्य उच्चारणार्थम् मुखेन सह नासिकायाः अपि प्रयोगः भवति, सः वर्णः अनुनासिकसंज्ञां प्राप्नोति ।", "sd": "अष्टाध्याय्यां पाठितासु अनेकासु संज्ञासु अन्यतमा वर्तते 'अनुनासिकः' इति संज्ञा । यस्य वर्णस्य उच्चारणे मुखेन सह नासिकायाः अपि प्रयोगः क्रियते, तत्र सः वर्णः अनुनासिकः इति संज्ञां प्राप्नोति । सर्वेषाम् वर्णानाम् उच्चारणार्थम् सामान्यरूपेण मुखस्य (तत्रस्थानाम् कण्ठादीनाम् अवयवानाम्) प्रयोगः तु अवश्यम् भवति । परन्तु यत्र तस्मिन् उच्चारणे नासिकायाः अपि प्रयोगः क्रियते, तत्र तस्य वर्णस्य 'अनुनासिकः' इति शब्देन अपि निर्देशः भवितुम् अर्हति, इति अस्य सूत्रस्य आशयः ।\nअनुनासिकः इति पृथक् वर्णः नास्ति । विद्यमानस्य वर्णस्यैव नासिकया सह उच्चारणं क्रियते चेत् तस्य अनुनासिकसंज्ञा भवति ।\nसंस्कृते सर्वेषाम् वर्णानाम् नासिकया सह उच्चारणम् कर्तुं न शक्यते । केवलम् केषाञ्चन वर्णानाम् एव नासिकया सह उच्चारणं सम्भवति । आवली एतादृशी —\n\n1) सर्वे स्वराः — सर्वेषाम् स्वराणाम् उच्चारणम् नासिकया सह अपि कर्तुं शक्यते, नासिकया विना अपि सम्भवति । अतः सर्वे स्वराः 'अनुनासिकाः' तथा 'निरनुनासिकाः' उभयथा भवितुम् अर्हन्ति । \n2) यकारः, वकारः, लकारः — 'य्', 'व्', 'ल्' एतेषाम् त्रयाणाम् व्यञ्जनानाम् उच्चारणम् अपि नासिकया सह , तथा च नासिकया विना — उभयथा सम्भवति । अतः यकार-वकार-लकाराणाम् अपि 'अनुनासिकाः' तथा 'निरनुनासिकाः' एतादृशौ भेदौ विद्येते ।\n3) वर्गपञ्चमाः (ञ्, म्, ङ्, ण्, न्) — वर्गपञ्चमवर्णानाम् उच्चारणसमये मुखस्य तथा नासिकायाः - द्वयोः अपि प्रयोगः भवत्येव । इत्युक्ते, सर्वे वर्गपञ्चमवर्णाः नित्यम् अनुनासिकसंज्ञकाः एव सन्ति । एतेषाम् निरनुनासिकभेदाः न विद्यन्ते । \n4) अनुस्वारः — अनुस्वारः इति संस्कृतभाषायाम् विद्यमानः पृथग् वर्णः अस्ति । अस्य उच्चारणम् केवलम् नासिकया एव भवति । अनुस्वारस्य उच्चारणे मुखस्य प्रयोगः न क्रियते । अतः अनुस्वारस्य अनुनासिकः इति संज्ञा न भवति ।\n\nयस्य वर्णस्य अनुनासिक-निरनुनासिकभेदौ विद्येते, तत्र तस्य वर्णस्य अनुनासिकभेदस्य पृथग् रूपेण निर्देशार्थम् लेखनसमये तस्य उपरि चन्द्रबिन्दुः संस्थाप्यते इति सामान्यः नियमः । यथा, अकारस्य अनुनासिकभेदं दर्शयितुम् 'अँ' इति चन्द्रबिन्दुना सह र्निदेशः क्रियते । तथैव 'य्ँ' इत्येन यकारस्य अनुनासिकभेदः निर्दिश्यते, 'य्' इत्यनेन च निरनुनासिकः भेदः । एवमेव अन्येषां विषये अपि ज्ञातव्यम् ।\nवर्णानाम् अनुनासिकभेदस्य उच्चारणस्थानानि\nसर्वेषाम् अनुनासिकसंज्ञकवर्णानाम् उच्चारणस्थानानि अधः परिगण्यन्ते —\n\n
  • अँ / आँ / अँ3 - कण्ठः + नासिका\n
  • इँ / ईँ / इँ3 - तालु + नासिका\n
  • उँ / ऊँ / उँ3 - ओष्ठौ + नासिका\n
  • ऋँ / ॠँ / ॠँ3 - मूर्धा + नासिका\n
  • ऌँ / ऌँ3 - दन्ताः + नासिका\n
  • एँ / एँ 3 / ऐँ / ऐँ3 - कण्ठतालु + नासिका\n
  • ओँ / ओँ3 / औँ / औँ3 - कण्ठोष्ठम् + नासिका\n
  • ङ् - कण्ठः + नासिका\n
  • ञ् - तालु + नासिका\n
  • ण् - मूर्धा + नासिका\n
  • न् - दन्ताः + नासिका\n
  • म् - ओष्ठौ + नासिका\n
  • य्ँ - तालु + नासिका\n
  • व्ँ - दन्तोष्ठम् + नासिका\n
  • ल्ँ - दन्ताः + नासिका\n\nएतान् विहाय अन्येषाम् वर्णानाम् (क्, ख्, आदीनाम्) अनुनासिकभेदः संस्कृतभाषायां न विद्यते ।\nप्रयोजनम्\nअनुनासिकसंज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्यां भिन्नाः विधयः उच्यन्ते । द्वे उदाहरणे एतादृशे -\n1. <<यरोऽनुनासिकोऽनुनासिके वा>> [[8.4.45]] इत्यनेन पदान्त-यर्-वर्णस्य अनुनासिके परे विकल्पेन अनुनासिकादेशः भवति —\n\nवाक् च मुखम् च अनयोः समाहारः [समासवृत्तिः]\nवाक् + मुखम् [<<द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्>> [[2.4.2]] इति समाहारद्वन्द्वः]\n→ वाच् + मुख [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्ययलोपः]\n→ वाक् + मुख [<<चोः कुः>> [[8.2.30]] इति कुत्वम्]\n→ वाग् + मुख [<<झलां जशोऽन्ते>> [[8.2.39]] इति पदान्ते जश्त्वम्]\n→ वाङ् + मुख [<<यरोऽनुनासिकेऽनुनासिको वा>> [[8.4.45]] इति गकारस्य अनुनासिकादेशः ङकारः]\n→ वाङ्मुख\n\n2. <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इत्यनेन उपदेशे विद्यमानस्य अनुनासिकसंज्ञकस्य अच्-वर्णस्य इत्संज्ञा भवति । यथा, ओँप्यायीँ-धातौ विद्यमानानाम् अनुनासिस्वराणाम् इत्संज्ञा, ततश्च तयोः लोपं कृत्वा 'प्याय्' इति यद् दृश्यरूपम् जायते तत्र अग्रे प्रत्ययविधानम् भवति —\n\nओँप्यायीँ (वृद्धौ, भ्वादिः, <{1.561}>)\n→ प्याय् [ <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इति अनुनासिकसंज्ञकयोः ओँकार-ईँकारयोः इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ प्याय् + क्तवतुँ [<<निष्ठा>> [[3.2.102]] इति क्ववतुँ-प्रत्ययः]\n→ प्याय् + तवत् [अनुनासिक-उकारस्य <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इति इत्संज्ञा । ककारस्य <<लशक्वतद्धिते>> [[1.3.8]] इति इत्संज्ञा । उभयोः अपि <<तस्य लोपः>> [1.3.9]] इति लोपः]\n→ प्या + तवत् [<<लोपो व्योर्वलि>> [[6.1.66]] इति सम्प्रसारणम्]\n→ पी + तवत् [<<प्यायः पी>> [[6.1.28]] इति प्या-इत्यस्य पी-आदेशः]\n→ पीनवत् [<<ओदितश्च>> [[8.2.45]] इति निष्ठानत्वम् ।]\n\nअनुनासिकसंज्ञायाः सूत्रेषु प्रयोगः\nअष्टाध्याय्यां 'अनुनासिक' इयं संज्ञा एकादशसु सूत्रेषु साक्षात् प्रयुक्ता दृश्यते ।\n\n1. <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]]\n2. <<आङोऽनुनासिकश्छन्दसि>> [[6.1.126]]\n3. <<अनुनासिकस्य क्विझलोः क्ङिति>> [[6.4.15]]\n4. <<च्छ्वोः शूडनुनासिके च>> [[6.4.19]]\n5. <<अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिक लोपो झलि क्ङिति>> [[6.4.37]]\n6. <<विड्वनोरनुनासिकस्यात्>> [[6.4.41]]\n7. <<नुगतोऽनुनासिकान्तस्य>> [[7.4.45]]\n8. <<अत्रानुनासिकः पूर्वस्य तु वा>> [[8.3.2]]\n9. <<अनुनासिकात् परोऽनुस्वारः>> [[8.3.4]]\n10. <<यरोऽनुनासिकेऽनुनासिको वा>> [[8.4.45]]\n11. <<अणोऽप्रगृह्यस्यानुनासिकः>> [[8.4.57]]\n\nअनुवृत्तिरूपेण तु अन्येषु सूत्रेषु अपि अस्याः संज्ञायाः प्रयोगः भवितुम् अर्हति ।\n" }, "11009": { "sa": "ययोः वर्णयोः मुखस्थितम् उच्चारणस्थानम् आभ्यन्तरप्रयत्नश्च समानौ स्तः तौ वर्णौ परस्परयोः 'सवर्णौ' उच्येते ।", "sd": "इदम् सूत्रम् अष्टाध्याय्याः 'सवर्ण'संज्ञा विधायकम् सूत्रम् अस्ति । द्वयोः वर्णयोः मुखस्थितम् उच्चारणस्थानम् तथा च आभ्यन्तरप्रयत्नाः समानाः सन्ति चेत् तौ वर्णौ परस्परयोः 'सवर्णौ' भवतः — इति अस्य सूत्रस्य आशयः ।\nवर्णोच्चारणस्थानानि — वर्णानाम् उच्चारणस्थानानि सिद्धान्तकौमुद्याम् सूत्ररूपेण पाठितानि सन्ति । तानि एतादृशानि -\n\n(1) अकुहविसर्जनीयानां कण्ठः — अ, क्, ख्, ग्, घ्, ङ् , ह् , विसर्गः - एतेषाम् उच्चारणस्थानम् कण्ठः ।\n(2) इचुयशानां तालु — इ, च्, छ्, ज्, झ्, ञ्, य् , श् - एतेषाम् उच्चारणस्थानम् तालु ।\n(3) ऋटुरषाणां मूर्धा — ऋ, ट्, ठ्, ड्, ढ्, ण्, र्, ष् - एतेषाम् उच्चारणस्थानम् मूर्धा ।\n(4) ऌतुलसानां दन्ताः — ऌ, त्, थ्, द्, ध्, न्, ल्, स् - एतेषाम् उच्चारणस्थानम् दन्ताः ।\n(5) उपूपध्मानीयानाम् ओष्ठौ — उ, प्, फ्, ब्, भ्, म्, उपध्मानीयः - एतेषाम् उच्चारणस्थानम् ओष्ठौ ।\n(6) ञमङणनानां नासिका च — ञ्, म्, ङ्, ण्, न् - एतेषाम् उच्चारणस्थानम् नासिका अपि अस्ति । परन्तु एतत् 'मुखस्थितम्' उच्चारणस्थानम् नास्ति, अतः सवर्णसंज्ञार्थम् अस्य चर्चा न क्रियते ।\n(7) एदैतोः कण्ठतालु — ए, ऐ एतयोः उच्चारणस्थाने कण्ठः तथा तालु इति द्वे ।\n(8) ओदौतोः कण्ठोष्ठम् — ओ, औ एतयोः उच्चारणस्थाने कण्ठः तथा ओष्ठौ इति द्वे । \n(9) वकारस्य दन्तोष्ठम् — व् वर्णस्य उच्चारणस्थाने दन्ताः तथा ओष्ठौ इति द्वे ।\n(10) जिह्वामूलीयस्य जिह्वामूलम् — जिह्वामूलीयवर्णस्य उच्चारणस्थानम् जिह्वामूलम् ।\n(11) नासिका अनुस्वारस्य — अनुस्वारस्य उच्चारणस्थानम् नासिका इति । एतदपि मुखस्थितम् उच्चारणस्थानम् नास्ति, अतः सवर्णसंज्ञार्थम् अस्य अपि चर्चा न क्रियते ।\n\nवर्णानाम् आभ्यन्तरप्रयत्नाः — वर्णानां आभ्यन्तरप्रयत्नाः अपि सिद्धान्तकौमुद्याम् पाठिताः सन्ति । ते एतादृशाः —\n\n(1) स्पृष्टं प्रयतनं स्पर्शानाम् — सर्वेषाम् वर्गीयव्यञ्जनानाम् आभ्यन्तरप्रयत्नः स्पृष्टः इति स्वीक्रियते ।\n(2) ईषत्स्पृष्टम् अन्तःस्थानाम् — अन्तःस्थवर्णानाम् (य्, व्, र् ,ल् एतेषाम्) आभ्यन्तरप्रयत्नः ईषत्स्पृष्टः इति स्वीक्रियते ।\n(3) विवृतम् ऊष्मणां स्वराणां च - सर्वेषाम् स्वराणाम्, तथा च ऊष्मणाम् (श्, ष्, स्, ह् एतेषाम् वर्णानाम्) आभ्यन्तरप्रयत्नः विवृतः इति स्वीक्रियते ।\n(4) ह्रस्वस्य अवर्णस्य प्रयोगे संवृतम् । प्रक्रियादशायां तु विवृतमेव - ह्रस्वः अकारः प्रयोगे (इत्युक्ते, भाषायाम्) संवृतः स्वीक्रियते, परन्तु प्रक्रियायाम् (इत्युक्ते सूत्राणां प्रयोगसमये) सः विवृतः अस्ति इत्येव मन्यते ।\n\nपतञ्जलिमुनिना महाभाष्ये आभ्यन्तरप्रयत्नाः केनचित् भिन्नप्रकारेण उक्ताः सन्ति । भाष्यकारेण श् ष्, स्, ह् एतेषाम् आभ्यन्तरप्रयत्नः 'ईषद्विवृतः' इति उक्तः अस्ति, ऐकारऔकारयोः च आभ्यन्तरप्रयत्नः 'विवृततरः' इति निर्दिष्टः अस्ति । अनेन प्रकारेण महाभाष्ये आहत्य षट् आभ्यन्तरप्रयत्नाः पाठ्यन्ते । पाणिनेः मतेन तु उपरिनिर्दिष्टाः चत्वारः एव आभ्यन्तरप्रयत्नाः सन्ति ।\nसवर्णानां परिगणनम्\nययोः वर्णयोः मुखस्थितम् उच्चारणस्थानम् तथा आभ्यन्तरप्रयत्नः परस्पराभ्याम् समानौ स्तः, तौ वर्णौ परस्परयोः सवर्णौ भवतः — इति अस्य सूत्रस्य अर्थः । एताम् व्याख्याम् अनुसृत्य सर्वणानाम् आवली एतादृशी भवति —\n\n1) सर्वेषाम् कवर्गीयवर्णानाम् मुखस्थित-उच्चारणस्थानम् 'कण्ठः', आभ्यन्तरप्रयत्नः च स्पृष्टः । अतः क्, ख्, ग्, घ्, ङ् एते परस्पराणाम् सवर्णाः सन्ति ।\n2) सर्वेषाम् चवर्गीयवर्णानाम् मुखस्थित-उच्चारणस्थानम् 'तालु', आभ्यन्तरप्रयत्नः च स्पृष्टः । अतः च्, छ्, ज्, झ्, ञ् एते परस्पराणाम् सवर्णाः सन्ति ।\n3) सर्वेषाम् टवर्गीयवर्णानाम् मुखस्थित-उच्चारणस्थानम् 'मूर्धा', आभ्यन्तरप्रयत्नः च स्पृष्टः । अतः ट्, ठ्, ड्, ढ्, ण् एते परस्पराणाम् सवर्णाः सन्ति ।\n4) सर्वेषाम् तवर्गीयवर्णानाम् मुखस्थित-उच्चारणस्थानम् 'दन्ताः', आभ्यन्तरप्रयत्नः च स्पृष्टः । अतः त्, थ्, द्, ध्, न् एते परस्पराणाम् सवर्णाः सन्ति ।\n5) सर्वेषाम् पवर्गीयवर्णानाम् मुखस्थित-उच्चारणस्थानम् 'ओष्ठौ', आभ्यन्तरप्रयत्नः च स्पृष्टः । अतः प्, फ्, ब्, भ्, म् एते परस्पराणाम् सवर्णाः सन्ति ।\n6) अकारस्य सर्वे अष्टादश भेदाःपरस्पराणाम् सवर्णाः सन्ति । (अष्टादशभेदाः इत्थम् — ह्रस्व-दीर्घ-प्लुताः त्रयः, तेषु प्रत्येकम् उदात्त-अनुदात्त-स्वरितभेदेन त्रिधा = आहत्य नव, तेषु प्रत्येकम् अनुनासिक-अननुनासिकरूपेण द्विधा = आहत्य अष्टादश) । \n7) इकारस्य सर्वे अष्टादश भेदाः परस्पराणाम् सवर्णाः सन्ति ।\n8) उकारस्य सर्वे अष्टादश भेदाः परस्पराणाम् सवर्णाः सन्ति ।\n9) यद्यपि ऋकार-ऌकारयोः उच्चारणस्थानम् भिन्नम्, तथापि तयोः मध्ये सावर्ण्यम् इष्यते । तदर्थम् वार्त्तिककारः — इति वार्त्तिकं पाठयति । ऋकारस्य सर्वे भेदाः, ऌकारस्य च सर्वे भेदाः परस्पराणां सवर्णाः सन्ति — इति अस्य वार्त्तिकस्य अर्थः । अनेन प्रकारेण आहत्य त्रिंशत् वर्णाः( ऋकारस्य अष्टादशभेदाः + ऌकारस्य (दीर्घभेदस्य अभावात्) द्वादशभेदाः = आहत्य त्रिंशत्) सर्वे परस्पराणाम् सवर्णाः सन्ति ।\n10) यकारस्य अनुनासिक-निरनुनासिक-भेदौ (य्ँ - य् एतौ) परस्परयोः सवर्णौ स्तः ।\n11) वकारस्य अनुनासिक-निरनुनासिक-भेदौ (व्ँ - व् एतौ) परस्परयोः सवर्णौ स्तः ।\n12) लकारस्य अनुनासिक-निरनुनासिक-भेदौ (ल्ँ - ल् एतौ) परस्परयोः सवर्णौ स्तः ।\n\n\n1.यद्यपि एकार-ऐकारयोः उच्चारणस्थानम् आभ्यन्तरप्रयत्नः च समानौ स्तः, तथापि एतौ द्वौ परस्परयोः सवर्णौ न स्तः इति ज्ञेयम् । एतादृशम् किमर्थम् इति चेत् — यदि एकार-ऐकारौ परस्परयोः सवर्णौ भवेताम्, तर्हि <<अणुदित् सवर्णस्य चाप्रत्ययः>> [[1.1.69]] इति सूत्रबलेन 'अण्-प्रत्याहारे विद्यमानेन एकारेण ऐकारस्य अपि ग्रहणं भवेत् । एतादृशं ग्रहणं सम्भवति चेत् अण्-प्रत्याहारे ऐकारस्य पृथक् निर्देशः व्यर्थः भवति । अयं व्यर्थः सन् एव ज्ञापयति यत् एकारेण ऐकारस्य ग्रहणम् न भवति । अस्यैव अर्थः 'एकार-ऐकारौ परस्परयोः सवर्णौ न स्तः' — इति । एवमेव, ओकार-औकारौ अपि परस्परयोः सवर्णौ न स्तः । \n2. वस्तुतस्तु भाष्ये एकार-ओकारयोः आभ्यन्तरप्रयन्तः विवृतः, तथा ऐकार-औकारयोः आभ्यन्तरप्रयत्नः विवृततरः निर्दिश्यते । अस्मिन् पक्षे एकार-ऐकारयोः, एवमेव ओकार-औकारयोः आभ्यन्तरप्रयत्नौ एव भिद्येते, अतः तयोः सवर्णसंज्ञा अपि न सम्भवति ।\n\nसवर्णसंज्ञायाः प्रयोजनम्\nसवर्णसंज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्याम् भिन्नाः विधयः उक्ताः सन्ति । द्वे उदाहरणे एतादृशे -\n1. <<अकः सवर्णे दीर्घः>> [[6.1.101]] इत्यनेन अक्-वर्णस्य सवर्णयोः अक्-वर्णयोः एकः दीर्घादेशः भवति । यथा -\n\nजीवस्य आत्मा [<<षष्ठी>> [[2.2.8]] इति षष्ठीतत्पुरुषसमासः]\n→ जीव + आत्मन् [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्यययोः लोपः]\n→ जीवात्मन् [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः एकादेशः]\n\n2. <<वा पदान्तस्य>> [[8.4.59]] इत्यनेन पदान्ते विद्यमानस्य अनुस्वारस्य यय्-वर्णे परे विकल्पेन परसवर्णः भवति । यथा -\n\nवन्दनं करोमि\n→ वन्दनङ्करोमि [<<वा पदान्तस्य>> [[8.4.59]] इत्यनेन अनुस्वारस्य परसवर्णः]\n\nसवर्णसंज्ञायाः सूत्रेषु प्रयोगः\nसवर्णसंज्ञायाः साक्षात् प्रयोगः अष्टाध्याय्याम् नवसु सूत्रेषु कृतः अस्ति —\n\n1. <<न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु>> [[1.1.58]]\n2. <<अणुदित्सवर्णस्य चाप्रत्ययः>> [[1.1.69]]\n3. <<अकः सवर्णे दीर्घः>> [[6.1.101]]\n4. <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]]\n5. <<इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च>> [[6.1.127]]\n6. <<अभ्यासस्यासवर्णे>> [[6.4.78]]\n7. <<सुपां सुलुक्पूर्वसवर्णाऽऽच्छेयाडाड्यायाजालः>> [[7.1.39]]\n8. <<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]]\n9. <<झरो झरि सवर्णे>> [[8.4.65]]\n\nअनुवृत्तिरूपेण तु अन्येषु सूत्रेषु अपि अस्याः प्रयोगः भवितुम् अर्हति ।\nस्वरव्यञ्जनयोः सावर्ण्यम्\nवस्तुतस्तु अवर्ण-हकारयोः उच्चाणस्थानम् समानम् (कण्ठः), आभ्यन्तरप्रयत्नः अपि समानः (विवृतः) । अतः प्रकृतसूत्रेण अवर्ण-हकारयोः मध्ये सावर्ण्यम् भवितुम् अर्हति । एवमेव, इवर्ण-शकारयोः मध्ये, ऋवर्ण-षकारयोः मध्ये, ऌवर्ण-सकारयोः अपि सावर्ण्यम् भवितुम् अर्हति, यतः प्रत्येकं युगलस्य विषये स्थानम् आभ्यन्तरप्रयत्नः च मिथः समानौ स्तः । परन्तु एतादृशम् स्वर-व्यञ्जनयोर्मध्ये सावर्ण्यम् नैव इष्यते । अतएव पाणिनिना <<नाज्झलौ>> [[1.1.10]] इति अग्रिमं सूत्रं विरचितम् अस्ति । अग्रिमसूत्रेण एतादृशस्य स्वरव्यञ्जनयोर्मध्ये प्राप्तस्य सावर्ण्यस्य निषेधः क्रियते ।\nभाष्यकारस्य मतेन तु, श् ष्, स्, ह् एतेषाम् आभ्यन्तरप्रयत्नः 'ईषद्विवृतः' इति उक्तः अस्ति, न हि 'विवृतः' इति । सर्वेषाम् स्वराणाम् आभ्यन्तरप्रयन्तः तु विवृतः इत्येव । अतः अवर्ण-हकारयोः मध्ये, इवर्ण-शकारयोः मध्ये, ऋवर्ण-षकारयोः मध्ये, तथा च ऌवर्ण-सकारयोः मध्ये भाष्यकारस्य मतेन सावर्ण्यम् नैव विद्यते । अतएव तादृशस्य सावर्ण्यस्य निषेधार्थम् <<नाज्झलौ>> [[1.1.10]] इति अग्रिमं सूत्रम् अपि भाष्यकारस्य मतेन अनावश्यकम् एव वर्तते ।\nसवर्णग्रहणम्\n'सवर्णग्रहणम्' इति कश्चन विधिः । एकस्य वर्णस्य सूत्रे विद्यमानेन निर्देशेन तस्य वर्णस्य सर्वेषाम् अपि सवर्णानाम् तत्र ग्रहणम् — इत्यस्य नाम सवर्णग्रहणम् । The ability of a letter to bring all the savarnaas with itself is called सवर्णग्रहणम् । एतादृशं सवर्णग्रहणम् कुत्र सम्भवति, कुत्र च न वर्तते अस्मिन् विषये <<अणुदित्सवर्णस्य चाप्रत्ययः>> [[1.1.69]] तथा <<तपरस्तत्कालस्य>> [[1.1.70]] इति द्वे सूत्रे विस्तरेण स्पष्टी कुरुतः ।\nसवर्णसंज्ञा, सवर्णग्रहणम् इत्येतयोः विषये अधिकं विस्तरेण ज्ञातुम् जिज्ञासुभिः अयं लेखः अपि अवश्यं द्रष्टव्यः ।\n" }, "11010": { "sa": "स्वराः तथा व्यञ्जनानि परस्पराणाम् सवर्णानि न भवन्ति । ", "sd": "ययोः वर्णयोः मुखस्थितम् उच्चारणस्थानम् तथा च आभ्यन्तरप्रयत्नः - एतौ परस्पराभ्यां सह समानौ स्तः, तयोः <<तुल्यास्यप्रयत्नं सवर्णम्>> [[1.1.9]] अनेन सूत्रेण 'सवर्णसंज्ञा' दीयते । <<तुल्यास्यप्रयत्नं सवर्णम्>> [[1.1.9]] इत्यस्य आधारेण तु अवर्ण-हकारयोः, इवर्ण-शकारयोः, ऋवर्ण-षकारयोः, ऌवर्ण-सकारयोः अपि सावर्ण्यम् विधीयते । परन्तु तादृशं सावर्ण्यम् न इष्यते, अतः तस्य निषेधं कर्तुम् पाणिनिना वर्तमानसूत्रम् पाठितम् अस्ति । अतः इदम् सवर्णसंज्ञानिषेधसूत्रम् । स्वराः तथा व्यञ्जनानि परस्पराणाम् सवर्णाः न भवन्ति इति — अस्य सूत्रस्य आशयः । इत्युक्ते, स्वराणाम् सावर्ण्यम् अन्यैः स्वरैः सह एव भवितुं शक्यते; तथैव च व्यञ्जनानाम् सावर्ण्यम् अपि केवलं अन्यैः व्यञ्जनैः सह एव भवितुं शक्यते । अतः, यद्यपि अकार-हकारयोः उच्चारणस्थानम् आभ्यन्तरप्रयत्नः च समानौ स्तः, तथापि तौ सवर्णौ न स्तः । तथैव, इवर्ण-शकारौ, ऋवर्ण-षकारौ, ऌवर्ण-सकारौ अपि सवर्णौ न स्तः । अतएव, 'अहम्', 'दिशति', 'तृष्णा' इत्यादिषु शब्देषु (यथासङ्ख्यम्) शब्दे अकारस्य हकारेण सह, इकारस्य शकारेण सह, ऋकारस्य च षकारेण सह <<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः न सम्भवति ।\nआकारहकारयोः सावर्ण्यनिषेधः\nवस्तुतस्तु अस्मिन् सूत्रे विद्यमानेन 'अच्' इति प्रत्याहारेण केवलं माहेश्वरसूत्रे साक्षात् विद्यमानाः स्वराः (अ, इ, उ, ऋ, ऌ, ए, ऐ,ओ, औ) एव गृह्यन्ते । अन्येषाम् स्वराणाम् (आ, ई, ऊ, ॠ एतेषाम् तथा च सर्वेषाम् स्वराणाम् प्लुतभेदानाम्) अत्र 'अच्' इत्यनेन ग्रहणं न भवति । इत्युक्ते, <<तुल्यास्यप्रयत्नं सवर्णम्>> [[1.1.9]] इत्यनेन प्राप्तम् अकार-हकारयोः सावर्ण्यम् यद्यपि अनेन सूत्रेण निवार्यते, तथापि तत्र प्राप्तम् आकार-हकारयोः सावर्ण्यम्, एवमेव ईकार-शकारयोः तथा ॠकार-षकारयोः सावर्ण्यं तु वर्तमानसूत्रेण नैव निवार्यते । (ऌकारस्य दीर्घभेदः नास्ति अतः तस्य विषये दोषः न वर्तते ।)\nएतादृशेन अनिष्ट-सावर्ण्यविधानेन तदा एव दोषः उद्भवति यदा सवर्णग्रहणसमये एकेन वर्णेन अपरस्य वर्णस्य ग्रहणम् सम्भवति । तत्र ईकार-शकारयोः विषये, तथा च ॠकार-षकारयोः विषये एतादृशम् परस्पराणाम् सवर्णग्रहणं नैव सम्भवति, यतः सवर्णग्रहणविधायके <<अणुदित् सवर्णस्य चाप्रत्ययः>> [[1.1.69]] इति सूत्रे विद्यमानेन अण्-प्रत्याहारेण ईकारस्य/शकारस्य/ॠकारस्य/षकारस्य वा निर्देशः एव न क्रियते । इत्युक्ते, व्याकरणशास्त्रे कुत्रापि ईकारग्रहणेन शकारग्रहण्, शकारग्रहणेन वा ईकारग्रहणम्, एवमेव ऋकारग्रहणेन षकारग्रहणम्, अथ वा षकारग्रहणेन ऋकारग्रहणम् न हि सम्भवति । अतः ईकार-शकारयोः, एवमेव ॠकार-षकारयोः अनिष्टम् सावर्ण्यं विद्यते चेदपि व्याकरणशास्त्रे न कुत्रचित् दोषाय । परन्तु, आकार-हकारस्य सावर्णं न निवार्यते चेत् व्याकरणशास्त्रे दोषः अवश्यम् आपतति, यतः यद्यपि <<अणुदित् सवर्णस्य चाप्रत्ययः>> [[1.1.69]] इति सूत्रे विद्यमानेन अण्-प्रत्याहारेण आकारस्य निर्देशः न क्रियते (अतश्च आकारेण हकारस्य ग्रहणं नैव सम्भवति), तथापि अण्-प्रत्याहारे हकारः अवश्यं विद्यते, अतः हकारग्रहणेन आकारस्य अनिष्टं ग्रहणम् अवश्यम् सम्भवति । एतादृशम् हकारेण आकारस्य ग्रहणं क्रियते चेत्, <<हो ढः>> [[8.2.31]] इति सूत्रेण विद्यमानेन हकारेण आकारस्यापि ग्रहणे कृते, 'विश्वपा' शब्दस्य तृतीयाबहुवचने 'विश्वपा + भिस्' इत्यत्र <<हो ढः>> [[8.2.31]] इति सूत्रेण आकारस्य अपि (झलि परे) अनिष्टं ढत्वं भवेत् । अस्य दोषस्य निराकरणार्थम् सिद्धान्तकौमुद्यां भट्टोजीदीक्षितः <<नाज्झलौ>> [[1.1.10]] इति सूत्रस्य पदविग्रहं 'न + + अच् + हलौ' इति आकारप्रश्लेषं कृत्वा सम्पादयति, येन — आकारस्य अच्-वर्णस्य च हल्-वर्णेन सह सावर्ण्यं न विद्यते — इति अर्थः फलति । एतादृशम् अर्थं कृत्वा आकारस्य हकारेण सह सावर्ण्यं निवार्यते, येन हकारग्रहणेन आकारग्रहणस्य अनिष्टापत्तेः अपि निवारणं भवति ।अस्मिन् विषये अस्मिन् लेखे विस्तरेण चर्चा कृता अस्ति, सा तत्रैव दृश्यताम् ।\nमहाभाष्ये नाज्झलौ सूत्रस्य प्रत्याख्यानम्\nमहाभाष्ये भाष्यकारेण स्वराणाम् आभ्यन्तरप्रयत्नः 'विवृतः' तथा च ऊष्मणाम् आभ्यन्तरप्रयत्नः 'ईषद्विवृतः' इति उक्तः अस्ति । अस्याम् स्थितौ स्वरव्यञ्जनयोः सावर्ण्यम् तादृशमेव निवार्यते, अत च <<नाज्झलौ>> [[1.1.10]] इत्यस्य सूत्रस्य आवश्यकता अपि नास्ति । अतः अस्य सूत्रस्य व्याख्याने कैयटः अपि 'सूत्रप्रत्याख्यानसाधारणमुक्तम्' इति निर्देशेन इदं सूत्रं प्रत्याचख्यौ ।\n" }, "11011": { "sa": "द्विवचनस्य दीर्घ-ईकारान्तम्, दीर्घ-ऊकारान्तम् तथा एकारान्तम् रूपम् 'प्रगृह्य'संज्ञकम् भवति । ", "sd": "व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा वर्तते 'प्रगृह्यम्' इति संज्ञा । अष्टाध्याय्याम् <<ईदूदेद्द्विवचनं प्रगृह्यम्>> [[1.1.11]] इत्यतः <<ईदूतौ च सप्तम्यर्थे>> [[1.1.19]] एतैः नवभिः सूत्रैः प्रगृह्यसंज्ञा दीयते । अस्य सूत्रसमूहस्य इदम् प्रथमं सूत्रम् । द्विवचनस्य तिङन्तं तथा सुबन्तं शब्दरूपम् यदि दीर्घ-ईकारान्तम् / दीर्घ-ऊकारान्तम् / एकारान्तम् अस्ति, तर्हि तस्य प्रगृह्यसंज्ञा भवति - इति अस्य सूत्रस्य आशयः ।\nकानिचन उदाहरणानि एतानि —\n\n1. 'हरि' शब्दस्य प्रथमाद्वितीयाद्विवचनम् हरी इति ईकारान्तत्वात् प्रगृह्यसंज्ञकं भवति ।\n2. 'साधु' शब्दस्य प्रथमाद्वितीयाद्विवचनम् साधू इति ऊकारान्तत्वात् प्रगृह्यसंज्ञकं भवति । \n3. 'माला' शब्दस्य प्रथमाद्वितीयाद्विवचनम् माले इति एकारान्तत्वात् प्रगृह्यसंज्ञकं भवति । \n4. 'द्वि' शब्दस्य स्त्रीलिङ्गनपुंसकलिङ्गयोः प्रथमाद्विवचनम् द्वितीयाद्विवचनम् च द्वे इति एकारान्तत्वात् प्रगृह्यसंज्ञकं भवति ।\n5. 'पच्' धातोः लट्लकारस्य द्विवचनस्य रूपाणि - पचेते, पचेथे, पचावहे एतानि एकारान्तत्वात् प्रगृह्यसंज्ञकं भवति ।\n\nकानिचन प्रत्युदाहरणानि एतानि —\n\n1. 'बाल' शब्दस्य 'बालौ' इति रूपम् यद्यपि द्विवचनस्य अस्ति तथापि ईकारान्तम् / ऊकारान्तम् / एकारान्तम् नास्ति, अतः तस्य प्रगृह्यसंज्ञा न भवति ।\n2. 'बाल' शब्दस्य 'बाले' इति रूपम् यद्यपि एकारान्तम् अस्ति तथापि एतत् द्विवचनस्य रूपम् नास्ति (सप्तम्येकवचनस्य रूपम् अस्ति), अतः तस्य प्रगृह्यसंज्ञा न भवति ।\n3. 'पच्' धातोः 'पचते' इति रूपम् यद्यपि एकारान्तम् अस्ति तथापि एतत् द्विवचनस्य रूपम् नास्ति (एकवचनस्य रूपम् अस्ति), अतः तस्य प्रगृह्यसंज्ञा न भवति ।\n\nप्रगृह्यसंज्ञाः प्रयोजनम्\nअष्टाध्याय्यां प्रगृह्यसंज्ञायाः निर्माणस्य मुख्यं प्रयोजनम् अस्ति <<प्लुतप्रगृह्याः अचि नित्यम्>> [[6.1.125]] इत्यनेन विहितः अच्सन्धिविषयकः प्रकृतिभावः । प्रगृह्यसंज्ञकानाम् शब्दानाम् अच्-सन्धिः कदापि नैव भवति (तत्र प्रकृतिभावः भवति) — इति <<प्लुतप्रगृह्याः अचि नित्यम्>> [[6.1.125]] अस्य सूत्रस्य आशयः । यथा - 'हरी एतौ', 'साधू इमौ', 'गङ्गे एते', 'द्वे अपि', 'पचेते अत्र' एतेषु उदाहरणेषु संहितायाम् सत्याम् अपि अच्सन्धिः न भवति ।\nअष्टाध्याय्यां प्रगृह्यसंज्ञायाः प्रयोगः\nअष्टाध्याय्यां प्रगृह्यसंज्ञायाः प्रयोगः आहत्य त्रिषु स्थलेषु साक्षात् कृतः अस्ति —\n\n1. <<प्लुतप्रगृह्याः अचि नित्यम्>> [[6.1.125]]\n2. <<एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्यार्धस्यादुत्तरस्येदुतौ>> [[8.2.107]]\n3. <<अणोऽप्रगृह्यस्यानुनासिकः>> [[8.4.57]]\n\nविशिष्टप्रयोगानाम् ऊहः\nकुत्रचित् साहित्ये दीर्घ-ईकारान्तस्य द्विवचनस्य रूपस्य अपि अच्सन्धिः कृतः दृश्यते । यथा, 'मणीव' इति कश्चन सन्धिः महाभारते कृतः अस्ति —\n\nमणीवोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम ।\nशुद्धं हि दैवमेवेदं हठेनैवास्ति पौरुषम् ॥ (महाभारते 12.177.12) ॥\n\nअत्र विद्यमानस्य 'मणीव' इति शब्दस्य 'मणी + इव' इति सन्धिच्छेदः स्वीक्रियते ।अत्र 'मणी' इति मणिशब्दस्य प्रथमाद्विवचनस्य रूपम् । अस्य शब्दस्य वस्तुतः <<ईदूदेद्द्विवचनं प्रगृह्यम्>> [[1.1.11]] इत्यनेन प्रगृह्यसंज्ञा भवेत्, अतश्च अचि परे <<प्लुतप्रगृह्या अचि नित्यम्>> [[6.1.125]] इत्यनेन प्रकृतिभावः भवेत् । परन्तु तादृशं क्रियते चेत् 'मणीव' इति शब्दः साधुत्वं न हि प्राप्नुयात् । अतः, अस्य साधुत्वार्थम् काशिकाकारेण इति वार्त्तिकसदृशः कश्चन सिद्धान्तः पाठितः अस्ति । अनेन सिद्धान्तेन 'मणीव' इत्यत्र, तथा च तादृशेषु 'जम्पतीव', 'दम्पतीव', 'रोदसीव' एतेषु अपि भिन्नेषु शब्देषु (प्रयोगसाधुत्वार्थम्) द्विवचनान्तस्य प्रगृह्यसंज्ञा एव निषिध्यते, येन सन्धिकार्यम् सुकरं भवति । परन्तु अयं सिद्धान्तः भाष्ये न कुत्रचित् लभ्यते अतः कैयटादिभिः सः उपेक्षितः अस्ति । सिद्धान्तकौमुद्याम् तु 'व' शब्दस्य 'इव' अस्मिन् अर्थे विधानं कृत्वा 'मणी व = मणी इव' इति अर्थविधानं कृतम् अस्ति, येन अच्सन्धेः प्राप्तिरेव संह्रियते ।" }, "11012": { "sa": "'अदस्' शब्दस्य येषाम् रूपाणाम् अन्ते 'मी' , 'मू' उत 'मे' इति वर्णसमुदायः विद्यते, तेषाम् 'प्रगृह्यम्' इति संज्ञा भवति ।", "sd": "व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा वर्तते 'प्रगृह्यम्' इति संज्ञा । अष्टाध्याय्याम् <<ईदूदेद्द्विवचनं प्रगृह्यम्>> [[1.1.11]] इत्यतः <<ईदूतौ च सप्तम्यर्थे>> [[1.1.19]] एतैः नवभिः सूत्रैः प्रगृह्यसंज्ञा दीयते । अस्य सूत्रसमूहस्य इदम् द्वितीयं सूत्रम् । अनेन सूत्रेण अदस्-शब्दस्य येषाम् रूपाणाम् अन्ते 'मी' / 'मू', 'मे' इति विद्यते, तेषाम् सर्वेषाम् रूपाणाम् प्रगृह्यसंज्ञा भवति — इति अस्य सूत्रस्य आशयः । एतानि सर्वाणि रूपाणि एतादृशानि —\n\n1) पुंलिङ्गे - अमू (प्रथमा/द्वितीया-द्विवचनम्) , अमी (प्रथमाबहुवचनम्)\n2) स्त्रीलिङ्गे - अमू (प्रथमा/द्वितीया-द्विवचनम्)\n3) नपुंसकलिङ्गे - अमू (प्रथमा/द्वितीया-द्विवचनम्) ।\n\nइत्युक्ते, संक्षेपेण अदस्-शब्दस्य 'अमी' तथा 'अमू' एतयोः रूपयोः प्रकृतसूत्रेण प्रगृह्यसंज्ञा भवति । प्रगृह्यत्वात् <<प्लुतप्रगृह्याः अचि नित्यम्>> [[6.1.125]] इत्यनेन अच्सन्धौ प्रकृतिभावे कृते 'अमी आसाते', 'अमू आसाते' एतादृशेषु प्रयोगेषु <<इको यणचि>> [[6.1.77]] इति यणादेशः न भवति ।\nअस्मिन् सूत्रे 'मात्' इति ग्रहणस्य प्रयोजनम्\n'अदस्' शब्दस्य सर्वाणि ईकारान्तरूपाणि, ऊकारान्तरूपाणि च मकारोपधानि एव सन्ति । अतः अस्मिन् सूत्रे 'मात्' इति किमर्थं स्वीक्रियते इति प्रश्नः उपतिष्ठते । तस्य समाधानम् इदम् — <<अव्ययसर्वनाम्नाम् अकच् प्राक्टेः>> [[5.3.71]] इति सूत्रेण अदस्-शब्दात् 'अकच्' इति स्वार्थिकं प्रत्ययं कृत्वा 'अदकस्' इति किञ्चन शब्दः सिद्ध्यति । <<अदसो मात्>> [[1.1.12]] इत्यत्र कृतेन 'अदस्' इति निर्देशेन <ऽतन्मध्यपतितस्तद्ग्रहणेन गृह्यतेऽ>' इति परिभाषाम् आश्रित्य अदकस्-शब्दस्य अपि ग्रहणं भवति । अस्य अदकस्-शब्दस्य पुंलिङ्गे प्रथमाबहुवचनस्य 'अमुके' इति एकारान्तम् रूपम् विद्यते । अस्य 'अमुके' इति शब्दस्य प्रगृह्यसंज्ञा नैव इष्यते, यतः 'अमुकेऽत्र' एतादृशाः कृतसन्धिप्रयोगाः भाषायाम् प्राचर्येण प्रयुक्ताः सन्ति । अतः अत्र 'अमुके' इति शब्दस्य प्रगृह्यसंज्ञां निवारयितुम् <<अदसो मात्>> [[1.1.12]] इति सूत्रे 'मात्' इति शब्दस्य ग्रहणं कृतम् अस्ति ।\n" }, "11013": { "sa": "'शे' इत्यस्य प्रगृह्यसंज्ञा भवति । ", "sd": "व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा वर्तते 'प्रगृह्यम्' इति संज्ञा । अष्टाध्याय्याम् <<ईदूदेद्द्विवचनं प्रगृह्यम्>> [[1.1.11]] इत्यतः <<ईदूतौ च सप्तम्यर्थे>> [[1.1.19]] एतैः नवभिः सूत्रैः प्रगृह्यसंज्ञा दीयते । अस्य सूत्रसमूहस्य इदम् तृतीयम् सूत्रम् । 'शे' इत्यस्य अनेन सूत्रेण प्रगृह्यसंज्ञा भवति ।\nकिम् नाम 'शे' इति ? अष्टाध्याय्याम् <<सुपां सुलुक्पूर्वसवर्णाऽऽच्छेयाडाड्यायाजालः>> [[7.1.39]] अनेन सूत्रेण सुप्-प्रत्ययानाम् अनेके आदेशाः केवलं वैदिकरूपसिद्ध्यर्थम् पाठिताः सन्ति । एतेषु अन्यतमः आदेशः अस्ति 'शे' इति । अस्य आदेशस्य अनेन सूत्रेण प्रगृह्यसंज्ञा दीयते । यथा, अस्मद्-शब्दस्य वेदेषु 'अस्मे' इति चतुर्थीबहुवचनस्य रुपम् प्रयुक्तं दृश्यते । एतद् रूपम् भ्यस्-प्रत्ययस्य 'शे' आदेशं कृत्वा सिद्ध्यति । अस्य 'शे' आदेशस्य प्रकृतसूत्रेण प्रगृह्यसंज्ञा भवति । सम्पूर्णा प्रक्रिया इयम् —\n\nअस्मद् + भ्यस् (अस्मद्-शब्दात् चतुर्थीबहुवचनस्य प्रत्ययः)\n→ अस्मद् + शे [<<सुपां सुलुक्...>> [[7.1.39]] इति सूत्रेण भ्यस्-प्रत्ययस्य शे-आदेशः]\n→ अस्मद् + ए [ शकारस्य <<लशक्वतद्धिते>> [[1.3.8]] इत्यनेन इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इत्यनेन लोपः ।]\n→ अस्म + ए [<<शेषे लोपः>> [[7.2.90]] इति अस्मद्-शब्दस्य 'द्' इत्यस्य लोपः]\n→ अस्मे [<<अतो गुणे>> [[6.1.97]] इति पररूप-एकादेशः एकारः]\n\nअस्य 'अस्मे' शब्दस्य अन्ते विद्यमानः एकारः प्रकृतसूत्रेण प्रगृह्यसंज्ञकः भवति, अतः <<प्लुतप्रगृह्या अचि नित्यम्>> [[6.1.125]] इत्यनेन अस्य एकारस्य अच्सन्धौ प्रकृतिभावः विधीयते । यथा - 'अस्मे इन्द्राबृहस्पती' (ऋग्वेदे 4.49.4) इत्यत्र अच्सन्धिः न भवति । एवमेव 'युष्मे', 'त्वे', 'मे' एतादृशानाम् शे-प्रत्ययान्तवैदिकशब्दानाम् अपि शे-प्रत्ययस्य प्रगृह्यत्वात् सन्धिः न सम्भवति ।" }, "11014": { "sa": "'आङ्' इति वर्जयित्वा अन्ये व्यञ्जनविरहिताः एकाचः निपाताः प्रगृह्यसंज्ञकाः भवन्ति । ", "sd": "व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा वर्तते 'प्रगृह्यम्' इति संज्ञा । अष्टाध्याय्याम् <<ईदूदेद्द्विवचनं प्रगृह्यम्>> [[1.1.11]] इत्यतः <<ईदूतौ च सप्तम्यर्थे>> [[1.1.19]] एतैः नवभिः सूत्रैः प्रगृह्यसंज्ञा दीयते । अस्य सूत्रसमूहस्य इदम् चतुर्थम् सूत्रम् । अनेन सूत्रेण विशिष्टानाम् निपातानाम् प्रगृह्यसंज्ञा विधीयते ।\nनिपातसंज्ञा — व्याकरणशास्त्रे शब्दानां कश्चन समूहः 'निपातः' नाम्ना ज्ञायते । <<प्राग्रीश्वरान्निपाताः>> [[1.4.56]] अस्मात् सूत्रात् आरभ्य <<अधिरीश्वरे>> [[1.4.97]] इति यावत्सु सर्वेषु सूत्रेषु निपातसंज्ञकाः शब्दाः पाठिताः सन्ति ।\nएकाच्क-निपातानाम् प्रगृह्यसंज्ञा — ये निपातसंज्ञकाः शब्दाः एकाच्काः सन्ति (इत्युक्ते, येषु एकः एव स्वरः अस्ति तथा च किमपि व्यञ्जनम् नास्ति), तेषाम् प्रकृतसूत्रेण 'प्रगृह्यम्' इति संज्ञा विधीयते । एतेषाम् आवली इयम् —\n\nअ, आ, इ, उ, ऋ, ऌ, ए, ऐ, ओ, औ — एते एकाच्काः, अतः प्रगृह्यसंज्ञकाः निपाताः ।\n\nप्रगृह्यसंज्ञायाम् जातायाम् <<प्लुतप्रगृह्या अचि नित्यम्>> [[6.1.125]] इत्यनेन एतेषाम् अच्सन्धौ प्रकृतिभावः विधीयते । अतः 'अ अपेहि', 'आ एवं नु मन्यसे', 'इ इन्द्रं पश्यः, 'उ उत्तिष्ठ' एतेषु प्रयोगेषु अच्सन्धिः न भवति ।\nसूत्र अनाङ्-ग्रहणस्य प्रयोजनम्\n'आङ्' इति कश्चन निपातः अस्ति । उपरि निर्दिष्टायाम् आवल्याम् दर्शितात् 'आ' इति निपातात् अयं भिन्नः शब्दः । 'आङ्' अस्मिन् निपाते विद्यमानस्य ङकारस्य इत्संज्ञा, ततश्च लोपः भवति, केवलं 'आ' इत्यवशिष्यते । अतः अयम् अपि एकाच्कः निपातः एव । अस्य निपातस्य प्रगृह्यसंज्ञा नैव इष्यते, अतः तन्निषेधार्थम् अस्मिन् सूत्रे 'अनाङ्' इति निर्देशः कृतः अस्ति । आङ्-भिन्नानाम् एकाच्कनिपातानाम् एव प्रगृह्यसंज्ञा भवति — इति अत्र आशयः । अतः प्रगृह्यसंज्ञायाः अभावात् 'आङ्' शब्दस्य विषये अच्सन्धौ प्रकृतिभावः अपि न विद्यते, अतः सन्धिकार्यम् अवश्यम् भवितुम् अर्हति । यथा, आङ् + उष्णम् = ओष्णम् । 'किञ्चित् उष्णम्' इत्यर्थः ।\n'आ' तथा 'आङ्' एतयोः निपातयोः मध्ये अर्थभेदः\n'आ' तथा 'आङ्' द्वयोः अपि निपातयोः दृश्यरूपम् 'आ' इति समानमेव जायते । परन्तु तयोः अर्थयोः मध्ये सूक्ष्मः भेदः विद्यते । अयं भेदः सिद्धान्तकौमुद्यां काशिकायां च एकया कारिकया स्पष्टीकृतः अस्ति -\n\nईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः ।\nएतमातं ङितं विद्यात्,वाक्यस्मरणयोरङित् ॥\n\nअस्यां कारिकायाम् 'आङ्' इत्यस्य चत्वारः पृथक् अर्थाः उक्ताः सन्ति, 'आ' इत्यस्य च द्वौ अर्थौ उक्तौ स्तः ।\nआङ् इत्यस्य चत्वारः अर्थाः —\n\n1) ईषद् ('किञ्चित्' इत्यर्थः) । यथा - ईषद् उष्णम् = आङ् + उष्णम् = ओष्णम् ।\n2) क्रियायोगः ('उपसर्गः' इत्यर्थः) । यथा - आङ् + अगच्छत् = आगच्छत् ।\n3) मर्यादा (सा सीमा यस्याः समावेशः प्रदेशे न भवति । Non-inclusive boundary of a region) । यथा - आङ् + अम्बुधेः = आम्बुधेः । समुद्रपर्यन्तम्, परन्तु समुद्रम् विहाय - इति अस्य अर्थः । वाक्ये प्रयोगः एतादृशः — तस्य राज्यं आम्बुधेः आसीत् ।\n4) अभिविधि: (सा सीमा यस्याः समावेशः प्रदेशे अवश्यं भवति । Inclusive boundary of a region) । यथा - आङ् + इन्द्राद् → एन्द्राद् ।\n इत्युक्ते, इन्द्रपर्यन्तम्, इन्द्रमपि समाविश्य । वाक्ये प्रयोगः एतादृशः — तस्य भक्तिः एन्द्रात् ।\n\nआ-इत्यस्य द्वौ अर्थौ —\n\n1) वाक्ये उद्गाररूपेण (As an exclamatory word in the sentence. Similar to 'oh!' or 'ah!') । यथा - आ एवं नु मन्यसे (Oh! You indeed think like this!) । अस्मिन् वाक्ये 'आ' इति केवलम् उद्गारम् दर्शयति । प्रगृह्यत्वात् अत्र अच्सन्धिकार्यं न क्रियते ।\n2) स्मरणरुपेण (As a filler word to indicate a certain memory. Similar to 'oh!' or 'ah!') । यथा 'आ एवं किल तत्' (Oh, that is thus indeed!) । अस्मिन् वाक्ये 'आ' इत्यनेन स्मरणम् (Recap) कृतम् अस्ति । अत्रापि प्रगृह्यत्वात् अच्सन्धिकार्यं न क्रियते ।\n" }, "11015": { "sa": "ओकारान्तनिपाताः प्रगृह्यसंज्ञकाः सन्ति । ", "sd": "व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा वर्तते 'प्रगृह्यम्' इति संज्ञा । अष्टाध्याय्याम् <<ईदूदेद्द्विवचनं प्रगृह्यम्>> [[1.1.11]] इत्यतः <<ईदूतौ च सप्तम्यर्थे>> [[1.1.19]] एतैः नवभिः सूत्रैः प्रगृह्यसंज्ञा दीयते । अस्य सूत्रसमूहस्य इदम् पञ्चमम् सूत्रम् । अनेन सूत्रेण ओकारान्तनिपातानाम् प्रगृह्यसंज्ञा भवति ।\nनिपातसंज्ञा — व्याकरणशास्त्रे शब्दानां कश्चन समूहः 'निपातः' नाम्ना ज्ञायते । <<प्राग्रीश्वरान्निपाताः>> [[1.4.56]] अस्मात् सूत्रात् आरभ्य <<अधिरीश्वरे>> [[1.4.97]] इति यावत्सु सर्वेषु सूत्रेषु निपातसंज्ञकाः शब्दाः पाठिताः सन्ति ।\nओकारान्त-निपातानाम् प्रगृह्यसंज्ञा — ये निपातसंज्ञकाः शब्दाः ओकारान्ताः सन्ति तेषाम् प्रकृतसूत्रेण 'प्रगृह्यम्' इति संज्ञा विधीयते । एतेषाम् आवली इयम् — \n\nओ, अहो, हो, आहो, उताहो, नो, अथो— एते ओकारान्तनिपाताः, अतः प्रगृह्यसंज्ञकाः निपाताः ।\n\nप्रगृह्यसंज्ञायाम् जातायाम् <<प्लुतप्रगृह्या अचि नित्यम्>> [[6.1.125]] इत्यनेन एतेषाम् अच्सन्धौ प्रकृतिभावः विधीयते । अतः 'अहो ईशाः', 'नो इदानीम्ः', 'अथो इति' एतेषु उदाहरणेषु अच्सन्धिः न भवति । " }, "11016": { "sa": "सम्बोधन-एकवचनरूपस्य ओकारः अवैदिके 'इति' शब्दे परे शाकल्यस्य मतेन प्रगृह्यसंज्ञकः भवति ।", "sd": "व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा वर्तते 'प्रगृह्यम्' इति संज्ञा । अष्टाध्याय्याम् <<ईदूदेद्द्विवचनं प्रगृह्यम्>> [[1.1.11]] इत्यतः <<ईदूतौ च सप्तम्यर्थे>> [[1.1.19]] एतैः नवभिः सूत्रैः प्रगृह्यसंज्ञा दीयते । अस्य सूत्रसमूहस्य इदम् षष्ठं सूत्रम् । सम्बोधन-एकवचनस्य रूपाणाम् अन्ते विद्यमानस्य ओकारस्य लौकिकसंस्कृते 'इति' शब्दे परे अनेन सूत्रेण विकल्पेन प्रगृह्यसंज्ञा विधीयते ।\nसंस्कृते उकारान्तशब्दानाम् सम्बोधनस्य एकवचनस्य रूपाणि एव ओकारान्तानि सन्ति । यथा - धेनो, साधो, भानो - आदयः । एतेषाम् परः यदा 'इति' अयम् शब्दः प्रयुज्यते, तदा शाकल्यमुनेः मतेन एतेषाम् अन्ते विद्यमानस्य ओकारस्य प्रगृह्यसंज्ञा भवति । यथा, 'भानो इति', 'धेनो इति', 'विष्णो इति' एतादृशेषु उदाहरणेषु सम्बुद्धि-एकवचनस्य रूपाणाम् अन्ते विद्यमानः ओकारः शाकल्यमतेन प्रगृह्यसंज्ञकः ज्ञेयः, अतः तन्मतेन एतेषु उदाहरणेषु <<प्लुतप्रगृह्या अचि नित्यम्>> [[6.1.125]] इत्यनेन प्रकृतिभावे प्राप्ते, अच्सन्धिः न विधीयते ।\nदलकृत्यम्\n1. सूत्रे 'अनार्षे' ग्रहणस्य प्रयोजनम् — अस्मिन् सूत्रे 'अनार्षे' इति निर्देशः कृतः अस्ति । 'आर्ष' इति शब्दः अत्र वेदानां निर्देशार्थम् प्रयुक्तः अस्ति । अतः 'अनार्षे' इति ग्रहणात् इदं सूत्रं वैदिकवाङ्मयस्य विषये नैव प्रयोक्तव्यम् — इति विषयः स्पष्टी भवति । वैदिकवाङ्मये तु 'इति' शब्दे परे अपि सम्बोधनस्य ओकारस्य शाकल्यमतेन अपि प्रगृह्यत्वम् नास्ति — इति अत्र आशयः । यथा - 'ब्रह्मबन्धो इति' , 'अध्वर्यो इति' एतयोः वैदिकवाक्ययोः विद्यमानस्य सम्बोधनस्य एकवचनस्य अन्ते विद्यमानस्य ओकारस्य प्रगृह्यसंज्ञा न भवति, अतः अग्रे सन्धिः अपि कर्तुं शक्यते — ब्रह्मबन्धविति, अध्वर्यविति ।\n2. सूत्रे शाकल्यग्रहणस्य प्रयोजनम् — अस्मिन् सूत्रे 'शाकल्यस्य' इति निर्देशः विकल्पविधानार्थम् अस्ति । इत्युक्ते, 'भानो इति', 'धेनो इति' इत्यत्र सर्वत्र ओकारस्य विकल्पेन एव प्रगृह्यसंज्ञा भवति इति आशयः । अतः विकल्पसंज्ञायाः अभावपक्षे <<एचोऽयवायावः>> [[6.1.78]] इति अयादेशं कृत्वा 'भानविति, धेनविति', तथा च अग्रे विकल्पेन <<लोपः शाकल्यस्य>> [[8.3.19]] इति वकारलोपं कृत्वा 'भान इति', 'धेन इति' एतानि रूपाणि अपि सिद्ध्यन्ति —\n\n1) भानो + इति → भानो इति [<<सम्बुद्धौ शाकल्यस्येतावनार्षे>> [[1.1.16]] इति वैकल्पिकप्रगृह्यसंज्ञा, अतः <<प्लुतप्रगृह्या अचि नित्यम्>> [[6.1.125]] इत्यनेन अच्सन्धौ प्रकृतिभावः ]\n2) भानो + इति → भानविति [प्रगृह्यसंज्ञायाः अभावे <<एचोऽयवायावः>> [[6.1.78]] इति अयादेशः]\n3) भानो + इति → भान इति [प्रगृह्यसंज्ञायाः अभावे <<एचोऽयवायावः>> [[6.1.78]] इति अयादेशः, ततश्च <<लोपः शाकल्यस्य>> [[8.3.19]] इति वैकल्पिकः वकारलोपः]\n\n" }, "11017": { "sa": "'उञ्' इति निपातः अवैदिके 'इति' शब्दे परे शाकल्यस्य मतेन प्रगृह्यसंज्ञकः भवति । ", "sd": "व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा वर्तते 'प्रगृह्यम्' इति संज्ञा । अष्टाध्याय्याम् <<ईदूदेद्द्विवचनं प्रगृह्यम्>> [[1.1.11]] इत्यतः <<ईदूतौ च सप्तम्यर्थे>> [[1.1.19]] एतैः नवभिः सूत्रैः प्रगृह्यसंज्ञा दीयते । अस्य सूत्रसमूहस्य इदम् सप्तमं सूत्रम् । 'उञ्' इति निपातस्य अवैदिके 'इति' शब्दे परे अनेन सूत्रेण विकल्पेन प्रगृह्यसंज्ञा विधीयते ।\nउञ्-शब्दः — <<चादयोऽसत्वे>> [[1.4.57]] अस्मिन् सूत्रे निर्दिष्टे चादिगणे 'उञ्' इति कश्चन निपातः विद्यते । <<प्राग्रीश्वरान्निपाताः>> [[1.4.56]] अनेन सूत्रेण अस्य निपातसंज्ञा भवति । अस्य निपातस्य <<निपात एकाजनाङ्>> [[1.1.14]] इत्यनेन सूत्रेण नित्यं प्रगृह्यसंज्ञायां प्राप्तायाम्, लौकिकसंस्कृते 'इति' शब्दे परे तस्य केवलम् शाकलस्य मतेन एव प्रगृह्यसंज्ञा भवति — इति अस्य सूत्रस्य आशयः । प्रगृह्यसंज्ञायां सत्याम् <<प्लुतप्रगृह्या अचि नित्यम्>> [[6.1.125]] इत्यनेन अच्सन्धौ प्रकृतिभावः विधीयते, अतः 'उ इति' इत्यत्र संहितायाम् सत्याम् अपि सन्धिः न भवति ।\n\n1. 'उञ्' इति शब्दे ञकारः इत्संज्ञकः अस्ति, तस्य प्रक्रियायाम् आदौ लोपः भवति, अतः 'उ' इत्येव अवशिष्यते ।\n2. 'उञ्' इत्यस्य कोऽपि विशेषः अर्थः नास्ति । अयं शब्दः सामान्यरूपेण सम्बोधनस्य अर्थे कोपं / वैमत्यं दर्शयितुम् प्रयुज्यते । उञ् is just a filler word in the language, typically used like 'oh no', when one wants to except some kind of anger or disagreement.\nदलकृत्यम्\n1. अनार्षे इत्यस्य अनुवृत्तेः प्रयोजनम् — 'आर्ष' इति शब्देन अत्र वैदिकवाङ्मयं गृह्यते, अतः 'अनार्षे' इति निर्देशात् इदं सूत्रं वैदिकवाङ्मयस्य विषये नैव प्रयोक्तव्यम् — इति विषयः स्पष्टी भवति । वैदिकवाङ्मये तु 'इति' शब्दे परे 'उञ्' इति निपातस्य शाकल्यमतेन अपि प्रगृह्यत्वम् नास्ति — इति अत्र आशयः । 'उ इति' अस्मिन् वैदिकवाक्ये उकारस्य प्रगृह्यसंज्ञा न भवति ।\n2. शाकल्यस्य इत्यस्य अनुवृत्तेः प्रयोजनम् — अस्मिन् सूत्रे 'शाकल्यस्य' इति अनुवृत्तिः विकल्पविधानार्थम् क्रियते । इत्युक्ते, 'उ इति' अस्मिन् प्रयोगे उकारस्य विकल्पेन एव प्रगृह्यसंज्ञा भवति इति आशयः । अतः विकल्पसंज्ञायाः अभावपक्षे <<इको यणचि>> [[6.1.77]] इति यणादेशं कृत्वा 'विति' अयं प्रयोगः अपि सिद्ध्यति ।\n" }, "11018": { "sa": "'उञ्' इति निपातस्य अवैदिके 'इति' शब्दे परे शाकल्यस्य मतेन प्रगृह्यः 'ऊँ' आदेशः विकल्पेन भवति ।", "sd": "व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा वर्तते 'प्रगृह्यम्' इति संज्ञा । अष्टाध्याय्याम् <<ईदूदेद्द्विवचनं प्रगृह्यम्>> [[1.1.11]] इत्यतः <<ईदूतौ च सप्तम्यर्थे>> [[1.1.19]] एतैः नवभिः सूत्रैः प्रगृह्यसंज्ञा दीयते । अस्य सूत्रसमूहस्य इदम् अष्टमम् सूत्रम् । प्रगृह्यसंज्ञकस्य 'उञ्' इत्यस्य स्थाने 'ऊँ' आदेशस्य विधानम् अनेन सूत्रेण क्रियते ।\nउञ्-शब्दः — <<चादयोऽसत्वे>> [[1.4.57]] अस्मिन् सूत्रे निर्दिष्टे 'चादिगणे' उञ्' इति कश्चन निपातः विद्यते । <<प्राग्रीश्वरान्निपाताः>> [[1.4.56]] अनेन सूत्रेण अस्य निपातसंज्ञा भवति । अस्मात् निपातात् अनन्तरम् 'इति' अयम् शब्दः विद्यते चेत् <<उञः>> [[1.1.17]] इत्यनेन अस्य वैकल्पिक-प्रगृह्यसंज्ञा अपि भवति । एतादृश्यां प्रगृह्यसंज्ञायां प्राप्तायाम् अस्य निपातस्य शाकल्यस्य मतेन विकल्पेन प्रगृह्यसंज्ञकः 'ऊँ' (दीर्घः उदात्तः अनुनासिकः ऊकारः) इति आदेशः भवति — इति वर्तमानसूत्रस्य आशयः । प्रगृह्यसंज्ञायां जातायाम् <<प्लुतप्रगृह्या अचि नित्यम्>> [[6.1.125]] इत्यनेन अच्सन्धौ प्रकृतिभावे कृते 'ऊँ इति' इत्यत्र अच्सन्धिकार्यं न भवति ।\n<<उञः>> [[1.1.17]] इति सूत्रेण उञ्-इत्यस्य प्रगृह्यसंज्ञा शाकल्यस्य मतेन भवति । एतादृशी प्रगृह्यसंज्ञा क्रियते चेत् पुनः शाकल्यस्य एव मतेन, परन्तु विकल्पेन अस्य 'ऊँ' आदेशः अपि सम्भवति । 'ऊँ' आदेशस्य प्रगृह्यसंज्ञायाः तु अत्र वैकल्पिकत्वं नास्ति, तस्य प्रगृह्यसंज्ञा नित्या एव, यतः उञ्-इत्यस्य प्रगृह्यसंज्ञायाम् सत्याम् एव तस्य ऊँ-आदेशः उक्तः अस्ति ।\n\nउञ्-शब्दस्य विषये प्रगृह्यसंज्ञायाः विकल्पाः\n<<उञः>> [[1.1.17]] तथा <<ऊँ>> [[1.1.18]] एताभ्याम् द्वाभ्याम् सूत्राभ्याम् मिलित्वा उञ्-शब्दस्य विषये प्रगृह्यसंज्ञाविषयकाः आहत्य त्रयः नियमाः उक्ताः सन्ति —\n\n1. अवैदिके इति-शब्दे परे उञ्-इत्यत्र प्रगृह्यसंज्ञा भवति, तस्य अग्रे ऊँ-आदेशः अपि विधीयते । ऊँ-आदेशस्य प्रगृह्यसंज्ञा तु भवत्येव ।\n\nउ + इति\n→ ऊँ इति [<<ऊँ>> [[1.1.8]] इत्यनेन वैकल्पिकः प्रगृह्यः ऊँ-आदेशः । <<प्लुतप्रगृह्या अचि नित्यम्>> [[6.1.125]] इति अत्र अग्रे सन्धिः निषिध्यते ।]\n\n2. अवैदिके इति-शब्दे परे उञ्-इत्यस्य प्रगृह्यसंज्ञा भवति, परन्तु तस्य अग्रे ऊँ-आदेशः न भवति । \n\nउ + इति\n→ उ इति [<<उञः>> [[1.1.17]] इत्यनेन वैकल्पिकम् प्रगृह्यत्वम् । <<प्लुतप्रगृह्या अचि नित्यम्>> [[6.1.125]] इति अत्र अग्रे सन्धिः निषिध्यते ।]\n\n3. अवैदिके इति-शब्दे परे उञ्-इत्यस्य प्रगृह्यसंज्ञा एव न भवति । अतः तस्य अग्रे ऊँ-आदेशः नैव सम्भवति ।\n\nउ + इति\n→ विति [<<इको यणचि>> [[6.1.77]] इति उकारस्य यणादेशे वकारः, ततः वर्णमेलनम्]\n\n\nअवैदिकः इति-शब्दः अग्रे नास्ति चेत् तु <<निपात एकाजनाङ्>> [[1.1.14]] इति सूत्रेण 'उञ्' शब्दस्य नित्यमेव प्रगृह्यसंज्ञा भवति । \nसूत्रे 'अनार्षे' इत्यस्य अनुवृत्तेः प्रयोजनम्\n 'आर्ष' इति शब्देन अत्र वैदिकवाङ्मयं गृह्यते, अतः 'अनार्षे' इति निर्देशात् इदं सूत्रं वैदिकवाङ्मयस्य विषये नैव प्रयोक्तव्यम् — इति विषयः स्पष्टी भवति । वैदिकवाङ्मयस्य विषये तु 'इति' शब्दे परे 'उ' इत्यस्य निपातस्य ऊँ इति आदेशः विकल्पेन अपि न भवति — इति अत्र आशयः ।\nभाष्यकारकृतः योगविभागः\nपाणिनेः मूलसूत्रपाठे <<ऊञः>> [[1.1.17]] तथा <<ऊँ>> [[1.1.18]] इत्येतयोः द्वयोः सूत्रयोः स्थाने <<उञः ऊँ>> इति एकमेव सूत्रम् स्थापितम् आसीत् । परन्तु महाभाष्ये पतञ्जलिमुनिः अस्य स्थाने <<उञः>> [[1.1.17]] तथा <<ऊँ>> [[1.1.18]] इति द्वे सूत्रे स्थापितवान् । अस्य योगविभागस्य मुख्यम् प्रयोजनम् अस्ति 'विति' इति रूपस्य सिद्धिः — इति । <<उञः ऊँ>> इति एकमेव सूत्रं क्रियते चेत् — 'शाकल्यस्य मतेन उञ्-इत्यस्य प्रगृह्यसंज्ञकः ऊँ-आदेशः भवति' इति सूत्रार्थः फलेत्, येन तद्भिन्नपक्षे <<निपात एकाजनाङ्>> [[1.1.14]] इत्यनेन उञ्-इत्यस्य नित्यमेव प्रगृह्यसंज्ञायां जातायाम् 'उ + इति = विति' इति प्रयोगः नैव साधुत्वं प्राप्नुयात् । अतः अत्र <<ऊञः>> [[1.1.17]] इति पृथक् सूत्रं निर्माय 'ऊञ्-इत्यस्य प्रगृह्यसंज्ञा केवलं शाकल्यस्य मतेन भवति' इति अर्थं कृत्वा 'विति' इति प्रयोगस्य साधुत्वं सम्पाद्यते ।\n'किम् + उ + इति' इत्यत्र सन्धिविकल्पाः\n'किम् उ इति' इत्यत्र 'उञ्' इति अव्ययस्य प्रयोगः 'इति' शब्दात् पूर्वं कृतः अस्ति । अत्र आहत्य पञ्च रूपाणि सम्भवन्ति —\n1. उञ्-इत्यस्य उकारस्य प्रगृह्यसंज्ञां कृत्वा, तस्य विकल्पेन ऊँ-आदेशः ; तदभावे विकल्पेन <<मय उञो वो वा>> [[8.3.33]] इति सूत्रेण वकारादेशं कृत्वा आहत्य त्रीणि रूपाणि सम्भवन्ति —\n\nकिम् उ इति [<<उञः>> [[1.1.17]] इति प्रगृह्यसंज्ञा ।]\n→ किम् उ इति / किम् ऊँ इति / किम् व् इति [<<ऊँ>> [[1.1.18]] इति वैकल्पिकः ऊँ-आदेशः । तदभावे <<मय उञो वो वा>> [[8.3.33]] इति सूत्रेण विकल्पेन मकारादेशः]\n→ किमु इति / किमूँ इति / किम्विति ।\n\n2. उञ्-इत्यस्य उकारस्य प्रगृह्यसंज्ञा न क्रियते चेत् तस्य, यणादेशे वकारः भवति । वकारे परे मकारस्य अनुस्वारादेशः भवति, ततश्च तस्य विकल्पेन परसवर्णः भवति, येन द्वे रूपे सिद्ध्यतः —\n\nकिम् उ इति\n→ किम् व् इति [<<इको यणचि>> [[6.1.77]] इति उकारस्य यणादेशे वकारः भवति ।]\n→ किं विति [<<मोऽनुस्वारः>> [[8.3.23]] इति अनुस्वारादेशः] \n→ किं विति / किव्ँविति [<<वा पदान्तस्य>> [[8.4.59]] इति वैकल्पिकः परसवर्णः]\n\nएतादृशम् अत्र पञ्च रूपाणि सिद्ध्यन्ति । वस्तुतस्तु इतोऽपि अग्रे केचन विकल्पाः विद्यन्ते, यैः आहत्य विंशतिः रूपाणि सम्भवन्ति । प्रौढमनोरमाकारस्य मतेन तु अत्र अष्टाविंशतिः रूपाणि सम्भवन्ति । एतेषाम् सर्वेषां विवरणम् <<मय उञो वो वा>> [[8.3.33]] इति सूत्रार्थे द्रष्टव्यम् । \n\n\n" }, "11019": { "sa": "सप्तम्यर्थे प्रयुक्तः ईकारान्तः / ऊकारान्तः शब्दः प्रगृह्यसंज्ञकः भवति ।", "sd": "व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा वर्तते 'प्रगृह्यम्' इति संज्ञा । अष्टाध्याय्याम् <<ईदूदेद्द्विवचनं प्रगृह्यम्>> [[1.1.11]] इत्यतः <<ईदूतौ च सप्तम्यर्थे>> [[1.1.19]] एतैः नवभिः सूत्रैः प्रगृह्यसंज्ञा दीयते । अस्य सूत्रसमूहस्य इदम् अन्तिमम् (नवमं) सूत्रम् । ये ईकारान्तशब्दाः ऊकारान्तशब्दाः सप्तमीविभक्तेः अर्थं प्रदर्शयन्ति, तेषाम् अनेन सूत्रेण प्रगृह्यसंज्ञा विधीयते । \nवस्तुतः लौकिकसंस्कृते विद्यमानानि सप्तमीविभक्तेः रूपाणि ईकारान्तानि उत ऊकारान्तानि नैव सन्ति । अतः भाषायाम् विद्यमानानाम् शब्दानाम् विषये अनेन सूत्रेण प्रगृह्यसंज्ञा न हि दीयते । परन्तु वेदेषु कुत्रचित् ईकारान्त/ऊकारान्तप्रातिपदिकात् परस्य सप्तमीविभक्तिप्रत्ययस्य <<सुपां सुलुक्पूर्वसवर्णा...>> [[7.1.39]] इत्यनेन लोपः कृतः दृश्यते । एतादृशे लोपे कृते अवशिष्टम् ईकारान्तम् / ऊकारान्तं प्रातिपदिकम् <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यनेन प्रत्ययलक्षणां पदसंज्ञां संप्राप्य सप्तमीविभक्तेः एव अर्थं बोधयति । एतादृशस्य पदसंज्ञकस्य प्रातिपदिकस्य अनेन सूत्रेण प्रगृह्यसंज्ञा भवति । यथा - 'सोमो गौरी अधिश्रितः' (ऋग्वेदः 9.12.3) इति वाक्ये 'गौरी' इति शब्दः वस्तुतः सप्तम्येकवचनस्य रूपम् अस्ति । प्रक्रिया इयम् —\n\nगौरी + ङि + अधिश्रितः [<<स्वौजस्...>> [[4.1.2]] इति सप्तम्येकवचनस्य विवक्षायाम् ङि-प्रत्ययः]\n→ गौरी + अधिश्रितः । [<<सुपां सुलुक्पूर्वसवर्णा...>> [[7.1.39]] इत्यनेन ङि-प्रत्ययस्य लोपः । प्रत्ययस्य लोपे कृते अपि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यनेन प्रत्ययलक्षणां पदसंज्ञा भवति । अयं 'गौरी' शब्दः सप्तमीविभक्तेः अर्थम् दर्शयति, अतः <<ईदूतौ च सप्तम्यर्थे>> [[1.1.19]] इत्यनेन अयं प्रगृह्यसंज्ञकः अपि भवति । प्रगृह्यसंज्ञायां सत्याम् <<प्लुतप्रगृह्या अचि नित्यम्>> [[6.1.125]] इत्यनेन 'गौरी' शब्दस्य अच्सन्धौ प्रकृतिभावः विधीयते, अतः अत्र <<इको यणचि>> [[6.1.77]] इति यणादेशः नैव सम्भवति ।\n\nदलकृत्यम्\n1. 'सप्तम्यर्थे' इत्यत्र 'अर्थ'ग्रहणस्य प्रयोजनम् — अस्मिन् सूत्रे आचार्येण 'सप्तम्यर्थे' इति शब्दः प्रयुक्तः अस्ति । अत्र 'अर्थ' शब्दस्य ग्रहणेन आचार्यः एतत् प्रतिपादयति यत् सप्तमीविभक्तेः अर्थः स्वतन्त्ररूपेण ध्वन्यते चेदेव अस्य सूत्रस्य प्रयोगः करणीयः, नान्यथा । इत्युक्ते, यदि कश्चन सप्तम्यन्तशब्दः कस्यांश्चित् वृत्तौ (समासवृत्तौ, तद्धितवृत्तौ, कृदन्तवृत्तौ आदिषु) भागं गृह्णाति, तर्हि तत्र तस्य सप्तम्यन्तपदस्य अर्थस्य अपेक्षया वृत्तेः अर्थः प्रधानत्वं स्वीकरोति, सप्तम्यन्तपदस्य अर्थः च स्वतन्त्ररूपेण न अवशिष्यते इति कारणात् तस्य सप्तम्यन्तपदस्य प्रगृह्यसंज्ञा अपि नैव भवति । यथा, 'वाप्याम् अश्वः' इत्यत्र समस्तपदनिर्माणप्रक्रियायाम् 'वापी'शब्दात् विहितस्य सुँ-प्रत्ययस्य लोपे कृते अपि तत्र प्रगृह्यसंज्ञा न विधीयते । सम्पूर्णा प्रक्रिया इयम्‌ —\n\nवाप्याम् अश्वः [<<संज्ञायाम्>> [[2.1.44]] इति सप्तमीतत्पुरुषसमासः]\n→ वापी ङि अश्व सुँ [समासस्य अलौकिकविग्रहः । <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा ।]\n→ वापी अश्व [<<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्यययोः लोपः । प्रत्ययस्य लोपे कृते अपि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यत्र सुप्-प्रत्ययलक्षणा पदसंज्ञा विधीयते । अतः अत्र 'वापी' इति ईकारान्तशब्देन वस्तुतः सप्तमीविभक्तेः अर्थः ध्वन्यते । परन्तु अयं शब्दः समासे प्रयुक्तः अस्ति अतः अस्य शब्दस्य अर्थः उत्तरपदेन सम्बन्धितः वर्तते, अस्यां स्थितौ अत्र 'वापी' शब्दस्य प्रगृह्यसंज्ञा न भवति ।]\n→ वाप्यश्व [प्रगृह्यसंज्ञायाः अभावात् प्रकृतिभावः नैव विधीयते, अतः <<इको यणचि>> [[6.1.77]] इति यणादेशे कृते रूपं सिद्ध्यति ।]\n\n2. ईत्, ऊत्, इत्यत्र तकारग्रहणस्य प्रयोजनम् — अस्मिन् सूत्रे 'ईत्'/'ऊत्' इत्यत्र निर्दिष्टः तकारः केवलम् उच्चारणार्थः अस्ति, तपरकरणार्थं न । दीर्घ-वर्णेन सवर्णग्रहणंं न भवति, अतः अत्र तपरकरणम् नैव आवश्यकम् । " }, "11020": { "sa": "'दाप्' तथा 'दैप्' एतौ धातू वर्जयित्वा अन्ये दारूपाः धारूपाः च धातवः घुसंज्ञकाः भवन्ति ।", "sd": "व्याकरणशास्त्रस्य संज्ञासु अन्यतमा संज्ञा 'घु' इति अनेन सूत्रेण दीयते । 'दाप्' तथा 'दैप्' एतौ धातू वर्जयित्वा येषाम् धातूनाम् कुत्रचित् 'दा' उत 'धा' इति रूपं श्रूयते, तेषाम् सर्वेषाम् 'घु' इति संज्ञा भवति ।\nदारूपाः धातवः\nयेषाम् धातूनाम् प्रक्रियायां कुत्रचित् 'दा' इति परिवर्तनं भवति, ते सर्वे 'दारूपाः' धातवः । धातुपाठे आहत्य षट् धातवः दारूपाः सन्ति -\n\n1) दाप् (लवने, अदादिः) - <{2.0054}>\n2) दैप् (शोधने, भ्वादिः) - <{1.1073}>\n3) डुदाञ् (दाने, जुहोत्यादिः) - <{3.0010}>\n4) दाण् (दाने, भ्वादिः) - <{1.1079}>\n5) दो (अवखण्डने, दिवादिः) - <{4.0043}>\n6) देङ् (रक्षणे, भ्वादिः) - <{1.1117}>\n\nएतेषु 'दाप्' तथा 'दैप्' एतौ वर्जयित्वा अन्येषाम् चतुर्णाम् 'घु'संज्ञा भवति ।\nधारूपाः धातवः\nयेषाम् धातूनाम् प्रक्रियायां कुत्रचित् 'धा' इति परिवर्तनं भवति, ते सर्वे 'धारूपाः' धातवः । धातुपाठे आहत्य द्वौ धातू धारूपौ स्तः -\n\n1) डुधाञ् (धारणपोषणयोः, जुहोत्यादिः) - <{3.0011}>\n2) धेट् (पाने, भ्वादिः) - <{1.1050}>\n\nएतयोः द्वयोः अपि 'घु' इति संज्ञा भवति ।\nप्रयोजनम्\nघुसंज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्यां भिन्नाः विधयः उच्यन्ते । यथा, घुसंज्ञकस्य दा-धातोः तकारादि-कित्-प्रत्यये परे 'दद्' इति आदेशः भवति -\n\nडुदाञ् (दाने, जुहोत्यादिः)\nदा + क्त [<<निष्ठा>> [[3.2.102]] इति क्तप्रत्ययः]\n--> दा + त [<<लशक्वतद्धिते>> [[1.3.8]], <<तस्य लोपः>> [[1.3.9]]\n--> दद् + त [<<दो दद् घोः>> [[7.4.46]] इति घुसंज्ञकस्य 'दा' इत्यस्य दद्-आदेशः ।]\n--> दत् + त [<<खरि च>> [[8.4.55]] इति चर्त्वम्]\n--> दत्त\n\nप्रयोगः\nअष्टाध्याय्यां 'घु'संज्ञायाः साक्षात् निर्देशः अष्टसु सूत्रेषु कृतः अस्ति ।\n\n1. <<स्थाघ्वोरिच्च>> [[1.2.17]]\n2. <<गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु>> [[2.4.77]]\n3. <<उपसर्गे घोः किः>> [[3.3.92]]\n4. <<घुमास्थागापाजहातिसां हलि>> [[6.4.66]]\n5. <<घ्वसोरेद्धावभ्यासलोपश्च>> [[6.4.119]]\n6. <<घोर्लोपो लेटि वा>> [[7.3.70]]\n7. <<दो दद्घोः>> [[7.4.46]]\n\n8. <<नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु च>> [[8.4.17]]\nअनुवृत्तिरूपेण तु अन्येषु सूत्रेषु अपि अस्याः प्रयोगः भवितुम् अर्हति ।\nसूत्रे 'अदाप्' इति ग्रहणस्य प्रयोजनम्\n'अदाप्' इति स्पष्टनिर्देशात् दाप् (लवने, <{2.0054}>) तथा दैप् (शोधने, <{1.1073}>) एतयोः दारूपयोः धात्वोः अनेन सूत्रेण घुसंज्ञा न भवति । तथा क्रियते चेत् उपरिनिर्दिष्टानि सूत्राणि एतेषां विषये अपि कार्यं कृत्वा अनिष्टरूपाणां सिद्धिं कुर्युः । यथा, क्त-प्रत्यये परे <<दो दद्घोः>> [[7.4.46]] इत्यनेन अङ्गस्य 'दद्' इति सर्वादेशे कृते 'दत्त' इति अनिष्टं रूपं सिद्ध्येत् (इष्टरूपम् तु उभयोः विषये 'दातम्' इत्येव अस्ति) । एवमेव लुङ्लकारस्य रूपसिद्धौ <<गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु>> [[2.4.77]] इत्यनेन सिच्-प्रत्ययस्य लोपे कृते 'अदात्' इति अनिष्टं रूपं जायेत (इष्टरूपम् तु उभयोः विषये 'अदासीत्' इति अस्ति) । अतः अत्र एतयोः घुसंज्ञा अत्र 'अदाप्' इति निर्देशं कृत्वा निषिध्यते ।\n" }, "11021": { "sa": "केवलं एकः वर्णः अस्ति चेत् सः यथा आदिवत् कार्यम् करोति, तथैव अन्तवदपि कार्यं करोति । ", "sd": "यदि कुत्रचित् शब्दस्य 'आदिवर्णस्य' किमपि कार्यमुक्तमस्ति तत्र यद्यपि तस्मिन् शब्दे एकः एव वर्णः अस्ति, तथापि सः एव आदिवर्णसंज्ञां स्वीकरोति । तथैव, यदि कुत्रचित् शब्दस्य 'अन्तिमवर्णस्य' किमपि कार्यमुक्तमस्ति तत्र यद्यपि तस्मिन् शब्दे एकः एव वर्णः अस्ति, तथापि सः एव अन्तिमवर्णः ज्ञातव्यः - इति अस्य सूत्रस्य आशयः । यथा -\n1. 'अ' (= विष्णुः) इति अकारान्तपुंलिङ्गशब्दः । अस्य तृतीयाद्विवचनस्य रूपसिद्धौ 'अ + भ्याम्' इति स्थिते एकः प्रश्नः आगच्छति - <<सुपि च>> [[7.3.102]] इत्यनेन अङ्गस्य अन्तिम-अकारस्य दीर्घादेशः भवति । परन्तु अत्र अङ्गे केवलं एकः एव वर्णः अस्ति । तर्हि सः एव अन्तिमवर्णरूपेण स्वीकर्तुं शक्यते वा? (तस्मात् पूर्वम् किमपि नास्ति चेत् अयमन्तिमवर्णः कथं स्यात् - इति संशयः ।) अस्य उत्तरमनेन सूत्रेण दीयते - यत्र एकः एव वर्णः अस्ति, तत्र सः आदिवर्णवत् अपि कार्यं करोति, अन्तिमवर्णवत् अपि कार्यं करोति । अतः अत्र अनेन <<सुपि च>> [[7.3.102]] इत्यनेन अकारस्य दीर्घः भवितुमर्हति ।\n2. 'गुरोः भावः' अस्मिन् अर्थे गुरु-शब्दस्य अण्-प्रत्यये कृते 'गौरव' शब्दः सिद्ध्यति । अत्र प्रत्यये णकारः इत्संज्ञकः अस्ति, अतः केवलं अकारः एव अवशिष्यते । अयम् यद्यपि एकाल्-प्रत्ययः अस्ति, तथापि <<आद्यन्तवदेकस्मिन्>> [[1.1.21]] इत्यनेन सः आदिवत् अपि कार्यम् करोति, अतः <<आद्युदात्तश्च>> [[3.1.3]] इत्यनेन 'गौरव' अस्मिन् शब्दे वकारात् परः अयम् (प्रत्ययस्य आदिभूतः) अकारः उदात्तसंज्ञकः भवति ।\nसामान्यभाषायाम् एतत् सूत्रम् स्पष्टीकर्तुम् एकमुदाहरणम् दीयते - 'देवदत्तस्य एकः एव पुत्र अस्ति चेत्, स एव ज्येष्ठः, स एव कनिष्ठः ' । इत्युक्ते, देवदत्तस्य यदि केवलं एकः एव पुत्रः अस्ति, तर्हि 'रे देवदत्त, तव ज्येष्ठपुत्रः कः' इति पृष्टेऽपि देवदत्तः तस्यैव निर्देशं करोति यस्य सः 'रे देवदत्त, तव कनिष्ठपुत्रः कः' इति पृष्टे करोति । अनेनैव प्रकारेण शब्दे एकः एवः वर्णः अस्ति चेत् सः एव आदिवर्णः, सः एव अन्तिमवर्णः भवति ।\nपरिभाषेन्दुशेखरे विषयेऽस्मिन् एका परिभाषा दत्ता अस्ति - <ऽव्यपदेशिवदेकस्मिन्ऽ> । अस्याः परिभाषायाः अर्थः अयम् - कस्यापि पदार्थस्य 'एकस्य भागस्य' दत्तमभिधानमपि सः पदार्थः तदा स्वीकरोति यदा सः पदार्थः स्वयम् एकभाग-इत्येव अस्ति । इयम् परिभाषा अस्य सूत्रस्यैव अर्थम् स्पष्टीकरोति ।\n " }, "11022": { "sa": "'तरप्' तथा 'तमप्' एतौ प्रत्ययौ घसंज्ञकौ भवतः ।", "sd": "व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'घ' इति संज्ञा । 'तरप्' तथा 'तमप्' एतयोः प्रत्यययोः 'घ' इति संज्ञा अनेन सूत्रेण दीयते ।\nतरप् तथा तमप् एतौ द्वौ तद्धितप्रत्ययौ । <<द्विवचनविभज्योपपदे तरबीयसुनौ>> [[5.3.57]] अनेन तरप्-प्रत्ययः, तथा <<अतिशायने तमबिष्ठनौ>> [[5.3.55]] इत्यनेन तमप्-प्रत्ययः विधीयते । एतौ द्वावपि प्रत्ययौ प्रातिपदिकेभ्यः विधीयेते । 'पटुतर', 'विशालतर', 'पचतितराम्', 'किन्तराम्' एतानि तरप्-प्रत्ययस्य उदाहरणानि । 'पटुतम', 'विशालतम', 'पचतितमाम्', 'किन्तमाम्' एतानि तमप्-प्रत्ययस्य उदाहरणानि ।\nप्रयोजनम्\nघसंज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्यां कानिचन कार्याणि उक्तानि सन्ति । यथा, <<उगितश्च>> [[6.3.45]] इत्यनेन उगित्-शब्दात् विहितस्य 'ङीप्' इति स्त्रीप्रत्ययस्य घ-प्रत्यये परे विकल्पेन ह्रस्वः भवति -\n\nश्रेयस् + ङीप् + तरप् + टाप् [<<उगितश्च>> [[4.1.6]] इति ङीप् । <<द्विवचनविभज्योपपदे तरबीयसुनौ>> [[5.3.57]] इति तरप् । <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप् ।]\n--> श्रेयस् + ई + तर् + आ [इत्संज्ञालोपः]\n--> श्रेयस् + इ + तर् + आ [<<उगितश्च>> [[6.3.45]] इति घसंज्ञके प्रत्यये परे ह्रस्वः]\n--> श्रेयसितरा ।\n\nप्रयोगः\n'घ'संज्ञायाः प्रयोगः अष्टाध्याय्याम् त्रिषु सूत्रेषु कृतः दृश्यते -\n1. <<किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे>> [[5.4.11]]\n2. <<घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः>> [[6.3.43]]\n3. <<नाद्घस्य>> [[8.2.17]]\nअन्यत्रापि अनुवृत्तिरूपेण अस्याः संज्ञायाः प्रयोगः भवितुम् अर्हति ।\n" }, "11023": { "sa": "'बहु' शब्दः, 'गण' शब्दः, 'वतुँप्' प्रत्ययान्तशब्दः, तथा च 'डति' प्रत्ययान्तशब्दः एतेषाम् 'संख्या' इति संज्ञा भवति । ", "sd": "व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'संख्या' इति संज्ञा । 'बहु', 'गण' एतयोः शब्दयोः, 'वतुँप्'प्रत्ययान्तशब्दयोः, तथा च 'डति'प्रत्ययान्तशब्दयोः अनेन सूत्रेण संख्यासंज्ञा भवति ।\n'बहु' शब्दः\n'बहु' इत्यस्य शब्दस्य द्वौ अर्थौ भवतः -\nअ) बहु = अनेके (Many) । यथा, वृक्षे बहूनि फलानि सन्ति । अस्मिन् अर्थे बहुशब्दस्य संख्यासंज्ञा भवति । \nआ) बहु = विपुरम् (Ample, A lot) । नद्या बहु जलं विद्यते । अस्मिन् अर्थे बहुशब्दस्य संख्यासंज्ञा न भवति ।\n'गण' शब्दः\n'गण' शब्दस्य अपि द्वौ अर्थौ स्तः ।\nअ) गण = गणना (count) । यथा, तारकानां गणं न कर्तुं शक्यते । अस्मिन् अर्थे गणशब्दस्य संख्यासंज्ञा भवति । \nब) गण = सङ्घः (group) । यथा, संस्कृतस्य छात्राणाम् अयं गणः । अस्मिन् अर्थे गणशब्दस्य संख्यासंज्ञा न भवति । \n'वतुँप्' प्रत्ययः\n'वतुप्' इति कश्चन तद्धितप्रत्ययः । अयं प्रत्ययः द्वाभ्याम् सूत्राभ्याम् पाठितः अस्ति -\nअ) <<यद्तदेतेभ्यः परिमाणे वतुप्>> [[5.2.39]] इत्यनेन यद् / तद् / एतद् इत्येतेभ्यः वतुप्-प्रत्ययः विधीयते , येन 'यावत्' / 'तावत्' / 'एतावत्' एते शब्दाः सिद्ध्यन्ति ।\nआ) <<किमिदंभ्यां वो घः>> [[5.2.40]] इत्यनेन किम् / इदम् इत्येताभ्याम् वतुप्-प्रत्ययः विधीयते, याभ्यां 'कियत्', 'इयत्' एतौ शब्दौ सिद्ध्यतः ।\nएतेषां चतुर्णाम् अपि शब्दानाम् संख्यासंज्ञा भवति । अत्र एतत् स्मर्तव्यम् यत् 'संख्या' इति संज्ञा 'वतुँप्' प्रत्ययस्य संज्ञा नास्ति, अपि तु 'वतुँप्'प्रत्ययान्तशब्दानाम् (इत्युक्ते, 'यावत्', 'तावत्', 'कियत्', 'इयत्' एतेषाम् शब्दानाम्) इयं संज्ञा दीयते ।\n'डति' प्रत्ययः\n'डति' इत्यपि कश्चन तद्धितप्रत्ययः । <<किमः संख्यापरिमाणे डति च>> [[5.2.41]] इत्यनेन किम्-शब्दात् डति-प्रत्ययः विधीयते । अनेन 'कति' इति शब्दः सिद्ध्यति । अस्य शब्दस्य अपि 'संख्या' संज्ञा भवति । अत्रापि एतत् ज्ञेयम् यत् 'डति'प्रत्ययस्य संख्यासंज्ञा न भवति, अपि तु 'डति'प्रत्ययान्तस्य 'कति'शब्दस्य इयं संज्ञा दीयते ।\nलौकिकाः संख्याशब्दाः\n 'एक / द्वि / त्रि / ...' एतादृशाः शब्दाः ये सामान्यरूपेण भाषायाम् 'संख्या' इत्यनेनैव ज्ञायन्ते, तेषाम् अपि 'संख्या' इत्यनया व्याकरणविशिष्टसंज्ञया ग्रहणं क्रियते । एतदर्थम् अष्टाध्याय्यां किमपि भिन्नं सूत्रम् न रचितम् अस्ति, यतः एतेषाम् लौकिकार्थः एव व्याकरणशास्त्रे अपि इष्यते । अतः यत्र कुत्रापि 'संख्या'शब्दं स्वीकृत्य किञ्चन कार्यम् उच्यते, तत्र सर्वत्र एक-द्वि-त्रि-आदयः शब्दाः अपि ग्रहीतव्याः ।\nप्रयोजनम्\nअष्टाध्याय्यां 'संख्या' इयं संज्ञा बहुषु (30+) सूत्रेषु प्रयुक्ता दृश्यते । अस्याः संज्ञायाः साहाय्येन तत्र तत्र भिन्नानि कार्याणि उक्तानि सन्ति । यथा, 'प्रकाराणाम् गणना' यदा क्रियते तदा संख्यावाचकेभ्यः शब्देभ्यः <<संख्याया विधार्थे धा>> [[5.3.42]] इत्यनेन 'धा' इति तद्धितप्रत्ययः भवति । यथा -\nएकेन प्रकारेण = एकधा ।\nद्वाभ्यां प्रकाराभ्याम् = द्विधा ।\nपञ्चभिः प्रकारैः = पञ्चधा ।\nबहुभिः प्रकारैः = बहुधा ।\nकतिभिः प्रकारैः = कतिधा ।\nआदयः ।\n वार्त्तिकम् 1 - <!अर्धपूर्वपदश्च पूरणप्रत्ययान्तः संख्यासंज्ञो भवतीति वक्तव्यं समासकन्विध्यर्थम्!> ।\nअर्थः - यस्य शब्दस्य पूर्वपदम् 'अर्ध' इति शब्दः अस्ति, उत्तरपदम् च पूरणप्रत्ययान्तः शब्दः अस्ति, तस्य शब्दस्य समासविधौ तथा च 'कन्'प्रत्ययस्य प्रयोगे 'संख्या' इति संज्ञा भवति । यथा, 'अर्थपञ्चम' इति शब्दः स्वीक्रियते चेत् -\nअ) 'अर्धपञ्चमेन शूर्पेण क्रीतम्' अस्मिन् अर्थे द्विगुसमासस्य निर्माणसमये 'अर्धपञ्चम' शब्दस्य संख्यासंज्ञा भवति, अतः च <<शूर्पादञन्यतरस्याम्>> [[5.1.26]] इत्यनेन विहितः अञ्-प्रत्ययः अनेन वार्त्तिकेन 'अर्धपञ्चम'शब्दात् अपि भवति -\n\nअर्धपञ्चमेन शूर्पेन क्रीतम्\n= अर्धपञ्चम + शूर्प + अञ् [<<शूर्पादञन्यतरस्याम्>> [[5.1.26]] इति अञ्-प्रत्ययः]\n→ अर्धपञ्चम + शूर्प [<<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> [[5.1.28]] इति लुक्]\n→ अपञ्चमशूर्पः ।\n\nआ) 'अर्धपञ्चमम् परिमाणम् अस्य' अस्मिन् अर्थे <<संख्याया अतिशदन्तायाः कन्>> [[5.1.22]] इत्यनेन कन्-प्रत्ययं कृत्वा 'अर्धपञ्चमक' इति शब्दः सिद्ध्यति -\n\nअर्धपञ्चम + कन् [<<संख्याया अतिशदन्तायाः कन्>> [[5.1.22]] इति कन्]\n→ अर्धपञ्चमक\n\nएतौ द्वौ स्थलौ विहाय अन्यत्र 'अर्धपञ्चम'शब्दस्य संख्यासंज्ञा न भवति । यथा, <<तस्य पूरणे डट्>> [[5.2.48]] इत्यनेन संख्या वाचिभ्यः शब्देभ्यः विहितः डट्-प्रत्ययः 'अर्धपञ्चम' शब्दस्य विषये न प्रवर्तते ।\nवार्त्तिकम् 2 - <!अध्यर्धग्रहणं च समासकन्विध्यर्थम्!> ।\nअर्थः - 'अध्यर्ध' अस्य शब्दस्य अपि समासविधौ तथा कन्-प्रत्ययस्य प्रयोगे संख्यासंज्ञा भवति । यथा -\nअ) 'अध्यर्धेन शूर्पेण क्रीतम्' अस्मिन् अर्थे द्विगुसमासस्य निर्माणसमये 'अध्यर्ध' शब्दस्य संख्यासंज्ञा भवति, अतः च <<शूर्पादञन्यतरस्याम्>> [[5.1.26]] इत्यनेन विहितः अञ्-प्रत्ययः अनेन वार्त्तिकेन 'अध्यर्ध'शब्दात् अपि भवति -\n\nअध्यर्धेन शूर्पेन क्रीतम्\n= अध्यर्ध + शूर्प + अञ् [<<शूर्पादञन्यतरस्याम्>> [[5.1.26]] इति अञ्-प्रत्ययः]\n→ अध्यर्ध + शूर्प [<<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> [[5.1.28]] इति लुक्]\n→ अध्यर्धशूर्पः ।\n\nआ) 'अध्यर्धम् परिमाणम् अस्य' अस्मिन् अर्थे <<संख्याया अतिशदन्तायाः कन्>> [[5.1.22]] इत्यनेन कन्-प्रत्ययं कृत्वा 'अध्यर्धक' इति शब्दः सिद्ध्यति -\n\nअध्यर्ध + कन् [<<संख्याया अतिशदन्तायाः कन्>> [[5.1.22]] इति कन्]\n→ अर्ध्यर्धक\n\nएतौ द्वौ स्थलौ विहाय अन्यत्र 'अध्यर्ध'शब्दस्य संख्यासंज्ञा न भवति । यथा, <<तस्य पूरणे डट्>> [[5.2.48]] इत्यनेन संख्या वाचिभ्यः शब्देभ्यः विहितः डट्-प्रत्ययः 'अध्यर्ध' शब्दस्य विषये न प्रवर्तते ।\nभाष्यकारस्य मतम्\n इति वार्त्तिकम् स्वीक्रियते चेत् <<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> [[5.1.28]] अस्मिन् सूत्रे अध्यर्थग्रहणम् व्यर्थम् भवति । अयं पक्षः भाष्यकारेण स्वीकृतः अस्ति । काशिकाकारस्तु एतत् वार्त्तिकम् नैव पाठयति, अपितु <<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> [[5.1.28]] इत्यत्र अध्यर्धग्रहणस्य विशिष्टम् प्रयोजनम् प्रतिपादयति । अस्य विस्तरः <<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> [[5.1.28]] इत्यत्र द्रष्टव्यः ।\nउणादिसंज्ञकः डति-प्रत्ययः\n'डति' इति कश्चन उणादिप्रत्ययः <<पातेर्डति>> (4.57) इत्यस्मिन् औणादिके सूत्रे पाठितः अस्ति । परन्तु तस्य अत्र ग्रहणं न भवति । अस्मिन् सूत्रे निर्दिष्टः 'वतुँप्' शब्दः तद्धितसंज्ञकः, अतः तस्य साहचर्यात् केवलं तद्धितसंज्ञकस्यैव 'डति'प्रत्ययस्य अत्र ग्रहणं क्रियते । " }, "11024": { "sa": "षकारान्ताः संख्यासंज्ञकाः शब्दाः तथा च नकारान्ताः संख्यासंज्ञकशब्दाः 'षट्' नाम्ना ज्ञायन्ते । ", "sd": "व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'षट्' इति संज्ञा । ये संख्यासंज्ञकशब्दाः षकारान्ताः उत नकारान्ताः सन्ति तेषाम् 'षट्' इति संज्ञा भवति ।\n<<बहुगणवतुडति संख्या>> [[1.1.23]] इत्यनेन सूत्रेण 'संख्या'शब्दस्य व्याख्या क्रियते । एतेषु संख्यावाचकशब्देषु विद्यमानाः षकारान्ताः नकारान्ताः च शब्दाः एते - पञ्चन्, षष्, सप्तन्, अष्टन्, नवन्, दशन्, एकादशन्, द्वादशन्, त्रयोदशन्, चतुर्दशन्, पञ्चदशन्, षोडषन्, सप्तदशन्, अष्टादशन्, नवदशन् । एतेषाम् सर्वेषाम् 'षट्' इति संज्ञा भवति ।\nप्रयोजनम्\nषट्-संज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्यां भिन्नाः विधयः पाठिताः सन्ति । यथा, षट्-संज्ञकात् शब्दात् विहितस्य प्रथमाबहुवचनस्य जस्-प्रत्ययस्य 'लुक्' भवति -\n\nपञ्चन् + जस् [प्रथमाबहुवचनस्य जस्-प्रत्ययः]\n--> पञ्चन् + ० [<<षड्भ्यो लुक्>> [[7.1.22]] इत्यनेन जस्-प्रत्ययस्य लुक्]\n--> पञ्च [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः]\n\nप्रयोगः\nअष्टाध्याय्यां षट्-संज्ञायाः साक्षात् प्रयोगः पञ्चसु सूत्रेषु कृतः अस्ति ।\n1. <<षट्कतिपयचतुरां थुक्>> [[5.2.51]]\n2. <<षट्त्रिचतुर्भ्यो हलादिः>> [[6.1.179]]\n3. <<षट्चतुर्भ्यश्च>> [[7.1.55]]\n4. <<न षट्स्वस्रादिभ्यः>> [[4.1.10]]\n5. <<षड्भ्यो लुक्>> [[7.1.22]]\nअनुवृत्तिरूपेण तु अन्येषु सूत्रेषु अपि अस्याः प्रयोगः भवितुम् अर्हति ।\n<<डति च>> [[1.1.25]] इत्यनेन अग्रिमसूत्रेण अपि इयमेव संज्ञा पाठ्यते इति स्मर्तव्यम् ।\n" }, "11025": { "sa": "'डति' प्रत्ययान्तः संख्यासंज्ञकः शब्दः 'षट्' नाम्ना ज्ञायन्ते । ", "sd": "व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'षट्' इति संज्ञा । 'डति'प्रत्ययान्तशब्दस्य ('कति' इति शब्दस्य) 'षट्' संज्ञा भवति इति अस्य सूत्रस्य आशयः ।\n'डति' इति कश्चन तद्धितप्रत्ययः । <<किमः सङ्ख्यापरिमाणे डति च>> [[5.2.41]] इत्यनेन सूत्रेण 'किम्'शब्दात् डति-प्रत्ययः विधीयते, येन 'कति' इति शब्दः सिद्ध्यति । <<बहुगणवतुडति संख्या>> [[1.1.23]] इत्यनेन सूत्रेण अस्य शब्दस्य 'संख्या'संज्ञा भवति । अस्यैव शब्दस्य अनेन सूत्रेण 'षट्' इति संज्ञा दीयते । 'कति' इत्यस्य एकस्य शब्दस्यैव 'षट्' संज्ञाविधानार्थम् अयम् सूत्रप्रपञ्चः ।\nप्रयोजनम्\nषट्-संज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्यां भिन्नाः विधयः पाठिताः सन्ति । यथा, षट्-संज्ञकात् शब्दात् विहितस्य प्रथमाबहुवचनस्य जस्-प्रत्ययस्य 'लुक्' भवति -\n\nकति + जस् [प्रथमाबहुवचनस्य जस्-प्रत्ययः]\n--> कति + ० [<<षड्भ्यो लुक्>> [[7.1.22]] इत्यनेन जस्-प्रत्ययस्य लुक्]\n--> कति\n\nप्रयोगः\nअष्टाध्याय्यां षट्-संज्ञायाः साक्षात् प्रयोगः पञ्चसु सूत्रेषु कृतः अस्ति ।\n1. <<षट्कतिपयचतुरां थुक्>> [[5.2.51]]\n2. <<षट्त्रिचतुर्भ्यो हलादिः>> [[6.1.179]]\n3. <<षट्चतुर्भ्यश्च>> [[7.1.55]]\n4. <<न षट्स्वस्रादिभ्यः>> [[4.1.10]]\n5. <<षड्भ्यो लुक्>> [[7.1.22]]\nअनुवृत्तिरूपेण तु अन्येषु सूत्रेषु अपि अस्याः प्रयोगः भवितुम् अर्हति ।\n<<ष्णान्ता षट्>> [[1.1.24]] अनेन सूत्रेण केषाञ्चन अन्येषाम् शब्दानाम् अपि 'षट्' इत्येव संज्ञा भवति इति स्मर्तव्यम् ।\nउणादिसंज्ञकः डति-प्रत्ययः\nसंस्कृतव्याकरणे द्वौ डतिप्रत्ययौ स्तः - (1) <<किमः सङ्ख्यापरिमाणे डति च>> [[5.2.41]] इत्यनेन सूत्रेण 'किम्'शब्दात् विहितः तद्धितसंज्ञकः डति-प्रत्ययः, तथा च (2) <<पातेर्डति>> (४.४७) इत्यनेन उणादिसूत्रेण 'पा'धातोः विहितः उणादिसंज्ञकः (कृत्संज्ञकः) डतिप्रत्ययः । एताभ्याम् तद्धितसंज्ञकस्य डति-प्रत्ययस्य प्रयोगेण प्राप्तः 'कति'शब्दः एव संख्यासंज्ञकः अस्ति, <<पातेर्डति>> (४.४७) इत्यनेन सूत्रेण सिद्धः 'पति' शब्दः न । अतएव अस्मिन् सूत्रे 'संख्या'इत्यस्य अनुवृत्तिः आवश्यकी, येन केवलं 'कति'शब्दस्य एव षट्-संज्ञा भवेत् ।\nसूत्रस्य वैयर्थ्यम्\n<<बहुगणवतुडति संख्या>> [[1.1.25]] इत्यस्मिन् सूत्रे 'डति' इति शब्दः विद्यते । <<डति च>> [[1.1.25]] इत्यत्रापि 'डति' इत्येव शब्दः विद्यते । एतादृशम् 'डति'शब्दस्य द्विवारम् ग्रहणम् अनावश्यकम् अस्ति इति अत्र भाष्यकारः स्पष्टीकरोति । तदित्थम् - <<बहुगणवतुडति संख्या>> [[1.1.23]] इत्यस्मात् सूत्रात् <<ष्णान्ता षट्>> [[1.1.24]] इत्यस्मिन् सूत्रे 'डति' इत्यस्य अनुवृत्तिः क्रियते चेत् तत्रैव 'डति'शब्दस्यापि षट्-संज्ञा भवेत् एव, येन <<डति च>> [[1.1.25]] इति सूत्रमेव अनावश्यकम् भवति । नो चेत्, <<बहुगणवतुडति संख्या>> [[1.1.23]] इत्यस्य स्थाने 'बहुगणवतु संख्या' इत्येव उक्त्वा अग्रे (प्रकृतसूत्रे) <<डति च>> [[1.1.25]] इत्यत्र संख्याशब्दस्य षट्-शब्दस्य च अनुवृत्तिं स्वीकृत्य 'डति-प्रत्ययान्तशब्दः संख्यासंज्ञकः षट्-संज्ञकः च भवति' इति अर्थः अपि भवितुम् अर्हति । इत्युक्ते, एकस्मिन् एव स्थले 'डति'ग्रहणं पर्याप्तम् - इति अत्र भाष्यकारस्य आशयः अस्ति । " }, "11026": { "sa": "'क्त' तथा 'क्तवतु' एतौ प्रत्ययौ निष्ठासंज्ञकौ स्तः ।", "sd": "व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'निष्ठा' इति संज्ञा । 'क्त' तथा 'क्तवतु' एतयोः प्रत्यययोः 'निष्ठा' इति संज्ञा भवति ।\nप्रयोजनम्\nनिष्ठासंज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्याम् भिन्नाः विधयः उक्ताः सन्ति । यथा, दकारान्तधातोः परः निष्ठाप्रत्ययः विद्यते चेत् निष्ठाप्रत्ययस्य तकारस्य तथा च धातोः अन्ते विद्यमानस्य दकारस्य - उभयोः अपि <<रदाभ्यां निष्ठातो नः पूर्वस्य च दः>> [[8.2.42]] इत्यनेन सूत्रेण नकारादेशः भवति -\n\nभिद् + क्त [<<निष्ठा>> [[3.2.102]] इति क्त-प्रत्ययविधानम्]\n--> भिद् + त [इत्संज्ञालोपः]\n--> भिन् + न [<<रदाभ्यां निष्ठातो नः पूर्वस्य च दः>> [[8.2.42]] इति दकारस्य नकारः, निष्ठाप्रत्ययस्य तकारस्य अपि नकारः]\n--> भिन्न\n\nप्रयोगः\nअष्टाध्याय्यां निष्ठासंज्ञायाः साक्षात् प्रयोगः चतुर्दशसु सूत्रेषु कृतः अस्ति -\n1. <<निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः>> [[1.2.19]]\n2. <<निष्ठा>> [[2.2.36]]\n3. <<न लोकाव्ययनिष्ठाखलर्थतृनाम्>> [[2.3.69]]\n4. <<निष्ठा>> [[3.2.102]]\n5. <<स्फायः स्फी निष्ठायाम्>> [[6.1.22]]\n6. <<निष्ठा च द्व्यजनात्>> [[6.1.205]]\n7. <<निष्ठोपसर्गपूर्वमन्यतरस्याम्>> [[6.2.110]]\n8. <<निष्ठोपमानादन्यतरस्याम्>> [[6.2.169]]\n9. <<निष्ठायां सेटि>> [[6.4.52]]\n10. <<निष्ठायामण्यदर्थे>> [[6.4.60]]\n11. <<ह्लादो निष्ठायाम्>> [[6.4.95]]\n12. <<श्वीदितो निष्ठायाम्>> [[7.2.14]]\n13. <<इण्निष्ठायाम्>> [[7.2.47]]\n14. <<रदाभ्यां निष्ठातो नः पूर्वस्य च दः>> [[8.2.42]]\nअनुवृत्तिरूपेण तु अन्येषु सूत्रेषु अपि अस्याः संज्ञायाः प्रयोगः भवितुम् अर्हति ।\nक्तवतुँप्रत्यये इत्संज्ञक-उकारस्य प्रयोजनम्\n 'क्तवतु' प्रत्यये उकारः इत्संज्ञकः अस्ति । अस्य एकं प्रयोजनम् अस्ति <<उगिदचां सर्वनामस्थाने अधातोः>> [[7.1.70]] इत्यनेन सर्वनामस्थाने परे नुमागमः । वस्तुतस्तु अस्मिन् प्रत्यये उकारस्य स्थाने इत्संज्ञकः ऋकारः स्थाप्यते चेत् (इत्युक्ते , 'क्तवतृँ' इति प्रत्ययः निर्मीयते चेत्) अपि अनेन एव सूत्रेण नुमागमः भवितुम् अर्हति । तथापि अत्र पाणिनिना इत्संज्ञकः उकारः एव स्थाप्यते । अयम् उकारः <<अत्वसन्तस्य चाधातोः>> [[6.4.14]] इति सूत्रेण प्रथमैकवचनस्य रूपे उपधादीर्घत्वम् कारयितुम् स्थापितः अस्ति -\n\nपठितवत् + सुँ\n--> पठितवत् + स् [इत्संज्ञालोपः]\n--> पठितवात् + स् [<<अत्वसन्तस्य चाधातोः>> [[6.4.14]] इति 'अतुँ' प्रत्ययान्तस्य अङ्गस्य उपधादीर्घः]\n--> पठितवा नुम् त् + स् [<<उगिदचां सर्वनामस्थाने अधातोः>> [[7.1.70]] इत्यनेन सर्वनामस्थाने परे अङ्गस्य नुमागमः । अत्र दीर्घे कृते एव नुमागमः भवति इति कौमुदीवचनम् ]\n--> पठितवा न् त् स् [मकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति लोपः । उकारः उच्चारणार्थः, सोऽपि लुप्यते ।]\n--> पठितवान् त् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति अपृक्त-सुँ-प्रत्ययस्य लोपः]\n--> पठितवान् [<<संयोगान्तस्य लोपः>> [[8.2.23]] इति तकारलोपः]\n\nअत्र 'क्तवतृँ' इति प्रत्ययः क्रियते चेत् उपधादीर्घः नैव सिद्ध्येत्, अतः अत्र 'क्तवतुँ' इति उकारनिर्देशः एव आवश्यकः ।\nइतरेतराश्रयः\n<<क्तक्तवतू निष्ठा>> [[1.1.26]] इत्यनेन सूत्रेण 'क्त' तथा 'क्ववतुँ' एतयोः प्रत्यययोः निष्ठासंज्ञा भवति । इत्युक्ते, एतयोः शब्दयोः प्रारम्भे प्रत्ययसंज्ञा भवेत्, ततः एव एतयोः निष्ठासंज्ञा अपि भवितुम् अर्हति । परन्तु एतयोः शब्दयोः प्रत्ययसंज्ञा तु <<निष्ठा>> [[3.2.102]] इत्यनेनैव सूत्रैण भवति । इत्युक्ते, अत्र कश्चन इतरेतराश्रयः (cyclic dependency) दृश्यते -\nअ) <<निष्ठा>> [[3.2.102]] इत्यनेन निष्ठासंज्ञकौ क्तक्तवतुँशब्दौ प्रत्ययौ भूते भवतः - इति निष्ठासंज्ञाश्रिता प्रत्ययसंज्ञा ।\nआ) <<क्तक्तवतू निष्ठा>> [[1.1.26]] इत्यनेन क्तक्तवतुँप्रत्यययोः निष्ठासंज्ञा भवति - इति प्रत्ययसंज्ञाश्रिता निष्ठासंज्ञा ।\nअस्य इतरेतराश्रयस्य समाधानम् कर्तुम् भाष्यकारः <<निष्ठा>> [[3.2.102]] अस्मिन् सूत्रे प्रयुक्ताम् 'निष्ठा'संज्ञाम् 'भाविनी'संज्ञारूपेण बोधयति । भाविनी इत्युक्ते 'अग्रे या भविष्यति सा' । 'येषाम् प्रत्ययत्वे प्राप्ते निष्ठासंज्ञा भवेत्, तौ क्तत्ववतुशब्दौ निष्ठासंज्ञया अत्र गृह्येते, तयोः च भूतकाले प्रयोगः भवति' इति <<निष्ठा>> [[3.2.102]] सूत्रस्य भाष्यकारेण उक्तः आशयः अस्ति । " }, "11027": { "sa": "सर्वादिगणे विद्यमानानाम् शब्दानाम् 'सर्वनाम' इति संज्ञा भवति । ", "sd": "व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'सर्वनाम' इति संज्ञा । <<सर्वादीनि सर्वनामानि>> [[1.1.27]] इत्यस्मात् सूत्रात् आरभ्य <<अन्तरं बहिर्योगोपसंव्यानयोः>> [[1.1.36]] इति यावत्सु दशसु सूत्रेषु इयं संज्ञा पाठिता अस्ति । एतेषु इदं प्रथमम् सूत्रम् । सर्वादिगणे विद्यमानानाम् शब्दानाम् अनेन सूत्रेण सर्वनामसंज्ञा भवति ।\n'सर्वनाम' in Sanskit is not exactly the same as 'Pronoun' in English. A lot of non-obvious words, like पूर्व (east), or 'स्व' (self), or 'द्वि' (two) are categorized as सर्वनाम in Sanskrit.\nसर्वादिगणे आहत्य चतुर्विंशतिः शब्दाः, द्वौ प्रत्ययौ तथा च त्रीणि गणसूत्राणि सन्ति । सर्वादिगणः एतादृशः -\n\nसर्व, विश्व, उभ, उभय, डतर (प्रत्ययः), डतम (प्रत्ययः), अन्य, अन्यतर, इतर, त्वत् , त्व, नेम, सम, सिम, <=पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्=> (गणसूत्रम्), <=स्वमज्ञातिधनाख्यायाम्=> (गणसूत्रम्), <=अन्तरं बहिर्योगोपसंव्यानयोः=> (गणसूत्रम्), त्यद्, तद्, यद्, एतद्, इदम्, अदस्, एक, द्वि, युष्मद्, अस्मद्, भवतुँ, किम् ॥ इति सर्वादिगणः ॥\n\n१. सर्व\n'All' इत्यस्मिन् अर्थे 'सर्व'शब्दः सर्वनामसंज्ञां स्वीकरोति । अस्य शब्दस्य त्रिषु अपि वचनेषु रूपाणि भवितुम् अर्हन्ति । तद्यथा -\n[अ] एकवचने द्विवचने च समूहसंख्यानिर्देशार्थम् प्रयोगः - समुदायस्य संख्याम् दर्शयितुम् सर्वशब्दः एकवचने द्विवचने वा प्रयोक्तुं शक्यते । यथा, 'सर्वम् द्वित्वम् विकल्प्यते' इति वाक्ये 'द्वित्वप्रकरणस्य सर्वे नियमाः विकल्पेन भवन्ति' इति आशयः अस्ति । अत्र 'द्वित्वम्' इति शब्दः द्वित्वप्रकरणस्य सूत्राणां समूहस्य निर्देशं करोति । अस्य समूहस्य एकसंख्यात्वम् 'सर्व' शब्दे अपि आरोप्यते, अतः 'सर्व'शब्दस्य एकवचने प्रयोगः भवति । एवमेव 'सर्वौ सुबन्ततिङन्तौ पदसंज्ञौ भवतः' अस्मिन् वाक्ये अपि 'सुबन्त' इत्यनेन शब्देन सुबन्तशब्दानाम् समूहः तथा च 'तिङन्त' इति शब्देन तिङन्तशब्दानां समूहः निर्दिश्यते, अतः अत्र समूहस्य द्विवचनं 'सर्व' शब्दे आरोप्य 'सर्वौ' इति द्विवचनस्य प्रयोगः साधुत्वं प्राप्नोति । अयम् निर्देशः 'अनुद्भूतावयवसमुदायनिर्देशः' इति नाम्ना ज्ञायते । 'सः समुदायनिर्देशः यत्र अवयवाः न उद्भूताः (स्पष्टरूपेण निर्दिष्टाः)' इति आशयः ।'सर्वः द्वन्दः विभाषया एकवद् भवति', 'अहम् सर्वस्य हृदि सन्निविष्टः', 'सर्वयोः जस्शसोः औशादेशः भवति' एतादृशानि वाक्यानि अपि एवमेव ज्ञेयानि ।\n[आ] बहुवचने वस्तुसंख्यानिर्देशार्थम् प्रयोगः - वस्तुनः संख्याम् दर्शयितुम् सर्वशब्दः बहुवचने प्रयुज्यते । एतादृशाः प्रयोगाः भाषायाम् प्रचुराः एव । यथा, 'सर्वे प्रत्ययाः प्रत्ययाधिकारे सन्ति', 'णत्वस्य सर्वाणि सूत्राणि अष्टमाध्याये विद्यन्ते' - इत्यादयः । अत्र विद्यमानः 'सर्व'शब्दप्रयोगः 'उद्भूतावयवसमुदायनिर्देशः' नाम्ना ज्ञायते । 'सः समुदायनिर्देशः यत्र अवयवाः उद्भूताः (स्पष्टरूपेण निर्दिष्टाः)' इति आशयः ।\n'सर्व'शब्दस्य रूपाणि —\n[अ] पुंल्लिङ्गे — प्रथमाबहुवचनम् = 'सर्वे' । चतुर्थ्येकवचनम् = सर्वस्मै । पञ्चम्येकवचनम् = सर्वस्मात् । षष्ठीबहुवचनम् = सर्वेषाम् । सप्तम्येकवचनम् = सर्वस्मिन् । अन्यत्र सर्वत्र 'राम'शब्दवत् । यथा - सर्वः, सर्वौ, सर्वेण, सर्वयोः - आदयः ।\n[आ] स्त्रीलिङ्गे — चतुर्थ्येकवनम् = सर्वस्यै । पञ्चमीषष्ठ्येकवचनम् = सर्वस्याः । षष्ठीबहुवचनम् = सर्वासाम् । सप्तम्येकवचनम् = सर्वस्याम् । अन्यत्र सर्वत्र 'रमा'शब्दवत् । यथा - सर्वा, सर्वे, सर्वाः, सर्वया - आदयः ।\n[इ] नपुंसकलिङ्गे — चतुर्थ्येकवनम् = सर्वस्मै । पञ्चम्येकवचनम् = सर्वस्मात् । षष्ठीबहुवचनम् = सर्वेषाम् । सप्तम्येकवचनम् = सर्वस्मिन् । अन्यत्र सर्वत्र 'पत्र'शब्दवत् । यथा - सर्वम्, सर्वे, सर्वाणि, सर्वस्य - आदयः ।\n२. विश्व\nविश्वशब्दस्य अनेके अर्थाः सन्ति । एतेषु केवलम् 'सम्पूर्णम् / सकलम्' (all / complete) इत्यस्मिन् अर्थे एव 'विश्व'शब्दः सर्वनामसंज्ञां प्राप्नोति, अतः अस्मिन् अर्थे अस्य रूपाणि 'सर्व'शब्दसदृशानि एव भवन्ति । यथा, 'विश्वे देवाः प्रकीर्तिताः' इति विष्णुपुराणे निर्देशः वर्तते । अत्र 'विश्वे देवाः' इत्यस्य 'सर्वे देवाः' इत्याशयः अस्ति । अन्येषु अर्थेषु (यथा - जगत्, पृथिवी, विष्णोः नाम, कश्चन परिमाणभेदः — आदिषु अर्थेषु) विश्व-शब्दस्य सर्वनामसंज्ञा न भवति, अतः तस्य रूपाणि देवशब्दसदृशानि एव भवन्ति । \n३. उभ\n'Both / Two' इत्यस्मिन् अर्थे युगलस्य निर्देशं कर्तुम् 'उभ'शब्दस्य सर्वनामसंज्ञा भवति । अस्य शब्दस्य त्रिषु लिङ्गेषु केवलं द्विवचनस्यैव रूपाणि भवन्ति । यथा - पुंलिङ्गे - उभौ, उभाभ्याम् , उभयोः । स्त्रीलिङ्गे नपुंसकलिङ्गे च - उभे, उभाभ्याम्, उभयोः ।\nउदाहरणम् - 'प्रकृतिः पुरुषं चैव विद्ध्यनादी उभौ अपि' (भगवद्गीता १३.२०) ।\n४. उभय\n'उभय' इति शब्दः 'उभ'शब्दात् <<उभादुदात्तो नित्यम्>> [[5.2.44]] इत्यनेन तयप्-प्रत्ययं (तस्य अयच्-आदेशं च) कृत्वा सिद्ध्यति । अस्य शब्दस्य प्रयोगः त्रिषु लिङ्गेषु एकवचने बहुवचने च भवति । तद्यथा -\n[अ] एकवचने उभयशब्दः 'द्वौ अवयवौ अस्य' ('having two parts') अस्मिन् अर्थे प्रयुज्यते । यथा, 'उभयः मणिः' - सः मणिः यस्य भागद्वयं विद्यते । A jewel with two parts इत्यर्थः ।\n[आ] बहुवचने उभयशब्दः 'द्वौ राशी समुदायस्य अवयवौ' (Two subgroups of a group) अस्मिन् अर्थे प्रयुज्यते । यथा, 'उभये देवमनुष्याः' - 'एकस्य गणस्य द्वौ राशी (देवानाम् प्रथमः राशिः, मनुष्याणाम् द्वितीयः राशिः)', इत्यर्थः ।\nउभय-शब्दस्य रूपाणि 'सर्व'शब्दवदेव भवन्ति ।\n५. डतर, डतम (प्रत्ययौ)\nएतौ द्वौ तद्धितप्रत्ययौ । 'डतर' प्रत्ययस्य औपदेशिकस्वरूपम् 'डतरच्' इति अस्ति । 'डतम' प्रत्ययस्य औपदेशिकस्वरूपम् 'डतमच्' इति अस्ति ।<<किंयत्तदो निर्द्धारणे द्वयोरेकस्य डतरच्>> [[5.3.92]], तथा च <<वा बहूनां जातिपरिप्रश्ने डतमच्>> [[5.3.93]] अनयोः सूत्रयोः एतौ प्रत्ययौ 'किम्', 'यत्', 'तत्' एतेभ्यः त्रिभ्यः शब्देभ्यः विधीयेते । तथा च, <<एकाच्च प्राचाम्>> [[5.3.94]] इत्यनेन एतौ प्रत्ययौ 'एक'शब्दात् अपि विधीयेते । अतः एतयोः प्रयोगेण आहत्य अष्टौ शब्दाः जायन्ते - कतर, कतम, यतर, यतम, ततर, ततम, एकतर, एकतम । एतेषां सर्वेषाम् अनेन सूत्रेण सर्वनामसंज्ञा भवति । (यद्यपि गणे 'डतर' तथा 'डतम' इति प्रत्यययोः निर्देश क्रियते, तथापि सर्वनामसंज्ञा तु प्रत्ययान्तानाम् भवति, न हि प्रत्यययोः - इति अत्र विशेषः । ) ।\nएतेषाम् सर्वेषाम् अर्थाः एतादृशाः सन्ति -\n[अ] कतर - द्वाभ्याम् कः? (who amongst two?) ।\n[आ] कतम - अनेकेभ्यः कः? (who amongst many?) ।\n[इ] यतर - द्वाभ्याम् यः (whosoever amongst two) ।\n[ई] यतम - अनेकेभ्यः यः (whosoever amongst many) ।\n[उ] ततर - द्वाभ्याम् सः (that amongst two) ।\n[ऊ] ततम - अनेकेभ्यः सः (that amongst many) ।\n[ऋ] एकतर - द्वाभ्याम् एकः (one amongst two) ।\n[ॠ] एकतम - अनेकेभ्यः एकः (one amongst many) ।\nएतेषाम् सर्वेषाम् नपुंसकलिङ्गे प्रथमैकवचनस्य द्वितीयैकवचनस्य च रूपे <<अद्ड् डतरादिभ्यः पञ्चभ्यः>> [[7.1.25]] इत्यनेन सुँ/अम्-प्रत्यययोः अद्ड्-आदेशः भवति, अतः 'कतरत् / कतमत् / यतरत् / यतमत्' एतादृशम् रूपम् जायते ।अन्यानि सर्वाणि रूपाणि 'सर्व'शब्दसदृशानि एव भवन्ति ।\n६. अन्य\nपरः ('Other') अस्मिन् अर्थे 'अन्य' शब्दः प्रयुज्यते । अस्य रूपाणि त्रिषु लिङ्गेषु त्रिषु वचनेषु च 'कतर'शब्दसदृशानि एव भवन्ति । नपुंसकलिङ्गस्य प्रथमाद्वितीययोः एकवचनस्य रूपम् अपि 'कतर' शब्दसदृशम् 'अन्यत्' इत्येव भवति ।\n७. अन्यतर\n'द्वयोः एकः' (one amongst two) अस्मिन् अर्थे 'अन्यतर'शब्दः प्रयुज्यते । अयम् शब्दः 'तरप्'प्रत्ययान्तः नास्ति, अपितु इदम् अव्युत्पन्नम् प्रातिपदिकम् अस्ति । अस्य शब्दस्य सर्वाणि रूपाणि त्रिषु लिङ्गेषु त्रिषु वचनेषु च 'कतर'शब्दसदृशानि एव भवन्ति । नपुंसकलिङ्गस्य प्रथमाद्वितीययोः एकवचनस्य रूपम् अपि 'कतर' शब्दसदृशम् 'अन्यतरत्' इत्येव भवति ।\nविशेषः - 'अन्यतम' (अनेकेषु एकः / one amongst many) इति अपि किञ्चन अव्युत्पन्नं प्रातिपदिकम् अस्ति । परन्तु 'अन्यतम'शब्दस्य सर्वनामसंज्ञा न भवति । अतः अस्य रूपाणि तु 'राम'शब्दसदृशानि एव भवन्ति । यथा - अन्यतमाः , अन्यतमाय, अन्यतमात् - आदयः ।\n८. इतर\nभिन्नः / different अस्मिन् अर्थे 'इतर'शब्दः प्रयुज्यते । अयम् शब्दः 'तरप्'प्रत्ययान्तः नास्ति, अपितु इदम् अव्युत्पन्नम् प्रातिपदिकम् अस्ति । अस्य शब्दस्य सर्वाणि रूपाणि त्रिषु लिङ्गेषु त्रिषु वचनेषु च 'कतर'शब्दसदृशानि एव भवन्ति । नपुंसकलिङ्गस्य प्रथमाद्वितीययोः एकवचनस्य रूपम् अपि 'कतर' शब्दसदृशम् 'इतरत्' इत्येव भवति ।\n९. त्वत्\n'त्वत्' अयम् तकारान्तशब्दः 'भिन्नः / different' अस्मिन् अर्थे प्रयुज्यते । अस्य शब्दस्य रूपाणि पुंलिङ्गे मरुत्-शब्दवत् , स्त्रीलिङ्गे सरित्-शब्दवत्, तथा नपुंसकलिङ्गे जगत्-शब्दवत् भवन्ति ।\n१०. त्व\n'त्व' अयम् अकारान्तशब्दः 'भिन्नः / different' अस्मिन् अर्थे प्रयुज्यते । अयं शब्दः केवलं वेदेषु प्रयुक्तः दृश्यते । अस्य सर्वाणि रूपाणि 'सर्व'शब्दसदृशानि भवन्ति ।\n११. नेम\n'अर्धम्' (half) अस्मिन् अर्थे 'नेम' इति शब्दः सर्वादिगणे समाविश्यते । अस्य शब्दस्य सर्वाणि रूपाणि 'सर्व'शब्दसदृशानि भवन्ति ।\nउदाहरणम् - 'अर्जुनस्य इमे बाणा नेमे बाणा शिखण्डिनः' (महाभारते भीष्मपर्वे ६.११९.६६) । अत्र 'नेमे बाणाः' इत्युक्ते 'अर्धसङ्ख्यकाः बाणाः' इति । वस्तुतस्तु अत्र 'नेमे' इत्यस्य 'न इमे' इति सन्धिच्छेदं कृत्वा 'न इमे शिखण्डिनः बाणाः' इत्यपि अर्थविधानम् भवितुम् अर्हति ।\n१२. सम\n'सम' इति शब्दः 'सर्वम्' (all) अस्मिन् अर्थे सर्वनामसंज्ञकः अस्ति । अन्येषु अर्थेषु (यथा - तुल्यः / समानः अस्मिन् अर्थे) अस्य शब्दस्य सर्वनामसंज्ञा न भवति । अस्य शब्दस्य रूपाणि 'सर्व' शब्दसदृशानि एव भवन्ति ।\nउदाहरणम् - 'समेषाम् स्वागतम् अत्र' । 'सर्वेषाम् स्वागतम्' इत्याशयः ।\nविशेषः - पाणिनिः <<यथासङ्ख्यमनुदेशः समानाम्>> [[1.3.10]] अस्मिन् सूत्रे 'समानाम्' इति प्रयोगं करोति । अत्र विद्यमानः 'सम' इति शब्दः 'तुल्यः' अस्मिन् अर्थे प्रयुक्तः अस्ति, अतः तस्य सर्वनामसंज्ञा न भवति, अतश्च तस्य षष्ठीबहुवचनम् अपि 'समानाम्' इति जायते ।\n१३. सिम\n'सर्वम्' (all) अस्मिन् अर्थे 'सिम' इति शब्दः सर्वादिगणे समाविश्यते । अस्य शब्दस्य रूपाणि 'सर्व' शब्दसदृशानि एव भवन्ति ।\n१४. पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् (गणसूत्रम् १)\nअनेन गणसूत्रेण पूर्व, पर, अवर, दक्षिण, उत्तर, अपर, अधर- एतेषाम् सप्तानां शब्दानाम् 'व्यवस्था' अस्मिन् अर्थे संज्ञाभिन्नरूपेण प्रयोगः क्रियते चेत् सर्वनामसंज्ञा भवति ।\nकिम् नाम व्यवस्था? स्वाभिधेयापेक्षावधिनियमः व्यवस्था इति उच्यते । सामान्यभाषायामस्य अर्थः अयम् - पूर्वपरादयः शब्दाः यदा अवधिम् (मर्यादाम्) दर्शयन्ति, तदा एव तेषाम् अस्मिन् गणे समावेशः भवति । The words पूर्व and others are to be considered as सर्वनाम if they denote some kind of boundary or limit. इयं मर्यादा त्रिविधा वर्तते - स्थलमर्यादा (spatial limit - above / below / left / right etc), कालमर्यादा (temporal limit - like before / after / earlier / later etc. ) तथा दिग्मर्यादा (The absolute directions like east, west etc) । तदित्थम् -\n[अ] 'काशी पूर्वा' इति उच्यते चेत् 'कस्मात् पूर्वा?' (काशीप्रदेशस्य स्थलमर्यादा का?) इति प्रश्नः जायते । अत्र 'पूर्व'शब्दः स्थलस्य अवधिम् दर्शयति, अतः अत्र अस्य सर्वनामसंज्ञा भवति ।\n[आ] 'रघुः पूर्वः' इति उच्यते चेत् 'कस्मात् पूर्वः?' (रघोः कालमर्यादा का?) इति प्रश्नः जायते । अत्र 'पूर्व'शब्दः कालस्य अवधिम् दर्शयति, अतः अत्र अस्य सर्वनामसंज्ञा भवति ।\n[इ] 'सूर्यः पूर्वस्मात् उदेति' इति उच्यते चेत् अत्र 'पूर्व' शब्दः दिशायाः अवधिम् दर्शयति, अतः अत्र अस्य सर्वनामसंज्ञा भवति ।\nसंक्षेपेण, 'पूर्व, पर, अवर, दक्षिण, उत्तर, अपर, अधर' एते सर्वे शब्दाः यदा स्थलमर्यादाम् (above / below / left / right etc), कालमर्यादाम् (earlier / later etc) तथा दिग्मर्यादाम् (absolute directions like east, west etc) दर्शयन्ति, तत्र एतेषां सर्वेषां सर्वनामंज्ञा भवति । अस्यैव नाम व्यवस्था । अन्येषु अर्थेषु (इत्युक्ते, यत्र व्यवस्था नास्ति तत्र) एतेषां सर्वनामसंज्ञा न भवति । यथा - 'दक्षिण' शब्दस्य 'कुशलः' इत्यपि कश्चन अर्थः अस्ति । अस्मिन् अर्थे अयं शब्दः सर्वनामसंज्ञां न स्वीकरोति । अपि च, व्यवस्थायाम् सत्याम् अपि संज्ञारूपेण प्रयुज्यमानाः एते शब्दाः सर्वनामसंज्ञकाः न भवन्ति । यथा - 'उत्तराः कुरवः' इत्यस्मिन् प्रयोगे 'उत्तर' इति शब्दः कुरूणाम् कश्चन प्रदेशस्य संज्ञारूपेण प्रयुक्तः अस्ति । सुमेरुपर्वतस्य (modern-day Uttarakhand) उत्तरदिशि विद्यमानानाम् कुरूणाम् विषये उपयुज्यमाना इयं संज्ञा ।अत्र प्रयुक्तः 'उत्तर' शब्दः संज्ञारूपेण प्रयुज्यते, अतः अयं सर्वनामसंज्ञकः नास्ति ।\nपूर्व, पर, अवर, दक्षिण, उत्तर, अपर, अधर - एतेषाम् सर्वेषाम् रूपाणि 'सर्व' शब्दसदृशानि एव भवन्ति । केवलम् पुंलिङ्गस्य प्रथमाबहुवचनस्य रूपम् विकल्पेन 'राम'शब्दसदृशम् भवति - पूर्वे / पूर्वाः इति ।\nविशेषः - <<पूर्वपरावरदक्षिणोत्तरापराधराणि>> [[1.1.34]] इति किञ्चन (गणसूत्रसदृशम्) पृथक् सूत्रम् अष्टाध्याय्याम् विद्यते । अनेन सूत्रेण पूर्वादीनाम् शब्दानाम् 'जस्' प्रत्यये परे सर्वनामसंज्ञायाः विकल्पेन निषेधः भवति । अस्य फलं तु पुंलिङ्गस्य रूपे एव दृश्यते । अतएव एतेषाम् जस्-प्रत्यये परे रूपाणि विकल्पेन रामशब्दसदृशानि अपि भवन्ति ।\n१५. स्वमज्ञातिधनाख्यायाम् (गणसूत्रम् २)\nअनेन गणसूत्रेण 'स्व'शब्दस्य 'ज्ञातिः' (बान्धवः / स्वजनः / relatives), तथा 'धनम्' एतौ अर्थौ विहाय अन्येषु अर्थेषु सर्वनामसंज्ञा भवति ।\n'ज्ञातिः' तथा 'धनम्' एतौ विहाय 'स्व'शब्दस्य इतोऽपि द्वौ अर्थौ स्तः । एतयोः अर्थयोः अस्य शब्दस्य सर्वनामसंज्ञा भवति - इति अस्य गणसूत्रस्य आशयः । तद्यथा -\n(अ) आत्मा (स्वयम् / oneself) इत्यर्थः । अस्मिन् अर्थे 'स्व'शब्दस्य सर्वनामसंज्ञा भवति । यथा, 'स्वस्मै स्वल्पम् समाजाय सर्वम्', 'कल्पिताः स्वेषु वेश्मसु' (कुमारसम्भवम्, द्वितीयः सर्गः) सेयं स्वदेहार्पण निष्क्रयेण (रघुवंशम्) - इत्यत्र सर्वत्र विद्यमानः 'स्व'शब्दः 'स्वयम्' अस्मिन् अर्थे प्रयुक्तः अस्ति ।\n(आ) आत्मीयः (स्वस्य / belonging to oneself) । अस्मिन् अर्थे अपि 'स्व'शब्दस्य सर्वनामसंज्ञा भवति । यथा, 'मया अद्य प्रवेष्टव्या स्वा तनुः' इति प्रयोगः कथासरित्सागरे विद्यते । अत्र 'स्व' इत्युक्ते 'स्वस्य / मम' इति ।\nसर्वनामसंज्ञकस्य अस्य शब्दस्य सर्वाणि रूपाणि 'पूर्व'शब्दसदृशानि एव भवन्ति । अस्यापि पुंल्लिङ्गस्य प्रथमाबहुवचने 'स्वे / स्वाः' इति रूपद्वयं भवति ।\nविशेषः - <<स्वमज्ञातिधनाख्यायाम्>> [[1.1.35]] इति किञ्चन (गणसूत्रसदृशम्) पृथक् सूत्रम् अष्टाध्याय्याम् विद्यते । अनेन सूत्रेण 'स्व' शब्दस्य 'जस्' प्रत्यये परे सर्वनामसंज्ञायाः विकल्पेन निषेधः भवति । अस्य फलं तु पुंलिङ्गस्य रूपे एव दृश्यते । अतएव 'स्व'शब्दस्य जस्-प्रत्यये परे रूपम् विकल्पेन रामशब्दसदृशम् अपि भवति ।\n१६. अन्तरं बहिर्योगोपसंव्यानयोः (गणसूत्रम् ३)\nअनेन गणसूत्रेण 'अन्तर' शब्दस्य 'बहिर्योगः' (बहिः स्थितः, located outside) तथा च 'उपसंव्यानम्' (Undergarments) एतयोः अर्थयोः सर्वनामसंज्ञा भवति । यथा - भिक्षुः नगरात् अन्तरः (बहिः) वसति । सः अन्तरम् (अन्तर्वस्त्रम्) धारयति । उभयत्र 'अन्तर'शब्दस्य सर्वनामसंज्ञा भवति ।\nसर्वनामसंज्ञकस्य 'अन्तर' शब्दस्य रूपाणि 'पूर्व'शब्दसदृशानि एव भवन्ति । अस्यापि पुंल्लिङ्गस्य प्रथमाबहुवचने 'अन्तरे / अन्तराः' इति रूपद्वयं भवति ।\n'अन्तर' शब्दस्य 'मध्ये' इत्यपि कश्चन अर्थः अस्ति । यथा, नगरस्य अन्तरे नदी वहति । अस्मिन् अर्थे 'अन्तर'शब्दस्य सर्वनामसंज्ञा न भवति ।\nविशेषः - <<अन्तरं बहिर्योगोपसंव्यानयोः>> [[1.1.36]] इति किञ्चन (गणसूत्रसदृशम्) पृथक् सूत्रम् अष्टाध्याय्याम् विद्यते । अनेन सूत्रेण 'अन्तर' शब्दस्य 'जस्' प्रत्यये परे सर्वनामसंज्ञायाः विकल्पेन निषेधः भवति । अस्य फलं तु पुंलिङ्गस्य रूपे एव दृश्यते । अतएव 'अन्तर'शब्दस्य जस्-प्रत्यये परे रूपम् विकल्पेन रामशब्दसदृशम् अपि भवति ।\n१७. किम्, यद्, त्यद्, तद्, एतद्, इदम्, अदस्\nअ) 'किम्' इति प्रश्नवाचकः सर्वनामसंज्ञकशब्दः । 'What' इत्यस्मिन् अर्थे अयं शब्दः प्रयुज्यते । यथा - 'किम् अकुर्वत सञ्जय' ।\nआ) 'यद्' इति अनिश्चयवाचकः सर्वनामशब्दः । 'whatever' इत्यस्मिन् अर्थे अयं शब्दः प्रयुज्यते । यथा - 'यद् यद् आचरति श्रेष्ठः' (यत्किमपि महान् पुरुषः आचरति - इत्यर्थः) ।\nइ) त्यद्, तद्, अदस् - एतेषाम् त्रयाणाम् अपि सामान्यः अर्थः 'तत्' ('that') इत्येव । एवमेव 'इदम्' तथा 'एतत्' एतयोः द्वयोः अपि अर्थः 'एतत्' ('this') इत्येव । परन्तु अत्र अर्थस्य सूक्ष्मता विशेषरूपेण ज्ञातव्या । तदित्थम् -\n- 'त्यद्' तथा 'तद्' एतयोः सर्वनामशब्दयोः प्रयोगः तदा एव भवति यदा वस्तु परोक्षम् अस्ति । The words त्यद् and तद् are used to indicate an object that is away (not in front of eyes) ।\n- 'अदस्' शब्दः तदा प्रयुज्यते यदा वस्तु अक्ष्णः पुरतः परन्तु दूरे अस्ति । The word अदस् is used when an object is in front of eyes, but far away.\n- 'इदम्' शब्दस्य प्रयोगः तदा भवति यदा वस्तु अक्ष्णः पुरतः किञ्चित् दूरे अस्ति । The pronoun इदम् is used to indicate an object that is close, but not very close.\n- 'एतत्' शब्दस्य प्रयोगः तदा भवति यदा वस्तु बहु समीपे विद्यते । The word एतत् is used to indicate an object that is very close.\nएतेषाम् अर्थानाम् भेदं दर्शयतुम् एका कारिका ग्रन्थेषु दीयते -\n\nइदमस्तु सन्निकृष्टे समीपतरवर्ति चैतदो रूपम् ।\nअदसस्तु विप्रकृष्टे तदिति परोक्षे विजानीयात् ॥\n\nइदम् शब्दः सन्निकृष्टे, एतद्-शब्दः तस्मात् अपि समीपतरस्य निर्देशार्थम्, अदस्-शब्दः दूरस्य निर्देशार्थम्, तथा च 'तद्' शब्दः परोक्षस्य निर्देशार्थम् भवति, इति अस्याः कारिकायाः अर्थः ।\n१८. एक\n'एक' इति शब्दस्य अनेके अर्थाः सन्ति । अमरकोशे उच्यते -\n\nएकोऽन्यार्थे प्रधाने च, प्रथमे केवले तथा ।\nसाधारणे समानेऽल्पे, सङ्ख्यायाञ्च प्रयुज्यते ॥\n\nइत्युक्ते, 'एक' इति शब्दः 'अन्य', 'प्रधान', 'प्रथम', 'केवल', 'साधारण', 'समान', 'अल्प' तथा संख्यावाची (one इत्यर्थः) एतेषु अर्थेषु प्रयुज्यते । एतेषु सर्वेषु अर्थेषु 'एक'शब्दस्य सर्वनामसंज्ञा भवति । एतेषु संख्यावाचके अर्थे (one इत्यस्मिन् अर्थे) अयं शब्दः केवलम् एकवचने एव प्रयुज्यते । अन्येषु अर्थेषु तु अस्य शब्दस्य सर्वेषु वचनेषु रूपाणि भवन्ति । अस्य सर्वाणि रूपाणि 'सर्व'शब्दसदृशानि एव भवन्ति ।\nविशेषः - 'अनेकः' इति शब्दः'न एकः' इत्यस्मात् समासं कृत्वा सिद्ध्यति । अस्यापि शब्दस्य सर्वनामसंज्ञा भवति ।\n१९. द्वि\n'द्वि' (two) इति सङ्ख्यावाची शब्दः । अस्यापि शब्दस्य सर्वनामसंज्ञा भवति । अस्य रूपाणि केवलं द्विवचने एव भवन्ति । विभक्तिप्रत्यये परे <<त्यदादीनामः>> [[7.2.102]] अनेन सूत्रेण अस्य 'द्व' इति आदेशः भवति, तथा अग्रे 'सर्व' शब्दवदेव रूपाणि भवन्ति ।\n२०. युष्मद् , अस्मद्\n'You' इत्यस्मिन् अर्थे 'युष्मद्', तथा 'I' इत्यस्मिन् अर्थे 'अस्मद्' इति शब्दः सर्वनामसंज्ञकः अस्ति । प्रत्येकं शब्दस्य त्रिषु अपि लिङ्गेषु समानानि एव रूपाणि भवन्ति । 'युष्मद्' ( 'you' इत्यर्थः) शब्दस्य प्रयोगे क्रियापदस्य मध्यमपुरुषः प्रयुज्यते, तथा च 'अस्मद्' ('I' इत्यर्थः) शब्दस्य प्रयोगे क्रियापदस्य उत्तमपुरुषः प्रयुज्यते इति स्मर्तव्यम् ।\n२१. भवतुँ\n'भवतुँ' इति सर्वनामसंज्ञकः शब्दः 'you' इत्यस्मिन् अर्थे प्रयुज्यते । अस्य प्रयोगे क्रियापदस्य प्रथमपुरुषः प्रयुज्यते । यथा - भवान् गच्छति । अस्मिन् शब्दे तकारोत्तरः उकारः अनुनासिकः अस्ति, अतः <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इत्यनेन तस्य इत्संज्ञा भवति, अग्रे <<तस्य लोपः>> [[1.3.9]] इत्यनेन तस्य लोपः अपि जायते ।\nज्ञातव्यम् -\n1) 'भू' धातोः शतृ-प्रत्ययान्तरूपम् अपि 'भवत्' इत्येव भवति, परन्तु सः भिन्नः शब्दः । तस्य अर्थः 'यः अस्तिः सः' (the one who exists) इति अस्ति, न हि 'त्वम्' इति । अस्य रूपाणि अपि भिद्यन्ते । यथा, 'भू' धातोः शतृ-प्रत्ययान्तस्य भवत्-शब्दस्य प्रथमैकवचनम् 'भवन्' इति अस्ति, परन्तु 'भवतुँ' इत्यस्य सर्वनामशब्दस्य प्रथमैकवचनम् 'भवान्' इति अस्ति ।\nआ) 'भवतुँ' तथा 'युष्मद्' एतयोः अर्थः समानः अस्ति । अद्यतन काले आदरम् / श्रेष्ठत्वं दर्शयितुम् भाषायाम् 'भवतुँ' सर्वनाम्नः प्रयोगः बहुप्रसिद्धः अस्ति । परन्तु एतादृशः भेदः व्याकरणसूत्रैः न ज्ञाप्यते, केवलम् लोकव्यवहारे एव दृग्गोचरः भवति । संस्कृतवाङ्मये तु 'त्वम्' इत्यस्यैव प्रयोगः प्राचूर्येण दृश्यते । यथा, रामायणे आदौ एव 'महर्षे त्वं समर्थोऽसि' इति नारदः वाल्मीकिं प्रति वदति । अत्र 'त्वम्' इत्यनेनैव शब्देन आदरः / श्रेष्ठत्वम् ज्ञापितम् अस्ति ।\nअनेन प्रकारेण सर्वादिगणे आहत्य 41 शब्दाः विद्यन्ते -\nसर्व, विश्व, उभ, उभय, यतर, ततर, कतर, एकतर, यतम, ततम, कतम, एकतम, अन्य, अन्यतर, इतर, त्वत्, त्व, नेम, सम, सिम, पूर्व, पर, अवर, दक्षिण, उत्तर, अपर, अधर, स्व, अन्तर, त्यद्, तद्, यद्, एतद्, इदम्, अदस्, एक, द्वि, युष्मद्, अस्मद्, भवतुँ, किम् ।\nत्यदादिगणः\nत्यदादिगणः इति सर्वादिगणस्य एकः अन्तर्गणः । अस्य आवली इयम् -\n\nत्यद्, तद्, यद्, एतद्, इदम्, अदस्, एक, द्वि, ॥ इति त्यदादिगणः ॥ \nकेचन वैयाकरणाः अत्र 'युष्मद्, अस्मद्, भवतुँ, किम्' — इत्येतेषाम् अपि परिगणनं कुर्वन्ति ।\n\nभिन्नेषु सूत्रेषु अस्य पृथक् गणस्य प्रयोगः कृतः अस्ति । यथा - <<त्यदादीनामः>> [[7.2.102]], <<त्यदादिषु दृशोऽनालोचने कञ्च>> [[3.2.60]] , <<त्यदादीनि सर्वैर्नित्यम्>> [[1.2.72]] - आदयः ।\nतदन्तग्रहणम्\nसर्वादिगणे विद्यमानाः शब्दानाम् विषये तदन्तग्रहणम् अपि इष्यते - इति सिद्धान्तकौमुद्याम् उच्यते । इत्युक्ते, सर्वादिगणस्य शब्दाः येषाम् अन्ते विद्यन्ते तानि समस्तपदानि अपि सर्वनामसंज्ञकानि एव भवन्ति । अतः 'परमसर्व', 'उत्तमविश्व' - एतादृशानां शब्दानाम् अपि अनेन सूत्रेण सर्वनामसंज्ञा भवति ।\nवार्त्तिकम् - <!संज्ञोपसर्जनीभूताः न सर्वादयः!>\nसर्वादिगणस्य शब्दाः यदा 'संज्ञारूपेण' (इत्युक्ते, विशेषणाम्नः निर्देशार्थम्) अथवा 'उपसर्जनरूपेण' (इत्युक्ते, समासे गौणपदार्थनिर्देशार्थम्) प्रयुज्यन्ते, तदा तेषाम् सर्वनामसंज्ञा न भवति । यथा, 'उत्तर' इति शब्दः मनुष्यस्य नामरूपेण प्रयुज्यते चेत् अयं शब्दः सर्वनामसंज्ञकः न । एवमेव बहुव्रीहिसमासे (यत्र अन्यपदस्य प्रधानत्वं विद्यते तत्र) विद्यमानौ पूर्वोत्तरपदौ उपसर्जनत्वात् सर्वनामसंज्ञकौ न भवतः । अतएव 'पूर्वा च उत्तरा च एतयोर्मध्ये विद्यमानः अन्तरालः' इत्यनेन सिद्धे 'पूर्वोत्तर' शब्दे 'पूर्व' तथा 'उत्तर' एतयोः शब्दयोः सर्वनामसंज्ञा न भवति ।\n सर्वनामसंज्ञायाः प्रयोजनम्\nअष्टाध्याय्याम् सर्वनामसंज्ञायाः प्रामुख्येन त्रीणि प्रयोजनानि सन्ति । तानि एतादृशानि -\n1. सूत्रपाठे भिन्नैः सूत्रैः सर्वनामसंज्ञाविशिष्टाः प्रत्ययाः / आदेशाः / आगमाः उच्यन्ते । यथा -\n[अ] <<अव्ययसर्वनाम्नः अकच् प्राक् टेः>> [[5.3.71]] इत्यनेन सर्वनामसंज्ञकेभ्यः अकच्-प्रत्ययः विधीयते । यथा, सर्व + अकच् --> सर्वक ।\n[आ] सर्वनामसंज्ञकात् परस्य ङे-प्रत्ययस्य पुंलिङ्गे <<सर्वनाम्नः स्मै>> [[7.1.14]] इति स्मै-आदेशः भवति । यथा, सर्व + ङे --> सर्वस्मै ।\n[इ] <<सर्वनाम्नः स्याड्ढ्रस्वश्च>> [[7.3.114]] इत्यनेन सर्वनामसंज्ञकात् आबन्तात् परस्य ङित्-प्रत्ययस्य स्याट्-आगमः भवति । यथा - सर्व + ङि --> सर्वस्याम् ।\n[ई] <<आमि सर्वनाम्नः सुट्>> [[7.1.52]] इत्यनेन सर्वनामसंज्ञकात् परस्य आम्-प्रत्ययस्य सुट्-आगमः भवति । यथा - सर्व + आम् --> सर्वेषाम् ।\nआदयः ।\n2. प्रकियायाम् केषुचन सोपानेषु सर्वनामसंज्ञक-विशिष्टम् अङ्गकार्यम् भवितुमर्हति । यथा, <<आ सर्वनाम्नः>> [[6.3.91]] इत्यनेन सर्वनामसंज्ञकात् 'दृक्' इति स्थिते अङ्गस्य आकारादेशः भवति । त्यद् + दृक् --> त्या + दृक् --> त्यादृक् ।\n3. सर्वनामसंज्ञकानां प्रयोगे कुत्रचित् विशिष्टा विभक्तिः विधीयते । यथा, <<सर्वनाम्नस्तृतीया च>> [[2.3.37]] अनेन सूत्रेण हेतुनिर्देशे सर्वनामसंज्ञकशब्दात् तृतीया विभक्तिः विधीयते । यथा - 'अन्नस्य हेतुना वसति' इत्यस्य प्रश्नरूपेण परिवर्तनं कुर्मश्चेत् 'कस्य हेतुना वसति' इति तु साधु अस्ति एव, परन्तु 'केन हेतुना वसति' इति प्रयोगः अपि साधु । अत्र 'केन' शब्दः 'हेतु' इत्यस्य विशेषणं नास्ति अपितु 'अन्नस्य' इत्यस्य निर्देशार्थम् एव प्रयुक्तः अस्ति । परन्तु तथापि अस्य तृतीयाविभक्तिः भवितुम् अर्हति । एतादृशी तृतीयाविभक्तिः केवलं सर्वनामसंज्ञकानां विषये एव भवति ।\nअन्वर्थसंज्ञा\n'सर्वनाम' इति अन्वर्थसंज्ञा / सार्थकसंज्ञा अस्ति । 'अन्वर्थसंज्ञा' / 'सार्थकसंज्ञा' इत्युक्ते सा संज्ञा यस्याः अर्थज्ञानम् तस्याम् संज्ञायाम् प्रयुक्तैः शब्दैः / घटकैः दातुम् शक्यते । A technical term whose meaning can be derived using the words used in that term is called an अन्वर्थसंज्ञा । यथा, 'सर्वेषां वस्तूनां नामानि दर्श्यन्ते यैः तानि सर्वनामानि' इति भाष्यकारः अस्मिन् विषये वदति । सामान्यभाषायाम् अस्य अर्थः अयम् - सर्वादिगणे उपस्थितैः शब्दैः सर्वेषाम् वस्तूनां सामान्यरूपेण निर्देशः भवितुम् अर्हति, अतः तेषाम् 'सर्व-नाम' इति संज्ञा दीयते । यथा - 'तद्' इति शब्दः । अस्य प्रयोगे 'सः अस्ति' इत्यत्र केवलं सामान्यनिर्देशः एव क्रियते, तस्य विशिष्टनिर्देशार्थम् इतोऽपि अधिकः शब्दः आवश्यकः (यथा, सः 'वृक्षः' इति) अतः अयं शब्दः सर्वनामसंज्ञकः अस्ति । The word तद् is a general term which can be used to indicate any object, not necessarily a unique one. We need to qualify this word with additional data to pinpoint a particular entity - For instance - 'सः वृक्षः' and so on. And therefore, the word 'तद्' qualifies for being a सर्वनाम । यदि सर्वादिगणस्य शब्दाः विशेषणामरूपेण प्रयुज्यते चेत् तैः विशिष्टवस्तुनः निर्देशः भवति, सर्वेषां न, अतः अस्यां स्थितौ तेषां सर्वनामसंज्ञा न भवति । यथा, कस्यचन मनुष्यस्य नाम 'सर्व' इति अस्ति चेत् अस्मिन् सन्दर्भे 'सर्व' शब्दस्य सर्वनामसंज्ञा न भवति ।\nणत्वप्राप्तिः\n'सर्वनाम' अस्मिन् शब्दे वस्तुतः <<पूर्वपदात् संज्ञायामगः>> [[8.4.3]] इति णत्वं विधीयते । परन्तु निपातनात् तादृशं णत्वं न इष्यते । इत्युक्ते, अस्मिन् सूत्रे प्रयुक्तः 'सर्वनाम'शब्दः निपातनेन णत्वस्य निषेधं करोति इत्यर्थः ।\n" }, "11028": { "sa": "दिशावाचकशब्दैः निर्मितः यः बहुव्रीहिसमासः, तस्मिन् विद्यमानाः सर्वादिगणस्य शब्दाः विकल्पेन सर्वनामसंज्ञकाः भवन्ति । ", "sd": "व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'सर्वनाम' इति संज्ञा । <<सर्वादीनि सर्वनामानि>> [[1.1.27]] इत्यस्मात् सूत्रात् आरभ्य <<अन्तरं बहिर्योगोपसंव्यानयोः>> [[1.1.36]] इति यावत्सु दशसु सूत्रेषु इयं संज्ञा पाठिता अस्ति । एतेषु इदं द्वितीयम् सूत्रम् । सर्वादिगणे विद्यमानानाम् शब्दानाम् नित्यं प्राप्ता सर्वनामसंज्ञा विशिष्टे सन्दर्भे अत्र विकल्प्यते ।\nबहुव्रीहिः दिक्समासः\nदिशावाचकशब्दयोः मध्ये <<दिङ्नामान्यन्तराले>> [[2.2.26]] इत्यनेन सूत्रेण जायमानः बहुव्रीहिसमासः 'दिक्समासः' नाम्ना ज्ञायते । अनेन समासेन चत्वारः शब्दाः सिद्ध्यन्ति -\nअ) दक्षिणस्याः पूर्वस्याः च दिशोः मध्ये यद् अन्तरालम्, सा दक्षिणपूर्वा दिक् ।\nआ) उत्तरस्याः पूर्वस्याः च दिशोः मध्ये यद् अन्तरालम् सा उत्तरपूर्वा दिक् ।\nइ) दक्षिणस्याः पश्चिमायाः च दिशोः मध्ये यद् अन्तरालम्, सा दक्षिणपश्चिमा दिक् ।\nई) उत्तरस्याः पश्चिमायाः च दिशोः मध्ये यद् अन्तरालम् सा उत्तरपश्चिमा दिक् ।\nसर्वनामसंज्ञा\nदक्षिणपूर्वा तथा उत्तरपूर्वा एतयोः द्वयोः शब्दयोः विद्यमानानाम् 'दक्षिण', 'उत्तर' तथा 'पूर्व' एतेषाम् शब्दानाम् अनेन सूत्रेण सर्वनामसंज्ञा भवति अत्र बाध्यबाधकभावः एतादृशः - <<सर्वादीनि सर्वनामानि>> [[1.1.27]] इत्यनेन एतेषाम् सर्वनामसंज्ञायाम् प्राप्तायाम् <<न बहुव्रीहौ>> [[1.1.29]] इत्यनेन सा निषिध्यते । अतः एतेषाम् पुनः विकल्पेन सर्वनामसंज्ञाविधानार्थम् <<विभाषा दिक्समासे बहुव्रीहौ>> [[1.1.28]] इति सूत्रम् पाठितम् अस्ति ।\nस्मर्तव्यम् -\n1) अनेन सूत्रेण 'दक्षिणपूर्वा' तथा 'उत्तरपूर्वा' एतयोः शब्दयोः विद्यमानानाम् 'दक्षिण', 'उत्तर', तथा 'पूर्व' एतेषाम् शब्दानाम् सर्वनामसंज्ञा क्रियते । सर्वादिगणस्य शब्दानां विषये तदन्तविधिः अपि प्रयुज्यते, अतः तदन्तविधिना 'दक्षिणपूर्वा' तथा 'उत्तरपूर्वा' एतयोः अपि सर्वनामसंज्ञा भवति ।\n2) 'दक्षिणपश्चिमा' तथा 'उत्तरपश्चिमा' इत्येतयोः शब्दयोः विद्यमानः 'पश्चिम' इति शब्दः सर्वादिगणे नास्ति, अतः अस्य सर्वनामसंज्ञा अपि न भवति । अतः एतयोः द्वयोः शब्दयोः विषये <<विभाषा दिक्समासे बहुव्रीहौ>> [[1.1.28]] इत्यत्र सूत्रस्य न किञ्चन प्रयोजनम् ।\n3) केवलम् बहुव्रीहिसमासेन निर्मितयोः 'दक्षिणपूर्वा' तथा 'उत्तरपूर्वा' शब्दयोः विषये एव इदं सूत्रम् प्रयुज्यते । अन्यसमासेन निर्मितानां शब्दानां विषये न । यथा, 'उत्तरा च पूर्वा च उत्तरपूर्वे' इत्यत्र द्वन्द्वसमासेन निर्मितस्य शब्दस्य अत्र ग्रहणं न भवति ।\nदिक्समासस्य सर्वनामसंज्ञायाः प्रयोजनम् \n'दक्षिणपूर्वा' तथा 'उत्तरपूर्वा' एतयोः द्वयोः शब्दयोः सर्वनामसंज्ञायाः एतानि त्रीणि प्रयोजनानि सन्ति -\n1. <<अव्ययसर्वनाम्नः अकच् प्राक् टेः>> [[5.3.71]] इत्यनेन अकच्-प्रत्ययविधानम् । यथा - दक्षिणपूर्वका ।\n2. <<सर्वनाम्नः स्याड्ढ्रस्वश्च>> [[7.3.114]] इत्यनेन स्याट्-आगमविधानम् । यथा - दक्षिणपूर्वस्यै, दक्षिणपूर्वस्याः, दक्षिणपूर्वस्याम् भवति ।\n3. <<आमि सर्वनाम्नः सुट्>> [[7.1.52]] इत्यनेन आम्-प्रत्ययस्य सुट्-आगमविधानम् । यथा - दक्षिणपूर्वासाम् ।\nविभाषा\n <<विभाषा दिक्समासे बहुव्रीहौ>> [[1.1.28]] इत्यनेन निर्दिष्टा विभाषा 'अप्राप्तविभाषा' अस्ति । <<न बहुव्रीहौ>> [[1.1.29]] इति वक्ष्यमाणेन सूत्रेण सम्पूर्णरूपेण निषिद्धा (इत्युक्ते अप्राप्ता) सर्वनामसंज्ञा अत्र विकल्पेन विधीयते - इति अत्र कारणम् ।\n" }, "11029": { "sa": "बहुव्रीहिसमासे कर्त्तव्ये सर्वादिगणस्य शब्दानाम् 'सर्वनाम' इति संज्ञा न भवति । ", "sd": "व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'सर्वनाम' इति संज्ञा । <<सर्वादीनि सर्वनामानि>> [[1.1.27]] इत्यस्मात् सूत्रात् आरभ्य <<अन्तरं बहिर्योगोपसंव्यानयोः>> [[1.1.36]] इति यावत्सु दशसु सूत्रेषु इयं संज्ञा पाठिता अस्ति । एतेषु इदं तृतीयम् सूत्रम् । इदं निषेधसूत्रम् अस्ति । बहुव्रीहिसमासस्य निर्माणे प्रयुक्तानाम् सर्वादिगणस्य शब्दानाम् सर्वनामसंज्ञा अनेन सूत्रेण निषिध्यते । यथा -\n1. प्रियं विश्वं यस्य सः प्रियविश्वः । अत्र 'विश्व' इति शब्दः समासनिर्माणात् पूर्वमेव सर्वनामसंज्ञां त्यजति । अतः अत्र 'प्रियविश्व' शब्दस्य सर्वनामसंज्ञा तु निषिध्यते एव, परन्तु विग्रहवाक्ये विद्यमानस्य 'विश्व'शब्दस्य सर्वनामसंज्ञा अपि निषिध्यते । तथा - प्रियाः विश्वाः येषाम् ते प्रियविश्वाः । अत्र (समासे विग्रहवाक्ये च) 'प्रियविश्व'शब्दस्य रूपाणि 'राम'शब्दसदृशानि एव भवन्ति - प्रियविश्वाय, प्रियविश्वात्, प्रियविश्वे - आदयः ।\n2. प्रियाः उभये यस्य सः प्रियोभयः । अत्र 'उभय'शब्दस्य सर्वनामसंज्ञा न भवति, अतः 'प्रियोभय'शब्दस्यापि सर्वनामसंज्ञा न भवति ।\n3. द्वौ अन्यौ यस्मिन् सः द्व्यन्यः । अत्र 'द्वि' तथा 'अन्य' उभयोः शब्दयोः सर्वनामसंज्ञा निषिध्यते ।\n सर्वनामसंज्ञानिषेधस्य प्रयोजनम्\nअत्र सर्वनामसंज्ञायाः निषेधस्य मुख्यम् प्रयोजनम् अस्ति 'अकच्' प्रत्ययस्य अप्राप्तिः । सर्वेभ्यः सर्वनामसंज्ञकशब्देभ्यः तद्धितसंज्ञकस्य 'क'प्रत्ययस्य अपवादरूपेण <<अव्ययसर्वनाम्नामकच् प्राक् टेः>> [[5.3.71]] इत्यनेन 'अकच्' इति प्रत्ययः विशिष्टेषु सन्दर्भेषु स्वार्थे विधीयते । यथा, 'अज्ञातः त्वम्' इत्यत्र <<अज्ञाते>> [[5.3.73]] इत्यनेन सूत्रेण स्वार्थे क-प्रत्यये प्राप्ते तद्बाधित्वा <<अव्ययसर्वनाम्नामकच् प्राक् टेः>> [[5.3.71]] इत्यनेन 'अकच्' इति प्रत्ययः स्वार्थे विधीयते, येन 'त्वत्क' इति शब्दः सिद्ध्यति । परन्तु बहुव्रीहिसमासे विद्यमानाः ये सर्वादयः शब्दाः, तेषाम् विषये अकच्-प्रत्ययः नैव इष्यते । अतः तेषाम् सर्वनामसंज्ञायाः अनेन सूत्रेण निषेधः कृतः अस्ति । सर्वनामसंज्ञायाः निषेधे जाते 'अकच्' प्रत्ययः अपि न भवति, अतः तस्य स्थले औत्सर्गिकः 'क'प्रत्ययः एव भवति । यथा, 'त्वम्' इति शब्दः यदा बहुव्रीहिसमासे प्रयुज्यते, तदा समासनिर्माणात् पूर्वमेव अस्य सर्वनामसंज्ञायाः अभावात्, अकच्-प्रत्ययस्य अप्राप्तौ, औत्सर्गिकरूपेण <<अज्ञाते>> [[5.3.73]] इत्यनेन 'क'प्रत्यये कृते 'त्वक' इति शब्दः सिद्ध्यति, यस्य साहाय्येन अग्रे 'त्वकम् पिता अस्य' इति समासं कृत्वा 'त्वत्कपितृक' इति शब्दः सिद्ध्यति । एवमेव 'अहम्' शब्दः यदा बहुव्रीहिसमासे भवति, तदा अस्यापि सर्वनामसंज्ञायाः अभावात् <<अज्ञाते>> [[5.3.73]] इत्यनेन 'क'प्रत्ययः एव भवति, येन 'अहक' इति शब्दं कृत्वा तस्मात् 'अहकम् पिता अस्य' इति समासं कृत्वा 'मत्कपितृक' इति शब्दः सिद्ध्यति । अत्र यदि समासे विद्यमानस्य युष्मद्-शब्दस्य अस्मद्-शब्दस्य च सर्वनामसंज्ञा अभविष्यत्, तर्हि तत्र क-प्रत्ययं बाधित्वा अकच्-प्रत्यये प्राप्ते 'त्वकत्पितृक', 'मकत्पितृक' एतौ (अनिष्टौ) शब्दौ भवेताम् । एतौ बाधयितुम् पाणिनिना इदं सूत्रम् निर्मितम् अस्ति ।\nसूत्रे बहुव्रीहिग्रहणस्य प्रयोजनम्\nवस्तुतस्तु <<न बहुव्रीहौ>> [[1.1.29]] अस्मिन् सूत्रे 'बहुव्रीहौ' इति पदम् अनावश्यकम्, यतः <<विभाषा दिक्समासे बहुव्रीहौ>> [[1.1.28]] इत्यस्मात् सूत्रात् तस्य अनुवृत्तिः भवितुम् अर्हति । तथापि <<न बहुव्रीहौ>> [[1.1.29]] इत्यत्र आचार्येण 'बहुव्रीहिः' इति शब्दः पुनः स्वीकृतः अस्ति । अस्य प्रयोजनम् काशिकायां दीयते - 'भूतपूर्वमात्रेऽपि प्रतिषेधो यथा स्यात्' । इत्युक्ते, यत्र समासः स्वयं बहुव्रीहिः नास्ति परन्तु पूर्वपदम् अथवा उत्तरपदम् बहुव्रीहिसमासेन निर्मितम् अस्ति, तत्र तस्मिन् पूर्वपदे उत्तरपदे च विद्यमानानाम् शब्दानाम् अपि सर्वनामसंज्ञा न भवेत् - इति ज्ञापयितुम् अत्र 'बहुव्रीहि'शब्दस्य पुनः ग्रहणम् क्रियते । यथा, 'वस्त्रम् अन्तरं येषाम् ते वस्त्रान्तराः' तथा 'वसनम् अन्तरम् येषाम् ते वसनान्तराः' अनेन प्रकारेण बहुव्रीहिसमासेन द्वयोः शब्दयोः सिद्धिं कृत्वा ततः 'वस्त्रान्तराः वसनान्तराः च' इति द्वन्द्वसमासेन प्राप्तस्य 'वस्त्रान्तवसनान्तराः' शब्दस्य विषये तत्र विद्यमानस्य 'अन्तर' शब्दस्य वस्तुतः <<विभाषा जसि>> [[1.1.32]] इत्यनेन विकल्पेन सर्वनामसंज्ञा प्राप्नोति । परन्तु अत्र द्वन्द्वसमासे विद्यमानाः घटकशब्दाः बहुव्रीहिसमासेन निर्मिताः सन्ति, अतः तेषु विद्यमानस्य 'अन्तर'शब्दस्य संज्ञा तदुपरि अन्यसमासे कर्त्तव्ये अपि निषिध्यते - इति ज्ञापयितुम् अस्मिन् सूत्रे 'बहुव्रीहिः' शब्दस्य पुनः ग्रहणम् कृतम् अस्ति ।\nसूत्रप्रत्याख्यानम्\nवस्तुतस्तु उपरि दत्तेषु 'प्रियविश्व', 'द्व्यन्य' एतेषु उदाहरणेषु विद्यमानाः सर्वादिगणस्य शब्दाः इत्यनेन वार्त्तिकेन सर्वनामसंज्ञकाः नैव सन्ति । बहुव्रीहिसमासे अन्यपदार्थप्रधानत्वेन उभयोः पदयोः उपसर्जनसंज्ञा भवति अतः तयोः अनेन वार्त्तिकेन सर्वनामसंज्ञा निषिध्यते - इति अत्र आशयः । अतएव अस्य सूत्रस्य अर्थनिर्देशे 'बहुव्रीहिसमासे कर्त्तव्ये' इति निर्दिश्यते, येन समासनिर्माणात् पूर्वम् (विग्रह-अवस्थायाम्) अपि एतेषाम् सर्वनामसंज्ञा निषिध्यते । परन्तु, अयम् अर्थः भाष्यकारेण नानुमन्यते । भाष्यकारस्य मतेन तु बहुव्रीहिसमासे अवयवभूतानाम् सर्वादिगणस्य शब्दानाम् समासात् पूर्वम् (विग्रहवाक्ये) सर्वनामसंज्ञा अवश्यं भवति, अतः उपरिनिर्दिष्टाः 'त्वकत्पितृक/मकत्पितृक' एतादृशाः प्रयोगाः भाष्यकारस्य मतेन साधवः एव । अस्मिन् विषये भाष्यकारः ब्रूते - 'अकच्-स्वरौ तु कर्त्तव्यौ प्रत्यङ्गौ मुक्तसंशयम्' । इत्युक्ते, अकच्-प्रत्ययस्य (शब्दविशिष्टस्वरस्य च) अन्तरङ्गत्वात् अयं विधिः समासात् पूर्वम् (विग्रह-अवस्थायाम्) अवश्यम् (विना संशयम्) कर्त्तव्यः - इति । प्रत्येकम् अवयवस्य सर्वनामसंज्ञायां सत्याम् अकच्-प्रत्ययः (तद्विशिष्टः स्वरः च) भवितुम् अर्हति - इति अस्य वाक्यस्य आशयः । इत्युक्ते, विग्रहवाक्यस्य शब्दानाम् सर्वनामत्वं स्वीकृत्य, समासे विद्यमानानाम् शब्दानाम् सर्वनामत्वं तु इत्यनैनेव वार्त्तिकेन प्रतिषिध्य भाष्यकारेण <<न बहुव्रीहौ>> [[1.1.29]] इदं सूत्रमेव प्रत्याख्यातम् अस्ति । । 'यथोत्तरम् मुनीनां प्रामाण्यम्' अनेन वचनेन अत्र भाष्यकारस्य मतम् एव ग्राह्यम् । अतः इदम् सूत्रम् दोषपूर्णम् (अतः च अनावश्यकम्) - इत्येव अत्र निर्णयः ।\n" }, "11030": { "sa": "तृतीयासमासे विद्यमानस्य सर्वादिगणस्य शब्दानाम् 'सर्वनाम' इति संज्ञा न भवति ।\n", "sd": "व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'सर्वनाम' इति संज्ञा । <<सर्वादीनि सर्वनामानि>> [[1.1.27]] इत्यस्मात् सूत्रात् आरभ्य <<अन्तरं बहिर्योगोपसंव्यानयोः>> [[1.1.36]] इति यावत्सु दशसु सूत्रेषु इयं संज्ञा पाठिता अस्ति । एतेषु इदं चतुर्थं सूत्रम् । इदं निषेधसूत्रम् अस्ति । <<पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः>> [[2.1.31]] इत्यनेन निर्दिष्टस्य तृतीयासमासस्य निर्माणे प्रयुक्तानाम् सर्वादिगणस्य शब्दानाम् सर्वनामसंज्ञा अनेन सूत्रेण निषिध्यते । यथा, 'मासेन पूर्वः' इत्यत्र तृतीयातत्पुरुषसमासं कृत्वा 'मासपूर्व' इति शब्दः सिद्ध्यति । अत्र विद्यमानस्य 'पूर्व'शब्दस्य प्रकृतसूत्रेण सर्वनामसंज्ञा निषिध्यते । अतएव अस्य शब्दस्य रूपाणि 'मासपूर्वाः', 'मासपूर्वाय', 'मासपूर्वात्' एतादृशानि 'राम'शब्दसदृशानि भवन्ति । यदि अत्र 'पूर्व'शब्दस्य सर्वनामसंज्ञा अभविष्यत्, तर्हि तदन्तविधिना 'मासपूर्व'शब्दस्यापि सर्वनामसंज्ञा अभविष्यत्, या न इष्यते । अतः अत्र 'पूर्व'शब्दस्य सर्वनामसंज्ञायाः निषेधः कृतः अस्ति ।\nएवमेव 'संवत्सरेण पूर्वः संवत्सरपूर्वः, 'वर्षेण पूर्वः वर्षपूर्वः' एतेषु शब्देषु विद्यमानस्य 'पूर्व'शब्दस्य अपि सर्वनामसंज्ञायाः निषेधः भवति ।\nसूत्रे 'समासे' पदग्रहणस्य प्रयोजनम्\nवस्तुतस्तु <<विभाषा दिक्समासे बहुव्रीहौ>> [[1.1.28]] अस्मात् सूत्रात् 'समासे' इत्यस्य शब्दस्य अनुवृत्तिः प्रकृतसूत्रे भवितुम् अर्हति । तथापि अस्मिन् सूत्रे 'समासे' इति शब्दः पुनः स्थापितः अस्ति । अस्य कारणम् कौमुद्यां काशिकायां च उच्यते - 'तृतीयासमासार्थवाक्येऽपि प्रतिषेधो यथा स्यात्' । इत्युक्ते, तृतीयासमासं विना परन्तु तस्मिन्नेव अर्थे यदा वाक्यप्रयोगः भवति, तदा अपि 'पूर्व'शब्दस्य सर्वनामसंज्ञा न भवेत् - इति अत्र 'समास'ग्रहणेन निर्दिष्टम् अस्ति । अतएव, 'मासपूर्वाय' इति शब्दः समासं विना लिख्यते चेत् 'मासेन पूर्वाय' इति लेखनीयः, न हि 'मासेन पूर्वस्मै' इति । यद्यपि पृथग्-रूपेण प्रयुक्तस्य 'पूर्व'शब्दस्य सर्वनामसंज्ञा भवति (अतश्च चतुर्थ्येकवचनस्य रूपम् 'पूर्वस्मै' इति भवति), तथापि तृतीयासमासस्य अर्थः येन वाक्येन निर्दिश्यते, तस्मिन् वाक्ये प्रयुक्तस्य 'पूर्व'शब्दस्य सर्वनामसंज्ञा न इष्यते, इति अत्र आशयः अस्ति । अस्यैव प्रतिपादनार्थम् आचार्येण पाणिनिना अस्मिन् सूत्रे 'समास'ग्रहणम् कृतम् अस्ति । इत्युक्ते, समासनिर्माणात् पूर्वम् विग्रह-अवस्थायाम् एव सर्वादिगणस्य शब्दानां सर्वनामसंज्ञा निषिध्यते - इति अत्र आशयः ।\n" }, "11031": { "sa": "सर्वादिगणस्य शब्दैः द्वन्द्वसमासेन निर्मितः शब्दः सर्वनामसंज्ञकः न भवति । ", "sd": "व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'सर्वनाम' इति संज्ञा । <<सर्वादीनि सर्वनामानि>> [[1.1.27]] इत्यस्मात् सूत्रात् आरभ्य <<अन्तरं बहिर्योगोपसंव्यानयोः>> [[1.1.36]] इति यावत्सु दशसु सूत्रेषु इयं संज्ञा पाठिता अस्ति । एतेषु इदं पञ्चमं सूत्रम् । इदं निषेधसूत्रम् अस्ति । सर्वादिगणस्य शब्दौ यस्य अवयवौ, तादृशस्य द्वन्द्वसमासस्य सर्वनामसंज्ञा अनेन सूत्रेण निषिध्यते । यथा, 'पूर्वः च परः च' इत्यत्र द्वन्द्वसमासं कृत्वा 'पूर्वपर' इति शब्दः सिद्ध्यति । अत्र समासे विद्यमानौ 'पूर्व' तथा 'पर' एतौ शब्दौ यद्यपि सर्वनामसंज्ञकौ, तथापि अत्र प्रकृतसूत्रेण तदन्तविधिः प्रतिषिध्यते, अतश्च 'पूर्वपर' शब्दस्य सर्वनामसंज्ञा निषिध्यते । एवमेव 'कतरः च कतमः च कतरकतमौ', 'वर्णाश्रमाश्च इतराश्च वर्णाश्रमेतराः' इत्यत्र समस्तपदस्य सर्वनामसंज्ञायाः निषेधः भवति । अतएव एतेषाम् शब्दानाम् षष्ठीबहुवचनस्य रूपम् 'पूर्वपराणाम्', 'वर्णाश्रमेतराम्' एतादृशं भवति ।\n'जस्'प्रत्यये परे तु प्रकृतसूत्रेण नित्यं निषेधे प्राप्ते <<विभाषा जसि>> [[1.1.32]] इत्यनेन अग्रिमसूत्रेण द्वन्द्वसमासस्य सर्वनानसंज्ञा विकल्प्यते, अतः 'पूर्वपरे, पूर्वपराः' एतादृशं रूपद्वयम् भवति ।\nसर्वनामसंज्ञाविधाने तदन्तविधिः\nसर्वादिगणस्य शब्दानां विषये तदन्तविधिः उपयुज्यते । अस्य साक्षात् निर्देशः सूत्रपाठे नास्ति, परन्तु प्रकृतसूत्रमेव अस्य ज्ञापकरूपेण स्वीक्रियते । यदि सर्वनामसंज्ञकशब्दानां विषये तदन्तविधिः नानुमन्यते, तर्हि प्रकृतसूत्रेण द्वन्द्वसमासेन निर्मितानां शब्दानाम् सर्वनामसंज्ञानिषेधस्य किमपि प्रयोजनम् नास्ति । अतः प्रकृतसूत्रमेव सर्वनामशब्दाना तदन्तविधेः ज्ञापकम् ।\nसमुदायस्यैव सर्वनामसंज्ञानिषेधः\nअत्र द्वन्द्वसमासस्य अवयवभूतानां सर्वादिगणस्य शब्दानां सर्वनामसंज्ञा न निषिध्यते, केवलम् तदन्तविधिः एव अत्र प्रतिषिध्यते - येन समस्तपदस्यैव सर्वनामसंज्ञायाः निषेधः जायते । यथा - पूर्वे च परे च पूर्वपराः । अत्र 'पूर्व' तथा 'पर' उभयोः सर्वनामसंज्ञा विद्यते, परन्तु 'पूर्वपर'शब्दस्य सर्वनामसंज्ञा निषिध्यते । एतादृशस्य भेदस्य प्रयोजनम् भाष्यकारेण <<न बहुव्रीहौ>> [[1.1.29]] इत्यत्र उक्तम् अस्ति - अकच्-स्वरौ तु कर्त्तव्यौ प्रत्यङ्गौ मुक्तसंशयम् । अवयवानाम् सर्वनामसंज्ञायां सत्याम् अकच्-प्रत्ययः अवश्यं भवति - इति अत्र आशयः । अतएव पूर्वके च परके च पूर्वपरकाः इति शब्दः साधुत्वं प्राप्नोति ।\nअङ्गसंज्ञा\nसमस्तपदात् विभक्तिप्रत्यये कृते सकलस्य समस्तपदस्य अङ्गसंज्ञा भवति, न हि तदवयवस्य सर्वनामसंज्ञकशब्दस्य । यथा, 'पूर्वपर' शब्दात् षष्ठीबहुवचनस्य आम्-प्रत्यये कृते 'पूर्वपर' इति समस्तः शब्दः अङ्गम् अस्ति, न हि तस्य अंशमात्रः 'पर' इति । अतएव अत्र <<आमि सर्वनाम्नः सुट्>> [[7.1.52]] इत्यनेन सुट्-आगमः न भवति । यदि अत्र केवलम् 'पर'शब्दस्य अङ्गसंज्ञा अभविष्यत्, तर्हि तस्य सर्वनामसंज्ञां सत्याम् सुट्-आगमे कृते 'पूर्वपरेषाम्' इति अनिष्टं रूपं अजनिष्यत ।\n" }, "11032": { "sa": "सर्वादिगणस्य शब्दैः द्वन्द्वसमासेन निर्मितः शब्दः जस्-प्रत्यये परे विकल्पेन सर्वनामसंज्ञकः भवति । ", "sd": "व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'सर्वनाम' इति संज्ञा । <<सर्वादीनि सर्वनामानि>> [[1.1.27]] इत्यस्मात् सूत्रात् आरभ्य <<अन्तरं बहिर्योगोपसंव्यानयोः>> [[1.1.36]] इति यावत्सु दशसु सूत्रेषु इयं संज्ञा पाठिता अस्ति । एतेषु इदं षष्ठं सूत्रम् । इदं विभाषासूत्रम् अस्ति । सर्वादिगणस्य शब्दौ यस्य अवयवौ, तादृशस्य द्वन्द्वसमासस्य <<द्वन्द्वे च>> [[1.1.31]] इत्यनेन निषिद्धा सर्वनामसंज्ञा जस्-प्रत्यये परे अनेन सूत्रेण विकल्प्यते । यथा, 'पूर्वः च परः च' इत्यत्र द्वन्द्वसमासं कृत्वा 'पूर्वपर' इति शब्दः सिद्ध्यति । अस्य समस्तपदस्य सर्वनामसंज्ञायाः<<द्वन्द्वे च>> [[1.1.31]] इत्यनेन निषेधे प्राप्ते जस्-प्रत्यये परे प्रकृतसूत्रेण इयं सर्वनामसंज्ञा विकल्पेन भवति । अतएव 'पूर्वपर' शब्दस्य पुंल्लिङ्गस्य प्रथमाबहुवचनस्य 'पूर्वपराः' तथा 'पूर्वपरे' इति द्वे रूपे भवतः । एवमेव 'कतराश्च कतमाश्च कतरकतमे कतरकतमाः वा' इति भवति ।\nअप्राप्तविभाषा\nअस्मिन् सूत्रे प्रयुक्तः 'विभाषा'शब्दः अप्राप्तविभाषां दर्शयति । <<द्वन्द्वे च>> [[1.1.31]] इति सूत्रेण अप्राप्ता संज्ञा प्रकृतसूत्रेण विकल्प्यते, अतः इदम् अप्राप्तविभाषायाः उदाहरणम् ।\nव्यवस्थितविभाषा\nअस्मिन् सूत्रे उक्ता विभाषा 'व्यवस्थितविभाषा' अपि अस्ति । इत्युक्ते, अत्र व्यवस्थाम् (system of usage) ज्ञापयितुम् विभाषाशब्दः प्रयुज्यते । तदित्थम् - अनेन सूत्रेण 'जस्'प्रत्ययविशिष्टे कार्ये कर्त्तव्ये एव द्वन्द्वसमासस्य सर्वनामसंज्ञा भवति, अन्येषु कार्येषु कर्तव्येषु न । अतः 'पूर्वपर + जस्' इत्यत्र <<जसः शी>> [[7.1.17]] इत्यनेन जस्-प्रत्ययस्य शीभावे कर्त्तव्ये 'पूर्वपर'शब्दस्य सर्वनामसंज्ञा भवति (यतः इदम् कार्यम् जस्-प्रत्ययविशिष्टम् कार्यम् अस्ति) परन्तु <<अव्ययसर्वनाम्नामकच् प्राक् टेः>> [[5.3.71]] इत्यनेन अकच्-प्रत्यये कर्त्तव्ये अस्य शब्दस्य सर्वनामसंज्ञा न भवति (अतः अकच्-प्रत्ययः अपि न भवति) यतः तत् कार्यम् जस्-प्रत्ययविशिष्टम् कार्यम् नास्ति ।\n" }, "11033": { "sa": "'प्रथम', 'चरम', 'अल्प', 'अर्ध', 'कतिपय', 'नेम' - एते शब्दाः, तथा च 'तयप्' प्रत्ययान्तशब्दाः जस्-प्रत्यये परे विकल्पेन सर्वनामसंज्ञकाः भवन्ति । ", "sd": "व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'सर्वनाम' इति संज्ञा । <<सर्वादीनि सर्वनामानि>> [[1.1.27]] इत्यस्मात् सूत्रात् आरभ्य <<अन्तरं बहिर्योगोपसंव्यानयोः>> [[1.1.36]] इति यावत्सु दशसु सूत्रेषु इयं संज्ञा पाठिता अस्ति । एतेषु इदं सप्तमं सूत्रम् । इदं विभाषासूत्रम् अस्ति । प्रथम, चरम, अल्प, अर्ध, कतिपय, नेम - एतेषम् शब्दानाम् तथा च द्वितय, त्रितय, चतुष्टय इत्यादीनाम् तयप्-प्रत्ययान्तशब्दानाम् प्रकृतसूत्रेण जस्-प्रत्यये परे विकल्पेन सर्वनामसंज्ञा भवति ।\nप्रथम, चरम, अल्प, अर्ध, कतिपय\nअस्मिन् सूत्रे विद्यमानाः 'प्रथम' (आदिमः / first) 'चरम' (अन्तिमः / last / final / ultimate), अल्प (किञ्चित् / a little), अर्ध (पुंल्लिङ्गे one-part इत्यर्थः, नपुंसकलिङ्गे half इत्यर्थः), तथा 'कतिपय' (several, a few) एते शब्दाः सर्वादिगणे न सन्ति, अतः एतेषाम् सामान्यरूपेण सर्वनामसंज्ञा न भवति । परन्तु प्रकृतसूत्रेण जस्-प्रत्यये परे एतेषां विकल्पेन सर्वनामसंज्ञा विधीयते, अतः पुंल्लिङ्गस्य विषये <<जसः शी>> [[7.1.17]] इत्यनेन जस्-प्रत्ययस्य विकल्पेन शी-आदेशे कृते 'प्रथमे, प्रथमाः', 'चरमे, चरमाः', 'अल्पे, अल्पाः', 'अर्धे, अर्धा', तथा 'कतिपये, कतिपयाः' इत्थं प्रत्येकं रूपद्वयं भवितुम् अर्हति । अन्यत्र तु एतेषां शब्दानां सर्वनामसंज्ञा न जायते, अतः एतेषाम् अन्यानि सर्वाणि अपि रूपाणि 'राम'शब्दसदृशानि एव भवन्ति ।\nनेम\n'नेम' (half इत्यर्थः) अयं शब्दः <<सर्वादीनि सर्वनामानि>> [[1.1.27]] इत्यत्र निर्दिष्टे सर्वादिगणे पाठितः अस्ति, अतः अस्य शब्दस्य नित्यं सर्वनामसंज्ञायां प्राप्तायाम्, जस्-प्रत्यये परे प्रकृतसूत्रेण सा विकल्प्यते । अतः जस्-प्रत्यये परे सर्वनामसंज्ञायाः पाक्षिकाभावात् राम-शब्दसदृशम् 'नेमाः' इत्यपि रूपं भवति ।\nतयप्-प्रत्ययान्तशब्दाः\n'तयप्' इति तद्धितप्रत्ययः <<संख्याया अवयवे तयप्>> [[5.2.42]] इत्यनेन सर्वेभ्यः सङ्ख्यावाचकेभ्यः शब्देभ्यः 'अवयवाः अस्य' अस्मिन् अर्थे विधीयते । यथा, 'पञ्च अवयवाः अस्य सः पञ्चतयः' इति । एते तयप्-प्रत्ययान्तशब्दाः सर्वादिगणे न सन्ति, अतः एतेषाम् सामान्यरूपेण सर्वनामसंज्ञा न भवति । परन्तु प्रकृतसूत्रेण जस्-प्रत्यये परे एतेषां विकल्पेन सर्वनामसंज्ञा विधीयते, अतः <<जसः शी>> [[7.1.17]] इत्यनेन जस्-प्रत्ययस्य विकल्पेन शी-आदेशे कृते 'द्वितये / द्वितयाः', 'पञ्चतये / पञ्चतयाः' एतादृशं रूपद्वयं भवितुम् अर्हति । अन्यत्र तु एतेषां शब्दानां सर्वनामसंज्ञा न जायते, अतः एतेषाम् अन्यानि सर्वाणि अपि रूपाणि 'राम'शब्दसदृशानि एव भवन्ति ।\nतयप्-प्रत्ययस्य अयच्-आदेशः\n'द्वि' तथा 'त्रि' एताभ्यां शब्दाभ्यां विहितस्य 'तयप्' प्रत्ययस्य <<द्वित्रिभ्यां तयस्यायज्वा>> [[5.3.43]] इत्यनेन सूत्रेण विकल्पेन 'अयच्' आदेशः भवति, येन 'द्वय', 'त्रय' एतौ शब्दौ सिद्ध्यतः । एतयोः शब्दयोः विषये अपि प्रकृतसूत्रस्य प्रसक्तिः अस्ति, यतः 'अयच्' इति आदेशः स्थानिवद्भावेन 'तयप्'प्रत्ययस्य गुणान् अपि स्वीकरोति । अतः 'द्वय' तथा 'त्रय' एतयोः शब्दयोः अपि जस्-प्रत्यये परे विकल्पेन सर्वनामसंज्ञा भवति, येन 'द्वये, द्वयाः' तथा 'त्रये, त्रयाः' इति प्रत्येकं रूपद्वयं भवति । अन्यानि रूपाणि तु रामशब्दसदृशानि एव ज्ञेयानि ।\nअपि च, <<उभादुदात्तो नित्यम्>> [[5.2.44]] इत्यनेन सूत्रेण 'उभ'शब्दात् 'तयप्' प्रत्ययं कृत्वा तस्य नित्यम् 'अयच्' आदेशः क्रियते, येन 'उभय' इति शब्दः सिद्ध्यति । परन्तु उभ-शब्दात् विहितस्य तयप्-प्रत्ययस्य कृतः अयम् अयच्-आदेशः स्थानिवद्भावेन तयप्-शब्दस्य गुणान् न स्वीकरोति इति भाष्यकारेण <<स्थानिवदादेशोऽनल्विधौ>> [[5.2.44]] इत्यत्र स्पष्टीकृतम् अस्ति । अतः प्रकृतसूत्रम् 'उभय'शब्दस्य विषये नैव प्रयोक्तव्यम् । इत्युक्ते, सर्वादिगणे विद्यमानः 'उभय' शब्दः जस्-प्रत्यये परे अपि नित्यम् एव सर्वनामसंज्ञकः भवति इति अत्र आशयः ।\nवार्त्तिकम् - <!विभाषाप्रकरणे तीयस्य ङित्सूपसङ्ख्यानम् !>\n'तीय' इति तद्धितप्रत्ययः <<द्वेस्तीयः>> [[5.3.54]] इत्यनेन 'द्वि'शब्दात् तथा च <<त्रेः सम्प्रसारणं च>> [[5.3.55]] इत्यनेन 'त्रि'शब्दात् पूरणार्थे विधीयते, येन 'द्वितीय' तथा 'तृतीय' एतौ शब्दौ सिद्ध्यतः । एतयोः शब्दयोः सर्वादिगणे समावेशः नास्ति, अतः एतयोः सर्वनामसंज्ञा न विद्यते । अस्यां स्थितौ अनेन वार्त्तिकेन 'द्वितीय' तथा 'तृतीय' एतयोः तीयप्रत्ययान्तशब्दयोः 'ङित्'प्रत्ययेषु परेषु विकल्पेन सर्वनामसंज्ञा विधीयते । यथा -\nअ) चतुर्थ्येकवचनस्य 'ङे' प्रत्यये परे एतयोः विकल्पेन सर्वनामसंज्ञायां सत्याम् <<सर्वनाम्नः स्मै>> [[7.1.14]] इत्यनेन प्रत्ययस्य स्मै-आदेशे कृते 'द्वितीयस्मै, तृतीयस्मै' एते रूपे अपि भवतः । पक्षे (सर्वनामसंज्ञायाःअभावात्) 'राम'शब्दसदृशे 'द्वितीयाय, तृतीयाय' एते रूपे अपि साधु एव ।\nआ) एवमेव, पञ्चम्येकवचनस्य 'ङसिँ' प्रत्यये परे, तथा च सप्तम्येकवचनस्य 'ङि' प्रत्यये परे एतयोः विकल्पेन सर्वनामसंज्ञायां सत्याम् <<ङसिङ्योः स्मात्स्मिनौ>> [[7.1.15]] इत्यनेन ङसिँ-ङस्-प्रत्यययोः (यथासङ्ख्यम्) 'स्मात्' तथा 'स्मिन्' आदेशयोः कृतयोः 'द्वितीयस्मात्, द्वितीयस्मिन्' तथा च 'तृतीयस्मात्, तृतीयस्मिन्' एतानि रूपाणि भवितुम् अर्हन्ति । पक्षे सर्वनामसंज्ञायाःअभावात् 'द्वितीयात्, द्वितीये' तथा च 'तृतीयात्, तृतीये' एतानि रूपाणि अपि सिद्ध्यन्ति ।\nउभयविभाषा\nप्रकृतसूत्रेण निर्दिष्टा विभाषा उभयविभाषा अस्ति । यत्र प्राप्तविभाषा तथा अप्राप्तविभाषा द्वयोः अपि ग्रहणम् एकेनैव 'विभाषा'शब्देन भवति, तत्र उभयविभाषा अस्ति इत्युच्यते । विभाषाशब्देन विकल्पस्य तथा च निषेधस्यापि एकस्मिन्नेव सूत्रे निर्देशः भवति इति अत्र आशयः । अस्मिन् सूत्रे -\nअ) 'प्रथम, चरम, तयप्-प्रत्ययान्तशब्दाः, अल्प, अर्ध, कतिपय' शब्दानां विषये पूर्वेण अप्राप्ता सर्वनामसंज्ञा विकल्पेन विधीयते, अतः एतेषाम् विषये इयं अप्राप्तविभाषा अस्ति ।\nआ) 'नेम' शब्दस्य विषये पूर्वसूत्रेण नित्यं सिद्धा सर्वनामसंज्ञा प्रकृतसूत्रेण विकल्प्यते, अतः अस्य विषये इयं 'प्राप्तविभाषा' अस्ति ।\nअनेन प्रकारेण अत्र 'विभाषा' शब्दः उभयविभाषां दर्शयति ।\nव्यवस्थितविभाषा\nप्रकृतसूत्रेण निर्दिष्टा वैकल्पिकी सर्वनामसंज्ञा केवलं जस्-प्रत्ययविशिष्टकार्यार्थम् एव ज्ञेया । इत्युक्ते, सर्वनामविशिष्टानि जस्-प्रत्ययभिन्नानि अकच्-प्रत्ययविधानादीनि कार्याणि कर्तुम् अत्र सर्वनामसंज्ञा नैव भवति । अतः 'प्रथम, चरम, तयप्-प्रत्ययान्तशब्दाः, अल्प, अर्ध, कतिपय' - एतेभ्यः शब्देभ्यः जस्-प्रत्यये परे सर्वनामसंज्ञायां सत्याम् अपि <<अव्ययसर्वनाम्नामकच् प्राक्टेः>> [[5.3.71]] इत्यनेन अकच्-प्रत्ययः नैव भवति अपितु औत्सर्गिकः क-प्रत्ययः एव भवति, येन 'प्रथमके, प्रथमकाः' आदीनि रूपाणि सिद्ध्यन्ति । अकच्-प्रत्ययेनापि एते एव रूपे भवेताम्, परन्तु तत्र प्रत्ययस्य चित्त्वात् अनिष्टम् अन्तोदात्त्वं जायेत । क-प्रत्ययेन रूपं तु सम्यक् भवत्येव, परन्तु स्वरः अपि साधु सिद्ध्यति । एवमेव, 'नेम'शब्दस्य विषये सर्वनामसंज्ञायाः नित्यत्वात् <<अव्ययसर्वनाम्नामकच् प्राक्टेः>> [[5.3.71]] इत्यनेन अकच्-प्रत्यये प्राप्ते जसि परे सर्वनामसंज्ञायाः पाक्षिके अभावेऽपि अकच्-प्रत्ययः एव विधीयते, न हि तदपवादः 'क'प्रत्ययः, येन 'नेमके, नेमकाः' इति अकच्-प्रत्ययान्ते अन्तोदात्ते रूपे सिद्ध्यतः । संक्षेपेण, अत्र 'विभाषा' इत्यनेन उक्ता विभाषा केवलम् जस्-कार्यार्थमेव भवति - अतः इयम् व्यवस्थितविभाषा अस्ति ।\n" }, "11034": { "sa": "'पूर्व', 'पर', 'अवर', 'दक्षिण', 'उत्तर', 'अपर', 'अधर' - एते शब्दाः संज्ञाभिन्नरूपेण मर्यादाम् दर्शयितुम् प्रयुज्यन्ते चेत् 'जस्' प्रत्यये परे विकल्पेन सर्वनामसंज्ञकाः भवन्ति । ", "sd": "व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'सर्वनाम' इति संज्ञा । <<सर्वादीनि सर्वनामानि>> [[1.1.27]] इत्यस्मात् सूत्रात् आरभ्य <<अन्तरं बहिर्योगोपसंव्यानयोः>> [[1.1.36]] इति यावत्सु दशसु सूत्रेषु इयं संज्ञा पाठिता अस्ति । एतेषु इदं अष्टमं सूत्रम् । इदं विभाषासूत्रम् अस्ति । 'पूर्व', 'पर', 'अवर', 'दक्षिण', 'उत्तर', 'अपर', 'अधर' - एतेषाम् शब्दानाम् पूर्वम् नित्यरूपेण प्राप्ता सर्वनामसंज्ञा जस्-प्रत्यये परे अनेन सूत्रेण विकल्प्यते ।\nसर्वादिगणस्य '<=पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्=>' इति गणसूत्रम् \n<<सर्वादीनि सर्वनामानि>> [[1.1.27]] अस्मिन् सूत्रे निर्दिष्टे सर्वादिगणे <=पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्=> इति गणसूत्रम् पाठितम् अस्ति । अनेन गणसूत्रेण 'पूर्व', 'पर', 'अवर', 'दक्षिण', 'उत्तर', 'अपर', 'अधर' - एतेषाम् शब्दानाम् 'व्यवस्थायाम् असंज्ञायाम् च' सर्वनामसंज्ञा भवति । इत्युक्ते, सर्वादयः शब्दाः यदा स्थलमर्यादाम् (above / below / left / right etc), कालमर्यादाम् (earlier / later etc) तथा दिग्मर्यादाम् (absolute directions like east, west etc) दर्शयन्ति, तत्र एतेषां सर्वेषां सर्वनामंज्ञा भवति । अतः 'काशी पूर्वा', 'रघुः पूर्वः', 'सूर्यः पूर्वस्मात् उदेति' एतादृशेषु वाक्येषु 'पूर्व'शब्दस्य सर्वनामसंज्ञा भवति । अन्येषु अर्थेषु (इत्युक्ते, यत्र व्यवस्था नास्ति तत्र) एतेषां सर्वनामसंज्ञा न भवति । यथा, 'दक्षिणाः गाथकाः' अस्मिन् वाक्ये 'दक्षिण'शब्दः 'कुशलः' अस्मिन् अर्थे प्रयुज्यते, अतः अत्र अस्य सर्वनामसंज्ञा अपि न भवति । अपि च, व्यवस्थायां सत्याम् अपि यदि एतैः शब्दैः संज्ञा निर्दिश्यते, तर्हि अपि एतेषाम् सर्वनामसंज्ञा न भवति । यथा, 'उत्तराः कुरवः' इत्यस्मिन् प्रयोगे 'उत्तर' इति शब्दः कुरूणाम् कश्चन प्रदेशस्य संज्ञारूपेण प्रयुक्तः अस्ति । सुमेरुपर्वतस्य (modern-day Uttarakhand) उत्तरदिशि विद्यमानानाम् कुरूणाम् विषये उपयुज्यमाना इयं संज्ञा ।अत्र प्रयुक्तः 'उत्तर' शब्दः संज्ञारूपेण प्रयुज्यते, अतः अयं सर्वनामसंज्ञकः नास्ति ।\nपूर्वादीनां शब्दानां इयं सर्वनामसंज्ञा प्रकृतसूत्रेण न भवति अपितु सर्वादिगणे विद्यमानेन <=पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्=> इत्यनेन गणसूत्रेण भवति इति स्मर्तव्यम् ।\nजस्-प्रत्यये परे सर्वनामसंज्ञायाः विकल्पः\nसर्वादिगणे विद्यमानेन <=पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्=> इत्यनेन गणसूत्रेण पूर्वादीनां शब्दानां (व्यवस्थायाम् असंज्ञायाम्) नित्यं सर्वनामसंज्ञायां प्राप्तायाम् प्रकृतसूत्रेण जस्-प्रत्यये परे अस्याः पाक्षिकः बाधः क्रियते । अतः जस्-प्रत्यये परे एतेषां पुंल्लिङ्गस्य रूपाणि 'पूर्वाः, पराः, अवराः, दक्षिणाः, उत्तराः, अपराः, अधराः' इति रामशब्दसदृशानि अपि भवन्ति । अन्यत्र सर्वत्र तु एतेषां रूपाणि 'सर्व'शब्दसदृशानि एव ज्ञेयानि ।\nप्राप्तविभाषा\nप्रकृतसूत्रे निर्दिष्टा विभाषा प्राप्तविभाषा अस्ति । पूर्वसूत्रेण नित्यं प्राप्ता सर्वनामसंज्ञा अत्र पक्षे निषिध्यते, अतः इयं प्राप्तविभाषा ।\nव्यवस्थितविभाषा\nप्रकृतसूत्रेण जस्-प्रत्यये परे निर्दिष्टः सर्वनामसंज्ञानिषेधः जस्-प्रत्ययविशिष्टकार्यार्थः एव ज्ञेयः, अन्यकार्यार्थः न । अतः <<अव्ययसर्वनाम्नामकच्प्राक्टेः>> [[5.3.71]] इत्यनेन विहितः अकच्-प्रत्ययः पूर्वादिभ्यः शब्देभ्यः अन्तरङ्गत्वात् जस्-प्रत्ययविधानात् पूर्वमेव भवति । अतः अकच्-प्रत्यये कृते ततः जस्-प्रत्ययं कृत्वा 'पूर्वके / पूर्वकाः' एतादृशानि अकच्-प्रत्ययनिर्मितानि अन्तोदात्तरूपाणि एव सिद्ध्यन्ति । " }, "11035": { "sa": " 'बान्धवः' तथा 'धनम्' एतौ अर्थौ विहाय अन्येषु अर्थेषु प्रयुक्तः 'स्व' शब्दः जस्-प्रत्यये परे विकल्पेन सर्वनामसंज्ञकः भवति । ", "sd": "व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'सर्वनाम' इति संज्ञा । <<सर्वादीनि सर्वनामानि>> [[1.1.27]] इत्यस्मात् सूत्रात् आरभ्य <<अन्तरं बहिर्योगोपसंव्यानयोः>> [[1.1.36]] इति यावत्सु दशसु सूत्रेषु इयं संज्ञा पाठिता अस्ति । एतेषु इदं नवमं सूत्रम् । इदं विभाषासूत्रम् अस्ति । 'स्व' इत्यस्य शब्दस्य नित्यरूपेण प्राप्ता सर्वनामसंज्ञा जस्-प्रत्यये परे अनेन सूत्रेण विकल्प्यते ।\nसर्वादिगणस्य '<=स्वमज्ञातिधनाख्यायाम्=>' इति गणसूत्रम्\n<<सर्वादीनि सर्वनामानि>> [[1.1.27]] अस्मिन् सूत्रे निर्दिष्टे सर्वादिगणे <=स्वमज्ञातिधनाख्यायाम् => इति गणसूत्रम् पाठितम् अस्ति । अनेन गणसूत्रेण 'स्व' इति शब्दस्य 'स्व'शब्दस्य 'ज्ञातिः' (बान्धवः / स्वजनः / relatives), तथा 'धनम्' एतौ अर्थौ विहाय अन्येषु अर्थेषु सर्वनामसंज्ञा भवति । 'ज्ञातिः' तथा 'धनम्' एतौ विहाय 'स्व'शब्दस्य इतोऽपि द्वौ अर्थौ स्तः । एतयोः अर्थयोः अस्य शब्दस्य सर्वनामसंज्ञा भवति - इति अस्य गणसूत्रस्य आशयः । तद्यथा -\n(अ) आत्मा (स्वयम् / oneself) इत्यर्थः । अस्मिन् अर्थे 'स्व'शब्दस्य सर्वनामसंज्ञा भवति । यथा, 'स्वस्मै स्वल्पम् समाजाय सर्वम्', 'कल्पिताः स्वेषु वेश्मसु' (कुमारसम्भवम्, द्वितीयः सर्गः) सेयं स्वदेहार्पण निष्क्रयेण (रघुवंशम्) - इत्यत्र सर्वत्र विद्यमानः 'स्व'शब्दः 'स्वयम्' अस्मिन् अर्थे प्रयुक्तः अस्ति ।\n(आ) आत्मीयः (स्वस्य / belonging to oneself) । अस्मिन् अर्थे अपि 'स्व'शब्दस्य सर्वनामसंज्ञा भवति । यथा, 'मया अद्य प्रवेष्टव्या स्वा तनुः' इति प्रयोगः कथासरित्सागरे विद्यते । अत्र 'स्व' इत्युक्ते 'स्वस्य / मम' इति ।\n'स्व' शब्दस्य इयं सर्वनामसंज्ञा प्रकृतसूत्रेण न भवति अपितु सर्वादिगणे विद्यमानेन <=स्वमज्ञातिधनाख्यायाम् => इत्यनेन गणसूत्रेण भवति इति स्मर्तव्यम् ।\nजस्-प्रत्यये परे सर्वनामसंज्ञायाः विकल्पः\nसर्वादिगणे विद्यमानेन <=स्वमज्ञातिधनाख्यायाम् => इत्यनेन गणसूत्रेण आत्मा / आत्मीयः अस्मिन् अर्थे प्रयुक्तस्य 'स्व' शब्दस्य नित्यं सर्वनामसंज्ञायां प्राप्तायाम् प्रकृतसूत्रेण जस्-प्रत्यये परे अस्याः पाक्षिकः बाधः क्रियते । अतः जस्-प्रत्यये परे अस्य 'स्व' शब्दस्य पुंल्लिङ्गस्य 'स्वे / स्वाः' इति द्वे रूपे भवतः । अन्यत्र सर्वत्र तु अस्य रूपाणि 'सर्व'शब्दसदृशानि एव ज्ञेयानि ।\nप्राप्तविभाषा\nप्रकृतसूत्रे निर्दिष्टा विभाषा प्राप्तविभाषा अस्ति । पूर्वसूत्रेण नित्यं प्राप्ता सर्वनामसंज्ञा अत्र पक्षे निषिध्यते, अतः इयं प्राप्तविभाषा ।\nव्यवस्थितविभाषा\nप्रकृतसूत्रेण जस्-प्रत्यये परे निर्दिष्टः सर्वनामसंज्ञानिषेधः जस्-प्रत्ययविशिष्टकार्यार्थः एव ज्ञेयः, अन्यकार्यार्थः न । अतः <<अव्ययसर्वनाम्नामकच्प्राक्टेः>> [[5.3.71]] इत्यनेन विहितः अकच्-प्रत्ययः 'स्व' शब्दात् अन्तरङ्गत्वात् जस्-प्रत्ययविधानात् पूर्वमेव भवति । अतः अकच्-प्रत्यये कृते ततः जस्-प्रत्ययं कृत्वा 'स्वके / स्वकाः' एतादृशे अकच्-प्रत्ययनिर्मिते अन्तोदात्तरूपे एव भवतः ।" }, "11036": { "sa": "'स्थलात् बहिः' तथा 'अन्तर्वस्त्रम्' एतयोः अर्थयोः प्रयुक्तस्य 'अन्तर' शब्दस्य 'जस्' प्रत्यये परे विकल्पेन सर्वनामसंज्ञा भवति । ", "sd": "व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'सर्वनाम' इति संज्ञा । <<सर्वादीनि सर्वनामानि>> [[1.1.27]] इत्यस्मात् सूत्रात् आरभ्य <<अन्तरं बहिर्योगोपसंव्यानयोः>> [[1.1.36]] इति यावत्सु दशसु सूत्रेषु इयं संज्ञा पाठिता अस्ति । एतेषु इदं अन्तिमम् (दशमम्) सूत्रम् । इदं विभाषासूत्रम् अस्ति । 'अन्तर' इत्यस्य शब्दस्य नित्यरूपेण प्राप्ता सर्वनामसंज्ञा जस्-प्रत्यये परे अनेन सूत्रेण विकल्प्यते ।\nसर्वादिगणस्य '<=अन्तरं बहिर्योगोपसंव्यानयोः=>' इति गणसूत्रम् \n<<सर्वादीनि सर्वनामानि>> [[1.1.27]] अस्मिन् सूत्रे निर्दिष्टे सर्वादिगणे <=अन्तरं बहिर्योगोपसंव्यानयोः => इति गणसूत्रम् पाठितम् अस्ति । अनेन गणसूत्रेण 'अन्तर' इति शब्दस्य 'बहिर्योगः' (बहिः स्थितः, located outside) तथा च 'उपसंव्यानम्' (Undergarments) एतयोः अर्थयोः सर्वनामसंज्ञा भवति । यथा - भिक्षुः नगरात् अन्तरः (बहिः) वसति । सः अन्तरम् (अन्तर्वस्त्रम्) धारयति । उभयत्र 'अन्तर'शब्दस्य सर्वनामसंज्ञा भवति ।\n'अन्तर' शब्दस्य 'मध्ये' इत्यपि कश्चन अर्थः अस्ति । यथा, नगरस्य अन्तरे नदी वहति । अस्मिन् अर्थे 'अन्तर'शब्दस्य सर्वनामसंज्ञा न भवति ।\n'अन्तर'शब्दस्य सर्वनामसंज्ञा प्रकृतसूत्रेण न भवति अपितु सर्वादिगणे विद्यमानेन <=अन्तरं बहिर्योगोपसंव्यानयोः => इत्यनेन गणसूत्रेण भवति इति स्मर्तव्यम् ।\nजस्-प्रत्यये परे सर्वनामसंज्ञायाः विकल्पः\nसर्वादिगणे विद्यमानेन <=अन्तरं बहिर्योगोपसंव्यानयोः => इत्यनेन गणसूत्रेण 'बहिर्योगः' तथा 'उपसंव्यानम्' एतयोः अर्थयोः प्रयुक्तस्य 'अन्तर' शब्दस्य नित्यं सर्वनामसंज्ञायां प्राप्तायाम् प्रकृतसूत्रेण जस्-प्रत्यये परे अस्याः पाक्षिकः बाधः क्रियते । अतः जस्-प्रत्यये परे अस्य 'अन्तर' शब्दस्य पुंल्लिङ्गस्य 'अन्तरे / अन्तराः' इति द्वे रूपे भवतः । अन्यत्र सर्वत्र तु अस्य रूपाणि 'सर्व'शब्दसदृशानि एव ज्ञेयानि ।\nप्राप्तविभाषा\nप्रकृतसूत्रे निर्दिष्टा विभाषा प्राप्तविभाषा अस्ति । पूर्वसूत्रेण नित्यं प्राप्ता सर्वनामसंज्ञा अत्र पक्षे निषिध्यते, अतः इयं प्राप्तविभाषा ।\nव्यवस्थितविभाषा\nप्रकृतसूत्रेण जस्-प्रत्यये परे निर्दिष्टः सर्वनामसंज्ञानिषेधः जस्-प्रत्ययविशिष्टकार्यार्थः एव ज्ञेयः, अन्यकार्यार्थः न । अतः <<अव्ययसर्वनाम्नामकच्प्राक्टेः>> [[5.3.71]] इत्यनेन विहितः अकच्-प्रत्ययः 'अन्तर' शब्दात् अन्तरङ्गत्वात् जस्-प्रत्ययविधानात् पूर्वमेव भवति । अतः अकच्-प्रत्यये कृते ततः जस्-प्रत्ययं कृत्वा 'अन्तरके / अन्तरकाः' एतादृशे अकच्-प्रत्ययनिर्मिते अन्तोदात्तरूपे एव भवतः ।" }, "11037": { "sa": "स्वरादिगणस्य शब्दाः, निपातसंज्ञकाः शब्दाः च अव्ययसंज्ञकाः भवन्ति । ", "sd": "व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा अस्ति 'अव्यय' इति संज्ञा । <<स्वरादिनिपातमव्ययम्>> [[1.1.37]] इत्यस्मात् सूत्रात् <<अव्ययीभावश्च>> [[1.1.41]] इति यावत्सु पञ्चसु सूत्रेषु अव्ययसंज्ञा पाठ्यते । एतेषु इदं प्रथमम् सूत्रम् । स्वरादिगणस्य शब्दाः तथा च निपातसंज्ञकाः शब्दाः अनेन सूत्रेण अव्ययसंज्ञकाः भवन्ति ।\nस्वरादिगणः\nगणपाठस्य द्वितीयः गणः अस्ति स्वरादिगणः । अस्मिन् गणे अनेकानि प्रातिपदिकानि पाठितानि सन्ति । भिन्नेषु संस्करणेषु इयम् आवली बहुधा भिद्यते । केषुचन संस्करणेषु अस्मिन् गणे अष्टाध्याय्याः अव्ययप्रकरणस्य अन्यानि अपि सूत्राणि गणसूत्ररूपेण पाठितानि सन्ति, यत् वस्तुतः न आवश्यक् ।\nस्वरादिगणस्य सामान्यरूपेण प्राप्ता आवली अधः दत्ता अस्ति ।\n\nस्वर् । अन्तर् । प्रातर् । पुनर् । सनुतर् । उच्चैस् । नीचैस् । शनैस् । ऋधक् । ऋते । युगपत् । आरात् । अन्तिकात् । पृथक् । ह्यस् । श्वस् । दिवा । रात्रौ । सायम् । चिरम् । मनाक् । ईषत् । शश्वत् । जोषम् । तूष्णीम् । बहिस् । अधस् । अवस् । समया । निकषा । स्वयम् । मृषा । नक्तम् । नञ् । हेतौ । हे । है । इद्धा । अद्धा । सामि । सना । सनत् । सनात् । उपधा । तिरस् । अन्तरा । अन्तोदात्ताः । अन्तरेण । मक् । ज्योक् । योक् । नक् । कम् । शम् । सना । सहसा । श्रद्धा । अलम् । स्वधा । वषट् । विना । नाना । स्वस्ति । अन्यत् । अस्ति । उपांशु । क्षमा । विहायसा । दोषा । मृषा । मुधा । दिष्ट्या । वृथा । मिथ्या । पुरा । मिथो । मिथस् । प्रायस् । मुहुस् । प्रवाहुकम् । प्रवाहिका । आर्यहलम् । अभीक्ष्णम् । सायम् । साकम् । सार्धम् । सार्थम् । सत्रम् । समम् । नमस् । हिरुक् । अथ । अम् । आम् । प्रताम् । प्रतान् । प्रशान् । तथाहि । मा । माङ् । श्रम् । कामम् । प्रकामम् । भूयस् । परम् । साक्षात् । साचि । सावि । सत्यम् । मंक्षु । संवत् । अवश्यम् । सपदि । प्रादुस् । आविस् । अनिशम् । नित्यम् । नित्यदा । सदा । अजस्रम् । सन्ततम् । उषा । ओम् । भूर् । भुवर् । झटिति । तरसा । सुष्ठु । कु । अञ्जसा । अ । मिथु । अमिथु । विथक् । भाजक् । अन्वक् । चिराय । चिरम् । चिररात्राय । चिरस्य । चिरेण । चिरात् । अस्तम् । आनुषक् । अनुषक् । अनुषट् । अम्नस् । अम्भस् । अम्नर् । अम्भर् । स्थाने । वरम् । दुष्ठु । बलात् । शु । अर्वाक् । शुदि । वदि । इति स्वरादिः आकृतिगणः ॥\n\nस्वरादिगणस्य सर्वेषाम् शब्दानाम् सर्वेषु अर्थेषु प्रकृतसूत्रेण अव्ययसंज्ञा विधीयते ।\n\n1. स्वरादिगणे विद्यमानानाम् प्रातिपदिकानाम् अर्थाः कोशेषु एव द्रष्टव्याः ।\n2. केषुचन ग्रन्थेषु (यथा काशिकायाम्) 'वत्', 'तसिलादिषु एधाच्चपर्यन्ताः', 'अव्ययीभावश्च', 'क्त्वातोसुन्कसुनः' इत्यादीनि कानिचन गणसूत्राणि स्वरादिगणे पाठितानि वर्तन्ते । परन्तु <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]], <<अव्ययीभावश्च>> [[1.1.41]], <<क्त्वातोसुन्कसुनः>> [[1.1.40]] एतैः पृथक् रूपेण पाठितैः सूत्रैः एतेषाम् परिगणम् अवश्यं भवति अतः एतेषाम् गणसूत्राणां स्वरादिगणे निर्देशस्य न हि किञ्चन प्रयोजनं विद्यते ।\n\nनिपाताः\nनिपाताः इत्यपि व्याकरणविशिष्टा काचित् संज्ञा अस्ति । <<प्राग्रीश्वरान्निपाताः>> [[1.4.56]] इत्यस्मात् सूत्रात् आरभ्य <<अधिरीश्वरे>> [[1.4.97]] इत्यस्मात् प्राक् (<<अपिः पदार्थसम्भावनान्ववसर्गगर्हासमुच्चयेषु>> [[1.4.96]] इति यावत्सु सूत्रेषु) निपातसंज्ञकशब्दाः पाठ्यन्ते । केचन मुख्याः निपाताः एतादृशाः —\n\n1) चादिगणस्य सर्वे शब्दाः द्रव्यभिन्ने अर्थे (when not specifying a physics object इत्याशयः) निपातसंज्ञकाः सन्ति ।\n2) सर्वे प्रादयः (प्र, परा, अप - आदयः शब्दाः) निपातसंज्ञकाः सन्ति ।\n3) ऊर्यादिगणस्य सर्वे शब्दाः निपातसंज्ञकाः भवन्ति ।\n4) 'च्वि'प्रत्ययान्तशब्दाः - यथा 'स्पष्टी', 'विशदी', 'दूरी' - आदयः निपातसंज्ञकाः सन्ति ।\n\nइत्यादयः । एतादृशानाम् अन्यानाम् अपि निपातानाम् प्रकृतसूत्रेण 'अव्यय'संज्ञा भवति ।\nअव्ययसंज्ञायाः प्रयोजनम्\nअष्टाध्याय्याम् अव्ययसंज्ञाम् अधिकृत्य भिन्नाः विधयः उच्यन्ते । यथा, <<अव्ययसर्वनाम्नामकच्प्राक्टेः>> [[5.3.71]] अनेन सूत्रेण अव्ययसंज्ञकेभ्यः शब्देभ्यः विशिष्टेषु सन्दर्भेषु स्वार्थिकः अकच्-प्रत्ययः भवति -\n\nअज्ञातः उच्चैः [तद्धितवृत्तिः]\n= उच्च् + अकच् + ऐस् [<<अज्ञाते>> [[5.3.73]] इत्यस्मिन् सन्दर्भे <<अव्ययसर्वनाम्नामकच्प्राक्टेः>> [[5.3.71]] इति अकच्-प्रत्ययः । अयं प्रत्ययः 'टि'संज्ञकात् पूर्वम् विधीयते । 'उच्चैस्' इत्यत्र 'ऐस्' इति टि-संज्ञकः अस्ति, अतः अकच्-प्रत्ययः अस्मात् पूर्वम् विधीयते ]\n→ उच्च् + अक् + ऐस् [चकारस्य इत्संज्ञा, ककारोत्तरः अकारः उच्चारणार्थः । उभयोः लोपः]\n→ उच्च् + अकैस्\n→ उच्चकैस्\n→ उच्चकैः [सकारस्य रुत्वम्, विसर्गः]\n\nअव्ययानाम् प्रातिपदिकत्वम्, सुबुत्पत्तिः, पदसंज्ञा\nसर्वाणि अव्ययानि मूलरूपेण प्रातिपदिकानि सन्ति । अतः एतेभ्यः सर्वे सुप्-प्रत्ययाः अवश्यं भवन्ति । परन्तु अव्ययेभ्यः विहितानाम् सर्वेषाम् सुप्-प्रत्ययानाम् <<अव्ययादाप्सुपः>> [[2.4.82]] इत्यनेन लुक् भवति ।\n\nच [<<अर्थवदधातुरप्रत्ययः प्रातिपदिकम्>> [[1.2.45]] इति प्रातिपदिकसंज्ञा । <<स्वरादिनिपातमव्ययम्>> [[1.1.37]] इत्यनेन अव्ययसंज्ञा ।]\n--> च + सुँ [<<स्वौजस्...>> [[4.1.2]] इत्यनेन सुबुत्पत्तिः]\n--> च + ० [<<अव्ययादाप्सुपः>> [[2.4.82]] इत्यनेन अव्ययसंज्ञकात् विहितस्य सुप्-प्रत्ययस्य लुक्]\n--> च [<<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इति प्रत्ययस्य लोपे कृते अपि तल्लक्षणा <<सुप्तिङन्तं पदम्>> [[1.4.14]] इति पदसंज्ञा ]\n\nअनेन प्रकारेण पदसंज्ञायाम् जातायाम् एव अस्य शब्दस्य वाक्ये प्रयोगः भवति । अतः 'रामः लक्ष्मणः च' अस्मिन् वाक्ये विद्यमानः 'च' इति शब्दः पदसंज्ञकः अस्ति, न हि प्रातिपदिकम् ।\nस्वरादिगणस्य आकृतिगणत्वम्\nस्वरादिगणः आकृतिगणः अस्ति । इत्युक्ते, स्वरादिगणे निर्दिष्टान् शब्दान् विहाय अन्येऽपि केचन शब्दाः शिष्टप्रयोगम् अनुसृत्य स्वरादिगणे भवितुम् अर्हन्ति । एतेषाम् अपि सर्वेषाम् प्रकृतसूत्रेण अव्ययसंज्ञा भवति । " }, "11038": { "sa": "यस्मात् तद्धितान्तशब्दात् सर्वे विभक्तिप्रत्ययाः न विधीयन्ते, तस्य 'अव्यय' इति संज्ञा भवति । ", "sd": "व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा अस्ति 'अव्यय' इति संज्ञा । <<स्वरादिनिपातमव्ययम्>> [[1.1.37]] इत्यस्मात् सूत्रात् <<अव्ययीभावश्च>> [[1.1.41]] इति यावत्सु पञ्चसु सूत्रेषु अव्ययसंज्ञा पाठ्यते । एतेषु इदं द्वितीयम् सूत्रम् । विशिष्टानाम् तद्धितप्रत्ययान्तशब्दानाम् अनेन सूत्रेण अव्ययसंज्ञा दीयते ।\n'असर्वविभक्तिः' इत्यस्य अर्थः\nतद्धिताधिकारे निर्दिष्टाः केचन तद्धितप्रत्ययाः यदा प्रातिपदिकेभ्यः विधीयन्ते, तर्हि तत्र निर्मितेभ्यः नूतनप्रातिपदिकेभ्यः सङ्ख्यात्वस्य अभावात् द्विवचन-बहुवचनस्य विभक्तिप्रत्ययाः न भवन्ति । एतेभ्यः औत्सर्गिकरूपेण केवलं एकवचनस्यैव विभक्तिप्रत्ययाः भवन्ति । अतएव एतेषां निर्देशः अत्र 'असर्वविभक्तिः' इत्यनेन क्रियते ।\nएतादृशाः सर्वे शब्दाः येभ्यः द्विवचन-बहुवचन-प्रत्ययाः न विधीयन्ते ते प्रकृतसूत्रेण 'अव्यय'संज्ञां स्वीकुर्वन्ति ।\nअसर्वविभक्तिकानां तद्धितप्रत्ययानाम् आवली\nयैः तद्धितप्रत्ययैः अव्ययस्य निर्माणं भवति तेषाम् सूत्राणाम् आवली एतादृशी वर्तते -\n1. <<तसिश्च>> [[4.3.113]] इत्यनेन विहितः 'तसि'प्रत्ययः येषाम् अन्ते वर्तते, ते शब्दाः अव्ययसंज्ञकाः भवन्ति । यथा - सुदामतः, हिमवत्तः - आदयः । अयम् प्रत्ययः सर्वेभ्यः प्रातिपदिकेभ्यः पञ्च्यमर्थे विधीयते, अतः अनेन सूत्रेण अनेकानि नूतनानि अव्ययानि सिद्ध्यन्ति ।\n2. <<तेन तुल्यं क्रिया चेद्वतिः>> [[5.1.115]], <<तत्र तस्येव>> [[5.1.116]], <<तदर्हम्>> [[5.1.117]] एतैः सूत्रैः उक्तः 'वति'प्रत्ययः येषाम् अन्ते विद्यते, ते शब्दाः अव्ययसंज्ञकाः भवन्ति । यथा - ब्राह्मणवत्, क्षत्रियवत् - आदयः । अनेन अपि सूत्रेण बहूनि नूतनानि अव्ययानि सिद्ध्यन्ति ।\n3. <<विनञ्भ्यां नानाञौ नसह>> [[5.2.27]] अनेन विहितः ना-प्रत्ययः नञ्-प्रत्ययः च येषाम् अन्ते अस्ति, ते शब्दाः अव्ययसंज्ञकाः भवन्ति । अनेन सूत्रेण 'विना' तथा 'नाना' एतयोः शब्दयोः अव्ययसंज्ञा भवति ।\n4. <<पञ्चम्यास्तसिल्>> [[5.3.7]] इत्यतः <<एधाच्च>> [[5.3.46]] एतेषु सूत्रेषु निर्दिष्टाः तद्धितप्रत्ययाः येषाम् अन्ते आगच्छन्ति, ते शब्दाः अव्ययसंज्ञकाः भवन्ति । यथा - ततः, यतः, यत्र, कुत्र, परितः, अभितः, क्व, इह, तत्रभवान्, द्वैधम्, त्रैधम् - आदयः । आहत्य पञ्चाशताधिकानां शब्दानाम् इत्थम् अव्ययसंज्ञा भवति ।\n5. <<किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे>> [[5.4.11]] इत्यनेन उक्तः आम्-प्रत्ययः तथा <<अमु च च्छन्दसि>> [[5.4.12]] इत्यनेन उक्तः अम्-प्रत्ययः येषाम् अन्ते विद्यते , ते शब्दाः अव्ययसंज्ञकाः भवन्ति । यथा - किंतराम्, पूर्वाह्णेतराम्, पचतितराम्, प्रतराम् - आदयः । एतौ प्रत्ययौ सर्वेभ्यः तिङन्तेभ्यः, सङ्ख्यावाचकशब्देभ्यः उक्तौ स्तः ।\n6. <<संख्यायाः क्रियाऽभ्यावृत्तिगणने कृत्वसुच्>> [[5.4.17]], <<द्वित्रिचतुर्भ्यः सुच्>> [[5.4.18]], <<एकस्य सकृच्च>> [[5.4.19]] तथा <<विभाषा बहोर्धाऽविप्रकृष्टकाले>> [[5.4.20]] एतैः सूत्रैः प्रोक्ताः 'कृत्वसुच्', 'सुच्', तथा 'धा' प्रत्ययाः येषाम् अन्ते सन्ति, ते शब्दाः अव्ययसंज्ञकाः भवन्ति । यथा - द्विस्, त्रिस्, चतुर्, पञ्चकृत्वः , पञ्चधा - आदयः । एतेषु 'कृत्वसुच्' प्रत्ययः सर्वेभ्यः संख्यावाचकशब्देभ्यः विधीयन्ते ।\n7. <<बह्वल्पार्थाच्छस् कारकादन्यतरस्याम्>> [[5.4.42]] इत्यतः <<मद्रात् परिवापणे>> [[5.4.67]] इति यावत्सु सूत्रेषु ये प्रत्ययाः उक्ताः सन्ति, तदन्ताः शब्दाः अव्ययसंज्ञकाः भवन्ति । यथा - बहुशः, अल्पशः, आदितः, ग्रामतः, देवत्रा - आदयः । एतेषु केचन प्रत्ययाः प्रायः सर्वेभ्यः प्रातिपदिकेभ्यः विधीयन्ते । अतः अनेन प्रकारेण अनन्तशब्दानाम् अव्ययसंज्ञा भवितुम् अर्हति ।\nसुबुत्पत्तिः, पदसंज्ञा\nसर्वे तद्धितान्तशब्दाः <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इत्यनेन प्रातिपदिकसंज्ञकाः सन्ति । एतेषु येभ्यः केवलम् एकवचनस्य प्रत्ययाः उत्पद्यन्ते, प्रकृतसूत्रेण तेषाम् अव्ययसंज्ञा विधीयते । अस्य एकवचनस्य प्रत्ययस्य प्रक्रियायाम् अग्रे <<अव्ययादाप्सुपः>> [[2.4.82]] इत्यनेन लुक् भवति ।\n\nविना [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यनेन अव्ययसंज्ञा ।]\n--> विना + सुँ [<<स्वौजस्...>> [[4.1.2]] इत्यनेन सुबुत्पत्तिः]\n--> विना + ० [<<अव्ययादाप्सुपः>> [[2.4.82]] इत्यनेन अव्ययसंज्ञकात् विहितस्य सुप्-प्रत्ययस्य लुक्]\n--> विना [<<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इति प्रत्ययस्य लोपे कृते अपि तल्लक्षणा <<सुप्तिङन्तं पदम्>> [[1.4.14]] इति पदसंज्ञा ]\n\nअनेन प्रकारेण पदसंज्ञायाम् जातायाम् एव अस्य शब्दस्य वाक्ये प्रयोगः भवति । अतः 'रामः भरतं विना गच्छति' अस्मिन् वाक्ये विद्यमानः 'विना' इति शब्दः पदसंज्ञकः अस्ति, न हि प्रातिपदिकम् ।\n" }, "11039": { "sa": "मकारान्तः उत 'एच्' वर्णान्तः कृत् प्रत्ययः यस्य अन्ते विद्यते सः शब्दः 'अव्यय' नाम्ना ज्ञायते । ", "sd": "व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा अस्ति 'अव्यय' इति संज्ञा । <<स्वरादिनिपातमव्ययम्>> [[1.1.37]] इत्यस्मात् सूत्रात् <<अव्ययीभावश्च>> [[1.1.41]] इति यावत्सु पञ्चसु सूत्रेषु अव्ययसंज्ञा पाठ्यते । एतेषु इदं तृतीयं सूत्रम् । विशिष्टानाम् कृदन्तशब्दानाम् अनेन सूत्रेण अव्ययसंज्ञा दीयते ।\nअष्टाध्याय्याम् <<धातोः>> [[3.1.91]] अस्मिन् अधिकारे सर्वे कृत्-प्रत्ययाः विहिताः सन्ति । एतेषु ये कृत्-प्रत्ययाः मकारान्ताः सन्ति, ये च 'एच्' प्रत्याहारान्ताः अन्ति, तैः सिद्धाः शब्दाः प्रकृतसूत्रेण अव्ययसंज्ञकाः भवन्ति ।\nमकारान्ताः कृत्प्रत्ययाः\nअष्टाध्याय्याम् आहत्य चत्वारः कृत्प्रत्ययाः मकारान्ताः सन्ति -\n1) णमुल्-प्रत्ययः - <<आभीक्ष्ण्ये णमुल् च>> [[3.4.22]] तथा च <<अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ>> [[3.4.59]] एतयोः निर्दिष्टः णमुल्-प्रत्ययः ('णम्' इति दृश्यरूपम्) मकारान्तः अस्ति । अस्य प्रयोगेण सिद्धम् कृदन्तम् अव्ययसंज्ञकम् भवति । यथा, स्मृ + णमुल् --> 'स्मारम्' इति अव्ययम् । उच्चैस् + कृ + णमुल् --> 'उच्चैःकारम्' इति अव्ययम् ।\n2) खमुञ्-प्रत्ययः - <<कर्मण्याक्रोशे कृञः खमुञ्>> [[3.4.25]] अनेन निर्दिष्टः खमुञ्-प्रत्ययः ('खम्' इति दृश्यरूपम्) मकारान्तः अस्ति । अस्य प्रयोगेण सिद्धम् कृदन्तम् अपि अव्ययसंज्ञकम् भवति । यथा, चोर + कृ + खमुञ् --> 'चोरंकारम्' इति अव्ययम् ।\n3) तुमुन्-प्रत्ययः - <<तुमुण्वुलौ क्रियायां क्रियार्थायाम्>> [[3.3.10]] इत्यनेन निर्दिष्टः तुमुन्-प्रत्ययः ('तुम्' इति दृश्यरूपम्) मकारान्तः अस्ति । अस्य प्रयोगेण अपि अव्ययानि सिद्ध्यन्ति । यथा, कृ + तुमिन् --> 'कर्तुम्' इति अव्ययम् ।\n4) कमुल्-प्रत्ययः - <<शकि णमुल्कमुलौ>> [[3.4.12]] अनेन सूत्रेण णमुल् तथा कमुल् एतौ मकारान्तौ प्रत्ययौ वेदेषु कृतौ दृश्येते । एतयोः प्रयोगेण अपि अव्ययं सिद्ध्यति । वि + भज् + णमुल् --> 'विभाजम्' इति अव्ययम् । अप + लुप् + कमुल् --> 'अपलुपम्' इति अव्ययम् ।\nएजन्ताः कृत्प्रत्ययाः\nअष्टाध्याय्याम् कृदधिकारे एजन्ताः प्रत्ययाः एकेनैव सूत्रेण दत्ताः सन्ति - <<तुमर्थे सेसेनसेअसेन्क्सेकसेनध्यैअध्यैन्कध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ्तवेनः>> [[3.4.9]] अस्मिन् सूत्रे पाठिताः सर्वे प्रत्ययाः एजन्ताः सन्ति । एते सर्वे वैदिकप्रत्ययाः सन्ति । एतेषाम् प्रयोगेण अपि अव्ययाः सिद्ध्यन्ति । यथा - पा + शध्यै --> 'पिबध्यै' इति अव्ययम् ।\nसुबुत्पत्तिः, पदसंज्ञा\nसर्वाणि कृदन्तानि <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इत्यनेन प्रातिपदिकसंज्ञकानि सन्ति । एतेषु मकारान्तप्रत्ययनिर्मितानाम् एजन्तप्रत्ययनिर्मितानां च कृदन्तानाम् प्रकृतसूत्रेण अव्ययसंज्ञा विधीयते । एतेभ्यः विहितानाम् सुप्-प्रत्ययानाम् अग्रे <<अव्ययादाप्सुपः>> [[2.4.82]] इत्यनेन लुक् भवति ।\n\nकर्तुम् [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<कृन्मेजन्तः>> [[1.1.39]] इत्यनेन अव्ययसंज्ञा ।]\n--> कर्तुम् + सुँ [<<स्वौजस्...>> [[4.1.2]] इत्यनेन सुबुत्पत्तिः]\n--> कर्तुम् + ० [<<अव्ययादाप्सुपः>> [[2.4.82]] इत्यनेन अव्ययसंज्ञकात् विहितस्य सुप्-प्रत्ययस्य लुक्]\n--> कर्तुम् [<<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इति प्रत्ययस्य लोपे कृते अपि तल्लक्षणा <<सुप्तिङन्तं पदम्>> [[1.4.14]] इति पदसंज्ञा ]\n\nअनेन प्रकारेण पदसंज्ञायाम् जातायाम् एव अस्य शब्दस्य वाक्ये प्रयोगः भवति । अतः 'रामः रक्षणं कर्तुम् गच्छति' अस्मिन् वाक्ये विद्यमानः 'कर्तुम्' इति शब्दः पदसंज्ञकः अस्ति, न हि प्रातिपदिकम् ।\nसूत्रे 'अन्त'ग्रहणस्य प्रयोजनम्\nप्रकृतसूत्रे 'कृन्मेजन्तः' इत्यस्य स्थाने 'कृन्मेच्' इत्येव उच्यते चेदपि 'मेच्' इति शब्दं 'कृत्' इत्यस्य विशेषणरूपेण स्वीकृत्य <<येन विधिस्तदन्तस्य>> [[1.1.72]] इत्यनेन तदन्तविधनिना 'मेच् कृत्' इत्यस्य अर्थः 'मकारान्तः / एच्-वर्णान्तः कृत्प्रत्ययः' इत्येव भवितुम् अर्हति । तथापि अस्मिन् सूत्रे 'मेजन्त' इति अन्तग्रहणम् कृतम् अस्ति । अस्मिन् विषये तत्वबोधिनीकारः वदति - येन विधिस्तदन्तस्य इत्यनेन एव सिद्धे सूत्रे अन्तग्रहणम् औपदेशिकप्रतिपत्त्यर्थम्, तेन इह न - आधये, चिकीर्षवे । इत्युक्ते, अत्र 'अन्त'ग्रहणेन एतत् स्पष्टीक्रियते यत् केवलम् तेषाम् कृत्-प्रत्ययान्तानाम् अत्र ग्रहणम् करणीयम् ये मूलरूपेण एजन्ताः सन्ति - यथा, से, असे, असेन् - आदयः । यत्र कृत्प्रत्ययः मूलरूपेण एजन्तः नास्ति (यथा, अण्, उ इत्यादयः) परन्तु प्रक्रियायाम् कुत्रचित् अग्रे एजन्तत्वम् गृह्णाति तत्र अस्य सूत्रस्य प्रयोगः न करणीयः । यथा, 'कुम्भ + कृ + अण् --> कुम्भकार' इत्यत्र विद्यमानः अण्-प्रत्ययः यद्यपि अकारान्तः अस्ति, तथापि अस्मात् प्रातिपदिकात् चतुर्थीबहुवचनस्य प्रत्यये कृते 'कुम्भकार + भ्यस्' इति स्थिते <<बहुवचने झल्येत्>> [[7.3.103]] इत्यनेन अदन्त-अङ्गस्य एकारादेशे कृते 'कुम्भकारे' इति एजन्तम् रूपम् सिद्ध्यति । परन्तु एतत् एजन्तम् रूपम् अत्र न स्वीकरणीयम्, केवलम् प्रत्ययस्य औपदेशिस्वरूपम् (अकारान्तत्वम्) एव आश्रित्य अव्ययसंज्ञायाः निर्णयः करणीयः - इति अत्र 'अन्त'ग्रहणेन ज्ञाप्यते । वस्तुतस्तु 'कुम्भकारेभ्यः' इत्यादिषु उदाहरणेषु <ऽलक्षणप्रतिपदोक्तयोः प्रतिपदपक्तस्यैव ग्रहणम्ऽ>, तथा च <ऽसन्निपातविधिरनिमित्तको तद्विघातस्यऽ> इत्यादिभिः भिन्नाभिः परिभाषाभिः अपि अव्ययत्वं निषेधयितुम् शक्यते, अतः अस्मिन् सूत्रे 'अन्त'ग्रहणम् नैव आवश्यकम् । तथापि अत्र स्थापितम् अन्तग्रहणम् एतासाम् परिभाषाणाम् अनित्यत्वज्ञापनार्थम् अस्ति इति प्रौढमनोरमायां निर्दिश्यते ।\n" }, "11040": { "sa": "'क्त्वा'प्रत्ययान्तशब्दाः, 'तोसुन्' प्रत्ययान्तशब्दाः, 'कसुन्' प्रत्ययान्तशब्दाः च अव्ययसंज्ञकाः भवन्ति । ", "sd": "व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा अस्ति 'अव्यय' इति संज्ञा । <<स्वरादिनिपातमव्ययम्>> [[1.1.37]] इत्यस्मात् सूत्रात् <<अव्ययीभावश्च>> [[1.1.41]] इति यावत्सु पञ्चसु सूत्रेषु अव्ययसंज्ञा पाठ्यते । एतेषु इदं चतुर्थं सूत्रम् । क्त्वा, तोसुन्, तथा कसुन् - एते कृत्प्रत्ययाः यस्य अन्ते विद्यन्ते तस्य कृदन्तस्य प्रकृतसूत्रेण अव्ययसंज्ञा भवति । \nक्त्वा-प्रत्ययः\nतृतीयाध्यायस्य चतुर्थपादे विद्यमानेभ्यः भिन्नेभ्यः सूत्रेभ्यः 'क्त्वा'प्रत्ययः पाठितः अस्ति । यथा - <<अलङ्खल्वोः प्रतिषेधयोः प्राचां क्त्वा>> [[3.4.18]], <<समानकर्तृकयोः पूर्वकाले>> [[3.4.21]], <<अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ>> [[3.4.59]] आदयः । अयं क्त्वा-प्रत्ययः यदा धातुभ्यः प्रयुज्यते, तदा सिद्धं कृदन्तम् प्रकृतसूत्रेण अव्ययसंज्ञकं भवति । यथा, कृ + क्त्वा --> 'कृत्वा' इति अव्ययम् ।\nतोसुन्-प्रत्ययः, कसुन्-प्रत्ययः\n'तोसुन्' तथा 'कसुन्' एतौ छान्दसौ प्रत्ययौ । <<ईश्वरे तोसुन्कसुनौ>> [[3.4.13]], <<भावलक्षणे स्थेण्कृञ्वदिचरिहुतमिजनिभ्यस्तोसुन्>> [[3.4.16]] तथा च <<सृपितृदोः कसुन्>> [[3.4.17]] इत्येतैः सूत्रै एतयोः विधानं क्रियते । एतयोः प्रयोगेण अपि अव्ययं सिद्ध्यति । यथा - अभि + चर् + तोसुन् --> 'अभिचरितस्' इति अव्ययम् । वि + लिख् + कसुन् --> 'विलिखस्' इति अव्ययम् ।\nसुबुत्पत्तिः, पदसंज्ञा\nसर्वाणि कृदन्तानि <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इत्यनेन प्रातिपदिकसंज्ञकानि सन्ति । एतेषु क्त्वा-तोसुन्-कसुन्-प्रत्ययान्तशब्दानाम् प्रकृतसूत्रेण अव्ययसंज्ञा विधीयते । एतेभ्यः विहितानाम् सुप्-प्रत्ययानाम् अग्रे <<अव्ययादाप्सुपः>> [[2.4.82]] इत्यनेन लुक् भवति ।\n\nकृत्वा [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<क्त्वातोसुन्कसुनः>> [[1.1.40]] इत्यनेन अव्ययसंज्ञा ।]\n--> कृत्वा + सुँ [<<स्वौजस्...>> [[4.1.2]] इत्यनेन सुबुत्पत्तिः]\n--> कृत्वा + ० [<<अव्ययादाप्सुपः>> [[2.4.82]] इत्यनेन अव्ययसंज्ञकात् विहितस्य सुप्-प्रत्ययस्य लुक्]\n--> कृत्वा [<<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इति प्रत्ययस्य लोपे कृते अपि तल्लक्षणा <<सुप्तिङन्तं पदम्>> [[1.4.14]] इति पदसंज्ञा ]\n\nअनेन प्रकारेण पदसंज्ञायाम् जातायाम् एव अस्य शब्दस्य वाक्ये प्रयोगः भवति । अतः 'रामः रक्षणं कृत्वा गच्छति' अस्मिन् वाक्ये विद्यमानः 'कृत्वा' इति शब्दः पदसंज्ञकः अस्ति, न हि प्रातिपदिकम् ।\nतदन्तग्रहणम्\nवस्तुतः अस्मिन् सूत्रे 'क्त्वा-तोसुन्-कसुनः' इति प्रत्ययानाम् एव निर्देशः कृतः अस्ति, तदन्तानां न । अस्यां स्थितौ <ऽसंज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्तिऽ> इत्यनया परिभाषया केवलप्रत्ययस्यैव अव्ययसंज्ञा प्राप्नोति, न हि तदन्तस्य । परन्तु केवलप्रत्ययस्य अव्ययसंज्ञायाः न किञ्चन प्रयोजनम्, अतः अत्र तदन्तस्यैव ग्रहणं क्रियते । " }, "11041": { "sa": "अव्ययीभावसमासेन निर्मितस्य शब्दस्य 'अव्यय' इति संज्ञा भवति । ", "sd": "व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा अस्ति 'अव्यय' इति संज्ञा । <<स्वरादिनिपातमव्ययम्>> [[1.1.37]] इत्यस्मात् सूत्रात् <<अव्ययीभावश्च>> [[1.1.41]] इति यावत्सु पञ्चसु सूत्रेषु अव्ययसंज्ञा पाठ्यते । एतेषु इदं अन्तिमम् (पञ्चमम्) सूत्रम् । अव्ययीभावसमासेन निर्मितानां शब्दानाम् अनेन सूत्रेण अव्ययसंज्ञा भवति ।\nअव्ययीभावसमासः\n<<अव्ययीभावः>> [[2.1.5]] अस्मिन् अधिकारे विद्यमानैः षोडशभिः सूत्रैः 'अव्ययीभाव'समासस्य विधानम् क्रियते । एतैः सर्वैः सूत्रैः सिद्धानि समस्तपदानि प्रकृतसूत्रेण अव्ययसंज्ञां प्राप्नुवन्ति । कानिचन उदाहरणानि एतादृशानि -\n1. <<अव्ययं विभक्तिसमीपसमृद्धि..>> [[2.1.6]] इत्यनेन सूत्रेण 'हरौ इति' इत्यस्मिन् अर्थे 'अधिहरि' इति प्राप्तं समस्तपदम् अव्ययसंज्ञकं भवति ।\n2. <<यथासादृश्ये>> [[2.1.7]] इत्यनेन 'यथाध्यापकम्', 'यथाध्यापकम्' एतादृशानि अव्ययानि सिद्ध्यन्ति ।\n3. <<आङ् मर्यादाभिविध्योः>> [[2.1.13]] इत्यनेन 'आकुमारम्' 'आपाटलिपुत्रम्' एतादृशानि अव्ययानि सिद्ध्यन्ति ।\nसुबुत्पत्तिः, पदसंज्ञा\nसर्वाणि समस्तपदानि <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इत्यनेन प्रातिपदिकसंज्ञकानि सन्ति । एतेषु अव्ययीभावसमासेन सिद्धानां समस्तपदानां प्रकृतसूत्रेण अव्ययसंज्ञा विधीयते । एतेभ्यः विहितानाम् सुप्-प्रत्ययानाम् अग्रे <<अव्ययादाप्सुपः>> [[2.4.82]] इत्यनेन लुक् भवति ।\n\nयथाशक्ति [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<अव्ययीभावश्च>> [[1.1.41]] इत्यनेन अव्ययसंज्ञा ।]\n--> यथाशक्ति + सुँ [<<स्वौजस्...>> [[4.1.2]] इत्यनेन सुबुत्पत्तिः]\n--> यथाशक्ति+ ० [<<अव्ययादाप्सुपः>> [[2.4.82]] इत्यनेन अव्ययसंज्ञकात् विहितस्य सुप्-प्रत्ययस्य लुक्]\n--> यथाशक्ति [<<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इति प्रत्ययस्य लोपे कृते अपि तल्लक्षणा <<सुप्तिङन्तं पदम्>> [[1.4.14]] इति पदसंज्ञा ]\n\nअनेन प्रकारेण पदसंज्ञायाम् जातायाम् एव अस्य शब्दस्य वाक्ये प्रयोगः भवति । अतः 'रामः यथाशक्ति रक्षणं करोति' अस्मिन् वाक्ये विद्यमानः 'यथाशक्ति' इति शब्दः पदसंज्ञकः अस्ति, न हि प्रातिपदिकम् ।\nअव्ययीभावसमासेन निर्मितः शब्दः अदन्तः अस्ति चेत् तु <<अव्ययादाप्सुपः>> [[2.4.82]] इत्यनेन प्राप्तः लुक् <<नाव्ययीभावादतोऽम्त्वपञ्चम्याः>> [[2.4.83]] इत्यनेन निषिध्यते ।\n\nउपकृष्ण [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<अव्ययीभावश्च>> [[1.1.41]] इत्यनेन अव्ययसंज्ञा ।]\n--> उपकृष्ण + सुँ [<<स्वौजस्...>> [[4.1.2]] इत्यनेन सुबुत्पत्तिः]\n--> उपकृष्ण + अम् [<<नाव्ययीभावादतोऽम्त्वपञ्चम्याः>> [[2.4.83]] इत्यनेन अव्ययीभावसमस्तपदात् विहितस्य सुप्-प्रत्ययस्य 'अम्' आदेशः]\n--> उपकृष्णम् [<<अमि पूर्वः>> [[6.1.107]] इति सुँ-प्रत्ययस् अम्-आदेशः । ततः <<सुप्तिङन्तं पदम्>> [[1.4.14]] इति पदसंज्ञा ]\n\nअत्र सिद्धम् 'उपकृष्णम्' इति अम्-प्रत्ययान्तं पदम् एव वाक्ये प्रयोक्तव्यम्, न हि 'उपकृष्ण' इति प्रातिपदिकम् । यथा - रामः उपकृष्णम् तिष्ठति ।\n" }, "11042": { "sa": "'शि' इत्यस्य 'सर्वनामस्थान' इति संज्ञा भवति ।", "sd": "व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'सर्वनामस्थान' इति संज्ञा । <<जश्शसोः शिः>> [[7.1.20]] इत्यनेन सूत्रेण नपुंसकात् परस्य जस्-प्रत्ययस्य शस्-प्रत्ययस्य च यः 'शि' इति आदेशः विधीयते, तस्य अनेन सूत्रेण 'सर्वनामस्थान' इति संज्ञा भवति ।\nप्रयोजनम्\nसर्वनामसंज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्यां भिन्नाः विधयः उक्ताः सन्ति । यथा, सर्वनामस्थाने परे अजन्तस्य नपुंसकस्य अङ्गस्य <<नपुंसकस्य झलचः>> [[7.1.72]] इति नुमागमः भवति । एवमेव नकारान्तस्य अङ्गस्य उपधावर्णस्य <<सर्वनामस्थाने चासम्बुद्धौ>> [[6.4.8]] इत्यनेन दीर्घादेशः भवति । यथा -\n\nफल + जस् [प्रथमाबहुवचनस्य प्रत्ययः]\n→ फल + शि [ <<जश्शसोः शिः>> [[7.1.20]] इति 'जस्'प्रत्ययस्य 'शि'आदेशः । <<शि सर्वनामस्थानम्>> [[1.1.42]] इत्यनेन शि-इत्यस्य सर्वनामस्थानसंज्ञा]\n→ फलन् इ [<<नपुंसकस्य झलचः>> [[7.1.72]] इत्यनेन अजन्तस्य नपुंसकलिङ्गस्य सर्वनामस्थाने परे नुमागमः भवति ।]\n→ फलान् इ [<<सर्वनामस्थाने चासम्बुद्धौ>> [[6.4.8]] इत्यनेन सर्वनामस्थाने परे नकारान्तस्य अङ्गस्य उपधादीर्घः ।]\n→ फलानि ।\n\nप्रयोगः\nअष्टाध्याय्यां 'सर्वनामस्थान'संज्ञायाः साक्षात् प्रयोगः चतुर्षु सूत्रेषु कृतः दृश्यते -\n1. <<पथिमथोः सर्वनामस्थाने>> [[6.1.199]]\n2. <<सर्वनामस्थाने चासम्बुद्धौ>> [[6.4.8]]\n3. <<उगिदचां सर्वनामस्थानेऽधातोः>> [[7.1.70]]\n4. <<इतोऽत् सर्वनामस्थाने>> [[7.1.86]]\nअनुवृत्तिरूपेण तु अन्येषु सूत्रेषु अपि अस्याः संज्ञायाः प्रयोगः भवितुम् अर्हति ।\nस्मर्तव्यम् - <<सुडनपुंसकस्य>> [[1.1.43]] इत्यनेन अग्रिमसूत्रेण अपि इयमेव संज्ञा पाठ्यते ।\n" }, "11043": { "sa": "नपुंसकलिङ्गभिन्नशब्दात् विहितानाम् 'सुँ', 'औ', 'जस्', 'अम्', 'औट्' प्रत्ययानाम् 'सर्वनामस्थान' इति संज्ञा भवति । ", "sd": "व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'सर्वनामस्थान' इति संज्ञा । अनेन सूत्रेण पुंलिङ्गशब्दात् स्त्रीलिङ्गशब्दात् च विहितानाम् सुट्-प्रत्याहारस्य प्रत्ययानाम् 'सर्वनामस्थान' इति संज्ञा दीयते ।\nसुट्-इति कश्चन प्रत्याहारः । <<स्वौजसमौट्...>> [[4.1.2]] अस्मिन् सूत्रे ये २१ प्रत्ययाः पाठ्यन्ते, तेषु विद्यमानाः प्रारम्भिकाः पञ्च प्रत्ययाः - 'सुँ, औ, जस्, अम्, औट्' - एतेषां ग्रहणम् 'सुट्' अस्मिन् प्रत्याहारे कृतम् अस्ति । एते प्रत्ययाः यदा पुंल्लिङ्गशब्दात् स्त्रीलिङ्गशब्दात् वा विधीयन्ते, तदा एतेषाम् 'सर्वनामस्थान' इति संज्ञा भवति ।\nप्रयोजनम्\nसर्वनामसंज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्यां भिन्नाः विधयः उक्ताः सन्ति । द्वे उदाहरणे एतादृशे -\n1. नकारान्तस्य अङ्गस्य उपधावर्णस्य <<सर्वनामस्थाने चासम्बुद्धौ>> [[6.4.8]] इत्यनेन दीर्घादेशः भवति -\n\nराजन् + औ [प्रथमाद्विवचनस्य 'औ' प्रत्ययः । राजन् इति पुंलिङ्गशब्दात् विहितः अयं प्रत्ययः सर्वनामस्थानसंज्ञकः अस्ति ।]\n--> राजान् + औ [<<सर्वनामस्थाने चासम्बुद्धौ>> [[6.4.8]] इत्यनेन उपधादीर्घः]\n--> राजानौ\n\n2. ऋकारान्तस्य अङ्गस्य सर्वनामस्थाने परे <<ऋतो ङिसर्वनामस्थानयोः>> [[7.3.110]] इत्यनेन गुणः भवति -\n\nमातृ + अम् [द्वितीयैकवचनस्य 'अम्' प्रत्ययः । 'मातृ' इति स्त्रीलिङ्गशब्दात् विहितः अयं प्रत्ययः सर्वनामस्थानसंज्ञकः भवति ।]\n→ मातर् + अम् [<<ऋतो ङिसर्वनामस्थानयोः>> [[7.3.110]] इत्यनेन ऋकारस्य गुणः अकारः । <<उरण् रपरः>> [[1.1.51]] इति सः रपरः]]\n→ मातरम्\n\n" }, "11044": { "sa": "'वैकल्पिकः निषेधः' तथा च 'वैकल्पिकी प्राप्तिः' एतयोः 'विभाषा' इति संज्ञा भवति । ", "sd": "व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतेषु अन्यतमा अस्ति विभाषा इति संज्ञा । वैकल्पिकः निषेधः (optional negation of a rule) तथा च वैकल्पिकी प्राप्तिः (optional application of a rule) एतौ अर्थौ प्रदर्शयितुम् व्याकरणशास्त्रे विभाषा इति संज्ञा प्रयुज्यते, इति अस्य सूत्रस्य आशयः ।\n पाक्षिकनिषेधनिर्देशार्थम् विभाषाशब्दस्य प्रयोगः (प्राप्तविभाषा)\nयत्र आचार्यः प्रारम्भे कञ्चन विधिं पाठयित्वा ततः तस्य वैकल्पिकनिषेधार्थम् विभाषा इति शब्दं प्रयुङ्क्ते, तत्र सा विभाषा प्राप्तविभाषा नाम्ना ज्ञायते । पूर्वेण नित्यं प्राप्ते पाक्षिकः निषेधः इति अस्य अर्थः । द्वे उदाहरणे एतादृशे —\n1. <<ऋहलोर्ण्यत्>> [[3.1.124]] इत्यनेन सूत्रेण सर्वेभ्यः हलन्तधातुभ्यः ण्यत् इति कश्चन कृत्प्रत्ययः विधीयते । परन्तु धातोः उपधायाम् ऋकारः अस्ति चेत् एतम् ण्यत्-प्रत्ययं बाधित्वा <<ऋदुपधाच्चाकॢपिचृतेः>> [[3.1.110]] इत्यनेन सूत्रेण क्यप् इति प्रत्ययः विधीयते । अतः मृज्-इति धातोः अनेन सूत्रेण क्यप्-प्रत्ययः एव भवेत्, न हि ण्यत्-प्रत्ययः । परन्तु मृज्-धातोः विषये द्वावपि प्रत्ययौ इष्येते । एतत् साधयितुम् <<मृजेर्विभाषा>> [[3.1.113]] इति सूत्रम् पाठितम् अस्ति । <<ऋदुपधाच्चाकॢपिचृतेः>> [[3.1.110]] इत्यनेन पूर्वसूत्रेण नित्यं पाठितस्य क्यप्-प्रत्ययस्य अत्र वैकल्पिकः निषेधः क्रियते, येन पक्षे <<ऋहलोर्ण्यत्>> [[3.1.124]] इति ण्यत्-प्रत्ययः अपि भवितुम् अर्हति । अत्र विभाषा शब्दम् उपयुज्यत पूर्वसूत्रेण प्राप्तस्य नित्यविधेः पाक्षिकः निषेधः कृतः अस्ति । इयम् प्राप्तविभाषा इति नाम्ना ज्ञायते । \n2. दिवुँ<{4.0001}> अयं धातुः यदा 'व्यवहारः' अस्मिन् अर्थे प्रयुज्यते, तदा अस्य धातोः कर्मपदस्य <<दिवस्तदर्थस्य>> [[2.3.58]] अनेन सूत्रेण षष्ठीविभक्तिः भवति । यथा - देवदत्तः शतस्य दीव्यति (Devadatta does a transaction of 100) । परन्तु यदि दिव्-शब्दः उपसर्गेण सह प्रयुज्यते, तर्हि तत्र कर्मपदस्य षष्ठी तथा द्वितीया एते द्वे अपि विभक्ती इष्येते । अतः <<विभाषोपसर्गे>> [[2.3.59]] इत्यनेन सूत्रेण आचार्यः पूर्वेण नित्यं प्राप्तां षष्ठीं विकल्पेन निषेधयति, येन देवदत्तः शतस्य प्रतिदीव्यति तथा च देवदत्तः शतम् प्रतिदीव्यति इति द्वे अपि वाक्ये साधुत्वं प्राप्नुतः । अत्रापि पूर्वसूत्रेण नित्यं प्राप्तः विधिः विभाषाशब्देन विकल्प्यते, अतः इयम् प्राप्तविभाषा ।\nविकल्पनिर्देशार्थम् विभाषाशब्दस्य प्रयोगः (अप्राप्तविभाषा)\nयत्र आचार्यः पूर्वम् अनुक्तस्य विधेः विकल्पेन विधानं कर्तुम् विभाषा इति शब्दं प्रयुङ्क्ते , तत्र सा विभाषा अप्राप्तविभाषा नाम्ना ज्ञायते । पूर्वेण नैव प्राप्ते पाक्षिकम् विधानम् इति अस्य अर्थः । द्वे उदाहरणे एतादृशे —\n1. <<गाङ् लिटि>> [[2.4.49]] अनेन सूत्रेण इङ् <{2.0041}> धातोः लिट्लकारस्य विवक्षायाम् गाङ् इति आदेशः भवति । एतादृशः गाङ्-आदेशः लुङ्लकारस्य विषये, लृङ्लकारस्य विषये अपि विकल्पेन इष्यते, अतः आचार्यः <<गाङ् लिटि>> [[2.4.49]] इत्यस्मात् अनन्तरम् <<विभाषा लुङ्लृङोः>> [[2.4.50]] इति सूत्रम् पाठयति । पूर्वसूत्रेण यः विधिः लुङ्लकारस्य लृङ्लकारस्य विषये च नैव प्राप्तः, सः अनेन सूत्रेण विभाषा-शब्दस्य साहाय्येन विकल्पेन विधीयते, अतः अत्र विभाषा-शब्देन 'अप्राप्तविभाषा' निर्दिष्टा अस्ति इति उच्यते ।\n2. गॄ <{6.0146}> अस्य धातोः रेफस्य यङ्-प्रत्यये परे <<ग्रोः यङि>> [[8.2.20]] इत्यनेन लकारादेशः भवति । एतादृशः लकारादेशः अजादिप्रत्ययस्य विषये अपि विकल्पेन इष्यते; अतः आचार्यः <<ग्रोः यङिः>> [[8.2.20]] अस्मात् सूत्रात् अनन्तरम् <<अचि विभाषा>> [[8.2.21]] इति सूत्रम् पाठयति । पूर्वसूत्रेण यः विधिः अजादिप्रत्ययस्य विषये नैव प्राप्तः, सः अनेन सूत्रेण विभाषाशब्दस्य साहाय्येन विकल्पेन विधीयते । पूर्वेण नैव प्राप्ते इदं पाक्षिकविधानं कृतम्, अतः इयमपि अप्राप्तविभाषा ।\nएकस्मिन्नेव सूत्रे वैकल्पिकनिषेधनिर्देशार्थम् वैकल्पिकविधानार्थम् च विभाषाशब्दस्य प्रयोगः (उभयविभाषा)\nकुत्रचित् आचार्यः एकेन एव विभाषाशब्देन निषेधविधानम् अपि करोति, विकल्पविधानम् च अपि करोति । एतादृशी विभाषा उभयविभाषा नाम्ना ज्ञायते । नित्यं प्राप्तस्य कुत्रचित् पाक्षिकः निषेधः, अप्राप्तस्य कुत्रचित् पाक्षिकः विकल्पः — इति उभयविभाषा । द्वे उदाहरणे एतादृशे —\n1. येषु धातुषु उपधायाम् ऋकारः अस्ति, तेभ्यः <<ऋदुपधाच्चाकॢपिचृतेः>> [[3.1.110]] इत्यनेन सूत्रेण क्यप्-प्रत्ययः विधीयते । अतः वृष्-धातोः अनेन सूत्रेण क्यप् प्रत्ययः नित्यं प्राप्नोति । कृ धातोः उपधायाम् तु ऋकारः नास्ति, अतः अस्मात् क्यप्-प्रत्ययः नैव प्राप्नोति । परन्तु एतयोः द्वयोः अपि धात्वोः विषये क्यप् इति प्रत्ययः विकल्पेन इष्यते । इत्युक्ते, वृष्-धातोः विषये <<ऋदुपधाच्चाकॢपिचृतेः>> [[3.1.110]] इत्यनेन सूत्रेण नित्यं क्यप्-प्रत्यये प्राप्ते तस्य वैकल्पिकः निषेधः इष्यते, तथा च कृ-धातोः विषये पूर्वेण अप्राप्ते अपि पाक्षिकः क्यप्-प्रत्ययः इष्यते । एते द्वयोः अपि विधानार्थम् आचार्यः <<विभाषा कृवृषोः>> [[3.1.120]] इति एकमेव सूत्रम् निर्माति । अस्मिन् सूत्रे प्रयुक्तः विभाषा शब्दः कृ-धातोः विषये पूर्वेण अप्राप्तं विधिं विकल्पेन विदधाति, अतः अप्राप्तविभाषारूपेण प्रयुक्तः अस्ति; वृष्-धातोः विषये तु पूर्वेण नित्यं प्राप्तं विधिं विकल्पेन निषेधयति, अतः प्राप्तविभाषारूपेण प्रयुक्तः अस्ति । अनेन प्रकारेण एकस्मिन् एव सूत्रे विभाषाशब्दस्य प्राप्तविभाषा तथा अप्राप्तविभाषा इति उभयथा प्रयोगः दृश्यते, अतः इयम् उभयविभाषा अस्ति ।\n2. <<सर्वादीनि सर्वनामानि>> [[1.1.27]] अनेन सूत्रेण नेम-इति शब्दस्य नित्यं सर्वनामसंज्ञा भवति । परन्तु जस्-प्रत्यये परे इयं सर्वनामसंज्ञा विकल्पेनैव इष्यते, येन नेमे तथा नेमाः एते द्वे अपि रूपे साधुत्वं प्राप्नुयाताम् । एवमेव, प्रथम, चरम, तय, अल्प, अर्ध, कतिपय एतेषां शब्दानां विषये केन अपि सूत्रेण सर्वनामसंज्ञा न पाठिता अस्ति, तथापि जस्-प्रत्यये परे एतेषाम् विकल्पेन सर्वनामसंज्ञा अवश्यम् इष्यते । एतत् सर्वम् साधयितुम् आचार्येण <<प्रथमचरमतयाल्पार्धकतिपयनेमाश्च>> [[1.1.33]] इति सूत्रं पाठ्यते । अस्मिन् सूत्रे विभाषा इति शब्दः अनुवृत्तिरूपेण आगच्छति । अयं विभाषाशब्दः अस्मिन् सूत्रे विद्यामानानाम् प्रथम, चरम, तय, अल्प, अर्ध, कतिपय एतेषां शब्दानाम् पूर्वेण अप्राप्तां सर्वनामसंज्ञाम् विकल्पेन विदधाति, नेमशब्दस्य विषये च पूर्वेण नित्यां प्राप्तां सर्वनामसंज्ञां विकल्पेन प्रतिषेधयति । एतादृशं एकस्मिन् एव सूत्रे विभाषा-शब्दस्य प्राप्तविभाषा तथा अप्राप्तविभाषा — इति उभयथा प्रयोगः दृश्यते, अतः इयम् उभयविभाषा अस्ति ।\nव्यवस्थाम् दर्शयितुम् विभाषाशब्दस्य प्रयोगः (व्यवस्थितविभाषा)\nकुत्रचित् विभाषाशब्दः 'व्यवस्थाम्' (system of usage) दर्शयितुम् प्रयुज्यते । इत्युक्ते, तत्र निषेधः कुत्र भवति विधानं च कुत्र भवति इत्यस्य व्यवस्था व्याख्यानेनैव दीयते, इयं विभाषा विवक्षाम् नैव अनुसरति । एतादृशी विभाषा व्यवस्थितविभाषा नाम्ना ज्ञायते । द्वे उदाहरणे एतादृशे —\n1. <<विभाषा ग्रहः>> [[3.1.143]] इत्यनेन सूत्रेण ग्रह्-धातोः -प्रत्ययः विधीयते, येन ग्राह-इति रूपं सिद्ध्यति । अत्र सूत्रे यद्यपि विभाषा इति शब्दः प्रयुक्तः अस्ति, तथापि अत्र प्रयोगकर्तुः विवक्षा (the choice of the user) नैव इष्यते, अपितु अत्र ग्रह्-धातोः -प्रत्ययः कदा भवेत् — इति व्याख्यातृभिः एव स्पष्टीकृतम् अस्ति । तत्र व्याख्यानैः एतद् उच्यते — जलचरस्य (aquatic animal) निर्देशार्थम् -प्रत्ययं कृत्वा ग्राह-इति रूपं भवेत्, परन्तु ज्योतिषः निर्देशार्थम् (planetary bodies) -प्रत्ययः नैव भवेत् । अनेन प्रकारेण अत्र विभाषाशब्दः व्यवस्थाम् (system of usage) दर्शयितुम् प्रयुक्तः अस्ति, अतः अत्र इयम् व्यवस्थितविभाषा ।\n2. <<प्यायः पी>> [[6.1.28]] इत्यनेन सूत्रेण प्याय्-धातोः निष्ठाप्रत्यये परे पी-आदेशः कृतः अस्ति । अस्मिन् सूत्रे विभाषा-शब्दः अनुवृत्तिरूपेण आगच्छति यः अत्र विभाषाशब्दः व्यवस्थितविभाषां दर्शयति, यतः — उपसर्गभिन्नस्य एव प्याय्-धातोः निष्ठाप्रत्यये परे पी-आदेशः भवेत्, न हि सोपसर्गस्य प्याय्-धातोः — इति व्यवस्था (system of usage) अत्र व्याख्यानैः स्पष्टी भवति । अतः अत्र यद्यपि विभाषा-शब्दः प्रयुज्यते, तथापि अत्र पी-आदेशस्य विषये व्यवस्था उक्ता अस्ति, तत्र साक्षात् विकल्पः नास्ति (it is not left to the choice of the user), अतः इयम् व्यवस्थितविभाषा ।\nबह्वर्थे प्रयुक्तः विभाषाशब्दः \nकुत्रचित् एकः एव विभाषा-शब्दः व्यवस्थितविभाषारूपेण अपि प्रयुज्यते, तथा च प्राप्तविभाषा/अप्राप्तविभाषा/उभयविभाषा-एतस्मिन् अर्थे अपि प्रयुज्यते । यथा, <<विभाषा चिञ्णमुलोः>> [[7.1.69]] अनेन सूत्रेण लभ्-धातोः णमुल्-प्रत्यये परे विकल्पेन नुमागमः भवति । अयं नुमागमः पूर्वसूत्रैः नैव पाठितः अस्ति, अतः इयम् अप्राप्तविभाषा । अपि च, उपसर्गस्य विषये इयमेव विभाषा व्यवस्थितविभाषा अपि अस्ति । इत्युक्ते, उपसर्गपूर्वकस्य लभ्-धातोः णमुल्-प्रत्यये परे नित्यम् नुमागमः — इति व्यवस्था अत्र क्रियते । अनेन प्रकारेण अत्र विद्यमानः विभाषाशब्दः अनुपसर्गस्य लभ्-धातोः विषये अप्राप्तविभाषारूपेण नुमागमस्य विकल्पं प्रदर्शयति (येन लाभंलाभम् तथा लम्भंलम्भम् इति द्वे अपि रूपे भवतः) परन्तु सोपसर्गस्य लभ्-धातोः विषये व्यवस्थितविभाषारूपेण नित्यं नुमागमं विदधाति (येन प्रलम्भंप्रलम्भम् इति एकमेव रूपं सिद्ध्यति), अतः अयम् बह्वर्थे प्रयुक्तः विभाषाशब्दः अस्ति ।\nविभाषाप्रतिपादनार्थम् प्रयुक्ताः अन्ये शब्दाः\nअष्टाध्याय्यां विभाषाम् प्रदर्शयितुम् त्रयः शब्दाः प्रयुक्ताः दृश्यन्ते - वा, अन्यतरस्याम् तथा विभाषा । एतेषाम् त्रयाणाम् अर्थाः तु समानाः एव । These three words are typically seen used in the same meaning, without any particular obvious pattern. However, in this context, one of the western scholars of the recent era, Paul Kiparsky has written a book called Panini as a Variationist, in which he analyses various occurrences of वा, अन्यतरस्याम् and विभाषा from अष्टाध्यायी and tries to build a framework explaining the fine-grained differences between these three words. Interested readers may seek a printed copy of this book. The soft-copies of this book are not available as the book is still copyrighted.\n" }, "11045": { "sa": "यण्-वर्णस्य स्थाने विधीयमानः इक्-वर्णः सम्प्रसारणम् नाम्ना ज्ञायते । ", "sd": "यण् = य्, व्, र्, ल् । इक् = इ, उ, ऋ, ऌ । \nव्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति सम्प्रसारणम् इति संज्ञा । यण्-वर्णस्य स्थाने आदेशरूपेण विधीयमानः इक्-वर्णः अनेन सूत्रेण सम्प्रसारणसंज्ञां प्राप्नोति । अपि च, यण्-वर्णस्य इक्-वर्णे जायमानम् इदं परिवर्तनम् अपि सम्प्रसारणम् इति नाम्ना एव ज्ञायते । क्रमेण उदाहरणानि एतानि —\nकानिचन उदाहरणानि एतानि —\n1. यकारस्य सम्प्रसारणम् इकारः — व्यच्-धातोः क्त-प्रत्यये परे <<ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनाम् ङिति च>> [[6.1.16]] इति सूत्रेण यकारस्य सम्प्रसारणे कृते अन्तिमम् रूपम् सिद्ध्यति —\n\nव्यच् (व्याजीकरणे, तुदादिः, <{6.13}>)\n→ व्यच् + क्त [<<निष्ठा>> [[3.2.102]] इति क्तप्रत्ययः]\n→ व्यच् + त [इत्संज्ञालोपः]\n→ व्यच् + इट् + त [<<आर्धधातुकस्येड्वलादेः>> [[7.2.35]] इति इडागमः]\n→ व् इअ च् + इ + त [<<ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनाम् ङिति च>> [[6.1.16]] इति यकारस्य सम्प्रसारणम् इकारः । अत्र केवलम् 'य्' इत्यस्य स्थाने एव इकारः विधीयते (न हि 'य' इति अक्षरस्य स्थाने), अतः यकारोत्तरः अकारः पृथक् रूपेण दर्शितः अस्ति । ]\n→ व् इ च् + इ + त [<<सम्प्रसारणाच्च>> [[6.1.108]] इति इकार-अकारयोः पूर्वरूप-एकादेशः इकारः ।]\n→ विचित ।\n\n2. वकारस्य सम्प्रसारणम् उकारः — वच्-धातोः क्त-प्रत्यये परे <<वचिस्वपियजादीनां किति>> [[6.1.15]] इति सूत्रेण वकारस्य सम्प्रसारणे कृते उकारादेशः जायते — \n\nवचँ (परिभाषणे, अदादिः, <{2.58}>)\n→ वच् + क्त [<<निष्ठा>> [[3.2.102]] इति क्तप्रत्ययः]\n→ वच् + त [इत्संज्ञालोपः]\n→ उअच् + त [<<वचिस्वपियजादीनां किति>> [[6.1.15]] इति वकारस्य सम्प्रसारणम् उकारः । अत्र केवलम् 'व्' इत्यस्य स्थाने एव उकारः विधीयते (न हि 'व' इति अक्षरस्य स्थाने), अतः वकारोत्तरः अकारः पृथक् रूपेण दर्शितः अस्ति । ]\n→ उच् + त [<<सम्प्रसारणाच्च>> [[6.1.108]] इति उकार-अकारयोः पूर्वरूप-एकादेशः उकारः ।]\n→ उक्त [<<चोः कुः>> [[8.2.30]] इति कुत्वम्]\n\n3. रेफस्य सम्प्रसारणम् ऋकारः — त्रि-शब्दात् पूरणार्थे <<त्रेः सम्प्रसारणं च>> [[5.2.55]] इति सूत्रेण तीय-इति प्रत्ययः तथा च सम्प्रसारणम् अपि भवति, येन 'तृतीय' इति शब्दः सिद्ध्यति । प्रक्रिया इयम् - \n\nत्रयाणां पूरणम्\n→ त्रि + तीय [<<त्रेः सम्प्रसारणं च>> [[5.2.55]] इति पूरणार्थे तीय-प्रत्ययः]\n→ त् ऋ इ + तीय [<<त्रेः सम्प्रसारणं च>> [[5.2.55]] इति त्रि-शब्दस्य रेफस्य सम्प्रसारणे ऋकारः भवति । अत्र केवलम् 'र्' इत्यस्य स्थाने एव ऋकारः विधीयते (न हि 'रि' इति अक्षरस्य स्थाने), अतः रेफोत्तरः इकारः पृथक् रूपेण दर्शितः अस्ति । ]\n→ त् ऋ + तीय [<<सम्प्रसारणाच्च>> [[6.1.108]] इति ऋकार-इकारयोः पूर्वरूप-एकादेशः ऋकारः ।]\n→ तृतीय\n\n4. ऌकारस्य सम्प्रसारणस्य उदाहरणानि न लभ्यन्ते ।\nसवर्णग्रहणम्\nप्रकृतसूत्रे इक् इति शब्दः विधीयमानः अस्ति, अतः इक्-इत्यनेन सवर्णग्रहणं न भवति । परन्तु यण्-इति शब्दः विधीयमानः नास्ति, अतः यण्-प्रत्याहारेण सवर्णग्रहणम् अवश्यं भवति । इत्युक्ते -\n\n1) यकारस्य तथा यँकारस्य - उभयोः स्थाने सम्प्रसारणेन इकारः विधीयते ।\n2) वकारस्य तथा वँकारस्य - उभयोः स्थाने सम्प्रसारणेन उकारः विधीयते ।\n3) रेफस्य कोऽपि सवर्णः नास्ति, अतः केवलं रेफस्य स्थाने अनेन सूत्रेण ऋकारः विधीयते ।\n4) ऌकारस्य तथा ऌँकारस्य - उभयोः स्थाने सम्प्रसारेण लकारः विधीयते ।\n\nसम्प्रसारणम् इति यणादेशस्य विपरीतप्रक्रिया । यणादेशे इक्-वर्णस्य स्थाने यण्-वर्णः आदेशरूपेण विधीयते । तद्विवरीतम् कार्यम् सम्प्रसारणे भवति ।\n\nसंप्रसारणसंज्ञायाः सूत्रेषु प्रयोगः\nअष्टाध्याय्यां सम्प्रसारणसंज्ञा साक्षात् नवसु सूत्रेषु प्रयुक्ता अस्ति ।\n\n1. <<ह्वः सम्प्रसारणं च न्यभ्युपविषु>> [[3.3.72]]\n2. <<त्रेः सम्प्रसारणं च>> [[5.2.55]]\n3. <<ष्यङः सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे>> [[6.1.13]]\n4. <<ह्वः सम्प्रसारणम्>> [[6.1.32]]\n5. <<न सम्प्रसारणे सम्प्रसारणम्>> [[6.1.37]]\n6. <<सम्प्रसारणाच्च>> [[6.1.108]]\n7. <<सम्प्रसारणस्य>> [[6.3.139]]\n8. <<वसोः सम्प्रसारणम्>> [[6.4.131]]\n9. <<द्युतिस्वाप्योः सम्प्रसारणम्>> [[7.4.67]]\n\nअनुवृत्तिरूपेण तु अन्येषु सूत्रेषु अपि अस्याः संज्ञायाः प्रयोगः भवितुम् अर्हति ।\n" }, "11046": { "sa": "टित्-आगमः आगमिनः आदौ विधीयते, कित्-आगमः आगमिनः अन्ते विधीयते ।", "sd": "संस्कृतव्याकरणे आगमानाम् प्रकारत्रयम् विद्यते — टित्-आगमाः, कित्-आगमाः, मित्-आगमाः इति । एतेभ्यः टित्-आगमानाम् कित्-आगमानाम् च स्थानम् प्रकृतसूत्रेण निर्दिश्यते । टित्-आगमः यस्य शब्दस्य विधीयते तस्मात् शब्दात् पूर्वम् संस्थाप्यते; कित्-आगमः यस्य शब्दस्य विधीयते तस्मात् शब्दात् अनन्तरम् विधीयते— इति प्रकृतसूत्रस्य अर्थः । उदाहरणे एतादृशे —\n1. <<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति सूत्रेण लङ्-प्रत्यये परे अङ्गस्य अट्-आगमः विधीयते । अयम् टित् आगमः अस्ति अतः अयम् अङ्गस्य आदौ (प्रारम्भे) विधीयते । प्रक्रिया इयम् —\n\nपठँ (व्यक्तायां वाचि, भ्वादिः, <{1.381}>)\n→ पठ् + लङ् [<<अनद्यतने लङ्>> [[3.2.111]] इति लङ्]\n→ अट् + पठ् + लङ् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अट्-आगमः । अस्मिन् आगमे टकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा भवति, ततः तस्य <<तस्य लोपः>> [[1.3.9]] इति लोपः विधीयते । अतः अयम् आगमः टित्-आगमः अस्ति । अयम् आगमः अस्य आगमिनः (इत्युक्ते, पठ्-इत्यस्मात्) पूर्वम् विधीयते । ]\n→ अ + पठ् + तिप् [<<तिप्तस्झि...>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]\n→ अ + पठ् + शप् + ति [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ अ + पठ् + अ + त् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ अपठत् \n\n2. <<भियो हेतुभये षुक्>> [[7.3.40]] इति सूत्रेण भी-धातोः णिच्-प्रत्यये परे षुक्-आगमः विधीयते । अयम् कित् आगमः अस्ति, अतः अयम् अङ्गस्य अन्ते विधीयते । प्रक्रिया इयम् —\n\nञिभी (भये, जुहोत्यादिः, <{3.2}>)\n→ भी + णिच् [<<हेतुमति च>> [[3.1.26]] इति णिच्-प्रत्ययः ]\n→ भी + इ [णकारस्य <<चुटू>> [[1.3.7]] इति इत्संज्ञा । चकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा । द्वयोः अपि <<तस्य लोपः>> [[1.3.9]] इति लोपः ।]\n→ भी + षुक् + इ [<<भियो हेतुभये षुक्>> [[7.3.40]] इति अङ्गस्य षुक्-आगमः । अस्मिन् आगमे ककारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा भवति, ततः तस्य <<तस्य लोपः>> [[1.3.9]] इति लोपः विधीयते । अतः अयम् आगमः कित्-आगमः अस्ति । अयम् आगमः अस्य आगमिनः (इत्युक्ते, भी-इत्यस्मात्) अनन्तरम् विधीयते । ]\n→ भी + ष् + इ [षकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा भवति, ततः तस्य <<तस्य लोपः>> [[1.3.9]] इति लोपः विधीयते । षकारोत्तरः उकारः उच्चारणार्थः अस्ति, अतः तस्य अपि लोपः भवति ।]\n→ भीषि [<<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञा ।] \n→‌भीषि + ल्युट् [<<ल्युट् च>> [[3.3.115]] इति ल्युट्-प्रत्ययः]\n→ भीषि + अन [<<युवोरनाकौ>> [[7.1.1]] इति यु-इत्यस्य अन-आदेशः]\n→ भीष् + अन [<<णेरनिटि>> [[6.4.51]] इति णिचः लोपः]\n→ भीषण [<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इति णत्वम्]\n\nयस्मिन् शब्दस्वरुपे टकारः / ककारः इत्संज्ञकः अस्ति, तत् शब्दस्वरूपम् आगमः एव भवेत् इति न आवश्यकम् । प्रत्ययेषु अपि एते वर्णाः इत्संज्ञकरूपेण प्रयुज्यन्ते । यथा, टक् इत्यस्मिन् प्रत्यये टकारककारौ द्वौ अपि इत्संज्ञकौ स्तः, परन्तु अयम् आगमः नास्ति । अतः कः टित्/कित्-शब्दः आगमः अस्ति अस्य निर्णयः तु व्याख्यानं दृष्ट्वा एव करणीयः ।" }, "11047": { "sa": "मित्-आगमः आगमिनः अन्तिमस्वरात् अनन्तरम् विधीयते ।", "sd": "संस्कृतव्याकरणे आगमानाम् प्रकारत्रयम् विद्यते — टित्-आगमाः, कित्-आगमाः, मित्-आगमाः इति । एतेभ्यः मित्-आगमस्य स्थानम् प्रकृतसूत्रेण निर्दिश्यते । मित्-आगमः यस्य शब्दस्य विधीयते तस्य शब्दस्य अन्तिमस्वरात् अनन्तरम् संस्थाप्यते— इति प्रकृतसूत्रस्य अर्थः । यदि शब्दे इत्संज्ञकस्वराः सन्ति, तर्हि तेषाम् लोपं कृत्वा एव अन्तिमस्वरस्य निर्णयः अत्र क्रियते । उदाहरणे एते —\n1. यस्मिन् धातौ इकारः इत्संज्ञकरूपेण विद्यते, तस्य धातोः <<इदितो नुम् धातोः>> [[7.1.58]] इत्यनेन सूत्रेण नुमागमः भवति । अयं नुमागमः प्रकृतसूत्रेण धातोःअन्तिम-स्वरात् अनन्तरम् संस्थाप्यते । प्रक्रिया इयम् —\n\nकपिँ (चलने, भ्वादिः, <{1.435}>)\n→ कप् [धातौ विद्यमानस्य इकारस्य <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इति इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति इत्संज्ञक-इकारस्य लोपः]\n→ क नुम् प् [<<इदितो नुम् धातोः>> [[7.1.58]] इति सूत्रेण इदित्-धातोः 'नुम्' इति आगमः भवति । अयम् आगमः मित्-अस्ति, अतः अयम् धातोः अन्तिमस्वरात् अनन्तरम् (इत्युक्ते, ककारोत्तरात् अकारात् अनन्तरम्) विधीयते ।]\n→ क न् प् [मकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः । नकारोत्तरः उकारः उच्चारणार्थः ।अतः तस्य अपि लोपः भवति ।]\n→ कन्प् + अनीयर् [<<तव्यत्तव्यानीयरः>> [[3.1.96]] इति अनीयर्-प्रत्ययः]\n→ कम्पनीय [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति नकारस्य अनुस्वारः । <<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति परसवर्णः मकारः]\n\n2. अनडुह्-इति शब्दस्य प्रथमैकवचनस्य प्रक्रियायाम् <<चतुरनडुहोरामुदात्तः>> [[7.1.98]] इति सूत्रे आम्-इति आगमः भवति, ततश्च <<सावनडुहः>> [[7.1.82]] इत्यनेन नुम्-इति आगमः अपि भवति । द्वौ अपि एतौ आगमौ मितौ स्तः, अतः एतौ प्रकृतसूत्रेण अङ्गस्य अन्तिम-स्वरात् अनन्तरम् विधीयेते । प्रक्रिया इयम् —\n\nअनडुह् + सुँ [प्रथमैकवचनस्य प्रत्ययः]\n→ अनडु आम् ह् + स् [<<चतुरनडुहोरामुदात्तः>> [[7.1.98]] इति आम्-आगमः । अयम् आगमः मित्-अस्ति, अतः अयम् धातोः अन्तिमस्वरात् अनन्तरम् (इत्युक्ते, ककारोत्तरात् अकारात् अनन्तरम्) विधीयते ।]\n→ अनडु आ ह् + स् [मकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ अनडु आ नुम् ह् + स् [ सुँ-प्रत्यये परे आगमः <<सावनडुहः>> [[7.1.82]] इत्यनेन अङ्गस्य नुम्-आगमः भवति । अयम् अपि मित्-आगमः, अतः अयम् अङ्गस्य अन्तिम-स्वरात् अनन्तरम् विधीयते । अत्र अङ्गस्य अन्तिमः स्वरः आकारः अस्ति (न हि उकारः), अतः अयम् आगमः आकारात् अनन्तरम् विधीयते ।]\n→ अनडु आ न् ह् + स् [मकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा , <<तस्य लोपः>> [[1.3.9]] इति लोपः । नकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते]\n→ अनडु आ न् ह् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति सुँलोपः]\n→ अनड्वान् ह् [<<इको यणचि>> [[6.1.77]] इति यणादेशः]\n→ अनड्वान् [<<संयोगान्तस्य लोपः>> [[8.2.23]] इति हकारलोपः]\n\nश्नम्-विकरणप्रत्ययस्य अन्त्यात् अचः परम् विधानम्\nरुधादिगणस्य धातुभ्यः सार्वधातुकप्रत्यये परे <<रुधादिभ्यः श्नम्>> [[3.1.78]] इत्यनेन श्नम् इति विकरणप्रत्ययः विधीयते । यद्यपि अयम् प्रत्ययः अस्ति, तथापि अस्मिन् प्रत्यये संस्थापितः मकारः अस्य स्थाननिर्देशार्थम् स्थापितः अस्ति, अतः प्रकृतसूत्रेण अयं विकरणप्रत्ययः नित्यम् अङ्गस्य अन्त्यात् अचः परः एव विधीयते । प्रक्रिया इयम् —\n\nरुधिँर् (आवरणे, रुधादिः, <{7.1}>)\n→ रुध् [ इति इँर्-इत्यस्य इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ रुध् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ रुध् + तिप् [<<तिप्तस्झि..>> [[3.1.78]] इत्यनेन प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]\n→ रु श्नम् ध् + ति [<<रुधादिभ्यः श्नम्>> [[3.1.78]] इति श्नम्-प्रत्ययः । अयम् प्रत्ययः मित्त्वात् <<मिदचोऽन्त्यात्परः>> इत्यनेन अन्त्यात् अचः परः विधीयते ।]\n→ रु न ध् + ति [शकारस्य <<लशक्वतद्धिते>> [[1.3.8]] इति इत्संज्ञा, मकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा । द्वयोः अपि <<तस्य लोपः>> [[1.3.9]] इति लोपः ।]\n→ रु न ध् + धि [<<झषस्तथोर्धोऽधः>> [[8.2.40]] इति धत्वम्]\n→ रु ण ध् + धि [<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इति णत्वम्]\n→ रुणद्धि [<<झलां जश् झशि>> [[8.4.53]] इति जश्त्वम्]\n\nमस्ज्-धातोः नुमागमस्य अन्यवर्णात् पूर्वम् विधानम्\nमस्ज्-धातोः झलादि प्रत्यये परे <<मस्जिनशोर्झलि>> [[7.1.60]] इत्यनेन नुमागमः विधीयते । अयम् नुमागमः अन्त्यात् स्वरात् अनन्तरम् न विधीयते परन्तु अन्तिम-वर्णात् पूर्वम् विधीयते । अस्मिन् विषये वार्त्तिककारः ब्रूते - । इत्युक्ते, यदि प्रक्रियायाम् प्रकृतसूत्रम् उपयुज्य अन्तिम-स्वरात् अनन्तरम् नुमागमः विधीयते, तर्हि कित्/ङित्-प्रत्यये परे अस्य धातोःसाधुरूपं नैव सिद्ध्यति —\n\nमस्ज् + क्त\n→ म नुम् स् ज् + त [<<मस्जिनशोर्झलि>> [[7.1.60]] इति झलादिप्रत्यये परे नुमागमः । <<मिदचोऽन्त्यात्परः>> [[1.1.47]] इत्यनेन अन्त्यात् अचः परः अयं विधीयते] \n→ म न् स् ज् + त [इत्संज्ञालोपः]\n→ म न् ज् + त [<<स्कोः संयोगाद्योरन्ते च>> [[8.2.29]] इति सकारलोपः]\nअत्र सकारलोपस्य असिद्धत्वात् <<अनिदितां हल उपधायाः क्ङिति>> [[6.4.24]] इति नकारलोपः नैव सम्भवति, येन 'मग्न' इति इष्टरूपम् अपि न सिद्ध्यति । \n\nअत्र साधुरूपसिद्ध्यर्थम् आदौ नकारलोपः (अनुषङ्गलोपः) ततश्च संयोगादौ विद्यमानस्य सकारस्य लोपः इष्यते । अतएव अत्र इति वार्त्तिकं स्वीकृत्य मस्ज्-धातोः विहितः नुमागमः अन्तिम-वर्णात् पूर्वम् विधीयते । प्रक्रिया इयम् —\n\nटुमस्जोँ (शुद्धौ, तुदादिः, <{6.151}>)\n→ मस्ज् [इत्संज्ञालोपः]\n→ मस्ज् + क्त [<<निष्ठा>> [[3.2.102]] इति क्त-प्रत्ययः]\n→ मस् नुम् ज् + त [<<मस्जिनशोर्झलि>> [[7.1.60]] इति झलादिप्रत्यये परे नुमागमः । इति वार्त्तिकेन अयम् अन्तिम-वर्णात् पूर्वम् विधीयते ।]\n→ मस् न् ज् + त [इत्संज्ञालोपः]\n→ मस् ज् + त [<<अनिदितां हल उपधायाः क्ङिति>> [[6.4.24]] इति नकारलोपः]\n→ मज् + त [<<स्कोः संयोगाद्योरन्ते च>> [[8.2.29]] इति सकारलोपः]\n→ मग् + त [<<चोः कुः>> [[8.2.30]] इति कुत्वम्]\n→ मग् + न [<<ओदितश्च>> [[8.2.45]] इति निष्ठातकारस्य नकारः]\n→ मग्न\n\nअनेन प्रकारेण अत्र मग्न-इति साधुरूपं सिद्ध्यति ।\nउपधानकारस्य अनुषङ्गः इति संज्ञा पूर्वाचार्यैः दीयते । अस्याः संज्ञायाः एव प्रयोगः कात्यायनेन अस्मिन् वार्त्तिके कृतःअस्ति ।\n" }, "11048": { "sa": "एच्-वर्णस्य ह्रस्वादेशे कृते इक्-वर्णः विधीयते । ", "sd": "\nएच् = ए, ओ, ऐ, औ \nइक् = इ, उ, ऋ, ऌ\n\nएच्-प्रत्याहारस्थस्य स्वरस्य स्थाने यदि ह्रस्वादेशः प्राप्नोति, तर्हि तत्र इक्-प्रत्याहारस्थवर्णः एव आदेशरूपेण विधीयते इति अस्य सूत्रस्य आशयः । अत्र उचितस्य आदेशस्य निर्णस्यः स्थानसाधर्म्यस्य आधारेण क्रियते । इत्युक्ते, एकारस्य ऐकारस्य च स्थाने इकारः विधीयते, यतः एतेषाम् सर्वेषाम् उच्चारणार्थम् तालुनः साहाय्यं स्वीक्रियते । एवमेव, ओकारस्य औकारस्य च स्थाने उकारः विधीयते, यतः एतेषाम् सर्वेषाम् उच्चारणार्थम् ओष्ठयोः साहाय्यं स्वीक्रियते । क्रमेण उदाहरणानि एतानि —\n1. एकारस्य ह्रस्वादेशे इकारादेशः\nहेड्-धातोः एकारस्य णिच्-प्रत्यये परे <<मितां ह्रस्वः>> [[6.4.92]] इति ह्रस्वादेशे प्राप्ते; प्रकृतपरिभाषाम् उपयुज्य इकारः आदेशरूपेण विधीयते । प्रक्रिया इयम् —\n\nहेडृ (अनादरे, भ्वादिः, <{1.817}>) [अयं धातुः घटादि-अन्तर्गणे विद्यते, अतः <ऽघटादयो मितःऽ> इति गणसूत्रेण अयम् मित् स्वीक्रियते ।]\n→ हेड् + णिच् [<<हेतुमति च>> [[3.1.26]] इति हेतौ णिच्]\n→ हेड् + इ [इत्संज्ञालोपः]\n→ हिड् + इ [<<मितां ह्रस्वः>> [[6.4.92]] इति ह्रस्वः । एकारस्य ह्रस्वादेशे कर्तव्ये <<एच इग्घ्रस्वादेशे>> [[1.1.48]] इत्यनेन स्थानसाधर्म्यात् इकारादेशः विधीयते ।]\n→ हिडि [<<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञा]\n→ हिडि + अनीयर् [<<तव्यत्तव्यानीयरः>> [[3.1.96]] इति अनीयर्-प्रत्ययः]\n→ हिड् + अनीय [<<णेरनिटि>> [[6.4.51]] इति णिच्-प्रत्ययस्य लोपः । अग्रे <<पुगन्तलघूपधस्य च>> [[7.3.86]] इत्यनेन हकारोत्तस्य इकारस्य गुणादेशे प्राप्ते <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इति इकारस्य स्थानिवद्भावेन सः नैव प्रसज्यते ।]\n→ हिडनीय \n\n2. ऐकारस्य ह्रस्वादेशे इकारादेशः\nअतिरै-इति ऐकारान्तशब्दः यदा नपुंसके प्रयुज्यते, तदा <<ह्रस्वो नपुंसके प्रातिपदिकस्य>> [[1.2.47]] इत्यनेन अस्य ह्रस्वादेशः भवति । अत्र ऐकारस्य स्थाने ह्रस्वादेशे प्राप्ते प्रकृतसूत्रेण इकारः आदेशरूपेण विधीयते । प्रक्रिया इयम् —\n\nअतिरै + सुँ [नपुँसकलिङ्गस्य प्रथमैकवचनस्य प्रत्ययः]\n→ अतिरि + स् [<<ह्रस्वो नपुंसके प्रातिपदिकस्य>> [[1.2.47]] इति प्रातिपदिकस्य ह्रस्वादेशः । <<अचश्च>> [[1.2.28]] इत्यनेन अयम् अच्-वर्णस्य स्थाने भवति । ऐकारस्य स्थाने स्थानसाधर्म्येण <<एच इग्घ्रस्वादेशे>> [[1.1.48]] इति इकारादेशः विधीयते ।]\n→ अतिरि [<<स्वमोर्नपुंसकात्>> [[7.1.23]] इति सुँ-प्रत्ययसस्य लुक्]\n\n3. ओकारस्य ह्रस्वादेशे उकारादेशः\nश्लोक्-धातोः लिट्-लकारस्य प्रक्रियायाम् अभ्यासे विद्यमानस्य ओकारस्य ह्रस्वादेशे कर्तव्ये प्रकृतसूत्रेण तस्य उकारादेशः भवति । प्रक्रिया इयम् —\n\nश्लोकृ (संघाते, भ्वादिः, <{1.81}>)\n→ श्लोक् + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट्-लकारः]\n→ श्लोक् + त [आत्मनेपदस्य प्रथमपुरुषैकवचनस्य विवक्षायाम् [<<तिप्तस्झि..>> [[3.4.78]] इति त-प्रत्ययः]\n→ श्लोक् + एश् [<<लिटस्तझयोरेशिरेच्>> [[3.4.81]] इति तिप्-प्रत्ययस्य एश्-आदेशः । शित्त्वात् <<अनेकाल्शित्सर्वस्य>> [[1.1.55]] इति सर्वादेशः]\n→ श्लोक् + ए [इत्संज्ञालोपः]\n→ श्लोक् श्लोक् + ए [<<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम्]\n→ शो श्लोक् + ए [<<हलादिः शेषः>> [[7.4.60]] इति अभ्यासस्य हलादिः अवशिष्यते ।]\n→ शु श्लोक् + ए [<<ह्रस्वः>> [[7.4.59]] इति अभ्यासस्य ह्रस्वः भवति । अत्र ओकारस्य ह्रस्वादेशे कर्तव्ये प्रकृतसूत्रेण तस्य स्थाने उकारः विधीयते ।]\n→ शुश्लोके\n\n4. औकारस्य ह्रस्वादेशे उकारादेशः\nअतिनौ-इति औकारान्तशब्दः यदा नपुंसके प्रयुज्यते, तदा <<ह्रस्वो नपुंसके प्रातिपदिकस्य>> [[1.2.47]] इत्यनेन अस्य ह्रस्वादेशः भवति । अत्र औकारस्य स्थाने ह्रस्वादेशे प्राप्ते प्रकृतसूत्रेण उकारः आदेशरूपेण विधीयते । प्रक्रिया इयम् —\n\nअतिनौ + सुँ [नपुँसकलिङ्गस्य प्रथमैकवचनस्य प्रत्ययः]\n→ अतिनु + स् [<<ह्रस्वो नपुंसके प्रातिपदिकस्य>> [[1.2.47]] इति प्रातिपदिकस्य ह्रस्वादेशः । <<अचश्च>> [[1.2.28]] इत्यनेन अयम् अच्-वर्णस्य स्थाने भवति । औकारस्य स्थाने स्थानसाधर्म्येण <<एच इग्घ्रस्वादेशे>> [[1.1.48]] इति उकारादेशः विधीयते ।]\n→ अतिनु [<<स्वमोर्नपुंसकात्>> [[7.1.23]] इति सुँ-प्रत्ययसस्य लुक्]\n\n\n" }, "11049": { "sa": "सूत्रेषु विद्यमानया षष्ठीविभक्त्या यत्र सम्बन्धस्य स्पष्टं ज्ञानं न भवति, तत्र षष्ठीविभक्तिः स्थानिनः (उच्चारणप्रसङ्गस्य) निर्देशं करोति । ", "sd": "अष्टाध्याय्याः सूत्रेषु विद्यमानाः बहवः शब्दाः षष्ठीविभक्तौ निर्दिष्टाः वर्तन्ते । षष्ठीविभक्तेः प्रयोगः संस्कृतभाषायाम् सामान्यरूपेण सम्बन्धं दर्शयितुम् क्रियते । अस्य सम्बन्धस्य बहवः प्रकाराः सन्ति — स्व-स्वामिसन्बन्धः, अनन्तर-समीपसम्बन्धः, अवयव-अवयवीसम्बन्धः... आदयः । एतेषु 'कः सम्बन्धः सूत्रे प्रयुक्तैः षष्ठीविभक्त्यन्तशब्दैः निर्दिश्यते' इति यत्र संशयः उत्पद्यते, तत्र षष्ठीविभक्त्या स्थानिनः निर्देशः भवति इति निर्णयः करणीयः — इति प्रकृतसूत्रस्य आशयः । वस्तुतस्तु व्याकरणशास्त्रम् शब्दनिर्माणस्य शास्त्रम् अस्ति, शब्दाः च नित्याः सन्ति, अतः एकम् शब्दम् निष्कास्य तस्य स्थाने अन्यशब्दस्य स्थापनम् शास्त्रविरुद्धं मत्त्वा अत्र स्थानिशब्देन इत्यनेन उच्चारणप्रसङ्गः (The event of pronunciation of a certain letter or word) इति अर्थः गृह्यते । कानिचन उदाहरणानि एतानि —\n\n1) <<इको यणचि>> [[6.1.77]] इति सूत्रे इकः इति षष्ठ्यन्तम् पदम् अस्ति । अतः अनेन पदेन इक्-वर्णस्य स्थाने (= इक्-वर्णस्य उच्चारणप्रसङ्गः यत्र विद्यते तत्र) इति अर्थः विधीयते । इत्युक्ते, यत्र इक्-वर्णात् अनन्तरम् संहितायाम् अच्-वर्णः विद्यते, तत्र इक्-वर्णस्य स्थाने (इत्युक्ते, इक्-वर्णस्य उच्चारणस्य यत्र प्रसङ्गः विद्यते तत्र) यण्-वर्णस्य उच्चारणम् करणीयम् । अतएव, सुधी-शब्दात् अनन्तरम् संहितायाम् उपास्यः इति शब्दः यत्र उच्चारणीयः वर्तते, तत्र सुधी-शब्दस्य इकारस्य उच्चारणस्य समये (स्थाने) यकारस्य उच्चारणं कृत्वा, ततः विरामं विना उपास्यः इति शब्दस्य उच्चारणम् करणीयम्, येन सुध्युपास्यः इति शब्दः श्रूयते ।\n2) <<अस्तेर्भूः>> [[2.4.52]] इति सूत्रे अस्तेः इति अस्ति-शब्दस्य षष्ठीविभक्तिः प्रयुक्ता अस्ति । अतः प्रकृतसूत्रस्य साहाय्येन अत्र अस्-धातोः स्थाने (उच्चारणप्रसङ्गे) इति अर्थः विधीयते । इत्यक्ते, यत्र अस्-धातोः अनन्तरम् आर्धधातुकप्रत्ययः विधीयते, तत्र अस्-धातोः स्थाने भू-शब्दस्य उच्चारणम् करणीयम् इति अर्थः सिद्ध्यति । \n3) <<हन्तेर्जः>> [[6.4.36]] अस्मिन् सूत्रे हन्तेः इति षष्ठ्यन्तम् पदम् प्रयुक्तम् अस्ति । अतः प्रकृतसूत्रस्य साहा्ययेन अत्र हन्-धातोः स्थाने (उच्चारणप्रसङ्गे) इति अर्थः सिद्ध्यति । इत्युक्ते, लोट्लकारस्य मध्यमपुरुषस्य एकवचने हन्-धातोः स्थाने -शब्दस्य उच्चारणम् करणीयम् - इति अर्थः सिद्ध्यति ।\n\n यत्र षष्ठीविभक्त्याः शब्देन विशिष्टस्य अर्थस्य निर्णयः प्रारम्भे एव भवति, तत्र संशयस्य अभावात् (अनियमस्य अभावात्) प्रकृतसूत्रस्य प्रयोगः अपि न करणीयः । यथा —\n\n1. <<तद्धितेष्वचामादेः>> [[7.2.117]] इत्यस्मिन् सूत्रे अचाम् इति षष्ठ्यन्तम् पदम् निर्धारणषष्ठीरूपेण प्रयुज्यते । सर्वेषाम् अचां मध्ये यः आदिः — इति अत्र 'अचाम् आदिः' इत्यस्य अर्थः । अत्र 'अचाम्' शब्दस्य षष्ठीविभक्तेः अर्थः स्पष्टः अस्ति, अतः अत्र प्रकृतसूत्रस्य साहाय्यं नैव स्वीक्रियते । परन्तु अस्मिन्नेव सूत्रे विद्यमानस्य 'आदेः' इति शब्दस्य अर्थनिर्णये तु प्रकृतसूत्रस्य साहाय्यं स्वीकृत्य 'आदिवर्णस्य स्थाने' (आदिवर्णस्य उच्चारणप्रसङ्गे) इति अर्थः सिद्ध्यति ।\n2. <<ऊदुपधाया गोहः>> [[6.4.89]] इत्यस्मिन् सूत्रे गोहः इति शब्दे विद्यमाना षष्ठीविभक्तिः अवयवषष्ठी अस्ति । गुह्-धातोः यः उपधासंज्ञकः अवयवः — इति अत्र 'गोहः उपधायाः' इत्यस्य अर्थः । अत्र 'गोहः' शब्दस्य षष्ठीविभक्तेः अर्थः स्पष्टः अस्ति, अत्र प्रकृतसूत्रस्य साहाय्यं नैव स्वीक्रियते । परन्तु अस्मिन्नेव सूत्रे विद्यमानस्य 'उपधायाः' इति शब्दस्य अर्थनिर्णये तु प्रकृतसूत्रस्य साहाय्यं स्वीकृत्य 'उपधावर्णस्य स्थाने' (उपधावर्णस्य उच्चारणप्रसङ्गे) इति अर्थः सिद्ध्यति ।\n3. <<तस्यापत्यम्>> [[4.1.92]] इत्यस्मिन् सूत्रे विद्यमानः तस्य इति षष्ठ्यन्तशब्दः स्वामित्वसम्बन्धम् दर्शयति । अत्रापि षष्ठीविभक्तेः अर्थः स्पष्टः अस्ति, अत; प्रकृतसूत्रस्य प्रयोगः अत्र नैव क्रियते ।\n\nस्थानसम्बन्धः त्रिविधः\nषष्ठीविभक्तेः सामान्यः अर्थः 'सम्बन्धः' इति अस्ति । सम्बन्धस्य अनेके भेदाः व्याकरणशास्त्र निर्दिष्टाः वर्तन्ते । एतेषु अन्यतमः भेदः 'स्थानिसम्बन्धः' इति प्रकृतसूत्रेण अर्थनिर्देशे उपयुज्यते अस्य स्थानिसम्बधस्य अपि त्रयः उपभेदाः सन्ति — अपकर्षः, निवृत्तिः, प्रसङ्गः । एतेभ्यः 'प्रसङ्गः' इति भेदः प्रकृतसूत्रेण स्वीकृतः अस्ति, अतः अत्र 'स्थाने' इत्यस्य अर्थः 'उच्चारणप्रसङ्गे' इति क्रियते । एतेषाम् त्रयाणाम् भेदानाम् संक्षेपेण अर्थाः एतादृशाः —\n\n 1. अपकर्षः — यत्र एकस्य पदार्थस्य निष्कासनं कृत्वा तस्य स्थाने अन्यः पदार्थः संस्थाप्यते, तत्र अपकर्षसम्बन्धः अस्ति इति उच्यते । यथा, गोस्थाने अश्वः बध्यताम् इत्यनेन वाक्येन — 'कस्मिंश्चित् स्थले कश्चन गौः बद्धः अस्ति, तं तस्मात् स्थानात् निष्कास्य तत्स्थाने अश्वस्य बन्धनम् करणीयम्' इति अर्थः उच्यते । अत्र एकपदार्थस्य साक्षात् निष्कासनं कृत्वा तत्र द्वितीयः पदार्थः संस्थाप्यते, अतः अत्र 'स्थाने' इति शब्देन अपकर्षसम्बन्धः विधीयते ।\n 2. निवृत्तिः — यत्र एकस्य पदार्थस्य निवारणम् / नाशं कर्तुम् तस्य स्थाने अन्यः पदार्थः संस्थाप्यते, तत्र निवृत्तिसम्बन्धः अस्ति इति उच्यते । यथा, श्लेष्मणः स्थाने कटु औषधम् इत्यनेन वाक्येन — 'कस्यचन मनुष्यस्य कफः अस्ति चेत्, तस्य निवारणार्थम् तत्स्थाने ओषधेः सेवनं करणीयम् ' इति अर्थः उच्यते । अत्र कस्यापि पदार्थस्य साक्षात् निष्कासनं नास्ति, परन्तु एकपदार्थस्य निवृत्तये तत्थाने (तदुपरि) अन्यपदार्थस्य स्थापनं क्रियुते, अतः अत्र 'स्थाने' इति शब्देन निवृत्तिसम्बन्धः विधीयते ।\n 3. प्रसङ्गः — यत्र 'एकस्य पदार्थस्य संस्थापनम् करणीयम्' इति केवलं निश्चयं कृत्वा, तदनन्तरं साक्षात् संस्थापनस्य काले मतपरिवर्तनं कृत्वा, तस्य स्थाने द्वितीयः पदार्थः संस्थाप्यते, तत्र प्रसङ्गसम्बन्धः अस्ति इति उच्यते । यथा, दर्भाणां स्थाने शरैः प्रस्तरितव्यम् इत्यनेन वाक्येन — 'अस्यां भूमौ दर्भाः प्रस्तरितव्याः इति पूर्वम् चिन्तितम् आसीत्, परन्तु इदानीं तत्स्थाने शराणाम् प्रस्तरः कर्तव्यः' इति अर्थः उच्यते । अत्र एकपदार्थस्य संस्थापनात् पूर्वमेव मतपरिवर्तनं कृत्वा तत्र (केवलं) द्वितीयः पदार्थः एव संस्थाप्यते, अतः अत्र स्थाने इति शब्देन प्रसङ्गसम्बन्धः विधीयते ।\n\nएतेभ्यः अपकर्षसम्बन्धे निवृत्तिसम्बन्धे च प्रथमपदार्थस्य निष्कासनम् / नाशः भवति । एतादृशम् निष्कासनम् नाशनम् वा शब्दानाम् विषये नैव सम्भवति, यतः शब्दाः नित्याः सन्ति इति भाष्यसिद्धान्तः वर्तते । अतः प्रकृतसूत्रस्य सन्दर्भे स्थानशब्देन केवलम् प्रसङ्गसम्बन्धः एव स्वीक्रियते । अतएव सिद्धान्तकौमुद्याम् अपि स्थानं च प्रसङ्गः इति वाक्यं विद्यते । अस्मिन्नेव विषये काशिकायाम्, न्यासे च इत्थं विवरणं लभ्यते —\n\nस्थानशब्दः च प्रसङ्गवाची । यथा, दर्भाणां स्थाने शरैः प्रस्तरितव्यम् इति दर्भाणां प्रसङ्गे इति गम्यते ।एवमेव इह अपि, अस्तेः स्थाने प्रसङ्गे भूः भवति । — काशिका\nस्थानशब्दः भावसाधनः । स्थितिः स्थानम् । तत् पुनः त्रिधा — अपकर्षः, निवृत्तिः, प्रसङ्गः च इति। गोस्थाने अश्वः बध्यताम् इति अपकर्षः स्थानशब्दस्य आस्थेयः । श्लेष्मणः स्थाने कटुकम् औषधम् इत्यत्र निवृत्तिः। दर्भाणां स्थाने शरैः आस्तरितव्यम् इति प्रसङ्गः। तत्र आद्यौ अर्थौ इह न सम्भवतः, नित्यत्वात् शब्दार्थसम्बन्धस्य प्रथमो न सम्भवति; सामान्येन अस्तेः उपदेशात् न द्वितीयः । तस्मात् तृतीय एव अर्थः इति मत्वा आह - 'स्थानशब्दः च' इति । प्रसङ्गः तु अर्थक्रियानिमित्तभूतस्य कालस्य अवसरः । — न्यासः\n\nस्थानेयोगा इति बहुव्रीहिसमासः\nप्रकृतसूत्रे विद्यमानः स्थानेयोगा इति शब्दः बहुव्रीहिसमासनिर्मितः अस्ति । स्थाने योगः अस्याः इति व्यधिकरणबहुव्रीहिं कृत्वा, निपातनात् सप्तम्याः अलुक् कृत्वा स्थानेयोगा इति शब्दः सिद्ध्यति । अयं शब्दः षष्ठी इत्यस्य विशेषणरूपेण प्रयुज्यते । व्याकरणशास्त्रे प्रयुक्ता षष्ठीविभक्तिः स्थाने इति अर्थयुक्ता अस्ति — इति अत्र शब्दशः अर्थः वर्तते ।" }, "11050": { "sa": "स्थानिनः अनेके आदेशाः सम्भवन्ति चेत् तेभ्यः सदृशतमः आदेशः एव विधीयते ।", "sd": "अष्टाध्याय्यां विद्यमानैः विधिसूत्रैः भिन्नेषु स्थलेषु भिन्नाः आदेशाः विधीयन्ते । एतैः सूत्रैः एकस्मिन् एव प्रसङ्गे यदि एकाधिकाः आदेशाः उच्यन्ते, तर्हि तेषु कः आदेशः चेतव्यः इति निर्णयं कर्तुम् प्रकृतसूत्रम् उपयुज्यते । एतादृशे प्रसङ्गे सदृशतमः (most similar) आदेशः भवति —‌ इति प्रकृतसूत्रस्य आशयः । \nआदेशानाम् स्थानिभिः सह साधर्म्यम् चतुर्विधम् अस्ति इति व्याख्यानैः स्पष्टी क्रियते ।आदेशचयनस्य प्रसङ्गे एते चत्वारः प्रकाराः तत्तत्क्रमेणैव निरीक्ष्य, यस्य प्रकारस्य अवलम्बं कृत्वा सदृशतमस्य आदेशस्य चयनं सम्भवति, तस्य प्रकारस्य आधारेण आदेशस्य अत्र निर्णयः क्रियते । एतेषाम् क्रमेण विवरणम् एतादृशम् —\n1. स्थानसादृश्यम् — यत्र भिन्नानाम् आदेशानाम् उच्चारणस्थानम् परस्परेभ्यः भिद्यते, तत्र स्थानिनः उच्चारणस्थानेन सह यस्य उच्चारणस्थानम् सदृशतमम्, तस्य आदेशस्य चयनम् क्रियते । यथा, दैत्य + अरि इत्यत्र <<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सूत्रेण द्वयोः अकारयोः स्थाने दीर्घः एकादेशः भवति । अत्र 'आ, ई, ऊ, ॠ, ए, ऐ, ओ, औ' एते सर्वेऽपि दीर्घसंज्ञकाः वर्णाः आदेशरूपेण प्राप्नुवन्ति । तत्र स्थानिनोः उच्चारणस्थानम् 'कण्ठः' इति दृष्ट्वा, तत्सदृशतमः कण्ठेन उच्चार्यमाणः आकारः एव स्थानसाधर्म्यात् आदेशरूपेण विधीयते ।प्रक्रिया इयम् —\n\nदैत्यानाम् अरिः\n→ दैत्य + अरि [<<षष्ठी>> [[2.2.8]] इति षष्ठीतत्पुरुषसमासः । <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्यययोः लुक्]\n→ दैत्यारि [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति दीर्घैकादेशः । अत्र द्वयोः अकारयोः स्थाने उच्चारणस्थानसाधर्म्यात् आकारः आदेशरूपेण विधीयते ]\n\nस्थानसादृश्यस्य अपरम् उदाहरणम् एतादृशम् — <<मिदेर्गुणः>> [[7.3.82]] इत्यनेन मिद्-धातोः इकारस्य गुणः भवति । अत्र इकारस्य स्थाने गुणसंज्ञकाः अकार-एकार-ओकाराः आदेशरूपेण प्राप्नुवन्ति । एतेषाम् त्रयाणाम् अपि उच्चारणस्थानम् भिन्नम् अस्ति — अकारस्य कण्ठः, एकारस्य कण्ठतालु, ओकारस्य कण्ठोष्ठम् । अतः अत्र स्थानसादृश्यस्य साहाय्यं स्वीकृत्य आदेशस्य चयनं क्रियते । तत्र स्थानिनः (इकारस्य) उच्चारणस्थानम् तालु इति , तत्सदृशम् केवलम् एकारस्य एव उच्चारणस्थानम् वर्तते (यतः एकारस्य उच्चारणे अपि तालुनः प्रयोगः क्रियते) अतः अत्र इकारस्य स्थाने एकारः आदेशरूपेण विधीयते । प्रक्रिया इयम् —\n\nञिमिदाँ (स्नेहने, दिवादिः, <{4.158}>)\n→ मिद् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ मिद् + तिप् [<<तिप्तस्झि..>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः] \n→ मिद् + श्यन् + ति [<<दिवादिभ्यः श्यन्>> [[3.1.69]] इति श्यन्-प्रत्ययः]\n→ मेद् + य + ति [<<मिदेर्गुणः>> [[7.3.82]] इति मिद्-धातोः इकारस्य गुणः । <<स्थानेऽन्तरतमः>> [[1.1.50]] इति स्थानसाधर्म्यात् इकारस्य स्थाने एकारः]\n→ मेद्यति\n\n2. अर्थसादृश्यम् — यत्र स्थानसादृश्यस्य आधारेण आदेशस्य चयनं नैव कर्तुं शक्यते, तत्र अर्थस्य आधारेण आदेशस्य चयनम् कर्तुम् यत्नः कर्तव्यः । इत्युक्ते, भिन्नेभ्यः आदेशेभ्यः यस्य आदेशस्य अर्थः स्थानिनः सदृशः अस्ति, तस्य आदेशस्य चयनम् करणीयम् । अस्य उदाहरणम् इत्थम् — वतण्डशब्दात् स्त्रीवाचिनि गोत्रापत्यार्थे <<वतण्डाच्च>> [[4.1.108]] इति शब्देन यञ्-प्रत्यये कृते वातण्ड्य-शब्दे प्राप्ते; ततः स्त्रीत्वस्य विवक्षायाम् <<शार्ङ्गरवाद्यञो ङीन्>> [[4.1.73]] इत्यनेन ङीन्-प्रत्ययं कृत्वा, ततः <<लुक् स्त्रियाम्>> [[4.1.109]] इत्यनेन यञ्-प्रत्ययस्य लोपे कृते वतण्डी इति शब्दः सिद्ध्यति । अस्य वतण्डी-शब्दस्य यत्र कर्मधारयसमासः क्रियते, तत्र <<पुंवत् कर्मधारयजातीयदेशीयेषु>> [[6.3.42]] इति सूत्रेण वतण्डी-शब्दस्य पुंवद्भावः प्राप्नोति । अत्र वतण्डी-शब्दस्य पुंवद्भावे यद्यपि वतण्ड-इति रूपं सम्भवति, तथापि तस्य अर्थः वतण्डी-शब्दस्य अर्थात् भिद्यते, यतः वतण्डी-शब्दः गोत्रापत्यस्य अर्थे अत्र प्रयुक्तः अस्ति । अतः अत्र वतण्डी-शब्दस्य पुंवद्भावे कृते वतण्ड-शब्दः नैव गृह्यते, अपि तु अर्थेन सदृशः वातण्ड्य-इत्येव शब्दः स्वीक्रियते । प्रक्रिया इयम् —\n\nवतण्डस्य गोत्रापत्यम्\n→ वतण्ड + यञ् [<<वतण्डाच्च>> [[4.1.108]] इति यञ् । ]\n→ वातण्ड्य + ई [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः, <<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ वातण्ड्य् + ङीन् [स्त्रीत्वस्य विवक्षायाम् <<शार्ङ्गरवाद्यञो ङीन्>> [[4.1.73]] इति ङीन्-प्रत्ययः]\n→‌ वतण्ड + ई [<<लुक् स्त्रियाम्>> [[4.1.109]] इति यञ्-प्रत्ययस्य लुक् । प्रत्ययस्य लुकि कृते <ऽनिमित्तापाये नैमित्तिकस्याप्यपायःऽ> इति तद्विशिष्टम् कार्यम् अपि निवर्तते ।]\n→ वतण्ड् + ई [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ वतण्डी \n→ वतण्डी च असौ युवतिः च [<<विशेषणं विशेष्येण बहुलम्>> [[2.1.57]] इति कर्मधारयसमासः]\n→ वातण्ड्य + युवति [<<पुंवत् कर्मधारयजातीयदेशीयेषु>> [[6.3.42]] इति सूत्रेण वतण्डी-शब्दस्य पुंवद्भावः प्राप्नोति । अत्र 'वतण्ड' तथा 'वातण्ड्य' इति द्वौ शब्दौ पुंवद्भावेन प्राप्नुतः, यतः द्वयोः अपि स्त्रीत्वे 'वतण्डी' इत्येव सिद्ध्यति । अतः अत्र उचितस्य आदेशस्य चयनम् अर्थसादृश्यस्य आधारेण क्रियते । वतण्डी-शब्दः अत्र गोत्रापत्यस्य अर्थे प्रयुज्यते, अतः पुंवद्भावे कृते अर्थेन सदृश्यः वातण्ड्यशब्दः एव अत्र आदेशरूपेण विधीयते ।\n→ वातण्ड्ययुवति\n \nअर्थसादृश्यस्य अपरम् उदाहरणम् एतादृशम् — <<तृज्वत् क्रोष्टुः>> [[7.1.95]] इति सूत्रे क्रोष्टु-शब्दस्य स्थाने तृज्वद्भावे प्राप्ते, कर्तृ/हर्तृ/दातृ-इत्यादयः भिन्नाः शब्दाः तत्र आदेशरूपेण प्राप्नुवन्ति; परन्तु एतेषु सर्वेषु अर्थेन सदृशः 'क्रोष्टृ' इत्येव शब्दः अत्र आदेशरूपेण स्वीक्रियते । यथा —\n\nक्रोष्टु + औ [प्रथमाद्विवचनस्य औ-प्रत्ययः]\n→ क्रोष्टृ + औ [<<तृज्वत् क्रोष्टुः>> [[7.1.95]] इति सूत्रेण क्रोष्टु-शब्दस्य स्थाने तृजन्तः सदृशतमः क्रोष्टृ-आदेशः]\n→ क्रोष्टर् + औ [<<ऋतो ङिसर्वनामस्थानयोः>> [[7.3.110]] इत्यनेन सर्वनामस्थाने परे अङ्गस्य गुणः । <<उरण् रपरः>> [[1.1.51]] इति सः रपरः]\n→ क्रोष्टारौ [<<अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्>> [[6.4.11]] इत्यनेन अङ्गस्य उपधायाः दीर्घः]\n\n3. गुणसादृश्यम् —‌ स्थानसदृशम् तथा च अर्थसदृशम् - द्वयोः अपि साहाय्येन आदेशस्य चयनम् यत्र न शक्यम्, तत्र बाह्यप्रयत्नस्य (गुणस्य) आधारेण आदेशस्य चयनम् करणीयम् । यथा, वाग् + हरिः इत्यत्र <<झयो होऽन्यतरस्याम्>> [[8.4.62]] इति सूत्रेण हकारस्य पूर्वसवर्णः प्राप्नोति । अत्र हकारस्य सवर्णाः क्/ख्/ग्/घ् एते चत्वारः वर्णाः आदेशरूपेण प्राप्नुवन्ति । एतेषाम् सर्वेषाम् अपि उच्चारणस्थानम् 'कण्ठः' इति समानम् अस्ति, अतः अत्र स्थानसाधर्म्यात् आदेशचयनं नैव सम्भवति । एवमेव अत्र अर्थविशिष्टम् आदेशविधानम् न कृतम् अस्ति अतः अत्र अर्थसाधर्म्यात् अपि आदेशचयनं न सम्भवति । अस्यां स्थितौ आदेशनिर्णयार्थम् एतेषाम् वर्णानाम् बाह्यप्रयत्नाः अवलोक्यन्ते । ते एतादृशाः —\n\ni) ककारस्य बाह्यप्रयत्नः = विवार-श्वास-अघोष-अल्पप्राणः\nii) खकारस्य बाह्यप्रयत्नः = विवार-श्वास-अघोष-महाप्राणः\niii) गकारस्य बाह्यप्रयत्नः = संवार-नाद-घोष-अल्पप्राणः\niv) घकारस्य बाह्यप्रयत्नः = संवार-नाद-घोष-महाप्राणः\nv) हकारस्य बाह्यप्रयत्नः = संवार-नाद-घोष-महाप्राणः\n\nहकारस्य बाह्यप्रयत्नः घकारसदृशाः सन्ति इति निष्कर्षः अत्र सिद्ध्यति । अतः अत्र हकारस्य स्थाने तत्सदृशतमः संवार-नाद-घोष-महाप्राणवान् घकारः आदेशरूपेण स्वीकृत्य वाग्घरि इति रूपं सिद्ध्यति । प्रक्रिया इयम् —\n\nवाचाम् हरिः\n→ वाक् + हरि [<<षष्ठी>> [[2.2.8]] इति षष्ठीतत्पुरुषसमासः । <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्यययोः लुक्]\n→ वाग् + हरि [<<झलां जशोऽन्ते>> [[8.2.39]] इति ककारस्य जश्त्वे गकारः]\n→ वाग् + घरि [<<झयो होऽन्यतरस्याम्>> [[8.4.62]] इति हकारस्य पूर्वसवर्णादेशे घकारादेशः । अत्र गुणस्य आधारेण आदेशस्य चयनं क्रियते ।]\n→ वाग्घरि\n\nगुणसादृश्यस्य अपरम् उदाहरणम् एतादृशम् — पच्-धातोः घञ्-प्रत्यये कृते <<चजोः कु घिण्ण्यतोः>> [[7.3.52]] इत्यनेन कुत्वं विधीयते । तत्र कवर्गस्य पञ्च अपि वर्णाः (क्, ख्, ग्, घ्, ङ्) आदेशरूपेण प्राप्नुवन्ति । एतेभ्यः चकारस्य बाह्यप्रयत्नाः (विवार-श्वास-अघोष-अल्पप्राणः) एते ककारेण सह समानाः सन्ति इति दृष्ट्वा चकारस्य स्थाने ककारस्यैव आदेशरूपेण विधानम् भवति । प्रक्रिया इत्थम् —\n\nपच् + घञ् [<<भावे>> [[3.3.18]] इति घञ्]\n→ पच् + अ [इत्संज्ञालोपः]\n→ पाच् + अ [<<अत उपधायाः>> [[7.2.116]] इति वृद्धिः]\n→ पाक [<<चजोः कु घिण्ण्यतोः>> [[7.3.52]] इति चकारस्य स्थाने गुणसाधर्म्यात् ककारादेशः]\n\nगुणसादृश्यस्य तृतीयम् उदाहरणम् एतादृशम् — उद् + स्थानम् इत्यत्र <<उदः स्थास्तम्भोः पूर्वस्य>> [[8.4.61]] इति सूत्रेण सकारस्य स्थाने पूर्वसवर्णादेशः विधीयते । तत्र दकारस्य सवर्णाः त्, थ्, द्, ध्, न् एते पञ्च वर्णाः आदेशरूपेण प्राप्नुवन्ति । अस्यां स्थितौ सकारस्य विवार-श्वास-अघोष-महाप्राणम् बाह्यप्रयत्नं दृष्ट्वा तत्सदृशः बाह्यप्रयत्नः यस्य वर्णस्य अस्ति, सः एव वर्णः (इत्युक्ते, थकारः) आदेशरूपेण विधीयते । प्रक्रिया इयम् —\n\n उद् + स्थानम्\n→ उत् + स्थानम् [<<खरि च>> [[8.4.55]] इति चर्त्वम्]\n→ उत् + थ्थानम् [<<उदः स्थास्तम्भोः पूर्वस्य>> [[8.4.61]] इति सकारस्य सदृशतमः थकारः आदेशरूपेण विधीयते ।]\n→ उत्थ्थानम्\n→ उत्थानम् [<<झरो झरि सवर्णे>> [[8.4.65]] इत्यनेन थकारस्य विकल्पेन लोपः]\n\n4. प्रमाणसादृश्यम् —‌ यत्र अन्यैः प्रकारैः आदेशस्य चयनम् न हि सम्भवति, तत्र उच्चारणकालस्य (प्रमाणस्य) आधारेण आदेशस्य चयनम् करणीयम् । यथा, अदस्-शब्दस्य तृतीयाद्विवचनस्य प्रक्रियायाम् अदा + भ्याम् इति स्थिते <<अदसोऽसेर्दादु दो मः>> [[8.2.80]] अनेन सूत्रेण अदस्-शब्दस्य दकारस्य मकारादेशः, तथा च दकारात् परस्य वर्णस्य (आकारस्य) उकारादेशः भवति ।<ऽभाव्यमानोऽप्युकारः सवर्णान् गृह्णातिऽ> इति परिभाषया अत्र आदेशरूपेण उक्तः उकारः अवश्यं सवर्णग्रहणं करोति, अतः अत्र ह्रस्व-उकारः तथा च दीर्घ-ऊकारः एतौ द्वौ अपि आदेशरूपेण प्राप्नुतः । एताभ्याम् उचितस्य आदेशस्य चयनं कर्तुम् अत्र उच्चारणकालस्य साधर्म्यम् स्वीक्रियते । तत्र आकारः दीर्घसंज्ञकः वर्णः अस्ति, अतः तस्य स्थाने मात्रासाधर्म्यात् दीर्घ-ऊकारः एव आदेशरूपेण विधीयते । अनेन अमूभ्याम् इति दीर्घघटितं रूपं सिद्ध्यति । प्रक्रिया इयम् —\n\nअदस् + भ्याम् [तृतीयाद्विवचनस्य प्रत्ययः]\n→ अदअ + भ्याम् [<<त्यदादीनामः>> [[7.2.102]] इति अकारादेशः]\n→ अद + भ्याम् [<<अतो गुणे>> [[6.1.97]] इति पररूपैकादेशः]\n→ अदा + भ्याम् [<<सुपि च>> [[7.3.102]] इति अङ्गस्य दीर्घः]\n→ अमू + भ्याम् [ <<अदसोऽसेर्दादु दो मः>> [[8.2.80]] इत्यनेन दकारस्य मकारः, आकारस्य तत्सदृशः दीर्घः ऊकारः]\n→ अमूभ्याम्\n\nयत्र ह्रस्व-वर्णस्य स्थाने उवर्णादेशः प्राप्नोति, तत्र मात्रासादृश्यात् ह्रस्व-उकारः आदेशरूपेण विधीयते । यथा -\n\nअदस् + ङे [चतुर्थ्येकचवनस्य प्रत्ययः]\n→ अदअ + ङे [<<त्यदादीनामः>> [[7.2.102]] इति अकारादेशः]\n→ अद + ङे [<<अतो गुणे>> [[6.1.97]] इति पररूपैकादेशः]\n→ अद + स्मै [<<सर्वनाम्नः स्मै>> [[7.1.14]] इति स्मै-आदेशः]\n→ अमु + स्मै [ <<अदसोऽसेर्दादु दो मः>> [[8.2.80]] इत्यनेन दकारस्य मकारः, दकारात् परस्य वर्णस्य (अकारस्य) तत्सदृशः ह्रस्वः उकारः]\n→ अमुष्मै [<<आदेशप्रत्यययोः>> [[8.3.59]] इति षत्वम्]\n\nअनेन प्रकारेण स्थान-अर्थ-गुण-प्रमाण-साधर्म्यस्य आधारे उचिततमस्य आदेशस्य निर्णयः सम्भवति । \nअनेकविधे आनन्तर्ये स्थानसाधर्म्यम् एव ग्रहीतव्यम्\nप्रकृतसूत्रे पूर्वसूत्रात् स्थाने इति शब्दः 'उच्चारणप्रसङ्गः' अस्मिन् अर्थे अनृवृत्तिरूपेण स्वीक्रियते । प्रकृतसूत्रे अपि स्थाने इति शब्दः पाठितः अस्ति । अस्य अर्थः तु उच्चारणस्थानम् इति स्वीक्रियते । इत्युक्ते, यत्र अनेकाः आदेशाः सम्भवन्ति, तत्र प्रारम्भे उच्चारणस्थानस्य साधर्म्यम् एव द्रष्टव्यम्, तस्यु आधारेण सदृशतमः आदेशः लभ्यते चेत् अन्य-साधर्म्यानाम् चिन्तनम् नैव करणीयम् — इति अत्र आशयः अस्ति । अतएव, उपरिनिर्दिष्टे मेद्यति इति उदाहरणे इकारस्य स्थाने यदा गुणसंज्ञकवर्णस्य विधानं भवति, तदा तत्र अकार-एकार-ओकाराः आदेशरूपेण प्राप्नुवन्ति । अत्र अकारस्य इकारेण सह प्रमाणसाधर्म्यम् विद्यते, परन्तु एकारस्य इकारेण सह उच्चारणस्थानसाधर्म्यं विद्यते । अस्यां स्थितौ उच्चारणस्थानसाधर्म्यस्य एव चिन्तनं भवति, अन्यसाधर्म्यस्य न । अतः तस्मिन् उदाहरणे इकारस्य स्थाने एकारादेशः एव आदेशरूपेण विधीयते । एतम् विषयम् एव उपलक्ष्य परिभाषेन्दुशेखरे <ऽयत्र अनेकविधमान्तर्यम्, तत्र स्थानतः आन्तर्यं बलीयःऽ> इति परिभाषा पाठिता लभ्यते । तत्र नागेशेन एतेषाम चतुर्णाम् अपि भेदानां उदाहरणानि दत्तानि सन्ति । प्रकृतसूत्रस्य भाष्ये अपि एतेषाम् विवरणम् लभ्यते । " }, "11051": { "sa": "ऋवर्णस्य/ऌवर्णस्य आदेशरूपेण विधीयमानात् अवर्णात्/इवर्णात्/उवर्णात् अनन्तरम् नित्यम् (यथासङ्ख्यम्) रेफः / लकारः विधीयते । ", "sd": "\nअण् = अ, आ, इ, ई, उ, ऊ ।\n = र्, ल् ।\n\nऋवर्णस्य स्थाने (इत्युक्ते, ऋकारस्य, दीर्घ-ॠकारस्य, ऌकारस्य च स्थाने) यत्र अण्-वर्णस्य (अ/आ/इ/ई/उ/ऊ-कारस्य) आदेशः भवति, तत्र तस्मात् अण्-वर्णात् नित्यम् रेफः अपि विधीयते । एवमेव, ऌवर्णस्य स्थाने यत्र अण्-वर्णस्य (अ/आ/इ/ई/उ/ऊ-कारस्य) आदेशः भवति, तत्र तस्मात् अण्-वर्णात् नित्यम् लकारः अपि विधीयते ।\n सूत्रे प्रयुक्तः 'उः' इति शब्दः ऋ-शब्दस्य षष्ठ्येकवचनम् अस्ति । अत्र विद्यमानः ऋ-शब्दः सवर्णग्रहणं करोति । अतः अत्र ऋ-इत्यनेन ऋकारस्य 18 भेदाः, ऌकारस्य च 12 भेदाः इति आहत्य 30 भेदाः निर्दिश्यन्ते ।\n क्रमेण उदाहरणानि एतानि —\n1. ह्रस्व-ऋकारस्य स्थाने विधीयमानः अण्-वर्णः रपरः भवति —\n1. ब्रह्म + ऋषि इत्यत्र अकार-ऋकारयोः गुणैकादेशः रपरः अकारः विधीयते —\n\nब्रह्मणाम् ऋषिः [<<षष्ठी>> [[2.2.8]] इति षष्ठीतत्पुरुषः]\n→ ब्रह्म + ऋषि [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्यययोः लुक्]\n→ ब्रह्म् अर् षि [<<आद्गुणः>> [[6.1.87]] इति गुणैकादेशः । अकार-ऋकारयोः गुणैकादेशः अकारः रपरः सन् विधीयते ]\n→ ब्रह्मर्षि\n\n2. प्र + ऋच्छति इत्यत्र <<उपसर्गादृति धातौ>> [[6.1.91]] इत्यनेन अकार-ऋकारयोः वृद्ध्येकादेशः रपरः आकारादेशः विधीयते —\n\nप्र + ऋच्छति\n→ प् र् आर् च्छति [<<उपसर्गादृति धातौ>> [[6.1.91]] इति वृद्ध्येकादेशः । अकार-ऋकारयोः वृद्ध्येकादेशः अकारः रपरः सन् विधीयते ।]\n\n3. ऋकारान्तशब्दानाम् पञ्चम्येकवचनस्य रूपे <<ऋत उत्>> [[6.1.111]] इति सूत्रेण ऋकार-अकारयोः एकादेशरूपेण विहितः उकारः रपरः भवति —\n\nपितृ + ङसिँ [पञ्चम्येकवचनस्य प्रत्ययः]\n→ पितृ + अस् [इत्संज्ञालोपः]\n→ पित् उ र् स् [<<ऋत उत्>> [[6.1.111]] इति रपरः उकारः एकादेशः]\n→ पितुर् [<<रात्सस्य>> [[8.2.24]] इति सकारलोपः]\n→ पितुः [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n\n2. दीर्घ-ऋकारस्य स्थाने विधीयमानः अण्-वर्णः रपरः भवति —\n1. <<ॠत इत् धातोः>> [[7.1.100]] अनेन सूत्रेण धात्वन्ते विद्यमानस्य दीर्घ-ॠकारस्य स्थाने यः इकारादेशः भवति सः प्रकृतसूत्रेण रपरः सन् विधीयते —\n\nकॄ (विक्षेपे, तुदादिः, <{6.145}>)\n→ कॄ + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्-लकारः]\n→ कॄ + तिप् [<<तिप्तस्झि..>> [[3.4.78]] इत्यनेन प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]\n→ कृ + श + ति [<<तुदादिभ्यः शः>> [[3.1.77]] इति श-विकरणप्रत्ययः]\n→ [<<ॠत इत् धातोः>> [[7.1.100]] इति ॠकारस्य इकारः । सः च <<उरण् रपरः>> [[1.1.51]] इति रपरः ।]\n→ किरति\n\n2. <<उपधायाश्च>> [[7.1.101]] इत्यनेन कॄत्-धातोः दीर्घ-ॠकारस्य स्थाने यः इकारादेशः भवति सः प्रकृतसूत्रेण रपरः सन् विधीयते —\n\nकॄतँ (संशब्दने, चुरादिः, <{10.155}>)\nकॄत् + णिच् [<<सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्>> [[3.1.25]] इति स्वार्थे णिच्]\n→ किर् त् + इ [दीर्घ-ॠकारस्य स्थाने रपरः इकारादेशः]\n→ किर्ति [<<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञा]\n→ किर्ति + अनीयर् [<<तव्यत्तव्यानीयरः>> [[3.1.96]] इति अनीयर्-प्रत्ययः]\n→ किर्त् + अनीय [<<णेरनिटि>> [[6.4.51]] इति णिलोपः]\n→ कीर्तनीय [<<उपधायां च>> [[8.2.78]] इति दीर्घः]\n\n3. ऌ स्थाने विधीयमानः अण्-वर्णः रपरः भवति —\n1. तव + ऌकारः इत्यत्र अकार-ऌकारयोः <<आद्गुणः>> [[6।1।87]] इति गुण-एकादेशः भवति । अत्र अकार-ऌकारयोः गुणः अकारः, सः च <<उरण् रपरः>> [[1.1.51]] इति लपरः भवति, अतः 'अल्' इत्यस्यैव प्रयोगं कृत्वा 'तवल्कारः' इति सन्धिरूपं सिद्ध्यति —\n\nतव + ऌकारः\n→ तव् अल् कारः [<<आद्गुणः>> [[6।1।87]] इति गुणैकादेशः । अकारऌकारयोः गुणः लपरः अकारः]\n→ तवल्कारः\n\n2. गमॢ-शब्दस्य षष्ठ्येकवचनस्य रूपे <<ऋत उत्>> [[6.1.111]] इति सूत्रेण ऌकार-अकारयोः एकादेशरूपेण विहितः उकारः लपरः भवति —\n\nगमॢ + ङसि् [षष्ठ्येकवचनस्य प्रत्ययः]\n→ गमॢ + अस् [इत्संज्ञालोपः]\n→ गम् उ ल् स् [<<ऋत उत्>> [[6.1.111]] इति रपरः उकारः एकादेशः]\n→ गमुलः [<<ससजुषो रुः>> [[8.2.66]] इति रुँत्वम् । <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n\nदलकृत्यम्\n1. उः (ऋवर्णस्य) इति किमर्थम् ? दशरथस्य अपत्यम् दाशरथिः इत्यत्र दकारोत्तस्य अकारस्य स्थाने विधीयमानः वृद्धिसंज्ञकः आकारः रपरः न भवति । प्रक्रिया इयम् —\n\nदशरथस्य अपत्यं पुमान्\n→ दशरथ + इञ् [<<अत इञ्>> [[4.1.95]] इति इञ्-प्रत्ययः]\n→ दाशरथ् + इ [दकारोत्तस्य अकारस्य <<तद्धितेष्वचामादेः>> [[7.2.117]] इति वृद्धिः आकारः । थकारोत्तरस्य अकारस्य <<यस्येति च>> [[6.4.148]] इति लोपः]\n→ दाशरथि\n\n2. अणः इति किमर्थम् ? सुधातृ शब्दात् इञ्-प्रत्यये कृते <<सुधातुरकङ् च>> [[4.1.97]] इत्यनेन ऋकारस्य अक् इति आदेशः भवति । अक् इति शब्दः अण्-प्रत्याहारे नास्ति, अतः अत्र आदेशः रपरः न भवति । यद्यपि अक्-इत्यस्य अवयवः अकारः अण्-प्रत्याहारे विद्यते, तथापि अकारः स्वयम् आदेशरूपेण नैव विधीयते, अतः तस्य विषये रपरत्वं नैव प्रवर्तते । प्रक्रिया इयम् —\n\nसुधातुः अपत्यम् \n→ सुधातृ + इञ् [<<सुधातुरकङ् च>> [[4.1.97]] इति इञ्-प्रत्ययः]\n→ सुधात् अक् + इ [<<सुधातुरकङ् च>> [[4.1.97]] इति सुधातृ-शब्दस्य अकङ्-आदेशः । ङित्त्वात् <<ङिच्च>> [[1.1.53]] इति अन्त्यादेशः । ]\n→ सौधातकि [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति उकारस्य वृद्धिः औकारः]\n\nअण्-प्रत्याहारः पूर्वेण णकारेण गृह्यते\nप्रकृतसूत्रे प्रयुक्तः अण्-प्रत्याहारः अइउण्-सूत्रस्य णकारेण निर्मितः अस्ति, न हि लण्-सूत्रस्य णकारेण । यदि अयम् णकारः लण्-प्रत्याहारस्य णकारेण निर्मितः स्यात्, तर्हि तेन दीर्घ-ॠकारस्यापि ग्रहणे कृते पितॄन्, पितॄणाम् एतादृशेषु शब्देषु ऋकारस्य प्राप्तः दीर्घ-ॠकारादेशः अपि रपरः स्यात्, येन 'पितॄर्न्, पितॄर्णाम्' इति अशुद्धानि रूपाणि अभविष्यन् । अतः अण्-प्रत्याहारः अत्र पूर्वणकारेण एव गृह्यते, येन अण्-प्रत्याहारेण केवलम् अवर्ण-इवर्ण-उवर्णानाम् एव ग्रहणं भवति । \nर-प्रत्याहारेण रेफ-लकारयोः ग्रहणम्\nप्रकृतसूत्रे विद्यमानः रपरः इति शब्दः रः परः यस्मात् सः इति बहुव्रीहिसमासेन निर्मितः अस्ति । अत्र विग्रहवाक्ये (समस्तपदे च) प्रयुक्तः 'रः' इति शब्दः र-प्रत्याहारस्य निर्देशं करोति । लण्-इत्यस्मिन् माहेश्वरसूत्रे विद्यमानः लकारोत्तरम् अकारं इत्संज्ञकं मत्त्वा; हयवरट्-सूत्रस्य रेफेण सह तस्य ग्रहणं कृत्वा 'र् + अ = र' इति प्रत्याहारः सिद्ध्यति । अनेन प्रत्याहारेण रेफस्य लकारस्य च ग्रहणं क्रियते । \n" }, "11052": { "sa": "सूत्रेण उक्तः आदेशः स्थानिनः अन्तिमवर्णस्य स्थाने भवति । ", "sd": "एतत् अष्टाध्याय्याम् विद्यमानं परिभाषासूत्रम् अस्ति । सूत्रेषु कृतम् आदेशविधानम् स्थानिनः केवलम् अन्तिमवर्णस्य स्थाने एव भवति इति अस्य सूत्रस्य आशयः । कानिचन उदाहरणानि एतानि —\n1. <<त्यदादीनामः>> [[7.2.102]] अनेन सूत्रेण त्यदादीगणस्य शब्दानाम् 'अ' इति आदेशः विधीयते । अस्मिन् सूत्रे 'त्यदादीनाम्' इति षष्ठ्यन्तपदेन स्थानिनः निर्देशः भवति । अस्य स्थाने उक्तः 'अ' इति आदेशः प्रकृतसूत्रेण स्थानिनः अन्तिमर्वणस्य स्थाने एव विधीयते । यथा, त्यदादिगणस्य 'तद्' सर्वनामशब्दस्य पुंलिङ्गे प्रथमाद्विवचनस्य रूपे अनेन सूत्रेण केवलम् दकारस्य स्थाने एव अकारादेशः भवति । प्रक्रिया इयम् —\n\nतद् + औ\n→ त अ + औ [<<त्यदादीनामः>> [[7.2.102]] अनेन सूत्रेण त्यदादीगणस्य शब्दानाम् 'अ' इति आदेशः। <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यनेन अन्तिमवर्णस्य आदेशः, अतः दकारस्य स्थाने अकारादेशः भवति ।]\n→ त औ [<<अतो गुणे>> [[6.1.97]] इति पररूप-एकादेशः अकारः]\n→ तौ [<<वृद्धिरेचि>> [[6.1.88]] इति वृद्धि-एकादेशः]\n\n2. 'दिव्' शब्दात् तृतीयाद्विवचनस्य भ्याम्-प्रत्यये परे <<दिव उत्>> [[6.1.131]] इति सूत्रेण 'दिव्' इत्यस्य उकारादेशः विधीयते । प्रकृतसूत्रेण अयम् अन्तिमवर्णस्य स्थाने एव भवति । प्रक्रिया इयम् —\n\nदिव् + भ्याम् [तृतीयाद्विवचनस्य भ्याम्-प्रत्ययः]\n→ दिउ + भ्याम् [<<दिव उत्>> [[6.1.131]] इति सूत्रेण उकारादेशः । <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यनेन अन्तिमवर्णस्य आदेशः, अतः वकारस्य स्थाने अकारादेशः भवति ।]\n→ द्युभ्याम् [<<इको यणचि>> [[6.1.77]] इति यणादेशः]\n\n3. यस्य पदस्य अन्ते संयोगः विद्यते, तस्य पदस्य <<संयोगान्तस्य लोपः>> [[8.2.23]] इति सूत्रेण लोपः विधीयते । एतादृशः लोपः सम्पूर्णशब्दस्य स्थाने न भवति, अपितु प्रकृतसूत्रेण केवलम् अन्तिमवर्णस्य एव स्थाने विधीयते । यथा, पठ्-धातोः लङ्लकारस्य प्रथमपुरुषबहुवचनस्य रूपसिद्धौ अनेन सूत्रेण तकारस्य लोपः भवति । प्रक्रिया इयम् —\n\nपठँ (व्यक्तायां वाचि, भ्वादिः, <{1.381}>)\n→ पठ् + लङ् [<<अनद्यतने लङ्>> [[3.2.111]] इति लङ्]\n→ अट् + पठ् + लङ् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→‌ अ + पठ् + झि [<<तिप्तस्झि..>> [[3.4.78]] इति प्रथमपुरुषबहुवचनस्य प्रक्रियायाम् झि-प्रत्ययः]\n→ अ + पठ् + शप् + झि [<<कर्तरि शप्>> [[3.1.68]] इति शप्-प्रत्ययः]\n→ अ + पठ् + अ + अन्ति [<<झोऽन्तः>> [[7.1.3]] इति अन्त-आदेशः]\n→ अ + पठ् + अ + अन्त् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ अपठन्त् [<<अतो गुणे>> [[6.1.97]] इति पररूपैकादेशः]\n→ अपठन् [<<संयोगान्तस्य लोपः>> [[8.2.23]] इति संयोगान्तपदस्य लोपः । <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यनेन अन्तिमवर्णस्य लोपः भवति ।]\n\n" }, "11053": { "sa": "'ङित्' आदेशः स्थानिनः अन्तिमवर्णस्य स्थाने विधीयते । ", "sd": "एतत् अष्टाध्याय्याम् विद्यमानं परिभाषासूत्रम् अस्ति । यस्मिन् आदेशे ङकारः इत्संज्ञकः अस्ति, सः आदेशः स्थानिनः केवलम् अन्तिमवर्णस्य स्थाने एव भवति इति अस्य सूत्रस्य आशयः । <<अनेकाल्शित्सर्वस्य>> [[1.1.55]] इत्यनेन सम्पूर्ण-स्थानिनः विषये आदेशे प्राप्ते, तद्बाधित्वा केवलम् अन्तिमवर्णस्यैव स्थाने आदेशविधानार्थम् इदं सूत्रम् निर्मितम् अस्ति । कानिचन उदाहरणानि एतानि —\n1. <<अनङ् सौ>> [[7.1.93]] अनेन सूत्रेण सखि-शब्दस्य सुँ-प्रत्यये परे अनङ्-आदेशः भवति । अयम् आदेशः ङित्-अस्ति, अतः <<ङिच्च>> इत्यनेन केवलं स्थानिनः अन्तिमर्वणस्य स्थाने एव अयं आदेशः भवति । प्रक्रिया इयम् —\n\nसखि + सुँ [प्रथमैकवचनस्य प्रत्ययः]\n→ सख् अन् सुँ [ <<अनङ् सौ>> [[7.1.93]] इति सखि-शब्दस्य अनङ्-आदेशः । <<ङिच्च>> [[1.1.53]] इति अन्त्यादेशः । अतः अयम् सखि-शब्दस्य अन्तिम-इकारस्य स्थाने भवति । ]\n→ सखान्स् [<<सर्वनामस्थाने चासम्बुद्धौ>> [[6.4.8]] इत्यनेन सर्वनामस्थाने परे नकारान्तस्य अङ्गस्य उपधायाः दीर्घः ]\n→ सखान् [ <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति सुँ-प्रत्ययस्य लोपः]\n→ सखा [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नलोपः]\n\n2. <<आनङ् ऋतो द्वन्द्वे>> [[6.3.25]] इति सूत्रेण केषुचन द्वन्द्वसमासेषु पूर्वपदस्य आनङ्-आदेशः भवति । अयम् अपि ङित्त्वात् अन्त्यस्य स्थाने विधीयते । यथा, 'माता च पिता च' इत्यस्मिन् द्वन्द्वसमासे 'होतृ' इति पूर्वपदस्य आनङ्-आदेशे कृते 'मातापितरौ' इति रूपं सिद्ध्यति । प्रक्रिया इयम् —\n\nमाता च पिता च [<<चार्थे द्वन्द्वः>> [[2.2.29]] इति द्वन्द्वसमासः]\n→ मातृ सुँ पितृ सुँ [अलौकिकविग्रहः । <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा]\n→ मातृ पितृ औ [<<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति विभक्तिप्रत्यययोः लुक् । ततः द्विवचनस्य निर्देशार्थम् औ-प्रत्ययः ।]\n→ मात् आनङ् पितृ औ [<<आनङ् ऋतो द्वन्द्वे>> [[6.3.25]] इति मातृ-शब्दस्य आनङ्-आदेशः । <<ङिच्च>> [[1.1.53]] इति अन्त्यादेशः]\n→ मात् आन् पितृ औ [ङकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति लोपः । नकारोत्तरः अकारः उच्चारणार्थः, सोऽपि लुप्यते ।]\n→ मातान् पितर् ओ [<<ऋतो ङिसर्वनामस्थानयोः>> [[7.3.110]] इति ऋकारस्य सर्वनामस्थानसंज्ञके औ-प्रत्यये परे गुणादेशः । <<उरण् रपरः>> [[1.1.51]] इति रपरः]\n→ मातापितरौ [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारस्य लोपः]\n\n3. <<जायायाः निङ्>> [[5.4.134]] इत्यनेन बहुव्रीहिसमासस्य उत्तरपदरूपेण विद्यमानस्य 'जाया'शब्दस्य निङ्-आदेशः भवति । ङित्त्वात् अयम् अन्त्यस्य स्थाने एव विधीयते । प्रक्रिया इयम् —\n\nवृद्धा जाया अस्य इति [<<अनेकमन्यपदार्थे>> [[2.2.24]] इति बहुव्रीहिसमासः]\n→ वृद्धा + जाया [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्यययोः लोपः]\n→ वृद्ध + जाया [<<स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् ...>> [[6.3.34]] इति पुंवद्भावः]\n→ वृद्ध + जाय् निङ् [<<जायायाः निङ्>> [[5.4.134]] इत्यनेन जाया-शब्दस्य निङ्-आदेशः । <<ङिच्च>> [[1.1.53]] इति अयम् अन्त्यादेशः, अतः अयं यकारोत्तस्य आकारस्य स्थाने भवति ।]\n→ वृद्ध + जाय् नि [ङकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→‌वृद्धजानि [<<लोपो व्योर्वलि>> [[6.1.66]] इति यकारलोपः]\n\nतातङ्-आदेशस्य विषये अस्य सूत्रस्य अप्राप्तिः\nलोटलकारस्य प्रथमपुरुषैकवचनस्य 'तु'-प्रत्ययस्य <<तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्>> [[7.1.35]] इत्यनेन विकल्पेन तातङ्-आदेशः भवति । अस्मिन् आदेशे विद्यमानः ङकारः गुणवृद्धिनिषेधकार्यार्थम् स्थापितः अस्ति, न हि अन्त्यादेशकार्यार्थम् । अतः तातङ्-आदेशः <<अनेकाल्शित्सर्वस्य>> [[1.1.55]] इत्यनेन सम्पूर्णस्य तु-प्रत्ययस्य स्थाने एव भवति ।यथा, 'पठतात्' इति शब्दस्य प्रक्रिया इयम् —\n\nपठँ (व्यक्तायां वाचि, भ्वादिः, <{1.381}>)\n→‌ पठ् + लोट् [<<आशिषि लिङ्लोटौ>> [[3.3.173]] इत्यनेन आशिषि अर्थे लोट्लकारस्य विधानम् ।]\n→ पठ् + तिप् [<<तिप्तस्झि...>> [[3.4.78]] इति प्रथमैकवचनस्य विवक्षायाम् तिप्-प्रत्ययः]\n→ पठ् + शप् + तिप् [<<कर्तरि शप्>> [[3.1.68]] इति शप्-विकरणप्रत्ययः]\n→ पठ् + अ + तु [<<एरुः>> [[3.4.86]] इति उकारादेशः]\n→ पठ् + अ + तातङ् [<<तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्>> [[7.1.35]] इति तु-प्रत्ययस्य तातङ्-आदेशः । अयं <<अनेकाल्शित्सर्वस्य>> [[1.1.55]] इत्यनेन सर्वादेशरूपेण विधीयते ।]\n→ पठतात् [ङकारस्य इत्संज्ञा, लोपः । तकारोत्तरः अकारः उच्चारणार्थः, सोऽपि लुप्यते ।]\n\n\n→ पठ् + \n\n" }, "11054": { "sa": "निमित्तं निर्दिश्य तस्मात् अनन्तरं विद्यमानस्य शब्दस्य उक्तः आदेशः तस्य प्रथमवर्णस्य स्थाने विधीयते ।", "sd": "एतत् अष्टाध्याय्याम् विद्यमानं परिभाषासूत्रम् अस्ति । यदि कस्मिंश्चित् सूत्रे पूर्वनिमित्तं दत्त्वा तस्मात् परस्य आदेशः उक्तः अस्ति, तत्र सःआदेशः स्थानिनः आदिवर्णस्यैव भवति — इति अस्य सूत्रस्य आशयः । <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यनेन प्राप्तस्य अन्त्यादेशस्य अयम् अपवादः । कानिचन उदाहरणानि एतानि —\n1) <<उदः स्थास्तम्भोः पूर्वस्य>> [[8.4.61]] अनेन सूत्रेण उद्-उपसर्गात् परस्य स्था-धातोः पूर्वसवर्णः (थकारः) आदेशः भवति । अत्र अस्मिन् सूत्रे उद्-उपसर्गात् परस्य आदेशः उक्तः अस्ति, अतः प्रकृतसूत्रेण अयम् आदेशः परशब्दस्य (स्था-धातोः) प्रथमवर्णस्य स्थाने (सकारस्य स्थाने) एव आगच्छति । प्रक्रिया इयम् ‌—\n\nउद् + स्थानम् [स्था-धातोः ल्युट्-प्रत्यये कृते स्थानम् इति शब्दः सिद्ध्यति ।]\n→ उत् + स्थानम् [<<खरि च>> [[8.4.55]] इति चर्त्वम्]\n→ उत् + थ्थानम् [<<उदः स्थास्तम्भोः पूर्वस्य>> [[8.4.61]] इति 'स्था' इत्यस्य पूर्वसवर्णः (थकारादेशः) भवति । <<आदेः परस्य>> [[1.1.54]] इत्यनेन सः आदि-वर्णस्य स्थाने विधीयते ।]\n→ उत्थ्थानम्\n→ उत्थानम् [<<झरो झरि सवर्णे>> [[8.4.65]] इत्यनेन थकारस्य विकल्पेन लोपः]\n\n2) <<द्व्यन्तरुपसर्गेभ्योऽप ईत्>> [[6.3.97]] इति सूत्रेण द्वि-शब्दात् परस्य 'अप्' शब्दस्य ईकारादेशः भवति । अत्रापि पूर्वनिमित्तं निर्दिश्य स्थानिनः आदेशविधानं कृतम् अस्ति, अतः अत्र 'अप्' शब्दस्य अकारस्य अयम् आदेशः भवति । प्रक्रिया इयम् —\n\nद्विर्गता आपः यस्मिन् [<<अनेकमन्यपदार्थे>> [[2.2.24]] इति अस्वपदविग्रहः बहुव्रीहिसमासः]\n→ द्वि अप् [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्यययोः लोपः]\n→ द्वि अप् अ [<<ऋक्पूरब्धूःपथामानक्षे>> [[5.4.74]] इत्यनेन 'अ' इति समासान्तप्रत्ययः]\n→ द्वि ईप् अ [<<द्व्यन्तरुपसर्गेभ्योऽप ईत्>> [[6.3.97]] इति सूत्रेण द्वि-शब्दात् परस्य 'अप्' शब्दस्य ईकारादेशः । <<आदेः परस्य>> [[1.1.54]] इति आदिवर्णस्य आदेशः]\n→ द्वीप [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति दीर्घः]\n\n3) <<यस्य हलः>> [[6.4.49]] इति सूत्रेण हल्-वर्णात् परस्य 'य' इत्यस्य लोपः भवति । अत्रापि पूर्वनिमित्तं दत्त्वा कार्यम् उच्यते, अतः अयं लोपः 'य' इत्यस्य आदिवर्णस्य (इत्युक्ते य्-इति व्यञ्जनस्य एव भवति ।) यथा, 'भिद्'धातोः यङ्-प्रत्यये कृते 'बेभिद्य' इति आतिदेशिकधातुः सिद्ध्यति । अस्य 'तुमुन्' प्रत्ययस्य प्रक्रियायाम् अनेन सूत्रेण यकारस्य लोपः विधीयते —\n\nबेभिद्य + तुमुन् [<<तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्>> [[3.3.10]] इति तुमुन्-प्रत्ययः]\nबेभिद्य + इट् + तुम् [<<आर्धधातुकस्येड् वलादेः>> [[7.2.35]] इति इडागमः]\n→ बेभिद् अ + इ + तुम् [हल्-वर्णात् परस्य (दकारात् परस्य) 'य' इत्यस्य <<यस्य हलः>> [[6.4.49]] इति लोपः । <<आदेः परस्य>> [[1.1.54]] इत्यनेन केवलम् य् इति व्यञ्जनस्य एव लोपः क्रियते, न हि तदनन्तरं विद्यमानस्य अकारस्य ।]\n→ बेभिद् + इ + तुम् [<<अतो लोपः>> [[6.4.48]] इति अकारलोपः]\n→ बेभिदितुम्\n" }, "11055": { "sa": "अनेकाल् आदेशः, शित्-आदेशः च सम्पूर्णस्थानिनः स्थाने विधीयते ।", "sd": "एतत् अष्टाध्याय्याम् विद्यमानं परिभाषासूत्रम् अस्ति । यस्मिन् आदेशे द्वौ वा अधिकाः वर्णाः विद्यन्ते तादृशः आदेशः, तथा च यस्मिन् आदेशे शकारः इत्संज्ञकः विद्यते तादृशः आदेशः सम्पूर्णस्य स्थानिनः स्थाने विधीयते — इति अस्य सूत्रस्य आशयः । <<अलोऽन्त्यस्य>> [[1.1.52]] इति सूत्रस्य अपवादरूपेण इदं सूत्रम् प्रवर्तते । \nआदेशे कति वर्णाः सन्ति इति ज्ञातुम् आदौ तत्र उपस्थितानाम् सर्वेषाम् इत्संज्ञकवर्णानाम्, उच्चारणार्थं प्रयुक्तानां च वर्णानाम् लोपः करणीयः, तदनन्तरम् एव वर्णानाम् गणना कर्तव्या । यथा, <<दिवः औत्>> [[7.1.84]] अनेन सूत्रेण 'औत्' इति आदेशः दीयते । यद्यपि अस्मिने आदेशे द्वौ वर्णौ दृश्येते, तथापि अत्र तकारः केवलम् उच्चारणार्थः अस्ति ।तस्य लोपः क्रियते चेत् 'औ' इति एकः एव वर्णः अवशिष्यते । अतः औत् इति एकाल्-आदेशः एव । अतः औत्-आदेशस्य विषये अस्य सूत्रस्य प्रसक्तिः नास्ति ।\nअस्य सूत्रस्य द्वे उदाहरणे एतादृशे —\n1. <<अस्तेर्भूः>> [[2.4.52]] इत्यनेन अस्-धातोः आर्धधातुकप्रत्ययस्य विवक्षायां भू-आदेशः विधीयते । अयम् अनेकाल्-आदेशः, अतः अयम् 'अस्' इत्यस्य सम्पूर्णशब्दस्य स्थाने आगच्छति । अतएव अस्-धातोः 'क्त्वा' अस्मिन् आर्धधातुके प्रत्यये परे 'भूत्वा' इति रूपं जायते । यथा -\n\nअसँ (भुवि, अदादिः, <{2.60}>)\n→ भू [आर्धधातुकप्रत्ययस्य विवक्षायाम् अस्-धातोः भू-आदेशः । अनेकाल्त्वात् <<अनेकाल्शित्सर्वस्य>> [[1.1.55]] इति सर्वादेशः]\n→ भू + क्त्वा [भू-आदेशस्य स्थानिवद्भावनेन धातुसंज्ञा ।<<समानकर्तृकयोः पूर्वकाले>> [[3.4.21]] इति क्त्वा-प्रत्ययः]\n→ भूत्वा \n\n2. <<इदमः इश्>> [[5.3.3]] इति सूत्रेण इदम्-शब्दस्य केषुचन तद्धितप्रत्ययेषु परेषु इश्-आदेशः भवति । अस्मिन् आदेशे शकारः इत्संज्ञकः अस्ति, अतः <<अनेकाल्शित्सर्वस्य>> [[1.1.55]] इत्यनेन अयम् आदेशः सम्पूर्णरूपेण 'इदम्' शब्दस्य स्थाने विधीयते । यथा, इदम्-शब्दात् ह-प्रत्यये कृते इदम्-शब्दस्य 'इ' इति सर्वादेशं कृत्वा 'इह' इति शब्दः सिद्ध्यति । प्रक्रिया इयम् —\n\nइदम् + ह [<<इदमो हः>> [[5.3.11]] इति इदम्-शब्दात् सप्तम्यर्थे ह-प्रत्ययः]\n→ इश् + ह [<<इदमः इश्>> [[5.3.3]] इति सूत्रेण इदम्-शब्दस्य इश्-आदेशः । शित्त्वात् <<अनेकाल्शित्सर्वस्य>> [[1.1.55]] इति सर्वादेशः]\n→ इ + ह [शकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ इह \n\nङिच्च तथा अनेकाल्शित्सर्वस्य एतयोर्मध्ये बाध्यबाधकभावः\n<<ङिच्च>> [[1.1.53]] एतत् सूत्रम् <<अनेकाल्शित्सर्वस्य>> [[1.1.55]] इत्यस्य अपवादरूपेण विधीयते । इत्युक्ते, ङित्-आदेशः अनेकाल् भवेत् उत एकाल्, सः अन्त्यादेशरूपेणैव विधीयते । यथा, <<आनङ् ऋतो द्वन्द्वे>> [[6.3.25]] इति सूत्रेण केषुचन द्वन्द्वसमासेषु पूर्वपदस्य आनङ्-आदेशः भवति । अयम् आनङ्-आदेशः यद्यपि अनेकाल् अस्ति, तथापि ङित्त्वात् अयम् अन्त्यस्य स्थाने एव विधीयते । यथा, 'माता च पिता च' इत्यस्मिन् द्वन्द्वसमासे 'होतृ' इति पूर्वपदस्य आनङ्-इति अन्त्यादेशे कृते 'मातापितरौ' इति रूपं सिद्ध्यति । प्रक्रिया इयम् —\n\nमाता च पिता च [<<चार्थे द्वन्द्वः>> [[2.2.29]] इति द्वन्द्वसमासः]\n→ मातृ सुँ पितृ सुँ [अलौकिकविग्रहः । <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा]\n→ मातृ पितृ औ [<<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति विभक्तिप्रत्यययोः लुक् । ततः द्विवचनस्य निर्देशार्थम् औ-प्रत्ययः ।]\n→ मात् आनङ् पितृ औ [<<आनङ् ऋतो द्वन्द्वे>> [[6.3.25]] इति मातृ-शब्दस्य आनङ्-आदेशः । <<अनेकाल्शित्सर्वस्य>> [[1.1.55]] इत्यनेन सर्वादेशे प्राप्ते, तद्बाधित्वा <<ङिच्च>> [[1.1.53]] इति अन्त्यादेशः]\n→ मात् आन् पितृ औ [ङकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति लोपः । नकारोत्तरः अकारः उच्चारणार्थः, सोऽपि लुप्यते ।]\n→ मातान् पितर् ओ [<<ऋतो ङिसर्वनामस्थानयोः>> [[7.3.110]] इति ऋकारस्य सर्वनामस्थानसंज्ञके औ-प्रत्यये परे गुणादेशः । <<उरण् रपरः>> [[1.1.51]] इति रपरः]\n→ मातापितरौ [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारस्य लोपः]\n\nआदेः परस्य तथा अनेकाल्शित्सर्वस्य एतयोर्मध्ये बाध्यबाधकभावः\n<<अनेकाल्शित्सर्वस्य>> [[1.1.55]] इति सूत्रम् परत्वात् <<आदेः परस्य>> [[1.1.54]] इत्यस्य बाधकरूपेण प्रवर्तते । अस्य द्वे उदाहरणे एतादृशे —\n1. <<अष्टाभ्य औश्>> [[7.1.21]] इत्यनेन अष्टा-शब्दात् परस्य जस्-प्रत्ययस्य औश्-आदेशः भवति । अनेन सूत्रेण पूर्वनिमित्तम् उक्त्वा आदेशविधानम् क्रियते, अतः अयम् आदेशः वस्तुतः <<आदेः परस्य>> [[1.1.54]] इत्यनेन स्थानिनः आदिवर्णस्य स्थाने एव भवेत् । परन्तु अयम् आदेशः शित् अस्ति, अतः <<अनेकाल्शित्सर्वस्य>> [[1.1.55]] इति सूत्रेण सः सर्वादेशरूपेण प्रवर्तते । यथा‌ —\n\nअष्टन् + जस् [प्रथमाबहुवचनस्य प्रत्ययः]\n→ अष्टा + जस् [<<अष्टन आ विभक्तौ>> [[7.2.84]] इति आकारादेशः । <<अलोऽन्त्यस्य>> [[1.1.52]] इति अन्त्यादेशः]\n→ अष्टा + औ [<<आदेः परस्य>> [[1.1.54]] इत्यनेन आदिवर्णस्य आदेशे प्राप्ते, तद्बाधित्वा<<अनेकाल्शित्सर्वस्य>> [[1.1.55]] इति सर्वादेशः]\n→ अष्टौ [<<वृद्धिरेचि>> [[6.1.88]] इति वृद्धि-एकादेशः]\n\n2. <<अतो भिस ऐस्>> [[7.1.9]] इति सूत्रेण अदन्तात् अङ्गात् परस्य भिस्-प्रत्ययस्य ऐस्-आदेशः भवति । अत्रापि <<आदेः परस्य>> [[1.1.54]] इत्यनेन आदिवर्णस्यैव आदेशे प्राप्ते, तद्बाधित्वा ऐस्-आदेशस्य अनेकाल्त्वात् <<अनेकाल्शित्सर्वस्य>> [[1.1.55]] इति सर्वादेशः भवति । प्रक्रिया इयम् —\n\nराम + भिस् [तृतीयाबहुवचनस्य भिस्-प्रत्ययः]\n→ राम + ऐस् [<<अतो भिस ऐस्>> [[7.1.9]] इति ऐस्-आदेशः । अनेकाल्त्वात् सर्वादेशः]\n→ रामैः [<<वृद्धिरेचि>> [[6.1.88]] इति वृद्ध्येकादेशः । <<ससजुषो रुः>> [[8.2.66]] इति रुँत्वम् । <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः ।]\n\nजश्शसो शिः इत्यत्र आदेशविधानपद्धतिः\nप्रकृतसूत्रस्य व्याख्याने काशिकायाम् एतत् उच्यते -\n\nशित् खल्वपि - <<जश्शसोः शिः>> [[7.1.20]] कुण्डानि तिष्ठन्ति, कुण्डानि पश्य ॥ काशिका, 1.1.55 ॥\n\nअत्र काशिकाकारः 'शित्' इत्यस्य उदाहरणरूपेण <<जश्शसोः शिः>> [[7.1.20]] इदं सूत्रम् उदाहरति । वस्तुतः एतत् प्रामादिकम् एव । तत्कथम् इति चेत्, 'शि' इत्यस्य शकारस्य <<लशक्वतद्धिते>> [[1.3.8]] इत्यनेन तदा एव इत्संज्ञा भवितुम् अर्हति, यदा आदेशात् अनन्तरम् 'शि' इत्यस्य स्थानिवद्भावेन प्रत्ययसंज्ञा विधीयते । आदेशसमये तु अस्य प्रत्ययसंज्ञा नास्ति एव, अतः <<लशक्वतद्धिते>> [[1.3.8]] इत्यस्य आदेशसमये प्रसक्तिः एव न विद्यते । अतः <<जश्शसोः शिः>> [[7.1.20]] इत्यत्र अनेकाल्त्वात् एव सर्वादेशः भवति, न हि शित्त्वात् । प्रक्रियाक्रमः एतादृशः —\n\nफल + जस् [जस्-प्रत्ययविधानम्]\n→ फल + शि [ <<जश्शसोः शिः>> [[7.1.20]] इत्यनेन जस्-प्रत्ययस्य 'शि' आदेशः । अत्र आदेशसमये 'शि' इति प्रत्ययसंज्ञकः नास्ति, अतः अत्र <<लशक्वतद्धिते>> [[1.3.8]] इत्यस्य प्रसक्तिरेव नास्ति । अतः अत्र <<अनेकाल्शित्सर्वस्य>> [[1.1.55]] इति सर्वादेशः विधीयते ।]\n→ फल + इ [आदेशात् अनन्तरम् <<स्थानिवदादेशोऽनल्विधौ>> [[1.1.56]] इति स्थानिवद्भावेन 'शि' इति प्रत्ययसंज्ञां प्राप्नोति । प्रत्ययसंज्ञायाम् सत्याम् शकारस्य <<लशक्वतद्धिते>> [[1.3.8]] इत्यनेन इत्संज्ञा, अग्रे <<तस्य लोपः>> [[1.3.3]] इत्यनेन लोपः भवति ।\n→ फलानि [<<नपुंसकस्य झलचः>> [[7.1.72]] इत्यनेन नुमागम:, <<सर्वनामस्थाने चासम्बुद्धौ>> [[6.4.8]] इति उपधादीर्घः]\n\n" }, "11056": { "sa": "एकवर्णाश्रितानि कार्याणि विहाय अन्येषु स्थान्याश्रयेषु कार्येषु आदेशः स्थानिवत् भवति । ", "sd": "यत्र कस्यचन स्थानिनः कश्चन आदेशः विधीयते, तत्र —‌स्थानिनः गुणधर्माः आदेशे अपि अतिदिश्यन्ते वा ? — इति प्रश्ने जाते, अष्टाध्याय्याम् आहत्य चतुर्भिः सूत्रैः मिलित्वा अस्य उत्तरम् दीयते । <<स्थानिवदादेशोऽनल्विधौ>> [[1.1.56]] इत्यतः आरभ्य <<द्विर्वचनेऽचि>> [[1.1.59]] इति यावन्ति एतानि चत्वारि सूत्राणि स्थानिवद्भावप्रकरणम् नाम्ना ज्ञायन्ते । अस्य प्रकरणस्य इदं प्रथमम् सूत्रम् ।स्थानिनः अल्-आश्रितान् गुणधर्मान् विहाय अन्ये गुणधर्माः आदेशे अपि अतिदिश्यन्ते — इति अस्य सूत्रस्य आशयः ।\nस्थानिनि विद्यमानानाम् गुणधर्माणाम् अस्मिन् सन्दर्भे द्वौ प्रकारौ क्रियेते — \n\n1) अनल्-आश्रिताः गुणधर्माः — ये गुणधर्माः एकम् वर्णम् न आश्रयन्ति, अपितु सम्पूर्णम् शब्दस्वरूपम् आश्रयन्ति, ते अनल्-आश्रिताः गुणधर्माः नाम्ना ज्ञायन्ते । यथा, झि-इति प्रत्ययः तिङ्-प्रत्ययः अस्ति । अयम् तिङ् इति गुणधर्मः झि-प्रत्ययस्य कञ्चन वर्णम् (यथा, इकारम्) न आश्रयति, अपितु सम्पूर्णम् झि-प्रत्ययम् एव आश्रयति । अतः अयम् गुणधर्मः अनल्-आश्रितः गुणधर्मः अस्ति इति उच्यते । \n2) अल्-आश्रिताः गुणधर्माः — ये गुणधर्माः केवलम् एकं वर्णं आश्रयन्ति, ते अल्-आश्रिताः गुणधर्माः नाम्ना ज्ञायन्ते । यथा, झि- इति प्रत्ययः झकारादिः अस्ति । अयम् झकारादिः इति गुणधर्मः झि-प्रत्ययस्य आदिवर्णविशिष्टः गुणधर्मः अस्ति । इत्युक्ते, अयम् गुणधर्मः झि-प्रत्ययस्य आदिवर्णस्य आधारेण एव विधीयन्ते, अन्यवर्णानाम् आधारेण उत वर्णसमुदायस्य आधारेण न । अतः अयम् गुणधर्मः अल्-आश्रितः गुणधर्मः अस्ति इत्युच्यते ।\n\nएताभ्यां द्वाभ्यां प्रकाराभ्याम् केवलं अनल्-आश्रिताः गुणधर्माः एव आदेशे अतिदिश्यन्ते, अल्-आश्रिताः गुणधर्माः तु आदेशे नैव अतिदिश्यन्ते — इति प्रकृतसूत्रस्य अर्थः । अस्मिन्नेव सन्दर्भे काशिकाकारेण — आहत्य अष्टौ अनल्-आश्रिताः गुणधर्माः विद्यन्ते — इति स्पष्टीकृतम् अस्ति । एतेषाम् अष्टानाम् क्रमेण \nसोदाहरणम् विवरणम् एतादृशम् —\n1) धातुत्वम् इति अनल्-आश्रितः गुणधर्मः आदेशे अतिदिश्यते । इत्युक्ते, धातोः स्थाने विहितः आदेशः धातुवत् भवति ।\n<<अस्तेर्भूः>> [[2.4.52]] इत्यनेन सूत्रेण आर्धधातुकप्रत्ययस्य विवक्षायाम् अस्-धातोः भू-आदेशः भवति । अत्र स्थानिनः धातुत्वम् इति गुणधर्मः अनल्-आश्रितः गुणधर्मः अस्ति, यतः अयम् 'अस्' इति सम्पूर्णपदार्थस्य धातुपाठे परिगणनात् दीयते । अयम् गुणधर्मः आदेशे (इत्युक्ते, भू-इत्यत्र) अपि अतिदिश्यते । अतएव अस्-इत्यस्य स्थाने विधीयमानः भू-इति आदेशः धातुसंज्ञकः भवति । अतः अग्रे तस्मात् यथायोग्यम् आर्धधातुकप्रत्ययः विधीयते —\n\nअस् \n→ भू [<<अस्तेर्भूः>> [[2.4.52]] इति अस्-धातोः भू-आदेशः । स्थानिवद्भावेन अस्य धातुसंज्ञा भवति ।]\n→ भू + अनीयर् [<<धातोः>> [[3.1.91]] अस्मिन् अधिकारे विद्यमानेन <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति सूत्रेण पाठितः अनीयर्-प्रत्ययः भू-आदेशस्य धातुसंज्ञां दृष्ट्वा तत्र विधीयते]\n→ भवनीय [<<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणः, <<एचोऽयवायावः>> [[6.1.78]] इति अवादेशः]\n\n2) अङ्गत्वम् इति अनल्-आश्रितः गुणधर्मः आदेशे अतिदिश्यते । इत्युक्ते, अङ्गस्य स्थाने विहितः आदेशः अङ्गवत् भवति ।\nकिम्-इति अङ्गस्य स्थाने विभक्तिप्रत्यये परे <<किमः कः>> [[7.2.103]] इत्यनेन इति आदेशः विधीयते । अत्र स्थानिनः अङ्गत्वम् इति गुणधर्मः अनल्-आश्रितः गुणधर्मः अस्ति, यतः अयम् 'किम्' इति सम्पूर्णपदार्थस्य विषये वर्तते । अयम् गुणधर्मः आदेशे (इत्युक्ते, -इत्यत्र) अपि अतिदिश्यते । अतएव किम्-इत्यस्य स्थाने विधीयमानः -इति आदेशः अङ्गसंज्ञकः भवति । अतः अग्रे तस्य विषये यथायोग्यम् अङ्गकार्यं सम्भवति —\n\nकिम् + भ्याम् [तृतीयाद्विवचनस्य भ्याम्-प्रत्ययः]\n→ क + भ्याम् [<<किमः कः>> [[7.2.103]] इति क-आदेशः । स्थानिवद्भावेन अस्य अङ्गसंज्ञा भवति ।]\n→ काभ्याम् [<<सुपि च>> [[7.3.102]] इति अदन्त-अङ्गस्य दीर्घादेशः 'क' इत्यस्य अङ्गसंज्ञां दृष्ट्वा प्रवर्तते ।]\n \n3) कृत्-प्रत्ययत्वम् इति अनल्-आश्रितः गुणधर्मः आदेशे अतिदिश्यते । इत्युक्ते, कृत्प्रत्ययस्य स्थाने विहितः आदेशः कृत्प्रत्ययवत् भवति ।\nसमासस्य विषये क्त्वा-इति कृत्-प्रत्ययस्य स्थाने <<समासेऽनञ्पूर्वे क्त्वो ल्यप्>> [[7.1.37]] इत्यनेन ल्यप् इति आदेशः विधीयते । अत्र स्थानिनः कृत्-प्रत्ययत्वम् इति गुणधर्मः अनल्-आश्रितः गुणधर्मः अस्ति, यतः अयम् 'क्त्वा' इत्यस्य सम्पूर्णपदार्थस्य कृदधिकारस्थत्वात् अत्र सिद्ध्यति । अयम् गुणधर्मः आदेशे (इत्युक्ते, ल्यप्-इत्यत्र) अपि अतिदिश्यते । अतएव ल्यप्प्रत्यये परे ह्रस्वान्तस्य अङ्गस्य <<ह्रस्वस्य पिति कृति तुक्>> [[6.1.71]] इति तुगागमः सम्भवति —\n\nअप + कृ + क्त्वा [<<समानकर्तृकयोः पूर्वकाले>> [[3.4.21]] इति क्त्वाप्रत्ययः]\n→ अप + कृ + ल्यप् [<<समासेऽनञ्पूर्वे क्त्वो ल्यप्>> [[7.1.37]] इत्यनेन क्त्वा-प्रत्ययस्य ल्यप्-आदेशः । स्थानिवद्भावेन अस्य कृत्संज्ञा भवति ।]\n→ अप + कृ + तुक् + य [ल्यप्-इत्यस्य कृत्संज्ञां प्रत्ययसंज्ञां च दृष्ट्वा <<ह्रस्वस्य पिति कृति तुक्>> [[6.1.71]] इति सूत्रेण ह्रस्वान्तस्य अङ्गस्य तुगागमः भवति ।]\n→ अपकृत्य\n\n4) तद्धित-प्रत्ययत्वम् इति अनल्-आश्रितः गुणधर्मः आदेशे अतिदिश्यते । इत्युक्ते, तद्धितप्रत्ययस्य स्थाने विहितः आदेशः तद्धितप्रत्ययवत् भवति ।\n<<ठस्येकः>> [[7.3.50]] इति सूत्रेण ठञ्-इति तद्धित-प्रत्ययस्य स्थाने इक इति आदेशः विधीयते । अत्र स्थानिनः तद्धित-प्रत्ययत्वम् इति गुणधर्मः अनल्-आश्रितः गुणधर्मः अस्ति, यतः अयम् 'ठञ्' इत्यस्य सम्पूर्णपदार्थस्य तद्धिताधिकारस्थत्वात् अत्र सिद्ध्यति । अयम् गुणधर्मः आदेशे (इत्युक्ते, इक-इत्यत्र) अपि अतिदिश्यते । अतएव इकप्रत्यये परे <<तद्धितेष्वचामादेः>> [[7.2.117]] इत्यनेन अङ्गस्य आदिवृद्धिः क्रियते —\n\nसंवत्सरस्य इदम्\n→ संवत्सर + ठञ् [<<कालाट्ठञ्>> [[4.3.11]] इति ठञ्-प्रत्ययः । <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति षष्ठीप्रत्ययस्य लुक् ]\n→ संवत्सर + ठ [इत्संज्ञालोपः । ठकारस्य इत्संज्ञा प्रयोजनाभावात् न भवति ।]\n→ संवत्सर + इक [<<ठस्येकः>> [[7.3.50]] इत्यनेन ठ-प्रत्ययस्य इक-आदेशः । स्थानिवद्भावेन आदेशस्य तद्धितसंज्ञा ।]\n→ सांवत्सर् + इक [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः, <<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ सांवत्सरिक\n\n5) अव्ययत्वम् इति अनल्-आश्रितः गुणधर्मः आदेशे अतिदिश्यते । इत्युक्ते, अव्ययस्य स्थाने विहितः आदेशः अव्ययवत् भवति ।\n<<समासेऽनञ्पूर्वे क्त्वो ल्यप्>> [[7.1.27]] इति सूत्रेण क्त्वा-प्रत्ययस्य स्थाने ल्यप् इति आदेशः विधीयते । अत्र स्थानिनः <<क्त्वातोसुन्कसुनः>> [[1.1.40]] इत्यनेन प्राप्तम् अव्ययत्वम् इति गुणधर्मः अनल्-आश्रितः गुणधर्मः अस्ति, यतः अयम् 'क्त्वा' इत्यस्य सम्पूर्णपदार्थस्य <<क्त्वातोसुन्कसुनः>> [[1.1.40]] इत्यस्मिन् सूत्रे ग्रहणात् सिद्ध्यति । अयम् गुणधर्मः आदेशे (इत्युक्ते, ल्यप्-इत्यत्र) अपि अतिदिश्यते । अतएव ल्यप्प्रत्ययान्तशब्दात् विहितानाम् सुप्-प्रत्ययानाम् <<अव्ययादाप्सुपः>> [[2.4.82]] इत्यनेन लुक् भवति —\n\nप्र + पठ् + क्त्वा + सुँ [<<समानकर्तृकयोः पूर्वकाले>> [[3.4.21]] इति क्त्वाप्रत्ययः । <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । अतः प्रथमैकवचनस्य विवक्षायाम् सुँ-प्रत्ययः]\n→ प्र + पठ् + ल्यप् + सुँ [<<समासेऽनञ्पूर्वे क्त्वो ल्यप्>> [[7.1.37]] इत्यनेन क्त्वा-प्रत्ययस्य ल्यप्-आदेशः । स्थानिवद्भावेन अस्य (तदन्तस्य) अव्ययसंज्ञा भवति ।]\n→ प्रपठ्य + सुँ \n→ प्रपठ्य [<<अव्ययादाप्सुपः>> [[2.4.82]] इत्यनेन अव्ययसंज्ञकात् विहितस्य सुप्-प्रत्ययस्य लुक् भवति ]\n\n6) सुप्-प्रत्ययत्वम् इति अनल्-आश्रितः गुणधर्मः आदेशे अतिदिश्यते । इत्युक्ते, सुप्-प्रत्ययस्य स्थाने विहितः आदेशः सुप्-प्रत्ययवत् भवति ।\nराम-शब्दस्य चतुर्थ्येकवचनस्य प्रक्रियायाम् ङे-प्रत्ययस्य स्थाने <<ङेर्यः>> [[7.1.13]] इति सूत्रेण इति आदेशः विधीयते । अत्र स्थानिनः सुप्-प्रत्ययत्वम् इति गुणधर्मः अनल्-आश्रितः गुणधर्मः अस्ति, यतः अयम् ङे-इत्यस्य <<स्वौजस्...>> [[4.1.2]] इत्यस्मिन् सूत्रे ग्रहणात् सिद्ध्यति । अयम् गुणधर्मः आदेशे (इत्युक्ते, -इत्यत्र) अपि अतिदिश्यते । अतएव -प्रत्यये परे अङ्गस्य <<सुपि च>> [[7.3.102]] इति दीर्घः सम्भवति —\n\nराम + ङे [चतुर्थ्येकवचनस्य ङे-प्रत्ययः]\n→ राम + य [<<ङेर्यः>> [[7.1.13]] इति ङे-प्रत्ययस्य य-आदेशः । स्थानिवद्भावेन अत्र आदेशस्य सुप्-प्रत्ययसंज्ञा ।]\n→ रामाय [<<सुपि च>> [[7.3.102]] इति अङ्गस्य दीर्घः]\n\n7) तिङ्-प्रत्ययत्वम् इति अनल्-आश्रितः गुणधर्मः आदेशे अतिदिश्यते । इत्युक्ते, तिङ्-प्रत्ययस्य स्थाने विहितः आदेशः तिङ्-प्रत्ययवत् भवति ।\nलङ्लकारस्य प्रक्रियायाम् उत्तमपुरुषैकवचनस्य मिप्-प्रत्ययस्य स्थाने <<तस्थस्थमिपां तांतंतामः>> [[3.4.101]] इति सूत्रेण अम् इति आदेशः विधीयते । अत्र स्थानिनः तिङ्-प्रत्ययत्वम् इति गुणधर्मः अनल्-आश्रितः गुणधर्मः अस्ति, यतः अयम् मिप्-इत्यस्य <<तिप्तस्झि...>> [[3.4.78]] इत्यस्मिन् सूत्रे ग्रहणात् सिद्ध्यति । अयम् गुणधर्मः आदेशे (इत्युक्ते, अम्-इत्यत्र) अपि अतिदिश्यते । अतएव अम्-प्रत्ययस्य <<तिङ्शित्सार्वधातुकम्>> [[3.4.113]] इत्यनेन सार्वधातुकसंज्ञा भवति, येन <<पुगन्तलघूपधस्य च>> [[7.3.86]] इत्यनेन उपधागुणः सम्भवति —\n\nद्विषँ (अप्रीतौ, अदादिः, <{2.3}>)\n→ द्विष् + लङ् [<<अनद्यतने लङ्>> [[3.2.111]] इति लङ्]\n→ अट् + द्विष् + लङ् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ + द्विष् + मिप् [<<तिप्तस्झि..>> [[3.4.78]] इति उत्तमपुरुषैकवचनस्य मिप्-प्रत्ययः]\n→ अ + द्विष् + अम् [<<तस्थस्थमिपां तांतंतामः>> [[3.4.101]] इति अम्-आदेशः । अयम् स्थानिवद्भावेन तिङ्प्रत्ययत्वं प्राप्नोति । अतः <<तिङ्शित्सार्वधातुकम्>> [[3.4.113]] इत्यनेन अस्य सार्वधातुकसंज्ञा भवति ।]\n→ अ + द्विष् + शप् + अम् [सार्वधातुकप्रत्यये परे <<कर्तरि शप्>> [[3.1.68]] इति शप्-प्रत्ययः ]\n→ अ + द्विष् + अम् [<<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शब्लुक्]\n→ अ + द्वेष् + अम् [सार्वधातुकप्रत्ययनिमित्तकः <<पुगन्तलघूपधस्य च>> [[7.3.86]] इति लघूपधगुणः]\n→ अद्वेषम्\n\n8) पदत्वम् इति अनल्-आश्रितः गुणधर्मः आदेशे अतिदिश्यते । इत्युक्ते, पदस्य स्थाने विहितः आदेशः पदवत् भवति ।\nयुष्मद्-सर्वनाम्नः षष्ठीबहुवचनस्य युष्माकम् इत्यस्य पदस्य <<बहुवचनस्य वस्नसौ>> [[8.1.21]] इत्यनेन सूत्रेण वस् इति आदेशः विधीयते । अत्र स्थानिनः पदत्वम् इति गुणधर्मः अनल्-आश्रितः गुणधर्मः अस्ति, यतः अयम् युष्माकम्-इत्यस्य सुबन्तत्वात् सिद्ध्यति । अयम् गुणधर्मः आदेशे (इत्युक्ते, वस्-इत्यत्र) अपि अतिदिश्यते । अतएव वस् इत्यस्य विषये पदान्तसकारस्य <<ससजुषो रुँः>> [[8.2.66]] इति रुँत्वम् सम्भवति —\n\nयुष्माकम्\n→ वस् [<<बहुवचनस्य वस्नसौ>> [[8.1.21]] इति वस्-आदेशः । स्थानिवद्भावेन अस्य पदसंज्ञा भवति ।]\n→ वरुँ [पदान्तसकारस्य <<ससजुषो रुँः>> [[8.2.66]] इति रुँत्वम्]\n→ वः [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n\nअनेन प्रकारेण अनल्-आश्रिताः गुणधर्माः अष्टविधाः सन्ति । एते सर्वे अपि आदेशे अतिदिश्यन्ते ।\n स्थानिनः अल्-आश्रिताः गुणधर्माः आदेशे नैव अतिदिश्यन्ते\nप्रकृतसूत्रेण केवलम् अनल्-आश्रितगुणधर्माणाम् (उपरि-निर्दिष्टानाम् अष्टानाम् गुणधर्माणाम्) एव आदेशे अतिदेशः सम्भवति । एतान् विहाय अन्ये गुणधर्माः (अल्-आश्रिताः गुणधर्माः) आदेशे नैव अतिदिश्यन्ते । तत्र आहत्य चतुर्षु कार्येषु अयम् स्थानिवद्भावः न विधीयते इति प्रथमावृत्तौ परिगणितम् अस्ति । तद् इत्थम् —\n1) अल्-आश्रितेन गुणधर्मेण तस्मिन्नेव स्थाने विधिः भवति चेत् तत्र स्थानिवद्भावः न दृश्यते । \nदिव्-शब्दस्य तृतीयाद्विवचनस्य प्रक्रियायाम् दिव्-इत्यस्य स्थाने द्यु-इति आदेशः विधीयते । दिव्-इत्यस्य वकारान्तत्वम् अस्मिन् आदेशे नैव अतिदिश्यते, अतः <<लोपो व्योर्वलि>> [[6.1.66]] इत्यस्य प्रयोगः अपि न सम्भवति —\n\nदिव् + भ्याम् [तृतीयाद्विवचनस्य भ्याम् प्रत्ययः]\n→ दि उ + भ्याम् [<<दिव उत्>> [[6.1.131]] इत्यनेन दिव्-इत्यस्य वकारस्य उ-आदेशः । अत्र वकारस्य वकारत्वम् उकारे नैव अतिदिश्यते, अतः अत्र <<लोपो व्योर्वलि>> [[6.1.66]] इति वकारलोपः न सम्भवति ।]\n→ द्युभ्याम् [<<इको यणचि>> [[6.1.77]] इति यणादेशः]\n\n2) अल्-आश्रितेन गुणधर्मेण स्थानिनः परः विधिः भवति चेत् तत्र स्थानिवद्भावः न दृश्यते । \nपथिन्-शब्दस्य प्रथमैकवचनस्य प्रक्रियायाम् <<पथिमथ्यृभुक्षामात्>> [[7.1.85]] इत्यनेन नकारस्य आकारादेशे कृते, नकारस्य हलन्तत्वम् आकारे न अतिदिश्यते, अतः <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इत्यनेन सुँ-प्रत्ययस्य लोपः नैव सम्भवति ।\n\nपथिन् + सुँ\n→ पथि आ + स् [<<पथिमथ्यृभुक्षामात्>> [[7.1.85]] इत्यनेन नकारस्य आकारादेशः । अत्र आदेशे कृते नकारस्य हलन्तत्वम् आकारे नैव अतिदिश्यते । अतः <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इत्यनेन सुँ-प्रत्ययस्य लोपः अपि नैव सम्भवति ।]\n→ पथ आ + स् [<<इतोऽत् सर्वनामस्थाने>> [[7.1.86]] इत्यनेन इकारस्य अकारादेशः]\n→ पन्थ् अ आ + स् [<<थो न्थः>> [[7.1.87]] इति थकारस्य 'न्थ्' आदेशः]\n→ पन्थाः [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः । विसर्गनिर्माणम् ।]\n\n3) अल्-आश्रितेन गुणधर्मेण स्थानिनः पूर्वम् विधिः भवति चेत् तत्र स्थानिवद्भावः न दृश्यते ।\nयज्-धातोः क्त-प्रत्यये परे इष्ट इति रूपस्य सिद्धौ <<वचिस्वपियजादीनां किति>> [[6.1.15]] इत्यनेन यकारस्य सम्प्रसारणे कृते इकारादेशे सिद्धे, यकारस्य यकारत्वम् इकारे नैव अतिदिश्यते; अतः राम + सुँ + इष्टः इत्यत्र सुँ-प्रत्ययस्य रेफादेशे कृते तस्य यकारनिमित्तकः उकारादेशः न सम्भवति —\n\nराम + सुँ + इष्टः [अत्र इष्ट-शब्दस्य इकारे यज्-धातोः यकारादित्वम् न अतिदिश्यते, अतः 'इष्टः' इति शब्दः यकारादिः न स्वीक्रियते ।]\n→ राम + र् + इष्टः [<<ससजुषो रुः>> [[8.2.66]] इति रुत्वम्]\n→ रामय् इष्टः [<<भोभगोअघोअपूर्वस्य योऽशि>> [[8.3.17]] इति यकारादेशः । यदि 'इष्टः' इति शब्दे यकारादित्वम् अभविष्यत्, तर्हि अत्र <<हशि च>> [[6.1.114]] इत्यनेन उकारादेशः अभविष्यत् ।]\n→ राम इष्टः [<<लोपः शाकल्यस्य>> [[8.3.19]] इति यकारलोपः]\n\n4) अल्-आश्रितेन गुणधर्मेण निमित्तकः विधिः कुत्रचित् अन्यत्र भवति तत्र स्थानिवद्भावः न दृश्यते ।\nव्यूढम् उरः अस्य अस्मिन् अर्थे उरस् शब्दस्य <<उरप्रभृतिभ्यः कप्>> [[5.4.151]] इत्यनेन कप्-प्रत्यये कृते व्यूढोरस्कः अयम् शब्दः सिद्ध्यति । अस्याम् प्रक्रियायाम् व्यूढ + उरस् + कप् इति स्थिते आदौ सकारस्य विसर्गः भवति । अग्रे व्यूढ + उरः + क इत्यत्र <<विसर्जनीयस्य सः>> [[8.3.34]] इत्यनेन विसर्गस्य सकारादेशे प्राप्ते; तस्य अपवादत्वेन <<कुप्वोः ≍क ≍पौ च>> [[8.3.37]] इत्यनेन विसर्गस्य जिह्वामूलीये प्राप्ते; तस्य अपि अपवादत्वेन <<सोऽपदादौ>> [[8.3.38]] इत्यनेन विसर्गस्य सकारः विधीयते । अस्मिन् आदेशे कृते उरः इत्यस्य 'विसर्गान्तत्वम्' अयम् गुणधर्मः उरस् इत्यत्र न स्वीक्रियते । यदि तादृशं क्रियेत, तर्हि व्यूढोरस्केन इत्यत्र सकारस्य (विसर्गानुरुपम्) अट्-प्रत्याहारत्वं स्वीकृत्य <<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इत्यनेन णत्वम् अभविष्यत् । परन्तु अत्र स्थानिवद्भावः न विधीयते, अतः अत्र णत्वम् अपि न क्रियते ।\nइत्संज्ञायाः स्थानिवद्भावः\nस्थानिनः इत्संज्ञकविशिष्टः गुणधर्मः अलाश्रितः सन् अपि आदेशे नित्यम् एव अतिदिश्यते । यथा —\n\n1) क्त्वा-प्रत्ययः कित् अस्ति, अतः तत्स्थाने आदेशरूपेण विहितः ल्यप्-प्रत्ययः अपि कित् भवति; अतश्च प्र + भू + ल्यप् इत्यत्र अङ्गस्य गुणः <<क्ङिति च>> इत्यनेन निषिध्यते ।\n2) ब्रूञ्-धातुः ञित् अस्ति, अतः तत्स्थान विहितः वच-आदेशः अपि ञित्-भवति, अतश्च <<स्वरितञितः कर्त्रभिप्राये क्रियाफले>> [[1.3.72]] इत्यनेन तस्मात् आत्मनेपदस्य अपि प्रत्ययाः विधीयन्ते ।\n3) ण्वुल्-प्रत्ययः णित् अस्ति, अतः तत्स्थाने विहितः अक-आदेशः अपि णित् भवति, अतश्च भू + ण्वुल् इत्यत्र <<अचो ञ्णिति>> [[7.2.115]] इति अङ्गस्य वृद्ध्यादेशः सम्भवति ।\n\n<<सेर्ह्यपिच्च>> [[3.4.87]] इति सूत्रे विद्यमानम् 'अपित्' इति ग्रहणम् अस्य ज्ञापकरूपेण स्वीक्रियते । सिप्-प्रत्ययस्य स्थाने विहितः हि-आदेशः स्थानिवद्भावेन पित्त्वं स्वीकरोति; परन्तु सः वस्तुतः अपित् इष्यते, अतः अस्मिन् सूत्रे 'अपित्' इति विशिष्टः शब्दः संस्थापितः अस्ति । " }, "11057": { "sa": "अच् वर्णस्य स्थाने क्रियमाणस्य आदेशस्य निमित्तम् परः अस्ति चेत् स्थानिनः पूर्वपदार्थस्य एकवर्णाश्रितेषु कार्येषु अपि सः आदेशः स्थानीवद् भवति । ", "sd": "यत्र कस्यचन स्थानिनः कश्चन आदेशः विधीयते, तत्र —‌स्थानिनः गुणधर्माः आदेशे अपि अतिदिश्यन्ते वा ? — इति प्रश्ने जाते, अष्टाध्याय्याम् आहत्य चतुर्भिः सूत्रैः मिलित्वा अस्य उत्तरम् दीयते । <<स्थानिवदादेशोऽनल्विधौ>> [[1.1.56]] इत्यतः आरभ्य <<द्विर्वचनेऽचि>> [[1.1.59]] इति यावन्ति एतानि चत्वारि सूत्राणि स्थानिवद्भावप्रकरणम् नाम्ना ज्ञायन्ते । अस्य प्रकरणस्य इदं द्वितीयम् सूत्रम् ।\n<<स्थानिवदादेशोऽनल्विधौ>> [[1.1.56]] इति सूत्रेण अनल्-आश्रितानाम् गुणधर्माणाम् आदेशे अतिदेशः विधीयते । परन्तु प्रक्रियासु कुत्रचित् अल्-आश्रितस्य गुणधर्मस्य अपि आदेशे अतिदेशः इष्यते; तदर्थम् आचार्येण प्रकृतसूत्रम् रचितम् अस्ति । परनिमित्तिकः अजादेशः पूर्वस्मिन् विधौ कर्तव्ये स्थानिवद् भवति इति अस्य विवरणम् व्याख्यानेषु दीयते । अस्य अर्थः अयम् — यत्र परनिमित्तस्य आधारेण अच्-वर्णस्य स्थाने कश्चन आदेशः (लोपः वा) कृतः अस्ति, तत्र स्थानिनः पूर्वम् विद्यमानस्य पदार्थस्य कार्ये कर्तव्ये स्थानिनः अल्-गुणधर्मः आदेशे अपि अतिदिश्यते ।\nअस्मिन् सन्दर्भे द्वे उदाहरणे एतादृशे —\n1. <<सत्यापपाश...>> [[3.1.25]] इति सूत्रेण कथ-धातोः स्वार्थे णिच्-प्रत्ययः विधीयते । कथ + णिच् अस्यां स्थितौ <<अतो लोपः>> [[6.4.48]] इत्यनेन थकारोत्तर-अकारस्य लोपे कृते कथ् + णिच् इति सिद्ध्यति । अत्र णित्-प्रत्यये परे <<अत उपधायाः>> [[7.2.116]] इत्यनेन कथ् इत्यस्य उपधाभूतस्य अकारस्य वृद्ध्यादेशः प्राप्नोति । अस्य वृद्ध्यादेशस्य प्रसङ्गे प्रकृतसूत्रस्य प्रयोगं कृत्वा लुप्तः अकारः स्थानिवद्भावेन तत्र उपतिष्ठते । तदित्थम् —\n\ni) <<अतो लोपः>> [[6.4.48]] इत्यनेन सूत्रेण अच्-वर्णस्य आदेशः कृतः अस्ति, यतः अत्र अकारस्य स्थाने लोपः आदेशरूपेण विधीयते । \nii) अस्य आदेशस्य (लोपस्य) निमित्तम् तस्मात् अनन्तरम् विद्यमानः आर्धधातुकप्रत्ययः (णिच्-प्रत्ययः) अस्ति, अतः अत्र अत्र परनिमित्तम् अपि विद्यते ।\niii) ककारोत्तरस्य अकारस्य उपधात्वं दृष्ट्वा तत्र <<अत उपधायाः>> [[7.2.116]] इत्यनेन वृद्ध्यादेशः प्राप्नोति । अयम् आदेशः लुप्त-अच्-वर्णात् पूर्वं विद्यमानस्य वर्णस्य विषये प्राप्नोति, अतः अत्र पूर्वविधिः अपि विद्यते । \n\nअस्यां स्थितौ लुप्त-अकारस्य अच्त्वम् स्थानिवद्भानेन आदेशे (लोपे) अपि अतिदिश्यते — इति प्रकृतसूत्रस्य आशयः । लोपस्य अच्त्वे प्राप्ते ककारोत्तस्य अकारस्य उपधात्वं विनश्यति, येन उपधावृद्धिः अपि नैव सम्भवति । प्रक्रिया इयम् —\n\nकथ (वाक्यप्रबन्धे, चुरादिः, <{10.389}>)\n→ कथ + णिच् [<<सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्>> [[3.1.25]] इति स्वार्थे णिच्]\n→ कथ + इ [णकारचकारयोः इत्संज्ञा, लोपः]\n→ कथ् + इ [<<अतो लोपः >> [[6.4.48]] इति अकारलोपः । अस्मिन् लोपे कृते <<अत उपधायाः>> [[7.2.116]] इत्यनेन उपधा-अकारस्य वृद्धिः प्राप्नोति । परन्तु अत्र कृतः अचः लोपः परनिमित्तकः अस्ति, तथा अस्मात् लुप्त-अकारात् पूर्वम् विद्यमाने वर्णे वृद्धिः प्राप्नोति, अतः अत्र <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इति सूत्रेण लुप्तः अकारः वृद्धिकार्यार्थम् स्थानिवद् भवति । अतः अत्र लोपस्य अच्त्वे प्राप्ते, ककारोत्तस्य अकारस्य उपधात्वं विनश्यति, अतश्च ककारोत्तरः अकारस्य वृद्धिः अपि नैव सम्भवति ।\n→ कथि [<<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञा । अस्मात् अग्रे यथायोग्यम् कृत्/तिङ्प्रत्ययः विधीयते ।]\n\n2. हन्-धातोः लुङ्-लकारस्य एकवचनस्य प्रक्रियायाम् <<लुङि च>> [[2.4.43]] इत्यनेन हन्-धातोः वध-इति आदेशः भवति । अयम् अकारान्तः आदेशः अस्ति, अतः आर्धधातुकप्रत्यये परे अस्य अकारस्य <<अतो लोपः>> [[6.4.48]] इत्यनेन लोपः क्रियते । एतादृशे लोपे कृते वकारोत्तरस्य अकारस्य <<अतो हलादेर्लघोः>> [[7.2.7]] इत्यनेन विकल्पेन वृद्ध्यादेशः (आकारादेशः) प्राप्नोति । परन्तु अत्रापि <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इत्यनेन लुप्तः अकारः स्थानिवद् स्वीक्रियते, येन अकारस्य वृद्धिः नैव सम्भवति । प्रक्रिया इयम् —\n\nहनँ (हिंसागत्योः, अदादिः, 2.2)\n→ हन् + लुङ् [<<लुङ्>> [[3.2.110]] इति लुङ्]\n→ वध + लुङ् [<<लुङि च>> [[2.4.43]] इति हन्-इत्यस्य वध-आदेशः]\n→ वध + च्लि + लुङ् [<<च्लि लुङि>> [[3.1.43]] इति च्लि-विकरणम्]\n→ वध + सिच् + लुङ् [<<च्लेः सिच्>> [[3.1.44]] इति च्लि-इत्यस्य सिच्-आदेशः]\n→ अट् + वध + स् + लुङ् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ + वध + स् + तिप् [<<तिप्तस्झि...>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]\n→ अ + वध + इट् + स् + ति <<आर्धधातुकस्य इड् वलादेः>> [[7.2.35]] इति इडागमः]\n→ अ + वध् + इ + स् + ति [ <<अतो लोपः>> [[6.4.48]] इत्यनेन अङ्गस्य अन्तिम-अकारस्य लोपः । अत्र अकारलोपे कृते वध्-इत्यस्य हलन्त-अङ्गस्य अकारस्य <<वदव्रजहलन्तस्याचः>> [[7.2.3]] इत्यनेन नित्यं प्राप्ता वृद्धिः <<अतो हलादेर्लघोः>> [[7.2.7]] इति सूत्रेण विकल्प्यते, अतः अत्र अकारस्य पाक्षिकः वृद्ध्यादेशः अवश्यं सम्भवति । परन्तु इदं वृद्धिकार्यम् लुप्त-अच्-वर्णात् पूर्वस्य पदार्थस्य विषये उच्यते, अतः अत्र <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इत्यनेन लुप्तः अकारः स्थानिवद् भवति, येन अङ्गस्य हलन्तत्वम् विनश्यति, अतश्च <<वदव्रजहलन्तस्याचः>> [[7.2.3]] इत्यनेन वृद्धिः एव न सम्भवति, अतश्च <<अतो हलादेर्लघोः>> [[7.2.7]] इति सूत्रेण तस्याः पाक्षिकः निषेधः अपि न क्रियते ।]\n→ अ + वध् + इ + स् + त् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ अ + वध् + इ + स् + ईट् + त् [<<अस्तिसिचोऽपृक्ते>> [[7.3.96]] इति ईट्-आगमः]\n→ अ + वध् + इ + ई + त् [<<इट ईटि>> [[8.2.28]] इत्यनेन सकारलोपः]\n→ अवधीत् [एकादेशे कर्तव्ये अनेन वार्तिकेन सिज्लोपः सिद्धः अस्ति । अतः अत्र <<अकः सवर्णे दीर्घः>> [[6.1.101]] इत्यनेन सवर्ण-दीर्घ-एकादेशं कृत्वा रूपं सिद्ध्यति ।]\n\nदलकृत्यम्\n1. अचः इति किमर्थम् ? हल्-वर्णस्य स्थाने कृतः आदेशः परनिमित्तकः अस्ति चेदपि पूर्वविधौ स्थानिवद् न भवति । यथा, आ + गम् इत्यस्मात् ल्यप्-प्रत्यये कृते <<वा ल्यपि>> [[6.4.38]] इत्यनेन मकारस्य कृतः लोपः तुगागमार्थः स्थानिवद् न भवति । प्रक्रिया इयम् —\n\nगमॢँ (गतौ, भ्वादिः, <{1.1137}>)\n→ आ + गम् + क्त्वा [<<समानकर्तृकयोः पूर्वकाले>> [[3.4.21]] इति क्त्वा]\n→ आ + गम् + ल्यप् [<<समासेऽनञ्पूर्वे क्त्वो ल्यप्>> [[7.1.27]] इत्यनेन क्त्वा-इत्यस्य ल्यप्-आदेशः]\n→ आ + ग + य [<<वा ल्यपि>> [[6.4.38]] इति मकारस्य वैकल्पिकः लोपः ।]\n→ आ + ग + तुक् + य [<<ह्रस्वस्य पिति कृति तुक्>> [[6.1.71]] इति तुगागमः । अत्र अयम् लुप्त-मकारस्य अपेक्षया पूर्वविधिः अस्ति, परन्तु अत्र लुप्त-मकारः स्थानिवद् न भवति, अतः अत्र अवश्यम् तुगागमः भवितुम् अर्हति ।]\n→ आगत्य \n\n2. परस्मिन् इति किमर्थम् ? यत्र अच्-वर्णस्य आदेशः परनिमित्तकः नास्ति, तत्र अच्-वर्णः स्थानिवद् न भवति । यथा, दीधीङ्-धातोः लट्-लकारस्य उत्तमपुरुषैकवचनस्य प्रक्रियायाम् प्रत्ययस्थ-इकारस्य स्वनिमित्तेन कृतः एकारादेशः पूर्वविधौ स्थानिवद् न भवति । प्रक्रिया इयम् —\n\nदीधीङ् (दीप्तिदेवनयोः, अदादिः, <{2.71}>)\n→ दीधी + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ दीधी + इट् [<<तिप्तस्झि..>> [[3.4.78]] इति उत्तमपुरुषैकवचनस्य इट्-प्रत्ययः]\n→ दीधी + शप् + इ [<<कर्तरि शप्>> [[3.1.68]] इति शप् ]\n→ दीधी + इ [<<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शपः लुक्]\n→ दीधी + ए [<<टित आत्मनेपदानां टेरे>> [[3.4.79]] इति प्रत्यय-इकारस्य एकारादेशः । अयम् एकारादेशः स्वनिमित्तकः अस्ति, अतः अयम् अजादिः सन् अपि पूर्वविधौ स्थानिवद् न भवति । यदि तथा अभविष्यत्, तर्हि एकारे इकारत्वस्य अतिदेशेन <<यीवर्णयोर्दीधीवेव्योः>> [[7.4.53]] इत्यनेन इकारे परे दीधी-इत्यस्य ईकारस्य लोपः अभविष्यत् ।]\n→ दीध्ये [<<इको यणचि>> [[6.1.77]] इति यणादेशः]\n\n3. पूर्वविधौ इति किमर्थम्? अजादेशः परविध्यर्थम् स्वविध्यर्थम् वा स्थानिवद् न भवति । यथा, गो-शब्दस्य सम्बोधनैकवचनस्य प्रक्रियायाम् ओकारस्य <<अचो ञ्णिति>> [[7.2.115]] इति वृद्धिं कृत्वा औकारः विधीयते । अस्मात् अनन्तरम् विद्यमानस्य सुँ-प्रत्ययस्य लोपार्थम् अस्मिन् औकारे ओकारः स्थानिवद् न भवति, यतः अत्र सुँलोपः परविधिः अस्ति, न हि पूर्वविधिः । प्रक्रिया इयम् —\n\nगो + सुँ [सम्बोधनैकवचनस्य सुँ-प्रत्ययः]\n→ गौ + सुँ [<<गोतो णित्>> [[7.1.90]] इति सुँ-प्रत्ययस्य णिद्वद्भावः । अतः <<अचो ञ्णिति>> [[7.2.115]] इति णित्-प्रत्यये परे अजन्तस्य अङ्गस्य वृद्धिः । ओकारस्य वृद्धिः औकारः । अयम् अजादेशः <<एङ्ह्रस्वात् सम्बुद्धेः>> [[6.1.69]] इत्यनेन सम्बुद्धिलोपार्थम् स्थानिवद् न भवति, यतः अत्र क्रियमाणः सम्बुद्धिलोपः पूर्वविधिः नास्ति ]\n→ गौः [रुत्वविसर्गौ ]\n" }, "11058": { "sa": "अच् वर्णस्य स्थाने क्रियमाणस्य आदेशस्य निमित्तम् परः अस्ति चेत् सः आदेशः - (1) पदान्तकार्यार्थम् (2) द्वित्वकार्यार्थम् (3) 'वरच्' प्रत्ययस्य कार्यार्थम् (4) यकारलोपार्थम् (5) स्वरविध्यर्थम् (6) सवर्णकार्यार्थम् (7) अनुस्वारविध्यर्थम् (8) दीर्घादेशकार्यार्थम् (9) जश्त्वकार्यार्थम् (10) चर्त्वकार्यार्थम् - स्थानिवत् कार्यम् न करोति । ", "sd": "यत्र कस्यचन स्थानिनः कश्चन आदेशः विधीयते, तत्र —‌स्थानिनः गुणधर्माः आदेशे अपि अतिदिश्यन्ते वा ? — इति प्रश्ने जाते, अष्टाध्याय्याम् आहत्य चतुर्भिः सूत्रैः मिलित्वा अस्य उत्तरम् दीयते । <<स्थानिवदादेशोऽनल्विधौ>> [[1.1.56]] इत्यतः आरभ्य <<द्विर्वचनेऽचि>> [[1.1.59]] इति यावन्ति एतानि चत्वारि सूत्राणि स्थानिवद्भावप्रकरणम् नाम्ना ज्ञायन्ते । अस्य प्रकरणस्य इदं तृतीयम् सूत्रम् । <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इत्यनेन सूत्रेण उक्तः स्थानिवद्भावः आहत्य दशसु पूर्वविधिषु प्रकृतसूत्रेण निषिध्यते । इत्युक्ते, परनिमित्तकः अजादेशः पदान्तादिषु दशसु पूर्वविधिषु कर्तव्ये स्थानिवत् नैव भवति — इति प्रकृतसूत्रस्य अर्थः । क्रमेण विवरणम् एतादृशम् —\n1. पूर्वपदस्य अन्ते जायमानस्य कार्यस्य कृते परनिमित्तकः अजादेशः स्थानिवद् न भवति ।\nयत्र पदादौ विद्यमानस्य अच्-वर्णस्य लोपः क्रियते, तत्र सः लोपः तस्मात् पूर्वम् विद्यमानार्थम् पदान्तकार्यार्थम् स्थानिवत् न भवति । यथा, अस्-धातोः प्रथमपुरुषबहुवचनस्य प्रक्रियायाम् <<श्नसोरल्लोपः>> [[6.4.111]] इत्यनेन अकारस्य कृतः लोपः पदान्ते जायमानस्य कार्यस्य कृते स्थानिवद् न भवति । यथा, फलानि सन्ति इत्यत्र वाक्यान्वाख्यानपक्षे प्रक्रिया इत्थं भवति —\n\nफल + जस् + अस् + लट्\n→ फलानि + अस् + लट् [फलानि-शब्दस्य सिद्धिः अत्र नैव आवश्यकी, अतः सः शब्दः सिद्धः एव दर्शितः अस्ति ।]\n→ फलानि + अस् + झि [<<तिप्तस्झि...>> [[3.4.78]] इत्यनेन प्रथमपुरुषबहुवचनस्य झि-प्रत्ययः]\n→ फलानि + अस् + अन्ति [<<झोऽन्तः>> [[7.1.3]] इति अन्ति-आदेशः । ततः शप्-विकरणप्रत्ययस्य विधानम्, तस्य च लुक् क्रियते ]\n→ फलानि + स् + अन्ति [<<श्नसोरल्लोपः>> [[6.4.11]] इति अस्-धातोः अकारस्य लोपः भवति । अयम् अपित्-सार्वधातुकप्रत्ययनिमित्तकः लोपः अस्ति, अतः अयम् परनिमित्तकः लोपः अस्ति । अग्रे नकारोत्तस्य इकारस्य यणादेशे कर्तव्ये अयम् लुप्तः अकारः <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इत्यनेन स्थानिवत् भवितुम् अर्हति, परन्तु अयम् यणादेशः पदान्ते जायमानम् कार्यम् अस्ति, अतः अस्य कृते अकारस्य स्थानिवद्भावः प्रकृतसूत्रे पदान्त-शब्दस्य ग्रहणेन निषिध्यते । अतः अत्र यणादेशः अपि न सम्भवति ।]\n→ फलानि सन्ति ।\n\n2. पूर्वस्य द्वित्वे कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद् न भवति ।\nयदि 'पूर्वविधिः' द्वित्वकार्यम् इति अस्ति, तर्हि परनिमित्तकः अजादेशः एतादृशार्थम् द्वित्वकार्यार्थम् स्थानिवद् न भवति । यथा, मधु + अरि इत्यस्यां प्रक्रियायाम् उकारस्य यणादेशे वकारे प्राप्ते, धकारस्य द्वित्वे कर्तव्ये अयम् वकारः स्थानिवत् (उकारसदृशः) न भवति, अतएव अत्र <<अनचि च>> [[8.4.47]] इति द्वित्वम् अवश्यम् सम्भवति —\n\nमधु + अरि\n→ मध् व् + अरि [<<इको यणचि>> [[6.1.77]] इति यणादेशः]\n→ मध् ध् व् + अरि [<<अनचि च>> [[8.4.47]] इति द्वित्वम् । अत्र उकारस्य स्थाने जायमानः वकारादेशः यदि स्थानिवत् स्यात्, तर्हि अत्र धकारस्य द्वित्वम् नैव अभविष्यत् । परन्तु द्वित्वे कर्तव्ये अयम् वकारः स्थानिवद् न भवति अतः अत्र द्वित्वम् अवश्यं सम्भवति ।]\n→ मद्ध्वरि [<<झलां जश् झशि>> [[8.4.53]] इति धकारस्य जश्त्वे दकारः]\n\nअत्र निर्दिष्टम् द्वित्वम् अष्टमाध्याये चतुर्थपादे पाठितम् द्वित्वम् अस्ति, न हि षष्ठाध्यायस्य द्वित्वम् । षष्ठाध्यायस्य द्वित्वस्य कृते स्थानिवद्भावस्य विधानम् <<द्विर्वचनेऽचि>> [[1.1.59]] इति अग्रिमसूत्रेण क्रियते ।\n3. वरच्-प्रत्ययान्तस्य रूपसिद्धौ पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद् न भवति ।\nअच्-वर्णस्य स्थाने विहितः परनिमित्तकः आदेशः वरच्-प्रत्ययान्तरूपस्य प्रक्रियायाम् पूर्वविधौ कर्तव्ये स्थानिवद् न भवति । यथा, यायायइति यङन्तधातोः वरच्-प्रत्यये परे यकारोत्तरस्य अकारस्य <<अतो लोपः>> [[6.4.48]] इत्यनेन लोपे कृते <<आतो लोप इटि च>> [[6.4.64]] इत्यनेन आकारलोपे कर्तव्ये अयम् अकारलोपः स्थानिवद् न भवति, अतः आकारलोपः अपि न सम्भवति —\n\nया + यङ् [<<धातोरेकाचो हलादेः क्रियासमभिहारे यङ्>> [[3.1.22]] इति यङ्-प्रत्ययः]\n→ या या + य [<<सन्यङोः>> [[6.1.9]] इति द्वित्वम्]\n→‌ यायाय [<<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञा]\n→ यायाय + वरच् [<<यश्च यङः>> [[3.2.176]] इति यङ्-प्रत्ययः]\n→ यायाय् + वर [<<अतो लोपः>> [[6.4.48]] इति यङ्-प्रत्ययस्य अकारस्य लोपः]\n→ याया + वर [<<लोपो व्योर्वलि>> [[6.1.66]] इति यङ्-प्रत्ययस्य यकारस्य लोपः]\n→ यायावर [यदि अत्र यङ्-प्रत्ययस्य लुप्तः अकारः <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इत्यनेन स्थानिवत् स्यात्, तर्हि अजादि-ङित्-प्रत्यये परे <<आतो लोप इटि च>> इत्यनेन आकारलोपः सम्भवेत् । परन्तु वरच्-प्रत्ययान्तस्य रूपसिद्धौ <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इत्यनेन निर्दिष्टः स्थानिवद्भावः नैव प्रवर्तते, अतः अत्र आकारलोपः अपि न सम्भवति ।]।\n\n4. यकारलोपः पूर्वविधिः अस्ति चेत् परनिमित्तकः अजादेशः स्थानिवद् न भवति ।\nयकारस्य लोपार्थम् परनिमित्तकः अजादेशः स्थानिवद् न गृह्यते । यथा, उपरिनिर्दिष्टायाम् यायावर-शब्दस्य प्रक्रियायाम् <<अतो लोपः>> [[6.4.48]] इत्यनेन अकारलोपे कृते, ततः <<लोपो व्योर्वलि>> [[6.1.66]] इति यङ्-प्रत्ययस्य यकारस्य लोपे कर्तव्ये लुप्तः अकारः स्थानिवद् नैव भवति, अन्यथा अकारस्य उपस्थितौ यकारलोपः नैव सम्भवेत् । \nअस्य अपरम् उदाहरणम् एतादृशम् — कण्डूय-धातोः <<क्तिच्क्तौ च संज्ञायाम्>> [[3.3.174]] इत्यनेन क्तिच्-प्रत्यये कृते प्रक्रियायाम् <<अतो लोपः>> [[6.4.48]] इत्यनेन अकारलोपे जाते, अयम् लुप्तः अकारः यकारस्य लोपार्थम् स्थानिवद् न भवति । प्रक्रिया इयम् —\n\nकण्डूय + क्तिच् [<<क्तिच्क्तौ च संज्ञायाम्>> [[3.3.174]] इति क्तिच्-प्रत्ययः]\n→ कण्डूय् + ति [<<अतो लोपः>> [[6.4.48]] इति अकारलोपः]\n→ कण्डूति [<<लोपो व्योर्वलि>> [[6.1.66]] इति यकारलोपः । अत्र यकारलोपार्थम् अज्लोपः स्थानिवद् न भवति, अतः अत्र वल्-वर्णम् (तकारम्) दृष्ट्वा अत्र यकारलोपः अवश्यं प्रवर्तते ।\n\nकाशिकायाम् अत्र 'क्तिन् प्रत्यये कृते' इति उच्यते, सः तु असाधु पाठः ज्ञेयः, यतः प्रत्ययान्तधातुभ्यः क्तिन्-प्रत्ययस्य अपवादरूपेण अ-प्रत्ययः विधीयते । पदमञ्जर्याम् इति केनचित् वार्त्तिकेन अस्य समर्थनम् कृतम् अस्ति, परन्तु तत्र 'क्तिच् इति युक्तः पाठः' इति निर्देशः अपि लभ्यते ।\n5. स्वरविशिष्टे पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद् न भवति ।\nयत्र पूर्वविधिना कश्चन स्वरः विधीयते, तत्र परनिमित्तकः अजादेशः स्थानिवद् न भवति । यथा, चिकीर्ष-धातोः ण्वुल्-प्रत्यये कृते, प्रक्रियायाम् <<अतो लोपः>> [[6.4.48]] इति अकारलोपे कृते <<लिति>> [[6.1.193]] इत्यनेन प्रत्ययपूर्वस्वरस्य उदात्तत्वविधानार्थम् अजादेशः स्थानिवद् न भवति । प्रक्रिया इयम् —\n\nचिकीर्ष + ण्वुल् [<<ण्वुल्तृचौ>> [[3.1.133]] इति ण्वुल्-प्रत्ययः]\n→ चिकीर्ष + अक [<<युवोरनाकौ>> [[7.1.1]] इति अक-आदेशः]\n→ चिकीर्ष् + अक [<<अतो लोपः>> [[6.4.48]] इति अकारलोपः]\n→ चिकीर्ष् + अक [<<लिति>> [[6.1.193]] इत्यनेन प्रत्ययात् पूर्वम् विद्यमानः स्वरः उदात्तत्वं प्राप्नोति । अत्र स्वरविधौ कर्तव्ये यदि लुप्तः अकारः स्थानिवद् स्यात् तर्हि इदम् उदात्तत्वम् अकारस्य विषये प्रसज्येत । परन्तु अत्र प्रकृतसूत्रेण लुप्तः अकारः स्थानिवद् न भवति, अत; अत्र ककारोत्तस्य ईकारस्य एव उदात्तत्वं विधीयते ।]\n→ चि॒कीर्ष॑क [अत्र ककारोत्तरः ईकारः उदात्तः अस्ति ।]\n\n6. सवर्णसंज्ञया निर्दिष्टे पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद् न भवति ।\nपरनिमित्तकः अजादेशः सवर्णविधानविशिष्टकार्यार्थम् स्थानिवद् न भवति । यथा, शिन्धि-शब्दस्य प्रक्रियायाम् <<श्नसोरल्लोपः>> [[6.4.111]] इत्यनेन अकारलोपे कृते अग्रे अनुस्वारस्य परसवर्णविधौ कर्तव्ये लुप्तः अकारः स्थानिवद् न भवति । प्रक्रिया इयम् —\n\nशिषॢँ (विश्लेषणे, रुधादिः, <{7.14}>)\n→ शिष् + लोट् [<<लोट् च>> [[3.3.162]] इति लोट्-लकारः]\n→ शिष् + सिप् [<<तिप्तस्झि...>> [[3.4.78]] इति मध्यमपुरुषैकवचनस्य तिप्-प्रत्ययः]\n→ शिष् + हि [<<सेर्ह्यपिच्च>> [[3.4.87]] इति हि-आदेशः]\n→ शिष् + धि [<<हुझल्भ्यो हेर्धिः>> [[6.4.101]] इति धि-आदेशः]\n→ शि श्नम् ष् + धि [<<रुधादिभ्यः श्नम्>> [[3.1.78]] इति श्नम्-प्रत्ययः]\n→ शि न ष् + धि [इत्संज्ञालोपः]\n→ शि न् ष् + धि [<<श्नसोरल्लोपः>> [[6.4.111]] इति नकारोत्तरस्य अकारस्य लोपः]\n→ शिं ष् + धि [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति अनुस्वारः]\n→ शिं ष् + ढि [<<ष्टुना ष्टुः>> [[8.4.41]] इति धकारस्य ष्टुत्वे ढकारः]\n→ शिं ड् + ढि [<<झलां जश् झशि>> [[8.4.53]] इति षकारस्य जश्त्वे डकारः]\n→ शिण्ड् + ढि [<<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति अनुस्वारस्य परसवर्णः णकारः । अत्र परसवर्णे कर्तव्ये अकारलोपः स्थानिवद् न भवति । यदि अत्र अकारलोपः स्थानिवत् स्यात्, तर्हि अनुस्वारात् परम् अकारं दृष्ट्वा अत्र परसवर्णः नैव सम्भवेत् ।]\n→ शिण्ड्ढि \n→‌ शिण्ढि [<<झरो झरि सवर्णे>> [[8.4.65]] इति पाक्षिकः डकारलोपः]\n\n7. अनुस्वारादेशरूपिणि पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद् न भवति ।\nअनुस्वारनिर्माणार्थम् परनिमित्तकः अजादेशः स्थानिवद् न भवति । अतएव उपरि निर्दिष्टे शिण्ढि अस्मिन् उदाहरणे <<श्नसोरल्लोपः>> [[6.4.111]] इति नकारोत्तरस्य अकारस्य लोपे कृते, अग्रिमसोपाने विद्यमानस्य <<नश्चापदान्तस्य झलि>> [[8.3.24]] इत्यस्य कृते अयम् अकारः स्थानिवद् न भवति । यदि अत्र अकारः स्थानिवद् स्यात्, तर्हि अस्मिन् अकारे परे अपदान्तनकारस्य अनुस्वारः नैव सम्भवेत् ।\n8. दीर्घादेशविशिष्टे पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद् न भवति ।\nपरनिमित्तकः अजादेशः दीर्घादेशार्थम् स्थानिवद् न भवति । यथा, दिवन्-शब्दस्य तृतीयैकवचने <<अल्लोपोऽनः>> [[6.4.134]] इत्यनेन वकारोत्तस्य अकारस्य लोपे कृते, दकारोत्तरस्य इकारस्य दीर्घादेशे कर्तव्ये अयम् लुप्तः अकारः स्थानिवद् न भवति । प्रक्रिया इयम् —\n\nदिवन् + टा [<<स्वौजस्..>> [[4.1.2]] इति तृतीयैकवचनस्य टा-प्रत्ययः]\n→ दिव् न् + आ [<<अल्लोऽपो नः>> [[6.4.134]] इति अकारलोपः]\n→ दीव्ना [<<हलि च>> [[8.2.77]] इति वकारात् पूर्वस्य इकारस्य दीर्घः । अस्मिन् दीर्घे कर्तव्ये वकारोत्तरः लुप्तः अकारः स्थानिवत् न भवति । यदि अयं स्थानिवद् स्यात्, तर्हि हल्-वर्णस्य अनुपस्थितौ दीर्घः अपि नैव सम्भवेत् ।]\n\n9. जश्त्वविशिष्टे पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद् न भवति ।\nजश्त्वे कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद् न भवति । यथा, अद्-धातोः क्तिन्-प्रत्यये कृते वेदेषु 'ग्धिः' इति यद् रूपं दृश्यते, तस्य सिद्धौ <<घसिभसोर्हलि च>> [[6.4.100]] इत्यनेन अकारलोपे कृते, अग्रे जश्त्वकार्यार्थम् अयम् स्थानिवद् न भवति । प्रक्रिया इयम् —\n\nअदँ (भक्षणे, अदादिः, <{2.1}>)\n→ अद् + क्तिन् [<<स्त्रियां क्तिन्>> [[3.3.94]] इति क्तिन्-प्रत्ययः]\n→ घसॢ + ति [<<बहुलं छन्दसि>> [[2.4.39]] इति घसॢँ-आदेशः]\n→ घस् + ति [इत्संज्ञालोपः]\n→ घ् स् + ति [घकारोत्तरस्य अकारस्य <<घसिभसोर्हलि च>> [[6.4.100]] इति लोपः]\n→ घ् + ति [<<झलो झलि>> [[8.2.26]] इति सकारलोपः]\n→ घ् + धि [<<झषस्तथोर्धोऽधः>> [[8.2.40]] इति तकारस्य धकारः]\n→ ग् + धि [<<झलां जश् झशि>> [[8.4.53]] इति घकारस्य जश्त्वे गकारः । अत्र धकारे परे जश्त्वे कर्तव्ये घकारोत्तरस्य लुप्त-अकारस्य <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इति स्थानिवद्भावे प्राप्ते; प्रकृतसूत्रे जश्-ग्रहणेन तत् निषिध्यते ।]\n→‌ग्धि\n\n10. चर्त्वविशिष्टे पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद् न भवति ।\nचर्त्वे कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद् न भवति । यथा, अद्-धातोः लिट्-लकारस्य जक्षुः इति रूपस्य सिद्धौ << गमहनजनखनघसां लोपः क्ङित्यनङि>> [[6.4.98]] इत्यनेन कृतः अकारलोपः घकारस्य चर्त्वे कर्तव्ये स्थानिवद् न भवति । प्रक्रिया इयम् —\n\nअदँ (भक्षणे, अदादिः, <{2.1}>)\n→ घसॢँ [<<लिट्यन्यतरस्याम्>> [[2.4.40]] इति लिट्लकारस्य विवक्षायाम् अद्-धातोः विकल्पेन घसॢँ-आदेशः]\n→ घस् + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट् । <<असंयोगाल्लिट् कित्>> [[1.2.5]] इत्यनेन अयम् किद्वत् भवति ]\n→ घस् + झि [<<तिप्तस्झि..>> [[3.4.78]] इति प्रथमपुरुषबहुवचनस्य झि-प्रत्ययः]\n→ घस् + उस् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इति झि-प्रत्ययस्य उस्-आदेशः]\n→ घस् घस् + उस् [<<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम्]\n→ घ घस् + उस् [<<हलादिः शेषः>> [[7.4.60]] इति अभ्यासस्य हलादिः लुप्यते ]\n→ झ घस् + उस् [<<कुहोश्चुः>> [[7.4.62]] इति चुत्वम्]\n→ झ घ् स् + उस् [<<गमहनजनखनघसां लोपः क्ङित्यनङि>> [[6.4.98]] इति घकारोत्तरस्य अकारस्य लोपः]\n→ झ् घ् स् + उः [<<ससजुषो रुः>> [[8.2.66]] इति रुँत्वम् । <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n→ झ घ् ष् + उः [<<शासिवसिघसीनां च>> [[8.3.60]] इति षत्वम्]\n→ ज् घ् ष् + उः [<<अभ्यासे चर्च>> [[8.4.54]] इति अभ्यासस्य जश्त्वम्]\n→ ज् क् ष् + उः [<<खरि च>> [[8.4.55]] इति घकारस्य चर्त्वे ककारः । अत्र चर्त्वे कर्तव्ये घकारोत्तरस्य लुप्त-अकारस्य स्थानिवद्भावः प्रकृतसूत्रेण निषिध्यते ।]\n→ जक्षुः\n\nअनेन प्रकारेण एतेषु दशसु पूर्वविधिषु परनिमित्तकः अजादेशः स्थानिवद् न भवति ।\nवार्त्तिकम् — <!स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवद् भवति, अन्यत्र तु स्थानिवदेव!>\nप्रकृतसूत्रेण उक्तस्य स्थानिवद्भावनिषेधस्य नियमनम् अनेन वार्त्तिकेन क्रियते । यकारलोपार्थम्, स्वरविध्यर्थम्, तथा च दीर्घादेशकार्यार्थम् प्रकृतसूत्रेण उक्तः अजादेशस्य स्थानिवद्भावनिषेधः तदा एव प्रवर्तते यदा सः अजादेशः वस्तुतः अज्लोपः अस्ति — इति अस्य वार्त्तिकस्य आशयः । इत्युक्ते, एतेषु विधिषु स्वरस्य लोपभिन्नः कश्चन आदेशः भवति चेत् तत्र <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इत्यनेन प्राप्तस्य स्थानिवद्भावस्य निषेधः प्रकृतसूत्रेण न सम्भवति; अतश्च एतेषु स्थलेषु स्थानिवद्भावः अवश्यं सम्भवति — इति । क्रमेण विवरणम् एतादृशम् —\n1. स्वरविधौ लोपरूपस्य अजादेशस्य एव प्रकृतसूत्रेण स्थानिवद्भावनिषेधः उच्यते; अन्यरूपस्य अजादेशस्य न ।\nस्वरविधौ लोपभिन्नस्य अजादेशस्य <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इत्यनेन प्राप्तः स्थानिवद्भावः प्रकृतसूत्रेण नैव निषिध्यते । अस्य प्रयोजनम् बहुखट्वक इति शब्दस्य सिद्धौ दृश्यते —\n\nबह्व्यः खट्वाः यस्मिन् सः [<<अनेकमन्यपदार्थे>> [[2.2.24]] इति बहुव्रीहिसमासः]\n→ बह्वी + खट्वा + क [<<शेषाद्विभाषा>> [[5.4.154]] इति कप्]\n→बहु + खट्वा + क [<<स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु>> [[6.3.34]] इति पुंवद्भावः]\n→ बहु + खट्व + क [<<गोस्त्रियोरुपसर्जनस्य>> [[1.2.48]] इति ह्रस्वादेशः । अत्र आकारस्य स्थाने अकारः आदेशरूपेण विधीयते । अत्र निर्मितं ह्रस्वस्वरम् (अकारं) निमित्तरूपेण स्वीकृत्य <<ह्रस्वान्तेऽन्त्यात् पूर्वम्>> [[6.2.174]] इति सूत्रेण खकारोत्तरस्य अकारस्य अनिष्टम् उदात्तत्वं प्राप्नोति । तत् बाधितुम् <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इत्यनेन ह्रस्वः अकारः स्थानिवद् (इत्युक्ते, आकारसदृशः) भवितुम् अर्हति; तादृशं क्रियते चेत् ह्रस्व-स्वरस्य अभावात् अनिष्टम् उदात्तत्वम् अपि निवार्यते । परन्तु स्वरविधौ कर्तव्ये अजादेशः नैव स्थानिवद् भवति इति <<न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु>> [[1.1.58]] इत्यनेन उच्यते ।अस्यां स्थितौ, स्थानिवद्भावस्य अनुपस्थितौ, अनिष्टस्य स्वरस्य अपि न कश्चन बाधः सम्भवति । अतएव अत्र वार्त्तिककारेण इदं वार्त्तिकं दीयते । स्वरविधौ कर्तव्ये केवलं लोपरूपस्य अजादेशस्य एव स्थानिवद्भावः निषेद्धुं शक्यः, अन्यस्वरूपस्य अजादेशस्य न — इति अस्य वार्त्तिकस्य आशयः । अतः प्रकृतस्थले आकारस्य स्थाने आदेशरूपेण विहितस्य अकारस्य विषये स्थानिवद्भावः अवश्यं सम्भवति, तस्य निषेधः <<न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु>> [[1.1.58]] इत्यनेन न क्रियते । स्थानिवद्भावे सिद्धे ह्रस्वस्वरस्य अभावात् अनिष्टः उदात्तस्वरः अपि न भवति ।]\n→ बहुखट्वक\n\nलोपरूपस्य अजादेशस्य <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इत्यनेन प्राप्तः स्थानिवद्भावः तु प्रकृतसूत्रेण अवश्यं निषिध्यते । अस्य उदाहरणम् उपरि चिकीर्षक इत्यस्य प्रक्रियायां दत्तम् अस्ति । \n2. दीर्घविधौ लोपरूपस्य अजादेशस्य एव प्रकृतसूत्रेण स्थानिवद्भावनिषेधः उच्यते; अन्यरूपस्य अजादेशस्य न ।\nदीर्घविधौ लोपभिन्नस्य अजादेशस्य <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इत्यनेन प्राप्तः स्थानिवद्भावः प्रकृतसूत्रेण नैव निषिध्यते । अतएव गिर्योः इत्यत्र <<हलि च>> [[8.2.77]] इति इकारस्य दीर्घः न सम्भवति —\n\nगृ + इ + ओस् [व्युत्पत्तिपक्षे <<कॄगॄशॄपॄकुटिभिदिछिदिभ्यश्च>> (उणादिः ४.१४२) इति उणादिसूत्रेण गृ-धातोः इ-प्रत्यये कृते 'गिरि' इति शब्दः सिद्ध्यति । ततः <<स्वौजस्..>> [[4.1.2]] इति षष्ठीद्विवचनस्य ओस्-प्रत्ययः क्रियते]\n→ गिरि + ओस् [<<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणः, <<उरण् रपरः>> [[1.1.51]] इति सः रपरः]\n→ गिर् + य् + ओस् [<<इको यणचि>> [[6.1.77]] इति यणादेशः । एतादृशे यणादेशे कृते धातोः अन्ते विद्यमानात् रेफात् पूर्वम् विद्यमास्य इकारस्य <<हलि च>> [[8.2.77]] इत्यनेन दीर्घादेशः सम्भवति । वस्तुतः अत्र <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इत्यनेन अच्-वर्णः अवश्यं स्थानिवद् भवति; अतः हल्-परत्व-अभावात् अयं दीर्घादेशः निषेद्धुं शक्यः ; परन्तु <<न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु>> [[1.1.58]] इति प्रकृतसूत्रेण दीर्घविधौ स्थानिवद्भावस्य निषेधः उच्यते । एतादृशे निषेधे प्राप्ते स्थानिवद्भावस्य अभावात् अनिष्टः दीर्घादेशः प्राप्नोति । तस्य बाधनार्थम् इति वार्त्तिकं प्रयुज्यते । स्थानिवद्भावस्य प्राप्तः निषेधः केवलं स्वरलोपस्य विषये एव भवति (स्वरादेशस्य विषये न) इति अनेन वार्त्तिकेन स्पष्टी भवति । इकारस्य दीर्घादेशे कर्तव्ये स्थानिवद्भावस्य निषेधः न स्वीकर्तव्यः — इति अस्य आशयः । अतएव अत्र स्थानिवद्भावसामर्थ्यात् यकारस्य स्थाने इकारस्य ग्रहणं कृत्वा हल्परत्वाभावात् दीर्घः अपि न भवति ।]\n→ गिर्योः [ <<ससजुषो रुः>> [[8.2.66]], <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]]\n\nलोपरूपस्य अजादेशस्य <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इत्यनेन प्राप्तः स्थानिवद्भावः तु प्रकृतसूत्रेण अवश्यं निषिध्यते । अस्य उदाहरणम् उपरि दीव्ना इत्यस्य प्रक्रियायां दत्तम् अस्ति । \n3. यलोपविधौ लोपरूपस्य अजादेशस्य एव प्रकृतसूत्रेण स्थानिवद्भावनिषेधः उच्यते; अन्यरूपस्य अजादेशस्य न ।\nयलोपविधौ लोपभिन्नस्य अजादेशस्य <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इत्यनेन प्राप्तः स्थानिवद्भावः प्रकृतसूत्रेण नैव निषिध्यते । अतएव वाय्वोः इत्यत्र <<लोपो व्योर्वलि>> [[6.1.66]] इति यकारलोपः न सम्भवति —\n\nवायु + ओस् [<<स्वौजस्..>> [[4.1.2]] इत्यनेन षष्ठीद्विवचनस्य ओस्-प्रत्ययः]\n→ वाय् व् + ओस् [<<इको यणचि>> [[6.1.77]] इति यणादेशः । अत्र उकारस्य स्थाने (अच्-वर्णस्य स्थाने) वकारादेशः कृतः अस्ति । अतः अयम् लोपभिन्नः अजादेशः अस्ति । अस्यां स्थितौ <<लोपो व्योर्वलि>> [[6.1.66]] इत्यनेन प्राप्तस्य यकारलोपस्य कृते अयम् <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इत्यनेन स्थानिवद् भवति । तत्र <<न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु>> [[1.1.58]] इत्यनेन तस्य निषेधे प्राप्ते इति वार्त्तिकेन सः नियम्यते, अतः लोपभिन्नस्थलेषु स्थानिवद्भावनिषेधः न प्रवर्तते । अतः अत्र उकारस्य स्थानिवद्भावात्, तत्र वल्-वर्णस्य अभावे, <<लोपो व्योर्वलि>> [[6.1.66]] इति यकारलोपः नैव सम्भवति ।]\n→ वाय्वोः [<<ससजुषो रुः>> [[8.2.66]], <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] ]\n\nलोपरूपस्य अजादेशस्य <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इत्यनेन प्राप्तः स्थानिवद्भावः तु प्रकृतसूत्रेण अवश्यं निषिध्यते । अस्य उदाहरणम् उपरि कण्डूति इत्यस्य प्रक्रियायां दत्तम् अस्ति । \n" }, "11059": { "sa": "अच्-वर्णस्य स्थाने क्रियमाण: आदेशः अजादिनिमित्ते द्वित्वे कर्तव्ये स्थानिवद् भवति । ", "sd": "यत्र कस्यचन स्थानिनः कश्चन आदेशः विधीयते, तत्र —‌स्थानिनः गुणधर्माः आदेशे अपि अतिदिश्यन्ते वा ? — इति प्रश्ने जाते, अष्टाध्याय्याम् आहत्य चतुर्भिः सूत्रैः मिलित्वा अस्य उत्तरम् दीयते । <<स्थानिवदादेशोऽनल्विधौ>> [[1.1.56]] इत्यतः आरभ्य <<द्विर्वचनेऽचि>> [[1.1.59]] इति यावन्ति एतानि चत्वारि सूत्राणि स्थानिवद्भावप्रकरणम् नाम्ना ज्ञायन्ते । अस्य प्रकरणस्य इदं चतुर्थम् सूत्रम् । यस्य द्वित्वस्य निमित्तम् अजादिः अस्ति, तस्मिन् द्वित्वे कर्तव्ये अजादेशः स्थानिवद् भवति — इति अस्य सूत्रस्य आशयः ।\nप्रकृतसूत्रेण निर्दिष्टः स्थानिवद्भावः षष्ठाध्यायस्य प्रथमपादे पाठितस्य द्वित्वस्य कृते उक्तः अस्ति । <<न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु>> [[1.1.58]] इति पूर्वसूत्रे विद्यमानम् द्वित्वम् तु अल्विधिः अस्ति, अतः तत् अष्टमाध्यायस्य द्वित्वम् ज्ञेयम् ।\nवस्तुतस्तु, इदम् सूत्रम् काशिकायाम् कौमुद्यां च भिन्नाभ्याम् प्रकाराभ्याम् उपस्थापितम् वर्तते । द्वयोः अपि प्रकारयोः अन्ते तु समानानि एव रूपाणि सन्ति, परन्तु प्रक्रियायां कश्चन भेदः जायते । उभयोः अपि पक्षयोः क्रमेण विवरणम् इत्थम् —\nप्रकृतसूत्रस्य काशिकाव्याख्यानम् अनुसृत्य अर्थः\nयदि प्रक्रियायाः कस्मिंश्चित् सोपाने - (1) अजादेशः, तथा च (2) अजादिनिमित्तकम् द्वित्वम् —‌ एते द्वे कार्ये युगपत् प्राप्नुतः, तर्हि आदौ अजादेशं कृत्वा, ततः जायमानस्य द्वित्वकार्यस्य कृते अयम् अजादेशः स्थानिवद् भवति‌ — इति अस्य सूत्रस्य काशिकाकारेण अर्थविधानम् क्रियते । काशिकाकारेण अत्र 'रूपातिदेशः च अयम् नियतकालः' इति निर्देशः कृतः अस्ति । इत्युक्ते, अयम् अजादेशः केवलम् द्वित्वकार्यस्य कृते एव (नियतकालः = for a fixed time) स्थानिवद् भवति — इति काशिकाकारस्य अत्र आशयः ।\nयथा, पा-धातोः लिट्लकारस्य प्रथमपुरुषद्विवचनस्य प्रक्रियायाम् पा + अतुस् इत्यत्र द्वे कार्य युगपत् प्राप्नुतः — (1) <<आतो लोप इटि च>> [[6.4.64]] इत्यनेन अजादिप्रत्यये परे पा-इत्यस्य आकारलोपः (= अजादेशः), तथा च (2)<<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति अतुस्-प्रत्ययनिमित्तकम् (= अजादिनिमित्तकम्) द्वित्वम् । एताभ्याम् द्वाभ्याम् कार्याभ्याम् आकारलोपः नित्यः अस्ति, अतः सः आदौ प्रवर्तते । आकारलोपे कृते प् + अतुस् इत्यत्र अच्-वर्णस्य अभावात् <<एकाचो द्वे प्रथमस्य>> [[6.1.1]] इत्यस्मिन् प्रकरणे उक्तम् द्वित्वम् नैव सम्भवति । परन्तु अस्य द्वित्वस्य निमित्तम् अजादिः अस्ति, अतः द्वित्वस्य कृते अजादेशः (आकारलोपः) स्थानिवद् भवति । इत्युक्ते, द्वित्वस्य कृते प् इत्यस्य स्थाने पा इत्येव दृश्यते । अस्यां स्थितौ पा-इत्यस्य द्वित्वे कृते पा प् + अतुस् इति सिद्ध्यति । अग्रे अभ्यासकार्यं कृत्वा पपतुः इति रूपं सिद्ध्यति । सम्पूर्णा प्रक्रिया इयम् —\n\nपा (पाने, भ्वादिः, <{1.1074}>)\n→ पा + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट् । ]\n→ पा + अतुस् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इति प्रथमपुरुषद्विवचनस्य अतुस्-प्रत्ययः । <<असंयोगाल्लिट् कित्>> [[1.2.5]] इत्यनेन अयम् किद्वत् भवति ।]\n→ प् + अतुस् [अजादौ किति-प्रत्यये परे <<आतो लोप इटि च>> [[6.4.64]] इति आकारलोपः विधीयते । नित्यत्वात् अयम् द्वित्वं बाधते ]\n→ पा प् + अतुस् [आकारलोपे कृते अपि, अजादिप्रत्ययनिमित्तके (अतुस्-प्रत्ययनिमित्तके) द्वित्वे कर्तव्ये लुप्तः आकारः स्थानिवद् भवति । अतः अत्र एकाच्-प्रकृतेः द्वित्वं सम्भवति ।]\n→ प प् + अतुस् [<<ह्रस्वः>> [[7.4.59]] इति अभ्यासस्य ह्रस्वः]\n→ पपतुः [<<ससजुषो रुः>> [[8.2.66]], <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n\nअनेन प्रकारेण काशिकाकारस्य पद्धत्या यदा प्रक्रिया लिख्यते, तदा आदौ अजादेशं कृत्वा, तस्य स्थानिवद्भावं स्वीकृत्य द्वित्वकार्यम् करणीयम् । \nप्रकृतसूत्रस्य कौमुदीव्याख्यानम् अनुसृत्य अर्थः\nयदि प्रक्रियायाः कस्मिंश्चित् सोपाने - (1) अजादेशः, तथा च (2) अजादिनिमित्तकम् द्वित्वम् —‌ एते द्वे कार्ये युगपत् प्राप्नुतः, तर्हि आदौ द्वित्वकार्यं कृत्वा, ततः अजादेशः कर्तव्यः‌ — इति अस्य सूत्रस्य कौमुदीकारेण अर्थविधानम् क्रियते । अत्र कौमुदीकारः वदति — अचः आदेशः न स्याद् द्वित्वे कर्तव्ये । यावद् द्वित्वम् न कृतम्, तावत् अजादेशः अपि न करणीयः, परन्तु द्वित्वं क्रियते चेत् अग्रिमसोपाने एव अजादेशः करणीयः — इति अत्र आशयः । \nयथा, पा-धातोः लिट्लकारस्य प्रथमपुरुषद्विवचनस्य प्रक्रियायाम् पा + अतुस् इत्यत्र द्वे कार्य युगपत् प्राप्नुतः — (1) <<आतो लोप इटि च>> [[6.4.64]] इत्यनेन अजादिप्रत्यये परे पा-इत्यस्य आकारलोपः (अजादेशः) , तथा च (2) <<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति अतुस्-प्रत्ययनिमित्तकम् (अजादिनिमित्तकम्) द्वित्वम् । एताभ्याम् द्वाभ्याम् कार्याभ्याम् यद्यपि आकारलोपः नित्यः अस्ति, तथापि द्वित्वे प्राप्ते सः नैव प्रवर्तते; अतः आदौ द्वित्वं कृत्वा पा पा + अतुस् इति सिद्धे ततः आकारलोपः करणीयः । सम्पूर्णा प्रक्रिया इयम् —\n\nपा (पाने, भ्वादिः, <{1.1074}>)\n→ पा + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट् । ]\n→ पा + अतुस् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इति प्रथमपुरुषद्विवचनस्य अतुस्-प्रत्ययः । <<असंयोगाल्लिट् कित्>> [[1.2.5]] इत्यनेन अयम् किद्वत् भवति ।]\n→ पा पा + अतुस् [द्वित्वे कर्तव्ये अजादेशः न क्रियते, अतः अत्र आदौ <<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इत्यनेन द्वित्वं विधीयते ।]\n→ पा प् + अतुस् [अजादौ किति-प्रत्यये परे <<आतो लोप इटि च>> [[6.4.64]] इति आकारलोपः जायते । द्वित्वे कृते अयम् अजादेशः अवश्यं प्रवर्तते । ]\n→ प प् + अतुस् [<<ह्रस्वः>> [[7.4.59]] इति अभ्यासस्य ह्रस्वः]\n→ पपतुः [<<ससजुषो रुः>> [[8.2.66]], <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n\nअनेन प्रकारेण कौमुदीकारस्य पद्धत्या यदा प्रक्रिया लिख्यते, तदा आदौ द्वित्वं कृत्वा, ततः अजादेशः करणीयः ।\nकयाचित् अपि पद्धत्या प्रक्रिया लिख्यते चेत् अन्ते रूपम् तु समानम् एव भवति । अतः केवलम् सौलभ्यार्थम् अग्रे सर्वेषु उदाहरणेषु कौमुदीकारस्य पद्धत्या प्रक्रिया लिखिता वर्तते ।\nप्रकृतसूत्रस्य प्रयोगस्थलानि\nयद्यपि प्रकृतसूत्रेण अजादेशस्य अपेक्षया द्वित्वकार्यस्य प्राधान्यम् उक्तम् अस्ति (अथ वा, काशिकामतेन द्वित्वे कर्तव्ये अजादेशः स्थानिवत् स्वीकृतः अस्ति), तथापि बहुषु स्थलेषु प्रकृतसूत्रस्य प्रयोगं विना अपि इष्टरूपाणि सिद्ध्यन्ति । इत्युक्ते, एतेषु स्थलेषु द्वित्वकार्यम् आदौ कृत्वा ततः अजादेशः क्रियते चेत् तु साधुरूपम् सिद्ध्यति एव, परन्तु अजादेशं आदौ कृत्वा, तस्य स्थानिवद्भावं विना एव द्वित्वं क्रियते चेदपि साधुरूपम् एव सिद्ध्यति । यथा, हन्-धातोः लिट्लकारस्य प्रथमपुरुषस्य एकवचनस्य 'जघान' इत्यस्य रूपसिद्धौ, <<अत उपधायाः>> [[7.2.116]] इति उपधावृद्धिः (अजादेशः) तथा च <<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इत्यनेन द्वित्वम् — एतयोः युगपत् प्राप्तौ सत्याम् आदौ किमपि कार्यं क्रियते चेदपि तत्र समानमेव रूपं सिद्ध्यति —\n\n<<द्विर्वचनेऽचि>> [[1.1.59]] इति सूत्रम् अनुसृत्य आदौ द्वित्वे कृते प्रक्रिया —\nहन् (हिंसागत्योः, अदादिः, <{2.2}>)\n→ हन् + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट् ।]\n→ हन् + णल् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इति प्रथमपुरुषैकवचनस्य णल्-प्रत्ययः]\n→ हन् हन् + अ [<<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम् । ]\n→ हन् हान् + अ [<<अत उपधायाः>> [[7.2.116]] इति उपधावृद्धिः]\n→ ह हान् + अ [<<हलादिः शेषः>> [[7.4.60]] इति अभ्यासस्य हलादिः अवशिष्यते ।]\n→ ज हान् + अ [<<कुहोश्चुः>> [[7.4.62]] इति चुत्वम्]\n→ ज घान् + अ [<<अभ्यासाच्च>> [[7.3.55]] इति अभ्यासात् उत्तरस्य हन्-धातोः हकारस्य कवर्गादेशः भवति ।]\n→ जघान\n
    \n<<द्विर्वचनेऽचि>> [[1.1.59]] इति सूत्रस्य साहाय्यं विना, आदौ अजादेशे कृते प्रक्रिया —\nहन् (हिंसागत्योः, अदादिः, <{2.2}>)\n→ हन् + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट् ।]\n→ हन् + णल् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इति प्रथमपुरुषैकवचनस्य णल्-प्रत्ययः]\n→ हान् + अ [<<अत उपधायाः>> [[7.2.116]] इति अजादेशः]\n→ हान् हान् + अ [<<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम् । ]\n→ हा हान् + अ [<<हलादिः शेषः>> [[7.4.60]] इति अभ्यासस्य हलादिः अवशिष्यते ।]\n→ ह हान् + अ [<<ह्रस्वः>> [[7.4.59]] इति अभ्यासस्य ह्रस्वः]\n→ ज हान् + अ [<<कुहोश्चुः>> [[7.4.62]] इति चुत्वम्]\n→ ज घान् + अ [<<अभ्यासाच्च>> [[7.3.55]] इति अभ्यासात् उत्तरस्य हन्-धातोः हकारस्य कवर्गादेशः भवति ।]\n→ जघान\n
    \nअत्र प्रकृतसूत्रं विना, आदौ नित्यत्वात् अजादेशे कृते स्थानिवद्भावं विना अपि इष्टरूपम् अवश्यम् सिद्ध्यति । अतः इष्टरूपसिद्ध्यर्थम् प्रकृतसूत्रस्य प्रयोगः कुत्र कुत्र आवश्यकः वर्तते?' इति प्रश्नः अत्र उपतिष्ठति । भाष्यकारः अस्मिन् सन्दर्भे इत्थं स्पष्टी करोति — । इत्युक्ते, भाष्यकारस्य मतेन प्रकृतसूत्रस्य प्रयोगः आहत्य पञ्चसु स्थलेषु आवश्यकः अस्ति — आकारलोपः, उपधालोपः, णिलोपः, यणादेशः, अयाद्यादेशः — इति । एतेषाम् पञ्चानाम् स्थलानाम् क्रमेण उदाहरणानि एतानि —\n1. द्वित्वे कर्तव्ये आकारलोपः स्थानिवद् भवति ।\n उपरिनिर्दिष्टायाम् पपतुः-शब्दस्य प्रक्रियायाम् अस्य प्रयोगः दृश्यते । तत्र <<आतो लोप इटि च>> [[6.4.64]] इत्यनेन प्राप्तः अजादेशः द्वित्वे कर्तव्ये स्थानिवद् भवति । आदौ द्वित्वं कृत्वा ततः अजादेशः करणीयः — इति कौमुदीमतेन अस्य अर्थः । \n2. द्वित्वे कर्तव्ये उपधालोपः स्थानिवद् भवति ।\nहन्-धातोः लिट्लकारस्य प्रथमपुरुषद्विवचनस्य रूपसिद्धौ <<गमहनजनखनघसां लोपः क्ङित्यनङि>> [[6.4.98]] इत्यनेन हकारोत्तस्य अकारस्य प्राप्तः लोपः द्वित्वे कर्तव्ये स्थानिवद् भवति । प्रक्रिया इयम् —\n\nहन् (हिंसागत्योः, अदादिः, <{2.2}>)\n→ हन् + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट् ।]\n→ हन् + अतुस् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इति प्रथमपुरुषद्विवचनस्य अतुस्-प्रत्ययः । <<असंयोगाल्लिट् कित्>> [[1.2.5]] इत्यनेन अयम् किद्वत् भवति ।]\n→ हन् हन् + अतुस् [<<गमहनजनखनघसां लोपः क्ङित्यनङि>> [[6.4.98]] इति अत्र उपधा-अकारलोपः प्राप्नोति । तस्मिन्नेव समये <<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इत्यनेन द्वित्वस्य अपि प्राप्तिः अस्ति । अत्र यद्यपि उपधा-अकारलोपः नित्यः अस्ति, तथापि द्वित्वे कर्तव्ये <<द्विर्वचनेऽचि>> [[1.1.59]] इति सूत्रेण इति सूत्रबलात् अयम् अजादेशः न प्रवर्तते । अत्र आदौ <<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इत्यनेन द्वित्वं विधीयते । (अथ वा, काशिकामतेन अकारलोपे कृते अपि सः द्वित्वार्थम् स्थानिवद् भवति ।)]\n→ हन् ह् न् + अतुस् [अजादौ किति-प्रत्यये परे <<गमहनजनखनघसां लोपः क्ङित्यनङि>> [[6.4.98]] इति उपधा-अकारलोपः विधीयते । द्वित्वे कृते अयम् अजादेशः अवश्यं प्रवर्तते । ]\n→ ह ह् न् + अतुस् [<<हलादिः शेषः>> [[7.4.59]] इति अभ्यासस्य हलादिः शिष्यते]\n→ घ घ् न् + अतुस् [<<कुहोश्चुः>> [[7.4.62]] इति अभ्यासस्य चुत्वम् । संवारनादघोषमहाप्राणवतः हकारस्य स्थाने तादृशः घकारः आदेशरूपेण विधीयते ।]\n→ घ घ् न् + अतुः [<<<ससजुषो रुः>> [[8.2.66]], <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n→ जघ्नतुः [<<अभ्यासे चर्च>> [[8.4.54]] इति अभ्यासस्य जश्त्वे जकारः]\n\n3. द्वित्वे कर्तव्ये णिलोपः स्थानिवद् भवति ।\nअट्-धातोः णिच्-प्रत्यये कृते ततः लुङ्लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रियायाम् चङ्-इति विकरणप्रत्ययं निमित्तरूपेण स्वीकृत्य णिच्-प्रत्ययस्य लोपः प्राप्नोति । तस्मिन्नेव समये चङ्-प्रत्ययनिमित्तकम् द्वित्वम् अपि प्राप्नोति । अस्यां स्थितौ, णिलोपात् पूर्वम द्वित्वम् क्रियते (इति कौमुदी); अथ वा णिलोपे कृते तं स्थानिवत् स्वीकृत्य द्वित्वं क्रियते (इति काशिका) । एतादृशं क्रियते चेदेव <<अजादेर्द्वितीयस्य>> [[6.1.2]] इत्यनेन द्वितीय-एकाच्-अवयवस्य द्वित्वं सम्भवति । प्रक्रिया इयम् —\n\nअटँ (गतौ, भ्वादिः, <{1.332}>)\n→ अट् + णिच् [<<हेतुमति च>> [[3.1.26]] इति णिच्-प्रत्ययः । ]\n→ अटि [णिजन्तस्य <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञा]\n→ अटि + लुङ् [<<लुङ्>> [[3.2.110]] इति लुङ्लकारः]\n→ आट् + अटि + लुङ् [<<आडजादीनाम्>> [[6.4.72]] इति आडागमः]\n→ आ + अटि + च्लि + लुङ् [<<च्लि लुङि>> [[3.1.43]] इति च्लि-विकरणप्रत्ययः]\n→ आ + अटि + चङ् + लुङ् [<<णिश्रिद्रुस्रुभ्यः कर्तरि चङ्>> [[3.1.48]] इति च्लेः चङ्-आदेशः]\n→ आ + अटि + अ + तिप् [<<तिप्तस्झि...>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]\n→ आ + अटि + अ + त् [<<इतश्च>> [[3.4.100]] इति इकारलोपः] \n→ आ + अटि टि + अ + त् [अत्र <<चङि>> [[6.1.11]] इत्यनेन अङ्गस्य द्वित्वम् प्राप्नोति । तस्मिन्नेव समये <<णेरनिटि>> [[6.4.51]] इत्यनेन णिलोपः अपि प्राप्नोति । अत्र <<द्विर्वचनेऽचि>> [[1.1.59]] इत्यनेन णिलोपः द्वित्वस्य कृते स्थानिवद् भवति । इत्युक्ते, (कौमुदीमतेन) अत्र णिलोपात् पूर्वम् द्वित्वम् करणीयम् । एतादृशम् क्रियते चेदेव <<अजादेर्द्वितीयस्य>> [[6.1.2]] इत्यनेन द्वितीयस्य-एकाच्-अवयवस्य द्वित्वं सम्भवति । यदि णिलोपः आदौ भवेत्, तर्हि एकाच्कत्वात् <<एकाचो द्वे प्रथमस्य>> [[6.1.1]] इत्यनेन अट्-इत्यस्य द्वित्वं प्रसज्येत् ।]\n→ आ + अटि ट् + अ + त् [द्वित्वे कृते <<णेरनिटि>> [[6.4.51]] इति णिलोपः क्रियते]\n→ आटिटत् [<<आटश्च>> [[6.1.90]] इति वृद्ध्येकादेशः]\n\n4. द्वित्वे कर्तव्ये यणादेशः स्थानिवद् भवति ।\nकृ-धातोः लिट-लकारस्य प्रथमपुरुषद्विवचनस्य प्रक्रियायाम् कृ + अतुस् इत्यत्र <<इको यणचि>> [[6.1.77]] इत्यनेन यणादेशः प्राप्नोति; तस्मिन्नेव स्थले <<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इत्यनेन अतुस्-प्रत्ययनिमित्तकं द्वित्वम् अपि प्राप्नोति । अत्र यणादेशः नित्यः अस्ति यतः यणादेशे कृते अज्-वर्णस्य अभावात् द्वित्वं नैव प्राप्नोति, परन्तु द्वित्वे कृते अकृते अपि यणादेशः अवश्यं प्राप्नोति । अतः वस्तुतः अत्र यणादेशः आदौ भवेत् । परन्तु <<द्विर्वचनेऽचि>> [[1.1.59]] इत्यनेन अस्मात् यणादेशात् पूर्वम् द्वित्वं भवति (अथ वा, काशिकामतेन यणादेशे कृते अपि सः द्वित्वार्थम् स्थानिवद् स्वीक्रियते) । प्रक्रिया इयम् —\n\nडुकृञ् (करणे, तनादिः, <{8.1}>)\n→ कृ + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट् । ]\n→ कृ + अतुस् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इति प्रथमपुरुषद्विवचनस्य अतुस्-प्रत्ययः । <<असंयोगाल्लिट् कित्>> [[1.2.5]] इति अयम् किद्वत् भवति ।]\n→ कृ + कृ + अतुस् [<<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इत्यनेन अङ्गस्य गुणादेशे प्राप्ते <<क्ङिति च>> [[1.1.5]] इत्यनेन सः निषिध्यते । अतः अत्र <<इको यणचि>> [[6.1.77]] इत्यनेन यणादेशः प्राप्नोति । तस्मिन्नेव समये <<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम् अपि विधीयते । अत्र <<द्विर्वचनेऽचि>> [[1.1.59]] इति सूत्रम् अनुसृत्य यणादेशस्य अपेक्षया द्वित्वम् आदौ क्रियते ।]\n→ कृ + क् र् + अतुस् [<<इको यणचि>> [[6.1.77]] इति यणादेशः । द्वित्वात् अनन्तरम् अयम् अवश्यम् विधीयते ।]\n→ कर् + क् र् + अतुस् [<<उरत्>> [[7.4.66]] इति अभ्यासस्य ऋकारस्य अकारादेशः । सः <<उरण् रपरः>> [[1.1.51]] इति रपरः]\n→ क + क् र् + अतुस् [<<हलादिः शेषः>> [[7.4.60]] इति अभ्यासस्य हलादिः शिष्यते]\n→ च + क् र् + अतुस् [<<कुहोश्चुः>> [[7.4.62]] इति अभ्यासस्य चुत्वम्]\n→ चक्रतुः [<<ससजुषो रुः>> [[8.2.66]], <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n\n5. द्वित्वे कर्तव्ये अय्/अव्/आय्/आव्-आदेशः स्थानिवद् भवति ।\nनी-धातोः लिट्लकारस्य उत्तमपुरुषस्य एकवचनस्य प्रक्रियायाम् एकस्मिन् एव सोपाने द्वित्वे तथा च अयादेश/आयादेशे प्राप्ते; प्रकृतसूत्रेण द्वित्वस्य कृते अयादेशः/आयादेशः स्थानिवद् भवति । प्रक्रिया इयम् —\n\nणीञ् (प्रापणे, भ्वादिः, <{1.1049}>)\n→ नी + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट्]\n→ नी + णल् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इति उत्तमपुरुषैकवचनस्य णल्-प्रत्ययः]\n→ (ने / नै) + अ [<<णलुत्तमो वा>> [[7.1.91]] इति उत्तमपुरुषैकवचनस्य णल्-प्रत्ययः विकल्पेन णिद्वत् भवति । णित्वपक्षे <<अचो ञ्णिति>> [[7.2.115]] इति अङ्गस्य वृद्धिः विधीयते, णित्वाभावे <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इत्यनेन अङ्गस्य गुणादेशः भवति ।]\n→ (ने ने / नै नै) + अ [<<एचोऽयवायावः>> [[6.1.78]] इति अयादेशे / आयादेशे प्राप्ते, <<द्विर्वचनेऽचि>> [[1.1.59]] इति सूत्रेण तस्मात् पूर्वम् द्वित्वम् विधीयते । (अथ वा, काशिकामतेन अयादेशे / आयादेशे कृते अपि द्वित्वार्थम् आदेशः स्थानिवद् भवति ।)]\n→ (ने नय् / नै नाय्) + अ [द्वित्वे कृते <<एचोऽयवायावः>> [[6.1.78]] इति अयादेशः / आयादेशः विधीयते ।]\n→ (नि नय् / नि नाय्) + अ <<ह्रस्वः>> [[7.4.59]] इति अभ्यासस्य ह्रस्वः । <<एच इग्घ्रस्वादेशे>> [[1.1.48]] इति एकार-ऐकारयोः ह्रस्वः इकारः]\n→ निनय / निनाय\n\nएवमेव, पूञ् (पवने, क्र्यादिः, <{9.14}>) इत्यस्य प्रक्रियायाम् अवादेशात् / आवादेशात् पूर्वम् द्वित्वं भवति —\n\nपूङ् (पवने, क्र्यादिः, <{9.14}>)\n→ पू + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट्]\n→ पू + णल् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इति उत्तमपुरुषैकवचनस्य णल्-प्रत्ययः]\n→ (पो / पौ) + अ [<<णलुत्तमो वा>> [[7.1.91]] इति उत्तमपुरुषैकवचनस्य णल्-प्रत्ययः विकल्पेन णिद्वत् भवति । णित्वपक्षे <<अचो ञ्णिति>> [[7.2.115]] इति अङ्गस्य वृद्धिः विधीयते, णित्वाभावे <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इत्यनेन अङ्गस्य गुणादेशः भवति ।]\n→ (पो पो / पौ पौ) + अ [<<एचोऽयवायावः>> [[6.1.78]] इति अवादेशे / आवादेशे प्राप्ते, <<द्विर्वचनेऽचि>> [[1.1.59]] इति सूत्रेण तस्मात् पूर्वम् द्वित्वम् विधीयते । (अथ वा, काशिकामतेन अवादेशे / आवादेशे कृते अपि द्वित्वार्थम् आदेशः स्थानिवद् भवति ।)]\n→ (पो पव् / पौ पाव्) + अ [द्वित्वे कृते <<एचोऽयवायावः>> [[6.1.78]] इति अवादेशः / आवादेशः विधीयते ।]\n→ (पु पव् / पु पाव्) + अ <<ह्रस्वः>> [[7.4.59]] इति अभ्यासस्य ह्रस्वः । <<एच इग्घ्रस्वादेशे>> [[1.1.48]] इति ओकार-औकारयोः ह्रस्वः उकारः]\n→ पुपव / पुपाव \n\nएतेषु पञ्चसु स्थलेषु परनिमित्तकः अजादेशः आदौ क्रियते चेत् अनिष्टं रूपं सिद्ध्यति, अतः अत्र एतेषां विषये प्रकृतसूत्रम् उपयुज्य द्वित्वम् आदौ क्रियते । अन्येषु स्थलेषु परनिमित्तकः अजादेशः आदौ क्रियते चेदपि रूपसिद्धौ न कश्चन दोषः जायते; परन्तु तत्रापि प्रकृतसूत्रम् अनुसृत्य द्वित्वमेव आदौ करणीयम् । \nदलकृत्यम्\n1. द्विर्वचने इति किमर्थम् ? अन्यकार्याणां कृते अजादेशः स्थानिवद् न भवति । यथा, ग्लै-धातोः भावे लिट्लकारस्य प्रथमपुरुषैकवचनस्य रूपसिद्धौ आकारलोपः वृद्धिकार्यस्य कृते स्थानिवद् न भवति । प्रक्रिया इयम् —\n\nग्लै (हर्षक्षये, भ्वादिः)\n→ ग्ला [<<आदेच उपदेशेऽशिति>> [[6.1.45]] इति आकारादेशः]\n→ ग्ला + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट्लकारः ।]\n→ ग्ला + त [<<भावकर्मणोः>> [[1.3.13]] इति आत्मनेपदम्, अतः प्रथमपुरुषैकवचनस्य विवक्षायाम् <<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> [[3.4.78]] इत्यनेन त-प्रत्ययः । अत्र धातोः अन्ते संयोगः नास्ति, अतः <<असंयोगाल्लिट् कित्>> [[1.2.5]] इत्यनेन अयम् किद्वत् भवति ।]\n→ ग्ला + ए [<<लिटस्तझयोरेशिरेच्>> [[3.4.81]] इति त-प्रत्ययस्य एश्-आदेशः ।<<अनेकाल्शित्सर्वस्य>> [[1.1.55]] इति सर्वादेशः]\n→ ग्ला ग्ला + ए [<<आतो लोप इटि च>> [[6.4.64]] इत्यनेन आकारलोपे प्राप्ते; तस्मात् पूर्वम् द्वित्वम् क्रियते ।]\n→ ग्ला ग्ल् + ए [अत्र <<आतो लोप इटि च>> [[6.4.64]] इत्यनेन आकारलोपः तथा च <<वृद्धिरेचि>> [[6.1.88]] इत्यनेन वृद्ध्येकादेशः - एतौ युगपत् प्राप्नुतः अत्र परत्वात्, अङ्गकार्यत्वात् च <<आतो लोप इटि च>> [[6.4.64]] इत्येव कार्यम् आदौ क्रियते]\n→ ग्ला ग्ले [आकारलोपे कृते <<वृद्धिरेचि>> [[6.1.88]] इत्यनेन वृद्ध्येकादेशः नैव सम्भवति । वृद्धिकार्यार्थम् अत्र आकारलोपः स्थानिवद् न भवति ।\n→ गा ग्ले [<<हलादिः शेषः>> [[7.4.60]]]\n→ ग ग्ले [<<ह्रस्वः>> [[7.4.59]]]\n→ जग्ले [<<कुहोश्चुः>> [[7.4.62]] इति चुत्वम्]\n\n2. अचि इति किमर्थम् ? यत्र द्वित्वस्य निमित्तम् अजादिः नास्ति, तत्र प्रकृतसूत्रेण उक्तः स्थानिवद्भावः नैव प्रवर्तते । यथा, घ्रा-धातोः यङ्-प्रत्यये परे यत् द्वित्वकार्यं भवति, तत्र द्वित्वस्य निमित्तम् 'यङ्' इति हलादिः अस्ति, अतः तत्र अजादेशः स्थानिवत् न स्वीक्रियते । अतएव नित्यत्वात् आदौ अजादेशं कृत्वा ततः सिद्धस्य शब्दरूपस्य एव द्वित्वं भवति । प्रक्रिया एतादृशी —\n\nघ्रा (गन्धोपादाने घ्राणे च, भ्वादिः, <{1.1075}>)\n→ घ्रा + यङ् [<<धातोरेकाचो हलादेः क्रियासमभिहारे यङ्>> [[3.1.22]] इति यङ् । \n→ घ्री + य [<<ई घ्राध्मोः>> [[7.4.31]] इति अङ्गस्य ईकारादेशः । अत्र यङ्-प्रत्ययनिमित्तकम् द्वित्वम् अपि युगपत् प्राप्नोति, परन्तु नित्यत्वात् अत्र ईकारादेशः एव आदौ क्रियते । अस्मिन् आदेशे कृते प्रकृतसूत्रेण स्थानिवद्भावः नैव प्रवर्तते, यतः अत्र द्वित्वम् हलादिनिमित्तकम् अस्ति ।]\n→ घ्री घ्री य [<<यङोऽचि च>> [[2.4.74]] इति द्वित्वम्]\n→ घी घ्री य [<<हलादिः शेषः>> [[7.4.60]] इति हलादिः शिष्यते ।]\n→ घि घ्री य [<<ह्रस्वः>> [[7.4.59]] इति अभ्यासस्य ह्रस्वः]\n→ घे घ्री य [<<गुणो यङ्लुकोः>> [[7.4.82]] इति अभ्यासस्य गुणः]\n→ जेघ्रीय [<<अभ्यासे चर्च>> [[8.4.54]] इति अभ्यासस्य जश्त्वम् । <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञा । अस्मात् अग्रे यथायोग्यम् तिङ्/कृत्-प्रत्ययाः विधीयन्ते ।]\n\nअस्मिन्नेव सन्दर्भे अन्यद् एकम् प्रत्युदाहरणम् इत्थम् — दिव्-धातोः सन्-प्रत्यये परे इडागमे कृते यद्यपि दिव् धातोः अग्रे इडागमस्य इकारः विद्यते, तथापि अयम् इडागमः द्वित्वस्य निमित्तम् नास्ति, अपितु सन्-प्रत्ययः द्वित्वस्य निमित्तम् अस्ति, अतः अत्र प्रकृतसूत्रेण स्थानिवद्भावः न प्रवर्तते । अतएव यणादेशे कृते सः द्वित्वार्थम् स्थानिवत् न भवति । प्रक्रिया इयम् —\n\nदिवुँ (क्रीडादिषु, दिवादिः, <{4.1}>)\n→ दिव् + सन् [<<धातोः कर्मणः समानकर्तृकादिच्छायां वा>> [[3.1.7]] इति सन्-प्रत्ययः]\n→ दि ऊठ् + स [<<च्छ्वोः शूडनुनासिके च>> [[6.4.19]] इति ऊठ्]\n→ द्यु + स [<<इको यणचि>> [[6.1.77]] इति यणादेशः । अयम् अन्तरङ्गात् द्वित्वं बाधते ]\n→ द्यु द्यु + स [<<सन्यङोः>> [[6.1.9]] इति द्वित्वम् । इदं द्वित्वम् हलादिप्रत्ययनिमित्तकम् अस्ति । अतः अत्र अजादेशः (यणादेशे कृते प्राप्तः यकारः) स्थानिवद् न भवति । ]\n→ दु द्यु + स [<<हलादिः शेषः>> [[7.4.60]]]\n→ दुद्युष [<<आदेशप्रत्यययोः>> [[8.3.59]] इति षत्वम् । <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञा । अस्मात् अग्रे यथायोग्यम् तिङ्/कृत्-प्रत्ययाः विधीयन्ते ।]\n" }, "11060": { "sa": "वर्णस्य वर्णसमूहस्य वा अदर्शनम् 'लोपः' नाम्ना ज्ञायते । ", "sd": "व्याकरणशास्त्रस्य संज्ञासु अन्यतमा अस्ति 'लोपः' इति संज्ञा । प्रक्रियायाम् वर्णस्य वर्णसमूहस्य वा जायमानम् अदर्शनम् अनया संज्ञया निर्दिश्यते । प्रक्रियायाः प्रारम्भिकसोपानेषु अयं वर्णः (समूहः वा) दृश्यते, परन्तु लोपे कृते तस्य दर्शनम् न भवति, इति अत्र आशयः ।\nअत्र 'अदर्शनम्' इत्यनेन केवलम् नेत्रविशिष्टं कार्यम् एव न गृह्यते, अपि तु अयं शब्दः 'अनुच्चारणम्' / 'अश्रवणम्' एतान् अर्थान् अपि गृह्णाति । \nलोपसंज्ञायाः सूत्रेषु प्रयोगः\nव्याकरणशास्त्रस्य प्रक्रियासु लोपकार्यम् बहु प्राचुर्येण कृतं दृश्यते । अष्टाध्याय्यां तु पञ्चाशतः अपि अधिकेषु सूत्रेषु लोपसंज्ञायाः प्रयोगः कृतः लभ्यते । यथा — (1) <<तस्य लोपः>> [[1.3.9]] इत्यनेन सूत्रेण इत्संज्ञकवर्णस्य लोपः भवति, (2) <<संयोगान्तस्य लोपः>> [[8.2.23]] इत्यनेन पदान्ते विद्यमानस्य संयोगस्य अन्तिमवर्णस्य लोपः भवति, (3) <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इत्यनेन अपृक्तस्य 'सुँ'प्रत्ययस्य लोपः क्रियते — आदयः । अधोदत्ते उदाहरणे एतानि त्रीणि अपि सूत्राणि प्रयुक्तानि दृश्यन्ते —\n\nडुकृञ्\n→ कृ ['डु' इत्यस्य <<आदिर्ञिटुडवः>> [[1.3.5]] इति इत्संज्ञा । ञकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा । द्वयोः अपि <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ कृ + क्तवतुँ [<<निष्ठा>> [[3.2.102]] इति क्तवतुँ-प्रत्ययः]\n→ कृ + तवत् [ककारस्य <<लशक्वतद्धिते>> [[1.3.8]] इति इत्संज्ञा । उकारस्य <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इति इत्संज्ञा । द्वयोः अपि <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ कृतवत् + सुँ [प्रथमैकवचनस्य सुँप्रत्ययः]\n→ कृतवत् + स् [उकारस्य <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इति इत्संज्ञा , <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ कृतवात् + स् [<<अत्वसन्तस्य चाधातोः>> [[6.4.14]] इति 'अतुँ' प्रत्ययान्तस्य अङ्गस्य उपधादीर्घः]\n→ कृतवा नुम् त् + स् [<<उगिदचां सर्वनामस्थानेऽधातोः>> [[7.1.70]] इति सर्वनामस्थाने परे अङ्गस्य नुमागमः । अत्र दीर्घे कृते एव नुमागमः भवति इति कौमुदीवचनम्]\n→ कृतवा न् त् + स् [मकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति लोपः । उकारः उच्चारणार्थः, तस्यापि लोपः भवति ।]\n→ कृतवा न् त् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति अपृक्तस्य 'सुँ'प्रत्ययस्य लोपः ।]\n→ कृतवान् [<<संयोगान्तस्य लोपः>> [[8.2.23]] इति तकारस्य लोपः]\n\nलुप्तवर्णस्य स्थानिवद्भावः\nबह्वीषु प्रक्रियासु पूर्वसोपाने लुप्तः वर्णः स्थानिवद्भावेन अग्रिमसोपाने किञ्चित् कार्यम् कार्यनिषेधं वा अपि कारयति । यथा, 'कथ' धातोः अन्तिम-अकारस्य णिच्-प्रत्यये परे लोपः भवति, परन्तु अयमेव लुप्तः अकारः अग्रिमसोपाने स्थानिवद्भानेन उपधावृद्धेः निषेधम् अपि कारयति । प्रक्रिया इयम् —\n\nकथ + णिच्\n→ कथ + इ [णिच्-प्रत्ययस्य णकारचकारयोः इत्संज्ञा, लोपः । कथ-धातोः अन्तिमः अकारः तु अनुनासिकः नास्ति, अतः तस्य इत्संज्ञा अपि न भवति ।]\n→ कथ् + इ [<<अतो लोपः>> [[6.4.48]] इति थकारोत्तस्य अकारस्य लोपः । एतादृशे लोपे कृते ककारोत्तरः अकारः उपधास्थानं स्वीकरोति, अतः अत्र प्रत्ययस्य णित्त्वात् <<अत उपधायाः>> [[7.2.116]] इति (अनिष्टा) उपधावृद्धिः प्राप्नोति । परन्तु अस्यां स्थितौ थकारोत्तरः लुप्तः अकारः <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इत्यनेन स्थानिवद्भावेन तस्य मूलस्थाने अतिदिश्यते, येन ककारोत्तरस्य अकारस्य उपधात्वं विनश्यन्ति, अतश्च <<अत उपधायाः>> [[7.2.116]] इत्यनेन प्राप्ता अनिष्टा उपधावृद्धिः अपि निवार्यते ।]\n→ कथि [<<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञा]\n\nएतादृशः लुप्तः वर्णः स्थानिवद्भावेन कुत्र कार्यम् कार्यनिषेधं वा कारयितुम् समर्थः अस्ति अस्मिन् विषये जिज्ञासुभिः <<स्थानिवदादेशोऽनल्विधौ>> [[1.1.56]], <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]], <<न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु>> [[1.1.58]] एतानि सूत्राणि द्रष्टव्यानि । \n " }, "11061": { "sa": "प्रत्ययस्य लोपः यदि 'लुक्', 'श्लु', 'लुप्' एतैः विशिष्टशब्दैः क्रियते, तर्हि तादृशस्य लोपस्य क्रमेण 'लुक्', 'श्लु', 'लुप्' इति संज्ञा दीयते । ", "sd": "व्याकरणशास्त्रे निर्दिष्टासु संज्ञासु अन्यतमाः सन्ति 'लुक्', 'श्लुः', 'लुप्' एताः तिस्रः संज्ञाः । प्रत्ययस्य लोपस्य निर्देशार्थम् व्याकरणशास्त्रे एताः तिस्रः संज्ञाः प्रयुज्यन्ते । तदित्थम् —\n1) केषुचित् सूत्रेषु लुक् इति शब्देन कस्यचन प्रत्ययस्य लोपः निर्दिष्टः अस्ति । यथा, <<षड्भ्यो लुक्>> [[7.1.22]] अनेन सूत्रेण षट्-संज्ञकात् शब्दात् विहितस्य जस्-प्रत्ययस्य लोपः उच्यते, सः च 'लुक्' इति शब्देन निर्दिश्यते । एतादृशः 'लुक्'शब्देन कृतः प्रत्ययलोपः स्वयम् अपि 'लुक्' इति नाम्ना एव ज्ञायते । अतः अत्र 'जस्-प्रत्ययस्य लुक्-भवति' इति वाक्यप्रयोगः भवितुम् अर्हति ।\n2) केषुचन अन्येषु सूत्रेषु श्लुः इति शब्देन प्रत्ययस्य लोपः क्रियते । यथा, <<जुहोत्यादिभ्यः श्लुः>> [[2.4.75]] अनेन सूत्रेण जुहोत्यादिगणस्य शब्देभ्यः विहितस्य शप्-प्रत्ययस्य लोपः उच्यते, सः च 'श्लुः' इति संज्ञया निर्दिश्यते । एतादृशः 'श्लुः'शब्देन कृतः प्रत्ययलोपः स्वयम् अपि 'श्लुः' इति नाम्ना एव ज्ञायते ।\n3) केषुचन अपरेषु सूत्रेषु लुप् इति शब्देन प्रत्ययस्य लोपः क्रियते । यथा, <<लुप् च>> [[4.3.166]] इत्यनेन सूत्रेण 'अण्' इति तद्धितप्रत्ययस्य लोपः उच्यते, सः च 'लुप्' इति शब्देन निर्दिश्यते । एतादृशः 'लुप्' इति शब्देन कृतः प्रत्ययलोपः स्वयम् अपि 'लुप्' इति नाम्ना एव ज्ञायते ।\nअनेन प्रकारेण अष्टाध्याय्यां प्रत्ययस्य लोपः त्रिभिः शब्दैः उक्तः दृश्यते, तस्य च यथासङ्ख्यम् (ताः एव) तिस्रः संज्ञाः दत्ताः सन्ति । कुत्रचित् तु केवलम् 'लोपः' इत्येतं शब्दम् उपयुज्य अपि प्रत्ययलोपः कृतः दृश्यते । यथा, <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इत्यनेन सूत्रेण अपृक्त-सुँ-प्रत्ययस्य लोपः केवलं 'लोपः' इति संज्ञया एव उक्तः अस्ति । एतादृशः लोपः तु 'लुक् / श्लुः / लुप्' एताभिः तिसृभिः संज्ञाभिः नैव परिगण्यते ।\n'लु' इति निर्देशः\nलुक्, श्लुः, तथा लुप् - एताभिः संज्ञाभिः कृतः लोपः अष्टाध्याय्यां एकत्ररूपेण 'लु' इति शब्देन निर्दिश्यते । यथा, <<न लुमताङ्गस्य>> [[1.1.63]] इत्यस्मिन् सूत्रे प्रयुक्तः 'लु' इति शब्दः लुक्-श्लु-लुप्-संज्ञानाम् एकत्ररूपेण निर्देशं करोति । यस्य प्रत्ययस्य लोपः 'लुक्', 'श्लुः' उत 'लुप्' एताभ्यः एकया संज्ञया क्रियते, तस्यैव विषये <<न लुमताङ्गस्य>> [[1.1.63]] इति सूत्रम् प्रयोक्तव्यम्, केवलम् 'लोप'संज्ञया कृतस्य प्रत्ययलोपस्य विषये इदं सूत्रं न हि प्रयोक्तव्यम्, इति अत्र आशयः ।\nलुक्/श्लुः/लुप्-इत्यनेन उक्तस्य लोपस्य सर्वादेशत्वम्\nयत्र प्रत्ययस्य लोपः लुक्, श्लुः, लुप् - एताभिः संज्ञाभिः उक्तः अस्ति, तत्र <<अलोऽन्त्यस्य>> [[1.1.52]] उत <<आदेः परस्य>> [[1.1.54]] इत्यतेतयोः परिभाषयोः प्रयोगः नैव करणीयः, अपि तु सम्पूर्णस्यैव प्रत्ययस्य लोपः करणीयः । यथा, <<षड्भ्यो लुक्>> [[7.1.22]] इत्यनेन सूत्रेण 'जस्'प्रत्ययस्य उक्तः लुक् सम्पूर्णप्रत्ययस्य भवति, न हि केवलम् आदिस्थस्य अकारस्य उत अन्ते विद्यमानस्य सकारस्य । परन्तु 'लोपः' इत्यनया संज्ञया प्रत्ययलोपे कृते तु यथायोग्यं <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यनेन अन्तिमवर्णस्य उत <<आदेः परस्य>> [[1.1.54]] इत्यनेन आदिवर्णस्य एव लोपः भवति । यथा, <<क्यस्य विभाषा>> [[6.4.50]] इत्यनेन क्यच्/क्यङ्-प्रत्यययोः उक्तः लोपः <<आदेः परस्य>> [[1.1.54]] इत्यनेन केवलम् आदिस्थस्य यकारस्य विषये एव भवति ।\nतिसृणाम् संज्ञानाम् प्रयोजनम्\n'प्रत्ययस्य लोपः' इति एकस्यैव कार्यस्य निर्देशार्थम् अष्टाध्याय्याम् तिस्रः संज्ञाः आचार्येण विशिष्टेन हेतुना दत्ताः सन्ति । प्रत्येकं संज्ञाम् अधिकृत्य पृथक् पृथक् विशिष्टं कार्यं भवितुम् अर्हति । तदित्थम् —\n[1] श्लु-संज्ञायाः प्रयोजनम् — यत्र 'श्लुः' संज्ञया प्रत्ययस्य लोपः क्रियते, तत्र <<श्लौ>> [[6.1.10]] इत्यनेन प्रकृतेः द्वित्वं भवति । यथा -\n\nदा + लट् ['दा' धातोः <<वर्तमाने लट्>> [[3.2.123]] इति लट्-लकारप्रत्ययः]\n→ दा + तिप् [प्रथमपुरुषैकवचनस्य विवक्षायाम् <<तिप्तस्झि..>> [[3.4.78]] इति तिप्-प्रत्ययः]\n→ दा + शप् + ति [<<कर्तरि शप्>> [[3.1.68]] इति शप् विकरणप्रत्ययः]\n→ दा + ति [<<जुहोत्यादिभ्यः श्लुः>> [[2.4.75]] इत्यनेन शप्-प्रत्ययस्य श्लुः ।]\n→ दा + दा + ति [श्लु-संज्ञया प्रत्ययलोपे कृते <<श्लौ>> [[6.1.10]] इति प्रकृतेः द्वित्वम् भवति ।]\n→ द + दा + ति [<<ह्रस्वः>> [[7.4.59]] इति अभ्यासह्रस्वः]\n→ ददाति\n\n[2] लुप्-संज्ञायाः प्रयोजनम् — यत्र 'लुप्' इति संज्ञया प्रत्ययस्य लोपः क्रियते, तत्र <<लुपि युक्तवद्व्यक्तिवचने>> [[1.2.51]] अनेन सूत्रेण लुप्तप्रत्ययान्तशब्दस्य वचनम् (लिङ्गं च) प्रकृतिम् अनुसरति, न हि विशेष्यम् । यथा -\n\nपञ्चालानाम् निवासः [तद्धितवृत्तिः]\n→ पञ्चाल + अण् ['पञ्चालानाम्' इति षष्ठ्यन्तात् शब्दात् <<तस्य निवासः>> [[4.2.69]] इत्यस्मिन् अर्थे जनपदस्य निर्देशार्थम् अण्-प्रत्ययः । <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति षष्ठीप्रत्ययस्य लोपः ।]\n→ पञ्चाल [ <<जनपदे लुप्>> [[4.2.81]] इत्यनेन अण्-प्रत्ययस्य लुप् ।]\n→ पञ्चाल [लुपि कृते सिद्धः 'पञ्चाल' इति शब्दः यद्यपि 'जनपद' शब्दस्य विशेषणम् अस्ति, तथापि सः वंशवाचिनम् 'पञ्चाल'शब्दम् (इत्युक्ते, मूलप्रकृतिम्) अनुसरति । वंशवाची पञ्चालशब्दः भाषायां नित्यबहुवचनान्तः एव प्रयुज्यते, अतः अत्रापि जनपदवाचकः पञ्चालशब्दः बहुवचने एव प्रयुज्यते ।]\n→ पञ्चालाः जनपदः। [वाक्ये प्रयोगसमये 'जनपद' शब्दस्य एकवचनत्वेऽपि पञ्चालशब्दस्य बहुवचनमेव प्रयुज्यते । ]\n\n[3.1] लुक्-संज्ञायाः विशेषं प्रयोजनम् — तद्धितप्रत्ययस्य यदा 'लुक्' भवति तदा <<लुक्तद्धितलुकि>> [[1.2.49]] इत्यनेन उपसर्जनस्य स्त्रीप्रत्ययस्यापि लुक् भवति । यथा -\n\nआमलक्याः फलम् [तद्धितवृत्तिः]\n→ आमलकी + अण् [<<अवयवे च प्राण्यौषधिवृक्षेभ्यः>>[[4.3.135]] इति वृक्षस्य अवयवस्वरूपम् यत् फलम्, तस्य निर्देशार्थम् अण्-प्रत्ययः]\n→ आमलकी [<<फले लुक्>> [[4.3.163]] इति अण्-प्रत्ययस्य लुक्]\n→ आमलक [<<लुक् तद्धितलुकि>> [[1.2.49]] इत्यनेन उपसर्जनस्य स्त्रीप्रत्ययस्य लुक् । अत्र पूर्वसोपाने अण्-प्रत्ययस्य यदि लुकि कृते अस्मिन् सोपाने स्त्रीप्रत्ययस्य अपि लुक् भवितुम् अर्हति । ]\n\n[3.2] लुक्-संज्ञायाः सामान्यं प्रयोजनम् — सामान्यरूपेण, प्रत्ययस्य लोपे कृते अपि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इति सूत्रेण प्रत्ययविशिष्टम् अङ्गकार्यम् अवश्यं भवितुम् अर्हति । परन्तु एतादृशम् अङ्गकार्यम् यत्र न इष्यते, तत्र 'लुक् / श्लुः / लुप्' एतासु अन्यतमां संज्ञां प्रयुज्य प्रत्ययस्य लोपः करणीयः — इति <<न लुमताङ्गस्य>> [[1.1.63]] इति सूत्रेण उच्यते । अस्यां स्थितौ 'लुप्' उत 'श्लुः' इत्यनेन लोपे कृते अनिष्टं कार्यम् आपतति चेत् तत्र (अन्यपर्यायस्य अभावं दृष्ट्वा) 'लुक्' इति संज्ञया प्रत्ययस्य लोपः क्रियते । यथा, पञ्चन्-शब्दस्य प्रथमाबहुवचनस्य प्रक्रियायाम् जस्-प्रत्ययस्य <<षड्भ्यो लुक्>> [[7.1.22]] इति सूत्रेण लुक् उच्यते । अत्र प्रक्रियायाम् जस्-प्रत्ययविशिष्टस्य अङ्गकार्यस्य निषेधः इष्यते, अतः अत्र जस्-प्रत्ययस्य लोपार्थम् लुक्/श्लुः/लुप्-एतासु अन्यतमा संज्ञा आवश्यकी वर्तते । अस्यां स्थितौ अत्र जस्-प्रत्ययस्य श्लुः क्रियते चेत् तत्र द्वित्वस्य अतिप्रसङ्गः स्यात्; एवमेव जस्-प्रत्ययस्य लुप्-क्रियते चेत् 'पञ्चन्'-शब्दस्य वचनम् लिङ्गं च विशेष्यम् नैव अनुसरेत् । अतः अत्र जस्-प्रत्ययस्य लोपः श्लुः उत लुप् इति संज्ञया नैव सम्भवति । अस्यां स्थितौ 'लुक्' इति अवशिष्टया संज्ञया एव प्रत्ययस्य लोपः क्रियते । सम्पूर्णा प्रक्रिया इयम् —\n\nपञ्चन् + जस् [नकारान्त-नपुंसकलिङ्गात् 'पञ्चन्' शब्दात् प्रथमाबहुवचनस्य विवक्षायाम् जस्-प्रत्ययः]\n→ पञ्चन् + शि [<<जश्शसोः शिः>> [[7.1.20]] इति प्रत्ययस्य शि-आदेशः]\n→ पञ्चन् [<<षड्भ्यो लुक्>> [[7.1.22]] इति षट्-संज्ञकात् 'पञ्चन्' शब्दात् विहितस्य जस्-प्रत्ययस्य (शि-प्रत्ययस्य) लुक् । अत्र श्लुः अथवा लुप् क्रियते चेत् अनिष्टं कार्यं स्यात् । एवमेव, अत्र 'लोपः' इति शब्देन लोपः क्रियते चेत् अग्रिमसोपाने अङ्गकार्यस्य निषेधः नैव सम्भवेत् । अत्र अतः अत्र लुक्-शब्देन प्रत्ययलोपः क्रियते ।\n→ पञ्च [<<सर्वनामस्थाने चासम्बुद्धौ>> [[6.4.8]] इत्यनेन सर्वनामस्थानसंज्ञके प्रत्यये परे अङ्गस्य प्राप्तः अनिष्टः उपधादीर्घः <<न लुमताङ्गस्य>> [[1.1.63]] इति सूत्रेण निषिध्यते । अत्र अत्र उपधादीर्घः न भवति । अग्रे <<प्रत्ययलोपे प्रत्ययलक्षणम्>> इत्यनेन लुप्तप्रत्ययस्य लक्षणम् 'पदत्वम्' आधारीकृत्य <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इत्यनेन नकारलोपः भवति । अयं नकारलोपः अङ्गकार्यम् नास्ति अतः अयम् तु <<न लुमताङ्गस्य>> [[1.1.63]] इत्यनेन न प्रतिषिध्यते ।\n" }, "11062": { "sa": "प्रत्ययस्य लोपे कृते अपि प्रत्ययाश्रितं कार्यम् भवति ।", "sd": "अष्टाध्याय्याम् 'लुक्', 'श्लुः', 'लुप्', तथा 'लोपः' इत्येताभिः चतसृभिः संज्ञाभिः प्रत्ययस्य लोपः विधीयते । एताभ्यः कयाचित् अपि संज्ञया प्रत्ययस्य लोपः क्रियते चेदपि (लुप्त)प्रत्ययनिमित्तकम् कार्यम् प्रक्रियायाम् अवश्यं भवति‌ — इति प्रकृतसूत्रस्य आशयः । कानिचन उदाहरणानि एतानि —\n1. नदी-शब्दस्य प्रथमैकवचनस्य रूपसिद्धौ सुँ-प्रत्ययस्य लोपे कृते अपि प्रकृतसूत्रेण पदसंज्ञा अवश्यं प्रवर्तते । \n\nनदी + सुँ [प्रथमैकवचनस्य प्रत्ययः]\n→ नदी [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति सुँ-प्रत्ययस्य लोपः । सुँ-प्रत्ययस्य लोपे अपि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यनेन प्रत्ययनिमित्तकम् कार्यम् भवति, अतः <<सुप्तिङन्तं पदम्>> [[1.4.14]] इत्यनेन 'नदी' इत्यस्य पदसंज्ञा भवति ।\n\n2. षष् इति षट्-संज्ञकशब्दस्य प्रथमाबहुवचनस्य रूपसिद्धौ जस्-प्रत्ययस्य लुकि कृते अपि प्रकृतसूत्रेण पदसंज्ञा अवश्यं प्रवर्तते —\n\nषष् + जस् [प्रथमाबहुवचनस्य प्रत्ययः । अत्र षष्-शब्दस्य <<ष्णान्ता षट्>> [[1.1.24]] इति षट्-संज्ञा भवति । \n→ षष् [<<षड्भ्यो लुक्>> [[7.1.22]] इति षट्-संज्ञकात् षष्-शब्दात् विहितस्य जस्-प्रत्ययस्य लुक् भवति । प्रत्ययस्य लुकि कृते अपि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यनेन प्रत्ययनिमित्तकम् कार्यम् भवति, अतः <<सुप्तिङन्तं पदम्>> [[1.4.14]] इत्यनेन 'षष्' शब्दस्य पदसंज्ञा भवति ।]\n→ षड् [पदसंज्ञायां सत्याम् <<झलां जशोऽन्ते>> [[8.2.39]] इति पदान्तषकारस्य जश्त्वे डकारः]\n→ षड्, षट् [अवसाने परे <<वाऽवसाने>> [[8.4.56]] इति पाक्षिकं चर्त्वम् ]\n\n3. अदस्-शब्दस्य प्रथमैकवचनस्य रूपसिद्धौ सुँ-प्रत्ययस्य लोपे कृते <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यनेन प्रत्ययविशिष्टम् कार्यम् अवश्यं प्रवर्तते, अतः <<तदोः सः सावनन्त्ययोः>> [[7.2.106]] इति दकारस्य सकारे कृते इष्टरूपं सिद्ध्यति — \n\nअदस् + सुँ\n→ अदऔ [<<अदस औ सुलोपश्च>> [[7.2.107]] इति सकारस्य औकारः, सुलोपश्च]\n→ अदौ [<<वृद्धिरेचि>> [[6.1.88]] इति वृद्धि-एकादेशः]\n→ असौ [यद्यपि सुँ-प्रत्ययस्य लोपः कृतः अस्ति, तथापि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यनेन सुँ-प्रत्ययविशिष्टम् कार्यम् भवत्येव । अतः <<तदोः सः सावनन्त्ययोः>> [[7.2.106]] इति दकारस्य सकारः भवति, तथा च <<सुप्तिङन्तं पदम्>> [[1.4.14]] इत्यनेन 'असौ' इत्यस्य पदसंज्ञा अपि भवति ।]\n\n4. अग्नि इति उपपदस्य उपस्थितौ स्वादिगणस्य चि धातो: <<अग्नौ चेः>> [[3.2.91]] इत्यनेन क्विप्-प्रत्यये कृते, तस्य लोपात् अनन्तरम् प्रत्ययलक्षणेन तुगागमः भवति —\n\nअग्नि + चि + क्विप्\n→ अग्नि + चि + व् [ककारपकारयोः इत्संज्ञा, लोपः । वकारोत्तरः इकारः उच्चारणार्थः, सोऽपि लुप्यते ।]\n→ अग्नि + चि [अपृक्तवकारस्य <<वेरपृक्तस्य>> [[6.1.67]] इति लोपः ]\n→ अग्नि + चित् [यद्यपि प्रत्ययस्य लोपः कृतः अस्ति, तथापि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यनेन प्रत्ययविशिष्टम् कार्यम् भवत्येव । अतः <<ह्रस्वस्य पिति कृति तुक्>> [[6.1.71]] इत्यनेन पित्-कृत्-प्रत्यये परे धातोः तुगागमः भवति ।]\n→ अग्निचित् \n\n5. दुह्-धातोः लङ्लकारस्य प्रथमपुरुषैकवचनस्य रूपसिद्धौ तिप्-प्रत्ययस्य लोपे कृते अपि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यनेन प्रत्ययविशिष्टम् कार्यम् भवति, अतः <<सुप्तिङन्तं पदम्>> [[1.4.14]] इत्यनेन पदसंज्ञा विधीयते, येन अग्रे लघूपधगुणः, तथा च भष्भावादीनि त्रिपादीकार्याणि अपि प्रवर्तन्ते —\n\nदुहँ (प्रपूरणे, अदादिः, <{2.4}>)\n→ दुह् + लङ् [<<अनद्यतने लङ्>> [[3.2.111]]\n→ अट् + दुह् + लङ् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ + दुह् + तिप् [<<तिप्तस्झि..>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]\n→‌ अ + दुह् + त् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ अ + दुह् + शप् + त् [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ अ + दुह् + त् [<<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शपः लुक्]\n→ अ + दुह् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति अपृक्त-ति-प्रत्ययस्य लोपः ।]\n→ अ + दोह् [ प्रत्ययस्य लोपे कृते अपि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यनेन प्रत्ययविशिष्टम् कार्यम् अवश्यं भवति, अतः अत्र <<पुगन्तलघूपधस्य च>> [[7.3.86]] इति लघूपधगुणः प्रवर्तते ]\n→ अ + दोघ् [प्रत्ययस्य लोपे कृते अपि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यनेन प्रत्ययविशिष्टम् कार्यम् अवश्यं भवति, अतः <<सुप्तिङन्तं पदम्>> [[1.4.14]] इत्यनेन अदुह् इत्यस्य पदसंज्ञा विधीयते । पदसंज्ञायां जातायाम् <<दादेर्धातोर्घः>> [[8.2.32]] इति पदान्तहकारस्य घत्वम् भवति ।]\n→ अ + धुघ् [<<एकाचो बशो भष् झषन्तस्य स्ध्वोः>> [[8.2.37]] इति पदान्ते भष्भावे दकारस्य धकारः]\n→ अ + धुग् [<<झलां जशोऽन्ते>> [[8.2.39]] इति पदान्ते जश्त्वम्]\n→ अधुक् , अधुग् [<<वाऽवसाने>> [[8.4.56]] इति अवसाने परे वैकल्पिकं चर्त्वम् ]\n\n<pv>सूत्रे 'प्रत्यय'शब्दस्य द्विवारं निर्देशस्य प्रयोजनम्\nअस्मिन् सूत्रे 'प्रत्ययलोपे' इति शब्दे प्रत्ययशब्दस्य निर्देशे सत्यपि 'प्रत्ययलक्षणम्' इत्यस्मिन् शब्दे पुनः प्रत्ययशब्दस्य ग्रहणम् कृतम् अस्ति । एतादृशम् द्विवारम् 'प्रत्यय'शब्दस्य ग्रहणम् 'कृत्स्नप्रत्ययलोपार्थम् अस्ति' इति काशिकायाम् स्पष्टी क्रियते । इत्युक्ते, यदि प्रत्ययस्य सम्पूर्णरूपेण लोपः न भवति, अपितु प्रत्ययस्य कस्यचन अंशस्यैव लोपः जायते, तर्हि अस्य लुप्त-अंशस्य लक्षणेन जायमानस्य कार्यस्य विषये इदं सूत्रं नैव प्रयोक्तव्यम् । यथा, आङ्-उपसर्गपूर्वकस्य हन् धातोः विधिलिङ्लकारस्य आत्मनेपदस्य उत्तमपुरुषैकवचनस्य प्रक्रियायाम् 'सीयि' इति आगमसहितस्य प्रत्ययस्य सम्पूर्णरूपेण लोपः न भवति, अपितु अस्य प्रत्ययस्य केवलम् आदिस्थस्य सकारस्यैव लोपः भवति । अस्यां स्थितौ लुप्त-सकारस्य झल्-प्रत्याहारस्थत्वम् आश्रित्य, 'सीयि' प्रत्ययं झलादि-ङित्-प्रत्ययं स्वीकृत्य, <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यनेन <<अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिक लोपो झलि क्ङिति>> [[6.4.37]] इत्यनेन जायमानम् झलादि-ङित्-प्रत्ययनिमित्तकम् अनुनासिकादिलोपकार्यं नैव सम्भवति । सम्पूर्णा प्रक्रिया एतादृशी —\n\nहनँ (हिंसागत्योः, परस्मैपदी, अदादिः)\n→ आङ् + हन् + लिङ् [<<विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्>> [[3.3.161]] इति लिङ् । अत्र <<आङो यमहनः>> [[1.3.28]] इत्यनेन आत्मनेपदित्वं विधीयते ।]\n→ आ + हन् + इट् [<<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> [[3.4.78]] इत्यनेन आत्मनेपदस्य उत्तमपुरुषैकवचनस्य विवक्षायां इट्-प्रत्ययः । <<सार्वधातुकमपित्>> [[1.2.4]] इति सूत्रेण अयं प्रत्ययः ङिद्वत् भवति ।]\n→ आ + हन् + शप् + इ [<<कर्तरि शप्>> [[3.1.68]] इति शप्-विकरणप्रत्ययः]\n→ आ + हन् + इ [<<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शपः लुक्]\n→ आ + हन् + सीयुट् + इ [<<लिङस्सीयुट्>> [[3.4.102]] इति इ-प्रत्ययस्य सीयुट्-आगमः । टित्त्वात् <<आद्यन्तौ टकितौ>> [[1.1.46]] इति आद्यवयवः ।]\n→ आ + हन् + सीय् + इ [टकारस्य इत्संज्ञालोपः । यकारोत्तरः उकारः उच्चारणार्थः, सोऽपि लुप्यते । अत्र इट्-प्रत्ययस्य विहितः सीय्-आगमः <ऽयदागमास्तद्गुणीभूतास्तद्ग्रहणेन गृह्यन्तेऽ> इति परिभाषया प्रत्ययग्रहणेन अवश्यं गृह्यते । अतः अत्र 'सीयि' इति झलादि-ङित्-प्रत्ययः अस्ति इति मन्यते ।]\n→ आ + हन् + ईय् + इ [लिङ्लकारस्य प्रत्ययस्य अवयवः यः सकारः, तस्य <<लिङः सलोपोऽनन्त्यस्य>> [[7.2.79]] इति सूत्रेण लोपः भवति । अत्र सम्पूर्णस्य प्रत्ययस्य लोपः न क्रियते, अपितु तस्य केवलम् एकस्य अंशस्यैव लोपः कृतः अस्ति । अस्य लुप्त-अंशस्य लक्षणम् उपयुज्य अत्र प्रत्ययलक्षणनिमित्तकम् कार्यम् न भवति । अतः अत्र <<अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिक लोपो झलि क्ङिति>> [[6.4.37]] इत्यनेन जायमानम् झलादि-ङित्-प्रत्ययनिमित्तकम् अनुनासिकादिलोपकार्यं नैव सम्भवति ।]\n→ आ + ह् न् + ईय् + इ [<<गमहनजनखनघसां लोपः क्ङित्यनङि >> [[6.4.98]] इत्यनेन अङ्गस्य उपधावर्णस्य अजादि-ङित्-प्रत्यये परे लोपः]\n→ आ + घ् न् + ईय् + इ [<<हो हन्तेर्ञ्णिन्नेषु>> [[7.3.54]] इति हकारस्य कुत्वे घकारः]\n→ आ + घ् न् + ईय् + अ [<<इटोऽत्>> [[3.4.106]] इति प्रत्ययस्य अकारादेशः]\n→ आघ्नीय\n\n<pv>परिभाषा - वर्णाश्रये नास्ति प्रत्ययलक्षणम्\n<<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यस्मिन् सूत्रे विद्यमानस्य 'प्रत्ययलक्षणम्' इति शब्दस्य अर्थं दातुम् परिभाषेन्दुशेखरे <ऽ वर्णाश्रये नास्ति प्रत्ययलक्षणम्ऽ> इति परिभाषा सङ्कलिता अस्ति । अत्र प्रयुक्तेन प्रत्ययलक्षणम् इति शब्देन केवलं सम्पूर्णप्रत्ययनिमित्तकम् कार्यम् एव गृह्यते, न हि प्रत्ययस्य विशिष्टवर्णनिमित्तकम् कार्यम् — इति अनया परिभाषया स्पष्टी क्रियते । इत्युक्ते, यदा प्रत्ययस्य लोपः भवति, तदा तत्र विद्यमानानाम् वर्णानाम् आधारेण किमपि 'वर्णकार्यम्' न करणीयम्, अपितु सम्पूर्णस्य प्रत्ययस्य विषये निर्दिष्टम् कार्यमेव करणीयम् — इति अस्याः परिभाषायाः आशयः । यथा, 'गवे हितम्' इत्यत्र <<चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः>> [[2.1.36]] इति सूत्रेण चतुर्थीतत्पुरुषसमासः सम्भवति । अत्र समासप्रक्रियायाम् 'गो' शब्दात् विहितस्य चतुर्थ्येकवचनस्य ए-प्रत्ययस्य <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति लुक् भवति । एतादृशे प्रत्ययलोपे कृते, ए-इति लुप्तप्रत्ययम् आश्रित्य गो-शब्दस्य ओकारस्य <<एचोऽयवायावः>> [[6.1.78]] इत्यनेन अवादेशः नैव करणीयः, यतः अयम् अवादेशः प्रत्ययनिमित्तकम् कार्यम् नास्ति, अपितु वर्णनिमित्तकम् कार्यम् अस्ति (एतत् कार्यम् प्रत्ययभिन्न-एकारे परे अपि भवितुम् अर्हति इत्याशयः) । सम्पूर्णा प्रक्रिया इयम् —\n\nगवे हितम् [<<चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः>> [[2.1.36]] इति सूत्रेण चतुर्थीतत्पुरुषसमासः । ]\n= गो ङे हित सुँ [समासस्य अलौकिकविग्रहः]\n→ गो हित [समस्तपदस्य <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । प्रातिपदिकसंज्ञायां सत्याम् <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति ङे-प्रत्ययस्य सुँ-प्रत्ययस्य च लुक् भवति । अत्र ङे (ए) इति प्रत्ययस्य लोपे कृते अपि, <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यनेन लुप्त-एकार-निमित्तकः <<एचोऽयवायावः>> [[6.1.78]] इत्यनेन प्राप्तः अवादेशः नैव करणीयः, यतः अयम् अयादेशः प्रत्ययनिमित्तकम् कार्यम् नास्ति, अपितु विशिष्टवर्णनिमित्तककार्यरूपेणैव अत्र प्रवर्तते । अयमेव <ऽ वर्णाश्रये नास्ति प्रत्ययलक्षणम्ऽ> इति परिभाषायाः आशयः ।]\n→ गोहित\n\n<pv>सर्वविधिभ्यो लोपविधिर्बलवान्\nप्राचीनवैयाकरणैः <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इति सूत्रम् ज्ञापकरूपेण स्वीकृत्य <ऽसर्वविधिभ्यः लोपविधिः बलवान्ऽ> इति परिभाषा स्वीक्रियते । तेषाम् आशयः अयम् — यदि सर्वत्र अन्यान् विधीन् कृत्वा तदन्तरमेव लोपकार्यम् क्रियते, तर्हि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्येतं सूत्रमेव व्यर्थं स्यात् । अतः एतत् सूत्रमेव अस्य ज्ञापकम्, यत् लोपकार्यम् अन्यविधीनाम् अपेक्षया प्राधान्येन करणीयम् - इति । अस्मिन् विषये व्याडिपरिभाषाग्रन्थे उच्यते — \n\nइह शास्त्रे सर्वविधिभ्यो लोपविधिर्बलवान् भवति । कथं ज्ञायते ? यदयं <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्याह । कथं कृत्वा ज्ञापकम् ? एतत्सूत्रं नारब्धव्यम् । कथम् ? प्रत्ययाश्रयाणि कार्याणि भविष्यन्ति । सर्वाणि कृत्वा पश्चात् प्रत्ययलोपं करिष्यामि । पश्यति आचार्यः । लोप एव तावद्भति । तस्मिन् लोपे कृते तदाश्रयाणि न प्राप्नुवन्ति । तस्मात् <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इति । \n- व्याडिकृतात् परिभाषासूचनग्रन्थात् परिभाषा-57 इत्यतः उद्धृतम् ।\n\nनागेशः तु परिभाषेन्दुशेखरे इमां परिभाषां परिभाषा-100 इत्यत्र <ऽसर्वविधिभ्यो लोपविधिरिड्विधिश्च बलवान्ऽ> इति पाठयित्वा तत्र एतद् अपि निर्दिशति यत् इयं परिभाषा भाष्ये अनुक्ता अस्ति । \n<pv>अहन्-शब्दात् विहितस्य सुप्-प्रत्ययस्य लुकि कृते रेफादेशे कर्तव्ये प्रत्ययलक्षणं न भवति \nनकारान्तनपुंसकलिङ्गस्य अहन्-शब्दस्य विषये यत्र सुप्-प्रत्ययस्य लुक् भवति, तत्र अहन्-शब्दस्य नकारस्य <<रोऽसुपि>> [[8.2.69]] इति सूत्रेण रेफादेशः इष्यते । परन्तु तत्र प्रक्रियायाम् लुप्तः सुप्-प्रत्ययः <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यनेन यदि उपतिष्ठेत, तर्हि असुपि इति तत्र नैव सङ्गच्छेत, येन <<रोऽसुपि>> [[8.2.69]] इति सूत्रेण उक्तः रेफादेशः अपि नैव सम्भवेत् । एतादृशम् मा भूत्, अतः भाष्यकारेण अस्यां प्रक्रियायाम् विशेषरूपेण प्रत्ययलक्षणस्य निषेधः कृतः अस्ति । तत्र भाष्यकारः ब्रूते — अह्नो रविधौ लुमता लुप्ते प्रत्ययलक्षणं न भवति । अहन्-शब्दात् विहितस्य सुप्-प्रत्ययस्य लुक् भवति चेत् रेफादेशे कर्तव्ये प्रत्ययलक्षणम् न प्रवर्तते; इत्युक्ते लुप्तः सुप्-प्रत्ययः प्रत्ययलक्षणेन (रेफादेशं प्रतिषेद्धुम्) तत्र नैव उपतिष्ठति — इति अस्य अर्थः । अतएव <<रोऽसुपि>> [[8.2.69]] इति सूत्रस्य असुपि इति निषेधः तत्र सङ्गच्छते, येन अहन्-शब्दस्य इष्टः नकारादेशः अपि भवितुम् अर्हति । अस्मिन् सन्दर्भे अधिकं पिपिषवः <<रोऽसुपि>> [[8.2.69]] इति सूत्रस्य व्याख्यां पश्येयुः । " }, "11063": { "sa": "लुक्/श्लुः/लुप् - एतैः शब्दैः यस्य प्रत्ययस्य लोपः भवति तस्य निमित्तकम् अङ्गकार्यम् न भवति । ", "sd": "अष्टाध्याय्याम् 'लुक्', 'श्लुः', 'लुप्', तथा 'लोपः' इत्येताभिः चतसृभिः संज्ञाभिः प्रत्ययस्य लोपः विधीयते । एताभ्यः कयाचित् अपि संज्ञया प्रत्ययस्य लोपः क्रियते चेदपि (लुप्त)प्रत्ययनिमित्तकम् कार्यम् प्रक्रियायाम् अवश्यं भवति‌ इति सिद्धान्तः <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इति पूर्वसूत्रेण निर्दिष्टः अस्ति ।अस्य सिद्धान्तस्य अपवादरूपेण <<न लुमताङ्गस्य>> [[1.1.63]] इति प्रकृतसूत्रं प्रवर्तते । यदि प्रत्ययस्य लोपः 'लुक्', 'श्लुः', 'लुप्' एताभ्यः काञ्चित् संज्ञाम् उपयुज्य कृतः अस्ति, तर्हि लुप्तप्रत्ययनिमित्तकम् जायमानम् अङ्गविशिष्टं कार्यम् नैव करणीयम् — इति अस्य सूत्रस्य आशयः । क्रमेण उदाहरणानि एतानि — \n(1) प्रत्ययस्य लुकि कृते अङ्गकार्यस्य निषेधः —\n'इदम्' शब्दस्य नपुंसकलिङ्गस्य प्रथमैकवचनस्य प्रक्रियायाम् <<स्वमोर्नपुँसकात्>> [[7.1.23]] इति सूत्रेण सुँ-प्रत्ययस्य लुकि कृते, तन्निमित्तकम् <<यः सौ>> [[7.2.110]] इति अङ्गकार्यम् नैव प्रवर्तते, अतः इदम्-शब्दस्य दकारस्य यकारादेशः अपि न भवति । सम्पूर्णा प्रक्रिया इयम् —\n\nइदम् + सुँ [नपुंसकलिङ्गे प्रथमैकवचनस्य प्रत्ययः ]\n→ इदम् [<<स्वमोर्नपुंसकात्>> [[7.1.23]] इत्यनेन सुँ-प्रत्ययस्य लुक् भवति । प्रत्ययस्य लोपे जाते <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यनेन लुप्तप्रत्ययनिमित्तके कार्ये प्राप्ते, अत्र 'लुक्'-शब्देन प्रत्ययस्य लोपः कृतः अस्ति इति कारणात् <<न लुमताङ्गस्य>> [[1.1.63]] इत्यनेन सुँ-प्रत्ययनिमित्तकम् अङ्गकार्यम् अपि निषिध्यते । अतएव <<यः सौ>> [[7.2.110]] इत्यनेन सुँ-प्रत्यये परे अङ्गस्य अन्तिमवर्णस्य यकारादेशः न भवति ।]\n\n(2) प्रत्ययस्य श्लौ कृते अङ्गकार्यनिषेधः —\nजुहोत्यादिगणस्य 'हु' धातोः विहितस्य शप्-प्रत्ययस्य <<जुहोत्यादिभ्यः श्लुः>> [[2.4.75]] इति सूत्रेण श्लुसंज्ञया लोपः क्रियते । एतादृशे लोपे कृते <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यनेन इत्यनेन शप्-प्रत्ययनिमित्तकम् <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणकार्यम् <<न लुमताङ्गस्य>> [[1.1.63]] इत्यनेन निषिध्यते । सम्पूर्णा प्रक्रिया इयम् —\n\nहु (दानादनयोः, जुहोत्यादिः)\n→ हु + लट् [<<वर्तमाने लट्>> [[3.2.123]]]\n→ हु + तस् [प्रथमाद्विवचनस्य विवक्षायाम् <<तिप्तस्झि..>> [[3.4.78]] इत्यनेन तस्-प्रत्ययः]\n→ हु + शप् + तस् [<<सार्वधातुके शप्>> [[3.1.67]]\n→ हु + तस् [<<जुहोत्यादिभ्यः श्लुः>> [[2.4.75]] इति शप्-प्रत्ययस्य श्लुः । अत्र लोपात् अनन्तरम् <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इत्यनेन प्राप्तम् शप्-प्रत्ययनिमित्तकम् गुणकार्यम् नैव सम्भवति यतः अत्र 'श्लु' इति शब्देन लोपे कृते <<न लुमताङ्गस्य>> [[1.1.63]] इति सूत्रम् अङ्गकार्यनिषेधार्थम् प्रवर्तते ।]\n→ हु + हु + तस् [<<श्लौ>> [[6.1.10]] इति द्वित्वम्]\n→ झु + हु + तस् [<<कुहोश्चुः>> [[7.4.62]] इति हकारस्य चुत्वे, हकारसदृशः संवार-नाद-घोष-महाप्राणः झकारः आदेशरूपेण विधीयते ।]\n→ झुहुतः [<<ससजुषो रुः>> [[8.2.66]], <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]]\n→ जुहुतः [<<अभ्यासे चर्च>> [[8.4.54]] इति जश्त्वम्]\n\n(3) प्रत्ययस्य लुपि कृते अङ्गकार्यनिषेधः —\n'पञ्चालानाम् निवासः' इत्यस्मिन् अर्थे पञ्चाल-शब्दात् अण्-प्रत्यये कृते <<जनपदे लुप्>> [[4.2.81]] इत्यनेन तस्य लुप्-भवति । प्रत्ययस्य लुपि कृते, णित्-प्रत्ययनिमित्तकम् आदिवृद्धिकार्यम् अपि <<न लुमताङ्गस्य>> [[1.1.63]] इत्यनेन निषिध्यते । प्रक्रिया इयम् —\n\nपञ्चालानाम् निवासः [तद्धितवृत्तिः]\n→ पञ्चाल + अण् ['पञ्चालानाम्' इति षष्ठ्यन्तात् शब्दात् <<तस्य निवासः>> [[4.2.69]] इत्यस्मिन् अर्थे जनपदस्य निर्देशार्थम् अण्-प्रत्ययः । <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति षष्ठीप्रत्ययस्य लोपः ।]\n→ पञ्चाल [ <<जनपदे लुप्>> [[4.2.81]] इत्यनेन अण्-प्रत्ययस्य लुप् । अत्र प्रत्ययस्य लोपे जातेऽपि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यनेन णित्-प्रत्ययविशिष्टा आदिवृद्धिः <<तद्धितेष्वचामादेः>> [[7.2.117]] इत्यनेन प्राप्तायाम्, 'लुप्'संज्ञया कृतेन लोपविधानेने इदम वृद्धिसंज्ञकम् अङ्गकार्यम् <<न लुमताङ्गस्य>> [[1.1.63]] इति सूत्रेण निषिध्यते । अतः अत्र आदिवृद्धिः न भवति ।]\n→ पञ्चाल \n(अस्य पञ्चालशब्दस्य वाक्ये प्रयोगसमये <<लुपि युक्तवद्व्यक्तिवचने>> [[1.2.51]] इति सूत्रम् अनुसृत्य नित्यम् बहुवचनान्तः एव प्रयोगः करणीयः । यथा, पञ्चालाः जनपदः)\n\nसूत्रे 'लुमता' इति ग्रहणस्य प्रयोजनम्\nअस्मिन् सूत्रे 'लुमता' इति शब्दः प्रयुक्तः अस्ति । 'लुमत्' इति प्रातिपदिकस्य इदं तृतीयैकवचनम् । 'लुमत्' इति शब्दः स्वयम् 'लु अस्मिन् अस्ति' इति अर्थे 'लु'शब्दात् <<तदस्यास्त्यस्मिन्निति मतुप्>> [[5.2.94]] इति सूत्रेण मतुप्-प्रत्ययं कृत्वा सिद्ध्यति । अत्र 'लु' इति शब्दः लुक्/श्लु/लुप्-एतेषाम् त्रयाणाम् अपि विधीनाम् सामान्यरूपेण ग्रहणं करोति । एतेभ्यः त्रिभ्यः विधिभ्यः केनचित् एकेन विधिना यत्र लोपः सिद्ध्यति, तत्र प्रत्ययलक्षणम् अङ्गकार्यम् न करणीयम्, इति अत्र आशयः । परन्तु, यदि प्रत्ययस्य लोपः एतैः त्रिभिः प्रकारैः नैव भवति, अपितु केवलं 'लोप'शब्देनैव प्रत्ययस्य लोपः क्रियते, तर्हि तत्र प्रकृतसूत्रस्य प्रसक्तिः नास्ति , इत्युक्ते तत्र प्रत्ययलक्षणम् अङ्गकार्यम् अवश्यमेव करणीयम् । यथा, शशिन्-शब्दस्य प्रथमैकवचनस्य प्रक्रियायाम् सुँ-प्रत्ययस्य <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति सूत्रेण लोपः भवति । अयम् लोपः केवलम् 'लोप'संज्ञया क्रियते, न हि लुक्/श्लु/लुप्-इति विशिष्टसंज्ञया । अतः अत्र प्रत्ययलोपे कृते अपि <<सौ च>> [[6.4.13]] इति अङ्गकार्यम् अवश्यम् प्रवर्तते । सम्पूर्णा प्रक्रिया इयम् —\n\nशशिन् + सुँ\n→ शशिन् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति सुँ-प्रत्ययस्य लोपः ]\n→ शशीन् [<<सौ च>> [[6.4.13]] इति सर्वनामस्थानसंज्ञके सुँ-प्रत्यये परे अङ्गस्य उपधादीर्घः ।<<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यनेन प्राप्तम् इदम् अङ्गस्य कार्यम् <<न लुमताङ्गस्य>> [[1.1.63]] इत्यनेन नैव निषिध्यते, यतः अत्र प्रत्ययस्य लोपः लुक्/श्लु/लुप्-इति शब्देन न क्रियते । ]\n→ शशी [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः]\n
    \nविशेषः - अत्र अस्यां प्रक्रियायाम् <ऽसर्वविधिभ्यो लोपविधिर्बलवान्ऽ> (व्याडिपरिभाषा-57, नागेशपरिभाषा-100) इति परिभाषाम् अनुसृत्य आदौ लोपकार्यं कृत्वा ततः अङ्गकार्यम् कृतम् अस्ति ।\n
    \nअस्मिन्नेव सन्दर्भे काशिकायाम् 'कार्यते' इति अन्यद् उदाहरणम् दीयते । कृ-धातोः णिच्-प्रत्यये कृते ततः कर्मणि-लट्-प्रथमपुरुषैकवचनस्य रूपसिद्ध्यर्थम् यक्-प्रत्ययः स्थाप्यते चेत्, यक्-प्रत्ययस्य उपस्थितौ णिच्-प्रत्ययस्य <<णेरनिटि>> [[6.4.51]] इति लोपः सम्भवति । अस्मिन् लोपे कृते अपि, <<अचो ञ्णिति>> [[7.2.115]] इत्यनेन णिच्-प्रत्ययविशिष्टा वृद्धिः भवत्येव । सम्पूर्णा प्रक्रिया इयम् —\n\nडुकृञ् (करणे, तनादिः)\n→ कृ + णिच् [<<हेतुमति च>> [[3.1.26]] इति प्रेरणार्थे णिच्-प्रत्ययः । <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञा ।]\n→ कृ + इ [णकारचकारयोः इत्संज्ञा, लोपः । अत्र यद्यपि <<अचो ञ्णिति>> [[7.2.115]] इत्यनेन णिच्-प्रत्ययनिमित्तकम् अन्तरङ्गं वृद्धिकार्यम् अत्र प्राप्यते, तथापि अग्रे यः बहिरङ्गः यक्-प्रत्ययः विधास्यते, तेन <<णेरनिटि>> [[6.4.51]] इति णिच्-प्रत्ययस्य लोपः वक्ष्यते । एतादृशं विनाशोन्मुखं निमित्तं दृष्ट्वा अत्र <ऽअकृतव्यूहाः पाणिनीयाःऽ> इति परिभाषया आदौ एव वृद्धिकार्यम् न क्रियते । ]\n→ कृ + इ + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ कृ + इ + त [<<भावकर्मणोः>> [[1.3.13]] इति आत्मनेपदम् । प्रथमपुरुषैकवचनस्य विवक्षायाम् <<तिप्तस्झि...>> [[3.4.78]] इति त-प्रत्ययः ।]\n→ कृ + इ + यक् + त [<<सार्वधातुके यक्>> [[3.1.67]] इति यक्-विकरणप्रत्ययः]\n→ कृ + य + त [अनिट्-आर्धधातुके प्रत्यये परे <<णेरनिटि>> [[6.4.51]] इति णि-प्रत्ययस्य लोपः]\n→ कार् + य + त [प्रत्ययस्य लोपे कृते अपि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यनेन प्रत्ययलक्षणा वृद्धिः भवत्येव । अत्र णि-प्रत्ययस्य लोपः लुक्/श्लु/लुप्-इत्येतेषु केनचित् शब्देन नैव उच्यते, अपितु केवलम् लोपशब्देन दीयते, अतः अत्र <<न लुमताङ्गस्य>> [[1.1.63]] इत्यस्य प्रसक्तिरेव नास्ति ।]\n→ कार् + य + ते [<<टित आत्मनेपदानां टेरे>> [[3.4.79]] इति एकारः]\n→ कार्यते \n\nअङ्गविशिष्टकार्यस्यैव निषेधः, न अन्यकार्यस्य\n<<न लुमताङ्गस्य>> [[1.1.63]] इति सूत्रे 'अङ्गस्य' इति शब्दग्रहणेन एतत् स्पष्टी भवति यत् अनेन सूत्रेण उक्तः निषेधः केवलम् अङ्गकार्यस्य विषये एव प्रवर्तते, अन्यकार्याणाम् विषये न । इत्युक्ते, लुक्/श्लु/लुप्-शब्देन प्रत्ययस्य लोपे कृते अङ्गकार्यं विहाय अन्यानि प्रत्ययनिमित्तककार्याणि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यनेन अवश्यं सम्भवन्ति । यथा, पञ्चन्-शब्दस्य प्रथमाबहुवचनस्य प्रक्रियायाम्, सुँ-प्रत्ययस्य लोपे कृतेऽपि <<सुप्तिङन्तं पदम्>> [[1.4.14]] इति सूत्रेण तल्लक्षणा पदसंज्ञा अवश्यं सम्भवति, अतएव <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इत्यनेन प्रक्रियायां नकारस्य लोपः अपि सम्भवति । सम्पूर्णा प्रक्रिया इयम् —\n\nपञ्चन् + जस् [प्रथमाबहुवचनम्]\n→ पञ्चन् [<<षड्भ्यो लुक्>> [[7.1.22]] इति सूत्रेण षट्-संज्ञकात् विहितात् पञ्चन्-शब्दात् परस्य सुँ-प्रत्ययस्य लुक्-भवति । प्रत्ययस्य लुकि कृते तन्निमित्तकम् अङ्गकार्यम् (यथा नपुंसकलिङ्गे <<सर्वनामस्थाने चासम्बुद्धौ>> [[6.4.8]] इति उपधादीर्घः इति) <<न लुमताङ्गस्य>> [[1.1.63]] इत्यनेन अवश्यं निषिध्यते । परन्तु अन्येषाम् कार्याणाम् अनेन सूत्रेण निषेधः नैव सम्भवति । अतएव जस्-प्रत्ययस्य लुकि कृतेऽपि जस्-प्रत्ययान्तशब्दस्य <<सुप्तिङन्तं पदम्>> [[1.4.14]] इत्यनेन पदसंज्ञा अवश्यं भवति, अतश्च <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इत्यनेन नकारलोपः अपि सम्भवति ।]\n→ पञ्च \n\n<pv>कुत्रचित् स्वरकार्यस्य अपि निषेधः\n<<न लुमताङ्गस्य>> [[1.1.63]] इत्यमिन् सूत्रे विद्यमानस्य 'अङ्गस्य' इति शब्दस्य अर्थः 'अङ्गस्य कार्यम्' इति ग्रहीतव्यः, न हि '<<अङ्गस्य>> [[6.4.1]] इत्यधिकारस्थं कार्यम्' इति । अस्मिन् सन्दर्भे भाष्यकारः ब्रूते — न लुमता लुप्ते अङ्गाधिकारः प्रतिनिर्दिश्यते । किं तर्हि ? यः असौ लुमता लुप्यते, तस्मिन् यद् अङ्गम्, तस्य यत् कार्यम्, तत् न भवति — इति । अस्य वाक्यस्य आशयः अयम् — यदा लुक्/श्लु/लुप्-संज्ञया प्रत्ययस्य लोपः क्रियते; तदा सः प्रत्ययः यस्मात् अङ्गात् विहितः, तस्य अङ्गस्य यत्किमपि कार्यम् लुप्तप्रत्ययनिमित्तकम् अस्ति, तत् अष्टाध्याय्याम् कुत्रापि पाठितम् अस्ति चेदपि निषिध्यते— इति । 'अङ्गस्य' इति शब्दस्य एतादृशस्य अर्थनिर्णस्य प्रयोजनम् अस्ति — अङ्गाधिकारात् बहिः पाठितानाम् केषाञ्चन स्वरकार्याणाम् अपि निषेधविधानम् — इति । इत्युक्ते, लुक्/श्लु/लुप्-शब्देन प्रत्ययस्य लोपे कृते, यथा अङ्गाधिकारस्थम् कार्यम् <<न लुमताङ्गस्य>> [[1.1.63]] इत्यनेन निषिध्यते, तथैव, षष्ठाध्यायस्य प्रथमपादे पाठितानां केषाञ्चन स्वरकार्याणामपि निषेधः भवेत् — इति अत्र आशयः अस्ति । यथा, 'गर्गस्य गोत्रापत्यानि' इत्यस्मिन् अर्थे गर्गशब्दात् <<गर्गादिभ्यो यञ्>> [[4.1.105]] इति सूत्रेण यञ्-प्रत्ययः, ततश्च बहुवचनस्य जस्-प्रत्ययः, इति द्वौ प्रत्ययौ भवतः । अत्र जस्-प्रत्यये परे यञ्-प्रत्ययस्य <<यञिञोश्च>> [[4.1.101]] इति लुक् भवति । अयं लुक् यदा क्रियते तदा यञ्-प्रत्ययस्य अङ्गम् 'गर्ग' इति अस्ति । अस्यां स्थितौ, अग्रे अस्य अङ्गस्य (तेन निर्मितस्य शब्दस्य) आदिस्वरस्य लुप्त-ञित्-प्रत्यये परे <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इति नियमम् अनुसृत्य <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] इत्यनेन अनिष्टम् उदात्तत्वं प्राप्यते । अस्य अनिष्ट-उदात्तत्वस्य निषेधं कारयितुम् भाष्यकारेण <<न लुमताङ्गस्य>> [[1.1.63]] इत्येव सूत्रम् उपयुक्तम् अस्ति । अत्र <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] इत्यनेन प्राप्तं स्वरकार्यम् यद्यपि अङ्गाधिकारात् बहिः विद्यते, तर्ह्यपि अङ्गस्यैव कार्यरूपेण ग्रहीतव्यम्, इति निर्णयं कृत्वा <<न लुमताङ्गस्य>> [[1.1.63]] इत्यनेनैव इदम् उदात्तत्वं भाष्यकारैः प्रतिषिध्यते । अस्मिन् विषये इतोऽपि विस्तरेण ज्ञातुम् अस्यैव सूत्रस्य न्यासव्याख्यानम्, भाष्यम् वा द्रष्टव्यम् । \n<pv>अहन्-शब्दात् विहितस्य सुप्-प्रत्ययस्य लुकि कृते रेफादेशे कर्तव्ये प्रत्ययलक्षणं न भवति \nनकारान्तनपुंसकलिङ्गस्य अहन्-शब्दस्य विषये यत्र सुप्-प्रत्ययस्य लुक् भवति, तत्र अहन्-शब्दस्य नकारस्य <<रोऽसुपि>> [[8.2.69]] इति सूत्रेण रेफादेशः इष्यते । परन्तु तत्र प्रक्रियायाम् लुप्तः सुप्-प्रत्ययः <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यनेन यदि उपतिष्ठेत, तर्हि असुपि इति तत्र नैव सङ्गच्छेत, येन <<रोऽसुपि>> [[8.2.69]] इति सूत्रेण उक्तः रेफादेशः अपि नैव सम्भवेत् । एतादृशम् मा भूत्, अतः भाष्यकारेण अस्यां प्रक्रियायाम् विशेषरूपेण प्रत्ययलक्षणस्य निषेधः कृतः अस्ति । तत्र भाष्यकारः ब्रूते — अह्नो रविधौ लुमता लुप्ते प्रत्ययलक्षणं न भवति । अहन्-शब्दात् विहितस्य सुप्-प्रत्ययस्य लुक् भवति चेत् रेफादेशे कर्तव्ये प्रत्ययलक्षणम् न प्रवर्तते; इत्युक्ते लुप्तः सुप्-प्रत्ययः प्रत्ययलक्षणेन (रेफादेशं प्रतिषेद्धुम्) तत्र नैव उपतिष्ठति — इति अस्य अर्थः । अतएव <<रोऽसुपि>> [[8.2.69]] इति सूत्रस्य असुपि इति निषेधः तत्र सङ्गच्छते, येन अहन्-शब्दस्य इष्टः नकारादेशः अपि भवितुम् अर्हति । अस्मिन् सन्दर्भे अधिकं पिपिषवः <<रोऽसुपि>> [[8.2.69]] इति सूत्रस्य व्याख्यां पश्येयुः । \n" }, "11064": { "sa": "शब्दस्य अन्तिम-अच्-वर्णात् आरभ्य शब्दस्य अन्तिमवर्णं यावत् विद्यमानस्य अंशस्य 'टि' इति संज्ञा भवति । ", "sd": "व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'टि' इति संज्ञा । शब्दे विद्यमानेषु स्वरेषु यः अन्तिमः स्वरः, सः (तस्मिन्नेव शब्दे) यस्य आदिः, तस्य शब्दरूपस्य 'टि' इति संज्ञा प्रकृतसूत्रेण दीयते । शब्दे विद्यमानात् अन्तिमस्वरात् आरभ्य शब्दस्य अन्तपर्यन्तम् विद्यमानः अंशः 'टि' इति संज्ञया गृह्यते - इति आशयः । यथा — \n\n1. 'राम' इत्यस्य शब्दस्य वर्णविभागः - 'र्, आ, म्, अ' इति । अस्मिन् वर्णविभागे यः अन्तिमः स्वरः, तस्मात् आरभ्य अन्तपर्यन्तम् यत् शब्दस्वरूपम्, तस्य टिसंज्ञा भवति । अत्र 'अ' इति अन्तिमः स्वरः, सः स्वयमेव शब्दस्य अन्ते विद्यते, अतः तस्यैव 'टि' इति संज्ञा भवति ।\n2. 'रामम्' इत्यस्य शब्दस्य वर्णविभागः - 'र्, आ, म्, अ, म्' इति । अत्र 'अ' इति अन्तिमः स्वरः । तस्मात् आरभ्य अन्तपर्यन्तम् विद्यमानम् शब्दस्वरूपम् 'अम्' इति । अतः अत्र 'अम्' इत्यस्य टिसंज्ञा भवति । \n\n टिसंज्ञायाः प्रयोजनम् \nटिसंज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्यां भिन्नाः विधयः उक्ताः सन्ति । यथा, डित्-प्रत्यये परे अङ्गस्य यः टिसंज्ञकः अंशः, तस्य <<टेः>> [[6.4.143]] इत्यनेन लोपः क्रियते । पङ्कज शब्दस्य सिद्धौ अस्य प्रयोगः कृतः दृश्यते —\n\nपङ्के अजायत [कृद्वृत्तिः]\n→ जनीँ (प्रादुर्भावे, <{4.44}>)\n→ पङ्के + जन् + ड [सुबन्त-उपपदस्य उपस्थितौ जन्-धातोः भूते ड-प्रत्ययः]\n→‌ पङ्के + जन् + अ [डकारस्य <<चुटू>> [[1.3.7]] इति इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ पङ्क + जन् + अ [<<उपपदमतिङ्>> [[2.2.19]] इति उपपदसमासः । <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति ङि-प्रत्ययस्य लुक् ।]\n--> पङ्क + ज् + अ [डित्-प्रत्यये परे अङ्गस्य टिसंज्ञकस्य<<टेः>> [[6.4.143]] इत्यनेन लोपः भवति । अत्र 'जन्' इत्यस्य अङ्गस्य टिसंज्ञकम् 'अन्' इति अंशः, अतः अयम् सम्पूर्णः अंशः अत्र लुप्यते ।\n--> पङ्कज\n\nसूत्रेषु टिसंज्ञायाः प्रयोगः\nअष्टाध्याय्यां टि-संज्ञायाः साक्षात् प्रयोगः अष्टसु सूत्रेषु कृतः अस्ति —\n\n1. <<टित आत्मनेपदानां टेरे>> [[3.4.79]]\n2. <<अव्ययसर्वनाम्नामकच् प्राक् टेः>> [[5.3.71]]\n3. <<विष्वग्देवयोश्च टेरद्र्यञ्चतावप्रत्यये>> [[6.3.92]]\n4. <<टेः>> [[6.4.143]]\n5. <<टेः>> [[6.4.155]]\n6. <<भस्य टेर्लोपः>> [[7.1.88]]\n7. <<वाक्यस्य टेः प्लुत उदात्तः>> [[8.2.82]]\n8. <<प्रणवष्टेःप्रणवः टेः>> [[8.2.89]]\n\nअनुवृत्तिरूपेण तु अन्येषु सूत्रेषु अपि अस्याः संज्ञायाः प्रयोगः भवितुम् अर्हति ।\n" }, "11065": { "sa": "शब्दे अन्तिमवर्णात् पूर्वम् विद्यमानस्य वर्णस्य 'उपधा' इति संज्ञा भवति । ", "sd": "व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'उपधा' इति संज्ञा । प्रत्येकम् शब्दस्य यः अन्तिमः वर्णः, तस्मात् पूर्वम् विद्यमानस्य वर्णस्य (इत्युक्ते, उपान्त्यवर्णस्य - the second-last letter) 'उपधा' इति संज्ञा भवति - इति अस्य सूत्रस्य आशयः । यथा — \n\n1. 'राम' इत्यस्य शब्दस्य वर्णविभागः - 'र्, आ, म्, अ' इति । अस्मिन् वर्णविभागे अन्तिमः वर्णः अकारः, तस्मात् पूर्वं विद्यमानः वर्णः मकारः । अतः अत्र मकारस्य 'उपधा' इति संज्ञा भवति ।\n2. 'रामम्' इत्यस्य शब्दस्य वर्णविभागः - 'र्, आ, म्, अ, म्' इति । अत्र अन्तिमः वर्णः मकारः, तस्मात् पूर्वं विद्यमानः वर्णः अकारः । अतः अत्र अकारस्य 'उपधा' इति संज्ञा भवति ।\n\n'उपधा' इति संज्ञा बहुषु स्थलेषु स्थानस्य निर्देशार्थम् अपि प्रयुज्यते । यथा, 'उपधायाम् विद्यमानः वर्णः' इत्युक्ते उपधास्थाने विद्यमानः वर्णः, तस्यैव अर्थः 'उपधासंज्ञकः वर्णः' इति ।\n'उपधा'संज्ञायाः प्रयोजनम्\nअष्टाध्याय्याम् 'उपधा'संज्ञायाः साक्षात् प्रयोगः बहुषु (40+) सूत्रेषु कृतः दृश्यते ।अनुवृत्तिरूपेण तु अन्येषु सूत्रेषु अपि अस्याः प्रयोगः भवितुम् अर्हति । अस्याः प्रयोगेण अष्टाध्याय्याम् अनेके विधयः उक्ताः सन्ति । उदाहरणरूपेण अत्र द्वौ विधी अत्र दर्श्येते -\n1. यस्य धातोः अन्ते 'प'वर्गस्य वर्णः अस्ति तथा च उपधायाम् ह्रस्वः अकारः विद्यते, तस्मात् धातोः <<पोरदुपधात्>> [[3.1.98]] इत्यनेन 'यत्' इति कृत्-प्रत्ययः भवति । प्रक्रिया इयम् —\n\nगम्यते इति [कृद्वृत्तिः]\n→ गम् + यत् [गम्-धातोः अन्ते पवर्गस्य वर्णः अस्ति, उपधासंज्ञकः च ह्रस्वः अकारः विद्यते । अतः अत्र <<पोरदुपधात्>> [[3.1.98]] इत्यनेन 'यत्' प्रत्ययः भवति ।]\n→ गम् + य [इत्संज्ञालोपः]\n→ गम्य\n\n2. यस्मिन् धातौ इत्संज्ञकः इकारः नास्ति, तस्य धातोः उपधा-नकारस्य कित्/ङित्-प्रत्यये परे <<अनिदितां हल उपधायाः क्ङिति>> [[6.4.24]] इत्यनेन लोपः भवति । यथा, मन्थ्-धातोः क्त-प्रत्ययान्तरूपस्य प्रक्रियायाम् अङ्गस्य उपधायां विद्यमानस्य नकारस्य लोपं कृत्वा 'मथित' इति रूपं सिद्ध्यति । प्रक्रिया इयम् —\n\nमन्थँ (विलोडने, भ्वादिः<{1.48}>)\n→ मन्थ् + क्त [<<निष्ठा>> [[3.2.102]] इति क्तप्रत्ययः]\n→ मन्थ् + त [इत्संज्ञालोपः]\n→ मन्थ् + इट् + त [<<आर्धधातुकस्येड् वलादेः>> [[7.2.35]] इति इडागमः]\n→ मथ् + इ + त [कित्-प्रत्यये परे अनिदित्-धातोः उपधा-नकारस्य <<अनिदितां हल उपधायाः क्ङिति>> [[6.4.24]] इत्यनेन लोपः]\n→ मथित\n\nकुत्रचित् उपान्त्यभिन्नवर्णस्य निर्देशार्थम् अपि उपधाशब्दस्य प्रयोगः\nयद्यपि अस्मिन् सूत्रे 'उपधा' इति संज्ञा उपान्त्यवर्णस्य निर्देशार्थम् पाठिता अस्ति; तथापि केषुचन स्थलेषु इयं संज्ञा 'विशिष्टात् वर्णात् पूर्वं विद्यमानः वर्णः' (The previous letter of a given letter) इत्यस्मिन् अर्थे अपि प्रयुक्ता दृश्यते । उदाहरणद्वयम् एतादृशम् —\n1. <<उपधायां च>> [[8.2.68]] इति सूत्रे विद्यमानेन 'उपधा'शब्देन उपान्त्यवर्णस्य निर्देशः न भवति, अपितु शब्दस्य उपान्त्यवर्णात् पूर्वं विद्यमानस्य वर्णस्य निर्देशः क्रियते । 'उपधायाः अपि उपधायाम् विद्यमानः वर्णः' इति अत्र अर्थः सिद्ध्यति । यथा, 'कॄत्' धातोः णिच्-प्रत्ययस्य प्रक्रियायाम् आदौ <<उपधायाश्च>> [[7.1.101]], तदनन्तरं च <<उपधायां च>> [[8.2.78]] इति द्वे सूत्रे प्रयुज्येते । तत्र, <<उपधायाश्च>> [[7.1.101]] इति सूत्रेण अङ्गस्य उपधा-ऋकारस्य 'इर्' आदेशे कृते, ततः अस्मिन् आदेशे विद्यमानः यः रेफः, तस्मात् पूर्वं विद्यमानस्य इकारस्य दीर्घः <<उपधायां च>> [[8.2.68]] इति सूत्रेण विधीयते । सम्पूर्णा प्रक्रिया इयम् —\n\nकॄतँ (संशब्दने, चुरादिः, <{10.155}>)\nकॄत् + णिच् [चुरादिगणस्य कॄत्-धातोः स्वार्थिकः णिच्-प्रत्ययः]\n--> कॄत् + इ [इत्संज्ञालोपः]\n--> किर् त् + इ [<<उपधायाश्च>> [[7.1.101]] इति सूत्रेण अङ्गस्य उपधा-ॠकारस्य इकारादेशः । <<उरण् रपरः>> [[1.1.51]] इति सः रपरः ]\n--> कीर् त् + इ [<<उपधायां च>> [[8.2.78]] इति अङ्गस्य उपधायां विद्यमानः यः रेफः, तस्यापि उपधायां विद्यमानस्य इकारस्य दीर्घः भवति ]\n--> कीर्ति [<<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञा । अग्रे अस्मात् धातोः यथायोग्यं तिङ्/कृत्प्रत्ययाः विधीयन्ते । \n\n2. <<सान्तमहतः संयोगस्य>> [[6.4.10]] अस्मिन् सूत्रे 'उपधा' शब्दस्य अनवृत्तिः भवति । अयम् 'उपधा' शब्दः अत्र 'संयोगात् पूर्वम्' विद्यमानस्य वर्णस्य विषये प्रयुज्यते, न हि शब्दस्य उपान्त्यवर्णस्य विषये । यथा, विद्वान्-शब्दस्य सिद्धौ 'न्स्' इत्यमात् संयोगात् पूर्वम् विद्यमानः अकारः 'उपधा'शब्देन गृह्यते । प्रक्रिया इयम् —\n\nविद्वस् + सुँ [प्रथमैकवचनस्य प्रत्ययः]\n→ विद्व् न् स् + सुँ [<<उगिदचां सर्वनामस्थाने अधातोः>> [[7.1.70]] इति नुमागमः]\n→ विद्वान् स् सुँ [<<सान्तमहतः संयोगस्य>> [[6.4.10]] इत्यने संयोगे विद्यमानस्य नकारस्य उपधायाम् विद्यमानस्य स्वरस्य दीर्घः]\n→ विद्वान् स् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इत्यनेन सकारस्य लोपः]\n→ विद्वान् [<<संयोगान्तस्य लोपः>> [[8.2.23]] इत्यनेन सकारस्य लोपः]\n" }, "11066": { "sa": "सूत्रेषु सप्तमीविभक्तेः साहाय्येन यस्य शब्दस्य उल्लेखः क्रियते, तस्मात् अव्यवहितस्य पूर्वस्य कार्यम् भवति ।", "sd": "अष्टाध्याय्याः इदम् परिभाषासूत्रम् अस्ति । भिन्नेषु सूत्रेषु यत्र सप्तमीविभक्तेः प्रयोगः कृतः दृश्यते, तत्र निर्दिष्टम् कार्यम् तस्मात् सप्तम्यन्तशब्दात् अव्यवहितस्य पूर्वस्य भवति (इत्युक्ते, विना व्यवधानम् पूर्वं यः शब्दः यत् वा शब्दस्वरूपं विद्यते, तस्यैव एतत् कार्यं भवति इत्याशयः) । सप्तमीविभक्तेः एतादृशः कृतः प्रयोगः एव परसप्तमी नाम्ना अपि ज्ञायते ।\n\nअष्टाध्याय्यां सप्तमीविभक्तेः अनेके अर्थाः सन्ति । यथा — उपपदसप्तमी, निमित्तसप्तमी, विषयसप्तमी — आदयः । एतेषु अन्यतमः अर्थः अस्ति 'परसप्तमी' इति । यत्र व्याख्यानेषु सप्तमीविभक्तेः अर्थः स्पष्टरूपेण न उच्यते, तत्र सर्वत्र प्रायेण परसप्तमी एव ग्राह्या । अस्याः परसप्तमेः विषये एव इदं सूत्रं प्रवर्तते, न हि अन्यासाम् सप्तमीनां विषये । \nसूत्रेषु परसप्तमीप्रयोगस्य कानिचन उदाहरणानि एतानि —\n1) <<इको यणचि>> [[6.1.77]] इत्यत्र 'अचि' इति सप्तम्यन्तम् पदम् विद्यते । अतः अनेन सूत्रेण इक्-वर्णस्य उक्तः यणादेशः तदा एव भवति यदा सः इक्-वर्णः अच्-वर्णात् अव्यवहितः पूर्वः वर्तते । यथा, 'मधु + अरिः' इत्यत्र धकारोत्तरः उकारः इक्-वर्णः, सः च 'अरि' इत्यस्य अच्-वर्णात् अव्यवहितरूपेण पूर्वः विद्यते, अतः अस्य <<इको यणचि>> [[6.1.77]] इत्यनेन यणादेशः अवश्यं सम्भवति । प्रक्रिया इयम् —\n\nमधोः अरिः [<<षष्ठी>> [[2.2.8]] इति षष्ठीतत्पुरुषः]\n→ मधु अरि [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा ।<<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति विभक्तिप्रत्ययलोपः]\n→ मध् व् अरि [धकारोत्तस्य उकारस्य अव्यवहिते अचि परे <<इको यणचि>> [[6.1.77]] इति यणादेशः]\n→ मध्वरि\n \n2) <<झलां जश् झशि>> [[8.4.53]] इति सूत्रे 'झशि' इति सप्तम्यन्तं पदं विद्यते । झल्-वर्णस्य अव्यवहिते झश्-वर्णे परे जश्-आदेशः भवति इति अस्य सूत्रस्य अर्थः । यथा, 'लभ्' धातोः क्त-प्रत्ययान्तम् 'लब्धम्' इति रूपम् इत्थम् सिद्ध्यति —\n\nडुलभँष् [प्राप्तौ, भ्वादिः, <{1.1130}>]\n→ लभ् [इत्संज्ञालोपः]\n→ लभ् + क्त [<<निष्ठा>> [[3.2.102]] इति क्तप्रत्ययः]\n→ लभ् + ध [<<झषस्तथोर्धोऽधः>> [[8.2.40]] इति धत्वम्]\n→ लब् + ध [भकारस्य अव्यवहिते झश्-वर्णे (धकारे) परे <<झलां जश् झशि>> [[8.4.53]] इति जश्त्वे बकारः]\n→ लब्ध ।\n\n3) <<नश्चापदान्तस्य झलि>> [[8.3.24]] इति सूत्रेण अपदान्तनकारस्य झल्-वर्णे परे अनुस्वारादेशः भवति । एवमेव <<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इत्यनेन अनुस्वारस्य अव्यवहिते यय्-वर्णे परे परसवर्णः भवति । यथा, 'कम्पनीय'शब्दस्य प्रक्रियायाम् —\n\nकपिँ (चलने, भ्वादिः <{1.0435}>)\n→ कन्प् [<<इदितो नुम् धातोः>> [[7.1.58]] इति नुमागमः]\n→ कन्प् + अनीयर् [<<तव्यत्तव्यानीयरः>> [[3.1.96]] इति अनीयर्-प्रत्ययः]\n→ कंप् + अनीय [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति अपदान्तनकारस्य अव्यवहिते झल्-वर्णे परे अनुस्वारः]\n→ कम्प् + अनीय [<<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति अनुस्वारस्य अव्यवहिते यय्-वर्णे परे परसवर्णः मकारः]\n→ कम्पनीय\n\nसूत्रे 'निर्दिष्टे' शब्दस्य प्रयोजनम्, प्रत्याख्यानम् च\nअस्मिन् सूत्रे विद्यमानेन 'निर्दिष्टे पूर्वस्य' इति शब्देन 'अव्यवहितरूपेण विद्यमानस्य पूर्वस्य' इति अर्थः स्पष्टी भवति । वस्तुतस्तु 'पूर्व' इति शब्दः व्यवहितस्य पूर्वस्यापि निर्देशार्थम् उपयुज्यते, अतः तत्र 'निर्दिष्टे' इति शब्दम् संयोज्य आचार्यः 'अत्र पूर्वत्वम् अव्यवहितम् एव भवेत्' इति नियमं विदधाति । यत्र एतादृशम् अव्यवहित-पूर्वत्वं न विद्यते, तत्र प्रकृतसूत्रस्य प्रयोगः नैव सम्भवति । यथा, 'लिखति' इत्यस्मिन् शब्दे खकारोत्तरात् अकारात् पूर्वम् इकारः अवश्यं विद्यते, परन्तु सः अव्यवहितः नास्ति, तत्र इकारस्य व्यवधानं वर्तते । अस्यां स्थितौ अत्र <<इको यणचि>> [[6.1.77]] अस्य सूत्रस्य प्रयोगः नैव सम्भवति, यतः <<इको यणचि>> [[6.1.77]] इत्यस्य प्रयोगे इक्-वर्णस्य अच्-वर्णात् अव्यवहित-पूर्वत्वमेव आवश्यकम् ।\nवस्तुतः अस्मिन् सूत्रे 'निर्दिष्टे' इति शब्दः नैव आवश्यकः, इति कैयटेन <<संहितायाम्>> [[6.1.72]] इत्यत्र स्पष्टीकृतम् अस्ति । तत्र कैयटस्य आशयः एतादृशः — द्वयोः शब्दयोः मध्ये पौर्वापर्यभावः (इत्युक्ते, औपश्लेषिकः सम्बन्धः, Two words uttered in extreme closeness) विद्यते चेद् एव शब्दशास्त्रविशिष्टानि कार्याणि सम्भवन्ति, नान्यथा; तदर्थम् च 'निर्दिष्टे' इति शब्दस्य विशिष्टरूपेण प्रयोगः अनावश्यकः —‌ इति । अस्मिन् विषये अधिकम् ज्ञातुम् <<संहितायाम्>> [[6.1.72]] इति सूत्रस्य सूत्रार्थः द्रष्टव्यः । तत्र अधिकरणस्य त्रीन् प्रकारान् सोदाहरणं निर्दिश्य भाष्यकारस्य, कैयटस्य च आशयः स्पष्टीकृतः अस्ति । \n" }, "11067": { "sa": "सूत्रेषु पञ्चमीविभक्तेः साहाय्येन यस्य शब्दस्य उल्लेखः क्रियते, तस्मात् अव्यवहितस्य परस्य कार्यम् भवति ।", "sd": "अष्टाध्याय्याः इदम् परिभाषासूत्रम् अस्ति । भिन्नेषु सूत्रेषु यत्र पञ्चमीविभक्तेः प्रयोगः कृतः दृश्यते, तत्र निर्दिष्टम् कार्यम् तस्मात् पञ्चम्यन्तशब्दात् अव्यवहितस्य परस्य भवति (इत्युक्ते, पञ्चम्यन्तशब्दात् विना व्यवधानम् अनन्तरं यः शब्दः यत् वा शब्दस्वरूपं विद्यते, तस्यैव एतत् कार्यं भवति इत्याशयः) । सप्तमीविभक्तेः एतादृशः कृतः प्रयोगः एव परसप्तमी नाम्ना अपि ज्ञायते ।\nअस्य सूत्रस्य प्रयोगस्य कानिचन उदाहरणानि एतादृशानि —\n1) <<झयो होऽन्यतरस्याम्>> [[8.4.62]] इत्यस्मिन् सूत्रे 'झयः' इति पञ्चम्यन्तम् पदमस्ति । अतः अनेन सूत्रे झय्-वर्णात् अव्यवहितस्य परस्यैव हकारस्य विकल्पेन पूर्वसवर्णः भवति । यथा, 'तद्धित' इति शब्दस्य सिद्धौ अस्य सूत्रस्य प्रयोगः भवति —\n\nतस्मै हितम् [<<चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः>> [[2.1.36]] इति चतुर्थीतत्पुरुषसमासः]\n→ तद् हित [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्यययोः लोपः]\n→ तद् धित [दकारात् (झय्-वर्णात्) अव्यवहितरूपेण परः यः हकारः, तस्य <<झयो होऽन्यतरस्याम्>> [[8.4.62]] इति सूत्रेण विकल्पेन पूर्वसवर्णः धकारादेशः]\n→ तद्धित ।\n\n2) <<हलः>> [[6.4.2]] इत्यस्मिन् सूत्रे 'हलः' इति पञ्चम्यन्तं पदम् अस्ति । अतः हल्-वर्णात् अव्यवहितरूपेण परस्य सम्प्रसारणसंज्ञकवर्णस्य अनेन सूत्रेण दीर्घः भवति । यथा —\n\nह्वे (स्पर्धायां शब्दे च, भ्वादिः, <{1.1163}> )\n→ ह्वा [<<आदेच उपदेशेऽशिति>> [[6.1.45]] इति आकारादेशः]\n→ ह्वा + क्त [<<निष्ठा>> [[3.2.102]] इति क्तप्रत्ययः]\n→ ह् उ आ + त [कित्-प्रत्यये परे वकारस्य <<वचिस्वपियजादीनां किति>> [[6.1.15]] इति सम्प्रसारणम् । वकारस्य सम्प्रसारणे <<इग्यणः सम्प्रसारणम्>> [[1.1.45]] इति उकारः]\n→ ह् उ + त [<<सम्प्रसारणाच्च>> [[6.1.108]] इति पूर्वरूप-एकादेशः]\n→ हूत [<<हलः>> [[6.4.2]] इति हल्-वर्णात् अव्यवहितरूपेण उत्तरस्य संप्रसारणसंज्ञक-उकारस्य दीर्घः]\n\n3) <<अतोऽम्>> [[7.1.24]] इति सूत्रे 'अतः' इति 'अत्' इत्यस्य पञ्चम्येकवचनम् अस्ति । ह्रस्व-अकारान्त-नपुंसकलिङ्गशब्दात् अव्यवहितरूपेण परस्य सुँ-प्रत्ययस्य अनेन सूत्रेण अम्-आदेशः भवति इति अस्य सूत्रस्य अर्थः । यथा, 'फल' शब्दात् अव्यवहितस्य सुँ-प्रत्ययस्य अम्-आदेशे कृते 'फलम्' इति प्रथमैकवचनस्य रूपं सिद्ध्यति । प्रक्रिया इयम् —\n\nफल + सुँ [<<स्वौजस्...>> [[4.1.2]] इति सुँ-प्रत्ययः]\n→ फल + अम् [<<अतोऽम्>> [[7.1.24]] इति अदन्तात्-अङ्गात् अव्यवहितरूपेण परस्य सुँ-प्रत्ययस्य अम्-आदेशः]\n→ फलम् [<<अमि पूर्वः>> [[6.1.107]] इति पूर्वरूपैकादेशः]\n\nसूत्रे 'निर्दिष्टे' शब्दस्य अनुवृत्तेः प्रयोजनम्\nअस्मिन् सूत्रे पूर्वस्मात् सूत्रात् 'निर्दिष्टे' इति शब्दः अनुवर्तते; सः च 'उत्तरस्य' इत्यनेन सह अन्वेति । 'निर्दिष्टे उत्तरस्य' इत्यनेन अत्र 'अव्यवहितरूपेण विद्यमानस्य उत्तरस्य' इति अर्थविधानं भवति । 'उत्तर' इति शब्दः 'व्यवहितस्य' उत्तरस्य विषये अपि भवितुम् अर्हति, अतः तत्र 'निर्दिष्टे' इति शब्दम् संयोज्य आचार्यः 'अत्र उत्तरत्वम् अव्यवहितम् एव भवेत्' इति नियमं विदधाति । यत्र एतादृशम् अव्यवहित-उत्तरत्वं न विद्यते, तत्र प्रकृतसूत्रस्य प्रयोगः नैव सम्भवति । यथा, 'दहन' इत्यस्मिन् शब्दे हकारः अवश्यम् झय्-वर्णात् (दकारात्) अनन्तरम् विद्यते, परन्तु सः अव्यवहितः नास्ति, तत्र अकारस्य व्यवधानं वर्तते । अस्यां स्थितौ अत्र <<झयो होऽन्यतरस्याम्>> [[8.4.62]] इत्यनेन पूर्वसवर्णादेशः नैव सम्भवति, यतः <<झयो होऽन्यतरस्याम्>> [[8.4.62]] इत्यस्य प्रयोगे झय्-वर्णात् अव्यवहिते परे हकारः इष्यते ।\n" }, "11068": { "sa": "व्याकरणशास्त्रे संज्ञाशब्दान् वर्जयित्वा अन्यत्र शब्दग्रहणेन स्वरूपग्रहणं भवति । संज्ञाशब्दानां ग्रहणेन तु अर्थग्रहणं क्रियते । ", "sd": "अष्टाध्याय्यां विद्यमानेषु सूत्रेषु प्रयुक्तानां शब्दानाम् कः अर्थः सामान्यरूपेण स्वीकरणीयः अस्मिन् विषये अनेन सूत्रेण द्वौ नियमौ उच्येते । तदित्थम् —\n1) स्वम् रूपम् शब्दस्य — सामान्यतः व्यवहारे (इत्युक्ते, भाषायाम्) शब्दानां प्रयोगः 'अर्थम्' अभिलक्ष्य क्रियते । यथा, 'अग्निः दहति' अस्य वाक्यस्य अर्थः 'अग्निः इति शब्दः दहनं करोति' — इति नास्ति, अपितु 'अग्निः नाम यः कश्चन पदार्थः अस्ति सः दहति' — इति अस्य अर्थः । अतएव, 'अग्निः दहति', 'वह्निः दहति', 'पावकः दहति' — एतानि सर्वाणि अपि वाक्यानि समानार्थकानि एव स्वीक्रियन्ते । एवमेव, 'गाम् आनय' इत्युक्ते 'गाम् नाम कञ्चन शब्दम् आनय' इति न, अपितु 'गौः इति नाम्ना प्रचलितम् प्राणिनम् आनय' इति अर्थः भवति । अनेन प्रकारेण भाषायाम् 'अर्थप्राधान्यम्' वर्तते, न हि 'शब्दप्राधान्यम्' । परन्तु, व्याकरणशास्त्रे तु शब्दस्यैव प्राधान्यम् अस्ति, अर्थस्य न। यथा, <<अग्नेर्ढक्>> [[4.2.33]] इत्यनेन सूत्रेण यः ढक्-प्रत्ययः विधीयते, सः 'अग्नि' इति 'शब्दस्य' विषये उक्तः अस्ति, हि 'अग्नि' इति अर्थस्य विषये । अतएव, अनेन सूत्रेण उक्तः ढक्-प्रत्ययः 'पावक', 'वह्नि', 'अनल', एतादृशेभ्यः शब्देभ्यः नैव भवति, अपि तु केवलम् 'अग्नि' इत्येतस्मात् शब्दात् एव विधीयते । व्याकरणशास्त्रे उक्तम् सर्वम् अपि कार्य 'शब्दनिष्ठितम्' ज्ञेयम्, न हि 'अर्थनिष्ठितम्' इत्येन अस्य आशयः । अयमेव बिन्दुः अस्य सूत्रस्य प्रथमांशेन ज्ञाप्यते । व्याकरणशास्त्रे 'शब्दस्य स्वं रूपम् स्वीकर्तव्यम्' इति अस्य अंशस्य अर्थः । 'स्वं रूपम्' इत्युक्ते शब्दस्य आनुपूर्वी (the exact sequence of letters) — इति । एतत् रूपमेव व्याकरणशास्त्रे ग्राह्यम्, न हि तस्य अर्थः । अयम् अस्य सूत्रस्य पूर्वार्धः अस्ति ।\n3. अशब्दसंज्ञा — व्याकरणशास्त्रे शब्दानां वर्णानां वा लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः पाठिताः सन्ति । एतासाम् संज्ञानाम् विषये तु अर्थस्य एव ग्रहणं भवति, न हि शब्दस्य । यथा, <<विरामोऽवसानम्>> [[1.4.110]] इति सूत्रेण 'अवसान' इति काचित् संज्ञा पाठ्यते । 'वर्णानाम् अभावः अवसानसंज्ञकः भवति', इति अस्य सूत्रस्य अर्थः । अत्र पाठिता 'अवसान'इति संज्ञा अग्रे <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इत्यस्मिन् सूत्रे यदा प्रयुज्यते, तदा तत्र 'अवसान' इति शब्देन न हि वर्णक्रमः (आनुपूर्वी) लक्ष्यते, अपि तु 'विरामः' इति अर्थः एव गृह्यते । इत्युक्ते <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इत्यनेन सूत्रेण रेफस्य यः विसर्गादेशः विधीयते, सः 'विरामे' परे भवति, न हि 'अवसानशब्दे परे' । अनेनैव प्रकारेण व्याकरणशास्त्रे प्रयुक्तानां सर्वासाम् अपि संज्ञानाम् विषये सूत्रेषु अर्थस्य ग्रहणं कर्तव्यम्, न हि शब्दस्वरूपस्य । अयमेव बिन्दुः अस्य सूत्रस्य द्वितीयांशेन ज्ञाप्यते । 'संज्ञाशब्दानां विषये शब्दस्वरूपम् न ग्राह्यम्' इति अस्य अंशस्य अर्थः । अयम् अस्य सूत्रस्य उत्तरार्धः अस्ति ।\nअनेन प्रकारेण, एतौ द्वौ अंशौ मिलित्वा — व्याकरणशास्त्रे संज्ञाशब्दानां विषये अर्थस्य ग्रहणम् करणीयम्, अन्येषां शब्दानां विषये च शब्दस्य ग्रहणं करणीयम् इति सूत्रार्थः अत्र सिद्ध्यति । \nपर्यायशब्दानां ग्रहणार्थम् अनुबन्धयोजनम्\nयद्यपि प्रकृतसूत्रेण 'शब्दानां स्वस्य रूपस्यैव ग्रहणं करणीयम्' इति नियमः उच्यते, तथापि अष्टाध्याय्यां केषुचन स्थलेषु तत्र निर्दिष्टानाम् शब्दानाम् अर्थस्य अपि ग्रहणम् इष्यते । यथा, <<पक्षिमत्स्यमृगान् हन्ति>> [[4.4.35]] इत्यस्मिन् सूत्रे विद्यमानेन 'मत्स्य' इति शब्देन तत्पर्यायवाचकस्य मीनशब्दस्यापि ग्रहणं भवति इति अस्य सूत्रस्य व्याख्याने स्पष्टीकृतम् अस्ति । एतादृशान् (इत्युक्ते, येषाम् अर्थग्रहणम् इष्यते तादृशान्) शब्दान् अन्यशब्दानाम् अपेक्षया पृथग् रूपेण दर्शयितुम् वार्त्तिककारेण — एतादृशेषु शब्देषु केचन अनुबन्धाः (इत्संज्ञकवर्णाः) स्थापनीयाः — इति उक्त्वा आहत्य चतुर्णाम् अनुबन्धानाम् भिन्नेषु अर्थेषु विधानम् कृतम् अस्ति । तदित्थम् —\n1. (सित् तद्विशेषाणाम्; वृक्षाद्यर्थम्) — यत्र शब्दग्रहणेन स्वस्य रूपस्य ग्रहणं न इष्यते अपि तु जातिनिर्देशः इष्यते, तत्र तेषु शब्देषु सकारः अनुबन्धरूपेण योजनीयः — इति अस्य वार्त्तिकस्य अर्थः । यथा, <<विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम्>> [[2.4.12]] अस्मिन् सूत्रे विद्यमानै: 'वृक्ष', 'मृग' आदिभिः शब्देः जातेः ग्रहणम् इष्यते, न हि शब्दस्वरूपस्य ग्रहणम् । इत्युक्ते, अस्मिन् सूत्रे विद्यमानः 'वृक्ष' इति शब्दः वस्तुतः वृक्षजातेः (names of all the trees) निर्देशं करोति, न हि 'वृक्ष'शब्दस्य, तत्पर्यायवाचकानाम् वा शब्दानाम् । अतएव 'प्लक्ष' (एकस्य वृक्षस्य नाम) तथा च 'न्यग्रोध' (अन्यप्रकारकस्य वृक्षस्य नाम) इत्येतयोः शब्दयोः अनेन सूत्रेण द्वन्द्वसमासे कृते 'प्लक्षन्यग्रोधम्' इति रूपं सिद्ध्यति । एतादृशः जातिनिर्देशः येषां शब्दानां विषये इष्यते, तेषु शब्देषु इत्संज्ञकः सकारः योजनीयः (अतश्च, अत्र पाठिताः शब्दाः 'वृक्षस्', 'मृगस्', 'तृणस्' एतादृशाः सितः ज्ञेयाः), इति अस्य वार्त्तिकस्य आशयः ।\n2. (पित् पर्यायवचनस्य, [तद्-विशेषाणाम्, स्वस्य] च; स्वाद्यर्थम्)— यत्र शब्दग्रहणेन स्वस्य रूपस्य, पर्यायशब्दानां, तथा च जातेः - इत्येतेषाम् सर्वेषाम् अपि ग्रहणम् इष्यते, तत्र तेषु शब्देषु पकारः अनुबन्धरूपेण योजनीयः — इति अस्य वार्त्तिकस्य अर्थः । यथा, <<स्वे पुषः>> [[3.4.40]] अस्मिन् सूत्रे विद्यमानेन 'स्व' इति शब्देन - (1) 'स्व' इति आनुपूर्वी, (2) स्व-शब्दस्य सर्वे अर्थाः, यथा धन, बान्धव, आत्मीय - एते शब्दाः, (3) तथा च 'स्व' इत्यस्य विशेषाः (specific instances of things that belong to oneself) - यथा अश्वः, गौः - आदयः — इत्येतेषाम् सर्वेषाम् अपि ग्रहणम् इष्यते । अतएव 'स्व', 'धन', 'अश्व' एतेषाम् सर्वेषाम् अपि उपपदानाम् उपस्थितौ 'पुष्' धातोः णमुल्-प्रत्ययं कृत्वा 'स्वपोषम्', 'धनपोषम्', 'अश्वपोषम्' - एतानि कृदन्तरूपाणि सिद्ध्यन्ति । अस्यां स्थितौ 'स्व' इति शब्दस्य निर्देशः इत्संज्ञकपकारेण सह (इत्युक्ते, 'स्वप्' इति) करणीयः, इति अस्य वार्त्तिकस्य अर्थः । \n3. (जित् पर्यायवचनस्य एव; राजाद्यर्थम्) — यत्र शब्दग्रहणेन केवलम् पर्यायवाचकशब्दानाम् एव ग्रहणम् इष्यते, न हि स्वस्य रूपस्य उत जातेः, तत्र तेषु शब्देषु जकारः अनुबन्धरूपेण योजनीयः — इति अस्य वार्त्तिकस्य अर्थः । यथा, <<सभा राजामनुष्यपूर्वा>> [[2.4.23]] अस्मिन् सूत्रे विद्यमानेन 'राजा' इति शब्देन 'राजा' इति साक्षात् शब्दः न गृह्यते अपितु 'राजा' इत्यस्य समानार्थकाः शब्दाः (यथा 'इन', 'नृप', 'प्रभुः' आदयः) एव गृह्यन्ते । अतएव अनेन सूत्रेण 'इनसभम्', 'नृपसभम्' एते सर्वे तत्पुरुषसमासाः नपुंसकलिङ्गाः भवन्ति; परन्तु 'राजा' इति साक्षात्-शब्दस्य ग्रहणम् अनेन सूत्रेण न भवति, अतः 'राजसभा' इति शब्दः स्त्रीलिङ्गे एव प्रयुज्यते । एतादृशम् केवलानाम् पर्यायशब्दानाम् ग्रहणम् यत्र भवति, तत्र 'जकारः' अनुबन्धरूपेण योजनीयः (इत्युक्ते, अत्र 'राजा' इत्यस्य स्थाने 'राजाज्' इति स्वीकर्तव्यम्) इति अस्य वार्त्तिकस्य आशयः । \n4. (झित् तद्विशेषाणाम्, [स्वस्य] च; मत्स्याद्यर्थम्) — यत्र शब्दग्रहणेन तस्य शब्दस्य स्वस्य रूपस्य, तथा च तस्याः जातेः अपि ग्रहणम् इष्यते, तत्र तेषु शब्देषु झकारः अनुबन्धरूपेण योजनीयः — इति अस्य वार्त्तिकस्य अर्थः । यथा, <<पक्षिमत्स्यमृगान् हन्ति>> [[4.4.35]] अस्मिन् सूत्रे विद्यमानेन 'पक्षि' इति शब्देन 'पक्षि' इति आनुपूर्वेः ग्रहणम् तु अवश्यमेव भवति, परन्तु पक्षिजातेः निर्देशकशब्दानाम् (यथा, शकुन, मयूर, तित्तिर - एतेषां शब्दानाम्) अपि ग्रहणम् भवति । अतएव 'शकुनं हन्ति', 'मयूरं हन्ति', 'तित्तिरं हन्ति' तथा च 'पक्षिणं हन्ति' इत्यत्र सर्वत्र <<पक्षिमत्स्यमृगान् हन्ति>> [[4.4.35]] इति सूत्रेण ठक्-प्रत्यये कृते 'शाकुनिक', 'मायूरिक', 'तैत्तिरिक', 'पाक्षिक' एते सर्वे शब्दाः सिद्ध्यन्ति । अनेन प्रकारेण यत्र मूलशब्दस्य, तद्विशेषाणां च ग्रहणम् इष्यते, तत्र झकारः अनुबन्धरूपेण योजनीयः (अतश्च अत्र 'पक्षि' इत्यस्य स्थाने 'पक्षिझ्' इति स्वीकर्तव्यम्) इति अस्य वार्त्तिकस्य आशयः ।\nएतानि चत्वारि वार्त्तिकानि संक्षेपेण — \n\n
  • सित् — स्वस्य ग्रहणम् । पर्यायवाचकशब्दानां ग्रहणम् । तद्विशेषशब्दानां ग्रहणम् ।\n
  • पित् — स्वस्य ग्रहणम् । पर्यायवाचकशब्दानां ग्रहणम् । तद्विशेषशब्दानां ग्रहणम् ।\n
  • जित् — स्वस्य ग्रहणम् । पर्यायवाचकशब्दानां ग्रहणम् । तद्विशेषशब्दानां ग्रहणम् ।\n
  • झित् — स्वस्य ग्रहणम् । पर्यायवाचकशब्दानां ग्रहणम् । तद्विशेषशब्दानां ग्रहणम् ।\n\nपरिभाषा - अर्थवद्ग्रहणे नानर्थकस्य ग्रहणम्\nमहाभाष्ये अस्य सूत्रस्य व्याख्याने भाष्यकारः आदौ पृच्छति - अस्मिन् सूत्रे स्वम् शब्दस्य ग्रहणम् किमर्थम् कृतम् अस्ति — इति । 'रूपम्' इति शब्देनैव 'शब्दस्वरूपम्' इति अर्थे सिद्धे, तत्र पुनः 'स्व'शब्दस्य ग्रहणम् 'अर्थ'निर्देशार्थम् अस्ति इति उत्तरम् अत्र भाष्यकारेण दीयते । इत्युक्ते, अत्र 'स्व' इति शब्दः 'अर्थः' इत्यस्मिन् अर्थे प्रयुज्यते, इति आशयः । एतादृशं क्रियते चेत् 'अर्थवता शब्देन स्वस्य ग्रहणं भवति' इति सूत्रार्थः फलति । अस्यैव अपरः अर्थः — 'अनर्थकशब्देन कस्यापि ग्रहणं न भवति' इति वक्तुं शक्यते । एतम् बिन्दुम् आधारीकृत्य एव भाष्यकारः <ऽअर्थवद्ग्रहणे नानर्थकस्य ग्रहणम्ऽ> इति परिभाषाम् अपि अस्मिन् सन्दर्भे विदधाति । यत्र शब्दस्य किमपि कार्यम् उच्यते, तत्र अर्थवता शब्दस्यैव ग्रहणं करणीयम्, न हि अनर्थकशब्दस्य — इति अस्याः परिभाषायाः आशयः । अस्मिन् विषये अधिकं जिज्ञासवः अस्य सूत्रस्य भाष्यम्, अथ वा परिभाषेन्दुशेखरे परिभाषा-14 इत्यत्र पश्येयुः । " }, "11069": { "sa": "सूत्रे आदेशरूपेण न प्रयुक्तः 'अण्' वर्णः, तथा च उदित् वर्णः (कु, चु, टु, तु, पु - इति) सवर्णानाम् ग्रहणं करोति । ", "sd": "अष्टाध्याय्याम् 'सवर्णम्' इति संज्ञा <<तुल्यास्यप्रयत्नं सवर्णम्>> [[1.1.9]] इति सूत्रेण पाठ्यते । ययोः वर्णयोः मुखस्थित-उच्चारणस्थानम्, आभ्यन्तरप्रयत्नः च परस्पराभ्यां सह समानः अस्ति, तौ वर्णौ अनेन सूत्रेण परस्परयोः सवर्णौ भवतः । यथा - क् , ग् एतौ सवर्णौ ; अ, आ एतौ सवर्णौ ; य्, य्ँ एतौ सवर्णौ — आदयः ।\nएतादृश्याः सवर्णसंज्ञायाः आधारेण सूत्रेषु सवर्णानाम् ग्रहणम् कुत्र करणीयम् इत्यस्मिन् विषये प्रकृतेसूत्रेण द्वे नियमे उक्ते स्तः । ते एतादृशे —\n1. यदि कश्चन अण्-वर्णः कस्मिंश्चित् सूत्रे आदेशरूपेण उक्तः नास्ति, तर्हि सः अण्-वर्णः सवर्णानाम् अपि ग्रहणं करोति ।\nअत्र उक्तस्य 'अण्' इति प्रत्याहारस्य निर्माणम् <<लण्>> इति षष्ठस्य शिवसूत्रस्य णकारस्य प्रयोगेण कृतम् अस्ति । अनेन प्रत्याहारेण आहत्य चतुर्दशवर्णानां ग्रहणं भवति —अ, इ, उ, ऋ, ऌ, ए, ओ, ऐ, औ, ह्, य्, व्, र्, ल् । एतेषु कश्चन वर्णः यदि सूत्रे अविधीयमानः वर्तते (इत्युक्ते आदेशरूपेण उक्तः नास्ति) तर्हि सः वर्णः सर्वेषाम् सवर्णानाम् अपि निर्देशं करोति (तेषां सवर्णानां विषये अपि तस्य सूत्रस्य प्रसक्तिः विद्यते) इति अस्य नियमस्य आशयः । कानिचन उदाहरणानि एतादृशानि —\n\n1. <<इको यण् अचि>> [[6.1.77]] अस्मिन् सूत्रे 'इक्', 'यण्' तथा 'अच्' एते त्रयः प्रत्याहाराः प्रयुक्ताः सन्ति । एतेषु त्रिषु प्रत्याहारेषु अण्-वर्णाः एव सन्ति । एतेभ्यः इक्-इत्यत्र स्थिताः अण्-वर्णाः तथा च अच्-इत्यत्र स्थिताः अण्-वर्णाः 'आदेशरूपेण' प्रोक्ताः न सन्ति । अस्याम् अवस्थायाम् <<अणुदित् सवर्णस्य चाप्रत्ययः>> [[1.1.69]] इत्यनेन इक्-इत्यत्र स्थिताः वर्णाः तथा च अच्-इत्यत्र स्थिताः वर्णाः सवर्णग्रहणम् कुर्वन्ति । इत्युक्ते, यद्यपि इक्-प्रत्याहारे केवलम् ह्रस्व-इकारस्यैव निर्देशः अस्ति, तथापि अयं ह्रस्व-इकारः स्वस्य सर्वान् सवर्णान् अपि निर्दिशति, अतः ह्रस्व-इकारस्य विषये उक्तं कार्यम् इकारस्य सवर्णानां विषये (यथा, दीर्घ-ईकारस्य विषये) अपि अवश्यम् प्रवर्तते । एवमेव 'अच्' प्रत्याहारे यद्यपि आकारः न विद्यते, तथापि तत्र विद्यमानेन अकारेण सवर्णग्रहणम् अवश्यम् क्रियते, अतः अनेन सूत्रेण ह्रस्व-अकारे परे उक्तं कार्यम् आकारे परे अपि अवश्यम् भवति । 'इ + अ', 'ई + अ', 'इ + आ', 'ई + आ' इत्यत्र सर्वत्र यणादेशः भवति इति अस्य आशयः । \n2) <<एरच्>> [[3.3.56]] अनेन सूत्रेण इकारान्तधातोः अच्-प्रत्ययः विधीयते । अस्मिन् सूत्रे विद्यमानः 'एः' इति शब्दः 'इ' इत्यस्य षष्ठ्येकवचनम् अस्ति । अत्र 'एः' इत्यनेन स्थानी निर्दिश्यते, अतः अत्र इकारः विधीयमानः नास्ति । इत्युक्ते, 'इ' इत्यनेन सवर्णानाम् (यथा, दीर्घ-ईकारस्य अपि) ग्रहणं भवति । अतः ह्रस्व-इकारान्तधातोः यथा अच्-प्रत्ययः विधीयते, तथैव अनेन सूत्रेण दीर्घ-ईकारान्तधातोः अपि अच्-प्रत्ययः विधीयते ।\n3) <<उरण् रपरः>> [[1.1.51]] अस्मिन् सूत्रे 'उः' इति ऋकारस्य षष्ठ्येकवचनम् अस्ति । अत्र ऋकारः विधीयमानः नास्ति, अतः अत्र ऋकारेण दीर्घ-ॠकारस्यापि ग्रहणं भवति । अतएव 'तॄ' धातोः अनीयर्-प्रत्यये कृते गुणादेशे रपरः अकारः आदेशरूपेण विधीयते, येन 'तरणीय' इति रूपं सिद्ध्यति । प्रक्रिया इयम् —\n\nतॄ (प्लवनतरणयोः, भ्वादिः, <{1.1124}>)\n→ तॄ + अनीयर् [<<तव्यत्तव्यानीयरः>> [[3.1.96]] इति अनीयर्-प्रत्ययः]\n→ तर् + अनीय [<<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणः । अत्र दीर्घ-ॠकारस्य स्थाने अ-ए-ओ-वर्णेभ्यः कः वर्णः विधीयेत इति प्रश्ने जाते, <<उरण् रपरः>> [[1.1.51]] इत्यत्र ऋकारेण सवर्णग्रहणं भवति इति दृष्ट्वा एव दीर्घ-ॠकारस्य स्थाने 'अर्' इति अन्तरतमः आदेशः सम्भवति ।]\n→ तरणीय [<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इति णत्वम्]\n\n\nविधीयमानः अण्-वर्णः तु सवर्णग्रहणं नैव करोति । अतएव, इमम् इत्यस्य सिद्धौ अनुनासिक-मकारस्य अपि निरनुनासिकः अकारः एव आदेशः विधीयते —\n\nइदम् + अम् [इदम्-शब्दस्य पुंलिङ्गे द्वितीयैकवचनम्]\n→ इदअ + अम् [<<त्यदादीनामः>> [[7.2.102]] इति मकारस्य अकारः । अत्र अकारः विधीयमानः अस्ति; अतः तेन सवर्णस्य ग्रहणं न भवति; अतः अनुनासिक-मकारस्य आदेशरूपेण अपि निरनुनासिकः अकारः एव विधीयते ]\n→ इद + अम् [<<अतो गुणे>> [[6.1.97]] इति पररूपम्]\n→ इम + अम् [<<दश्च>> [[8.2.75]] इति मकारादेशः]\n→ इमम् [<<अमि पूर्वः>> [[6.1.107]] इति पूर्वरूपम् ]\n\n अण्-प्रत्याहारे आकार-ईकार-ऊकार-ॠकाराणाम् समावेशः नास्ति । अतः एतैः वर्णैः अविधीयमानैः अपि सवर्णग्रहणं नैव भवति । यथा, <<ॠत इद्धातोः>> [[7.1.100]] अनेन सूत्रेण दीर्घ-ॠकारान्तधातोः उक्तः इकारादेशः ह्रस्व-ऋकारान्तधातोः विषये न प्रवर्तते ।\n2. सूत्रे प्रयुक्तः उदित् वर्णः नित्यम् एव सवर्णानाम् अपि ग्रहणं करोति ।\nयस्मिन् वर्णे उकारः इत्संज्ञकः अस्तिः सः वर्णः 'उदित्' नाम्ना ज्ञायते । यथा, 'कुँ', 'चुँ', 'टुँ', 'तुँ', 'पुँ' एते उदितः वर्णाः सन्ति । सूत्रे प्रयुक्तः एतादृशः उदित्-वर्णः नित्यम् (इत्युक्ते, विधीयमाने सति, अविधीयमाने वा सति) सर्वणग्रहणं करोति । उदाहरणद्वयम् एतादृशम् -\n1. <<चोः कुः>> [[8.2.30]] अस्मिन् सूत्रे 'चु' तथा 'कु' एतौ द्वौ उदित्-वर्णौ प्रयुक्तौ स्तः । अत्र उभाभ्यां वर्णाभ्याम् सवर्णग्रहणं भवति । इत्युक्ते, 'चु'-इत्यनेन चवर्गीयवर्णाः, 'कु'-इत्यनेन च कवर्गीयवर्णाः सर्वे गृह्यन्ते । अतएव, यथा 'वाच्'-शब्दस्य पदान्ते वाक्-इति आदेशः विधीयते, तथैव सुयज्-शब्दस्य अपि पदान्ते 'सुयग्' इति कुत्वं भवति ।\n2. <<लशक्वतद्धिते>> [[1.3.8]] अस्मिन् सूत्रे विद्यमानेन 'कु' इति उदित्-वर्णेन सर्वेषाम् सवर्णानाम् (कवर्गीवर्णानाम्) ग्रहणं भवति, अतएव 'क्त', 'खश्', 'ग्स्नु', घञ्' एतेषु सर्वेषु प्रत्ययेषु आदिस्थस्य कवर्गीयवर्णस्य इत्संज्ञा भवति ।\nउदित्-वर्णेषु उकारः वस्तुतः अनुनासिकः अस्ति । तस्य <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इत्यनेन इत्संज्ञा भवति, अतएव 'उदित् (उत् + इत्)' इत्यत्र 'इत्'-शब्दः सङ्गच्छते । तथापि, सामान्यरूपेण लेखनसमये उदित्-वर्णानाम् निर्देशः चन्द्रबिन्दुचिह्नं विना एव क्रियते । यथा, 'कुँ', 'चुँ' इत्यस्य स्थाने 'कु', 'चु' इत्येव प्रायेण लिखितम् / मुद्रितम् दृश्यते । यद्यपि अत्र चन्द्रबिन्दुचिह्नम् नास्ति, तथापि उकारः अनुनासिकः एव अस्ति इति स्मर्तव्यम् ।\n परिभाषा - भाव्यमानेन सवर्णानां ग्रहणम् न\nप्रकृतसूत्रे विद्यमानम् 'अप्रत्ययः' इति शब्दम् व्यर्थं दर्शयित्वा, तस्य उपस्थितम् ज्ञापकरूपेण स्वीकृत्य भाष्यकारेण <ऽभाव्यमानेन सवर्णानां ग्रहणम् न ऽ> (परिभाषा-19) इति परिभाषा स्वीकृता अस्ति । आदेशरूपेण प्रयुक्तः वर्णः सवर्णग्रहणं न करोति — इति अस्याः परिभाषायाः संक्षिप्तः अर्थः । अस्याः अपवादरूपेण <ऽभाव्यमानोऽप्युकारः सवर्णान् गृह्णातिऽ> (परिभाषा-20) इति परिभाषा अपि प्रवर्तते । उकारः आदेशरूपेण विद्यते चेदपि सवर्णग्रहणे समर्थः अस्ति — इति अस्याः परिभाषायाः अर्थः । अस्मिन् विषये अधिकं ज्ञातुम् प्रकृतसूत्रस्य भाष्यम्, परिभाषेन्दुशेखरग्रन्थश्च द्रष्टव्यः ।\n " }, "11070": { "sa": "तकारात् परः वर्णः, तथा च तकारः यस्मात् परः सः वर्णः — उभौ अपि स्वकालवाचकानाम् सवर्णानाम् एव निर्देशं कुरुतः । ", "sd": "<<अणुदित्सवर्णस्य चाप्रत्ययः>> [[1.1.69]] इति सूत्रेण 'अविधीयमानः (इत्युक्ते, आदेशरूपेण न उक्तः) अण्-वर्णः सर्वणग्रहणं करोति' इति ज्ञायते । एतादृशस्य सवर्णग्रहणस्य विशिष्टासु अवस्थासु नियमनम् कर्तुम् प्रकृतसूत्रम् निर्मितम् अस्ति । यदि अविधीयमानात् अण-वर्णात् पूर्वम् उत परम् अव्यवहितः तकारः वर्तते, तर्हि सः अण्-वर्णः केवलं तादृशानाम् सवर्णानाम् एव ग्रहणं करोति येषाम् उच्चारणकालः तस्य वर्णस्य उच्चारणकालसदृशः वर्तते — इति अस्य सूत्रस्य आशयः । कानिचन उदाहरणानि एतानि —\n1) <<बहुवचने झल्येत्>> [[7.3.103]] अस्मिन् सूत्रे 'अतः' इति पदस्य अनुवृत्तिः अस्ति । अतः इति शब्दः 'अत्' इत्यस्य पञ्चमी-एकवचनस्य रूपम् । 'अत्' इत्यत्र अकारात् अनन्तरम् तकारः स्थापितः दृश्यते । अस्य तकारस्य प्रयोगः अत्र सवर्णग्रहणस्य नियमनार्थम् कृतः अस्ति । अकारस्य वस्तुतः अष्टादश सवर्णाः विद्यन्ते । परन्तु तेषु केवलम् षण्णाम् सवर्णानाम् (=ह्रस्वसंज्ञकानाम्) उच्चारणकालः एव अकारसदृशः अस्ति, अन्येषाम् द्वादशानाम् सवर्णानाम् (दीर्घसंज्ञकानाम्, प्लुतसंज्ञकानां च इत्याशयः) उच्चारणकालः अकारस्य उच्चारणकालात् भिद्यते । अतः अस्मिन् सूत्रे 'अतः' इति शब्देन केवलम् ह्रस्व-अकारस्यैव षण्णाम् भेदानाम् ग्रहणं क्रियते, अन्येषाम् द्वादशानाम् सवर्णानाम् ग्रहणम् निषिध्यते । अतएव, 'बाल' इति ह्रस्व-अकारान्तशब्दस्य विषये <<बहुवचने झल्येत्>> [[7.3.103]] इत्यस्य प्रयोगं कृत्वा 'बालेभ्यः' इति रूपे एकारः श्रूयते, परन्तु 'बाला' इति आकारान्तशब्दस्य विषये अस्य सूत्रस्य प्रयोगः नैव सम्भवति, अतएव 'बालाभ्यः' इत्यत्र एकारादेशः न भवति । प्रकिये एतादृशे -\n\nबाल + भ्यस् [पञ्चमीबहुवचनस्य भ्यस्-प्रत्ययः।]\n→ बाले + भ्यस् [<<बहुवचने झल्येत्>> [[7.3.103]] इत्यनेन बहुवचनस्य प्रत्यये परे ह्रस्व-अकारान्तस्य अङ्गस्य एकारादेशः]\n→ बालेभ्यः [<<ससजुषो रुः>> [[8.2.66]], <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] ]\n\n\nबाला + भ्यस् [पञ्चमीबहुवचनस्य भ्यस्-प्रत्ययः।]\n→ बाला + भ्यस् [<<बहुवचने झल्येत्>> [[7.3.103]] इत्यस्मिन् सूत्रे 'अतः' इति अनुवृत्तेः ग्रहणात् ह्रस्व-अकारेण दीर्घ-अकारस्य ग्रहणं निषिध्यते, अतः अस्य सूत्रस्य अत्र प्रसक्तिः न वर्तते ।]\n→ बालाभ्यः [<<ससजुषो रुः>> [[8.2.66]], <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] ]\n\n2) <<अदेङ् गुणः>> [[1.1.2]] अस्मिन् सूत्रे 'अत् + एङ्' इत्यत्र विद्यमानः तकारः एकस्मिन् एव समये अकारात् परः, तथा च एङ्-प्रत्याहारात् च पूर्वः विद्यते । अतः अत्र अयम् तकारः 'अ' तथा 'एङ्' एताभ्याम् द्वाभ्याम् सह अपि अन्वेति । इत्युक्ते 'अत्' इत्यनेन अकारस्य केवलम् तत्कालिक-सवर्णानाम् (ह्रस्वभेदानाम्) एव ग्रहणं क्रियते, न हि दीर्घ-प्लुत-भेदानाम् । एवमेव, 'अएङ्' इत्यनेन अपि एकार-ओकारयोः दीर्घ-भेदानाम् एव ग्रहणं भवति, न हि प्लुत-भेदानाम् । \n3) <<इदितो नुम् धातोः>> [[7.1.58]] अस्मिन् सूत्रे 'इत्' इत्यत्र तकारः इकारात् परः विद्यते । अतः अनेन इकारेण दीर्घभेदस्य ग्रहणं न भवति । अतएव, 'ओप्यायीँ' एतादृशेषु ईदित्-धातुषु अनेन सूत्रेण नुमागमः न भवति ।\n4) <<ऋत्यकः>> [[6.1.128]] इति सूत्रे 'ऋत्' इत्यत्र ऋकारात् परः तकारः विद्यते । अतः अनेन ऋकारस्य दीर्घ/प्लुतसवर्णानाम् ग्रहणं न भवति । परन्तु अनेन ऋकारेण ह्रस्व-ऌकारस्य तु अवश्यम् ग्रहणं भवति, यतः अनेन वार्त्तिकेन ऋकार-ऌकारयोः सावर्ण्यम् उक्तम् अस्ति, अपि च ह्रस्व-ऌकारस्य उच्चारणकालः अपि ह्रस्व-ऋकारसदृशः एव (एकमात्रायावत्) वर्तते । अतएव 'माला + ऌकार' इत्यत्र <<ऋत्यकः>> [[6.1.128]] इति सूत्रेण पाक्षिकः प्रकृतिभावः विधीयते ।\nसूत्रे विद्यमानः 'तपर' शब्दः\nसूत्रे पाठितः 'तपर'शब्दः एकस्मिन् एव समये तत्पुरुषसमासरूपेण, बहुव्रीहिसमासरूपेण च स्वीक्रियते । तदित्थम् -\n1. तात् परः तपरः — इति तत्पुरुषसमासः । अनेन तकारात् अनन्तरम् विद्यमानः वर्णः निर्दिश्यते । अतः <<अदेङ् गुणः>> [[1.1.2]] अस्मिन् सूत्रे 'अत् + एङ्' इत्यत्र तकारात् परस्य एङ्-इत्यस्य अत्र 'तपर'शब्देन ग्रहणं भवति । एङ्-प्रत्याहारः तपरः अस्ति, अतः तस्य विषये सवर्णग्रहणं नियम्यते — इति अत्र आशयः ।\n2. तः परः यस्मात् सः तपरः — इति बहुव्रीहिसमासः । अनेन तकारात् पूर्वं विद्यमानः वर्णः निर्दिश्यते । अतः <<अदेङ् गुणः>> [[1.1.2]] अस्मिन् सूत्रे 'अत् + एङ्' इत्यत्र तकारात् पूर्वस्य 'अ' इत्यस्य 'तपर'शब्देन ग्रहणं भवति । अवर्णः तपरः अस्ति, अतः तस्य विषये सवर्णग्रहणं नियम्यते — इति अत्र आशयः । \nतकारस्य उच्चारणार्थः अपि प्रयोगः\nबहुषु सूत्रेषु तकारः उच्चारणार्थः अपि प्रयुक्तः अस्ति । यथा, <<दिव उत्>> [[6.1.131]] इत्यत्र उकारात् परः विद्यमानः तकारः उच्चारणार्थः वर्तते । तत्कथम् इति चेत्, <<दिव उत्>> [[6.1.131]] अस्मिन् सूत्रे उकारः विधीयमानः (आदेशः) अस्ति, अतः अनेन उकारेण मूलतः एव सवर्णग्रहणं न भवति । अस्यां स्थितौ सवर्णग्रहणस्य नियमनम् अपि नैव सम्भवति । अतः अत्र विद्यमानः तकारः केवलम् उच्चारणार्थः एव अस्ति इति स्वीक्रियते । एवमेव, <<दिव औत्>> [[7.1.84]] इत्यस्मिन् सूत्रे विद्यमानः तकारः अपि उच्चारणार्थः एव अस्ति, यतः औकारः अत्र विधीयमानः अस्ति अतश्च सवर्णग्रहणे नैव समर्थः । <<ॠत इद्धातोः>> [[7.1.100]] अस्मिन् सूत्रे दीर्घ-ॠकारात् परः यः तकारः विद्यते, तस्यापि प्रयोजनम् उच्चारणम् एव । दीर्घ-ॠकारेण कुत्रापि सवर्णग्रहणं न सम्भवति (यतः दीर्घः ॠकारः अण्-प्रत्याहारे एव न वर्तते) अतः तत्रापि सवर्णग्रहणनियमनेन न कश्चन लाभः ।\nयत्र यत्र वर्णात् अनन्तरम् तकारः प्रयुक्तः वर्तते, तत्र तत्र 'तपरकरणम् कृतम् अस्ति' इति उच्यते । यथा, <<अदेङ् गुणः>> [[1.1.2]], <<दिव उत्>> [[6.1.131]], <<ऋत्यकः>> [[6.1.128]], <<ॠत इद्धातोः>> [[7.1.100]] इत्येतेषु सर्वेषु अपि सूत्रेषु तपरकरणम् विद्यते । एतादृशं तपरकरणम् सवर्णग्रहणनियमार्थम् भवितुम् अर्हति, अथ वा उच्चारणार्थम् / असन्देहार्थम् अपि भवितुम् अर्हति । \n " }, "11071": { "sa": "अन्तिम-इत्-वर्णेन सह गृहीतः आदिवर्णः तयोः मध्ये विद्यमानाम् वर्णानाम् , स्वस्य च निर्देशं करोति । ", "sd": "व्याकरणशास्त्रे प्रयुक्तासु संज्ञासु मुख्याः सन्ति अच्/अण्/अक्-आदयः आहत्य चतुश्चत्वारिंशत् (44) संज्ञाः । एतासाम् सर्वानाम् एकत्ररूपेण निर्देशः 'प्रत्याहारः' इति शब्देन क्रियते । एतासाम् सर्वासाम् संज्ञानाम् निर्माणार्थम् प्रकृतसूत्रम् पाठितम् अस्ति । शिवसूत्रेषु विद्यमानः वर्णः यदा तस्मात् अनन्तरम् विद्यमानेन इत्संज्ञकवर्णेन सह एकत्ररूपेण उच्चार्यते, तदा तादृशेन उच्चारणेन तयोः द्वयोः वर्णयोः मध्ये विद्यमानानाम् सर्वेषाम् वर्णानाम्, तथा च तस्य स्वस्य अपि वर्णस्य ग्रहणं भवति — इति अस्य सूत्रस्य आशयः । यथा, शिवसूत्रे विद्यमानः 'ह्' इति वर्णः यदा 'जबगडदश्' इत्यत्र विद्यमानेन इत्संज्ञक-शकारेण सह एकत्ररूपेण ('हश्' इति रीत्या) उच्चार्यते, तदा 'हश्' इत्यनेन हकारात् आरभ्य शकारपर्यन्तम् विद्यमानानाम् सर्वेषाम् अपि वर्णानाम् (ह्, य्, व्, र्, ल्, ञ्, म्, ङ्, ण्, न्, झ्, भ्, घ्, ढ्, ध्, ज्, ब्, ग्, ड्, द् — इत्येतेषाम्) ग्रहणम् भवति । एतादृशम् अत्र 'हश्' इति संज्ञा, एते सर्वे वर्णाः च संज्ञिनः — इति व्यवहारः भवति । एवमेव, शिवसूत्रेषु विद्यमानः 'र्' इति वर्णः यदा 'लँण्' इत्यत्र विद्यमानेन इत्संज्ञक-अकारेण सह एकत्ररूपेण ('र') इति उच्चार्यते, तदा तेन रेफस्य तथा च लकारस्य - द्वयोः अपि ग्रहणं भवति । एतादृशानाम् एव 'हश्', 'र' आदीनाम् निर्देशः 'प्रत्याहाराः' इति शब्देन भवति । अनेन प्रकारेण अष्टाध्याय्याम् आहत्य चतुश्चत्वारिंशत् प्रत्याहाराः प्रयुक्ताः दृश्यन्ते । \nअष्टाध्याय्याम् पाणिनिना कुत्रापि 'प्रत्याहारः' इति शब्दः नैव उपयुक्तः अस्ति । 'प्रत्याहारः' इति व्याकरणशास्त्रस्य विशिष्टा संज्ञा नास्ति । प्रकृतसूत्रेण 'प्रत्याहार' इति संज्ञा नैव दीयते, अपितु 'अच्', 'अण्', 'अक्' एतादृशाः चतुश्चत्वारिंशत् संज्ञाः दीयन्ते । एते सर्वे शब्दाः एव व्याख्यानेषु 'प्रत्याहाराः' शब्देन निर्दिष्टाः सन्ति । एतेषाम् सोदाहरणम् आवली प्रत्याहारावली अस्मिन् विभागे द्रष्टुं शक्यते । \nआदिः, अन्त्यः, मध्यगः, स्वः\nअस्मिन् सूत्रे 'आदिः' तथा 'अन्त्यः' इति शब्दौ साक्षात् प्रयुक्तौ स्तः । <<स्वं रूपं शब्दस्याशब्दसंज्ञा>> [[1.1.68]] इत्यस्मात् सूत्रात् 'स्व' इति शब्दः अपि अनुवर्तते, स च षष्ठ्या विपरिणम्यते । काशिकायाम् ,कौमुद्यां च 'मध्य' इति शब्दः अपि अस्मिन् सन्दर्भे प्रयुक्तः अस्ति । एतेषाम् सर्वेषाम् अर्थाः एतादृशाः —\n\n1) आदिः — यस्मात् पूर्वम् किमपि नास्ति, परन्तु यस्मात् परम् (अनन्तरम्) अन्ये वर्णाः भवन्ति, सः आदिवर्णः ।\n2) अन्त्यः — अन्ते भवः अन्त्यः । यस्मात् अनन्तरम् किमपि नास्ति, परन्तु यस्मात् पूर्वम् अन्ये वर्णाः भवन्ति, सः अन्त्यवर्णः ।\n3) मध्यगः — मध्ये गच्छति सः मध्यगः । आदिवर्णः तथा अन्त्यवर्णः एतयोर्मध्ये विद्यमानाः वर्णाः मध्यगाः इति नाम्ना निर्दिश्यन्ते । यद्यपि अयं शब्दः सूत्रे कुत्रापि स्पष्टरूपेण न दीयते, तथापि <ऽतन्मध्यपतितस्तद्ग्रहणेन गृह्यतेऽ> (परिभाषा-90) अनया परिभाषया आदि-अन्त्य-वर्णयोः एकत्ररूपेण ग्रहणं क्रियते चेत् मध्यगानाम् अपि ग्रहणं भवति ।\n4) स्वः — आदिवर्णः स्वयं मध्यगेषु न अन्तर्भवत, परन्तु आदिवर्णस्य अपि प्रत्याहारे ग्रहणम् इष्यते; अतः 'स्व' इति शब्दस्य अस्मिन् सूत्रे अनुवृत्तिः कृता अस्ति । अस्य स्वशब्दस्य अन्वयः आदिवर्णेन सह भवति, न हि अन्त्यवर्णेन सह, यतः 'अन्त्येन सह आदिः' इति प्रयोगे 'आदिः' इति प्रधानकर्ता अस्ति इति <<सह युक्तेऽप्रधाने>> [[2.3.19]] अनेन सूत्रेण स्पष्टी भवति । \n\nप्रत्याहारग्रहणे यद्यपि आदिवर्णस्य ग्रहणं भवति, तथापि अन्तिम-इत् वर्णस्य, एवमेव मध्ये विद्यमानानाम् इत्-वर्णानाम् ग्रहणं न क्रियते । यदि तादृशम् ग्रहणम् अभविष्यत्, तर्हि 'अच्' इति प्रत्याहारेण 'ऋऌक्' इत्यस्य ककारस्य अपि ग्रहणम् अभविष्यत्, येन, 'अच्' प्रत्याहारेण ककारस्यापि निर्देशे जाते, 'इ + क्' इत्यत्र उत 'उ + क्' इत्यत्र अपि <<इको यणचि>> [[6.1.77]] इत्यनेन अनिष्टः यणादेशः अभविष्यत् । परन्तु एतादृशः यणादेशः न कुत्रचित् कृतः दृश्यते । यथा, 'अनुनासिक' , 'शिक्षा', 'मुक्ति' — एतादृशेषु शब्देषु संहितायाम् सत्याम् अपि इकार-उकारयोः ककारे परे यणादेशः न भवति । एते शब्दाः एव अस्य प्रमाणम् सन्ति, यत् प्रत्याहारेषु इत्-वर्णानाम् ग्रहणम् न भवति ।\nप्रत्ययैः प्रत्याहारनिर्माणार्थम् अस्य सूत्रस्य प्रयोगः\nअष्टाध्याय्याम् तृतीयाध्याये, चतुर्थाध्याये, पञ्चमाध्याये च बहवः प्रत्ययाः आवलीरूपेण दत्ताः सन्ति । एतेषाम् विषये अपि आदिवर्णस्य अन्तिम-इत्-वर्णेन सह ग्रहणं कृत्वा प्रत्याहारनिर्माणं भवति । एतादृशाः आहत्य सप्त प्रत्याहाराः अष्टाध्याय्याम् प्रयुक्ताः दृश्यन्ते —\n\n1. सुप् — <<स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्>> [[4.1.2]] इति सूत्रे विद्यमानः प्रथमः 'सु' इति प्रत्ययः अस्यैव सूत्रस्य अन्तिम-इत्संज्ञकेन पकारेण सह उपयुज्य 'सुप्' इति प्रत्याहारः सिद्ध्यति । अस्मिन् प्रत्याहारे आहत्य 21 प्रत्ययाः विद्यन्ते ।\n2. सुट् — <<स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्>> [[4.1.2]] इति सूत्रे विद्यमानः प्रथमः 'सु' इति प्रत्ययः अस्मिन्नेव सूत्रे विद्यमानेन औट्-प्रत्ययस्य इत्संज्ञक-टकारेण सह उपयुज्य 'सुट्' इति प्रत्याहारः सिद्ध्यति । अस्मिन् प्रत्याहारे आहत्य 5 प्रत्ययाः विद्यन्ते ।\n3. आप् — <<स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्>> [[4.1.2]] इति सूत्रे विद्यमानस्य 'टा' इति प्रत्ययस्य अकारः अस्यैव सूत्रस्य अन्तिम-इत्संज्ञकेन पकारेण सह उपयुज्य 'टाप्' इति प्रत्याहारः सिद्ध्यति । अस्मिन् प्रत्याहारे आहत्य 15 प्रत्ययाः विद्यन्ते ।\n4. तिङ् — <<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> [[3.4.78]] इति सूत्रे विद्यमानः प्रथमः 'ति' इति प्रत्ययः अस्यैव सूत्रस्य अन्तिम-इत्संज्ञकेन ङकारेण सह उपयुज्य 'तिङ्' इति प्रत्याहारः सिद्ध्यति । अस्मिन् प्रत्याहारे आहत्य 18 प्रत्ययाः विद्यन्ते ।\n5. तङ् — <<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> [[3.4.78]] इति सूत्रे विद्यमानः 'त' इति प्रत्ययः अस्यैव सूत्रस्य अन्तिम-इत्संज्ञकेन ङकारेण सह उपयुज्य 'तङ्' इति प्रत्याहारः सिद्ध्यति । अस्मिन् प्रत्याहारे आहत्य 9 प्रत्ययाः विद्यन्ते ।\n6. तृन् — <<लटः शतृशानचावप्रथमासमानाधिकरणे>> [[3.2.124]] अस्य सूत्रस्य 'तृ' इति अक्षरम् <<तृन्>> [[3.2.135]] इति प्रत्ययस्य नकारेण सह उपयुज्य 'तृन्' इति प्रत्याहारः सिद्ध्यति । अस्मिन् प्रत्याहारे आहत्य 5 प्रत्ययाः विद्यन्ते ।\n7. सङ् — <<गुप्तिज्किद्भ्यः सन्>> [[3.1.5]] अस्य सूत्रस्य 'सन्' प्रत्ययस्य 'स' इति अक्षरम् <<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> [[3.4.78]] अस्य सूत्रस्य अन्तिम-ङकारेण सह उपयुज्य 'सङ्' इति प्रत्याहारः भवति । अस्मिन् प्रत्याहारे धातुभ्यः विहिताः सर्वेऽपि प्रत्ययाः (200+) समाविश्यन्ते ।\n\nधातूनाम् प्रत्याहारनिर्माणार्थम् अस्य सूत्रस्य प्रयोगः\n<<अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः>> [[5.4.50]] अस्मिन् सूत्रे विद्यमानः 'कृ' इति धातुः <<कृञो द्वितीयतृतीयशम्बबीजात् कृषौ>> [[5.4.58]] इत्यत्र विद्यमानेन ञकारेण सह उपयुज्य 'कृञ्' इति प्रत्याहारः सिद्ध्यति । अनेन प्रत्याहारेण 'कृ, भू, अस्' इति त्रयाणां धातूनां ग्रहणं भवति । अनेन प्रकारेण अस्य सूत्रस्य प्रयोगः धातूनाम् प्रत्याहारनिर्माणार्थम् अपि भवति । " }, "11072": { "sa": "विशेषणेन निर्दिष्टः विधिः तम् विशेषणम् स्वीकृत्य अपि भवति, तदन्तम् स्वीकृत्य अपि भवति ।", "sd": "अष्टाध्याय्याः सूत्रैः उक्तः विधिः कीदृशेभ्यः शब्देभ्यः भवति इत्यस्मिन् विषये कश्चन सामान्यनियमः प्रकृतसूत्रेण उच्यते । यदि सूत्रे स्थानिनः निर्देशार्थम् किञ्चन विशेषणम् निर्दिष्टम् अस्ति, तर्हि तेन सूत्रेण निर्दिष्टः विधिः विशेषणस्य विषये तु अवश्यम् एव प्रयुज्यते,परन्तु तद् विशेषणम् यस्य अन्ते विद्यते तादृशस्य शब्दस्य विषये अपि प्रयुज्यते — इति प्रकृतसूत्रस्य अर्थः । अस्यैव निर्देशः व्याकरणग्रन्थेषु तदन्तविधिः इति नाम्ना क्रियते । कानिचन उदाहरणानि एतादृशानि —\n\n1. <<अतो दीर्घो यञि>> [[7.3.101]] इति सूत्रम् अङ्गाधिकारे विद्यते । अस्मिन् सूत्रे विद्यमानः अतः इति षष्ठ्यन्तः शब्दः अङ्गस्य इत्यस्य षष्ठ्यन्तपदस्य विशेषणम् अस्ति । अतः अत्र सामान्यरूपेण इति अङ्गस्य यञ्-वर्णे परे दीर्घः भवति — इति अर्थः जायते । परन्तु अनेन सूत्रेण उक्तः दीर्घः केवलम् इति एकस्य अङ्गस्य विषये कर्तुम् इदं सूत्रं पाणिनिना नैव निर्मितम्, अपितु येषाम् शब्दानाम् अन्ते -इति वर्णः विद्यते, तेषाम् सर्वेषाम् कृते अस्य सूत्रस्य प्रयोगः इष्यते । अतः अत्र <<येन विधिस्तदन्तस्य>> [[1.1.72]] इति प्रकृतसूत्रस्य साहाय्यं स्वीक्रियते । इत्युक्ते, विशेषणेन निर्दिष्टः विधिः तदन्तस्य अपि भवति — इति प्रकृतसूत्रेण उक्तं नियमम् अनुसृत्य अत्र <<अतो दीर्घो यञि>> [[7.3.101]] इति सूत्रस्य सर्वेषाम् ह्रस्व-अकारान्तशब्दानां विषये अपि प्रयोगः क्रियते ।अतएव, पठामि इति शब्दस्य सिद्धौ <<अतो दीर्घो यञि>> [[7.3.101]] इति सूत्रेण दीर्घादेशे कृते इष्टरूपं सिद्ध्यति —\n\nपठँ (व्यक्तायां वाचि, भ्वादिः, <{1.381}>)\n→ पठ् + लट् [<<वर्तमाने लट्>> [[3.2.123]]]\n→ पठ् + मिप् [<<तिप्तस्झि..>> [[3.4.78]] इति उत्तमपुरुषैकवचनस्य मिप्-प्रत्ययः]\n→ पठ् + शप् + मि [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ पठ् + अ + मि [इत्संज्ञालोपः]\n→ पठ् + आ + मि [अत्र केवल-अकारस्य अङ्गसंज्ञा न विद्यते, अपितु पठ् + अ इत्यस्य सम्पूर्णस्य शब्दस्य अङ्गसंज्ञा वर्तते । अतः अत्र प्रकृतसूत्रेण उक्तं तदन्तविधिम् अवलम्ब्य <<अतो दीर्घो यञि>> [[7.3.101]] इत्यनेन अदन्तस्य अङ्गस्य दीर्घादेशः सम्भवति । तत्र <<अचश्च>> [[1.2.28]] इत्यनेन केवलम् अच्-वर्णस्य ; तत्रापि <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यनेन अन्तिम-अच्-वर्णस्य दीर्घादेशः जायते ।]\n→ पठामि \n\n2.<<दिव उत्>> [[6.1.131]] इत्यस्मिन् सूत्रे दिवः इति षष्ठ्यन्तः शब्दः पदस्य इत्यस्य विशेषणम् अस्ति । अतः अस्य सूत्रस्य — 'दिव्-इति पदस्य उत्-आदेशः भवति' — इति सीमितः अर्थः सम्भवति । परन्तु अत्रापि सूत्रस्य सम्यक् अर्थविधानार्थम् <<येन विधिस्तदन्तस्य>> [[1.1.72]] इति प्रकृतसूत्रस्य साहाय्यं स्वीक्रियते, येन दिवः इति विशेषणस्य सन्दर्भे तदन्तविधेः प्रयोगं कृत्वा — दिव्-धातोः, दिव्-शब्दान्तस्य च पदसंज्ञायां सत्याम् उत्-आदेशः भवति इति अत्र सूत्रार्थः सिद्ध्यति । अतएव सुदिव्-शब्दस्य विषये अपि इदं सूत्रम् उपयुज्यउत्-आदेशः क्रियते —\n\nसुदिव् + भ्याम् [तृतीयाद्विवचनस्य प्रत्ययः । अस्मिन् प्रत्यये परे सुदिव्-शब्दस्य <<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इति पदसंज्ञा विधीयते ।]\n→ सुदि उ + भ्याम् [<<दिव उत्>> [[6.1.131]] इत्यत्र तदन्तविधिना दिव्-शब्दान्तस्य सुदिव्-पदस्य विषये अपि उत्-आदेशः विधीयते । <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यनेन अयम् आदेशः अन्तिमवर्णस्य स्थाने भवति, अतः अत्र सुदिव्-पदस्य अन्तिम-वकारस्य उकारादेशः विधीयते ।]\n→ सुद्युभ्याम् [<<इको यणचि>> [[6.1.77]] इति यणादेशः]\n\n3. <<ह्रस्वस्य पिति कृति तुक्>> [[6.1.71]] इत्यस्मिन् सूत्रे विद्यमानः ह्रस्वस्य इति शब्दः धातोः इत्यस्य विशेषणम् अस्ति । अत्रापि <<येन विधिस्तदन्तस्य>> [[1.1.72]] इति प्रकृतसूत्रेण तदन्तविधेः प्रयोगं कृत्वा ह्रस्वसंज्ञकस्य धातोः, ह्रस्वान्तधातोः च पित्-कृत्-प्रत्यये परे तुगागमः भवति इति अर्थः सिद्ध्यति । अतएव -धातोः तु तुगागमः भवत्येव, परन्तु स्तु इति ह्रस्वान्तधातोः अपि तुगागमः अवश्यं विधीयते —\n\nह्रस्वसंज्ञकस्य इ-धातोः तुगागमः —\nइण् (गतौ, अदादिः, <{2.40}>)\n→ इ + क्यप् [<<एतिस्तुशास्वृदृजुषः क्यप्>> [[3.1.109]] इति क्यप्-प्रत्ययः]\n→ इ तुक् + य [<<ह्रस्वस्य पिति कृति तुक्>> [[6.1.71]] इति तुगागमः]\n→ इत्य \n
    \nह्रस्वान्तस्य स्तु-धातोः तुगागमः —\nष्टुञ् (स्तुतौ, अदादिः, <{2.38}>)\n→ स्तु [<<धात्वादेः षः सः>> [[6.1.64]] । इति षत्वनिवृत्तौ ष्टुत्वनिवृत्तिः ]\n→ स्तु + क्यप् [<<एतिस्तुशास्वृदृजुषः क्यप्>> [[3.1.109]] इति क्यप्-प्रत्ययः]\n→ स्तु + तुक् + य [<<ह्रस्वस्य पिति कृति तुक्>> [[6.1.71]] इत्यत्र तदन्तविधिना ह्रस्वान्तस्य धातोः तुगागमः]\n→ स्तुत्य\n
    \nअनेन प्रकारेण यत्र यत्र विशेषणम् उपयुज्य विधेः निर्देशः कृतः अस्ति, तत्र तत्र प्रकृतसूत्रेण तदन्तविधेः प्रयोगः भवति ।\n\nतदन्तविधेः प्रतिषेधः\nप्रकृतसूत्रेण उक्तः तदन्तविधिः द्वयोः स्थलयोः नैव इष्यते । तदर्थम् वार्त्तिककारः इति वार्त्तिकम् अस्मिन् सूत्रे पाठयति । समासविधौ, प्रत्ययविधौ च तदन्तविधेः प्रयोगः न करणीयः — इति अस्य वार्त्तिकस्य अर्थः । यथा —\n\n1. <<द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः>> [[2.1.24]] अनेन सूत्रेण श्रित/अतीत/पतित/गत इत्यादिभिः शब्दैः सह सुबन्तस्य द्वितीयातत्पुरुषः समासः विधीयते; यथा — कृष्णं श्रितः = कृष्णश्रितः । अस्मिन् सूत्रे श्रित/अतीत/पतित/गत एतानि सर्वाणि सुपः इत्यस्य विशेषणानि सन्ति । अत्र यदि तदन्तविधेः प्रयोगः भवेत्, तर्हि कृष्णं श्रितः इत्येतत्सदृशं कृष्णं परमश्रितः इत्यस्य विषये अपि प्रकृतसूत्रेण अनिष्टः द्वितीयातत्पुरुषसमासः सम्भवेत् । परन्तु समासविधिं दृष्ट्वा अत्र इति वार्त्तिकम् उपयुज्यते, येन अस्य सूत्रस्य विषये तदन्तविधिः नैव प्रवर्तते । अतएव कृष्णं परमश्रितः इत्यत्र <<द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः>> [[2.1.24]] इति सूत्रेण द्वितीयातत्पुरुषसमासः न भवति । \n2. <<नडादिभ्यः फक्>> [[4.1.99]] इत्यनेन सूत्रेण नडादिगणस्य शब्देभ्यः फक् इति प्रत्ययः विधीयते । अस्मिन् सूत्रे नडादिभ्यः इति शब्दः प्रातिपदिकेभ्यः इत्यस्य विशेषणम् अस्ति । अत्र यदि प्रकृतसूत्रेण तदन्तविधिः विधीयेत, तर्हि सूत्रनड इत्यस्य तदन्तस्य विषये अपि <<नडादिभ्यः फक्>> [[4.1.99]] सूत्रेण अनिष्टः फक्-प्रत्ययः प्राप्नुयात् । परन्तु अत्र वार्त्तिककारेण इत्येतं वार्त्तिकं दत्त्वा प्रत्ययविधेः विषये तदन्तस्य प्रतिषेधः उच्यते, अतः फक्-प्रत्ययस्य विधानसमय तदन्तविधिः नैव प्रयुज्यते । अतएव केवलम् नड-शब्दात् एव फक्-प्रत्ययः भवति, सूत्रनड-शब्दात् फक्-प्रत्ययः न विधीयते ।\n \nतदन्तविधेः प्रतिषेधस्य प्रतिषेधः\nकेषुचन विशिष्टेषु स्थलेषु समासविधौ उत प्रत्ययविधौ अपि तदन्तविधिः अवश्यम् इष्यते । अतः एतादृशेषु स्थलेषु इति वार्त्तिकेन प्राप्तं तदन्तविधेः प्रतिषेधम् बाधित्त्वा पुनः तदन्तविधेः विधानार्थम् वार्त्तिककारः प्रथमवार्त्तिकस्य निषेधरूपेण द्वितीयम् वार्त्तिकं पाठयति —‌ — इति । यत्र उगित्-ग्रहणम् वर्णग्रहणम् वा क्रियते, तत्र समासविधौ प्रत्ययविधौ च अपि तदन्तग्रहणम् अवश्यमेव भवति — इति अस्य वार्त्तिकस्य आशयः । यथा —\n\n1) <<उगितश्च>> [[4.1.6]] अनेन सूत्रेण उगित्-शब्दात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः विधीयते । यथा, भवतुँ इत्यस्मात् उगित्-शब्दात् अनेन सूत्रेण ङीप्-प्रत्यये कृते भवती इति शब्दः सिद्ध्यति । अस्य सूत्रस्य प्रयोगः समासस्य विषये अपि इष्यते, अतः इति वार्त्तिकेन प्राप्तस्य तदन्तविधिप्रतिषेधस्य अपि इति द्वितीयवार्त्तिकेन प्रतिषेधः क्रियते, येन उगित्-शब्दानां विषये समासे अपि तदन्तविधेः प्रयोगः अवश्यम् सम्भवति । अतएव अतिभवत् इति समस्तपदस्य विषये तदन्तविधिना ङीप्-प्रत्ययः एव विधीयते, येन अतिभवती इति इष्टशब्दः सिद्ध्यति ।\n2) <<एरच्>> [[3.3.56]] इत्यस्मिन् सूत्रे विद्यमानः एः इति शब्दः इत्यस्य पञ्चम्येकवचनम् अस्ति । अयं शब्दः अत्र धातोः इत्यस्य विशेषणरूपेण निर्दिष्टः अस्ति । अनेन सूत्रेण अच्-प्रत्ययस्य विधानम् कृतम् अस्ति, अतः इति वार्त्तिकेन अत्र वस्तुतः तदन्तविधिः प्रतिषिध्यते । इत्युक्ते, अनेन सूत्रेण केवलम् -धातोः एव अच्-प्रत्ययः विधीयेत, न हि इवर्णान्त-धातुभ्यः । परन्तु अत्र <<एरच्>> [[3.3.56]] इति सूत्रस्य प्रयोगः बहुभ्यः इवर्णान्तधातुभ्यः इष्यते । अतः अत्र वार्त्तिककारस्य इति द्वितीयस्य वार्तिकस्य साहाय्यं स्वीक्रियते । अस्मिन् सूत्रे -इति वर्णनिर्देशेन प्रत्ययविधानं कृतम् अस्ति, एतादृशे वर्णनिर्देशे कृते तदन्तविधिः अवश्यं भवति — इति अस्मात् वार्त्तिकात् स्पष्टी भवति । अतएव अत्र -धातोः तु अच्-प्रत्ययः भवत्येव, परन्तु जि, क्षि, चि, डी एतादृशानाम् इवर्णान्त-धातुभ्यः अपि अच्-प्रत्ययः अवश्यं विधीयते —\n\nइ-धातोः अच्-प्रत्ययः —\nइण् (गतौ, अदादिः, <{2.40}>)\n→ इ + अच् [<<एरच्>> [[3.3.56]] इति अच्-प्रत्ययः]\n→ ए + अ [<<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणः]\n→ अय् + अ [<<एचोऽयवायावः>> [[6.1.78]] इति अयादेशः]\n→ अय\n
    \nजि-धातोः अच्-प्रत्ययः —\nजि (अभिभवे, भ्वादिः, <{1.1096}>)\n→ जि + अच् [<<एरच्>> [[3.3.56]] इति अच्-प्रत्ययः]\n→ जे + अ [<<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणः]\n→ जय् + अ [<<एचोऽयवायावः>> [[6.1.78]] इति अयादेशः]\n→ जय\n
    \n
    \nतदन्तग्रहणसम्बन्धिन्यः भिन्नाः परिभाषाः \nप्रकृतसूत्रस्य भाष्ये, तदनुषङ्गेन परिभाषेन्दुशेखरे च तदन्तविधेः सम्बन्धिन्यः नैकाः परिभाषाः परिगणिताः विद्यन्ते । एताभ्यः काश्चन परिभाषाः प्रकृतसूत्रस्यैव अर्थम् भिन्नरूपेण स्पष्टीकुर्वन्ति, काश्चन अन्याः च परिभाषाः प्रकृतसूत्रस्य विशिष्टेषु सन्दर्भेषु नियमनं कुर्वन्ति । एताभ्यः केवलम् मुख्यानाम् कासाञ्चित् परिभाषाणाम् सङ्क्षेपः अधः दत्तः अस्ति । एतासाम् विस्तरः, तथा च अस्मिन्नेव सन्दर्भे पाठिताः अन्याः परिभाषाः तु प्रकृतसूत्रस्य भाष्ये, परिभाषेन्दुशेखरे च द्रष्टव्याः ।\n1. (परिभाषा-23) प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य च ग्रहणम् — <<येन विधिस्तदन्तस्य>> [[1.1.72]] इति प्रकृतसूत्रात् एव इयं परिभाषा सिद्ध्यति । धातूनाम्, प्रत्ययानाम्, समासस्य च विधानम् यत्र विशिष्टप्रत्ययग्रहणेन क्रियते तत्र तदन्तविधिः अवश्यं भवति इति अस्याः परिभाषायाः आशयः । यथा, <<सनाशंसभिक्ष उः>> [[3.2.168]] इत्यनेन सूत्रेण -प्रत्ययस्य विधानम् सन्-प्रत्ययस्य ग्रहणेन कृतम् अस्ति । अतः अत्र तदन्तविधिः अवश्यं क्रियते, येन 'सन्-प्रत्ययान्तशब्देभ्यः उ-प्रत्ययः भवति' इति समुचितः अर्थः सिद्ध्यति ।\n2. (परिभाषा-25) उत्तरपदाधिकारे प्रत्ययग्रहणे न तदन्तग्रहणम् — पूर्वोक्तायाः <ऽ प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य च ग्रहणम् ऽ> इत्यस्याः परिभाषायाः अपवादरूपेण इयं परिभाषा दीयते । षष्ठाध्यायस्य तृतीयपादे विद्यमाने <<अलुगुत्तरपदे>> [[6.3.1]] अस्मिन् अधिकारे प्रत्ययग्रहणेन तदन्तग्रहणं न भवति इति अस्याः परिभाषायाः आशयः । यथा, <<घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः>> [[6.3.43]] इत्यस्मिन् सूत्रे विद्यमानेन घरूप इति शब्देन घरूपान्तशब्दस्य ग्रहणं न भवति । इत्युक्ते, घप्रत्ययः उत्तरपदरूपेण विद्यते चेत् अनेन सूत्रेण अवश्यं ह्रस्वादेशः भवति, परन्तु घप्रत्ययान्तशब्दः उत्तरपदरूपेण विद्यते चेत् अयं ह्रस्वादेशः न प्रवर्तते । अतएव ब्राह्मणिरूपा इत्यत्र अनेन सूत्रेण ब्राह्मणी-शब्दस्य ह्रस्वादेशः क्रियते, परन्तु कुमारीब्राह्मणिरूपा इत्यत्र कुमारी-शब्दस्य ह्रस्वादेशः न भवति । \n3. (परिभाषा-27) संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति —पूर्वोक्तायाः <ऽप्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य च ग्रहणम् ऽ> इत्यस्याः परिभाषायाः अपवादरूपेण इयम् अपि परिभाषा दीयते । यत्र प्रत्ययस्य ग्रहणं कृत्वा संज्ञायाः विधानम् क्रियते, तत्र प्रत्ययग्रहणेन तदन्तग्रहणं न भवति इति अस्याः परिभाषायाः आशयः । यथा, <<तरप्तमपौ घः>> [[1.1.22]] इत्यनेन सूत्रेण पाठिता घसंज्ञा तरप्-तमप्-प्रत्यययोः एव भवति, तरप्-तमप्-प्रत्ययान्तशब्दानाम् न । \n4. (परिभाषा-29) पदाङ्गाधिकारे तस्य च तदन्तस्य च — <<येन विधिस्तदन्तस्य>> [[1.1.72]] इत्यस्य सूत्रस्य एव भिन्नरूपेण अर्थप्रतिपादनम् अनया परिभाषया क्रियते । पदाधिकारे अङ्गाधिकारे च प्रातिपदिकग्रहणेन तदन्तस्य अपि ग्रहणं भवति इति अस्याः परिभाषायाः आशयः । अतएव <<सान्तमहतः संयोगस्य>> [[6.4.10]] इत्यनेन महत्-शब्दस्य उपधा-अकारस्य विहितः दीर्घादेशः परममहत् इत्यस्य विषये अपि प्रवर्तते, येन अस्य प्रथमैकवचनस्य रूपम् परममहान् इति भवति । \n5. (परिभाषा-31) ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति —‌ इत्यस्मिन् वार्त्तिके विद्यमानस्य प्रत्ययविधौ इति अंशस्य विवेचनम् अनया परिभाषया क्रियते । यत्र प्रातिपदिकस्य निर्देशं कृत्वा प्रत्ययस्य विधानं कृतम् अस्ति, तत्र प्रातिपदिकेन तदन्तस्य ग्रहणं न भवति इति अस्याः परिभाषायाः अर्थः । अतएव <<नडादिभ्यः फक्>> [[4.1.99]] इत्यनेन नड-शब्दात् विहितः फक्-प्रत्ययः सूत्रनड-शब्दस्य विषये न प्रवर्तते । \n6. (परिभाषा-33) यस्मिन् विधिस्तदादावल्ग्रहणे — <<येन विधिस्तदन्तस्य>> [[1.1.72]] इत्यस्य अपवादरूपेण प्रकृतसूत्रे भाष्यकारेण इयं परिभाषा पाठ्यते । यत्र सप्तमीविभक्तौ एकवर्णात्मकं विशेषणम् प्रयुक्तम् वर्तते, तत्र तदन्तविधेः अपवादरूपेण तदादिविधिः प्रवर्तते — इति अस्याः परिभाषायाः अर्थः । इत्युक्ते, सप्तम्यन्तम् एकाल्-विशेषणम् यस्य शब्दस्य आदौ विद्यते तस्य शब्दस्य अपि तेन विशेषणेन ग्रहणम् क्रियते — इत्याशयः । यथा, <<नेड् वशि कृति>> [[7.2.8]] इत्यत्र वशि इति सप्तम्यन्तं पदम् कृति इत्यस्य विशेषणरूपेण उपयुज्यते, तथा च अत्र वशि इत्यनेन वर्णनिर्देशः क्रियते, अतः अत्र <ऽ यस्मिन् विधिस्तदादावल्ग्रहणे ऽ> इत्यनया परिभाषया तदादिविधेः प्रयोगं कृत्वा — वशादिकृत्प्रत्ययस्य इडागमः न भवति — इति अर्थः सिद्ध्यति ।\n
    \nइतोऽपि काश्चन परिभाषाः प्रकृतसूत्रात् सिद्ध्यन्ति । तासाम् अवगमनार्थम् जिज्ञासुभिः परिभाषाग्रन्थाः एव द्रष्टव्याः ।\n\n" }, "11073": { "sa": "यस्य शब्दस्य प्रथमः स्वरः वृद्धिसंज्ञकः अस्ति तस्य शब्दस्य 'वृद्धम्' इति संज्ञा भवति । ", "sd": "व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'वृद्धम्' इति संज्ञा । <<वृद्धिर्यस्याचामादिस्तद् वृद्धम्>> [[1.1.73]] इत्यतः <<एङ् प्राचां देशे>> [[1.1.75]] इति त्रिभिः सूत्रैः इयं संज्ञा पाठ्यते । अस्य सूत्रसमूहस्य इदं प्रथमं सूत्रम् । यस्य शब्दस्य प्रथमः स्वरः 'वृद्धि'संज्ञकः अस्ति (इत्युक्ते, आकारः / ऐकारः / औकारः अस्ति), सः शब्दः 'वृद्धम्' इति संज्ञां प्राप्नोति - इति अस्य सूत्रस्य आशयः । कानिचन उदाहरणानि एतानि -\n1. आत्मन्, शाला, राजन्, पाणिनिः - एतेषां आदिस्वरः आकारः अस्ति अतः एते वृद्धसंज्ञकाः शब्दाः ।\n2. ऐरावत, वैनतेय, कैलास, वैदिक - एतेषां आदिस्वरः ऐकारः अस्ति अतः एते अपि वृद्धसंज्ञकाः शब्दाः ।\n3. औषधि, कौरव, शौनक, भौतिक - एतेषां आदिस्वरः औकारः अस्ति अतः एते अपि वृद्धसंज्ञकाः शब्दाः ।\nशब्दस्य प्रथमः वर्णः स्वरः एव स्यात् इति अत्र न आवश्यकम् । शब्दे विद्यमानेषु स्वरेषु यः प्रथमः, सः वृद्धिसंज्ञकः स्यात् — इति अत्र आशयः अस्ति ।\nवृद्धसंज्ञायाः प्रयोजनम्\n'वृद्धम्' इति संज्ञा तद्धितप्रकरणे प्रयुज्यते । अस्याः संज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्याम् भिन्नाः विधयः उक्ताः सन्ति । यथा, वृद्धसंज्ञकेभ्यः शब्देभ्यः <<वृद्धाच्छः>> [[4.2.114]] इत्यनेन सूत्रेण तद्धितसंज्ञकः छप्रत्ययः भवति । उदाहरणद्वयम् एतादृशम् — \n1. 'शाला' इति वृद्धसंज्ञकात् शब्दात् छ-प्रत्ययः ।\n\nशालायाः इदम् [तद्धितवृत्तिः]\n→ शाला + छ ['शाला' इत्यस्य शब्दस्य आदिस्वरः आकारः अस्ति, अतः अस्य शब्दस्य वृद्धसंज्ञा भवति । अतः <<तस्येदम्>> [[4.3.120]] अस्मिन् अर्थे 'शालायाः' इति षष्ठीसमर्थात् औत्सर्गिके अण्-प्रत्यये प्राप्ते, तद्बाधित्वा <<वृद्धात् छः>> इति छ-प्रत्ययः विधीयते । ततः <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति ङस्-प्रत्ययस्य लुक् च भवति ।]\n→ शाला + ईय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति छकारस्य 'ईय्'-आदेशः]\n→ शाल् + ईय [<<यस्येति च>> [[6.4.148]] इति अवर्णलोपः]\n→ शालीय\n\n2. 'औपगव' इति वृद्धसंज्ञकात् शब्दात् छ-प्रत्ययः ।\n\n औपगवस्य इदम् [तद्धितवृत्तिः]\n→ औपगव + छ ['औपगव' इत्यस्य शब्दस्य आदिस्वरः औकारः अस्ति, अतः अस्य शब्दस्य वृद्धसंज्ञा भवति । अतः <<तस्येदम्>> [[4.3.120]] अस्मिन् अर्थे 'औपगवस्य' इति षष्ठीसमर्थात् औत्सर्गिके अण्-प्रत्यये प्राप्ते, तद्बाधित्वा <<वृद्धात् छः>> इति छ-प्रत्ययः विधीयते । ततः <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति ङस्-प्रत्ययस्य लुक् च भवति ।]\n→ औपगव + ईय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति छकारस्य 'ईय्'-आदेशः]\n→ औपगव् + ईय [<<यस्येति च>> [[6.4.148]] इति अवर्णलोपः]\n→ औपगवीय\n\nप्रयोगः\n'वृद्ध'संज्ञायाः प्रयोगः अष्टाध्याय्यां आहत्य चतुर्दशसु सूत्रेषु कृतः अस्ति -\n\n1. <<वृद्धो यूना तल्लक्षणश्चेदेव विशेषः>> [[1.2.65]]\n2. <<अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः>> [[4.1.113]]\n3. <<वृद्धाट्ठक् सौवीरेषु बहुलम्>> [[4.1.148]]\n4. <<उदीचां वृद्धादगोत्रात्>> [[4.1.157]]\n5. <<प्राचामवृद्धात् फिन् बहुलम्>> [[4.1.160]]\n6. <<वृद्धस्य च पूजायाम्>> [[4.1.166]]\n7. <<वृद्धेत्कोसलाजादाञ्ञ्यङ्>> [[4.1.171]]\n8. <<वृद्धाच्छः>> [[4.2.114]]\n9. <<वृद्धात् प्राचाम्>> [[4.2.120]]\n10. <<अवृद्धादपि बहुवचनविषयात्>> [[4.2.125]]\n11. <<वृद्धादकेकान्तखोपधात्>> [[4.2.141]]\n12. <<नित्यं वृद्धशरादिभ्यः>> [[4.3.144]]\n13. <<वृद्धस्य च>> [[5.3.62]]\n14. <<प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिवृन्दाः>> [[6.4.157]]\n\nअनुवृत्तिरूपेण तु अन्येषु सूत्रेषु अपि अस्याः संज्ञायाः प्रयोगः भवितुम् अर्हति ।\nवार्त्तिकम् 1 - <! वा नामधेयस्य वृद्धसंज्ञा वक्तव्या!>\nयः शब्दः लोकव्यवहारे नामरूपेण प्रयुज्यते, तस्य आदिस्वरः वृद्धिसंज्ञकः नास्ति चेदपि तस्य विकल्पेन वृद्धिसंज्ञा भवति — इति अस्य वार्त्तिकस्य आशयः । यथा, कस्यचन बालकस्य नामरूपेण प्रयुक्तः 'देवदत्त' इति संज्ञाशब्दः , अतः अस्य शब्दस्य विकल्पेन वृद्धसंज्ञा भवति । वृद्धसंज्ञापक्षे अस्मात् शब्दात् शैषिकेषु अर्थेषु <<वृद्धाच्छः>> [[4.2.114]] इति सूत्रेण छ-प्रत्ययः विधीयते । तदभावे <<प्राग्दीव्यतोऽण्>> [[4.1.83]] इत्यनेन औत्सर्गिकः अण्-प्रत्ययः एव भवति । प्रक्रिया इयम् — \n\nवृद्धसंज्ञाविधानपक्षः —\nदेवदत्तस्य इदम् [तद्धितवृत्तिः]\n→ देवदत्त + छ ['देवदत्त' इति नामवाचकशब्दः, अतः अस्य विकल्पेन वृद्धसंज्ञा भवति । वृद्धसंज्ञायां सत्याम् <<तस्येदम्>> [[4.3.120]] अस्मिन् अर्थे 'देवदत्तस्य' इति षष्ठीसमर्थात् औत्सर्गिके अण्-प्रत्यये प्राप्ते, तद्बाधित्वा <<वृद्धात् छः>> इति छ-प्रत्ययः विधीयते । ततः <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति ङस्-प्रत्ययस्य लुक् च भवति ।]\n→ देवदत्त + ईय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति छकारस्य 'ईय्'-आदेशः]\n→ देवदत्त् + ईय [<<यस्येति च>> [[6.4.148]] इति अवर्णलोपः]\n→ देवदत्तीय\n
    \nवृद्धसंज्ञा-अविधानपक्षः —\nदेवदत्तस्य इदम् [तद्धितवृत्तिः]\n→ देवदत्त + अण् ['देवदत्त' इति शब्दस्य वृद्धसंज्ञायाः अभावे <<तस्येदम्>> [[4.3.120]] अस्मिन् अर्थे 'देवदत्तस्य' इति षष्ठीसमर्थात् <<प्राग्दीव्यतोऽण्>> [[4.1.83]] इति औत्सर्गिकः अण्-प्रत्ययः भवति । ततः <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति ङस्-प्रत्ययस्य लुक् च भवति ।]\n→ दैवदत्त + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ दैवदत्त् + अ [<<यस्येति च>> [[6.4.148]] इति अवर्णलोपः]\n→ दैवदत्त\n
    \nएवमेव, 'यज्ञदत्तस्य इदम् = याज्ञदत्तम्, यज्ञदत्तीयम्' इति द्वे रूपे भवतः ।\nअस्य वार्त्तिकस्य विषये प्रदीपव्याख्याने कैयटः स्पष्टी करोति - पौरुषेयं नाम गृह्यते । नागेशेन 'पौरुषेयम्' शब्दस्य अर्थः 'आधुनिकम्' इति गृहीतः अस्ति । ये शब्दाः व्यवहाराय अस्माभिः विशेषरूपेण निर्मिताः सन्ति (यथा, मनुष्याणां नामानि) तेषां विषये एव अस्य वार्त्तिकस्य प्रयोगं कृत्वा विकल्पेन वृद्धसंज्ञा भवति, न हि अनादिकालात् प्रचलितानां शब्दानां विषये — इति अस्य अर्थः । अतएव, 'गो' इत्यादिकानाम् जातिवाचकशब्दानां विषये, अथ वा, 'मथुरा' इत्यादिकानां देशवाचकशब्दानां विषये अस्य वार्त्तिकस्य प्रयोगः न करणीयः । \nवार्त्तिकम् 2 - <! जिह्वाकात्यहरितकात्यवर्जम्!>\n'जिह्वाकात्य', तथा 'हरितकात्य' - एतयोः द्वयोः नामवाचकशब्दयोः वृद्धसंज्ञा न भवति — इति अस्य वार्त्तिकस्य आशयः । इति वार्त्तिकेन अस्य प्राप्ता वृद्धसंज्ञा अत्र प्रतिषिध्यते । अतः एताभ्याम् द्वाभ्यां शब्दाभ्याम् शैषिकेषु अर्थेषु छ-प्रत्ययः नैव भवति, अपितु औत्सर्गिकः अण्-प्रत्ययः एव विधीयते । क्रमेण प्रक्रिये इमे —\n1. जिह्वाकात्यः (Voracious man named 'कात्य' इत्यर्थः) — 'कतस्य गोत्रापत्यम्' इत्यस्मिन् अर्थे <<गर्गादिभ्यो यञ्>> [[4.1.105]] इति यञ्-प्रत्ययं कृत्वा 'कात्य' इति शब्दः सिद्ध्यति । ततः 'जिह्वाचपलः कात्यः' अस्मिन् अर्थे इति वार्तिकेन उत्तरपदलोपसमासं कृत्वा 'जिह्वाकात्य' इति शब्दः सिद्ध्यति । अस्य शब्दस्य इति वार्त्तिकेन वृद्धसंज्ञायां प्राप्तायाम्, तस्याः इति वार्त्तिकेन निषेधः भवति । अतः <<तस्यापत्यम्>> [[4.1.92]] अस्मिन् शैषिके अर्थे <<प्राग्दीव्यतोऽण्>> [[4.1.83]] इत्यनेन औत्सर्गिकः अण्-प्रत्ययः एव विधीयते —\n\nजिह्वाकात्यस्य इदम् [तद्धितवृत्तिः]\n→ जिह्वाकात्य + अण् ['जिह्वाकात्य' इति शब्दस्य वृद्धसंज्ञायाः अभावे <<तस्येदम्>> [[4.3.120]] अस्मिन् अर्थे 'जिह्वाकात्य' इति षष्ठीसमर्थात् <<प्राग्दीव्यतोऽण्>> [[4.1.83]] इति औत्सर्गिकः अण्-प्रत्ययः भवति । ततः <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति ङस्-प्रत्ययस्य लुक् च भवति ।]\n→ जैह्वाकात्य + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ जैह्वाकात्य् + अ [<<यस्येति च>> [[6.4.148]] इति अवर्णलोपः]\n→ जैह्वाकात् अ ['जिह्वाकात्य' शब्दस्य यकारः यञ्-प्रत्ययस्य यकारः अस्ति, अतः <<आपत्यस्य च तद्धितेऽनाति>> [[6.4.151]] इत्यनेन सः लुप्यते ।]\n→ जैह्वाकात\n\n2. हारितकात्य (Vegetable-consuming man named 'कात्य' इत्यर्थः) — 'कतस्य गोत्रापत्यम्' इत्यस्मिन् अर्थे <<गर्गादिभ्यो यञ्>> [[4.1.105]] इति यञ्-प्रत्ययं कृत्वा 'कात्य' इति शब्दः सिद्ध्यति । ततः 'हरितभक्षः कात्यः' अस्मिन् अर्थे इति वार्तिकेन उत्तरपदलोपसमासं कृत्वा 'हरितकात्य' इति शब्दः सिद्ध्यति । अस्य शब्दस्य इति वार्त्तिकेन वृद्धसंज्ञायां प्राप्तायाम्, तस्याः इति वार्त्तिकेन निषेधः भवति । अतः <<तस्यापत्यम्>> [[4.1.92]] अस्मिन् शैषिके अर्थे <<प्राग्दीव्यतोऽण्>> [[4.1.83]] इत्यनेन औत्सर्गिकः अण्-प्रत्ययः एव विधीयते —\n\nहरितकात्यस्य इदम् [तद्धितवृत्तिः]\n→ हरितकात्य + अण् ['जिह्वाकात्य' इति शब्दस्य वृद्धसंज्ञायाः अभावे <<तस्येदम्>> [[4.3.120]] अस्मिन् अर्थे 'हरितकात्य' इति षष्ठीसमर्थात् <<प्राग्दीव्यतोऽण्>> [[4.1.83]] इति औत्सर्गिकः अण्-प्रत्ययः भवति । ततः <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति ङस्-प्रत्ययस्य लुक् च भवति ।]\n→ हारितकात्य + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ हारितकात्य् + अ [<<यस्येति च>> [[6.4.148]] इति अवर्णलोपः]\n→ हारितकात् अ ['हरितकात्य' शब्दस्य यकारः यञ्-प्रत्ययस्य यकारः अस्ति, अतः <<आपत्यस्य च तद्धितेऽनाति>> [[6.4.151]] इत्यनेन सः लुप्यते ।]\n→ हारितकात\n" }, "11074": { "sa": "त्यदादिगणस्य शब्दानाम् 'वृद्धम्' इति संज्ञा भवति । ", "sd": "व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'वृद्धम्' इति संज्ञा । <<वृद्धिर्यस्याचामादिस्तद् वृद्धम्>> [[1.1.73]] इत्यतः <<एङ् प्राचां देशे>> [[1.1.75]] इति त्रिभिः सूत्रैः इयं संज्ञा पाठ्यते । अस्य सूत्रसमूहस्य इदं द्वितीयं सूत्रम् । त्यदादिगणे विद्यमानानाम् शब्दानाम् 'वृद्ध' इति संज्ञा भवति । - इति अस्य सूत्रस्य आशयः ।\n'त्यदादिगणः' इति <<सर्वादीनि सर्वनामानि>> [[1.1.27]] इत्यत्र पाठितस्य सर्वादिगणस्य उपगणः अस्ति । त्यदादिगणे आहत्य द्वादश सर्वनामशब्दाः विद्यन्ते —\n\nत्यद्, तद्, यद्, एतद्, इदम्, अदस्, एक, द्वि, युष्मद्, अस्मद्, भवतुँ, किम् । इति त्यदादिगणः ॥\n\nएतेषां सर्वेषाम् शब्दानाम् प्रकृतसूत्रेण 'वृद्ध'संज्ञा भवति ।\nत्यदादिगणस्य शब्दानां वृद्धसंज्ञायाः प्रयोजनम्\n'वृद्ध' संज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्याम् भिन्नाः विधयः पाठ्यन्ते । एते सर्वे विधयः त्यदादिगणस्य शब्दानां विषये अपि इष्यन्ते, अतः एतेषाम् अनेन सूत्रेण वृद्धसंज्ञा क्रियते । कानिचन उदाहरणानि एतानि —\n1. <<वृद्धाच्छः>> [[4.2.114]] इति सूत्रेण वृद्धसंज्ञकेभ्यः शब्देभ्यः तद्धितसंज्ञकः 'छ'प्रत्ययः भवति । प्रक्रियाः एतादृश्यः —\n\nत्यस्य / तस्य / यस्य / एतस्य / अस्य / अमुष्य / कस्य इदम् [तद्धितवृत्तिः]\n= त्यद् / तद् / यद् / एतद् / इदम् / अदस् / किम् + छ [<<तस्येदम्>> [[4.3.120]] अस्मिन् अर्थे षष्ठीसमर्थात् <<वृद्धाच्छः>> [[4.2.114]] इति छ-प्रत्ययः । <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति ङस्-प्रत्ययस्य लोपः ।]\n→ त्यद् / तद् / यद् / एतद् / इदम् / अदस् / किम् + ईय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति छकारस्य ईय्-आदेशः । ]\n→ त्यदीय / तदीय / यदीय / एतदीय / इदमीय / अदसीय / किमीय\n\n\nएकस्य इदम् \n= एक + छ [<<तस्येदम्>> [[4.3.120]] अस्मिन् अर्थे षष्ठीसमर्थात् <<वृद्धाच्छः>> [[4.2.114]] इति छ-प्रत्ययः । <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति ङस्-प्रत्ययस्य लोपः ।]\n→ एक + ईय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति छकारस्य ईय्-आदेशः । ]\n→ एक् + ईय [<<यस्येति च>> [[6.4.148]]\n→ एकीय\n\n\nतव / मम इदम् [तद्धितवृत्तिः]\n= युष्मद् / अस्मद् + छ [<<तस्येदम्>> [[4.3.120]] अस्मिन् अर्थे षष्ठीसमर्थात् <<वृद्धाच्छः>> [[4.2.114]] इति छ-प्रत्ययः । <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति ङस्-प्रत्ययस्य लोपः ।]\n→ युष्मद् / अस्मद् + ईय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति छकारस्य ईय्-आदेशः । ]\n→ त्वद् / मद् + ईय [<<प्रत्ययोत्तरपदयोश्च>> [[7.2.98]] इति त्व/म-आदेशः]\n→ त्वदीय / मदीय\n\n2. <<उदीचां वृद्धादगोत्रात्>> [[4.1.157]] इति सूत्रेण 'युष्मद्' / 'अस्मद्' एतयोः वृद्धसंज्ञकशब्दयोः 'फिञ्' इति प्रत्ययः भवति । प्रक्रिया इयम् —\n\nतव / मम अपत्यम्\n→ युष्मद् / अस्मद् + फिञ् [<<तस्यापत्यम्>> [[4.1.92]] अस्मिन् अर्थे षष्ठीसमर्थात् <<उदीचां वृद्धादगोत्रात्>> [[4.1.157]] इति सूत्रेण फिञ्-प्रत्ययः । <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति ङस्-प्रत्ययस्य लोपः ।]\n→ युष्मद् + अस्मद् + आयनि [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति फकारस्य आयन्-आदेशः ।]\n→ त्वद् / मद् + आयनि [<<प्रत्ययोत्तरपदयोश्च>> [[7.2.98]] इति त्व/म-आदेशः]\n→ त्वाद् / माद् + आयनि [ञित्-प्रत्यये परे <<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ त्वादायनि / मादायनि \n\n3. त्यदादिगणस्य 'भवत्' इति वृद्धसंज्ञकशब्दात् <<भवतष्ठक्छसौ>> [[4.2.115]] इत्यनेन छस्-प्रत्ययः भवति । प्रक्रिया इयम् —\n\nभवतः इदम् \n→ भवत् + छस् [<<तस्येदम्>> [[4.3.120]] अस्मिन् अर्थे षष्ठीसमर्थात् <<वृद्धाच्छः>> [[4.2.114]] इति छ-प्रत्यये प्राप्ते; तदपवादत्वेन <<भवतष्ठक्छसौ>> [[4.2.115]] इत्यनेन छस्-प्रत्ययः । <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति ङस्-प्रत्ययस्य लोपः ।]\n→ भवत् + ईय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति छकारस्य ईय्-आदेशः । ]\n→ भवद् + ईय [सित्-प्रत्यये परे प्रकृतेः <<सिति च>> [[1.4.16]] इति पदसंज्ञा । पदसंज्ञायां सत्याम् <<झलां जशोऽन्ते>> [[8.2.39]] इति तकारस्य जश्त्वे दकारः]\n→ भवदीय \n" }, "11075": { "sa": "पूर्वदिशि विद्यमानस्य देशस्य नाम्नः प्रथमस्वरः 'ए' उत 'ओ' इति अस्ति चेत् तस्य 'वृद्धम्' इति संज्ञा भवति ।", "sd": "व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'वृद्धम्' इति संज्ञा । <<वृद्धिर्यस्याचामादिस्तद् वृद्धम्>> [[1.1.73]] इत्यतः <<एङ् प्राचां देशे>> [[1.1.75]] इति त्रिभिः सूत्रैः इयं संज्ञा पाठ्यते । अस्य सूत्रसमूहस्य इदं तृतीयम् (अन्तिमम्) सूत्रम् । 'शरावती'-इत्याख्याः नद्याः पूर्वदिशि विद्यमानः यः देशः, तस्य नाम्नि आदिवर्णः एकारः ओकारः वा अस्ति चेत् तस्य शब्दस्य 'वृद्धम्' इति संज्ञा भवति - इति अस्य सूत्रस्य आशयः । यथा, 'एणीपचन', 'भोजकट', 'गोनर्द' - एते सर्वे शरावतीनद्याः पूर्वदिशि विद्यमानाः प्रदेशाः सन्ति, तथा च एतेषाम् आदिवर्णः एकारः उत ओकारः अस्ति, अतः एतेषाम् सर्वेषाम् प्रकृतसूत्रेण 'वृद्धम्' इति संज्ञा भवति । \nवृद्धसंज्ञायाः प्रयोजनम्\n'वृद्ध' संज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्याम् भिन्नाः विधयः पाठ्यन्ते । यथा, <<वृद्धाच्छः>> [[4.2.114]] इत्यनेन वृद्धसंज्ञकशब्देभ्यः 'छ' इति तद्धितप्रत्ययः भवितुम् अर्हति ।अयं प्रत्ययः प्रकृतसूत्रेण सिद्धानाम् वृद्धसंज्ञकशब्दानां विषये अपि विधीयते । यथा —\n\nएणीपचनीये / भोजकटे / गोनर्दे जातः [तद्धितवृत्तिः]\n→ एणीपचन / भोजकट / गोनर्द + छ [<<तत्र जातः>> [[4.3.25]] अस्मिन् अर्थे सप्तमीसमर्थेभ्यः <<वृद्धाच्छः>> [[4.2.114]] इति 'छ'प्रत्ययः भवति । अग्रे तद्धितान्तस्य <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, ततः च <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति ङि-प्रत्ययस्य लोपः विधीयते ।]\n→ एणीपचन / भोजकट / गोनर्द + ईय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति छकारस्य ईय्-आदेशः]\n→ एणीपचन् / भोजकट् / गोनर्द् + ईय [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ एणीपचनीय / भोजकटीय / गोनर्दीय\n\nये देशाः शरावतीनद्याः पूर्वदिशि न विद्यन्ते, तेषाम् विषये अनेन सूत्रेण 'वृद्ध'संज्ञा न भवति । यथा, 'देवदत्त' इत्याख्यः कश्चनप्रदेशः वाहिकग्रामे स्थितः अस्ति, सः च शरावतीनद्याः पूर्वदिशि नैव वर्तते । अतः यद्यपि अस्य शब्दस्य आदिस्वरः एकारः अस्ति, तथापि अस्य शब्दस्य वृद्धसंज्ञा न हि भवति । अस्यां स्थितौ, अस्य प्रदेशस्य विषये वृद्धसंज्ञाविशिष्टम् <<वाहीकग्रामेभ्यश्च>> [[4.2.117]] इति सूत्रमपि न प्रवर्तते । यथा —\n\nदेवदत्ते (तदाख्ये प्रदेशे) जातः [तद्धितवृत्तिः]\n→ देवदत्त + अण् [<<तत्र जातः>> [[4.3.25]] अस्मिन् अर्थे सप्तमीसमर्थात् 'देवदत्ते' इति शब्दात् वृद्धसंज्ञायाः अभावे <<वाहीकग्रामेभ्यश्च>> [[4.2.117]] इत्यनेन छ-प्रत्ययः नैव भवति, अतः अत्र <<प्राग्दीव्यतोऽण्>> [[4.1.83]] इति औत्सर्गिकः अण्-प्रत्ययः एव विधीयते । अग्रे तद्धितान्तस्य <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, ततः च <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति ङि-प्रत्ययस्य लोपः विधीयते ।]\n→ दैवदत्त + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ दैवदत्त् + अ [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ दैवदत्त\n
    \nस्मर्तव्यम् — वाहिकग्रामे स्थितस्य देवदत्तप्रदेशस्य नाम्नः इत्यनेन विकल्पेन अपि वृद्धसंज्ञा न भवति, यतः तेन वार्त्तिकेन केवलम् आधुनिकशब्दानाम् एव वृद्धसंज्ञा दीयते ।\n
    \nअद्यतनकाले 'घग्गर' इत्याख्या या नदी भारतदेशस्य उत्तरपश्चिमसीमायां वहति, (wikipedia link) तस्याः एव प्राचीनं नाम शरावती इति स्वीक्रियते ।अस्याः नद्याः पूर्वदिशि विद्यमानाः प्रदेशाः पाणिनिना 'प्राचां देशाः' नाम्ना स्वीकृताः सन्ति । इदानींतन काले कर्नाटकप्रदेशे अपि काचित् 'शरावती' इति नदी विद्यते, परन्तु सा भिन्ना अस्ति ।\n" }, "12001": { "sa": "", "sd": "" }, "12002": { "sa": "", "sd": "" }, "12003": { "sa": "", "sd": "" }, "12004": { "sa": "अपित् सार्वधातुकप्रत्ययः ङित्वत् भवति । ", "sd": "यस्मिन् सार्वधातुकप्रत्यये पकारः इत्संज्ञकः नास्ति, सः सार्वधातुकप्रत्ययः ङित्-वत् भवति ।\nकिम् नाम सार्वधातुकप्रत्ययः? <<तिङ्शित्सार्वधातुकम्>> [[3.4.113]] इत्यनेन तिङ्-प्रत्ययाः तथा शित्-प्रत्ययाः सार्वधातुकसंज्ञां प्राप्नुवन्ति । एतेषु -\n1) तिप्, सिप्, मिप् एते त्रयः तिङ्-प्रत्ययाः पित्-प्रत्ययाः सन्ति, अतः एतान् विहाय अन्ये पञ्चदश प्रत्ययाः अनेन सूत्रेण 'ङित्वत्' भवन्ति । अत्रापि अपवादद्वयं ज्ञातव्यम् -\nअ) 'सिप्' इत्यस्य लोट्लकारे <<सेह्यर्पिच्च>> [[3.4.87]] इत्यनेन 'हि' आदेशः भवति, सः 'अपित्' भवति, अतः अनेन सूत्रेण ङित्वत्भावं प्राप्नोति ।\nआ) <<आडुत्तमस्य पिच्च>> [[3.4.92]] इत्यनेन लोट्लकारस्य उत्तमपुरुषस्य मिप्, वस्, मस्, इट्, वहि, महिङ् - एते सर्वे प्रत्ययाः पित्-भवन्ति, अतः तेषाम् ङित्वत्भावः निषिध्यते ।\n2) शित्-प्रत्ययेषु केवलं 'शप्' अयं एकः एव पित्-प्रत्ययः अस्ति, अन्ये सर्वे शित्-प्रत्ययाः अपित् सन्ति, अतः वर्तमानसूत्रेण ङित्वत् भवन्ति । यथा - श, श्यन्, शतृ आदयः ।\nङित्वत्भावस्य प्रामुख्येन त्रीणि प्रयोजनानि दृश्यन्ते -\n1) <<क्ङिति च>> [[1.1.5]] इत्यनेन ङित्-प्रत्यये परे अङ्गस्य गुणवृद्ध्योः निषेधः भवति । यथा - आप् + नु + तः = आप्नुतः । अत्र 'तः' इति ङित्-प्रत्ययः अस्ति, अतः 'आप्नु' इत्यस्य उकारस्य गुणादेशः न भवति ।\n2) <<ग्रहिज्यावयि..>> [[6.1.16]] इत्यनेन केषाञ्चन धातूनां ङित्-प्रत्यये परे सम्प्रसारणं भवति । यथा, प्रच्छ् + श + ति = पृच्छति । अत्र प्रच्छ्-इत्यस्य ङित्-सार्वधातुके प्रत्यये परे सम्प्रसारणं भवति ।\n3) <<अनिदितां हलः उपधायाः क्ङिति>> [[6.4.24]] इत्यनेन अनिदित्-धातूनां विषये नकारलोपः भवति । यथा, तृन्फ्-धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -\nतृन्फ् + लट् [<<वर्त्तमाने लट्>> [[3.2.123]] इति लट्]\n→ तृन्फ् + तिप् [<<तिप्तस्..>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]\n→ तृन्फ् + श + तिप् [<<तुदादिभ्यः शः>> [[3.1.77]] इति श-विकरणप्रत्ययः]\n→ तृफ् + श + तिप् [<<शकारस्य सार्वधातुकमपित्>> [[1.2.4]] इत्यनेन ङित्वद्भावे कृते <<अनिदितां हलः उपधायाः क्ङिति>> [[6.4.24]] इति नकारलोपः]\n→ तृन् फ् + श + तिप् [ अनेन वार्तिकेन पुनः नुमागमः]\n→ तृं फ् अ ति [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति अनुस्वारः]\n→ तृम्फति [<<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति परसवर्णः मकारः] " }, "12005": { "sa": "संयोगभिन्नवर्णात् परस्य लिट्-लकारस्य अपित् प्रत्ययः कित्वत् भवति । ", "sd": "यदि धातोः अन्ते संयोगः नास्ति, तर्हि तस्मात् अग्रे विद्यमानाः लिट्-लकारस्य अपित्-प्रत्ययाः कित्वत् भवन्ति ।\nकित्वस्य प्रामुख्येन प्रयोजनत्रयम् -\n1. <<क्ङिति च>> [[1.1.5]] इत्यनेन गुणवृद्धिनिषेधः भवति ।\nयथा, कृ-धातोः लिट्-लकारस्य आत्मनेपदस्य प्रथमपुरुष-एकवचनस्य रूपम् 'चक्रे' एतादृशम् सिद्ध्यति -\nकृ + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट्]\n→ कृ + कृ + ल् [<<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम्]\n→ कर् + कृ + ल् [<<उरतः>> [[7.4.66]] इति ऋकारस्य अकारादेशः । <<उरण् रपरः>> [[1.1.51]] इति सः रपरः]\n→ क + कृ + ल् [<<हलादि शेषः>> [[7.4.60]] इति रेफस्य लोपः]\n→ च + कृ + ल् [<<कुहोश्चुः>> [[7.4.62]] इति ककारस्य चकारः]\n→ च + कृ + त [<<तिप्तस्..>> [[3.4.78]] इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य 'त' प्रत्ययः]\n→ च + कृ + एश् [<<लिटस्तझयोरेशिरेच्>> [[3.4.81]] इति त-प्रत्ययस्य एश्-आदेशः]\nअत्र 'त' इति लिट्लकारस्य प्रत्ययः आर्धधातुकः अस्ति । अतः वस्तुतः <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इत्यनेन अङ्गस्य ऋकारस्य अत्र गुणादेशः विधीयते । परन्तु, अत्र 'त' प्रत्ययः अपित्-अस्ति, अतः वर्तमानसूत्रेण सः कित्वत् भवति, अतः <<क्ङिति च>> [[1.1.5]] इत्यनेन गुणनिषेधः भवति । अतः अत्र केवलं यणादेशं कृत्वा रूपं सिद्ध्यति ।\n→ चक्रे [<<इको यणचि>> [[6.1.77]] इति यणादेशः]\nएवमेव वृत्-धातोः लिट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् ववृते, वृध्-धातोः लिट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् ववृधे - एतादृशानि रूपाणि अपि सिद्ध्यन्ति ।\n2. <<वचिस्वपियजादीनां किति>> [[6.1.15]] इत्यनेन सम्प्रसारणम् विधीयते । यथा, वच्-धातोः लिट्-लकारस्य प्रथमपुरुषद्विवचनस्य रूपम् एतादृशम् सिद्ध्यति -\nवच् + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट्]\n→ वच् वच् + लिट् [<<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम्]\n→ व वच् + लिट् [<<हलादि शेषः>> [[7.4.60]] इति चकारस्य लोपः]\n→ व वच् + तस् [<<तिप्तस्झि...>> [[3.4.78]] इति तस् -प्रत्ययः]\n→ व वच् + अतुस् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इति तस्-इत्यस्य अतुस्-आदेशः ]\nअत्र 'तस्' इति लिट्लकारस्य प्रत्ययः आर्धधातुकः अस्ति । अयम् प्रत्ययः अपित्-अस्ति, अतः वर्तमानसूत्रेण सः कित्वत् भवति, अतः <<वचिस्वपियजादीनां किति>> [[6.1.15]] इत्यनेन सम्प्रसारणम् विधीयते । [[1.1.5]] इत्यनेन गुणनिषेधः भवति । अतः अत्र केवलं यणादेशं कृत्वा रूपं सिद्ध्यति\n→ उ उच् + अतुस् [ <<वचिस्वपियजादीनां किति>> [[6.1.15]] इत्यनेन सम्प्रसारणम्]\n→ ऊचतुः [विसर्गनिर्माणम्]\nएवमेव यज्-धातोः लिट्-लकारस्य प्रथमपुरुषस्य द्विवचनम् 'ईजतुः' तथा व्यध्-धातोः लिट्-लकारस्य प्रथमपुरुषस्य द्विवचनम् 'विविधतुः' एतादृशानि रूपाणि सिद्ध्यन्ति ।\n3. कित्-प्रत्यये परे <<अनिदितां हलः उपधायाः क्ङिति>> [[6.4.24]] इत्यनेन अनिदित्सु धातुषु नकारलोपः अपि भवति । परन्तु अनिदित्-धातूनां विषये अन्ते संयोगः विद्यते (यथा - मन्थ्, स्रन्स्, ध्वन्स् - आदयः), अतः एतेषां विषये वर्तमानसूत्रस्य प्रसक्तिः नास्ति (स्मर्तव्यम् - वर्तमानसूत्रे 'असंयोगात्' इति उक्तमस्ति) । अत्र एतेषां धातूनाम् विषये लिट्-लकारस्य प्रत्ययाः कित्वत् न भवन्ति । अतः अत्र <<अनिदितां हलः उपधायाः क्ङिति>> [[6.4.24]] इत्यनेन नकारलोपः अपि न विधीयते । यथा, स्रन्स्-धातोः लिट्-लकारस्य आत्मनेपदस्य प्रथमपुरुषैकवचनस्य रूपम् 'सस्रंसे' इति जायते । अत्र नकारलोपः न भवति ।\nज्ञातव्यम् -\n1. <<तिप्तस्..>> [[3.4.78]] इत्यनेन ये अष्टादश तिङ्-प्रत्ययाः विधीयन्ते तेषु केवलं तिप्/सिप्/मिप्-एते त्रयः प्रत्ययाः पित्-प्रत्ययाः सन्ति । अतः अस्य सूत्रस्य प्रसक्ति एतेषां त्रयाणाम् विषये नास्ति । यथा, कृ-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् 'चकार' इत्यत्र <<अचो ञ्णिति>> [[7.2.115]] इत्यनेन अङ्गस्य वृद्धिं कृत्वा रूपं सिद्ध्यति ।\n2. यद्यपि अनिदित्-धातूनां विषये अस्य सूत्रस्य प्रसक्तिः नास्ति, तथापि <<ईन्धिभवतिभ्यां च>> [[1.2.6]] इत्यनेन ईन्ध्-धातोः विषये लिट्लकारस्य प्रत्ययाः कित्वत् भवन्ति । तथा च, अनेन वार्तिकेन श्रन्थ्, ग्रन्थ्, दम्भ्, स्वञ्ज् - एतेषां विषये अपि लिट्लकारस्य प्रत्ययाः कित्वत् भवन्ति ।\n" }, "12006": { "sa": "", "sd": "" }, "12007": { "sa": "", "sd": "" }, "12008": { "sa": "", "sd": "" }, "12009": { "sa": "", "sd": "" }, "12010": { "sa": "", "sd": "" }, "12011": { "sa": "", "sd": "" }, "12012": { "sa": "", "sd": "" }, "12013": { "sa": "", "sd": "" }, "12014": { "sa": "", "sd": "" }, "12015": { "sa": "", "sd": "" }, "12016": { "sa": "", "sd": "" }, "12017": { "sa": "", "sd": "" }, "12018": { "sa": "", "sd": "" }, "12019": { "sa": "", "sd": "" }, "12020": { "sa": "", "sd": "" }, "12021": { "sa": "", "sd": "" }, "12022": { "sa": "", "sd": "" }, "12023": { "sa": "", "sd": "" }, "12024": { "sa": "", "sd": "" }, "12025": { "sa": "", "sd": "" }, "12026": { "sa": "", "sd": "" }, "12027": { "sa": "उ-ऊ-उ3 एतेषां उच्चारणकालः यस्य उच्चारणकालेन सह समानः, सः अच् क्रमेण ह्रस्वसंज्ञकः, दीर्घसंज्ञकः, प्लुतसंज्ञकः भवति ।", "sd": "व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमाः वर्तन्ते 'ह्रस्वः', 'दीर्घः', 'प्लुतः' एताः तिस्रः संज्ञाः । स्वराणाम् उच्चारणकारस्य आधारेण तेषां एताः संज्ञाः दीयन्ते । एतासाम् तिसृणाम् अपि संज्ञानाम् विधानम् पाणिनिना अस्मिन् एकस्मिन्नेव सूत्रे कृतम् अस्ति, तदर्थं च सः 'ऊकालः' इति शब्दं प्रयुङ्क्ते । 'ऊकालः' इत्यत्र विद्यमानः 'ऊ' इति अंशः ह्रस्व-उकारः, दीर्घ-ऊकारः, तथा प्लुत-उ3कारः —इत्येतेषां सवर्णदीर्घं कृत्वा निर्मितः अस्ति । 'उ', 'ऊ', 'उ3' इत्येतेषाम् उच्चारणस्य यः कालः, तादृशः कालः यस्य स्वरस्य उच्चारणार्थम् आवश्यकः, सः स्वरः यथासङ्ख्यम् ह्रस्व-दीर्घ-प्लुत-शब्देन ज्ञायते, इति अस्य आशयः । तदित्थम् —\n\n1. ह्रस्वः — यस्य स्वरस्य उच्चारणकालः 'उ' इत्यस्य उच्चारणकालसदृशः (इत्युक्ते, एकमात्रिकः) अस्ति, सः स्वरः 'ह्रस्वः' नाम्ना ज्ञायते । 'अ', 'इ', 'उ', 'ऋ', 'ऌ' एते स्वराः ह्रस्वसंज्ञकाः सन्ति ।\n2. दीर्घः — यस्य स्वरस्य उच्चारणकालः 'ऊ' इत्यस्य उच्चारणकालसदृशः (इत्युक्ते, द्विमात्रिकः) अस्ति, सः स्वरः 'दीर्घः' नाम्ना ज्ञायते । 'आ', 'ई', 'ऊ', 'ॠ', 'ए', 'ऐ', 'ओ', 'औ' एते स्वराः दीर्घसंज्ञकाः सन्ति ।\n3. प्लुतः — यस्य स्वरस्य उच्चारणकालः 'उ3' इत्यस्य उच्चारणकालसदृशः (इत्युक्ते, त्रिमात्रिकः) अस्ति, सः स्वरः 'प्लुतः' नाम्ना ज्ञायते । 'अ3', 'इ3', 'उ3', 'ऋ3', 'ऌ3' 'ए3', 'ऐ3', 'ओ3', 'औ3' एते स्वराः प्लुतसंज्ञकाः सन्ति ।\n\nअस्मिन् विषये एका कारिका अपि प्रसिद्धा वर्तते -\n\nएकमात्रो भवेत् ह्रस्वः, द्विमात्रो दीर्घ उच्यते ।\nत्रिमात्रस्तु प्लुतो ज्ञेयः, व्यञ्जनं त्वर्धमात्रिकम् ॥\n\nव्यञ्जनस्य उच्चारणस्य कालः अर्धमात्रा, ह्रस्वस्वरस्य उच्चारणकालः एका मात्रा, दीर्घस्वरस्य उच्चारणकालः द्वे मात्रे, प्लुतस्वरस्य च उच्चारणकालः तिस्रः मात्राः — इति अस्याः कारिकायाः आशयः ।\nपरन्तु सर्वेषाम् अपि स्वराणाम् एते सर्वे भेदाः न विद्यन्ते । तत्र इदं ज्ञेयम् - \n\n1. अ, इ, उ, ऋ — एतेषाम् सर्वेषाम् त्रयः अपि ह्रस्व-दीर्घ-प्लुतभेदाः भवन्ति ।\n2. — इत्यस्य दीर्घभेदः नास्ति, अतः तस्य केवलं ह्रस्व-प्लुत-भेदौ भवतः ।\n3. ए, ऐ, ओ, औ — एतेषाम् ह्रस्वभेदः नास्ति, अतः एतेषाम् केवलम् दीर्घ-प्लुत-भेदौ भवतः ।\n\nह्रस्व-दीर्घ-प्लुत-संज्ञाः स्वराणामेव विद्यन्ते, न हि व्यञ्जनानाम् । सर्वाणि व्यञ्जनानि तु अर्धमात्रिकानि एव सन्ति ।\nह्रस्व-दीर्घ-प्लुत-संज्ञानाम् प्रयोजनम्\nह्रस्वादीनां संज्ञानां प्रयोगः अष्टाध्याय्यां बहुषु सूत्रेषु कृतः अस्ति । एतासां प्रयोगेण भिन्नाः विधयः उच्यन्ते । प्रत्येकं संज्ञाम् अधिकृत्य एकम् उदाहरणम् अधः दत्तम् अस्ति —\n1. ह्रस्वस्वरात् अनन्तरम् संहितायाम् छकारः आगच्छति चेत् तस्य ह्रस्वस्वरस्य 'तुक्' इति आगमः भवति । यथा —\n\nपृच्छ्यते इति (कृद्वृत्तिः)\n= प्रछँ (ज्ञीप्सायाम्, तुदादिः, <{06.0149}>) + अनीयर् [<<तव्यत्तव्यानीयरः>> [[3.1.96]] इति अनीयर्-प्रत्ययः]\n→ प्रछ् + अनीय [इत्संज्ञालोपः]\n→ प्र तुक् छ् + अनीय [ह्रस्व-अकारात् परः अव्यवहितः छकारः विद्यते, अतः अत्र <<छे च>> [[6.1.73]] इत्यनेन अकारस्य 'तुक्' इति आगमः भवति । <<आद्यन्तौ टकितौ>> [[1.1.46]] इति अयम् आगमः अकारात् अनन्तरम् आगच्छति ।]\n→ प्र त् छ् + अनीय [ककारस्य इत्संज्ञा, लोपः । उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।]\n→ प्र च् छ् + अनीय [<<स्तोः श्चुना श्चुः>> इति श्चुत्वम्]\n→ प्रच्छनीय\n\n2. अपदान्त-दीर्घस्वरात् अनन्तरम् संहितायाम् छकारः आगच्छति चेत् तस्य दीर्घस्वरस्य 'तुक्' इति आगमः भवति । यथा —\n\n= म्लेछँ (अव्यक्ते शब्दे, भ्वादिः, <{01.0233}>) + अनीयर् [<<तव्यत्तव्यानीयरः>> [[3.1.96]] इति अनीयर्-प्रत्ययः]\n→ म्लेछ् + अनीय [इत्संज्ञालोपः]\n→ म्ले तुक् छ् + अनीय [अपदान्त-दीर्घ-एकारात् परः अव्यवहितः छकारः विद्यते, अतः अत्र <<दीर्घात्>> [[6.1.75]] इत्यनेन एकारस्य 'तुक्' इति आगमः भवति । <<आद्यन्तौ टकितौ>> [[1.1.46]] इति अयम् आगमः एकारात् अनन्तरम् आगच्छति ।]\n→ म्ले त् छ् + अनीय [ककारस्य इत्संज्ञा, लोपः । उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।]\n→ म्ले च् छ् + अनीय [<<स्तोः श्चुना श्चुः>> इति श्चुत्वम्]\n→ म्लेच्छनीय\n\n3. प्लुतस्वरात् परः अच्-वर्णः विद्यते चेत् संहितायाम् सत्याम् अपि सन्धिः न भवति । यथा —\n\nकृष्ण३ + अत्र\n→ कृष्ण३ अत्र [<<प्लुतप्रगृह्या अचि नित्यम्>> [[6.1.125]] इत्यनेन प्लुतस्वरस्य अच्-वर्णे परे प्रकृतिभावः । अतः अत्र <<अकः सवर्णे दीर्घः>> [[6.1.101]] इत्यनेन सवर्णदीर्घः न भवति ।]\n\nसूत्रे 'ऊकाल'ग्रहणस्य सन्दर्भः\nकुक्कुटः यदा उच्चैः आक्रोशति, तदा तस्य मुखात् उवर्णस्य त्रयः अपि स्वरभेदाः उत्सृजन्ति । इत्युक्ते, अवर्णस्य इवर्णस्य वा अपेक्षया उवर्णस्य ह्रस्व-दीर्घ-प्लुत-भेदाः जनैः कुक्कुटस्य आक्रोशे सरलतया श्रूयन्ते । अतएव अत्र सूत्रे 'आकालः' उत 'ईकाल' इत्यस्य अपेक्षया 'ऊकालः' इति शब्दनिर्देशः क्रियते ।" }, "12028": { "sa": "ह्रस्व-दीर्घ-प्लुत-शब्देन विधीयमानम् कार्यम् अच्-वर्णस्य स्थाने एव भवति ।", "sd": "इदम् अष्टाध्याय्याः विद्यमानम् एकम् परिभाषासूत्रम् । भिन्नेषु सूत्रेषु यत्र ह्रस्वः भवति, दीर्घः भवति, प्लुतः भवति — इति प्रकारेण आदेशविधानं क्रियते, परन्तु एते आदेशाः कस्य वर्णस्य विषये भवन्ति इति स्पष्टरूपेण नैव उच्यते, तत्र, एते आदेशाः अच्-वर्णस्य स्थाने भवन्ति इति प्रकृतपरिभाषया स्पष्टी क्रियते ।\nयथासङ्ख्यम् उदाहरणानि एतानि —\n1) ह्रस्वविधिः अचः स्थाने भवति — यदि नपुंसकवाचिनः प्रातिपदिकस्य अन्तिमवर्णः दीर्घः अस्ति, तर्हि <<ह्रस्वो नपुंसके प्रातिपदिकस्य>> [[1.2.47]] इति सूत्रेण 'तस्य ह्रस्वादेशः भवति' इति उच्यते । यथा - 'श्रीपा' अयं आकारान्त-नपुंसकलिङ्गी शब्दः अस्ति । अस्य शब्दस्य सुबन्तरूपसिद्धौ प्रारम्भे <<ह्रस्वो नपुंसके प्रातिपदिकस्य>> [[1.2.47]] इत्यनेन अस्य प्रातिपदिकस्य ह्रस्वादेशः भवति । अस्य आदेशस्य कः स्थानी — इति प्रश्ने जाते, प्रकृतसूत्रस्य आधारेण 'अच्-वर्णस्य ह्रस्वादेशः भवति' इति निर्णयः क्रियते । तत्रापि <<अलोऽन्तस्य>> [[1.1.52]] इत्यनेन अन्तिम-अच्-वर्णस्य स्थाने एव अयं ह्रस्वादेशः भवति (न अन्येषाम्) इति स्पष्टी भवति । प्रक्रिया इयम् —\n\nश्रियं पाति तत् (कुलम्) [कृद्वृत्तिः]\n→ श्रियम् + पा + विच् [<<आतो मनिन्क्वनिब्वनिपश्च>> [[3.2.74]], अथ वा <<अन्येभ्योऽपि दृश्यन्ते>> [[3.2.75]] इति विच्-प्रत्ययः]\n→ श्रियम् + पा + ० [चकारस्य इत्संज्ञा, लोपः ।इकारः उच्चारणार्थः, सोऽपि लुप्यते । अपृक्तवकारस्य <<वेरपृक्तस्य>> [[6.1.67]] इति लोपः]\n→ श्री + पा [<<उपपदमतिङ्>> [[2.2.19]] इति उपपदसमासः ।<<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति उपपदस्य विभक्तिलोपः]\n→ श्रीपा + सुँ [प्रथमैकवचनस्य विवक्षायाम् सुँ-प्रत्ययः]\n→ श्रीप + सुँ [<<ह्रस्वो नपुंसके प्रातिपदिकस्य>> [[1.2.47]] इत्यनेन प्रातिपदिकस्य ह्रस्वादेशः । तत्र <<अचश्च>> [[1.2.28]] इति परिभाषया 'अच्-वर्णस्य ह्रस्वादेशः भवति' — इति स्पष्टी भवति । <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यनेन 'अन्तिम-वर्णस्य कार्यम् भवति' — इति स्पष्टी क्रियते । अतः अत्र 'श्रीपा'शब्दस्य अन्तिम-आकारस्य ह्रस्वादेशः (अकारः) विधीयते ।]\n→ श्रीप + अम् [<<अतोऽम्>> [[7.1.24]] इति सुँ-प्रत्ययस्य अम्-आदेशः]\n →‌ श्रीपम् [<<अमि पूर्वः>> [[6.1.107]] इति पूर्वरूपैकादेशः]\n ए, ऐ, ओ, औ एतेषाम् ह्रस्वादेशः कथं भवति तत् <<ह्रस्वो नपुंसके प्रातिपदिकस्य>> [[1.2.47]] इति सूत्रे स्पष्टीकृतम् अस्ति, तत् तत्रैव द्रष्टव्यम् ।\n2) दीर्घविधिः अचः स्थाने भवति — यञादि सार्वधातुके प्रत्यये परे अदन्तस्य अङ्गस्य <<अतो दीर्घो यञि>> [[7.3.101]] अनेन सूत्रेण दीर्घादेशः विधीयते । अत्र अङ्गस्य दीर्घः इत्युक्ते कस्य दीर्घः? — अस्य प्रश्नस्य उत्तरम् प्रकृतपरिभाषया दीयते — 'अङ्गस्य अच्-वर्णस्य दीर्घः' इति । अतः पठ्-धातोः उत्तमपुरुषैकवचनस्य प्रक्रियायाम् 'पठ् + अ + मि' इत्यत्र अङ्गस्य यः (अन्तिमः) अकारः तस्य दीर्घं कृत्वा 'पठामि' इति रूपं सिद्ध्यति ।सम्पूर्णा प्रक्रिया इयम् —\n\nपठँ (व्यक्तायां वाचि, <{1.0371}>)\n→ पठ् + लट् [<<वर्तमाने लट्>> [[3.2.123]]\n→ पठ् + मिप् [<<तिपस्झि...>> [[3.4.78]] इति उत्तमपुरुषैकवचनस्य प्रक्रियायाम् 'मिप्' प्रत्ययः]\n→ पठ् + शप् + मि [<<कर्तरि शप्>> [[3.1.68]] इति शप्-विकरणप्रत्ययः]\n→ पठ् + अ + मि [इत्संज्ञालोपः]\n→ पठ् + आ + मि [<<अतो दीर्घो यञि>> [[7.3.101]] इति अङ्गस्य दीर्घः । अत्र <<अचश्च>> [[1.2.28]] इति परिभाषया अङ्गस्य स्वरस्यैव दीर्घः भवति इति ज्ञाप्यते । अग्रे <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यनेन 'अन्तिम-स्वरस्य' दीर्घः भवति इत्यपि स्पष्टी भवति ।\n→ पठामि\n\n 3) प्लुतविधिः अचः स्थाने भवति — <<दूराद्धूते च>> [[8.2.84]] इति सूत्रेण दूरात् सम्बोधनार्थम् प्रयुज्यमानस्य वाक्यस्य टिसंज्ञकस्य प्लुतादेशः विधीयते । अत्रापि 'टिसंज्ञके विद्यमानस्य कस्य वर्णस्य प्लुतः भवति' — इति प्रश्ने जाते, प्रकृतपरिभाषया 'स्वरस्य प्लुतादेशः भवति' इति स्पष्टी क्रियते ।अतएव, 'सक्तून् पिब अश्वत्थामन् !' अस्य वाक्यस्य विषये <<दूराद्धूते च>> [[8.2.84]] इति सूत्रस्य यदा प्रयोगः क्रियते, तदा अस्य वाक्यस्य टिसंज्ञकस्य ('अन्' इत्यस्य) स्वरः (अकारः) अनेन सूत्रेण प्लुतः भवति । अतएव 'सक्तून् पिब अश्वत्थाम3न्' इति प्रयोगः सिद्ध्यति ।\nअस्मिन् ह्रस्व/दीर्घ/प्लुतशब्दानाम् अनुवृत्तेः प्रयोजनम्\nयत्र विधिसूत्रे 'ह्रस्वः भवति /दीर्घः भवति /प्लुतः भवति' इति निर्देशः क्रियते, तत्रैव प्रकृतपरिभाषायाः प्रयोगः करणीयः — इति ज्ञापयितुम् अस्मिन् सूत्रे ह्रस्वादिशब्दानाम् अनुवृत्तिः कृता अस्ति । इत्युक्ते, यत्र विधिसूत्रे ह्रस्वादिशब्दान् विना केवलम् 'अजादेशः भवति' इति साक्षात् निर्देशः क्रियते, तत्र प्रकृतसूत्रस्य नैव प्रयोगः करणीयः अतः तत्र तादृशः आदेशः हल्-वर्णस्य स्थाने अपि सम्भवति — इत्यर्थः । यथा, <<दिव उत्>> [[6.1.131]] अनेन सूत्रेण 'दिव्' इत्यस्य स्थाने विधीयमानः उकारः <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यनेन दिव्-शब्दस्य अन्तिमवर्णस्य (वकारस्य) स्थाने एव भवति, न हि दिव्-शब्दस्य स्वरस्य स्थाने । <<दिव उत्>> [[6.1.131]] इति सूत्रे ह्रस्व/दीर्घ/प्लुतशब्दः नैव प्रयुक्तः अस्ति, अतः तत्र <<अचश्च>> [[1.2.28]] इति परिभाषा अपि न प्रयुज्यते, इति अत्र आशयः । प्रक्रिया इयम् —\n\nदिव् + भ्याम् [वकारान्तात् दिव्-प्रातिपदिकात् तृतीयेकवचनस्य विवक्षायाम् <<स्वौजस्..>> [[4.1.2]] इति भ्याम्-प्रत्ययः]\n→ दिउ + भ्याम् [<<दिव उत्>> [[6.1.131]] इति उकारादेशः । अस्मिन् सूत्रे ह्रस्व/दीर्घ/प्लुतशब्दः नैव प्रयुक्तः, अतः अत्र <<अचश्च>> [[1.2.28]] इति परिभाषा अपि नैव प्रयोक्तव्या । ]\n→ द्युभ्याम् [<<इको यणचि>> [[6.1.77]] इति यणादेशः]\n\n\n" }, "12029": { "sa": "यस्य स्वरस्य उच्चारणम् तस्य उच्चारणस्थानस्य ऊर्ध्वभागात् भवति, तस्य 'उदात्तः' इति संज्ञा भवति ।", "sd": "व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमाः सन्ति 'उदात्तः, अनुदात्तः, स्वरितः' इति तिस्रः संज्ञाः । स्वराणां बाह्यप्रयत्नस्य निर्देशः एताभिः तिसृभिः संज्ञाभिः क्रियते । एतासु 'उदात्तः' इति संज्ञा प्रकृतसूत्रेण विधीयते । यस्य स्वरस्य उच्चारणम् उच्चारणस्थानस्य केवलम् ऊर्ध्वभागात् भवति (इत्युक्ते, उच्चारणसमये उच्चारणस्थानस्य ऊर्ध्वभागे एव वायोः चलनम् भवति) , तस्य स्वरस्य 'उदात्तः' इति संज्ञा भवति — इति प्रकृतसूत्रस्य आशयः । तदित्थम् —\n\n1) अवर्णस्य उच्चारणस्थानम् कण्ठः । अतः कण्ठस्य ऊर्ध्वभागात् सम्पद्यमानः 'अ', 'आ' उत 'अ3' इति स्वरः उदात्तसंज्ञकः भवति ।\n2) इवर्णस्य उच्चारणस्थानम् तालु । अतः तालुनः ऊर्ध्वभागात् सम्पद्यमानः 'इ', 'ई' उत 'इ3' इति स्वरः उदात्तसंज्ञकः भवति ।\n3) उवर्णस्य उच्चारणस्थानम् ओष्ठौ । अतः ओष्ठयोः ऊर्ध्वभागात् सम्पद्यमानः 'उ', 'ऊ' उत 'उ3' इति स्वरः उदात्तसंज्ञकः भवति ।\n4) ऋवर्णस्य उच्चारणस्थानम् मूर्धा । अतः मूर्ध्नः ऊर्ध्वभागात् सम्पद्यमानः 'ऋ', 'ॠ' उत 'ऋ3' इति स्वरः उदात्तसंज्ञकः भवति ।\n5) एवर्णस्य, ऐवर्णस्य च उच्चारणस्थानम् कण्ठतालु । अतः कण्ठस्य तालुनः च ऊर्ध्वभागात् सम्पद्यमानाः 'ए', 'ए3', 'ऐ', 'ऐ3' एते स्वराः उदात्तसंज्ञकाः भवन्ति ।\n6) ओवर्णस्य औवर्णस्य च उच्चारणस्थानम् कण्ठोष्ठम् । अतः कण्ठस्य ओष्ठयोः च ऊर्ध्वभागात् सम्पद्यमानाः 'ओ', 'ओ3', 'औ', 'औ3' एते स्वराः उदात्तसंज्ञकाः भवन्ति ।\n\nअनेन प्रकारेण निर्दिष्टस्य स्थानस्य केवलम् ऊर्ध्वभागात् यस्य स्वरस्य उच्चारणम् भवति, सः स्वरः 'उदात्तः' नाम्ना ज्ञायते ।\n\n1. वस्तुतः उदात्त-अनुदात्त-स्वरित-संज्ञाः वेदानाम् उच्चारणस्य सन्दर्भे प्रसिद्धाः वर्तन्ते । तत्र उदात्तः = medium pitch, अनुदात्तः = low pitch, स्वरितः = high pitch इति भेदः कृतः अस्ति । एतासाम् एव संज्ञानाम् विधानम् पाणिनिमहर्षिणा अष्टाध्याय्यां <<उच्चैरुदात्तः>> [[1.2.29]], <<नीचैरनुदात्तः>> [[1.2.30]] तथा च <<समाहारः स्वरितः>> [[1.2.31]] एतैः त्रिभिः सूत्रैः उच्चारणस्थानस्य प्रभागानाम् आधारेण कृतम् अस्ति । अतः, एतेषु सूत्रेषु विद्यमानाः 'उच्चैः', 'नीचैः', तथा 'समाहारः' एते शब्दाः pitch-विषये निर्देशं न कुर्वन्ति अपितु उच्चारणस्थाने वायोः गतिः कस्मिन् प्रभागे विद्यते इत्येतस्य निर्देशं कुर्वन्ति इति अवश्यम् स्मर्तव्यम् ।\n2. उदात्तस्वरस्य लेखनसमये स्वरस्य अधः उत उपरि किमपि चिह्नम् न दीयते । यथा - अ इति उदात्तः स्वरः ।\nउदात्तसंज्ञायाः सूत्रेषु प्रयोगः\nभिन्नेषु सूत्रेषु स्वराणाम् उच्चारणविशेषं दर्शयितुम् 'उदात्त'संज्ञायाः प्रयोगः कृतः दृश्यते । कानिचन उदाहरणानि एतानि —\n\n1) <<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति सूत्रेण लङ्/लुङ्/लृङ्लकाराणाम् रूपेषु दृश्यमानः 'अट्' इति आगमः उदात्तसंज्ञकः अस्ति ।\n2) <<आद्युदात्तश्च>> [[3.1.3]] इति सूत्रेण प्रत्यस्यस्य आदिस्वरस्य औत्सर्गिकम् उदात्तत्वम् विधीयते ।\n3) <<वाक्यस्य टेः प्लुत उदात्तः>> [[8.2.82]] इत्यस्मिन् अधिकारे उक्तैः भिन्नैः सूत्रैः यः प्लुत-आदेशः भवति, सः उदात्तसंज्ञकः ज्ञेयः ।\n\n" }, "12030": { "sa": "यस्य स्वरस्य उच्चारणम् तस्य उच्चारणस्थानस्य अधोभागात् भवति, तस्य 'अनुदात्तः' इति संज्ञा भवति ।", "sd": "व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमाः सन्ति 'उदात्तः, अनुदात्तः, स्वरितः' इति तिस्रः संज्ञाः । स्वराणां बाह्यप्रयत्नस्य निर्देशः एताभिः तिसृभिः संज्ञाभिः क्रियते । एतासु 'अनुदात्तः' इति संज्ञा प्रकृतसूत्रेण विधीयते । यस्य स्वरस्य उच्चारणम् उच्चारणस्थानस्य केवलम् अधोभागात् भवति (इत्युक्ते, उच्चारणसमये उच्चारणस्थानस्य अधोभागे एव वायोः चलनम् भवति) तस्य स्वरस्य 'अनुदात्तः' इति संज्ञा भवति — इति प्रकृतसूत्रस्य आशयः । तदित्थम् —\n\n1) अवर्णस्य उच्चारणस्थानम् कण्ठः । अतः कण्ठस्य अधोभागात् सम्पद्यमानः 'अ', 'आ' उत 'अ3' इति स्वरः अनुदात्तसंज्ञकः भवति ।\n2) इवर्णस्य उच्चारणस्थानम् तालु । अतः तालुनः अधोभागात् सम्पद्यमानः 'इ', 'ई' उत 'इ3' इति स्वरः अनुदात्तसंज्ञकः भवति ।\n3) उवर्णस्य उच्चारणस्थानम् ओष्ठौ । अतः ओष्ठयोः अधोभागात् सम्पद्यमानः 'उ', 'ऊ' उत 'उ3' इति स्वरः अनुदात्तसंज्ञकः भवति ।\n4) ऋवर्णस्य उच्चारणस्थानम् मूर्धा । अतः मूर्ध्नः अधोभागात् सम्पद्यमानः 'ऋ', 'ॠ' उत 'ऋ3' इति स्वरः अनुदात्तसंज्ञकः भवति ।\n5) एवर्णस्य, ऐवर्णस्य च उच्चारणस्थानम् कण्ठतालु । अतः कण्ठस्य तालुनः च अधोभागात् सम्पद्यमानाः 'ए', 'ए3', 'ऐ', 'ऐ3' एते स्वराः अनुदात्तसंज्ञकाः भवन्ति ।\n6) ओवर्णस्य औवर्णस्य च उच्चारणस्थानम् कण्ठोष्ठम् । अतः कण्ठस्य ओष्ठयोः च अधोभागात् सम्पद्यमानाः 'ओ', 'ओ3', 'औ', 'औ3' एते स्वराः अनुदात्तसंज्ञकाः भवन्ति ।\n\nअनेन प्रकारेण निर्दिष्टस्य स्थानस्य केवलम् अधोभागात् यदि स्वरस्य उच्चारणम् भवति, तर्हि सः स्वरः 'अनुदात्तः' नाम्ना ज्ञायते ।\n\n1. वस्तुतः उदात्त-अनुदात्त-स्वरित-संज्ञाः वेदानाम् उच्चारणस्य सन्दर्भे प्रसिद्धाः वर्तन्ते । तत्र उदात्तः = medium pitch, अनुदात्तः = low pitch, स्वरितः = high pitch इति भेदः कृतः अस्ति । एतासाम् एव संज्ञानाम् विधानम् पाणिनिमहर्षिणा अष्टाध्याय्यां <<उच्चैरुदात्तः>> [[1.2.29]], <<नीचैरनुदात्तः>> [[1.2.30]] तथा च <<समाहारः स्वरितः>> [[1.2.31]] एतैः त्रिभिः सूत्रैः उच्चारणस्थानस्य प्रभागानाम् आधारेण कृतम् अस्ति । अतः, एतेषु सूत्रेषु विद्यमानाः 'उच्चैः', 'नीचैः', तथा 'समाहारः' एते शब्दाः pitch-विषये निर्देशं न कुर्वन्ति अपितु उच्चारणस्थाने वायोः गतिः कस्मिन् प्रभागे विद्यते इत्येतस्य निर्देशं कुर्वन्ति इति अवश्यम् स्मर्तव्यम् । \n2. अनुदात्तस्वरस्य लेखनसमये स्वरस्य अधः एका रेखा दीयते । अ॒ इति अनुदात्तः स्वरः ।\nअनुदात्तसंज्ञायाः सूत्रेषु प्रयोगः\nभिन्नेषु सूत्रेषु स्वराणाम् उच्चारणविशेषं दर्शयितुम्, तद्विशिष्टं कार्यं वा दर्शयितुम् 'अनुदात्त'संज्ञायाः प्रयोगः कृतः दृश्यते । कानिचन उदाहरणानि एतानि —\n\n1) <<अनुदात्तङित आत्मनेपदम्>> [[1.3.12]] इति सूत्रेण आत्मनेपदत्वस्य निर्णयार्थम् अनुदात्तसंज्ञायाः प्रयोगः क्रियते । यस्मिन् धातौ विद्यमानः इत्संज्ञकः स्वरः अनुदात्तः अस्ति, सः धातुः आत्मनेपदस्य प्रत्ययान् स्वीकरोति, इति अस्य सूत्रस्य अर्थः । \n2) <<अनुदात्तादेरञ्>> [[4.2.44]] इति सूत्रेण अनुदात्तादिशब्दात् 'तस्य समूहः' अस्मिन् अर्थे अञ्-प्रत्ययः भवति । अत्र प्रत्ययविधानार्थम् अनुदात्तशब्दस्य प्रयोगः कृतः दृश्यते ।\n3) <<अनुदात्तौ सुप्पितौ>> [[3.1.4]] इति सूत्रेण सुप्-प्रत्ययस्य आदिस्वरः अनुदात्तत्वं प्राप्नोति ।\n\n\n\n" }, "12031": { "sa": "यस्य स्वरस्य उच्चारणम् तस्य उच्चारणस्थानस्य उर्ध्वभागम् अधोभागम् च प्रयुज्य भवति, तस्य 'स्वरित:' इति संज्ञा भवति । ", "sd": "व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमाः सन्ति 'उदात्तः, अनुदात्तः, स्वरितः' इति तिस्रः संज्ञाः । स्वराणां बाह्यप्रयत्नस्य निर्देशः एताभिः तिसृभिः संज्ञाभिः क्रियते । एतासु 'स्वरितः' इति संज्ञा प्रकृतसूत्रेण विधीयते । यस्य स्वरस्य उच्चारणे उदात्तगुणधर्मस्य अनुदात्तगुणधर्मस्य च समाहारः (सम्मिश्रणम्) भवति (इत्युक्ते, यस्य स्वरस्य उच्चारणसमये वायोः चलनम् उच्चारणस्थानस्य ऊर्ध्वभागे अपि भवति, अधोभागे अपि भवति) तस्य स्वरस्य 'स्वरितः' इति संज्ञा भवति — इति प्रकृतसूत्रस्य आशयः । तदित्थम् —\n\n1) अवर्णस्य उच्चारणस्थानम् कण्ठः । अतः कण्ठस्य ऊर्ध्वभागस्य अधोभागस्य च प्रयोगं कृत्वा सम्पद्यमानः 'अ', 'आ' उत 'अ3' इति स्वरः स्वरितसंज्ञकः भवति ।\n2) इवर्णस्य उच्चारणस्थानम् तालु । अतः तालुनः ऊर्ध्वभागस्य अधोभागस्य च प्रयोगं कृत्वासम्पद्यमानः 'इ', 'ई' उत 'इ3' इति स्वरः स्वरितसंज्ञकः भवति ।\n3) उवर्णस्य उच्चारणस्थानम् ओष्ठौ । अतः ओष्ठयोः ऊर्ध्वभागस्य अधोभागस्य च प्रयोगं कृत्वा सम्पद्यमानः 'उ', 'ऊ' उत 'उ3' इति स्वरः स्वरितसंज्ञकः भवति ।\n4) ऋवर्णस्य उच्चारणस्थानम् मूर्धा । अतः मूर्ध्नः ऊर्ध्वभागस्य अधोभागस्य च प्रयोगं कृत्वा सम्पद्यमानः 'ऋ', 'ॠ' उत 'ऋ3' इति स्वरः स्वरितसंज्ञकः भवति ।\n5) एवर्णस्य, ऐवर्णस्य च उच्चारणस्थानम् कण्ठतालु । अतः कण्ठस्य तालुनः च ऊर्ध्वभागस्य अधोभागस्य च प्रयोगं कृत्वा सम्पद्यमानाः 'ए', 'ए3', 'ऐ', 'ऐ3' एते स्वराः स्वरितसंज्ञकाः भवन्ति ।\n6) ओवर्णस्य औवर्णस्य च उच्चारणस्थानम् कण्ठोष्ठम् । अतः कण्ठस्य ओष्ठयोः च ऊर्ध्वभागस्य अधोभागस्य च प्रयोगं कृत्वा सम्पद्यमानाः 'ओ', 'ओ3', 'औ', 'औ3' एते स्वराः स्वरितसंज्ञकाः भवन्ति ।\n\nअनेन प्रकारेण निर्दिष्टस्य स्थानस्य ऊर्ध्वभागात् अधोभागात् च यदि स्वरस्य उच्चारणम् भवति, तर्हि सः स्वरः 'स्वरितः' नाम्ना ज्ञायते ।\n\n1. वस्तुतः उदात्त-अनुदात्त-स्वरित-संज्ञाः वेदानाम् उच्चारणस्य सन्दर्भे प्रसिद्धाः वर्तन्ते । तत्र उदात्तः = medium pitch, अनुदात्तः = low pitch, स्वरितः = high pitch इति भेदः कृतः अस्ति । एतासाम् एव संज्ञानाम् विधानम् पाणिनिमहर्षिणा अष्टाध्याय्यां <<उच्चैरुदात्तः>> [[1.2.29]], <<नीचैरनुदात्तः>> [[1.2.30]] तथा च <<समाहारः स्वरितः>> [[1.2.31]] एतैः त्रिभिः सूत्रैः उच्चारणस्थानस्य प्रभागानाम् आधारेण कृतम् अस्ति । अतः, एतेषु सूत्रेषु विद्यमानाः 'उच्चैः', 'नीचैः', तथा 'समाहारः' एते शब्दाः pitch-विषये निर्देशं न कुर्वन्ति अपितु उच्चारणस्थाने वायोः गतिः कस्मिन् प्रभागे विद्यते इत्येतस्य निर्देशं कुर्वन्ति इति अवश्यम् स्मर्तव्यम् ।\n2. स्वरितस्वरस्य लेखनसमये स्वरस्य उपरि एका ऊर्ध्वरेखा दीयते । यथा - अ॑ इति स्वरितः स्वरः ।\nस्वरितसंज्ञायाः सूत्रेषु प्रयोगः\nभिन्नेषु सूत्रेषु स्वराणाम् उच्चारणविशेषं दर्शयितुम्, तद्विशिष्टं कार्यं वा दर्शयितुम् 'स्वरित'संज्ञायाः प्रयोगः कृतः दृश्यते । कानिचन उदाहरणानि एतानि —\n\n1) <<स्वरितञितः कर्त्रभिप्राये क्रियाफले>> [[1.3.72]] इति सूत्रेण उभयपदित्वस्य निर्णयार्थम् स्वरितसंज्ञायाः प्रयोगः क्रियते । \n2) <<तित्स्वरितम्>> [[6.1.185]] इति सूत्रेण तित्-प्रत्ययस्य (यथा, तव्यत्, ण्यत् इत्येतेषाम्) स्वरः स्वरितसंज्ञकः भवति । \n3) अष्टाध्याय्यां पाणिनिः अनुवृत्तेः निर्देशार्थम् स्वरितस्वरस्य प्रयोगं करोति इति <<स्वरितेनाधिकारः>> [[3.1.4]] इति सूत्रेण ज्ञाप्यते ।\n\n\n\n" }, "12032": { "sa": "स्वरित-स्वरस्य प्रारम्भिकः अर्धभागः उदात्तः ज्ञातव्यः । ", "sd": "अष्टाध्याय्याम् 'स्वरित'-इति संज्ञा <<समाहारः स्वरितः>> [[1.2.31]] इति सूत्रेण पाठिता अस्ति । अनेन सूत्रेण 'स्वरितस्वरस्य उच्चारणे उदात्तस्वरस्य अनुदात्तस्वरस्य च गुणधर्मयोः सम्मिश्रणं भवति' इति निर्दिश्यते । तत्र स्वरितस्वरस्य कियान् अंशः उदात्तः, कियान् च अनुदात्तः इति स्पष्टीकर्तुम् प्रकृतसूत्रम् विरचितम् अस्ति । स्वरित-स्वरस्य आदितः अर्धभागः ('अर्धह्रस्वम्' इति सूत्रस्थशब्दः) उदात्तः ज्ञेयः, शेषः अर्धभागः च अनुदात्तः ज्ञेयः इति अस्य सूत्रस्य अर्थः । स्वरितस्वरस्य उच्चारणसमये स्वरस्य आदितः अर्धभागः उदात्तस्वरसदृशः उच्चार्यते (इत्युक्ते, तत्र वायोः गमनम् उच्चारणस्थानस्य उर्ध्वभागे भवति) , ततश्च अन्तिमः अर्धभागः अनुदात्तस्वरसदृशः उच्चार्यते (इत्युक्ते, तत्र वायोः गमनम् उच्चारणस्थानस्य अधोभागे भवति), इति अस्य आशयः । \n\nवस्तुतस्तु, अत्र प्रयुक्तस्य 'अर्धभागः (= अर्धह्रस्वम्)' इति शब्दस्य कः अर्थः — इत्यस्मिन् विषये मतान्तरं विद्यते । 'ह्रस्व'शब्देन ह्रस्वस्वरः न गृह्यते इत्यत्र तु मतैक्यमेव । परन्तु अर्धह्रस्वशब्दस्य साक्षात् कः अर्थः तत्र मतैक्यं नास्ति । तदित्थम् —\n1) काशिकाकारस्य पक्षः — काशिकाकारस्य मतेन, अस्मिन् सूत्रे विद्यमानस्य 'अर्धह्रस्वम्' इति शब्दस्य अर्थः 'अर्धमात्रा' (half मात्रा) इति अस्ति । इत्युक्ते, स्वरस्य उच्चारणार्थम् यावत्यः मात्राः आवशक्यः, तासु केवलम् आदिस्थे अर्धमात्राकाले एव (i.e., for only the initial 0.5 मात्रा) उदात्तस्वरसदृशः गुणधर्मः (वायोः गमनम्) भवति, अवशिष्टेषु मात्राकालेषु तु अनुदात्तस्वरसदृशः गुणधर्मः विद्यते, इति काशिकाकारस्य आशयः । अतः —\n\nकाशिकाकारस्य पक्षे —\n1. ह्रस्वः स्वरितः स्वरः = एकमात्रिक: = 0.5 मात्रा उदात्तः + 0.5 मात्रा अनुदात्तः ।\n2. दीर्घः स्वरितः स्वरः = द्विमात्रिक: = 0.5 मात्रा उदात्तः + 1.5 मात्रा अनुदात्तः ।\n3. प्लुतः स्वरितः स्वरः = त्रिमात्रिकः = 0.5 मात्रा उदात्तः + 2.5 मात्रा अनुदात्तः ।\n\nइति ।\n2) कौमुदीकारस्य पक्षः — कौमुदीकारस्य मतेन तु अस्मिन् सूत्रे विद्यमानस्य 'अर्धह्रस्वम्' इति शब्दस्य अर्थः 'अर्धकालं यावत्' (half period) इति अस्ति । इत्युक्ते, स्वरस्य उच्चारणार्थम् यावान् कालः आवश्यकः, तस्मात् अर्धं कालः यावत् (i.e. half of the total time) उदात्तस्वरसदृशः गुणधर्मः (वायोः गमनम्) भवति, अवशिष्ट: अर्धं कालः यावत् अनुदात्तस्वरसदृशः गुणधर्मः विद्यते, इति कौमुदीकारस्य आशयः । अतः —\n\nकौमुदीकारस्य पक्षे —\n1. ह्रस्वः स्वरितः स्वरः = एकमात्रिकः = 0.5 मात्रा उदात्तः + 0.5 मात्रा अनुदात्तः ।\n2. दीर्घः स्वरितः स्वरः = द्विमात्रिकः = 1 मात्रा उदात्तः + 1 मात्रा अनुदात्तः ।\n3. प्लुतः स्वरितः स्वरः = त्रिमात्रिकः = 1.5 मात्रा उदात्तः + 1.5 मात्रा अनुदात्तः ।\n\nइति ।\n" }, "12033": { "sa": "", "sd": "" }, "12034": { "sa": "", "sd": "" }, "12035": { "sa": "", "sd": "" }, "12036": { "sa": "", "sd": "" }, "12037": { "sa": "", "sd": "" }, "12038": { "sa": "", "sd": "" }, "12039": { "sa": "", "sd": "" }, "12040": { "sa": "", "sd": "" }, "12041": { "sa": "यस्मिन् प्रत्यये केवलं एकः एव वर्णः अस्ति, अपृक्तः नाम्ना ज्ञायते । ", "sd": "व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा अस्ति 'अपृक्त' इति संज्ञा । यस्मिन् प्रत्यये एकः एव वर्णः विद्यते, तस्य अनेन सूत्रेण 'अपृक्त' इति संज्ञा भवति । यथा -\n1) प्रथमैकवचनस्य सुँ-प्रत्ययस्य इत्संज्ञालोपात् अनन्तरम् 'स्' इति एकाल् रूपम् अवशिष्यते । अस्य 'अपृक्तः' इति संज्ञा भवति ।\n2) लङ्लकारस्य स्थाने विहितस्य प्रथमपुरुषैकवचनस्य 'तिप्' प्रत्ययस्य पकारस्य इतसंज्ञालोपे कृते 'ति' इत्यत्र विद्यमानस्य इकारस्य <<इतश्च>> [[3.4.100]] इत्यनेन लोपे कृते अवशिष्टे 'त्' इत्यस्मिन् अंशे एकः एव वर्णः विद्यते, अतः 'त्' इति अपृक्तः प्रत्ययः ।\n3) 'क्विप्' प्रत्यये इत्संज्ञकयोः ककारपकारयोः लोपं कृत्वा, ततः उच्चारणार्थं स्थापितस्य वकारोत्तरस्य इकारस्यापि लोपं कृत्वा अवशिष्टः 'व्' इति प्रत्ययः अपि अपृक्तसंज्ञकः भवति ।\nप्रयोजनम्\nअपृक्तसंज्ञाम् आश्रित्य अष्टाध्याय्यां भिन्नानि कार्याणि उक्तानि सन्ति । यथा, हलन्तशब्दात् विहितस्य अपृक्त-सुँ-प्रत्ययस्य <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इत्यनेन लोपः भवति -\n\nमरुत् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः]\n--> मरुत् + स् [<<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इति उँकारस्य इत्संहज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः । अवशिष्टस्य 'स्' इत्यस्य 'अपृक्तः' इति संज्ञा भवति ।]\n--> मरुत् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति अपृक्तसकारस्य लोपः]\n\nप्रयोगः\nअष्टाध्याय्याम् 'अपृक्त'संज्ञायाः साक्षात् प्रयोगः आहत्य चतुर्षु सूत्रेषु कृतः अस्ति -\n1. <<वेरपृक्तस्य>> [[6.1.67]]\n2. <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]]\n3. <<गुणोऽपृक्ते>> [[7.3.91]]\n4. <<अस्तिसिचोऽपृक्ते>> [[7.3.96]]\nअनुवृत्तिरूपेण तु अन्यत्रापि अस्य शब्दस्य प्रयोगः भवितुम् अर्हति ।\n" }, "12042": { "sa": "", "sd": "" }, "12043": { "sa": "", "sd": "" }, "12044": { "sa": "", "sd": "" }, "12045": { "sa": "यः अर्थवान् शब्दः धातुसंज्ञकः, प्रत्ययसंज्ञकः, प्रत्ययान्तः च नास्ति, तस्य 'प्रातिपदिकम्' इति संज्ञा भवति । ", "sd": "व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा अस्ति 'प्रातिपदिकम्' इति संज्ञा । धातुभिन्नानाम् प्रत्ययान्तभिन्नानाम् अर्थवताम् शब्दानाम् अनेन सूत्रेण 'प्रातिपदिकम्' इति संज्ञा भवति ।\nधातुः\n<<भूवादयो धातवः>> [[१.३.१]] इत्यनेन सूत्रेण धातुपाठे उपस्थिताः क्रियावाचिनः शब्दाः, तथा च तथा <<सनाद्यन्ताः धातवः>> [[३.१.३२]] इत्यनेन सूत्रेण सनादि-प्रत्ययान्तशब्दाः धातुसंज्ञकाः भवन्ति । एतादृशाः शब्दाः यद्यपि अर्थवन्तः सन्ति, तथापि तेषां प्रातिपदिकसंज्ञा न भवति । यथा - भू, चुर्, चोरि, पिपठिष - एतेषां शब्दानाम् (क्रियावाचिनि अर्थे) प्रातिपदिकसंज्ञा न भवति ।\nप्रत्ययः, प्रत्ययान्तः शब्दः\nसर्वे प्रत्ययाः <<प्रत्ययः>> [[3.1.1]] अस्मिन् अधिकारे पाठिताः सन्ति । एते प्रत्ययाः प्रातिपदिकसंज्ञकाः न भवन्ति । अपि च, एते प्रत्ययाः येषाम् अन्ते विद्यन्ते, ते शब्दाः अपि प्रकृतसूत्रेण प्रातिपदिकसंज्ञकाः न भवन्ति । यथा - 'रामः' इति सुँ-प्रत्ययान्तशब्दः प्रातिपदिकसंज्ञकः नास्ति । एवमेव 'पठति' इति तिप्-प्रत्ययान्तशब्दः प्रातिपदिकसंज्ञकः नास्ति ।\nअर्थवान् शब्दः\nयः शब्दः भाषायाम् कञ्चित् अर्थम् गृह्णाति, परन्तु धातुसंज्ञकः, प्रत्ययसंज्ञकः, प्रत्ययान्तः वा नास्ति, तस्य प्रकृतसूत्रेण 'प्रातिपदिक'संज्ञा विधीयते । यथा, 'हूहू' इति कस्यचन गन्धर्वस्य नाम । अयं शब्दः न हि धातुसंज्ञक , न हि प्रत्ययः, न च प्रत्ययान्तः अस्ति । परन्तु अस्य शब्दस्य विशिष्टः अर्थः विद्यते । अतः अस्य शब्दस्य प्रकृतसूत्रेण प्रातिपदिकसंज्ञा भवति ।\nप्रातिपदिकसंज्ञायाः प्रयोजनम्\nप्रातिपदिकसंज्ञायाः मुख्यम् प्रयोजनम् अस्ति प्रत्ययविधानम् । सुप्-प्रत्ययाः, स्त्री-प्रत्ययाः तद्धितप्रत्ययाः च प्रातिपदिकेभ्यः विधीयन्ते । यथा, 'बाल' इत्यस्मात् प्रातिपदिकात् 'सुँ' इति सुप्-प्रत्यये कृते 'बालः' इति शब्दः सिद्ध्यति, 'टाप्' इति स्त्रीप्रत्यये कृते 'बाला' इति शब्दः सिद्ध्यति, 'ष्यञ्' इति तद्धितप्रत्यये कृते 'बाल्य' इति शब्दः सिद्ध्यति ।\nप्रातिपदिकसंज्ञायाः अन्यानि अपि प्रयोजनानि सन्ति । यथा, <<न लोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इत्यनेन पदसंज्ञकस्य प्रातिपदिकस्य अन्ते विद्यमानस्य नकारस्य लोपः भवति -\n\nनामन् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः]\n--> नामन् + स् [<<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इति इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n--> नामन् + ० [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति अपृक्तसकारस्य लोपः । प्रत्ययस्य लोपे कृते अपि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इति प्रत्ययलक्षणा <<सुप्तिङन्तं पदम्>> [[1.4.14]] इति पदसंज्ञा भवति ।]\n--> नाम [पदसंज्ञकस्य प्रातिपदिकस्य अन्ते विद्यमानस्य नकारस्य <<न लोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति लोपः]\n\nप्रातिपदिकसंज्ञायाः प्रयोगः\nअष्टाध्याय्यां प्रातिपदिकसंज्ञायाः साक्षात् प्रयोगः षट्सु सूत्रेषु कृतः अस्ति -\n1. <<ह्रस्वो नपुंसके प्रातिपदिकस्य>> [[1.2.47]]\n2. <<प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा>> [[2.3.46]]\n3. <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]]\n4. <<ङ्याप्प्रातिपदिकात्>> [[4.1.1]]\n5. <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]]\n6. <<प्रातिपदिकान्तनुम्विभक्तिषु च>> [[8.4.11]]\nअनुवृत्तिरूपेण तु अन्येषु सूत्रेषु अपि अस्याः प्रयोगः भवितुम् अर्हति ।\nकृत्प्रत्ययान्तशब्दाः, तद्धिप्रत्ययान्तशब्दाः\n'कर्तृ', 'पाठक' एतादृशाः कृत्-प्रत्ययान्तशब्दानां, तथा च 'वासुदेव, राघव' एतादृशः तद्धितप्रत्ययान्तशब्दानां तेषाम् 'प्रत्ययान्तत्वात्' प्रकृतसूत्रेण प्रातिपदिकसंज्ञा न भवति । परन्तु एतेषाम् शब्दानाम् प्रातिपदिकसंज्ञा अवश्यम् इष्यते । तदर्थम् पाणिनिना <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति अग्रिमं सूत्रम् निर्मितम् अस्ति । अनेन सूत्रेण कृदन्तानाम् तद्धितान्तानां च प्रातिपदिकसंज्ञा भवति ।\nस्त्रीप्रत्ययान्तशब्दाः\n'बाला', 'देवी' एतादृशानां स्त्रीप्रत्ययान्तशब्दानाम् 'प्रत्ययान्तत्वात्' प्रकृतसूत्रेण तेषां प्रातिपदिकसंज्ञा न भवति । वस्तुतः तु स्त्रीप्रत्ययान्तशब्दानाम् प्रातिपदिकसंज्ञा एव न भवति, यतः तदर्थम् अष्टाध्याय्यां किमपि सूत्रम् न पाठ्यते । परन्तु <ऽप्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्ऽ> अनया परिभाषया - 'यत्र प्रातिपदिकम् अनुसृत्य किञ्चन कार्यम् उक्तम् अस्ति, तत्र तस्मात् प्रातिपदिकात् स्त्रीप्रत्ययं कृत्वा सिद्धे शब्दे अपि तत् कार्यम् भवितुम् अर्हति' इति अर्थः उच्यते, अतः प्रातिपदिकसंज्ञायाः अभावात् अपि स्त्रीप्रत्ययान्तशब्दैः सह प्रातिपदिकसदृशः एव व्यवहारः क्रियते । अपि च, <<ङ्याप्प्रातिपदिकात्>> [[4.1.1]] इत्यस्मिन् सूत्रे 'ङी' तथा 'आप्' एतयोः ग्रहणेन बहूनाम् स्त्रीप्रत्ययान्तशब्दानाम् साक्षात् ग्रहणं कृत्वा तेभ्यः सुप्-प्रत्ययाः तद्धितप्रत्ययाः च उक्ताः सन्ति, अतः तादृशम् अपि तेभ्यः प्रत्ययविधानम् कर्तुं शक्यते ।\nउणादिप्रत्ययान्तशब्दाः\nबहूनाम् अर्थवताम् शब्दानाम् निर्माणम् धातुभ्यः उणादिप्रत्ययान् योजयित्वा कृतम् अस्ति । यथा, 'लक्ष्मीः' इति शब्दः 'लक्ष्' धातोः <<लक्षेर्मुट् च>> (उणादिः ३.१६०) इत्यनेन 'ई' इति प्रत्ययं कृत्वा सिद्ध्यति । एतादृशाः उणादिप्रत्ययान्तशब्दाः प्रातिपदिकानि सन्ति । परन्तु एते शब्दाः प्रातिपदिकत्वं कथं प्राप्नुवन्ति अस्मिन् विषये पण्डितेषु मतान्तराणि विद्यन्ते । अत्र मुख्यरूपेण पक्षद्वयं विद्यते -\nअ) उणादयः व्युत्पन्नानि प्रातिपदिकानि - अस्मिन् पक्षे 'सर्वे उणादिप्रत्ययाः कृत्संज्ञकाः सन्ति' इति सिद्धान्तं संस्थाप्य उणादिप्रत्ययान्तशब्दानां कृदन्तत्वं स्वीक्रियते । अस्यां स्थितौ प्रकृतसूत्रेण तु एतेषाम् प्रातिपदिकसंज्ञा न भवति ।परन्तु <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इत्यनेन अग्रिमसूत्रेण एतेषाम् प्रातिपदिकसंज्ञा भवितुम् अर्हति ।\nआ)उणादयः अव्युत्पन्नानि प्रातिपदिकानि - अस्मिन् पक्षे उणादिप्रत्ययानाम् अष्टाध्याय्याः सन्दर्भे साक्षात् प्रत्ययत्त्वं नानुमन्यते, अतः उणादिप्रत्ययान्तशब्दाः अष्टाध्याय्याः दृष्ट्या अव्युत्पन्नाः सन्ति । तेषाम् प्रकृति-प्रत्ययरूपेण विभागः न भवितुम् अर्हति इत्याशयः । अस्यां स्थितौ सर्वेषाम् उणादिप्रत्ययान्तशब्दानाम् अर्थवत्त्वात् प्रकृतसूत्रेणैव तेषाम् प्रातिपदिकसंज्ञा भवितुम् अर्हति । " }, "12046": { "sa": "कृत्-प्रत्ययान्तशब्दानाम्, तद्धितप्रत्ययान्तशब्दानाम् तथा सामासिकशब्दानाम् 'प्रातिपदिकम्' इति संज्ञा भवति ।", "sd": "व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा अस्ति 'प्रातिपदिकम्' इति संज्ञा । <<अर्थवदधातुरप्रत्ययः प्रातिपदिकम्>> [[1.2.45]] इति पूर्वसूत्रेण अप्रत्ययान्तशब्दानाम् प्रातिपदिकसंज्ञायाम् कृतायाम्, प्रत्ययान्तशब्दानाम् प्रातिपदिकसंज्ञाविधानार्थम् इदं सूत्रम् प्रारभ्यते । ये शब्दाः कृत्-प्रत्ययान्ताः सन्ति, तद्धितप्रत्ययान्ताः वा सन्ति तेषाम्, तथा च समासेन सिद्धानां शब्दानाम् अनेन सूत्रेण प्रातिपदिकसंज्ञा भवति ।\nकृत्प्रत्ययान्तशब्दाः\nअष्टाध्याय्यां तृतीयाध्याये <<कृदतिङ्>> [[3.1.93]] अस्मिन् अधिकारे कृत्प्रत्ययाः पाठ्यन्ते । एते प्रत्ययाः धातुभ्यः विधीयन्ते । एतेषाम् प्रयोगेण जायमानस्य कृदन्तस्य प्रकृतसूत्रेण प्रातिपदिकसंज्ञा भवति । यथा, 'रम्' धातोः 'घञ्' प्रत्यये कृते प्राप्तः 'राम' इति कृदन्तशब्दः अनेन सूत्रेण प्रातिपदिकसंज्ञकः भवति । कानिचन अन्यानि कृदन्तप्रातिपदिकानि एतादृशानि - पाठक (= पठ् + ण्वुल्), कर्तृ (= कृ + तृच्), द्रष्टव्य (= दृश् + तव्य), लेखन (= लिख् + ल्युट्), सङ्गम्य (= सम् + गम् + ल्यप्), पठितवत् (= पठ् + क्तवतुँ ) ।\nतद्धितप्रत्ययान्तशब्दाः\nअष्टाध्याय्यां चतुर्थपञ्चमाध्याययोः <<तद्धिताः>> [[4.1.76]] अस्मिन् अधिकारे तद्धितप्रत्ययाः पाठ्यन्ते । एते प्रत्ययाः प्रातिपदिकेभ्यः विधीयन्ते । एतेषाम् प्रयोगेण जायमानस्य तद्धितान्तस्य प्रकृतसूत्रेण प्रातिपदिकसंज्ञा भवति । यथा, 'कृष्ण' इत्यस्मात् प्रातिपदिकात् 'इञ्' इति तद्धितप्रत्ययं कृत्वा प्राप्तः 'कार्ष्णि' इति तद्धितान्तशब्दः अनेन सूत्रेण प्रातिपदिकसंज्ञकः भवति । कानिचन अन्यानि तद्धितान्तप्रातिपदिकानि एतादृशानि - गौरव (= गुरु + अण्) , वैनतेय (= विनता + ढक्) , पञ्चम (= पञ्चन् + डट्), शालीय (= शाला + छ) ।\nसमासनिर्मिताः शब्दाः\nअष्टाध्याय्यां द्वितीयाध्यायस्य प्रथमद्वितीयपादयोः <<प्राक्कडारात्समासः>> [[2.1.3]] अस्मिन् अधिकारे समासविधायकानि सूत्राणि पाठितानि सन्ति । एतैः सूत्रैः ये नूतनशब्दाः सिद्ध्यन्ति, तेषाम् प्रकृतसूत्रेण प्रातिपदिकसंज्ञा भवति । यथा, 'सीतायाः पतिः' इत्यत्र <<षष्ठी>> [[2.2.8]] इत्येनेन तत्पुरुषसमासे कृते प्राप्तः 'सीतापति' शब्दः अनेन सूत्रेण प्रातिपदिकसंज्ञकः भवति । कानिचन अन्यानि उदाहरणानि एतानि - , रामलक्ष्मण (= रामश्च लक्ष्मणश्च), पीताम्बर (= पीतम् अम्बरम् यस्य सः), यथाशक्ति (= शक्तिम् अनतिक्रम्य) ।\nस्त्रीप्रत्ययान्तशब्दा:\nअष्टाध्याय्याम् चतुर्थाध्यायस्य प्रथमपादे अष्टौ स्त्रीप्रत्ययाः पाठिताः सन्ति - टाप्, चाप्, डाप्, ङीष्, ङीप्, ङीन्, ऊङ्, क्तिन् । एते प्रत्ययाः कृत्-प्रत्ययाः अपि न सन्ति, तद्धितप्रत्ययाः अपि न सन्ति । अतः प्रकृतसूत्रेण स्त्रीप्रत्ययान्यशब्दानाम् प्रातिपदिकसंज्ञा न भवति । वस्तुतः तु स्त्रीप्रत्ययान्तशब्दानाम् प्रातिपदिकसंज्ञा एव न भवति, यतः तदर्थम् अष्टाध्याय्यां किमपि सूत्रम् न पाठ्यते । परन्तु <ऽप्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्ऽ> इत्यया परिभाषया - 'यत्र प्रातिपदिकम् अनुसृत्य किञ्चन कार्यम् उक्तम् अस्ति, तत्र तस्मात् प्रातिपदिकात् स्त्रीप्रत्ययं कृत्वा सिद्धे शब्दे अपि तत् कार्यम् भवितुम् अर्हति' इति अर्थः उच्यते, अतः प्रातिपदिकसंज्ञायाः अभावात् अपि स्त्रीप्रत्ययान्तशब्दैः सह प्रातिपदिकसदृशः एव व्यवहारः क्रियते । अपि च, <<ङ्याप्प्रातिपदिकात्>> [[4.1.1]] इत्यस्मिन् सूत्रे 'ङी' तथा 'आप्' एतयोः ग्रहणेन बहूनाम् स्त्रीप्रत्ययान्तशब्दानाम् साक्षात् ग्रहणं कृत्वा तेभ्यः सुप्-प्रत्ययाः तद्धितप्रत्ययाः च उक्ताः सन्ति, अतः तादृशम् अपि तेभ्यः प्रत्ययविधानम् कर्तुं शक्यते ।\n सूत्रे 'अन्त'ग्रहणस्य अभावः\n<ऽसंज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्तिऽ> अनया परिभाषया यत्र संज्ञाविधानसूत्रे प्रत्ययस्य निर्देशः क्रियते तत्र सा संज्ञा प्रत्ययस्यैव भवति,न हि प्रत्ययान्तस्य । प्रकृतसूत्रे अस्याः परिभाषायाः आश्रयणनेन केवलम् कृत्-प्रत्ययानाम् तद्धितप्रत्ययानाम् च प्रत्ययसंज्ञा भवेत्, न हि तदन्तानाम् । परन्तु केवलप्रत्ययानां प्रातिपदिकसंज्ञायाः न किञ्चन प्रयोजनम्, अतः अत्र 'अन्त'ग्रहणम् कृत्वैव अर्थनिर्णयः क्रियते ।\nसामासिकशब्दानां विषये नियमः\nवस्तुतः <<अर्थवदधातुरप्रत्ययः प्रातिपदिकम्>> [[1.2.45]] इत्यनेनैव सूत्रेण सामासिकशब्दानाम् प्रातिपदिकसंज्ञा भवितुम् अर्हति, यतः सामासिकशब्दाः अर्थवन्तः सन्ति, धातुसंज्ञकाः न सन्ति, प्रत्ययान्ताः च न सन्ति । अनेन प्रकारेण पूर्वसूत्रेणैव प्रातिपदिकसंज्ञायां सिद्धायाम् प्रकृतसूत्रे 'समास'ग्रहणम् नियमार्थम् अस्ति । यत्र द्वयोः अधिकानाम् वा पदानाम् समूहः दृश्यते, तत्र केवलं समासस्यैव प्रातिपदिकसंज्ञा भवति, अन्येषाम् पदसमूहानाम् न इति अत्र नियमः । अनेन नियमेन वाक्यस्य प्रातिपदिकसंज्ञा प्रतिषिध्यते । वाक्यम् अपि समाससदृशः पदसमूहः एव । तत् अपि अर्थवत् अस्ति, धातुसंज्ञकम् प्रत्ययान्तं च नास्ति (यद्यपि वाक्यस्य अन्ते विद्यमानः शब्दः प्रत्ययान्तः एव, तथापि <ऽप्रत्ययग्रहणे यस्मात्स विहितः तदादेः तदन्तस्य च ग्रहणम्ऽ> इति परिभाषया इदं प्रत्ययान्तत्वं तस्य शब्दस्य कृते एव स्वीक्रियते, वाक्यस्य कृते न, अतः वाक्यम् तु अप्रत्ययान्तम् एव - इति आशयः ) । अतः <<अर्थवदधातुरप्रत्ययः प्रातिपदिकम्>>[[1.2.45]] इत्यनेन तस्य प्रातिपदिकसंज्ञायां प्राप्तायाम् प्रकृतसूत्रे समासग्रहणेन सा निषिध्यते ।\n> [[1.2.28]] इत्यनेन अच्-वर्णस्य ह्रस्वादेशः भवति । <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यनेन अन्तिम-वर्णस्य अयं ह्रस्वादेशः विधीयते ।\nयथा -\n1. 'श्रीम् पाति तत्' अस्मिन् अर्थे 'श्रीपा' शब्दस्य नपुंसकलिङ्गस्य विवक्षायामाकारस्य ह्रस्वादेशे अकारः जायते, अतः 'श्रीप' इति प्रातिपदिकं सिद्ध्यति । ततः अस्य शब्दस्य रूपाणि 'फल' शब्दवत् भवन्ति । यथा - श्रीपम्, श्रीपे श्रीपाणि ।\n2. 'अतिरै' (इत्युक्ते अत्यन्तम् यस्य मूल्यमस्ति सः) इदं विशेषणम् नपुंसकलिङ्गशब्दस्य विषये यदि प्रयुज्यते, तर्हि नपुंसकलिङ्गस्य विवक्षायामस्य शब्दस्य <<ह्रस्वो नपुंसके प्रातिपदिकस्य>> [[1.2.47]] इत्यनेन ह्रस्वादेशः भवति । <<एचः इग्घ्रस्वादेशे>> [[1.1.48]] इत्यनेन एच्-प्रत्याहारस्य वर्णस्य ह्रस्वादेशे अन्तरतमः इक्-प्रत्याहारस्य वर्णः जायते । अतः अत्र ऐकारस्य स्थाने तादृशः तालव्यः इकारः आदेशरूपेण आगच्छति, अतः 'अतिरि' इति प्रातिपदिकम् सिद्ध्यति । अस्य रूपाणि 'वारि' शब्दवत् भवन्ति । यथा - अतिरि रत्नम्, अतिरीणि रत्नानि ।\n3. अतिनौ (इत्युक्ते, यस्मात् नौका निर्गता, सः) इदं विशेषणम् नपुंसकलिङ्गे प्रयुज्यते चेत् <<ह्रस्वो नपुंसके प्रातिपदिकस्य>> [[1.2.47]] इत्यनेन अस्य ह्रस्वादेशः भवति । <<एचः इग्घ्रस्वादेशे>> [[1.1.48]] इत्यनेन एच्-प्रत्याहारस्य वर्णस्य ह्रस्वादेशे अन्तरतमः इक्-प्रत्याहारस्य वर्णः जायते । अतः अत्र औकारस्य स्थाने तादृशः औष्ठ्यः उकारः आदेशरूपेण आगच्छति, अतः 'अतिनु' इति प्रातिपदिकम् सिद्ध्यति । अस्य रूपाणि मधु-शब्दवत् भवन्ति । यथा, अतिनु तटम् , अतिनूनि तटानि ।\nज्ञातव्यम् - हलन्त-नपुंसकलिङ्गशब्दानां विषये अस्य सूत्रस्य प्रसक्तिः नास्ति, यतः तेषामन्ते अच्-वर्णः एव नास्ति । यथा - जगत्, हृद्, नामन्, स्वनडुह् - आदयः । " }, "12048": { "sa": "", "sd": "" }, "12049": { "sa": "", "sd": "" }, "12050": { "sa": "", "sd": "" }, "12051": { "sa": "", "sd": "" }, "12052": { "sa": "", "sd": "" }, "12053": { "sa": "", "sd": "" }, "12054": { "sa": "", "sd": "" }, "12055": { "sa": "", "sd": "" }, "12056": { "sa": "", "sd": "" }, "12057": { "sa": "", "sd": "" }, "12058": { "sa": "", "sd": "" }, "12059": { "sa": "", "sd": "" }, "12060": { "sa": "", "sd": "" }, "12061": { "sa": "", "sd": "" }, "12062": { "sa": "", "sd": "" }, "12063": { "sa": "", "sd": "" }, "12064": { "sa": "सर्वासु विभक्तिषु येषां रूपाणि समानानि सन्ति, तेषु केवलं एकः शब्दः एव अवशिष्यते ।", "sd": "समानानि रूपाणि येषाम् ते सरूपाः । यदि द्वयोः वा अधिकानाम् शब्दानाम् सर्वासु विभक्तिषु सर्वाणि रूपाणि समानानि भवन्ति, तर्हि तेषाम् निर्देशं कर्तुम् तेषाम् सर्वेषाम् शब्दानां प्रयोगः न भवति, अपितु एकस्य एव शब्दस्य प्रयोगं कृत्वा तेषामुल्लेखः भवति । यथा, द्वयोः वृक्षयोः विषये वक्तुम् इच्छामश्चेत् 'वृक्षः च वृक्षः च' इति वृक्षशब्दस्य द्विवारं प्रयोगः न भवति । द्वयोः वृक्ष-शब्दयोः सर्वाणि रूपाणि समानानि सन्ति, अतः उल्लेखसमये एकः एव वृक्ष-शब्दः अवशिष्यते, अन्यः निवर्तते । यः शब्दः अवशिष्यते, स एव द्वयोः वृक्षयोः निर्देशं करोति, अतः तस्य द्विवचनस्य प्रत्ययाः भवन्ति, यथा - वृक्षौ । तथैव, त्रयाणामधिकानाम् वा वृक्षाणाम् विवक्षा अस्ति चेदपि 'वृक्षः च वृक्षः च वृक्षः च' इति न उक्त्वा एकस्यैव वृक्ष-शब्दस्य बहुवचनस्य प्रत्ययैः प्रयोगः भवति, यथा - वृक्षाः ।\nज्ञातव्यम् -\n1. यद्यपि द्वयोः शब्दयोः केवलं रूपम् समानमस्ति, परन्तु अर्थः न; तथापि अनेन सूत्रेण एकशेषः भवति । यथा - 'मृग' शब्दस्य अर्थः 'हरिणः' इत्यपि अस्ति, तथा 'प्राणी' इत्यपि । भिन्नयोः अर्थयोः अपि द्वयोः शब्दयोः सर्वाणि रूपाणि समानानि सन्ति । अतः 'हरिणः च व्याघ्रः च सिंहः च' अस्मिन् अर्थे एकः एव मृग-शब्दः अवशिष्यते, तस्य च बहुवचनस्य प्रत्ययः भवति; यथा - मृगाः ।\n2. यदि द्वयोः शब्दयोः कासुचन विभक्तिषु एव रूपम् समानमस्ति, सर्वासु न; तर्हि अनेन सूत्रेण एकशेषः न विधीयते । यथा - 'मातृ' अयं शब्दः द्वयोः अर्थयोः प्रयुज्यते - 'जननी' अस्मिन् अर्थे अयं ऋकारान्तस्त्रीलिङ्गशब्दः अस्ति, तथा च 'माङ् (माने)' अस्मात् धातोः तृच्-प्रत्ययं कृत्वा 'यः मिमेति सः' अस्मिन् अर्थे अपि मातृ-शब्दः सिद्ध्यति । एतयोः द्वयोः शब्दयोः कानिचन रूपाणि तु समानानि सन्ति (यथा- तृतीयैकवचनस्य 'मात्रा' इति) परन्तु केषुचन रूपेषु भेदः दृश्यते । उदाहरणम् - मातृ (जननी) इत्यस्य प्रथमाद्विवचनस्य रूपम् 'मातरौ' इति भवति, तथा मातृ (= यः मिमेति सः) इत्यस्य प्रथमाद्विवचनस्य रूपम् 'मातारौ' इति भवति । अस्यां स्थितौ एतौ द्वौ शब्दौ सर्वासु विभक्तिषु सरूपौ न उच्येते, अतः 'मातृ च मातृ च' (= जननी च, यः मिमेति स च) इत्यत्र एकशेषः न भवति ।\n" }, "12065": { "sa": "", "sd": "" }, "12066": { "sa": "", "sd": "" }, "12067": { "sa": "", "sd": "" }, "12068": { "sa": "", "sd": "" }, "12069": { "sa": "", "sd": "" }, "12070": { "sa": "", "sd": "" }, "12071": { "sa": "", "sd": "" }, "12072": { "sa": "", "sd": "" }, "12073": { "sa": "", "sd": "" }, "13001": { "sa": "'भू' इत्यादयः शब्दाः क्रियावाचिनि अर्थे धातुसंज्ञकाः भवन्ति । ", "sd": "व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा धातु: इति संज्ञा प्रकृतसूत्रेण विधीयते । भू-आदीनाम् शब्दानाम् क्रियावाचिनि अर्थे धातुसंज्ञा भवति — इति अस्य सूत्रस्य आशयः । अत्र भू-आदीनाम् इत्यनेन भू, एधँ, स्पर्धँ, गाध्, बाध्... इत्यादयः प्रायेण 2000 शब्दाः गृह्यन्ते । एतेषाम् सर्वेषाम् आवली धातुपाठः नाम्ना ज्ञायते । एते सर्वे धातवः पाणिनिना धातुपाठे उपदिष्टाः सन्ति, अतः एते औपदेशिकधातवः इति नाम्ना अपि प्रसिद्धाः सन्ति । \n धातुपाठः\nपाणिनीयव्याकरणस्य प्रायेण 2000 धातूनाम् सङ्कलनम् धातुपाठः इति नाम्ना प्रसिद्धम् अस्ति । अस्य धातुपाठस्य मुख्यानि वैशिष्ट्यानि एतानि —\n\n1. धातुपाठे विद्यमानः धातवः दशसु गणेषु विभाजिताः सन्ति — भ्वादिगणः (~1000 धातवः), अदादिगणः (~70 धातवः), जुहोत्यादिगणः (~25 धातवः), दिवादिगणः (~150 धातवः), स्वादिगणः (~35 धातवः), तुदादिगणः (~170 धातवः), रुधादिगणः (~25 धातवः), तनादिगणः (~10 धातवः), क्र्यादिगणः (~70 धातवः), चुरादिगणः (~ 450 धातवः) । एतादृशम् विभाजनम् लट्-लङ्-लोट्-विधिलिङ्-लकारेषु विद्यमानानाम् रूपाणाम् आधारेण कृतम् अस्ति । प्रत्येकस्मिन् गणे धातवः पुनः पदम् अनुसृत्य, स्वरम् अनुसृत्य, अन्तिमवर्णम् च अनुसृत्य रचिताः सन्ति । \n2. धातुपाठे धातूनाम् स्थापनम् अनुबन्धेन सह कृतं दृश्यते । धातुषु विद्यमानानाम् सर्वेषाम् अपि अनुबन्धानाम् प्रक्रियायाम् विशिष्टं कार्यम् विद्यते ।\n3. धातुपाठे कानिचन सूत्रसदृशानि लघुवाक्यानि अपि विद्यन्ते । यथा, <=चर्करितं च=>, <=स्वादयः ओदितः=>, <=आकुस्मीया आत्मनेपदिनः=> - इत्यादीनि । एतानि सर्वाणि गणसूत्राणि नाम्ना ज्ञायन्ते ।\n4. अद्यतनकाले उपलब्धे धातुपाठे धातवः अर्थेन सह एव विद्यन्ते । परन्तु पाणिनिना मूलरूपेण यः धातुपाठः विरचितः, तस्मिन् अर्थाः नैव आसन्, अपितु एतान् अर्थान् भीमसेनः इत्याख्य कश्चन अर्वाचीनः वैयाकरणः तत्र संस्थापितवान् इति पण्डितानां सामान्यं मतम् । धातुपाठे विद्यमानाः एते अर्थाः केवलम् निर्देशस्वरुपिणः सन्ति, धातूनाम् प्रयोगस्य सर्वान् अर्थान् न गृह्णन्ति इति अपि तेषाम् अभिप्रायः । The meanings of dhatus available in the dhatupath are purely indicatory in nature and should neither to be considered exhaustive nor precise.\n5. धातुपाठस्य केचन पाठभेदाः अपि विद्यन्ते । एतेभ्यः त्रयः पाठभेदाः वैयाकरणैः विशेषरूपेण अधीयन्ते - क्षीरस्वामिना विरचितः क्षीरतरङ्गिणीधातुपाठः, \nमैत्रेयरक्षितेन विरचितः धातुप्रदीपः तथा च सायणाचारयेण विरचिता माधवीयधातुवृत्तिः इति । सिद्धान्तकौमुद्याम् अपि कश्चन धातुपाठः भट्टोजीदीक्षितेन स्थापितः अस्ति । यद्यपि एतेषु सर्वेषु अपि पाठभेदेषु विद्यमानाः धातवः प्रायेण समानाः एव, तथापि देशकालभेदम् उच्चारणभेदम् च अनुसृत्य तत्र केचन भेदाः अपि अवश्यम् दृश्यन्ते । अतएव धातूनाम् समग्ररूपेण (precise) सङ्ख्या नैव वक्तुं शक्यते । सामान्यरूपेण 2000 धातवः सन्ति - इत्यनैनैव अलम् ।\n6. धातुपाठेषु विद्यमानानाम् धातूनाम् क्रमः विशिष्टं हेतुं मनसि निधाय पाणिनिना विरचितः अस्ति । तथापि अयं क्रमः सूत्रक्रमसदृशः नैव महत्त्वपूर्णः । सूत्रपाठे यथा सूत्राणाम् क्रमम् अनुसृत्य पूर्वपरत्वम् असिद्धत्वं वा वर्तते, तथा धातुपाठे नैव किञ्चित् विद्यते । अतः धातुपाठस्य धातुनां क्रमपरिवर्तनम् क्रियते चेदपि नैव दोषाय । यथा, केषुचन नूतनसंस्करणेषु धातवः अन्वेषणसौलभ्यार्थम् अकारादिक्रमेण अपि स्थापिताः सन्ति तदपि समीचीनमेव ।\n\n'भूवादयः' इति शब्दे 'वा' ग्रहणस्य प्रयोजनम्\nप्रकृतसूत्रे पाणिनिना भूवादयः इत्यत्र वा इति शब्दः स्थापितः अस्ति । 'भू-वा-आदयः' इति अत्र पदविग्रहः । अत्र वाग्रहणम् माङ्गल्यार्थम् उपयुज्यते इति प्रकृतसूत्रस्य भाष्ये भाष्यकारेण स्पष्टी क्रियते । मङ्गलादीनि मङ्गममध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते इति उक्त्वा अत्र भाष्यकारः स्पष्टी करोति, यत् शास्त्रग्रन्थेषु सामान्यरूपेण प्रारम्भे, मध्ये, तथा च अन्ते - इति त्रिषु स्थलेषु मङ्गलाचरणम् कृतं दृश्यते । इमाम् एव प्रथाम् अनुसृत्य सूत्रपाठस्य 'मध्यस्थले' विद्यमानम् मङ्गलाचरणम् वाशब्देन कृतम् अस्ति इति अत्र भाष्यकारस्य आशयः । \nकाशिकाकारेण तु अत्र कश्चन अन्यः पक्षः अपि प्रदर्शितः अस्ति । अस्मिन् पक्षे भूवादयः शब्दस्य भू + वादयः इति विग्रहः क्रियते । अत्र विद्यमानस्य भू-शब्दस्य अर्थः 'क्रियासामान्यः' (a general action) इति स्वीक्रियते, न हि भू-धातुः इति । एवमेव, वादयः इति शब्दस्य अर्थः 'यः वाचकत्वेन विधीयते सः' (indicator) इति अत्र गृह्यते । अनेन क्रियासामान्याः अर्थाः यैः शब्दैः वाचकत्वेन विधीयन्ते ते शब्दाः धातुसंज्ञका भवन्ति (words that indicate a general action), इति अर्थः लभ्यते । धातुपाठे विद्यमानानाम् शब्दानाम् क्रियावाचिनि अर्थे एव धातुसंज्ञा भवति, अन्येषु अर्थेषु न, इति अत्र आशयः । अतएव भू शब्दस्य पृथिवी अस्मिन् अर्थे धातुसंज्ञा न भवति ।\nऔपदेशिकधातवः, सौत्रधातवः, आतिदेशिकधातवः\nसंस्कृतव्याकरणे धातूनाम् त्रयः प्रकाराः सन्ति — औपदेशिकाः धातवः, सौत्राः धातवः, आतिदेशिकाः धातवः इति । तदित्थम् —\n\n1. औपदेशिकाः धातवः — धातुपाठे साक्षात् विद्यमानाः (इत्यक्ते, <<भूवादयो धातवः>> [[1.3.1]] इति प्रकृतसूत्रेण निर्दिष्टाः) धातवः औपदेशिकाः धातवः नाम्ना ज्ञायन्ते । एतेषाम् साक्षात् उपदेशः धातुपाठे कृतः अस्ति, अतः 'औपदेशिकधातवः' इति एषां नाम ।\nआ) 2. सौत्राः धातवः — केचन धातवः धातुपाठे न विद्यन्ते परन्तु अष्टाध्याय्याः सूत्रेषु तेषाम् निर्देशः लभ्यते । यथा, <<ऋतेरीयङ्>> [[3.1.29]] इत्यस्मिन् सूत्रे ऋत्-इत्यस्मात् धातोः पाणिनिना इयङ्-प्रत्ययः उक्तः अस्ति । वस्तुतः पाणिनीयधातुपाठे ऋत् इति न कश्चन धातुः विद्यते, परन्तु अत्र सूत्रनिर्देशसामर्थ्यात् अस्य धातुत्वम् अवश्यम् एव स्वीक्रियते । एतादृशाः धातवः, ये अष्टाध्याय्याः सूत्रेषु उद्धृताः सन्ति, ते सौत्राः धातवः नाम्ना ज्ञायन्ते । 'सूत्रे विद्यमानाः धातवः' इति अर्थः ।\n3. आतिदेशिकधातवः — अष्टाध्याय्याम् विद्यमानाः सनादयः प्रत्ययाः यदा प्रातिपदिकेभ्यः उत धातुभ्यः प्रयुज्यन्ते, तदा <<सनाद्यन्ता धातवः>> [[3.1.32]] इति सूत्रेण नूतनानां धातूनां निर्माणं भवति । यथा, पुत्रम् आत्मनः इच्छति अस्मिन् अर्थे पुत्र इत्यस्मात् शब्दात् काम्यच् इति प्रत्ययः विधीयते चेत् पुत्रकाम्य इति यः नूतनः शब्दः सिद्ध्यति, तस्य <<सनाद्यन्ता धातवः>> [[3.1.32]] इत्यनेन सूत्रेण धातुसंज्ञा भवति । अस्यैव धातोः अग्रे पुत्रकाम्यति / पुत्रकाम्यतु / अपुत्रकाम्यत् एतादृशानि तिङन्तरूपाणि, एवमेव कृदन्तरूपाणि च भवितुम् अर्हन्ति । एतादृशाः सर्वे धातवः, ये सनादिप्रत्ययानां योजनेन सिद्ध्यन्ति, ते आतिदेशिकाः धातवः नाम्ना ज्ञायन्ते । णिजन्ताः (यथा, पठ् + णिच् → पाठि), सन्नन्ताः (यथा, पठ् + सन् → पिपठिष), यङन्ताः (यथा, पठ् + यङ् → पापठ्य) एते सर्वे अपि आतिदेशिकधातुषु एव अन्तर्भवन्ति, यतः एते सर्वे अपि सनादिप्रत्ययान्तशब्दाः एव सन्ति । एतेषाम् सर्वेषाम् परिगणनम् धातुपाठे नैव कृतम् विद्यते, अतः <<भूवादयो धातवः>> [[1.3.1]] इति सूत्रेण एतेषाम् धातुसंज्ञा नैव भवति ; अपितु <<सनाद्यन्ता धातवः>> [[3.1.32]] इत्यनेन सूत्रेण एतेषु शब्देषु धातु-संज्ञायाः अतिदेशं (superimposition) कृत्वा एतेषाम् 'धातुः' इति संज्ञा विधीयते । अतएव एतेषाम् 'आतिदेशिकधातवः' इति नाम दत्तम् अस्ति । \n\n\n" }, "13002": { "sa": "उपदेशे विद्यमानः अनुनासिकस्वरः इत्संज्ञकः भवति ।", "sd": "व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'इत्' इति संज्ञा । इयम् संज्ञा <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इत्यस्मात् <<लशक्वतद्धिते>> [[1.3.8]] इत्येतेषु सूत्रेुषु पाठिता अस्ति । एतेषाम् सूत्राणाम् सङ्कलनम् 'इत्संज्ञाप्रकरणम्' नाम्ना ज्ञायते । अस्य प्रकरणस्य इदम् प्रथमम् सूत्रम् । उपदेशे विद्यमानस्य अनुनासिकसंज्ञकस्य स्वरस्य अनेन सूत्रेण इत्संज्ञा भवति इति अस्य सूत्रस्य आशयः ।\n उपदेशः \n'उपदेश:' इति शब्देन आद्यमहर्षीणाम् (महेश्वर-पाणिनि-कात्यायन-पतञ्जलि-इत्येतेषाम्) उच्चारणस्य निर्देशः भवति । महेश्वरेण रचितानि सूत्राणि, पाणिनिना रचिताः शब्दपाठ-धातुपाठ-लिङ्गानुशासनादयः ग्रन्थाः, वार्त्तिककारेण कृतानि वार्त्तिकानि - एतानि सर्वाणि व्याकरणशास्त्रस्य आद्योच्चारणरूपेण स्वीक्रियन्ते । अतएव सर्वाणि माहेश्वरसूत्राणि, अष्टाध्याय्यां विद्यमानाः प्रत्ययाः, आदेशाः, आगमाः, धातुपाठे पाठिताः धातवः - एते सर्व अपि उपदेशाः सन्ति । उपदेश शब्दस्य व्याख्या एकया कारिकया अपि दीयते -\n\nधातुसूत्रगणोणादिनामलिङ्गानुशासनम् । \nआगमाः प्रत्ययादेशाः उपदेशा प्रकीर्तिताः ।\n\nधातुपाठ, सूत्रपाठः, गणपाठः, उणादिपाठः, लिङ्गानुशासनम् - एतेषु पञ्चसु ग्रन्थेषु पाठिताः शब्दाः, तथा च आदेशाः, आगमाः, प्रत्ययाः - एते सर्वे (तेषाम् मूलस्वरूपे) 'उपदेशः' नाम्ना ज्ञायन्ते — इति अस्याः कारिकायाः अर्थः । कानिचन उदाहरणानि एतानि —\n1) सर्वाणि माहेश्वरसूत्राणि उपदेशसंज्ञकानि सन्ति । यथा, अइउण्, ऋऌक् - आदयः ।\n2) धातवः यस्मिन् स्वरूपे धातुपाठे निर्दिष्टाः वर्तन्ते, तस्मिन् स्वरूपे उपदेशसंज्ञकाः सन्ति । यथा, कृ-धातोः धातुपाठे 'डुकृञ्' इति निर्देशः कृतः अस्ति, अतः 'डुकृञ्' इति कृ-धातोः उपदेशः । एवमेव, वन्द्-धातोः 'वदिँ' इति उपदेशः । नी-धातोः 'णीञ्' इति उपदेशः । गम्-धातोः 'गमॢँ' इति उपदेशः । केषाञ्चन धातूनाम् उपदेशः धातोः दृश्यरूपसदृशः एव अस्ति । यथा, 'भू' धातो' 'भू' इत्येव उपदेशः ।\n3) सर्वे प्रत्ययाः प्रत्ययाधिकारे यस्मिन् स्वरूपे पाठ्यन्ते, तस्मिन् स्वरूपे उपदेशसंंज्ञकाः सन्ति । यथा, 'क्त्वा' इति 'त्वा'प्रत्ययस्य उपदेशः । 'तुमुन्' इति 'तुम्' प्रत्ययस्य उपदेशः । \n4) सर्वे आदेशाः, आगमा च यथा सूत्रपाठे पाठिताः, तस्याम् अवस्थायाम् उपदेशाः सन्ति । यथा - लङ्लकारे विहितस्य अकारस्य 'अट्' इति उपदेशः । \nएतादृशेषु सर्वेषु उपदेशेषु यः स्वरः अनुनासिकः, सः प्रकृतसूत्रेण इत्संज्ञकः भवति । वस्तुतस्तु 'उपदेशेषु कः स्वरः अनुनासिकः अस्ति' एतत् व्याख्यानेभ्यः एव ज्ञायते । अतएव सिद्धान्तकौमुद्याम् 'प्रतिज्ञानुनासिक्याः पाणिनीयाः' इति उक्तम् अस्ति । पाणिनीयाः (पाणिनिमहर्षेः अनुयायिनः / छात्राः) 'प्रतिज्ञानुनासिक्याः' सन्ति, इत्युक्ते ते अनुनासिकस्वरम् प्रतिज्ञया (गुरुपरम्परया) एव जानन्ति - इति अस्याः पङ्क्तेः आशयः ।\nइत्संज्ञा\nउपदेशे विद्यमानस्य अनुनासिक-अच्-वर्णस्य प्रकृतसूत्रेण इत्संज्ञा भवति ।कानिचन उदाहरणानि एतानि —\n\n1. 'सुँ' अस्मिन् प्रत्यये सकारात् परः अनुनासिकः उकारः अस्ति । अतः अस्य उकारस्य इत्संज्ञा भवति ।\n2. 'भवतुँ' अस्मिन् प्रातिपदिके उकारः अनुनासिकः अस्ति, अतः तस्य इत्संज्ञा भवति । \n3. 'गमॢँ' अस्मिन् धातौ ऌकारः अनुनासिकः अस्ति, अतः तस्य इत्संज्ञा भवति ।\n4. 'डुपचँष्' इत्यत्र चकारात् परः यः अकारः, सः अनुनासिकः अस्ति । अतः तस्य इत्संज्ञा भवति ।\n5. 'भू' इत्यत्र कोऽपि अनुनासिकः स्वरः नास्ति । अतः अत्र कस्यापि इत्संज्ञा न भवति ।\n6. 'टुओँश्वि' अस्मिन् धातौ ओकारः अनुनासिकः अस्ति, परन्तु इकारः अनुनासिकः नास्ति । अतः अत्र केवलम् ओकारस्यैव इत्संज्ञा भवति, न हि इकारस्य ।\n7. 'लँण्' प्रत्याहारे लकारोत्तरः अकारः अनुनासिकः अस्ति, अतः तस्य इत्संज्ञा भवति ।\n\nउपदेशे विद्यमानस्यैव अनुनासिकस्वरस्य अनेन सूत्रेण इत्संज्ञा भवति, अन्येषु शब्देषु विद्यमानस्य अनुनासिकस्वरस्य न - इति स्मर्तव्यम् । यथा, <<अणोऽप्रगृह्यस्यानुनासिकः>> [[8.4.57]] इत्यनेन मधुँ इत्यत्रापि उकारस्य अनुनासिकत्वम् भवति । परन्तु अयम् उपदेशः नास्ति (अपितु सूत्रप्रयोगेण निर्मितः शब्दः अस्ति) अतः अस्य इत्संज्ञा न भवति ।\nइत्संज्ञकवर्णस्य आधारेण उपदेशस्य निर्देशः\nइत्संज्ञकम् वर्णम् आश्रित्य उपदेशस्य विशिष्टरूपेण निर्देशः भवितुम् अर्हति । यथा —\n\n1. यस्मिन् उपदेशे आकारः इत्संज्ञकः, सः आदित् उपदेशः नाम्ना ज्ञायते । यथा, 'ञिमिदाँ', 'ञित्वराँ' एतौ आदितौ उपदेशौ स्तः । 'आदित्' इति शब्दस्य प्रयोगः केषुचन सूत्रेषु अपि कृतः दृश्यते । यथा, <<आदितश्च>> [[7.2.16]] इति सूत्रेण आदित्-शब्दानाम् विषये क्त-प्रत्यये परे इडागमस्य निषेधः विधीयते ।\n2. यस्मिन् उपदेशे इकारः इत्संज्ञकः सः इदित् उपदेशः । यथा, 'वदिँ', 'कपिँ' एतौ इदितौ उपदेशौ स्तः । <<इदितो नुम् धातोः>> [[7.1.58]] इति सूत्रे इदित्-शब्दस्य प्रयोगः कृतः दृश्यते ।\n\nअनेनैव प्रकारेण ईदित्, उदित्, ऊदित्, ऋदि्त्, ऌदित् - एतादृशाः शब्दाः सिद्ध्यन्ति । \nएवमेव, 'उक्' प्रत्याहारस्य वर्णः (= उ/ऊ/ऋ/ॠ/ऌ-इत्येतेषु कश्चन वर्णः) यस्मिन् उपदेशे इत्संज्ञकः, सः उपदेशः उगित् इति नाम्ना ज्ञायते । अस्य 'उगित्' शब्दस्य प्रयोगः <<उगिदचां सर्वनामस्थानेऽधातोः>> [[7.1.70]] इत्यस्मिन् सूत्रे कृतः दृश्यते । \nइत्संज्ञकवर्णस्य लोपः\nउपदेशेषु विद्यमानानाम् इत्संज्ञकवर्णानाम् प्रक्रियायाः प्रारम्भे एव <<तस्य लोपः>> [[1.3.9]] इत्यनेन नित्यम् लोपः भवति । इत्संज्ञकवर्णानां लोपे कृते यः अंशः अवशिष्यते, सः उपदेशस्य 'दृश्यरूपम्' इति नाम्ना ज्ञायते । यथा, 'गमॢँ' इति उपदेशे विद्यमानस्य इत्संज्ञकस्य ऌकारस्य लोपे कृते 'गम्' इति यद् अवशिष्यते, तत् गमॢँ-धातोः दृश्यरूपम् ।\n इत्संज्ञायाः प्रयोजनम्\nअष्टाध्याय्याम् उपदेशेषु इत्संज्ञकवर्णानां संयोजनस्य अनेकानि प्रयोजनानि सन्ति । बहूनि कार्याणि इत्संज्ञकवर्णान् आश्रित्य एव प्रवर्तन्ते । The इत्-letters are like markers that decide whether a certain action will or will not happen in the prakriya. यथा, यदि धातौ इकारः इत्संज्ञकरूपेण विद्यते, तर्हि तस्य धातोः प्रक्रियायाम् प्रारम्भे नित्यम् <<इदितो नुम् धातोः>> [[7.1.58]] इत्यनेन नुमागमः भवति । अतएव वदिँ-धातोः अनीयर्-प्रत्ययान्तरूपे 'वन्दनीय' इति दकारात् पूर्वः नकारः श्रूयते । प्रक्रिया इयम् —\n\nवदिँ (अभिवादनस्तुत्योः, भ्वादिः)\n→ वद् [इकारस्य <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इति इत्संज्ञा । इत्संज्ञकवर्णस्य <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ व नुम् द् [ <<इदितो नुम् धातोः>> [[7.1.58]] इत्यनेन इदित्-धातोः नुमागमः भवति ।\n→ व न् द् [नुमागमे विद्यमानाः नकारं विहाय अन्ये वर्णाः लुप्यन्ते, केवलं नकारः एव अवशिष्यते । ]\n→ व न् द् + अनीयर् [<<तव्यत्तव्यानीयरः>> [[3.1.96]] इति अनीयर-प्रत्ययः ]\n→ वन्दनीय ।\n\nअनेन प्रकारेण सर्वेषाम् अपि इत्संज्ञकवर्णानां भिन्नानि प्रयोजनानि सन्ति । \nवार्त्तिकम् - <!इँर इत्संज्ञा वाच्या!>\nयदि उपदेशे 'इँर्' इति कश्चन शब्दसमुदायः विद्यते, तर्हि तत्र <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इति सूत्रेण इँकारस्य, तथा च <<हलन्त्यम्>> [[1.3.3]] इति सूत्रेण रेफस्य पृथग् पृथग् इत्संज्ञायाम् प्राप्तायाम्, तद्बाधित्वा, 'इँर्' इति समुदायस्य एकत्ररूपेण इत्संज्ञां कर्तुम् वार्त्तिककारः इति वार्त्तिकं पाठयति । 'इँर्' इति समूहस्य एकत्ररूपेण इत्संज्ञा भवति इति अस्य अर्थः । यथा, 'भिदिँर्' अस्मिन् धातौ 'इँर्' इति समुदायः अन्ते विद्यते । अस्यां स्थितौ अत्र इकारस्य (रेफस्य वा) पृथग् रूपेण इत्संज्ञा न भवति, अपितु 'इँर्' इति समुदायस्यैव इत्संज्ञा भवति, तस्य च अग्रे <<तस्य लोपः>> [[1.3.9]] इत्यनेन लोपः क्रियते । इत्युक्ते, 'भिदिँर्' इति धातुः 'इदित्' उत 'रित्' नास्ति, अपितु 'इरित्' अस्ति । अतः अस्य विषये 'इदित्' विशिष्टम् उत 'रित्' विशिष्टम् कार्यम् न प्रवर्तते, अपितु 'इरित्' विशिष्टम् कार्यम् (यथा, <<इरितो वा>> [[3.1.57]] इति) भवितुम् अर्हति । एवमेव, 'छिदिँर्', 'ईँशुचिँर्', 'दृशिँर्' एते सर्वे अपि इरितः धातवः ज्ञेयाः । \n\n1. अष्टाध्याय्याः इत्संज्ञाप्रकरणस्य विषये अत्र विद्यमानः लेखः अपि अवश्यं द्रष्टव्यः । \n2. धातुपाठे left-side-menu मध्ये filters इत्यत्र 'अनुबन्धः' इति filter उपयुज्य आदित्/इदित्/ईदित्... इत्येतेषाम् पृथग् पृथग् आवल्यः द्रष्टुं शक्यन्ते । \n\n" }, "13003": { "sa": "उपदेशस्य अन्तिमव्यञ्जनम् इत्संज्ञकं भवति ।", "sd": "व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'इत्' इति संज्ञा । इयम् संज्ञा <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इत्यस्मात् <<लशक्वतद्धिते>> [[1.3.8]] इत्येतेषु सूत्रेुषु पाठिता अस्ति । एतेषाम् सूत्राणाम् सङ्कलनम् 'इत्संज्ञाप्रकरणम्' नाम्ना ज्ञायते । अस्य प्रकरणस्य इदम् द्वितीयम् सूत्रम् । उपदेशस्य अन्ते विद्यमानस्य व्यञ्जनस्य अनेन सूत्रेण इत्संज्ञा भवति इति अस्य सूत्रस्य आशयः ।\n उपदेशः\n'उपदेश:' इति शब्देन आद्यमहर्षीणाम् (महेश्वर-पाणिनि-कात्यायन-पतञ्जलि-इत्येतेषाम्) उच्चारणस्य निर्देशः भवति । महेश्वरेण रचितानि सूत्राणि, पाणिनिना रचिताः शब्दपाठ-धातुपाठ-लिङ्गानुशासनादयः ग्रन्थाः, वार्त्तिककारेण कृतानि वार्त्तिकानि - एतानि सर्वाणि व्याकरणशास्त्रस्य आद्योच्चारणरूपेण स्वीक्रियन्ते । अतएव सर्वाणि माहेश्वरसूत्राणि, अष्टाध्याय्यां विद्यमानाः प्रत्ययाः, आदेशाः, आगमाः, धातुपाठे पाठिताः धातवः - एते सर्व अपि उपदेशाः सन्ति । उपदेश शब्दस्य व्याख्या एकया कारिकया अपि दीयते -\n\nधातुसूत्रगणोणादिवाक्यलिङ्गानुशासनम् । \nआगमाः प्रत्ययादेशाः उपदेशा प्रकीर्तिताः ।\n\nधातुपाठ, सूत्रपाठः, गणपाठः, उणादिपाठः, वार्त्तिकपाठः, लिङ्गानुशासनम् - एतेषु ग्रन्थेषु पाठिताः शब्दाः, तथा च आदेशाः, आगमाः, प्रत्ययाः - एते सर्वे (तेषाम् मूलस्वरूपे) 'उपदेशः' नाम्ना ज्ञायन्ते — इति अस्याः कारिकायाः अर्थः । कानिचन उदाहरणानि एतानि —\n\n1) सर्वाणि माहेश्वरसूत्राणि उपदेशसंज्ञकानि सन्ति । यथा, अइउण्, ऋऌक् - आदयः ।\n2) धातवः यस्मिन् स्वरूपे धातुपाठे निर्दिष्टाः वर्तन्ते, तस्मिन् स्वरूपे उपदेशसंज्ञकाः सन्ति । यथा, कृ-धातोः धातुपाठे 'डुकृञ्' इति निर्देशः कृतः अस्ति, अतः 'डुकृञ्' इति कृ-धातोः उपदेशः । एवमेव, वन्द्-धातोः 'वदिँ' इति उपदेशः । नी-धातोः 'णीञ्' इति उपदेशः । गम्-धातोः 'गमॢँ' इति उपदेशः । केषाञ्चन धातूनाम् उपदेशः धातोः दृश्यरूपसदृशः एव अस्ति । यथा, 'भू' धातो' 'भू' इत्येव उपदेशः ।\n3) सर्वे प्रत्ययाः प्रत्ययाधिकारे यस्मिन् स्वरूपे पाठ्यन्ते, तस्मिन् स्वरूपे उपदेशसंंज्ञकाः सन्ति । यथा, 'क्त्वा' इति 'त्वा'प्रत्ययस्य उपदेशः । 'तुमुन्' इति 'तुम्' प्रत्ययस्य उपदेशः । \n4) सर्वे आदेशाः, आगमा च यथा सूत्रपाठे पाठिताः, तस्याम् अवस्थायाम् उपदेशाः सन्ति । यथा - लङ्लकारे विहितस्य अकारस्य 'अट्' इति उपदेशः । \nएतादृशेषु सर्वेषु उपदेशेषु यत् अन्तिमम् व्यञ्जनम् तत् प्रकृतसूत्रेण इत्संज्ञकम् भवति । \n\nइत्संज्ञा\nउपदेशस्य अन्तिमव्यञ्जनस्य <<हलन्त्यम्>> [[1.3.2]] इत्यनेन इत्संज्ञा भवति । कानिचन उदाहरणानि एतानि -\n\n1. 'तुमुन्' प्रत्यये विद्यमानः अन्तिमः नकारः इत्संज्ञकः भवति ।\n2. 'डुपचष्' अस्मिन् धातौ विद्यमानः षकारः इत्संज्ञकः भवति ।\n3. 'भू' इत्यस्य अन्ते व्यञ्जनम् नैव विद्यते । अतः अस्य धातोः विषये <<हलन्त्यम्>> [[1.3.3]] सूत्रस्य प्रसक्तिः नास्ति ।\n\nइत्संज्ञकवर्णस्य आधारेण उपदेशस्य निर्देशः\nइत्संज्ञकम् वर्णम् आश्रित्य उपदेशस्य विशिष्टरूपेण निर्देशः भवितुम् अर्हति । यथा —\n\n1. यस्मिन् उपदेशे लकारः इत्संज्ञकः अस्ति, सः लित् उपदेशः नाम्ना ज्ञायते । यथा, त्रल्, तसिल् एतौ लितौ प्रत्ययौ स्तः । 'लित्' इति शब्दस्य प्रयोगः <<लिति>> [[6.1.193]] इति सूत्रे कृतः दृश्यते । \n2. यस्मिन् उपदेशे मकारः इत्संज्ञकः अस्ति, सः मित् उपदेशः नाम्ना ज्ञायते । यथा श्नम्, नुम्, मुम् एते मितः उपदेशाः सन्ति । <<मिदचोऽन्त्यात्परः>> [[1.1.47]] अस्मिन् सूत्रे 'मित्'विशिष्टम् कार्यम् निर्दिष्टं दृश्यते ।\n3. यस्मिन् उपदेशे ककारः इत्संज्ञकः अस्ति, सः कित् उपदेशः नाम्ना ज्ञायते । यथा, ठक्, क्त्वा, क्त्ववतुँ - एते कितः प्रत्ययाः । <<किति च>> [[7.2.118]], <<अदो जग्धिर्ल्यप्ति किति>> [[2.4.36]], <<वचिस्वपियजादीनां किति>> [[6.1.15]] एतादृशेषु सूत्रेषु 'कित्'प्रत्ययविशिष्टम् कार्यम् निर्दिष्टं दृश्यते ।\n\nअनेनैव प्रकारेण खित्, गित्, घित्, चित्,ञित्,टित्,णित्, तित्, नित्, पित्, रित्, लित्, सित् इत्येतेषाम् शब्दानाम् अपि निर्देशः भिन्नेषु सूत्रेषु कृतः दृश्यते ।\nउपदेशे विद्यमानस्यैव अन्तिम-हल्-वर्णस्य अनेन सूत्रेण इत्संज्ञा भवति, अन्येषु शब्देषु विद्यमानस्य अन्तिमव्यञ्जनस्य न - इति स्मर्तव्यम् । यथा, 'गम्' इत्यत्र मकारः यद्यपि अन्ते विद्यते, तथापि 'गम्' इति उपदेशः न (गमॢँ इति उपदेशः अस्ति) । अतः अत्र विद्यमानस्य मकारस्य इत्संज्ञा न भवति ।\nइत्संज्ञकवर्णस्य लोपः\nउपदेशेषु विद्यमानानाम् इत्संज्ञकवर्णानाम् प्रक्रियायाः प्रारम्भे एव <<तस्य लोपः>> [[1.3.9]] इत्यनेन नित्यम् लोपः भवति । इत्संज्ञकवर्णानां लोपे कृते यः अंशः अवशिष्यते, सः उपदेशस्य 'दृश्यरूपम्' इति नाम्ना ज्ञायते । यथा, 'तिप्' इति उपदेशे विद्यमानस्य इत्संज्ञक-पकारस्य लोपे कृते 'ति' इति यद् अवशिष्यते, तत् तिप्-प्रत्ययस्य दृश्यरूपम् ।\n इत्संज्ञायाः प्रयोजनम्\nअष्टाध्याय्याम् उपदेशेषु इत्संज्ञकवर्णानां संयोजनस्य अनेकानि प्रयोजनानि सन्ति । बहूनि कार्याणि इत्संज्ञकवर्णान् आश्रित्य एव प्रवर्तन्ते । The इत्-letters are like markers that decide whether a certain action will or will not happen in the prakriya. यथा, यस्मिन् तद्धितप्रत्यये ञकारः इत्संज्ञकः अस्ति, तस्मिन् प्रत्यये परे अङ्गस्य आदिवर्णस्य वृद्धिः भवति । यथा, 'दशरथस्य अपत्यम्' इत्यत्र दशरथशब्दात् इञ्-प्रत्यये कृते प्रक्रिया एतादृशी भवति -\n\nदशरथस्य अपत्यम्\n= दशरथ + इञ् ['दशरथस्य' इति षष्ठीसमर्थात् <<तस्यापत्यम्>> [[4.1.92]] इत्यस्मिन् अर्थे <<अत इञ्>> [[4.1.95]] इति सूत्रेण इञ्-प्रत्ययः । ततः तद्धितान्तस्य <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा भवति, ततश्च <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति दशरथशब्दात् विहितस्य षष्ठ्येकवचनप्रत्ययस्य लोपः अपि विधीयते ।]\n→ दशरथ + इञ् [ञकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा । ततः <<तस्य लोपः>> [[1.3.9]] इति ञकारस्य लोपः । ]\n→ दाशरथ + इ [ञित्-प्रत्ययः यस्मात् शब्दात् विधीयते, तस्य आदिस्वरस्य <<तद्धितेष्वचामादेः>> [[7.2.117]] इति वृद्धिः भवति । अतः अत्र दशरथशब्दस्य दकारोत्तस्य अकारस्य वृद्धिः आकारः विधीयते ।]\n→ दाशरथ् + इ [<<यस्येति च>> [[6.4.148]] इति अन्तिम-अकारस्य लोपः]\n→ दाशरथि\n\nअनेन प्रकारेण सर्वेषाम् अपि इत्संज्ञकवर्णानां भिन्नानि प्रयोजनानि सन्ति । \nवार्त्तिकम् - <!इँर इत्संज्ञा वाच्या!>\nयदि उपदेशे 'इँर्' इति कश्चन शब्दसमुदायः विद्यते, तर्हि तत्र <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इति सूत्रेण इँकारस्य, तथा च <<हलन्त्यम्>> [[1.3.3]] इति सूत्रेण रेफस्य पृथग् पृथग् इत्संज्ञायाम् प्राप्तायाम्, तद्बाधित्वा, 'इँर्' इति समुदायस्य एकत्ररूपेण इत्संज्ञां कर्तुम् वार्त्तिककारः इति वार्त्तिकं पाठयति । 'इँर्' इति समूहस्य एकत्ररूपेण इत्संज्ञा भवति इति अस्य अर्थः । यथा, 'भिदिँर्' अस्मिन् धातौ 'इँर्' इति समुदायः अन्ते विद्यते । अस्यां स्थितौ अत्र इकारस्य (रेफस्य वा) पृथग् रूपेण इत्संज्ञा न भवति, अपितु 'इँर्' इति समुदायस्यैव इत्संज्ञा भवति, तस्य च अग्रे <<तस्य लोपः>> [[1.3.9]] इत्यनेन लोपः क्रियते । इत्युक्ते, 'भिदिँर्' इति धातुः 'इदित्' उत 'रित्' नास्ति, अपितु 'इरित्' अस्ति । अतः अस्य विषये 'इदित्' विशिष्टम् उत 'रित्' विशिष्टम् कार्यम् न प्रवर्तते, अपितु 'इरित्' विशिष्टम् कार्यम् (यथा, <<इरितो वा>> [[3.1.57]] इति) भवितुम् अर्हति । एवमेव, 'छिदिँर्', 'ईँशुचिँर्', 'दृशिँर्' एते सर्वे अपि इरितः धातवः ज्ञेयाः । \n\n1. अष्टाध्याय्याः इत्संज्ञाप्रकरणस्य विषये अत्र विद्यमानः लेखः अपि अवश्यं द्रष्टव्यः । \n2. धातुपाठे left-side-menu मध्ये filters इत्यत्र 'अनुबन्धः' इति filter उपयुज्य आदित्/इदित्/ईदित्... इत्येतेषाम् पृथग् पृथग् आवल्यः द्रष्टुं शक्यन्ते । \n" }, "13004": { "sa": "विभक्तिसंज्ञकप्रत्ययस्य औपदेशिकस्वरूपे विद्यमानाः - (1) तवर्गीयवर्णाः, (2) सकारः (3) मकारः - एते इत्संज्ञकाः न भवन्ति । ", "sd": "व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'इत्' इति संज्ञा । इयम् संज्ञा <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इत्यस्मात् <<लशक्वतद्धिते>> [[1.3.8]] इत्येतेषु सूत्रेुषु पाठिता अस्ति । एतेषाम् सूत्राणाम् सङ्कलनम् 'इत्संज्ञाप्रकरणम्' नाम्ना ज्ञायते । अस्य प्रकरणस्य इदम् तृतीयम् सूत्रम् । एतत् इत्संज्ञानिषेधसूत्रम् अस्ति, यतः अनेन सूत्रेण इत्संज्ञायाः निषेधः क्रियते । 'विभक्ति'संज्ञकप्रत्ययानाम् औपदेशिकस्वरूपस्य अन्ते विद्यमानाः तवर्गीयवर्णाः, सकारः तथा मकारः <<हलन्त्यम्>> [[1.3.3]] इत्यनेन इत्संज्ञकाः न भवन्ति - इति अस्य सूत्रस्य आशयः ।\nविभक्तिसंज्ञा\nविभक्तिः इति व्याकरणविशिष्टा काचित् संज्ञा । अष्टाध्याय्यां 'विभक्तिः' इति संज्ञा द्वयोः स्थलयोः पाठिता अस्ति —\n\n1. <<विभक्तिश्च>> [[1.4.104]] इति सूत्रेण सर्वे (एकविंशतिः) सुप्-प्रत्ययाः, सर्वे (अष्टादश) तिङ्-प्रत्ययाः च 'विभक्ति'संज्ञां प्राप्नुवन्ति । यथा - जस्, अम्, शस्, भ्याम्, तिप्, तस्, झि - एते सर्वे प्रत्ययाः विभक्तिसंज्ञकाः भवन्ति ।\n2. तद्धितप्रकरणे <<प्राग्दिशो विभक्तिः>> [[5.3.1]] अस्मिन् अधिकारे पाठिताः सर्वे तद्धितप्रत्ययाः विभक्तिसंज्ञकाः भवन्ति । यथा - दानीम्, एद्युस्, द्यस्, आदयः ।\n\nविभक्तिसंज्ञकानाम् अन्तिमवर्णस्य इत्संज्ञानिषेधः\nसर्वेषाम् विभक्तिसंज्ञकप्रत्ययानाम् औपदेशिकस्वरूपे (मूलस्वरूपे) अन्ते विद्यमानाः तवर्गीयवर्णाः (त्, थ्, द्, ध्, न्), सकारः तथा मकारः - एते इत्संज्ञां नैव प्राप्नुवन्ति - इति अस्य सूत्रस्य आशयः । <<हलन्त्यम्>> [[1.3.3]] अनेन सूत्रेण प्राप्तायाः इत्संज्ञायाः अत्र निषेधः कृतः अस्ति । कानिचन उदाहरणानि एतानि —\n1. द्वितीयैकवचनस्य प्रत्ययः अम् इति अस्ति । अस्य प्रत्ययस्य औपदेशिकस्वरूपे अन्ते मकारः विद्यते, अतः अस्य <<हलन्त्यम्>> [[1.3.3]] इत्यनेन इत्संज्ञा भवितुम् अर्हति । परन्तु अयं विभक्तिसंज्ञकःप्रत्ययः, अतः <<न विभक्तौ तुस्माः>> [[1.3.4]] सूत्रेण मकारस्य इत्संज्ञानिषेधः भवति । इत्युक्ते, 'अम्' इत्यत्र मकारः इत्संज्ञकः नास्ति । अतएव प्रक्रियायाम् <<तस्य लोपः>> [[1.3.9]] इत्यनेन मकारः न लुप्यते, अतश्च द्वितीयैकवचनस्य रूपेषु (यथा, रामम्, मुनिम् इत्यत्र) अस्य श्रवणम् भवति ।\n2. पञ्चम्येकवचनस्य 'ङसि' प्रत्ययः यदा अकारान्तात् अङ्गात् विधीयते, तदा तस्य 'आत्' इति आदेशः भवति । अत्रापि आदेशस्य औपदेशिकस्वरूपे तकारः अन्ते विद्यते, अतः <<हलन्त्यम्>> [[1.3.3]] इत्यनेन अस्य इत्संज्ञा प्राप्नोति । परन्तु 'ङस्' इत्यस्मात् विभक्तिसंज्ञकप्रत्ययात् प्राप्तः 'आत्' इति आदेशः अपि विभक्तिसंज्ञकः एव, अतः अस्मिन् आदेशे विद्यमानस्य तकारस्य <<न विभक्तौ तुस्माः>> [[1.3.4]] इत्यनेन इत्संज्ञानिषेधः जायते । अतएव रामशब्दस्य पञ्चम्येकवचने 'रामात्' इत्यत्र तकारस्य उच्चारणम् अवश्यम् भवति ।\n3. <<दानीं च>> [[5.3.18]] अनेन सूत्रेण 'दानीम्' इति विभक्तिप्रत्ययः दीयते ।अस्य मकारस्य अपि <<न विभक्तौ तुस्माः>> [[1.3.4]] इत्यनेन इत्संज्ञानिषेधः भवति । अतएव 'इदानीम्' इति मकारान्तशब्दः सिद्ध्यति ।\n4. लट्लकारस्य परस्मैपदस्य प्रथमपुरुषद्विवचनस्य प्रत्ययः 'तस्' इति अस्ति । अस्मिन् विभक्तिसंज्ञके प्रत्यये विद्यमानस्य सकारस्य <<न विभक्तौ तुस्माः>> [[1.3.4]] इति इत्संज्ञानिषेधः भवति । अग्रे तस्य विसर्गादेशे कृते 'पठतः / गच्छतः' एतादृशानि रूपाणि सिद्ध्यन्ति ।\n5. लङ्लकारस्य उत्तमपुरुषैकवचनस्य 'अम्' इति प्रत्ययस्य अन्ते विद्यमानस्य मकारस्य <<न विभक्तौ तुस्माः>> [[1.3.4]] इति इत्संज्ञानिषेधः भवति ।\n<<न विभक्तौ तुस्माः>> [[1.3.4]] इत्यस्य सूत्रस्य प्रसक्तिः केवलं विभक्तिसंज्ञकप्रत्ययानां विषये एव विद्यते, सर्वेषां विषये न । यथा , 'तुमुन्', 'श्नम्', 'तास्', 'ईयसुँन्' एतेषाम् औपदेशिकस्वरूपस्य अन्तिमवर्णः यद्यपि तवर्गीयवर्णः/सकारः/मकारः अस्ति, तथापि एते विभक्तिसंज्ञकाः न, अतः एतेषाम् अन्तिमवर्णस्य अवश्यम् इत्संज्ञा भवति ।\nसूत्रस्य अनित्यत्वम्\n<<न विभक्तौ तुस्माः>> [[1.3.4]] इति सूत्रम् अनित्यम् अस्ति । इत्युक्ते, कुत्रचित् प्रत्ययस्य विभक्तिसंज्ञायाम् सत्याम् अपि तस्य अन्ते विद्यमानस्य तवर्गीयवर्णस्य उत मकारस्य इत्संज्ञा अवश्यं कृता दृश्यते । यथा, तद्धिताधिकारे <<किमोऽत्>> [[5.3.12]] इत्यत्र पाठितः 'अत्' प्रत्ययः यद्यपि विभक्तिसंज्ञकः अस्ति, तथापि अस्य अन्ते विद्यमानः तकारः इत्संज्ञकः भवति, अतः <<तस्य लोपः>> [[1.3.9]] इत्यनेन तस्य लोपः अपि क्रियते ।\n<<न विभक्तौ तुस्माः>> [[1.3.4]] इत्यस्य अनित्यत्वस्य ज्ञापकम् अस्ति <<इदमस्थमुः>> [[5.3.24]] इति सूत्रम् । अस्मिन् सूत्रे आचार्यः 'थमु' इति विभक्तिसंज्ञकं प्रत्ययं पाठयति । अस्मिन् सूत्रे विद्यमानः उकारोत्तरः अकारः मकारस्य <<हलन्त्यम्>> [[1.3.3]] इत्यनेन जायमानायाः इत्संज्ञायाः बाधनार्थम् स्थापितः अस्ति । वस्तुतस्तु मकारस्य विषये <<हलन्त्यम्>> [[1.3.3]] इत्यनेन प्राप्ता इत्संज्ञा <<न विभक्तौ तुस्माः>> [[1.3.4]] इत्यनेनैव निषिध्यते । अतः 'थमु' इत्यस्य स्थाने 'थम्' इत्युच्यते चेदपि नैव दोषाय । तथापि आचार्यः मकारात् अनन्तरम् व्यर्थम् उकारं स्थापयति । अयम् उकारः व्यर्थः भूत्वा एतत् ज्ञापयति, यत् <<न विभक्तौ तुस्माः>> [[1.3.4]] इत्यनेन निर्दिष्टः इत्संज्ञानिषेधः कुत्रचित् विधीयते ।\nविभक्तिप्रत्ययानाम् आदेशाः\nविभक्तिप्रत्ययानाम् ये आदेशाः विधीयन्ते, तेषु विद्यमानानाम् तवर्गीयवर्णानाम्, सकारस्य, मकारस्य च विषये वस्तुतः <<न विभक्तौ तुस्माः>> [[1.3.4]] इत्यनेन इत्संज्ञानिषेधः नैव प्रवर्तेत, यतः आदेशविधानसमये तु विभक्तिसंज्ञा नैव विद्यते, अपितु आदेशात् अनन्तरम् स्थानिवद्भावेन विभक्तिसंज्ञाविधानम् भवितुम् अर्हति । इत्युक्ते, आदेशसमये तु <<हलन्त्यम्>> [[1.3.3]] इत्यस्य प्रसक्तिः अस्त्येव । यथा, <<अतो भिस ऐस्>> [[7.1.9]] इत्यनेन भिस्-प्रत्ययस्य स्थाने जायमानस्य ऐस्-आदेशस्य आदेशविधानसमये विभक्तिसंज्ञा नास्ति अपितु आदेशात् अनन्तरम् स्थानिवद्भावेन विभक्तिसंज्ञा विधीयते । अतः आदेशविधानसमये तु <<हलन्त्यम्>> [[1.3.3]] इत्यनेन सकारस्य इत्संज्ञा अवश्यं भवेत् । एवमेव, <<टाङसिङसामिनात्स्याः>> [[7.1.12]] इत्यनेन ङसिँ-प्रत्ययस्य जायमानस्य आत्-आदेशस्य तकारः, तथा च <<ङेराम्नद्याम्नीभ्यः>> [[7.3.116]] इत्यनेन ङि-प्रत्ययस्य विधीयमानस्य आम्-आदेशस्य मकारः, एवमेव <<तस्थस्थमिपां तान्तन्तामः>> [[3.4.101]] इत्यनेन मिप्-प्रत्ययस्य आदेशस्वरूपस्य 'अम्' इत्यस्य मकारः - एते सर्वे वस्तुतः <<हलन्त्यम्>> [[1.3.3]] इत्यनेन इत्संज्ञकाः अवश्यं भवेयुः । परन्तु एतेषाम् सर्वेषाम् अपि इत्संज्ञानिषेधः एव इष्यते, नो चेत् 'रामैः, रामात्, नद्याम्, अपठम्' - एतादृशाणि रूपाणि नैव सिद्ध्येयुः । एतादृशः इत्संज्ञानिषेधः शास्त्रपद्धत्या कथं करणीयः इति अत्र प्रश्नः उदेति । अस्मिन् विषये व्याख्यानेषु कुत्रापि किमपि न लभ्यते । कानिचन समाधानानि प्रायः भवितुम् शक्नुयुः -\nअ) <<न विभक्तौ तुस्माः>> [[1.3.4]] इत्यत्र 'विभक्तौ' इत्यस्य अर्थः 'विभक्तिविषये' इति क्रियते चेत् विभक्तिसंज्ञकात् विहितस्य आदेशस्य विषये (आदेशस्य विभक्तिसंज्ञायाः अभावात् अपि) अस्य सूत्रस्य प्रसक्तिः ज्ञापयितुम् शक्यते । अनेन 'आत्', 'अम्' एतादृशेषु विद्यमानस्य अन्तिमवर्णस्य इत्संज्ञानिषेधः सम्भवति ।\nआ) <<न विभक्तौ तुस्माः>> [[1.3.4]] इत्यत्र विद्यमानां 'विभक्ति'संज्ञाम् भाविनीसंज्ञाम् मत्वा 'यस्य शब्दस्य विभक्तिः इति संज्ञा अग्रे भविष्यति, तस्य विषये प्रारम्भे एव इदं सूत्रं प्रवर्तते' इति अर्थं स्वीकृत्य 'आत्', 'अम्' आदीनाम् आदेशानाम् विषये विभक्तिसंज्ञाविधानात् पूर्वमेव अनेन सूत्रेण इत्संज्ञानिषेधः भवितुम् अर्हति ।\nइ) एतेषु सर्वेषु सूत्रेषु प्रश्लेषस्य आधारेण कश्चन अन्यः वर्णः अन्ते संस्थाप्ययितुम् शक्यते । यथा, <<अतो भिस ऐस्>> [[7.1.9]] इत्यस्य स्थाने 'अतो भिस ऐस्स्' इति सकारप्रश्लेषः । <<टाङसिङसामिनात्स्याः>> [[7.1.12]] इत्यस्य स्थाने 'टाङसिङसामिनात्त्स्याः' इति तकारप्रश्लेषः । <<ङेराम्नद्याम्नीभ्यः>> [[7.3.116]] इत्यत्र 'ङेराम्म्नद्याम्नीभ्यः' इति मकारप्रश्लेषः । <<तस्थस्थमिपां तान्तन्तामः>> [[3.4.101]] इत्यत्रापि 'तस्थस्थमिपां तान्तन्ताम्मः' इति मकारप्रश्लेषः । एतादृशाः प्रश्लेषाः क्रियन्ते चेत् प्रक्रियायाः प्रारम्भे प्रश्लिष्टवर्णस्य <<हलन्त्यम्>> [[1.3.3]] इत्यनेन इत्संज्ञां कृत्वा ततः अवशिष्टस्य अंशस्य आदेशविधानम् कर्तुम् शक्यते ।\nई) प्रयोजनं विना कुत्रापि इत्संज्ञा न भवति, अतः 'ऐस्, आत्, आम्, अम्' - एतादृशेषु आदेशेषु अन्तिमवर्णस्य इत्संज्ञाप्रयोजनाभावं मत्वा अपि इत्संज्ञानिषेधः वक्तुं शक्यते ।\n" }, "13005": { "sa": "उपदेशस्य आदौ विद्यमानाः 'ञि', 'टु' तथा 'डु' एते वर्णसमुदायाः इत्संज्ञकाः भवन्ति ।", "sd": "व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'इत्' इति संज्ञा । इयम् संज्ञा <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इत्यस्मात् <<लशक्वतद्धिते>> [[1.3.8]] इत्येतेषु सूत्रेुषु पाठिता अस्ति । एतेषाम् सूत्राणाम् सङ्कलनम् 'इत्संज्ञाप्रकरणम्' नाम्ना ज्ञायते । अस्य प्रकरणस्य इदम् चतुर्थं सूत्रम् । अनेन सूत्रेण उपदेशस्य आदौ विद्यमानानाम् 'ञि', 'टु', 'डु' एति वर्णसमूहानाम् इत्संज्ञा विधीयते ।\nउपदेशस्य विषये विस्तरेण <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इत्यत्र विवेचनं कृतम् अस्ति, तदेव जिज्ञासुभिः द्रष्टव्यम् । \nप्रकृतसूत्रेण निर्दिष्टाः 'ञि', 'टु', 'डु' एते वर्णसमुदायाः अष्टाध्याय्याम् केवलम् धातूनाम् प्रारम्भे एव विद्यन्ते । अतः अस्य सूत्रस्य व्याप्तिः धातुपाठविशिष्टा एव अस्ति । कानिचन उदाहरणानि एतानि -\n1. ञिमिदाँ, ञिक्ष्विदाँ, ञित्वराँ - एतादृशानाम् धातूनाम् आदौ विद्यमानः 'ञि' इति समुदायः इत्संज्ञां प्राप्नोति । अतः एते सर्वे ञीतः धातवः इति नाम्ना अपि ज्ञायन्ते । 'ञि + इत् = ञीत्' इत्याशयः । धातुपाठे आहत्य १३ धातवः ञीतः सन्ति ।\n2. टुक्षु, टुनदीँ, टुदु - एतादृशानाम् धातूनाम् आदौ विद्यमानः 'टु' इति समुदायः इत्संज्ञां प्राप्नोति । अतः एते सर्वे ट्वितः धातवः इति नाम्ना अपि ज्ञायन्ते । 'टु + इत् = ट्वित्' इत्याशयः । धातुपाठे आहत्य १३ धातवः ट्वितः सन्ति ।\n3. डुकृञ्, डुपचँष्, डुलभँष्, - एतादृशानाम् धातूनाम् आदौ विद्यमानः 'डु' इति समुदायः इत्संज्ञां प्राप्नोति । अतः एते सर्वे ड्वितः धातवः इति नाम्ना अपि ज्ञायन्ते । 'डु + इत् = ड्वित्' - इत्याशयः । धातुपाठे आहत्य ९ धातवः ड्वितः सन्ति ।\nइत्संज्ञकवर्णस्य लोपः\nप्रक्रियायाः प्रारम्भे इत्संज्ञकवर्णस्य <<तस्य लोपः>> [[1.3.9]] इत्यनेन नित्यम् लोपः भवति ।\nआदौ विद्यमानस्य 'ञि', 'टु', 'डु' इति समूहानाम् इत्संज्ञायाः प्रयोजनम्\nधातूनाम् आदौ विद्यमानानाम् 'ञि', 'टु', 'डु' एतेषाम् समूहानाम् इत्संज्ञायाः विशिष्टम् प्रयोजनम् विद्यते । तदित्थम् —\n1) ञीद्भ्यः धातुभ्यः विहितः क्तप्रत्ययः <<ञीतः क्तः>> [[3.2.187]] अनेन सूत्रेण वर्तमाने अर्थे अपि भवितुम् अर्हति । यथा, 'ञिमिदाँ' इति धातुः ञीत्-अस्ति, अतः अस्मात् धातोः क्त-प्रत्ययः वर्तमाने अर्थे अपि विधीयते । प्रक्रिया इयम् - \n\nमिद्यते इति [कृद्वृत्तिः]\n= ञिमिदाँ स्नेहने [भ्वादिः, अकर्मकः, सेट्]\n→ मिद् ['ञि' इत्यस्य <<आदिर्ञिटुडवः>> [[1.3.5]] इति इत्संज्ञा । आकारस्य <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इति इत्संज्ञा । उभयोः अपि <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ मिद् + क्त [ञीद्भ्यः धातुभ्यः <<ञीतः क्तः>> [[3.2.187]] इति वर्तमाने अर्थे क्तप्रत्ययः]\n→ मिद् + त [प्रत्ययस्थककारस्य <<लशक्वतद्धिते>> [[1.3.8]] इति इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः । <<आदितश्च>> [[7.2.16]] इति इडागमनिषेधः]\n→ मिन् + न [<<रदाभ्यां निष्ठातो नः पूर्वस्य च दः>> [[8.2.42]] इति दकारतकारयोः नत्वम्]\n→ मिन्न ।\n\n2) ट्विद्भ्यः धातुभ्यः <<ट्वितोऽथुच्>> [[3.3.89]] अनेन सूत्रेण भावार्थे 'अथुच्' इति कृत्प्रत्ययः विधीयते । यथा, 'टुवेपृँ' इति धातोः अथुच्-प्रत्यये कृते 'वेपथुः' इति शब्दः सिद्ध्यति । प्रक्रिया इयम् —\n\nवेप्यते इति [कृद्वृत्तिः]\n= टुवेपृँ (कम्पने, भ्वादिः, अकर्मकः, सेट्)\n→ वेप् ['टु' इत्यस्य <<आदिर्ञिटुडवः>> [[1.3.5]] इति इत्संज्ञा । ऋकारस्य <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इति इत्संज्ञा । उभयोः अपि <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ वेप् + अथुच् [ ट्विद्भ्यः धातुभ्यः <<ट्वितोऽथुच्>> [[3.3.89]] इति अथुच्-प्रत्ययस्य भावे विधानम् ।]\n→ वेपथु [अथुच्-प्रत्ययस्य चकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति लोपः ।]\n\n3) ड्विद्भ्यः धातुभ्यः <<ड्वितः क्त्रिः>> [[3.3.88]] अनेन सूत्रेण भावार्थे 'क्त्रि' इति कृत्प्रत्ययः विधीयते । यथा, 'डुकृञ्' इत्यस्मात् धातोः क्त्रि-प्रत्यये कृते 'कृत्रिम' इति शब्दः सिद्ध्यति । \n\nक्रियते इति [कृद्वृत्तिः]\n= डुकृञ् (करणे, तनादिः, सकर्मकः, अनिट्)\n→ कृ ['डु' इत्यस्य <<आदिर्ञिटुडवः>> [[1.3.5]] इति इत्संज्ञा । ञकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा । उभयोः अपि <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ कृ + क्त्रि + मप् [ ड्विद्भ्यः धातुभ्यः <<ड्वितः क्त्रिः>> [[3.3.88]] इति सूत्रेण भावार्थे 'क्त्रि' इति प्रत्ययः विधीयते । क्त्रि-प्रत्यये कृते अग्रे <<क्त्रेर्मम् नित्यम्>> [[4.4.20]] इत्यनेन स्वार्थिकः मप्-प्रत्ययः अपि भवति ।]\n→ कृ + त्रि + म [क्त्रि-प्रत्ययस्य ककारस्य <<लशक्वतद्धिते>> [[1.3.8]] इति इत्संज्ञा । मप्-प्रत्ययस्य पकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा उभयोः अपि <<तस्य लोपः>> [[1.3.9]] इति लोपः ]\n→ कृत्रिम\n\nअनेन प्रकारेण 'ञि', 'टु', 'डु' इत्येतेषाम् सर्वेषामपि इत्संज्ञायाः प्रयोजनानि विद्यन्ते ।\nधातुपाठे left-side-menu मध्ये filters इत्यत्र 'अनुबन्धः' इति filter उपयुज्य तत्र ट्वित्/ड्वित्/ञीत्-धातूनाम् पृथग् पृथग् आवल्यः द्रष्टुं शक्यन्ते । " }, "13006": { "sa": "प्रत्ययस्य औपदेशिकस्वरूपस्य आदिस्थः षकारः इत्संज्ञकः भवति ।", "sd": "व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'इत्' इति संज्ञा । इयम् संज्ञा <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इत्यस्मात् <<लशक्वतद्धिते>> [[1.3.8]] इत्येतेषु सूत्रेुषु पाठिता अस्ति । एतेषाम् सूत्राणाम् सङ्कलनम् 'इत्संज्ञाप्रकरणम्' नाम्ना ज्ञायते । अस्य प्रकरणस्य इदम् पञ्चमं सूत्रम् । अनेन सूत्रेण प्रत्ययस्य औपदेशिकस्वरूपस्य (मूलस्वरूपस्य) आदौ विद्यमानस्य षकारस्य इत्संज्ञा विधीयते । एतादृशः आदिस्थः षकारः अष्टाध्याय्याम् आहत्य 17 प्रत्ययानाम् औपदेशिकस्वरूपे वर्तते । एतेषु त्रयः प्रत्ययाः कृत्संज्ञकाः सन्ति, अन्ये चतुर्दश प्रत्ययाः तद्धितसंज्ञका सन्ति ।एतेषम् आवली इयम् —\n\n1. त्रयः कृत्संज्ञकाः प्रत्ययाः — षाकन्, ष्ट्रन्, ष्वुन् ।\n2. चतुर्दश तद्धितसंज्ञकाः प्रत्ययाः — ष, षच्, षङ्गवच्, षिकन्, षेण्यण्, ष्कन्, ष्टरच्, ष्ठच्, ष्ठन्, ष्ठल्, ष्फक्, ष्यङ्, ष्यञ्, ष्फ ।\n\nएतेषु सर्वेषु आदौ विद्यमानस्य षकारस्य <<षः प्रत्ययस्य>> [[1.3.5]] इत्यनेन इत्संज्ञा भवति । अतः एते सर्वे प्रत्ययाः 'षित्-प्रत्ययाः' नाम्ना अपि ज्ञायन्ते ।\nइत्संज्ञकवर्णस्य लोपः\nप्रक्रियायाः प्रारम्भे इत्संज्ञकवर्णस्य <<तस्य लोपः>> [[1.3.9]] इत्यनेन नित्यम् लोपः भवति ।\nप्रत्ययस्य आदौ विद्यमानस्य षकारस्य इत्संज्ञायाः प्रयोजनम्\nप्रत्ययस्य आदौ विद्यमानस्य इत्संज्ञकस्य षकारस्य प्रयोजनम् अस्ति स्त्रीत्वं द्योतयितम् ङीष्-प्रत्ययविधानम् । इति । षित्-प्रत्ययान्तशब्दात् स्त्रीत्वं द्योतयियम् स्त्रीप्रकरणस्थेन <<षिद्गौरादिभ्यश्च>> [[4.1.41]] इत्यनेन 'ङीष्' इति स्त्रीप्रत्ययस्य विधानम् भवति । यथा, 'नृत्' धातोः <<शिल्पिनि ष्वुन्>> [[3.1.145]] इति सूत्रेण ष्वुन्-प्रत्यये कृते 'नर्तक' इति शब्दः सिद्ध्यति । अस्य शब्दस्य स्त्रीत्वं द्यौतयितुम् वस्तुतः <<अजाद्यतष्टाप्>>[[4.1.4]] इत्यनेन टाप्-प्रत्ययः भवेत् । परन्तु 'नर्तक' इति शब्दः षित्-प्रत्ययान्तः अस्ति, अतः अत्र टाप्-प्रत्ययं बाधित्वा <<षिद्गौरादिभ्यश्च>> [[4.1.41]] इत्यनेन 'ङीष्' इति प्रत्ययः विधीयते । प्रक्रिया इयम् -\n\nनृत्यं शिल्पम् अस्याः [कृद्वृत्तिः]\n→ नृत् + ष्वुन् + ङीष् [<<शिल्पिनि ष्वुन्>> [[3.1.145]] इति ष्वुन्-प्रत्ययः । ततः स्त्रीत्वं द्योतयितुम् <<षिद्गौरादिभ्यश्च>> [[4.1.41]] इत्यनेन 'ङीष्'-प्रत्ययः]\n→ नृत् + वु + ई [ष्वुन्-प्रत्यये षकारस्य <<षः प्रत्ययस्य>> [[1.3.6]] इत्यनेन, तथा च नकारस्य <<हलन्त्यम्>> [[1.3.3]] इत्यनेन इत्संज्ञा । ङीष्-प्रत्यये ङकारस्य <<लशक्वतद्धिते>> [[1.3.8]] इत्यनेन इत्संज्ञा, तथा च षकारस्य <<हलन्त्यम्>> [[1.3.3]] इत्यनेन इत्संज्ञा । सर्वेषाम् इत्संज्ञकवर्णानाम् <<तस्य लोपः>> [[1.3.9]] इति लोपः ]\n→ नृत् + अक + ई ['वु' इत्यस्य <<युवोरनाकौ>> [[7.1.1]] इति अक-आदेशः भवति ।]\n→ नर्तक + ई [ऋकारस्य <<पुगन्तलघूपधस्य च>> [[7.3.86]] इति गुणे कृते, <<उरण् रपरः>> [[1.1.51]] इति रपरः अकारः विधीयते ।]\n→ नर्तक् + ई [<<यस्येति च>> [[6.4.148]] इति सूत्रेण ककारोत्तस्य अकारस्य लोपः भवति ।]\n→ नर्तकी \n\nसूत्रे 'प्रत्यय'ग्रहणस्य प्रयोजनम्\nअष्टाध्याय्यां प्रत्ययभिन्नेषु स्थलेषु अपि आदौ षकारः भवितुम् अर्हति । यथा, षणँ, ष्ठा, षदॢँ - आदिषु धातुषु आदौ षकारः वर्तते । एवमेव 'षट्' इति प्रातिपदिकस्य आदौ अपि षकारः एव विद्यते । परन्तु एतादृशानां षकाराणाम् अनेन सूत्रेण इत्संज्ञा नैव इष्यते । अतएव अस्मिन् सूत्रे 'प्रत्ययस्य' इति शब्दः विशेषरूपेण निर्दिष्टः अस्ति । प्रत्ययस्यैव आदौ विद्यमानस्य षकारस्य इत्संज्ञा भवेत्, प्रत्ययभिन्नानाम् उपदेशानाम् आदौ विद्यमानस्य षकारस्य न - इति अत्र प्रत्ययग्रहणस्य प्रयोजनम् ज्ञेयम् । " }, "13007": { "sa": "प्रत्ययस्य औपदेशिकस्वरूपस्य आदौ विद्यमानः चवर्गीयवर्णः टवर्गीयवर्णः च इत्संज्ञकः भवति ।", "sd": "व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'इत्' इति संज्ञा । इयम् संज्ञा <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इत्यस्मात् <<लशक्वतद्धिते>> [[1.3.8]] इत्येतेषु सूत्रेुषु पाठिता अस्ति । एतेषाम् सूत्राणाम् सङ्कलनम् 'इत्संज्ञाप्रकरणम्' नाम्ना ज्ञायते । अस्य प्रकरणस्य इदम् षष्ठं सूत्रम् । अनेन सूत्रेण प्रत्ययस्य औपदेशिकस्वरूपस्य (मूलस्वरूपस्य) आदौ विद्यमानस्य चवर्गीयवर्णस्य, टवर्गीयचवर्णस्य च इत्संज्ञा भवति । यथा —\n\n1) च्फञ् इति तद्धितप्रत्ययस्य आदौ विद्यमानः चकारः इत्संज्ञकः अस्ति ।\n2) जस् इति विभक्तिप्रत्ययस्य आदौ विद्यमानः जकारः इत्संज्ञकः अस्ति ।\n3) ञ्युट् इति कृत्प्रत्यस्य आदौ विद्यमानः ञकारः इत्संज्ञकः अस्ति ।\n4) टाप् इति स्त्रीप्रत्यस्य आदौ विद्यमानः टकारः इत्संज्ञकः अस्ति ।\n5) डाप् इति स्त्रीप्रत्ययस्य आदौ विद्यमानः डकारः इत्संज्ञकः अस्ति ।\n6) इति तद्धितप्रत्ययस्य/कृत्प्रत्ययस्य आदौ विद्यमानः णकारः इत्संज्ञकः अस्ति ।\n\nइत्संज्ञकवर्णस्य लोपः\nप्रक्रियायाः प्रारम्भे इत्संज्ञकवर्णस्य <<तस्य लोपः>> [[1.3.9]] इत्यनेन नित्यम् लोपः भवति ।\nप्रत्ययस्य आदौ विद्यमानानाम् चवर्गीयवर्णानाम् टवर्गीयवर्णानां च इत्संज्ञायाः प्रयोजनम्\nअष्टाध्याय्याम् उपदेशेषु इत्संज्ञकवर्णानां संयोजनस्य अनेकानि प्रयोजनानि सन्ति । प्रक्रियायां जायमानानि बहूनि कार्याणि इत्संज्ञकवर्णान् आश्रित्य एव प्रवर्तन्ते । The इत्-letters are like markers that decide whether a certain action will or will not happen in the prakriya. प्रत्ययानाम् आदौ विद्यमानस्य चवर्गीयवर्णस्य, टवर्गीयवर्णस्य इत्संज्ञायाः अपि भिन्नानि प्रयोजनानि सन्ति । यथा, यस्मिन् तद्धितसंज्ञके प्रत्यये णकारः इत्संज्ञकः वर्तते, तस्मिन् प्रत्यये परे अङ्गस्य आदिवर्णस्य वृद्धिः भवति । यथा, 'छत्रम् अस्य शीलम्' इत्यस्मिन् अर्थे 'छत्र' शब्दात् <<छत्रादिभ्यो णः>> [[4.4.62]] इत्यनेन ण-प्रत्यये कृते, 'छत्र' शब्दस्य आदिस्थ-अकारस्य <<तद्धितेष्वचामादेः>> [[7.2.117]] इत्यनेन वृद्धिः भवितुम् अर्हति । सम्पूर्णा प्रक्रिया इयम् —\n\nछत्रम् शीलम् अस्य इति \n= छत्र + ण [ <<छत्रादिभ्यो णः>> [[4.4.62]] इत्यनेन प्रथमासमर्थात् 'छत्रम्' इति शब्दात् ण-प्रत्ययः भवति । अग्रे तद्धितान्तस्य <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इत्यनेन प्रातिपदिकसंज्ञायां कृतायाम्, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इत्यनेन छत्र-शब्दात् विहितस्य सुँ-प्रत्ययस्य लोपः भवति ]\n→ छत्र + अ [ण-प्रत्ययस्य आदौ विद्यमानस्य णकारस्य <<चुटू>> [[1.3.7]] इत्यनेन इत्संज्ञा भवति । <<तस्य लोपः>> [[1.3.9]] इत्यनेन अयम् इत्संज्ञकवर्णः लुप्यते ।]\n→ छात्र + अ [णित्-प्रत्यये परे <<तद्धितेष्वचामादेः>> [[7.2.117]] इति अङ्गस्य आदिवृद्धिः]\n→ छात्र् + अ [रेफोत्तरस्य अकारस्य <<यस्येति च>> [[6.4.148]] इति लोपः]\n→ छात्र \n\n प्रत्ययस्य आदौ विद्यमानानाम् छकार-झकार-ठकार-ढकाराणाम् इत्संज्ञायाः अप्राप्तिः\nछकारः, झकारः, ठकारः तथा ढकारः - एते वर्णाः यद्यपि प्रत्ययानाम् औपदेशिकस्वरूपस्य प्रारम्भे भवितुम् अर्हन्ति, तथापि तेषाम् <<चुटू>> [[1.3.7]] इत्यनेन इत्संज्ञा न भवति, यतः तेषाम् इत्संज्ञाविधानमस्य किमपि प्रयोजनम् न विद्यते । अतः 'छण्', 'झि', 'ठक्', 'ढक्' एतेषु प्रत्ययेषु आदिस्थस्य चवर्गीयवर्णस्य टवर्गीयवर्णस्य वा इत्संज्ञा न करणीया ।\nचुटू सूत्रस्य अनित्यत्वम्\n<<षः प्रत्ययस्य>> [[1.3.6]] तथा <<चुटू>> [[1.3.7]] एतयोः द्वयोः सूत्रयोः स्थाने 'प्रत्ययस्य चुटुषाः' इति एकमेव सूत्रं क्रियते चेत् अपि समानः एव अर्थः सिद्ध्यति । तथापि आचार्येण <<चुटू>> [[1.3.7]] इति सूत्रम् <<षः प्रत्ययस्य>> [[1.3.6]] इत्यस्मात् पृथग् रूपेण पाठितम् अस्ति । अस्य पृथग्-विधानस्य प्रयोजनम् अस्ति <<चुटू>> [[1.3.7]] इति सूत्रस्य अनित्यत्वम् । अस्य अनित्यत्वस्यैव आधारेण केषुचन प्रत्ययेषु (यथा - चुञ्चुप्, चणप्, जातीयर्, टिटञ्, जाहच् - आदिषु प्रत्ययेषु) विद्यमानस्य आदिस्थस्य चवर्गीयवर्णस्य टवर्गीयवर्णस्य च इत्संज्ञा नैव विधीयते । अत्र 'प्रयोजनाभावात् इत्संज्ञा न भवति' इति अपरं स्पष्टीकरणम् अपि भवितुम् अर्हति ।\n" }, "13008": { "sa": "तद्धितभिन्नप्रत्ययस्य औपदेशिकस्वरूपस्य आदौ विद्यमानः लकारः, शकारः, कवर्गीयवर्णः च इत्संज्ञकः भवति । ", "sd": "व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'इत्' इति संज्ञा । इयम् संज्ञा <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इत्यस्मात् <<लशक्वतद्धिते>> [[1.3.8]] इत्येतेषु सूत्रेुषु पाठिता अस्ति । एतेषाम् सूत्राणाम् सङ्कलनम् 'इत्संज्ञाप्रकरणम्' नाम्ना ज्ञायते । अस्य प्रकरणस्य इदम् सप्तमम् (अन्तिमम्) सूत्रम् । अनेन सूत्रेण तद्धितभिन्नप्रत्ययस्य औपदेशिकस्वरूपस्य (मूलस्वरूपस्य) आदौ विद्यमानस्य लकारस्य, शकारस्य, कवर्गीयवर्णस्य च इत्संज्ञा भवति । यथा —\n\n1) ल्युट् इत्यस्य कृत्प्रत्ययस्य आदिस्थः लकारः इत्संज्ञकः अस्ति ।\n2) श्यन् इत्यस्य विकरणप्रत्ययस्य आदिस्थः शकारः इत्संज्ञकः अस्ति ।\n3) क्यच् इत्यस्य सनादिप्रत्ययस्य आदिस्थः ककारः इत्संज्ञकः अस्ति ।\n4) खिष्णुच् इत्यस्य कृत्प्रत्ययस्य आदिस्थः खकारः इत्संज्ञकः अस्ति ।\n5) ग्स्नु इत्यस्य कृत्प्रत्ययस्य आदिस्थः गकारः इत्संज्ञकः अस्ति ।\n6) घिनुण् इत्यस्य कृत्प्रत्ययस्य आदिस्थः घकारः इत्संज्ञकः अस्ति ।\n7) ङि इत्यस्य सुप्प्रत्ययस्य आदिस्थः ङकारः इत्संज्ञकः अस्ति ।\n\nइत्संज्ञकवर्णस्य लोपः\nप्रक्रियायाः प्रारम्भे इत्संज्ञकवर्णस्य <<तस्य लोपः>> [[1.3.9]] इत्यनेन नित्यम् लोपः भवति ।\nतद्धितभिन्नप्रत्ययस्य आदौ विद्यमानानाम् लकार-शकार-कवर्गीयवर्णानां इत्संज्ञायाः प्रयोजनम्\nअष्टाध्याय्याम् उपदेशेषु इत्संज्ञकवर्णानां संयोजनस्य अनेकानि प्रयोजनानि सन्ति । प्रक्रियायां जायमानानि बहूनि कार्याणि इत्संज्ञकवर्णान् आश्रित्य एव प्रवर्तन्ते । The इत्-letters are like markers that decide whether a certain action will or will not happen in the prakriya. तद्धितभिन्नप्रत्ययानाम् आदौ विद्यमानस्य लकारस्य, शकारस्य, कवर्गीयवर्णस्य अपि भिन्नानि प्रयोजनानि सन्ति । यथा, यस्मिन् प्रत्यये घकारः इत्संज्ञकः अस्ति, तस्मिन् प्रत्यये परे अङ्गस्य अन्तिम-चकारस्य कुत्वं प्रवर्तते । यथा, 'पच्' धातोः घञ्-प्रत्यये कृते प्रत्ययस्य घित्त्वात् <<चजोः कु घिण्ण्यतोः>> [[7.3.52]] इति चकारस्य कुत्वं भवति । सम्पूर्णा प्रक्रिया इयम् —\n\nपचनम् इत्येव\n= पच् + घञ् [<<भावे>> [[3.3.18]] इत्यनेन भावे घञ्-प्रत्ययः]\n→ पच् + अ ['घञ्'प्रत्यये विद्यमानस्य घकारस्य <<लशक्वतद्धिते>> [[1.3.8]] इति इत्संज्ञा । ञकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा । द्वयोः अपि <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ पाच् + अ [ञित्-प्रत्यये परे <<अत उपधायाः>> [[7.2.116]] इति उपधावृद्धिः]\n→ पाक् + अ [घित्-प्रत्यये परे <<चजोः कु घिण्ण्यतोः>> [[7.3.52]] इति चकारस्य कुत्वम् ककारः]\n→ पाक\n\nसूत्रे 'अतद्धिते' इति ग्रहणस्य प्रयोजनम्\nकेषाञ्चन तद्धितप्रत्ययानाम् अपि आदौ लकारः/शकारः/कवर्गीयवर्णः वा दृश्यते । यथा - लच्', 'क', 'ख', 'ग्मिनि', 'घन्', 'शस्' - इत्यादिषु । एतेषु सर्वेषु विद्यमानानाम् आदिस्थ-लकार-शकार-कवर्गीयवर्णानाम् प्रक्रियायाम् इत्संज्ञा नैव इष्यते । यथा, 'चूडा' शब्दात् <<प्राणिस्थादातो लजन्यतरस्याम्>> [[5.2.96]] इति सूत्रेण 'लच्' इति तद्धितप्रत्ययं कृत्वा 'चूडाल' इति शब्दः सिद्ध्यति । अत्र यदि 'लच्'प्रत्ययस्य आदिस्थस्य लकारस्य इत्संज्ञा अभविष्यत्, तर्हि <<तस्य लोपः>> [[1.3.9]] इत्यनेन लकारस्य लोपे कृते इष्टरूपं नैव अजनिष्यत । एतादृशं मा भूत्, अतएव तद्धितसंज्ञकप्रत्ययानाम् आदौ विद्यमानस्य लकार-शकार-कवर्गीयवर्णस्य इत्संज्ञायाः निषेधः इष्यते । तदर्थमेव अस्मिन् सूत्रे 'अतद्धिते' इति निर्देशः कृतः वर्तते । " }, "13009": { "sa": "इत्संज्ञकवर्णस्य लोपः भवति ।", "sd": "व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'इत्' इति संज्ञा । इयम् संज्ञा <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इत्यस्मात् <<लशक्वतद्धिते>> [[1.3.8]] इत्येतेषु सूत्रेुषु पाठिता अस्ति । एतेषाम् सूत्राणाम् सङ्कलनम् 'इत्संज्ञाप्रकरणम्' नाम्ना ज्ञायते । एतैः सर्वैः सूत्रैः जायमानानाम् इत्संज्ञकवर्णानाम् <<तस्य लोपः>> [[1.3.9]] इति प्रकृतसूत्रेण लोपः विधीयते । लोपे कृते यः अंशः अवशिष्यते, तस्यैव अग्रे प्रक्रियायाम् प्रयोगः भवति ।\nकानिचन उदाहरणानि एतानि -\n1) 'डुपचँष्' इत्यस्मिन् धातौ 'डु' इत्यस्य <<आदिर्ञिटुडवः>> [[1.3.5]] इत्यनेन ; ठकारोत्तरस्य अकारस्य <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इत्यनेन, तथा च 'ष्' इत्यस्य <<हलन्त्यम्>> [[1.3.3]] इत्यनेन इत्संज्ञा भवति । एतेषां सर्वेषाम् प्रक्रियायाः प्रारम्भे एव <<तस्य लोपः>> [[1.3.9]] इत्यनेन लोपः जायते । लोपे कृते 'पच्' इति यद् अवशिष्यते, तस्यैव अग्रे प्रक्रियायाम् प्रयोगः भवति । यथा, 'पच्' धातोः अनीयर्-प्रत्ययान्तरूपस्य प्रक्रिया इयम् —\n\nडुपचष् (पाके, भ्वादिः)\n→ पच् [ 'डु' इत्यस्य <<आदिर्ञिटुडवः>> [[1.3.5]] इत्यनेन ; चकारोत्तरस्य अकारस्य <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इत्यनेन, तथा च 'ष्' इत्यस्य <<हलन्त्यम्>> [[1.3.3]] इत्यनेन इत्संज्ञा । एतेषां सर्वेषाम् <<तस्य लोपः>> [[1.3.9]] इत्यनेन लोपः भवति ।]\n→ पच् + अनीयर् [<<तव्यत्तव्यानीयरः>> [[3.1.96]] इति अनीयर्-प्रत्ययः]\n→ पच् + अनीय [अनीयर्-प्रत्यये विद्यमानस्य रेफस्यापि <<हलन्त्यम्>> [[1.3.3]] इत्यनेन इत्संज्ञा, तथा च <<तस्य लोपः>> [[1.3.9]] इत्यनेन लोपः भवति । ]\n→ पचनीय\n\n2) 'षाकन्'-इति कृत्संज्ञकप्रत्ययस्य आदौ षकारस्य <<षः प्रत्ययस्य>> [[1.3.6]] इत्यनेन तथा च अन्तिनकारस्य <<हलन्त्यम्>> [[1.3.2]] इत्यनेन इत्संज्ञा भवति, अतः द्वयोः अपि <<तस्य लोपः>> [[1.3.9]] इत्यनेन लोपे कृते 'आक' इति दृश्यरूपम् अग्रे प्रक्रियायां भागं गृह्णाति । यथा —\n\nजल्पति इति शीलमस्य (कृद्वृत्तिः)\n→ जल्पँ (व्यक्तायां वाचि)\n→ जल्प् [पकारोत्तरस्य अकारस्य <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इति इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ जल्प् + षाकन् [<<जल्पभिक्षकुट्टलुण्टवृङः षाकन्>> [[3.2.155]] इति सूत्रेण जल्प्-धातोः ताच्छीलिकः षाकन्-प्रत्ययः]\n→ जल्प् + आक [षकारस्य <<षः प्रत्ययस्य>> [[1.3.6]] इति इत्संज्ञा । नकारस्य <<हलन्त्यम्>> [[1.3.2]] इति इत्संज्ञा । द्वयोः अपि <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ जल्पाक\n\n3) 'ण' इति तद्धितप्रत्ययस्य आदौ विद्यमानस्य णकारस्य <<चुटू>> [[1.3.7]] इत्यनेन इत्संज्ञा भवति, ततः च <<तस्य लोपः>> [[1.3.9]] इत्यनेन लोपः विधीयते । णकारस्य लोपे कृते अवशिष्टः 'अ' इति अंशः एव प्रक्रियायाम् अग्रे प्रयुज्यते । यथा, 'छत्रम् अस्य शीलम्' इत्यस्मिन् अर्थे 'छत्र' शब्दात् <<छत्रादिभ्यो णः>> [[4.4.62]] इत्यनेन ण-प्रत्यये कृते इयम् प्रक्रिया भवति‌ —\n\nछत्रम् शीलम् अस्य इति \n= छत्र + ण [ <<छत्रादिभ्यो णः>> [[4.4.62]] इत्यनेन प्रथमासमर्थात् 'छत्रम्' इति शब्दात् ण-प्रत्ययः भवति । अग्रे तद्धितान्तस्य <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इत्यनेन प्रातिपदिकसंज्ञायां कृतायाम्, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इत्यनेन छत्र-शब्दात् विहितस्य सुँ-प्रत्ययस्य लोपः भवति ]\n→ छत्र + अ [ण-प्रत्ययस्य आदौ विद्यमानस्य णकारस्य <<चुटू>> [[1.3.7]] इत्यनेन इत्संज्ञा भवति । <<तस्य लोपः>> [[1.3.9]] इत्यनेन अयम् इत्संज्ञकवर्णः लुप्यते ।]\n→ छात्र + अ [णित्-प्रत्यये परे <<तद्धितेष्वचामादेः>> [[7.2.117]] इति अङ्गस्य आदिवृद्धिः]\n→ छात्र् + अ [रेफोत्तरस्य अकारस्य <<यस्येति च>> [[6.4.148]] इति लोपः]\n→ छात्र \n\n4) 'घञ्' इति कृत्प्रत्ययस्य आदौ विद्यमानस्य घकारस्य <<लशक्वतद्धिते>> [[1.3.8]] इत्यनेन, तथा च अन्ते विद्यमानस्य ञकारस्य <<हलन्त्यम्>> [[1.3.3]] इत्यनेन इत्संज्ञा भवति । द्वयोः अपि <<तस्य लोपः>> [[1.3.9]] इत्यनेन लोपः विधीयते । लोपे कृते अवशिष्टम् 'अ' इति दृश्यरूपम् एव अग्रे प्रक्रियायाम् प्रयुज्यते । यथा, 'पच्'धातोः घञ्-प्रत्यये परे 'पाक' इति रूपम् एतादृशं सिद्ध्यति —\n\nपचनम् इत्येव\n= पच् + घञ् [<<भावे>> [[3.3.18]] इत्यनेन भावे घञ्-प्रत्ययः]\n→ पच् + अ ['घञ्'प्रत्यये विद्यमानस्य घकारस्य <<लशक्वतद्धिते>> [[1.3.8]] इति इत्संज्ञा । ञकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा । द्वयोः अपि <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ पाच् + अ [ञित्-प्रत्यये परे <<अत उपधायाः>> [[7.2.116]] इति उपधावृद्धिः]\n→ पाक् + अ [घित्-प्रत्यये परे <<चजोः कु घिण्ण्यतोः>> [[7.3.52]] इति चकारस्य कुत्वम् ककारः]\n→ पाक\n\n5) 'दृशिँर्' इत्यस्य 'इँर्' इति समुदायस्य अनेन वार्त्तिकेन इत्संज्ञा भवति । अग्रे अस्य इत्संज्ञकसमुदायस्य <<तस्य लोपः>> [[1.3.9]] इत्यनेन लोपः अपि भवति । 'दृश्' इति अवशिष्टः अंशः अग्रे प्रक्रियायाम् भागं स्वीकरोति । यथा, दृश्-धातोः अनीयर्-प्रत्यये परे 'दर्शनीय' इति रूपम् एतादृशं सिद्ध्यति —\n\nदृशिँर् (प्रेक्षणे, भ्वादिः)\n→ दृश् [दृशिँर्-धातौ विद्यमानस्य 'इँर्' इति अंशस्य अनेन वार्त्तिकेन इत्संज्ञा भवति । <<तस्य लोपः>> [[1.3.9]] इत्यनेन अग्रे तस्य लोपः जायते ]\n→ दृश् + अनीयर् [<<तव्यत्तव्यानीयरः>> [[3.1.96]] इति अनीयर्-प्रत्ययः]\n→ दृश् + अनीय [अनीयर्-प्रत्यये विद्यमानस्य रेफस्यापि <<हलन्त्यम्>> [[1.3.3]] इत्यनेन इत्संज्ञा, तथा च <<तस्य लोपः>> [[1.3.9]] इत्यनेन लोपः भवति । ]\n→ दर्श् + अनीय [<<पुगन्तलघूपधस्य च>> [[7.3.86]] इति उपधागुणः । <<उरण् रपरः>> [[1.1.51]] इति सः रपरः]\n→ दर्शनीय\n\nसूत्रे 'तस्य' इति ग्रहणस्य प्रयोजनम्\n<<तस्य लोपः>> [[1.3.9]] इति सूत्रे 'तस्य' इति शब्दः प्रयुक्तः अस्ति । अस्य प्रयोजनम् अस्ति — सम्पूर्णस्य इत्संज्ञासमुदायस्य लोपविधानम् । यदि अत्र केवलम् 'लोपः' इत्येव सूत्रम् क्रियते, तर्हि <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यनेन इत्संज्ञकसमुदायस्य (इत्युक्ते, ञि/टु/डु/इँर्-इत्येतेषाम्) केवलम् अन्तिमवर्णस्यैव लोपः सम्भवेत्, न हि सम्पूर्णस्य समुदायस्य । तादृशम् मा भूत्, अतः अस्मिन् सूत्रे 'तस्य' इति शब्दस्य ग्रहणं कृतं दृश्यते । \nवस्तुतस्तु, अत्र कश्चन अन्यः अपि शास्त्रविषयः अस्ति । <<अलोऽन्त्यस्य>> [[1.1.52]] इति सूत्रस्य भाष्ये भाष्यकारैः <ऽनानर्थकेऽलोन्त्यविधिरनभ्यासविकारेऽ> (परिभाषा 105) इति काचित् परिभाषा पाठिता दृश्यते । अनया परिभाषया — अनर्थकस्य समुदायस्य स्थाने उक्तः आदेशः सर्वस्यैव समुदायस्य स्थाने भवति, न केवलं तस्य अन्तिमवर्णस्य स्थाने — इति कश्चन सिद्धान्तः दीयते । अस्य सिद्धान्तस्य पक्षे अस्मिन् सूत्रे 'तस्य' ग्रहणम् विना अपि 'ञि', 'टु', 'डु', 'इँर्' इत्यत्र सर्वत्र सम्पूर्णस्यैव समुदायस्य लोपः सम्भवति, यतः एते सर्वे अनर्थवर्णसमुदायाः सन्ति । अतः अस्य सिद्धान्तस्य पक्षे प्रकृतसूत्रे 'तस्य' इति ग्रहणम् अपि अनावश्यकम् एव वर्तते ।" }, "13010": { "sa": "यत्र द्वयोः गणयोः मध्ये कस्यचन सम्बन्धस्य विधानम् क्रियते तत्र तयोः सङ्ख्या समाना अस्ति चेत् सः सम्बन्धः तयोः सदस्येषु यथासङ्ख्यम् विधीयते । ", "sd": "यदि सूत्रे द्वयोः समसङ्ख्यकयोः गणयोः निर्देशं कृत्वा तयोः मध्ये कश्चन सम्बन्धः प्रस्थापितः दृश्यते, तर्हि सः सम्बन्धः तयोः सदस्येषु क्रमेण भवति । इत्युक्ते, प्रथमगणस्य यः प्रथमसदस्यः, तस्य द्वितीयगणस्य प्रथमसदस्येन सह सम्बन्धः भवति; एवमेव प्रथमगणस्य द्वितीयसदस्यस्य द्वितीयगणस्य द्वितीयसदस्येन सह भवति; इत्यादिक्रमेण प्रथमगणस्य अन्तिमसदस्यस्य द्वितीयगणस्य अपि अन्तिमसदस्येन सह एव सम्बन्धः भवति — इत्थं सः सम्बन्धः सदस्यानां क्रमम् अनुसृत्य विधीयते — इति अस्य सूत्रस्य अर्थः । अस्मिन् सूत्रे अनुद्देशः इति शब्देन सम्बन्धः इति अर्थः विधीयते । द्वयोः गणयोः मध्ये विद्यमानः सम्बन्धः तयोः सदस्येषु यथासङ्ख्यम् (respectively) भवति इति अत्र आशयः । कानिचन उदाहरणानि एतादृशानि —\n\n1. <<एचोऽयवायावः>> [[6.1.78]] इति सूतेण एच्-वर्णानाम् अच्-वर्णे परे अय-अव-आय-आव-आदेशः विधीयन्ते । अत्र एच् इत्यमिन् गणे ए, ओ, ऐ, औ — एते चत्वारः वर्णाः सन्ति । अय-अव-आय-आव इत्यत्रापि चत्वारः सदस्याः सन्ति । अतः एतयोः मध्ये विहितः अनुदेशः (सम्बन्धः) प्रकृतसूत्रेण यथासङ्ख्यम् भवति । इत्युक्ते, ए-वर्णस्य स्थाने अय्-आदेशः, ओ-वर्णस्य स्थाने अव्-आदेशः, ऐ-वर्णस्य स्थाने आय्-आदेशः, औ-वर्णस्य स्थाने आव्-आदेशः इति क्रमेण आदेशविधानं भवति । अस्मिन्नेव सूत्रे अच् इति अन्यः गणः अपि अनुवृत्तिरूपेण स्वीकृतः अस्ति, परन्तु तस्मिन् गणे अधिकाः वर्णाः विद्यन्ते अतः तस्य विषये यथासङ्ख्यत्वम् न विधीयते । इत्युक्ते, सर्वेषु अपि अच्-वर्णेषु ए-वर्णस्य अय्-आदेशः भवति इति अत्र आशयः ।\n2. <<नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः>> [[3.1.134]] अनेन सूत्रेण नन्द्यादिगण-ग्रह्यादिगण-पचादिगणस्य शब्देभ्यः ल्यु-णिनि-अच् एते प्रत्ययाः विधीयन्ते । अत्र अपि अनुदेशः (प्रत्ययविधानम्) यथासङ्ख्यं भवति, अतः अत्र नन्द्यादिगणस्य शब्देभ्यः ल्यु-प्रत्ययः विधीयते, ग्रह्यादिगणस्य शब्देभ्यः णिनि-प्रत्ययः विधीयते, तथा च पचादिगणस्य शब्देभ्यः अच्-प्रत्ययः विधीयते ।\n3. <<आद्यन्तौ टकितौ>> [[1.1.46]] अनेन सूत्रेण टित्-कितौ आगमौ आगमिनः आदि-अन्तौ भवतः इति उच्यते । अत्र अपि इदं विधानं यथासङ्ख्यं भवति । इत्युक्ते, टित्-आगमः आगमिनः आदौ विधीयते, कित्-आगमः आगमिनः अनन्तरम् विधीयते ।\n\nयत्र द्वयोः गणयोः शब्दानां सङ्ख्या समाना नास्ति, तत्र अस्य सूत्रस्य प्रयोगः न भवति । यथा - <<झलां जशोऽन्ते>> [[8.2.39]] इत्यनेन झल्-वर्णानाम् स्थाने जश्-वर्णाः आदेशरूपेण आगच्छन्ति । अत्र झल्-प्रत्याहारे 24 वर्णाः विद्यन्ते, जश्-प्रत्याहारे च केवलं 5 वर्णाः एव समाविष्टाः सन्ति । अतः अत्र अस्य सूत्रस्य प्रसक्तिः नास्ति । अतश्च अस्मिन् स्थले <<स्थानेऽन्तरतमः>> [[1.1.50]] इत्येतं सूत्रम् उपयुज्य आन्तरतम्यस्य निर्णयः क्रियते ।\n" }, "13011": { "sa": "अस्मिन् सूत्रपाठे अनुवृत्तेः निर्देशः स्वरितस्वरेण कृतः अस्ति । ", "sd": "अष्टाध्याय्याः उच्चारणे येषां शब्दानां स्वरित-स्वरेण उच्चारणं क्रियते, ते शब्दाः अग्रिमसूत्रेषु अनुवृत्तिरूपेण स्वीकर्तुं शक्यन्ते — इति अस्य सूत्रस्य अर्थः ।\nसूत्रसम्बन्धिनः केचन बिन्दवः \n1. प्रकृतसूत्रे उपयुक्तः अधिकारः इति शब्दः अधिकारसूत्रम् अस्मिन् अर्थे प्रयुक्तः नास्ति, अपि तु उत्तरसूत्रेषु उपस्थापनम् (a governing word that can be carried in the further sutras) इत्यस्मिन् अर्थे प्रयुक्तः अस्ति । अधिकारसूत्रेषु विद्यमानाः शब्दाः अपि एतादृशम् अग्रिमसूत्रेषु अवश्यं स्वीक्रियन्ते, अतः तेषाम् निर्देशः अपि स्वरितस्वरेण अवश्यम् कृतः स्यात् । परन्तु ये शब्दाः अधिकारसूत्रस्थाः न सन्ति, तेषाम् विषये अपि अनुवृत्तेः निर्देशः स्वरितस्वरस्य साहाय्येन एव कृतः वर्तते — इति अस्य सूत्रस्य आशयः ।\n2. सूत्राणाम् उच्चारणे प्रयुक्तानाम् उदात्त-अनुदात्त-स्वरित-स्वराणाम् ज्ञानम् अद्यतनकाले सम्पूर्णरूपेण लुप्तम् अस्ति । अतः प्रकृतसूत्रस्य उदाहरणरूपेण कोऽपि शब्दः स्पष्टरूपेण दातुं नैव शक्यते । अद्यतनकाले अनुवृत्तेः ज्ञानम् व्याख्यानाद् एव सम्भवति । इत्युक्ते, <<अङ्गस्य>>, <<धातोः>>, <<ङ्याप्प्रातिपदिकात्>> इत्येते ये शब्दाः अग्रिमसूत्रेषु अनुवर्तन्ते, तेषाम् पाणिनिना कृते उच्चारणे स्वरितः स्वरः अवश्यं स्यात् — इत्येव प्रतिपादनम् इदानीम् शक्यम् ।\n3. 'अनुवृत्तेः समापनम् कुत्र भवति' अस्मिन् विषये केचन बिन्दवः प्रकृतसूत्रस्य भाष्ये उक्ताः सन्ति, परन्तु सामान्यरूपेण अस्य ज्ञानम् अपि व्याख्यानादेव सम्भवति, इति तत्र निष्कर्षः । अस्मिन् सन्दर्भे अधिकं पिपठिषवः प्रकृतसूत्रस्य भाष्यम् एव पश्येयुः ।\n" }, "13012": { "sa": "यस्मिन् धातौ (1) ङकारः , उत (2) अनुदात्तः स्वरः - इत्संज्ञकः अस्ति, तस्मात् आत्मनेपदस्य प्रत्ययाः भवन्ति । ", "sd": "<<तङानावात्मनेपदम्>> [[1.4.100]] इत्यनेन त-आताम्-झ-थास्-आथाम्-ध्वम्-इड्-वहि-महिङ्-एतेषाम् तथा शानच्-कानच्-एतयोः 'आत्मनेपदम्' संज्ञा भवति ।\nयस्मिन् धातौ (अ) अनुदात्तस्वरः इत्संज्ञकः अस्ति, अथवा (आ) ङकारः इत्संज्ञकः अस्ति, तस्मात् धातोः परः आत्मनेपदस्य प्रत्ययाः भवन्ति । यथा -\n1) 'एधँ वृद्धौ' अस्मिन् धातौ धकारोत्तरः अकारः अनुदात्तः अस्ति, <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इत्यनेन च इत्संज्ञकः अपि अस्ति । अतः अस्मात् परः आत्मनेपदस्य प्रत्ययाः विधीयन्ते । यथा - एधते, एधेते, एधन्ते ।\n2) 'शीङ्' अस्मिन् धातौ ङकारः <<हलन्त्यम्>> [[1.3.3]] इत्यनेन इत्संज्ञकः अस्ति, अतः अस्मातः परः अपि आत्मनेपदस्य प्रत्ययाः विधीयन्ते । यथा - शेते, शयाते, शेरते ।\nएतादृशाः धातवः, येभ्यः परः आत्मनेपदस्य प्रत्ययाः विधीयन्ते, ते 'आत्मनेपदिनः धातवः' इति नाम्ना ज्ञायन्ते ।\n" }, "13013": { "sa": "भावे प्रयोगे, कर्मणि प्रयोगे च धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।", "sd": "<<लः कर्मणि च भावे चाकर्मकेभ्यः>> [[3.4.69]] इत्यनेन लकाराः कर्तरि, कर्मणि तथा भावे कारकेषु भवन्ति । एतेषु कर्मणि-भावे-कारकयोः अनेन सूत्रेण लकारस्य स्थाने आत्मनेपदस्य प्रत्ययाः विधीयन्ते ।\nयथा -\n1) कर्मणि - रामेण विद्यालयः गम्यमानः अस्ति । अत्र गम्-धातोः आत्मनेपदस्य 'मान' प्रत्ययः भवति ।\n2) भावे - वृक्षेण पत्यते । अत्र पत्-धातोः आत्मनेपदस्य 'ते' प्रत्ययः भवति ।\nज्ञातव्यम् -\n1) लकारः यदा कर्तारमनुसरति, तदा सः 'कर्तरि' अस्तीति उच्यते । लकारः यदा कर्म अनुसरति तदा सः 'कर्मणि' अस्तीति उच्यते । लकारः यदा भावं निदर्शयति तदा सः 'भावे' अस्तीति उच्यते ।\n2) <<तङानावात्मनेपदम्>> [[1.4.100]] इत्यनेन त-आताम्-झ-थास्-आथाम्-ध्वम्-इड्-वहि-महिङ्-एतेषाम् तथा शानच्-कानच्-एतयोः 'आत्मनेपदम्' संज्ञा भवति ।\n" }, "13014": { "sa": "क्रियायाः व्यतिहारे कर्तरि प्रयोगे अपि धातोः आत्मनेपदस्य प्रत्ययाः विधीयन्ते । ", "sd": "किं नाम व्यतिहारः? अस्य शब्दस्य अर्थद्वयम् विद्यते -\n[1] एकस्य कार्यम् यदा कश्चन अन्यः करोति, तदा तस्य 'व्यतिहार' इति संज्ञा भवति । When the duty of one person is carried out by another, we refer to it as व्यतिहार.\n[2] द्वौ मनुष्यौ परस्परयोः समानम् व्यवहारम् यदा कुरुतः, तदा अपि तस्य 'व्यतिहार' इति संज्ञा भवति । When two people do the same action against each other, that is also referred as व्यतिहार.\nउभयप्रकारयोः व्यतिहारं दर्शयितुम् वर्तमानसूत्रेण कर्तरि प्रयोगे अपि आत्मनेपदस्यैव प्रयोगः भवति । यथा -\n[अ] वृक्षच्छेदनकार्यम् वस्तुतः शूद्रस्य अस्ति, परन्तु यदि ब्राह्मणः तत् कार्यं करोति, तर्हि अयम् 'व्यतिहारः' अस्तीति उच्यते, तदर्थम् च आत्मनेपदम् प्रयुज्यते । यथा - ब्राह्मणः वृक्षं व्यतिलुनीते ।\n[आ] द्वौ राजानौ परस्परयोः प्रहारं कुरुतः चेत् अत्रापि व्यतिहारः दृश्यते, अतः अत्रापि क्रियां द्योतयितुमात्मनेपदं प्रयुज्यते । यथा - राजानौ सम्प्रहरेते । राजानः सम्प्रहरन्ते ।\nज्ञातव्यम् - अस्मिन् सूत्रे 'कर्म' शब्दः कारकार्थे प्रयुक्तः नास्ति, 'क्रिया' अस्मिन् अर्थे प्रयुक्तः अस्ति । कर्मव्यतिहार इत्युक्ते क्रियायाः व्यतिहारः । " }, "13015": { "sa": " (1) गत्यर्थकेभ्यः धातुभ्यः , (2) हिंसार्थकेभ्यः धातुभ्यः - क्रियायाः व्यतिहारे, कर्तरि प्रयोगे आत्मनेपदस्य प्रत्ययाः न भवन्ति । ", "sd": "<<कर्तरि कर्मव्यतिहारे>> [[1.3.14]] इत्यनेन क्रियायाः व्यतिहारे कर्तरि प्रयोगे यद् आत्मनेपदमुक्तमस्ति, तस्य अनेन सूत्रेण गत्यर्थकेभ्यः तथा हिंसार्थकेभ्यः धातुभ्यः प्रतिषेधः भवति । इत्युक्ते, एतेभ्यः धातुभ्यः यद् पदम् सामान्यरूपेण भवति, तदेव पदम् व्यतिहारे अपि प्रयुज्यते ।\nयथा - व्यतिगच्छन्ति (परस्परान् प्रति गच्छन्ति), व्यतिहिंसन्ति (परस्परान् हिंसन्ति), व्यतिघ्नन्ति (परस्परान् घ्नन्ति) आदयः ।\nअस्मिन् विषये द्वे वार्तिके ज्ञातव्ये -\n1) - शब्दर्थकेभ्यः धातुभ्यः (इत्युक्ते, यैः धातुभिः ध्वनिः निर्मीयते. तेभ्यः) अपि कर्मव्यतिहारे आत्मनेपदस्य प्रतिषेधः करणीयः । यथा - व्यतिहसन्ति, व्यतिजल्पन्ति, व्यतिपठन्ति ।\n2) - ह्र-धातोः विषये अयं प्रतिषेधः न भवति । यथा - राजानः सम्प्रहरन्ते । अत्र हिंसायाः अर्थः दृश्यते, तथापि व्यतिहारं दर्शयितुमात्मनेपदमेव प्रयुज्यते ।\n" }, "13016": { "sa": "'इतरेतर' उत 'अन्योन्य' इत्यस्य उपस्थितौ,\nक्रियायाः व्यतिहारे कर्तरि प्रयोगे, धातोः आत्मनेपदस्य प्रत्ययाः न विधीयन्ते ।", "sd": "<<कर्तरि कर्मव्यतिहारे>> [[1.3.14]] इत्यनेन क्रियायाः व्यतिहारे कर्तरि प्रयोगे यद् आत्मनेपदमुक्तमस्ति, तत् 'इतरेतर' तथा 'अन्योन्य' एतयोः पदयोः उपस्थितौ न भवति ।\nयथा - इतरेतरस्य सस्यं व्यतिलूनन्ति (छिन्दन्ति इत्यर्थः) - अत्र यद्यपि व्यतिहारः (=परस्परयोः समानः व्यवहारः) अस्ति, तथापि 'इतरेतर' पदस्य साक्षात् प्रयोगः कृतः अस्ति, अतः <<कर्तरि कर्मव्यतिहारे>> [[1.3.14]] इत्यनेन निर्दिष्टमात्मनेपदम् न भवति ।\nतथैव - अन्योन्यस्य व्यतिलूनन्ति ।\nवार्त्तिकम् - - 'परस्पर' शब्दस्य उपस्थितौ अपि एवमेव भवति इत्यर्थः । यथा - परस्परस्य सस्यं व्यतिलूनन्ति । " }, "13017": { "sa": "'नि' उपसर्गात् 'विश्' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति । ", "sd": "यद्यपि विश् (प्रवेशने) अयं परस्मैपदी धातुः, तथापि नि-उपसर्गपूर्वकः विश्-धातुः आत्मनेपदस्य प्रत्ययान् प्राप्नोति । यथा - निविशते (इत्युक्ते, अन्तर्गच्छति / अदृश्यः भवति, आदयः) ।\nज्ञातव्यम् - लङ् / लृङ् / लुङ्-लकारेषु यद्यपि 'नि + विश्' एतयोः मध्ये अडागमस्य व्यवधानं दृश्यते, तथापि <ऽ यदागमाः तद्गुणीभूताः तद्ग्रहणेन गृह्यन्ते ऽ> अनया परिभाषया सः अडागमः धात्ववयवः एव मन्यते, अतः तत्रापि आत्मनेपदमेव भवति । यथा - न्यविशत ।\n" }, "13018": { "sa": "'परि' / 'वि' / 'अव' उपसर्गेभ्यः 'क्री' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।", "sd": "वस्तुतः क्री (द्रव्यविनिमये) अयं उभयपदी धातुः अस्ति, परन्तु परि / वि / अव - एभ्यः उपसर्गेभ्यः परः क्री-धातुः (कर्तरि क्रियायाः फलम् न भवति चेत् अपि) आत्मनेपदस्य प्रत्ययान् एव प्राप्नोति ।\nयथा - परिक्रीणीते (प्राप्नोति / लभते ) , विक्रीणीते (धनं स्वीकृत्य वस्तु ददाति), अवक्रीणीते (उत्कोचं ददाति / भ्रष्टाचारेण धनं ददाति) ।" }, "13019": { "sa": "'वि' / 'परा' उपसर्गाभ्याम् 'जि' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।", "sd": "यद्यपि जि (जये) धातुः परस्मैपदी अस्ति, तथापि वि-उपसर्गपूर्वकः परा-उपसर्गपूर्वकः जि-धातुः आत्मनेपदस्य प्रत्ययान् प्राप्नोति । यथा - विजयते (उत्कृष्टः भवति / विजयं प्राप्नोति), पराजयते (निकृष्टः भवति / पराजयं प्राप्नोति ) ।\nज्ञातव्यम् - 'सत्यमेव जयते' इत्यत्र 'जयते' अयं आर्षः प्रयोगः ज्ञातव्यः । 'सत्यमेव जयते नानृतम् सत्येन पन्थाः विततो देवयानः' इति मुण्डकोपनिषदि अयं प्रयोगः दृश्यते । सामान्यभाषायां तु 'सत्यमेव जयति' इत्येव वक्तव्यम् ।\n" }, "13020": { "sa": "'मुखस्य उद्घाटनम्' एतमर्थम् वर्जयित्वा अन्येषु अर्थेषु 'आङ्' उपसर्गात् 'दा' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति । ", "sd": "वस्तुतः डुदाञ् (दाने) अयमुभयपदी धातुः अस्ति । परन्तु आङ्-उपसर्गपूर्वकः दा-धातुः आत्मनेपदी भवति । यथा - छात्रः विद्यामादत्ते (गृह्णाति इत्यर्थः) ।\nपरन्तु 'मुखस्य उद्घाटनम् / विकसनम्' अस्मिन् अर्थे अयं धातुः परस्मैपदमेव स्वीकरोति । यथा - सः मुखम् व्याददाति (उद्घाटयति इत्यर्थः) ।\nअस्मिन् विषये वार्तिकद्वयं ज्ञातव्यम् -\n1. - या क्रिया 'विकसनक्रिया' / 'उद्घाटनक्रिया' अस्ति, सा यद्यपि 'मुखस्य' विषये नास्ति, तथापि केवलं परस्मैपदिनः प्रत्ययाः एव प्रयोक्तव्याः । यथा - नदी तटं व्याददाति (तटस्य विच्छेदं कृत्वा विकसति इत्यर्थः) । अत्र विकसनक्रिया नद्याः स्वयं अस्ति, तटस्य न इति ज्ञातव्यम् ।\n2. - यत्र विकसनक्रियायाः कर्तुः विकसनम् न भवति, कस्यचित् अन्यस्यैव भवति, तत्र अयं प्रतिषेधः न भवति - इत्युक्ते, तत्र 'आङ् + दा' इत्यस्य आत्मनेपदमेव करणीयम् । यथा - पिपीलिकाः पतङ्गस्य मुखम् व्याददते (उद्घाटयन्ति इत्यर्थः) ।\n" }, "13021": { "sa": "'आङ्' / 'अनु' / 'सम्' / 'परि' उपसर्गात् 'क्रीङ्' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति । ", "sd": "वस्तुतः क्रीड् (विहारे) अयं धातुः परस्मैपदी अस्ति, परन्तु आङ् / अनु / सम् / परि - एतेभ्यः उपसर्गेभ्यः परस्य क्रीड्-धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति । यथा - आक्रीडते, अनुक्रीडते, संक्रीडते, परिक्रीडते । (एतेषां सर्वेषामर्थः 'क्रीडति' इत्येव ।)\nज्ञातव्यम् - यत्र 'अनु' शब्दस्य <<तृतीयार्थे>> [[1.4.85]] इत्यनेन कर्मप्रवचनीयसंज्ञा भवति, तत्र तु परस्मैपदमेव भवति, यतः तत्र 'अनु' अयमुपसर्गः नास्ति । यथा - माणवकमनु क्रीडति । (माणवकेन सह क्रीडति इत्यर्थः) ।\nसूत्रेऽस्मिन् केचन वार्त्तिकाः पाठिताः सन्ति -\n1. - 'सम् + क्रीड्' अयं धातुः 'शब्दं करोति' अस्मिन् अर्थे परस्मैपदी एव ज्ञातव्यः । यथा - शकटम् सङ्क्रीडति (उच्चैः शब्दं करोति इत्यर्थः) ।\n2. - 'आ + गम् + णिच्' अयं धातुः यदा 'कालस्य व्ययः / प्रतीक्षा' अस्मिन् अर्थे प्रयुज्यते तदा तस्य आत्मनेपदी प्रत्ययाः भवन्ति । यथा - आगमयस्व तावत् ('तावत् प्रतीक्षां कुरु' इत्यर्थः) । (ज्ञातव्यम् - यद्यपि वार्तिके केवल् 'आ + गम्' इत्येव उच्यते, तथापि 'आ + गम् + णिच्' इत्यस्य विषये एव वार्तिकमिदम् प्रयोक्तव्यम् इति भाष्ये उक्तमस्ति ।)\n3. - 'शक् + सन्' अस्मात् धातोः 'जिज्ञासा' अस्मिन् अर्थे आत्मनेपदस्य प्रत्ययाः भवन्ति । यथा - विद्यासु शिक्षते ('विद्याप्राप्तेः जिज्ञासाम् कर्तुम् शक्नोति' इत्यर्थः) । अस्मिन् वार्तिके 'शिक्ष्' इति शक्-धातोः सन्नतरूपमस्तीति ज्ञातव्यम् । 'शिक्ष् (विद्योपादाने)' नाम अन्यः धातुः अपि अस्ति, परन्तु सः मूलरूपेण एव आत्मनेपदी अस्ति, अतः तस्य विषये वार्तिकमिदम् न आवश्यकम् ।\n4. - नाथ् (याञ्चा-उपताप-ऐश्वर्य-आशीःषु) अयं धातुः यद्यपि धातुपाठे आत्मनेपदी प्रोक्तः अस्ति, तथापि केवलं 'आशीः' (= अप्राप्तस्य इच्छा) अस्मिन् अर्थे एव अयमात्मनेपदी भवति, अन्येषु अर्थेषु परस्मैपदी एव ज्ञातव्यः । यथा - घृतं नाथते ('घृतस्य प्राप्तेः इच्छां करोति' इत्यर्थः), माणवकमनुनाथति (माणवकम् याञ्चते इत्यर्थः) ।\nविशेषः - भारवेः 'किरातार्जुनीयम्' नाम्नि महाकाव्ये 'नाथसे किमु पतिं न भूभृताम्' इदम् वाक्यम् दृश्यते । अत्र 'नाथ्' धातुः 'याञ्चा' अस्मिन् अर्थे प्रयुक्तः अस्ति । तथाप्यत्र आत्मनेपदस्य प्रयोगः कृतः अस्ति । एषः प्रयोगः प्रामादिकः अस्तीति मत्वा तस्य स्थाने 'नाधसे' इति प्रयोगः करणीयः इति सिद्धान्तकौमुद्यां दीक्षितः वदति । 'नाध्' धातुः अपि 'नाथ्' इत्यस्य अर्थे एव प्रयुज्यते, परन्तु सः नित्यमात्मनेपदी अस्ति, अतः 'नाधसे' इत्यनेन अर्थभेदः अपि न जायते, व्याकरणप्रमादोऽपि अपसरति ।\n5. - 'हृ' धातोः गतताच्छिल्यम् (इत्युक्ते, 'अनुकरणम्') अस्मिन् अर्थे आत्मनेपदस्य प्रत्ययाः भवन्ति । यथा - गावः मातरम् अनुहरन्ते ('यथा माता करोति तथैव अनुकरणम् कुर्वन्ति' इत्यर्थः) । अन्यस्मिन् अर्थे तु परस्मैपदस्यैव प्रत्ययाः भवन्ति - गावः मातुः अनुहरन्ति ('मातावत् एव भासन्ते' इत्यर्थः ) ।\n6. - कॄ (विक्षेपे) अस्मात् धातोः 'हर्ष' (इत्युक्ते मोदः), 'जीविका' (इत्युक्ते भक्षणम्), तथा 'कुलायकरणम्' (इत्युक्ते आश्रयः) एतेषु अर्थेषु आत्मनेपदम् भवति । यथा -\n - ह्रष्टः वृषः अपस्कीरते ('मुदितः वृषभः पादेन मृत्तिकां अपसर्पयति' इत्यर्थः) ।\n - कुकुट्टः अपस्कीरते ('भोजनार्थम् कुकुट्टः मृत्तिकां अपसर्पयति' इत्यर्थः) ।\n - कुक्कुरः अपस्कीरते ('श्वानः आश्रयार्थम् मृत्तिकां अपसर्पयति' इत्यर्थः)।\n - गजः अपकीरति ('गजः मृत्तिकां अपसर्पयति' इत्यर्थः । अत्र मोद-भोजन-आश्रय-एतेषु किमपि कारणम् नास्ति, अतः अत्र परस्मैपदस्यैव प्रयोगः क्रियते) ।\n7. - आङ्-उपसर्गात् परस्य नु (स्तुतौ) तथा प्रच्छ् (ज्ञीप्सायाम्) एतयोः धात्वोः आत्मनेपदम् भवति । यथा - शृगालः आनुते ('उत्कण्ठापूर्वकं शब्दं करोति' इत्यर्थः) । छात्रः गुरुमापृच्छते ('अनुमतिं पृच्छति' इत्यर्थः) ।\n8. - शप् (आक्रोशे) धातुः वस्तुतः उभयपदी अस्ति, परन्तु 'वाचा शरीरं स्पृशति' अस्मिन् अर्थे अस्मात् धातोः केवलं आत्मनेपदस्य प्रत्ययाः एव भवन्ति । यथा - राधा कृष्णाय शपते । \n" }, "13022": { "sa": "'सम् ' / 'अव' / 'प्र' / 'वि' उपसर्गात् 'स्था' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।\n", "sd": "स्था (गतिनिवृतौ) अयं धातुः वस्तुतः परस्मैपदी अस्ति । परन्तु सम् / अव / प्र / वि - एतेभ्यः परस्य स्था-धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति । यथा - संतिष्ठते ('समाप्तं भवति' इत्यर्थः), अवतिष्ठते ('अस्ति, स्थिरः भवति' इत्यर्थः) , प्रतिष्ठते ('स्थापना भवति / निर्गच्छति' इत्यर्थः) , वितिष्ठते ('स्थिरः भवति' इत्यर्थः) ।\nवार्त्तिकम् - - 'प्रतिज्ञां करोति' अस्मिन् अर्थे 'आङ् + स्था' इत्यस्य आत्मनेपदं भवति । यथा - शब्दं आतिष्ठेऽहम् ('अहम् यम् शब्दमुक्तवान्, तावदेव अनुसरामि - इति प्रतिज्ञां करोमि' इत्यर्थः)।\n" }, "13023": { "sa": "प्रकाशनम् (स्पष्टरूपेण स्वमतप्रदर्शनम्) तथा स्थेयाख्या (विवादे निर्णयप्रदर्शनम्) - एतयोः अर्थयोः प्रयुक्तात् 'स्था' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति । ", "sd": "'प्रकाशनम्' इत्युक्ते 'स्वस्य हेतोः स्पष्टरूपेण कथनम्' । 'स्थेयाख्या' इत्युक्ते 'विवादे निर्णयदानम्' । एतयोः अर्थयोः स्था-धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति । यथा - गोपी कृष्णाय तिष्ठते ('गोपी स्वस्य मनसः हेतुः कृष्णस्य समीपे प्रकटीकरोति' इत्यर्थः), कर्णार्जुनवादः द्रोणे तिष्ठते ('कर्णार्जुनवादे द्रोणः निर्णयं करोति' इत्यर्थः)\n" }, "13024": { "sa": "उत्थानक्रियां वर्जयित्वा अन्यत्र 'उत्' उपसर्गात् 'स्था' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति । ", "sd": "स्था (गतिनिवृत्तयोः) अयं धातुः वस्तुतः परस्मैपदी । परन्तु उद्-उपसर्गात् परः स्था धातुः आत्मनेपदस्य प्रत्ययान् स्वीकरोति । यथा - शिष्यः मुक्तौ उत्तिष्ठते ('मुक्तिं प्राप्तुं प्रयतते' इत्यर्थः) ।\nपरन्तु यदि 'ऊर्ध्वदेशसंयोगानुकूलक्रिया' अस्ति, (इत्युक्ते, यदि क्रियया ऊर्ध्वदिशि स्थितस्य स्थलस्य अधिकं सामीप्यं जायते), तर्हि उद् + स्था इत्यस्य परस्मैपदमेव भवति । यथा - शिष्यः आसनाद् उत्तिष्ठति । अत्र आसनविलगक्रियया आसनात् ऊर्ध्वदिशि यत् क्षेत्रम्, तस्य सामीप्यं जायते, अतः अत्र ऊर्ध्वदेशसंयोगानुकूलक्रिया अस्ति ।\nवार्तिकम् - । 'उद् + स्था' इत्यनेन निर्दिष्टा क्रिया यदि कर्त्रा 'ईहया' क्रियते (इत्युक्ते, 'सक्रियरूपेण क्रियते / श्रमेण स्वेच्छया वा क्रियते'), तर्हि एव आत्मनेपदम् भवति, नो चेत् परस्मैपदमेव भवति ।\nयथा - ग्रामात् शतमुत्तिष्ठति । ('ग्रामात् शतं (व्रीहिः) जायते' इत्यर्थः । यद्यप्यत्र ऊर्ध्वदेशसंयोगानूकुलक्रिया नास्ति, तथाप्यत्र आत्मनेपदस्य प्रयोगः न क्रियते, यतः अत्र व्रीहिनिर्माणकार्यम् व्रीहेः इच्छया श्रमेण वा न भवति । (वाक्येऽस्मिन् 'शतम्' इति कर्ता अस्तीति स्मर्तव्यम्)) ।\nज्ञातव्यम् - अस्मिन् सूत्रे प्रयुक्तः 'कर्म'शब्दः कारकं न दर्शयति, अपितु क्रियां दर्शयति ।\n" }, "13025": { "sa": "'मन्त्रैः निकटगमनम्' अस्मिन् अर्थे 'उप' उपसर्गात् 'स्था' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति । ", "sd": "'मन्त्रकरणम्' इत्युक्ते 'मन्त्रैः वैदिकदेवतायाः स्तुतिकरणम्' । अस्मिन् अर्थे 'उप + स्था' इत्यस्मात् आत्मनेपदस्य प्रत्ययाः भवन्ति । यथा - सः गार्ह्यपत्यमुपतिष्ठते ('मन्त्रेण अग्नेः स्तुतिं करोति' इत्यर्थः) ।\nयत्र वैदिकदेवतायाः स्तुतिः नास्ति तत्र तु परस्मैपदमेव भवति । यथा - पत्नी भर्तारमुपतिष्ठति (भर्तारम् स्तौति इत्यर्थः) ।\nअत्र वार्तिकद्वयं ज्ञातव्यम् -\n1) - उप + स्था इत्यस्य एतेषु अर्थेषु अपि आत्मनेपदम् भवति -\nक) देवपूजा - आदित्यं उपतिष्ठते । 'सूर्यं पूजति' इत्यर्थः ।\nख) सङ्गतिकरणम् (उपश्लेषः / निकटसम्बन्धः / युतिः) - गङ्गा यमुनामुपतिष्ठते । यमुनया सह उपश्लेषं करोति इत्यर्थः ।\nग) मित्रकरणम् - दुर्योधनः कर्णमुपतिष्ठते । 'कर्णेन सह मित्रतामाचरति' इत्यर्थः ।\nघ) पन्थाः (मार्गः) - अयं पन्थाः तक्षशीलामुपतिष्ठते । 'अयं मार्गः तक्षशीलां प्रति गच्छति' इत्यर्थः ।\n2) - लिप्सा ('प्राप्तेः इच्छा') अस्मिन् अर्थे उप + स्था इत्यस्मात् वैकल्पिकमात्मनेपदम् भवति । यथा - भिक्षुकः धनिकमुपतिष्ठते उपतिष्ठति वा । 'धनप्राप्तेः इच्छया धनिकस्य समीपं गच्छति' इत्यर्थः।\nज्ञातव्यम् - <<अकर्मकाच्च>> [[1.3.26]] इत्यनेन अग्रिमसूत्रेण 'उप + स्था' इत्यस्य अकर्मकप्रयोगे आत्मनेपदम् भवति ; सकर्मकप्रयोगे तु परस्मैपदमेव क्रियते । परन्तु 'आदित्यमुपतिष्ठते', 'कर्णमुपतिष्ठते', 'तक्षशीलामुपतिष्ठते', 'धनिकमुपतिष्ठते' - आदिषु वाक्येषु यद्यपि सकर्मकप्रयोगः दृश्यते, तथापि वर्तमानसूत्रे निर्दिष्टयोः वार्त्तिकयोः सामर्थ्यात् एतेषु उदाहरणेषु आत्मनेपदमेव क्रियते । " }, "13026": { "sa": "अकर्मकेषु प्रयोगेषु 'उप' उपसर्गात् 'स्था' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति । ", "sd": "'उप + स्था' अस्य अकर्मकप्रयोगे आत्मनेपदं भवति । यथा - यावद् ओदनम्, तावत् सः उपतिष्ठते ('यावत् अन्नम् लभते, तावत् सः समीपे आगच्छति' इत्यर्थः) ।\nयदि अयं धातुः सकर्मक-अर्थे प्रयुज्यते, तर्हि परस्मैपदम् भवेत् । यथा - सः भोजनकाले राजानमुपतिष्ठति । 'राज्ञः समीपे गच्छति' इत्यर्थः ।\n" }, "13027": { "sa": "अकर्मकप्रयोगेषु 'उत्' / 'वि' उपसर्गात् 'तप्' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति । ", "sd": "तप् (सन्तापे) अयं वस्तुतः परस्मैपदी धातुः अस्ति, परन्तु अकर्मकप्रयोगे 'उत् + तप्' तथा 'वि + तप्' एताभ्यामात्मनेपदस्य प्रत्ययाः भवन्ति । यथा - विद्यया विद्यार्थी उत्तपते वितपते वा ('दीप्यते' इत्यर्थः) । सकर्मकप्रयोगे तु परस्मैपदमेव भवति । यथा - सुवर्णकारः सुवर्णं उत्तपति वितपति वा (उष्णीकरोति इत्यर्थः) ।\nवार्तिकम् - - सकर्मकप्रयोगे यदि कर्मपदम् कर्तुः शरीरस्य कश्चन अवयवः अस्ति, तर्हि आत्मनेपदमेव भवति । यथा - सः स्वस्य हस्तं उत्तपते वितपते वा (उष्णीकरोति इत्यर्थः) । परस्य हस्तः अस्ति चेत् परस्मैपदमेव - चैत्रः मैत्रस्य पाणिमुत्तपति वितपति वा ।\n" }, "13028": { "sa": "अकर्मकप्रयोगेषु 'आङ्' उपसर्गात् यम्, हन् धातुभ्यामात्मनेपदस्य प्रत्ययाः भवन्ति । ", "sd": "यम् (उपरमे) / हन् (हिंसागत्योः) - एतौ वस्तुतः परस्मैपदिनौ धातू, परन्तु आङ्-उपसर्गपूर्वकाभ्याम् एताभ्यामकर्मक-अर्थेषु आत्मनेपदस्य प्रत्ययाः भवन्ति । यथा - आयच्छते ('तनुते' इत्यर्थः), आहते (हन्ति इत्यर्थः) । सकर्मकेषु अर्थेषु तु परस्मैपदमेव - कुपात् रज्जुमायच्छति ('निष्कासयति' इत्यर्थः), भूमीं पादेन आहन्ति ।\nवार्तिकम् - - यत्र एतौ धातू सकर्मकप्रयोगे प्रयुज्येते, परन्तु कर्मपदम् 'कर्तुः अङ्गस्य कश्चन अवयवः' अस्ति, तत्रापि आत्मनेपदम् प्रयोक्तव्यम् । यथा - सः स्वस्य पाणिमायच्छते ('तनुते' इत्यर्थः), सः स्वस्य शिरमाहत्ते ('हन्ति' इत्यर्थः) । पराङ्गमस्ति चेत् परस्मैपदमेव - सः भार्याः पाणिमायच्छति, सः शत्रोः शिरं आहन्ति ।\nज्ञातव्यम् -\n1) भारतेः किरातार्जुनीये 'आजघ्ने विषम् विलोचनस्य वक्षः' अत्र पराङ्गे स्थितेऽपि आ + हन् अस्य आत्मनेपदी प्रयोगः दृश्यते । अयं तु प्रामादिकः ।\n2) भट्टेः भट्टिकाव्ये 'आहध्वम् मा रघूत्तमम्' अत्र पराङ्गे स्थितेऽपि आ +आत्मनेपदी प्रयोगः दृश्यते । अयमपि प्रामादिकः ।\n" }, "13029": { "sa": "अकर्मकप्रयोगेषु 'सम्' उपसर्गात् - गम्, ऋच्छ्, प्रच्छ्, स्वर्, ऋ, श्रु, विद् - एतेभ्यः धातुभ्यः आत्मनेपदस्य प्रत्ययाः भवन्ति ।", "sd": "एते सर्वे धातवः मूलरूपेण परस्मैपदिनः सन्ति, परन्तु सम-उपसर्गपूर्वकेभ्यः एतेभ्यः अकर्मकेषु अर्थेषु आत्मनेपदस्य प्रत्ययाः विधीयन्ते । क्रमेण पश्यामः -\n1) गम् (गतौ) - सङ्गच्छते ('मिलित्वा गच्छति' इत्यर्थः) । अयमकर्मकः धातुः ।\n2) ऋच्छ् (गति-इन्द्रियप्रलय-मूर्तिभावेषु) - समृच्छते ('मिलति' इत्यर्थः) । सकर्मके तु परस्मैपदमेव - रामलक्ष्मणौ समृच्छतः ।\n3) प्रच्छ् (ज्ञीप्सायाम्) - सम्पृच्छते ('विमर्शं करोति' इत्यर्थः), यथा - रामः लक्ष्मणेन सह सम्पृच्छते । सकर्मके तु परस्मैपदमेव - छात्रः गुरुं सम्पृच्छति ।\n4) स्वर् (आक्षेपे) - संस्वरते ('मिलित्वा गायति' इत्यर्थः) । सकर्मके तु परस्मैपदमेव - छात्राः गीतं संस्वरन्ति ।\n5) ऋ (गतिप्रापणयोः - भ्वादि, गतौ -जुहोत्यादि) - समृच्छते ('मिलति' इत्यर्थः) । सकर्मके तु परस्मैपदमेव - रामलक्ष्मणौ समृच्छतः । (ऋ-धातोः <<पा-घ्रा-ध्मा..>> [[7.3.78]] इत्यनेन ऋच्छ्-आदेशः भवति शित्-प्रत्यये परे । अतः अस्य लट्-लकारस्य रूपम् 'ऋच्छ्' धातुवदेव भवति ।)\n6) श्रु (श्रवणे) - संशृणुते ('सूक्ष्मरूपेण शृणोति' इत्यर्थः) । सकर्मके तु परस्मैपदमेव - छात्रः गुरुं संशृणोति ।\n7) विद् (ज्ञाने) - संवित्ते ('सम्पूर्णरूपेण जानाति' इत्यर्थः) । सकर्मके तु परस्मैपदमेव - छात्रः वेदान् संवेत्ति ।\n(ज्ञातव्यम् - अत्र 'विद्' इति अदादिगणस्य धातोः एव ग्रहणं क्रियते, अन्येषाम् गणानाम् धातूनाम् न ।)\nवार्तिकम् - । सम-उपसर्गात् परः दृश् (प्रेक्षणे) अयं धातुः अपि अकर्मकेषु अर्थेषु आत्मनेपदी ज्ञातव्यः । यथा - संपश्यते ('चिन्तयति, निरीक्षते' इत्यर्थः) । सकर्मके तु परस्मैपदमेव - सः ग्रामं संपश्यति ।\n" }, "13030": { "sa": "'नि' , 'सम्', 'वि' उपसर्गेभ्यः 'ह्वे' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति । ", "sd": "ह्वेञ् (स्पर्धायां शब्दे च) अयं धातुः वस्तुतः उभयपदी अस्ति । परन्तु निस् / नित्/ सम् / उप / वि - एतेभ्यः अस्य आत्मनेपदस्य प्रत्ययाः भवन्ति । यथा - निह्वयते, संह्वयते, उपह्वयते, विह्वयते (सर्वेषामर्थः - 'आवाहनं करोति' इति) ।\n" }, "13031": { "sa": "'स्पर्धा / सङ्घर्षः / पराभवस्य इच्छा' अस्मिन् अर्थे 'आङ्' उपसर्गात् 'ह्वे' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति । ", "sd": "ह्वेञ् (स्पर्धायां शब्दे च) अयं धातुः वस्तुतः उभयपदी अस्ति । परन्तु 'स्पर्धां करोति / सङ्घर्षं करोति ' अस्मिन् अर्थे 'आ + ह्वे' अयं धातुः आत्मनेपदस्य प्रत्ययान् स्वीकरोति । यथा - कृष्णः चाणूरमाह्वयते ('युद्धस्य आवाहनं करोति' इत्यर्थः) । अन्येषु अर्थेषु तु उभयपदमेव - माता पुत्रमाह्वयति आह्वयते वा ।\n" }, "13032": { "sa": "गन्धनम् (अनुपस्थितौ अपशब्दप्रयोगः), अवक्षेपणम् (निन्दा), सेवनम् (सेवा), साहसिक्यम् (बलात्कारः), प्रतियत्नम् (गुणपरिवर्तनम्), प्रकथनम् (कथनम्), उपयोग (प्रयोगः) - एतेषु अर्थेषु कृ-धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति । ", "sd": "डुकृञ् (करणे) अयं धातुः वस्तुतः उभयपदी अस्ति । परन्तु एतेषु अर्थेषु तस्मात् केवलमात्मनेपदस्य प्रत्ययाः एव भवन्ति -\n1) गन्धनम् (कस्यचन अनुपस्थितौ तस्य विषये निन्दापूर्वकम् भाषणम्) - सः तानसेनमुत्कुरुते ('तानसेनस्य अनुपस्थितौ तस्य विषये निन्दापूर्वकं भाषते' इत्यर्थः) ।\n2) अवक्षेपणम् (निन्दा) - राजा शत्रुमुदाकुरुते ('निर्भत्सयति' इत्यर्थः) ।\n3) साहसिक्यम् (बलात्कारः) - सः परदारान् प्रकुरुते ('सहसा बलात्कारं करोति' इत्यर्थः ) ।\n4) प्रतियत्नम् (अन्यपदार्थस्य गुणग्रहणम्) - इन्धनमुदकस्य उपस्कुरुते ('जले नूतनान् गुणान् निर्माति' इत्यर्थः । <<कृञः प्रतियत्ने>> [[2.3.53]] इति षष्ठीविभक्तिः ।]\n5) प्रकथनम् (कथनम्) - गुरुः वेदम् प्रकुरुते ('कथयति' इत्यर्थः) ।\n6) उपयोग (उपयोजनम् ) - धनिकः शतं धर्मार्थं उपकुरुते ('धर्मकार्यार्थम् प्रयुङ्क्ते' इत्यर्थः) ।\nअन्येषु अर्थेषु उभयपदमेव भवति । यथा - कटं करोति कुुरुते वा ।\n" }, "13033": { "sa": "'प्रसहनम्' (क्षमादानम् , विजयप्राप्तिः) एतस्मिन् अर्थे 'अधि' उपसर्गात् 'कृ' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति । ", "sd": "'प्रसहनम्' इत्युक्ते 'क्षमाकरणम् / विजयप्राप्तिः' इति । अस्मिन् अर्थे 'अधि+ कृ' इत्यस्य आत्मनेपदत्वं भवति । यथा - राजा शत्रुं अधिकुरुते ('विजयं प्राप्नोति / क्षमां करोति' इत्यर्थः) । अन्येषु अर्थषु तु उभयपदम् - अर्थमधिकरोति अधिकुरुते वा (सञ्चयति इत्यर्थः) ।\n" }, "13034": { "sa": "'शब्दम् करोति / उच्चारयति' अस्मिन् अर्थे 'वि' उपसर्गात् 'कृ' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति । ", "sd": "'शब्दः कर्मपदमस्ति' इत्युक्ते यत्र क्रियायाः कर्मपदम् शब्द/ध्वनिरूपेण भवति । तत्र 'वि + कृ' इत्यस्य आत्मनेपदं भवति । यथा - स्वरान् विकुरुते (उच्चारयति इत्यर्थः) । अन्येषु अर्थेषु तु उभयपदमेव भवति । यथा - कामः चित्तं विकरोति विकुरुते वा (विचलितं करोति इत्यर्थः) ।\n " }, "13035": { "sa": "अकर्मकप्रयोगेषु 'वि' उपसर्गात् परस्य 'कृ' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति । ", "sd": "'वि + कृ' अयं धातुः यदि अकर्मके अर्थे प्रयुज्यते तर्हि अस्मात् आत्मनेपदस्य प्रत्ययाः भवन्ति । यथा - छात्राः विकुर्वते ('निष्फलं चेष्टन्ते' इत्यर्थः) ।\n" }, "13036": { "sa": "सम्माननम्, उत्सञ्जनम् , आचार्यकरणम्, ज्ञान, भृतिः, विगणनम् , व्ययः - एतेषु अर्थेषु 'नी' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति । ", "sd": "णीञ् (प्रापणे) अयं धातुः वस्तुतः उभयपदी अस्ति । परन्तु एतेषु अर्थेषु सः केवलं आत्मनेपदस्य प्रत्ययान् एव प्राप्नोति -\n1) सम्माननम् (सुष्ठु मार्गदर्शनम्) - आचार्यः छात्रं व्याकरणे नयते ।\n2) उत्सञ्जनम् (उत्थापनम्) - राजा दण्डमुन्नतये ('उपरि करोति' इत्यर्थः । )\n3) आचार्यकरणम् (विधिपूर्वकम् ज्ञानदानम्) - आचार्यः माणवकमुपनयते ।\n4) ज्ञानम् (निश्चयः) - सः तत्वं नयते । ('तत्वस्य निश्चयं करोति' इत्यर्थः)\n5) भृतिः (वेतनं दत्वा समीपतानिर्माणम्) - धनिकः कर्मकारमनुपनयते ।\n6) विगणनम् (ऋणपूर्तिः) - मद्राः करं विनयन्ते ('करः' इत्युक्ते भागधेयम् - यथा आयकरः, विक्रयकरः आदयः । 'मद्राः ऋणपूर्तिं कुर्वन्ति' इत्यर्थः ।\n7) व्ययः (विनियोगः) - धनिकः शतं विनयते ।\nअन्येषु अर्थेषु उभयपदम् भवति । यथा - अजाम् ग्रामम् नयति नयते वा ।\n" }, "13037": { "sa": "कर्तरि सकर्मकप्रयोगे ; यत्र शरीरमुत शरीरावयवः कर्मरूपेण न विधीयेते; तत्र 'नी' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति । ", "sd": "" }, "13038": { "sa": "(1) वृत्तिः (निरन्तरता) , (2) सर्गः ( उत्साहः), (3) तायनः (विस्तारः) - एतेषु अर्थेषु 'क्रम्' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति । ", "sd": "" }, "13039": { "sa": "उपसर्गपूर्वकात् 'क्रम्' धातोः - (1) वृत्तिः (निरन्तरता) , (2) सर्गः ( उत्साहः), (3) तायनः (विस्तारः) - एतेषु अर्थेषु एव आत्मनेपदस्य प्रत्ययाः भवन्ति । ", "sd": "" }, "13040": { "sa": "'आङ्' उपसर्गात् 'क्रम्' धातोः 'उद्गमनम्' अस्मिन् अर्थे आत्मनेपदस्य प्रत्ययाः भवन्ति । ", "sd": "" }, "13041": { "sa": "'वि' उपसर्गात् 'क्रम्' धातोः 'पादैः विहरणम्' अस्मिन् अर्थे आत्मनेपदस्य प्रत्ययाः भवन्ति । ", "sd": "" }, "13042": { "sa": "'प्र', 'उप' एतौ उपसर्गौ यदा 'प्रारम्भः' अस्मिन् अर्थे प्रयुज्येते, तदा एताभ्याम् 'क्रम्' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति । ", "sd": "" }, "13043": { "sa": "उपसर्गरहितात् 'क्रम्' धातोः विकल्पेन आत्मनेपदस्य प्रत्ययाः भवन्ति । ", "sd": "" }, "13044": { "sa": "", "sd": "" }, "13045": { "sa": "", "sd": "" }, "13046": { "sa": "", "sd": "" }, "13047": { "sa": "", "sd": "" }, "13048": { "sa": "", "sd": "" }, "13049": { "sa": "", "sd": "" }, "13050": { "sa": "", "sd": "" }, "13051": { "sa": "", "sd": "" }, "13052": { "sa": "", "sd": "" }, "13053": { "sa": "", "sd": "" }, "13054": { "sa": "", "sd": "" }, "13055": { "sa": "", "sd": "" }, "13056": { "sa": "", "sd": "" }, "13057": { "sa": "", "sd": "" }, "13058": { "sa": "", "sd": "" }, "13059": { "sa": "", "sd": "" }, "13060": { "sa": "", "sd": "" }, "13061": { "sa": "", "sd": "" }, "13062": { "sa": "", "sd": "" }, "13063": { "sa": "कृ-धातोः अनुप्रयोगः क्रियते चेत् तस्य पदम् मूलधातुवत् भवति ।", "sd": "'आम्' इति कश्चन प्रत्ययः अस्ति । <<कास्प्रत्ययादाममन्त्रे लिटि>> [[3.1.35]] इत्यतः <<भीह्रीभृहुवां श्लुवच्च>> [[3.1.39]] इति यावद्भिः सूत्रैः लिट्-लकारस्य विषये धातोः परः अयम् प्रत्ययः विधीयते । अस्मिन् प्रत्यये परे अग्रे उपस्थितस्य लकारस्य <<आमः>> [[2.4.81]] इत्यनेन लोपः भवति । एवं कृते <<कृञ् चानुप्रयुज्यते लिटि>> [[3.1.40]] इत्यनेन आम्-प्रत्ययात् परः कृ-धातोः / भू-धातोः / अस्-धातोः लिट्-लकारस्य उचितं रूपमागच्छन्ति । एतेषु त्रिषु धातुषु भू-धातुः अस्-धातुः च परस्मैपदिनौ स्तः, अतः ताभ्याम् नित्यम् परस्मैपदस्यैव प्रत्ययाः भवन्ति । परन्तु कृ-धातुः उभयपदी अस्ति । अतः तस्य किम् पदम् भवेत् इति प्रश्नः जायते । अस्य प्रश्नस्य उत्तरम् वर्तमानसूत्रेण लभ्यते -\n1) यदि मूलधातुः परस्मैपदी अस्ति तर्हि कृ-धातोः परस्मैपदस्य प्रत्ययाः भवन्ति ।\n2) यदि मूलधातुः आत्मनेपदी अस्ति तर्हि कृ-धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।\n2) यदि मूलधातुः उभयपदी अस्ति तर्हि कर्तृगामिनि क्रियाफले स्थिते कृ-धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति, अन्येषु स्थितिषु च कृ-धातोः परस्मैपदस्य प्रत्ययाः भवन्ति ।\nयथा -'एध्' धातोः प्रथमपुरुषैकवचनस्य प्रक्रियायाम् -\nएध् + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट्]\n→ एध् + आम् + ल् [<<इजादेश्च गुरुमतोऽनृच्छः>> [[3.1.36]] इति आम्-प्रत्ययः]\n→ एध् + आम् [<<आमः>> [[2.4.81]] इति लकारस्य लुक्]\nअग्रे <<कृञ्चानुप्रयुज्यते लिटि>> [[3.1.40]] इत्यनेन कृ-धातोः अनुप्रयोगः भवति । अत्र यद्यपि कृ-धातुः उभयपदी अस्ति, तथापि 'एध्' धातुः आत्मनेपदी अस्ति अतः <<आम्प्रत्ययवत् कृञोनुप्रयोगस्य>> [[1.3.63]] इत्यनेन कृ-धातोः अपि आत्मनेपदम् एव भवति । अतः -\n→ एध् + आम् + चक्रे [कृ-धातोः आत्मनेपदस्य प्रथमपुरुषैकवचनस्य रूपम् 'चक्रे']\n→ एधांचक्रे [<<मोऽनुस्वारः>> [[8.3.23]] इति मकारस्य अनुस्वारः]\n→ एधाञ्चक्रे [<<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति परसवर्णः]\nज्ञातव्यम् - अस्मिन् सूत्रे प्रयुक्तः 'आम्प्रत्ययवत्' अयम् 'अतद्गुणसंविज्ञानबहुव्रीहिसमासः' अस्ति । 'आम्-प्रत्ययः यस्मात् कृतः अस्ति, सः धातुः आम्-प्रत्ययं विना यस्मिन् पदे प्रयुज्यते, तस्मिन् पदे एव कृ-धातोः अपि प्रयोगः करणीयः' - इति अस्य आशयः ।\n" }, "13064": { "sa": "", "sd": "" }, "13065": { "sa": "", "sd": "" }, "13066": { "sa": "", "sd": "" }, "13067": { "sa": "", "sd": "" }, "13068": { "sa": "", "sd": "" }, "13069": { "sa": "", "sd": "" }, "13070": { "sa": "", "sd": "" }, "13071": { "sa": "", "sd": "" }, "13072": { "sa": "यस्मिन् धातौ ञकारः इत्संज्ञकः अस्ति उत स्वरितः स्वरः इत्संज्ञकः अस्ति, तस्मात् परः कर्त्रभिप्राये क्रियाफले आत्मनेपदस्य प्रत्ययाः भवन्ति । ", "sd": "अस्य सूत्रस्य अर्थम् ज्ञातुमादौ काचित् पीठिका ज्ञातव्या -\nधातुपाठे निर्दिष्टेभ्यः धातुभ्यः केभ्यश्चन केवलमात्मनेपदस्यैव प्रत्ययाः भवन्ति । यथा - लभ्, वन्द्, सेव् - आदयः । केभ्यश्चन अन्येभ्यः केवलं परस्मैपदस्यैव प्रत्ययाः भवन्ति । यथा - पठ्, क्रीड्, चल् - आदयः । परन्तु केभ्यश्चन धातुभ्यः आत्मनेपदस्यापि प्रत्ययाः भवितुमर्हन्ति, परस्मैपदस्यापि भवितुमर्हन्ति । एते धातवः सामान्यभाषायाम् 'उभयपदिनः धातवः' इत्युच्यन्ते । एतेषां विषये अस्मिन् सूत्रे उक्तमस्ति । येषु धातुषु औपदेशिक-अवस्थायाम् 'ञकारः' इत्संज्ञकः अस्ति, नो चेत् येषु धातुषु औपदेशिक-अवस्थायाम् स्वरितः स्वरः इत्संज्ञकः अस्ति, तेभ्यः धातुभ्यः आत्मनेपदस्यापि प्रत्ययाः अपि भवितुमर्हन्ति, परस्मैपदस्यापि च भवितुमर्हन्ति । परन्तु अस्य अर्थः अयम् नास्ति, यत् 'वक्ता इच्छति चेत्' परस्मैपदस्य प्रत्ययान् प्रयोक्तुम् शक्नोति, तथा इच्छति चेत् आत्मनेपदस्य । उभयपदिनाम् धातूनाम् विषये अपि 'कुत्र' परस्मैपदस्य प्रत्ययाः करणीयाः कुत्र च आत्मनेपदस्य' अस्मिन् विषये अनेन सूत्रेण सिद्धान्तः दीयते ।\nअनेन सूत्रेण एतत् उच्यते, यत् उभयपदी-धातोः विषये क्रियायाः फलं कः लभते तत् दृष्ट्वा पदनिर्णयः कर्तव्यः । यदि क्रियायाः फलम् कर्तारम् गच्छति, तर्हि आत्मनेपदस्य प्रत्ययानाम् प्रयोगः करणीयः । एवं नास्ति चेत् अनेन सूत्रेण आत्मनेपदस्य प्रत्ययाः न विधीयन्ते, अतः <<शेषात् कर्तरि परस्मैपदम्>> [[1.3.78]] इत्यनेन धातोः परस्मैपदस्य प्रत्ययाः भवन्ति ।\nयथा - 'माता ओदनम् पचते' इत्यत्र पच्-धातोः आत्मनेपदस्य प्रत्ययः प्रयुक्तः अस्ति, यतः अत्र 'माता स्वस्य कृते ओदनं पचति' इति अर्थः अभिप्रेतः अस्ति । परन्तु यदि एतत् ओदनम् मात्रा न खाद्यते अपितु पुत्रेण खाद्यते, तर्हि अस्याम् स्थितौ पच्-धातोः आत्मनेपदस्य प्रत्ययाः न भवितुमर्हन्ति । अतः <<शेषात् कर्तरि परस्मैपदम्>> [[1.3.78]] इत्यनेन धातोः परस्मैपदस्य प्रत्ययं कृत्वा 'माता ओदनम् पचति' इत्येव प्रयोगः करणीयः ।\nअतः अस्य सूत्रस्य अर्थः अयम् - 'कर्त्रभिप्राये क्रियाफले' (इत्युक्ते, यत्र क्रियायाः फलम् कर्तारं गच्छति तत्र) स्वरित्-धातुभ्यः ञित्-धातुभ्श्च आत्मनेपदस्य प्रत्ययाः भवन्ति । (अन्यासु स्थितिषु परस्मैपदस्य प्रत्ययाः भवन्तीति तु <<शेषात् कर्तरि परस्मैपदम्>> [[1.3.78]] इत्यनेन ज्ञायते ।)\nकानिचन उदाहरणानि -\n(अ) ञित्-धातवः -\n1. णीञ् प्रापणे - सः पुस्तकम् नयते (स्वस्य कृते इत्यर्थः) । सः अश्वं नयति (कस्यचन अन्यस्य कृते इत्यर्थः) ।\n2. डुकृञ् करणे - गुरुः पाठनकार्यम् कुर्वन् अस्ति (परस्मैपदस्य विवक्षायाम् शतृ-प्रत्ययः) । पापम् कुर्वाणाः निश्चयेन तत्फलं लभन्ते (आत्मनेपदस्य विवक्षायाम् शानच्-प्रत्ययः)\n(आ) स्वरितेत्-धातवः -\n1. डुपचष् पाके - माता ओदनं पचति । पाचकः ओदनं पचते ।\n2. टुयाचृँ याञ्चायाम् - पञ्च ग्रामान् याचते धर्माय दूर्योधनः किमपि न ददाति । इन्द्रः कर्णम् कवचम् याचमानः अस्ति ।\nज्ञातव्यम् -\n1. एतादृशम् प्रत्ययविधानम् केवलं तेभ्यः धातुभ्यः एव कृतमस्ति ये स्वरितेतः / ञितः सन्ति । अन्येषां विषये तु यथानिर्दिष्टमात्मनेपदस्यैव / परस्मैपदस्यैव प्रत्ययाः भवन्ति । तत्र एतादृशम् क्रियाफलं दृष्ट्वा प्रत्ययविधानम् न क्रियते ।\n2. <<तङानावात्मनेपदम्>> [[1.4.100]] इत्यनेन त-आताम्-झ-थास्-आथाम्-ध्वम्-इड्-वहि-महिङ्-एतेषाम् तथा शानच्-कानच्-एतयोः 'आत्मनेपदम्' संज्ञा भवति । एतान् विहाये लकारस्य स्थाने विहिताः ये आदेशाः - 'तिप्-तस्-झि-सिप्-थस्-थ-मिप्-वस्-म्-शतृ-क्वसु' - एतेषाम् 'परस्मैपदम्' संज्ञा भवति । " }, "13073": { "sa": "", "sd": "" }, "13074": { "sa": "", "sd": "" }, "13075": { "sa": "", "sd": "" }, "13076": { "sa": "", "sd": "" }, "13077": { "sa": "", "sd": "" }, "13078": { "sa": "यस्मात् धातोः आत्मनेपदस्य प्रत्ययाः न विहिताः सन्ति, तेभ्यः परस्मैपदस्य प्रत्ययाः भवन्ति । ", "sd": "<<अनुदात्तङित आत्मनेपदम्>> [[1.3.12]] इत्यतः <<विभाषोपपदेन प्रतीयमाने>> [[1.3.77]] इति यावत्सु सूत्रेषु केभ्यः धातुभ्यः कासु कासु अवस्थासु आत्मनेपदस्य प्रत्ययः भवन्ति अस्मिन् विषये उच्यते । एतान् स्थितीन् विहाय अन्येभ्यः सर्वेभ्यः धातुभ्यः कर्तरि प्रयोगे परस्मैपदस्य प्रत्ययाः भवन्ति ।\nज्ञातव्यम् - <<लः परस्मैपदम्>> [[1.4.99]] इत्यनेन लकारस्य स्थाने विधीयमानाः आदेशाः 'परस्मैपद' संज्ञां प्राप्नुवन्ति । एतेषु त-आताम्-झ-थास्-आथाम्-ध्वम्-इड्-वहि-महिङ्-एतेषाम् तथा शानच्-कानच्-एतयोः 'आत्मनेपदम्' संज्ञा भवति (अतः परस्मैपदसंज्ञा निषिध्यते) । अतः ये अवशिष्टाः - इत्युक्ते 'तिप्-तस्-झि-सिप्-थस्-थ-मिप्-वस्-म्-शतृ-क्वसु' - एतेषाम् एव 'परस्मैपदम्' संज्ञा भवति । " }, "13079": { "sa": "", "sd": "" }, "13080": { "sa": "", "sd": "" }, "13081": { "sa": "", "sd": "" }, "13082": { "sa": "", "sd": "" }, "13083": { "sa": "", "sd": "" }, "13084": { "sa": "", "sd": "" }, "13085": { "sa": "", "sd": "" }, "13086": { "sa": "", "sd": "" }, "13087": { "sa": "", "sd": "" }, "13088": { "sa": "", "sd": "" }, "13089": { "sa": "", "sd": "" }, "13090": { "sa": "", "sd": "" }, "13091": { "sa": "", "sd": "" }, "13092": { "sa": "", "sd": "" }, "13093": { "sa": "", "sd": "" }, "14001": { "sa": "अधिकारोऽयम् । इतः परम् <<कडाराः कर्मधारये>> [[2.2.38]] इति यावत्सु सूत्रेषु उक्तासु संज्ञासु पूर्वसंज्ञया परसंज्ञा अनवकाशा भवति चेत् पूर्वसंज्ञां बाधित्वा परसंज्ञा एव विधीयते ।", "sd": "इदम् अधिकारसूत्रम् अस्ति । अस्य व्याप्तिः प्रथमाध्यायस्य चतुर्थपादे, द्वितीयाध्यायस्य प्रथमपादे, तथा च द्वितीयाध्यायस्य द्वितीयपादे - इति आहत्य त्रिषु पादेषु विद्यते । अस्मिन् अधिकारे यत्र यत्र एकस्य शब्दस्य द्वे उत अधिकाः संज्ञाः विधीयन्ते, तत्र तत्र यदि सूत्रक्रमम् अनुसृत्य परसूत्रेण दत्ता संज्ञा पूर्वसूत्रेण दत्तायाः संज्ञायाः अपेक्षया अनवकाशा भवति (इत्युक्ते, यत्र यत्र परसूत्रेण दत्ता संज्ञा विधीयते तत्र तत्र पूर्वसूत्रेण दत्ता संज्ञा अपि अवश्यम् एव विधीयते) तर्हि अस्यां स्थितौ परसंज्ञया पूर्वसंज्ञायाः बाधः भवति - इति अस्य सूत्रस्य आशयः ।\n\nअस्य सूत्रस्य उदाहरणरूपेण भाष्ये भाष्यकारेण पतञ्जलिना तादृशानि सर्वाणि स्थलानि परिगणितानि सन्ति, यत्र परसंज्ञया पूर्वसंज्ञायाः बाधः भवति । तानि सर्वाणि अधः उदाहरणरूपेण विव्रीयन्ते -\n\n
  • 1. लघुसंज्ञा तथा गुरुसंज्ञा - <<ह्रस्वं लघु>> [[1.4.10]] इति सूत्रेण ह्रस्वस्वरस्य लघु इति संज्ञा विधीयते । परन्तु एतादृशात् ह्रस्वस्वरात् अनन्तरम् संयोगः विद्यते चेत् अस्यैव ह्रस्वस्वरस्य <<संयोगे गुरु>> [[1.4.1]] इत्यनेन गुरुः इत्यपि संज्ञा भवति । यत्र यत्र एतादृशी गुरुसंज्ञा विधीयते, तत्र तत्र पूर्वसूत्रेण लघुसंज्ञा अपि अवश्यमेव भवितुम् अर्हति । अस्यां स्थितौ, परत्वात्, अनवकाशत्वात् च गुरुसंज्ञा लघुसंज्ञां बाधते । इत्युक्ते, यत्र ह्रस्वस्वरात् अनन्तरम् संयोगः विद्यते, तत्र तस्य ह्रस्वस्वरस्य केवलं गुरुसंज्ञा एव भवति । यथा, शिक्ष् अस्मिन् धातोः इकारस्य लघुसंज्ञां बाधित्वा गुरुसंज्ञा एव विधीयते, येन <<गुरोश्च हलः>> [[3.3.103]] इति -प्रत्ययं विधाय शिक्षा इति रूपं सिद्ध्यति ।\n
  • 2. पदसंज्ञा तथा भसंज्ञा - <<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इति सूत्रेण सर्वनामस्थानवर्जिते स्वादिप्रत्यये परे प्रकृतेः पदसंज्ञा विधीयते । परन्तु यदि असौ प्रत्ययः यकारादिः उत अजादिः अस्ति, तर्हि <<यचि भम्>> [[1.4.18]] इत्यनेन प्रकृतेः संज्ञा अपि विधीयते । इयं भसंज्ञा परत्वात् अनवकाशत्वात् च पदसंज्ञां बाधते । अतएव दन्त+ शस् इत्यत्र <<पद्दन्नोमास्हृन्निशसन्यूषन्दोषन्यकञ्छकन्नुदन्नासञ्छस्प्रभृतिषु >> [[6.1.63]] इत्यनेन दन्त-शब्दस्य दत्-आदेशे कृते पदसंज्ञायाः अभावात् <<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वं न भवति, तथा च दतः इत्येव अन्तिमं रूपं सिद्ध्यति ।\n
  • 3. अपादानसंज्ञा, सम्प्रदानसंज्ञा, करणसंज्ञा, अधिकरणसंज्ञा, कर्मसंज्ञा, कर्तृसंज्ञा - कारकप्रकरणे अनेन क्रमेण पाठितासु एतासु संज्ञासु अपि एकसंज्ञाधिकारसामर्थ्यात् बाध्यबाधकभावः विद्यते । यथा, धनुषा विध्यति अस्मिन् उदाहरणे व्यधनक्रियायायाम् साधकतमरूपेण तथा च ध्रुवरूपेण अपि प्रयुक्तस्य धनु:पदार्थस्य अपादानसंज्ञायाम् करणसंज्ञायाम् च युगपत् प्राप्तयोः परत्वात् करणसंज्ञा अपादानसंज्ञां बाधते, अतश्च धनुषा विध्यति इत्यत्र करणत्वस्य निर्देशार्थम् तृतीयाविभक्तेः प्रयोगं कृत्वा वाक्यं सिद्ध्यति । एवमेव, ग्रामं प्रविशति इत्यत्र परत्वात् कर्मसंज्ञा अधिकरणसंज्ञां बाधते, धनुः विध्यति इत्यत्र परत्वात् कर्तृसंज्ञा करणसंज्ञां बाधते इत्यादीनि अनेकानि उदाहरणानि भाष्यकारेण सङ्गृहीतानि सन्ति । \n
  • 4. उपसर्गसंज्ञा, कर्मप्रवचनीयसंज्ञा - प्रादीनां क्रियायोगे <<उपसर्गाः क्रियायोगे>> [[1.4.59]] इत्यनेन उपसर्गसंज्ञा विधीयते । एतेभ्यः एव केचन प्रादयः विशिष्टासु स्थितिषु <<कर्मप्रवचनीयाः>> [[1.4.83]] अस्मिन् अधिकारे पाठितैः सूत्रैः कर्मप्रवचनीयसंज्ञकाः अपि भवन्ति । इयं कर्मप्रवचनीयसंज्ञा परत्वात् अनवकाशत्वात् च उपसर्गसंज्ञां बाधते । यथा, सुसिक्तं भवता इत्यस्मिन् वाक्ये सु इत्यस्य <<उपसर्गाः क्रियायोगे>> [[1.4.59]] इत्यनेन प्राप्ताम् उपसर्गसंज्ञां बाधित्वा <<सुः पूजायाम्>> [[1.4.94]] इत्यनेन कर्मप्रवचनीयसंज्ञा भवति । यदि अत्र उपसर्गसंज्ञा अपि अभविष्यत्, तर्हि सिक्तम् इत्यस्य सकारस्य <<उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम्>> [[8.3.65]] इत्यनेन षत्वम् अभविष्यत् ।\n
  • 5. गतिसंज्ञा, कर्मप्रवचनीयसंज्ञा - प्रादीनां क्रियायोगे <<गतिश्च>> [[1.4.59]] इत्यनेन गतिसंज्ञा विधीयते । एतेभ्यः एव केचन प्रादयः विशिष्टासु स्थितिषु <<कर्मप्रवचनीयाः>> [[1.4.83]] अस्मिन् अधिकारे पाठितैः सूत्रैः कर्मप्रवचनीयसंज्ञकाः अपि भवन्ति । इयं कर्मप्रवचनीयसंज्ञा परत्वात् अनवकाशत्वात् च गतिसंज्ञां बाधते । यथा, कुतः पर्यागच्छति इत्यस्मिन् वाक्ये <<अधिपरी अनर्थकौ>> [[1.4.94]] इत्यनेन परि इत्यस्य <<गतिश्च>> [[1.4.60]] इत्यनेन प्राप्ताम् गतिसंज्ञां बाधित्वा कर्मप्रवचनीयसंज्ञा भवति । यदि अत्र गतिसंज्ञा अपि अभविष्यत्, तर्हि परि इत्यस्य अकारः <<गतिर्गतौ>> [[8.1.70]] इत्यनेन अनुदात्तः अभविष्यत् । इष्यते तु उदात्तः, अतः अत्र गतिसंज्ञायाः बाधः आवश्यकः भवति यः एकसंज्ञाधिकारात् एव सम्भवति ।\n
  • 6. परस्मैपदसंज्ञा, आत्मनेपदसंज्ञा - <<लः परस्मैपदम्>> [[1.4.99]] इत्यनेन लकारस्य स्थाने विहितानाम् आहत्य द्वाविंशतेः प्रत्ययानां परस्मैपदसंज्ञायां प्राप्तायाम्, <<तङानावात्मनेपदम्>> [[1.4.100]] इति अग्रिमसूत्रेण एतेभ्यः एव एकादशानां प्रत्ययानाम् आत्मनेपदसंज्ञा अपि विधीयते । इयम् आत्मनेपदसंज्ञा परत्वात् अनवकाशत्वात् च परस्मैपदसंज्ञां बाधते ।\n
  • 7. अव्ययीभावसंज्ञा, तत्पुरुषसंज्ञा, बहुव्रीहिसंज्ञा - समासप्रकरणे पाठितासु एतासु संज्ञासु अपि कुत्रचित् बाध्यबाधकभावः दृश्यते । यथा, वीराः पुरुषाः यस्मिन् ग्रामे सः वीरपुरुषकः देशः इत्यत्र <<विशेषणं विशेष्येण बहुलम्>> [[2.1.57]] इत्यनेन प्राप्तां तत्पुरुषसंज्ञां परत्वात् बाधित्वा <<अनेकमन्यपदार्थे>> [[2.2.24]] इत्यनेन बहुव्रीहिसंज्ञा विधीयते । एवमेव, द्वे इरावत्ये विद्यते अस्मिन् सः द्वीरावतिकः देशः इत्यत्र <<नदीभिश्च>> [[2.1.20]] इत्यनेन प्राप्ताम् अव्ययीभावसंज्ञां परत्वात् बाधित्वा <<अनेकमन्यपदार्थे>> [[2.2.24]] इत्यनेन बहुव्रीहिसंज्ञा भवति ।\n\n\nएतेषु सप्तसु स्थलेषु एव एकसंज्ञाधिकारसामर्थ्यात् परसंज्ञया पूर्वसंज्ञायाः बाधः भवति ।\nकुत्रचित् पूर्वसंज्ञा अपि परसंज्ञां बाधते\nएकसंज्ञाधिकारे यद्यपि \"अनवकाशा परसंज्ञा पूर्वसंज्ञां बाधते\" इति साधारणनियमः उक्तः अस्ति, तथापि अस्मिन् अधिकारे कुत्रचित् पूर्वसंज्ञया अपि परसंज्ञायाः बाधः कृतः दृश्यते । अस्य द्वे उदाहरणे भाष्ये परिगणिते स्तः -\n\n
  • 1. अव्ययीभावसंज्ञा, तत्पुरुषसंज्ञा, बहुव्रीहिसंज्ञा - समासप्रकरणस्य संज्ञासु बहुत्र पूर्वसंज्ञया परसंज्ञायाः बाधः कृतः दृश्यते । यथा, लोहिता गङ्गा यस्मिन् (देशे) सः इति विग्रहे <<अनेकमन्यपदार्थे>> [[2.2.24]] इत्यनेन बहुव्रीहिसमासे प्राप्ते, तद्बाधित्वा <<अन्यपदार्थे च संज्ञायाम्>> [[2.1.21]] इति पूर्वसूत्रेण अव्ययीभावसंज्ञा विधीयते, येन लोहितगङ्गम् इति अव्ययं सिद्ध्यति । अत्र अव्ययीभावसंज्ञा पूर्वत्वात् अनवकाशत्वात् च बहुव्रीहिसंज्ञां बाधते । एवमेव, घनः इव श्यामः इत्यत्र अन्यपदार्थस्य निर्देशः अस्ति इति कारणात् <<अनेकमन्यपदार्थे>> [[2.2.24]] इत्यनेन बहुव्रीहिसमासे प्राप्ते, तद्बाधित्वा <<उपमानानि सामान्यवचनैः>> [[2.1.55]] इति पूर्वसूत्रेण तत्पुरुषसंज्ञा विधीयते । अत्र तत्पुरुषसंज्ञा पूर्वत्वात् अनवकाशत्वात् च बहुव्रीहिसंज्ञां बाधते ।अनेनैव प्रकारेण, सप्तानां गङ्गानां समाहारः इत्यत्र <<द्विगुश्च>> [[2.1.23]] इत्यनेन द्विगुसमासे प्राप्ते, तद्बाधित्वा <<नदिभिश्च>> [[2.1.20]] इत्यनेन अव्ययीभावसमासः विधीयते, येन सप्तगङ्गम् इति अव्ययं सिद्ध्यति । अत्र अव्ययीभावसंज्ञा पूर्वत्वात् अनवकाशत्वात् च तत्पुरुषसंज्ञां बाधते ।\n
  • 2. नदीसंज्ञा तथा घिसंज्ञा - <<शेषो घ्यसखि>> [[1.4.7]] इति सूत्रे विद्यमानम् शेषः इति पदम् स्पष्टताप्रतिपत्यर्थं स्वीकृत्य, अस्य सूत्रस्य अर्थः \"नित्यस्त्रीलिङ्गवाचिनः शब्दान् विहाय अन्ये ह्रस्व-इकारान्ताः ह्रस्व-उकारान्ताः च शब्दाः घिसंज्ञकाः भवन्ति\" इति क्रियते चेत् <<ङिति ह्रस्वश्च>> [[1.4.6]] इत्यनेन प्राप्ता नदीसंज्ञा पूर्वत्वात् घिसंज्ञां बाधते । अतएव मति-शब्दस्य चतुर्थ्येकवचने <<आण्नद्याः>> [[7.3.112]] इत्यनेन आडागमे कृते मत्यै इति रूपं सिद्ध्यति । \n\nएकसंज्ञाधिकारात् बहिः अपि कुत्रचित् एकसंज्ञात्वं दृश्यते\nएकसंज्ञाधिकारात् बहिः पाठितासु संज्ञासु अपि कुत्रचित् बाध्यबाधकभावः दृश्यते । अस्य त्रीणि उदाहरणानि भाष्ये परिगणितानि सन्ति -\n\n
  • 1. ह्रस्वसंज्ञा, दीर्घसंज्ञा, प्लुतसंज्ञा - <<ऊकालोऽज्झ्रस्वदीर्घप्लुतः>> [[1.2.27]] इति सूत्रेण विहिताः ह्रस्व-दीर्घ-प्लुत-संज्ञाः परस्परम् बाधन्ते । इत्युक्ते, कस्यापि स्वरस्य एतासाम् एका एव संज्ञा भवति - इति अर्थः ।\n
  • 2. सार्वधातुकम्, आर्धधातुकम् - सर्वेऽपि तिङ्-प्रत्ययाः <<तिङ्शित्सार्वधातुकम्>> [[3.4.113]] इत्यनेन सार्वधातुकसंज्ञकाः सन्ति । अस्यां स्थितौ, लिट्लकारस्य तिङ्-प्रत्ययानाम् <<लिट् च>> [[3.4.115]] इति सूत्रेण आर्धधातुकम् इति अपि संज्ञा भवति । यद्यपि एते संज्ञे एकसंज्ञाधिकारे न स्तः, तथापि इयं आर्धधातुकसंज्ञा पूर्वप्राप्ताम् सार्वधातुकसंज्ञां बाधते । एवमेव, <<लिङाशिषि>> [[3.4.117]] इत्यनेन लिङ्-लकारस्य तिङ्-प्रत्ययानां विहिता आर्धधातुकसंज्ञा अपि तेषां सार्वधातुकसंज्ञां बाधते ।\n
  • 3. गोत्रम्, युवा - <<जीवति तु वंशे युवा>> [[4.1.163]] इत्यनेन विहिता युवा इति संज्ञा <<अपत्यं पौत्रप्रभृति गोत्रम्>> [[4.1.162]] इति सूत्रेण विहिता गोत्रम् इति संज्ञां बाधते । अतएव, अर्जुने जीविते सति, तस्य पौत्रः जनमेजयः अर्जुनस्य युवापत्यम् इति नाम्ना एव ज्ञायते, न हि अर्जुनस्य गोत्रापत्यम् इति नाम्ना । \n\nएकसंज्ञाधिकारे अपि युगपत् संज्ञाद्वयस्य विधानम्\nएकसंज्ञाधिकारे यत्र एकया संज्ञया अपरस्याः संज्ञायाः अनवकाशत्वम् न विधीयते, तत्र ते द्वे अपि संज्ञे युगपत् अवश्यमेव भवतः । यथा, उपसर्गः / गतिः, एकवचनम् / प्रथम(पुरुषः), गुरु / नदी इत्यादीनां संज्ञायुगलानां सन्दर्भेण एकसंज्ञाधिकारः न प्रवर्तते ।\nअङ्गसंज्ञायाः विषये एकसंज्ञाधिकारः न प्रवर्तते\n<<यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्>> [[1.4.13]] इत्यनेन विहितायाः अङ्गसंज्ञायाः अपेक्षया <<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इत्यनेन विहिता पदसंज्ञा, तथा च <<यचि भम्>> [[1.4.18]] इत्यनेन विहिता संज्ञा - एते द्वे अपि संज्ञे परे स्तः । किञ्च, एते द्वे संज्ञे अङ्गसंज्ञायाः अपेक्षया अनवकाशे अपि स्तः, यतोहि यस्य पदार्थस्य पदसंज्ञा भसंज्ञा वा भवति तस्यैव अङ्गसंज्ञा अपि अवश्यं भवति । अस्यां स्थितौ एकसंज्ञाधिकारसामर्थ्यात् भसंज्ञया पदसंज्ञया च अङ्गसंज्ञायाः बाधः प्राप्नोति । परन्तु एतादृशं न भवति - इत्युक्ते पदसंज्ञा भसंज्ञा च अङ्गसंज्ञां न बाधेते इति प्रकृतसूत्रस्य भाष्ये भाष्यकारेण स्पष्टीकृतं वर्तते । तदर्थं सः अङ्गसंज्ञायाः सूत्रस्य काञ्चित् पुनारचनाम् अपि करोति । अस्मिन् विषये अधिकं पिपठिषवः अस्य सूत्रस्य भाष्ये तृतीयं वार्त्तिकम् पश्येयुः । \n<<प्राक् कडारात् परं कार्यम्>> इति सूत्रान्तरम्\nप्रकृतसूत्रस्य भाष्ये भाष्यकारः ब्रूते -\n\n कथं तु एतत् सूत्रं पठितव्यम्, किम् \"आकडाराद् एका संज्ञा\" इति, आहोस्वित् \"प्राक् कडारात् परं कार्यम्\" इति ? कुतः पुनरयं सन्देहः ? उभयथा हि आचार्येण शिष्याः सूत्रं प्रतिपादिताः । केचिद् आकडाराद् एका संज्ञा इति। केचित् प्राक् कडारात् परं कार्यम् इति ।\n\nपाणिनिमहर्षिणा स्वयमेव आ कडाराद् एका संज्ञा तथा च प्राक् कडारात् परं कार्यम् इति द्वाभ्यां प्रकाराभ्याम् इदं सूत्रम् पाठितम् अस्ति - इति अत्र भाष्यकारेण प्रतिपादितम् अस्ति । अद्यतनकाले उपलभ्यमाने सूत्रपाठे तु सर्वत्र आ कडाराद् एका संज्ञा इत्येव पाठः दृश्यते, परन्तु प्राक् कडारात् परं कार्यम् इति पाठान्तरम् अपि पाणिनिसम्मतम् एव अस्ति इति अत्र आशयः अस्ति ।\n" }, "14002": { "sa": "तुल्यबलसूत्रयोः समानस्थले प्राप्तिः अस्ति चेत् परसूत्रस्य प्रयोगः भवति । ", "sd": "प्रक्रियायाम् द्वयोः अधिकानां वा सूत्राणाम् विप्रतिषेधे प्राप्ते तस्मिन् स्थले तेषु परसूत्रस्य प्रयोगः भवति — इति अस्य सूत्रस्य आशयः ।\n\nविप्रतिषेधः — काशिकायाम् अस्य शब्दस्य व्याख्या इत्थं दीयते —\n\nयत्र द्वौ प्रसङ्गौ अन्यार्थौ, एकस्मिन् युगपत् प्राप्नुतः, सः तुल्यबलविरोधः विप्रतिषेधः ।\n\nइत्युक्ते, ये द्वे सूत्रे सामान्यरूपेण भिन्नेषु स्थलेषु स्वतन्त्ररूपेण कार्यं कुरुतः, ते कुत्रचित् युगपत् प्राप्नुतः चेत् तयोर्मध्ये विप्रतिषेधः उत तुल्यबलत्वम् अस्ति इति उच्यते । एतादृशे विप्रतिषेधे जाते तत्र अष्टाध्यायीक्रमेण अनन्तरम् स्थितस्य सूत्रस्य प्रयोगः भवति —‌ इति प्रकृतसूत्रस्य अर्थः । \nउदाहरणानि\nअस्य सूत्रस्य प्रयोगः प्रायेण सर्वासु अपि प्रक्रियासु प्राचुर्येण कृतः दृश्यते । कानिचन मुख्यानि उदाहरणानि एतानि —\n\n
  • 1. <<बहुवचने झल्येत्>> [[7.3.103]] तथा च <<सुपि च>> [[7.3.102]] एते द्वे सूत्रे बहुषु स्थलेषु स्वतन्त्ररूपेण कार्यं कुरुतः । यथा, राम-शब्दस्य सप्तमीबहुवचनस्य प्रक्रियायाम् सुप्-प्रत्यये परे मकारोत्तरस्य अकारस्य <<बहुवचने झल्येत्>> [[7.3.103]] इति सूत्रेण एकारादेशे कृते रामेषु इति शब्दः सिद्ध्यति । अस्यां प्रक्रियायाम् <<सुपि च>> [[7.3.102]] इत्यस्य प्रसक्तिरेव नास्ति, यतः सुप् इति यञादिप्रत्ययः नास्ति । एवमेव, राम-शब्दस्य तृतीयाद्विवचनस्य प्रक्रियायाम् भ्याम्-प्रत्यये परे मकारोत्तरस्य अकारस्य <<सुपि च>> [[7.3.102]] इति सूत्रेण दीर्घादेशे कृते रामाभ्याम् इति शब्दः सिद्ध्यति । अस्यां प्रक्रियायाम् <<बहुवचने झल्येत्>> [[7.3.103]] इत्यस्य प्रसक्तिरेव नास्ति, यतःभ्याम्-प्रत्ययः बहुवचनस्य प्रत्ययः नास्ति । अनेन प्रकारेण <<बहुवचने झल्येत्>> [[7.3.103]] तथा च <<सुपि च>> [[7.3.102]] एतयोः सूत्रयोः भिन्नेषु स्थलेषु पृथग् पृथग् रूपेण प्रयोगः सम्भवति । अस्यैव निर्देशः काशिकाकारेण अन्यार्थौ इति शब्देन कृतः अस्ति । इदानीम्, एते एव द्वे सूत्रे राम-शब्दस्य चतुर्थीबहुवचनस्य प्रक्रियायाम् भ्यस्-प्रत्यये परे युगपत् प्राप्नुतः, यतः भ्यस्-प्रत्ययः बहुवचनस्य प्रत्ययः अस्ति (अतः <<बहुवचने झल्येत्>> [[7.3.103]] इत्यस्य प्राप्तिः विद्यते), तथा च भ्यस्-प्रत्ययः यञादि-सुप्-प्रत्ययः अपि अस्ति (अतः <<सुपि च>> [[7.3.102]] इत्यस्यापि प्राप्तिः वर्तते) । एतादृशम् द्वयोः सूत्रयोः अत्र विप्रतिषेधः वर्तते । अस्यां स्थितौ — <<बहुवचने झल्येत्>> [[7.3.103]] इत्यनेन एकारादेशः करणीयः उत <<सुपि च>> [[7.3.102]] इत्यनेन दीर्घादेशः कर्तव्यः — इति सम्भ्रमे जाते, विप्रतिषेधे सति परसूत्रस्य प्रयोगः करणीयः — इति निर्णयः <<विप्रतिषेधे परं कार्यम्>> [[1.4.2]] इति सूत्रेण क्रियते । अतः राम-शब्दस्य चतुर्थीबहुवचनस्य प्रक्रियायाम् <<बहुवचने झल्येत्>> [[7.3.103]] तथा च <<सुपि च>> [[7.3.102]] एताभ्याम् परसूत्रेण (इत्युक्ते, <<बहुवचने झल्येत्>> [[7.3.103]] इत्यनेन) एकारादेशे कृते अन्तिमं रूपं सिद्ध्यति —\n\nराम + भ्यस् [<<स्वौजसमौट्...>> [[4.1.2]] इति चतुर्थीबहुवचनस्य प्रत्ययः]\n→ रामे + भ्यस् [<<सुपि च>> [[7.3.102]] तथा च <<बहुवचने झल्येत्>> [[7.3.103]] एतयोः युगपत् प्राप्तौ <<विप्रतिषेधे परं कार्यम्>> [[1.4.2]] इत्यनेन परत्वात् <<बहुवचने झल्येत्>> [[7.3.103]] इति एकारादेशः विधीयते ।]\n→ रामेभ्यः [<<ससजुषो रुः>> [[8.2.66]] इति रुत्वम् । <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः ।]\n\n
  • 2. <<त्रेस्त्रयः>> [[7.1.53]] तथा च <<त्रिचतुरोः स्त्रियां तिसृचतसृ>> [[7.2.99]] एतयोः द्वयोः सूत्रयोः स्वतन्त्ररूपेण प्रयोगः सम्भवति । यथा, त्रि-शब्दस्य पुंलिङ्गे षष्ठीबहुवचनस्य रूपसिद्धौ <<त्रेस्त्रयः>> [[7.1.53]] इति सूत्रेण त्रि-शब्दस्य त्रय-आदेशे कृते त्रयाणाम् इति रूपं सिद्ध्यति । अत्र प्रक्रियायाम् <<त्रिचतुरोः स्त्रियां तिसृचतसृ>> [[7.2.99]] इत्यस्य प्राप्तिरेव नास्ति यतः अत्र पुंलिङ्गस्य रूपस्य सिद्धिः क्रियते । एवमेव, त्रि-शब्दस्य स्त्रीलिङ्गे प्रथमाबहुवचनस्य तिस्रः इति रूपस्य सिद्धौ <<त्रिचतुरोः स्त्रियां तिसृचतसृ>> इति शब्देन त्रि-शब्दस्य तिसृ-आदेशः भवति । तत्र <<त्रेस्त्रयः>> [[7.1.53]] इति सूत्रस्य नैव प्राप्तिः वर्तते यतः तत्र आम्-प्रत्ययः न विद्यते । अनेन प्रकारेण एतयोः द्वयोः सूत्रयोः भिन्नेषु स्थलेषु पृथग् पृथग् रूपेण प्रयोगः सम्भवति । परन्तु त्रि-शब्दस्य स्त्रीलिङ्गस्य षष्ठीबहुवचनस्य प्रक्रियायाम् एते एव द्वे सूत्रे युगपत् प्राप्नुतः । अस्यां स्थितौ प्रकृतसूत्रेण परसूत्रस्य प्रयोगः भवति, अतः <<त्रिचतुरोः स्त्रियां तिसृचतसृ>> इत्यनेन त्रि-शब्दस्य तिसृ-आदेशे कृते अन्तिमं रूपं सिद्ध्यति —\n\nत्रि (स्त्रीलिङ्गे) + आम् [<<स्वौजसमौट्...>> [[4.1.2]] इत्यनेन षष्ठीबहुवचनस्य आम्-प्रत्ययः]\n→ त्रि + नुड् + आम् [<<ह्रस्वनद्यापो नुट्>> [[7.1.54]] इति नुडागमः]\n→ तिसृ + न् + आम् [<<त्रेस्त्रयः>> [[7.1.53]] इत्यनेन त्रयादेशे प्राप्ते, <<विप्रतिषेधे परं कार्यम्>> [[1.4.2]] इति परत्वात् तं बाधित्वा <<त्रिचतुरोः स्त्रियां तिसृचतसृ>> [[7.2.99]] इति तिसृ-आदेशः भवति ।]\n→ तिसृणाम् [ इति णत्वम्]\n\n
  • 3. <<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> [[6.4.77]] तथा च <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] एते द्वे सूत्रे बहुषु स्थलेषु स्वतन्त्ररूपेण कार्यं कुरुतः । यथा, नी-धातोः क्विप्-प्रत्यये कृते नी-इति यत् प्रातिपदिकं सिद्ध्यति, तस्य इति नियमेन धातुत्वात् प्रथमाद्विवचनस्य इति अजादिप्रत्यये परे <<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> [[6.4.77]] इत्यनेन इयङ्-आदेशे कृते नियौ इति रूपं सिद्ध्यति । अत्र <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति सूत्रस्य प्राप्तिरेव नास्ति, यतः अत्र विहितः -प्रत्ययः सार्वधातुकः अपि नास्ति, आर्धधातुकः अपि नास्ति । एवमेव, नी-धातोः तुमुन्-प्रत्ययान्तस्य नेतुम् इति रूपस्य प्रक्रियायाम् <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति सूत्रेण अङ्गस्य गुणः प्रवर्तते । अत्र प्रत्ययः अजादिः नास्ति, अतः अत्र <<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> [[6.4.77]] इत्यस्य नैव प्राप्तिः सम्भवति । अनेन प्रकारेण एतयोः द्वयोः सूत्रयोः मध्ये तुल्यबलत्वम् विद्यते । इदानीम् नी-धातोः अनीयर्-प्रत्यये कृते, प्रत्ययस्य आर्धधातुकत्वात् <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इत्यनेन अङ्गस्य गुणः, तथा च प्रत्ययस्य अजादित्वात् <<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> [[6.4.77]] इत्यनेन अङ्गस्य इयङ्-आदेशः — इति द्वयोः युगपत् प्राप्तिः अस्ति । अस्यां स्थितौ <<विप्रतिषेधे परं कार्यम्>> [[1.4.2]] इत्यनेन परसूत्रस्य प्रयोगः भवति; अतः एव नी + अनीयर् इत्यत्र <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इत्यनेन अङ्गस्य गुणं कृत्वा नयनीय इति रूपं सिद्ध्यति —\n\nणीञ् (प्रापणे, भ्वादिः, <{11.1049}>)\n→ नी [<<णो नः>> [[6.1.65]] इति णकारस्य नकारः]\n→ नी + अनीयर् [<<तव्यत्तव्यानीयरः>> [[3.1.96]] इति अनीयर्-प्रत्ययः]\n→ ने + अनीय [<<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> [[6.4.77]] इति इयङ्-आदेशे प्राप्ते; परत्वात् तद्बाधित्वा <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणः प्रवर्तते]\n→ नय् + अनीय [<<एचोऽयवायावः>> [[6.1.78]] इति अयादेशः]\n→ नयनीय\n\n
  • 4. <<अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च>> [[3.1.138]] तथा च <<कर्मण्यण्>> [[3.2.1]] इत्येतयोः सूत्रयोः बहुत्र स्वतन्त्ररूपेण प्रयोगः सम्भवति । यथा, लिम्पति इति अस्मिन् अर्थे लिम्प्-धातोः <<अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च>> [[3.1.138]] इत्यनेन -प्रत्यये कृते लिम्पः इति रूपं सिद्ध्यति । अत्र किमपि उपपदम् न वर्तते अतः अत्र <<कर्मण्यण्>> [[3.2.1]] इति सूत्रस्य प्राप्तिरेव नास्ति । एवमेव, कुम्भं करोति इति अस्मिन् अर्थे कृ-धातोः <<कर्मण्यण्>> [[3.2.1]] इत्यनेन अण्-प्रत्यये कृते कुम्भकारः इति रूपं सिद्ध्यति । अत्र <<अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च>> [[3.1.138]] इति सूत्रस्य प्राप्तिरेव नास्ति यतः कृ-धातोः तत्र ग्रहणम् एव कृतं नास्ति । अनेन प्रकारेण एतयोः द्वयोः सूत्रयोः भिन्नेषु स्थलेषु पृथग् पृथग् रूपेण प्रयोगः सम्भवति । परन्तु कुड्यं लिम्पति इत्यत्र एतयोः द्वयोः अपि सूत्रयोः युगपत् प्राप्तिः वर्तते; यतः अत्र लिम्प्-धातुः अपि वर्तते, कर्मणि उपपदम् अपि च वर्तते । अस्यां स्थितौ <<विप्रतिषेधे परं कार्यम्>> [[1.4.2]] इति सूत्रेण परसूत्रस्यैव प्रयोगः भवति, अतः कुड्यं लिम्पति इत्यत्र <<कर्मण्यण्>> [[3.2.1]] इति सूत्रेण अण्-प्रत्यये कृते कुड्यलेपः इति अण्-प्रत्ययान्तं रूपम् एव सिद्ध्यति ।\n\n\nअनेन प्रकारेण यत्र द्वयोः तुल्यबलयोः सूत्रयोः समानस्थले प्रसक्तिः अस्ति (इत्युक्ते, यत्र विप्रतिषेधः अस्ति), तत्र प्रकृतसूत्रस्य प्रयोगं कृत्वा परसूत्रस्य प्रयोगः क्रियते । \nत्रिपाद्याः सन्दर्भे विप्रतिषेधस्य अनुपस्थितिः\nत्रिपाद्याम् पूर्वसूत्राणाम् कृते परसूत्राणि असिद्धानि सन्ति, अतः त्रिपाद्याम् विप्रतिषेधः नैव प्रवर्तते । इत्युक्ते, त्रिपाद्याम् यत्र यत्र पूर्वसूत्र-परसूत्रयोः युगपत् प्राप्तिः विद्यते, तत्र तत्र सर्वत्र परसूत्रं पूर्वसूत्रं प्रति असिद्धं भवति अतः नित्यम् पूर्वसूत्रस्यैव प्रयोगः भवति । यथा, चर्-धातोः प्रथमपुरुषबहुवचनस्य अन्ति-प्रत्यये परे नकारस्य <<नश्चापदान्तस्य झलि>> [[8.3.24]] इत्यनेन अनुस्वारादेशः प्राप्नोति; तथा च <<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इत्यनेन णत्वम् अपि सम्भवति । अस्यां स्थितौ अनुस्वारं प्रति णत्वस्य असिद्धत्वात् अनुस्वारादेशः एव प्रवर्तते ।\n\nचरँ (गतौ भक्षणे च, भ्वादिः <{1.640}>)\n→ चर् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ चर् + झि [<<तिप्तस्झि..>> [[3.4.78]] इति प्रथमपुरुषबहुवचनस्य झि-प्रत्ययः]\n→ चर् + अन्ति [<<झोऽन्तः>> [[7.1.3]] इति अन्ति-आदेशः]\n→ चर् + शप् + अन्ति [<<कर्तरि शप्>> [[3.1.68]] इति शप्-विकरणम्]\n→ चर् + अ + अन्ति [इत्संज्ञालोपः]\n→ चर् + अ + अंति [नकारस्य <<नश्चापदान्तस्य झलि>> [[8.3.24]] इत्यनेन अनुस्वारादेशः भवति । अत्र <<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इत्यनेन णत्वस्य अपि युगपत् प्राप्तिः वर्तते परन्तु णत्वस्य असिद्धत्वात् अत्र अनुस्वारादेशः एव प्रवर्तते ।]\n→‌चर् + अ + अन्ति [<<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति परसवर्णे नकारादेशः भवति । अयं नकारादेशः <<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इत्येतं प्रति असिद्धः अस्ति अतः अत्र अग्रे णत्वं नैव सम्भवति ।]\n\nएवमेव, यत्र त्रिपादीसूत्रस्य सपादसप्ताध्याय्याः सूत्रेण सह युगपत् प्राप्तिः वर्तते; तत्र अपि त्रिपादीसूत्रस्य असिद्धत्वात् <<विप्रतिषेधे परं कार्यम्>> [[1.4.2]] इत्यस्य प्रयोगः नैव सम्भवति, अतः तत्र सपादसप्ताध्यायीसूत्रम् एव प्रवर्तते । यथा, मनोरथ शब्दस्य सिद्धौ सपादसप्ताध्यायीस्थम् उत्वं प्रति त्रिपादीस्थस्य रेफलोपस्य असिद्धत्वात् उत्वम् एव प्रवर्तते —\n\nमनसः रथः [<<षष्ठी>> [[2.2.8]] इति षष्ठीतत्पुरुषः]\n→ मनस् + रथ [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा ।<<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्यययोः लुक्]\n→ मनरुँ + रथ [<<ससजुषो रुँः>> [[8.2.66]] इति रुँत्वम् ]\n→ मनउ + रथ [रुँत्वे कृते <<हशि च>> [[6.1.114]] इति उत्वम् प्राप्नोति, एवमेव <<रो रिः>> [[8.3.14]] इति रेफलोपः अपि प्राप्नोति । अत्र उत्वम् सपादसप्ताध्याय्यां विद्यते, परन्तु विधानसामर्थ्यात् उत्वस्य कृते रुँत्वम् सिद्धम् अस्ति, अतः रुँत्वात् अनन्तरम् तस्य प्राप्तिः अवश्यं सम्भवति । परन्तु उत्वस्य कृते त्रिपादीस्थः रेफलोपः तु असिद्धः एव अस्ति । अत्र अत्र <<विप्रतिषेधे परं कार्यम्>> [[1.4.2]] इत्यस्य प्रयोगः नैव भवति, अपि तु सपादसप्ताध्यायीस्थं उत्वकार्यम् एव प्रवर्तते ]\n→ मनोरथ [<<आद्गुणः>> [[6.1.87]] इति गुणैकादेशः]\n\nविप्रतिषेधः तथा उत्सर्गापवादः\nप्रक्रियायाम् एकस्मिन् सोपाने युगपत् प्राप्तयोः द्वयोः सूत्रयोः मध्ये नित्यम् विप्रतिषेधः एव स्यात् इति न आवश्यकम् । यदि द्वे सूत्रे सामान्यरूपेण भिन्नेषु स्थलेषु स्वतन्त्ररूपेण प्राप्नुतः, तर्हि एव तयोः युगपत् प्राप्तौ विप्रतिषेधस्य विधानं भवति । परन्तु यदि ताभ्याम् एकम् सूत्रम् अन्यसूत्रं विना स्वतन्त्ररूपेण नैव कुत्रचित् प्राप्नोति, तर्हि तयोमर्ध्ये विप्रतिषेधः नैव स्वीक्रियते (अपितु उत्सर्गापवादभावः स्वीक्रियते), अतश्च <<विप्रतिषेधे परं कार्यम्>> [[1.4.2]] इति सूत्रम् अपि तत्र न प्रवर्तते । अस्य एकम् उदाहरणम् एतादृशम् — <<स्वमोर्नपुंसकात्>> [[7.1.23]] इति सूत्रेण नपुंसकशब्दात् विहितस्य सुँ/अम्-प्रत्ययस्य लुक् विधीयते । परन्तु ह्रस्व-अकारान्त-नपुंसकलिङ्ग-शब्देभ्यः विहितस्य सुँ/अम्-प्रत्ययस्य <<अतोऽम्>> [[7.1.24]] इति सूत्रेण अम् इति आदेशः भवति । अत्र <<स्वमोर्नपुंसकात्>> [[7.1.23]] इति सूत्रम् सर्वेभ्यः नपुंसकलिङ्गशब्देभ्यः कृते प्रयोक्तुं शक्यते, परन्तु <<अतोऽम्>> [[7.1.24]] इति सूत्रम् केवलम् ह्रस्व-अकारान्त-नपुंसकलिङ्ग-शब्देभ्यः एव प्रयोक्तुं शक्यते । इत्युक्ते, यत्र यत्र <<अतोऽम्>> [[7.1.24]] इति सूत्रस्य प्राप्तिः वर्तते; तत्र तत्र सर्वत्र <<स्वमोर्नपुंसकात्>> [[7.1.23]] इति सूत्रम् अपि अवश्यं प्राप्नोति । अस्यैव अर्थः अयम्, यत् <<अतोऽम्>> [[7.1.24]] सूत्रस्य स्वतन्त्ररूपेण ( <<स्वमोर्नपुंसकात्>> [[7.1.23]] इति सूत्रं विना) नैव कुत्रचित् प्राप्तिः सम्भवति । अस्यां स्थितौ एतयोमर्ध्ये तुल्यबलत्वम् नैव वर्तते; अपि तु, <<अतोऽम्>> [[7.1.24]] इति सूत्रम् <<स्वमोर्नपुंसकात्>> [[7.1.23]] इत्यस्य अपवादरूपेण एव स्वीक्रियते । एतादृशे उत्सर्ग-अपवाद-सम्बन्धे प्राप्ते; तत्र <<विप्रतिषेधे परं कार्यम्>> [[1.4.2]] इति सूत्रस्य प्रयोगः न भवति, अपि तु अपवादसूत्रम् एव प्राधान्येन प्रयुज्यते ।\n<pv>परसूत्रस्य प्रयोगात् अनन्तरम् पूर्वसूत्रम् प्रवर्तते वा ? \nविप्रतिषेधे जाते <<विप्रतिषेधे परं कार्यम्>> [[1.4.2]] इति सूत्रेण परसूत्रस्य चयने कृते; तदनन्तरम् कुत्रचित् पूर्वसूत्रस्य अपि प्राप्तिः इष्यते । यथा, <<यज्>>-धातोः लिट्-लकारस्य प्रथमपुरुषद्विवचनस्य अतुस्-प्रत्यये परे <<वचिस्वपियजादीनां किति>> [[6.1.15]] इत्यनेन सम्प्रसारणम्, तथा च <<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इत्यनेन द्वित्वम् — एतयोः मध्ये विप्रतिषेधः अस्ति । अस्यां स्थितौ <<वचिस्वपियजादीनां किति>> [[6.1.15]] इत्यनेन आदौ सम्प्रसारणं कृत्वा, ततः <<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इत्यनेन द्वित्वम् अपि क्रियते, येन इष्टरूपं सिद्ध्यति‌ —\n\nयजँ ( देवपूजासङ्गतिकरणदानेषु, भ्वादिः, <{1.1157}>)\n→ यज् + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट्]\n→ यज् + तस् [<<तिप्तस्झि..>> [[3.4.78]] इति प्रथमपुरुषद्विवचनस्य तस्-प्रत्ययः]\n→ यज् + अतुस् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इति अतुस्-आदेशः]\n→ इज् + अतुस् [<<असंयोगाल्लिट् कित्>> [[1.2.5]] इति प्रत्ययस्य कित्त्वात् <<वचिस्वपियजादीनां किति>> [[6.1.15]] इति सम्प्रसारणम् । अत्र <<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इत्यनेन द्वित्वम् अपि प्राप्नोति, परन्तु <<विप्रतिषेधे परं कार्यम्>> [[1.4.2]] इत्यनेन परत्वात् <<वचिस्वपियजादीनां किति>> [[6.1.15]] इत्यस्यैव प्रयोगः भवति ।]\n→ इज् इज् अतुस् [सम्प्रसारणे कृते ततः पूर्वसोपाने बाधितं सूत्रम् अत्र पुनः प्रवर्तते । अतः <<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इत्यनेन अत्र द्वित्वम् भवति ।]\n→ इ इज् अतुस् [<<हलादिः शेषः>> [[7.4.60]]\n→ ईजतुः [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः । <<ससजुषो रुः>> [[8.2.66]] इति सकारस्य रुत्वम् । <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n\nएतादृशम् विप्रतिषेधेन पूर्वं बाधितस्य सूत्रस्य पुनः प्रसक्त्यर्थम् भाष्यकारेण <ऽ पुनः प्रसङ्गविज्ञानात् सिद्धम् ऽ> इति परिभाषा दत्ता अस्ति । बाधकसूत्रस्य प्रयोगात् अनन्तरम्, तस्मिन्नेव स्थले पुनः विप्रतिषेधेन बाधितस्य सूत्रस्य प्राप्तौ, तत् सूत्रम् अवश्यं प्रयोक्तुं शक्यते — इति अस्याः परिभाषायाः अर्थः । \n \nपरन्तु, केषुचन अन्येषु स्थलेषु विप्रतिषेधेन बाधितस्य सूत्रस्य पुनः प्राप्तौ अपि तस्य प्रयोगः नैव इष्यते । यथा, माला-शब्दस्य सप्तम्येकवचनस्य रूपसिद्धौ ङि-प्रत्ययस्य <<ङेराम्नद्याम्नीभ्यः>> [[7.3.116]] इत्यनेन आम्-आदेशे कृते ततः <<याडापः>> [[7.3.113]] इत्यनेन याडागमः तथा च <<ह्रस्वनद्यापो नुट्>> [[7.1.54]] इत्यनेन नुडागमः - इति उभयोः युगपत् प्राप्तिः विद्यते । तत्र <<विप्रतिषेधे परं कार्यम्>> [[1.4.2]] इत्यनेन परत्वात् <<याडापः>> [[7.3.113]] इत्यस्य प्रयोगे कृते, ततः पुनः <<ह्रस्वनद्यापो नुट्>> [[7.1.54]] इत्यस्य प्रयोगः अवश्यं सम्भवति, परन्तु साधुरूपसिद्धौ सः नैव इष्यते —\n\nमाला + ङि [सप्तम्येकवचनस्य प्रत्ययः]\n→ माला + आम् [<<ङेराम्नद्याम्नीभ्यः>> [[7.3.116]] इति ङि-प्रत्ययस्य आम्-आदेशः]\n→ माला + याट् + आम् [<<याडापः>> [[7.3.113]] इत्यनेन याट्-आगमः । अयम् परत्वात् <<ह्रस्वनद्यापो नुट्>> [[7.1.54]] इत्येतं प्राप्तं नुडागमं बाधते । ]\n→ माला + याम् [<ऽयदागमास्तद्गुणूभूताः तद्ग्रहणेन गृह्यन्तेऽ> इति परिभाषया याडागमम् आम्-प्रत्ययस्यैव अवयवं मत्वा <<ह्रस्वनद्यापो नुट्>> [[7.1.54]] इत्यस्य पुनः प्राप्तिः अवश्यम् अस्ति । परन्तु एतादृशः नुडागमः अत्र न इष्यते]\n→ मालायाम् [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः]\n\nएतादृशम् विप्रतिषेधेन पूर्वं बाधितस्य सूत्रस्य पूर्वं बाधितस्य सूत्रस्य नित्यम् बाधनार्थम् भाष्यकारेण <ऽसकृद्गतौ विप्रतिषेधे यद्बाधितम् तद्बाधितमेवऽ> इति अन्या परिभाषा अपि पाठिता अस्ति । बाधकसूत्रस्य प्रयोगात् अनन्तरम्, तस्मिन्नेव स्थले पुनः विप्रतिषेधेन बाधितस्य सूत्रस्य प्राप्तौ, तत् सूत्रम् नैव प्रयोक्तव्यम् — इति अस्याः परिभाषायाः अर्थः । \n\nअनेन प्रकारेण भाष्यकारेण अस्य सूत्रस्य भाष्ये <ऽ पुनः प्रसङ्गविज्ञानात् सिद्धम् ऽ> तथा च <ऽसकृद्गतौ विप्रतिषेधे यद्बाधितम् तद्बाधितमेवऽ> एतयोः द्वयोः विरूद्धार्थयोः परिभाषयोः निर्देशः कृतः अस्ति । साधुरूपसिद्ध्यर्थम् एताभ्याम् या परिभाषा आवश्यकी, तस्याः प्रयोगः करणीयः — इति अत्र विवेकः ज्ञेयः । किञ्च, एते द्वे अपि परिभाषे <<विप्रतिषेधे परं कार्यम्>> [[1.4.2]] इत्यस्मात् सूत्रात् एव सिद्ध्यतः इति अपि भाष्यकारः अस्मिन् स्थले स्पष्टी करोति । तत्र सः ब्रूते —\n\nपठिष्यति हि आचार्यः, सकृद्गतौ विप्रतिषेधे यद् बाधितं तद् बाधितम् एव इति । पुनश्च पठिष्यति - पुनः प्रसङ्गविज्ञानात् सिद्धम्, इति । किं पुनः इयता सूत्रेण उभयं लभ्यम् ? लभ्यम् इत्याह । कथम् ? इह भवता द्वौ हेतू व्यपदिष्टौ - तृजादिभिः तुल्यं पर्यायः प्राप्नोतीति च, अप्रतिपत्तिः वा उभयोः तुल्यबलत्वाद् इति च । तद् यदा तावद् एष हेतुः तृजादिभिः तुल्यं पर्यायः प्राप्नोति इति, तदा विप्रतिषेधे परम् इत्यनेन किं क्रियते ? नियमः । विप्रतिषेधे परमेव भवति — इति । तदा एतद् उपपन्नं भवति — सकृद्गतौ विप्रतिषेधे यद् बाधितं तद् बाधितम् एव एति । यदा तु एषः हेतुः अप्रतिपत्तिः उभयोः तुल्यबलत्वादिति, तदा विप्रतिषेधे परम् इत्यनेन किं क्रियते क्रियते ? द्वारम् । विप्रतिषेधे परं तावद् भवति, तस्मिन् कृते यदि पूर्वम् अपि प्राप्नोति, तदपि भवति । तदा एतद् उपपन्नं भवति — पुनः प्रसङ्गविज्ञानात् सिद्धम् इति ।\n\n<<विप्रतिषेधे परं कार्यम्>> [[1.4.2]] इति सूत्रम् नियमसूत्रम् अस्ति इति स्वीक्रियते चेत् विप्रतिषेधे परम् एव कार्यम्, न हि पूर्वम् इति अर्थः जायते, येन <ऽसकृद्गतौ विप्रतिषेधे यद्बाधितम् तद्बाधितमेवऽ> इति परिभाषा सिद्ध्यति । परन्तु <<विप्रतिषेधे परं कार्यम्>> [[1.4.2]] इति सूत्रम् विधिसूत्रम् अस्ति इति स्वीक्रियते चेत् विप्रतिषेधे परम् अवश्यं भवति, ततः इष्टं चेत् पूर्वम् अपि भवति इति अर्थः जायते, येन <ऽ पुनः प्रसङ्गविज्ञानात् सिद्धम् ऽ> इति परिभाषा सिद्ध्यति । अनेन प्रकारेण प्रकृतसूत्रात् एव द्वयोः अपि परिभाषयोः ज्ञापनं भवति - इति अत्र भाष्यकारस्य आशयः वर्तते । अस्मिन् सन्दर्भे अधिकं पिपठिषवः अस्य सूत्रस्य भाष्यम् अवश्यं पश्येयुः । \n<pv>पूर्वविप्रतिषेधः, इष्टवाची परशब्दः\nयद्यपि विप्रतिषेधे प्राप्ते परसूत्रम् प्राधान्येन प्रयोक्तव्यम् इति अस्य सूत्रस्य आशयः अस्ति, तथापि कुत्रचित् विप्रतिषेधे जाते अपि पूर्वसूत्रस्य एव प्रयोगः इष्यते । यथा, वारि-शब्दस्य चतुर्थ्येकवचनस्य रूपे <<इकोऽचि विभक्तौ>> [[7.1.73]] इत्यनेन नुमागमः; तथा च <<घेर्ङिति>> [[7.3.111]] इत्यनेन गुणः — इत्येतयोः युगपत् प्राप्तौ सत्याम् <<विप्रतिषेधे परं कार्यम्>> [[1.4.2]] इत्यनेन परसूत्रस्य (गुणस्य) एव विधानं भवेत्; परन्तु तत्र <<इकोऽचि विभक्तौ>> [[7.1.73]] इति पूर्वसूत्रेण नुमागमे कृते एव इष्टं रूपं सिद्ध्यति —\n\nवारि + ङे [चतुर्थ्येकवचनस्य प्रत्ययः]\n→ वारि + नुम् + ए [<<इकोऽचि विभक्तौ>> [[7.1.73]] इति नुमागमः ।]\n→ वारिणे [<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इति णत्वम्]\n\nएतादृशानाम् उदाहरणानाम् सिद्ध्यर्थम् एतेषु स्थलेषु विप्रतिषेधे जाते पूर्वसूत्रेण परसूत्रस्य बाधः भवति इति भाष्ये स्पष्टीकृतम् अस्ति । अस्यैव निर्देशः व्याकरणशास्त्रे पूर्वविप्रतिषेधः इति नाम्ना क्रियते । अस्य विप्रतिषेधस्य विधानार्थम् तथा च इति द्वे वार्त्तिके अपि वार्त्तिककारेण पाठिते स्तः । परन्तु परन्तु एते वार्त्तिके भाष्यकारेण प्रत्याख्याते स्तः । तत्र भाष्यकारः ब्रूते — इष्टवाची परशब्दः; तस्य इदं ग्रहणम् । विप्रतिषेधे परं यद् इष्टं तद्भवति । अत्र भाष्यकारेण <<विप्रतिषेधे परं कार्यम्>> [[1.4.2]] अस्मिन् सूत्रे विद्यमानस्य परशब्दस्य अर्थः इष्टः इति कृतः अस्ति । विप्रतिषेधे जाते, अन्तिमरूपार्थम् यद् सूत्रम् इष्टम्, तस्य प्रयोगः भवति — इति अत्र भाष्यकारस्य आशयः वर्तते । अतः उपरिनिर्दिष्टायां प्रक्रियायाम् <<इकोऽचि विभक्तौ>> [[7.1.73]] इत्यनेन नुमागमः; तथा च <<घेर्ङिति>> [[7.3.111]] इत्यनेन गुणः — इत्येतयोः युगपत् प्राप्तौ सत्याम् प्रक्रियायाम् यद् परम् (इष्टम्) तत् नुमागमविधानम् एव भवति — इति अर्थः अत्र सिद्ध्यति । \n\n" }, "14003": { "sa": "दीर्घ-ईकारान्ताः दीर्घ-ऊकारान्ता: च नित्यस्त्रीलिङ्गवाचिनः शब्दाः नदीसंज्ञकाः भवन्ति । यथा - गौरी, वधू । ", "sd": "व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा नदी इति संज्ञा अनेन सूत्रेण पाठ्यते । दीर्घ-ईकारान्ताः, दीर्घ-ऊकारान्ता: च नित्यस्त्रीलिङ्गवाचिनः शब्दाः नदीसंज्ञकाः भवन्ति - इति अस्य सूत्रस्य अर्थः । \n\nनित्यस्त्रीलिङ्गवाचिनः शब्दाः - ये शब्दाः भाषायाम् केवलं स्त्रीलिङ्गे एव प्रयुज्यन्ते (पुंलिङ्गे उत नपुंसकलिङ्गे नैव प्रयुज्यन्ते इत्याशयः) ते नित्यस्त्रीलिङ्गवाचिनः शब्दाः इति नाम्ना ज्ञायन्ते । एते शब्दाः द्विप्रकारकाः सन्ति -\n\n
  • 1. ते शब्दाः येषाम् अन्ते कश्चन स्त्रीप्रत्ययः (टाप्, डाप्, चाप्, ङीप्, ङीष्, ङीन्, ऊङ्, क्तिन्) विद्यते । यथा - माला, गौरी, नदी, स्त्री, ब्रह्मबन्धू - इत्यादयः।\n
  • 2. ते शब्दाः ये स्त्रीप्रत्ययान्ताः न सन्ति परन्तु तथापि स्वभावतः केवलं स्त्रीलिङ्गे एव प्रयुक्ताः दृश्यन्ते । यथा - धी, लक्ष्मी, मातृ, चमू, वधू - इत्यादयः ।\n\n\nएतादृशाः नित्यस्त्रीलिङ्गवाचिनः शब्दाः यदि दीर्घ-ईकारान्ताः उत दीर्घ-ऊकारान्ताः सन्ति, तर्हि तेषां प्रकृतसूत्रेण नदी इति संज्ञा भवति । यथा -\n\n
  • 1. दीर्घ-ईकारान्ताः नित्यस्त्रीलिङ्गवाचिनः शब्दाः - कुमारी, गौरी, नदी, लक्ष्मी एतादृशानां दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दानां प्रकृतसूत्रेण नदी संज्ञा भवति । \n
  • 2. दीर्घ-ऊकारान्ताः नित्यस्त्रीलिङ्गवाचिनः शब्दाः - ब्रह्मबन्धू, वधू, यवागू, श्वश्रू एतादृशानां दीर्घ-ऊकारान्त-स्त्रीलिङ्गशब्दानां प्रकृतसूत्रेण नदी संज्ञा भवति । \n\nसूत्रस्य प्रतिपदार्थः\nअस्मिन् सूत्रे विद्यमानयोः शब्दयोः अर्थौ एतादृशौ - \n\n
  • 1. यू - प्रकृतसूत्रे प्रयुक्त: यू इति शब्दः ई + ऊ इत्यस्मात् प्रारभ्य ईकारस्य यणादेशं कृत्वा सिद्ध्यति । इत्युक्ते, यू इति शब्देन अत्र दीर्घ-ईकारस्य, दीर्घ-ऊकारस्य च निर्देशः भवति । <<येन विधिस्तदन्तस्य>> [[1.1.72]] इत्यनेन अत्र तदन्तग्रहणम् अपि क्रियते, अतश्च यू इति शब्देन अत्र दीर्घ-ईकारान्तशब्दानाम् दीर्घ-ऊकारान्तशब्दानां च ग्रहणं भवति ।\n
  • 2. स्त्र्याख्यौ - प्रकृतसूत्रे प्रयुक्तस्य स्त्र्याख्यः इति शब्दस्य विग्रहः स्त्रीः आख्या यस्य इति दीयते । आख्या इत्युक्ते संज्ञा । येषां शब्दानां नित्यम् स्त्री इति संज्ञा भवति, इत्युक्ते ये शब्दाः नित्यस्त्रीलिङ्गवाचिनः सन्ति, तेषाम् अनेन शब्देन निर्देशः क्रियते । एतादृशानां शब्दानाम् एव प्रकृतसूत्रेण नदीसंज्ञा विधीयते । ये शब्दाः दीर्घ-ईकारान्ताः / दीर्घ-ऊकारान्ताः सन्तः अपि पुंलिङ्गवाचिनः सन्ति, अथ वा ये शब्दाः दीर्घ-ईकारान्ताः / दीर्घ-ऊकारान्ताः सन्तः अपि समाने एव अर्थे स्त्रीलिङ्गे पुंलिङ्गे च प्रयुज्यन्ते, ते नित्यस्त्रीलिङ्गाः न, अतः तेषाम् प्रकृतसूत्रेण नदीसंज्ञा अपि नैव भवति । अतएव, प्रधी (प्रध्यायति सः / सा), सेनानी (= सेनां नयति सः / सा), खलपू (= खलं पुनीते सः / सा, one who cleans the floor) एतादृशानां शब्दानां स्त्रीलिङ्गप्रयोगे अपि प्रकृतसूत्रेण नदीसंज्ञा न भवति ।\n\n
    \nविशेषः - ये शब्दाः दीर्घ-ईकारान्ताः / दीर्घ-ऊकारान्ताः सन्तः अपि समाने एव अर्थे स्त्रीलिङ्गे पुंलिङ्गे च प्रयुज्यन्ते, तेषां स्त्रीलिङ्गप्रयोगे अपि नित्यस्त्रीलिङ्गत्वं न मन्यते, अतश्च नदीसंज्ञा अपि नैव भवति इति अस्माभिः अत्र यद् दृष्टम्, सः कैयटस्य पक्षः अस्ति । कशिकाकारस्य मतेन तु अत्र स्त्र्याख्यः इति शब्दस्य अर्थः किञ्चित् भिन्नः वर्तते । अमुम् एव अर्थं स्पष्टीकुर्वन् सिद्धान्तकौमुद्यां <<वाऽमि>> [[1.4.5]] इत्यस्मिन् सूत्रे कौमुदीकारः वदति - वृत्तिकारादीनां मते...पदान्तरं विना अपि स्त्रियां वर्तमानत्वं नित्यस्त्रीत्वम् - इति । अस्य अर्थः अयम् - यत्र कश्चन शब्दः स्वाभाविकरूपेण पुंलिङ्गे स्त्रीलिङ्गे च प्रयोक्तुं शक्यते, तत्र तस्य स्त्रीलिङ्गप्रयोगे अवश्यम् एव नित्यस्त्रीलिङ्गत्वं स्वीकरणीयम्, अतश्च तस्य नदीसंज्ञा अपि सम्भवति । यथा, प्रध्यायति इत्यस्मिन् अर्थे सिद्धः प्रधी इति शब्दः लोके लिङ्गनिरपेक्षरूपेण प्रयुक्तः दृश्यते (इत्युक्ते, पुरुषस्य विषये, तथा च स्त्रियाः अपि विषये समानरूपेण अस्य शब्दस्य प्रयोगः दृश्यते), अतश्च स्त्रीलिङ्गवाचिनः प्रधी-शब्दस्य नित्यस्त्रीलिङ्गत्वं मत्वा प्रकृतसूत्रेण तस्य अवश्यं हि नदीसंज्ञा भवति । परन्तु, ये शब्दाः लोके स्वभावतः पुंलिङ्गे एव दृश्यन्ते । इत्युक्ते एतेषां शब्दानां प्रयोगेण सामान्यतः पुंलिङ्गः अर्थः एव स्वीकरणीयः इति लोके व्यवहारः अस्ति; तथा च यदि स्त्रीलिङ्गः अर्थः वक्तव्यः तर्हि तत्र सा / एषा इति पदान्तरस्य आवश्यकता विद्यते, तादृशाः शब्दाः स्त्रीलिङ्गे प्रयुक्ताः अपि नित्यस्त्रीलिङ्गवाचिनः न सन्ति, अतश्च नदीसंज्ञकाः अपि न सन्ति । यथा, सेनां नयति इत्यस्मिन् अर्थे प्रयुक्तः सेनानी इति शब्दः यद्यपि पुंलिङ्गे स्त्रीलिङ्गे च प्रयोक्तुं शक्यः, तथापि लोकव्यवहारे अयं शब्दः स्वभावतः पुंलिङ्गवाची एव अस्ति (सेनायाः नायकत्वं सामान्यरूपेण पुरुषे एव स्वीक्रियते इत्याशयः) । इत्युक्ते, यदि सेनानी इति शब्दः स्त्रीलिङ्गे प्रयोक्तव्यः, तर्हि तस्य लिङ्गस्य निर्देशार्थम् विशिष्टरूपेण सा सेनानी / एषा सेनानी इति रीत्या पदान्तरस्य (अन्यपदस्य) आधारः आवश्यकः भवति । एतादृशाः शब्दाः, स्त्रीलिङ्गे प्रयुक्ताः सन्तः अपि काशिकाकारस्य मतेन नित्यस्त्रीलिङ्गाः न, अतः ते नदीसंज्ञकाः अपि नैव मन्यन्ते । अनेनैव प्रकारेण खलं पुनाति अनेन वाक्येन निर्दिष्टः व्यवहारः अपि लोके सामान्यतः पुरुषवाचकः एव मन्यते, अतः तेन निर्दिष्टः खलपू इति शब्दः अपि लोके सामान्यतः पुंलिङ्गरूपेण एव व्यवह्रियते । इत्युक्ते, अस्य स्त्रीलिङ्गे निर्देशार्थम् अपि सा / एषा इति पदान्तरम् आवश्यकं भवति । एतं (इत्युक्ते, सा / एषा इति) पदान्तरं विना अस्य शब्दस्य स्त्रियां वर्तमानत्वम् (विद्यमानत्वम्) नास्ति इत्यर्थः । अतएव अस्य शब्दस्य स्त्रीलिङ्गे प्रयुक्ते सति अपि नित्यस्त्रीलिङ्गत्व-अभावात् नदीसंज्ञा नैव भवति ।अयमेव सर्वः आशयः कौमुद्यां पदान्तरं विना अपि स्त्रियां वर्तमानत्वं नित्यस्त्रीत्वम् इति वाक्येन निर्दिष्टः वर्तते । अनेन प्रकारेण काशिकाकार-कैयटयोर्मध्ये स्त्र्याख्यः इति शब्दम् अधिकृत्य मतान्तरम् अस्ति । \nनदीसंज्ञाविशिष्टानि कार्याणि\nनदीसंज्ञायाः आधारेण अष्टाध्याय्याम् आहत्य चत्वारि कार्याणि उक्तानि सन्ति । तानि एतानि -\n\n
  • 1. <<अम्बार्थनद्योर्ह्रस्वः>> [[7.3.107]] इति सूत्रेण सम्बोधनैकवचनस्य सुँ-प्रत्यये परे नदीसंज्ञक-अङ्गस्य ह्रस्वादेशः भवति । यथा -\n\nगौरी + सुँ [सम्बोधनैकवचनस्य प्रत्ययः]\n--> गौरि + स् [ <<अम्बार्थनद्योर्ह्रस्वः>> [[7.3.107]] इति नदीसंज्ञकस्य अङ्गस्य ह्रस्वादेशः]\n--> गौरि [<<एङ्ह्रस्वात्सम्बुद्धेः>> [[6.1.69]] इति सम्बोधनैकवचनप्रत्ययस्य लोपः]\n\n
  • 2. <<आण्नद्याः>> [[7.3.112]] इति सूत्रेण नदीसंज्ञक-अङ्गात् विहितस्य ङित्-प्रत्ययस्य आट् इति आगमः भवति । यथा -\n\nगौरी + ङे [चतुर्थ्येकवचनस्य प्रत्ययः]\n--> गौरी + आट् + ए [ <<आण्नद्याः>> [[7.3.112]] नदीसंज्ञक-अङ्गात् विहितस्य ङित्-प्रत्ययस्य आट् आगमः]\n--> गौरी + ऐ [<<आटश्च>> [[6.1.90]] इति वृद्ध्यैकादेशः]\n--> गौर्यै [<<इको यणचि>> [[6.1.77]] इति यणादेशः]\n\nएवमेव, नदीसंज्ञकशब्दस्य पञ्चम्येकवचनस्य / षष्ठ्येकवचनस्य प्रक्रियायाम् अपि अनेन सूत्रैण आट् आगमः भवति - \n\nगौरी + ङसिँ / ङस् [पञ्चम्येकवचनस्य / षष्ठ्येकवचनस्य प्रत्ययः]\n--> गौरी + आट् + अस् [<<आण्नद्याः>> [[7.3.112]] नदीसंज्ञक-अङ्गात् विहितस्य ङित्-प्रत्ययस्य आट् आगमः]\n--> गौरी + आस् [<<आटश्च>> [[6.1.90]] इति वृद्ध्यैकादेशः]\n--> गौर्यास् [<<इको यणचि>> [[6.1.77]] इति यणादेशः]\n--> गौर्याः [रुत्वविसर्गौ]\n\n
  • 3. <<ह्रस्वनद्यापो नुट्>> [[7.1.54]] इति सूत्रेण नदीसंज्ञक-अङ्गात् विहितस्य षष्ठीबहुवचनस्य आम्-प्रत्ययस्य नुट् इति आगमः भवति । यथा -\n\nगौरी + आम् [षष्ठीबहुवचनस्य प्रत्ययः]\n--> गौरी + नुट्+ आम् [ <<ह्रस्वनद्यापो नुट्>> [[7.1.54]] इति नदीसंज्ञक-अङ्गात् विहितस्य आम्-प्रत्ययस्य नुट् आगमः]\n--> गौरीणाम् [<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इति णत्वम्]\n\n
  • 4. <<ङेराम्नद्याम्नीभ्यः>> [[7.3.116]] इति सूत्रेण नदीसंज्ञक-अङ्गात् परस्य सप्तमी-एकवचनस्य ङि-प्रत्ययस्य आम् इति आदेशः भवति । यथा -\n\nगौरी + ङि [सप्तम्येकवचनस्य प्रत्ययः]\n--> गौरी + आम् [ <<ङेराम्नद्याम्नीभ्यः>> [[7.3.116]] इति नदीसंज्ञक-अङ्गात् विहितस्य सप्तमी-एकवचनस्य ङि-प्रत्ययस्य आम् आदेशः]\n--> गौरी + आट् + आम् [<<आण्नद्याः>> [[7.3.112]] नदीसंज्ञक-अङ्गात् विहितस्य ङित्-प्रत्ययस्य आट् आगमः]\n--> गौरी + आम् [<<आटश्च>> [[6.1.90]] इति वृद्ध्यैकादेशः]\n--> गौर्याम् [<<इको यणचि>> [[6.1.77]] इति यणादेशः]\n\n\nप्रधी (प्रध्यायति सा) इत्यादीनां केषाञ्चन शब्दानां केवलं काशिकाकारस्य मतेन एव नदीसंज्ञा भवति, कैयटस्य मतेन न, अतः एतादृशानां शब्दानां रूपाणि अपि पक्षद्वये भिद्यन्ते । यथा, काशिकामतेन प्रधीशब्दस्य नदीसंज्ञायां कृतायाम् प्रध्यै, प्रध्याः, प्रधीनाम्, प्रध्याम्, हे प्रधि इति रूपाणि भवन्ति । कैयटमतेन तु अस्य शब्दस्य नदीसंज्ञा एव नास्ति, अतः अस्य रूपाणि प्रध्ये, प्रध्यः, प्रध्याम्, प्रध्यि, हे प्रधीः इति भवन्ति । \nबाध्यबाधकभावः\nश्री, धी, भ्रू - इत्यादयः शब्दाः, ये अजादिप्रत्ययेषु परेषु इयङ् उत उवङ् इति आदेशं प्राप्नुवन्ति, तेषां विषये प्रकृतसूत्रेण नदीसंज्ञायां प्राप्तायाम् <<नेयङुवङ्स्थानावस्त्री>> [[1.4.4]] इति अग्रिमसूत्रेण सा निषिध्यते, ततः षष्ठीबहुवचनस्य आम्-प्रत्यये परे <<वामि>> [[1.4.5]] इत्यनेन, तथा च ङित्-प्रत्ययेषु परे <<ङिति ह्रस्वश्च>> [[1.4.6]] इत्यनेन सा पुनः विकल्पेन विधीयते । \nवार्त्तिकम् - <!प्रथमलिङ्गग्रहणं च!> \n य: दीर्घ-ईकारान्तः दीर्घ-ऊकारान्तः वा पुंलिङ्गशब्दः समासादिवृत्त्या सिद्ध्यति, तस्य अपि केषुचित् स्थलेषु नदीसंज्ञां विधातुम् वार्त्तिककारेण इदं वार्त्तिकम् पाठितम् अस्ति । कौमुदीकारः इदं वार्त्तिकं स्पष्टीकुर्वन् ब्रूते - पूर्वं स्त्र्याख्यस्य उपसर्जनेऽपि नदीत्वं वक्तव्यम् इति । पूर्वं स्त्र्याख्यस्य नदीत्वं वक्तव्यम् इत्युक्ते, वृत्तेः पूर्वम् यः शब्दः नित्यस्त्रीलिङ्गवाची अस्ति, तस्य शब्दस्य वृत्तेः अनन्तरम् अपि अवश्यं नदीसंज्ञा भवति - इति । कदा भवति ? उपसर्जने अपि भवति । इत्युक्ते, सः नित्यस्त्रीलिङ्गशब्दः वृत्तेः अनन्तरं पुंलिङ्गे प्रयुज्यते चेद् अपि भवति - इत्यर्थः । समासादिवृत्त्या सिद्धे दीर्घ-ईकारान्ते दीर्घ-ऊकारान्ते वा पुंलिङ्गशब्दे अवयवरूपेण विद्यमानः नित्यस्त्रीलिङ्गशब्दः तस्मिन् पुंलिङ्गशब्दे अपि नदीसंज्ञकः भवति, तदनुषङ्गेण च सम्पूर्णस्य पुंलिङ्गशब्दस्य अपि अवश्यं नदीसंज्ञा भवति - इति अस्य सर्वस्य आशयः । अस्य कानिचन उदाहरणानि एतानि -\n\n
  • 1. बह्व्यः श्रेयस्यः यस्य सः अस्मिन् अर्थे बहुव्रीहिसमासं कृत्वा बहुश्रेयसी इति दीर्घ-ईकारान्तपुंलिङ्गशब्दः सिद्ध्यन्ति । अस्मिन् शब्दे उपसर्जनरूपेण श्रेयसी इति शब्दः विद्यते । अयं शब्दः दीर्घ-ईकारान्तः नित्यस्त्रीलिङ्गवाची च अस्ति । अतः यद्यपि अयं शब्दः बहुश्रेयसी इत्यत्र उपसर्जनरूपेण प्रयुक्तः अस्ति (इत्युक्ते, पुंलिङ्गरूपेण प्रयुक्तः अस्ति) तथापि अस्य शब्दस्य, तदनुषङ्गेण च बहुश्रेयसी-शब्दस्य अपि इति वार्त्तिकेन अवश्यम् नदीसंज्ञा भवति । नदीसंज्ञायां लब्धायाम् अस्य रूपाणि अपि बहुश्रेयस्यै, बहुश्रेयस्याः, बहुश्रेयसीनाम्, बहुश्रेयस्याम्, हे बहुश्रेयसि - इति भवन्ति । \n
  • 2. प्रकृष्टा धीः यस्य सः अस्मिन् अर्थे बहुव्रीहिसमासं कृत्वा प्रधी इति दीर्घ-ईकारान्तपुंलिङ्गशब्दः सिद्ध्यति । अस्मिन् शब्दे उपसर्जनरूपेण धी इति शब्दः विद्यते । अयं शब्दः दीर्घ-ईकारान्तः नित्यस्त्रीलिङ्गवाची च अस्ति । अतः यद्यपि अयं शब्दः प्रधी इत्यत्र उपसर्जनरूपेण प्रयुक्तः अस्ति (इत्युक्ते, पुंलिङ्गरूपेण प्रयुक्तः अस्ति) तथापि अस्य शब्दस्य, तदनुषङ्गेण च प्रधी-शब्दस्य अपि इति वार्त्तिकेन अवश्यम् नदीसंज्ञा भवति । नदीसंज्ञायां लब्धायाम् अस्य रूपाणि अपि प्रध्यै, प्रध्याः, प्रधीनाम्, प्रध्याम्, हे प्रधि - इति भवन्ति । \nउपरि स्त्र्याख्यौ इति शब्दस्य विवरणसमये प्रध्यायति सः अस्मिन् अर्थे सिद्धस्य प्रधी शब्दस्य नदीसंज्ञा न भवति इति स्पष्टीकृतम् अस्ति । सः शब्दः भिन्नः, अत्र च प्रकृष्टा धीः यस्य सः अस्मिन् अर्थे सिद्धः प्रधी-शब्दः भिन्नः । \n
  • 3. कुमारीम् आत्मनः इच्छति अस्मिन् अर्थे कुमारी-शब्दात् क्यच् इति सनादिप्रत्यये कृते, ततः च तस्मात् क्विप्-प्रत्यये कृते कुमारी इति दीर्घ-ईकारान्तपुंलिङ्गशब्दः सिद्ध्यति । यः पुरुषः स्वस्य कृते कुमारीम् इच्छति, सः अपि कुमारी इति नाम्ना एव ज्ञायते इति अस्य आशयः । अस्मिन् शब्दे उपसर्जनरूपेण कुमारी इति दीर्घ-ईकारान्तः नित्यस्त्रीलिङ्गवाची शब्दः विद्यते । अस्य शब्दस्य, तदनुषङ्गेण च पुंलिङ्गवाचिनः कुमारी-शब्दस्य अपि इति वार्त्तिकेन नदीसंज्ञा भवति । नदीसंज्ञायां लब्धायाम् अस्य रूपाणि अपि कुमार्यै, कुमार्याः, कुमारीणाम्, कुमार्याम्, हे कुमारि - इति भवन्ति । \n
  • 4. कुमारी इव आचरति अस्मिन् अर्थे कुमारी-शब्दात् क्विप् इति सनादिप्रत्यये कृते, ततः च तस्मात् पुनः क्विप् इति कृत्प्रत्यये कृते कुमारी इति दीर्घ-ईकारान्तपुंलिङ्गशब्दः सिद्ध्यति । यः पुरुषः कुमारीसदृशम् आचरणं करोति, सः अपि कुमारी इति नाम्ना एव ज्ञायते इति अस्य आशयः । अस्मिन् शब्दे अपि, पूर्वशब्दसदृशम् उपसर्जनरूपेण कुमारी इति दीर्घ-ईकारान्तः नित्यस्त्रीलिङ्गवाची शब्दः विद्यते । अस्य शब्दस्य, तदनुषङ्गेण च पुंलिङ्गवाचिनः कुमारी-शब्दस्य अपि इति वार्त्तिकेन नदीसंज्ञा भवति । नदीसंज्ञायां लब्धायाम् अस्य रूपाणि अपि कुमार्यै, कुमार्याः, कुमारीणाम्, कुमार्याम्, हे कुमारि - इत्येव भवन्ति । \n\n\n1. इति वार्त्तिकस्य प्रयोगः केवलम् पुंलिङ्गवाचिशब्दानां कृते एव भवति, स्त्रीलिङ्गवाचिशब्दानां कृते न । अतः, प्रकृष्टा धीः यस्या साः इत्यस्मिन् अर्थे स्त्रीलिङ्गे प्रयुक्तः प्रधी-शब्दः अनेन वार्त्तिकेन नदीसंज्ञकः न भवति । अस्यां स्थितौ अस्य (स्त्रीलिङ्गे प्रयुक्तस्य प्रधी-शब्दस्य) नदीसंज्ञा भवति वा - इति प्रश्ने कृते, अस्मिन् विषये काशिका-कैयटयोर्मध्ये मतान्तरम् वर्तते । अयं विषयः उपरि विस्तरेण प्रतिपादितः अस्ति । संक्षेपेण, काशिकाकारस्य मतेन एतादृशस्य स्त्रीलिङ्गे प्रयुक्तस्य प्रधी-शब्दस्य नदीसंज्ञा भवति । परन्तु कैयटस्य मतेन स्त्रीलिङ्गे प्रयुक्तस्य प्रधी-शब्दस्य नदीसंज्ञा न भवति । \n2. ये शब्दाः नित्यस्त्रीलिङ्गवाचिनः सन्ति (इत्युक्ते, पुंलिङ्गे नपुंसकलिङ्गे वा नैव प्रयोक्तुं शक्याः) तेषां विषये समस्तपदत्वे अपि <<यू स्त्र्याख्यौ नदी>> [[1.4.3]] इति प्रकृतसूत्रेणैव नदीसंज्ञा भवति । यथा, प्रकृष्टा च असौ धीः इत्यस्मिन् अर्थे सिद्धम् प्रधी इति प्रातिपदिकम् नित्यस्त्रीलिङ्गवाचि सत् सूत्रसामर्थ्यात् एव नदीसंज्ञकम् भवति । \n<pv>इयं शब्दस्य संज्ञा, न हि वर्णस्य\nप्रकृतसूत्रे विद्यमानः यू इति शब्दः दीर्घ-ईकारस्य, दीर्घ-ऊकारस्य च ग्रहणं करोति । एतयोः वर्णयोः सन्दर्भेण अस्माभिः तदन्तविधिः स्वीकृतः अस्ति, येन दीर्घ-ईकारान्तशब्दस्य, दीर्घ-ऊकारान्तशब्दस्य च नदीसंज्ञा भवति इति अर्थः सिद्ध्यति । परन्तु एतादृशं तदन्तग्रहणं नैव करणीयम्, अपितु केवलम् दीर्घ-ईकारस्य, दीर्घ-ऊकारस्य च नदीसंज्ञा करणीया - इति केचन वैयाकरणाः मन्यन्ते । एते वैयाकरणाः स्वस्य पक्षस्य पुष्ट्यर्थम् <<आच्छीनद्योर्नुम्>> [[7.1.80]] इति सूत्रम् अपि प्रमाणरूपेण निर्दिशन्ति । अस्मिन् सूत्रे विद्यमानः नदी इति शब्द: केवलम् दीर्घ-ईकारस्यैव निर्देशं करोति (दीर्घ-ईकारान्त-शब्दस्य न), अतश्च नदीसंज्ञा अपि केवलं दीर्घ-वर्णस्य एव करणीया - इति तेषाम् आशयः । परन्तु एतादृशं क्रियते चेत् अनेके दोषाः उद्भवन्ति । यथा, लक्ष्मी इति शब्दे विद्यमानः ईकारः न हि स्त्र्याख्यः अस्ति, अतः अस्य शब्दस्य नदीसंज्ञा नैव सम्भवति । किञ्च, दीर्घ-ईकारमात्रम् / दीर्घ-ऊकारमात्रम् केनापि सूत्रेण इयङ्-स्थानी / उवङ्-स्थानी नैव विधीयते, अतः केवलं दीर्घ-ईकारस्य दीर्घ-ऊकारस्य वा नदीसंज्ञायां कृतायाम् <<नेयङुवङ्स्थानावस्त्री>> [[1.4.4]] इति अग्रिमसूत्रेण निर्दिष्टः निषेधः अपि व्यर्थः जायते । एतादृशान् दोषान् दृष्ट्वा एव प्रकृतसूत्रे तदन्तग्रहणं कृत्वा शब्दस्यैव नदीसंज्ञा कृता वर्तते । " }, "14004": { "sa": "'स्त्री' इति शब्दं वर्जयित्वा अन्ये दीर्घ-ईकारान्ताः इयङ्स्थानिनः शब्दाः, तथा च दीर्घ-ऊकारान्ताः उवङ्स्थानिनः शब्दाः नदीसंज्ञकाः न भवन्ति । यथा - धी, भू, सुधी ।", "sd": "व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा अस्ति नदी इति संज्ञा । प्रकृतसूत्रेण अस्याः संज्ञायाः निषेधः विधीयते । ये शब्दाः इयङ्स्थानिनः उत उवङ्स्थानिनः सन्ति, तेषां नदीसंज्ञा निषिध्यते, परन्तु स्त्री इति इयङ्स्थानिशब्दस्य नदीसंज्ञा नैव निषिध्यते - इति अस्य सूत्रस्य आशयः । \n\nइयङ्स्थानिनः शब्दाः - येषां शब्दानाम् अन्ते विद्यमानस्य दीर्घ-ईकारस्य अजादि-प्रत्यये परे इयङ् इति आदेशः भवति , ते इयङ्स्थानिनः शब्दाः इति नाम्ना ज्ञायन्ते । यथा, भी इति दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दस्य द्वितीया-एकवचनस्य -प्रत्यये परे <<अचिश्नुधातुभ्रुवाम् य्वोः इयङुवङौ>> [[6.4.77]] इत्यनेन इयङ् इति आदेशः भवति (भी + औ = भिय् + औ = भियौ), अतः भी इति शब्दः इयङ्स्थानी अस्ति इति उच्यते । एवमेव, श्री, धी, स्त्री एते दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दाः अपि इयङ्स्थानिनः सन्ति । किञ्च, परमा धीः यस्य सः / यस्याः सा अस्मिन् अर्थे प्रयुज्यमानयोः परमधी इति दीर्घ-ईकारान्त-पुंलिङ्ग-स्त्रीलिङ्गशब्दयोः अपि -प्रत्यये परे <<अचिश्नुधातुभ्रुवाम् य्वोः इयङुवङौ>> [[6.4.77]] इत्यनेन इयङ् इत्येव आदेशः भवति (परमधी+ औ = परमधिय् + औ = परमधियौ), अतः परमधी इति दीर्घ-ईकारान्त-पुंलिङ्ग-स्त्रीलिङ्गशब्दौ अपि इयङ्स्थानिनौ एव स्तः । एवमेव, शोभना धीः यस्य सः / यस्याः सा अस्मिन् अर्थे प्रयुक्तौ सुधी इति ईकारान्तपुंलिङ्गस्त्रीलिङ्गशब्दौ अपि इयङ्स्थानिनौ एव । एतेभ्यः स्त्री इति शब्दं वर्जयित्वा, अन्येषां सर्वेषाम् अपि शब्दानां <<यू स्त्र्याख्यौ नदी>> [[1.4.3]] इति सूत्रेण, अथ वा इति वार्त्तिकेन प्राप्ता नदीसंज्ञा प्रकृतसूत्रेण निषिध्यते ।\n\nउवङ्स्थानिनः शब्दाः - येषां शब्दानाम् अन्ते विद्यमानस्य दीर्घ-ऊकारस्य अजादि-प्रत्यये परे उवङ् इति आदेशः भवति , ते उवङ्स्थानिनः शब्दाः इति नाम्ना ज्ञायन्ते । यथा, भू इति दीर्घ-ऊकारान्त-स्त्रीलिङ्गशब्दस्य द्वितीया-एकवचनस्य -प्रत्यये परे <<अचिश्नुधातुभ्रुवाम् य्वोः इयङुवङौ>> [[6.4.77]] इत्यनेन उवङ् इति आदेशः भवति (भू + औ = भुव् + औ = भुवौ), अतः भू इति शब्दः उवङ्स्थानी अस्ति इति उच्यते । एवमेव, भ्रू इति दीर्घ-ऊकारान्त-स्त्रीलिङ्गशब्दः अपि उवङ्स्थानी एव अस्ति । किञ्च, परमा भूः यस्य सः / यस्याः सा अस्मिन् अर्थे प्रयुक्तौ परमभू इति दीर्घ-ऊकारान्त-पुंलिङ्गस्त्रीलिङ्गशब्दौ अपि उवङ्स्थानिनौ एव । एतादृशानां उवङ्स्थानिनां शब्दानां <<यू स्त्र्याख्यौ नदी>> [[1.4.3]] इति सूत्रेण, अथ वा इति वार्त्तिकेन प्राप्ता नदीसंज्ञा प्रकृतसूत्रेण निषिध्यते । \nसर्वेषाम् अपि इयङ्स्थानिशब्दानाम् उवङ्स्थानि-शब्दानाम् च आदौ नदीसंज्ञा भवेद् एव - इति न आवश्यकम् । येषाम् एतादृशी नदीसंज्ञा न भवति, तेषां विषये प्रकृतसूत्रेण उक्तः निषेधः अपि नैव प्रवर्तते । यथा, सुध्यायति सः अस्मिन् अर्थे प्रयुक्तः ईकारान्तपुंलिङ्गः सुधी-शब्दः यद्यपि इयङ्स्थानी अस्ति; तथापि नित्यस्त्रीत्वस्य अभावात् अस्य नदीसंज्ञा एव न भवति । एवमेव, सुध्यायति सा अस्मिन् अर्थे प्रयुक्तः ईकारान्तस्त्रीलिङ्गः सुधी-शब्दः यद्यपि इयङ्स्थानी अस्ति; तथापि कैयटस्य मतेन अस्य नित्यस्त्रीत्वं नैव परिगण्यते अतः अस्यापि नदीसंज्ञा न भवति । काशिकापक्षे तु अस्य ईकारान्तस्त्रीलिङ्गशब्दस्य नदीसंज्ञा अवश्यमेव सम्भवति, यस्याः प्रकृतसूत्रेण निषेधः अपि क्रियते । \nनदीसंज्ञायाः निषेधस्य प्रयोजनम्\nप्रकृतसूत्रेण उक्तायाः नदीसंज्ञायाः निषेधस्य प्रयोजनम् अस्ति नदीसंज्ञाविशिष्टस्य कार्यस्य बाधः - इति । एतादृशः बाधः चतुर्षु स्थलेषु दृश्यते । तद् इत्थम् -\n\n
  • 1. <<अम्बार्थनद्योर्ह्रस्वः>> [[7.3.107]] इत्यनेन प्राप्तस्य ह्रस्वादेशस्य अभावः - नदीसंज्ञकशब्दानां सम्बोधनैकवचनस्य प्रक्रियायाम् <<अम्बार्थनद्योर्ह्रस्वः>> [[7.3.107]] इत्यनेन अङ्गस्य ह्रस्वादेशः विधीयते । नदीसंज्ञायाः अभावे एतादृशः ह्रस्वादेशः न भवति । यथा, धी इति शब्दस्य सम्बोधनैकवचनस्य प्रक्रियायाम् एतादृशं ह्रस्वादेशं विना हे धीः इत्येव रूपं सिद्ध्यति । सम्पूर्णा प्रक्रिया इयम् -\n\nधी + सुँ [<<स्वौजस्...>> [[4.1.2]] इति सम्बोधनैकवचनस्य विवक्षायाम् सुँ-प्रत्ययः । <<एकवचनं सम्बुद्धिः>> [[2.3.49]] इति सम्बुद्धिसंज्ञा । ]\n--> धीः [<<यू स्त्र्याख्यौ नदी>> [[1.4.3]] इत्यनेन नदीसंज्ञायां प्राप्तायाम् <<अम्बार्थनद्योर्ह्रस्वः>> [[7.3.107]] इत्यनेन अङ्गस्य ह्रस्वादेशः अपि प्राप्नोति । परन्तु <<नेयङुवङ्स्थानावस्त्री>> [[1.3.4]] इति प्रकृतसूत्रेण अत्र नदीसंज्ञायाः निषेधः क्रियते । नदीसंज्ञायाः अभावे अङ्गस्य ह्रस्वादेशः अपि न सम्भवति । अतः रुत्वे विसर्गे च कृते अन्तिमं रूपं सिद्ध्यति ।]\n\nएवमेव हे भीः, हे श्रीः, हे जयश्रीः, हे सुधीः (शोभना धीः यस्य सः / यस्याः सा), हे भूः - इत्यादीनि रूपाणि अपि सिद्ध्यन्ति । \n
  • 2. <<आण्नद्याः>> [[7.3.112]] इत्यनेन प्राप्तस्य आडागमस्य अभावः - नदीसंज्ञकशब्देभ्यः विहितस्य ङित्-प्रत्ययस्य <<आण्नद्याः>> [[7.3.112]] इत्यनेन आडागमः विधीयते । नदीसंज्ञायाः अभावे तु अयम् आडागमः न भवति । यथा, सुधी (शोभना धीः यस्य सः) इति ईकारान्तपुंलिङ्गशब्दस्य चतुर्थ्येकवचनस्य प्रक्रियायाम् एतादृशं आडागमं विना केवलम् अङ्गस्य इयङ्-आदेशं कृत्वा एव सुधिये इति रूपं सिद्ध्यति । सम्पूर्णा प्रक्रिया इयम् -\n\nसुधी (शोभना धीः यस्य सः) + ङे [चतुर्थ्येकवचनस्य प्रत्ययः]\n--> सुधिय् + ए [ इति नदीसंज्ञायां प्राप्तायाम् <<आण्नद्याः>> [[7.3.112]] इति प्रत्ययस्य आडागमः अपि प्राप्नोति । परन्तु <<नेयङुवङ्स्थानावस्त्री>> [[1.3.4]] इति प्रकृतसूत्रेण अत्र नदीसंज्ञायाः निषेधः क्रियते । अतः <<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> [[6.4.77]] इत्यनेन आडागमः नैव भवति, अपितु अङ्गस्य इयङ्-आदेशः भवति । ]\n--> सुधिये\n\nएवमेव अस्य शब्दस्य पञ्चमी-षष्ठी-एकवचनस्य रूपेषु अपि आडागमः न भवति, येन उभयत्र इयङ्-आदेशे कृते सुधियः इति रूपं सिद्ध्यति । किञ्च, अनेनैव प्रकारेण परमा धीः यस्य सः अस्मिन् अर्थे प्रयुक्तस्य दीर्घ-ईकारान्त-पुंलिङ्गस्य परमधी-शब्दस्य, तथा च शुद्धा धीः यस्य सः अस्मिन् अर्थे प्रयुक्तस्य दीर्घ-ईकारान्त-पुंलिङ्गस्य शुद्धधी-शब्दस्य रूपाणि अपि भवन्ति । \n
  • 3. <<ह्रस्वनद्यापो नुट्>> [[7.1.54]] इत्यनेन प्राप्तस्य नुडागमस्य अभावः - नदीसंज्ञकशब्देभ्यः विहितस्य षष्ठीबहुवचनस्य आम्-प्रत्ययस्य <<ह्रस्वनद्यापो नुट्>> [[7.1.54]] इत्यनेन नुडागमः विधीयते । नदीसंज्ञायाः अभावे तु अयं नुडागमः न भवति । यथा, सुधी (शोभना धीः यस्य सः) इति ईकारान्तपुंलिङ्गशब्दस्य षष्ठीबहुवचनस्य प्रक्रियायाम् एतादृशं नुडागमं विना केवलम् अङ्गस्य इयङ्-आदेशं कृत्वा एव हे सुधियाम् इति रूपं सिद्ध्यति । सम्पूर्णा प्रक्रिया इयम् -\n\nसुधी (शोभना धीः यस्य सः) + आम् [षष्ठीबहुवचनस्य प्रत्ययः]\n--> सुधिय् + आम् [ इति नदीसंज्ञायां प्राप्तायाम् <<ह्रस्वनद्यापो नुट्>> [[7.1.54]] इति प्रत्ययस्य नुडागमः अपि प्राप्नोति । परन्तु <<नेयङुवङ्स्थानावस्त्री>> [[1.3.4]] इति प्रकृतसूत्रेण अत्र नदीसंज्ञायाः निषेधः क्रियते । अतः नुडागमः न भवति, अपितु <<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> [[6.4.77]] इत्यनेन अङ्गस्य इयङ्-आदेशः भवति । ]\n--> सुधियाम्\n\n अनेनैव प्रकारेण परमा धीः यस्य सः अस्मिन् अर्थे प्रयुक्तस्य दीर्घ-ईकारान्त-पुंलिङ्गस्य परमधी-शब्दस्य षष्ठीबहुवचनस्य परमधियाम्, तथा च शुद्धा धीः यस्य सः अस्मिन् अर्थे प्रयुक्तस्य दीर्घ-ईकारान्त-पुंलिङ्गस्य शुद्धधी-शब्दस्य षष्ठीबहुवचनस्य शुद्धधियाम् इति रूपं सिद्ध्यति । \n
  • 4. <<ङेराम्नद्याम्नीभ्यः>> [[7.3.116]] इत्यनेन प्राप्तस्य आमादेशस्य अभावः - नदीसंज्ञकशब्देभ्यः विहितस्य सप्तमी-एकवचनस्य ङि-प्रत्ययस्य <<ङेराम्नद्याम्नीभ्यः>> [[7.3.116]] इत्यनेन आम्-आदेशः भवति । नदीसंज्ञायाः अभावे तु अयं आदेशः नैव सम्भवति । यथा, सुधी (शोभना धीः यस्य सः) इति ईकारान्तपुंलिङ्गशब्दस्य सप्तम्येकवचनस्य प्रक्रियायाम् एतादृशं आमादेशं विना केवलम् अङ्गस्य इयङ्-आदेशं कृत्वा एव सुधियि इति रूपं सिद्ध्यति । सम्पूर्णा प्रक्रिया इयम् -\n\nसुधी (शोभना धीः यस्य सः) + ङि [सप्तम्येकवचनस्य प्रत्ययः]\n--> सुधिय् + आम् [ इति नदीसंज्ञायां प्राप्तायाम् <<ङेराम्नद्याम्नीभ्यः>> [[7.3.116]] इति प्रत्ययस्य आमादेशः अपि प्राप्नोति । परन्तु <<नेयङुवङ्स्थानावस्त्री>> [[1.3.4]] इति प्रकृतसूत्रेण अत्र नदीसंज्ञायाः निषेधः क्रियते । अतः आमादेशः न भवति, अपितु <<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> [[6.4.77]] इत्यनेन अङ्गस्य इयङ्-आदेशः भवति । ]\n--> सुधियाम्\n\n अनेनैव प्रकारेण परमा धीः यस्य सः अस्मिन् अर्थे प्रयुक्तस्य दीर्घ-ईकारान्त-पुंलिङ्गस्य परमधी-शब्दस्य षष्ठीबहुवचनस्य परमधियाम्, तथा च शुद्धा धीः यस्य सः अस्मिन् अर्थे प्रयुक्तस्य दीर्घ-ईकारान्त-पुंलिङ्गस्य शुद्धधी-शब्दस्य षष्ठीबहुवचनस्य शुद्धधियाम् इति रूपं सिद्ध्यति । \n\nनित्यस्त्रीलिङ्गवाचिशब्दानाम् विषये (यथा - धी, श्री, जयश्री, भी इत्यादिशब्दानां विषये) प्रकृतसूत्रेण नदीसंज्ञायाः बाधे कृते षष्ठीबहुवचनस्य आम्-प्रत्यये परे <<वाऽऽमि>> [[1.4.5]] इत्यनेन, तथा च ङित्-प्रत्ययेषु परेषु <<ङिति ह्रस्वश्च>> [[1.4.6]] इत्येताभ्यां सूत्राभ्यां पुनः विकल्पेन नदीसंज्ञायाः विधानं भवति । अतः एतेषां शब्दानां कृते प्रकृतसूत्रस्य प्रयोगः केवलं सम्बोधनैकवचनस्य प्रक्रियायाम् एव भवति । ये शब्दाः नित्यस्त्रीलिङ्गाः न सन्ति, तेषां विषये तु प्रकृतसूत्रेण बाधिता नदीसंज्ञा सर्वत्रैव बाधिता भवति, यतोऽहि <<वाऽऽमि>> [[1.4.5]] तथा च <<ङिति ह्रस्वश्च>> [[1.4.6]] इति द्वे अपि सूत्रे तेषां विषये नैव प्रवर्तेते । अतः एतेषां शब्दानां विषये प्रकृतसूत्रस्य प्रयोगः चतुर्षु अपि सन्दर्भेषु सम्भवति । अतएव उपरि प्रथमम् उदाहरणं विहाय अन्येषु त्रिषु अपि उदाहरणेषु पुंलिङ्गशब्दस्य प्रक्रिया एव प्रदर्शिता अस्ति । \n<hl>अस्त्री</hl> इति निषेधः\nस्त्री इति शब्दः अपि इयङ्स्थानी अस्ति, यतो हि <<स्त्रियाः>> [[6.4.79]] इति सूत्रेण स्त्री-शब्दस्य अजादिप्रत्ययेषु परेषु इयङ्-आदेशः भवति । अस्यां स्थितौ अस्य शब्दस्य नदीसंज्ञायाः प्रकृतसूत्रेण निषेधः न भवति - इति स्पष्टीकर्तुम् एव अस्मिन् सूत्रे अस्त्री इति निर्देशः विद्यते । अतएव स्त्री-शब्दस्य सम्बोधनैकवचने <<अम्बार्थनद्योर्ह्रस्वः>> [[7.3.107]] इत्यनेन अङ्गस्य ह्रस्वादेशः अवश्यं भवति, येन हे स्त्रि इति अन्तिमं रूपं सिद्ध्यति । प्रक्रिया इयम् -\n\nस्त्री + सुँ [<<स्वौजस्...>> [[4.1.2]] इति सम्बोधनैकवचनस्य विवक्षायाम् सुँ-प्रत्ययः । <<एकवचनं सम्बुद्धिः>> [[2.3.49]] इति सम्बुद्धिसंज्ञा । ]\n--> स्त्रि + स् [<<यू स्त्र्याख्यौ नदी>> [[1.4.3]] इति नदीसंज्ञा । <<अम्बार्थनद्योर्ह्रस्वः>> [[7.3.107]] इत्यनेन अङ्गस्य ह्रस्वादेशः ।]\n--> स्त्रि [<<एङ्ह्रस्वात्सम्बुद्धेः>> [[6.1.69]] इति सुँलोपः]\n\n<hl>अस्त्री</hl> इत्यत्र तदन्तविधिः नास्ति\nप्रकृतसूत्रे विद्यमानेन अस्त्री इति निषेधेन स्त्रीभिन्नस्य इयङ्स्थानीशब्दस्य नदीसंज्ञा निषिध्यते । अयं निषेधः महास्त्री, श्रेष्ठस्त्री, परमस्त्री इत्यादीनां स्त्र्यन्तानां विषये प्रवर्तते वा - इति प्रश्ने जाते - एते शब्दाः स्त्री-भिन्नाः सन्ति, अतः एतेषां विषये प्रकृतसूत्रेण उक्तः निषेधः नैव प्रवर्तते - इति उत्तरम् । इत्युक्ते, एतेषां स्त्र्यन्त-शब्दानां पूर्वसूत्रेण नदीसंज्ञायां प्राप्तायां, प्रकृतसूत्रेण सा अवश्यम् एव निषिध्यते । अतश्च एतेषां सम्बोधनैकवचनस्य रूपेषु <<अम्बार्थनद्योर्ह्रस्वः>> [[7.3.107]] इत्यनेन अङ्गस्य ह्रस्वादेशः अपि न प्रवर्तते, येन हे महास्त्रीः, हे श्रेष्ठस्त्रीः, हे परमस्त्रीः - इत्यादीनि एव रूपाणि सिद्ध्यन्ति । \n<hl>स्त्राख्यौ</hl> इत्यस्य अनुवृत्तिः न\nप्रकृतसूत्रे <<यू स्त्र्याख्यौ नदी>> [[1.4.3]] इत्यस्मात् पूर्वसूत्रात् यू तथा च नदी एतौ द्वौ शब्दौ एव अनुवृत्तिरूपेण स्वीक्रियेते । स्त्र्याख्यौ इति शब्दः प्रकृतसूत्रे अनुवृत्तिरूपेण नैव स्वीकृतः अस्ति । अतएव, प्रकृतसूत्रेण उक्तः निषेधः सर्वेषाम् एव इयङ्स्थानिशब्दानाम् उवङ्स्थानिशब्दानां च कृते प्रवर्तते; केवलम् नित्यस्त्रीलिङ्गशब्दानां कृते एव न । यथा, \"शोभना धीः यस्य सः\" अस्मिन् अर्थे प्रयुक्तस्य सुधी इति दीर्घ-ईकारान्त-पुंलिङ्गशब्दस्य, एवमेव \"परमा भूः यस्य सः\" अस्मिन् अर्थे प्रयुक्तस्य परमभू इति दीर्घ-ऊकारान्तपुंल्लिङ्गशब्दस्य अपि इत्यनेन प्राप्ता नदीसंज्ञा प्रकृतसूत्रेण अवश्यं निषिध्यते ।\nबाध्यबाधकभावः\n ये इयङ्स्थानिनः उवङ्स्थानिनः च दीर्घ-ईकारान्तशब्दाः नित्यस्त्रीलिङ्गवाचिनः सन्ति (स्त्रीशब्दं वर्जयित्वा), तेषां विषये <<यू स्त्र्याख्यौ नदी>> [[1.4.3]] इत्यनेन प्राप्ता नदीसंज्ञा प्रकृतसूत्रेण निषिध्यते । एतादृशे निषेधे जाते, अग्रे विद्यमानाभ्यां द्वाभ्यां सूत्राभ्याम् पुनः एतेषां शब्दानां विकल्पेन नदीसंज्ञा भवति । तदित्थम् -\n\n1.<<वाऽमि>> [[1.4.5]] इति सूत्रेण षष्ठीबहुवचनस्य आम्-प्रत्यये परे नित्यस्त्रीलिङ्गवाचिनः शब्दाः विकल्पेन नदीसंज्ञकाः भवन्ति ।\n2. <<ङिति ह्रस्वश्च>> [[1.4.6]] इत्यनेन ङित्-प्रत्ययेषु परेषु नित्यस्त्रीलिङ्गवाचिनः शब्दाः विकल्पेन नदीसंज्ञकाः भवन्ति ।\n\n\nये इयङ्स्थानिनः उवङ्स्थानिनः वा शब्दाः शब्दाः नित्यस्त्रीलिङ्गवाचिनः न सन्ति, तेषां विषये इति वार्त्तिकेन प्राप्ता या नदीसंज्ञा प्रकृतसूत्रेण प्रतिषिध्यते, तस्याः विषये एते अपवादसूत्रे नैव प्रवर्तेते । इत्युक्ते, एतेषां शब्दानाम् आम्-प्रत्यये परे, ङित्-प्रत्ययेषु च परेषु विकल्पेन अपि नदीसंज्ञा नैव भवति । " }, "14005": { "sa": "\"स्त्री\" इति शब्दं वर्जयित्वा अन्ये दीर्घ-ईकारान्ताः / दीर्घ-ऊकारान्ताः इयङ्स्थानिनः / उवङ्स्थानिनः नित्यस्त्रीलिङ्गवाचिनः शब्दाः आम्-प्रत्यये परे विकल्पेन नदीसंज्ञकाः भवन्ति । यथा - धी, भू । ", "sd": "स्त्री इति शब्दं वर्जयित्वा अन्येषां दीर्घ-ईकारान्तानाम् नित्यस्त्रीलिङ्गवाचिनाम् इयङ्स्थानिशब्दानाम्, तथा च दीर्घ-ऊकारान्तानाम् नित्यस्त्रीलिङ्गवाचिनाम् उवङ्स्थानिशब्दानाम् <<यू स्त्र्याख्यौ नदी>> [[1.4.3]] इत्यनेन प्राप्तायाः नदीसंज्ञायाः <<नेयङुवङ्स्थानावस्त्री>> [[1.4.4]] इत्यनेन निषेधे जाते, षष्ठीबहुवचनस्य आम्-प्रत्यये परे एतेषां शब्दानां इयं नदीसंज्ञा पुनः विकल्पेन विधीयते - इति अस्य सूत्रस्य आशयः ।\n\nइयङ्स्थानिनः शब्दाः - येषां शब्दानाम् अन्ते विद्यमानस्य दीर्घ-ईकारस्य अजादि-प्रत्यये परे इयङ् इति आदेशः भवति , ते इयङ्स्थानिनः शब्दाः इति नाम्ना ज्ञायन्ते । यथा, भी इति दीर्घ-ईकारान्त-नित्यस्त्रीलिङ्गशब्दस्य द्वितीया-एकवचनस्य -प्रत्यये परे <<अचिश्नुधातुभ्रुवाम् य्वोः इयङुवङौ>> [[6.4.77]] इत्यनेन इयङ् इति आदेशः भवति (भी + औ = भिय् + औ = भियौ), अतः भी इति शब्दः इयङ्स्थानी अस्ति इति उच्यते । एवमेव, श्री, धी, स्त्री एते दीर्घ-ईकारान्त-नित्यस्त्रीलिङ्गशब्दाः अपि इयङ्स्थानिनः सन्ति । एतेभ्यः स्त्री इति शब्दं वर्जयित्वा, अन्येषां सर्वेषाम् अपि नित्यस्त्रीलिङ्ग-इयङ्स्थानिनां शब्दानां <<यू स्त्र्याख्यौ नदी>> [[1.4.3]] इति सूत्रेण प्राप्ता नदीसंज्ञा <<नेयङुवङ्स्थानावस्त्री>> [[1.4.4]] इत्यनेन निषिध्यते । अस्यां स्थितौ षष्ठीबहुवचनस्य आम्-प्रत्यये परे एतेषां विकल्पेन नदीसंज्ञा इष्यते, अतः तदर्थम् प्रकृतसूत्रस्य रचना कृता अस्ति ।\n\nउवङ्स्थानिनः शब्दाः - येषां शब्दानाम् अन्ते विद्यमानस्य दीर्घ-ऊकारस्य अजादि-प्रत्यये परे उवङ् इति आदेशः भवति , ते उवङ्स्थानिनः शब्दाः इति नाम्ना ज्ञायन्ते । यथा, भू इति दीर्घ-ऊकारान्त-नित्यस्त्रीलिङ्गशब्दस्य द्वितीया-एकवचनस्य -प्रत्यये परे <<अचिश्नुधातुभ्रुवाम् य्वोः इयङुवङौ>> [[6.4.77]] इत्यनेन उवङ् इति आदेशः भवति (भू + औ = भुव् + औ = भुवौ), अतः भू इति शब्दः उवङ्स्थानी अस्ति इति उच्यते । एवमेव, भ्रू इति दीर्घ-ऊकारान्त-नित्यस्त्रीलिङ्गशब्दः अपि उवङ्स्थानी एव अस्ति । एतादृशानां सर्वेषाम् अपि नित्यस्त्रीलिङ्ग-उवङ्स्थानिनां शब्दानां <<यू स्त्र्याख्यौ नदी>> [[1.4.3]] इति सूत्रेण प्राप्ता नदीसंज्ञा <<नेयङुवङ्स्थानावस्त्री>> [[1.4.4]] इत्यनेन निषिध्यते । अस्यां स्थितौ षष्ठीबहुवचनस्य आम्-प्रत्यये परे एतेषां विकल्पेन नदीसंज्ञा इष्यते, अतः तदर्थम् प्रकृतसूत्रस्य रचना कृता अस्ति ।\nविकल्पस्य प्रयोजनम्\nषष्ठीबहुवचनस्य आम्-प्रत्यये परे नदीसंज्ञायाः वैकल्पिकविधानस्य प्रयोजनम् अस्ति <<ह्रस्वनद्यापो नुट्>> [[7.1.54]] इत्यनेन नुडागमसहितस्य रूपस्य सिद्धिः - इति । यथा, धी इति दीर्घ-ईकारान्त-नित्यस्त्रीलिङ्गशब्दस्य षष्ठीबहुवचनस्य रूपे नुडागमे कृते धीनाम्, तथा च नुडागमं विना धियाम् इति रूपद्वयम् अपि सिद्ध्यति । प्रक्रिया इयम् - \n\nनदीसंज्ञापक्षे - \nधी + आम् [षष्ठीबहुवचनस्य प्रत्ययः]\n→ धी + नुट् + आम् [<<ह्रस्वनद्यापो नुट्>> [[7.1.54]] इति नुट्-आगमः]\n→ धीनाम्\n
    \nनदीसंज्ञा-अभाव-पक्षे -\nधी + आम् [षष्ठीबहुवचनस्य प्रत्ययः]\n→ ध् + इयङ् + आम् [<<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> [[6.4.77]] इति इयङ्-आदेशः ]\n→ धियाम्\n
    \nअनेनैव प्रकारेण भ्रू शब्दस्य अपि भ्रूणाम् तथा च भ्रुवाम् एते द्वे रूपे सिद्ध्यतः । किञ्च, एतादृशम् एव श्री, जयश्री, भू, परमभू (= परमा च असौ भूः) इत्यादीनाम् शब्दानाम् अपि षष्ठीबहुवचनस्य द्वे द्वे रूपे भवतः । \n\n<pv> स्त्र्याख्यौ इति अनुवृत्तिः\nप्रकृतसूत्रे <<यू स्त्र्याख्यौ नदी>> [[1.4.3]] इत्यस्मात् सूत्रात् स्त्र्याख्यौ इति शब्दस्य अनुवृत्तिः स्वीकृता अस्ति । अतश्च इदं सूत्रं केवलं नित्यस्त्रीलिङ्गशब्दानां विषये एव प्रवर्तते । अत्र इदं स्मर्तव्यम्, यत् <<नेयङुवङ्स्थानावस्त्री>> [[1.4.4]] इति पूर्वस्मिन् सूत्रे स्त्राख्यौ इत्यस्य अनुवृत्तिः न वर्तते, अतः तत्र उक्तः नदीसंज्ञायाः निषेधः इयङ्स्थानिनाम् उवङ्स्थानिनां च पुंलिङ्गशब्दानां स्त्रीलिङ्गशब्दानां च विषये समानरूपेण एव विधीयते । परन्तु प्रकृतसूत्रेण उक्तः विकल्पः तु एतेभ्यः केवलं नित्यस्त्रीलिङ्गशब्दानां सन्दर्भेण एव प्रवर्तते । इत्युक्ते, ये शब्दाः नित्यस्त्रीलिङ्गवाचिनः न सन्ति, तेषां विषये षष्ठीबहुवचनस्य आम्-प्रत्यये परे <<नेयङुवङ्स्थानावस्त्री>> [[1.4.4]] इत्यनेन उक्तः नदीसंज्ञायाः निषेधः तादृशः एव तिष्ठति; अतश्च एतादृशानां शब्दानां षष्ठीबहुवचनस्य रूपेषु <<ह्रस्वनद्यापो नुट्>> [[7.1.54]] इत्यनेन नुट्-आगमः अपि न भवति -\n\nपरमधी [परमा धीः यस्य सः इत्यस्मिन् अर्थे सिद्धः दीर्घ-ईकारान्त-पुंलिङ्गः शब्दः । अयम् इयङ्स्थानी अस्ति, अतः अस्य इति सूत्रेण विहिता नदीसंज्ञा <<नेयङुवङ्स्थानावस्त्री>> [[1.4.4]] इत्यनेन निषिध्यते ]\n--> परमधी + आम् [षष्ठीबहुवचनस्य प्रत्ययः]\n--> परमध् इयङ् + आम् [<<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> [[6.4.77]] इति इयङ्-आदेशः ]\n--> परमधियाम्\n\n\nविशेषः - परमा धी यस्याः सा इत्यस्मिन् अर्थे विहितस्य परमधी इति दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दस्य विषये अपि <<यू स्त्र्याख्यौ नदी>> [[1.4.3]] इत्यनेन प्राप्ता नदीसंज्ञा <<नेयङुवङ्स्थानावस्त्री>> [[1.4.4]] इत्यनेन निषिध्यते । परन्तु तदनन्तरम्, षष्ठी-बहुवचनस्य आम्-प्रत्यये परे अस्य पुनः विकल्पेन नदीसंज्ञा भवति वा - इति प्रश्ने जाते अस्य उत्तरं कैयटेन काशिकाकारेण च भिन्नप्रकारेण दत्तम् अस्ति इति प्रकृतसूत्रस्य सन्दर्भेण सिद्धान्तकौमुदीकारः स्पष्टीकरोति । तत्र कैयटस्य पक्षं स्पष्टीकुर्वन् सः ब्रूते - लिङ्गान्तराभिधायकत्वं नित्यस्त्रीत्वम्यः शब्दः कदापि स्त्रीलिङ्गं विहाय अन्यस्मिन् लिङ्गे नैव प्रयुज्यते, सः एव नित्यस्त्रीलिङ्गशब्दः स्वीकर्तव्यः - इति अत्र कैयटकृता व्याख्या अस्ति । इमां व्याख्याम् अनुसृत्य परमा धी यस्याः सा इत्यस्मिन् अर्थे विहितस्य परमधी इति दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दस्य नित्यस्त्रीलिङ्गत्वं नैव स्वीकर्तुं शक्यते, यतो हि पुंलिङ्गे अपि परमधी इत्येव शब्दः प्रयुज्यते । अतः अस्यां स्थितौ परमधी इति दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दस्य विषये <<नेयङुवङ्स्थानावस्त्री>> [[1.4.4]] इति सूत्रेण नदीसंज्ञायाः कृतः निषेधः प्रकृतसूत्रेण नैवं विकल्पयितुम् शक्यः । इत्युक्ते, षष्ठी-बहुवचनस्य आम्-प्रत्यये परे परमधी इति दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दस्य नदीसंज्ञा नैव विधीयते, अतश्च तस्य रूपम् परमधियाम् इत्येव सिद्ध्यति । एतत् सर्वम् कैयटमतेन अस्ति । काशिकाकारस्य पक्षः तु अस्मात् भिन्नः । अमुं पक्षं स्पष्टीकुर्वन् कौमुदीकारः वदति - पदान्तरं विनापि स्त्रियां वर्तमानत्वं नित्यस्त्रीत्वम् इति यत्र कश्चन शब्दः स्वाभाविकरूपेण पुंलिङ्गे स्त्रीलिङ्गे च प्रयोक्तुं शक्यते, तत्र तस्य स्त्रीलिङ्गप्रयोगे नित्यस्त्रीलिङ्गत्वम् अवश्यं स्वीक्रियते - इति अत्र काशिकाकारेण दत्ता व्याख्या अस्ति । यथा, परमा धीः यस्य सः / यस्याः सा इत्यस्मिन् अर्थे सिद्धः प्रधी इति शब्दः लोके लिङ्गनिरपेक्षरूपेण प्रयुक्तः दृश्यते (इत्युक्ते, पुरुषस्य विषये, तथा च स्त्रियाः अपि विषये समानरूपेण अस्य शब्दस्य प्रयोगः दृश्यते), अतश्च अत्र स्त्रीलिङ्गवाचिनः प्रधी-शब्दस्य अवश्यं हि नित्यस्त्रीत्वं स्वीकर्तुं शक्यते - इति । एतादृशे नित्यस्त्रीत्वे सिद्धे, इदानीं षष्ठीबहुवचनस्य आम्-प्रत्यये परे अस्य पूर्वं निषिद्धा नदीसंज्ञा अवश्यम् एव विकल्प्यते, येन अस्य शब्दस्य षष्ठीबहुवचनस्य प्रक्रियायां <<ह्रस्वनद्यापो नुट्>> [[7.1.54]] इत्यनेन विकल्पेन नुडागमं कृत्वा, परमधीनाम् तथा च परमधियाम् इति द्वे रूपे सिद्ध्यतः । अयं काशिकाकारस्य पक्षः अस्ति । \n\nकाशिकाकारस्य पक्षस्य अधिकं विस्तरेण स्पष्टीकरणम् <<यू स्त्र्याख्यौ नदी>> [[1.4.3]] इत्यस्मिन् सूत्रे दत्तम् अस्ति । जिज्ञासुभिः तत् अवश्यं द्रष्टव्यम् ।\n<hl>अस्त्री</hl> इति निषेधः\nस्त्री इति शब्दः अपि इयङ्स्थानी अस्ति, यतो हि <<स्त्रियाः>> [[6.4.79]] इति सूत्रेण स्त्री-शब्दस्य अजादिप्रत्ययेषु परेषु इयङ्-आदेशः भवति । तथापि अस्य शब्दस्य नदीसंज्ञायाः <<नेयङुवङ्स्थानावस्त्री>> [[1.4.4]] इत्यनेन निषेधः नैव कृतः अस्ति । अस्यां स्थितौ, प्रकृतसूत्रेण उक्तः विकल्पः स्त्री-शब्दस्य विषये अपि प्रवर्तेत वा - इति प्रश्ने जाते, प्रकृतसूत्रेण उक्तः विकल्पः स्त्री-शब्दस्य विषये नैव प्रवर्तते - इति स्पष्टीकर्तुम् प्रकृतसूत्रे <<नेयङुवङ्स्थानावस्त्री>> [[1.4.4]] इत्यस्मात् सूत्रात् अस्त्री इत्यस्य पदस्य अनुवृत्तिः स्वीकृता अस्ति । अतएव स्त्री-शब्दस्य षष्ठीबहुवचने <<ह्रस्वनद्यापो नुट्>> [[7.1.54]] इत्यनेन नुडागमः नित्यम् एव भवति, येन केवलम् स्त्रीणाम् इति एकम् एव रूपं सिद्ध्यति -\n\nस्त्री + आम् [षष्ठीबहुवचनस्य प्रत्ययः]\n→ स्त्री + नुट् + आम् [<<ह्रस्वनद्यापो नुट्>> [[7.1.54]] इति नुट्-आगमः]\n→ स्त्रीणाम् [<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इति णत्वम् ]\n\nअस्य अस्त्री इति निषेधस्य विषये तदन्तविधिः नास्ति । अतः, महास्त्री, श्रेष्ठस्त्री, परमस्त्री इत्यादीनां स्त्र्यन्तशब्दानां विषये <<नेयङुवङ्स्थानावस्त्री>> [[1.4.4]] इत्यनेन प्राप्तः नदीसंज्ञायाः निषेधः षष्ठीबहुवचनस्य आम्-प्रत्यये परे प्रकृतसूत्रेण अवश्यं विकल्प्यते, अतश्च एतेषां षष्ठीबहुवचनस्य रूपेषु नदीसंज्ञापक्षे <<ह्रस्वनद्यापो नुट्>> [[7.1.54]] इत्यनेन प्रत्ययस्य विकल्पेन नुडागमे कृते महास्त्रीणाम्, श्रेष्ठस्त्रीणाम्, परमस्त्रीणाम् - इत्यादीनि रूपाणि, तथा च पक्षे नुडागमं विना नदीसंज्ञा-अभावपक्षे इयङ्-आदेशे कृते महास्त्रियाम्, श्रेष्ठस्त्रियाम्, परमस्त्रियाम् इत्यादीनि रूपाणि अपि सिद्ध्यन्ति । \nअप्राप्तविभाषा इयम्\nपूर्वसूत्रेण अप्राप्ता नदीसंज्ञा प्रकृतसूत्रेण विकल्प्यते, अतः इदं सूत्रम् अप्राप्तविभाषायाः उदाहरणम् अस्ति । अतएव काशिकाकारः प्रकृतसूत्रस्य सन्दर्भेण नित्ये प्रतिषेधे प्राप्ते आमि विकल्पः उच्यते इति व्याचष्टे । \n<hl>वा+अमि</hl> इति विग्रहः अनुचितः\nप्रकृतसूत्रस्य विग्रहः वा + अमि इति प्रकारेण अपि सम्भवति । परन्तु एतादृशः विग्रहः न करणीयः, यतोहि द्वितीयैकवचनस्य अम्-प्रत्यये परे नदीसंज्ञायाः न किमपि प्रयोजनं विद्यते । अतएव अत्र वा + आमि इत्येव विग्रहः क्रियते । किञ्च, अमुम् विषयं स्पष्टीकर्तुम् एव सूत्रस्य लेखने द्विवारम् अवग्रहचिह्नम् (ऽऽ) अपि प्रयुक्तं दृश्यते । \nसप्तम्येकवचनस्य <qt>आम्</qt>-प्रत्यये परे इदं सूत्रं न प्रवर्तते\nदीर्घ-ईकारान्त-शब्दानाम् नदीसंज्ञायां सत्याम् तेभ्यः विहितस्य सप्तम्यैकवचनस्य ङि-प्रत्ययस्य <<ङेराम्नद्याम्नीभ्यः>> [[7.3.116]] इत्यनेन आम् इति आदेशः भवति । अस्य आम्-आदेशस्य अपि प्रकृतसूत्रेण ग्रहणं न क्रियते, यतोहि तत्र नदीसंज्ञायां सत्याम् एव आम्-आदेशे कृते, ततः पुनः नदीसंज्ञायाः अभावः न हि वक्तुं शक्यते ।\nसिद्धान्तकौमुद्याः वाक्यानां स्पष्टीकरणम्\nसिद्धान्तकौमुद्यां प्रकृतसूत्रम् दीर्घ-ईकारान्त-स्त्रीलिङ्ग-शब्दानां प्रकरणे पाठितम् अस्ति । तत्र प्रसङ्गवशात् कौमुदीकारः प्रकृतसूत्रस्य व्याख्याने सूत्रसम्बन्धिनं विषयं विहाय अन्येषाम् अपि केषाञ्चन दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दानां प्रक्रियाः प्रदर्शयति । कौमदीकारेण अत्र उक्ताः बिन्दवः अधः सङ्क्षिप्यन्ते -\n\n
  • 1. प्रधीशब्दस्य तु वृत्तिकारादीनां मते लक्ष्मीवद्रूपम् । पदान्तरं विनापि स्त्रियां वर्तमानत्वं नित्यस्त्रीत्वमिति स्वीकारात् - प्रध्यायति सा अस्मिन् अर्थे प्रयुक्तः प्रधी इति दीर्घ-ईकारान्त-स्त्रीलिङ्ग-शब्दः , तथा च प्रकृष्टा धीः यस्याः सा अस्मिन् अर्थे प्रयुक्तः प्रधी इति दीर्घ-ईकारान्त-स्त्रीलिङ्ग-शब्दः - एतौ द्वौ अपि शब्दौ पदान्तरं विना अपि स्त्रियां वर्तमानत्वं नित्यस्त्रीत्वम् इति काशिकाकारस्य मतेन नदीसंज्ञकौ स्तः, अतः तयोः लक्ष्मी-शब्दसदृशानि रूपाणि भवन्ति । \n
  • 2. लिङ्गान्तरानभिधायकत्वं तदिति कैयटमते तु पुंवद्रूपम् - कैयटस्य मतम् तु लिङ्गान्तरानभिधायकत्वं नित्यस्त्रीत्वम् इति अस्ति । द्वौ अपि प्रधी शब्दी तु पुंलिङ्गे अपि तस्मिन्नेव अर्थे प्रयुक्तौ अवश्यम् एव दृश्येते, अतश्च कैयटमतेन तौ स्त्रीलिङ्गप्रयोगे अपि नदीसंज्ञकौ न भवतः । इत्युक्ते, कैयटमतेन प्रध्यायति सा तथा च प्रकृष्टा धीः यस्याः सा एतयोः अर्थयोः प्रयुक्तस्य प्रधी इति दीर्घ-ईकारान्त-स्त्रीलिङ्ग-शब्दस्य रूपाणि पुंलिङ्गसदृशानि एव भवन्ति । \n
  • 3. प्रकृष्टा धीरिति विग्रहे तु लक्ष्मीवत् । - प्रकृष्टा धीः इति कर्मधारयसमासेन निर्मितः प्रधी इति दीर्घ-ईकारान्त-स्त्रीलिङ्ग-शब्दः तु कैयटस्य काशिकाकारस्य च अपि मतेन << यू स्त्र्याख्यौ नदी>> [[1.4.3]] इत्यनेनैव नदीसंज्ञकः एव, अतश्च तस्य लक्ष्मी-शब्दसदृशानि रूपाणि भवन्ति । \n
  • 4. अमि शसि च प्रध्यं प्रध्य इति विशेषः - प्रध्यायति सा, प्रकृष्टा धीः यस्याः सा, तथा च प्रकृष्टा धीः - इति केनापि प्रकारेण सिद्धस्य प्रधी इति दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दस्य द्वितीयायाः एकवचने बहुवचने च <<अमि पूर्वः>> [[6.1.107]] तथा च <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इति सूत्रे बाधित्वा <<एरनेकाचोऽसंयोगपूर्वस्य>> [[6.4.82]] इत्यनेन यणादेशे कृते (यथासंख्यम्) प्रध्यम् तथा च प्रध्यः इति रूपे भवतः । \n
  • 5. सुष्ठु धीर्यस्याः सुष्ठु ध्यायति वेति विग्रहे तु वृत्तिमते सुधीः श्रीवत् - सुष्ठु धीः यस्याः सा तथा च सुध्यायति सा इति उभयथा सिद्धस्य सुधी इति दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दस्य काशिकाकारस्य मतेन श्री-शब्दसदृशानि रूपाणि भवन्ति । \n
  • 6. मतान्तरे तु पुंवत्, सुष्ठु धीरिति विग्रहे तु श्रीवदेव - कैयटमतेनसुष्ठु धीः यस्याः सा तथा च सुध्यायति सा इति सिद्धस्य सुधी इति दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दस्य नित्यस्त्रीलिङ्गत्व-अभावात् नदीसंज्ञायाः अपि अभावे पुंलिङ्गसदृशानि एव रूपाणि भवन्ति । सुष्ठु धीः इति कर्मधारयसमासेन निर्मितस्य शब्दस्य विषये तु कैयटमतेन (<< यू स्त्र्याख्यौ नदी>> [[1.4.3]] इति सूत्रेण) नदीसंज्ञा अस्ति एव, परन्तुु <<नेयङुवङ्स्थानावस्त्री>> [[1.4.4]] इत्यनेन तस्याः निषेधः अपि भवति, अपि च <<वाऽऽमि>> [[1.4.5]] तथा च <<ङिति ह्रस्वश्च>> [[1.4.6]] इत्येताभ्यां तस्याः पुनः वैकल्पिकं विधानम् च अपि भवति । अतः अस्य शब्दस्य रूपाणि श्री-शब्दसदृशानि रूपाणि भवन्ति । \n
  • 7. ग्रामणीः पुंवत् । ग्रामनयनस्योत्सर्गतः पुंधर्मतया पदान्तरं विना स्त्रियामप्रवृत्तेः - ग्रामं नयति सा अस्मिन् अर्थे प्रयुक्तस्य ग्रामणी इति दीर्घ-ईकारान्त-स्त्रीलिङ्ग-शब्दस्य रूपाणि पुंलिङ्गसदृशानि एव भवन्ति । ग्रामनयनक्रिया स्वभावतः पुंलिङ्गवाचिनी अस्ति, अतः एषा / सा इति पदं विना ग्रामणी-शब्दस्य स्त्रीत्वं नैव स्पष्टीभवति इति कारणात् काशिकामतेन अपि अस्य नित्यस्त्रीत्वम् नास्ति, अतश्च नदीसंज्ञा अपि न वर्तते । \n
  • 8. एवं खलपवनादेरपि पुंधर्मत्वमौत्सर्गिकं बोध्यम् - एवमेव, खलपू, कटप्रू इत्यादयः शब्दाः अपि स्वभावतः पुंलिङ्गम् एव द्योतयन्ति, अतः एतेषाम् अपि नित्यस्त्रीलिङ्गत्व-अभावात् नदीसंज्ञा न भवति, अतश्च एतेषां रूपाणि पुंलिङ्गस्त्रीलिङ्गयोः समानानि एव भवन्ति । \n" }, "14006": { "sa": "\"स्त्री\" इति शब्दं वर्जयित्वा अन्ये दीर्घ-ईकारान्ताः / दीर्घ-ऊकारान्ताः इयङ्स्थानिनः / उवङ्स्थानिनः नित्यस्त्रीलिङ्गवाचिनः शब्दाः , तथा ह्रस्व-इकारान्ताः ह्रस्व-उकारान्ताः स्त्रीलिङ्गशब्दाः ङित्-प्रत्यये परे विकल्पेन नदीसंज्ञकाः भवन्ति । यथा - धी, भू, मति, भूरि, धेनु, लघु ।", "sd": "व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा अस्ति नदी इति संज्ञा । प्रकृतसूत्रेण अस्याः नदीसंज्ञायाः द्वयोः स्थलयोः विकल्पेन विधानं क्रियते । तदित्थम् - स्त्री इति शब्दं वर्जयित्वा अन्येषां दीर्घ-ईकारान्तानाम् नित्यस्त्रीलिङ्गवाचिनाम् इयङ्स्थानिशब्दानाम् (यथा - धी, श्री इत्यादीनाम्) तथा च दीर्घ-ऊकारान्तानाम् नित्यस्त्रीलिङ्गवाचिनाम् उवङ्स्थानिशब्दानाम् (यथा - भ्रू, भू इत्यादीनाम्) <<यू स्त्र्याख्यौ नदी>> [[1.4.3]] इत्यनेन प्राप्तायाः नदीसंज्ञायाः <<नेयङुवङ्स्थानावस्त्री>> [[1.4.4]] इत्यनेन निषेधे जाते, ङित्-प्रत्ययेषु परेषु एतेषां शब्दानां इयं नदीसंज्ञा पुनः विकल्पेन विधीयते - इति अस्य सूत्रस्य प्रथमः अंशः । अपि च, ह्रस्व-इकारान्तानाम् ह्रस्व-उकारान्तानां च स्त्रीलिङ्गवाचिनाम् (यथा - मति, धेनु इत्यादीनाम्) शब्दानाम् पूर्वसूत्रैः नदीसंज्ञायां नैव प्राप्तायाम्, ङित्-प्रत्ययेषु परेषु एतेषां शब्दानां इयं नदीसंज्ञा विकल्पेन विधीयते - इति अस्य सूत्रस्य द्वितीयः अंशः । क्रमेण विवरणम् एतादृशम् -\n
    \n1. दीर्घ-ईकारान्त-नित्यस्त्रीलिङ्ग-इयङ्स्थानिनाम् /दीर्घ-ऊकारान्त-नित्यस्त्रीलिङ्ग-उवङ्स्थानिनाम् शब्दानाम् नदीसंज्ञा\nस्त्री इति शब्दं विहाय ये शब्दाः दीर्घ-ईकारान्ताः इयङ्स्थानिनः नित्यस्त्रीलिङ्गाः सन्ति (यथा - धी, श्री इत्यादयः) , उत दीर्घ-ऊकारान्ताः उवङ्स्थानिनः नित्यस्त्रीलिङ्गाः सन्ति (यथा - भ्रू, भू इत्यादयः) , तेषां विषये <<यू स्त्र्याख्यौ नदी>> [[1.4.3]] इत्यनेन प्राप्तायाः नदीसंज्ञायाः <<नेयङुवङ्स्थानावस्त्री>> [[1.4.4]] इत्यनेन निषेधे जाते ङित्-प्रत्ययेषु परेषु (इत्युक्ते, ङे, ङसिँ, ङस्, ङि - एतेषु चतुर्षु प्रत्ययेषु परेषु) एतेषां शब्दानां नदीसंज्ञा पुनः विकल्पेन विधीयते । इत्युक्ते, एतेषां शब्दानां ङित्-प्रत्ययेषु परेषु प्रत्येकं रूपद्वयं सिद्ध्यति - नदीसंज्ञापक्षे तद्विशिष्टानि कार्याणि कृत्वा एकं रूपम्, तथा च नदीसंज्ञा-अभावपक्षे अपरं रूपम् - इति । क्रमेण उदाहरणानि एतानि -\n\n
  • 1. चतुर्थ्येकवचनस्य ङे-प्रत्ययः\n\nनदीसंज्ञापक्षे - \nधी + ङे [चतुर्थी-एकवचनस्य प्रत्ययः]\n--> धी + आट् + ए [नदीसंज्ञायां सत्याम् <<आण्नद्याः>> [[7.3.112]] इति आडागमः]\n--> धी + ऐ [<<आटश्च>> [[6.1.90]] इति वृद्ध्यैकादेशः]\n--> ध् इयङ् + ऐ [<<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> [[6.4.77]] इति इयङ्-आदेशः]\n--> धियै \n
    \nनदीसंज्ञा-अभाव-पक्षे -\nधी + ङे [चतुर्थी-एकवचनस्य प्रत्ययः]\n--> ध् इयङ् + ए [<<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> [[6.4.77]] इति इयङ्-आदेशः]\n--> धिये\n
    \nअनेन प्रकारेण धी इति शब्दस्य चतुर्थ्येकवचनस्य ङे-प्रत्यये परे आडागमं कृत्वा धियै, तथा च आडागमं विना धिये इति द्वे रूपे भवतः । एवमेव भ्रू शब्दस्य अपि भ्रुवै तथा च भ्रुवे एते द्वे रूपे सिद्ध्यतः ।\n
  • 2. पञ्चम्येकवचनस्य ङसिँ-प्रत्ययः / षष्ठ्येकवचनस्य ङस्-प्रत्ययः\n\nनदीसंज्ञापक्षे - \nधी + ङसि / ङस् [पञ्चमी/षष्ठी-एकवचनस्य प्रत्ययः]\n--> धी + आट् + असि / अस् [नदीसंज्ञायां सत्याम् <<आण्नद्याः>> [[7.3.112]] इति आडागमः]\n--> धी + आस् / आस् [<<आटश्च>> [[6.1.90]] इति वृद्ध्यैकादेशः]\n--> ध् इयङ् + आस् / आस् [<<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> [[6.4.77]] इति इयङ्-आदेशः]\n--> धियाः [रुत्वविसर्गौ]\n
    \nनदीसंज्ञा-अभाव-पक्षे -\nधी + ङसि / ङस् [पञ्चमी/षष्ठी-एकवचनस्य प्रत्ययः]\n--> ध् इयङ् + अस् / अस् [<<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> [[6.4.77]] इति इयङ्-आदेशः]\n--> धियः [रुत्वविसर्गौ]\n
    \nअनेन प्रकारेण धी इति शब्दस्य पञ्चमी-षष्ठी-एकवचनयोः ङसिँ/ङस्-प्रत्यययोः परयोः आडागमं कृत्वा धियाः, तथा च आडागमं विना धियः इति द्वे रूपे भवतः । एवमेव भ्रू शब्दस्य अपि भ्रुवाः तथा च भ्रुवः एते द्वे रूपे सिद्ध्यतः ।\n
  • 3. सप्तम्येकवचनस्य आम्-प्रत्ययः\n\nनदीसंज्ञापक्षे - \nधी + ङि [सप्तमी-एकवचनस्य प्रत्ययः]\n--> धी + आम् [नदीसंज्ञायां सत्याम् <<ङेराम्नद्याम्नीभ्यः>> [[7.3.116]] इति प्रत्ययस्य आम्-आदेशः]\n--> धी + आट् + आम् [नदीसंज्ञायां सत्याम् <<आण्नद्याः>> [[7.3.112]] इति आडागमः]\n--> धी + आम् [<<आटश्च>> [[6.1.90]] इति वृद्ध्यैकादेशः]\n--> ध् इयङ् + आम् [<<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> [[6.4.77]] इति इयङ्-आदेशः]\n--> धियाम्\n
    \nनदीसंज्ञा-अभाव-पक्षे -\nधी + ङि [सप्तमी-एकवचनस्य प्रत्ययः]\n--> ध् इयङ् + इ [<<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> [[6.4.77]] इति इयङ्-आदेशः]\n--> धियि\n
    \nअनेन प्रकारेण धी इति शब्दस्य सप्तम्येकवचनस्य ङि-प्रत्यये परे आमादेशम् आडागमं च कृत्वा धियाम्, तथा च तयोः विना धियि इति द्वे रूपे भवतः । एवमेव भ्रू शब्दस्य अपि भ्रुवाम् तथा च भ्रुवि एते द्वे रूपे सिद्ध्यतः ।\n\n
    \n2. ह्रस्व-इकारान्त-उकारान्त-शब्दानां नदीसंज्ञा\nमति, बुद्धि, शक्ति, कृति, भूरि इत्यादयः ये ह्रस्व-इकारान्ताः स्त्रीलिङ्गशब्दाः, तथा च धेनु, गुरु, रेणु, रज्जु, तनु इत्यादयः ये ह्रस्व-उकारान्ताः स्त्रीलिङ्गशब्दाः, तेषां विषये पूर्वसूत्रैः अप्राप्ता नदीसंज्ञा प्रकृतसूत्रेण ङित्-प्रत्ययेषु परेषु (इत्युक्ते, ङे, ङसिँ, ङस्, ङि - एतेषु चतुर्षु प्रत्ययेषु परेषु) विकल्पेन विधीयते । अतः एतेषां शब्दानां ङित्-प्रत्ययेषु परेषु प्रत्येकं रूपद्वयं भवति - नदीसंज्ञापक्षे तद्विशिष्टानि कार्याणि कृत्वा एकं रूपम्, तथा च नदीसंज्ञा-अभावपक्षे <<शेषो घ्यसखि>> [[1.4.7]] इत्यनेन घिसंज्ञां कृत्वा अपरं रूपम् - इति । क्रमेण उदाहरणानि एतानि -\n\n
  • 1. चतुर्थ्येकवचनस्य ङे-प्रत्ययः\n\nनदीसंज्ञापक्षे - \nमति + ङे [चतुर्थी-एकवचनस्य प्रत्ययः]\n--> मति + आट् + ए [नदीसंज्ञायां सत्याम् <<आण्नद्याः>> [[7.3.112]] इति आडागमः]\n--> मति + ऐ [<<आटश्च>> [[6.1.90]] इति वृद्ध्यैकादेशः]\n--> मत्यै [<<इको यणचि>> [[6.1.77]] इति यणादेशः] \n
    \nनदीसंज्ञा-अभाव-पक्षे <<शेषो घ्यसखि>> [[1.4.7]] इति घिसंज्ञां कृत्वा -\nमति + ङे [चतुर्थी-एकवचनस्य प्रत्ययः]\n--> मते + ए [<<घेर्ङिति>> [[7.3.111]] इति घिसंज्ञकस्य ङित्-प्रत्यये परे गुणः]\n--> मतय् + ए [<<एचोऽयवायावः>> [[6.1.78]] इति अयादेशः]\n--> मतये\n
    \nअनेन प्रकारेण मति इति शब्दस्य चतुर्थ्येकवचनस्य ङे-प्रत्यये परे नदीसंज्ञापक्षे आडागमं कृत्वा मत्यै, तथा च नदीसंज्ञा-अभावपक्षे घिसंज्ञासामर्थ्यात् गुणं कृत्वा मतये इति द्वे रूपे भवतः । एवमेव धेनु शब्दस्य अपि धेनवे तथा च धेन्वै एते द्वे रूपे सिद्ध्यतः ।\n
  • 2. पञ्चम्येकवचनस्य ङसिँ-प्रत्ययः / षष्ठ्येकवचनस्य ङस्-प्रत्ययः\n\nनदीसंज्ञापक्षे - \nमति + ङसि / ङस् [पञ्चमी/षष्ठी-एकवचनस्य प्रत्ययः]\n--> मति + आट् + असि / अस् [नदीसंज्ञायां सत्याम् <<आण्नद्याः>> [[7.3.112]] इति आडागमः]\n--> मति + आस् / आस् [<<आटश्च>> [[6.1.90]] इति वृद्ध्यैकादेशः]\n--> मत्याः [<<इको यणचि>> [[6.1.77]] इति यणादेशः] \n
    \nनदीसंज्ञा-अभाव-पक्षे <<शेषो घ्यसखि>> [[1.4.7]] इति घिसंज्ञां कृत्वा -\nमति + ङसि / ङस् [पञ्चमी/षष्ठी-एकवचनस्य प्रत्ययः]\n--> मते + ए [<<घेर्ङिति>> [[7.3.111]] इति घिसंज्ञकस्य ङित्-प्रत्यये परे गुणः]\n--> मतेः [<<ङसिङसोश्च>> [[6.1.110]] इति पूर्वपरयोः एकादेशः]\n
    \nअनेन प्रकारेण मति इति शब्दस्य पञ्चमी-षष्ठी-एकवचनयोः ङसिँ/ङस्-प्रत्यययोः परयोः नदीसंज्ञापक्षे आडागमं कृत्वा मत्याः, तथा च नदीसंज्ञा-अभावपक्षे घिसंज्ञासामर्थ्यात् गुणं कृत्वा मतेः इति द्वे रूपे भवतः । एवमेव धेनु शब्दस्य अपि धेन्वाः तथा च धेनोः एते द्वे रूपे सिद्ध्यतः ।\n
  • 3. सप्तम्येकवचनस्य आम्-प्रत्ययः\n\nनदीसंज्ञापक्षे - \nमति + ङि [सप्तमी-एकवचनस्य प्रत्ययः]\n--> मति + आम् [नदीसंज्ञायां सत्याम् <<इदुद्भ्याम्>> [[7.3.117]] इति ङि-प्रत्ययस्य आम्-आदेशः]\n--> मति + आट् + आम् [नदीसंज्ञायां सत्याम् <<आण्नद्याः>> [[7.3.112]] इति आडागमः]\n--> मति + आम् [<<आटश्च>> [[6.1.90]] इति वृद्ध्यैकादेशः]\n--> मत्याम् [<<इको यणचि>> [[6.1.77]] इति यणादेशः]\n
    \nनदीसंज्ञा-अभाव-पक्षे <<शेषो घ्यसखि>> [[1.4.7]] इति घिसंज्ञां कृत्वा -\nमति + ङि [सप्तमी-एकवचनस्य प्रत्ययः]\n--> मत + औ [<<अच्च घेः>> [[7.3.119]] इति प्रत्ययस्य औकारादेशः, अङ्गस्य च अकारादेशः]\n--> मतौ\n
    \nअनेन प्रकारेण मति इति शब्दस्य सप्तम्येकवचनस्य ङि-प्रत्यये परे नदीसंज्ञापक्षे आमादेशम् आडागमं च कृत्वा मत्याम् , तथा च नदीसंज्ञा-अभावपक्षे घिसंज्ञासामर्थ्यात् अत्वं प्रत्ययादेशं च कृत्वा मतौ इति द्वे रूपे भवतः । एवमेव धेनु शब्दस्य अपि धेन्वाम् तथा च धेनौ एते द्वे रूपे सिद्ध्यतः ।\n\n<<इदुद्भ्याम्>> [[7.3.117]] इति सूत्रम् विशिष्टरूपेण ह्रस्व-इकारान्त-नदीसंज्ञकशब्दानां विषये, ह्रस्व-उकारान्त-नदीसंज्ञकशब्दानां विषये च पाठितम् अस्ति । एतादृशेभ्यः शब्देभ्यः परस्य सप्तम्येकवचनस्य ङि-प्रत्ययस्य अनेन सूत्रेण आम् आदेशः भवति । \nह्रस्व-इकारान्त-उकारान्त-शब्दानां कृते नित्यस्त्रीत्वम् न आवश्यकम् \nप्रकृतसूत्रे <<यू स्त्र्याख्यौ नदी>> [[1.4.3]] इत्यस्मात् सूत्रात् स्त्र्याख्यौ इति शब्दस्य कृतायाः अनुवृत्त्याः केवलं स्त्री इति शब्दः एव ह्रस्व-इकारान्त-शब्दानां विषये, तथा च ह्रस्व-उकारान्त-शब्दानां विषये उपयुज्यते । अस्य द्वौ अर्थौ स्तः -\n\n
  • 1. ह्रस्व-इकारान्त-पुंलिङ्ग-नपुंसकलिङ्गशब्दानां कृते, तथैव ह्रस्व-उकारान्त-पुंलिङ्ग-नपुंसकलिङ्गशब्दानां कृते प्रकृतसूत्रं न प्रवर्तते । अतएव मुनि, वारि, साधु, मधु - इत्यादिशब्दानां कुत्रापि नदीसंज्ञा न भवति ।\n
  • 2. ये ह्रस्व-इकारान्त-शब्दाः ह्रस्व-उकारान्त-शब्दाः च स्त्रीलिङ्गवाचिनः सन्ति, ते नित्यस्त्रीलिङ्गवाचिनः स्युः उत न स्युः, तेषां विषये स्त्रीलिङ्गप्रयोगे प्रकृतसूत्रस्य प्रयोगः अवश्यम् एव भवति । यथा, भूरि, सुमति इत्यादयः ह्रस्व-इकारान्ताः सर्वलिङ्गकाः शब्दाः, तथा च लघु, गुरु, इत्यादयः ह्रस्व-उकारान्ताः सर्वलिङ्गकाः शब्दाः अपि स्त्रीलिङ्गप्रयोगे ङित्-प्रत्ययेषु परेषु अवश्यम् एव विकल्पेन नदीसंज्ञकाः भवन्ति । \n\n<hl>अस्त्री</hl> इति निषेधः\nस्त्री इति शब्दः अपि इयङ्स्थानी अस्ति, यतो हि <<स्त्रियाः>> [[6.4.79]] इति सूत्रेण स्त्री-शब्दस्य अजादिप्रत्ययेषु परेषु इयङ्-आदेशः भवति । तथापि अस्य शब्दस्य नदीसंज्ञायाः <<नेयङुवङ्स्थानावस्त्री>> [[1.4.4]] इत्यनेन निषेधः नैव कृतः अस्ति । अस्यां स्थितौ, प्रकृतसूत्रेण उक्तः विकल्पः स्त्री-शब्दस्य विषये अपि प्रवर्तेत वा - इति प्रश्ने जाते, प्रकृतसूत्रेण उक्तः विकल्पः स्त्री-शब्दस्य विषये नैव प्रवर्तते - इति स्पष्टीकर्तुम् प्रकृतसूत्रे <<नेयङुवङ्स्थानावस्त्री>> [[1.4.4]] इत्यस्मात् सूत्रात् अस्त्री इत्यस्य पदस्य अनुवृत्तिः स्वीकृता अस्ति । अतएव स्त्री-शब्दस्य विषये ङित्-प्रत्ययेषु परेषु नित्यम् एव नदीसंज्ञाविशिष्टानि कार्याणि भवन्ति -\n\nस्त्री + (ङे / ङसिँ / ङस् / ङि) [चतुर्थी/पञ्चमी/षष्ठी/सप्तमी-एकवचनस्य प्रत्ययः]\n--> स्त्री + (ङे / ङसिँ / ङस् / आम्) [नदीसंज्ञायां सत्याम् <<ङेराम्नद्याम्नीभ्यः>> [[7.3.116]] इति सप्तमी-एकवचनस्य प्रत्ययस्य आम्-आदेशः]\n--> स्त्री + आट् + (ए / अस् / अस् / आम्) [नदीसंज्ञायां सत्याम् <<आण्नद्याः>> [[7.3.112]] इति आडागमः]\n--> स्त्री + (ऐ / आस् / आस् / आम्) [<<आटश्च>> [[6.1.90]] इति वृद्ध्यैकादेशः]\n--> स्त्रिय् + (ऐ / आस् / आस् / आम्) [<<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> [[6.4.77]] इति इयङ्-आदेशः]\n--> स्त्रियै / स्त्रियाः / स्त्रियाः / स्त्रियाम् \n\nअस्य अस्त्री इति निषेधस्य विषये तदन्तविधिः नास्ति । अतः, महास्त्री, श्रेष्ठस्त्री, परमस्त्री इत्यादीनां स्त्र्यन्तशब्दानां विषये <<नेयङुवङ्स्थानावस्त्री>> [[1.4.4]] इत्यनेन प्राप्तः नदीसंज्ञायाः निषेधः ङित्-प्रत्ययेषु परेषु अवश्यं विकल्प्यते । इत्युक्ते एतेषां ङित्-प्रत्ययेषु रूपेषु नदीसंज्ञकं कार्यं कृत्वा महास्त्रियै, महास्त्रियाः, महास्त्रियाः, महास्त्रियाम् इत्यादीनि रूपाणि, तथा च पक्षे नदीसंज्ञां विना महास्त्रिये, महास्त्रियः महास्त्रियः,महास्त्रियि इत्यादीनि अपि रूपाणि सिद्ध्यन्ति । \n <pv>प्रथमस्य अंशस्य कृते <hl>स्त्र्याख्यौ</hl> इति सम्पूर्णा अनुवृत्तिः \nप्रकृतसूत्रे <<यू स्त्र्याख्यौ नदी>> [[1.4.3]] इत्यस्मात् सूत्रात् स्त्र्याख्यौ इति शब्दस्य अनुवृत्तिः स्वीकृता अस्ति । अस्य शब्दस्य अर्थः नित्यस्त्रीलिङ्गवाच्यत्वम् इति स्वीकृतः अस्ति । एतादृशं नित्यस्त्रीलिङ्गत्वं केवलम् दीर्घ-ईकारान्तशब्दानां कृते, दीर्घ-ऊकारान्तशब्दानां कृते एव गृह्यते । इत्युक्ते, नित्यस्त्रीलिङ्गत्वस्य नियमः अस्य सूत्रस्य प्रथमस्य अंशस्य कृते एव अस्ति ।\n\nअत्र इदं स्मर्तव्यम्, यत् <<नेयङुवङ्स्थानावस्त्री>> [[1.4.4]] इति सूत्रे स्त्राख्यौ इत्यस्य अनुवृत्तिः न वर्तते, अतः तत्र उक्तः नदीसंज्ञायाः निषेधः इयङ्स्थानिनाम् उवङ्स्थानिनां च पुंलिङ्गशब्दानां स्त्रीलिङ्गशब्दानां च विषये समानरूपेण एव विधीयते । परन्तु प्रकृतसूत्रेण उक्तः विकल्पः तु एतेभ्यः केवलं नित्यस्त्रीलिङ्गशब्दानां सन्दर्भेण एव प्रवर्तते । इत्युक्ते, ये शब्दाः नित्यस्त्रीलिङ्गवाचिनः न सन्ति, तेषां विषये ङित्-प्रत्ययेषु परेषु <<नेयङुवङ्स्थानावस्त्री>> [[1.4.4]] इत्यनेन उक्तः नदीसंज्ञायाः निषेधः तादृशः एव तिष्ठति; अतश्च एतादृशानां शब्दानां एतेषु रूपेषु आडागमः / आमादेशः अपि न भवति -\n\nपरमधी [परमा धीः यस्य सः इत्यस्मिन् अर्थे सिद्धः दीर्घ-ईकारान्त-पुंलिङ्गः शब्दः । अयम् इयङ्स्थानी अस्ति, अतः अस्य इति सूत्रेण विहिता नदीसंज्ञा <<नेयङुवङ्स्थानावस्त्री>> [[1.4.4]] इत्यनेन निषिध्यते ]\n--> परमधी +(ङे / ङसिँ / ङस् / ङि) [चतुर्थी/पञ्चमी/षष्ठी/सप्तमी-एकवचनस्य प्रत्ययः]\n--> परमध् इयङ् + (ए / अस् / अस् / इ) [<<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> [[6.4.77]] इति इयङ्-आदेशः ]\n--> परमधिये / परमधियः / परमधियः / परमधियि क\n\n\nविशेषः - परमा धी यस्याः सा इत्यस्मिन् अर्थे विहितस्य परमधी इति दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दस्य विषये अपि <<यू स्त्र्याख्यौ नदी >> [[1.4.3]] इत्यनेन प्राप्ता नदीसंज्ञा <<नेयङुवङ्स्थानावस्त्री>> [[1.4.4]] इत्यनेन निषिध्यते । परन्तु तदनन्तरम्, ङित्-प्रत्ययेषु परेषु अस्य शब्दस्य पुनः विकल्पेन नदीसंज्ञा भवति वा - इति प्रश्ने जाते अस्य उत्तरं कैयटेन काशिकाकारेण च भिन्नप्रकारेण दत्तम् अस्ति इति <<वाऽऽमि>> [[1.4.5]] इत्यत्र सिद्धान्तकौमुदीकारः स्पष्टीकरोति । तत्र कैयटस्य पक्षं स्पष्टीकुर्वन् सः ब्रूते - लिङ्गान्तराभिधायकत्वं नित्यस्त्रीत्वम्यः शब्दः कदापि स्त्रीलिङ्गं विहाय अन्यस्मिन् लिङ्गे नैव प्रयुज्यते, सः एव नित्यस्त्रीलिङ्गशब्दः स्वीकर्तव्यः - इति अत्र कैयटकृता व्याख्या अस्ति । इमां व्याख्याम् अनुसृत्य परमा धी यस्याः सा इत्यस्मिन् अर्थे विहितस्य परमधी इति दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दस्य नित्यस्त्रीलिङ्गत्वं नैव स्वीकर्तुं शक्यते, यतो हि पुंलिङ्गे अपि परमधी इत्येव शब्दः प्रयुज्यते । अतः अस्यां स्थितौ परमधी इति दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दस्य विषये <<नेयङुवङ्स्थानावस्त्री>> [[1.4.4]] इति सूत्रेण नदीसंज्ञायाः कृतः निषेधः प्रकृतसूत्रेण नैवं विकल्पयितुम् शक्यः । इत्युक्ते, ङित्-प्रत्ययेषु परेषु परमधी इति दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दस्य नदीसंज्ञा नैव विधीयते । एतत् सर्वम् कैयटमतेन अस्ति । काशिकाकारस्य पक्षः तु अस्मात् भिन्नः । अमुं पक्षं स्पष्टीकुर्वन् कौमुदीकारः वदति - पदान्तरं विनापि स्त्रियां वर्तमानत्वं नित्यस्त्रीत्वम् इति (वृत्तिकारमतम्)यत्र कश्चन शब्दः स्वाभाविकरूपेण पुंलिङ्गे स्त्रीलिङ्गे च प्रयोक्तुं शक्यते, तत्र तस्य स्त्रीलिङ्गप्रयोगे नित्यस्त्रीलिङ्गत्वम् अवश्यं स्वीक्रियते - इति अत्र काशिकाकारेण दत्ता व्याक्या अस्ति । यथा, परमा धीः यस्य सः / यस्याः सा इत्यस्मिन् अर्थे सिद्धः प्रधी इति शब्दः लोके लिङ्गनिरपेक्षरूपेण प्रयुक्तः दृश्यते (इत्युक्ते, पुरुषस्य विषये, तथा च स्त्रियाः अपि विषये समानरूपेण अस्य शब्दस्य प्रयोगः दृश्यते), अतश्च अत्र स्त्रीलिङ्गवाचिनः प्रधी-शब्दस्य अवश्यं हि नित्यस्त्रीत्वं स्वीकर्तुं शक्यते - इति । एतादृशे नित्यस्त्रीत्वे सिद्धे, इदानीं ङित्-प्रत्ययेषु अस्य पूर्वं निषिद्धा नदीसंज्ञा अवश्यम् एव विकल्प्यते । अयं काशिकाकारस्य पक्षः अस्ति । \nकाशिकाकारस्य पक्षस्य अधिकं विस्तरेण स्पष्टीकरणम् <<यू स्त्र्याख्यौ नदी>> [[1.4.3]] इत्यस्मिन् सूत्रे दत्तम् अस्ति । जिज्ञासुभिः तत् अवश्यं द्रष्टव्यम् ।\nअप्राप्तविभाषा इयम्\nअस्मिन् सूत्रे उक्तयोः द्वयोः अपि अंशयोः सन्दर्भेण पूर्वसूत्रेण अप्राप्ता नदीसंज्ञा प्रकृतसूत्रेण विकल्प्यते, अतः इदं सूत्रम् अप्राप्तविभाषायाः उदाहरणम् अस्ति ।" }, "14007": { "sa": "\"सखि\" इति शब्दं वर्जयित्वा अन्ये ह्रस्व-इकारान्ताः ह्रस्व-उकारान्ताः च नदी-संज्ञाभिन्नाः शब्दाः घि-संज्ञकाः भवन्ति । यथा - मुनि, वारि, मति, साधु, मधु, धेनु। ", "sd": "व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा घि इति संज्ञा प्रकृतसूत्रेण विधीयते । सखि इति शब्दं विहाय अन्येषाम् ह्रस्व-इकारान्तशब्दानाम्, तथा च सर्वेषाम् अपि ह्रस्व-उकारान्तशब्दानाम् यदा नदी-संज्ञा न भवति, तदा तेषाम् घि इति संज्ञा विधीयते - इति प्रकृतसूत्रस्य आशयः । अनेन अत्र द्विप्रकारकाः शब्दाः गृह्यन्ते - \n\n
  • 1. ह्रस्व-इकारान्ताः ह्रस्व-उकारान्ताः च पुंलिङ्ग-नपुंसकलिङ्गशब्दाः - एतेषां शब्दानां कदापि नदीसंज्ञा न विधीयते, अतः एतेषां प्रकृतसूत्रेण नित्यम् एव घिसंज्ञा भवति । यथा - मुनि, वारि, गुरु, मधु - इत्यादयः शब्दाः नित्यं घिसंज्ञकाः सन्ति । अत्र केवलं द्वौ अपवादौ स्तः - सखि इति ह्रस्व-इकारान्त-पुंलिङ्गशब्दः अत्र वर्जितः अस्ति, अतः तस्य घिसंज्ञा न विधीयते; तथा च <<पतिः समास एव>> [[1.4.8]] इत्यनेन अग्रिमसूत्रेण एतद् स्पष्टी भवति यत् पति-शब्दस्य अपि घिसंज्ञा नैव विधीयते । \n
  • 2. ह्रस्व-इकारान्ताः ह्रस्व-उकारान्ताः च स्त्रीलिङ्गशब्दाः - एतेषां ङित्-प्रत्ययेषु परेषु <<ङिति ह्रस्वश्च>> [[1.4.6]] इत्यनेन विकल्पेन नदीसंज्ञा भवति । तस्मिन् पक्षे एतेषां शब्दानां घिसंज्ञा न भवति । परन्तु नदीसंज्ञा-अभावपक्षे, एतेषां घिसंज्ञा अवश्यम् एव भवति । यथा - मति, धेनु इत्यादीनां ङित्-प्रत्ययेषु परेषु नदीसंज्ञायाः अभावे घिसंज्ञा भवति ।\n\nघिसंज्ञाविशिष्टानि कार्याणि\nअष्टाध्याय्याम् घिसंज्ञाविशिष्टानि आहत्य चत्वारि कार्याणि उक्तानि सन्ति । तानि सोदाहरणं अधः विव्रियन्ते -\n\n
  • 1. ङित्-प्रत्यये परे अङ्गस्य गुणः - <<घेर्ङिति>> [[7.3.111]] इति सूत्रेण घिसंज्ञकस्य अङ्गस्य ङित्-प्रत्यये परे गुणादेशः भवति । यथा -\n\nमुनि + ङे [चतुर्थ्येकवचनस्य प्रत्ययः]\n--> मुने + ए [<<घेर्ङिति>> [[7.3.111]] इति अङ्गस्य गुणः]\n--> मुनय् + ए [<<एचोऽयवायावः>> [[6.1.78]] इति अयादेशः]\n--> मुनये\n\n
  • 2. घिसंज्ञकस्य अकारादेशः, प्रत्ययस्य औत्वम् - <<अच्च घेः>> [[7.3.119]] इति सूत्रेण घिसंज्ञकात् विहितस्य सप्तम्येकवचनस्य ङि-प्रत्ययस्य औङ्-आदेशः भवति, तथा च घिसंज्ञकस्य अन्तिमवर्णस्य अकारादेशः भवति । यथा - \n\nमुनि + ङि [सप्तम्येकवचनस्य प्रत्ययः]\n--> मुन + औ [ <<अच्च घेः>> [[7.3.119]] इति अङ्गस्य अकारादेशः, प्रत्ययस्य औत्वम्]\n--> मुनौ [<<वृद्धिरेचि>> [[6.1.88]] इति वृद्धि-एकादेशः]\n\n
  • 3. टा-प्रत्ययस्य ना-आदेशः - <<आङो नाऽस्त्रियाम्>> [[7.3.120]] इति सूत्रेण पुंलिङ्गवाचिनः नपुंसकलिङ्गवाचिनः वा घिसंज्ञकात् विहितस्य तृतीयैकवचनस्य टा-प्रत्ययस्य ना इति आदेशः भवति । यथा - \n\nमुनि + टा [तृतीयैकवचनस्य प्रत्ययः]\n--> मुनि + ना [ <<आङो नाऽस्त्रियाम्>> [[7.3.120]] इति टा-प्रत्ययस्य ना-आदेशः]\n--> मुनिना\n\n
  • 4. द्वन्द्वसमासे पूर्वनिपातः - द्वन्द्वसमासे <<द्वन्द्वे घि>> [[2.2.32]] इति सूत्रेण घिसंज्ञकशब्दस्य पूर्वनिपातः क्रियते । अतएव हरश्च हरिश्च इत्यत्र घिसंज्ञकस्य हरि-शब्दस्य पूर्वनिपातं कृत्वा हरिहरौ इति शब्दः सिद्ध्यति ।\n\n<hl>सखि</hl>-शब्दस्य घिसंज्ञा न \nप्रकृतसूत्रेण कृते ह्रस्व-इकारान्त-उकारान्त-शब्दानां घिसंज्ञाविधाने असखि इति निर्देशः वर्तते, अतः ह्रस्व-इकारान्त-पुंलिङ्गस्य सखि इति शब्दस्य घिसंज्ञा न भवति । घिसंज्ञायाः अभावात् तद्विशिष्टानि कार्याणि अपि नैव प्रवर्तन्ते, अपितु केवलं यणादेशं कृत्वा एव रूपाणि सिद्ध्यन्ति । यथा -\n\nसखि + (टा / ङे / ङसिँ / ङस् / ङि) [तृतीया/चतुर्थी/पञ्चमी/षष्ठी/सप्तमी-एकवचनस्य प्रत्ययः]\n--> सखि + (आ / ए / उस् / उस् / औ) [<<ख्यत्यात् परस्य>> [[6.1.112]] इति ङसिँ-ङस्-प्रत्यययोः अकारस्य उकारादेशः । <<औत्>> [[7.3.118]] इति सूत्रेण सप्तम्येकवचनस्य ङि-प्रत्ययस्य औ-आदेशः ।]\n--> सख्या / सख्ये / सख्युः / सख्युः / सख्यौ [<<इको यणचि>> [[6.1.77]] इति यणादेशः]\n\nसख्यन्तशब्दानां घिसंज्ञा अवश्यमेव भवति\nप्रकृतसूत्रे विद्यमानेन असखि इति निषेधेन सखिभिन्नशब्दस्य घिसंज्ञा विधीयते । अयं विधिः सुसखि, परमसखि, अतिसखि इत्यादीनां सख्यन्त-शब्दानां विषये प्रवर्तते वा - इति प्रश्ने जाते - एते शब्दाः सखि-भिन्नाः सन्ति, अतः एतेषां विषये प्रकृतसूत्रेण उक्तः विधिः अवश्यं प्रवर्तते - इति उत्तरम् । इत्युक्ते, एतेषां सख्यन्त-शब्दानां घिसंज्ञा अवश्यम् अस्ति, अतश्च एतेषां रूपाणि सुसखिना, सुसखये, सुसखेः, सुसखौ इति प्रकारेण मुनि-शब्दसदृशानि एव भवन्ति ।\nकिञ्च, सखि इत्यस्मात् शब्दात् किञ्चित् न्यूनः सखा अस्मिन् अर्थे <<विभाषा सुपो बहुच् पुरस्तात्तु>> [[5.3.68]] इत्यनेन सूत्रेण बहुच् इति तद्धितप्रत्यये कृते बहुसखि इति यत् प्रातिपदिकं सिद्ध्यति; तस्य विषये अपि प्रकृतसूत्रेण घिसंज्ञा अवश्यं भवति । अतएव अस्य शब्दस्य रूपाणि बहुसखिना, बहुसखये, बहुसखेः , बहुसखेः, बहुसखौ इति मुनि-शब्दसदृशानि एव भवन्ति । \n<hl>शेषः</hl> इत्यस्य अर्थः\nप्रकृतसूत्र विद्यमानः शेष: इति शब्दः तादृशानाम् ह्रस्व-इकारान्त-उकारान्त-शब्दानां निर्देशं करोति येषां नदीसंज्ञा न भवति । इत्युक्ते शेष: इत्यनेन अत्र नदीसंज्ञाभिन्नः ह्रस्व-इकारान्तः / ह्रस्व-उकारान्तः शब्दः इति अर्थः स्वीक्रियते । \nशेषग्रहणं स्पष्टार्थम्\nवस्तुतः प्रकृतसूत्रम् <<आकडारादेका संज्ञा>> [[1.4.1]] इत्यनेन विहिते एकसंज्ञाधिकारे अस्ति, अतः एकस्य शब्दस्य एका एव संज्ञा भवितुम् अर्हति । इत्युक्ते, यत्र ह्रस्व-इकारान्त-शब्दस्य ह्रस्व-उकारान्तशब्दस्य च नदीसंज्ञा विधीयते, तत्र एकसंज्ञाधिकारसामर्थ्यात् एव घिसंज्ञा नैव संभवति । अतश्च तदर्थम् पुनः शेषः इति शब्दस्य ग्रहणम् अनावश्यकं वर्तते । अतएव कौमुदीकारः वदति - एकसंज्ञाधिकारात्सिद्धे शेषग्रहणं स्पष्टार्थमिति तत्वम् । प्रकृतसूत्रे विद्यमानम् शेषः इति शब्दस्य ग्रहणम् केवलं स्पष्टताप्रतिपत्यर्थम् अस्ति - इति अत्र कौमुदीकारस्य आशयः वर्तते ।\n\n\n" }, "14008": { "sa": "\"पति\" इति शब्दस्य समासे एव घि-संज्ञा भवति । यथा - गणपति, भूपति । ", "sd": "ह्रस्व-इकारान्त-पुंलिङ्गः यः पति-शब्दः, तस्य <<शेषो घ्यसखि>> [[1.4.7]] इति सूत्रेण घिसंज्ञायाम् प्राप्तायाम् प्रकृतसूत्रेण सा नियम्यतेपति इति शब्दस्य समासे (उत्तरपदरूपेण स्थिते) एव घिसंज्ञा भवति, केवलस्य पति शब्दस्य घिसंज्ञा न भवति - इति अस्य सूत्रस्य अर्थः । उदाहरणानि एतानि -\n\n1. प्रजायाः पतिः इति षष्ठीसमासेन सिद्धः प्रजापति इति शब्दः घिसंज्ञकः अस्ति, अतः अस्य रूपाणि प्रजापतिना, प्रजापतये, प्रजापतेः,प्रजापतेः, प्रजापतौ इति मुनि-शब्दसदृशानि भवन्ति । एवमेव गणपति, श्रीपति, क्षेत्रपति, भूपति, सीतापति- आदीनां शब्दानां विषये ज्ञेयम् ।\n2. परमश्च असौ पतिश्च इति कर्मधारयसमासेन सिद्धः परमपति इति शब्दः घिसंज्ञकः अस्ति, अतः अस्य रूपाणि परमपतिना, परमपतये, परमपतेः,परमपतेः, परमपतौ इति मुनि-शब्दसदृशानि भवन्ति । एवमेव श्रेष्ठपति, महापति, सुपति - आदीनां शब्दानां विषये ज्ञेयम् ।\n\n\nकेवलस्य पति-शब्दस्य घिसंज्ञा न भवति । अतएव, अस्य रूपेषु घिसंज्ञाविशिष्टानि कार्याणि अपि न प्रवर्तन्ते - \n\nपति + टा / ङे / ङसिँ / ङस् / ङि [तृतीया/चतुर्थी/पञ्चमी/षष्ठी/सप्तमी-एकवचनस्य प्रत्ययः]\n--> पति + आ / ए / उस् / उस् / औ [<<ख्यत्यात् परस्य>> [[6.1.112]] इति ङसिँ-ङस्-प्रत्यययोः अकारस्य उकारादेशः । <<औत्>> [[7.3.118]] इति सूत्रेण सप्तम्येकवचनस्य ङि-प्रत्ययस्य औ-आदेशः ।]\n--> पत्या / पत्ये / पत्युः / पत्युः / पत्यौ [<<इको यणचि>> [[6.1.77]] इति यणादेशः]\n\n<pv> <hl>बहुपति</hl> इति शब्दः\nपति इत्यस्मात् शब्दात् किञ्चित् न्यूनः पति इत्यस्मिन् अर्थे <<विभाषा सुपो बहुच् पुरस्तात्तु>> [[5.3.68]] इत्यनेन सूत्रेण बहुच् इति तद्धितप्रत्यये कृते बहुपति इति प्रातिपदिकं सिद्ध्यति । अस्मिन् शब्दे बहुच् इति प्रत्ययः पति इति शब्दात् पूर्वं स्थापितः अस्ति इति अस्य विशेषः । इत्युक्ते, यद्यपि इदं प्रातिपदिकम् पत्यन्तम् अस्ति, तथापि इदं समस्तपदं नास्ति, यतोहि अत्र विद्यमानः बहु इति अंशः प्रत्ययः अस्ति, न हि पदम् । अतएव, बहुपति इति शब्दस्य विषये प्रकृतसूत्रं नैव प्रवर्तते । इत्युक्ते, बहुच्-प्रत्ययेन सिद्धः बहुपति इति शब्दः घिसंज्ञकः नास्ति । अतएव अस्य शब्दस्य रूपाणि बहुपत्या, बहुपत्ये, बहुपत्युः , बहुपत्युः, बहुपत्यौ इति पति-शब्दसदृशानि एव भवन्ति । \nबहुपति-शब्दस्य घिसंज्ञा न भवति, परन्तु बहुसखि-शब्दस्य घिसंज्ञा अवश्यं भवति । अतएव <<शेषो घ्यसखि>> [[1.4.7]] इति पूर्वसूत्रे एव पतिशब्दस्य ग्रहणं न कर्तुं शक्यते ।" }, "14009": { "sa": "षष्ठ्यन्तपदेन युक्तः \"पति\" शब्दः वेदेषु विकल्पेन घि-संज्ञकः भवति । यथा - क्षेत्रस्य पतिना, क्षेत्रस्य पत्या । ", "sd": "ह्रस्व-इकारान्तस्य पति-शब्दस्य <<पति समास एव>> [[1.4.8]] इत्यनेन घिसंज्ञायाः निषेधे प्राप्ते, वैदिक-प्रयोगाणां साधुत्वार्थम् अस्य शब्दस्य केषुचन स्थलेषु विकल्पेन घिसंज्ञा इष्यते । तदर्थम् एव प्रकृतसूत्रस्य निर्माणं कृतम् अस्ति । षष्ठ्यन्त-शब्दस्य अन्वये विद्यमानस्य पति-शब्दस्य विकल्पेन घिसंज्ञा भवति - इति सूत्रस्य आशयः । पति-शब्दस्य एतादृश्या घिसंज्ञायां लब्धायाम् घिसंज्ञाविशिष्टानि कार्याणि कृत्वा पतिना, पतये इत्यादीनि मुनि-शब्दसदृशानि एव रूपाणि भवन्ति । कानिचन उदाहरणानि एतानि - \n\n
  • 1. ऋग्वेदे 4.57.1 इत्यत्र - क्षेत्रस्य पतिना वयं हितेनेव जयामसि । अत्र पति-शब्दस्य क्षेत्रस्य इति षष्ठ्यन्तेन शब्देन अन्वयः अस्ति, अतः अत्र पति-शब्दस्य घिसंज्ञा भवति । घिसंज्ञायां सत्यां तृतीयैकवचनस्य प्रत्ययस्य <<आङो नाऽस्त्रियाम्>> [[7.3.120]] इत्यनेन ना-आदेशे कृते पतिना इति रूपं सिद्ध्यति ।\n
  • 2. कृष्णयजुर्वेदे रुद्रनमके - पशूनां पतये नमः । अत्र पति-शब्दस्य पशूनाम् इति षष्ठ्यन्तेन शब्देन अन्वयः अस्ति, अतः अत्र पति-शब्दस्य घिसंज्ञा भवति । घिसंज्ञायां सत्यां चतुर्थ्येकवचने <<घेर्ङिति>> [[7.3.111]] इत्यनेन गुणैकादेशे कृते पतये इति रूपं सिद्ध्यति ।\n
  • 3. ऋग्वेदे 2.25.2 इत्यत्र - ब्रह्मणस्पतेरव आ वृणीमहे । अत्र पति-शब्दस्य ब्रह्मणः इति षष्ठ्यन्तेन शब्देन अन्वयः अस्ति, अतः अत्र पति-शब्दस्य घिसंज्ञा भवति । घिसंज्ञायां सत्यां षष्ठ्येकवचने <<घेर्ङिति>> [[7.3.111]] इत्यनेन गुणैकादेशे कृते पतेः इति रूपं सिद्ध्यति ।\n\nआर्षप्रयोगेषु अपि <hl>पति</hl>-शब्दस्य घिसंज्ञा\nकेषुचन आर्षप्रयोगेषु (इत्युक्ते ऋषिभिः कृतेषु प्रयोगेषु) षष्ठ्यन्तशब्दस्य योगे विद्यमानस्य पति-शब्दस्य घिसंज्ञा कृता दृश्यते । यथा, बुधकौशिकऋषिविरचिते रामरक्षास्तोत्रे सीतायाः पतये नमः इति प्रयोगः अस्ति । एवमेव, रामायणे सुन्दरकाण्डे पर्वतः सरितां पतौ इति प्रयोगः दृश्यते । वस्तुतः एतादृशाः प्रयोगाः वैदिकाः न, अतः प्रकृतसूत्रेण तेषां साधुत्वं नैव सिद्ध्यति । तथापि, ऋषिकृतयः छन्दोवत् भवन्ति इति मत्त्वा एतेषां साधुत्वं स्वीकृतम् अस्ति । \nसूत्रे <hl>वा</hl> इति ग्रहणस्य प्रयोजनम्\nप्रकृतसूत्रे वा इति शब्दस्य ग्रहणेन इदं स्पष्टी क्रियते यत् वेदेषु षष्ठ्यन्तशब्देन सह अन्वये सति पति-शब्दस्य घिसंज्ञा विकल्पेन एव भवति । इत्युक्ते, कुत्रचित् घिसंज्ञां विना एव रूपाणि प्रयुक्तानि सन्ति । यथा, तैत्तिरीयसंहितायाम् कुलुञ्चानां पतये नमः इत्यस्य स्थाने कुलुञ्चानां पत्ये नमः इति प्रयोगः अपि दृश्यते इति काशिकायाम् उदाहरणं दत्तम् अस्ति ।\n<hl>वा</hl> इति योगविभागः\nप्रकृतसूत्रात् वा इति शब्दस्य योगविभागं कृत्वा, तत्र छन्दसि इत्यस्य अनुवृत्तिं च कृत्वा <<छन्दसि वा>> इति नूतनं सूत्रं सिद्ध्यति । अस्य सूत्रस्य अर्थः सर्वे विधयः छन्दसि विकल्प्यन्ते इति स्वीक्रियते । अष्टाध्याय्याम् उक्तानि सर्वाणि अपि कार्याणि, सर्वाः अपि संज्ञाः, सर्वे अपि नियमाः च वेदेषु विकल्पेन भवन्ति - इति अस्य आशयः अस्ति । " }, "14010": { "sa": "ह्रस्वस्वरः लघुसंज्ञकः भवति । ", "sd": "व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा लघु इति संज्ञा अनेन सूत्रेण पाठ्यते । यः स्वरः ह्रस्वः अस्ति, तस्य औत्सर्गिकरूपेण लघु इति संज्ञा भवति — इति अस्य सूत्रस्य आशयः । यथा-\n\n
  • 1. शिव इति शब्दे शकारोत्तरः इकारः, वकारोत्तरः अकारः च लघुसंज्ञकौ स्तः । \n
  • 2. स्मृति इति शब्दे मकारोत्तरः ऋकारः, तकारोत्तरः इकारः च लघुसंज्ञकौ स्तः ।\n
  • 3. गुरु इति शब्दे गकारोत्तरः उकारः, रेफोत्तरः उकारः च लघुसंज्ञकौ स्तः ।\n\nलघुसंज्ञायाः प्रयोजनम्\nलघुसंज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्यां भिन्नाः विधयः उक्ताः सन्ति । त्रीणि उदाहरणानि एतानि -\n\n1. <<पुगन्तलघूपधस्य च>> [[7.3.86]] अनेन सूत्रेण सार्वधातुके, आर्धधातुके वा प्रत्यये परे अङ्गस्य उपधा-लघु-वर्णस्य गुणादेशः भवति । यथा, तृच्-प्रत्यये परे भिद्-धातोः उपधा-इकारस्य ह्रस्वत्वात् लघुसंज्ञायां सत्याम् गुणादेशे (एकारे) कृते भेत्तृ इति प्रातिपदिकं सिद्ध्यति । प्रक्रिया इयम् —\n\nभिदिँर् (विदारणे, रुधादिः, <{7.2}>)\n→ भिद् + तृच् [<<ण्वुल्तृचौ>> [[3.1.133]] इति तृच्-प्रत्ययः]\n→ भेद् + तृ [<<पुगन्तलघूपधस्य च>> [[7.3.86]] इति उपधा-लघु-वर्णस्य गुणादेशः । इकारस्य गुणः एकारः]\n→ भेत् + तृ [<<खरि च>> [[8.4.55]] इति चर्त्वम्]\n→ भेत्तृ\n\n
  • 2. यस्मिन् प्रातिपदिके अन्तिमः स्वरः इक्-प्रत्याहारस्थः अस्ति, तथा च उपोत्तमः स्वरः (second last स्वर) लघुसंज्ञकः अस्ति, तस्मात् <<इगन्ताच्च लघुपूर्वात्>> [[5.1.131]] अनेन सूत्रेण भावार्थे अण् इति तद्धितप्रत्ययः विधीयते । यथा, मुनि इति शब्दे अन्तिमः स्वरः इक्-प्रत्याहारस्थः (= इकारः) तथा च उपोत्तमः स्वरः उकारः (= लघुसंज्ञकः) अस्ति इति कारणात् अस्मात् शब्दात् भावार्थे अण्-प्रत्ययः भवति । प्रक्रिया इयम् —\n\nमुनि + अण् [<<इगन्ताच्च लघुपूर्वात्>> [[5.1.131]] इति अण्]\n--> मौनि + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n--> मौन् + अ [<<यस्येति च>> [[6.4.148]] इति इकारलोपः]\n--> मौन\n\n
  • 3. यस्मिन् धातौ उपधायां लघुस्वरः विद्यते, तस्मात् विहितस्य णिच्-प्रत्ययस्य ल्यप्-प्रत्यये परे <<ल्यपि लघुपूर्वात्>> [[6.4.146]] इत्यनेन अयादेशः भवति । यथा -\n\nप्र + कथ (स्तेये, <{10.1}>) + णिच् + ल्यप्\n--> प्र + कथ् + इ + य [<<अतो लोपः>> [[6.4.48]] इति अकारलोपः]\n--> प्र + कथ् + अय् + य [ <<ल्यपि लघुपूर्वात्>> [[6.4.146]] इति णिच्-प्रत्ययस्य अयादेशः]\n--> प्रकथय्य\n\n\nअष्टाध्याय्यां लघुसंज्ञायाः प्रयोगः\nअष्टाध्याय्याम् लघुसंज्ञायाः साक्षात् प्रयोगः सप्तसु सूत्रेषु कृतः अस्ति —\n\n1. <<इगन्ताच्च लघुपूर्वात्>> [[5.1.131]]\n2. <<ल्यपि लघुपूर्वात्>> [[6.4.56]] \n3. <<र ऋतो हलादेर्लघोः>> [[6.4.161]]\n4. <<अतो हलादेर्लघोः>> [[7.2.7]]\n5. <<पुगन्तलघूपधस्य च>> [[7.3.86]]\n6. <<सन्वल्लघुनि चङ्परेऽनग्लोपे>> [[7.4.93]]\n7. <<दीर्घो लघोः>> [[7.4.94]]\n\nअनुवृत्तिरूपेण तु अन्येषु अपि सूत्रेषु इयं संज्ञा प्रयुक्ता दृश्यते ।\n\nलघुसंज्ञायाः बाधं कृत्वा गुरुसंज्ञाविधानम्\nयस्मात् ह्रस्वस्वरात् अनन्तरम् संयोगः अस्ति, तस्य ह्रस्वस्वरस्य <<संयोगे गुरु>> [[1.4.11]] इत्यनेन अग्रिमसूत्रेण गुरु इति संज्ञा भवति । इयं गुरुसंज्ञा एकसंज्ञाधिकारसामर्थ्यात् प्रकृतसूत्रकृतां लघुसंज्ञां बाधते । यथा, कृष्ण अस्मिन् शब्दे विद्यमानस्य ककारोत्तरस्य ऋकारस्य <<संयोगे गुरु>> [[1.4.11]] इत्यनेन गुरुसंज्ञा भवति, या प्रकृतसूत्रकृतां लघुसंज्ञां बाधते ।\n" }, "14011": { "sa": "संयोगे परे ह्रस्वस्वरः गुरुसंज्ञकः भवति ।", "sd": "व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा गुरु इति संज्ञा अनेन सूत्रेण पाठ्यते । ह्रस्वस्वरात् अनन्तरम् अव्यवहितरूपेण संयोगः विद्यते चेत् तस्य ह्रस्वस्वरस्य गुरु इति संज्ञा भवति — इति अस्य सूत्रस्य आशयः । यथा-\n\n
  • 1. अर्थ इति शब्दे आदिस्थः अकारः गुरुसंज्ञकः अस्ति, यतो हि अस्मात् अकारात् अनन्तरम् अव्यवहितरूपेण रेफ-थकार-संयोगः विद्यते ।\n
  • 1. मित्र इति शब्दे मकारोत्तरः इकारः गुरुसंज्ञकः अस्ति ।\n
  • 2. पुष्प इति शब्दे पकारोत्तरः उकारः गुरुसंज्ञकः अस्ति । \n
  • 3. कृष्ण इति शब्दे ककारोत्तरः ऋकारः गुरुसंज्ञकः अस्ति ।\n\nगुरुसंज्ञया लघुसंज्ञायाः बाधः\nह्रस्वस्वरस्य <<ह्रस्वं लघु>> [[1.4.10]] इत्यनेन औत्सर्गिकरूपेण लघुसंज्ञायां प्राप्तायाम्, तस्मात् स्वरात् अव्यवहितपरः संयोगः अस्ति चेत्, तस्यैव स्वरस्य <<संयोगे गुरु>> [[1.4.11]] इति सूत्रेण गुरुसंज्ञा अपि भवति । इयं गुरुसंज्ञा एकसंज्ञाधिकारात् पूर्वं प्राप्तां लघुसंज्ञाम् बाधते । यस्य ह्रस्वस्वरस्य गुरुसंज्ञा भवति, तस्य लघुसंज्ञा न भवति इत्यर्थः । \n\nगुरुसंज्ञायाः प्रयोजनम्\nगुरुसंज्ञायाः प्रयोगं कृत्या अष्टाध्याय्यां भिन्नाः विधयः पाठिताः वर्तन्ते । अस्य द्वे उदाहरणे एतादृशे -\n\n
  • 1. यस्मिन् हलन्तधातौ गुरुसंज्ञकः स्वरः विद्यते, तस्मात् स्त्रियाम् <<गुरोश्च हलः>> [[3.3.103]] इति सूत्रेण इति कृत्प्रत्ययः भवति । यथा कुण्ड् इति धातोः अनेन सूत्रेण -प्रत्यये कृते कुण्डा इति रूपं सिद्ध्यति । प्रक्रिया इयम् —\n\nकुडिँ (दाहे, भ्वादिः, <{1.303}>)\n→ कुन्ड् [<<इदितो नुम् धातोः>> [[7.1.58]] इति नुमागमः]\n→ कुन्ड् + अ + टाप् [अयम् हलन्तः धातुः, तथा च अस्मिन् धातौ विद्यमानः ककारोत्तरः उकारः <<संयोगे गुरु>> [[1.4.11]] इत्यनेन गुरुसंज्ञकः अस्ति । अतः <<गुरोश्च हलः>> [[3.3.103]] इति सूत्रेण अस्मात् धातोः -प्रत्ययः भवति । अग्रे स्त्रीत्वं द्योतयितुम् <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्-प्रत्ययः अपि विधीयते ।]\n→ कुण्ड् + अ + आ [<<नश्चापदान्तस्य झलि>> [[8.3.24]], <<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति नकारस्य अनुस्वार-परसवर्णौ]\n→ कुण्डा [<<अकः सवर्णे दीर्घः>> [[6.1.101]] ]\n\n
  • 2. यः धातुः इजादिः अस्ति, तथा च यस्मिन् गुरुसंज्ञकः स्वरः विद्यते, तादृशात् धातोः लिट्लकारस्य प्रक्रियायाम् आम् इति प्रत्ययः विधीयते । यथा -\n\nइविँ (व्याप्तौ, <{1.670}>\n--> इन्व् [<<इदितो नुम् धातोः>> [[7.1.58]] इति नुमागमः]\n--> इन्व् + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट्]\n→ इन्व् + आम् + ल् [इन्व्-धातौ विद्यमानः इकारः <<संयोगे गुरु>> [[1.4.11]] इत्यनेन गुरुसंज्ञकः भवति । अतः अस्मात् धातोः लिट्लकारप्रक्रियायाम् <<इजादेश्च गुरुमतोऽनृच्छः>> [[3.1.36]] इति आम्-प्रत्ययः विधीयते ।]\n→ इन्व् + आम् [<<आमः>> [[2.4.81]] इति लकारप्रत्ययस्य लुक् ]\n→ इन्व् + आम् + चकार [ <<कृञ्चानुप्रयुज्यते लिटि>> [[3.1.40]] इति कृ-धातोः अनुप्रयोगः । <<आम्प्रत्ययवत् कृञोनुप्रयोगस्य>> [[1.3.63]] इति तस्य परस्मैपदे प्रयोगः । तस्य प्रथमपुरुषैकवचनम् चकार इति]\n→ इन्वाञ्चकार [<<मोऽनुस्वारः>> [[8.3.23]] इति मकारस्य अनुस्वारः, ततः <<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति परसवर्णः ]\n\n\nअष्टाध्याय्यां गुरुसंज्ञायाः प्रयोगः\nअष्टाध्याय्याम् गुरुसंज्ञायाः साक्षात् प्रयोगः पञ्चसु सूत्रेषु कृतः अस्ति —\n\n1. <<गुरोश्च हलः>> [[3.3.103]]\n2. <<इजादेश्च गुरुमतोऽनृच्छः>> [[3.1.36]]\n3. <<अणिञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ् गोत्रे >> [[4.1.78]]\n4. <<योपधाद्गुरूपोत्तमाद्वुञ्>> [[5.1.132]]\n5. <<गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम् >> [[8.2.86]] \n\nअनुवृत्तिरूपेण अन्येषु अपि सूत्रेषु इयं संज्ञा प्रयुक्ता दृश्यते ।\n" }, "14012": { "sa": "दीर्घस्वरः गुरुसंज्ञकः भवति । ", "sd": "व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा गुरु इति संज्ञा अनेन सूत्रेण पाठ्यते । यः स्वरः दीर्घः अस्ति, तस्य गुरु इति संज्ञा भवति — इति अस्य सूत्रस्य आशयः । यथा-\n\n
  • 1. देवी इति शब्दे दकारोत्तरः एकारः, वकारोत्तरः ईकारः च गुरुसंज्ञकौ स्तः । \n
  • 2. पौत्र इति शब्दे पकारोत्तरः औकारः गुरुसंज्ञकः अस्ति ।\n
  • 3. भूमि इति शब्दे भकारोत्तरः ऊकारः गुरुसंज्ञकः अस्ति ।\n\nगुरुसंज्ञायाः प्रयोजनम्\nगुरुसंज्ञायाः प्रयोगं कृत्या अष्टाध्याय्यां भिन्नाः विधयः पाठिताः वर्तन्ते । द्वे उदाहरणे एतादृशे -\n\n
  • 1. यस्मिन् हलन्तधातौ गुरुसंज्ञकः स्वरः विद्यते, तस्मात् स्त्रियाम् <<गुरोश्च हलः>> [[3.3.103]] इति सूत्रेण इति कृत्प्रत्ययः भवति । यथा ईह् इति धातोः अनेन सूत्रेण -प्रत्यये कृते ईहा इति रूपं सिद्ध्यति । प्रक्रिया इयम् —\n\nईहँ (चेष्टायाम्, भ्वादिः, <{1.719}>)\n→ ईह् + अ + टाप् [अयम् हलन्तः धातुः, तथा च अस्मिन् धातौ विद्यमानः आदिस्थः ईकारः <<दीर्घं च>> [[1.4.12]] इत्यनेन गुरुसंज्ञकः अस्ति । अतः <<गुरोश्च हलः>> [[3.3.103]] इति सूत्रेण अस्मात् धातोः -प्रत्ययः भवति । अग्रे स्त्रीत्वं द्योतयितुम् <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्-प्रत्ययः अपि विधीयते ।]\n→ ईहा [<<अकः सवर्णे दीर्घः>> [[6.1.101]] ]\n\n
  • 2. यस्मिन् प्रातिपदिके उपधायाम् यकारः अस्ति, तथा च उपोत्तमः स्वरः (second last स्वर) गुरुसंज्ञकः अस्ति, तस्मात् भावार्थे <<योपधाद्गुरूपोत्तमाद्वुञ् >> [[5.1.132]] इत्यनेन वुञ् इति प्रत्ययः विधीयते । यथा -\n\nरमणीयस्य भावः\n--> रमणीय + वुञ् [रमणीय इति शब्दे उपधायाम् यकारः अस्ति, तथा च उपोत्तमः स्वरः (ईकारः) गुरुसंज्ञकः अस्ति । अतः अस्मात् प्रातिपदिकात् भावार्थे <<योपधाद्गुरूपोत्तमाद्वुञ् >> [[5.1.132]] इत्यनेन वुञ् इति प्रत्ययः विधीयते]\n--> रमणीय + अक [<<युवोरनाकौ>> [[7.1.1]] इति अक-आदेशः]\n--> रामणीय + अक [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n--> रामणीय् + अक [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n--> रामणीयक\n\n\nअष्टाध्याय्यां गुरुसंज्ञायाः प्रयोगः\nअष्टाध्याय्याम् गुरुसंज्ञायाः साक्षात् प्रयोगः पञ्चसु सूत्रेषु कृतः अस्ति —\n\n1. <<गुरोश्च हलः>> [[3.3.103]]\n2. <<इजादेश्च गुरुमतोऽनृच्छः>> [[3.1.36]]\n3. <<अणिञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ् गोत्रे >> [[4.1.78]]\n4. <<योपधाद्गुरूपोत्तमाद्वुञ्>> [[5.1.132]]\n5. <<गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम् >> [[8.2.86]] \n\nअनुवृत्तिरूपेण अन्येषु अपि सूत्रेषु इयं संज्ञा प्रयुक्ता दृश्यते ।" }, "14013": { "sa": "यस्मात् शब्दात् प्रत्ययः विधीयते, तदादि शब्दस्वरूपम् तस्मिन् प्रत्यये परे 'अङ्गम्' इति संज्ञां प्राप्नोति । ", "sd": "अष्टाध्याय्यां पाठितासु संज्ञासु अन्यतमा अङ्गम् इति संज्ञा प्रकृतसूत्रेण पाठ्यते । यस्मात् शब्दात् प्रत्ययस्य विधानं क्रियते, तस्य शब्दस्य प्रथमवर्णात् प्रारभ्य, प्रत्ययस्य प्रथमवर्णं यावत् (परन्तु प्रत्ययस्य प्रथमवर्णं विहाय) विद्यमानः सम्पूर्णः अंशः तस्य प्रत्ययस्य अङ्गरूपेण स्वीक्रियते — इति अस्य सूत्रस्य आशयः ।\n\nस्मर्तव्यम् - अङ्गम् इति संज्ञा नित्यम् प्रत्ययस्य सन्दर्भे एव भवति । इत्युक्ते, अङ्गम् अस्ति इति उच्यते चेत् कस्य प्रत्ययस्य अङ्गम् अस्ति इति अपि वक्तव्यम् । यदि प्रत्ययस्य सन्दर्भः न दीयते, तर्हि अङ्गसंज्ञा अपि नैव सम्भवति । \nअङ्गसंज्ञायाः कानिचन उदाहरणानि\nअङ्गसंज्ञायाः कानिचन उदाहरणानि एतानि —\n\n
  • 1. राम-शब्दात् प्रथमाद्विवचनस्य इति प्रत्यये कृते, राम-शब्दस्य प्रथमवर्णः र् इत्यस्मात् आरभ्य प्रत्ययस्य प्रथमवर्णः इति यावत् (परन्तु तं विहाय) यत् शब्दस्वरूपम् वर्तते, तस्य प्रकृतसूत्रेण अङ्गसंज्ञा भवति । अतः अत्र राम इति प्रातिपदिकस्य -प्रत्ययस्य सन्दर्भेण अङ्गसंज्ञा अपि भवति । \n
  • 2. पठ्-धातोः लट्लकारस्य तिप्-प्रत्यये परे <<कर्तरि शप्>> [[3.1.68]] इति शप्-विकरणप्रत्ययः विधीयते । अत्र प्रक्रियायाम् पठ् + अ + ति इति स्थिते, तिप्-प्रत्ययस्य विधानम् पठ्-धातोः विषये कृतम् अस्ति, अतः पठ्-इत्यस्य आदिवर्णात् (पकारात्) आरभ्य तिप्-प्रत्ययस्य प्रथमवर्णं (तकारं) यावत् (परन्तु तकारं विहाय) यत् शब्दस्वरूपम् वर्तते, तस्य सम्पूर्णस्य तिप्-प्रत्ययस्य सन्दर्भेण अङ्गसंज्ञा भवति । इत्युक्ते अत्र तिप्-प्रत्ययस्य अङ्गरूपेण पठ् + अ इति अंशः स्वीक्रियते ।\n
  • 3. सम्-उपसर्गपूर्वात् पठ्-धातोः लङ्लकारस्य प्रक्रियायाम् सम् + पठ् + अ + त् इत्यत्र लङ्लकारः पठ्-धातोः विधीयते, अतः अत्र पठ्-इत्यस्य आदिवर्णात् (पकारात्) आरभ्य लङ्-लकारस्य प्रथमवर्णम् यावत् (परन्तु तं विहाय) विद्यमानस्य शब्दस्वरूपस्य अङ्गसंज्ञा भवति । अनया व्याख्यया लङ्-प्रत्ययस्य अङ्गम् पठ् + अ इति स्वीक्रियते । इत्युक्ते, अत्र सम्- उपसर्गः अङ्गसंज्ञायां भागं न गृह्णाति । अतएव, <<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इत्यनेन विहितः अङ्गस्य अडागमः टित्त्वात् <<आद्यन्तौ टकितौ>> [[1.1.46]] इत्यनेन पठ्-धातोः एव आदौ विधीयते, न हि सम्-उपसर्गात् पूर्वम् । अतएव सम् + पठ् इत्यस्य लङ्लकारस्य प्रथमपुरुषैकवचनम् समपठत् इति भवति ।\n\nअङ्गाधिकारः\nअङ्गसंज्ञाम् अधिकृत्य अष्टाध्याय्याम् <<अङ्गस्य>> [[6.4.1]] इति कश्चित् बृहन् अधिकारः विद्यते । षष्ठाध्यायस्य चतुर्थपादात् आरभ्य सप्तमाध्यायस्य समाप्तिपर्यन्तम्, इत्युक्ते आहत्य पञ्चसु पादेषु अस्य अधिकारस्य व्याप्तिः अस्ति । अस्मिन् अधिकारे उक्तानि सर्वाणि अपि कार्याणि अङ्गसंज्ञकस्य विषये एव भवन्ति । कानिचन उदाहरणानि एतानि —\n\n
  • 1. भू-धातोः तृच्-प्रत्यये कृते <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इत्यनेन तृच्-प्रत्यस्यस्य अङ्गस्य अन्तिम-उकारस्य गुणः (ओकारः) विधीयते । प्रक्रिया इयम् -\n\nभू (सत्तायाम्, भ्वादिः <{1.1}>)\n→ भू + तृच् [<<ण्वुल्तृचौ>> [[3.1.133]] इति तृच्-प्रत्ययः]\n→ भू + इट् + तृ [<<आर्धधातुकस्येड् वलादेः>> [[7.2.35]] इति इडागमः । <ऽयदागमास्तद्गुणीभूतास्तद्ग्रहणेन गृह्यन्तेऽ> अनया परिभाषया अयम् इडागमः प्रत्ययस्यैव अवयवरूपेण स्वीक्रियते ।]\n→ भो + इ + तृ [इतृच् इति प्रत्यस्य अङ्गम् भू इति अस्ति । अस्य अङ्गस्य अन्तिमवर्णस्य (उकारस्य) <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणादेशः भवति । ]\n→ भव् + इ + तृ [<<एचोऽयवायावः>> [[6.1.78]] इति अयादेशः]\n→ भवितृ\n\n
  • 2. सम्-उपसर्गपूर्वात् पठ्-धातोः लङ्लकारस्य प्रक्रियायाम् <<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इत्यनेन विहितः अडागमः अङ्गस्य आद्यवयवरूपेण विधीयते । अत्र सम्-उपसर्गस्य अङ्गसंज्ञायां समावेशः न भवति, अतः अडागमः अपि तस्मात् पूर्वम् न विधीयते अपितु पठ्-धातोः पूर्वम् संस्थाप्यते —\n\nपठँ (व्यक्तायां वाचि, भ्वादिः, <{1.381}>)\n→ सम् + पठ् + लङ् [<<अनद्यतने लङ्>> [[3.2.111]] इति लङ् । अस्य प्रत्ययस्य अङ्गम् पठ् इति अस्ति ।]\n→ सम् + अट् + पठ् + लङ् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इत्यनेन अङ्गस्य आद्यवयवरूपेण अडागमः विधीयते ।]\n→ सम् + अ + पठ् + तिप् [<<तिप्तस्झि..>> [[3.4.78]] इत्यनेन प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]\n→ सम् + अ + पठ् + त् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ सम् + अ + पठ् + शप् + त् [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ समपठत्\n\n
  • 3. पठ्-धातोः लट्लकारस्य उत्तमपुरुषैकवचनस्य प्रक्रियायाम् मिप्-प्रत्यये परे पठ्-धातोः शप्-विकरणप्रत्यये कृते पठ् + शप् इति सर्वस्य मिप्-प्रत्ययस्य सन्दर्भेण अङ्गसंज्ञा भवति । अतएव <<अतो दीर्घो यञि>> [[7.3.101]] इत्यनेन शप्-विकरणस्य अकारस्य दीर्घाेदेशे कृते पठामि इति अन्तिमं रूपं सिद्ध्यति —\n\nपठँ (व्यक्तायां वाचि, भ्वादिः, <{1.381}>)\n→ पठ् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ पठ् + मिप् [<<तिप्तस्झि..>> [[3.4.78]] इति उत्तमपुरुषैकवचनस्य मिप्-प्रत्ययः]\n→ पठ् + शप् + मिप् [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ पठ् + अ + मि [इत्संज्ञालोपः]\n→ पठ् + आ + मि [<<अतो दीर्घो यञि>> [[7.3.101]] इति दीर्घः । अत्र मिप्-प्रत्ययस्य अङ्गम् पठ् + शप् इति अस्ति, अतः अत्र अङ्गस्य अन्ते विद्यमानस्य अकारस्य दीर्घादेशः भवति।]\n→ पठामि\n \n\nदलकृत्यम्\n1. तदादिः इति किमर्थम् ? — यस्मात् शब्दात् मूलरूपेण प्रत्ययः विधीयते केवलं तस्यैव शब्दस्य अङ्गसंज्ञा भवति इति न, अपि तु सः शब्दः यस्य अंशस्य आदौ विद्यते, तस्य सम्पूर्णस्य अंशस्य अङ्गसंज्ञा भवति - इति स्पष्टीकर्तुम् अत्र तदादिः इति शब्दः स्थापितः अस्ति । यथा, भू-धातोः उत्तमपुरुषैकवचनस्य प्रक्रियायाम् भू + शप् + मिप् इति स्थिते, मिप् इति प्रत्ययः यद्यपि केवलम् भू इत्यस्मात् विहितः अस्ति, तथापि मिप् प्रत्ययस्य अङ्गं किम् - इति पृष्टे, भू-धातुः यस्य आदिः, तादृशः भू + शप् इति अंशः अत्र मिप् प्रत्ययस्य अङ्गरूपेण स्वीक्रियते - इति उत्तरम् ।\n\n2. प्रत्ययविधिः इत्यत्र विधिः इति किमर्थम् ? — यस्मात् शब्दात् मूलरूपेण प्रत्ययः विधीयते, तस्य शब्दस्य आधारेण एव अङ्गसंज्ञा दीयते - इति स्पष्टीकर्तुम् अत्र विधिः इति शब्दः स्थापितः अस्ति । अस्य कः अर्थः इति चेत्, यस्मात् शब्दात् प्रत्ययः विधीयते, तस्य शब्दस्य प्रक्रियायाम् कुत्रचित् सम्पूर्णरूपेण लोपः सम्भवति । तादृशे लोपे कृते कस्माच्चित् अन्यस्मात् शब्दात् अनन्तरम् एव प्रत्ययः स्थापितः दृश्यते । एतादृशी स्थितिः यत्र वर्तते तत्र केवलम् पूर्वपरसान्निध्यं दृष्ट्वा अनुचितस्य शब्दस्य अङ्गसंज्ञा मा भूत्, इति ज्ञापयितुम् अत्र सूत्रे प्रत्ययविधिः इति शब्दः उपयुक्तः अस्ति । प्रत्ययस्य साक्षात् विधानम् यस्मात् शब्दात् भवति (इत्युक्ते, यस्मात् शब्दात् प्रत्ययः मूलरूपेण विहितः अस्ति), तस्यैव शब्दस्य अङ्गसंज्ञा भवेत् ; यस्मात् शब्दात् प्रत्ययः दृश्यरूपेण आतिष्ठति, तस्य अङ्गसंज्ञा मा भूत् —‌ इति अत्र आशयः । स्त्री इयती इत्यस्मिन् उदाहरणे अस्य प्रयोजनम् स्पष्टं भवति । तत्र सम्पूर्णा प्रक्रिया एतादृशी —\n\nस्त्री + इदम् + वतुँप् + ङीप् [इयती इति शब्दः इदम्-शब्दात् <<किमिदंभ्यां वो घः>> [[5.2.40]] इति सूत्रेण वतुँप्-प्रत्यये कृते, ततः स्त्रीत्वं द्योतयितुम् <<उगितश्च>> [[4.1.6]] इत्यनेन ङीप्-प्रत्यये कृते सिद्ध्यति । तस्मात् पूर्वम् 'स्त्री' इति शब्दः स्थापितः अस्ति ।]\n→ स्त्री + इयम् + वत् + ई [इत्संज्ञक-उकार-पकार-ङकाराणाम् लोपः]\n→ स्त्री + इयम् + घत् + ई [<<किमिदंभ्यां वो घः>> [[5.2.40]] इति सूत्रेण एव वतुँप्-प्रत्ययस्य वकारस्य घ-आदेशः अपि भवति ।]\n→ स्त्री + इयम् + इयत् + ई [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.2.2]] इत्यनेन घकारस्य इय्-आदेशः]\n→ स्त्री + ई + इयत् + ई [<<इदङ्किमोरीश्की>> [[6.3.90]] इत्यनेन इदम्-शब्दस्य ई-आदेशः । <<अनेकाल् शित् सर्वस्य>> [[1.1.55]] इति शित्त्वात् सर्वादेशः]\n→ स्त्री + ० + इयत् + ई [तद्धितसंज्ञके इयत्-प्रत्यये परे <<यस्येति च>> [[6.4.148]] इति अङ्गस्य ईकारस्य लोपः । अनेन प्रकारेण अत्र वतुँप्-प्रत्ययस्य अङ्गस्य सम्पूर्णरूपेण लोपः भवति ।]\n→ स्त्री + इयती [वर्णमेलनम्]\n→ स्त्रीयती [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः । अत्र वस्तुतः वतुप्-प्रत्ययात् (इत्युक्ते इयत् इति तस्य दृश्यरूपात्) अव्यवहितरूपेण पूर्वम् स्त्री इति शब्दः विद्यते । अस्यां स्थितौ प्रकृतसूत्रे यदि केवलम् यस्मात् प्रत्ययः इति उच्येत, तर्हि स्त्री-शब्दस्य अपि अत्र अनिष्टा अङ्गसंज्ञा भवेत् । एतादृश्याम् अङ्गसंज्ञायां कृतायाम् <<स्त्रियाः>> [[6.4.79]] इति सूत्रेण स्त्री-शब्दस्य अन्तिम-ईकारस्य अनिष्टः इयङ्-आदेशः सम्भवेत् । एतत् सर्वं मा भूत् इति हेतुना पाणिनिना प्रकृतसूत्रे विधिः इति शब्दः स्थापितः अस्ति । यस्मात् शब्दात् मूलरूपेण प्रत्ययस्य विधानं क्रियते, तस्यैव अङ्गसंज्ञा भवेत् — इति अनेन शब्देन स्पष्टी भवति । अतः अत्र स्त्री-शब्दस्य अङ्गसंज्ञायाः अभावात् केवलम् सवर्णदीर्घं कृत्वा इष्टरूपं सिद्ध्यति ।]\n\n\n3. प्रत्ययविधिः इत्यत्र प्रत्ययग्रहण कृते पुनः प्रत्यये इति किमर्थम् ? — अङ्गस्य अन्तिमसीमां ज्ञापयितुम् अस्मिन् सूत्रे प्रत्यये इति शब्दः स्थापितः अस्ति । प्रत्यये परे अङ्गसंज्ञा भवति, इत्युक्ते प्रत्ययः स्वयम् अङ्गसंज्ञायां नैव स्वीक्रियते — इति अत्र प्रत्यये इति शब्देन स्पष्टी भवति ।\n" }, "14014": { "sa": "सुप्-प्रत्ययान्तशब्दाः तिङ्-प्रत्ययान्तशब्दाः च पदसंज्ञकाः भवन्ति । यथा - रामः, अस्ति । ", "sd": "व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति पदम् इति संज्ञा । <<सुप्तिङन्तं पदम्>> [[1.4.14]] इत्यतः <<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इत्येतैः चतुर्भिः सूत्रैः इयं संज्ञा विधीयते । अस्य सूत्रसमूहस्य इदं प्रथमं सूत्रम् । सुप्-प्रत्ययान्तशब्दाः तिङ्प्रत्ययान्तशब्दाः च पदसंज्ञकाः भवन्ति - इति अस्य सूत्रस्य अर्थः ।\n\n1. सुप्-प्रत्ययाः — <<स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाङ्ङ्योस्सुप्>> [[4.1.2]] इति सूत्रे पाठिताः एकविंशतिः प्रत्ययाः सुप्-प्रत्ययाः नाम्ना ज्ञायन्ते । एते सर्वे प्रत्ययाः प्रातिपदिकेभ्यः विधीयन्ते । एतेषाम् प्रयोगेण पदस्य निर्माणं भवति - इति प्रकृतसूत्रस्य प्रथमस्य अंशस्य आशयः । यथा - राम (प्रातिपदिकम्) + सुँ (प्रथमः सुप्-प्रत्ययः) = रामः (पदम्) ।\n\n2. तिङ्-प्रत्ययाः — <<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् >> [[3.4.78]] इति सूत्रे पाठिताः अष्टादश प्रत्ययाः तिङ्-प्रत्ययाः नाम्ना ज्ञायन्ते । एते सर्वे प्रत्ययाः धातुभ्यः विधीयन्ते । एतेषाम् प्रयोगेण अपि पदस्य निर्माणं भवति - इति प्रकृतसूत्रस्य द्वितीयस्य अंशस्य आशयः। यथा - अस् (धातुः) + तिप् (प्रथमः तिङ्-प्रत्ययः) = अस्ति (पदम्) ।\nअपदं न प्रयुञ्जीत\nसंस्कृतभाषायाम् वाक्येषु केवलं पदस्य एव प्रयोगः भवितुम् अर्हति । ये शब्दाः पदसंज्ञकाः न सन्ति, इत्युक्ते ये प्रातिपदिकसंज्ञकाः धातुसंज्ञकाः प्रत्ययसंज्ञकाः वा सन्ति, तेषां प्रयोगः वाक्ये नैव करणीयः - इति अस्य आशयः । इत्येतम् आशयं स्पष्टीकर्तुम् एव <ऽअपदं न प्रयुञ्जीतऽ> इति नियमः वैयाकरणैः उच्यते । \n\nयद्यपि अष्टाध्याय्यां पदसंज्ञाविधायकानि चत्वारि सूत्राणि सन्ति, तथापि <ऽअपदं न प्रयुञ्जीतऽ> इति नियमे प्रयुक्तः पदम् इति शब्दः केवलं प्रकृतसूत्रेण उक्तायाः पदसंज्ञायाः एव ग्रहणं करोति । इत्युक्ते, वाक्ये विद्यमानाः सर्वेऽपि शब्दाः प्रकृतसूत्रेण एव पदसंज्ञकाः भवेयुः - इति अत्र आशयः वर्तते ।\n भिन्नानां व्याकरणनियमानां स्पष्टीकरणार्थं व्याकरणग्रन्थे विद्यमानेषु वाक्येषु धातोः / प्रातिपदिकस्य / प्रत्ययस्य निर्देशः तादृशः एव (इत्युक्ते, पदनिर्माणं विना) बहुत्र कृतः दृश्यते । अयं निर्देशः केवलं छात्राणां कृते, विषयस्य सुलभावगमनार्थं कृतः अस्ति इति ज्ञेयम् ।\nपदाधिकारः\nपदसंज्ञां स्वीकृत्य अष्टाध्याय्यां <<पदस्य>> [[8.1.16]] इति अधिकारः प्रवर्तते । अस्मिन् अधिकारे विद्यमानानि कार्याणि पदस्य विषये एव भवन्ति - इति अस्य अधिकारस्य आशयः । यथा, <<संयोगान्तस्य लोपः>> [[8.2.23]] इति सूत्रेण पदस्य अन्ते विद्यमानस्य संयोगस्य अन्तिमवर्णस्य लोपः विधीयते । यथा, विद्वस्-शब्दस्य प्रथमैकवचनस्य प्रक्रियायाम् -\n\nविद्वस् + सुँ [प्रथमैकवचनस्य प्रत्ययः ।]\n→ विद्व् न् स् + सुँ [<<उगिदचां सर्वनामस्थाने अधातोः>> [[7.1.70]] इति नुमागमः]\n→ विद्वान् स् सुँ [<<सान्तमहतः संयोगस्य>> [[6.4.10]] इति नकारस्य उपधावर्णस्य दीर्घः]\n→ विद्वान् स् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इत्यनेन सकारस्य लोपः]\n→ विद्वान् स् [सकारस्य लोपे कृतेऽपि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यनेन प्रत्ययलक्षणं कार्यम् अवश्यं प्रवर्तते । अतः, <<सुप्तिङन्तं पदम्>> [[1.4.14]] इत्यनेन सुबन्तस्य विहिता पदसंज्ञा अत्र अवश्यं भवितुम् अर्हति ।] \n→ विद्वान् [पदान्ते विद्यमानस्य संयोगस्य अन्तिमवर्णः यः सकारः, तस्य <<संयोगान्तस्य लोपः>> [[8.2.23]] इत्यनेन लोपः]\n\n<hl>सुप्तिङन्तम्</hl> इति शब्दः\nप्रकृतसूत्रे विद्यमान: सुप्तिङन्तम् इति शब्दः आदौ द्वन्द्वसमासेन ततश्च बहुव्रीहिसमासेन सिद्ध्यन्ति । तदित्थम् - सुप् च तिङ् च अनयोः समाहारः इत्यस्मिन् अर्थे समाहारद्वन्द्वसमासं कृत्वा सुप्तिङ् इति प्रातिपदिके सिद्धे, ततः सुप्तिङ् अन्ते यस्य इति बहुव्रीहिसमासेन सुप्तिङन्तम् इति शब्दः सिद्ध्यति । <ऽद्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकम् अभिसम्बद्ध्यतेऽ> इति न्यायेन सुप्तिङन्तम् इत्यस्य अन्ते विद्यमानः अन्तम् इति शब्दः सुप् तथा तिङ् उभाभ्याम् सह पृथक् पृथक् अन्वेति । अतश्च, सुप् अन्ते यस्य (इत्युक्ते सुबन्तम्) तथा च तिङ् अन्ते यस्य (इत्युक्ते तिङन्तम्) - एतयोः द्वयोः अपि पदसंज्ञा भवति । \nसूत्रे अन्तग्रहणस्य प्रयोजनम्\nयदि प्रकृतसूत्रे अन्तम् इति शब्दः न स्यात्, तर्हि अपि सुप्तिङ् पदम् इति सूत्रे तदन्तविधिं स्वीकृत्य प्रायेण सुबन्तस्य, तिङन्तस्यैव पदसंज्ञा अभविष्यत् । परन्तु तथापि पाणिनिना प्रकृतसूत्रे अन्तम् इति शब्दस्य प्रयोगः कृतः अस्ति । अनेन एतत् स्पष्टी भवति यत् अत्र अन्तम् इति शब्दं विना तदन्तविधिः नैव भवितुम् अर्हति - इति । इत्युक्ते, यत्र प्रत्ययस्य आधारेण संज्ञायाः विधानं कृतम् अस्ति, तत्र तदन्तविधिः न प्रवर्तते - इति आशयः अत्र सूत्रकारेण अन्तग्रहणेन ज्ञापितः अस्ति । अयम् एव आशयः भाष्यकारेण <ऽसंज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति ऽ> इति परिभाषया स्पष्टीकृतः अस्ति । प्रत्ययस्य निर्देशं कृत्वा संज्ञायाः विधानं यत्र क्रियते तत्र अन्तशब्दः नास्ति चेत् सा संज्ञा प्रत्ययस्यैव भवति, न हि तदन्तस्य — इति अस्याः परिभाषायाः अर्थः । अतएव, <<तरप्तमपौ घः>> [[1.1.22]] इति सूत्रेण उक्ता इति संज्ञा केवलं तरप्/तमप्-प्रत्यययोः भवति, न हि तरप्/तमप्-प्रत्ययान्तस्य शब्दस्य । यदि इयं संज्ञा तरप्/तमप्-प्रत्ययान्तस्य अभविष्यत्, तर्हि गौरी ब्राह्मणितरा अस्मिन् वाक्ये ब्राह्मणितरा इति अंशस्य घसंज्ञां कृत्वा <<घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः>> [[6.3.43]] इत्यनेन गौरी-शब्दस्य ह्रस्वादेशः अभविष्यत् । \nएवमेव, <<क्तक्तवतू निष्ठा>> [[1.1.26]] इति सूत्रेण विहिता निष्ठा इति संज्ञा अपि केवलं क्त/क्तवतु-प्रत्यययोः एव भवन्ति, न हि तदन्तस्य । \nकेषुचन स्थलेषु अन्तग्रहणं विना अपि तदन्तस्य संज्ञा भवति । यथा, <<डति च>> [[1.1.25]] इति सूत्रे यद्यपि अन्तग्रहणं नास्ति तथापि अनेन सूत्रेण डति-प्रत्ययान्तशब्दस्य षट् इति संज्ञा भवति । एतादृशेषु स्थलेषु केवलप्रत्ययस्य संज्ञायाः प्रयोजनं नास्ति अतएव तदन्तग्रहणं क्रियते इति वैयाकरणैः स्पष्टीकृतं वर्तते ।\n<hl>शक्तं पदम्</hl> इति तार्किकाः\nपदम् इति शब्दस्य शक्तं पदम् इति अपि काचित् व्याख्या दीयते । यस्मिन् शब्दे अर्थाभिधानस्य शक्तिः वर्तते, तत् शब्दस्वरूपम् पदसंज्ञकं भवति - इति अस्याः व्याख्यायाः आशयः । इमाम् एव व्याख्याम् उपयुज्य, शाब्दबोधे बहुत्र प्रत्ययानाम्, प्रातिपदिकानाम्, धातूनाम् अपि च निर्देशः, तेषां शक्तिग्राहकत्वात् पदम् इति संज्ञया एव कृतः दृश्यते ।" }, "14015": { "sa": "नकारान्तप्रातिपदिकस्य क्यच्/क्यङ्/क्यष्-प्रत्यये परे पदसंज्ञा भवति । यथा - राजन् + क्यच् , राजन् + क्यङ्, चर्मन् + क्यष् । ", "sd": "व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति पदम् इति संज्ञा । <<सुप्तिङन्तं पदम्>> [[1.4.14]] इत्यतः <<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इत्येतैः चतुर्भिः सूत्रैः इयं संज्ञा विधीयते । अस्य सूत्रसमूहस्य इदं द्वितीयं सूत्रम् । नकारान्तशब्दाः (यथा राजन्, चर्मन् एतादृशाः) क्य इत्यनेन प्रारभ्यमाणे प्रत्यये परे (इत्युक्ते, क्यच्/क्यङ्/क्यष्-प्रत्यये परे) पदसंज्ञकाः भवन्ति इति अस्य सूत्रस्य आशयः । एतेषां त्रयाणां क्रमेण उदाहरणानि एतादृशानि -\n
    \n1. क्यच्-प्रत्ययः — <<सुप आत्मनः क्यच्>> [[3.1.8]] अनेन सूत्रेण सुबन्तेभ्यः आत्मनः इच्छति अस्मिन् अर्थे क्यच् इति प्रत्ययः विधीयते । अस्मिन् क्यच्-प्रत्यये परे प्रक्रियायां नकारान्त-शब्दस्य पदसंज्ञा भवति । यथा, राजानम् आत्मनः इच्छति अस्मिन् अर्थे राजानम् इति सुबन्तात् <<सुप आत्मनः क्यच्>> [[3.1.8]] इत्यनेन क्यच्-प्रत्यये कृते प्रक्रियायाम् राजन् इति नकारान्तस्य शब्दस्य पदसंज्ञा भवति, येन <<नः लोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इत्यनेन राजन् इत्यस्य नकारस्य लोपः भवति । सम्पूर्णा प्रक्रिया इयम् —\n\nराजानम् आत्मनः इच्छति\n= राजानम् + क्यच् [<<सुप आत्मनः क्यच्>> [[3.1.8]] इति क्यच्-प्रत्ययः । <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञा । ]\n→ राजन् + य [<<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इत्यनेन धातौ विद्यमानस्य सुप्-प्रत्ययस्य लोपः भवति । एतादृशे लोपे कृते प्राप्तस्य नकारान्तस्य राजन्-शब्दस्य <<नः क्ये>> [[1.4.15]] इत्यनेन पदसंज्ञा भवति ।]\n→ राज य [ <<नः लोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इत्यनेन पदसंज्ञकस्य राजन् इत्यस्य नकारस्य लोपः ।]\n→ राजीय [ <<क्यचि च>> [[7.4.33]] इत्यनेन ईत्वम् । ]\n\nअनेन प्रकारेण अत्र राजीय इति धातुः सिद्ध्यति । अस्य धातोः अग्रे राजीयति, राजीयतः, राजीयन्ति इत्यादीनि रूपाणि भवन्ति ।\n
    \n2. क्यङ्-प्रत्ययः — <<कर्तुः क्यङ् सलोपश्च>> [[3.1.11]] अनेन सूत्रेण सुबन्तेभ्यः इव आचरति अस्मिन् अर्थे क्यङ् इति प्रत्ययः विधीयते । अस्मिन् क्यङ्-प्रत्यये परे प्रक्रियायां नकारान्त-शब्दस्य पदसंज्ञा भवति । यथा, राजा इव आचरति अस्मिन् अर्थे राजा इति सुबन्तात् <<कर्तुः क्यङ् सलोपश्च>> [[3.1.11]] इत्यनेन क्यङ्-प्रत्यये कृते प्रक्रियायाम् राजन् इति नकारान्तस्य शब्दस्य पदसंज्ञा भवति, येन <<नः लोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इत्यनेन राजन् इत्यस्य नकारस्य लोपः भवति । सम्पूर्णा प्रक्रिया इयम् —\n\nराजा इव आचरति\n= राजा + क्यङ् [<<कर्तुः क्यङ् सलोपश्च>> [[3.1.11]] इति क्यङ्-प्रत्ययः । <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञा ।]\n→ राजन् + य [<<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इत्यनेन धातौ विद्यमानस्य सुप्-प्रत्ययस्य लोपः भवति । एतादृशे लोपे कृते प्राप्तस्य नकारान्तस्य राजन्-शब्दस्य <<नः क्ये>> [[1.4.15]] इत्यनेन पदसंज्ञा भवति ।]\n→ राज + य [ <<नः लोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इत्यनेन पदसंज्ञकस्य राजन् इत्यस्य नकारस्य लोपः ।]\n→ राजाय [ <<अकृत्सार्वधातुकयोर्दीर्घः>> [[7.4.25]] इति दीर्घः । ]\n\nअनेन प्रकारेण अत्र राजाय इति धातुः सिद्ध्यति । अस्य धातोः अग्रे राजायते, राजायेते, राजायन्ते इत्यादीनि रूपाणि भवन्ति ।\n\n3. क्यष्-प्रत्ययः — <<लोहितादिडाज्भ्यः क्यष्>> [[3.1.13]] अनेन सूत्रेण लोहितादिगणस्य शब्देभ्यः भवति अस्मिन् अर्थे क्यष् इति प्रत्ययः विधीयते । अस्मिन् क्यष्-प्रत्यये परे प्रक्रियायां नकारान्त-शब्दस्य पदसंज्ञा भवति । यथा, चर्म भवति अस्मिन् अर्थे चर्म इति सुबन्तात् <<लोहितादिडाज्भ्यः क्यष्>> [[3.1.13]] इत्यनेन क्यष्-प्रत्यये कृते प्रक्रियायाम् चर्मन् इति नकारान्तस्य शब्दस्य पदसंज्ञा भवति, येन <<नः लोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इत्यनेन चर्मन् इत्यस्य नकारस्य लोपः भवति । सम्पूर्णा प्रक्रिया इयम् —\n\nचर्म भवति\n= चर्म + क्यष् [लोहितादिगणस्य आकृतिगणत्वात् \"चर्मन्\" शब्दस्य तत्र समावेशं कृत्वा <<लोहितादिडाज्भ्यः क्यष्>> [[3.1.13]] इति क्यष्-प्रत्ययः । <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञा । ]\n→ चर्मन् + य [ <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इत्यनेन धातौ विद्यमानस्य सुप्-प्रत्ययस्य लोपः भवति । एतादृशे लोपे कृते प्राप्तस्य नकारान्तस्य चर्मन्-शब्दस्य <<नः क्ये>> [[1.4.15]] इत्यनेन पदसंज्ञा भवति ।]\n→ चर्म + य [<<नः लोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इत्यनेन पदसंज्ञकस्य चर्मन् इत्यस्य नकारस्य लोपः ।]\n→ चर्माय [ <<अकृत्सार्वधातुकयोर्दीर्घः>> [[7.4.25]] इति दीर्घः । ]\n\nअनेन प्रकारेण अत्र चर्माय इति धातुः सिद्ध्यति । अस्य धातोः अग्रे चर्मायति, चर्मायतः, चर्मायन्ति इत्यादीनि रूपाणि भवन्ति ।\n\n\nनियमसूत्रम् इदम्\nक्यच्, क्यङ्, क्यष् - एते त्रयः प्रत्ययाः भिन्नैः सूत्रैः सुबन्तेभ्यः एव प्रोक्ताः सन्ति । सुबन्तानां तु <<सुप्तिङन्तं पदम्>> [[1.4.14]] इत्यनेनैव सूत्रेण पदसंज्ञा वर्तते । प्रक्रियायां <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इत्यनेन सुप्-प्रत्ययस्य लोपे कृते अपि, अवशिष्टस्य प्रातिपदिकस्य <<प्रत्ययलोपे प्रत्यलक्षणम्>> [[1.1.62]] इत्यस्य आधारेण पदसंज्ञा अस्ति एव । तथापि एतादृशस्य प्रातिपदिकस्य सन्दर्भेण प्रकृतसूत्रेण पुनः पदसंज्ञा उच्यते । इयं पुनः उक्ता पदसंज्ञा व्यर्था वा - इति प्रश्ने पृष्टे; इति वचनेन केवलम् नकारान्तशब्दानाम् एव क्यच्/क्यङ्/क्यष्-प्रत्ययानां प्रक्रियायां पदसंज्ञा भवति, अन्येषाम् शब्दानाम् नैव भवति - इति अत्र नियमः क्रियते - एतद् उत्तरम् । यथा, वाचम् आत्मनः इच्छति अस्मिन् अर्थे वाचम् इति शब्दात् विहितस्य सुप्-प्रत्ययस्य लोपे कृते सिद्धस्य वाच् इति प्रातिपदिकस्य नकारान्तत्व-अभावात् क्यच्-प्रत्यये परे प्रक्रियायां पदसंज्ञा न भवति । अतएव वाच् + क्यच् इत्यत्र <<चोः कुः>> [[8.2.30]] इत्यनेन कुत्वम् अपि नैव विधीयते, किञ्च वाच्य इत्येव धातुः सिद्ध्यति । समग्रा प्रक्रिया इयम् - \n\nवाचम् आत्मनः इच्छति\n= वाचम् क्यच् [<<सुप आत्मनः क्यच्>> [[3.1.8]] इति क्यच्-प्रत्ययः । <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञा । ]\n→ वाच् य [<<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इत्यनेन धातौ विद्यमानस्य सुप्-प्रत्ययस्य लोपः भवति । एतादृशे लोपे कृते, वाच् इत्यस्य प्रत्ययलक्षणेन प्राप्ता पदसंज्ञा <<नः क्ये>> [[1.4.15]] इति नियमात् न भवति । पदसंज्ञायाः अभावे <<चोः कुः>> [[8.2.30]] इत्यनेन कुत्वमपि नैव प्रवर्तते ।]\n→ वाच्य \n\nअनेन प्रकारेण अत्र वाच्य इति धातुः सिद्ध्यति । अस्य धातोः अग्रे वाच्यति, वाच्यतः, वाच्यन्ति इत्यादीनि रूपाणि भवन्ति ।\nअत्र अस्मिन् उदाहरणे क्यच्-प्रत्ययस्य विधानात् पूर्वम् वाचम् इत्यस्य पदसंज्ञा अवश्यम् अस्ति । अतएव सुबन्तात् उक्तः क्यच्-प्रत्ययः वाचम् इति शब्दात् अपि विधीयते । परन्तु एतादृशे क्यच्-प्रत्यये कृते, अग्रे प्रक्रियायाम् सुप्-प्रत्ययस्य लोपे कृते वाच् इति यः शब्दः सिद्ध्यति, तस्य <<प्रत्ययलोपे प्रत्ययलक्षणम्>> इत्यस्य आधारेण प्राप्ता पदसंंज्ञा नैव भवति यतोहि वाचम् इत्यत्र नकारान्तं प्रातिपदिकम् नास्ति - इति प्रकृतसूत्रस्य आशयः वर्तते ।\nप्रातिपदिकस्य एव इयं पदसंज्ञा\nक्यच्, क्यङ्, तथा च क्यष् एते प्रत्ययाः नित्यं सुबन्तेभ्यः एव विधीयन्ते । अतः यस्मात् शब्दात् एतेषु कश्चन प्रत्ययः विहितः अस्ति, सः शब्दः नकारान्तः भवेत् उत तद्भिन्नः, तस्य मूलतः एव पदसंज्ञा अस्ति । अस्य शब्दस्य नकारान्तत्वम् प्रकृतसूत्रस्य सन्दर्भेण न चिन्तनीयम्, अपि तु सुब्लोपात् अनन्तरम् यत् प्रातिपदिकम् अवशिष्यते, तस्य नकारान्तत्वम् अत्र द्रष्टव्यम् । यदि अत्र पदस्य एव नकारान्तत्वं स्वीक्रियेत, तर्हि अशुद्धानि रूपाणि सिद्ध्यन्ति । तत्कथम् इति चेत्, अमून् + क्यच् इत्यत्र नकारान्तस्य अदस्-शब्दस्य क्यच्-प्रत्यये परे पदसंज्ञायां स्वीकृतायाम्, सुब्लोपात् अनन्तरम् <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यनेन अदस्-शब्दस्य अपि पदसंज्ञा भवेत्, येन अदस् + य इत्यवस्थायां पदान्तसकारस्य <<ससजुषो रुः>> [[8.2.66]] इति रुत्वे, ततः <<हशि च>> [[6.1.114]] इति उत्वे, ततश्च गुणैकादेशे कृते अदोय इति अनिष्टं रूपम् सिद्ध्येत्। तत् तथा मा भूत् इति स्पष्टीकर्तुम् एव अत्र सूत्रस्य स्पष्टीकरणे प्रातिपदिकस्य इति शब्दः स्थापितः अस्ति । सुब्लोपात् अनन्तरम् यत् प्रातिपदिकं सिद्ध्यति, तस्य नकारान्तत्वम् अस्ति चेदेव तस्य पदसंज्ञा भवति, अन्यथा न भवति - इति अत्र आशयः वर्तते । \n<hl>क्यप्</hl>-प्रत्ययस्य अत्र ग्रहणं न भवति\nअष्टाध्याय्यां क्यप् इति कश्चन कृत्प्रत्ययः <<ई च खनः>> [[3.1.111]], <<संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः>> [[3.3.99]] इत्यादिभिः सूत्रैः भिन्नेभ्यः धातुभ्यः विहितः अस्ति । अस्य प्रत्ययस्य प्रकृतसूत्रेण प्रयोजनाभावात् ग्रहणं न भवति । यथा, खन् + क्यप् इति प्रक्रियायां खन् इति नकारान्तस्य शब्दस्य पदसंज्ञा न भवति, यतो हि एतादृश्यां पदसंज्ञायां कृतायाम् अपि तस्य अग्रे प्रक्रियायां न कोऽपि उपयोगः सम्भवति ।\n<pv> <hl>क्यष्</hl>-प्रत्ययस्य विषये मतान्तराणि\nप्रकृतसूत्रस्य कौमुदीव्याख्यायाम् क्यचि क्यङि च इत्येव निर्देशः कृतः दृश्यते । इत्युक्ते, कौमुदीकारः क्यष्-प्रत्ययस्य सन्दर्भेण प्रकृतसूत्रम् नैव उदाहरति । अस्य स्पष्टीकरणार्थं बालमनोरमाकारः ब्रूते - लोहितडाज्भ्यः क्यष्वचनम् इति वक्ष्यमाणतया हलन्तात् क्यषः अभावात् - इति । क्यष्-प्रत्ययः केवलं लोहितादिगणस्य शब्देभ्यः एव विधीयते, तथा च अस्मिन् गणे कोऽपि नकारान्तः शब्दः न वर्तते, अतः प्रकृतसूत्रस्य तत्र प्रयोगः नैव सम्भवति - इति अत्र बालमनोरमाकारस्य आशयः अस्ति । किञ्च, प्रौढमनोरमायाम् अपि अस्मिन् सन्दर्भे दीक्षितः वदति - हलन्तेभ्यः क्यष् नास्ति इति भाष्यसिद्धान्तात् । भाष्यकारेण <<लोहितादिडाज्भ्यः क्यष्>> [[3.1.13]] इत्यस्य भाष्ये \"क्यष्-प्रत्ययः नकारान्तशब्दात् नैव विधीयते अतः तस्य सन्दर्भेण <<नः क्ये>> [[1.4.15]] इत्यनेन पदसंज्ञा अपि नैव सम्भवति\" - इति स्पष्टीकृतम् अस्ति । किञ्च, तत्रैव भाष्यकारेण क्यष्-प्रत्यये विद्यमानौ द्वौ अपि अनुबन्धौ (ककारः षकारः च) अनावश्यकौ मत्त्वा प्रत्याख्यातौ एव स्तः । अनेन प्रकारेण भाष्यमतेन, कौमुदीमतेन च प्रकृतसूत्रम् क्यष्-प्रत्ययस्य सन्दर्भेण नकारान्त-शब्दस्य अभावात् नैव प्रवर्तते ।\n परन्तु, काशिकाकारेण तु प्रकृतसूत्रस्य सन्दर्भेण चर्मन् + क्यष् इति उदाहरणम् अवश्यं दत्तम् अस्ति । यद्यपि लोहितादिगणे चर्मन् इति शब्दः साक्षात् न विद्यते, तथापि <<लोहितादिडाज्भ्यः क्यष्>> [[3.1.13]] इत्यत्र काशिकाकारः वदति - आकृतिगणश्चायम् । तथा च ककारः सामान्यग्रहणार्थोऽनुबध्यते, नःक्ये (१.४.१५) इति, नहि पठितानां मध्ये नकारान्तः शब्दोऽस्ति । लोहितादिगणः आकृतिगणः अस्ति, तथा च <<नः क्ये>> [[1.4.15]] इति सूत्रस्य प्रयोगः भवेत् एतादृशम् उदाहरणम् अस्मिन् गणे अवश्यम् एव भवितुम् अर्हति - इति अत्र काशिकाकारस्य आशयः वर्तते । किञ्च, तदर्थम् एव क्यष्-प्रत्यये ककारः स्थापितः अस्ति - इत्यपि अत्र काशिकाकारः स्पष्टीकरोति । तत्कथम् इति चेत्, क्यष्-प्रत्यये ककारस्य ग्रहणस्य अन्यत् किमपि प्रयोजनम् नास्ति, अपितु प्रकृतसूत्रे विद्यमानेन क्य इति शब्देन अस्य प्रत्ययस्य ग्रहणं कारयितुम् एव क्यष्-प्रत्यये ककारः स्थापितः वर्तते - इति । अतश्च, लोहितादिगणे अवश्यम् एव कश्चन नकारान्तः शब्दः भवेत् - इति काशिकाकारः मन्यते, तथा च तदनु एव प्रकृतसूत्रे चर्मन्-शब्दस्य उदाहरणम् अपि काशिकाकारेण दत्तम् अस्ति । एतदेव न, अपितु लोहितादिगणस्य आकृतिगणत्वात् तत्र चर्मन् शब्दः अवश्यं भवितुम् अर्हति इति निर्देशः वर्धमानविरचिते गणरत्नमहोदधौ अपि लभ्यते । \nकौमुदीव्याख्यानस्य संक्षेपः\nप्रकृतसूत्रम् सिद्धान्तकौमुद्यां नामधातुप्रकरणे पाठितम् अस्ति । अत्र कौमुदीकारेण प्रसङ्गवशात् भिन्नानां शब्दानां क्यच्-प्रत्यये परे कीदृश्यः प्रक्रियाः भवन्ति इति भिन्नैः उदाहरणैः स्पष्टीकृतं वर्तते । एतैः उदाहरणैः सह कौमुदीकारस्य वाक्यानाम् अर्थः अधः संक्षेपेण दत्तः अस्ति - \n\n
  • 1. सन्निपातपरिभाषया क्यचो यस्य लोपो न । गव्यांचकार । गव्यिता । नाव्यांचकार । नाव्यिता - अत्र कौमुदीकारेण गव्य इति धातोः लिट्लकारस्य लुट्लकारस्य च प्रथमपुरुषैकवचनस्य रूपे उदाहरणरूपेण दत्ते स्तः । तत्र आदौ, गव्य इति धातुः कथं सिद्ध्यति इति चेत्, गावम् आत्मनः इच्छति अस्मिन् अर्थे गावम् इति सुबन्तात् <<सुपः आत्मनः क्यच्>> [[3.1.8]] इत्यनेन क्यच्-प्रत्यये कृते, अग्रे प्रक्रियायाम् गो + क्यच् इत्यस्याम् अवस्थायाम्, <<वान्तो यि प्रत्यये>> [[6.1.79]] इत्यनेन ओकारस्य अवादेशे कृते गव्य इति आतिदेशिकधातुः सिद्ध्यति । अस्य धातोः लिट्लकारस्य प्रक्रियासु आदौ <<कास्प्रत्ययादाममन्त्रे लिटि>> [[3.1.35]] इत्यनेन आम्-प्रत्यये कृते, ततः कृ-धातोः अनुप्रयोगः क्रियते । अग्रे गव्य + आम् + चकार अस्याम् अवस्थायाम् <<अतो लोपः>> [[6.4.48]] इत्यनेन यकारोत्तरस्य अकारस्य लोपे कृते, ततः अग्रे <<यस्य हलः>> [[6.4.49]] इत्यनेन हल्-निमित्तकः यकारलोपः अपि प्राप्नोति । परन्तु अस्य लोपस्य निमित्तरूपेण विद्यमानः हल्-वर्णः (वकारः) स्वयं तु <<वान्तो यि प्रत्यये>> [[6.1.79]] इत्यनेन यकारस्य कारणात् एव निर्मितः अस्ति । अस्यां स्थितौ <ऽसन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्यऽ> इति परिभाषया अयं वकारः स्वस्य निर्मातुः एव नाशस्य निमित्तरूपेण (इत्युक्ते, यकारलोपस्य निमित्तरूपेण) कार्यं नैव करोति, अतः अत्र <<यस्य हलः>> [[6.4.49]] इत्यनेन यकारलोपः नैव सम्भवति - इति अत्र कौमुदीकारस्य आशयः वर्तते । अतश्च, केवलम् अकारलोपे एव कृते, गव्य् + आम् + चकार अस्याम् अवस्थायाम् मकारस्य अनुस्वार-परसवर्णौ कृत्वा गव्याञ्चकार इति रूपं सिद्ध्यति । एवमेव, गव्य-धातोः लुट्लकारस्य प्रक्रियायाम् अपि एतादृशम् एव यकारलोपं विना गव्यिता इति रूपं सिद्ध्यति । किञ्च, अनेनैव प्रकारैण नावम् आत्मनः इच्छति अस्मिन् अर्थे सिद्धस्य नाव्य इति धातोः अपि रूपाणि भवितुम् अर्हन्ति ।\n
  • 2. नलोपः । राजीयति - राजानम् आत्मनः इच्छति अस्मिन् अर्थे राजानम् इति शब्दात् <<सुपः आत्मनः क्यच्>> [[3.1.8]] इत्यनेन क्यच्-प्रत्यये कृते, प्रक्रियायाम् राजन् + य इति स्थिते, प्रकृतसूत्रेण राजन् इत्यस्य पदसंज्ञायां लब्धायाम् <<नः लोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इत्यनेन पदसंज्ञकस्य राजन्-शब्दस्य नकारस्य लोपे कृते, अग्रे <<क्यचि च>> [[7.4.33]] इत्यनेन ईत्वे कृते राजीय इति धातुः सिद्ध्यति । \n
  • 3. प्रत्ययोत्तरपदयोश्च (कौमुदी-१३७३) । त्वद्यति । मद्यति - त्वाम् आत्मनः इच्छति अस्मिन् अर्थे त्वाम् इति सुबन्तात् <<सुपः आत्मनः क्यच्>> [[3.1.8]] इत्यनेन क्यच्-प्रत्यये कृते, अग्रे प्रक्रियायाम् युष्मद् + य इत्यस्याम् अवस्थायाम् <<प्रत्ययोत्तरपदयोश्च>> [[7.2.98]] इत्यनेन युष्मद्-शब्दस्य युष्म इति अंशस्य त्व इति आदेशे कृते, त्वद् + य इति प्राप्ते, वर्णमेलनं कृत्वा त्वद्य इति आतिदेशिकधातुः सिद्ध्यति । एवमेव माम् आत्मनः इच्छति अस्मिन् अर्थे माम् इति सुबन्तात् <<सुपः आत्मनः क्यच्>> [[3.1.8]] इत्यनेन क्यच्-प्रत्यये कृते मद्य इति धातुः सिद्ध्यति । \n
  • 4. एकार्थयोरित्येव । युष्मद्यति । अस्मद्यति - त्वद्य तथा च मद्य इति धात्वोः निर्माणे <<प्रत्ययोत्तरपदयोश्च>> [[7.2.98]] इत्यनेन प्राप्तः त्व तथा च इति आदेशः केवलम् युष्मद्/अस्मद्-शब्दयोः एकवचनस्य सन्दर्भेण एव विधीयते । इत्युक्ते, युवाम् आत्मनः इच्छति उत युष्मान् आत्मनः इच्छति इत्यस्य निर्देशार्थम् क्यच्-प्रत्यये कृते युष्मद् + य इति प्राप्ते अग्रे <<प्रत्ययोत्तरपदयोश्च>> [[7.2.98]] इत्यस्य प्रसक्तिः एव नास्ति । अतश्च, अत्र केवलं वर्णमेलनं कृत्वा युष्मद्य इति धातुः सिद्ध्यति । एवमेव, आवाम् आत्मनः इच्छति उत अस्मान् आत्मनः इच्छति अस्मिन् अर्थे अपि <<प्रत्ययोत्तरपदयोश्च>> [[7.2.98]] इत्यस्य प्रयोगं विना केवलं वर्णमेलनं कृत्वा अस्मद्य इति धातुः सिद्ध्यति ।\n
  • 5. हलि च (कौमुदी-३५४) । गीर्यति । पूर्यति - गिरम् आत्मनः इच्छति अस्मिन् अर्थे गिरम् इति सुबन्तात् <<सुपः आत्मनः क्यच्>> [[3.1.8]] इत्यनेन क्यच्-प्रत्यये कृते, अग्रे प्रक्रियायाम् गिर् + य इति स्थिते, <<हलि च>> [[8.2.77]] इत्यनेन इकारस्य दीर्घादेशे कृते \"गीर्य\" इति आतिदेशिकधातुः सिद्ध्यति । एवमेव, पुरम् आत्मनः इच्छति अस्मिन् अर्थे पुरम् इति सुबन्तात् <<सुपः आत्मनः क्यच्>> [[3.1.8]] इत्यनेन क्यच्-प्रत्यये कृते पूर्य इति धातुः सिद्ध्यति । अत्र गिर् तथा च पुर् इति रेफान्ते प्रातिपदिके यथासङ्ख्यम् गॄ तथा पॄ इत्येताभ्याम् धातुभ्याम् क्विप्-प्रत्ययं कृत्वा सिद्ध्यतः । <ऽक्विबन्ताः धातुत्वं न जहतिऽ> इति परिभाषया एतयोः धातुत्वम् अपि अवश्यम् अस्ति, अतश्च अत्र प्रक्रियायां धातुसंज्ञाविशिष्टस्य <<हलि च>> [[8.2.77]] इति सूत्रस्य प्रयोगः सम्भवति, इति ज्ञापयितुम् कौमुदीकारेण इदम् उदाहरणम् अत्र दत्तम् अस्ति । \n
  • 6. धातोरित्येव । नेह । दिवमिच्छति । दिव्यति - दिवम् आत्मनः इच्छति अस्मिन् अर्थे दिवम् इति शब्दात् <<सुपः आत्मनः क्यच्>> [[3.1.8]] इत्यनेन क्यच्-प्रत्यये कृते, अग्रे प्रक्रियायाम् दिव् + य इति स्थिते, केवलं वर्णमेलनं कृत्वा दिव्य इति धातुः सिद्ध्यति । अत्र दिव् इति क्विबन्तं नास्ति अतः तस्य धातुसंज्ञा अपि न विधीयते , अतश्च प्रक्रियायाम् धातुसंज्ञाविशिष्टं <<हलि च>> [[8.2.77]] इति सूत्रम् अपि न प्रवर्तते । \n
  • 7. इह पुरमिच्छति पुर्यतीति माधवेनोक्तं प्रत्युदाहरणं चिन्त्यम् । पूर्गिरोः साम्यात् - माधवीयधातुवृत्तौ पुरम् आत्मनः इच्छति इत्यर्थे पुरम् इति शब्दात् <<सुपः आत्मनः क्यच्>> [[3.1.8]] इत्यनेन क्यच्-प्रत्यये कृते, अग्रे प्रक्रियायाम् पुर्+ य इति स्थिते, केवलं वर्णमेलनं कृत्वा पुर्य इति धातुः साधितः अस्ति । परन्तु सः अनुचितः ज्ञेयः, यतोहि गिर् + य इतिसदृशं पुर् + य इत्यत्रापि <<हलि च>> [[8.2.77]] इत्यनेन अवश्यम् एव दीर्घः भवितुम् अर्हति ।\n
  • 8. दीव्यतीति दीर्घस्तु प्राचः प्रामादिक एव - प्रक्रियासर्वस्वम् इत्याख्ये ग्रन्थे दिवम् आत्मनः इच्छति अस्मिन् अर्थे दिवम् इति शब्दात् <<सुपः आत्मनः क्यच्>> [[3.1.8]] इत्यनेन क्यच्-प्रत्यये कृते, अग्रे प्रक्रियायाम् दिव् + य इत्यवस्थायां <<हलि च>> [[8.2.77]] इत्यस्य प्रयोगं कृत्वा दीर्घः कृतः दृश्यते । परन्तु तद् अनुचितम् अस्ति, यतो हि दिव् इत्यस्य धातुसंज्ञायाः अभावात् <<हलि च>> [[8.2.77]] इत्यस्य अत्र प्रसक्तिरेव नास्ति । (दिवादिगणस्य दिव्-धातोः क्विप्-प्रत्यये कृते, <<च्छ्वोः शूडनुनासिके च>> [[6.4.19]] इत्यनेन ऊठ्-आदेशे कृते द्यू इति प्रातिपदिकं सिद्ध्यति, न हि दिव् इति) ।\n
  • 9. अदस्यति - अमून् आत्मनः इच्छति इत्यर्थे अमून् इति शब्दात् <<सुपः आत्मनः क्यच्>> [[3.1.8]] इत्यनेन क्यच्-प्रत्यये कृते, अग्रे प्रक्रियायाम् अदस् + क्यच् इत्यत्र केवलं वर्णमेलनं कृत्वा अदस्य इति धातुः सिद्ध्यति । \n
  • 10. रीङृतः (कौमुदी-१२३४) । कर्त्रीयति - कर्तारम् आत्मनः इच्छति अस्मिन् अर्थे कर्तारम् इति शब्दात् <<सुपः आत्मनः क्यच्>> [[3.1.8]] इत्यनेन क्यच्-प्रत्यये कृते, अग्रे प्रक्रियायाम् कर्तृ + य इत्यवस्थायां <<रीङृतः>> [[7.4.27]] इत्यनेन ऋकारस्य री-आदेशे कृते, कर्त्रीय इति आतिदेशिकधातुः सिद्ध्यति । \n
  • 11. क्यच्व्योश्च (कौमुदी-२११९) । गार्गीयति । वाच्यति - गार्ग्यम् आत्मनः इच्छति अस्मिन् अर्थे गार्ग्यम् इति शब्दात् <<सुपः आत्मनः क्यच्>> [[3.1.8]] इत्यनेन क्यच्-प्रत्यये कृते, अग्रे प्रक्रियायाम् गार्ग्य + य इति स्थिते, <<क्यच्व्योश्च>> [[6.4.152]] इत्यनेन गकारोत्तरस्य आपत्य-यकारस्य लोपः भवति । एतादृशे लोपे कृते गार्ग + य इत्यवस्थायाम् <<क्यचि च>> [[7.4.33]] इत्यनेन ईत्वे कृते गार्गीय इति आतिदेशिकधातुः सिद्ध्यति । \n
  • 12. वाच्यति - वाचम् आत्मनः इच्छति अस्मिन् अर्थे कर्तारम् इति शब्दात् <<सुपः आत्मनः क्यच्>> [[3.1.8]] इत्यनेन क्यच्-प्रत्यये कृते, अग्रे प्रक्रियायाम् वाच् + य इत्यवस्थायां वर्णमेलनं कृत्वा वाच्य इति आतिदेशिकधातुः सिद्ध्यति । अत्र वाच् इत्यस्य पदसंज्ञायाः अभावात् <<चोः कुः>> [[8.2.30]] इति कुत्वं, अथवा <<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वम् नैव प्रवर्तते । \n
  • 13. अकृत्सार्व - (कौमुदी-२२९८) इति दीर्घः । कवीयति । समिध्यति -कविम् आत्मनः इच्छति अस्मिन् अर्थे कविम् इति शब्दात् <<सुपः आत्मनः क्यच्>> [[3.1.8]] इत्यनेन क्यच्-प्रत्यये कृते, अग्रे प्रक्रियायाम् कवि + य इति स्थिते, <<अकृत्सार्वधातुकयोर्दीर्घः>> [[7.4.25]] इत्यनेन अङ्गस्य दीर्घे कृते कवीय इति आतिदेशिकधातुः सिद्ध्यति । \n
  • 14. समिध्यति - समिधम् आत्मनः इच्छति अस्मिन् अर्थे समिधम् इति शब्दात् <<सुपः आत्मनः क्यच्>> [[3.1.8]] इत्यनेन क्यच्-प्रत्यये कृते, अग्रे प्रक्रियायाम् समिध् + य इत्यवस्थायां वर्णमेलनं कृत्वा समिध्य इति आतिदेशिकधातुः सिद्ध्यति । अत्र समिध् इत्यस्य पदसंज्ञायाः अभावात् <<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वम् नैव प्रवर्तते । \n\n" }, "14016": { "sa": "सित्-प्रत्यये परे प्रकृतेः पदसंज्ञा भवति । यथा - ऊर्णा + युस्, कम् + यस्, भवत् + छस्, पर्शु + णस्, ऋतु + घस् ।", "sd": "व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति पदम् इति संज्ञा । <<सुप्तिङन्तं पदम्>> [[1.4.14]] इत्यतः <<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इत्येतैः चतुर्भिः सूत्रैः इयं संज्ञा विधीयते । अस्य सूत्रसमूहस्य इदं तृतीयं सूत्रम् ।यस्मात् शब्दात् सित्-प्रत्ययः (सकारः यस्मिन् इत्संज्ञकः विद्यते तादृशः प्रत्ययः) विधीयते, सः शब्दः पदसंज्ञकः भवति — इति अस्य सूत्रस्य आशयः । अष्टाध्याय्याम् आहत्य पञ्च प्रत्ययाः सित्-प्रत्ययाः सन्ति - युस्, यस्, छस्, णस्, घस् । एते सर्वेऽपि तद्धितसंज्ञकाः प्रत्ययाः । एतेषां सर्वेषाम् क्रमेण उदाहरणानि अधः दीयन्ते —\n\n
  • 1) युस्-प्रत्ययः - <<ऊर्णाया युस्>> [[5.2.123]] इति सूत्रेण ऊर्णा इति शब्दात् युस् इति तद्धितसंज्ञकप्रत्ययः विधीयते । अस्मिन् प्रत्यये परे ऊर्णा-शब्दस्य <<यचि भम्>> [[1.4.18]] इत्यनेन भसंज्ञायां प्राप्तायाम् प्रकृतसूत्रेण तां बाधित्वा पदसंज्ञा विधीयते । अस्य प्रयोजनम् अस्ति अनिष्टस्य भसंज्ञाविशिष्टस्य कार्यस्य बाधः इति । इत्युक्ते, यदि अत्र पदसंज्ञा न अभविष्यत्, तर्हि भसंज्ञायाः सामर्थ्यात् ऊर्णा + यु इत्यत्र <<यस्येति च>> [[6.4.148]] इत्यनेन ऊर्णा-शब्दस्य अनिष्टः आकारलोपः अभविष्यत् । प्रक्रिया इयम् -\n\nऊर्णा अस्य अस्ति इति\n--> ऊर्णा + युस् [<<ऊर्णाया युस्>> [[5.2.123]] इति युस्-प्रत्ययः । अत्र आदौ प्रथमासमर्थात् युस्-प्रत्ययः भवति । ततः प्रातिपदिकसंज्ञा, सुँलोपश्च विधीयते ।]\n→ ऊर्णा + यु [सकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति लोपः । अत्र यकारादिप्रत्यये परे ऊर्णा शब्दस्य <<यचि भम्>> [[1.4.18]] इति भसंज्ञायां प्राप्तायां, तां बाधित्वा <<सिति च>> [[1.4.16]] इति पदसंज्ञा भवति । भसंज्ञायाः अभावात् अत्र <<यस्येति च>> [[6.4.148]] इति आकारलोपः न सम्भवति ।\n→ ऊर्णायु ।\n\n
  • 2 यस्-प्रत्ययः - कम् (= जलम्) इति मकारान्तप्रातिपदिकात् अस्य अस्मिन् वा अस्ति इत्यर्थे << कंशंभ्यां बभयुस्तितुतयसः>> [[5.2.138]] इति सूत्रेण यस् तथा युस् एतौ द्वौ तद्धितसंज्ञकप्रत्ययौ विधीयेते । उभयोः उपस्थितौ कम् इति प्रकृतेः पदसंज्ञा भवति, अतः पदान्तमकारस्य <<मोऽनुस्वारः>> [[8.3.23]] इत्यनेन अनुस्वारादेशे कृते इष्टरूपं सिद्ध्यति —\n\nकम् अस्य अस्मिन् वा अस्ति\n--> कम् + युस् / यस् [<< कंशंभ्यां बभयुस्तितुतयसः>> [[5.2.138]] इति सूत्रेण यस्/युस्-प्रत्ययः]\n→ कम् + यु / य [सकारस्य इत्संज्ञालोपः]\n→ कंयु / कंय [सित्-प्रत्यये परे <<सिति च>> [[1.4.16]] इति प्रकृतेः पदसंज्ञा भवति । पदसंज्ञायां सत्याम् <<मोऽनुस्वारः>> [[8.3.23]] इति अनुस्वारादेशः भवति ।]\n→ कंयु / कय्ँयु / कंय / कय्ँय [<<वा पदान्तस्य>> [[8.4.59]] इति विकल्पेन परसवर्णः]\n\n
  • 3) छस्-प्रत्ययः - भवत् इति शब्दात् शैषिकेषु अर्थेषु <<भवतः ठक्छसौ>> [[4.2.115]] इति सूत्रेण छस् इति प्रत्ययः भवति । अस्मिन्-प्रत्यये परे भवत्-शब्दस्य प्रकृतसूत्रेण पदसंज्ञा भवति । पदसंज्ञायां सत्यां <<झलां जशोऽन्ते>> [[8.2.39]] इति पदान्तजश्त्वे कृते इष्टं रूपं सिद्ध्यति —\n\nभवतः इदम्\n--> भवत् + छस् [<<भवतः ठक्छसौ>> [[4.2.115]] इति सूत्रेण छस्-प्रत्ययः]\n--> भवत् + छ [सकारस्य इत्संज्ञा, लोपः ]\n→ भवत् + ईय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति छकारस्य ईय्-आदेशः]\n→ भवद् + ईय [सित्-प्रत्यये परे <<सिति च>> [[1.4.16]] इति भवत् शब्दस्य पदसंज्ञा । अतः पदान्ते विद्यमानस्य तकारस्य <<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वे दकारः विधीयते ।]\n→ भवदीय \n\n
  • 4) णस्-प्रत्ययः - <<ब्राह्मणमाणववाडवाद्यन्>> [[4.2.42]] इत्यत्र पाठितेन इति वार्त्तिकेन पर्शूनाम् समूहः अस्मिन् अर्थे पर्शु-शब्दात् णस् इति प्रत्ययः भवति । अस्मिन् प्रत्यये परे <<यचि भम्>> [[1.4.18]] इत्यनेन पर्शु शब्दस्य भसंज्ञायां प्राप्तायाम् तद्बाधित्वा <<सिति च>> [[1.4.16]] इत्यनेन तस्य पदसंज्ञा विधीयते । अस्याः प्रयोजनम् अस्ति अनिष्टस्य भसंज्ञाविशिष्टस्य कार्यस्य बाधः इति । यदि अत्र भसंज्ञा अभविष्यत्, तर्हि <<ओर्गुणः>> [[6.4.146]] इति अत्र उकारस्य अनिष्टः गुणादेशः अभविष्यत् । प्रक्रिया इयम्‌ —\n\nपर्शूनां समूहः\n= पर्शु + णस् [ ]\n→ पर्शु + अ [<<चुटू>> [[1.3.7]] इति णकारस्य इत्संज्ञा, <<हलन्त्यम्>> [[1.3.3]] इति सकारस्य इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति द्वयोः अपि लोप;]\n→ पार्शु + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ पार्श्व [<<सिति च>> [[1.4.17]] इति प्रकृतेः पदसंज्ञा । इयं पदसंज्ञा भसंज्ञां बाधते भसंज्ञायाः अभावात् अत्र <<ओर्गुणः>> [[6.4.146]] इत्यनेन उकारस्य अनिष्टः गुणादेशः प्रतिषिध्यते । अग्रे <<इको यणचि>> [[6.1.77]] इति यणादेशं कृत्वा रूपं सिद्ध्यति ।]\n\n
  • 5) घस्-प्रत्ययः - ऋतु इति शब्दात् वेदेषु अस्य प्राप्तम् अस्मिन् अर्थे <<छन्दसि घस्>> [[5.1.106]] इति सूत्रेण घस् इति प्रत्ययः कृतः दृश्यते । अस्मिन् प्रत्यये सकारस्य इत्संज्ञा भवति, अतः अस्मिन् प्रत्यये परे <<सिति च>> [[1.4.17]] इति प्रकृतेः पदसंज्ञा विधीयते । अस्याः प्रयोजनम् अस्ति अनिष्टस्य भसंज्ञाविशिष्टस्य कार्यस्य बाधः इति । यदि अत्र भसंज्ञा अभविष्यत्, तर्हि <<ओर्गुणः>> [[6.4.146]] इति अत्र उकारस्य अनिष्टः गुणादेशः अभविष्यत् । प्रक्रिया इयम्‌ —\n\nऋतुः यस्य प्राप्तः\n--> ऋतु + घस् [<<छन्दसि घस्>> [[5.1.106]] इति घस्]]\n--> ऋतु + घ [इत्संज्ञा, लोपः]\n→ ऋतु + इय [<<आयनेयीनीयीयः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति इय-आदेशः]\n→ ऋत्विय [<<सिति च>> [[1.4.16]] इत्यनेन प्रकृतेः पदसंज्ञा । इयं पदसंज्ञा भसंज्ञां बाधित्वा विधीयते । भसंज्ञायाः अभावात् अत्र <<ओर्गुणः>> [[6.4.146]] इत्यनेन उकारस्य अनिष्टः गुणादेशः प्रतिषिध्यते । अग्रे <<इको यणचि>> [[6.1.77]] इति यणादेशं कृत्वा रूपं सिद्ध्यति ।]\n\n\nबाध्यबाधकभावः\nसर्वे सित्-प्रत्ययाः अजादयः / यकारादयः सन्ति । अतः एतेषु परेषु प्रकृतेः <<यचि भम्>> [[1.4.18]] इति भसंज्ञा प्राप्नोति । एवमेव <<सिति च>> [[1.4.16]] इत्यनेन प्रकृतेः पदसंज्ञा अपि विधीयते । अत्र पदसंज्ञा भसंज्ञायाः अपेक्षया अनवकाशा अस्ति, अतः <<आकडारादेका संज्ञा>> [[1.4.1]] इत्येतम् अधिकारम् अनुसृत्य अत्र पदसंज्ञा भसंज्ञां सम्पूर्णरूपेण बाधते । अतः सित्-प्रत्यये परे प्रकृतेः पदसंज्ञा एव भवति, न हि भसंज्ञा ।\n " }, "14017": { "sa": "असर्वनामस्थानसंज्ञके स्वादिप्रत्यये परे प्रकृतेः पदसंज्ञा भवति । यथा - राजन् + भ्याम् । ", "sd": "व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति पदम् इति संज्ञा । <<सुप्तिङन्तं पदम्>> [[1.4.14]] इत्यतः <<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इत्येतैः चतुर्भिः सूत्रैः इयं संज्ञा विधीयते । अस्य सूत्रसमूहस्य इदं अन्तिमं सूत्रम् । यः स्वादिप्रत्ययः सर्वनामसंज्ञकः नास्ति, तस्मिन् परे प्रातिपदिकस्य पदम् इति संज्ञा भवति - इति अस्य सूत्रस्य आशयः । \n\nस्वादिप्रत्ययाः - अष्टाध्याय्यां चतुर्थे अध्याये, पञ्चमे अध्याये च प्रातिपदिकेभ्यः विहिताः प्रत्ययाः पाठिताः सन्ति । एतेषु प्रथमः प्रत्ययः <<स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाङ्ङ्योस्सुप्>> [[4.1.2]] इत्यनेन विहितः सुँ इति अस्ति; तथा च अन्तिमः प्रत्ययः <<उरःप्रभृतिभ्यः कप्>> [[5.4.151]] इत्यनेन पाठितः क्विप्-प्रत्ययः अस्ति । एते सर्वेऽपि प्रत्ययाः स्वादिप्रत्ययाः इति नाम्ना ज्ञायन्ते ।\n\nसर्वनामस्थानसंज्ञकप्रत्ययाः- <<स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाङ्ङ्योस्सुप्>> [[4.1.2]] इत्यस्मिन् सूत्रे विद्यमानाः केचन प्रत्ययाः सर्वनामसंज्ञकप्रत्ययाः नाम्ना ज्ञायन्ते । तदित्थम् -\n\n
  • 1. पुंलिङ्गशब्दात्, स्त्रीलिङ्गशब्दात् विहिताः सुँ, , जस्, अम्, औट् - एते पञ्च प्रत्ययाः <<सुडनपुंसकस्य>> [[1.1.43]] इति सूत्रेण सर्वनामस्थानसंज्ञकप्रत्ययाः भवन्ति । \n
  • 2. नपुंसकलिङ्गशब्दात् विहितौ जस् तथा शस् एतौ प्रत्ययौ <<शि सर्वनामस्थानम्>> [[1.1.42]] इत्यनेन सर्वनामस्थानसंज्ञकौ भवतः ।\n\n\nएतान् सर्वनामसंज्ञकप्रत्ययान् विहाय अन्ये सर्वेऽपि स्वादिप्रत्ययाः असर्वनामस्थानसंज्ञकाः स्वादिप्रत्ययाः सन्ति । इत्युक्ते, सुँ, , जस्, अम्, औट् - इत्येतान् विहाय अन्यः कोऽपि स्वादिप्रत्ययः पुंलिङ्गशब्दात् स्त्रीलिङ्गशब्दात् वा विधीयते चेत् तस्य पुंलिङ्गशब्दस्य, स्त्रीलिङ्गशब्दस्य च पदम् इति संज्ञा भवति । एवमेव, जस् तथा शस् एतौ प्रत्ययौ विहाय अन्यः कोऽपि स्वादिप्रत्ययः नपुंसकलिङ्गशब्दात् विधीयते चेत् तस्य नपुंसकलिङ्गशब्दस्य पदम् इति संज्ञा भवति ।\nअसर्वनामस्थानसंज्ञकाः स्वादिप्रत्ययाः स्वयं पदसंज्ञकाः न सन्ति, अपितु तेषु परेषु प्रातिपदिकस्य पदसंज्ञा भवति । \nउदाहरणानि\nअसर्वनामस्थानसंज्ञकप्रत्ययेषु परेषु प्रातिपदिकस्य पदसंज्ञायाः कानिचन उदाहरणानि एतानि - \n\n
  • 1. तृतीयाद्विवचनस्य भ्याम् प्रत्यये परे पयस् शब्दस्य प्रकृतसूत्रेण पदसंज्ञा भवति, अतएव प्रक्रियायाम् रुत्वम् उत्वं च कृत्वा इष्टं रूपं सिद्ध्यति —\n\nपयस् + भ्याम् [तृतीयाद्विवचनस्य प्रत्ययः । अयं सर्वनामस्थानसंज्ञकप्रत्ययः नास्ति, अतः अस्मिन् प्रत्यये परे प्रकृतेः पदसंज्ञा भवति ।]\n→ पयरुँ + भ्याम् [पदान्ते विद्यमानस्य सकारस्य <<ससजुषो रुः>> [[8.2.66]] इति रुत्वम् ।]\n→ पयउ + भ्याम् [रुँ-इत्यस्य <<हशि च>> [[6.1.114]] इति उत्वम्]\n→ पयोभ्याम् [<<आद्गुणः>> [[6.1.87]] इति गुणैकादेशः]\n\n
  • 2. ब्रह्मणः भावः अस्मिन् अर्थे ब्रह्मन् इति शब्दात् <<तस्य भावस्त्वतलौ>> [[5.1.119]] इति सूत्रेण त्व इति प्रत्ययः विधीयते । अस्मिन् प्रत्यये परे ब्रह्मन् शब्दस्य पदसंज्ञा भवति, अतः नकारस्य <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इत्यनेन लोपः जायते —\n\nब्रह्मन् + त्व [ <<तस्य भावस्त्वतलौ>> [[5.1.119]] इति सूत्रेण त्व-प्रत्ययः । अयं सर्वनामस्थानसंज्ञकप्रत्ययः नास्ति, अतः अस्मिन् प्रत्यये परे प्रकृतेः पदसंज्ञा भवति ।]\n→ ब्रह्म + त्व [पदसंज्ञकस्य प्रातिपदिकस्य अन्ते विद्यमानस्य नकारस्य <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इत्यनेन लोपः ।]\n→ ब्रह्मत्व \n\n
  • 3. वाक् अस्य अस्ति अस्मिन् अर्थे वाक्-शब्दात् <<तदस्यास्त्यस्मिन्निति मतुप्>> [[5.2.94]] इति सूत्रेण मतुप्-प्रत्ययः विधीयते । अस्मिन् प्रत्यये परे प्रकृतेः पदसंज्ञा भवति, अतएव वाच्-शब्दस्य चकारस्य कुत्वं सम्भवति । सम्पूर्णा प्रक्रिया इयम् —\n\nवाक् अस्य अस्ति \n= वाच् + मतुँप् [<<तदस्यास्त्यस्मिन्निति मतुप्>> [[5.2.94]] इति सूत्रेण मतुप्-प्रत्ययः । अयं सर्वनामस्थानसंज्ञकप्रत्ययः नास्ति, अतः अस्मिन् प्रत्यये परे प्रकृतेः पदसंज्ञा भवति ।] \n→ वाच् + वत् [<<झयः>> [[8.2.10]] इति सूत्रेण झय्-वर्णात् परस्य मतुँप्-प्रत्ययस्य मकारस्य वकारादेशः]\n→ वाक् + वत् [<<चोः कुः>> [[8.2.30]] इति पदान्ते विद्यमानस्य चकारस्य कुत्वम् । ]\n→ वाग् + वत् [<<झलां जशोऽन्ते>> [[8.2.39]] इति पदान्ते विद्यमानस्य ककारस्य जश्त्वे गकारः]\n→ वाग्वत् ।\n\n\nदलकृत्यम्\n1. स्वादिषु इति किमर्थम् ? यः प्रत्ययः स्वादिप्रत्ययः नास्ति (इत्युक्ते, चतुर्थाध्याये पञ्चमाध्याये वा पाठितः नास्ति) तस्य विषये प्रकृतसूत्रं न प्रवर्तते । यथा, तृतीयाध्याये <<यजयाचयतविच्छप्रच्छरक्षो नङ्>> [[3.3.90]] इति सूत्रेण पाठितः नङ् इति प्रत्ययः स्वादिप्रत्ययः नास्ति, अतः याच् + नङ् इत्यत्र नङ्-प्रत्यये परे प्रकृतेः (इत्युक्ते, याच् इति धातोः) पदसंज्ञा न भवति । यदि याच् धातोः पदसंज्ञा अभविष्यत्, तर्हि <<चोः कुः>> [[8.2.30]] इत्यनेन पदान्तचकारस्य अनिष्टं कुत्वम् अभविष्यत् ।\n\n2. असर्वनामस्थाने इति किमर्थम् ? यः प्रत्ययः सर्वनामस्थानसंज्ञकः अस्ति, तस्य पदसंज्ञा न भवति । यथा, राजन् + औ इत्यत्र प्रथमाद्विवचनस्य इति सर्वनामस्थानसंज्ञकप्रत्यये परे राजन्-शब्दस्य पदसंज्ञा न भवति । यदि अस्य शब्दस्य पदसंज्ञा अभविष्यत्, तर्हि <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इत्यनेन राजन्-शब्दस्य नकारस्य अनिष्टः लोपः अभविष्यत् ।\n<hl>असर्वनामस्थाने</hl> इति पर्युदासः\nप्रकृतसूत्रे उपस्थिते असर्वनामस्थाने इति शब्दे विद्यमानः इति निषेधः पर्युदासः अस्ति । इत्युक्ते, अत्र पदार्थस्य निषेधं कृत्वा अन्यपदार्थस्य विधानं क्रियते । सामान्यभाषायाम्, यः पदार्थः सर्वनामसंज्ञकः नास्ति तस्मिन् परे प्रकृतेः पदसंज्ञा भवति - इति अत्र असर्वनामस्थाने इत्यस्य अर्थः स्वीक्रियते । यदि अत्र \"प्रसज्यप्रतिषेधः\" स्यात्, तर्हि - प्रकृतेः सर्वत्र पदसंज्ञा भवति, स्वादिषु सर्वनामस्थानसंज्ञकेषु न भवति - इति अनिष्टः अर्थः सिद्ध्येत् । एतादृशे अर्थे स्वीकृते, अस्वादिषु प्रत्ययेषु परेषु, किञ्च, प्रत्ययं विना अपि प्रकृतेः पदसंज्ञा अभविष्यत् । \nसुँ-प्रत्ययान्तस्य पदसंज्ञा भवत्येव\nपुंलिङ्गप्रातिपदिकात्, स्त्रीलिङ्गप्रातिपदिकात् वा विहितः सुँ इति प्रत्ययः सर्वनामसंज्ञकः अस्ति, अतः अस्मिन् प्रत्यये परे प्रकृतेः पदसंज्ञा न भवति । परन्तु, सुँ इति सुप्-प्रत्ययः अस्ति, अतः सुँ-प्रत्ययान्तशब्दस्य पदसंज्ञा अवश्यं भवति । यथा, मरुत् इति प्रातिपदिकात् प्रथमैकवचनस्य सुँ-प्रत्यये कृते, मरुत् + सुँ इत्यत्र यद्यपि मरुत् इति प्रातिपदिकस्य पदसंज्ञा नास्ति, तथापि मरुत् + सुँ इति समूहस्य <<सुप्तिङन्तं पदम्>> [[1.4.14]] इति पदसंज्ञा अवश्यम् एव विद्यते । अग्रे प्रक्रियायाम् <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् >> [[6.1.68]] इति सुँ-प्रत्ययस्य लोपे कृते, मरुत् इति प्रकृतिमात्रम् अवशिष्यते । यद्यपि अस्याः प्रकृतेः पदसंज्ञा नास्ति, तथापि तत्र विद्यमानः लुप्तः सुँ-प्रत्ययः <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यस्य सामर्थ्यात् सुबन्तत्वम् (अतः पदत्वम् अपि) अवश्यम् एव विदधाति । अतएव मरुत्-शब्दस्य प्रथमैकवचनस्य रूपम् मरुत् इति अवश्यम् एव पदसंज्ञकम् अस्ति ।\nबाध्यबाधकभावः\nकेषुचन विशिष्टेषु असर्वनामस्थानसंज्ञकेषु स्वादिप्रत्ययेषु परेषु <<यचि भम्>> [[1.4.18]] तथा च <<तसौ मत्वर्थे>> [[1.4.19]] इत्यनेन प्रकृतेः इति संज्ञा विधीयते । इयं संज्ञा एकसंज्ञाधिकारात् प्रकृतसूत्रेण उक्तां पदसंज्ञां बाधते, अतः संज्ञकशब्दाः पदसंज्ञकाः नैव सन्ति । यथा, शशिन् + टा इत्यत्र टा इति असर्वनामस्थानसंज्ञके प्रत्यये परे शशिन् इति प्रातिपदिकस्य पदसंज्ञां बाधित्वा भसंज्ञा भवति । यदि अत्र शशिन् इति प्रातिपदिकस्य पदसंज्ञा अभविष्यत्, तर्हि <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इत्यनेन शशिन् इत्यस्य नकारस्य अनिष्टः लोपः अभविष्यत् । \n" }, "14018": { "sa": "असर्वनामस्थानसंज्ञके यकारादौ अजादौ वा स्वादिप्रत्यये परे प्रकृतेः भसंज्ञा भवति । यथा - शशिन् + शस् । ", "sd": "व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति इति संज्ञा । <<यचि भम्>> [[1.4.18]] तथा च <<तसौ मत्वर्थे>> [[1.4.19]] इत्येताभ्याम् द्वाभ्याम् सूत्राभ्याम् इयं संज्ञा विधीयते । एताभ्याम् इदं प्रथमं सूत्रम् । यः स्वादिप्रत्ययः अजादिः उत यकारादिः अस्ति तथा च सर्वनामसंज्ञकः नास्ति, तस्मिन् परे प्रातिपदिकस्य इति संज्ञा भवति - इति अस्य सूत्रस्य आशयः । \n\nस्वादिप्रत्ययाः - अष्टाध्याय्यां चतुर्थे अध्याये, पञ्चमे अध्याये च प्रातिपदिकेभ्यः विहिताः प्रत्ययाः पाठिताः सन्ति । एतेषु प्रथमः प्रत्ययः <<स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाङ्ङ्योस्सुप्>> [[4.1.2]] इत्यनेन विहितः सुँ इति अस्ति; तथा च अन्तिमः प्रत्ययः <<उरःप्रभृतिभ्यः कप्>> [[5.4.151]] इत्यनेन पाठितः क्विप्-प्रत्ययः अस्ति । एते सर्वेऽपि प्रत्ययाः स्वादिप्रत्ययाः इति नाम्ना ज्ञायन्ते ।\n\nसर्वनामस्थानसंज्ञकप्रत्ययाः- <<स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाङ्ङ्योस्सुप्>> [[4.1.2]] इत्यस्मिन् सूत्रे विद्यमानाः केचन प्रत्ययाः सर्वनामसंज्ञकप्रत्ययाः नाम्ना ज्ञायन्ते । तदित्थम् -\n\n
  • 1. पुंलिङ्गशब्दात्, स्त्रीलिङ्गशब्दात् विहिताः सुँ, , जस्, अम्, औट् - एते पञ्च प्रत्ययाः <<सुडनपुंसकस्य>> [[1.1.43]] इति सूत्रेण सर्वनामस्थानसंज्ञकप्रत्ययाः भवन्ति ।\n
  • 2. नपुंसकलिङ्गशब्दात् विहितौ जस् तथा शस् एतौ प्रत्ययौ <<शि सर्वनामस्थानम्>> [[1.1.42]] इत्यनेन सर्वनामस्थानसंज्ञकौ भवतः ।\n\nएतान् सर्वनामसंज्ञकप्रत्ययान् विहाय अन्ये सर्वेऽपि स्वादिप्रत्ययाः असर्वनामस्थानसंज्ञकाः स्वादिप्रत्ययाः सन्ति । एतेभ्यः ये प्रत्ययाः अजादयः सन्ति (यथा - अण्, , च्फञ् इत्यादयः), तथा च ये प्रत्ययाः यकारादयः सन्ति (यथा - यञ्, ण्य, ञ्यङ् इत्यादयः) - तेषु परेषु प्रातिपदिकस्य संज्ञा भवति ।\nप्रत्ययस्य आदिवर्णस्य निर्णयात् पूर्वम् प्रत्यये विद्यमानानाम् इत्संज्ञकवर्णानां लोपं कृत्वा ततः प्रत्ययस्य यथायोग्यम् आदेशः करणीयः, तदनन्तरम् एव प्रथमवर्णः निर्णेतव्यः । यथा, ट्यु इति प्रत्ययस्य आदिवर्णः कः - इति प्रश्ने कृते, आदौ टकारस्य इत्संज्ञां लोपं कृत्वा, ततः यु इत्यस्य <<युवोरनाकौ>> [[7.1.1]] इत्यनेन अन आदेशः करणीयः । अनेन प्रकारेण ट्यु-प्रत्ययस्य दृश्यरूपम् अन इति अस्ति । अस्य दृश्यरूपस्य आदिवर्णः अकारः अस्ति; अतः ट्यु-प्रत्ययः अपि अजादिः एव स्वीक्रियते ।\nभसंज्ञायाः प्रयोजनम् - <hl>भस्य</hl> इति अधिकारः\nअष्टाध्याय्याम् <<भस्य>> [[6.4.129]] इति सूत्रेण भाधिकारः विधीयते । अस्य अधिकारस्य व्याप्तिः <<भस्य>> [[6.4.129]] इत्यतः षष्ठाध्यायस्य परिसमाप्तिं यावत् वर्तते । अस्मिन् अधिकारे पाठितानि कार्याणि केवलं भसंज्ञकस्य विषये एव भवन्ति । कानिचन उदाहरणानि एतानि - \n\n
  • 1. राजन् इति प्रातिपदिकात् द्वितीयाबहुवचनस्य शस् प्रत्यये कृते राज्ञः इति रूपं सिद्ध्यति । अत्र विहितः शस् (= अ) प्रत्ययः अजादिः अस्ति, सर्वनामस्थानसंज्ञकः च नास्ति, अतः अस्मिन् प्रत्यये परे राजन् शब्दस्य भसंज्ञा भवति । भसंज्ञायां सत्यां भाधिकारे पाठितेन <<अल्लोपोऽनः>> [[6.4.134]] इति सूत्रेण राजन् शब्दस्य उपधा-अकारस्य लोपं कृत्वा अन्तिमं रूपं सिद्ध्यति —\n\nराजन् + शस् [द्वितीयाबहुवचनस्य प्रत्ययः]\n→ राजन् + अस् [इत्संज्ञालोपः । अत्र प्रत्ययस्य अजादित्वात् राजन्-शब्दस्य <<यचि भम्>> [[1.4.18]] इति भसंज्ञा भवति ।]\n→ राज् न् + अस् [भसंज्ञायां सत्याम्, भाधिकारे पाठितेन <<अल्लोपोऽनः>> [[6.4.134]] इति सूत्रेण उपधा-अकारस्य लोपः । यदि अत्र पदसंज्ञा अभविष्यत्, तर्हि अत्र <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इत्यनेन नकारलोपः अभविष्यत् ।]\n→ राज्ञः [रुत्वविसर्गौ]\n\n
  • 2. मधोः गोत्रापत्यम् अस्मिन् अर्थे ब्राह्मणस्य निर्देशं कर्तुम् मधुशब्दात् <<मधुबभ्र्वोर्ब्राह्मणकौशिकयोः>> [[4.1.106]] इति सूत्रेण यञ् प्रत्ययः विधीयते । अयं प्रत्ययः यकारादिः अस्ति, सर्वनामस्थानसंज्ञकः च नास्ति, अतः अस्मिन् प्रत्यये परे <<यचि भम्>> [[1.4.18]] इत्यनेन मधु-शब्दस्य भसंज्ञा भवति । भसंज्ञायां सत्याम् भाधिकारे पाठितेन <<ओर्गुणः>> [[6.4.146]] इति सूत्रेण गुणं कृत्वा अन्तिमं रूपं सिद्ध्यति —\n\nमधोः गोत्रापत्यम् (ब्राह्मणः)\n→ मधु + यञ् [<<मधुबभ्र्वोर्ब्राह्मणकौशिकयोः>> [[4.1.106]] इति यञ् ।]\n→ माधु + य [तद्धितसंज्ञके ञित्-प्रत्यये परे <<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः ।]\n→ माधो + य [यकारादौ प्रत्यये परे प्रकृतेः भसंज्ञायां सत्याम् भाधिकारे पाठितेन <<ओर्गुणः>> [[6.4.146]] इति सूत्रेण भस्य अङ्गस्य गुणः भवति ।]\n→ माधव् + य [<<वान्तो यि प्रत्यये>> [[6.1.79]] इति यकारादौ प्रत्यये परे अवादेशः ।]\n→ माधव्य \n\n
  • 3. देव इति शब्दात् स्त्रीत्वं द्योतयितुम् ङीप् इति प्रत्यये कृते, प्रत्ययस्य अजादित्वात्, असर्वनामस्थानत्वात् च प्रकृतेः भसंज्ञा भवति, अतएव <<यस्येति च>> [[6.4.148]] इत्यनेन अकारलोपं कृत्वा देवी इति अन्तिमं रूपं सिद्ध्यति —\n\nदेव + ङीप् [<<नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः>> [[3.1.134]] इत्यत्र पचादिगणे देवट् इति निर्देशात् देवशब्दः टित् स्वीक्रियते, अतश्च स्त्रीत्वं द्योतयितुम् <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इति सूत्रेण ङीप्-प्रत्यय: विधीयते ।]\n→ देव् + ई [अजादौ असर्वनामस्थानसंज्ञके प्रत्यये परे प्रकृतेः <<यचि भम्>> [[1.4.18]] इति भसंज्ञा भवति, अतएव भाधिकारे पाठितेन <<यस्येति च>> [[6.4.148]] इति सूत्रेण अत्र देवशब्दस्य अन्तिम-अकारस्य लोपः विधीयते ।]\n→ देवी\n\n
  • 4. सुपाद् इति शब्दात् तृतीयैकवचनस्य टा इति प्रत्यये कृते, प्रत्ययस्य अजादित्वात् प्रकृतेः भसंज्ञायां लब्धायाम्, भाधिकारे विद्यमानेन <<पादः पत्>> [[6.4.130]] इति सूत्रेण (तथा च <ऽपदाङ्गाधिकारे तस्य च तदन्तस्य च ऽ> इति परिभाषया) सुपाद् इति भसंज्ञके विद्यमानस्य पाद् इति अंशस्य पद् इति आदेशः भवति -\n\nसुपाद् + टा [तृतीयैकवचनस्य प्रत्ययः]\n→ सुपद् + टा [<<पादः पत्>> [[6.4.130]] इति सूत्रेण भसंज्ञकस्य पाद् शब्दस्य पद् इति आदेशः । <ऽनिर्दिश्यमानस्य आदेशाः भवन्तिऽ> इति परिभाषया अयम् आदेशः केवलम् पाद् इत्यस्य अंशस्य स्थाने एव विधीयते ।]\n→ सुपदा \n\n\nबाध्यबाधकभावः - भसंज्ञया पदसंज्ञायाः बाधः\nअसर्वनामस्थानसंज्ञकेषु स्वादिप्रत्ययेषु परतः प्रकृतेः <<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इति सूत्रेण प्रातिपदिकस्य पदसंज्ञायां प्राप्तायाम्, यदि सः प्रत्ययः अजादिः उत यकारादिः अस्ति तर्हि प्रकृतसूत्रेण प्रातिपदिकस्य भसंज्ञा विधीयते । इयं भसंज्ञा एकसंज्ञाधिकारात् पदसंज्ञायाः बाधं करोति । यदि भसंज्ञया पदसंज्ञायाः बाधः नैव अभविष्यत्, तर्हि राजन् + शस् इत्यवस्थायाम् राजन्-शब्दस्य पदत्वात् <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति अनिष्टः नकारलोपः अभविष्यत् । एतादृशी अनिष्टा प्रक्रिया मा भूत्, अतः भसंज्ञया पदसंज्ञायाः बाधः आवश्यकः वर्तते । \nबाध्यबाधकभावः - पदसंज्ञया भसंज्ञायाः बाधः\nयस्मिन् असर्वनामस्थानसंज्ञके यकारादौ अजादौ वा स्वादिप्रत्यये सकारः इत्संज्ञकः अस्ति, तस्मिन् प्रत्यये परे प्रातिपदिकस्य प्रकृतसूत्रेण प्राप्तां भसंज्ञां बाधित्वा <<सिति च>> [[1.4.16]] इति पूर्वसूत्रेण पदसंज्ञा एव विधीयते । यथा, ऊर्णा + युस् इत्यत्र यकारादौ सित्-प्रत्यये परे ऊर्णा-शब्दस्य <<सिति च>> [[1.4.16]] इत्यनेन पदसंज्ञा भवति । इयं पदसंज्ञा प्रकृतसूत्रदत्तां भसंज्ञां बाधते । यदि अत्र ऊर्णा-शब्दस्य भसंज्ञा अभविष्यत्, तर्हि <<यस्येति च>> [[6.4.148]] इत्यनेन ऊर्णा-शब्दस्य अन्तिम-आकारस्य अनिष्टः लोपः अपि अभविष्यत् ।" }, "14019": { "sa": "तकारान्तम् सकारान्तम् च शब्दस्वरूपम् मत्वर्थे प्रत्यये परे भसंज्ञकं भवति । यथा - गरुत् + मतुँप् । ", "sd": "व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति इति संज्ञा । <<यचि भम्>> [[1.4.18]], तथा च <<तसौ मत्वर्थे>> [[1.4.19]] इत्येताभ्याम् द्वाभ्याम् सूत्राभ्याम् इयं संज्ञा विधीयते । एताभ्याम् प्रकृतसूत्रम् द्वितीयम् । मत्वर्थीयप्रत्ययेषु परेषु तकारान्तप्रकृतेः सकारान्तप्रकृतेः च भसंज्ञा भवति — इति अस्य सूत्रस्य आशयः । \n\nमत्वर्थीयप्रत्ययाः - तद्धिताधिकारे <<तदस्यास्त्यस्मिन्निति मतुप्>> [[5.2.94]] इत्यतः <<अहंशुभमोर्युस्>> [[5.2.140]] इति यावत्सु सूत्रेषु ये प्रत्ययाः प्रोक्ताः सन्ति ते सर्वेऽपि मत्वर्थीयाः प्रत्ययाः इति नाम्ना ज्ञायन्ते । एतेषु कश्चन प्रत्ययः यदि तकारान्तात् सकारान्तात् वा शब्दात् विधीयते, तर्हि तस्य तकारान्तस्य / सकारान्तस्य शब्दस्य प्रकृतसूत्रेण भसंज्ञा भवति । इयं भसंज्ञा अन्यसूत्रैः प्राप्तायाः पदसंज्ञायाः बाधम् अपि करोति ।\nप्रयोजनम्, उदाहरणानि\nमत्वर्थीयप्रत्यये परे तकारान्तशब्दस्य, सकारान्तशब्दस्य च भसंज्ञायाः द्वे प्रयोजने स्तः -\n\n(1) पदसंज्ञानिषेधः — प्रकृतसूत्रेण तकारान्तशब्दस्य, सकारान्तशब्दस्य कृता भसंज्ञा एकसंज्ञाधिकारात् पदसंज्ञां बाधते, येन पदसंज्ञाविशिष्टानि कार्याणि अपि न भवन्ति । अस्य द्वे उदाहरणे एतादृशे -\n\n
  • 1. गरुत् इति तकारान्त-प्रातिपदिकात् <<तदस्यास्त्यस्मिन्निति मतुप्>> [[5.2.94]] इत्यनेन मतुप्-प्रत्यये विहिते, प्रक्रियायाम् गरुत्-शब्दस्य भसंज्ञा भवति, येन पदसंज्ञायाः बाधं कृत्वा <<झलां जशोऽन्ते>> [[8.2.39]] इत्यनेन अनिष्टं जश्त्वम् , तथा च अनेन वार्तिकेन अनिष्टम् अनुनासिकत्वम् अपि न भवति, अपितु केवलं वर्णमेलनं कृत्वा गरुत्मत् इति प्रातिपदिकं सिद्ध्यति । \n
  • 2. तपस् इति सकारान्त-प्रातिपदिकात् <<तपःसहस्राभ्यां विनीनी>> [[5.2.102]] इत्यनेन विनि इति प्रत्ययः भवति । अयम् प्रत्ययः अपि मतुबर्थीयः एव, अतः अस्मिन् प्रत्यये परे तपस् इत्यस्य प्रकृतसूत्रेण भसंज्ञा भवति । इयं भसंज्ञा पदसंज्ञां बाधते । यदि अत्र तपस् इत्यस्य पदसंज्ञा अभविष्यत्, तर्हि तपस् + विन् इत्यवस्थायां <<ससजुषोः रुः>> [[8.2.66]] इत्यनेन सकारस्य रुत्वम्, तथा <<हशि च>> [[6.1.114]] इत्यनेन रेफस्य उकारादेशे कृते अनिष्टं रूपं अजनिष्यत । परन्तु भसंज्ञायां सत्याम् एतत् न भवति, अतः केवलं वर्णमेलनं कृत्वा तपस्विन् इति प्रातिपदिकं सिद्ध्यति । \n\n\n(2) सम्प्रसारणम् - भाधिकारे विद्यमाने <<वसोः सम्प्रसारणम्>> [[6.4.131]] इति सूत्रेण भसंज्ञकस्य अङ्गस्य सम्प्रसारणं भवति । यथा, विद्वान् अस्य अस्ति इत्यस्मिन् अर्थे विद्वस् इति सकारान्त-प्रातिपदिकात् <<तदस्यास्त्यस्मिन्निति मतुप्>> [[5.2.94]] इत्यनेन मतुप्-प्रत्यये कृते प्रकृतसूत्रेण विद्वस् इत्यस्य भसंज्ञा भवति, येन भाधिकारे पाठितेन <<वसोः सम्प्रसारणम्>> [[6.4.131]] इति सूत्रेण अङ्गस्य सम्प्रसारणं कृत्वा विदुष्मत् इति इष्टरूपम् सिद्ध्यति । प्रक्रिया इयम् - \n\nविद्वान् अस्य अस्ति \n→ विद्वान् + मतुँप् [ <<तदस्यास्त्यस्मिन्निति मतुप्>> [[5.2.94]] इति प्रथमासमर्थात् मतुप्-प्रत्ययः]\n→ विद्वस् + मत् [तद्धितप्रत्ययान्तस्य <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, अतः <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इत्यनेन विद्वस्-शब्दात् विहितस्य सुँ-प्रत्ययस्य लुक् भवति ।]\n→ विदुअस् + मत् [<<वसोः सम्प्रसारणम्>> [[6.4.131]] इत्यनेन भसंज्ञकस्य विद्वस्-शब्दस्य उपधावकारस्य सम्प्रसारणम् । <<इग्यणः सम्प्रसारणम्>> [[1.1.45]] इति वकारस्य सम्प्रसारणम् उकारः ।]\n→ विदुस् + मत् [<<सम्प्रसारणाच्च>> [[6.1.108]] इति उकार-अकारयोः पूर्वरूप-एकादेशः]\n→ विदुष् + मत् [<<आदेशप्रत्यययोः>> [[8.3.59]] इति षत्वम्]\n→ विदुष्मत् \n\nदलकृत्यम्\n\n1. तसौ इति किमर्थम् ? यत् प्रातिपदिकम् तकारान्तम् उत सकारान्तम् नास्ति, तस्य विषये मत्वर्थीयप्रत्यये परे प्रकृतसूत्रेण भसंज्ञा न भवति । यथा, बुद्धिः अस्य अस्ति अस्मिन् अर्थे बुद्धि इति प्रातिपदिकात् <<तदस्यास्त्यस्मिन्निति मतुप्>> [[5.2.94]] इत्यनेन मतुप्-प्रत्यये कृते, बुद्धि इत्यस्य प्रकृतसूत्रेण भसंज्ञा न भवति । यदि अत्र अस्य शब्दस्य भसंज्ञा अभविष्यत्, तर्हि बुद्धि इति शब्दस्य इकारस्य <<यस्येति च>> [[6.4.148]] इत्यनेन अनिष्टः लोपः अभविष्यत् । परन्तु भसंज्ञायाः अभावात् एतादृशः लोपः न भवति, तथा च केवलं वर्णमेलनं कृत्वा बुद्धिमत् इति प्रातिपदिकं सिद्ध्यति । \n\n2. मत्वर्थे इति किमर्थम् ? मत्वर्थभिन्नेषु प्रत्ययेषु परेषु प्रकृतसूत्रेण तकारान्तशब्दानां सकारान्तशब्दानां वा भसंज्ञा नैव विधीयते । यथा, विद्वस्-शब्दात् <<तस्य भावस्त्वतलौ>> [[5.1.119]] इति सूत्रेण भावनिर्देशार्थम् त्व इति तद्धितप्रत्ययः विधीयते । अयं प्रत्ययः मत्वर्थीयः नास्ति, अतः अस्मिन् प्रत्यये परे विद्वस्-शब्दस्य भसंज्ञा नैव भवति । यदि अत्र विद्वस्-शब्दस्य भसंज्ञा अभविष्यत्, तर्हि <<वसोः सम्प्रसारणम्>> [[6.4.131]] इत्यनेन भसंज्ञकस्य विद्वस्-शब्दस्य उपधावकारस्य सम्प्रसारणम् भूत्वा अनिष्टं रूपम् अजनिष्यत । परन्तु अत्र भसंज्ञायाः अभावे, <<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इत्यनेन पदसंज्ञायां लब्धायाम्, सकारस्य जश्त्वे दकारे, ततश्च तस्य चर्त्वे तकारे कृते विद्वत्त्व इति साधुशब्दः सिद्ध्यति । \nसिद्धान्तकौमुद्यां पाठितम् वार्त्तिकम्\nसिद्धान्तकौमुद्यां प्रकृतसूत्रम् तद्धिताधिकारस्य मत्वर्थीयप्रकरणस्य सन्दर्भेण पाठितम् अस्ति । अत्र कौमुदीकारः इति वार्त्तिकम् अपि पाठयति । वस्तुतः इदं वार्त्तिकम् प्रकृतसूत्रस्य विषये न, अपितु मतुप्-प्रत्ययस्य सन्दर्भेण विधानं करोति । काशिकायाम् अपि इदं वार्त्तिकम् <<तदस्यास्त्यस्मिन्निति मतुप्>> [[5.2.94]] इत्यत्रैव पाठितम् अस्ति । परन्तु कौमुदीकारेण तु प्रसङ्गवशात् एतद् वार्त्तिकं प्रकृतसूत्रे एव पाठितम् अस्ति । अस्य वार्त्तिकस्य अर्थः अस्ति - गुणवाचकशब्देभ्यः विहितस्य मतुप्-प्रत्ययस्य लुक् भवति - इति । यथा, शुक्लः गुणः अस्य अस्मिन् अर्थे शुक्ल-शब्दात् <<तदस्यास्त्यस्मिन्निति मतुप्>> [[5.2.94]] इति सूत्रेण मतुप्-प्रत्यये कृते, अनेन वार्त्तिकेन तस्य लुक् भवति, अतश्च अन्ते शुक्ल इत्येव शब्दः सिद्ध्यति । अतएव, यस्य पदार्थस्य वर्णः शुक्लः, सः पदार्थः अपि शुक्लः इत्यनेनैव सम्बोध्यते, यथा, शुक्लः हंसः इत्यादिकम् । \n\n\n" }, "14020": { "sa": "'अयस्मय' आदयः शब्दाः वेदेषु साधवः ज्ञेयाः ।", "sd": "वेदेषु विद्यमानेषु अयस्मय, ऋक्वता, वाजिनेषु इत्यादिषु केषुचित् शब्देषु भसंज्ञासम्बन्धि तथा च पदसंज्ञासम्बन्धि कार्यम् प्राप्तम् अपि नैव कृतं दृश्यते । तथापि एतादृशाः वैदिकवाङ्मये विद्यमानाः शब्दाः यथानिर्दिष्टम् प्रकारेण एव साधवः ज्ञेयाः - इति ज्ञापयितुम् प्रकृतसूत्रम् रचितम् अस्ति । अयस्मयादीनि शब्दरूपाणि वेदेषु साधूनि ज्ञेयानि - इति अस्य सूत्रस्य अर्थः । एतेषाम् अयस्मयादीनाम् विशिष्टा आवली व्याख्यानेषु नैव उपलभ्यते, अपितु कानिचन एव उदाहरणानि दत्त्वा, ततश्च अयस्मयादिगणः आकृतिगणः अस्ति इति निर्देशः कृतः दृश्यते । वेदेषु दृष्टाः अन्ये शब्दाः, येषु भसंज्ञाविशिष्टं पदसंज्ञाविशिष्टं वा किञ्चन कार्यम् न प्रवर्तते, ते अपि सर्वे अस्मिन् गणे समावेष्टव्याः - इति अस्य निर्देशस्य आशयः । अस्मिन्नेव सन्दर्भे अत्र भाष्यकारः एकं वार्त्तिकम् अपि पाठयति - अयस्मयादीनाम् सिद्धौ प्रकृतेः पदसंज्ञा/भसंज्ञा इति उभये अपि संज्ञे यथायोग्यम् (यत्र आवश्यकम् तत्र) साधु मन्तव्ये - इति अस्य वार्त्तिकस्य आशयः ।\nउदाहरणानि\nअयस्मयादिगणस्य केषाञ्चन शब्दानां सिद्धिः अधः दत्ता अस्ति —\n\n
  • 1. अयस्मय - अयसः विकारः (made of iron) अस्मिन् अर्थे अयस् इति शब्दात् <<द्व्यचश्छन्दसि>> [[4.3.150]] इति सूत्रेण मयट् इति तद्धितप्रत्ययः विधीयते । अस्मिन् प्रत्यये परे अयस्-शब्दस्य वस्तुतः <<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इति पदसंज्ञा भवेत्, तथा च पदसंज्ञाविशिष्टम् रुत्वकार्यम् अपि अत्र विधीयेत । परन्तु अयस्मय इति शब्दस्य सिद्धौ एतत् कार्यं नैव प्रवर्तते । अतः अत्र अयस् शब्दस्य इति वार्त्तिकेन भसंज्ञा एव भवति इति मत्त्वा अन्तिमं रूपं साध्यते । यथा -\n\nअयस् + मयट् [<<द्व्यचश्छन्दसि>> [[4.3.150]] इति सूत्रेण मयट्-प्रत्ययः ]\n→ अयस्मय [<<अयस्मयादीनि च्छन्दसि>> [[1.4.20]] इति सूत्रसामर्थ्यात् अयस्-शब्दस्य भसंज्ञां स्वीकृत्य अत्र केवलं वर्णमेलनं कृत्वा रूपं सिद्ध्यति । ]\n\nभाषायाम् तु सकारस्य रुत्वे उत्वे च कृते अयोमयम् इत्येव प्रयोगः साधु स्वीकर्तव्यः ।\n
  • 2. ऋक्वता - स सुष्टुभा स ऋक्वता गणेन (ऋग्वेदः - 4.50.5) इत्यत्र विद्यमानः ऋक्वता इति शब्दः ऋक्वत् इति प्रातिपदिकात् सिद्ध्यति । ऋक्वत् इति प्रातिपदिकं स्वयम् ऋच् इति शब्दात् मतुँप् प्रत्ययं कृत्वा साधितम् अस्ति । अत्र ऋच् + मतुँप् इति प्रक्रियायाम् एकस्मिन् सोपाने ऋच्-शब्दस्य सन्दर्भेण पदसंज्ञाविशिष्टं कार्यम्, तथा च अग्रिमे सोपाने तस्यैव भसंज्ञां मत्त्वा पदसंज्ञायाः निषेधः - इति उभयथा कृतं दृश्यते । प्रक्रिया इयम् —\n\nऋक् अस्य अस्ति \n= ऋच् + मतुँप् [<<तदस्यास्त्यस्मिन्निति मतुप्>> [[5.2.94]] इति मतुँप्-प्रत्ययः ।]\n→ ऋच् + वत् [<<झयः>> [[8.2.10]] इति मतुँप्-प्रत्ययस्य मकारस्य वकारादेशः ]\n→ ऋक् + वत् [वत्-प्रत्यये परे प्रकृतेः पदसंज्ञायां सत्याम् <<चोः कुः>> [[8.2.30]] इति कुत्वम् ।]\n→ ऋक्वत् [वत्-प्रत्यये परे प्रकृतेः भसंज्ञाम् अपि स्वीकृत्य, तेन पदसंज्ञायाः बाधनात्, पदसंज्ञायाः अभावे <<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वं न प्रवर्तते ]\n\n
  • 3. वाजिनेषु - नैनं हिन्वन्त्यपि वाजिनेषु (ऋग्वेदः - 10.71.05) इत्यत्र विद्यमानः वाजिनेषु इति शब्दः वाजिन इति शब्दस्य सप्तमीबहुवचनम् अस्ति ।अयम वाजिन इति शब्दः वाचाम् इनः (प्रभुः) इति अर्थे षष्ठीतत्पुरुषसमासं कृत्वा सिद्ध्यति । अत्र समस्तपदनिर्माणस्य प्रक्रियायाम् वाच् + इन इत्यत्र यद्यपि इन इति प्रत्ययः नास्ति, तथापि आदौ भसंज्ञां कृत्वा तया पदसंज्ञायाः बाधं कृत्वा पदसंज्ञाविशिष्टं कुत्वं निषिध्यते, ततश्च अग्रिमसोपाने पुनः पदसंज्ञां कृत्वा तत्रैव जश्त्वं विधीयते । प्रक्रिया इयम् -\n\nवाचाम् इनः [<<षष्ठी>> [[2.2.8]] इति षष्ठीतत्पुरुषसमासः]\n→ वाच् इन [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति समस्तपदस्य प्रातिपदिकसंज्ञा । अतः <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति वाच्-शब्दात् विहितस्य, इन-शब्दात् विहितस्य च विभक्तिप्रत्ययस्य लुक् भवति ।]\n→ वाच् इन [वाच्-शब्दस्य भसंज्ञां स्वीकृत्य, तया पदसंज्ञायाः बाधे कृते, अत्र पदसंज्ञाविशिष्टम् <<चोः कुः>> [[8.2.30]] इति कुत्वं न भवति ।]\n→ वाज् इन [कुत्वनिषेधात् अनन्तरम् वाच्-शब्दस्य पदसंज्ञां स्वीकृत्य, <<झलां जशोऽन्ते>> [[8.2.39]] इति पदसंज्ञाविशिष्टम् जश्त्वम् अत्र प्रवर्तते ।]\n→‌ वाजिन \n\n\n<hl>वृद्धिराजैदङे्गुणः</hl> इति संहितापाठे अस्य सूत्रस्य प्रयोगः\n <ऽछन्दोवत्सूत्राणि भवन्तिऽ> इति वचनेन अष्टाध्याय्याः सूत्राणि अपि छन्दोवत् (वेदसदृशानि) एव स्वीक्रियन्ते । अतः <<अयस्मयादीनि च्छन्दसि>> [[1.4.20]] इति सूत्रस्य प्रयोगः अष्टाध्याय्याः सूत्राणां विषये अपि भवितुम् अर्हति । यथा, अष्टाध्याय्याः प्रथमम् सूत्रम् - <<वृद्धिरादैच्>> [[1.1.1]] - इत्यत्र पदान्ते चकारः विद्यते, अतः अत्र वस्तुतः अत्र <<चोः कुः>> [[8.2.30]] इति अस्य चकारस्य कुत्वं प्रसज्यते । परन्तु इदं सूत्रम् अपि अयस्यमादिषु एव स्वीकृत्य, <<अयस्मयादीनि च्छन्दसि>> [[1.4.20]] इति सूत्रेण अत्र कुत्वस्य समये पदसंज्ञां बाधित्वा भसंज्ञा विधीयते, येन अत्र कुत्वं निषिध्यते । अग्रे संहितापाठे इदं सूत्रम् अग्रिमसूत्रेण (इत्युक्ते <<अदेङ् गुणः>> [[1.1.2]] इत्यनेन) सह यदा उच्चार्यते, तदा आदैच् इत्यस्य पुनः पदसंज्ञां स्वीकृत्य <<झलां जशोऽन्ते>> [[8.2.39]] इत्यनेन जश्त्वे कृते वृद्धिरादैजदेङ्गुणः इति शब्दः सिद्ध्यति । " }, "14021": { "sa": "बहुत्वस्य निर्देशार्थम् बहुवचनसंज्ञकप्रत्ययाः प्रयुज्यन्ते । यथा - बालाः गच्छन्ति । ", "sd": "यत्र बहुत्वस्य (इत्युक्ते, एकत्वं द्वित्वं च विहाय अन्यसङ्ख्यात्वस्य) निर्देशः करणीयः, तत्र बहुवचनसंज्ञकप्रत्ययाः एव प्रयोक्तव्याः - इति अस्य सूत्रस्य आशयः । यथा, बालाः गच्छन्ति इत्यत्र बालकानां बहुत्वनिर्देशार्थम् बाल-प्रातिपदिकात् बहुवचनसंज्ञकः जस्-प्रत्ययः प्रयुक्तः अस्ति, तथा च गमनक्रियायाः कर्तॄणाम् बहुत्वस्य निर्देशार्थम् गम्-धातोः बहुवचनसंज्ञकः झि इति प्रत्ययः प्रयुक्तः अस्ति ।\nबहुवचनम् इति संज्ञा\nअष्टाध्याय्याम् बहुवचनम् इति संज्ञा द्वाभ्यां सूत्राभ्यां पाठ्यते -\n\n
  • 1. <<तान्येकवचनद्विवचनबहुवचनान्येकशः>> [[1.4.102]] इति सूत्रेण आहत्य झि, , मस्, , ध्वम् तथा च महिङ् इति षण्णाम् तिङ्-प्रत्ययानाम् बहुवचनम् इति संज्ञा विधीयते ।\n
  • 2. <<सुपः>> [[1.4.103]] इति सूत्रेण आहत्य जस्, शस्, भिस्, भ्यस्, भ्यस्,आम् तथा च सुप् इति सप्तानां सुप्-प्रत्ययानाम् बहुवचनम् इति संज्ञा विधीयते ।\n\nएतेषाम् बहुवचनसंज्ञकप्रत्ययानां प्रयोगः कुत्र करणीयः इत्यस्मिन् विषये प्रकृतसूत्रेण - यत्र बहुवचनस्य विवक्षा अस्ति, तत्रैव बहुवचनस्य प्रत्ययः प्रयोक्तव्यः - इति नियमः कृतः अस्ति । अतः इदं नियमसूत्रम् । \nसर्वेषाम् कारकाणाम् बहुवचनविवक्षा वर्तते\nप्रकृतसूत्रस्य काशिकाव्याख्याने ग्रन्थकारः ब्रूते - कर्मादिषु बहुषु बहुवचनम् । सर्वषाम् अपि कारकाणाम् बहुवचनत्वविवक्षा सम्भवति, तदर्थं च बहुवचनस्य प्रत्ययाः एव प्रयुज्यन्ते इति अस्य अर्थः । एवमेव न, अपितु सम्बन्धस्य, प्रातिपदिकमात्रस्य च बहुत्वनिर्देशार्थम् अपि बहुवचनस्य प्रत्ययाः प्रयुज्यन्ते । तद्यथा - \n\n
  • 1. बालैः गम्यते इत्यत्र कर्तृकारकस्य बहुत्वनिर्देशार्थम् बाल इति प्रातिपदिकात् भिस् इति बहुवचनसंज्ञकः प्रत्ययः प्रयुक्तः अस्ति । \n
  • 2. ग्रन्थान् पठति इत्यत्र कर्मकारकस्य बहुत्वनिर्देशार्थम् ग्रन्थ इति प्रातिपदिकात् शस् इति बहुवचनसंज्ञकः प्रत्ययः प्रयुक्तः अस्ति । \n
  • 3. पादैः चलति इत्यत्र करणकारकस्य बहुत्वनिर्देशार्थम् पाद इति प्रातिपदिकात् भिस् इति बहुवचनसंज्ञकः प्रत्ययः प्रयुक्तः अस्ति । \n
  • 4. ब्राह्मणेभ्यः ददाति इत्यत्र सम्प्रदानकारकस्य बहुत्वनिर्देशार्थम् ब्राह्मण इति प्रातिपदिकात् भ्यस् इति बहुवचनसंज्ञकः प्रत्ययः प्रयुक्तः अस्ति । \n
  • 5. ब्राह्मणेभ्यः स्वीकरोति इत्यत्र अपादानकारकस्य बहुत्वनिर्देशार्थम् ब्राह्मण इति प्रातिपदिकात् भ्यस् इति बहुवचनसंज्ञकः प्रत्ययः प्रयुक्तः अस्ति । \n
  • 6. ग्रामेषु विहरति इत्यत्र अधिकरणकारकस्य बहुत्वनिर्देशार्थम् ग्राम इति प्रातिपदिकात् सुप् इति बहुवचनसंज्ञकः प्रत्ययः प्रयुक्तः अस्ति । \n
  • 7. देवानां राजा इत्यत्र सम्बन्धस्य निर्देशार्थम् देव इति प्रातिपदिकात् आम् इति बहुवचनसंज्ञकः प्रत्ययः प्रयुक्तः अस्ति । \n
  • 8. बालाः गच्छन्ति इत्यत्र प्रातिपदिकमात्रस्य बहुत्वनिर्देशार्थम् बाल इति प्रातिपदिकात् जस् इति बहुवचनसंज्ञकः प्रत्ययः प्रयुक्तः अस्ति । \n\nबहुत्वभिन्नस्थलेषु अपि बहुवचनस्य प्रयोगः\nकुत्रचित् बहुत्वं विना अपि विकल्पेन बहुवचनस्य प्रयोगः सम्भवति । तदर्थम् अष्टाध्याय्यां त्रीणि सूत्राणि पाठितानि सन्ति -\n\n1. <<जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम्>> [[1.2.58]] इति सूत्रेण जातिनिर्देशार्थम् विकल्पेन बहुवचनं प्रयोक्तुं शक्यते । यथा - ब्राह्मणाः पूज्याः । अत्र अनेके ब्राह्मणाः पूज्याः इति अर्थः विवक्षितः नास्ति, अपितु ब्राह्मणजातिः पूज्या इति अर्थः विवक्ष्यते । \n2. <<अस्मदो द्वयोश्च>> [[1.2.59]] इति सूत्रेण अस्मद्-शब्दस्य सन्दर्भेण एकत्वविवक्षायां द्वित्वविवक्षायां च विकल्पेन बहुवचनस्य प्रयोगः सम्भवति । यथा - एकः एव मनुष्यः स्वस्य निर्देशं कुर्वन् वयं ब्रूमः इति वक्तुम् अर्हति । एवमेव द्वौ जनौ अपि पुनः मिलामः इति वदतः चेत् तद् साधु एव ।\n3. <<फल्गुनीप्रोष्ठपदानां च नक्षत्रे>> [[1.2.60]] इति सूत्रेण फल्गुनी तथा च प्रोष्ठपद इत्येतयोः नक्षत्रयोः निर्देशः विकल्पेन बहुवचनप्रत्ययेन अपि सम्भवति । यथा - कदा पूर्वाः फल्गुन्यः, कदा पूर्वाः प्रोष्ठपदाः । \n\nभाषाविशेषः - आदरार्थे बहुवचनम्\nअद्यतनकाले आदरस्य निर्देशार्थम् लोके एकत्वे विवक्षिते अपि बहुवचनम् एव प्रयुक्तम् दृश्यते । यथा, एकसङ्ख्यात्मकम् अपि गुरुम्, ज्येष्ठम् वा उद्दिश्य भवन्तः कथम् सन्ति, भवद्भ्यः नमः, आचार्याः वदन्ति इत्यादयः प्रयोगाः प्रसिद्धाः सन्ति । एतेषां साधुत्वार्थम् <<अस्मदो द्वयोश्च>> [[1.2.59]] इति सूत्रस्य साहाय्यं स्वीक्रियते । अस्मिन् सूत्रे विद्यमानः चकारः अनुक्तसमुच्चयार्थः अस्ति इति मत्वा अनेन चकारेण एतादृशानां प्रयोगाणाम् सङ्ग्रहः भवति इति अत्र शिष्टानाम् अभिप्रायः अस्ति । " }, "14022": { "sa": "द्वित्वस्य निर्देशार्थम् द्विवचनसंज्ञकप्रत्ययाः, तथा च एकत्वस्य निर्देशार्थम् एकवचनसंज्ञकप्रत्ययाः प्रयुज्यन्ते । यथा - बालौ गच्छतः, बालः गच्छति । ", "sd": "यत्र द्वित्वस्य निर्देशः करणीयः, तत्र द्विवचनसंज्ञकप्रत्ययाः एव प्रयोक्तव्याः, तथा च यत्र एकत्वस्य निर्देशः करणीयः, तत्र एकवचनसंज्ञकप्रत्ययाः एव प्रयोक्तव्याः - इति अस्य सूत्रस्य आशयः । यथा -\n\n
  • 1. बालौ गच्छतः इत्यत्र बालकपदार्थस्य द्वित्वनिर्देशार्थम् बाल-प्रातिपदिकात् द्विवचनसंज्ञकः -प्रत्ययः प्रयुक्तः अस्ति, तथा च गमनक्रियायाः द्वौ कर्तारौ दर्शयितुम् गम्-धातोः द्विवचनसंज्ञकः तस् इति प्रत्ययः प्रयुक्तः अस्ति ।\n
  • 2. बालः गच्छति इत्यत्र बालकपदार्थस्य एकत्वनिर्देशार्थम् बाल-प्रातिपदिकात् एकवचनसंज्ञकः सुँ-प्रत्ययः प्रयुक्तः अस्ति, तथा च गमनक्रियायाः एकं कर्तारं दर्शयितुम् गम्-धातोः \nएकवचनसंज्ञकः तिप् इति प्रत्ययः प्रयुक्तः अस्ति ।\n\nद्विवचनम्, एकवचनम् इति संज्ञे\nअष्टाध्याय्याम् द्विवचनम् तथा च एकवचनम् इति संज्ञे द्वाभ्यां सूत्राभ्यां पाठ्येते -\n\n
  • 1. <<तान्येकवचनद्विवचनबहुवचनान्येकशः>> [[1.4.102]] इति सूत्रेण आहत्य तस्, थस्, वस्, आताम्, आथाम् तथा च वहि इति षण्णाम् तिङ्-प्रत्ययानाम् द्विवचनम्, तथा च तिप्, सिप्, मिप्, , थास् तथा च इट् इति अन्येषां षण्णाम् तिङ्-प्रत्ययानाम् एकवचनम् इति संज्ञा विधीयते ।\n
  • 2. <<सुपः>> [[1.4.103]] इति सूत्रेण आहत्य , औट्, भ्याम्, भ्याम्, भ्याम्, ओस् तथा च ओस् एतेषां सप्तानां सुप्-प्रत्ययानाम् द्विवचनम्, तथा च सुँ, अम्, टा, ङे, ङसिँ, ङस् तथा च ङि इति अन्येषां सप्तानाम् सुप्-प्रत्ययानाम् एकवचनम् इति संज्ञा विधीयते ।\n\n\nएतेषाम् द्विवचनसंज्ञकप्रत्ययानाम् एकवचनसंज्ञकप्रत्ययानां च प्रयोगः कुत्र करणीयः इत्यस्मिन् विषये प्रकृतसूत्रेण - यत्र द्विवचनस्य विवक्षा अस्ति, तत्रैव द्विवचनस्य प्रत्ययः प्रयोक्तव्यः; यत्र च एकवचनस्य विवक्षा अस्ति तत्र एकवचनस्य प्रत्ययः प्रयोक्तव्यः - इति नियमः कृतः अस्ति । अतः इदं नियमसूत्रम् । \nद्वित्वभिन्नस्थलेषु अपि द्विवचनस्य प्रयोगः\nतिष्यः च पुनर्वसू च इति द्वन्द्वसमासं कृत्वा तिष्यपुनर्वसु इति यत् प्रातिपदिकं सिद्ध्यति, तस्य विषये <<तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम्>> [[1.2.63]] इति सूत्रेण बहुत्वनिर्देशार्थम् अपि द्विवचनसंज्ञकप्रत्ययाः एव विधीयन्ते । यथा - उदितौ तिष्यपुनर्वसू दृश्येते इति ।\n" }, "14023": { "sa": "अधिकारसूत्रं संज्ञासूत्रं च इदम् । इतः परम् <<तत्प्रयोजको हेतुश्च>> [[1.4.55]] इति सूत्रपर्यन्तं कारकसंज्ञकाः पाठ्यन्ते । ", "sd": "इदम् संज्ञासूत्रम् अस्ति । अनेन सूत्रेण कारकम् इति व्याकरणविशिष्टा संज्ञा दीयते । किञ्च, इदम् अधिकारसूत्रम् अपि अस्ति । अस्य सूत्रस्य अधिकारः <<तत्प्रयोजको हेतुश्च>> [[1.4.55]] इति पर्यन्तं प्रचलति । अस्मिन् अधिकारे विद्यमानानि सर्वाणि अपि सूत्राणि संज्ञासूत्राणि सन्ति । एतैः सूत्रैः आहत्य - अपादानम्, सम्प्रदानम्, करणम्, अधिकरणम्, कर्म, तथा च कर्ता - एताः षट् संज्ञाः पाठ्यन्ते । तत्र सूत्राणां विभाजनम् एतादृशम् -\n\n
  • 1. <<ध्रुवमपायेऽपादानम्>> [[1.4.24]] इत्यतः <<भुवः प्रभवः>> [[1.4.31]] इत्येतैः सूत्रैः अपादानम् इति संज्ञा दीयते ।\n
  • 2. <<कर्मणा यमभिप्रैति स सम्प्रदानम्>> [[1.4.32]] इत्यतः <<क्रुधद्रुहेर्ष्याऽसूयार्थानां यं प्रति कोपः>> [[1.4.37]], तथा च तदनन्तरं <<राधीक्ष्योर्यस्य विप्रश्नः>> [[1.4.39]] इत्यतः <<अनुप्रतिगृणश्च>> [[1.4.41]], अपि च <<परिक्रयणे सम्प्रदानमन्यतरस्याम्>> [[1.4.44]] इत्येतैः सूत्रैः सम्प्रदानम् इति संज्ञा दीयते ।\n
  • 3. <<साधकतमं करणम्>> [[1.4.42]] इत्यतः <<परिक्रयणे सम्प्रदानमन्यतरस्याम्>> [[1.4.44]] इत्येतैः सूत्रैः करणम् इति संज्ञा दीयते ।\n
  • 4. <<आधारोऽधिकरणम्>> [[1.4.45]] इत्यनेन सूत्रेण अधिकरणम् इति संज्ञा दीयते ।\n
  • 5. <<क्रुधद्रुहोरुपसृष्टयोः कर्म >> [[1.4.38]], <<दिवः कर्म च>> [[1.4.43]] तथा च <<अधिशीङ्स्थाऽऽसां कर्म >> [[1.4.46]] इत्यतः <<हृक्रोरन्यतरस्याम् >> [[1.4.53]] इत्येतैः सूत्रैः कर्म इति संज्ञा दीयते । \n
  • 6. <<स्वतन्त्रः कर्ता>> [[1.4.54]] तथा च <<तत्प्रयोजको हेतुश्च>> [[1.4.55]] इत्येताभ्यां सूत्राभ्याम् कर्ता इति संज्ञा दीयते ।\n\n\"कारकम्\" इत्यस्य व्याख्या\nकारकम् इति शब्दस्य व्याख्या सामान्यरूपेण क्रियान्वयि कारकम्, अथवा क्रियाजनकं कारकम् इति क्रियते । क्रियां कर्तुं ये ये पदार्थाः आवश्यकाः, ते सर्वेऽपि कारकसंज्ञकाः भवन्ति इति अस्याः व्याख्यायाः आशयः । यथा, देवदत्तः महानसे स्थाल्यां अग्निना ओदनं पचति अस्मिन् वाक्ये वर्णितायाः पचनक्रियायाः कृते - देवदत्तः, ओदनम्, अग्निः, महानसः, स्थाली - एते सर्वेऽपि पदार्थाः आवश्यकाः, अतः एतेषां सर्वेषाम् अपि पदार्थानाम् पचनक्रियायाः संदर्भेण कारकम् इति संज्ञा भवति । अनेन प्रकारेण कारकम् इति पदार्थानां संज्ञा अस्ति इति स्मर्तव्यम् । एतेषाम् एव अग्रे अपादानादयः पृथक् संज्ञाः दीयन्ते । यथा, देवदत्तः महानसे स्थाल्यां अग्निना ओदनं पचति इत्यत्र देवदत्तपदार्थस्य कर्तृसंज्ञा भवति, महानसपदार्थस्य स्थालीपदार्थस्य च अधिकरणसंज्ञा भवति, अग्निपदार्थस्य करणसंज्ञा भवति, ओदनपदार्थस्य च कर्मसंज्ञा भवति । \nकिञ्च, वाक्यपदीये तृतीये काण्डे साधनसमुद्देशे भर्तृहरिणा कारकस्य व्याख्या पदार्थेषु विद्यमाना शक्तिः इति कृता वर्तते । यथा, वृक्षात् पर्णं पतति अस्मिन् वाक्ये वृक्षपदार्थे अपादानशक्तिः आविर्भवति, येन वृक्षपदार्थस्य अपि अपादानसंज्ञा भवति । एवमेव, देवदत्तः कटे उपविशति इत्यत्र कटपदार्थे अधिकरणशक्तिः प्रकटति, येन कटपदार्थस्य अधिकरणसंज्ञा भवति । अनेन प्रकारेण - पदार्थः, तथा च तस्मिन् विद्यमाना शक्तिः - द्वयोः अपि कारकसंज्ञा सम्भवति ।\n<hlb>कारकम्</hlb> तथा <hlb>विभक्तिः</hlb> एतयोर्मध्ये भेदः \nकारकम् इति पदार्थेषु विद्यमाना शक्तेः नाम इति अस्माभिः दृृष्टम् । इमां शक्तिं शब्देन दर्शयितुम् विभक्तिप्रत्ययस्य प्रयोगः क्रियते । यथा, वृक्षात् पर्णं पतति इत्यत्र वृक्षपदार्थे विद्यमानायाः शक्तेः शब्दैः प्रकटीकरणार्थम् वृक्षशब्दात् <<अपादाने पञ्चमी>> [[2.3.28]] इति सूत्रेण पञ्चमीविभक्तेः प्रत्ययः प्रयुज्यते । एवमेव देवदत्तः कटे उपविशति इत्यत्र कटपदार्थे विद्यमानायाः अधिकरणशक्तेः निर्देशार्थम् <<सप्तम्यधिकरणे च>> [[2.3.36]] अस्य सूत्रस्य आधारेण सप्तमीविभक्तेः प्रयोगः क्रियते । एतादृशम् सर्वेषाम् अपि कारकाणाम् शब्दैः प्रकटीकरणार्थम् भिन्नानां विभक्तिप्रत्ययानां उपयोगः भवति । कस्य कारकस्य कृते कः विभक्तिप्रत्ययः प्रयोक्तव्यः - इत्यस्य सूत्राणि <<अनभिहिते>> [[2.3.1]] अस्मिन् अधिकारे पाठितानि सन्ति । " }, "14024": { "sa": "\"एकस्मात् पदार्थात् अपरस्य पदार्थस्य पृथक्करणम्\" अस्यां क्रियायाम् \"यस्मात्\" पृथक्करणं भवति, तत् कारकम् अपादानसंज्ञं भवति । यथा - वृक्षात् पर्णं पतति । ", "sd": "<<कारके>> [[1.4.23]] इत्यस्मिन् अधिकारे यैः अष्टाभिः सूत्रैः अपादानसंज्ञायाः विधानम् क्रियते, तेषु इदं प्रथमम् सूत्रम् । यस्यां क्रियायां अपायः (= विश्लेषः / पृथक्करणम् / separation) विद्यते, तस्यां क्रियायाम् यद् अवधिभूतम् अस्ति, इत्युक्ते यः पदार्थः पृथक्करणस्य सीमां दर्शयति (यस्मात् पदार्थात् अन्यस्य पदार्थस्य अपायः जायते इत्याशयः), सः पदार्थः अपादानम् इति संज्ञां प्राप्नोति । यथा -\n\n
  • 1. वृक्षात् पर्णं पतति इति क्रियायाम् \"पर्णस्य वृक्षात् पृथक्करणं\" भवति । अत्र वृक्षपदार्थः अवधिभूतः, अतः अत्र वृक्षपदार्थस्य अपादानसंज्ञा भवति ।\n
  • 2. देवदत्तः धावतः अश्वात् पतति इति क्रियायाम् \"देवदत्तस्य अश्वात् पृथक्करणं\" भवति । अत्र अश्वपदार्थः अवधिभूतः, अतः अत्र अश्वपदार्थस्य अपादानसंज्ञा भवति ।\n
  • 3. देवदत्तः ग्रामात् निर्गच्छति इति क्रियायाम् \"देवदत्तस्य ग्रामात् पृथक्करणं\" भवति । अत्र ग्रामपदार्थः अवधिभूतः, अतः अत्र ग्रामपदार्थस्य अपादानसंज्ञा भवति ।\n
  • 4. कपिः पर्वताद् अवरोहति इति क्रियायाम् \"कपेः पर्वतात् पृथक्करणं\" भवति । अत्र पर्वतपदार्थः अवधिभूतः, अतः अत्र पर्वतपदार्थस्य अपादानसंज्ञा भवति ।\n
  • 5. देवदत्तः सार्थात् हीनः इति क्रियायाम् \"देवदत्तस्य सार्थात् (= समूहात्) पृथक्करणं\" भवति । अत्र सार्थपदार्थः (समूहपदार्थः) अवधिभूतः, अतः अत्र सार्थपदार्थस्य अपादानसंज्ञा भवति ।\n\n<hlb>ध्रुवम्</hlb> इति शब्दस्य अर्थः\nसूत्रे प्रयुक्तस्य ध्रुवम् इति शब्दस्य अर्थः यद्यपि कोशेषु \"स्थिरः\" इति सामान्यरूपेण दीयते, तथापि अत्र अस्य शब्दस्य अर्थः अवधिभूतः इति स्वीक्रियते । यदि \"ध्रुवम्\" इत्यस्य अर्थः \"स्थिरः\" इति स्वीक्रियेत, तर्हि देवदत्तः धावतः अश्वात् पतति अस्मिन् वाक्ये अश्वपदार्थस्य स्थिरत्व-अभावात् अपादानसंज्ञा नैव स्यात् । परन्तु अत्रापि अपादानसंज्ञा अवश्यम् इष्यते, अतः अत्र \"ध्रुवम्\" इति शब्दस्य अर्थः सः पदार्थः यः पृथक्करणस्य सीमां प्रदर्शयति इति स्वीक्रियते ।\n\nवस्तुतस्तु, ध्रुवम् इत्यस्य अर्थः स्थिरः इत्येव स्वीक्रियते चेदपि अत्र न कश्चन दोषः, यतः \"स्थिरत्वम्\" केवलम् \"पृथक्करणस्य सन्दर्भेण\" अस्ति, अन्यक्रियायाः सन्दर्भेण न । यथा, देवदत्तः धावतः अश्वात् पतति इत्यत्र यद्यपि धावनक्रियानुरोधेन अश्वस्य स्थिरत्वं नास्ति, तथापि पतनक्रियानुरोधेन तस्य स्थिरत्वमेव स्वीक्रियते, यतः अत्र अश्वः स्वयं नैव पतति । अतएव बालमनोरमाकारः ब्रूते - द्वयोः संयुक्तयोरन्यतरस्य चलनाद्विश्लेष इति स्थितिः । तत्र तादृश-चलन-अनाश्रयभूतम् ध्रुवम् । द्वौ पदार्थौ, यौ आदौ संयुक्तौ स्तः (यथा - वृक्षः पर्णं च), ताभ्याम् यदा एकः पदार्थः (पर्णम्) अन्यस्य (वृक्षस्य) अपेक्षया चलनं प्रारभते तदा तत्र विश्लेषः अस्ति इति उच्यते । अस्मिन् विश्लेषे द्वितीयः पदार्थः (वृक्षः) तु प्रथमस्य (पर्णस्य) अपेक्षया स्थिरः एव अस्ति । अयमेव विषयः ध्रुवम् इति शब्देन निर्दिष्टः वर्तते - इति अत्र बालमनोरमाकारस्य आशयः अस्ति । \nवार्त्तिकम् - <!जुगुप्साविरामप्रमादार्थानाम् उपसङ्ख्यानम् !>\nअस्मिन् सूत्रे भाष्ये, काशिकायां च इति वार्त्तिकं पाठ्यते । जुगुप्सा (घृणा, निन्दा), विरामः (परावृत्तिः), तथा च प्रमादः (कर्तव्यविस्मरणम्) - एतेषाम् अर्थानाम् सन्दर्भेण अपि अपादानं भवति - इति अस्य वार्त्तिकस्य आशयः । क्रमेण स्पष्टीकरणम् एतादृशम् -\n\n
  • 1. जुगुप्सा - जुगुप्सा इत्युक्ते निन्दा, घृणा । यस्य पदार्थस्य विषये निन्दा प्राकट्यते, तस्य अपादानसंज्ञा भवति । यथा - पापात् जुगुप्सति । पापस्य निन्दां करोति इत्यर्थः । एवमेव, पापात् बीभत्सते । अत्र द्वयोः अपि उदाहरणयोः पापपदार्थस्य अपादानसंज्ञा भवति ।\n
  • 2. विरामः - विरामः इत्युक्ते कस्माच्चित् पदार्थात् चित्तनिवृत्तिः । यस्मात् पदार्थात् चित्तनिवृत्तिः भवति, तस्य अपादानसंज्ञा भवति । यथा - पापात् विरमति । पापस्य चिन्तनं न करोति इत्याशयः । एवमेव, पापात् निवर्तते । उभयत्र पापपदार्थस्य अपादानसंज्ञा जायते ।\n
  • 3. प्रमादः - प्रमादः इत्युक्ते स्वकर्तव्यात् विमोहः / परावृत्तिः । यस्मात् पदार्थात् एतादृशी परावृत्तिः भवति, तस्य अपादानसंज्ञा भवति । यथा - धर्मात् प्रमाद्यति । स्वधर्मस्य पालनं न करोति इत्याशयः । एवमेव धर्मात् मुह्यति । उभयत्र धर्मशब्दस्य अपादानसंज्ञा भवति ।\n\nअपादानस्य निर्देशार्थम् पञ्चम्याः प्रयोगः\nविभक्तिप्रकरणे <<अपादाने पञ्चमी>> [[2.3.28]] इति सूत्रं पाठ्यते । यस्मिन् पदार्थे अपादानशक्तिः विद्यते, तस्य पदार्थस्य शब्देन निर्देशार्थम् पञ्चमीविभक्तेः प्रयोगः भवति - इति अस्य सूत्रस्य आशयः । यथा, वृक्षात् पर्णं पतति इत्यत्र वृक्षपदार्थे विद्यमानाम् अपादानशक्तिं दर्शयितुम् वृक्षशब्दात् पञ्चमीविभक्तेः प्रत्ययस्य प्रयोगः कृतः अस्ति । \n<pv>अपादानस्य त्रयः भेदाः\nवाक्यपदीये साधनसमुद्देशे भर्तृहरिणा अपादानस्य त्रयः भेदाः उक्ताः सन्ति -\n\nनिर्दिष्टविषयं किंचिदुपात्तविषयं तथा ।\nअपेक्षितक्रियं चेति त्रिधापादानमुच्यते ॥ (वाक्यपदीये 3.7.136)\n\n\nअपादानं त्रिविधम् अस्ति - (अ) निर्दिष्टविषयम् अपादानम्, (आ) उपात्तविषयम् अपादानम्, तथा च (इ) अपेक्षितक्रियम् अपादानम् । एतानि त्रीणि अपि अपादानानि प्रकृतसूत्रेणैव सिद्ध्यन्ति । एतेषाम् अर्थाः, उदाहरणानि च एतादृशानि -\n\n
  • 1. निर्दिष्टविषयम् अपादानम्\nयत्र अपायस्य साक्षात् (प्रत्यक्षरूपेण) निर्देशः दृश्यते, तत् अपादानम् निर्दिष्टविषयम् अपादानम् इत्युच्यते । यथा - वृक्षात् पर्णं पतति, ग्रामाद् आगच्छति, पर्वताद् अवरोहति - इत्यादिकम् । \n
  • 2. उपात्तविषयम् अपादानम्\nउपात्तम् इत्युक्ते कथञ्चित् प्राप्तम् । यत्र अपायस्य साक्षात् (प्रत्यक्षरूपेण) निर्देशः न वर्तते, परन्तु अन्यस्यां कस्यांश्चित् क्रियायाम् \"अपायः\" गर्भितः अस्ति (इत्युक्ते तस्याः क्रियायाः माध्यमेन अपायः जायते), तत्र विद्यमानम् अपादानम् उपात्तविषयम् अपादानम् अस्ति इत्युच्यते । यथा - बलाहकात् विद्युत् विद्योतते (The lightening shines from the clouds) । अत्र विद्योतते इति मुख्या क्रिया अस्ति । परन्तु अस्याः क्रियायाः पूर्त्यर्थम् विद्युतः मेघात् निष्क्रमणम् अपि भवति । अनेन प्रकारेण अत्र मेघात् विद्युतः अपायः अप्रत्यक्षरूपेण विद्योतते अनया क्रियया प्रदर्शितः वर्तते । अतः अत्र \"उपात्तविषयम् अपादानम् अस्ति\" इति स्वीक्रियते । एवमेव, कुसुलात् पचति इत्यस्य अर्थः \"कुसुलदेशात् पचनसामग्रीम् आनीय पचति\" इति अस्ति । अत्रापि मुख्यक्रिया पचति इति अस्ति, तथापि अस्यां क्रियायाम् \"पचनसामग्रेः कुसुलदेशात् पृथक्करणम्\" इति अपायः अपि गर्भितः वर्तते । अतः इदम् अपि उपात्तविषयकस्य अपादानस्य उदाहरणम् । \n
  • 3. अपेक्षितक्रियम् अपादानम्\nयत्र वाक्ये काऽपि क्रिया निर्दिष्टा नास्ति, परन्तु सन्दर्भं दृष्ट्वा समुचितायाः क्रियायाः अध्याहारं च कृत्वा तस्याः आधारेण अपायस्य ज्ञानं भवति, तत्र अपेक्षितक्रियम् अपादानम् अस्ति इत्युच्यते । यथा - कुतो भवान् ? अहं पाटलीपुत्रात् इत्यस्मिन् संवादे न काचित् क्रिया स्पष्टरूपेण दृश्यते । परन्तु अत्र सन्दर्भं दृष्ट्वा \"इयं चर्चा आगमनक्रियायाः सन्दर्भेण अस्ति\" इति निर्णयः भवितुम् अर्हति । अस्याम् आगमनक्रियायाम् पाटलीपुत्रपदार्थस्य अवधिभूतत्वात् अपादानसंज्ञा अपि जायते । इदम् अपेक्षितक्रियम् अपादानम् ।\n<pv><!जुगुप्साविरामप्रमादार्थानाम् उपसङ्ख्यानम् !> इति वार्त्तिकस्य अनावश्यकता\nप्रकृतसूत्रस्य भाष्ये भाष्यकारेण इति वार्त्तिकं अवश्यं पाठितम् अस्ति; परन्तु तत्रैव अग्रे सः इदं वार्त्तिकम् अनावश्यकम् अस्ति इत्यपि ब्रूते -\n\n तत्तर्हीदं बहु वक्तव्यम् ? न वक्तव्यम् । इह तावद् - अधर्माज्जुगुप्सते अधर्माद्बीभत्सते इति। य एष मनुष्यः प्रेक्षापूर्वकारी भवति, स पश्यति - दुःखोऽधर्मो नाऽनेन कृत्यमस्तीति । स बुद्ध्या संप्राप्य निवर्तते । तत्र ध्रुवमपायेऽपादानमित्येव सिद्धम्। इह धर्माद्विरमति धर्मान्निवर्तते इति। धर्मात्प्रमाद्यति धर्मान्मुह्यतीति। इह य एष मनुष्यः संभिन्नबुद्धिर्भवति स पश्यति - नेदं किंचिद्धर्मो नाम नैनं करिष्यामीति । स बुद्ध्या संप्राप्य निवर्तते । तत्र ध्रुवमपायेऽपादानमित्येव सिद्धम् । - महाभाष्यम्\n\nअत्र भाष्यकारस्य आशयः अयम् - जुगुप्सा, विरामः, तथा च प्रमादः इत्येताभिः क्रियाभिः उपात्तविषयम् अपादानं दीयते, यत् सूत्रस्यैव आधारेण ज्ञापयितुम् शक्यम् । तत्कथम् इति चेत्, पापात् जुगुप्सति इत्यत्र आदौ बुद्धौ अहं पापं न करिष्यामि इति निर्णयं कृत्वा, ततः पापात् स्वस्य पृथक्करणं क्रियते, अतः जुगुप्सक्रियायाम् अपायः अवश्यमेव गर्भितः वर्तते । एवमेव, विरामस्य प्रमादस्य चापि विषये बुद्ध्याः निवृत्तिः अवश्यं भवति, अतश्च तत्रापि अपायः अवश्यमेव गर्भितः अस्ति इति भाष्यकारस्य आशयः अस्ति । अनेन प्रकारेण तिसृषु अपि क्रियासु अपायस्य उपस्थितित्वात्, <<ध्रुवमपायेऽपादानम्>> [[1.4.24]] इति प्रकृतसूत्रेणैव त्रयाणाम् अपि विषयाणाम् सन्दर्भेण अपादानसंज्ञा सम्भवति, तदर्थम् पृथक् वार्त्तिकम् अनावश्यकम् एव ज्ञेयम् - इति निर्णयः भाष्यकारेण अत्र दत्तः अस्ति ।" }, "14025": { "sa": "भीत्यर्थकानां त्राणार्थकानां च धातूनां प्रयोगे \"भयस्य कारणम्\" कारकं अपादानसंज्ञं भवति । यथा - चोरात् बिभेति, चोरात् त्रायते । ", "sd": "<<कारके>> [[1.4.23]] इत्यस्मिन् अधिकारे यैः अष्टाभिः सूत्रैः अपादानसंज्ञायाः विधानम् क्रियते, तेषु इदं द्वितीयम् सूत्रम् । भीतिः तथा च त्राणम् (रक्षणम्) एतयोः क्रिययोः सन्दर्भे यः भयस्य कारणम् सः पदार्थः अपादानम् इति संज्ञां प्राप्नोति । \nक्रमेण विवरणम् एतादृशम् -\n\n
  • 1. भीतिः - यस्मात् भयं जायते, तस्य अपादानसंज्ञा भवति । यथा - देवदत्तः चौरेभ्यः बिभेति । अत्र चौराः इति भयस्य कारणम्, अतः तस्य प्रकृतसूत्रेण अपादानसंज्ञा भवति । एवमेव, सर्पाद् भीः, सिंहाद् भयम्, वृश्चिकाद् भीतिः इत्यादिषु वाक्येषु अपि ज्ञेयम् । \n
  • 2. त्राणम् - यस्मात् जायमानात् भयात् रक्षणं क्रियते तस्य अपादानसंज्ञा विधीयते । यथा - देवदत्तः चौरेभ्यः धनं रक्षति । अत्र \"चौराः धनम् अपहरिष्यन्ति\" इति भीतिः मनसि वर्तते, अतश्च धनस्य चौरेभ्यः रक्षणम् अपि क्रियते । अनेन प्रकारेण अत्र भीतेः कारणम् चौराः इति; अतः चौरपदार्थस्य अत्र अपादानसंज्ञा भवति । एवमेव, दुःखात् त्रायते, असुरात् पाति, शत्रुभ्यः अवतात् इत्यादिषु वाक्येषु अपि ज्ञेयम् । \n\"भीतेः यत् कारणम्\" तस्मादेव \"रक्षणम्\" अपि भवति । अतः \"यस्मात् रक्षणं भवति तस्य अपादानम्\" इति उच्यते चेद् अपि न विशेषः दोषः । \n\nदलकृत्यम्\n1. भीत्रार्थानाम् इत्यत्र अर्थग्रहणं किमर्थम् ? - सूत्रे भीत्रार्थानाम् इति पदे अर्थः इति शब्दः प्रयुक्तः अस्ति । अनेन इदं स्पष्टी भवति यत् केवलम् <<भी>> तथा <<त्रै>> इत्येतयोः द्वयोः धात्वोः विषये एव न, अपितु भीत्यर्थकानाम्, रक्षणार्थकानां च अन्येषां धातूनां विषये अपि प्रकृतसूत्रेण अवश्यम् एव अपादानसंज्ञा भवति । अतएव चोरात् विजते तथा च चोरात् रक्षति इत्यादिषु वाक्येषु अपि प्रकृतसूत्रेण अपादानसंज्ञा अवश्यमेव विधीयते ।\n2. हेतुः इति किमर्थम् ? - भयस्य, एवमेव रक्षणस्य च सन्दर्भेण भयस्य यः हेतुः (कारणम्) तस्यैव निर्देशार्थम् अपादानसंज्ञा भवति - इति स्पष्टीकर्तुम् सूत्रे हेतु इति शब्दः प्रयुक्तः वर्तते । अतएव अरण्ये रक्षति / अरण्ये बिभेति इत्यत्र अरण्यपदार्थस्य अपादानसंज्ञा न भवति । अत्र भयस्य कारणम् अरण्यम् इति नास्ति अपितु अरण्ये विद्यमानाः पशवः दस्यवः वा सन्ति, अतश्च अत्र अरण्यशब्दस्य प्रकृतसूत्रेण अपादानसंज्ञा नैव सम्भवति ।\n<pv> भाष्ये सूत्रस्य प्रत्याख्यानम्\nभाष्यकारेण इदं सूत्रम् अनावश्यकम् अस्ति इति उक्त्वा अस्य सूत्रस्य प्रत्याख्यानं कृतं वर्तते । तत्र भाष्यविधानम् इदम् -\n\nअयं योगः शक्योऽवक्तुम् । कथं वृकेभ्यो बिभेति दस्युभ्यो बिभेति, चोरेभ्यस्त्राते दस्युभ्यस्त्रायत इति ? ...य एष मनुष्यः प्रेक्षापूर्वकारी भवति स पश्यति - यदि मां वृकाः पश्यन्ति ध्रुवो मे मृत्युरिति । स बुद्ध्या संप्राप्य निवर्तते , तत्र <<ध्रुवमपायेऽपादानम्>> [[1.4.24]] इत्येव सिद्धम् । इह चौरेभ्यस्त्रायते दस्युभ्यस्त्रायत इति, य एष मनुष्यः प्रेक्षापूर्वकारी सुहृद्भवति स पश्यति - यदीमं चौराः पश्यन्ति ध्रुवमस्य वधबन्धनादिपरिक्लेशा इति । स बुद्ध्या संप्राप्य निवर्तयति । तत्र ध्रुवमपायेऽपादानमित्येव सिद्धम् - महाभाष्यम्\n\nभयस्य हेतुः, इत्युक्ते यस्मात् पदार्थात् भयं जायते, तस्य पदार्थस्य सकाशे न गन्तव्यम् (तस्मात् दूरे एव स्थातव्यम्) इति चिन्तनं कृत्वा बुद्ध्या तस्मात् पदार्थात् आदौ एव निवृत्तिः क्रियते । अनेन प्रकारेण, यद्यपि अत्र साक्षात् अपायः नास्ति, तथापि अत्र बुद्धिकृतः अपायः अवश्यं वर्तते, अतश्च इदम् उपात्तविषयम् अपादानम् एव मत्त्वा ध्रुवमपायेऽपादानम्>> [[1.4.24]] इत्यनेनैव अत्र अपादानसंज्ञा अवश्यं भवितुम् अर्हति , अतश्च पृथक् सूत्रम् अत्र अनावश्यकम् एव - इति अत्र भाष्यकारस्य आशयः वर्तते ।" }, "14026": { "sa": "\"पराजयते\" (ग्लायति / त्रस्तः भवति / न सहते) इत्यस्य प्रयोगे यः असह्य-पदार्थः. तत् कारकम् अपादानसंज्ञं भवति । यथा - छात्रः अध्ययनात् पराजयते । ", "sd": "<<कारके>> [[1.4.23]] इत्यस्मिन् अधिकारे यैः अष्टाभिः सूत्रैः अपादानसंज्ञायाः विधानम् क्रियते, तेषु इदं तृतीयं सूत्रम् । पराजयते (न सहते / ग्लायति / त्रस्तः भवति) इत्यस्य प्रयोगे यम् न सहते (यस्मात् त्रस्यति) तस्य प्रकृतसूत्रेण अपादानसंज्ञा भवति । यथा - छात्रः अध्ययनात् पराजयते । अत्र \"छात्रः अध्ययन सोढुम् अशक्तः अस्ति\" इति अर्थः वर्तते । इत्युक्ते अत्र अध्ययनम् इति असह्यः पदार्थः अस्ति । अतः अस्य पदार्थस्य प्रकृतसूत्रेण अपादानसंज्ञा भवति । एवमेव रावणः रामात् पराजयते इत्युक्ते रावणः रामं सोढुं न शक्नोति इति अर्थः सिद्ध्यति ।\nजि-धातोः विषये\nधातुपाठे <<जि>> इत्याख्यौ द्वौ धातू स्तः - \n\n
  • 1. << जि जये>> <{1.642}> - अयं धातुः उत्कर्षः भवति इत्यस्मिन् अर्थे प्रयुज्यते । यथा - जयतु संस्कृतम् । \"संस्कृतस्य उत्कर्षः भवेत्\" इति अस्य अर्थः वर्तते । अयं धातुः अकर्मकः अस्ति । अस्य प्रकृतसूत्रेण ग्रहणं न क्रियते ।\n
  • 2. <<जि अभिभवे>> <{1.1096}> - अभिभवः इत्युक्ते पराभवः । धातुपाठे अस्य शब्दस्य द्वौ अर्थौ दत्तौ स्तः --\ni. न्यूनीकरणम् - इत्युक्ते विजयं प्राप्नोति इति । यथा - रामः रावणं जयति / रामः रावणं विजयते / रामः रावणं पराजयते । अत्र जि-धातुः अभिभवः (न्यूनीकरणम्) इत्यस्मिन् अर्थे प्रयुक्तः अस्ति । अस्य अपि प्रकृतसूूत्रे ग्रहणं न भवति । \nii. न्यूनीभवनम् - इत्युक्ते त्रस्तः भवति, सोढुं न शक्नोति, त्रस्यति, दूरे गच्छति इति । अस्मिन् अर्थे अयं धातुः परा इति उपसर्गेण सह एव प्रयुज्यते, तथा च तस्मिन् प्रयोगे <<विपराभ्यां जेः>> [[1.3.19]] इति सूत्रेण जि-धातोः केवलम् आत्मनेपदस्यैव प्रत्ययाः भवन्ति । अस्य अर्थस्य प्रकृतसूत्रे ग्रहणं कृतम् अस्ति । यस्मात् पदार्थात् कश्चन त्रस्तः भवति, इत्युक्ते यं पदार्थं सोढुं न शक्नोति, तस्य पदार्थस्य प्रकृतसूत्रेण अपादानसंज्ञा भवति । यथा, छात्रः अध्ययनात् पराजयते ।\n\nदलकृत्यम्\n1. असोढः इति किमर्थम् ? यदि पराजयते इति धातुः न्यूनीकरणम् इत्यस्मिन् अर्थे प्रयुज्यते, तर्हि तत्र प्रकृतसूत्रस्य प्रयोगः न भवति । यथा - रामः रावणं पराजयते । अत्र \"रामः रावणस्य हानिं करोति\" / \"रावणं न्यूनीकरोति\" इति अर्थः अस्ति, न हि \"रामः रावणम् असह्य तस्मात् दूरे गच्छति\" इति । अतः अत्र प्रकृतसूत्रस्य प्रयोगः न भवति ।\n\n<pv> भाष्ये सूत्रस्य प्रत्याख्यानम्\nभाष्यकारेण इदं सूत्रम् अनावश्यकम् अस्ति इति उक्त्वा अस्य सूत्रस्य प्रत्याख्यानं कृतं वर्तते । तत्र भाष्यविधानम् इदम् -\n\nअयं योगः शक्योऽवक्तुम् । कथम्-अध्ययनात्पराजयते इति ? य एष मनुष्यः प्रेक्षापूर्वकारी भवति ,स पश्यति - दुःखमध्ययनं दुर्धरं च, गुरवश्च दुरुपचारा इति,स बुद्ध्या संप्राप्य निवर्तते , तत्र <<ध्रुवमपायेऽपादानम्>> [[1.4.24]] इत्येव सिद्धम् । - महाभाष्यम्\n\nयः छात्रः अध्ययनं न सहते / अध्ययनात् त्रस्तः भवति, तस्य बुद्धिः अपि अध्ययनात् अवश्यं निवर्तते । अनेन प्रकारेण, यद्यपि अत्र साक्षात् अपायः नास्ति, तथापि अत्र बुद्धिकृतः अपायः अवश्यं वर्तते, अतश्च इदम् उपात्तविषयम् अपादानम् एव मत्त्वा <<ध्रुवमपायेऽपादानम्>> [[1.4.24]] इत्यनेनैव अत्र अपादानसंज्ञा अवश्यं भवितुम् अर्हति , अतश्च पृथक् सूत्रम् अत्र अनावश्यकम् एव - इति अत्र भाष्यकारस्य आशयः वर्तते ।" }, "14027": { "sa": "\"वारणं करोति\" इत्यर्थकानां धातूनां प्रयोगे \"यः पदार्थः ईप्सितः\" तत् कारकम् अपादानसंज्ञं भवति । यथा - यवेभ्यः गां वारयति । ", "sd": "<<कारके>> [[1.4.23]] इत्यस्मिन् अधिकारे यैः अष्टाभिः सूत्रैः अपादानसंज्ञायाः विधानम् क्रियते, तेषु इदं चतुर्थं सूत्रम् । वारयति (अवरोधं करोति) इत्यस्य प्रयोगे यः पदार्थः ईप्सितः (प्राप्तुम् इष्टः) अस्ति तस्य प्रकृतसूत्रेण अपादानसंज्ञा भवति । यथा, यदि काचित् गौः यवान् भक्षयितुम् यत्नं करोति, तर्हि अस्यां क्रियायाम् इप्सितः पदार्थः \"यवः\" इति विद्यते, अतश्च वारणक्रियायाः सन्दर्भेण यवपदार्थस्य अत्र प्रकृतसूत्रेण अपादानसंज्ञा भवति, येन यवेभ्यः गां वारयति इति प्रयोगः सिद्ध्यति । एवमेव, माता पुत्रम् मधुरात् वारयति, पिता माणवकम् अग्नेः वारयति इत्यादयः प्रयोगाः सिद्ध्यन्ति ।\nकर्तुः ईप्सितः उत कर्मणः ईप्सितः? \nईप्सित (= आप् + सन् + क्त) इति शब्दस्य अर्थः अभिलषितः, प्राप्तुम् इष्टः इति अस्ति । यवेभ्यः गां वारयति इत्यादिषु वाक्येषु यवानाम् ईप्सितत्वात् (प्राप्तुम् इष्टत्वात्) वारणक्रियायाः संदर्भेण प्रकृतसूत्रेण तेषाम् अपादानसंज्ञा भवति । अत्र वारणक्रियायाम् आहत्य त्रयः पदार्थाः वर्तन्ते -\n\n
  • 1. यः वारयति सः = कर्ता ।\n
  • 2. यस्य वारणं भवति तत् = कर्म ।\n
  • 3. यः ईप्सितः पदार्थः = अपादानम् ।\n\nअत्र सहजः एव प्रश्नः उदेति - कस्य ईप्सितः ? कर्तुः ईप्सितः उत कर्मणः ईप्सितः ? - इति । अस्य उत्तरम् अस्ति - ईप्सित इति शब्दस्य अन्वयः कर्तृपदेन सह अपि कर्तुं शक्यते, अथ वा कर्मपदेन अपि कर्तुं शक्यते । यथा, देवदत्तः यवेभ्यः गां वारयति इत्यत्र -\n\n
  • 1. \"देवदत्तस्य ईप्सिताः यवाः सन्ति, अतः गौः तान् न खादेत् इति हेतुना देवदत्तः गां यवान् प्रति गन्तुम् अवरुणद्धि\" - इति आशयः स्वीक्रियते चेत् कर्तुः यद् ईप्सितम्, तस्मात् कर्मणः वारणम् क्रियते इति अर्थः सम्भवति ।\n
  • 2. \"गोः ईप्सिताः यवाः सन्ति, अतः गौः तां खादितुम् प्रयतते ; तस्मात् कार्यात् देवदत्तः गाम् अवरुणद्धि:\" - इति आशयः स्वीक्रियते चेत् कर्मणः यद् ईप्सितम् तस्मात् कर्मणः एव वारणं क्रियते - इति अर्थः सम्भवति ।\n\nअनेन प्रकारेण कस्यापि ईप्सिततत्वं स्वीकृत्य प्रकृतसूत्रस्य प्रयोगः अवश्यं कर्तुं शक्यते । तथापि सामान्यरूपेण कर्मणः ईप्सितम् इत्यस्मिन् पक्षे उदाहरणानि सरलरूपेण घटन्ति, अतश्च भाष्ये अपि अस्यैव अर्थस्य पुरस्कारः कृतः दृश्यते । अस्मिन् विषये अधिकं पिपठिषवः सिद्धान्तकौमुद्याः बालमनोरमाव्याख्यानं पश्येयुः ।\n<hl>वारणम्</hl> इति शब्दस्य अर्थः \nसिद्धान्तकौमुद्यां वारणम् इति शब्दस्य अर्थः प्रवृत्तिविघातः इति दीयते । प्रवृत्तिः इत्युक्ते ईप्सितं पदार्थं प्राप्तुम् कृतः यत्नः । अस्मात् यत्नात् कृतः विघातः (विरोधः) वारणम् इत्यनेन निर्दिश्यते । यथा गोः \"यवाः\" \n इति ईप्सितः पदार्थः, अतः गौः यवान् प्रति गन्तुं प्रयतते । एतादृशी गौः यवानां समीपे नैव गच्छेत् इति हेतुना कृतः यत्नः एव वारणम् नाम्ना ज्ञायते । अस्यां क्रियायाम् ईप्सितपदार्थस्य (इत्युक्ते, यवानाम्) प्रकृतसूत्रेण अपादानसंज्ञा भवति, अतश्च यवेभ्यः गां वारयति इति प्रयोगः सिद्ध्यति ।\nदलकृत्यम्\n1. ईप्सितः इति किमर्थम् ? - वारणक्रियायां यः पदार्थः ईप्सितः नास्ति तस्य अपादानसंज्ञा न भवति । यथा, देवदत्तः क्षेत्रे गवेभ्यः गां वारयति इत्यत्र गोः कृते \"क्षेत्रे विद्यमानाः यवाः\" ईप्सिताः सन्ति, क्षेत्रम् स्वयं न । देवदत्तस्य कृते अपि, वारणक्रियायाः सन्दर्भेण \"क्षेत्रम्\" इति ईप्सितम् न, अपितु तत्रस्थाः \"यवाः\" एव ईप्सिताः । अतश्च अत्र क्षेत्रपदार्थस्य प्रकृतसूत्रेण अपादानसंज्ञा न भवति ।\n<pv> भाष्ये सूत्रस्य प्रत्याख्यानम्\nभाष्यकारेण \"इदं सूत्रम् अनावश्यकम् अस्ति\" इति उक्त्वा अस्य सूत्रस्य प्रत्याख्यानं कृतं वर्तते । तत्र भाष्यविधानम् इदम् -\n\nअयमपि योगः शक्योऽवक्तुम् । कथं माषेभ्यो गा वारयतीति ? पश्यत्ययं यदीमा गावस्तत्र गच्छन्ति ध्रुवः सस्यविनाशः, सस्यविनाशेऽधर्मश्चैव राजभयं च । स बुद्ध्या सम्प्राप्य निवर्तयति । तत्र <<ध्रुवमपायेऽपादानम्>> [[1.4.24]] इत्येव सिद्धम् । - महाभाष्यम्\n\nमाषेभ्यः गां वारयति इत्यादिषु प्रयोगेषु \"गौः माषान् प्रति न गच्छेत्\" इति हेतुना कर्ता आदौ बुद्धौ \"माषेभ्यः गौः पृथक् एव तिष्ठेत्\" इति चिन्तयित्वा तदनन्तरं तादृशीं स्थितिं प्रत्यक्षीकर्तुं गां वारयति । इत्युक्ते, अत्र वारणक्रियायां बुद्धिकृतः अपायः अवश्यं वर्तते, अतश्च इदम् उपात्तविषयम् अपादानम् एव मत्त्वा ध्रुवमपायेऽपादानम्>> [[1.4.24]] इत्यनेनैव अत्र अपादानसंज्ञा अवश्यं भवितुम् अर्हति , अतश्च पृथक् सूत्रम् अत्र अनावश्यकम् एव - इति अत्र भाष्यकारस्य आशयः वर्तते ।" }, "14028": { "sa": "व्यवधानस्य आधारेण यस्मात् अदर्शनम् इष्यते, तत् कारकम् अपादानसंज्ञं भवति । यथा - कृष्णः मातुः निलीयते । ", "sd": "<<कारके>> [[1.4.23]] इत्यस्मिन् अधिकारे यैः अष्टाभिः सूत्रैः अपादानसंज्ञायाः विधानम् क्रियते, तेषु इदं पञ्चमं सूत्रम् । यत्र कस्यचित् व्यवधानस्य साहाय्यं स्वीकृत्य \"अदर्शनं भवेत्\" इति इच्छा विद्यते, तत्र यस्मात् अदर्शनं भवेत् तस्य अपादानसंज्ञा भवति । यथा, यदि कृष्णः \"माता मां न पश्येत्\" इति हेतुना भित्तेः पृष्ठतः तिष्ठति, तर्हि तत्र कृष्णः मातुः निलीयते इति प्रयोगः सम्भवति । अत्र कृष्णः मातृपदार्थात् अदर्शनम् इच्छति, अतः प्रकृतसूत्रेण मातृपदार्थस्य अपादानसंज्ञा भवति । एवमेव, शिष्यः उपाध्यायात् अन्तर्धत्ते इति प्रयोगः अपि सिद्ध्यति । \n<hlb>अन्तर्धिः</hlb> इति शब्दस्य अर्थः\nप्रकृतसूत्रे विद्यमानः अन्तर्धौ इति शब्दः अन्तर्धिः इत्यस्य सप्तम्येकवचनम् अस्ति । अन्तर्धिः इत्युक्ते व्यवधानम् / आच्छादनम् / तिरोधानम् (hinderence / cover etc) । वृक्षः, भित्तिः, गौः इत्यादिकस्य पदार्थस्य व्यवधानरूपेण प्रयोगं कृत्वा \"कश्चन माम् न पश्येत्\" इति इच्छा यदा क्रियते तदा सः पदार्थः अन्तर्धिः इति नाम्ना ज्ञायते । अस्याः अन्तर्धेः उपस्थितौ, यस्मात् अदर्शनम् इष्यते तस्य प्रकृतसूत्रेण अपादानसंज्ञा दीयते ।\nदलकृत्यम्\n1. \"अन्तर्धिः\" इति किमर्थम् ? यदि व्यवधानं नास्ति तर्हि प्रकृतसूत्रस्य प्रयोगः न भवति । यथा, चौराः माम् न पश्येयुः इति केवलं इच्छा क्रियते; परन्तु तदर्थम् चौरेभ्यः गूहितुम् अन्तर्धेः आधारः नैव स्वीक्रियते, तत्र प्रकृतसूत्रेण चौरपदार्थस्य अपादानसंज्ञा नैव भवति ।\n2. \"येन\" इति किमर्थम् ? यः स्वयं भित्त्यादीनां पृष्ठतः स्थित्वा गूहति, तेन कृतस्य अदर्शनस्य विषये अत्र चिन्तनं नास्ति; अपितु यस्मात् गूह्यते सः गूढस्य दर्शनं न कुर्यात् इति अत्र इच्छा वर्तते । The person who is hiding behind a wall etc wishes that the other person should not see him. Whether the hidden person sees the other person is irrelevant here. एतत् स्पष्टीकर्तुम् एव अस्मिन् सूत्रे येन इति शब्दः प्रयुक्तः अस्ति । \n3. \"इच्छति\" इति किमर्थम्? \"अदर्शनम् अभवत् उत न\" इति विषयं विना एव, केवलम् इच्छायाः सन्दर्भेण अपि प्रकृतसूत्रस्य प्रयोगः अवश्यम् सम्भवति - इति स्पष्टीकर्तुम् प्रकृतसूत्रे \"इच्छति\" इति शब्दः प्रयुक्तः अस्ति । यथा, यत्र कृष्णः \"माता मां न पश्येत्\" इति हेतुना भित्तेः पृष्ठे गूहति, तत्र \"माता वस्तुतः कृष्णम् पश्यति उत न पश्यति\" इत्यस्य चिन्तनं विनैव प्रकृतसूत्रस्य प्रयोगं कृत्वा कृष्णः मातुः निलीयते इति प्रयोगः अवश्यं सिद्ध्यति, यतः कृष्णस्य मनसि \"माता मां न पश्येत्\" इति इच्छा तु अवश्यमेव वर्तते । \n<pv> भाष्ये सूत्रस्य प्रत्याख्यानम्\nभाष्यकारेण \"इदं सूत्रम् अनावश्यकम् अस्ति\" इति उक्त्वा अस्य सूत्रस्य प्रत्याख्यानं कृतं वर्तते । तत्र भाष्यविधानम् इदम् -\n\nअयमपि योगः शक्योऽवक्तुम् । कथम् - उपाध्यायादन्तर्धत्त इति ? पश्यत्ययं यदि मामुपाध्यायः पश्यति ध्रुवं मे प्रेषणमुपालम्भो वेति ,स बुद्ध्या सम्प्राप्य निवर्तते । । तत्र <<ध्रुवमपायेऽपादानम्>> [[1.4.24]] इत्येव सिद्धम् । - महाभाष्यम्\n\nछात्रः उपाध्यायात् अन्तर्धत्ते इत्यादिषु प्रयोगेषु छात्रः \"उपाध्यायः मां न पश्येत्\" इति हेतुना अन्तर्धेः साहाय्यं स्वीकरोति । इत्युक्ते, आदौ छात्रः उपाध्यायस्य दर्शनात् स्वस्य निवर्तनं चिन्तयति, ततश्च अन्तर्धेः आधारेण \"उपाध्यायः मां न पश्येत्\" इति इच्छति । अनेन प्रकारेण अत्र अदर्शनक्रियायाम् प्रारम्भे बुद्धिकृतः अपायः अवश्यं वर्तते, अतश्च इदम् उपात्तविषयम् अपादानम् एव मत्त्वा ध्रुवमपायेऽपादानम्>> [[1.4.24]] इत्यनेनैव अत्र अपादानसंज्ञा अवश्यं भवितुम् अर्हति , तदर्थम् पृथक् सूत्रम् अत्र अनावश्यकम् एव - इति अत्र भाष्यकारस्य आशयः वर्तते ।\n\n" }, "14029": { "sa": "नियमरूपेण विद्यायाः यस्मात् ग्रहणं भवति तत् कारकम् अपादानसंज्ञं भवति । यथा - उपाध्यायाद् अधीते ।", "sd": "<<कारके>> [[1.4.23]] इत्यस्मिन् अधिकारे यैः अष्टाभिः सूत्रैः अपादानसंज्ञायाः विधानम् क्रियते, तेषु इदं षष्ठं सूत्रम् । यत्र विधिपुरस्सरम् अध्ययनं (ज्ञानग्रहणं) भवति तत्र अध्यापकस्य प्रकृतसूत्रेण अपादानसंज्ञा भवति । यथा, देवदत्तः उपाध्यायात् अधीते । अत्र \"देवदत्तः नियमपूर्वकं विद्याग्रहणं करोति\" इति आशयः वर्तते, अतः अत्र \"यस्मात् ज्ञानग्रहणं क्रियते\" तस्य (= उपाध्यायस्य) अपादानसंज्ञा भवति । एवमेव उपाध्यायाद् आगमयति अत्रापि अनेनैव सूत्रेण अपादानसंज्ञा क्रियते ।\n<hlb>उपयोग:</hlb> इति शब्दस्य अर्थः\nप्रकृतसूत्रे प्रयुक्तस्य उपयोगः इति शब्दस्य अत्र अर्थः वर्तते नियमपूर्वकम् विद्याग्रहणम् । वेदादिकानां अध्ययनस्य परम्परयाः निर्णिताः केचन नियमाः वर्तन्ते । यथा - छात्रः भिक्षार्थम् अटेत्, छात्रः भूमौ शयीत, छात्रः प्रतिदिनं पाठस्य कण्ठस्थीकरणं कुर्यात् - इत्यादयः । एतान् नियमान् अनुसृत्य यथोचितं मार्गेण यदा छात्रः आचार्यस्य सकाशे विद्याध्ययनं करोति, तदा तद् अध्ययनम् उपयोगः इति नाम्ना ज्ञायते । अयमेव अर्थः अस्मिन् सूत्रे स्वीकृतः अस्ति । एतादृशस्य उपयोगस्य सन्दर्भेण यस्मात् ज्ञानं स्वीक्रियते (यः आख्याता = अध्यापकः) तस्य प्रकृतसूत्रेण अपादानसंज्ञा भवति ।\n<hlb>आख्याता</hlb> शब्दस्य अर्थः\nप्रकृतसूत्रे प्रयुक्तः आख्याता (प्रातिपदिकम् - आख्यातृ) इति शब्दः अध्यापकः / वक्ता अस्मिन् अर्थे प्रयुक्तः अस्ति । यः वक्ता स्वमुखात् ज्ञानं ददाति, तस्य प्रकृतसूत्रेण अपादानसंज्ञा इष्यते, एतत् स्पष्टीकर्तुम् अत्र आख्याता इति शब्दः प्रयुज्यते ।\nदलकृत्यम्\n1. उपयोगे इति किमर्थम् ? - यदि नियमरूपेण विद्यायाः ग्रहणं न भवति, तर्हि तत्र प्रकृतसूत्रस्य प्रयोगः न क्रियते । यथा - नटस्य गाथां शृणोति इत्यत्र नटेन उक्तानि वाक्यानि श्रोता अवश्यमेव शृणोति, परन्तु तत्र श्रोता तेषां सनियमम् अध्ययनम् नैव करोति, न वा तस्मिन् सन्दर्भे भिक्षाटनादिकं कार्यम् अपि करोति । अतः अत्र प्रकृतसूत्रस्य प्रयोगः न भवति । \n<pv> भाष्ये सूत्रस्य प्रत्याख्यानम्\nभाष्यकारेण \"इदं सूत्रम् अनावश्यकम् अस्ति\" इति उक्त्वा अस्य सूत्रस्य प्रत्याख्यानं कृतं वर्तते । तत्र भाष्यविधानम् इदम् -\n\nअयमपि योगः शक्योऽवक्तुम् । कथम्-उपाध्यायादधीत इति ?. अपक्रामति तस्मात्तदध्ययनम् । यद्यपक्रामति, किं नात्यन्तायाऽपक्रामति ? सन्ततत्वात् । - महाभाष्यम्\n\nउपाध्यायात् अधीते इत्यादिषु प्रयोगेषु उपाध्यायस्य मुखात् शब्दानाम् अपायः (पृथक्करणं) भवति, ततश्च ते एव शब्दाः श्रोतुः कर्णाभ्याम् तस्य बुद्धौ ज्ञानं संस्थापयन्ति । अनेन प्रकारेण अत्र अध्ययनक्रियायाम् शब्दानाम् पृथक्करणम् गर्भितम् एव अस्ति, इत्युक्ते अत्र अपायः अवश्यं वर्तते, अतश्च इदम् उपात्तविषयम् अपादानम् एव मत्त्वा ध्रुवमपायेऽपादानम्>> [[1.4.24]] इत्यनेनैव अत्र अपादानसंज्ञा अवश्यं भवितुम् अर्हति , तदर्थम् पृथक् सूत्रम् अत्र अनावश्यकम् एव - इति अत्र भाष्यकारस्य आशयः वर्तते ।\n" }, "14030": { "sa": "जननक्रियायाः यः हेतुः (कारणम्) तत् कारकम् अपादानसंज्ञं भवति । यथा - शृङ्गात् शरः जायते । ", "sd": "<<कारके>> [[1.4.23]] इत्यस्मिन् अधिकारे यैः अष्टाभिः सूत्रैः अपादानसंज्ञायाः विधानम् क्रियते, तेषु इदं सप्तमं सूत्रम् । जननक्रियायाम् (इत्युक्ते निर्माणस्य क्रियायाम्) य पदार्थः हेतुरूपेण (कारणरूपेण) प्रयुज्यते तस्य प्रकृतसूत्रेण अपादानसंज्ञा भवति । यथा - शृङ्गात् शरः जायते । अत्र शरस्य निर्माणे शृङ्गपदार्थः कारणम्, अतः तस्य प्रकृतसूत्रेण अपादानसंज्ञा भवति ।\n<hlb>जनिकर्तुः</hlb> इति शब्दस्य अर्थः \nअस्मिन् सूत्रे प्रयुक्तम् जनिकर्तुः इति पदम् समस्तपदम् अस्ति । जनिः इत्युक्ते जननम् (जन्मप्राप्तिः) । <<जन्>>-धातोः धात्वर्थनिर्देशार्थम् <<इण्>> इति प्रत्ययं सयोज्य जनि इति शब्दः सिद्ध्यति । अस्याः जननक्रियायाः यः कर्ता (इत्यक्ते यः जायते) सः जनिकर्ता (प्रातिपदिकं जनिकर्तृ इति) इत्यनेन पदेन निर्दिश्यते । अस्य जनिकर्तुः निर्माणे यत् कारणम् , तस्य पदार्थस्य प्रकृतसूत्रेण अपादानसंज्ञा भवति । यथा, शरस्य निर्माणम् शृङ्गात् भवति, अतः शृङ्गात् शरः जायते इति प्रयोगः सिद्ध्यति ।\n<hlb>प्रकृति:</hlb> इति शब्दस्य अर्थः\nअस्मिन् सूत्रे विद्यमानः प्रकृतिः इति शब्दः कारणम् / हेतुः अस्मिन् अर्थे प्रयुक्तः अस्ति । जननक्रियायाः कारणम् - इत्युक्ते यस्य पदार्थस्य साहाय्येन निर्माणं भवति - सः अत्र प्रकृतिशब्देन निर्दिश्यते । अस्य पदार्थस्य प्रकृतसूत्रेण अपादानसंज्ञा भवति । इयं प्रकृतिः द्विधा भवति -\n\n
  • 1. उपादानकारणम् - तत् कारणम् यस्मिन् परिवर्तनं कृत्वा नूतनपदार्थस्य निर्माणं भवति । यथा, मृद् इति घटस्य उपादानकारणम् । एवमेव शृङ्गः इति शरस्य उपादानकारणम् । अस्य उपादानकारणस्य प्रकृतसूत्रेण अपादानसंज्ञा सम्भवति, अतएव मृदः घट: जायते, शृङ्गात् शरः जायते इत्यादीनि वाक्यानि सिद्ध्यन्ति । \n
  • 2. सहकारिकारणम्- तत् कारणम् यत् निर्माणक्रियायां सहकार्यं करोति । यथा, घटनिर्माणकार्ये जलम्, अग्निः, कुम्भकारः - एते सर्वे सहकारिणः । एतादृशस्य सहकारिकारणस्य अपि प्रकृतसूत्रेण ग्रहणं भवति । अतएव पुत्रात् प्रमोदः जायते इति वाक्यम् सिद्ध्यति । अत्र प्रमोदः साक्षात् पुत्रस्य अंशेन (पुत्रे परिवर्तनं कृत्वा) निर्मितः नास्ति, अपितु पुत्रं दृष्ट्वा मनसि उद्भवति । अतः अत्र पुत्रः इति प्रमोदस्य सहकारिकारणम् वर्तते । अस्यापि प्रकृतसूत्रेण अपादानसंज्ञा भवति । एवमेव कामात् क्रोधः जायते इत्यत्रापि कामः इति क्रोधस्य सहकारिकारणम्, अतः तस्य अपि प्रकृतसूत्रेण अपादानसंज्ञा भवति । \nसहकारिकारणस्य नित्यम् अपादानसंज्ञा एव भवेत् इति न आवश्यकम् । कारकप्रकरणम् एकसंज्ञाधिकारे विद्यते, अतः अग्रे विद्यमानाः सम्प्रदानादिसंज्ञाः परत्वात् एकसंज्ञाधिकारत्वात् च अपादानसंज्ञां अवश्यं बाधितुम् अर्हन्ति । अतएव घटनिर्माणे अग्नेः अपादानसंज्ञां बाधित्वा करणसंज्ञा भवति, एवमेव देवदत्तस्य अपादानसंज्ञां बाधित्वा कर्तृसंज्ञा विधीयते ।\n\nसिद्धान्तकौमुद्यां भट्टोजिदीक्षितः अस्य सूत्रस्य ब्रह्मणः प्रजा: प्रजायन्ते इति उदाहरणं पाठयति । अस्य उदाहरणस्य द्वेधा अर्थसङ्गतिः सम्भवति -\n\n1. ब्रह्मन् इति शब्दः परब्रह्म अस्मिन् अर्थे स्वीक्रियते चेत् \"इयं सर्वा प्रजा ब्रह्मणः एव अंशः\" इत्यस्मिन् अर्थे ब्रह्मन् इत्यस्य उपादानत्वेन प्रकृतसूत्रेण अस्य अपादानसंज्ञा भवितुम् अर्हति ।\nअथवा,\n2. ब्रह्मन् इति शब्दः ब्रह्मदेवः अस्मिन् अर्थे स्वीक्रियते चेत् प्रजानिर्माणे ब्रह्मणः सहकारिकारणत्वं सिद्ध्यति, यतः ब्रह्मदेवात् साक्षात् सम्पूर्णा सृष्टिः न निर्मिता, अपितु ब्रहदेवात् मनोः शतरूपायाः च निर्माणम्, ततः च ताभ्याम् अन्येषाम् निर्माणम् जातम् । अत्रापि अस्य सहकारिकारणस्य प्रकृतसूत्रेण अपादानसंज्ञा सिद्ध्यति ।\n\nअस्य सूत्रस्य विषये भाष्ये केवलम् उपादानकारणस्य एव उदाहरणानि लभ्यन्ते । अतएव अस्य सूत्रस्य प्रयोगः केवलम् उपादानकारणस्य विषये एव भवति, सहकारिकारणस्य विषये न - इति पक्षः कैयटेन, नागेशेन च स्वीकृतः वर्तते । अस्मिन् विषये अधिकं पिपठिषवः प्रदीपोद्द्योतं, लघुशब्देन्दुशेखरं च पश्येयुः । काशिकायां तु द्वौ अपि पक्षौ उक्तौ स्तः । कौमुद्याम् अपि उभयोः तादृशमेव उदाहरणं दत्तं वर्तते येन उभयोः अपि पक्षयोः साधुत्वं वक्तुं शक्यम् । \n<hlb>गोमयात् वृश्चिकः जायते</hlb> इति उदाहरणम्\nप्रकृतसूत्रे काशिकायाम्, भाष्ये च गोमयात् वृश्चिकः जायते (A scoprion is created from cow-dung) इति उदाहरणं दत्तम् अस्ति । यद्यपि गोमयात् वृश्चिकस्य निर्माण नैव शक्यम्, तथापि लोके सामान्यतः गोमयात् एव वृश्चिकं बहिः आगतं दृष्ट्वा जनाः (कथञ्चित्) गोमयम् वृश्चिकस्य उपादानकारणरूपेण एव स्वीकुर्वन्ति । एवमेव भाष्ये अविलोमभ्यः दूर्वाः जायन्ते इति अपरम् उदाहरणम् अपि दत्तम् अस्ति । अविः इत्युक्ते मेषः । \"मेषस्य लोमानि (केशाः) भूमौ निखन्यन्ते (burried) चेत् तेभ्यः दूर्वाः उद्भवन्ति\" इति सामान्यतः लोके स्वीक्रियते, अतः अत्रापि अवि-लोमानि इति दूर्वाणाम् उपादानकारणरूपेण एव भाष्ये निर्दिष्टानि सन्ति । \n<pv> भाष्ये सूत्रस्य प्रत्याख्यानम्\nभाष्यकारेण \"इदं सूत्रम् अनावश्यकम् अस्ति\" इति उक्त्वा अस्य सूत्रस्य प्रत्याख्यानं कृतं वर्तते । तत्र भाष्यविधानम् इदम् -\n\nअयमपि योगः शक्योऽवक्तुम् । कथं गोमयाद्वृश्चिको जायते। गोलोमाऽविलोमभ्यो दूर्वा जायन्ते इति ? अपक्रामन्ति तास्तेभ्यः । - महाभाष्यम्\n\nगोमयात् वृश्चिकः जायते इत्यादिषु उदाहरणेषु वृश्चिकाः गोमयात् बहिः आगत्य पृथक् भवन्ति, अतश्च अत्र अपायः अवश्यम् गर्भितः अस्ति । किञ्च, मृदः घटः जायते इत्यादिषु उदाहरणेषु अपि मृत्-पदार्थात् घट-पदार्थस्य बुद्ध्या पृथक्करणं कृत्वा ततः एव घट इति भिन्नं नाम दीयते, अतश्च तत्रापि अपायः अवश्यमेव दृश्यते । अतश्च इदम् उपात्तविषयम् अपादानम् इत्येव मत्त्वा ध्रुवमपायेऽपादानम्>> [[1.4.24]] इत्यनेनैव अत्र अपादानसंज्ञा अवश्यं भवितुम् अर्हति , तदर्थम् पृथक् सूत्रम् अत्र अनावश्यकम् एव - इति अत्र भाष्यकारस्य आशयः वर्तते ।\n\n" }, "14031": { "sa": "यस्मात् कश्चन पदार्थः प्रथमं प्रकाशते, तत् कारकम् अपादानसंज्ञं भवति । यथा - हिमवतः गङ्गा प्रभवति ।", "sd": "<<कारके>> [[1.4.23]] इत्यस्मिन् अधिकारे यैः अष्टाभिः सूत्रैः अपादानसंज्ञायाः विधानम् क्रियते, तेषु इदं अन्तिमं सूत्रम् । प्रभवनम् (= प्रथमवारं प्रकाशनम् / बहिः आगमनम् / प्रकटनम्) अस्याः क्रियायाः सन्दर्भे यस्मात् प्रकटनं भवति तस्य प्रकृतसूत्रेण अपादानसंज्ञा दीयते । यथा, हिमालयात् गङ्गा प्रभवति । अत्र गङ्गायाः उगमः हिमालयस्य भूमौ भवति, ततश्च सा हिमालयात् प्रथमम् बहिः आगच्छति, अतश्च हिमालयपदार्थस्य अत्र अपादानसंज्ञा भवति । एवमेव, काश्मीरेभ्यः वितस्ता प्रभवति इत्यत्रापि काश्मीरपदार्थस्य प्रकृतसूत्रेण अपादानसंज्ञा भवति ।\n<hlb>प्रभवः</hlb> इति शब्द:\nअस्मिन् सूत्रे प्रभवः इति शब्दः प्रयुक्तः अस्ति । अस्य शब्दस्य व्युत्पत्तिः दीयते - प्रभवति अस्मात् इति प्रभवः । प्रभवति इत्युक्ते प्रथमं प्रकाशते / प्रकटति इति । यस्मात् पदार्थात् कश्चन पदार्थः प्रथमं प्रकटीभूतः दृश्यते, तस्य पदार्थस्य प्रकृतसूत्रेण अपादानसंज्ञा दीयते । अतएव हिमालयात् गङ्गा प्रभवति इत्यत्र प्रभवस्य (इत्युक्ते हिमालयस्य) अपादानसंज्ञा भवति । \nकिञ्च, अस्मिन् सूत्रे पूर्वसूत्रात् कर्तुः इति पदम् अपि अनुवर्तते । इदं पदम् भुवः इत्यनेन सह अन्वेति । भुवः इति भू-शब्दस्य षष्ठ्येकवचनम् । भूः इत्युक्ते भवनम् (अस्मिन् सन्दर्भे प्रकटीभवनम्) इत्याशयः । अस्य प्रकटीभवनस्य यः कर्ता (इत्युक्ते यः प्रकटीभवति), तस्य यः प्रभवः (इत्युक्ते सः पदार्थः यस्मात् अयं कर्ता प्रकटीभवति), तस्य अत्र अपादानसंज्ञा दत्ता अस्ति । \n<pv> भाष्ये सूत्रस्य प्रत्याख्यानम्\nभाष्यकारेण \"इदं सूत्रम् अनावश्यकम् अस्ति\" इति उक्त्वा अस्य सूत्रस्य प्रत्याख्यानं कृतं वर्तते । तत्र भाष्यविधानम् इदम् -\n\nअयमपि योगः शक्योऽवक्तुम् । कथं हिमवतो गङ्गा प्रभवतीति ? अपक्रामन्ति तास्तस्मादापः । - महाभाष्यम्\n\nहिमवतः गङ्गा प्रभवति इत्यादिषु उदाहरणेषु गङ्गाजलम् हिमवतः बहिः आगत्य तस्मात् पृथक् भवति, अतः अत्र अपायः अवश्यम् गर्भितः अस्ति । अतएव इदम् उपात्तविषयम् अपादानम् इत्येव मत्त्वा ध्रुवमपायेऽपादानम्>> [[1.4.24]] इत्यनेनैव अत्र अपादानसंज्ञा अवश्यं भवितुम् अर्हति , तदर्थम् पृथक् सूत्रम् अत्र अनावश्यकम् एव - इति अत्र भाष्यकारस्य आशयः वर्तते ।\n<<जनिकर्तुः प्रकृतिः>> तथा <<भुवः प्रभवः>> इत्येतयोर्मध्ये भेदः\nहिमालयात् गङ्गा प्रभवति इत्यत्र <<जनिकर्तुः प्रकृतिः>> [[1.4.30]] इति सूत्रेण अपादानसंज्ञा नैव सम्भवति, यतो हि हिमालयः गङ्गायाः जननस्य कारणरूपेण न गण्यते । गङ्गा अन्येन कारणेन, अन्यस्मिन् स्थले उत्पद्यते, हिमालयात् तु सा केवलं प्रकटीभूता दृश्यते । अतएव प्रकृतसूत्रे प्रभवः इति शब्दः स्थापितः अस्ति । अनेन प्रकारेण <<जनिकर्तुः प्रकृतिः>> [[1.4.30]] इत्यस्य प्रयोगः जननक्रियायाः सन्दर्भेण, तथा च प्रकृतसूत्रस्य प्रयोगः प्रथमप्रकटनस्य सन्दर्भेण भवति इति अनयोर्मध्ये भेदः विद्यते । \nसिद्धान्तकौमुदीस्थानि वार्त्तिकानि\nप्रकृतसूत्रे सिद्धान्तकौमुद्याम् आहत्य पञ्च वार्त्तिकानि दत्तानि सन्ति । एतानि वार्त्तिकानि भाष्ये काशिकायां च अन्यत्र (पञ्चमीविभक्त्याः प्रकरणे) पाठितानि सन्ति, परन्तु कौमुदीकारः प्रसङ्गवशात् तान् अत्रैव पाठयति । एतानि वार्त्तिकानि एतादृशानि -\n\n
  • 1. - यत्र ल्यप्-प्रत्ययान्तशब्दस्य लोपः (अदर्शनम्) वर्तते, तत्र कर्मकारस्य, अधिकरणकारकस्य च निर्देशार्थम् पञ्चमी विभक्तिः प्रयुज्यते । यथा - प्रासादात् प्रेक्षते । अत्र \"प्रासादम् आरुह्य प्रेक्षते\" इति अर्थः अस्ति । परन्तु वाक्ये आरुह्य इति ल्यबन्तं पदं नैव प्रयुज्यते (इत्युक्ते तस्य लोपः कृतः वर्तते) अतः कर्मपदस्य (प्रासादस्य) निर्देशार्थम् अत्र पञ्चमीविभक्तिः प्रयुक्ता वर्तते । एवमेव, आसनात् प्रेक्षते इत्यत्र \"आसने उपविश्य प्रेक्षते\" इति अर्थः मनसि विद्यते, परन्तु वाक्ये उपविश्य इति ल्यबन्तं पदं लुप्तं वर्तते अतश्च अधिकरणस्य (आसनस्य) निर्देशार्थम् अत्र पञ्चमीविभक्तिः प्रयुक्ता अस्ति । एवमेव श्वशुरात् जिह्रेति (लज्जिता भवति इत्यर्थः) अत्रापि \"श्वशुरं वीक्ष्य जिह्रेति\" इति अर्थः अभिप्रीयते परन्तु वीक्ष्य इति ल्यबन्तं पदं लुप्तं वर्तते अतश्च कर्मपदस्य (श्वशुरस्य) निर्देशार्थम् अत्र पञ्चमीविभक्तिः प्रयुक्ता अस्ति ।\n
  • 2. - यत्र वाक्ये प्रत्यक्षरूपेण क्रिया न विद्यते, तत्रापि सा कथञ्चित् सूच्यते चेदपि सा कारकविभक्तीः जनयितुम् समर्था अस्ति यथा - कस्मात् त्वं ? नद्याः । अत्र वाक्ये किमपि क्रियापदं साक्षात् नैव विद्यते । परन्तु \"त्वं कस्मात् आनयः\" / \"त्वं कस्मात् मार्गात् आगच्छः\" इत्यादिषु कस्याश्चित् क्रियायाः अध्याहारः अत्र अवश्यं सम्भवति । तदनुषङ्गेन कस्मात् इत्यत्र अपादानकारकम्, तस्य च निर्देशार्थम् पञ्चमी विभक्तिः प्रयुक्ता वर्तते । अनेन प्रकारेण अत्र अनुपस्थिता परन्तु गम्यमाना (सन्दर्भेण अवगम्यमाना इत्याशयः) क्रिया अपि कारकविभक्तीः जनयति । इदमेव अपेक्षित्रकियम् कारकम् ।\n
  • 3/4/5. - कालस्य, मागस्य वा मापनं यस्मात् प्रारभते तस्य पञ्चमी विभक्तिः भवति, तस्य योगे विद्यमानस्य मार्गवाचकशब्दस्य प्रथमा उत सप्तमी प्रयुज्यते, कालवाचकस्य तु केवलं सप्तमी एव प्रयुज्यते । यथा - वनात् ग्रामः योजनं योजने वा दूरः अस्ति । अत्र मार्गस्य मापनं वनात् प्रारभते, अतः वनपदार्थस्य अत्र पञ्चम्या निर्देशः कृतः अस्ति । अस्य योगे विद्यमानः मार्गवाचकः शब्दः योजनम् इति अस्ति, अतः तस्य प्रथमा उत सप्तमी भवितुम् अर्हति, येन वनात् ग्रामः योजनं दूरः अस्ति तथा च वनात् ग्रामः योजने दूरः अस्ति इति प्रयोगौ सङ्गच्छेते । एवमेव कालस्य सन्दर्भेण कौमुद्याम् कार्तिक्याः आग्रहायणी मासे विद्यते इति वाक्यं दत्तम् अस्ति । कार्त्तिकमासस्य पूर्णिमायाः अपेक्षया अग्रहायणमासस्य पूर्णिमा एकमासात् अनन्तरम् आगच्छति - इति अस्य वाक्यस्य अर्थः । अत्र कालस्य मापनम् कार्त्तिकी इत्यस्मात् प्रारभ्यते, अतः अत्र कार्त्तिकीशब्दस्य निर्देशः पञ्चमीविभक्त्या कृतः अस्ति । तद्योगे विद्यमानः कालवाचकः मासे इति शब्दः च सप्तम्या एव निर्दिश्यते । \n\n" }, "14032": { "sa": "यम् उद्दिश्य दानं दीयते तत् कारकं सम्प्रदानसंज्ञं भवति । यथा - उपाध्यायाय गां ददाति ।", "sd": "<<कारके>> [[1.4.23]] इत्यस्मिन् अधिकारे यैः दशभिः सूत्रैः सम्प्रदानसंज्ञायाः विधानम् क्रियते, तेषु इदं प्रथमं सूत्रम् । दानस्य कर्मणि यम् उद्दिश्य दानं दीयते तस्य सम्प्रदानसंज्ञा भवति । यथा, यदि कश्चन राजा उपाध्यायम् उद्दिश्य (उपाध्यायस्य कृते) गां ददाति, तर्हि तत्र उपाध्यायपदार्थस्य सम्प्रदानसंज्ञा विधीयते । अग्रे <<चतुर्थी सम्प्रदाने>> [[2.3.13]] इति सूत्रेण सम्प्रदानस्य निर्देशार्थम् चतुर्थीविभक्तेः प्रयोगं कृत्वा उपाध्यायाय गां ददाति इति वाक्यं सिद्ध्यति । एवमेव, माणवकाय भिक्षां यच्छति हरये पुष्पाणि अर्पयति, अग्नये हूयते इत्यादयः प्रयोगाः सङ्गच्छन्ते ।\n<hlb>अभिप्रैति</hlb> इति शब्दस्य अर्थः\nसूत्रे विद्यमानस्य अभिप्रैति इति शब्दस्य अर्थः अभिसम्बध्नाति इति दीयते । दानं दत्त्वा कर्ता कर्मसंज्ञकपदार्थस्य येन सह सम्बन्धं प्रस्थापयितुम् इच्छति, तस्य प्रकृतसूत्रेण सम्प्रदानसंज्ञा भवति इति अत्र आशयः वर्तते । यथा, राजा उपाध्यायाय गां ददाति इत्यत्र गोपदार्थः कर्मसंज्ञकः । दानक्रियया राजा अस्य गोपदार्थस्य उपाध्यायेन सह सम्बन्धं स्थापयति; अतः अत्र दानक्रियायाः कृते उपाध्यायस्य सम्प्रदानसंज्ञा भवति । किञ्च, अस्मिन् कार्ये कर्मसंज्ञकपदार्थस्य साहाय्यं स्वीक्रियते, अतः ददाति इत्यस्याः क्रियायाः कर्मपदम् अभिप्रैति इति क्रियायाः करणत्वरूपेण विधीयते । अनेन प्रकारेण \" राजा गवा उपाध्यायम् अभिप्रैति\" इत्यस्यैव अर्थस्य निर्देशार्थम् राजा गाम् उपाध्यायाय ददाति इति वाक्यं सिद्ध्यति । अतएव प्रकृतसूत्रे काशिकाकारः कर्मणा करणभूतेन कर्ता यम् अभिप्रैति इति अर्थं व्याचष्टे ।\n <hlb>दानम्</hlb> इति शब्दस्य व्याख्या \nभट्टोजिदीक्षितः प्रौढमनोरमायां दानशब्दस्य व्याख्याम् इत्थं ददाति - दानं च अ-पुनर्ग्रहणाय, स्व-स्वत्व-निवृत्तिपूर्वकम् पर-स्वत्व-उपादानम् । यत्र स्वस्य कस्यचन पदार्थस्य त्यागं कृत्वा (इत्युक्ते \"सः पदार्थः मया पुनः न स्वीकरिष्यते\" इति निश्चित्य) तस्य पदार्थस्य विषये कस्यचन अन्यस्य स्वामित्वं स्वीक्रियते, तत्रैव \"दानम्\" भवति इति उच्यते । यदि एतादृशः \"नियतत्यागः\" नास्ति, इत्युक्ते यदि किञ्चित् कालं यावत् एव स्वस्य किञ्चन वस्तु अन्यस्य कृते दीयते, तर्हि तत्र तत् कर्म \"दानकर्म\" नाम्ना नैव स्वीक्रियते, अतश्च तत्र प्रकृतसूत्रस्य प्रयोगः अपि न भवति । अतएव देवदत्तः रजकस्य वस्त्रं ददाति इति प्रयोगः क्रियते । देवदत्तः स्वस्य वस्त्रस्य त्यागं नैव करोति अपितु केवलं क्षालनार्थं तत् रजकस्य समीपे स्थापयति, अतः रजकस्य सम्प्रदानसंज्ञा नैव भवितुम् अर्हति इति अत्र आशयः अस्ति ।\n<hlb>सम्प्रदानम्</hlb> इति अन्वर्थसंज्ञा उत न ?\nयद्यपि सूत्रे पाणिनिमहर्षिभिः दानकर्मणा इति स्पष्टरूपेण नोच्यते, तर्ह्यपि प्रकृतसूत्रस्य प्रयोगः दानक्रियायाः सन्दर्भेण एव भवति इति अत्र काशिकाकारस्य मतम् अस्ति । तस्य पुष्ट्यर्थम् सः सम्प्रदानसंज्ञाम् अन्वर्थसंज्ञारूपेण स्वीकरोति । सम्प्रदानम् इत्यस्याः संज्ञायाः व्युत्पत्तिः - सम्यक् प्रदीयते अस्मै तत् सम्प्रदानम् - इति दानकर्मणः सन्दर्भेण एव दीयते, अतः अस्य सूत्रस्यापि प्रयोगः दानकर्मणः सन्दर्भेण एव स्यात् - इति काशिकाकारस्य आशयः वर्तते । परन्तु प्रकृतसूत्रस्य भाष्ये एतादृशः अन्वर्थतायाः आग्रहः न दृश्यते । किञ्च, भाष्यकारेण खण्डिकोपाध्याय शिष्याय चपेटिकां ददाति (The teacher gives a slap to the student) इत्येताः प्रयोगाः स्वयं कृताः सन्ति । अत्र यद्यपि ददाति इति क्रियापदं विद्यते तथापि अत्र \"दानकर्म\" नास्ति । एतादृशाः प्रयोगाः अपि भाष्यसम्मताः एव, अतश्च प्रकृतसूत्रस्य प्रयोगः दानकर्मं विहाय अन्येषु स्थलेषु अपि सम्भवति इति बहवः वैयाकरणाः मन्यन्ते । अतएव पिता पुत्राय पत्रं लिखति, माता बालकाय अपूपान् पचति इत्यादयः प्रयोगाः अपि सङ्गच्छन्ते । किञ्च, अस्मिन् पक्षे देवदत्तः रजकाय वस्त्रं ददाति इत्यपि प्रयोगः उचितः एव । अतः अस्मिन् पक्षे देवदत्तः रजकस्य वस्त्रं ददाति इति प्रयोगस्य साधुत्वम् - \"सम्प्रदानस्य अविवक्षायां शेषत्वविवक्षया <<षष्ठी शेषे>> [[2.3.50]] इत्यनेन षष्ठी भवति\" - इति दीयते ।\nवार्त्तिकम् - <! क्रियया यमभिप्रैति सोऽपि सम्प्रदानम् !>\nयत्र वाक्ये कर्मपदं न विद्यते, तत्र कर्ता क्रियया स्वस्य सम्बन्धं येन सह स्थापयितुम् इच्छति, तस्य अपि सम्प्रदानसंज्ञा भवति - इति अस्य वार्त्तिकस्य अर्थः । यत्र कर्मपदं विद्यते तत्र तु <<कर्मणा यमभिप्रैति स सम्प्रदानम्>> [[1.4.32]] इत्यनेनैव प्राप्ता सम्प्रदानसंज्ञा अनेन वार्त्तिकेन अकर्मकधातूनां सन्दर्भेण अपि विधीयते । अस्य व्याख्यानेषु उपलब्धानि उदाहरणानि एतादृशानि -\n\n
  • 1. श्राद्धाय निगर्हते - \"श्राद्धस्य निन्दां करोति\" इति अस्य अर्थः । कश्चन देवदत्तः श्राद्धादेः कार्यस्य यदा निन्दां करोति तदा तेन निन्दाकर्मणा सः \"मम अस्मिन् श्राद्धे विश्वासः नास्ति / इदं श्राद्धं मम मतेन न सम्यक् कृतम्\" इत्यादिप्रकारेण श्राद्धक्रियया सह स्वस्य सम्बन्धं प्रस्थापयति । अतः अत्र इति वार्त्तिकेन श्राद्धपदार्थस्य सम्प्रदानसंज्ञा विधीयते ।\n
  • 2. युद्धाय सन्नह्यते -\"युद्धस्य निश्चयं करोति / युद्धार्थम् सज्जः भवति\" इति अस्य अर्थः । अत्र सैनिकः \"अहं युद्धं करोमि\" इति निश्चयेन युद्धेन सह स्वस्य सम्बन्धं प्रस्थापयति, अतः अत्रापि अनेन वार्त्तिकेन युद्धपदार्थस्य सम्प्रदानसंज्ञा विधीयते ।\n
  • 3. पत्ये शेते - \"पत्या सह शेते / पतिम् अनुकूलयितुयम् शेते\" इति अस्य अर्थः । अत्र पत्नी शयनक्रियया पत्या सह स्वस्य सम्बन्धं योजयति, अतः अत्रापि पतिपदार्थस्य अनेन वार्त्तिकेन सम्प्रदानसंज्ञा भवति ।\n\nवस्तुतस्तु भाष्यकारेण तु इदं वार्त्तिकम् \"अनावश्यकम्\" इति उक्त्वा प्रत्याख्यातम् अस्ति । भाष्यकारस्य मतेन, सूत्रे विद्यमानः कर्मणा इति शब्दः क्रियायाः अपि अवश्यमेव ग्रहणं करोति, अतः एतानि उदाहरणानि अपि सूत्रस्यैव आधारेण साधुत्वं प्राप्नुवन्ति, तदर्थम् वार्त्तिकम् नैव आवश्यकम्, इति । अस्मिन् विषये अधिकं पिपठिषवः अस्य सूत्रस्य भाष्यं पश्येयुः ।\nवार्त्तिकम् - <! यजेः कर्मणः करणसंज्ञा वक्तव्या संप्रदानस्य च कर्मसंज्ञा !>\n<<यज्>> <{1.1157}> (यज्ञं करोति इत्यर्थः) अस्य धातोः कर्मपदस्य करणसंज्ञा भवति, तथा च सम्प्रदानस्य कर्मसंज्ञा भवति । अस्य उदाहरणं भाष्ये दीयते - पशुना रुद्रं यजते - इति । कस्मिंश्चित् यज्ञे रुद्रं मोदयितुम् पशोः बलिः दीयते चेत्, अत्र दानकर्मणि पशुः इति वस्तुतः कर्मपदम्, तथा च रुद्रः इति सम्प्रदानसंज्ञकं स्यात्, येन पशुम् रुद्राय ददाति इति प्रयोगः सिद्ध्यति । परन्तु अत्र <<दा>>-धातोः स्थाने यदि <<यज्>>-धातोः प्रयोगः क्रियते, तर्हि अनेन वार्त्तिकेन <<पशु>> इति कर्मपदस्य करणसंज्ञा, तथा च रुद्र इति सम्प्रदानस्य कर्मसंज्ञा भवति, येन पशुना रुद्रं यजते इति प्रयोगः सङ्गच्छते ।\n<pv> सम्प्रदानस्य त्रयः भेदाः\nवाक्यपदीये भर्तृहरिणा सम्प्रदानस्य त्रयः भेदाः निर्दिष्टाः वर्तन्ते । तत्रस्था कारिका इयम् -\n\nअनिराकरणात्कर्तुस्त्यागाङ्गं कर्मणेप्सितम् । \nप्रेरणानुमतिभ्यां च लभते संप्रदानताम् ॥ वाक्यपदीये 3.7.129\n\nअन्वयः -कर्तुः कर्मणा ईप्सितं त्यागाङ्गम् अनिराकरणात्, प्रेरण-अनुमतिभ्याम् च सम्प्रदानतां लभते ।\n\nअत्र विद्यमानः त्यागाङ्गम् इति शब्दः दानग्राहकस्य, इत्युक्ते \"यः दानं स्वीकरोति\" (यथा, उपाध्यायः) तस्य निर्देशं करोति । कर्मणा ईप्सितम् इति अस्य त्यागाङ्गस्य विशेषणम् । यत् त्यागाङ्गम् (दान)कर्मणा ईप्सितम्, तत् त्रिभिः प्रकारैः सम्प्रदानसंज्ञां लभते - इति अस्याः कारिकायाः आशयः । तदित्थम् -\n\n
  • 1. अनिराकरणात् - यत्र त्यागाङ्गं न हि किञ्चन याचते, न च दानक्रियात् पूर्वम् त्यागाङ्गस्य अनुमतिः स्वीक्रियते, न च दत्तं दानम् त्यागाङ्गं त्यजति - तत्र तस्य त्यागाङ्गस्य सम्प्रदानसंज्ञा अनिराकरणात् भवति । यथा - भक्तः ईश्वराय पुष्पाणि ददाति । अत्र ईश्वरः न हि पुष्पाणि याचते, न च ईश्वरं पृष्ट्वा तस्मै पुष्पाणि दीयन्ते, न च ईश्वरः अर्पितानि पुष्पाणि निराकरोति । अतः अत्र ईश्वरपदार्थस्य सम्प्रदानसंज्ञा अनिराकरणात् भवति ।\n
  • 2. प्रेरणात् - यत्र याचकेन पुनः पुनः पृष्टे सति, याचकस्य प्रार्थनया प्रेरणं प्राप्य तस्मै दानं दीयते, तत्र याचकस्य सम्प्रदानसंज्ञा प्रेरणात् भवति । यथा - धनिकः माणवकाय भिक्षां ददाति । अत्र माणवकेन पुनः पुनः पृष्टे सति तस्य स्थितिं दृष्ट्वा धनिकः तस्मै भिक्षां ददाति, अतः अत्र माणवकस्य सम्प्रदानसंज्ञा प्रेरणात् भवति । \n
  • 3. अनुमानात् / अनुमतेः - यत्र त्यागाङ्गेन कृतस्य कस्यचित् कर्मणः कृते तस्मै दक्षिणास्वरूपेण, उपायनस्वरूपेण (gift) वा किञ्चित् दीयते, तथा च तस्य दानस्य अस्वीकरणम् अपि त्यागाङ्गः कर्तुं शक्नोति, तत्र त्यागाङ्गस्य सम्प्रदानसंज्ञा अनुमतेः भवति । यथा, पिता उपाध्यायाय गां ददाति । अत्र उपाध्यायेन पाठनादिकं कार्यं किञ्चित् कृतम् अस्ति, अतः दक्षिणास्वरूपेण पिता उपाध्यायाय् गां ददाति - इति आशयः वर्तते । किञ्च, यदि उपाध्यायः इदानीं गां न इच्छति, तर्हि अस्य दानस्य अस्वीकारम् अपि सः कर्तुम् अर्हति । अतः अत्र उपाध्यायस्य सम्प्रदानसंज्ञा अनुमतेः भवति ।\n\nअस्मिन् विषये अधिकं पिपठिषवः वाक्यपदीयम्, अथवा प्रकृतसूत्रस्य पदमञ्जरीव्याख्यानं पश्येयुः ।" }, "14033": { "sa": "रुच्यर्थकधातूनां प्रयोगे \"यस्मै रोचते\" तत् कारकं सम्प्रदानसंज्ञं भवति । यथा - हरये भक्तिः रोचते । ", "sd": "<<कारके>> [[1.4.23]] इत्यस्मिन् अधिकारे यैः दशभिः सूत्रैः सम्प्रदानसंज्ञायाः विधानम् क्रियते, तेषु इदं द्वितीयम् सूत्रम् । येषां धातूनाम् रुचिः इति अर्थः वर्तते, तेषां प्रयोगे यः प्रीयमाणः (इत्युक्ते यः प्रसन्नः भवति), तस्य सम्प्रदानसंज्ञा भवति । यथा, हरये भक्तिः रोचते इत्यत्र \"भक्तिं लब्ध्वा हरिः प्रसन्नः भवति\", अतः हरिपदार्थस्य प्रकृतसूत्रेण सम्प्रदानसंज्ञा भवति । एवमेव, गणेशाय मोदकः रोचते, माणवकाय अपूपाः स्वदन्ते एतादृशाः प्रयोगाः अपि सङ्गच्छन्ते । \n<hlb>रुच्यर्थः</hlb> इति शब्दस्य अर्थः\nरुचिः इत्युक्ते स्वादः ,स्पृहा, आसक्तिः । येषाम् धातूनाम् रुचिः इति अर्थः वर्तते ते धातवः रुच्यर्थाः नाम्ना ज्ञायन्ते । अतः व्याख्यानेषु समासविग्रहः दीयते - रुचिना समानार्थाः ते रुच्यर्थाः । अत्र मयूरव्यंसकादित्वात् समासः सिद्ध्यति । \nकिञ्च, काशिकायाम् रुचिः इत्यस्य अर्थः दीयते -अन्यकर्तृकः अभिलाषः रुचिः । धातुपाठे <<रुच्>> <{1.847}> इत्यस्य धातोः दीप्तिः तथा अभिप्रीतिः इति द्वौ अर्थौ दीयेते । एताभ्याम् केवलम् अभिप्रीतिः अस्मिन् अर्थे एव प्रकृतसूत्रे रुचि: शब्दः प्रयुक्तः अस्ति - इति स्पष्टीकर्तुम् काशिकाकारः अत्र अभिलाषः इति शब्दं प्रयुङ्क्ते । किञ्च, अस्य अभिलाषस्य जनयिता कश्चन अन्यः अस्ति (यथा, गणेशे विद्यमानस्य अभिलाषस्य जनयिता मोदकः वर्तते), अतः काशिकाकारेण अत्र अन्यकर्तृकः अभिलाषः इति निर्देशं कृत्वा रुचि-शब्दस्य अर्थः स्पष्टीकृतः वर्तते ।\nअपि च, प्रकृतसूत्रे रुच्यर्थः इति निर्देशः क्रियते, अतः केवलम् रुच्-धातुः एव न, अपितु तदर्थकानाम् अन्येषां धातूनां विषये अपि प्रकृतसूत्रस्य प्रयोगः अवश्यं भवति । अतएव गणेशाय मोदकः स्वदते इति प्रयोगः अपि सङ्गच्छते । धातुपाठे विद्यमानः <<स्वद् आस्वादने>> <{1.18}> इति धातुः अपि रुच्यर्थः एव, अतः तस्य विषये अपि प्रकृतसूत्रेण सम्प्रदानत्वम् अवश्यं सम्भवति । \n<hlb>प्रीयमाणः</hlb> इति शब्दस्य अर्थः\nप्रकृतसूत्रे प्रयुक्तः प्रीयमाणः इति शब्दः क्र्यादिगणस्य <<प्रीञ्>> <{9.002}> धातोः कर्मणि शानच्-प्रत्ययान्तं रूपम् अस्ति । प्रीणाति इत्युक्ते तोषयति । यथा, मोदकः गणेशं प्रीणाति । अस्यैव वाक्यस्य कर्मणि-शानच्-प्रत्ययेन सह पुनर्लेखनं क्रियते चेत् वाक्यं भवेत् - मोदकेन गणेशः प्रीयमाणः अस्ति । \"मोदकः गणेशे प्रीतिं जनयति\" इति अस्य आशयः । एतादृशी प्रीतिः यस्मिन् जायते, तस्य प्रकृतसूत्रेण सम्प्रदानसंज्ञा भवति । अतएव गणेशाय मोदकः रोचते इत्यत्र गणेशपदार्थस्य सम्प्रदानसंज्ञा भवति ।एवमेव, हरये भक्तिः रोचते इत्यत्र हरिपदार्थस्य अपि सम्प्रदानसंज्ञा भवति । अमुम् एव विषयं स्पष्टीकुर्वनम् सिद्धान्तकौमुद्यां दीक्षितः ब्रूते - हरिनिष्ठप्रीतेर्भक्तिः कर्त्रीभक्तिपदार्थः हरौ प्रीतिं जनयति, अतः हरिपदार्थस्य सम्प्रदानसंज्ञा भवति, इति अत्र आशयः । \nदलकृत्यम्\n1. अर्थग्रहणं किमर्थम् ? <<रुच्>>-धातोः अर्थे प्रयुज्यमानानाम् अन्येषां धातूनां विषये (यथा <<स्वद्>>-धातोः विषये) अपि प्रकृतसूत्रस्य प्रयोगं भवेत् इति हेतुना प्रकृतसूत्रे अर्थग्रहणं कृतम् अस्ति ।\n2. रुच्यर्थानाम् इति किमर्थम् ? इच्छति, अभिलषति इत्यादीनां प्रयोगे यद्यपि अभिलाषः वर्तते, तथापि सः अन्यकर्तृकः अभिलाषः नास्ति अतः एतादृशेषु स्थलेषु प्रकृतसूत्रस्य प्रयोगः मा भूत्, इति स्पष्टीकर्तुम् अत्र रुच्यर्थानाम् इति शब्दः प्रयुक्तः अस्ति । अतएव गणेशः मोदकम् इच्छति उत गणेशः मोदकम् अभिलषति इत्यत्र प्रकृतसूत्रं न प्रयुज्यते । \n3. प्रीयमाणः इति किम् ? रुच्यर्थानां प्रयोगे केवलं प्रीयमाणस्य (यस्मै रोचते तस्य) एव सम्प्रदानसंज्ञा भवति, अन्येषां न । अतएव देवदत्ताय पथि मोदकः रोचते अस्मिन् वाक्ये पथिन्पदार्थस्य सम्प्रदानसंज्ञा न भवति । " }, "14034": { "sa": "श्लाघ्, ह्नुङ्, स्था, तथा च शप् - इत्येतेषां विषये कर्ता यं बोधयितुम् इच्छति, तत् कारकं सम्प्रदानसंज्ञं भवति । यथा - गोपी कृष्णाय श्लाघते, ह्नुते, तिष्ठते, शपते ।", "sd": "<<कारके>> [[1.4.23]] इत्यस्मिन् अधिकारे यैः दशभिः सूत्रैः सम्प्रदानसंज्ञायाः विधानम् क्रियते, तेषु इदं तृतीयं सूत्रम् । अनेन सूत्रेण <<श्लाघ् (कत्थने)>> <{1.122}>, <<ह्नुङ् (अपनयने)>> <{2.77}>, <<स्था (गतिनिवृत्तौ)>> <{1.1077}>, तथा च <<शप् (आक्रोशे)>> <{1.1155}> / <{4.64}> - इत्येतेषां विषये सम्प्रदानसंज्ञा विधीयते । एतासाम् क्रियाणाम् कर्ता एताभिः क्रियाभिः \"यस्य बोधः भवेत्\" इति इच्छति, तत् कारकम् प्रकृतसूत्रेण सम्प्रदानसंज्ञं भवति । क्रमेण उदाहरणानि एतानि -\n\n
  • 1. <<श्लाघ् (कत्थने)>> <{1.122}> - कत्थनम् इत्युक्ते स्तुतिः, अतिप्रशंसनम् इति । यथा - देवदत्तः यज्ञदत्तं श्लाघते = देवदत्तः यज्ञदत्तस्य अतिप्रशंसां करोति । अस्मिन् वाक्ये यज्ञदत्तपदार्थस्य कर्मसंज्ञा कृता अस्ति । परन्तु अनया अतिप्रशंसया यदि देवदत्तः यज्ञदत्तं स्वस्य कञ्चन हेतुम् अपि बोधयितुम् इच्छति (यथा - अहं इदं कार्यं कथं करणीयम् इति जानामि, मह्यम् एव कार्यं देहि इति) तर्हि अत्र कर्मसंज्ञायाः बाधं कृत्वा प्रकृतसूत्रेण यज्ञदत्तपदार्थस्य सम्प्रदानसंज्ञा भवति, येन देवदत्तः यज्ञदत्ताय श्लाघते इति वाक्यं सिद्ध्यति । अनेनैव प्रकारेण गोपी कृष्णाय श्लाघते इदम् उदाहरणम् अपि सङ्गच्छते । गोपी कृष्णस्य अतिप्रशंसां कुर्वती, स्वमनसि कृष्णं प्रति विद्यमानां प्रीतिं कृष्णं बोधयितुम् इच्छति, अथ वा कृष्णस्य विरहेण जायमानायाः वेदनायाः विषये कृष्णं बोधयितुम् इच्छति - इति अत्र आशयः वर्तते । \n
  • 2. <<ह्नुङ् (अपनयने)>> <{2.77}> - अपनयनम् इत्युक्ते दूरीकरणम्, गोपनम् । यथा - देवदत्तः यज्ञदत्तं अपह्नुते = देवदत्तः यज्ञदत्तं दूरे नयति, गोपयति । अस्मिन् वाक्ये यज्ञदत्तपदार्थस्य कर्मसंज्ञा कृता अस्ति । परन्तु अनेन गोपनेन यदि देवदत्तः यज्ञदत्तं स्वस्य कञ्चन हेतुम् अपि बोधयितुम् इच्छति (यथा - धनिकः आगतः, तेन त्वं न द्रष्टव्यः इत्यादिकम्) तर्हि अत्र कर्मसंज्ञायाः बाधं कृत्वा प्रकृतसूत्रेण यज्ञदत्तपदार्थस्य सम्प्रदानसंज्ञा भवति, येन देवदत्तः यज्ञदत्ताय अपह्नुते इति वाक्यं सिद्ध्यति । अनेनैव प्रकारेण गोपी कृष्णाय ह्नुते इदम् उदाहरणम् अपि सङ्गच्छते । गोपी कृष्णं अन्याभ्यः गोपीभ्यः दूरे नयन्ती स्वमनसि कृष्णं प्रति विद्यमानां प्रीतिं, तथा च अन्याः गोपीः प्रति स्वमनसि विद्यमानं मत्सरम् अपि कृष्णं बोधयितुम् इच्छति - इति अत्र आशयः वर्तते । \n
  • 3. <<स्था (गतिनिवृत्तौ)>> <{1.1077}> - यद्यपि अस्य धातोः धातुपाठे गतिनिवृत्तिः इति अर्थः दत्तः अस्ति, तथापि अयं धातुः प्रकाशनम् अस्मिन् अर्थे अपि प्रयुज्यते । प्रकाशनम् इत्युक्ते एकस्मिन् स्थले स्थित्वा कस्यचन कृतः बोधः(स्वकृत्या मनसि विद्यमानस्य कस्यचन हेतोः प्रकटीकरणम्) । अयमेव अर्थः प्रकृतसूत्रे अपि इष्यते । किञ्च, अस्मिन् अर्थे स्था-धातोः प्रयोगः यदा क्रियते तदा <<प्रकाशनस्थेयाख्ययोश्च>> [[1.3.23]] इति सूत्रेण अस्मात् धातोः केवलम् आत्मनेपदस्यैव प्रत्ययाः भवन्ति । यथा - देवदत्तः यज्ञदत्ताय तिष्ठते । अस्य वाक्यस्य आशयः अस्ति - \"देवदत्तेन 'त्वं गच्छ' इति उक्ते सति अपि, यज्ञदत्तः तत्रैव स्थित्वा, स्वक्रियया यज्ञदत्तं किञ्चित् बोधयितुम् इच्छति\" इति । एवमेव गोपी कृष्णाय तिष्ठते इति वाक्यम् अपि सङ्गच्छते । कृष्णेन \"त्वं गच्छ\" इति उक्तायां सत्याम् अपि तत्रैव स्थित्वा गोपी स्वमनसि कृष्णं प्रति विद्यमानां प्रीतिं तमेव बोधयितुम् इच्छति - इति अत्र आशयः वर्तते ।\n
  • 4. <<शप् (आक्रोशे)>> <{1.1155}> / <{4.64}> - यद्यपि धातुपाठे अस्य सूत्रस्य अर्थः आक्रोशः इति दीयते, तथापि प्रस्तुतसूत्रस्य सन्दर्भेण अस्य अर्थः उपालम्भः इति स्वीक्रियते । उपालम्भः इत्युक्ते वाचा शरीरस्पर्शनम् - इत्युक्ते, \"अहं तव चरणौ स्पृशामि\" इत्यादि वचनम् । अत्र शरीरस्य साक्षात् स्पर्शः न क्रियते, केवलम् वाण्या \"अहं तादृशं करोमि\" इति निर्दिश्यते । एतादृशं उपलम्भं कुर्वन् यदि कर्ता किञ्चित् बोधयितुम् अपि इच्छतिु, तर्हि तत्र प्रकृतसूत्रस्य प्रयोगं कृत्वा सम्प्रदानसंज्ञा भवति । यथा - देवदत्तः यज्ञदत्ताय शपते । अत्र देवदत्तः यज्ञदत्तं \"अहं भवतः चरणौ स्पृशामि\" इति उक्त्वा स्वाशयं, (यथा \"मया चौरकार्यं न कृतम्\" इत्यादिकं किञ्चित्) बोधयियुम् इच्छति - इति आशयः वर्तते । एतादृशेषु प्रयोगेषु शप्-धातोः (सूत्रम् <<क्रीडोऽनुसम्परिभ्यश्च >> [[1.3.21]]) इति वार्त्तिकेन केवलम् आत्मनेपदस्यैव प्रत्ययाः भवन्ति, अतः अत्र शपते इति प्रयोगः कृतः वर्तते । एवमेव, गोपी कृष्णाय शपते इति प्रयोगः अपि सङ्गच्छते । गोपी कृष्णस्य चरणस्पर्शस्य वचनेन स्वस्य मनसि कृष्णं प्रति विद्यमानां प्रीतिं तमेव बोधयितुम् इच्छति - इति अत्र आशयः वर्तते ।\n\n<hlb>ज्ञीप्स्यमानः</hlb> इति शब्दस्य अर्थः\nप्रकृतसूत्रे विद्यमानः ज्ञीप्स्यमान: इति शब्दः <<ज्ञा (अवबोधने, क्र्यादिः)>> <{9.43}> इति धातोः णिजन्तस्य सन्नन्तस्य कर्मणि-शानजन्तं रूपम् अस्ति । अत्र रूपसिद्धेः क्रमः अयम् -\n1. <<ज्ञा (अवबोधने, क्र्यादिः)>> <{9.43}> इत्यस्य अर्थः अवगच्छति / बुद्ध्यते इति । यथा - देवदत्तः जानाति ।\n2. ज्ञा-धातोः प्रेरणार्थे णिच्-प्रत्यये कृते <<ज्ञपि>> इति आतिदेशिकधातुः सिद्ध्यति । अस्य अर्थः अवगमयति / बोधयति इति । यथा - देवदत्तः यज्ञदत्तं ज्ञापयति ।\n3. ज्ञपि-धातोः इच्छार्थके सन्-प्रत्यये कृते <<ज्ञीप्स>> इति आतिदेशिकधातुः सिद्ध्यति । अस्य अर्थः अवगमयितुम् इच्छति / बोधयितुम् इच्छति इति । यथा - देवदत्तः यज्ञदत्तं ज्ञीप्सति । \n4. अस्यैव कर्मणि प्रयोगे परिवर्तनं क्रियते चेत् - देवदत्तेन यज्ञदत्तः ज्ञीप्स्यते इति सिद्ध्यति ।\n5. अन्ते, अत्र लट्-लकारस्य आदेशरूपेण तिङ्-प्रत्ययस्य अपेक्षया शानच्-प्रत्ययः प्रयुज्यते चेत् - देवदत्तेन यज्ञदत्तः ज्ञीप्स्यमानः अस्ति इति सिद्ध्यति । देवदत्तः \"यज्ञदत्तस्य बोधः भवेत्\" इति इच्छति - इति अस्य वाक्यस्य अर्थः । अतएव अत्र काशिकाकारः स्पष्टीकरोति - ज्ञीप्स्यमानः = ज्ञपयितुम् इष्यमाणः = बोधयितुम् अभिप्रेतःएतादृशस्य ज्ञीप्स्यमानस्य प्रकृतसूत्रेण सम्प्रदानसंज्ञा भवति । \nदलकृत्यम्\n1. श्लाघह्नुङ्स्थाशपाम् इति किमर्थम्? - एतेषां धातूनाम् एव अर्थे प्रयुक्तानां अन्येषां धातूनां विषये अस्य सूत्रस्य प्रयोगः मा भूत् । यथा - देवदत्तः यज्ञदत्तं स्तौति - इत्यत्र \"बोधयितुम् इच्छति\" इति अर्थः विद्यते चेदपि प्रकृतसूत्रेण सम्प्रदानसंज्ञा न भवति ।\n2. ज्ञीप्स्यमानः इति किमर्थम् ? - यदि बोधस्य इच्छा नास्ति, तर्हि प्रकृतसूत्रस्य प्रयोगः न भवति । यथा - देवदत्तः यज्ञदत्तं श्लाघते । अत्र देवदत्तः यज्ञदत्तस्य स्तुतिम् अवश्यं करोति, परन्तु अनया स्तुत्या सः यज्ञदत्तस्य कमपि बोधं कर्तुं न इच्छति । अस्यां स्थितौ प्रकृतसूत्रस्य प्रयोगः न भवति । \n" }, "14035": { "sa": "धारि (धारयति) इति धातोः प्रयोगे \"यः ऋणं ददाति\" तत् कारकं सम्प्रदानसंज्ञं भवति । यथा - देवदत्तः यज्ञदत्ताय शतं धारयति । ", "sd": "<<कारके>> [[1.4.23]] इत्यस्मिन् अधिकारे यैः दशभिः सूत्रैः सम्प्रदानसंज्ञायाः विधानम् क्रियते, तेषु इदं चतुर्थं सूत्रम् । <<धृञ् (धारणे, भ्वादिः)>> <{1.1047}> इत्यस्मात् धातोः णिच्-प्रत्यये कृते <<धारि>> इति यः आतिदेशिकधातुः सिद्ध्यति, तस्य सन्दर्भे प्रकृतसूत्रेण सम्प्रदानसंज्ञा उक्ता अस्ति । <<धारि>> इति धातोः सामान्यः अर्थः वर्तते स्थिरीकरणम् इति । प्रकृतसूत्रस्य सन्दर्भेण तु अस्य धातोः अर्थः विशेषरूपेण ऋणं स्वीकृत्य ऋणदातृरूपेण कस्यचित् स्थिरीकरणम् इति स्वीक्रियते । यथा, कश्चन देवदत्तः यज्ञदत्तात् शतं रुप्यकाणि ऋणरूपेण स्वीकरोति चेत् देवदत्तः यज्ञदत्तं ऋणे स्थिरीकरोति इति उच्यते । अपि च, एतादृशं अर्थम् प्रकटीकर्तुम् <<धारि>> इति धातोः यदा वाक्ये प्रयोगः भवति, तदा उत्तमर्णस्य (इत्युक्ते, यस्मात् ऋणं स्वीकृतम् तस्य) सम्प्रदानसंज्ञा भवति । अनेन प्रकारेण देवदत्तः यज्ञदत्ताय शतं धारयति इति प्रयोगः सिद्ध्यति । अत्र देवदत्तः = ऋणस्य स्वीकर्ता = अधमर्णः, तथा च यज्ञदत्तः = ऋणस्य दाता = उत्तमर्णः इति शब्दप्रयोगः क्रियते ।\nप्रकृतसूत्रस्य कौमुदीकारेण दत्तम् उदाहरणम् अस्ति - हरिः भक्ताय मोक्षं धारयति इति । अत्र कौमुदीकारस्य आशयः वर्तते - वस्तुतः भक्तः एव मोक्षस्य स्वामी अस्ति, परन्तु सः भक्तः लौकिकसुखम् इच्छन्, तदर्थम् हरिं सम्प्रार्थ्य स्वस्य मोक्षं हरेः सकाशे ऋणरूपेण स्थापयति - इति । अतः अत्र मोक्षः इति पदार्थस्य दाता भक्तः (स च उत्तमर्णः) तथा च स्वीकर्ता हरिः (स च अधमर्णः) इति आशयः वर्तते । \n<hlb>ऋणम्, अधमर्णः, उत्तमर्णः</hlb> इति शब्दाः\nएतेषां त्रयाणां व्याख्याः बालमनोरमाकारेण इत्थं दीयन्ते -\n\nअन्यस्वामिकं द्रव्यं नियतकाले पुनरर्पणबुद्ध्या गृहीतम् ऋणम् इत्युच्यते । तत्र ऋणस्य ग्रहीता अधमर्णः । ऋणस्य अर्पयिता = धनस्वामी = उत्तमर्णः । \n\nसूत्रपाठे <<ऋणमाधमर्ण्ये>> [[8.2.60]] इति सूत्रेण अधमर्णः इति शब्दः निपात्यते । तत्र अस्य शब्दस्य व्याख्या दीयते - ऋणे अधमः = अधमर्णः । एवमेव, ऋणे उत्तमः = उत्तमर्णः इति शब्दः अपि अनेनैव सूत्रेण सिद्ध्यति । \nदलकृत्यम्\n1. उत्तमर्णः इति किम् ? - यः ऋणं न ददाति, तस्य विषये प्रकृतसूत्रस्य प्रयोगः न भवति । यथा, देवदत्ताय ग्रामे शतं धारयति इत्यत्र ग्रामपदार्थस्य प्रकृतसूत्रेण सम्प्रदानसंज्ञा न भवति ।" }, "14036": { "sa": "स्पृह् (स्पृहयति) इति धातोः प्रयोगे यः ईप्सितः पदार्थः, तत् कारकं सम्प्रदानसंज्ञकं भवति । यथा - देवदत्तः पुष्पेभ्यः स्पृहयति ।", "sd": "<<कारके>> [[1.4.23]] इत्यस्मिन् अधिकारे यैः दशभिः सूत्रैः सम्प्रदानसंज्ञायाः विधानम् क्रियते, तेषु इदं पञ्चमं सूत्रम् । <<स्पृह (ईप्सायाम्, चुरादिः)>> <{10.410}> अस्य धातोः सन्दर्भे प्रकृतसूत्रेण सम्प्रदानसंज्ञा उक्ता अस्ति। <<स्पृह>> इति अदन्तः धातुः ईप्सा (= प्राप्तुम् इच्छा) इत्यस्मिन् अर्थे प्रयुज्यते । तत्र यः पदार्थः ईप्सितः (= कर्त्रा अभिप्रेतः, प्राप्तुम् इष्टः इत्याशयः) तस्य प्रकृतसूत्रेण सम्प्रदानसंज्ञा भवति । यथा, देवदत्तः पुष्पेभ्यः स्पृहयति । अत्र \"देवदत्ताय पुष्पाणि रोचन्ते अतः सः पुष्पाणि प्राप्तुम् इच्छति\" - इति आशयः वर्तते । एवमेव देवदत्तः फलेभ्यः स्पृहयति, गणेशः मोदकेभ्यः स्पृहयति, हरिः भक्तये स्पृहयति इत्यादिकाः प्रयोगाः सङ्गच्छन्ते ।\nदलकृत्यम्\n1. स्पृहेः इति किमर्थम् ? प्रकृतसूत्रस्य प्रयोगः अन्येषां धातूनां विषये मा भूत् । यथा, देवदत्तः पुष्पाणि लिप्सते (लब्धुम् इच्छति) इत्यत्र प्रकृतसूत्रेण सम्प्रदानसंज्ञा न भवति ।\n2. ईप्सितः इति किमर्थम् ? यः पदार्थः प्राप्तुम् इष्टः नास्ति, तस्य प्रकृतसूत्रेण सम्प्रदानसंज्ञा न भवति । यथा, देवदत्तः पुष्पेभ्यः वने स्पृहयति इत्यत्र वनस्य ईप्सितत्व-अभावात् तस्य विषये प्रकृतसूत्रेण सम्प्रदानसंज्ञा न भवति ।\n<hlb>ईप्सितम्</hlb> तथा <hlb>ईप्सिततमम्</hlb>\nप्रकृतसूत्रे ईप्सितः इति शब्दः प्रयुक्तः अस्ति । अग्रे <<कर्तुरीप्सिततमं कर्म>> [[1.4.49]] इत्यत्र ईप्सिततम इति शब्दः प्रयुक्तः दृश्यते । एतयोः द्वयोः सूत्रयोः मध्ये विप्रतिषेधः अस्ति । तदित्थम् - <<स्पृह>>-धातोः विषये कर्तुः यत् ईप्सितम् तस्य विषये <<स्पृहेरीप्सितः>> [[1.4.36]] इत्यनेन सम्प्रदानसंज्ञा भवति । अन्येषां धातूनाम् विषये कर्तुः यद् ईप्सिततम्, तस्य विषये <<कर्तुरीप्सिततमं कर्म>> [[1.4.49]] इत्यनेन कर्मसंज्ञा भवति । अनेन प्रकारेण द्वयोः अपि सूत्रयोः अन्यत्रप्राप्तिः वर्तते । परन्तु यदा <<स्पृह्>>-धातोः ईप्सिततमस्य चिन्तनं क्रियते, तदा ईप्सिततमपदार्थः ईप्सितः अपि अस्ति एव इति कारणात् तत्र <<स्पृहेरीप्सितः>> [[1.4.36]] इत्यनेन सम्प्रदानसंज्ञा प्राप्नोति, किञ्च तस्मिन्नेव स्थले <<कर्तुरीप्सिततमं कर्म>> [[1.4.49]] इत्यनेन कर्मसंज्ञा अपि प्राप्नोति । एतादृश्यां युगपत् सूत्रद्वयस्य प्राप्तौ <<विप्रतिषेधे परं कार्यम्>> [[1.4.2]] इति सूत्रेण <<कर्तुरीप्सिततमं कर्म>> [[1.4.49]] इत्यस्यैव प्रयोगः भवति, येन देवदत्तः पुष्पाणि स्पृहयति इति साधुप्रयोगः सङ्गच्छते । अतएव प्रकृतसूत्रे कौमुदीकारः स्पष्टीकरोति - ईप्सितमात्रे इयं संज्ञा, प्रकर्षविवक्षायां तु परत्वात् कर्मसंज्ञा, पुष्पाणि स्पृहयति । \n" }, "14037": { "sa": "क्रुध्, द्रुह्, ईर्ष्य् तथा च असूय - इत्यर्थकानां धातूनां प्रयोगे \"यं प्रति कोपः जायते\" तत् कारकं सम्प्रदानसंज्ञं भवति । यथा - देवदत्तः यज्ञदत्ताय क्रुद्ध्यति, द्रुह्यति, ईर्ष्यति, असूयति । ", "sd": "<<कारके>> [[1.4.23]] इत्यस्मिन् अधिकारे यैः दशभिः सूत्रैः सम्प्रदानसंज्ञायाः विधानम् क्रियते, तेषु इदं षष्ठं सूत्रम् । अनेन सूत्रेण <<क्रुध् (क्रोधे)>> <{4.86}>, <<द्रुह् (जिघांसायाम्)>> <{4.96}>, <<ईर्ष्य् (ईर्ष्यायाम्)>> <{1.588}>, तथा च <<असूय>> (कण्ड्वादिः) - इत्येतेषां विषये सम्प्रदानसंज्ञा विधीयते । एतासाम् क्रियाणाम् कर्ता यं प्रति कोपं करोति तत् कारकम् प्रकृतसूत्रेण सम्प्रदानसंज्ञं भवति । क्रमेण उदाहरणानि एतानि -\n\n
  • 1. <<क्रुध् (क्रोधे)>> <{4.86}> - काशिकायां, कौमुद्यां च अस्य धातोः अर्थः अमर्षः (क्रोधः) इति दत्तः अस्ति । क्रोधस्य प्रथमः सोपानः कोपः अस्ति /hl> इति शास्त्रेषु स्वीकृतम् अस्ति । अतः अत्र यस्य विषये कोपः जायते (इत्युक्ते, यस्य विषये अग्रे क्रोधः अपि क्रियते) तस्य सम्प्रदानसंज्ञा भवति । यथा - देवदत्तः यज्ञदत्ताय क्रुध्यति । \n
  • 2. <<द्रुह् (जिघांसायाम्)>> <{4.96}> - काशिकायां, कौमुद्यां च अस्य धातोः अर्थः अपकारः इति दीयते । अपकारः इत्युक्ते दुःखजनिका क्रिया । सा क्रिया यया अन्यस्य अहितं भवति, द्रोहः नाम्ना ज्ञायते । अस्य द्रोहस्य मूले अपि कोपः एव वर्तते, अतः यं प्रति कोपः विद्यते (इत्युक्ते यस्य विषये द्रोहः क्रियते) तस्य प्रकृतसूत्रेण सम्प्रदानसंज्ञा भवति । यथा, देवदत्तः यज्ञदत्ताय द्रुह्यति । \n
  • 3. <<ईर्ष्य् (ईर्ष्यायाम्)>> <{1.588}> - काशिकायां, कौमुद्यां च अस्य धातोः अर्थः अ-क्षमा इति दीयते । क्षमा इत्युक्ते तितिक्षा (tolerating something). अक्षमा इत्युक्ते अतितिक्षा (unable to tolerate something) । प्रकृतसूत्रस्य सन्दर्भे इदम् असहनम् \"अन्यस्य उत्कर्षस्य, प्रगतेः च विषये\" अस्ति । अस्याः ईर्ष्यायाः अपि प्रथमः सोपानः कोपः इत्येव अस्ति इति शास्त्रे निर्दिश्यते । एतादृशः कोपः यं प्रति जायते (इत्युक्ते यस्य विषये अग्रे मनसि ईर्ष्या उत्पद्यते) तस्य निर्देशार्थम् प्रकृतसूत्रेण सम्प्रदानसंज्ञा भवति । यथा, देवदत्तः यज्ञदत्ताय ईर्ष्यति । \n
  • 4. <<असूय>> (कण्ड्वादिः) - अयं धातुः कण्ड्वादिगणस्य धातुः अस्ति । <<असू>> इति प्रातिपदिकात् <<कण्ड्वादिभ्यो यक्>> [[3.1.27]] इति सूत्रेण यक्-प्रत्यये कृते <<असूय>> इति धातुः सिद्ध्यति । काशिकायां, कौमुद्यां च अस्य अर्थः गुणेषु दोष-आविष्करणम् इति दीयते । कस्यचित् गुणेषु अपि दोषदर्शनम्, इत्युक्ते द्वेषवृत्तिः असूया नाम्ना ज्ञायते इति अत्र आशयः । अयमेव अर्थः \"असूयति\" इति धातुरूपेण अपि प्रकटीभवति । अस्याः असूयायाः अपि प्रथमसोपानः कोपः एव अस्ति, अतः यं प्रति कोपः जायते (इत्युक्ते यं प्रति असूया भवति) तस्य प्रकृतसूत्रेण सम्प्रदानसंज्ञा विधीयते । \n\n<hlb>कोपः</hlb> इत्यस्य विषये\nप्रकृतसूत्रे निर्दिष्टाः <<क्रुध्>>, <<द्रुह्>>, <<ईर्ष्य्>> तथा च <<असूय>> - एतासां क्रियाणाम् अर्थाः यद्यपि पृथक् सन्ति, तथापि एतासु सर्वासु अपि क्रियासु कोपः इति सामान्य-अंशः अवश्यम् विद्यते - इति भाष्यकारः प्रकृतसूत्रे स्पष्टीकरोति । इत्युक्ते, कोपः इति क्रोध-द्रोह-ईर्ष्या-असूयार्थानाम् प्रथमसोपानरूपेण स्वीकृतः अस्ति । अस्मिन् सन्दर्भे भाष्यकारः ब्रूते - न हि अकुपितः क्रुध्यति, न वा अकुपितः द्रुह्यति, न वा अकुपितः ईर्ष्यति, न वा अकुपितः असूयति । क्रोधादीनां प्रथमसोपानरूपेण कोपः एव उद्भवति, अतएव प्रकृतसूत्रे यं प्रति कोपः इति निर्देशः लभ्यते - इति अत्र भाष्यकारस्य आशयः वर्तते । अस्याः एव कोपावस्थायाः वर्णनं कुर्वन् कैयटः ब्रूते - अननद्भूता कोपावस्था । कोपावस्थायां केवलं चित्ते परिवर्तनं भवति, मुखे, शरीरे च न किञ्चन परिवर्तनं दृश्यते इति अत्र कैयटस्य आशयः अस्ति । अग्रे द्वितीये सोपाने क्रोध-द्रोह-ईर्ष्या-असूयासु तु मुखे अपि परिवर्तनं भवति - यथा, नेत्रे स्फुरतः, ध्वनिः उन्नतः भवति, मुखे रक्तवर्णः वर्धते - इत्यादिकम् । अतएव अस्य वर्णनं कैयटेन इत्थं क्रियते - द्वितीया च उद्भूता विकृतवाक्कायव्यापार-अनुमीयमाना इति । \n<hlb>क्रुधद्रुहेर्ष्यासूयार्थ:</hlb> इति शब्दस्य विषये\nसूत्रे प्रयुक्तः क्रुधद्रुहेर्ष्यासूयार्थानाम् इति शब्दः क्रुधद्रुहेर्ष्यासूयार्थ इत्यस्य षष्ठीबहुवचनम् अस्ति । क्रुधद्रुहेर्ष्यासूयार्थ इत्यत्र <<क्रुध>>, <<द्रुह>>, <<ईर्ष्य>> तथा च <<असूय>> इत्येतेषां इतरेतरद्वन्द्वसमासः विद्यते । क्रुधश्च द्रुहश्च ईर्ष्या च असूया च इति क्रुधद्रुहेर्ष्यासूयाः । अस्य च अग्रे अर्थ इत्यनेन सह क्रुधद्रुहेर्ष्यासूयाः अर्थः येषाम् ते इति बहुव्रीहिसमासे कृते क्रुधद्रुहेर्ष्यासूयार्थ इति प्रातिपदिकं सिद्ध्यति । अस्मिन् प्रातिपदिके विद्यमानस्य द्वन्द्वसमासस्य अन्ते अर्थ इति यत् पदं स्थापितम् अस्ति, तत् <ऽद्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकम् अभिसम्बध्यतेऽ> इति न्यायेन समासस्य प्रत्येकं पदेन सह अन्वेति । अतः अत्र क्रुधार्थाः, द्रुहार्थाः, ईर्ष्यार्थाः तथा च असूयार्थाः इति अर्थः सिद्ध्यति । अतएव, केवलं क्रुध्-द्रुह्-ईर्ष्य्-असूय-धातूनां विषये एव न, अपितु अस्मिन्नेव अर्थे प्रयुज्यमाणानाम् अन्येषां धातूनां सन्दर्भे अपि प्रकृतसूत्रेण अवश्यं सम्प्रदानसंज्ञा भवितुम् अर्हति । यथा - देवदत्ताय भामते, देवदत्ताय अपराध्यति,देवदत्ताय सूर्क्ष्यति, देवदत्ताय ईर्क्ष्यति इत्यादिषु वाक्येषु अपि प्रकृतसूत्रस्य प्रयोगः अवश्यं भवति ।\n<<कुप्>>-धातोः विषये प्रकृतसूत्रस्य प्रयोगः\nदिवादिगणस्य <<कुप् (क्रोधे)>> <{4.146}> धातोः विषये प्रकृतसूत्रस्य प्रयोगः भवेत् वा - अस्मिन् विषये वैयाकरणेषु मतान्तराणि विद्यन्ते । नागेशः लघुशब्देन्दुशेखरे कुप्-धातोः योगे प्रकृतसूत्रस्य प्रयोगः न भवति इति स्पष्टीकृत्य <<षष्ठी शेषे>> [[2.3.50]] इत्यनेन षष्ठीविभक्तेः प्रयोगं कृत्वा देवदत्तस्य कुप्यति इत्यस्य प्रयोगस्य साधुत्वं प्रतिपादयति । बालमनोरमायाम् अपि अस्यैव पक्षस्य समर्थनं कृत्वा उच्यते - कुप्यति कस्मैचित् इत्यादि असाधु एव - कोपमूलकत्व-अभावात्, क्रुध्यार्थक-अभावात् च । <<कुप्>>-धातोः विषये प्रथमसोपानात् अनन्तरम् क्रोधादिकः द्वितीयः सोपानः नैव वर्तते, अतः तस्य विषये प्रकृतसूत्रस्य प्रयोगः नैव करणीयः - इति बालमनोरमाकारस्य अत्र आशयः अस्ति । परन्तु माधवीयधातुवृत्तौ, प्रक्रियासर्वस्वग्रन्थे च हरये कुप्यति, देवदत्ताय कुप्यति इत्यादीनि उदाहरणानि अपि साधुरूपेण प्रदर्शितानि लभ्यन्ते, अतः एतेषां ग्रन्थकर्तॄणां मतेन कुप्-धातोः सन्दर्भेण अपि प्रकृतसूत्रस्य प्रयोगः अवश्यं भवितुम् अर्हति । तत्त्वबोधिन्याम्, वैयाकरणभूषणसारे तु द्वौ अपि पक्षौ प्रदर्शितौ स्तः । \nकुप्-धातुः अकर्मकः अस्ति, अतः \"देवदत्तम् कुप्यति\" इति प्रयोगः तु सर्वथा अनुचितः एव ज्ञेयः ।\n<<द्विष्>>-धातोः विषये प्रकृतसूत्रस्य प्रयोगः\nअदादिगणस्य <<द्विष् (अप्रीतौ)>> <{2.3}> अस्य धातोः मूलः अर्थः अप्रीतिः = अनभिनन्दनम् = निन्दा इति अस्ति । अयम् अर्थः \"क्रोधः, द्रोहः, ईर्ष्या, असूया\" - इत्येतेभ्यः पृथक् वर्तते । अतश्च, <<द्विष्>>-धातोः विषये प्रकृतसूत्रस्य प्रयोगः नैव करणीयः इत्यत्र वैयाकरणवृन्दे ऐकमत्यं वर्तते । अमुम् एव विषयम् स्पष्टीकुर्वन् तत्त्वबोधिनीकारः ब्रूते - द्विषादौ अतिप्रसङ्गवारणाय विशिष्य उपादानम् । <<द्विष्>>-इत्यादिकानां भिन्नार्थक-धातूनां योगे प्रकृतसूत्रस्य प्रयोगः मा भूत् - इति स्पष्टीकर्तुम् एव अत्र क्रुधादीनां विशेषरूपेण ग्रहणं कृतम् अस्ति - इति अत्र पदमञ्जरीकारस्य आशयः वर्तते । अतएव यो अस्मान् द्वेष्टि, यं च वयं द्विष्मः इत्यादिषु वाक्येषु प्रकृतसूत्रस्य प्रयोगः न भवति ।\nदलकृत्यम् \n1. क्रुधद्रुहेर्ष्यासूयार्थानाम् इति किमर्थम् ? द्विष्-इत्यादीनां विषये प्रकृतसूत्रस्य प्रयोगः मा भूत् । यथा - यो अस्मान् द्वेष्टि इत्यत्र प्रकृतसूत्रेण सम्प्रदानत्वं नैव विधीयते ।\n2. यं प्रति कोपः इति किमर्थम् ? यत्र केवलम् ईर्ष्या (असहनम्) वर्तते, परन्तु सा ईर्ष्या कमपि उद्दिश्य नास्ति, तत्र कोप-अभावात् प्रकृतसूत्रस्य प्रयोगः मा भूत् । यथा, कश्चन देवदत्तः स्वस्य भार्यायाः अन्यैः कृतं वीक्षणम् नैव सहते चेत् तस्य मनसि भार्यायाः कृते असूया (असहनम्) अवश्यं वर्तते परन्तु तत्र विशेषरूपेण कस्यापि कृते कोपः नास्ति । अस्यां स्थितौ प्रकृतसूत्रस्य प्रयोगः न भवति, अतः भार्याम् ईर्ष्यति, मा एनाम् अन्यः द्राक्षीत् (He is intolerent towards his wife being seen by others) अस्मिन् वाक्ये प्रकृतसूत्रस्य उपयोगः न भवति । \n<<क्रुध्>> तथा <<द्रुह्>> धात्वोः विषये बाध्यबाधकभावः\n <<क्रुध् (क्रोधे)>> <{4.86}> तथा च <<द्रुह् (जिघांसायाम्)>> <{4.96}> एतौ धातू यदि उपसर्गेण सह प्रयुज्येते, तर्हि तयोः सन्दर्भे यं प्रति कोपः वर्तते तस्य प्रकृतसूत्रेण प्राप्तां सम्प्रदानसंज्ञां बाधित्वा <<क्रुधद्रुहोरुपसृष्टयोः कर्म>> [[1.4.38]] इति अग्रिमसूत्रेण कर्मसंज्ञा विधीयते । यथा - देवदत्तम् अभिक्रुध्यति, देवदत्तम् अभिद्रुह्यति । उपसर्गं विना प्रयुक्तयोः एतयोः विषये तु प्रकृतसूत्रस्य प्रयोगः अवश्यमेव भवति, यथा - देवदत्ताय क्रुध्यति, देवदत्ताय द्रुह्यति इति । " }, "14038": { "sa": "सोपसर्गस्य क्रुध् तथा द्रुह् धातोः प्रयोगे \"यं प्रति कोपः जायते\" तत् कारकं कर्मसंज्ञं भवति । यथा - देवदत्तः यज्ञदत्तम् अभिक्रुध्यति, देवदत्तः यज्ञदत्तम् अभिद्रुह्यति ।", "sd": "<<कारके>> [[1.4.23]] इत्यस्मिन् अधिकारे यैः दशभिः सूत्रैः कर्मसंज्ञायाः विधानम् क्रियते, तेषु इदं प्रथमं सूत्रम् । अनेन सूत्रेण सोपसर्गस्य <<क्रुध् (क्रोधे)>> <{4.86}>, तथा <<द्रुह् (जिघांसायाम्)>> <{4.96}>, एतयोः धात्वोः विषये कर्मसंज्ञा विधीयते । एतयोः क्रिययोः कर्ता यं प्रति कोपं करोति तत् कारकम् प्रकृतसूत्रेण कर्मसंज्ञं भवति । क्रमेण उदाहरणानि एतानि -\n\n
  • 1. <<क्रुध् (क्रोधे)>> <{4.86}> - काशिकायां, कौमुद्यां च अस्य धातोः अर्थः अमर्षः (क्रोधः) इति दत्तः अस्ति । क्रोधस्य प्रथमः सोपानः कोपः अस्ति इति शास्त्रेषु स्वीकृतम् अस्ति । अतः अत्र यस्य विषये कोपः जायते (इत्युक्ते, यस्य विषये अग्रे क्रोधः अपि क्रियते) तस्य कर्मसंज्ञा भवति । यथा - देवदत्तः यज्ञदत्तम् अभिक्रुध्यति । \n
  • 2. <<द्रुह् (जिघांसायाम्)>> <{4.96}> - काशिकायां, कौमुद्यां च अस्य धातोः अर्थः अपकारः इति दीयते । अपकारः इत्युक्ते दुःखजनिका क्रिया । सा क्रिया यया अन्यस्य अहितं भवति, द्रोहः नाम्ना ज्ञायते । अस्य द्रोहस्य मूले अपि कोपः एव वर्तते, अतः यं प्रति कोपः विद्यते (इत्युक्ते यस्य विषये द्रोहः क्रियते) तस्य प्रकृतसूत्रेण कर्मसंज्ञा भवति । यथा, देवदत्तः यज्ञदत्तम् अभिद्रुह्यति । \n\nबाध्यबाधकभावः\nप्रकृतसूत्रम् <<क्रुधद्रुहेर्ष्याऽसूयार्थानां यं प्रति कोपः >> [[1.4.37]] इत्यस्य अपवादरूपेण प्रवर्तते । <<क्रुध्>> तथा <<द्रुह्>> धात्वोः सन्दर्भेण यं प्रति कोपः वर्तते, तस्य <<क्रुधद्रुहेर्ष्याऽसूयार्थानां यं प्रति कोपः >> [[1.4.37]] इत्यनेन वस्तुतः सम्प्रदानसंज्ञा प्राप्नोति । परन्तु उपसर्गस्य उपस्थितौ अस्याः सम्प्रदानसंज्ञायाः बाधं कृत्वा प्रकृतसूत्रेण कर्मसंज्ञा विधीयते । \nदलकृत्यम्\n1. उपसृष्टयोः इति किम् ? - केवलस्य (अनुपसर्गस्य) <<क्रुध्>>-धातोः विषये, <<द्रुह्>>-धातोः च विषये प्रकृतसूत्रस्य प्रयोगः मा भूत् - इति दर्शयितुम् अत्र उपसृष्टयोः इति पदं स्थापितम् अस्ति । अतएव देवदत्ताय क्रुध्यति, देवदत्ताय द्रुह्यति इत्यत्र प्रकृतसूत्रेण कर्मसंज्ञा न भवति । \nसूत्रनिर्माणस्य प्रयोजनम्\n<<क्रुध्>> तथा <<द्रुह्>> एतौ धातू सोपसर्गौ अपि अकर्मकौ एव स्तः । अतश्च एतयोः विषये यं प्रति कोपः भवति तस्य <<कर्तुरीप्सिततमं कर्म>> [[1.4.49]] इत्यनेन कर्मसंज्ञा नैव सम्भवति । अतएव प्रकृतसूत्रेण एतयोः विषये विशेषरूपेण कर्मसंज्ञा उच्यते । यदि प्रकृतसूत्रं नैव स्यात्, तर्हि सोपसर्गयोः <<क्रुध्>>/<<द्रुह्>>-धात्वोः विषये अपि <<क्रुधद्रुहेर्ष्याऽसूयार्थानां यं प्रति कोपः >> [[1.4.37]] इत्यनेन सम्प्रदानसंज्ञा एव अभविष्यत् । अपि च, तस्याः निषेधार्थम् प्रकृतसूत्रस्य स्थाने \"क्रुधद्रुहोरुपसृष्टयोः न\" इति सूत्रं रच्यते चेदपि तत्र कस्यापि कारकस्य अभावात् <<षष्ठी शेषे>> [[2.3.50]] इत्यनेन षष्ठीविभक्तिः अभविष्यत् । एतादृशं मा भूत्, अपितु इष्टा कर्मसंज्ञा एव भवेत् इति ज्ञापनाय अत्र प्रकृतसूत्रम् आवश्यकम् अस्ति । " }, "14039": { "sa": "राध् तथा ईक्ष् एतयोः धात्वोः विषये \"यस्य विषये शुभाशुभस्य प्रश्नाः क्रियन्ते\" तत् कारकं सम्प्रदानसंज्ञं भवति । यथा - देवदत्ताय राध्यति, देवदत्ताय ईक्षते । ", "sd": "<<कारके>> [[1.4.23]] इत्यस्मिन् अधिकारे यैः दशभिः सूत्रैः सम्प्रदानसंज्ञायाः विधानम् क्रियते, तेषु इदं सप्तमं सूत्रम् । अनेन सूत्रेण <<राध् (वृद्धिसिद्धिद्रोहदैवपर्यालोचनादिषु )>> <{4.77}> तथा च <<ईक्ष् (दर्शने)>> <{1.694}> इत्येतयोः संदर्भे सम्प्रदानसंज्ञा दीयते । एतयोः द्वयोः धात्वोः प्रयोगः यदा दैवपर्यालोचनम् (भविष्यस्य सन्दर्भेण शुभाशुभस्य कथनम्) अस्मिन् अर्थे क्रियते, तदा यस्य शुभाशुभम् कथ्यते तस्य प्रकृतसूत्रेण सम्प्रदानसंज्ञा भवति । यथा, गर्गः देवदत्ताय राध्यति, गर्गः देवदत्ताय ईक्षते इति । गर्गः इत्याख्यः कश्चन ज्यौतिषिकः (astrologer) देवदत्तस्य भविष्यस्य (शुभाशुभस्य) विषये पृष्टे सति, देवदत्तस्य जन्मपत्रादिकं दृष्ट्वा तस्य भविष्यस्य विषये किञ्चित् कथयति - इति अनयोः द्वयोः वाक्ययोः अर्थः वर्तते ।\n<hlb>यस्य विप्रश्नः</hlb> इत्यस्य अर्थः\nप्रकृतसूत्रे यस्य विप्रश्नः इति शब्दः प्रयुक्तः अस्ति । अत्र विद्यमानस्य विप्रश्नः इति शब्दस्य विग्रहः विविधः प्रश्नः इति दीयते । अतः यस्य विप्रश्नः = यस्य विषये विविधाः प्रश्नाः पृछ्यन्ते । एते प्रश्नाः भविष्यकथनस्य सन्दर्भेण भवेयुः इति व्याख्यानात् स्पष्टीभवति । एतादृशाः प्रश्नाः यस्य विषये पृच्छ्यन्ते, तस्य प्रकृतसूत्रेण सम्प्रदानसंज्ञा भवति । \n<<राध्>>, <<ईक्ष्>> इति धात्वोः अर्थः\nप्रकृतसूत्रे यद्यपि विप्रश्नः इति शब्दः प्रयुक्तः अस्ति, तथापि अत्र विशेषः अयम्, यत् <<राध्>> तथा <<ईक्ष्>> इत्येतयोः धात्वोः अर्थः भविष्यस्य विषये प्रश्नविधानम् इति नास्ति, अपितु प्रश्ने पृष्टे सति भविष्यस्य विषये कथनम् इति अनयोः अर्थः वर्तते । इत्युक्ते, अत्र विप्रश्नः इति राध्यति / ईक्षते इत्यस्य प्रथमः सोपानः अस्ति । देवदत्तस्य भविष्यस्य (शुभाशुभस्य विषये) यदा ज्यौतिषिकम् उद्दिश्य प्रश्नाः क्रियन्ते, तदा सः ज्यौतिषिकः तेषां प्रश्नानाम् उत्तरार्थम् देवदत्तस्य शुभाशुभस्य यत् पर्यालोचनं (चिन्तनम् / कथनम्) करोति, सा कृतिः राध्यति / ईक्षते इति शब्दाभ्याम् निर्दिश्यते । अस्यां स्थितौ यस्य विषये प्रश्नाः कृताः (इत्युक्ते यस्य विषये शुभाशुभस्य पर्यालोचनं कृतम्), तस्य प्रकृतसूत्रेण सम्प्रदानसंज्ञा भवति, येन देवदत्ताय राध्यति, देवदत्ताय ईक्षते इत्यादयः प्रयोगाः सिद्ध्यन्ति ।\n<<राध्>> तथा <<ईक्ष्>> उभावपि धातू दैवपर्यालोचनम् अस्मिन् अर्थे यदा प्रयुज्येते तदा एतौ अकर्मकौ स्तः । अतः \"देवदत्तस्य भविष्यं राध्यति / देवदत्तस्य शुभाशुभं ईक्षते\" इत्यादीनि वाक्यानि अशुद्धानि सन्ति । <<राध्>> / <<ईक्ष्>> इत्यतयोः धात्वोः अर्थे एव शुभाशुभ-पर्यालोचनम् गर्भितम् अस्ति, तथा च एतयोः प्रयोगे \"यस्य विषये शुभाशुभस्य पर्यालोचनं क्रियते\" तस्य प्रकृतसूत्रेण सम्प्रदानसंज्ञा एव भवति ।\n" }, "14040": { "sa": "प्रति + श्रु, तथा च आङ् + श्रु इत्येतयोः प्रयोगे \"यस्मै वचनं दीयते\" तत् कारकं सम्प्रदानसंज्ञं भवति । यथा - देवदत्ताय गां प्रतिशृणोति, देवदत्ताय गाम् आशृणोति । ", "sd": "<<कारके>> [[1.4.23]] इत्यस्मिन् अधिकारे यैः दशभिः सूत्रैः सम्प्रदानसंज्ञायाः विधानम् क्रियते, तेषु इदं अष्टमं सूत्रम् । <<प्रति>>-उपसर्गपूर्वकात् <<श्रु>>-धातोः प्रयोगे, तथा च <<आ>>-उपसर्गात् <<श्रु>>-धातोः प्रयोगे प्रकृतसूत्रेण सम्प्रदानसंज्ञायाः विधानं क्रियते । यद्यपि <<श्रु (श्रवणे)>> <{1.1092}> इत्यस्य अर्थः श्रवणम् इति वर्तते, तथापि <<प्रति + श्रु>>, एवमेव <<आङ् + श्रु>> इत्येतयोः अर्थः प्रतिज्ञानम् / वचनप्रदानम् इति भवति । अस्मिन् सन्दर्भे, यस्य कृते प्रतिज्ञा क्रियते / यम् उद्दिश्य अभ्युपगमः क्रियते (इत्युक्ते वचनं दीयते), तस्य प्रकृतसूत्रेण सम्प्रदानसंज्ञा भवति । यथा, यज्ञदत्तः देवदत्ताय गां प्रतिशृणोति, यज्ञदत्तः देवदत्ताय गां आशृणोति । देवदत्तेन \"मह्यम् गां देहि\" इति पृष्टे सति, यज्ञदत्तः देवदत्तम् उद्दिश्य \"तुभ्यम् अहं एकां गाम् अवश्यं दास्यामि\" इति प्रतिज्ञां करोति / वचनं ददाति - इति अनयोः वाक्ययोः आशयः वर्तते । एवमेव, विप्राय गां प्रतिशृणोति, विप्राय गाम् आशृणोति इत्येतौ प्रयोगौ अपि सङ्गच्छेते ।\n<hlb>पूर्वस्य कर्ता</hlb> इत्यस्य अर्थः\nप्रकृतसूत्रे पूर्वस्य कर्ता इति पदद्वयं प्रयुक्तं वर्तते । अत्र पूर्वस्य इत्यस्य अर्थः पूर्वक्रियायाः / प्रथमायाः क्रियायाः इति अस्ति । आदौ देवदत्तः यज्ञदत्तम् \"मह्यं गां देहि\" इति यद् प्रार्थयते सा अत्र पूर्वक्रिया / प्रथमा क्रिया अस्ति । अस्याः क्रियायाः प्रतिक्रियारूपेण अनन्तरम् यज्ञदत्तः देवदत्तम् \"अहं तुभ्यं गां दास्यामि\" इति यद् प्रतिजानाति, सा अत्र परक्रिया / द्वितीया क्रिया अस्ति । एताभ्याम्, प्रतिशृणोति / आशृणोति इत्येतयोः प्रयोगः द्वितीयायाः क्रियायाः सन्दर्भेण भवति, तथा च तस्मिन् प्रयोगे प्रथमायाःक्रियायाः यः कर्ता तस्य सम्प्रदानसंज्ञा भवति । यथा, \"मह्यं गां देहि\" इत्यस्य वाक्यस्य कर्ता, इत्युक्ते देवदत्तः; द्वितीयायाः क्रियायाः कृते, इत्युक्ते \"यज्ञदत्तः प्रतिशृणोति / आशृणोति\" इत्यस्य कृते सम्प्रदानसंज्ञकः भवति । अतएव यज्ञदत्तः देवदत्ताय प्रतिशृणोति, यज्ञदत्तः देवदत्ताय आशृणोति इति प्रयोगौ सङ्गच्छेते ।\nसिद्धान्तकौमुद्याम् पूर्वक्रियायाः कृते प्रवर्तनरूपव्यापारः इति शब्दः प्रयुज्यते । यः व्यापारः अन्यां क्रियां प्रवर्तयति, सः प्रवर्तनरूपव्यापारः नाम्ना निर्दिश्यते । देवदत्तेन गोः विषये पृष्टे सति एव यज्ञदत्तः देवदत्तं प्रतिजानाति (तस्मात् पूर्वं न), अतः अत्र \"देवदत्तेन कृता पृच्छा\" इति \"प्रतिशृणोति / आशृणोति\" इत्यस्य प्रवर्तनरूपव्यापारः अस्ति - इति अत्र कौमुदीकारस्य शब्दस्य आशयः वर्तते । \n\n" }, "14041": { "sa": "अनु + गॄ तथा प्रति + गॄ इत्येतयोः प्रयोगे \"यः आदौ शंसति\" तत् कारकं सम्प्रदानसंज्ञं भवति । यथा - होत्रे अनुगृणाति, होत्रे प्रतिगृणाति । ", "sd": "<<कारके>> [[1.4.23]] इत्यस्मिन् अधिकारे यैः दशभिः सूत्रैः सम्प्रदानसंज्ञायाः विधानम् क्रियते, तेषु इदं नवमं सूत्रम् । <<अनु>>-उपसर्गपूर्वकात् <<गॄ>>-धातोः प्रयोगे, तथा च <<प्रति>>-उपसर्गात् <<गॄ>>-धातोः प्रयोगे प्रकृतसूत्रेण सम्प्रदानसंज्ञायाः विधानं क्रियते । यद्यपि <<गॄ(शब्दे)>> <{9.33}> इत्यस्य अर्थः शब्दं करोति इति वर्तते, तथापि <<अनु+ गॄ>>, एवमेव <<प्रति+ गॄ>> इत्येतयोः अर्थः शंसितारं प्रोत्साहयति, शंसितारम् उत्तेजयति इति भवति । शंसिता (प्रातिपदिकम् शंसितृ इति) इत्युक्ते यज्ञकर्मणि वेदमन्त्रैः यः देवतानाम् स्तुतिं करोति, सः । यज्ञे वेदमन्त्रैः कृता देवतास्तुतिः शंसनम् इति नाम्ना ज्ञायते, तथा च यः एतादृशीं स्तुतिं करोति सः शंसिता नाम्ना ज्ञायते । यदा शंसिता एतादृशीं स्तुतिं करोति, तदा तत्र विद्यमानः अध्वर्युः \"ओ अथ मोदै वः\" इत्यादिभिः स्ववचनैः शंसितारम् प्रोत्साहयति । एतादृशम् प्रोत्साहनम् अनुगरः / प्रतिगरः इति नाम्ना ज्ञायते । अयं सर्वः यज्ञविधिः एव । अस्मिन् विधौ अध्वर्युणा कृतस्य प्रोत्साहनस्य निर्देशार्थम् यदा अनुगृणाति / प्रतिगृणाति इत्यादिकं रूपं प्रयुज्यते , तदा तत्र येन आदौ शंसनम् कृतम् (इत्युक्ते, यस्य इदानीं प्रोत्साहनं क्रियते) तस्य प्रकृतसूत्रेण संप्रदानसंज्ञा भवति । यथा - होत्रे प्रतिगृणाति, होत्रे अनुगृणाति । अत्र - \"होता (होतृ इति प्रातिपदिकम्) आदौ शंसति, ततः अध्वर्युः होतारं प्रति प्रोत्साहनस्य वचांसि ब्रूते\" - इति सर्वः आशयः वर्तते ।\n<hlb>पूर्वस्य कर्ता</hlb> इत्यस्य पूर्वसूत्रात् अनुवृत्तिः\nप्रकृतसूत्रे <<प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता >> [[1.4.40]] इति पूर्वसूत्रात् पूर्वस्य तथा कर्ता इति पदद्वयं अनुवर्तते । अत्र पूर्वस्य इत्यस्य अर्थः पूर्वक्रियायाः / प्रथमायाः क्रियायाः इति अस्ति । यज्ञविधौ होत्रा कृता स्तुतिः अत्र पूर्वक्रिया अस्ति । अस्याः क्रियायाः प्रतिक्रियारूपेण अनन्तरम् अध्वर्युः शंसितारम् (होतारम्) यत् प्रोत्साहयति, सा अत्र परक्रिया / द्वितीया क्रिया अस्ति । एताभ्याम् अनुगृणाति/ प्रतिगृणाति इत्येतयोः प्रयोगः द्वितीयायाः क्रियायाः सन्दर्भेण भवति, तथा च तस्मिन् प्रयोगे \"प्रथमायाःक्रियायाः यः कर्ता\" तस्य सम्प्रदानसंज्ञा भवति । अनेन प्रकारेण होत्रा स्तुतौ कृतायाम्, तस्य प्रोत्साहनार्थम् अध्वर्युः होत्रे अनुगृणाति, अध्वर्युः होत्रे प्रतिगृणाति इति प्रयोगौ सङ्गच्छेते ।" }, "14042": { "sa": "क्रियासिद्धौ प्रकृष्ट-उपकारकत्वेन यस्य विवक्षा क्रियते, तत् कारकं करणसंज्ञं भवति । यथा - परशुना छिनत्ति, अग्निना पचति । ", "sd": "<<कारके>> [[1.4.23]] इत्यस्मिन् अधिकारे विद्यमानम् इदं सूत्रं करणम् इति संज्ञां विदधाति । क्रियां कर्तुम् आवश्यकानि यानि साधनानि, तेषु सर्वेषु यस्य साधनस्य प्रकर्षेण उपकारि साधनम् इति विवक्षा क्रियते, तस्य अनेन सूत्रेण करणसंज्ञा भवति । यथा, वृक्षच्छेदनकार्ये परशुः इति शस्त्रस्य यदि \"इदं प्रकर्षेण उपकारि अस्ति\" इति विवक्षा क्रियते, तर्हि अत्र परशुपदार्थस्य करणसंज्ञां कृत्वा, तस्याः निर्देशार्थम् <<कर्तृकरणयोस्तृतीया>> [[2.3.18]] इत्यनेन तृतीया विभक्तेः प्रयोगं च कृत्वा परशुना छिनत्ति इति प्रयोगः सिद्ध्यति । एवमेव, पचनक्रियायाम् अग्निं प्रकर्षोपकारिणं मत्त्वा अग्निना पचति इति प्रयोगः सिद्ध्यति ।\n<hlb>साधकम्</hlb> तथा च <hlb>साधकतमम्</hlb>\nप्रकृतसूत्रे प्रयुक्ते साधकतमम् इत्यमिन् पदे साधक इति मूलः शब्दः अस्ति । साधकः इत्यस्य अर्थः कारकम् इति ज्ञेयः । क्रियासिद्धौ ये पदार्थाः भागं गृह्णन्ति, ते सर्वेऽपि साधकानि (कारकाणि) नाम्ना ज्ञायन्ते । अमुम् एव विषयम् स्पष्टीकुर्वन् प्रकृतसूत्रे भाष्यकारः वदति - सर्वाणि च कारकाणि साधकानि, न च असाधके प्रवृत्तिः । एतेषु सर्वेषु अपि साधकेषु यत् श्रेष्ठम् साधकम्, तस्य निर्देशः साधकतम इति शब्देन क्रियते, तस्य च प्रकृतसूत्रेण करणसंज्ञा भवति । \nसाधकतमस्य निर्णयः\nसर्वेषु अपि साधकेषु श्रेष्ठम् साधकं कथं ज्ञेयम् - इत्यस्य उत्तरम् भर्तृहरिणा वाक्यपदीये दत्तम् अस्ति । तत्र सः वदति -\n\nक्रियायाः परिनिष्पत्तिर्यद्व्यापारादनन्तरम् ।\nविवक्ष्यते यदा तत्र, करणत्वं तदा स्मृतम् ॥ - वाक्यपदीयम्, 3.7.90\n\nअन्वयः - यद्व्यापारात् अनन्तरम् क्रियायाः परिनिष्पत्तिः विवक्ष्यते, तत्र करणत्वम् स्मृतम् । \n\nक्रियायाः सिद्ध्यर्थम् यद्यपि भिन्नानि साधकानि उपयुक्तानि सन्ति, तथापि यस्य साधनस्य प्रयोगात् अनन्तरम् \"इदानीं क्रिया समाप्ता जाता\" इति वक्तुं शक्यते, तस्य साधकस्य \"साधकतम\"रूपेण ग्रहणं भवति, किञ्च तस्यैव करणसंज्ञा अपि भवति - इति अत्र भर्तृहरेः आशयः वर्तते । यथा, वृक्षच्छेदनक्रियायाम्, \"यावत् परशुना वृक्षे प्रहारः क्रियते तावत्पर्यन्तम् एव छेदनकार्यम्, परशोः प्रयोगः समाप्यते चेत् छेदनकार्यं अपि समाप्तम् मन्यते\" इति सामान्यव्यवहारः, अतः छेदनकार्ये परशोः साधकतमरूपेण ग्रहणं कृत्वा तस्य करणसंज्ञा क्रियते, येन परशुना छिनत्ति इति प्रयोगः सिद्ध्यति । एवमेव, पचनकार्ये विद्यमानेषु बहुषु साधनेषु \"अग्नेः प्रयोगात् अनन्तरम् पचनक्रिया समाप्यते\" इति स्वीकृत्य अग्नेः साधकतमरूपेण ग्रहणं कृत्वा तस्य करणसंज्ञा सम्भवति, येन अग्निना पचति इति प्रयोगः सिद्ध्यति ।\nसाधकतमम् विवक्षाधीनम् अस्ति\nभर्तृहरिणा स्वविरचितायां कारिकायां विवक्ष्यते इति शब्दः प्रयुक्तः अस्ति । विवक्ष्यते इत्युक्ते वक्तुः इच्छाम् अनुसृत्य निर्णीयते । क्रियार्थम् आवश्यकानि यानि साधकानि, तेषु कस्य साधकस्य प्रयोगात् अनन्तरम् क्रिया समाप्यते इति बहुत्र वक्तुः इच्छाम् अनुसरति, अतएव भर्तृहरिणा अस्य शब्दस्य अत्र प्रयोगः कृतः वर्तते । यथा, वृक्षच्छेदनकार्यस्य विषये यदि कश्चित् वदति - \"परशोः कार्यं समाप्यते चेत् छेदनकार्यम् अपि समाप्तम्\", तर्हि तस्य मतेन परशुपदार्थस्य साधकतमत्वेन विवक्षां कृत्वा तस्य करणसंज्ञा सम्भवति, येन परशुना छिनत्ति इति प्रयोगः सिद्ध्यति । परन्तु अस्यैव छेदनस्य विषये कश्चन अन्यः वदेत् - \"मम बलं समाप्यते चेत् छेदनकार्यम् अपि समाप्तम्\" । अस्मिन् पक्षे बलपदार्थस्य साधकतमत्वेन विवक्षां कृत्वा तस्य करणसंज्ञा सम्भवति, येन बलेन छिनत्ति इति प्रयोगः अपि साधुत्वं प्राप्नोति । एवमेव कश्चन अन्यः हस्तयोः साधकतमस्य विवक्षां कृत्वा स्वीकृत्य हस्ताभ्यां छिनत्ति इति प्रयोक्तुम् अर्हति । किञ्च, द्वयोः अधिकानां वाऽपि पदार्थानाम् युगपत् साधकतमत्वं स्वीकृत्य हस्तेन परशुना बलेन च छिनत्ति इत्यादयः प्रयोगाः अपि अवश्यं सङ्गच्छेरन् । \nकारकसंज्ञायां तरतमयोगो न भवति\nप्रकृतसूत्रे पाणिनिमहर्षिणा साधकतमम् इति तमप्-प्रत्ययान्तशब्दः प्रयुक्तः अस्ति । परन्तु कारकप्रकरणे अन्येषु सूत्रेषु एतादृशः तमप्-प्रत्ययान्तशब्दः प्रायेण न दृश्यते । यथा, अपादानसंज्ञायाः विषये \"ध्रुवतमम् अपाये अपादानम्\" इति नोच्यते । अधिकरणसंज्ञायाः विषये अपि \"आधारतमम् अधिकरणम्\" इति नोच्यते । अतः प्रकृतसूत्रे विद्यमानः तमप्-प्रत्ययान्तशब्दः एतत् प्रतिपादयति, यत् कारकप्रकरणे यत्र तमप्-प्रत्ययान्तशब्दः न वर्तते, तत्र श्रेष्ठ-कनिष्ठचिन्तनं नैव करणीयम् । यथा, अपाये साध्ये सर्वेषाम् अपि ध्रुवाणाम् <<ध्रुवमपायेऽपादानम्>> [[1.4.24]] इत्यनेन अपादानसंज्ञा अवश्यं भवेत्, न केवलं ध्रुवतमस्य । अतएव उपात्तविषयकस्य अपेक्षितक्रियकस्य च अपादानस्य निर्देशः अपि <<ध्रुवमपायेऽपादानम्>> [[1.4.24]] इत्यनेनैन भवति । एवमेव, <<आधारोऽधिकरणम्>> [[1.4.43]] इत्यनेन सूत्रेण सर्वप्रकारकाणाम् अपि आधाराणाम् अधिकरणत्वम् उच्यते, न हि केवलम् मुख्यप्रकारकस्य व्यापक-आधारस्य । अनेन प्रकारेण कारकप्रकरणे अन्यत्र (यत्र तमप्-प्रत्ययान्तशब्दः न दृश्यते तत्र) श्रेष्ठ-कनिष्ठस्य चिन्तनं नैव करणीयम् । अमुम् एव विषयम् सिद्धान्तरूपेण निर्दिशन् भाष्यकारः वदति - कारकसंज्ञायां तरतमयोगो न भवति । तर-तम-योगः इत्युक्ते \"श्रेष्ठ-कनिष्ठस्य चिन्तनम्\" । तत् कारकप्रकरणे अन्यत्र न भवति, इति अत्र भाष्यकारस्य आशयः वर्तते ।\n\nदलकृत्यम्\n1. तमप्-ग्रहणं किमर्थम् ? - (1) केवलं साधकतमस्यैव करणसंज्ञा भवेत्, इति स्पष्टीकर्तुम्, तथा च (2) कारकप्रकरणे तरतमयोगः न भवति इति ज्ञापयितुम् प्रकृतसूत्रे तमप्-ग्रहणं क्रियते । अतएव गङ्गायां घोषः इत्यस्मिन् उदाहरणे <<आधारोऽधिकरणम्>> [[1.4.43]] इत्यनेनैव औपश्लेषिकम् अधिकरणम् अपि सिद्ध्यति । किञ्च, अतएव सिंहात् बिभेति इत्यादिषु वाक्येषु विद्यमानम् उपात्तविषयम् अपादानम् <<ध्रुवमपायेऽपादानम्>> [[1.4.24]] इत्यनेनैव सिद्धे, अपादानप्रकरणस्य अन्यानि सूत्राणि भाष्यकारः प्रत्याचष्टे । \n" }, "14043": { "sa": "दिव्-धातोः प्रयोगे यत् साधकतम्, तत् कारकं कर्मसंज्ञकं करणसंज्ञकं च भवति । यथा - अक्षान् दीव्यति, अक्षैः दीव्यति । ", "sd": "<<कारके>> [[1.4.23]] इत्यस्मिन् अधिकारे यैः दशभिः सूत्रैः कर्मसंज्ञायाः विधानम् क्रियते, तेषु इदं द्वितीयं सूत्रम् । अनेन सूत्रेण <<दिव् (क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु)>> <{4.1}>, अस्य धातोः साधकतमस्य (प्रकृष्टोपकारकस्य) कर्मसंज्ञा विधीयते । यद्यपि धातुपाठे दिव्-धातोः बहवः अर्थाः उक्ताः सन्ति, तथापि प्रकृतसूत्रस्य सन्दर्भेण क्रीडा (द्यूतक्रीडा) इत्येव अर्थः अत्र स्वीक्रियते । सामान्यरूपेण अस्यां द्यूतक्रीडायां प्रकर्षेण उपयोगिनः सन्ति अक्षाः (dice) । अतः द्यूतक्रिडायां अक्षाः एव साधकतमत्वेन परिगण्यन्ते, अतश्च अक्षपदार्थस्य प्रकृतसूत्रेण कर्मसंज्ञा भवति । यथा, अक्षान् दीव्यति, । किञ्च, सूत्रे चकारग्रहणसामर्थ्यात् <<साधकतमं करणम्>> [[1.4.42]] इत्यनेन अक्षपदार्थस्य करणसंज्ञा अपि भवति, येन अक्षैः दीव्यति इत्यपि प्रयोगः सिद्ध्यति । एवमेव, मनस्-पदार्थम् साधकतमं मत्वा, तस्य कर्मसंज्ञां करणसंज्ञां च कृत्वा मनसा दीव्यति तथा च मनः दीव्यति इति प्रयोगौ अपि सङ्गच्छेते ।\n<pv>संज्ञाद्वयस्य युगपत्-विधानम्\nअत्र इदम् अवधेयम्, यत् प्रकृतसूत्रेण <<दिव्>>-धातोः प्रयोगे साधकतमस्य कर्मसंज्ञा तथा च करणसंज्ञा युगपत् विधीयते । इत्युक्ते, एकस्मिन् एव समये अक्षपदार्थः कर्मसंज्ञकः अपि अस्ति, करणसंज्ञकः अपि अस्ति । एतादृशं संज्ञाद्वयस्य युगपत् विधानम् मनसादेवः तथा च देवदत्तः यज्ञदत्तेन अक्षैः देवयते इत्येतयोः द्वयोः प्रयोगयोः साधुत्वज्ञापनार्थम् आवश्यकम् अस्ति । क्रमेण विवरणम् एतादृशम् -\n\n
  • 1. मनसादेवः - मनसा दीव्यति इति वृत्तिवाक्ये, मनस्-शब्दस्य कर्मसंज्ञां स्वीकृत्य <<कर्मण्यण्>> [[3.2.1]] इत्यनेन <<अण्>>-प्रत्यये कृते, तथा च तस्मिन्नेव समये मनस्-शब्दस्य करणसंज्ञां स्वीकृत्य, तस्याः निर्देशार्थम् विग्रहवाक्ये मनसा इति तृतीयान्तं रूपं प्रयुज्य, अग्रे उपपदसमासे मनस् + टा + दिव् + अण् इति स्थिते, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इत्यनेन तृतीयैकवचनस्य <<टा>>-प्रत्ययस्य लुकि प्राप्ते, <<मनसः संज्ञायाम्>> [[6.3.4]] इत्यनेन प्रत्ययस्य अलुक् भवति । अग्रे <<दिव्>>-धातोः उपधागुणं कृत्वा मनसादेवः इति शब्दः सिद्ध्यति । अनेन प्रकारेण अस्य शब्दस्य सिद्धौ कर्मसंज्ञासामर्थ्यात् अण्-प्रत्ययः, तथा च करणसंज्ञासामर्थ्यात् तृतीया, तस्याः च अलुक् - इति द्वयोः अपि संज्ञयोः युगपत्प्रयोगः आवश्यकः वर्तते । \n
  • 2. देवदत्तः यज्ञदत्तेन अक्षैः देवयते - इदं णिजन्तवाक्यम् अस्ति, यस्य आशयः \"यज्ञदत्तः अक्षैः दीव्यति, देवदत्तः तं तथा कर्तुं प्रेरयति\" इति वर्तते । अत्र णिजन्तवाक्ये अक्षपदार्थस्य युगपत् कर्मसंज्ञा तथा च करणसंज्ञा आवश्यकी वर्तते । तदित्थम् - अक्ष-पदार्थस्य करणसंज्ञाम् स्वीकृत्य तस्याः निर्देशार्थम् तृतीयायाः प्रयोगः साधुत्वं प्राप्नोति , येन अक्षैः इति शब्दः सिद्ध्यति । किञ्च, तस्मिन्नेव समये, अक्ष-पदार्थस्य कर्मसंज्ञा अपि स्वीक्रियते, येन <<दिव्>>-धातुः सकर्मकः भवति, तथा च शुद्धकर्तुः (<<यज्ञदत्त>>पदार्थस्य) णिजन्तप्रयोगे कर्तृसंज्ञा न बाधते । यदि <<दिव्>>-धातुः अकर्मकरूपेण परिगण्येत, तर्हि <<गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ>> [[1.4.52]] इत्यनेन सूत्रेण <<दिव्>>-धातोः शुद्धकर्ता (यज्ञदत्तः) णिजन्तप्रयोगे कर्मसंज्ञकः अभविष्यत्, येन यज्ञदत्तेन इति प्रयोगः असाधुत्वं प्राप्नुयात् । एतदेव न, अपितु, <<दिव्>>-धातोः अकर्मकत्वे सति <<अणावकर्मकाच्चित्तवत्कर्तृकात् >> [[1.3.88]] इत्यनेन सूत्रेण <<णिच्>>-प्रत्ययान्त-<<दिव्>>-धातोः केवलम् परस्मैपदस्यैव प्रत्ययाः समभविष्यन्, येन देवयते इति प्रयोगः अपि असाधुत्वं प्राप्नुयात् । एतौ दोषौ दूरीकर्तुम् अत्र अक्ष-पदार्थस्य कर्मसंज्ञा अपि स्वीक्रियते । एतादृश्यां कर्मसंज्ञायां सत्यां <<दिव्>>-धातुः सकर्मकः भवति, येन शुद्ध-कर्तुः (यज्ञदत्तपदार्थस्य) णिजन्तप्रयोगे अपि कर्तृसंज्ञा एव तिष्ठति, तथा च एतादृशस्य अनभिहित-शुद्ध-कर्तुः निर्देशार्थम् <<कर्तृकरणयोस्तृतीया>> [[2.3.18]] इत्यनेन तृतीया एव विधीयते, येन यज्ञदत्तेन इति प्रयोगः साधुत्वं प्राप्नोति । एवमेव, <<दिव्>>-धातोः सकर्मकत्वात् <<अणावकर्मकाच्चित्तवत्कर्तृकात् >> [[1.3.88]] इति अकर्मक-धातु-विशिष्टं सूत्रम् अपि न प्राप्नोति, येन देवयते इति णिजन्तधातोः आत्मनेपदे कृतः प्रयोगः अपि <<णिचश्च>> [[1.3.74]] इत्यनेन अवश्यमेव साधुत्वं प्राप्नोति । एतादृशम्, देवदत्तः यज्ञदत्तेन अक्षैः देवयते इत्यत्र, यज्ञदत्तेन तथा च देवयते इति प्रयोगार्थं कर्मसंज्ञा, अपि च अक्षैः इति प्रयोगार्थम् करणसंज्ञा - इति द्वयोः अपि संज्ञयोः युगपत्प्रयोगः आवश्यकः वर्तते । \n\n" }, "14044": { "sa": "\"परि + क्री\" इति धातोः यत् साधकतमं, तत् कारकं विकल्पेन सम्प्रदानसंज्ञं भवति ।यथा - शताय परिक्रीतः । पक्षे करणसंज्ञम् अपि भवति । यथा - शतेन परिक्रीतः । ", "sd": "<<कारके>> [[1.4.23]] इत्यस्मिन् अधिकारे यैः दशभिः सूत्रैः सम्प्रदानसंज्ञायाः विधानम् क्रियते, तेषु इदं अन्तिमं सूत्रम् । <<परि>> -उपसर्गपूर्वकस्य <<क्री>>-धातोः विषये प्रकृतसूत्रेण सम्प्रदानसंज्ञा विधीयते । यद्यपि <<क्री (द्रव्यविनिमये)>> <{9.1}> इति धातोः अर्थः धनं दत्त्वा वस्तुनः क्रयणम् इति अस्ति, तथापि <<परि>>-उपसर्गस्य उपस्थितौ अस्य अर्थः वेतनादिकं दत्त्वा विशिष्टं कालं यावत् स्वस्य स्वामित्वविधानम् (To employ someone for a fixed time by giving salary etc) इति भवति । एतादृशे कार्ये यत् साधकतमम् (इत्युक्ते वेतनम्) तस्य <<साधकतमं करणम्>> [[1.4.42]] इत्यनेन करणसंज्ञायां प्राप्तायाम्, तां विकल्पेन बाधित्वा प्रकृतसूत्रेण तस्य सम्प्रदानसंज्ञा अपि भवति । पक्षे <<साधकतमं करणम्>> [[1.4.42]] इत्यनेन करणसंज्ञा अपि भवितुम् अर्हति । अतः धनिकः देवदत्तं शतेन परिक्रीणाति, धनिकः देवदत्तं शताय परिक्रीणाति इति उभयथा प्रयोगः सिद्ध्यति ।\n<hlb>परिक्रयणम्</hlb> इति शब्दस्य अर्थः\nकाशिकायां परिक्रयण-शब्दस्य अर्थः दीयते - परिक्रयणं नियतकालं वेतनादिना स्वीकरणम्, न आत्यन्तिकः क्रय एव आत्यन्तिकः क्रयः इत्युक्ते नियतस्वरूपेण स्वस्वामित्वनिर्धारणम् (permanent ownership). अयम् अर्थः <<क्री>>-धातोः विषये स्वीक्रियते, न हि <<परि + क्री>>-धातोः विषये । <<परि + क्री>> इति धातोः अर्थः तु वेतनादिना नियतकालं स्वीकरणम् (accepting for a fixed period of time by giving salary etc) इति अस्ति - इति अत्र काशिकाकारस्य वाक्यस्य आशयः वर्तते । एतादृशे परिक्रयणे कृते, तस्मिन् काले स भृत्यः स्वस्वामिनः एव कार्यं कुर्यात् - इति अत्र अपेक्षा विद्यते । भृत्यः तथा न करोति चेत् स्वामी तं तर्जयमानः वक्तुम् अर्हति - शतेन त्वं परिक्रीतः, किमर्थं कार्यं न करोषि इति अनुब्रूहि, उत शताय त्वं परिक्रीतः, किमर्थं कार्यं न करोषि इति अनुब्रूहि - इति । एते एव द्वे उदाहरणे काशिकाकारेण दत्ते स्तः । \nसिद्धान्तकौमुदीस्थानि वार्त्तिकानि\nप्रकृतसूत्रे सिद्धान्तकौमुद्यां चत्वारि वार्त्तिकानि पाठितानि सन्ति । वस्तुतः तु एतानि वार्त्तिकानि सम्प्रदानकारकस्य सन्दर्भेण न सन्ति, अपितु चतुर्थीविभक्तिविशिष्टानि सन्ति । काशिकायां, तथा च भाष्ये अपि एतानि सर्वाणि <<चतुर्थी सम्प्रदाने>> [[2.3.13]] इत्यत्रैव पाठितानि सन्ति । परन्तु प्रकरणवशात् कौमुदीकारः एतानि वार्तिकानि अत्रैव पाठयति । तेषां अर्थाः अधः विव्रीयन्ते ।\n\n
  • 1. - यत्र उपकार्य-उपकारकभावसम्बन्धः (इत्युुक्ते, \"प्रथमस्य कृते द्वितीयम्\" - इति) विद्यते, तत्र उपकार्यस्य (= प्रथमस्य) निर्देशार्थम् चतुर्थी विभक्तिः भवति । यथा - मुक्तये हरिं भजति । अत्र हरिः इति उपकारकः, मुक्तिः इति उपकार्यामुक्तेः कृते (मुक्तिं प्राप्तुम्) हरिं भजति - इति आशयः । अत्र मुक्तेः निर्देशार्थम् चतुर्थी विभक्तिः भवति । एवमेव रन्धनाय स्थाली, अवहननाय उलूखलम्, ब्राह्मणाय दधि इत्यादयः प्रयोगाः अपि सङ्गच्छन्ते । सामान्यरूपेण \"अस्य कृते\" इति अर्थः यत्र इष्यते, तत्र तत्र सर्वत्र अनेन वार्त्तिकेन चतुर्थीविभक्तिः भवति । इत्येव न, अपितु काशिकाकारेण <<चतुर्थी सम्प्रदाने>> [[2.3.13]] इत्यत्र अस्य वार्त्तिकस्य उदाहरणरूपेण प्रकृति-विकृतिभावस्य उदाहरणानि अपि दत्तानि सन्ति, यथा यूपाय दारु, कुण्डलाय हिरण्यम् इति । \n
  • 2. - कॢप्यर्थक-धातूनां प्रयोगे सम्पद्यमानस्य चतुर्थी विभक्तिः भवति । <<कृपँ (कॢप्)>>-धातोः अर्थौ सम्पन्नं भवति तथा जायते इति उभयथा वर्तेते । एतयोः अर्थयोः यदा <<कृपँ (कॢप्) कॢप्>>-धातुः अन्यः वा कश्चन धातुः प्रयुज्यते, तदा यत् सम्पन्नं भवति / यत् जायते तस्य चतुर्थी विभक्तिः भवति इति अत्र आशय; अस्ति । यथा, भक्तिः ज्ञानाय कल्पते, भक्तिः ज्ञानाय सम्पद्यते , भक्तिः ज्ञानाय जायते । मनुष्यः भक्त्याः आधारेण ज्ञानं प्राप्नोति इति अत्र आशयः अस्ति । अत्र \"जायमानः / सम्पद्यमानः\" पदार्थः ज्ञानम् इति, अतः प्रकृतवार्त्तिकेन अस्य पदार्थस्य चतुर्थी विभक्त्या निर्देशः भवति । एवमेव, यवागूः मूत्राय कल्पते, यवागूः मूत्राय सम्पद्यते, यवागूः मूत्राय जायते इति अपरम् उदाहरणम् । \"यवागूसेवनेन मूत्रनिर्माणं भवति\" इति अस्य आशयः । \n तथा च - एतयोः अर्थयोः मध्ये भेदः अस्ति । सम्पद्यमानम् इत्युक्ते \"नूतनरूपेण निर्मितम्\" । प्रकृतिविकृतिभावस्य उदाहरणेषु एतादृशम् सम्पद्यमानत्वं नास्ति, यतोऽहि तत्र केवलं एकस्मिन् पदार्थे परिवर्तनं कृत्वा अपरः पदार्थः सिद्ध्यति, यथा मृदि परिवर्तनं कृत्वा घटस्य सिद्धिः - इत्यादिकम् । इत्यस्य उदाहरणेषु तु पदार्थस्य नूतनरूपेण निर्माणं कृतं दृश्यते; यथा - यवागोः सामर्थ्येन मूत्रस्य निर्माणम् - इति ।\n
  • 3. - उत्पातेन ज्ञापितस्य पदार्थस्य निर्देशार्थम् चतुर्थी विभक्तिः भवति उत्पात्तः इत्युक्ते अशुभसङ्केतवाचकपदार्थः । यथा, कपिल-वर्णस्य विद्युत् वातं (storm) सूचयति । अत्र वातः इति अशुभम् ज्ञापितम् अस्ति, तस्य सङ्केतकः (ज्ञापकः) तु कपिल-वर्णस्य विद्युत् इति । अस्यां स्थितौ अशुभस्य निर्देशार्थम् चतुर्थी विभक्तिः भवति । यथा, वाताय कपिला विद्युत् । \"कपिला-विद्युत् वातं सूचयति\" इत्याशयः । वस्तुतः इदं वाक्यम् एकस्य श्लोकस्य प्रथमा पङ्क्तिः अस्ति । तत्र सम्पूर्णः श्लोकः अयम् -\n\nवाताय कपिला विद्युत्, आतपाय-अतिलोहिनी । \nपीता वर्षाय विज्ञेया, दुर्भिक्षाय सिता भवेत् ॥\n\nकपिला (reddish brown) विद्युत् वातं सूचयति; अतिलोहिनी (dark red) विद्युत् आतपम् सूचयति; पीता (yellow) विद्युत् वर्षां सूचयति, तथा च सिता (white) विद्युत् दुर्भिक्ष्यं सूचयति - इति अस्याः कारिकायाः अर्थः । अत्र चतुर्षु अपि पादेषु अनेनैव सूत्रेण चतुर्थीविभक्तिः कृता वर्तते ।\n\n4. - हित इति शब्दस्य योगे चतुर्थी विभक्तिः भवति । यथा, ब्राह्मणाय हितम् क्षीरम् । \"ब्राह्मणस्य कृते उपकारि दुग्धम्\" - इति अस्य वाक्यस्य अर्थः । एवमेव गवे हितम् इत्यपि प्रयोगः सङ्गच्छते । अत्र उपकार्य-उपकारकभावस्य आधारेण चतुर्थी न सम्भवति यतोऽहि अत्र उपकारकपदार्थस्य निर्देशः नास्ति अपितु उपकारवाचकस्य \"हित\"शब्दस्य एव ग्रहणं वर्तते । तथापि अत्र चतुर्थी अवश्यम् इष्यते, तदर्थं च प्रकृतसूत्रस्य निर्माणं कृतम् अस्ति ।\nतद्धितप्रकरणे <<तस्मै हितम्>> [[5.1.5]] इति एकं सूत्रं विद्यते । अस्मिन् सूत्रे अपि पाणिनिना तस्मै इति चतुर्थी एव प्रयुक्ता दृश्यते । एवमेव <<चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः >> [[2.1.36]] इत्यत्रापि पाणिनिः चतुर्थ्यान्तस्य हितशब्देन सह समासं विदधाति, येन अपि हितशब्दस्य योगे चतुर्थी विभक्तिः इष्यते इति स्पष्टी भवति । \nकिञ्च, अस्मिन्नेव वार्त्तिके इति कश्चन अधिकः अंशः अपि वैयाकरणैः स्वीकृतः अस्ति । सुख इति शब्दस्य योगे चतुर्थी विभक्तिः भवति - इति अस्य आशयः । यथा, ब्राह्मणाय सुखम् । \"ब्राह्मणस्य कृते सुखकारकम्\" - इति अस्य वाक्यस्य अर्थः । \n\n" }, "14045": { "sa": "क्रियां कर्तुं कर्ता तथा च कर्म एताभ्याम् यस्य आधाररूपेण प्रयोगः क्रियते तत् कारकं अधिकरणसंज्ञं भवति । यथा - कटे आस्ते, स्थाल्यां पचति ।", "sd": "<<कारके>> [[1.4.23]] अस्मिन् अधिकारे अधिकरणसंज्ञायाः विधानम् प्रकृतसूत्रेण क्रियते । क्रियां कर्तुम् कर्ता तथा कर्म यस्य पदार्थस्य आधाररूपेण उपयोगं कुरुतः (इत्युक्ते, यस्य आश्रयेण क्रियां कुरुतः), तस्य प्रकृतसूत्रेण अधिकरणसंज्ञा भवति । यथा, देवदत्तः कटे आस्ते इत्यत्र आसनक्रियायाः कर्ता देवदत्तः आसनक्रियार्थम् कटस्य आधाररूपेण उपयोगं करोति, अतः कटपदार्थस्य प्रकृतसूत्रेण अधिकरणसंज्ञा भवति । एवमेव, देवदत्तः स्थाल्यां ओदनं पचति इत्यत्र पचनक्रियाया: कर्म ओदनम् स्थाल्याः आश्रयेण विद्यते, अतः कर्मणः आधारभूतस्य स्थालीपदार्थस्य प्रकृतसूत्रेण अधिकरणसंज्ञा भवति । उभयत्र अधिकरणसंज्ञायां जातायाम् <<सप्तम्यधिकरणे च>> [[2.3.36]] इत्यनेन सप्तमीविभक्तेः प्रयोगः भवति ।\n<hlb>आधार:</hlb> इत्यस्य व्युत्पत्तिः, अर्थः च\nकाशिकाकारः आधारः इति शब्दस्य व्युत्पत्तिं प्रदर्शयन् ब्रूते - आध्रियन्ते अस्मिन् क्रियाः इति आधारः । <<आ>>-उपसर्गपूर्वकात् <<धृङ् अवस्थाने>> <{6.148}> इति धातोः <<अध्यायन्यायोद्यावसंहाराधारावायाश्च>> [[3.3.112]] इति सूत्रेण अधिकरणे <<घञ्>>-प्रत्यये कृते आधारः इति शब्दः सिद्ध्यति । यः पदार्थः अन्यान् आश्रयं ददाति, सः आधारसंज्ञकः भवति इति अस्य आशयः । प्रकृतसूत्रं <<आधारोऽधिकरणम्>> [[1.4.45]] इति तु कारकाधिकारे विद्यते, अतः अस्य सूत्रस्य सन्दर्भेण क्रियायाः आधारस्य (आश्रयस्य) ग्रहणम् एव सयुक्तिकं भाति । परन्तु क्रिया इत्युक्ते फलं, व्यापारश्च; किञ्च, तत्र फलम् कर्मणः आश्रयेण तिष्ठति, व्यापारः च कर्तुः आश्रयेण तिष्ठति । अतः अत्र \"क्रियायाः आधारः\" इत्यनेन कर्ता कर्म च गृह्येते । एतयोः पुनः अधिकरणसंज्ञया न कश्चन लाभः, अतः अत्र \"क्रियायाः आश्रयः\" इत्यनेन व्यापाराश्रयः यः कर्ता, तस्य अपि आश्रयः, तथा च फलाश्रयं यत् कर्म, तस्यापि आश्रयः इति व्याख्या स्वीक्रियते । अतएव प्रकृतसूत्रे काशिकाकारः कर्तृकर्मणोः क्रियां प्रति यः आधारः इति अधिकरणस्य व्याख्यां ददाति । कौमुद्याम् अपि कर्तृकर्मद्वारा तन्निष्ठक्रियायाः आधारः इति वचनेन अधिकरणसंज्ञा ज्ञापिता अस्ति । भर्तृहरिणा अपि अस्यैव निर्देशः स्वकारिकायां (वाक्यपदीये 3.7.148 इत्यत्र) कृत्वा असाक्षात् क्रियां धारयति तत् अधिकरणम् इति अधिकरणस्य व्याख्या दत्ता वर्तते । संक्षेपेण,क्रियायाः प्रथम-स्तरीयौ आधारौ कर्ता कर्म च, तथा तयोः अपि आधारः अधिकरणम् - इति अधिकरणस्य व्याख्या दीयते । \nअधिकरणस्य त्रयः भेदाः\n<<संहितायाम्>> [[6.1.72]] अस्मिन् सूत्रे भाष्ये भाष्यकारेण अधिकरणस्य त्रयः भेदाः निर्दिष्टाः लभ्यन्ते । तत्र भाष्यकारः वदति - अधिकरणं नाम त्रिः प्रकारम् - व्यापकम्, औपश्लेषिकम्, वैषयिकम् । अधिकरणस्य एते त्रयः भेदाः अधः विवृताः सन्ति -\n\n
  • 1. व्यापकम् अधिकरणम् - यत्र एकः पदार्थः अन्यं पदार्थं सम्पूर्णरूपेण एतादृशं व्याप्नोति यत् द्वयोः पदार्थयोः सरलतया पृथक्करणं न शक्यते, तत्र व्यापकम् अधिकरणम् अस्ति उच्यते । यथा, तिलेषु तैलम् । अत्र वस्तुतः तैलपदार्थः तिलपदार्थात् भिन्नः, परन्तु सः तिलपदार्थे समग्ररूपेण व्याप्तः अस्ति (समवायसम्बन्धेन वसति), तथा च तं सरलतया (इत्युक्ते तन्त्राणां सहायं विना) तिलात् पृथक् अपि न कर्तुं शक्यते । अतः इदम् व्यापक-अधिकरणस्य उदाहरणम् । एवमेव, दध्नि सर्पिः, पुष्पे सुगन्धः, घटे रूपम्, शर्करायां माधुर्यम्, शरीरे चेष्टा (movement) इत्यादयः प्रयोगाः सङ्गच्छन्ते । \n
  • 2. औपश्लेषिकम् अधिकरणम् - यत्र एकः पदार्थः अन्यपदार्थस्य केवलं कञ्चन अंशं व्याप्नोति, तथा च द्वयोः पदार्थयोः पृथक्करणम् अपि सरलम्, तत्र औपश्लेषिकम् अधिकरणम् अस्ति इत्युच्यते । यथा - देवदत्तः कटे आस्ते । अत्र देवदत्तः कटस्य प्रत्येकम् अणुं (लघ्वंशं) नैव व्याप्नोति, अतः इदम् औपश्लेषिक-अधिकरणस्य उदाहरणम् । एवमेव गङ्गायां मीनः, हस्ते ग्रन्थः, कूप्यां जलम्, ग्रामे निवासः इत्यादयः प्रयोगाः सङ्गच्छन्ते । किञ्च, औपश्लेषिकम् इति शब्दे विद्यमानस्य \"उपश्लेष\" इति प्रातिपदिकस्य अर्थः सामीप्यम् इत्यपि अस्ति, अतः सामीप्यस्य आधारेण प्राप्तम् अधिकरणम् अपि औपश्लेषिकम् इति नाम्ना एव ज्ञायते । यथा, गङ्गायां घोषः । गङ्गायाः तीटे विद्यमानानां गोपालगृहाणां समूहस्य अयं निर्देशः अस्ति । अत्रः गङ्गायाः इति शब्देन गङ्गासमीपे इति अर्थः प्रतीयते । एवमेव, द्वारे नियुक्तः (= द्वारस्य समीपे नियुक्तः), मासे दीयते (= मासस्य समीपे दीयते) इत्यत्रापि सामीप्यस्य आधारेण एव औपश्लेषिकम् अधिकरणं विद्यते । एवमेव न, अपितु व्याकरणशास्त्रे वर्णानां सामीप्यम् अपि औपश्लेषिक-अधिकरणत्वेन एव गृह्यते, अतश्च <<तस्मिन्निति निर्दिष्टे पूर्वस्य>> [[1.1.66]] इत्यनेन विहिता \"परसप्तमी' अपि औपश्लेषिक-अधिकरणम् एव दर्शयति । \n
  • 3. वैषयिकम् अधिकरणम् - यत्र साक्षात् सामीप्यम् उत व्याप्तिः न वर्तते, परन्तु कथञ्चित् आश्रयस्य बोधः अवश्यं भवति, तत्र वैषयिकम् अधिकरणम् अस्ति इत्युच्यते । यथा, गुरौ भक्तिः इत्यत्र छात्रस्य मनसि विद्यमानायाः भक्तेः आश्रयस्थानम् गुरुः अस्ति - इति आशयः विद्यते । अत्र साक्षात् व्याप्तिः उत सामीप्यम् नास्ति (भक्तिः गुरुं नैव व्याप्नोति न वा गुरोः समीपे तिष्ठति), परन्तु अत्र आश्रयस्य बोधः अवश्यमेव भवति, अतः अत्र वैषयिकम् अधिकरणम् अस्ति इति उच्यते । एवमेव, आकाशे खगः, मनसि सङ्कल्पः, शास्त्रे नैपुण्यम्, सुहृदि विश्वासः, पुत्रे स्नेहः इत्यादिषु विद्यमानम् अधिकरणम् अपि \"वैषयिकम् अधिकरणम्\" अस्ति । कैयटेन तु अत्र एकः पदार्थः अपरस्य अधीनः अस्ति इति सन्दर्भं स्वीकृत्य अपि उदाहरणानि दत्तानि सन्ति । यथा, जगत् ईश्वरे अधीनम्, सेवकः राज्ञि वसति इत्यत्रापि वैषयिकम् अधिकरणम् एव ज्ञेयम् । \n\nअधिकरणस्य एते त्रयः अपि भेदाः प्रकृतसूत्रेणैव अधिकरणसंज्ञाम् प्राप्नुवन्ति ।तत्कथम् इति चेत्, प्रकृतसूत्रे पाणिनिना \"आधारतमम् अधिकरणम्\" इति नोच्यते अपि तु केवलम् \"आधारः अधिकरणम्\" इत्येव विधानं कृतम् अस्ति । अतश्च, <<साधकतमं करणम्>> [[1.4.42]] इत्यत्र भाष्यकारेण पाठितस्य इति भाष्यवचनस्य आधारेण सर्वेषाम् भेदानाम् (इत्युक्ते मुख्य-आधारस्य तथा च गौण-आधारयोः अपि) अनेनैव सूत्रेण अधिकरणसंज्ञा भवति । \nबाध्यबाधकभावः\nकारकप्रकरणे प्रकृतसूत्रात् अनन्तरम् पाठितैः त्रिभिः सूत्रैः आधारस्य प्रकृतसूत्रेण प्राप्ताम् अधिकरणसंज्ञां बाधित्वा कर्मसंज्ञा विधीयते । एतानि त्रीणि अपि सूत्राणि प्रकृतसूत्रस्य अपवादाः सन्ति । तानि एतादृशानि -\n\n1. <<अधिशीङ्स्थासां कर्म>> [[1.4.46]] - <<अधि + शीङ्>>, <<अधि + स्था>> तथा च <<अधि + आस्>> एतेषाम् आधारस्य कर्मसंज्ञा भवति । यथा - हरिः वैकुण्ठम् अधिशेते, अधितिष्ठति, अध्यास्ते ।\n2. <<अभिनिविशश्च>> [[1.4.47]] - <<अभि + नि + विश्>> इत्यस्य आधारस्य कर्मसंज्ञा भवति । यथा - ग्रामम् अभिनिविशते ।\n3. <<उपान्वध्याङ्वसः>> [[1.4.48]] - <<उप् + वस्>>, <<अनु + वस्>>, <<अधि + वस्>>, <<आङ् + वस्>> एतेषाम् आधारस्य कर्मसंज्ञा भवति । यथा - हरिः वैकुण्ठम् उपवसति, अनुवसति, अधिवसति, आवसति । \n " }, "14046": { "sa": "अधि +शीङ्, अधि + स्था, अधि + आस् - एतेषाम् यः आधारः, तत् कारकं कर्मसंज्ञकं भवति । यथा = हरिः वैकुण्ठम् अधिशेते, अधितिष्ठति, अध्यास्ते ।", "sd": "<<कारके>> [[1.4.23]] इत्यस्मिन् अधिकारे यैः दशभिः सूत्रैः कर्मसंज्ञायाः विधानम् क्रियते, तेषु इदं तृतीयं सूत्रम् । अनेन सूत्रेण <<अधि>>-उपसर्गपूर्वकस्य <<शीङ् (स्वप्ने)>> <{2.26}>, <<स्था (गतिनिवृत्तौ)>> <{1.1077}>, तथा च <<आस् (उपवेशने)>> <{2.11}> इत्येतेषां धातूनाम् आधारस्य <<आधारोऽधिकरणम्>> [[1.4.45]] इत्यनेन प्राप्ताम् अधिकरणसंज्ञां बाधित्वा कर्मसंज्ञा विधीयते । यथा, हरिः वैकुण्ठम् अधिशेते (विष्णुः वैकुण्ठे शेते इत्यर्थः), हरिः वैकुण्ठम् अधितिष्ठति (विष्णुः वैकुण्ठे तिष्ठति इत्यर्थः), हरिः वैकुण्ठम् अध्यास्ते (विष्णुः वैकुण्ठे आस्ते / उपविशति इत्यर्थः) । अत्र त्रिषु अपि वाक्येषु उपसर्गस्य योगे अर्थे परिवर्तनं न भवति (इत्युक्ते, शेते = अधिशेते; तिष्ठति = अधितिष्ठति, आस्ते = अध्यास्ते) । केवलम् आधारस्य अधिकरणसंज्ञां बाधित्वा कर्मसंज्ञा भवति । \n<hlb>अधिशीङ्स्थास्</hlb> इति शब्दः\nसूत्रे प्रयुक्तः अधिशीङ्स्थासाम् इति शब्दः अधिशीङ्स्थास् इति शब्दस्य षष्ठीबहुवचनम् अस्ति । अधिशीङ्स्थास् इति शब्दः आदौ द्वन्द्वसमासं कृत्वा तदनन्तरं च उत्तरपदलोपिसमासेन सिद्ध्यन्ति । तदित्थम् - शीङ् च स्था च आस् च इति शीङ्स्थाऽसः । अयम् इतरेतरद्वन्द्वसमासः । ततः अधिपूर्वकाः शीङ्स्थासः इति अधिपूर्वशीङ्स्थासः । अयम् उत्तरपदलोपीसमासः अस्ति, यः इत्यनेन सिद्ध्यति । <ऽद्वन्द्वादौ श्रूयमाणं पदं प्रत्येकमभिसम्बद्ध्यतेऽ> इति न्यायेन द्वन्द्वसमासस्य आदौ प्रयुक्तः अधि इति शब्दः द्वन्द्वसमास्य प्रत्येकं पदेन सह अन्वेति, अतः अत्र अधिपूर्वकः शीङ्, अधिपूर्वकः स्था, तथा च अधिपूर्वकः आस् इति अर्थः जायते । एतेषां सर्वेषाम् यः आधारः, तस्य प्रकृतसूत्रेण कर्मसंज्ञा भवति । \nबाध्यबाधकभावः\n<<अधि+शीङ्>>, <<अधि+स्था>>, <<अधि+आस्>> - एतेषां धातूनां विषये कर्तुः आधारस्य <<आधारोऽधिकरणम्>> [[1.4.45]] इत्यनेन प्राप्ताम् अधिकरणसंज्ञाम् अपवादत्वात् बाधित्वा प्रकृतसूत्रेण कर्मसंज्ञा विधीयते । \n" }, "14047": { "sa": "\"अभि + नि + विश्\" इति धातोः यः आधारः, तत् कारकं कर्मसंज्ञं भवति । यथा - सन्मार्गम् अभिनिविशते ।", "sd": "<<कारके>> [[1.4.23]] इत्यस्मिन् अधिकारे यैः दशभिः सूत्रैः कर्मसंज्ञायाः विधानम् क्रियते, तेषु इदं चतुर्थं सूत्रम् । अनेन सूत्रेण <<अभि>> तथा <<नि>> इति उपसर्गद्वयात् परस्य <<विश् (प्रवेशने)>> <{6.160}> इति धातोः आधारस्य <<आधारोऽधिकरणम्>> [[1.4.45]] इत्यनेन प्राप्ताम् अधिकरणसंज्ञां बाधित्वा कर्मसंज्ञा विधीयते । यद्यपि केवलस्य <<विश्>>-धातोः अर्थः \"प्रवेशनम्\" इति अस्ति, तथापि <<अभि + नि>> इति उपसर्गद्वयस्य युगपत् योजनेन अस्य अर्थः परिवर्त्य आसक्तः भवति, निश्चिनोति इति भवति । एतादृशे अर्थे जाते, आसक्तेः / निश्चयस्य यः आधारः, तस्य प्रकृतसूत्रेण अधिकरणसंज्ञा भवति । यथा, सन्मार्गम् अभिनिविशते । सन्मार्गस्य विषये आसक्तः भवति, सन्मार्गवर्तनस्य निश्चयं करोति इति अस्य अर्थः ।\n<hlb>अभि + नि</hlb> इत्येतयोः युगपत् उपस्थितिः\nप्रकृतसूत्रस्य प्रयोगः तदा एव भवति यदा <<अभि>> तथा <<नि>> इत्येतयोः उपसर्गयोः युगपत्, अनेनैव क्रमेण <<विश्>>-धातुना सह प्रयोगः भवति । इत्युक्ते, <<अभि + नि + विश्>> इत्यस्यैव विषये प्रकृतसूत्रं प्रवर्तते, न हि केवलम् \"अभि + विश्\" उत केवलं \"नि + विश्\" इत्यस्य विषये । पाणिनिमहर्षिभिः अभिनिविश इति यः शब्दः प्रकृतसूत्रे प्रयुक्तः अस्ति, सः एव अस्य ज्ञापकरूपेण स्वीक्रियते । अभिनिविश इत्यत्र <<अभि>> तथा <<नि>> इत्येतयोः द्वन्द्वसमासः वर्तते । अस्मिन् द्वन्द्वसमासे <<अल्पाच्तरम्>> [[2.2.34]] इति सूत्रम् अनुसृत्य <<नि>> इत्यस्य ग्रहणम् वस्तुतः <<अभि>> इत्यस्मात् पूर्वं भवेत् । इत्युक्ते, सूत्रम् वस्तुतः \"न्यभिविशश्च\" इत्येव उचिततरम्, अल्पाक्षरतरं च । तथापि पाणिनिमहर्षिभिः \"अभिनिविशश्च\" इति दीर्घं सूत्रं यत् क्रियते, तद् अस्यैव प्रमाणरूपेण स्वीक्रियते यत् आचार्याः अत्र <<अभि + नि>> इत्येतयोः युगपत् प्रयोगम् एव इच्छन्ति । \n<hlb>अभिनिविशते</hlb> इति आत्मनेपदे एव \nयद्यपि <<विश्>>-धातुः परस्मैपदी अस्ति, तथापि <<नेर्विशः>> [[1.3.17]] इत्यनेन <<नि>>-उपसर्गपूर्वकः <<विश्>>-धातुः केवलम् आत्मनेपदस्यैव प्रत्ययान् स्वीकरोति । इदानीम् <<अभि + नि + विश्>> इत्यत्र <<नि>>-उपसर्गपूर्वकः <<विश्>>-धातुः अस्त्येव, अतः अत्रापि केवलम् आत्मनेपदस्यैव प्रत्ययाः भवन्ति ।\n<hlb>अन्यतरस्याम्</hlb> इति व्यवस्थितविभाषा-आश्रयणात् कुत्रचित् कर्मसंज्ञा न \nयद्यपि प्रकृतसूत्रेण <<अभि + नि + विश्>> इत्यस्य प्रयोगे आधारस्य अधिकरणसंज्ञां बाधित्वा कर्मसंज्ञा उक्ता अस्ति, तथापि केषुचन उदाहरणेषु <<अभि + नि + विश्>> इत्यस्य आधारस्य अधिकरणसंज्ञा एव कृता दृश्यते । यथा - कल्याणे अभिनिवेशः, पापे अभिनिवेशः इत्यादिकाः प्रयोगाः लोके प्रसिद्धाः सन्ति । ईदृशाम् प्रयोगाणां साधुत्वज्ञापनार्थम् <<परिक्रयणे सम्प्रदानमन्यतरस्याम्>> [[1.4.44]] इत्यस्मात् अन्यतरस्याम् इत्यस्य पदस्य प्रकृतसूत्रे मण्डूकप्लुत्या अनुवृत्तिं कृत्वा तस्य अर्थः व्यवस्थितविभाषा इति क्रियते । अनेन प्रकारेण अत्र व्यवस्थितविभाषया कल्याणे अभिनिवेशः, पापे अभिनिवेशः इत्यादीनां प्रयोगाणां अपि साधुत्वं सिद्ध्यति, तथा च मूलसूत्रस्य आधारेण सन्मार्गम् अभिनिविशते इत्यादयः प्रयोगाः अपि साधयितुम् शक्यन्ते ।\nव्यवस्थितविभाषा इत्युक्ते \"व्यवस्थां ज्ञापयितुम्\" (इत्युक्ते प्रयोगाणां साधुत्वज्ञापनार्थम्) स्वीकृता विभाषा । यद्यपि इयं \"विभाषा\" नाम्ना ज्ञायते, तथापि अत्र विकल्पः वक्तुः इच्छाम् नैव अनुसरति, अपितु केवलम् उपलब्धान् प्रयोगान् अनुसरति । एतादृशी व्यवस्थिताविभाषा अन्यतरस्याम् ग्रहणेन प्रकृतसूत्रे स्वीकृता अस्ति, येन सप्तमीघटिताः प्रयोगाः अपि साधयितुम् शक्यन्ते । \nप्रकृतसूत्रस्य आवश्यकता\nउपसर्गं विना प्रयुक्तस्य <<विश्>>-धातोः विषये आधारसंज्ञकस्य (यथा ग्राम-इत्यादि पदार्थस्य) <<आधारोऽधिकरणम्>> [[1.4.45]] इत्यनेन अधिकरणसंज्ञायां प्राप्तायाम्, परत्वात् तां बाधित्वा <<कर्तुरीप्सिततमं कर्म>> [[1.4.49]] इत्यनेन कर्मसंज्ञा विधीयते, यतोऽहि आधारसंज्ञकः ग्राम-इत्यादि पदार्थः कर्तुः ईप्सिततमः अपि अस्ति । इत्युक्ते, उपसर्ग-भिन्न-विश्-धातोः विषये विप्रतिषेधेनैव आधारस्य कर्मसंज्ञा सिद्धा अस्ति । परन्तु <<अभि + नि + विश्>> इत्यस्य प्रयोगे आधारसंज्ञकस्य सन्मार्गपदार्थस्य <<कर्तुरीप्सिततमं कर्म>> [[1.4.49]] इत्यनेन कर्मसंज्ञा नैव सम्भवति यतः अयं सन्मार्गपदार्थः अत्र न हि कर्तुः ईप्सिततमः वर्तते । (सन्मागस्य आसक्तिः / सन्मार्गस्य निश्चयः इति कर्तुः ईप्सिततमम् अस्ति, न हि केवलं सन्मार्गः - इत्याशयः) । अस्यां स्थितौ <<अभि + नि + विश्>> इत्यस्य प्रयोगे सन्मार्गादिपदार्थस्य अन्यसूत्रैः अप्राप्ताम् कर्मसंज्ञां विधातुम् प्रकृतसूत्रम् निर्मितम् अस्ति ।\nबाध्यबाधकभावः\n\"अभि + नि + विश्\" इत्यस्य विषये कर्तुः आधारस्य <<आधारोऽधिकरणम्>> [[1.4.45]] इत्यनेन प्राप्ताम् अधिकरणसंज्ञाम् अपवादत्वात् बाधित्वा प्रकृतसूत्रेण कर्मसंज्ञा विधीयते । \n" }, "14048": { "sa": "उप + वस्, अनु + वस्, अधि + वस्, आङ् + वस् - एतेषां यः आधारः, तत् कारकं कर्मसंज्ञकः भवति । यथा - हरिः वैकुण्ठम् उपवसति, अनुवसति, अधिवसति, आवसति । ", "sd": "<<कारके>> [[1.4.23]] इत्यस्मिन् अधिकारे यैः दशभिः सूत्रैः कर्मसंज्ञायाः विधानम् क्रियते, तेषु इदं पञ्चमं सूत्रम् । <<उप>>, <<अनु>>, <<अधि>> तथा <<आङ्>> इत्येतेषु कश्चन उपसर्गः यदा <<वस् (निवासे)>> <{1.1160}> इत्येतेन सह प्रयुज्यते, तदा आधारस्य <<आधारोऽधिकरणम्>> [[1.4.45]] इत्यनेन प्राप्ताम् अधिकरणसंज्ञां बाधित्वा प्रकृतसूत्रेण कर्मसंज्ञा विधीयते । एतेषाम् उपसर्गाणां प्रयोगेण धातोः अर्थे विशेषं परिवर्तनं न भवति, परन्तु आधारस्य अधिकरणसंज्ञां बाधित्वा कर्मसंज्ञा तु अवश्यं सिद्धयति । यथा, हरिः वैकुण्ठम् उपवसति, हरिः वैकुण्ठम् अनुवसति, हरिः वैकुण्ठम् अधिवसति, तथा च हरिः वैकुण्ठम् आवसति । सर्वेषाम् अपि अर्थः \"हरिः वैकुण्ठे वसति\" इत्येव अस्ति । एवमेव, सेना ग्रामम् उपवसति / अनुवसति / अधिवसति / आवसति इत्येते प्रयोगाः अपि सिद्ध्यन्ति ।\n\n1. धातुपाठे चत्वारः भिन्नाः <<वस्>> इत्याख्याः धातवः सन्ति । एतेषु केवलं भ्वादिगणस्य<<वस् (निवासे)>> <{1.1160}> इत्यस्यैव ग्रहणं अस्मिन् सूत्रे कृतम् अस्ति, अन्येषां त्रयाणां न ।\n2. प्रकृतसूत्रेण निर्दिष्टा कर्मसंज्ञा केवलम् <<उप>> / <<अनु>> / <<अधि>> / <<आङ्>> - इत्येतत्पूर्वस्य <<वस्>>-धातोः विषये एव प्रवर्तते । उपसर्गं विना प्रयुक्तः <<वस् निवासे>> इति धातुः तु अकर्मकः एव अस्ति ।अतः तस्य प्रयोगे आधारस्य अधिकरणसंज्ञा एव भवति । यथा - ग्रामे वसति । \n\nवार्त्तिकम् - <! अभुक्त्यर्थस्य न !>\n<<उप + वस्>> इत्यस्य अर्थः यदा \"भोजनपरित्यागं करोति / किमपि न खादति\" (to fast) इत्यस्मिन् अर्थे क्रियते, तदा आधारस्य प्रकृतसूत्रेण कर्मसंज्ञा न भवति । यथा, वने उपवसति (वने स्थित्वा किमपि न भुङ्क्ते) इत्यत्र <<उप + वस्>> इत्यस्य अर्थः \"वसति\" इति नास्ति अपितु \"भोजनं न करोति\" इति अस्ति, अतः अत्र प्रकृतसूत्रस्य प्रयोगः न भवति, अतश्च आधारस्य <<आधारोऽधिकरणम्>> [[1.4.45]] इत्यनेन अधिकरणसंज्ञा एव भवति ।\nबाध्यबाधकभावः\n<<उप + वस्>>, <<अनु + वस्>>, <<अधि + वस्>>, <<आङ् + वस्>> - एतेषां विषये कर्तुः आधारस्य <<आधारोऽधिकरणम्>> [[1.4.45]] इत्यनेन प्राप्ताम् अधिकरणसंज्ञाम् अपवादत्वात् बाधित्वा प्रकृतसूत्रेण कर्मसंज्ञा विधीयते । \nसिद्धान्तकौमुद्यां दत्ते अन्ये द्वे वार्त्तिके\nसिद्धान्तकौमुद्यां प्रकृतसूत्रे इत्येत् वार्त्तिकं विहाय अन्ये अपि द्वे वार्त्तिके दत्ते स्तः । वस्तुतः एते वार्त्तिके कर्मसंज्ञाविशिष्टे न, अपितु द्वितीयाविभक्तेः विषये स्तः । काशिकायां, भाष्ये च एते द्वे अपि वार्त्तिके <<कर्मणि द्वितीया>> [[2.3.2]] इत्यत्र पाठिते स्तः । परन्तु कौमुदीकारः प्रसङ्गवशात् एते अत्रैव पाठयति । एतयोः विवरणम् एतादृशम् -\n\n
  • 1. \n(अन्वयः - उभ-सर्व-तसोः, धिक्, उपरि-आदिषु त्रिषु आम्रेडितान्तेषु द्वितीया कार्या । ततः अन्यत्र अपि दृश्यते ।)\n उभयतः, सर्वतः, धिक्, उपर्युपरि, अध्यधि, अधोधः - एतेषाम् षण्णाम् शब्दानां योगे द्वितीया विभक्तिः भवति । अपि च, एतान् विहाय अन्येषाम् अपि केषाञ्चन योगे द्वितीया विभक्तिः भवति । क्रमेण उदाहरणानि एतानि - \n
  • i. उभयतः (on two sides) - कृष्णं उभयतः गोपाः तिष्ठन्ति । कृष्णस्य वामे दक्षिणे च गोपाः सन्ति - इत्याशयः । \n
  • ii. परितः (on all sides) - कृष्णं सर्वतः गोपाः तिष्ठन्ति iii. धिक् (निन्दा, निर्भत्सनम्, expressing displeasure) - धिक् कृष्णाभक्तम् । यः कृष्णस्य भक्तः न, सः निन्द्यः - इत्याशयः ।\n
  • iv. उपर्युपरि (ऊर्ध्वदिशि समीपे, Closer in upward direction) - लोकम् उपर्युपरि हरिः । हरिः लोकस्य अपेक्षया उपरि समीपे एव वसति - इत्याशयः । उपर्युपरि इत्यत्र <<उपर्यध्यधसः सामीप्ये>> [[8.1.7]] इत्यनेन सामीप्यस्य विवक्षायां द्वित्वं कृतम् अस्ति । एतादृशे द्वित्वे कृते उपरि-उपरि इति स्थिते एताभ्यां द्वाभ्यां यः द्वितीयः उपरि शब्दः, तस्य <<तस्य परमाम्रेडितम्>> [[8.1.2]] इत्यनेन आम्रेडितसंज्ञा भवति । अस्य आम्रेडितसंज्ञकस्य योगे, इत्युक्ते कृतद्वित्वस्य विषये एव द्वितीया भवति (इत्युक्ते, द्वित्वं विना केवलम् उपरि शब्दः प्रयुज्यते चेत् द्वितीया न भवति) इति स्पष्टीकर्तुमेव अस्मिन् वार्त्तिके \"आम्रेडित\" इति शब्दः स्थापितः वर्तते । \n
  • v. अध्यधि (आधारेण समीपे, supported by in proximity) -लोकम् अध्यधि हरिः । हरिः लोकस्य आधारेण, तत्समीपे एव वसति - इत्याशयः । अध्यधि इत्यत्र <<उपर्यध्यधसः सामीप्ये>> [[8.1.7]] इत्यनेन सामीप्यस्य विवक्षायां द्वित्वं कृतम् अस्ति । अस्य कृतद्वित्वस्य विषये एव इदं वार्त्तिकं प्रवर्तते ।\n
  • vi. अधोधः (अधोदिशि समीपे, Closer in the downward direction) - लोकम् अधोऽधः नागाः । नागाः लोकस्य अधः, तत्समीपे एव वसन्ति - इत्याशयः । अधोऽधः इत्यत्र <<उपर्यध्यधसः सामीप्ये>> [[8.1.7]] इत्यनेन सामीप्यस्य विवक्षायां द्वित्वं कृतम् अस्ति । अस्य कृतद्वित्वस्य विषये एव इदं वार्त्तिकं प्रवर्तते ।\nएतेषाम् षण्णाम् उपपदानां योगे तु अत्र द्वितीया भवत्येव, परन्तु एतान् विहाय केषाञ्चन अन्येषां योगे अपि द्वितीया सम्भवति, इति स्पष्टीकर्तुम् अस्मिन् वार्त्तिके \"ततोऽन्यत्रापि दृश्यते\" इति निर्देशः कृतः अस्ति । एते अन्ये शब्दाः के के इति अग्रिमेण वार्त्तिकेन स्पष्टी भवति । \n
  • 2. \nअभितः, परितः, समया, निकषा, हा, प्रति - एतेषां षण्णाम् योगे अपि द्वितीया विभक्तिः भवति । क्रमेण उदाहरणानि एतानि -\n
  • i. अभितः (सर्वासु दिक्षु, in all directions) - कृष्णं अभितः गोपाः तिष्ठन्ति ।\n
  • ii. परितः (सर्वासु दिक्षु, in all directions) - कृष्णं परितः गोपाः तिष्ठन्ति ।\n
  • iii. समया (समीपे, closeby) - ग्रामं समया मन्दिरम् । ग्रामस्य समीपे एव मन्दिरं वर्तते - इत्याशयः । \n
  • iv. निकषा (समीपे, closeby) - ग्रामं निकषा मन्दिरम् । ग्रामस्य समीपे एव मन्दिरं वर्तते - इत्याशयः । \n
  • v. हा (दुःखप्रदर्शनम्, to express grief)- हा देवदत्तं कृष्णाभक्तम् । देवदत्तः कृष्णस्य भक्तः नास्ति इति दुःखस्य विषयः - इत्याशयः ।\n
  • vi. प्रति (उपसर्गसंज्ञकः) - अस्य एकमेव उदाहरणं लभ्यते - बुभुक्षितं न प्रतिभाति किञ्चित् । यः बुभुक्षितः अस्ति, सः कस्यापि विषयस्य सम्यक् चिन्तनं नैव कर्तुं शक्नोति - इत्याशयः । यदि अत्र वार्त्तिके प्रति इति पदं न स्यात्, तर्हि अत्र \"बुभुक्षितस्य न प्रतिभाति\" इति शेषषष्ठ्या प्रयोगः अभविष्यत् । \n\"देवदत्तः ग्रामं प्रति गच्छति\" इत्यादिषु वाक्येषु विद्यमानः <<प्रति>> इति शब्दः भिन्नः अस्ति । तस्य कर्मप्रवचनीयसंज्ञा भवति तथा च <<कर्मप्रवचनीययुक्ते द्वितीया>> [[2.3.8]] इत्यनेन तस्य योगे विद्यमानस्य ग्रामइत्यादिशब्दस्य द्वितीया विधीयते । अत्र वार्त्तिके निर्दिष्टः <<प्रति>> इति शब्दः कर्मप्रवचनीयसंज्ञकः नास्ति, अपितु उपसर्गसंज्ञकः अस्ति । अस्य एकमेव उदाहरणं व्याख्यानेषु दत्तं वर्तते यत् उपरि निर्दिष्टम् अस्ति ।" }, "14049": { "sa": "कर्तुः क्रियया आप्तुम् यत् इष्टतमम्, तत् कारकं कर्मसंज्ञं भवति । यथा - हरिं भजति ।", "sd": "<<कारके>> [[1.4.23]] इत्यस्मिन् अधिकारे यैः दशभिः सूत्रैः कर्मसंज्ञायाः विधानम् क्रियते, तेषु इदं षष्ठं, तथा च मुख्यतमं सूत्रम् । क्रियायाः व्यापारेण कर्तुः यत् इष्टतमम् , most desired) तस्य कर्म इति संज्ञा भवतिकर्तुः इष्टतम: पदार्थः इत्युक्ते सः पदार्थः यं क्रियायाः कर्ता क्रियया प्रकर्षेण प्राप्तुम् इच्छति । किञ्च, अस्मिन्नेव पदार्थे कर्ता क्रियाफलम् अपि पश्यति । यथा, देवदत्तः ओदनं पचति इत्यत्र पचनक्रियया (= विक्लित्त्यनुकूलव्यापारेण) देवदत्तः ओदनस्य विक्लित्तिम् इच्छति, अतएव क्रियायाः फलम् अपि सः ओदने एव पश्यति, अतश्च पचनक्रियायाः सन्दर्भेण देवदत्तस्य इष्टतमम् अत्र ओदनपदार्थः इति स्वीक्रियते, तथा च तस्य प्रकृतसूत्रेण कर्मसंज्ञा भवति । कर्मसंज्ञायां सत्याम्, <<कर्मणि द्वितीया>> [[2.3.2]] इत्यनेन कर्मसंज्ञकपदार्थस्य निर्देशार्थम् द्वितीयाविभक्तिः प्रयुज्यते, येन देवदत्तः ओदनं पचति इति प्रयोगः सिद्ध्यति । अनेनैव प्रकारेण कानिचन अन्यानि उदाहरणानि एतानि -\n\n1. देवदत्तः ग्रामं गच्छति इत्यत्र गमनक्रियायाः (= उत्तरदेशसंयोगानुकूलव्यापारस्य) देवदत्तः फलं ग्रामे पश्यति, अतः गमनक्रियायाः सन्दर्भेण ग्रामपदार्थः देवदत्तस्य इष्टतमरूपेण प्रयुज्यते, तस्य च प्रकृतसूत्रेण कर्मसंज्ञा भवति । \n2. देवदत्तः हरिं भजति इत्यत्र भजनक्रियायाः (= तुष्ट्यनुकूलपरिचरणात्मकव्यापारस्य) फलं देवदत्तः हरौ पश्यति, अतः भजनक्रियायाः सन्दर्भेण हरिपदार्थः देवदत्तस्य इष्टतमरूपेण प्रयुज्यते, तस्य च प्रकृतसूत्रेण कर्मसंज्ञा भवति । \n2. देवदत्तः अपूपान् खादति इत्यत्र खादनक्रियायाः (= गलबिलसंयोगात्मकव्यापारस्य) फलं देवदत्तः अपूपेषु पश्यति, अतः खादनक्रियायाः सन्दर्भेण अपूपपदार्थः देवदत्तस्य इष्टतमरूपेण प्रयुज्यते, तस्य च प्रकृतसूत्रेण कर्मसंज्ञा भवति । \n\n<hlb>ईप्सिततमम्</hlb> इति शब्दः\nपाणिनिमहर्षिणा प्रकृतसूत्रे ईप्सिततमम् इति शब्दः प्रयुक्तः अस्ति । ईप्सिततमम् इत्युक्ते आप्तुम् इष्टतमम् । स्वादिगणस्य <<आप् (व्याप्तौ)>> <{5.16}> इति धातोः \"आप्तुम् इच्छति\" अस्मिन् अर्थे <<सन्>>-प्रत्यये कृते <<ईप्स>> इति आतिदेशिकधातुः सिद्ध्यति । अस्मात् कर्मणि <<क्त>>-प्रत्यये कृते ईप्सित इति शब्दः सिद्ध्यति । आप्तुम् इष्टम् तत् ईप्सितम् । एतादृशेषु सर्वेषु अपि ईप्सितेषु यत् प्रकर्षेण ईप्सितम्, तस्य निर्देशार्थम् <<अतिशायने तमबिष्ठनौ>> [[5.3.55]] इत्यनेन <<तमप्>>-प्रत्ययं कृत्वा ईप्सिततम इति शब्दः सिद्ध्यति । अस्य ईप्सिततमस्य प्रकृतसूत्रेण कर्मसंज्ञा भवति । \nअत्र इदं स्मर्तव्यम्, यत् ईप्सिततमम् इत्यनेन \"कर्तुः स्वस्य रुचिः कीदृशी वर्तते\" इति चिन्तनं न क्रियते । केवलं \"क्रियया कर्ता किम् इच्छति\" इत्यस्यैव अत्र चिन्तनम् करणीयम् । यथा, कस्यचन देवदत्तस्य यद्यपि अपूपाः द्वेष्या: स्युः (Devadatta dislikes pakoras), तथापि, यदि देवदत्तः अपूपानाम् पचनक्रियां करोति, तर्हि तत्र देवदत्तः अपूपान् पचति इत्यत्र अपूपाः एव पचनक्रियायाः सन्दर्भेण देवदत्तस्य \"ईप्सिततमाः\" सन्ति, यतोऽहि पचनक्रियायाः फलम् देवदत्तः अपूपेषु एव पश्यति, नान्यत्र । एवमेव, देवदत्तः विषं भुङ्क्ते इत्यत्रापि, स्वेच्छया अनिच्छया वा, परन्तु \"इदं विषम् अहं भोक्ष्ये\" इति ज्ञात्वा, चिन्तयित्वा च विषं भुञ्जानः देवदत्तः भोजनक्रियायाः गलबिलसंयोगरुपि फलम् विषे एव पश्यति इति कारणात् विषस्यैव ईप्सिततमत्वम् अस्ति ।\nअकर्मकधातवः\nकासाञ्चन क्रियाणाम् सन्दर्भेण कर्तुः ईप्सितमम् स्वयम् कर्ता एव अस्ति, कश्चन अन्यपदार्थः न । यथा, हसन-शयन-वर्धनादिक्रियाणां फलम् कर्ता स्वस्मिन् एव पश्यति, अन्यत्र न । अतः एतासां क्रियाणां विषये कर्तुः ईप्सिततमम् कर्ता एव भवति । अस्यां स्थितौ एतेषाम् अर्थानां वाचकाः <<हस्>>-<<शीङ्>>-<<वृध्>>-इत्यादयः ये धातवः, तेषां कर्मपदमेव न सम्भवति । एतादृशाः धातवः धातुपाठे अकर्मकधातवः इति नाम्ना परिगणिताः सन्ति । धातुपाठे आहत्य 650 धातवः अकर्मकाः सन्ति । एतेषाम् आवली अत्र द्रष्टुं शक्यते ।\nईप्सितत्वस्य आधारेण पदार्थानां विभाजनम्\nक्रियायाः सन्दर्भे कर्तुः दृष्ट्या, ईप्सितत्वस्य आधारेण पदार्थानां त्रिषु गणेषु विभाजनं सम्भवति -\n\n
  • 1) ते पदार्थाः ये ईप्सिताः सन्ति । एतादृशेषु पदार्थेषु यः प्रकर्षेण ईप्सितः, सः ईप्सिततमः नाम्ना निर्दिश्यते, तथा च तस्य प्रकृतसूत्रेण कर्मसंज्ञा भवति । अन्येषां पदार्थानाम् (इत्युक्ते, ये ईप्सिताः सन्ति परन्तु ईप्सिततमाः न सन्ति) तेषां कर्मसंज्ञा न भवति । एतत् स्पष्टीकर्तुम् एव प्रकृतसूत्रे ईप्सिततमम् इति तमप्-प्रत्ययान्तशब्दस्य ग्रहणं कृतं वर्तते ।\n
  • 2) ते पदार्थाः ये द्वेष्याः सन्ति । एतेषां पदार्थानां <<तथायुक्तं चानीप्सितम्>> [[1.4.50]] इति अग्रिमसूत्रेण कर्मसंज्ञा भवति ।\n
  • 3) ते पदार्थाः ये उपेक्ष्याः सन्ति (इत्युक्ते, ईप्सिताः अपि न सन्ति, द्वेष्याः अपि न सन्ति । एतेषां विषये कर्तुः मनसि औदासीन्यं वर्तते ।) । एतेषां पदार्थानाम् अपि <<तथायुक्तं चानीप्सितम्>> [[1.4.50]] इति अग्रिमसूत्रेण कर्मसंज्ञा भवति ।\n\nदलकृत्यम्\n1. कर्तुः इति किमर्थम् ? अन्यकारकस्य यद् ईप्सिततमम्, तस्य प्रकृतसूत्रेण कर्मसंज्ञा न भवति । यथा, देवदत्तः माषेषु अश्वान् बन्धाति (Devadatta ties the horse near the grams) इत्यत्र कर्तुः (देवदत्तस्य) बन्धनक्रियायाः सन्दर्भेण ईप्सितपदार्थः अश्वः इति अस्ति, अतः तस्य कर्मसंज्ञा अवश्यं भवति । परन्तु अश्वपदार्थस्य ईप्सिताः ये माषाः, तेषाम् कर्मसंज्ञा न भवति । \n2. ईप्सिततमम् इति किमर्थम् ? ये पदार्थाः ईप्सिताः सन्ति परन्तु ईप्सिततमाः न सन्ति, तेषां विषये प्रकृतसूत्रेण कर्मसंज्ञा न भवति । यथा, देवदत्तः पयसा ओदनं भुङ्क्ते । अत्र यद्यपि देवदत्तः ओदनम् अपि भुङ्क्ते, पयः अपि भुङ्क्ते, तथापि भोजनक्रियायाः सन्दर्भेण देवदत्तस्य ईप्सिततमपदार्थः ओदनम् इत्येव अस्ति । पयः तु ओदनस्य संस्काराय प्रयुज्यते (ओदनः नास्ति चेत् पयस: अपि न उपयोगः इत्याशयः) । अतः पयः यद्यपि ईप्सितं भवितुम् अर्हति, तथापि तत् ओदनसदृशम् ईप्सिततमम् नास्ति । अतः अत्र केवलम् ओदनस्यैव प्रकृतसूत्रेण कर्मसंज्ञा भवति । पयः-पदार्थस्य तु <<साधकतमं करणम्>> [[1.4.42]] इत्यनेन करणसंज्ञा एव विधीयते ।\nकर्म इति अनुवृत्तौ पुनः कर्मग्रहणम् आधारनिवृत्यर्थम् \nवस्तुतः प्रकृतसूत्रे <<अधिशीङ्स्थासां कर्म>> [[1.4.46]] इत्यस्मात् सूत्रात् कर्म इति पदस्य अनुवृत्तिः अवश्यं सम्भवति । तथापि एतादृशीम् अनुवृत्तिं त्यक्त्वा पाणिनिमहर्षिणा प्रकृतसूत्रे पुनः कर्म इति पदस्य निर्देशः कृतः अस्ति । अयं निर्देशः आधारः इति पदस्य निवारणार्थम् अस्ति । इत्युक्ते, पूर्वेषु सूत्रेषु यत्र यत्र कर्म इति पदम् अनुवर्तते, तत्र तत्र आधार-शब्दस्य अपि अनुवृत्तिः अस्ति एव; अतः अत्रापि कर्म इत्यस्य अनुवृत्त्या ग्रहणं क्रियते चेत् आधार-शब्दस्य अनुवृत्तिः अपि अवश्यम् भवितुम् अर्हति । परन्तु एतादृशीं अनुवृत्तिं स्वीकुर्मः चेत् केवलं ग्रामं गच्छति, गेहं प्रविशति इत्यादिषु उदाहरणेषु एव कर्मसंज्ञा भवेत्, यतोहि एतादृशेषु उदाहरणेषु एव ग्रामपदार्थस्य गेहपदार्थस्य वा आधारत्वम् अपि वर्तते । परन्तु ओदनं पचति, सक्तून् पिबति इत्यादिषु उदाहरणेषु ओदन-सक्तु-आदीनाम् आधारत्व-अभावात् कर्मसंज्ञा एव न स्यात् । तत् तथा मा भूत्; इत्युक्ते, कर्तुः ईप्सिततमः नित्यमेव (आधारत्वे, तदभावे अपि च) कर्मसंज्ञकः अवश्यमेव स्यात्, इति स्पष्टीकर्तुम् (इत्युक्ते आधारभिन्न स्थले अपि कर्मसंज्ञाविधानार्थम्) पाणिनिमहर्षिणा प्रकृतसूत्रे कर्मपदस्य पृथक् ग्रहणं कृतम् अस्ति । \n<pv> कर्मकारकस्य त्रयः भेदाः\n<<कर्तुरीप्सिततमं कर्म>> [[1.4.49]] इति सूत्रेण विहितायाः कर्मसंज्ञायाः अग्रे त्रयः भेदाः भर्तृहरिणा वाक्यपदीये निर्दिष्टाः सन्ति । तत्र विद्यमाना कारिका इयम् -\n\nनिर्वर्त्यं च विकार्यं च प्राप्य चेति त्रिधा मतम् ।\nतत्रेप्सिततमं कर्म, चतुर्धान्यत्तु कल्पितम् ॥ (- वाक्यपदीये 3.4.75)\n\nअस्याः कारिकायाः प्रथमायां पङ्क्तौ भर्तृहरिः ईप्सिततम-कर्मणः निर्वत्यम्, विकार्यम् तथा च प्राप्यम् इत्येतान् त्रीन् भेदान् विवृणोति । एतेषाम् अर्थाः एतादृशाः -\n\n
  • 1. निर्वर्त्यं कर्म इत्युक्ते तत् कर्म यत् क्रियायाः व्यापारात् पूर्वं नैव आसीत्, अपितु क्रियाया व्यापारेण एव अस्य निर्माणम् भवति। यथा - देवदत्तः कुम्भं करोति । अत्र कुम्भपदार्थस्य निर्माणं अस्याः क्रियायाः व्यापारेण एव अभवत्, अतः अत्र कुम्भपदार्थः निर्वत्यं कर्म अस्ति । एवमेव, वाक्यं वदति, कथां लिखति, चित्रं चित्रयति इत्यादिषु उदाहरणेषु विद्यमानं कर्म अपि निर्वत्यं कर्म एव स्वीक्रियते। \n
  • 2. विकार्यं कर्म इत्युक्ते तत् कर्म यत् क्रियायाः व्यापारात् अवश्यम् आसीत्, परन्तु यस्य स्वरूपे क्रियया किञ्चित् परिवर्तनं भवति । क्रियायाः प्रारम्भात् पूर्वं इदं कर्म भिन्ने स्वरूपे आसीत्, परन्तु क्रियया अस्मिन् कर्मणि परिवर्तनं जातम् - इति अत्र आशयः वर्तते । यथा - देवदत्तः ओदनं पचति । अत्र पचनक्रियायाः पूर्वम् ओदनस्य स्वरूपम् तण्डुलात्मकं (कठिनम्, शुष्कं च) आसीत् । परन्तु पचनक्रियया तस्मिन् रूपे परिवर्तनं भवति, तथा च पचनक्रियायाः अन्ते ओदनाः विक्लिन्नाः / आर्दाः भवन्ति । अनेन प्रकारेण अत्र कर्मसंज्ञकपदार्थस्य स्वरूपे क्रियया परिवर्तनं भवति, अतः इदम् विकार्यकर्मणः उदाहरणम् । एवमेव, शत्रून् हन्ति, वृक्षं छिनत्ति, अपूपान् खादति इत्यादिषु उदाहरणेषु विद्यमानं कर्म अपि विकार्यं कर्म एव स्वीक्रियते। प्रकृति-विकृतिभावस्य उदाहरणानि अपि अस्यैव कर्मपदस्य विषये भवन्ति । यथा - सुवर्णं कुण्डलं करोति, मूकं वाचालं करोति इत्यादिषु विद्यमानं कर्म अपि विकार्यं कर्म एव ।\n
  • 3. प्राप्यं कर्म इत्युक्ते तत् कर्म यस्य स्वरूपे क्रियया किञ्चित् परिवर्तनं जातं नैव दृश्यते । क्रियायाः पूर्वं इदं कर्म यस्मिन् स्वरूपे आसीत्, तस्मिन्नेव स्वरूपे तत् क्रियायाः अन्ते अपि भवति - इति अत्र आशयः वर्तते । यथा - देवदत्तः चित्रं पश्यति । अत्र दर्शनक्रियया चित्रस्य स्वरूपे किमपि परिवर्तनं न भवति, अतः इदं प्राप्यं कर्म । एवमेव, ग्रन्थं पठति, ग्रामं गच्छति, धनं ददाति, शिवं वन्दते इत्यादिषु उदाहरणेषु विद्यमानं कर्म अपि प्राप्य कर्म एव गृह्यते। \n\n" }, "14050": { "sa": "कर्तुः क्रियया आप्तुम् यत् अनीप्सितम् , तत् कारकं फलाश्रयं सत् कर्मसंज्ञं भवति । यथा - ग्रामं गच्छन् तृणं स्पृशति, ग्रामं गच्छन् अहिं लङ्घयति । ", "sd": "<<कारके>> [[1.4.23]] इत्यस्मिन् अधिकारे यैः दशभिः सूत्रैः कर्मसंज्ञायाः विधानम् क्रियते, तेषु इदं सप्तमं सूत्रम् । क्रियायाः व्यापारेण कर्तुः यत् इष्टतमम् (most desired) तस्य <<कर्तुरीप्सिततमं कर्म>> [[1.4.49]] इत्यनेन कर्मसंज्ञायां सिद्धायाम्, तेनैव प्रकारेण (इत्युक्ते, तथैव फलाश्रयत्वयुक्तं सत्) कर्तुः यत् अनीप्सितम् (इत्युक्ते यत् क्रियया ईप्सितं न, तत्) तस्य प्रकृतसूत्रेण कर्मसंज्ञा विधीयते । अस्य द्वे उदाहरणे एतादृशे -\n\n
  • 1. देवदत्तः ग्रामं गच्छन् अहिं लङ्घयति । कश्चन देवदत्तः ग्रामं गन्तुम् मार्गेण पद्भ्याम् अग्रे सरन् मार्गे विद्यमानान् कण्टकान्, नदीम्, पर्वतम् अवश्यं लङ्घयितुम् (to cross) इच्छेत्, परन्तु सः मार्गे विद्यमानम् अहिं (सर्पं) नैव लङ्घयितुम् इच्छति । सर्पः दृश्यते चेत् मार्गे परिवर्तनं कृत्वा एव सः अग्रे गच्छेत्, इति सामान्यः व्यवहारः । अतः लङ्घनक्रियायाः सन्दर्भेण अहिः इति देवदत्तस्य ईप्सितम् नास्ति, अपितु द्वेष्यम् / त्याज्यम् एव अस्ति । अस्यां स्थितौ यदि देवदत्तः अनवधानेन अहिं लङ्घयेत्, तर्हि अहिपदार्थस्य कर्मसंज्ञा भवेत् वा - इति प्रश्नः उदेति । तत्र लङ्घनक्रियायाः कृते अहिपदार्थस्य ईप्सिततमत्व-अभावात् <<कर्तुरीप्सिततमं कर्म>> [[1.4.49]] इति पूर्वसूत्रेण तु अहिपदार्थस्य कर्मसंज्ञा अत्र नैव सम्भवति । परन्तु एतादृशी कर्मसंज्ञा अवश्यमेव ईष्यते, अतश्च तां विधातुम् प्रकृतसूत्रम् निर्मितम् अस्ति । क्रियया आप्तुम् यद् ईप्सिततमम्, तद् यथा (फलाश्रयं सत्) कर्मसंज्ञकं भवति, तथैव क्रियया आप्तुम् यद् अनीप्सितम्, तद् अपि फलाश्रयं सत् कर्मसंज्ञं भवति - इति प्रकृसूत्रस्य आशयः वर्तते । अतएव, ग्रामं गच्छन् अहिं लङ्घयति इत्यत्र लङ्घनरूपव्यापारस्य फलं अहिपदार्थे न पश्यन् (किञ्च, अहिपदार्थे लङ्घनक्रियायाः फलं न भवेत् इति यतमानः अपि) देवदत्तः, प्रायेण अनवधानेन तत्रैव तस्य फलं लभते, इति कारणात् , अहिपदार्थस्य फलाश्रयत्वात् प्रकृतसूत्रेण तस्य अत्र कर्मसंज्ञा भवति, ततः च एतादृशस्य अनभिहित-कर्मणः निर्देशार्थम् <<कर्मणि द्वितीया>> [[2.3.2]] इत्यनेन द्वितीयायाः प्रयोगं कृत्वा ग्रामं गच्छन् अहिं लङ्घयति इति प्रयोगः सिद्ध्यति । एवमेव, ओदनं भुञ्जानः विषं भुङ्क्ते इत्यत्र भोजनक्रियायाः सन्दर्भेण विषस्य, तथा च ग्रामं गच्छन् चौरान् पश्यति इत्यत्र दर्शनक्रियायाः सन्दर्भेण चौराणाम् अपि, अनीप्सितत्वात् (द्वेष्यत्वात्) प्रकृतसूत्रेण कर्मसंज्ञा भवति । \n
  • 2. देवदत्तः ग्रामं गच्छन् तृणं स्पृशति । ग्रामं गच्छन् देवदत्तः \"मार्गे विद्यमानान् तृणान् अहं स्पृशामि\" इति नैव चिन्तयति, तथापि सः तान् अवश्यं स्पृष्ट्वा एव अग्रे गच्छति । अत्र स्पर्शनक्रियायाः कृते तृणम् इति देवदत्तस्य ईप्सितम् न वर्तते । यद्यपि तत् द्वेष्यम् / त्याज्यम् अपि नास्ति (इत्युक्ते देवदत्तः तृणानि दृष्ट्वा पूर्ववत् मार्गं नैव परिवर्तयेत्) तथापि सः \"अहं तृणानि स्प्रष्टुम् अनेन पथा गच्छन् अस्मि\" इति न हि चिन्तयति । इत्युक्ते, स्पर्शनक्रियायाः फलं तृणेषु \"अस्ति उत नास्ति\" इत्यस्मिन् विषये देवदत्तः उदासीनः अस्ति । अतएव तृणपदार्थः अत्र देवदत्तस्य अनीप्सितरूपेणैव परिगण्यते । परन्तु तथापि स्पर्शनक्रियायाः फलं तु तृणे एव वर्तते । अस्यां स्थितौ तृणपदार्थस्य पूर्वसूत्रेण अप्राप्ता कर्मसंज्ञा इदानीं प्रकृतसूत्रेण विधीयते, येन ग्रामं गच्छन् तृणं स्पृशति इति प्रयोगः सिद्ध्यति । एवमेव, ग्रामं गच्छन् वृक्षमूलानि उपसर्पयति इत्यत्रापि उपसर्पणक्रियायाः सन्दर्भेण वृक्षमूलपदार्थः प्रकृतसूत्रेण कर्मसंज्ञः भवति । \n\nग्रामं गच्छन् अहिं लङ्घयति तथा च ग्रामं गच्छन् तृणं स्पृशति एतयोः द्वयोः अपि उदाहरणयोः ग्रामपदार्थः तु गमनक्रियायाः ईप्सिततमः एव वर्तते, अतः अत्र ग्रामपदार्थस्य कर्मसंज्ञा <<कर्तुरीप्सिततमं कर्म>> [[1.4.49]] इत्यनेनैव भवति । प्रकृतसूत्रं तु लङ्घनक्रियायाः कृते अनीप्सितः यः अहिपदार्थः, तथा च स्पर्शनक्रियायाः कृते अनीप्सितः यः तृणपदार्थः, तयोः कर्मसंज्ञाविधानार्थं प्रयुज्यते । यदि तयोः \"अनीप्सितत्वं\" नैव स्यात्, इत्युक्ते यदि ग्रामं गच्छन् देवदत्तः स्वज्ञातिपुरस्सरं (on purpose) अहिं लङ्घयेत् उत तृणं स्पृशेत्, तर्हि तत्र तु अहिपदार्थस्य तृणपदार्थस्य च <<कर्तुरीप्सिततमं कर्म>> [[1.4.49]] इत्यनेनैव कर्मसंज्ञा भवितुम् अर्हति ।\n<hlb>अनीप्सितम्</hlb> इति शब्दः \nप्रकृतसूत्रे प्रयुक्तः अनीप्सितम् इति शब्दः न ईप्सितम् (प्राप्तुम् इष्टम्) तत् अनीप्सितम् इति तत्पुरुषसमासेन सिद्ध्यति । अत्र नञ्-शब्दस्य अर्थं स्पष्टीकुर्वन् भाष्यकारः ब्रूते - न अयं प्रसज्यप्रतिषेधः, ईप्सितं न इति । किं तर्हि ? पर्युदासोऽयम् । भाष्यकारेण अत्र नञ् इति पर्युदासः अस्ति इति प्रतिपादितं वर्तते । एतादृशे अर्थे स्वीकृते, सूत्रस्य अर्थः अपि \"यत् ईप्सितं न (= ईप्सितभिन्नम्) तस्य (फलाश्रयत्वे सति) कर्मसंज्ञा भवति\" इति सिद्ध्यति । एतादृशाः इप्सितभिन्नाः शब्दाः द्विधा भवितुम् अर्हन्ति - \n1) ते पदार्थाः ये द्वेष्याः सन्ति (Those which the doer would like to avoid) । एतेषाम् \"अनीप्सित\"शब्देन निर्देशः अवश्यं सम्भवति, अतः एतेषां प्रकृतसूत्रेण कर्मसंज्ञा भवति ।\n2) ते पदार्थाः ये उपेक्ष्याः सन्ति (इत्युक्ते, ईप्सिताः अपि न सन्ति, द्वेष्याः अपि न सन्ति । एतेषां विषये कर्तुः मनसि औदासीन्यं वर्तते ।) । एते पदार्थाः अपि \"ईप्सिताः न सन्ति\" इति कारणात् एतेषाम् \"अनीप्सित\"शब्देन ग्रहणम् अवश्यं भवति । अतः एतादृशानां पदार्थानाम् अपि प्रकृतसूत्रेण कर्मसंज्ञा अवश्यमेव भवति ।\n\nअनेन प्रकारेण प्रकृतसूत्रे प्रयुक्तेन अनीप्सितशब्देन द्वेष्यपदार्थस्य उपेक्ष्यपदार्थस्य चापि ग्रहणं भवति ।\nदलकृत्यम्\n 1. \"तथा युक्तम्\" इति किमर्थम् ? पूर्वसूत्रे यथा क्रियायाः फलस्य आश्रयः कर्मसंज्ञकः भवति, तथैव अत्रापि क्रियायाः फलस्य आश्रयः एव कर्मसंज्ञां प्राप्नुयात् - इति स्पष्टीकर्तुम् प्रकृतसूत्रे \"तथा युक्तम्\" इति पदद्वयं स्वीक्रियते । यदि एते पदे प्रकृतसूत्रे न स्याताम्, तर्हि सर्वेषाम् अपि अनीप्सितानां प्रकृतसूत्रेण कर्मसंज्ञा प्रसज्येत । यथा, प्रयागात् काशीं गच्छति इत्यत्र, प्रयागस्य उपेक्ष्यत्वात् तस्य अनीप्सितत्वे लब्धे तस्य अपि कर्मसंज्ञा स्यात्, या परत्वात् अपादानसंज्ञां बाधेत । एवमेव, विषेण ओदनं भुङ्क्ते इत्यत्रापि भोजनक्रियां प्रति द्वेष्यत्वात् विषस्य कर्मसंज्ञा एव भवेत्, या परत्वात् करणसंज्ञां बाधेत । एतादृशं मा भूत् इति हेतुना अत्र तथा युक्तम् इति पदद्वयम् स्थापितम् अस्ति । एतयोः योजनेन केवलं तादृशस्यैव अनीप्सितस्य कर्मसंज्ञा सिद्धा भवति यादृशम् अनीप्सितम् फलस्य आश्रयरूपेण प्रवर्तते । इदानीं प्रयागात् काशीं गच्छति इत्यत्र गमनक्रियायाः उत्तरदेशसंयोगरूपिणः फलस्य आश्रयः (इत्युक्ते उत्तरदेशः) प्रयागः न, अतः प्रयागस्य अनीप्सितत्वात् अपि फलाश्रय-अभावात् तस्य कर्मसंज्ञा न भवति । एवमेव, विषेण ओदनं भुङ्क्ते इत्यत्रापि भोजनक्रियायाः गलबिकसंयोगरूपिणः फलस्य आश्रयः विषम् न अपितु ओदनम् अस्ति, अतः विषस्य अनीप्सितत्वात् अपि फलाश्रय-अभावात् तस्य कर्मसंज्ञा न भवति । अनेन प्रकारेण अत्र तथा युक्तम् इति द्वयोः पदयोः ग्रहणेन अनिष्टा कर्मसंज्ञा निवार्यते ।\n 2. \"अनीप्सितम्\" इति किमर्थम् ? यत् ईप्सितम् नास्ति, तस्यैव विषये प्रकृतसूत्रेण कर्मसंज्ञा भवेत्, इति स्पष्टीकर्तुम् अत्र अनीप्सितम् इति पदं स्थापितम् अस्ति । अनेन, ईप्सितपदार्थस्य अत्र कर्मसंज्ञा न भवति, यथा दध्ना ओदनं भुङ्क्ते इत्यत्र दधिपदार्थस्य साधकतमत्वेन केवलं ईप्सितत्वात् (परन्तु ईप्सिततमत्व-अभावात्) अस्य प्रकृतसूत्रेण कर्मसंज्ञा न सिद्ध्यति ।\nवस्तुतः तु अत्र अनीप्सितग्रहणम् अनावश्यकम् अस्ति इति भट्टोजिदीक्षितेन प्रौढमनोरमायां शब्दकौस्तुभे च विस्तरेण स्पष्टीकृतम् अस्ति । जिज्ञासुभिः तत् अवश्यमेव द्रष्टव्यम् । \nसूत्रस्य अन्वयः\n प्रकृतसूत्रे विद्यमानम् तथायुक्तम् इति एकं पदं नास्ति अपितु द्वे पदे स्तः । सूत्रपाठस्य अद्य उपलभ्यमानेषु प्रायेण सर्वेषु अपि संस्करणेषु तथायुक्तम् इति युगपत् (without space) स्थापितं दृश्यते, येन \"इदं समस्तपदं वा\" इति संशयः मनसि अवश्यमेव उद्भवति । परन्तु अत्र समासविधायकं न किञ्चन सूत्रम् अस्ति, न च मयूरव्यंसकादित्वात् अपि अत्र समासः शिष्टैः स्वीकृतः वर्तते । किञ्च, तथा इति शब्दस्य अन्वयः आदौ इत्यनेन कृत्वा ततः युक्तम् इत्यनेन क्रियते । एतदेव न, अपितु अस्मिन् अन्वये इति शब्दस्य अर्थः अपि परिवर्त्य एव इति स्वीक्रियते । अतः तथा च युक्तम् इत्युक्ते तथा एव युक्तम् । अनेन तथा एव युक्तम् इति वाक्यखण्डेन अत्र पूर्वसूत्रस्य सन्दर्भस्य ग्रहणं क्रियते । इत्युक्ते, \"यथा पूर्वसूत्रेण फलाश्रस्य कर्मसंज्ञा भवति, तथा एव (तेनैव प्रकारेण) अत्र कर्तुः अनीप्सितस्य अपि फलाश्रयत्वेन युक्ते एव कर्मसंज्ञा भवति\" इति प्रकृतसूत्रस्य सम्पूर्णः अर्थः जायते । " }, "14051": { "sa": "अपादानादिसंज्ञाभिः अविवक्षितं कारकं कर्मसंज्ञं भवति । यथा - गां दोग्धि । ", "sd": "<<कारके>> [[1.4.23]] इत्यस्मिन् अधिकारे यैः दशभिः सूत्रैः कर्मसंज्ञायाः विधानम् क्रियते, तेषु इदं अष्टमं सूत्रम् । अपादान-इत्यादिभिः कारकसंज्ञाभिः यस्य कारकस्य विवक्षा नैव कृता अस्ति, तत् कारकं कर्मसंज्ञं भवति - इति अस्य सूत्रस्य आशयः वर्तते । <ऽकारकाणि विवक्षातः भवन्तिऽ> इति वचनम् अनुसृत्य, कदाचित् <<ध्रुवमपायेऽपादानम्>> [[1.4.24]] इत्यादिभिः सूत्रैः दत्ता अपादानादिसंज्ञा नैव विवक्ष्यते चेत् तत् कारकं अविवक्षितम् (अकथितम्) एव तिष्ठति । अस्यां स्थितौ तस्य कर्मसंज्ञा भवेत् इति हेतुना अस्य सूत्रस्य निर्माणं कृतं वर्तते । \nयद्यपि अत्र सूत्रे विशिष्टानां धातूनां परिगणनं कृतं नास्ति, तथापि एतादृशी अन्यकारकस्य अविवक्षा, तथा च तदनुषङ्गेण कर्मसंज्ञायाः विधानम् केवलं विशिष्टानां धातूनां विषये एव भवति । एते धातवः काशिकाकौमुद्यादिषु ग्रन्थेषु भिन्नाभिः कारिकाभिः परिगणिताः सन्ति । तत्र कौमुद्यां दत्ता कारिका सुप्रसिद्धा वर्तते, अतः तस्याः आधारेण एव अत्र उदाहरणानि पश्यामः । सिद्धान्तकौमुदीस्था सा कारिका इयम् -\n\nदुह्याच्पच्दण्ड्रुधिप्रच्छिचिब्रूशासुजिमथ्मुषाम् । \nकर्मयुक् स्यादकथितं तथा स्यान्नीहृकृष्वहाम् ॥\n\nअस्यां कारिकायां भट्टोजिदीक्षितेन आहत्य षोडष धातवः परिगणिताः वर्तन्ते । एतेषाम् योगे, तथा च एतेषाम् ये अर्थाः तेषु प्रयोज्यमानानां अन्येषाम् अपि धातूनां योगे विशिष्टस्य कारकस्य अविवक्षां कृत्वा तस्य प्रकृतसूत्रेण कर्मसंज्ञा भवितुम् अर्हति । तत्र विशेषः अयम् - एतेषाम् सर्वेषाम् अपि धातूनां एकं कर्मपदं तु मूलरूपेण अवश्यमेव विद्यते, यस्य <<कर्तुरीप्सिततमं कर्म>> [[1.3.49]] इत्यनेनैव कर्मसंज्ञा भवति । एतत् कर्मपदं प्रधानं कर्म इति नाम्ना अपि ज्ञायते । परन्तु, एनं विहाय, प्रकृतसूत्रेण एतेषाम् द्वितीयम् अपि किञ्चित् कर्मपदं सम्भवति । अस्य कर्मपदस्य गौण कर्म इति नाम्ना अपि निर्देशः क्रियते । अनेन प्रकारेण दुह्यादयः एते षोडष धातवः द्विकर्मकाः भवन्ति । \nएतेषाम् सर्वेषाम् उदाहरणानि अधः क्रमेण विव्रीयन्ते ।\n\n
  • 1. <<दुह् प्रपूरणे>> <{2.4}> - गोपालः गाम् पयः दोग्धि ।\n<<दुह्>>-धातोः प्रधानं कर्म अस्ति पयःपदार्थः, यतोहि दोहनस्य फलं तत्रैव लभ्यते । अतश्च तस्य निर्देशार्थम् द्वितीयायाः प्रयोगं कृत्वा वाक्यं भवति - गोपालः पयः दोग्धि । अपि च, अस्य दोहनस्यगौः इत्यादिपदार्थः अपादानम् । अतः तस्य निर्देशं पञ्मीविभक्त्या कृत्वा वाक्यं सिद्ध्यति - गोपालः गोः पयः दोग्धि । परन्तु अत्र कथञ्चित् गोपदार्थे अपादानत्वस्य अविवक्षा अपि सम्भवति । एतादृश्याम् अविवक्षायां कृतायाम्, गोपदार्थे विद्यमानं कारकत्वं न केनापि कारकेण \"कथितम्\" भवति । अस्यां स्थितौ एतादृशस्य अकथित-कारकस्य प्रकृतसूत्रेण कर्मसंज्ञा विधीयते । कर्मसंज्ञायां लब्धायाम्, अनभिहित-कर्मणः निर्देशार्थम् <<कर्मणि द्वितीया>> [[2.3.2]] इति सूत्रेण द्वितीयायाः प्रयोगः क्रियते, येन गोपालः गाम् पयः दोग्धि इति वाक्यं सिद्ध्यति । अत्र गाम् इत्यत्र विद्यमानं कर्म अकथितं कर्म अस्ति । पयः इत्यत्र विद्यमानं कर्म तु फलाश्रयं, इत्युक्ते ईप्सिततमं कर्म अस्ति । \n
  • 2. <<याच् याच्ञायाम्>> <{1.1001}> - वामनः बलिं वसुधां याचते ।\n<<याच्>>-धातोः प्रधानं कर्म अस्ति वसुधाइत्यादिकः कश्चन याच्यमानः पदार्थः । यस्मात् याचना क्रियते, तस्य तु <<ध्रुवमपायेऽपादानम्>> [[1.2.24]] इत्यनेन अपादानसंज्ञा भवति । द्वयोः अपि संज्ञयोः प्रयोगेण वामनः बलेः वसुधां याचते इति वाक्यं सिद्ध्यति । परन्तु अत्र कथञ्चित् बलिपदार्थे अपादानत्वस्य अविवक्षा अपि सम्भवति । एतादृश्याम् अविवक्षायां कृतायाम्, बलि-पदार्थे विद्यमानं कारकत्वं अपादानेन अन्यैः वा कारकैः \"अकथितम्\" तिष्ठति । अस्यां स्थितौ एतादृशस्य अकथित-कारकस्य प्रकृतसूत्रेण कर्मसंज्ञा विधीयते, येन वामनः बलिं वसुधां याचते इति वाक्यं सिद्ध्यति । \n
  • 3. <<पच् पाके>> <{1.1151}> - देवदत्तः तण्डुलान् ओदनं पचति ।\n<<पच्>>-धातोः प्रधानं कर्म अस्ति ओदन इत्यादिकः कश्चन याच्यमानः पदार्थः । अस्य ओदनस्य यत् मूलस्वरूपम् (तण्डुलाः इति), तेषां विषये तु कारकत्वे सति अपि, न केनापि सूत्रेण कस्यचित् कारकस्य विधानं सम्भवति, अतः तण्डुलपदार्थः अत्र अकथितः एव तिष्ठति । एतादृशस्य तण्डुलपदार्थस्य निर्देशार्थम् <<षष्ठी शेषे>> [[2.3.50]] इत्यनेन शेषषष्ठ्याः प्रयोगं कृत्वा देवदत्तः तण्डुलानाम् ओदनं पचति इति वाक्यं सिद्ध्यति । परन्तु अस्मिन्नेव तण्डुलपदार्थे प्रकृतसूत्रेण कर्मकारकस्य विवक्षां कृत्वा देवदत्तः तण्डुलान् ओदनं पचति इति प्रयोगः अपि सिद्ध्यति । \n
  • 4. <<दण्ड दण्डनिपाते>> <{10.472}> - राजा गर्गान् शतं दण्डयति ।\n<<दण्ड्>>-धातोः प्रधानं कर्म अस्ति शतम् इत्यादिकः पदार्थः यः दण्डरूपेण स्वीक्रियते । यस्मात् अयं पदार्थः दण्डरूपेण स्वीक्रियते तस्य तु अपादानसंज्ञा भवति । द्वयोः संज्ञयोः प्रयोगेण राजा गर्गेभ्यः शतं दण्डयति इति वाक्यं सिद्ध्यति । परन्तु अत्र गर्गपदार्थे अपादानस्य अविवक्षा अपि कर्तुं शक्यते । अस्यां स्थितौ गर्गपदार्थे विद्यमानम् अकथितं कारकं प्रकृतसूत्रेण कर्मसंज्ञया विधीयते, अतश्च राजा गर्गान् शतं दण्डयति इति प्रयोगः सिद्ध्यति ।\n
  • 5. <<रुध् आवरणे>> <{7.1}> - गोपालः गां व्रजम् अवरुणद्धि ।\n<<रुध्>>-धातोः प्रधानं कर्म अस्ति गो इत्यादिकः पदार्थः यस्य रोधनं क्रियते । यस्मिन् स्थले रोधनं क्रियते, तस्य तु आधारत्वात् अधिकरणसंज्ञा भवति । एतयोः द्वयोः संज्ञयोः प्रयोगेण गोपालः गां व्रजे अवरुणद्धि इति वाक्यं सिद्ध्यति । परन्तु अत्र व्रजपदार्थे अधिकरणस्य अविवक्षां कृत्वा तत्रस्थम् अकथितं कारकं प्रकृतसूत्रेण कर्मसंज्ञया अपि दर्शयितुम् शक्यते, येन गोपालः गां व्रजम् अवरुणद्धि इति प्रयोगः सङ्गच्छते । \n
  • 6. <<प्रच्छ् ज्ञीप्सायाम्>> <{6.149}> - पान्थः माणवकं पन्थानं पृच्छति ।\n<<प्रच्छ्>>-धातोः प्रधानं कर्म अस्ति मार्ग इत्यादिकः पृच्छ्यमानः पदार्थः । यस्मात् प्रश्नस्य उत्तरम् अपेक्ष्यते, तस्य तु अपादानसंज्ञा भवति । एतयोः द्वयोः संज्ञयोः प्रयोगेण पान्थः माणवकात् मार्गं पृच्छति इति वाक्यं सिद्ध्यति । परन्तु अत्र माणवकपदार्थे अपादानस्य अविवक्षां कृत्वा तत्रस्थम् अकथितं कारकं प्रकृतसूत्रेण कर्मसंज्ञया अपि दर्शयितुम् शक्यते, येन पान्थः माणवकं पन्थानं पृच्छति इति प्रयोगः सङ्गच्छते । \n
  • 7. <<चिञ् चयने>> <{5.5}> - वटुः वृक्षं फलानि अवचिनोति ।\n<<चि>>-धातोः प्रधानं कर्म अस्ति फल इत्यादिकः चीयमानः पदार्थः । यस्मात् फलं निष्कृष्यते, तस्य तु अपादानसंज्ञा भवति । एतयोः द्वयोः संज्ञयोः प्रयोगेण वटुः वृक्षात् फलम् अवचिनोति इति वाक्यं सिद्ध्यति । परन्तु अत्र वृक्षपदार्थे अपादानस्य अविवक्षां कृत्वा तत्रस्थम् अकथितं कारकं प्रकृतसूत्रेण कर्मसंज्ञया अपि दर्शयितुम् शक्यते, येन वटुः वृक्षं फलानि अवचिनोति इति प्रयोगः सिद्ध्यति । \n
  • 8. <<ब्रू व्यक्तायां वाचि>> <{2.39}> - आचार्यः माणवकं धर्मं ब्रूते ।\n<<ब्रू>>-धातोः प्रधानं कर्म अस्ति धर्म इत्यादिकः उच्यमानः पदार्थः । यस्य कृते धर्मादिकम् उच्यते, तस्य तु सम्प्रदानसंज्ञा भवति, येन आचार्यः माणवकाय धर्मं ब्रूते इति वाक्यं सिद्ध्यति । परन्तु अत्र माणवकपदार्थे सम्प्रदानस्य अविवक्षां कृत्वा तत्रस्थम् अकथितं कारकं प्रकृतसूत्रेण कर्मसंज्ञया अपि दर्शयितुम् शक्यते, येन आचार्यः माणवकं धर्मं ब्रूते इति प्रयोगः सिद्ध्यति । \n
  • 9. <<शास् अनुशिष्टौ>> <{2.70}> - आचार्यः माणवकं धर्मं शास्ति ।\n<<शास्>>-धातोः प्रधानं कर्म अस्ति धर्म इत्यादिकः शिष्यमाणः पदार्थः । यस्य कृते धर्मादिकम् शिष्यते, तस्य तु सम्प्रदानसंज्ञा भवति, येन आचार्यः माणवकाय धर्मं शास्ति इति वाक्यं सिद्ध्यति । परन्तु अत्र माणवकपदार्थे सम्प्रदानस्य अविवक्षां कृत्वा तत्रस्थम् अकथितं कारकं प्रकृतसूत्रेण कर्मसंज्ञया अपि दर्शयितुम् शक्यते, येन आचार्यः माणवकं धर्मं शास्ति इति प्रयोगः सिद्ध्यति । \n
  • 10. <<जि अभिभवे>> <{1.1096}> - यज्ञदत्तः देवदत्तं शतं जयति ।\n<<जि>>-धातोः प्रधानं कर्म अस्ति शतम् इत्यादिकः जेयः पदार्थः । यस्मात् अयं पदार्थः जीयते, तस्य तु अपादानसंज्ञा भवति, येन यज्ञदत्तः देवदत्तात् शतं जयति इति प्रयोगः सिद्ध्यति । परन्तु अत्र देवदत्तपदार्थे अपादानस्य अविवक्षां कृत्वा तत्रस्थम् अकथितं कारकं प्रकृतसूत्रेण कर्मसंज्ञया अपि दर्शयितुम् शक्यते, येन यज्ञदत्तः देवदत्तं शतं जयति इति प्रयोगः सिद्ध्यति । \n
  • 11. <<मन्थ् विलोडने>> <{9.47}> - सुरासुरगणः क्षीरनिधिं सुधां मथ्नाति ।\n<<मन्थ्>>-धातोः प्रधानं कर्म अस्ति \"सुधा\" इत्यादिकः मथ्यमानः पदार्थः । यस्य विलोडनं कृत्वा अस्य पदार्थस्य मथनं भवति तस्य आधारत्वात् अधिकरणसंज्ञा भवति, येन सुरासुरगणः क्षीरनिधौ सुधां मथ्नाति इति प्रयोगः सिद्ध्यति । परन्तु अत्र क्षीरनिधिपदार्थे अपादानस्य अविवक्षां कृत्वा तत्रस्थम् अकथितं कारकं प्रकृतसूत्रेण कर्मसंज्ञया अपि दर्शयितुम् शक्यते, येन सुरासुरगणः क्षीरनिधिं सुधां मथ्नाति इति प्रयोगः सिद्ध्यति । \n
  • 12. <<मुष् स्तेये>> <{9.66}> - यज्ञदत्तः देवदत्तं शतं मुष्णाति ।\n<<मुष्>>-धातोः प्रधानं कर्म अस्ति शतम् इत्यादिकः मुष्यमाणः पदार्थः । यस्मात् अयं पदार्थः मुष्यते, तस्य अपादानसंज्ञा भवति, येन यज्ञदत्तः देवदत्तात् शतं मुष्णाति इति प्रयोगः सिद्ध्यति । परन्तु अत्र देवदत्तपदार्थे अपादानस्य अविवक्षां कृत्वा तत्रस्थम् अकथितं कारकं प्रकृतसूत्रेण कर्मसंज्ञया अपि दर्शयितुम् शक्यते, येन यज्ञदत्तः देवदत्तं शतं मुष्णाति इति प्रयोगः सिद्ध्यति । \n
  • 13. <<नी प्रापणे>> <{1.1049}> - गोपालः अजां ग्रामं नयति ।\n<<नी>>-धातोः प्रधानं कर्म अस्ति अजा इत्यादिकः नीयमानः पदार्थः । यत्र अयं पदार्थः नीयते, तस्य आधारत्वात् अधिकरणसंज्ञा भवति, येन गोपालः अजां ग्रामे नयति इति प्रयोगः सिद्ध्यति । परन्तु अत्र ग्रामपदार्थे अधिकरणस्य अविवक्षां कृत्वा तत्रस्थम् अकथितं कारकं प्रकृतसूत्रेण कर्मसंज्ञया अपि दर्शयितुम् शक्यते, येन गोपालः अजां ग्रामं नयति इति प्रयोगः सिद्ध्यति । \n
  • 14. <<हृ हरणे>> <{1.1046}> - गोपालः अजां ग्रामं हरति ।\n<<हृ>>-धातोः प्रधानं कर्म अस्ति अजा इत्यादिकः ह्रियमाणः पदार्थः । यत्र अयं पदार्थः ह्रियते, तस्य आधारत्वात् अधिकरणसंज्ञा भवति, येन गोपालः अजां ग्रामे हरति इति प्रयोगः सिद्ध्यति । परन्तु अत्र ग्रामपदार्थे अधिकरणस्य अविवक्षां कृत्वा तत्रस्थम् अकथितं कारकं प्रकृतसूत्रेण कर्मसंज्ञया अपि दर्शयितुम् शक्यते, येन गोपालः अजां ग्रामं हरति इति प्रयोगः सिद्ध्यति । \n
  • 15. <<कृष् विलेखने>> <{1.1145}> - गोपालः अजां ग्रामं कर्षति ।\n<<कृष्>>-धातोः प्रधानं कर्म अस्ति अजा इत्यादिकः कृष्यमाणः पदार्थः । यत्र अयं पदार्थः कृष्यते, तस्य आधारत्वात् अधिकरणसंज्ञा भवति, येन गोपालः अजां ग्रामे कर्षति इति प्रयोगः सिद्ध्यति । परन्तु अत्र ग्रामपदार्थे अधिकरणस्य अविवक्षां कृत्वा तत्रस्थम् अकथितं कारकं प्रकृतसूत्रेण कर्मसंज्ञया अपि दर्शयितुम् शक्यते, येन गोपालः अजां ग्रामं कर्षति इति प्रयोगः सिद्ध्यति । \n
  • 16. <<वह् प्रापणे>> <{1.1159}> - गोपालः अजां ग्रामं वहति ।\n<<वह्>>-धातोः प्रधानं कर्म अस्ति अजा इत्यादिकःउह्यमानः पदार्थः । यत्र अयं पदार्थः उह्यते, तस्य आधारत्वात् अधिकरणसंज्ञा भवति, येन गोपालः अजां ग्रामे वहति इति प्रयोगः सिद्ध्यति । परन्तु अत्र ग्रामपदार्थे अधिकरणस्य अविवक्षां कृत्वा तत्रस्थम् अकथितं कारकं प्रकृतसूत्रेण कर्मसंज्ञया अपि दर्शयितुम् शक्यते, येन गोपालः अजां ग्रामं वहति इति प्रयोगः सिद्ध्यति । \n\n अर्थनिबन्धना कर्मसंज्ञा\nप्रकृतसूत्रेण निर्दिष्टा कर्मसंज्ञा अर्थनिबन्धना अस्ति । इत्युक्ते, सा केवलम् एतेषाम् षोडशानाम् धातूनाम् विषये एव न, अपितु एतेषाम् एव अर्थेषु प्रयुक्तानाम् अन्येषाम् धातूनां विषये अपि विधीयते । इत्युक्ते, एतेषाम् अर्थे प्रयुक्ताः अन्येऽपि सर्वे धातवः द्विकर्मकाः एव परिगण्यन्ते । कानिचन उदाहरणानि एतादृशानि -\n\n
  • 1. <<ब्रू>>-धात्वर्थकाः <<वद्>>, <<भाष्>>, <<कथ>> इत्येते धातवः अपि द्विकर्मकाः सन्ति । यथा - पिता माणवकं धर्मं वदति / भाषते / कथयति ।\n
  • 2. <<मुष्>>-धात्वर्थकाः <<चुर्>>, <<लुण्ठ्>>, <<लुण्ट्>> इत्येते धातवः अपि द्विकर्मकाः सन्ति । यथा - देवदत्तः यज्ञदत्तं शतं चोरयति / लुण्ठयति / लुण्टयति । \n
  • 3. <<याच्>>-धात्वर्थकः <<भिक्ष्>> इति धातुः अपि द्विकर्मकः । यथा - वामनः बलिं वसुधां भिक्षते ।\n\nद्विकर्मकधातूनां कर्मणिप्रयोगः\nद्विकर्मकधातूनां कर्मणि प्रयोगे केवलम् एकस्यैव कर्मणः लकारेण अभिधानं सम्भवति । यत् कर्म लकारेण अभिधीयते तस्य प्रथमाविभक्त्या निर्देशः भवति । अपरस्य च द्वितीयया निर्देशः भवति । अस्मिन् सन्दर्भे एका पङ्क्तिः प्रसिद्धा वर्तते - गौणे कर्मणि दुह्यादेः प्रधाने नीहृकृष्वहाम् । कर्मणि प्रयोगे लकारेण कस्य अभिधानं भवति इति अस्यां पङ्क्तौ उक्तं वर्तते । अस्याः पङ्क्तेः आशयः अयम् - <<दुह्>> इत्यस्मात् आरभ्य <<मुष्>> इतिपर्यन्तं ये द्वादश धातवः कारिकायाः प्रथमायाः पङ्क्तौ निर्दिष्टाः वर्तन्ते, तेषां विषये कर्मणिप्रयोगे लकारप्रत्ययेन गौणकर्मणः (इत्युक्ते, <<अकथितं च>> [[1.4.51]] इत्यनेन यस्य कर्मसंज्ञा प्राप्ता तस्य) निर्देशः भवति, अतश्च गौणकर्मणः प्रथमाविभक्तिः, प्रधानकर्मणः च द्वितीयाविभक्तिः भवति । अन्येषां चतुर्णां धातूनां विषये तु विरुद्धं भवति - इत्युक्ते, तेषां कर्मणिप्रयोगे लकारप्रत्ययेन प्रधानकर्मणः निर्देशः भवति, तस्य च प्रथमया प्रयोगः क्रियते । एतं नियमम् अनुसृत्य सर्वेषाम् अपि षोडशानाम् धातूनाम् कर्मणिवाक्यानि इत्थं सिद्ध्यन्ति -\n\n
  • (I) दुह्यादि-द्वादशानाम् विषये कर्मणिप्रयोगे गौणकर्मणः प्रथमा, प्रधानकर्मणः द्वितीया\n
  • 1. दुह् - गोपालेन गौः पयः दुह्यते । \n
  • 2. याच् - वामनेन बलिः वसुधां याच्यते । \n
  • 3. पच् - देवदत्तेन तण्डुलाः ओदनं पच्यन्ते । \n
  • 4. दण्ड् - राज्ञा गर्गाः शतं दण्ड्यन्ते । \n
  • 5. रुध् - गोपालेन गां व्रजः अवरुध्यते । \n
  • 6. प्रच्छ् - पान्थेन माणवकः पन्थानं पृच्छ्यते । \n
  • 7. चि - वटुना वृक्षः फलानि अवचीयते । \n
  • 8. ब्रू - आचार्येण माणवकः धर्मम् उच्यते । \n
  • 9. शास् - आचार्येण माणवकः धर्मं शास्यते । \n
  • 10. जि - यज्ञदत्तेन देवदत्तः शतं जीयते ।\n
  • 11. मथ् - सुरासुरगणेन क्षीरनिधिः सुधां मथ्यते । \n
  • 12. मुष् - यज्ञदत्तेन देवदत्तः शतं मुष्यते । \n
  • (II) नी-हृ-कृष्-वह्-धातूनाम् विषये कर्मणिप्रयोगे प्रधानकर्मणः प्रथमा, गौणकर्मणः द्वितीया\n
  • 13. नी - गोपालेन अजा ग्रामं नीयते । \n
  • 14. हृ -गोपालेन अजा ग्रामं ह्रियते। \n
  • 15 कृष् - गोपालेन अजा ग्रामं कृष्यते । \n
  • 16. वह् - गोपालेन अजा ग्रामम् उह्यते । \n\nकारकस्यैव कर्मसंज्ञा, अन्यस्य न\nप्रकृतसूत्रम् <<कारके>> [[1.4.23]] इत्यस्मिन् अधिकारे पाठ्यते, अतः अनेन निर्दिष्टा कर्मसंज्ञा तदा एव भवति यदा कश्चन कारकसंज्ञः पदार्थः अपादानादिभिः संज्ञाभिः अकथितः लभ्यते । इत्युक्ते, यदि अपादानादिभिः संज्ञाभिः अकथितः पदार्थः कारकसंज्ञः नास्ति (तस्मिन् क्रियाजनकत्वं नास्ति इत्याशयः) तर्हि प्रकृतसूत्रेण तस्य कर्मसंज्ञा अपि न भवति । यथा, माणवकस्य पितरं पन्थानं पृच्छति इत्यस्मिन् वाक्ये माणवकपदार्थे कारकत्वमेव नास्ति यतः पृच्छति इत्यनेन सह तस्य अन्वयः एव न विद्यते । अस्यां स्थितौ माणवकपदार्थः अपादानादिभिः संज्ञाभिः अवश्यमेव अकथितः वर्तते यतोहि अपादानादयः संज्ञाः कारकाणां एव विहिताः सन्ति । एतादृशस्य अकथित-अकारकस्य प्रकृतसूत्रेण कर्मसंज्ञा मा भूत्, इति स्पष्टीकर्तुमेव प्रकृतसूत्रम् अपि कारकाधिकारे एव पाठितं वर्तते । अतः अत्र माणवकपदार्थस्य (अकारकत्वात्) कर्मसंज्ञा न भवति ।\nसिद्धान्तकौमुदीस्थं वार्त्तिकम्\nप्रकृतसूत्रे सिद्धान्तकौमुदीकारः कर्मसंज्ञायाः एकं वार्त्तिकं पाठयति - ये धातवः धातुपाठे अकर्मकरूपेण पाठिताः सन्ति, तेषां प्रयोगे अपि देशः, कालः, भावः, तथा च मार्गपरिमाणम् - एतेषां चतुर्णाम् अवश्यं हि कर्मसंज्ञा भवति इति अस्य वार्त्तिकस्य अर्थः । क्रमेण उदाहरणानि एतानि -\n\n1. देशः (कुरुपञ्चालादिः) - यथा, देवदत्तः कुरून् स्वपिति । \"देवदत्तः कुरूणां देशे स्वपिति\" इति अत्र अर्थः वर्तते । <<स्वप्>>-धातुः वस्तुतः अकर्मकः अस्ति, परन्तु अत्र वाक्ये कुरु इति देशवाचकः पदार्थः वर्तते, अतः तस्य अनेन वार्त्तिकेन कर्मसंज्ञा भवति ।\n2. कालः (दिन-मास-वर्ष-इत्यादिः) - यथा, देवदत्तः मासम् आस्ते । \"देवदत्तः एकं मासं यावत् उपविशति\" इति अत्र अर्थः वर्तते । <<आस्>>-धातुः वस्तुतः अकर्मकः अस्ति, परन्तु अत्र वाक्ये मास इति कालवाचकः पदार्थः वर्तते, अतः तस्य अनेन वार्त्तिकेन कर्मसंज्ञा भवति ।\n3. भावः(दोहन-शयन-स्थान-इत्यादिः) - यथा, देवदत्तः गोदोहं तिष्ठति । \" यावत् गोदोहनक्रिया (milking the cows) प्रचलन्ती अस्ति, तावत् देवदत्तः तिष्ठति\" इति अत्र अर्थः वर्तते । <<स्था>>-धातुः वस्तुतः अकर्मकः अस्ति, परन्तु अत्र वाक्ये गोदोह इति भाववाचकः पदार्थः वर्तते, अतः तस्य अनेन वार्त्तिकेन कर्मसंज्ञा भवति ।\n4. मार्गस्य परिमाणवाचकः शब्दः (योजन-क्रोश-इत्यादिः) - यथा, देवदत्तः क्रोशम् हसति । \" एकः क्रोशः इति यावति मार्गे देवदत्तः हसति\" इति अत्र अर्थः वर्तते । <<हस्>>-धातुः वस्तुतः अकर्मकः अस्ति, परन्तु अत्र वाक्ये क्रोश इति मार्गपरिमाणवाचकः पदार्थः वर्तते, अतः तस्य अनेन वार्त्तिकेन कर्मसंज्ञा भवति ।\n\n<pv> माधवीयधातुवृत्तौ उक्ताः अन्ये द्विकर्मकधातवः\nमाधवीयधातुवृत्तौ सायणाचार्येण द्विकर्मकधातूनां विषये अधोदत्ता कारिका पाठ्यते -\n\nजयतेः कर्षतेर्मन्थेर्मुषेर्दण्डयतेः पचेः ।\nतारेर्ग्राहेस्तथा मोचेस्त्याजेर्दीपेश्च सङ्ग्रहः ॥\nकारिकायां चशब्देन सुधाकरमुखैः कृतः ।\n\nअस्याः कारिकायाः द्वितीयायां पङ्क्तौ पञ्च णिजन्तधातवः द्विकर्मकरूपेण निर्दिष्टाः सन्ति । एतेषां विषये अण्यन्तवाक्यस्य यः कर्ता, तस्य विषये णिजन्तवाक्ये कर्तृत्वस्य अविवक्षा कर्तुं शक्यते । अस्यां स्थितौ अन्यैः कारकैः अकथितः अण्यन्तकर्ता णिजन्तप्रयोगे प्रकृतसूत्रेण कर्मसंज्ञकः भवति । एतेषाम् उदाहरणानि एतानि -\n\n1. तारि - <<तॄ (<{1.1124}>) + णिच्>> । अत्र शुद्धवाक्यम् - पयः समुद्रं तरन्ति । णिजन्तवाक्यम् - हनुमान् कपिभिः समुद्रं तारयति । णिजन्तवाक्ये कपिपदार्थस्य कर्तृसंज्ञायाः अविवक्षां कृत्वा, प्रकृतसूत्रेण कपिपदार्थस्य च कर्मसंज्ञां कृत्वा हनुमान् कपीन् समुद्रं तारयति इति प्रयोगः सिद्ध्यति । \n2. ग्राहि - <<ग्रह् (<{9.71}>) + णिच्>> । अत्र शुद्धवाक्यम् - पुत्रः वस्त्रं गृह्णाति । णिजन्तवाक्यम् - माता पुत्रेण वस्त्रं ग्राहयति । णिजन्तवाक्ये पुत्रपदार्थस्य कर्तृसंज्ञायाः अविवक्षां कृत्वा, प्रकृतसूत्रेण पुत्रपदार्थस्य च कर्मसंज्ञां कृत्वा माता पुत्रं वस्त्रं ग्राहयति इति प्रयोगः सिद्ध्यति । \n3. मोचि - <<मुच् (<{6.166}>) + णिच्>> । अत्र शुद्धवाक्यम् - छात्रः कोपं मुञ्चति । णिजन्तवाक्यम् - आचार्यः छात्रेण कोपं मोचयति । णिजन्तवाक्ये छात्रपदार्थस्य कर्तृसंज्ञायाः अविवक्षां कृत्वा, प्रकृतसूत्रेण छात्रपदार्थस्य च कर्मसंज्ञां कृत्वा आचार्यः छात्रं कोपं मोचयति इति प्रयोगः सिद्ध्यति । \n4. त्याजि - <<त्यज् (<{1.1141}>) + णिच्>> ।अत्र शुद्धवाक्यम् - छात्रः कोपं त्यजति । णिजन्तवाक्यम् - आचार्यः छात्रेण कोपं त्याजयति । णिजन्तवाक्ये छात्रपदार्थस्य कर्तृसंज्ञायाः अविवक्षां कृत्वा, प्रकृतसूत्रेण छात्रपदार्थस्य च कर्मसंज्ञां कृत्वा आचार्यः छात्रं कोपं त्याजयति इति प्रयोगः सिद्ध्यति । \n5. दीपि - <<दीप् (<{4.45}>) + णिच्>> । अत्र शुद्धवाक्यम् - छात्रः शास्त्रं दीप्यते (अवगच्छति इत्यर्थः) । णिजन्तवाक्यम् - आचार्यः छात्रेण शास्त्रं दीपयति । णिजन्तवाक्ये छात्रपदार्थस्य कर्तृसंज्ञायाः अविवक्षां कृत्वा, प्रकृतसूत्रेण छात्रपदार्थस्य च कर्मसंज्ञां कृत्वा आचार्यः छात्रं शास्त्रं दीपयति इति प्रयोगः सिद्ध्यति । \nएतेभ्यः पञ्चभ्यः धातुभ्यः \"ग्राहि\" धातोः द्विकर्मकत्वं बहुभिः वैयाकरणैः नाङ्गीक्रियते इति भट्टोजिदीक्षितेन प्रौढमनोरमायां स्पष्टीकृतं वर्तते । \n\n\n\n" }, "14052": { "sa": "गत्यर्थकधातवः, बुध्यर्थकधातवः, भोजनार्थकधातवः, शब्दकर्मधातवः, तथा च अकर्मकधातवः - एतेषां विषये अण्यन्तप्रयोगस्य कर्ता ण्यन्तप्रयोगे कर्मसंज्ञकः भवति । यथा - माणवकं ग्रामं गमयति, माणवकं धर्मं बोधयति, माणवकम् ओदनं भोजयति, माणवकं वेदम् अध्यापयति, माणवकं शाययति । ", "sd": "<<कारके>> [[1.4.23]] इत्यस्मिन् अधिकारे यैः दशभिः सूत्रैः कर्मसंज्ञायाः विधानम् क्रियते, तेषु इदं नवमं सूत्रम् । अनेन सूत्रेण णिजन्तप्रयोगे कर्मसंज्ञा विधीयते । अण्यन्तवाक्यस्य यः कर्ता, सः सामान्यरूपेण णिजन्तवाक्ये अपि कर्तृसंज्ञकः एव भवति । एतादृश्यां कर्मसंज्ञायां प्राप्तायाम्, पञ्चसु स्थलेषु तां बाधित्वा प्रकृतसूत्रेण तस्याः स्थाने कर्मसंज्ञा विधीयते । क्रमेण विवरणम् एतादृशम् -\n\n
  • 1. गत्यर्थकाः धातवः । यथा - पिता माणवकं ग्रामं गमयति । \n<<गम्>>, <<या>> इत्यादयः ये गत्यर्थकाः धातवः, तेषाम् अण्यन्त-कर्ता णिजन्तप्रयोगे प्रकृतसूत्रेण कर्मसंज्ञः भवति । यथा, <<गम्>>-धातोः अण्यन्तप्रयोगे माणवकः ग्रामं गच्छति इत्यत्र विद्यमानः कर्तृंसज्ञकः माणवकपदार्थः अस्यैव वाक्यस्य ण्यन्तप्रयोगे कर्मसंज्ञकः भवति - पिता माणवकं ग्रामं गमयति । अत्र पितृपदार्थः ण्यन्तक्रियायाः कर्ता (प्रयोजककर्ता) अस्ति, तथा च माणवकपदार्थः अण्यन्तक्रियायाः कर्ता (प्रयोज्यकर्ता) अस्ति यः ण्यन्तप्रयोगे कर्मसंज्ञकः जातः । ग्रामपदार्थः अण्यन्तप्रयोगे ण्यन्तप्रयोगेऽपि च ईप्सिततमत्वात् कर्मसंज्ञकः एव अस्ति । एतादृशम् अत्र ण्यन्तप्रयोगे धातुः द्विकर्मकत्वं प्राप्नोति । अत्र गमयति इति तिङन्तेन प्रयोजककर्तुः अभिधानं क्रियते, अतः अनभिहितं कर्मद्वयम् अपि <<कर्मणि द्वितीया>> [[2.3.2]] इत्यनेन द्वितीयया एव निर्दिश्यते ।एवमेव, पिता माणवकं ग्रामं यापयति इति प्रयोगः अपि सिद्ध्यति । \n
  • 2. बुद्ध्यर्थकाः धातवः । यथा - पिता माणवकं धर्मं बोधयति । \n<<बुध्>>, <<विद्>> इत्यादयः ये बुद्ध्यर्थकाः धातवः, तेषाम् अण्यन्त-कर्ता णिजन्तप्रयोगे प्रकृतसूत्रेण कर्मसंज्ञः भवति । यथा, <<बुध्>>-धातोः अण्यन्तप्रयोगे माणवकः धर्मं बुध्यते इत्यत्र विद्यमानः कर्तृसंज्ञकः माणवकपदार्थः अस्यैव वाक्यस्य ण्यन्तप्रयोगे कर्मसंज्ञकः भवति - पिता माणवकं धर्मं बोधयति । अत्र पितृपदार्थः ण्यन्तक्रियायाः कर्ता (प्रयोजककर्ता) अस्ति, तथा च माणवकपदार्थः अण्यन्तक्रियायाः कर्ता (प्रयोज्यकर्ता) अस्ति यः ण्यन्तप्रयोगे कर्मसंज्ञकः जातः । धर्मपदार्थः अण्यन्तप्रयोगे ण्यन्तप्रयोगेऽपि च ईप्सिततमत्वात् कर्मसंज्ञकः एव अस्ति । एतादृशम् अत्र ण्यन्तप्रयोगे धातुः द्विकर्मकत्वं प्राप्नोति । अत्र बोधयति इति तिङन्तेन प्रयोजककर्तुः अभिधानं क्रियते, अतः अनभिहितं कर्मद्वयम् अपि <<कर्मणि द्वितीया>> [[2.3.2]] इत्यनेन द्वितीयया एव निर्दिश्यते । एवमेव, पिता माणवकं धर्मं वेदयति इति प्रयोगः अपि सिद्ध्यति । \n
  • 3. प्रत्यवसानार्थकाः (भोजनार्थकाः) धातवः । यथा - पिता माणवकं ओदनं भोजयति । \n<<भुज्>>, <<अश्>> इत्यादयः ये भोजनार्थकाः धातवः, तेषाम् अण्यन्त-कर्ता णिजन्तप्रयोगे प्रकृतसूत्रेण कर्मसंज्ञः भवति । यथा, <<भुज्>>-धातोः अण्यन्तप्रयोगे माणवकः ओदनं भुङ्क्ते इत्यत्र विद्यमानः कर्तृसंज्ञकः माणवकपदार्थः अस्यैव वाक्यस्य ण्यन्तप्रयोगे कर्मसंज्ञकः भवति - पिता माणवकं ओदनं भोजयति । अत्र पितृपदार्थः ण्यन्तक्रियायाः कर्ता (प्रयोजककर्ता) अस्ति, तथा च माणवकपदार्थः अण्यन्तक्रियायाः कर्ता (प्रयोज्यकर्ता) अस्ति यः ण्यन्तप्रयोगे कर्मसंज्ञकः जातः । ओदनपदार्थः अण्यन्तप्रयोगे ण्यन्तप्रयोगेऽपि च ईप्सिततमत्वात् कर्मसंज्ञकः एव अस्ति । एतादृशम् अत्र ण्यन्तप्रयोगे धातुः द्विकर्मकत्वं प्राप्नोति । अत्र भोजयति इति तिङन्तेन प्रयोजककर्तुः अभिधानं क्रियते, अतः अनभिहितं कर्मद्वयम् अपि <<कर्मणि द्वितीया>> [[2.3.2]] इत्यनेन द्वितीयया एव निर्दिश्यते । एवमेव, पिता माणवकं ओदनम् आशयति इति प्रयोगः अपि सिद्ध्यति । \n
  • 4. शब्दकर्मकाः धातवः । यथा - पिता माणवकं वेदम् अध्यापयति । \nयेषाम् धातूनाम् कर्मपदम् शब्दस्वरूपम् अस्ति (यथा - वेदः, श्लोकः, काव्यम्, ग्रन्थः, गीतम् , गद्यम्, पद्यम् - आदयः) - ते धातवः शब्दकर्मकाः धातवः नाम्ना ज्ञायन्ते । यथा - <<गै>>, <<पठ्>>, <<अधि + इण्>> इत्यादयः । एतादृशानाम् शब्दकर्मक-धातूनाम् अण्यन्त-कर्ता णिजन्तप्रयोगे प्रकृतसूत्रेण कर्मसंज्ञः भवति । यथा, <<अधि + इ>>-धातोः अण्यन्तप्रयोगे माणवकः वेदम् अधीते इत्यत्र विद्यमानः कर्तृसंज्ञकः माणवकपदार्थः अस्यैव वाक्यस्य ण्यन्तप्रयोगे कर्मसंज्ञकः भवति - पिता माणवकं वेदम् अध्यापयति । अत्र पितृपदार्थः ण्यन्तक्रियायाः कर्ता (प्रयोजककर्ता) अस्ति, तथा च माणवकपदार्थः अण्यन्तक्रियायाः कर्ता (प्रयोज्यकर्ता) अस्ति यः ण्यन्तप्रयोगे कर्मसंज्ञकः जातः । वेदपदार्थः अण्यन्तप्रयोगे ण्यन्तप्रयोगेऽपि च ईप्सिततमत्वात् कर्मसंज्ञकः एव अस्ति । एतादृशम् अत्र ण्यन्तप्रयोगे धातुः द्विकर्मकत्वं प्राप्नोति । अत्र अध्यापयति इति तिङन्तेन प्रयोजककर्तुः अभिधानं क्रियते, अतः अनभिहितं कर्मद्वयम् अपि <<कर्मणि द्वितीया>> [[2.3.2]] इत्यनेन द्वितीयया एव निर्दिश्यते । एवमेव, पिता माणवकं पाठं पाठयति इति प्रयोगः अपि सिद्ध्यति । \n
  • 5. अकर्मकाः धातवः । यथा - पिता माणवकं शाययति । \n<<शी>>, <<आस्>>, <<हस्>>, <<डी>> इत्येतेषाम् अकर्मकधातूनाम् अण्यन्त-कर्ता णिजन्तप्रयोगे प्रकृतसूत्रेण कर्मसंज्ञः भवति । यथा, <<शी>>-धातोः अण्यन्तप्रयोगे माणवकः शेते इत्यत्र विद्यमानः कर्तृसंज्ञकः माणवकपदार्थः अस्यैव वाक्यस्य ण्यन्तप्रयोगे कर्मसंज्ञकः भवति - पिता माणवकं शाययति । अत्र पितृपदार्थः ण्यन्तक्रियायाः कर्ता (प्रयोजककर्ता) अस्ति, तथा च माणवकपदार्थः अण्यन्तक्रियायाः कर्ता (प्रयोज्यकर्ता) अस्ति यः ण्यन्तप्रयोगे कर्मसंज्ञकः जातः । वेदपदार्थः अण्यन्तप्रयोगे ण्यन्तप्रयोगेऽपि च ईप्सिततमत्वात् कर्मसंज्ञकः एव अस्ति । अत्र अध्यापयति इति तिङन्तेन प्रयोजककर्तुः अभिधानं क्रियते, अतः अनभिहितं कर्म अत्र <<कर्मणि द्वितीया>> [[2.3.2]] इत्यनेन द्वितीयया निर्दिश्यते । एवमेव, पिता माणवकं हासयति इति प्रयोगः अपि सिद्ध्यति । \n\n1. अकर्मकधातवः इत्युक्ते ते धातवः येषां कर्मपदं न सम्भवति । \"वाक्ये कर्मपदं वर्तते उत न\" इति विषयः अत्र न चिन्तनीयः । यथा, देवदत्तः पचति इत्यत्र वाक्ये यद्यपि कर्मपदं न विद्यते, तथापि अत्र कर्मपदस्य अध्याहारः शक्यः यतः पच्-धातोः सन्दर्भेण कर्मपदम् तु अवश्यमेव सम्भवति । अतः पच्-धातुः अत्र अकर्मकरूपेण नैव परिगण्यते ।\n2. पूर्वसूत्रे कौमुद्यां विद्यमानेन इति वार्त्तिकेन अकर्मकधातूनां योगे अपि देशकालादिकं कर्मपदम् भवितुम् अर्हति । परन्तु एतादृशे कर्मपदे लब्धे अपि एते धातवः अकर्मकरूपेणैव परिगण्यन्ते, अतः प्रकृतसूत्रे विद्यमानेन अकर्मक इति अंशेन तेषां ग्रहणम् अवश्यमेव भवति । यथा - पिता माणवकं कुरून् शाययति । अत्र माणवकपदार्थस्य कर्मसंज्ञा प्रकृतसूत्रेण, तथा च कुरुपदार्थस्य कर्मसंज्ञा इति वार्त्तिकेन सिद्ध्यति । \n\nनिषेधवार्त्तिकानि\nप्रकृतसूत्रेण उक्तस्य नियमस्य निषेधरूपेण आहत्य पञ्च वार्त्तिकानि पाठ्यन्ते । तानि एतादृशानि -\n\n
  • 1. <<नी>> <{1.1049}> तथा <<वह्>> <{1.1159}> इत्यतौ धातू यद्यपि गत्यर्थकौ स्तः, तथापि अनयोः विषये प्रकृतसूत्रस्य प्रयोगः न भवति । यथा - पिता माणवकेन अजं नाययति । अत्र अण्यन्तप्रयोगस्य कर्तृसंज्ञकः माणवकपदार्थः ण्यन्तप्रयोगे कर्मसंज्ञां न प्राप्नोति अपितु कर्तृसंज्ञकः एव तिष्ठति । एतादृशस्य अनभिहित-कर्तुः निर्देशार्थम् <<कर्तृकरणयोस्तृतीया>>[[2.3.18]] इत्यनेन तृतीयाविभक्तिः प्रयुक्ता दृश्यते । एवमेव, पिता माणवकेन भारं वाहयति इत्यत्रापि माणवकपदार्थस्य कर्मसंज्ञा न भवति । \n
  • 2. । इदं वार्त्तिकं पूर्ववार्त्तिकस्य अपवादस्वरूपेण प्रवर्तते । यदि वह्-धातोः प्रयोजककर्ता नियन्ता (सारथिः) अस्ति, तर्हि पूर्ववार्त्तिकेन उक्तः निषेधः नैव प्रवर्तते, तथा प्रयोज्यकर्तुः ण्यन्त-प्रयोगे अवश्यमेव कर्मसंज्ञा भवति । यथा - सूतः अश्वान् रथं वाहयति । अत्र अश्वानां सारथ्यं सूतेन क्रियते इति कारणात् वह्-धातोः विषये पूर्ववार्त्तिकस्य प्रयोगः न क्रियते अपितु सूत्रप्रयोगेणैव अश्वपदार्थस्य कर्मसंज्ञा विधीयते । \n
  • 3. <<अद् >> <{2.1}> तथा च <<खाद्>> <{1.51}> इत्येतौ धातू यद्यपि प्रत्यवसानार्थकौ (भोजनार्थकौ) स्तः, तथापि एतयोः विषये प्रकृतसूत्रं नैव प्रवर्तते; अतः एतयोः ण्यन्तप्रयोगे अण्यन्तकर्ता कर्तृंसंज्ञकः एव तिष्ठति । यथा - पिता माणवकेन ओदनम् आदयति / खादयति ।\n
  • 4. <<भक्ष्>> <{10.33}> इति चौरादिकधातोः विषये \"यत्र हिंसा (वनस्पतेः पशोः वा हत्या) न भवति\" तत्र प्रकृतसूत्रस्य प्रयोगः न क्रियते । यथा, माणवकः ओदनं भक्षयति इत्यत्र हिंसा नैव विद्यते, अतः अस्य वाक्यस्य णिजन्तप्रयोगे माणवकपदार्थस्य प्रकृतसूत्रेण प्राप्ता कर्मसंज्ञा निषिध्यते, येन पिता माणवकेन ओदनं भक्षयति इति प्रयोगः सिद्ध्यति । हिंसार्थके अर्थे तु प्रकृतसूत्रस्य प्रयोग भवत्येव । यथा, बलीवर्दः सस्यम् भक्षयति इत्यत्र सस्यं भूमेः उत्पाट्य (तस्य हिंसां कृत्वा) भक्षयति इति आशयः वर्तते । अतः अत्र ण्यन्तप्रयोगे बलीवर्दपदार्थस्य अवश्यं हि प्रकृतसूत्रेण कर्मसंज्ञा विधीयते, यथा - कृषकः बलिवर्दम् सस्यं भक्षयति । \n
  • 5. <<शब्दाय>> इति आतिदेशिकधातोः विषये प्रकृतसूत्रं नैव प्रवर्तते । अयं धातुः \"शब्दं करोति\" अस्मिन् अर्थे \"शब्द\" इति प्रातिपदिकात् <<कर्तुः क्यङ् सलोपश्च>> [[3.1.11]] इत्यनेन क्यङ्-प्रत्ययं कृत्वा सिद्ध्यति । अस्य धातोः कर्मपदं शब्दः इति अस्ति, अतः प्रकृतसूत्रस्य शब्दकर्मक इति अंशेन अस्य धातोः ग्रहणं सम्भवति । परन्तु तादृशं ग्रहणं न इष्यते अतः इदं वार्त्तिकं पाठितम् अस्ति । <<शब्दाय>> इति धातोः अण्यन्त-कर्तुः ण्यन्त-प्रयोगे प्रकृतसूत्रेण प्राप्ता कर्मसंज्ञा अनेन वार्त्तिकेन निषिध्यते । यथा - पिता माणवकेन शब्दाययति । अत्र \"माणवकः\" इति अण्यन्तप्रयोगस्य कर्ता ण्यन्तप्रयोगे अपि कर्तृसंज्ञकः एव तिष्ठति । \n\nविधायकवार्त्तिकानि\nप्रकृतसूत्रेण येषां धातूनां ग्रहणं कृतं नास्ति, तेषां विषये अपि प्रकृतसूत्रस्यैव विधानं कर्तुं द्वे वार्त्तिके निर्मिते स्तः - \n\n
  • 1. । <<जल्प्>> <{1.464}>, <<भाष्>> <{1.696}>, तथा च <<वि + लप्>> <{1.468}> - एतेषां त्रयाणाम् अपि अर्थः \"व्यक्तायां वाचि\" इति अस्ति । एतेषाम् प्रयोगे विद्यमानं कर्मपदं यद्यपि शब्दकर्म नास्ति, तथापि एतेषां अण्यन्त-कर्तुः ण्यन्तप्रयोगे अवश्यं हि कर्मसंज्ञा भवति । यथा - पिता माणवकं धर्मं जल्पयति । अत्र धर्मपदार्थः शब्दकर्मकः नास्ति अतः अत्र प्रकृतसूत्रेण अप्राप्ता कर्मसंज्ञा अनेन वार्त्तिकेन विधीयते । एवमेव, पिता माणवकं धर्मं भाषयति तथअ च पिता माणवकं धर्मं विलापयति इत्येतौ प्रयोगौ अपि सिद्ध्यतः ।\n
  • 2. <<दृश्>> <{1.1143}> इत्यस्य विषये अपि अण्यन्त-कर्तुः ण्यन्तप्रयोगे कर्मसंज्ञा भवति । यथा - पिता माणवकं शुकं दर्शयति । \n\n1. वस्तुतः <<दृश्>>-धातुः बुद्ध्यर्थकः (ज्ञानविशेषार्थकः) अस्ति, अतः प्रकृतसूत्रे विद्यमानेन बुद्धि इति पदेनैव <<दृश्>>-धातोः विषये अण्यन्तकर्तृपदस्य ण्यन्तप्रयोगे कर्मसंज्ञा सिद्धा अस्ति । तथापि अत्र इदं वार्त्तिकं पुनः पाठ्यते । <ऽसिद्धे अति आरम्भः नियमार्थःऽ> इत्यनेन इदं वार्त्तिकं नियमं करोति, यत् - ज्ञानविशेषार्थकधातूनां विषये प्रकृसूत्रं प्रयोक्तव्यं चेत् <<दृश्>>-धातोः विषये एव, न अन्येषाम् । अस्य प्रयोजनम् अस्ति <<घ्रा>> तथा <<स्मृ>> एतयोः धात्वोः विषये प्रकृतसूत्रस्य निषेधः । एतौ धातू विशेषज्ञानं बोधयतः अतः एतयोः विषये प्रकृतसूत्रं नैव प्रयुज्यते, अतश्च एतयोः शुद्धकर्ता ण्यन्तप्रयोगे कर्तृसंज्ञकः एव तिष्ठति । यथा - पिता माणवकेन पुष्पं घ्रापयति । एवमेव, पिता माणवकेन गुरुं स्मारयति ।\n2. <<दृश्>>-धातोः विषये ण्यन्तप्रयोगे दर्शयति तथा दर्शयते इति द्वे रूपे भवतः । एताभ्याम् इति वार्त्तिकम् केवलं दर्शयति इति परस्मैपदप्रयोगस्य विषये एव प्रयुज्यते । दर्शयते इति आत्मनेपदप्रयोगस्य विषये तु अग्रिमसूत्रे इति विकल्पः पाठितः अस्ति । \n\n\nदलकृत्यम्\n1. गत्यादीनाम् एव किमर्थम् ? सूत्रे उक्तान् अर्थान् विहाय अन्येषु अर्थेषु प्रयुक्तानां धातूनां विषये प्रकृतसूत्रं नैव प्रवर्तते - इति स्पष्टीकर्तुम् अत्र गत्यादीनां ग्रहणं कृतम् अस्ति । यथा - पिता माणवकेन पत्रं लेखयति । अत्र लेखनक्रियायाः कर्ता माणवकपदार्थः ण्यन्तप्रयोगे कर्मसंज्ञां नैव प्राप्नोति यतोहि लेखनार्थकस्य प्रकृतसूत्रे निर्देश-अभावात् लेखनार्थकधातूनां विषये इदं सूत्रं नैव प्रयुज्यते । अतः लिखति इत्यस्य कर्ता लेखयति इत्यस्य प्रयोगे अपि कर्तृसंज्ञकः एव तिष्ठति । एवमेव, पिता माणवकेन ओदनं पाचयति इत्यत्रापि माणवकपदार्थस्य ण्यन्तप्रयोगे कर्मसंज्ञा न भवति ।\n2. अणि कर्ता इति किमर्थम्? इदं सूत्रम् केवलं अण्यन्त-प्रयोगस्य कर्तृपदस्य विषये एव प्रवर्तते इति स्पष्टीकर्तुम् अत्र \"अणि कर्ता\" इति प्रयोगः कृतः अस्ति। ण्यन्तप्रयोगस्य यत् कर्तृपदम्, तत् तस्यापि ण्यन्तप्रयोगे प्रकृतसूत्रेण कर्मसंज्ञकं न भवति । यथा - माणवकः गच्छति इति अण्यन्तवाक्यस्य कर्ता माणवकपदार्थः ण्यन्तप्रयोगे कर्मसंज्ञां प्राप्नोति, येन पिता माणवकं गमयति इति प्रयोगः सिद्ध्यति । इदानीम्, \"आचार्यः पितरं माणवकं गमयितुम् प्रेरयति\" इति अर्थस्य निर्देशार्थम् <<गमि>> इति ण्यन्तात् पुनः अग्रे णिच्-प्रत्ययः भवति, येन आचार्यः पित्रा माणवकं गमयति इति वाक्यं सिद्ध्यति । अस्मिन् वाक्ये आहत्य त्रीणि कर्तृपदानि विद्यन्ते । तत्र प्रेरणार्थकस्य यः प्रेरणार्थः (इत्युक्ते गम् + णिच् + णिच्) तस्य कर्ता आचार्यः इति अस्ति, सः च अस्मिन् वाक्ये गमयति इत्यनेन अभिहितः अपि अस्ति, अतः तस्य प्रथमाविभक्तौ निर्देशः क्रियते । अग्रे, प्रथम-स्तरीयः यः प्रेरणार्थः (इत्युक्ते गम् + णिच्) तस्य कर्ता पिता इति अस्ति । अयं पितृपदार्थः द्वितीयस्तरीयणिजन्तवाक्ये यदा प्रयुज्यते, तदा धातोः गत्यर्थकत्वे सति अपि पितृपदार्थस्य प्रकृतसूत्रेण कर्मसंज्ञा नैव विधीयते, यतः पितृपदार्थः \"अण्यन्तस्य कर्ता\" नास्ति । एतत् स्पष्टीकर्तुम् एव प्रकृतसूत्रे अणि कर्ता इति अंशः स्थापितः अस्ति ।माणवकः इति तु अण्यन्तस्य कर्ता अस्ति, अतः सः तु धातोः गत्यर्थकत्वात् प्रथमस्तरीयणिजन्ते अपि कर्मसंज्ञकः भवति, द्वितीयस्तरीयणिजन्ते अपि कर्मसंज्ञकः भवति । \n" }, "14053": { "sa": "हृ तथा कृ धात्वोः विषये अण्यन्तप्रयोगस्य कर्ता ण्यन्तप्रयोगे विकल्पेन कर्मसंज्ञकः भवति । यथा - माणवकं माणवकेन वा भारं हारयति, माणवकं माणवकेन वा कटं कारयति ।", "sd": "<<कारके>> [[1.4.23]] इत्यस्मिन् अधिकारे यैः दशभिः सूत्रैः कर्मसंज्ञायाः विधानम् क्रियते, तेषु इदं अन्तिमं सूत्रम् । <<हृ>> <{1.1046}> तथा <<कृ>> <{8.10}> एतयोः धात्वोः विषये इति अस्य अर्थः । । क्रमेण उदाहरणे एतादृशे -\n\n
  • 1. <<हृ हरणे>> <{1.1046}> । यथा - पिता माणवकं भारं हारयति, पिता माणवकेन भारं हारयति ।\n<<हृ>>-धातोः यः शुद्धकर्ता, तस्य ण्यन्तप्रयोगे अनेन सूत्रेण विकल्पेन कर्मसंज्ञा भवति । कर्मसंज्ञायां प्राप्तायाम् पिता माणवकं भारं हारयति इति प्रयोगः सिद्ध्यति । कर्मसंज्ञायाः अभावे पिता माणवकेन भारं हारयति इति प्रयोगः सिद्ध्यति । \n
  • 2. <<कृ करणे>> <{10.10}> - यथा पिता माणवकं कटं कारयति, पिता माणवकेन कटं कारयति ।\n<<हृ>>-धातोः यः शुद्धकर्ता, तस्य ण्यन्तप्रयोगे अनेन सूत्रेण विकल्पेन कर्मसंज्ञा भवति । कर्मसंज्ञायां प्राप्तायाम् पिता माणवकं कटं कारयति इति प्रयोगः सिद्ध्यति । कर्मसंज्ञायाः अभावे पिता माणवकेन कटं कारयति इति प्रयोगः सिद्ध्यति । \n\nउभयत्र विभाषा इयम्\n<<हृ>> तथा <<कृ>> - द्वयोः अपि धात्वोः विषये प्रकृतसूत्रेण उक्ता विभाषा उभयत्र विभाषा एव अस्ति । तदित्थम् -\n\n1. <<हृ>>-धातुः कुत्रचित् गत्यर्थकरूपेण प्रयुज्यते (यथा - हरति, विहरति); कुत्रचित् भोजनार्थकरूपेण प्रयुज्यते (यथा - आहरति); कुत्रचित् च अन्यस्मिन् एव अर्थे प्रयुज्यते (यथा - प्रहरति) । एतेभ्यः गत्यर्थके अर्थे, भोजनार्थके च अर्थे, हृ-धातोः अण्यन्तकर्तुः ण्यन्तप्रयोगे <<गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ>> [[1.4.52]] इति पूर्वसूत्रेण नित्यं कर्मसंज्ञायां प्राप्तायाम्; तथा च अन्येषु अर्थेषु पूर्वसूत्रस्य प्रयोग-अभावात् कर्मसंज्ञायाम् सर्वथा अप्राप्तायाम्, प्रकृतसूत्रेण सर्वेषु स्थलेषु इयं कर्मसंज्ञा विकल्प्यते । अनेन प्रकारेण <<हृ>>-धातोः विषये इयम् उभयत्र विभाषा अस्ति ।\n2. <<कृ>>-धातुः कुत्रचित् अकर्मकरूपेण प्रयुज्यते (यथा - छात्राः विकुर्वन्ति (विरुद्धं चेष्टन्ते इत्यर्थः)); अन्येषु स्थलेषु तु अयं सकर्मकरूपेण प्रयुज्यते (यथा, कटं करोति) । एताभ्यां अकर्मके अर्थे कृ-धातोः अण्यन्तकर्तुः ण्यन्तप्रयोगे <<गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ>> [[1.4.52]] इति पूर्वसूत्रेण नित्यं कर्मसंज्ञायां प्राप्तायाम्; तथा च सकर्मके अर्थे पूर्वसूत्रस्य प्रयोग-अभावात् कर्मसंज्ञायाम् सर्वथा अप्राप्तायाम, प्रकृतसूत्रेण सर्वेषु स्थलेषु इयं कर्मसंज्ञा विकल्प्यते । अनेन प्रकारेण <<कृ>>-धातोः विषये अपि इयम् उभयत्र विभाषा अस्ति ।\n\nवार्त्तिकम् - <!अभिवादिदृशोरात्मनेपदे वेति वाच्यम्!> \nअभि + वद् तथा च दृश् इत्येतयोः धात्वोः ण्यन्तस्य आत्मनेपदस्य प्रयोगे अण्यन्तकर्ता विकल्पेन कर्मसंज्ञकः भवति । यथा -\n\n
  • 1. <<अभि + वद्>> <{1.1164}> - अत्र माणवकः गुरुम् अभिवदति इत्यस्य णिजन्तप्रयोगे अभिवादयते इति आत्मनेपदि तिङन्तं प्रयुज्यते चेत् पिता माणवकेन गुरुम् अभिवादयते तथा पिता माणवकम् गुरुम् अभिवादयते इति उभयथा प्रयोगः भवति । अभिवादयति इति परस्मैपदप्रयोगे तु केनापि सूत्रेण वार्त्तिकेन वा शुद्धकर्तुः कर्मसंज्ञा न विधीयते, अतः सः कर्तृसंज्ञकः एव तिष्ठति - पिता माणवकेन गुरुम् अभिवादयति । \n
  • 2. <<दृश्>> <{1.1143}> - अत्र माणवकः शुकं पश्यति इत्यस्य णिजन्तप्रयोगे दर्शयते इति आत्मनेपदि तिङन्तं प्रयुज्यते चेत् पिता माणवकेन शुकं दर्शयते तथा च पिता माणवकम् शुकं दर्शयते इति उभयथा प्रयोगः भवति । दर्शयति इति परस्मैपदप्रयोगे तु पूर्वसूत्रस्थेन इति वार्त्तिकेन शुद्धकर्तुः नित्यमेव कर्मसंज्ञा विधीयते - पिता माणवकं शुकं दर्शयति । \n\n" }, "14054": { "sa": "क्रियासिद्धौ प्राधान्येन विवक्षितं कारकं कर्तृसंज्ञकं भवति । यथा - देवदत्तेन पच्यते । ", "sd": "<<कारके>> [[1.4.23]] इत्यस्मिन् अधिकारे याभ्याम् द्वाभ्याम् सूत्राभ्याम् कर्तृसंज्ञायाः विधानम् क्रियते, ताभ्याम् इदं प्रथमं सूत्रम् । क्रियायाः सिद्धौ यत् कारकं प्राधान्येन विवक्ष्यते, तस्य कर्ता इति संज्ञा भवति - इति अस्य सूत्रस्य अर्थः । यथा, पचनक्रियायाम् स्थाली, महानसः, अग्निः, ओदनः, देवदत्तः इत्यादि भिन्नानि साधनानि आवश्यकानि वर्तन्ते । एतेषु देवदत्तः इति प्रधानकारकम् अस्ति, यतः देवदत्तः एव अन्यानि साधनानि उपयुज्य पचनक्रियां करोति । किञ्च, देवदत्तस्य अनुपस्थितौ अन्यानि साधकानि स्वयं पचनक्रियां कर्तुं नैव समर्थानि सन्ति । अतः अत्र देवदत्तस्य पचनक्रियायाः सन्दर्भेण प्रधानत्वम् ( = स्वतन्त्रत्वम्) स्वीकृत्य तस्य प्रकृतसूत्रेण कर्तृसंज्ञा भवति । एतादृशः कर्ता तिङ्-इत्यादिभिः अनभिहितः अस्ति चेत् तस्य निर्देशार्थम् <<कर्तृकरणयोस्तृतीया>> [[2.3.18]] इत्यनेन तृतीयायाः प्रयोगं कृत्वा देवदत्तेन पच्यते, देवदत्तेन पक्वम् इति प्रयोगाः सिद्ध्यन्ति । परन्तु यदि एतादृशः कर्ता तिङ्-इत्यादिभिः अभिहितः वर्तते, तर्हि तस्य निर्देशार्थम् <<प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा >> [[2.3.46]] इत्यनेन प्रथमाविभक्तेः प्रयोगं कृत्वा देवदत्तः पचति इति प्रयोगः सिद्ध्यति । \nप्राधान्यं विवक्षाधीनम्\nक्रियापूर्त्यर्थम् आवश्यकेभ्यः भिन्नेभ्यः साधनेभ्यः \"किं साधनं प्रधानम् अस्ति\" इत्यस्य निर्णयः प्रायेण विवक्षया भवति । किञ्च इयं विवक्षा क्रियायाः पृथक् पृथक् अवगमनेन सम्भवति । इत्युक्ते, पचनक्रियायाः अवगमनम् यदि - तण्डुलाः आदौ स्थाल्यां स्थापनीयाः, ततः स्थाली चुल्ह्यां स्थापनीया, अग्निः प्रज्वालनीयः - इत्यादिप्रकारेण भवति, तर्हि एतस्य व्यापारस्य प्रधानं कारकं देवदत्तः भवेत् यतोहि सः एव एतं व्यापारं कुर्यात् । परन्तु, पचनक्रियायाः अवगमनम् यदि -इन्धनज्वलनेन ऊर्जानिर्माणम्, ततश्च तया ऊर्जया तण्डुलानां विक्लित्तिः साधनीया - इत्थं क्रियते, तर्हि तत्र अस्य व्यापारस्य प्रधानं कारकम् अग्निः भवेत्, यतोऽहि इन्धनज्वलनेन ऊर्जानिर्माणस्य व्यापारं तु अग्निः करोति । एतादृशे अग्नौ कर्तृत्वे स्वीकृते अग्निः पचति इति प्रयोगः सिद्ध्यति । एवमेव यदि पचनक्रियायाः अवगमनम् - एकं द्रोणं यावत् तण्डुलान् जले संस्थाप्य, तस्य जलस्य आधारेण तण्डुलविक्लित्तिः - इति क्रियते, तर्हि अस्य व्यापारस्य प्रधानं कारकम् स्थाली स्यात्, यतोऽहि तण्डुलान् जलं च सा स्वस्मिन् संस्थाप्य तेभ्यः ओदनं निर्माति । अनया विवक्षया स्थाली पचति इति प्रयोगः अपि सिद्ध्यति । एतादृशं, क्रियायाः अवगमने भेदं परिकल्प्य भिन्नानां साधनानाम् कर्तृत्वं ज्ञापयितुम् शक्यते ।<<कारके>> [[1.4.23]] इत्यत्र भाष्यकारः अमुम् एव विषयम् स्पष्टीकुर्वन् ब्रूते -\n\nसिद्धं तु प्रतिकारकं क्रियाभेदात् पचादीनां करणा-अधिकरणयोः कर्तृभावः ।... पचादीनां तु प्रतिकारकं क्रिया भिद्यते । .. कः असौ प्रतिकारकं क्रियाभेदः पचादीनाम् ? ...अधिश्रयण-उदकासेचन-तण्डुलावपन-एधोपकर्षणादिक्रियाः कुर्वन्नेव देवदत्तः पचतीत्युच्यते । एष प्रधानस्य कर्तुः पाकः ॥ द्रोणं पचति आढकं पचति इति सम्भवनक्रियां धारणक्रियां च कुर्वती स्थाली पचतीत्युच्यते । एषः अधिकरणस्य पाकः । ... \"एधाः पक्ष्यन्त्याः विक्लितेः ज्वलिष्यन्ति\" इति ज्वलनक्रियां कुर्वन्ति काष्ठानि पचन्ति इत्युच्यन्ते । एष करणस्य पाकः ॥\n\nअत्र भाष्यकारेण प्रतिकारकं क्रियाभेदात् करणस्य, अधिकरणस्य अपि कर्तृत्वं भवति इति वर्णितम् अस्ति । एतादृशे कर्तृत्वे सिद्धे, देवदत्तः पचति, स्थाली पचति तथा च अग्निः पचति इत्येते भिन्नाः प्रयोगाः सम्भवन्ति - इति अत्र भाष्यस्य आशयः अस्ति । " }, "14055": { "sa": "क्रियायाः कर्तुः प्रयोजकः (प्रेरकः) स्वयम् हेतुसंज्ञकः, कर्तृसंज्ञकः व भवति । यथा - \"पिता देवदत्तं गमयति\" इत्यत्र पिता इति हेतुः, कर्ता च । ", "sd": "<<कारके>> [[1.4.23]] इत्यस्मिन् अधिकारे याभ्याम् द्वाभ्याम् सूत्राभ्याम् कर्तृसंज्ञायाः विधानम् क्रियते, ताभ्याम् इदं द्वितीयं सूत्रम् । किञ्च, इदं कारकाधिकारस्य अन्तिमम् सूत्रम् अपि अस्ति । <<स्वतन्त्रः कर्ता>> [[1.4.54]] इत्यनेन यस्य पदार्थस्य कर्तृसंज्ञा विधीयते, तं पदार्थं तस्मात् क्रियायां यः योजयति / प्रेरयति तस्य प्रकृतसूत्रेण हेतुः तथा कर्ता इति द्वे संज्ञे दीयेते । यथा, माणवकः गच्छति इत्यस्मिन् वाक्ये गमनक्रियायाः सन्दर्भेण स्वातन्त्र्येण विवक्षितं कारकम् माणवकः इति, तस्य <<स्वतन्त्रः कर्ता>> [[1.4.54]] इत्यनेन कर्तृसंज्ञायां सिद्धायाम्, एतं माणवकं गमनक्रियायाम् यः योजयति, सः पित्रादिपदार्थः पिता माणवकं गमयति एतादृशेषु वाक्येषु प्रकृतसूत्रेण हेतुसंज्ञकः, कर्तृसंज्ञकः च भवति । \nसंज्ञाद्वयस्य प्रयोजनम्\nप्रकृतसूत्रेण हेतुः तथा च कर्ता इति द्वे संज्ञे युगपत् पाठ्येते । प्रत्येकं संज्ञायाः प्रयोजनम् एतादृशम् -\n\n
  • 1. हेतुसंज्ञायाः प्रयोजनम् = णिच्-प्रत्ययविधानम् । <<हेतुमति च>> [[3.1.26]] इत्यस्मिन् सूत्रे हेतुसंज्ञायाः प्रयोगं कृत्वा <<णिच्>> प्रत्ययः विधीयते । अयं णिच्-प्रत्ययः हेतुव्यापारस्य निर्देशार्थं प्रयोक्तव्यः (न हि मूलव्यापारस्य) इति अस्य अर्थः । यथा, गम् + णिच् = गामि इत्यनेन मूल-गमनक्रियायाः व्यापारः न निर्दिश्यते, अपितु गमनक्रियायाः प्रयोजकव्यापारः (हेतुव्यापारः) निर्दिश्यते । \n
  • 2. कर्तृसंज्ञायाः प्रयोजनम् = विभक्तिविधानम् । अनभिहित-कर्तृकारकस्य निर्देशार्थम् <<कर्तृकरणयोस्तृतीया>> [[2.3.18]] इत्यनेन तृतीया, तथा च अभिहित-कर्तृकारस्य निर्देशार्थम् <<प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा>> [[2.3.46]] इत्यनेन प्रथमा विभक्तिः भवति । यथा - पिता माणवकं गमयति, पित्रा माणवकः गम्यते । \n\nयद्यपि प्रकृतसूत्रम् कारकाधिकारे वर्तते, तथापि सिद्धान्तकौमुद्याम् इदं सूत्रम् कारकप्रकरणे न, अपि तु तिङन्तणिच्प्रकरणे पाठितम् अस्ति । \n<hlb>तत्प्रयोजकः</hlb> इति निपातनात् समासः\nसूत्रे प्रयुक्तः तत्प्रयोजकः इति शब्दः तस्य प्रयोजकः (= पूर्वसूत्रेण विहितस्य कर्तृसंज्ञकस्य प्रयोजकः) इत्यस्मिन् अर्थे समासं कृत्वा सिद्ध्यति । परन्तु एतादृशस्य समासस्य विधायकं न किञ्चन सूत्रं वर्तते, यतोहि <<षष्ठी>> [[2.2.8]] इत्यनेन षष्ठीतत्पुरुषसमासे प्राप्ते, प्रयोजकशब्दस्य ण्वुल्-प्रत्ययान्तत्वात् <<तृजकाभ्यां कर्तरि>> [[2.2.15]] / (कौमुदीमतेन <<कर्तरि च>> [[2.2.16]]) इत्यनेन अयं षष्ठीतत्पुरुषसमासः निषिध्यते । एतादृशे समासनिषेधे जाते, पुनः षष्ठीसमासस्य विधानार्थं न किञ्चन अन्यत् सूत्रं विद्यते, अतः तस्य प्रयोजकः इत्यत्र वस्तुतः समासः न सम्भवति । परन्तु तथापि पाणिनिना प्रकृतसूत्रे तत्प्रयोजक: इति पदं तस्य प्रयोजकःअस्मिन्नेव अर्थे प्रयुक्तम् अस्ति । इदं निपातनात् साधु मन्यते । \nनिपातनम् = सिद्धप्रक्रियस्य निर्देशः । पाणिनिमहर्षिः कुत्रचित् कांश्चन तादृशान् शब्दान् अपि प्रयुङ्क्ते, येषां सिद्धिः सूत्रैः नैव सम्भवति । एतादृशाः शब्दाः, प्रक्रियां विना अपि, केवलं आचार्यप्रयोगप्रामाण्यात् साधु स्वीक्रियन्ते । अस्याः पद्धतेः नाम \"निपातनम्\" इति । \n\n" }, "14056": { "sa": "अधिकारसूत्रम् इदम् । इतः परम् <<अधिरीश्वरे>> [[1.4.97]] इति सूत्रपर्यन्तं निपातसंज्ञकाः पाठ्यन्ते ।", "sd": "इदम् अधिकारसूत्रम् अस्ति । अस्य सूत्रस्य अधिकारः <<अधिरीश्वरे>> [[1.4.97]] इति पर्यन्तं प्रचलति । अस्मिन् अधिकारे विद्यमानानि सर्वाण्यपि सूत्राणि संज्ञासूत्राणि सन्ति, यतः एतैः सूत्रैः निपात: इति संज्ञा दीयते । इत्युक्ते अस्मिन् अधिकारे विद्यमानैः सूत्रैः संज्ञिरूपेण दत्ताः शब्दाः निपातसंज्ञकाः भवन्ति । किञ्च तदेव न, अपितु एतेषाम् एव निपातानाम् अग्रे उपसर्गः, गतिः तथा च कर्मप्रवचनीयः एताः भिन्नाः संज्ञाः अपि अस्मिन् एव अधिकारे दत्ताः सन्ति । \nअस्मिन् अधिकारे विद्यमानानाम् सूत्राणाम् संक्षेपः एतादृशः -\n\n
  • 1. <<चादयोऽसत्त्वे>> [[1.4.57]] इत्यनेन चादिगणस्य शब्दाः निपातसंज्ञकाः भवन्ति । \n
  • 2. <<प्रादयः>> [[1.4.58]] इत्यनेन प्रादिगणस्य शब्दाः निपातसंज्ञकाः भवन्ति । \n
  • 3. <<उपसर्गाः क्रियायोगे>> [[1.4.59]] इत्यनेन प्रादिगणस्यैव शब्दानाम् उपसर्गाः इति संज्ञा अपि दीयते ।\n
  • 4. <<गतिश्च>> [[1.4.60]] इत्यतः <<जीविकोपनिषदावौपम्ये>> [[1.4.79]] इत्येतैः सूत्रैः गतिसंज्ञकाः शब्दाः पाठ्यन्ते । एते शब्दाः निपातसंज्ञकाः अपि सन्ति । \n
  • 5. <<अनुर्लक्षणे>> [[1.4.83]] इत्यस्मात् <<विभाषा कृञि>> [[1.4.98]] इत्येतैः सूत्रैः कर्मप्रवचनीयसंज्ञकाः शब्दाः पाठ्यन्ते । एते शब्दाः निपातसंज्ञकाः अपि सन्ति । \n\nनिपातसंज्ञायाः प्रयोगः\nअष्टाध्याय्याम् आहत्य षट्सु सूत्रेषु निपातसंज्ञायाः प्रयोगः कृतः अस्ति —\n\n1. <<निपात एकाजनाङ्>> [[1.1.14]]\n2. <<स्वरादिनिपातमव्ययम्>> [[1.1.37]]\n3. <<प्राग्रीश्वरान्निपाताः>> [[1.4.56]]\n4. <<यावत्पुरानिपातयोर्लट्>> [[3.3.4]]\n5. <<निपातस्य च>> [[6.3.136]]\n6. <<निपातैर्यद्यदिहन्तकुविन्नेच्चेच्चण्कच्चिद्यत्रयुक्त>> [[8.1.30]]\n\nसूत्रे विद्यमानस्य <hlb>रीश्वरात्</hlb> इति शब्दस्य विषये\nप्रकृतसूत्रेण दत्तायाः निपातसंज्ञायाः अधिकारः <<अधिरीश्वरे>> [[1.4.98]] इति सूत्रं यावत् प्रचलति । अमुम् एव विषयम् स्पष्टीकर्तुम् पाणिनिः प्रकृतसूत्रे रीश्वर इति शब्दं प्रयुङ्क्ते । अयं शब्दः <<अधिरीश्वरे>> [[1.4.98]] इत्यस्मिन् सूत्रे विद्यमानस्य रीश्वर इत्यस्य निर्देशं करोति । तत्र वस्तुतः <<अधिरीश्वरे>> [[1.4.98]] इत्यत्र अधिः तथा च ईश्वरे इति द्वौ पृथक् शब्दौ स्तः, अतः रीश्वर इति अनर्थक-शब्दस्य स्थाने प्रकृतसूत्रे ईश्वर इत्यस्य सार्थकशब्दस्य ग्रहणम् एव उचिततरं भाति । परन्तु ईश्वर इति शब्दः अग्रे <<ईश्वरे तोसुन्कसुनौ>> [[3.4.13]] इति अन्यस्मिन् सूत्रे अपि वर्तते, अतः ईश्वर शब्दस्य ग्रहणं कृत्वा \"प्राग् ईश्वरात् निपाताः\" इति सूत्रं क्रियते चेत् \"अयं अधिकारः क्व समाप्यते\" अस्मिन् विषये सन्देहः अजनिष्यत । तथा मा भूत् इति हेतुना प्रकृतसूत्रे रीश्वर इति अनर्थकशब्दः एव प्रयुक्तः अस्ति । \nअस्मिन् सन्दर्भे काशिकायां भाष्ये च एकं श्लोकवार्त्तिकं दत्त्वा कश्चन शास्त्रविषयः अपि चर्चितः वर्तते । जिज्ञासुभिः सः अवश्यं द्रष्टव्यः ।\nसर्वेऽपि निपाताः <hlb>अव्ययसंज्ञकाः</hlb>, <hlb>प्रातिपदिकसंज्ञकाः</hlb> च \nसर्वेषाम् अपि निपातानाम् <<स्वरादिनिपातमव्ययम्>> [[1.1.37]] इति सूत्रेण अव्ययसंज्ञा विधीयते । एवमेव, <<अर्थवदधातुरप्रत्ययः प्रातिपदिकम्>> [[1.2.45]] इत्यनेन एते शब्दाः अर्थवत्त्वात् प्रातिपदिकसंज्ञकाः अपि भवन्ति । केचन निपाताः तु अनर्थकाः सन्ति, परन्तु तेषाम् अपि इति वार्त्तिकेन प्रातिपदिकसंज्ञा अवश्यम् विधीयते। अतः एतेभ्यः शब्देभ्यः सुबुत्पत्तिः अपि सम्भवति । परन्तु अव्ययेभ्यः विहितानां <<सुप्>>-प्रत्ययानाम् प्रक्रियायाम् <<अव्ययादाप्सुपः>> [[2.4.82]] इत्यनेन लुक् भवति । अतः सर्वेषाम् अपि निपातानाम् सर्वासु विभक्तिषु, सर्वेषु वचनेषु, त्रिषु अपि लिङ्गेषु रूपाणि समानानि एव भवन्ति —\n\nच [<<चादयोऽसत्त्वे>> [[1.4.57]] इति निपातसंज्ञा । <<अर्थवदधातुरप्रत्ययः प्रातिपदिकम्>> [[1.2.45]] इति प्रातिपदिकत्वम् ।]\n→ च + सुँ [<<स्वौजस्...>> [[4.1.2]] इति सुँ-प्रत्ययः ।]\n→ च + ० [<<अव्ययादाप्सुपः>> [[2.4.82]] इति सुँ-प्रत्ययस्य लोपः]\n→ च [<<सुप्तिङन्तं पदम्>> [[1.4.14]] इति पदसंज्ञा ]\n\nअनेन प्रकारेण, वाक्ये प्रयुक्ताः सर्वे अपि निपाताः पदसंज्ञकाः एव सन्ति । \nएकाच्काः निपाताः <hlb>प्रगृह्यसंज्ञका</hlb> अपि सन्ति\nआङ् इति निपातं विहाय अन्ये ये निपाताः एकाच्काः सन्ति (इत्युक्ते, येषु एकः एव स्वरः अस्ति तथा च किमपि व्यञ्जनम् नास्ति), तेषाम् <<निपात एकाजनाङ् >> [[1.1.14]] इति सूत्रेण प्रगृह्यम् इति संज्ञा विधीयते । एतेषाम् आवली इयम् —\n\nअ, आ, इ, उ, ऋ, ऌ, ए, ऐ, ओ, औ — एते एकाच्काः, अतः प्रगृह्यसंज्ञकाः निपाताः ।\n\nफिट्सूत्रम् - <<निपाताः आद्युदात्ताः>>\nशान्तनवाचार्येण प्रणीते फिट्सूत्रपाठे <<निपाताः आद्युदात्ताः>> (4.12) इति सूत्रं वर्तते । इदम् उत्सर्गसूत्रम् । सर्वेऽपि निपाताः औत्सर्गिकरूपेण आद्युदात्ताः सन्ति इति अस्य सूत्रस्य अर्थः । अस्य अपवादत्वेन 4.13 इत्यतः 4.17 एतेषु सूत्रेषु विशिष्टनिपातानां विषये विशिष्टाः स्वराः दत्ताः सन्ति । " }, "14057": { "sa": "चादिगणे निर्दिष्टाः शब्दाः अद्रव्यवाचिनि अर्थे निपातसंज्ञकाः भवन्ति ।", "sd": "चादिगणः इति कश्चन गणः गणपाठे पाठितः अस्ति । अस्मिन् गणे विद्यमानाः सर्वे शब्दाः अद्रव्यवाचिषु अर्थेषु निपातसंज्ञकाः भवन्ति —‌ इति अस्य सूत्रस्य आशयः । द्रव्यम् इत्यक्ते भौतिकजगतः कश्चन पदार्थः । लिङ्गसङ्ख्यान्वितम् द्रव्यम् इति अस्य शब्दस्य व्याख्या दीयते । यस्य वस्तुनः लिङ्गम्, संख्या वा भवितुम् अर्हति, तस्य द्रव्यम् इति संज्ञा भवति — इति अस्य आशयः । एतादृशान् अर्थान् विहाय अन्येषु अर्थेषु प्रयुक्ताः चादिगणस्य शब्दाः निपातसंज्ञाः भवन्ति । त्रीणि उदाहरणानि एतानि —\n\n
  • 1. शुकम् इति कश्चन शब्दः चादिगणे पाठितः लभ्यते । अस्य शब्दस्य अर्थः शीघ्रम् (quickly) इति वर्तते । अस्मिन् अर्थे अस्य शब्दस्य लिङ्गत्वं सङ्ख्यात्वं वा नैव विद्यते । इत्युक्ते, अयं शब्दः अस्मिन् अर्थे द्रव्यवाची नास्ति; अतश्च अस्मिन् अर्थे अस्य शब्दस्य निपातसंज्ञा भवति । परन्तु शुक इति अकारान्त-पुंलिङ्ग-प्रातिपदिकस्य द्वितीयैकवचनस्य शुकम् इति यद् रूपम्, तस्मिन् अर्थे अस्य शब्दस्य द्रव्यत्वम् (पुंलिङ्गम् एकवचनम् च) वर्तते, अतश्च तस्मिन् अर्थे अस्य निपातसंज्ञा अपि न भवति ।\n
  • 2. पशु इति शब्दः अपि चादिगणे विद्यते । अस्य शब्दस्य द्वौ अर्थौ सम्भवतः — सम्यक्, तथा जन्तुः । एताभ्याम् जन्तुः अस्मिन् अर्थे अस्य शब्दस्य द्रव्यत्वात् निपातसंज्ञा न भवति । परन्तु सम्यक् अस्मिन् अर्थे अयं शब्दः अद्रव्यवाची अस्ति, अतः अस्य अवश्यम् निपातसंज्ञा भवति ।\n
  • 3. कुत्र इति चादिगणे विद्यमानः शब्दः प्रश्नार्थे यदा प्रयुज्यते, तदा अद्रव्यवाचित्वात् तस्य निपातसंज्ञा भवति । परन्तु कुम् (भूमिम्) त्रायते इति अस्मिन् विग्रहे त्रै-धातोः <<आतोऽनुपसर्गे कः>> [[3.2.3]] इत्यनेन क-प्रत्यये कृते कुत्र इति यद् अकारान्तपुंलिङ्गम् प्रातिपदिकम् सिद्ध्यति, तस्य द्रव्यत्वात् निपातसंज्ञा न भवति ।\n\nचादिगणस्य आवली\nचादिगणस्य आवली अधः दत्ता अस्ति । प्रत्येकं शब्दस्य संक्षिप्तः अर्थः अपि तेन सह निर्दिष्टः अस्ति । एतेषाम् अन्ये अर्थाः कोशेभ्यः ज्ञातव्याः । एवमेव, एते शब्दाः वाक्येषु कथं प्रयोक्तव्याः इति तु शिष्टैः एव ज्ञेयम् ।\n\nच (and), वा (or, optionally), ह (indeed, certainly), अह (indeed, certainly), एव (emphasis, regulation), एवम् (agreement, similarity, like this), नूनम् (indeed, certainly), शश्वत् (eternal, repeatedly), युगपत् (together), भूयस्(again, required), सूपत् (question, praise), कूपत् (question, praise), कुवित् (more, praise), नेत् (doubt, disbelief), चेत् (if), चण् (if), कच्चित् (question), यत्र (where), तत्र (there), नह (negation), हन्त (oh no, oh yes, alas!), माकिम् (prohibition, negation), नकिम् (prohibition, negation), आकिम् (prohibition, negation), माङ् (prohibition, negation), नञ् (negation), तावत् (till, that much), यावत् (as much), त्वा(guess), त्वै (prohibition, negation), द्वै (in two ways), रै (money, possession), रे (money, possession), श्रौषट् (offering in a yajna), वौषट् (offering in a yajna), स्वाहा (offering for gods in a yajna), स्वधा (offering for forefathers in a yajna), ओम् (acceptance), तथा (thus, like that), तथाहि (thus, like that), खलु (indeed), किल (indeed), अथ (from here, beginning), सु(appropriate), अस्मि ((I, self),) सुष्ठु (appropriate), स्म (in past, used to), अ, इ, उ, ऋ, ऌ, ए, ऐ, ओ, औ (all used in addressing someone), अम् (rapid, small), तक् (guess), उञ् (guess), उकञ् (guess), वेलायाम् (at the specified time), मात्रायाम् (in the specific quantity), यथा (just like), यत् (whichever), यम् (whichever), तत् (that), किम् (old), पुरा (long long ago), वधा (determination), वध्वा(determination), धिक्(disrespect, pitty), हाहा (surprise), है (to address someone), हे (to address someone), पाट् (to address someone), प्याट् (to address someone), आहो (to exclaim, surprise), उताहो (option, choice), हो (to exclaim, surprise), अहो (option, choice), नो (guess), नौ (guess), अथो (beginning), ननु (indeed), मन्ये (guess), मिथ्या (false, unreal), असि (you), ब्रूहि (speak), तु (used as a conjunction),नु (guess), इति (end, conclusion, thus), इव (like this, similar to), वत् (like this, similar to), वात् (like this, similar to), चन (if, in case), बत (surprise), इह (here), आम् (acceptance, agreement), शम् (happiness, pleasure), कम् (happiness, pleasure), अनुकम् (guess), नहिकम् (negation, denial), हिकम् (negation, denial), सुकम् (abundant) , सत्यम् (truth, indeed) , ऋतम् (abundant) , श्रद्धा (belief) , इद्धा (lit) , मुधा (useless) , नोचेत् (if not, otherwise) , नचेत् (if not, otherwise) , नहि (not) , जातु (sometimes) , कथम् (how) , कुत्र (where) , अव (protect) , अनु (after) , हाहौ (surprise) , हैहा (surprise) , ईहा (desire, wish) , आहोस्वित् (or, option) , छम्बट् (in front, facing) , खम् (sky) , दिष्ट्या (luckily) , पशु (appropriate, correct) , वट् (word used in yajna) , सह (along with, together) , आनुषक् (in successive order) , अङ्ग (used to address someone) , फट् (word used in yajna) , ताजक् (used to address someone) , अये (used to address someone) , अरे (used to address someone) , चटु (to speak favorable) , चाटु (to speak favorable) , कुम् (insult) , हुम् (insult, abuse) , वै (indeed, definitely) , <=उपसर्गविभक्तिस्वरप्रतिरूपकाश्च निपाताः=> । इति चादिः आकृतिगणः ॥ \n\nबहुषु ग्रन्थेषु केचन अन्ये शब्दाः अस्मिन् गणे पाठिताः वर्तन्ते । किञ्च, चादिगणः आकृतिगणः अपि अस्ति, येन शिष्टप्रयोगम् अनुसृत्य इतोऽपि अधिकाः शब्दाः अस्मिन् गणे भवितुम् अर्हन्ति । \nगणसूत्रम् — उपसर्गविभक्तिस्वरप्रतिरूपकाश्च निपाताः \nचादिगणे <= उपसर्गविभक्तिस्वरप्रतिरूपकाश्च निपाताः => इति किञ्चन गणसूत्रम् विद्यते । कुत्रचित् उपसर्गसदृशाः, विभक्तिप्रत्ययान्तसदृशाः, स्वरसदृशाः च शब्दाः अपि निपातरूपेण प्रयुज्यते — इति अस्य आशयः । क्रमेण उदाहरणानि एतानि —\n\n
  • 1. उपसर्गप्रतिरूपकाः निपाताःअव, वि, प्र, सु, अनु, नि एते शब्दाः क्रियायोगे वस्तुतः <<उपसर्गाः क्रियायोगे>> [[1.4.59]] इति सूत्रेण उपसर्गसंज्ञकाः भवन्ति । परन्तु कुत्रचित् एतेषाम् प्रतिरूपकाः (identical-looking words) अपि प्रयुक्ताः दृश्यते । एते प्रतिरूपकाः यद्यपि उपसर्गसंज्ञकाः न सन्ति, तथापि ते अनेन गणसूत्रेण निपातसंज्ञकाः भवन्ति । एतेषां योजनेन अवदत्त, विदत्त, प्रदत्त,सुदत्त, अनुदत्त, निदत्त इत्यादयः शब्दाः सिद्ध्यन्ति । एतेषु शब्देषु विद्यमानाः अव-आदयः शब्दाः उपसर्गाः न, अपितु तेषाम् प्रतिरूपकाः सन्ति। यदि अत्र अव-आदयः शब्दाः उपसर्गसंज्ञकाः स्वीक्रियेरन्, तर्हि <<अच उपसर्गात्तः>> [[7.4.47]] इत्यनेन धातोः -आदेशे कृते अवत्त, वीत्त इत्यादीनि दीर्घघटितानि अनुचितानि रूपाणि भवेयुः । अतः एते शब्दाः अत्र उपसर्गसंज्ञकाः न स्वीक्रियन्ते, अपितु उपसर्गसदृशाः (प्रतिरूपकाः) इति स्वीक्रियन्ते । अस्यां स्थितौ प्रकृतसूत्रेण एतेषाम् शब्दानाम् निपातसंज्ञा भवति । निपातसंज्ञायां लब्धायाम् एतेषाम् अव्ययरूपेण प्रयोगः सम्भवति, येन एतेभ्य सुबुत्पत्तिः, सुब्लोपः च विधीयते । किञ्च, <<गतिश्च>> [[1.4.60]] इत्यनेन एतेषाम् गतिसंज्ञा अपि भवति, अतः एते शब्दाः <<ते प्राग्धातोः>> [[1.4.80]] इति सूत्रेण धातोः पूर्वम् प्रयोक्तुम् शक्यन्ते । एवमेव, दुर्नीतम्, दुर्नय, दुर्निर्णय एतेषु शब्देषु विद्यमानस्य दुर् इति शब्दस्य अपि उपसर्गत्वं नास्ति, यतः उपसर्गसंज्ञायां सत्याम् <<उपसर्गादसमासेऽपि णोपदेशस्य>> [[8.4.14]] इति सूत्रेण धातोः नकारस्य णत्वम् सम्भवेत्, यत् एतेषु शब्देषु नैव कृतम् वर्तते । अतः एतेषु शब्देषु विद्यमानः दुर् इति उपसर्गप्रतिरूपकः अपि अनेन गणसूत्रेणैव निपातसंज्ञां प्राप्नोति ।\n
  • 2. विभक्तिप्रतिरूपकाः निपाताःअहम्, अस्ति एतादृशाः केचन शब्दाः यद्यपि विभक्तिप्रत्ययान्तसदृशाः (सुबन्ताः तिङन्ताः वा) भासन्ते, तथापि तेषाम् कुत्रचित् निपातरूपेण प्रयोगः इष्यते । यथा, अहंयुः इत्यस्मिन् शब्दे अहम् इति विभक्तिप्रतिरूपकात् (निपातात्) <<अहंशुभमोर्युस्>> [[5.2.140]] इति सूत्रेण <<युस्>> इति तद्धितप्रत्ययः कृतः अस्ति । यदि अत्र अहम् इति अस्मद्-सर्वनाम्नः प्रथमैकवचनस्य रूपम् स्वीक्रियेत, तर्हि अहंयु इति तद्धितान्तस्य प्रातिपदिकत्वात् <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इत्यनेन अहम्-शब्दे विद्यमानस्य सुँ-प्रत्ययस्य लोपः भूत्वा \"अस्मद् + युस्\" इति असाधु रूपं सिद्ध्येत् । एवमेव, अस्तिक्षीरा इत्ययम् शब्दः अस्ति क्षीरं यस्यां सा इति वृत्तौ अस्ति + क्षीर इति बहुव्रीहिसमासेन सिद्ध्यति । अत्रापि समासविधानार्थम् अस्ति इति शब्दः तिङन्तप्रतिरूपकः निपातः एव स्वीक्रियते ।\n
  • 3. स्वरप्रतिरूपकाः निपाताः — <<अकः सवर्णे दीर्घः>> [[6.1.101]] इत्यत्र पाठितयोः ऋति ऋ वा तथा च ऌति ऌ वा एतयोः वार्त्तिकयोः आदेशरूपेण विधीयमानौ तथा एतौ वर्णौ एकमात्रिकौ ह्रस्वस्वरौ न स्तः, अपितु स्वरप्रतिरूपकौ स्तः, ययोः अनेन गणसूत्रेण निपातसंज्ञा क्रियते । एतादृश्यां निपातसंज्ञायां लब्धायाम् <<निपात एकाजनाङ्>> [[1.1.14]] इति सूत्रेण एतेषाम् प्रगृह्यसंज्ञां कृत्वा अग्रे <<प्लुतप्रगृह्या अचि नित्यम्>> [[6.1.125]] इत्यनेन प्रकृतिभावः अपि विधीयते । एतयोर्विषये <<अकः सवर्णे दीर्घः>> [[6.1.101]] इत्यत्र सिद्धान्तकौमुदीकारः ब्रूते - ऋति ऋ वा ऌति ऌ वा इति उभयत्रापि विधेयं वर्णद्वयं द्विमात्रम् । आद्यस्य मध्ये द्वौ रेफौ तयोरेका मात्रा । अभितः अज्भक्तेः अपरा । द्वितीयस्य तु मध्ये द्वौ लकारौ । शेषं प्राग्वत् । अत्र विधीयमानः निपातसंज्ञकः इति वस्तुतः द्विमात्रिकः वर्णः अस्ति, यस्य वर्णनम् अन्तः रेफद्वयम्, बहिः ऋकारः इति दीयते । एवमेव, इत्यस्य वर्णनम् अपि अन्तः लकारद्वयम्, बहिः ऌकारः इति क्रियते - इति कौमुदीकारस्य अत्र आशयः वर्तते । \n\nकेचन उपसर्गप्रतिरूपकाः (यथा अनु, सु इत्यादयः), केचन विभक्तिप्रतिरूपकाः (यथा अस्मि, वेलायाम् इत्यादयः), तथा च केचन स्वरप्रतिरूपकाः (यथा , इत्यादयः) चादिगणे साक्षात् (directly) एव पाठिताः सन्ति । <=उपसर्गविभक्तिस्वरप्रतिरूपकाश्च निपाताः=> इति गणसूत्रेण एतेषां चादिगणे तादृशे अपि समावेशे जाते, तेषाम् पुनः चादिगणे पाठः अनावश्यकः, अतश्च अयं पाठः प्रपञ्चार्थः (स्पष्टताप्रतिपत्यर्थः) अस्ति इति ज्ञेयम् ।\n<hlb>असत्त्वे</hlb> इति प्रसज्यप्रतिषेधः\nप्रकृतसूत्रे प्रयुक्तः असत्त्वे इति शब्दः न सत्त्वम् = असत्त्वम् । तस्मिन् । इति नञ्-समासेन सिद्ध्यति । अत्र नञ्-पदार्थस्य अर्थः प्रसज्यप्रतिषेध: इति स्वीक्रियते । अनेन चादयः नित्यं निपातसंज्ञकाः भवन्ति, परन्तु द्रव्यवाचिनि अर्थे न भवन्ति इति साधु अर्थः सिद्ध्यति । यदि अत्र पर्युदासपक्षः आश्रयेत्, तर्हि \"द्रव्यात् भिन्नस्य अर्थस्य निपातसंज्ञा भवति\" इति सूत्रार्थः जायेत । अस्यां स्थितौ यदि कस्मिंश्चित् शब्दे द्रव्यार्थः तथा च तद्भिन्नार्थः युगपत् भवेताम्, तर्हि तस्य शब्दस्य अपि \"द्रव्यात् भिन्नस्य अर्थस्य\" सम्भवनात् प्रकृतसूत्रेण निपातसंज्ञा अभविष्यत् । यथा, विशेषेण पाति सः = वि + प्रा (पूर्त्तौ) + क = वि + प्र = विप्र इत्यत्र विद्यमाने प्र इति शब्दे कृदन्तत्वे लिङ्गवचनसम्भावात् द्रव्यत्वम् अपि अस्ति तथा च \"प्रा\"धातुसिद्धम् क्रियात्वम् (= अद्रव्यत्वम्) अपि अस्ति । अस्यां स्थितौ अत्र द्रव्यभिन्नार्थस्य उपस्थितेः कारणात् प्र इत्यस्य, तदनुषङ्गेन च तदन्तविधिना विप्र इत्यस्यापि प्रकृतसूत्रेण निपातसंज्ञा अभविष्यत्, येन अस्य अनिष्टा अव्ययसंज्ञा समभविष्यत् । एते दोषाः मा भूवन् इति हेतुना अत्र प्रसज्यप्रतिषेधः एव स्वीकृतः अस्ति । \nफिट्सूत्रम् - <<चादयोऽनुदात्ताः>>\nशान्तनवाचार्येण प्रणीते फिट्सूत्रपाठे <<चादयोऽनुदात्ताः>> (4.16) इति सूत्रं वर्तते । सर्वेऽपि चादयः अनुदात्ताः सन्ति इति अस्य सूत्रस्य अर्थः । \n\n" }, "14058": { "sa": "प्रादिगणे निर्दिष्टाः शब्दाः अद्रव्यवाचिनि अर्थे निपातसंज्ञकाः भवन्ति ।", "sd": "प्रादिगणः इति कश्चन गणः गणपाठे पाठितः अस्ति । अस्मिन् गणे विद्यमानाः सर्वे शब्दाः अद्रव्यवाचिषु अर्थेषु निपातसंज्ञकाः भवन्ति —‌ इति अस्य सूत्रस्य आशयः । द्रव्यम् इत्यक्ते भौतिकजगतः कश्चन पदार्थः । लिङ्गसङ्ख्यान्वितम् द्रव्यम् इति अस्य शब्दस्य व्याख्या दीयते । यस्य वस्तुनः लिङ्गम्, संख्या वा भवितुम् अर्हति, तस्य द्रव्यम् इति संज्ञा भवति — इति अस्य आशयः । एतादृशान् अर्थान् विहाय अन्येषु अर्थेषु प्रयुक्ताः प्रादिगणस्य शब्दाः निपातसंज्ञाः भवन्ति । यथा, अस्य गणस्य परा इति शब्दः यदा परा सेना जयति एतादृशेषु वाक्येषु प्रयुज्यते, तदा लिङ्गसङ्ख्यान्वितत्वात् अस्य प्रकृतसूत्रेण निपातसंज्ञा न भवति । परन्तु पराजयते इत्यत्र प्रयुक्तः परा इति शब्दः लिङ्गं संख्यां वा न दर्शयति, अतः अस्य प्रकृतसूत्रेण अवश्यं निपातसंज्ञा भवति ।\nप्रादिगणस्य आवली\nप्रादिगणे आहत्य द्वाविंशतिः (22) शब्दाः सन्ति । एतेषाम् आवली अधः दत्ता अस्ति । प्रत्येकं शब्दस्य संक्षिप्ताः अर्थाः अपि निर्दिष्टाः वर्तन्ते । एतेषाम् अन्ये अर्थाः तु कोशेभ्यः ज्ञातव्याः । एवमेव, एते शब्दाः वाक्येषु कथं प्रयोक्तव्याः इति तु शिष्टैः एव ज्ञेयम् ।\n\n1. प्र (forward, in front, before, primary) \n2. परा (away, back, inverted, aside) \n3. अप (away from, deterioration, opposition, negation)\n4. सम् (with, together, quite, greatly, very much)\n5. अनु (after, along, following, later)\n6. अव (away, down)\n7. निस् (out of , away from, without, free from, less)\n8. निर् (out of , away from, without, free from, less)\n9. दुस् (bad, evil, wicked, inferior, hard, difficult)\n10. दुर् (bad, evil, wicked, inferior, hard, difficult)\n11. वि (separate, away, opposition, negation, intensity, greatness, difference)\n12. आङ् (near, towards, from all sides, all around)\n13. नि (downward motion, intensity, skill, inclusion, proximity, insult, doubt)\n14. अधि (over and above, to place over, besides, in addition, intensification)\n15. अपि (to place near, besides, unite, reaching up)\n16. अति (very, too much, exceedingly, excessively, close)\n17. सु (excellent, beautiful, well, perfect)\n18. उद् (superiority, separation, upwards motion, gain)\n19. अभि (from both sides, over and above, across, towards, in the direction of )\n20. प्रति (towards, in the direction of, back, in return, against, down upon, likeness, equality, opposition )\n21. परि (round, round about, in addition to, excessively, against, opposite to)\n22. उप (towards, near to, by the side of, with, under, down)\n\n<hlb>असत्त्वे</hlb> इति अनुवृत्तिः<hlb>\n<<चादयोऽसत्त्वे>> [[1.4.57]] इति पूर्वसूत्रात् असत्त्वे इति शब्दः प्रकृतसूत्रे अनुवृत्तिरूपेण स्वीक्रियते । अनेन प्रादयः असत्त्ववाचिनि अर्थे एव निपातसंज्ञकाः स्युः इति अर्थः सिद्ध्यति । अस्य एकम् उदाहरणम् अस्ति - परा इति शब्दः । अयं शब्दः यदा पर-इति सर्वनामशब्दस्य स्त्रीलिङ्गस्य एकवचनरूपेण (यथा, परा दिक्), अथवा उत्कृष्टः अस्मिन् अर्थे (यथा - परा वाणी, परा सेना इति) प्रयुक्तः दृश्यते, तदा तस्य प्रकृतसूत्रेण निपातसंज्ञा मा भूत्, इति स्पष्टीकर्तुम् अत्र असत्त्वे इति शब्दः अनुवृत्तिरूपेण स्वीकृतः अस्ति । \nप्रादयः तथा उपसर्गसंज्ञा\nप्रादिगणस्य शब्दाः यदा क्रियायाः योगे प्रयुज्यन्ते, तदा तेषाम् <<उपसर्गाः क्रियायोगे>> [[1.4.59]] इत्यनेन उपसर्गसंज्ञा अपि भवति । परन्तु यदा एते शब्दाः क्रियाभिन्ने सन्दर्भे प्रयुज्यन्ते, तदा एतेषाम् उपसर्गसंज्ञा न भवति । द्वे उदाहरणे एतादृशे -\n\n
  • 1. प्रगतः नायकः यस्मात् देशात् सः प्रनायकः देशः । अत्र प्रनायक इति शब्दे विद्यमानः प्र इति उपसर्गसंज्ञकः नास्ति अपितु प्रादिसंज्ञकः एव अस्ति । यद्यपि विग्रहवाक्ये प्रगतः इत्यत्र विद्यमानस्य प्र इत्यस्य गम्-धातोः योगे उपसर्गसंज्ञा भवति, तथापि <ऽयं प्रति क्रियायुक्ताः प्रादयः, तं प्रति गत्युपसर्गकसंज्ञकाः, नान्यं प्रतिऽ> इति न्यायेन, समस्तपदे गम्-धातोः अभावात्, तत्र प्र इत्यस्य उपसर्गसंज्ञा न भवति । यदि एतादृशी उपसर्गसंज्ञा अभविष्यत्, तर्हि <<उपसर्गादसमासेऽपि णोपदेशस्य>> [[8.4.14]] इत्यनेन नकारस्य णत्वे कृते, \"प्रणायक\" इति अशुद्धः शब्दः असेत्स्यत् । \n
  • 2. निर्गताः सेचकाः यस्मात् देशात् सः निःसेचकः देशः । अत्र निःसेचक इति शब्दे विद्यमानः निर् इति उपसर्गसंज्ञकः नास्ति अपितु प्रादिसंज्ञकः एव अस्ति । यद्यपि विग्रहवाक्ये निर्गताः इत्यत्र विद्यमानस्य निर् इत्यस्य गम्-धातोः योगे उपसर्गसंज्ञा भवति, तथापि <ऽयं प्रति क्रियायुक्ताः प्रादयः, तं प्रति गत्युपसर्गकसंज्ञकाः, नान्यं प्रतिऽ> इति न्यायेन, समस्तपदे गम्-धातोः अभावात्, तत्र निर् इत्यस्य उपसर्गसंज्ञा न भवति । यदि एतादृशी उपसर्गसंज्ञा अभविष्यत्, तर्हि <<उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम्>> [[8.3.65]] इत्यनेन सकारस्य षत्वे कृते, \"निःषेचक\" इति अशुद्धः शब्दः असेत्स्यत् । \n\nयद्यपि उपसर्गाः तथा च प्रादयः एतयोर्मध्ये भेदः वर्तते, तथापि सूत्रपाठे केषुचित् स्थलेषु प्रादीनां निर्देशार्थम् उपसर्गः इत्येव शब्दः प्रयुक्तः दृश्यते । यथा, <<द्व्यन्तरुपसर्गेभ्योऽप ईत् >> [[6.3.97]] इत्यत्र, <<उपसर्गादध्वनः>> [[5.4.85]] इत्यत्र, तथा च <<उपसर्गाच्च >> [[5.4.119]] इत्यत्रापि विद्यमानः उपसर्गः इति शब्दः वस्तुतः प्रादीनां निर्देशं करोति ।\nयोगविभागः उपसर्गसंज्ञार्थः\n<<चादयोऽसत्त्वे>> [[1.4.57]] इति पूर्वसूत्रेण चादिगणस्य शब्दानां निपातसंज्ञायाम् उक्तायाम्, प्रकृतसूत्रे पुनः प्रादिगणस्य शब्दानां निपातसंज्ञा विधीयते । वस्तुतः अत्र एकस्मिन् एव सूत्रे \"चादयः प्रादयोऽसत्त्वे\" इति वक्तुं शक्यम् आसीत् । परन्तु तथा क्रियते चेत् अग्रिमसूत्रे <<उपसर्गाः क्रियायोगे>> [[1.4.59]] इत्यत्र प्रादिभिः सह चादीनाम् अपि उपसर्गसंज्ञा अभविष्यत् । तत् तथा मा भूत् इति हेतुना अत्र द्वे भिन्ने सूत्रे स्थापिते स्तः ।\nप्रादीनां निपातसंज्ञायाः प्रयोजनम्\nयदा प्रादयः उपसर्गरूपेण तिङन्तैः सह प्रयुज्यन्ते, तदा तत्र उपसर्ग-तिङन्तयोर्मध्ये न कोऽपि समासः सम्भवति । किञ्च, तत्र प्रादीनां पृथक् पदत्वम् अपि विद्यते । अस्यां स्थितौ तेषाम् अन्ते विद्यमानस्य सुप्-प्रत्ययस्य लोपः इष्यते, तत्कर्तुम् एव तेषाम् निपातसंज्ञा कृता अस्ति । निपातसंज्ञया <<स्वरादिनिपातमव्ययम्>> [[1.1.37]] इत्यनेन प्रादयः अव्ययसंज्ञकाः भवन्ति, तथा च अव्ययसंज्ञकेभ्यः एतेभ्यः विहितस्य सुप्-प्रत्ययस्य <<अव्ययादाप्सुपः>> [[2.4.82]] इत्यनेन लोपः भवति । यथा, प्रपतति इत्यत्र प्र इत्यस्मात् विहितस्य सुप्-प्रत्ययस्य लोपं कर्तुम् निपातसंज्ञा आवश्यकी वर्तते । \n" }, "14059": { "sa": "प्रादिगणे निर्दिष्टाः शब्दाः क्रियायाः योगे उपसर्गसंज्ञकाः भवन्ति ।", "sd": "प्रादिगणः इति कश्चन गणः गणपाठे पाठितः अस्ति । अस्मिन् गणे विद्यमानाः शब्दाः यदा क्रियायाः योगे प्रयुज्यन्ते, तदा तेषाम् उपसर्गः इति संज्ञा भवति । सर्वेऽपि उपसर्गाः <<ते प्राग्धातोः>> [[1.4.80]] इति सूत्रेण धातोः पूर्वम् एव उपयुज्यन्ते । \nप्रादिगणस्य आवली\nप्रादिगणे आहत्य द्वाविंशतिः (22) शब्दाः सन्ति - \nप्र, परा, अप, सम्, अनु, अव, निस्, निर् दुस्, दुर् वि, आङ्, नि, अधि, अपि अति सु उत् अभि प्रति परि उप \nएते सर्वेऽपि शब्दाः क्रियायाः योगे (तिङन्तस्य / कृदन्तस्य वा योगे) उपसर्गसंज्ञकाः भवन्ति । यथा, प्रपतति इत्यत्र प्र इति उपसर्गः, पराजितः इत्यत्र परा इति उपसर्गः - इत्यादिकम् । उपसर्गार्थचन्द्रिका इत्याख्ये ग्रन्थे सर्वेषाम् अपि उपसर्गाणां भिन्नाः अर्थाः, तथा च तेषु अर्थेषु विविधानां धातूनां योगे एतेषाम् उपसर्गाणाम् साहित्ये दृश्यमानाः प्रयोगाः सङ्कलिताः सन्ति । जिज्ञासुभिः अयं ग्रन्थः (link) अवश्यं द्रष्टव्यः । \nउपसर्गसम्बन्धिनः ज्ञातव्याः अंशाः\nउपसर्गाणां सम्बन्धिनः विशिष्टाः अंशाः अधः सङ्कलिताः सन्ति ।\n\n
  • 1. कुत्रचित् द्वौ अथवा त्रयः उपसर्गाः अपि धातुभ्यः प्रयुक्ताः दृश्यन्ते । \nयथा, वि + आ + करोति → व्याकरोति, सम् + उद् + आ + हरति → समुदाहरति ।\n
  • 2. उपसर्गस्य योजनेन धातोः पदे परिवर्तनम् सम्भवति ।‌ \nयथा, जि (अभिभवे, भ्वादिः, <{1.1096}>) इति धातुः परस्मैपदस्य प्रत्ययान् स्वीकरोति । परन्तु वि-उपसर्गस्य उपस्थितौ, परा-उपसर्गस्य उपस्थितौ च <<विपराभ्यां जेः>> [[1.3.19]] इत्यनेन अस्मात् केवलम् आत्मनेपदस्यैव प्रत्ययाः विधीयन्ते । एवमेव, रमुँ (क्रीडायाम्, भ्वादिः, <{1.989}>) अयं धातुः मूलरूपेण आत्मनेपदी स्वीक्रियते, परन्तु <<व्याङ्परिभ्यो रमः>> [[1.3.83]] इति सूत्रेण वि + रम्, आ + रम्, परि + रम्, एतेभ्यः केवलम् परस्मैपदस्यैव प्रत्ययाः विधीयन्ते ।\n
  • 3. उपसर्गस्य योजनेन अकर्मकः धातुः कुत्रचित् सकर्मकः भवति ।‌ \nयथा, स्था (गतिनिवृत्तौ, भ्वादिः, <{1.1077}>) इति धातुः मूलरूपेण अकर्मकः अस्ति । परन्तु उप-उपसर्गस्य उपस्थितौ अयं धातुः सकर्मकत्वं प्राप्नोति, अतएव च विष्णुः वैकुण्ठम् अधितिष्ठति इति प्रयोगः सङ्गच्छते ।\n
  • 4. उपसर्गस्य योजनेन सकर्मकः धातुः कुत्रचित् अकर्मकः भवति ।‌ \nयथा, गमॢँ (गतौ, भ्वादिः, <{1.1037}>) इति धातुः मूलरूपेण सकर्मकः अस्ति, अतएव रामः वनं गच्छति इत्यत्र वनपदार्थस्य कर्मसंज्ञा भवति । परन्तु सम्-उपसर्गस्य उपस्थितौ अयं धातुः अकर्मकत्वं प्राप्नोति । यथा - नद्यः सङ्गच्छन्ते (एकत्र मिलन्ति) । \n
  • 5. उपसर्गाः - प्रादिसंज्ञकाः गतिसंज्ञकाः, निपातसंज्ञकाः, अव्ययसंज्ञकाः, प्रातिपदिकसंज्ञकाः च सन्ति । \nसर्वेऽपि उपसर्गाः प्रादिगणे विद्यन्ते अतः <<प्रादयः>> [[1.4.58]] इत्यनेन तेषां प्रादिसंज्ञा अस्ति एव । एवमेव, एते सर्वे <<प्राग्रीश्वरान्निपाताः>> [[1.4.56]] अस्मिन् अधिकारे पाठिताः सन्ति अतः एते निपातसंज्ञकाः, ततश्च <<स्वरादिनिपातमव्ययम्>> [[1.1.37]] इत्यनेन अव्ययसंज्ञकाः अपि सन्ति । <<गतिश्च>> [[1.4.60]] इति सूत्रेण सर्वेषाम् उपसर्गाणां गतिसंज्ञा अपि भवति । अपि च, उपसर्गाणाम् विशिष्टाः अर्थाः विद्यन्ते, अतः<<अर्थवदधातुरप्रत्ययः प्रातिपदिकम्>> [[1.2.45]] इत्यनेन एतेषाम् प्रातिपदिकसंज्ञा अपि विधीयते । प्रातिपदिकसंज्ञायाम् सिद्धायाम्, वाक्ये प्रयोगात् पूर्वम् एतेभ्यः स्वादिप्रत्ययाः विधीयन्ते, तेषाम् च <<अव्ययादाप्सुपः>> [[2.4.82]] इत्यनेन लोपः अपि भवति । लोपे कृते अपि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यनेन एतेषाम् पदसंज्ञा सिद्ध्यति । इत्युक्ते, प्रणमति, पराजयते इत्यादिषु शब्देषु विद्यमानः उपसर्गः भिन्नम् पदम् अस्ति, तत्र विद्यमानः तिङन्तशब्दः च अपरं पदम् अस्ति । \n
  • 6. उपसर्ग-तिङन्तयोमर्ध्ये समासः न विद्यते, परन्तु सन्धिः अवश्यं भवति । \nप्रणमति, पराजयते इत्यादिषु शब्देषु उपसर्गः इति भिन्नम् पदम् अस्ति, तिङन्तशब्दः च अपरं भिन्नम् पदम् अस्ति । एते द्वे पदे केवलम् युगपत् स्थापिते स्तः । एतयोर्मध्ये कोऽपि समासः न विद्यते । परन्तु उपसर्ग-धात्वोः मध्ये संहिता अवश्यं विद्यते अतः एतयोमर्ध्ये सन्धिः अपि नित्यः एव अस्ति । अतएव परि + ईक्षते इत्यत्र सवर्णदीर्घं कृत्वा परीक्षते इत्येव प्रयोगः करणीयः । एवमेव, द्वयोः उपसर्गयोः मध्ये अपि सन्धिः नित्यं भवति, अतः प्रति + आ + गच्छति इत्यत्र यणादेशं कृत्वा प्रत्यागच्छति इत्येव प्रयोगः करणीयः ।\n
  • 7. उपसर्ग-कृदन्तयोमर्ध्ये उपपदसमासः गतिसमासः वा विद्यते, अतश्च सन्धिः अपि अवश्यं भवति । \nयदि कृदन्तेन सह उपसर्गस्य प्रयोगः क्रियते, तर्हि उपसर्ग-कृदन्तयोर्मध्ये कश्चन समासः अवश्यं भवति । तत्र, उपसर्गस्य उपस्थितौ एव कृत्प्रत्ययस्य विधानम् कृतं अस्ति चेत् उपपदसमासः अस्ति इति उच्यते; अन्यासु अवस्थासु गतिसमासः अस्ति इति उच्यते । यथा, <<प्रे दाज्ञः>> [[3.2.6]] इति सूत्रेण प्र-उपसर्गस्य उपस्थितौ <<दा>>-धातोः <<क>>-प्रत्ययः विधीयते, अतः अनेन सूत्रेण सिद्धे सर्वप्रदः इति शब्दे प्र-उपसर्गस्य दः-इत्यनेन सह उपपदसमासः भवति । परन्तु आगतः-इत्यत्र <<क्त>>-प्रत्ययविधानम् -उपसर्गं विना अपि सम्भवति, अतः अत्र -उपसर्गेण सह गत-इति कृदन्तस्य गतिसमासः अस्ति इति उच्यते । एतयोः द्वयोः अपि समासयोः सन्धिः अवश्यं भवति । यथा — उपपदसमासे सन्धिः - नि + अद् + ण → न्याद ; गतिसमासे सन्धिः - प्र + ईक्षणीय‌ → प्रेक्षणीय ।\n
  • 8. उपसर्गस्य उपस्थितौ <<क्त्वा>>-प्रत्ययस्य नित्यम् <<ल्यप्>>-आदेशः भवति । \nसमस्तपदस्य उत्तरपदरूपेण यत्र <<क्त्वा>>-प्रत्ययः विधीयते, तत्र <<समासेऽनञ्पूर्वे क्त्वो ल्यप्>> [[7.1.37]] इत्यनेन तस्य ल्यबादेशः भवति । उपसर्गाणां कृदन्तैः सह नित्यम् उपपदसमासः गतिसमासः वा जायते, अतः तेषाम् उपस्थितौ <<क्त्वा>>-प्रत्ययस्य अपि <<ल्यप्>>-आदेशः भवति । यथा - आ + गम् + क्त्वा → आ + गम् + ल्यप् → आगत्य ।\n
  • 9. अडागमः / आडागमः उपसर्ग-धात्वोः मध्ये विधीयते ।\n<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इत्यनेन विहितस्य अडागमस्य, तथा च <<आडजादीनाम्>> [[6.4.72]] इत्यनेन विहितस्य आडागमस्य अङ्गम् केवलम् धातुः अस्ति, न हि उपसर्गः । अतः<<आद्यन्तौ टकितौ>> [[1.1.46]] इत्यनेन एतौ आगमौ धातोः प्रारम्भे विधीयेते, न हि उपसर्गस्य प्रारम्भे । अतएव अडागमः / आडागमः नित्यम् उपसर्ग-धात्वोः मध्ये कृतः दृश्यते । यथा, अनु + अवदत् → अन्ववदत्, परि + आट् + ईक्षत् → परि + ऐक्षत् → पर्यैक्षत् ।\n
  • 10. उपसर्गस्थस्य रेफस्य अय्-धातोः योगे लकारादेशः भवति ।\n <<अयँ (गतौ)>> <{1.546}> इति धातोः योगे उपसर्गे विद्यमानस्य रेफस्य <<उपसर्गस्यायतौ>> [[8.2.19]] इति सूत्रेण लकारादेशः भवति । यथा — प्र + अयते → प्लायते, परा + अयते → पलायते, निर् + अयते → निलयते, दुर् + अयते‌ → दुलयते । \n
  • 11. दुस् तथा दुर् - एतयोः उपसर्गयोः मध्ये सूक्ष्मः भेदः विद्यते ।\nदुस् तथा दुर् — एतयोः उपसर्गयोः प्रयोगेण प्रायेण समानानि एव रूपाणि भवन्ति, यतः दुस्-उपसर्गस्य सकारस्य प्रक्रियायाम् नित्यम् <<ससजुषो रुः>> [[8.2.66]] इति रुत्वम् एव भवति । परन्तु एकस्मिन् विशिष्टस्थले एतयोः रूपयोः मध्ये भेदः विद्यते । <<अयँ (गतौ)>> <{1.546}> धातोः यदा दुर्-उपसर्गः विधीयते, तदा अस्य रेफस्य <<उपसर्गस्यायतौ>> [[8.2.19]] इति सूत्रेण लकारादेशः भवति , येन दुलयते इति रूपं सिद्ध्यति । परन्तु अस्मात् धातोः यदा दुस्-उपसर्गः विधीयते, तदा <<ससजुषो रुः>> [[8.2.66]] इत्यनेन प्राप्तं रुत्वं <<उपसर्गस्यायतौ>> [[8.2.19]] इत्यस्य कृते असिद्धम् अस्ति, अतः अस्य रेफस्य लत्वं नैव प्रवर्तते; अतश्च दुरयते इत्येव रूपं सम्भवति ।\n
  • 12. निस् तथा निर् - एतयोः उपसर्गयोः मध्ये सूक्ष्मः भेदः विद्यते ।\nनिस् तथा निर् — एतयोः उपसर्गयोः प्रयोगेण प्रायेण समानानि एव रूपाणि भवन्ति, यतः निस्-उपसर्गस्य सकारस्य प्रक्रियायाम् नित्यम् <<ससजुषो रुः>> [[8.2.66]] इति रुत्वम् एव भवति । परन्तु एकस्मिन् विशिष्टस्थले एतयोः रूपयोः मध्ये भेदः विद्यते । <<अयँ (गतौ)>> <{1.546}> धातोः यदा निर्-उपसर्गः विधीयते, तदा अस्य रेफस्य <<उपसर्गस्यायतौ>> [[8.2.19]] इति सूत्रेण लकारादेशः भवति , येन निलयते इति रूपं सिद्ध्यति । परन्तु अस्मात् धातोः यदा निस्-उपसर्गः विधीयते, तदा <<ससजुषो रुः>> [[8.2.66]] इत्यनेन प्राप्तं रुत्वं <<उपसर्गस्यायतौ>> [[8.2.19]] इत्यस्य कृते असिद्धम् अस्ति, अतः अस्य रेफस्य लत्वं नैव प्रवर्तते; अतश्च निरयते इत्येव रूपं सम्भवति ।\n
  • 13. अव तथा अपि - एतयोः उपसर्गयोः अकारस्य कुत्रचित् लोपः भवति ।\nकेषुचन प्रयोगेषु अव-उपसर्गस्य, अपि-उपसर्गस्य अकारस्य लोपः कृतः दृश्यते । तदर्थम् वस्तुतः तु अष्टाध्याय्यां किमपि सूत्रं नैव विद्यते, परन्तु इति वचनम् अनुसृत्य, इत्युक्ते भागुरिः इति नाम्नः कस्यचन वैयाकरणस्य मतम् अनुसृत्य अस्य लोपस्य साधुत्वम् विधीयते ।यथा, कुमारसम्भवस्य आदिमे श्लोके — पूर्वपरौ तोयनिधी वगाह्य — इत्यत्र वगाह्य इत्यस्मिन् शब्दे मूलरूपेण अव इति उपसर्गः विद्यते, तस्य अकारस्य लोपं कृत्वा अवगाह्य इत्यस्य स्थाने वगाह्य इति अकारलोपघटितं रूपं प्रयुक्तम् अस्ति । एवमेव, द्वारं पिदधाति (closes the door) इत्यत्र अपिदधाति इति मूलः शब्दः, तत्र विद्यमानस्य अकारस्य लोपं कृत्वा पिदधाति इति अकारलोपघटितः शब्दः सिद्ध्यति । एतादृशाः प्रयोगाः वैकल्पिकाः एव, अतः अवगाह्य, अपिदधाति एतादृशानाम् शब्दानाम् अपि साधुत्वम् अवश्यं वर्तते । \n
  • 14. 'उद्' इति उपसर्गे मूलरूपेण दकारः विद्यते, न हि तकारः ।\nउद् इति उपसर्गः औपदेशिकस्वरूपे दकारघटितः पाठ्यते । अतएव <<उदः स्थास्तम्भोः पूर्वस्य>> [[8.4.61]] इत्यत्र उदः इति दकारघटितम् पञ्चम्यन्तरूपम् प्रयुक्तम् अस्ति । \n
  • 15. 'अपि' इति उपसर्गः प्रायेण वेदेषु एव दृश्यते ।\nलौकिकसंस्कृते अपि उपसर्गस्य केवलम् द्वित्राणि उदाहरणानि सन्ति । यथा, हितोपदेशे अप्यूहन्ति मनो धीराः इति कश्चन प्रयोगः दृश्यते । एवमेव कवचं पिनह्य इति (अकारलोपघटितः) कश्चन प्रयोगः भट्टिकाव्ये दृश्यते । अन्ये सर्वेऽपि प्रयोगाः वैदिकाः एव सन्ति ।\n \nवार्त्तिकानि\nउपसर्गसंज्ञायाः सम्बन्धेन चत्वारि वार्त्तिकानि भाष्ये दीयन्ते -\n\n
  • \n मरुत् इति शब्दः यद्यपि प्रादिगणे नास्ति, तथापि अयम् <<अच उपसर्गात्तः>> [[7.4.47]] इत्यस्य सन्दर्भेण उपसर्गसंज्ञकः भवति । अतएव मरुद्भिः दत्तः इत्यत्र मरुत् + दा + क्त इति स्थिते, <<दा>>-धातोः स्थाने <<दो दद् घोः>> [[7.4.46]] इत्यनेन प्राप्तम् दद् आदेशं बाधित्वा <<अच उपसर्गात्तः>> [[7.4.47]] इत्यनेन -आदेशः भवति, येन मरुत्त इति शब्दः सिद्ध्यति । \n
  • \n श्रत् (promise, assurance इत्यर्थः) इति शब्दः यद्यपि प्रादिगणे नास्ति, तथापि अयम् तथापि अयम् <<आतश्चोपसर्गे>> [[3.3.106]] इत्यस्य सन्दर्भेण उपसर्गसंज्ञकः भवति । एतादृश्याम् उपसर्गसंज्ञायां प्राप्तायाम्, श्रत् + धा इत्यत्र <<आतश्चोपसर्गे>> [[3.3.106]] इति सूत्रेण <<धा>>-धातोः <<अङ्>>-प्रत्ययः विधीयते, येन श्रद्धा इति शब्दः सिद्ध्यति । \n
  • \nषत्वे णत्वे च कर्तव्ये दुस्-इत्यस्य, दुर्-इत्यस्य च उपसर्गसंज्ञायाः प्रतिषेधः भवति । उदाहरणे एतादृशे —\ni. दुस् / दुर् + भू इत्यस्य लोट्लकारस्य उत्तमपुरुषैकवचनम् दुर्भवानि इति भवति । अत्र यदि दुस् / दुर् इत्येतयोः उपसर्गसंज्ञा अभविष्यत्, तर्हि <<आनि लोट्>> [[8.4.16]] इत्यनेन प्रत्ययनकारस्य णत्वम् अभविष्यत् । परन्तु णत्वे कर्तव्ये प्रकृतवार्त्तिकेन दुस्/ दुर् इत्येतयोः उपसर्गसंज्ञायाः प्रतिषेधः भवति, अतः अत्र अनिष्टं णत्वं निवार्यते ।\nii) दुस् / दुर् + स्था इत्यस्य लृट्लकारस्य प्रथमपुरुषैकवचनम् दुःस्थास्यति इति भवति । अत्र यदि दुस् / दुर् इत्येतयोः उपसर्गसंज्ञा अभविष्यत्, तर्हि <<उपसर्गात् सुनोतिसुवति...>> [[8.3.65]] इत्यनेन <<स्था>>-धातोः सकारस्य षत्वम् अभविष्यत् । परन्तु प्रकृतवार्त्तिकेन षत्वे कर्तव्ये दुस् / दुर् इत्येतयोः उपसर्गसंज्ञायाः प्रतिषेधः भवति, अतः अत्र षत्वं न भवति ।\n
  • \nअन्तर्-शब्दस्य अङ्-विधौ, कि-विधौ, तथा च णत्वे कर्तव्ये उपसर्गसंज्ञा भवति । क्रमेण उदाहरणानि एतानि —\ni. <<अङ्>>-प्रत्यये कर्तव्ये अन्तर्-शब्दस्य उपसर्गसंज्ञा भवति । अतः <<धा>>-धातोः अन्तर्-शब्दस्य उपस्थितौ <<आतश्चोपसर्गे>> [[3.3.106]] इत्यनेन <<अङ्>>-प्रत्ययः विधीयते, येन अन्तर् + धा + अङ् + टाप् → अन्तर्धा इति शब्दः सिद्ध्यति ।\nii. <<कि>>-प्रत्यये कर्तव्ये अन्तर्-शब्दस्य उपसर्गसंज्ञा भवति । अतः<<धा>>-धातोः अन्तर्-शब्दस्य उपस्थितौ <<उपसर्गे घोः किः>> [[3.3.92]] इत्यनेन <<कि>>-प्रत्ययः विधीयते, येन अन्तर् + धा + कि → अन्तर्धि इति शब्दः सिद्ध्यति । \niii. णत्वे कर्तव्ये अन्तर्-शब्दस्य उपसर्गसंज्ञा भवति । अतः <<भू>>-धातोः अन्तर्-शब्दस्य उपस्थितौ लोट्लकारस्य उत्तरमपुरुषस्यैकवचने कर्तव्ये <<आनि लोट्>> [[8.4.16]] इत्यनेन णत्वम् कृत्वा अन्तर्भवाणि इति णकारघटितम् रूपम् सिद्ध्यति । एवमेव, <<नी>>-धातोः नकारस्य अन्तर्-शब्दस्य उपस्थितौ <<उपसर्गादसमासेऽपि णोपदेशस्य>> [[8.4.14]] इत्यनेन णत्वं विधीयते येन अन्तर्णयनम् इति रूपं सिद्ध्यति ।\n" }, "14060": { "sa": "प्रादिगणस्य शब्दाः क्रियायोगे गतिसंज्ञकाः भवन्ति ।", "sd": "अष्टाध्याय्याम् <<गतिश्च>> [[1.4.60]] इत्यस्मात् आरभ्य <<जीविकोपनिषदावौपम्ये>> [[1.4.79]] इति यावत्सु सूत्रेषु पाठितानाम् शब्दानां गतिः इति व्याकरणविशिष्टा संज्ञा दत्ता वर्तते । अस्मिन् प्रकरणे विद्यमानम् इदं प्रथमं सूत्रम् । गणपाठे पाठितस्य प्रादिगणस्य शब्दाः यदा क्रियायाः योगे प्रयुज्यन्ते, तदा प्रकृतसूत्रेण तेषाम् गतिः इति संज्ञा भवति । सर्वेऽपि गतिसंज्ञकाः <<ते प्राग्धातोः>> [[1.4.80]] इति सूत्रेण धातोः पूर्वम् एव उपयुज्यन्ते । \nप्रादिगणस्य आवली\nप्रादिगणे आहत्य द्वाविंशतिः (22) शब्दाः सन्ति - \nप्र, परा, अप, सम्, अनु, अव, निस्, निर् दुस्, दुर् वि, आङ्, नि, अधि, अपि अति सु उत् अभि प्रति परि उप \nएते सर्वेऽपि शब्दाः क्रियायाः योगे (तिङन्तस्य / कृदन्तस्य वा योगे) गतिसंज्ञकाः भवन्ति । यथा, प्रपतति इत्यत्र प्र इति गतिः, पराजितः इत्यत्र परा इति गतिः- इत्यादिकम् । \nसर्वेषाम् अपि प्रादीनाम् क्रियायोगे <<उपसर्गाः क्रियायोगे>> [[1.4.59]] इत्यनेन उपसर्गसंज्ञा अपि भवति । परन्तु तस्याः प्रयोजनं भिन्नम्, गतिसंज्ञायाः प्रयोजनम् भिन्नं वर्तते ।\nअष्टाध्याय्यां गतिसंज्ञायाः प्रयोगः\nगतिसंज्ञायाः प्रयोगः अष्टाध्याय्याम् सप्तसु सूत्रेषु कृतः अस्ति —\n\n1. <<नमस्पुरसोर्गत्योः>> [[8.3.40]]\n2. <<गतिश्च>> [[1.4.60]]\n3. <<गतिरनन्तरः>> [[6.2.49]]\n4. <<गतिकारकोपपदात् कृत्>> [[6.2.139]]\n5. <<सगतिरपि तिङ्>> [[8.1.68]]\n6. <<गतिर्गतौ>> [[8.1.70]]\n7. <<कुगतिप्रादयः>> [[2.2.18]] \n\nगतिसंज्ञायाः प्रयोजनम्\nअष्टाध्याय्यां गतिसंज्ञायाः आहत्य त्रीणि प्रयोजनानि सन्ति - समासविधानम्, स्वरविधानं, सकारादेशः इति । क्रमेण उदाहरणानि एतानि -\n\n
  • 1. समासविधानम् - <<कुगतिप्रादयः>> [[2.2.18]] इत्यनेन गतिसंज्ञकाः शब्दाः समर्थैः सुबन्तैः सह समस्यन्ते, येन तत्पुरुषसमासः सिद्ध्यति । यथा, स्पष्टीकृतम् इत्यस्मिन् समस्तपदे स्पष्टी इति गतिसंज्ञकेन सह समासः कृतः अस्ति ।\n
  • 2. स्वरविधानम् - <<गतिरनन्तरः>> [[6.2.49]], <<गतिकारकोपपदात् कृत्>> [[6.2.139]], <<सगतिरपि तिङ्>> [[8.1.68]], तथा च <<गतिर्गतौ>> [[8.1.70]] इत्येतैः सूत्रैः गतिशब्दानां (अथवा तेषां योगे अन्येषां शब्दानाम्) विशिष्ट स्वरः विधीयते । यथा, अ॒भ्युद्ध॑रति इत्यत्र अभि इति गतिसंज्ञकस्य अकारः <<गतिर्गतौ>> [[8.1.70]] इत्यनेन अनुदात्तः भवति ।\n
  • 3. सकारादेशः - <<नमस्पुरसोर्गत्योः>> [[8.3.40]] इत्यनेन गतिसंज्ञकस्य नमस्-शब्दस्य पुरस्-शब्दस्य च विसर्गस्य कवर्गे पवर्गे परे सकारादेशः भवति । यथा, नमस्करोति, पुरस्कारः । \n\nअष्टाध्याय्याम् बहुषु सूत्रेषु गतिः इति शब्दः गमनक्रियायाः निर्देशार्थम् अपि उपयुक्तः अस्ति । यथा, <<अच्छ गत्यर्थवदेषु>> [[1.4.69]], <<गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ>> [[1.4.52]] इत्यादिषु सूत्रेषु विद्यमानः गतिशब्दः गमनक्रियां दर्शयति, न हि गतिसंज्ञाम् । \nवार्त्तिके\nगतिसंज्ञायाः सन्दर्भेण भाष्ये द्वे वार्त्तिके पाठ्येते । ते एतादृशे -\n\n
  • 1. \nकारिका (क्रिया इत्यर्थः) इति शब्दस्य क्रियायोगे गतिसंज्ञा भवति — इति अस्य वार्त्तिकस्य आशयः । गतिसंज्ञायां सिद्धायाम् <<कुगतिप्रादयः>> [[2.2.18]] इत्यनेन अस्य शब्दस्य कृदन्तेन सह गतिसमासः भवितुम् अर्हति, अतश्च <<समासेऽनञ्पूर्वे क्त्वो ल्यप्>> [[7.1.37]] इत्यनेन धातोः विहितस्य क्त्वा-प्रत्ययस्य ल्यप्-आदेशः अपि भवति, येन कारिकाकृत्य इति शब्दः सिद्ध्यति । यदि अस्य शब्दस्य गतिसंज्ञा नैव अभविष्यत्, तर्हि गतिसमासस्य अभावे कारिकां कृत्वा इत्येव रूपम् अभविष्यत् ।\n
  • 2. \nपुनस् तथा चनस् एतौ शब्दौ वेदेषु गतिसंज्ञसदृशाः प्रयुक्ताः दृश्यन्ते — इति अस्य वार्त्तिकस्य आशयः । यथा, पुनरूत्स्यूतं वासो देयम्, पुनर्णवो रथः, पुनरुत्सृष्टोऽनड्वान् इत्येतानि वाक्यानि मैत्रायणिसंहितायां दृश्यन्ते । एवमेव चनोहितः इति शब्दः ऋग्वेदे (3.11.2 इत्यत्र) विद्यते । अत्र सर्वत्र गतिसंज्ञायाः प्रयोजनम् <<गतिर्गतौ>> [[8.1.70]], <<गतिरनन्तरः>> [[6.2.49]] इत्येतैः सूत्रैः विशिष्टस्वरविधानम् — इति अस्ति । \n\nगतिः इति योगविभागस्य प्रयोजनम्\nप्रादीनां क्रियायोगे <<उपसर्गाः क्रियायोगे>> [[1.4.58]] इत्यनेन उपसर्गसंज्ञा, तथा च <<गतिश्च>> [[1.4.59]] इत्यनेन गतिसंज्ञा भवति । एते द्वे संज्ञे भिन्नाभ्यां सूत्राभ्यां दत्ते स्तः । वस्तुतः अत्र एकस्मिन् एव सूत्रे \"गत्युपसर्गाः क्रियायोगे\" इति वक्तुं शक्यम् आसीत् । परन्तु तथा क्रियते चेत् अग्रिमसूत्रेषु पाठितानां शब्दानाम् अपि गतिः तथा च उपसर्गः इति उभयथा संज्ञाविधानम् अभविष्यत् । परन्तु अग्रे <<ऊर्यादिच्विडाचश्च>> [[1.4.61]] इत्यस्मात् आरभ्य <<जीविकोपनिषदावौपम्ये>> [[1.4.79]] इति यावत्सु सूत्रेषु पाठितानाम् शब्दानां केवलम् गतिः इत्येव संज्ञा इष्यते, उपसर्गः इति न । एतत् स्पष्टीकर्तुम् अत्र सूत्रद्वयम् कृतम् अस्ति । \nलघुसिद्धान्तकौमुदीस्थं वार्त्तिकम् - <!गतिकारकेतरपूर्वपदस्य यण् नेष्यते!>\nलघुसिद्धान्तकौमुद्यां प्रकृतसूत्रम् अजन्तपुंलिङ्गप्रकरणे पाठितम् अस्ति । अत्र वरदराजः सन्दर्भवशात् इति वार्त्तिकं पाठयति । अस्य अर्थः वर्तते - यदि प्रातिपदिकस्य पूर्वपदम् किञ्चन विद्यते परन्तु तत् गतिसंज्ञकम् उत कारकसंज्ञकं नास्ति, तर्हि अजादिप्रत्यये परे <<एरनेकाचोऽसंयोगपूर्वस्य>> [[6.4.82]] इत्यनेन यणादेशः न भवति । यथा, शुद्धा धीः यस्य सः इत्यस्मिन् अर्थे शुद्धधी इति यः शब्दः सिद्ध्यति तत्र पूर्वपदम् शुद्धा इति गतिसंज्ञकम् अपि नास्ति, कारकसंज्ञकम् अपि नास्ति; अतः अजादौ प्रत्यये परे अस्य यणादेशः न भवति । अतएव शुद्धधी + औ इत्यत्र ,<<एरनेकाचोऽसंयोगपूर्वस्य>> [[6.4.82]] इत्यनेन प्राप्तस्य यणादेशस्य अभावे, <<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> [[6.4.77]] इत्यनेन <<इयङ्>>-आदेशं कृत्वा शुद्धधियौ इति पदं सिद्ध्यति । " }, "14061": { "sa": "ऊर्यादिगणस्य शब्दाः, च्वि-प्रत्ययान्तशब्दाः, तथा डाच्-प्रत्ययान्तशब्दाः क्रियायोगे गतिसंज्ञकाः भवन्ति । यथा - ऊरीकृत्य, शुक्लीकृत्य, पटपटाकृत्य ।", "sd": "अष्टाध्याय्यां <<गतिश्च>> [[1.4.60]] इत्यतः <<जीविकोपनिषदावौपम्ये>> [[1.4.79]] इति सूत्रैः गतिसंज्ञा पाठ्यते । अस्यैव प्रकरणस्य इदं द्वितीयं सूत्रम् । अनेन सूत्रेण ऊर्यादिगणस्य शब्दानाम्, च्वि-प्रत्ययान्तशब्दानाम्, तथा च डाच्-प्रत्ययान्तशब्दानां क्रियायोगे गतिसंज्ञा विधीयते । इदं सूत्रं <<प्राग्रीश्वरान्निपाताः>> [[1.4.56]] अस्मिन् अधिकारे अपि विद्यते, अतः एतेषां शब्दानां निपातसंज्ञा अपि भवति ।\n<<च्वि>> तथा च <<डाच्>> एतौ प्रत्ययौ केवलं <<कृ>>, <<भू>> तथा च <<अस्>> धातूनां योगे एव विहितौ स्तः । अतः ऊर्यादिगणस्य शब्दानाम् अपि <<कृ>>, <<भू>> तथा च <<अस्>> एतेषां योगे एव प्रकृतसूत्रेण गतिसंज्ञा भवति । निपातसंज्ञायाः कृते तु क्रियायोगः न आवश्यकः, अतः निपातसंज्ञा तु नित्यमेव भवति । \nएतेषां त्रयाणाम् क्रमेण विवरणम् एतादृशम् -\n\n1. ऊर्यादिगणः\nऊर्यादिगणः इति गणपाठे पाठितः कश्चन शब्दसमूहः । अस्य गणस्य शब्दानाम् आवली इयम् -\n\nऊरी । उररी । तन्थी । ताली । आत्ताली । वेताली । धूली । धूस । शकला । संशकला । ध्वंसकला । भ्रंसकला । गुलुगुधा । सजूस् । फल । फली । विक्ली । आक्ली । आलोष्ठी । केवाली । केवासी । सेवासी । पर्याली । शेवाली । वर्षाली । अत्यूमशा । मश्मशा । मस्मसा । मसमसा । औषट् । श्रौषट् । वौषट् । वषट् । स्वाहा । स्वधा । वन्धा । प्रादुस् । श्रत् । आविस् ॥\n\nएतेषां सर्वेषाम् अपि शब्दानां क्रियायोगे प्रकृतसूत्रेण गतिसंज्ञा भवति । गतिसंज्ञायां सत्याम् <<कुगतिप्रादयः>> [[2.2.18]] इत्येन एतेषाम् कृदन्तैः सह उपपदसमासः सम्भवति । यथा - ऊरी + कृ + क्त = ऊरीकृत, उररी + भू + क्त = ऊररीभूत, पापी + कृ + क्त = पापीकृतः इत्यादिकम् । किञ्च, क्त्वा-प्रत्ययान्तशब्देन सह एतादृशः समासः यदा भवति तदा <<समासेऽनञ्पूर्वे क्त्वो ल्यप्>> [[7.1.37]] इत्यनेन क्त्वा-प्रत्ययस्य ल्यप्-आदेशः अपि भवति, येन ऊरीकृत्य, उररीकृत्य, पापीभूय इत्यादयः शब्दाः सिद्ध्यन्ति । \n\nऊर्यादिगणस्य केषाञ्चन शब्दानां अर्थावगमनार्थम् काशिकाकारेण कानिचन गणसूत्राणि अपि पाठितानि सन्ति । तानि एतादृशानि -\n\n
  • 1. <=ऊरीउररीशब्दावङ्गीकरणे विस्तारे च=> । ऊरी इति शब्दः अङ्गीकरणम् अस्मिन् अर्थे प्रयुज्यते । यथा, ऊरीकरोति = अङ्गीकरोति, स्वीकरोति । एवमेव, उररी इति शब्दः विस्तारः अस्मिन् अर्थे प्रयुज्यते । यथा, उररीकरोति = विस्तारं करोति (विस्तृणाति) ।\n
  • 2. <=शकलादयः हिंसायाम्=> । शकला, संशकला, ध्वंसकला,भ्रंसकला - एते चत्वारः शब्दाः हिंसार्थे प्रयुज्यते । यथा, शकलाकरोति / संशकलाकरोति / ध्वंसकलाकरोति / भ्रंसकलाकरोति = हिंसां करोति । \n
  • 3. <=गुलगुधा पीडार्थे => । गुलगुधा इति शब्दः पीडा अस्मिन् अर्थे प्रयुज्यते । यथा, गुलगुधाकरोति = पीडां करोति ।\n
  • 4. <=सजूः सहार्थे => । सजूस् इति शब्दः सह अस्मिन् अर्थे प्रयुज्यते । यथा, सजूःकरोति = (केनचित्) सह करोति ।\n
  • 5. <= फलू, फली, विक्ली, आक्ली इति विकारे=> । फलू, फली, विक्ली,आक्ली - एते चत्वारः शब्दाः परिवर्तनम् (transformation) अस्मिन् अर्थे प्रयुज्यते । यथा, फलूकरोति / फलीकरोति / विक्लीकरोति / आक्लीकरोति = परिवर्तनं करोति । \n
  • 6. <=आलोष्ठी, केवाली, केवासी, सेवासी, पर्याली, शेवाली, वर्षाली, अत्यूमशा, मश्मशा, मस्मसा, मसमसा एते हिंसायाम् => । आलोष्ठी, केवाली, केवासी,सेवासी, पर्याली, शेवाली, वर्षाली,अत्यूमशा,मश्मशा, मश्मशा, मसमसा - एते सर्वेऽपि शब्दाः हिंसार्थे प्रयुज्यन्ते । यथा, आलोष्ठीकरोति / केवालीकरोति / केवासीकरोति / सेवासीकरोति / पर्यालीकरोति / शेवालीकरोति / वर्षालीकरोति /अत्यूमशाकरोति / मश्मशाकरोति / मश्मशाकरोति / मसमसाकरोति = हिंसां करोति । \n\nगणे विद्यमानानां अन्येषां शब्दानाम् अर्थाः गणसूत्रैः न दीयन्ते । अतः कोशे दत्तेषु अर्थेषु एव तेषां प्रयोगः करणीयः । \n
    \n2. च्वि-प्रत्ययान्तशब्दाः\n<<च्वि>> इति कश्चन तद्धितसंज्ञकप्रत्ययः अस्ति ।<<अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः>> [[5.4.50]] इत्यनेन अयं प्रत्ययः प्रातिपदिकेभ्यः <<कृ>>/<<भू>>/<<अस्>>-धातोः योगे अभूततद्भावस्य निर्देशार्थम् विधीयते । अस्य प्रत्ययस्य प्रयोगेण गतिसंज्ञकाः शब्दाः सिद्ध्यन्ति । यथा - शुक्ल इति शब्दात् <<अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः>> [[5.4.50]] इत्यनेन <<कृ>>/<<भू>>/<<अस्>>-धातोः योगे <<च्वि>>-प्रत्ययं योजयित्वा शुक्ली इति शब्दः सिद्ध्यति । अयं शब्द: च्वि-प्रत्ययान्तः अस्ति अतः प्रकृतसूत्रेण अस्य गतिसंज्ञा भवति । गतिसंज्ञासामर्थ्यात् <<कुगतिप्रादयः>> [[2.2.18]] इत्यनेन अत्र कृदन्तेन सह गतिसमासः भवितुम् अर्हति, येन शुक्लीकृत, शुक्लीकृत्य, शुक्लीभूय, शुक्लीभवितुम् एतादृशानि समस्तपदानि सिद्ध्यन्ति । एवमेव दृढीकृत्य, स्पष्टीकृत्य, सफलीकृत्य - इत्यत्र विद्यमानाः दृढी, स्पष्टी , सफली इत्येते शब्दाः अपि च्वि-प्रत्ययान्ताः सन्ति अतश्च गतिसमासे भागं गृह्णन्तः दृश्यन्ते । \n
    \n3. डाच्-प्रत्ययान्तशब्दाः\n<<डाच्>> इत्यपि कश्चन तद्धितसंज्ञकप्रत्ययः एव । <<अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच्>> [[5.4.57]] इत्यतः <<मद्रात् परिवापणे>> [[5.4.67]] इत्येतैः एकादशभिः सूत्रैः (भिन्नेषु सन्दर्भेषु) अयं प्रत्ययः <<कृ>>/<<भू>>/<<अस्>>-धातोः योगे प्रातिपदिकेभ्यः विधीयते । <<डाच्>>-प्रत्ययान्तशब्दाः अपि प्रकृतसूत्रेण गतिसंज्ञकाः भवन्ति । यथा, पटत् इति शब्दस्य द्वित्वे कृते ततः <<कृ>>/<<भू>>/<<अस्>>-धातोः योगे अस्मात् <<अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच् >> [[5.4.67]] इत्यनेन <<डाच्>> प्रत्ययं कृत्वा पटपटा इति शब्दः सिद्ध्यति । अयं डाजन्तः शब्दः, अतः प्रकृतसूत्रेण अयं गतिसंज्ञकः भवति । गतिसंज्ञासामर्थ्यात् <<कुगतिप्रादयः>> [[2.2.18]] इत्यनेन अत्र कृदन्तेन सह गतिसमासः भवितुम् अर्हति, येन पटपटाकृत्य, पटपटाकृत, पटपटाभूय, पटपटाकर्तुम् एतादृशानि समस्तपदानि सिद्ध्यन्ति । एवमेव द्विगुणाकृत, समयाकृत, सपत्राकृत - इत्यत्र विद्यमानाः द्विगुणा, समया , सपत्रा इत्येते शब्दाः अपि डाच्-प्रत्ययान्ताः सन्ति अतश्च गतिसमासे भागं गृह्णन्तः दृश्यन्ते । \nतदन्तस्य संज्ञा\nवस्तुतः <ऽसंज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति ऽ> इत्यनया परिभाषया प्रकृतसूत्रे उक्ता गतिसंज्ञा <<च्वि>> / <<डाच्>> प्रत्यययोः भवेत्, न हि तदन्तानाम् । परन्तु अत्र क्रियायोगे इति शब्दस्य अनुवृत्तिः वर्तते, तथा च क्रियायाः योगे केवलः (प्रकृतिविरहितः) <<च्वि>>/<<डाच्>>-प्रत्ययः नैव सम्भवति । अतः अत्र - क्रियायोगे यस्य प्रयोगः तस्य गतिसंज्ञा - इति निर्णयं कृत्वा च्व्यन्तस्य, डाजन्तस्य च गतिसंज्ञा विधीयते ।\nसिद्धान्तकौमुदीस्थं वार्त्तिकम् - <!कारिकाशब्दस्योपसंख्यानम् !> \nकौमुद्यां प्रकृतसूत्रे इति वार्त्तिकं पाठितम् अस्ति । कारिका (\"क्रिया\" इति अर्थः) शब्दस्य क्रियायोगे गतिसंज्ञा भवेत् — इति अस्य वार्त्तिकस्य आशयः । एतादृश्यां गतिसंज्ञायां सिद्धायाम् <<कुगतिप्रादयः>> [[2.2.18]] इत्यनेन अस्य शब्दस्य कृदन्तेन सह गतिसमासः भवितुम् अर्हति, अतश्च <<समासेऽनञ्पूर्वे क्त्वो ल्यप्>> [[7.1.37]] इत्यनेन धातोः विहितस्य <<क्त्वा>>-प्रत्ययस्य <<ल्यप्>>-आदेशः अपि भवति, येन कारिकाकृत्य इति शब्दः सिद्ध्यति । " }, "14062": { "sa": "यस्मात् परः \"इति\" शब्दः नास्ति तादृशस्य अनुकरणवाचिशब्दस्य क्रियायोगे गतिसंज्ञा भवति । यथा - खाट्कृत्य । ", "sd": "अष्टाध्याय्यां <<गतिश्च>> [[1.4.60]] इत्यतः <<जीविकोपनिषदावौपम्ये>> [[1.4.79]] इति सूत्रैः गतिसंज्ञा पाठ्यते । अस्यैव प्रकरणस्य इदं तृतीयं सूत्रम् । अनेन सूत्रेण अनुकरणवाचिशब्दस्य विषये क्रियायोगे गतिसंज्ञा विधीयते । यस्मात् अनुकरणवाचिनः शब्दात् अव्यवहितपरः इति अयं शब्दः नास्ति, सः क्रियायाः योगे गतिसंज्ञकः भवति इति अस्य सूत्रस्य आशयः ।\nअनुकरणवाची शब्दः इत्युक्ते सः शब्दः यः कस्यचित् ध्वनेः अनुकरणार्थं प्रयुज्यते (A word used to copy a sound). । खाट्, श्रत् इत्यादयः शब्दाः भाषायाम् अनुकरणवाचिशब्दाः नाम्ना ज्ञायन्ते । एते यदा क्रियायाः योगे प्रयुज्यन्ते, तदा एतेषां गतिसंज्ञा भवति ।गतिसंज्ञायां सत्याम् <<कुगतिप्रादयः>> [[2.2.18]] इत्यनेन एतेषाम् कृदन्तैः सह उपपदसमासः सम्भवति । यथा - खाट्कृतम्, खाट्कृत्य । परन्तु अस्मात् अनुकरणवाचिशब्दात् अव्यवहितः परः इति अयं शब्दः अस्ति चेत् एतेषां गतिसंज्ञा न भवति । गतिसंज्ञायाः अभावात् उपपदसमासः अपि न सम्भवति । यथा - खाट् इति कृत्वा । अत्र समासस्य अभावात् <<क्त्वा>>-प्रत्ययस्य <<ल्यप्>>-आदेशः अपि नैव कृतः वर्तते ।\nइति-शब्दपरकत्वात् क्रियायोगः कथम् ? \nप्रकृतसूत्रेण गतिसंज्ञा तदा एव भवति यदा अनुकरणवाचिनः शब्दस्य क्रियया सह योगः विद्यते । \"अयं क्रियायोगः कथं भवेत्\" इति प्रश्ने पृष्टे, अग्रे वक्ष्यमाणेन <<ते प्राग्धातोः>> [[1.4.80]] इत्यनेन अस्य उत्तरं लभ्यते - \"धातोः अव्यवहितपूर्वे एव अनुकरणवाची शब्दः भवेत्\" इति । इत्युक्ते, क्रियायोगे सिद्धे, अनुकरणवाचिनः शब्दात् अनन्तरम् धातुः एव भवति, अतश्च तत्र इति इदं पदं नैव सम्भवति । किञ्च, अनुकरणवाचिनः शब्दात् अनन्तरम् इति इदं पदं विद्यते चेत् तत्र क्रियायोगः एव न भवति, येन गतिसंज्ञा अपि नैव शक्या । अस्यां स्थितौ प्रकृतसूत्रे प्रयुक्तस्य अनितिपरम् इति शब्दस्य किं प्रयोजनम् - इति प्रश्नः उदेति । अस्य उत्तरार्थम् तत्त्वबोधिनीकारः ब्रूते - इतिकृत्वा इति समुपदाये एवंकृत्वा इत्यर्थे वर्तते । तथा च इतिशब्दः क्रियाविशेषकः, इति तद्घटितसमुदायस्य क्रियावाचकत्वात् अस्ति एव क्रियायोगःइतिकृत्वा इत्यस्य शब्दसमुदायस्य अर्थः एवंकृत्वा इति वर्तते, अतः अत्र <<इति>> शब्द: अपि क्रियार्थम् अवश्यमेव बोधयति - इति अत्र तत्त्वबोधिनीकारस्य आशयः वर्तते । अस्यां स्थितौ खाट् इतिकृत्वा इत्यत्र क्रियायोगे सिद्धे अनिष्टा गतिसंज्ञा अपि प्राप्नोति । अस्याः बाधनार्थम् अनितिपरम् इति निषेधः प्रकृतसूत्रे दत्तः वर्तते । \n यद्यपि सूत्रे क्रियायोगे इति सामान्यनिर्देशः वर्तते, तथापि लोके प्रकृतसूत्रस्य प्रयोगः केवलं <<कृ>>/<<भू>>/<<अस्>>-धातूनां योगे एव कृतः दृश्यते ।\n" }, "14063": { "sa": "आदरार्थे प्रयुक्तः \"सत्\" शब्दः, तथा च अनादरार्थे प्रयुक्तः \"असत्\" शब्दः क्रियायोगे गतिसंज्ञकौ भवतः । यथा - सत्कृत्य, असत्कृत्य । ", "sd": "अष्टाध्याय्यां <<गतिश्च>> [[1.4.60]] इत्यतः <<जीविकोपनिषदावौपम्ये>> [[1.4.79]] इति सूत्रैः गतिसंज्ञा पाठ्यते । अस्यैव प्रकरणस्य इदं चतुर्थं सूत्रम् । अनेन सूत्रेण आदरार्थे प्रयुक्तस्य सत्-शब्दस्य, तथा च अनादरार्थे प्रयुक्तस्य असत्-शब्दस्य क्रियायाः योगे गतिसंज्ञा विधीयते । गतिसंज्ञायां सत्याम् <<कुगतिप्रादयः>> [[2.2.18]] इत्यनेन एतयोः कृदन्तैः सह उपपदसमासः सम्भवति । यथा - सत्कृत्य (आदरं कृत्वा इत्यर्थः), सत्कृतम्, सत्कारः । एवमेव - असत्कृत्य, असत्कृतम्, असत्कार्यम् ।\n\n\n1. काशिकायाम् आदरः इति शब्दस्य अर्थः प्रीतिसम्भ्रमः इति दत्तः अस्ति । अत्र सम्भ्रम: इत्यस्य शब्दस्य अर्थः confusion इति न, अपितु अर्थः आदर: इत्येव अस्ति । प्रीतिः / आदरः / respect इत्येतेषां निर्देशार्थम् सत्-शब्दः प्रयुज्यते चेत् क्रियायोगे तस्य गतिसंज्ञा भवति - इति अत्र आशयः वर्तते । एवमेव, परिभवः / तिरस्कारः / अनादरः / disrespect - इत्येतेषु अर्थेषु प्रयुक्तस्य असत्-शब्दस्य क्रियायोगे गतिसंज्ञा भवति । \n\n2. यद्यपि सूत्रे क्रियायोगे इति सामान्यनिर्देशः वर्तते, तथापि लोके प्रकृतसूत्रस्य प्रयोगः केवलं <<कृ>>/<<भू>>/<<अस्>>-धातूनां योगे एव कृतः दृश्यते ।\n" }, "14064": { "sa": "\"भूषणम्\" अस्मिन् अर्थे प्रयुक्तः \"अलम्\" इति शब्दः क्रियायोगे गतिसंज्ञकः भवति । ", "sd": "अष्टाध्याय्यां <<गतिश्च>> [[1.4.60]] इत्यतः <<जीविकोपनिषदावौपम्ये>> [[1.4.79]] इति सूत्रैः गतिसंज्ञा पाठ्यते । अस्यैव प्रकरणस्य इदं पञ्चमं सूत्रम् । अनेन सूत्रेण भूषणम् (= आभरणम्, decoration) अस्मिन् अर्थे प्रयुक्तस्य अलम्-शब्दस्य क्रियायाः योगे गतिसंज्ञा विधीयते । गतिसंज्ञायां सत्याम् <<कुगतिप्रादयः>> [[2.2.18]] इत्यनेन अस्य कृदन्तैः सह उपपदसमासः सम्भवति । यथा - अलङ्कृत्य (भूषणानि संस्थाप्य इत्यर्थः), अलङ्कृतम्, अलङ्कारः । \n<hlb>भूषणे</hlb> इति किमर्थम् ? \nकोशेषु अलम् इत्यस्य चत्वारः अर्थाः दत्ताः सन्ति - भूषणम्, पर्याप्तिः, शक्तिः तथा च वारणम् इति । अमरकोशे उच्यते - अलं भूषणपर्याप्तिशक्तिवारणवाचकम् । एतेभ्यः केवलम् भूषणम् अस्मिन् अर्थे एव अलम्-शब्दस्य गतिसंज्ञा भवति इति स्पष्टीकर्तुम् अत्र सूत्रे भूषणम् इत्यस्य ग्रहणं कृतम् अस्ति । अतएव अलं कृत्वा ओदनं गतः अत्र वारणार्थे अलम्-शब्दस्य प्रयोगात्, गतिसंज्ञाभावात्, न हि गतिसमासः भवति, न च <<क्त्वा>>-प्रत्ययस्य <<ल्यप्>>-आदेशः अपि विधीयते ।\nयद्यपि सूत्रे क्रियायोगे इति सामान्यनिर्देशः वर्तते, तथापि लोके प्रकृतसूत्रस्य प्रयोगः केवलं <<कृ>>/<<भू>>/<<अस्>>-धातूनां योगे एव कृतः दृश्यते ।" }, "14065": { "sa": "स्वीकरणभिन्ने अर्थे \"अन्तर्\" इति शब्दः क्रियायोगे गतिसंज्ञकः भवति । ", "sd": "अष्टाध्याय्यां <<गतिश्च>> [[1.4.60]] इत्यतः <<जीविकोपनिषदावौपम्ये>> [[1.4.79]] इति सूत्रैः गतिसंज्ञा पाठ्यते । अस्यैव प्रकरणस्य इदं षष्ठं सूत्रम् । अनेन सूत्रेण परिग्रह: (= स्वीकारः / acceptance) इति अर्थं विहाय अन्यस्मिन् अर्थे (यथा, मध्ये अस्मिन् अर्थे) प्रयुक्तस्य अन्तर्-इति शब्दस्य क्रियायाः योगे गतिसंज्ञा विधीयते । गतिसंज्ञायां सत्याम् <<कुगतिप्रादयः>> [[2.2.18]] इत्यनेन अस्य कृदन्तैः सह उपपदसमासः सम्भवति । यथा - श्येनः मूषिकां अन्तर्हत्य त्यक्त्वा गतः (= श्येनः मूषिकाम् तस्याः शरीरस्य मध्यभागे हननं कृत्वा, तां तथैव तत्र विहाय निर्गतः - इत्याशयः) ।\nअपरिग्रहे इति किमर्थम् ? \nयदा <<अन्तर् + हन्>> इति धातुः परिग्रहः ( स्वीकरणम्) अस्मिन् अर्थे प्रयुज्यते तदा तस्य गतिसंज्ञा मा भूत् इति स्पष्टीकर्तुं प्रकृतसूत्रे अपरिग्रहे इति निर्देशः कृतः अस्ति । अतएव मूषिकां अन्तर्हत्वा श्येनः गतः (= मूषिकां हत्त्वा, तां भोजनरूपेण स्वीकृत्य श्येनः गतः - इत्याशयः) अस्मिन् वाक्ये अन्तर्-शब्दस्य गतिसंज्ञा न भवति, अतश्च गतिसमासः न भवति, अतश्च ल्यबादेशः अपि नैव कृतः वर्तते। \nवार्त्तिकम् - <!अन्तश्शब्दस्य अङ्किविधिणत्वेषु उपसर्गत्वं वाच्यम्!> \nअन्तर्-शब्दस्य अङ्-विधौ, कि-विधौ, तथा च णत्वे कर्तव्ये उपसर्गसंज्ञा भवति । क्रमेण उदाहरणानि एतानि —\n\n
  • i. <<अङ्>>-प्रत्यये कर्तव्ये अन्तर्-शब्दस्य उपसर्गसंज्ञा भवति । अतः <<आतश्चोपसर्गे>> [[3.3.106]] इत्यनेन आकारान्तधातुभ्यः उपसर्गस्य उपस्थितौ विधीयमानः <<अङ्>>-प्रत्ययः <<धा>>-धातोः अन्तर्-शब्दस्य उपस्थितौ अपि भवति, येन अन्तर् + धा + अङ् + टाप् → अन्तर्धा इति शब्दः सिद्ध्यति ।\n
  • ii. <<कि>>-प्रत्यये कर्तव्ये अन्तर्-शब्दस्य उपसर्गसंज्ञा भवति । अतः <<उपसर्गे घोः किः>> [[3.3.92]] इत्यनेन घु-संज्ञकात् उपसर्गस्य उपस्थितौ विधीयमानः <<कि>>-प्रत्ययः <<धा>>-धातोः अन्तर्-शब्दस्य उपस्थितौ अपि भवति, येन अन्तर् + धा + कि → अन्तर्धि इति शब्दः सिद्ध्यति । \n
  • iii. णत्वे कर्तव्ये अन्तर्-शब्दस्य उपसर्गसंज्ञा भवति । अतः <<भू>>-धातोः अन्तर्-शब्दस्य उपस्थितौ लोट्लकारस्य उत्तमपुरुषैकवचने कर्तव्ये <<आनि लोट्>> [[8.4.16]] इत्यनेन णत्वम् कृत्वा अन्तर्भवाणि इति णकारघटितम् रूपम् सिद्ध्यति । एवमेव, <<नी>>-धातोः नकारस्य अन्तर्-शब्दस्य उपस्थितौ <<उपसर्गादसमासेऽपि णोपदेशस्य>> [[8.4.14]] इत्यनेन णत्वं विधीयते येन अन्तर्णयनम् इति रूपं सिद्ध्यति । \n" }, "14066": { "sa": "श्रद्धाप्रतीघातः (सम्पूर्णरूपेण इच्छातृप्तिः) अस्मिन् अर्थे प्रयुक्तौ कणे तथा मनस् शब्दौ क्रियायोगे गतिसंज्ञकौ भवतः । यथा, कणेहत्य, मनोहत्य । ", "sd": "अष्टाध्याय्यां <<गतिश्च>> [[1.4.60]] इत्यतः <<जीविकोपनिषदावौपम्ये>> [[1.4.79]] इति सूत्रैः गतिसंज्ञा पाठ्यते । अस्यैव प्रकरणस्य इदं सप्तमं सूत्रम् । अनेन सूत्रेण श्रद्धाप्रतीघातः (अभिलाषनिवृत्तिः / इच्छापूर्तिः इत्यर्थः) अस्मिन् अर्थे प्रयुक्तस्य कणे तथा मनस् इति शब्दयोः क्रियायाः योगे गतिसंज्ञा विधीयते । गतिसंज्ञायां सत्याम् <<कुगतिप्रादयः>> [[2.2.18]] इत्यनेन एतयोः कृदन्तैः सह उपपदसमासः सम्भवति । यथा - कणेहत्य पयः पिबति (= यथेच्छम् पयः पिबति, अभिलाषनिवृत्तिं यावत् पयः पिबति इत्याशयः) । एवमेव मनोहत्य पयः पिबति ।\n<hl>कणे</hl>, <hl>मनस्</hl> इत्येतयोः अर्थः \nकणे इति सप्तमी-एकवचन-प्रतिरूपकः निपातः अतिशयित-अभिलाषा (intense desire) अस्मिन् अर्थे प्रयुज्यते । \"अस्याः अभिलाषायाः पूर्तिः भवति\" इति आशयः यत्र वर्तते, तत्र प्रकृतसूत्रेण कणे इत्यस्य गतिसंज्ञा भवति । \nमनस् इति सकारान्त-नपुंसकलिङ्गशब्दः, चित्तम् अस्मिन् अर्थे प्रयुज्यते । \"चित्तपूर्त्तिः / इच्छापूर्त्तिः\" इति आशयः यत्र वर्तते, तत्र प्रकृतसूत्रेण मनस् इत्यस्य गतिसंज्ञा भवति । \n<hl>श्रद्धाप्रतीघात:</hl> इत्यस्य अर्थः, प्रयोजनं च \nअमरकोशे श्रद्धा इत्यस्य शब्दस्य अपरः अर्थः स्पृहा इति दत्तः अस्ति । प्रतीघातः इत्युक्ते निवृत्तिः / दूरीभवनम् । अतः श्रद्धाप्रतीघातः = स्पृहायाः निवृत्तिः = इच्छापूर्त्तिः इत्याशयः । अस्मिन् अर्थे यदा कणे तथा मनस् इति शब्दौ प्रयुज्येते तदा एव क्रियायाः योगे तयोः गतिसंज्ञा भवति । अन्येषु अर्थे न भवति, यथा - कणे हत्वा गतः / मनो हत्वा गतः । इच्छां हत्वा (त्यक्त्वा) गतः इत्याशयः । अत्र इच्छापूर्त्तिः न जाता, अतश्च अत्र प्रकृतसूत्रम् अपि न प्रयुक्तम् दृश्यते।\n" }, "14067": { "sa": "अव्ययसंज्ञकः \"पुरस्\" इति शब्दः क्रियायोगे गतिसंज्ञकः भवति । यथा - पुरस्कृत्य । ", "sd": "अष्टाध्याय्यां <<गतिश्च>> [[1.4.60]] इत्यतः <<जीविकोपनिषदावौपम्ये>> [[1.4.79]] इति सूत्रैः गतिसंज्ञा पाठ्यते । अस्यैव प्रकरणस्य इदं अष्टमं सूत्रम् । अनेन सूत्रेण अव्ययसंज्ञकस्य पुरस् (= पूर्वा दिक्, अग्रे, पूर्वस्मिन् देशे, पूर्वस्मात् देशात् इत्यादिकम् ) इति शब्दस्य क्रियायाः योगे गतिसंज्ञा भवति । गतिसंज्ञायां सत्याम् <<कुगतिप्रादयः>> [[2.2.18]] इत्यनेन अस्य शब्दस्य कृदन्तैः सह उपपदसमासः सम्भवति । यथा - पुरस्कृत्य गच्छति (= अग्रे कृत्वा गच्छति इत्याशयः) । एवमेव पुरस्कारः , पुरस्कृतम् इत्यादयः शब्दाः अपि सिद्ध्यन्ति ।\n<hl>पुरस्</hl> इति शब्दः\nपूर्व इति शब्दः यदा दिशावाचके, स्थानवाचके उत कालवाचके अर्थे प्रयुज्यते, तदा तस्य सप्तम्यन्तात्, पञ्चम्यन्तात्, तथा च प्रथमान्तात् रूपात् <<पूर्वाधरावराणामसि पुरधवश्चैषाम्>> [[5.3.39]] अनेन सूत्रेण <<असि>> इति तद्धितप्रत्ययः स्वार्थे विधीयते, येन पुरस् इति प्रातिपदिकं सिद्ध्यति । <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यनेन अस्य अव्ययसंज्ञा अपि सिद्ध्यति । अस्य पुरस् शब्दस्य अत्र ग्रहणं कृतम् अस्ति । अस्य शब्दस्य पूर्वस्मिन स्थाने, पूर्वस्यां दिशि, पूर्वस्मिन् काले, पूर्वस्मात् स्थानात्, पूर्वायाः दिशः, पूर्वस्मात् कालात्, पूर्वं स्थानम्, पूर्वा दिक्, पूर्वः कालः - इति भिन्नाः अर्थाः सम्भवन्ति ।\n<hl>पुरस्कृत्य</hl> इत्यस्य प्रक्रिया\nपुरस्कृत्य इति शब्दस्य प्रक्रिया इयम् -\n\nपुरः कृत्वा (वृत्तिः)\n--> पुरस् + कृ + क्त्वा [अलौकिकविग्रहः]\n--> पुरस् + कृ + ल्यप् [<<समासेऽनञ्पूर्वे क्त्वो ल्यप्>> [[7.1.37]]]\n--> पुरस् + कृ + तुक् + य [<<ह्रस्वस्य पिति कृति तुक्>> [[6.1.71]] इति तुगागमः]\n--> पुरः + कृत्य [<<ससजुषो रुः>> [[8.2.66]], <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]]]\n--> पुरस् + कृत्य [<<नमस्पुरसोर्गत्योः>> [[8.3.40]] इत्यनेन गतिसंज्ञकस्य पुरस्-शब्दस्य विसर्गस्य क्-वर्णे परे परे सकारादेशः भवति ]\n--> पुरस्कृत्य\n\nअत्र प्रक्रियायाम् अन्तिमसोपाने गतिसंज्ञाविशिष्टं <<नमस्पुरसोर्गत्योः>> [[8.3.40]] इति सूत्रं प्रयुक्तम् अस्ति इति विशेषः ।\n<hl>अव्ययम्</hl> इति किमर्थम् ? \nप्रकृतसूत्रे पुरः इति शब्दः प्रयुक्तः अस्ति । पुरः इति पुर् (=नगरी) इति रेफान्त-स्त्रीलिङ्ग-प्रातिपदिकस्य द्वितीयाबहुवचनम् अपि अस्ति । अस्य शब्दस्य विषये प्रकृतसूत्रेण गतिसंज्ञा न इष्यते, अपि तु केवलम् अव्ययसंज्ञकस्य पुरस् शब्दस्य विषये एव इष्यते, इति स्पष्टीकर्तुम् अत्र अव्ययम् इति शब्दः स्थापितः वर्तते । अतएव असुराणां पुरः हत्वा इन्द्रः गतः एतादृशेषु वाक्येषु गतिसमासः न भवति ।" }, "14068": { "sa": "अव्ययसंज्ञकः \"अस्तम्\" इति शब्दः क्रियायोगे गतिसंज्ञकः भवति । यथा - अस्तंगत्य । ", "sd": "अष्टाध्याय्यां <<गतिश्च>> [[1.4.60]] इत्यतः <<जीविकोपनिषदावौपम्ये>> [[1.4.79]] इति सूत्रैः गतिसंज्ञा पाठ्यते । अस्यैव प्रकरणस्य इदं नवमं सूत्रम् । अनेन सूत्रेण अव्ययसंज्ञकस्य अस्तम् (= अदर्शनस्य स्थितिः इत्यर्थः) इति शब्दस्य क्रियायाः योगे गतिसंज्ञा भवति । गतिसंज्ञायां सत्याम् <<कुगतिप्रादयः>> [[2.2.18]] इत्यनेन अस्य शब्दस्य कृदन्तैः सह उपपदसमासः सम्भवति । यथा - अस्तङ्गत्य सविता पुनरुदेति (= सूर्यः अदृष्टः भूत्वा पुनः उदेति) । एवमेव अस्तङ्गतानि धनानि इति प्रयोगः अपि सिद्ध्यति । \nअस्तम् इति शब्दः पदसंज्ञकः अस्ति, अतः मकारस्य <<मोऽनुस्वारः>> [[8.3.23]] इत्यनेन अनुस्वारादेशे कृते, ततः अनुस्वारस्य परसवर्णः (ङकारः) <<वा पदान्तस्य>> [[8.4.59]] इत्यनेन विकल्पेन एव भवति । अतः अनुस्वारघटिताः अस्तंगतः, अस्तंगत्य इत्यादयः शब्दाः अपि साधु एव सन्ति ।\n<hl>अव्ययम्</hl> इति किमर्थम् ? \nप्रकृतसूत्रे पूर्वसूत्रात् अव्ययम् इति शब्दः अनुवर्तते । अनेन अस्तम् इति यद् मकारान्तम् अव्ययम्, तस्य एव प्रकृतसूत्रे ग्रहणं भवति । तस्य स्थाने यदि अस् इति धातोः <<क्त>>-प्रत्ययान्तरूपस्य सुबन्तरूपम् अस्तम् (अस् + क्त --> अस्त, अस्त + अम् --> अस्तम् । क्षिप्तम् / अवसानप्राप्तम् इति अर्थः) इति प्रयुज्यते तर्हि तत्र प्रकृतसूत्रस्य उपयोगः न भवति । यथा - काण्डम् अस्तं कृत्वा गतः (काण्डं प्रक्षिप्य गतः इत्याशयः) । अत्र वाक्ये अस्तम् इति अव्ययं नास्ति अपितु अस्त-प्रातिपदिकस्य द्वितीयैकवचनम् अस्ति । अतः अत्र गतिसंज्ञा न भवति, अतश्च गतिसमासः अपि न कर्तुं शक्यते । \n\nकिञ्च, अस्त इति कश्चन अकारान्तपुंलिङ्गशब्दः अपि विद्यते । अस्य प्रयोगः \"यत्र सूर्यस्य किरणाः अदृष्टाः भवन्ति\" तादृशस्य स्थानस्य निर्देशार्थं क्रियते । यथा - अस्ताचलः = सः पर्वतः यत्र सूर्यः अदृश्यः भवति । अस्य शब्दस्य द्वितीयैकवचनम् अपि अव्ययसंज्ञकं नास्ति अतः तस्य विषये अपि प्रकृतसूत्रं न प्रवर्तते ।" }, "14069": { "sa": "अव्ययसंज्ञकः \"अच्छ\" इति शब्दः गत्यर्थकधातूनां योगे तथा च वद्-धातोः योगे गतिसंज्ञकः भवति । यथा - अच्छगत्य, अच्छोद्य । ", "sd": "अष्टाध्याय्यां <<गतिश्च>> [[1.4.60]] इत्यतः <<जीविकोपनिषदावौपम्ये>> [[1.4.79]] इति सूत्रैः गतिसंज्ञा पाठ्यते । अस्यैव प्रकरणस्य इदं दशमं सूत्रम् । अनेन सूत्रेण अव्ययसंज्ञकस्य अच्छ (= अभिमुखम् इत्यर्थः) इति शब्दस्य क्रियायाः योगे गतिसंज्ञा भवति । गतिसंज्ञायां सत्याम् <<कुगतिप्रादयः>> [[2.2.18]] इत्यनेन अस्य शब्दस्य कृदन्तैः सह उपपदसमासः सम्भवति । यथा - अच्छगत्य पृच्छति (= अभिमुखं गत्वा पृच्छति) । एवमेव अच्छोद्य प्रणमति (= अभिमुखम् उक्त्वा प्रणमति) इति । एवमेव अच्छगतम्, अच्छोदितम्, अच्छगमनम्, अच्छवदनम् इत्यादयः शब्दाः अपि सिद्ध्यन्ति । \n<hl>अच्छ</hl> इति अव्ययसंज्ञकः शब्दः \nअत्र यद्यपि सूत्रे अच्छ इति निर्देशः वर्तते, तथापि वस्तुतः अत्र मूलम् अव्ययम् अच्छम् इति अस्ति । न च्छ्यति सम्मुखत्वात् (दृष्टिं न आवृणोति) इति व्युत्पत्त्या <<छो>>-धातोः <<घञ्>>-प्रत्यये कृते अच्छम् इति अव्ययं सिद्ध्यति । परन्तु प्रकृतसूत्रस्य प्रयोगसमये अस्य अव्ययस्य अन्ते विद्यमानस्य मकारस्य लोपः भवति, अतश्च अच्छ इत्येव प्रयोगे दृश्यते । अयं लोपः सूत्रविधानसामर्थ्यात् (इत्युक्ते निपातनात्) एव साधु ज्ञेयः । \n<hl>अव्ययम्</hl> इति किमर्थम् ? \nप्रकृतसूत्रे पूर्वसूत्रात् अव्ययम् इति शब्दः अनुवर्तते । अनेन अच्छ इति अव्ययस्य एव प्रकृतसूत्रे ग्रहणं भवति । परन्तु अन्येषु अर्थेषु विद्यमानः यः अव्ययभिन्नः अच्छ-शब्दः तस्य विषये प्रकृतसूत्रस्य उपयोगः न भवति । यथा - जलम् अच्छं गत्वा स्नाति (निर्मलं / शुद्धं जलं प्रति गत्वा स्नानं करोति - इत्यर्थः) । अत्र वाक्ये अच्छम् इति अव्ययं नास्ति अपितु \"निर्मलम्\" इत्यस्मिन् अर्थे विद्यमानस्य अच्छशब्दस्य द्वितीयैकवचनस्य रूपम् अस्ति । अतः अत्र प्रकृतसूत्रस्य प्रयोगः न भवति, येन गतिसंज्ञा न विधीयते, येन गतिसमासः अपि न कर्तुं शक्यते । " }, "14070": { "sa": "\"अदस्\" इति सर्वनामसंज्ञकशब्द: क्रियायोगे उपदेशभिन्नस्थलेषु गतिसंज्ञकः भवति । यथा - \"अदःकृत्य अदःकृतम्\" । ", "sd": "अष्टाध्याय्यां <<गतिश्च>> [[1.4.60]] इत्यतः <<जीविकोपनिषदावौपम्ये>> [[1.4.79]] इति सूत्रैः गतिसंज्ञा पाठ्यते । अस्यैव प्रकरणस्य इदं एकादशं सूत्रम् । अनेन सूत्रेण सर्वनामसंज्ञकस्य अदस् (= अभिमुखम् इत्यर्थः) इति शब्दस्य उपदेशभिन्नस्थलेषु गतिसंज्ञा भवति उपदेशभिन्नस्थलम् इत्युक्ते तद् वाक्यम् यत्र अदस्-सर्वनामशब्दस्य प्रयोगः उपदेशं कर्तुम् / आज्ञां कर्तुं कृतः नास्ति । एतादृशेषु स्थलेषु गतिसंज्ञायां सत्याम् <<कुगतिप्रादयः>> [[2.2.18]] इत्यनेन अदस्-शब्दस्य कृदन्तैः सह उपपदसमासः सम्भवति । यथा - अदःकृत्य अदःकृतं तेन (= तेन इदं कृत्वा ततः इदं कृतम् - इति । He did this and then he did that इत्यर्थः) । यत्र उपदेशः विद्यते, तत्र तु प्रकृतसूत्रस्य प्रयोगः न भवति । यथा - अदः कृत्वा अदः कुरु त्वम् (त्वं इदं कृत्वा ततः इदं कुरु इत्यर्थः) । अत्र अदस्-शब्दः उपदेशस्य सन्दर्भेण (आज्ञायाः सन्दर्भेण ) प्रयुक्तः अस्ति, अतः अत्र अस्य शब्दस्य गतिसंज्ञा न भवति । गतिसंज्ञायाः अभावात् गतिसमासः ल्यबादेशः च अपि न भवतः । \n<hl>उपदेश</hl> शब्दस्य व्याख्या \nकाशिकाकारः उपदेशशब्दस्य व्याख्यां कुर्वन् ब्रूते - उपदेशः परार्थः प्रयोगः । स्वयमेव तु यदा बुद्ध्या परामृशति तदा नास्त्युपदेश इति सोऽस्य विषयः परार्थः इत्युक्ते अन्यम् उद्दिश्य इति । यत्र अन्यम् उद्दिश्य \"इदं कुरु / इदं करणीयम्\" इत्यादिकं किञ्चित् उच्यते, तत्र उपदेशः अस्ति इति स्वीक्रियते, तथा च एतादृशेषु स्थलेषु प्रकृतसूत्रस्य प्रयोगः न भवति । परन्तु यत्र कश्चन स्वयं स्वस्य बुद्ध्या निर्णयं कृत्वा कार्यं करोति, तत्र उपदेशः नास्ति, अतः तत्र प्रकृतसूत्रस्य प्रयोगः अवश्यं भवति - इति काशिकाकारस्य अत्र आशयः वर्तते । " }, "14071": { "sa": "व्यवधाने सति \"तिरस्\" इति शब्दः क्रियायोगे गतिसंज्ञकः भवति । यथा - तिरोभूय ।", "sd": "अष्टाध्याय्यां <<गतिश्च>> [[1.4.60]] इत्यतः <<जीविकोपनिषदावौपम्ये>> [[1.4.79]] इति सूत्रैः गतिसंज्ञा पाठ्यते । अस्यैव प्रकरणस्य इदं द्वादशं सूत्रम् । अनेन सूत्रेण तिरस् (= अन्तर्धानम् (hiding) इत्यर्थः) इति अव्ययस्य, व्यवधानस्य उपस्थितौ क्रियायोगे गतिसंज्ञा भवति व्यवधानम् इत्युक्ते गोपनार्थम् प्रयुक्तः वृक्ष-भित्ति-इत्यादिकः कश्चन पदार्थः (an object behind which hiding can be done) । एतादृशस्य वस्तुनः आधारेण यत्र अन्तर्धानं भवति, तत्र प्रकृतसूत्रेण तिरस्-शब्दस्य गतिसंज्ञा विधीयते । गतिसंज्ञायां सत्याम् <<कुगतिप्रादयः>> [[2.2.18]] इत्यनेन अस्य शब्दस्य कृदन्तैः सह उपपदसमासः सम्भवति । यथा - तिरोभूय वदति (= वृक्ष-इत्यादेः कस्यचन व्यवधानस्य आधारेण अदृश्यः भूत्वा वदति - इत्याशयः) । परन्तु यत्र व्यवधानं नास्ति (इत्युक्ते गोपनम् अपि न सम्भवति), तत्र प्रकृतसूत्रस्य प्रयोगः न भवति । यथा - तिरो भूत्वा वदति (= पार्श्वे गत्वा / तिर्यक् भूत्वा वदति - इत्याशयः) । अत्र अन्तर्धेः अनुपस्थितौ तिरस्-शब्दस्य गतिसंज्ञा न भवति । गतिसंज्ञायाः अभावात् गतिसमासः ल्यबादेशः च अपि न भवतः । \nबाध्यबाधकभावः\nअन्तर्धौ सति तिरस्-शब्द: यदा <<कृ>>-धातोः योगे प्रयुज्यते, तदा <<विभाषा कृञि>> [[1.4.72]] इति अग्रिमसूत्रेण तिरस्-शब्दस्य विकल्पेन एव गतिसंज्ञा भवति । " }, "14072": { "sa": "व्यवधाने सति \"तिरस्\" इति शब्दः कृ-धातोः योगे विकल्पेन गतिसंज्ञकः भवति । यथा - तिरस्कृत्य, तिरस्कृत्वा ।", "sd": "अष्टाध्याय्यां <<गतिश्च>> [[1.4.60]] इत्यतः <<जीविकोपनिषदावौपम्ये>> [[1.4.79]] इति सूत्रैः गतिसंज्ञा पाठ्यते । अस्यैव प्रकरणस्य इदं त्रयोदशं सूत्रम् । तिरस् (= अन्तर्धानम् (hiding) इत्यर्थः) इति अव्ययस्य, व्यवधानस्य उपस्थितौ <<कृ>>-धातोः योगे विकल्पेन गतिसंज्ञा भवति - इति अस्य सूत्रस्य आशयः । <<तिरोऽन्तर्द्धौ >> [[1.4.72]] इत्यनेन नित्यं प्राप्ता गतिसंज्ञा प्रकृतसूत्रेण <<कृ>>-धातोः योगे विकल्प्यते ।\n\nव्यवधानम् इत्युक्ते गोपनार्थम् प्रयुक्तः वृक्ष-भित्ति-इत्यादिकः कश्चन पदार्थः (an object behind which hiding can be done) । एतादृशस्य वस्तुनः आधारेण यत्र अन्तर्धानं क्रियते, तत्र प्रकृतसूत्रेण तिरस्-शब्दस्य <<कृ>>-धातोः योगे विकल्पेन गतिसंज्ञा विधीयते । गतिसंज्ञापक्षे <<कुगतिप्रादयः>> [[2.2.18]] इत्यनेन अस्य शब्दस्य कृदन्तैः सह उपपदसमासः सम्भवति । यथा - धनं तिरःकृत्य / तिरस्कृत्य / तिर≍कृत्य वदति (= व्यवधानस्य आधारेण धनम् अदृश्यं कृत्वा वदति - इत्याशयः) । गतिसंज्ञा-अभावपक्षे समासः ल्यबादेशः च न भवति, अतः तिरःकृत्वा / तिरः≍कृत्वा वदति इत्येव प्रयोगः जायते । \nयत्र व्यवधानं नास्ति (इत्युक्ते गोपनम् अपि न सम्भवति), तत्र प्रकृतसूत्रस्य प्रयोगः न भवति । यथा - काष्ठं तिरः कृत्वा / तिरः≍कृत्वा तिष्ठति (= काष्ठं पार्श्वे कृत्वा तिष्ठति - इत्याशयः) । अत्र अन्तर्धेः अनुपस्थितौ तिरस्-शब्दस्य गतिसंज्ञा न भवति । गतिसंज्ञायाः अभावात् गतिसमासः ल्यबादेशः च अपि न भवतः । \nरूपसिद्धिः\nतिरस् + कृत्वा इत्यस्मिन् अर्थे प्रकृतसूत्रेण तिरःकृत्य / तिरस्कृत्य / तिर≍कृत्य इति त्रीणि रूपाणि भवन्ति । एतेषां सिद्धिः एतादृशी -\n\nतिरः कृत्वा (वृत्तिः)\n--> तिरस् + कृ + क्त्वा (अलौकिकविग्रहः)\n--> तिरस् + कृ + ल्यप् [<<समासेऽनञ्पूर्वे क्त्वो ल्यप्>> [[7.1.37]]]\n--> तिरस् + कृ + तुक् + य [<<ह्रस्वस्य पिति कृति तुक्>> [[6.1.71]]]\n--> तिरः + कृत्य [<<ससजुषो रुः>> [[8.2.66]], <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]]\n--> तिरःकृत्य, तिर≍कृत्य, तिरस्कृत्य [विसर्गस्य <<कुप्वोः ≍क≍पौ च>> [[8.3.37]] इति विकल्पेन जिह्वामूलीयः । तदभावे <<तिरसोऽन्यरस्याम्>> [[8.3.42]] इति विकल्पेन विसर्गस्य सकारादेशः ]\n\nअस्यां प्रक्रियायां <<तिरसोऽन्यरस्याम्>> [[8.3.42]] इति सूत्रेण विसर्गस्य विकल्पेन सकारादेशः कृतः अस्ति - इति विशेषः । <<तिरसोऽन्यरस्याम्>> [[8.3.42]] इति सूत्रम् केवलं गतिसंज्ञकस्य तिरस्-शब्दस्य विषये एव प्रवर्तते । अतः गतिसंज्ञा-अभावपक्षे केवलम् वैकल्पिकम् उपध्मानीयं कृत्वा तिर≍कृत्वा / तिरःकृत्वा इति द्वे एव रूपे भवतः ।\nप्राप्तविभाषा\nअन्तर्धौ सति क्रियायोगे तिरस्-शब्दस्य <<तिरोऽन्तर्द्धौ >> [[1.4.72]] इत्यनेन नित्यं प्राप्ता गतिसंज्ञा प्रकृतसूत्रेण <<कृ>>-धातोः योगे विकल्प्यते । पूर्वं प्राप्तः विधिः अत्र विकल्प्यते, अतः इयम् प्राप्तविभाषा अस्ति ।\nअस्य सूत्रस्य अग्रे अनुवृत्तिः\nगतिसंज्ञाप्रकरणस्य अवशिष्टेषु सर्वेषु अपि सूत्रेषु (इत्युक्ते, <<जीविकोपनिषदावौपम्ये>> [[1.4.79]] इति यावत्सु सर्वेषु सूत्रेषु) प्रकृतसूत्रस्य कृञि इति अंशः अनुवर्तते । इत्युक्ते, अग्रे विद्यमानैः सर्वैः अपि सूत्रैः भिन्नानां शब्दानाम् केवलं <<कृ>>-धातोः योगे एव गतिसंज्ञा विधीयते ।\nकिञ्च, <<मध्ये पदे निवचने च>> [[1.4.76]] इति सूत्रपर्यन्तं प्रकृतसूत्रात् विभाषा इत्यपि पदम् अनुवर्तते । अतः एतैः सूत्रैः उक्ताः गतिसंज्ञा विकल्पेन एव भवति । " }, "14073": { "sa": "\"उपाजे\" तथा च \"अन्वाजे\" एते अव्यये कृ-धातोः योगे विकल्पेन गतिसंज्ञकौ भवतः । यथा - उपाजेकृत्य, उपाजे कृत्वा । अन्वाजेकृत्य, अन्वाजे कृत्वा ।", "sd": "अष्टाध्याय्यां <<गतिश्च>> [[1.4.60]] इत्यतः <<जीविकोपनिषदावौपम्ये>> [[1.4.79]] इति सूत्रैः गतिसंज्ञा पाठ्यते । अस्यैव प्रकरणस्य इदं चतुर्दशं सूत्रम् । उपाजे तथा च अन्वाजे (उभयोः अर्थः - दुर्बलाय बलप्रदानम् / दुर्बलाय सहायप्रदानम् / to help or empower a weak person) इत्येतयोः अव्यययोः <<कृ>>-धातोः योगे विकल्पेन गतिसंज्ञा भवति । गतिसंज्ञापक्षे <<कुगतिप्रादयः>> [[2.2.18]] इत्यनेन एतयोः शब्दयोः कृदन्तैः सह उपपदसमासः सम्भवति । यथा - उपाजेकृत्य / अन्वाजेकृत्य गच्छति (= दुर्बलस्य सहायं कृत्वा गच्छति - इत्यर्थः) । गतिसंज्ञा-अभावपक्षे गतिसमासः ल्यबादेशः च न भवत:, अतः उपाजे कृत्वा / अन्वाजे कृत्वा गच्छति इति प्रयोगौ सिद्ध्यतः । \n" }, "14074": { "sa": "साक्षात्प्रभृतिगणस्य शब्दाः (च्वर्थेषु) कृ-धातोः योगे विकल्पेन गतिसंज्ञकाः भवन्ति । यथा - साक्षात्कृत्य, साक्षात् कृत्वा । ", "sd": "अष्टाध्याय्यां <<गतिश्च>> [[1.4.60]] इत्यतः <<जीविकोपनिषदावौपम्ये>> [[1.4.79]] इति सूत्रैः गतिसंज्ञा पाठ्यते । अस्यैव प्रकरणस्य इदं पञ्चदशं सूत्रम् । गणपाठे साक्षात्प्रभृतिः इति यः गणः वर्तते, तस्मिन् गणे विद्यमानाः शब्दाः कृ-धातोः योगे विकल्पेन गतिसंज्ञकाः भवन्ति - इति अस्य सूत्रस्य आशयः । \n\nसाक्षात्प्रभृतिगणः अयम् -\n\nसाक्षात् । मिथ्या । चिन्ता । भद्रा । रोचना । आस्था । अमा । श्रद्धा । प्राजर्या । प्राजरुहा । बीजर्या । बीजरुहा । संसर्या । अर्थे । लवणम् । उष्णम् । शीतम् । उदकम् । आर्द्रम् । अग्नौ । वशे । विहसने । प्रसहने । प्रतपने । प्रादुस् । नमस् । आविस् ॥ इति साक्षात्प्रभृतयः । आकृतिगणोऽयम् ।\n\nसाक्षात्प्रभृतिगणस्य शब्दानां विषये प्रकृतसूत्रेण गतिसंज्ञा कदा भवति अस्मिन् विषये वार्त्तिककारः अधिकं स्पष्टीकुर्वन् ब्रूते - । इत्युक्ते, साक्षात्प्रभृतिगणस्य शब्दाः यदा च्वि-प्रत्ययं विना अपि, च्वि-प्रत्ययस्यैव अर्थे (इत्युक्ते, अभूत-तद्भावस्य निर्देशार्थम्) प्रयुज्यन्ते, तदा एव प्रकृतसूत्रस्य प्रयोगं कृत्वा गतिसंज्ञा विधीयते । यथा, अस्य गणस्य प्रथमः शब्दः साक्षात् इति यदा असाक्षात् साक्षात् करोति अस्मिन् अर्थे <<कृ>>-धातोः योगे प्रयुज्यते, तदा साक्षात्-शब्दस्य विकल्पेन गतिसंज्ञा भवति । गतिसंज्ञापक्षे <<कुगतिप्रादयः>> [[2.2.18]] इत्यनेन अस्य शब्दस्य कृदन्तैः सह उपपदसमासः सम्भवति । यथा - साक्षात्कृत्य गच्छति (= यद् अप्रत्यक्षं तद् प्रत्यक्षं कृत्वा गच्छति - इत्यर्थः) । गतिसंज्ञा-अभावपक्षे गतिसमासः ल्यबादेशः च न भवत:, अतः साक्षात् कृत्वा गच्छति इति प्रयोगः सिद्ध्यति ।\nच्व्यर्थः\n <<अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः>> [[5.4.50]] इत्यनेन सर्वेभ्यः अपि प्रातिपदिकेभ्यः अभूततद्भावस्य निर्देशार्थम् <<च्वि>>-प्रत्ययः प्रयुज्यते । अभूततद्भावः इत्युक्ते \"पूर्वम् नासीत्, इदानीं जातम्\" इति भावः । अयमेव अभूततद्भावः अत्र च्व्यर्थः इति शब्देन निर्दिष्टः अस्ति । एतादृशः अभूततद्भावः साक्षात्प्रभृतिभिः शब्दैः च्वि-प्रत्ययं विना अपि ज्ञापयितुम् शक्यते । यदा एतादृशम् अभूततद्भावस्य ज्ञापनम् च्वि-प्रत्ययं विना एव भवति, तदा एव प्रकृतसूत्रस्य प्रयोगः सम्भवति । यथा, साक्षात् इति शब्दः स्वयम् यदा \"आदौ साक्षात् नासीत्, इदानीम् साक्षात् जातम्\" अस्मिन् अर्थे प्रयुज्यते, तदा तस्य <<कृ>>-धातोः योगे विकल्पेन गतिसंज्ञा भवति, येन साक्षात्कृत्य तथा च साक्षात् कृत्वा इति रूपद्वयं सिद्ध्यति । परन्तु यदि साक्षात् इति शब्दात् अभूततद्भावस्य निर्देशार्थम् <<च्वि>>-प्रत्ययः विधीयते, तर्हि <<ऊर्यादिच्विडाचश्च>> [[1.4.61]] इत्यनेन नित्यमेव गतिसंज्ञा भवति, तत्र प्रकृतसूत्रस्य प्रयोगः न भवति । \n\nसाक्षात्प्रभृतिगणस्य विशेषशब्दाः\nसाक्षात्प्रभृतिगणे विद्यमानानां केषाञ्चन शब्दानां विषये अधिकं विस्तरः इत्थम् -\n\n
  • 1. मकारान्ताः शब्दाः - साक्षात्प्रभृतिगणे लवणम्, उष्णम्, शीतम्, उदकम् तथा च आर्द्रम् - इति पञ्च मकारान्ताः शब्दाः सन्ति । एते सर्वेऽपि शब्दाः वस्तुतः अकारान्ताः (इत्युक्ते, लवण, उष्ण इत्यादिकाः) एव, परन्तु प्रकृतसूत्रस्य कृते एतेषां मान्तत्वं निपात्यते (इत्युक्ते, प्रकृतसूत्रस्य कृते एते मकारेण सह एव प्रयुज्यन्ते) । एते शब्दाः मकारान्तस्वरूपे च्वि-प्रत्ययं विना अपि च्वर्थस्य निर्देशं कुर्वन्ति इति अत्र आशयः वर्तते । अतश्च एतेषां कृ-धातोः योगे विकल्पेन गतिसंज्ञा भवति, येन लवणङ्कृत्य तथा च लवणं कृत्वा इति शब्दौ सिद्ध्यतः । एवमेव, उष्णङ्कृत्य / उष्णं कृत्वा, शीतङ्कृत्य / शीतं कृत्वा, उदकङ्कृत्य / उदकं कृत्वा, आर्द्रङ्कृत्य / आर्द्र कृत्वा इत्यादयः शब्दाः अपि सिद्ध्यति ।\n\n1. लवणम् इत्यादयः शब्दः पदसंज्ञकाः सन्ति, अतः मकारस्य <<मोऽनुस्वारः>> [[8.3.23]] इत्यनेन अनुस्वारादेशे कृते, ततः अनुस्वारस्य परसवर्णः (ङकारः) <<वा पदान्तस्य>> [[8.4.59]] इत्यनेन विकल्पेन एव भवति । अतः अनुस्वारघटिताः लवणंकृत्य, उष्णंकृत्य इत्यादयः शब्दाः अपि साधु एव सन्ति । \n2. लवण इति अकारान्त-प्रातिपदिकात् च्वि-प्रत्यये कृते लवणीकृत्य इति यः शब्दः जायते, तेन अपि अयमेव अर्थः सिद्ध्यति, परन्तु तत्र प्रकृतसूत्रस्य प्रयोगः नैव कृतः वर्तते । \n\n
  • 2. सप्तम्यन्तप्रतिरूपकाः - साक्षात्प्रभृतिगणे अर्थे, अग्नौ, वशे, विहसने प्रसहने तथा च प्रतपने - इति सप्तम्येकवचनसदृशाः निपाताः दत्ताः सन्ति । एते सर्वेऽपि शब्दाः विभक्तिप्रतिरूपकाः निपाताः सन्ति । एतैः अभूततद्भावस्य निर्देशः क्रियते चेत् <<कृ>>-धातोः योगे एतेषां विकल्पेन गतिसंज्ञा भवति, येन अग्नौकृत्य, अग्नौकरणम् इत्यादयः शब्दाः सिद्ध्यन्ति ।\n
  • 3. सकारान्तशब्दाः - साक्षात्प्रभृतिगणे प्रादुस्, नमस्, तथा आविस् एते त्रयः सकारान्ताः शब्दाः सन्ति । एतेभ्यः प्रादुस् तथा आविस् इति शब्दौ <<ऊर्यादिच्विडाचश्च>> [[1.4.61]] इत्यत्र पाठिते ऊर्यादिगणे विद्येते, अतः एतयोः क्रियायोगे नित्यमेव गतिसंज्ञा भवति । परन्तु एतौ शब्दौ यदा अभूततद्भावस्य अपि निर्देशं कुरुतः, तदा <<कृ>>-धातोः योगे पूर्वसूत्रेण नित्यं प्राप्ता गतिसंज्ञा प्रकृतसूत्रेण विकल्प्यतेगतिसंज्ञापक्षे अप्रादुः प्रादुः करोति / अनाविः आवि करोति (अस्पष्टं स्पष्टं करोति इत्येव उभयोः अर्थः) अस्मिन् अर्थे गतिसमासं कृत्वा प्रादुष्कृत्य / आविष्कृत्य इति शब्दौ सिद्ध्यतः । प्रक्रिया इयम् -\n\nप्रादुः / आविः कृत्वा (वृत्तिः)\n--> (प्रादुस् / आविस्) + कृ + क्त्वा [अलौकिकविग्रहः]\n--> (प्रादुस् / आविस्) + कृ + ल्यप् [<<समासेऽनञ्पूर्वे क्त्वो ल्यप्>> [[7.1.37]]]\n--> ( प्रादुस् / आविस्) + कृ + तुक् + य [<<ह्रस्वस्य पिति कृति तुक्>> [[6.1.71]] इति तुगागमः]\n--> ( प्रादुः / आविः)+ कृत्य [<<ससजुषो रुः>> [[8.2.66]], <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]]]\n--> ( प्रादुष् / आविष् )+ कृत्य [<<कुप्वोः ≍क≍पौ च>> [[8.3.37]] इत्यनेन विसर्गस्य विकल्पेन जिह्वामूलीये प्राप्ते; तद्बाधित्वा <<इदुदुपधस्य चाप्रत्ययस्य >> [[8.3.41]] इत्यनेन विसर्गस्य नित्यं षत्वादेशः]\n--> प्रादुष्कृत्य, आविष्कृत्य\n\nअत्र प्रक्रियायाम् अन्तिमसोपाने <<इदुदुपधस्य चाप्रत्ययस्य >> [[8.3.41]] इत्यनेन नित्यं षत्वम् एव भवति इति विशेषः । गतिसंज्ञा-अभावपक्षे तु प्रादुः कृत्वा / प्रादुष्कृत्वा , आविः कृत्वा / आविष्कृत्वा इति प्रयोगौ भवतः । अत्र गतिसंज्ञा-अभावात् गतिसमासः ल्यबादेशः वा न भवति, केवलं शब्दद्वयं एव वर्तते । अस्यां स्थितौ अत्र (वाक्यत्वात्) संहिता अपि वैकल्पिकी एव । संहितापक्षे <<इदुदुपधस्य चाप्रत्ययस्य >> [[8.3.41]] इत्यनेन षत्वे कृते प्रादुष्कृत्वा / आविष्कृत्वा इति षकारघटिते रूपे सिद्ध्यतः, तथा च संहिता-अभावपक्षे विसर्गः एव तिष्ठति, येन प्रादुः कृत्वा / आविः कृत्वा इति द्वे रूपे भवतः । \n\nअत्र निर्दिष्टः नमस् इति तृतीयः सकारान्तशब्दः तु ऊर्यादिगणे नास्ति । अतः अस्य पूर्वम् अप्राप्ता गतिसंज्ञा प्रकृतसूत्रेण च्व्यर्थप्रयोगे कृ-धातोः योगे विकल्पेन विधीयते । गतिसंज्ञापक्षे गतिसमासं कृत्वा नमस्कृत्य इति सकारघटितः शब्दः सिद्ध्यति । प्रक्रिया इयम् -\n\nनमः कृत्वा (वृत्तिः)\n--> नमस् + कृ + क्त्वा [अलौकिकविग्रहः]\n--> नमस् + कृ + ल्यप् [<<समासेऽनञ्पूर्वे क्त्वो ल्यप्>> [[7.1.37]]]\n--> नमस् + कृ + तुक् + य [<<ह्रस्वस्य पिति कृति तुक्>> [[6.1.71]] इति तुगागमः]\n--> नमः + कृत्य [<<ससजुषो रुः>> [[8.2.66]], <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]]]\n--> नमस् + कृत्य [<<नमस्पुरसोर्गत्योः>> [[8.3.40]] इत्यनेन गतिसंज्ञकस्य नमस्-शब्दस्य विसर्गस्य क्-वर्णे परे परे सकारादेशः भवति ]\n--> नमस्कृत्य\n\nअत्र प्रक्रियायाम् अन्तिमसोपाने गतिसंज्ञाविशिष्टं <<नमस्पुरसोर्गत्योः>> [[8.3.40]] इति सूत्रं प्रयुक्तम् अस्ति इति विशेषः । गतिसंज्ञा-अभावपक्षे तु अस्य सूत्रस्य प्रयोगः न भवति, अतः <<कुप्वोः ≍क≍पौ च>> [[8.3.37]] इत्यनेन विसर्गस्य विकल्पेन जिह्वामूलीये कृते, नमः कृत्वा तथा च नम≍कृत्वा इति द्वे शब्दे सिद्ध्यतः । अत्र गतिसंज्ञा नास्ति अतः गतिसमासस्य अभावे <<क्त्वा>>-प्रत्ययस्य <<ल्यप्>>-आदेशः अपि नैव क्रियते । \n\n " }, "14075": { "sa": "उपश्लेषभिन्ने अर्थे \"उरसि\" तथा च \"मनसि\" एतौ शब्दौ कृ-धातोः योगे विकल्पेन गतिसंज्ञकौ भवतः । यथा - उरसिकृत्य, उरसिकृत्वा । मनसिकृत्य, मनसिकृत्वा । ", "sd": "अष्टाध्याय्यां <<गतिश्च>> [[1.4.60]] इत्यतः <<जीविकोपनिषदावौपम्ये>> [[1.4.79]] इति सूत्रैः गतिसंज्ञा पाठ्यते । अस्यैव प्रकरणस्य इदं षोडशं सूत्रम् । उरसि तथा च मनसि इति विभक्ति-प्रतिरूपकौ निपातौ यदा उपश्लेषः (= संयोगः / immediate contact) इति अर्थं विहाय अन्येषु अर्थेषु प्रयुज्येते, तदा एतयोः <<कृ>>-धातोः योगे विकल्पेन गतिसंज्ञा भवति । गतिसंज्ञापक्षे <<कुगतिप्रादयः>> [[2.2.18]] इत्यनेन एतयोः शब्दयोः कृदन्तैः सह उपपदसमासः सम्भवति । यथा - उरसिकृत्य गच्छति (= स्वीकृत्य गच्छति इत्याशयः) । एवमेव मनसिकृत्य गच्छति (= निश्चयं कृत्वा गच्छति इत्यर्थः) । गतिसंज्ञा-अभावपक्षे गतिसमासः ल्यबादेशः च न भवत:, अतः उरसि कृत्वा / मनसि कृत्वा गच्छति इति प्रयोगौ सिद्ध्यतः । यदा एतौ शब्दौ संयोगः अस्मिन् अर्थे प्रयुज्यते तदा तु प्रकृतसूत्रस्य प्रयोगः न भवति। यथा पाणिम् उरसि कृत्वा शेते (हस्तं उरःप्रदेशे संस्थाप्य निद्राति इत्यर्थः) अत्र हस्तस्य उरःप्रदेशेन सह उपश्लेषः / संयोगः अस्ति अतः अत्र प्रकृतसूत्रस्य प्रयोगः न भवति, अतश्च गतिसंज्ञा अपि नैव विधीयते । मनस् इति तु दृश्यमानः अवयवः न, अतः तस्य सन्दर्भेण उपश्लेषः (immediate contact) नैव सम्भवति इति कारणात् मनस्-शब्दस्य अत्र प्रत्युदाहरणानि न विद्यन्ते । \n<hl>अनत्याधानम्</hl> इति शब्दः \nअनत्याधानम् इति शब्दः न अत्याधानम् इति अनत्याधानम् इति नञ्-समासेन सिद्ध्यति । कोशेषु अत्याधानम् इत्यस्य अर्थः \"उपरि स्थापनम्\" इति दीयते । एतं अर्थं विहाय कस्मिंश्चित् अन्यस्मिन् अर्थे उरसि उत मनसि इति शब्दौ यत्र प्रयुज्येते तत्र प्रकृतसूत्रस्य प्रयोगः भवति - इति ज्ञापयितुम् अत्र अनत्याधाने इति शब्दः स्थापितः अस्ति ।\n<hl>उरसि</hl>, <hl>मनसि</hl> इति शब्दौ\nउरसि तथा च मनसि एतौ शब्दौ विभक्तिप्रतिरूपकौ निपातौ स्तः । उरस्-शब्दस्य सप्तम्येकवचनस्य यः अर्थः, तस्मिन्नेव अर्थे उरसि इति निपातसंज्ञकः शब्दः अत्र निर्दिष्टः अस्ति । एवमेव, मनस्-शब्दस्य सप्तम्येकवचनस्य यः अर्थः, तस्मिन्नेव अर्थे मनसि इति निपातसंज्ञकः शब्दः अत्र प्रयुक्तः वर्तते । एतयोः द्वयोः निपातयोः प्रकृतसूत्रेण विकल्पेन गतिसंज्ञा विधीयते । " }, "14076": { "sa": "उपश्लेषभिन्ने अर्थे \"मध्ये\", \"पदे\" तथा च \"निवचने\" एते शब्दाः कृ-धातोः योगे विकल्पेन गतिसंज्ञकाः भवन्ति । यथा - मध्येकृत्य, मध्ये कृत्वा । पदेकृत्य, पदे कृत्वा । निवचनेकृत्य, निवचने कृत्वा । ", "sd": "अष्टाध्याय्यां <<गतिश्च>> [[1.4.60]] इत्यतः <<जीविकोपनिषदावौपम्ये>> [[1.4.79]] इति सूत्रैः गतिसंज्ञा पाठ्यते । अस्यैव प्रकरणस्य इदं सप्तदशं सूत्रम् । मध्ये, पदे, तथा च निवचने इति विभक्ति-प्रतिरूपकाः निपाताः यदा उपश्लेषः (= संयोगः / immediate contact) इति अर्थं विहाय अन्येषु अर्थेषु प्रयुज्यन्ते, तदा एतेषाम् <<कृ>>-धातोः योगे विकल्पेन गतिसंज्ञा भवति । गतिसंज्ञापक्षे <<कुगतिप्रादयः>> [[2.2.18]] इत्यनेन एतयोः शब्दयोः कृदन्तैः सह उपपदसमासः सम्भवति । यथा - मध्येकृत्य गच्छति (= मध्ये संस्थाप्य गच्छति , keeps something in the middle and goes इत्याशयः) । एवमेव पदेकृत्य गच्छति (= पदस्य समीपे / विशिष्टे स्थाने स्थापयित्वा गच्छति इत्यर्थः) तथा च निवचनेकृत्य गच्छति (वाणीं नियम्य गच्छति, किमपि न उक्त्वा गच्छति इत्यर्थः) । गतिसंज्ञा-अभावपक्षे गतिसमासः ल्यबादेशः च न भवत:, अतः मध्ये कृत्वा / पदे कृत्वा / निवचने कृत्वा गच्छति इति प्रयोगाः सिद्ध्यन्ति । परन्तु संयोगः अस्मिन् अर्थे एतेषां प्रयोगः क्रियते चेत् प्रकृतसूत्रस्य प्रयोगः न भवति। यथा शिरः पदे कृत्वा नमति (स्वशिरः अन्यस्य पदे संस्थाप्य प्रणमति इति अर्थः) इत्यत्र शिरसः पदेन सह उपश्लेषः / संयोगः अस्ति अतः अत्र प्रकृतसूत्रस्य प्रयोगः न भवति, अतश्च गतिसंज्ञा अपि नैव विधीयते । \n<hl>अनत्याधानम्</hl> इति शब्दस्य अनुवृत्तिः \nप्रकृतसूत्रे चकारग्रहणसामर्थ्यात् पूर्वसूत्रात् अनत्याधानम् इति शब्दः अनुवर्तते । अयं शब्दः न अत्याधानम् इति अनत्याधानम् इति नञ्-समासेन सिद्ध्यति । कोशेषु अत्याधानम् इत्यस्य अर्थः \"उपरि स्थापनम्\" इति दीयते । एतं अर्थं विहाय कस्मिंश्चित् अन्यस्मिन् अर्थे यत्र मध्ये, पदे उत निवचने इति शब्दाः प्रयुज्यन्ते, तत्र प्रकृतसूत्रस्य प्रयोगः भवति - इति ज्ञापयितुम् अत्र अनत्याधाने इति शब्दः अनुवृत्तिरूपेण स्वीक्रियते । \n<hl>मध्ये</hl>, <hl>पदे</hl> तथा च <hl>निवचने</hl> इति शब्दाः\nमध्ये, पदे तथा च निवचने एते शब्दाः विभक्तिप्रतिरूपकाः निपाताः सन्ति । मध्ये = मध्यभागेपदे = पदस्य समीपेनिवचने = निवचनम् = वचनाभावः - एतेषु अर्थेषु एते निपातसंज्ञकाः शब्दाः अत्र निर्दिष्टाः वर्तन्ते । " }, "14077": { "sa": "विवाहस्य सन्दर्भेण \"हस्ते\" तथा \"पाणौ\" इति शब्दौ कृ-धातोः योगे नित्यं गतिसंज्ञकौ भवतः । हस्तेकृत्य । पाणौकृत्य । ", "sd": "अष्टाध्याय्यां <<गतिश्च>> [[1.4.60]] इत्यतः <<जीविकोपनिषदावौपम्ये>> [[1.4.79]] इति सूत्रैः गतिसंज्ञा पाठ्यते । अस्यैव प्रकरणस्य इदं अष्टादशं सूत्रम् । हस्ते तथा च पाणौ इति शब्दौ यदा उपयमनम् (= विवाहः / विवाहार्थं स्वीकारः) इत्यस्मिन् अर्थे प्रयुज्येते, तदा एतयोः <<कृ>>-धातोः योगे नित्यं गतिसंज्ञा भवति । गतिसंज्ञायां प्राप्तायाम् <<कुगतिप्रादयः>> [[2.2.18]] इत्यनेन एतयोः शब्दयोः कृदन्तैः सह उपपदसमासः सम्भवति । यथा - पाणौकृत्य / हस्तेकृत्य गच्छति (= विवाहं कृत्वा अथवा विवाहार्थं कन्यां स्वीकृत्य गच्छति इत्याशयः) । यत्र विवाहः इति अर्थः नास्ति, तत्र तु प्रकृतसूत्रस्य प्रयोगः न भवति । यथा - काषार्पणं हस्ते कृत्वा गतः (काषार्पणम् हस्ते संस्थाप्य अगच्छत् इत्याशयः) । अत्र विवाहस्य सन्दर्भः नास्ति अतः अत्र हस्ते-शब्दस्य गतिसंज्ञा न भवति । \n<hl>हस्ते</hl> तथा <hl>पाणौ</hl> इति शब्दौ\nप्रकृतसूत्रे प्रयुक्तयोः हस्ते तथा पाणौ इति शब्दयोः विषये वैयाकरणेषु द्वौ पक्षौ स्तः -\n\n
  • 1. हस्ते तथा पाणौ एतौ शब्दौ सप्तमीप्रतिरूपकौ निपातौ, तथा च निपातनेन साधु स्वीक्रियेते । इत्युक्ते, हस्ते इति शब्दः हस्त-शब्दस्य सप्तम्येकवचनस्य अर्थे एव एकारान्तः निपातितः स्वीक्रियते, एवमेव पाणौ इति शब्दः पाणि-शब्दस्य सप्तम्येकवचनस्य अर्थे एव औकारान्तः निपातितः मन्यते । अस्मिन् पक्षे हस्ते कृत्वा तथा च पाणौ कृत्वा इत्यत्र गतिसमासम्, तदनुषङ्गेन क्त्वा-प्रत्ययस्य च ल्यबादेशं कृत्वा हस्तेकृत्य, पाणौकृत्य इति शब्दौ सिद्ध्यतः ।\n\n
  • 2. हस्ते तथा पाणौ एतौ शब्दौ सप्तम्यन्तौ एव स्वीक्रियेते । अस्मिन् पक्षे हस्ते कृत्वा तथा च पाणौ कृत्वा इत्यत्र गतिसमासे कृते, हस्ते तथा पाणौ एतयोः विहितस्य <<ङि>>-प्रत्ययस्य <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इत्यनेन लुकि प्राप्ते, <<तत्पुरुषे कृति बहुलम्>> [[6.3.14]] इत्यनेन <<ङि>>-प्रत्ययस्य अलुक् भवति, येन हस्तेकृत्य, पाणौकृत्य इति शब्दौ सिद्ध्यतः ।\n\n<hl>उपयमनम्</hl> इत्यस्य अर्थः\nप्रकृतसूत्रे प्रयुक्तस्य उपयमनम् इति शब्दस्य अर्थः विवाहः / विवाहार्थं स्वीकारः इति स्वीक्रियते । काशिकाकारः वदति - उपनयनं दारकर्म । दारकर्म इत्यनेन \"भार्याकरणम्\" इति अर्थः अत्र विवक्षितः अस्ति । \nसूत्रे <hl>नित्यम्</hl> इति शब्दस्य ग्रहणम्\nप्रकृतसूत्रे प्रयुक्तः नित्यम् इति शब्दः विभाषा इति शब्दस्य निवृत्त्यर्थम् स्थापितः अस्ति । <<विभाषा कृञि>> [[1.4.72]] इत्यस्मात् सूत्रात् पूर्वसूत्रं यावत् द्वे अपि पदे अनुवृत्तिरूपेण स्वीक्रियेते । परन्तु प्रकृतसूत्राद् आरभ्य विभाषा इति पदं त्यक्त्वा केवलम् कृञि इत्येव अनुवर्त्तनीयम् - इति सूचयितुम् अत्र नित्यम् इति शब्दः स्थापितः अस्ति । \n" }, "14078": { "sa": "\"बन्धनं कृत्वा अनुकूलम्\" इत्यस्मिन् अर्थे प्राध्वम् इत्यस्य कृ-धातोः योगे नित्यं गतिसंज्ञा भवति । ", "sd": "अष्टाध्याय्यां <<गतिश्च>> [[1.4.60]] इत्यतः <<जीविकोपनिषदावौपम्ये>> [[1.4.79]] इति सूत्रैः गतिसंज्ञा पाठ्यते । अस्यैव प्रकरणस्य इदं नवदशं सूत्रम् । प्राध्वम् (अनुकूलम् / favorable इत्यर्थः) इदम् अव्ययम् यदा बन्धनं कृत्वा अनुकूलनम् (= बलेन अनुकूलनम्, to make something favorable forcefully) इत्यस्मिन् अर्थे प्रयुज्यते, तदा अस्य <<कृ>>-धातोः योगे नित्यं गतिसंज्ञा भवति । गतिसंज्ञायां प्राप्तायाम् <<कुगतिप्रादयः>> [[2.2.18]] इत्यनेन अस्य शब्दस्य कृदन्तैः सह उपपदसमासः सम्भवति । यथा - वृषभं प्राध्वङ्कृत्य गच्छति (= बन्धनेन वृषभम् अनुकूलयति, ततः गच्छति इत्याशयः) । यत्र बन्धनम् इति अर्थः नास्ति, तत्र तु प्रकृतसूत्रस्य प्रयोगः न भवति । यथा - शकटं प्राध्वं कृत्वा गतः (शकटम् अभिमुखं कृत्वा गतः - इत्यर्थः) । अत्र बलस्य प्रयोगः नैव कृतः वर्तते अतः अत्र प्राध्वम्-शब्दस्य गतिसंज्ञा न भवति । \n<hl>प्राध्वम्</hl> इति शब्दः\nप्रकृतसूत्रे प्रयुक्तः प्राध्वम् इति शब्दः मकारान्तम् अव्ययम् अस्ति, तथा च अनुकूलम् इत्यस्मिन् अर्थे अस्य प्रयोगः क्रियते । प्राध्व (दूरस्थः मार्गः इत्याशयः) अस्य अकारान्तपुंलिङ्गशब्दस्य द्वितीयैकवचनम् अपि प्राध्वम् इत्येव अस्ति, परन्तु तस्य अत्र ग्रहणं न क्रियते । " }, "14079": { "sa": "जीविका तथा च उपनिषद् एतौ द्वौ शब्दौ उपमायाः सन्दर्भेण प्रयुज्येते चेत् कृ-धातोः योगे एतयोः गतिसंज्ञा भवति । यथा - जीविकाकृत्य, उपनिषत्कृत्य । ", "sd": "अष्टाध्याय्यां <<गतिश्च>> [[1.4.60]] इत्यतः <<जीविकोपनिषदावौपम्ये>> [[1.4.79]] इति सूत्रैः गतिसंज्ञा पाठ्यते । अस्यैव प्रकरणस्य इदं विंशम्, अन्तिमं च सूत्रम् । जीविका तथा च उपनिषद् इति शब्दौ यदा उपमायाः सन्दर्भेण प्रयुज्येते, तदा एतयोः <<कृ>>-धातोः योगे नित्यं गतिसंज्ञा भवति । गतिसंज्ञायां प्राप्तायाम् <<कुगतिप्रादयः>> [[2.2.18]] इत्यनेन एतयोः शब्दयोः कृदन्तैः सह उपपदसमासः सम्भवति । क्रमेण उदाहरणे एते -\n\n1. जीविका - जीविकाकृत्य गच्छतिजीविकाम् इव कृत्वा गच्छति इति अत्र विग्रहः । जीविकाम् इव कृत्वा इत्युक्ते - \"यथा जीविका (profession / activities done for livelyhood) अत्यावश्यकी, तथैव किञ्चन कार्यम् अत्यावश्यकं मत्वा तत् करोति\" इति । Treats some work as if it is as important as livelyhood इत्यर्थः ।\n2. उपनिषद् - उपनिषत्कृत्य गच्छतिउपनिषद् इव कृत्वा गच्छति इति अत्र विग्रहः । उपनिषद् इव कृत्वा इत्युक्ते - \"यथा उपनिषदाम् अध्ययनम् एकान्ते / गोपने भवति, तथैव कार्यं कृत्वा\" - इत्यर्थः । Completes the task in isolation / secretely इत्यर्थः ।\n\nयत्र उपमा न दीयते तत्र प्रकृतसूत्रस्य प्रयोगः न भवति । यथा, जीविकां कृत्वा गच्छति (= जीवनं यापयितुम् यत् कार्यं स्वीकृतम् (professional work) तत् कृत्वा गच्छति इत्यर्थः) अत्र उपमा नास्ति अतः अत्र प्रकृतसूत्रेण गतिसंज्ञा अपि न भवति । \nकौमुद्यां पाठितानि वार्त्तिकानि\nप्रकृतसूत्रम् सिद्धान्तकौमुद्यां तत्पुरुषसमासप्रकरणे पाठितम् अस्ति । अतः तत्पुरुषसमासस्य सन्दर्भेण कौमुदीकारः अत्र कानिचन वार्त्तिकानि अपि पाठयति । वस्तुतः एतानि वार्त्तिकानि काशिकायां भाष्ये च <<कुगतिप्रादयः>> [[2.2.18]] इत्यत्र पाठितानि वर्तन्ते, तथापि कौमुदीकारः प्रसङ्गवशात् तानि अत्रैव पाठयति । एतानि सर्वाणि अपि वार्त्तिकानि प्रादिसमासस्य विधानं कुर्वन्ति । एतेषां विवरणम् एतादृशम् ।\n\n
  • 1. - प्र इत्यादयः उपसर्गाः यदा गत्याद्यर्थकसुबन्तपदेन (यथा गतः इत्यादिः) युक्ताः सन्ति, तदा तेषाम् प्रथमान्तशब्देन सह समासः भवति । । यथा - प्रगतः आचार्यः = प्राचार्यः । प्रगतः पितामहः = प्रपितामहः । दुराचारः पुरुषः = दुष्पुरुषः । अभिगतं मुखम् (The face that is turned to front) = अभिमुखम् ।\n
  • 2. - अति इत्यादयः उपसर्गाः यदा क्रान्ताद्यर्थकसुबन्तपदेन (यथा, क्रान्तः इत्यादि) युक्ताः सन्ति, तदा तेषाम् द्वितीयान्तशब्देन सह समासः भवति । यथा - अतिक्रान्तः मालाम् (The one who has surpassed the garland in excellence ) = अतिमालः । उद्गतः वेलाम् (The one who has crossed the time) = उद्वेलः । अभिगतः मुखम् (The one who is turned towards the face of someone) = अभिमुखम् । प्रतिगतः अक्षम् (The one that has happened in front of eyes) = प्रत्यक्षम् ।\n
  • 3. - अव इत्यादयः उपसर्गाः यदा क्रुष्टाद्यर्थकसुबन्तपदेन (यथा, क्रुष्टः इत्यादि) युक्ताः सन्ति, तदा तेषाम् तृतीयान्तशब्देन सह समासः भवति । यथा - अवकृष्टः कोकिलया (The one who is called by a Cuckoo) = अवकोकिलः । परिणद्धः वीरुधा (The one who is wrapped around by a creeper) = परिवीरुत् । सन्नद्धः वर्मणा (The one who is ready with armour) = संवर्मा । \n
  • 4. - परि इत्यादयः उपसर्गाः यदा ग्लानाद्यर्थकसुबन्तपदेन (यथा, ग्लानः इत्यादि) युक्ताः सन्ति, तदा तेषाम् चतुर्थ्यन्तशब्देन सह समासः भवति । यथा - परिग्लानः अध्ययनाय (The one who is tired for the study) = पर्यध्ययनः । उद्युक्तः सङ्ग्रामाय (The one who is ready for the battle) = उत्सङ्गमः ।\n
  • 5. - निर् इत्यादयः उपसर्गाः यदा क्रान्ताद्यर्थकसुबन्तपदेन (यथा, क्रान्तः इत्यादि) युक्ताः सन्ति, तदा तेषाम् पञ्चम्यन्तेन सह समासः भवति । यथा - निष्क्रान्तः कौशाम्ब्याः (The one who has exited the Kaushambi) = निष्कौशाम्बिः । उत्क्रान्तः कुलात् (dishonored from the family) = उत्कुलः । निर्गतम् अङ्गुलिभ्यः (fallen out of the finger) = निरङ्गुलम् । \n
  • 6. - <<कुगतिप्रादयः>> [[2.2.18]] इत्यनेन गतिसंज्ञकैः सह यः समासः विधीयते, सः कर्मप्रवचनीयसंज्ञकानां विषये न भवति । यथा, वृक्षं प्रति इत्यत्र प्रति इति शब्दस्य <<लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः >> [[1.4.90]] इत्यनेन कर्मप्रवचनीयसंज्ञा भवति, अतः अत्र गतिसमासः नैव सम्भवति ।\n\nप्रकृतसूत्रस्य कौमुदीव्याख्याने प्रादिग्रहणमगत्यर्थम् इति वाक्यम् विद्यते । एतत् वाक्यम् <<कुगतिप्रादयः>> [[2.2.18]] इत्यस्य सन्दर्भेण अस्ति । <<कुगतिप्रादयः>> [[2.2.18]] अस्मिन् सूत्रे विद्यमानः प्रादि इति शब्दः तादृशानां प्रादिसमासानां विधानं करोति ये अगत्यर्थकाः सन्ति - इति अस्य वाक्यस्य आशयः । यथा - शोभनः पुरुषः = सुपुरुषः । अत्र गत्यर्थकधातोः अभावात् इत्यनेन वार्त्तिकेन समासः नैव सम्भवति, अपितु सूत्रे विद्यमानस्य प्रादिः इति अंशस्य आधारेणैव अत्र समासः क्रियते ।" }, "14080": { "sa": "उपसर्गसंज्ञकाः तथा च गतिसंज्ञकाः शब्दाः धातुभ्यः अव्यवहितपूर्वम् विधीयन्ते । यथा - प्रपतति, ऊरीकरोति । ", "sd": "<<उपसर्गाः क्रियायोगे>> [[1.4.59]] इत्यनेन प्रादिगणस्य शब्दाः क्रियायोगे उपसर्गसंज्ञकाः भवन्ति । एवमेव, <<गतिश्च>> [[1.4.60]] इत्यतः <<जीविकोपनिषदावौपम्ये>> [[1.4.79]] इत्येतैः सूत्रैः भिन्नाः शब्दाः क्रियायोगे गतिसंज्ञकाः भवन्ति । एते सर्वे उपसर्गसंज्ञकाः गतिसंज्ञकाः च धातोः अव्यवहितपूर्वम् एव विधीयन्ते, धातोः मध्ये उत अनन्तरम् न - इति अस्य सूत्रस्य आशयः । यथा, प्र इति उपसर्गसंज्ञकशब्दः पतति इति क्रियायाः अव्यवहितपूर्वम् एव प्रयुज्यते, येन प्रपतति इति सिद्ध्यति । एवमेव, शुक्ली इति च्व्यन्तः शब्दः करोति इति क्रियायाः योगे गतिसंज्ञकः भूत्वा क्रियायाः अव्यवहितपूर्वम् एव प्रयुज्यते, येन शुक्लीकरोति इति सिद्ध्यति । \nसूत्रे <hl>धातोः</hl> इति ग्रहणस्य प्रयोजनम्\n<<उपसर्गाः क्रियायोगे>> [[1.4.59]] इत्यत्र विद्यमानः क्रियायोगे इति शब्दः गतिसंज्ञायाः सर्वेषु अपि सूत्रेषु अनुवर्तते । इत्युक्ते, उपसर्गसंज्ञकाः गतिसंज्ञकाः च नित्यं क्रियायाः योगे एव भवन्ति । अतश्च, प्रकृतसूत्रे धातोः इति शब्दं विना अपि, केवलं ते प्राक् इत्येव उच्येत, तर्ह्यपि \"क्रियायाः प्राक्\" इति अर्थः तु सुस्पष्टः एव स्यात् । तथापि अत्र धातुग्रहणं कृतम् अस्ति । तस्य प्रयोजनम् अस्ति - सन्-इत्यादिप्रत्ययानां प्रयोगे अपि उपसर्गाः धातोः प्राक् एव भवेयुः - इति । अस्य अर्थः अयम् - कर्तुं प्रेच्छति इत्यस्मिन् अर्थे इच्छार्थकः <<सन्>>-प्रत्ययः यदा विधीयते, तदा <<सन्>>-प्रत्ययः क्रियावाचकः अपि अस्ति तथा च प्र इति गतिसंज्ञकस्य तेन सह योगः अपि वर्तते; अतश्च प्र-शब्दः <<सन्>>-प्रत्ययात् एव प्राक् अवश्यं हि भवितुम् अर्हति । परन्तु तथा क्रियते चेत् प्रचिकीर्षति इति इष्टं रूपं नैव सिद्ध्येत् । अतः प्रकृतसूत्रे धातोः इति शब्दः स्थापितः अस्ति । अनेन इदम् स्पष्टी भवति, यत् उपसर्गाः केवलं क्रियायाः पूर्वम् एव न अपि तु धातोः पूर्वम् एव भवेयुः - इति । अतः कर्तुं प्रेच्छति इत्यस्मिन् अर्थे इच्छार्थकः <<सन्>>-प्रत्यये कृते अपि, तस्य धातुसंज्ञा-अभावात् प्र-शब्दः तस्मात् पूर्वं न अपितु चिकीर्ष इति धातोः पूर्वम् एव संस्थाप्यते । " }, "14081": { "sa": "वेदेषु उपसर्गाः तथा च गतिसंज्ञकाः धातोः अव्यवहितपरम् अपि प्रयुक्ताः दृश्यन्ते । ", "sd": "<<उपसर्गाः क्रियायोगे>> [[1.4.59]] इत्यनेन प्रादिगणस्य शब्दाः क्रियायोगे उपसर्गसंज्ञकाः भवन्ति । एवमेव, <<गतिश्च>> [[1.4.60]] इत्यतः <<जीविकोपनिषदावौपम्ये>> [[1.4.79]] इत्येतैः सूत्रैः भिन्नाः शब्दाः क्रियायोगे गतिसंज्ञकाः भवन्ति । एते सर्वे उपसर्गसंज्ञकाः गतिसंज्ञकाः च <<ते प्राग्धातोः>> [[1.4.80]] इत्यनेन धातोः अव्यवहितपूर्वम् एव विधीयन्ते । परन्तु वेदेषु तु उपसर्गसंज्ञकाः गतिसंज्ञकाः च धातोः अनन्तरम् अपि प्रयुक्ताः दृश्यन्ते - इति अस्य सूत्रस्य आशयः । धातोः पूर्वं तु एते अवश्यं हि प्रयुक्ताः दृश्यन्ते, परन्तु धातोः अनन्तरम् अपि दृश्यन्ते - इति अत्र अर्थः वर्तते । धातोः परं प्रयुक्तानाम् एतादृशानां गतिसंज्ञकानाम् उपसर्गसंज्ञकानां वा उपस्थितौ किमपि गतिसंज्ञाविशिष्टम् (स्वरकार्यादिकम्) उत उपसर्गसंज्ञाविशिष्टं (णत्वादिकं) कार्यं न हि भवति । केवलम् एतेषां क्रियायोगः अस्ति इति कारणात् एतेषाम् गतिसंज्ञा उपसर्गसंज्ञा वा दीयते । \n\nकाशिकाकारेण अस्य सूत्रस्य द्वे उदाहरणे दत्ते स्तः -\n\n
  • 1. नियाति हस्तिना, निहन्ति मुष्टिना । अत्र नि इति उपसर्गः याति तथा हन्ति इति धात्वोः प्राक् प्रयुक्तः दृश्यते ।\n
  • 2. याति नि हस्तिना, हन्ति नि मुष्टिना । अत्र नि इति उपसर्गः याति तथा हन्ति इति धात्वोः अनन्तरम् प्रयुक्तः दृश्यते ।\n" }, "14082": { "sa": "वेदेषु उपसर्गाः तथा च गतिसंज्ञकाः धातोः व्यवहितपूर्वं, व्यवहितपरं वा अपि प्रयुक्ताः दृश्यन्ते । ", "sd": "<<उपसर्गाः क्रियायोगे>> [[1.4.59]] इत्यनेन प्रादिगणस्य शब्दाः क्रियायोगे उपसर्गसंज्ञकाः भवन्ति । एवमेव, <<गतिश्च>> [[1.4.60]] इत्यतः <<जीविकोपनिषदावौपम्ये>> [[1.4.79]] इत्येतैः सूत्रैः भिन्नाः शब्दाः क्रियायोगे गतिसंज्ञकाः भवन्ति । एते सर्वे उपसर्गसंज्ञकाः गतिसंज्ञकाः च शब्दाः यद्यपि क्रियायोगे एव विधीयन्ते, तथापि ते वेदेषु धातोः पूर्वं, धातोः धातोः अनन्तरं वा व्यवहितरूपेण अपि प्रयुक्ताः दृश्यन्ते - इति अस्य सूत्रस्य आशयः । व्यवहितरूपेण इत्युक्ते उपसर्गधात्वोर्मध्ये, अथवा गतिधात्वोर्मध्ये अन्ये केचन शब्दाः व्यवधानरूपेण अपि भवितुम् अर्हन्ति - इति । \n\nअस्य सूत्रस्य व्याख्यानेषु दत्तानि उदाहरणानि एतानि - \n\n
  • 1. ऋग्वेदे 3.45.1 - आ म॒न्द्रैरि॑न्द्र॒ हरि॑भिर्या॒हि म॒यूर॑रोमभिः । अत्र इति उपसर्गः याहि इति क्रियायाः योगे विधीयते, परन्तु सः अव्यवहितपूर्वं नास्ति अपितु तयोर्मध्ये मन्द्रैरिनद्रहिरिभिः इति व्यवधानं वर्तते । अनेन प्रकारेण अत्र उपसर्गः धातोः व्यवहितपूर्वं प्रयुक्तः अस्ति ।\n
  • 2. ऋग्वेदे 6.16.10 - आ याहि । अत्र इति उपसर्गः याहि इत्यस्मात् अव्यवहितपूर्वं प्रयुक्तः अस्ति । \n
  • 2. ऋग्वेदे 7.32.4 - हरि॑भ्यां या॒ह्योक॒ आ । अत्र याहि तथा एतयोर्मध्ये ओक इति शब्दस्य व्यवधानं विद्यते । अनेन प्रकारेण अत्र इति उपसर्गः याहि इत्यस्मात् व्यवहितपरं प्रयुक्तः अस्ति । \n" }, "14083": { "sa": "अधिकारसूत्रं संज्ञासूत्रं च इदम् । इतः परम् <<अधिरीश्वरे>> [[1.4.97]] इति सूत्रपर्यन्तं कर्मप्रवचनीयसंज्ञकाः पाठ्यन्ते ।", "sd": "इदम् संज्ञासूत्रम् अस्ति । अनेन सूत्रेण कर्मप्रवचनीयः इति व्याकरणविशिष्टा संज्ञा दीयते । किञ्च, इदम् अधिकारसूत्रम् अपि अस्ति । अस्य सूत्रस्य अधिकारः <<अधिरीश्वरे>> [[1.4.97]] इति पर्यन्तं प्रचलति । अस्मिन् अधिकारे विद्यमानैः सर्वैः अपि सूत्रैः आहत्य एकादशानां शब्दानां कर्मप्रवचनीयसंज्ञा विधीयते । तदित्थम् -\n\nकर्मप्रवचनीयसंज्ञकशब्दाः\n\n
  • 1. अनु - <<अनुर्लक्षणे>> [[1.4.84]] , <<तृतीयार्थे>> [[1.4.85]], <<हीने>> [[1.4.86]] तथा च <<लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः>> [[1.4.90]] \n
  • 2. उप - <<उपोऽधिके च>> [[1.4.87]]\n
  • 3. अप - <<अपपरि वर्जने>> [[1.4.88]]\n
  • 4. परि - <<अपपरि वर्जने>> [[1.4.88]], <<लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः>> [[1.4.90]], <<अधिपरी अनर्थकौ>> [[1.4.93]]\n
  • 5. आङ् - <<आङ् मर्यादावचने>> [[1.4.89]]\n
  • 6. प्रति - <<लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः>> [[1.4.90]], <<प्रति प्रतिनिधिप्रतिदानयोः>> [[1.4.92]]\n
  • 7. अभि - <<अभिरभागे>> [[1.4.91]]\n
  • 8. अधि - <<अधिपरी अनर्थकौ>> [[1.4.93]]\n
  • 9. सु - <<सुः पूजायाम्>> [[1.4.94]]\n
  • 10. अति - <<अतिरतिक्रमणे च>> [[1.4.95]]\n
  • 11. अपि - <<अपिः पदार्थसम्भावनान्ववसर्गगर्हासमुच्चयेषु>> [[1.4.96]]\n\nप्रादयः, उपसर्गाः, गतिसंज्ञकाः, तथा च कर्मप्रवचनीयाः\nप्रादिगणे विद्यमानाः एकादश शब्दाः विशिष्टेषु सन्दर्भेषु उपरि निर्दिष्टैः सूत्रैः कर्मप्रवचनीयसंज्ञकाः भवन्ति । एते कर्मप्रवचनीयसंज्ञकशब्दाः बहुषु स्थलेषु क्रियायोगं विना एव प्रयुक्ताः दृश्यन्ते । परन्तु यत्र ते क्रियया सह प्रयुक्ताः सन्ति तत्रापि तेषाम् न तु उपसर्गसंज्ञा भवति, न च गतिसंज्ञा विधीयते, यतः इयं कर्मप्रवचनीयसंज्ञा एकसंज्ञाधिकारात् उपसर्गसंज्ञां गतिसंज्ञां च बाधते । अतश्च कर्मप्रवचनीयसंज्ञकशब्दानां योगे उपसर्गविशिष्टानि, गतिसंज्ञाविशिष्टानि वा कार्याणि अपि न भवन्ति । \nयद्यपि कर्मप्रवचनीयसंज्ञकाः न हि उपसर्गसंज्ञकाः, न च गतिसंज्ञकाः सन्ति, तथापि ते निपातसंज्ञकाः अवश्यमेव सन्ति यतः तेषां विधानम् <<प्राग्रीश्वरान्निपाताः>> [[1.4.56]] अस्मिन् अधिकारे एव कृतम् अस्ति । \nकर्मप्रवचनीयसंज्ञायाः प्रयोजनम्\nअष्टाध्याय्यां कर्मप्रवचनीयसंज्ञायाः द्वे प्रयोजने स्तः -\n\n
  • 1. विशिष्टविभक्तेः विधानम् - <<कर्मप्रवचनीययुक्ते द्वितीया>> [[2.3.8]], <<यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी>> [[2.3.9]], <<पञ्चम्यपाङ्परिभिः>> [[2.3.10]] तथा च <<प्रतिनिधिप्रतिदाने च यस्मात्>> [[2.3.11]] इत्येतैः चतुर्भिः सूत्रैः कर्मप्रवचनीयसंज्ञकशब्दानां योगे विशिष्टा विभक्तिः विधीयते । यथा, अप त्रिगर्तेभ्यो वृष्टो देवः अस्मिन् वाक्ये अप इति कर्मप्रवचनीयसंज्ञकशब्दस्य उपस्थितौ त्रिगर्त इति शब्दात् पञ्चमीविभक्तिः प्रयुक्ता अस्ति । \n
  • 1. उपसर्गसंज्ञाविशिष्टस्य / गतिसंज्ञाविशिष्टस्य कार्यस्य बाधः - कुत्रचित् कर्मप्रवचनीयसंज्ञा उपसर्गसंज्ञाविशिष्टस्य अथवा गतिसंज्ञाविशिष्टस्य कार्यस्य बाधः भवेत् इति हेतुना अपि दत्ता अस्ति । यथा, देवदत्तेन सु सिक्तम् इत्यत्र सु इत्यस्य कर्मप्रवचनीयसंज्ञा उपसर्गसंज्ञां बाधते । यदि अत्र सु इत्यस्य उपसर्गसंज्ञा अभविष्यत्, तर्हि <<उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम्>> [[8.3.65]] इत्यनेन सिक्त-शब्दस्य सकारस्य अनिष्टं षत्वम् अभविष्यत् । तत् तथा मा भूत् इति हेतुना अत्र उपसर्गसंज्ञायाः बाधः इष्यते, तदर्थं च अत्र सु इत्यस्य कर्मप्रवचनीयसंज्ञा विधीयते । \n\n<hl>कर्मप्रवचनीयः</hl> इति अन्वर्थसंज्ञा\nभाष्यकारेण प्रकृतसूत्रस्य भाष्ये कर्मप्रवचनीयः इति शब्दस्य व्युत्पत्तेः विषये, तथा च अर्थस्य विषये अपि चर्चां कृत्वा कर्मप्रवचनीयसंज्ञा अन्वर्थसंज्ञा अस्ति इति विधानं कृतम् वर्तते । अस्मिन् सन्दर्भे तेन कर्मप्रवचनीयः इत्यत्र विद्यमानस्य कर्म इति शब्दस्य अर्थः क्रिया इति स्वीकृतः अस्ति । एवमेव, प्रवचनीय इत्यत्र भूते कर्तरि <<अनीयर्>>-प्रत्ययं मत्वा अस्य शब्दस्य उक्तवन्तः इति अर्थः भाष्ये दत्तः अस्ति । अनेन प्रकारेण कर्मप्रवचनीयः इति शब्देन क्रियां उक्तवन्तः इति अर्थः सिद्ध्यति । इत्युक्ते, ते शब्दाः ये इदानीं क्रियां न दर्शयन्ति परन्तु क्रियावाचकशब्दस्य स्थाने स्थापिताः वर्तन्ते (स्वस्य पूर्वस्वरूपे क्रियाम् उक्तवन्तः इत्याशयः) ते कर्मप्रवचनीयशब्दाः - इति अर्थः अत्र सिद्ध्यति । यथा, वृक्षम् प्रति विद्योतते विद्युत् अस्मिन् वाक्ये प्रति इति कर्मप्रवचनीयसंज्ञकशब्दः अभिलक्ष्य इति क्रियायाः स्थाने प्रयुक्तः अस्ति (वृक्षम् अभिलक्ष्य विद्युत् विद्योतते इति अर्थः), अत्र अत्र प्रति इति आदौ क्रियाम् उक्तवान् इति मत्वा तस्य कर्मप्रवचनीयसंज्ञा सिद्धा भवति । अनेन प्रकारेण भिन्नाः कर्मप्रवचनीयसंज्ञकशब्दाः एतादृशं क्रियायाः स्थाने प्रयुक्ताः दृश्यन्ते । अस्मिन्नेव विषये वाक्यपदीये द्वितीये काण्डे (वाक्यकाण्डे) 197 तः 204 इत्येतेषु श्लोकेषु भर्तृहरिणा इतोऽपि विस्तरेण विवेचनं कृतम् अस्ति । जिज्ञासवः छात्राः तत् अवश्यं द्रष्टुम् अर्हन्ति । \nयद्यपि भाष्यकारेण \"कर्म प्रोक्तवन्तः ते कर्मप्रवचनीया:\" इति अन्वर्थः दत्तः अस्ति, तथापि अयम् अर्थः केवलम् उपलक्षणस्वरूपेण (representative / indicatory meaning) एव स्वीकर्तव्यः । न हि सर्वेऽपि एकादश कर्मप्रवचनीयाः सर्वेषु उदाहरणेषु \"कर्म प्रोक्तवन्तः\" इति स्वरूपेण व्यवह्रियन्ते । यथा, सु सिक्तं भवता इत्यस्मिन् वाक्ये विद्यमानः सु इति कर्मप्रवचनीयसंज्ञकः शब्दः न हि कस्याः अपि क्रियायाः स्थाने प्रयुक्तः अस्ति ।" }, "14084": { "sa": "कारणं द्योतयितुम् प्रयुक्तः \"अनु\" इति शब्दः कर्मप्रवचनीयसंज्ञकः भवति । यथा - जपम् अनु प्रावर्षत् । ", "sd": "<<कर्मप्रवचनीयाः>> [[1.4.83]] अस्मिन् अधिकारे आहत्य पञ्चदशभिः सूत्रैः कर्मप्रवचनीयसंज्ञायाः विधानं क्रियते । तेषु इदं प्रथमं सूत्रम् । अनु इत्यस्य शब्दस्य अनेन सूत्रेण कर्मप्रवचनीयसंज्ञा भवति । अनु इति शब्दः यदा कारणम् (लक्षणम्) इत्यस्य निर्देशार्थम् प्रयुज्यते, तदा सः कर्मप्रवचनीयसंज्ञः भवति - इति प्रकृतसूत्रस्य आशयः । किञ्च, अस्य अनु इति कर्मप्रवचनीयस्य प्रयोगे कारणवाचकशब्दस्य <<कर्मप्रवचनीययुक्ते द्वितीया>> [[2.3.8]] इत्यनेन द्वितीयाविभक्तिः भवति । उदाहरणानि एतादृशानि - \n\n1. देवः जपम् अनु प्रावर्षत् । जपस्य कारणात् देवः प्रसन्नः जातः, ततश्च सः वर्षाम् अकरोत् - इति अर्थः । अत्र जपम् इत्यस्य कारणत्वम् / लक्षणत्वम् अनु इति शब्देन निर्दिश्यते, अतः अत्र अनु इति शब्दस्य कर्मप्रवचनीयसंज्ञा भवति । अपि च, कारणवाचकस्य जपपदार्थस्य निर्देशार्थम् अत्र <<कर्मप्रवचनीययुक्ते द्वितीया>> [[2.3.8]] इत्यनेन द्वितीयाविभक्तिः कृता अस्ति । \n2. देव: शाकल्यस्य संहिताम् अनु प्रावर्षत् । शाकल्यस्य यज्ञस्य कारणात् वर्षा सञ्जाता - इति अर्थः । संहिताम् इति द्वितीया <<कर्मप्रवचनीययुक्ते द्वितीया>> [[2.3.8]] इत्यनेन सिद्ध्यति । \n3. देव: अनडुद्यज्ञम् अन्वसिञ्चत् । \"अनडुद्\" इत्याख्यस्य यज्ञस्य कारणात् देवः अवर्षत् - इति अर्थः । यज्ञम् इत्यत्र <<कर्मप्रवचनीययुक्ते द्वितीया>> [[2.3.8]] इत्यनेन द्वितीया विधीयते । \n4. देवाः अगस्त्यम् अन्वसिञ्चन् प्रजाः । \"अगस्यम्\" इत्याख्यस्य नक्षत्रस्य कारणात् देवाः महतीं वर्षां अकुर्वन् - इति अर्थः । अत्र प्रजाः इति कर्मपदम् अस्ति, अतः तत्र <<कर्मणि द्वितीया>> [[2.3.2]] इति द्वितीया विधीयते । कर्मप्रवचनीयद्वितीया तु अगस्त्यम् इति कारणवाचकशब्दस्य निर्देशार्थम् प्रयुक्ता अस्ति । \n\n<<लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः>> [[1.4.90]] इत्यनेनैव सिद्धे पृथक् सूत्रविधानं द्वितीयाविधानार्थम्\nकर्मप्रवचनीयसंज्ञायाः प्रकरणे एव अग्रे <<लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः>> [[1.4.90]] इति किञ्चित् सूत्रं विद्यते । अनेन सूत्रेण अपि लक्षणम् द्योतयितुम् एव अनु इति शब्दस्य कर्मप्रवचनीयसंज्ञा उक्ता अस्ति; परन्तु अस्मिन् सूत्रे लक्षणम् इति शब्दस्य अर्थः चिह्नम् इति वर्तते, न हि कारणम् इति । वस्तुतः, यदि <<लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः>> [[1.4.90]] इत्यत्र लक्षणशब्दस्य चिह्नम् तथा च कारणम् एतयोः द्वयोः अपि अर्थयोः ग्रहणं क्रियते, तर्हि - अनु इत्यस्य उभयोः अपि अर्थयोः कर्मप्रवचनीयसंज्ञा भवति - इति अर्थः तत्रैव सिद्ध्येत्, तथा च अस्यां स्थितौ <<अनुर्लक्षणे>> [[1.4.84]] इति प्रकृतसूत्रम् नैव आवश्यकम् स्यात् । परन्तु पाणिनिना एतादृशं न कृत्वा प्रकृतसूत्रम् पृथक् रूपेण एव स्थापितम् दृश्यते । अमुम् विषयम् स्पष्टीकुर्वन् प्रकृतसूत्रे काशिकाकारः ब्रूते - किमर्थम् इदम् उच्यते, यावता लक्षणेत्थंभूताख्यान... इति सिद्धा एव अनोः कर्मप्रवचनीयसंज्ञा ? हेत्वर्थं तु वचनं; हेतुतृतीयां बाधित्वा द्वितीयैव यथा स्यात् - इति । काशिकाकारस्य कथनस्य आशयः अयम् - कर्मप्रवचनीयशब्दानां योगे <<कर्मप्रवचनीययुक्ते द्वितीया>> [[2.3.8]] इत्यनेन द्वितीया विभक्तिः भवति । अपि च, कारणस्य निर्देशार्थम् <<हेतौ>> [[2.3.23]] इति सूत्रेण तृतीया विभक्तिः भवति । अस्यां स्थितौ, यदि <<लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः>> [[1.4.90]] इत्यत्रैव द्वयोः अपि लक्षणार्थयोः ग्रहणं स्यात्, तर्हि कारणम् अस्मिन् अर्थे <<कर्मप्रवचनीययुक्ते द्वितीया>> [[2.3.8]] इत्यनेन द्वितीया तथा च <<हेतौ>> [[2.3.23]] इति सूत्रेण तृतीया विभक्तिः युगवत् भवेताम् । एतादृशे विप्रतिषेधे जाते, कारणस्य निर्देशार्थम् अनु इत्यस्य उपस्थितौ अपि, परत्वात् तृतीया एव अभविष्यत् । परन्तु इष्यते तु द्वितीया । अतः अत्र कारणम् अस्मिन् अर्थे अनु-शब्दस्य कर्मप्रवचनीयसंज्ञा पृथक् रूपेण उक्ता वर्तते । अस्य पृथक्सूत्रस्य विधानसामर्थ्यात् कारणम् अस्मिन् अर्थे अनु-शब्दस्य-प्रयोगे <<हेतौ>> [[2.3.23]] इति परसूत्रम् बाधित्वा <<कर्मप्रवचनीययुक्ते द्वितीया>> [[2.3.8]] इत्यनेन द्वितीया एव भवति,, अतश्च जपम् अनु प्रावर्षत् इति प्रयोगः अपि सिद्ध्यति । \nप्रकृतसूत्रेण उक्तायाः कर्मप्रवचनीयसंज्ञायाः प्रयोजनम्\nप्रकृतसूत्रेण उक्तायाः कर्मप्रवचनीयसंज्ञायाः द्वे प्रयोजने स्तः - \n\n
  • 1. द्वितीयाविभक्तिविधानम् - कारणवाचकशब्दस्य निर्देशम् <<कर्मप्रवचनीययुक्ते द्वितीया>> [[2.3.8]] इत्यनेन द्वितीयया कर्तुम् प्रकृतसूत्रेण अनु इत्यस्य कर्मप्रवचनीयसंज्ञा विधीयते । अतएव जपम् अनु प्रावर्षत् इत्यत्र जपम् इत्यत्र द्वितीयाविभक्तिः प्रयुक्ता अस्ति । \n
  • 2. उपसर्गसंज्ञाबाधनम् - प्रकृतसूत्रेण विहिता कर्मप्रवचनीयसंज्ञा एकसंज्ञाधिकारात् उपसर्गसंज्ञां बाधते । अतएव, देव: यज्ञम् अन्वसिञ्चत् अस्मिन् वाक्ये अन्वसिञ्चत् इत्यत्र <<सिञ्च्>>-धातोः सकारस्य षत्वं न भवति । यदि अत्र अनु-शब्दस्य उपसर्गसंज्ञा अभविष्यत्, तर्हि <<उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम्>> [[8.3.65]] इत्यनेन उपसर्गात् परस्य <<सिञ्च्>>-धातोः सकारस्य अनिष्टं षत्वम् अभविष्यत् । तत् तथा मा भूत् इति हेतुना प्रकृतसूत्रेण अनु इत्यस्य कर्मप्रवचनीयसंज्ञा उक्ता अस्ति, या एकसंज्ञाधिकारात् उपसर्गसंज्ञां बाधते । उपसर्गसंज्ञायाः अभावे <<उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम्>> [[8.3.65]] इत्यस्य प्रसक्तिः नैव सम्भवति, अतएव अनिष्टं षत्वम् अपि निवार्यते ।\n\n" }, "14085": { "sa": "तृतीयाविभक्तेः अर्थम् (इत्युक्ते \"सह / योगे\" इति अर्थम्) द्योतयितुम् प्रयुक्तः \"अनु\" इति शब्दः कर्मप्रवचनीयसंज्ञकः भवति । यथा - नदीम् अन्ववसिता सेना । ", "sd": "<<कर्मप्रवचनीयाः>> [[1.4.83]] अस्मिन् अधिकारे आहत्य पञ्चदशभिः सूत्रैः कर्मप्रवचनीयसंज्ञायाः विधानं क्रियते । तेषु इदं द्वितीयं सूत्रम् । अनु इत्यस्य शब्दस्य अनेन सूत्रेण कर्मप्रवचनीयसंज्ञा भवति । अनु इति शब्दः यदा तृतीयाविभक्तेः अर्थं द्योतयितुम् प्रयुज्यते, तदा सः कर्मप्रवचनीयसंज्ञः भवति - इति प्रकृतसूत्रस्य आशयः । तृतीयाविभक्तेः अर्थः इत्यनेन प्रकृतसूत्रस्य सन्दर्भे सह / सम्बन्धेन / योगे इति अर्थः स्वीक्रियते । अस्मिन् अर्थे विद्यमानस्य अनु इत्यस्य कर्मप्रवचनीयसंज्ञा भवति । तथा च येन पदार्थेन सह योगः विद्यते, तस्य निर्देशार्थम् <<कर्मप्रवचनीययुक्ते द्वितीया>> [[2.3.8]] इत्यनेन द्वितीयाविभक्तिः उपयुज्यते । अस्य द्वे उदाहरणे एतादृशे -\n\n
  • 1. पर्वतम् अन्ववसिता सेना । सेना पर्वतस्य साहाय्येन अतिष्ठत् - इति अर्थः । अत्र अनु इति शब्देन सेनायाः पर्वतेन सह योगः निर्दिष्टः अस्ति । अतः अत्र अनु इत्यस्य कर्मप्रवचनीयसंज्ञा भवति । अपि च, एतादृशस्य कर्मप्रवचनीयस्य योगे पर्वतपदार्थस्य <<कर्मप्रवचनीययुक्ते द्वितीया>> [[2.3.8]] इत्यनेन द्वितीयाविभक्त्या निर्देशः भवति ।\n
  • 2. नदीम् अन्ववसिता सेना । सेना नद्याः किनारे अतिष्ठत्- इति अर्थः । \n\n\nअत्र द्वयोः अपि उदाहरणयोः अन्ववसिता इत्यस्य विग्रहः अनु + अव + षिञ् (बन्धने) + क्त इति अस्ति । अत्र अव इति उपसर्गसंज्ञकः अस्ति । अनु इति तु कर्मप्रवचनीयसंज्ञकः अस्ति । \nकर्मप्रवचनीयसंज्ञकः शब्दः तथा च तस्मात् अग्रे विद्यमानः क्रियावाचकः शब्दः - एतयोर्मध्ये संहिता वैकल्पिकी एव अस्ति । अतः पर्वतम् अनु अवसिता सेना इति लिख्यते चेदपि नैव दोषाय । \nप्रकृतसूत्रेण उक्तायाः कर्मप्रवचनीयसंज्ञायाः प्रयोजनम्\nप्रकृतसूत्रेण पाठितायाः कर्मप्रवचनीयसंज्ञायाः प्रयोजनम् अस्ति <<कर्मप्रवचनीययुक्ते द्वितीया>> [[2.3.8]] इत्यनेन द्वितीयाविभक्तिविधानम् इति । अनु इति कर्मप्रवचनीयस्य प्रयोगे \"यस्य योगे / यस्य सम्बन्धेन\" तृतीयार्थः विधीयते, तस्य <<कर्मप्रवचनीययुक्ते द्वितीया>> [[2.3.8]] इत्यनेन द्वितीयाविभक्तिः भवति । अतएव उपरि उदाहरणयोः - पर्वतम् तथा च नदीम् इत्येतौ शब्दौ द्वितीयाविभक्तौ प्रयुक्तौ स्तः । इयं द्वितीया विभक्तिः <<सहयुक्तेऽप्रधाने>> [[2.3.19]] इत्यनेन प्राप्तां तृतीयाविभक्तिं सूत्रविधानसामर्थ्यात् बाधते । इत्युक्ते, यदि पर्वतम् अन्ववसिता सेना इत्यत्र <<सहयुक्तेऽप्रधाने>> [[2.3.19]] इत्यनेन परत्वात् तृतीया एव विधीयेत, तर्हि <<तृतीयार्थे>> [[1.4.86]] इत्यनेन विहिता कर्मप्रवचनीयसंज्ञा निष्प्रयोजना स्यात् । अतः <<तृतीयार्थे>> [[1.4.86]] इति सूत्रस्य विधानम् एव इदं स्पष्टी करोति यत् प्रकृतसूत्रस्य उदाहरणेषु द्वितीया विभक्तिः एव प्रयोक्तव्या - इति । " }, "14086": { "sa": "पदार्थानां तुलनायाम् हीनतायाः निर्देशार्थम् \"अनु\" इति शब्दः कर्मप्रवचनीयसंज्ञः भवति । यथा - अनु हरिं सुराः । ", "sd": "<<कर्मप्रवचनीयाः>> [[1.4.83]] अस्मिन् अधिकारे आहत्य पञ्चदशभिः सूत्रैः कर्मप्रवचनीयसंज्ञायाः विधानं क्रियते । तेषु इदं तृतीयं सूत्रम् । अनु इत्यस्य शब्दस्य अनेन सूत्रेण कर्मप्रवचनीयसंज्ञा भवति । द्वयोः उत अधिकानां पदार्थानां यत्र तुलना क्रियते, तत्र न्यूनतायाः निर्देशार्थम् यदा अनु इति शब्दः प्रयुज्यते, तदा सः कर्मप्रवचनीयसंज्ञः भवति - इति प्रकृतसूत्रस्य आशयः । अपि च, एतादृशस्य अनु शब्दस्य प्रयोगेण यदा वाक्यं सिद्ध्यन्ति, तदा यस्य उत्कृष्टता दर्श्यते, तस्य <<कर्मप्रवचनीययुक्ते द्वितीया>> [[2.3.8]] इत्यनेन द्वितीया विभक्तिः भवति । अस्य उदाहरणानि एतानि -\n\n1. अनु अर्जुनं योद्धारः । सर्वेऽपि योद्धारः अर्जुनस्य अपेक्षया हीनाः / न्यूनाः सन्ति इति आशयः । अत्र अनु इति शब्देन अर्जुनस्य अपेक्षया अन्येषां योद्धॄणाम् न्यूनता प्रदर्श्यते । \n2. अनु शाकटायनम् वैयाकरणाः । सर्वे अपि वैयाकरणाः शाकटायनस्य अपेक्षया हीनाः सन्ति इति आशयः ।\n3. अनु हरिं सुराः । सर्वे अपि देवाः विष्णोः अपेक्षया हीनाः सन्ति इति आशयः ।\n\n अत्र हीनः इति शब्दः \"गुणरहितः / संस्काररहितः\" अस्मिन् अर्थ न स्वीकर्तव्यः । हीनः इत्युक्ते सामर्थ्येन किञ्चित् न्यूनः- इत्येव अत्र आशयः अस्ति । \nप्रकृतसूत्रेण उक्तायाः कर्मप्रवचनीयसंज्ञायाः प्रयोजनम्\nप्रकृतसूत्रेण पाठितायाः कर्मप्रवचनीयसंज्ञायाः प्रयोजनम् अस्ति <<कर्मप्रवचनीययुक्ते द्वितीया>> [[2.3.8]] इत्यनेन द्वितीयाविभक्तिविधानम् इति । अनु इति कर्मप्रवचनीयस्य प्रयोगे यस्य उत्कृष्टता सूच्यते (इत्युक्ते, यस्य अपेक्षया अन्येषां हीनत्वम् उच्यते), तस्य <<कर्मप्रवचनीययुक्ते द्वितीया>> [[2.3.8]] इत्यनेन द्वितीयाविभक्तिः भवति । अतएव उपरि उदाहरणयोः - अर्जुनम्, शाकटायनम्, हरिम् इत्येताः शब्दाः द्वितीयाविभक्तौ प्रयुक्ताः सन्ति ।" }, "14087": { "sa": "अधिकतायाः तथा च हीनतायाः निर्देशार्थम् प्रयुक्तः \"उप\" इति शब्दः कर्मप्रवचनीयसंज्ञकः भवति । यथा - उप परार्धं हरेः गुणाः, उप हरिं सुराः । ", "sd": "<<कर्मप्रवचनीयाः>> [[1.4.83]] अस्मिन् अधिकारे आहत्य पञ्चदशभिः सूत्रैः कर्मप्रवचनीयसंज्ञायाः विधानं क्रियते । तेषु इदं चतुर्थं सूत्रम् । उप इत्यस्य शब्दस्य अनेन सूत्रेण द्वयोः सन्दर्भयोः कर्मप्रवचनीयसंज्ञा भवति । क्रमेण विवरणम् एतादृशम् -\n
    \n1. आधिक्यस्य निर्देशार्थम् उप इत्यस्य कर्मप्रवचनीयसंज्ञा \nयत्र द्वयोः पदार्थयोः संख्यायाः / परिमाणस्य तुलना क्रियते, तत्र आधिक्यस्य निर्देशार्थम् प्रयुक्तस्य उप इति शब्दस्य कर्मप्रवचनीयसंज्ञा भवति । एतादृश्यां कर्मप्रवचनीयसंज्ञायां कृतायाम्, यः पदार्थः संख्यया / परिमाणेन न्यूनः, तस्य निर्देशार्थम् <<यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी>> [[2.3.9]] इत्यनेन सप्तमीविभक्तिः भवति । यथा -\n\n1. उप त्रिशते वर्षस्य दिनानि । वर्षस्य दिवसाः 300 इत्यस्य तुलनया अधिकाः सन्ति इति आशयः । अत्र उप इति कर्मप्रवचनीयेन दिनानाम् आधिक्यं निर्दिश्यते । अत्र तुलनायाम् त्रिशतम् इति पदार्थः न्यूनतां दर्शयितुम् प्रयुज्यते (इत्युक्ते, qt>त्रिशतम् इत्यस्य अपेक्षया दिनानि अधिकानि सन्ति इत्याशयः), अतः अत्र त्रिशत इत्यस्य सप्तम्या निर्देशः भवति । \n2. उप खार्यां द्रोणः द्रोणः इति परिमाणम् खारी इति परिमाणस्य अपेक्षया अधिकम् अस्ति - इत्यर्थः । वस्तुतस्तु सामान्यरूपेण 16 द्रोणः = 1 खारी इति स्वीकृतम् अस्ति । इत्युक्ते, खारी इति परिमाणम् एव अधिकम् । परन्तु काशिकाकारस्य समये प्रायेण एतयोः अर्थौ भिन्नौ / विरुद्धौ स्याताम्, अतः काशिकाकारेण इदम् उदाहरणं दत्तं स्यात् ।\n3. उप निष्के कार्षापणम् । कार्षापणम् इति नाणकस्य मूल्यम् निष्कस्य अपेक्षया अधिकम् अस्ति - इत्यर्थः ।\n4. उप परार्धे हरेः गुणाः । विष्णोः गुणाः परार्धस्य (1018 इत्यस्य) अपेक्षया अधिकाः सन्ति - इत्यर्थः ।\n\nएतेषु सर्वेषु अपि उदाहरणेषु उप इति शब्दः आधिक्यं दर्शयितुम् प्रयुक्तः अस्ति । \n
    \n2. हीनतायाः निर्देशार्थम् उप इत्यस्य कर्मप्रवचनीयसंज्ञा \nद्वयोः उत अधिकानां पदार्थानां यत्र तुलना क्रियते, तत्र न्यूनतायाः निर्देशार्थम् प्रयुक्तस्य उप इति शब्दस्य कर्मप्रवचनीयसंज्ञा भवति । एतादृश्यां कर्मप्रवचनीयसंज्ञायां प्राप्तायाम्, यस्य उत्कृष्टता दर्श्यते तस्य निर्देशार्थम् <<कर्मप्रवचनीययुक्ते द्वितीया>> [[2.3.8]] इत्यनेन द्वितीयाविभक्तिः भवति । यथा - \n\n1. उप अर्जुनं योद्धारः । सर्वेऽपि योद्धारः अर्जुनस्य अपेक्षया हीनाः / न्यूनाः सन्ति इति आशयः । अत्र उप इति शब्देन अर्जुनस्य अपेक्षया योद्धॄणाम् न्यूनता उक्ता अस्ति । \n2. उप शाकटायनम् वैयाकरणाः । सर्वे अपि वैयाकरणाः शाकटायनस्य अपेक्षया हीनाः सन्ति इति आशयः ।\n3. उप हरिं सुराः । सर्वे अपि देवाः विष्णोः अपेक्षया हीनाः सन्ति इति आशयः ।\n\nएतेषु सर्वेषु अपि उदाहरणेषु उप इति शब्दः हीनतां दर्शयितुम् प्रयुक्तः अस्ति । \n अत्र हीनः इति शब्दः \"गुणरहितः / संस्काररहितः\" अस्मिन् अर्थ न स्वीकर्तव्यः । हीनः इत्युक्ते सामर्थ्येन किञ्चित् न्यूनः- इत्येव अत्र आशयः अस्ति । \nप्रकृतसूत्रेण उक्तायाः कर्मप्रवचनीयसंज्ञायाः प्रयोजनम्\nप्रकृतसूत्रेण पाठिता कर्मप्रवचनीयसंज्ञा - (1) \"अधिकम्\" इति सन्दर्भे <<यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी>> [[2.3.9]] इत्यनेन न्यूनपदार्थस्य सप्तमीविधानार्थम् तथा च (2) \"हीनम्\" इति सन्दर्भे <<कर्मप्रवचनीययुक्ते द्वितीया>> [[2.3.8]] इत्यनेन उत्कृष्टपदार्थस्य द्वितीयाविधानार्थम् प्रयुज्यते । अतएव उप परार्धे हरेः गुणाः इत्यत्र परार्ध-शब्दस्य सप्तमीविभक्तिः भवति, तथा च उप हरिं सुराः इत्यत्र हरि-शब्दस्य द्वितीया विभक्तिः प्रयुक्ता अस्ति । " }, "14088": { "sa": "\"वर्जनम्\" इति अर्थं द्योतयितुम् प्रयुक्तौ \"अप\" तथा \"परि\" इति शब्दौ कर्मप्रवचनीयसंज्ञकौ भवतः । यथा - अप त्रिगर्तेभ्यः वृष्टः देवः । परि त्रिगर्तेभ्यः वृष्टः देवः ।", "sd": "<<कर्मप्रवचनीयाः>> [[1.4.83]] अस्मिन् अधिकारे आहत्य पञ्चदशभिः सूत्रैः कर्मप्रवचनीयसंज्ञायाः विधानं क्रियते । तेषु इदं पञ्चमं सूत्रम् । अप तथा परि इत्येतौ शब्दौ यदा वर्जनम् (Exclusion) दर्शयतः, तदा तयोः कर्मप्रवचनीयसंज्ञा भवति इति अस्य सूत्रस्य आशयः । एतादृशस्य कर्मप्रवचनीयस्य योगे यस्य वर्जनं कृतम् तस्य <<पञ्चम्यपाङ्परिभिः>> [[2.3.10]] इत्यनेन पञ्चमी विभक्तिः भवति । उदाहरणानि एतानि -\n\n1. अप ओदनात् भुक्तम् / परि ओदनात् भुक्तम् । ओदनं वर्जयित्वा सर्वम् भुक्तम् - इत्यर्थः । अत्र अप तथा परि इति शब्दाभ्यां ओदनस्य वर्जनम् निर्दिश्यते । एतयोः योगे ओदनशब्दस्य <<पञ्चम्यपाङ्परिभिः>> [[2.3.8]] इत्यनेन पञ्चमी भवति । \n2. अप त्रिगर्तेभ्यः वृष्टः देवः / परि त्रिगर्तेभ्यः वृष्टः देवः । \"त्रिगर्ताः\" इति जनपदं विहाय अन्येषु स्थलेषु वर्षा अभवत् - इत्यर्थः ।\n3. अप दुर्योधनात् कौरवाः हताः / परि दुर्योधनात् कौरवाः हताः । दुर्योधनं विहाय अन्ये सर्वेऽपि कौरवाः हताः - इत्यर्थः ।\n4. अप भानुवासरात् मिलामः / परि भानुवासरात् मिलामः । भानुवासरं विहाय अन्येषु दिनेषु मिलामः - इत्यर्थः ।\n5. अप विष्णोः संसारः / परि विष्णोः संसारः । संसारे विष्णुः नास्ति - इत्यर्थः । \n\nपरिशब्दस्य वैकल्पिकं द्वित्वम्\nपरि इति शब्दः यदा वर्जनम् अस्मिन् अर्थे प्रयुज्यते, तदा <<परेर्वर्जने>> [[8.1.5]] इत्यनेन परि-शब्दस्य द्वित्वं भवति । यद्यपि सूत्रम् अनुसृत्य इदं द्वित्वं नित्यमेव भवति, तथापि तस्मिन्नेव सूत्रे इति एकं वार्त्तिकं पाठ्यते, येन \"इदं द्वित्वं वैकल्पिकम् अस्ति\" - इति निर्दिश्यते । <ऽयथोत्तरं मुनीनां प्रामाण्यम्ऽ> इति न्यायेन अयं विकल्पः सूत्रकृता उक्तं नित्यत्वं बाधते; अतश्च वर्जनार्थकस्य परि-शब्दस्य विकल्पेन द्वित्वं भवति इत्येव सिद्धान्तरूपेण स्वीकृतम् अस्ति । अतएव प्रकृतसूत्रस्य उदाहरणेषु द्वित्वविकल्पः अपि सम्भवति - परि परि ओदनात् भुक्तम्, परि परि त्रिगर्तेभ्यः वृष्टः देवः - इत्यादिकम् । \nएतादृशं द्वित्वम् केवलम् परि इत्यस्य विषये एव अस्ति, अप इत्यस्य विषये न ।\nवाक्यस्य विकल्पेन अव्ययीभावसमासः\nप्रकृतसूत्रेण अप तथा परि इति शब्दयोः कर्मप्रवचनीयसंज्ञायां लब्धायाम्, वाक्ये यदा <<पञ्चम्यपाङ्परिभिः>> [[2.3.10]] इत्यनेन एतयोः योगे पञ्चम्यन्तशब्दस्य प्रयोगः भवति, तदा अग्रे एतयोः अव्यययोः तेन पञ्चम्यन्तेन सह <<अपपरिबहिरञ्चवः पञ्चम्या>> [[2.1.12]] इत्यनेन अव्ययीभावः समासः अपि कर्तुं शक्यते । यथा, अप त्रिगर्तेभ्यः इत्यत्र अप तथा त्रिगर्तेभ्यः एतयोः मध्ये समासं कृत्वा अपत्रिगर्त इति अव्ययं सिद्ध्यति । अग्रे <<नाव्ययीभावादतोऽम्त्वपञ्चम्याः>> [[2.4.83]] इत्यनेन अस्मात् विहितस्य <<सुँ>>-प्रत्ययस्य <<अम्>>-आदेशे कृते अपत्रिगर्तम् इति शब्दः सिद्ध्यति । एवमेव परि त्रिगर्तेभ्यः= परित्रिगर्तम् इत्यपि प्रयोगः अवश्यं सिद्ध्यति । \nप्रकृतसूत्रेण उक्तायाः कर्मप्रवचनीयसंज्ञायाः प्रयोजनम्\nप्रकृतसूत्रेण पाठितायाः कर्मप्रवचनीयसंज्ञायाः प्रयोजनम् अस्ति - <<पञ्चम्यपाङ्परिभिः>> [[2.3.10]] इत्यनेन वर्जितपदार्थस्य पञ्चमीविभक्त्या निर्देशः - इति । अतएव अप ओदनात् भुक्तम् / परि ओदनात् भुक्तम् इत्यत्र ओदनात् इति पञ्चमीविभक्तिः प्रयुक्ता अस्ति । \nवर्जनम् इति किमर्थम्?\nयत्र परि उत अप एतौ शब्दौ वर्जनार्थे न प्रयुज्येते, तत्र प्रकृतसूत्रेण तयोः कर्मप्रवचनीयसंज्ञा अपि न भवति । यथा, ओदनं परिषिञ्चति इत्यत्र परि इति शब्दः सर्वतः इत्यस्मिन् अर्थे प्रयुक्तः अस्ति । अत्र अस्य शब्दस्य कर्मप्रवचनीयसंज्ञा न, अपि तु उपसर्गसंज्ञा भवति, येन <<उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम् >> [[8.3.65]] इत्यनेन षत्वम् अपि कृतं दृश्यते । यदि अत्र परि इत्यस्य कर्मप्रवचनीयसंज्ञा अभविष्यत्, तर्हि तया उपसर्गसंज्ञायाः बाधः अभविष्यत्, येन षत्वम् अपि नैव समभविष्यत् । परन्तु अत्र वर्जनार्थस्य अभावात् परि-शब्दस्य कर्मप्रवचनीयसंज्ञा नैव भवति, येन उपसर्गसंज्ञायां प्राप्तायाम् उचितं षत्वम् अपि विधीयते । \n" }, "14089": { "sa": "\"मर्यादा\" तथा \"अभिविधिः\" एतयोः अर्थयोः प्रयुक्तस्य \"आङ्\" इति शब्दस्य कर्मप्रवचनीयसंज्ञा भवति । यथा, आ पाटलिपुत्राद् वृष्टो देवः। आ कुमारं यशः पाणिनेः।", "sd": "<<कर्मप्रवचनीयाः>> [[1.4.83]] अस्मिन् अधिकारे आहत्य पञ्चदशभिः सूत्रैः कर्मप्रवचनीयसंज्ञायाः विधानं क्रियते । तेषु इदं षष्ठं सूत्रम् । आङ् इति शब्दस्य मर्यादा उत अभिविधिः अस्मिन् अर्थे यदा प्रयोगः भवति तदा तस्य कर्मप्रवचनीयसंज्ञा भवति इति अस्य सूत्रस्य आशयः । एतादृशस्य कर्मप्रवचनीयस्य योगे सीमावाचकशब्दस्य <<पञ्चम्यपाङ्परिभिः>> [[2.3.8]] इत्यनेन पञ्चमी विभक्तिः भवति । क्रमेण विवरणम् एतादृशम् -\n\n1. मर्यादा अस्मिन् अर्थे आङ्-शब्दस्य प्रयोगः\nमर्यादा इति शब्दस्य अर्थः - \"सा सीमा यस्याः ग्रहणं न भवति\" (A boundary that is excluded) इति अस्ति । यथा, यदि पाटलीपुत्रप्रदेशं यावत्, परन्तु पाटलीपुत्रप्रदेशं विना अन्यत्र वर्षा जाता, तर्हि पाटलीपुत्रम् इति वर्षायाः मर्यादा अस्ति इति वक्तुं शक्यते । अस्याः मर्यादायाः निर्देशार्थम् यदा आङ् इति शब्दः प्रयुज्यते, तदा प्रकृतसूत्रेण तस्य कर्मप्रवचनीयसंज्ञा भवति, तथा च अस्य कर्मप्रवचनीयस्य योगे सीमावाचकशब्दस्य (इत्युक्ते, पाटलीपुत्र इति शब्दस्य) <<पञ्चम्यपाङ्परिभिः>> [[2.3.8]] इत्यनेन पञ्चमीविभक्त्या निर्देशः भवति । यथा - आ पाटलीपुत्रात् वृष्टः देवः इति । एवमेव, आ मुक्तेः संसारः इत्यत्रापि आङ् इति मर्यादार्थे प्रयुक्तः अस्ति अतः अस्य कर्मप्रवचनीयसंज्ञा भवति, तथा च मुक्तेः इति सीमावाचकशब्दस्य पञ्चमी विधीयते । \n\n2. अभिविधिः अस्मिन् अर्थे आङ्-शब्दस्य प्रयोगः\nअभिविधिः इति शब्दस्य अर्थः - \"सा सीमा यस्याः ग्रहणं भवति\" (A boundary that is included) इति अस्ति । यथा, यदि भोजस्य राज्यं सागरपर्यन्तम् अस्ति, किञ्च सागरः अपि भोजस्य राज्ये एव परिगण्यते, तर्हि तत्र सागरः इति भोजराज्यस्य अभिविधिः अस्ति इति वक्तुं शक्यते । अस्याः अभिविधेः निर्देशार्थम् यदा आङ् इति शब्दः प्रयुज्यते, तदा प्रकृतसूत्रेण तस्य कर्मप्रवचनीयसंज्ञा भवति, तथा च अस्य कर्मप्रवचनीयस्य योगे सीमावाचकशब्दस्य (इत्युक्ते, सागर इति शब्दस्य) <<पञ्चम्यपाङ्परिभिः>> [[2.3.8]] इत्यनेन पञ्चमीविभक्त्या निर्देशः भवति । यथा - आ सागरात् भोजस्य राज्यम् । एवमेव, आ कुमारात् यशः पाणिनेः इत्यत्रापि आङ् इति अभिविधिं दर्शयितुम् प्रयुक्तः अस्ति । पाणिनेः यशः कुमारवयस्काः अपि जानन्ति - इति अत्र आशयः । अत्र अभिविधौ प्रयुक्तस्य आङ् इत्यस्य अस्य कर्मप्रवचनीयसंज्ञा भवति, तथा च तस्य योगे कुमारात् इति सीमावाचकशब्दस्य पञ्चमी विधीयते । आ सकलात् ब्रह्म इति तृतीयम् उदाहरणम् अपि एतादृशम् एव अवधेयम् । किञ्च, अष्टाध्याय्यां <<आ कडारात् एका संज्ञा>> [[1.4.1]], <<आ च त्वात्>> [[5.1.120]] इत्येतयोः सूत्रयोः प्रयुक्तः इति शब्दः अपि अभिविधिः अस्मिन् अर्थे एव प्रयुक्तः अस्ति । \n\n1. तत्त्वबोधिनीकारः तेन विना मर्यादा, तेन सह अभिविधिः इति मर्यादा-अभिविध्योः व्याख्यां ददाति । तेन विना इत्युक्ते सीमावाचकपदार्थं विना यत्र अवशिष्टस्य निर्देशः भवति, तत्र मर्यादा अस्ति इति स्वीक्रियते । एवमेव तेन सह इत्युक्ते सीमावाचकपदार्थेन सह यत्र सर्वस्य निर्देशः भवति, तत्र अभिविधिः अस्ति इति स्वीक्रियते । \n2. आङ् इत्यत्र विद्यमानः ङकारः इत्संज्ञकः अस्ति । अस्य प्रक्रियासु प्रारम्भे एव लोपः भवति । अतः प्रयोगे केवलम् इत्येव श्रूयते । \n3. आ सागरात् भोजस्य राज्यम् इत्यादिकं वाक्यमात्रं दृष्ट्वा - अत्र आङ् इति मर्यादार्थे अस्ति उत अभिविध्यर्थे - इति प्रायेण स्पष्टम् नैव भवेत् । अतः सन्दर्भं दृष्ट्वा एव अस्य निर्णयः करणीयः । \n\nप्रकृतसूत्रेण उक्तायाः कर्मप्रवचनीयसंज्ञायाः प्रयोजनम्\nप्रकृतसूत्रेण पाठितायाः कर्मप्रवचनीयसंज्ञायाः प्रयोजनम् अस्ति - <<पञ्चम्यपाङ्परिभिः>> [[2.3.10]] इत्यनेन सीमावाचकपदार्थस्य पञ्चमीविभक्त्या निर्देशः - इति । अतएव आ पाटलीपुत्राद् वृष्टो देवः इत्यत्र पाटलीपुत्रात् इति, तथा च आ कुमारात् यशः पाणिनेः इत्यत्र कुमारात् इति पञ्चमीविभक्तिः प्रयुक्ता अस्ति । \nवाक्यस्य विकल्पेन अव्ययीभावसमासः\nप्रकृतसूत्रेण आङ् इति शब्दस्य कर्मप्रवचनीयसंज्ञायां लब्धायाम्, वाक्ये यदा <<पञ्चम्यपाङ्परिभिः>> [[2.3.8]] इत्यनेन अस्य योगे पञ्चम्यन्तशब्दस्य प्रयोगः भवति, तदा अग्रे आङ् इत्यस्य तेन पञ्चम्यन्तेन सह <<आङ् मर्यादाभिविध्योः>> [[2.1.13]] इत्यनेन विकल्पेन अव्ययीभावः समासः अपि कर्तुं शक्यते । यथा, आ कुमारात् इत्यत्र तथा कुमारात् एतयोः मध्ये समासं कृत्वा आकुमार इति अव्ययं सिद्ध्यति । अग्रे <<नाव्ययीभावादतोऽम्त्वपञ्चम्याः>> [[2.4.83]] इत्यनेन अस्मात् विहितस्य <<सुँ>>-प्रत्ययस्य <<अम्>>-आदेशे कृते आकुमारम् इति शब्दः सिद्ध्यति । अतएव प्रकृतसूत्रे काशिकाकारः आकुमारं यशः पाणिनेः इति उदाहरति । एवमेव मर्यादायाः सन्दर्भेण अपि आ पाटलीपुत्रात् = आपाटलीपुत्रम् इति प्रयोगः अपि अवश्यम् एव सिद्ध्यति । \nमर्यादावचने इति किमर्थम् ? \nआङ् इत्येतत् अव्ययं भाषायाम् आहत्य चतुर्षु सन्दर्भेषु प्रयुक्तं दृश्यते -\n\n
  • 1. ईषदर्थे । यथा - ईषद् उष्णम् (किञ्चित् उष्णम्) = आ + उष्णम् = ओष्णम् ।\n
  • 2. उपसर्गार्थे । यथा - आगच्छति ।\n
  • 3. मर्यादार्थे । यथा - आ पाटलीपुत्रात् ।\n
  • 4. अभिविध्यर्थे । यथा - आ कुमारात् ।\n\nएतेभ्यः केवलम् मर्यादा तथा च अभिविधिः - एतयोः अर्थयोः प्रयुक्तस्य आङ् इत्यस्यैव कर्मप्रवचनीयसंज्ञा भवति - इति स्पष्टीकर्तुम् एव प्रकृतसूत्रे मर्यादावचने इति शब्दः प्रयुक्तः अस्ति । अत्र मर्यादावचनम् इत्यनेन मर्यादा इति शब्दः यत्र विद्यते तस्य सूत्रस्य, इत्युक्ते <<आङ् मर्यादाभिविध्योः>> [[2.1.13]] इति सूत्रस्य निर्देशः भवति । अस्मिन् सूत्रे निर्दिष्टौ मर्यादा तथा च अभिविधिः इति यौ द्वौ अर्थौ, तयोः सन्दर्भः एव प्रकृतसूत्रे अपि स्वीकर्तव्यः - इति ज्ञापयितुम् एव प्रकृतसूत्रे मर्यादावचने इति शब्दः स्थापितः अस्ति । आङ् इति अव्ययं यदामर्यादायाः अभिविधेः वा निर्देशार्थं प्रयुज्यते, तदा प्रकृतसूत्रेण तस्य कर्मप्रवचनीयसंज्ञा भवति - इति एव अस्य आशयः । " }, "14090": { "sa": "लक्षणम्, इत्थम्भूताख्यानम्, भागः तथा च वीप्सा - एतेषु सन्दर्भेषु प्रयुक्ताः \"प्रति\", \"परि\", \"अनु\" एते शब्दाः कर्मप्रवचनीयसंज्ञकाः भवन्ति । यथा - वृक्षं प्रति / परि / अनु विद्योतते विद्युत् । देवदत्तः मातरं परि / प्रति / अनु साधु । लक्ष्मीः हरिं प्रति / परि / अनु । वृक्षं वृक्षं प्रति / परि / अनु सिञ्चति । ", "sd": "<<कर्मप्रवचनीयाः>> [[1.4.83]] अस्मिन् अधिकारे आहत्य पञ्चदशभिः सूत्रैः कर्मप्रवचनीयसंज्ञायाः विधानं क्रियते । तेषु इदं सप्तमं सूत्रम् । प्रति , परि, तथा च अनु इति शब्दानां यदा लक्षणम् , इत्थम्भूताख्यानम्, भागः, तथा च वीप्सा - एतेषु सन्दर्भेषु प्रयोगः भवति तदा एतेषां शब्दानां कर्मप्रवचनीयसंज्ञा भवति इति अस्य सूत्रस्य आशयः । क्रमेण विवरणम् एतादृशम् -\n
    \n1. लक्षणम् अस्मिन् अर्थे कर्मप्रवचनीयसंज्ञा\nव्याख्यानेषु लक्षणम् इति शब्दस्य अर्थः लक्ष्यते चिह्न्यते येन तत् लक्षणम् इति दीयते । सरलभाषायाम्, लक्षणम् इति शब्देन अत्र - कस्यचित् पदार्थस्य आधारेण दिशायाः सङ्केतः - इति स्वीकृतः अस्ति । एतादृशस्य सङ्केतस्य सन्दर्भे प्रति , परि, तथा च अनु एतेषाम् प्रकृतसूत्रेण कर्मप्रवचनीयसंज्ञा भवति । यस्य पदार्थस्य आधारेण दिशायाः सङ्केतः दीयते, तस्य निर्देशः लक्षणम् इति शब्देन भवति, तथा च एतादृशस्य लक्षणस्य निर्देशार्थम् <<कर्मप्रवचनीययुक्ते द्वितीया>> [[2.3.8]] इत्यनेन द्वितीयाविभक्तिः प्रयुज्यते । कानिचन उदाहरणानि एतानि -\n\n
  • 1. देवदत्तः ग्रामं प्रति गच्छति / देवदत्तः ग्रामं परि गच्छति / देवदत्तः ग्रामम् अनु गच्छति । देवदत्तः \"ग्रामस्य दिशि गच्छति\" इति आशयः । अत्र दिशायाः सन्दर्भेण प्रयुक्ताः प्रति , परि, तथा च अनु एते शब्दाः प्रकृतसूत्रेण कर्मप्रवचनीयसंज्ञकाः भवन्ति, तथा च एतेषां योगे विद्यमानस्य ग्रामपदार्थस्य निर्देशार्थम् <<कर्मप्रवचनीययुक्ते द्वितीया>> [[2.3.8]] इत्यनेन द्वितीया विभक्तिः उपयुज्यते ।\n
  • 2. रामः रावणं प्रति शरान् क्षिपति / रामः रावणं परि शरान् क्षिपति / रामः रावणम् अनु शरान् क्षिपति । रामः रावणस्य दिशि (रावणं लक्ष्यीकृत्य) शरान् क्षिपति - इत्यर्थः । \n
  • 3. शलभाः अग्निं प्रति पतन्ति / शलभाः अग्निं परि पतन्ति / शलभाः अग्निम् अनु पतन्ति । शलभाः अग्निं चिह्नीकृत्य तस्य दिशि एव डयन्ते - इति आशयः । \n
  • 4. वृक्षं प्रति विद्योतते विद्युत् / वृक्षं परि विद्योतते विद्युत् / वृक्षम् अनु विद्योतते विद्युत् । विद्युत् वृक्षस्य दिशि विद्योतते - इत्यर्थः । \n\n
    \n2. इत्थम्भूताख्यानम् अस्मिन् अर्थे कर्मप्रवचनीयसंज्ञा\nइत्थम्भूताख्यानम् इति शब्दस्य अर्थः व्याख्यानेषु कञ्चित् प्रकारम् आपन्नम् इत्थम्भूतम्, तस्य आख्यानम् इत्थम्भूताख्यानम् - इति दीयते । सरलभाषायाम्, कस्यचित् विषयस्य सन्दर्भेण प्राप्ता स्थितिः इत्थम्भूतम् नाम्ना ज्ञायते, तथा च अस्याः स्थितेः ज्ञापनम् इत्थम्भूताख्यानम् इत्यनेन निर्दिश्यते । एतादृशस्य इत्थम्भूताख्यानस्य निर्देशार्थम् प्रयुक्तानाम् प्रति , परि, तथा च अनु एतेषाम् प्रकृतसूत्रेण कर्मप्रवचनीयसंज्ञा भवति, तथा यस्य विषयस्य सन्दर्भेण इयं स्थितिः भवति तस्य निर्देशार्थम् <<कर्मप्रवचनीययुक्ते द्वितीया>> [[2.3.8]] इत्यनेन द्वितीयाविभक्तिः प्रयुज्यते । कानिचन उदाहरणानि एतानि -\n\n
  • 1. मातरं प्रति साधु / मातरं परि साधु / मातरम् अनु साधु । कस्यचन देवदत्तस्य मनसि मातुः विषये साधुभावः विद्यते चेत्, अत्र - (1) विषयः = मातृपदार्थः, (2) स्थितिः = साधुत्वम्, (3) इत्थम्भूतम् = मातुः विषये साधुभावः, तथा च (4) इत्थम्भूताख्यानम् = मातुः विषये साधुभावस्य निर्देशः । अस्यैव इत्थम्भूताख्यानस्य निर्देशार्थम् अत्र प्रयुक्ताः प्रति , परि, तथा च अनु एते शब्दाः कर्मप्रवचनीयसंज्ञकाः भवन्ति । अपि च, विषयस्य (इत्युक्ते मातृपदार्थस्य) निर्देशार्थम् <<कर्मप्रवचनीययुक्ते द्वितीया>> [[2.3.8]] इत्यनेन द्वितीयाविभक्तिः उपयुज्यते, अतश्च अत्र वाक्ये मातरम् इति प्रयोगः कृतः अस्ति । \n
  • 2. हरिं प्रति भक्तः / हरिं परि भक्तः / हरिम् अनु भक्तः । हरेः विषये कस्यचन देवदत्तस्य मनसि विद्यमानायाः भक्तेः आख्यानम् अत्र कर्मप्रवचनीयशब्दैः कृतम् अस्ति ।\n
  • 3. दुर्योधनं प्रति क्रुद्धः / दुर्योधनं परि क्रुद्धः / दुर्योधनम् अनु क्रुद्धः । दुर्योधनस्य विषये भीमस्य मनसि विद्यमानस्य क्रोधस्य आख्यानम् अत्र कर्मप्रवचनीयशब्दैः क्रियते ।\n
  • 4. अस्मिन् देशे पुरुषं प्रति सौन्दर्यम् अस्ति / अस्मिन् देशे पुरुषं परि सौन्दर्यम् अस्ति / अस्मिन् देशे पुरुषं अनु सौन्दर्यम् अस्ति । इदम् उदाहरणम् प्रौढमनोरमायाः भैरवीव्याख्याने लभ्यते । \"अस्मिन् देशे विद्यमानाः पुरुषाः सुन्दराः सन्ति\" इत्यस्य आख्यानम् अत्र कृतम् अस्ति । अस्मिन् आख्याने पुरुषस्य सौन्दर्येण सह सम्बन्धः अत्र एतैः कर्मप्रवचनीयशब्दैः प्रकटी भवति । अत्र सौन्दर्यम् इति प्रथमान्तशब्दः इत्थम्भूतस्य निर्देशं करोति । पुरुषम् इत्यत्र तु <<कर्मप्रवचनीययुक्ते द्वितीया>> [[2.3.8]] इत्यनेन द्वितीया प्रयुज्यते । \n\n
    \n3. भागम् अस्मिन् अर्थे कर्मप्रवचनीयसंज्ञा\nभागम् इति शब्दस्य अर्थः व्याख्यानेषु विभाजनक्रियाजनितः स्वस्वामिसम्बन्धः - इति दीयते । सरलभाषायाम्, विभाजनात् अनन्तरम् कस्यचन अंशस्य स्वामित्वज्ञापनम् इतिभागः इत्यनेन निर्दिश्यते । कौमुदीकारस्य मतेन तु कस्यचन पदार्थस्य अंशरूपेण विद्यमान: यः अपरः पदार्थः तस्य निर्देशः अपि भागः इत्यनेन भवति । अस्य व्यवहारस्य निर्देशार्थम् प्रयुक्तानाम् प्रति , परि, तथा च अनु एतेषाम् प्रकृतसूत्रेण कर्मप्रवचनीयसंज्ञा भवति, तथा च यस्य स्वामित्वम् उच्यते, तस्य निर्देशार्थम् (अथ वा, यस्य अंशरूपेण अन्यः पदार्थः विद्यते तस्य निर्देशार्थम्) <<कर्मप्रवचनीययुक्ते द्वितीया>> [[2.3.8]] इत्यनेन द्वितीयाविभक्तिः प्रयुज्यते । कानिचन उदाहरणानि एतानि -\n\n
  • 1. लक्ष्मीः विष्णुं प्रति / लक्ष्मीः विष्णुं परि / लक्ष्मीः विष्णुम् अनु । समुद्रमन्थनेन जायमानेभ्यः पदार्थेभ्यः लक्ष्म्याः स्वामित्त्वं विष्णुना स्वीकृतम् - इति अस्य अर्थः । अत्र लक्ष्मीः इति भागःविष्णुः इति अस्य भागस्य स्वामी । लक्ष्मीः हरेः एव भागः (अंशः) अस्ति इत्यपि अर्थः अत्र सिद्ध्यति । अत्र विभाजनात् अनन्तरं विद्यमानः स्व-स्वामीसम्बन्धः एतैः कर्मप्रवचनीयशब्दैः प्रकटी भवति; तथा च स्वामिनः (इत्युक्ते विष्णुपदार्थस्य) निर्देशार्थम् अत्र <<कर्मप्रवचनीययुक्ते द्वितीया>> [[2.3.8]] इत्यनेन द्वितीयाविभक्तिः प्रयुक्ता वर्तते । \n
  • 2. विषं हरं प्रति / विषं हरं परि / विषं हरम् अनु । समुद्रमन्थनेन जायमानेभ्यः पदार्थेभ्यः विषस्य ग्रहणं हरेण कृतम् इति आशयः ।\n
  • 3. पञ्च ग्रामाः पाण्डवान् प्रति देयाः / पञ्च ग्रामाः पाण्डवान् परि देयाः / पञ्च ग्रामाः पाण्डवान् अनु देयाः । युद्धात् पूर्वम् पाण्डवानां दूतः भूत्वा कृष्णेन दुर्योधनस्य सकाशे \"पाण्डवाः पञ्च ग्रामान् लभेरन्\" इति विभाजनस्य उपायः उक्तः आसीत् - इति अत्र आशयः वर्तते । \n
  • 4. वृक्षं प्रति फलानि तिष्ठन्ति / वृक्षं परि फलानि तिष्ठन्ति / वृक्षम् अनु फलानि तिष्ठन्ति । इदम् उदाहरणं प्रौढमनोरमायाः भैरवीव्याख्याने दत्तं वर्तते । फलानि वृक्षस्य अवयवरूपेण तिष्ठन्ति - इति अत्र आशयः । अत्र \"विभाजनक्रिया\" नास्ति, परन्तु केवलम् \"एकस्य पदार्थस्य अंशरूपेण स्थितः अपरः पदार्थः\" इति अर्थः वर्तते । अत्र वृक्षम् इत्यत्र <<कर्मप्रवचनीययुक्ते द्वितीया>> [[2.3.8]] इत्यनेन द्वितीयाविभक्तिः भवति ।\n\n
    \n4. वीप्सा अस्मिन् अर्थे कर्मप्रवचनीयसंज्ञा\nवीप्सा इति शब्दस्य अर्थः व्याख्यानेषु पदार्थान् व्याप्तुम् इच्छा वीप्सा - इति दीयते । सरलभाषायाम्, यदा एका एव क्रिया एकप्रकारस्य सर्वेषाम् अपि वस्तूनां कृते भवति, तदा तस्याः निर्देशः वीप्सा इत्यनेन क्रियते । अस्याः वीप्सायाः सन्दर्भेण प्रति , परि, तथा च अनु एतेषाम् प्रकृतसूत्रेण कर्मप्रवचनीयसंज्ञा भवति, तथा च येषाम् पदार्थानां विषये वीप्सा उच्यते, तेषां निर्देशः <<कर्मप्रवचनीययुक्ते द्वितीया>> [[2.3.8]] इत्यनेन द्वितीयाविभक्त्या क्रियते । किञ्च, <<नित्यवीप्सयोः>> [[8.1.4]] इत्यनेन एतेषां शब्दानां द्वित्वम् अपि विधीयते । द्वे उदाहरणे एते - \n\n
  • 1. वृक्षं वृक्षं प्रति सिञ्चति / वृक्षं वृक्षं परि सिञ्चति / वृक्षं वृक्षम् अनु सिञ्चति। अत्र प्रत्येकं वृक्षस्य सन्दर्भेण सिञ्चनक्रिया कृता अस्ति, अतः वृक्षपदार्थस्य निर्देशः <<कर्मप्रवचनीययुक्ते द्वितीया>> [[2.3.8]] इत्यनेन द्वितीयाविभक्त्या भवति । किञ्च, <<नित्यवीप्सयोः>> [[8.1.4]] इत्यनेन वृक्षपदार्थस्य द्वित्वम् अपि कृतम् अस्ति । अस्याः वीप्सायाः एव क्रियया सह सम्बन्धं प्रदर्शयितुम् अत्र कर्मप्रवचनीयसंज्ञकाः शब्दाः प्रयक्ताः सन्ति । \n
  • 2.गृहं गृहं प्रति पश्यति / गृहं गृहं परि पश्यति / गृहं गृहम् अनु पश्यति। अत्र प्रत्येकं गृहस्य विषये दर्शनक्रिया कृता अस्ति इति आशयः वर्तते । \n\nकर्मप्रवचनीयसंज्ञकाः अत्र <hl>सम्बन्धस्य</hl> द्योतकाः \nप्रकृतसूत्रेण उक्ताः प्रति, परि तथा च अनु एते कर्मप्रवचनीयसंज्ञकाः लक्षणादीन् अर्थान् नैव निर्दिशन्ति, अपितु सम्बन्धमात्रस्य निर्देशं कुर्वन्ति । यथा -\n\n1. लक्षणम् - वृक्षं प्रति विद्योतते विद्यत् इत्यत्र लक्षणम् वृक्षपदार्थः अस्ति । प्रति इति कर्मप्रवचनीयसंज्ञकशब्देन अत्र वृक्षस्य विद्युता सह विद्यमानः लक्ष्यलक्षणसम्बन्धः ज्ञाप्यते ।\n2. इत्थंभूताख्यानम् - मातरं प्रति साधु इत्यत्र इत्थम्भूताख्यानम् मातृसम्बन्धी साधुत्वनिर्देशः इति अस्ति । प्रति इति कर्मप्रवचनीयसंज्ञकशब्देन अत्र माता तथा साधुत्वभावः एतयोर्मध्ये विद्यमानः विषयविषयिभावसम्बन्धः ज्ञाप्यते ।\n3. भागः - लक्ष्मीः हरिं प्रति इत्यत्र भागः लक्ष्मीपदार्थः अस्ति । प्रति इति कर्मप्रवचनीयसंज्ञकशब्देन अत्र लक्ष्म्याः विष्णुना सह विद्यमानः स्वस्वामिभावसम्बन्धः ज्ञाप्यते ।\n4. वीप्सा - वृक्षं वृक्षं प्रति सिञ्चति इत्यत्र वीप्सायाः निर्देशः तु द्वित्वेन कृतः अस्ति । प्रति इति कर्मप्रवचनीयसंज्ञकशब्देन अत्र वृक्षः तथा च सेचनक्रिया इत्येतयोर्मध्ये विद्यमानः साध्यसाधनभावसंबंधः ज्ञाप्यते ।\n\nअतएव काशिकायां कौमुद्याम् अपि च प्रकृतसूत्रस्य अर्थे विषयभूतः इति शब्दः प्रयुक्तः दृश्यते । कर्मप्रवचनीयसंज्ञकैः शब्दैः अत्र लक्षणादयः अर्थाः नोच्यन्ते अपितु एतैः अर्थैः ज्ञापितः सम्बन्धः निर्दिश्यते - इति अस्य विषयभूतः इति शब्दस्य अर्थः वर्तते । \nप्रकृतसूत्रेण उक्तायाः कर्मप्रवचनीयसंज्ञायाः प्रयोजनम् \nप्रकृतसूत्रेण पाठिता कर्मप्रवचनीयसंज्ञा द्वितीयाविभक्तिविधानार्थम् तथा च उपसर्गसंज्ञाप्रतिषेधार्थम् प्रयुज्यते । तदित्थम् - वृक्षं वृक्षं प्रति सिञ्चति इत्यस्मिन् वाक्ये प्रति इत्यस्य कर्मप्रवचनीयत्वात् तस्य योगे विद्यमानस्य वृक्षशब्दस्य <<कर्मप्रवचनीययुक्ते द्वितीया>> [[2.3.8]] इत्यनेन द्वितीया विभक्तिः भवति । किञ्च, अस्यैव प्रति इत्यस्य कर्मप्रवचनीयत्वात् एकसंज्ञाधिकारेण तस्य उपसर्गत्वं प्रतिषिध्यते, येन <<उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम् >> [[8.3.65]] इत्यनेन सिञ्चति इत्यस्य सकारस्य अनिष्टं षत्वम् अपि न भवति । \nलक्षणस्य सन्दर्भेण <hl>प्रति<hl> इत्यनेन सह अव्ययीभावसमासः\nलक्षणस्य सन्दर्भेण प्रति इति कर्मप्रवचनीयस्य <<लक्षणेनाभिप्रती आभिमुख्ये>> [[2.1.14]] इत्यनेन विकल्पेन अव्ययीभावसमासः अपि सम्भवति । यथा - अग्निं प्रति शलभाः पतन्ति इत्यत्र अग्निः इत्यस्य प्रति इत्यनेन सह अव्ययीभावसमासं कृत्वा प्रत्यग्निं शलभाः पतन्ति इति प्रयोगः अपि सम्भवति । एवमेव ग्रामं प्रति गच्छति इत्यत्र विकल्पेन अव्ययीभावसमासं कृत्वा प्रतिग्रामं गच्छति इति प्रयोगः सिद्ध्यति । \nअयम् अव्ययीभावसमासः केवलं प्रति इत्यस्य योगे एव भवति; परि उत अनु इत्यस्य योगे न । \n\"परि\" शब्दस्य योगे द्वितीया एव\nविभक्तिप्रकरणे कर्मप्रवचनीयशब्दानां योगे <<कर्मप्रवचनीययुक्ते द्वितीया>> [[2.3.8]] इत्यनेन औत्सर्गिकरूपेण द्वितीयाविभक्तेः विधानं कृत्वा ततः तदपवादत्वेन अप, आङ् तथा परि एतेषां योगे <<पञ्चम्यपाङ्परिभिः>> [[2.3.10]] इत्यनेन पञ्चमीविभक्तिः विधीयते । परन्तु इयं पञ्चमी केवलम् तदा एव भवति यदा एते कर्मप्रवचनीयशब्दाः वर्जनम् अस्मिन् अर्थे प्रयुज्यन्ते । अतः प्रकृतसूत्रे लक्षणादिषु अर्थेषु प्रयुक्तस्य परि इति कर्मप्रवचनीयस्य योगे अनेन सूत्रेण पञ्चमी न भवति, अपि तु औत्सर्गिकरूपेण द्वितीया एव विधीयते ।\nलक्षणादिषु एव किमर्थम्?\nयत्र प्रति, परि, अनु एते शब्दाः लक्षणादीन् अर्थान् विहाय अन्येषु अर्थेषु प्रयुज्यन्ते, तत्र प्रकृतसूत्रेण तेषां कर्मप्रवचनीयसंज्ञा न भवति । यथा - ओदनं परिषिञ्चति इत्यत्र परि इत्यस्य सर्वतः इत्यस्मिन् अर्थे प्रयोगः कृतः अस्ति । अयम् अर्थः लक्षणादिभ्यः भिन्नः, अतः अस्मिन् अर्थे परि इत्यस्य प्रकृतसूत्रेण कर्मप्रवचनीयसंज्ञा न भवति । अपितु, अत्र परि इत्यस्य उपसर्गसंज्ञा भवति, यस्य सामर्थ्यात् <<उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम् >> [[8.3.65]] इत्यनेन सिञ्चति इत्यस्य सकारस्य षत्वम् अपि कृतं दृश्यते । \n" }, "14091": { "sa": "लक्षणम्, इत्थम्भूताख्यानम्, तथा च वीप्सा - एतेषु सन्दर्भेषु प्रयुक्तः \"अभिः\" इति शब्दः कर्मप्रवचनीयसंज्ञकः भवति । यथा - वृक्षम् अभि विद्योतते विद्युत् । देवदत्तः मातरम् अभि साधु । लक्ष्मीः हरिम् अभि । वृक्षं वृक्षम् अभि सिञ्चति । ", "sd": "<<कर्मप्रवचनीयाः>> [[1.4.83]] अस्मिन् अधिकारे आहत्य पञ्चदशभिः सूत्रैः कर्मप्रवचनीयसंज्ञायाः विधानं क्रियते । तेषु इदं सप्तमं सूत्रम् । अभि इति शब्दस्य यदा लक्षणम् , इत्थम्भूताख्यानम्, तथा च वीप्सा - एतेषु सन्दर्भेषु प्रयोगः भवति तदा तस्य कर्मप्रवचनीयसंज्ञा भवति इति अस्य सूत्रस्य आशयः । क्रमेण विवरणम् एतादृशम् -\n
    \n1. लक्षणम् अस्मिन् अर्थे कर्मप्रवचनीयसंज्ञा\nव्याख्यानेषु लक्षणम् इति शब्दस्य अर्थः लक्ष्यते चिह्न्यते येन तत् लक्षणम् इति दीयते । सरलभाषायाम्, लक्षणम् इति शब्देन अत्र - कस्यचित् पदार्थस्य आधारेण दिशायाः सङ्केतः - इति स्वीकृतः अस्ति । एतादृशस्य सङ्केतस्य सन्दर्भे अभि इति शब्दस्य प्रकृतसूत्रेण कर्मप्रवचनीयसंज्ञा भवति । यस्य पदार्थस्य आधारेण दिशायाः सङ्केतः दीयते, तस्य निर्देशः लक्षणम् इति शब्देन भवति, तथा च एतादृशस्य लक्षणस्य निर्देशार्थम् <<कर्मप्रवचनीययुक्ते द्वितीया>> [[2.3.8]] इत्यनेन द्वितीयाविभक्तिः प्रयुज्यते । कानिचन उदाहरणानि एतानि -\n\n
  • 1. देवदत्तः ग्रामम् अभि गच्छति । देवदत्तः \"ग्रामस्य दिशि गच्छति\" इति आशयः । अत्र दिशायाः सन्दर्भेण प्रयुक्तः अभि इति शब्दः प्रकृतसूत्रेण कर्मप्रवचनीयसंज्ञकः भवति, तथा च तस्य योगे विद्यमानस्य ग्रामपदार्थस्य निर्देशार्थम् <<कर्मप्रवचनीययुक्ते द्वितीया>> [[2.3.8]] इत्यनेन द्वितीया विभक्तिः उपयुज्यते ।\n
  • 2. रामः रावणम् अभि शरान् क्षिपति । रामः रावणस्य दिशि (रावणं लक्ष्यीकृत्य) शरान् क्षिपति - इत्यर्थः । \n
  • 3. शलभाः अग्निम् अभि पतन्ति । शलभाः अग्निं चिह्नीकृत्य तस्य दिशि एव डयन्ते - इति आशयः । \n
  • 4. वृक्षम् अभि विद्योतते विद्युत् । विद्युत् वृक्षस्य दिशि विद्योतते - इत्यर्थः । \n\n
    \n2. इत्थम्भूताख्यानम् अस्मिन् अर्थे कर्मप्रवचनीयसंज्ञा\nइत्थम्भूताख्यानम् इति शब्दस्य अर्थः व्याख्यानेषु कञ्चित् प्रकारम् आपन्नम् इत्थम्भूतम्, तस्य आख्यानम् इत्थम्भूताख्यानम् - इति दीयते । सरलभाषायाम्, कस्यचित् विषयस्य सन्दर्भेण प्राप्ता स्थितिः इत्थम्भूतम् नाम्ना ज्ञायते, तथा च अस्याः स्थितेः ज्ञापनम् इत्थम्भूताख्यानम् इत्यनेन निर्दिश्यते । एतादृशस्य इत्थम्भूताख्यानस्य निर्देशार्थम् प्रयुक्तस्य अभि इति शब्दस्य प्रकृतसूत्रेण कर्मप्रवचनीयसंज्ञा भवति, तथा यस्य विषयस्य सन्दर्भेण इयं स्थितिः भवति तस्य निर्देशार्थम् <<कर्मप्रवचनीययुक्ते द्वितीया>> [[2.3.8]] इत्यनेन द्वितीयाविभक्तिः प्रयुज्यते । कानिचन उदाहरणानि एतानि -\n\n
  • 1. मातरम् अभि साधु । कस्यचन देवदत्तस्य मनसि मातुः विषये साधुभावः विद्यते चेत्, अत्र - (1) विषयः = मातृपदार्थः, (2) स्थितिः = साधुत्वम्, (3) इत्थम्भूतम् = मातुः विषये साधुभावः, तथा च (4) इत्थम्भूताख्यानम् = मातुः विषये साधुभावस्य निर्देशः । अस्यैव इत्थम्भूताख्यानस्य निर्देशार्थम् अत्र प्रयुक्तः अभि इति शब्दः कर्मप्रवचनीयसंज्ञकः भवति । अपि च, विषयस्य (इत्युक्ते मातृपदार्थस्य) निर्देशार्थम् <<कर्मप्रवचनीययुक्ते द्वितीया>> [[2.3.8]] इत्यनेन द्वितीयाविभक्तिः उपयुज्यते, अतश्च अत्र वाक्ये मातरम् इति प्रयोगः कृतः अस्ति । \n
  • 2. हरिम् अभि भक्तः । हरेः विषये कस्यचन देवदत्तस्य मनसि विद्यमानायाः भक्तेः आख्यानम् अत्र कर्मप्रवचनीयशब्देन कृतम् अस्ति ।\n
  • 3. दुर्योधनम् अभि क्रुद्धः । दुर्योधनस्य विषये भीमस्य मनसि विद्यमानस्य क्रोधस्य आख्यानम् अत्र कर्मप्रवचनीयशब्देन क्रियते ।\n\n
    \n3. वीप्सा अस्मिन् अर्थे कर्मप्रवचनीयसंज्ञा\nवीप्सा इति शब्दस्य अर्थः व्याख्यानेषु पदार्थान् व्याप्तुम् इच्छा वीप्सा - इति दीयते । सरलभाषायाम्, यदा एका एव क्रिया एकप्रकारस्य सर्वेषाम् अपि वस्तूनां कृते भवति, तदा तस्याः निर्देशः वीप्सा इत्यनेन क्रियते । अस्याः वीप्सायाः सन्दर्भेण अभि इति शब्दस्य प्रकृतसूत्रेण कर्मप्रवचनीयसंज्ञा भवति, तथा च येषाम् पदार्थानां विषये वीप्सा उच्यते, तेषां निर्देशः <<कर्मप्रवचनीययुक्ते द्वितीया>> [[2.3.8]] इत्यनेन द्वितीयाविभक्त्या क्रियते । किञ्च, <<नित्यवीप्सयोः>> [[8.1.4]] इत्यनेन एतेषां शब्दानां द्वित्वम् अपि विधीयते । द्वे उदाहरणे एते - \n\n
  • 1. वृक्षं वृक्षम् अभि सिञ्चति । अत्र प्रत्येकं वृक्षस्य सन्दर्भेण सिञ्चनक्रिया कृता अस्ति, अतः वृक्षपदार्थस्य निर्देशः <<कर्मप्रवचनीययुक्ते द्वितीया>> [[2.3.8]] इत्यनेन द्वितीयाविभक्त्या भवति । किञ्च, <<नित्यवीप्सयोः>> [[8.1.4]] इत्यनेन वृक्षपदार्थस्य द्वित्वम् अपि कृतम् अस्ति । कर्मप्रवचनीयसंज्ञकः अभिशब्दः अत्र अस्याः वीप्सायाः क्रियया सह सम्बन्धं प्रदर्शयितुम् प्रयुज्यते । \n
  • 2.गृहं गृहम् अभि पश्यति । अत्र प्रत्येकं गृहस्य विषये दर्शनक्रिया कृता अस्ति इति आशयः वर्तते । \n\nसूत्रे प्रयुक्तस्य <hl>अभागे </hl> इति शब्दस्य अर्थः\n प्रकृतसूत्रे विद्यमानस्य अभागे इति पदस्य अन्वयः पूर्वसूत्रे विद्यमानेन लक्षणेत्थम्भूताख्यानभागवीप्सासु इति शब्देन सह भवति । पूर्वसूत्रे लक्षणेत्थम्भूताख्यानभागवीप्सासु इति शब्देन लक्षणम्, इत्थम्भूताख्यानम्, भागः तथा च वीप्सा - एते ये चत्वारः विषयाः उक्ताः सन्ति, तेभ्यः भागः इति विषयं वर्जयित्वा अन्येषाम् विषयाणाम् सन्दर्भेण अभि-शब्दस्य कर्मप्रवचनीयसंज्ञा भवति, इति स्पष्टीकर्तुम् प्रकृतसूत्रे अभागे इति पदं स्थापितम् वर्तते । भागस्य सन्दर्भेण प्रयुक्तस्य अभि-शब्दस्य कर्मप्रवचनीयसंज्ञा न भवति - इति अत्र आशयः । यथा, यद् अत्र मम अभिष्यात् तद् दीयताम् अस्मिन् वाक्ये भागस्य सन्दर्भे प्रयुक्तस्य अभि-शब्दस्य कर्मप्रवचनीयसंज्ञा न भवति, अतश्च तस्य उपसर्गसंज्ञां कृत्वा <<उपसर्गप्रादुर्भ्यामस्तिर्यच्परः>> [[8.3.87]] इत्यनेन सकारस्य षत्वम् अपि कृतं दृश्यते ।\nकर्मप्रवचनीयसंज्ञकः <ex>अभि</ex>-शब्दः अत्र <hl>सम्बन्धस्य</hl> द्योतकः \nप्रकृतसूत्रेण उक्तः अभि इति कर्मप्रवचनीयसंज्ञकः लक्षणादीन् अर्थान् नैव निर्दिशति, अपितु सम्बन्धमात्रस्य निर्देशं करोति। यथा -\n\n1. लक्षणम् - वृक्षम् अभि विद्योतते विद्यत् इत्यत्र लक्षणम् वृक्षपदार्थः अस्ति । अभि इति कर्मप्रवचनीयसंज्ञकशब्देन अत्र वृक्षस्य विद्युता सह विद्यमानः लक्ष्यलक्षणसम्बन्धः ज्ञाप्यते ।\n2. इत्थंभूताख्यानम् - मातरम् अभि साधु इत्यत्र इत्थम्भूताख्यानम् मातृसम्बन्धी साधुत्वनिर्देशः इति अस्ति । अभि इति कर्मप्रवचनीयसंज्ञकशब्देन अत्र माता तथा साधुत्वभावः एतयोर्मध्ये विद्यमानः विषयविषयिभावसम्बन्धः ज्ञाप्यते ।\n3. वीप्सा - वृक्षं वृक्षम् अभि सिञ्चति इत्यत्र वीप्सायाः निर्देशः द्वित्वेन कृतः अस्ति । अभि इति कर्मप्रवचनीयसंज्ञकशब्देन अत्र वृक्षः तथा च सेचनक्रिया इत्येतयोर्मध्ये विद्यमानः साध्यसाधनभावसंबंधः ज्ञाप्यते ।\n\nप्रकृतसूत्रेण उक्तायाः कर्मप्रवचनीयसंज्ञायाः प्रयोजनम् \nप्रकृतसूत्रेण पाठिता कर्मप्रवचनीयसंज्ञा द्वितीयाविभक्तिविधानार्थम् तथा च उपसर्गसंज्ञाप्रतिषेधार्थम् प्रयुज्यते । तदित्थम् - वृक्षं वृक्षम् अभि सिञ्चति इत्यस्मिन् वाक्ये प्रति इत्यस्य कर्मप्रवचनीयत्वात् तस्य योगे विद्यमानस्य वृक्षशब्दस्य <<कर्मप्रवचनीययुक्ते द्वितीया>> [[2.3.8]] इत्यनेन द्वितीया विभक्तिः भवति । किञ्च, अस्यैव अभि इत्यस्य कर्मप्रवचनीयत्वात् एकसंज्ञाधिकारेण तस्य उपसर्गत्वं प्रतिषिध्यते, येन <<उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम् >> [[8.3.65]] इत्यनेन सिञ्चति इत्यस्य सकारस्य अनिष्टं षत्वम् अपि न भवति । \nलक्षणस्य सन्दर्भेण <hl>अभि<hl> इत्यनेन सह अव्ययीभावसमासः\nलक्षणस्य सन्दर्भेण अभि इति कर्मप्रवचनीयस्य <<लक्षणेनाभिप्रती आभिमुख्ये>> [[2.1.14]] इत्यनेन विकल्पेन अव्ययीभावसमासः अपि सम्भवति । यथा - अग्निम् अभि शलभाः पतन्ति इत्यत्र अग्निः इत्यस्य अभि इत्यनेन सह अव्ययीभावसमासं कृत्वा अभ्यग्निं शलभाः पतन्ति इति प्रयोगः अपि सम्भवति । एवमेव ग्रामम् अभि गच्छति इत्यत्र विकल्पेन अव्ययीभावसमासं कृत्वा अभिग्रामं गच्छति इति प्रयोगः सिद्ध्यति । \nलक्षणादिषु एव किमर्थम्?\nयत्र अभि इति शब्दः लक्षणादीन् त्रीन् अर्थान् विहाय अन्येषु अर्थेषु प्रयुज्यन्ते, तत्र प्रकृतसूत्रेण तस्य कर्मप्रवचनीयसंज्ञा न भवति । यथा -\n\n
  • 1. जलेन अभिषिञ्चति इत्यत्र अभि इत्यस्य सर्वतः इत्यस्मिन् अर्थे प्रयोगः कृतः अस्ति । अयम् अर्थः लक्षणादिभ्यः भिन्नः, अतः अस्मिन् अर्थे अभि इत्यस्य प्रकृतसूत्रेण कर्मप्रवचनीयसंज्ञा न भवति । अपितु, अत्र अभि इत्यस्य उपसर्गसंज्ञा भवति, यस्य सामर्थ्यात् <<उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम् >> [[8.3.65]] इत्यनेन सिञ्चति इत्यस्य सकारस्य षत्वम् अपि कृतं दृश्यते । \n
  • 2. यद् अत्र मम अभिष्यात् तद् दीयताम् अस्मिन् वाक्ये अभि इत्यस्य भागः अस्मिन् सन्दर्भे प्रयोगः कृतः अस्ति । अस्मिन् सन्दर्भे अस्य प्रकृतसूत्रेण कर्मप्रवचनीयसंज्ञा न भवति; अतश्च तस्य उपसर्गसंज्ञां कृत्वा <<उपसर्गप्रादुर्भ्यामस्तिर्यच्परः>> [[8.3.87]] इत्यनेन सकारस्य षत्वम् अपि कृतं दृश्यते ।\n\n\n" }, "14092": { "sa": "\"प्रतिनिधिः\" तथा च \"प्रतिदानम्\" एतयोः अर्थयोः प्रयुक्तः \"प्रति\" इति शब्दः कर्मप्रवचनीयसंज्ञकः भवति । यथा - अभिमन्युः अर्जुनात् प्रति । माषान् तिलेभ्यः प्रति यच्छति । ", "sd": "<<कर्मप्रवचनीयाः>> [[1.4.83]] अस्मिन् अधिकारे आहत्य पञ्चदशभिः सूत्रैः कर्मप्रवचनीयसंज्ञायाः विधानं क्रियते । तेषु इदं नवमं सूत्रम् । प्रति इति शब्दस्य यदा प्रतिनिधिः उत प्रतिदानम् अस्मिन् अर्थे प्रयोगः भवति तदा तस्य कर्मप्रवचनीयसंज्ञा भवति इति अस्य सूत्रस्य आशयः । अपि च, एतादृशस्य कर्मप्रवचनीयस्य योगे विद्यमानस्य शब्दस्य <<प्रतिनिधिप्रतिदाने च यस्मात्>> [[2.3.11]] इत्यनेन पञ्चमी विभक्तिः भवति । क्रमेण विवरणम् एतादृशम् -\n
    \n1.प्रतिनिधिः\nकाशिकाकारः प्रतिनिधिः इत्यस्य मुख्यसदृशः इति अर्थं विवृणोति । मुख्यसदृशः इत्युक्ते कञ्चन एकं पदार्थं \"मुख्यं\" मत्वा तस्मिन् विद्यमानाः गुणाः एव अपरस्मिन् पदार्थे अपि विद्यन्ते (इत्युक्ते, द्वितीयेन पदार्थेन प्रथमपदार्थस्य गुणानाम् अनुकरणम् एव क्रियते अतः एतेषां गुणानां सन्दर्भेण द्वितीयः पदार्थः प्रथमपदार्थसदृशः एव अस्ति) इति विधानम् । एतादृशं सादृश्यं (इत्युक्ते, अनुकार्य-अनुकरण-सम्बन्धम्) दर्शयितुम् प्रयुक्तस्य प्रति इति शब्दस्य कर्मप्रवचनीयसंज्ञा भवति, तथा च मुख्यपदार्थस्य निर्देशार्थम् <<प्रतिनिधिप्रतिदाने च यस्मात्>> [[2.3.11]] इत्यनेन पञ्चमी विभक्तिः उपयुज्यते । कानिचन उदाहरणानि एतानि -\n\n
  • 1. अभिमन्युः अर्जुनात् प्रति । \"अर्जुनः मुख्यः, तत्सदृशः एव अभिमन्युः\" इत्यर्थः । अर्जुनस्य यथा सामर्थ्यम्, तथैव अभिमन्योः अपि सामर्थ्यम् आसीत् - इति अत्र आशयः वर्तते । इदं सादृश्यम् अत्र प्रति इति कर्मप्रवचनीयेन निर्दिश्यते, तथा च अस्य प्रयोगे मुख्यस्य (अर्जुनस्य) निर्देशार्थम् <<प्रतिनिधिप्रतिदाने च यस्मात्>> [[2.3.11]] इत्यनेन पञ्चमी विभक्तिः भवति ।\n
  • 2. भोजः कर्णात् प्रति । कर्णस्य यथा दातृत्वम्, तथैव भोजस्य अपि दातृत्वम् - इति आशयः । \n
  • 3. प्रद्युम्नः कृष्णात् प्रति । प्रद्युम्नः राज्यशासनकार्ये कृष्णसदृशः एव - इत्याशयः । \n
  • 3. दुर्योधनः बलरामात् प्रति । दुर्योधनस्य गदाचालनकौशलम् बलरामसदृशम् एव आसीत् इत्यर्थः ।\n\n
    \n2.प्रतिदानम्\nकाशिकाकारः प्रतिदानम् इत्यस्य दत्तस्य प्रतिनिर्यातनम्  इति अर्थं विवृणोति । सरलभाषायाम्, प्रतिदानम् इत्युक्ते विनिमयः (barter / exchange) इति । एकं वस्तु स्वीकृत्य तस्य स्थाने तादृशस्य एव मूल्यस्य अन्यवस्तुनः अर्पणम् इत्येव अत्र प्रतिदानम् इत्यनेन निर्दिश्यते । एतादृशस्य व्यवहारस्य निर्देशार्थम् प्रयुक्तस्य प्रति इति शब्दस्य कर्मप्रवचनीयसंज्ञा भवति, तथा च अस्मिन् व्यवहारे यस्य पदार्थस्य स्वीकारः क्रियते, तस्य निर्देशार्थम् <<प्रतिनिधिप्रतिदाने च यस्मात्>> [[2.3.11]] इत्यनेन पञ्चमी विभक्तिः उपयुज्यते । द्वे उदाहरणे एतादृशे - \n\n
  • 1. देवदत्तः माषान् तिलेभ्यः प्रति यच्छति । देवदत्तः माषान् दत्त्वा तादृशस्य एव मूलस्य तिलान् स्वीकरोति - इत्याशयः । अयं व्यवहारः अत्र प्रति इति कर्मप्रवचनीयेन निर्दिश्यते, तथा च स्वीकृतस्य पदार्थस्य (इत्युक्ते, तिलानाम्) निर्देशार्थम् <<प्रतिनिधिप्रतिदाने च यस्मात्>> [[2.3.11]] इत्यनेन पञ्चमी विभक्तिः भवति ।\n
  • 2. गावः वृषभेभ्यः प्रति । गाः दत्त्वा वृषभान् स्वीकरोति इत्याशयः ।\n\nप्रकृतसूत्रेण उक्तायाः कर्मप्रवचनीयसंज्ञायाः प्रयोजनम् \nप्रकृतसूत्रेण पाठिता कर्मप्रवचनीयसंज्ञा पञ्चमीविभक्तिविधानार्थम् प्रयुज्यते । प्रतिनिधिः अस्मिन् सन्दर्भे \"मुख्य\"पदार्थस्य, तथा च प्रतिदानम् अस्मिन् सन्दर्भे \"स्वीकृत\"पदार्थस्य <<प्रतिनिधिप्रतिदाने च यस्मात्>> [[2.3.11]] इत्यनेन पञ्चमी विभक्तिः भवति । अतएव अभिमन्युः अर्जुनात् प्रति तथा च गावः वृषभेभ्यः प्रति इत्यादिषु उदाहरणेषु पञ्चमी प्रयुक्ता दृश्यते ।\nपञ्चम्यन्तात् <hl>तसि</hl>-प्रत्ययः\nप्रकृतसूत्रेण यदा प्रतिनिधिः अस्मिन् अर्थे प्रति इति शब्दः प्रयुज्यते, तदा \"मुख्यस्य\" निर्देशार्थम् <<प्रतिनिधिप्रतिदाने च यस्मात्>> [[2.3.11]] इत्यनेन पञ्चमी विभक्तिः प्रयुज्यते । अस्मात् पञ्चम्यन्तशब्दात् <<प्रतियोगे पञ्चम्यास्तसिः >> [[5.4.44]] इत्यनेन विकल्पेन <<तसि>> इति तद्धितप्रत्ययः स्वार्थे विधीयते । । यथा -\n\nअर्जुनात् + तसि [<<प्रतियोगे पञ्चम्यास्तसिः >> [[5.4.44]] इति स्वार्थे तसि-प्रत्ययः]\n--> अर्जुन + ङसिँ + तस् [अलौकिकविग्रहः]\n--> अर्जुन + तस् [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा ।<<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति ङसिँ-प्रत्ययस्य लोपः]\n--> अर्जुनतः [रुत्वविसर्गौ]\n \nअतः अभिमन्युः अर्जुनतः प्रति, प्रद्युम्नः कृष्णतः प्रति इत्यादीनि वाक्यानि अपि सिद्ध्यन्ति ।\n" }, "14093": { "sa": "यौ कमपि नूतनम् अर्थं न वदतः, तादृशौ \"अधि\" तथा \"परि\" इति शब्दौ कर्मप्रवचनीयसंज्ञकौ भवतः । यथा - रामः अध्यागच्छति, रामः पर्यागच्छति । ", "sd": "<<कर्मप्रवचनीयाः>> [[1.4.83]] अस्मिन् अधिकारे आहत्य पञ्चदशभिः सूत्रैः कर्मप्रवचनीयसंज्ञायाः विधानं क्रियते । तेषु इदं दशमं सूत्रम् । अधि तथा च परि इति शब्दौ यदा किमपि नूतनम् अर्थं न वदतः अपितु धातोः अर्थम् एव पुनः प्रतिपादयतः, तदा तयोः कर्मप्रवचनीयसंज्ञा भवति इति अस्य सूत्रस्य आशयः । यथा, रामः अध्यागच्छति उत रामः पर्यागच्छति । एतयोः द्वयोः अपि वाक्ययोः अर्थः रामः आगच्छति इत्येव अस्ति । इत्युक्ते, एतयोः वाक्ययोः विद्यमानौ अधि तथा परि एतौ शब्दौ स्वस्य कमपि नूतनम् अर्थम् नैव प्रकटयतः, अपि तु \"आगच्छति\" इत्यस्यैव अर्थम् पुनः प्रतिपादयतः । अतएव एतयोः शब्दयोः अत्र प्रकृतसूत्रेण कर्मप्रवचनीयसंज्ञा भवति । \nप्रकृतसूत्रेण उक्तायाः कर्मप्रवचनीयसंज्ञायाः प्रयोजनम्\nप्रकृतसूत्रेण उक्तया कर्मप्रवचनीयसंज्ञया एकसंज्ञाधिकारात् गतिसंज्ञायाः बाधः भवति । इत्युक्ते, अध्यागच्छति तथा च पर्यागच्छति इति द्वयोः अपि उदाहरणयोः अधि तथा च परि एतौ शब्दौ यद्यपि प्रादिगणे विद्यमानौ, तथा च क्रियायोगे प्रयुक्तौ स्तः, तथापि तयोः <<गतिश्च>> [[1.4.60]] इत्यनेन विहिता गतिसंज्ञा एकसंज्ञाधिकारात् प्रकृतसूत्रेण दत्तया कर्मप्रवचनीयसंज्ञया बाध्यते । यदि एतयोः गतिसंज्ञा अभविष्यत्, तर्हि <<गतिर्गतौ>> [[8.1.70]] इत्यनेन अधि तथा च परि इति गतिसंज्ञकयोः प्रथमः स्वरः (अकारः) अनुदात्तः अभविष्यत् । परन्तु प्रयोगे अस्य अकारस्य उदात्तत्वम् इष्यते, न हि अनुदात्तत्वम् । अस्य उदात्तत्वस्य विधानम् <<निपाताः आद्युदात्ताः>> (4.12) इति फिट्सूत्रेण तदा एव सम्भवति यदा एतयोः गतिसंज्ञा बाध्यते । इदमेव कार्यं कर्तुम् एतयोः शब्दयोः प्रकृतसूत्रेण कर्मप्रवचनीयसंज्ञा कृता अस्ति । कर्मप्रवचनीयसंज्ञायां कृतायाम्, एकसंज्ञाधिकारात् गतिसंज्ञायाः बाधः भवति, येन अधि तथा च परि इत्येतयोः इष्टम् आद्युदात्तत्वम् अपि सिद्ध्यति । \n<hl>अनर्थकौ</hl> इति शब्दस्य अर्थः\nअस्मिन् सूत्रे अनर्थकौ इति शब्दः प्रयुक्तः अस्ति । अस्य शब्दस्य समासविग्रहः - न विद्यते अर्थः यस्य, सः अनर्थकः - इतिप्रकारेण न दीयते । यदि एतयोः एतादृशः अर्थः उच्येत, तर्हि अधि तथा च परि इति शब्दयोः प्रातिपदिकसंज्ञाविधाने समस्या आगच्छेत्, यतोहि अनर्थकशब्दानां प्रातिपदिकसंज्ञा नैव सम्भवति । अतएव प्रकृतसूत्रे प्रयुक्तस्य अनर्थकौ इति शब्दस्य समासविग्रहः - न विद्यते अर्थान्तरम् यस्य, सः अनर्थकः - इतिप्रकारेण स्वीक्रियते । यौ अधि तथा च परि इति शब्दौ भिन्नम् अर्थं न वदतः, इत्युक्ते यौ धातोः अर्थम् एव पुनः प्रतिपादयतः, तयोः प्रकृतसूत्रेण कर्मप्रवचनीयसंज्ञा भवति - इति अत्र आशयः अस्ति । \nकाशिकायां, कौमुद्यां च दत्तम् उदाहरणम्\nप्रकृतसूत्रे काशिकायां कौमुद्यां च कुतः अध्यागच्छति तथा च कुतः पर्यागच्छति इति द्वे उदाहरणे दत्ते स्तः । एतयोः द्वयोः अपि उदाहरणयोः विद्यमानः कुतः इति शब्दः कस्मात् स्थलात् इत्यस्मिन् अर्थे प्रयुक्तः अस्ति । अत्र अपादानस्यैव अर्थे विहिता या पञ्चमी, तदन्तात् <<अपादाने चाहीयरुहोः>> [[5.4.45]] इत्यनेन तसि-प्रत्ययः कृतः अस्ति । इयं पञ्चमी विभक्तिः कर्मप्रवचनीयविभक्तिः नास्ति इति स्मर्तव्यम् । " }, "14094": { "sa": "प्रशंसां कर्तुं प्रयुक्तः \"सु\" शब्दः कर्मप्रवचनीयसंज्ञकः भवति । यथा - सु सिक्तं भवता । ", "sd": "<<कर्मप्रवचनीयाः>> [[1.4.83]] अस्मिन् अधिकारे आहत्य पञ्चदशभिः सूत्रैः कर्मप्रवचनीयसंज्ञायाः विधानं क्रियते । तेषु इदं एकादशं सूत्रम् । सु इति शब्दः यदा प्रशंसाः / स्तुतिः अस्मिन् सन्दर्भे प्रयुज्यते, तदा तस्य कर्मप्रवचनीयसंज्ञा भवति इति अस्य सूत्रस्य आशयः । यथा, सु सिक्तं भवता (भवता सम्यक् रूपेण सिञ्चनं कृतम् - इत्याशयः) उत सु स्तुतं भवता (भवता साधु स्तुतिः कृता - इत्यर्थः) इति द्वयोः अपि वाक्ययोः विद्यमानः सु इति शब्दः प्रशंसार्थे प्रयुक्तः अस्ति, अतः उभयत्र अस्य शब्दस्य प्रकृतसूत्रेण कर्मप्रवचनीयसंज्ञा भवति । \nप्रकृतसूत्रेण उक्तायाः कर्मप्रवचनीयसंज्ञायाः प्रयोजनम्\nप्रकृतसूत्रेण उक्तया कर्मप्रवचनीयसंज्ञया एकसंज्ञाधिकारात् उपसर्गसंज्ञायाः बाधः भवति । इत्युक्ते, सु सिक्तम् तथा च सु स्तुतम् इति द्वयोः अपि उदाहरणयोः सु इति शब्दः यद्यपि प्रादिगणे विद्यमानः, तथा च क्रियायोगे प्रयुक्तः अस्ति, तथापि तस्य <<उपसर्गाः क्रियायोगे>> [[1.4.59]] इत्यनेन विहिता उपसर्गसंज्ञा एकसंज्ञाधिकारात् प्रकृतसूत्रेण दत्तया कर्मप्रवचनीयसंज्ञया बाध्यते । यदि अस्य उपसर्गसंज्ञा अभविष्यत्, तर्हि उभयत्र <<उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम् >> [[8.3.65]] इत्यनेन धातोः आदिस्थस्य सकारस्य (इत्युक्ते सिक्तम् तथा स्तुतम् इत्येतयोः आदिस्थसकारस्य) अनिष्टं षत्वम् अभविष्यत् । तद् बाधितुम् प्रकृतसूत्रेण अस्य शब्दस्य कर्मप्रवचनीयसंज्ञा कृता अस्ति । कर्मप्रवचनीयसंज्ञायां कृतायाम्, एकसंज्ञाधिकारात् उपसर्गसंज्ञायाः बाधः भवति, येन सकारस्य अनिष्टं षत्वम् अपि निवार्यते ।\nपूजायाम् इति किमर्थम् ?\n यदि प्रशंसा इति अर्थः नास्ति, तर्हि प्रकृतसूत्रस्य प्रयोगः न भवति । यथा, सुषिक्तं किं तव अत्र ? (किम् इदं तव साधु सिञ्चनम् अस्ति वा ? - इत्यर्थः) अस्मिन् वाक्ये यद्यपि सु इति शब्दः शोभनम् अस्मिन् अर्थे प्रयुक्तः अस्ति, तथापि अत्र प्रशंसा न क्रियते (अपितु परिहासः / प्रश्नः क्रियते) अतः अत्र प्रकृतसूत्रस्य प्रयोगः न भवति । इत्युक्ते, अत्र सु इत्यस्य कर्मप्रवचनीयसंज्ञा न भवति । किञ्च, कर्मप्रवचनीयसंज्ञायाः अभावात् उपसर्गसंज्ञां प्राप्य <<उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम् >> [[8.3.65]] इत्यनेन धातोः आदिस्थस्य सकारस्य षत्वम् कृत्वा सुषिक्तम् इत्येव प्रयोगः सिद्ध्यति ।\n" }, "14095": { "sa": "प्रशंसाम् उत अतिक्रमणं द्योतयितुम् प्रयुक्तः \"अति\" शब्दः कर्मप्रवचनीयसंज्ञकः भवति । यथा - अति सिक्तं भवता । अति देवान् कृष्णः ।", "sd": "<<कर्मप्रवचनीयाः>> [[1.4.83]] अस्मिन् अधिकारे आहत्य पञ्चदशभिः सूत्रैः कर्मप्रवचनीयसंज्ञायाः विधानं क्रियते । तेषु इदं द्वादशं सूत्रम् । अति इति शब्दः यदा प्रशंसाः / स्तुतिः अथवा अतिक्रमणम् अस्मिन् सन्दर्भे प्रयुज्यते, तदा तस्य कर्मप्रवचनीयसंज्ञा भवति इति अस्य सूत्रस्य आशयः । क्रमेण विवरणम् एतादृशम् -\n
    \n1. प्रशंसा / स्तुतिः\nप्रशंसां कर्तुम् यदा अति इति शब्दः प्रयुज्यते, तदा तस्य कर्मप्रवचनीयसंज्ञा भवति । यथा - अति सिक्तं भवता (भवता सम्यक् रूपेण सिञ्चनं कृतम् - इत्याशयः) उत अति स्तुतं भवता (भवता साधु स्तुतिः कृता - इत्यर्थः) इति द्वयोः अपि वाक्ययोः विद्यमानः अति इति शब्दः प्रशंसार्थे प्रयुक्तः अस्ति, अतः उभयत्र अस्य शब्दस्य प्रकृतसूत्रेण कर्मप्रवचनीयसंज्ञा भवति । एवमेव, अति देवान् कृष्णः इत्यत्र अपि, कृष्णः देवानाम् पूज्यः अस्ति इति अर्थः वर्तते, अतश्च अत्रापि प्रशंसार्थे प्रयुक्तस्य अति इति शब्दस्य प्रकृतसूत्रेण कर्मप्रवचनीयसंज्ञा भवति । \n
    \n2. अतिक्रमणम्\nकाशिकायाम् अतिक्रमणम् इत्यस्य अर्थः निष्पन्ने अपि वस्तुनि क्रियाप्रवृत्तिः अतिक्रमणम् इति दत्तः अस्ति । यत्र क्रियापूर्त्तेः अनन्तरम् (इत्युक्ते क्रियायाः उचितं फलं प्राप्य अपि) क्रिया नैव समाप्यते अपि तु क्रियमाणा एव वर्तते, तत्र क्रियायाः अतिक्रमणम् कृतम् अस्ति इति उच्यते । अस्य अतिक्रमणस्य निर्देशार्थम् प्रयुक्तस्य अति इति शब्दस्य प्रकृतसूत्रेण कर्मप्रवचनीयसंज्ञा भवति । यथा, अति सिक्तं भवता (भवता अत्याधिकं सिञ्चनं कृतम् - इत्यर्थः) अत्र अतिक्रमणार्थे अति इति शब्दः प्रयुक्तः अस्ति, अस्य प्रकृतसूत्रेण कर्मप्रवचनीयसंज्ञा भवति ।\n\nसिद्धान्तकौमुद्याम् तु अतिक्रमणम् इति शब्दः क्रियाभिन्नसन्दर्भेषु अपि व्याख्यातः अस्ति । अस्मिन् सन्दर्भे बालमनोरमाकारः अस्य शब्दस्य अर्थम् - उचिताद् आधिक्यम् अतिक्रमणम् इति विदधाति । सामान्यरूपेण यद् अपेक्षितम्, तस्माद् अपि अधिकम् - इति अस्य आशयः । यथा, अति देवान् कृष्णः । प्रपञ्चरक्षणस्य विषये अन्ये देवाः यथा साहाय्यं कुर्वन्ति, तस्य अपेक्षया कृष्णः अत्याधिकं साहाय्यं करोति - इति अस्य वाक्यस्य आशयः वर्तते । अत्र अति इति शब्दः अतिक्रमणं द्योतयितुम् प्रयुक्तः अस्ति, अतः अत्र अस्य शब्दस्य प्रकृतसूत्रेण कर्मप्रवचनीयसंज्ञा भवति । \nअति सिक्तं भवता इत्यत्र उत अति देवान् कृष्णः इत्यादिषु वाक्येषु विद्यमानः अति-शब्दः प्रशंसार्थे वर्तते उत अतिक्रमणार्थे वर्तते इति सन्दर्भात् एव स्पष्टी भवति ।\nप्रकृतसूत्रेण उक्तायाः कर्मप्रवचनीयसंज्ञायाः प्रयोजनम्\nप्रकृतसूत्रेण उक्तायाः कर्मप्रवचनीयसंज्ञायाः द्वे प्रयोजने स्तः - \n\n
  • 1. उपसर्गसंंज्ञायाः बाधः - प्रकृतसूत्रेण उक्ता कर्मप्रवचनीयसंज्ञा एकसंज्ञाधिकारात् उपसर्गसंज्ञां बाधते । यथा, अति सिक्तम् इत्यत्र अति इति शब्दः यद्यपि प्रादिगणे विद्यमानः, तथा च क्रियायोगे प्रयुक्तः अस्ति, तथापि तस्य <<उपसर्गाः क्रियायोगे>> [[1.4.59]] इत्यनेन विहिता उपसर्गसंज्ञा एकसंज्ञाधिकारात् प्रकृतसूत्रेण दत्तया कर्मप्रवचनीयसंज्ञया बाध्यते । यदि अस्य उपसर्गसंज्ञा अभविष्यत्, तर्हि सिक्तम् इत्यस्य सकारस्य <<उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम् >> [[8.3.65]] इत्यनेन अनिष्टं षत्वम् अभविष्यत् । तद् बाधितुम् एव प्रकृतसूत्रेण अस्य शब्दस्य कर्मप्रवचनीयसंज्ञा कृता अस्ति । कर्मप्रवचनीयसंज्ञायां कृतायाम्, एकसंज्ञाधिकारात् उपसर्गसंज्ञायाः बाधः भवति, येन सकारस्य अनिष्टं षत्वम् अपि निवार्यते ।\n
  • 2. द्वितीयाविभक्तिविधानम् - अति देवान् कृष्णः अस्मिन् उदाहरणे कर्मप्रवचनीयसंज्ञाविधानसामर्थ्यात् <<कर्मप्रवचनीययुक्ते द्वितीया>> [[2.3.8]] इत्यनेन देवपदार्थस्य निर्देशार्थम् द्वितीया विभक्तिः विधीयते । \n\n" }, "14096": { "sa": "उपहासपूर्वकं पदार्थस्य अनुपस्थितेः विधानम्, शक्तेः उत्कर्षं दर्शयितुम् अतिशयितविधानम्, कामचाराभ्यनुज्ञानम्, निन्दा, तथा च समुच्चयः - एतेषु सन्दर्भेषु प्रयुक्तः \"अपि\" इति शब्दः कर्मप्रवचनीयसंज्ञकः भवति । यथा - घृतस्य अपि स्यात्, अपि पर्वतं शिरसा भिन्द्यात्, अपि सिञ्च, अपि स्तूयाद् वृषलम्, अपि सिञ्च अपि स्तुहि । ", "sd": "<<कर्मप्रवचनीयाः>> [[1.4.83]] अस्मिन् अधिकारे आहत्य पञ्चदशभिः सूत्रैः कर्मप्रवचनीयसंज्ञायाः विधानं क्रियते । तेषु इदं त्रयोदशं सूत्रम् । पदार्थः, सम्भावनम्, अन्ववसर्गः, गर्हा तथा च समुच्चयः - एतेषु पञ्चसु भिन्नेषु सन्दर्भेषु प्रयुक्तस्य अपि इति शब्दस्य अनेन सूत्रेण कर्मप्रवचनीयसंज्ञा विधीयते । क्रमेण विवरणम् एतादृशम् -\n
    \n1. पदार्थः = उपहासपूर्वकं पदार्थस्य अनुपस्थितेः विधानम् ।\nकस्यचन अपेक्षितपदार्थस्य अनुपस्थितेः निर्देशः उपहासपूर्वकं कर्तुम् यदा अपि इति शब्दः प्रयुज्यते, तदा तस्य कर्मप्रवचनीयसंज्ञा भवति । यथा - ओदने सर्पिषः अपि स्यात् । \"अस्मिन् ओदने घृतस्य एकः बिन्दुः तु भवेत् इति मम आशा आसीत्, परन्तु तथा अपि न दृश्यते\" इति अस्य वाक्यस्य आशयः । ओदने किञ्चित् अपि घृतम् नास्ति (अस्ति चेद् अपि अत्यल्पम् एव विद्यते) - इति परिहासरूपेण वक्तुम् इदं वाक्यं प्रयुक्तम् अस्ति । \n\nओदने सर्पिषः अपि स्यात् इति उदाहरणस्य सन्दर्भेण केचन विषयाः अस्य सूत्रस्य भिन्नेषु व्याख्यानेषु स्पष्टीकृताः सन्ति । तेषां संक्षेपः अधः दीयते ।\n\n
  • 1. अस्मिन् उदाहरणे कर्तृसंज्ञकम् पदम् किमपि न विद्यते, अतः बिन्दुः / मात्रा / स्तोकम् इत्यादिकः कश्चन शब्दः अत्र कर्तृरूपेण अध्याह्रियते । किञ्च, अस्य अनुपस्थित-कर्तृपदस्य अर्थः अपि अपि इति कर्मप्रवचनीयनेन एव अत्र स्पष्टी भवति । अनेन प्रकारेण, अत्र द्वयोः विषययोः अनुपस्थितिः अस्ति - अर्थदृष्ट्या घृतम् इति पदार्थस्य अनुपस्थितिः, तथा च वाक्यदृष्ट्या बिन्दुः इति कर्तृपदस्य अनुपस्थितिः । एतयोः द्वयोः अपि अनुपस्थित्योः निर्देशः अत्र अपि इति शब्देन भवति । अयमेव विषयः प्रकृतसूत्रे स्थापितेन पदार्थः इति शब्देन निर्दिश्यते । अतएव काशिकाकारः वदति - पदान्तरस्य अप्रयुज्यमानस्य अर्थः = पदार्थः इति । अप्रयुज्यमानम् कर्तृसंज्ञकं यत् पदम्, तस्य अर्थः अपि इत्यनेनैव स्पष्टी भवति, इति अस्य वाक्यस्य आशयः । कौमुदीकारः अस्मिन्नेव सन्दर्भे वदति - कर्तृदौर्लभ्यप्रयुक्तं दौर्लभ्यं द्योतयन् अपिशब्दः स्याद् इत्यनेन सम्बद्ध्यते - इति । कर्तृपदस्य अनुपस्थितिः, तथा च तत्सम्बन्धिनः पदार्थस्य अपि अनुपस्थितिः - इति द्वौ अपि द्योतयन् अपि इति शब्दः स्यात् इति क्रियापदेन सह अन्वेति - इति कौमुदीकारस्य वाक्यस्य आशयः अस्ति । \n
  • 2. अस्मिन् उदाहरणे स्यात् इति विधिलिङ्लकारस्य रूपम् प्रयुक्तम् अस्ति । इदं विधिलिङ्लकारस्य विधानं भिन्नानां सूत्राणां आधारेण समर्थयितुम् शक्यते । यथा , \"अस्मिन् ओदने घृतम् अवश्यमेव भवितुम् अर्हति\" इति अर्थं स्वीकृत्य <<अर्हे कृत्यतृचश्च>> [[3.3.169]] इत्यनेन अर्हतां द्योतयितुम् अत्र विधिलिङ्लकारः सम्भवति । अथवा, \"किञ्चित् घृतम् ददातु\" इति प्रार्थना कृता अस्ति इति मत्त्वा अत्र <<विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्>> [[3.3.161]] इत्यनेन अपि विधिलिङ्लकारः प्रयोक्तुं शक्यते । नो चेत्, \"अस्मिन् ओदने किञ्चित् घृतं भवितुं शक्नोति\" इत्यर्थपूर्वकं <<शकि लिङ् च>> [[3.3.172]] इति अपि विधिलिङ्लकारः भवितुम् अर्हति । किञ्च, अत्र \"घृतम् अस्ति वा\" इति सम्भावनाम् (शङ्कां) मत्वा तस्याः निर्देशार्थम् <<उपसंवादाशङ्कयोश्च >> [[3.4.8]] इत्यनेन अपि विधिलिङ्लकारः सम्भवति ।\nयद्यपि <<उपसंवादाशङ्कयोश्च >> [[3.4.8]] इति सूत्रं केवलं वैदिकव्याकरणस्य विषये एव अस्ति, किञ्च तेन सूत्रेण आशङ्कायाः सन्दर्भेण लेट्-लकारः विधीयते, तथापि अस्य सूत्रस्य भाष्ये भाष्यकारेण एतस्मिन् विशेषे लिङ् इति विधानं कृतम् अस्ति । अतः भाषायाम् आशङ्कायाः निर्देशार्थं विधिलिङ्लकारस्य विधानम् अवश्यमेव सम्भवति - इति नागेशेन लघुशब्देन्दुशेखरे स्पष्टीकृतम् वर्तते । किञ्च, सिद्धान्तकौमुदीकारेण अपि अत्र सम्भावनायाम् लिङ् इत्येव उक्त्वा अनेनैव सूत्रेण अत्र विधिलिङ्लकारस्य विधानं कृतम् अस्ति । \n
  • 3. अस्मिन् उदाहरणे सर्पिषः इति षष्ठ्यन्तं पदं प्रयुक्तम् अस्ति । <<षष्ठी शेषे>> [[2.3.50]] इत्यनेन विहिता इयं षष्ठी विभक्तिः अत्र अवयव-अवयविभावसम्बन्धं दर्शयति । इत्युक्ते, सर्पिः इति अवयवी, तथा च बिन्दुः इति अवयवः - एतयोर्मध्ये विद्यमानस्य सम्बन्धस्य निर्देशः एव अत्र षष्ठीविभक्त्या प्रकटी भवति ।\n\n\nअनेनैव प्रकारेण मधुनः अपि स्यात् इति अन्यद् उदाहरणम् अपि सङ्गच्छते । \"कस्मिंश्चित् पदार्थे किञ्चिद् अपि मधु नास्ति\" इति उपहासपूर्वककथनम् - इत्येव अस्य वाक्यस्य आशयः । \n
    \n2. सम्भावनम् = शक्तेः उत्कर्षं दर्शयितुम् कृतम् अतिशयितविधानम् ।\nकस्यचित् श्रेष्ठत्वं (शक्त्युत्कर्षं) दर्शयितुम् कृतम् अतिशयितविधानम् सम्भावनम् इति नाम्ना निर्दिश्यते । अस्य सम्भावनस्य निर्देशार्थं प्रयुक्तः अपि इति शब्दः कर्मप्रवचनीयसंज्ञकः भवति । अस्य चत्वारि उदाहरणानि एतादृशानि -\n\n
  • 1. अपि पर्वतं देवदत्तः शिरसा भिन्द्यात् । देवदत्तस्य शक्तिः इयती अस्ति यत् सः तया शक्त्या मस्तकमात्रेण पर्वतम् अपि भेत्तुं शक्नुयात् - इति अस्य वाक्यस्य अर्थः । वस्तुतः कियती अपि शक्तिः विद्यते चेद् शिरसा पर्वतभेदनम् अशक्यम् एव । परन्तु तथापि देवदत्तस्य शक्तेः श्रेष्ठत्वं स्पष्टीभवेत् इति हेतुना अत्र एतादृशं वागाधिक्यम् (अत्युक्तिः) प्रयुक्तम् अस्ति । अस्यां स्थितौ अस्मिन् वाक्ये विद्यमानः अपि इति शब्दः कर्मप्रवचनीयसंज्ञः भवति ।\n
  • 2. अपि स्तूयाद् विष्णुम् । अनिर्वचनीयस्य भगवतः विष्णोः स्तुतिः सामान्यैः न सम्यक् कर्तुं शक्यते, परन्तु कश्चन श्रेष्ठः भक्तः विष्णुम् अपि सम्यक् स्तोतुम् शक्नोति - इति अस्य वाक्यस्य आशयः । अत्र भक्तस्य भक्तेः उत्कर्षः अपि इत्यनेन प्रकटीकृतः अस्ति ।\n
  • 3. अपि द्रोणपाकं भुञ्जीत । द्रोणपाकं (20/25 KG) इति यावत् पाकम् अयं मनुष्यः एकस्मिन् एव समये खादितुम् शक्नोति - इति अस्य वाक्यस्य अर्थः । कस्यचन मनुष्यस्य पचनशक्त्याः श्रेष्ठत्वं दर्शयितुम् इदं अतिशयितं विधानं कृतम् अस्ति । \n
  • 4. अपि सिञ्चेत् मूलकसहस्रम् । कस्यचन कृषकस्य सिञ्चनशक्तिः इयती अस्ति यत् सः सहस्रं वृक्षान् अपि एकस्मिन् एव समये सेक्तुं शक्नोति - इति अत्र आशयः । \n\nएतेषु सर्वेषु अपि उदाहरणेषु अपि इति शब्दः सम्भावनस्य (= अत्युक्तेः) निर्देशार्थं प्रयुक्तः अस्ति, अतः तस्य प्रकृतसूत्रेण कर्मप्रवचनीयसंज्ञः भवति । \n\nसम्भावनार्थे यदा अपि इति शब्दः प्रयुज्यते, तदा <<सम्भावनेऽलमिति चेत् सिद्धाप्रयोगे>> [[3.3.154]] इति सूत्रेण विधिलिङ्लकारस्यैव प्रयोगः भवति । अतः एतेषु सर्वेषु अपि उदाहरणेषु विधिलिङ्लकारः एव प्रयुक्तः दृश्यते ।\nसम्भावनम् तथा च सम्भावना एतौ द्वौ पृथक् शब्दौ स्तः । सम्भावनम् इत्युक्ते शक्तेः उत्कर्षः । सम्भावना इत्युक्ते आशङ्का । सम्भावनस्य निर्देशार्थम् <<सम्भावनेऽलमिति चेत् सिद्धाप्रयोगे>> [[3.3.154]] इत्यनेन विधिलिङ्लकारः भवति । सम्भावनायाः निर्देशार्थम् <<उपसंवादाशङ्कयोश्च >> इत्यनेन वेदेषु लेट्लकारः तथा च लोके विधिलिङ्लकारः प्रयुज्यते ।\n
    \n\n3. अन्ववसर्गः = यथेच्छं कामचारानुज्ञा ।\nयथेच्छम् आचारस्य अनुज्ञायाः सन्दर्भेण प्रयुक्तः अपि इति शब्दः कर्मप्रवचनीयसंज्ञकः भवति । यथा, अपि भुञ्जीत ओदनम् । यदि इच्छसि तर्हि ओदनं खाद - इति अस्य अर्थः । एवमेव, अपि स्तूयाद् विष्णुम् । यदि विष्णोः स्तुतिं कर्तुम् इच्छसि तर्हि तथा अवश्यं कुरु - इति अस्य अर्थः । एतयोः द्वयोः अपि उदाहरणयोः \"स्वमतम् / स्वेच्छाम् अनुसृत्य वर्तनं कुरु\" इति आशयः विद्यते । अस्मिन् सन्दर्भे प्रयुक्तः अपि इति शब्दः प्रकृतसूत्रेण कर्मप्रवचनीयसंज्ञकः भवति । एवमेव अपि सिञ्चतु भवान् क्षेत्रम्, अपि सुनु (इच्छसे चेत् स्नानं कुरु - इत्यर्थः) एते उदाहरणे अपि सङ्गच्छेते ।\n\nएतादृशेषु अन्ववसर्गार्थकेषु (= अतिसर्गार्थकेषु) वाक्येषु <<प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च >> [[3.3.163]] इत्यनेन लोट्लकारस्य, अथ वा <<लिङ् चोर्ध्वमौहूर्तिके >> [[3.3.164]] इत्यनेन विधिलिङ्लकारस्य प्रयोगः भवति ।\n
    \n4. गर्हा = निन्दा ।\nयदा निन्दायाः सन्दर्भे अपि इति शब्दः प्रयुज्यते, तदा तस्य कर्मप्रवचनीयसंज्ञा भवति । कानिचन उदाहरणानि एतादृशानि -\n\n
  • 1.धिग्देवदत्तम्, अपि स्तूयाद् वृषलम् । देवदत्तस्य धिक्कारः स्यात्, यतो हि सः वृषलस्य (पापिजनस्य) स्तुतिं करोति - इति आशयः ।\n
  • 2.धिक् जाल्मं देवदत्तम्, अपि सिञ्चेत् पलाण्डुम् । देवदत्तः अनुचिते काले पलाण्डूनाम् (onions) सिञ्चनं करोति अतः तस्य धिक्कारः स्यात् - इति आशयः ।\n
  • 3.धिक् त्वाम्, अपि त्यजसि जायाम् । त्वं भार्यां त्यजसि अतः त्वं निन्द्यः - इति आशयः । \n
  • 4.धिक्, शूद्रम् अपि स्तौति अयम् । अयं शूद्रस्य स्तुतिं करोति, अतः अस्य धिक्कारः स्यात् - इत्यर्थः ।\n\nएतेषु सर्वेषु अपि उदाहरणेषु अपि इति शब्दः निन्दायाः सन्दर्भेण प्रयुक्तः अस्ति, अतः अत्र अस्य शब्दस्य सर्वत्र प्रकृतसूत्रेण कर्मप्रवचनीयसंज्ञा भवति ।\n\nयदा अपि इति शब्दस्य गर्हायाः सन्दर्भेण वाक्ये प्रयोगः भवति, तदा सामान्यरूपेण <<गर्हायां लडपिजात्वोः>> [[3.3.142]] इत्यनेन लट्लकारस्यैव प्रयोगः क्रियते । अतएव अत्र उपरि तृतीये तथा च चतुर्थे उदाहरणे लट्लकारः प्रयुक्तः दृश्यते । परन्तु यदा गर्हया सह अन्या अपि काचित् विवक्षा वर्तते, तदा अन्यलकारस्य प्रयोगः अपि सम्भवति । यथा, उपरि दत्तयोः प्रथमद्वितीययोः उदाहरणयोः गर्हया सह सम्भावना (योग्यतायाः विषये संशयः) अपि अस्ति इति मत्वा <<उपसंवादाशङ्कयोश्च>> [[3.4.8]] इति परसूत्रेण लट्लकारं बाधित्वा विधिलिङ्लकारः प्रयुक्तः अस्ति । केषुचित् व्याख्यानेषु तु अत्र अर्हतायाः विवक्षां कृत्वा <<अर्हे कृत्यतृचश्च>> [[3.3.169]] इत्यनेननापि परत्वात् विधिलिङ्लकारस्य समर्थनं कृतं दृश्यते । यत्र गर्हां विहाय अन्या काऽपि विवक्षा न वर्तते, तत्र तु <<गर्हायां लडपिजात्वोः>> [[3.3.142]] इत्यनेन लट्लकारस्यैव प्रयोगः करणीयः । \n
    \n5. समुच्चयः = द्वौ अथवा अधिकानां विषयाणाम् सङ्कलनम् ।\nअपि इति शब्दस्य समुच्चयार्थे प्रयोगः भाषायाम् सुप्रसिद्धः एव । यथा, लक्ष्मणः अपि गच्छति इत्यत्र गमनक्रियायाः कर्तृषु अपि इति शब्देन लक्ष्मणस्य अपि समावेशः भवति । अत्र अपि इति शब्दः समुच्चयार्थं प्रयुक्तः अस्ति । एवमेव अपि सिञ्च अपि स्तुहि (त्वम् अन्यैः कार्यैः सह सिञ्चनम् अपि कुरु, स्तुतिम् अपि कुरु - इत्यर्थः) अस्मिन् वाक्ये अपि अपि इति शब्देन क्रियाद्वयस्य समुच्चयः कृतः अस्ति । एतादृशेषु वाक्येषु समुच्चयार्थं प्रयुक्तः अपि इति शब्दः प्रकृतसूत्रेण कर्मप्रवचनीयसंज्ञकः भवति । \n
    \nअनेन प्रकारेण पदार्थः, सम्भावनम्, अन्ववसर्गः, गर्हा तथा च समुच्चयः एतेषु पञ्चसु सन्दर्भेषु प्रयुक्तः अपि इति शब्दः कर्मप्रवचनीयसंज्ञकः भवति । \n\nप्रकृतसूत्रेण उक्तायाः कर्मप्रवचनीयसंज्ञायाः प्रयोजनम्\nप्रादिगणे विद्यमानः अपि इति शब्दः क्रियायाः योगे <<उपसर्गाः क्रियायोगे>> [[1.4.59]] इत्यनेन उपसर्गसंज्ञकः भवितुम् अर्हति । परन्तु प्रकृतसूत्रेण विहिता कर्मप्रवचनीयसंज्ञा एकसंज्ञाधिकारसामर्थ्यात् इमाम् उपसर्गसंज्ञां बाधते । यदि अपि इति शब्दस्य उपसर्गसंज्ञा अभविष्यत्, तर्हि सर्पिषः अपि स्यात् इत्यत्र <<उपसर्गप्रादुर्भ्यामस्तिर्यच्परः>> [[8.3.87]] इत्यनेन धातोः सकारस्य अनिष्टं षत्वम् अभविष्यत् । एवमेव, अपि स्तूयाद् विष्णुम्, अपि सिञ्च, अपि स्तूयाद् वृषलम् तथा च अपि सिञ्च अपि स्तुहि इत्येतेषु अन्येषु उदाहरणेषु अपि <<उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम्>> [[8.3.65]] इत्यनेन धातुसकारस्य अनिष्टं षत्वम् अभविष्यत् । एतादृशं षत्वम् मा भूत् इति हेतुना अत्र उपसर्गसंज्ञायाः बाधः इष्यते, तदर्थम् च अत्र अपि इत्यस्य कर्मप्रवचनीयसंज्ञा कृता अस्ति । \n\nअत्र इदं स्मर्तव्यम्, यत् प्रकृतसूत्रस्य सर्वेषु अपि उदाहरणेषु विद्यमाना द्वितीया विभक्तिः कारकद्वितीया अस्ति, न हि कर्मप्रवचनीयद्वितीया । यथा, अपि स्तूयाद् विष्णुम् इत्यत्र <<स्तु>>-धातोः कर्मपदम् विष्णुपदार्थः, तथा च अपि द्रोणपाकं भुञ्जीत इत्यत्र <<भुज्>>-धातोः कर्मपदं द्रोणपाकपदार्थः - एतयोः निर्देशार्थम् <<कर्मणि द्वितीया>> [[2.3.2]] इत्यनेन इयं द्वितीयाविभक्तिः विधीयते । प्रकृतसूत्रस्य उदाहरणेषु <<कर्मप्रवचनीययुक्ते द्वितीया>> [[2.3.8]] इत्यस्य प्रसक्तिरेव नास्ति । " }, "14097": { "sa": "स्वस्वामीसम्बन्धस्य निर्देशार्थम् प्रयुक्तः \"अधि\" इति शब्दः कर्मप्रवचनीयसंज्ञकः भवति । यथा - अधि भुवि रामः, अधि रामे भूः । ", "sd": "<<कर्मप्रवचनीयाः>> [[1.4.83]] अस्मिन् अधिकारे आहत्य पञ्चदशभिः सूत्रैः कर्मप्रवचनीयसंज्ञायाः विधानं क्रियते । तेषु इदं चतुर्दशं सूत्रम् । स्व-स्वामीभावसम्बन्धः(इत्युक्ते परिपाल्य-परिपालकसम्बन्धः) इत्यस्य निर्देशार्थम् प्रयुक्तस्य अधि इति शब्दस्य अनेन सूत्रेण कर्मप्रवचनीयसंज्ञा विधीयते । अपि च, एतादृशस्य कर्मप्रवचनीयसंज्ञकस्य अपि इति शब्दस्य उपस्थितौ विवक्षाम् अनुसृत्य परिपाल्य-परिपालकाभ्याम् कस्यापि एकस्य <<यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी>> [[2.3.9]] इत्यनेन सप्तमीविभक्त्या निर्देशः भवति । कानिचन उदाहरणानि एतादृशानि - \n\n
  • 1. रामे अधि भूः / भुवि अधि रामः । अत्र \"रामः पृथिव्याः स्वामी अस्ति\" इति भावः वर्तते । इत्युक्ते, अत्र परिपाल्यः = यस्य पालनं कृतम् तादृशः पदार्थः = भूः तथा च परिपालकः = यः पालनं करोति सः पदार्थः = रामः - एतयोर्मध्ये विद्यमानः स्व-स्वामीभावसम्बन्धः अधि इति कर्मप्रवचनीयेन निर्दिष्टः अस्ति । अस्यां स्थितौ <<यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी>> [[2.3.9]] इत्यनेन कस्यापि एकस्य (इत्युक्ते, परिपाल्यस्य परिपालकस्य वा) निर्देशः सप्तमीविभक्त्या भवति । यदि परिपाल्यस्य निर्देशार्थं सप्तमीविभक्तिः प्रयुज्यते, तर्हि भुवि अधि रामः (= पृथिव्याः स्वामी रामः इत्याशयः) इति वाक्यं सिद्ध्यति । परन्तु यदि परिपालकस्य निर्देशार्थं सप्तमीविभक्तिः प्रयुज्यते, तर्हि रामे अधि भूः (रामस्य अधिकारे पृथिवी) इति वाक्यं सिद्ध्यति । \n
  • 2. अधि ब्रह्मदत्ते पञ्चालाः / अधि पञ्चालेषु ब्रह्मदत्तः । पञ्चाल-जनपदस्य स्वामी ब्रह्मदत्तः अस्ति इति आशयः । जनपदवाचकशब्दाः नित्यं बहुवचने एव प्रयुज्यन्ते, अतः पञ्चालाः तथा च पञ्चालेषु इति उभयत्र बहुवचनप्रत्ययः प्रयुक्तः अस्ति । \n
  • 3. अधि विक्रमादित्ये उज्जयनी / अधि उज्जयन्यां विक्रमादित्य । उज्जयनीनगरी विक्रमादित्यस्य आधिपत्ये विराजते इत्यर्थः । \n\nप्रकृतसूत्रेण उक्तायाः कर्मप्रवचनीयसंज्ञायाः प्रयोजनम्\nप्रकृतसूत्रेण विहितायाः कर्मप्रवचनीयसंज्ञायाः प्रयोजनम् सप्तमीविभक्तिविधानम् इति अस्ति । कर्मप्रवचनीयस्य योगे <<कर्मप्रवचनीययुक्ते द्वितीया>> [[2.3.8]] इत्यनेन द्वितीयायां प्राप्तायां, तां बाधित्वा <<यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी>> [[2.3.9]] इत्यनेन तस्य स्थाने सप्तमीविभक्तिः विधीयते । इयं सप्तमीविभक्तिः विवक्षाम् अनुसृत्य परिपाल्य-परिपालकाभ्याम् कस्यापि एकस्य निर्देशार्थं भवति, अतएव रामे अधि भूः तथा च भुवि अधि रामः इति द्वे वाक्ये सिद्ध्यतः । " }, "14098": { "sa": "स्वामी इति अर्थस्य निर्देशार्थम् प्रयुक्तः \"अधि\" इति शब्दः कृ-धातोः योगे विकल्पेन कर्मप्रवचनीयसंज्ञकः भवति । यथा - यदत्र मामधि॑करि॒ष्यति॑ ।", "sd": "<<कर्मप्रवचनीयाः>> [[1.4.83]] अस्मिन् अधिकारे आहत्य पञ्चदशभिः सूत्रैः कर्मप्रवचनीयसंज्ञायाः विधानं क्रियते । तेषु इदं अन्तिमं सूत्रम् । स्व-स्वामीभावसम्बन्धः (इत्युक्ते परिपाल्य-परिपालकसम्बन्धः) इत्यस्य निर्देशार्थम् प्रयुक्तस्य अधि इत्यस्य <<अधिरीश्वरे>> [[1.4.97]] इति पूर्वसूत्रेण विहिता कर्मप्रवचनीयसंज्ञा प्रकृतसूत्रेण कृ-धातोः योगे विकल्प्यते । यथा, रामः भरतम् अधि करोति (रामः भरतम् स्वामिरूपेण नियुक्तं करोति इत्यर्थः) अस्मिन् वाक्ये अधि इति शब्दः विकल्पेन कर्मप्रवनीयसंज्ञकः अस्ति ।\nप्रकृतसूत्रेण उक्तायाः कर्मप्रवचनीयसंज्ञायाः प्रयोजनम्\nप्रकृतसूत्रेण अधि इत्यस्य कर्मप्रवचनीयसंज्ञा उचितं स्वरसञ्चारं साधयितुम् कृता अस्ति । तदित्थम् - प्रादिगणस्य अधि इति शब्दः यदा <<कृ>>-धातोः योगे प्रयुज्यते, तदा <<गतिश्च>> [[1.4.60]] इत्यनेन अधि इत्यस्य गतिसंज्ञा भवति । अस्मिन् गतिसंज्ञके अधि इति शब्दे अकारः उदात्तः अस्ति, तथा च इकारः स्वरितः अस्ति ( अधि॑ इति) । एतादृश्यां गतिसंज्ञायां सत्याम्, यद् अत्र माम् अधि करिष्यति (यः माम् अत्र अधिकारिरूपेण स्थापयिष्यति - इत्यर्थः) अस्मिन् विशिष्टे वाक्ये <<तिङि चोदात्तवति>> [[8.1.71]] इत्यनेन सूत्रेण अधि इति गतिसंज्ञकस्य द्वौ अपि स्वरौ अनुदात्तसंज्ञकौ भवतः (अ॒धि॒ इति) । एतादृशम् अधि इत्यस्य अस्मिन् वाक्ये सर्वानुदात्तरूपेण कृतम् उच्चारणम् तु उचितम् अस्ति एव, परन्तु लोके अस्मिन्नेव वाक्ये अस्य शब्दस्य मूलप्रकारेण - इत्युक्ते अधि॑ इति उच्चारणम् अपि उचितम् एव स्वीक्रियते । परन्तु एतादृशः अधि॑ इति स्वरसञ्चारः तदा एव सम्भवति यदा अधि इत्यस्य गतिसंज्ञा न विद्यते । एतद् एव साधयितुम् प्रकृतसूत्रेण अस्य शब्दस्य विकल्पेन कर्मप्रवचनीयसंज्ञा विधीयते । कर्मप्रवचनीयसंज्ञायाः पक्षे एकसंज्ञाधिकारात्, गतिसंज्ञायाः बाधः जायते, येन अधि इत्यत्र विद्यमानौ मूलस्वरौ तादृशौ एव तिष्ठतः ( अधि॑ इति) । कर्मप्रवचनीयसंज्ञायाः अभावस्य पक्षे तु गतिसंज्ञा अवश्यं विधीयते, येन <<तिङि चोदात्तवति>> [[8.1.71]] इत्यनेन सूत्रेण सर्वानुदात्तत्वम् (अ॒धि॒ इति) अपि सिद्ध्यति । अनेन प्रकारेण अधि इत्यस्य द्वयोः अपि उच्चारणयोः साधुत्वं सिद्धं भवति ।\nअत्र दत्तम् यद् अत्र माम् अधि करिष्यति इति उदाहरणम् बहु विशिष्टम् अस्ति । अस्मिन् उदाहरणे विद्यमानस्य यद् इति शब्दस्य उपस्थितौ <<निपातैर्यद्यदिहन्तकुविन्नेच्चेच्चण्कच्चिद्यत्रयुक्तम् >> [[8.1.30]] इति सूत्रेण करिष्यति इति तिङन्तम् उदात्तवत् भवति । एतादृशस्य उदात्तवतः तिङन्तस्य उपस्थितौ एव <<तिङि चोदात्तवति>> [[8.1.71]] इति सूत्रेण अधि इत्यस्य सर्वानुदात्तत्वं सिद्ध्यति ।\nप्राप्तविभाषा इयम्\nअधि इत्यस्य <<अधिरीश्वरे>> [[1.4.97]] इति पूर्वसूत्रेण विहिता कर्मप्रवचनीयसंज्ञा प्रकृतसूत्रेण कृ-धातोः योगे विकल्प्यते । पूर्वेण नित्यं प्राप्तः विधिः विशिष्टे स्थले विकल्पेन उक्तः अस्ति अतः इदम् प्राप्तविभाषायाः उदाहरणम् अस्ति । \n" }, "14099": { "sa": "लकारस्य स्थाने विहितानाम् आदेशानाम् \"परस्मैपदम्\" इति संज्ञा विधीयते । आवली इयम् - तिप्, तस्, झि, सिप्, थस्, थ, मिप्, वस्, मस्, शतृ, क्वसु । ", "sd": "लकारप्रत्ययानां स्थाने भिन्नैः सूत्रैः ये आदेशाः विधीयन्ते, तेषाम् सर्वेषाम् परस्मैपदम् इति संज्ञा भवति । एतादृशाः आहत्य द्वाविंशतिः (22) आदेशाः सन्ति । परन्तु एतेभ्यः एकादशानाम् (11) आदेशानाम् <<तङानावात्मनेपदम्>> [[1.4.100]] इति अग्रिमसूत्रेण आत्मनेपदम् इति संज्ञा विधीयते, या एकसंज्ञाधिकारात् प्रकृतसूत्रेण उक्ताम् परस्मैपदसंज्ञां बाधते । अतः अन्ते केवलम् एकादशानां आदेशानाम् एव प्रकृतसूत्रेण परस्मैपदम् इति संज्ञा दीयते । एते एकादश आदेशाः एतादृशाः - \n\n
  • 1. <<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> [[3.4.78]] इति सूत्रेण सर्वेषाम् अपि लकाराणां स्थाने विहिताः तिप्, तस्, झि, सिप्, थस्, , मिप्, वस्, मस् - एते नव आदेशाः परस्मैपदसंज्ञकाः भवन्ति । अनेन सूत्रेण अन्येऽपि नव आदेशाः विधीयन्ते; परन्तु तेषाम् प्रकृतसूत्रेण परस्मैपदसंज्ञायां प्राप्तायाम्, अग्रिमसूत्रेण एतेषाम् आत्मनेपदम् इति संज्ञा भवति, या एकसंज्ञाधिकारात् प्रकृतसूत्रेण उक्तां परस्मैपदसंज्ञां बाधते । \n
  • 2. लट्-लकारस्य स्थाने <<लटः शतृशानचावप्रथमासमानाधिकरणे>> [[3.2.124]] इत्यनेन विहितः शतृ इति आदेशः परस्मैपदसंज्ञकः भवति । अनेन सूत्रेण शानच् इति अन्यः आदेशः अपि विधीयते; परन्तु तस्य प्रकृतसूत्रेण परस्मैपदसंज्ञायां प्राप्तायाम्, अग्रिमसूत्रेण आत्मनेपदम् इति संज्ञा भवति, या एकसंज्ञाधिकारात् प्रकृतसूत्रेण उक्तां परस्मैपदसंज्ञां बाधते । \n
  • 3. लिट्-लकारस्य स्थाने <<क्वसुश्च>> [[3.2.107]] इत्यनेन विहितः क्वसुँ इति आदेशः अपि परस्मैपदसंज्ञकः भवति । अनेन सूत्रेण कानच् इति अन्यः आदेशः अपि विधीयते; परन्तु तस्य प्रकृतसूत्रेण परस्मैपदसंज्ञायां प्राप्तायाम्, अग्रिमसूत्रेण आत्मनेपदम् इति संज्ञा भवति, या एकसंज्ञाधिकारात् प्रकृतसूत्रेण उक्तां परस्मैपदसंज्ञां बाधते । \n\n \nपरस्मैपदसंज्ञायाः प्रयोगः <<सिचि वृद्धिः परस्मैपदेषु>> [[7.2.1]] <<शेषात् कर्तरि परस्मैपदम्>> [[1.3.78]], <<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इत्यादिषु सूत्रेषु कृतः अस्ति ।\nयेभ्यः धातोः केवलम् परस्मैपदस्यैव प्रत्ययाः विधीयन्ते, ते धातवः परस्मैपदिनः (प्रातिपदिकम् - परस्मैपदिन्, प्रथमैकवचनम् - परस्मैपदी) इति नाम्ना धातुपाठे परिगणिताः सन्ति । धातुपाठे विद्यमानेभ्यः ~2000 धातुभ्यः प्रायेण 1100 धातवः (इत्युक्ते, 55% धातवः) परस्मैपदिनः सन्ति ।" }, "14100": { "sa": "लकारस्य स्थाने विहिताः तङ् तथा आन इति आदेशाः आत्मनेपदसंज्ञकाः भवन्ति । आवली इयम् - त, आताम्, झ, थास्, आथाम्, ध्वम्, इट्, वहि, महिङ्, शानच्, कानच् । ", "sd": "\nतङ् = त-आताम्-झ-थास्-आथाम्-ध्वम्-इट्-वहि-महिङ् ।\n\nलकारप्रत्ययानां स्थाने भिन्नैः सूत्रैः ये आदेशाः विधीयन्ते, तेभ्यः तङ् इति प्रत्याहारस्थानाम् नव आदेशानाम्, तथा च आन इति स्वरूपिणोः द्वयोः आदेशयोः आत्मनेपदम् इति संज्ञा भवति - इति अस्य सूत्रस्य आशयः ।\n\nलकारस्य स्थाने भिन्नैः सूत्रैः आहत्य द्वाविंशतिः (22) आदेशाः विधीयन्ते । एतेषाम् सर्वेषाम् अपि <<लः परस्मैपदम्>> [[3.4.81]] इति पूर्वसूत्रेण परस्मैपदसंज्ञायां प्राप्तायाम्, तेभ्यः एकादशानाम् (11) आदेशानाम् प्रकृतसूत्रेण आत्मनेपदसंज्ञा विधीयते । इयम् आत्मनेपदसंज्ञा एकसंज्ञाधिकारात् पूर्वसूत्रेण उक्ताम् परस्मैपदसंज्ञां बाधते । अतः अन्ते एतेषाम् एकादशानाम् आदेशानाम् केवलम् आत्मनेपदम् इत्येव संज्ञा भवति । एते एकादश आदेशाः एतादृशाः - \n\n
  • 1. तङ् इति नव आदेशाः - <<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> [[3.4.78]] इत्यस्य सूत्रस्य तातांझथासाथांध्वमिड्वहिमहिङ् इति उत्तरार्धः एव तङ् इति प्रत्याहारेण निर्दिश्यते । अतः अस्मिन् उत्तरार्धे पाठिताः , आताम्, , थास्, आथाम्, ध्वम्, इट्, वहि, महिङ् - एते नव आदेशाः आत्मनेपदसंज्ञकाः भवन्ति ।\n
  • 2. आन इति द्वौ आदेशौ - लट्-लकारस्य स्थाने <<लटः शतृशानचावप्रथमासमानाधिकरणे>> [[3.2.124]] इत्यनेन विहितः शानच् इति आदेशः, तथा च लिट्-लकारस्य स्थाने <<लिटः कानज्वा>> [[3.2.106]] इत्यनेन विहितः कानच् इति आदेशः - एतौ द्वौ आदेशौ प्रकृतसूत्रेण आत्मनेपदसंज्ञकौ भवतः । एतयोः द्वयोः अपि दृश्यरूपम् आन इति अस्ति, अतश्च एतयोः युगपत् निर्देशार्थम् प्रकृतसूत्रे आन इति शब्दः स्थापितः वर्तते ।\n\n \nआत्मनेपदसंज्ञायाः प्रयोगः <<अनुदात्तङित आत्मनेपदम्>> [[1.3.12]], <<आत्मनेपदेष्वनतः>> [[7.1.5]], <<आत्मनेपदेष्वन्यतरस्याम्>> [[2.4.44]] एतादृशेषु सूत्रेषु कृतः अस्ति ।\nयेभ्यः धातुभ्यः केवलम् आत्मनेपदस्यैव प्रत्ययाः विधीयन्ते, ते धातवः आत्मनेपदिनः (प्रातिपदिकम् - आत्मनेपदिन्, प्रथमैकवचनम् - आत्मनेपदी) इति नाम्ना धातुपाठे परिगणिताः सन्ति । धातुपाठे विद्यमानेभ्यः ~2000 धातुभ्यः प्रायेण 500 धातवः (इत्युक्ते, 25% धातवः) आत्मनेपदिनः सन्ति ।\n<hl>ल:</hl> इति अनुवृत्तेः प्रयोजनम्\nप्रकृतसूत्रे <<लः परस्मैपदम्>> [[3.4.81]] इति पूर्वसूत्रात् लः इति पदम् अनुवृत्तिरूपेण स्वीक्रियते । इयम् अनुवृत्तिः चानश् इति प्रत्ययस्य आत्मनेपदसंज्ञानिवृत्त्यर्थं कृता अस्ति । <<ताच्छील्यवयोवचनशक्तिषु चानश्>> [[3.2.129]] इति सूत्रेण विहितस्य चानश् इत्यस्य दृश्यरूपम् अपि आन इत्येव अस्ति, परन्तु अयं प्रत्ययः लकारस्य स्थाने न विधीयते अपितु पृथक् रूपेण उक्तः अस्ति । अस्यां स्थितौ यदि चानश् प्रत्ययस्य अपि आत्मनेपदसंज्ञा अभविष्यत्, तर्हि <<हनँ (हिंसागत्योः)>> इति परस्मैपदि-धातोः अयं प्रत्ययः नैव योजयितुं शक्यं स्यात्, येन <<हन्>>-धातोः चानश्-प्रत्ययान्तस्य निघ्नान इति रूपस्य साधुत्वज्ञापने अपि बाधः आगमिष्यत् । तत् तथा मा भूत् इति हेतुना प्रकृतसूत्रे लः इत्यस्य अनुवृत्तिः क्रियते । अनया अनुवृत्त्या आन-प्रत्ययस्य आत्मनेपदसंज्ञा तदा एव सिद्धा भवति यदा सः लकारस्य स्थाने विहितः वर्तते । अनेन चानश्-प्रत्ययस्य आत्मनेपदसंज्ञायाः वारणं भवति, येन परस्मैपदिनः <<हन्>>-धातोः योगे अस्य प्रयोगः अवश्यं सम्भवति ।" }, "14101": { "sa": "तिङ्-प्रत्ययाः त्रीणि त्रीणि क्रमेण \"प्रथम\", \"मध्यम\", \"उत्तम\" संज्ञकाः भवन्ति । ", "sd": "\nतिङ् = तिप्-तस्-झि-सिप्-थस्-थ-मिप्-वस्-मस्-त-आताम्-झ-थास्-आथाम्-ध्वम्-इट्-वहि-महिङ् ।\n\n<<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> [[3.4.78]] अनेन सूत्रेण ये अष्टादश तिङ-प्रत्ययाः पाठ्यन्ते, तेषाम् त्रिसङ्ख्यात्मक-समूहेन क्रमेण प्रथम-मध्यम-उत्तम-एतादृशम् संज्ञाः विधीयन्ते - इति अस्य सूत्रस्य आशयः । एतद् विभाजनम् इत्थम् भवति -\n\n
  • 1. तिप्, तस्, झि - इति आदिस्थाः त्रयः प्रत्ययाः प्रथमः इति संज्ञां स्वीकुर्वन्ति ।\n
  • 2. सिप्, थस्, - इति अग्रिमाः त्रयः प्रत्ययाः मध्यमः इति संज्ञां स्वीकुर्वन्ति ।\n
  • 3. मिप्, वस्, मस् - इति अग्रिमाः त्रयः प्रत्ययाः उत्तमः इति संज्ञां स्वीकुर्वन्ति ।\n
  • 4. , आताम्, - इति अग्रिमाः त्रयः प्रत्ययाः पुनः प्रथमः इति संज्ञां स्वीकुर्वन्ति ।\n
  • 5. थास्, आथाम्, ध्वम् - इति अग्रिमाः त्रयः प्रत्ययाः पुनः मध्यमः इति संज्ञां स्वीकुर्वन्ति ।\n
  • 6. इट्, वहि, महिङ् - इति अन्तिमाः त्रयः प्रत्ययाः पुनः उत्तमः इति संज्ञां स्वीकुर्वन्ति ।\n\n\nअनेन प्रकारेण परस्मैपदसंज्ञकप्रत्ययानाम् त्रयः विभागाः तथा आत्मनेपदसंज्ञकप्रत्ययानाम् अपि त्रयः विभागाः जायन्ते । एतेषाम् एव भाष्ये (तदनुषङ्गेन व्याकरणे सर्वत्र एव) पुरुषाः इत्यनेन निर्देशः कृतः अस्ति ।\nप्रकृतसूत्रेण पाठितानां संज्ञानाम् उपयोगः\nप्रकृतसूत्रेण पाठिताः तिस्रः संज्ञाः सूत्रपाठे केवलं पञ्चषेषु स्थलेषु एव प्रयुक्ताः सन्ति । तदित्थम् - \n\n
  • 1. <<लुटः प्रथमस्य डारौरसः>> [[2.4.85]] तथा च <<शेषे प्रथमः>> [[1.4.108]] इत्येतयोः सूत्रयोः प्रथमः इति संज्ञा प्रयुक्ता अस्ति ।\n
  • 2. <<युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः>> [[1.4.105]] अस्मिन् सूत्रे मध्यमः इति संज्ञा प्रयुक्ता अस्ति ।\n
  • 3. <<प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च>> [[1.4.106]], <<अस्मद्यत्तमः>> [[1.4.107]], <<स उत्तमस्य>> [[3.4.98]], <<णलुत्तमो वा>> [[7.1.91]] तथा च <<आडुत्तमस्य पिच्च>> [[3.4.92]] एतेषु सूत्रेषु उत्तमः इति संज्ञा प्रयुक्ता अस्ति ।" }, "14102": { "sa": "येषाम् प्रथम-मध्यम-उत्तम-संज्ञाः विहिताः सन्ति ते तिङ्-प्रत्ययाः क्रमेण एकवचन-द्विवचन-बहुवचन-संज्ञकाः भवन्ति । ", "sd": "\nतिङ् = तिप्-तस्-झि-सिप्-थस्-थ-मिप्-वस्-मस्-त-आताम्-झ-थास्-आथाम्-ध्वम्-इट्-वहि-महिङ् ।\n\n<<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> [[3.4.78]] अनेन सूत्रेण ये अष्टादश तिङ-प्रत्ययाः पाठ्यन्ते, तेषाम् क्रमेण एकवचनम्, द्विवचनम् तथा च बहुवचनम् इति संज्ञाः भवन्ति - इति अस्य सूत्रस्य आशयः । अष्टादशानां प्रत्ययानां क्रमेण एताः संज्ञाः विधीयन्ते, अतः षट्-षट्-प्रत्ययाः एकाम् एकां संज्ञां स्वीकुर्वन्ति । तद् इत्थम् -\n\n1. एकवचनसंज्ञकप्रत्ययाः - तिप्, सिप्, मिप्, , थास्, इट् ।\n2. द्विवचनसंज्ञकप्रत्ययाः - तस्, थस्, वस्, आताम्, आथाम्, वहि ।\n3. बहुवचनसंज्ञकप्रत्ययाः - झि, , मस्, , ध्वम्, महिङ् ।\n\nतिङ्-प्रत्ययानां विभाजनम्\n<<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> [[3.4.78]] अनेन सूत्रेण आहत्य अष्टादश तिङ-प्रत्ययाः पाठिताः सन्ति । एतेषाम् एव तिङ्-प्रत्ययानां <<लः परस्मैपदम्>> [[1.4.99]] इत्यस्मात् आरभ्य <<तान्येकवचनद्विवचनबहुवचनान्येकशः >> [[1.4.102]] इति यावत् चतुर्भिः सूत्रैः भिन्नाः संज्ञाः दत्ताः सन्ति । ताः एतादृशाः -\n\n1. तिप् = परस्मैपदम् + प्रथमपुरुषः + एकवचनम्\n2. तस् = परस्मैपदम् + प्रथमपुरुषः + द्विवचनम्\n3. झि = परस्मैपदम् + प्रथमपुरुषः + बहुवचनम्\n\n4. सिप् = परस्मैपदम् + मध्यमपुरुषः + एकवचनम्\n5. थस् = परस्मैपदम् + मध्यमपुरुषः + द्विवचनम्\n6. = परस्मैपदम् + मध्यमपुरुषः + बहुवचनम्\n\n7. मिप् = परस्मैपदम् + उत्तमपुरुषः + एकवचनम्\n8. वस् = परस्मैपदम् + उत्तमपुरुषः + द्विवचनम्\n9. मस् = परस्मैपदम् + उत्तमपुरुषः + बहुवचनम्\n\n10. = आत्मनेपदम् + प्रथमपुरुषः + एकवचनम्\n11. आताम् = आत्मनेपदम् + प्रथमपुरुषः + द्विवचनम्\n12. = आत्मनेपदम् + प्रथमपुरुषः + बहुवचनम्\n\n13. थास् = आत्मनेपदम् + मध्यमपुरुषः + एकवचनम्\n14. आथाम् = आत्मनेपदम् + मध्यमपुरुषः + द्विवचनम्\n15. ध्वम् = आत्मनेपदम् + मध्यमपुरुषः + बहुवचनम्\n\n16. इट् = आत्मनेपदम् + उत्तमपुरुषः + एकवचनम्\n17. वहि = आत्मनेपदम् + उत्तमपुरुषः + द्विवचनम्\n18. महिङ् = आत्मनेपदम् + उत्तमपुरुषः + बहुवचनम्\n\n\nअनेन प्रकारेण प्रत्येकं प्रत्ययस्य पृथक् रूपेण निर्देशः कर्तुं शक्यते ।\nसूत्रे <hl>एकशः</hl> इति शब्दस्य प्रयोजनम्\nसूत्रे विद्यमानः एकशः इति शब्दः एकैकं पदम् अस्मिन् अर्थे प्रयुक्तः अस्ति । तिङ्-प्रत्ययाः एकैकम् (one-by-one इत्यर्थः) एकवचन-द्विवचन-बहुवचन-संज्ञकाः भवन्ति इति अस्य आशयः । \nसूत्रे <hl>तानि</hl> इति शब्दस्य प्रयोजनम्\nप्रकृतसूत्रे विद्यमानः तानि इति शब्दः स्पष्टताप्रतिपत्यर्थः अस्ति । अनेन शब्देन इदं स्पष्टी भवति यत् पूर्वसूत्रेण येषाम् प्रत्ययानां प्रथमः, मध्यमः तथा च उत्तमः एताः संज्ञाः उक्ताः सन्ति, तेषाम् एव प्रकृसूत्रेण अग्रे एकवचनम्, द्विवचनम् तथा च बहुवचनम् इति संज्ञाः विधीयन्ते । " }, "14103": { "sa": " त्रयाणाम्-समूहरूपेण प्रोक्ताः सुप्-प्रत्ययाः क्रमेण एकवचन-द्विवचन-बहुवचन-संज्ञकाः भवन्ति ।", "sd": "\nसुप् = सुँ-औ-जस्-अम्-औट्-शस्-टा-भ्याम्-भिस्-ङे-भ्याम्-भस्-ङसिँ-भ्याम्-भ्यस्-ङस्-ओस्-आम्-ङि-ओस्-सुप् ।\n\n<<स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाङ्ङ्योस्सुप् >> [[4.1.2]] अनेन सूत्रेण ये एकविंशतिः सुप्-प्रत्ययाः पाठ्यन्ते तेषाम् क्रमेण एकवचनम्, द्विवचनम् तथा च बहुवचनम् इति संज्ञाः भवन्ति - इति अस्य सूत्रस्य आशयः । एकविंशतेः प्रत्ययानां क्रमेण एताः संज्ञाः विधीयन्ते, अतः सप्त-सप्त-प्रत्ययाः एकाम् एकां संज्ञां स्वीकुर्वन्ति । तद् इत्थम् -\n\n1. एकवचनसंज्ञकप्रत्ययाः - सुँ, अम्, टा, ङे, ङसिँ, ङस्, ङि ।\n2. द्विवचनसंज्ञकप्रत्ययाः - , औट्, भ्याम्, भ्याम्, भ्याम्, ओस्, ओस् ।\n3. बहुवचनसंज्ञकप्रत्ययाः - जस्, शस्, भिस्, भ्यस्, भ्यस्, आम्, सुप् ।\n\nसुप्-प्रत्ययानां विभाजनम्\n<<स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाङ्ङ्योस्सुप् >> [[4.1.2]] अनेन सूत्रेण आहत्य अष्टादश एकविंशतिः सुप्-प्रत्ययाः पाठिताः सन्ति । एतेषाम् प्रत्ययानाम् आदौ त्रिषु त्रिषु गणेषु विभाजनं क्रियते । एते गणाः क्रमेण प्रथमा, द्वितीया, तृतीया, चतुर्थी, पञ्चमी, पञ्चमी,षष्ठी, तथा च सप्तमी इति नाम्ना ज्ञायन्ते । एतेषु प्रत्येकं गणे त्रयः प्रत्ययाः समाविश्यन्ते । प्रत्येकं गणस्य एतादृशानां त्रयाणां प्रत्ययानाम् एव प्रकृतसूत्रेण क्रमेण एकवचनम्, द्विवचनम् तथा च बहुवचनम् इति संज्ञाः दत्ताः सन्ति । अनेन प्रकारेण प्रत्येकं प्रत्ययस्य पृथक्-रूपेण निर्देशः सम्भवति । तदित्थम् -\n\n1. सुँ = प्रथमा + एकवचनम्\n2. = प्रथमा + द्विवचनम्\n3. जस् = प्रथमा + बहुवचनम्\n\n4. अम् = द्वितीया + एकवचनम्\n5. औट् = द्वितीया + द्विवचनम्\n6. शस् = द्वितीया + बहुवचनम्\n\n7. टा = तृतीया + एकवचनम्\n8. भ्याम् = तृतीया + द्विवचनम्\n9. भिस् = तृतीया + बहुवचनम्\n\n10. ङे = चतुर्थी + एकवचनम्\n11. भ्याम् = चतुर्थी + द्विवचनम्\n12. भ्यस् = चतुर्थी + बहुवचनम्\n\n13. ङसिँ = पञ्चमी + एकवचनम्\n14. भ्याम् = पञ्चमी + द्विवचनम्\n15. भ्यस् = पञ्चमी + बहुवचनम्\n\n16. ङस् = षष्ठी + एकवचनम्\n17. ओस् = षष्ठी + द्विवचनम्\n18. आम् = षष्ठी + बहुवचनम्\n\n19. ङि = सप्तमी + एकवचनम्\n20. ओस् = सप्तमी + द्विवचनम्\n21. सुप् = सप्तमी + बहुवचनम्\n\nप्रथमा इत्यतः सप्तमी एतानि नामानि विधातुम् अष्टाध्याय्यां किमपि विशिष्टं सूत्रं नैव विद्यते, परन्तु एतेषाम् नाम्नाम् उपयोगः पाणिनिना स्वयमेव <<प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा>> [[2.3.46]], <<कर्मणि द्वितीया>> [[2.3.2]] इत्यादिषु सूत्रेषु कृतः अस्ति; अतः एतानि नामानि व्याकरणसंज्ञारूपेणैव स्वीक्रियन्ते ।\nसूत्रे <hl>एकशः</hl> इति अनुवृत्तेः प्रयोजनम्\nप्रकृतसूत्रे <<तान्येकवचनद्विवचनबहुवचनान्येकशः>> [[1.4.102]] इत्यस्मात् सूत्रात् एकशः इति पदम् अनुवृत्तिरूपेण स्वीकृतम् अस्ति । एकशः इत्यस्य अर्थः एकैकम् (one-by-one) इति । सुप्-प्रत्ययाः एकैकम् (इत्युक्ते, क्रमेण) एकवचन-द्विवचन-बहुवचन-संज्ञकाः भवन्ति इति अस्य आशयः । एकशः इति पदस्य अनुपस्थितौ, त्रीणि त्रीणि इत्यस्य अनुवृत्त्या त्रयः सुप्-प्रत्ययाः एकवचनसंज्ञकाः, ततः त्रयः द्विवचनसंज्ञकाः - इति अनिष्टः अर्थः सम्भवति, तद् निवारयितुम् अत्र एकशः इति शब्दः आवश्यकः वर्तते । " }, "14104": { "sa": "सुप्-प्रत्यया: तिङ्-प्रत्यया: च विभक्तिसंज्ञकाः भवन्ति । ", "sd": "\nसुप् - सुँ-औ-जस्-अम्-औट्-शस्-टा-भ्याम्-भिस्-ङे-भ्याम्-भ्यस्-ङसिँ-भ्याम्-भ्यस्-ङस्-ओस्-आम्-ङि-ओस्-सुप् ।\nतिङ्-तिप्-तस्-झि-सिप्-थस्-थ-मिप्-वस्-मस्-त-आताम्-झ-थास्-आथाम्-ध्वम्-इट्-वहि-महिङ् ।\n\n\n<<स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाङ्ङ्योस्सुप् >> [[4.1.2]] इति सूत्रेण पाठितानाम् एकविंशतेः सुप्-प्रत्ययानाम्, तथा च <<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> [[3.4.78]] इति सूत्रेण विहितानाम् अष्टादशानां तिङ-प्रत्ययानाम् त्रिकं (त्रयाणां सङ्घं) कृत्वा प्रत्येकं समूहे विद्यमानानां प्रत्ययानां विभक्तिः इति संज्ञा दीयते - इति अस्य सूत्रस्य आशयः । तद्यथा -\n\nसुप्-प्रत्ययानां विभक्तिसंज्ञा -\n\n1. सुँ-औ-जस् इति प्रथमसमूहे विद्यमानानां प्रत्ययानां विभक्तिः इति संज्ञा भवति । एतेषाम् एव निर्देशः प्रथमा इति संज्ञया अपि क्रियते ।\n2. अम्-औ-जस् इति द्वितीयसमूहे विद्यमानानां प्रत्ययानां विभक्तिः इति संज्ञा भवति । एतेषाम् एव निर्देशः द्वितीया इति संज्ञया अपि क्रियते ।\n3. टा-भ्याम्-भिस् इति तृतीयसमूहे विद्यमानानां प्रत्ययानां विभक्तिः इति संज्ञा भवति । एतेषाम् एव निर्देशः तृतीया इति संज्ञया अपि क्रियते ।\n4. ङे-भ्याम्-भ्यस् इति चतुर्थसमूहे विद्यमानानां प्रत्ययानां विभक्तिः इति संज्ञा भवति । एतेषाम् एव निर्देशः चतुर्थी इति संज्ञया अपि क्रियते ।\n5. ङसिँ-भ्याम्-भ्यस् इति पञ्चमसमूहे विद्यमानानां प्रत्ययानां विभक्तिः इति संज्ञा भवति । एतेषाम् एव निर्देशः पञ्चमी इति संज्ञया अपि क्रियते ।\n6. ङस्-ओस्-आम् इति षष्ठसमूहे विद्यमानानां प्रत्ययानां विभक्तिः इति संज्ञा भवति । एतेषाम् एव निर्देशः षष्ठी इति संज्ञया अपि क्रियते ।\n7. ङि-ओस्-सुप् इति सप्तमसमूहे विद्यमानानां प्रत्ययानां विभक्तिः इति संज्ञा भवति । एतेषाम् एव निर्देशः सप्तमी इति संज्ञया अपि क्रियते ।\n\nअत्र निर्दिष्टाः प्रथमा इत्यतः सप्तमी इति संज्ञाः केन अपि विशिष्टेन सूत्रेण न विधीयन्ते, परन्तु पाणिनिना स्वयमेव <<प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा>> [[2.3.46]], <<कर्मणि द्वितीया>> [[2.3.2]] इत्यादिषु सूत्रेषु कृतः अस्ति; अतः एतानि नामानि व्याकरणशास्त्रे संज्ञारूपेण एव स्वीकृताः सन्ति । एताः संज्ञाः पाणिनेः प्राक् विद्यमानाः आचार्याः अपि प्रयुञ्जते स्म, तेभ्यः एव पाणिनिना एताः स्वीकृताः सन्ति - इति सिद्धान्तकौमुदीकारः अस्मिन् सन्दर्भे स्पष्टी करोति । \n\nतिङ्-प्रत्ययानां विभक्तिसंज्ञा -\n\n1. तिप्-तस्-झि इति प्रथमसमूहे विद्यमानानां प्रत्ययानां विभक्तिः इति संज्ञा भवति । एतेषाम् एव निर्देशः <<तिङस्त्रीणि ...>> [[1.4.101]] इति सूत्रेण प्रथमः इति संज्ञया अपि कृता अस्ति ।\n2. सिप्-थस्-थ इति द्वितीयसमूहे विद्यमानानां प्रत्ययानां विभक्तिः इति संज्ञा भवति । एतेषाम् एव निर्देशः <<तिङस्त्रीणि ...>> [[1.4.101]] इति सूत्रेण मध्यमः इति संज्ञया अपि कृता अस्ति ।\n3. मिप्-वस्-मस् इति तृतीयसमूहे विद्यमानानां प्रत्ययानां विभक्तिः इति संज्ञा भवति । एतेषाम् एव निर्देशः <<तिङस्त्रीणि ...>> [[1.4.101]] इति सूत्रेण उत्तमः इति संज्ञया अपि कृता अस्ति ।\n4. त-आताम्-झ इति चतुर्थसमूहे विद्यमानानां प्रत्ययानां विभक्तिः इति संज्ञा भवति । एतेषाम् एव निर्देशः <<तिङस्त्रीणि ...>> [[1.4.101]] इति सूत्रेण प्रथमः इति संज्ञया अपि कृता अस्ति ।\n5. थास्-आथाम्-ध्वम् इति पञ्चमसमूहे विद्यमानानां प्रत्ययानां विभक्तिः इति संज्ञा भवति । एतेषाम् एव निर्देशः <<तिङस्त्रीणि ...>> [[1.4.101]] इति सूत्रेण मध्यमः इति संज्ञया अपि कृता अस्ति ।\n6. इट्-वहि-महिङ् इति षष्ठसमूहे विद्यमानानां प्रत्ययानां विभक्तिः इति संज्ञा भवति । एतेषाम् एव निर्देशः <<तिङस्त्रीणि ...>> [[1.4.101]] इति सूत्रेण उत्तमः इति संज्ञया अपि कृता अस्ति ।\n\nयद्यपि भाषायाम् व्याकरणस्य सन्दर्भेण विभक्तिः इति संज्ञा केवलं सुप्-प्रत्ययानां कृते एव प्रयुज्यते, तथापि व्याकरणशास्त्रे तिङ्-प्रत्ययानाम् अपि विभक्तिः इत्येव संज्ञा भवति ।\nकेषाञ्चन तद्धितप्रत्यानाम् अपि विभक्तिसंज्ञा\nअष्टाध्याय्याम् तद्धितप्रकरणे विद्यमानाः प्रायेण 20 तद्धितप्रत्ययाः <<प्राग्दिशो विभक्तिः>> [[5.3.1]] इत्यनेन विभक्तिसंज्ञकाः भवन्ति । एते प्रत्ययाः तिङ्-संज्ञकाः उत सुप्-संज्ञकाः न सन्ति, अतः तेषां प्रकृतसूत्रेण विभक्तिसंज्ञा नैव सम्भवति; अतश्च तेषां विभक्तिसंज्ञाविधानार्थं <<प्राग्दिशो विभक्तिः>> [[5.3.1]] इति सूत्रं निर्मितम् अस्ति । " }, "14105": { "sa": "यदा युष्मद्-शब्देन तथा च तिङ्-प्रत्ययेन समान-पदार्थस्य निर्देशः भवति, तदा युष्मद्-शब्दस्य उपस्थितौ अनुपस्थितौ चापि धातोः मध्यमपुरुषस्यैव तिङ्-प्रत्ययाः विधीयन्ते । यथा - त्वं पश्यसि, किं पश्यसि, त्वं दृश्यसे ।", "sd": "<<तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः>> [[1.4.101]] अनेन सूत्रेण आहत्य षण्णाम् तिङ्-प्रत्ययानाम् मध्यम: इति संज्ञा भवति । एतेषाम् मध्यमसंज्ञकानाम् तिङ्-प्रत्ययानाम् प्रयोगः कुत्र भवति इत्यस्य नियमः अनेन सूत्रेण क्रियते । युष्मद्-शब्देन यस्य पदार्थस्य निर्देशः क्रियते, तस्यैव पदार्थस्य निर्देशः तिङ्-प्रत्ययेन अपि क्रियते चेत्, वाक्ये सः युष्मद्-शब्दः साक्षात् भवेत् उत न भवेत्, धातोः मध्यमसंज्ञक: तिङ्प्रत्यय: एव प्रयोक्तव्यः - इति अस्य सूत्रस्य आशयः । यथा -\n\n
  • 1. त्वं पश्यसि । अस्मिन् वाक्ये त्वम् इत्यनेन दर्शनक्रियायाः कर्तृसंज्ञकपदार्थस्य निर्देशः भवति । (यद्यपि अत्र त्वम् इत्यनेन कर्तृकारकस्य निर्देशः न भवति, तथापि यः कर्तृसंज्ञकपदार्थः तस्य निर्देशः तु अवश्यम् एव भवति) । अपि च, पश्यसि इत्यत्र विद्यमानेन तिङ्-प्रत्ययेन अपि दर्शनक्रियायाः कर्तृकारकस्यैव निर्देशः कृतः अस्ति । इत्युक्ते, अत्र युष्मद्-शब्देन तथा च तिङ्-प्रत्ययेन समानपदार्थस्य निर्देशः भवति । अतः पश्यसि इत्यत्र सिप् इति मध्यमपुरुषप्रत्ययस्य एव प्रयोगः कृतः दृश्यते । \n
  • 2. किं पश्यथ । अस्मिन् वाक्ये यद्यपि यूयम् इति शब्दः साक्षात् न विद्यते, तथापि सः विवक्षितः अस्ति । अनेन विवक्षितेन यूयम् शब्देन दर्शनक्रियायाः कर्तृसंज्ञकपदार्थस्य निर्देशः भवति । अस्यैव पदार्थस्य निर्देशः पश्यथ इत्यत्र विद्यमानेन तिङ्-प्रत्ययेन अपि क्रियते । अस्यां स्थितौ, युष्मद्-शब्दस्य अनुपस्थितौ अपि अत्र धातोः सिप् इति मध्यमपुरुषस्यैव प्रत्ययः विधीयते । \n
  • 3. मया युवाम् दृश्येथे । अस्मिन् वाक्ये युवाम् इति शब्देन, तथा च दृश्येथे इत्यत्र विद्यमानेन आथाम् इति प्रत्ययेन एकस्यैव पदार्थस्य (= दर्शनक्रियायाः कर्मपदस्य) निर्देशः कृतः अस्ति । अतः अत्र दृश्येथे इत्यत्र <<आथाम्>> इति मध्यमपुरुषस्य प्रत्ययः प्रयुक्तः अस्ति ।\n
  • 4. सः त्वां पश्यति । अस्मिन् वाक्ये त्वाम् इति शब्देन दर्शनक्रियायाः कर्मपदस्य निर्देशः भवति, परन्तु पश्यति इत्यत्र विद्यमान: तिङ्-प्रत्ययः तु दर्शनक्रियायाः कर्तृपदस्य निर्देशं करोति । इत्युक्ते एताभ्यां शब्दाभ्यां अत्र समानपदार्थस्य निर्देशः न क्रियते । अस्यां स्थितौ अत्र प्रकृतसूत्रस्य प्रयोगः न भवति, अतः अत्र पश्यति इत्यत्र मध्यमपुरुषसंज्ञकः प्रत्ययः नैव प्रयुक्तः दृश्यते ।\n
  • 5. त्वया अहं दृश्ये । अस्मिन् वाक्ये त्वया इति शब्देन दर्शनक्रियायाः कर्तृकारकस्य निर्देशः भवति, परन्तु दृश्ये इत्यत्र विद्यमान: तिङ्-प्रत्ययः तु दर्शनक्रियायाः कर्मपदस्य निर्देशं करोति । इत्युक्ते एताभ्यां शब्दाभ्यां अत्र समानपदार्थस्य निर्देशः न क्रियते । अस्यां स्थितौ अत्र प्रकृतसूत्रस्य प्रयोगः न भवति, अतः अत्र दृश्ये इत्यत्र मध्यमपुरुषसंज्ञकः प्रत्ययः नैव प्रयुक्तः दृश्यते ।\n\nसूत्रस्य प्रतिपदार्थः\n\n
  • 1. उपपदे - उपपदम् इत्युक्ते तत् पदम् यत् समीपे उच्चार्यते । कस्य समीपे उच्चार्यते ? क्रियायाः समीपे उच्चार्यते इति । क्रियायाः सम्बन्धेन उच्चार्यते - इत्यर्थः । \n
  • 2. युष्मदि उपपदे - युष्मदि उपपदे इति सतिसप्तमी अस्ति । अस्य अर्थः भवति - यत्र युष्मद् इति उपपदम् विद्यते तत्र । इत्युक्ते, युष्मद्-प्रातिपदिकस्य किञ्चन रूपं यत्र क्रियायाः सम्बन्धेन प्रयुज्यते तत्र किं करणीयम् इत्यस्मिन् विषये अत्र नियमः क्रियते । \n
  • 3. समानाधिकरणे - समानाधिकरणे इत्यस्य अर्थः समानाधिकरणस्य अवस्थायाम्समानाधिकरणम् इत्युक्ते समान-पदार्थस्य निर्देशः । कस्य सम्बन्धेन समानपदार्थः ? तिङ्-प्रत्ययस्य सम्बन्धेन समानपदार्थः इति । इत्युक्ते, तिङ्-प्रत्ययेन यस्य कारकस्य निर्देशः क्रियते, तस्यैव पदार्थस्य निर्देशः युष्मद्-शब्देन अपि क्रियते चेत् प्रकृतसूत्रेण उक्तः नियमः प्रयोक्तव्यः - इति । \n
  • 4. स्थानिनि - स्थानिनि इत्यपि सतिसप्तमी अस्ति । अस्य अर्थः स्थानिरूपेण विद्यमाने सति (इत्युक्ते, उपस्थिते सति) इति स्वीक्रियते । स्थानिनि इत्यत्र स्थानिन् इति प्रातिपदिकम् अस्ति । अयं शब्दः युष्मदि उपपदे इत्यनेन सह अन्वेति । इत्युक्ते, यत्र युष्मद्-शब्दस्य तिङ्-प्रत्ययेन सह सामानाधिकरण्यं विद्यते, तत्र युष्मद्-शब्दः साक्षात् उपस्थितः अस्ति चेद् प्रकृतसूत्रेण उक्तः नियमः प्रयोक्तव्यः - इति । \n
  • 4. अपि - अपि इति शब्दः स्थानिनि इत्यनेन सह अन्वेति । स्थानिनि अपि इत्युक्ते उपस्थितः अस्ति चेद् अपि इति । अत्र अपि इति शब्दः समुच्चयं दर्शयति । इत्युक्ते, अनुपस्थितः अस्ति चेद् तु अवश्यमेव भवति, परन्तु उपस्थितः अस्ति चेद् अपि भवति इति अत्र अर्थः जायते । \n
  • 5. मध्यमः - मध्यमः इति संज्ञा यस्य, सः प्रत्ययः (एव) विधीयते - इति अस्य अर्थः । \n\nअनेन प्रकारेण युष्मदि उपपदे समानाधिकरणे स्थानिनि अपि मध्यमः इत्यस्य समग्रः अर्थः - युष्मद् इति शब्दः यत्र क्रियायाः योगे सत् तिङ्-प्रत्ययेन निर्दिष्टस्य पदार्थस्य एव निर्देशं करोति, तत्र, युष्मद् इति शब्दस्य उपस्थितौ अनुपस्थितौ च अपि मध्यमसंज्ञकप्रत्ययाः एव भवन्ति - इति सिद्ध्यति ।\n\nनियमसूत्रम् इदम्\n इदं सूत्रम् नियमसूत्रम् अस्ति । \"युष्मदि उपपदे, समानाधिकरणे, स्थानिनि अपि\" इति अवस्थायाम् \"मध्यमः एव प्रत्ययः भवति, न अन्यः\" - इति नियमः अनेन सूत्रेण क्रियते । यत्र तिङ्-प्रत्ययस्य युष्मद्-उपपदेन सह सामानाधिकरण्यं वर्तते, तत्र मध्यमपुरुषस्यैव प्रत्ययाः प्रयोक्तव्याः - इति अस्य अर्थः । " }, "14106": { "sa": "यदि प्रहासे गम्यमाने धातुद्वयात्मके वाक्ये एकं क्रियापदं \"मन्\" इति धातोः रूपम् अस्ति येन सह युष्मद्-उपपदस्य सामानाधिकरण्यं विद्यते, तर्हि युष्मद्-उपपदस्य उपस्थितौ अनुपस्थितौ च अपि, \"मन्\" धातोः निर्देशः उत्तमपुरुष-एकवचनस्य तिङ् प्रत्ययेन क्रियते, तथा च वाक्ये विद्यमानायाः अन्यायाः क्रियायाः निर्देशः मध्यमपुरुषस्य तिङ् प्रत्ययेन भवति । यथा - मन्ये ओदनं भोक्ष्यसे, भुक्तः सोऽतिथिभिः !", "sd": "कस्याश्चित् क्रियायाः विषये केनचित् कृतस्य चिन्तनस्य उपहासं प्रदर्शयितुम् उक्ते वाक्ये <<मन् ज्ञाने>> <{4.73}> इति दिवादिगणस्य धातुः यदा युष्मद् इति उपपदस्य सामानाधिकरण्ये विद्यते, तदा युष्मद्-उपपदस्य उपस्थितौ, अनुपस्थितौ च अपि, मन्-धातोः उत्तमपुरुष-एकवचनस्य प्रत्ययः प्रयुज्यते, तथा च वाक्ये विद्यमानात् अन्यस्मात् धातोः मध्यमपुरुषप्रत्ययः विधीयते - इति अस्य सूत्रस्य आशयः । यथा - कश्चन जामाता \"अहं श्वशुरस्य गृहं गत्वा ओदनं भोक्ष्ये\" इति चिन्तयन् , कथञ्चित् श्वशुरस्य गृहं विलम्बेन प्राप्नोति, तदा श्वशुरः स्वस्य जामातुः चिन्तनस्य उपहासं कुर्वन् ब्रूते - एहि मन्ये ओदनं भोक्ष्यसे, भुक्तः सः अतिथिभिः । अत्र श्वशुरस्य आशयः अस्ति - \"त्वम् विलम्बेन आगत्य अधुना अहं ओदनं भोक्ष्ये  इति चिन्तयसि, परन्तु सर्वः ओदनः अतिथिभिः प्राक् एव भुक्तः, तर्हि त्वं किं भोक्ष्यसे?\" - इति । एतादृशम् आशयं प्रकटीकर्तुम् श्वशुरेण एहि मन्ये ओदनं भोक्ष्यसे, भुक्तः सः अतिथिभिः इति यद् वाक्यं प्रयुज्यते, तस्मिन् वाक्ये प्रकृतसूत्रम् अनुसृत्य भोक्ष्यसे इति क्रिया मध्यमपुरुषप्रत्ययेन निर्दिष्टा अस्ति, तथा च मन् धातोः उत्तमपुरुष-एकवचनस्य प्रत्ययः प्रयुक्तः अस्ति । \nपीठिका\nसामान्यरूपेण <<मन् ज्ञाने>> <{4.73}> इति धातुः मनसि कृतस्य चिन्तनस्य निर्देशार्थं प्रयुज्यते । यथा, कश्चन जामाता चिन्तयति - मन्ये अहम् श्वशुरस्य गृहं गत्वा ओदनं भोक्ष्ये । अस्मिन् वाक्ये जामाता स्वस्य भोजनस्य विषये चिन्तनं कुर्वन् अस्ति, अतः अत्र भोक्ष्ये तथा मन्ये एते द्वे क्रियापदे विद्येते । एतादृशस्य चिन्तनस्य निर्देशः यदा अन्येन मनुष्येण, यथा श्वशुरेण क्रियते, तदा श्वशुरः वदति - त्वं मन्यसे ओदनं भोक्ष्ये इति । श्वशुरेण उक्तस्य अस्य वाक्यस्य विशेषः अयम्, यत् अस्मिन् वाक्ये विद्यमानेन भोक्ष्ये इति क्रियापदेन वस्तुतः \"त्वं भोक्ष्यसे\" इति अर्थः प्रकटीभवति, परन्तु वाक्यस्य सन्दर्भवशात् अत्र उत्तमपुरुषस्य प्रत्ययस्य प्रयोगः कृतः अस्ति । मन्यसे इति क्रियापदेन अपि \"त्वं मन्यसे\" इत्येव अर्थः प्रकटीकृतः अस्ति, परन्तु तत्र तु मध्यमपुरुषस्य प्रत्ययस्य एव प्रयोगः भवति । अनेन प्रकारेण अत्र वाक्ये मन्-धातुः मध्यमपुरुषस्य प्रत्ययेन, तथा च अपरा क्रिया (भुज्-धातुः) उत्तमपुरुषस्य प्रत्ययेन निर्दिष्टा वर्तते - इति अस्याः वाक्यरचनायाः विशेषः । अस्यां स्थितौ, यदि अनेनैव वाक्येन परिहासः द्योतनीयः, तर्हि अस्मिन् वाक्ये विद्यमानयोः मध्यमपुरुष-उत्तमपुरुषप्रत्यययोः व्यत्यासः (reversal) भवति - इति प्रकृतसूत्रस्य आशयः । इत्युक्ते, अत्र वाक्ये भोक्ष्ये इति क्रियापदे विद्यमानस्य उत्तमपुरुषप्रत्ययस्य स्थाने मध्यमपुरुषस्य प्रत्ययं संस्थाप्य भोक्ष्यसे इति प्रयुज्यते, तथा च मन्यसे इत्यत्र विद्यमानस्य मध्यमपुरुषप्रत्ययस्य स्थाने उत्तमपुरुषस्य प्रत्ययं संस्थाप्य मन्ये इति प्रयुज्यते । एतादृशे व्यतिहारे कृते एहि मन्ये ओदनं भोक्ष्यसे, भुक्तः सः अतिथिभिः इति वाक्यं सिद्ध्यति । श्वशुरः जामातुः चिन्तनस्य उपहासं कुर्वन् \"त्वम् ओदनं भोक्ष्ये इति मन्यसे, परन्तु सर्वः ओदनः तु समाप्तः, इदानीं कीं भोक्ष्यसे\" इति वदति - इति आशयः अनेन वाक्येन प्रकटीभवति । अत्र एहि इति आ + इण् इत्यस्य लोट्लकारस्य मध्यमपुरुषैकवचनस्य रूपम् प्रहासं द्योतयितुम् प्रयुक्तम् अस्ति । अपि च, एतादृशे प्रहासे गम्यमाने अत्र द्वयोः क्रियापदयोः यः व्यत्यासः कृतः अस्ति इति सः एव प्रकृतसूत्रेण उक्तः विधिः ज्ञेयः । \nअन्यानि उदाहरणानि\nअस्य सूत्रस्य कानिचन अन्यानि उदाहरणानि एतादृशानि -\n\n
  • 1. एहि मन्ये शकटेन यास्यसि, नीतं शकटं ते पित्रा । \"शकटेन आगमिष्यामि\" इति त्वं चिन्तयसि, परन्तु तव पिता पूर्वम् एव शकटं नीतवान्, तर्हि इदानीं कथं शकटेन आगमिष्यसि ? - इति उपहासरूपेण वक्तुम् इदं वाक्यं प्रयुज्यते । अत्र यास्यसि इति क्रिया मध्यमपुरुषेण निर्दिष्टा अस्ति, तथा च मन्ये इत्यत्र मन् इति धातुः उत्तमपुरुषैकवचनेन निर्दिष्टः अस्ति । \n
  • 2. एहि मन्ये ओदनं भोक्ष्यसे । \"ओदनं खादिष्यामि\" इति त्वं चिन्तयसि, परन्तु तुभ्यम् ओदनं कः दास्यति? - इति उपहासरूपेण वक्तुम् इदं वाक्यं प्रयुज्यते । अत्र एहि इति शब्देन उपहासः प्रकटीकृतः अस्ति । अत्रापि भोक्ष्यसे इति क्रिया मध्यमपुरुषेण निर्दिष्टा अस्ति, तथा च मन्ये इत्यत्र मन् इति धातुः उत्तमपुरुषैकवचनेन निर्दिष्टः अस्ति । \n
  • 3. एहि मन्ये राजपुत्र, जामदग्न्यं विजेष्यसे । भवभूतेः महावीरचरितम् अस्मिन् नाटके जामदग्न्येन उक्तम् इदं वाक्यम् । अस्य वाक्यस्य अर्थः- हे राजपुत्र, त्वम् स्वस्य विषये \"'युद्धे जामदग्न्यं विजेष्ये\" इति चिन्तयसि, परन्तु तव तादृशं सामर्थ्यम् कुत्र? - इति अस्ति । राजपुत्रस्य सामर्थ्यविषयकस्य चिन्तनस्य परिहासं कुर्वन् जामदग्न्यः इदं वचः ब्रूते ते । अतः अत्र प्रकृतसूत्रस्य प्रयोगं कृत्वा विजेष्यसे इति क्रिया मध्यमपुरुषेण, तथा च मन्ये इति उत्तमपुरुषैकवचननेन निर्दिष्टः अस्ति । \nपरिहासस्य निर्देशार्थम् आ + इण् इत्यस्य लोट्लकारस्य उचितं धातुरूपम् प्रयोक्तव्यम् - इति सामान्यः भाषाव्यवहारः । तदनुसृत्य एव अत्र सर्वेषु उदाहरणेषु आ + इण् इत्यस्य लोट्लकारस्य मध्यमपुरुषैकवचनस्य एहि इति रूपं प्रयुक्तम् अस्ति । \n\nसूत्रे विद्यमानानां शब्दानां प्रयोजनम्\nअस्मिन् सूत्रे विद्यमानस्य प्रत्येकं पदस्य अर्थः, प्रयोजनं च एतादृशम् -\n\n
  • 1. प्रहासे - प्रहासः इत्युक्ते उपहासः (mockery) । यत्र प्रहासस्य विषयः वर्तते, तत्रैव प्रकृतसूत्रस्य उपयोगः भवति - इति स्पष्टीकर्तुम् सूत्रे इदं पदं स्थापितम् अस्ति । यत्र प्रहासस्य विषयः नास्ति, तत्र प्रकृतसूत्रस्य प्रयोगः न भवति - इति अस्य आशयः । यथा, स्वागतम्, मन्यसे ओदनं भोक्ष्ये, भुक्तः सोऽतिथिभिः । अस्य वाक्यस्य आशयः - त्वम् \"ओदनं खादिष्यामि\" इति चिन्तयसि, परन्तु अतिथिभिः सः पूर्वमेव खादितः अस्ति - इति अस्ति । अत्र न कश्चन परिहासः वर्तते अपि तु केवलम् परिस्थितेः कथनं कृतम् अस्ति, अतः अत्र प्रकृतसूत्रस्य प्रयोगः न भवति ।\n
  • 2. मन्योपपदे - मन्योपपदम् इति बहुव्रीहिसमासः अस्ति । अस्य विग्रहः - मन्-धातुः उपपदं यस्य इति दीयते । प्रकृतसूत्रस्य सन्दर्भे अनेन शब्देन \"वाक्ये विद्यमानायाः अन्यायाः क्रियायाः\" निर्देशः भवति । यथा, एहि मन्ये ओदनं भोक्ष्यसे, भुक्तः सोऽतिथिभिः - अस्मिन् वाक्ये भोक्ष्यसे इति क्रिया सूत्रस्य मन्योपपदे इति शब्देन निर्दिष्टा अस्ति । एतादृशम्, यत्र वाक्ये द्वे क्रिये विद्येते, तथा च यत्र तयोः एका क्रिया मन् इति. अन्या क्रिया चमन्-धातोः योगे एव वाक्ये प्रयुक्ता अस्ति, तत्रैव प्रकृतसूत्रस्य प्रयोगः भवति - इति स्पष्टीकर्तुम् अत्र सूत्रे मन्योपपदे इति शब्दः स्थापितः अस्ति । \n
  • 3. मन्यते उत्तमः एकवत् - वाक्ये विद्यमानस्य मन्-धातोः प्रयोगः उत्तमपुरुष-एकवचनस्य प्रत्ययेन सह एव करणीयः - इति स्पष्टीकर्तुम् अयम् अंशः अस्मिन् सूत्रे स्थापितः अस्ति । अतएव एहि मन्ये ओदनं भोक्ष्यसे, भुक्तः सोऽतिथिभिः - अस्मिन् वाक्ये मन्ये इति रूपं प्रयुक्तं दृश्यते । अपि च, अत्र श्यन्-विकरणेन सह प्रयुक्तेन मन्यते इति शब्देन इदम् अपि स्पष्टी भवति, यत् प्रकृतसूत्रस्य प्रयोगः केवलम् दिवादिगणस्य <<मन् ज्ञाने>> <{4.73}> इति धातोः सन्दर्भेण एव करणीयः - इति । अतएव, तनादिगणस्य <<मन् अवबोधने>> <{8.9}> इति धातोः सन्दर्भेण प्रकृतसूत्रं नैव प्रयुज्यते । यथा - एहि मनुषे ओदनं भोक्ष्ये, भुक्तः सोऽतिथिभिः । अत्र वाक्ये मनुषे इति <<मन् अवबोधने>> <{8.9}> इत्यस्य रूपं प्रयुक्तम् अस्ति । अत्र यदि प्रकृतसूत्रस्य प्रयोगः अभविष्यत्, तर्हि अत्र मनुषे इत्यस्य स्थाने मन्वे इति रूपम् अभविष्यत् ।\n
  • 4. एकवत् - प्रकृतसूत्रेण मन्-धातोः विषये उत्तमपुरुषस्य एकवचनस्य एव प्रत्ययस्य विधानं क्रियते । इत्युक्ते, यद्यपि मन्यमानाः बहवः सन्ति, तथापि मन्-धातोः तु एकवचनस्य एव प्रत्ययः प्रयुज्यते - इति अत्र नियमः कृतः अस्ति । यथा, बहूनां जनानां परिहासं कर्तुम् - \"यूयं चिन्तयथ यत् वयम् ओदनं भोक्ष्यामहे , ओदनः तु अतिथिभिः भुक्तः\" इति अर्थः वक्तव्यः चेत्, प्रकृतसूत्रस्य प्रयोगेण एत मन्ये ओदनं भोक्ष्यध्वे, सोऽतिथिभिः भुक्तः इति वाक्यं सिद्ध्यति । अत्र यद्यपि बहूनां जनानां युगपत् एव प्रहासः क्रियते, तथा च तदर्थम् भोक्ष्यध्वे इत्यत्र बहुवचनम् अपि प्रयुक्तम् अस्ति, तथापि मन्ये इत्यत्र तु एकवचनस्यैव प्रयोगः कृतः दृश्यते । अपि च, अत्र वाक्ये प्रयुक्तम् एत इति क्रियापदम् आ + इण् धातोः लोट्लकारस्य मध्यमपुरुषबहुवचनस्य रूपम् अस्ति । अस्य प्रयोगः उपहासं प्रकटयितुम् कृतः अस्ति । \n\nसिद्धान्तकौमुद्याम् अस्य सूत्रस्य उदाहरणानि, तथा च दलकृत्यम् अपि लट्लकारस्य प्रक्रियायाः अनन्तरम्, <<अतो दीर्घो यञि>> [[7.3.101]] इत्यस्मिन् सूत्रे दत्तम् अस्ति ।\n<<युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः>> इति सम्पूर्णसूत्रस्य अनुवृत्तिः\nप्रकृतसूत्रे <<युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः>> [[1.4.105]] इति सम्पूर्णम् सूत्रम् अनुवर्तते । अस्य प्रयोजनम् अधः क्रमेण स्पष्टीकृतम् अस्ति -\n\n
  • 1. युष्मद्युपपदे इति किमर्थम् ? यत्र युष्मद्-उपपदस्य विषयः नास्ति, तत्र प्रकृतसूत्रस्य प्रयोगः न भवति । यथा, यदि श्वशुरः स्वस्य जामातुः विषये \"एषः मन्यते ओदनं भोक्ष्ये इति, परन्तु ओदनः अतिथिभिः भुक्तः\" इति परिहाररूपेण ब्रूते, तर्हि तत्र प्रकृतसूत्रस्य प्रयोगः न भवति, यतः अत्र युष्मद् इति उपपदस्य विषयः नास्ति अपितु एतद् इति उपपदस्य विषयः अस्ति । अतः अत्र एतु मन्यते ओदनं भोक्ष्ये, भुक्तः सोऽतिथिभिः इत्येव वाक्यं सिद्ध्यति । अत्र भोक्ष्ये इति क्रियापदेन वस्तुतः \"सः भोक्ष्यते\" इति अर्थः प्रकटीभवति, परन्तु वाक्यस्य सन्दर्भवशात् अत्र उत्तमपुरुषस्य प्रत्ययस्य प्रयोगः कृतः अस्ति । अत्र प्रकृतसूत्रं नैव प्रयुज्यते । \n
  • 2. समानाधिकरणे इति किमर्थम् ? यत्र युष्मद्-उपपदस्य मन्-धातुना सह सामानाधिकरण्यम् नास्ति, तत्र प्रकृतसूत्रस्य प्रयोगः न भवति । यथा, यदि श्वशुरः स्वस्य जामातुः विषये \"अयं जामाता मन्यते त्वया सह ओदनं भोक्ष्ये इति, परन्तु ओदनः तु अतिथिभिः भुक्तः\" इति परिहाररूपेण ब्रूते, तर्हि तत्र प्रकृतसूत्रस्य प्रयोगः न भवति, यतः अत्र युष्मद् इति उपपदेन यस्य निर्देशः भवति तस्मात् भिन्नपदार्थस्य निर्देशः मन्यते इत्यनेन कृतः अस्ति । अतः अत्र एतु मन्यते त्वया सह ओदनं भोक्ष्ये, भुक्तः सोऽतिथिभिः इत्येव वाक्यं सिद्ध्यति ।\n
  • 3. स्थानिन्यपि इति किमर्थम् ? यत्र युष्मद् शब्दः मन्-धातुना सह सामानाधिकरण्ये विद्यते, तत्र युष्मद् शब्दस्य वाक्ये उपस्थितिः स्यात् उत न स्यात्, प्रकृतसूत्रस्य प्रयोगः अवश्यं सम्भवति - इति स्पष्टीकर्तुम् अत्र स्थानिनि अपि इत्यस्य अनुवृत्तिः स्वीक्रियते । अतएव, एहि त्वं मन्ये ओदनं भोक्ष्यसे भुक्तः सोऽतिथिभिः तथा च एहि मन्ये ओदनं भोक्ष्यसे भुक्तः सोऽतिथिभिः - इति उभयथा वाक्यं सिद्ध्यति । \n
  • 4. मध्यमः इति किमर्थम् ? सूत्रे विद्यमानेन मन्योपपदे इति शब्देन या क्रिया निर्दिश्यते, तस्याः कृते प्रत्ययं विधातुम् अत्र मध्यमः इत्यस्य अनुवृत्तिः आवश्यकी अस्ति । प्रकृतसूत्रे विद्यमानः मन्योपपदम् इति शब्दः बहुव्रीहिसमासेन निर्मितः अस्ति, यस्य विग्रहः मन्-धातुः उपपदं यस्य इति दीयते । इत्युक्ते, अत्र मन्योपपद इति शब्देन वाक्ये विद्यमाना अन्या क्रिया दर्श्यते । अस्याः क्रियायाः प्रयोगः मध्यमपुरुषप्रत्ययेन सह करणीयः - इति स्पष्टीकर्तुम् अत्र मध्यमः इत्यस्य अनुवृत्तिः स्वीकृता अस्ति । अतएव, एहि मन्ये ओदनं भोक्ष्यसे भुक्तः सोऽतिथिभिः अस्मिन् वाक्ये भोक्ष्यसे इति मध्यमपुरुषस्य रूपं प्रयुक्तम् अस्ति । \n\n\nएतादृशम्, <<युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः>> [[1.4.105]] इति सम्पूर्णं सूत्रं प्रकृतसूत्रे अनुवृत्तिरूपेण स्वीकृतम् अस्ति । \n\n" }, "14107": { "sa": "यदा अस्मद्-शब्देन तथा च तिङ्-प्रत्ययेन समान-पदार्थस्य निर्देशः भवति, तदा अस्मद्-शब्दस्य उपस्थितौ अनुपस्थितौ चापि धातोः उत्तमपुरुषस्यैव तिङ्-प्रत्ययाः विधीयन्ते । यथा - अहं पश्यामि, किं पश्यामः, अहं दृश्ये ।", "sd": "<<तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः>> [[1.4.101]] अनेन सूत्रेण आहत्य षण्णाम् तिङ्-प्रत्ययानाम् उत्तम: इति संज्ञा भवति । एतेषाम् उत्तमसंज्ञकानाम् तिङ्-प्रत्ययानाम् प्रयोगः कुत्र भवति इत्यस्य नियमः अनेन सूत्रेण क्रियते । अस्मद्-शब्देन यस्य पदार्थस्य निर्देशः क्रियते, तस्यैव पदार्थस्य निर्देशः तिङ्-प्रत्ययेन अपि भवति चेत्, वाक्ये सः अस्मद्-शब्दः साक्षात् भवेत् उत न भवेत्, धातोः उत्तमसंज्ञक: तिङ्प्रत्यय: एव प्रयोक्तव्यः - इति अस्य सूत्रस्य आशयः । यथा -\n\n
  • 1. अहं पश्यामि । अस्मिन् वाक्ये अहम् इत्यनेन दर्शनक्रियायाः कर्तृसंज्ञकपदार्थस्य निर्देशः भवति । (यद्यपि अत्र अहम् इत्यनेन कर्तृकारकस्य निर्देशः न भवति, तथापि यः कर्तृसंज्ञकपदार्थः तस्य निर्देशः तु अवश्यम् एव भवति) । अपि च, पश्यामि इत्यत्र विद्यमानेन तिङ्-प्रत्ययेन अपि दर्शनक्रियायाः कर्तृकारकस्यैव निर्देशः कृतः अस्ति । इत्युक्ते, अत्र अस्मद्-शब्देन तथा च तिङ्-प्रत्ययेन समानपदार्थस्य निर्देशः भवति । अतः पश्यामि इत्यत्र <<मिप्>> इति उत्तमपुरुषप्रत्ययस्य एव प्रयोगः कृतः दृश्यते । \n
  • 2. किं पश्यामः । अस्मिन् वाक्ये यद्यपि वयम् इति शब्दः साक्षात् न विद्यते, तथापि सः विवक्षितः अस्ति । अनेन विवक्षितेन वयम् शब्देन दर्शनक्रियायाः कर्तृसंज्ञकपदार्थस्य निर्देशः भवति । अस्यैव पदार्थस्य निर्देशः पश्यामः इत्यत्र विद्यमानेन तिङ्-प्रत्ययेन अपि क्रियते । अस्यां स्थितौ, अस्मद्-शब्दस्य अनुपस्थितौ अपि अत्र धातोः मिप् इति उत्तमपुरुषस्यैव प्रत्ययः विधीयते । \n
  • 3. त्वया आवाम् दृश्यावहे । अस्मिन् वाक्ये आवाम् इति शब्देन, तथा च दृश्यावहे इत्यत्र विद्यमानेन तिङ्-प्रत्ययेन एकस्यैव पदार्थस्य (= दर्शनक्रियायाः कर्मपदस्य) निर्देशः कृतः अस्ति । अतः अत्र दृश्यावहे इत्यत्र वहि इति उत्तमपुरुषस्य प्रत्ययः प्रयुक्तः अस्ति ।\n
  • 4. सः मां पश्यति । अस्मिन् वाक्ये माम् इति शब्देन दर्शनक्रियायाः कर्मपदस्य निर्देशः भवति, परन्तु पश्यति इत्यत्र विद्यमान: तिङ्-प्रत्ययः तु दर्शनक्रियायाः कर्तृपदस्य निर्देशं करोति । इत्युक्ते एताभ्यां शब्दाभ्यां अत्र समानपदार्थस्य निर्देशः न क्रियते । अस्यां स्थितौ अत्र प्रकृतसूत्रस्य प्रयोगः न भवति, अतः अत्र पश्यति इत्यत्र उत्तमपुरुषसंज्ञकः प्रत्ययः नैव प्रयुक्तः दृश्यते ।\n
  • 5. मया त्वं दृश्यसे । अस्मिन् वाक्ये मया इति शब्देन दर्शनक्रियायाः कर्तृकारकस्य निर्देशः भवति, परन्तु दृश्यसे इत्यत्र विद्यमान: तिङ्-प्रत्ययः तु दर्शनक्रियायाः कर्मपदस्य निर्देशं करोति । इत्युक्ते एताभ्यां शब्दाभ्यां अत्र समानपदार्थस्य निर्देशः न क्रियते । अस्यां स्थितौ अत्र प्रकृतसूत्रस्य प्रयोगः न भवति, अतः अत्र दृश्यसे इत्यत्र प्रथमपुरुषसंज्ञकः प्रत्ययः नैव प्रयुक्तः दृश्यते ।\n\nसूत्रस्य प्रतिपदार्थः\nप्रकृतसूत्रे <<युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः>> [[1.4.105]] इत्यस्मात् सूत्रात् उपपदे, समानाधिकरणे, स्थानिनि, तथा च अपि - एतानि चत्वारि पदानि अनुवर्त्यन्ते । युष्मदि इति पदं नैव अनुवर्तते यतोहि तस्य स्थाने अस्मदि इति पदं सूत्रे स्थापितम् अस्ति । एवमेव मध्यमः इति पदं नैव अनुवर्तते यतोहि तस्य स्थाने उत्तमः इति पदं सूत्रे स्थापितम् अस्ति । एतेषां सर्वेषां पदानाम् अर्थः एतादृशः - \n\n
  • 1. उपपदे - उपपदम् इत्युक्ते तत् पदम् यत् समीपे उच्चार्यते । कस्य समीपे उच्चार्यते ? क्रियायाः समीपे उच्चार्यते इति । क्रियायाः सम्बन्धेन उच्चार्यते - इत्यर्थः । \n
  • 2. अस्मदि उपपदे - अस्मदि उपपदे इति सतिसप्तमी अस्ति । अस्य अर्थः भवति - यत्र अस्मद् इति उपपदम् विद्यते तत्र । इत्युक्ते, अस्मद्-प्रातिपदिकस्य किञ्चन रूपं यत्र क्रियायाः सम्बन्धेन प्रयुज्यते तत्र किं करणीयम् इत्यस्मिन् विषये अत्र नियमः क्रियते । \n
  • 3. समानाधिकरणे - समानाधिकरणे इत्यस्य अर्थः समानाधिकरणस्य अवस्थायाम्समानाधिकरणम् इत्युक्ते समान-पदार्थस्य निर्देशः । कस्य सम्बन्धेन समानपदार्थः ? तिङ्-प्रत्ययस्य सम्बन्धेन समानपदार्थः इति । इत्युक्ते, तिङ्-प्रत्ययेन यस्य कारकस्य निर्देशः क्रियते, तस्यैव पदार्थस्य निर्देशः अस्मद्-शब्देन अपि क्रियते चेत् प्रकृतसूत्रेण उक्तः नियमः प्रयोक्तव्यः - इति । \n
  • 4. स्थानिनि - स्थानिनि इत्यपि सतिसप्तमी अस्ति । अस्य अर्थः स्थानिरूपेण विद्यमाने सति (इत्युक्ते, उपस्थिते सति) इति स्वीक्रियते । स्थानिनि इत्यत्र स्थानिन् इति प्रातिपदिकम् अस्ति । अयं शब्दः अस्मदि उपपदे इत्यनेन सह अन्वेति । इत्युक्ते, यत्र अस्मद्-शब्दस्य तिङ्-प्रत्ययेन सह सामानाधिकरण्यं विद्यते, तत्र अस्मद्-शब्दः साक्षात् उपस्थितः अस्ति चेद् प्रकृतसूत्रेण उक्तः नियमः प्रयोक्तव्यः - इति । \n
  • 4. अपि - अपि इति शब्दः स्थानिनि इत्यनेन सह अन्वेति । स्थानिनि अपि इत्युक्ते उपस्थितः अस्ति चेद् अपि इति । अत्र अपि इति शब्दः समुच्चयं दर्शयति । इत्युक्ते, अनुपस्थितः अस्ति चेद् तु अवश्यमेव भवति, परन्तु उपस्थितः अस्ति चेद् अपि भवति इति अत्र अर्थः जायते । \n
  • 5. उत्तमः - उत्तमः इति संज्ञा यस्य, सः प्रत्ययः (एव) विधीयते - इति अस्य अर्थः । \n\nअनेन प्रकारेण अस्मदि उपपदे समानाधिकरणे स्थानिनि अपि उत्तमः इत्यस्य समग्रः अर्थः - अस्मद् इति शब्दः यत्र क्रियायाः योगे सत् तिङ्-प्रत्ययेन निर्दिष्टस्य पदार्थस्य एव निर्देशं करोति, तत्र, अस्मद् इति शब्दस्य उपस्थितौ अनुपस्थितौ च अपि उत्तमसंज्ञकप्रत्ययाः एव भवन्ति - इति सिद्ध्यति ।\n\nनियमसूत्रम् इदम्\n इदं सूत्रम् नियमसूत्रम् अस्ति । \"अस्मदि उपपदे, समानाधिकरणे, स्थानिनि अपि\" इति अवस्थायाम् \"उत्तमःएव प्रत्ययः भवति, न अन्यः\" - इति नियमः अनेन सूत्रेण क्रियते । यत्र तिङ्-प्रत्ययस्य अस्मद्-उपपदेन सह सामानाधिकरण्यं वर्तते, तत्र उत्तमपुरुषस्यैव प्रत्ययाः प्रयोक्तव्याः - इति अस्य अर्थः । \nयुष्मद्-उपपदस्य अस्मद्-उपपदस्य च युगपत् सामानाधिकरण्यम्\nयत्र युष्मद्-उपपदस्य क्रियया सह सामानाधिकरण्यम् अस्ति तत्र <<युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः >> [[1.4.105]] इत्यनेन धातोः मध्यमपुरुषस्य प्रत्ययः विधीयते । यत्र अस्मद्-उपपदस्य क्रियया सह सामानाधिकरण्यम् अस्ति तत्र तु <<अस्मद्युत्तमः>> [[1.4.105]] इत्यनेन धातोः उत्तमपुरुषस्य प्रत्ययः विधीयते । यत्र द्वयोः अपि उपपदयोः क्रियया सह युगपत् एव सामानाधिकरण्यं विद्यते, तत्र परत्वात् <<अस्मद्युत्तमः>> [[1.4.105]] इत्यस्यैव प्रयोगः भवति, अतः तत्रापि धातोः उत्तमपुरुषस्य प्रत्ययः एव विधीयते । यथा - \n\n
  • 1. त्वं च अहं च गच्छावः अस्मिन् वाक्ये गच्छावः इत्यत्र उत्तमपुरुषसंज्ञकः वस्-प्रत्ययः प्रयुक्तः अस्ति । \n
  • 2. तेन यूयं वयं च दृश्यामहे अस्मिन् वाक्ये दृश्यामहे इत्यत्र उत्तमपुरुषसंज्ञकः महिङ्-प्रत्ययः प्रयुक्तः अस्ति ।\n\nयत्र वाक्ये युष्मद् तथा अस्मद् एतौ द्वौ शब्दौ विद्येते परन्तु तयोः एकेनैव क्रियापदेन सह सामानाधिकरण्यं नास्ति, तत्र तु एतादृशः विप्रतिषेधः नैव वर्तते । यथा - त्वं गच्छसि, अहं च गच्छामि इत्यस्मिन् वाक्ये त्वम्-शब्दस्य सामानाधिकरण्यम् गच्छसि इत्यनेन सह अस्ति, परन्तु अहम्-शब्दस्य सामानाधिकरण्यम् तु गच्छामि इत्यनेन सह अस्ति । अस्यां स्थितौ, गच्छसि इत्यत्र मध्यमपुरुषस्य प्रत्ययः तथा च गच्छामि इत्यत्र उत्तमपुरुषस्य प्रत्ययः प्रयुक्तः दृश्यते ।" }, "14108": { "sa": "मध्यमपुरुषस्य उत्तमपुरुषस्य च विषयान् विहाय अन्येषु सन्दर्भेषु धातोः प्रथमपुरुषस्य तिङ्-प्रत्ययः विधीयते । यथा - सः पश्यति । ", "sd": "<<तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः>> [[1.4.101]] अनेन सूत्रेण आहत्य षण्णाम् तिङ्-प्रत्ययानाम् प्रथम: इति संज्ञा भवति । एतेषाम् प्रथमसंज्ञकानाम् तिङ्-प्रत्ययानाम् प्रयोगः कुत्र भवति इत्यस्य नियमः अनेन सूत्रेण क्रियते । वाक्ये तिङ्-प्रत्ययेन यस्य पदार्थस्य निर्देशः क्रियते तस्य पदार्थस्य निर्देशः तस्मिन्नेव वाक्ये युष्मद्-उपपदेन उत अस्मद्-उपपदेन न क्रियते चेत् , इत्युक्ते मध्यमपुरुषस्य उत्तमपुरुषस्य च प्रयोगस्य विषयः नास्ति चेत् धातोः प्रथमसंज्ञकः तिङ्प्रत्यय: एव प्रयोक्तव्यः - इति अस्य सूत्रस्य आशयः । यथा -\n\n
  • 1. भवान् पश्यति । अस्मिन् वाक्ये पश्यति इत्यत्र विद्यमानेन तिङ्-प्रत्ययेन दर्शनक्रियायाः कर्तृकारकस्य निर्देशः कृतः अस्ति । अस्यैव पदार्थस्य निर्देशार्थम् वाक्ये पुनः युष्मद् उत अस्मद्शब्दः नैव विद्यते । अतः अस्मिन् वाक्ये पश्यति इत्यत्र <<तिप्>> इति प्रथमपुरुषप्रत्ययस्य एव प्रयोगः कृतः दृश्यते । \n
  • 2. किं पश्यति । अस्मिन् वाक्ये पश्यति इत्यत्र विद्यमानेन तिङ्-प्रत्ययेन दर्शनक्रियायाः कर्तृकारकस्य निर्देशः कृतः अस्ति । अस्यैव पदार्थस्य निर्देशार्थम् वाक्ये पुनः युष्मद् उत अस्मद्शब्दः नैव विद्यते । अतः अस्मिन् वाक्ये पश्यति इत्यत्र <<तिप्>> इति प्रथमपुरुषप्रत्ययस्य एव प्रयोगः कृतः दृश्यते । \n
  • 3. तौ त्वां मां च पश्यतः । अस्मिन् वाक्ये पश्यतः इत्यत्र विद्यमानेन तिङ्-प्रत्ययेन दर्शनक्रियायाः कर्तृकारकस्य निर्देशः कृतः अस्ति । यद्यपि वाक्ये त्वाम् इत्यत्र युष्मद्-शब्दः , तथा च माम् इत्यत्र अस्मद्-शब्दः अपि प्रयुक्तः अस्ति, तथापि एतयोः शब्दयोः दर्शनक्रियायाः कर्मपदस्य निर्देशः भवति, न हि कर्तृपदस्य । इत्युक्ते, तिङ्-प्रत्ययेन यस्य पदार्थस्य निर्देशः क्रियते तस्यैव पदार्थस्य निर्देशः एतभ्यां नैव भवति । अतः अस्मिन् वाक्ये पश्यतः इत्यत्र <<तिप्>> इति प्रथमपुरुषप्रत्ययस्य एव प्रयोगः कृतः दृश्यते । \n
  • 4. मया ते दृश्यन्ते । अस्मिन् वाक्ये दृश्यन्ते इत्यत्र विद्यमानेन तिङ्-प्रत्ययेन दर्शनक्रियायाः कर्मकारकस्य निर्देशः कृतः अस्ति । यद्यपि वाक्ये मया इत्यत्र अस्मद्-शब्दः प्रयुक्तः अस्ति, तथापि तेन दर्शनक्रियायाः कर्तृपदस्य निर्देशः भवति, न हि कर्मपदस्य । इत्युक्ते, तिङ्-प्रत्ययेन यस्य पदार्थस्य निर्देशः क्रियते तस्य पदार्थस्य निर्देशः अस्मद्-शब्देन नैव कृतः अस्ति । अतः अस्मिन् वाक्ये दृश्यन्ते इत्यत्र <<झ>> इति प्रथमपुरुषप्रत्ययस्य एव प्रयोगः कृतः दृश्यते । \n
  • 5. सः अहं च पश्यावः । अस्मिन् वाक्ये पश्यावः इत्यत्र विद्यमानः तिङ्-प्रत्ययः कर्तृपदस्य निर्देशं करोति । अस्यैव कर्तृपदार्थस्य निर्देशार्थम् वाक्ये अहम् इति अस्मद्-शब्दस्य रूपम् अपि प्रयुक्तम् अस्ति । अतः अत्र प्रकृतसूत्रस्य प्रयोगः न भवति अपितु <<अस्मद्युत्तमः>> [[1.4.107]] इत्यनेन उत्तमपुरुषस्यैव प्रत्ययः प्रयुज्यते ।\n
  • 6. सः त्वं च मां पश्यथः । अस्मिन् वाक्ये पश्यथः इत्यत्र विद्यमानः तिङ्-प्रत्ययः कर्तृपदस्य निर्देशं करोति । अत्र वाक्ये विद्यमानेन त्वम् इति युष्मद्-शब्दरूपेण अपि अस्यैव कर्तृपदार्थस्य निर्देशः क्रियते ।अतः अत्र प्रकृतसूत्रस्य प्रयोगः न भवति अपितु <<युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः >> [[1.4.105]] इत्यनेन मध्यमपुरुषस्यैव प्रत्ययः प्रयुज्यते ।\n\n<hl>शेषे</hl> इत्यस्य अर्थः\nअस्मिन् सूत्रे प्रयुक्तः शेषे इति शब्दः <<युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः >> [[1.4.105]] तथा च <<अस्मद्युत्तमः>> [[1.4.107]] इत्यत्र उक्तौ विषयौ विहाय अन्यान् विषयान् दर्शयति । इत्युक्ते, तिङ्-प्रत्ययेन सह युष्मद् तथा अस्मद् एताभ्यां कस्यापि सामानाधिकरण्यं यत्र न विद्यते, तानि सर्वाणि अपि स्थलानि प्रकृतसूत्रे विद्यमानेन शेषे इति शब्देन स्वीकृतानि सन्ति । एतेषु सर्वेषु अपि स्थलेषु धातोः प्रथमपुरुषस्यैव प्रत्ययाः भवन्ति - इति अस्य सूत्रस्य आशयः अस्ति । \n\nकिञ्च, शेषे इत्यनेन (युष्मद्-भिन्नस्य अस्मद्-भिन्नस्य च) सन्दर्भस्य निर्देशः क्रियते (न हि निमित्तस्य), अतः इयम् विषयसप्तमी अस्ति इति स्वीक्रियते । \n" }, "14109": { "sa": "वर्णानाम् आतिशयसान्निध्यम् संहितासंज्ञकं भवति । ", "sd": "व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा अस्ति संहिता इति संज्ञा, या प्रकृतसूत्रेण पाठिता अस्ति । द्वयोः वर्णयोः उच्चारणम् आतिशयसान्निध्येन (immediately one after another) क्रियते चेत् तयोः वर्णयोः मध्ये विद्यमानस्य सान्निध्यस्य निर्देशः संहिता इति संज्ञया क्रियते - इति अस्य सूत्रस्य आशयः । यथा, रामः इति शब्दस्य उच्चारणे आहत्य पञ्च वर्णाः सन्ति - र्, , म्, अ, तथा च विसर्गः इति । एतेषाम् सर्वेषाम् वर्णानाम् क्रमेण (विना व्यवधानम्) उच्चारणं क्रियते चेदेव रामः इति शब्दस्य सम्यक् श्रवणम् सम्भवति । अतः अत्ररामः अस्मिन् शब्दे विद्यमानानां वर्णानां प्रत्येकस्मिन् युगले (every pair of adjacent letters) संहिता अस्ति — इति उच्यते । \n\nनव्यनायभाषायां <hl>संहिता</hl> इत्यस्य व्याख्या\nनव्यन्यायभाषायां संहिताशब्दस्य व्याख्या दीयते — स्वभावसिद्धार्धमात्राकालिकव्यवायातिरिक्तव्यवायशून्यत्वम् संहितात्वम् । द्वयोः वर्णयोः उच्चारणयोः मध्ये स्वभावतः अर्धमात्रा इति कालः अवश्यम् एव विद्यते । तस्मात् अधिकः कालः तयोः उच्चारणयोः मध्ये न विद्यते चेत् तयोः मध्ये संहिता अस्ति इति उच्यते - इति अस्याः व्याख्यायाः अर्थः । \nसंहिताशब्दस्य प्रयोजनम्\nअष्टाध्याय्याम् अनेके विधयः संहितायां सत्याम् एव भवितुम् अर्हन्ति । एते सर्वेऽपि विधयःसंहिताधिकारे पाठिताः सन्ति । एतादृशाः आहत्य त्रयः संहिताधिकाराः अष्टाध्याय्याम् विद्यते । ते एते - \n\n
  • 1) <<संहितायाम्>> [[6.1.72]] इति प्रथमः संहिताधिकारः । अस्य व्याप्तिः <<पारस्करप्रभृतीनि च संज्ञायाम्>> [[6.1.157]] इति यावत् वर्तते । अस्मिन् अधिकारे स्वरसन्धिविशिष्टानि सूत्राणि विद्यन्ते। सर्वे स्वरसन्धयः संहितायाः उपस्थितौ एव भवन्ति — इति अत्र आशयः । यथा, इति तथा अपि एतयोः द्वयोः शब्दयोः मध्ये संहिता विद्यते चेदेव तकारोत्तस्य इकारस्य <<इको यणचि>> [[6.1.77]] इत्यनेन यणादेशं कृत्वा इत्यपि इति शब्दः सिद्ध्यति । यदि एतयोः शब्दयोः मध्ये संहिता न विद्यते, तर्हि अत्र यणादेशः अपि न सम्भवति ।\n
  • 2) <<संहितायाम्>> [[6.3.114]] इति द्वितीयः संहिताधिकारः । अस्य व्याप्तिः <<द्व्यचोऽतस्तिङः>> [[6.3.135]] इति यावत् अस्ति । अस्मिन् अधिकारे प्रामुख्येण पूर्वपद-उत्तरपदयोः मध्ये जायमानानि कार्याणि सङ्कलितानि सन्ति । यथा, <<मित्रे चर्षौ>> [[6.3.130]] इति सूत्रेण विश्व इति पूर्वपदस्य मित्र इति उत्तरपदे परे संहितायाम् सत्याम् एव दीर्घादेशः विधीयते, येन विश्वामित्र इति ऋषेः नाम सिद्ध्यति ।\n
  • 3) <<तयोर्य्वावचि संहितायाम्>> [[8.2.108]] इति तृतीयः संहिताधिकारः । अस्य व्याप्तिः अष्टाध्याय्याः अन्तिमं सूत्रं यावत् विद्यते । अस्मिन् अधिकारे प्रामुख्येण हल्सन्धिविशिष्टानि सूत्राणि उक्तानि सन्ति । सर्वे हल्सन्धयः संहितायाः उपस्थितौ एव भवन्ति इति अत्र आशयः । यथा तद् तथा जलम् एतयोः द्वयोः शब्दयोः मध्ये संहिता विद्यते चेदेव दकारस्य <<स्तोः श्चुना श्चुः>> [[8.4.40]] इत्यनेन श्चुत्वे जकारादेशं कृत्वा तज्जलम् इति शब्दः सिद्ध्यति । यदि एतयोः शब्दयोः मध्ये संहिता न विद्यते, तर्हि अत्र श्चुत्वम् अपि न सम्भवति ।\n\nसंहितायाः नित्यत्वम्, विकल्पः च\nसंहिता आहत्य त्रिषु स्थलेषु नित्या अस्ति । एतेषाम् परिगणनम् एकया कारिकया क्रियते -\n\nसंहितैकपदे नित्या, नित्या धातूपसर्गयोः ।\nनित्या समासे, वाक्ये तु सा विवक्षामपेक्षते ॥\n\nअस्याः कारिकायाः अर्थः अयम् —\n\n1. एकस्मिन् पदे विद्यमानेषु वर्णेषु संहिता नित्यं भवति । यथा, रामः इत्यत्र रेफ-आकारयोर्मध्ये, आकार-मकारयोर्मध्ये, मकार-अकारयोर्मध्ये, अकार-विसर्गयोर्मध्ये च संहिता नित्या अस्ति, अतः एतेषां वर्णानाम् उच्चारणम् विना-व्यवधानम् एव करणीयम् ।\n2. धातुः तथा उपसर्गः एतयोः मध्ये संहिता नित्या अस्ति । यथा, आगच्छति इत्यत्र इति उपसर्गस्य तथा च गच्छति इत्यस्य गकारस्य मध्ये संहिता नित्या विद्यते । अतएव आगच्छति इत्यस्य उच्चारणसमये आकारात् अनन्तरम् विना विरामम् एव गकारः उच्चारणीयः । \nउपसर्गाः स्वयं पदसंज्ञकाः सन्ति । इत्युक्ते, एकस्मिन् पदे इति पूर्वनियमेन उपसर्ग-धातु-सम्बन्धस्य ग्रहणं नैव भवति, अतएव तयोः अत्र विशेषः निर्देशः क्रियते । \n3. समस्तपदे विद्यमानयोः पूर्वपद-उत्तरपदयोः मध्ये संहिता नित्यं भवति । यथा, सीतापतिः इत्यत्र सीता इति पूर्वपदम् तथा च पतिः इति उत्तरपदम् - एतयोमर्ध्ये संहिता नित्या अस्ति । \n\n4. वाक्ये विद्यमानयोः पृथक्-शब्दयोः मध्ये वक्तुः इच्छाम् अनुसृत्य संहिता भवति । यथा, फलम् पतति इत्यस्य वाक्यस्य उच्चारणसमये फलम् तथा च पतति एतयोर्मध्ये संहिता विवक्षाम् अनुसरति । यदि अत्र संहिता स्वीक्रियते, तर्हि <<मोऽनुस्वारः>> [[8.3.23]] इत्यनेन मकारस्य अनुस्वारादेशे कृते फलं पतति इति अनुस्वारघटितम् उच्चारणं करणीयम् । परन्तु यदि एतयोर्मध्ये संहिता न स्वीक्रियते, तर्हि फलम् शब्दस्य उच्चारणात् अनन्तरम् अर्धमात्रातः अधिकं कालं यावत् विरामं स्वीकृत्य ततः पतति अस्य उच्चारणम् करणीयम् ।\n\nसंहिता तथा सन्धिः\nसंहिता तथा सन्धिः एतौ व्याकरणे विद्यमानौ द्वौ पृथक् विषयौ स्तः । संहिता इत्युक्ते वर्णानाम् आतिशयसान्निध्यम्सन्धिः इत्युक्ते वर्णविकारः (वर्णेषु जायमानं परिवर्तनम् इत्याशयः) । सन्धिप्रकरणस्य सर्वाणि सूत्राणि संहिताधिकारे एव वर्तन्ते, अतः संहितायाम् सत्याम् सन्धिः अपि अवश्यम् एव करणीयः ।\nसंहिता तथा संयोगः\nसंहिता तथा संयोगः एतौ व्याकरणे विद्यमानौ द्वौ पृथक् विषयौ स्तः । संहिता इत्युक्ते वर्णानाम् आतिशयसान्निध्यम् । संयोगः इत्युक्ते व्यञ्जनानाम् आतिशयसान्निध्यम् । अतः <ब>संयोगः अस्ति चेत् संहिता अवश्यम् एव विद्यते । परन्तु संहिता तु स्वर-व्यञ्जनयोर्मध्ये अपि भवितुम् अर्हति, अतः संहिता अस्ति चेत् संयोगः अपि अस्ति इति न उचितम् । यथा, रामः इति शब्दे रेफ-आकारयोः, आकार-मकारयोः, मकार-अकारयोः मध्ये संहिता विद्यते, परन्तु कुत्रापि संयोगः नास्ति ।\nसंहिता तथा विरामः\nसंहिता तथा विरामः एतौ विरुद्धार्थकशब्दौ । यत्र द्वयोः वर्णयोः उच्चारणयोः मध्ये अर्धमात्रायाः एव व्यवधानम् विद्यते (यतः तस्मात् न्यूनं व्यवधानम् नैव शक्यम्), तत्र संहिता अस्ति इति उच्यते । यत्र द्वयोः वर्णयोः मध्ये अर्धमात्रायाः अपेक्षया अधिकं व्यवधानम् अस्ति, उत यत्र द्वितीयः वर्णः एव नास्ति, तत्र विरामः अस्ति इति उच्यते । अस्यैव विरामस्य व्याकरणशास्त्रे <<विरामोऽवसानम्>> [[1.4.110]] इत्यनेन अवसानम् इति अपि संज्ञा दीयते ।\n<pv>अस्य सूत्रस्य प्रत्याख्यानम्\n<<विरामोऽवसानम्>> [[1.4.110]] इत्यस्मिन् सूत्रे भाष्यकारः इति किञ्चन वार्त्तिकं पाठयति । संहिता तथा अवसानम् एते द्वे अपि संज्ञे वेदाध्ययनव्यवहारात् लोके प्रचलिते एव स्तः, अतः एतयोः द्वयोः अपि संज्ञयोः कृते विशिष्टसूत्रनिर्माणम् अनावश्यकम् अस्ति — इति अत्र भाष्यकारस्य आशयः वर्तते । अस्मिन् एव विषये कैयटः प्रदीपे — न अर्थः संज्ञाद्वयविधानेन, तेन विना अपि इष्टस्य सिद्धत्वात् — इति उक्त्वा इदं सूत्रद्वयं प्रत्याचष्टे । \n<pv>त्रयाणाम् संहिताधिकाराणाम् प्रत्याख्यानम् \nअष्टाध्याय्यां विद्यमानाः त्रयः अपि संहिताधिकाराः अनावश्यकाः सन्ति इति <<संहितायाम्>> [[6.1.72]] इति सूत्रस्य विवरणे भाष्यकारः स्पष्टी करोति । अस्मिन्नेव सन्दर्भे संहिताधिकारे च प्रत्याख्याते संहितासंज्ञा अपि प्रयोजनाभावात् प्रत्याख्याता एव इति उक्त्वा कैयटेन संहितासंज्ञायाः अपि प्रत्याख्यानं कृतम् अस्ति । \n अस्मिन् विषये <<संहितायाम्>> [[6.1.72]] इति सूत्रस्य सूत्रार्थे विस्तरेण विवरणम् कृतम् अस्ति ।\n \n\n\n" }, "14110": { "sa": "वर्णानाम् अभाव: अवसानसंज्ञकः भवति । ", "sd": "व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा अस्ति अवसानम् इति संज्ञा, या प्रकृतसूत्रेण पाठिता अस्ति । अर्धमात्रायाः अपेक्षया अधिकम् कालम् यावत् उच्चारणस्य अभावः इतिअवसानम् इति संज्ञया निर्दिश्यते - इति अस्य सूत्रस्य आशयः । यथा, फलम् इत्यत्र मकारात् अनन्तरम् कोऽपि वर्णः न विद्यते, अतः मकारात् अनन्तरम् अवसानम् अस्ति इति उच्यते । एवमेव, फलम् पतति इत्यत्र फलम् इति उक्त्वा ततः अर्धमात्रातः अधिकं विरामं स्वीकृत्य ततः पतति इति उच्चार्यते चेत् अत्रापि मकारात् अनन्तरम् अवसानम् अस्ति इति उच्यते\nअवसानसंज्ञायाः प्रयोजनम्\nअष्टाध्याय्याम् अवसानसंज्ञायाः आहत्य त्रीणि प्रयोजनानि वर्तन्ते —\n\n
  • 1) विसर्गनिर्माणम् — <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इत्यनेन सूत्रेण पदान्तरेफस्य अवसाने परे विसर्गादेशः भवति । यथा, राम-शब्दस्य प्रथमैकवचनस्य रूपसिद्धौ —\n\nराम + सुँ [प्रथमैकवचनस्य प्रत्ययः]\n→ राम + स् [उकारस्य <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इति इत्संज्ञा, तस्य लोपः [[1.3.9]] इति लोपः। अग्रे <<सुप्तिङन्तम् पदम्>> [[1.4.14]] इत्यनेन 'राम+स्' इत्यस्य पदसंज्ञा भवति ।]\n→ राम + रुँ [<<ससजुषो रुँ>> [[8.2.66]] इति रुँत्वम् ]\n→ रामः [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति अवसाने परे रेफस्य विसर्गः]\n\n
  • 2) वैकल्पिकं चर्त्वम् — <<वाऽवसाने>> [[8.4.56]] इत्यनेन सूत्रेण पदान्ते विद्यमानस्य जश्-वर्णस्य अवसाने परे विकल्पेन चर्त्वं भवति ।यथा, राम-शब्दस्य पञ्चम्येकवचनस्य रूपसिद्धौ —\n\nराम + ङसिँ [पञ्चम्येकवचनस्य प्रत्ययः]\n→ राम + आत् [<<टाङसिङसामिनात्स्याः>> [[7.1.12]] इति आत्-आदेशः]\n--> रामात् [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः]\n--> रामाद् [<<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वम्]\n--> रामाद्, रामात् [<<वाऽवसाने>> [[8.4.56]] इति विकल्पेन चर्त्वम् ।]\n\n
  • 3) वैकल्पिकः अनुनासिकादेशः — <<अणोऽप्रगृह्यस्यानुनासिकः>> [[8.4.57]] इत्यनेन प्रगृह्यभिन्नशब्दानाम् अन्ते विद्यमानः अण्-वर्णः अवसाने परे विकल्पेन अनुनासिकत्वं प्राप्नोति । यथा, दधि शब्दस्य प्रथमैकवचनम् दधि इत्यत्र धकारोत्तरः इकारः अवसाने परे अनेन सूत्रेण विकल्पेन अनुनासिकः भवति, येन दधि तथा च दधिँ एते द्वे रूपे भवतः ।\n\nसंहिता तथा अवसानम्\nसंहिता तथा विरामः एतौ विरुद्धार्थकशब्दौ । यत्र द्वयोः वर्णयोः उच्चारणयोः मध्ये अर्धमात्रायाः एव व्यवधानम् विद्यते (यतः तस्मात् न्यूनं व्यवधानम् नैव शक्यम्), तत्र संहिता अस्ति इति उच्यते । यत्र द्वयोः वर्णयोः मध्ये अर्धमात्रायाः अपेक्षया अधिकं व्यवधानम् अस्ति, उत यत्र द्वितीयः वर्णः एव नास्ति, तत्र अवसानम् अस्ति इति उच्यते ।\n<pv>अस्य सूत्रस्य प्रत्याख्यानम्\n<<विरामोऽवसानम्>> [[1.4.110]] इत्यस्मिन् सूत्रे भाष्यकारः इति किञ्चन वार्त्तिकं पाठयति । संहिता तथा अवसानम् एते द्वे अपि संज्ञे वेदाध्ययनव्यवहारात् लोके प्रचलिते एव स्तः, अतः एतयोः द्वयोः अपि संज्ञयोः कृते विशिष्टसूत्रनिर्माणम् अनावश्यकम् अस्ति — इति अत्र भाष्यकारस्य आशयः वर्तते । अस्मिन् एव विषये कैयटः प्रदीपे — न अर्थः संज्ञाद्वयविधानेन, तेन विना अपि इष्टस्य सिद्धत्वात् — इति उक्त्वा इदं सूत्रद्वयं प्रत्याचष्टे । " }, "21001": { "sa": "व्याकरणशास्त्रे उक्तः 'पदविधिः' समर्थानाम् विषये एव भवति । ", "sd": "" }, "21002": { "sa": "स्वरविधानस्य विषये आमन्त्रितसंज्ञके परे सुबन्तम् परस्य अङ्गवत् कार्यम् करोति । ", "sd": "" }, "21003": { "sa": "इतः परम् <<कडाराः कर्मधारये>> [[2.2.38]] इतिपर्यन्तम् समाससंज्ञकाः वक्ष्यन्ते । ", "sd": "" }, "21004": { "sa": "सुबन्तस्य समर्थसुबन्तेन सह समासः भवति । ", "sd": "" }, "21005": { "sa": "इतः परम् <<तत्पुरुषः>> [[2.1.22]] इति यावत् उक्ताः समासाः अव्ययीभावसंज्ञकाः भवन्ति । ", "sd": "" }, "21006": { "sa": "'विभक्तिः, समीपम्, समृद्धिः, व्यृद्धिः, अर्थाभावः, अत्ययम्, असम्प्रतिः, शब्दप्रादुर्भावः, पश्चात्, यथा, आनुपूर्व्य, यौगपद्य, सादृश्य, सम्पत्ति, साकल्यार्थः, अन्तवचनम्' - एतेषु अर्थेषु विद्यमानमव्ययम् समर्थेन सुबन्तेन सह समस्यते, तस्य च 'अव्ययीभावसमास' इति संज्ञा भवति । ", "sd": "" }, "21007": { "sa": "'सादृश्यम्' इति अर्थं विहाय अन्येषु अर्थेषु प्रयुक्तः 'यथा' इति शब्दः समर्थेन सुबन्तेन सह समस्यते । अयम् समासः 'अव्ययीभावः' नाम्ना ज्ञायते । ", "sd": "" }, "21008": { "sa": "'अवधारणा' (सङ्ख्यानिश्चयः) अस्मिन् अर्थे प्रयुक्तम् 'यावत्' इति अव्ययम् समर्थेन सुबन्तेन सह समस्यते । अयं समासः 'अव्ययीभावः' नाम्ना ज्ञायते । ", "sd": "" }, "21009": { "sa": "'मात्रा' अस्मिन् अर्थे प्रयुक्तेन 'प्रति' शब्देन सह समर्थं सुबन्तं समस्यते , अव्ययीभावसमासः च भवति । ", "sd": "" }, "21010": { "sa": "'अक्ष'शब्दः, 'शलाका'शब्दः तथा च सङ्ख्यावाचकः शब्दः - एते शब्दाः समर्थेन 'परि' इत्यनेन सह समस्यन्ते । अयं समासः अव्ययीभावसंज्ञकः अस्ति । ", "sd": "" }, "21011": { "sa": "इतः परमुक्ताः समासाः विकल्पेन भवन्ति । ", "sd": "" }, "21012": { "sa": "'अप', 'परि', 'बहि', एते शब्दाः, तथा च 'अञ्च्' धातुनिर्मिता' शब्दाः (यथा - प्राच्, प्रत्यच्, उदच् आदयः) पञ्चम्यन्तेन समर्थेन सह विकल्पेन समस्यन्ते । अस्य समासस्य\n'अव्ययीभावः' इति संज्ञा भवति । ", "sd": "" }, "21013": { "sa": "'मर्यादा' तथा 'अभिविधिः' एतयोः अर्थयोः प्रयुक्तः 'आङ्' शब्दः पञ्चम्यन्तेन सुबन्तेन सह विकल्पेन समस्यते, अव्ययीभावसमासः च भवति । ", "sd": "" }, "21014": { "sa": "", "sd": "" }, "21015": { "sa": "", "sd": "" }, "21016": { "sa": "", "sd": "" }, "21017": { "sa": "", "sd": "" }, "21018": { "sa": "", "sd": "" }, "21019": { "sa": "", "sd": "" }, "21020": { "sa": "", "sd": "" }, "21021": { "sa": "", "sd": "" }, "21022": { "sa": "", "sd": "" }, "21023": { "sa": "", "sd": "" }, "21024": { "sa": "", "sd": "" }, "21025": { "sa": "", "sd": "" }, "21026": { "sa": "", "sd": "" }, "21027": { "sa": "", "sd": "" }, "21028": { "sa": "", "sd": "" }, "21029": { "sa": "", "sd": "" }, "21030": { "sa": "", "sd": "" }, "21031": { "sa": "", "sd": "" }, "21032": { "sa": "", "sd": "" }, "21033": { "sa": "", "sd": "" }, "21034": { "sa": "", "sd": "" }, "21035": { "sa": "", "sd": "" }, "21036": { "sa": "", "sd": "" }, "21037": { "sa": "", "sd": "" }, "21038": { "sa": "", "sd": "" }, "21039": { "sa": "", "sd": "" }, "21040": { "sa": "", "sd": "" }, "21041": { "sa": "", "sd": "" }, "21042": { "sa": "", "sd": "" }, "21043": { "sa": "", "sd": "" }, "21044": { "sa": "", "sd": "" }, "21045": { "sa": "", "sd": "" }, "21046": { "sa": "", "sd": "" }, "21047": { "sa": "", "sd": "" }, "21048": { "sa": "", "sd": "" }, "21049": { "sa": "", "sd": "" }, "21050": { "sa": "", "sd": "" }, "21051": { "sa": "", "sd": "" }, "21052": { "sa": "", "sd": "" }, "21053": { "sa": "", "sd": "" }, "21054": { "sa": "", "sd": "" }, "21055": { "sa": "", "sd": "" }, "21056": { "sa": "", "sd": "" }, "21057": { "sa": "", "sd": "" }, "21058": { "sa": "", "sd": "" }, "21059": { "sa": "", "sd": "" }, "21060": { "sa": "", "sd": "" }, "21061": { "sa": "", "sd": "" }, "21062": { "sa": "", "sd": "" }, "21063": { "sa": "", "sd": "" }, "21064": { "sa": "", "sd": "" }, "21065": { "sa": "", "sd": "" }, "21066": { "sa": "", "sd": "" }, "21067": { "sa": "", "sd": "" }, "21068": { "sa": "", "sd": "" }, "21069": { "sa": "", "sd": "" }, "21070": { "sa": "", "sd": "" }, "21071": { "sa": "", "sd": "" }, "21072": { "sa": "", "sd": "" }, "22001": { "sa": "", "sd": "" }, "22002": { "sa": "", "sd": "" }, "22003": { "sa": "", "sd": "" }, "22004": { "sa": "", "sd": "" }, "22005": { "sa": "", "sd": "" }, "22006": { "sa": "", "sd": "" }, "22007": { "sa": "", "sd": "" }, "22008": { "sa": "", "sd": "" }, "22009": { "sa": "", "sd": "" }, "22010": { "sa": "", "sd": "" }, "22011": { "sa": "", "sd": "" }, "22012": { "sa": "", "sd": "" }, "22013": { "sa": "", "sd": "" }, "22014": { "sa": "", "sd": "" }, "22015": { "sa": "", "sd": "" }, "22016": { "sa": "", "sd": "" }, "22017": { "sa": "", "sd": "" }, "22018": { "sa": "", "sd": "" }, "22019": { "sa": "", "sd": "" }, "22020": { "sa": "", "sd": "" }, "22021": { "sa": "", "sd": "" }, "22022": { "sa": "", "sd": "" }, "22023": { "sa": "", "sd": "" }, "22024": { "sa": "", "sd": "" }, "22025": { "sa": "", "sd": "" }, "22026": { "sa": "", "sd": "" }, "22027": { "sa": "", "sd": "" }, "22028": { "sa": "", "sd": "" }, "22029": { "sa": "", "sd": "" }, "22030": { "sa": "", "sd": "" }, "22031": { "sa": "", "sd": "" }, "22032": { "sa": "", "sd": "" }, "22033": { "sa": "", "sd": "" }, "22034": { "sa": "", "sd": "" }, "22035": { "sa": "", "sd": "" }, "22036": { "sa": "", "sd": "" }, "22037": { "sa": "", "sd": "" }, "22038": { "sa": "", "sd": "" }, "23001": { "sa": "", "sd": "" }, "23002": { "sa": "", "sd": "" }, "23003": { "sa": "", "sd": "" }, "23004": { "sa": "", "sd": "" }, "23005": { "sa": "", "sd": "" }, "23006": { "sa": "", "sd": "" }, "23007": { "sa": "", "sd": "" }, "23008": { "sa": "", "sd": "" }, "23009": { "sa": "", "sd": "" }, "23010": { "sa": "", "sd": "" }, "23011": { "sa": "", "sd": "" }, "23012": { "sa": "", "sd": "" }, "23013": { "sa": "", "sd": "" }, "23014": { "sa": "", "sd": "" }, "23015": { "sa": "", "sd": "" }, "23016": { "sa": "", "sd": "" }, "23017": { "sa": "", "sd": "" }, "23018": { "sa": "", "sd": "" }, "23019": { "sa": "", "sd": "" }, "23020": { "sa": "", "sd": "" }, "23021": { "sa": "", "sd": "" }, "23022": { "sa": "", "sd": "" }, "23023": { "sa": "", "sd": "" }, "23024": { "sa": "", "sd": "" }, "23025": { "sa": "", "sd": "" }, "23026": { "sa": "", "sd": "" }, "23027": { "sa": "", "sd": "" }, "23028": { "sa": "", "sd": "" }, "23029": { "sa": "", "sd": "" }, "23030": { "sa": "", "sd": "" }, "23031": { "sa": "", "sd": "" }, "23032": { "sa": "", "sd": "" }, "23033": { "sa": "", "sd": "" }, "23034": { "sa": "", "sd": "" }, "23035": { "sa": "", "sd": "" }, "23036": { "sa": "", "sd": "" }, "23037": { "sa": "", "sd": "" }, "23038": { "sa": "", "sd": "" }, "23039": { "sa": "", "sd": "" }, "23040": { "sa": "", "sd": "" }, "23041": { "sa": "", "sd": "" }, "23042": { "sa": "", "sd": "" }, "23043": { "sa": "", "sd": "" }, "23044": { "sa": "", "sd": "" }, "23045": { "sa": "", "sd": "" }, "23046": { "sa": "", "sd": "" }, "23047": { "sa": "", "sd": "" }, "23048": { "sa": "", "sd": "" }, "23049": { "sa": "सम्बोधने प्रथमायाः एकवचनम् सम्बुद्धि-संज्ञकं भवति । ", "sd": "<<सम्बोधने च>> [[2.3.47]] इत्यनेन प्रथमा-विभक्तेः प्रयोगः सम्बोधनस्य विषये अपि भवति । अस्मिन्नेव सन्दर्भे प्रथमा-एकवचनस्य सुँ-प्रत्ययः यदा सम्बोधनार्थम् प्रयुज्यते, तदा तस्य 'सम्बुद्धिः' इति संज्ञा भवति ।\nयथा - 'बाल' शब्दस्य सम्बोधनैकवचनस्य रूपम् एवम् सिद्ध्यति -\nबाल + सुँ [<<सम्बोधने च>> [[2.3.47]] इत्यनेन सम्बोधनस्य विवक्षायाम् प्रथमा । <<स्वौजस्...>> [[4.1.2]] इत्यनेन प्रथमैकवचनस्य विवक्षायाम् सुँ-प्रत्ययः]\n→ बाल [<<एङ्ह्रस्वात्सम्बुद्धेः>> [[6.1.69]] इत्यनेन सम्बुद्धिवाचकस्य सुँ-प्रत्ययस्य लोपः]\nसम्बुद्धि-संज्ञायाः प्रयोगः <<एङ्ह्रस्वात्सम्बुद्धेः>> [[6.1.69]], <<सर्वनामस्थाने चासम्बुद्धौ>> [[6.4.8]] एतादृशेषु सूत्रेषु कृतः दृश्यते ।\n" }, "23050": { "sa": "", "sd": "" }, "23051": { "sa": "", "sd": "" }, "23052": { "sa": "", "sd": "" }, "23053": { "sa": "", "sd": "" }, "23054": { "sa": "", "sd": "" }, "23055": { "sa": "", "sd": "" }, "23056": { "sa": "", "sd": "" }, "23057": { "sa": "", "sd": "" }, "23058": { "sa": "", "sd": "" }, "23059": { "sa": "", "sd": "" }, "23060": { "sa": "", "sd": "" }, "23061": { "sa": "", "sd": "" }, "23062": { "sa": "", "sd": "" }, "23063": { "sa": "", "sd": "" }, "23064": { "sa": "", "sd": "" }, "23065": { "sa": "", "sd": "" }, "23066": { "sa": "", "sd": "" }, "23067": { "sa": "", "sd": "" }, "23068": { "sa": "", "sd": "" }, "23069": { "sa": "", "sd": "" }, "23070": { "sa": "", "sd": "" }, "23071": { "sa": "", "sd": "" }, "23072": { "sa": "", "sd": "" }, "23073": { "sa": "", "sd": "" }, "24001": { "sa": "", "sd": "" }, "24002": { "sa": "", "sd": "" }, "24003": { "sa": "", "sd": "" }, "24004": { "sa": "", "sd": "" }, "24005": { "sa": "", "sd": "" }, "24006": { "sa": "", "sd": "" }, "24007": { "sa": "", "sd": "" }, "24008": { "sa": "", "sd": "" }, "24009": { "sa": "", "sd": "" }, "24010": { "sa": "", "sd": "" }, "24011": { "sa": "", "sd": "" }, "24012": { "sa": "", "sd": "" }, "24013": { "sa": "", "sd": "" }, "24014": { "sa": "", "sd": "" }, "24015": { "sa": "", "sd": "" }, "24016": { "sa": "", "sd": "" }, "24017": { "sa": "", "sd": "" }, "24018": { "sa": "", "sd": "" }, "24019": { "sa": "", "sd": "" }, "24020": { "sa": "", "sd": "" }, "24021": { "sa": "", "sd": "" }, "24022": { "sa": "", "sd": "" }, "24023": { "sa": "", "sd": "" }, "24024": { "sa": "", "sd": "" }, "24025": { "sa": "", "sd": "" }, "24026": { "sa": "", "sd": "" }, "24027": { "sa": "", "sd": "" }, "24028": { "sa": "", "sd": "" }, "24029": { "sa": "", "sd": "" }, "24030": { "sa": "", "sd": "" }, "24031": { "sa": "", "sd": "" }, "24032": { "sa": "", "sd": "" }, "24033": { "sa": "", "sd": "" }, "24034": { "sa": "", "sd": "" }, "24035": { "sa": "", "sd": "" }, "24036": { "sa": "", "sd": "" }, "24037": { "sa": "", "sd": "" }, "24038": { "sa": "", "sd": "" }, "24039": { "sa": "", "sd": "" }, "24040": { "sa": "", "sd": "" }, "24041": { "sa": "", "sd": "" }, "24042": { "sa": "", "sd": "" }, "24043": { "sa": "", "sd": "" }, "24044": { "sa": "", "sd": "" }, "24045": { "sa": "", "sd": "" }, "24046": { "sa": "", "sd": "" }, "24047": { "sa": "", "sd": "" }, "24048": { "sa": "", "sd": "" }, "24049": { "sa": "", "sd": "" }, "24050": { "sa": "", "sd": "" }, "24051": { "sa": "", "sd": "" }, "24052": { "sa": "", "sd": "" }, "24053": { "sa": "", "sd": "" }, "24054": { "sa": "", "sd": "" }, "24055": { "sa": "", "sd": "" }, "24056": { "sa": "", "sd": "" }, "24057": { "sa": "", "sd": "" }, "24058": { "sa": "", "sd": "" }, "24059": { "sa": "", "sd": "" }, "24060": { "sa": "", "sd": "" }, "24061": { "sa": "", "sd": "" }, "24062": { "sa": "", "sd": "" }, "24063": { "sa": "", "sd": "" }, "24064": { "sa": "", "sd": "" }, "24065": { "sa": "", "sd": "" }, "24066": { "sa": "", "sd": "" }, "24067": { "sa": "", "sd": "" }, "24068": { "sa": "", "sd": "" }, "24069": { "sa": "", "sd": "" }, "24070": { "sa": "", "sd": "" }, "24071": { "sa": "धातोः प्रातिपदिकस्य वा अवयवरूपेण विद्यमानस्य सुप्-प्रत्ययस्य लुक् भवति । ", "sd": "यदि कश्चन सुप्-प्रत्ययः कस्यचित् धातोः प्रातिपदिकस्य वा अवयवरूपेण विद्यमानः अस्ति, तर्हि तस्य सुप्-प्रत्ययस्य लुक् भवति । कानिचन उदाहरणानि एतानि -\n1. 'राज्ञः पुरुषः' इत्यत्र <<षष्ठी>> [[2.2.8]] अनेन सूत्रेण षष्ठीतत्पुरुषः समासः भवितुमर्हति । अत्र 'राज्ञः पुरुषः' इति स्थिते प्रक्रियायाम् पदयोः अलौकिक-विग्रहं कृत्वा 'राजन् + ङस् + पुरुष + सुँ ' इति जायते । एतत् समस्तपदमस्ति, अतः <<कृत्-तद्धित-समासाश्च>> [[1.2.46]] इत्यनेन अस्य शब्दस्य प्रातिपदिकसंज्ञा भवति । इदानीमस्मिन् प्रातिपदिके 'ङस्' तथा 'सुँ' एतौ द्वौ सुप्-प्रत्ययौ अवयवरूपेण उपस्थितौ स्तः । अतः एतयोः वर्तमानसूत्रेण 'लुक्' (लोपः) भवति । अतः 'राजन् + पुरुष' इति अवशिष्यते । अत्र 'राजन्' शब्दात् परस्य ङस्-प्रत्ययस्य लुक्-कृते अपि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यनेन ङस्-प्रत्ययस्य लक्षणम् (= पदत्वम्) 'राजन्' शब्दस्य विषये अपि विधीयते । अतः 'राजन्' अयं शब्दः, यः मूलरूपेण प्रातिपदिकसंज्ञकः तु अस्ति एव, इदानीम् पदसंज्ञकः अपि भवति । एतादृशम् पदसंज्ञकं यत् प्रातिपदिकम्, तस्य अन्तिम-नकारस्य <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इत्यनेन लोपः भवति, अतः 'राजपुरुष' इति समस्तपदम् जायते ।\n2. 'उपगोः अपत्यम्' इत्यत्र <<तस्यापत्यम्>> [[4.1.92]] अस्मिन् अर्थे <<प्राग्दीव्यतः अण्>> [[4.1.83]] इत्यनेन 'उपगोः' इति समर्थात् 'अण्' प्रत्ययः विधीयते । अत्र 'उपगोः + अण्' इति स्थिते अलौकिकविग्रहं कृत्वा 'उपगु + ङस् + अण्' इति जायते । अत्रापि <<कृत्-तद्धित-समासाश्च>> [[1.2.46]] इत्यनेन अस्य तद्धितप्रत्ययान्तशब्दस्य प्रातिपदिकसंज्ञा भवति, अतः अस्मिन् प्रातिपदिके उपस्थितस्य ङस्-प्रत्ययस्य वर्तमानसूत्रेण 'लुक्' भवति । अतः 'उपगु + अण्' इति अवशिष्यते । अग्रे <<तद्धितेष्वचामादेः>> [[7.2.117]] इत्यनेन आदिवृद्धिं कृत्वा, तथा <<ओर्गुणः>> [[6.4.146]] इत्यनेन उकारस्य गुणादेशं कृत्वा 'औपगव' इति प्रातिपदिकं सिद्ध्यति ।\n3. 'पुत्रमात्मनः इच्छति' इत्यस्मिन् अर्थे 'पुत्रम्' इति सुबन्तात् <<काम्यच्च>> [[3.1.9]] अनेन सूत्रेण 'काम्यच्' अयम् सनादिप्रत्ययः विधीयते । 'पुत्रम् + काम्यच्' इत्यस्य अलौकिकविग्रहं कृत्वा 'पुत्र + अम् + काम्यच्' इति जायते । अयं सनादि-प्रत्ययान्तः शब्दः अस्ति, अतः <<सनाद्यन्ताः धातवः>> [[3.1.32]] इत्यनेन अयम् धातुसंज्ञां प्राप्नोति । एवं स्थिते अस्मिन् धातौ विद्यमानः यः 'अम्' इति सुप्-प्रत्ययः, तस्य वर्तमानसूत्रेण लोपः विधीयते । अनेनैव 'पुत्रकाम्य' इति आतिदेशिकधातुः जायते, यस्य अग्रे तथाविहिताः विकरणतिङादयः प्रत्ययाः भवन्ति (यथा - 'पुत्रकाम्यति' - आदयः) ।\nज्ञातव्यम् -\n1. अस्मिन् सूत्रे 'धातोः / प्रातिपदिकस्य सुप्-प्रत्ययः' इति उच्यते । <ऽतदन्तर्गताः तद्ग्रहणेन गृह्यन्तेऽ> अनया परिभाषया अत्र 'धातोः / प्रातिपदिकस्य' इत्यनेन यतोः अन्तर्गतानां सुप्-प्रत्ययानाम् ग्रहणं भवति ।\n2. कौमुद्यामत्र एकं वात्तिकमुक्तमस्ति - । इत्युक्ते, 'इव' शब्देन सह समासः क्रियते चेत् वर्तमानसूत्रेण सुप्-प्रत्ययस्य लोपः न भवति । यथा - 'जीमूतस्य इव = जीमूतस्येव' । अत्र ङस्-प्रत्ययस्य वर्तमानसूत्रेण निर्दिष्टः ङस्-प्रत्ययस्य लोपः अनेन वार्त्तिकेन निषिध्यते ।\n3. अनेन सूत्रेण सुप्-प्रत्ययस्य 'लुक्' विधीयते । 'लुक्' इति प्रत्ययस्य विशिष्टप्रकारस्य लोपः । <<प्रत्ययस्य लुक्-श्लु-लुपः>> [[1.1.61]] इत्यनेन इयं संज्ञा विधीयते । अत्र 'लुक्' इति किमर्थमुक्तमस्ति? प्रत्ययस्य यदा 'लुक्' इत्यनेन लोपः भवति, तर्हि लुप्त-प्रत्ययस्य कारणात् <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यनेन जायमानं यत् 'अङ्गकार्यम्', तस्य <<न लुमताङ्गस्य>> [[1.1.63]] इत्यनेन निषेधः भवति । यथा - 'राजन् + ङस् + पुरुष + सुँ' अत्र ङस्-प्रत्ययस्य लोपे कृते ङस्-प्रत्ययस्य यत् अङ्गकार्यम् (<<अल्लोपोऽनः>> [[6.4.134]] इत्यनेन उपधा-अकारस्य लोपः) तस्य प्रसक्तिः नास्ति । अतः 'राजपुरुष' इत्यत्र जकारात् परः यः अकारः, तस्य लोपः न जायते । (केवलं अङ्गकार्यस्यैव अत्र निषेधः भवति, अन्येषां कार्याणाम् न - एतत् स्मर्तव्यम् । अतः <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इत्यनेन 'राजन्' इत्यस्य नकारः तु अत्रापि लुप्यते) ।\n" }, "24072": { "sa": "अदादिगणस्य धातुभ्यः विहितस्य शप्-प्रत्ययस्य लुक् भवति । ", "sd": "सर्वेभ्यः धातुभ्यः <<कर्तरि शप्>> [[3.1.68]] इति सूत्रेण सार्वधातुके कर्तरि प्रत्यये परे धातोः परः औत्सर्गिकतया 'शप्' इति विकरणप्रत्ययः विधीयते । अदादिगणस्य धातुभ्यः विहितस्य शप्-प्रत्ययस्य वर्तमानसूत्रेण 'लुक्' भवति (लोपः भवति) ।\nकानिचन उदाहरणानि एतादृशानि -\n1) अदँ (भक्षणे) धातोः लट्लकारस्य प्रथमपुरुष-एकवचनस्य रूपम् -\nअद् + लट् [ <<वर्तमाने लट्>> [[3.2.123]] इति लट् ]\n→ अद् + तिप् [ <<तिप्तस्झि..>> [[3.4.78]] इति प्रथमपुरुष-एकवचनस्य विवक्षायाम् 'तिप्' प्रत्ययः ]\n→ अद् + शप् + ति [ <<कर्तरि शप्>> [[3.1.68]] इति सार्वधातुके कर्तरि प्रत्यये परे औत्सर्गिकः 'शप्' विकरणप्रत्ययः ]\n→ अद् + ति [ <<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शप्-प्रत्ययस्य लुक् ]\n→ अत्ति [ <<खरि च>> [[8.4.55]] इति चर्त्वम् ]\n2) अदँ (भक्षणे ) धातोः लङ्-लकारस्य मध्यमपुरुष-एकवचनस्य रूपम् -\nअद् + लङ् [ <<अनद्यतने लङ्>> [[3.2.111]] इति लङ् ]\n→ आट् + अद् + लङ् [ <<आडजादीनाम्>> [[6.4.72]] इति लङ्-लकारे परे अजादेः अङ्गस्य आडागमः ]\n→ आ + अद् + सिप् [<<तिप्तस्झि…>> [[3.4.78]] इति मध्यमपुरुष-एकवचनस्य विवक्षायाम् 'सिप्' प्रत्ययः ]\n→ आ + अद् + शप् + सिप् [<<कर्तरि शप्>> [[3.1.68]] इति सार्वधातुके कर्तरि प्रत्यये परे औत्सर्गिकः 'शप्' विकरणप्रत्ययः ]\n→ आ + अद् + सिप् [ <<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शप्-प्रत्ययस्य लुक् ]\n→ आ + अद् + स् [ <<इतश्च>> [[3.4.100]] इति इकारलोपः, पकारस्य हलन्त्यम् इत्यनेन इत्संज्ञा ]\n→ आ + अद् + अट् + स् [ <<अदः सर्वेषाम्>> [[7.3.100]] इति अपृक्त-स्-प्रत्ययस्य अट्-आगमः ]\n→ आ + अद् + अ + स् [ <<हलन्त्यम्>> [[1.3.3]] इति टकारस्य इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति तस्य लोपः ]\n→ आदस् [ <<आटश्च>> [[6.1.90]] इति वृद्धि-एकादेशः , वर्णमेलनम् ]\n→ आदरुँ [ <<ससजुषो रुः>> [[8.2.66]] इति रुँत्वम् ]\n→ आदः [ <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गनिर्माणम् ]\n3) द्विषँ (अप्रीतौ) इति अदादिगणस्य धातोः लट्-लकारस्य प्रथमपुरुष-एकवचनस्य रूपम्-\nद्विष् + लट् [ <<वर्तमाने लट्>> [[3.2.123]] इति लट् ]\n→ द्विष् + तिप् [ <<तिप्तस्झि..>> [[3.4.78]] इति प्रथमपुरुष-एकवचनस्यविवक्षायाम् 'तिप्' प्रत्ययः ]\n→ द्विष् + शप् + ति [ <<कर्तरि शप्>> [[3.1.68]] इति सार्वधातुके कर्तरि प्रत्यये परे औत्सर्गिकः 'शप्' विकरणप्रत्ययः ]\n→ द्विष् + ति [ <<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शप्-प्रत्ययस्य लुक् ]\n→ द्वेष् + ति [ <<पुगन्तलघूपधस्य च>> [[7.3.86]] इति सार्वधातुके 'तिप्' प्रत्यये परे लघूपध-अङ्गस्य इक्-वर्णस्य गुणः , इति इकारस्य एकारः ]\n→ द्वेष्टि [ <<ष्टुना ष्टुः>> [[8.4.41]] इति ष्टुत्वम् ]\nज्ञातव्यम् -\n1. <<तिङ्शित्सार्वधातुकम्>> [[3.4.113]] इत्यनेन तिङ्-प्रत्ययाः तथा शित्-प्रत्ययाः सार्वधातुकसंज्ञां प्राप्नुवन्ति ।\n2. 'लुक्' इति प्रत्ययलोपस्य किञ्चन विशिष्टं नाम । अस्मिन् विषये <<प्रत्ययस्य लुक्श्लुलुपः>> [[1.1.61]] इत्यत्र विस्तारेण उक्तमस्ति ।\nशास्त्रविषयः -\n1. गरुडपुराणे 'न विश्वसेत् अविश्वस्तम्' इति कश्चन प्रयोगः दृश्यते । अत्र 'वि + श्वस्' इत्यस्य अदादिगणस्य धातोः विधिलिङ्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् 'विश्वसेत्' इति प्रयुक्तमस्ति । वस्तुतस्तु 'वि + श्वस्' धातोः विधिलिङ्लकारस्य साधु रूपम् 'विश्वस्यात्' इति अस्ति, यतः प्रक्रियायां <<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इत्यनेन शप्-विकरणस्य लोपः क्रियते चेत् 'यासुट्' इत्यस्य यकारस्य 'इय्' आदेशः एव न भवति (यतः <<अतो येयः>> [[7.2.80]] इत्यस्य प्रसक्तिः तत्र न वर्तते) । यदि प्रक्रियायाम् शप्-विकरणस्य लोपः न भवति, तदा एव <<अतो येयः>> [[7.2.80]] इत्यनेन 'यासुट्' इत्यस्य 'इय्' इति आदेशं कृत्वा ततः 'विश्वसेत्' इति रूपं साधयितुम् शक्यते । अतः अस्य प्रयोगस्य समर्थनार्थमनेके वैयाकरणाः 'गणकार्यमनित्यमस्ति' इति वदन्ति । इत्युक्ते, तेषां मतेन विकरणविधानम् तस्य लोपः च 'अनित्यः' अस्ति, प्रक्रियायां कुत्रचित् नैव भवितुमर्हति - इति । अयं पक्षः स्वीक्रियते चेत् 'वि + श्वस्' इत्यस्य विधिलिङ्लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रियायाम् 'शप्' विकरणस्य लोपं अकृत्वा 'विश्वसेत्' इत्यस्य साधुत्वं प्रदर्शयितुम् शक्यते । एतम् पक्षम् मनसि निधाय नागेशः परिभाषेन्दुशेखरे <ऽगणकार्यमनित्यम्ऽ> इति काञ्चन परिभाषां पाठयति (परिभाषेन्दुशेखरः 96) । अनया परिभाषया गणकार्यस्य अनित्यत्वं संज्ञाप्य 'विश्वसेत्' सदृशाः प्रयोगाः सिद्ध्यन्ति । परन्तु इयं परिभाषा भाष्यकारेण कुत्रापि न पाठिता लभ्यते, अतः नागेशः अपि इमां परिभाषां न स्वीकरोति (प्रत्याचष्टे इत्याशयः । Mentions the paribhasha and then rejects its correctness) । इत्युक्ते, भाष्यकारस्य नागेशस्य च मतेन 'विश्वसेत्' तथा तत्सदृशाः अन्ये प्रयोगाः अपाणिनीयाः / आर्षप्रयोगाः एव ज्ञातव्याः ।\n2. (प्रश्नः) - <<कर्तरि शप्>> [[3.1.68]] इत्यनेन अदिप्रभृतिभ्यो शपः विधानं कृत्वा पुनः तस्य लुकः किं प्रयोजनम् ? मूलरूपेणैव शपः विधानं नैव क्रियेत (इत्युक्ते -'कर्तरि शप्, अदिप्रभृतिभ्यो न' इत्येव उच्यते) चेत् कः दोषः ?\nउत्तरम् - यदा शप्-प्रत्ययस्य विधानं कृत्वा ततः तस्य लोपः क्रियते, तदा अदादिगणस्य धातवः 'लुग्विकरणत्वम्' प्राप्नुवन्ति । (येभ्यो विहितस्य विकरणप्रत्ययस्य लुक् भवति ते लुग्विकरणाः) । अतएव <ऽलुग्विकरणालुग्विकरणयोः अलुग्विकरणस्यऽ> इति परिभाषया <<गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु>> [[2.4.77]] इत्यत्र केवलं भ्वादिगणस्य 'पा' धातोः एव ग्रहणं भवति, अदादिगणस्य 'पा' धातोः न । अनेनैव अदादिगणस्य 'पा' धातो' लुङि 'अपासीत्' इति इष्टरूपं सिद्ध्यति । यदि अदिप्रभृतिभ्यः शप्-प्रत्ययः नैव उक्त्वा तस्य लोपोऽपि न क्रियेत, तर्हि अदादिगणस्य धातवः 'लुग्विकरणत्वम्' न प्राप्नुयुः । अस्या स्थितौ पा-धातोः विषये <<गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु>> [[2.4.77]] इत्यस्य प्राप्तिः स्यात् । अनेन 'अपात्' इति अनिष्टं रूपं सिद्ध्येत । अतएव अदादिगणस्य धातूनां विषये शपः विधानं कृत्वा तस्य लुक् अपि क्रियते ।\n" }, "24073": { "sa": "", "sd": "" }, "24074": { "sa": "", "sd": "" }, "24075": { "sa": "", "sd": "" }, "24076": { "sa": "", "sd": "" }, "24077": { "sa": "गा, स्था, पा, भू एतेभ्यः परस्य तथा घुसंज्ञकधातुभ्यः परस्य सिच्-विकरणस्य परस्मैपदस्य प्रत्यये परे लुक् भवति । ", "sd": "लुङ्लकारस्य विषये धातोः <<च्लि लुङि>> [[3.1.43]] इत्यनेन च्लि-विकरणप्रत्ययः भवति । अस्य प्रत्ययस्य <<च्लेः सिच्>> [[3.1.44]] इत्यनेन औत्सर्गिकरूपेण सिच्-आदेशः विधीयते । अस्य आदेशस्य गा, स्था, पा भू एतेषां विषये, तथा घुसंज्ञकधातूनां विषये परस्मैपदस्य प्रत्यये परे लुक् भवति ।\n1. 'गा' - अत्र <<इणो गा लुङि>> [[2.4.45]] इत्यनेन इण्-धातोः यः 'गा' आदेशः विधीयते सः 'गा' आदेशः स्वीक्रियते, न हि जुहोत्यादिगणस्य गा-धातुः । एतत् भाष्ये स्पष्टीकृतमस्ति ।\nगा + लुङ् [<<लुङ्>> [[3.2.110]] इति लुङ्]\n→ गा + च्लि + ल् [<<च्लि लुङि>> [[3.1.43]] इति च्लि]\n→ गा + सिच् + ल् [<<च्लेः सिच्>> [[3.1.44]] इति सिच्]\n→ गा + ल् [<<गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु>> [[2.4.77]] इति लोपः]\n→ अट् + गा + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ + गा + तिप् [<<तिप्तस्..>> [[3.4.78]] इति तिप्]\n→ अगात् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\nस्था (गतिनिवृत्तौ) , पा (पाने - भ्वादिगणः) तथा भू (सत्तायाम्) - एतेषां विषये अपि सिच्-प्रत्ययस्य परस्मैपदस्य विषये लुक् भवति । अत्रापि इयमेव प्रक्रिया भवति, तथा 'अस्थात्', 'अपात्', 'अभूत्' - एतानि रूपाणि सिद्ध्यन्ति ।\nविशेषः - 'पा' इत्यनेन केवलं भ्वादिगणस्य 'पा' धातुः एव स्वीक्रियते, अदादिगणस्य पा (रक्षणे) इति न । एतदपि भाष्ये उक्तमस्ति ।\n2. घुसंज्ञकाः धातवः - डुदाञ् दाने, दाण् दाने, दो अवखण्डने, देङ् रक्षणे, डुधाञ् धारणपोषणयोः, तथा धेट् पाने - एतेषां षण्णाम् धातूनाम् <<दाधा घ्वदाप्>> [[1.1.20]] इत्यनेन घु-संज्ञा भवति । एतेषां परस्य सिच्-इत्यस्य परस्मैपदस्य प्रत्यये परे लोपः जायते । यथा दाण् तथा डुदाञ् - द्वयोः प्रक्रिया इयम् भवति -\nदा + लुङ् [<<लुङ्>> [[3.2.110]] इति लुङ्]\n→ दा + च्लि + ल् [<<च्लि लुङि>> [[3.1.43]] इति च्लि]\n→ दा + सिच् + ल् [<<च्लेः सिच्>> [[3.1.44]] इति सिच्]\n→ दा + ल् [<<गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु>> [[2.4.77]] इति लोपः]\n→ अट् + दा + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ + दा + तिप् [<<तिप्तस्..>> [[3.4.78]] इति तिप्]\n→ अदात् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\nएवमेव धा-धातोः अपि अधात् इति रूपम् भवति । 'दो', 'देङ्' तथा 'धेट्' एतेषाम् सिच्-प्रत्यये परे <<आदेश उपदेशेऽशिति>> [[6.1.45]] इत्यनेन आकारादेशः भवति, अतः एतेषाम् रूपाणि अनयैव प्रक्रियया 'अदात्' तथा 'अधात्' इति भवन्ति ।\nज्ञातव्यम् - वर्तमानसूत्रेण धेट्-धातोः परस्य सिच्-प्रत्ययस्य नित्यम् लुकि प्राप्ते <<विभाषा घ्राधेट्शाच्छासः>> [[2.4.77]] इत्यनेन केवलं वैकल्पिकः एव लुक् भवति ।" }, "24078": { "sa": "घ्रा, धेट्, शो, छो, सो - एतेषां परस्य सिच्-प्रत्ययस्य परस्मैपदेषु विकल्पेन लुक् भवति ।", "sd": "लुङ्लकारस्य विषये धातोः <<च्लि लुङि>> [[3.1.43]] इत्यनेन च्लि-विकरणप्रत्ययः भवति । अस्य प्रत्ययस्य <<च्लेः सिच्>> [[3.1.44]] इत्यनेन औत्सर्गिकरूपेण सिच्-आदेशः विधीयते । अस्य आदेशस्य घ्रा, धेट्, शो, छो, षो एतेषां विषये, परस्मैपदस्य प्रत्यये परे विकल्पेन लुक् भवति । क्रमेण पश्यामः -\n1) घ्रा (गन्धोपादाने) -\nघ्रा + लुङ् [<<लुङ्>> [[3.2.110]] इति लुङ्]\n→ घ्रा + च्लि + ल् [<<च्लि लुङि>> [[3.1.43]] इति च्लि]\n→ घ्रा + सिच् + ल् [<<च्लेः सिच्>> [[3.1.44]] इति सिच्]\n→ घ्रा + ल् [<<विभाषा घ्राधेट्शाच्छासः>> [[2.4.78]] इति लोपः]\n→ अट् + घ्रा+ ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ + घ्रा + तिप् [<<तिप्तस्..>> [[3.4.78]] इति तिप्]\n→ अघ्रात् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\nपक्षे अघ्रासीत् इति रूपं जायते ।\n2) धेट् (पाने) इत्यस्मात् परस्य सिच्-प्रत्ययस्य <<गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु>> [[2.4.77]] इत्यनेन नित्यम् लुकि प्राप्ते अनेन सूत्रेण केवलं वैकल्पिकः लोपः एव विधीयते । लोपे कृते इयम् प्रक्रिया भवति -\nधे + लुङ् [<<लुङ्>> [[3.2.110]] इति लुङ्]\n→धेट् + च्लि + ल् [<<च्लि लुङि>> [[3.1.43]] इति च्लि]\n→ धेट् + सिच् + ल् [<<च्लेः सिच्>> [[3.1.44]] इति सिच्]\n→ धेट् + ल् [<<विभाषा घ्राधेट्शाच्छासः>> [[2.4.78]] इति लोपः]\n→ धा + ल् [<<आदेश उपदेशेऽशिति>> [[6.1.45]] इति आकारादेशः]\n→ अट् + धा+ ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ + धा + तिप् [<<तिप्तस्..>> [[3.4.78]] इति तिप्]\n→ अधात् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n3) शो (तनूकरणे), छो (छेदने), षो (अन्तकर्मणि) एतेषां परस्य सिच्-प्रत्ययस्य अपि एवमेव विकल्पेन लोपे कृते अशात्, अछात्, असात् इति रूपाणि सिद्ध्यन्ति ।\nज्ञातव्यम् - धेट्-धातोः परस्य सिच्-प्रत्ययस्य नित्यं लुकि प्राप्ते अनेन सूत्रेण विकल्प्यते, तथा अन्येषां विषये सिच्-प्रत्ययस्य लुकि अप्राप्ते अनेन सूत्रेण विकल्पेन विधीयते । अतः इयम् 'उभयविभाषा' अस्ति । अस्मिन् विषये विस्तारेण <<न वेति विभाषा>> [[1.1.44]] इत्यत्र द्रष्टव्यम् ।\n" }, "24079": { "sa": "", "sd": "" }, "24080": { "sa": "", "sd": "" }, "24081": { "sa": "'आम्' प्रत्ययात् परस्य लकारस्य लुक् भवति । ", "sd": "'आम्' इति कश्चन प्रत्ययः अस्ति । <<कास्प्रत्ययादाममन्त्रे लिटि>> [[3.1.35]] इत्यतः <<भीह्रीभृहुवां श्लुवच्च>> [[3.1.39]] इति यावद्भिः सूत्रैः लिट्-लकारस्य विषये धातोः परः अयम् प्रत्ययः विधीयते । अस्मिन् प्रत्यये परे अग्रे उपस्थितस्य लकारस्य वर्तमानसूत्रेण लोपः भवति ।\nयथा - एध्-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् एतादृशं सिद्ध्यति -\nएध् + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट्]\n→ एध् + आम् + ल् [<<इजादेश्च गुरुमतोऽनृच्छः>> [[3.1.36]] इति आम्-प्रत्ययः]\n→ एध् + आम् [<<आमः>> [[2.4.81]] इति लकारस्य लुक्]\n→ एध् + आम् + चक्रे [<<कृञ्चानुप्रयुज्यते लिटि>> [[3.1.40]] इति कृ-धातोः अनुप्रयोगः । <<आम्प्रत्ययवत् कृञोनुप्रयोगस्य>> [[1.3.63]] इति तस्य आत्मनेपदम् । तस्य प्रथमपुरुषैकवचनम् 'चक्रे' इति]\n→ एधांचक्रे [<<मोऽनुस्वारः>> [[8.3.23]] इति मकारस्य अनुस्वारः]\n→ एधाञ्चक्रे [<<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति परसवर्णः]\nज्ञातव्यम् - अत्र निर्दिष्टः 'आम्' इति प्रत्ययः अस्ति, आगमः न । तथा च, अत्र मकारः इत्संज्ञकः अपि नास्ति ।\n" }, "24082": { "sa": "अव्ययात् परस्य आप्-प्रत्ययानाम् सुप्-प्रत्ययानाम् च लुक्-भवति । ", "sd": "<<स्वरादिनिपातमव्यम्>> [[1.1.37]] इत्यतः <<अव्ययीभावश्च>> [[1.1.41]] इति यावत्सु सूत्रेषु 'अव्यय'संज्ञा विधीयते । अव्ययानाम् यथायोग्यम् <<अर्थवद् अधातुः अप्रत्ययः प्रातिपदिकम्>> [[1.2.45]] तथा <<कृत्-तद्धित-समासाश्च>> [[1.2.46]] इत्यनेन प्रातिपदिकसंज्ञा भवति । अतः <<स्वौजस्..>> [[4.1.2]] इत्यनेन एतेभ्यः सुप्-प्रत्ययाः विधीयन्ते, तथा <<स्त्रियाम्>> [[4.1.3]] अस्मिन् अधिकारे एतेभ्यः स्त्रीत्वं द्योतयितुम् टाप्/चाप्/डाप्-प्रत्ययः अपि भवति । एतेषाम् प्रत्ययानाम् वर्तमानसूत्रेण लुक् भवति ।\nयथा, 'तत्र शालायाम्' - अस्मिन् वाक्ये 'तत्र' एतत् 'शालायाम्' इत्यस्य विशेषणमस्ति । अतः अत्र 'तत्र' शब्दस्य स्त्रीत्वं द्वोतयितुम् टाप्-प्रत्ययः, तथा, सप्तम्येकवचनं द्योतयितुम् 'ङि' प्रत्ययः - द्वावपि विधीयेते । परन्तु 'तत्र' इत्यस्य <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यनेन अव्ययसंज्ञा भवति, अतः एतयोः द्वयोरपि प्रत्यययोः अनेन सूत्रेण लुक् भवति । यथा - तत्र + टाप् + ङि → तत्र ।\nअनेन सूत्रेण एतत् ज्ञाप्यते, यत् अव्ययसंज्ञकाः शब्दाः सर्वेषु लिङ्गेषु, सर्वेषु वचनेषु, सर्वासु विभक्तिषु च समानानि एव भवन्ति । अतएव एका कारिका उच्यते -\nसदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥\nअत्र एकम् वार्तिकम् ज्ञातव्यम् - । इत्युक्ते, अव्ययानाम् लिङ्गम् नास्ति, अतः तेषाम् परे स्त्रीप्रत्ययाः भवितुमेव न अर्हन्ति, अतः अनेन सूत्रेण 'आप्' प्रत्ययस्य यः लुक्-उच्यते सः अनावश्यकः - इति । अस्मिन् विषये भाष्यकारः वदति - निपातानाम् लिङ्गम् , कारकम् , सङ्ख्या च नास्ति, परन्तु अन्येषामव्ययानामस्ति कुत्रचित् भवितुमर्हत, अतः तदर्थम् ये प्रत्ययाः विधीयन्ते, तेषां लोपः अनेन सूत्रेण क्रियते ।\nज्ञातव्यम् -\n1. यत्र समासे अप्रधानरूपेण (= गौणरूपेण) अव्ययमुपतिष्ठति, तत्र समस्तपदस्य अव्ययसंज्ञा न भवति, अतः तस्मात् परस्य आप्/सुप्-प्रत्यययोः लुक् अपि न भवति । यथा - अनेन वार्त्तिकेन प्रादि-तत्पुरुषसमासेन 'उच्चैः अतिक्रान्तः' इत्यर्थे 'अत्युच्चैस्' इति समस्तपदम् सिद्ध्यति । अत्र 'उच्चैस्' इति अव्ययम् गौणपदे अस्ति, अतः तस्य अव्ययसंज्ञा न भवति, अतः 'अत्युच्चैस्' इत्यस्यापि अव्ययसंज्ञा न भवति, अतः अस्मात् शब्दात् विभक्तिप्रत्ययानाम् लुक् न भवति । यथा - अत्युच्चैस् + औ = अत्युच्चैसौ ।\n2. अनेन सूत्रेण अव्ययात् परस्य आप्-प्रत्ययस्य सुप्-प्रत्ययस्य च 'लुक्' कृतः अस्ति, 'लोपः' न । किम् प्रयोजनं 'लुक्' इत्यस्य ? <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यनेन प्रत्ययलोपेऽपि निर्दिष्टे अङ्गकार्ये प्राप्ते लुक्-प्रक्रियायाम् <<न लुमताङ्गस्य>> [[1.1.63]] इति तस्य निषेधः भवति, अतः अङ्गकार्यम् न जायते । यथा - 'भूयस्' इति चादिगणस्य शब्दः अव्ययसंज्ञकः अस्ति । अस्य सुँ-प्रत्यये परे 'भुयस् + सुँ' इत्यत्र सुँ-प्रत्ययस्य <<अव्ययादाप्सुपः>> [[2.4.82]] इति लुक् कृते <<अत्वसन्तस्य चाधातोः>> [[6.4.14]] इत्यनेन अङ्गस्य उपधादीर्घे प्राप्ते <<न लुमताङ्गस्य>> [[1.1.63]] इति स निषिध्यते । " }, "24083": { "sa": "", "sd": "" }, "24084": { "sa": "", "sd": "" }, "24085": { "sa": "लुट्-लकारस्य प्रथमपुरुषस्य प्रत्ययानाम् (क्रमेण) डा, रौ, रस् - एते आदेशाः भवन्ति । ", "sd": "लुट्-लकारस्य विषये प्रथमपुरुषस्य परस्मैपदस्य तिप्-तस्-झि प्रत्ययानाम्, तथा आत्मनेपदस्य त-आताम्-झ प्रत्ययानाम् (क्रमेण) डा, रौ, रस् - एते आदेशाः भवन्ति । यथा -\n1) पठँ व्यक्तायां वाचि इति परस्मैपदी धातुः । अस्य लुट्-लकारस्य प्रथमपुरुषस्य रूपाणि एतादृशं सिद्ध्यन्ति -\n(अ) पठ् + लुट् [<<अनद्यतने लुट्>> [[3.3.15]] इति लुट्]\n→ पठ् + तास् + ल् [<<स्यतासी लृलुटोः>> [[3.1.33]] इति विकरणप्रत्ययः तास्]\n→ पठ् + इट् + तास् + ल् [<<आर्धधातुकस्येड्वलादेः>> [[7.2.35]] इति इडागमः]\n→ पठ् + इ + तास् + तिप् [<<तिप्तस्..>> [[3.4.78]] इति तिप्]\n→ पठ् + इ + तास् + डा [ <<लुटः प्रथमस्य डारौरसः>> [[2.4.85]] इति तिप्-प्रत्ययस्य डा-आदेशः]\n→ पठ् + इ + त् + आ [प्रत्ययस्य डित्वसामर्थ्यात् <<टेः>> [[6.4.143]] इति अ-भस्य टिसंज्ञकस्य अपि लोपः]\n→ पठि + ता [<<पुगन्तलघूपधस्य च>> [[7.3.86]] इत्यनेन सार्वधातुके प्रत्यये परे अङ्गस्य उपधा-इकारस्य गुणे प्राप्ते <<दीधीवेवीटाम्>> [[1.1.6]] इत्यनेन इडागमस्य इकारस्य गुणः निषिध्यते]\n→ पठिता\n(आ) पठ् + लुट् [<<अनद्यतने लुट्>> [[3.3.15]] इति लुट्]\n→ पठ् + तास् + ल् [<<स्यतासी लृलुटोः>> [[3.1.33]] इति विकरणप्रत्ययः तास्]\n→ पठ् + इट् + तास् + ल् [<<आर्धधातुकस्येड्वलादेः>> [[7.2.35]] इति इडागमः]\n→ पठ् + इ + तास् + तस् [<<तिप्तस्..>> [[3.4.78]] इति तस् ]\n→ पठ् + इ + तास् + रौ [ <<लुटः प्रथमस्य डारौरसः>> [[2.4.85]] इति तस्-प्रत्ययस्य रौ-आदेशः]\n→ पठ् + इ + ता+ रौ [<<रि च>> [[7.4.51]] इति रेफे परे तास्-इत्यस्य सकारस्य लोपः]\n→ पठितारौ\n(इ) पठ् + लुट् [<<अनद्यतने लुट्>> [[3.3.15]] इति लुट्]\n→ पठ् + तास् + ल् [<<स्यतासी लृलुटोः>> [[3.1.33]] इति विकरणप्रत्ययः तास्]\n→ पठ् + इट् + तास् + ल् [<<आर्धधातुकस्येड्वलादेः>> [[7.2.35]] इति इडागमः]\n→ पठ् + इ + तास् + झि [<<तिप्तस्..>> [[3.4.78]] इति झि ]\n→ पठ् + इ + तास् + रस् [ <<लुटः प्रथमस्य डारौरसः>> [[2.4.85]] इति झि-प्रत्ययस्य रस्-आदेशः]\n→ पठ् + इ + ता+ रस् [<<रि च>> [[7.4.51]] इति रेफे परे तास्-इत्यस्य सकारस्य लोपः]\n→ पठि + तारस् [<<पुगन्तलघूपधस्य च>> [[7.3.86]] इत्यनेन सार्वधातुके प्रत्यये परे अङ्गस्य उपधा-इकारस्य गुणे प्राप्ते <<दीधीवेवीटाम्>> [[1.1.6]] इत्यनेन इडागमस्य इकारस्य गुणः निषिध्यते]\n→ पठितारः [<<ससजुषो रुँः>> [[8.2.66]] इति रुत्वम् । <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n2) एधँ वृद्धौ इति आत्मनेपदी धातुः । अस्य लुट्-लकारस्य प्रथमपुरुषस्य रूपाणि एतानि - एधिता, एधितारौ, एधितारः ।\n(अ) एध् + लुट् [<<अनद्यतने लुट्>> [[3.3.15]] इति लुट्]\n→ एध् + तास् + ल् [<<स्यतासी लृलुटोः>> [[3.1.33]] इति विकरणप्रत्ययः तास्]\n→ एध् + इट् + तास् + ल् [<<आर्धधातुकस्येड्वलादेः>> [[7.2.35]] इति इडागमः]\n→ एध् + इ + तास् + त [<<तिप्तस्..>> [[3.4.78]] इति त]\n→ एध् + इ + तास् + डा [ <<लुटः प्रथमस्य डारौरसः>> [[2.4.85]] इति त-प्रत्ययस्य डा-आदेशः]\n→ एध् + इ + त् + आ [प्रत्ययस्य डित्वसामर्थ्यात् <<टेः>> [[6.4.143]] इति अ-भस्य टिसंज्ञकस्य अपि लोपः]\n→ एधि + ता [<<पुगन्तलघूपधस्य च>> [[7.3.86]] इत्यनेन सार्वधातुके प्रत्यये परे अङ्गस्य उपधा-इकारस्य गुणे प्राप्ते <<दीधीवेवीटाम्>> [[1.1.6]] इत्यनेन इडागमस्य इकारस्य गुणः निषिध्यते]\n→ एधिता\n(आ) एध् + लुट् [<<अनद्यतने लुट्>> [[3.3.15]] इति लुट्]\n→ एध् + तास् + ल् [<<स्यतासी लृलुटोः>> [[3.1.33]] इति विकरणप्रत्ययः तास्]\n→ एध् + इट् + तास् + ल् [<<आर्धधातुकस्येड्वलादेः>> [[7.2.35]] इति इडागमः]\n→ एध् + इ + तास् + आताम् [<<तिप्तस्..>> [[3.4.78]] इति आताम् ]\n→ एध् + इ + तास् + रौ [ <<लुटः प्रथमस्य डारौरसः>> [[2.4.85]] इति आताम्-प्रत्ययस्य रौ-आदेशः]\n→ एध् + इ + ता+ रौ [<<रि च>> [[7.4.51]] इति रेफे परे तास्-इत्यस्य सकारस्य लोपः]\n→ एधि + तारौ [<<पुगन्तलघूपधस्य च>> [[7.3.86]] इत्यनेन सार्वधातुके प्रत्यये परे अङ्गस्य उपधा-इकारस्य गुणे प्राप्ते <<दीधीवेवीटाम्>> [[1.1.6]] इत्यनेन इडागमस्य इकारस्य गुणः निषिध्यते]\n→ एधितारौ\nइ) एध् + लुट् [<<अनद्यतने लुट्>> [[3.3.15]] इति लुट्]\n→ एध् + तास् + ल् [<<स्यतासी लृलुटोः>> [[3.1.33]] इति विकरणप्रत्ययः तास्]\n→ एध् + इट् + तास् + ल् [<<आर्धधातुकस्येड्वलादेः>> [[7.2.35]] इति इडागमः]\n→ एध् + इ + तास् + झ [<<तिप्तस्..>> [[3.4.78]] इति झ ]\n→ एध् + इ + तास् + रस् [ <<लुटः प्रथमस्य डारौरसः>> [[2.4.85]] इति झ-प्रत्ययस्य रस्-आदेशः]\n→ एध् + इ + ता+ रस् [<<रि च>> [[7.4.51]] इति रेफे परे तास्-इत्यस्य सकारस्य लोपः]\n→ एधि + तारस् [<<पुगन्तलघूपधस्य च>> [[7.3.86]] इत्यनेन सार्वधातुके प्रत्यये परे अङ्गस्य उपधा-इकारस्य गुणे प्राप्ते <<दीधीवेवीटाम्>> [[1.1.6]] इत्यनेन इडागमस्य इकारस्य गुणः निषिध्यते]\n→ एधितारः [<<ससजुषो रुँः>> [[8.2.66]] इति रुत्वम् । <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n" }, "31001": { "sa": "अधिकारोऽयम् । इतः परम् पञ्चमाध्यायस्य समाप्तिपर्यन्तम् प्रत्ययाः वक्ष्यन्ते । ", "sd": "अयमधिकारः अष्टाध्याय्याः महत्तमः अधिकारः अस्ति । अस्य व्याप्तिः तृतीय-चतुर्थ-पञ्चमेषु अध्यायेषु वर्तते । एतेषु त्रिषु अध्यायेषु प्रोक्ताः नूतनाः शब्दाः प्रत्ययसंज्ञकाः भवन्ति ।\nप्रत्ययानाम् सप्त भेदाः सन्ति । ते एतादृशाः -\n1) सनादिप्रत्ययाः - एते धातुभ्यः तथा प्रातिपदिकेभ्यः अनन्तरमागच्छन्ति । एते सर्वे <<गुप्तिज्किद्भ्यः सन्>> [[3.1.5]] इत्यतः <<आयादय आर्धद्धातुके वा>> [[3.1.31]] एतेषु सूत्रेषु दीयन्ते ।\n2) विकरणप्रत्ययाः - एते धातुभ्यः अनन्तरमागच्छन्ति । एते सर्वे <<स्यतासी लृलुटोः>> [[3.1.33]] इत्यतः <<लिङ्याशिष्यङ्>> [[3.1.86]] इति यावत् पाठ्यन्ते ।\n3) तिङ्-प्रत्ययाः - एते धातुभ्यः अनन्तरमागच्छन्ति । एते प्रत्ययाः <<तिप्तस्झिसिप्थस्थमिब्वस्मस्ताऽतांझथासाथांध्वमिड्वहिमहिङ्>> [[3.4.78]] अनेन सूत्रेण दीयन्ते । प्रक्रियायाम् एतेषां भिन्नाः आदेशाः भवितुमर्हन्ति, ये <<लस्य>> [[3.4.77]] अस्मिन् अधिकारे दीयन्ते ।\n4) कृत्-प्रत्ययाः - एते धातुभ्यः अनन्तरमागच्छन्ति । तृतीयाध्याये पाठिताः सनादिभिन्नाः, विकरणभिन्नाः तिङ्भिन्नाः सर्वे प्रत्ययाः कृत्-प्रत्ययाः सन्ति ।\n5) सुप्-प्रत्ययाः - एते प्रातिपदिकेभ्यः अनन्तरमागच्छन्ति । एते सर्वे <<स्वौजस्..>> [[4.1.2]] अनेन सूत्रेण दीयन्ते ।\n6) स्त्री-प्रत्ययाः - <<अजाद्यतष्टाप्>> [[4.1.4]] इत्यतः <<दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविद्धिभ्योऽन्यतरस्याम्>> [[4.1.81]] एतेषु सूत्रेषु स्त्रीप्रत्ययाः पाठ्यन्ते ।\n7) तद्धितप्रत्ययाः - <<तद्धिताः>> [[4.1.76]] अस्मिन् अधिकारे पाठिताः सर्वे प्रत्ययाः तद्धितप्रत्ययाः सन्ति ।\nप्रत्ययाधिकारस्य विस्तृतं विवरणम् अस्मिन् लेखे कृतमस्ति, तत् दृश्यताम् ।\nप्रत्ययसंज्ञायाः प्रयोगः - <<अर्थवदधातुरप्रत्ययः प्रातिपदिकम्>> [[1.2.45]], <<प्रत्ययलोपे प्रत्यययलक्षणम्>> [[1.1.62]], <<प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः>> [[7.3.44]] एतेषु सूत्रेषु कृतः दृश्यते ।\nज्ञातव्यम् - अस्मिन् अधिकारे पाठितानि सर्वाणि सूत्राणि 'नूतनप्रत्ययान् एव वदेयुः' एतत् न आवश्यकम् । ये केऽपि नूतनशब्दाः पाठ्यन्ते, ते सर्वे प्रत्ययसंज्ञकाः भवन्ति, इत्येव अस्य सूत्रस्य आशयः । प्रत्ययान् विहाय अस्मिन् अधिकारे कानिचन संज्ञासूत्राणि, अधिकारसूत्राणि, नियमसूत्राणि, अतिदेशसूत्राणि चापि सन्ति एतदपि स्मर्तव्यम् । " }, "31002": { "sa": "अधिकारोऽयम् । इतः परम् पञ्चमाध्यायस्य समाप्तिपर्यन्तम् ये प्रत्ययाः वक्ष्यन्ते ते प्रकृतेः परः आगच्छन्ति ।", "sd": "अस्य अधिकारस्य व्याप्तिः अपि <<प्रत्ययः>> [[3.1.1]] अधिकारवत् त्रिषु अध्यायेषु वर्तते । सर्वे प्रत्ययाः प्रकृतेः अनन्तरमागच्छन्ति इत्यर्थः ।\n<<प्रत्ययः>> [[3.1.1]] अयं संज्ञा-अधिकारः अस्ति, यतः अनेन सूत्रेण प्रत्ययसंज्ञायाः व्याप्तिः निर्दिश्यते । तथा च, <<परश्च>> [[3.1.2]] अयं परिभाषा-अधिकारः अस्ति यतः अनेन सूत्रेण प्रत्ययाः कुत्र प्रयोक्तव्याः तत् स्पष्टीक्रियते ।\nज्ञातव्यम् - अस्मिन् सूत्रे 'च'कारस्य प्रयोगः एतत् ज्ञापयितुम् कृतः अस्ति यत् अयम् 'परत्वम्' तदा अपि भवति यदा <<उणादयो बहुलम्>> [[3.3.1]] इत्यनेन प्रत्ययत्वं विकल्प्यते । इत्युक्ते, ये प्रत्ययाः बहुलम् विधीयन्ते, तेषामपि परत्वम् नित्यमेव अस्ति, बहुलम् न । " }, "31003": { "sa": "अधिकारोऽयम् । इतः परम् पञ्चमाध्यायस्य समाप्तिपर्यन्तम् ये प्रत्ययाः वक्ष्यन्ते ते आद्युदात्ताः स्युः । ", "sd": "अस्य अधिकारस्य व्याप्तिः अपि <<प्रत्ययः>> [[3.1.1]] तथा <<परश्च>> [[3.1.2]] अधिकारवत् त्रिषु अध्यायेषु वर्तते । सर्वेषु प्रत्ययेषु आदिस्वरः अनेन सूत्रेण उदात्तसंज्ञकः भवति ।\nकिम् नाम 'उदात्त'? <<उच्चैरुदात्तः>> [[1.2.29]] अनेन सूत्रेण उदात्तसंज्ञा दीयते । यस्य स्वरस्य उच्चारणं तस्य उच्चारणस्थानस्य ऊर्ध्वभागात् जायते, सः स्वरः उदात्तसंज्ञकः भवति ।\nयथा - तुमुन् इत्यत्र तकारात् परः यः उकारः, तस्य अनेन सूत्रेण उदात्तसंज्ञा भवति ।\nज्ञातव्यम् -\n1. 'उदात्तत्वम्' केवलं स्वराणाम् भवितुं शक्यते, व्यञ्जनानाम् न । अतः अनेन सूत्रेण प्रत्ययेषु यः प्रथमः स्वरः, तस्य उदात्तसंज्ञा भवति ।\n2. अनेन सूत्रेण प्रत्ययस्य आदिस्वरस्य उदात्तसंज्ञा भवति, प्रत्ययान्तशब्दस्य आदिस्वरस्य न ।" }, "31004": { "sa": "सुप्-प्रत्ययानाम् तथा पित्-प्रत्ययानाम् प्रथमः स्वरः अनुदात्तः भवति । ", "sd": "<<आद्युदात्तश्च>> [[3.1.3]] अनेन सूत्रेण सर्वेषां प्रत्ययानामादिस्वरस्य उदात्तत्वे प्राप्ते अनेन सूत्रेण सुप्-प्रत्ययानां विषये तथा पित्-प्रत्ययानां विषये अपवादः उच्यते । 'सुप्-प्रत्ययेषु तथा पित्-प्रत्ययेषु विद्यमानः आदिस्वरः अनुदात्तः भवति' इत्याशयः ।\nउदाहरणम् -\n1) सुप्-प्रत्ययाः - औ, जस्, अम्, औट् आदयः । एतेषाम् सर्वेषाम् प्रथमस्वरः अनेन सूत्रेण अनुदात्तः भवति । यथा - 'राम + भ्याम् → रामाभ्याम्' इत्यत्र 'भ्या' इत्यस्य आकारः अनुदात्तः भवति ।\n2) पित्-प्रत्ययाः (= ते प्रत्ययाः येषु पकारः इत्संज्ञकः अस्ति) = ल्यप्, शप्, ङीप् - आदयः । एतेषां सर्वेषां प्रथमस्वरः अनेन सूत्रेण अनुदात्तः भवति । यथा, 'भू + शप् + ति → भवति' इत्यत्र वकारोत्तरः अकारः अनुदात्तः भवति ।\n" }, "31005": { "sa": "", "sd": "" }, "31006": { "sa": "", "sd": "" }, "31007": { "sa": "", "sd": "" }, "31008": { "sa": "", "sd": "" }, "31009": { "sa": "", "sd": "" }, "31010": { "sa": "", "sd": "" }, "31011": { "sa": "", "sd": "" }, "31012": { "sa": "", "sd": "" }, "31013": { "sa": "", "sd": "" }, "31014": { "sa": "", "sd": "" }, "31015": { "sa": "", "sd": "" }, "31016": { "sa": "", "sd": "" }, "31017": { "sa": "", "sd": "" }, "31018": { "sa": "", "sd": "" }, "31019": { "sa": "", "sd": "" }, "31020": { "sa": "", "sd": "" }, "31021": { "sa": "", "sd": "" }, "31022": { "sa": "", "sd": "" }, "31023": { "sa": "", "sd": "" }, "31024": { "sa": "", "sd": "" }, "31025": { "sa": "", "sd": "" }, "31026": { "sa": "", "sd": "" }, "31027": { "sa": "", "sd": "" }, "31028": { "sa": "", "sd": "" }, "31029": { "sa": "", "sd": "" }, "31030": { "sa": "", "sd": "" }, "31031": { "sa": "", "sd": "" }, "31032": { "sa": "सनादिप्रत्ययान्तशब्दाः धातुसंज्ञकाः भवन्ति । ", "sd": "व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा अस्ति धातु: इति संज्ञा । धातुपाठे परिगणितानां प्रायेण 2000 शब्दानां इयं संज्ञा <<भूवादयो धातवः>> [[1.3.1]] इत्यनेन सूत्रेण दीयते । परन्तु एतान् विहाय संस्कृते अन्ये अपि शब्दाः धातुरूपेण प्रयुक्ताः दृश्यन्ते । यथा, 'असूय', 'सत्याप', 'जुगुप्स' एत्येते भिन्नाः शब्दाः संस्कृते धातुसंज्ञकाः एव सन्ति । एते सर्वे शब्दाः भिन्नेभ्यः धातुभ्यः, प्रातिपदिकेभ्यः च 'सनादिः' इत्याख्यान् प्रत्ययान् योजयित्वा सिद्ध्यन्ति । एतादृशानाम् सर्वेषाम् शब्दानाम् परिगणनम् धातुपाठे नैव सम्भवति, अतः एतेषाम् धातुसंज्ञां विधातुम् पाणिनिना प्रकृतसूत्रम् निर्मितम् अस्ति । ये शब्दाः सनादि-प्रत्ययान्ताः सन्ति, तेषाम् धातुसंज्ञा भवति— इति प्रकृतसूत्रस्य अर्थः । एते एव धातवः आतिदेशिकधातवः नाम्ना अपि ज्ञायन्ते । \nसनादिप्रत्ययाः — अष्टाध्याय्याम् <<गुप्तिज्किद्भ्यः सन्>> [[3.1.5]] इत्यतः <<कमेर्णिङ्>> [[3.1.30]] इति यावद्भिः सूत्रेः आहत्य द्वादश प्रत्ययाः पाठ्यन्ते । एतेषु प्रत्ययेषु प्रथमः प्रत्ययः सन् इति अस्ति, अतः एतेषां सर्वेषाम् सनादिप्रत्ययाः इति अपि नाम दीयते । एतेभ्यः केचन प्रत्ययाः प्रातिपदिकेभ्यः विधीयन्ते, केचन अन्ये च धातुभ्यः विधीयन्ते । परन्तु एतेषाम् सर्वेषाम् योजनेन नित्यम् <<सनाद्यन्ता धातवः>> [[3.1.32]] इति प्रकृतसूत्रम् अनुसृत्य धातुनिर्माणम् एव भवति । एतेषाम् द्वादशानाम् प्रत्ययानाम् प्रत्येकम् एकम् उदाहरणम् अधः दीयते । सूत्राणाम् विस्तरः तु तत्तत्स्थले एव द्रष्टव्यः ।\n1. सन्-प्रत्ययः\nसन्-प्रत्ययः <<गुप्तिज्किद्भ्यः सन्>> [[3.1.5]], <<मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य>> [[3.1.6]] तथा च <<धातोः कर्मणः समानकर्तृकादिच्छायां वा>> [[3.1.7]] इति त्रिभिः सूत्रैः पाठ्यते । अयं प्रत्ययः केवलम् धातुभ्यः एव विधीयते । अस्य योजनेन धातूनाम् एव निर्माणं भवति । यथा —\n\nगुपँ (निन्दायाम्, भ्वादिः, <{1.1125}>)\n→ गुप् + सन् [<<गुप्तिज्किद्भ्यः सन्>> [[3.1.5]] इति स्वार्थे सन्-प्रत्ययः]\n→ गुप् गुप् + स [<<सन्यङोः>> [[6.1.9]] इति द्वित्वम्]\n→ गु गुप् + स [<<हलादिः शेषः>> [[7.4.60]] इति अभ्यासस्य हलादिः शिष्यते ।]\n→ जुगुप्स [<<कुहोश्चुः>> [[7.4.62]] इति अभ्यासस्य चुत्वम् । <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञा ।]\n
    \nअनेन प्रकारेण जुगुप्स इति सन्-प्रत्ययान्तः धातुः सिद्ध्यति ।\n
    \n2. क्यच्-प्रत्ययः\n<<सुप आत्मनः क्यच्>> [[3.1.8]], <<उपमानादाचारे>> [[3.1.10]] तथा च <<नमोवरिवश्चित्रङः क्यच्>> [[3.1.19]] इत्येतैः त्रिभिः सूत्रैः क्यच्-प्रत्ययः विधीयते । अयं प्रत्ययः केवलम् प्रातिपदिकेभ्यः एव विधीयते । अस्य योजनेन धातूनाम् निर्माणं भवति । यथा —\n\nआत्मनः पुत्रम् इच्छति\n= पुत्र + क्यच् [<<सुप आत्मनः क्यच्>> [[3.1.8]] इति क्यच्]\n→ पुत्री + य [<<क्यचि च>> [[7.4.33]] इति ईकारादेशः]\n→ पुत्रीय [<<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञा ।]\n
    \nअनेन प्रकारेण पुत्रीय इति क्यच्-प्रत्ययान्तः धातुः सिद्ध्यति ।\n
    \n3. काम्यच्-प्रत्ययः\n<<काम्यच्च>> [[3.1.9]] इति सूत्रेण काम्यच्-प्रत्ययः विधीयते । अयं प्रत्ययः केवलम् प्रातिपदिकेभ्यः एव विधीयते । अस्य योजनेन धातूनाम् निर्माणं भवति । यथा —\n\nआत्मनः पुत्रम् इच्छति\n= पुत्र + काम्यच् [<<काम्यच्च>> [[3.1.9]] इति काम्यच्]\n→ पुत्रकाम्य [<<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञा ।]\n→ पुत्रीय\n
    \nअनेन प्रकारेण पुत्रकाम्य इति काम्यच्-प्रत्ययान्तः धातुः सिद्ध्यति ।\n
    \n4. क्यङ्-प्रत्ययः\n<<कर्तुः क्यङ् सलोपश्च>> [[3.1.11]], <<भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः>> [[3.1.12]], <<कष्टाय क्रमणे>> [[3.1.14]], <<कर्मणो रोमन्थतपोभ्यां वर्तिचरोः>> [[3.1.15]], <<बाष्पोष्मभ्यामुद्वमने>> [[3.1.16]], <<शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे>> [[3.1.17]] तथा च <<सुखादिभ्यः कर्तृवेदनायाम्>> [[3.1.18]] इत्येतैः सूत्रैः विधीयते । अयं प्रत्ययः केवलम् प्रातिपदिकेभ्यः एव विधीयते । अस्य योजनेन धातूनाम् निर्माणं भवति । उदाहरणम् एतादृशम् —\n\nश्येनः इव आचरति\n→ श्येन + क्यङ् [<<कर्तुः क्यङ् सलोपश्च>> [[3.1.11]] इति क्यङ्]\n→ श्येना + य [<<अकृत्सार्वधातुकयोर्दीर्घः>> [[7.4.25]] इति दीर्घः]\n→ श्येनाय [<<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञा ।]\n
    \nअनेन प्रकारेण श्येनाय इति क्यङ्-प्रत्ययान्तः धातुः सिद्ध्यति ।\n
    \n5. क्यष्-प्रत्ययः\n<<लोहितादिडाज्भ्यः क्यष्>> [[3.1.13]] इत्यनेन विहितः क्यष्-प्रत्ययः विशिष्टेभ्यः प्रातिपदिकेभ्यः एव विधीयते । अस्य प्रयोगेण धातूनाम् निर्माणं भवति । उदाहरणम् एतादृशम् —\n\nलोहितः भवति\n→ लोहित + क्यष् [<<लोहितादिडाज्भ्यः क्यष्>> [[3.1.13]] इति क्यष्]\n→ लोहिता + य [<<अकृत्सार्वधातुकयोर्दीर्घः>> [[7.4.25]] इति दीर्घः]\n→ लोहिताय [<<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञा ।]\n
    \nअनेन प्रकारेण लोहिताय इति क्यष्-प्रत्ययान्तः धातुः सिद्ध्यति ।\n
    \n6. णिङ्-प्रत्ययः\n<<पुच्छभाण्डचीवराण्णिङ्>> [[3.1.20]] इत्यनेन त्रिभ्यः प्रातिपदिकेभ्यः णिङ्-प्रत्ययः भवति । <<कमेर्णिङ्>> [[3.1.30]] इत्यनेन कम् इति धातोः अपि स्वार्थे णिङ्-प्रत्ययः विधीयते । अस्य योजनेन नित्यम् धातूनाम् एव निर्माणं भवति । उदाहरणम् एतादृशम् —\n\nभाण्डानि समाचिनोति (राशीकरोति / एकत्रीकरोति इत्यर्थः)\n→ भाण्ड + णिङ् [<<पुच्छभाण्डचीवराण्णिङ्>> [[3.1.20]] इति णिङ्-प्रत्ययः]\n→ भाण्ड + इ [णकारङकारयोः इत्संज्ञा, लोपः]\n→ भाण्ड् + इ [<<णेरनिटि>> [[6.4.51]] इति अकारलोपः]\n→ भाण्डि [<<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञा ।]\n
    \nअनेन प्रकारेण भाण्डि इति णिङ्-प्रत्ययान्तः धातुः सिद्ध्यति ।\n
    \n7. णिच्-प्रत्ययः\n<<मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच्>> [[3.1.21]], <<सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्>> [[3.1.25]], <<हेतुमति च>> [[3.1.26]] इत्येतैः त्रिभिः सूत्रैः, तथा च इत्येतेन वार्त्तिकेन प्रायेण सर्वेभ्यः धातुभ्यः, प्रातिपदिकेभ्यः च णिच्-प्रत्ययः भवति । अस्य योजनेन नित्यम् धातूनाम् एव निर्माणं भवति । उदाहरणम् एतादृशम् —\n\nपठँ (व्यक्तायां वाचि, भ्वादिः, <{1.381}>)\n→ पठ् + णिच् [<<हेतुमति च>> [[3.1.26]] इति णिच्]\n→ पठ् + इ [णकारचकारयोः इत्संज्ञा, लोपः]\n→ पाठ् + इ [<<अत उपधायाः>> [[7.2.116]] इति उपधावृद्धिः]\n→ पाठि [<<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञा ।]\n
    \nअनेन प्रकारेण पाठि इति णिच्-प्रत्ययान्तः धातुः सिद्ध्यति ।\n
    \n8. यङ्-प्रत्ययः\n<<धातोरेकाचो हलादेः क्रियासमभिहारे यङ्>> [[3.1.22]], <<नित्यं कौटिल्ये गतौ>> [[3.1.23]], तथा च <<लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम्>> [[3.1.24]] इत्येतैः त्रिभिः सूत्रैः भिन्नेभ्यः धातुभ्यः यङ्-प्रत्ययः भवति । अस्य योजनेन नित्यम् धातूनाम् एव निर्माणं भवति । उदाहरणम् एतादृशम् —\n\nपुनः पुनः पचति \n→ पच् + यङ् [<<धातोरेकाचो हलादेः क्रियासमभिहारे यङ्>> [[3.1.22]] इति यङ्]\n→ पच् पच् + य [<<सन्यङोः>> [[6.1.9]] इति द्वित्वम्]\n→ प पच् + य [<<हलादिः शेषः>> [[7.4.60]] इति अभ्यासस्य हलादिः शिष्यते]\n→ पा पच् + य [<<दीर्घोऽकितः>> [[7.4.83]] इति अभ्यासस्य दीर्घः]\n→ पापच्य [<<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञा ।]\n
    \nअनेन प्रकारेण पापच्य इति यङ्-प्रत्ययान्तः धातुः सिद्ध्यति ।\n
    \n9. यक्-प्रत्ययः\n<<कण्ड्वादिभ्यो यक्>> [[3.1.27]] इति सूत्रेण विशिष्टेभ्यः धातुभ्यः यक्-प्रत्ययः भवति । अस्य योजनेन नित्यम् धातूनाम् एव निर्माणं भवति । उदाहरणम् एतादृशम् —\n\nकण्डूञ् (गात्रविघर्षणे, कण्ड्वादिगणस्य धातुः, धातुपाठे नैव विद्यते ।)\n→ कण्डू + यक् [<<कण्ड्वादिभ्यो यक्>> [[3.1.27]] इति स्वार्थे यक्]\n→ कण्डूय [<<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञा ।]\n
    \nअनेन प्रकारेण कण्डूय इति यक्-प्रत्ययान्तः धातुः सिद्ध्यति ।\n
    \n<<सार्वधातुके यक्>> [[3.1.67]] इत्यनेन विहितः यक् इति विकरणप्रत्ययः भिन्नः अस्ति ।\n10. आय-प्रत्ययः\n<<गुपूधूपविच्छिपणिपनिभ्य आयः>> [[3.1.28]] इति सूत्रेण विशिष्टेभ्यः धातुभ्यः स्वार्थे आय-प्रत्ययः भवति । अस्य योजनेन नूतनधातूनाम् निर्माणं भवति । उदाहरणम् एतादृशम् —\n\nगुपूँ (रक्षणे, भ्वादिः, <{1.461}>)\n→ गुप् + आय [<<गुपूधूपविच्छिपणिपनिभ्य आयः>> [[3.1.28]]]\n→ गोप् + आय [<<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणः]\n→ गोपाय [<<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञा ।]\n
    \nअनेन प्रकारेण गोपाय इति आय-प्रत्ययान्तः धातुः सिद्ध्यति ।\n
    \n11. ईयङ्-प्रत्ययः\n<<ऋतेरीयङ्>> [[3.1.29]] इति सूत्रेण ऋत् इति धातोः स्वार्थे ईयङ्-प्रत्ययः भवति । अस्य योजनेन नूतनधातोः निर्माणं भवति । प्रक्रिया एतादृशी —\n\nऋति (जुगुप्सायां कृपायां च । <{1.1166}> इत्यत्र निर्दिष्टः अयं धातुः वस्तुतः सौत्रः अस्ति, यतः पाणिनेः मूलधातुपाठे अयं न दृश्यते ।)\n→ ऋत् + ईयङ् [<<ऋतेरीयङ्>> [[3.1.29]] इति ईयङ्-प्रत्ययः]\n→ ऋतीय [<<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञा ।]\n
    \nअनेन प्रकारेण ऋतीय इति ईयङ्-प्रत्ययान्तः धातुः सिद्ध्यति ।\n
    \n12. क्विप्-प्रत्ययः\n इति वार्तिकेन क्विप्-प्रत्ययः सर्वेभ्यः प्रातिपदिकेभ्यः विधीयते । अस्य योजनेन नित्यम् धातूनाम् एव निर्माणं भवति । उदाहरणम् इत्थम् —\n\nक्लीबः इव आचरति\n→ क्लीब + क्विप्\n→ क्लीब + व् [ककारपकारयोः इत्संज्ञा, लोपः । वकारोत्तरः अकारः उच्चारणार्थः, तस्य अपि लोपः भवति ।]\n→ क्लीब [<<वेरपृक्तस्य>> [[6.1.67]] इति अपृक्त-वकारस्य लोपः ।<<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञा ।]\n
    \nअनेन प्रकारेण क्लीब इति क्विप्-प्रत्ययान्तः धातुः सिद्ध्यति ।\n
    \nकृदधिकारे भिन्नैः सूत्रैः क्विप् इति कश्चन कृत्प्रत्ययः अपि पाठ्यते । परन्तु सः केवलम् धातुभ्यः विधीयते, तस्य योजननेन च प्रातिपदिकानाम् निर्माणं भवति । सः प्रत्ययः अत्र निर्दिष्टात् सनादिसंज्ञक-क्विप्-प्रत्ययात् सम्पूर्णरूपेण भिन्नः अस्ति ।\nसूत्रे अन्तग्रहणस्य प्रयोजनम्\nयदि अस्मिन् सूत्रे अन्तशब्दः न स्यात्, तर्हि सनाद्यः धातवः इत्यनेन केवलम् सनादिप्रत्ययानाम् एव धातुसंज्ञा अभविष्यत्, न हि तदन्तानाम् । परन्तु अत्र सनादिप्रत्ययान्तानाम् धातुसंज्ञा इष्यते, न हि केवलप्रत्ययानाम् । अतएव अस्मिन् सूत्रे अन्त-शब्दस्य ग्रहणं कृतम् अस्ति । अस्मिन्नेव सन्दर्भे <ऽसंज्ञाविधौ प्रत्ययग्रहणे तदन्तविधेः प्रतिषेधःऽ> इति काचित् परिभाषा अपि परिभाषेन्दुशेखरे पाठ्यते । प्रत्ययस्य निर्देशं कृत्वा संज्ञायाः विधानं यत्र क्रियते तत्र अन्तशब्दः नास्ति चेत् सा संज्ञा प्रत्ययस्यैव भवति, न हि तदन्तस्य — इति अस्याः परिभाषायाः आशयः । \n" }, "31033": { "sa": "लृट् लकारे लृङ्लकारे वा परे धातोः परः 'स्य' विकरणप्रत्ययः आगच्छति । लुट्-लकारे परे धातोः परः तास् -विकरणप्रत्ययः आगच्छति । ", "sd": "अस्मिन् सूत्रे प्रयुक्तः 'लृ' अयम् शब्दः लृट्लकारस्य तथा लृङ्लकारस्य - उभयोः निर्देशं करोति । एतयोः लकारयोः विषये अनेन सूत्रेण अङ्गस्य (धातोः) 'स्य' अयम् विकरणः विधीयते । तथा च, 'लुट्'लकारस्य विषये अनेन सूत्रेण अङ्गस्य (धातोः) 'तास्' अयम् विकरणः विधीयते ।\nयथा, पठ्-धातोः एतेषु त्रिषु लकारेषु प्रथमपुरुषैकवचनस्य रूपाणि एतादृशानि सिद्ध्यन्ति -\n1. पठ् + लृट् [<<लृट् शेषे च>> [[3.3.13]] इति लृट्]\n→ पठ् + स्य + लृट् [<<स्यतासी लृलुटोः>> [[3.1.33]] इति स्य-विकरणप्रत्ययः]\n→ पठ् + इ + स्य + लृट् [<<आर्धधातुकस्य इड्वलादेः>> [[7.2.35]] इति इडागमः]\n→ पठ् + इ + स्य + तिप् [<<तिप्तस्...>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]\n→ पठिष्यति [<<आदेशप्रत्यययोः>> [[8.3.59]] इति षत्वम्]\n2. पठ् + लृङ् [<<लिङ्निमित्ते लृङ् क्रियातिपत्तौ>> [[3.3.139]] इति लृङ्]\n→ अट् + पठ् + लृङ् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ + पठ् + स्य + लृङ् [<<स्यतासी लृलुटोः>> [[3.1.33]] इति स्य-विकरणप्रत्ययः\n→ अ + पठ् + इ + स्य + लृङ् [<<आर्धधातुकस्य इड्वलादेः>> [[7.2.35]] इति इडागमः]\n→ अ + पठ् + इ + स्य + तिप् [<<तिप्तस्...>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]\n→ अ + पठ् + इ + स्य + त् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ अपठिष्यत् [<<आदेशप्रत्यययोः>> [[8.3.59]] इति षत्वम्]\n3. पठ् + लुट् [<<अनद्यतने लुट्>> [[3.3.15]] इति लुट्]\n→ पठ् + तास् + लुट् [<<स्यतासी लृलुटोः>> [[3.1.33]] इति तास्-विकरणप्रत्ययः]\n→ पठ् + तास् + तिप् [<<तिप्तस्..>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]\n→ पठ् + इ + तास् + तिप् [<<आर्धधातुकस्य इड्वलादेः>> [[7.2.35]] इति इडागमः]\n→ पठ् + इ + तास् + डा [<<लुटः प्रथमस्य डारौरसः>> [[2.4.85]] इति डा-आदेशः]\n→ पठ् + इ + त् + आ [<<टेः>> [[6.4.129]] इति डित्वसामर्थ्यात् भसंज्ञां विना अपि अङ्गस्य टि-संज्ञकस्य (आस्-इत्यस्य) लोपः]\n→ पठिता\nज्ञातव्यम् -\n1. सूत्रे प्रयुक्तः 'तासी' शब्दः 'तासि' इत्यस्य प्रथमा-द्विवचनमस्ति । अतः लुट्-लकारस्य विषये अस्मिन् सूत्रे मूलरूपेण निर्दिष्टम् विकरणम् 'तासि' इति अस्ति । परन्तु अत्र इकारः केवलमुच्चारणार्थः अस्ति, अतः 'तास्' इत्येव विकरणप्रत्ययः प्रयुज्यते ।\n2. कौमुद्यां दीक्षितः वदति - 'स्य तथा तास् - एतौ विकरणौ <<कर्तरि शप्>> [[3.1.68]] इत्यस्य अपवादरूपेण आगच्छतः । एषः पक्षः स्वीक्रियते चेत् लकारस्य आदौ तिबादेशम् कृत्वा ततः विकरणप्रत्ययः आगच्छतीति स्मर्तव्यम् ।\n" }, "31034": { "sa": "", "sd": "" }, "31035": { "sa": "", "sd": "" }, "31036": { "sa": "इजादिः गुरुमान् च यः धातुः, तस्य लिट्-लकारे परे आम् प्रत्ययः भवति । परन्तु ऋच्छ्-धातोः विषये अयं प्रत्ययः न भवति । ", "sd": "'ऋच्छ्' धातुं विहाय अन्ये ये इजादि-गुरुमत्-धातवः, तेषां लिट्लकारस्य विषये 'आम्' प्रत्ययः भवति ।\nकिम् नाम 'इजादिः गुरुमान् धातुः' ? -\n1. यस्य धातोः आदिवर्णः 'इच्' प्रत्याहारस्य वर्णः (इत्युक्ते अवर्णं विहाय कश्चन अन्यः स्वरः) अस्ति, सः धातुः इजादिः अस्ति इत्युच्यते ।\n2. यस्मिन् धातौ कश्चन वर्णः गुरुसंज्ञकः अस्ति, सः धातुः गुरुमान् धातुः अस्ति इत्युच्यते । (किम् नाम गुरुसंज्ञकः वर्णः? - <<दीर्घं च>> [[1.4.12]] इत्यनेन दीर्घः स्वरः नित्यं गुरुसंज्ञकः भवति । तथा च, <<संयोगे गुरु>> [[1.4.11]] इत्यनेन ह्रस्वः स्वरः अपि अग्रे संयोगः अस्ति चेद् गुरुसंज्ञकः भवति ।)\n3. यः धातुः इजादिः गुरुमान् च अस्ति, सः 'इजादिः गुरुमान्' इति नाम्ना ज्ञायते ।\nकानिचन उदाहरणानि - इन्व्, ईक्ष्, उम्भ्, ऊष्, ऋम्फ्, ॠ, एध्, ओख् ।\nएतादृशानाम् धातूनाम् लिट्लकारस्य प्रत्यये परे 'आम्' इति प्रत्ययः भवति । परन्तु 'ऋच्छ्' अस्य विषये अयम् प्रत्ययः न भवति ।\nअत्र एतत् स्मर्तव्यम् यत् 'आम्' इत्यत्र मकारः इत्संज्ञकः नास्ति । अतः 'आम्' इति 'मित्' नास्ति, अतः अयमागमः अपि नास्ति ।\nउदाहरणम् एतम् - एध्-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम्\nएध् + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट्]\n→ एध् + आम् + ल् [<<इजादेश्च गुरुमतोऽनृच्छः>> [[3.1.36]] इति आम्-प्रत्ययः]\n→ एध् + आम् [<<आमः>> [[2.4.81]] इति लकारस्य लुक्]\n→ एध् + आम् + चक्रे [<<कृञ्चानुप्रयुज्यते लिटि>> [[3.1.40]] इति कृ-धातोः अनुप्रयोगः । <<आम्प्रत्ययवत् कृञोनुप्रयोगस्य>> [[1.3.63]] इति तस्य आत्मनेपदम् । तस्य प्रथमपुरुषैकवचनम् 'चक्रे' इति]\n→ एधांचक्रे [<<मोऽनुस्वारः>> [[8.3.23]] इति मकारस्य अनुस्वारः]\n→ एधाञ्चक्रे [<<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति परसवर्णः]\nएवमेव अन्येषाम् धातूनाम् रूपाणि अपि एतादृशमेव सिद्ध्यन्ति । यथा -\n1) इन्व् - इन्वाञ्चकार [अत्र धातुः परस्मैपदी अस्ति अतः कृ-धातोः परस्मैपदम् भवति ।]\n2) ईक्ष् - ईक्षाञ्चक्रे\n3) ऊष् - ऊषाञ्चकार\n4) ॠ - अराञ्चकार\n'ऋच्छ्' धातोः विषये अयम् प्रत्ययः न भवति, अतः अस्य लिट्-लकारस्य रूपाणि 'आनर्च्छ, आनर्च्छतुः, आनर्च्छुः' इति भवन्ति ।\n" }, "31037": { "sa": "", "sd": "" }, "31038": { "sa": "", "sd": "" }, "31039": { "sa": "", "sd": "" }, "31040": { "sa": " आम्-प्रत्ययात् परतः कृ/भू/अस्- एते धातवः लिट्-लकारे अनुप्रयुज्यन्ते । ", "sd": "'आम्' इति कश्चन प्रत्ययः अस्ति । <<कास्प्रत्ययादाममन्त्रे लिटि>> [[3.1.35]] इत्यतः <<भीह्रीभृहुवां श्लुवच्च>> [[3.1.39]] इति यावद्भिः सूत्रैः लिट्-लकारस्य विषये धातोः परः अयम् प्रत्ययः विधीयते । अस्मिन् प्रत्यये परे अग्रे उपस्थितस्य लकारस्य <<आमः>> [[2.4.81]] इत्यनेन लोपः भवति । ततः वर्तमानसूत्रेण आम्-प्रत्ययात् परः कृ-धातोः / भू-धातोः / अस्-धातोः लिट्-लकारस्य उचितं रूपमागच्छन्ति ।\nयथा, 'एध्' धातोः प्रथमपुरुषैकवचनस्य प्रक्रियायाम् -\nएध् + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट्]\n→ एध् + आम् + ल् [<<इजादेश्च गुरुमतोऽनृच्छः>> [[3.1.36]] इति आम्-प्रत्ययः]\n→ एध् + आम् [<<आमः>> [[2.4.81]] इति लकारस्य लुक्]\nअस्याम् स्थितौ आम्-प्रत्ययात् परः कृ धातोः / भू-धातोः / अस्-धातोः लिट्-लकारस्य रूपमागच्छति । यथा -\nअ) कृ-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् -\nकृ + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट्]\n→ कृ + कृ + ल् [<<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम्]\n→ कर् + कृ + ल् [<<उरतः>> [[7.4.66]] इति ऋकारस्य अकारादेशः । <<उरण् रपरः>> [[1.1.51]] इति सः रपरः]\n→ क + कृ + ल् [<<हलादि शेषः>> [[7.4.60]] इति रेफस्य लोपः]\n→ च + कृ + ल् [<<कुहोश्चुः>> [[7.4.62]] इति ककारस्य चकारः]\n→ च + कृ + त [<<तिप्तस्..>> [[3.4.78]] इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य 'त' प्रत्ययः]\n→ च + कृ + एश् [<<लिटस्तझयोरेशिरेच्>> [[3.4.81]] इति त-प्रत्ययस्य एश्-आदेशः]\n→ चक्रे [<<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति अङ्गस्य गुणे प्राप्ते <<असंयोगात् लिट् कित्>> [[1.2.5]] इति किद्वत्भावे कृते <<क्ङिति च>> [[1.1.5]] इति गुणनिषेधः भवति । अतः <<इको यणचि>> [[6.1.77]] इति यणादेशः विधीयते ।]\nअतः एधाम् + चक्रे → एधाञ्चक्रे इति रूपं सिद्ध्यति ।\nआ) भू-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् -\nभू + लिट् [<<परोक्षे लिट्>> [[3.2.115]] ]\n→ भूव् ल् [<<भुवो वुग्लुङ्लिटोः>> [[6.4.88]] इति वुक्-आगमः । परत्वात् अयम् द्वित्वात् पूर्वमागच्छति ।]\n→ भूव् भूव् ल् [<<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम्]\n→ भू भूव् ल् [<<हलादि शेषः>> [[7.4.60]] इति वकारस्य लोपः]\n→ भुभूव् ल् [<<ह्रस्वः>> [[7.4.59]] इति अभ्यासे विद्यमानः यः अच्-वर्णः, तस्य ऊकारस्य ह्रस्वादेशः उकारः]\n→ भभूव् ल् [<<भवतेरः>> [[7.4.73]] इति उकारस्य अकारः]\n→ भभूव् तिप् [<<तिप्तस्..>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य प्रत्ययः तिप्]\n→ भभूव् णल् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इति तिप्-इत्यस्य णल्-आदेशः]\n→ भभूव् अ [इत्संज्ञालोपः]\n→ बभूव [<<अभ्यासे चर्च्च>> [[8.4.54]] इति अभ्यासस्य जश्त्वम्]\nअतः एधाम् + बभूव → एधाम्बभूव इति रूपं सिद्ध्यति ।\nइ) अस्-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् -\nलिट्-लकारस्य विषये अस्-धातोः वस्तुतः <<अस्तेर्भूः>> [[2.4.52]] इत्यनेन भू-आदेशः भवति । परन्तु अस्मिन् सूत्रे 'अस्' इत्यस्य निर्देशसामर्थ्यात् अयमादेशः न क्रियते । अतः अत्र रूपम् एतादृशं सिद्ध्यति -\nअस् + लिट् [<<परोक्षे लिट्>> [[3.2.115]]\n→ अस् अस् + ल् [<<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम् ]\n→ अ अस् + ल् [<<हलादि शेषः>> [[7.4.60]] इति सकारस्य लोपः]\n→ आ अस् + ल [<<अत आदेः>> [[7.4.70]] इति अभ्यास्य आदिभूतस्य अकारस्य दीर्घादेशः भवति]\n→ आ अस् + तिप् [<<तिप्तस्..>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य प्रत्ययः तिप्]\n→ आ अस् + णल् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इति तिप्-इत्यस्य णल्-आदेशः]\n→ आस [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः]\nअतः एधाम् + आस → एधामास इति रूपं सिद्ध्यति ।\nज्ञातव्यम् -\n1) अस्मिन् सूत्रे 'कृञ्' इति प्रयुक्तः शब्दः वस्तुतः प्रत्याहारः अस्ति । <<अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः>> [[5.4.50]] अस्मिन् सूत्रे उपस्थितः कृ-शब्दः तथा <<कृञो द्वितीयतृतीयशम्बबीजात् कृषौ>> [[5.4.58]] अस्मिन् सूत्रे उपस्थितः इत्संज्ञकः 'ञ'कारः एतयोः योजनेन अस्य प्रत्यहारस्य निर्माणं भवति । अस्मिन् प्रत्याहारे कृ, भू तथा अस् एतेषाम् त्रयाणाम् समावेशः क्रियते । अस्मिन् विषये कौमुद्यां विस्तारेण उक्तमस्ति ।\n2) 'अनु'प्रयुज्यते इत्युक्ते 'अनन्तरम्' प्रयुज्यते । अतः आम्-प्रत्ययात् अनन्तरम् (लकारस्य लोपे कृते तस्य स्थाने) कृ/भू/अस्-धातोः रूपम् प्रयुज्यते ।\n" }, "31041": { "sa": "", "sd": "" }, "31042": { "sa": "", "sd": "" }, "31043": { "sa": "लुङ्लकारे परे धातोः च्लि-प्रत्ययः भवति । ", "sd": "लुङ्लकारस्य विषये धातोः 'च्लि' इति विकरणप्रत्ययः भवति । यथा -\nपठ् + लुङ् [<<लुङ्>> [[3.2.110]] इति लुङ्]\n→ पठ् + च्लि + ल् [<<च्लि लुङि>> [[3.1.43]] इति लुङ्लकारस्य प्रत्यये परे लकारविकरणम् 'च्लि']\n→ ... [सम्पूर्णा प्रक्रिया <<च्लेः सिच्>> [[3.1.44]] इत्यत्र द्रष्टव्या ।]\n→ अपठीत् / अपाठीत्\nयद्यपि अनेन सूत्रेण लुङ्-लकारस्य विषये प्रारम्भे 'च्लि' इति प्रत्ययः विधीयते, तथापि च्लि-प्रत्ययः स्वयम् किमपि कार्यम् न करोति, अपितु तस्य अग्रे भिन्नानाम् धातूनाम् विषये भिन्नाः आदेशाः विधीयन्ते । ते एतादृशाः -\n1. <<च्लेः सिच्>> [[3.1.4]] इत्यनेन औत्सर्गिकरूपेण च्लि-प्रत्ययस्य सिच्-आदेशः भवति ।\n2. ये धातवः इगुपधाः शल्-वर्णान्ताः च सन्ति, तेषां विषये <<शल इगुपधादनिटः क्सः>> [[3.1.45]] इत्यनेन च्लि-प्रत्ययस्य 'क्स' आदेशः विधीयते । अन्यासु अपि कासुचित् स्थितिसु च्लि-प्रत्ययस्य 'क्स' आदेशः भवति ।\n3. <<णिश्रिद्रुस्रुभ्यः कर्तरि चङ्>> [[3.1.48]] इत्यनेन ण्यन्त-धातुभ्यः तथा श्रि-द्रु-स्रु-एतेभ्यः परस्य च्लि-प्रत्ययस्य चङ्-आदेशः भवति । अन्यैः अपि कैश्चन सूत्रैः भिन्नेभ्यः धातुभ्यः च्लि-इत्यस्य चङ्-आदेशः विधीयते ।\n4. अस् (क्षेपणे), ब्रू, ख्या - एतेषां विषये च्लि-प्रत्ययस्य <<अस्यतिवक्तिख्यातिभ्यः अङ्>> [[3.1.52]] इत्यनेन अङ्-आदेशः भवति । अन्येषां धातूनाम् विषये अपि भिन्नैः सूत्रैः अयमादेशः भवति ।\n5. पद्-धातोः <<चिण् ते पदः>> [[3.1.60]] इत्यनेन तशब्दे परे चिण्-आदेशः भवति । अन्येभ्यः धातुभ्यः अपि च्लि-विकरणस्य चिण्-आदेशः भवति ।\nज्ञातव्यम् - कौमुद्यां दीक्षितः वदति - च्लि-विकरणम् <<कर्तरि शप्>> [[3.1.68]] इत्यस्य अपवादरूपेण आगच्छति । एषः पक्षः स्वीक्रियते चेत् लकारस्य आदौ तिबादेशम् कृत्वा ततः विकरणप्रत्ययः आगच्छतीति स्मर्तव्यम् ।\n" }, "31044": { "sa": "च्लि-विकरणस्य सिच्-आदेशः भवति । ", "sd": "लुङ्लकारस्य विषये <<च्लि लुङि>> [[3.1.43]] इत्यनेन 'च्लि' इति विकरणप्रत्ययः भवति । अस्य प्रत्ययस्य अनेन सूत्रेण सिच्-आदेशः विधीयते । 'सिच्' इत्यत्र इकारचकारौ इत्संज्ञकौ स्तः, अतः तयोः लोपः भवति, सकार एव अवशिष्यते ।\nयथा, पठ्-धातोः लुङ्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् एतादृशं सिद्ध्यति -\nपठ् + लुङ् [<<लुङ्>> [[3.2.110]] इति लुङ्]\n→ पठ् + च्लि + ल् [<<च्लि लुङि>> [[3.1.43]] इति लुङ्लकारस्य प्रत्यये परे लकारविकरणम् 'च्लि']\n→ पठ् + सिच् + ल् [<<च्लेः सिच्>> [[3.1.44]] इति च्ले-इत्यस्य सिच्-आदेशः ।]\n→ अट् पठ् + स् + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अट्-आगमः]\n→ अ पठ् + स् + तिप् [<<तिप्तस्..>> [[3.4.78]] इति तिप्]\n→ अ पठ् + स् + त् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ अ पठ् + इट् स् + त् [<<आर्द्धधातुकस्य इड्वलादेः>> [[7.2.35]] इति इडागमः]\n→ अ पठ् + इ स् + ईट् त् [<<अस्तिसिचोऽपृक्ते>> [[7.3.96]] इति ईट्-आगमः]\n→ अ पठ् / पाठ् + इ स् + ई त् [<<अतो हलादेर्लघोः>> [[7.2.7]] इति वैकल्पिकवृद्धिः]\n→ अ पठ्/पाठ् + इ + ई + त् [<<इट ईटि>> [[8.2.28]] इति सकारलोपः]\n→ अपठीत् / अपाठीत् [ अनेन वार्तिकेन सवर्णदीर्घ-एकादेशे कर्तव्ये सिच्लोपः सिद्धः अस्ति । अतः <<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः]\n[ अस्य अर्थः अयम् - यदि एकादेशः कर्तव्यः अस्ति, तर्हि सिच्-प्रत्ययस्य कृतः लोपः (यद्यपि त्रिपाद्या क्रियते, तथापि, सपादसप्ताध्याय्याः) एकादेश-कारकेभ्यः सूत्रेभ्यः सिद्धः अस्ति । इत्युक्ते, एतानि सूत्राणि सकारलोपं द्रष्टुं शक्नुवन्ति । ]\nज्ञातव्यम् - अनेन सूत्रेण 'औत्सर्गिकरूपेण' च्लि-इत्यस्य सिच्-आदेशः विधीयते । अस्य अपवादरूपेण भिन्नैः सूत्रैः क्स/चङ्/अङ्/चिण् एते प्रत्ययाः च्लि-प्रत्ययस्य आदेशरूपेण आगच्छति । एतेषां कस्यापि प्रसक्तिः नास्ति चेत् वर्तमानसूत्रेण 'सिच्' प्रत्ययः विधीयते ।\n" }, "31045": { "sa": "यः शल्-वर्णान्तः इगुपधः अनिट्-धातुः, तस्मात् परस्य च्लि-प्रत्ययस्य क्स-आदेशः भवति । ", "sd": "लुङ्लकारस्य विषये धातोः <<च्लि लुङि>> [[3.1.43]] इत्यनेन च्लि-विकरणप्रत्ययः भवति । अस्य प्रत्ययस्य <<च्लेः सिच्>> [[3.1.44]] इत्यनेन औत्सर्गिकरूपेण सिच्-आदेशः विधीयते । परन्तु यः धातुः अनिट् अस्ति, यस्य अन्ते शल्-प्रत्याहारस्य वर्णः अस्ति (इत्युक्ते - श्/ ष् / स् / ह् - एतेषु कश्चन वर्णः अस्ति) तथा उपधायाम् इक्-प्रत्याहारस्य वर्णः अस्ति (इत्युक्ते - इ, उ, ऋ, ऌ - एतेषु कश्चन वर्णः अस्ति), तस्मात् परस्य च्लि-विकरणस्य वर्तमानसूत्रेण 'क्स' आदेशः भवति ।\nधातुपाठे एतादृशाः अनिट्-इगुपध-शलन्त-धातवः आहत्य सप्तदश सन्ति -\n[शकारान्ताः] - दिश्, विश्, रिश्, लिश्, मुश्, क्रुश् , रुश्, स्पृश्\n[षकारान्ताः] - त्विष्, द्विष्, श्लिष्, कृष्\n[सकारान्ताः न सन्ति ।]\n[हकारान्ताः] - मिह्, लिह्, दिह्, दुह्, रुह् ।\nएतेषां सर्वेषां विषये अनेन सूत्रेण च्लि-इत्यस्य क्स-आदेशः भवति ।\nधातुपाठे गुह्, गृह्, बृह्, तृह् स्तृह् - एते पञ्च वेट्-धातवः अपि इगुपध-शलन्ताः सन्ति । अतः एतेषां प्रयोगः यदा 'अनिट्' रूपेण क्रियते तदा एतेषां परस्य च्लि-प्रत्ययस्य क्स-आदेशः विधीयते ।\nअत्र त्रयः बिन्दवः ज्ञातव्याः -\n1. <<श्लिष आलिङ्गने>> [[3.1.46]] इत्यनेन श्लिष्-धातोः केवल् 'आलिङ्गन' अस्मिन् अर्थे एव क्स-आदेशः विधीयते, अन्येषु अर्थेषु न ।\n2. <<न दृशः>> [[3.1.47]] इत्यनेन दृश्-धातोः क्स-प्रत्ययः न भवति ।\n3. । अनेन वार्तिकेन स्पृश्, मृश्, कृष्, तृप्, दृप् - एतेषां विषये च्लि-इत्यस्य विकल्पेन 'सिच्' आदेशः अपि भवति । (स्पृश्, मृश् कृष् - एतेषाम् विषये वर्तमानसूत्रेण च्लि-इत्यस्य क्स-आदेशे प्राप्ते अनेन वार्तिकेन विकल्पेन 'सिच्' आदेशः अपि भवति । तृप्, दृप् - एतयोः विषये <<पुषादिद्युताद्यॢदितः परस्मैपदेषु>> [[3.1.55]] इत्यनेन अङ्-आदेशे प्राप्ते तस्य अपवादत्वेन अनेन वार्त्तिकेन विकल्पेन 'सिच्' आदेशः अपि भवति ।)\n'क्स' अयमादेशः 'कित्' अस्ति, अतः गुणवृद्धिनिषेधादीनि कार्याणि अस्मिन् प्रत्यये परे दृश्यन्ते । कानिचन उदाहरणानि एतानि -\n1. लिह्-धातोः लुङ्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् -\nलिह् + लुङ् [<<लुङ्>> [[3.2.110]] इति लुङ्]\n→ लिह् + च्लि + ल् [<<च्लि लुङि>> [[3.1.43]] इति च्लि-विकरणप्रत्ययः]\n→ लिह् + क्स + ल् [<<शल इगुपधादनिटः क्सः>> [[3.1.45]] इति क्स-आदेशः । कित्वात् <<क्ङिति च>> [[1.2.5]] इति लघूपधगुणनिषेधः ]\n→ लिह् + स + ल् [ककारस्य <<लशक्वतद्धिते>> [[1.3.8]] इति इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ अट् + लिह् + स + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अट्-आगमः]\n→ अ + लिह् + स + तिप् [<<तिप्तस्..>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]\n→ अ + लिह् + स + त् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ अ + लिढ् + स + त् [<<हो ढः>> [[8.2.31]] इति हकारस्य ढकारः]\n→ अ + लिक् + स + त् [<<षढोः क सि>>[[8.2.41]] इति ककारः]\n→ अ + लिक् + ष + त् [<<आदेशप्रत्यययोः>> [[8.3.59]] इति षत्वम्]\n→ अलिक्षत् ।\n2. द्विष् -धातोः लुङ्लकारस्य आत्मनेपदस्य प्रथमपुरुषैकवचनस्य रूपम् -\nद्विष् + लुङ् [<<लुङ्>> [[3.2.110]] इति लुङ्]\n→ द्विष् + च्लि + ल् [<<च्लि लुङि>> [[3.1.43]] इति च्लि-विकरणप्रत्ययः]\n→ द्विष् + क्स + ल् [<<शल इगुपधादनिटः क्सः>> [[3.1.45]] इति क्स-आदेशः । कित्वात् <<क्ङिति च>> [[1.2.5]] इति लघूपधगुणनिषेधः ]\n→ द्विष् + स + ल् [ककारस्य <<लशक्वतद्धिते>> [[1.3.8]] इति इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ अट् + द्विष् + स + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अट्-आगमः]\n→ अ + द्विष् + स + त [<<तिप्तस्..>> [[3.4.78]] इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य त-प्रत्ययः]\n→ अ + द्विक् + स + त [<<षढोः क सि>>[[8.2.41]] इति ककारः]\n→ अ + द्विक् + ष + त [<<आदेशप्रत्यययोः>> [[8.3.59]] इति षत्वम्]\n→ अद्विक्षत\n3. दिश्-धातोः लुङ्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् -\nदिश् + लुङ् [<<लुङ्>> [[3.2.110]] इति लुङ्]\n→ दिश् + च्लि + ल् [<<च्लि लुङि>> [[3.1.43]] इति च्लि-विकरणप्रत्ययः]\n→ दिश् + क्स + ल् [<<शल इगुपधादनिटः क्सः>> [[3.1.45]] इति क्स-आदेशः । कित्वात् <<क्ङिति च>> [[1.2.5]] इति लघूपधगुणनिषेधः ]\n→ दिश् + स + ल् [ककारस्य <<लशक्वतद्धिते>> [[1.3.8]] इति इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ अट् + दिश् + स + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अट्-आगमः]\n→ अ + दिश् + स + तिप् [<<तिप्तस्..>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]\n→ अ + दिश् + स + त् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ अ + दिष् + स + त् [<<व्रस्चभ्रस्ज...>> [[8.2.36]] इति षत्वम्]\n→ अ + दिक् + स + त् [<<षढोः क सि>>[[8.2.41]] इति ककारः]\n→ अ + दिक् + ष + त् [<<आदेशप्रत्यययोः>> [[8.3.59]] इति षत्वम्]\n→ अदिक्षत्\n" }, "31046": { "sa": "'आलिङ्गनम्' अस्मिन् अर्थे प्रयुज्यमानात् श्लिष्-धातोः विहितस्य च्लि-प्रत्ययस्य क्स-आदेशः भवति । ", "sd": "लुङ्लकारस्य विषये धातोः <<च्लि लुङि>> [[3.1.43]] इत्यनेन च्लि-विकरणप्रत्ययः भवति । अस्य प्रत्ययस्य <<च्लेः सिच्>> [[3.1.44]] इत्यनेन औत्सर्गिकरूपेण सिच्-आदेशः विधीयते । परन्तु यः धातुः अनिट् अस्ति, यस्य अन्ते शल्-प्रत्याहारस्य वर्णः अस्ति (इत्युक्ते - श्/ ष् / स् / ह् - एतेषु कश्चन वर्णः अस्ति) तथा उपधायाम् इक्-प्रत्याहारस्य वर्णः अस्ति (इत्युक्ते - इ, उ, ऋ, ऌ - एतेषु कश्चन वर्णः अस्ति), तस्मात् परस्य च्लि-विकरणस्य <<शल इगुपधादनिटः क्सः>> [[3.1.45]] इत्यनेन 'क्स' आदेशः भवति । अनेन सूत्रेण 'श्लिषँ' धातोः नित्यम् क्स-आदेशे प्राप्ते, वर्तमानसूत्रेण अपवादत्वेन केवलम् 'आलिङ्गनम्' अस्मिन् अर्थे एव 'श्लिषँ' धातोः क्स-आदेशः भवति । अन्येषु अर्थेषु (यथा - प्रत्यासत्तिः आदयः) क्स-आदेशः न विधीयते ।\nश्लिष् + लुङ् [<<लुङ्>> [[3.2.110]] इति लुङ्]\n→ श्लिष् + च्लि + ल् [<<च्लि लुङि>> [[3.1.43]] इति च्लि-विकरणप्रत्ययः]\n→ श्लिष् + क्स + ल् [<<शल इगुपधादनिटः क्सः>> [[3.1.45]] इति क्स-आदेशः । कित्वात् <<क्ङिति च>> [[1.2.5]] इति लघूपधगुणनिषेधः ]\n→ श्लिष् + स + ल् [ककारस्य <<लशक्वतद्धिते>> [[1.3.8]] इति इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ अट् + श्लिष् + स + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अट्-आगमः]\n→ अ + श्लिष् + स + तिप् [<<तिप्तस्..>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]\n→ अ + श्लिष् + स् + त् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ अ + श्लिष् + स + त् [<<षढोः क सि>>[[8.2.41]] इति ककारः]\n→ अ + श्लिष् + ष + त् [<<आदेशप्रत्यययोः>> [[8.3.59]] इति षत्वम्]\n→ अश्लिक्षत्\nज्ञातव्यम् -\n1. स्तुतः धातुपाठे त्रयः 'श्लिष्' धातवः सन्ति - चुरादिगणस्य श्लिष् (श्लेषणे), दिवादिगणस्य श्लिष् (आलिङ्गने) , तथा भ्वादिगणस्य श्लिष् (दाहे) । परन्तु एतेषु चुरादिगणस्य तथा भ्वादिगणस्य धातू द्वौ अपि सेटौ स्तः, तथा च तयोः अर्थः 'आलिङ्गने' इत्यपि नास्ति, अतः तयोः अत्र विमर्शः अपि न क्रियते ।\n2. दिवादिगणस्य श्लिश्-धातोः विहितस्य 'च्लि' इत्यस्य 'आलिङ्गनम्' अर्थं विहाय अन्येषु अर्थेषु परस्मैपदे <<पुषादिद्युताद्यॢदितः परस्मैपदेषु>> [[3.1.55]] इत्यनेन अङ्-प्रत्ययः भवति, तथा आत्मनेपदेषु <<च्लेः सिच्>> [[3.1.44]] इत्यनेन सिच्-आदेशः भवति ।\n3. कौमुद्यां दीक्षितः अस्य सूत्रस्य योगविभागं कृत्वा 'श्लिषः' तथा 'आलिङ्गने' इति सूत्रद्वयं कारयति । अस्य कारणम् सः वदति - <<शल इगुपधादनिटः क्सः>> [[3.1.45]] इत्यनेन 'श्लिष्'-धातोः क्स-प्रत्यये प्राप्ते परत्वात् <<पुषादिद्युताद्यॢदितः परस्मैपदेषु>> [[3.1.55]] इत्यनेन अङ्-प्रत्ययः विधीयते, यतः श्लिष्-धातुः पुषादिगणे अस्ति । अस्य अपवादरूपेण 'श्लिषः' इति नूतननिर्मितेन सूत्रेण श्लिष्-धातोः पुनः क्स-प्रत्ययः क्रियते ।\n" }, "31047": { "sa": "दृश्-धातोः परस्य च्लि-प्रत्ययस्य क्स-आदेशः न भवति । ", "sd": "लुङ्लकारस्य विषये धातोः <<च्लि लुङि>> [[3.1.43]] इत्यनेन च्लि-विकरणप्रत्ययः भवति । अस्य प्रत्ययस्य <<च्लेः सिच्>> [[3.1.44]] इत्यनेन औत्सर्गिकरूपेण सिच्-आदेशः विधीयते । परन्तु दृश्-धातोः विषये च्लि-विकरणस्य <<शल इगुपधादनिटः क्सः>> [[3.1.45]] इत्यनेन 'क्स' आदेशः भवति । तस्य निषेधार्थम् वर्तमानसूत्रम् निर्मितमस्ति । वर्तमानसूत्रेण दृश्-धातोः च्लि-प्रत्ययस्य क्स-आदेशः निषिध्यते । अस्य अभावे औत्सर्गिकरूपेण <<च्लेः सिच्>> [[3.1.44]] इत्यनेन सिच्-आदेशः विधीयते । यथा -\nदृश् + लुङ् [<<लुङ्>> [[3.2.110]] इति लुङ्]\n→ दृश् + च्लि + ल् [<<च्लि लुङि>> [[3.1.43]] इति च्लि-विकरणप्रत्ययः]\n→ दृश् + सिच् + ल् [<<शल इगुपधादनिटः क्सः>> [[3.1.45]] इति क्स-आदेशे प्राप्ते <<न दृशः>> [[3.1.47]] इति निषेधः । अतः <<च्लेः सिच्>> [[3.1.44]] इति सिच्-आदेशः ।]\n→ दृश् + स् + ल् [चकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा । इकारस्य <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इति इत्संज्ञा । द्वयोरपि <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ अट् दृश् + स् + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अट्-आगमः]\n→ अ दृ अम् श् + स् + ल् [<<सृजिदृशोः झल्यमकिति>> [[6.1.58]] इति दृश्-इत्यस्य अम्-आगमः । <<मिदचोऽन्त्यात्परः>> [[1.1.47]] इति अयमागमः अन्त्यात् अचः परः आगच्छति ।]\n→ अ दृ अ श् + स् ल् [अम्-इत्यस्य मकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ अ द्र श् + स् ल् [<<इको यणचि>> [[6.1.77]] इति यणादेशः]\n→ अ द्राश् + स् ल् [<<वदव्रजहलन्तस्याचः>> [[7.2.3]] इति अकारस्य वृद्धिः आकारः]\n→ अ द्राश् + स् + तिप् [<<तिप्तस्..>> [[3.4.78]] इति तिप्]\n→ अ द्राश् + स् + त् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ अ द्राश् + स् + ईट् त् [<<अस्तिसिचोऽपृक्ते>> [[7.3.96]] इति सिच्-इत्यस्मात् परस्य अपृक्त-तकारस्य ईट्-आगमः]\n→ अ द्राष् + स् + ई त् [<<व्रश्चभ्रस्ज....>> [[8.2.36]] इति षत्वम्]\n→ अ द्राक् + स् + ई त् [<<षढोः क सि>> [[8.2.41]] इति ककारः]\n→ अ द्राक् + ष् + ई त् [<<आदेशप्रत्यययोः>> [[8.3.59]] इति षत्वम्]\n→ अद्राक्षीत्\nज्ञातव्यम् - दृश्-धातोः परस्य च्लि-प्रत्ययस्य <<इरितो वा>>[[3.1.57]] इत्यनेन अङ्-आदेशः अपि भवति । " }, "31048": { "sa": "ण्यन्तेभ्यः धातुभ्यः, तथा च श्रि, द्रु , स्रु-एतेभ्यः परस्य च्लि-प्रत्ययस्य कर्तरि प्रयोगे चङ्-आदेशः भवति । ", "sd": "लुङ्लकारस्य विषये धातोः <<च्लि लुङि>> [[3.1.43]] इत्यनेन च्लि-विकरणप्रत्ययः भवति । अस्य प्रत्ययस्य <<च्लेः सिच्>> [[3.1.44]] इत्यनेन औत्सर्गिकरूपेण सिच्-आदेशः विधीयते । अस्य अपवादरूपेण वर्तमानसूत्रेण ण्यन्त-धातुभ्यः परस्य, तथा श्रि (सेवायाम्) , द्रु (गतौ), स्रु (गतौ) एतेभ्यः परस्य च्लि-प्रत्ययस्य कर्तरि प्रयोगे चङ्-आदेशः विधीयते । चङ्-इत्यत्र चकारङकारयोः इत्संज्ञालोपश्च भवति, अतः 'अ' इत्येव अवशिष्यते ।\n'चङ्' इति ङित्-आदेशः अस्ति, अतः अस्य उपस्थितौ गुणवृद्धिनिषेधादीनि ङित्कार्याणि भवन्ति ।\nउदाहरणानि क्रमेण पश्यामः -\n1. ण्यन्त-धातवः इत्युक्ते णिङ्-प्रत्ययान्तधातवः णिच्-प्रत्ययान्तधातवः च । एतेषां परस्य च्लि-इत्यस्य चङ्-आदेशः भवति । द्वयोरपि एकैकं उदाहरणम् एतादृशम् -\n(अ) <<कमेर्णिङ्>> [[3.1.30]] इत्यनेन कम्-धातोः णिङ्-प्रत्यये कृते 'कामि' इति आतिदेशिकः धातुः सिद्ध्यति । अस्य लुङ्लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -\nकामि + लुङ् [<<लुङ्>> [[3.2.110]] इति लुङ्]\n→ कामि + च्लि + ल् [<<च्लि लुङि>> [[3.1.43]] इति च्लि-विकरणप्रत्ययः]\n→ कामि + चङ् + ल् [<<णिश्रिद्रुस्रुभ्यः कर्तरि चङ्>> [[3.1.48]] इति चङ्]\n→ काम् कामि + चङ् + ल् [<<चङि>> [[6.1.11]] इति द्वित्वम्]\n→ का कामि + चङ् + ल् [<<हलादि शेषः>> [[7.4.60]] इति मकारलोपः]\n→ क कामि + चङ् + ल् [<<ह्रस्वः>> [[7.4.59]] इति अभ्यासस्य ह्रस्वादेशः]\n→ कि कामि + अ + ल् <<सन्वल्लघुनि चङ्परेऽनग्लोपे>> [[7.4.93]] इति सन्वत् भावः । <<सन्यतः>> [[7.4.79]] इति अभ्यासस्य अकारस्य इकारः]\n→ की कामि + अ ल् [<<दीर्घोः लघोः>> [[7.4.94]] इति अभ्यासस्य लघु-वर्णस्य दीर्घः]\n→ ची कामि + अ + ल् [<<कुहोश्चुः>> [[7.4.62]] इति चवर्गादेशः]\n→ अट् ची कामि + अ + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ ची कमि + अ + ल् [<<णौ चङ्युपधायाः ह्रस्वः>> [[7.4.1]] इति उपधाह्रस्वः]\n→ अची कम् + अ + ल् [<<णेरनिटि>> [[6.4.51]] इति णिलोपः]\n→ अ ची कम् + अ + त [<<तिप्तस्..>> [[3.4.78]] इत्यनेन आत्मनेपदस्य प्रथमपुरुषैकवचनस्य 'त' प्रत्ययः]\n→ अचीकमत\n(आ) <<हेतुमति च>> [[3.1.26]] इत्यनेन कृ-धातोः णिच्-प्रत्यये कृते 'कारि' इति आतिदेशिकः धातुः सिद्ध्यति । अस्य अस्य लुङ्लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -\nकारि + लुङ् [<<लुङ्>>[[3.2.110]] इति लुङ्]\n→ कारि च्लि ल् [<<च्लि लुङि>> [[3.1.43]] इति विकरणप्रत्ययः च्लि]\n→ कारि चङ् ल् [<<णिश्रिद्रुस्रुभ्यः कर्तरि चङ्>> [[3.1.48]] इत्यनेन ण्यन्त-धातूनाम् विषये च्लि-इत्यस्य चङ्-आदेशः]\n→ कारि अ ल् [इत्संज्ञालोपः]\n→ कार् कारि अ ल् [चङ्-आदेशे परे <<चङि>> [[6.1.11]] इत्यनेन धातोः द्वित्वम् । <<एकाचो द्वे प्रथमस्य>> [[6.1.1]] इत्यनेन 'कार्' इति प्रथम-एकाच्-अवयवस्य द्वित्वम् भवति ।]\n→ का कारि अ ल् [<<हलादि शेषः>> [[7.4.60]] इति अभ्यासस्य रेफलोपः]\n→ क कारि अ ल् [<<ह्रस्वः>> [[7.4.59]] इति ह्रस्वः]\n→ कि कारि अ ल् [<<सन्वल्लघुनि चङ्परेऽनग्लोपे>> [[7.4.93]] इति सन्वत् भावः । <<सन्यतः>> [[7.4.79]] इति अभ्यासस्य इकारः]\n→ की कारि अ ल् [<<दीर्घो लघोः>> [[7.4.94]] इति अभ्यासस्य लघुवर्णस्य दीर्घः]\n→ ची कारि अ ल् [<<कुहोश्चुः>> [[7.4.62]] इति अभ्यासस्य ककारस्य चकारः]\n→ अट् ची कारि अ ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ ची करि अ ल् [<<णौ चङ्युपधायाः ह्रस्वः>> [[7.4.1]] इति उपधाह्रस्वः]\n→ अ ची कर् अ ल् [<<णेरनिटि>> [[6.4.51]] इति इकारलोपः]\n→ अ ची कर् अ तिप् [<<तिप्तस्..>> [[3.4.78]] इति तिप्]\n→ अ ची कर् अ त् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ अचीकरत्\n2. श्रि (सेवायाम्) -धातोः लुङ्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् -\n-> श्रि + च्लि + ल् [<<च्लि लुङि>> [[3.1.43]] इति च्लि-विकरणप्रत्ययः]\n→ श्रि + चङ् + ल् [<<णिश्रिद्रुस्रुभ्यः कर्तरि चङ्>> [[3.1.48]] इति चङ्]\n→ श्रि श्रि + चङ् + ल् [<<चङि>> [[6.1.11]] इति द्वित्वम्]\n→ शि श्रि + चङ् + ल् [<<हलादि शेषः>> [[7.4.60]] इति रेफलोपः]\n→ शि श्रियङ् + अ ल् [<<अचि श्नुधातुभ्रूवां य्वोः इयङुवङौ>> [[6.4.77]] इति इयङ्-आदेशः]\n→ अट् शि श्रिय् + अ + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ शि श्रिय् + अ + तिप् [<<तिप्तस्..>> [[3.4.78]] इत्यनेन प्रथमपुरुषैकवचनस्य 'तिप्' प्रत्ययः]\n→ अ शि श्रिय् अ त् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ अशिश्रियत्\nअनेनैव प्रकारेण द्रु (गतौ) इत्यस्य अदुद्रुवत् इति रूपम् सिद्ध्यति । तथैव स्रु (गतौ) इत्यस्य असुस्रुवत् इति रूपम् सिद्ध्यति ।\nज्ञातव्यम् - 'कम्' धातोः आर्धधातुके प्रत्यये परे <<आयादयः आर्धधातुके वा>> [[3.1.31]] इत्यनेन वैकल्पिकः णिङ् भवति, तथा विकल्पेन 'आय' प्रत्ययः अपि भवति । णिङ्-प्रत्यये कृते तु <<णिश्रिद्रुस्रुभ्यः कर्तरि चङ्>> [[3.1.48]] इत्यनेन च्लि-इत्यस्य चङ्-आदेशः भवति । 'आय'प्रत्यये कृते <<णिश्रिद्रुस्रुभ्यः कर्तरि चङ्>> [[3.1.48]] इत्यस्य प्रसक्तिः नास्ति यतः अयम् ण्यन्तः प्रत्ययः नास्ति । परन्तु अत्रापि चङ्-इत्यस्यैव आदेशं कारयितुम् एकम् वार्तिकम् निर्मितमस्ति - । अनेन वार्तिकेन कम्-धातोः परस्य च्लि-इत्यस्य नित्यम् चङ्-आदेशः भवति । " }, "31049": { "sa": "धेट् तथा श्वि धातुभ्याम् परस्य च्लि-प्रत्ययस्य विकल्पेन चङ्-आदेशः भवति । ", "sd": "लुङ्लकारस्य विषये धातोः <<च्लि लुङि>> [[3.1.43]] इत्यनेन च्लि-विकरणप्रत्ययः भवति । अस्य प्रत्ययस्य <<च्लेः सिच्>> [[3.1.44]] इत्यनेन औत्सर्गिकरूपेण सिच्-आदेशः विधीयते । परन्तु धेट् (पाने) तथा टुओश्वि (गतिवृद्ध्योः) एतयोः विषये च्लि-विकरणस्य विकल्पेन चङ्-आदेशः भवति ।\n1. धेट् धातोः लुङ्लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -\nधे + लुङ् [<<लुङ्>> [[3.2.110]] इति लुङ्]\n→ धे + च्लि + ल् [<<च्लि लुङि>> [[3.1.43]] इति च्लि-विकरणप्रत्ययः]\n→ धे + चङ् + ल् [<<विभाषा धेट्श्व्योः>> [[3.1.48]] इति वैकल्पिकः चङ्-प्रत्ययः]\n....\n→ अदधत्\nधेट्-धातोः विषये च्लि-इत्यस्य चङ्-आदेशः केवलं विकल्पेनैव भवति । तस्य अभावात् औत्सर्गिकरूपेण <<च्लेः सिच्>> [[3.1.44]] इति सिच्-प्रत्ययः अपि विधीयते ।\n2. टुओश्वि-धातोः लुङ्लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -\nश्वि + लुङ् [<<लुङ्>> [[3.2.110]] इति लुङ्]\n→ श्वि + च्लि + ल् [<<च्लि लुङि>> [[3.1.43]] इति च्लि-विकरणप्रत्ययः]\n→ श्वि + चङ् + ल् [<<विभाषा धेट्श्व्योः>> [[3.1.48]] इति वैकल्पिकः चङ्-प्रत्ययः]\n....\n→ अशिश्वियत्\nश्वि-धातोः विषये च्लि-इत्यस्य चङ्-आदेशः केवलं विकल्पेनैव भवति । तदभावात् <<जृस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च>> [[3.1.58]] अनेन सूत्रेण विकल्पेन अङ् -प्रत्ययः अपि विधीयते । तस्य अभावात् च औत्सर्गिकरूपेण <<च्लेः सिच्>> [[3.1.44]] इति सिच्-प्रत्ययः भवति ।\n " }, "31050": { "sa": "", "sd": "" }, "31051": { "sa": "", "sd": "" }, "31052": { "sa": "असुँ (क्षेपणे), वच्, तथा ख्या - एतेभ्यः परस्य च्लि-प्रत्ययस्य अङ्-आदेशः भवति । ", "sd": "लुङ्लकारस्य विषये धातोः <<च्लि लुङि>> [[3.1.43]] इत्यनेन च्लि-विकरणप्रत्ययः भवति । अस्य प्रत्ययस्य <<च्लेः सिच्>> [[3.1.44]] इत्यनेन औत्सर्गिकरूपेण सिच्-आदेशः विधीयते । परन्तु असुँँ (क्षेपणे), वच् (परिभाषणे), तथा ख्या (प्रकथने) - एतेभ्यः परस्य च्लि-प्रत्ययस्य अङ्-आदेशः भवति । ब्रू-धातोः आर्धधातुकविवक्षायाम् <<ब्रुवो वचि>> [[3.4.53]] इत्यनेन यः वच्-आदेशः भवति, तस्य विषये अपि अस्य सूत्रस्य प्रसक्तिः अस्ति । तथैव, <<चक्षिङः ख्याञ्>> [[2.4.54]] इत्यनेन चक्ष्-धातोः यः ख्या-आदेशः भवति, तस्यापि विषये अस्य सूत्रस्य प्रयोगः भवति ।\n1) अस् + लुङ् [<<लुङ्>> [[3.2.110]] इति लुङ्]\n→ अस् + च्लि + ल् [<<च्लि लुङि>>[[3.1.43]] इति च्लि-विकरणप्रत्ययः]\n→ अस् + अङ् + ल् [<<अस्यतिवक्तिख्यातिभ्यः अङ्>> [[3.1.52]] इति अङ्-प्रत्ययः]\n→ अस् थुक् + अ + ल् [<<अस्यतेस्थुक्>> [[7.4.17]] इति थुक्-आगमः]\n→ आट् + अस् + थ् + अ + ल् [<<आडजादीनाम्>> [[6.4.72]] इति आट्-आगमः]\n→ आस् + थ् + अ + ल् [<<आटश्च>> [[6.1.90]] इति वृद्धिः]\n→ आस् + थ् + अ + तिप् [<<तिप्तस्...>> [[3.4.78]] इति तिप्]\n→ आस् + थ् + अ + त् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ आस्थत्\n2) ब्रू + लुङ् [<<लुङ्>> [[3.2.110]] इति लुङ्]\n→ वच् + लुङ् [<<ब्रुवो वचि>> [[3.4.53]] इत्यनेन वच्-आदेशः]\n→ वच् + च्लि + ल् [<<च्लि लुङि>>[[3.1.43]] इति च्लि-विकरणप्रत्ययः]\n→ वच् + अङ् + ल् [<<अस्यतिवक्तिख्यातिभ्यः अङ्>> [[3.1.52]] इति अङ्-प्रत्ययः]\n→ व उम् च् + अ + ल् [<<वच उम्>> [[7.4.20]] इत्यनेन वच्-धातोः उम्-आगमः । <<मिदचोऽन्त्यात्परः>> [[1.1.47]] इत्यनेन अयमागमः अन्त्यात् अचः पूर्वः आगच्छति]\n→ अट् + व उ च् अ + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ व उ च् + त [<<तिप्तस्..>> [[3.4.78]] इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य विवक्षायाम् 'त' आदेशः]\n→ अवोचत [<<आद्गुणः>> [[6.1.87]] इति गुण-एकादेशः]\n3) ख्या + लुङ् <<ब्रुवो वचि>> [[3.4.53]]\n→ ख्या + लुङ् [<<ब्रुवो वचि>> [[3.4.53]] इत्यनेन वच्-आदेशः]\n→ ख्या + च्लि + ल् [<<च्लि लुङि>>[[3.1.43]] इति च्लि-विकरणप्रत्ययः]\n→ ख्या + अङ् + ल् [<<अस्यतिवक्तिख्यातिभ्यः अङ्>> [[3.1.52]] इति अङ्-प्रत्ययः]\n→ ख्य् + अ + ल् [<<आतो लोप इटि च>> [[6.4.64]] इति आकारलोपः]\n→ अट् + ख्य् + अ + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ + ख्य् + अ + तिप् [<<तिप्तस्...>> [[3.4.78]] इति तिप्]\n→ अ + ख्य् + अ + त् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ अख्यत् " }, "31053": { "sa": "लिप्, सिच्, ह्वे - एतेभ्यः परस्य च्लि-प्रत्ययस्य अङ्-आदेशः भवति । ", "sd": "लुङ्लकारस्य विषये धातोः <<च्लि लुङि>> [[3.1.43]] इत्यनेन च्लि-विकरणप्रत्ययः भवति । अस्य प्रत्ययस्य <<च्लेः सिच्>> [[3.1.44]] इत्यनेन औत्सर्गिकरूपेण सिच्-आदेशः विधीयते । परन्तु लिपँ (उपदेहे), षिचँ (सेचने) तथा ह्वेञ् (स्पर्धायाम् शब्दे च) एतेभ्यः परस्य च्लि-प्रत्ययस्य अङ्-आदेशः भवति । यथा\n1) लिप् + लुङ् [<<लुङ्>> [[3.2.110]] इति लुङ्]\n→ लिप् + च्लि + ल् [<<च्लि लुङि>>[[3.1.43]] इति च्लि-विकरणप्रत्ययः]\n→ लिप् + अङ् + ल् [<<लिपिसिचिह्वश्च>> [[3.1.53]] इति च्लि-इत्यस्य अङ्-आदेशः]\n→ अट् + लिप् + अ + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ + लिप् + अ + तिप् [<<तिप्तस्..>> [[3.4.78]] इति तिप्]\n→ अ + लिप् + अ + त् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ अलिपत्\n2) षिच् (क्षरणे)\n→ सिच् [<<धात्वादे षः सः>> [[6.1.64]] इति षकारस्य सकारादेशः]\n→ सिच् + लुङ् [<<लुङ्>> [[3.2.110]] इति लुङ्]\n→ सिच् + च्लि + ल् [<<च्लि लुङि>>[[3.1.43]] इति च्लि-विकरणप्रत्ययः]\n→ सिच् + अङ् + ल् [<<लिपिसिचिह्वश्च>> [[3.1.53]] इति च्लि-इत्यस्य अङ्-आदेशः]\n→ अट् + सिच् + अ + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ + सिच् + अ + तिप् [<<तिप्तस्..>> [[3.4.78]] इति तिप्]\n→ अ + सिच् + अ + त् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ असिचत्\n3) ह्वेञ् + लुङ् [<<लुङ्>> [[3.2.110]] इति लुङ्]\n→ ह्वे + + च्लि + ल् [<<च्लि लुङि>>[[3.1.43]] इति च्लि-विकरणप्रत्ययः]\n→ ह्वे + अङ् + ल् [<<लिपिसिचिह्वश्च>> [[3.1.53]] इति च्लि-इत्यस्य अङ्-आदेशः]\n→ ह्वा + अ + ल् [<<आदेश उपदेशेऽशिति>> [[6.1.45]] इति आकारादेशः]\n→ ह्व् + अ + ल् [<<आतो लोप इटि च>> [[6.4.64]] इति आकारलोपः]\n→ अट् + ह्व् + अ + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ + ह्व् + अ + तिप् [<<तिप्तस्..>> [[3.4.78]] इति तिप्]\n→ अ + ह्व् + अ + त् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ अह्वत्\nज्ञातव्यम् - लिप्, षिच्, तथा ह्वेञ् एते त्रयः धातवः उभयपदिनः सन्ति । वर्तमानसूत्रेण एतेभ्यः परस्य च्लि-प्रत्ययस्य अङ्-आदेशः द्वयोः अपि पदयोः भवति । परन्तु आत्मनेपदस्य विषये <<आत्मनेपदेष्वन्यतस्याम्>> [[3.1.53]] इत्यनेन अयमादेशः केवलं विकल्पेनैव भवति । " }, "31054": { "sa": "लिप्, सिच्, ह्वे - एतेभ्यः परस्य च्लि-प्रत्ययस्य आत्मनेपदस्य प्रत्यये परे विकल्पेन अङ्-आदेशः भवति ।", "sd": "लुङ्लकारस्य विषये धातोः <<च्लि लुङि>> [[3.1.43]] इत्यनेन च्लि-विकरणप्रत्ययः भवति । अस्य प्रत्ययस्य <<च्लेः सिच्>> [[3.1.44]] इत्यनेन औत्सर्गिकरूपेण सिच्-आदेशः विधीयते । परन्तु लिपँ (उपदेहे), षिचँ (सेचने) तथा ह्वेञ् (स्पर्धायाम् शब्दे च) एतेभ्यः परस्य च्लि-प्रत्ययस्य आत्मनेपदस्य प्रत्यये परे विकल्पेन अङ्-आदेशः भवति । पक्षे <<च्लेः सिच्>> [[3.1.44]] इत्यनेन सिच्-आदेशः विधीयते ।\nअङ्-प्रत्यये परे प्रक्रियाः अधः दत्ताः सन्ति ।\n1) लिप् + लुङ् [<<लुङ्>> [[3.2.110]] इति लुङ्]\n→ लिप् + च्लि + ल् [<<च्लि लुङि>>[[3.1.43]] इति च्लि-विकरणप्रत्ययः]\n→ लिप् + अङ् + ल् [<<लिपिसिचिह्वश्च>> [[3.1.53]] इति च्लि-इत्यस्य अङ्-आदेशः]\n→ अट् + लिप् + अ + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ + लिप् + अ + त [<<तिप्तस्..>> [[3.4.78]] इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य प्रत्ययः]\n→ अलिपत\n2) षिच् (क्षरणे)\n→ सिच् [<<धात्वादे षः सः>> [[6.1.64]] इति षकारस्य सकारादेशः]\n→ सिच् + लुङ् [<<लुङ्>> [[3.2.110]] इति लुङ्]\n→ सिच् + च्लि + ल् [<<च्लि लुङि>>[[3.1.43]] इति च्लि-विकरणप्रत्ययः]\n→ सिच् + अङ् + ल् [<<लिपिसिचिह्वश्च>> [[3.1.53]] इति च्लि-इत्यस्य अङ्-आदेशः]\n→ अट् + सिच् + अ + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ + सिच् + अ + त [<<तिप्तस्..>> [[3.4.78]] इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य प्रत्ययः]\n→ असिचत\n3) ह्वेञ् + लुङ् [<<लुङ्>> [[3.2.110]] इति लुङ्]\n→ ह्वे + + च्लि + ल् [<<च्लि लुङि>>[[3.1.43]] इति च्लि-विकरणप्रत्ययः]\n→ ह्वे + अङ् + ल् [<<लिपिसिचिह्वश्च>> [[3.1.53]] इति च्लि-इत्यस्य अङ्-आदेशः]\n→ ह्वा + अ + ल् [<<आदेश उपदेशेऽशिति>> [[6.1.45]] इति आकारादेशः]\n→ ह्व् + अ + ल् [<<आतो लोप इटि च>> [[6.4.64]] इति आकारलोपः]\n→ अट् + ह्व् + अ + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ + ह्व् + अ + त [<<तिप्तस्..>> [[3.4.78]] इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य प्रत्ययः]\n→ अह्वत\n " }, "31055": { "sa": "पुषादिगणस्य धातुभ्यः परस्य , द्युतादिगणस्य धातुभ्यः परस्य तथा ऌदित-धातुभ्यः परस्य च्लि-इत्यस्य परस्मैपदस्य प्रत्यये परे अङ्-आदेशः भवति । ", "sd": "लुङ्लकारस्य विषये धातोः <<च्लि लुङि>> [[3.1.43]] इत्यनेन च्लि-विकरणप्रत्ययः भवति । अस्य प्रत्ययस्य <<च्लेः सिच्>> [[3.1.44]] इत्यनेन औत्सर्गिकरूपेण सिच्-आदेशः विधीयते । परन्तु परस्मैपदस्य प्रत्ययेषु परेषु पुषादिगणस्य धातुभ्यः परस्य , द्युतादिगणस्य धातुभ्यः परस्य तथा ऌदित-धातुभ्यः परस्य च्लि-इत्यस्य अनेन सूत्रेण 'अङ्' आदेशः विधीयते । क्रमेण पश्यामः -\n1) पुषादिगणः - दिवादिगणे 'पुषादि'नाम अन्तर्गणः अस्ति, यस्मिन् आहत्य 62 धातवः सन्ति । एतेषां सर्वेषाम् विषये अस्य सूत्रस्य प्रसक्तिः अस्ति ।\nअस्य गणस्य विषये द्वौ विशेषौ ज्ञातव्यौ -\nअ) तृप् तथा दृप् - एतौ द्वौ धातू पुषादिगणे स्तः, परन्तु अनेन सूत्रेण एतयोः परस्य च्लि-प्रत्ययस्य विकल्पेन एव अङ्-आदेशः भवति । पक्षे <<च्लेः सिच्>> [[3.1.44]] इति सिच्-आदेशः भवति ।\nआ) 'श्लिष्' अयं धातुः पुषादिगणे अस्ति, परन्तु 'आलिङ्गनम्' अस्मिन् अर्थे अस्मात् परस्य च्लि-इत्यस्य <<श्लिष आलिङ्गने>> [[3.1.46]] इत्यनेन 'क्स' प्रत्ययः भवति । अन्येषु अर्थेषु तु वर्तमानसूत्रेण अङ्-आदेशः एव विधीयते ।\nयथा, पुष्-धातोः लुङ्लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया -\nपुष् + लुङ् [<<लुङ्>> [[3.2.110]] इति लुङ्]\n→ पुष् + च्लि + ल् [<<च्लि लुङि>>[[3.1.43]] इति च्लि-विकरणप्रत्ययः]\n→ पुष् + अङ् + ल् [<<पुषादिद्युताद्यॢदितः परस्मैपदेषु>> [[3.1.55]] इति च्लि-इत्यस्य अङ्-आदेशः]\n→ अट् + पुष् + अ + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ + पुष् + अ + तिप् [<<तिप्तस्..>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य प्रत्ययः]\n→ अ + पुष् + अ + त् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ अपुषत्\n2) द्युतादिगणः - भ्वादिगणे 'द्युतादिगण' नाम अन्तर्गणः अस्ति, यस्मिन् आहत्य 14 धातवः सन्ति । एतेषां सर्वेषाम् विषये अस्य सूत्रस्य प्रसक्तिः अस्ति । अस्य गणस्य विषये एकः विशेषः स्मर्तव्यः - अस्य गणस्य सर्वे धातवः आत्मनेपदिनः सन्ति । तथापि <<द्युद्भ्यो लुङि>> [[1.3.91]] इत्यनेन एते सर्वे लुङ्-लकारस्य विषये विकल्पेन परस्मैपदिनः अपि भवन्ति । अस्यां स्थितौ एतेभ्यः परस्य च्लि-प्रत्ययस्य अङ्-आदेशः भवति । यथा -\nद्युत् + लुङ् [<<लुङ्>> [[3.2.110]] इति लुङ् । <<द्युद्भ्यो लुङि>> [[1.3.91]] इति वैकल्पिकम् परस्मैपदम्]\n→ द्युत् + च्लि + ल् [<<च्लि लुङि>>[[3.1.43]] इति च्लि-विकरणप्रत्ययः]\n→ द्युत् + अङ् + ल् [<<लिपिसिचिह्वश्च>> [[3.1.53]] इति च्लि-इत्यस्य अङ्-आदेशः]\n→ अट् + द्युत् + अ + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ + द्युत् + अ + तिप् [<<तिप्तस्..>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य प्रत्ययः]\n→ अ + द्युत् + अ + त् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ अद्युतत्\n3) येषु धातुषु ऌकारः इत्संज्ञकः अस्ति, ते सर्वे ऌदित-धातवः नाम्ना ज्ञायन्ते । धातुपाठे एतादृशाः 14 धातवः सन्ति । एतेषु येभ्यः परस्मैपदस्य प्रत्ययाः विधीयन्ते, तेषां विषये अस्य सूत्रस्य प्रसक्तिः अस्ति । यथा -\nगम् + लुङ् [<<लुङ्>> [[3.2.110]] इति लुङ् । <<द्युद्भ्यो लुङि>> [[1.3.91]] इति वैकल्पिकम् परस्मैपदम्]\n→ गम् + च्लि + ल् [<<च्लि लुङि>>[[3.1.43]] इति च्लि-विकरणप्रत्ययः]\n→ गम् + अङ् + ल् [<<लिपिसिचिह्वश्च>> [[3.1.53]] इति च्लि-इत्यस्य अङ्-आदेशः]\n→ अट् + गम् + अ + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ + गम् + अ + तिप् [<<तिप्तस्..>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य प्रत्ययः]\n→ अ + गम् + अ + त् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ अगमत्\nज्ञातव्यम् - अस्य सूत्रस्य प्रसक्तिः केवलम् परस्मैपदस्य प्रत्ययेषु परेषु अस्तीति स्मर्तव्यम् । आत्मनेपदेषु तु <<च्लेः सिच्>> [[3.1.44]] इत्यनेन सिच्-आदेशः एव विधीयते । " }, "31056": { "sa": "सृ, शास् तथा ऋ - एतेभ्यः परस्य च्लि-प्रत्ययस्य अङ्-आदेशः भवति । ", "sd": "लुङ्लकारस्य विषये धातोः <<च्लि लुङि>> [[3.1.43]] इत्यनेन च्लि-विकरणप्रत्ययः भवति । अस्य प्रत्ययस्य <<च्लेः सिच्>> [[3.1.44]] इत्यनेन औत्सर्गिकरूपेण सिच्-आदेशः विधीयते । परन्तु अनेन सूत्रेण सृ (गतौ), शास् (अनुशिष्टौ), तथा ऋ (गतौ - जुहोत्यादिगणः) एतेभ्यः परस्य च्लि-इत्यस्य 'अङ्' आदेशः विधीयते । क्रमेण पश्यामः -\n1) सृ + लुङ् [<<लुङ्>> [[3.2.110]] इति लुङ्]\n→ सृ + च्लि + ल् [<<च्लि लुङि>>[[3.1.43]] इति च्लि-विकरणप्रत्ययः]\n→ सृ + अङ् + ल् [<<सर्त्तिशास्त्यर्तिभ्यश्च>> [[3.1.54]] इति च्लि-इत्यस्य अङ्-आदेशः]\n→ सर् + अङ् + ल् [<<ऋदृशोऽङि गुणः>> [[7.4.16]] इति ऋकारस्य गुणः अकारः । <<उरण् रपरः>> [[1.1.51]] इति सः रपरः]\n→ अट् + सर् + अ + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ + सर् + अ + तिप् [<<तिप्तस्..>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य प्रत्ययः]\n→ अ + सर् + अ + त् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ असरत्\n2) शास् + लुङ् [<<लुङ्>> [[3.2.110]] इति लुङ्]\n→ शास् + च्लि + ल् [<<च्लि लुङि>>[[3.1.43]] इति च्लि-विकरणप्रत्ययः]\n→ शास्+ अङ् + ल् [<<सर्त्तिशास्त्यर्तिभ्यश्च>> [[3.1.54]] इति च्लि-इत्यस्य अङ्-आदेशः]\n→ शिस् + अङ् + ल् [<<शास इदङ्हलोः>> [[6.4.34]] इति शास्-इत्यस्य आकारस्य इकारादेशः]\n→ अट् + शिस् + अ + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ + शिस् + अ + तिप् [<<तिप्तस्..>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य प्रत्ययः]\n→ अ + शिस् + अ + त् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ अ + शिष् + अ + त् [<<शासिवसिघसीनां च>> [[8.3.60]] इति षत्वम्]\n→ अशिषत्\n3) ऋ + लुङ् [<<लुङ्>> [[3.2.110]] इति लुङ्]\n→ ऋ + च्लि + ल् [<<च्लि लुङि>>[[3.1.43]] इति च्लि-विकरणप्रत्ययः]\n→ ऋ + अङ् + ल् [<<सर्त्तिशास्त्यर्तिभ्यश्च>> [[3.1.54]] इति च्लि-इत्यस्य अङ्-आदेशः]\n→ अर् + अङ् + ल् [<<ऋदृशोऽङि गुणः>> [[7.4.16]] इति ऋकारस्य गुणः अकारः । <<उरण् रपरः>> [[1.1.51]] इति सः रपरः]\n→ आट् + अर् + अ + ल् [<<आडजादीनाम्>> [[6.4.72]] इति आडागमः]\n→ आर् + अ + ल् [<<आटश्च>> [[6.1.90]] इति वृद्धि-एकादेशः]\n→ आर् + अ + तिप् [<<तिप्तस्..>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य प्रत्ययः]\n→ आर् + अ + त् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ आरत्\nज्ञातव्यम् - पूर्वस्मात् सूत्रात् 'परस्मैपदेषु' इति अत्र न अनुवर्तते । अतः यदा एतेषामात्मनेपदं भवति, तदा अपि च्लि-इत्यस्य अङ्-आदेशः एव भवति । यथा, <<समो गम्यृच्छि..>> [[1.3.29]] इत्यनेन 'सम् + ऋ' इत्यस्य अकर्मकप्रयोगे आत्मनेपदम् भवति । अस्य लुङ्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -\nसम् + लुङ् [<<लुङ्>> [[3.2.110]] इति लुङ्]\n→ सम् + ऋ + च्लि + ल् [<<च्लि लुङि>>[[3.1.43]] इति च्लि-विकरणप्रत्ययः]\n→ सम् + अङ् + ल् [<<सर्त्तिशास्त्यर्तिभ्यश्च>> [[3.1.54]] इति च्लि-इत्यस्य अङ्-आदेशः]\n→ सम् + अर् + अङ् + ल् [<<ऋदृशोऽङि गुणः>> [[7.4.16]] इति ऋकारस्य गुणः अकारः । <<उरण् रपरः>> [[1.1.51]] इति सः रपरः]\n→ सम् + आट् + अर् + अ + ल् [<<आडजादीनाम्>> [[6.4.72]] इति आडागमः]\n→ सम् + आर् + अ + ल् [<<आटश्च>> [[6.1.90]] इति वृद्धि-एकादेशः]\n→ सम् + आर् + अ + त [<<तिप्तस्..>> [[3.4.78]] इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य प्रत्ययः]\n→ समारत" }, "31057": { "sa": "इरित्-धातोः परस्य च्लि-प्रत्ययस्य विकल्पेन अङ्-आदेशः भवति ।", "sd": "लुङ्लकारस्य विषये धातोः <<च्लि लुङि>> [[3.1.43]] इत्यनेन च्लि-विकरणप्रत्ययः भवति । अस्य प्रत्ययस्य <<च्लेः सिच्>> [[3.1.44]] इत्यनेन औत्सर्गिकरूपेण सिच्-आदेशः विधीयते । परन्तु ये धातवः 'इरितः' सन्ति, तेषां विषये अनेन सूत्रेण च्लि-इत्यस्य विकल्पेन अङ्-आदेशः अपि भवति ।\nकिम् नाम 'इरित्' धातुः ? यस्मिन् धातौ 'इर्' इति वर्णसमुदायः इत्संज्ञकः अस्ति, तस्य धातोः 'इरित्' इति संज्ञा भवति । धातुपाठे आहत्य 23 इरितः धातवः सन्ति । एतेषां परस्य च्लि-इत्यस्य अनेन सूत्रेण विकल्पेन अङ्-आदेशः अपि भवति । पक्षे <<च्लेः सिच्>> [[3.1.44]] इति सिजादेशः अपि भवति । यथा -\n1. दृश् + लुङ् [<<लुङ्>> [[3.2.110]] इति लुङ्]\n→ दृश् + च्लि + ल् [<<च्लि लुङि>>[[3.1.43]] इति च्लि-विकरणप्रत्ययः]\n→ दृश् + अङ् + ल् [<<इरितो वा>> [[3.1.57]] इति च्लि-इत्यस्य अङ्-आदेशः]\n→ दर्श् + अङ् + ल् [<<ऋदृशोऽङि गुणः>> [[7.4.16]] इति दृश्-धातोः ऋकारस्य गुणः अकारः । <<उरण् रपरः>> [[1.1.51]] इति सः रपरः]\n→ अट् + दर्श् + अ + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ + दर्श् + अ + तिप् [<<तिप्तस्..>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य प्रत्ययः]\n→ अ + दर्श् + अ + त् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ अदर्शत्\nविकल्पेन सिच्-प्रत्यये कृते 'अद्राक्षीत्' इत्यपि रूपं सिद्ध्यति ।\n2. क्षुद् + लुङ् [<<लुङ्>> [[3.2.110]] इति लुङ्]\n→ क्षुद् + च्लि + ल् [<<च्लि लुङि>>[[3.1.43]] इति च्लि-विकरणप्रत्ययः]\n→ क्षुद् + अङ् + ल् [<<इरितो वा>> [[3.1.57]]इति च्लि-इत्यस्य अङ्-आदेशः]\n→ अट् + क्षुद् + अ + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ + क्षुद् + अ + तिप् [<<तिप्तस्..>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य प्रत्ययः]\n→ अ + क्षुद् + अ + त् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ अक्षुदत्\nविकल्पेन सिच्-प्रत्यये कृते 'अक्षौसीत्' इत्यपि रूपं सिद्ध्यति ।\n" }, "31058": { "sa": "जॄ, स्तन्भ् , म्रुच्, म्लुच्, ग्रुच्, ग्लुच्, ग्लुञ्च्, टुओश्वि - एतेभ्यः परस्य च्लि-प्रत्ययस्य विकल्पेन अङ्-आदेशः भवति । ", "sd": "लुङ्लकारस्य विषये धातोः <<च्लि लुङि>> [[3.1.43]] इत्यनेन च्लि-विकरणप्रत्ययः भवति । अस्य प्रत्ययस्य <<च्लेः सिच्>> [[3.1.44]] इत्यनेन औत्सर्गिकरूपेण सिच्-आदेशः विधीयते । परन्तु अनेन केभ्यश्चन धातुभ्यः परस्य च्लि-प्रत्ययस्य विकल्पेन अङ्-आदेशः अपि भवति । पक्षे तु <<च्लेः सिच्>> [[3.1.44]] इति 'सिच्' भवत्येव । एते धातवः तथा एतेषां प्रक्रियाः अधः दत्ताः सन्ति ।\n1. जॄ (वयोहानौ)\nजॄ + लुङ् [<<लुङ्>> [[3.2.110]] इति लुङ्]\n→ जॄ + च्लि + ल् [<<च्लि लुङि>>[[3.1.43]] इति च्लि-विकरणप्रत्ययः]\n→ जॄ + अङ् + ल् [<<जृस्तम्भु...>> [[3.1.58]] इति च्लि-इत्यस्य अङ्-आदेशः]\n→ जर् + अङ् + ल् [<<ऋदृशोऽङि गुणः>> [[7.4.16]] इति ऋकारस्य गुणः अकारः । <<उरण् रपरः>> [[1.1.51]] इति सः रपरः]\n→ अट् + जर् + अ + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ + जर् + अ + तिप् [<<तिप्तस्..>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य प्रत्ययः]\n→ अ + जर् + अ + त् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ अजरत्\n2. स्तन्भ् - अयम् धातुः धातुपाठे नास्ति, केवलं सूत्रे पाठ्यते, अतः अयम् 'सौत्र' धातुः अस्ति ।\nस्तन्भ् + लुङ् [<<लुङ्>> [[3.2.110]] इति लुङ् । ]\n→ स्तन्भ् + च्लि + ल् [<<च्लि लुङि>>[[3.1.43]] इति च्लि-विकरणप्रत्ययः]\n→ स्तम्भ् + अङ् + ल् [<<जृस्तम्भु...>> [[3.1.58]] इति च्लि-इत्यस्य अङ्-आदेशः]\n→ स्तभ् + अङ् + ल् [<<अनिदितां हलः उपधायाः क्ङिति>> [[6.4.24]] इति नकारलोपः]\n→ अट् + स्तभ् + अ + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ + स्तभ् + अ + तिप् [<<तिप्तस्..>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य प्रत्ययः]\n→ अ + स्तभ् + अ + त् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ अस्तभत् ।\n3. म्रुच् (गतौ), म्लुच् (गतौ), ग्रुच् (स्तेयकरणे), ग्लुच् (स्तेयकरणे)\nम्रुच् + लुङ् [<<लुङ्>> [[3.2.110]] इति लुङ् । ]\n→ म्रुच् + च्लि + ल् [<<च्लि लुङि>>[[3.1.43]] इति च्लि-विकरणप्रत्ययः]\n→ म्रुच् + अङ् + ल् [<<जृस्तम्भु...>> [[3.1.58]] इति च्लि-इत्यस्य अङ्-आदेशः]\n→ अट् + म्रुच् + अ + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ + म्रुच् + अ + तिप् [<<तिप्तस्..>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य प्रत्ययः]\n→ अ + म्रुच् + अ + त् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ अम्रुचत् ।\nअनेनैव प्रकारेण अम्लुचत्, अग्रुचत्, अग्लुचत् - आदीनि रूपाणि अपि सिद्ध्यन्ति ।\n4. ग्लुञ्च् (गतौ)\nग्लुन्च् + लुङ् [<<लुङ्>> [[3.2.110]] इति लुङ् । धातौ यद्यपि ञकारः दृश्यते तथापि अयम् ञकारः नकारात् त्रिपाद्याः सूत्रैः निर्मितः अस्ति । अतः प्रक्रियायामादौ तु नकारस्यैव श्रवणं भवति ।]\n→ ग्लुन्च् + च्लि + ल् [<<च्लि लुङि>>[[3.1.43]] इति च्लि-विकरणप्रत्ययः]\n→ ग्लुन्च् + अङ् + ल् [<<जृस्तम्भु...>> [[3.1.58]] इति च्लि-इत्यस्य अङ्-आदेशः]\n→ ग्लुच् + अङ् + ल् [<<अनिदितां हलः उपधायाः क्ङिति>> [[6.4.24]] इति नकारलोपः]\n→ अट् + ग्लुच् + अ + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ + ग्लुच् + अ + तिप् [<<तिप्तस्..>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य प्रत्ययः]\n→ अ + ग्लुच् + अ + त् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ अग्लुचत् ।\n4. टुओश्वि (गतिवृद्ध्योः)\nश्वि + लुङ् [<<लुङ्>> [[3.2.110]] इति लुङ्]\n→ श्वि + च्लि + ल् [<<च्लि लुङि>>[[3.1.43]] इति च्लि-विकरणप्रत्ययः]\n→ श्वि + अङ् + ल् [<<विभाषा धेट्श्व्योः>> [[3.1.48]] इति वैकल्पिकः चङ्-प्रत्ययः]\n→ श्व + अ + ल् [<<श्वयतेरः>> [[7.4.18]] इति इकारस्य अकारादेशः]\n→ अट् + श्व + अ + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ + श्व + अ + तिप् [<<तिप्तस्..>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य प्रत्ययः]\n→ अ + श्व + अ + त् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ अश्वत् [<<अतो गुणे>> [[6.1.97]] इति पररूप-एकादेशः]\nज्ञातव्यम् - 'टुओश्वि' धातोः <<विभाषा धेट्श्व्योः>> [[3.1.49]] इत्यनेन विकल्पेन चङ्-आदेशः अपि भवति ।\n" }, "31059": { "sa": "", "sd": "" }, "31060": { "sa": "", "sd": "" }, "31061": { "sa": "", "sd": "" }, "31062": { "sa": "", "sd": "" }, "31063": { "sa": "", "sd": "" }, "31064": { "sa": "", "sd": "" }, "31065": { "sa": "", "sd": "" }, "31066": { "sa": "", "sd": "" }, "31067": { "sa": "कर्मणिप्रयोगे भावेप्रयोगे च सार्वधातुके प्रत्यये परे धातोः यक्-प्रत्ययः भवति । ", "sd": "यदि धातोः अनन्तरम् कश्चन सार्वधातुकप्रत्ययः विधीयते, तर्हि कर्मणिप्रयोगे भावे प्रयोगे च धातोः अनन्तरम् (परन्तु सार्वधातुकप्रत्ययात् पूर्वम्) 'यक्'-प्रत्ययः अपि आगच्छति ।\nयथा -\nपठ् + लट् [कर्मणिप्रयोगस्य वर्तमानकालस्य च विवक्षायाम् <<वर्तमाने लट्>> [[3.2.123]] इति लट्-लकारः ।]\n→ पठ् + त [ <<भावकर्मणोः>> [[1.3.13]] इत्यनेन आत्मनेपदम् । प्रथमपुरुषैकवचनस्य विवक्षायाम् <<तिप्तस्झि...>> [[3.4.78]] इति 'त' प्रत्ययः]\n→ पठ् + यक् + त [<<सार्वधातुके यक्>> [[3.1.67]] इति यक्-प्रत्ययः]\n→ पठ् + य + ते [<<टित आत्मनेपदानां टेरे>> [[3.4.79]] इति एकारः]\n→ पठ्यते ।\nज्ञातव्यम् -\n1) <<तिङ्शित्सार्वधातुकम्>> [[3.4.113]] इत्यनेन सर्वे तिङ्-प्रत्ययाः शित्-प्रत्ययाः च 'सार्वधातुक'संज्ञां प्राप्नुवन्ति ।\n2) <<लः कर्मणि च भावे च अकर्मकेभ्यः>> [[3.4.69]] इत्यनेन लकाराः सकर्मकेभ्यः धातुभ्यः कर्मणिप्रयोगे तथा अकर्मकेभ्यः धातुभ्यः भावेप्रयोगे भवितुमर्हन्ति ।\n3) आर्द्धधातुकप्रत्यये परे कर्मणिप्रयोगे भावे प्रयोगे वा 'यक्' इति गणविकरणम् न आगच्छति । यथा, पठ्-धातोः कर्मणि प्रयोगे लृट्-लकारस्य प्रथमपुरुषैकवचनम् 'पठिष्यते' इत्यत्र 'पठ् + इट् + स्य + ते' इत्यनेन रूपं सिद्ध्यति, अत्र 'यक्' विकरणं न विधीयते ।" }, "31068": { "sa": "सार्वधातुके कर्तरि प्रत्यये परे धातोः परः शप्-प्रत्ययः विधीयते । ", "sd": "किम् नाम सार्वधातुकप्रत्ययः? <<तिङ्शित्सार्वधातुकम्>> [[3.4.113]] - तिङ्-प्रत्ययाः तथा शित्-प्रत्ययाः सार्वधातुकसंज्ञां प्राप्नुवन्ति ।\nकिम् नाम कर्तरिप्रयोगः? <<लः कर्मणि च भावे च अकर्मकेभ्यः>> [[3.4.69]] अनेन सूत्रेण लकारः कर्तारम्, कर्म, तथा भावं निदर्शयितुम् शक्नोति । यत्र लकारः कर्तारम् निदर्शयति, सः कर्तरिप्रयोगः ।\nकर्तरि प्रयोगे सार्वधातुके प्रत्यये परे धातोः परः औत्सर्गिकरूपेण 'शप्' इति गणविकरणम् प्रत्ययरूपेण आगच्छति । अस्मिन् विकरणे पकारस्य <<हलन्त्यम्>> [[1.3.3]] तथा शकारस्य <<लशक्वतद्धिते>> [[1.3.8]] इत्यनेन इत्संज्ञा भवति, ततः तयोः <<तस्य लोपः>> [[1.3.9]] इत्यनेन लोपः भवति । अतः केवलम् 'अ' इति अवशिष्यते ।\nउदाहरणम् -\n1) तिङ्-प्रत्ययः - 'पठ् + ति' इत्यत्र <<कर्तरि शप्>> [[3.1.68]] इत्यनेन शप्-प्रत्ययः विधीयते । पठ् + अ + ति = पठति ।\n2) शित्-प्रत्ययः - 'पठ् + शतृ' इत्यत्र <<कर्तरि शप्>> [[3.1.68]] इत्यनेन शप्-प्रत्ययः विधीयते । 'पठ् + अ + अत्' इति प्राप्ते <<अतो गुणे>> [[6.1.97]] इत्यनेन द्वयोः अकारयोः एकः पररूपः अकारः भूत्वा 'पठत्' इति प्रातिपदिकं सिद्ध्यति ।\nज्ञातव्यम् - शप्-इत्यस्य भिन्नेषु धातुगणेषु श्यन्, श्नु, श आदयः अपवादाः विधीयन्ते । तेषां विषये <<दिवादिभ्यः श्यन्>> [[3.1.69]] इत्यतः <<कुषिरजोः प्राचां श्यन् परस्मैपदं च>> [[3.1.90]] इति यावत्सु सूत्रेषु पाठितम् अस्ति । " }, "31069": { "sa": "सार्वधातुके कर्तरि प्रत्यये परे दिवादिगणस्य धातोः परः श्यन्-प्रत्ययः विधीयते ।", "sd": "किम् नाम सार्वधातुकप्रत्ययः? <<तिङ्शित्सार्वधातुकम्>> [[3.4.113]] - तिङ्-प्रत्ययाः तथा शित्-प्रत्ययाः सार्वधातुकसंज्ञां प्राप्नुवन्ति ।\nकिम् नाम कर्तरिप्रयोगः? <<लः कर्मणि च भावे च अकर्मकेभ्यः>> [[3.4.69]] अनेन सूत्रेण लकारः कर्तारम्, कर्म, तथा भावं निदर्शयितुम् शक्नोति । यत्र लकारः कर्तारम् निदर्शयति, सः कर्तरिप्रयोगः ।\nकर्तरि प्रयोगे सार्वधातुके प्रत्यये परे दिवादिगणस्य धातोः परः 'श्यन्' इति गणविकरणम् प्रत्ययरूपेण आगच्छति । अस्मिन् विकरणे नकारस्य <<हलन्त्यम्>> [[1.3.3]] तथा शकारस्य <<लशक्वतद्धिते>> [[1.3.8]] इत्यनेन इत्संज्ञा भवति, ततः तयोः <<तस्य लोपः>> [[1.3.9]] इत्यनेन लोपः भवति । अतः केवलम् 'य' इति अवशिष्यते ।\nयथा -\n1) नृत्-इति दिवादिगणस्य धातुः । 'तिप्' इति लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रत्यये परे 'नृत् + ति' इत्यत्र अनेन सूत्रेण श्यन्-प्रत्ययः भवति, अतः 'नृत्यति' इति रूपं सिद्ध्यति ।\n2) क्रुध्-इति दिवादिगणस्य धातुः । 'शतृ' इति सार्वधातुकप्रत्यये परे 'क्रुध् + शतृ' इत्यत्र अनेन सूत्रेण श्यन्-प्रत्ययः भवति । 'क्रुध्य + अत्' इति स्थिते <<अतो गुणे>> [[6.1.97]] अनेन सूत्रेण यकारात्-परस्य अकारस्य तथा 'अत्' इत्यस्य अकारस्य एकः पररूप-एकादेशः अकारः भवति, अतः 'क्रुध्यत्' इति प्रातिपदिकम् सिद्ध्यति ।\nज्ञातव्यम् - <<कर्तरि शप्>> [[3.1.68]] इत्यनेन सार्वधातुके कर्तरि प्रत्यये परे धातोः परः औत्सर्गिकरूपेण शप्-प्रत्ययः विधीयते । दिवादिगणस्य धातुभ्यः तस्य अपवादरूपेण श्यन्-प्रत्ययः भवति ।\n" }, "31070": { "sa": "कर्तरि सार्वधातुके प्रत्यये परे भ्राश्, भ्लाश्, भ्रम्, क्रम्, क्लम्, त्रस्, त्रुट्, लष् - एतेभ्यः परः श्यन् विकरणप्रत्ययः विकल्पेन भवति ।", "sd": "टुभ्राशृँ दीप्तौ, टुभ्लाशृँ दीप्तौ, भ्रमुँ चलने, भ्रमुँ अनवस्थाने, क्रमुँ पादविक्षेपे, क्लमुँ ग्लानौ, त्रसीँ उद्वेगे, त्रुटँ छेदने, लषँ कान्तौ - एतेभ्यः धातुभ्यः सार्वधातुके प्रत्यये परे कर्तरि प्रयोगे अनेन सूत्रेण श्यन्-प्रत्ययः विकल्पेन भवति । श्यन्-प्रत्ययस्य अभावे प्रत्येकम् धातोः तस्य तस्य गणस्य यः गणविकरणप्रत्ययः, सः धातोः परः विधीयते । यदि विशिष्टः गणविकरणप्रत्ययः नास्ति, यदि वा धातुः दिवादिगणस्यैव अस्ति, तर्हि श्यन्-प्रत्ययस्य अभावे औत्सर्गिकरूपेण <<कर्तरि शप्>> [[3.1.68]] इति शप्-प्रत्ययः भवति ।\nप्रत्येकम् धातोः विषये क्रमेण पश्यामः -\n1) टुभ्राशृँ दीप्तौ - भ्वादिगणः । श्यनः अभावे <<कर्तरि शप्>> [[3.1.68]] इति शप्-प्रत्ययः भवति । - भ्राश्यते, भ्राशते ।\n2) टुभ्लाशृँ दीप्तौ - भ्वादिगणः । श्यनः अभावे <<कर्तरि शप्>> [[3.1.68]] इति शप्-प्रत्ययः भवति । - भ्लाश्यते, भ्लाशते ।\n3 क) भ्रमुँ चलने - भ्वादिगणः । श्यनः अभावे <<कर्तरि शप्>> [[3.1.68]] इति शप्-प्रत्ययः भवति । - भ्रम्यति, भ्रमति ।\n3 ख) भ्रमुँ अनवस्थाने - दिवादिगणः । श्यनः अभावे <<कर्तरि शप्>> [[3.1.68]] इति शप्-प्रत्ययः भवति । - भ्राम्यति, भ्रमति । 'भ्राम्यति' इत्यत्र <<शमामष्टानां दीर्घः श्यनि>> [[7.3.74]] इत्यनेन अङ्गस्य दीर्घः भवति ।\n4) क्रमुँ पादविक्षेपे - भ्वादिगणः । श्यनः अभावे <<कर्तरि शप्>> [[3.1.68]] इति शप्-प्रत्ययः भवति । - क्राम्यति, क्रामति । उभयोः रूपयोः <<क्रमः परस्मैपदेषु>> [[7.3.76]] इत्यनेन अङ्गस्य दीर्घः भवति ।\n5) क्लमुँ ग्लानौ - दिवादिगणः । श्यनः अभावे <<कर्तरि शप्>> [[3.1.68]] इति शप्-प्रत्ययः भवति । - क्लाम्यति, क्लामति । 'क्लाम्यति' इत्यत्र <<शमामष्टानां दीर्घः श्यनि>> [[7.3.74]] इत्यनेन अङ्गस्य दीर्घः भवति । 'क्लामति' इत्यत्र <<ष्ठिवुक्लमुचमां शिति>> [[7.3.75]] इत्यनेन अङ्गस्य दीर्घः भवति ।]\n6) त्रसीँ उद्वेगे - दिवादिगणः । श्यनः अभावे <<कर्तरि शप्>> [[3.1.68]] इति शप्-प्रत्ययः भवति । - त्रस्यति, त्रसति ।\n7) त्रुटँ छेदने - तुदादिगणः । श्यनः अभावे <<तुदादिभ्यः शः>> [[3.1.77]] इति श-प्रत्ययः भवति । त्रुट्यति, त्रुटति ।\n8) लषँ कान्तौ - भ्वादिगणः । श्यनः अभावे <<कर्तरि शप्>> [[3.1.68]] इति शप्-प्रत्ययः भवति । - लष्यति, लषति ।\n" }, "31071": { "sa": "कर्तरि सार्वधातुके प्रत्यये परे अनुपसर्गात् यस्-धातोः श्यन् विकरणप्रत्ययः विकल्पेन भवति ।", "sd": "यसुँ (प्रयत्ने) अयं दिवादिगणस्य धातुः । अस्मात् धातोः <<दिवादिभ्यः श्यन्>> इत्यनेन नित्यं श्यन्-प्रत्यये प्राप्ते वर्तमानसूत्रेण सः विकल्प्यते । श्यन्-प्रत्ययस्य अभावे औत्सर्गिकरूपेण <<कर्तरि शप्>> [[3.1.65]] इत्यनेन शप्-प्रत्ययः भवति । यथा - यसते, यस्यते ।\n'यस्' धातुः उपसर्गेण सह आगच्छति चेत् अस्य सूत्रस्य प्रसक्तिः नास्ति, अतः उपसर्गपूर्वस्य यस्-धातोः नित्यं श्यन्-प्रत्ययः भवति । यथा - आयस्यति, प्रयस्यति ।\nज्ञातव्यम् - 'सम्+यस्' इत्यत्र <<संयसश्च>> [[3.1.72]] इति अग्रिमसूत्रेण श्यन् पुनः विकल्प्यते ।\n" }, "31072": { "sa": "कर्तरि सार्वधातुके प्रत्यये परे सम्-उपसर्गात् परस्य यस्-धातोः श्यन् विकरणप्रत्ययः विकल्पेन भवति ।", "sd": "यसुँ (प्रयत्ने) अयं दिवादिगणस्य धातुः । सम्-उपसर्गपूर्वकस्य यस्-धातोः <<दिवादिभ्यः श्यन>> [[3.1.69]] इत्यनेन श्यन्-प्रत्यये प्राप्ते वर्तमानसूत्रेण सः विकल्प्यते । यथा - संयसति, संयस्यति ।\nज्ञातव्यम् - अन्यः उपसर्गः अस्ति चेत् श्यन्-प्रत्ययः नित्यमेव भवति । यथा - आयस्यति, प्रयस्यति ।\n" }, "31073": { "sa": "सार्वधातुके कर्तरि प्रत्यये परे स्वादिगणस्य धातोः परः श्नु-प्रत्ययः विधीयते ।", "sd": "किम् नाम सार्वधातुकप्रत्ययः? <<तिङ्शित्सार्वधातुकम्>> [[3.4.113]] इत्यनेन तिङ्-प्रत्ययाः तथा शित्-प्रत्ययाः सार्वधातुकसंज्ञां प्राप्नुवन्ति ।\nकिम् नाम कर्तरिप्रयोगः? <<लः कर्मणि च भावे च अकर्मकेभ्यः>> [[3.4.69]] अनेन सूत्रेण लकारः कर्तारम्, कर्म, तथा भावं निदर्शयितुम् शक्नोति । यत्र लकारः कर्तारम् निदर्शयति, सः कर्तरिप्रयोगः ।\nकर्तरि प्रयोगे सार्वधातुके प्रत्यये परे स्वादिगणस्य धातोः परः 'श्नु' इति गणविकरणम् प्रत्ययरूपेण आगच्छति । अस्मिन् विकरणे शकारस्य <<लशक्वतद्धिते>> [[1.3.8]] इत्यनेन इत्संज्ञा भवति, ततः <<तस्य लोपः>> [[1.3.9]] इत्यनेन तस्य लोपः भवति । अतः केवलम् 'नु' इति अवशिष्यते ।\nयथा -\n1. षुञ् (अभिषवे) -इति स्वादिगणस्य प्रथमः धातुः । अस्य लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् एतादृशम् सिदध्यति -\nसु + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्-लकारः]\n→ सु + तिप् [<<तिप्तस्झि..>> [[3.4.78]] इत्यनेन प्रथमपुरुषैकवचनस्य विवक्षायाम् 'तिप्' प्रत्ययः]\n→ सु + श्नु + ति [सार्वधातुके प्रत्यये परे <<स्वादिभ्यः श्नुः>> [[3.1.73]] इति विकरणप्रत्ययः 'श्नु' ]\n→ सु नो ति [<<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति उकारस्य गुणः ओकारः]\n→ सुनोति ।\n2. आप् (व्याप्तौ) इति स्वादिगणस्य धातुः । तस्य 'शतृ' इति सार्वधातुके प्रत्यये परे -\nआप् + शतृ [<<लटः शतृशानचौ अप्रथमासमानाधिकरणे>>[[3.2.124]] इत्यनेन शतृ-प्रत्ययः]\n→ आप् + श्नु + शतृ [सार्वधातुके प्रत्यये परे <<स्वादिभ्यः श्नुः>> [[3.1.73]] इति विकरणप्रत्ययः 'श्नु' ]\n→ आप् + नु + अत् [इत्संज्ञालोपः]\n→ आप् + न् उवङ् + अत् [<<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> [[6.4.77]] इति उवङ्-आदेशः]\n→ आप् + न् उव् + अत् [इत्संज्ञालोपः]\n→ आप्नुवत् ।\n'श्नु' गणविकरणस्य भिन्नेषु प्रत्ययेषु परेषु किञ्चित् परिवर्तनमपि भवति । यथा -\n1. पित्-प्रत्ययेषु परेषु <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति उकारस्य गुणादेशः ओकारः जायते । यथा - सु + नु + ति → सुनोति । सु + नु + आनि → सु + नो + आनि = सुनवानि ।\n2. अजन्तधातुषु वकारादि-प्रत्यये परे मकारादि प्रत्यये परे च श्नु-इत्यस्य उकारस्य <<लोपश्चास्यान्यतरस्याम् म्वोः>> [[6.4.107]] इत्यनेन वैकल्पिकः लोपः भवति । यथा - सु + नु + वः → सुनुवः, सुन्वः ।\n3. हलन्तधातुषु अजादि-अपित्-प्रत्यये परे <<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> [[6.4.77]] इत्यनेन श्नु-इत्यस्य उवङ्-आदेशः भवति । यथा - आप् + नु + अन्ति → आप्नुवन्ति ।\n4. अजन्तधातुषु अजादि-अपित्-प्रत्यये परे <<हुश्नुवोः सार्वधातुके>> [[6.4.87]] इत्यनेन श्नु-प्रत्ययस्य यणादेशः भवति । यथा - सु + नु + अन्ति → सुन्वन्ति ।\nज्ञातव्यम् - <<कर्तरि शप्>> [[3.1.68]] इत्यनेन सार्वधातुके कर्तरि प्रत्यये परे धातोः परः औत्सर्गिकरूपेण शप्-प्रत्ययः विधीयते । स्वादिगणस्य धातुभ्यः तस्य अपवादरूपेण श्नु-प्रत्ययः भवति ।" }, "31074": { "sa": "सार्वधातुके कर्तरि प्रत्यये परे श्रु-धातोः परः श्नु-प्रत्ययः , तथा श्रु-धातोः शृ-आदेशः विधीयते ।", "sd": "श्रु श्रवणे अयम् भ्वादिगणस्य धातुः । अस्मात् धातोः <<कर्तरि शप्>> [[3.4.68]] इत्यनेन कर्तरि सार्वधातुके प्रत्यये परे औत्सर्गिकरूपेण शप्-प्रत्यये प्राप्ते वर्तमानसूत्रेण तस्य अपवादरूपेण श्नु-प्रत्ययः विधीयते । तथा च, श्रु-धातोः 'शृ' अयमादेशः अपि भवति । (स्मर्तव्यम् - श्रु = श् + र् + उ । शृ = श् + ऋ ) ।\nउदाहरणम् - श्रु-धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रियायाम् -\nश्रु + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्-लकारः]\n→ श्रु + तिप् [<<तिप्तस्झि..>> [[3.4.78]] इत्यनेन प्रथमपुरुषैकवचनस्य विवक्षायाम् 'तिप्' प्रत्ययः]\n→ शृ + श्नु + ति [सार्वधातुके प्रत्यये परे <<श्रुवः शृ च>> [[3.1.74]] इत्यनेन श्नु-प्रत्ययः, तथा श्रु-इत्यस्य शृ-आदेशः ]\n→ शृ नो ति [<<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति उकारस्य गुणः ओकारः]\n→ शृणोति । [ > [[3.4.68]] इत्यनेन कर्तरि सार्वधातुके प्रत्यये परे औत्सर्गिकरूपेण शप्-प्रत्यये प्राप्ते वर्तमानसूत्रेण तस्य अपवादरूपेण विकल्पेन श्नु-प्रत्ययः विधीयते । श्नु-प्रत्ययस्य अभावे पुनः औत्सर्गिकरूपेण शप्-प्रत्ययविधानम् भवति । यथा - अक्ष्णोति, अक्षति ।\n" }, "31076": { "sa": "कर्तरि सार्वधातुके प्रत्यये परे तक्षूँ (तनूकरणे) अस्मात् धातोः श्नु-विकरणप्रत्ययः विकल्पेन भवति ।", "sd": "तक्षूँ (तनूकरणे) इति भ्वादिगणस्य धातुः । अस्मात् धातोः <<कर्तरि शप्>> [[3.1.68]] इत्यनेन कर्तरि सार्वधातुके प्रत्यये परे औत्सर्गिकरूपेण शप्-प्रत्यये प्राप्ते वर्तमानसूत्रेण तस्य अपवादरूपेण विकल्पेन श्नु-प्रत्ययः विधीयते । श्नु-प्रत्ययस्य अभावे पुनः औत्सर्गिकरूपेण शप्-प्रत्ययविधानम् भवति । यथा - तक्ष्णोति, तक्षति ।\nअस्मिन् सूत्रे 'तनूकरणे' इति उक्तमस्ति, अतः भ्वादिगणस्य 'तक्षँ त्वचने' अस्य धातोः अयं विकरणप्रत्ययः न भवति । अतः 'तक्षँ त्वचने' धातोः <<कर्तरि शप्>> [[3.4.68]] इत्यनेन कर्तरि सार्वधातुके प्रत्यये परे औत्सर्गिकरूपेण शप्-प्रत्ययः एव विधीयते । यथा - तक्षति ।" }, "31077": { "sa": "सार्वधातुके कर्तरि प्रत्यये परे तुदादिगणस्य धातोः परः श-प्रत्ययः विधीयते ।", "sd": "किम् नाम सार्वधातुकप्रत्ययः? <<तिङ्शित्सार्वधातुकम्>> [[3.4.113]] इत्यनेन तिङ्-प्रत्ययाः तथा शित्-प्रत्ययाः सार्वधातुकसंज्ञां प्राप्नुवन्ति ।\nकिम् नाम कर्तरिप्रयोगः? <<लः कर्मणि च भावे च अकर्मकेभ्यः>> [[3.4.69]] अनेन सूत्रेण लकारः कर्तारम्, कर्म, तथा भावं निदर्शयितुम् शक्नोति । यत्र लकारः कर्तारम् निदर्शयति, सः कर्तरिप्रयोगः ।\nकर्तरि प्रयोगे सार्वधातुके प्रत्यये परे तुदादिगणस्य धातोः परः 'श' इति गणविकरणम् प्रत्ययरूपेण आगच्छति । अस्मिन् विकरणे शकारस्य <<लशक्वतद्धिते>> [[1.3.8]] इत्यनेन इत्संज्ञा भवति, अग्रे <<तस्य लोपः>> [[1.3.9]] इत्यनेन तस्य लोपः भवति । अतः केवलम् 'अ' इति अवशिष्यते । उदाहरणद्वयम् -\n1. तुदँ (व्यथने) - इति तुदादिगणस्य प्रथमः धातुः । अस्य लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् एतादृशम् सिदध्यति -\nतुद् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्-लकारः]\n→ तुद् + तिप् [<<तिप्तस्झि...>> [[3.4.78]] इत्यनेन प्रथमपुरुषैकवचनस्य विवक्षायाम् 'तिप्' प्रत्ययः]\n→ तुद् + श + ति [सार्वधातुके प्रत्यये परे <<तुदादिभ्यः शः>> [[3.1.77]] इति विकरणप्रत्ययः 'श' ]\n→ तुद् अ ति [इत्संज्ञालोपः]\n→ तुदति\nअत्र प्रक्रियायाम् 'तुद् + तिप्' इत्यत्र वस्तुतः परत्वात् <<पुगन्तलघूपधस्य च>> [[7.3.86]] इत्यनेन उकारस्य गुणादेशः भवितुमर्हति, परन्तु तं बाधित्वा नित्यत्वात् <<तुदादिभ्यः शः>> [[3.1.77]] इत्यनेन विकरणप्रत्ययः 'श' एव विधीयते इति स्मर्तव्यम् । अतएव पदमञ्जर्यामुच्यते - 'तुदतीति स्थिते परत्वात् प्राप्तमपि गुणम् गुणं नित्यः शः बाधते' ।\n2. लिखँ (अक्षरविन्यासे) - इति तुदादिगणस्य धातुः । तस्य 'शतृ' इति सार्वधातुके प्रत्यये परे -\nलिख् + शतृ [<<लटः शतृशानचौ अप्रथमासमानाधिकरणे>> [[3.2.124]] इत्यनेन शतृ-प्रत्ययः]\n→ लिख् + श + शतृ [सार्वधातुके प्रत्यये परे <<तुदादिभ्यः शः>> [[3.1.77]] इति विकरणप्रत्ययः 'श' ]\n→ लिख् + अ + अत् [इत्संज्ञालोपः]\n→ लिखत् [<<अतो गुणे>> [[6.1.97]] इति गुण-एकादेशः अकारः]\nज्ञातव्यम् - <<कर्तरि शप्>> [[3.1.68]] इत्यनेन सार्वधातुके कर्तरि प्रत्यये परे धातोः परः औत्सर्गिकरूपेण शप्-प्रत्ययः विधीयते । तुदादिगणस्य धातुभ्यः तस्य अपवादरूपेण श-प्रत्ययः भवति ।\nविशेषः -\nभ्वादिगणस्य विकरणप्रत्ययस्य दृश्यस्वरूपमपि 'अ' एव । तर्हि तुदादिगणस्य भ्वादिगणस्य च विकरणप्रत्ययोर्मध्ये को भेदः? भ्वादिगणस्य विकरणप्रत्ययः 'शप्' इति पित् अस्ति , तथा तुदादिगणस्य विकरणप्रत्ययः 'श' इति अपित् अस्ति । अपित्-त्वात् <<सार्वधातुकमपित्>> [[1.2.4]] इत्यनेन अयं प्रत्ययः ङित्वत् भवति । ङित्वत्-भावस्य प्रामुख्येन त्रीणि कार्याणि सन्ति यानि तुदादिगणस्य धातुषु दृश्यन्ते । तानि एतादृशानि -\n1. गुणवृद्धीनिषेधः - ङित्-प्रत्यये परे <<क्ङिति च>> [[1.1.5]] इत्यनेन अङ्गस्य गुणः वृद्धिः वा निषिध्यते । अतः 'लिख् + श + ति' इत्यत्र <<पुगन्तलघूपधस्य च>> इत्यनेन गुणः भवितुम् न अर्हति ।\n2. सम्प्रसारणम् - ङित् प्रत्यये परे तुदादिगणस्य केषुचन धातुषु सम्प्रसारणम् भवति । यथा - 'प्रच्छ् + श + ति' इत्यत्र पकारात् परस्य रेफस्य सम्प्रसारणे ऋकारादेशः भवति, अतः 'पृच्छति' इति रूपं सिद्ध्यति ।\n3. अनिदित्-धातुषु उपधा-नकारलोपः - ङित्-प्रत्यये परे अनिदित्-धातुषु <<अनिदितां हलः उपधायाः क्ङिति>> [[6.4.24]] इत्यनेन उपधानकारस्य लोपः भवति । यथा - 'तृन्फँ तृप्तौ' अयं धातुः अनिदित् अस्ति (अस्मिन् धातौ नकारः औपदेशिक-अवस्थायाम् एव अस्ति) । अतः श-प्रत्यये परे अस्य धातोः नकारलोपः भवति । सम्पूर्णा प्रक्रिया इयम् -\nतृन्फ् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्-लकारः]\n→ तृन्फ् + तिप् [<<तिप्तस्झि...>> [[3.4.78]] इत्यनेन प्रथमपुरुषैकवचनस्य विवक्षायाम् 'तिप्' प्रत्ययः]\n→ तृन्फ् + श + ति [सार्वधातुके प्रत्यये परे <<तुदादिभ्यः शः>> [[3.1.77]] इति विकरणप्रत्ययः 'श' ]\n→ तृफ् + अ + ति [<<अनिदितां हलः उपधायाः क्ङिति>> [[6.4.24]] इत्यनेन उपधानकारस्य लोपः]\n→ तृन् फ् + अ + ति [<<शे मुचादीनाम्>> [[7.1.59]] इत्यनेन नुमागमः ]\n→ तृंफति [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति अनुस्वारः]\n→ तृम्फति [<<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति परसवर्णः मकारः]\nभ्वादिगण-तुदादिगणयोः विकरणयोर्मध्ये अन्यः अपि एकः विशेषः अस्ति । भ्वादिगणस्य विकरणप्रत्ययः 'शप्' इत्यस्य अकारः <<अनुदात्तौ सुप्पितौ>> [[3.1.4]] इत्यनेन अनुदात्तसंज्ञकः अस्ति, तथा तुदादिगणस्य विकरणप्रत्ययः 'श' इत्यस्य अकारः <<आद्युदात्तश्च>> [[3.1.3]] इत्यनेन उदात्तसंज्ञकः अस्ति । " }, "31078": { "sa": "सार्वधातुके कर्तरि प्रत्यये परे रुधादिगणस्य धातोः परः श्नम्-प्रत्ययः विधीयते ।", "sd": "किम् नाम सार्वधातुकप्रत्ययः? <<तिङ्शित्सार्वधातुकम्>> [[3.4.113]] इत्यनेन तिङ्-प्रत्ययाः तथा शित्-प्रत्ययाः सार्वधातुकसंज्ञां प्राप्नुवन्ति ।\nकिम् नाम कर्तरिप्रयोगः? <<लः कर्मणि च भावे च अकर्मकेभ्यः>> [[3.4.69]] अनेन सूत्रेण लकारः कर्तारम्, कर्म, तथा भावं निदर्शयितुम् शक्नोति । यत्र लकारः कर्तारम् निदर्शयति, सः कर्तरिप्रयोगः ।\nकर्तरि प्रयोगे सार्वधातुके प्रत्यये परे रुधादिगणस्य धातुभ्यः 'श्नम्' इति गणविकरणम् प्रत्ययरूपेण आगच्छति । अस्मिन् विकरणे मकारस्य <<हलन्त्यम्>> [[1.3.3]] इत्यनेन तथा शकारस्य <<लशक्वतद्धिते>> [[1.3.8]] इत्यनेन इत्संज्ञा भवति, अग्रे <<तस्य लोपः>> [[1.3.9]] इत्यनेन तयोः लोपः भवति । अतः केवलम् 'न् ' इति अवशिष्यते ।\nइदम् गणविकरणम् 'मित्' अस्ति, अतः <<मिदचोऽन्त्यात्परः>> [[1.1.47]] इत्यनेन धातोः अन्तिम-स्वरात् अनन्तरमागच्छति । यथा -\n1. रुधिँर् (आवरणे) इति रुधादिगणस्य प्रथमः धातुः । अस्य लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् एतादृशम् सिदध्यति -\nरुधिँर् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्-लकारः]\n→ रुध् + तिप् [<<तिप्तस्झि...>> [[3.4.78]] इत्यनेन प्रथमपुरुषैकवचनस्य विवक्षायाम् 'तिप्' प्रत्ययः]\n→ रु श्नम् ध् + ति [सार्वधातुके प्रत्यये परे <<रुधादिभ्यः श्नम्>>[[3.1.78]] इति विकरणप्रत्ययः 'श्नम्' । अयम् प्रत्ययः धातोः अन्तिमवर्णात् पूर्वमागच्छति ।]\n→ रु न ध् धि [<<झषस्तथोर्धोऽधः>> [[8.2.40]] इति तकारस्य धकारः]\n→ रुणध्धि [<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इति णत्वम्]\n → रुणद्धि [<<झलां जश् झशि>> [[8.4.53]] इति जश्त्वम्]\n→ रुणद्धि\n2. छिदिँर् (द्वैधिकरणे) इति रुधादिगणस्य धातुः । अस्य शानच्-प्रत्यये परे प्रकिया इयम् -\nछिद् + शानच् [<<लटः शतृशानचौ अप्रथमासमानाधिकरणे>> [[3.2.124]] इत्यनेन शानच्-प्रत्ययः]\n→ छि श्नम् द् आन [सार्वधातुके प्रत्यये परे <<रुधादिभ्यः श्नम्>>[[3.1.78]] इति विकरणप्रत्ययः 'श्नम्' । अयम् प्रत्ययः धातोः अन्तिमवर्णात् पूर्वमागच्छति ।]\n→ छि न् द् आन [<<श्नसोरल्लोपः>> [[6.4.111]] इति सार्वधातुके ङित्-प्रत्यये परे नकारात्-परस्य अकारस्य लोपः]\n→ छिन्दान\nज्ञातव्यम् -\n1. श्नम्-गणविकरणस्य अकारस्य ङित्-सार्वधातुके प्रत्यये परे <<श्नसोरल्लोपः>> [[6.4.111]] इत्यनेन लोपः भवति । यथा - छिद् + श्नम् + अन्ति → छि न् द् अन्ति = छिन्दन्ति ।\n2. <<कर्तरि शप्>> [[3.1.68]] इत्यनेन सार्वधातुके कर्तरि प्रत्यये परे धातोः परः औत्सर्गिकरूपेण शप्-प्रत्ययः विधीयते । रुधादिगणस्य धातुभ्यः तस्य अपवादरूपेण श्नम्-प्रत्ययः भवति ।\n" }, "31079": { "sa": "सार्वधातुके कर्तरि प्रत्यये परे तनादिगणस्य धातोः परः उ-प्रत्ययः विधीयते ।", "sd": "किम् नाम सार्वधातुकप्रत्ययः? <<तिङ्शित्सार्वधातुकम्>> [[3.4.113]] इत्यनेन तिङ्-प्रत्ययाः तथा शित्-प्रत्ययाः सार्वधातुकसंज्ञां प्राप्नुवन्ति ।\nकिम् नाम कर्तरिप्रयोगः? <<लः कर्मणि च भावे च अकर्मकेभ्यः>> [[3.4.69]] अनेन सूत्रेण लकारः कर्तारम्, कर्म, तथा भावं निदर्शयितुम् शक्नोति । यत्र लकारः कर्तारम् निदर्शयति, सः कर्तरिप्रयोगः ।\nकर्तरि प्रयोगे सार्वधातुके प्रत्यये परे तनादिगणस्य धातुभ्यः 'उ' इति गणविकरणम् प्रत्ययरूपेण आगच्छति । यथा -\n1) तनादिगणस्य प्रथमः धातुः तनुँ (विस्तारे) । अस्य लट्लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -\nतन् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्-लकारः]\n→ तन् + तिप् [<<तिप्तस्झि...>> [[3.4.78]] इत्यनेन प्रथमपुरुषैकवचनस्य विवक्षायाम् 'तिप्' प्रत्ययः]\n→ तन् उ ति [सार्वधातुके प्रत्यये परे <<तनादिकृञ्भ्यः उः>> [[3.1.79]] इति विकरणप्रत्ययः 'उ' ]\n→ त नो ति [<<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणः]\n2) डुकृञ् (करणे) -अयम् तनादिगणस्य धातुः । अस्मात् शतृ-प्रत्यये परे प्रक्रिया इयम् -\nकृ + शतृ [<<लटः शतृशानचौ अप्रथमासमानाधिकरणे>> [[3.2.124]] इत्यनेन शतृ-प्रत्ययः ।]\n→ कृ + उ + अत् [सार्वधातुके प्रत्यये परे <<तनादिकृञ्भ्यः उः>> [[3.1.79]] इति विकरणप्रत्ययः 'उ' ]\n→ कर् + उ + अत् [<<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणः]\n→ कुर् उ अत् [<<अत उत् सार्वधातुके>> [[6.4.100]] इति अकारस्य उकारः]\n→ कुर्वत् [<<इको यणचि>> इत्यनेन यणादेशः]\n'उ' गणविकरणस्य भिन्नेषु प्रत्ययेषु परेषु किञ्चित् परिवर्तनमपि भवति । यथा -\n1. पित्-प्रत्ययेषु परेषु <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति उकारस्य गुणादेशः ओकारः जायते । यथा - तन् + उ + ति → तनोति । तन् + उ + आनि → तन् + ओ + आनि = तनवानि ।\n2. वकारादि-प्रत्यये परे मकारादि प्रत्यये परे च उ-इत्यस्य उकारस्य <<लोपश्चास्यान्यतरस्याम् म्वोः>> [[6.4.107]] इत्यनेन वैकल्पिकः लोपः भवति । यथा - तन् + उ + वः → तन्वः, तनुवः ।\nज्ञातव्यम् - <<कर्तरि शप्>> [[3.1.68]] इत्यनेन सार्वधातुके कर्तरि प्रत्यये परे धातोः परः औत्सर्गिकरूपेण शप्-प्रत्ययः विधीयते । तनादिगणस्य धातुभ्यः अस्य अपवादरूपेण उ-प्रत्ययः भवति ।\nविशेषः - यद्यपि कृ-धातुः तनादिगणे एव अस्ति, तथापि अस्मिन् सूत्रे कृ-धातोः विशेषरूपेण ग्रहणम् कृतमस्ति । महाभाष्ये अस्मिन् विषये भाष्यकारः वदति - 'तनादित्वात् कृञः सिद्धम्' - इत्युक्ते - 'तनादि'ग्रहणेन कृ-ग्रहणम् भवत्येव, अस्य पुनः आवश्यकता नास्ति - इति । परन्तु सिद्धान्तकौमुद्याम् दीक्षितः 'गणकार्यस्य अनित्यत्वम् कृ-धातोः विषये मा भूत्' एतत् स्पष्टीकर्तुमत्र कृ-ग्रहणम् कृतमस्ति - इति वदति । " }, "31080": { "sa": "कर्तरि सार्वधातुके प्रत्यये परे धिन्व्-धातोः कृण्व्-धातोः उ-प्रत्ययः भवति, अङ्गस्य च अकारादेशः भवति ।", "sd": "धिविँ (प्रीणने) तथा कृविँ (गतौ / हिंसाकरणयोः ) एतौ धातू मूलरूपेण भ्वादिगणस्य धातू स्तः । अतः <<कर्तरि शप्>> [[3.4.68]] इत्यनेन एताभ्याम् कर्तरि सार्वधातुके प्रत्यये शप्-प्रत्यये प्राप्ते वर्तमानसूत्रेण अपवादत्वेन 'उ'प्रत्ययः भवति । तथा च, अस्मिन् प्रत्यये परे एतयोः धात्वोः अन्तिमवर्णस्य अकारादेशः अपि विधीयते । यथा -\nधिविँ\n→ धिन्व् [<<इदितो नुम्-धातोः>> [[7.1.58]] इति नुमागमः]\n→ धिन्व् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्-लकारः]\n→ धिन्व् + तिप् [<<तिप्तस्झि..>> [[3.4.78]] इत्यनेन प्रथमपुरुषैकवचनस्य विवक्षायाम् 'तिप्' प्रत्ययः]\n→ धिन् अ + उ + ति [<<धिन्विकृण्व्योर च>> [[3.1.80]] इत्यनेन विकरणप्रत्ययः 'उ' । तथा अङ्गस्य अकारादेशः ।]\n→ धिन् उ ति [<<अतो लोपः>> [[6.4.48]] इत्यनेन आर्द्धधातुके प्रत्यये परे अदन्तस्य अङ्गस्य अकारस्य लोपः ।]\n→ धिनोति [<<सार्वधातुकार्द्धधातुकयोः>> [[7.3.84]] इति गुणः]\nतथैव 'कृणोति' एतत् रूपमपि सिद्ध्यति ।" }, "31081": { "sa": "सार्वधातुके कर्तरि प्रत्यये परे क्र्यादिगणस्य धातोः परः श्ना-प्रत्ययः विधीयते ।", "sd": "किम् नाम सार्वधातुकप्रत्ययः? <<तिङ्शित्सार्वधातुकम्>> [[3.4.113]] इत्यनेन तिङ्-प्रत्ययाः तथा शित्-प्रत्ययाः सार्वधातुकसंज्ञां प्राप्नुवन्ति ।\nकिम् नाम कर्तरिप्रयोगः? <<लः कर्मणि च भावे च अकर्मकेभ्यः>> [[3.4.69]] अनेन सूत्रेण लकारः कर्तारम्, कर्म, तथा भावं निदर्शयितुम् शक्नोति । यत्र लकारः कर्तारम् निदर्शयति, सः कर्तरिप्रयोगः ।\nकर्तरि प्रयोगे सार्वधातुके प्रत्यये परे क्र्यादिगणस्य धातोः परः 'श्ना' इति गणविकरणम् प्रत्ययरूपेण आगच्छति । अस्मिन् विकरणे शकारस्य <<लशक्वतद्धिते>> [[1.3.8]] इत्यनेन इत्संज्ञा भवति, ततः <<तस्य लोपः>> [[1.3.9]] इत्यनेन तस्य लोपः भवति । अतः केवलम् 'ना' इति अवशिष्यते । यथा -\n1) डुक्रीञ् (द्रव्यविनिमये) इति क्र्यादिगणस्य प्रथमः धातुः । अस्य लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् एतादृशम् सिदध्यति -\nक्री + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्-लकारः]\n→ क्री + तिप् [<<तिप्तस्झि..>> [[3.4.78]] इत्यनेन प्रथमपुरुषैकवचनस्य विवक्षायाम् 'तिप्' प्रत्ययः]\n→ क्री + श्ना + ति [सार्वधातुके प्रत्यये परे <<क्र्यादिभ्यः श्ना>> [[3.1.73]] इति विकरणप्रत्ययः 'श्ना' ]\n→ क्रीणाति [<<अट्कुप्वाङ्नुम्व्ययायेऽपि>> [[8.4.2]] इत्यनेन णत्वम् ।]\n2) ज्ञा (अवबोधने) इति क्र्यादिगणस्य धातुः । तस्य 'शतृ' इति सार्वधातुके प्रत्यये परे -\nज्ञा + शतृ [<<लटः शतृशानचौ अप्रथमासमानाधिकरणे>> [[3.2.124]] इत्यनेन शतृ-प्रत्ययः]\n→ ज्ञा + श्ना + शतृ [सार्वधातुके प्रत्यये परे <<क्र्यादिभ्यः श्ना>> [[3.1.73]] इति विकरणप्रत्ययः 'श्ना']\n→ ज्ञा + ना + अत् [इत्संज्ञालोपः]\n→ जा + ना + अत् [<<ज्ञाजनोर्जा>> [[7.3.79]] इति अङ्गस्य जा-आदेशः]\n→ जा+ न् + अत् [<<श्नाभ्यस्तयोरातः>> [[6.4.112]] इति श्ना-इत्यस्य आकारस्य लोपः]\n→ जानत्\n'श्ना' गणविकरणस्य भिन्नेषु प्रत्ययेषु परेषु किञ्चित् परिवर्तनमपि भवति । यथा -\n1. अजादि-अपित् प्रत्यये परे <<श्नाभ्यस्तयोरातः>> [[6.4.112]] इत्यनेन 'श्ना' इत्यस्य आकारस्य लोपः भवति । यथा - क्री + श्ना + अन्ति → क्री न् अन्ति → क्रीणन्ति ।\n2. हलादि-अपित्-प्रत्यये परे <<ई हल्यघोः>> [[6.4.113]] इत्यनेन 'श्ना' इत्यस्य आकारस्य ईकारादेशः भवति । यथा - क्री + श्ना + तः → क्री + नी + तः → क्रीणीतः ।\nज्ञातव्यम् - <<कर्तरि शप्>> [[3.1.68]] इत्यनेन सार्वधातुके कर्तरि प्रत्यये परे धातोः परः औत्सर्गिकरूपेण शप्-प्रत्ययः विधीयते । क्र्यादिगणस्य धातुभ्यः तस्य अपवादरूपेण श्ना-प्रत्ययः भवति ।" }, "31082": { "sa": "सार्वधातुके कर्तरि प्रत्यये परे स्तम्भ्, स्तुम्भ्, स्कम्भ्, स्कुम्भ्, स्कुञ् - एतेभ्यः श्ना तथा श्नु प्रत्ययौ भवतः ।", "sd": "स्तन्भ्, स्तुन्भ्, स्कन्भ्, स्कुन्भ् - एते चत्वारः धातवः 'रोधने' अस्मिन् अर्थे पाठिताः सन्ति । एते धातवः 'सौत्राः' सन्ति - इत्युक्ते, धातुपाठे एतेषां निर्देशः नास्ति, केवलं सूत्रैः एव एतेषां निर्देशः क्रियते । स्कुञ्-इति धातुः क्र्यादिगणस्यैव धातुः अस्ति । एतेभ्यः पञ्च धातुभ्यः श्ना-प्रत्ययः अपि भवितुमर्हति, श्नु-प्रत्ययः अपि भवितुमर्हति ।\nयद्यपि सूत्रे स्तम्भ् / स्तुम्भ् /स्कम्भ् / स्कुम्भ् इत्यत्र मकारः दत्तः अस्ति, तथापि औपदेशिकावस्थायामत्र नकारः एव स्वीक्रियते एतत् स्मर्तव्यम् ।\nयथा - स्तन्भ् + श्ना + ति → स्तभ्नाति । स्तन्भ् + श्नु + ति → स्तभ्नोति । उभयत्र <<अनिदितां हलः उपधायां क्ङिति>> [[6.4.24]] इत्यनेन धातोः उपधानकारस्य लोपः भवति । " }, "31083": { "sa": "हलन्तात् परस्य श्ना-प्रत्ययस्य हि-प्रत्यये परे शानच्-आदेशः भवति । ", "sd": "परस्मैपदस्य मध्यमपुरुषैकवचनस्य 'सि' प्रत्ययस्य लोट्लकारस्य विषये <<सेर्ह्यपिच्च>> [[3.4.87]] इत्यनेन हि-आदेशः भवति । अस्मिन् हि-प्रत्यये परे हलन्तात् परस्य श्ना-प्रत्ययस्य शानच्-आदेशः भवति । यथा, मुष् (स्तेये) इति क्र्यादिगणस्य धातुः । अस्य लोट्लकारस्य मध्यमपुरुषैकवचनस्य रूपम् एतादृशम् सिद्ध्यति -\nमुष् + लोट् [<<लोट् च>> [[3.3.162]] इत्यनेन लोट्-लकारः]\n→ मुष् + सिप् [<<तिप्तस्झि..>> [[3.4.78]] इत्यनेन मध्यमपुरुषैकवचनस्य विवक्षायाम् 'सिप्' प्रत्ययः]\n→ मुष् + श्ना + सिप् [सार्वधातुके प्रत्यये परे <<क्र्यादिभ्यः श्ना>> [[3.1.73]] इति विकरणप्रत्ययः 'श्ना']\n→ मुष् + श्ना + हि [<<सेर्ह्यपिच्च>> [[3.4.87]] इत्यनेन सि-प्रत्ययस्य हि-आदेशः]\n→ मुष् + शानच् + हि [<<हलः श्नः शानज्झौ>> [[3.1.83]] इति श्ना-प्रत्ययस्य शानच्-आदेशः]\n→ मुष् + आन + हि [इत्संज्ञालोपः]\n→ मुष् + आन [<<अतो हेः>> [[6.4.105]] इति अदन्तात् परस्य हि-प्रत्ययस्य लोपः]\n→ मुषाण [<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इति णत्वम्]\nज्ञातव्यम् - <<स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः श्नुश्च>> [[3.1.82]] इत्यनेन पाठितानाम् सौत्रधातूनाम् विषये अपि अस्य सूत्रस्य प्रसक्तिः अस्ति । यथा - 'स्तन्भ्' धातोः लोट्-लकारस्य मध्यमपुरुषैकवचनम् 'स्तभान' इति भवति । अत्रापि प्रक्रिया उपरिनिर्दिष्टसमाना एव । " }, "31084": { "sa": "वेदानां विषये - श्ना-प्रत्ययस्य हि-प्रत्यये परे शानच् तथा शायच् उभौ अपि आदेशौ भवतः ।", "sd": "<<हलः श्नः शानज्झौ>> [[3.1.83]] इत्यनेन हलन्तात् परस्य श्ना-प्रत्ययस्य हि-प्रत्यये परे शानच्-आदेशः भवति । वेदानाम् विषये शानच्-इत्यस्य स्थाने 'शायच्' आदेशः अपि अनेन सूत्रेण विधीयते । (अस्मिन् सूत्रे 'हलः' इति न अनुवर्तते, अतः अयमादेशः सर्वेभ्यः धातुभ्यः भवितुमर्हति ।)\nयथा - 'गृभाय जिह्वया मधु' (ऋग्वेदः 8.17.5) - अत्र 'गृभाय' एतत् रूपम् ग्रह्-धातोः लोट् -लकारस्य मध्यमपुरुषैकवचनस्य अस्ति । अस्य प्रक्रिया इयम् -\nग्रह् + लोट् [<<लोट् च>> [[3.3.162]] इत्यनेन लोट्-लकारः]\n→ ग्रह् + सिप् [<<तिप्तस्झि..>> [[3.4.78]] इत्यनेन मध्यमपुरुषैकवचनस्य विवक्षायाम् 'सिप्' प्रत्ययः]\n→ ग्रह् + श्ना + सिप् [सार्वधातुके प्रत्यये परे <<क्र्यादिभ्यः श्ना>> [[3.1.73]] इति विकरणप्रत्ययः 'श्ना']\n→ ग्रह् + श्ना + हि [<<सेर्ह्यपिच्च>> [[3.4.87]] इत्यनेन सि-प्रत्ययस्य हि-आदेशः]\n→ ग्रह् + शायच् + हि [<<छन्दसि शायजपि>> [[3.1.84]] इति श्ना-प्रत्ययस्य वेदानां विषये शायच्-आदेशः]\n→ ग्रह् + आय + हि [इत्संज्ञालोपः]\n→ गृ अह् + आय + हि [<<ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च>> [[6.1.16]] इति रेफस्य सम्प्रसारणम् ऋकारः]\n→ गृह् + आय + हि <<सम्प्रसारणाच्च>> [[6.1.108]] इति ऋकार-अकारयोः पूर्वरूप-एकादेशः ऋकारः ।]\n→ गृह् + आय [<<अतो हेः>> [[6.4.105]] इति अदन्तात् परस्य हि-प्रत्ययस्य लोपः]\n→ गृभ् + आय [ अनेन वार्त्तिकेन हकारस्य भकारः]\n→ गृभाय ।\nवेदेषु शानच्-आदेशे कृते अपि रूपाणि दृश्यते । यथा - बधान देव सवितः (शतपथब्राह्मणम् 1.2.4.16) । अत्र 'बधान' इति रूपम् लौकिकसंस्कृतवत् एव शानच्-आदेशे कृते सिद्ध्यति ।\nअत्र एकम् वार्तिकमपि ज्ञातव्यम् - । इत्युक्ते, वेदेषु हि-प्रत्यये परे अपि शायच्-आदेशः भवितुमर्हति, अन्येषु प्रत्ययेषु परेषु अपि शायच्-आदेशः भवितुमर्हति । यथा - 'मही क्षेमं रोदसी अस्कभायत्' (अथर्ववेदः 4.1.3) - अत्र स्कम्भ् धातोः लङ्लकारस्य प्रथमपुरुषैकवचनस्य रूपे अपि 'शायच्' आदेशः कृतः दृश्यते ।" }, "31085": { "sa": "वेदानां विषये - गणविकरणस्य प्रयोगे बहुलं व्यत्ययः भवति । ", "sd": "व्यत्ययः इत्युक्यते व्यतिहारः / विषयान्तरे विधानम् । वेदानां विषये अत्र प्रोक्ताः गणविकरणप्रत्ययाः भिन्नरूपेण भवितुमर्हन्ति - इति अस्य सूत्रस्य अर्थः । भिन्नरूपेण इत्युक्ते किम्? केषुचन स्थलेषु अन्यगणस्य विकरणम् प्रयुक्तं दृश्यते, केषुचन स्थलेषु द्वौ विकरणप्रत्ययौ प्रयुज्येते, केषुचन स्थलेषु च त्रयः विकरणप्रत्ययाः प्रयुज्यन्ते - आदयः ।\nयथा - 'आण्डा शुष्कस्य भेदति' (ऋग्वेदः 8.40.11) - अत्र भिद्-इति रुधादिगणस्य धातोः शप्-विकरणम् कृतमस्ति ।\nअस्य सूत्रस्य विषये महाभाष्ये आचार्यः वदति - अत्र 'व्यत्ययः' शब्दस्य योगविभागः करणीयः (इत्युक्ते 'व्यत्ययः' इति एकशब्दस्य एकम् नूतनं सूत्रम् करणीयम् । अनेन वेदानां विषये अन्येषां प्रत्ययानाम् - यथा सुप्/तिङ्/लकार - आदीनामपि व्यत्ययः (= विषयान्तरे विधानम्) भवितुं शक्यते इति अर्थः जायते । एतत् स्पष्टीकर्तुमाचार्यः एकाम् कारिकामपि वदति -\nसुप्-तिङ्-उपग्रह-लिङ्ग-नराणाम् काल-हल्-अच्-स्वर-कर्तृ-यङाम् च ।\nव्यत्ययम् इच्छति शास्त्रकृत् एषाम् सोऽपि च सिद्ध्यति बाहुलकेन ।\nसुप्-तिङ्-वर्ण-लिङ्-काल-पुरुष-पदनिर्णय-आदीनाम् सर्वेषां विषये वेदेषु व्यत्ययं द्रष्टुम् शक्यते इत्याशयः ।\nज्ञातव्यम् -\nव्याकरणशास्त्रे 'बहुलम्' इत्यस्य व्याख्या अनया कारिकया दीयते -\nक्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव ।\nविधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति ॥\nइत्युक्ते, यादृशस्य सूत्रस्य 'बहुलम्' इत्यनेन विधानं कृतमस्ति, तादृशस्य सूत्रस्य केषुचन स्थलेषु सूत्रस्य प्रवृत्तिः दृश्यते, केषुचन स्थलेषु न दृश्यते, केषुचन स्थलेषु विकल्पेन दृश्यते, केषुचन स्थलेषु भिन्नप्रकारेण अपि दृश्यते - इत्यर्थः ।\n" }, "31086": { "sa": "वेदानाम् विषये - आशीर्लिङ्गलकारस्य सार्वधातुकेषु रूपेषु शप्-विकरणस्य अपवादरूपेण अङ्-प्रत्ययः अपि दृश्यते ।", "sd": "वस्तुतः आशीर्लिङ्-लकारस्य आदेशभूताः तिङ्-प्रत्ययाः <<लिङाशिषि>> [[3.4.116]] इत्यनेन आर्धधातुकसंज्ञकाः सन्ति । परन्तु वेदानां विषये <<छन्दस्युभयथा>> [[3.4.117]] इत्यनेन ते सार्वधातुकाः अपि भवितुमर्हन्ति । अस्यामवस्थायाम् <<कर्तरि शप्>> [[3.1.68]] इत्यनेन शप्-विकरणे प्राप्ते वेदेषु तस्य अपवादरूपेण 'अङ्'इति प्रत्ययः अपि आगच्छति । स्था, गा, गम्, वच्, विद्, शक्, रुह् - एतेषां षधातुनाम् विषये अयं प्रत्ययः प्रयुक्तः दृश्यते ।\nयथा -\n1. वृषभस्य रेतिनो गृहं गमेमाश्विना तदुश्मसि (ऋग्वेदः 10.40.11) - अत्र प्रयुक्तः 'गमेम' शब्दः 'गम् + अङ् + इम' अनेन प्रकारेण निर्मितः अस्ति ।\n2. मन्त्रम् वोचेम आग्नये (ऋग्वेदः 10.74.1) - अत्र प्रयुक्तः 'वोचेम' अयं शब्दः 'वच् + अङ् + इम' अनेन प्रकारेण निर्मितः अस्ति ।\nअत्र एकम् वार्त्तिकमस्ति - । दृश्-धातोः वेदेषु आशीर्लिङ्लकारस्य सार्वधातुके प्रत्यये परे अक्-विकरणप्रत्ययः भवति इत्यर्थः । कित्वात् <<क्ङिति च>> [[1.1.5]] इति गुणनिषेधः विधीयते । यथा - 'दृशेयं मातरं च' (ऋग्वेदः 1.24.1) - अत्र 'दृशेयम्' एतत् रूपम् 'दृश् + अक् + इयम्' इति निर्मितमस्ति ।" }, "31087": { "sa": "", "sd": "" }, "31088": { "sa": "", "sd": "" }, "31089": { "sa": "", "sd": "" }, "31090": { "sa": "", "sd": "" }, "31091": { "sa": "अस्मात् सूत्रात् आरभ्य तृतीयाध्यायस्य समाप्तिपर्यन्तम् ये प्रत्ययाः वक्ष्यन्ते ते धातोः भवेयुः ।", "sd": "तृतीयाध्यायस्य द्वितीयः धात्वधिकारः अस्मात् सूत्रात् प्रारभते । अस्य व्याप्तिः अस्मात् सूत्रात् आरभ्य तृतीयाध्यायस्य अन्तिमसूत्रपर्यन्तम् अस्ति  । एतेषु सर्वेषु सूत्रेषु पाठिताः प्रत्ययाः धातुभ्यः (एव) भवन्ति, प्रातिपदिकेभ्यः न, इति अस्य अधिकारस्य आशयः ।\nउदाहरणम् - <<तव्यत्तव्यानीयरः>> [[3.1.96]] अनेन सूत्रेण उक्ताः तव्यत्, तव्य, अनीयर् एते प्रत्ययाः  धातुभ्यः एव भवन्ति, प्रातिपदिकेभ्यः न ।\n ज्ञातव्यम् -\n१. अस्मिन् धात्वधिकारे 'कृत्-प्रत्ययाः', 'तिङ्-प्रत्ययाः' तथा च 'तिङ्-प्रत्ययानां स्थाने जायमानाः आदेशाः' पाठिताः सन्ति । तदित्थम् -\n(अ) कृत्-प्रत्ययाः - <<कृदतिङ्>> [[3.1.93]] इत्यस्मात् <<क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः>> [[3.4.76]]\nआ) तिङ्-प्रत्ययाः - <<तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्>> [[3.4.78]]\nइ) तिङादेशाः - <<टित आत्मनेपदानां टेरे>> [[3.4.79]] तः <<द्विषश्च>> [[3.4.112]]\n२. अस्मिन् अधिकारे पाठिताः सर्वे प्रत्ययाः सर्वेभ्यः धातुभ्यः न विधीयन्ते ।\n३. अस्मिन् अधिकारे चतस्रः संज्ञाः अपि पाठिताः सन्ति -\nअ) उपपदसंज्ञा - <<तत्रोपपदं सप्तमीस्थम्>> [[3.1.92]]\nआ) कृत्संज्ञा - <<कृदतिङ्>> [[3.1.93]]\nआ) सार्वधातुकसंज्ञा - <<तिङ्शित्सार्वधातुकम्>> [[3.4.113]]\nइ) आर्धधातुकसंज्ञा - <<आर्धधातुकं शेषः>> [[3.4.114]] इत्यतः <<लिङाशिषि>> [[3.4.116]]\nशास्त्रविषयाः -\n१. भाष्यकारः अस्य अधिकारस्य विषये  - 'अस्य धात्वधिकारस्य व्याप्तिः कियत्पर्यन्तम् अस्ति - तृतीयाध्यायस्य अन्तपर्यन्तम्, उत <<लस्य>> [[3.4.77]] इति सूत्रपर्यन्तम्' - इति प्रश्नं पृष्ट्वा 'अस्य धात्वधिकारस्य व्याप्तिः तृतीयाध्यायस्य अन्तपर्यन्तम् एव भवेत्, यतः <<आर्धधातुकं शेषः>> [[3.4.114]] इत्यत्र 'धातोः' इति पदम् आवश्यकम् अस्ति' इति निर्णयं ददाति । अस्मिन् सन्दर्भे अस्मिन् video मध्ये विस्तारेण पाठितम् अस्ति  ।\n२. तृतीयाध्याये द्वौ धात्वधिकारौ स्तः । प्रथमः धात्वधिकारः  <<धातोरेकाचो हलादेः क्रियासमभिहारे यङ्>> [[3.1.22]] इत्यस्मात् सूत्रात् आरभ्य <<कृषिरजोः प्राचां श्यन् परस्मैपदं च>> [[3.1.90]] इति सूत्रपर्यन्तं गच्छति । तस्मात् अनन्तरम् विद्यमानेन <<धातोः>> [[3.1.91]] इत्यनेन सूत्रेण द्वितीयः धात्वधिकारः प्रारभते । अनेन प्रकारेण तृतीयाध्याये विद्यमानौ द्वावपि धात्वधिकारौ क्रमशः एव (विना अन्तरम्) पाठितौ स्तः । अतः अत्र प्रश्नः उदेति - किमर्थम् द्वौ भिन्नौ धात्वधिकारौ ? एकः एव धात्वधिकारः <<धातोरेकाचो हलादेः क्रियासमभिहारे यङ्>> [[3.1.22]]  इत्यस्मात् आरभ्य तृतीयाध्यायस्य समाप्तिपर्यन्तं स्वीक्रियते चेत् को दोषः ? इति । भाष्ये अस्य प्रश्नस्य  भिन्नानि उत्तराणि दत्त्वा प्रत्येकम् उत्तरस्य सम्पूर्णरूपेण खण्डनं कृत्वा अन्ते 'अयं पृथक् (द्वितीयः) धात्वधिकारः अनावश्यकः' इत्येव  सिद्धान्तः  प्रतिपादितः अस्ति । अस्मिन् विषये भाष्यकारः पूर्वोत्तरपक्षेषु किं ब्रूते तत् संक्षेपेण अधः दीयते । अधिकं पिपठिषवस्तु भाष्यमेव पश्येयुः ।\n(अ)  पूर्वपक्षः -  <<तत्रोपपदं सप्तमीस्थम्>> [[3.1.92]] अस्मिन् सूत्रे 'तत्र' इत्युक्ते 'अस्मिन् द्वितीये धात्वधिकारे' इति अर्थं स्वीकृत्य 'अस्मिन् द्वितीये  धात्वधिकारे यत् सप्तमीनिर्दिष्टम् तद्वाचकं पदम् उपपदसंज्ञकं भवति' इति सूत्रार्थः सिद्ध्यति । अस्यां स्थितौ यदि द्वयोः धात्वधिकारयोः मेलनं कृत्वा एकः एव बृहत् धात्वधिकारः क्रियते, तर्हि 'तत्र' इत्यस्य अर्थः 'अस्मिन् बृहति धात्वधिकारे' इति भवेत्, येन अन्येषु सूत्रेषु विद्यमानानां सप्तमीस्थपदानां विषये अपि उपपदसंज्ञायाः अतिप्रसङ्गः स्यात् ।\nखण्डनम् - <<तत्रोपपदं सप्तमीस्थम्>> [[3.1.92]] इत्येव सूत्रम् अधिकारसूत्ररूपेण स्वीकृत्य अस्य सूत्रस्य व्याप्तिः तृतीयाध्यायस्य समाप्तिपर्यन्तं स्वीकर्तुम् शक्यते ।\nआ) पूर्वपक्षः - <<कृदतिङ्>> [[3.1.93]] अनेन सूत्रेण 'अस्मिन् द्वितीये धात्वधिकारे' पाठितानां तिङ्भिन्नप्रत्ययानां 'कृत्' इति संज्ञा दीयते । यदि द्वयोः धात्वधिकारयोः मेलनं कृत्वा एकः एव बृहत् धात्वधिकारः क्रियते, तर्हि पूर्वम् उक्तानां सनादिप्रत्ययानां विकरणप्रत्ययानाम् चापि 'कृत्' इति संज्ञा स्यात् ।\nखण्डनम् - <<कृदतिङ्>> [[3.1.93]]  इत्येव सूत्रम् अधिकारसूत्ररूपेण स्वीक्रियते चेत् अयं दोषः परिष्कृतः भवति ।\nइ) पूर्वपक्षः -  यदि द्वयोः धात्वधिकारयोः मेलनेन एकः एव धात्वधिकारः क्रियते, तर्हि <<तिङ्शित्सार्वधातुकम्>> [[3.4.113]] इत्यनेन 'धातोः विहिताः तिङ्-शित्-प्रत्ययाः सार्वधातुकाः' इति अर्थे सिद्धे <<आर्धधातुकं शेषः>> [[3.4.114]] इत्यत्र शेषग्रहणेन 'अन्ये सर्वे' इति अर्थनिष्पादनं भवेत्, येन 'धातोः प्रातिपदिकेभ्यः च विहिताः प्रत्ययाः तिङ्शिद्भिन्नाः प्रत्ययाः आर्धधातुकाः भवेयुः' इति अनिष्टः अर्थः भवेत् । तन्निराकर्तुम् <<आर्धधातुकं शेषः>> [[3.4.114]]  इत्यस्मिन् सूत्रे 'द्विवारं धातुग्रहणम् आवश्यकम्, येन 'धातोः  एव विहिताः प्रत्ययाः आर्धधातुकसंज्ञकाः भवितुम् अर्हन्ति, प्रातिपदिकेभ्यः विहिताः न' इति अर्थः स्पष्टी भवति ।\nखण्डनम् (प्रदीपोद्योते) - द्विवारं धातुग्रहणम् आवश्यकं चेत् <<शमि धातोः संज्ञायाम्>> [[3.2.14]] इत्यतः 'धातोः' इति पदं मण्डूकप्लुत्या स्वीकर्तुं शक्यते ।\nअनेन प्रकारेण पूर्वपक्षिणां भिन्नानां मतानां खण्डनं कृत्वा अन्ते 'द्वितीयं धातुग्रहणम् अनर्थकम्, यङ्विधौ धात्वधिकारात्' इति सिद्धान्तः भाष्यकारेण प्रतिपादितः अस्ति । एकः एव बृहत् धात्वधिकारः पर्याप्तः इति अस्य अर्थः । अस्मिन् विषये विस्तारेण अस्मिन् video मध्ये विस्तारेण पाठितम् अस्ति , जिज्ञासवः तदपि पश्यन्तु ।\n" }, "31092": { "sa": "'धातोः' अस्मिन् अधिकारे विद्यमानेषु सूत्रेषु यः शब्दः सप्तमीविभक्त्या निर्दिश्यते, तेन वाचितं पदम् 'उपपद'संज्ञकं भवति ।", "sd": "<<धातोः>> [[3.1.91]] इत्यनेन तृतीयाध्यायस्य प्रथमपादस्य द्वितीयः धात्वधिकारः प्रारभ्यते । अस्मिन् अधिकारे विद्यमानेषु सूत्रेषु यत् पदम् सप्तमीविभक्त्या निर्दिश्यते, तद्वाचकम् पदम् वर्तमानसूत्रेण 'उपपद'संज्ञकं भवति ।\nयथा - <<कर्मण्यण्>> [[3.2.1]] अस्मिन् सूत्रे 'कर्मणि' इति सप्तमीस्थं पदमस्ति, अतः <<कर्मण्यण्>> [[3.2.1]] अस्य सूत्रस्य प्रयोगे 'कर्मणि' इत्यनेन यस्य पदस्य निर्देशः भवति, तत् पदम् 'उपपद'संज्ञां प्राप्नोति । यथा, 'कुम्भं करोति सः' अस्मिन् वाक्ये <<कर्मण्यण्>> [[3.2.1]] अनेन सूत्रेण अण्-प्रत्ययः विधीयते । अत्र 'कर्मणि' इति पदेन 'कुम्भ' इत्यस्य निर्देशः क्रियते, अतः अत्र 'कुम्भ'शब्दस्य उपपदसंज्ञा भवति । अनया संज्ञया अत्र <<उपपदमतिङ्>> [[2.2.19]] इत्यनेन उपपदसमासं कृत्वा 'कुम्भकार' इति पदं सिद्ध्यति । प्रक्रिया इयम् -\nकुम्भम् करोति सः\n = कुम्भ + कृ + अण् [<<कर्मण्यण्>> [[3.2.1]] इति अण् । <<तत्रोपदं सप्तमीस्थम्>> [[3.1.93]] इति 'कुम्भ' शब्दस्य उपपदसंज्ञा]\n→ कुम्भ + कार् + अण् [<<अचो ञ्णिति>> [[7.2.115]] इति वृद्धिः । <<उरण् रपरः>> [[1.1.51]] इति रेफः]\n→ कुम्भकार [<<उपपदमतिङ्>> [[2.2.19]] इति उपपदसमासः - अतिङन्तमुपपदम् समर्थेन सह समस्यते]\nज्ञातव्यम् - अस्मिन् सूत्रे 'सप्तमीस्थम्' इति उच्यते । अत्र 'स्थ' ग्रहणस्य प्रयोजनम् काशिकाकारः वदति - 'स्थग्रहणं सूत्रेषु सप्तमीनिर्देशप्रतिपत्त्यर्थम्' । इत्युक्ते, सूत्रे निर्दिष्टः सप्तम्यन्तशब्दः (उत सूत्रेषु विद्यमानः 'सप्तमी' अयं शब्दः) 'उपपदसंज्ञां' न प्राप्नोति, अपितु सूत्रेषु विद्यमानः यः सप्तम्यन्तशब्दः, तेन निर्दिष्टः शब्दः उपपदसंज्ञां प्राप्नोति । यथा, <<कर्मण्यण्>> [[3.2.1]] इत्यत्र 'कर्मणि' शब्दस्य उपपदसंज्ञा न भवति, अपितु 'कमर्णि' शब्देन निर्दिष्टं यत् पदम् (यथा - कुम्भम्), तस्य उपपदसंज्ञा भवति । " }, "31093": { "sa": "", "sd": "" }, "31094": { "sa": "", "sd": "" }, "31095": { "sa": "", "sd": "" }, "31096": { "sa": "", "sd": "" }, "31097": { "sa": "", "sd": "" }, "31098": { "sa": "", "sd": "" }, "31099": { "sa": "", "sd": "" }, "31100": { "sa": "", "sd": "" }, "31101": { "sa": "", "sd": "" }, "31102": { "sa": "", "sd": "" }, "31103": { "sa": "", "sd": "" }, "31104": { "sa": "", "sd": "" }, "31105": { "sa": "", "sd": "" }, "31106": { "sa": "", "sd": "" }, "31107": { "sa": "", "sd": "" }, "31108": { "sa": "", "sd": "" }, "31109": { "sa": "", "sd": "" }, "31110": { "sa": "", "sd": "" }, "31111": { "sa": "", "sd": "" }, "31112": { "sa": "", "sd": "" }, "31113": { "sa": "", "sd": "" }, "31114": { "sa": "", "sd": "" }, "31115": { "sa": "", "sd": "" }, "31116": { "sa": "", "sd": "" }, "31117": { "sa": "", "sd": "" }, "31118": { "sa": "", "sd": "" }, "31119": { "sa": "", "sd": "" }, "31120": { "sa": "", "sd": "" }, "31121": { "sa": "", "sd": "" }, "31122": { "sa": "", "sd": "" }, "31123": { "sa": "", "sd": "" }, "31124": { "sa": "", "sd": "" }, "31125": { "sa": "", "sd": "" }, "31126": { "sa": "", "sd": "" }, "31127": { "sa": "", "sd": "" }, "31128": { "sa": "", "sd": "" }, "31129": { "sa": "", "sd": "" }, "31130": { "sa": "", "sd": "" }, "31131": { "sa": "", "sd": "" }, "31132": { "sa": "", "sd": "" }, "31133": { "sa": "", "sd": "" }, "31134": { "sa": "", "sd": "" }, "31135": { "sa": "", "sd": "" }, "31136": { "sa": "", "sd": "" }, "31137": { "sa": "", "sd": "" }, "31138": { "sa": "", "sd": "" }, "31139": { "sa": "", "sd": "" }, "31140": { "sa": "", "sd": "" }, "31141": { "sa": "", "sd": "" }, "31142": { "sa": "", "sd": "" }, "31143": { "sa": "", "sd": "" }, "31144": { "sa": "", "sd": "" }, "31145": { "sa": "", "sd": "" }, "31146": { "sa": "", "sd": "" }, "31147": { "sa": "", "sd": "" }, "31148": { "sa": "", "sd": "" }, "31149": { "sa": "", "sd": "" }, "31150": { "sa": "", "sd": "" }, "32001": { "sa": "", "sd": "" }, "32002": { "sa": "", "sd": "" }, "32003": { "sa": "", "sd": "" }, "32004": { "sa": "", "sd": "" }, "32005": { "sa": "", "sd": "" }, "32006": { "sa": "", "sd": "" }, "32007": { "sa": "", "sd": "" }, "32008": { "sa": "", "sd": "" }, "32009": { "sa": "", "sd": "" }, "32010": { "sa": "", "sd": "" }, "32011": { "sa": "", "sd": "" }, "32012": { "sa": "", "sd": "" }, "32013": { "sa": "", "sd": "" }, "32014": { "sa": "", "sd": "" }, "32015": { "sa": "", "sd": "" }, "32016": { "sa": "", "sd": "" }, "32017": { "sa": "", "sd": "" }, "32018": { "sa": "", "sd": "" }, "32019": { "sa": "", "sd": "" }, "32020": { "sa": "", "sd": "" }, "32021": { "sa": "", "sd": "" }, "32022": { "sa": "", "sd": "" }, "32023": { "sa": "", "sd": "" }, "32024": { "sa": "", "sd": "" }, "32025": { "sa": "", "sd": "" }, "32026": { "sa": "", "sd": "" }, "32027": { "sa": "", "sd": "" }, "32028": { "sa": "", "sd": "" }, "32029": { "sa": "", "sd": "" }, "32030": { "sa": "", "sd": "" }, "32031": { "sa": "", "sd": "" }, "32032": { "sa": "", "sd": "" }, "32033": { "sa": "", "sd": "" }, "32034": { "sa": "", "sd": "" }, "32035": { "sa": "", "sd": "" }, "32036": { "sa": "", "sd": "" }, "32037": { "sa": "", "sd": "" }, "32038": { "sa": "", "sd": "" }, "32039": { "sa": "", "sd": "" }, "32040": { "sa": "", "sd": "" }, "32041": { "sa": "", "sd": "" }, "32042": { "sa": "", "sd": "" }, "32043": { "sa": "", "sd": "" }, "32044": { "sa": "", "sd": "" }, "32045": { "sa": "", "sd": "" }, "32046": { "sa": "", "sd": "" }, "32047": { "sa": "", "sd": "" }, "32048": { "sa": "", "sd": "" }, "32049": { "sa": "", "sd": "" }, "32050": { "sa": "", "sd": "" }, "32051": { "sa": "", "sd": "" }, "32052": { "sa": "", "sd": "" }, "32053": { "sa": "", "sd": "" }, "32054": { "sa": "", "sd": "" }, "32055": { "sa": "", "sd": "" }, "32056": { "sa": "", "sd": "" }, "32057": { "sa": "", "sd": "" }, "32058": { "sa": "", "sd": "" }, "32059": { "sa": " ऋत्विज् , दधृष्, स्रज् , दिश्, उष्णिह् - एते क्विन्-प्रत्ययान्तशब्दाः निपात्यन्ते । सोपपदस्य अञ्च्-धातोः , अनुपपदस्य युज्-क्रुञ्च्-धात्वोः च क्विन्-प्रत्ययः निपात्यते । ", "sd": "अनेन सूत्रेण भिन्नानां क्विन्-प्रत्ययान्त-शब्दानाम् निपातनम् क्रियते ।\nकिम् नाम निपातनम्? यत् 'लक्षणं विना एव निपतति प्रवर्तते लक्ष्येषु' तत् निपातनम् । 'लक्षणम्' इत्युक्ते सूत्रम् । सूत्रम् विना एव यत्र रूपसिद्धिः भवति, तत् 'निपातनम्' भवति इत्युच्यते । इत्युक्ते, यद्यपि प्रायः सर्वेषां शब्दानां निर्माणम् प्रक्रियायाः आधारेण जायते, केषुचन स्थलेषु आचार्यः कांश्चन शब्दान् तादृशमेव (इत्युक्ते, विना प्रक्रियाम् एव) वदति । एतेषां शब्दानां सम्यक् रूपसिद्ध्यर्थमष्टाध्याय्याम् सूत्राणि न सन्ति । एते शब्दाः प्रक्रियाम् विना एव सिद्धाः मन्यन्ते । एतादृशाः 'स्वयंसिद्धाः' शब्दाः एव 'निपातनानि' नाम्ना ज्ञायन्ते । 'सिद्धप्रक्रियस्य निर्देशः निपातनमुच्यते' इत्यर्थः ।\nआचार्यः अष्टाध्याय्यां भिन्नेषु स्थलेषु एतादृशं निपातनम् करोति । किमर्थम्? यत्र कस्यचन एकस्य एव शब्दस्य रूपसिद्धौ अनेकानां नूतनानाम् सूत्राणाम् निर्माणमावश्यकम् वर्तते, तत्र आचार्यः तादृशाम् नूतनसूत्राणां निर्माणस्य स्थाने तस्य शब्दस्यैव निर्माणं कृत्वा ददाति । 'सूत्राणि विश्वतो मुखानि भवेयुः' एतत् अत्र चिन्तनमस्ति । यदि बहूनि सूत्राणि केवलं एकस्य शब्दस्य प्रक्रियार्थमावश्यकानि, तर्हि प्रायः शब्दः एव स्वयंसिद्धः कृत्वा दीयते चेत् अल्पाक्षरत्वमपि सिद्ध्यति अयमप्यत्र विवेकः ।\nएवमेव वर्तमानसूत्रेण पञ्च क्विन्-प्रत्ययान्तशब्दाः आचार्येण निपात्यन्ते - ऋत्विज्, दधृष्, स्रज्, दिश्, उष्णिह् । यथा, अनेन सूत्रेण अञ्च्, यज्, क्रुञ्च् - एतेषामपि क्विन् प्रत्ययः भवति । क्रमेण पश्यामः -\n1) ऋत्विज् - ऋतु-उपपदपूर्वकस्य यज्-धातोः अनेन सूत्रेण क्विन्-प्रत्ययः निपात्यते । वस्तुतः अत्र <<सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्>> [[3.2.61]] इत्यनेन क्विप्-प्रत्ययः विधीयते, परन्तु वर्तमानसूत्रेण अत्र क्विन् प्रत्ययः भवति । अग्रे प्रक्रिया एतादृशी जायते -\nऋतु + यज् + क्विन्\n→ ऋतु + यज् + व् [<<लशक्वतद्धिते>> [[1.3.8]] इति ककारस्य इत्संज्ञा । <<हलन्त्यम्>> [[1.3.3]] इति पकारस्य इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति उभयोः लोपः । इकारः उच्चारणार्थः । अतः 'व्' इत्यवशिष्यते ।]\n→ ऋतु + यज् [<<वेरपृक्तस्य>> [[6.1.67]] इति अपृक्त-वि-इत्यस्य लोपः ।]\n→ ऋतु + इअज् [<<वचिस्वपियजादीनां किति>> [[6.1.15]] इति सम्प्रसारणम् । यकारस्य सम्प्रसारणम् इकारः ।\n→ ऋतु + इज् [<<सम्प्रसारणाच्च>> [[6.1.108]] इति इकार-अकारुोः पूर्वरूपम् इकारः ।]\n→ ऋत्विज् [<<इको यणचि>> [[6.1.77]] इति यणादेशः]\nएवम् 'ऋत्विज्' शब्दः सिद्ध्यति । अत्र क्विन्-प्रत्ययस्य आयोजनम् निपातनेन क्रियते, यतः अस्य सिद्ध्यर्थमष्टाध्याय्यां किमपि सूत्रम् नास्ति ।\n'ऋत्विज्' अस्य प्रथमैकवचनम् 'ऋत्विग्' इति । ऋतौ यजति ऋतुं वा यजति सः ऋत्विग् । <<क्विन्-प्रत्ययस्य कुः>> [[8.2.62]] इत्यनेन अत्र कुत्वं विधीयते ।\nस्मर्तव्यम् - अत्र निर्दिष्टा प्रक्रिया केवलं ज्ञानार्थमस्ति । वस्तुतः 'ऋत्विज्' अयं शब्दः अनेन सूत्रेण एव निपात्यते । अतः एतां प्रक्रियां विना अपि अयं शब्दः सिद्धः अस्ति । परन्तु प्रक्रियायाम् निपातनस्य प्रयोगः कुत्र भवति तत् स्पष्टीकर्तुम् इयम् प्रक्रिया दत्ता अस्ति । यत् यत् कार्यमन्यैः सूत्रैः साधयितुं न शक्यते, तत् साधयितुम् प्रक्रियायाम् अत्र निपातनस्य प्रयोगः क्रियते ।\nअत्र एकः अन्यः विषयः अपि चिन्तनीयः । वस्तुतः <<सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्>> [[3.2.61]] इत्यनेन 'ऋतु + यज्' इत्यस्य क्विप्-प्रत्ययं कुर्मश्चेदपि प्रक्रिया समाना एव भवति, तथा 'ऋत्विज्' अयमेव शब्दः सिद्ध्यति । अग्रे प्रथमैकवचनस्य रूपे <<चोः कुः>> [[8.2.30]] इत्यनेन कुत्वमपि भवितुं शक्यते । अतः क्विप्-प्रत्यये कृते अपि तादृशानि एव रूपाणि सिद्ध्यन्ति यादृशानि क्विन्-प्रत्ययेन सिद्ध्यन्ति । एवं सति अस्य शब्दस्य क्विन्-प्रत्ययः किमर्थम् कृतः अस्ति? उत्तरम् एतत् - क्विप्-प्रत्यये पकारः इत्संज्ञकः अस्ति, अतः <<अनुदात्तौ सुप्पितौ>> [[3.1.4]] इत्यनेन क्विप्-प्रत्ययान्तशब्दानामादिवर्णः अनुदात्तत्वं प्राप्नोन्ति । परन्तु 'ऋत्विज्' अस्मिन् शब्दे आदिवर्णः उदात्तः अस्ति । एतत् साधयितुमाचार्यः अत्र क्विन्-प्रत्ययं वदति । क्विन्-प्रत्ययस्य उपस्थितौ <<आद्युदात्तश्च>> [[3.1.3]] इत्यनेन शब्दस्य आदिस्वरः उदात्तः भवति । अतः अत्र क्विन्-प्रत्ययस्यैव प्रयोगः अर्ह्यः, न हि क्विप्-इत्यस्य ।\n2) दधृष् - 'ञिधृषाँ प्रागल्भ्ये' इति स्वादिगणस्य कश्चन धातुः । अस्य अनेन सूत्रेण क्विन् प्रत्ययः निपात्यते । प्रक्रिया इयम् -\nञिधृषाँ (प्रागल्भ्ये - स्वादिः, परस्मैपदी, सेट्)\n→ धृष् [<<आदिर्ञिटुडवः>> [[1.3.5]], <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]], <<तस्य लोपः>> [[1.3.9]] ]\n→ धृष् क्विन् [<<ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च>> [[3.2.59]] इति क्विन्-प्रत्ययः]\n→ धृष् व् [<<हलन्त्यम्>> [[1.3.3]], <<लशक्वतद्धिते>> [[1.3.8]], <<तस्य लोपः>> [[1.3.9]] । वकारोत्तरः इकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।]\n→ धृष् धृष् व् [<<ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च>> [[3.2.59]] इति द्वित्वं निपात्यते ]\n→ धृ धृष् व् [<<हलादिः शेषः>> [[7.4.60]] इति 'धृ' इति अवशिष्यते ।]\n→ धर् धृष् व् [<<उरत्>> [[7.4.66]] इति ऋकारस्य अकारः । <<उरण् रपरः>> [[1.1.51]] इति सः रपरः । ]\n→ ध धृष् व् [<<हलादिः शेषः>> [[7.4.60]] इति 'ध' इति अवशिष्यते ।]\n→ ध धृष् [<<वेरपृक्तस्य>> [[6.1.67]] इति अपृक्तवकारलोपः]\n→ दधृष् [<<अभ्यासे चर्च>> [[8.4.54]] इति चर्त्वम् ]\nअत्र प्रक्रियायाम् द्वित्वस्य सूत्रम् नास्ति, अतः अनेन सूत्रेण तस्य निपातनं क्रियते ।\nअस्य शब्दस्य प्रथमेकवचनम् 'दधृग्' इति । यः प्रगल्भः सः दधृग् ।\n3) स्रज् - 'सृजँ विसर्गे' इति तुदादिगणस्य धातुः । अस्य धातोः कर्मणि क्विन्-प्रत्ययः निपात्यते । प्रक्रिया इयम् -\nसृज् + क्विन् [निपातनम्]\n→ सृज् [क्विन्-प्रत्ययस्य लोपः]\n→ सृ अम् ज् [सृज्-इत्यस्य अम्-आगमः निपात्यते । <<मिदचोऽन्त्यात्परः>> [[1.1.47]] इति अन्त्यात् अचः परः अयमागमः भवति ।]\n→ सृ अ ज् [मकारस्य इत्संज्ञा, लोपः]\n→ स्रज् [<<इको यणचि>> [[6.1.77]] इति यणादेशः]\nअत्र कर्मणि अर्थे क्विन्-प्रत्ययस्य निपातनं कृतमस्तीति स्मर्तव्यम् । 'सृजति यम् सः स्रग्' इत्यर्थः ।\n4) दिश् - 'दिशँ अतिसर्जने' इति तुदादिगणस्य धातुः । अस्मात् धातोः कर्मणि क्विन्-प्रत्ययः निपात्यते । अत्र क्विन्-प्रत्ययेन पदान्तशकारस्य <<क्विन्प्रत्ययस्य कुः>> [[8.2.62]] इत्यनेन कुत्वं भवति । यथा - दिश् + भ्याम् → दिग्भ्याम् ।\n5) उष्णिह् - 'उत् + स्निह्' धातोः क्विन्-प्रत्ययः निपात्यते । प्रक्रिया इयम् -\nउत् + स्निह् + क्विन् [क्विन्-प्रत्ययस्य निपातनम् ]\n→ उत् + स्निह् [क्विन्-प्रत्ययस्य लोपः]\n→ उ + ष्निह् [सकारस्य षत्वम्, तकारस्य लोपः - उभयोः निपातनम् ]\n→ उष्णिह् [<<ष्टुना ष्टुः>> [[8.4.41]] इति ष्टुत्वम् ]\nअस्य प्रथमपुरुषैकवचनं भवति 'उष्णिग्' । इदम् कस्यचित् छन्दसः नाम । (यथा - अनुष्टुप्, जगति, त्रिष्टुप्, तथैव उष्णिग् ।]\nएते पञ्च शब्दाः अनेन सूत्रेण निपात्यन्ते । अग्रे त्रिभ्यः धातुभ्यः अपि अनेन सूत्रेण अयं प्रत्ययः भवति । ते एतादृशाः -\n1) अञ्चुँ गतिपूजनयोः इति भ्वादिगणस्य धातुः । अनेन सूत्रेण उपपदपूर्वकस्य अञ्च्-धातोः क्विन्-प्रत्ययः भवति । यथा -\n'प्र + अञ्च्' , 'प्रति + अञ्च् ', 'उत् + अञ्च्' एतेषां सर्वेषां क्विन् प्रत्ययः भवति ।\n2) युजिँर् योगे इति रूधादिगणस्य धातुः । अनेन सूत्रेण निरुपपदपूर्वकस्य युज्-धातोः क्विन् प्रत्ययः भवति । यथा - युज् + क्विन् = युज् इति प्रातिपदिकं सिद्ध्यति ।\n(ज्ञातव्यम् - उपपदस्य उपस्थितौ युज्-धातोः <<सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्>> [[3.2.61]] इत्यनेन क्विप्-प्रत्ययः विधीयते ।\n3) क्रुञ्चँ कौटिल्याल्पीभावयोः इति भ्वादिगणस्य धातुः । अनेन सूत्रेण निरुपपदपूर्वकस्य क्रुञ्च्-धातोः क्विन् प्रत्ययः भवति । यथा - क्रुञ्च् + क्विन् = क्रुञ्च् इति प्रातिपदिकं सिद्ध्यति ।\n" }, "32060": { "sa": "", "sd": "" }, "32061": { "sa": "", "sd": "" }, "32062": { "sa": "", "sd": "" }, "32063": { "sa": "", "sd": "" }, "32064": { "sa": "", "sd": "" }, "32065": { "sa": "", "sd": "" }, "32066": { "sa": "", "sd": "" }, "32067": { "sa": "", "sd": "" }, "32068": { "sa": "", "sd": "" }, "32069": { "sa": "", "sd": "" }, "32070": { "sa": "", "sd": "" }, "32071": { "sa": "", "sd": "" }, "32072": { "sa": "", "sd": "" }, "32073": { "sa": "", "sd": "" }, "32074": { "sa": "", "sd": "" }, "32075": { "sa": "", "sd": "" }, "32076": { "sa": "", "sd": "" }, "32077": { "sa": "", "sd": "" }, "32078": { "sa": "", "sd": "" }, "32079": { "sa": "", "sd": "" }, "32080": { "sa": "", "sd": "" }, "32081": { "sa": "", "sd": "" }, "32082": { "sa": "", "sd": "" }, "32083": { "sa": "", "sd": "" }, "32084": { "sa": "", "sd": "" }, "32085": { "sa": "", "sd": "" }, "32086": { "sa": "", "sd": "" }, "32087": { "sa": "", "sd": "" }, "32088": { "sa": "", "sd": "" }, "32089": { "sa": "", "sd": "" }, "32090": { "sa": "", "sd": "" }, "32091": { "sa": "", "sd": "" }, "32092": { "sa": "", "sd": "" }, "32093": { "sa": "", "sd": "" }, "32094": { "sa": "", "sd": "" }, "32095": { "sa": "", "sd": "" }, "32096": { "sa": "", "sd": "" }, "32097": { "sa": "", "sd": "" }, "32098": { "sa": "", "sd": "" }, "32099": { "sa": "", "sd": "" }, "32100": { "sa": "", "sd": "" }, "32101": { "sa": "", "sd": "" }, "32102": { "sa": "", "sd": "" }, "32103": { "sa": "", "sd": "" }, "32104": { "sa": "", "sd": "" }, "32105": { "sa": "", "sd": "" }, "32106": { "sa": "", "sd": "" }, "32107": { "sa": "", "sd": "" }, "32108": { "sa": "", "sd": "" }, "32109": { "sa": "", "sd": "" }, "32110": { "sa": "भूतकालं द्योतयितुम् धातोः परः आद्युदात्तः लुङ्-प्रत्ययः भवति । ", "sd": "अनेन सूत्रेण लुङ्लकारः विधीयते । भूतकालं द्योतयितुम् धातोः परः लुङ्-लकारः भवति । यथा -\n1) सः चित्रमद्राक्षीत् ।\n2) यूयम गीतामपाठिष्ट ।\n3) वृक्षाणि ऐधिषत ।\n4) अहम् ग्रामम् न अगमम् ।\n5) त्वं किमकार्षीः ?\nज्ञातव्यम् - परोक्ष-अनद्यतन-भूतकालं दर्शयितुम् <<परोक्षे लिट्>> [[3.2.115]] इत्यनेन लिट्-लकारः विधीयते (यथा - रामः वनं जगाम) तथा, यत्र अनद्यतन-भूतःकालः स्पष्टरूपेण निर्दिष्टः अस्ति, तत्र <<अनद्यतने लङ्>> [[3.2.111]] इत्यनेन लङ्-लकारस्य प्रयोगः विधीयते (यथा - सः ह्रः ग्राममगच्छत्) । एते द्वे अवस्थे विहाय अन्यत्र सर्वत्र भूतकालम् दर्शयितुमनेन सूत्रेण लुङ्-लकारः विधीयते ।\n" }, "32111": { "sa": "अनद्यतन-भूतकालं द्योतयितुम् धातोः परः लङ्-लकारः प्रयुज्यते ।", "sd": "अनद्यतन' इत्युक्ते यत् अद्यतन न, तत् । अनद्यतनकाले भूतां क्रियां दर्शयितुम् लुट्-लकारः प्रयुज्यते ।\nयथा - सः ह्यः विद्यालयं न अगच्छत् । अहं गतसप्ताहे व्याकरणमपठम् । ते गतवर्षे स्नातकाः अभवन् ।\nज्ञातव्यम् - यत्र क्रियायाः कालः अद्यतनभूतकालः अस्ति उत अनद्यतनभूतकालः अस्ति - एतत् स्पष्टं नास्ति, तत्र लङ्लकारस्य प्रयोगः न करणीयः, लुङ्लकारस्य प्रयोगः करणीयः । यथा - सः विद्यालयम् न अगमत् । अहं व्याकरणमपाठिषम् ।\n" }, "32112": { "sa": "", "sd": "" }, "32113": { "sa": "", "sd": "" }, "32114": { "sa": "", "sd": "" }, "32115": { "sa": "अनद्यतन-परोक्ष-भूतकालं द्योतयितुम् लिट्-लकारस्य प्रयोगः भवति । ", "sd": "'अनद्यतन' इत्युक्ते यत् अद्यतन न, तत् । 'परोक्ष' इत्युक्ते अक्ष्णः परः । अतः या अनद्यतने भूते जाता क्रिया वाक्यस्य वक्त्रा न दृष्टा, तां दर्शयितुम् लिट्-लकारस्य प्रयोगः क्रियते ।\nयथा - रामः वनम् जगाम । कृष्णः कंसम् जहान । त्वं ह्यः गीतां पेठिथ ।\nज्ञातव्यम् - लिट्-लकारस्य प्रयोगः उत्तमपुरुषे अपि भवितुम् अर्हति । यत्र कर्ता स्वस्य ज्ञानं विना एव (सुप्तावस्थायाम् / संमोहन-अवस्थायाम् /मादकद्रव्यसेवनानन्तरं वा) किञ्चित् कार्यम् करोति, तत्र अनन्तरम् तस्य कार्यस्य निर्देशं कर्तुम् कर्ता लिट्-लकारस्य प्रयोगः कर्तुम् अर्हति । यथा - 'सुप्तो ऽहं किल विललाप' । इत्युक्ते - 'यदा अहं सुप्तः आसम् तदा निद्रायां स्थितौ एव किञ्चित् उक्तवान् वा' इति । " }, "32116": { "sa": "", "sd": "" }, "32117": { "sa": "", "sd": "" }, "32118": { "sa": "", "sd": "" }, "32119": { "sa": "", "sd": "" }, "32120": { "sa": "", "sd": "" }, "32121": { "sa": "", "sd": "" }, "32122": { "sa": "", "sd": "" }, "32123": { "sa": "वर्तमानस्य अर्थे धातोः परः लट्-प्रत्ययः भवति । ", "sd": "किम् नाम 'वर्तमानः'? 'आरब्धः अपरिसमाप्तश्च वर्तमानः' इति काशिकाकारः वदति । इत्युक्ते, या क्रिया आरब्धा अस्ति परन्तु समाप्ता नास्ति (प्रचलन्ती अस्ति) सा 'वर्तमाना' क्रिया अस्ति इत्यर्थः । एतादृशीं क्रियां दर्शयितुम् लट्-लकारस्य प्रयोगः भवति ।\nयथा - 'रामः पाठम् पठति' इत्यत्र 'पठति' अस्मिन् तिङन्तरूपे लट्-लकारस्य प्रयोगः कृतः अस्ति, यतः अनेन सूत्रेण एतत् उच्यते यत् पठनक्रिया आरब्धा अस्ति परन्तु इदानीम् समाप्ता नास्ति ।\nज्ञातव्यम् -\n1. 'लट्' प्रत्ययस्य अर्थः 'वर्तमान' इति न । 'वर्तमानत्वम्' इति तु क्रियायाः विशेषणमस्ति । तत् द्योतयितुम् 'लट्' प्रत्ययस्य प्रयोगः भवति ।\n2. वर्तमानकालस्य विषये भाष्यकारः वदति - 'भूतभविष्यतोः प्रतिद्वन्द्वी वर्तमानकालः' । इत्युक्ते -\nअ) यत्र क्रियायाः आरम्भः अपि जातः, समाप्तिः अपि जाता - सः भूतकालः ।\nआ) यत्र क्रियायाः आरम्भः एव न जातः, समाप्तिः अपि च न जाता - सः भविष्यकालः ।\nइ) एतयोः भिन्नः यः अस्ति सः वर्तमानकालः । अतः वर्तमानकालस्य वैशिष्ठ्यम् - 'क्रियायाः आरम्भः जातः, समाप्ति च न जाता' इति ।\n3. अन्यासु कासुचन भाषासु 'सामान्यवर्तमानकाल' (simple present), 'सततवर्तमानकाल' (present continuous), आदयः केचन भेदाः सन्ति । संस्कृते एतादृशाः भेदाः न सन्ति । अतः 'Ram goes / राम जाता है' तथा 'Ram is going / राम जा रहा है' एतयोः उभयोः अर्थे 'रामः गच्छति' इत्येव प्रयोगः क्रियते ।\n4. शतृ-प्रयोगस्य अर्थः लट्-लकारवत् एव । 'रामः गच्छन् अस्ति' तथा 'रामः गच्छति' एतयोः अर्थयोर्मध्ये कोऽपि भेदः नास्ति ।\n5. 'लट्' इत्यत्र टकारस्य <<हलन्त्यम्>> [[1.3.3]] तथा अकारस्य <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इत्यनेन इत्संज्ञा भवति, तयोः <<तस्य लोपः>> [[1.3.9]] इत्यनेन च लोपः भवति । अत्र अकारः अनुनासिकः अस्ति, अतः वस्तुतः अयं लकारः 'लँट्' इति लेखनीयः । " }, "32124": { "sa": "वर्तमानार्थे प्रथमाभिन्नविभक्तेः विषये लट्-लकारस्य शतृ-शानच्-आदेशौ भवतः । ", "sd": "अनेन सूत्रेण लट्-लकारस्य स्थाने 'शतृँ' तथा 'शानच्' एतयोः द्वयोः कृत्-प्रत्यययोः विधानम् क्रियते । अयमादेशः 'वर्तमानकालस्य' अर्थे भवति । अस्मिन् सूत्रे 'अप्रथमासमानाधिकरणे' इत्यपि उक्तमस्ति, अतः अयमादेशः प्रथमाभिन्नविभक्तेः विवक्षा अस्ति चेदेव भवति ।\n<<लः परस्मैपदम्>> [[1.4.99]] इत्यनेन शतृ-प्रत्ययः परस्मैपदसंज्ञकः भवति, तथा <<तङानावात्मनेपदम्>> [[1.4.100]] इत्यनेन शानच्-प्रत्ययः आत्मनेपदसंज्ञकः भवति । अतः शतृँ-प्रत्ययस्य प्रयोगः केवलं परस्मैपदस्य प्रयोगे एव भवति, तथा शानच्-प्रत्ययस्य प्रयोगः केवलमात्मनेपदस्य प्रयोगे एव भवति ।\n'शतृँ'प्रत्यये शकारऋँकारौ इत्संज्ञकौ स्तः, अतः प्रयोगे केवलम् 'अत्' इत्यस्यैव प्रयोगः भवति । यथा - पठ् + शतृँ → पठत् ।\n'शानच्' प्रत्यये शकारचकारौ इत्संज्ञकौ स्तः, अतः प्रयोगे केवलम् 'आन' इत्यस्यैव प्रयोगः भवति । यथा - वन्द् + शानच् → वन्दमान ।\nप्रक्रिया -\n1) पठ् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ पठ् + शतृँ [<<लटः शतृशानचावप्रथमासमानाधिकरणे>> [[3.2.124]] इति शतृँ]\n→ पठ् + शप् + अत् [<<कर्तरि शप्>> [[3.1.68]] इति विकरणम् शप्]\n→ पठत्\n2) वन्द् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ वन्द् + शानच् [<<लटः शतृशानचावप्रथमासमानाधिकरणे>> [[3.2.124]] इति शानच् ]\n→ वन्द् + शप् + आन [<<कर्तरि शप्>> [[3.1.68]] इति विकरणम् शप्]\n→ वन्द् + अ + मुक् + आन [<<आने मुक्>> [[7.2.82]] इति मुक्-आगमः]\n→ वन्दमान\nप्रयोगस्य उदाहरणानि - पचन्तं देवदत्तम् पश्य । गच्छता रामेण सह लक्ष्मणः अपि याति । वन्दमानाय शिष्याय गुरुः दत्ते । कम्पमानात् वृक्षात् फलानि पतन्ति । ब्रूवाणस्य आचार्यस्य नाम देवदत्तः । धावति अश्वे अर्जुनः उपविशति ।\nज्ञातव्यम् -\n1. शतृशानच्-प्रत्ययौ 'कृत्-प्रत्ययौ' स्तः । एतयोः प्रयोगेण प्रातिपदिकनिर्माणम् भवति ।\n2. <<तिङ्शित् सार्वधातुकम्>> [[3.4.113]] इत्यनेन शतृशानच्-प्रत्यययोः सार्वधातुकसंज्ञा भवति, अतः एतयोः प्रयोगे गणविकरणप्रत्ययः अपि यथायोग्यमागच्छति । यथा - नृत् + शतृँ → नृत्यत् । ज्ञा + शानच् → जानान । आप् + शतृँ → आप्नुवत् । कृ + शानच् → कुर्वाण ।\n3. 'अप्रथमासमानाधिकरणम्' शब्दस्य निर्माणम् एतादृशम् क्रियते -\n- अप्रथमा = प्रथमाभिन्नम् (इत्युक्ते - द्वितीया, तृतीया - आदयः) ।\n- समानाधिकरणम् = समानमभिधेयम् ।\nअतः अप्रथमासमानाधिकरणम् = अप्रथमया समानाधिकरणम् = प्रथमाभिन्नम् यस्य (प्रत्ययस्य) अभिधेयम्, सः । इत्युक्ते, शतृ/शानच्- प्रत्ययान्त-प्रातिपदिकात् परः तस्यैव सुप्-प्रत्ययस्य प्रयोगः भवितुमर्हति यः प्रथमाभिन्नविभक्तेः अभिधेयम् स्वीकरोति । यथा - पच् + शतृ + अम् → पचन्तम् । वन्द + शानच् + शस् → वन्दमानान् - आदयः ।\n4. केचन वैयाकरणाः अस्मिन् सूत्रे <<नन्वोर्विभाषा>> [[3.2.121]] इत्यस्मात् 'विभाषा' इति अपि अनुवर्तयन्ति । 'विभाषा' इत्युक्ते विकल्पः । अयम् विकल्पः 'प्रथमासमानाधिकरणार्थम्' अस्ति । इत्युक्ते, प्रथमायाः विषये अपि शतृ-शानच्-प्रत्यययोः प्रयोगः 'विकल्पेन' भवितुमर्हति । यथा - रामः पठन् अस्ति । छात्रः वन्दमानः अस्ति । माता पचन्ती अस्ति - आदयः । अस्मिन् विषये भाष्ये उक्तमस्ति - 'किम् तर्हि इदानीम् विभाषा? - प्रथमासमानाधिकरणे । यथा - पचन् पचति, पचमानः पचते - इति' ।\n5. यद्यपि अनेन सूत्रेण शतृ-शानच्-प्रत्यययोः प्रयोगः 'वर्तमाने' उक्तः अस्ति, तथापि <<लृटः सद्वा>> [[3.3.14]] अनेन सूत्रेण अनयोः प्रत्यययोः प्रयोगः लृट्-लकारस्य स्थाने ('भविष्यति' अस्मिन् अर्थे) अपि भवति । यथा - करिष्यन्तम् पश्य । करिष्यमाणम् पश्य ।\n6. संस्कृतभाषायाम् वर्तमानकालः एकः एव अस्ति, तस्य 'present continuous / present perfect' आदयः भेदाः न सन्ति । अतः शतृ-प्रत्ययस्य शानच्-प्रत्ययस्य च प्रथमाविभक्तेः प्रयोगः तमेव वर्तमानम् निर्देशयति यम् 'लट्लकारः' निर्देशयति । इत्युक्ते, 'रामः पठन् अस्ति' इत्युक्ते 'रामः पठति' इत्येव । द्वयोः वाक्ययोः अर्थयोः भेदः नास्ति । " }, "32125": { "sa": "", "sd": "" }, "32126": { "sa": "", "sd": "" }, "32127": { "sa": "", "sd": "" }, "32128": { "sa": "", "sd": "" }, "32129": { "sa": "", "sd": "" }, "32130": { "sa": "", "sd": "" }, "32131": { "sa": "", "sd": "" }, "32132": { "sa": "", "sd": "" }, "32133": { "sa": "", "sd": "" }, "32134": { "sa": "", "sd": "" }, "32135": { "sa": "", "sd": "" }, "32136": { "sa": "", "sd": "" }, "32137": { "sa": "", "sd": "" }, "32138": { "sa": "", "sd": "" }, "32139": { "sa": "", "sd": "" }, "32140": { "sa": "", "sd": "" }, "32141": { "sa": "", "sd": "" }, "32142": { "sa": "", "sd": "" }, "32143": { "sa": "", "sd": "" }, "32144": { "sa": "", "sd": "" }, "32145": { "sa": "", "sd": "" }, "32146": { "sa": "", "sd": "" }, "32147": { "sa": "", "sd": "" }, "32148": { "sa": "", "sd": "" }, "32149": { "sa": "", "sd": "" }, "32150": { "sa": "", "sd": "" }, "32151": { "sa": "", "sd": "" }, "32152": { "sa": "", "sd": "" }, "32153": { "sa": "", "sd": "" }, "32154": { "sa": "", "sd": "" }, "32155": { "sa": "", "sd": "" }, "32156": { "sa": "", "sd": "" }, "32157": { "sa": "", "sd": "" }, "32158": { "sa": "", "sd": "" }, "32159": { "sa": "", "sd": "" }, "32160": { "sa": "", "sd": "" }, "32161": { "sa": "", "sd": "" }, "32162": { "sa": "", "sd": "" }, "32163": { "sa": "", "sd": "" }, "32164": { "sa": "", "sd": "" }, "32165": { "sa": "", "sd": "" }, "32166": { "sa": "", "sd": "" }, "32167": { "sa": "", "sd": "" }, "32168": { "sa": "", "sd": "" }, "32169": { "sa": "", "sd": "" }, "32170": { "sa": "", "sd": "" }, "32171": { "sa": "", "sd": "" }, "32172": { "sa": "", "sd": "" }, "32173": { "sa": "", "sd": "" }, "32174": { "sa": "", "sd": "" }, "32175": { "sa": "", "sd": "" }, "32176": { "sa": "", "sd": "" }, "32177": { "sa": "", "sd": "" }, "32178": { "sa": "", "sd": "" }, "32179": { "sa": "", "sd": "" }, "32180": { "sa": "", "sd": "" }, "32181": { "sa": "", "sd": "" }, "32182": { "sa": "", "sd": "" }, "32183": { "sa": "", "sd": "" }, "32184": { "sa": "", "sd": "" }, "32185": { "sa": "", "sd": "" }, "32186": { "sa": "", "sd": "" }, "32187": { "sa": "", "sd": "" }, "32188": { "sa": "", "sd": "" }, "33001": { "sa": "", "sd": "" }, "33002": { "sa": "", "sd": "" }, "33003": { "sa": "", "sd": "" }, "33004": { "sa": "", "sd": "" }, "33005": { "sa": "", "sd": "" }, "33006": { "sa": "", "sd": "" }, "33007": { "sa": "", "sd": "" }, "33008": { "sa": "", "sd": "" }, "33009": { "sa": "", "sd": "" }, "33010": { "sa": "", "sd": "" }, "33011": { "sa": "", "sd": "" }, "33012": { "sa": "", "sd": "" }, "33013": { "sa": "भविष्यकालं द्योतयितुम् क्रियार्थायाम् क्रियायाम्, तद्भिन्नायाम् च क्रियायाम् लृट्-लकारः भवति । ", "sd": "अनेन सूत्रेण 'लृट्' लकारस्य विधानं क्रियते । अयम् लकारप्रत्ययः 'भविष्यति' इति कालम् निर्देष्टुम् द्वयोः अवस्थयोः प्रयुज्यते -\n1. क्रियायाम् क्रियार्थायाम्, तथा च\n2. तद्भिन्नायाम् क्रियायाम् (इत्युक्ते, शेषे)\nकः अर्थः? क्रमेण पश्यामः -\n1. यत्र एकां क्रियां कर्तुम् द्वितीया क्रिया क्रियते, तत्र या क्रिया मुख्या अस्ति तस्याः निर्देशं कर्तुम् लृट्लकारः प्रयुज्यते । यथा, यदि रामः पठनक्रियार्थम् शालाम् गच्छति, तर्हि अत्र 'पठनक्रिया' मुख्या अस्ति, तथा गमनक्रिया 'क्रियार्था क्रिया' अस्ति । (पठन-क्रियार्थम् गमनक्रिया कृता, अतः इदम् नाम ।)\nअस्याम् स्थितौ मुख्यक्रियायाः निर्देशः लृट्लकारेण क्रियते । यथा - 'रामः पठिष्यतीति शालां गच्छति' । (<<तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्>>[[3.3.10]] इत्यनेन अस्यां स्थितौ तुमुन् तथा ण्वुल् प्रत्ययौ अपि भवितुमर्हतः , अतः एतदेव वाक्यम् 'रामः पठितुम् शालां गच्छति' उत 'रामः पाठकः शालां गच्छति' अनयोः प्रकारयोः अपि वक्तुं शक्यते ।)\nअन्यानि उदाहरणानि -\nअ) सः विजेष्यते इति युद्ध्यति । (सः विजेतुम् युद्ध्यति इत्यर्थः । मुख्यक्रिया = विजनम् । क्रियार्थाक्रिया = योधनम् )\nआ) कृष्णं द्रक्ष्यतीति अर्जुनः याति । (कृष्णं द्रष्टुमर्जुनः याति इत्यर्थः । मुख्यक्रिया = दर्शनम् । क्रियार्थाक्रिया = यानम् )\nइ) वयं क्रीडिष्यामः इति गच्छामः । (वयं क्रीडितुम् गच्छामः इत्यर्थः । मुख्यक्रिया = क्रीडनम् । क्रियार्थाक्रिया = गमनम् ।)\n2. 'शेषे' - इत्युक्ते, या क्रिया इदानीम् न आरब्धा, या च 'क्रियायाम् क्रियार्थायाम्' इत्यनेन अपि न निर्दिश्यते, ताम् दर्शयितुम् लृट्-लकारस्य प्रयोगः भवति । यथा - रामः सायं वनम् गमिष्यति । युवाम् कदा कार्यम् करिष्यथः? । वयम् व्याकरणम् पठिष्यामः ।\nज्ञातव्यम् -\n1. 'क्रियायाम् क्रियार्थायाम्' इति सति-सप्तमी अस्ति । 'क्रियार्थायाम् सत्याम् क्रियायाम् लृट् भवति' इति अन्वयः । इत्युक्ते, यत्र क्रियार्था-क्रिया उपस्थिता अस्ति, तत्र मुख्यक्रिया लृट्-लकारेण दर्श्यते ।\n2. अनेन सूत्रेण अद्यतन/अनद्यतन-भविष्यकालार्थम् लृट्-प्रत्ययः एव विधीयते । परन्तु <<अनद्यतने लुट्>> [[3.3.15]] इत्यनेन अनद्यतन-भविष्यकालार्थमपवादत्वेन लृट्-लकारस्य विधानम् कृतमस्ति । अतः क्रियार्था क्रिया नास्ति चेत् अनद्यतन-भविष्यकालार्थम् लुट्-लकारः एव प्रयोक्तव्यः । यथा - सः श्वः गन्ता । अन्यत्र सर्वत्र लृट्-लकारस्य प्रयोगः भवितुमर्हति । यथा - सः अद्य श्वः वा गमिष्यति ।\n " }, "33014": { "sa": "", "sd": "" }, "33015": { "sa": "अनद्यतन-भविष्यकालं द्योतयितुम् धातोः परः लुट्-लकारः प्रयुज्यते । ", "sd": "'अनद्यतन' इत्युक्ते यत् अद्यतन न, तत् । अनद्यतनकाले भविष्यमाणां क्रियां दर्शयितुम् लुट्-लकारः प्रयुज्यते ।\nयथा - सः श्वः विद्यालयं गन्ता । अहं अग्रिमसप्ताहे व्याकरणम् पठितास्मि । ते अग्रिमवर्षे स्नातकाः भवितारः ।\nज्ञातव्यम् - एतत् सूत्रम् <<लृट् शेषे च>> [[3.3.13]] इत्यस्य अपवादरूपेण आगच्छति । लृट्-शेषे च इत्यनेन शुद्ध-भविष्यकालार्थम् सर्वत्र लृट्-प्रत्ययः विधीयते । तस्य बाधकरूपेण अनेन सूत्रेण अनद्यतन-भविष्यकालार्थम् लुट्-लकारः पाठ्यते । अतः यदि क्रियायाः 'अनद्यनत्वम्' वाक्ये स्पष्टमस्ति, तर्हि लुट्-लकारस्यैव प्रयोगः करणीयः, लृट्-लकारस्य न । अतः 'सः श्वः विद्यालयं गमिष्यति' इति वाक्यम् व्याकरणदृष्ट्या असाधु अस्ति । यत्र कालः स्पष्टः नास्ति, तत्र तु लृट्-लकारः एव प्रयोक्तव्यः । यथा - सः विद्यालयं गमिष्यति । सः अद्य श्वः वा विद्यालयं गमिष्यति । " }, "33016": { "sa": "", "sd": "" }, "33017": { "sa": "", "sd": "" }, "33018": { "sa": "", "sd": "" }, "33019": { "sa": "", "sd": "" }, "33020": { "sa": "", "sd": "" }, "33021": { "sa": "", "sd": "" }, "33022": { "sa": "", "sd": "" }, "33023": { "sa": "", "sd": "" }, "33024": { "sa": "", "sd": "" }, "33025": { "sa": "", "sd": "" }, "33026": { "sa": "", "sd": "" }, "33027": { "sa": "", "sd": "" }, "33028": { "sa": "", "sd": "" }, "33029": { "sa": "", "sd": "" }, "33030": { "sa": "", "sd": "" }, "33031": { "sa": "", "sd": "" }, "33032": { "sa": "", "sd": "" }, "33033": { "sa": "", "sd": "" }, "33034": { "sa": "", "sd": "" }, "33035": { "sa": "", "sd": "" }, "33036": { "sa": "", "sd": "" }, "33037": { "sa": "", "sd": "" }, "33038": { "sa": "", "sd": "" }, "33039": { "sa": "", "sd": "" }, "33040": { "sa": "", "sd": "" }, "33041": { "sa": "", "sd": "" }, "33042": { "sa": "", "sd": "" }, "33043": { "sa": "", "sd": "" }, "33044": { "sa": "", "sd": "" }, "33045": { "sa": "", "sd": "" }, "33046": { "sa": "", "sd": "" }, "33047": { "sa": "", "sd": "" }, "33048": { "sa": "", "sd": "" }, "33049": { "sa": "", "sd": "" }, "33050": { "sa": "", "sd": "" }, "33051": { "sa": "", "sd": "" }, "33052": { "sa": "", "sd": "" }, "33053": { "sa": "", "sd": "" }, "33054": { "sa": "", "sd": "" }, "33055": { "sa": "", "sd": "" }, "33056": { "sa": "", "sd": "" }, "33057": { "sa": "", "sd": "" }, "33058": { "sa": "", "sd": "" }, "33059": { "sa": "", "sd": "" }, "33060": { "sa": "", "sd": "" }, "33061": { "sa": "", "sd": "" }, "33062": { "sa": "", "sd": "" }, "33063": { "sa": "", "sd": "" }, "33064": { "sa": "", "sd": "" }, "33065": { "sa": "", "sd": "" }, "33066": { "sa": "", "sd": "" }, "33067": { "sa": "", "sd": "" }, "33068": { "sa": "", "sd": "" }, "33069": { "sa": "", "sd": "" }, "33070": { "sa": "", "sd": "" }, "33071": { "sa": "", "sd": "" }, "33072": { "sa": "", "sd": "" }, "33073": { "sa": "", "sd": "" }, "33074": { "sa": "", "sd": "" }, "33075": { "sa": "", "sd": "" }, "33076": { "sa": "", "sd": "" }, "33077": { "sa": "", "sd": "" }, "33078": { "sa": "", "sd": "" }, "33079": { "sa": "", "sd": "" }, "33080": { "sa": "", "sd": "" }, "33081": { "sa": "", "sd": "" }, "33082": { "sa": "", "sd": "" }, "33083": { "sa": "", "sd": "" }, "33084": { "sa": "", "sd": "" }, "33085": { "sa": "", "sd": "" }, "33086": { "sa": "", "sd": "" }, "33087": { "sa": "", "sd": "" }, "33088": { "sa": "", "sd": "" }, "33089": { "sa": "", "sd": "" }, "33090": { "sa": "", "sd": "" }, "33091": { "sa": "", "sd": "" }, "33092": { "sa": "", "sd": "" }, "33093": { "sa": "", "sd": "" }, "33094": { "sa": "", "sd": "" }, "33095": { "sa": "", "sd": "" }, "33096": { "sa": "", "sd": "" }, "33097": { "sa": "", "sd": "" }, "33098": { "sa": "", "sd": "" }, "33099": { "sa": "", "sd": "" }, "33100": { "sa": "", "sd": "" }, "33101": { "sa": "", "sd": "" }, "33102": { "sa": "", "sd": "" }, "33103": { "sa": "", "sd": "" }, "33104": { "sa": "", "sd": "" }, "33105": { "sa": "", "sd": "" }, "33106": { "sa": "", "sd": "" }, "33107": { "sa": "", "sd": "" }, "33108": { "sa": "", "sd": "" }, "33109": { "sa": "", "sd": "" }, "33110": { "sa": "", "sd": "" }, "33111": { "sa": "", "sd": "" }, "33112": { "sa": "", "sd": "" }, "33113": { "sa": "", "sd": "" }, "33114": { "sa": "", "sd": "" }, "33115": { "sa": "", "sd": "" }, "33116": { "sa": "", "sd": "" }, "33117": { "sa": "", "sd": "" }, "33118": { "sa": "", "sd": "" }, "33119": { "sa": "", "sd": "" }, "33120": { "sa": "", "sd": "" }, "33121": { "sa": "", "sd": "" }, "33122": { "sa": "", "sd": "" }, "33123": { "sa": "", "sd": "" }, "33124": { "sa": "", "sd": "" }, "33125": { "sa": "", "sd": "" }, "33126": { "sa": "", "sd": "" }, "33127": { "sa": "", "sd": "" }, "33128": { "sa": "", "sd": "" }, "33129": { "sa": "", "sd": "" }, "33130": { "sa": "", "sd": "" }, "33131": { "sa": "", "sd": "" }, "33132": { "sa": "", "sd": "" }, "33133": { "sa": "", "sd": "" }, "33134": { "sa": "", "sd": "" }, "33135": { "sa": "", "sd": "" }, "33136": { "sa": "", "sd": "" }, "33137": { "sa": "", "sd": "" }, "33138": { "sa": "", "sd": "" }, "33139": { "sa": "भविष्यति अर्थे, लिङ्लकारस्य यत् निमित्तम् तस्मिन्नेव निमित्ते, क्रियातिपत्तिं दर्शयितुम् धातोः लृङ्लकारः भवति । ", "sd": "अस्य सूत्रस्य अर्थं ज्ञातुमादौ बिन्दुद्वयं ज्ञातव्यम् -\n1. लिङ्निमित्तम् = <<हेतुहेतुमतोर्लिङ्>> [[3.3.156]] अनेन सूत्रेण 'कारणम् - फलम्' एतयोः युग्मं दर्शयितुम् लिङ्लकारस्य प्रयोगः भवति । यथा - 'कृष्णं नमेत् चेत् सुखम् यायात्' । एतत् 'कारण-फल-युग्मम्' लिङ्लकारस्य निमित्तमस्ति इत्युच्यते ।\n2. क्रियातिपत्तिः = क्रियायाः अनिष्पत्तिः (इत्युक्ते क्रियायाः अभावः) ।\nअत्र अस्य सूत्रस्य अर्थः भवति - यत्र कारण-फल-युग्मेन निर्दिष्टायाः क्रियायाः अभावः भविष्यकालस्य साहाय्येन वक्तव्यः अस्ति, तत्र लृङ्लकारस्य प्रयोगः भवति । यथा -\n1. कृष्णं अनंस्यत् चेत् सुखमयास्यत् । (यदि कृष्णस्य नमनम् करिष्यति, तर्हि सुखमपि यास्यति, परन्तु इदानीम् कृष्णस्य नमनं न कृतम्।)\n2. सुवृष्टिः चेद् अभविष्यत् तदा सुभिक्ष्यमभविष्यत् । (यदि सुवृष्टिः भविष्यति तर्हि सुभिक्ष्यमपि भविष्यति, परन्तु इदानीम् सुवृष्टिः न जाता)\nलृङ्लकारस्य विषये धातोः <<स्यतासी लृलुटोः>> [[3.1.33]] इति 'स्य' विकरणप्रत्ययः भवति ।\n" }, "33140": { "sa": "", "sd": "" }, "33141": { "sa": "", "sd": "" }, "33142": { "sa": "", "sd": "" }, "33143": { "sa": "", "sd": "" }, "33144": { "sa": "", "sd": "" }, "33145": { "sa": "", "sd": "" }, "33146": { "sa": "", "sd": "" }, "33147": { "sa": "", "sd": "" }, "33148": { "sa": "", "sd": "" }, "33149": { "sa": "", "sd": "" }, "33150": { "sa": "", "sd": "" }, "33151": { "sa": "", "sd": "" }, "33152": { "sa": "", "sd": "" }, "33153": { "sa": "", "sd": "" }, "33154": { "sa": "", "sd": "" }, "33155": { "sa": "", "sd": "" }, "33156": { "sa": "", "sd": "" }, "33157": { "sa": "", "sd": "" }, "33158": { "sa": "", "sd": "" }, "33159": { "sa": "", "sd": "" }, "33160": { "sa": "", "sd": "" }, "33161": { "sa": "विधिः, निमन्त्रणम्, आमन्त्रणम्, अधीष्टम्, सम्प्रश्नः, प्रार्थना - एतेषु अर्थेषु धातोः परः आद्युदात्तः लिङ्-प्रत्ययः भवति । ", "sd": "अनेन सूत्रेण लिङ्लकारस्य विधानम् क्रियते । लिङ्लकारस्य प्रयोगः सामान्यरूपेण 'प्रवर्तनायाम्' क्रियते । 'प्रवर्तना' इत्युक्ते 'केनापि कथं कार्यं क्रियेत - अस्मिन् विषये कृतम् बोधनम्' । एतत् बोधनमनेन सूत्रेण षट्सु अवस्थासु विभाजितमस्ति - विधिः, निमन्त्रणम्, आमन्त्रणम्, अधीष्टम्, सम्प्रश्नः, तथा प्रार्थना । क्रमेण पश्यामः -\n1. विधिः इत्युक्ते 'प्रेरणा / आज्ञा' । सामान्यरूपेण भृत्यम् / सेवकं प्रति यादृशः व्यवहारः क्रियते, तादृशं व्यवहारम् दर्शयितुम् लिङ्लकारः प्रयुज्यते । यथा - 'राजा सेवकं ब्रूते - वस्त्रं क्षालयेः'।\n2. निमन्त्रणम् - यत्र कस्मैचित् कार्यार्थम् 'भवतः उपस्थितिः आवश्यकी, कृपया आगच्छतु' इति उक्त्वा आवाहनं क्रियते, तत्र 'निमन्त्रणम्' अस्ति इति उच्यते । यथा, श्राद्धभोजनादिषु दौहित्रादेः प्रवर्तनम् - 'इह श्राद्धे भवान् भुञ्जीत' इति । निमन्त्रणस्य सामान्यरूपेण स्वीकारः एव कर्तव्यः, यतः तत्र 'उपस्थितिः आवश्यकी' इति निर्दिष्टम् अस्ति । \n3. आमन्त्रणम् इत्युक्ते कामचारानुज्ञा । यथा - 'यथेच्छम् इह भवान् भुञ्जीत' । आमन्त्रणस्य स्वीकारः अपि कर्तुं शक्यते, अस्वीकारः अपि कर्तुं शक्यते, अत 'यथेच्छम्' इति प्रयुक्तमस्ति ।\n4. अधीष्टम् इत्युक्ते सत्कारपूर्वकः (धनमादि दत्त्वा) व्यापारः । यथा - 'मम पुत्रमध्यापयेत् भवान्!' ।\n5. सम्प्रश्नः इत्युक्ते कर्तव्य-अकर्तव्यविषयकः प्रश्नः । यथा - 'किम् सः व्याकरणम् पठेत्' ?\n6. प्रार्थना इत्युक्ते याचना । यथा - 'भवान् मे अन्नं दद्यात्' ।\nएतेषु षट्सु अर्थेषु लिङ्लकारस्य प्रयोगः अनेन सूत्रेण दीयते । एतेषु अर्थेषु यः लिङ्लकारः प्रयुज्यते, तस्य निर्देशः 'विधिलिङ्लकारः' इति अपि भवति । " }, "33162": { "sa": "विधिः, निमन्त्रणम्, आमन्त्रणम्, अधीष्टम्, सम्प्रश्नः, प्रार्थना - एतेषु अर्थेषु धातोः परः आद्युदात्तः लोट् -प्रत्ययः भवति ।", "sd": "अनेन सूत्रेण लोट्लकारस्य विधानम् क्रियते । लोट्लकारस्य प्रयोगः सामान्यरूपेण 'प्रवर्तनायाम्' क्रियते । 'प्रवर्तना' इत्युक्ते 'केनापि कथं कार्यं क्रियेत - अस्मिन् विषये कृतम् बोधनम्' । एतत् बोधनमनेन सूत्रेण षट्सु अवस्थासु विभाजितमस्ति - विधिः, निमन्त्रणम्, आमन्त्रणम्, अधीष्टम्, सम्प्रश्नः, तथा प्रार्थना । क्रमेण पश्यामः -\n1. विधिः इत्युक्ते 'प्रेरणा / आज्ञा' । सामान्यरूपेण भृत्यम् / सेवकं प्रति यादृशः व्यवहारः क्रियते, तादृशं व्यवहारम् दर्शयितुम् लिङ्लकारः प्रयुज्यते । यथा - 'राजा सेवकं ब्रूते - वस्त्रं क्षालय'।\n2. निमन्त्रणम् इत्युक्ते, श्राद्धभोजनादिषु दौहित्रादेः प्रवर्तनम् । यथा - 'इह श्राद्धे भवान् भुङ्क्ताम्' । निमन्त्रणस्य स्वीकारः एव कर्तव्यः, तस्य अस्वीकारं न कर्तुं शक्यते ।\n3. आमन्त्रणम् इत्युक्ते कामचारानुज्ञा । यथा - 'यथेच्छम् इह भवान् भुङ्क्ताम्' । आमन्त्रणस्य स्वीकारः अपि कर्तुं शक्यते, अस्वीकारः अपि कर्तुं शक्यते, अत 'यथेच्छम्' इति प्रयुक्तमस्ति ।\n4. अधीष्टम् इत्युक्ते सत्कारपूर्वकः (धनमादि दत्त्वा) व्यापारः । यथा - 'मम पुत्रमध्यापयतु भवान्!' ।\n5. सम्प्रश्नः इत्युक्ते कर्तव्य-अकर्तव्यविषयकः प्रश्नः । यथा - 'किम् सः व्याकरणम् पठतु?'\n6. प्रार्थना इत्युक्ते याचना । यथा - 'भवान् मे अन्नं ददातु' ।\nएतेषु षट्सु अर्थेषु लोट्लकारस्य प्रयोगः अनेन सूत्रेण दीयते ।\nज्ञातव्यम् - <<विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्>> [[3.3.161]] इत्यनेन लिङ्लकारस्य प्रयोगः अपि एतेषु सर्वेषु अर्थेषु एव क्रियते । अतः एतेषु अर्थेषु लोट्-लकारः तथा विधिलिङ्-लकारः समानार्थिनौ स्तः ।\n" }, "33163": { "sa": "", "sd": "" }, "33164": { "sa": "", "sd": "" }, "33165": { "sa": "", "sd": "" }, "33166": { "sa": "", "sd": "" }, "33167": { "sa": "", "sd": "" }, "33168": { "sa": "", "sd": "" }, "33169": { "sa": "", "sd": "" }, "33170": { "sa": "", "sd": "" }, "33171": { "sa": "", "sd": "" }, "33172": { "sa": "", "sd": "" }, "33173": { "sa": "अप्राप्तस्य इच्छां दर्शयितुम् लिङ्लकारः लोट्लकारः च प्रयुज्येते । ", "sd": "'आशीः' इत्युक्ते 'अप्राप्तस्य इच्छा' । यद् किमपि इष्टमस्ति परन्तु न प्राप्तम् (न च लीलया प्राप्तुं शक्यते), तस्य प्राप्तेः इच्छां दर्शयितुम् लिङ्लकारस्य लोट्लकारस्य च प्रयोगः भवति । यथा -\n1. ईश्वरः मे विपुलमायुष्यम् दद्यात् / ईश्वरः मे विपुलमायुष्यम् ददातु ।\n2. भवान् चिरं जीव्यात् / भवान् चिरं जीवतु ।\n3. मम शत्रुः मृषीष्ट । मम शत्रुः म्रियताम् ।\nयः लिङ्लकारः आशीषि अर्थे प्रयुज्यते, तस्य निर्देशः 'आशीर्लिङ्लकारः' नाम्ना क्रियते । विधिलिङ्लकारस्य अपेक्षया अस्य रूपाणि भिन्नानि भवन्ति, यतः <<लिङ्गाशिषि>> [[3.4.116]] इत्यनेन आशीर्लिङ्लकारस्य प्रत्ययाः आर्धधातुकसंज्ञकाः भवन्ति । लोट्लकारस्य विषये एतादृशः भेदः नास्ति, अतः लोट्-लकारस्य आशीषि अर्थे अपि भिन्नं नाम न दीयते ।\nज्ञातव्यम् - 'आशीषि' अर्थे लोट्लकारस्य 'तु' प्रत्ययस्य तथा 'हि' प्रत्ययस्य <<तुह्योस्तातङाशिष्यन्यतरस्याम्>> [[7.1.35]] इत्यनेन वैकल्पिकः 'तातङ्' आदेशः अपि भवति । यथा - पठतु/पठतात्, लिख/लिखतात् - आदयः । यत्र लोट्-लकारः अन्येषु अर्थेषु प्रयुज्यते, तत्र तु एतादृशः आदेशः न भवति । " }, "33174": { "sa": "", "sd": "" }, "33175": { "sa": "माङ्-अव्ययस्य उपस्थितौ धातोः लुङ्लकारः भवति । ", "sd": "'माङ्' इति किञ्चन अव्ययम् । अस्य समावेशः स्वरादिगणे क्रियते । 'निषेधम्' दर्शयितुमस्य प्रयोगः क्रियते । वर्तमानसूत्रेण अस्य अव्ययस्य प्रयोगे लुङ्लकारस्यैव प्रयोगः भवति । तथा च, लुङ्लकारस्य विषये सामान्यरूपेण यः अडागमः/आडागमः विधीयते, सोऽपि <<न माङ्योगे>> [[6.4.74]] इत्यनेन माङ्-अव्ययस्य उपस्थितौ न भवति ।\nयथा - मा कार्षीः । मा लेखीत् । मा गमः ।\nज्ञातव्यम् -\n1. माङ्-इत्यत्र ङकारस्य इत्संज्ञा लोपश्च भवति, अतः 'मा' इत्येव दृश्यरूपेण अवशिष्यते ।\n2. 'मा' इत्येपि अन्यत् एकमव्ययमस्ति, यस्यापि प्रयोगः 'निषेधार्थे' एव भवति । परन्तु अस्मात् अव्ययात् परः कस्यापि लकारस्य प्रयोगः भवितुमर्हति । यथा - मा कुरु । मा लिखतु । मा गच्छ । " }, "33176": { "sa": "'स्म' यस्मात् परः अस्ति तादृशस्य माङ् अव्ययस्य विषये लुङ्लकारस्य लङ्लकारस्य वा प्रयोगः भवति । ", "sd": "'स्म' तथा 'माङ्' एते द्वे अव्यये स्तः । माङ्-अव्ययस्य प्रयोगः निषेधार्थम् भवति, तथा 'स्म' इत्यस्य प्रयोगः 'किल / खलु / सत्यम् / निश्चयेन' अस्मिन् अर्थे भवति । माङ्-अव्ययस्य उपस्थितौ धातोः <<माङि लुङ्>> [[3.3.175]] इत्यनेन केवलं लुङ्-लकारः एव विधीयते । परन्तु, अस्मात् माङ्-अव्ययात् अनन्तरम् 'स्म' अव्ययमस्ति चेत् लङ्लकारस्यापि प्रयोगः भवितुमर्हति ।\nयथा - मा स्म गमः / मा स्म गच्छः । मा स्म कार्षीत् / मा स्म करोत् ।\nज्ञातव्यम् - <<न माङ्योगे>> [[6.4.74]] इत्यनेन माङ्-अव्यवस्य उपस्थितौ धातोः अडागमः / आडागमः न विधीयते ।" }, "34001": { "sa": "", "sd": "" }, "34002": { "sa": "", "sd": "" }, "34003": { "sa": "", "sd": "" }, "34004": { "sa": "", "sd": "" }, "34005": { "sa": "", "sd": "" }, "34006": { "sa": "", "sd": "" }, "34007": { "sa": "", "sd": "" }, "34008": { "sa": "", "sd": "" }, "34009": { "sa": "", "sd": "" }, "34010": { "sa": "", "sd": "" }, "34011": { "sa": "", "sd": "" }, "34012": { "sa": "", "sd": "" }, "34013": { "sa": "", "sd": "" }, "34014": { "sa": "", "sd": "" }, "34015": { "sa": "", "sd": "" }, "34016": { "sa": "", "sd": "" }, "34017": { "sa": "", "sd": "" }, "34018": { "sa": "", "sd": "" }, "34019": { "sa": "", "sd": "" }, "34020": { "sa": "", "sd": "" }, "34021": { "sa": "", "sd": "" }, "34022": { "sa": "", "sd": "" }, "34023": { "sa": "", "sd": "" }, "34024": { "sa": "", "sd": "" }, "34025": { "sa": "", "sd": "" }, "34026": { "sa": "", "sd": "" }, "34027": { "sa": "", "sd": "" }, "34028": { "sa": "", "sd": "" }, "34029": { "sa": "", "sd": "" }, "34030": { "sa": "", "sd": "" }, "34031": { "sa": "", "sd": "" }, "34032": { "sa": "", "sd": "" }, "34033": { "sa": "", "sd": "" }, "34034": { "sa": "", "sd": "" }, "34035": { "sa": "", "sd": "" }, "34036": { "sa": "", "sd": "" }, "34037": { "sa": "", "sd": "" }, "34038": { "sa": "", "sd": "" }, "34039": { "sa": "", "sd": "" }, "34040": { "sa": "", "sd": "" }, "34041": { "sa": "", "sd": "" }, "34042": { "sa": "", "sd": "" }, "34043": { "sa": "", "sd": "" }, "34044": { "sa": "", "sd": "" }, "34045": { "sa": "", "sd": "" }, "34046": { "sa": "", "sd": "" }, "34047": { "sa": "", "sd": "" }, "34048": { "sa": "", "sd": "" }, "34049": { "sa": "", "sd": "" }, "34050": { "sa": "", "sd": "" }, "34051": { "sa": "", "sd": "" }, "34052": { "sa": "", "sd": "" }, "34053": { "sa": "", "sd": "" }, "34054": { "sa": "", "sd": "" }, "34055": { "sa": "", "sd": "" }, "34056": { "sa": "", "sd": "" }, "34057": { "sa": "", "sd": "" }, "34058": { "sa": "", "sd": "" }, "34059": { "sa": "", "sd": "" }, "34060": { "sa": "", "sd": "" }, "34061": { "sa": "", "sd": "" }, "34062": { "sa": "", "sd": "" }, "34063": { "sa": "", "sd": "" }, "34064": { "sa": "", "sd": "" }, "34065": { "sa": "", "sd": "" }, "34066": { "sa": "", "sd": "" }, "34067": { "sa": "", "sd": "" }, "34068": { "sa": "", "sd": "" }, "34069": { "sa": "लकाराः सकर्मकेभ्यः धातुभ्यः कर्तरि कर्मणि च भवन्ति । अकर्मकेभ्यः धातुभ्यः कर्तरि भावे च भवन्ति । ", "sd": "लट्, लिट्, लुट्, लृट्, लेट्, लोट्, लङ्, लिङ्, लुङ्, लृङ् - एतेषां दश-प्रत्ययानाम् सामुहिकम् नाम 'लकार' इति । एते प्रत्ययाः धातुभ्यः भिन्नेषु अर्थेषु विधीयन्ते । एतेषां प्रयोगस्य विषये अनेन सूत्रेण एतत् उच्यते -\n1. यदि धातुः सकर्मकः अस्ति, तर्हि लकारस्य प्रयोगः कर्तरिप्रयोगे भवितुमर्हति, कर्मणिप्रयोगेऽपि भवितुमर्हति । कुत्र कर्तरिप्रयोगः करणीयः कुत्र च कर्मणिप्रयोगः करणीयः एतत् तु विवक्षाधीनम् एव। यथा - 'पठ्' इति सकर्मकः धातुः । अस्मात् धातोः कर्तरिप्रयोगे अपि लट्-लकारः भवितुमर्हति (यथा - रामः पुस्तकं पठति), तथा कर्मणिप्रयोेगे अपि लट्-लकारः भवितुमर्हति (यथा - रामेण पुस्तकं पठ्यते) ।\n2. यदि धातुः अकर्मकः अस्ति, तर्हि लकारस्य प्रयोगः कर्तरिप्रयोगे भवितुमर्हति, भावेप्रयोगेऽपि भवितुमर्हति । कुत्र कर्तरिप्रयोगः करणीयः कुत्र च भावेप्रयोगः करणीयः एतत् तु विवक्षाधीनम् । यथा - 'पत्' इति अकर्मकः धातुः । अस्मात् धातोः कर्तरिप्रयोगे अपि लट्-लकारः भवितुमर्हति (यथा - फलं पतति), तथा भावेप्रयोेगे अपि लट्-लकारः भवितुमर्हति (यथा - फलेन पत्यते) ।\nज्ञातव्यम् -\n1. 'कर्तरि प्रयोगः' इत्युक्ते सः प्रयोगः यत्र लकारः कर्तारम् बोधयति । 'कर्मणि प्रयोगः' इत्युक्ते सः प्रयोगः यत्र लकारः कर्मपदम् बोधयति । 'भावे प्रयोगः' इत्युक्ते सः प्रयोगः यत्र लकारः क्रियायाः भावं बोधयति ।\n2. अस्मिन् सूत्रे 'अकर्मकेभ्यः' इत्येव उक्तमस्ति । परन्तु, 'अकर्मकेभ्यः कर्तरि भावे च भवन्ति' इत्यस्यैव अर्थः 'शेषेभ्यः कर्तरि कर्मणि च भवन्ति' इति जायते । शेषाः धातवः इत्युक्ते सकर्मकाः धातवः । अतएव 'सकर्मकेभ्यः धातुभ्यः' इति सूत्रार्थे उक्तमस्ति ।\n3. अस्मिन् सूत्रे 'लः' इति प्रथमाबहुवचनमस्ति, अतः सर्वेषाम् लकाराणाम् विषये अस्य सूत्रस्य प्रसक्तिः अस्ति ।\n4. <ऽअविवक्षितकर्माणः अपि अकर्मकाःऽ> इति किञ्चन वचनमस्ति । अस्य अर्थः अयम् - यत्र सकर्मकः धातुः कर्मपदं विना प्रयुज्यते, तत्र सः अकर्मकः अस्ति इत्येव मन्यते । अतः 'रामः पठति' इत्यत्र 'पठ्' धातुमकर्मकम् स्वीकृत्य वर्तमानसूत्रेण 'भावे प्रयोगे' तस्य लकाराः भवितुमर्हन्ति (न हि 'कर्मणि प्रयोगे') । अनेन प्रकारेण 'रामेण पठ्यते' इति भावेप्रयोगः सिद्ध्यति ।\n5. अस्मिन् सूत्रे 'च' इत्यस्य द्विवारं प्रयोगः कृतः अस्ति । अतः 'कर्तरि' इति अनुवृत्तिः 'कर्मणि' इत्यनेन सह अपि योज्यते, 'भावे' इत्यनेन सह अपि योज्यते । अतएव 'कर्मणि कर्तरि च' तथा 'भावे कर्तरि च' इति अन्वयः क्रियते ।\n" }, "34070": { "sa": "", "sd": "" }, "34071": { "sa": "", "sd": "" }, "34072": { "sa": "", "sd": "" }, "34073": { "sa": "", "sd": "" }, "34074": { "sa": "", "sd": "" }, "34075": { "sa": "", "sd": "" }, "34076": { "sa": "", "sd": "" }, "34077": { "sa": "अधिकारोऽयम् । इतः परमस्य पादस्य परिसमाप्तिपर्यन्तमुक्तानि कार्याणि लकाराणाम् स्थाने भवन्ति । ", "sd": "अस्मिन् सूत्रे 'लस्य' इति 'ल' इत्यस्य षष्ठी-एकवचनमस्ति । अत्र 'ल' इत्यनेन दशलकाराः गृह्यन्ते - लट्, लिट्, लुट्, लृट्, लेट्, लोट्, लङ्, लिङ्, लुङ्, लृङ् । एते दश लकारप्रत्ययाः धातुभ्यः परः आगच्छन्ति । एतेषां स्थाने ये आदेशाः भवन्ति ते सर्वे अस्मिन् अधिकारे पाठिताः सन्ति ।\nअस्मिन् अधिकारे उक्तानामादेशानाम् 'कृत्' संज्ञा न भवतीति स्मर्तव्यम्, यतः <<कृदतिङ्>> [[3.1.93]] इत्यनेन केवलं तिङ्-भिन्न-प्रत्ययानामेव कृत्-संज्ञा भवति । अस्मिन् अधिकारे उक्तः प्रथमः आदेशः 'तिङ्'-अस्ति, तथा अन्ये सर्वे आदेशाः तिङ्-प्रत्ययानामादेशरूपेणैव आगच्छन्ति । अतः एतेषु कस्यापि 'कृत्'संज्ञा न भवति । " }, "34078": { "sa": "लकारस्य स्थाने तिप्-तस्-झि-सिप्-थस्-थ-मिप्-वस्-मस्-त-आताम्-झ-थास्-आथाम्-ध्वम्-इड्-वहि-महिङ् एते आदेशाः भवन्ति ।", "sd": "अनेन सूत्रेण लकाराणाम् स्थाने सर्वप्रथमम् ये आदेशाः भवितुमर्हन्ति, ते पाठिताः सन्ति । एते अष्टादश-आदेशाः 'तिङ्' अनेन प्रत्याहारेण गृह्यन्ते । <<लः परस्मैपदम्>> [[1.4.99]] तथा च <<तङानावात्मनेपदम्>> [[1.4.100]] इत्यनेन एतेषाम् परस्मैपद-आत्मनेपद-संज्ञाः भवन्ति । अग्रे <<तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः>> [[1.4.101]] इत्यनेन तेषां त्रयाणाम् त्रयाणाम् प्रथम-मध्यम-उत्तमसंज्ञाः भवन्ति, तथा च <<तान्येकवचनद्विवचनबहुवचनान्येकशः>> [[1.4.102]] इत्यनेन तेषां क्रमेण एकवचन-द्विवचन-बहुवचनसंज्ञाः भवन्ति ।\nएते अष्टादश प्रत्ययाः तथा तेभ्यः विहिताः संज्ञाः एतादृशाः -\nतिप् = परस्मैपदम् + प्रथमपुरुषः + एकवचनम्\nतस् = परस्मैपदम् + प्रथमपुरुषः + द्विवचनम्\nझि = परस्मैपदम् + प्रथमपुरुषः + बहुवचनम्\nसिप् = परस्मैपदम् + मध्यमपुरुषः + एकवचनम्\nथस् = परस्मैपदम् + मध्यमपुरुषः + द्विवचनम्\nथ = परस्मैपदम् + मध्यमपुरुषः + बहुवचनम्\nमिप् = परस्मैपदम् + उत्तमपुरुषः + एकवचनम्\nवस् = परस्मैपदम् + उत्तमपुरुषः + द्विवचनम्\nमस् = परस्मैपदम् + उत्तमपुरुषः + बहुवचनम्\nत = आत्मनेपदम् + प्रथमपुरुषः + एकवचनम्\nआताम् = आत्मनेपदम् + प्रथमपुरुषः + द्विवचनम्\nझ = आत्मनेपदम् + प्रथमपुरुषः + बहुवचनम्\nथास् =आत्मनेपदम् + मध्यमपुरुषः + एकवचनम्\nआथाम् = आत्मनेपदम् + मध्यमपुरुषः + द्विवचनम्\nध्वम् = आत्मनेपदम् + मध्यमपुरुषः + बहुवचनम्\nइट् = आत्मनेपदम् + उत्तमपुरुषः + एकवचनम्\nवहि = आत्मनेपदम् + उत्तमपुरुषः + द्विवचनम्\nमहिङ् = आत्मनेपदम् + उत्तमपुरुषः + बहुवचनम्\nअनेन विभाजनेन प्रत्येकम् तिङ्-प्रत्ययस्य विशिष्टः उल्लेखः भवितुमर्हति ।\nज्ञातव्यम् -\n1. सर्वेषाम् लकाराणाम् तिङन्तरूपसिद्धौ प्रारम्भे एतेभ्यः एव एकः आदेशः विधीयते । तस्य आदेशस्य आवश्यकं चेत् अग्रे परिवर्तनम् भवति ।\n2. वर्तमानसूत्रेण 'तिङ्' तथा 'तङ्' एतयोः द्वयोः प्रत्याहारयोः निर्माणम् भवति ।\n3. एतेषामष्टादशप्रत्ययानाम् <<विभक्तिश्च>> [[1.4.104]] इत्यनेन विभक्तिसंज्ञा अपि भवति ।\n4. एतेषु सर्वेषु -\n- तिप्, सिप्, मिप् इत्यत्र पकारस्य इत्संज्ञा भवति ।\n- इट् इत्यत्र टकारस्य इत्संज्ञा भवति ।\n- महिङ् इत्यत्र ङकारस्य इत्संज्ञा भवति । तस्य ग्रहणम् 'तिङ्' तथा 'तङ्' प्रत्याहारस्य निर्माणार्थम् कृतमस्ति ।\n- 'झि' / 'झ' इत्यत्र झकारस्य इत्संज्ञा भवति । \n- तस्, थस्, वस्, मस्, आताम्, थास्, आथाम्, ध्वम् एतेषु सर्वेषु अन्तिम मकारसकारयोः <<हलन्त्यम्>> [[1.3.3]] इत्यनेन इत्संज्ञायां प्राप्तायां <<न विभक्तौ तुस्माः>> [[1.3.4]] इत्यनेन सा निषिध्यते । अतः एतेषाम् मकारसकारयोः इत्संज्ञा न भवति ।\n" }, "34079": { "sa": "टित्-लकाराणाम् विषये आत्मनेपदस्य प्रत्ययस्य टि-संज्ञकस्य ए-आदेशः भवति । ", "sd": "येषाम् लकाराणाम् नाम्नि इत्संज्ञकः टकारः आगच्छति, ते टित्-लकाराः । एते षट् सन्ति - लट्, लिट्, लुट्, लृट्, लेट्, लोट् । एतेषाम् लकाराणाम् ये आत्मनेपदस्य प्रत्ययाः सन्ति, तेषां टि-संज्ञकस्य वर्तमानसूत्रेण एकारादेशः भवति । यथा -\n1. वन्द्-धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपसिद्धिः इयम् -\nवन्द् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ वन्द् + त [<<तिप्तस्झि..>> [[3.4.78]] इत्यनेन आत्मनेपदस्य प्रथमपुरुषैकवचनस्य विवक्षायाम् 'त' प्रत्ययः]\n→ वन्द् + शप् + त [<<कर्तरि शप्>> [[3.1.68]] इत्यनेन औत्सर्गिकम् गणविकरणम् 'शप्' ]\n→ वन्द् + अ + ते [<<टित आत्मनेपदानां टेरे>> [[3.4.79]] इत्यनेन त-प्रत्ययस्य यः टिसंज्ञकः अकारः तस्य एकारादेशः]\n→ वन्दते ।\n2. लभ्-धातोः लट्-लकारस्य उत्तमपुरुषैकवचनस्य रूपसिद्धिः इयम् -\nलभ् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ लभ् + इट् [<<तिप्तस्झि..>> [[3.4.78]] इत्यनेन आत्मनेपदस्य उत्तमपुरुषैकवचनस्य विवक्षायाम् 'इट्' प्रत्ययः]\n→ लभ् + शप् + इ [<<कर्तरि शप्>> [[3.1.68]] इत्यनेन औत्सर्गिकम् गणविकरणम् 'शप्' ]\n→ लभ् + अ + ए [<<टित आत्मनेपदानां टेरे>> [[3.4.79]] इत्यनेन इ-प्रत्ययस्य यः टिसंज्ञकः इकारः तस्य एकारादेशः]\n→ लभे [<<अतो गुणे>> [[6.1.97]] इति पररूप-एकादेशः]\n3. पच्-धातोः लिट्-लकारस्य प्रथमपुरुषद्विवचनस्य रूपसिद्धिः इयम् -\nपच् + लिट् [<<परोक्षे लिट्>>[[3.2.115]] इति लिट्]\n→ पच् पच् + लिट् [<<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम्]\n→ प पच् + लिट् [<<हलादि शेषः>> [[7.4.60]] इति चकारस्य लोपः]\n→ प पच् + आताम् [<<तिप्तस्झि..>> [[3.4.78]] इत्यनेन आत्मनेपदस्य प्रथमपुरुष-द्विवचनस्य विवक्षायाम् 'आताम्' प्रत्ययः]\n→ पेच् + आताम् [<<अत एकहल्मध्येऽनादेशादेर्लिटि>> [[6.4.120]] इति अभ्यासस्य लोपः, धातोः अकारस्य च एकारः]\n→ पेच् + आते [<<टित आत्मनेपदानां टेरे>> [[3.4.79]] इत्यनेन आताम्-प्रत्ययस्य यः टिसंज्ञकः 'आम्', तस्य एकारादेशः]\n→ पेचाते\n" }, "34080": { "sa": "टित्-लकाराणाम् विषये आत्मनेपदस्य थास्-प्रत्ययस्य 'से' आदेशः भवति ।", "sd": "'थास्' इति आत्मनेपदस्य मध्यमपुरुषैकवचनस्य प्रत्ययः । टित्-लकाराणाम् विषये अस्य प्रत्ययस्य से-आदेशः भवति । यथा -\n1. वन्द्-धातोः लट्-लकारस्य मध्यमपुरुषैकवचनस्य रूपसिद्धिः इयम् -\nवन्द् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ वन्द् + थास् [<<तिप्तस्झि..>> [[3.4.78]] इत्यनेन आत्मनेपदस्य मध्यमपुरुषैकवचनस्य विवक्षायाम् 'थास्' प्रत्ययः]\n→ वन्द् + शप् + थास् [<<कर्तरि शप्>> [[3.1.68]] इत्यनेन औत्सर्गिकम् गणविकरणम् 'शप्' ]\n→ वन्द् + अ + से [<<थासस्से>> [[3.4.80]] इत्यनेन थास्-इत्यस्य से-आदेशः ]\n→ वन्दसे ।\n2. पच्-धातोः लुट्-लकारस्य मध्यमपुरुषैकवचनस्य रूपसिद्धिः इयम्\nपच् + लुट् [<<अनद्यतने लुट्>> इति लुट्]\n→ पच् + तास् + लुट् [<<स्यतासी लृलुटोः>> [[3.1.33]] इति तास्-लकारविकरणप्रत्ययः]\n→ पच् + इट् + तास् + लुट् [<<आर्द्धधातुकस्येड्वलादेः>> [[7.2.35]] इति इडागमः]\n→ पच् + इट् + तास् + थास् [<<तिप्तस्झि..>> [[3.4.78]] इत्यनेन आत्मनेपदस्य मध्यमपुरुषैकवचनस्य विवक्षायाम् 'थास्' प्रत्ययः]\n→ पच् + इट् + तास् + से [<<थासस्से>> [[3.4.80]] इत्यनेन थास्-इत्यस्य से-आदेशः]\n→ पच् + इट् + से [<<तासस्त्योर्लोपः>> [[7.4.50]] इत्यनेन तास्-प्रत्ययस्य सकारादि-प्रत्यये परे लोपः]\n→ पचिषे [<<आदेशप्रत्यययोः>> [[8.3.59]] इति षत्वम्]\n" }, "34081": { "sa": "लिट्-लकाराणाम् विषये आत्मनेपदस्य त-प्रत्ययस्य एश्-आदेशः तथा झ-प्रत्ययस्य इरेच्-आदेशः भवति ।", "sd": "अनेन सूत्रेण लिट्-लकारस्य आत्मनेपदस्य प्रथमपुरुषैकवचनस्य 'त' प्रत्ययस्य 'एश्' आदेशः तथा बहुवचनस्य 'झ' प्रत्ययस्य 'इरेच्' आदेशः दीयते । उभावपि आदेशौ <<अनेकाल्शित्सर्वस्य>> [[1.1.55]] इत्यनेन सर्वादेशौ भवतः । यथा -\n1. पच्-धातोः लिट्-लकारस्य प्रथमपुरुषएकवचनस्य रूपसिद्धिः इयम् -\nपच् + लिट् [<<परोक्षे लिट्>>[[3.2.115]] इति लिट्]\n→ पच् पच् + लिट् [<<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम्]\n→ प पच् + लिट् [<<हलादि शेषः>> [[7.4.60]] इति चकारस्य लोपः]\n→ प पच् + त [<<तिप्तस्झि..>> [[3.4.78]] इत्यनेन आत्मनेपदस्य प्रथमपुरुषैकवचनस्य विवक्षायाम् 'त' प्रत्ययः]\n→ प पच् + एश् [<<लिटस्तझयोरेशिरेच्>> [[3.4.81]] इत्यनेन त-प्रत्ययस्य एश्-आदेशः ।]\n→ पेच् + ए [<<अत एकहल्मध्येऽनादेशादेर्लिटि>> [[6.4.120]] इति अभ्यासस्य लोपः, धातोः अकारस्य च एकारः]\n→ पेचे\n2. वन्द्-धातोः लिट्-लकारस्य प्रथमपुरुषबहुवचनस्य रूपसिद्धिः इयम् -\nवन्द् + लिट् [<<परोक्षे लिट्>>[[3.2.115]] इति लिट्]\n→ वन्द् वन्द् + लिट् [<<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम्]\n→ व वन्द् + लिट् [<<हलादि शेषः>> [[7.4.60]] इति चकारस्य लोपः]\n→ व वन्द् + झ [<<तिप्तस्झि..>> [[3.4.78]] इत्यनेन आत्मनेपदस्य प्रथमपुरुषबहुवचनस्य विवक्षायाम् 'झ' प्रत्ययः]\n→ व वन्द् + इरेच् [<<लिटस्तझयोरेशिरेच्>> [[3.4.81]] इत्यनेन झ-प्रत्ययस्य इरेच्-आदेशः ।]\n→ ववन्दिरे" }, "34082": { "sa": "लिट्-लकारस्य विषये परस्मैपदस्य प्रत्ययानाम् णल्-अतुस्-उस्-थल्-अथुस्-अ-णल्-व-म-आदेशाः भवन्ति । ", "sd": "परस्मैपदस्य ये नव प्रत्ययाः <<तिप्तस्झि...>> [[3.4.78]] इत्यनेन दीयन्ते तेषाम् लिट्-लकारस्य विषये क्रमेण 'णल्-अतुस्-उस्-थल्-अथुस्-अ-णल्-व-म' एते आदेशाः भवन्ति ।\nएतेषां प्रत्ययानाम् विषये किञ्चित् अधिकम् -\n1) णल्-इत्यत्र लकार-णकारयोः इत्संज्ञा लोपश्च भवति । अस्मिन् प्रत्यये णकारस्य ग्रहणेन प्रत्ययः 'णित्' भवति, येन णित्-विशिष्टानि कार्याणि - यथा <<अतः उपधायाः>> [[7.2.116]] इत्यनेन वृद्धिः आदयः भवितुमर्हन्ति ।\n2) अतुस् / उस् एतयोः सकारः <<न विभक्तौ तुस्माः>> [[1.3.4]] इत्यनेन इत्संज्ञकः नास्ति । अस्य सकारस्य विसर्गादेशः भवति ।\n3) मध्यमपुरुषस्य बहुवचनस्य 'अ' एतम् विहाय अन्ये सर्वे आदेशाः अनेकाल्-आदेशाः सन्ति, अतः <<अनेकाल्शित्सर्वस्य>> [[1.1.55]] इत्यनेन ते सर्वादेशस्य रूपेण भवन्ति । 'अ' प्रत्ययः तु एकाल्-अस्ति, तथा च <<धातोः>> [[3.1.91]] इत्यनेन धातोः परस्य प्रत्ययस्य आदेशरूपेण उक्तः अस्ति, अतः <<आदेः परस्य>> [[1.1.54]] इत्यनेन सः आद्यादेशः भवति । इत्युक्ते, अयमकारः 'थ' इत्यस्य थकारस्य आदेशरूपेण आगच्छति । अग्रे 'अ अ' इति स्थिते <<अतो गुणे>> [[6.1.97]] इत्यनेन अकारः एकादेशः जायते ।\n'पच्' धातोः परस्मैपदस्य लिट्-लकारस्य सर्वेषाम् रूपाणाम् प्रक्रिया अधः दत्ता अस्ति ।\n1) तिप-प्रत्ययस्य णल् आदेशः -\nपच् + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट्]\n→ पच् पच् + लिट् [<<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम्]\n→ प पच् + लिट् [<<हलादि शेषः>>[[7.4.60]] इति चकारलोपः]\n→ प पच् + तिप् [<<तिप्तस्झि...>> [[3.4.78]] इति तिप्-प्रत्ययः]\n→ प पच् णल् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इति तिप्-इत्यस्य णल्-आदेशः]\n→ प पाच् + अ [<<अतः उपधायाः>> [[7.2.116]] इति अङ्गस्य उपधा-अकारस्य वृद्धिः आकारः]\n→ पपाच\n2) थस्-प्रत्ययस्य अतुस्-आदेशः -\nपच् + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट्]\n→ पच् पच् + लिट् [<<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम्]\n→ प पच् + लिट् [<<हलादि शेषः>>[[7.4.60]] इति चकारलोपः]\n→ प पच् + तस् [<<तिप्तस्झि...>> [[3.4.78]] इति तस् -प्रत्ययः]\n→ प पच् अतुस् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इति तस् -इत्यस्य अतुस् -आदेशः]\n→ पेच् अतुस् [<<अत एकहल्मध्येऽनादेशादेर्लिटि>> [[6.4.120]] इति अभ्यासस्य लोपः, धातोः अकारस्य च एकारः]\n→ पेचतुः [<<ससजुषोः रुः>> [[8.2.66]] इति रुँत्वम् । <<खरवसानयोर्विसजर्नीयः>> [[8.3.15]] इति विसर्गः]\n3) झि-प्रत्ययस्य उस्-आदेशः -\nपच् + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट्]\n→ पच् पच् + लिट् [<<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम्]\n→ प पच् + लिट् [<<हलादि शेषः>>[[7.4.60]] इति चकारलोपः]\n→ प पच् + झि [<<तिप्तस्झि...>> [[3.4.78]] इति झि-प्रत्ययः]\n→ प पच् उस् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इति झि-इत्यस्य उस्-आदेशः]\n→ पेच् उस् [<<अत एकहल्मध्येऽनादेशादेर्लिटि>> [[6.4.120]] इति अभ्यासस्य लोपः, धातोः अकारस्य च एकारः]\n→ पेचुः [<<ससजुषोः रुः>> [[8.2.66]] इति रुँत्वम् । <<खरवसानयोर्विसजर्नीयः>> [[8.3.15]] इति विसर्गः]\n4) सिप्-प्रत्ययस्य थल्-आदेशः -\nपच् + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट्]\n→ पच् पच् + लिट् [<<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम्]\n→ प पच् + लिट् [<<हलादि शेषः>>[[7.4.60]] इति चकारलोपः]\n→ प पच् + सिप् [<<तिप्तस्झि...>> [[3.4.78]] इति सिप्-प्रत्ययः]\n→ प पच् थल् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इति सिप्-इत्यस्य थल्-आदेशः]\n→ प पक् + थ [<<चोः कुः>> [[8.2.30]] इति कुत्वम्]\n→ पपक्थ\n5) थस्-प्रत्ययस्य अथुस्-आदेशः -\nपच् + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट्]\n→ पच् पच् + लिट् [<<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम्]\n→ प पच् + लिट् [<<हलादि शेषः>>[[7.4.60]] इति चकारलोपः]\n→ प पच् + थस् [<<तिप्तस्झि...>> [[3.4.78]] इति थस्-प्रत्ययः]\n→ प पच् अथुस् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इति थस्-इत्यस्य अथुस्-आदेशः]\n→ पेच् अथुस् [<<अत एकहल्मध्येऽनादेशादेर्लिटि>> [[6.4.120]] इति अभ्यासस्य लोपः, धातोः अकारस्य च एकारः]\n→ पेचथुः [<<ससजुषोः रुः>> [[8.2.66]] इति रुँत्वम् । <<खरवसानयोर्विसजर्नीयः>> [[8.3.15]] इति विसर्गः]\n6) थ-प्रत्ययस्य अ-आदेशः -\nपच् + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट्]\n→ पच् पच् + लिट् [<<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम्]\n→ प पच् + लिट् [<<हलादि शेषः>>[[7.4.60]] इति चकारलोपः]\n→ प पच् + थ [<<तिप्तस्झि...>> [[3.4.78]] इति थ-प्रत्ययः]\n→ प पच् अ [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इति प्रत्ययस्य अकारादेशः ।]\n→ पेच् अ [<<अत एकहल्मध्येऽनादेशादेर्लिटि>> [[6.4.120]] इति अभ्यासस्य लोपः, धातोः अकारस्य च एकारः । ]\n→ पेच [<<ससजुषोः रुः>> [[8.2.66]] इति रुँत्वम् । <<खरवसानयोर्विसजर्नीयः>> [[8.3.15]] इति विसर्गः]\n7) मिप्-प्रत्ययस्य णल्-आदेशः -\nपच् + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट्]\n→ पच् पच् + लिट् [<<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम्]\n→ प पच् + लिट् [<<हलादि शेषः>>[[7.4.60]] इति चकारलोपः]\n→ प पच् + मिप् [<<तिप्तस्झि...>> [[3.4.78]] इति मिप्-प्रत्ययः]\n→ प पच् णल् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इति मिप्-इत्यस्य णल्-आदेशः]\n→ प पाच्/पच् + अ [<<णलुत्तमो वा>> [[7.1.91]] इति वैकल्पिकम् णित्वम् । णित्वे <<अतः उपधायाः>> [[7.2.116]] इति अङ्गस्य उपधा-अकारस्य वृद्धिः आकारः]\n→ पपाच / पपच\n8) वस्-प्रत्ययस्य व-आदेशः -\nपच् + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट्]\n→ पच् पच् + लिट् [<<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम्]\n→ प पच् + लिट् [<<हलादि शेषः>>[[7.4.60]] इति चकारलोपः]\n→ प पच् + वस् [<<तिप्तस्झि...>> [[3.4.78]] इति वस्-प्रत्ययः]\n→ प पच् व [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इति वस्-इत्यस्य व-आदेशः]\n→ प पच् इट् व <<कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि>> [[7.2.13]] इत्यनेन पच्-धातोः लिटि इट्त्वम् । अतः <<आर्द्धधातुकस्य इड्वलादेः>> [[7.2.35]] इति इडागमः]\n→ पेच् इ व [<<अत एकहल्मध्येऽनादेशादेर्लिटि>> [[6.4.120]] इति अभ्यासस्य लोपः, धातोः अकारस्य च एकारः । ]\n→ पेचिव\n9) मस्-प्रत्ययस्य म-आदेशः -\nपच् + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट्]\n→ पच् पच् + लिट् [<<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम्]\n→ प पच् + लिट् [<<हलादि शेषः>>[[7.4.60]] इति चकारलोपः]\n→ प पच् + मस् [<<तिप्तस्झि...>> [[3.4.78]] इति वस्-प्रत्ययः]\n→ प पच् म [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इति मस्-इत्यस्य म-आदेशः]\n→ प पच् इट् म <<कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि>> [[7.2.13]] इत्यनेन पच्-धातोः लिटि इट्त्वम् । अतः <<आर्द्धधातुकस्य इड्वलादेः>> [[7.2.35]] इति इडागमः]\n→ पेच् इ म [<<अत एकहल्मध्येऽनादेशादेर्लिटि>> [[6.4.120]] इति अभ्यासस्य लोपः, धातोः अकारस्य च एकारः । ]\n→ पेचिम" }, "34083": { "sa": "विद्-धातोः लट्-लकारस्य विषये परस्मैपदस्य प्रत्ययानाम् विकल्पेन णल्-अतुस्-उस्-थल्-अथुस्-अ-णल्-व-म-आदेशाः भवन्ति ।", "sd": "विदँ (ज्ञाने) अयमदादिगणस्य धातुः । अस्मात् धातोः विहितानाम् परस्मैपदस्य प्रत्ययानाम् विकल्पेन णल्-अतुस्-उस्-थल्-अथुस्-अ-णल्-व-म- एते आदेशाः भवन्ति ।\nअत्र विदँ (ज्ञाने) अस्यैव ग्रहणम् करणीयम्, अन्येषाम् विद्-धातूनाम् न । अस्य कारणम् एतत् - अस्मिन् सूत्रे 'विदः' इति पञ्चमी-विभक्तेः प्रयोगः क्रियते । अतः <<तस्मादित्युत्तरस्य>> [[1.1.67]] इत्यनेन विद्-धातोः अनन्तरम् स्थापिताः 'विकरणेन अव्यवहिताः तिबादयः' एव स्वीकरणीयाः । अतः दिवादिगणस्य / तुदादिगणस्य / चुरादिगणस्य च विद्-धातोः ग्रहणं न करणीयम् । तथा च, रुधादिगणे अपि कश्चन विद्-धातुः अस्ति, परन्तु सः आत्मनेपदस्यैव प्रत्ययान् स्वीकरोति, अतः तस्मात् धातोः परस्मैपदस्य प्रत्ययाः न भवन्त्येव । अतः एकः एव अवशिष्टः अदादिगणस्य विद्-धातुः अत्र स्वीक्रियते ।\n" }, "34084": { "sa": "ब्रू-धातोः लट्-लकारस्य विषये परस्मैपदस्य आदितानाम् पञ्च प्रत्ययानाम् विकल्पेन णल्-अतुस्-उस्-थल्-अथुस् एते आदेशाः भवन्ति, तथा च ब्रू-धातोः आह्-आदेशः भवति ।", "sd": "ब्रूञ् (व्यक्तायां वाचि) इति अदादिगणस्य धातुः । अस्मात् धातोः लट्लकारस्य परस्मैपदस्य 'तिप्-तस्-झि-सिप्-थस्' एतेषाम् पञ्च प्रत्ययानाम् विकल्पेन (क्रमेण) णल्-अतुस्-उस्-थल्-अथुस् एते आदेशाः अनेन सूत्रेण विधीयन्ते । तथा च, एते आदेशाः यदा भवन्ति तदा ब्रू-धातोः 'आह्' इत्यपि परिवर्तनम् भवति । उदाहरणानि एतानि -\n1. प्रथमपुरुषैकवचनम् -\nब्रू + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ ब्रू + तिप् [<<तिप्तस्..>> [[3.4.78]] इति प्रथमपुरुष-एकवचनस्य तिप्-प्रत्ययः]\n→ ब्रू + शप् + तिप् [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ ब्रू + तिप् [<<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शप्-प्रत्ययस्य लुक्]\n→ आह् + णल् [<<ब्रुवः पञ्चानामादित आहो ब्रुवः>> [[3.4.84]] इति ब्रू-धातोः परस्य प्रथमपुरुषैकवचनस्य तिप्-इत्यस्य णल्-आदेशः, तथा 'ब्रू' इत्यस्य 'आह्' आदेशः]\n→ आह् अ [इत्संज्ञालोपः]\n→ आह ।\n2. प्रथमपुरुषद्विवचनम् -\nब्रू + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ ब्रू + तस् [<<तिप्तस्..>> [[3.4.78]] इति प्रथमपुरुष-द्विवचनस्य तस् -प्रत्ययः]\n→ ब्रू + शप् + तस् [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ ब्रू + तस् [<<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शप्-प्रत्ययस्य लुक्]\n→ आह् + अतुस् [<<ब्रुवः पञ्चानामादित आहो ब्रुवः>> [[3.4.84]] इति ब्रू-धातोः परस्य प्रथमपुरुषद्विवचनस्य तस्-इत्यस्य अतुस्-आदेशः, तथा 'ब्रू' इत्यस्य 'आह्' आदेशः]\n→ आहतुः [विसर्गनिर्माणम्]\n3. प्रथमपुरुषबहुवचनम्\nब्रू + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ ब्रू + झि [<<तिप्तस्..>> [[3.4.78]] इति प्रथमपुरुष-बहुवचनस्य झि-प्रत्ययः]\n→ ब्रू + शप् + झि [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ ब्रू + झि [<<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शप्-प्रत्ययस्य लुक्]\n→ आह् + उस् [<<ब्रुवः पञ्चानामादित आहो ब्रुवः>> [[3.4.84]] इति ब्रू-धातोः परस्य प्रथमपुरुषबहुवचनस्य झि-इत्यस्य उस्-आदेशः, तथा 'ब्रू' इत्यस्य 'आह्' आदेशः]\n→ आहुः [विसर्गनिर्माणम्]\n4. मध्यमपुरुषैकवचनम् -\nब्रू + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ ब्रू + सिप् [<<तिप्तस्..>> [[3.4.78]] इति मध्यमपुरुष-एकवचनस्य सिप्-प्रत्ययः]\n→ ब्रू + शप् + सिप् [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ ब्रू + सिप् [<<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शप्-प्रत्ययस्य लुक्]\n→ आह् + थल् [<<ब्रुवः पञ्चानामादित आहो ब्रुवः>> [[3.4.84]] इति ब्रू-धातोः परस्य मध्यमपुरुषैकवचनस्य सिप्-इत्यस्य थल्-आदेशः, तथा 'ब्रू' इत्यस्य 'आह्' आदेशः\n→ आथ् थ [<<आहस्थः>> [[8.2.35]] इति हकारस्य थकारः]\n→ आत्थ [<<खरि च>> [[8.4.55]] इति चर्त्वम् ]\n5. मध्यमपुरुषद्विवचनम् -\nब्रू + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ ब्रू + थस् [<<तिप्तस्..>> [[3.4.78]] इति मध्यमपुरुष-द्विवचनस्य थस् -प्रत्ययः]\n→ ब्रू + शप् + थस् [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ ब्रू + थस् [<<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शप्-प्रत्ययस्य लुक्]\n→ आह् + अथुस् [<<ब्रुवः पञ्चानामादित आहो ब्रुवः>> [[3.4.84]] इति ब्रू-धातोः परस्य मध्यमपुरुषद्विवचनस्य थस्-इत्यस्य अथुस्-आदेशः, तथा 'ब्रू' इत्यस्य 'आह्' आदेशः]\n→ आहथुः [विसर्गनिर्माणम्]" }, "34085": { "sa": "लोट्-लकारस्य प्रत्ययाः लङ्लकारवत् एव सन्ति । ", "sd": "एतत अतिदेशसूत्रम् । अनेन सूत्रेण लङ्-लकारस्य गुणाः लोट्-लकारे आरोप्यन्ते । इत्युक्ते, लङ्-लकारविशिष्टं प्रत्ययकार्यम् लोट्-लकारस्य विषये अपि भवति इत्यर्थः । यथा -\n1. <<तस्थस्थमिपाम् तान्तन्तामः>> [[3.4.101]] इत्यनेन लङ्लकारस्य विषये तस्-प्रत्ययस्य ताम्-आदेशः, थस्-प्रत्ययस्य तम्-आदेशः, थ-प्रत्ययस्य त-आदेशः तथा मिप्-प्रत्ययस्य अम्-आदेशः भवति । मिप्-प्रत्ययादेशं विहाय अत्र निर्दिष्टाः अन्ये आदेशाः लोट्-लकारस्य विषये अपि भवन्ति । यथा - पठ् धातोः लोट्लकारस्य मध्यमपुरुषद्विवचनस्य रूपम् 'पठतम्' अत्र तम्-प्रत्ययः अनेनैव सूत्रेण लभ्यते ।\n2. <<नित्यं ङितः>> [[3.4.99]] इत्यनेन लङ्-लकारस्य विषये वस्-मस्-प्रत्यययोः सकारस्य लोपः भवति । लोट्लकारस्य विषये अपि अनेन सूत्रेण अयं लोपः जायते । यथा - पठ् धातोः लोट्लकारस्य उत्तमपुरुषद्विवचनस्य रूपम् 'पठाव' अत्र व-प्रत्ययः अनेनैव सूत्रेण लभ्यते ।\nज्ञातव्यम् -\n1. <<लुङ्लङ्लृक्ष्वडुदात्तः>> [[6.4.71]] इत्यनेन लङ्लकारस्य विषये अङ्गस्य अडागमः भवति । इदमपि लङ्-विशिष्टम् कार्यम्, परन्तु इदम् कार्यमङ्गकार्यमस्ति, प्रत्ययकार्यम् न । अतः वर्तमानसूत्रेण एतत् कार्यम् न गृह्यते । अस्मिन् विषये काशिकाकारः वदति - 'विदः लटः वा [[3.4.83]] इत्यतः वाग्रहणमनुवर्तते' । इत्युक्ते, पूर्वसूत्रात् 'वा' इत्यस्य अनुवृत्तिम् स्वीकृत्य अत्र तस्य अर्थः 'व्यवस्थितविभाषा' इति स्वीकरणीयः । व्यवस्थितविभाषा इत्युक्ते 'सूत्रेण उक्तं कार्यम् केषुचन प्रयोगेषु नित्यं भवति, केषुचन अन्येषु प्रयोगेषु नैव भवति' इत्यर्थः । अत्र लोट्-लकारस्य लङ्-लकारवत् कार्यमडागमादिषु विषयेषु न भवतीति निर्देष्टुम् एतत् आवश्यकम् ।\n2. यद्यपि अनेन सूत्रेण लोट्लकारः लङ्वत् कार्यं करोति इत्युच्यते, तथापि लोट्-लकारविशिष्टाः प्रत्ययादेशाः पाठिताः सन्ति चेत् ते एव भवन्ति । यथा -\nअ) मिप्-प्रत्ययस्य लोट्-लकारस्य विषये <<मेर्नि>> [[3.4.89]] इत्यनेन नि-आदेशः विधीयते, अतः मिप्-प्रत्ययार्थम् <<तस्थस्थमिपाम् तान्तन्तामः>> [[3.4.101]] इत्यस्य प्रयोगः न भवति ।\nआ) <<इतश्च>> [[3.4.100]] इत्यनेन लङ्लकारस्य प्रत्ययेषु उपस्थितस्य इकारस्य लोपः विधीयते । तस्य अपवादरूपेण लोट्लकारस्य विषये <<एरुः>> [[3.4.86]] इति इकारस्य उकारादेशः भवति ।\n" }, "34086": { "sa": "लोट्लकारस्य विषये प्रत्ययस्य 'इ' कारस्य उकारः भवति ।", "sd": "लोट्लकारस्य विषये तिङ्प्रत्ययानाम् इकारस्य उकारः भवति । यथा -\n1. परस्मैपदस्य प्रथमपुरुषैकवचनस्य 'तिप्' प्रत्ययस्य इकारस्य उकारं कृत्वा 'तु' इति लोट्लकारस्य प्रत्ययः सिद्ध्यति ।\n2. परस्मैपदस्य प्रथमपुरुषबहुवचचनस्य 'झि' प्रत्ययस्य <<झोऽन्तः>> [[7.1.3]] इत्यनेन 'अन्ति' आदेशे कृते अस्य इकारस्य उकारं कृत्वा 'अन्तु' इति लोट्लकारस्य प्रत्ययः सिद्ध्यति ।\nज्ञातव्यम् -\n1. सिप्-प्रत्ययस्य <<सेह्यर्पिच्च>> [[3.4.87]] इत्यनेन हि-आदेशः भवति । तथा च, मिप्-प्रत्ययस्य <<मेर्नि>> [[3.4.89]] इत्यनेन नि-आदेशः भवति । अस्याम् स्थितौ एतत् वार्तिकम् प्रवर्तते - । हि-प्रत्ययस्य नि-प्रत्ययस्य च उत्वम् न भवति इत्यर्थः । अतः अस्य सूत्रस्य अत्र प्रसक्तिः नास्ति ।\n2. आत्मनेपदस्य प्रत्ययानां विषये <<टित आत्मनेपदानां टेरे>> [[3.4.79]] अनेन सूत्रेण एकारः विधीयते । एतत् सूत्रम् यद्यपि पूर्वमस्ति, तथापि नित्यत्वात् अस्यैव प्रसक्तिः भवति । अतः वर्तमानसूत्रेण आत्मनेपदानाम् विषये उकारः न विधीयते ।\n3. <<लोटो लङ्वत्>> [[3.4.85]] इत्यनेन लोट्-लकारस्य विषये लङ्लकारस्य गुणाः आरोप्यन्ते । <<इतश्च>> [[3.4.100]] इत्यनेन लङ्लकारस्य प्रत्ययेषु उपस्थितस्य इकारस्य लोपः विधीयते । अतः अनेन सूत्रेण लोट्लकारस्यापि प्रत्ययस्थस्य इकारस्य लोपे प्राप्ते वर्तमानसूत्रम् तस्य अपवादरूपेण आगच्छति ।\n" }, "34087": { "sa": "लोट्-लकारस्य सिप्-प्रत्ययस्य अपित् 'हि' आदेशः भवति । ", "sd": "मध्यमपुरुषैकवचनस्य यः सिप्-प्रत्ययः, तस्य लोट्-लकारस्य विषये 'हि' आदेशः भवति, स च अपित् अस्ति । यथा -\n1. ज्ञा-धातोः लोट्लकारस्य मध्यमपुरुषैकवचनस्य प्रक्रिया इयम् -\nज्ञा + लोट् [<<लोट् च>> [[3.3.162]] इति लोट्-लकारः]\n→ ज्ञा + सिप् [<<तिप्तस्..>> [[3.4.78]] इति मध्यमपुरुषैकवचनस्य विवक्षायाम् सिप्-प्रत्ययः]\n→ ज्ञा + श्ना + सिप् [<<क्र्यादिभ्यः श्ना>> [[3.1.81]] इति विकरणप्रत्ययः श्ना]\n→ जा + ना + सिप् [<<ज्ञाजनोर्जा>> [[7.3.79]] इति अङ्गस्य जा-आदेशः]\n→ जा + ना + हि [<<सेर्ह्यपिच्च>> [[3.4.87]] इति सिप्-प्रत्ययस्य अपित्-'हि' आदेशः]\n→ जानीहि [<<ई हल्यघोः>> [[6.4.113]] इति हलादि-अपित्-प्रत्यये परे विकरणस्य आकारस्य ईकारादेशः]\n2. पठ्-धातोः लोट्लकारस्य मध्यमपुरुषैकवचनस्य प्रक्रिया इयम् -\nपठ् + लोट् [<<लोट् च>> [[3.3.162]] इति लोट्-लकारः]\n→ पठ् + सिप् [<<तिप्तस्..>> [[3.4.78]] इति मध्यमपुरुषैकवचनस्य विवक्षायाम् सिप्-प्रत्ययः]\n→ पठ् + शप् + सिप् [<<कर्तरि शप्>> [[3.1.68]] इति औत्सर्गिकः विकरणप्रत्ययः शप् ]\n→ पठ् + अ + हि [<<सेर्ह्यपिच्च>> [[3.4.87]] इति सिप्-प्रत्ययस्य अपित्-'हि' आदेशः]\n→ पठ् + अ [<<अतो हेः>> [[6.4.105]] इति हि-प्रत्ययस्य लोपः]\n→ पठ\nज्ञातव्यम् -\n1. सिप्-प्रत्ययः पित्-अस्ति, अतः अस्मिन् सूत्रे हि-इत्यस्य अपित्-गुणधर्मः निर्दिष्टः अस्ति । केवलम् 'सेर्हिः' वदामश्चेत् हि-प्रत्ययः अपि पित्-भवेत्, येन अङ्गस्य गुणादेशस्य प्रसक्तिः स्यात् । तत् मा भूत् अतः अत्र हि-प्रत्ययः अपित्-निर्दिष्टः अस्ति । अपित्-त्वात् <<सार्वधातुकमपित्>> [[1.2.4]] इत्यनेन अयम् प्रत्ययः ङित्वत् भवति, अतः <<क्ङिति च>> [[1.1.5]] इत्यनेन अङ्गस्य गुणादेशः निषिध्यते ।\n2. <<अतो हेः>> [[6.4.105]] इत्यनेन अदन्तात् अङ्गात् परस्य हि-प्रत्ययस्य लोपः भवति ।\n" }, "34088": { "sa": "वेदानाम् विषये लोट्-लकारस्य सिप्-प्रत्ययस्य 'हि' आदेशः विकल्पेन अपित् भवति ।", "sd": "<<सेह्यर्पिच्च>> [[3.4.87]] इत्यनेन लोट्-लकारस्य विषये सिप्-प्रत्ययस्य यः हि-आदेशः विधीयते, सः वेदानाम् विषये विकल्पेन पित् अपि भवति । यथा, अग्निपुराणे 'पितॄन् लोकान् प्रीणाहि' इति उल्लेखः अस्ति । अत्र 'प्रीणाहि' इत्यस्य सिद्धौ सिप्-प्रत्ययस्य आदेशरूपेण प्रोक्तः 'हि'-प्रत्ययः 'पित्' मन्यते, येन <<ई हल्यघोः>> [[6.4.113]] इत्यनेन हलादि-ङित्-प्रत्यये परे विहितः ईकारादेशः न भवति, अतः 'प्रीणाहि' इत्येव रूपं सिद्ध्यति ।\nवेदेषु 'हि'-प्रत्ययं अपित्-स्वीकृत्य अपि उदाहरणानि दृश्यन्ते । यथा - 'प्रीणीहि हंसशरणम्' इति भागवते उल्लेखः अस्ति । अत्र हि-प्रत्ययस्य अपित्-त्वात् ङित्वद्भावेन <<ई हल्यघोः>> [[6.4.113]] इत्यनेन आकारस्य ईकारादेशः भवति । " }, "34089": { "sa": "लोट्लकारस्य मिप् -इत्यस्य नि-आदेशः भवति । ", "sd": "उत्तमपुरुषैकवचनस्य यः मिप्-प्रत्ययः, तस्य लोट्लकारस्य विषये अनेन सूत्रेण 'नि' आदेशः भवति । यथा, पठ्-धातोः लोट्-लकारस्य उत्तमपुरुषैकवचनस्य रूपसिद्धिः एतादृशी -\nपठ् + लोट् [<<लोट् च>> [[3.3.162]] इति लोट्-लकारः]\n→ पठ् + मिप् [<<तिप्तस्..>> [[3.4.78]] इति उत्तमपुरुषैकवचनस्य विवक्षायाम् मिप्-प्रत्ययः]\n→ पठ् + शप् + मिप् [<<कर्तरि शप्>> [[3.1.68]] इति औत्सर्गिकः विकरणप्रत्ययः शप् ]\n→ पठ् + अ + नि [<<मेर्नि>> [[3.4.89]] इति मिप्-प्रत्ययस्य 'नि' आदेशः]\n→ पठ् + अ + आट् + नि [<<आडुत्तमस्य पिच्च>> [[3.4.92]] इत्यनेन लोट्लकारस्य उत्तमपुरुषस्य प्रत्ययस्य आट्-आगमः]\n→ पठ् + आ + नि [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति वृद्धि-एकादेशः]\n→ पठानि\nएतत् सूत्रम् <<तस्थस्थमिपां तान्तन्तामः>> [[3.4.101]] तथा <<एरुः>> [[3.4.86]] एतयोः अपवादरूपेण आगच्छति ।\n" }, "34090": { "sa": "लोट्-लकारस्य विषये प्रत्यये विद्यमानस्य एकारस्य आम्-आदेशः भवति ।", "sd": "लोट्लकारस्य विषये तिङ्-प्रत्ययेषु यत्र एकारः दृश्यते, तत्र तस्य आम्-आदेशः भवति । परस्मैपदस्य नव प्रत्ययेषु कुत्रापि एकारः न दृश्यते, अतः अस्य सूत्रस्य प्रसक्तिः केवलमात्मनेपदस्य प्रत्ययेषु एव भवति । तनादिगणस्य तन्-धातुं स्वीकृत्य आत्मनेपदस्य सर्वेषां प्रत्ययानाम् प्रक्रिया इयम् -\n1. प्रथमपुरुषैकवचनस्य 'त' प्रत्ययः -\nतन् + लोट् [<<लोट् च>> [[3.3.162]] इति लोट्-लकारः]\n→ तन् + त [<<तिप्तस्..>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य विवक्षायाम् त-प्रत्ययः]\n→ तन् + उ + त [<<तनादिकृञ्भ्यः उः>> [[3.1.79]] इति उ-प्रत्ययः]\n→ तन् + उ + ते [<<टित आत्मनेपदानां टेरे>> [[3.4.79]] इत्यनेन अकारस्य एकारः]\n→ तन् + उ + ताम् [<<आमेतः>> [[3.4.90]] इति एकारस्य आम्-आदेशः]\n→ तनुताम्\n2. प्रथमपुरुषद्विवचनस्य 'आताम्' प्रत्ययः -\nतन् + लोट् [<<लोट् च>> [[3.3.162]] इति लोट्-लकारः]\n→ तन् + आताम् [<<तिप्तस्..>> [[3.4.78]] इति प्रथमपुरुषद्विवचनस्य विवक्षायामाताम्-प्रत्ययः]\n→ तन् + उ + आताम् [<<तनादिकृञ्भ्यः उः>> [[3.1.79]] इति उ-प्रत्ययः]\n→ तन् + उ + आते [<<टित आत्मनेपदानां टेरे>> [[3.4.79]] इत्यनेन टिसंज्ञकस्य 'आम्'-इत्यस्य एकारः]\n→ तन् + उ + आताम् [<<आमेतः>> [[3.4.90]] इति एकारस्य आम्-आदेशः]\n→ तन्वाताम् [<<इको यणचि>> [[6.1.77]] इति यणादेशः]\n3. प्रथमपुरुषबहुवचनस्य 'झ' प्रत्ययः -\nतन् + लोट् [<<लोट् च>> [[3.3.162]] इति लोट्-लकारः]\n→ तन् + झ [<<तिप्तस्..>> [[3.4.78]] इति प्रथमपुरुषबहुवचनस्य विवक्षायाम् झ-प्रत्ययः]\n→ तन् + उ + झ [<<तनादिकृञ्भ्यः उः>> [[3.1.79]] इति उ-प्रत्ययः]\n→ तन् + उ + अत [<<आत्मनेपदेष्वनतः>> [[7.1.5]] इत्यनेन झ्-इत्यस्य अत्-आदेशः]\n→ तन् + उ + अते [<<टित आत्मनेपदानां टेरे>> [[3.4.79]] इत्यनेन अत्-इत्यस्य एकारः]\n→ तन् + उ + अताम् [<<आमेतः>> [[3.4.90]] इति एकारस्य आम्-आदेशः]\n→ तन्वताम् [<<इको यणचि>> [[6.1.77]] इति यणादेशः]\n4. मध्यमपुरुषैकवचनस्य 'थास्' प्रत्ययः -\nअस्य प्रत्ययस्य <<थासस्से>> [[3.4.80]] इत्यनेन से-आदेशः भवति । अग्रे <<आमेतः>> [[3.4.90]] इत्यनेन एकारस्य आम्-आदेशे प्राप्ते <<सवाभ्यां वामौ>> [[3.4.91]] इत्यनेन अपवादत्वेन एकारस्य वकारादेशः भवति । अतः अस्य सूत्रस्य अत्र प्रसक्तिः नास्ति ।\n5. मध्यमपुरुषद्विवचनस्य 'आथाम्' प्रत्ययः -\nतन् + लोट् [<<लोट् च>> [[3.3.162]] इति लोट्-लकारः]\n→ तन् + आथाम् [<<तिप्तस्..>> [[3.4.78]] इति मध्यमपुरुषद्विवचनस्य विवक्षायामाथाम्-प्रत्ययः]\n→ तन् + उ + आथाम् [<<तनादिकृञ्भ्यः उः>> [[3.1.79]] इति उ-प्रत्ययः]\n→ तन् + उ + आथे [<<टित आत्मनेपदानां टेरे>> [[3.4.79]] इत्यनेन टिसंज्ञकस्य 'आम्'-इत्यस्य एकारः]\n→ तन् + उ + आथाम् [<<आमेतः>> [[3.4.90]] इति एकारस्य आम्-आदेशः]\n→ तन्वाथाम् [<<इको यणचि>> [[6.1.77]] इति यणादेशः]\n6. मध्यमपुरुषबहुवचनस्य 'ध्वम्' प्रत्ययः -\nअस्य प्रत्ययस्य <<टित आत्मनेपदानां टेरे>> [[3.4.79]] इत्यनेन एकारादेशेन 'ध्वे' भवति । अग्रे <<आमेतः>> [[3.4.90]] इत्यनेन एकारस्य आम्-आदेशे प्राप्ते <<सवाभ्यां वामौ>> [[3.4.91]] इत्यनेन अपवादत्वेन एकारस्य अम्-आदेशः भवति । अतः अस्य सूत्रस्य अत्र प्रसक्तिः नास्ति ।\n7. उत्तमपुरुषस्य प्रत्ययानाम् विषये <<एत ऐ>> [[3.4.93]] इत्यनेन एकारस्य ऐकारादेशः भवति, अतः वर्तमानसूत्रस्य प्रसक्तिः नास्ति ।\n" }, "34091": { "sa": "लोट्लकारस्य प्रत्ययेषु विद्यमानस्य सकारात् परस्य एकारस्य 'व' आदेशः तथा वकारात् परस्य एकारस्य अम्-आदेशः भवति । ", "sd": "लोट्लकारस्य प्रत्ययेषु सकारात्-परः एकारः मध्यमपुरुषैकवचनस्य विषये, तथा वकारात्-परः एकारः मध्यमपुरुषबहुकवचनस्य विषये दृश्यते । एतयोः क्रमेण व् तथा अमादेशौ भवतः । वन्द्-धातुं स्वीकृत्य प्रक्रिया एतादृशी भवति -\n1. मध्यमपुरुषैकवचनस्य थास्-प्रत्ययः\nवन्द् + लोट् [<<लोट् च>> [[3.3.162]] इति लोट्-लकारः]\n→ वन्द् + थास् [<<तिप्तस्..>> [[3.4.78]] इति थास्-प्रत्ययः]\n→ वन्द् + शप् + थास् [<<कर्तरि शप्>> [[3.1.68]] इति औत्सर्गिकः विकरणप्रत्ययः शप् ]\n→ वन्द् + अ + से [<<थासस्से>> [[3.4.80]] इति थास्-प्रत्ययस्य 'से' आदेशः]\n→ वन्द् + अ + स् + व [<<सवाभ्यां वामौ>> [[3.4.91]] इति सकारात् परस्य एकारस्य वकारः]\n→ वन्दस्व\n2. मध्यमपुरुषबहुवचनस्य ध्वम्-प्रत्ययः\nवन्द् + लोट् [<<लोट् च>> [[3.3.162]] इति लोट्-लकारः]\n→ वन्द् + ध्वम् [<<तिप्तस्..>> [[3.4.78]] इति ध्वम् -प्रत्ययः]\n→ वन्द् + शप् + ध्वम् [<<कर्तरि शप्>> [[3.1.68]] इति औत्सर्गिकः विकरणप्रत्ययः शप् ]\n→ वन्द् + अ + ध्वे [<<टित आत्मनेपदानां टेरे>> [[3.4.68]] इति एकारः]\n→ वन्द् + अ + ध्व् + अम् [<<सवाभ्यां वामौ>> [[3.4.91]] इति वकारात् परस्य एकारस्य अम्-आदेशः]\n→ वन्दध्वम्\n" }, "34092": { "sa": "लोट्-लकारस्य उत्तमपुरुषस्य प्रत्ययानामाट्-आगमः भवति, सः च पित् वर्तते । ", "sd": "लोट्-लकारस्य परस्मैपदस्य तथा आत्मनेपदस्यापि उत्तमपुरुषस्य प्रत्ययानाम् 'आट्' आगमः भवति । <<आद्यन्तौ टकितौ>> [[1.1.46]] इति टित्वात् अयम् स्थानिनः पूर्वमागच्छति । अयमागमः पित्-अपि अस्ति, अतः आवश्यकं चेत् अङ्गस्य गुणादेशं कारयति । अष्टमगणस्य तन्-धातुं स्वीकृत्य उदाहरणानि एतादृशानि -\n1. परस्मैपदस्य उत्तमपुरुषैकवचनस्य मिप्-प्रत्ययः\nतन् + लोट् [<<लोट् च>> [[3.3.162]] इति लोट्-लकारः]\n→ तन् + मिप् [<<तिप्तस्>>..[[3.4.78]] इति मिप्-प्रत्ययः]\n→ तन् + उ + मिप् [<<तनादिकृञ्भ्यः उः>> [[3.1.79]] इति उ-प्रत्ययः]\n→ तन् + उ + नि [<<मेर्नि>> [[3.4.89]] इति मिप्-इत्यस्य नि-आदेशः]\n→ तन् + उ + आट् + नि [<<आडुत्तमस्य पिच्च>> [[3.4.92]] इति आडागमः]\n→ तन् + ओ + आ + नि [आट्-आगमस्य पित्-त्वात् <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणः]\n→ तन् अव् आ नि [<<एचोऽयवावावः>> [[6.1.78]] इति अवादेशः]\n→ तनवानि\n2. परस्मैपदस्य उत्तमपुरुषद्विवचनस्य वस् -प्रत्ययः\nतन् + लोट् [<<लोट् च>> [[3.3.162]] इति लोट्-लकारः]\n→ तन् + वस् [<<तिप्तस्>>..[[3.4.78]] इति वस्-प्रत्ययः]\n→ तन् + उ + वस् [<<तनादिकृञ्भ्यः उः>> [[3.1.79]] इति उ-प्रत्ययः]\n→ तन् + उ + व [<<लोटो लङ्वत्>> [[3.4.85]] इत्यनेन लङातिदेशः । <<नित्यं ङितः>> [[3.4.9]] इति सकारलोपः]\n→ तन् + उ + आट् + व [<<आडुत्तमस्य पिच्च>> [[3.4.92]] इति आडागमः]\n→ तन् + ओ + आ + व [आट्-आगमस्य पित्-त्वात् <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणः]\n→ तन् + अव् + आ + व [<<एचोऽयवावावः>> [[6.1.78]] इति अवादेशः]\n→ तनवाव\n3. परस्मैपदस्य उत्तमपुरुषबहुवचनस्य मस् -प्रत्ययः\nतन् + लोट् [<<लोट् च>> [[3.3.162]] इति लोट्-लकारः]\n→ तन् + मस् [<<तिप्तस्>>..[[3.4.78]] इति मस्-प्रत्ययः]\n→ तन् + उ + मस् [<<तनादिकृञ्भ्यः उः>> [[3.1.79]] इति उ-प्रत्ययः]\n→ तन् + उ + म [<<लोटो लङ्वत्>> [[3.4.85]] इत्यनेन लङातिदेशः । <<नित्यं ङितः>> [[3.4.9]] इति सकारलोपः]\n→ तन् + उ + आट् + म [<<आडुत्तमस्य पिच्च>> [[3.4.92]] इति आडागमः]\n→ तन् + ओ + आ + म [आट्-आगमस्य पित्-त्वात् <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणः]\n→ तन् + अव् + आ + म [<<एचोऽयवावावः>> [[6.1.78]] इति अवादेशः]\n→ तनवाम\n4. आत्मनेपदस्य उत्तमपुरुषैकवचनस्य इट्-प्रत्ययः\nतन् + लोट् [<<लोट् च>> [[3.3.162]] इति लोट्-लकारः]\n→ तन् + इट् [<<तिप्तस्>>..[[3.4.78]] इति इट् -प्रत्ययः]\n→ तन् + उ + इ [<<तनादिकृञ्भ्यः उः>> [[3.1.79]] इति उ-प्रत्ययः]\n→ तन् + उ + ए [<<टित आत्मनेपदानां टेरे>> [[3.4.79]] इति इकारस्य एकारादेशः]\n→ तन् + उ + ऐ [<<एत ऐ>> [[3.4.93]] इति एकारस्य ऐकारादेशः]\n→ तन् + उ + आट् + ऐ [<<आडुत्तमस्य पिच्च>> [[3.4.92]] इति आडागमः]\n→ तन् + उ + ऐ [<<आटश्च>> [[6.1.90]] इति वृद्धि-एकादेशः]\n→ तन् + ओ + ऐ [आट्-आगमस्य पित्-त्वात् <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणः]\n→ तन् + अव् + ऐ [<<एचोऽयवावावः>> [[6.1.78]] इति अवादेशः]\n→ तनवै\n5. आत्मनेपदस्य प्रथमपुरुषैकवचनस्य वहि-प्रत्ययः\nतन् + लोट् [<<लोट् च>> [[3.3.162]] इति लोट्-लकारः]\n→ तन् + वहि [<<तिप्तस्>>..[[3.4.78]] इति वहि-प्रत्ययः]\n→ तन् + उ + वहि [<<तनादिकृञ्भ्यः उः>> [[3.1.79]] इति उ-प्रत्ययः]\n→ तन् + उ + वहे [<<टित आत्मनेपदानां टेरे>> [[3.4.79]] इति इकारस्य एकारादेशः]\n→ तन् + उ + वहै [<<एत ऐ>> [[3.4.93]] इति एकारस्य ऐकारादेशः]\n→ तन् + उ + आट् + वहै [<<आडुत्तमस्य पिच्च>> [[3.4.92]] इति आडागमः]\n→ तन् + ओ + आ + वहै [आट्-आगमस्य पित्-त्वात् <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणः]\n→ तन् + अव् + आ + वहै [<<एचोऽयवावावः>> [[6.1.78]] इति अवादेशः]\n→ तनवावहै\n6. आत्मनेपदस्य प्रथमपुरुषैकवचनस्य महिङ्-प्रत्ययः\nतन् + लोट् [<<लोट् च>> [[3.3.162]] इति लोट्-लकारः]\n→ तन् + महिङ् [<<तिप्तस्>>..[[3.4.78]] इति वहि-प्रत्ययः]\n→ तन् + उ + महि [<<तनादिकृञ्भ्यः उः>> [[3.1.79]] इति उ-प्रत्ययः]\n→ तन् + उ + महे [<<टित आत्मनेपदानां टेरे>> [[3.4.79]] इति इकारस्य एकारादेशः]\n→ तन् + उ + महै [<<एत ऐ>> [[3.4.93]] इति एकारस्य ऐकारादेशः]\n→ तन् + उ + आट् + महै [<<आडुत्तमस्य पिच्च>> [[3.4.92]] इति आडागमः]\n→ तन् + ओ + आ + महै [आट्-आगमस्य पित्-त्वात् <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणः]\n→ तन् + अव् + आ + महै [<<एचोऽयवावावः>> [[6.1.78]] इति अवादेशः]\n→ तनवामहै\n" }, "34093": { "sa": "लोट्-लकारस्य उत्तमपुरुषस्य प्रत्ययेषु विद्यमानस्य एकारस्य ऐ-आदेशः भवति । ", "sd": "लोट्-लकारस्य उत्तमपुरुषस्य प्रत्ययेषु विद्यमानस्य एकारस्य <<आमेतः>> [[3.4.90]] इत्यनेन आम्-आदेशे प्राप्ते वर्तमानसूत्रेण परत्वेन अपवादत्वेन च वर्तमानसूत्रेण ऐ-आदेशः भवति । अस्य उदाहरणानि आत्मनेपदस्य प्रत्ययेषु दृश्यन्ते, यतः परस्मैपदस्य प्रत्ययेषु एकारस्यैव प्रसक्तिः नास्ति ।\nतन्-धातुं स्वीकृत्य उदाहरणानि एतानि -\n1. आत्मनेपदस्य उत्तमपुरुषैकवचनस्य इट्-प्रत्ययः\nतन् + लोट् [<<लोट् च>> [[3.3.162]] इति लोट्-लकारः]\n→ तन् + इट् [<<तिप्तस्>>..[[3.4.78]] इति इट् -प्रत्ययः]\n→ तन् + उ + इ [<<तनादिकृञ्भ्यः उः>> [[3.1.79]] इति उ-प्रत्ययः]\n→ तन् + उ + ए [<<टित आत्मनेपदानां टेरे>> [[3.4.79]] इति इकारस्य एकारादेशः]\n→ तन् + उ + ऐ [<<एत ऐ>> [[3.4.93]] इति एकारस्य ऐकारादेशः]\n→ तन् + उ + आट् + ऐ [<<आडुत्तमस्य पिच्च>> [[3.4.92]] इति आडागमः]\n→ तन् + उ + ऐ [<<आटश्च>> [[6.1.90]] इति वृद्धि-एकादेशः]\n→ तन् + ओ + ऐ [आट्-आगमस्य पित्-त्वात् <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणः]\n→ तन् + अव् + ऐ [<<एचोऽयवावावः>> [[6.1.78]] इति अवादेशः]\n→ तनवै\n2. आत्मनेपदस्य उत्तमपुरुषद्विवचनस्य वहि-प्रत्ययः\nतन् + लोट् [<<लोट् च>> [[3.3.162]] इति लोट्-लकारः]\n→ तन् + वहि [<<तिप्तस्>>..[[3.4.78]] इति वहि-प्रत्ययः]\n→ तन् + उ + वहि [<<तनादिकृञ्भ्यः उः>> [[3.1.79]] इति उ-प्रत्ययः]\n→ तन् + उ + वहे [<<टित आत्मनेपदानां टेरे>> [[3.4.79]] इति इकारस्य एकारादेशः]\n→ तन् + उ + वहै [<<एत ऐ>> [[3.4.93]] इति एकारस्य ऐकारादेशः]\n→ तन् + उ + आट् + वहै [<<आडुत्तमस्य पिच्च>> [[3.4.92]] इति आडागमः]\n→ तन् + ओ + आ + वहै [आट्-आगमस्य पित्-त्वात् <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणः]\n→ तन् + अव् + आ + वहै [<<एचोऽयवावावः>> [[6.1.78]] इति अवादेशः]\n→ तनवावहै\n3. आत्मनेपदस्य उत्तमपुरुषबहुवचनस्य महिङ्-प्रत्ययः\nतन् + लोट् [<<लोट् च>> [[3.3.162]] इति लोट्-लकारः]\n→ तन् + महिङ् [<<तिप्तस्>>..[[3.4.78]] इति वहि-प्रत्ययः]\n→ तन् + उ + महि [<<तनादिकृञ्भ्यः उः>> [[3.1.79]] इति उ-प्रत्ययः]\n→ तन् + उ + महे [<<टित आत्मनेपदानां टेरे>> [[3.4.79]] इति इकारस्य एकारादेशः]\n→ तन् + उ + महै [<<एत ऐ>> [[3.4.93]] इति एकारस्य ऐकारादेशः]\n→ तन् + उ + आट् + महै [<<आडुत्तमस्य पिच्च>> [[3.4.92]] इति आडागमः]\n→ तन् + ओ + आ + महै [आट्-आगमस्य पित्-त्वात् <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणः]\n→ तन् + अव् + आ + महै [<<एचोऽयवावावः>> [[6.1.78]] इति अवादेशः]\n→ तनवामहै\n" }, "34094": { "sa": "", "sd": "" }, "34095": { "sa": "", "sd": "" }, "34096": { "sa": "", "sd": "" }, "34097": { "sa": "", "sd": "" }, "34098": { "sa": "", "sd": "" }, "34099": { "sa": "ङित्-लकारेषु उत्तमपुरुषस्य प्रत्ययस्य अन्तिम-सकारस्य नित्यं लोपः भवति । ", "sd": "येषु लकारेषु ङकारः इत्संज्ञकः अस्ति, ते लकाराः 'ङित् लकाराः' नाम्ना ज्ञायन्ते । एतेषु लकारेषु उत्तमपुरुषस्य प्रत्ययेषु विद्यमानस्य सकारस्य लोपः भवति ।\nउत्तमपुरुषे केवलं परस्मैपदस्य वस्-प्रत्ययः तथा मस्-प्रत्ययः एतौ एव सकारान्तौ स्तः । अतः एतयोः सकारस्य ङित्-लकारेषु लोपः भवति ।\nउदाहरणानि एतादृशानि -\n1. पठ्-धातोः लङ्लकारस्य उत्तमपुरुष-द्विवचनस्य रूपसिद्धिः -\nपठ् + लङ् [<<अनद्यतने लङ्>> [[3.2.111]] इति लङ्]\n→ अट् + पठ् + लङ् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अट् + पठ् + वस् [<<तिप्तस्..>> [[3.4.78]] इत्यनेन वस्-प्रत्ययः]\n→ अट् + पठ् + शप् + वस् [<<कर्तरि शप्>> [[3.1.68]] इति औत्सर्गिकम् विकरणम् शप्]\n→ अट् + पठ् + अ + व [<<नित्यं ङितः>> [[3.4.99]] इति सकारलोपः]\n→ अट् + पठ् + आ + व [<<अतो दीर्घो यञि>> [[7.3.101]] इत्यनेन अङ्गस्य दीर्घः]\n→ अपठाव\n2. पठ्-धातोः विधिलिङ्लकारस्य उत्तमपुरुष-बहुवचनस्य रूपसिद्धिः -\nपठ् + लिङ् [<<विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्>> [[3।3161]] इति लिङ्लकारः]\n→ पठ् + मस् [<<तिप्तस्..>> [[3.4.78]] इत्यनेन वस्-प्रत्ययः]\n→ पठ् + शप् + मस् [<<कर्तरि शप्>> [[3.1.68]] इति औत्सर्गिकम् विकरणम् शप्]\n→ पठ् + अ + यासुट् + मस् [<<यासुट् परस्मैपदेषूदात्तो ङिच्च>> [[3.4.103]] इति यासुट्-आगमः]\n→ पठ् + अ + या + मस् [<<लिङःसलोपोऽनन्त्यस्य>> [[7.2.79]] इति सकारलोपः]\n→ पठ् + अ + इय् + मस् [<<अतो येयः>> [[7.2.80]] इति 'या'-इत्यस्य इय्-आदेशः]\n→ पठ् + अ + इ + मस् [<<लोपो व्योर्वलि>> [[6.1.66]] इति यकारलोपः]\n→ पठ् + अ + इ + म [<<नित्यं ङितः>> [[3.4.99]] इति सकारलोपः]\n→ पठ् + ए + म [<<आद्गुणः>> [[6.1.87]] इति गुणः]\n→ पठेम\nएवमेव लृङ्लकारस्य अपठिष्याव, अपठिष्याम -एतयोः रूपयोः , तथा लुङ्लकारस्य अपाठिष्व, अपाठिष्म - एतयोः रूपयोः अनेन सूत्रेण सकारलोपः विधीयते ।\nज्ञातव्यम् -\n1. अस्मिन् सूत्रे 'उत्तमस्य सः' इति तदन्तविधिः अस्ति । <<येन विधिस्तदन्तस्य>> [[1.1.72]] इत्यनेन 'सकारान्तस्य उत्तमपुरुषस्य प्रत्ययः' इति अर्थः सिद्ध्यति । <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यनेन अन्तिमवर्णस्य लोपः भवति । अतः 'उत्तमपुरुषस्य अन्तिम-सकारस्य लोपः भवति' इति अर्थः जायते ।\n2. अस्मिन् सूत्रे पूर्वसूत्रेभ्यः 'वा' इत्यस्य अनुवृत्तिः मा भूत् एतत् स्पष्टीकर्तुमस्मिन् सूत्रे 'नित्यम्' इत्यस्य ग्रहणम् कृतमस्ति ।\n" }, "34100": { "sa": "ङित्-लकाराणाम् विषये परस्मैपदस्य प्रत्यये विद्यमानस्य इकारस्य लोपः भवति । ", "sd": "ङित्-लकारस्य परस्मैपदस्य प्रत्ययेषु विद्यमानस्य इकारस्य अनेन सूत्रेण लोपः भवति । परस्मैपदस्य तिप्, झि तथा सिप् - एतेषां विषये अस्य सूत्रस्य प्रसक्तिः अस्ति । मिप्-प्रत्ययस्य ङित्-लकारेषु <<तस्थस्थमिपां तांतंतामः>> [[3.4.101]] इत्यनेन अम्-आदेशः भवति, अतः मिप्-प्रत्ययस्य विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा -\n1. पठ्-धातोः लुङ्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् एतादृशं सिद्ध्यति -\nपठ् + लुङ् [<<लुङ्>> [[3.2.110]] इति लुङ्]\n→ पठ् + च्लि + ल् [<<च्लि लुङि>> [[3.1.43]] इति लुङ्लकारस्य प्रत्यये परे लकारविकरणम् 'च्लि']\n→ पठ् + सिच् + ल् [<<च्लेः सिच्>> [[3.1.44]] इति च्ले-इत्यस्य सिच्-आदेशः ।]\n→ अट् पठ् + स् + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अट्-आगमः]\n→ अ पठ् + स् + तिप् [<<तिप्तस्..>> [[3.4.78]] इति तिप्]\n→ अ पठ् + स् + त् [<<इतश्च>> [[3.4.100]] इति 'ति' इत्यस्य इकारस्य लोपः]\n→ अ पठ् + इट् स् + त् [<<आर्द्धधातकस्य इड्वलादेः>> [[7.2.35]] इति इडागमः]\n→ अ पठ् + इ स् + ईट् त् [<<अस्तिसिचोऽपृक्ते>> [[7.3.96]] इति ईट्-आगमः]\n→ अ पठ् / पाठ् + इ स् + ई त् [<<अतो हलादेर्लघोः>> [[7.2.7]] इति वैकल्पिकवृद्धिः]\n→ अ पठ्/पाठ् + इ + ई + त् [<<इट ईटि>> [[8.2.28]] इति सकारलोपः]\n→ अपठीत् / अपाठीत् [ अनेन वार्तिकेन सवर्णदीर्घ-एकादेशे कर्तव्ये सिच्लोपः सिद्धः अस्ति । अतः <<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः]\n2. पठ्-धातोः लङ्लकारस्य प्रथमपुरुष-बहुवचनस्य रूपम् एतादृशं सिद्ध्यति -\nपठ् + लङ् [<<अनद्यतने लङ्>> [[3.2.111]] इति लङ्]\n→ अट् + पठ् + लङ् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अट्-आगमः]\n→ अ + पठ् + झि [<<तिप्तस्..>> [[3.4.78]] इति तिप्]\n→ अ + पठ् + शप् + झि [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ अ + पठ् + शप् + अन्ति [<<झोऽन्तः>> [[7.1.3]] इति झकारस्य अन्त्-आदेशः]\n→ अ + पठ् + अ + अन्त् [<<इतश्च>> [[3.4.100]] इति 'अन्ति' प्रत्ययस्य इकारस्य लोपः]\n→ अपठन्त् [<<अतो गुणे>> [[6.1.97]] इति गुण-एकादेशः]\n→ अपठन् [<<संयोगान्तस्य लोपः>> [[8.2.23]] इति तकारलोपः]\n3. पठ्-धातोः लृङ्लकारस्य मध्यमपुरुषैकवचनस्य रूपम् एतादृशं सिद्ध्यति -\nपठ् + लृङ् [<<लिङ्निमित्ते लृङ् क्रियातिपत्तौ>> [[3.3.139]] इति लृङ्]\n→ पठ् + स्य + लृङ् [<<स्यतासी लृलुटोः>> [[3.1.33]] इति स्य-विकरणप्रत्ययः]\n→ अट् + पठ् + स्य + लङ् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अट्-आगमः]\n→ अ + पठ् + इट् + स्य + लङ् [<<आर्धधातुकस्य इड्वलादेः>> [[7.2.35]] इति इडागमः]\n→ अ + पठ् + इट् + स्य + सिप् [<<तिप्तस्..>> [[3.4.78]] इति सिप्]\n→ अ + पठ् + इट् + स्य + स् [<<इतश्च>> [[3.4.100]] इति 'सि' प्रत्ययस्य इकारस्य लोपः]\n→ अपठिस्यरुँ [<<ससजुषोः रुँः>> [[8.2.66]] इति सकारस्य रुँत्वम्]\n→ अपठिस्यः [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति रेफस्य विसर्गः]\n→ अपठिष्यः [<<आदेशप्रत्यययोः>> [[8.3.59]] इति षत्वम्]\nज्ञातव्यम् - यद्यपि <<लोटो लङ्वत्>> [[3.4.85]] इत्यनेन लोट्-लकारस्य प्रक्रिया लङ्लकारवत् भवति, तथापि लोट्-लकारस्य विषये <<एरुः>> [[3.4.86]] इत्यनेन इकारस्य उकारादेशः भवति । अतः लोट्लकारस्य विषये <<इतश्च>> [[3.4.100]] इत्यस्य प्रसक्तिः नास्ति । " }, "34101": { "sa": "ङित्-लकाराणाम् विषये तस्, थस्, थ, मिप् - एतेषां चतुर्णाम् प्रत्ययानाम् क्रमेण ताम्, तम्, त, अमः - एते आदेशाः भवन्ति । ", "sd": "तस्, थस्, थ, तथा मिप् एते चत्वारः परस्मैपदस्य प्रत्ययाः सन्ति । ङित्-लकाराणाम् विषये एतेषां क्रमेण ताम्, तम्, त, तथा अम् - एते आदेशाः भवन्ति । <<अनेकाल्शित्सर्वस्य>> [[1.1.55]] इत्यनेन एते सर्वे सर्वादेशरूपेण आगच्छन्ति । क्रमेण पश्यामः -\n1. प्रथमपुरुष-द्विवचनस्य तस्-प्रत्ययस्य ताम्-आदेशः भवति ।\nयथा, पठ् धातोः विधिलिङ्लकारस्य प्रथमपुरुषद्विवचनस्य प्रक्रिया इयम् -\nपठ् + लिङ् [<<विधिनिमन्त्रणा...>> [[3.3.161]] इति लिङ्]\n→ पठ् + तस् [<<तिप्तस्..>> [[3.4.78]] इति तस्]\n→ पठ् + शप् + तस् [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ पठ् + अ + ताम् [<<तस्थस्थमिपां तांतंतामः>> [[3.4.101]] इति तस्-प्रत्ययस्य ताम्-आदेशः]\n→ पठ् + अ + यासुट् + ताम् [<<यासुट् परस्मैपदेषूदात्तो ङिच्च>> [[3.4.103]] इति यासुट्-आगमः]\n→ पठ् + अ + यास् + सुट् + ताम् [<<सुट् तिथोः>> [[3.4.107]] इति सुट्-आगमः]\n→ पठ् + अ + या + ताम् [<<लिङः सलोपोऽनन्त्यस्य>> [[7.2.79]] इति सकारयोः लोपः]\n→ पठ् + अ + इय् + ताम् [<<अतो येयः>> [[7.2.80]] इति या-इत्यस्य इय्-आदेशः]\n→ पठ् + अ + इ + ताम् [<<लोपो व्योर्वलि>> [[6.1.66]] इति यकारलोपः]\n→ पठेताम् [<<आद्गगुणः>> [[6.1.87]] इति गुण-एकादेशः]\n2. मध्यमपुरुष-द्विवचनस्य थस्-प्रत्ययस्य तम्-आदेशः भवति ।\nयथा, पठ्-धातोः लोट्लकारस्य मध्यमपुरुषद्विवचस्य प्रक्रिया इयम् -\nपठ् + लोट् [<<लोट् च>> [[3.3.162]] इति लोट्]\n→ पठ् + थस् [<<तिप्तस्...>> [[3.4.78]] इति थस्]\n → पठ् + शप् + तस् [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ पठ् + अ + तम् [ <<लोटो लङ्वत्>> [[3.4.85]] इति लोट्लकारः लङ्वत् भवति । अतः ङित्-लकारविशिष्टं कार्यमप्यत्र भवितुमर्हति । अतएव <<तस्थस्थमिपां तांतंतामः>> [[3.4.101]] इति थस्-प्रत्ययस्य तम्-आदेशः भवति]\n→ पठतम् ।\n3. मध्यमपुरुष-बहुवचनस्य थ-प्रत्ययस्य त-आदेशः भवति ।\nयथा, पठ्-धातोः लङ्-लकारस्य मध्यमपुरुष-बहुवचनस्य प्रक्रिया इयम् -\nपठ् + लङ् [<<अनद्यतने लङ्>> [[3.2.111]] इति लङ्]\n→ अट् + पठ् + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अट् + पठ् + थ [<<तिप्तस्...>> [[3.4.78]] इति थ]\n→ अट् + पठ् + शप् + थ [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ अ + पठ् + अ + त [<<तस्थस्थमिपां तांतंतामः>> [[3.4.101]] इति थ-प्रत्ययस्य त-आदेशः]\n→ अपठत\n4. उत्तमपुरुष-एकवचनस्य मिप्-प्रत्ययस्य अम्-आदेशः भवति ।\nयथा, पठ्-धातोः लृङ्-लकारस्य उत्तमपुरुषैकवचनस्य प्रक्रिया इयम् -\nपठ् + लृङ् [<<लिङ्निमित्ते लृङ् क्रियातिपत्तौ>> [[3.3.139]] इति लृङ्]\n→ पठ् + स्य + ल् [<<स्यतासी लृलुटोः>> [[3.1.33]] इति स्य-विकरणप्रत्ययः]\n→ अट् + पठ् + स्य + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अट् + पठ् + इट् + स्य + ल् [<<आर्धधातुकस्य इड्वलादेः>> [[7.2.35]] इति इडागमः]\n→ अट् + पठ् + इट् + स्य + मिप् [<<तिप्तस्...>> [[3.4.78]] इति मिप्]\n→ अ + पठ् + इट् + स्य + अम् [<<तस्थस्थमिपां तांतंतामः>> [[3.4.101]] इति मिप्-प्रत्ययस्य अम्-आदेशः]\n→ अपठिष्यम् [<<आदेशप्रत्यययोः>> [[8.3.59]] इति षत्वम्]\nज्ञातव्यम् - अस्मिन् सूत्रे चत्वारः स्थानिनः, चत्वारश्च आदेशाः दीयन्ते । अतः <<यथासंख्यमनुदेशः समानाम्>> [[1.3.10]] इत्यनेन एते आदेशाः यथासंख्यम् भवन्ति ।\n" }, "34102": { "sa": "लिङ्-लकारस्य प्रत्ययानाम् सीयुट्-आगमः भवति । ", "sd": "अनेन सूत्रेण लिङ्लकारस्य सर्वेषां प्रत्ययानाम् 'सीयुट्' आगमः विधीयते । वस्तुतः अयमागमः सर्वेषामष्टादश-प्रत्ययानाम् विषये उक्तः अस्ति, परन्तु परस्मैपदस्य नव-प्रत्ययानाम् विषये सीयुट्-इत्यस्य अपवादत्वेन <<यासुट् परस्मैपदेषूदात्तो ङिच्च>> [[3.4.103]] इत्यनेन यासुट्-आगमः भवति । अतः वर्तमानसूत्रेण उक्तः सीयुट्-आगमः केवलमात्मनेपदस्य प्रत्ययानाम् विषये एव दृश्यते । सीयुट्-इत्यत्र टकारः इत्संज्ञकः अस्ति अतः तस्य लोपः भवति, उकारश्च उच्चारणार्थः अस्ति । अतः 'सीय्' इत्येव अवशिष्यते ।\n1. लभ्-धातोः आशीर्लिङ्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् -\nलभ् + लिङ् [<<आशिषि लिङ्लोटौ>> [[3.3.173]] इति लिङ्लकारः]\n→ लभ् + त [<<तिप्तस्..>> [[3.4.78]] इत्यनेन आत्मनेपदस्य प्रथमपुरुषैकवचनस्य त-प्रत्ययः। <<लिङ्गाशिषि>> [[3.4.116]] इत्यनेन अयमार्धधातुकसंज्ञकः भवति]\n→ लभ् सीयुट् + त [<<लिङस्सीयुट्>> [[3.4.102]] इति सीयुट् आगमः]\n→ लभ् + सीय् + सुट् + त् [<<सुट् तिथोः>> [[3.4.107]] इति सुट्-आगमः]\n→ लभ् + सी + स् + त [यकारस्य <<लोपो व्योर्वलि>> [[6.1.66]] इति लोपः]\n→ लभ्सीष्ट [<<आदेशप्रत्यययोः>> [[8.3.59]] इति सुट्-आगमस्य सकारस्य षत्वम्]\n→ लभ्सीष्ट [<<ष्टुना ष्टुः>> [[8.4.41]] इति ष्टुत्वम्]\n→ लप्सीष्ट [<<खरि च>> [[8.4.55]] इति चर्त्वम्]\n2. लभ्-धातोः विधिलिङ्लकारस्य प्रथमपुरुषैकवचनम् -\nलभ् + लिङ् [<<विधिनिमन्त्रणा..>> [[3.3.161]] इति लिङ्लकारः]\n→ लभ् + त [<<तिप्तस्..>> [[3.4.78]] इत्यनेन आत्मनेपदस्य प्रथमपुरुषैकवचनस्य त-प्रत्ययः]\n→ लभ् + शप् + त [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ लभ् + अ + सीयुट् + त [<<लिङस्सीयुट्>> [[3.4.102]] इति सीयुट् आगमः]\n→ लभ् + अ + सीय् + सुट् + त [<<सुट् तिथोः>> [[3.4.107]] इति सुट्-आगमः]\n→ लभ् + अ + ईय् + त [<<लिङःसलोपोऽनन्त्यस्य>> [[7.2.79]] इति सकारलोपः]\n→ लभ् + अ + ई + त [<<लोपो व्योर्वलि>> [[6.1.66]] इति यकारलोपः]\n→ लभेत [<<आद्गुणः>> [[6.1.87]] इति गुणः]\n" }, "34103": { "sa": "लिङ्लकारस्य परस्मैपदस्य प्रत्ययानामुदात्तः ङित् यासुट् आगमः भवति । ", "sd": "लिङ्लकारस्य विषये परस्मैपदस्य सर्वेषाम् नव-प्रत्ययानाम् <<लिङस्सीयुट्>> [[3.4.102]] इत्यनेन सीयुट्-आगमे प्राप्ते अपवादत्वेन अनेन सूत्रेण 'यासुट्' इति आगमः विधीयते । टित्-त्वात् अयमागमः <<आद्यन्तौ टकितौ>> [[1.1.46]] इत्यनेन प्रत्ययस्य आद्यवयवरूपेण आगच्छति । 'यासुट्' इत्यत्र टकारस्य इत्संज्ञा लोपश्च भवति, उकारः उच्चारणार्थः अस्ति । अतः 'यास्' इत्येव अवशिष्यते ।\nअयम् यासुट्-आगमः वर्तमानसूत्रेण उदात्तः तथा ङित् इति विधीयते । किम् प्रयोजनमस्य ङित्वस्य ? अस्मिन् आगमे परे <<क्ङिति च>> [[1.1.5]] इत्यनेन अङ्गस्य गुणवृद्ध्योः निषेधः भवेत् इति स्पष्टीकर्तुमयमागमः 'ङित्' अस्तीति निर्दिष्टमस्ति । (परन्तु आशीर्लिङ्लकारस्य विषये <<किदाशिषि>> [[3.4.104]] इत्यनेन एतत् ङित्वं बाधित्वा अयमागमः कित्-भवति - इति अपि स्मर्तव्यम्) ।\n1. भू-धातोः आशीर्लिङ्लकारस्य प्रथमपुरुषैकवचनम् -\nभू + लिङ् [<<आशिषि लिङ्लोटौ>> [[3.3.173]] इति लिङ्लकारः]\n→ भू + तिप् [<<तिप्तस्..>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः । <<लिङ्गाशिषि>> [[3.4.116]] इत्यनेन अयमार्धधातुकसंज्ञकः भवति]\n→ भू + यासुट् + ति [<<किदाशिषि>> [[3.4.104]] इत्यनेन उदात्तः कित् यासुट् आगमः । अतः <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इत्यनेन उकारस्य गुणे प्राप्ते आगमस्य कित्त्वात् <<क्ङिति च>> [[1.1.5]] इति गुणनिषेधः]\n→ भू + यास् + सुट् + ति [<<सुट् तिथोः>> [[3.4.107]] इति सुट्-आगमः]\n→ भूयास्स्त् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\nभूयास्त् [<<स्कोः संयोगाद्योरन्ते च>> [[8.2.29]] इत्यनेन 'स्स्' इत्यस्य प्रथमसकारस्य तकारे परे (झलि परे) लोपः]\n→ भूयात् [<<स्कोः संयोगाद्योरन्ते च>> [[8.2.29]] इत्यनेन स्त्' इत्यस्य सकारस्य पदान्ते लोपः]\n2. भू-धातोः विधिलिङ्लकारस्य प्रथमपुरुषैकवचनम् -\nभू + लिङ् [<<विधिनिमन्त्रणा..>> [[3.3.161]] इति लिङ्लकारः]\n→ भू + तिप् [<<तिप्तस्..>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः । <<तिङ्शित् सार्वधातुकम्>> [[3.4.113]] इत्यनेन अयम् सार्वधातुकसंज्ञः भवति]\n→ भू + शप् + ति [<<कर्तरि शप्>> [[3.1.68]] इति सार्वधातुकप्रत्यये परे औत्सर्गिकं गणविकरणम् शप्]\n→ भो + अ + ति [<<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणः]\n→ भो + अ + यासुट् + ति [<<यासुट् परस्मैपदेषूदात्तो ङिच्च>> [[3.4.103]] इति यासुट्-आगमः ]\n→ भो + अ + यास् + सुट् + ति [<<सुट् तिथोः>> [[3.4.107]] इति सुट्-आगमः]\n→ भो + अ + या + ति [<<लिङः सलोपोऽनन्त्यस्य>> [[7.2.79]] इति द्वयोः सकारयोः लोपः]\n→ भो + अ + इय् + ति [<<अतो येयः>> [[7.2.80]] इति 'या' इत्यस्य इय्-आदेशः]\n→ भो + अ + इय् + त् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ भो + अ + इत् [<<लोपो व्योर्वलि>> [[6.1.66]] इति यकारलोपः]\n→ भव + इत् [<<एचोऽयवायावः>> [[6.1.78]] इति अवादेशः]\n→ भवेत् [<<आद्गुणः>> [[6.1.87]] इति गुण-एकादेशः]\nविशेषः - अस्मिन् सूत्रे यासुट्-आगमः 'उदात्तः' पाठितः अस्ति । अस्मिन् आगमे 'आ' इति एकः एव स्वरः विद्यते, अतः अस्य स्वरस्य उदात्तत्वमनेन विधीयते । परन्तु; वस्तुतः सर्वे प्रत्ययाः <<आद्युदात्तश्च>> [[3.1.3]] इत्यनेन मूलरूपेणैव आद्युदात्ताः सन्ति । तर्हि 'यासुट्' इत्यस्य पुनः उदात्तविधानस्य किम् प्रयोजनम् - इति प्रश्नः उपतिष्ठति । अस्मिन् विषये भाष्यकारः वदति - 'एतत् ज्ञापयति आचार्यः आगमाः अनुदात्ताः भवन्ति - इति' । इत्युक्ते, अत्र 'उदात्त'ग्रहणमस्य ज्ञापकमस्ति यत् आगमाः औत्सर्गिकरूपेण अनुदात्ताः भवन्ति । " }, "34104": { "sa": "आशीर्लिङ्लकारस्य प्रत्ययानाम् परस्मैपदेषु यासुट् आगमः भवति, स च उदात्तः कित् भवति । ", "sd": "आशीर्लिङ्लकारस्य विषये <<यासुट् परस्मैपदेषूदात्तो ङिच्च>> [[3.4.103]] इत्यनेन उदात्त-ङित्-यासुट्-आगमे प्राप्ते ; वर्तमानसूत्रेण अयमेव आगमः 'कित्' विधीयते, ङित् न । कित्त्वस्य ङित्भिन्नम् मुख्यम् प्रयोजनमस्ति 'सम्प्रसारणम्' । <<वचिस्वपियजादीनां किति>> [[6.1.15]] इत्यनेन कित्-प्रत्यये परे यत् सम्प्रसारणम् विधीयते तत् ङित्-परे न भवति । आशीर्लिङ्लकारस्य विषये एतत् सम्प्रसारणम् कर्तव्यम् - इति निर्देष्टुमत्र आगमस्य कित्-ग्रहणं क्रियते । गुणवृद्धिनिषेधः तु <<क्ङिति च>> [[1.2.5]] इत्यनेन ङित्-प्रत्ययस्य विषये यथा विधीयते तथैव कित्-प्रत्ययस्य विषयेऽपि विधीयते ।\nयथा, वच्-धातोः आशीर्लिङ्लकारस्य प्रथमपुरुषैकवचनम् एतादृशम् -\nवच् + लिङ् [<<आशिषि लिङ्लोटौ>> [[3.3.173]] इति लिङ्लकारः]\n→ वच् + तिप् [<<तिप्तस्..>> [[3.4.78]] इति तिप् । <<लिङ्गाशिषि>> [[3.4.116]] इत्यनेन अयमार्धधातुकसंज्ञकः भवति । ]\n→ वच् + यासुट् + ति [<<किदाशिषि>> [[3.4.104]] इति उदात्तः कित् यासुट्-आगमः ]\n→ वच् + यास् + सुट् + ति [<<सुट्तिथोः>> [[3.4.107]] इति सुट्-आगमः]\n→ उच् + यास् + स् + ति [<<वचिस्वपियजादीनां किति>> [[6.1.15]] इति सम्प्रसारणम्]\n→ उच् + यास् + स् + त् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ उच् + या + स् + त् [<<स्कोः संयोगाद्योरन्ते च>> [[8.2.29]] इति झलि परे सकारलोपः]\n→ उच्यात् [<<स्कोः संयोगाद्योरन्ते च>> [[8.2.29]] इति पदान्ते सकारलोपः]\n" }, "34105": { "sa": "लिङ्लकारस्य 'झ' प्रत्ययस्य रन्-आदेशः भवति । ", "sd": "लिङ्-लकारस्य विषये आत्मनेपदस्य प्रथमपुरुषबहुवचनस्य 'झ' प्रत्ययस्य रन्-आदेशः भवति । <<अनेकाल्शित्सर्वस्य>> [[1.1.55]] इत्यनेन अयम् सर्वादेशरूपेण आगच्छति । यथा -\n1) लभ्-धातोः विधिलिङ्लकारस्य प्रथमपुरुष-बहुवचनस्य रूपम् -\nलभ् + लिङ् [<<विधिनिमन्त्रणा..>> [[3.3.161]] इति लिङ्]\n→ लभ् + शप् + लिङ् [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ लभ् + अ + झ [<<तिप्तस्..>> [[3.4.78]] इति आत्मनेपदस्य प्रथमपुरुष-बहुवचनस्य विवक्षायाम् 'झ' प्रत्ययः ]\n→ लभ् + अ + सीयुट् + झ [<<लिङस्सीयुट्>> [[3.4.102]] इति सीयुट्-आगमः]\n→ लभ् + अ + ईय् + झ [<<लिङःसलोपोऽनन्त्यस्य>> [[7.2.79]] इति सकारलोपः]\n→ लभ् + अ + ईय् + रन् [<<झस्य रन्>> [[3.4.105]] इति झकारस्य रन्-आदेशः]\n→ लभ् + अ + ई + रन् [<<लोपो व्योर्वलि>> [[6.1.66]] इति यकारलोपः]\n→ लभेरन् [<<आद्गुणः>> [[6.1.87]] इति गुण-एकादेशः]\n2) लभ्-धातोः आशीर्लिङ्लकारस्य प्रथमपुरुषबहुवचनस्य रूपम् -\nलभ् + लिङ् [<<आशिषि लिङ्लोटौ>> [[3.3.173]] इति लिङ्लकारः]\n→ लभ् + झ [<<तिप्तस्..>> [[3.4.78]] इत्यनेन आत्मनेपदस्य प्रथमपुरुष-बहुवचनस्य झ-प्रत्ययः।]\n→ लभ् + सीयुट् + झ [<<लिङस्सीयुट्>> [[3.4.102]] इति सीयुट्-आगमः]\n→ लभ् + सीय् + रन् [<<झस्य रन्>> [[3.4.105]] इति झकारस्य रन्-आदेशः]\n→ लभ् + सी + रन् [<<लोपो व्योर्वलि>> [[6.1.66]] इति यकारलोपः]\n→ लप् + सी + रन् [<<खरि च>> [[8.4.55]] इति चर्त्वम्]\n→ लप्सीरन्\n" }, "34106": { "sa": "लिङ्लकारस्य 'इट्' प्रत्ययस्य अकारादेशः भवति ।", "sd": "लिङ्-लकारस्य विषये आत्मनेपदस्य उत्तमपुरुष-एकवचनस्य 'इट्' प्रत्ययस्य अकारादेशः भवति । यथा -\n1) लभ्-धातोः विधिलिङ्लकारस्य उत्तमपुरुषैकवचनस्य रूपम् -\nलभ् + लिङ् [<<विधिनिमन्त्रणा..>> [[3.3.161]] इति लिङ्]\n→ लभ् + शप् + लिङ् [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ लभ् + अ + इट् [<<तिप्तस्..>> [[3.4.78]] इति आत्मनेपदस्य उत्तमपुरुषैकवचनस्य विवक्षायाम् 'इट्' प्रत्ययः ]\n→ लभ् + अ + सीयुट् + इ [<<लिङस्सीयुट्>> [[3.4.102]] इति सीयुट्-आगमः]\n→ लभ् + अ + ईय् + इ [<<लिङःसलोपोऽनन्त्यस्य>> [[7.2.79]] इति सकारलोपः]\n→ लभ् + अ + ईय् + अ [<<इटोऽत्>> [[3.4.106]] इति इट्-प्रत्ययस्य अकारादेशः]\n→ लभेय [<<आद्गुणः>> [[6.1.87]] इति गुण-एकादेशः]\n2) लभ्-धातोः आशीर्लिङ्लकारस्य उत्तमपुरुषैकवचनस्य रूपम् -\nलभ् + लिङ् [<<आशिषि लिङ्लोटौ>> [[3.3.173]] इति लिङ्लकारः]\n→ लभ् + इट् [<<तिप्तस्..>> [[3.4.78]] इत्यनेन आत्मनेपदस्य उत्तमपुरुषैकवचनस्य विवक्षायाम् 'इट्' प्रत्ययः।]\n→ लभ् + सीयुट् + इ [<<लिङस्सीयुट्>> [[3.4.102]] इति सीयुट्-आगमः]\n→ लभ् + सीय् + अ [<<इटोऽत्>> [[3.4.106]] इति इट्-प्रत्ययस्य अकारादेशः]\n→ लप् + सीय् + अ [<<खरि च>> [[8.4.55]] इति चर्त्वम्]\n→ लप्सीय\n" }, "34107": { "sa": "लिङ्लकारस्य प्रत्ययेषु उपस्थितस्य तकारस्य थकारस्य च सुट्-आगमः भवति । ", "sd": "लिङ्लकारस्य परस्मैपदस्य आत्मनेपदस्य च प्रत्ययेषु यः तकारः / थकारः दृश्यते, तस्य अनेन सूत्रेण सुट्-आगमः भवति । अतः अस्य सूत्रस्य प्रसक्तिः - तिप् तस्, थस्, थ, त, आताम्, थास्, आथाम् एतेषां विषये अस्ति ।\nपरस्मैपदस्य प्रत्ययानां विषये <<यासुट् परस्मैपदेषूदात्तो ङिच्च>> [[3.4.103]] इत्यनेन यासुट्-आगमः अपि विधीयते । अतः परस्मैपदस्य तिप्/तस्/थस्/थ - एतेषां विषये द्वौ आगमौ दृश्येते - 'यासुट्' तथा 'सुट्' । एतयोः यासुट्-आगमः सुट्-आगमात् पूर्वमागच्छति ।\nतथैव, आत्मनेपदस्य प्रत्ययानां विषये <<लिङस्सीयुट्>> [[3.4.102]] इत्यनेन सीयुट्-आगमः अपि विधीयते । अतः आत्मनेपदस्य त, आताम्, थास्, आथाम् एतेषां विषये अपि द्वौ आगमौ दृश्येते - 'सीयुट्', तथा 'सुट्' । एतयोः सीयुट्-आगमः सुट्-आगमात् पूर्वमागच्छति ।\nएतत् स्मर्तव्यम् यत् अयमागमः 'प्रत्ययस्य' आगमः नास्ति, केवलं प्रत्ययस्थतकारथकारयोः आगमः अस्ति । अतः टित्वात् <<आद्यन्तौ टकितौ>> [[1.1.46]] इत्यनेन अयम् तकारात् / थकारात् पूर्वमागच्छति, प्रत्ययात् पूर्वम् न ।\nउदाहरणानि अधः दत्तानि सन्ति । प्रक्रियायामत्र केवलं मुख्यानि सोपानानि दर्शितानि सन्ति, सम्पूर्णा प्रक्रिया न दर्श्यते इति ज्ञातव्यम् ।\n(अ) विधिलिङ्लकारस्य परस्मैपदस्य उदाहरणानि -\n1) पठ् + शप् + यासुट् + सुट् + तिप् [<<सुट् तिथोः>> [[3.4.107]] इति तकारस्य सुट्-आगमः]\n→ पठ् + अ + यास् + स् + त् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ पठ् + अ + इय् + त् [<<लिङः सलोपोऽनन्त्यस्य>> [[7.2.79]] इति सकारलोपः । <<अतो येयः>> [[7.2.80]] इति या-इत्यस्य इय्-आदेशः]\n→ पठेत् [<<लोपो व्योर्वलि>> [[6.1.66]] इति यकारलोपः, <<आद्गुणः>> [[6.1.87]] इति गुण-एकादेशः]\n→ पठेत्\n2) पठ् + शप् + यासुट् + सुट् + तस् / थस् / थ [<<सुट् तिथोः>> [[3.4.107]] इति तकारस्य सुट्-आगमः]\n→ पठ् + अ + यास् + स् + ताम् / तम् / त [<<तस्थस्थमिपां तान्तन्तामः>> [[3.4.101]]\n→ पठ् + अ + इय् + ताम् / तम् / त [<<लिङः सलोपोऽनन्त्यस्य>> [[7.2.79]] इति सकारलोपः । <<अतो येयः>> [[7.2.80]] इति या-इत्यस्य इय्-आदेशः]\n→ पठेताम् / पठेतम् / पठेत [<<लोपो व्योर्वलि>> [[6.1.66]] इति यकारलोपः, <<आद्गुणः>> [[6.1.87]] इति गुण-एकादेशः]\n(आ) विधिलिङ्लकारस्य आत्मनेपदस्य उदाहरणानि -\n1) लभ् + शप् + सीयुट् + सुट् + त [<<सुट् तिथोः>> [[3.4.107]] इति तकारस्य सुट्-आगमः]\n→ लभ् + अ + ईय् + त [<<लिङः सलोपोऽनन्त्यस्य>> [[7.2.79]] इति सकारलोपः]\n→ लभेत [<<लोपो व्योर्वलि>> [[6.1.66]] इति यकारलोपः, <<आद्गुणः>> [[6.1.87]] इति गुण-एकादेशः]\n2) लभ् + शप् + सीयुट् + आताम् / आथाम्\n→ लभ् + अ + सीय् + आ स् ताम् / आ स् थाम् [<<सुट् तिथोः>> [[3.4.107]] इति तकारथकारयोः सुट्-आगमः । अयमागमः प्रत्ययात् पूर्वम् न आगच्छति, अपितु तकारात् / थकारात् पूर्वमागच्छति ।]\n→ लभ् + अ + ईय् + आताम् / आथाम् [<<लिङः सलोपोऽनन्त्यस्य>> [[7.2.79]] इति सकारलोपः]\n→ लभेयाताम् / लभेयाथाम् [ <<आद्गुणः>> [[6.1.87]] इति गुण-एकादेशः]\n3) लभ् + शप् + सीयुट् + सुट् + थास् [<<सुट् तिथोः>> [[3.4.107]] इति थकारस्य सुट्-आगमः]\n→ लभ् + अ + ईय् + थास् [<<लिङः सलोपोऽनन्त्यस्य>> [[7.2.79]] इति सकारलोपः]\n→ लभेथाः [<<लोपो व्योर्वलि>> [[6.1.66]] इति यकारलोपः, <<आद्गुणः>> [[6.1.87]] इति गुण-एकादेशः, विसर्गनिर्माणम्]\n(इ) आशीर्लिङ्लकारस्य परस्मैपदस्य उदाहरणानि -\n1) पठ् + यासुट् + सुट् + तिप् [<<सुट् तिथोः>> [[3.4.107]] इति तकारस्य सुट्-आगमः]\n→ पठ् + यास् + स् + त् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ पठ्यात् [द्वयोः सकारयोः <<स्कोः संयोगाद्योरन्ते च>> [[8.2.29]] इति लोपः]\n2) पठ् + यासुट् + सुट् + तस् / थस् / थ [<<सुट् तिथोः>> [[3.4.107]] इति तकारस्य सुट्-आगमः]\n→ पठ् + यास् + स् + ताम् / तम् / त [<<तस्थस्थमिपां तान्तन्तामः>> [[3.4.101]]\n→ पठ्यास्ताम् / पठ्यास्तम् / पठ्यास्त [<<झलो झलि>> [[8.2.26]] इति सकारलोपः]\n(ई) आशीर्लिङ्लकारस्य आत्मनेपदस्य उदाहरणानि -\n1) लभ् + सीयुट् + सुट् + त [<<सुट् तिथोः>> [[3.4.107]] इति तकारस्य सुट्-आगमः]\n→ लभ् + सी + स् + त [<<लोपो व्योर्वलि>> [[6.1.66]] इति यकारलोपः]\n→ लप्सीष्ट [<<आदेशप्रत्यययोः>> [[8.3.59]] इति सकारस्य षकारः । <<ष्टुना ष्टुः>> [[8.4.41]] इति तकारस्य टकारः । <<खरि च>> [[8.4.55]] इति भकारस्य पकारः]\n2) लभ् + सीयुट् + आताम् / आथाम्\n→ लभ् + सीय् + आ स् ताम् / आ स् थाम् [<<सुट् तिथोः>> [[3.4.107]] इति तकारथकारयोः सुट्-आगमः । अयमागमः प्रत्ययात् पूर्वम् न आगच्छति, अपितु तकारात् / थकारात् पूर्वमागच्छति ।]\n→ लप्सीयास्ताम् / लप्सीयास्थाम् <<खरि च>> [[8.4.55]] इति भकारस्य पकारः]\n3) लभ् + सीयुट् + सुट् + थास् [<<सुट् तिथोः>> [[3.4.107]] इति तकारस्य सुट्-आगमः]\n→ लभ् + सी + स् + थास् [<<लोपो व्योर्वलि>> [[6.1.66]] इति यकारलोपः]\n→ लप्सीष्ठाः [<<आदेशप्रत्यययोः>> [[8.3.59]] इति सकारस्य षकारः । <<ष्टुना ष्टुः>> [[8.4.41]] इति थकारस्य ठकारः । <<खरि च>> [[8.4.55]] इति भकारस्य पकारः]" }, "34108": { "sa": "लिङ्लकारस्य 'झि' प्रत्ययस्य जुस्-आदेशः भवति । ", "sd": "लिङ्-लकारस्य विषये परस्मैपदस्य प्रथमपुरुषबहुवचनस्य 'झि' प्रत्ययस्य जुस्-आदेशः भवति । <<अनेकाल्शित्सर्वस्य>> [[1.1.55]] इत्यनेन अयम् सर्वादेशरूपेण आगच्छति । यथा -\n1) पठ्-धातोः विधिलिङ्लकारस्य प्रथमपुरुष-बहुवचनस्य रूपम् -\nपठ् + लिङ् [<<विधिनिमन्त्रणा..>> [[3.3.161]] इति लिङ्]\n→ पठ् + शप् + लिङ् [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ पठ् + शप् + झि [<<तिप्तस्..>> [[3.4.78]] इति परस्मैपदस्य प्रथमपुरुष-बहुवचनस्य विवक्षायाम् 'झि' प्रत्ययः ]\n→ पठ् + अ + यासुट् + झि [<<यासुट्परस्मैपदेषूदात्तो ङिच्च>> [[3.4.103]] इति यासुट्-आगमः]\n→ पठ् + अ + या + झ [<<लिङःसलोपोऽनन्त्यस्य>> [[7.2.79]] इति सकारलोपः]\n→ पठ् + अ + इय् + झ [<<अतो येयः>> [[3.4.105]] इति या-इत्यस्य इय्-आदेशः]\n→ पठ् + अ + इय् + जुस् [<<झेर्जुस्>> [[3.4.108]] इति झि-प्रत्ययस्य जुस्-आदेशः]\n→ पठ् + अ + इय् + उस् [<<चुटु>> [[1.3.7]] इति जकारस्य इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ पठेयुः [विसर्गनिर्माणम्]\n2) पठ् -धातोः आशीर्लिङ्लकारस्य प्रथमपुरुषबहुवचनस्य रूपम् -\nपठ् + लिङ् [<<आशिषि लिङ्लोटौ>> [[3.3.173]] इति लिङ्लकारः]\n→ पठ् + झि [<<तिप्तस्..>> [[3.4.78]] इत्यनेन परस्मैपदस्य प्रथमपुरुष-बहुवचनस्य झि-प्रत्ययः।]\n→ पठ् + यासुट् + झि [<<किदाशिषि>> [[3.4.104]] इति यासुट्-आगमः]\n→ पठ् + यास् + जुस् [<<झेर्जुस्>> [[3.4.108]] इति झि-प्रत्ययस्य जुस्-आदेशः]\n→ पठ् + यास् + उस् [<<चुटु>> [[1.3.7]] इति जकारस्य इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ पठ्यासुः [विसर्गनिर्माणम्]\n" }, "34109": { "sa": "सिच्-प्रत्ययात् परस्य, अभ्यस्तात् परस्य, तथा विद्-धातुभ्यः परस्य ङित्-लकारस्य झि-प्रत्ययस्य जुस्-आदेशः भवति । ", "sd": "सिच्-प्रत्ययात् परस्य, अभ्यस्तात् परस्य, तथा विद्-धातुभ्यः परस्य ङित्-लकारस्य परस्मैपदस्य प्रथमपुरुषबहुवचनस्य झि-प्रत्ययस्य अनेन सूत्रेण जुस्-आदेशः विधीयते । क्रमेण पश्यामः -\n1. लुङ्लकारस्य विषये धातोः <<च्लि लुङि>> [[3.1.43]] इत्यनेन 'च्लि' विकरणप्रत्ययः भवति । अस्य औत्सर्गिकरूपेण <<च्लेः सिच्>> [[3.1.44]] इति सिच्-आदेशः विधीयते । अस्मात् परस्य परस्मैपदस्य झि-प्रत्ययस्य अनेन सूत्रेण जुस्-आदेशः भवति । यथा, कृ-धातोः लुङ्लकारस्य प्रथमपुरुषबहुवचनस्य प्रक्रिया इयम् -\nकृ + लुङ् [<<लुङ्>> [[3.2.110]] इति लुङ्]\nकृ + च्लि + ल् [<<च्लि लुङि>> [[3.1.43]] इति लुङ्लकारस्य प्रत्यये परे लकारविकरणम् 'च्लि']\n→ कृ + सिच् + ल् [<<च्लेः सिच्>> [[3.1.44]] इति च्ले-इत्यस्य सिच्-आदेशः ।\n→ कृ + स् + ल् [चकारस्य इत्संज्ञा, लोपः । इकारः उच्चारणार्थः ।]\n→ अट् + कृ + स् + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ + कृ + स् + झि [<<तिप्तस्झि...>> [[3.4.78]] इति प्रथमपुरुष-बहुवचनस्य विवक्षायाम् परस्मैपदिभ्यः धातुभ्यः झि-प्रत्ययः]\n→ अ + कृ + स् + जुस् [<<सिजभ्यस्तविदिभ्यश्च>> [[3.4.109]] इति सिच्-प्रत्ययात् परस्य झि-प्रत्ययस्य जुस्-आदेशः]\n→ अ + कार् + स् उस् [<<सिचि वृद्धिः परस्मैपदेषु>> [[7.2.1]] इत्यनेन सिच्-प्रत्यये परे इगन्तस्य अङ्गस्य वृद्धिः । ऋकारस्य वृद्धिः रपरः आकारः ।]\n→ अकार्षुः [विसर्गनिर्माणम्, <<आदेशप्रत्यययोः>> [[8.3.59]] इति षत्वम्]\n2. अभ्यस्त-संज्ञकात् परस्य ङित्-लकारस्य परस्मैपदस्य प्रथमपुरुषबहुवचनस्य झि-प्रत्ययस्य अनेन सूत्रेण जुस्-आदेशः विधीयते । यथा - दा-धातोः परस्मैपदस्य लङ्लकारस्य प्रथमपुरुषबहुवचनस्य रूपम् -\nदा + लङ् [<<अनद्यतने लङ्>> [[3.2.111]] इति लङ्]\n→ अट् + दा + लङ् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ + दा + झि [<<तिप्तस्..>> [[3.4.78]] इति प्रथमपुरुषबहुवचनस्य झि-प्रत्ययः]\n→ अ + दा + शप् + झि [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ अ + दा + झि [<<जुहोत्यादिभ्यः श्लुः>> [[2.4.75]] इति शपः श्लुः (लोपः) ]\n→ अ + दा + दा + झि [<<श्लौ>> [[6.1.10]] इति द्वित्वम्]\n→ अ + द + दा + झि [<<ह्रस्वः>> [[7.4.59]] इति अभ्यासस्य ह्रस्वः]\n→ अ + द + दा + जुस् [<<अदभ्यस्तात्>> [[7.1.4]] इति अभ्यस्तात् परस्य झि-इत्यस्य अत्-आदेशे प्राप्ते अपवादत्वेन <<सिजभ्यस्तविदिभ्यश्च>> [[3.4.109]] इति झि-इत्यस्य जुस्-आदेशः]\n→ अ + द + द् + उस् [<<श्नाभ्यस्तयोरातः>>[[6.4.112]] इति आकारलोपः]\n→ अददुः\n3. विद्-धातोः परस्य ङित्-लकारस्य परस्मैपदस्य प्रथमपुरुषबहुवचनस्य झि-प्रत्ययस्य अनेन सूत्रेण जुस्-आदेशः विधीयते । यथा, विद्-धातोः विधिलिङ्-लकारस्य प्रथमपुरुषबहुवचनस्य रूपम् -\nविद् + लिङ् [<<विधिनिमन्त्रणा...>> [[3.3.161]] इति लिङ्]\n→ विद् + झि [<<तिप्तस्..>> [[3.4.78]] इति प्रथमपुरुषबहुवचनस्य झि-प्रत्ययः]\n→ विद् + शप् + झि [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ विद् + झि [<<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शपः श्लुः (लोपः) ]\n→ विद् + जुस् [ <<सिजभ्यस्तविदिभ्यश्च>> [[3.4.109]] इति झि-इत्यस्य जुस्-आदेशः]\n→ विदुः [<<श्नाभ्यस्तयोरातः>>[[6.4.112]] इति आकारलोपः]\n" }, "34110": { "sa": "आकारात् अङ्गात् परस्य यः सिच्, तस्य लुकि अपि तस्मात् परस्य ङित्-लकारस्य झि-प्रत्ययस्य जुस्-आदेशः भवति । ", "sd": "अस्य सूत्रस्य अर्थम् स्पष्टरूपेण ज्ञातुम् सूत्रे 'लुगन्तात्' इति पदम् स्वीकरणीयम् । अस्मिन विषये भाष्ये एकं वार्तिकं दीयते - । इत्युक्ते, सिच्-प्रत्ययस्य यदि लुक्-भवति, तर्हि तस्मात् परस्य झि-प्रत्ययस्य जुस्-आदेशः तदैव भवति यदा अङ्गमाकारान्तमस्ति ।\nयथा, भ्वादिगणस्य पा-धातोः लुङ्लकारस्य प्रथमपुरुषबहुवचनस्य प्रक्रिया इयम् -\nपा + लुङ् [<<लुङ्>> [[3.2.110]] इति लुङ्]\n→ पा + च्लि + ल् [<<च्लि लुङि>> [[3.1.43]] इति च्लि]\n→ पा + सिच् + ल् [<<च्लेः सिच्>> [[3.1.44]] इति सिच्]\n→ पा + ल् [<<गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु>> [[2.4.77]] इति सिचः लुक्]\n→ अट् + पा + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ + पा + झि [<<तिप्तस्..>> [[3.4.78]] इति झि-प्रत्ययः]\n→ अ + पा + जुस् [<<आतः>> [[3.4.110]] इत्यनेन आकारान्त-अङ्गात् परस्य सिच्-लुकः परस्य झि-इत्यस्य जुस्-आदेशः\n→ अपुस् [<<उस्यपदान्तात्>> [[6.1.96]] इति आकार-उकारयोः पररूप-एकादेशः उकारः]\n→ अपुः [विसर्गनिर्माणम्]\nयदि अङ्गमाकारान्तम् नास्ति तर्हि अस्य सूत्रस्य प्रसक्तिः न भवति । यथा, भू-धातोः लुङ्लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रियायाम् यद्यपि <<गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु>> [[2.4.77]] इति सिचः लुक् भवति, तथापि अङ्गमाकारान्तम् नास्ति अतः अस्मात् परस्य झि-इत्यस्य जुस्-आदेशः न भवति । " }, "34111": { "sa": "", "sd": "" }, "34112": { "sa": "", "sd": "" }, "34113": { "sa": "धातुभ्यः विहिताः तिङ्-प्रत्ययाः तथा शित्-प्रत्ययाः सार्वधातुकसंज्ञकाः सन्ति । ", "sd": "धातोः विहिताः प्रत्ययाः 'सार्वधातुक' तथा 'आर्धधातुक' एतादृशाः विभाजिताः सन्ति । अनेन सूत्रेण सार्वधातुक-संज्ञा विधीयते । <<तिप्तस्झि...>> [[3.4.78]] इत्यनेन निर्दिष्टाः तिङ्-प्रत्ययाः, तथा येषु प्रत्ययेषु शकारः इत्संज्ञकः अस्ति ते प्रत्ययाः सार्वधातुकसंज्ञकाः सन्ति ।\nसार्वधातुकसंज्ञकप्रत्ययानामावली इयम् -\nअ) तिङ्-प्रत्ययाः -\nतिप्, तस्, झि, सिप्, थस्, थ, मिप्, वस्, मस्, त, आताम्, झ, थास्, आथाम् ध्वम्, इट्, वहि, महिङ्\nआ) शित्-प्रत्ययाः -\n[विकरणप्रत्ययाः] शप्, श्यन्, श्नु, श, श्नम्, श्ना\n[कृत्-प्रत्ययः] शतृ, शानच्, शानन्, चानश्, खश्, श, एश्, शध्यै, शध्यैन् ।\nएतादृशमाहत्य 33 प्रत्ययाः सार्वधातुकसंज्ञकाः सन्ति ।\nज्ञातव्यम् - आशीर्लिङ्-लकारस्य विषये <<लिङाशिषि>> [[3.4.116]] इत्यनेन तथा लिट्-लकारस्य विषये <<लिट् च>> [[3.4.115]] इत्यनेन तिङ्-प्रत्ययाः आर्धधातुकसंज्ञकाः भवन्ति ।\nसार्वधातुक-संज्ञायाः प्रयोगः <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]], <<सार्वधातुकमपित्>> [[1.2.4]] एतादृशेषु सूत्रेषु कृतः अस्ति । " }, "34114": { "sa": "तिङ्-प्रत्ययं विहाय शित्-प्रत्ययं विहाय च धातुभ्यः विहिताः अन्ये प्रत्ययाः आर्धधातुकसंज्ञकाः भवन्ति । ", "sd": "धातोः विहिताः प्रत्ययाः 'सार्वधातुक' तथा 'आर्धधातुक' एतादृशाः विभाजिताः सन्ति । एतेषु <<तिङ्शित्सार्वधातुकम्>> [[3.4.113]] इत्यनेन सार्वधातुकसंज्ञा विधीयते । येषाम् प्रत्ययानाम् इयम् संज्ञा न भवति, ते सर्वे अस्मिन् सूत्रे 'शेषः' इत्यनेन गृह्यन्ते । एतेषाम् सर्वेषाम् 'आर्धधातुक'संज्ञा भवति । यथा - क्त, क्तवतु, ल्युट् , उ, णिच् - आदयः ।\nज्ञातव्यम् -\n1. अस्मिन् सूत्रे 'शेष' इत्यनेन केवलम् धातोः विहिताः प्रत्ययाः एव गृह्यन्ते, यतः एतत् सूत्रम् धात्वधिकारे अस्ति ।\n2. आशीर्लिङ्-लकारस्य विषये <<लिङाशिषि>> [[3.4.116]] इत्यनेन तथा लिट्-लकारस्य विषये <<लिट् च>> [[3.4.115]] इत्यनेन तिङ्-प्रत्ययाः अपि आर्धधातुकसंज्ञकाः भवन्ति ।\nआर्धधातुकसंज्ञायाः प्रयोगः <<आर्धधातुके>> [[2.4.35]], <<आर्धधातुकस्येड् वलादेः>> [[7.2.35]] एतादृशेषु सूत्रेषु कृतः अस्ति ।\n" }, "34115": { "sa": "लिट्-लकारस्य तिङ्-प्रत्ययाः साक्षात् आर्धधातुकाः सन्ति । ", "sd": "<<तिङ्शित्सार्वधातुकम्>> [[3.4.113]] इत्यनेन सर्वेषाम् तिङ्-प्रत्ययानाम् सार्वधातुकसंज्ञा विधीयते । अस्य अपवादत्वेन लिट्-लकारस्य विषये तिङ्-प्रत्ययाः वर्तमानसूत्रेण आर्धधातुकसंज्ञकाः भवन्ति ।\nअस्य प्रयोगः यत्र दृश्यते तस्य कानिचन उदाहरणानि एतानि -\n1. <<अस्तेर्भूः>> [[2.4.52]] इत्यनेन अस्-धातोः आर्धधातुके प्रत्यये परे भू-आदेशः भवितुमर्हति । लिट्-लकारस्य प्रत्ययाः आर्धधातुकसंज्ञकाः सन्ति, अतः लिट्-लकारस्य विषये अस्य सूत्रस्य प्रयोगं भवितुमर्हति । अतः अस्-धातोः लिट्-लकारस्य रूपाणि 'बभूव बभूवतुः बभूवुः' एतादृशानि भवन्ति ।\n2. पठ्-धातोः लिट्लकारस्य मध्यमपुरुषैकवचनम् 'पेठिथ' इति भवति । लिट्-लकारस्य मध्यमपुरुषैकवचनस्य प्रत्ययः 'थल्' इति वलादि-आर्धधातुकः अस्ति, अतः पठ्-धातोः अस्मिन् प्रत्यये परे <<आर्धधातुकस्य इड्वलादेः>> [[7.2.35]] इत्यनेन इडागमः भवितुमर्हति ।\n3. <<कर्तरि शप्>> [[3.1.68]] इत्यनेन सार्वधातुके प्रत्यये परे अङ्गस्य औत्सर्गिकम् शप्-विकरणम् भवति । लिट्-लकारस्य प्रत्ययाः आर्धधातुकाः सन्ति, अतः एतेषां विषये अस्य सूत्रस्य प्रसक्ति नास्ति । यथा - 'गम्' धातोः लिट्लकारस्य प्रथमपुरुषैकवचनम् 'जगाम' इत्यत्र गम्-धातोः 'गच्छ्' आदेशः न भवति, यतः अयमादेशः <<इषुगमियमां छः>> [[7.3.77]] इत्यनेन केवलं शित्-प्रत्यये परे एव विधीयते । अत्रः शप्-विकरणम् न आगच्छति, अतः अत्र शित्-विशिष्टस्य सूत्रस्यापि प्रसक्तिः नास्ति ।\n" }, "34116": { "sa": "आशीर्लिङ्-लकारस्य प्रत्ययाः साक्षात् आर्धधातुकाः सन्ति । ", "sd": "<<तिङ्शित्सार्वधातुकम्>> [[3.4.113]] इत्यनेन सर्वेषाम् तिङ्-प्रत्ययानाम् सार्वधातुकसंज्ञा विधीयते । अस्य अपवादत्वेन लिङ्-लकारस्य 'आशिषि' अर्थे विधीयमानाः तिङ्-प्रत्ययाः वर्तमानसूत्रेण आर्धधातुकसंज्ञकाः भवन्ति ।\nएतत् स्मर्तव्यम् यत् लिङ्लकारस्य प्रयोगः बहुषु अर्थेषु भवति । परन्तु एतेषु सर्वेषु अर्थेषु लिङ्-लकारस्य तिङ्-प्रत्ययाः आर्धधातुकाः न सन्ति । केवलं <<आशिषि लिङ्लोटौ>> [[3.3.173]] इत्यनेन निर्दिष्टे अर्थे एव लिङ्लकारात् विहिताः आर्धधातुकसंज्ञकाः भवन्ति । उदाहरणे एते -\n1. <<अस्तेर्भूः>> [[2.4.52]] इत्यनेन अस्-धातोः आर्धधातुके प्रत्यये परे भू-आदेशः भवितुमर्हति । अयमादेशः आशीर्लिङ्लकारस्य\nरूपेषु अपि दृश्यते । यथा, अस्-धातोः आशीर्लिङ्लकारस्य प्रथमपुरुषस्य रूपाणि 'भूयात्, भूयास्ताम्, भूयासुः' इति भवन्ति ।\n2. <<कर्तरि शप्>> [[3.1.68]] इत्यनेन सार्वधातुके प्रत्यये परे अङ्गस्य औत्सर्गिकम् शप्-विकरणम् भवति । आशीर्लिङ्-लकारस्य प्रत्ययाः आर्धधातुकाः सन्ति, अतः एतेषां विषये अस्य सूत्रस्य प्रसक्ति नास्ति । यथा - 'गम्' धातोः आशीर्लिङ्-लकारस्य प्रथमपुरुषैकवचनम् 'गम्यात्' इत्यत्र गम्-धातोः 'गच्छ्' आदेशः न भवति, यतः अयमादेशः <<इषुगमियमां छः>> [[7.3.77]] इत्यनेन केवलं शित्-प्रत्यये परे एव विधीयते । अत्रः शप्-विकरणम् न आगच्छति, अतः अत्र शित्-विशिष्टस्य सूत्रस्यापि प्रसक्तिः नास्ति ।\n" }, "34117": { "sa": "", "sd": "" }, "41001": { "sa": "इतः परम् पञ्चमाध्यायस्य समाप्तिपर्यन्तं ये केऽपि प्रत्ययाः वक्ष्यन्ते, ते सर्वे ङ्यन्तात् आबन्तात् प्रातिपदिकात् च भवन्ति । ", "sd": "इदम् अधिकारसूत्रम् अस्ति । अस्य व्याप्तिः पञ्चमाध्यायस्य अन्तपर्यन्तम् विद्यते । अस्मिन् अधिकारे प्रोक्ताः सर्वे प्रत्ययाः (1) ङ्यन्तात् (2) आबन्तात् (3) प्रातिपदिकात् च विधीयन्ते — इति अस्य सूत्रस्य आशयः । क्रमेण अर्थः, उदाहरणानि एतानि —\n\n1) ङ्यन्त-शब्दाः - ङीप्, ङीष्, ङीन् - एते त्रयः स्त्री-प्रत्ययाः 'ङी' इति सामान्यशब्देन गृह्यन्ते ।एतेषु कश्चन प्रत्ययः यस्य अन्ते अस्ति, सः शब्दः ङ्यन्तः नाम्ना ज्ञायते । एतादृशेभ्यः ङ्यन्तशब्देभ्यः अस्मिन् अधिकारे प्रोक्ताः प्रत्ययाः भवितुम् अर्हन्ति । यथा, गौरी इति शब्दः ङीष्-प्रत्ययान्तः अस्ति, अतः अस्मात् शब्दात् अस्मिन् अधिकारे पाठिताः सुप्-प्रत्ययाः विधीयन्ते, येन अस्य शब्दस्य सर्वाणि विभक्तिरूपाणि सिद्ध्यन्ति । \n2) आबन्त-शब्दाः - टाप्, डाप्, चाप् - एते त्रयः स्त्री-प्रत्ययाः 'आप्' इति सामान्यशब्देन गृह्यन्ते ।एतेषु कश्चन प्रत्ययः यस्य अन्ते अस्ति, सः शब्दः आबन्तः नाम्ना ज्ञायते । एतादृशेभ्यः आबन्तशब्देभ्यः अस्मिन् अधिकारे प्रोक्ताः प्रत्ययाः भवितुम् अर्हन्ति । यथा, माला इति शब्दः टाप्-प्रत्ययान्तः अस्ति, अतः अस्मात् शब्दात् अस्मिन् अधिकारे पाठिताः सुप्-प्रत्ययाः विधीयन्ते, येन अस्य शब्दस्य सर्वाणि विभक्तिरूपाणि सिद्ध्यन्ति । \n3) प्रातिपदिकानि - <<अर्थवदधातुरप्रत्ययः प्रातिपदिकम्>> [[1.2.45]] तथा च <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति द्वाभ्यां सूत्राभ्यां प्रातिपदिकसंज्ञा दीयते । ये शब्दाः प्रातिपदिकसंज्ञकाः सन्ति, तेभ्यः अपि प्रकृतसूत्रस्य अधिकारे पाठिताः प्रत्ययाः विधीयन्ते । यथा, देव इति शब्दः प्रातिपदिकसंज्ञकः अस्ति, अतः अस्मात् शब्दात् अस्मिन् अधिकारे पाठिताः सुप्-प्रत्ययाः विधीयन्ते, येन अस्य शब्दस्य सर्वाणि विभक्तिरूपाणि सिद्ध्यन्ति । \n\nअस्मिन् अधिकारे पाठिताः प्रत्ययाः\nअस्मिन् अधिकारे आहत्य त्रिप्रकारकाः प्रत्ययाः पाठिताः सन्ति —\n\n1. सुप्-प्रत्ययाः — <<स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाङ्ङ्योस्सुप्>> [[4.1.2]] इत्यनेन सूत्रेण आहत्य 21 सुप्-प्रत्ययाः पाठ्यन्ते । एते सर्वे प्रत्ययाः ङ्यन्तेभ्यः, आबन्तेभ्यः, प्रातिपदिकेभ्यः च विधीयन्ते । यथा, गौरी इति ङ्यन्तात् शब्दात् एतेषां एकविंशतेः प्रत्ययानां प्रयोगं कृत्वा गौरीः , गौर्यौ, गौर्यः इत्यादीनि पदानि सिद्ध्यन्ति । \n2. स्त्रीप्रत्ययाः — <<स्त्रियाम्>> [[4.1.3]] इत्यस्मात् सूत्रात् आरभ्य <<दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविद्धिभ्योऽन्यतरस्याम्>> [[4.1.81]] इति सूत्र यावत् आहत्य नव स्त्रीप्रत्ययाः पाठिताः सन्ति । एते प्रत्ययाः केवलं पुंलिङ्गवाचिभ्यः प्रातिपदिकेभ्यः विधीयन्ते । यथा, देव इति शब्दात् अस्मिन् अधिकारे पाठितस्य ङीप्-प्रत्ययस्य योजनेन देवी इति शब्दः सिद्ध्यति ।\n3. तद्धितप्रत्ययाः — <<तद्धिताः>> [[4.1.76]] अस्मिन् अधिकारे आहत्य 280+ तद्धितप्रत्ययाः पाठिताः सन्ति । एते प्रत्ययाः (यथायोग्यं) ङ्यन्तेभ्यः, आबन्तेभ्यः, प्रातिपदिकेभ्यः च विधीयन्ते । यथा, पट्वी इति ङीष्-प्रत्ययान्तशब्दात् तद्धितसंज्ञकम् तरप्-प्रत्ययम् उपयुज्यपट्वितरा \n इति शब्दः सिद्ध्यति ।\n\nसूत्रे <qt>ङ्याप्</qt> इति शब्देन अन्तग्रहणम्\nप्रकृतसूत्रे केवलम् ङी + आप् इति निर्देशः कृतः अस्ति । अत्र विद्यमानः ङी शब्दः 'ङीप्/ङीष्/ङीन्' इत्येतेषाम् त्रयाणाम् सामान्यग्रहणार्थम प्रयुक्तः अस्ति । अनेन ङीशब्देन <<येन विधिस्तदन्तस्य>> [[1.1.72]] इति सूत्रेण, अथ वा <ऽप्रत्ययग्रहणे यस्मात् स विहितः तदादेः तदन्तस्य ग्रहणम्ऽ> इति परिभाषया तदन्तग्रहणम् अपि क्रियते, अतएव अत्र ङ्यन्तात् इति अर्थः सिद्ध्यति । एवमेव, सूत्रे विद्यमानः आप् इति शब्दः अपि तदन्तग्रहणं करोति, अतः तस्य अर्थः अपि आबन्तात् इत्येव जायते । \n<pv> ऊङ्-प्रत्ययान्तशब्देभ्यः प्रत्ययविधानम्\n\nप्रकृतसूत्रस्य अधिकारे निर्दिष्टाः प्रत्ययाः केवलम् ङ्यन्त-शब्देभ्यः, आबन्त-शब्देभ्यः, प्रातिपदिकसंज्ञकेभ्यः च विधीयन्ते । एतैः त्रिभिः गणैः प्रायेण सर्वेषाम् अपि तादृशानां शब्दानाम् ग्रहणं भवति येभ्यः अस्मिन् अधिकारे पाठितानां प्रत्ययानां विधानम् इष्यन्ते । परन्तु एतेषु त्रिषु अपि गणेषु ऊङ्-प्रत्ययान्तशब्दानाम् (यथा, कुरू, ब्रह्मबन्धू इत्यादीनाम्) ग्रहणं नैव भवति । अस्यां स्थितौ ऊङ्-प्रत्ययान्तशब्देभ्यः अस्मिन् अधिकारे पाठितानां प्रत्ययानां विधानम् अपि नैव सम्भवति, अतश्च ऊङ्-प्रत्ययान्तशब्दानां सुबन्तरूपाणि, तद्धितान्तरूपाणि वा नैव भवितुम् अर्हन्ति । अयं दोषः भाष्यकारेण अन्तादिवद्भावेन परिभाषया परिहारितः दृश्यते —\n\nअथ ङ्याब्ग्रहणं किमर्थम्, न प्रातिपदिकादित्येव सिद्धम् ? न सिध्यति। अप्रत्यय इति प्रातिपदिकसंज्ञायाः प्रतिषेधः प्राप्नोति । यद्येष ङ्याब्ग्रहणे हेतुः, ति-ऊङ्-ग्रहणम् अपि कर्तव्यम्; तौ अपि हि प्रत्ययौ । तिग्रहणे तावद् वार्तम् — तद्धितः प्रातिपदिकम् इति प्रातिपदिकसंज्ञा भविष्यति । ऊङ्ग्रहणे च अपि वार्तम् — वर्णान्ताद् ऊङ् विधीयते, तत्र एकादेशः। एकादेशे कृते अन्तादिवद्भावात् प्रातिपदिकसंज्ञा भविष्यति । — महाभाष्यम् ।\n\nकुरु + ऊङ् → कुरू इत्यादिषु स्थलेषु पुंलिङ्गप्रातिपदिकस्य अन्ते विद्यमानस्य ह्रस्व-उकारस्य ऊ-प्रत्ययेन सह एकादेशं कृत्वा निर्मितः 'ऊ' इति वर्णः <<अन्तादिवच्च>> [[6.1.85]] इति सूत्रेण पूर्वस्य अन्तवत् स्वीक्रियते, येन कुरु-शब्देन दीर्घघटितस्य कुरू-शब्दस्य अपि ग्रहणं भवति, अतः कुरु-शब्दस्य प्रातिपदिकसंज्ञा कुरू-शब्दे अपि अतिदिश्यते, अतश्च अस्मात् शब्दात् प्रकृते अधिकारे निर्दिष्टाः प्रत्ययाः अवश्यमेव विधीयन्ते — इति अत्र भाष्यकारस्य आशयः वर्तते । \nपरन्तु, अनेनैव तर्केण आबन्तानाम्, ङ्यन्तानाम् अपि प्रातिपदिकसंज्ञा अवश्यं भवति, अतः प्रकृतसूत्रे 'ङ्याप्' इति निर्देशः अपि अनावश्यकः वर्तते — इति अत्र कश्चन संशयः उत्पद्यते । तस्यापि निराकरणं भाष्ये कृतम् अस्ति — \n\nयदि एषः ऊङोऽग्रहणे हेतुः; आब्ग्रहणमपि न कर्तव्यम् । आबपि हि अकारान्ताद् विधीयते। तत्र एकादेशः। एकादेशे कृते अन्तादिवद्भावात् प्रातिपदिकसंज्ञा भविष्यति । यः तर्हि अनकारान्तात् — क्रुञ्चा, उष्णिहा, देवविशा इति । ... पादोऽन्यतरस्याम् टाबृचि इति । ... डाबुभाभ्यामन्यतरस्यामिति — बहुराजा, बहुराजे, बहुराजाः — महाभाष्यम् ।\n\nबहुराजन् + डाप् → बहुराजा, राजन् + ङीप् → राज्ञी, कर्तृ + ङीप् → कर्त्री इत्यादिषु उदाहरणेषु टाबादीनां विधाने कृते अपि सवर्णदीर्घः न सम्भवति, अतः अत्र अन्तादिवद्भावः अपि नैव भवितुम् अर्हति । एतादृशानां शब्दानां प्रातिपदिकसंज्ञायाम् अविद्यमानायाम् अपि तेभ्यः अस्मिन् अधिकारे पाठिताः प्रत्ययाः अवश्यं भवेयुः — इति हेतुना अस्मिन् सूत्रे 'ङ्याप्' इति निर्देशः कृतः अस्ति — इति अत्र भाष्यकारस्य आशयः विद्यते । \n<pv>प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्\nअष्टाध्याय्याम् प्रातिपदिकम् इति शब्देन, अथ वा प्रातिपदिकस्य विशिष्टनिर्देशेन यः कोऽपि विधिः उच्यते, सः विधिः तस्मात् प्रातिपदिकात् स्त्रीप्रत्यये कृते निर्मितस्य शब्दस्य विषये अपि प्रवर्तते इति निर्णयः अस्य सूत्रस्य भाष्ये भाष्यकारेण दत्तः अस्ति । तदर्थम् सः <ऽप्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्ऽ> इति परिभाषाम् पाठयति —\n\nप्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवति इति एषा परिभाषा कर्तव्या । ... बहूनि एतस्याः परिभाषायाः प्रयोजनानि । कानि? सर्वनाम-स्वर-समास-तद्धितविधि-लुग्-अलुगर्थम् । ... मानिनि च विप्रतिषेधार्थम् । ...प्रत्ययग्रहणोपचारेषु च । — महाभाष्यम् ।\n\nअस्याः परिभाषायाः आहत्य नव प्रयोजनानि अत्र भाष्यकारेण निर्दिष्टानि सन्ति —\n\n1.सर्वनामविधिः — सर्वनामसंज्ञकशब्देन सह हेतु इति शब्दः यदा प्रयुज्यते तदा उभयोः अपि <<सर्वनाम्नस्तृतीया च>> [[2.3.27]] इति सूत्रेण तृतीया विभक्तिः भवति । यथा, केन हेतुना इति । अस्मिन् सूत्रे स्थापितेन सर्वनाम इति शब्देन स्त्रीलिङ्गवाचिनः शब्दस्य अपि ग्रहणम् इष्यते, यतः भवती इति स्त्रीलिङ्गवाची शब्दस्य विषये अपि इदं सूत्रम् उपयुज्य भवत्या हेतुना इति प्रयोगः भवितुम् अर्हति । एतादृशं ग्रहणं कर्तुम् <ऽप्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्ऽ> इति परिभाषा उपयुज्यते ।\n2. स्वरविधिःकुसूलबिल इति शब्दे विद्यमानः कुसूल शब्दः <<कुसूलकूपकुम्भशालं बिले>> [[6.2.102]] इति सूत्रेण अन्तोदात्तः भवति । एतादृशं स्वरविधानम् कुसूलीबिल इति शब्दे विद्यमानस्य कुसूली शब्दस्य विषये अपि भवेत् इति हेतुना <<कुसूलकूपकुम्भशालं बिले>> [[6.2.102]] इति सूत्रस्य विषये <ऽप्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्ऽ> इति परिभाषा उपयुज्यते ।\n3. समासविधिः — <<पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः>> [[2.1.31]] इति सूत्रेण सदृश शब्देन सह जायमानः तृतीयातत्पुरुषसमासः सदृशी इति शब्देन सह अपि इष्यते, येन पुत्रसदृशी इति शब्दः सिद्ध्यति । तदर्थम् अत्र <ऽप्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्ऽ> इति परिभाषा प्रयुज्यते ।\n4. तद्धितविधिः — <<प्रमाणे द्वयसज्दघ्नञ्मात्रचः>> [[5.2.37]] इति सूत्रेण हस्ती-शब्दात् यथा मात्रच्-प्रत्ययः भवति, तथैव <ऽप्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्ऽ> इति परिभाषां स्वीकृत्य हस्तिनीशब्दात् अपि अयं प्रत्ययः भवितुम् अर्हति, येन हस्तिनीमात्रम् इति शब्दः सिद्ध्यति । \n5. लुग्विधिः राज्ञ्याः पुरुषः इत्यत्र षष्ठीसमासे कर्तव्ये राज्ञी-शब्दात् विहितस्य सुप्-प्रत्ययस्य <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इत्यनेन लुग्विधानं कर्तुम् अस्मिन् सूत्रे विद्यमानेन प्रातिपदिकग्रहणेन स्त्रीप्रत्ययविशिष्टस्य राज्ञी-शब्दस्य ग्रहणम् अपि इष्यते । तदर्थम् <ऽप्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्ऽ> इति परिभाषा प्रयुज्यते ।\n6. अलुग्विधिः — <<शयवासवासिष्वकालात्>> [[6.3.18]] इति सूत्रे वासि शब्दग्रहणसामर्थ्यात् ग्रामेवासी इत्यत्र समासविधौ पूर्वपदस्य सप्तमीविभक्तेः अलुक् विधीयते । अयम् अलुग्विधिः ग्रामेवासिनी इत्यत्रापि कर्तुम् <ऽप्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्ऽ> इति परिभाषायाः प्रयोगः क्रियते ।\n7. मानिन्-प्रत्यये पुंवद्भावः दर्शनीयां स्त्रियं मन्यते सः अस्मिन् अर्थे दर्शनीय शब्दस्य <<क्यङ्मानिनोश्च>> [[6.3.36]] इत्यनेन पुंवद्भावे कृते दर्शनीयमानी इति शब्दः यथा सिद्ध्यति, तथैव दर्शनीयां स्त्रियं मन्यते सा इत्यर्थे दर्शनीयमानिनी इति शब्दे अपि पुंवद्भावविधानार्थम् <<क्यङ्मानिनोश्च>> [[6.3.36]] इति सूत्रे मानिन्-शब्देन मानिनी-शब्दस्य ग्रहणम् अपि आवश्यकं वर्तते, तदर्थम् <ऽप्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्ऽ> इति परिभाषा प्रयुज्यते ।\n8. प्रत्ययग्रहणे — <<तृजकाभ्यां कर्तरि>> [[2.2.15]] इति सूत्रेण अपां स्रष्ट्रा इत्यत्र षष्ठीसमासः न सम्भवति । अत्र <<तृजकाभ्यां कर्तरि>> [[2.2.15]] इति सूत्रे 'तृच्' इत्यनेन यथा तृच्-प्रत्ययान्तशब्दाः स्वीक्रियन्ते, तथैव तृच्-प्रत्ययान्तशब्देभ्यः स्त्रीप्रत्ययं योजयित्वा सिद्धानां शब्दानां ग्रहणम् अपि अस्मिन् सूत्रे येन अपां स्रष्ट्री इत्यत्रापि समासप्रतिषेधः भवेत् । एतत् साधयितुम् <ऽप्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्ऽ> इति परिभाषा प्रयुज्यते ।\n9. उपचारः (आदेशादिविधानम्) — <<अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य>> [[8.3.46]] इत्यनेन सूत्रेण अयः + कुम्भः इत्यत्र विसर्गस्य सकारादेशे कृते अयस्कुम्भ इति शब्दः यथा सिद्ध्यति, तथैव अयः + कुम्भी इत्यत्रापि विसर्गस्य सकारादेशे कृते अयस्कुम्भ इति शब्दं साधयितुम् <<अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य>> [[8.3.46]] इत्यत्र कुम्भ-शब्देन कुम्भी-शब्दस्यापि ग्रहणम् आवश्यकं वर्तते, तदर्थम् च <ऽप्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्ऽ> इति परिभाषा प्रयुज्यते ।\n\nअस्याः परिभाषायाः विषये केचन निषेधाः अपि भाष्यकारेण अस्य सूत्रस्य भाष्ये उक्ताः वर्तन्ते । तान् ज्ञातुम् अस्य सूत्रस्य भाष्यम् एव द्रष्टव्यम् ।\n<pv> सूत्रे ङ्याप्-शब्दस्य प्रयोजनम्\n<ऽप्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्ऽ> इति परिभाषायाम् सत्याम् <<ङ्याप्प्रातिपदिकात्>> [[4.1.1]] इति सूत्रे विद्यमानेन प्रातिपदिकात् इति शब्देनैव ङ्यन्तानाम्, आबन्तानाम् अपि ग्रहणं सम्भवति, अतः अत्र ङ्याप् इति शब्दस्य ग्रहणम् अनावश्यकम् वर्तते, इति प्रश्नम् अस्य सूत्रस्य भाष्ये कृत्वा तत्रैव तस्य समाधानम् अपि दीयते —\n\n ङ्याब्ग्रहणमनर्थकम् । किं कारणम्? प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणात् । ... तद्धितविधानार्थं तु ङ्याब्ग्रहणं कर्तव्यं ; ङ्याबन्तात् तद्धितोत्पत्तिर्यथा स्यात् - कालितरा, हरणितरा, खट्वातरा, मालातरा । किं पुनः कारणं न सिध्यति? विप्रतिषेधाद्धि तद्धितोत्पत्तिः प्राप्नोति॥ — महाभाष्यम् ।\n\nयत्र प्रातिपदिकात् ङ्यन्तस्य / आबन्तस्य तथा च तद्धितप्रत्ययस्य युगपत् विधानं प्राप्नोति, तत्र आदौ स्त्रीप्रत्ययविधानं कृत्वा ततः (ङ्यन्तात् / आबन्तात्) एव तद्धितविधानम् कर्तव्यम् — इति ज्ञापयितुम् अस्मिन् सूत्रे ङ्याप् इति शब्दः स्थापितः अस्ति, इति अत्र भाष्यकारस्य आशयः वर्तते । अस्य एकम् उदाहरणम् प्रौढमनोरमायाम् दत्तम् अस्ति । लोहित (red) इति शब्दात् स्त्रीलिङ्गवाचिनः मणेः निर्देशं कर्तुम् <<वर्णादनुदात्तात्तोपधात्तो नः>> [[4.1.39]] इति ङीप्-प्रत्ययः, तदुपरि <<लोहितान्मणौ>> [[5.4.30]] इत्यनेन स्वार्थे कन् प्रत्ययः सम्भवति; अथ वा आदौ <<लोहितान्मणौ>> [[5.4.30]] इत्यनेन स्वार्थे कन् ; तदुपरि च <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्-प्रत्ययः अपि सम्भवति । अस्यां स्थितौ अन्तरङ्गत्वात्, परत्वात् च कन्-प्रत्यये कृते, ततः टाप्-प्रत्ययस्य योजनेन लोहितिका इत्येव शब्दः सिद्ध्येत् । परन्तु लोहिनिका इति शब्दः अपि अस्मिन् सन्दर्भे प्रयुज्यते । तस्य सि्ध्यर्थम् लोहित-शब्दात् आदौ ङीप्-प्रत्ययविधानम् एव आवश्यकम् वर्तते । एतादृशं ङीप्-प्रत्ययविधानम् शक्यम् स्यात्, इति हेतुना प्रकृतसूत्रे ङ्याप् इति शब्दः स्थापितः अस्ति । अतः लोहित-शब्दात् आदौ <<वर्णादनुदात्तात्तोपधात्तो नः>> [[4.1.39]] इति ङीप्-प्रत्यये कृते 'लोहिनी', तदनन्तरं <<लोहितान्मणौ>> [[5.4.30]] इत्यनेन स्वार्थे कन् ; तदुपरि च <ऽस्वार्थिकाः प्रकृतिलिङ्गसङ्ख्ये अनुवर्तन्तेऽ> इत्यनया परिभाषया <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्-प्रत्ययं कृत्वा लोहिनिका इति शब्दः सिद्ध्यति । <<वर्णादनुदात्तात्तोपधात्तो नः>> [[4.1.39]] इत्यनेन ङीप्-प्रत्ययः विकल्पेनैव विधीयते, अतः तस्य अनुपस्थितौ <<लोहितान्मणौ>> [[5.4.30]] इत्यनेन स्वार्थे कन् ; तदुपरि च <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्-प्रत्यये कृते लोहितिका इति शब्दः अपि सिद्ध्यति । अयमेव बिन्दुः बालमनोरमायाम् अपि स्पष्टीकृतः अस्ति —\n\nवर्णादनुदात्तात्तोपधात्तो नः इति मणौ विद्यमानात् लोहितशब्दात् स्त्रीत्वविवक्षायां ङीप्, तत्संनियोगेन तकारस्य नकारादेशश्च प्राप्तः । लोहितान्मणौ इति स्वार्थिकः कनपि प्राप्तः । तत्र स्वार्थिकत्वात् अन्तरङ्गः परश्च कन् नत्वसंनियोगशिष्टं ङीपं बाधित्वा प्रवर्तेत । ततश्च ङीपो न प्रसक्तिः; कोपधत्वेन तोपधत्व-अभावात् । ततश्च लोहितकशब्दात् अजाद्यतष्टाप् इति टापि प्रत्ययस्थाद्.. इत्यादिना इत्वे लोहितिका इत्येव स्यात्, न तु लोहिनिका इति । इष्यते तु रूपद्वयमपि ।ङ्याप्प्रातिपदिकाद् इत्यत्र ङीब्ग्रहणे तु तत्सामर्थ्याद् अन्तरङ्गं परम् अपि कनं बाधित्वा नत्वसंनियोगशिष्टे ङीपि कृते, लोहिनीशब्दात् कनि, केऽणः इति ह्रस्वे, लोहिनिका इति रूपम् ।वर्णादनुदात्ताद्.. इत्यस्य वैकल्पिकतया नत्वसंनियोगशिष्टङीबभावे तु लोहिताशब्दात् कनि ह्रस्वे, पुनः कान्तात् टापि, प्रत्ययस्थाद्.. इति इत्वे लोहितिका इत्यपि सिध्यति । —बालमनोरमा\n\nवस्तुतस्तु अस्मिन् सूत्रे ङ्याप्-ग्रहणम् न हि आवश्यकम्, यतः तद्धितप्रत्ययः तथा च स्त्रीप्रत्ययः इत्येतयोः युगपत् प्राप्तिः नैव कुत्रचित् शक्या । अस्य द्वे कारणे स्तः —\n1. तद्धिताधिकारे पाठिताः ये प्रत्ययाः समर्थेभ्यः विधीयन्ते, ते सर्वे सुबुत्पत्तेः अनन्तरम् एव सम्भवति, सुबुत्पत्तिः तु टाबादिषु कृतेषु एव सम्भवति, तस्मात् पूर्वम् न । अतः एते तद्धितप्रत्ययाः स्त्रीप्रत्ययैः सह युगपत् नैव सम्भवन्ति ।\n2. तद्धिताधिकारे पाठिताः अवशिष्टाः प्रत्ययाः शब्दस्य लिङ्गनिर्धारणात् अनन्तरम् एव भवन्ति इति भाष्यकारेण <<कुत्सिते>> [[5.3.74]] इति सूत्रे स्पष्टीकृतम् अस्ति । तत्रैव <ऽस्वार्थिकाः प्रकृतितः लिङ्गवचनानि अनुवर्तन्तेऽ> इति परिभाषाम् अपि भाष्यकारः पाठयति । अतः तद्धितप्रकरणे समर्थाधिकाराद् बहिः निर्दिष्टाः भिन्नाः प्रत्ययाः स्त्रीप्रत्ययानां प्रयोगाद् अनन्तरम् एव सम्भवन्ति इति स्पष्टी भवति ।\nएतौ एव विषयौ बालमनोरमायाम् अपि उपस्थापितौ स्तः —\n\nवस्तुतस्तु ङ्यापः ग्रहणं मास्तु, सुबन्तादेव तद्धितोत्पत्तिः । सुपः प्रागेव च ङ्यापौ प्रवर्तेते । स्वार्थद्रव्यलिङ्गसङ्ख्याकारककुत्सादिप्रयुक्तकार्याणां क्रमिकत्वात् । तथाहि - स्वार्थः = प्रवृत्तिनिमित्तं जात्यादि । तज्ज्ञानं पूर्वं भवति, विशिष्टबुद्धौ विशेषणज्ञानस्य कारणत्वात् । ततस्तदाश्रयज्ञानम्, धर्मित्वेन प्रधानत्वाल्लिङ्गादिभिः आकाङ्क्षितत्वात् च । ततः स्वमात्रापेक्षत्वात् लिङ्गस्य ज्ञानम् । ततः विजातीयक्रियापेक्षकारकापेक्षया सजातीयपदार्थापेक्षसङ्ख्याज्ञानम् । ततः कारकरूपविभक्त्यर्थापेक्षा भवति । तन्निवृत्तौ कुत्सादिज्ञानम्, इति कुत्सित इति सूत्रभाष्ये स्थितम् । —बालमनोरमा\n\nअत्र बालमनोरमाकारः 'शब्दज्ञानं कथं भवति' इत्यस्मिन् विषये कानिचन सोपानानि स्पष्टीकरोति । तत्र —\n\n1. प्रारम्भे शब्दस्य स्वस्य अर्थस्य प्रचीतिः भवति, \n2. ततः तस्य लिङ्गम्, सङ्ख्या, कारकम् — इत्येतेषाम् ज्ञानम् उद्भवति,\n3. तदनन्तरमेव <<कुत्सिते>> [[5.3.74]] आदिभिः सूत्रैः निर्दिष्टानाम् तद्धितप्रत्ययानां विधानम् सम्भवति\n\nइति क्रमः अत्र निर्दिष्टः अस्ति । अतः लिङ्गस्य द्योतकाः स्त्रीप्रत्ययाः तद्धितप्रत्ययैः सह युगपत् नैव सम्भवन्ति, इति अनेन स्पष्टी भवति । अस्मिन् सन्दर्भे अधिकं ज्ञातुम् <<कुत्सिते>> [[5.3.74]] इति सूत्रस्य भाष्यमेव द्रष्टव्यम् । \n\n\n\n\n\n" }, "41002": { "sa": "ङ्यन्तात्, आबन्तात्, प्रातिपदिकात् च सुँ-औ-जस्-अम्-औट्-शस्-टा-भ्याम्-भिस्-ङे-भ्याम्-भ्यस्-ङसिँ-भ्याम्-भ्यस्-ङस्-ओस्-आम्-ङि-ओस्-सुप् एते प्रत्ययाः भवन्ति । ", "sd": "प्रातिपदिकेभ्यः पदस्य निर्माणं कर्तुम् आवश्यकाः एकविंशतिः सुप्-प्रत्ययाः प्रकृतसूत्रेण पाठिताः सन्ति । एते एकविंशतिः प्रत्ययाः <<सुपः>> [[1.4.103]] इति सूत्रेण क्रमेण एकवचन-द्विवचन-बहुवचन-संज्ञकाः भवन्ति, तथा च <<विभक्तिश्च>> [[1.4.104]] इति सूत्रेण विभक्तिसंज्ञकाः भूत्वा प्रथमा, द्वितीया इत्यादिभिः संज्ञाभिः अपि निर्दिश्यन्ते । तद्यथा —\n\n\n\n\n\n\n\n\n\n
    एकवचनम्द्विवचनम्बहुवचनम्
    प्रथमासुँजस्
    द्वितीयाअम्औट्शस्
    तृतीयाटाभ्याम्भिस्
    चतुर्थीङेभ्याम्भ्यस्
    पञ्चमीङसिँभ्याम्भ्यस्
    षष्ठीङस्ओस्आम्
    सप्तमीङिओस्सुप्
    \nएते एकविंशतिः प्रत्ययाः सु इत्यनेन प्रारभ्यन्ते, प् इति इत्संज्ञकवर्णेन च समाप्यन्ते, अतः <<आदिरन्त्येन सहेता>> [[1.1.71]] इत्यनेन प्रत्याहारनिर्माणं कृत्वा सुप् इति प्रत्याहारेण एतेषां निर्देशः भवति । \nसुप्-प्रत्ययेषु इत्संज्ञकवर्णाः\nएतेषु प्रत्ययेषु केचन वर्णाः इत्संज्ञकाः सन्ति । तद्यथा —\n\n1. <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इत्यनेन सुँ इत्यस्य उकारः तथा ङसिँ इत्यस्य इकारः इत्संज्ञां प्राप्नुतः ।\n2. <<हलन्त्यम्>> [[1.3.3]] इत्यनेन औट्-इत्यस्य टकारः तथा सुप्-इत्यस्य पकारः इत्संज्ञां प्राप्नुतः । अनेनैव सूत्रेण जस्/अम्/शस्/भ्याम्/भिस्/भ्यस्/ङस्/ओस्/आम्-प्रत्ययानाम् सकारस्य मकारस्य च इत्संज्ञायां प्राप्तायाम् <<न विभक्तौ तुस्माः>> [[1.3.4]] इत्यनेन सा निषिध्यते ।\n3. <<चुटू>> [[1.3.7]] इत्यनेन जस् इत्यस्य जकारः तथा च टा इत्यस्य टकारः च इत्संज्ञां प्राप्नुतः ।\n4. <<लशक्वतद्धिते>> [[1.3.8]] इत्यनेन शस्-इत्यस्य शकारः तथा च ङे/ङसिँ/ङस्/ङि एतेषाम् ङकारः च इत्संज्ञां प्राप्नुतः ।\n\nएतेषाम् सर्वेषाम् अपि इत्संज्ञकवर्णानाम् प्रक्रियायाः प्रारम्भे <<तस्य लोपः>> [[1.3.9]] इत्यनेन लोपः भवति ।\nसुप्-प्रत्ययानां स्वरः\n<<अनुदात्तौ सुप्पितौ>> [[3.1.3]] इति सूत्रे सुब्ग्रहणसामर्थ्यात् एतेषाम् सर्वेषाम् शब्दानाम् आदिस्वरः अनुदात्तसंज्ञकः भवति ।\nसुप्-संज्ञायाः प्रयोजनम्\nसुप्-संज्ञायाः मुख्यम् प्रयोजनम् अस्ति <<सुप्तिङन्तं पदम्>> [[1.4.14]] इत्यनेन पदनिर्माणम् । यथा, राम इति प्रातिपदिकात् क्रमेण सु-औ-जस्-इत्यादीनां प्रत्ययानां योजनं कृत्वा रामः, रामौ, रामाः इत्यादीनि पदानि सिद्ध्यन्ति । " }, "41003": { "sa": "इतः परम् <<समर्थानां प्रथमाद् वा>> [[4.1.82]] इति सूत्रं यावत् निर्दिष्टाः प्रत्ययाः प्रातिपदिकेभ्यः स्त्रीत्वं द्योतयितुम् विधीयन्ते ।", "sd": "इदम् अधिकारसूत्रम् अस्ति । अस्य व्याप्तिः <<दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविद्धिभ्योऽन्यतरस्याम्>> [[4.1.81]] इति सूत्रपर्यन्तं वर्तते । अस्मिन् अधिकारे आहत्य नव प्रत्ययाः पाठ्यन्ते । एतेषां सर्वेषां प्रयोगः प्रातिपदिकेभ्यः स्त्रीत्वं द्योतयितुम् भवति — इति अस्य अधिकारस्य आशयः । एतेषाम् प्रत्ययानाम् कोऽपि विशिष्टः अर्थः नास्ति, केवलम् स्त्रीत्वद्योतनम् इत्येव एतेषाम् कार्यम् । यथा, अज (goat) इति पुंलिङ्गवाचिनः शब्दात् स्त्रीत्वं द्योतयितुम् टाप्-प्रत्यये कृते अजा (female goat) इति समानार्थकः परन्तु स्त्रीलिङ्गवाची शब्दः सिद्ध्यति । \nअस्मिन् अधिकारे पाठिताः नव प्रत्ययाः स्त्रीप्रत्ययाः इति नाम्ना ज्ञायन्ते । एतेषाम् आवली एतादृशी — \n\n1. टाप् — यथा, <<अजाद्यतष्टाप्>> [[4.1.4]] इति सूत्रे । अज + टाप् → अजा इति उदाहरणम् । \n2. डाप् — यथा, <<डाबुभाभ्यामन्यतरस्याम्>> [[4.1.13]] इति सूत्रे । सीमन् + डाप् → सीमा इति उदाहरणम् । \n3. चाप् — यथा, <<यङश्चाप्>> [[4.1.74]] इति सूत्रे । कौसल्य + चाप् → कौसल्या इति उदाहरणम् । \n4. ङीप् — यथा, <<ऋन्नेभ्यो ङीप्>> [[4.1.5]] इति सूत्रे । कर्तृ + ङीप् → कर्त्री इति उदाहरणम् । \n5. ङीष् — यथा, <<अन्यतो ङीष्>> [[4.1.40]] इति सूत्रे । सारङ्ग + ङीष् → सारङ्गी इति उदाहरणम् । \n6. ङीन् — यथा, <<शार्ङ्गरवाद्यञो ङीन्>> [[4.1.73]] इति सूत्रे । शार्ङ्गरव + ङीन् → शार्ङ्गरवी इति उदाहरणम् । \n7. ऊङ् — यथा, <<ऊङुतः>> [[4.1.66]] इति सूत्रे । कुरु + ऊङ् → कुरू इति उदाहरणम् । \n8. ति — यथा, <<यूनस्तिः>> [[4.1.77]] इति सूत्रे । अयं प्रत्ययः तद्धितसंज्ञकः अपि अस्ति । युवन् + ति → युवति इति उदाहरणम् । \n9. ष्फ — यथा, <<प्राचां ष्फ तद्धितः>> [[4.1.17]] इति सूत्रे । अयं प्रत्ययः तद्धितसंज्ञकः अपि अस्ति । अस्मात् प्रत्ययात् नित्यम् ङीष् इति अन्यः स्त्रीप्रत्ययः अपि विधीयते । गार्ग्य + ष्फ + ङीष् → गार्ग्यायणी इति उदाहरणम् । \n\nअपि च, अस्मिन् अधिकारे <<अणिञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ् गोत्रे>> [[4.1.78]] इति सूत्रेण ष्यङ् इति कश्चन आदेशः अपि पाठितः अस्ति । अयम् आदेशः विशिष्टेभ्यः शब्देभ्यः विहितस्य तद्धितप्रत्ययस्य स्थाने भवति । \nस्त्रीप्रत्ययान्तशब्दानां प्रातिपदिकसंज्ञा\nप्रत्ययान्तशब्देषु केवलं कृदन्तानाम्, तद्धितान्तानाम् च <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति सूत्रेण प्रातिपदिकसंज्ञा विधीयते । नवभ्यः स्त्रीप्रत्ययेभ्यः केवलं द्वौ स्त्रीप्रत्ययौ एव तद्धितसंज्ञकौ स्तः, अतः तदन्तानाम् शब्दानाम् एव अनेन सूत्रेण प्रातिपदिकसंज्ञा संभवति; अन्यैः सप्तभिः प्रत्ययैः सिद्धाः शब्दाः अनेन सूत्रेण प्रातिपदिकसंज्ञकाः न हि भवन्ति । इत्युक्ते, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इत्यादिभिः सूत्रैः निर्दिष्टानि प्रातिपदिकसंज्ञाविशिष्टानि कार्याणि एतेषां शब्दानां विषये नैव सम्भवन्ति । परन्तु एतादृशानि कार्याणि स्त्रीप्रत्ययान्तशब्दानां विषये अपि अवश्यम् इष्यन्ते । अतएव <<ङ्याप्प्रातिपदिकात्>> [[4.1.1]] इति सूत्रस्य भाष्ये भाष्यकारः अन्तादिवद्भावम् उपयुज्य एतेषाम् शब्दानां प्रातिपदिकसंज्ञां विदधाति । तत्र भाष्यम् एतादृशम् —\n \nआबपि ह्यकारान्ताद्विधीयते। तत्रैकादेशः। एकादेशे कृतेऽन्तादिवद्भावात्प्रातिपदिकसंज्ञा भविष्यति । — <<ङ्याप्प्रातिपदिकात्>> [[4.1.1]] इत्यत्र भाष्यकारः \n\nअज + आ → अजा, देव + ई → देवी, कुरु + ऊ → कुरू इत्यादिषु स्थलेषु सवर्णदीर्घैकादेशे कृते सिद्धः एकादेशः <<अन्तादिवच्च>> [[6.1.85]] इति सूत्रेण अन्तवद्भावं स्वीकरोति, येन मूलप्रातिपदिकेनैव आकारान्त/ईकारान्त/ऊकारान्तस्य शब्दस्य अपि ग्रहणं भवति, अतश्च टाप्/डाप्/चाप्/ङीप्/ङीष्/ङीन्/ऊङ्-प्रत्ययान्तशब्दाः अपि अवश्यमेव प्रातिपदिकसंज्ञा भवति — इति अत्र भाष्यकारस्य आशयः अस्ति । परन्तु केषुचन स्थलेषु एतादृशः एकादेशः न विधीयते, अतश्च अन्तवद्भावः अपि न सम्भवति । यथा राजन् + ङीप् → राज्ञी, बहुराजन् + डाप् → बहुराजा इत्यादिषु उदाहरणेषु अनेन तर्केण प्रातिपदिकसंज्ञायाः अतिदेशः नैव सम्भवति । अतएव अस्मिन् सन्दर्भे भाष्यकारेण <<ङ्याप्प्रातिपदिकात्>> [[4.1.1]] इति सूत्रे <ऽप्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्ऽ> इति काचित् अन्या परिभाषा अपि पाठिता दृश्यते । यत्र प्रातिपदिकसंज्ञया कस्यचन विशिष्टस्य प्रातिपदिकस्य वा ग्रहणं कृत्वा कोऽपि विधिः पाठितः अस्ति, तत्र सः विधिः तस्मात् प्रातिपदिकात् स्त्रीप्रत्ययं कृत्वा प्राप्तस्य स्त्रीलिङ्गवाचिनः शब्दस्य विषये अपि प्रवर्तते — इति अस्याः परिभाषायाः आशयः । अतएव <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इत्यनेन पाठितः प्रत्ययलोपः यथा चटकस्य अपत्यम् इत्यत्र चटक-शब्दस्य विषये प्रवर्तते, तथैव चटकायाः अपत्यम् इत्यत्र चटका-शब्दस्य विषये अपि प्रवर्तते । एवमेव, अनयैव परिभाषया <<अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य>> [[8.3.46]] इत्यस्मिन् सूत्रे विद्यमानः कुम्भ इति शब्दः स्त्रीविशिष्टस्य कुम्भी इत्यस्य अपि ग्रहणं करोति, अतएव <<अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य>> [[8.3.46]] इति सूत्रेण यथा अयस्कुम्भः इति शब्दः सिद्ध्यति, तथैव अयस्कुम्भी इति शब्दः अपि सिद्ध्यति । अतः यत्र स्त्रीप्रत्ययान्तशब्दस्य अन्तादिवद्भावेन प्रातिपदिकसंज्ञा न स्वीक्रियते तत्र प्रातिपदिकग्रहणेन तु तेषाम् ग्रहणम् अवश्यमेव भवति इति अत्र भाष्यकारस्य आशयः अस्ति । \n \n1. यद्यपि स्त्रीप्रत्ययान्तशब्दानां साक्षात् प्रातिपदिकसंज्ञा न भवति, तथापि <ऽप्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्ऽ> अनया परिभाषया एतैः शब्दैः सह अपि प्रातिपदिकसदृशः एव व्यवहारः क्रियते, अतः व्यवहारसौलभ्यार्थम् प्रातिपदिक-शब्देन स्त्रीप्रत्ययान्तशब्दाः अपि गृह्यन्ते ।\n2. <ऽप्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्ऽ> इयं परिभाषा आहत्य सप्तसु स्थलेषु नैव प्रवर्तते । अस्मिन् सन्दर्भे अधिकं ज्ञातुम् जिज्ञासवः <<ङ्याप्प्रातिपदिकात्>> [[4.1.1]] इति सूत्रस्य भाष्यं पश्येयुः । \n\n स्त्रीप्रत्ययानाम् विधानम् न सार्वत्रिकम्\nप्रकृतसूत्रेण पाठिते अधिकारे विद्यमानैः सूत्रैः भिन्नेभ्यः प्रातिपदिकेभ्यः स्त्रीप्रत्ययस्य विधानं कृतम् अस्ति । अस्मिन् सन्दर्भे द्वौ बिन्दू मुख्यरूपेण ज्ञातव्यौ —\n\n1. न हि सर्वेभ्यः प्रातिपदिकेभ्यः स्त्रीप्रत्ययाः सम्भवन्ति । यथा, मरुत् इत्यस्मात् शब्दात् स्त्रीप्रत्ययः नैव विधीयते ।\n2. प्रायेण पुंलिङ्गवाचिनः शब्दात् स्त्रीत्वं द्योतयितुम् स्त्रीप्रत्ययः प्रयुज्यते । परन्तु कुत्रचित् स्त्रीलिङ्गवाचिनः प्रातिपदिकात् अपि स्त्रीप्रत्ययस्य विधानं कृतम् अस्ति । यथा, सीमन् इति स्त्रीलिङ्गवाचिनः प्रातिपदिकात् डाप्-प्रत्यये कृते सीमा इति नूतनं स्त्रीलिङ्गवाचि प्रातिपदिकम् सिद्ध्यति । \n \nन हि सर्वे स्त्रीलिङ्गवाचिनः शब्दाः स्त्रीप्रत्ययान्ताः\nस्त्रीप्रत्ययस्य योजनेन शब्दस्य लिङ्गे परिर्वतनं भूत्वा नित्यं स्त्रीलिङ्गवाची शब्दः एव सिद्ध्यति । परन्तु सर्वेऽपि स्त्रीलिङ्गवाचिनः शब्दाः स्त्रीप्रत्ययान्ताः एव स्युः इति न आवश्यकम् । अस्मिन् सन्दर्भे द्वौ बिन्दू मुख्यरूपेण ज्ञातव्यौ —\n\n1. केचन शब्दाः यद्यपि स्त्रीलिङ्गवाचिनः सन्ति तथापि तेषाम् अन्ते न हि कश्चन स्त्रीप्रत्ययः विद्यते । यथा, वधू‌, मातृ, सरित् एतादृशाः बहवः शब्दाः नित्यस्त्रीलिङ्गवाचिनः सन्ति, परन्तु एते स्त्रीप्रत्ययान्ताः न । एते शब्दाः उणादिप्रत्ययान्ताः / अव्युत्पन्नाः सन्ति । एतेषाम् <<अर्थवदधातुरप्रत्ययः प्रातिपदिकम्>> [[1.2.45]] इत्यनेन, उत <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इत्यनेन प्रातिपदिकसंज्ञा अवश्यं भवति ।\n2. धातुभ्यः क्तिन् इति कृत्प्रत्यये कृते स्त्रीलिङ्गवाचकाः शब्दाः सिद्ध्यन्ति । यथा, शक् + क्तिन् → शक्ति, बुध् + क्तिन् → बुद्धि, मन् + क्तिन् → मति — आदयः । एते सर्वे अपि शब्दाः ह्रस्व-इकारान्त-स्त्रीलिङ्गशब्देषु परिगण्यन्ते । एतेषां निर्माणे प्रयुक्तः क्तिन्-प्रत्ययः न हि <<स्त्रियाम्>> [[4.1.3]] इत्यस्मिन् अधिकारे पाठितः अस्ति, न च सः प्रातिपदिकेभ्यः विधीयते । अतएव क्तिन्-प्रत्ययेन निर्मिताः शब्दाः अपि स्त्रीप्रत्ययान्ताः न सन्ति । एतेषाम् <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इत्यनेन प्रातिपदिकसंज्ञा अवश्यं भवति ।\n \nनिर्जीवपदार्थानां लिङ्गविधानम् कथम् ? \nसामान्यतः व्यवहारे सजीवानाम् विषये एव (शरीरस्य विशिष्टान् अवयवान् दृष्ट्वा) लिङ्गनिर्णयः, तस्य उपयोगः च कृतः दृश्यते । अस्मिन् सन्दर्भे बालमनोरमाकारः वदति —\n\n'स्तनकेशवती स्त्री स्यात्, लोमशः पुरुषः स्मृतः । उभयोः अन्तरं यच्च तद् भावे नपुंसकम्' इति लक्षणलक्षितम् अवयवसंस्थानविशेषात्मकं लौकिकं स्त्रीपुंसयोः लिङ्गम् । तदभावे (तयोः उभयोः अभावे) सति, यद् उभयोः अन्तरं (सदृशं) तद् नपुंसकम् इत्यर्थः — बालमनोरमा ।\n\nपरन्तु एतादृशम् लिङ्गनिर्धारणम् निर्जीवपदार्थानां विषये नैव सम्भवति । अतएव — घट इति पुंलिङ्गे कथम् ? शाला इति स्त्रीलिङ्गे कथम् ? फल इति नपुंसकलिङ्गवाची कथम् — एतादृशाः प्रश्नाः अत्र अवश्यम् भवितुम् अर्हन्ति । अस्य स्पष्टीकरणम् अपि बालमनोरमाकारेण अग्रे दीयते —\n\n तद् इदं लौकिकं लिङ्गम् अस्मिन् शास्त्रे न उपयुज्यते, तस्य अचेतने खट्वामालादौ बाधात्, स्त्रीप्रत्ययानापत्तेः । किंतु, सत्त्वरजस्तमसां प्रकृतगुणानां वृद्धिः इति पुंस्त्वम्, अपचयः इति स्त्रीत्वम्, स्थितिमात्रं इति नपुंसकत्वम् । अत एव उत्कर्ष-अपकर्षं सत्वेऽपि स्थितिमात्रम् आदाय सामान्ये नपुंसकम् इति प्रवादः । उत्कर्ष-अपकर्ष-साम्यात्मक-अवस्थात्रय-साधारणस्थितिमात्र-विवक्षायां नपुंसकं भवति इति तदर्थः — बालमनोरमा ।\n\nअचेतनेषु अपि पदार्थेषु विद्यमानानाम् सत्व-रजस्-तमसादिगुणानां चयापचयम् (activity / interaction) दृष्ट्वा ऋषिभिः / द्रष्टृभिः तेषाम् लिङ्गनिर्धारणम् कृतम् अस्ति, अस्माभिः तदनुषङ्गेन एव व्यवहारः क्रियते, इति अस्य आशयः ।\n\nशब्दैः लिङ्गनिर्देशः \nपदार्थे विद्यमानस्य गुणत्रयस्य चयापचयं दृष्ट्वा तत्र ऋषिभिः आरोपितम् लिङ्गं व्यक्तीकर्तुम् तस्य पदार्थस्य वाचकेषु शब्देषु अपि भाषायाम् तदेव लिङ्गम् आरोप्यते । इत्युक्ते, अकारान्तपुंलिङ्गः वृक्षशब्दः इति वैयाकरणैः यदा उच्यते तदा तत्र वस्तुतः — वृक्षशब्देन निर्दिष्टे पदार्थे गुणत्रयस्य वृद्धिः भवति अतः वृक्षस्य पुंस्त्वम् स्वीक्रियते, तत् च ज्ञापयितुम् भाषायाम् वृक्षशब्दः पुंलिङ्गे प्रयुज्यते — इति अर्थः वर्तते । न हि शब्दस्य स्वस्य किमपि लिङ्गम् अस्ति, शब्देन पदार्थस्यैव लिङ्गम् निर्दिश्यते, इति अत्र आशयः । अतएव, पदार्थेषु विद्यमानानाम् गुणानां पृथक् रूपेण चयापचये जाते पदार्थस्य लिङ्गे यत्र परिवर्तनम् सम्भवति तत्र एकस्यैव पदार्थस्य निर्देशार्थम् भाषायाम् त्रिषु अपि लिङ्गेषु शब्दाः सम्भवन्ति । यथा, पुष्यः इति पुंलिङ्गे, तारका इति स्त्रीलिङ्गे, नक्षत्रम् इति नपुंसकलिङ्गे । एवमेव, पत्नी इति स्त्रीलिङ्गे, कलत्रम् इति नपुंसकलिङ्गे, दाराः इति पुंलिङ्गे । अस्मिन्नेव सन्दर्भे बालमनोरमाकारः अग्रे स्पष्टीकरोति —\n\nएकस्मिन् एव अर्थे पुष्यः, तारका, नक्षत्रम् इति शब्द-नानात्व-दर्शनात्, कुटी-कुटीरादौ रेफादि-अवयव-उपजनने लिङ्गभेददर्शनात् च स्तनकेशादि-अतिरिक्तम् एव लिङ्गम्, इत्यर्थ — इति कैयटः । 'पुंलिङ्गः शब्दः' इत्यादि व्यवहारः तु वाच्यवाचकयोः अभेदोपचाराद् बोध्यः । न च उपचयादिधर्माणां विरुद्धत्वाद् एकत्र समावेशायोगाद् एकस्य द्वित्रिलिङ्गता-अनापत्तिः इति वाच्यम्, एकैकस्मिन् वस्तुनि क्षणभेदेन त्रयाणां धर्माणाम् अपि समावेश-उपपत्तेः । उक्तं च भाष्ये — कश्चिदपि सत्त्वादिधर्मः क्वचिन्मुहुर्तमपि नावतिष्ठते — इति । — बालमनोरमा ।\n\nअस्मिन् सन्दर्भे अधिकं ज्ञातुम् जिज्ञासुभिः अस्य सूत्रस्य बालमनोरमाव्याख्यानम्, भाष्यम् वा द्रष्टव्यम् ।\n" }, "41004": { "sa": "अजादिगणस्य शब्देभ्यः, अकारान्तशब्देभ्यः च स्त्रीत्वं द्योतयितुम् 'टाप्' इति प्रत्ययः भवति । ", "sd": "<<स्त्रियाम्>> [[4.1.3]] इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु प्रथमः प्रत्ययः टाप् इति प्रकृतसूत्रेण पाठ्यते । ह्रस्व-अकारान्तशब्देभ्यः, अजादिगणस्य च शब्देभ्यः स्त्रीत्वं द्योतयितुम् टाप्-प्रत्ययः भवति — इति अस्य सूत्रस्य अर्थः । टाप्-प्रत्यये टकारः पकारः च इत्संज्ञकौ स्तः, अतः प्रक्रियायाः प्रारम्भे तयोः लोपं कृत्वा इत्येव अवशिष्यते । क्रमेण उदाहरणानि एतानि —\n1. ह्रस्व-अकारान्तशब्दाः — ह्रस्व-अकारान्तशब्देभ्यः स्त्रीत्वं द्योतयितुम् औत्सर्गिकरूपेण टाप्-प्रत्ययः विधीयते । यथा —\n\nखट्व + टाप् [<<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्-प्रत्ययः]\n→ खट्व + आ [टकारपकारयोः इत्संज्ञा, लोपः]\n→ खट्वा [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः]\n\nअस्मिन् सूत्रे अतः इत्यत्र तपरकरणम् कृतम् अस्ति, अतः प्रकृतसूत्रस्य प्रयोगः केवलं ह्रस्व-अकारान्त-शब्देभ्यः एव भवति, आकारान्तशब्देभ्यः न । अतएव कीलालपा इति आकारान्तशब्दः टाप्-प्रत्ययं विना, तादृशः एव स्त्रीलिङ्गे प्रयोक्तुं शक्यते, यथा कीलालपाः ब्राह्मणी इति । यदि अत्र टाप्-प्रत्ययः विधीयेत, तर्हि प्रथमैकवचनस्य प्रक्रियायाम् <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इत्यनेन अनिष्टः सुँलोपः अभविष्यत् ।\nह्रस्व-अकारान्तशब्देभ्यः प्रकृतसूत्रेण विहितः टाप्-प्रत्ययः केवलम् औत्सर्गिकः प्रत्ययः अस्ति । न हि सर्वेभ्यः अकारान्तशब्देभ्यः टाप्-प्रत्ययः एव विधीयते । अस्य औत्सर्गिकस्य टाप्-प्रत्ययस्य अपवादत्वेन अग्रे डाप्, चाप्, ङीप्, ङीष्, ङीन् इत्येते पञ्च प्रत्ययाः पाठिताः सन्ति ।\n2. अजादिगणस्य शब्दाःअजादिगणः इति टाप्-प्रत्ययान्तशब्दानाम् कश्चन गणः अस्ति । एते टाबन्ताः शब्दाः साधु ज्ञेयाः; इत्युक्ते तेषु विद्यमानेभ्यः मूलप्रातिपदिकेभ्यः स्त्रीत्वं द्योतयितुम् टाप्-प्रत्ययः अवश्यं भवति इति अत्र आशयः वर्तते । \nअजादिगणः अयम् — \n\nअजा, एडका, चटका, अश्वा, मूषका, बाला, होडा, पाका, वत्सा, मन्दा, विलाता, पूर्वापहाणा, अपरापहाणा, <= संभस्त्राजिनशणपिण्डेभ्यः फलात् => (गणसूत्रम्), <= सदच्काण्डप्रान्तशतैकेभ्यः पुष्पात् => (गणसूत्रम्), <= शूद्रा चामहत्पूर्वा जातिः => (गणसूत्रम्), क्रुञ्चा, उष्णिहा, देवविशा, <= ज्येष्ठा, कनिष्ठा, मध्यमा पुंयोगेऽपि => (गणसूत्रम्), <=कोकिला जातिः => (गणसूत्रम्), <= मूलान्नञः => (गणसूत्रम्) । इति अजादिगणः । \n\nयद्यपि अजादिगणे विद्यमानानां प्रायेण सर्वेषाम् अपि शब्दानां प्रकृतिः ह्रस्व-अकारान्ता एव अस्ति, तथापि एतेभ्यः शब्देभ्यः अदन्तलक्षणम् टाप्-प्रत्ययं बाधित्वा कश्चन अन्यः प्रत्ययः भवितुम् अर्हति । तस्य निषेधं कृत्वा पुनः टाप्-प्रत्ययविधानार्थम् एतेषाम् अजादिगणे ग्रहणं क्रियते । तदित्थम् — \n\n1. अज, एडक, चटक, मूषिक — एतेभ्यः जातिवाचकेभ्यः शब्देभ्यः <<जातेरस्त्रीविषयादयोपधात्>> [[4.1.63]] इत्यनेन प्राप्तं ङीष्-प्रत्ययं बाधित्वा तेभ्यः टाप्-प्रत्ययं विधातुम् तेषाम् अजादिगणे ग्रहणं क्रियते ।\n2. बाल, होड, पाक (शिशुः), वत्स , मन्द, विलात —‌ एतेभ्यः वयोवाचकेभ्यः शब्देभ्यः <<वयसि प्रथमे>> [[4.1.20]] इत्यनेन प्राप्तं ङीप्-प्रत्ययं बाधित्वा टाप्-प्रत्ययं विधातुम् एतेषाम् अजादिगणे ग्रहणं क्रियते ।\n3. पूर्वापहान, अपरापहान — एताभ्याम् हा-धातोः निर्मिताभ्याम् ल्युट्-प्रत्ययान्त-शब्दाभ्याम् <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इत्यनेन ङीप्-प्रत्यये प्राप्ते, तद्बाधित्वा टाप्-प्रत्ययस्य विधानार्थम्, तथा च णत्वस्य निपातनार्थम् एतयोः अजादिगणे ग्रहणं क्रियते ।\n4. क्रुञ्च्, उष्णिह्, देवविश् — एते शब्दाः अदन्ताः नैव सन्ति, एतेभ्यः च कोऽपि स्त्रीप्रत्ययः औत्सर्गिकरूपेण नैव विधीयते । अतः एतेभ्यः टाप्-प्रत्ययस्य विधानार्थम् एतेषाम् अजादिगणे ग्रहणम् कृतम् अस्ति ।\n\nअजादिगणे बहूनि गणसूत्राणि अपि विद्यन्ते । एतेषाम् अर्थाः, उदाहरणानि च एतादृशानि —\n\n1. <= संभस्त्राजिनशणपिण्डेभ्यः फलात् => — यस्मिन् समासे सम्, भ्रस्रा, अजिन, शण, पिण्ड - इत्येतेषु कश्चन शब्दः पूर्वपदरूपेण, तथा च फल शब्दः उत्तरपदरूपेण विद्यते, तस्मात् स्त्रीत्वं द्योतयितुम् टाप्-प्रत्ययः भवति । यथा —\n\n1. समृद्धानि फलानि अस्याः = सम्फला ।\n2. भस्रा इव फलानि अस्याः = भस्रफला । औषधिविशेषस्य इयं संज्ञा, अतः प्रक्रियायाम् <<ङ्यापोः संज्ञाछन्दसोर्बहुलम्>> [[6.3.63]] इत्यनेन पूर्वपदस्य ह्रस्वादेशः भवति । \n3. अजिनम् इव फलानि अस्याः = अजिनफला । इयम् अपि औषधिविशेषस्य संज्ञा । \n4. शणः इव फलानि अस्याः = शणफला । इयम् अपि औषधिविशेषस्य संज्ञा । \n5. पिण्डः इव फलानि अस्याः = पिण्डफला । bottle gourd (Lagenaria siceraria) इत्यस्य इयं संज्ञा ।\n\nएतेषु सर्वेषु अपि स्थलेषु <<पाककर्णपर्णपुष्पफलमूलवालोत्तरपदाच्च>> [[4.1.64]] इत्यनेन प्राप्तं ङीष्-प्रत्ययं बाधित्वा टाप्-प्रत्ययं विधातुम् इदं गणसूत्रम् निर्मितम् अस्ति ।\n2. <= सदच्काण्डप्रान्तशतैकेभ्यः पुष्पात् => — यस्मिन् समासे सत्, अच्,काण्ड,प्रान्त,शत, एक - इत्येतेषु कश्चन शब्दः पूर्वपदरूपेण, तथा च पुष्प शब्दः उत्तरपदरूपेण विद्यते, तस्मात् स्त्रीत्वं द्योतयितुम् टाप्-प्रत्ययः भवति । यथा —\n\n1. सन्ति पुष्पाणि अस्याः = सत्पुष्पा । अत्र सत् इति शब्दः उत्तमम् इत्यस्मिन् अर्थे प्रयुक्तः अस्ति । सन्ति इति तस्य नपुंसकलिङ्गस्य प्रथमाबहुवचनस्य रूपम् ।\n2. अच् इति शब्दः अञ्चुँ (गतौ) धातोः क्विबन्तम् प्रातिपदिकम् अस्ति । अयं शब्दः नित्यम् प्र, प्रति आदिभिः उपसर्गैः सह प्रयुज्यते । यथा, प्राञ्चि पुष्पाणि अस्याः = प्राक्पुष्पा । प्रत्यञ्चि पुष्पाणि अस्याः = प्रत्यक्पुष्पा ।\n3. काण्डानि इव पुष्पाणि अस्याः = काण्डपुष्पा ।\n4. प्रान्तानि इव पुष्पाणि अस्याः = प्रान्तपुष्पा । \n5. शतं पुष्पाणि अस्याः = शतपुष्पा ।\n6. एकं पुष्पम् अस्याः = एकपुष्पा ।\n\nएतेषु सर्वेषु अपि स्थलेषु <<पाककर्णपर्णपुष्पफलमूलवालोत्तरपदाच्च>> [[4.1.64]] इत्यनेन प्राप्तं ङीष्-प्रत्ययं बाधित्वा टाप्-प्रत्ययं विधातुम् इदं गणसूत्रम् निर्मितम् अस्ति ।\n3. <= शूद्रा चामहत्पूर्वा जातिः => — शूद्रजातेः स्त्रियः निर्देशं कर्तुम् शूद्र-शब्दात् टाप्-प्रत्ययः भवति । यथा - शूद्रा स्त्री । <<जातेरस्त्रीविषयादयोपधात्>> [[4.1.63]] इत्यनेन प्राप्तं ङीष्-प्रत्ययं बाधित्वा अत्र टाप्-प्रत्ययः क्रियते । परन्तु अयम् शूद्रा शब्दः महत्-शब्देन सह समस्तपदे विद्यते चेत् जातिनिर्देशे अपि टाप्-प्रत्ययः नैव भवति, यथा - महाशूद्री स्त्री । (आभीरी तु महाशूद्री जातिपुंयोगयोः समा —‌ इति अमरः) । अपि च, शूद्रस्य पत्नी इति निर्देशे कर्तव्ये अपि जातेः संदर्भस्य अभावात् इदं गणसूत्रं नैव प्रयुज्यते, अतः तत्र <<पुंयोगादाख्यायाम्>> [[4.1.48]] इत्यनेन ङीष्-प्रत्यये कृते शूद्री स्त्री इत्येव प्रयोगः भवति । \nविशेषः — महती शूद्रा इति कर्मधारयसमासस्य विषये तु महाशूद्रा इत्येव रूपं भवति । अत्र यद्यपि समस्तपदं विद्यते, तथापि जातिनिर्देशः तु शूद्रशब्देन एव कृतः अस्ति, न हि समस्तपदेन । अतः अत्र <= शूद्रा चामहत्पूर्वा जातिः => इत्यस्य प्रयोगः अवश्यं भवति ।\n4. <= ज्येष्ठा, कनिष्ठा, मध्यमा पुंयोगेऽपि => — ज्येष्ठ, कनिष्ठ, मध्यम इति शब्दाः यदा पुंयोगे (इत्युक्ते, ज्येष्ठस्य पत्नी, कनिष्ठस्य पत्नी, मध्यमस्य पत्नी एतेषु अर्थेषु) प्रयुज्यन्ते तदा तेभ्यः <<पुंयोगादाख्यायाम्>> [[4.1.48]] इत्यनेन ङीष्-प्रत्यये प्राप्ते तद्बाधित्वा टाप्-प्रत्ययः भवति । यथा -\n\n1. ज्येष्ठस्य पत्नी = ज्येष्ठा\n2. कनिष्ठस्य पत्नी = कनिष्ठा\n3. मध्यमस्य पत्नी = मध्यमा\n\nया स्त्री स्वयं ज्येष्ठगुणयुक्ता/कनिष्ठगुणयुक्ता/मध्यमगुणयुक्ता अस्ति, तस्याः निर्देशार्थं तु अदन्तत्वात् टाप्-अवश्यं भवति एव, तदर्थम् इदं गणसूत्रम् नैव आवश्यकम् । अतएव अस्मिन् गणसूत्रे पुंयोगे अपि इति स्पष्टः निर्देशः कृतः अस्ति । \n5. <=कोकिला जातिः => — कोकिल-शब्दात् जातेः निर्देशं कर्तुम् <<जातेरस्त्रीविषयादयोपधात्>> [[4.1.63]] इत्यनेन ङीष्-प्रत्यये प्राप्ते तद्बाधित्वा टाप्-प्रत्ययः भवति । यथा - कोकिला जातिः ।\n6. <= मूलान्नञः => — न विद्यते मूलम् अस्याः इत्यस्मिन् अर्थे मूल-शब्देन सह नञ्-समासे कृते तत्र स्त्रीत्वं द्योतयितुम् <<पाककर्णपर्णपुष्पफलमूलवालोत्तरपदाच्च>> [[4.1.64]] इत्यनेन प्राप्तं ङीष्-प्रत्ययं बाधित्वा टाप्-प्रत्ययः भवति । यथा - अमूला (इति काचित् औषधजातिः) । \n\n\n1. अत्र निर्दिष्टानि कानिचन गणसूत्राणि वस्तुतः भाष्ये <<पाककर्णपर्णपुष्पफलमूलवालोत्तरपदाच्च>> [[4.1.64]] इत्यत्र वार्त्तिकरूपेण पाठितानि सन्ति । कौमुदीकारेण अपि एतानि प्रकृतसूत्रे वार्त्तिकरूपेणैव निर्दिष्टानि वर्तन्ते । परन्तु एतेषाम् गणपाठे अपि निर्देशः कृतः दृश्यते अतः एतानि अत्र गणसूत्ररूपेण निर्दिष्टानि सन्ति । \n2. इति गणसूत्रम् प्रकृतसूत्रस्य भाष्ये द्वयोः वार्त्तिकयोः स्वरूपे निर्दिष्टं वर्तते — तथा इति । परन्तु प्रायेण सर्वैः अपि व्याख्यातृभिः उभयोः वार्त्तिकयोः एकत्रीकरणं कृत्वा इत्येव गणसूत्रम् अजादिगणे निर्दिष्टम् अस्ति । \n2. अजादिः आकृतिगणः, तेन न मु ने इति सूत्रभाष्ये टायामादेश इति भाष्यप्रयोगः सिद्धः — इति कश्चन निर्देशः बालमनोरमायां वर्तते । अतः अजादिगणः आकृतिगणः ज्ञेयः । अतः त्रिफला, त्र्यनीका इत्यादयः द्विगुसमासान्तशब्दाः अपि अस्मिन् गणे स्वीक्रियन्ते; येन एतेभ्यः <<द्विगोः>> [[4.1.21]] इत्यनेन प्राप्तं ङीप्-प्रत्ययं बाधित्वा टाप्-प्रत्ययः एव भवति ।\nटाप्-प्रत्यये इत्संज्ञकवर्णानां प्रयोजनम्\nटाप्-प्रत्यये टकारपकारयोः इत्संज्ञा भवति । तत्र —\n\n1. इत्संज्ञकः पकारः <<अनुदात्तौ सुप्पितौ>> [[3.1.4]] इति अनुदात्तस्वरविधानार्थम् स्थापितः अस्ति ।\n2. इत्संज्ञकः टकारः सामान्यग्रहणविघातार्थः (to distinguish टाप् from general आप् or from चाप् and डाप्) स्थापितः अस्ति । केवलम् 'आप्' इत्युच्यमाने <<औङः आपः>> [[7.1.18]] इत्यत्र, एवमेव <<याडापः>> [[7.3.13]] इत्यत्रापि <ऽतदनुबन्धके न अतदनुबन्धकस्यऽ> अनया परिभाषया डाप्-प्रत्ययस्य चाप्-प्रत्ययस्य च इष्टं ग्रहणं नैव स्यात्, अतः अत्र (व्यर्थः) टकारः अनुबन्धरूपेण स्थापितः विद्यते ।\n\nहलन्तशब्दानाम् अदन्तत्वे प्राप्ते ततः टाप्-प्रत्ययविधानम्\nसर्वादिगणे विद्यमानाः त्यद्, तद्, यद्, एतद्, इदम् तथा च किम् एते शब्दाः मूलरूपेण हलन्ताः सन्ति, अतः एतेभ्यः स्त्रीत्वं द्योतयितुम् न कश्चन स्त्रीप्रत्ययः विधीयते । परन्तु, यदा एतेषां शब्दानां स्त्रीलिङ्गे सुबन्तप्रक्रियायाम् विभक्तिप्रत्ययस्य विधानं भवति, तदा <<त्यदादीनामः>> [[7.2.102]] तथा च <<किमः कः>> [[7.2.103]] इत्यनेन अङ्गस्य अकारान्तत्वं जायते । एतादृशे अकारान्तत्वे जाते, <<अजाद्यतष्टाप्>> [[4.1.4]] इति सूत्रेण अत्र टाप्-प्रत्ययः अवश्यम् विधीयते । यथा —\n1. तद्-शब्दस्य स्त्रीलिङ्गे प्रथमैकवचनम्\n\nतद् (स्त्री) + सुँ\n→ त + स् [<<त्यदादीनामः>> [[7.2.102]] इति अकारादेशः]\n→ त + टाप् + स् [प्रातिपदिकस्य अदन्तत्वं दृष्ट्वा स्त्रीत्वं द्योतयितुम् <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्]\n→ स + आ + स् [<<तदोः सः सावनन्त्ययोः>> [[7.2.106]] इति सकारादेशः]\n→ सा स् [<<अकः सवर्णे दीर्घः>> [[6.1.101]] ]\n→ सा [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति सुँलोपः]\n\nअत्र प्रक्रियायाम् — (1) सुँप्रत्ययनिमित्तकः अकारादेशः, ततः (2) अकारनिमित्तकः टाप्, ततः च (3) टाप्-प्रत्ययनिमित्तकः सुँलोपः — इति क्रमेण परिवर्तनं भवति । \n2. किम्-शब्दस्य स्त्रीलिङ्गे द्वितीयैकवचनम्\n\nकिम् (स्त्री) + अम्\n→ क + अम् [<<किमः कः>> [[7.2.103]] इति विभक्तिप्रत्यये परे किम्-शब्दस्य क इति आदेशः]\n→ क + टाप् + अम् [प्रातिपदिकस्य अदन्तत्वं दृष्ट्वा स्त्रीत्वं द्योतयितुम् <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्]\n→ का + अम् [<<अकः सवर्णे दीर्घः>> [[6.1.101]] ]\n→ काम् [<<अमि पूर्वः>> [[6.1.107]] ]\n\n3. इदम्-शब्दस्य स्त्रीलिङ्गे प्रथमाद्विवचनम्\n\nइदम् (स्त्री) + औ\n→ इदअ + औ [<<त्यदादीनामः>> [[7.2.102]] इति अकारादेशः]\n→ इद + औ [<<अतो गुणे>> [[6.1.97]] इति पररूपैकादेशः]\n→ इद + औ + अम् [प्रातिपदिकस्य अदन्तत्वं दृष्ट्वा स्त्रीत्वं द्योतयितुम् <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्]\n→ इदा + औ [<<अकः सवर्णे दीर्घः>> [[6.1.101]] ]\n→ इदा + शी [<<औङ आपः>> [[7.1.18]] इति औ-प्रत्ययस्य शी-आदेशः]\n→ इमा + ई [<<दश्च>> [[7.2.109]] इति मकारादेशः]\n→ इमे [<<आद्गुणः>> [[6.1.87]] ]\n\nअत्र प्रक्रियायाम् <<दश्च>> [[7.2.109]] इत्यनेन प्राप्तः मकारादेशः टाप्-प्रत्ययविधानस्य अपेक्षया बहिरङ्गः अस्ति, अतः टाप्-प्रत्ययविधानम् मकारादेशात् प्राग् एव भवति ।\n यत्र प्रातिपदिकस्य अकारान्तत्वं न विधीयते, तत्र प्रकृतसूत्रेण टाप्-प्रत्ययः अपि नैव विधीयते । यथा, इदम् शब्दस्य स्त्रीलिङ्गे प्रथमैकवचनस्य रूपसिद्धौ <<त्यदादीनामः>> [[7.2.102]] इत्यनेन प्राप्तम् अकारादेशं बाधित्वा <<इदमो मः>> [[7.2.108]] इत्यनेन मकारादेशः भवति, येन 'इदम्' इत्येव प्रातिपदिकं जायते । अस्य अदन्तत्व-अभावात् अत्र प्रक्रियायाम् टाप्-प्रत्ययः अपि नैव सम्भवति । केवलं <<यः सौ>> [[7.2.110]] इत्यनेन दकारस्य यकारादेशे कृते इयम् इति रूपं सिद्ध्यति ।\n<pv> तदन्तविधिः\nयत्र सूत्रेषु प्रातिपदिकस्य निर्देशं कृत्वा कश्चन विधिः निर्दिष्टः अस्ति, तत्र सः विधिः केवलं तस्य प्रातिपदिकस्य विषये एव प्रवर्तते, न हि तदन्तस्य विषये — इति <ऽग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्तिऽ> इत्यनया परिभाषया स्पष्टी भवति । अतः, इत्यस्य गणसूत्रस्य स्थाने 'शूद्रा च जातिः' इत्येव गणसूत्रम् क्रियते चेदपि न कश्चन दोषः, यतः 'महाशूद्र' शब्दस्य विषये अस्य गणसूत्रस्य प्रसक्तिः नैव स्यात् । इत्युक्ते, अस्मिन् गणसूत्रे विद्यमानः 'अमहत्पूर्वः' इति निर्देशः व्यर्थः एव अस्ति । अयं निर्देशः व्यर्थः सन् ज्ञापयति यत् — स्त्रीप्रत्ययप्रकरणे ग्रहणवता प्रातिपदिकेन तदन्तविधिः अवश्यमेव प्रवर्तते— इति । अतएव, <<वनो र च>> [[4.1.7]] इति सूत्रेण यथा धीवन्-शब्दस्य स्त्रीत्वे नकारस्य रेफादेशं कृत्वा ङीप्-प्रत्यये कृते धीवरी इति शब्दः सिद्ध्यति, तथैव अतिक्रान्तम् धीवानम् या सा इत्यत्रापि <<वनो र च>> [[4.1.7]] इति सूत्रेण रेफादेशे, ङीप्-प्रत्यये च कृते अतिधीवरी इति शब्दः सिद्ध्यति ।\n<pv> भिन्नार्थकस्य स्त्रीत्वस्य निर्देशार्थम् अजादिगणस्य शब्देभ्यः न तदन्तविधिः\nअजादिगणे विद्यमानानां शब्दानाम् विषये स्त्रीप्रत्ययविधानसमये तदन्तविधिः तदा एव भवति यदा साक्षात् अजादिगणस्य शब्दानाम् एव स्त्रीत्वम् इष्यते । यत्र समस्तपदे अजादिगणस्य शब्दः केवलम् उत्तरपदरूपेण अस्ति, परन्तु स्त्रीत्वम् अन्यपदार्थस्य इष्यते, तत्र तदन्तविधिः नैव भवति, अतः तत्र प्रकृतसूत्रम् अपि न प्रयुज्यते । यथा, पञ्चानाम् अजानाम् समाहारः इत्यत्र <<सङ्ख्यापूर्वो द्विगुः>> [[2.1.52]] इत्यनेन द्विगु समासे कृते, पञ्च + अज इति स्थिते इति वार्त्तिकेन द्विगु-समासस्य (समूहस्य) स्त्रीत्वम् इष्यते । अत्र यद्यपि समस्तपदस्य अन्ते अज इति शब्दः अस्ति, तथापि अत्र स्त्रीत्वम् अजपदार्थस्य नैव कर्तव्यम्, अपितु भिन्नपदार्थस्य (समूहस्य) कर्तव्यम्, अतः अत्र अजादित्वात् टाप्-प्रत्ययः नैव सम्भवति । अदन्तत्वात् तु टाप्-प्रत्ययः अवश्यं प्राप्नोति, परन्तु तद्बाधित्वा <<द्विगोः>> [[4.1.21]] इत्यनेन ङीप्-प्रत्ययः भवति, येन पञ्चाजी इति रूपं सिद्ध्यति । \n" }, "41005": { "sa": "ऋकारान्तप्रातिपदिकात्, नकारान्तप्रातिपदिकात् च स्त्रीत्वम् द्योतयितुम् ङीप्-प्रत्ययः भवति ।", "sd": "<<स्त्रियाम्>> [[4.1.3]] इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु द्वितीयः प्रत्ययः ङीप् इति प्रकृतसूत्रेण पाठ्यते । ह्रस्व-ऋकारान्तशब्देभ्यः, नकारान्तशब्देभ्यः च स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति — इति अस्य सूत्रस्य अर्थः । ङीप्-प्रत्यये ङकारः पकारः च इत्संज्ञकौ स्तः, अतः प्रक्रियायाः प्रारम्भे तयोः लोपं कृत्वा इत्येव अवशिष्यते । क्रमेण उदाहरणानि एतानि —\n\n1. ह्रस्व-ऋकारान्तशब्दाः — यथा, कर्तृ + ङीप् → कर्त्री । हर्तृ + ङीप् + हर्त्री । उभयत्र <<इको यणचि>> [[6.1.77]] इत्यनेन यणादेशे कृते रूपं सिद्ध्यति । क्रोष्टु इति ह्रस्व-उकारान्त-शब्दस्य विषये <<स्त्रियां च>> [[7.1.96]] इति सूत्रेण तृज्वद्भावः अतिदिश्यते, अतः तस्य विषये अपि प्रकृतसूत्रम् अवश्यं प्रवर्तते । क्रोष्टु + ङीप् → क्रोष्ट्री ।\nपितृ, भ्रातृ, जामातृ इत्यादीनां नित्यपुंलिङ्गशब्दानां विषये इदं सूत्रं नैव प्रवर्तते । \n2. नकारान्तशब्दाः — यथा, दण्डिन् + ङीप् → दण्डिनी । स्वामिन् + ङीप् → स्वामिनी । एवमेव, राजन् + ङीप् → राज्ञी । प्रक्रियायाम् <<अल्लोपोऽनः>> [[6.4.134]] इत्यनेन जकारोत्तरस्य अकारस्य लोपे कृते रूपं सिद्ध्यति ।\n\nङीप्-प्रत्यये इत्संज्ञकवर्णानां प्रयोजनम्\nङीप्-प्रत्यये ङकारपकारयोः इत्संज्ञा भवति । तत्र —\n\n1. इत्संज्ञकः पकारः <<अनुदात्तौ सुप्पितौ>> [[3.1.4]] इति अनुदात्तस्वरविधानार्थम् स्थापितः अस्ति ।\n2. इत्संज्ञकः ङकारः सामान्यग्रहणार्थः (to capture ङीप् / ङीष् / ङीन् by a common prefix) स्थापितः अस्ति । <<ङ्याप्प्रातिपदिकात्>> [[4.1.1]] इत्यस्मिन् सूत्रे विद्यमानेन 'ङी' इत्यनेन ङीप्-ङीष्-ङीन्-प्रत्ययानाम् एकत्ररूपेण ग्रहणं भवेत्, इति अत्र प्रयोजनम् ।\n\nबाध्यबाधकभावः\nप्रकृतसूत्रस्य द्वौ मुख्यौ अपवादौ एतौ —\n1. षट्-संज्ञकानि नकारान्तानि प्रातिपदिकानि (पञ्चन्, सप्तन्, अष्टन्, नवन्, दशन्, ... नवदशन्) तथा च स्वसृ, तिसृ, चतसृ, ननान्दृ, दुहितृ, यातृ, मातृ इत्येते सप्त ऋकारान्तस्त्रीलिङ्गशब्दाः — एतेभ्यः प्रकृतसूत्रेण ङीप्-प्रत्यये प्राप्ते <<न षट्स्वस्रादिभ्यः>> [[4.1.10]] इत्यनेन सः निषिध्यते । एतादृशे निषेधे जाते तत्र अन्यः कोऽपि प्रत्ययः नैव भवति, अतः एतादृशेभ्यः प्रातिपदिकेभ्यः स्त्रीत्वं द्योतयितुम् कोऽपि विशिष्टः स्त्रीप्रत्ययः नैव सम्भवति । यथा, मातृ शब्दस्य रूपाणि माता, मातरौ, मातरः इति पितृशब्दसदृशानि एव भवन्ति । \n\n2. यस्य प्रातिपदिकस्य अन्ते मन् इति विद्यते, तस्मात् प्रातिपदिकात् स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण प्राप्तः ङीप्-प्रत्ययः <<मनः>> [[4.1.11]] इत्यनेन निषिध्यते । एतादृशे निषेधे जाते तत्र अन्यः कोऽपि प्रत्ययः नैव भवति, अतः एतादृशेभ्यः प्रातिपदिकेभ्यः स्त्रीत्वं द्योतयितुम् कोऽपि विशिष्टः स्त्रीप्रत्ययः नैव सम्भवति । यथा, दामन् शब्दस्य स्त्रीलिङ्गे तथा पुंलिङ्गे — उभयत्र दामा, दामानौ, दामानः इत्येव रूपाणि भवन्ति । \n\nइतोऽपि बहूनि सूत्राणि प्रकृतसूत्रस्य बाधकरूपेण स्त्रीप्रत्ययप्रकरणे पाठितानि सन्ति । " }, "41006": { "sa": "उगिदन्तात् प्रातिपदिकात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति ।", "sd": "<<स्त्रियाम्>> [[4.1.3]] इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु ङीप् इति प्रत्ययः प्रकृतसूत्रेण पाठ्यते । यस्य प्रातिपदिकस्य अन्ते उक्-प्रत्याहारस्य वर्णः विद्यते, तस्मात् प्रातिपदिकात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति । \nउक् = उ, ऊ, ऋ, ॠ, ऌ \nउदाहरणानि एतानि —\n\n1. पठ्-धातोः क्तवतुँ-प्रत्यये कृते पठितवत् इति प्रातिपदिकं सिद्ध्यति । अस्मात् प्रातिपदिकात् स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः विधीयते । पठितवत् + ङीप् → पठितवती ।\n2. भवत् इति सर्वनामसंज्ञकः शब्दः सर्वादिगणे भवतुँ इति इत्संज्ञक-उकारेण सह निर्दिष्टः अस्ति । अतः अस्मात् स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः विधीयते । भवत् + ङीप् → भवती । \n3. कृ-धातोः शतृँ-प्रत्यये कृते कुर्वत् इति प्रातिपदिकं सिद्ध्यति । अस्मात् प्रातिपदिकात् स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः विधीयते । कुर्वत् + ङीप् → कुर्वती ।\n4. भू-धातोः शतृँ-प्रत्यये कृते भवत् इति प्रातिपदिकं सिद्ध्यति । अस्मात् प्रातिपदिकात् स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः विधीयते; ततश्च प्रक्रियायाम् <<शप्श्यनोर्नित्यम्>> [[7.1.81]] इत्यनेन नुमागमः अपि भवति, येन भवन्ती इति प्रातिपदिकं सिद्ध्यति ।\n\nतदन्तविधि\n<<येन विधिस्तदन्तस्य>> [[1.1.72]] इत्यत्र विद्यमानेन इति वार्त्तिकेन प्रत्ययविधौ तदन्तविधिः प्रतिषिध्यते । तथापि तत्रैव पाठितेन इति वार्त्तिकेन उगिद्ग्रहणस्य विषये तदन्तविधेः पुनर्विधानम् कृतम् अस्ति । किञ्च, <<अजाद्यतष्टाप्>> [[4.1.4]] इत्यत्रापि स्त्रीप्रत्ययप्रकरणे ग्रहणवता प्रातिपदिकेन तदन्तविधिः भवति इति निर्णयः भाष्यकारेण दत्तः अस्ति । अतः प्रकृतसूत्रस्य विषये तदन्तविधिः अवश्यमेव प्रवर्तते । अतएव भवन्तम् अतिक्रान्ता इत्यस्मिन् अर्थे इति वार्त्तिकेन तत्पुरुषसमासे कृते तत्र भवत्-शब्दस्य उगित्त्वं स्वीकृत्य तस्मात् प्रकृतसूत्रेण अवश्यं ङीप् प्रत्ययः भवति — अति + भवत् + ङीप् → अतिभवती ।\nवार्त्तिकम् — <!धातोः उगितः प्रतिषेधः वक्तव्यः; अञ्चतेश्च उपसङ्ख्यानम् !> \nप्रकृतसूत्रे काशिकाकारेण तथा च इति द्वे वार्त्तिके पाठिते स्तः । अष्टाध्याय्याः सूत्रेषु उगित्-शब्देन कृतः निर्देशः अञ्चुँ-धातुं विहाय अन्येषाम् धातूनां ग्रहणं न करोति — इति अस्य वार्त्तिकस्य अर्थः । अतएव, उखायां स्रंसते सा इत्यत्र <<अन्येभ्योऽपि दृश्यन्ते>> [[3.2.75]] इति सूत्रेण स्रंसुँ-धातोः क्विप्-प्रत्यये कृते, उखास्रत् इति प्रातिपदिके जाते, तस्मात् स्त्रीत्वे विवक्षिते, यद्यपि स्रंसुँ-धातुः उगित् अस्ति, तर्ह्यपि प्रकृतसूत्रम् नैव प्रयुज्यते; अतश्च ङीप्-प्रत्ययः नैव भवति अपितु उखास्रत् ब्राह्मणी इत्येव प्रयोगः दृश्यते । एवमेव, पर्णानि ध्वंसते सा = पर्ण + ध्वंसुँ + क्वि्प → पर्णध्वत् ब्राह्मणी इत्यत्रापि प्रकृतसूत्रस्य प्रयोगः न भवति । अञ्चुँ-धातोः विषये तु इदं सूत्रम् अवश्यमेव प्रयुज्यते, अतएव प्राञ्चति सा इत्यत्र प्र + अञ्च् + क्विन् इति स्थिते, क्विन्-प्रत्ययस्य सम्पूर्णरूपेण लोपे जाते प्र + अञ्च् इत्यस्याम् अवस्थायाम् अञ्च्-धातोः उगित्त्वात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः अवश्यं भवति, येन प्र + अञ्च् + ङीप् → प्राची इति शब्दः सिद्ध्यति । एवमेव प्रति + अञ्च् + ङीप् → प्रतीची इत्यत्रापि स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः प्रयुज्यते । \nएते एव द्वे वार्तिके सिद्धान्तकौमुद्याम् धातोश्चेद् उगित्कार्यं तर्हि अञ्चतेः एव इति वाक्येन निर्दिष्टे स्तः । पाणिनिना <<उगिदचां सर्वनामस्थानेऽधातोः>> [[7.1.70]] इति सूत्रे उगित् शब्देन सह अचाम् इति कृतः निर्देशः एव अस्य ज्ञापकम् अस्ति इति अत्र दीक्षितः स्पष्टी करोति । अयमेव विषयः भाष्ये अपि निर्दिष्टः दृश्यते —\n\nधातोः उगितः प्रतिषेधः वक्तव्यः । उखास्रद् ब्राह्मणी, पर्णध्वद् ब्राह्मणी । अञ्ञ्चतेश्चोपसंख्यानं कर्तव्यम् । प्राची, प्रतीची ॥ उगिति अञ्ञ्चतिग्रहणाद् अधातोः सिद्धम् । अञ्ञ्चतिग्रहणं नियमार्थं भविष्यति। अञ्ञ्चतेः एव उगितः धातोः, नान्यस्य उगितः धातोः, इति ॥ —महाभाष्यम्\n\n" }, "41007": { "sa": "वन्-प्रत्ययः यस्य अन्ते अस्ति तादृशात् प्रातिपदिकात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति, तथा च प्रक्रियायाम् वन्-प्रत्ययस्य नकारस्य रेफादेशः भवति । ", "sd": "<<स्त्रियाम्>> [[4.1.3]] इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु ङीप् इति प्रत्ययः प्रकृतसूत्रेण पाठ्यते । अस्मिन् सूत्रे विद्यमान: वन् इति शब्दः ङ्वनिप्, क्वनिप् तथा वनिप् इति त्रयाणाम् कृत्-प्रत्ययानाम् ग्रहणं करोति । ङ्वनिप्, क्वनिप्, वनिप्-प्रत्ययान्तशब्देभ्यः स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति, तथा च प्रक्रियायाम् प्रत्ययान्त-नकारस्य रेफादेशः भवति — इति अस्य सूत्रस्य अर्थः । वस्तुतः एते त्रयः अपि प्रत्ययाः नकारान्ताः सन्ति, अतः ङीप्-प्रत्ययः तु <<ऋन्नेभ्यो ङीप्>> [[4.1.5]] इत्यनेनैव भवितुम् अर्हति; परन्तु तत्सन्नियोगेन रेफादेशस्य विधानार्थम् इदं पृथक् सूत्रं रचितं वर्तते । अपि च, <ऽप्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम्ऽ> इत्यनया परिभाषया अत्र तदन्तविधिः अपि अवश्यं प्रवर्तते । क्रमेण उदाहरणानि एतानि —\n1. ङ्वनिप्-प्रत्ययः — <<सुयजोर्ङ्वनिप्>> [[3.2.103]] इति सूत्रेण सु-धातोः, यज्-धातोः च भूते कर्त्रर्थे ङ्वनिप्-प्रत्ययः भवति । अस्मिन् प्रत्यये परे स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः क्रियते, तथा च नकारस्य रेफादेशः अपि भवति । प्रक्रिया इयम् —\n\nसु + ङ्वनिप् [<<सुयजोर्ङ्वनिप्>> [[3.2.103]] इति ङ्वनिप्]\n→ सु + वर् + ङीप् [<<वनो र च>> [[4.1.7]] इति ङीप्-प्रत्ययः, नकारस्य च रेफादेशः]\n→ सु तुक् + वर्+ ई [<<ह्रस्वस्य पिति कृति तुक्>> [[6.1.71]] इति तुगागमः]\n→ सुत्वरी\n\n2. क्वनिप्-प्रत्ययः — <<अन्येभ्योऽपि दृश्यन्ते>> [[3.2.75]] इत्यनेन धा-धातोः क्वनिप्-प्रत्यये कृते ततः स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः क्रियते, तथा च नकारस्य रेफादेशः भवति । प्रक्रिया इयम् —\n\nडुधाञ् (धारणपोषणयोः, <{3.11}>)\n→ धा + क्वनिप् [<<अन्येभ्योऽपि दृश्यन्ते>> [[3.2.75]] इति ङ्वनिप्]\n→ धा + वर् + ङीप् [<<वनो र च>> [[4.1.7]] इति ङीप्-प्रत्ययः, नकारस्य च रेफादेशः]\n→ धी + वर् + ई [<<घुमास्थागापाजहातिसां हलि>> [[6.4.66]] इति ईकारादेशः]\n→ धीवरी\n\n3. वनिप्-प्रत्ययः — <<अन्येभ्योऽपि दृश्यन्ते>> [[3.2.75]] इत्यनेन शॄ-धातोः वनिप्-प्रत्यये कृते ततः स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः क्रियते, तथा च नकारस्य रेफादेशः भवति । प्रक्रिया इयम् —\n\nशॄ (हिंसायाम्, <{9.21}>)\n→ शॄ + वनिप् [<<अन्येभ्योऽपि दृश्यन्ते>> [[3.2.75]] इति वनिप्]\n→ शॄ + वर् + ङीप् [<<वनो र च>> [[4.1.7]] इति ङीप्-प्रत्ययः, नकारस्य च रेफादेशः]\n→ शर् + वर् + ई [<<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणः]\n→ शर्वरी\n\nवार्त्तिकम् — <!वनो न हश इति वक्तव्यम्!>\nहश्-प्रत्याहारस्य वर्णः (इत्युक्ते, मृदुव्यञ्जनम्) यस्य धातोः अन्ते विद्यते, तस्मात् धातोः वन्-प्रत्यये कृते प्रकृतसूत्रं नैव प्रवर्तते (इत्युक्ते, ङीप्-प्रत्ययः, रेफादेशश्च नैव भवतः) — इति अस्य वार्त्तिकस्य अर्थः । यथा —\n1. ओण्-धातोः <<अन्येभ्योऽपि दृश्यन्ते>> [[3.2.75]] इत्यनेन वनिप्-प्रत्यये कृते स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रं नैव प्रवर्तते, यतः अस्य धातोः अन्ते णकारः (हश्-व्यञ्जनम्) अस्ति । प्रक्रिया इयम् —\n\nओणितवती इति\n= ओणृ (अपनयने, <{1.523}>)\n→ ओण् + वनिप् [<<अन्येभ्योऽपि दृश्यन्ते>> [[3.2.75]] इति वनिप्]\n→ ओ आ + वन् [<<विड्वनोरनुनासिकस्यात्>> [[6.4.41]] इति आकारादेशः]\n→ अवावन् [<<एचोऽयवायावः>> [[6.1.78]] इति अवादेशः]\n\nअनेन प्रकारेण सिद्धः अवावन्-शब्दः स्त्रीलिङ्गे अपि स्त्रीप्रत्ययं विना एव प्रयुज्यते, अतएव अवावा ब्राह्मणी इति प्रयोगः साधुत्वं प्राप्नोति । \n\n2. युध्-धातोः <<राजनि युधिकृञः>> [[3.2.95]] इत्यनेन क्वनिप्-प्रत्यये कृते स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रं नैव प्रवर्तते, यतः अस्य धातोः अन्ते धकारः (हश्-व्यञ्जनम्) अस्ति। प्रक्रिया इयम् —\n\nराजानम् योधितवती इति\n= युधँ (सम्प्रहारे, <{4.69}>)\n→ राजन् + युध् + क्वनिप् [<<राजनि युधिकृञः>> [[3.2.95]] इति क्वनिप्-प्रत्ययः, <<उपपदमतिङ्>> [[2.2.19]] इति उपपदसमासः, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुब्लुक्]\n→ राज + युध् + वन् [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः]\n→ राजयुध्वन् \n\nअनेन प्रकारेण सिद्धः राजयुध्वन्-शब्दः स्त्रीलिङ्गे अपि स्त्रीप्रत्ययं विना एव प्रयुज्यते, अतएव राजयुध्वा ब्राह्मणी इति प्रयोगः साधुत्वं प्राप्नोति । \n\n3. यज्-धातोः <<सुयजोर्ङ्वनिप्>> [[3.2.103]] इत्यनेन ङ्वनिप्-प्रत्यये कृते स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रस्य प्रयोगः न भवति, यतः अस्य धातोः अन्ते जकारः (हश्-व्यञ्जनम्) अस्ति । प्रक्रिया इयम् —\n\nइष्टवती सा\n= यज् (देवपूजासङ्गतिकरणदानेषु, <{1.1157}>)\n→ यज् + ङ्वनिप् [<<सुयजोर्ङ्वनिप्>> [[3.2.103]] ]\n→ यज्वन्\n\nअनेन प्रकारेण सिद्धः यज्वन्-शब्दः स्त्रीलिङ्गे अपि स्त्रीप्रत्ययं विना एव प्रयुज्यते, अतएव यज्वा ब्राह्मणी इति प्रयोगः साधुत्वं प्राप्नोति । \nवार्त्तिकम् — <!बहुव्रीहौ वा!>\nबहुव्रीहिसमासस्य उत्तरपदरूपेण विद्यमानस्य वन्-प्रत्ययान्तशब्दस्य विषये स्त्रीत्वं द्योतयितुम् विकल्पनैव प्रकृतसूत्रस्य प्रयोगः भवति — इति अस्य वार्त्तिकस्य आशयः । <<अनो बहुव्रीहेः>> [[4.1.12]] इति सूत्रेण अन्नन्त-बहुव्रीहिसमस्तपदस्य विषये ङीप्-प्रत्यस्यस्य निषेधे कृते, वन्नन्त-बहुव्रीहिसमस्तपदस्य विषये तस्य विकल्पेन पुनर्विधानं कर्तुम् इदं वार्त्तिकम् पाठितम् अस्ति । यथा, बहवः धीवानः यस्याः सा इत्यत्र बहु + धीवन् इत्यस्मात् अनेन वार्त्तिकेन विकल्पेन ङीप्-प्रत्ययः, तदनुषङ्गेन च नकारस्य रेफे कृते बहुधीवरी इति शब्दः सिद्ध्यति । पक्षे <<डाबुभाभ्यामन्यतरस्याम्>> [[4.1.13]] इत्यनेन विकल्पेन डाप्-प्रत्यये कृते बहुधीवा इति शब्दः अपि साधुत्वम् प्राप्नोति, तथा च पक्षे स्त्रीप्रत्ययं विना बहुधीवन् इत्येव स्त्रीलिङ्गवाचीशब्दः अपि सिद्ध्यति । \n इति वार्त्तिकं तदा एव प्रयुज्यते तदा <<अनो बहुव्रीहेः>> [[4.1.12]] इति सूत्रेण अन्नन्त-बहुव्रीहिसमस्तपदस्य विषये ङीप्-प्रत्यस्यस्य निषेधः कृतः वर्तते । यदि इति वार्त्तिकेन ङीप्-प्रत्ययस्य निषेधः भवति, तर्हि तत्र इति वार्त्तिकं नैव प्रवर्तते । अतएव बहवः यज्वानः यस्याः सा इत्यत्र इति वार्त्तिकं नैव प्रयुज्यते ।\n<pv> तदन्तविधिः\nप्रकृतसूत्रे वन् इत्यनेन प्रत्ययस्य निर्देशः क्रियते, अतः <ऽप्रत्ययग्रहणे यस्मात् स विहितः तदादेः तदन्तस्य च ग्रहणम्ऽ> इति परिभाषया अत्र तदन्तविधिः अवश्यं प्रवर्तते । परन्तु; वनः इति शब्दः अत्र प्रातिपदिकात् इत्यस्य विशेषणरूपेण अपि प्रयुक्तः अस्ति, अतः <ऽग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्तिऽ> इत्यनेन (अथवा, अस्याः परिभाषायाः मूले विद्यमानेन <ऽसमासप्रत्ययविधौ प्रतिषेधःऽ> इति वार्त्तिकेन) अत्र तदन्तविधेः निषेधः अपि सम्भवति । अतः अत्र तदन्तविधिः भवेद् उत न भवेद् - इति प्रश्ने जाते; <<अजाद्यतष्टाप्>> [[4.1.4]] इत्यत्र भाष्यकारेण दत्तः निर्णयः अत्र उपयुज्यते । <<अजाद्यतष्टाप्>> [[4.1.4]] इत्यत्र निर्दिष्टे अजादिगणे विद्यमाने इति वार्त्तिके / गणसूत्रे उपस्थितम् अमहत्पूर्वा इति पदम् आश्रित्य भाष्यकारः तत्र स्त्रीप्रत्ययप्रकरणे ग्रहणवता प्रातिपदिकेन तदन्तविधिः अवश्यम् भवति इति निर्णयति । एनं निर्णयम् अनुसृत्य प्रकृतसूत्रस्य विषये अपि <ऽप्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम्ऽ> इत्यनया परिभाषया तदन्तविधिः अवश्यम् प्रवर्तते। अतएव, यथा ङ्वनिप्-प्रत्ययान्तस्य सुत्वन्-शब्दस्य स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रं उपयुज्य सुत्वरी इति शब्दः सिद्ध्यति, तथैव सुत्वानम् अतिक्रान्ता इत्यत्र इति वार्त्तिकेन तत्पुरुषसमासे कृते अति + सु + ङ्वनिप् इत्यस्याम् अवस्थायाम् अपि प्रकृतसूत्रेणैव ङीप्-प्रत्ययः, तदनुषङ्गेन नकारस्य रेफादेशः भवति, येन अतिसुत्वरी इति शब्दः सिद्ध्यति । अनेनैव प्रकारेण धीवानम् अतिक्रान्ता = अति + धा + क्वनिप् + ङीप् → अतिधीवरी इत्यत्र, तथा च परलोकं दृष्टवती = परलोक + दृश् +क्वनिप् + ङीप् → परलोकदृश्वरी इत्यत्रापि ङीप्-प्रत्ययेनैव रूपं सिद्ध्यति ।" }, "41008": { "sa": "'पाद' इति शब्दः यस्य समस्तपदस्य उत्तरपदरूपेण विद्यते, तस्मात् स्त्रीत्वं द्योतयितुम् विकल्पेन ङीप्-प्रत्ययः भवति । ", "sd": "<<स्त्रियाम्>> [[4.1.3]] इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु ङीप् इति प्रत्ययः प्रकृतसूत्रेण पाठ्यते । पाद इति शब्दः यस्य समासस्य उत्तरपदरूपेण विद्यते, तस्मात् स्त्रीत्वं द्योतयितुम् विकल्पेन ङीप्-प्रत्ययः विधीयते — इति अस्य सूत्रस्य अर्थः । यथा —\n1. द्वौ पादौ अस्याः इत्यत्र <<अनेकमन्यपदार्थे>> [[2.2.24]] इति बहुव्रीहिसमासे कृते स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति । प्रक्रिया इयम् —\n\nद्वौ पादौ अस्याः\n→ द्वि + पाद + ङीप् [<<अनेकमन्यपदार्थे>> [[2.2.24]] इति बहुव्रीहिः । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुँलोपः । <<पादोऽन्यतरस्याम्>> [[4.1.8]] इति ङीप्]\n→ द्वि + पाद् + ई [<<संख्यासुपूर्वस्य>> [[5.4.140]] इति पाद-शब्दस्य अकारस्य लोपः]\n→ द्वि + पद् + ई [<<पादः पत्>> [[6.4.130]] इति पाद्-शब्दस्य पद्-आदेशः]\n→ द्विपदी\n\nएवमेव त्रयः पादाः अस्याः = त्रि + पाद + ङीप् → त्रिपदी इति शब्दः अपि सिद्ध्यति ।\n3. चत्वारः पादाः अस्याः इत्यत्र प्रक्रिया इयम् —\n\nचत्वारः पादाः अस्याः\n→ चतुर् + पाद + ङीप् [<<अनेकमन्यपदार्थे>> [[2.2.24]] इति बहुव्रीहिः । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुँलोपः । <<पादोऽन्यतरस्याम्>> [[4.1.8]] इति ङीप्]\n→ चतुर् + पाद् + ई [<<संख्यासुपूर्वस्य>> [[5.4.140]] इति पाद-शब्दस्य अकारस्य लोपः]\n→ चतुर् + पद् + ई [<<पादः पत्>> [[6.4.130]] इति पाद्-शब्दस्य पद्-आदेशः]\n→ चतुः + पदी [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n→ चतुष्पदी [<<इदुदुपधस्य चाप्रत्ययस्य>> [[8.3.41]] इति षत्वम्]\n\n\nप्रकृतसूत्रेण उक्तः ङीप्-प्रत्ययः विकल्पेनैव भवति, अतः ङीप्-प्रत्ययस्य अभावे द्वि + पाद इत्यत्र <<संख्यासुपूर्वस्य>> [[5.4.140]] इत्यनेन पाद-शब्दस्य अकारस्य लोपे कृते सिद्धः द्विपाद् इति शब्दः अपि स्त्रीलिङ्गे प्रयोक्तुं शक्यते । एवमेव त्रिपाद्, चतुष्पाद् इति शब्दौ अपि स्त्रीलिङ्गे साधु एव ज्ञेयौ । \nबाध्यबाधकभावः\n<<टाबृचि>> [[4.1.9]] इति अग्रिमं सूत्रम् प्रकृतसूत्रस्य अपवादरूपेण विशिष्टे सन्दर्भे टाप्-प्रत्ययस्य विधानं करोति ।" }, "41009": { "sa": "'पाद' इति शब्दः यस्य समस्तपदस्य उत्तरपदरूपेण विद्यते, तेन समस्तपदेन वेदस्य ऋचः निर्देशः भवति चेत् तस्मात् समस्तपदात् स्त्रीत्वं द्योतयितुम् टाप्-प्रत्ययः भवति । ", "sd": "<<स्त्रियाम्>> [[4.1.3]] इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु टाप् इति प्रत्ययः प्रकृतसूत्रेण पाठ्यते । येन समस्तपदेन वेदस्य ऋचः निर्देशः क्रियते, तस्य अन्ते पाद इति शब्दः विद्यते चेत् तस्मात् स्त्रीत्वं द्योतयितुम् <<पादोऽन्यतरस्याम्>> [[4.1.8]] इत्यनेन विकल्पेन प्राप्तं ङीप्-प्रत्ययं बाधित्वा टाप्-प्रत्ययः एव भवति — इति अस्य सूत्रस्य अर्थः । यथा —\n1. द्वौ पादौ अस्याः ऋचः इत्यत्र <<अनेकमन्यपदार्थे>> [[2.2.24]] इति बहुव्रीहिसमासे कृते स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण टाप्-प्रत्ययः भवति । प्रक्रिया इयम् —\n\nद्वौ पादौ अस्याः ऋचः\n→ द्वि + पाद + टाप् [<<अनेकमन्यपदार्थे>> [[2.2.24]] इति बहुव्रीहिः । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुँलोपः । <<पादोऽन्यतरस्याम्>> [[4.1.8]] इति ङीप्-प्रत्यये प्राप्ते तद्बाधित्वा <<टाबृचि>> [[4.1.9]] इति टाप्-प्रत्ययः]\n→ द्वि + पाद् + आ [<<संख्यासुपूर्वस्य>> [[5.4.140]] इति पाद-शब्दस्य अकारस्य लोपः]\n→ द्वि + पद् + आ [<<पादः पत्>> [[6.4.130]] इति पाद्-शब्दस्य पद्-आदेशः]\n→ द्विपदा ऋक्\n\nएवमेव त्रयः पादाः अस्याः ऋचः = त्रि + पाद + टाप् → त्रिपदा ऋक् इति शब्दः अपि सिद्ध्यति ।\n3. चत्वारः पादाः अस्याः ऋचः इत्यत्र प्रक्रिया इयम् —\n\nचत्वारः पादाः अस्याः ऋचः\n→ चतुर् + पाद + टाप् [<<अनेकमन्यपदार्थे>> [[2.2.24]] इति बहुव्रीहिः । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुँलोपः ।<<पादोऽन्यतरस्याम्>> [[4.1.8]] इति ङीप्-प्रत्यये प्राप्ते तद्बाधित्वा <<टाबृचि>> [[4.1.9]] इति टाप्-प्रत्ययः]\n→ चतुर् + पाद् + आ [<<संख्यासुपूर्वस्य>> [[5.4.140]] इति पाद-शब्दस्य अकारस्य लोपः]\n→ चतुर् + पद् + आ [<<पादः पत्>> [[6.4.130]] इति पाद्-शब्दस्य पद्-आदेशः]\n→ चतुः + पदा [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n→ चतुष्पदा [<<इदुदुपधस्य चाप्रत्ययस्य>> [[8.3.41]] इति षत्वम्]\n→ चतुष्पदा ऋक्\n\nबाध्यबाधकभावः\nप्रकृतसूत्रं <<पादोऽन्यतरस्याम्>> [[4.1.8]] इति सूत्रेण प्राप्तस्य ङीप्-प्रत्ययस्य अपवादरूपेण प्रवर्तते । तत्र <<पादोऽन्यतरस्याम्>> [[4.1.8]] इत्यनेन यद्यपि वैकल्पिकः ङीप्-प्रत्ययः विधीयते, तर्ह्यपि प्रकृतसूत्रे तादृशं वैकल्पिकविधानं नास्ति । अत्र निर्दिष्टः टाप्-प्रत्ययः नित्यमेव विधीयते, अतः द्वौ पादौ अस्याः ऋचः इत्यत्र द्विपदा ऋक् इत्येव प्रयोगः भवति । \n\nपाद-शब्दान्त-समस्तपदेन ऋचः निर्देशे कर्तव्ये स्त्रीत्वं द्योतयितुम् अवश्यं प्रकृतसूत्रस्य प्रयोगः करणीयः । \n" }, "41010": { "sa": "षट्संज्ञकेभ्यः शब्देभ्यः स्वस्रादिभ्यः च शब्देभ्यः स्त्रीत्वं द्योतयितुम् ङीप् प्रत्ययः न भवति । ", "sd": "<<स्त्रियाम्>> [[4.1.3]] इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु ङीप् इति अन्यतमः प्रत्ययः । अस्य प्रत्ययस्य निषेधः प्रकृतसूत्रेण पाठितः अस्ति । षट्-संज्ञकेभ्यः शब्देभ्यः, तथा च स्वस्रादिगणस्य शब्देभ्यः स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः न भवति — इति अस्य सूत्रस्य अर्थः । क्रमेण उदाहरणानि एतानि —\n1. षट्-संज्ञा — व्याकरणशास्त्रे <<ष्णान्ता षट्>> [[1.1.24]] तथा च <<डति च>> [[1.1.25]] इत्येताभ्यां सूत्राभ्यां षकारान्तसङ्ख्यावाचकशब्दानाम्, नकारान्तसङ्ख्यावाचकशब्दानाम्, तथा च डतिप्रत्ययान्तशब्दानात् षट् इति संज्ञा भवति । एतेषां सर्वेषाम् आवली इयम् —\n\nपञ्चन्, षष, सप्तन्, अष्टन्, नवन्, दशन्, एकादशन्, द्वादशन्, त्रयोदशन्, चतुर्दशन्, पञ्चदशन्, षोडशन्, सप्तदशन्, अष्टादशन्, नवदशन्, कति । इति षट्संज्ञकाः ।\n\nअस्मिन् गणे विद्यमानाः ये नकारान्तशब्दाः, तेभ्यः स्त्रीत्वे विवक्षिते <<ऋन्नेभ्यो ङीप्>> [[4.1.5]] इति सूत्रेण ङीप्-प्रत्यये प्राप्ते प्रकृतसूत्रेण सः निषिध्यते । तत्र अन्य कोऽपि प्रत्ययः नैव भवति, अतः एते शब्दाः तादृशाः (नकारान्ताः) एव स्त्रीलिङ्गे अपि प्रयुज्यन्ते । यथा, पञ्च ब्राह्मण्यः ।\nषट्संज्ञकेषु विद्यमानौ षष् तथा कति एतौ द्वौ नकारान्तभिन्नौ शब्दौ । एताभ्याम् मूलतः एव न कश्चन स्त्रीप्रत्ययः विधीयते, अतः तस्य निषेधः अपि न आवश्यकः । एतौ द्वौ अपि शब्दौ तादृशौ एव स्त्रीलिङ्गे प्रयुज्यन्ते । यथा — कति ब्राह्मण्यः ? षट् ब्राह्मण्यः । \n2. स्वस्रादिगणः — स्वस्रादिगणे आहत्य सप्त शब्दाः विद्यन्ते । कौमुदीकारेण एतेषाम् परिगणनम् एकया कारिकया कृतम् अस्ति —\n\nस्वसा तिस्रश्च चतस्रश्च, ननान्दा दुहिता तथा । याता मातेति सप्तैते स्वस्रादय उदाहृताः ॥\n\nस्वसृ, तिसृ, चतसृ, ननान्दृ, दुहितृ, यातृ, मातृ — एते सप्त शब्दाः स्वस्रादिषु परिगण्यन्ते । एते सर्वेऽपि ऋकारान्ताः शब्दाः, अतः एतेभ्यः स्त्रीत्वे विवक्षिते <<ऋन्नेभ्यो ङीप्>> [[4.1.5]] इति सूत्रेण ङीप्-प्रत्यये प्राप्ते प्रकृतसूत्रेण सः निषिध्यते । एतादृशे निषेधे जाते न कश्चन अन्यः प्रत्ययः भवति, अतः एते शब्दाः ऋकारान्तरूपेण एव स्त्रीलिङ्गे प्रयुज्यन्ते । यथा, माता इयम्, स्वसा इयम् इत्यादयः । एतेषाम् सर्वेषाम् रूपाणि पितृ-शब्दसदृशानि भवन्ति । \n<pv>नकारलोपे टाबुत्पत्तिः, तस्यापि निषेधः\nपञ्चन्-शब्दस्य प्रथमाबहुचनस्य रूपे पञ्चन् + जस् इत्यत्र <<षड्भ्यो लुक्>> [[7.1.22]] इत्यनेन जस्-प्रत्ययस्य लुकि कृते, ततः पञ्चन्-शब्दस्य नकारस्य <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इत्यनेन नकारलोपे कृते पञ्च इति पदम् सिद्ध्यति । अस्य पदस्य प्रातिपदिकसंज्ञा अपि अस्ति, अतः <<ङ्याप्प्रातिपदिकात्>> [[4.1.1]] अस्मिन् अधिकारे विद्यमानेन <<अजाद्यतष्टाप्>> [[4.1.4]] इति सूत्रेण अदन्तलक्षणः टाप्-प्रत्ययः तु पञ्च इति शब्दात् अवश्यमेव सम्भवति ! यद्यपि <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति सूत्रम् त्रिपाद्यां वर्तते, तर्ह्यपि तेन उक्तः नकारलोपः <<नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति>> [[8.2.2]] इत्यनेन केवलं सुब्विधि-स्वरविधि-संज्ञाविधि-तुग्विधिषु एव असिद्धः अस्ति, स्त्रीप्रत्ययविधानसमये तु सिद्धः एव अस्ति इति अत्र विशेषः । अतः पञ्च-शब्दात् अत्र स्त्रीत्वं द्योतयितुम् टाप्-प्रत्ययः कथं न स्यात्, इति प्रश्नः अवश्यम् उदेति । भाष्ये अपि अस्मिन् सन्दर्भे चिन्तनं कृतं विद्यते । तत्र भाष्यकारेण आदौ <<नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति>> [[8.2.2]] इति सूत्रस्य विषये काचित् चर्चा कृता अस्ति, तदनन्तरम् अन्ते तु — उभयोः (इत्युक्ते, टाप्-प्रत्ययस्य, ङीप्-प्रत्ययस्य च) अपि प्रतिषेधः वक्तव्यः — इति निर्णयः दत्तः अस्ति । अतः षट्संज्ञकेभ्यः शब्देभ्यः कोऽपि स्त्रीप्रत्ययः नैव विधीयते इत्येव अत्र न्याय्यम् । अस्मिन् विषये अधिकं ज्ञातुं जिज्ञासवः अस्य सूत्रस्य भाष्यम् एव पश्येयुः । " }, "41011": { "sa": "मन्नन्तात् प्रातिपदिकात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः न भवति । ", "sd": "<<स्त्रियाम्>> [[4.1.3]] इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु ङीप् इति अन्यतमः प्रत्ययः । अस्य प्रत्ययस्य निषेधः प्रकृतसूत्रेण पाठितः अस्ति । मन् इति शब्दः यस्य अन्ते अस्ति, तादृशेभ्यः शब्देभ्यः स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः न भवति — इति अस्य सूत्रस्य अर्थः । नकारान्तशब्देभ्यः स्त्रीत्वं द्योतयितुम् <<ऋन्नेभ्यो ङीप्>> [[4.1.5]] इत्यनेन ङीप्-प्रत्यये प्राप्ते मन्नन्तेभ्यः शब्देभ्यः तस्य बाधनार्थम् प्रकृतसूत्रम् विरचितम् अस्ति । यथा —\n\n1. सीमन् (boundary) इति स्त्रीलिङ्गशब्दात् स्त्रीत्वे द्योत्ये <<ऋन्नेभ्यो ङीप्>> [[4.1.5]] इत्यनेन प्राप्तः ङीप्-प्रत्ययः न भवति, अतः अयं शब्दः स्त्रीप्रत्ययं विना एव वाक्ये प्रयुज्यते । यथा — देशस्य चतस्रः सीमानः इति ।\n2. महिमन् इत्यस्मात् पुंलिङ्गशब्दात् स्त्रीत्वे द्योत्ये <<ऋन्नेभ्यो ङीप्>> [[4.1.5]] इत्यनेन प्राप्तः ङीप्-प्रत्ययः न भवति, अतः अयं शब्दः पुंलिङ्गे एव वाक्ये प्रयुज्यते । यथा — देव्याः महिमा कीदृशः? इति ।\n3. अतिक्रान्ता महिमानम् या इत्यत्र तत्पुरुषसमासे कृते अतिमहिमन् इति प्राप्तम् प्रातिपदिकम् अपि मन्नन्तम् एव अस्ति, अतः अस्य विषये अपि प्रकृतसूत्रम् उपयुज्य ङीप्-प्रत्ययः निषिध्यते । यथा, अतिमहिमा देवी प्रकटति इति । \nबाध्यबाधकभावः\n<<ऋन्नेभ्यो ङीप्>> [[4.1.5]] इत्यनेन प्राप्तस्य ङीप्-प्रत्ययस्य निषेधरूपेण प्रकृतसूत्रं प्रवर्तते । ङीप्-प्रत्ययस्य एतादृशे निषेधे कृते, ततः <<डाबुभाभ्यामन्यतरस्याम्>> [[4.1.13]] इत्यनेन विकल्पेन डाप्-प्रत्ययः अपि भवति, येन सीमन् + डाप् → सीमा इति आकारान्तस्त्रीलिङ्गशब्दः अपि सिद्ध्यति । \n<pv>(परिभाषा 16) अनिनस्मन्ग्रहणानि अर्थवता च अनर्थकेन च तदन्तविधिं प्रयोजयति\nयत्र सूत्रे विद्यमानेन शब्देन अर्थवतः पदार्थस्य ग्रहणं सम्भवति, तत्र तेन शब्देन अनर्थकस्य ग्रहणं नैव करणीयम् इति <ऽअर्थवद्ग्रहणे नानर्थकस्यऽ> इत्यनया परिभाषया ज्ञाप्यते । अतः, प्रकृतसूत्रस्य विषये मन् इत्यनेन मनिन्-प्रत्ययस्य ग्रहणे सम्भवे सति सीमन्, अतिमहिमन् इत्यादीनां शब्दानाम् अन्ते विद्यमानस्य अनर्थकस्य मन्-शब्दस्य ग्रहणं कथं शक्यम् — इति प्रश्नः उदेति । सीमन् इति शब्दः अव्युत्पन्नः अस्ति, महिमन् इति शब्दे इमनिच्-प्रत्ययः विद्यते, अतः उभयत्र विद्यमानः 'मन्' इति अंशः अनर्थकः एव वर्तते; तर्हि अस्यां स्थितौ अत्र तदन्तविधिः कथं भवेत् — इति अस्य प्रश्नस्य आशयः । अस्य समाधानार्थम् एव परिभाषेन्दुशेखरे <ऽअनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयोजयतिऽ> इति काचित् अपरा परिभाषा पाठ्यते । यस्मिन् सूत्रे अन्, इन्, अस्, मन् इत्येतेभ्यः कस्यचन शब्दस्य निर्देशं कृत्वा तस्य विषये कश्चन विधिः उच्यते, तत्र एते शब्दाः अनर्थकाः सन्ति चेदपि (इत्युक्ते, प्रत्ययसंज्ञकाः न सन्ति चेदपि) सः विधिः तदन्ताद् एव भवति — इति अस्याः परिभाषायाः आशयः । अनयैव परिभाषया अत्रापि सीमन्, महिमन् इत्यादीनां शब्दानां विषये प्रकृतसूत्रं अवश्यं प्रवर्तते — इति निर्णयः दीयते । " }, "41012": { "sa": "'अन्' यस्य अन्ते विद्यते तादृशात् बहुव्रीहिसमस्तप्रातिपदिकात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः न भवति । ", "sd": "<<स्त्रियाम्>> [[4.1.3]] इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु ङीप् इति अन्यतमः प्रत्ययः । अस्य प्रत्ययस्य निषेधः प्रकृतसूत्रेण पाठितः अस्ति । बहुव्रीहिसमासेन निर्मितस्य प्रातिपदिकस्य अन्ते अन् इति शब्दः विद्यते चेत् तस्मात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः न भवति — इति अस्य सूत्रस्य अर्थः । नकारान्तशब्देभ्यः स्त्रीत्वं द्योतयितुम् <<ऋन्नेभ्यो ङीप्>> [[4.1.5]] इत्यनेन ङीप्-प्रत्यये प्राप्ते अन्नन्त-बहुव्रीहिसमस्तप्रातिपदिकानां विषये तस्य निषेधं कर्तुम् विरचितम् अस्ति । यथा —\n1. शोभनं चर्म अस्याः इत्यत्र <<अनेकमन्यपदार्थे>> [[2.2.24]] इत्यनेन बहुव्रीहिसमासे कृते सु + चर्मन् इति स्थिते स्त्रीत्वं द्योतयितुम् <<ऋन्नेभ्यो ङीप्>> [[4.1.5]] इत्यनेन प्राप्तः ङीप्-प्रत्ययः प्रकृतसूत्रेण निषिध्यते । अतः स्त्रीलिङ्गे अपि सुचर्मा, सुचर्माणौ, सुचर्माणः इत्येव रूपाणि प्रयुज्यन्ते । यथा, सुचर्माणः स्त्रियः ।\n2. बहवः यज्वानः अस्याः सा इत्यत्र <<अनेकमन्यपदार्थे>> [[2.2.24]] इत्यनेन बहुव्रीहिसमासे कृते बहु + यज्वन् इति स्थिते स्त्रीत्वं द्योतयितुम् <<ऋन्नेभ्यो ङीप्>> [[4.1.5]] इत्यनेन प्राप्तः ङीप्-प्रत्ययः प्रकृतसूत्रेण निषिध्यते । अतः बहुयज्वानः स्त्रियः इत्यादिषु ङीप्-प्रत्ययं विना एव रूपं सिद्ध्यति ।\nबाध्यबाधकभावः\n1. <<ऋन्नेभ्यो ङीप्>> [[4.1.5]] इत्यनेन प्राप्तस्य ङीप्-प्रत्ययस्य निषेधरूपेण प्रकृतसूत्रं प्रवर्तते । ङीप्-प्रत्ययस्य एतादृशे निषेधे कृते, ततः <<डाबुभाभ्यामन्यतरस्याम्>> [[4.1.13]] इत्यनेन विकल्पेन डाप्-प्रत्ययः अपि भवति, येन सुचर्मन् + डाप् → सुचर्मा इति आकारान्तस्त्रीलिङ्गशब्दः अपि सिद्ध्यति । \n2. यदि अन्नन्तात् बहुव्रीहिसमस्तपदात् कथञ्चित् ङीप्-प्रत्यये कृते प्रक्रियायाम् उत्तरपदस्य उपधा-अकारस्य लोपः सम्भवति, तर्हि तादृशस्य बहुव्रीहिसमासस्य विषये प्रकृतसूत्रैण दत्तः ङीप्-प्रत्ययस्य निषेधः <<अन उपधालोपिनोन्यतरस्याम्>> [[4.1.28]] इत्यनेन विकल्प्यते, अतः ङीप्-प्रत्ययं, तदनुषङ्गेन च उपधा-अकारलोपं कृत्वा अपि रूपं अवश्यं सिद्ध्यति । यथा, बहवः राजानः अस्या सा इत्यत्र बहु + राजन् इति स्थिते <<अन उपधालोपिनोन्यतरस्याम्>> [[4.1.28]] इत्यनेन वैकल्पिकं ङीप्-प्रत्ययं कृत्वा बहु + राजन् + ङीप् इत्यत्र <<अल्लोपोऽनः>> [[6.4.134]] इत्यनेन जकारोत्तर-अकारस्य लोपे कृते बहुराज्ञी इति शब्दः अपि सिद्ध्यति । पक्षे ङीप्-प्रत्ययं विना बहुराजन्, तथा च पक्षे <<डाबुभाभ्यामन्यतरस्याम्>> [[4.1.13]] इत्यनेन डाप्-प्रत्यये कृते बहुराजा इत्येते प्रातिपदिके अपि अवश्यं सिद्ध्यतः ।\nशोभनं चर्म अस्याः, बहवः यज्वानः अस्याः इत्यादिषु स्थलेषु <<अल्लोपोऽनः>> [[6.4.134]] इत्यनेन प्राप्तः अकारलोपः <<न संयोगाद्वमन्तात्>> [[6.4.137]] इत्यनेन निषिध्यते, अतः एतयोः समासयोः विषये ङीप्-प्रत्ययस्य निषेधः नित्यमेव प्रवर्तते, तत्र <<अन उपधालोपिनोन्यतरस्याम्>> [[4.1.28]] इत्यस्य प्रसक्तिः एव नास्ति । " }, "41013": { "sa": "मन्नन्तेभ्यः प्रातिपदिकेभ्यः, तथा च अन्नन्तेभ्यः बहुव्रीहिसमस्तपदेभ्यः प्रातिपदिकेभ्यः स्त्रीत्वं द्योतयितुम् विकल्पेन डाप्-प्रत्ययः भवति ।", "sd": "<<स्त्रियाम्>> [[4.1.3]] इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु तृतीयः प्रत्ययः डाप् इति प्रकृतसूत्रेण पाठ्यते । यस्य प्रातिपदिकस्य अन्ते मन् इति विद्यते तस्मात् प्रातिपदिकात्, तथा च यस्य बहुव्रीहिसमस्तपदस्य अन्ते अन् इति विद्यते तस्मात् प्रातिपदिकात् द्योतयितुम् डाप् इति स्त्रीप्रत्ययः विकल्पेन भवति — इति अस्य सूत्रस्य अर्थः । क्रमेण उदाहरणानि एतानि —\n1. मन्नन्तानि प्रातिपदिकानिपामन्, दामन्, सीमन् एतादृशेभ्यः मन्नन्तेभ्यः प्रातिपदिकेभ्यः स्त्रीत्वं द्योतयितुम् <<ऋन्नेभ्यो ङीप्>> [[4.1.5]] इत्यनेन ङीप्-प्रत्यये प्राप्ते <<मनः>> [[4.1.11]] इत्यनेन सः निषिध्यते । अस्यां स्थितौ प्रकृतसूत्रेण विकल्पेन डाप् इति प्रत्ययः विधीयते । यथा —\n\nसीमन् + डाप् [<<डाबुभाभ्यामन्यतरस्याम्>> [[4.1.13]] इति डाप्]\n→ सीमन् + आ [डकारपकारयोः इत्संज्ञा, लोपः]\n→ सीम् + आ [<<टेः>> [[6.4.143]] इति भसंज्ञकस्य टेः डित्-प्रत्यये परे लोपः]\n→ सीमा \n\nअनेन प्रकारेण सीमा इति आकारान्तस्त्रीलिङ्गशब्दः सिद्ध्यति । एवमेव, पामन् + डाप् → पामा, दामन् + डाप् → दामा इत्येते प्रातिपदिके अपि सिद्ध्यतः । सर्वत्र पक्षे डाप्-प्रत्ययं विना सीमन्, दामन्, पामन् एते नकारान्तशब्दाः अपि स्त्रीलिङ्गे प्रयुज्यन्ते ।\nसीमा इति आकारान्तशब्दस्य प्रथमाविभक्तेः रूपाणि — सीमा, सीमे, सीमाः इति भवन्ति । सीमन् इति नकारान्तशब्दस्य प्रथमाविभक्तेः रूपाणि तु — सीमा, सीमानौ, सीमानः इति भवन्ति । उभयत्र प्रथमैकवचनम् सीमा इति समानमेव अस्ति ।\n2. येषाम् अन्ते अन् इति विद्यते तादृशानि बहुव्रीहिसमासेन सिद्धानि प्रातिपदिकानिबहुराजन्, बहुतक्षन्, बहुयज्वन्, बहुधीवन् एतादृशेभ्यः बहुव्रीहिसमासेन निर्मितेभ्यः अन्नन्तेभ्यः प्रातिपदिकेभ्यः स्त्रीत्वं द्योतयितुम् <<ऋन्नेभ्यो ङीप्>> [[4.1.5]] इत्यनेन ङीप्-प्रत्यये प्राप्ते <<अनो बहुव्रीहेः>> [[4.1.12]] इत्यनेन सः निषिध्यते । अस्यां स्थितौ प्रकृतसूत्रेण विकल्पेन डाप् इति प्रत्ययः विधीयते । प्रक्रियाः एतादृश्यः —\n(i) बहवः राजानः यस्याः सा इत्यत्र —\n\nबहवः राजानः यस्याः सा \n= बहु + राजन् + डाप् [<<अनेकमन्यपदार्थे>> [[2.2.24]] इति बहुव्रीहिः । <<डाबुभाभ्यामन्यतरस्याम्>> [[4.1.13]] इति डाप् ।]\n→ बहु + राजन् + आ [डकारपकारयोः इत्संज्ञा, लोपः]\n→ बहु + राज्+ आ [<<टेः>> [[6.4.143]] इति भसंज्ञकस्य टेः डित्-प्रत्यये परे लोपः]\n→ बहुराजा\n\nअनेन प्रकारेण बहुराजा इति आकारान्तस्त्रीलिङ्गशब्दः सिद्ध्यति । पक्षे <<अन उपधालोपिनोन्यतरस्याम्>> [[4.1.28]] इत्यनेन विकल्पेन ङीप्-प्रत्यये कृते बहुराज्ञी, तथा च पक्षे स्त्री-प्रत्ययं विना बहुराजन् इत्यपि प्रातिपदिकं स्त्रीलिङ्गे सिद्ध्यति ।\n(ii) बहवः तक्ष्णः यस्याः सा इत्यत्र —\n\nबहवः तक्ष्णः यस्याः सा \n= बहु + तक्षन् + डाप् [<<अनेकमन्यपदार्थे>> [[2.2.24]] इति बहुव्रीहिः । <<डाबुभाभ्यामन्यतरस्याम्>> [[4.1.13]] इति डाप् ।]\n→ बहु + तक्षन् + आ [डकारपकारयोः इत्संज्ञा, लोपः]\n→ बहु + तक्ष्+ आ [<<टेः>> [[6.4.143]] इति भसंज्ञकस्य टेः डित्-प्रत्यये परे लोपः]\n→ बहुतक्षा\n\nअनेन प्रकारेण बहुतक्षा इति आकारान्तस्त्रीलिङ्गशब्दः सिद्ध्यति । पक्षे <<अन उपधालोपिनोन्यतरस्याम्>> [[4.1.28]] इत्यनेन विकल्पेन ङीप्-प्रत्यये कृते बहुतक्ष्णी, तथा च पक्षे स्त्री-प्रत्ययं विना बहुतक्षन् इत्यपि प्रातिपदिकं स्त्रीलिङ्गे सिद्ध्यति ।\n(iii) बहवः यज्वानः यस्याः सा इत्यत्र —\n\nबहवः यज्वानः यस्याः सा \n= बहु + यज्वन् + डाप् [<<अनेकमन्यपदार्थे>> [[2.2.24]] इति बहुव्रीहिः । अत्र <<वनो र च>> [[4.1.7]] इत्यनेन ङीप्-प्रत्यये प्राप्ते इति वार्त्तिकेन सः निषिध्यते । ततः <<डाबुभाभ्यामन्यतरस्याम्>> [[4.1.13]] इति डाप्-प्रत्ययः विधीयते ।]\n→ बहु + यज्वन् + आ [डकारपकारयोः इत्संज्ञा, लोपः]\n→ बहु + यज्व् + आ [<<टेः>> [[6.4.143]] इति भसंज्ञकस्य टेः डित्-प्रत्यये परे लोपः]\n→ बहुयज्वा\n\nअनेन प्रकारेण बहुयज्वा इति आकारान्तस्त्रीलिङ्गशब्दः सिद्ध्यति । पक्षे ङीप्-प्रत्ययं विना बहुयज्वन् इति स्त्रीलिङ्गवाचि प्रातिपदिकम् अपि सिद्ध्यति ।\n(iv) बहवः धीवानः यस्याः सा इत्यत्र एतादृशी प्रक्रिया भवति —\n\nबहवः धीवानः यस्याः सा \n= बहु + धीवन् + डाप् [<<अनेकमन्यपदार्थे>> [[2.2.24]] इति बहुव्रीहिः । ततः <<डाबुभाभ्यामन्यतरस्याम्>> [[4.1.13]] इति विकल्पेन डाप्-प्रत्ययः ।]\n→ बहु + धीवन् + आ [डकारपकारयोः इत्संज्ञा, लोपः]\n→ बहु + धीव् + आ [<<टेः>> [[6.4.143]] इति भसंज्ञकस्य टेः डित्-प्रत्यये परे लोपः]\n→ बहुधीवा\n\nअनेन प्रकारेण बहुधीवा इति आकारान्तस्त्रीलिङ्गशब्दः सिद्ध्यति । पक्षे <<वनो र च>> [[4.1.7]] इत्यत्र निर्दिष्टेन इति वार्त्तिकेन विकल्पेन ङीप्-प्रत्यये, तदनुषङ्गेन च नकारस्य रेफादेशे कृते बहुधीवरी इति शब्दः अपि सिद्ध्यति । पक्षे स्त्रीप्रत्ययं विना बहुधीवन् इत्यपि स्त्रीलिङ्गवाची शब्दः प्रयुज्यते ।\nडाप्-प्रत्यये इत्संज्ञकवर्णानां प्रयोजनम्\nडाप्-प्रत्यये डकारपकारयोः इत्संज्ञा भवति । तत्र —\n\n1. इत्संज्ञकः पकारः <<अनुदात्तौ सुप्पितौ>> [[3.1.4]] इति अनुदात्तस्वरविधानार्थम् स्थापितः अस्ति ।\n2. इत्संज्ञकः डकारः डित्कार्यार्थः अस्ति । डित्-प्रत्यये परे <<टेः>> [[6.4.143]] इत्यनेन भसंज्ञकस्य अङ्गस्य टेः लोपः भवति । अतएव उपरि निर्दिष्टेषु सर्वेषु अपि उदाहरणेषु टिलोपे कृते रूपं सिद्ध्यति । \n\n\n" }, "41014": { "sa": "इतः परम् <<यूनस्तिः>> [[4.1.77]] इति सूत्रं यावत् निर्दिष्टाः प्रत्ययाः उपसर्जनसंज्ञकेभ्यः प्रातिपदिकेभ्यः नैव विधीयन्ते ।", "sd": "<<स्त्रियाम्>> [[4.1.3]] इत्यस्मिन् अधिकारे उपस्थितम् इदम् अपरम् अधिकारसूत्रम् अस्ति । अस्य व्याप्तिः <<यूनस्तिः>> [[4.1.77]] इति सूत्रपर्यन्तं वर्तते । अस्मिन् अधिकारे पाठिताः स्त्रीप्रत्ययाः उपसर्जनसंज्ञकेभ्यः शब्देभ्यः नैव भवन्ति — इति अस्य सूत्रस्य अर्थः । उपसर्जनम् इत्यस्य मूलः अर्थः अप्रधानः इति अस्ति । प्रकृतसूत्रस्य सन्दर्भे तु उपसर्जनम् इति शब्देन बहुव्रीहिसमासस्य उत्तरपदस्य निर्देशः क्रियते । अतः इतः परम् पाठिताः स्त्रीप्रत्ययाः बहुव्रीहिसमासेन निर्मितेभ्यः शब्देभ्यः नैव भवन्ति— इति अस्य सूत्रस्य सरलः अर्थः । त्रीणि उदाहरणानि एतादृशानि —\n\n1. <<जातेरस्त्रीविषयादयोपधात्>> [[4.1.63]] इति सूत्रेण जातिवाचकशब्देभ्यः स्त्रीत्वं द्योतयितुम् ङीष्-प्रत्ययः विधीयते । अतः कुक्कुट इत्यस्मात् जातिवाचकशब्दात् स्त्रीत्वे ङीष्-प्रत्यये कृते कुक्कुटी इति शब्दः सिद्ध्यति । परन्तु अयं ङीष्-प्रत्ययः बहवः कुक्कुटाः अस्याः अत्र न भवति, यतः अत्र 'कुक्कुट' शब्दः उपसर्जनसंज्ञकः (बहुव्रीहिसमासस्य उत्तरपदरूपेण विद्यमानः) अस्ति । अतः बहवः कुक्कुटाः अस्याः इत्यत्र <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्-प्रत्यये कृते बहुकुक्कुटा इति शब्दः सिद्ध्यति ।\n2. <<यूनस्तिः>> [[4.1.77]] इत्यनेन युवन्-शब्दात् ति-प्रत्यये कृते युवति इति शब्दः सिद्ध्यति । इदं सूत्रम् अपि <<अनुपसर्जनात्>> [[4.1.14]] इत्यस्य अधिकारे विद्यते, अतः अस्य सूत्रस्य विषये अपि तदन्तविधिः न प्रवर्तते । अतएव बहवः युवानः यस्यां (पाठशालायाम्) इत्यत्र <<यूनस्तिः>> [[4.177]] इत्यनेन ति-प्रत्ययः न भवति; अपितु, अत्र <<डाबुभाभ्यामन्यतरस्याम्>> [[4.1.13]] इत्यनेन डाप्-प्रत्यये कृते बहुयुवा (शाला) इति शब्दः सिद्ध्यति । \n3. <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इति सूत्रेण अण्-प्रत्ययान्तशब्देभ्यः स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः विधीयते । अत्र निर्दिष्टः अण्-प्रत्ययः <<कर्मण्यण्>> [[3.2.1]] इति सूत्रेण कर्मणि-उपपदस्य उपस्थितौ भिन्नेभ्यः धातुभ्यः सम्भवति । यथा, कुम्भम् करोति इत्यस्मिन् अर्थे कुम्भम् इति उपपदस्य उपस्थितौ कृ-धातोः अण्-प्रत्यये कृते कुम्भकार इति शब्दः <<उपपदमतिङ्>> [[2.2.19]] इति सूत्रेण उपपदसमासं कृत्वा सिद्ध्यति । उपपदसमासः उत्तरपदार्थप्रधानः, अतः कुम्भकार इत्यत्र कार इति अण्-प्रत्ययान्तम् उत्तरपदम् प्रधानम् अस्ति , न हि उपसर्जनसंज्ञकम् । अस्यां स्थितौ अत्र प्रकृतसूत्रं नैव प्रवर्तते, अतश्च कुम्भकार इति समस्तपदस्य विषये अपि ङीप् इति स्त्रीप्रत्ययः भवितुम् अर्हति, येन कुम्भकारी इति शब्दः सिद्ध्यति । परन्तु, अग्रे बहवः कुम्भकाराः अस्याः इति बहुव्रीहिसमासे कर्तव्ये तत्र विद्यमानः अण्-प्रत्ययान्तः कुम्भकार शब्दः बहुव्रीहिसमासस्य उत्तरपदरूपेण विद्यमानः, अतश्च उपसर्जनसंज्ञकः अस्ति अतः अत्र <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इति सूत्रं नैव प्रवर्तते, अपि तु <<अजाद्यतष्टाप्>> [[4.1.4]] इत्यनेन टाप्-प्रत्यये कृते बहुकुम्भकारा इति शब्दः सिद्ध्यति ।\n\nतदन्तविधिः\nवस्तुतस्तु, <<येन विधिस्तदन्तस्य>> [[1.1.72]] इत्यत्र पाठितेन इति प्रातिपदिकेन प्रत्ययविधानस्य समये तदन्तविधेः प्रतिषेधः कृतः अस्ति । अपि च, <ऽग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्तिऽ> इत्यनया परिभाषया अपि प्रत्ययविधानसमये प्रातिपदिकस्य तदन्तविधिः प्रतिषिध्यते । अतः, कुक्कुट इत्यस्मात् शब्दात् <<जातेरस्त्रीविषयादयोपधात्>> [[4.1.63]] इति सूत्रेण प्राप्तः ङीप्-प्रत्ययः बहवः कुक्कुटाः अस्याः इत्यत्र मूलरूपेणैव न सम्भवति । अस्यां स्थितौ, प्रकृतसूत्रेण बहुव्रीहिसमासस्य विषये उक्तः स्त्रीप्रत्ययस्य निषेधः सम्पूर्णरूपेण व्यर्थः भवति । अयमेव निषेधः व्यर्थः सन् ज्ञापयति, यत् स्त्रीप्रत्ययप्रकरणे तदन्तविधिः अवश्यं प्रयुज्यते इति । किञ्च, <<अजाद्यतष्टाप्>> [[4.1.4]] इत्यस्मिन् सूत्रे पाठिते अजादिगणे विद्यमानम् <=क्षुद्रा चामहत्पूर्वा जातिः=> इति गणसूत्रम् अपि अनेनैव प्रकारेण स्त्रीप्रत्ययप्रकरणे तदन्तविधेः उपस्थितिं स्पष्टीकरोति । अतएव बहवः कुक्कुटाः अस्याः इत्यत्रापि तदन्तविधिना <<जातेरस्त्रीविषयादयोपधात्>> [[4.1.63]] इत्यनेन कुक्कुट-शब्दात् ङीष्-प्रत्ययः अवश्यं सम्भवति । अस्य बाधनार्थम् प्रकृतसूत्रम् इदानीं चारितार्थ्यं प्राप्नोति । \n'उपसर्जनम्' शब्दस्य अर्थः\nअष्टाध्याय्याम् उपसर्जनम् इति शब्दः द्वयोः अर्थयोः प्रयुज्यते —\n\n(अ) <<प्रथमानिर्दिष्टं समास उपसर्जनम्>> [[1.2.43]] इत्यनेन सूत्रेण उपसर्जनम् इति काचित् व्याकरणविशिष्टा संज्ञा पाठ्यते । अस्याः संज्ञायाः प्रयोगः समासप्रकरणे <<उपसर्जनं पूर्वम्>> [[2.2.30]] इत्यस्मिन् सूत्रे कृतः अस्ति । \n(आ) समासे विद्यमानयोः द्वयोः पदयोः यत् गौणं पदम्, तस्य निर्देशः अपि उपसर्जनम् इति शब्देन भवति । <<गोस्त्रियोरुपसर्जनस्य>> [[1.2.48]], <<स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्>> [[4.1.54]], <<वोपसर्जनस्य>> [[6.3.82]] इत्यादिषु सूत्रेषु अस्मिन् अर्थे उपसर्जनशब्दस्य प्रयोगः कृतः दृश्यते । \n\nप्रकृतसूत्रे विद्यमानः उपसर्जनशब्दः द्वितीये अर्थे (गौणपदस्य निर्देशार्थम्) प्रयुक्तः अस्ति । बहुव्रीहिसमासः अन्यपदार्थप्रधानः, अतः तत्र द्वे अपि पदे गौणपदे एव स्तः । अतः तत्र गौणसंज्ञकात् उत्तरपदात् तदन्तविधिना स्त्रीप्रत्ययस्य प्राप्तौ सत्याम्, तस्याः निषेधार्थम् प्रकृतसूत्रं निर्मितम् अस्ति । तत्पुरुषसमासे द्वन्द्वसमासे च प्रायेण उत्तरपदं गौणं नास्ति (प्रधानमेव वर्तते), अतः तयोः विषये उपसर्जनसंज्ञकात् स्त्रीप्रत्ययः नैव सम्भवति । अव्ययीभावसमासेन तु अव्ययसंज्ञकशब्दाः सिद्ध्यन्ति अतः तस्य विषये अपि प्रकृतसूत्रं नैव प्रवर्तते । अनेन प्रकारेण प्रामुख्येण बहुव्रीहिसमासस्य विषये एव प्रकृतसूत्रस्य उदाहरणानि वर्तन्ते । कुत्रचित् तत्पुरुषसमासः अपि पूर्वपदार्थप्रधानः अस्ति, परन्तु प्रकृतसूत्रस्य व्याख्यानेषु तादृशानि उदाहरणानि न दत्तानि सन्ति । " }, "41015": { "sa": "टित्-शब्दाः, ढकारादिप्रत्ययान्तशब्दाः, तथा च 'अण्, अञ्, द्वयसच्, दघ्नच्, मात्रच्, तयप्, ठक्, ठञ्, कञ्, क्वरप्' — एतेषु कश्चन प्रत्ययः यस्य शब्दस्य अन्ते विद्यन्ते, तस्मात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति ।", "sd": "<<स्त्रियाम्>> [[4.1.3]] इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु अपरः ङीप् प्रत्ययः प्रकृतसूत्रेण पाठ्यते । टित्-शब्दाः, ढकारादिप्रत्ययान्तशब्दाः, तथा च अण्, अञ्, द्वयसच्, दघ्नच्, मात्रच्, तयप्, ठक्, ठञ्, कञ्, क्वरप् — एतेषु कश्चन प्रत्ययः यस्य शब्दस्य अन्ते विद्यन्ते, तस्मात् स्त्रीत्वं द्योतयितुम् <<अजाद्यतष्टाप्>> [[4.1.4]] इत्यनेन टाप्-प्रत्यये प्राप्ते; तद्बाधित्वा ङीप्-प्रत्ययः भवति — इति अस्य सूत्रस्य आशयः । \n1. ह्रस्व-अकारान्ताः टित्-शब्दाः \nल्युट्, ण्युट्, एतादृशैः टित्-प्रत्ययैः निर्मितेभ्यः ह्रस्व-अकारान्तशब्देभ्यः स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति । अपि च, <<नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः>> [[3.1.134]] इत्यस्मिन् सूत्रे पाठिते पचादिगणे विद्यमानेभ्यः देवट्, नदट् आदिभ्यः टित्-प्रातिपदिकेभ्यः अपि स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति । यथा —\n(i) <<करणाधिकरणयोश्च>> [[3.3.117]] इत्यनेन करणे अर्थे लिख्-धातोः ल्युट्-प्रत्ययेन लेखन इति शब्दे सिद्धे, तत्र स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति । प्रक्रिया इयम् —\n\nलिख्यते अनया \n= लिखँ (अक्षरविन्यासे, <{6.92}>)\n→ लिख् + ल्युट् + ङीप् [<<करणाधिकरणयोश्च>> [[3.3.117]] इति ल्युट् । स्त्रीत्वं द्योतयितुम् <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इति ङीप्]\n→ लिख् + अन + ई [टकारस्य <<चुटू>> [[1.3.7]] इति इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति लोपः । <<युवोरनाकौ>> [[7.1.1]] इति यु-प्रत्ययस्य अन-आदेशः]\n→ लेख् + अन + ई [<<पुगन्तलघूपधस्य च>> [[7.3.86]] इति उपधागुणः]\n→ लेख् + अन् + ई [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ लेखनी\nलिख्यते अनया सा लेखनी\n\n(ii) <<चरेष्टः>> [[3.2.16]] इति सूत्रेण चर्-धातोः सुबन्ते उपपदे ट-प्रत्ययः भवति । प्रत्ययस्य टित्त्वात् तत्र स्त्रीत्वं द्योतयितुम् टाप्-प्रत्ययः विधीयते । यथा —\n\nकुरुषु चरति सा\n= चरँ (गतौ भक्षणे च, <{1.640}>)\n→ कुरुषु + चर् + ट + ङीप् [<<चरेष्टः>> [[3.2.16]] इति सप्तम्यन्ते उपपदे ट-प्रत्ययः । ततः स्त्रीत्वं द्योतयितुम् <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इति ङीप्]\n→ कुरु + चर् + अ + ई [टकारस्य <<चुटू>> [[1.3.7]] इति इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति लोपः । <<उपपदमतिङ्>> [[2.2.19]] इति उपपदसमासः, <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुब्लुक्]\n→ कुरु + चर् + ० + ई [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ कुरुचरी \nकुरुषु चरति सा कुरुचरी\n\n(iii) <<सायंचिरम्प्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च>> [[4.3.23]] इति सूत्रेण अद्य इत्यस्मात् कालवाचिनःअव्ययात् ट्यु इति प्रत्यये कृते अद्यतन इति शब्दः सिद्ध्यति । अत्रापि प्रत्ययस्य टित्त्वात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः एव विधीयते । प्रक्रिया इयम् —\n\nअद्य भवा\n= अद्य + तुट् + ट्यु + ङीप् [<<सायंचिरम्प्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च>> [[4.3.23]] इति सूत्रेण ट्यु-प्रत्ययः, तस्य तुट्-आगमः । तः स्त्रीत्वं द्योतयितुम् <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इति ङीप्]\n→ अद्य + त् + अन [प्रत्ययटकारस्य <<चुटू>> [[1.3.7]] इति इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति लोपः । यु-इत्यस्य <<युवोरनाकौ>> [[7.1.1]] इति अन-आदेशः]\n→ अद्यतन् + ई [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ अद्यतनी\nअद्य भवा सा अद्यतनी\n\n(iv) <<तस्य पूरणे डट्>> [[5.2.48]] इत्यनेन सङ्ख्यावाचिभ्यः शब्देभ्यः पूरणार्थे डट्-प्रत्ययः भवति । अयम् टित्-प्रत्ययः, अतः अस्मात् स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः विधीयते —\n\nएकादशानां पूरणी\n→ एकादशानाम् + डट् + ङीप् [<<तस्य पूरणे डट्>> [[5.2.48]] इति डट् । ततः <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इति ङीप्]\n→‌ एकादशन् + अ + ई [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति तद्धितान्तस्य प्रातिपदिकसंज्ञा, ततः <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुब्लुक्]\n→ एकादश् + अ + ई [<<टेः>> [[6.4.143]] इति टिलोपः]\n→ एकादश् + ० + ई [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ एकादशी\n\n(v) <<नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः>> [[3.1.134]] इत्यस्मिन् सूत्रे विद्यमाने पचादिगणे चरट्, मोदट्, देवट् इत्यादीनि अनेकानि प्रातिपदिकानि इत्संज्ञकटकारेण सह पाठितानि सन्ति । एतेषु प्रातिपदिकेषु विद्यमानस्य इत्संज्ञक-टकारस्य प्रयोजनम् अपि प्रकृतसूत्रेण ङीप्-प्रत्ययविधानम् इत्येव ज्ञेयम् । यथा —\n\nदीव्यति सा\n= दिवुँ (क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु, <{4.1}>)\n→ दिव् + अच् [<<नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः>> [[3.1.134]] इत्यनेन पचादिगणत्वात् अच्-प्रत्ययः ]\n→ देवट् + ई [दिव्-धातोः अच्-प्रत्ययान्तम् देवट् इति रूपम् पचादिगणे निर्दिष्टम् अस्ति, तदेव स्वीक्रियते ।तत्र टित्-निर्देशसामर्थ्यात् स्त्रीत्वे <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इति ङीप्-प्रत्ययः]\n→ देव् + ० + ई [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→‌ देवी\n\nएवमेव मोदते सा = मोदट् + ङीप् → मोदी, चरति सा = चरट् + ङीप् → चरी आदीनि प्रातिपदिकानि सिद्ध्यन्ति । \n(vi) धातुपाठे धेट् (पाने, <{1.1050}>) इति धातुः इत्संज्ञक-टकारेण सह पाठितः अस्ति । अत्रापि इत्संज्ञकटकारस्य प्रयोजनम् प्रकृतसूत्रेण ङीप्-प्रत्ययविधानम् इत्येव वर्तते । <<नासिकास्तनयोर्ध्माधेटोः>> [[3.2.29]] इति सूत्रेण धेट्-धातोः खश्-प्रत्यये कृते स्त्रीत्वं द्योतयितुम् तस्मात् प्रकृतसूत्रेण ङीप्-प्रत्ययः विधीयते —\n\nस्तनम् धयति सा\n→ धेट् (पाने, <{1.1050}>)\n→ स्तनम् + धे + खश् + ङीप् [<<नासिकास्तनयोर्ध्माधेटोः>> [[3.2.29]] इति खश्-प्रत्ययः । ततः स्त्रीत्वे धेट्-धातोः टित्त्वसामर्थ्यात् <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इत्यनेन ङीप् एव भवति ]\n→ स्तन + धे + अ + ई [<<उपपदमतिङ्>> [[2.2.19]] इति उपपदसमासः । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति उपपदस्य सुप्-प्रत्ययस्य लुक्]\n→ स्तन + धे + शप् + अ + ई [सार्वधातुकप्रत्यये परे <<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ स्तन + मुम् + धे + अ + अ + ई [<<अरुर्द्विषदजन्तस्य मुम्>> [[6.3.67]] इति मुमागमः]\n→ स्तनम् + धय् + अ + अ + ई [<<एचोऽयवायावः>> [[6.1.78]] इति अयादेशः ] \n→ स्तनम् + धय् + अ + ई [<<अतो गुणे>> [[6.1.97]] इति द्वयोः अकारयोः पररूपैकादेशः]\n→ स्तनम् + धय् + ० + ई [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ स्तनंधयी [<<मोऽनुस्वारः>> [[8.3.23]] इति मकारस्य अनुस्वारः]\n→ स्तनंधयी, स्तनन्धयी [<<वा पदान्तस्य>> [[8.4.59]] इति अनुस्वारस्य विकल्पेन परसवर्णः]\n\n\n1. लट्, लोट् इत्यादयः लकारप्रत्ययाः यद्यपि टितः सन्ति तथापि तेषां प्रयोगेण प्रातिपदिकानि नैव सिद्ध्यन्ति; अतः तेषां विषये इदं सूत्रं नैव प्रवर्तते । \n2. लट्-लकारस्य टित्त्वम् लकारस्य स्थाने जायमानयोः शतृ, शानच् इति प्रत्यययोः विषये स्थानिवद्भावेन नैव अतिदिश्यते, यतः तत्र <ऽ लाश्रयमनुबन्धकार्यं नादेशानाम्ऽ> इति परिभाषया तस्य निषेधः कृतः अस्ति । अतः शतृ/शानच्-प्रत्ययौ टितौ नैव स्वीकर्तव्यौ । अनेनैव कारणेन लिट्-लकारस्य टित्त्वम् क्वसु, कानच् इत्येतयोः विषये, तथा च लृट्-लकारस्य टित्त्वम् शतृ, शानच् इत्येतयोः विषये नैव अतिदिश्यते ।\n3. आगमेषु विद्यमानः इत्संज्ञकः टकारः <<आद्यन्तौ टकितौ>> [[1.1.46]] इत्यनेन आद्यवयावर्थः अस्ति, न हि प्रकृतसूत्रेण ङीप्-संज्ञाविधानार्थः । अस्य ज्ञापकरूपेण <<सायंचिरम्प्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च>> [[4.3.23]] इत्येव सूत्रं दीयते । अस्मिन् सूत्रे यद्यपि तुट् इति आगमे टकारः इत्संज्ञकरूपेण विद्यते, तथापि ट्युल्-प्रत्यये पुनः इत्संज्ञकः टित्कार्यार्थम् (इत्युक्ते, प्रकृतसूत्रेण ङीप्-प्रत्ययस्य विधानार्थम्) टकारः स्थापितः अस्ति । अनेन इदं स्पष्टी भवति यत् आगमेषु विद्यमानः टकारः केवलम् आद्यवयवविधानार्थः अस्ति, न हि स्त्रीप्रत्ययविधानार्थः । \n\n2. ढकारादिप्रत्ययः\nप्रकृतसूत्रे विद्यमानः इति शब्दः ढकारादिप्रत्ययानाम् (इत्युक्ते, ढक्, ढञ् इत्यादीनां) निर्देशं करोति । कानिचन उदाहरणानि एतानि —\n(i) विनतायाः अपत्यं स्त्री इत्यत्र विनता-शब्दात् अपत्यार्थे <<स्त्रीभ्यो ढक्>> [[4.1.120]] इत्यनेन ढक्-प्रत्यये कृते ततः स्त्रीत्वं द्योतयितुम् प्रत्ययस्य ढित्त्वात् प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति —\n\nविनतायाः + ढक् + ङीप् [<<स्त्रीभ्यो ढक्>> [[4.1.120]] इति ढक्, <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इति ङीप्]\n→ विनता + ढ + ई [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुब्लुक्]\n→ विनता + एय + ई [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इत्यनेन ढकारस्य एय्-आदेशः]\n→ वैनता + एय + ई [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ वैनत् + एय + ई [<<यस्येति च>> [[6.4.148]] इति आकारलोपः]\n→ वैयतेय् + ई [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ वैनतेयी\n\n(ii) वस्ति (A type of garment worn below the waistline) इत्यस्मात् शब्दात् इवार्थे (to indicate similarity) <<वस्तेर्ढञ्>> [[5.3.101]] इति सूत्रेण ढञ्-प्रत्ययः भवति । अस्मिन् प्रत्यये परे स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः विधीयते —\n\nवस्तिः इव इयं शाटिका\n→ वस्ति + ढञ् + ङीप् [<<स्त्रीभ्यो ढक्>> [[4.1.120]] इति ढक्, <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इति ङीप्]\n→ वस्ति + एय + ई [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इत्यनेन ढकारस्य एय्-आदेशः]\n→ वास्ति + एय + ई [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ वास्त् + एय + ई [<<यस्येति च>> [[6.4.148]] इति इकारलोपः]\n→ वास्तेय् + ई [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→‌ वास्तेयी\n\n(iii) ग्रीवायां भवा इत्यस्मिन् अर्थे मालायाः (अलङ्कारस्य) निर्देशं कर्तुम् ग्रीवा शब्दात् <<कुलकुक्षिग्रीवाभ्यः श्वास्यलंकारेषु>> [[4.2.96]] इत्यनेन ढकञ्-प्रत्यये कृते ततः स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति —\n\nग्रीवायां भवा\n= ग्रीवायां + ढकञ् + ङीप् [<<तत्र भवः>> [[4.3.53]] इति शैषिके अर्थे <<कुलकुक्षिग्रीवाभ्यः श्वास्यलंकारेषु>> [[4.2.96]] इत्यनेन ढकञ्, ततः <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इत्यनेन ङीप्]\n→ ग्रीवा + ढक + ङीप् [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुब्लुक्]\n→ ग्रीवा + एयक + ई [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ढकारस्य एयादेशः]\n→ ग्रैवा + एयक + ई [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ ग्रैव् + एयक + ई [<<यस्येति च>> [[6.4.148]] इति आकारलोपः]\n→ ग्रैवेयक् + ई [<<यस्येति च>> [[6.4.148]] इति आकारलोपः]\n→ ग्रैवेयकी\n\n\n1. प्रत्ययानाम् आदौ विद्यमानस्य ढकारस्य प्रयोजनाभावात् न हि कुत्रचित् इत्संज्ञा भवति; अपि तु तस्य <<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इत्यनेन एय्-आदेशः भवति ।\n2. वस्तुतः अष्टाध्याय्यां इत्याख्यः कश्चन प्रत्ययः <<शिलायाः ढः>> [[5.3.102]] इत्यनेन दीयते । परन्तु अस्य प्रत्ययस्य विषये प्रकृतसूत्रं नैव प्रयुज्यते, यतः <<शिलायाः ढः>> [[5.3.102]] इत्यनेन शिलेय इत्येव शब्दः सिद्ध्यति, सः च केवलं नपुंसकलिङ्गे एव प्रयुज्यते । अतः, प्रकृतसूत्रे विद्यमानः 'ढ' इति शब्दः ढकारादिप्रत्ययानाम् निर्देशवाचकरूपेण एव स्वीक्रियते ।\n\n3. अण्-प्रत्ययः\nतद्धितसंज्ञकः कृत्संज्ञकः वा अण्-प्रत्ययः यस्य अन्ते अस्ति तस्मात् शब्दात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति । यथा —\n(i) इन्द्रः अस्याः देवता इत्यस्मिन् अर्थे इन्द्र-शब्दात् <<सास्य देवता>> [[4.2.24]] इत्यनेन अण्-प्रत्यये कृते स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति —\n\nइन्द्रः अस्य देवता\n= इन्द्रः + अण् + ङीप् [<<सास्य देवता>> [[4.2.24]] इत्यस्मिन् अर्थे <<प्राग्दीव्यतोऽण्>> [[4.1.83]] इत्यनेन अण् । ततः स्त्रीत्वं द्योतयितुम् <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इति ङीप्]\n→ इन्द्र + अ + ई [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुब्लुक्]\n→ ऐन्द्र + अ + ई [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ ऐन्द्र् + अ + ई [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ ऐन्द्र् + ० + ई [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ ऐन्द्री\n\n(ii) कुम्भम् करोति सा इत्यस्मिन् अर्थे कुम्भम् इति उपपदस्य उपस्थितौ कृ-धातोः <<कर्मण्यण्>> [[3.2.1]] इत्यनेन अण्-प्रत्ययः विधीयते, ततः स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति —\n\nकुम्भम् करोति सा\nडुकृञ् (करणे, <{8.10}>)\n→ कुम्भम् + कृ + अण् + ई [<<कर्मण्यण्>> [[3.2.1]] इत्यण् । ततः स्त्रीत्वे <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इति ङीप्]\n→ कुम्भ + कृ + अ + ई [<<उपपदमतिङ्>> [[2.2.19]] इति उपपदसमासः । <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुब्लुक्]\n→ कुम्भ + कार् + अ + ई [<<अचो ञ्णिति>> [[7.2.115]] इति ऋकारस्य वृद्धिः आकारः । <<उरण् रपरः>> [[1.1.51]] इति सः रपरः]\n→ कुम्भ + कार् + ० + ई [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ कुम्भकारी\n\nअस्मिन् सन्दर्भे परिभाषेन्दुशेखरे <ऽताच्छीलिके णेऽण्कृतानि भवन्तिऽ> इति काचित् परिभाषा विद्यते । अण्-प्रत्ययविशिष्टं कार्यं कुत्रचित् ताच्छीलिके अर्थे प्रयुक्तस्य ण-प्रत्ययस्य विषये अपि भवति — इति अस्याः परिभाषायाः आशयः । यथा, चुरा शीलम् अस्याः इत्यत्र चुरा-शब्दात् <<छत्रादिभ्यो णः>> [[4.4.62]] इत्यनेन ताच्छीलिके अर्थे ण-प्रत्यये कृते; यद्यपि ण-प्रत्ययस्य प्रकृतसूत्रे ग्रहणं न क्रियते तथापि <ऽताच्छीलिके णेऽण्कृतानि भवन्तिऽ> इत्यनया परिभाषया अत्रापि स्त्रीत्वे विवक्षिते अण्-प्रत्ययसदृशः ङीप्-प्रत्ययः एव विधीयते, येन चौरी इति रूपं सिद्ध्यति । एवमेव, छत्रम् शीलम् अस्याः सा = छत्र + ण + ङीप् → छात्री, तपः शीलम् अस्याः सा = तपस् + अण् + ङीप् → तापसी इत्यादयः शब्दाः अपि सिद्ध्यन्ति ।\n \n1. <ऽताच्छीलिके णेऽण्कृतानि भवन्तिऽ> इत्यनया परिभाषया केवलम् ताच्छीलिकेषु अर्थेषु विहितः ण-प्रत्ययः एव अण्-प्रत्ययसदृशं कार्यं करोति । अतः <<तदस्यां प्रहरणमिति क्रीडायाम् णः>> [[4.2.57]] इत्यादिभिः सूत्रैः विहितस्य ण-प्रत्ययस्य विषये इयं परिभाषा न प्रवर्तते यतः तत्र ण-प्रत्ययस्य विधानं ताच्छीलिके अर्थे नैव कृतम् अस्ति ।\n2. छात्र-शब्दस्य स्त्रीत्वे छात्री इति ङीप्-प्रत्ययान्तशब्दः नैव साधु अपि तु छात्रा इति टाबन्तः शब्दः एव साधु इति अपि केचन वैयाकरणाः मन्यन्ते । <ऽताच्छीलिके णेऽण्कृतानि भवन्तिऽ> इति परिभाषा अनित्या अस्ति, अतः सा सर्वत्र नैव उपयुज्यते — इति तेषाम् आशयः अस्ति ।\n\n4. अञ्-प्रत्ययः\nतद्धितसंज्ञकः अञ्-प्रत्ययः यस्य शब्दस्य अन्ते विद्यते, तस्मात् स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति । यथा —\n(i) पृथिव्याः इयम् इत्यस्मिन् अर्थे पृथिवी-शब्दात् <<उत्सादिभ्योऽञ्>> [[4.1.86]] इत्यनेन अञ्-प्रत्यये कृते ततः स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः विधीयते —\n\nपृथिव्याः + अञ् + ङीप् [<<उत्सादिभ्योऽञ्>> [[4.1.86]] इति अञ्, ततः <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इति ङीप्]\n→ पृथिवी + अ + ई [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुब्लुक्]\n→ पार्थिवी + अ + ई [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः, <<उरण् रपरः>> [[1.1.51]] इति सः रपरः]\n→ पार्थिव् + अ + ई [<<यस्येति च>> [[6.4.148]] इति ईकारलोपः]\n→ पार्थिव् + ०‌ + ई [<<यस्येति च>> [[6.4.148]] इति ईकारलोपः]\n→ पार्थिवी\n\n(ii) व्यावक्रुश्यति इत्यस्मिन् अर्थे कर्मव्यतिहारे गम्यमाने वि + आ + अव + क्रुश्-धातोः <<कर्मव्यतिहारे णच् स्त्रियाम्>> [[3.3.43]] इत्यनेन कृत्संज्ञके णच्-प्रत्यये कृते ततः <<णचः स्त्रियामञ्>> [[5.4.14]] इत्यनेन तद्धितसंज्ञकः अण्-प्रत्ययः भवति । अग्रे स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः विधीयते —\n\nव्यावक्रुश्यति इति\nक्रुश (आह्वाने, रोदने च, <{1.992}>)\n→ वि + आ + अव + क्रुश् + णच् + अञ् + ङीप् [ <<कर्मव्यतिहारे णच् स्त्रियाम्>> [[3.3.43]] इति णच्, ततः नित्यम् <<णचः स्त्रियामञ्>> [[5.4.14]] इति अञ्; ततः स्त्रीत्वं द्योतयितुम् <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इति ङीप्]\n→ वि + आ + अव + क्रोश् + अ + अ + ई [<<पुगन्तलघूपधस्य च>> [[7.3.86]] इति उपधागुणः]\n→ वि + आ + अव + क्रोश् + ० + अ + ई [<<यस्येति च>> [[6.4.148]] इति णच्-प्रत्ययस्य अकारस्य लोपः]\n→ वि + आ + अव + क्रोश् + ० + ० + ई [<<यस्येति च>> [[6.4.148]] इति अञ्-प्रत्ययस्य अकारस्य लोपः]\n→ व्यावक्रोशी [यणादेशः, सवर्णदीर्घादेशः]\n\n5. द्वयसच्-दघ्नच्-मात्रच्-प्रत्ययाः\nतद्धितसंज्ञकाः द्वयसच्-दघ्नच्-मात्रच्-प्रत्ययाः <<प्रमाणे द्वयसज्दघ्नञ्मात्रचः>> [[5.2.37]] इति सूत्रेण पाठ्यन्ते । एते प्रत्ययाः येषाम् अन्ते सन्ति तेभ्यः शब्देभ्यः स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति । यथा, ऊरुः प्रमाणम् अस्याः नद्याः इत्यस्मिन् अर्थे ऊरु शब्दात् <<प्रमाणे द्वयसज्दघ्नञ्मात्रचः>> [[5.2.37]] इत्यनेन एते त्रयः अपि प्रत्ययाः, ततश्च ङीप्-प्रत्ययः विधीयते —\n\nऊरुः प्रमाणम् अस्याः नद्याः\n= ऊरुः + द्वयसच् / दघ्नच् / मात्रच् + ङीप् [<<प्रमाणे द्वयसज्दघ्नञ्मात्रचः>> [[5.2.37]] इत्यनेन द्वयसच् / दघ्नच् / मात्रच् एते त्रयः प्रत्ययाः (पृथग् रीत्या) विधीयन्ते । अग्रे स्त्रीत्वं द्योतयितुम् <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इति ङीप्-प्रत्ययः भवति ]\n→ ऊरु + द्वयस / दघ्न / मात्र + ई [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुब्लुक् ]\n→ ऊरु + द्वयस् / दघ्न् / मात्र् + ई [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ ऊरुद्वयसी / ऊरुदघ्नी / ऊरुमात्री\nउरुः प्रमाणम् अस्याः इति ऊरुद्वयसी, ऊरुदघ्नी, ऊरुमात्री वा नदी ।\n\n6. तयप्-प्रत्ययः \nसङ्ख्यावाचिशब्देभ्यः <<संख्याया अवयवे तयप्>> [[5.3.42]] इत्यनेन तद्धितसंज्ञकः तयप्-प्रत्ययः विधीयते । अयं प्रत्ययः यस्य अन्ते अस्ति तस्मात् शब्दात् प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति । यथा, द्वौ अवयवौ अस्याः इत्यस्मिन् अर्थे द्वि शब्दात् <<संख्याया अवयवे तयप्>> [[5.3.42]] इत्यनेन तयप्-प्रत्यये कृते ततः प्रकृतसूत्रेण ङीप्-प्रत्ययः विधीयते —\n\nद्वौ अवयवौ अस्याः\n= द्वौ + तयप् + ङीप् [<<संख्याया अवयवे तयप्>> [[5.3.42]] इत्यनेन तयप्-प्रत्ययः, ततः <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इति ङीप्-प्रत्ययः]\n→ द्वि + तय + ई [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुब्लुक्]\n→ द्वि + तय् + ई [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ द्वितयी\n\nअननैव प्रकारेण त्रयः अवयवाः अस्याः = त्रि + तयप् + ङीप् → त्रितयी, चत्वारः अवयवाः अस्याः = चतुर् + तयप् + ङीप् → चतुष्टयी इत्येताः शब्दाः अपि सिद्ध्यन्ति । \n\n7. ठक्-प्रत्ययः\nतद्धितसंज्ञकः ठक्-प्रत्ययः यस्य शब्दस्य अन्ते विद्यते, तस्मात् स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति । यथा —\n(i) अक्षेण दीव्यति सा इत्यस्मिन् अर्थे <<तेन दीव्यति खनति जयति जितम्>> [[4.4.2]] इत्यनेन सूत्रेण अक्ष-शब्दात् ठक्-प्रत्यये कृते तत्र स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः विधीयते —\n\nअक्षैः दीव्यति सा\n= अक्षैः + ठक् + ङीप् [<<तेन दीव्यति खनति जयति जितम्>> [[4.4.2]] इति ठक्, ततः स्त्रीत्वं द्योतयितुम् <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इति ङीप्]\n→ अक्ष + ठ + ई [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुब्लुक्]\n→ अक्ष + इक + ई [<<ठस्येकः>> [[7.3.50]] इति ठकारस्य इक्-आदेशः । ]\n→ आक्ष + इक + ई [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ आक्ष् + इक + ई [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ आक्ष् + इक् + ई [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ आक्षिकी \n\n(ii) अङ्गुलि-शब्दात् <<अङ्गुल्यादिभ्यष्ठक्>> [[5.3.108]] इत्यनेन इवार्थे ठक्-प्रत्यये कृते ततः स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति —\n\nअङ्गुलिः इव इयम् \n→ अङ्गुलि + ठक् + ङीप् [ <<अङ्गुल्यादिभ्यष्ठक्>> [[5.3.108]] इति ठक्, ततः <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इति ङीप्]\n→ अङ्गुलि + इक + ई [ठक्-प्रत्ययस्य ककारस्य इत्संज्ञा, लोपः । <<ठस्येकः>> [[7.3.50]] इति ठकारस्य इक-आदेशः]\n→ अङ्गुल् + इक + ई [<<यस्येति च>> [[6.4.148]] इति इकारलोपः]\n→ अङ्गुल् + इक् + ई [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ अङ्गुलिकी\n\n8. ठञ्-प्रत्ययः\nतद्धितसंज्ञकः ठञ्-प्रत्ययः यस्य शब्दस्य अन्ते विद्यते, तस्मात् स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति । यथा —\n(i) लवणम् अस्याः पण्यम् अस्मिन् अर्थे लवणशब्दात् <<लवणाट्ठञ्>> [[4.4.52]] इत्यनेन ठञ्-प्रत्ययः भवति; ततः स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति ।\n\nलवणम् अस्य पण्यम्\n= लवणम् + ठञ् + ङीप् [<<तदस्य पण्यम्>> [[4.4.51]] इत्यस्मिन् अर्थे <<लवणाट्ठञ्>> [[4.4.52]] इत्यनेन ठञ्-प्रत्ययः । स्त्रीत्वं द्योतयितुम् <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इति ङीप्]\n→ लवण + ठ + ई <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुब्लुक्]\n→ लवण + इक + ई [<<ठस्येकः>> [[7.3.50]] इति ठकारस्य इक्-आदेशः । ]\n→ लावण + इक + ई [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ लावण् + इक + ई [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ लावण् + इक् + ई [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ लावणिकी\n\n(ii) लोके विदिता इत्यस्मिन् अर्थे लोक शब्दात् <<लोकसर्वलोकाट्ठञ्>> [[5.1.44]] इत्यनेन ठञ्-प्रत्ययः भवति, ततः स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति ।\n\nलोके विदिता\n= लोके + ठञ् + ङीप् [<<तत्र विदित इति च>> [[5.1.43]] इत्यस्मिन् अर्थे <<लोकसर्वलोकाट्ठञ्>> [[5.1.44]] इत्यनेन ठञ्-प्रत्ययः । स्त्रीत्वं द्योतयितुम् <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इति ङीप्]\n→ लोक + ठ + ई <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुब्लुक्]\n→ लोक + इक + ई [<<ठस्येकः>> [[7.3.50]] इति ठकारस्य इक्-आदेशः । ]\n→ लौक + इक + ई [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ लौक् + इक + ई [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ लौक् + इक् + ई [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ लौकिकी\n\n9. कञ्-प्रत्ययः\n<<त्यदादिषु दृशोऽनालोचने कञ् च>> [[3.2.60]] इत्यनेन दृश्-धातोः कञ्-प्रत्यये कृते अग्रे स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति । यथा —\n\nसः इव दृश्यते या\n= तद् + दृश् + कञ् + ङीप् [<<त्यदादिषु दृशोऽनालोचने कञ् च>> [[3.2.60]] इति कञ्-प्रत्ययः । ततः स्त्रीत्वं द्योतयितुम् <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इति ङीप्]\n→ तआ + दृश् + अ + ई [<<आ सर्वनाम्नः>> [[6.3.91]] इति आकारः]\n→ तादृश् + अ + ई [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः]\n→ तादृश् ० + ई [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ तादृशी\n\nएवमेव, एषः इव दृश्यते या = एतादृशी, कः इव दृश्यते या = कीदृशी इति शब्दाः सिद्ध्यन्ति ।\n10. क्वरप्-प्रत्ययः\n<<इण्नश्जिसर्त्तिभ्यः क्वरप्>> [[3.2.163]] तथा <<गत्वरश्छ>> [[3.2.164]] इति द्वयोः सूत्रयोः कृत्-संज्ञकः क्वरप्-प्रत्ययः विधीयते । अयं प्रत्ययः यस्य अन्ते अस्ति, तस्मात् स्त्रीत्वे विवक्षिते ङीप्-प्रत्ययः भवति । यथा —\n(i). नश्यति इति शीलम् अस्य अस्मिन् अर्थे नश्-धातोः क्वरप्-प्रत्यये कृते ततः स्त्रीत्वे विवक्षिते प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति ।\n\nनश्यति इति शीलम् अस्य\n= णशँ (अदर्शने, <{4.91}>)\n→ नश् + क्वरप् + ङीप् [<<इण्नश्जिसर्त्तिभ्यः क्वरप्>> [[3.2.163]] इति क्वरप् । ततः <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इति ङीप्]\n→ नश् + वर + ई [इत्संज्ञालोपः]\n→ नश् + वर् + ई [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ नश्वरी\n\n(ii). जयति इति शीलम् अस्य अस्मिन् अर्थे जि-धातोः क्वरप्-प्रत्यये कृते ततः स्त्रीत्वे विवक्षिते प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति ।\n\nजयति इति शीलम् अस्य\n= जि (अभिभवे, <{1.1096}>)\n→ जि + क्वरप् + ङीप् [<<इण्नश्जिसर्त्तिभ्यः क्वरप्>> [[3.2.163]] इति क्वरप् । ततः <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इति ङीप्]\n→ जि + वर + ई [इत्संज्ञालोपः]\n→ जि तुक् + वर + ई [<<ह्रस्वस्य पिति कृति तुक्>> [[6.1.71]] इति तुगागमः]\n→ जित्वर् + ई [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ जित्वरी\n\nवार्त्तिकम् - नञ्स्नञीकक्ख्युंस्तरुणतलुनानामुपसङ्ख्यानम्\nप्रकृतसूत्रेण पाठितः ङीप्-प्रत्ययः अन्येषाम् केषाञ्चन प्रत्ययानां विषये अपि नञ्-स्नञ्-ईकक्-ख्युन्-तरुण-तलुनानाम् उपसङ्ख्यानम् अनेन वार्त्तिकेन पाठितः अस्ति । क्रमेण उदाहरणानि एतानि —\n1. नञ्, स्नञ् प्रत्ययौ — <<स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्>> [[4.1.87]] इति सूत्रेण भिन्नेषु अर्थेषु स्त्री-शब्दात् नञ्-प्रत्यते कृते स्त्रैणपुम्स्-शब्दात् स्नञ्-प्रत्यये कृते पौंस्न इति शब्दः सिद्ध्यति । एतयोः द्वयोः अपि शब्दयोः स्त्रीत्वं द्योतयिुम् अनेन वार्त्तिकेन ङीप्-प्रत्ययः विधीयते —\n\nस्त्रियः इयम्\n= स्त्रियः + नञ् + ङीप् [<<स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्>> [[4.1.87]] इति नञ्, ततः स्त्रीत्वं द्योतयितुम् <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इति ङीप्]\n→ स्त्री + न + ई [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुब्लुक्]\n→ स्त्रै + न + ई [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ स्त्रै + न् + ई [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ स्त्रैणी [<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इति णत्वम्]\n
    \nपुम्सः इयम्\n= पुम्सः + स्नञ् + ङीप् [<<स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्>> [[4.1.87]] इति स्नञ्, ततः स्त्रीत्वं द्योतयितुम् <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इति ङीप्]\n→ पुम्स् + स्न + ई [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुब्लुक्]\n→ पौम्स् + स्न + ई [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ पौम्स् + स्न् + ई [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→‌पौम् + स्न् + ई [<<संयोगान्तस्य लोपः>> [[8.2.23]] इति सकारलोपः]\n→ पौंस्नी [<<मोऽनुस्वारः>> [[8.3.23]] इति पदान्तमकारस्य अनुस्वारः]\n
    \n2. ईकक्-प्रत्ययः — <<शक्तियष्ट्योरीकक्>> [[4.4.59]] इति सूत्रेण शक्ति-शब्दात् तथा च यष्टि-शब्दात् <<तदस्य प्रहरणम्>> [[4.4.51]] इत्यनेन ईकक्-प्रत्ययः विधीयते । अनेन सिद्धाभ्यां शब्दाभ्यां स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति —\n\nशक्तिः प्रहरणम् अस्याः\n= शक्तिः + ईकक् + ङीप् [ <<शक्तियष्ट्योरीकक्>> [[4.4.59]] इति ईकक् । ततः <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इति ङीप्]\n→ शक्ति + ईक + ई [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुब्लुक्]\n→ शाक्ति + ईक + ई [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ शाक्त् + ईक + ई [<<यस्येति च>> [[6.4.148]] इति इकारलोपः]\n→ शाक्त् + ईक् + ई [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ शाक्तीकी\n\nएवमेव, यष्टिः प्रहरणम् अस्याः = याष्टीकी इत्यपि सिद्ध्यति । \n3. ख्युन्-प्रत्ययः — <<आढ्यसुभगस्थूलपलितनग्नान्धप्रियेषु च्व्यर्थेष्वच्वौ कृञः करणे ख्युन्>> [[3.2.56]] इति सूत्रेण आढ्यादिषु कर्मोपपदेषु कृ-धातोः करणे कारके ख्युन्-प्रत्ययः भवति । एतादृशे ख्युन्-प्रत्यये कृते ततः अग्रे स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः विधीयते —\n\nअनाढ्यम् आढ्यम् करोति अनया\n→ आढ्यम् + कृ + ख्युन् + ङीप् [<<आढ्यसुभगस्थूलपलितनग्नान्धप्रियेषु च्व्यर्थेष्वच्वौ कृञः करणे ख्युन्>> [[3.2.56]] इति ख्युन्-प्रत्ययः । ततः <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इति ङीप्]\n→ आढ्य + कृ + अन + ई [<<उपपदमतिङ्>> [[2.2.19]] इति उपपदसमासः । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुब्लुक् । ततः <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इति ङीप्]\n→ आढ्य + मुम् + कृ + अन +ई [<<अरुर्द्विषदजन्तस्य मुम्>> [[6.3.67]] इति मुमागमः]\n→ आढ्यम् + कर् + अन + ई [<<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणः । <<उरण् रपरः>> [[1.1.51]] इति सः रपरः]\n→ आढ्यम् + कर् + अन् + ई [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ आढ्यं + कर् + अन् + ई [<<मोऽनुस्वारः>> [[8.3.23]] इति अनुस्वारः]\n→ आढ्यंकरणी [<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इति णत्वम् ]\n→ आढ्यङ्करणी, आढ्यङ्करणी [<<वा पदान्तस्य>> [[8.4.59]] इति विकल्पेन परसवर्णः]\n\nएवमेव, असुभगं सुभगं करोति अनया = सुभगङ्करणी, अस्थूलं स्थूलं करोति अनया = स्थूलङ्करणी आदयः शब्दाः सिद्ध्यन्ति । \n6. 'तरुण', 'तलुन' इति शब्दौ —‌ तरुण तथा च तलुन इति द्वौ अपि समानार्थकौ शब्दौ । एतयोः शब्दयोः शरीरस्य अवस्थायाः (stage of aging) निर्देशः भवति, अतः एताभ्यां शब्दाभ्याम् स्त्रीत्वं द्योतयितुम् <<वयसि प्रथमे>> [[4.1.20]] इत्यनेन ङीप्-प्रत्यये प्राप्ते; <<षिद्गौरादिभ्यश्च>> [[4.1.41]] इत्यत्र पाठिते गौरादिगणे एतयोः निर्देशात् एताभ्याम् ङीप्-प्रत्ययं बाधित्वा ङीष्-प्रत्ययः विधीयते । अस्यां स्थितौ, एताभ्याम् शब्दाभ्याम् ङीप्-प्रत्ययान्तं रूपम् अपि इष्यते, अतः वार्त्तिककारेण तयोः निर्देशः अत्र पुनः कृतः अस्ति —\n\nतरुण / तलुन + ङीप् \n→ तरुण् / तलुन् + ई [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ तरुणी / तलुनी\n\nपक्षे <<षिद्गौरादिभ्यश्च>> [[4.1.41]] इत्यनेन ङीष्-प्रत्यये कृते तरुणी तथा च तलुनी इति ङीष्-प्रत्ययाान्तशब्दौ अपि सिद्ध्यतः । \n\nङीप्-ङीष्-प्रत्यययोः प्रयोगेण समाने एव रूपे भवतः; परन्तु तत्र स्वरे कश्चन विशेषः वर्तते । ङीप्-प्रत्यये विद्यमानः स्वरः <<अनुदात्तौ सुप्पितौ>> [[3.1.4]] इत्यनेन अनुदात्तः अस्ति । ङीष्-प्रत्यये विद्यमानः स्वरः तु <<आद्युदात्तश्च>> [[3.1.3]] इत्यनेन उदात्तसंज्ञां प्राप्नोति ।\n अनुपसर्जनात् एव ङीप्-प्रत्ययः\nप्रकृतसूत्रम् <<अनुपसर्जनात्>> [[4.1.14]] इत्यस्मिन् अधिकारे वर्तते । अतः, अनेन सूत्रेण उक्तः ङीप्-प्रत्ययः समासे उत्तरपदम् उपसर्जनसंज्ञकम् अस्ति चेत् न हि प्रवर्तते । यथा, कुम्भकार-शब्दात् प्रकृतसूत्रेण अण्-प्रत्यये कृते यद्यपि कुम्भकारी इति शब्दः सिद्ध्यति, तथापि बहवः कुम्भकाराः यस्यां (शालायाम्) इत्यस्मिन् अर्थे सिद्धात् बहुकुम्भकार इत्यस्मात् शब्दात् प्रकृतसूत्रेण ङीप्-प्रत्ययः न भवति यतः अत्र अण्-प्रत्ययान्तः कुम्भकारशब्दः अप्रधानः (उपसर्जनः) अस्ति । अतः बहुकुम्भकार इत्यत्र <<अजाद्यतष्टाप्>> [[4.1.4]] इत्यनेन टाप्-प्रत्यये कृते बहुकुम्भकारा इत्येव सिद्ध्यति ।\nप्रकृतसूत्रे <qt>अतः</qt> इत्यस्य अनुवृत्तिः\nप्रकृतसूत्रे काशिकाकारेण, कौमुदीकारेण च अपि <<अजाद्यतष्टाप्>> [[4.1.4]] इत्यस्मात् सूत्रात् अतः इति पदस्य अनुवृत्तिः स्वीकृता अस्ति । इयम् अनुवृत्तिः वस्तुतः उत्तरार्थम् आवश्यकी, न हि प्रकृतसूत्रार्थम् । अतएव अत्र काशिकाकारः केवलम् —\nअतः इति सर्वत्र अनुवर्तते । तत् सति सम्भवे विशेषणं भवति ।\n— इत्येव ब्रूते । स्त्रीप्रत्ययप्रकरणे यत्र यत्र शक्यं तत्र तत्र अतः इति शब्दस्य अनुवृत्तिः भवति — इति अस्य आशयः । वस्तुतस्तु प्रकृतसूत्रे निर्दिष्टैः सर्वैः अपि प्रत्ययैः ह्रस्व-अकारान्तशब्दस्यैव सिद्धिः भवति, अतः अस्याः अनुवृत्तेः अस्मिन् सूत्रे न किमपि विशेषं प्रयोजनम् । परन्तु अनया अनुवृत्त्या अत्र कश्चन दोषः अपि नैव उद्भवति, अतः अग्रिमसूत्रेषु मण्डूकप्लुतेः प्रयोगस्य अपेक्षया सर्वेः व्याख्यातृभिः अस्य शब्दस्य सर्वेषु अपि सूत्रेषु अनुवृत्तिरूपेणैव ग्रहणं कृतम् अस्ति ।" }, "41016": { "sa": "यञ्-प्रत्ययान्त-प्रातिपदिकात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः विधीयते । ", "sd": "<<स्त्रियाम्>> [[4.1.3]] इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु अपरः ङीप् प्रत्ययः प्रकृतसूत्रेण पाठ्यते । यञ्-प्रत्ययान्त-प्रातिपदिकात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति — इति अस्य सूत्रस्य आशयः । <<गर्गादिभ्यो यञ्>> [[4.1.105]] इत्यनेन सूत्रेण गर्गादिगणस्य शब्देभ्यः यः यञ्-प्रत्ययः पाठ्यते, तस्य विषये इदं सूत्रं प्रवर्तते । यथा, <<गर्गादिभ्यो यञ्>> [[4.1.105]] इत्यनेन गर्ग-शब्दात् गोत्रापत्यस्य निर्देशार्थम् यञ्-प्रत्यये कृते, तत्र स्त्रीत्वं द्योतयितुम् <<अजाद्यतष्टाप्>> [[4.1.4]] इत्यनेन टाप्-प्रत्यये प्राप्ते तद्बाधित्वा प्रकृतसूत्रेण ङीप्-प्रत्ययः विधीयते । प्रक्रिया इयम् —\n\nगर्गस्य गोत्रापत्यं स्त्री\n→ गर्ग + यञ् + ङीप् [<<गर्गादिभ्यो यञ्>> [[4.1.105]] इति यञ् । ततः स्त्रीत्वं द्योतयितुम् <<यञश्च>> [[4.1.16]] इति ङीप्]\n→ गार्ग + य + ई [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ गार्ग् + य + ई [<<यस्येति च>> [[6.4.148]] इति गकारोत्तस्य अकारस्य लोपः]\n→ गार्ग् + य् + ई [<<यस्येति च>> [[6.4.148]] इति यकारोत्तस्य अकारस्य लोपः]\n→ गार्ग + ० + ई [<<हलस्तद्धितस्य>> [[6.4.150]] इति यकारलोपः]\n→ गार्गी\n\nएवमेव वत्सस्य गोत्रापत्यं स्त्री = वात्सी इत्यपि सिद्ध्यति ।\n वार्त्तिकम् — <!अनपत्याधिकारस्थान्न ङीप् !>\nप्रकृतसूत्रेण उक्तः ङीप्-प्रत्ययः केवलम् <<तस्यापत्यम्>> [[4.1.92]] इत्यस्य अधिकारे पाठितस्य यञ्-प्रत्ययस्य विषये एव भवति — इति अस्य वार्त्तिकस्य अर्थः । यथा —\n\n1. <<द्वीपादनुसमुद्रं यञ्>> [[4.3.10]] इत्यनेन उक्तस्य यञ्-प्रत्ययस्य विषये इसं सूत्रं नैव प्रयुज्यते । अतएव द्वीपे भवा इत्यस्मिन् अर्थे द्वीप-शब्दात् <<द्वीपादनुसमुद्रं यञ्>> [[4.3.10]] इत्यनेन यञ्-प्रत्यये कृते ततः <<अजाद्यतष्टाप्>> [[4.1.4]] इत्यनेन टाप्-प्रत्ययः एव भवति । द्वीपे भवा सा द्वैप्या । \n2. देवस्य अपत्यम् स्त्री इत्यस्मिन् अर्थे देव-शब्दात् इति वार्त्तिकेन यञ्-प्रत्यये कृते ततः स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रम् नैव प्रयुज्यते, यतः इति वार्तिकम् <<दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः>> [[4.1.85]] इत्यस्मिन् सूत्रे पाठितम् अस्ति, तत् सूत्रम् च अपत्याधिकारे नैव विद्यते । अतएव देवस्य अपत्यम् स्त्री इत्यत्र यञ्-प्रत्ययान्तात् <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्-प्रत्यये कृते दैव्या इत्येव शब्दः सिद्ध्यति । \n\nयोगविभागः उत्तरार्थः\nवस्तुतः प्रकृतसूत्रेण पृथग् रूपेण पाठितस्य यञ्-प्रत्ययस्य <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इति पूर्वस्मिन् सूत्रे एव निर्देशः भवितुम् अर्हतु । परन्तु अग्रिमसूत्रे <<प्राचां ष्फ तद्धितः>> [[4.1.17]] इत्यत्र केवलम् यञ् इत्यस्यैव अनुवृत्तिः इष्यते, अतः यञ्-प्रत्ययः प्रकृतसूत्रे पृथग् रीत्या निर्दिष्टः दृश्यते । यञ्-प्रत्ययस्य भिन्नसूत्रेण निर्देशः उत्तरसूत्रे अनुवर्तनार्थम् — इति आशयः । \nबाध्यबाधकभावः\n\n1. <<गर्गादिभ्यो यञ्>> [[4.1.105]] इत्यस्मिन् सूत्रे निर्दिष्टे गर्गादिगणे विद्यमानानाम् लोहित इत्यस्मात् आरभ्य कत इति (प्रायेण उपत्रिंशत्) शब्दानां विषये यञन्तात् प्रातिपदिकात् प्रकृतसूत्रेण उक्तं ङीप्-प्रत्ययं बाधित्वा <<सर्वत्र लोहितादिकतन्तेभ्यः>> [[4.1.18]] इत्यनेन ष्फ-प्रत्ययः भवति । प्राचाम् आचार्याणां मतेन तु गर्गादिगणस्य सर्वेषाम् एव शब्दानां विषये ङीप्-प्रत्ययं बाधित्वा यञन्तात् ष्फ इत्येव प्रत्ययः विधीयते, इति <<प्राचां ष्फ तद्धितः>> [[4.1.17]] इत्यनेन सूत्रेण उच्यते ।\n2. <<आवट्याच्च>> [[4.1.75]] इत्यनेन आवट्य इति यञन्तशब्दात् प्रकृतसूत्रेण उक्तं ङीप्-प्रत्ययं बाधित्वा चाप्-प्रत्ययः भवति ।\n" }, "41017": { "sa": "यञ्-प्रत्ययान्त-प्रातिपदिकात् स्त्रीत्वं द्योतयितुम् प्राचां मतेन तद्धितसंज्ञकः ष्फ-प्रत्ययः भवति ।", "sd": "<<स्त्रियाम्>> [[4.1.3]] इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु अपरः ष्फ प्रत्ययः प्रकृतसूत्रेण पाठ्यते । यञ्-प्रत्ययान्त-प्रातिपदिकात् स्त्रीत्वं द्योतयितुम् प्राचाम् (पूर्वदिशि विद्यमानानाम्) आचार्याणाम् मतेन तद्धितसंज्ञकः ष्फ-प्रत्ययः भवति — इति अस्य सूत्रस्य आशयः । केवलः ष्फ-प्रत्ययः स्त्रीत्वं द्योतयितुम् सम्पूर्णरूपेण असमर्थः अस्ति इति कारणात् तस्मात् पुनः ङीष्-प्रत्ययः अपि नित्यं विधीयते । यथा, <<गर्गादिभ्यो यञ्>> [[4.1.105]] इत्यनेन गर्ग-शब्दात् गोत्रापत्यस्य निर्देशार्थम् यञ्-प्रत्यये कृते, तत्र स्त्रीत्वं द्योतयितुम् <<अजाद्यतष्टाप्>> [[4.1.4]] इत्यनेन टाप्-प्रत्यये प्राप्ते तद्बाधित्वा प्रकृतसूत्रेण ( पूर्वदिशि विद्यमानाम् आचार्याणाम् मतेन) ष्फ तथा ङीष् इति द्वौ प्रत्ययौ भवतः । प्रक्रिया इयम् —\n\n(प्राचां मतेन) गर्गस्य गोत्रापत्यं स्त्री\n→ गर्ग + यञ् + ष्फ + ङीष् [<<गर्गादिभ्यो यञ्>> [[4.1.105]] इति यञ् । ततः स्त्रीत्वं द्योतयितुम् <<प्राचां ष्फ तद्धितः>> [[4.1.17]] इति ष्फ-प्रत्ययः । ततः सम्पूर्णरूपेण स्त्रीत्वं द्योतयितुम् ङीष् इति द्वितीयः स्त्रीप्रत्ययः ।]\n→ गार्ग + य + फ + ई [<<तद्धितेष्वचामादैः>> [[7.2.117]] इति आदिवृद्धिः ।]\n→ गार्ग् + य + फ + ई [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ गार्ग् + य + आयन + ई [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति प्रत्ययादिफकारस्य आयन्-आदेशः]\n→ गार्ग् + य् + आयन + ई [ष्फ-प्रत्ययः तद्धितप्रत्ययः अस्ति, अतः अस्मिन् प्रत्यये परे यकारोत्तरस्य अकारस्य <<यस्येति च>> [[6.4.148]] इति लोपः भवति ।]\n→ गार्ग् + य् + आयन् + ई [<<यस्येति च>> [[6.4.148]] इति नकारोत्तस्य अकारस्य ईकारे परे लोपः]\n→ गार्ग्यायणी [<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इति णत्वम्]\n\nगर्गस्य गोत्रापत्यं स्त्री = गार्ग्यायणी । एवमेव, वत्सस्य गोत्रापत्यं स्त्री = वात्स्यायनी इत्यपि सिद्ध्यति । इति सर्वं प्राचाम् मतम् । अन्येषाम् आचार्याणाम् मतेन तु <<यञश्च>> [[4.1.16]] इति ङीप्-प्रत्ययः एव भवति, येन गर्गस्य गोत्रापत्यं स्त्री = गार्गी, वत्सस्य गोत्रापत्यं स्त्री = वात्सी इति शब्दाः सिद्ध्यन्ति । \nष्फ-प्रत्यये इत्संज्ञकषकारस्य प्रयोजनम्\nष्फ-प्रत्यये विद्यमानस्य आदिस्थस्य षकारस्य <<षः प्रत्ययस्य>> [[1.3.6]] इत्यनेन इत्संज्ञा भवति । अयं इत्संज्ञक-षकारः अस्मिन् प्रत्यये ङीष्-प्रत्ययविधानार्थः निर्दिष्टः अस्ति । अनेन ष्फ-प्रत्ययान्तशब्दाः षित्-संज्ञकाः भवन्ति, अतः तेभ्यः <<षिद्गौरादिभ्यश्च>> [[4.1.41]] इत्यनेन अग्रे ङीष्-प्रत्ययः विधीयते । केवलः ष्फप्रत्ययः स्त्रीत्वम् द्योतयितुम् न हि समर्थः, अतएव ङीष्-प्रत्ययः अपि तत्र नित्यम् भवति इति अस्य आशयः । \nष्फ-प्रत्ययस्य तद्धितसंज्ञा\nप्रकृतसूत्रेण ष्फ-प्रत्ययस्य विशेषरूपेण तद्धितसंज्ञा कृता अस्ति । इयं तद्धितसंज्ञा प्रातिपदिकसंज्ञाविधानार्थम्; तदनुषङ्गेन च ङीष्-प्रत्ययविधानार्थम् क्रियते । <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इत्यनेन तद्धितप्रत्ययान्तशब्दानाम् प्रातिपदिकसंज्ञा विधीयते; प्रातिपदिकसंज्ञायां च सत्याम् <<ङ्याप्प्रातिपदिकात्>> [[4.1.1]] इत्यस्मिन् अधिकारे विद्यमानेन <<षिद्गौरादिभ्यश्च>> [[4.1.41]] इत्यनेन पाठितः ङीष्-प्रत्ययः अपि अत्र अवश्यं भवितुम् अर्हति । \n'सर्वत्र' शब्दस्य अपकर्षः\n<<सर्वत्र लोहितादिकतन्तेभ्यः>> [[4.1.18]] इत्यस्मात् अग्रिमसूत्रात् सर्वत्र इत्यस्य प्रकृतसूत्रे अपकर्षः क्रियते — इति अत्र काशिकाकारः ब्रते । यत्र यत्र यञन्तात् अन्यः कश्चित् प्रत्ययः स्त्रीप्रत्ययः विहितः दृश्यते, तत्र तत्र सर्वत्र प्राचां मतेन तं बाधित्वा ष्फ-प्रत्ययः एव करणीयः — इति अत्र काशिकाकारस्य आशयः अस्ति । यथा, <<आवट्याच्च>> [[4.1.75]] इति सूत्रेण आवट्य इति यञ्-प्रत्ययान्तात् शब्दात् वस्तुतः चाप्-प्रत्ययः पाठितः अस्ति, परन्तु प्राचां मतेन तत्रापि प्रकृतसूत्रेण चाप्-प्रत्ययस्य बाधं कृत्वा ष्फ-प्रत्ययः एव भवति, येन आवट्य + ष्फ + ङीष् → आवट्यायनी इति सिद्ध्यति । \n" }, "41018": { "sa": "गर्गादिगणे विद्यमानानाम् 'लोहित' इत्यस्मात् आरभ्य 'कत' इति शब्दानाम् यञ्-प्रत्ययान्तरूपात् स्त्रीत्वं द्योतयितुम् नित्यं ष्फ-प्रत्ययः भवति । ", "sd": "<<स्त्रियाम्>> [[4.1.3]] इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु अपरः ष्फ प्रत्ययः प्रकृतसूत्रेण पाठ्यते । <<गर्गादिभ्यो यञ्>> [[4.1.105]] इत्यनेन सूत्रेण गर्गादिगणस्य शब्देभ्यः यञ्-प्रत्यये कृते, एतेभ्यः यञन्तेभ्यः शब्देभ्यः स्त्रीत्वं द्योतयितुम् <<यञश्च>> [[4.1.16]] इत्यनेन ङीप्-प्रत्यये प्राप्ते; गर्गादिगणस्य लोहित इत्यस्मात् आरभ्य कत इति यावताम् उपत्रिंशत् शब्दानां विषये यञन्तात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययं बाधित्वा ष्फ-प्रत्ययः भवति — इति अस्य सूत्रस्य आशयः । केवलः ष्फ-प्रत्ययः स्त्रीत्वं द्योतयितुम् सम्पूर्णरूपेण असमर्थः अस्ति इति कारणात् तस्मात् पुनः ङीष्-प्रत्ययः अपि नित्यं विधीयते । \n<<गर्गादिभ्यो यञ्>> [[4.1.105]] इति सूत्रे निर्दिष्टः गर्गादिगणः अधः निर्दिष्टः अस्ति । अस्मिन् गणे विद्यमानाः लोहितादि-कतन्तशब्दाः स्थूलरूपेण (bold font) निर्दिष्टाः सन्ति । एतेषां विषये प्रकृतत्रस्य प्रयोगः भवति । \n\nगर्ग । वत्स । वाजासे । संकृति । अज । व्याघ्रपात् । विदभृत् । प्राचीनयोग । अगस्ति । पुलस्ति । रेभ । अग्निवेश । शङ्ख । शट । शक । एक । घूम । अवट । मनस् । धनंजय । विश्वावसु । जरमाण । लोहित । शंसित । बभ्रु । वल्गु । मण्डु । शङ्कु । लिगु । गुहलु । मन्तु । मङ्क्षु । अलिगु । जिगीषु । मनु । तन्तु । मनायीसूनु । कथक । कन्थक । ऋक्ष । तृक्ष । वृक्ष । तनु । तरुक्ष । तलुक्ष । तण्ड । वतण्ड । कपिकत । कपि । कत । कुरुकत । अनडुह् । कण्व । शकल । गोकक्ष । अगस्त्य । कण्डिनी । यज्ञवल्क । पर्णवल्क । अभयजात । विरोहित । वृषगण । रहूगण । शण्डिल । वर्णक । चणक । चुलुक । मुद्गल । मुसल । जमदग्नि । पराशर । जतूकर्ण । जातूकर्ण । महित । मन्त्रित । अश्मरथ । शर्कराक्ष । पूतिमाष । स्थूरा । अदरक । अररक । एलाक । पिङ्गल । कृष्ण । गोलन्द । उलूक । तितिक्ष । भिषज । भिषज् । भिष्णज । भडित । भण्डित । दल्भ । चेकित । चिकित्सित । देवहू । इन्द्रहू । एकलु । पिप्पलु । बृहदग्नि । सुलोहिन । सुलाभिन् । उक्थ । कुटीगु ॥ इति गर्गादिगणः ।\n\nअत्र स्थूलरूपेण निर्दिष्टानां शब्दानां विषये प्रकृतसूत्रं प्रवर्तते । कानिचन उदाहरणानि एतानि —\n1. लोहित-शब्दात् गोत्रापत्यस्य निर्देशार्थम् यञ्-प्रत्यये कृते, तत्र स्त्रीत्वं द्योतयितुम् <<यञश्च>> [[4.1.16]] इत्यनेन प्राप्तं ङीप्-प्रत्ययं बाधित्वा प्रकृतसूत्रेण ष्फ तथा ङीष् इति द्वौ प्रत्ययौ भवतः । प्रक्रिया इयम् —\n\nलोहितस्य गोत्रापत्यं स्त्री\n→ लोहित + यञ् + ष्फ + ङीष् [<<गर्गादिभ्यो यञ्>> [[4.1.105]] इति यञ् । ततः स्त्रीत्वं द्योतयितुम् <<सर्वत्र लोहितादिकतन्तेभ्यः>> [[4.1.18]]\n इति ष्फ-प्रत्ययः । ततः सम्पूर्णरूपेण स्त्रीत्वं द्योतयितुम् <<षिद्भिदादिभ्योऽङ्>> [[3.3.104]] इत्यनेन ङीष् इति द्वितीयः स्त्रीप्रत्ययः ।]\n→ लौहित + य + फ + ई [<<तद्धितेष्वचामादैः>> [[7.2.117]] इति आदिवृद्धिः ]\n→ लौहित् + य + फ + ई [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ लौहित् + य + आयन + ई [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति प्रत्ययादिफकारस्य आयन्-आदेशः]\n→ लौहित् + य् + आयन + ई [ष्फ-प्रत्ययः तद्धितप्रत्ययः अस्ति, अतः अस्मिन् प्रत्यये परे यकारोत्तरस्य अकारस्य <<यस्येति च>> [[6.4.148]] इति लोपः भवति ।]\n→ लौहित् + य् + आयन् + ई [<<यस्येति च>> [[6.4.148]] इति नकारोत्तस्य अकारस्य लोपः]\n→ लौहित्यायनी \n\nअनेन प्रकारेण लोहितस्य गोत्रापत्यं स्त्री = लौहित्यायनी इति सिद्ध्यति । एवमेव —\n\n1. शंसितस्य गोत्रापत्यं स्त्री = शंसित + यञ् + ष्फ + ङीष् → शंसितायनी\n2. कपेः गोत्रापत्यं स्त्री = कपि + यञ् + ष्फ + ङीष् → काप्यायनी\n3. कतस्य गोत्रापत्यं स्त्री = कत + यञ् + ष्फ + ङीष् → कात्यायनी\n\nइत्यादीनि अन्यानि उदाहरणानि । \n2. बभ्रु-शब्दात् गोत्रापत्यस्य निर्देशार्थम् यञ्-प्रत्यये कृते, तत्र स्त्रीत्वं द्योतयितुम् <<यञश्च>> [[4.1.16]] इत्यनेन प्राप्तं ङीप्-प्रत्ययं बाधित्वा प्रकृतसूत्रेण ष्फ तथा ङीष् इति द्वौ प्रत्ययौ भवतः । प्रक्रिया इयम् —\n\nबभ्रोः गोत्रापत्यं स्त्री\n→ बभ्रु + यञ् + ष्फ + ङीष् [गर्गादिगणे विद्यमानात् बभ्रु-शब्दात् <<मधुबभ्र्वोर्ब्राह्मणकौशिकयोः>> [[4.1.106]] इति यञ्-प्रत्ययः भवति । ततः स्त्रीत्वं द्योतयितुम् <<सर्वत्र लोहितादिकतन्तेभ्यः>> [[4.1.18]] इति ष्फ-प्रत्ययः । ततः सम्पूर्णरूपेण स्त्रीत्वं द्योतयितुम् <<षिद्भिदादिभ्योऽङ्>> [[3.3.104]] इत्यनेन ङीष् इति द्वितीयः स्त्रीप्रत्ययः ।]\n→ बाभ्रु + य + फ + ई [<<तद्धितेष्वचामादैः>> [[7.2.117]] इति आदिवृद्धिः ]\n→ बाभ्रो + य + फ + ई [<<ओर्गुणः>> [[6.4.146]] इति गुणः]\n→ बाभ्रव् + य + फ + ई [<<वान्तो यि प्रत्यये>> [[6.1.79]] इति अवादेशः]\n→ बाभ्रव् + य + आयन + ई [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति प्रत्ययादिफकारस्य आयन्-आदेशः]\n→ बाभ्रव् + य् + आयन + ई [ष्फ-प्रत्ययः तद्धितप्रत्ययः अस्ति, अतः अस्मिन् प्रत्यये परे यकारोत्तरस्य अकारस्य <<यस्येति च>> [[6.4.148]] इति लोपः भवति ।]\n→ बाभ्रव् + य् + आयन् + ई [<<यस्येति च>> [[6.4.148]] इति नकारोत्तस्य अकारस्य लोपः]\n→ बाभ्रव्यायणी [<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इति णत्वम्]\n\nअनेन प्रकारेण बभ्रोः गोत्रापत्यं स्त्री = बाभ्रव्यायणी इति सिद्ध्यति । एवमेव —\n\n1. वल्गोः गोत्रापत्यं स्त्री = वल्गु + यञ् + ष्फ + ङीष् → वाल्गव्यायनी । \n2. मण्डोः गोत्रापत्यं स्त्री = मण्डु + यञ् + ष्फ + ङीष् →‌ माण्डव्यायनी ।\n3. शङ्कोः गोत्रापत्यं स्त्री = शङ्कु + यञ् + ष्फ + ङीष् → शाङ्कव्यायनी ।\n\nइत्यादीनि अन्यानि उदाहरणानि । \n\n1. प्रकृतसूत्रे निर्दिष्ट: कतन्त इति शब्दः कत अन्ते येषाम् इति बहुव्रीहिसमासेन सिद्ध्यति । अत्र कत + अन्त = कतन्त इत्यत्र वस्तुतः <<अकः सवर्णे दीर्घः>> [[6.1.101]] इत्यनेन सवर्णदीर्घः प्राप्नोति, परन्तु अस्य शब्दस्य शकन्ध्वादिगणे ग्रहणं कृत्वा सवर्णदीर्घं बाधित्वा इत्यनेन पररूपे कृते कतन्त इति शब्दः सिद्ध्यति ।\n2. गर्गादिगणे कत इति शब्दः वस्तुतः त्रिषु स्थलेषु विद्यते — कुरुकत, कपिकत, तथा च कत । एताभ्याम् कुरुकत तथा च कपिकत इत्यत्र कत-शब्दः केवलम् अंशरूपेण विद्यते, पूर्णशब्दस्वरूपेण न । अतः प्रकृतसूत्रे विद्यमानः कतशब्दः पृथग् रूपेण विद्यमानेन कत-शब्देन सह एव अन्वेति ।\n\nष्फ-प्रत्ययान्तशब्देभ्यः ङीष्-प्रत्ययविधानम्\nष्फ-प्रत्यये विद्यमानस्य आदिस्थस्य षकारस्य <<षः प्रत्ययस्य>> [[1.3.6]] इत्यनेन इत्संज्ञा भवति । अयं इत्संज्ञक-षकारः अस्मिन् प्रत्यये ङीष्-प्रत्ययविधानार्थः निर्दिष्टः अस्ति । अनेन ष्फ-प्रत्ययान्तशब्दाः षित्-संज्ञकाः भवन्ति, अतः तेभ्यः <<षिद्गौरादिभ्यश्च>> [[4.1.41]] इत्यनेन अग्रे ङीष्-प्रत्ययः विधीयते । केवलः ष्फप्रत्ययः स्त्रीत्वम् द्योतयितुम् न हि समर्थः, अतएव ङीष्-प्रत्ययः अपि तत्र नित्यम् भवति इति अस्य आशयः । \n'शकल' इति शब्दस्य विषये अपि ष्फ-प्रत्ययविधानम्\nगर्गादिगणे विद्यमानः शकल इति शब्दः वस्तुतः लोहितादि-कतन्तेषु नैव परिगण्यते । परन्तु अस्मात् शब्दात् यञ्-प्रत्यये कृते ततः स्त्रीत्वं द्योतयितुम् ष्फ-प्रत्ययः एव भवति — इति अत्र भाष्यकारेण स्पष्टीकृतम् अस्ति । अतः, शकलस्य गोत्रापत्यं स्त्री = शकल + यञ् + ष्फ + ङीष् → शाकल्यायनी इति शब्दः सिद्ध्यति । \nतर्हि एतत् साधयितुम् शकल-शब्दः कत-शब्दात् पूर्वमेव किमर्थं न स्थापितः इति चेत्, गर्गादिगणस्यैव कश्चन उपगणः कण्वादिगणः, यः <<कण्वादिभ्यो गोत्रे>> [[4.2.111]] इत्यस्मिन् सूत्रे प्रयुक्तः अस्ति; तस्मिन् अपि शकल इति शब्दः आवश्यकः । कण्वादिगणस्य आरम्भः तु कत-शब्दात् अनन्तरं भवति । अतः शकल इति शब्दः कत-शब्दात् पूर्वम् स्थापयितुम् नैव शक्यः । अतएव तस्य विषये भाष्ये विशेषविधानं कृतम् अस्ति । \n<pv>प्रकृतसूत्रे <qt>सर्वत्र</qt> इति शब्दस्य प्रयोजनम्\nप्रकृतसूत्रे विद्यमानः सर्वत्र इति शब्दः पूर्वसूत्रे पाठितस्य प्राचां शब्दस्य अनुवृत्तिबाधनार्थम् अस्ति । इत्युक्ते, <<प्राचां ष्फ तद्धितः>> [[4.1.17]] इति पूर्वसूत्रात् प्राचाम् शब्दस्य अनुवृत्तिः अग्रे मा भूत् इति हेतुना अस्मिन् सूत्रे सर्वत्र शब्दः स्थापितः वर्तते । <<प्राचां ष्फ तद्धितः>> इत्यत्र निर्दिष्टः नियमः केवलं प्राचां मतेन साधु अस्ति, परन्तु प्रकृतसूत्रे निर्दिष्टः नियमः सर्वेषाम् मतेन साधु अस्ति — इति अत्र आशयः वर्तते । वस्तुतस्तु <<प्राचां ष्फ तद्धितः>> [[4.1.17]] इत्यनेन गर्गादिगणस्य सर्वेषाम् एव शब्दानां विषये ष्फ-प्रत्यये विहिते सति प्रकृतसूत्रे सर्वत्र शब्दं विना अपि सर्वत्र इति अर्थः अवश्यं स्पष्टी भवति, यतः प्रकृतसूत्रे गर्गादिगणस्य केभ्यश्चन शब्देभ्यः एव पुनः ष्फ-प्रत्ययः पाठितः विद्यते । अतएव अयम् सर्वत्र इति शब्दः प्रकृतसूत्रार्थं नास्ति अपितु अस्य पूर्वसूत्रे अपकर्षः कर्तव्यः इति अस्मिन् सन्दर्भे भाष्यकारः विवृणोति —\n\nसर्वत्रग्रहणं किमर्थम् ? प्राचामेव हि स्यात्। नैतदस्ति प्रयोजनम्, सिद्धं प्राचां पूर्वेण । इदं तर्हि प्रयोजनम्। सर्वेषामेव यथा स्यात् — आवट्यायनी, चापं बाधित्वा ष्फो यथा स्यात् । — महाभाष्यम्\n\nयत्र यत्र यञन्तात् अन्यः कश्चित् प्रत्ययः स्त्रीप्रत्ययः विहितः दृश्यते, तत्र तत्र सर्वत्र प्राचां मतेन तं बाधित्वा ष्फ-प्रत्ययः एव करणीयः — इति अनेन अपकर्षण भाष्यकारः स्पष्टी करोति । <<आवट्याच्च>> [[4.1.75]] इति सूत्रेण आवट्य इति यञ्-प्रत्ययान्तात् शब्दात् वस्तुतः चाप्-प्रत्ययः पाठितः अस्ति, परन्तु प्राचां मतेन तत्रापि प्रकृतसूत्रेण चाप्-प्रत्ययस्य बाधं कृत्वा ष्फ-प्रत्ययः एव भवति, येन आवट्य + ष्फ + ङीष् → आवट्यायनी इति सिद्ध्यति — इति उदाहरणम् अपि अस्मिन् सन्दर्भे भाष्ये दत्तं विद्यते । \nबाध्यबाधकभावः\n\n1. गर्गादिगणे विद्यमानानाम् लोहितादि-कतन्त-शब्दानां विषये <<यञश्च>> [[4.1.16]] इत्यनेन प्राप्तं ङीप्-प्रत्ययं बाधित्वा प्रकृतसूत्रेण ष्फ-प्रत्ययः विधीयते । तद्भिन्नानाम् शब्दानां विषये तु प्रकृतसूत्रं नैव प्रवर्तते; अतः तेषां विषये इत्यनेन औत्सर्गिकः ङीप्-प्रत्ययः एव भवति ।\n2. प्राचाम् आचार्याणां मतेन तु गर्गादिगणस्य सर्वेषाम् एव शब्दानां विषये ङीप्-प्रत्ययं बाधित्वा यञन्तात् ष्फ इत्येव प्रत्ययः विधीयते — इति <<प्राचां ष्फ तद्धितः>> [[4.1.17]] इत्यनेन सूत्रेण उच्यते ।\n" }, "41019": { "sa": "'कौरव्य' तथा 'माण्डूक' एताभ्याम् शब्दाभ्याम् स्त्रीत्वं द्योतयितुयम् ष्फ-प्रत्ययः भवति । ", "sd": "<<स्त्रियाम्>> [[4.1.3]] इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु अपरः ष्फ प्रत्ययः प्रकृतसूत्रेण पाठ्यते । कौरव्य तथा च माण्डूक इत्येताभ्यां शब्दाभ्यां स्त्रीत्वं द्योतयितुम् ष्फ-प्रत्ययः विधीयते — इति अस्य सूत्रस्य अर्थः । केवलः ष्फ-प्रत्ययः स्त्रीत्वं द्योतयितुम् सम्पूर्णरूपेण असमर्थः अस्ति इति कारणात् तस्मात् पुनः ङीष्-प्रत्ययः अपि नित्यं विधीयते । क्रमेण विवरणम् एतादृशम् —\n1. कौरव्य-शब्दः\n<<कुर्वादिभ्यो ण्यः>> [[4.1.151]] इति सूत्रेण कुरु-शब्दात् अपत्यार्थे ण्य-प्रत्यये कृते कौरव्य इति शब्दः सिद्ध्यति । तत्र स्त्रीत्वं द्योतयितुम् <<अजाद्यतष्टाप्>> [[4.1.4]] इत्यनेन टाप्-प्रत्यये प्राप्ते तद्बाधित्वा प्रकृतसूत्रेण ष्फ-प्रत्ययः भवति, ततश्च ङीष्-प्रत्ययः अपि विधीयते —\n\nकुरोः अपत्यं स्त्री\n→ कुरु + ण्य + ष्फ + ङीष् [<<कुरुनादिभ्यो ण्यः>> [[4.1.172]] इति ण्य-प्रत्ययः । ततः <<कौरव्यमाण्डूकाभ्यां च>> [[4.1.19]] इति ष्फ । ततः <<षिद्गौरादिभ्यश्च>> [[4.1.41]] इति ङीष्]\n→ कुरु + य + फ + ई [इत्संज्ञालोपाः]\n→ कौरु + य + फ + ई [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ कौरो + य + फ + ई [<<ओर्गुणः>> [[6.4.146]] इति उकारस्य गुणः]\n→ कौरव् + य + फ + ई [<<वान्तो यि प्रत्यये>> [[6.1.79]] इति अवादेशः]\n→ कौरव् + य + आयन + ई [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति प्रत्ययादिफकारस्य आयन्-आदेशः]\n→ कौरव् + य् + आयन + ई [ष्फ-प्रत्ययः तद्धितप्रत्ययः अस्ति, अतः अस्मिन् प्रत्यये परे यकारोत्तरस्य अकारस्य <<यस्येति च>> [[6.4.148]] इति लोपः भवति ।]\n→ कौरव् + य् + आयन् + ई [<<यस्येति च>> [[6.4.148]] इति नकारोत्तस्य अकारस्य लोपः]\n→ कौरव्यायणी [<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इति णत्वम्]\n\nकुरु-शब्दात् <<तस्येदम्>> [[4.3.120]] इत्यनेन अण्-प्रत्यये कृते कौरव इति शब्दः सिद्ध्यति । अत्र स्त्रीत्वे विवक्षिते तु प्रकृतसूत्रम् नैव प्रवर्तते यतः प्रकृतसूत्रे कौरव्य इति ण्य-प्रत्ययान्तरूपस्यैव निर्देशः वर्तते । अतः कौरव-शब्दात् स्त्रीत्वं द्योतयितुम् <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इति ङीप्-प्रत्ययः एव भवति, येन कौरवी इति शब्दः सिद्ध्यति । कौरवी सेना इत्यादिषु उदाहरणेषु अस्य प्रयोगः दृश्यते ।\n2. माण्डूक-शब्दः\n<<ढक् च मण्डूकात्>> [[4.1.119]] इति सूत्रेण मण्डूक शब्दात् अपत्यार्थे अण्-प्रत्यये कृते माण्डूक इति शब्दः सिद्ध्यति । तत्र स्त्रीत्वं द्योतयितुम् <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इत्यनेन ङीप्-प्रत्यये प्राप्ते तद्बाधित्वा प्रकृतसूत्रेण ष्फ-प्रत्ययः भवति, ततश्च ङीष्-प्रत्ययः अपि विधीयते —\n\nमण्डूकस्य अपत्यं स्त्री\n→ मण्डूक + अण् + ष्फ + ङीष् [<<ढक् च मण्डूकात्>> [[4.1.119]] इति ढक्-प्रत्ययः । ततः <<कौरव्यमाण्डूकाभ्यां च>> [[4.1.19]] इति ष्फ । ततः <<षिद्गौरादिभ्यश्च>> [[4.1.41]] इति ङीष्]\n→ माण्डूक + अ + फ + ई [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ माण्डूक् + अ + फ + ई [<<यस्येति च>> [[6.4.148 इति अकारलोपः]\n→ माण्डूक् + अ + आयन + ई [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति प्रत्ययादिफकारस्य आयन्-आदेशः]\n→ माण्डूक् + ० + आयन + ई [ष्फ-प्रत्ययः तद्धितप्रत्ययः अस्ति, अतः अस्मिन् प्रत्यये परे ककारोत्तरस्य अकारस्य <<यस्येति च>> [[6.4.148]] इति लोपः भवति ।]\n→ माण्डूक् + आयन् + ई [<<यस्येति च>> [[6.4.148]] इति नकारोत्तस्य अकारस्य लोपः]\n→ माण्डूकायनी\n\n<<ढक् च मण्डूकात्>> [[4.1.119]] इत्यनेन मण्डूकशब्दात् अपत्यार्थे ढक्-प्रत्ययः अपि भवति, येन माण्डूकेय इति शब्दः सिद्ध्यति । अत्र स्त्रीत्वे विवक्षिते तु प्रकृतसूत्रम् नैव प्रवर्तते यतः प्रकृतसूत्रे माण्डूक इति अण्-प्रत्ययान्तरूपस्यैव निर्देशः वर्तते । अतः माण्डूकेय-शब्दात् स्त्रीत्वं द्योतयितुम् <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इति ङीप्-प्रत्ययः एव भवति, येन माण्डूकेयी इति शब्दः सिद्ध्यति ।\nवार्त्तिकम् — <!कौरव्यमाण्डूकयोरासुरेरुपसङ्ख्यानम्!>\nप्रकृतसूत्रे आसुरि इति शब्दः अपि स्वीकर्तव्यः — इति अस्य वार्त्तिकस्य आशयः । अतः, असुरस्य अपत्यम् इत्यस्मिन् अर्थे असुर-शब्दात् <<अत इञ्>> [[4.1.95]] इति इञ्-प्रत्यये कृते तत्र स्त्रीत्वं द्योतयितुम् ष्फ-प्रत्ययः, ततश्च ङीष्-प्रत्ययः भवति । प्रक्रिया इयम् —\n\nअसुरस्य अपत्यं स्त्री\n→ असुर + इञ् + ष्फ + ङीष् [<<अत इञ्>> [[4.1.95]] इति इञ्-प्रत्ययः । ततः <<कौरव्यमाण्डूकाभ्यां च>> [[4.1.19]] इति ष्फ । ततः <<षिद्गौरादिभ्यश्च>> [[4.1.41]] इति ङीष्]\n→ आसुर + इ + फ + ई [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ आसुर् + इ + फ + ई [<<यस्येति च>> [[6.4.148 इति अकारलोपः]\n→ आसुर् + इ + आयन + ई [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति प्रत्ययादिफकारस्य आयन्-आदेशः]\n→ आसुर् + ० + आयन + ई [ष्फ-प्रत्ययः तद्धितप्रत्ययः अस्ति, अतः अस्मिन् प्रत्यये परे ककारोत्तरस्य अकारस्य <<यस्येति च>> [[6.4.148]] इति लोपः भवति ।]\n→ आसुर् + आयन् + ई [<<यस्येति च>> [[6.4.148]] इति नकारोत्तस्य अकारस्य लोपः]\n→ आसुरायणी [<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इति णत्वम्]\n\nस्त्रीप्रत्ययप्रकरणे इञ्-प्रत्ययान्तशब्देभ्यः वस्तुतः कोऽपि स्त्रीप्रत्ययः नैव पाठितः अस्ति ।अतः अनेन वार्त्तिकेन उक्तः ष्फ-प्रत्ययः न हि कस्यचित् बाधकरूपेण प्रवर्तते ।\nष्फ-प्रत्ययान्तशब्देभ्यः ङीष्-प्रत्ययविधानम्\nष्फ-प्रत्यये विद्यमानस्य आदिस्थस्य षकारस्य <<षः प्रत्ययस्य>> [[1.3.6]] इत्यनेन इत्संज्ञा भवति । अयं इत्संज्ञक-षकारः अस्मिन् प्रत्यये ङीष्-प्रत्ययविधानार्थः निर्दिष्टः अस्ति । अनेन ष्फ-प्रत्ययान्तशब्दाः षित्-संज्ञकाः भवन्ति, अतः तेभ्यः <<षिद्गौरादिभ्यश्च>> [[4.1.41]] इत्यनेन अग्रे ङीष्-प्रत्ययः विधीयते । केवलः ष्फप्रत्ययः स्त्रीत्वम् द्योतयितुम् न हि समर्थः, अतएव ङीष्-प्रत्ययः अपि तत्र नित्यम् भवति इति अस्य आशयः । " }, "41020": { "sa": "कुमारावस्थायाः निर्देशार्थम् ह्रस्व-अकारान्तात् प्रातिपदिकात् ङीप्-प्रत्ययः भवति । ", "sd": "<<स्त्रियाम्>> [[4.1.3]] इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु अपरः ङीप् प्रत्ययः प्रकृतसूत्रेण पाठ्यते । शरीरस्य भिन्नाभ्यः अवस्थाभ्यः कुमार-अवस्थायाः निर्देशार्थम् प्रयुक्तात् प्रातिपदिकात् ह्रस्व-अकारान्तात् ङीप्-प्रत्ययः भवति — इति अस्य सूत्रस्य अर्थः । सामान्यरूपेण शरीरस्य तिस्रः अवस्थाः परिगण्यन्ते — कुमारावस्था (कौमारम्, young age), युवावस्था (यौवनम्, adult age), तथा च वृद्धावस्था (जरा / वार्धक्यम्, old age) । एतासाम् तिसृणाम् अपि अवस्थानाम् निर्देशार्थम् भिन्नाः शब्दाः प्रयुज्यन्ते । एतासु कुमारावस्थायाः निर्देशार्थम् प्रयुक्तेभ्यः अदन्तेभ्यः प्रातिपदिकेभ्यः स्त्रीत्वे प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति । यथा —\n\n1. कुमार + ङीप् → कुमारी ।\n2. किशोर + ङीप् → किशोरी ।\n3. बर्कर (शिशुः इत्यर्थः) + ङीप् → बर्करी । \n\nएते त्रयः अपि शब्दाः कुमारावस्थां निर्दिशन्ति, अतः एतेभ्यः स्त्रीत्वे विवक्षिते ङीप्-प्रत्ययः विधीयते ।\nकन्या इति शब्दः अपि कुमारवयोवाची एव । अयं शब्दः कन्य इति शब्दात् <<अजाद्यतष्टाप्>> [[4.1.4]] इत्यनेन टाप्-प्रत्यये कृते सिद्ध्यति । वस्तुतस्तु अत्रापि प्रकृतसूत्रेण ङीप्-प्रत्ययः एव प्राप्नोति, परन्तु पाणिनिना स्वयमेव कन्या इति शब्दः <<कन्यायाः कनीन च>> [[4.1.116]] इत्यत्र प्रयुक्तः अस्ति । अस्मात् ज्ञापकात् कन्य-शब्दात् टाप्-प्रत्ययः एव भवति ।\nवार्त्तिकम् — <!वयसि अचरमे इति वक्तव्यम्!>\nयद्यपि प्रकृतं सूत्रम् शरीरस्य प्रथमायाः अवस्थायाः (कुमारावस्थायाः) निर्देशकानां शब्दानां विषये पाठितम् अस्ति, तथापि शरीरस्य द्वितीयायाः अवस्थायाः (युवावस्थायाः) निर्देशकानां शब्दानां विषये अपि प्रकृतसूत्रस्य प्रयोगः भवति — इति अस्य वार्त्तिकस्य अर्थः । यथा —\n\n1. वधूट / बधूट (a young person recently entered adulthood and stays close to the father's house) + ङीप् → वधूटी / बधूटी\n2. चिरण्ट (a young person recently entered adulthood who continues to stay in father's house) + ङीप् → चिरण्टी ।\n\n\n1. युवन्-शब्दः अदन्तः नास्ति अतः अस्मात् शब्दात् प्रकृतसूत्रेण ङीप्-प्रत्ययः न भवति । अपि च, युवन्-शब्दात् स्त्रीत्वं द्योतयितुम् <<यूनस्तिः>> [[4.1.77]] इत्यनेन ति-प्रत्ययः क्रियते, येन युवति इति शब्दः सिद्ध्यति ।\n2. तरुण, तलुन एतयोः शब्दयोः <<षिद्गौरादिभ्यश्च>> [[4.1.41]] इत्यत्र विद्यमाने गौरादिगणे ग्रहणं कृतम् अस्ति; अतः एताभ्याम् शब्दाभ्याम् ङीष्-प्रत्यये कृते तरुणी, तलुनी इति शब्दौ सिद्ध्यतः । \nदलकृत्यम्\n1. 'प्रथमे (= अचरमे)' इति किमर्थम् ? यः शब्दः कुमारावस्थाम्, युवावस्थां वा न दर्शयति (वृद्धावस्थां दर्शयति), तस्य विषये प्रकृतसूत्रं नैव प्रयुज्यते । यथा —\n\n(i) स्थविर + टाप् → स्थविरा ।\n(ii) वृद्ध + टाप् → वृद्धा ।\n\nवृद्धा कुमारी इव = वृद्धकुमारी इति शब्दः वस्तुतः वृद्धावस्थायाः निर्देशार्थम् एव प्रयुज्यते, परन्तु अत्र वृद्धायां कुमारीत्वम् आरोपितम् अस्ति अतः अत्र ङीप्-प्रत्ययेनैव अन्तिमं रूपं सिद्ध्यति इति अत्र तत्त्वबोधिन्यां स्पष्टीकृतम् वर्तते ।\n2. 'अतः' इति किमर्थम् ? प्रकृतसूत्रे <<अजाद्यतष्टाप्>> [[4.1.4]] इत्यस्मात् सूत्रात् अतः इति अनुवर्तते; अतः प्रकृतसूत्रस्य प्रयोगः अदन्तेभ्यः प्रातिपदिकेभ्यः एव भवति । अतएव शिशुः शब्दस्य विषये इदं सूत्रं नैव प्रवर्तते । यथा, इयं शिशुः ।\n3. 'वयसि' इति किमर्थम् ? प्रकृतसूत्रे प्रयुक्तः वयः इति शब्दः 'age' इत्यस्मिन् अर्थे नैव प्रयुक्तः अस्ति, अपि तु 'stage of life' (शरीरस्य अवस्था) अस्मिन् अर्थे प्रयुक्तः वर्तते । प्राणिनाम् कालकृत-अवस्था-विशेषं वयः इति अस्य शब्दस्य व्याख्या । अतएव प्रथम, द्वितीय, तृतीय — आदीनां शब्दानां विषये प्रकृतसूत्रस्य प्रयोगः न भवति, यतः एतैः सूत्रैः केवलम् सङ्ख्यात्मकं वयः निर्दिश्यते, न हि शरीरावस्था । एवमेव उत्तानशय (= the one who sleeps only on the back, without moving on their own) इति शब्दः यद्यपि अतिशिशुः (infant) इत्यस्य निर्देशार्थं प्रयुज्यते तथापि अनेन शब्देन शरीरावस्था न हि निर्दिश्यते अपि तु शयनपद्धतिः निर्दिश्यते, अतः अस्य विषये अपि प्रकृतसूत्रस्य प्रयोगः न भवति (कश्चित् रोगपीडितः वृद्धः अपि उत्तानशयः भवितुम् अर्हति इत्याशयः) । एवमेव लोहितपाद (used to indicate infant who feet are still reddish) इति शब्दः यद्यपि सामान्यतः 'शिशुः' अस्मिन् अर्थे प्रयुज्यते तथापि अनेन शब्देन पादयोः वर्णस्य निर्देशः भवति न हि शरीरस्य अवस्थायाः, अतः अस्य शब्दस्य विषये अपि इदं सूत्रं न प्रयुज्यते । तथैव प्रौढ इति शब्दः अपि वह्-धातुनिर्मितः अस्ति (शरीरावस्थां न दर्शयति) अतः तस्य विषये अपि प्रकृतसूत्रं न प्रयुज्यते ।\n'पिता रक्षति कौमारे, भर्ता रक्षति यौवने, पुत्रस्तु स्थविरे भावे, न स्त्री स्वातन्त्र्यमर्हति' — इत्यस्मिन् श्लोके शरीरस्य तिस्रः अपि अवस्थाः परिगणिताः सन्ति । \n" }, "41021": { "sa": "द्विगुसमासेन निर्मितात् ह्रस्व-अकारान्त-प्रातिपदिकात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः विधीयते ।", "sd": "<<स्त्रियाम्>> [[4.1.3]] इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु अपरः ङीप् प्रत्ययः प्रकृतसूत्रेण पाठ्यते । <<संख्यापूर्वो द्विगुः>> [[2.1.52]] इति सूत्रेण निर्दिष्टः यः द्विगुसमासः, तेन निर्मितात् ह्रस्व-अकारान्त-प्रातिपदिकात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः विधीयते — इति अस्य सूत्रस्य अर्थः । <<संख्यापूर्वो द्विगुः>> [[2.1.52]] इति सूत्रेण निर्दिष्टः द्विगुसमासः त्रिप्रकारकः वर्तते — तद्धितार्थः द्विगुः, उत्तरपदद्विगुः, समाहारद्विगुः । एतेषाम् विषये विवरणम्, उदाहरणानि च अधः क्रमेण दत्तानि सन्ति —\n1. तद्धितार्थद्विगुः —\nयस्य द्विगुसमासस्य निर्माणे कश्चन तद्धितप्रत्ययः अपि आवश्यकः सः तद्धितार्थद्विगुसमासः । एतादृशस्य समासस्य अन्ते विद्यमानस्य तद्धितप्रत्ययस्य प्रायेण सर्वत्र <<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> [[5.1.28]] इत्यनेन लुक् भवति । एतादृशे लुकि कृते ततः स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति । यथा, द्वौ आढकौ पचति अस्मिन् अर्थे <<द्विगोः ष्ठंश्च>> [[5.1.54]] इत्यनेन ठञ्-प्रत्यये कृते द्वि + आढक + ठञ् इति स्थिते, <<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> [[5.1.28]] इति तद्धितसमासस्य लुकि कृते द्वि + आढक इत्यवस्थायाम् स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति, येन द्वि + आढक + ठञ् → द्व्याढकी इति शब्दः सिद्ध्यति । प्रक्रिया इयम् —\n\nद्वौ आढकौ पचति सा\n→ द्वि + आढक + ठञ् [<<संख्यापूर्वो द्विगुः>> [[2.1.52]] इति द्विगुसमासः । तत्र <<द्विगोः ष्ठंश्च>> [[5.1.54]] इति (चकारग्रहणसामर्थ्यात्) ठञ्-प्रत्ययः]\n→ द्वि + आढक + ० [<<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> [[5.1.28]] इति तद्धितप्रत्ययस्य लुक्]\n→ द्वि + आढक + ङीप् [स्त्रीत्वं द्योतयितुम् <<द्विगोः>> [[4.1.21]] इति ङीप्]\n→ द्व्याढक + ई [<<इको यणचि>> [[6.1.77]] यणादेशः]\n→ द्व्याढक् + ई [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ द्व्याढकी\n\nएवमेव, पञ्च पात्राणि अवहरति इत्यत्र <<संख्यापूर्वो द्विगुः>> [[2.1.52]] इति द्विगुसमासः, ततः <<द्विगोः ष्ठंश्च>> [[5.1.54]] इत्यनेन ठञ्-प्रत्ययः, ततः <<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> [[5.1.28]] इति तद्धितप्रत्ययस्य लुक्, ततश्च स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्यये कृते पञ्चपात्रिकी इति शब्दः सिद्ध्यति । \n\n1. तद्धितार्थद्विगुसमासे तद्धितप्रत्ययस्य लुकि कृते, ततः स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्यये प्राप्ते; बहुषु स्थलेषु अयं ङीप्-प्रत्ययः निषिध्यते । एते अपवादाः <<अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि>> [[4.1.22]], <<काण्डान्तात् क्षेत्रे>> [[4.1.23]] तथा च <<पुरुषात् प्रमाणेऽन्यतरस्याम्>> [[4.1.24]] इत्येतेषु त्रिषु सूत्रेषु पाठिताः सन्ति । \n2. यदि तद्धितार्थद्विगुसमासस्य अन्ते विद्यमानस्य तद्धितप्रत्ययस्य लुक् न विधीयते, तर्हि तत्र स्त्रीत्वं द्योतयितुम् द्विगु-समासविशिष्टः स्त्रीप्रत्ययः नैव भवति, अपि तु अन्ते विद्यमानम् तद्धितप्रत्ययम् अनुसृत्य एव स्त्रीप्रत्ययः विधीयते । यथा, द्वौ आढकौ पचति इत्यस्मिन्नेव अर्थे <<द्विगोः ष्ठंश्च>> [[5.1.54]] इत्यनेन ख-प्रत्यये कृते ततः स्त्रीत्वं द्योतयितुम् <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्-प्रत्ययः एव विधीयते — द्वि + आढक + ख (ईन) + टाप् → द्व्याढकीना ।\n\n2. समाहारद्विगुः —\nसमाहारस्य निर्देशार्थम् प्रयुक्तः द्विगुसमासः समाहारद्विगुः नाम्ना ज्ञायते । समाहारद्विगुसमासेन निर्मितं प्रातिपदिकम् <<स नपुंसकम्>> [[2.4.17]] इत्यनेन प्रायेण नपुंसकलिङ्गे एव भवति, अतः तत्र स्त्रीप्रत्ययस्य न कश्चन अवकाशः । परन्तु, यदि एतत् प्रातिपदिकम् अकारान्तम् अस्ति, तर्हि इति वार्त्तिकेन तस्य नित्यं स्त्रीलिङ्गे एव प्रयोगः इष्यते । अस्यां स्थितौ स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण तत्र ङीप्-प्रत्ययः भवति । यथा, पञ्चानां पूलानां समाहारः (a collection of five bundles / heaps) इत्यत्र पञ्च + पूल इति द्विगुसमासे कृते तत्र नित्यं स्त्रीलिङ्गमेव इष्यते, अतः ङीप्-प्रत्यये कृते पञ्च + पूल + ङीप् → पञ्चपूली इति शब्दः सिद्ध्यति । प्रक्रिया इयम् — \n\nपञ्चानां पूलानां समाहारः\n→ पञ्च + पूल + ङीप् [<<संख्यापूर्वो द्विगुः>> [[2.1.52]] इति द्विगुः । <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुब्लुक् । इति वार्त्तिकेन नित्यं स्त्रीलिङ्गे प्रयोगः, अतः स्त्रीत्वं द्योतयितुम् <<द्विगोः>> [[4.1.21]] इति ङीप्]\n→ पञ्चन् + पूल् + ई [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ पञ्च + पूल् + ई [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः]\n→ पञ्चपूली\n\n एवमेव - \n\n1. त्रयाणां लोकानां समाहारः = त्रि + लोक + ङीप् → त्रिलोकी\n2. पञ्चानाम् अजानां समाहारः = पञ्चन् + अज + ङीप् → पञ्चाजी\n2. अष्टानाम् अध्यायानां समाहारः = अष्टन् + अध्याय + ङीप् → अष्टाध्यायी\n3. त्रयाणां पादानां समाहारः = त्रि + पाद + ङीप् → त्रिपादी\n4. पञ्चानां खट्वानां समाहारः = पञ्चन् + खट्वा + ङीप् → पञ्चखट्वी । अत्र प्रक्रिया एतादृशी भवति —\n\nपञ्चानां खट्वानां समाहारः\n= पञ्चन् + खट्वा [<<संख्यापूर्वो द्विगुः>> [[2.1.52]] इति द्विगुः । <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुब्लुक्]\n→ पञ्चन् + खट्व [<<गोस्त्रियोरुपसर्जनस्य>> [[1.2.48]] इत्यनेन स्त्रीप्रत्ययान्त-उपसर्जनस्य ह्रस्वादेशः]\n→ पञ्चन् + खट्व + ङीप् [<<स नपुंसकम्>> [[2.4.17]] इत्यत्र निर्दिष्टेन इति वार्त्तिकेन विकल्पेन स्त्रीत्वम् । स्त्रीत्वपक्षे तस्य द्योतनार्थम् <<द्विगोः>> [[4.1.21]] इति ङीप्]\n→ पञ्चन् + खट्व् + ई [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ पञ्च + खट्व् + ई [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः]\n→ पञ्चखट्वी\n\n\n \n1. त्रयाणां फलानां समाहारः, त्रयाणाम् अनीकानां समाहारः इत्यत्र यद्यपि वस्तुतः ङीप्-प्रत्ययः प्राप्नोति; तथापि <<अजाद्यतष्टाप्>> [[4.1.4]] इत्यत्र विद्यमाने अजादिगणे एतयोः ग्रहणं कृत्या एताभ्याम् टाप्-प्रत्ययः एव क्रियते, येन त्रिफला, त्र्यनीका इति टाबन्तशब्दौ सिद्ध्यतः ।\n2. नवानां रात्रीणां समाहारः इत्यत्र द्विगुसमासे कृते इति वार्त्तिकेन नित्यं नपुंसकलिङ्गे एव रूपं प्रयुज्यते, अतः तत्र स्त्रीप्रत्ययः न भवति, अपि तु नवरात्रम् इत्येव शब्दः सिद्ध्यति । \n\n3. उत्तरपदद्विगुः —\nयः द्विगुसमासः नित्यम् बहुव्रीहिसमासस्य पूर्वपदरूपेण एव विधीयते (पृथग् रूपेण नैव प्रयुज्यते) सः उत्तरपदद्विगुसमासः नाम्ना ज्ञायते । एतादृशः द्विगुसमासः प्रातिपदिकस्य अन्ते नैव सम्भवति अतः तत्र प्रकृतसूत्रस्य प्रयोगः अपि न भवति । यथा पञ्च गावः धनम् अस्य इत्यत्र पञ्च + गो इति द्विगुसमासात् अनन्तरम् धन इति शब्दः उत्तपरदरूपेण प्रयुज्यते, येन पञ्च + गो + धन → पञ्चगावधन इति शब्दः सिद्ध्यति । अत्र स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रस्य प्रयोगः नैव सम्भवति यतः अत्र अन्ते द्विगुसमासः न विद्यते । अतः अत्र <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्-प्रत्यये कृते पञ्चगावधना इत्येव शब्दः सिद्ध्यति । \n" }, "41022": { "sa": "यस्य तद्धितार्थ-द्विगुसमासस्य उत्तरपदम् परिमाणवाचकशब्दः नास्ति, अथवा 'बिस्त', 'आचित', 'कम्बल्य' एतेषु कश्चन परिमाणवाचकः शब्दः अस्ति; तस्य विषये तद्धितप्रत्ययस्य लुकि कृते स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः न विधीयते । ", "sd": "<<स्त्रियाम्>> [[4.1.3]] इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु अपरः ङीप् प्रत्ययः प्रकृतसूत्रेण निषिध्यते । तद्धितार्थद्विगुसमासेन निर्मितात् समस्तपदात् स्त्रीत्वं द्योतयितुम् <<द्विगोः>> [[4.1.21]] इति सूत्रेण ङीप्-प्रत्यये प्राप्ते; यदि तस्य समासस्य उत्तरपदं परिमाणवाचकशब्दः नास्ति, अथ वा बिस्त, आचित, तथा च कम्बल्य एतेषु कश्चन परिमाणवाचकशब्दः अस्ति, तत्र तद्धितप्रत्ययस्य लुक् भवति चेत् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः न भवति — इति वर्तमानसूत्रस्य आशयः । \n\n1. परिमीयते (सर्वतः मीयते) अनेन इति परिमाणम् । standard unit of measurement इत्यर्थः । पुरा प्रचलितानि परिमाणानि एतादृशानि — मासा, अक्ष, कर्ष, पल, सुवर्ण, बिस्त, कुरुबिस्त, तुला, भार, आचित, कार्षापण, कार्षिक, पण, आढक, द्रोण, खारी, वाह, निकुञ्च, कुडव, प्रस्थ, पाद, अंश, भाग, वंटक । एतेषां परस्परसम्बन्धः अमरकोशे वैश्यवर्गे 2.9.85 तः 2.9.89 इत्यत्र निर्दिष्टः वर्तते । एतान् विहाय अन्यानि अपि कानिचन परिमाणवाचकानि पदानि (यथा, शम, दिण्डि, वितस्ति, कम्बल्य — आदीनि) व्यवहारे प्रचलितानि आसन् ।\n2. न हि सर्वे प्रमाणवाचकशब्दाः परिमाणवाचकाः । Not all things which are used for measurement are considered as standard-units of measurement. यथा, 'गज' इति शब्दः अपि प्रमाणरूपेण प्रयुक्तः दृश्यते (द्वौ गजौ प्रमाणम् अस्याः नद्याः = This river is as deep as two elephants), परन्तु अयम् परिमाणवाचकशब्दः न । एवमेव, काण्ड, पुरुष आदयः शब्दाः अपि ज्ञेयाः । \n\nप्रकृत सूत्रे विद्यमानयोः द्वयोः विषययोः क्रमेण विवरणम् एतादृशम् —\n1. यस्य द्विगुसमासस्य उत्तरपदम् परिमाणवाचकशब्दं विहाय कश्चन अन्यः शब्दः अस्ति, तस्मात् द्विगुसमासात् तद्धितप्रत्ययस्य लुकि कृते स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः न भवति । उदाहरणानि एतानि —\n\n(i) पञ्चभिः अश्वैः क्रीता इत्यत्र आदौ <<संख्यापूर्वो द्विगुः>> [[2.1.52]] इत्यनेन द्विगुसमासे कृते ततः <<तेन क्रीतम्>> [[5.1.37]] इत्यस्मिन् अर्थे <<आर्हादगोपुच्छसंख्यापरिमाणाट्ठक्>> [[5.1.19]] इति सूत्रेण ठक्-प्रत्ययः भवति, तस्य च <<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> [[5.1.28]] इत्यनेन लुक् विधीयते । एतादृशे लुकि कृते अग्रे स्त्रीत्वं द्योतयितुम् <<द्विगुश्च>> [[2.1.23]] इति ङीप्-प्रत्यये प्राप्ते; प्रकृतसूत्रेण सः निषिध्यते, यतः अत्र द्विगुसमासस्य उत्तरपदम् अश्व इति अपरिमाणवाची शब्दः अस्ति । अतः अत्र <<अजाद्यतष्टाप्>> [[4.1.4]] इत्यनेन टाप्-प्रत्यये कृते पञ्च + अश्व + टाप् → पञ्चाश्वा इति शब्द सिद्ध्यति ।\n(ii) संख्यावाचकशब्दाः अपि परिमाणवाचिनः न सन्ति, अतः द्वौ शतौ अवहरति इत्यत्र आदौ <<संख्यापूर्वो द्विगुः>> [[2.1.52]] इति द्विगुसमासः भवति; ततः <<सम्भवत्यवहरति पचति>> [[5.1.52]] इत्यस्मिन् अर्थे <<पणपादमाषशताद्यत्>> [[5.1.34]] इत्यनेन यत्-प्रत्यये कृते <<शाणाद्वा>> [[5.1.35]] इत्यत्र पाठितेन इति वार्त्तिकेन सः विकल्प्यते, अतः पक्षे <<संख्याया अतिशदन्तायाः कन्>> [[5.1.22]] इत्यनेन कन्-प्रत्ययः भवति, तस्य च <<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> [[5.1.28]] इत्यनेन लुक् विधीयते । एतादृशे लुकि कृते अग्रे स्त्रीत्वं द्योतयितुम् <<द्विगोः>> [[4.1.21]] इति ङीप्-प्रत्यये प्राप्ते प्रकृतसूत्रेण सः निषिध्यते, अतश्च <<अजाद्यतष्टाप्>> [[4.1.4]] इत्यनेन टाप्-प्रत्यये कृते द्वि + शत + टाप् →‌ द्विशता इति शब्द सिद्ध्यति ।\n(iii) कालवाचकशब्दाः अपि परिमाणवाचिनः न सन्ति, अतः द्वे वर्षे भूते इत्यत्र आदौ <<संख्यापूर्वो द्विगुः>> [[2.1.52]] इति द्विगुसमासः भवति; ततः <<तमधीष्टो भृतो भूतो भावी >> [[5.1.52]] इत्यस्मिन् अर्थे ठञ्-प्रत्यये कृते तस्य <<वर्षाल्लुक् च>> [[5.1.88]] इत्यनेन पाक्षिकः लुक् विधीयते । एतादृशे लुकि कृते अग्रे स्त्रीत्वं द्योतयितुम् <<द्विगोः>> [[4.1.21]]इति ङीप्-प्रत्यये प्राप्ते प्रकृतसूत्रेण सः निषिध्यते, अतश्च <<अजाद्यतष्टाप्>> [[4.1.4]] इत्यनेन टाप्-प्रत्यये कृते द्वि + वर्ष + टाप् →‌ द्विवर्षा इति शब्द सिद्ध्यति । \n(iv) द्वौ वर्षौ प्रमाणम् अस्याः इत्यत्र द्विगुसमासः, ततः <<प्रमाणे द्वयसज्दघ्नञ्मात्रचः>> [[5.2.37]] इत्यनेन मात्रच्-प्रत्ययः, तस्य च इति वार्त्तिकेन लुकि कृते अग्रे स्त्रीत्वं द्योतयितुम् <<द्विगोः>> [[4.1.21]] इति ङीप्-प्रत्यये प्राप्ते प्रकृतसूत्रेण सः निषिध्यते, अतश्च <<अजाद्यतष्टाप्>> [[4.1.4]] इत्यनेन टाप्-प्रत्यये कृते द्वि + वर्ष + टाप् →‌ द्विवर्षा इति शब्द सिद्ध्यति । \n\n2. यस्य द्विगुसमासस्य उत्तरपदम् बिस्त, आचित, कम्बल्य एतेभ्यः कश्चन परिमाणवाचकः शब्दः अस्ति, तस्मात् द्विगुसमासात् तद्धितप्रत्ययस्य लुकि कृते स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः न भवति । उदाहरणानि एतानि —\n\n(i) द्वाभ्यां बिस्ताभ्या क्रीतम् इत्यत्र आदौ <<संख्यापूर्वो द्विगुः>> [[2.1.52]] इत्यनेन द्विगुसमासे कृते ततः <<तेन क्रीतम्>> [[5.1.37]] इत्यस्मिन् अर्थे <<प्राग्वतेष्ठञ्>> [[5.1.18]] इति सूत्रेण ठञ्-प्रत्ययः भवति, तस्य च <<बिस्ताच्च>> [[5.1.31]] इत्यनेन वैकल्पिकः लुक् विधीयते । एतादृशे लुकि कृते अग्रे स्त्रीत्वं द्योतयितुम् <<द्विगोः>> [[4.1.21]] इति ङीप्-प्रत्यये प्राप्ते; प्रकृतसूत्रेण सः निषिध्यते, यतः अत्र द्विगुसमासस्य उत्तरपदम् बिस्त इति शब्दः अस्ति । अतः अत्र <<अजाद्यतष्टाप्>> [[4.1.4]] इत्यनेन टाप्-प्रत्यये कृते द्वि + बिस्त + टाप् → द्विबिस्ता इति शब्द सिद्ध्यति ।\n(ii) द्वौ आचितौ पचति इत्यत्र आदौ <<संख्यापूर्वो द्विगुः>> [[2.1.52]] इत्यनेन द्विगुसमासे कृते ततः<<सम्भवत्यवहरति पचति>> [[5.1.52]] इत्यस्मिन् अर्थे <<प्राग्वतेष्ठञ्>> [[5.1.18]] इति सूत्रेण ठञ्-प्रत्ययः भवति, तस्य च <<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> [[5.1.28]] इत्यनेन लुक् विधीयते । एतादृशे लुकि कृते अग्रे स्त्रीत्वं द्योतयितुम् <<द्विगोः>> [[4.1.21]] इति ङीप्-प्रत्यये प्राप्ते; प्रकृतसूत्रेण सः निषिध्यते, यतः अत्र द्विगुसमासस्य उत्तरपदम् आचित इति शब्दः अस्ति । अतः अत्र <<अजाद्यतष्टाप्>> [[4.1.4]] इत्यनेन टाप्-प्रत्यये कृते द्वि + आचित + टाप् → द्व्याचिता इति शब्द सिद्ध्यति ।\n(iii) द्वाभ्यां कम्बल्याभ्यां क्रीतम् इत्यत्र आदौ <<संख्यापूर्वो द्विगुः>> [[2.1.52]] इत्यनेन द्विगुसमासे कृते ततः <<तेन क्रीतम्>> [[5.1.37]] इत्यस्मिन् अर्थे <<प्राग्वतेष्ठञ्>> [[5.1.18]] इति सूत्रेण ठञ्-प्रत्ययः भवति, तस्य च <<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> [[5.1.28]] इत्यनेन लुक् विधीयते । एतादृशे लुकि कृते अग्रे स्त्रीत्वं द्योतयितुम् <<द्विगोः>> [[4.1.21]] इति ङीप्-प्रत्यये प्राप्ते; प्रकृतसूत्रेण सः निषिध्यते, यतः अत्र द्विगुसमासस्य उत्तरपदम् कम्बल्य इति शब्दः अस्ति । अतः अत्र <<अजाद्यतष्टाप्>> [[4.1.4]] इत्यनेन टाप्-प्रत्यये कृते द्वि + कम्बल्या + टाप् → द्विकम्बल्या इति शब्द सिद्ध्यति ।\n\n बिस्त इत्यस्य स्थाने बहुत्र विस्त इति वकारघटितः प्रयोगः अपि दृश्यते । \nदलकृत्यम्\n1. अपरिमाणबिस्ताचितकम्बल्येभ्यः इति किमर्थम् ? यदि बिस्तादिभिन्नः कश्चन परिमाणवाची शब्दः द्विगुसमासस्य उत्तरपदरूपेण विद्यते; तर्हि तत्र तद्धितप्रत्ययस्य लुकि कृते अपि प्रकृतसूत्रेण उक्तः निषेधः नैव प्रवर्तते; अतः <<द्विगोः>> [[4.1.21]] इत्यनेन ङीप्-प्रत्ययः अवश्यं भवति । यथा, आढक इत्यस्य परिमाणवाचकशब्दस्य विषये प्रकृतसूत्रं नैव प्रवर्तते । अतएव, द्वाभ्याम् आढकाभ्यां क्रीतम् इत्यत्र आदौ <<संख्यापूर्वो द्विगुः>> [[2.1.52]] इत्यनेन द्विगुसमासे कृते ततः <<तेन क्रीतम्>> [[5.1.37]] इत्यस्मिन् अर्थे <<प्राग्वतेष्ठञ्>> [[5.1.18]] इति सूत्रेण ठञ्-प्रत्ययः भवति, तस्य च <<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> [[5.1.28]] इत्यनेन लुक् विधीयते । एतादृशे लुकि कृते अग्रे स्त्रीत्वं द्योतयितुम् <<द्विगोः>> [[4.1.21]] इति ङीप्-प्रत्ययः अवश्यं भवति, येन द्वि + आढक + ङीप् → द्व्याढकी इति शब्द सिद्ध्यति ।\n2. तद्धितार्थद्विगुः इति किमर्थम् ? यदि अत्र तद्धितार्थद्विगुसमासः नास्ति तर्हि प्रकृतसूत्रेण उक्तः निषेधः अत्र नैव प्रवर्तते । यथा, पञ्चानाम् अश्वानां समाहारः इत्यत्र पञ्च + अश्व इति समाहारद्विगुसमासे कृते तत्र इति वार्त्तिकेन नित्यं स्त्रीलिङ्गमेव इष्यते । अस्यां स्थितौ अत्र 'तद्धितार्थद्विगुसमासः नास्ति अपितु समाहारद्विगुसमासः अस्ति' इति कारणात् <<द्विगोः>> [[4.1.21]] इत्यनेन ङीप्-प्रत्ययः अवश्यं भवति, येन पञ्च + अश्व + ङीप् → पञ्चाश्वी इति शब्दः सिद्ध्यति । \n3. तद्धितलुकि इति किमर्थम् ? तद्धितार्थद्विगुसमासस्य विषये यदि तद्धितप्रत्यय लुक् नैव सम्भवति, तर्हि तत्र समस्तपदस्य अन्ते विद्यमानम् तद्धितप्रत्ययम् अनुसृत्य एव उचितः स्त्रीप्रत्ययः विधीयते । इत्युक्ते, तत्र <<द्विगोः>> [[4.1.21]] इत्यस्यैव प्रसक्तिः नास्ति, अतः तत्र प्रकृतसूत्रेण कृतः बाधः अपि न प्रवर्तते । यथा, द्वौ आचितौ पचति इत्यत्र आदौ <<संख्यापूर्वो द्विगुः>> [[2.1.52]] इत्यनेन द्विगुसमासे कृते ततः<<सम्भवत्यवहरति पचति>> [[5.1.52]] इत्यस्मिन् अर्थे <<द्विगोः ष्ठंश्च>> [[5.1.54]] इति सूत्रेण वैकल्पिके ख-प्रत्यये कृते तत्र प्रत्ययस्य विधानसामर्थ्यात् तस्य लुक् नैव भवति; अतः अस्यां स्थितौ स्त्रीत्वं द्योतयितुम् <<द्विगोः>> [[4.1.21]] इति सूत्रं नैव प्रवर्तते; अपितु <<अजाद्यतष्टाप्>> [[4.1.4]] इत्यनेन टाप्-प्रत्यये कृते द्वि + आचित + ख + ङीप् → द्व्याचितीना इत्येव शब्द सिद्ध्यति ।\nबाध्यबाधकभावः\n1. काण्ड इति शब्दः परिमाणवाची नास्ति, अतः तस्य विषये तद्धितार्थद्विगुसमासे तद्धितलुकि सति प्रकृतसूत्रेण ङीप्-प्रत्ययस्य निषेधे प्राप्ते, <<काण्डान्तात् क्षेत्रे>> [[4.1.23]] इति अग्रिमसूत्रेण सः नियम्यते । यदि समस्तपदेन क्षेत्रस्य निर्देशः भवति, तर्हि एव एतादृशः ङीप्-प्रत्ययनिषेधः भवेत्, अन्येषु स्थलेषु तद्धितलुकि सति अपि ङीप्-प्रत्ययनिषेधः नैव स्यात् (इत्युक्ते, ङीप्-प्रत्ययः अवश्यं भवेत्) — इति <<काण्डान्तात् क्षेत्रे>> [[4.1.23]] सूत्रस्य आशयः ।\n2. प्रमाणवाची पुरुषः इति शब्दः परिमाणवाची नास्ति, अतः तस्य विषये तद्धितार्थद्विगुसमासे तद्धितलुकि सति प्रकृतसूत्रेण ङीप्-प्रत्ययस्य निषेधे प्राप्ते, <<पुरुषात् प्रमाणेऽन्यतरस्याम्>> [[4.1.24]] इति सूत्रेण सः विकल्प्यते; अतः ङीप्-प्रत्यये कृते, तथा च ङीप्-प्रत्ययस्य निषेधे (टाप्-प्रत्यये कृते) — उभयथा रूपं सिद्ध्यति ।" }, "41023": { "sa": "यस्य तद्धितार्थद्विगुसमासस्य उत्तरपदम् 'काण्ड' इति शब्दः अस्ति, तस्मात् तद्धितप्रत्ययस्य लुकि कृते स्त्रीत्वं द्योतयितुम् क्षेत्रनिर्देशार्थम् एव ङीप्-प्रत्ययः निषिध्यते; अन्येषु अर्थेषु ङीप्-प्रत्ययः अवश्यं भवति । ", "sd": "<<स्त्रियाम्>> [[4.1.3]] इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु अपरः ङीप् प्रत्ययः प्रकृतसूत्रेण निषिध्यते । यस्य तद्धितार्थद्विगुसमासस्य उत्तरपदम् काण्ड (दण्डः, a stick, not a conventional unit of measurement) इति शब्दः अस्ति, तस्मात् तद्धितप्रत्ययस्य लुकि सति, क्षेत्रस्य (field) निर्देशः करणीयः अस्ति चेत् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः न भवति; परन्तु अन्यपदार्थस्य निर्देशः करणीयः चेत् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः अवश्यं भवति — इति अस्य सूत्रस्य आशयः । मूलतः <<द्विगोः>> [[4.1.21]] इत्यनेन ङीप्-प्रत्यये प्राप्ते; ततः <<अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि>> [[4.1.22]] इति तस्य निषेधे प्राप्ते ;तस्य क्षेत्रविषये नियमनार्थम् प्रकृसूत्रम् पाठितम् अस्ति । यथा —\n\n1. द्वे काण्डे प्रमाणम् अस्या क्षेत्रभक्तेः (The division of the field has the size of two kandas) अस्मिन् अर्थे <<संख्यापूर्वो द्विगुः>> [[2.1.52]] इत्यनेन द्विगुसमासे कृते; ततः काण्ड-शब्दात् <<प्रमाणे द्वयसज्दघ्नञ्मात्रचः>> [[5.2.37]] इत्यनेन मात्रच्-प्रत्यये कृते; तत्रैव विद्यमानेन इत्यनेन मात्रच्-प्रत्ययस्य लुक् भवति । एतादृशे लुकि कृते; स्त्रीत्वं द्योतयितुम् <<द्विगोः>> [[4.1.21]] इत्यनेन प्राप्तः ङीप्-प्रत्ययः प्रकृतसूत्रेण निषिध्यते; यतः अत्र क्षेत्रभक्तेः निर्देशः कृतः अस्ति । अतः द्वि + काण्ड इत्यत्र <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्-प्रत्यये कृते द्वि + काण्ड + टाप् → द्विकाण्डा इति शब्दः सिद्ध्यति । यथा, द्विकाण्डा क्षेत्रभक्तिः । एवमेव, त्रीणि काण्डानि प्रमाणम् अस्याः क्षेत्रभक्तेः = त्रिकाण्डा क्षेत्रभक्तिः ।\n2. यत्र क्षेत्रस्य निर्देशः न विद्यते; तत्र तु ङीप्-प्रत्ययः अवश्यं भवति । यथा, द्वे काण्डे प्रमाणम् अस्याः रज्ज्वाः अस्मिन् अर्थे <<संख्यापूर्वो द्विगुः>> [[2.1.52]] इत्यनेन द्विगुसमासे कृते; ततः काण्ड-शब्दात् <<प्रमाणे द्वयसज्दघ्नञ्मात्रचः>> [[5.2.37]] इत्यनेन मात्रच्-प्रत्यये कृते; तत्रैव विद्यमानेन इत्यनेन मात्रच्-प्रत्ययस्य लुक् भवति । एतादृशे लुकि कृते; स्त्रीत्वं द्योतयितुम् <<द्विगोः>> [[4.1.21]] इत्यनेन प्राप्तः ङीप्-प्रत्ययः यद्यपि <<अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि>> [[4.1.22]] इत्यनेन निषिध्यते; तथापि सः निषेधः प्रकृतसूत्रेण नियम्यते; अतः क्षेत्रभिन्नेषु अर्थेषु ङीप्-प्रत्ययस्य लुक् नैव भवति । अतएव अत्र स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः अवश्यं भवति, येन द्वि + काण्ड + ङीप् → द्विकाण्डी रज्जुः इति प्रयोगः सिद्ध्यति । \n
    \nकाण्ड शब्दः भूमेः कस्यचन विभागस्य निर्देशं करोति (a unit of land इत्याशयः) । अत्र उदाहरणेषु अयं शब्दः यद्यपि 'प्रमाणम्' (some kind of measurement) अस्मिन् अर्थे प्रयुक्तः अस्ति, तथापि सः परिमाणवाचकः (standard unit of measurement) नास्ति । अतएव काशिकाकारः — काण्डशब्दस्य अपरिमाणवाचित्वात्... इति आदौ निर्देशं कृत्वा अन्ते प्रमाणविशेषः काण्डम् इति स्पष्टी करोति ।" }, "41024": { "sa": "यस्य तद्धितार्थद्विगुसमासस्य उत्तरपदम् 'पुरुष' इति प्रमाणवाचकः शब्दः अस्ति, तस्मात् तद्धितप्रत्ययस्य लुकि कृते स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः विकल्पेन निषिध्यते ।", "sd": "<<स्त्रियाम्>> [[4.1.3]] इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु अपरः ङीप् प्रत्ययः प्रकृतसूत्रेण निषिध्यते । यस्मिन् तद्धितार्थद्विगुसमासे उत्तरपदरूपेण पुरुषः इति शब्दः प्रमाणम् (unit of measurement) अस्मिन् अर्थे प्रयुक्तः अस्ति, तत्र तद्धितप्रत्ययस्य लुकि सति, स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः विकल्पेन निषिध्यते — इति अस्य सूत्रस्य आशयः । मूलतः <<द्विगोः>> [[4.1.21]] इत्यनेन ङीप्-प्रत्यये प्राप्ते; ततः <<अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि>> [[4.1.22]] इति तस्य नित्यं निषेधे प्राप्ते ; तस्य वैकल्पिकविधानार्थम् प्रकृसूत्रम् पाठितम् अस्ति । यथा, द्वौ पुरुषौ प्रमाणम् अस्याः इत्यत्र आदौ <<संख्यापूर्वो द्विगुः>> [[2.1.52]] इति द्विगुसमासे कृते; ततः <<प्रमाणे द्वयसज्दघ्नञ्मात्रचः>> [[5.2.37]] इत्यनेन मात्रच्-प्रत्यये कृते; तत्रैव विद्यमानेन इत्यनेन मात्रच्-प्रत्ययस्य लुक् भवति । एतादृशे लुकि कृते; स्त्रीत्वं द्योतयितुम् <<द्विगोः>> [[4.1.21]] इत्यनेन प्राप्तस्य ङीप्-प्रत्ययस्य <<अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि>> [[4.1.22]] इत्यनेन नित्यं निषेधे प्राप्ते प्रकृतसूत्रेण सः विकल्प्यते । अतः ङीप्-प्रत्यये कृते द्वि + पुरुष + ङीप् → द्विपुरुषी तथा च ङीप्-प्रत्ययस्य अभावे <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्-प्रत्यये कृते द्वि + पुरुष + टाप् → द्विपुरुषा इति उभयथा प्रयोगः सिद्ध्यति । \nप्रमाणम् अस्मिन् अर्थे प्रयुक्तः पुरुष इति शब्दः परिमाणम् (standard unit of measurement) नास्ति, अतः तस्य विषये <<अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि>> [[4.1.22]] इति सूत्रम् अवश्यम् प्राप्नोति; तस्य वैकल्पिक-निषेधं कृत्वा ङीप्-प्रत्ययस्य पुनर्विधानार्थम् इदं सूत्रं रचितं वर्तते ।\nदलकृत्यम्\n1. प्रमाणे इति किमर्थम् ? यत्र पुरुष शब्दः प्रमाणभिन्ने अर्थे प्रयुक्तः अस्ति, तत्र प्रकृतसूत्रम् नैव प्रयुज्यते । यथा, द्वाभ्यां पुरुषाभ्यां क्रीता इत्यत्र आदौ <<संख्यापूर्वो द्विगुः>> [[2.1.52]] इत्यनेन द्विगुसमासे कृते ततः <<तेन क्रीतम्>> [[5.1.37]] इत्यस्मिन् अर्थे <<आर्हादगोपुच्छसंख्यापरिमाणाट्ठक्>> [[5.1.19]] इति सूत्रेण ठक्-प्रत्ययः भवति, तस्य च <<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> [[5.1.28]] इत्यनेन लुक् विधीयते । एतादृशे लुकि कृते अग्रे स्त्रीत्वं द्योतयितुम् <<द्विगुश्च>> [[2.1.23]] इति ङीप्-प्रत्यये प्राप्ते; <<अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि>> [[4.1.22]] इति सूत्रेण सः अवश्यः एव निषिध्यते । अत्र प्रकृतसूत्रेण विकल्पः न प्राप्नोति यतः पुरुष इति शब्दः अस्मिन् उदाहरणे प्रमाणम् इत्यर्थे नैव प्रयुक्तः वर्तते । अतः अत्र <<अजाद्यतष्टाप्>> [[4.1.4]] इत्यनेन टाप्-प्रत्यये कृते द्वि + पुरुष + टाप् → द्विपुरुषा इति शब्द सिद्ध्यति ।\n2. तद्धितार्थद्विगुसमासे इति किमर्थम्? यत्र पुरुष इति शब्दः 'प्रमाणम्' अस्मिन् अर्थे समाहारद्वन्द्वे प्रयुज्यते; तत्र <<अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि>> [[4.1.22]] इति ङीप्-प्रत्ययस्य निषेधः एव न प्राप्नोति; अतश्च तत्र प्रकृतसूत्रस्य प्रयोगः अपि नैव सम्भवति । यथा, द्वयोः पुरुषयोः समाहारः इत्यत्र द्वि + पुरुष इति समाहारद्विगुसमासे कृते तत्र इति वार्त्तिकेन नित्यं स्त्रीलिङ्गमेव इष्यते । अस्यां स्थितौ अत्र <<द्विगोः>> [[4.1.21]] इत्यनेन ङीप्-प्रत्ययः अवश्यं भवति, येन द्वि + पुरुष + ङीप् → द्विपुरुषी इति शब्दः सिद्ध्यति । \n" }, "41025": { "sa": "यस्य बहुव्रीहिसमासस्य उत्तरपदम् ऊधस् इति शब्दः अस्ति; तस्मात् स्त्रीत्वं द्योतयितुम् ङीष्-प्रत्ययः विधीयते । ", "sd": "<<स्त्रियाम्>> [[4.1.3]] इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु अपरः ङीष् प्रत्ययः प्रकृतसूत्रेण पाठ्यते । यस्य बहुव्रीहिसमासस्य उत्तरपदम् ऊधस् (क्षीरशयः, udder) इति शब्दः विद्यते; तत्र <<ऊधसोऽनङ्>> [[5.4.131]] इत्यनेन ऊधस्-शब्दस्य अनङ् इति आदेशे कृते; तस्मात् स्त्रीत्वं द्योतयितुम् <<डाबुभाभ्यामन्यतरस्याम्>> [[4.1.13]] इत्यनेन विकल्पेन डाप्-प्रत्यये प्राप्ते तद्बाधित्वा प्रकृतसूत्रेण ङीष् प्रत्ययः विधीयते। यथा, घटः इव उधः अस्याः सा इत्यत्र एतादृशं रूपं सिद्ध्यति —\n\nघटः इव ऊधः अस्याः सा\n→ घट + ऊधस् [<<अनेकमन्यपदार्थे>> [[2.2.24]] इति बहुव्रीहिसमासः]\n→ घट + ऊध + अनङ् + ङीष् [<<ऊधसोऽनङ्>> [[5.4.131]] इति अनङ् (अन्) आदेशः । <<ङिच्च>> [[1.1.53]] इति अन्त्यादेशः । ततः स्त्रीत्वं द्योतयितुम् <<बहुव्रीहेरूधसो ङीष्>> [[4.1.25]] इति ङीष्-प्रत्ययः]\n→ घट + ऊधन् + ई [<<अतो गुणे>> [[6.1.97]] इति पररूपैकादेशः]\n→ घट + ऊध्न् + ई [ई-प्रत्यये परे ऊधन्-शब्दस्य भसंज्ञा, अतः <<अल्लोपोऽनः>> [[6.4.134]] इति अकारलोपः]\n→ घटोध्नी [<<आद्गुणः>> [[6.1.87]] इति गुणैकादेशः । ]\n\nघटः एव ऊधः अस्याः सा = घटोध्नी । एवमेव, कुण्डम् इव ऊधः अस्याः सा = कुण्डोध्नी इत्यपि रूपम् अननैव प्रकारेण सिद्ध्यति ।\n\n\n1. अत्र उपरिनिर्दिष्टायां प्रक्रियायाम् आदौ <<अतो गुणे>> [[6.1.97]] इति पररूपैकादेशः भवति; ततः <<अल्लोपोऽनः>> [[6.4.134]] इति अकारलोपः क्रियते । यद्यपि<<अल्लोपोऽनः>> [[6.4.134]] इति अङ्गकार्यम् अस्ति; तथापि गुणैकादेशस्य अपेक्षया तद् बहिरङ्गम् अस्ति; अतः <ऽअसिद्धम् बहिरङ्गमन्तरङ्गेऽ> इत्यनया परिभाषया आदौ अन्तरङ्गः पररूपैकादेशः एव भवति ।\n2. अत्र प्रक्रियायाम् अन्-इत्यस्य अकारः लुप्यते, अतः अत्र (अग्रे वक्ष्यमाणेन) <<अन उपधालोपिनोन्यतरस्याम्>> [[4.1.28]] इत्यनेन ङीप्-प्रत्ययः अपि विकल्पेन प्राप्नोति; परन्तु प्रकृतसूत्रेण तस्य अपि बाधः क्रियते । इत्युक्ते, यस्मिन् बहुव्रीहिसमासे ऊधस्-शब्दः उत्तरपदरूपेण विद्यते तत्र स्त्रीत्वं द्योतुयितुम् केवलम् ङीष्-प्रत्ययःएव विधीयते ।\nदलकृत्यम्\n1. बहुव्रीहेः इति किमर्थम् ? तत्पुरुषसमासस्य विषये इदं सूत्रं नैव प्रवर्तते । यथा, प्राप्तं ऊधः सा इत्यत्र <<प्राप्तापन्ने च द्वितीयया>> [[2.2.4]] इत्यनेन तत्पुरुषसमासे कृते, ततः <<अजाद्यतष्टाप्>> [[4.1.4]] इत्यनेन टाप्-प्रत्ययः एव विधीयते, येन प्राप्तोधा इति शब्दः सिद्ध्यति । \nबाध्यबाधकभावः\nयस्य बहुव्रीहिसमासे उत्तरपदम् ऊधस् शब्दः अस्ति तस्य पूर्वपदस्य प्रारम्भे सङख्यावाचकशब्दः अव्ययसंज्ञकशब्दः वा वर्तते चेत् प्रकृतसूत्रेण प्राप्तं ङीष्-प्रत्ययं बाधित्वा <<संख्याव्ययादेर्ङीप्>> [[4.1.26]] इत्यनेन ङीप्-प्रत्ययः विधीयते । वस्तुतः ङीप्-प्रत्ययेन अपि ङीष्-प्रत्ययसदृशम् एव रूपं भवति, परन्तु तत्र स्वरस्य उच्चारणे भेदः जायते अतः अयम् अपवादः पृथग् रूपेण उक्तः अस्ति । \nङीष्-प्रत्यये इत्संज्ञकवर्णानां प्रयोजनम्\nङीष्-प्रत्यये ङकारपकारयोः इत्संज्ञा भवति । तत्र —\n\n1. इत्संज्ञकः ङकारः सामान्यग्रहणार्थः (to capture ङीप् / ङीष् / ङीन् by a common prefix) स्थापितः अस्ति । <<ङ्याप्प्रातिपदिकात्>> [[4.1.1]] इत्यस्मिन् सूत्रे विद्यमानेन 'ङी' इत्यनेन ङीप्-ङीष्-ङीन्-प्रत्ययानाम् एकत्ररूपेण ग्रहणं भवेत्, इति अत्र प्रयोजनम् ।\n2. इत्संज्ञकः षकारः सामान्यग्रहणविघातार्थः(to distinguish ङीष् from ङीप् and ङीन्) स्थापितः अस्ति । केवलम् 'ङी' इत्युच्यमाने <<ङ्याप्प्रातिपदिकात्>> [[4.1.1]] इत्यत्र; तथा च <<ङ्यापोः संज्ञाछन्दसोर्बहुलम्>> [[6.3.63]] इत्यत्रापि <ऽतदनुबन्धके न अतदनुबन्धकस्यऽ> अनया परिभाषया ङीप्-प्रत्ययस्य ङीन्-प्रत्ययस्य च इष्टं ग्रहणं नैव स्यात्, अतः अत्र (व्यर्थः) षकारः अनुबन्धरूपेण स्थापितः विद्यते ।\n" }, "41026": { "sa": "यस्य बहुव्रीहिसमासस्य उत्तरपदम् 'ऊधस्' इति शब्दः तथा च पूर्वपदस्य प्रारम्भः सङ्ख्यावाचकशब्देन, अव्ययवाचकशब्देन वा भवति, तस्मात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः विधीयते । ", "sd": "<<स्त्रियाम्>> [[4.1.3]] इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु अपरः ङीप् प्रत्ययः प्रकृतसूत्रेण पाठ्यते । यस्य बहुव्रीहिसमासस्य उत्तरपदम् ऊधस् (क्षीरशयः, udder) इति शब्दः विद्यते तथा च पूर्वपदस्य प्रारम्भः सङ्ख्यावाचकशब्देन, अव्ययवाचकशब्देन वा भवति, तत्र स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति — इति अस्य सूत्रस्य अर्थः । अत्र <<बहुव्रीहेरूधसो ङीष्>> [[4.1.25]] इत्यनेन प्राप्तं ङीष्-प्रत्ययं बाधित्वा ङीप्-प्रत्ययविधानार्थम् इदं सूत्रं रचितम् अस्ति । उदाहरणानि एतानि —\n1. द्वे ऊधसी यस्याः अत्र द्व्यूध्नी इति अन्तिमम् रूपम् एतादृशं सिद्ध्यति —\n\nद्वे ऊधसी अस्याः सा\n→ द्वि + ऊधस् [<<अनेकमन्यपदार्थे>> [[2.2.24]] इति बहुव्रीहिसमासः]\n→ द्वि + ऊध + अनङ् + ङीप् [<<ऊधसोऽनङ्>> [[5.4.131]] इति अनङ् (अन्) आदेशः । <<ङिच्च>> [[1.1.53]] इति अन्त्यादेशः । ततः स्त्रीत्वं द्योतयितुम् <<बहुव्रीहेरूधसो ङीष्>> [[4.1.25]] इति ङीष्-प्रत्यये प्राप्ते; तद्बाधित्वा <<संख्याव्ययादेर्ङीप्>> [[4.1.26]] इति ङीप्-प्रत्ययः]\n→ द्वि + ऊधन् + ई [<<अतो गुणे>> [[6.1.97]] इति पररूपैकादेशः]\n→ द्वि + ऊध्न् + ई [ई-प्रत्यये परे ऊधन्-शब्दस्य भसंज्ञा, अतः <<अल्लोपोऽनः>> [[6.4.134]] इति अकारलोपः]\n→ द्व्यूध्नी [<<इको यणचि>> [[6.1.77]] इति यणादेशः ।]\n\n2. द्विविधे ऊधसी यस्याः अत्रापि पूर्वपदम् सङ्ख्यावाचकशब्देन (द्वि-इत्यनेन) प्रारभ्यते; अतः अत्रापि प्रकृतसूत्रेण ङीप्-प्रत्ययः एव भवति, येन द्विविधोध्नी इति शब्दः सिद्ध्यति —\n\nद्विविधे ऊधसी अस्याः सा\n→ द्विविध + ऊधस् [<<अनेकमन्यपदार्थे>> [[2.2.24]] इति बहुव्रीहिसमासः]\n→ द्विविध + ऊध + अनङ् + ङीप् [<<ऊधसोऽनङ्>> [[5.4.131]] इति अनङ् (अन्) आदेशः । <<ङिच्च>> [[1.1.53]] इति अन्त्यादेशः । ततः स्त्रीत्वं द्योतयितुम् <<बहुव्रीहेरूधसो ङीष्>> [[4.1.25]] इति ङीष्-प्रत्यये प्राप्ते; तद्बाधित्वा <<संख्याव्ययादेर्ङीप्>> [[4.1.26]] इति ङीप्-प्रत्ययः]\n→ द्विविध + ऊधन् + ई [<<अतो गुणे>> [[6.1.97]] इति पररूपैकादेशः]\n→ द्विविध + ऊध्न् + ई [ई-प्रत्यये परे ऊधन्-शब्दस्य भसंज्ञा, अतः <<अल्लोपोऽनः>> [[6.4.134]] इति अकारलोपः]\n→ द्विविधोध्नी [<<आद्गुणः>> [[6.1.87]] इति गुणैकादेशः ।]\n\n3. अतिगतम् ऊधः अस्याः इत्यत्र पूर्वपदम् 'अति' इति अव्ययसंज्ञकम् अस्ति, अतः अत्र प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति, येन अत्यूध्नी इति शब्दः सिद्ध्यति — \n\nअतिगतम् ऊधः अस्याः\n→ अति + ऊध [<<अनेकमन्यपदार्थे>> [[2.2.24]] इत्यत्र निर्दिष्टेन इति वार्त्तिकेन बहुव्रीहिसमासः विधीयते, तथा च एतादृशे समासे 'गत' इत्यस्य लोपः भवति ।\n→ अति + ऊध + अनङ् + ङीप् [<<ऊधसोऽनङ्>> [[5.4.131]] इति अनङ् (अन्) आदेशः । <<ङिच्च>> [[1.1.53]] इति अन्त्यादेशः । ततः स्त्रीत्वं द्योतयितुम् <<बहुव्रीहेरूधसो ङीष्>> [[4.1.25]] इति ङीष्-प्रत्यये प्राप्ते; तद्बाधित्वा <<संख्याव्ययादेर्ङीप्>> [[4.1.26]] इति ङीप्-प्रत्ययः]\n→ अति + ऊधन् + ई [<<अतो गुणे>> [[6.1.97]] इति पररूपैकादेशः]\n→ अति + ऊध्न् + ई [ई-प्रत्यये परे ऊधन्-शब्दस्य भसंज्ञा, अतः <<अल्लोपोऽनः>> [[6.4.134]] इति अकारलोपः]\n→ अत्यूध्नी [<<इको यणचि>> [[6.1.77]] इति यणादेशः ।]\n\n4. निर्गतम् ऊधः अस्याः इत्यत्र पूर्वपदम् 'निर्' इति अव्ययसंज्ञकम् अस्ति, अतः अत्र प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति, येन निरूध्नी इति शब्दः सिद्ध्यति — \n\nनिर्गतम् ऊधः अस्याः\n→ निर् + ऊध [<<अनेकमन्यपदार्थे>> [[2.2.24]] इत्यत्र निर्दिष्टेन इति वार्त्तिकेन बहुव्रीहिसमासः विधीयते, तथा च एतादृशे समासे 'गत' इत्यस्य लोपः भवति ।\n→ निर् + ऊध + अनङ् + ङीप् [<<ऊधसोऽनङ्>> [[5.4.131]] इति अनङ् (अन्) आदेशः । <<ङिच्च>> [[1.1.53]] इति अन्त्यादेशः । ततः स्त्रीत्वं द्योतयितुम् <<बहुव्रीहेरूधसो ङीष्>> [[4.1.25]] इति ङीष्-प्रत्यये प्राप्ते; तद्बाधित्वा <<संख्याव्ययादेर्ङीप्>> [[4.1.26]] इति ङीप्-प्रत्ययः]\n→ निर् + ऊधन् + ई [<<अतो गुणे>> [[6.1.97]] इति पररूपैकादेशः]\n→ निर् + ऊध्न् + ई [ई-प्रत्यये परे ऊधन्-शब्दस्य भसंज्ञा, अतः <<अल्लोपोऽनः>> [[6.4.134]] इति अकारलोपः]\n→ निरूध्नी\n\nसूत्रे आदिग्रहणस्य प्रयोजनम्\nप्रकृतसूत्रे विद्यमानः आदि इति शब्दः सङ्ख्या तथा च अव्ययम् इति उभाभ्यां सह अन्वेति । इत्युक्ते, यस्य बहुव्रीहिसमासस्य पूर्वपदम् सङ्ख्यादिः / अव्ययादिः वा अस्ति (beings with a सङ्ख्या or an अव्यय) तस्य विषये इदं सूत्रं प्रसज्यते । अतएव द्विविध, त्रिविध एतादृशाः शब्दाः पूर्वपदरूपेण सन्ति चेदपि प्रकृतसूत्रस्य प्रयोगः सम्भवति । यदि अस्मिन् सूत्रे आदि इति शब्दः न भवेत्, तर्हि तत्र केवलं तादृशस्य एव बहुव्रीहि समासस्य ग्रहणं स्यात् यत्र साक्षात् सङ्ख्यावाचकः अव्ययवाचकः शब्दः एव पूर्वपदरूपेण विद्येत । अतएव अत्र न्यासकारः स्पष्टी करोति — \n\nयदि आदिग्रहणं न क्रियेत, तदा संख्याव्ययाभ्याम् इति पञ्चमीनिर्देशात् संख्याया अनन्तरः य ऊधःशब्दः तदन्तादेव स्यात्। यत्र तु व्यवधानं तत्र तु न स्यात्, आदिग्रहणात्तु तत्रापि भवति । — न्यासः\n\nयद्यपि आदिग्रहणम् अव्ययम् इति शब्देन सह अपि अन्वेति, तथापि तस्य उदाहरणानि व्याख्यानेषु नैव दृश्यन्ते । तादृशानि उदाहरणानि भाषायां न हि भवन्ति इत्येव तस्य कारणम् ।\nबाध्यबाधकभावः\nयस्य बहुव्रीहिसमास्य उत्तरपदम् ऊधस् इति शब्दः अस्ति, तस्य विषये स्त्रीत्वं द्योतयितुम् वस्तुतः <<बहुव्रीहेरूधसो ङीष्>> [[4.1.25]] इत्यनेन ङीष्-प्रत्ययः विधीयते । परन्तु यदि अस्य समासस्य पूर्वपदम् सङ्ख्यादिः, अव्ययादिः वा शब्दः अस्ति; तर्हि तं ङीष्-प्रत्ययं बाधित्वा प्रकृतसूत्रेण तत्र ङीप्-प्रत्ययः एव भवति । \nप्रकृतसूत्रस्य उदाहरणेषु अन्-इत्यस्य अकारः लुप्यते, अतः अत्र (अग्रे वक्ष्यमाणेन) <<अन उपधालोपिनोन्यतरस्याम्>> [[4.1.28]] इत्यनेन ङीप्-प्रत्ययः वस्तुतः विकल्पेन प्राप्नोति; परन्तु प्रकृतसूत्रेण कृतं तस्य नित्यविधानम् एतादृशं वैकल्पिकं विधानम् अपि बाधते; अतः प्रकृतसूत्रेण निर्दिष्टेषु स्थलेषु नित्यः एव ङीप्-प्रत्ययः भवति ।\n\nङीप्/ङीष्-प्रत्यययोः भेदः\nङीप्-प्रत्ययस्य योजनेन यद् रूपं सिद्ध्यति, तदेव रूपम् ङीष्-प्रत्ययस्य योजनेन अपि सिद्ध्यति । परन्तु तत्र द्वयोः अपि प्रत्यययोः उच्चारणे भेदः विद्यते । ङीप्-प्रत्ययस्य ईकारः <<अनुदात्तौ सुप्पितौ>> [[3.1.4]] इत्यनेन अनुदात्तसंज्ञकः अस्ति । ङीष्-प्रत्ययस्य ईकारः तु <<आद्युदात्तश्च>> [[3.1.3]] इत्यनेन उदात्तसंज्ञकः अस्ति । एतादृशं स्वरभेदम् दर्शयितुम् एव आचार्येण एतौ द्वौ पृथक्-प्रत्ययौ कृतौ स्तः ।" }, "41027": { "sa": "यस्य बहुव्रीहिसमासस्य उत्तरपदम् 'दामन्' उत 'हायन', तथा च यस्य पूर्वपदस्य प्रारम्भः सङ्ख्यावाचकशब्देन भवति, तस्मात् समस्तपदात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति ।", "sd": "<<स्त्रियाम्>> [[4.1.3]] इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु अपरः ङीप् प्रत्ययः प्रकृतसूत्रेण पाठ्यते । यस्य बहुव्रीहिसमासस्य उत्तरपदम् दामन् (string) अथवा हायन (वर्षम्) इति अस्ति तथा च यस्य पूर्वपदस्य प्रारम्भः सङ्ख्यावाचकशब्देन भवति, तस्मात् समस्तपदात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति — इति अस्य सूत्रस्य अर्थः । क्रमेण उदाहरणे एतादृशे —\n1. दामन्-शब्दान्त-सङ्ख्यादि-बहुव्रीहिसमासः —\nद्वे दाम्नी अस्याः इत्यत्र द्वि + दामन् इति बहुव्रीहिसमासे कृते स्त्रीत्वं द्योतयितुम् <<डाबुभाभ्यामन्यतरस्याम्>> [[4.1.13]] इत्यनेन वैकल्पिके डाप्-प्रत्यये प्राप्ते; तथा च <<अन उपधालोपिनोन्यतरस्याम्>> [[4.1.28]] इत्यनेन वैकल्पिके ङीप्-प्रत्यये प्राप्ते, द्वौ अपि बाधित्वा प्रकृतसूत्रेण नित्यं ङीप्-प्रत्ययस्य विधानं भवति, येन द्विदाम्नी इति शब्दः सिद्ध्यति । प्रक्रिया इयम् —\n\nद्वे दाम्नी अस्याः धेनोः\n→ द्वि + दामन् + ङीप् [<<अनेकमन्यपदार्थे>> [[2.2.24]] इति बहुव्रीहिसमासः । तत्र स्त्रीत्वं द्योतयितुम् <<दामहायनान्ताच्च>> [[4.1.27]] इत्यनेन ङीप्-प्रत्ययः भवति]\n→ द्वि + दाम्न् + ई [<<अल्लोपोऽनः>> [[6.4.134]] इति अकारलोपः]।\n→ द्विदाम्नी\n\nप्रकृतसूत्रे सङ्ख्यादिः इति पदम् अनुवर्तते, अतः द्विविधे दाम्नी अस्याः = द्विविध + दामन् + ङीप् → द्विविधदाम्नी इत्यपि प्रयोगः सिद्ध्यति । \n2. हायन-शब्दान्त-सङ्ख्यादि-बहुव्रीहिसमासः —\nद्वे हायनी अस्याः इत्यत्र द्वि + हायन इति बहुव्रीहिसमासे कृते स्त्रीत्वं द्योतयितुम् <<अजाद्यतष्टाप्>> [[4.1.4]] इत्यनेन वैकल्पिके टाप्-प्रत्यये प्राप्ते तद्बाधित्वा प्रकृतसूत्रेण नित्यं ङीप्-प्रत्ययः विधीयते, येन द्विहायनी इति शब्दः सिद्ध्यति । प्रक्रिया इयम् —\n\nद्वे हायने अस्याः बालिकायाः (a girl who is two years old)\n→ द्वि + हायन + ङीप् [<<अनेकमन्यपदार्थे>> [[2.2.24]] इति बहुव्रीहिसमासः । तत्र स्त्रीत्वं द्योतयितुम् <<दामहायनान्ताच्च>> [[4.1.27]] इत्यनेन ङीप्-प्रत्ययः भवति]\n→ द्वि + हायन् + ई [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]।\n→ द्विहायनी \n\n\nहायन-शब्दस्य सन्दर्भे अत्र व्याख्यानेषु द्वे वार्त्तिके अपि पाठिते स्तः —\n1. — यस्य बहुव्रीहिसमासस्य उत्तरपदम् हायन इति शब्दः अस्ति; तथा च पूर्वपदम् त्रि अथवा चतुर् इति शब्दः अस्ति; तस्य विषये समस्तपदनिर्माणसमये हायन-शब्दस्य नकारस्य णत्वं भवति — इति अस्य वार्त्तिकस्य अर्थः । यथा, त्रीणि हायनानि अस्या: बालिकायाः इत्यत्र त्रि + हायन + ङीप् → त्रिहायणी इति णत्वे कृते अन्तिमं रूपं सिद्ध्यति । एवमेव, चत्वारि हायनानि अस्या: बालिकायाः इत्यत्रापि चतुर् + हायन + ङीप् → चतुर्हायणी इति णत्वे कृते अन्तिमं रूपं सिद्ध्यति । \n2. — यत्र हायन इति शब्दः वयः (age) अस्मिन् अर्थे प्रयुज्यते; तत्रैव प्रकृतसूत्रस्य प्रयोगः (तदनुषङ्गेन णत्वस्य च विधानम्) भवति — इति अस्य वार्त्तिकस्य अर्थः । यदि हायन-शब्दः वयोवाचिनि अर्थे नैव प्रयुक्तः विद्यते; तर्हि प्रकृतसूत्रं तत्र नैव प्रयोक्तव्यम्, इति अत्र आशयः अस्ति । यथा, त्रीणि हायनानि अस्या: शालायाः इत्यत्र हायन-शब्देन केवलं वर्षस्य निर्देशः भवति, वयसः न — यतः वयः केवलम् प्राणिनां सम्भवति, न हि शालादिकानां पदार्थानाम् । अस्यां स्थितौ त्रि + हायन इति स्थिते अत्र न हि प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति; न च णत्वम् अपि विधीयते । अतः अत्र <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्-प्रत्यये कृते त्रिहायना (शाला) इत्येव शब्दः सिद्ध्यति ।\nपूर्वसूत्रात् केवलम् <qt>सङ्ख्यादेः</qt> इत्येव अत्र अनुवर्तते, न हि अव्ययादेः इति\n पूर्वसूत्रे विद्यमानात् संख्याव्ययादेः इत्यस्मात् शब्दात् अत्र केवलम् सङ्ख्यादेः इत्येव अंशः अनुवर्तते; अव्ययादेः इत्यंशः अत्र नैव स्वीक्रियते । अतएव, उत्क्रान्तं दाम यस्याः अस्मिन् अर्थे उत् + दामन् इत्यत्र इति वार्त्तिकेन बहुव्रीहिसमासे कृते तत्र स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः नैव भवति; अपितु <<डाबुभाभ्यामन्यतरस्याम्>> [[4.1.13]] इति वैकल्पिकः डाप्, तदभावपक्षे <<अन उपधालोपिनोन्यतरस्याम्>> [[4.1.28]] इति वैकल्पिकः ङीप्, तदभावपक्षे च स्त्रीप्रत्ययस्यैव अभावः — इति त्रिभिः पद्धतिभिः यथासङ्ख्यम् उद्दामा, उद्दाम्नी तथा च उद्दामन् इति स्त्रीलिङ्गशब्दाः सिद्ध्यन्ति । " }, "41028": { "sa": "यस्य बहुव्रीहिसमासस्य अन्ते 'अन्' इति विद्यते, तस्मात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्यये कृते यदि अन्-इत्यस्य अकारलोपः सम्भवति, तर्हि तस्मात् समस्तपदात् ङीप्-प्रत्ययः विकल्पेन भवति ।", "sd": "<<स्त्रियाम्>> [[4.1.3]] इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु ङीप् इति अन्यतमः प्रत्ययः । अस्य प्रत्ययस्य वैकल्पिकविधानम् प्रकृतसूत्रेण पाठितः अस्ति । यदि कस्यचित् बहुव्रीहिसमासस्य अन्ते अन् इति शब्दः विद्यते, तर्हि तस्मात् स्त्रीत्वं द्योतयितुम् <<ऋन्नेभ्यो ङीप्>> [[4.1.5]] इत्यनेन ङीप्-प्रत्यये प्राप्ते; <<अनो बहुव्रीहेः>> [[4.1.12]] इत्यनेन वस्तुतः सः निषिध्यते । परन्तु, एतादृशे ङीप्-प्रत्यये (कथञ्चित्) कृते यदि प्रक्रियायाम् अन्-इत्यस्य अकारस्य लोपः सम्भवति, तर्हि तस्मात् बहुव्रीहिसमस्तपदात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययस्य निषेधं विकल्पेन बाधित्वा, ङीप्-प्रत्ययः अवश्यं विधीयते, तदनुषङ्गेन च अकारलोपं कृत्वा अन्तिमं रूपं सिद्ध्यति — इति अस्य सूत्रस्य अर्थः । यथा, बहवः राजानः अस्याः इत्यत्र अन्तिमम् रूपम् एतादृशं सिद्ध्यति —\n\nबहवः राजानः अस्याः [<<अनेकमन्यपदार्थे>> [[2.2.24]] इति बहुव्रीहिसमासः]\n→ बहु + राजन् + ङीप् [अन्नन्त-बहुव्रीहिसमस्तपदात् ङीप्-प्रत्यये कृते अग्रिमसोपाने अकारलोपः सम्भवति, अतः <<अन उपधालोपिनोन्यतरस्याम्>> [[4.1.28]] इत्यनेन अत्र ङीप्-प्रत्ययः अवश्यं क्रियते]\n→ बहु + राज् न् + ई [<<अल्लोपोऽनः>> [[6.4.134]] इति भसंज्ञकस्य नकारान्तशब्दस्य उपधायां विद्यमानस्य अकारस्य लोपः]\n→ बहु + राज् ञ् + ई [<<स्तोः श्चुना श्चुः>> [[8.4.40]] इति श्चुत्वम्]\n→ बहुराज्ञी\n\nपक्षे, प्रकृतसूत्रस्य प्रयोगं विना, <<अनो बहुव्रीहेः>> [[4.1.12]] इत्यनेन ङीप्-प्रत्ययस्य निषेधे कृते बहुराजन् इत्यपि प्रातिपदिकं स्त्रीलिङ्गे सिद्ध्यति । अपि च, <<डाबुभाभ्यामन्यतरस्याम्>> [[4.1.13]] इत्यनेन विकल्पेन डाप्-प्रत्यये कृते बहुराजा इत्यपि प्रातिपदिकं सिद्ध्यति ।\n\nएवमेव, बहवः तक्ष्णः यस्याः इत्यत्रापि <<अल्लोपोऽनः>> [[6.4.134]] इत्यनेन जनिष्यमाणम् उपधालोपं दृष्ट्वा ङीप्-प्रत्ययस्य वैकल्पिकविधानम् अवश्यं भवति, येन बहुतक्ष्णी इति स्त्रीलिङ्गवाची शब्दः सिद्ध्यति । पक्षे ङीप्-प्रत्ययस्य निषेधे जाते बहुतक्ष्णन्, तथा च पक्षे डाप्-प्रत्यये कृते बहुतक्ष्णा इत्यपि प्रातिपदिके सिद्ध्यतः ।\n\nप्रकृतसूत्रे विद्यमानः उपधालोपिन् इति शब्दः उपधालोपः अस्य सम्भवति इत्यस्मिन् अर्थे प्रयुक्तः अस्ति, न हि उपधालोपः यस्य जातः इत्यस्मिन् अर्थे । अतः ङीप्-प्रत्यये कृते यस्य विषये उपधालोपः सम्भवति, तस्य अन्नन्त-बहुव्रीहिसमासस्य अस्मिन् सूत्रे ग्रहणं कृतम् ज्ञेयम् ।\nदलकृत्यम्\n1. अनः इति किमर्थम् ? यस्य बहुव्रीहिसमासस्य अन्ते 'अन्' इति नास्ति, तस्य विषये उपधालोपस्य सम्भवे अपि प्रकृतसूत्रं नैव प्रवर्तते, अतः <<ऋन्नेभ्यो ङीप्>> [[4.1.5]] इत्यनेन ङीप्-प्रत्ययः नित्यमेव भवति । यथा, बहवः मत्स्याः यस्या इत्यत्र बहु + मत्स्य + ङीप् = बहुमत्स्यन् इति प्रातिपदिकं सिद्ध्यति । बहुमत्स्यानः ब्राह्मण्यः इति वाक्यप्रयोगः । \n2. उपधालोपिनः इति किमर्थम्? यस्य अन्नन्त-बहुव्रीहिसमासस्य विषये ङीप्-प्रत्यये कृते उपधालोपः नैव सम्भवति, तस्य विषये प्रकृतसूत्रस्य प्रसक्तिः नास्ति, अतः तस्य विषये <<अनो बहुव्रीहेः>> [[4.1.12]] इत्यनेन ङीप्-प्रत्ययः अवश्यं प्रतिषिध्यते । यथा, बहवः यज्वानः यस्याः सा इत्यत्र ङीप्-प्रत्यये कृते अपि <<अल्लोपोऽनः>> [[6.4.134]] इत्यनेन प्राप्तः उपधालोपः <<न संयोगाद्वमन्तात्>> [[6.4.137]] इत्यनेन निषिध्यते, अतः अत्र ङीप्-प्रत्ययः नैव भवति, किञ्च अन्ते बहुयज्वन् इत्येव प्रातिपदिकं सिद्ध्यति । बहुयज्वानः ब्राह्मण्यः इति वाक्यप्रयोगः । \n3. अन्यतरस्याम् इति किमर्थम् ? प्रकृतसूत्रेण विहितः ङीप्-प्रत्ययः केवलं विकल्पेनैव भवति, ङीप्-प्रत्ययं विना अपि अवश्यं रूपं सम्भवति । यथा, बहवः राजानः अस्याः सा इत्यत्र ङीप्-प्रत्यये कृते बहुराज्ञी तथा च ङीप्-प्रत्ययं विना बहुराजन् इति द्वे अपि प्रातिपदिके भवतः । पक्षे <<डाबुभाभ्यामन्यतरस्याम्>> [[4.1.13]] इत्यनेन विकल्पेन डाप्-प्रत्यये कृते बहुराजा इत्यपि प्रातिपदिकं सिद्ध्यति ।\n" }, "41029": { "sa": "यस्य बहुव्रीहिसमासस्य अन्ते 'अन्' इति विद्यते, तस्मात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्यये कृते यदि अन्-इत्यस्य अकारलोपः सम्भवति, तर्हि तस्मात् समस्तपदात् संज्ञानिर्देशे कर्तव्ये; वेदेषु वा ङीप्-प्रत्ययः नित्यं भवति ।", "sd": "<<स्त्रियाम्>> [[4.1.3]] इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु ङीप् इति अन्यतमः प्रत्ययः अनेन सूत्रेण दीयते । यदि कस्यचित् बहुव्रीहिसमासस्य अन्ते अन् इति शब्दः विद्यते, तथा च तस्मात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्यये कृते यदि प्रक्रियायाम् अन्-इत्यस्य अकारस्य लोपः सम्भवति, तर्हि तत्र संज्ञायाः निर्देशः करणीयः अस्ति चेत्; अथवा वैदिकप्रयोगः साधनीयः अस्ति चेत् ङीप्-प्रत्ययः नित्यं भवति — इति अस्य सूत्रस्य अर्थः । <<अन उपधालोपिनोन्यतरस्याम्>> [[4.1.28]] इति सूत्रेण प्राप्तं वैकल्पिकं ङीप्-प्रत्ययं बाधित्वा प्रकृतसूत्रेण ङीप्-प्रत्ययस्य नित्यं विधानं भवति । \nप्रकृतसूत्रस्य प्रयोगः केवलं द्वयोः स्थलयोः एव भवति — (1) संज्ञायाः निर्देशार्थम्, (2) वैदिकप्रयोगसिद्ध्यर्थम् । यथा —\n1. संज्ञानिर्देशे ङीप्‌ —\nसुराज्ञी इति कस्याश्चन नगर्याः नाम । अस्य सिद्धिः एतादृशी —\n\nशोभनाः राजानः यस्यां सा [<<अनेकमन्यपदार्थे>> [[2.2.24]] इति बहुव्रीहिसमासः]\n→ सु + राजन् + ङीप् [<<नित्यं संज्ञाछन्दसोः>> [[4.1.29]] इति संज्ञानिर्देशार्थम् ङीप्]\n→ सु + राज् न् + ई [<<अल्लोपोऽनः>> [[6.4.134]] इति अकारलोपः]\n→ सु + राज् ञ् + ई [<<स्तोः श्चुना श्चुः>> [[8.4.40]] इति श्चुत्वम्]\n→ सुराज्ञी\n\nएवमेव, अतिक्रान्ताः राजानः यस्यां नगर्यां सा = अतिराज्ञी इति अन्या संज्ञा अपि सिद्ध्यति ।\nसंज्ञाभिन्नेषु स्थलेषु तु <<अन उपधालोपिनोन्यतरस्याम्>> [[4.1.28]] इति ङीप्-प्रत्ययः विकल्पेन भवति । ङीप्-प्रत्ययस्य अभावपक्षे <<डाबुभाभ्यामन्यतरस्याम्>> [[4.1.13]] इति डाप्-प्रत्ययः अपि विकल्पेनैव भवति, अतः सुराज्ञी, सुराज्ञा, सुराजन् इति त्रयः शब्दाः सिद्ध्यन्ति ।\n2. वैदिकप्रयोगसिद्ध्यर्थं ङीप्‌ —\nपञ्चमूर्ध्नी इति कश्चन वैदिकप्रयोगः । अस्य सिद्धिः इयम् —\n\nपञ्च मूर्धानः यस्याः सा [<<अनेकमन्यपदार्थे>> [[2.2.24]] इति बहुव्रीहिसमासः]\n→ पञ्चन् + मूर्धन् + ङीप् [<<नित्यं संज्ञाछन्दसोः>> [[4.1.29]] इति संज्ञानिर्देशार्थम् ङीप्]\n→ पञ्चन् + मूर्ध् न् + ई [<<अल्लोपोऽनः>> [[6.4.134]] इति अकारलोपः]\n→ पञ्च + मूर्ध् न् + ई [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः]\n→ पञ्चमूर्ध्नी\n\nएवमेव, समानं मूर्धानः अस्याः सा = समानमूर्ध्नी इति अन्यः वैदिकप्रयोगः अपि सिद्ध्यति ।\nअवैदिकेषु संज्ञाभिन्नस्थलेषु तु <<अन उपधालोपिनोन्यतरस्याम्>> [[4.1.28]] इति ङीप्-प्रत्ययः विकल्पेन भवति । ङीप्-प्रत्ययस्य अभावपक्षे <<डाबुभाभ्यामन्यतरस्याम्>> [[4.1.13]] इति डाप्-प्रत्ययः अपि विकल्पेनैव भवति, अतः पञ्चमूर्ध्नी, पञ्चमूर्धा, पञ्चमूर्धन् इति त्रयः शब्दाः सिद्ध्यन्ति ।\n\n\n\n" }, "41030": { "sa": "केवल, मामक, भागधेय, पाप, अपर, समान, आर्यकृत, सुमङ्गल, भेषज - एतेभ्यः नवभ्यः प्रातिपदिकेभ्यः संज्ञानिर्देशार्थम्, वैदिकप्रयोगसिद्ध्यर्थं च स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति । ", "sd": "<<स्त्रियाम्>> [[4.1.3]] इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु ङीप् इति अन्यतमः प्रत्ययः अनेन सूत्रेण दीयते । केवल, मामक, भागधेय, पाप, अपर, समान, आर्यकृत, सुमङ्गल, भेषज — एतेभ्यः नवभ्यः प्रातिपदिकेभ्यः संज्ञानिर्देशार्थम्, वैदिकप्रयोगसिद्ध्यर्थं च स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति ‌— इति अस्य सूत्रस्य अर्थः । क्रमेण उदाहरणानि एतानि —\n1. केवल — केवल + ङीप् → केवली । ऋग्वेदे 10.173.6 इत्यत्र अथोत इन्द्रः केवली विशः इति प्रयोगः दृश्यते । भाषायाम् तु केवल + टाप् → केवला इति प्रयोक्तव्यम् । \n2. मामक — मामक + ङीप् → मामकी । पैप्पलादसंहितायां १.६.८ इत्यत्र मामकी तनूः इति प्रयोगः दृश्यते । प्रक्रिया इयम् —\n\nमम इयम्\n= अस्मद् + अण् + ङीप् [<<तस्येदम्>> [[4.3.120]] इति अण्, ततः स्त्रीत्वं द्योतयितुम् संज्ञाछन्दसोः विषये <<केवलमामकभागधेयपापापरसमानार्यकृत-सुमङ्गलभेषजाच्च>> [[4.1.30]] इति ङीप्]\n→ ममक + अ + ई [<<तवकममकावेकवचने>> [[4.3.3]] इति ममक-आदेशः]\n→ मामक + अ + ई [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ मामक् + अ + ई [<<यस्येति च>> [[6.4.148]] इति अण्-प्रत्यये परे अकारलोपः]\n→ मामक् + ० + ई [<<यस्येति च>> [[6.4.148]] इति ईकारे परे अकारलोपः]\n→ मामकी\n\nवस्तुतः मामक-शब्दः अण्-प्रत्ययान्तः अस्ति, अतः <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इत्यनेनैव ङीप्-प्रत्यये सिद्धे अस्य शब्दस्य प्रकृतसूत्रे ग्रहणम् व्यर्थं भवति । व्यर्थं सत् इदं ज्ञापयति — मामकशब्दात् संज्ञाछन्दसोः एव ङीप्-प्रत्ययः भवति, न अन्यत्रअतः भाषायाम् तु मामक + टाप् → मामिका इति प्रयोक्तव्यम् । अत्र <<प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः>> [[7.3.44]] इत्यत्र पाठितेन इति वार्त्तिकेन इकारादेशे कृते रूपं सिद्ध्यति । \n3. भागधेय — भागधेय + ङीप् → भागधेयी । अस्य प्रयोगः मित्रावरुणयोर्भागधेयी स्थ इति तैत्तिरीयसंहितायां १.३.१२.१ इत्यत्र कृतः दृश्यते । भाषायाम् तु भागधेय + टाप् → भागधेया इति प्रयोक्तव्यम् । भागधेय-शब्दः <<पादार्घाभ्यां च>> [[5.4.25]] इत्यत्र पाठितेन इति वार्त्तिकेन स्वार्थे धेय-प्रत्यये कृते सिद्ध्यति । \n4. पाप (दुष्टः / evil इत्यर्थः) — पाप + ङीप् → पापीतन्वः सन्ति पापीः इति प्रयोगः ऋग्वेदे 10.108.6 इत्यत्र दृश्यते । भाषायां तु पाप + टाप् → पापा इति भवति । \n5. अपर — अपर + ङीप् → अपरी । ऋग्वेदे 1.32.13 इत्यत्र उताऽपरीभ्यो मघवा विजिग्ये एतादृशः अस्य शब्दस्य प्रयोगः दृश्यते ।भाषायां अपर + टाप् → अपरा इति भवति । \n6. समान — समान + ङीप् → समानी । यथा, ऋग्वेदे 10.191.4 इत्यत्र समानी व आकूतिः समाना हृदयानि वः इत अस्य प्रयोगः दृश्यते । भाषायां समान + टाप् → समाना इति भवति । \n7. आर्यकृत — आर्यकृत + ङीप् → आर्यकृती । अयं शब्दः मैत्रायणीसंहितायाम् 1.8.3 इत्यत्र दृश्यते । भाषायां आर्यकृत + टाप् → आर्यकृता इति भवति ।\n8. सुमङ्गल — सुमङ्गल + ङीप् → सुमङ्गली । अयं शब्दः ऋग्वेदे सु॒म॒ङ्ग॒लीर्बिभ्रती देववीतिमिहाद्योषः (1.113.12) इत्यत्र दृश्यते । भाषायाम् सुमङ्गल + टाप् → सुमङ्गला इति भवति ।\n<<षिद्गौरादिभ्यश्च>> [[4.1.41]] इत्यत्र निर्दिष्टे गौरादिगणे <=सुमङ्गलात् संज्ञायाम्=> इति गणसूत्रं विद्यते; अतः सुमङ्गल-शब्दात् संज्ञानिर्देशार्थम् ङीष्-प्रत्ययः अपि भवति ।\n9. भेषज — भेषज + ङीप् → भेषजी । अयं शब्दः ऋग्वेदे 10.137.6 इत्यत्र आपः सर्वस्य भेषजी इति प्रयुक्तः दृश्यते ।\n" }, "41031": { "sa": "'रात्रि' इति शब्दात् संज्ञानिर्देशार्थम्, वैदिकप्रयोगसिद्ध्यर्थं च स्त्रीत्वं द्योतयितुम् जस्-प्रत्ययभिन्नस्थलेषु ङीप्-प्रत्ययः भवति । ", "sd": "<<स्त्रियाम्>> [[4.1.3]] इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु ङीप् इति अन्यतमः प्रत्ययः अनेन सूत्रेण दीयते । रात्रि — इत्यस्मात् प्रातिपदिकात् वैदिकप्रयोगसिद्ध्यर्थं च स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति । परन्तु यदि प्रथमाबहुवचनस्य जस्-प्रत्ययः करणीयः अस्ति चेत् एतादृशः ङीप्-प्रत्ययः न भवति ‌— इति अस्य सूत्रस्य अर्थः । कानिचन उदाहरणानि एतानि —\n1. रात्री व्यख्यादायती पुरुत्रा इति रात्रिसूक्तम् ऋग्वेदे 10.127.1 इत्यत्र विद्यते । अत्र प्रथमाबहुवचनस्य सुँ-प्रत्ययस्य प्रक्रियायाम् रात्रि-शब्दात् ङीप्-प्रत्ययः कृतः अस्ति । प्रक्रिया इयम् —\n\nरात्रि + ङीप् [<<रात्रेश्चाजसौ>> [[4.1.31]] इति ङीप्]\n→ रात्र् + ई [<<यस्येति च>> [[6.4.148]] इति इकारलोपः]\n→ रात्री\n\n2. रात्रीभिरस्मा अहभिर्दशस्येत्सूर्यस्य इत्थं ऋग्वेदे 10.10.9 इत्यत्र रात्रीभिः इति तृतीयाबहुवचनस्य प्रक्रियायाम् रात्रि-शब्दात् ङीप्-प्रत्ययः कृतः दृश्यते ।\n3. रात्रीः शरदश्चतस्रः इत्थं ऋग्वेदे 10.95.16 इत्यत्र रात्रीः इति द्वितीयाबहुवचनस्य प्रक्रियायाम् रात्रि-शब्दात् ङीप्-प्रत्ययः कृतः दृश्यते ।\n4. उत रात्रीमुभयतः परीयस इत्थं ऋग्वेदे 5.81.4 इत्यत्र रात्रीम् इति द्वितीयैकवचनस्य प्रक्रियायाम् रात्रि-शब्दात् ङीप्-प्रत्ययः कृतः दृश्यते ।\nवार्त्तिकम् — <!अजसादिष्विति वक्तव्यम्!> <light>(अ-जसादिषु इति वक्तव्यम्)</light>\nप्रकृतसूत्रे अजसौ इत्यस्य स्थाने अजसादिषु इति भवेत् — इति अस्य वार्त्तिकस्य अर्थः । जस्-प्रत्ययस्य विषये रात्रि-शब्दात् संज्ञाछन्दसोः सन्दर्भे ङीप्-प्रत्ययः यथा न भवति, तथैव अन्येषां प्रत्ययानां विषये अपि कुत्रचित् ङीप्-प्रत्ययं विना एव प्रयोगः दृश्यते — इति अस्य आशयः । सर्वां रात्रिं सहोषित्वा, रात्रिं रात्रिमजानतः इत्यादयः वैदिकप्रयोगाः भाष्यकारेण अस्मिन् सन्दर्भे निर्दिष्टाः सन्ति । अत्र द्वितीयैकवचनस्य अम्-प्रत्यये परे अपि ङीप्-प्रत्ययं विना एव रूपं प्रयुक्तं दृश्यते । एतादृशानां रूपाणां सिद्ध्यर्थमेव इदं वार्त्तिकं भाष्यकारेण पाठितम् अस्ति ।\nरात्रि-शब्दात् भाषायाम् ङीष्-प्रत्ययः\nरात्रि इति शब्दः <<राशदिभ्यां त्रिप्>> (4.67) इति उणादिसूत्रेण सिद्ध्यति । कृदधिकारे विद्यमानेन <<उणादयो बहुलम्>> [[3.3.1]] इति सूत्रेण उणादिप्रत्ययाः अपि (व्युत्पत्तिपक्षे) कृत्-प्रत्ययेषु एव परिगण्यन्ते । अस्यां स्थितौ <<बह्वादिभ्यश्च>> [[4.1.45]] इति सूत्रे पाठितेन <=कृदिकारादक्तिनः=> इति गणसूत्रेण रात्रि-शब्दात् स्त्रीत्वं द्योतयितुम् ङीष्-प्रत्ययः भवितुम् अर्हति । अव्युत्पत्तिपक्षे अपि तत्रैव पाठितेन <=सर्वतोऽक्तिन्नर्थादित्येके=> इति गणसूत्रेण ङीष्-प्रत्ययः एव विधीयते । अनेन प्रकारेण भाषायाम् अपि ईकारान्तः रात्री-शब्दः साधुत्वं प्राप्नोति । प्रक्रिया इयम् —\n\nरात्रि + ङीष् [<<बह्वादिभ्यश्च>> [[4.1.45]] इत्यत्र पाठितेन इति गणसूत्रेण ङीष्-प्रत्ययः]\n→ रात्र् + ई [<<यस्येति च>> [[6.4.148]] इति इकारलोपः]\n→ रात्री\n\nङीप्-प्रत्ययान्तस्य रात्री-शब्दस्य प्रत्ययस्वरः <<अनुदात्तौ सुप्पितौ>> [[3.1.4]] इत्यनेन अनुदात्तः भवति । परन्तु ङीष्-प्रत्ययान्तस्य रात्री-शब्दस्य प्रत्ययस्वरः <<आद्युदात्तश्च>> [[3.1.4]] इत्यनेन उदात्तः भवति । अनेन प्रकारेण द्वयोः अपि रात्री-शब्दयोः उच्चारणे भेदः विद्यते ।" }, "41032": { "sa": "'अन्तर्वत्' तथा 'पतिवत्' इत्येताभ्यां शब्दाभ्यां स्त्रीत्वं द्योतयितुम् नुक् आगमः भवति ।", "sd": "अन्तर्वत् तथा च पतिवत् इत्येताभ्याम् शब्दाभ्याम् स्त्रीत्वं द्योतयितुम् नुक् इति आगमः प्रकृतसूत्रेण विधीयते । कित्त्वात् <<आद्यन्तौ टकितौ>> [[1.1.46]] इत्यनेन अयम् आगमः अन्त्यावयवरूपेण विधीयते । आगमे कृते नकारान्तम् प्रातिपदिकं सिद्ध्यति, अतः अग्रे <<ऋन्नेभ्यो ङीप्>> [[4.1.5]] इत्यनेन ङीप्-प्रत्ययः अपि भवति । क्रमेण विवरणम् एतादृशम् —\n1. अन्तर्वत्\nअन्तर्वत् इति शब्दः प्रकृतसूत्रेणैव निपात्यते । अन्तः (= मध्ये) अस्ति अस्यां गर्भः इत्यस्मिन् अर्थे अन्तर्-शब्दात् मतुप्-प्रत्ययस्य निपातनं कृत्वा <<मादुपधायाश्च मतोर्वोऽयवादिभ्यः>> [[8.2.9]] इत्यनेन मकारस्य वकारादेशे कृते अन्तर्वत् इति शब्दः सिद्ध्यति । अस्मात् शब्दात् स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण नुक्-आगमः, ततश्च <<ऋन्नेभ्यो ङीप्>> [[4.1.5]] इत्यनेन ङीप्-प्रत्ययः विधीयते । सम्पूर्णा प्रक्रिया इयम्‌ —\n\nअन्तः अस्ति अस्यां (गर्भः)\n→ अन्तर् + मतुँप् + नुक् + ङीप् [<<अन्तर्वत्पतिवतोर्नुक्>> [[4.1.32]] इत्यनेनैव सूत्रेण मतुप्-प्रत्ययः निपात्यते; ततः स्त्रीत्वं द्योतयितुम् अनेनैव सूत्रेण नुक्-आगमः अपि विधीयते । ततः <<ऋन्नेभ्यो ङीप्>> [[4.1.5]] इति ङीप्-प्रत्ययः भवति ।]\n→ अन्तर् + मत् + न् + ई [इत्संज्ञालोपः]\n→ अन्तर् + वत् + न् + ई [<<मादुपधायाश्च मतोर्वोऽयवादिभ्यः>> [[8.2.9]]]\n→ अन्तर्वत्नी \n\nअनेन प्रकारेण सिद्धः अन्तर्वत्नी शब्दः 'गर्भिणी' अस्मिन् अर्थे प्रयुज्यते । \n'गर्भिणी' इति अर्थं विहाय अन्येषु अर्थेषु अन्तर्वत् इत्येव शब्दः न निपात्यते; अतः तत्र प्रकृतसूत्रस्य प्रयोगः अपि न सम्भवति । यथा, अन्तः अस्ति अस्यां (शालायां) घटः इत्यस्मिन् अर्थे शालायाः निर्देशं कर्तुं अन्तर्वत्नी इति शब्दः नैव प्रयुज्यते ।\n1. पतिवत्\nपतिवत् इति शब्दः प्रकृतसूत्रेणैव निपात्यते । पतिः अस्ति अस्याः इत्यस्मिन् अर्थे पति-शब्दात् <<तदस्यास्त्यस्मिन्निति मतुप्>> [[5.2.94]] इति सूत्रेण मतुप्-प्रत्यये कृते ततः मतुप्-प्रत्ययस्य मकारस्य निपातनेन वकारादेशं कृत्वा पतिवत् इति शब्दः सिद्ध्यति । \nअस्मात् शब्दात् स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण नुक्-आगमः, ततश्च <<ऋन्नेभ्यो ङीप्>> [[4.1.5]] इत्यनेन ङीप्-प्रत्ययः विधीयते । सम्पूर्णा प्रक्रिया इयम्‌ —\n\nपतिः अस्ति अस्याः\n→ पति + मतुँप् + नुक् + ङीप् [<<तदस्यास्त्यस्मिन्निति मतुप्>> [[5.2.94]] इति सूत्रेण मतुप् । ततः स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण नुक्-आगमः । ततः <<ऋन्नेभ्यो ङीप्>> [[4.1.5]] इति ङीप्-प्रत्ययः ।]\n→ पति +मत् + न् + ई [इत्संज्ञालोपः]\n→ पति + वत् + न् + ई [<<अन्तर्वत्पतिवतोर्नुक्>> [[4.1.32]] इति मकारस्य वकारादेशनिपातनम्]\n→ पतिवत्नी \n\nअनेन प्रकारेण सिद्धः पतिवत्नी शब्दः भर्तृसंयोगनिर्देशार्थम् (इत्युक्ते, पतिः जीवितः अस्ति इति अर्थं दर्शयितुम्) प्रयुज्यते ।\n'भर्तृसंयोगः' इति अर्थं विहाय अन्येषु अर्थेषु परिवत् इत्येव शब्दः न निपात्यते; अतः तत्र प्रकृतसूत्रस्य प्रयोगः अपि न सम्भवति । यथा, पतिः (= राजा) अस्ति अस्याः इत्यस्मिन् अर्थे पृथिव्याः निर्देशं कर्तुं प्रकृतसूत्रं नैव प्रयुज्यते; अपितु तत्र <<तदस्यास्त्यस्मिन्निति मतुप्>> [[5.2.94]] इति सूत्रेण मतुप् इत्यनेन मतुप्-प्रत्यये कृते, ततः स्त्रीत्वं द्योतयितुम् <<उगितश्च>> [[4.1.6]] इत्यनेन ङीप्-प्रत्ययं कृत्वा पतिमती इत्येव शब्दः सिद्ध्यति ।\nप्रकृत्योः निपातनस्य प्रयोजनम् ; वेदेषु नुग्विकल्पः\n अन्तर्वत् तथा च पतिवत् इति प्रकृत्योः निपातनम् अपि प्रकृतसूत्रेणैव क्रियते । तदित्थम् —\n1. अन्तर् इति शब्दः मध्ये इत्स्यस्मिन् अर्थे प्रयुज्यते । इत्युक्ते, अस्य शब्दस्य प्रयोगः नित्यम् अधिकरणे अर्थे एव भवति । अतः <<तदस्यास्त्यस्मिन्निति मतुप्>> [[5.2.94]] इति सूत्रेण अस्मात् शब्दात् मतुप्-प्रत्ययविधानं नैव सम्भवति यतः अस्य सूत्रस्य कृते प्रथमासामर्थ्यम् आवश्यकम् वर्तते; न हि सप्तमीसामर्थ्यम् । अतएव अन्तर्वत् इति शब्दस्य निर्माणार्थम् अन्तर्-शब्दात् मतुप्-प्रत्ययस्य निपातनम् आवश्यकं वर्तते । तदेव प्रकृतसूत्रेण कृत्वा ततः स्त्रीत्वं द्योतयितुम् नुमागमः अपि विधीयते । \n2. पतिः अस्याः अस्ति इत्यस्मिन् अर्थे पति शब्दात् <<तदस्यास्त्यस्मिन्निति मतुप्>> [[5.2.94]] इति सूत्रेण मतुप्-प्रत्यये कृते पतिमत् इति शब्दः सिद्ध्यति । अत्र मकारस्य वकारादेशविधानम् न केनचित् सूत्रेण सम्भवति । एतादृशस्य वकारादेशस्य निपातनार्थम् प्रकृतसूत्रे पतिवत् इति शब्दः प्रयुक्तः अस्ति । \nअयमेव विषयः भाष्यकारेण एकया कारिकया निर्दिष्टः वर्तते —\n\nअन्तर्वत्पतिवतोस्तु मतुब्वत्वे निपातनात् । गर्भिण्यां जीवपत्यां च वा च च्छन्दसि नुग्भवेत् ॥ — महाभाष्यम्\n\nकारिकायाः अन्वयः — अन्तर्वत्-पतिवतोः तु (यथासङ्ख्यम्) मतुप्-वत्वे निपातनात् (भवतः) । गर्भिण्यां जीवपत्यां च (निर्देशे कर्तव्ये एतौ शब्दौ प्रयुज्येते) । छन्दसि वा नुग् भवेत् ।\nकारिकायाः अर्थः — अन्तर्वत्-शब्दः मतुप्-प्रत्ययार्थं निपात्यते; पतिवत्-शब्दः तु वत्वार्थं निपात्यते । एतौ शब्दौ यथासङ्ख्यम् गर्भिणी तथा जीवपतिः (जीवति सः जीवः, जीवः पतिः यस्याः सा = जीवपतिः स्त्री) इत्येतयोः अर्थयोः प्रयुज्येते । वैदिकप्रयोगे तु नुग्विधिः विकल्पेन भवति । यथा, सान्तर्वत्नी देवानुपैत्, सान्तर्वती देवानुपैत्‌ इति उभयथा प्रयोगः वेदेषु दृश्यते । एवमेव, पतिवत्नी तरुणवत्सा, पतिवती तरुणवत्सा इत्यपि उभयथा प्रयोगः दृश्यते । यत्र नुक्-आगमः विधीयते; तत्र प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति । यत्र नुक्-आगमः न भवति तत्र तु <<उगितश्च>> [[4.1.6]] इति सूत्रेणैव ङीप्-प्रत्ययः सिद्ध्यति । \n" }, "41033": { "sa": "'पति' शब्दात् स्त्रीत्वं द्योतयितुम् यज्ञसन्दर्भे नकारादेशः भवति । ", "sd": "यज्ञस्य सन्दर्भः अस्ति चेत् पति इति शब्दात् स्त्रीत्वं द्योतयितुम् न् इति आदेशः प्रकृतसूत्रेण विधीयते । <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यनेन अयम् आदेशः पति-शब्दस्य अन्तिमवर्णस्य स्थाने (इकारस्य स्थाने) भवति । एतादृशे आदेशे कृते पत्न् इति नकारान्तशब्दः सिद्ध्यति, यस्मात् <<ऋन्नेभ्यो ङीप्>> [[4.1.5]] इत्यनेन ङीप्-प्रत्यये कृते पत्नी इति शब्दः सिद्ध्यति । \n'यज्ञसंयोगे' इत्यस्य अर्थः\nप्रकृतसूत्रे यज्ञसंयोगे इति निर्दिश्यते । अस्य शब्दस्य द्वेधा अर्थसङ्गतिः भवितुम् अर्हति —\n\n(i) सामान्यरूपेण यज्ञकर्मणि यजमानेन सह या तत्र उपविशति, यज्ञस्य फलस्य या अधिकारिणी अस्ति, तस्याः निर्देशार्थम् पत्नी शब्दः प्रयुज्यते । \n(ii) विवाहसमये यज्ञकुण्डं साक्षिरूपेण स्वीकृत्य यस्याः पाणिग्रहणं क्रियते, सा अपि पत्नी इति नाम्ना स्वीक्रियते । येषाम् (शूद्रादीनाम्) यज्ञकर्मणि अधिकारः न वर्तते, तेषां विषये अपि अस्य शब्दस्य प्रयोगं कर्तुम् अयम् अर्थः स्वीकर्तुं शक्यते ।\n\nइदानीन्तनकाले भाषायाम् पत्नी इति शब्दः lawfully wedded wife इत्यस्मिन् विस्तृते अर्थे प्रयुज्यते । यद्यपि तत्र यज्ञस्य साक्षात् सन्दर्भः नास्ति ; तथापि यज्ञः क्रियते चेत् तस्य फलस्य अधिकारिणी का — इति प्रश्ने कृते यद् तस्य उत्तरम्, तस्मिन्नेव सन्दर्भे एव वर्तमानकाले प्रयुक्तः पत्नी-शब्दः अपि प्रयुज्यते, अतः तत्र अवश्यम् यज्ञसंयोगः इति शब्दः चारितार्थ्यं प्राप्नोति ।\n'यज्ञसंयोगे' इत्यस्य प्रयोजनम्\nभाषायाम् ग्रामस्य पतिः, सेनायाः पतिः इत्यादिषु वाक्येषु पतिः इति शब्दः पालकः / प्रमुखः / नेता इत्यस्मिन् अर्थे प्रयुज्यते । पाति / रक्षति सः पतिः इति अत्र अस्य शब्दस्य व्युत्पत्तिः दीयते । अत्र विवाहस्य (यज्ञस्य) सम्बन्धः नास्ति । अस्मिन् स्थले स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रस्य प्रयोगः न क्रियते — इति स्पष्टीकर्तुम् एव प्रकृतसूत्रे यज्ञसंयोगः इति शब्दः स्थापितः अस्ति । अत्र ग्रामस्य नेतृत्वं कुर्वाणायाः ब्राह्मण्याः निर्देशार्थम् न कोऽपि स्त्रीप्रत्ययः प्रयुज्यते इति अत्र आशयः । अतएव इयं ब्राह्मणी ग्रामस्य पतिः इति प्रयोगः साधुत्वं प्राप्नोति । अनेन प्रकारेण पति-शब्दः स्त्रीलिङ्गे अपि प्रयुज्यते इति अपि स्पष्टी भवति ।\n" }, "41034": { "sa": "'पति' इति शब्दः यस्य समस्तपदस्य उत्तरपदरूपेण प्रयुज्यते; तस्मात् स्त्रीत्वं द्योतयितुम् विकल्पेन नकारादेशः भवति ", "sd": "पति इति शब्दः यस्य समस्तपदस्य उत्तरपदरूपेण प्रयुज्यते; तस्मात् स्त्रीत्वं द्योतयितुम् विकल्पेन न् इति आदेशः विधीयते । एतादृशे आदेशे कृते नकारान्तप्रातिपदिकं सिद्ध्यति; अतः तस्मात् <<ऋन्नेभ्यो ङीप्>> [[4.1.5]] इत्यनेन ङीप्-प्रत्ययः विधीयते । नकारादेशस्य अभावे ङीप्-प्रत्ययः अपि न सम्भवति; अतः मूलशब्दः एव स्त्रीलिङ्गे अपि प्रयुज्यते । \nपतिः इति शब्दस्य भर्ता (husband) इति यथा अर्थः विद्यते; तथैव नेता इति अर्थः अपि अस्ति । उभयोः अपि अर्थयोः प्रकृतसूत्रस्य प्रयोगः अवश्यं भवति । यथा —\n1. ग्रामस्य पतिः स्त्री (leader of the village) इत्यत्र ग्राम + पति इति समासे जाते स्त्रीत्वं द्योतयितुम् विकल्पेन नकारादेशे कृते; ग्रामपत्न् इति सिद्धे ततः <<ऋन्नेभ्यो ङीप्>> [[4.1.5]] इत्यनेन ङीप्-प्रत्ययः विधीयते; येन ग्रामपत्नी इति शब्दः सिद्ध्यति । पक्षे ग्रामपतिः इति शब्दः अपि प्रयुुज्यते । अतएव, इयं ब्राह्मणी ग्रामपत्नी, तथा च इयं ब्राह्मणी ग्रामपतिः इति उभयथा प्रयोगः साधुत्वं प्राप्नोति । \n2. वृद्धस्य पत्नी इत्यत्र वृद्ध + पति इति समासे जाते स्त्रीत्वं द्योतयितुम् पति-शब्दस्य विकल्पेन नकारादेशे कृते; वृद्धपत्न् इति सिद्धे ततः <<ऋन्नेभ्यो ङीप्>> [[4.1.5]] इत्यनेन ङीप्-प्रत्ययः विधीयते; येन वृद्धपत्नी इति शब्दः सिद्ध्यति । पक्षे वृद्धपतिः इति शब्दः अपि प्रयुुज्यते । अतएव, इयं ब्राह्मणी वृद्धपत्नी, तथा च इयं ब्राह्मणी वृद्धपतिः इति उभयथा प्रयोगः साधुत्वं प्राप्नोति । \nबहुव्रीहिसमास्य विषये अपि अस्य सूत्रस्य प्रयोगः\nप्रकतसूत्रम् <<अनुपसर्जनात्>> [[4.1.14]] अस्मिन् अधिकारे वर्तते । अतः स्थूलः पतिः अस्याः सा एतादृशस्य बहुव्रीहिसमासस्य विषये अस्य सूत्रस्य प्रयोगः वस्तुतः न भवेत् । परन्तु अत्र <<अनुपसर्जनात्>> [[4.1.14]] इति सूत्रम् पति-शब्देन सह नैव अन्वेति, अपितु पत्यन्तशब्देन सह अन्वेति । इत्युक्ते, पत्यन्तशब्दः (यथा, स्थूलपतिः, दीनपतिः इत्यादिः) स्वयं बहुव्रीहिसमासस्य उत्तरपदरूपेण नैव विधीयते चेत् प्रकृतसूत्रस्य प्रयोगः अवश्यं कर्तुं शक्यते; तत्र पतिशब्दः स्वयं बहुव्रीहिसमासे भागं गृह्णाति चेदपि न दोषः — इति आशयः वर्तते । अतएव, स्थूलः पतिः यस्याः सा इत्यत्र प्रकृतसूत्रेण विकल्पेन नकारादेशे; तत्सन्नियोगेन च ङीप्-प्रत्यये कृते स्थूलपत्नी, तदभावपक्षे च स्थूलपति इति उभयथा प्रयोगः सिद्ध्यति । एवमेव, दृढः पतिः यस्याः सा = दृढःपतिः, दृढपत्नी इति उभयथा प्रयोगः सिद्ध्यति। ।\nअप्राप्तविभाषा इयम्\nप्रकृतसूत्रेण उक्ता विभाषा अप्राप्तविभाषा अस्ति इति अत्र काशिकाकारः निर्दिशति । प्रकृतसूत्रेण उक्तः नकारादेशः <<पत्युर्नो यज्ञसंयोगे>> [[4.1.33]] इति पूर्वसूत्रेण नैव उच्यते यतः पूर्वसूत्रे यज्ञसंयोगः इति विशिष्टः अर्थः वर्तते । समस्तपदे विद्यमानः पतिशब्दः न हि यज्ञसंयोगविशिष्टम् अर्थम् अपेक्षते उत गृह्णाति । अतः अत्र पूर्वम् अप्राप्तः विधिः विकल्प्यते — इति स्वीकृत्य अप्राप्तविभाषा स्वीक्रियते । \nदलकृत्यम्\nसपूर्वस्य इति किमर्थम् ? यत्र पति-शब्दः समासे न विद्यते (पृथक् रूपेण विद्यते) तत्र प्रकृतसूत्रस्य प्रसक्तिः नास्ति । तत्र <<पत्युर्नो यज्ञसंयोगे>> [[4.1.33]] इति पूर्वसूत्रेण यज्ञसंयोगस्य विषये (= wife इत्यस्मिन् अर्थे) एव नकारादेशे कृते पत्नी इति शब्दः सिद्ध्यति । अन्येषु अर्थेषु (यथा, नेता, पालकः इत्यस्मिन् अर्थे) तु स्त्रीत्वे अपि पति इत्येव शब्दः प्रयुज्यते ।\nबाध्यबाधकभावः\n प्रकृतसूत्रेण प्राप्तं वैकल्पिक-नकारादेशं बाधित्वा केषुचन स्थलेषु नित्यं नकारादेशः भवति । एतानि प्रातिपदिकानि <<नित्यं सपत्न्यादिषु>> [[4.1.35]] इति अग्रिमसूत्रे परिगणितानि सन्ति । " }, "41035": { "sa": "यस्य समासस्य उत्तरपदम् 'पति' शब्दः अस्ति, पूर्वपदं च समानादिगणस्य कश्चन शब्दः वर्तते; तत्र स्त्रीत्वे द्योत्ये पति-शब्दस्य नित्यं नकारादेशः भवति ।", "sd": "पति इति शब्दः यस्य समस्तपदस्य उत्तरपदरूपेण प्रयुज्यते; तस्मात् स्त्रीत्वं द्योतयितुम् <<विभाषा सपूर्वस्य>> [[4.1.34]] इति सूत्रेण विकल्पेन नकारादेशे प्राप्ते; समानादिगणे विद्यमानः शब्दः पूर्वपदरूपेण विद्यते चेत् अयम् आदेशः नित्यम् भवति — इति अस्य सूत्रस्य आशयः । \nयद्यपि सूत्रे सपत्न्यादिषु इति निर्दिश्यते तथापि इदं सूत्रम् समानादिगणस्य विषये अस्ति ।\nसमानादिगणः अयम् — \n\nसमान, एक, वीर, पिण्ड, श्वन्, भ्रातृ, भद्र, पुत्र, <=दासाच्छन्दसि=> (गणसूत्रम्) । इति समानादिगणः । \n\n\nक्रमेण रूपसिद्धिः एतादृशी —\n\n1. समानः पतिः अस्याः इत्यत्र स्त्रीत्वे विवक्षिते समान + पति इति स्थिते आदौ समानशब्दस्य स-आदेशः निपात्यते । एतादृशं निपातनं ज्ञापयितुम् एव सूत्रे <<नित्यं समानादिषु>> इत्युच्यमाने <<नित्यं>> <<सपत्न्यादिषु>> इति निर्देशः कृतः अस्ति । अतः अत्र समानस्य स-आदेशे कृते स + पति इत्यत्र पति-शब्दस्य इकारस्य <<विभाषा सपूर्वस्य>> [[4.1.34]] इति पूर्वसूत्रेण विकल्पेन सकारादेशे प्राप्ते प्रकृतसूत्रेण सः नित्यमेव भवति, अतः स + पत्न् इति सिद्ध्यति । ततः शब्दस्य नकारान्तत्वात् <<ऋन्नेभ्यो ङीप्>> [[4.1.5]] इत्यनेन ङीप्-प्रत्यये कृते सपत्नी इति अन्तिमं रूपं सिद्ध्यति । समानः पति अस्याः सा सपत्नी । \n2. एकः पतिः अस्याः इत्यत्र स्त्रीत्वे विवक्षिते एक + पति इति स्थिते प्रकृतसूत्रेण इकारस्य नत्वे; ततः <<ऋन्नेभ्यो ङीप्>> [[4.1.5]] इत्यनेन ङीप्-प्रत्यये कृते एकपत्नी इति सिद्ध्यति । \n3. वीरः पतिः अस्याः सा = वीर + पत्न् + ङीप् → वीरपत्नी । \n4. पिण्डः पतिः अस्याः सा = पिण्ड + पत्न् + ङीप् → पिण्डपत्नी । \n5. श्वा पतिः अस्याः सा = श्वन् + पत्न् + ङीप् → श्वपत्नी । \n6. भ्राता पतिः अस्याः सा = भातृ + पत्न् + ङीप् → भ्रातृपत्नी । \n7. भद्रः पतिः अस्याः सा = भातृ + पत्न् + ङीप् → भद्रपत्नी । \n8. पुत्रः पतिः अस्याः सा = भातृ + पत्न् + ङीप् → पुत्रपत्नी । \n\nसमानादिगणे <=दासाच्छन्दसि=> इति गणसूत्रम् अपि पाठ्यते । दासः पतिः अस्याः सा इत्यत्र दास + पति इति स्थिते वैदिकप्रयोगसिद्ध्यर्थम् प्रकृतसूत्रस्य प्रयोगं कृत्वा दासपत्नी इति प्रयोगः सिद्ध्यति । \nएतेषु सर्वेषु अपि उदाहरणेषु बहुव्रीहिसमासः प्रदर्शितः अस्ति यतः तादृशानि एव उदाहरणानि व्याख्यानेषु उपलभ्यन्ते । परन्तु अत्र अन्यः समासः अपि अवश्यं सम्भवति । यथा, वीरः (पुरुषः) पतिः (= स्वामी) यस्याः (नगर्याः) सा = वीरपत्नी (नगरी) । ऋग्वेदे १.३२.११ इत्यत्र दासपत्नीः अहिगोपा... इत्यादिषु स्थलेषु अस्य प्रयोगः कृतः दृश्यते । भाषायां तु <<विभाषा सपूर्वस्य>> [[4.1.34]] इत्यनेन वैकल्पिक-नकारादेशे कृते दासपत्नी तथा च दासपति इति उभयथा रूपं सिद्ध्यति । \nनित्यग्रहणम् विस्पष्टार्थम्\nपूर्वसूत्रेणैव विकल्पे सिद्धे प्रकृतसूत्रस्य विधानम् एव नकारादेशस्य नित्यत्वं ज्ञापयति । अतः अत्र केवलं <<सपत्न्यादिषु>> इति निर्देशः क्रियते चेदपि पर्याप्तम् एव । तथापि अत्र सूत्रे नित्यम् इति शब्दः स्थापितः वर्तते । अयं केवलं स्पष्टताप्रतिपत्यर्थः एव अस्ति ।\n" }, "41036": { "sa": "'पूतक्रतु' इति शब्दात् स्त्रीत्वं द्योतयितुं ङीप्-प्रत्ययः, तत्सन्नियोगेन च प्रकृतेः ऐकारादेशः विधीयते । ", "sd": "पूतक्रतु (= पूतः क्रतुः येन सः = The one who has purified the sacrifice) इति प्रातिपदिकात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः विधीयते; तथा च प्रक्रियायाम् पूतक्रतु-शब्दस्य उकारस्य ऐकारादैशः अपि भवति । अस्य सूत्रस्य प्रयोगः केवलं पुंयोगे एव भवति । इत्युक्ते, पूतक्रतोः पत्न्याः निर्देशार्थम् एव इदं सूत्रं प्रयुज्यते ।\n\nपूतः क्रतुः (= यज्ञः) येन सः = पूतक्रतुः (The one who has purified the sacrifice) । तस्य स्त्री \n= पूत + क्रत् ऐ + ङीप् [<<पूतक्रतोरै च>> [[4.1.36]] इति ङीप्-प्रत्ययः, ऐकारश्च अन्तादेशः]\n→ पूत + क्रत् ऐ + ई [इत्संज्ञालोपः]\n→ पूत + क्रत् आयी [<<एचोऽयवायावः>> [[6.1.78]] इति आयादेशः]\n→ पूतक्रतायी\n\nअनेन प्रकारेण पूतक्रतोः स्त्री = पूतक्रतायी इति शब्दः सिद्ध्यति । \nवार्त्तिकम् — <!त्रिसूत्री पुंयोगे एव !>\nप्रकृतसूत्रम्, तथा च अग्रे विद्यमाने द्वे सूत्रे — <<वृषाकप्यग्निकुसितकुसिदानामुदात्तः>> [[4.1.37]] तथा च <<मनोरौ वा>> [[4.1.38]] — इति त्रीणि सूत्राणि केवलं पुंयोगे एव स्त्रीप्रत्ययं विदधति — इति अस्य वार्त्तिकस्य अर्थः । पुंलिङ्गवाचिनि शब्दे गुणस्य आरोपणं कृत्वा ततः 'तस्य पत्नी' इत्यस्मिन् अर्थे स्त्रीप्रत्ययस्य विधानम् — इति पुंयोगः नाम्ना ज्ञायते । यथा, प्रकृतसूत्रस्य सन्दर्भे यः मनुष्यः यज्ञं पूतं करोति तस्य पत्नी (या स्वयं यज्ञं पूतं करोति उत न करोति तद् अप्रस्तुतम्)‌ — इत्यस्य निर्देशार्थम् एव ङीप्-प्रत्ययः भवति; अतः अत्र पूतक्रतोः पत्नी पूतक्रतायी इति वाक्यं दीयते । या स्त्री स्वयं यज्ञं पूतं करोति, तस्याः निर्देशार्थम् तु प्रकृतसूत्रं नैव प्रयुज्यते यतः तत्र पुंयोगस्य निर्देशः नास्ति । इत्युक्ते; पूतः क्रतुः यया सा इत्यत्र प्रकृतसूत्रेण (अन्येन वा केनचित् सूत्रेण) ङीप्-प्रत्ययः नैव भवति; अतः तत्र इयं पूतक्रतुः ब्राह्मणी इत्येव निर्देशः सम्भवति । अग्रे विद्यमानयोः द्वयोः अपि सूत्रयोः विषये एवमेव ज्ञेयम् ।\n" }, "41037": { "sa": "वृषाकपि, अग्नि, कुसित, कुसिद - एतेभ्यः शब्देभ्यः स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः, तत्सन्नियोगेन च प्रकृतेः उदात्तः ऐकारादेशः विधीयते । ", "sd": "वृषाकपि (= हरः / विष्णुः), अग्नि, कुसित, कुसिद एतेभ्यः प्रातिपदिकेभ्यः स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः विधीयते; तथा च प्रक्रियायाम् एतेषां शब्दानाम् अन्तिमवर्णस्य उदात्तसंज्ञकः ऐकारादैशः अपि भवति । अस्य सूत्रस्य प्रयोगः केवलं पुंयोगे एव भवति । इत्युक्ते, वृषाकप्यादीनाम् पत्न्याः निर्देशार्थम् एव इदं सूत्रं प्रयुज्यते । क्रमेण उदाहरणानि एतानि —\n1. वृषाकपेः पत्नी = वृषाकप् + ऐ + ङीप् → वृषाकप् + ऐ + ई → वृषाकपायी । लक्ष्मीः तथा गौरी इत्येतयोः अर्थे अयं शब्दः प्रयुज्यते । \n2. अग्नेः पत्नी = अग्न् + ऐ + ङीप् → अग्न् + ऐ + ई → अग्नायी ।\n3. कुसितस्य पत्नी = कुसित् + ऐ + ङीप् → कुसित् + ऐ + ई → कुसितायी ।\n4. कुसिदस्य पत्नी = कुसिद् + ऐ + ङीप् → कुसिद् + ऐ + ई → कुसिदायी ।\nउदात्तस्वरविधानस्य प्रयोजनम्\nप्रकृतसूत्रेण इति उदात्तसंज्ञकः आदेशः विधीयते । अस्य प्रयोजनम् वृषाकपायी इति शब्दस्य स्वरविधानसमये दृश्यतेवृषाकपि इति शब्दे मूलरूपेण <<लघावन्ते द्वयोश्च बह्वषो गुरुः>> (फिट्सूत्रम् 2.19) इत्यनेन षकारोत्तरः आकारः उदात्तसंज्ञकः अस्ति, अन्ये वर्णाः अनुदात्ताः सन्ति । अस्यां स्थितौ वृषाकपायी इत्यत्र पकारोत्तस्य आकारस्य उदात्तसंज्ञाविधानार्थम् प्रकृतसूत्रेण ऐकारः उदात्तसंज्ञकः विधीयते । एकवारं ऐकारः उदात्तः विधीयते चेत् तस्य स्थाने जायमानः आकारः अपि स्थानिवद्भावेन उदात्तसंज्ञां प्राप्नोति ।\nअन्येषु त्रिषु शब्देषु अन्तिमस्वरः (इत्युक्ते, अग्नि इत्यत्र नकारोत्तरः इकारः, कुसित इत्यत्र तकारोत्तरः अकारः, तथा च कुसिद इत्यत्रापि तकारोत्तरः अकारः) मूलरूपेणैव उदात्तसंज्ञकः अस्ति, अतः तस्य स्थाने जायमानः ऐकारादेशः अपि स्थानिवद्भावेन उदात्तसंज्ञाम् एव स्वीकरोति । इत्युक्ते, एतेषां त्रयाणाम् शब्दानां विषये ऐकारस्य उदात्तसंज्ञा तादृशी एव सम्भवति, तदर्थम् प्रकृतसूत्रे उदात्तग्रहणम् नैव आवश्यकम् । ऐकारस्य उदात्तसंज्ञायां प्राप्तायां पुनः स्थानिवद्भावनेन तत्स्थाने जायमानः आकारः अपि उदात्तसंज्ञकः भवति । अनेन प्रकारेण अग्नायी इत्यत्र नकारोत्तरः आकारः, कुसितायी इत्यत्र तकारोत्तरः आकारः, तथा च कुसिदायी इत्यत्र दकारोत्तरः आकारः —‌ एते वर्णाः उदात्तसंज्ञकाः भवन्ति ।\nवार्त्तिकम् — <!त्रिसूत्री पुंयोगे एव !>\nप्रकृतसूत्रात् पूर्वं विद्यमानं सूत्रम् <<पूतक्रतोरै च>> [[4.1.36]], प्रकृतसूत्रात् अनन्तरं विद्यमानं सूत्रम् <<मनोरौ वा>> [[4.1.38]] तथा च प्रकृतसूत्रम् — इति त्रीणि सूत्राणि केवलं पुंयोगे एव स्त्रीप्रत्ययं विदधति — इति अस्य वार्त्तिकस्य अर्थः । पुंलिङ्गवाचिनि शब्दे गुणस्य आरोपणं कृत्वा ततः 'तस्य पत्नी' इत्यस्मिन् अर्थे स्त्रीप्रत्ययस्य विधानम् — इति पुंयोगः नाम्ना ज्ञायते । यथा, प्रकृतसूत्रस्य सन्दर्भे वृषाकपेः पत्नी — इत्यस्य निर्देशार्थम् एव ङीप्-प्रत्ययः भवति; अतः अत्र वृषाकपेः पत्नी वृषाकपायी इति वाक्यं दीयते । या स्त्री स्वयं वृषाकपिः इति नाम्ना ज्ञायते, तस्याः निर्देशार्थम् तु प्रकृतसूत्रं नैव प्रयुज्यते — यतः तत्र पुंयोगस्य निर्देशः नास्ति । अतः तत्र इयं वृषाकपिः इत्येव निर्देशः सम्भवति । अन्ययोः द्वयोः सूत्रयोः विषये अपि एतादृशमेव ज्ञेयम् । \n" }, "41038": { "sa": "'मनु' इति शब्दात् स्त्रीत्वं द्योतयितुम् विकल्पेन ङीप्-प्रत्ययः, तत्सन्नियोगेन च प्रकृतेः उदात्तः ऐकारादेशः अथवा औकारादेशः विधीयते । ", "sd": "मनुः इति प्रातिपदिकात् स्त्रीत्वं द्योतयितुम् विकल्पेन ङीप्-प्रत्ययः विधीयते; तथा च ङीप्-आदेशे कृते प्रक्रियायाम् मनु-शब्दस्य उकारस्य विकल्पेन उदात्तसंज्ञकः ऐकारादैशः, पक्षे च औकारादेशः भवति । अस्य सूत्रस्य प्रयोगः केवलं पुंयोगे एव भवति । इत्युक्ते, मनोः पत्न्याः निर्देशार्थम् एव इदं सूत्रं प्रयुज्यते, न हि मनुः इत्याख्यायाः स्त्रियः निर्देशार्थम् । प्रक्रियायाम् ङीप्-प्रत्ययविधानपक्षे ऐकारादेशे कृते मन् ऐ + ङीप् →‌ मन् ऐ + ई → मनायी, तथा च औकारादेशे कृते मन् औ + ङीप् → मन् + औ + इ →‌मनावी इति द्वौ शब्दौ सिद्ध्यतः । ङीप्-प्रत्ययस्य अभावपक्षे कोऽपि आदेशः अपि न भवति, अतः मनुः इत्येव शब्दः अपि सिद्ध्यति । अनेन प्रकारेण मनोः स्त्री = मनायी, मनावी, मनुः इति त्रीणि रूपाणि सम्भवन्ति ।\nप्रकृतसूत्रे पूर्वस्मात् सूत्रात् तथा उदात्तः इति द्वयोः शब्दयोः अनवृत्तिरूपेण ग्रहणं भवति । अतः अत्र विहितः ऐकारादेशः उदात्तसंज्ञकः एव विधीयते । मनु शब्दे मूलरूपेण मकारोत्तरः अकारः उदात्तः अस्ति । प्रकृतसूत्रेण उदात्तसंज्ञक-ऐकारस्य आदेशे कृते, तस्य स्थाने जायमानः आकारः अपि उदात्तसंज्ञां स्वीकरोति; अतः मनायी इति शब्दे नकारोत्तरः आकारः उदात्तसंज्ञां प्राप्नोति; अन्यौ द्वौ स्वरौ अनुदात्तसंज्ञकौ भवतः । ऐकारादेशस्य अभावे आदेशरूपेण विधीयमानः औकारः तु उदात्तः नास्ति; अतः अन्ते निर्मिते मनावी शब्दे तु मनु-शब्दसदृशः मकारोत्तरः अकारः एव उदात्तसंज्ञकः वर्तते ।\nवार्त्तिकम् — <!त्रिसूत्री पुंयोगे एव !>\nप्रकृतसूत्रम्, तथा च तस्मात् पूर्वं विद्यमाने द्वे सूत्रे — <<पूतक्रतोरै च>> [[4.1.36]], तथा च <<वृषाकप्यग्निकुसितकुसिदानामुदात्तः>> [[4.1.37]] — इति त्रीणि सूत्राणि केवलं पुंयोगे एव स्त्रीप्रत्ययं विदधति — इति अस्य वार्त्तिकस्य अर्थः । पुंलिङ्गवाचिनि शब्दे गुणस्य आरोपणं कृत्वा ततः 'तस्य पत्नी' इत्यस्मिन् अर्थे स्त्रीप्रत्ययस्य विधानम् — इति पुंयोगः नाम्ना ज्ञायते । यथा, प्रकृतसूत्रस्य सन्दर्भे मनोः पत्नी — इत्यस्य निर्देशार्थम् एव ङीप्-प्रत्ययः भवति; अतः अत्र मनोः पत्नी मनायी, मनावी, मनुः इति वाक्यं दीयते । या स्त्री स्वयं मनुः इति नाम्ना ज्ञायते, तस्याः निर्देशार्थम् तु प्रकृतसूत्रं नैव प्रयुज्यते — यतः तत्र पुंयोगस्य निर्देशः नास्ति । अतः तत्र इयं मनुः इत्येव निर्देशः सम्भवति । अन्ययोः द्वयोः सूत्रयोः विषये अपि एतादृशमेव ज्ञेयम् । \n\n\n" }, "41039": { "sa": "यस्य वर्णवाचकशब्दस्य अन्तिमः स्वरः अनुदात्तः अकारः अस्ति; तथा च यस्य उपधायाम् तकारः विद्यते, तस्मात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः विकल्पेन भवति; प्रक्रियायां च उपधातकारस्य नकारादेशः अपि भवति । ", "sd": "विशिष्टेभ्यः वर्णवाचकशब्देभ्यः स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययस्य वैकल्पिकं विधानं क्रियते । यस्य वर्णवाचकशब्दस्य अन्तिमम् अक्षरम् इति अस्ति; तथा च तत्र विद्यमानः अकारः अनुदात्तः अपि अस्ति; तादृशात् वर्णवाचकशब्दात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः विकल्पेन भवति; प्रत्ययसन्नियोगेन च वर्णवाचकशब्दस्य उपधा-तकारस्य नकारादेशः अपि जायते — इति प्रकृतसूत्रस्य आशयः । \n'त' इति अक्षरम् येषां वर्णवाचकशब्दानाम् अन्ते विद्यते; ते शब्दाः <<वर्णानां तणतिनितान्तानाम्>> (2.10) इति फिट्-सूत्रेण आद्युदात्ताः भवन्ति । इत्युक्ते, एतेषु विद्यमानः प्रथमः स्वरः उदात्तः जायते; तथा च सति <<अनुदात्तं पदमेकवर्जम्>> [[6.1.158]] इत्यनेन अन्ये सर्वे स्वराः अनुदात्तसंज्ञकाः भवन्ति । एतादृशानां शब्दानां विषये स्त्रीत्वं द्योतयितिुम् प्रकृतसूत्रेण ङीप्-प्रत्ययस्य वैकल्पिकं विधानं भवति; प्रक्रियायां च तकारस्य नकारादेशः अपि भवति । यथा —\n\n1. हरित + ङीप् → हरिणी । पक्षे <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्-प्रत्यये कृते हरिता इत्यपि सिद्ध्यति । \n2. एत (शुक्लवर्णः) + ङीप् → एणी । पक्षे <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्-प्रत्यये कृते एता इत्यपि सिद्ध्यति । \n3. श्येत (शुक्लवर्णः) + ङीप् → श्येणी । पक्षे <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्-प्रत्यये कृते श्येता इत्यपि सिद्ध्यति । \n4. रोहित (रक्तवर्णः) + ङीप् → रोहिणी । पक्षे <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्-प्रत्यये कृते रोहिता इत्यपि सिद्ध्यति । \n5. लोहित (रक्तवर्णः) + ङीप् → लोहिनी । पक्षे <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्-प्रत्यये कृते लोहिता इत्यपि सिद्ध्यति । \n\nअमरकोशे अवदात इति शब्दः शुक्लवर्णः इत्यस्मिन् अर्थे दत्तः अस्ति । वस्तुतस्तु; <<दैप्>> (शोधने) अस्माद् धातोः क्त-प्रत्यये कृते अयं शब्दः सिद्ध्यति; अतः अयं शब्दः वर्णवाची नास्ति अपितु 'विशुद्धम्' (polished / spotless / clean / purified / pure) इत्यस्मिन् अर्थे प्रयुज्यते । केवलम् अर्थसाधर्म्याद् एव अयं शब्दः कोशे शुक्लशब्दस्य पर्यायरूपेण दत्तः अस्ति । अतः अस्य शब्दस्य विषये प्रकृतसूत्रं नैव प्रवर्तते; अतश्च स्त्रीत्वं द्योतयितुम् <<अजाद्यतष्टाप्>> [[4.1.4]] इत्यनेन टाप्-प्रत्यये कृते अवदाता इत्येव शब्दः सिद्ध्यति ।\nदलकृत्यम्\n1. 'वर्णवाचकशब्दात्' इति किमर्थम् ? प्रकृत, प्ररुत इत्यादिषु शब्देषु अन्तिमः स्वरः अनुदात्तः अस्ति, तथा च उपधायाम् तकारः अपि विद्यते । परन्तु एतौ वर्णवाचकशब्दौ न, अतः एतयोः विषये प्रकृतसूत्रस्य प्रसक्तिः नास्ति । एताभ्याम् स्त्रीत्वं द्योतयितुम् टाप्-प्रत्ययः एव भवति । प्रकृत + टाप् → प्रकृता । प्ररुत + टाप् → प्ररुता । \n2. 'अदन्तवर्णवाचकशब्दात्' इति किमर्थम् ? शिति इति शुक्लवर्णवाचकशब्दस्य अन्ते अनुदात्तः स्वरः अस्ति परन्तु सः अकारः नास्ति । अतः अस्मात् स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रस्य प्रयोगः नैव भवति । शिति इति शब्दः तादृशः एव स्त्रीलिङ्गे अपि प्रयुज्यते ।\n3. 'अनुदात्त-अदन्तवर्णवाचकशब्दात्' इति किमर्थम् ? श्वेत, पीत, रक्त — एतादृशेषु शब्देषु अन्ते विद्यमानः अकारः <<घृतादीनां च>> (2.10) इति फिट्-सूत्रेण उदात्तः भवति । अतः एतेषां विषये प्रकृतसूत्रं नैव प्रवर्तते; अतश्च एतेभ्यः स्त्रीत्वं द्योतयितुम् टाप्-प्रत्यये कृते श्वेता, पीता, रक्ता इति शब्दाः सिद्ध्यन्ति । \nवार्त्तिकद्वयम्\n\nपिशङ्ग इति कपिलवर्णवाचकः शब्दः । अयं तकारोपधः अपि नास्ति; अनुदात्तान्तः अपि नास्ति (अयं शब्दः मध्योदात्तः अस्ति; अतश्च अस्य अन्तिमः स्वरः स्वरितसंज्ञकः अस्ति) । अतः अस्य शब्दस्य विषये वस्तुतः प्रकृतसूत्रं नैव प्रवर्तते; अपि तु <<अन्यतो ङीष्>> [[4.1.40]] इत्यनेन ङीष्-प्रत्ययस्य प्राप्तिः अस्ति । परन्तु तां विकल्पेन बाधित्वा अस्य शब्दस्य विषये प्रकृतसूत्रेण ङीप्-प्रत्ययः अपि भवति — इति अस्य वार्त्तिकस्य आशयः । अतः पिशङ्ग + ङीप् → पिशङ्गी इति सिद्ध्यति । अस्मिन् शब्दे तकारः नास्ति अतः तत्र तकारस्य नकारादेशः अपि नैव सम्भवति; परन्तु ङीप्-प्रत्ययः अवश्यं सम्भवति इति विशेषः । पक्षे <<अन्यतो ङीष्>> [[4.1.40]] इत्यनेन ङीष्-प्रत्यये कृते पिशङ्ग + ङीष् → पिशङ्गी इति शब्दः अपि सिद्ध्यति । ङीप्-प्रत्ययस्य; ङीष्-प्रत्ययस्य च योजनेन यद्यपि समानौ एव शब्दौ सिद्ध्यतः; तथापि ङीप्-प्रत्ययस्य ईकारः अनुदात्तः अस्ति; ङीष्-प्रत्ययस्य ईकारः तु उदात्तः अस्ति — अतः तयोः उच्चारणे स्वरभेदः अवश्यं विद्यते । \n\nअसित (कृष्णवर्णः), तथा च पलित (जरया प्राप्तः शुक्लवर्णः , white color of hairs, caused due to old age) एतौ शब्दौ वर्णवाचकौ, तकारोपधौ, अकारान्तौ, अनुदात्तान्तौ च स्तः अतः एतयोः विषये प्रकृतसूत्रेण ङीप्-प्रत्यये; तकारस्य नकारादेशे च प्राप्ते अनेन वार्त्तिकेन सः निषिध्यते । अतः एताभ्यां शब्दाभ्याम् केवलम् <<अजाद्यतष्टाप्>> [[4.1.4]] इत्यनेन टाप्-प्रत्ययः भवति येन असिता, पलिता इति शब्दौ सिद्ध्यतः । केचन पण्डिताः तु वैदिकसन्दर्भे तकारस्य क्न इति आदेशं कृत्वा ततः <<अन्यतो ङीष्>> [[4.1.40]] इति ङीष्-प्रत्ययविधानम् अपि कुर्वन्ति; येन असित + ङीष् → असिक्नी तथा च पलित + ङीष् → पलिक्नी इति शब्दौ सिद्ध्यतः । एतयोः प्रयोगः वेदेषु कृतः अस्ति । यथा असिक्नी इति शब्दः ऋग्वेदे 7.5.3 इत्यत्र आयन्नसिक्नीरसमना जहतीर्भोजनानि इति प्रयुक्तः दृश्यते । एवमेव पलिक्नी इति शब्दः ऋग्वेदे 5.2.4 इत्यत्र पलिक्नीरिद्युवतयो भवन्ति इति प्रयुक्तः अस्ति ।\nक्न-आदेशस्य विषये काशिकाकारेण इति किञ्चन वाक्यम् पाठितम् अस्ति । परन्तु इदं वाक्यं भाष्ये न दृश्यते; अतः कैयटेन अस्य वाक्यस्य खण्डनम् एव कृतम् अस्ति ।" }, "41040": { "sa": "यस्य वर्णवाचकशब्दस्य अन्तिमः स्वरः अनुदात्तः अकारः अस्ति; तथा च यस्य उपधायाम् तकारभिन्नः वर्णः विद्यते, तस्मात् स्त्रीत्वं द्योतयितुम् ङीष्-प्रत्ययः विधीयते ।", "sd": "विशिष्टेभ्यः वर्णवाचकशब्देभ्यः स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीष्-प्रत्ययस्य विधानं क्रियते । यस्य वर्णवाचकशब्दस्य अन्तिमः स्वरः अनुदात्तः अकारः अस्ति, तथा च यस्य उपधायाम् तकारभिन्नः कश्चन वर्णः विद्यते; तस्मात् शब्दात् स्त्रीत्वं द्योतयितुम् ङीष् इति प्रत्ययः भवति — इति प्रकृतसूत्रस्य आशयः । कानिचन उदाहरणानि एतानि —‌\n\n1. सारङ्ग+ ङीष् → सारङ्गी ।\n2. कल्माष + ङीष् → कल्माषी ।\n3. शबल + ङीष् → शबली ।\n4. कर्बुर+ ङीष् → कर्बुरी ।\n\nप्रकृतसूत्रे अन्यतः इति शब्दः प्रयुक्तः अस्ति । अयं शब्दः तकारोपधः इत्यनेन सह अन्वेति; अतः अन्यतः इत्यस्य अर्थः तकारोपधात् अन्यः इति क्रियते । तकारोपधशब्दानां विषये स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रस्य प्रसक्तिः एव नास्ति इति अत्र आशयः । तेषां विषये <<वर्णादनुदात्तात्तोपधात्तो नः>> [[4.1.39]] इति पूर्वसूत्रेण वैकल्पिकः ङीप्-प्रत्ययः भवति; पक्षे <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्-प्रत्ययः अपि विधीयते ।दलकृत्यम्\n1. 'वर्णवाचकशब्दः' इति किमर्थम् ? खट्व इति शब्दः अनुदात्तान्तः अस्ति, अकारान्तः अस्ति परन्तु वर्णवाचकः नास्ति; अतः तस्य विषये इदं सूत्रं न प्रवर्तते । अतः अस्मात् शब्दात् <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्-प्रत्यये कृते खट्वा इति शब्दः सिद्ध्यति ।\n2. 'अनुदान्तान्तः वर्णवाचकशब्दः' इति किमर्थम् ? कृष्ण, कपिल एतौ शब्दौ अकारान्तौ स्तः परन्तु एतयोः अन्तिमः स्वरः अनुदात्तः नास्ति (स्वरितः अस्ति) । अतः एताभ्याम् विषये प्रकृतसूत्रं न प्रवर्तते; अपितु <<अजाद्यतष्टाप्>> [[4.1.4]] इति आकारादेशे कृते कृष्णा, कपिला इत्येव शब्दौ सिद्ध्यतः ।\nङीष्-प्रत्यये इत्संज्ञकवर्णानां प्रयोजनम्\nङीष्-प्रत्यये ङकारपकारयोः इत्संज्ञा भवति । तत्र —\n\n1. इत्संज्ञकः ङकारः सामान्यग्रहणार्थः (to capture ङीप् / ङीष् / ङीन् by a common prefix) स्थापितः अस्ति । <<ङ्याप्प्रातिपदिकात्>> [[4.1.1]] इत्यस्मिन् सूत्रे विद्यमानेन 'ङी' इत्यनेन ङीप्-ङीष्-ङीन्-प्रत्ययानाम् एकत्ररूपेण ग्रहणं भवेत्, इति अत्र प्रयोजनम् ।\n2. इत्संज्ञकः षकारः सामान्यग्रहणविघातार्थः(to distinguish ङीष् from ङीप् and ङीन्) स्थापितः अस्ति । केवलम् 'ङी' इत्युच्यमाने <<ङ्याप्प्रातिपदिकात्>> [[4.1.1]] इत्यत्र; तथा च <<ङ्यापोः संज्ञाछन्दसोर्बहुलम्>> [[6.3.63]] इत्यत्रापि <ऽतदनुबन्धके न अतदनुबन्धकस्यऽ> अनया परिभाषया ङीप्-प्रत्ययस्य ङीन्-प्रत्ययस्य च इष्टं ग्रहणं नैव स्यात्, अतः अत्र (व्यर्थः) षकारः अनुबन्धरूपेण स्थापितः विद्यते ।\n\nङीप्/ङीष्-प्रत्यययोः भेदः\nङीप्-प्रत्ययस्य योजनेन यद् रूपं सिद्ध्यति, तदेव रूपम् ङीष्-प्रत्ययस्य योजनेन अपि सिद्ध्यति । परन्तु तत्र द्वयोः अपि प्रत्यययोः उच्चारणे भेदः विद्यते । ङीप्-प्रत्ययस्य ईकारः <<अनुदात्तौ सुप्पितौ>> [[3.1.4]] इत्यनेन अनुदात्तसंज्ञकः अस्ति । ङीष्-प्रत्ययस्य ईकारः तु <<आद्युदात्तश्च>> [[3.1.3]] इत्यनेन उदात्तसंज्ञकः अस्ति । एतादृशं स्वरभेदम् दर्शयितुम् एव आचार्येण एतौ द्वौ पृथक्-प्रत्ययौ कृतौ स्तः ।" }, "41041": { "sa": "षित्-प्रातिपदिकेभ्यः, गौरादिगणस्य च शब्देभ्यः स्त्रीत्वं द्योतयितुम् ङीष् इति प्रत्ययः विधीयते । ", "sd": "<<स्त्रियाम्>> [[4.1.3]] इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु अन्यतमः ङीष् इति प्रत्ययः प्रकृतसूत्रेण पाठ्यते । येषु प्रातिपदिकेषु षकारः इत्संज्ञकः अस्ति तेभ्यः प्रातिपदिकेभ्यः, तथा च गौरादिगणे पाठितेभ्यः प्रातिपदिकेभ्यः स्त्रीत्वं द्योतयितुम् 'ङीष्' इति प्रत्ययः विधीयते — इति अस्य सूत्रस्य अर्थः । क्रमेण विवरणम् एतादृशम् — \n1. षिद्भ्यः प्रातिपदिकेभ्यः स्त्रीत्वं द्योतयितुम् ङीष्-प्रत्ययः विधीयते ।\nप्रातिपदिकेषु विद्यमानं षित्वं तेभ्यः विहितस्य प्रत्ययस्य आधारेण सम्भवति । अतः यानि प्रातिपदिकानि षित्-प्रत्ययस्य योजनेन सिद्ध्यन्ति, तेभ्यः स्त्रीत्वं द्योतयितुम् ङीष्-प्रत्ययः भवति इति अस्य अंशस्य अर्थः । त्रीणि उदाहरणानि एतानि —\n\n1. पथिन् इत्यस्मात् शब्दात् <<पथः ष्कन्>> [[5.1.75]] इति सूत्रेण ष्कन्-प्रत्यये कृते पथिक इति शब्दः सिद्ध्यति । एतादृशः प्राप्तः पथिक इति शब्दः षित्-प्रत्ययान्तः अस्ति अतः अस्मात् स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीष्-प्रत्यये कृते पथिकी इति शब्दः सिद्ध्यति । प्रक्रिया इयम् —\n\nपथिक + ङीष् [स्त्रीत्वं द्योतयितुम् <<षिद्गौरादिभ्यश्च>> [[4.1.41]] इति ङीष्]\n→ पथिक् + ई [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ पथिकी\n\n2. <<नृतीँ>> (गात्रविक्षेपे, <{4.10 }>) अस्माद् धातोः <<शिल्पिनि ष्वुन्>> [[3.1.145]] इति सूत्रेण ष्वुन्-प्रत्यये कृते नर्तक इति शब्दः सिद्ध्यति । प्रत्ययस्य षित्त्वात् नर्तक इति शब्दः अपि षित् स्वीक्रियते; अतः अस्मात् शब्दात् स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीष्-प्रत्ययः भवति । नर्तक + ङीष् → नर्तकी ।\n3. <<वृङ्>> (सम्भक्तौ, <{9.45}>) अस्माद् धातोः <<जल्पभिक्षकुट्टलुण्टवृङः षाकन्>> [[3.2.155]] इति सूत्रेण षाकन्-प्रत्यये कृते वराक इति शब्दः सिद्ध्यति । अस्मात् स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीष्-प्रत्यये कृते वराक + ङीष् → वराकी इति रूपं सिद्ध्यति । \n\n\n2. गौरादिगणस्य प्रातिपदिकेभ्यः स्त्रीत्वं द्योतयितुम् ङीष्-प्रत्ययः विधीयते ।\nगौरादिगणे पाठितेभ्यः शब्देभ्यः स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीष्-प्रत्ययः भवति । \nगौरादिगणः एतादृशः —\n\nगौरादिगणः — गौर, मत्स्य, मनुष्य, हय, गवय, मुकय, ऋष्य, शृङ्ग, पुट, द्रुण, द्रोण, हरिण, कण, पटर, उकण, आमलक, कुवल, बदर, बिम्ब, तर्कार, शर्कार, पुष्कर, शिखण्ड, सुषम, सलन्द, गडुज, सृपाट, सृगेठ, आढक, शष्कुल, सूर्म, सुब, सूर्य, पूष, मूष, घातक, सकलूक, सल्लक, मालक, मालत, साल्वक, वेतस, अतस, पृस, मह, मठ, छेद, आनन्द, श्वन्, तक्षन्, अनडुही, अनड्वाही, <=एषणः करणे=> (गणसूत्रम्), देह, काकादन, गवादन, तेजन, रजन, लवण, पान, मेध, गौतम, आयस्थूण, भौरि, भौलिकि, भौलिङ्गि, औद्गाहमानि, आलिङ्गि, आपिच्छिक, आरट, टोट, नट, नाट, मलाट, शातन, पातन, पावन, सवन, आस्तरन, अधिकरण, एत, अधिकार, आग्रहायणी, प्रत्यवरोहिणी, सेवन, <=सुमङ्गलात् संज्ञायाम्=> (गणसूत्रम्), सुन्दर, मण्डल, पिण्ड, विटक, कुर्द, गूर्द, पट, पाण्ट, लोफाण्ट, कन्दर, कन्दल, तरुण, तलुन, बृहत्, महत्, सौधर्म, <=रोहिणी नक्षत्रे=> (गणसूत्रम्), <=रेवती नक्षत्रे=> (गणसूत्रम्) विकल, निष्फल, पुष्कल, <=कटाच्छ्रोणिवचने=> (गणसूत्रम्), <=पिप्पल्यादयश्च=> (गणसूत्रम्), मातामह, पितामह । आकृतिगणोऽयम्इति गौरादिगणः ।\n
    गौरादिगणे निर्दिष्टः पिप्पल्यादिगणः अयम् — पिप्पली; हरीतकी; कोशातकी; शमी; करीरी; पृथिवी; क्रोष्ट्री ।\n
    \nगौरादिगणे पाठितानां शब्दानां विषये अन्यैः सूत्रैः औत्सर्गिकरूपेण टाप्/ङीप्-प्रत्यये प्राप्ते; तद्बाधित्वा ङीष्-प्रत्ययः एव इष्यते; अतः तेषाम् ग्रहणम् अस्मिन् गणे कृतम् अस्ति । कानिचन विशिष्टानि उदाहरणानि एतानि —\n\n1. गौर इति शब्दः यद्यपि वर्णवाचकः अस्ति तथापि अस्य अन्तिमः अकारः उदात्तः अस्ति; अतः अस्मात् <<अन्यतो ङीष्>> [[4.1.40]] इत्यनेन ङीष्-प्रत्ययः नैव भवति । अतः अस्मात् ङीष्-प्रत्ययविधानार्थम् अस्मिन् गणे तस्य समावेशः क्रियते । प्रक्रिया इयम् —\n\nगौर + ङीष् [<<षिद्गौरादिभ्यश्च>> [[4.1.41]] इति ङीष्]\n→ गौर् + ई [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ गौरी\n\n2. मत्स्य, मनुष्य, हय, गवय, मुकय, ऋष्य एते सर्वे जातिवाचकशब्दाः सन्ति; परन्तु एते सर्वे यकारोपधाः शब्दाः अपि सन्ति; अतः एतेभ्यः <<जातेरस्त्रीविषयादयोपधात्>> [[4.1.63]] इति सूत्रं नैव प्रसज्यते; अतः एतेभ्यः तेन सूत्रेण ङीष्-प्रत्ययः न सम्भवति । एतेभ्यः अपि ङीष्-प्रत्ययः अवश्यम् इष्यते; अतः एतेषाम् गौरादिगणे समावेशः कृतः अस्ति । वस्तुतस्तु, <<जातेरस्त्रीविषयादयोपधात्>> [[4.1.63]] इति सूत्रे एव इति वार्त्तिकं पाठ्यते, येन हय-गवयादीनां विषये ङीष्-प्रत्ययः अवश्यं भवति । अस्यैव वार्त्तिकस्य पुनर्निर्देशार्थम् गौरादिगणे एते शब्दाः पाठिताः सन्ति । एतेषाम् ङीष्-प्रत्यये परे रूपाणि इत्थं सिद्ध्यन्ति —\n\n(i) मत्स्य + ङीष् → मत्सी । प्रक्रियायाम् <<यस्येति च>> [[6.4.148]] इति अकारलोपः तथा च <<सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः>> [[6.4.149]] इत्यत्र पाठितेन इति वार्त्तिकेन यकारस्य लोपः भवति । \n(ii) मनुष्य + ङीष् → मनुषी । प्रक्रियायाम् <<यस्येति च>> [[6.4.148]] इति अकारलोपः तथा च <<हलस्तद्धितस्य>> [[6.4.150]] इति यकारस्य लोपः भवति । \n(iii) हय + ङीष् → हयी । प्रक्रियायाम् <<यस्येति च>> [[6.4.148]] इति अकारलोपः भवति ।\n(iv) गवय + ङीष् → गवयी । प्रक्रियायाम् <<यस्येति च>> [[6.4.148]] इति अकारलोपः भवति ।\n(v) मुकय + ङीष् → मुकयी । प्रक्रियायाम् <<यस्येति च>> [[6.4.148]] इति अकारलोपः भवति ।\n(vi) ऋष्य + ङीष् → ऋषी । प्रक्रियायाम् <<यस्येति च>> [[6.4.148]] इति अकारलोपः तथा च <<हलस्तद्धितस्य>> [[6.4.150]] इति यकारस्य लोपः भवति । \n\n3. श्वन्, तक्षन् एताभ्याम् <<ऋन्नेभ्यो ङीप्>> [[4.1.5]] इत्यनेन ङीप्-प्रत्यये प्राप्ते तद्बाधित्वा ङीष्-प्रत्ययविधानार्थम् एतयोः गौरादिगणे ग्रहणं कृतम् अस्ति । प्रकिये एतादृश्यौ —\n\nश्वन् + ङीष् [<<षिद्गौरादिभ्यश्च>> [[4.1.41]] इति ङीष्]\n→ शून् + ई [<<श्वयुवमघोनामतद्धिते>> [[6.4.133]] इति सम्प्रसारणम् । <<सम्प्रसारणाच्च>> [[6.1.108] इति पूर्वरूपम् ]\n→ शूनी \n
    \nतक्षन् + ङीष् [<<षिद्गौरादिभ्यश्च>> [[4.1.41]] इति ङीष्]\n→ तक्ष् न् + ई [<<अल्लोपोऽनः>> [[6.4.134]] इति अकारलोपः]\n→ तक्ष्णी [<<रषाभ्यां नो णः समानपदे>> [[8.4.1]] इति णत्वम्]\n
    \n4. अनडुह् इति शब्दः अदन्तः नास्ति अतः अस्मात् शब्दात् स्त्रीप्रत्ययप्रकरणस्य अन्यैः सूत्रैः कोऽपि स्त्रीप्रत्ययः नैव विधीयते । अस्यां स्थितौ, अस्मात् शब्दात् ङीष्-प्रत्ययविधानार्थम्, तदनुषङ्गेन च अस्य शब्दस्य वैकल्पिक-आम्-आगम-विधानार्थम् अस्मात् शब्दात् ङीष्-प्रत्यययोजनं कृत्वा एव अनडुही, अनड्वाही इत्थम् अस्य गौरादिगणे ग्रहणं कृतम् अस्ति । प्रक्रिया एतादृशी —\n\nअनडुह् + ङीष् [<<षिद्गौरादिभ्यश्च>> [[4.1.41]] इति ङीष्]\n→ अनडुह् / अनडु आम् ह् + ङीष् [<<चतुरनडुहोरामुदात्तः>> [[7.1.98]] इत्यस्मिन् सूत्रे पाठितेन इति वार्त्तिकेन, अथ वा गौरादिगणे पाठसामर्थ्यात् अत्र आम् इति आगमः विधीयते । अस्य आगमस्य मकारः इत्संज्ञकः अस्ति; अतः <<मिदचोऽन्त्यात्परः>> [[1.1.47]] इत्यनेन अयम् आगमः अन्त्यात् अचः परः विधीयते ।]\n→ अनडुही / अनड्वाही [<<इको यणचि>> [[6.1.77]] इति यणादेशः]\n\nअनयोः ङीष्-प्रत्ययान्तशब्दयोः अस्मिन् गणे कृतम् ग्रहणम् पुंवद्भावप्रतिषेधार्थम् अपि अस्ति इति न्यासकारेण अत्र स्पष्टीकृतं वर्तते । अतएव, अनडुही भार्या यस्य सः = अनडुहीभार्यः तथा च अनड्वाही भार्या यस्य सः = अनड्वाहीभार्यः इत्यत्र <<स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु>> [[6.3.34]] इत्यनेन प्राप्तः पुंवद्भावः नैव भवति ।\n5. <= एषणः करणे => (गणसूत्रम्) — इष्-धातोः, एष्-धातोः च <<करणाधिकरणयोश्च>> [[3.3.117]] इत्यनेन करणे, अधिकरणे च ल्युट्-प्रत्यये कृते एषण इति शब्दः सिद्ध्यति । अस्मात् शब्दात् स्त्रीत्वं द्योतयितुम् <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इत्यनेन ङीप्-प्रत्ययः प्राप्नोति । अस्यां स्थितौ, यदि ल्युट्-प्रत्ययः करणकारकस्य निर्देशार्थम् विहितः अस्ति, तर्हि ङीप्-प्रत्ययं बाधित्वा ङीष्-प्रत्ययः इष्यते; तदर्थं च इदं गणसूत्रम् निर्मितम् अस्ति । अतः करणकारके एषण + ङीष् → एषणी इति शब्दः सिद्ध्यति । अधिकरणकारके तु एषण + ङीप् → एषणी इत्येव रूपं भवति । उभयत्र यद्यपि रूपं समानमेव दृश्यते; तर्ह्यपि तयोः उच्चारणे भेदः वर्तते । ङीप्-प्रत्ययस्य ईकारः अनुदात्तः अस्ति; ङीष्-प्रत्ययस्य ईकारः तु उदात्तः ज्ञेयः ।\n6. गौतम इति शब्दः <<शार्ङ्गरवाद्यञो ङीन्>> [[4.1.73]] इत्यत्र पाठिते शार्ङ्गरवादिगणे विद्यते । अस्मात् शब्दात् <<शार्ङ्गरवाद्यञो ङीन्>> [[4.1.73]] इत्यनेन ङीन्-प्रत्यये नित्यं प्राप्ते; सः केवलं विकल्पेन एव इष्यते; पक्षे ङीष्-प्रत्ययः अपि इष्यते । अतएव अयं शब्दः गौरादिगणे अपि स्वीकृतः अस्ति । गौतम + ङीष् → गौतमी ।\n7. <=सुमङ्गलात् संज्ञायाम्=> (गणसूत्रम्) — सुमङ्गल-शब्दात् स्त्रीत्वं द्योतयितुम् संज्ञानिर्देशार्थम् ङीष्-प्रत्ययः भवति, येन सुमङ्गली इति शब्दः सिद्ध्यति । संज्ञानिर्देशार्थम् एव <<केवलमामकभागधेयपापापरसमानार्यकृत-सुमङ्गलभेषजाच्च>> [[4.1.30]] इत्यनेन ङीप्-प्रत्ययः अपि विधीयते । भाषायां तु टाप् प्रत्ययः एव भवति । \n8. तरुण, तलुन आभ्यां शब्दाभ्याम् <<वयसि प्रथमे>> [[4.1.20]] इत्यत्र निर्दिष्टेन इति वार्त्तिकेन ङीप्-प्रत्यये प्राप्ते तद्बाधित्वा ङीष्-प्रत्ययविधानार्थम् एतयोः अस्मिन् सूत्रे ग्रहणं क्रियते । तरुण + ङीष् → तरुणीतलुन + ङीष् → तलुनी ।\n9. बृहत्, महत् एताभ्याम् <<उगितश्च>> [[4.1.6]] इत्यनेन प्राप्तस्य ङीप्-प्रत्ययस्य निषेधं कृत्वा ङीष्-प्रत्ययविधानार्थम् एतयोः अस्मिन् गणे ग्रहणं क्रियते । बृहत् + ङीष् → बृहतीमहत् + ङीष् → महती । \n10. <=रोहिणी नक्षत्रे=>, <=रेवती नक्षत्रे=> (गणसूत्रे) — रोहित तथा रेवत शब्दाभ्यां नक्षत्रस्य निर्देशार्थम् ङीष्-प्रत्ययः विधीयते — अनयोः गणसूत्रयोः अर्थः । यथा, रोहित + ङीष् → रोहिणी (नक्षत्रम्)रेवत + ङीष् → रेवती (नक्षत्रम्) । \n11. <=कटाच्छ्रोणिवचने=> (गणसूत्रम्) — कट-शब्दात् शरीरस्य अवयवस्य निर्देशार्थम् ङीष्-प्रत्ययः भवति — इति अस्य गणसूत्रस्य अर्थः । कट +ङीष् → कटी । अन्यत्र टाप्-प्रत्यये कृते कटा इत्येव सिद्ध्यति ।\n12. <=पिप्पल्यादयश्च=> (गणसूत्रम्) — पिप्पल्यादिगणे स्त्रीप्रत्ययस्य योजनं कृत्वा एव केचन शब्दाः पाठिताः सन्ति । एतेषु विद्यमानः स्त्रीप्रत्ययः ङीष् एव ज्ञेयः — इति अस्य गणसूत्रस्य अर्थः ।\n13. मातामह, पितामह — एताभ्यां शब्दाभ्यां स्त्रीत्वं द्योतयितुम् ङीष्-प्रत्ययः भवति । यथा, मातामह + ङीष् → मातामहीपितामह + ङीष् → पितामही ।\nवस्तुतस्तु, <<पितृव्यमातुलमातामहपितामहाः>> [[4.2.36]] अस्मिन् सूत्रे दत्तेन अनेन वार्त्तिकेन पितृ-मातृ-शब्दाभ्याम् विहितः 'डामहच्' प्रत्ययः षिद् एव उक्तः अस्ति; अतः प्रकृतसूत्रेण षित्त्वात् एव एताभ्याम् ङीष्-प्रत्यये प्राप्ते एतयोः गौरादिगणे समावेशः व्यर्थः भवति । व्यर्थं सन् अयं ज्ञापयति — षित्-लक्षणः ङीष् अनित्यः अस्ति — इति । कुत्रचित् षित्-प्रत्ययान्तशब्देभ्यः ङीष्-प्रत्ययः नैव विधीयते — इति अस्य आशयः । अतएव <<दंश्>> (दशने, <{1.1144}>) इति धातोः <<दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे>> [[3.2.182]] इत्यनेन ष्ट्रन्-प्रत्यये कृते दंश् + ष्ट्रन् = दंष्ट्र इति सिद्धः यः दंष्ट्र-शब्दः, तस्मात् ङीष्-प्रत्ययः न भवति अपितु <<अजाद्यतष्टाप्>> [[4.1.4]] इत्यनेन टाप्-प्रत्ययं कृत्वा दंष्ट्रा इत्येव शब्दः सिद्ध्यति ।\n\nगौरादिगणस्य प्रत्येकं शब्दस्य विषये कस्य प्रत्ययस्य बाधं कृत्वा ङीष्-प्रत्ययः विधीयते तत् न्यासे, पदमञ्जर्यां च विस्तरेण, सरलभाषया निर्दिष्टम् अस्ति । जिज्ञासुभिः सः विषयः तत्रैव द्रष्टव्यः ।\nअनुपसर्जनात् इत्यधिकारः\nप्रकृतसूत्रम् <<अनुपसर्जनात्>> [[4.1.14]] इत्यस्मिन् अधिकारे विद्यते । अतः यत्र षित्-शब्दाः, गौरादिगणस्य वा शब्दाः अनुपसर्जनरूपेण समासे विद्यन्ते; तत्र प्रकृतसूत्रस्य प्रयोगः न भवति । अतएव बहवः सुन्दराः यस्या सा इत्यत्र बहुव्रीहिसमासेन प्राप्तात् बहुसुन्दर शब्दात् <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्-प्रत्ययः एव भवति, येन बहुसुन्दरा इति शब्दः सिद्ध्यति ।\nङीष्-प्रत्यये इत्संज्ञकवर्णानां प्रयोजनम्\nङीष्-प्रत्यये ङकारपकारयोः इत्संज्ञा भवति । तत्र —\n\n1. इत्संज्ञकः ङकारः सामान्यग्रहणार्थः (to capture ङीप् / ङीष् / ङीन् by a common prefix) स्थापितः अस्ति । <<ङ्याप्प्रातिपदिकात्>> [[4.1.1]] इत्यस्मिन् सूत्रे विद्यमानेन 'ङी' इत्यनेन ङीप्-ङीष्-ङीन्-प्रत्ययानाम् एकत्ररूपेण ग्रहणं भवेत्, इति अत्र प्रयोजनम् ।\n2. इत्संज्ञकः षकारः सामान्यग्रहणविघातार्थः(to distinguish ङीष् from ङीप् and ङीन्) स्थापितः अस्ति । केवलम् 'ङी' इत्युच्यमाने <<ङ्याप्प्रातिपदिकात्>> [[4.1.1]] इत्यत्र; तथा च <<ङ्यापोः संज्ञाछन्दसोर्बहुलम्>> [[6.3.63]] इत्यत्रापि <ऽतदनुबन्धके न अतदनुबन्धकस्यऽ> अनया परिभाषया ङीप्-प्रत्ययस्य ङीन्-प्रत्ययस्य च इष्टं ग्रहणं नैव स्यात्, अतः अत्र (व्यर्थः) षकारः अनुबन्धरूपेण स्थापितः विद्यते ।\n\nङीप्/ङीष्-प्रत्यययोः भेदः\nङीप्-प्रत्ययस्य योजनेन यद् रूपं सिद्ध्यति, तदेव रूपम् ङीष्-प्रत्ययस्य योजनेन अपि सिद्ध्यति । परन्तु तत्र द्वयोः अपि प्रत्यययोः उच्चारणे भेदः विद्यते । ङीप्-प्रत्ययस्य ईकारः <<अनुदात्तौ सुप्पितौ>> [[3.1.4]] इत्यनेन अनुदात्तसंज्ञकः अस्ति । ङीष्-प्रत्ययस्य ईकारः तु <<आद्युदात्तश्च>> [[3.1.3]] इत्यनेन उदात्तसंज्ञकः अस्ति । एतादृशं स्वरभेदम् दर्शयितुम् एव आचार्येण एतौ द्वौ पृथक्-प्रत्ययौ कृतौ स्तः ।" }, "41042": { "sa": "जानपद, कुण्ड, गोण, स्थल, भाज, नाग, काल, नील, कुश, कामुक, कबर — एतेभ्यः एकादशभ्यः शब्देभ्यः यथासङ्ख्यम् — वृत्तिः, अमत्रा, आवपना, अकृत्रिमा, श्राणा, स्थौल्यम्, वर्णः, अनाच्छादनम्, अयोविकारः, मैथुनेच्छा, केशवेश — एतेषु अर्थेषु स्त्रीत्वं द्योतयितुम् ङीष्-प्रत्ययः भवति । ", "sd": "<<स्त्रियाम्>> [[4.1.3]] इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु अन्यतमः ङीष् इति प्रत्ययः प्रकृतसूत्रेण पाठ्यते । जानपदादिभ्यः एकादशभ्यः प्रातिपदिकेभ्यः वृत्त्यादिषु अर्थेषु स्त्रीत्वं द्योतयितुम् ङीष्-प्रत्ययः विधीयते — इति अस्य सूत्रस्य अर्थः । क्रमेण विवरणम् एतादृशम् —\n\n1. जानपद-शब्दात् वृत्तिः (उपजीविका, to make a living) अस्मिन् अर्थे स्त्रीत्वं द्योतयितुम् ङीष्-प्रत्ययः विधीयते । जानपद + ङीष् → जानपदी वृत्तिःजानपद-शब्दः अञ्-प्रत्ययान्तः अस्ति अतः अस्मात् <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इत्यनेन ङीप्-प्रत्यये प्राप्ते तद्बाधित्वा ङीष्-प्रत्ययविधानार्थम् अस्मिन् सूत्रे तस्य ग्रहणं कृतम् अस्ति । वृत्तिभिन्नेषु अर्थेषु तु अवश्यं ङीप्-प्रत्ययः विधीयते ।\n2. कुण्ड-शब्दात् अमत्रम् (पात्रविशेषः, to denote name of a specific vessel) अस्मिन् अर्थे स्त्रीत्वं द्योतयितुम् ङीष्-प्रत्ययः विधीयते । कुण्ड + ङीष् → कुण्डी (bowl / pitcher / कमण्डलुः इत्यर्थः) । अन्येषु अर्थेषु अजन्तलक्षणः टाप्-प्रत्ययः एव भवति ।\n3. गोण-शब्दात् आवपनम् (धान्यानां सङ्कलनार्थम् प्रयुक्त: स्यूतः उत पात्रम्, a bag or a vessel used to collect the grains) अस्मिन् अर्थे स्त्रीत्वं द्योतयितुम् ङीष्-प्रत्ययः विधीयते । गोण + ङीष् → गोणी (grain-sack) । अन्येषु अर्थेषु अजन्तलक्षणः टाप्-प्रत्ययः एव भवति ।\n4. स्थल-शब्दात् अकृत्रिमा भूमिः (naturally occurring, not modified land) अस्मिन् अर्थे स्त्रीत्वं द्योतयितुम् ङीष्-प्रत्ययः विधीयते । स्थल + ङीष् → स्थली (grain-sack) । अन्येषु अर्थेषु अजन्तलक्षणः टाप्-प्रत्ययः एव भवति ।\n5. भाज-शब्दात् पक्वम् अन्नम् (cooked food item, like vegetables or rice) अस्मिन् अर्थे स्त्रीत्वं द्योतयितुम् ङीष्-प्रत्ययः विधीयते । भाज + ङीष् → भाजी (cooked, ready to eat food) । अन्येषु अर्थेषु अजन्तलक्षणः टाप्-प्रत्ययः एव भवति । यथा, भाजा = अपक्वाः शाकाः ।\n6. नाग इति शब्दात् स्थूला (fat, overweight) अस्मिन् अर्थे स्त्रीत्वं द्योतयितुम् ङीष्-प्रत्ययः विधीयते । नाग (गजः) + ङीष् → नागी(female elephant). नाग-शब्दः 'सर्पः ' अस्मिन् अर्थे अपि प्रयुज्यते, परन्तु तत्र स्थूलः इति सन्दर्भः नैव विद्यते अत्र अजन्तलक्षणः टाप्-प्रत्ययः एव भवति, येन नागा (सर्पिणी) इति शब्दः सिद्ध्यति ।\n7. काल-शब्दात् वर्णः अस्मिन् अर्थे स्त्रीत्वं द्योतयितुम् ङीष्-प्रत्ययः विधीयते । काल + ङीष् → काली (a black-colored person or object) । अन्येषु अर्थेषु अजन्तलक्षणः टाप्-प्रत्ययः एव भवति ।\n8. नील-शब्दात् अनाच्छादनम् (आच्छादनभिन्नार्थः / something that is not worn on the body) अस्मिन् अर्थे स्त्रीत्वं द्योतयितुम् ङीष्-प्रत्ययः विधीयते । अत्र वार्त्तिककारः अनाच्छादनम्-शब्दस्य अर्थं स्पष्टीकरोति — । अतः नील-शब्दात् ओषधिः अथवा प्राणी अस्मिन् अर्थे स्त्रीत्वं द्योतयितुम् ङीष्-प्रत्ययः विधीयते । एवमेव, संज्ञानिर्देशार्थम् विकल्पेन ङीष्-प्रत्ययः भवति ।यथा, नील + ङीष् → नीली ओषधिः / नीली वडवा / नीली गौः । अन्येषु अर्थेषु तु टाप् एव भवति, यथा नीला शाटिका, नीला नदी, नीला लेखनी — आदयः ।\n9. कुश-शब्दात् अयोविकारः (लोहनिर्मितम् यन्त्रम्, an instrument made of iron, E.g. axe) अस्मिन् अर्थे स्त्रीत्वं द्योतयितुम् ङीष्-प्रत्ययः विधीयते । कुश + ङीष् → कुशी । अन्येषु अर्थेषु टाप्-प्रत्ययः एव भवति ।\n10. कामुक-शब्दात् मैथुनेच्छावती (lustful woman) अस्मिन् अर्थे स्त्रीत्वं द्योतयितुम् ङीष्-प्रत्ययः विधीयते । यद्यपि सूत्रे केवलम् मैथुनेच्छा इति निर्दिश्यते; तथापि अत्र तद्गुणवत्याः स्त्रियः निर्देशार्थम् एव ङीष्-प्रत्ययः भवति (न हि केवलायाः इच्छायाः निर्देशार्थम्) इति अत्र काशिकाकारेण स्पष्टी क्रियते । यथा कामुक + ङीष् → कामुकी (lustful woman) । अन्येषु अर्थेषु तु टाप् एव भवति, यथा कामुका = मैथुनभिन्नः कामः (यथा, धनादिकस्य इच्छा) यस्याः वर्तते सा स्त्री ।\n11. कबर-शब्दात् केशवेशवती (a woman with non-conventional hair style) । यद्यपि सूत्रे केवलम् केशवेशा इति निर्दिश्यते; तथापि अत्र तद्गुणवत्याः स्त्रियः निर्देशार्थम् एव ङीष्-प्रत्ययः भवति (न हि केवलायाः केशवेशायाः निर्देशार्थम्) इति अत्र न्यासे निर्दिष्टम् अस्ति । यथा कबर + ङीष् → कबरी (a woman with non-conventional hair style) । अन्येषु अर्थेषु तु टाप् एव भवति ।\n\nसूत्रनिर्माणम्\nप्रकृतसूत्रे विद्यमानयोः शब्दयोः वचनम् भिन्नम् अस्ति । तस्य स्पष्टीकरणम् एतादृशम् —\n\n1. जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबरात् — इति प्रथमः शब्दः समाहारद्वन्द्वेन निर्मितः अस्ति; अतः अत्र एकवचनम् प्रयुक्तम् अस्ति ।\n2. वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु — इति द्वितीयः शब्दः इतरेतरद्वन्द्वेन निर्मितः अस्ति; अतः अत्र बहुवचनम् प्रयुक्तम् अस्ति ।\n" }, "41043": { "sa": "'शोण' इति शब्दात् स्त्रीत्वं द्योतयितुम् प्राचाम् आचार्याणाम् मतेन ङीष्-प्रत्ययः भवति । ", "sd": "शोणः (अधिकरक्तवर्णः, intense red color) अस्मात् शब्दात् स्त्रीत्वं द्योतयितुम् <<अन्यतो ङीष्>> [[4.1.40]] इति सूत्रेण नित्यं ङीष्-प्राप्ते प्रकृतसूत्रेण सः विकल्प्यते । पूर्वदिशि विद्यमानानाम् आचार्याणां मतेन एव शोण-शब्दात् ङीष्-प्रत्ययः भवति — इति अस्य सूत्रस्य अर्थः । ङीष्-प्रत्यये कृते शोण + ङीष् → शोणी इति सिद्ध्यति । पक्षे अजन्तलक्षणः टाप्-प्रत्ययः अपि विधीयते, येन शोणा इति रूपं सिद्ध्यति । " }, "41044": { "sa": "उकारान्त-गुणवाचकशब्दात् स्त्रीत्वं द्योतयितुम् विकल्पेन ङीष्-प्रत्ययः विधीयते । ", "sd": "<<स्त्रियाम्>> [[4.1.3]] इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु अन्यतमः ङीष् इति प्रत्ययः प्रकृतसूत्रेण पाठ्यते । यः उकारान्तः शब्दः गुणवाचकः अस्ति, तस्मात् स्त्रीत्वं द्योतयितुम् विकल्पेन ङीष्-प्रत्ययः भवति — इति अस्य सूत्रस्य अर्थः । कानिचन उदाहरणानि एतानि —\n\n1. लघु + ङीष् → लघ्वी । यथा, 'लघ्वी च असौ सिद्धान्तकौमुदी च = लघुसिद्धान्तकौमुदी' । \n2. गुरु + ङीष् → गुर्वी । यथा, 'गुर्वी तस्याः कामावस्था' । \n3. पृथु + ङीष् → पृथ्वी ।\n4. बहु + ङीष् → बह्वी ।\n5. पटु + ङीष् → पट्वी ।\n6. मृदु + ङीष् → मृद्वी । \n7. साधु + ङीष् → साध्वी ।\n8. उरु + ङीष्‌ → उर्वी\n\nप्रकृतसूत्रेण उक्तः ङीष्-प्रत्ययः विकल्पेन एव भवति, अतः पक्षे लघु, गुरु, पृथु आदयः शब्दाः तादृशाः एव स्त्रीलिङ्गे अपि प्रयुज्यन्ते । यथा, लघुः रात्रिः, गुरुः व्याख्या — इत्यादयः । \nदलकृत्यम्\n1.'उकारान्तशब्दात्' इति किमर्थम् ?शुचि इति इकारान्त-गुणवाचकशब्दात् प्रकृतसूत्रेण ङीष्-प्रत्ययः न भवति । यथा, शुचिः ब्राह्मणी ।\n2. 'गुणवचनात्' इति किमर्थम् ?आखु इति उकारान्तशब्दः गुणवाचकः नास्ति, अतः अस्मात् शब्दात् प्रकृतसूत्रेण ङीष्-प्रत्ययः न भवति ।\nवार्त्तिकद्वयम्\nप्रकृतसूत्रस्य भाष्ये द्वे वार्त्तिके पाठिते स्तः — \n\n1. वसु (निर्मलता) इति गुणवाचकशब्दात् ङीप्-प्रत्ययः भवति — इति अस्य वार्त्तिकस्य अर्थः । यथा, वसु + ङीप् → वस्वी । ङीष्-प्रत्ययेन अन्तोदात्तशब्दस्य निर्माणं भवेत्, परन्तु वस्वी इति शब्दः आद्युदात्तः अस्ति; अतः तस्य निर्माणार्थम् ङीप्-प्रत्ययः इष्यते । तस्यैव विधानम् अनेन वार्त्तिकेन कृतम् अस्ति ।\n2. खरु (उत्कण्ठा) इति शब्दात्, तथा च यस्मिन् शब्दे उपधायाम् संयोगः अस्ति तादृशात् शब्दात् प्रकृतसूत्रेण ङीष्-प्रत्ययः न भवति — इति अस्य वार्त्तिकस्य आशयः । यथा, खरुः ब्राह्मणी । या कन्या पतिंवरा अस्ति, इत्युक्ते स्वस्य पत्युः स्वयमेव चयनं करोति, सा खरुः नाम्ना ज्ञायते । एवमेव पण्डुः ब्राह्मणी अत्र संयोगोपधत्वात् ङीष्-प्रत्ययः न भवति । \n\n<pv>'गुणवाचकः' इत्यस्य अर्थः\nव्याकरणशास्त्रं शब्दानां सामान्यरूपेण चतुर्षु गणेषु विभाजनं कृतम् अस्ति — जातिवाचकशब्दाः, गुणवाचकशब्दाः, क्रियावाचकशब्दाः, तथा च संज्ञावाचकशब्दाः । एतेभ्यः गुणवाचकशब्दानां विषये प्रकृतसूत्रम् प्रवर्तते ।<<आ कडारादेका संज्ञा>> [[1.4.1]] अस्य सूत्रस्य भाष्ये अन्ते भाष्यकारेण गुणवाचकशब्दानां विवरणं कृतं लभ्यते । तत्र — समास-कृदन्त-तद्धितान्त-अव्यय-सर्वनाम-जाति-संख्या-संज्ञाशब्द-व्यतिरिक्तम् अर्थवद् शब्दस्वरूपम् गुणवचनसंज्ञं भवति इति भाष्यकारस्य आशयः वर्तते । प्रकृतसूत्रस्य भाष्ये अपि एकया कारिकया गुणवाचकशब्दानां व्याख्या भाष्ये दत्ता दृश्यते — \n\nसत्त्वे निविशतेऽपैति पृथग् जातिषु दृश्यते\nआधेयश्चाक्रियाजश्च सोऽसत्त्वप्रकृतिर्गुणः\n\nपादशः अर्थः — \n\n(i) सत्त्वे निविशते, अपैति‌—‌ गुणः इत्युक्ते सः पदार्थः यः नित्यं द्रव्ये एव तिष्ठति (द्रव्यात् पृथक्, स्वतन्त्ररूपेण नैव भवितुम् अर्हति), परन्तु तस्य नाशः तु अवश्यं सम्भवति (इत्युक्ते, एकवारं द्रव्ये दृश्यते चेत् सर्वदा तत्र भवेद् एव इति न आवश्यकम् ) । यथा, आम्रस्य हरितवर्णः, आम्लता वा आम्रस्यैव आधारेण विद्यते परन्तु गच्छता कालेन तस्मात् अवश्यं दूरी भवति (निर्गच्छति) । \n(ii) पृथग् जातिषु दृश्यते — गुणः इत्युक्ते सः पदार्थः यः भिन्नासु जातिषु दृश्यते । यथा, शुक्लत्वगुणः घटे अपि भवति, पटे अपि भवति, धेनौ अपि भवति, मेघे अपि भवति । जातित्वं तु एकस्यां जातौ एव विद्यते; अतः गुणः जातेः अपि भिन्नः ज्ञेयः —‌ इति आशयः । \n(iii) आधेयश्च अक्रियाजश्च — गुणः इत्युक्ते सः पदार्थः यः कुत्रचित् क्रियया जायते, कुत्रचित् क्रियां विना अपि जायते । यथा, घटस्य रक्तवर्णः अग्निना सह संयोगे कृते दाहेन सिद्ध्यति, परन्तु आकाशस्य 'महत्त्वम्' इति गुणः न हि कयाचित् क्रियया सिद्ध्यति । अतः क्रियया गुणः भिन्नः अस्ति इत्याशयः । \n(iv) सः असत्त्वप्रकृतिः गुणः — गुणः इत्युक्ते सः पदार्थः यः यद्यपि द्रव्यस्यैव आधारेण तिष्ठति तथापि द्रव्यभिन्नः अस्ति । वस्तुतः पूर्वोक्तैः त्रिभिः विशेषैः अपि गुणात् द्रव्यस्य भिन्नत्वं न हि सिद्ध्यति, अतः अत्र चतुर्थे पादे अयं स्पष्टः निर्देशः आवश्यकः वर्तते । अस्य स्पष्टीकरणम् एतादृशम् — द्रव्यम् (यथा, नासिका, हस्तौ, पादौ, मुखम् इत्यादयः) अपरे द्रव्ये (यथा, शरीरे) तिष्ठति, परन्तु तस्य नाशः अपि सम्भवति । एकमेव द्रव्यं (यथा, नासिकादिकम्) पृथक् जातिषु दृश्यते । तथैव द्रव्यम् (यथा, नासिकादिकम्) उत्पाद्यम् अपि अस्ति, तथैव किञ्चित् अन्यद् द्रव्यम् (यथा, आकाशः) अनुत्पाद्यम् अपि अस्ति । अनेन प्रकारेण द्रव्यम् अपि पूर्वोक्तैः त्रिभिः विशेषैः ग्रहीतुम् शक्यम् । एतादृश्याः अतिव्याप्तेः निर्मूलनार्थम् एव अस्मिन् चतुर्थे पादे द्रव्यभिन्नः पदार्थः गुणः इति स्पष्टः निर्देशः कृतः दृश्यते । \n
    \nअनेन प्रकारेण द्रव्यभिन्नः ,जातिभिन्नः, क्रियाभिन्नः च पदार्थः गुणसंज्ञकः भवति — इति अस्याः कारिकायाः आशयः ।\n
    \nअस्मिन्नेव सन्दर्भे भाष्यकारेण अन्यः अपि कश्चन श्लोकः निर्दिष्टः वर्तते —‌\n\nउपैत्यन्यज्जहात्यन्यद् दृष्टो द्रव्यान्तरेष्वपि । \nवाचकः सर्वलिङ्गानां द्रव्यादन्यो गुणः स्मृतः॥\n\nपादशः अर्थः — \n\n(i) उपैति अन्यत्, जहाति अन्यत्‌—‌ गुणः इत्युक्ते सः पदार्थः कदाचित् द्रव्यस्य आश्रयं स्वीकरोति; कदाचित् द्रव्यस्य आश्रयं त्यजति । \n(ii) दृष्टः द्रव्यान्तरेषु अपि — गुणः इत्युक्ते सः पदार्थः यः भिन्नेषु पृथक् द्रव्येषु (सजातीयेषु विजातीयेषु च) दृश्यते ।\n(iii) वाचकः सर्वलिङ्गानाम् — गुणः इत्युक्ते सः पदार्थः यः लिङ्गवाचकः अस्ति (लिङ्गस्य निर्देशं करोति, अतः क्रियाभिन्नः अस्ति इत्याशयः) ।\n(iv) द्रव्याद् अन्यः गुणः स्मृतः — गुणः इत्युक्ते सः पदार्थः यः द्रव्यभिन्नः अस्ति । \n
    \nअत्रापि द्रव्यभिन्नः, जातिभिन्नः, क्रियाभिन्नः च पदार्थः गुणसंज्ञकः भवति — इति विषयः स्पष्टीकृतः दृश्यते । \n
    " }, "41045": { "sa": "बह्वादिगणस्य शब्देभ्यः स्त्रीत्वं द्योतयितुम् विकल्पेन ङीष्-प्रत्ययः विधीयते । ", "sd": "<<स्त्रियाम्>> [[4.1.3]] इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु अन्यतमः ङीष् इति प्रत्ययः प्रकृतसूत्रेण पाठ्यते । बह्वादिगणस्य शब्देभ्यः स्त्रीत्वं द्योतयितुम् विकल्पेन ङीष्-प्रत्ययः भवति — इति अस्य सूत्रस्य अर्थः । \nबह्वादिगणः एतादृशः —\n\nबह्वादिगणः — बहु, पद्धति, अङ्कति, अञ्चति, अंहति, वंहति, शकटि, <=शक्तिः शस्त्रे=> (गणसूत्रम्), शारि, वारि, गति, अहि, कपि, मुनि, यष्टि, <=इतः प्राण्यङ्गात्=> (गणसूत्रम्), <=कृदिकारादक्तिनः=> (गणसूत्रम्), <=सर्वतोऽक्तिन्नर्थादित्येके=> (गणसूत्रम्), चण्ड, अराल, कमल, कृपाण, विकट, विशाल, विशङ्कट, भरुज, ध्वज, <=चन्द्रभागान्नद्याम्=> (गणसूत्रम्), कल्याण, उदार, पुराण, अहन् । इति बह्वादिगणः\n\n" }, "41046": { "sa": "", "sd": "" }, "41047": { "sa": "", "sd": "" }, "41048": { "sa": "", "sd": "" }, "41049": { "sa": "", "sd": "" }, "41050": { "sa": "", "sd": "" }, "41051": { "sa": "", "sd": "" }, "41052": { "sa": "", "sd": "" }, "41053": { "sa": "", "sd": "" }, "41054": { "sa": "", "sd": "" }, "41055": { "sa": "", "sd": "" }, "41056": { "sa": "", "sd": "" }, "41057": { "sa": "", "sd": "" }, "41058": { "sa": "", "sd": "" }, "41059": { "sa": "", "sd": "" }, "41060": { "sa": "", "sd": "" }, "41061": { "sa": "", "sd": "" }, "41062": { "sa": "", "sd": "" }, "41063": { "sa": "", "sd": "" }, "41064": { "sa": "", "sd": "" }, "41065": { "sa": "", "sd": "" }, "41066": { "sa": "", "sd": "" }, "41067": { "sa": "", "sd": "" }, "41068": { "sa": "", "sd": "" }, "41069": { "sa": "", "sd": "" }, "41070": { "sa": "", "sd": "" }, "41071": { "sa": "", "sd": "" }, "41072": { "sa": "", "sd": "" }, "41073": { "sa": "", "sd": "" }, "41074": { "sa": "", "sd": "" }, "41075": { "sa": "", "sd": "" }, "41076": { "sa": "इतः परम् पञ्चमाध्यायस्य समाप्तिपर्यन्तं ये प्रत्ययाः वक्ष्यन्ते ते तद्धितसंज्ञकाः भवन्ति । ", "sd": "अयम् तद्धिताधिकारः । अस्मात् सूत्रात् तद्धितप्रत्ययाः आरभन्ते । एतेषां व्याप्तिः पञ्चमाध्यायस्य चतुर्थपादस्य अन्तिमसूत्रपर्यन्तमस्ति । एतेषु सर्वेषु सूत्रेषु ये ये प्रत्ययाः प्रोक्ताः सन्ति, ते सर्वे तद्धितसंज्ञकाः भवन्ति ।\nअत्र केचन बिन्दवः ज्ञातव्याः -\n1) पाणिनिना 'तद्धित' शब्दस्य व्याख्या न दीयते । परन्तु शास्त्रे अस्य शब्दस्य अर्थः 'तेभ्यः हिताः तद्धिताः' एतादृशम् क्रियते । 'तेभ्यः' इत्युक्ते 'प्रयोगेभ्यः' । 'हिताः' इत्युक्ते 'उपकारिणः' । इत्युक्ते, ते प्रत्ययाः, ते प्रयोगार्थमुपयुक्ताः सन्ति, तथा च येषाम् योजनेन प्रयोगे माधुर्यम् लाघवम् च आगच्छति, ते प्रत्ययाः 'तद्धितप्रत्ययाः' नाम्ना ज्ञायन्ते । यथा, 'गुरो भावः' इत्यस्य स्थाने 'अण्' इति तद्धितप्रत्ययस्य प्रयोगं कुर्मश्चेत् 'गौरव' इति शब्दः सिद्ध्यति । अयं शब्दः प्रयोगे 'गुरोः भावः' एतमेव अर्थम् निर्देशयति, तथा च, 'गुरोः भावः' इत्यस्य अपेक्षया प्रयोगे सुश्राव्यः अपि भासते । अनेन प्रकारेण तद्धितप्रत्ययाः प्रयोगस्य हितार्थम् प्रयुज्यन्ते ।\n2) अष्टाध्याय्यामस्मिन् अधिकारे आहत्य 281 प्रत्ययाः पाठिताः सन्ति । एते प्रत्ययाः भिन्नेषु अर्थेषु भिन्नेभ्यः प्रातिपदिकेभ्यः विधीयन्ते । सर्वे प्रत्ययाः सर्वेषु अर्थेषु उत सर्वेभ्यः प्रातिपदिकेभ्यः न भवन्ति एतत् स्मर्तव्यम् ।\n3) अस्मिन् अधिकारे उपस्थितानि सूत्राणि प्रायः द्वयोः प्रकारयोः सन्ति । प्रथमप्रकारस्य सूत्राणि 'अर्थम्' वदन्ति । यथा - <<तस्य अपत्यम्>> [[4.1.92]], <<तस्य निवासः>> [[4.2.69]] - आदयः । द्वितीयप्रकारस्य सूत्राणि 'प्रत्ययम्' वदन्ति । यथा - <<गर्गादिभ्यः यञ्>> [[4.1.105]], <<वृद्धात् छः>> [[4.2.114]] । कानिचन सूत्राणि अर्थमपि वदन्ति, प्रत्ययमपि वदन्ति । यथा - <<तदस्यां प्रहरणमिति क्रीडायां णः>> [[4.2.57]], <<धान्यानां भवने क्षेत्रे खञ्>> [[5.2.1]] आदयः । कस्यापि तद्धितान्तशब्दस्य सम्यक् निष्पत्त्यै 'सः शब्दः कस्मिन् अर्थे कस्मात् प्रातिपदिकात् कस्मिन् प्रत्यये परे निर्मितः अस्ति' अस्य ज्ञानं आवश्यकं वर्तते, तदर्थम् च द्वयोः प्रकारयोः सूत्रयोः साहाय्यम् स्वीक्रियते ।\n4) तद्धितप्रकरणे ये अर्थाः पाठिताः सन्ति, तेषाम् प्रामुख्येन पञ्च विभागाः क्रियन्ते, ये 'महोत्सर्गाः' नाम्ना ज्ञायन्ते । एते पञ्च महोत्सर्गाः एतादृशाः -\nक) प्राक्-दीव्यतीय-अर्थानाम् प्रथमः महोत्सर्गः । अस्मिन् महोत्सर्गे 44 अर्थाः पाठिताः सन्ति । एतेषां सर्वेषां विषये औत्सर्गिकरूपेण 'अण्' प्रत्ययः विधीयते ।\nख) प्राक्-वहतीय-अर्थानाम् द्वितीयः महोत्सर्गः । अस्मिन् महोत्सर्गे 36 अर्थाः पाठिताः सन्ति । एतेषां सर्वेषां विषये औत्सर्गिकरूपेण 'ठक्' प्रत्ययः विधीयते ।\nग) प्राक्-हितीय-अर्थानाम् तृतीयः महोत्सर्गः । अस्मिन् महोत्सर्गे 31 अर्थाः पाठिताः सन्ति । एतेषां सर्वेषां विषये औत्सर्गिकरूपेण 'यत्' प्रत्ययः विधीयते ।\nघ) प्राक्-क्रीतीय-अर्थानाम् चतुर्थः महोत्सर्गः । अस्मिन् महोत्सर्गे 3 अर्थाः पाठिताः सन्ति । एतेषां सर्वेषां विषये औत्सर्गिकरूपेण 'छ' प्रत्ययः विधीयते ।\nङ) प्राक्-वतीय-अर्थानाम् पञ्चमः महोत्सर्गः । अस्मिन् महोत्सर्गे 27 अर्थाः पाठिताः सन्ति । एतेषां सर्वेषां विषये औत्सर्गिकरूपेण 'ठञ्' प्रत्ययः विधीयते ।\nअनेन प्रकारेण एतेषु पञ्च महोत्सर्गेषु आहत्य 141 अर्थाः उच्यन्ते । एतान् विहाय अपि अन्ये अनेके अर्थाः पञ्चमाध्यायस्य अन्तिम-त्रय-पादेषु उक्ताः सन्ति ।\n5) <<स्त्रियाम्>> [[4.1.3]] अस्मात् सूत्रात् आरब्धः स्त्र्यधिकारः इदानीमपि चलन् अस्ति । <<दैवयज्ञि..>> [[4.1.81]] इति यावत् <<स्त्रियाम्>> [[4.1.3]] अधिकारस्य व्याप्तिः अस्ति । अतः वर्तमानसूत्रात् आरभ्य <<दैवयज्ञि..>> [[4.1.81]] इति यावत्सु सूत्रेषु प्रोक्ताः प्रत्ययाः स्त्रीप्रत्ययाः अपि सन्ति, तद्धितसंज्ञकाः अपि सन्ति । तस्मात् अग्रे <<समर्थानाम् प्रथमात् वा>> [[4.1.82]] इत्यस्मात् सूत्रात् केवलं तद्धितप्रत्ययाः एव उच्यन्ते ।\n6) अस्मिन् सूत्रे आचार्यः 'तद्धित' शब्दस्य बहुवचनस्य प्रयोगं करोति । अस्मिन् विषये काशिकाकारः वदति - 'बहुवचनमनुक्त-तद्धित-परिग्रहार्थम्' । इत्युक्ते, केचन तद्धितप्रत्ययाः अत्र न प्रोक्ताः सन्ति (परन्तु प्रयोगे दृश्यन्ते) । तेषामपि ग्रहणं कर्तुमत्र बहुवचनस्य प्रयोगः क्रियते । " }, "41077": { "sa": "उपसर्जनभिन्न-युवन्-शब्दात् स्त्रीत्वं द्योतयितुम् 'ति' इति तद्धितसंज्ञकः स्त्री-प्रत्ययः विधीयते । ", "sd": "युवन् इति नकारान्तशब्दः । स्त्रीत्वं द्योतयितुमस्मात् शब्दात् <<ऋन्नेभ्यो ङीप्>> [[4.1.5]] इत्यनेन ङीप्-प्रत्यये प्राप्ते तस्य अपवादरूपेण वर्तमानसूत्रेण 'ति' इति तद्धितसंज्ञकः स्त्री-प्रत्ययः विधीयते । यथा -\nयुवन् + ति\n→ युव + ति [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारस्य लोपः]\n→ युवति\nअत्र केचन बिन्दवः ज्ञातव्याः -\n1. अनेन सूत्रेण निर्दिष्टः 'ति' प्रत्ययः तद्धितसंज्ञकः अपि अस्ति । तद्धिताधिकारस्य अत्र किम् प्रयोजनम्? <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इत्यनेन 'युवति' अयं तद्धितान्तशब्दः प्रातिपदिकसंज्ञां प्राप्नोति । प्रातिपदिकसंज्ञायां प्राप्तायामस्मात् शब्दात् सुप्-प्रत्यययोजनं कर्तुं शक्यते । एतदेव तद्धिताधिकारस्य अत्र प्रयोजनम् । परन्तु अस्मिन् विषये दीक्षितः कौमुद्यां वदति - 'लिङ्गविशिष्टपरिभाषया सिद्धे तद्धिताधिकार उत्तरार्थः' । इत्युक्ते, <ऽप्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्ऽ> अनया परिभाषया 'युवन्' शब्दस्य ग्रहणेन 'युवति' शब्दः अपि प्रातिपदिकसंज्ञां प्राप्नोति ; तदर्थमत्र तद्धिताधिकारस्य काचिदपि आवश्यकता नास्ति । अतः अत्र तद्धिताधिकारः वस्तुतः न आवश्यकः - इत्याशयः ।\n2. अनेन सूत्रेण सिद्धः 'युवति' शब्दः 'ह्रस्व-इकारान्तः' अस्ति, अस्य रूपाणि च 'मति' शब्दवत् भवन्ति । संस्कृते 'युवती' इति कश्चन दीर्घ-ईकारान्तशब्दः अपि अस्मिन्नेव अर्थे प्रयुज्यते, परन्तु सः शब्दः युवन्-शब्दात् न सिद्ध्यति । 'यू (मिश्रणामिश्रणयो)' अस्मात् धातोः शतृ-प्रत्ययं कृत्वा अग्रे स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययं कृत्वा 'युवती' शब्दः सिद्ध्यति ।\n3. अनेन सूत्रेण निर्दिष्टः 'ति'-प्रत्ययः युवन्-शब्दात् तदा एव भवति यदा युवन्-शब्दस्य उपसर्जनसंज्ञा नास्ति । यथा, 'बहवः युवानः यस्मिन् सः' इत्यस्मिन् अर्थे बहुव्रीहिसमासे कृते 'बहुयुवन्' इति प्रातिपदिके प्राप्ते अस्मिन् प्रातिपदिके युवन्-शब्दस्य उपसर्जनसंज्ञा भवति, अतः अत्र स्त्रीत्वं द्योतयितुम् वर्तमानसूत्रेण ति-प्रत्ययः न विधीयते, अपितु <<डाबुभाभ्यामन्यतरस्याम्>> [[4.1.13]] इत्यनेन डाप्-प्रत्ययं कृत्वा 'बहुयुवा' इति प्रातिपदिकं सिद्ध्यति । " }, "41078": { "sa": "", "sd": "" }, "41079": { "sa": "", "sd": "" }, "41080": { "sa": "", "sd": "" }, "41081": { "sa": "", "sd": "" }, "41082": { "sa": "समर्थेषु यः प्रथमः, तस्मात् परः तद्धितप्रत्ययः विकल्पेन विधीयते । ", "sd": "अस्य सूत्रस्य अर्थम् ज्ञातुमादौ सूत्रे प्रयुक्तस्य प्रत्येकम् शब्दस्य अर्थम् पश्यामः ।\n1) 'समर्थः' - किं नाम समर्थः ? महाभाष्ये पतञ्जलिमहर्षिः वदति - 'किम् पुनः समर्थम्, अर्थाभिधाने यत् समर्थम् । किं पुनस्तत्? कृतवर्णानुपूर्वीकं पदम्' । इत्युक्ते, यैः शब्दैः परस्परसम्बन्धेन कस्यचन अर्थस्य बोधः क्रियते, ते शब्दाः 'समर्थाः' सन्ति इत्युच्यते । यथा, 'राज्ञः पुत्रः' एतयोः द्वयोः शब्दयोः कश्चन अर्थः ( = राजपुत्रः) प्रकटीभवति, अतः एते शब्दाः समर्थाः सन्ति । परन्तु 'भवति दर्शनं राज्ञः, पुत्रः चौरस्य धावति' अस्मिन् वाक्ये 'राज्ञः' अयं शब्दः 'दर्शनम्' अनेन शब्देन सह अर्थं निर्देशयति, 'पुत्रः' अनेन शब्देन सह न ('पुत्रः' अयम् शब्दः तु 'चौरस्य' अनेन सह अर्थं निर्देशयति) । अतः अस्मिन् वाक्ये 'राज्ञः' तथा 'पुत्रः' एतौ समर्थौ न स्तः । सामान्यभाषायाम् यदि द्वयोः पदयोः मध्ये अन्वयः अस्ति, तर्हि तयोः पदयोः कश्चन अर्थः जायते । अस्याम् स्थितौ ते द्वे पदे 'समर्थे' स्तः इत्युच्यते । अस्मिन् विषये कौमुद्यामुच्यते - 'कृतसंधिकार्यत्वमिति' । इत्युक्ते, सन्धिकार्याद् अनन्तरमेव पदानाम् 'समर्थ' इति संज्ञा करणीया । अयमेव आशयः 'कृतवर्णानुपूर्वीकं पदम्' इत्यनेन महाभाष्ये निर्दिश्यते ।\n2) 'समर्थानाम् प्रथमः' - इयम् निर्धारणषष्ठी अस्ति (<<यतश्च निर्धारणम्>> [[2.3.41]] इत्यनेन निर्धारणे षष्ठ्याः प्रयोगः भवितुमर्हति) । वाक्ये उपस्थितेषु सर्वेषु समर्थेषु पदेषु यः प्रथमः उच्चार्यते, सः शब्दः अत्र 'प्रथमः' इत्यनेन निर्दिश्यते । कस्मिन् वाक्ये? अर्थज्ञापकम् यत् सूत्रम्, तस्मिन् वाक्ये । यथा <<तस्य अपत्यम्>> [[4.1.92]] इत्यस्मिन् वाक्ये 'तस्य' तथा 'अपत्यम्' एतयोर्मध्ये अन्वयसम्बन्धः अस्ति, अतः एतौ समर्थौ स्तः । एतेभ्याम् 'तस्य' इति प्रथमः शब्दः अस्ति, अतः अयम् 'समर्थानाम् प्रथमः' अस्ति इत्युच्यते । तथैव, <<तेन रक्तं रागात्>> [[4.2.1]] इत्यत्र 'तेन' इति प्रथमः समर्थः । <<सा अस्य देवता>> [[4.2.24]] इत्यत्र 'सा' इति प्रथमः समर्थः । एतादृशमर्थज्ञापकेषु सूत्रेषु यः शब्दः आचार्येण प्रथमस्थाने स्थापितः अस्ति, सः 'प्रथम'संज्ञकः भवति ।\n3) 'समर्थानाम् प्रथमात्' - अत्र 'प्रथमात्' इति निमित्तम् । अतः यः प्रथमः समर्थः, तस्मात् परः (यथानिर्दिष्टः) तद्धितप्रत्ययः विधीयते - इति अस्य अर्थः । यथा, <<तस्यापत्यम्>> [[4.1.92]] अस्मिन् अर्थे 'विनतायाः अपत्यम्' इत्यत्र <<स्त्रीभ्यो ढक्>> [[4.1.120]] अनेन सूत्रेण 'ढक्'-प्रत्ययः भवति । <<तस्यापत्यम्>> [[4.1.92]] अस्मिन् अर्थे 'तस्य' इति प्रथमः समर्थः अस्ति, अतः तेन निर्दिष्टः यः 'विनतायाः' शब्दः, तस्मात् परः तद्धितप्रत्ययः भवति । इत्युक्ते - विनतायाः अपत्यम् = विनतायाः + ढक् = वैनतेय ।\n4) 'वा' - एतत् अव्ययम् । विकल्पं दर्शयितुमस्य प्रयोगः भवति । अतः 'तद्धितप्रत्ययाः विकल्पेनैव विधीयन्ते' इति अनेन ज्ञायते । अतः 'विनतायाः अपत्यम्' इत्यपि साधु प्रयोगः, 'वैनतेयः' इत्यपि च साधु प्रयोगः ।\nअतः अस्य सूत्रस्य अर्थः भवति - अर्थज्ञापकसूत्रे यत् प्रथमम् समर्थम् पदम्, तेन निर्दिष्टात् शब्दात् यथानिर्दिष्टः तद्धितप्रत्ययः विकल्पेन भवति ।\nअत्र केचन बिन्दवाः विशेषरूपेण ज्ञातव्याः -\n1. समर्थेषु कः प्रथमः तत् ज्ञातुम् 'अर्थज्ञापकसूत्रं' द्रष्टव्यम्, न हि 'प्रयोगवाक्यम्' । यथा, <<तस्यापत्यम्>> [[4.1.92]] इत्यत्र प्रथमः समर्थः 'तस्य' इति अस्ति, अतः प्रयोगे 'विनतायाः अपत्यम्' उत 'अपत्यम् विनतायाः' - द्वयोः अपि वाक्ययोः तद्धितप्रत्ययः तु 'विनतायाः' शब्दादेव भवति । 'अपत्यम् विनतायाः - इत्यत्र प्रथमः शब्दः तु अपत्यमस्ति, अतः तस्मात् तद्धितप्रत्ययः भवेत्' - एतादृशम् न चिन्तनीयम्, यतः 'प्रथमः समर्थः कः' एतत् अर्थज्ञापकसूत्रात् (इत्युक्ते, <<तस्यापत्यम्>> [[4.1.92]] इत्यस्मात्) एव ज्ञायते, न हि प्रयोगवाक्यात् (इत्युक्ते विनतायाः अपत्यम् / अपत्यम् विनतायाः इत्यस्मात् )\n2. अनेन सूत्रेण एतत् स्पष्टं भवति, यत् तद्धितप्रत्ययः 'समर्थेभ्यः' एव भवन्ति, केवलप्रातिपदिकेभ्यः न । इत्युक्ते, 'विनता' शब्दात् ढक्-प्रत्ययः न विधीयते, अपितु 'विनतायाः' अस्मात् शब्दादेव ढक् प्रत्ययः विधीयन्ते । प्रक्रियायाम् 'विनतायाः' शब्दस्य 'विनता + ङस्' एतादृशमलौकिकविग्रहं कृत्वा <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इत्यनेन ङस्-प्रत्ययस्य लुक्-कृत्वा अग्रे विनता-शब्दात् ढक्-प्रत्ययविधानम् भवति । सम्पूर्णा प्रक्रिया इयम् -\nविनतायाः + ढक् [ <<तस्यापत्यम्>> [[4.1.92]] अस्मिन् अर्थे <<स्त्रीभ्यो ढक्>> [[4.1.120]] इत्यनेन ढक्-प्रत्ययविधानम् । <<समर्थानां प्रथमाद्वा>> [[4.1.82]] इत्यनेन 'विनतायाः' शब्दात् ढक्-प्रत्ययः भवति ।]\n→ विनता + ङस् + ढक् [विनता-शब्दस्य अलौकिक-विग्रहः ]\n→ विनता + ङस् + ढक् ['ढक्' इति तद्धितप्रत्ययः अस्ति, अतः 'विनता + ङस् + ढक्' इत्यस्य <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इत्यनेन प्रातिपदिकसंज्ञा भवति ।]\n→ विनता + ढक् [<<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति प्रातिपदिके स्थितस्य ङस्-प्रत्ययस्य लुक्]\n→ विनता + एय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ढकारस्य एय्-आदेशः]\n→ वैनता एय [<<किति च>> [[7.2.117]] इति आदिवृद्धिः]\n→ वैनत् + एय [एकारे परे <<यचि भम्>> [[1.4.18]] इत्यनेन अङ्गस्य भसंज्ञा । अतः <<यस्येति च>> [[6.4.148]] इति अङ्गस्य अकारस्य लोपः]\n→ वैनतेय\nसर्वत्र वस्तुतः एतादृशी एव प्रक्रिया लेखनीया । परन्तु सुप्-प्रत्ययस्य लोपात् अनन्तरम् तद्धितप्रत्ययाः प्रातिपदिकेभ्यः एव प्रयुक्ताः दृश्यन्ते, अतः प्रक्रियालेखनसमये अपि सामान्यरूपेण ते प्रातिपदिकेभ्यः एव विहिताः दर्श्यन्ते ।\n3. सन्धिकार्यात् अनन्तरमेव तद्धितप्रत्ययविधानम् भवति, पूर्वम् न । यथा, 'सु उत्थितस्य अपत्यम्' इत्यत्र <<अत इञ्>> [[4.1.95]] इत्यनेन यः इञ्-प्रत्ययः विधीयते, सः 'सु + उत्थितस्य' एतत् सन्धिकार्यम् कृत्वा यः 'सूत्थितस्य' शब्दः सिद्ध्यति, तस्मादेव विधीयते, केवल-'उत्थितस्य' शब्दात् न । अतः अस्य प्रत्ययस्य प्रयोगेण '(सु + उत्थितस्य) + इञ् → सौत्तिथि' एतत् प्रातिपदिकम् सिद्ध्यति, न हि 'सु + (उत्तिथस्य + इञ्) → स्वौत्तिथि' इति, न हि च '(सु + उत्तिथस्य + इञ्) → सावुत्तिथि' इति ।\n4. इदम् सूत्रम् 'प्रातिपदिकात्' अस्मिन् अधिकारे निर्दिष्टमस्ति । अत्र 'प्रातिपदिकात्' इत्यस्य अन्वयः प्रत्ययज्ञापकेषु सूत्रेषु यः पञ्चम्यन्तः शब्दः, तेन सह क्रियते । यथा, <<अत इञ्>> [[4.1.95]] अस्मिन् प्रत्ययज्ञापके सूत्रे यः 'अतः' इति पञ्चम्यन्तशब्दः, तेन सह 'प्रातिपदिकात्' इत्यस्य अन्वयः भवति । 'अतः प्रातिपदिकात्' (इत्युक्ते अदन्त-प्रातिपदिकात्) निर्मितम् यद् सुबन्तम्, तस्मात् शब्दात् अञ्-प्रत्ययः भवति - इति अस्य अर्थः । 'अतः प्रातिपदिकात्' इत्यस्य अर्थः 'अदन्तात् प्रातिपदिकात् तद्धितप्रत्ययः भवति' एतादृशः न भवति ।\n5. यदि द्वयोः शब्दयोः मध्ये सामर्थ्यम् नास्ति, तर्हि तद्धितप्रत्ययः अपि न प्रयोक्तव्यः । यथा, ' कम्बलमुपगोः, अपत्यं देवदत्तस्य' अस्मिन् वाक्ये 'उपगोः' शब्दस्य सामर्थ्यम् 'कम्बलम्' शब्देन सह अस्ति, न हि 'अपत्यं' शब्देन सह । इत्युक्ते, अत्र 'उपगोः, अपत्यम्' इत्यनेन कोऽपि अर्थः न निर्दिश्यते । अतः अत्र तद्धितप्रत्ययस्य प्रयोगः न भवति ।\n6. वर्तमानसूत्रमधिकारसूत्रमस्ति । अस्मिन् सूत्रे 'समर्थानाम्', 'प्रथमाद्', तथा 'वा' एते त्रयः शब्दाः सन्ति । एतेषामधिकारः पञ्चमाध्यायस्य द्वितीयपादस्य परिसमाप्तिपर्यन्तं वर्तते । इत्युक्ते, पञ्चमाध्यायस्य द्वितीयपादं यावत् ये सर्वे प्रत्ययाः उच्यन्ते, ते सर्वे 'समर्थेषु यः प्रथमः, तेन निर्दिष्टात् पदात् विकल्पेन भवन्ति' इति ज्ञातव्यम् । तदनन्तरम् केवलं 'वा' इत्यस्यैव अधिकारः प्रचलति, 'समर्थानाम्' तथा 'प्रथमात्' एतयोः अधिकारः निवर्तते । अतः पञ्चमाध्यायस्य अन्तिमद्वयोः पादयोः प्रोक्ताः तद्धितप्रत्ययाः यद्यपि विकल्पेनैव भवन्ति, तथापि तेषां प्रयोगार्थम् सामर्थ्यम् न आवश्यकम् ।\n7. वर्तमानसूत्रेण उक्तः विकल्पः तद्धिताधिकारे प्रायः सर्वत्र विधीयते । अयम् विकल्पः 'महाविभाषा' इति नाम्ना अपि ज्ञायते ।\n8. अस्मिन् सूत्रे काशिकाकारः वदति - 'पूर्वसूत्रात् अन्यतरस्यां ग्रहणमनुवर्तते' । इत्युक्ते, <<दैवयज्ञिशौचि..>> [[4.1.81]] अस्मात् सूत्रात् अत्र 'अन्यतरस्याम्' इत्यपि अनुवर्तते । किमस्य प्रयोजनम्? यदि समासः भवितुमर्हति, तर्हि सः समासः अपि विकल्पेन भवेत्, इति निर्देशं कर्तुम् इयमनुवृत्तिः आवश्यकी । अतः यत्र समासः सम्भवति, तत्र समस्तपदमपि कर्तुं शक्यते, तद्धितप्रत्ययस्य प्रयोगमपि कर्तुं शक्यते, तथा च किमपि न कृत्वा केवलवाक्यस्यापि प्रयोगं कर्तुं शक्यते । यथा, 'उपगोः अपत्यम्' इत्यस्य त्रिविधं प्रयोगं भवितुमर्हति -\nक) उपगोः अपत्यम्\nख) (समासे कृते) उपग्वपत्यम्\nग) (तद्धितप्रयोेगे) औपगवम् ।\nयदि अत्र 'अन्यतरस्याम्' इत्यस्य अनुवृत्तिः न कुर्मः, तर्हि तद्धितविधिः समासविधिम् बाधेत । परन्तु 'अन्ततरस्याम्' इत्यस्य ग्रहणेन समासवृत्तेः प्रयोगः अपि भवितुमर्हति ।\n" }, "41083": { "sa": "प्राक्-दीव्यतीय-अर्थेषु समर्थेभ्यः प्रथमात् अण्-प्रत्ययः औत्सर्गिकरूपेण भवति । ", "sd": "तद्धिताधिकारे पाठितेभ्यः पञ्च-महोत्सर्गेभ्यः प्रथमः महोत्सर्गः अस्मात् सूत्रात् आरभते । वर्तमानसूत्रतः चतुर्थाध्यायस्य तृतीयपादस्य समाप्तिं यावत् आहत्य चतुश्चत्वारिंशत् (44) अर्थाः पाठिताः सन्ति । एते सर्वे अर्थाः 'प्राग्दीव्यतीय-अर्थाः' नाम्ना ज्ञायन्ते । एतेषां सर्वेषाम् विषये औत्सर्गिकरूपेण अण्-प्रत्ययः भवति । अस्य अण्-प्रत्ययस्य अपवादरूपेण भिन्नैः सूत्रैः भिन्नासु अवस्थासु विविधानाम् प्रत्ययानाम् विधानम् क्रियते ।\nअण्-प्रत्ययस्य कानिचन उदाहरणानि -\nअ) गुरोः इदम् = गुरु + अण् = गौरव ।\nआ) भानोः निवासः = भानु + अण् = भानव ।\nइ) उपगोः अपत्यम् = उपगु + अण् = औपगव ।\nप्रक्रिया इयम् -\nगुरु + अण् [<<प्राग्दीव्यतोऽण्>> [[4.1.83]] इति अण्]\n→ गौरु + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ गौरो + अ [<<ओर्गुणः>> [[6.4.146]] इति भसंज्ञकस्य अन्तिम-उकारस्य गुणः]\n→ गौरव [<<एचोऽयवायावः>> इति अव-आदेशः]\n44 प्राग्दीव्यतीयाः अर्थाः एतादृशाः -\n1. <<तस्य अपत्यम्>> [[4.1.92]]\n2. <<तेन रक्तं रागात्>> [[4.2.1]]\n3. <<नक्षत्रेण युक्तः कालः>> [[4.2.3]]\n4. <<दृष्टं साम>> [[4.2.7]]\n5. <<परिवृतो रथः>> [[4.2.10]]\n6. <<तत्र उद्धृतममत्रेभ्यः>> [[4.2.14]]\n7. <<संस्कृतं भक्षाः>> [[4.2.16]]\n8. <<सा अस्मिन् पौर्णमासी इति संज्ञायाम्>> [[4.2.21]]\n9. <<सा अस्य देवता>> [[4.2.24]]\n10. <<तस्य समूहः>> [[4.2.37]]\n11. <<विषयः देशे>> [[4.2.52]]\n12. <<सः अस्य आदिः इति छन्दसः प्रगाथेषु>> [[4.2.55]]\n13. <<तदस्यां प्रहरणम् इति क्रीडायाम् णः>> [[4.2.57]]\n14. <<तद् अधीते तद् वेद>> [[4.2.59]]\n15. <<तद् अस्मिन् अस्तीति देशे तत् नाम्नि>> [[4.2.67]]\n16. <<तेन निर्वृत्तम्>> [[4.2.68]]\n17. <<तस्य निवासः>> [[4.2.69]]\n18. <<अदूरभवः च>> [[4.2.70]]\n19. <<तत्र जातः>> [[4.3.25]]\n20. <<कृत-लब्ध-क्रीड-कुशलाः>> [[4.3.38]]\n21. <<प्रायभवः>> [[4.3.39]]\n22. <<सम्भूते>> [[4.3.41]]\n23. <<कालात् साधु-पुष्प्यत्-पच्यमानेषु>> [[4.3.43]]\n24. <<उप्ते च>> [[4.3.44]]\n25. <<देयम् ऋणे>> [[4.3.47]]\n26. <<व्याहरति मृगः>> [[4.3.51]]\n27. <<तदस्य सोढम्>> [[4.3.52]]\n28. <<तत्र भवः>> [[4.3.53]]\n29. <<तस्य व्याख्यानः इति च व्याख्यातव्यनाम्नः>> [[4.3.66]]\n30. <<ततः आगतः>> [[4.3.74]]\n31. <<प्रभवति>> [[4.3.83]]\n32. <<तत् गच्छति पथिदूतयोः>> [[4.3.85]]\n33. <<अभिनिष्क्रामति द्वारम्>> [[4.3.86]]\n34. <<अधिकृत्य कृते ग्रन्थे>> [[4.3.87]]\n35. <<सः अस्य निवासः>> [[4.3.89]]\n36. <<अभिजनः च>> [[4.3.90]]\n37. <<भक्तिः>> [[4.3.95]]\n38. <<तेन प्रोक्तम्>> [[4.3.101]]\n39. <<तेन एकदिक्>> [[4.3.112]]\n40. <<उपज्ञाते>> [[4.3.115]]\n41. <<कृते ग्रन्थे>> [[4.3.116]]\n42. <<तस्य इदम्>> [[4.3.120]]\n43. <<तस्य विकारः>> [[4.3.134]]\n44. <<अवयवे च प्राणी-ओषधि-वृक्षेभ्यः>> [[4.3.135]]\n" }, "41084": { "sa": "अश्वपत्यादिगणस्य शब्देभ्यः प्राग्दीव्यतीय-अर्थेषु अण्-प्रत्ययः एव विधीयते, नान्यत् । ", "sd": "<<प्राग्दीव्यतोऽण्>> [[4.1.83]] अनेन सूत्रेण प्राग्दीव्यतीय-अर्थेषु औत्सर्गिकरूपेण 'अण्' प्रत्ययः विधीयते । परन्तु यस्य शब्दस्य अन्ते 'पति' इति आगच्छति, तस्मात् शब्दात् <<दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः>> [[4.1.85]] इत्यनेन अण्-प्रत्ययस्य अपवादरूपेण ण्य-प्रत्ययः भवति । यथा, प्रजापतेः अपत्यम् पुमान् = प्राजापत्य । परन्तु, ये शब्दाः अश्वपत्यादिगणे निर्दिष्टाः सन्ति, तेषां विषये ण्य-प्रत्ययस्यापि अपवादत्वेन पुनः अण्-प्रत्ययस्यैव विधानं भवति । यथा - अश्वपतेः अपत्यं पुमान् = अश्वपति + अण् = आश्वपत ।\nअश्वपत्यादिगणस्य आवली इयम् -\nअश्वपति। ज्ञानपति । शतपति। धनपति। गणपति। स्थानपति । यज्ञपति । राष्ट्रपति। कुलपति। गृहपति। पशुपति । धान्यपति। धन्वपति । बन्धुपति । धर्मपति। सभापति। प्राणपति। क्षेत्रपति।\nउदाहरणानि -\nअश्वपतीनाम् समूहः = अश्वपति + अण् → आश्वपत ।\nगणपतेः निवासः = गणपति + अण् → गाणपत ।\nक्षेत्रपतेः अपत्यम् = क्षेत्रपति + अण् → क्षैत्रपत ।\nकुलपतेः इदम् = कुलपति + अण् = कौलपत ।\nप्रक्रिया -\nअश्वपतीनाम् + अण्\n→ अश्वपति + आम् + अण् [अलौकिकविग्रहः]\n→ अश्वपति + अण् [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति आम्-प्रत्ययस्य लुक्]\n→ आश्वपति + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ आश्वपत् + अ [<<यस्येति च>> [[6.4.148]] इति इकारस्य लोपः]\n→ आश्वपत\n " }, "41085": { "sa": "दिति, अदिति, आदित्य-शब्देभ्यः, तथा 'पति' येषामुत्तरपदमस्ति तादृशेभ्यः शब्देभ्यः प्राग्दीव्यतीय-अर्थेषु ण्य-प्रत्ययः भवति । ", "sd": "<<प्राग्दीव्यतोऽण्>> [[4.1.83]] अनेन सूत्रेण प्राग्दीव्यतीय-अर्थेषु औत्सर्गिकरूपेण 'अण्' प्रत्ययः विधीयते । परन्तु 'दिति' शब्दः, 'अदिति' शब्दः, 'आदित्य' शब्दः, तथा च यस्य शब्दस्य अन्ते 'पति' इति आगच्छति, तस्मात् शब्दात् वर्तमानसूत्रेणअण्-प्रत्ययस्य अपवादरूपेण ण्य-प्रत्ययः भवति । यथा -\n1) दितेः अपत्यम् / निवासः / समूहः / इदम् / ...\n= दिति + ण्य\n→ दैति + य [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ दैत् + य [<<यस्येति च>> [[6.4.148]] इति इकारस्य लोपः]\n→ दैत्य\n2) अदितेः अपत्यम् / निवासः / समूहः / इदम् / ...\n= अदिति + ण्य\n→ आदिति + य [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ आदित् + य [<<यस्येति च>> [[6.4.148]] इति इकारस्य लोपः]\n→ आदित्य\n3) आदित्यस्य अपत्यम् / निवासः / समूहः / इदम् / ...\n= आदित्य + ण्य\n→ आदित्य + य [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ आदित्य् + य [<<यस्येति च>> [[6.4.148]] इति अकारस्य लोपः]\n→ आदित्य् + य / आदित् + य [<<हलो यमां यमि लोपः>> [[8.4.64]] इति विकल्पेन यकारलोपः]\n→ आदित्य / आदित्य्य\n4) प्रजापतेः अपत्यम् / निवासः / समूहः / इदम् / ..\n= प्रजापति + ण्य\n→ प्राजापति + य [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ प्राजापत् + य [<<यस्येति च>> [[6.4.148]] इति अकारस्य लोपः]\n→ प्राजापत्य\nज्ञातव्यम् -\n1. अनेन सूत्रेण निर्दिष्टः ण्य-प्रत्ययः सर्वेषाम् (अन्येषाम् प्रत्ययानाम्) अपि अपवादत्वेन आगच्छति । यथा 'वनस्पति' शब्दात् <<तस्य समूहः>> [[4.2.37]] इत्यस्मिन् अर्थे <<अचित्तहस्तिधेनोष्ठक्>> [[4.2.47]] अनेन सूत्रेण वस्तुतः ठक्-प्रत्ययः अपि भवितुमर्हति । परन्तु 'वनस्पति'शब्दे 'पति' इति उत्तरपदमस्ति, अतः अस्मात् सूत्रात् सर्वेषु प्राग्दीव्यतीय-अर्थेषु ण्य-प्रत्ययः एव विधीयते, न हि ठक्-प्रत्ययः । अतः वनस्पतीनाम् समूहः = वनस्पति + ण्य = वानस्पत्य एतादृशमेव रूपं सिद्ध्यति ।\n2. अश्वपत्यादिगणे ये शब्दाः समाविष्टाः सन्ति, तेषाम् विषये वर्तमानसूत्रेण ण्य-प्रत्यये प्राप्ते तस्यापि अपवादत्वेन <<अश्वपत्यादिभ्यश्च>> [[4.1.84]] इत्यनेन अण्-प्रत्ययः भवति ।\nअत्र कानिचन वार्त्तिकानि ज्ञातव्यानि -\n1. - 'यम' शब्दात् प्राग्दीव्यतीय-अर्थेषु ण्य-प्रत्ययः भवति । यथा, यमस्य अपत्यम् याम्य ।\n2. - वाच्, मति, तथा पितृमत् शब्देभ्यः प्राग्दीव्यतीय-अर्थेषु वेदेषु ण्य-प्रत्ययः भवति । यथा - वाच् + ण्य = वाच्य । मति + ण्य = मात्य । पितृमत् + ण्य = पैतृमात्य ।\n3. - 'पृथिवी' शब्दात् प्राग्दीव्यतीय-अर्थेषु 'ञ' तथा 'अञ्' प्रत्ययौ विधीयेते । पृथिवी + ञ / अञ् → पार्थिव । द्वयोः प्रत्यययोः भेदः अयम् - ञ-प्रत्ययान्त-पार्थिव-शब्दात् स्त्रीत्वस्य विवक्षायाम् <<अजाद्यतष्टाप्>> [[4.1.4]] इत्यनेन टाप्-प्रत्ययं कृत्वा 'पार्थिवा' इति प्रातिपदिकं सिद्ध्यति । परन्तु अञ्-प्रत्ययान्त-पार्थिव-शब्दात् स्त्रीत्वस्य विवक्षायाम् <<टिड्ढाणञ्...>> [[4.1.15]] इत्यनेन ङीप्-प्रत्ययं कृत्वा 'पार्थिवी' इति प्रातिपदिकं सिद्ध्यति ।\n4. - 'देव' शब्दात् प्राग्दीव्यतीय-अर्थेषु 'यञ्' तथा 'अञ्' प्रत्ययौ विधीयेते । देव + यञ् → दैव्य । देव + अञ् → दैव ।\n5. - 'बहिस्' शब्दात् प्राग्दीव्यतीय-अर्थेषु यञ्-प्रत्ययः भवति, तथा च 'बहिस्' शब्दस्य टिसंज्ञकस्य लोपः अपि भवति । बहिस् + यञ् → बाह्य ।\n6. - बहिस्-शब्दात् प्राग्दीव्यतीय-अर्थेषु ईकक्-प्रत्ययः अपि भवति । यथा - बहिस् + ईकक् → बाहीक ।\n7. - बहिस्-शब्दात् प्राग्दीव्यतीय-अर्थेषु वेदानां विषये 'ईकञ्' प्रत्ययः अपि भवति । बहिस् + ईकञ् → बाहीक । यद्यपि इदं प्रातिपदिकम् ईकक्-प्रत्ययान्तवदेव दृश्यते, तथाप्यत्र स्वरभेदः अस्ति - ईकञ्-प्रत्ययान्तः 'बाहीक' शब्दः <<ञ्णित्यादिर्नित्यम्>> [[6.1.197]] इत्यनेन आद्युदात्तः अस्ति, तथा ईकक्-प्रत्ययान्तः 'बाहीक' शब्दः <<कितः>> [[6.1.165]] इत्यनेन अन्तोदात्तः अस्ति ।\n8. - 'स्थामन्' शब्दान्त-प्रातिपदिकेभ्यः प्राग्दीव्यतीय-अर्थेषु 'अ' प्रत्ययः भवति । अश्वत्थाम्नः अपत्यम् = अश्वत्थामन् + अ = अश्वत्थाम । (अश्वत्थामन् अयं वस्तुतः 'स्थामन्' शब्दान्तः एव अस्ति, अत्र सकारस्य <<पृषोदरादीनि यथोपदिष्टम्>> [[6.3.109]] इत्यनेन तकारादेशः भवति ।]\n9. - 'लोमन्' शब्दान्त-प्रातिपदिकेभ्यः <<तस्यापत्यम्>> [[4.1.92]] इत्यस्मिन् अर्थे बहुवचनस्य विवक्षायाम् 'अ' प्रत्ययः भवति । यथा - उडुलोम्नः अपत्यानि बहूनि = उडुलोमन् + अ + जस् → उडुलोमाः । यदि बहुवचनस्य विवक्षा नास्ति तर्हि <<बाह्वादिभ्यश्च>> [[4.1.96]] इत्यनेन इञ्-प्रत्ययः एव भवति । - उडुलोम्नः अपत्यम् एकम् = उडुलोमन् + इञ् = औडुलोमिः ।\n10. - गो-शब्दात् यत्र यत्र अजादिप्रत्ययः विधीयते, तत्र तत्र तं बाधित्वा 'यत्' प्रत्ययः आगच्छति । अस्य वार्तिकस्य प्रसक्तिः सर्वेषु अर्थेषु वर्तते, केवलं प्राग्दीव्यतीय-अर्थेषु न । यथा -\nअ) गोः विकारः इत्यत्र <<तस्य विकारः>> [[4.3.134]] इत्यनेन अण्-प्रत्यये प्राप्ते वर्तमानवार्तिकेन तं बाधित्वा 'यत्' प्रत्ययः आगच्छति - गो + यत् → [<<वान्तो यि प्रत्यये>> [[6.1.79]] इत्यनेन ओकारस्य अव्-आदेशे कृते -] गव्य ।\n आ) 'गवा चरति' इत्यत्र <<चरति>> [[4.4.8]] इत्यनेन ठक्-प्रत्यये प्राप्ते वर्तमानवार्तिकेन तं बाधित्वा 'यत्' प्रत्ययः आगच्छति । गो + यत् → गव्य ।\nयदि प्रत्ययः अजादिः नास्ति तर्हि तस्य अपवादत्वेन यत्-प्रत्ययः न विधीयते । यथा, गो + मयट् → गोमय ।\nअनेन सूत्रेण (तथा अग्रिम-सूत्रेण) उक्ताः प्रत्ययाः विशिष्टेषु अर्थेषु उक्तान् प्रत्ययान् कथं बाधन्ते अस्मिन् विषये अत्र भाष्यकारः एकं वार्त्तिकं पाठयति - । इत्युक्ते, यानि सूत्राणि अर्थविशेषं ज्ञापयन्ति, तेषाम् विषये एव अस्मिन् प्रकरणे पाठिताः ण्य-आदयः अपवादाः विधीयन्ते ; यानि सूत्राणि अर्थसामान्यं ज्ञापयन्ति, तेषां विषये न । अत्र 'अर्थसामान्य' इत्यनेन <<तस्येदम्>> [[4.3.120]] सूत्रस्य ग्रहणं भवतीति व्याख्यानेषु स्पष्टीक्रियते । इत्युक्ते, वर्तमानसूत्रेण विहिताः अपवादाः <<तस्येदम्>> [[4.3.120]] इत्ययस्य विषये न स्वीकर्तव्याः । यथा, 'उष्ट्रपति' नाम किञ्चन पत्त्रम् (वाहनम्) अस्ति, तस्य <<तस्येदम्>> [[4.3.120]] अस्याम् विवक्षायाम् वर्तमानसूत्रेण उक्तं ण्य-प्रत्ययं बाधित्वा शैषिकप्रकरणे <<पत्त्राध्वर्युपरिषदश्च>> [[4.3.131]] इत्यत्र उक्तः अञ्-प्रत्ययः एव विधीयते । उष्ट्रपतेः इदम् औष्ट्रपतम् । परन्तु अन्येषु अर्थेषु तु अञ्-प्रत्ययः एव भवति । यथा, उष्ट्रपतीनां समूहः = उष्ट्रपति + ण्य = औष्ट्रपत्य । " }, "41086": { "sa": "उत्सादिगणस्य शब्देभ्यः प्राग्दीव्यतीय-अर्थेषु अञ्-प्रत्ययः विधीयते । ", "sd": "<<प्राग्दीव्यतोऽण्>> [[4.1.83]] अनेन सूत्रेण प्राग्दीव्यतीय-अर्थेषु औत्सर्गिकरूपेण 'अण्' प्रत्ययः विधीयते । परन्तु उत्सादिगणे ये शब्दाः पाठिताः सन्ति, तेषाम् विषये वर्तमानसूत्रेण अण्-प्रत्ययस्य अपवादत्वेन प्राग्दीव्यतीयेषु अर्थेषु 'अञ्' प्रत्ययः भवति । यथा -\nउत्सानाम् समूहः\n= उत्स + अञ्\n→ औत्स + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ औत्स् अ [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ औत्स\nउत्सादिगणे पाठिताः शब्दाः एते -\nउत्स। उदपान। विकर। विनद। महानद। महानस। महाप्राण। तरुण। तलुन। वष्कयाऽसे (गणसूत्रम्) । धेनु। पृथिवी। पङ्क्ति। जगती। त्रिष्टुप् । अनुष्टुप्। जनपद। भरत। उशीनर। ग्रीष्म। पीलु। कुल। उदस्थानात् देशे (गणसूत्रम्) । पृषदंशे (गणसूत्रम्)। भल्लकीय। रथन्तर। मध्यन्दिन। बृहत्। महत्। सत्त्वन्तुँ । कुरु। पञ्चाल। इन्द्रावसान। उष्णिह् । ककुभ्। सुवर्ण। देव। ग्रीष्मादच्छन्दसि ((गणसूत्रम्)) ।\nअस्मिन् गणे चत्वारि गणसूत्राणि पाठितानि सन्ति -\n1. वष्कयासे - 'वष्कय' शब्दः समासे नास्ति चेदेव अस्मिन् गणे प्रयुज्यते । ('स' इत्युक्ते समास) । यथा - वष्कय + अञ् = वाष्कय । परन्तु यदि अयं शब्दः समस्तपदे आगच्छति, तर्हि अस्य समावेशः अस्मिन् गणे न भवति, अतः अस्याम् स्थितौ <<अतो इञ्>> [[4.1.95]] इत्यनेन इञ्-प्रत्ययः एव क्रियते । यथा - गौवष्कय + इञ् → गौवष्कयि ।\n2. उदस्थानात् देशे - 'देश' अस्मिन् अर्थे यदि उदस्थान-शब्दस्य प्रयोगः क्रियते, तदा एव अयं शब्दः अस्मिन् गणे समावेश्यते, अतः तस्य अञ्-प्रत्ययः भवति । उदस्थान + अञ् → औदस्थानः । अन्येषु अर्थेषु (यथा, पुरुषस्य नाम अस्मिन् अर्थे) <<अतो इञ्>> [[4.1.95]] इत्यनेन इञ्-प्रत्ययः एव क्रियते ।\n3. पृषद् अंशे - पृषद् शब्दः 'अंश' अस्मिन् अर्थे एव उत्सादिगणे स्वीक्रियते, तदैव च अञ्-प्रत्ययः भवति । अन्येषु अर्थेषु तु औत्सर्गिकरूपेण अण्-प्रत्ययः एव भवति ।\n4. ग्रीष्मात् अच्छन्दसि - उत्सादिगणे 'ग्रीष्म' शब्दः स्वीक्रियते । परन्तु ग्रीष्मशब्दात् प्रत्ययं योजयित्वा 'छन्दः' (= गानवृत्तम्) इति अर्थः यत्र अभिप्रेतः अस्ति, तत्र उत्सादिगणे तस्य निर्देशः न भवति । यथा, 'त्रिष्टुप्' नाम छन्दः निर्देशयितुम् ग्रीष्म-शब्दात् अञ्-प्रत्ययः न भवति, अपितु <<सन्धिवेलादिऋतुनक्षत्रेभ्योऽण्>> [[4.3.16]] इत्यनेन अण्-प्रत्ययं कृत्वा अग्रे स्त्रीत्वस्य विवक्षायाम् ङीप्-प्रत्ययं कृत्वा 'ग्रैष्मी' इति रूपं सिद्ध्यति । (ग्रीष्मस्य इदम् छन्दः = ग्रीष्म + अण् + ङीप् → ग्रैष्मी त्रिष्टुप् ) । अन्यत्र तु वर्तमानसूत्रेण अञ्-प्रत्ययः एव भवति । यथा - ग्रीष्मः देवता अस्य सः = ग्रीष्म + अञ् → ग्रैष्मः ।)\nकौमुद्यामत्र एकं वार्तिकं दीयते - । इत्युक्ते, 'अग्नि' शब्दात्, 'कलि'शब्दात् च सर्वेषु प्राग्दीव्यतीय-अर्थेषु 'ढक्' प्रत्ययः भवति । यथा -\nअग्नि + ढक्\n→ अग्नि + एय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ढकारस्य एय-आदेशः]\n→ आग्नि + एय [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ अग्न् + एय [<<यस्येति च>> [[6.4.148]] इति इकारलोपः]\n→ आग्नेय\nतथैव कलि + ढक् → कालेय इत्यपि रूपं सिद्ध्यति ।\nज्ञातव्यम् -\n1. उत्सादिगणे पाठितानाम् शब्दानां विषये सर्वान् अपवादान् बाधित्वा वर्तमानसूत्रेण अञ्-प्रत्ययस्य विधानम् क्रियते । यथा, 'उत्स' शब्दात् <<अत इञ्>> [[4.1.95]] इत्यनेन विहितस्य इञ्-प्रत्ययस्य अपवादत्वेन अत्र अञ्-प्रत्ययः दत्तः अस्ति ।\n2. अञ्-प्रत्ययस्य प्रयोगेण यत् रूपं सिद्ध्यति तदेव रूपमण्-प्रत्ययस्य प्रयोगेण अपि सिद्ध्यति । परन्तु द्वयोः रूपयोः स्वरभेदः वर्तते । ञित्-प्रत्ययान्तशब्दाः <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] इत्यनेन आद्युदात्ताः भवन्ति । एतम् स्वरवैशिष्ट्यम् दर्शयितुमेव अत्र 'अञ्' प्रत्ययस्य विधानम् कृतमस्ति ।\n3. अस्मिन् गणे 'सत्वन्तुँ' इति शब्दः पाठितः अस्ति । अयं शब्दः 'सत् + मतुँप्' इत्यनेन निर्मितः अस्ति । अस्याम् प्रक्रियायाम् 'नुम्' आगमं कृत्वा 'सत्वन्तुँ' इति प्रातिपदिकम् सिद्ध्यति । वर्तमानसूत्रेण अस्मात् शब्दात् अञ्-प्रत्ययं कृत्वा 'सात्वन्त' इति प्रातिपदिकं सिद्ध्यति ।\n4. <<कुर्वादिभ्यः ण्यः>> [[4.1.151]] इत्यनेन अपत्यार्थे निर्दिष्टः ण्य-प्रत्ययः 'कुरु' शब्दस्य विषये वर्तमानसूत्रेण पाठितस्य अञ्-प्रत्ययस्य बाधनं न करोतीति व्याख्यानेषु स्पष्टीक्रियते । अतः 'कुरूणामपत्यम्' इत्यत्र 'कुरु + ण्य → कौरव्य' तथा 'कुरु + अञ् → कौरव' -द्वे अपि रूपे भवतः ।\n" }, "41087": { "sa": "पञ्चमाध्यायस्य प्रथमपादस्य समाप्तिं यावत् उक्तेषु सर्वेषु अर्थेषु स्त्री-शब्दात् 'नञ्' तथा 'पुंस्' शब्दात् 'स्नञ्' तद्धितप्रत्ययः विधीयते । ", "sd": "पञ्चमाध्यायस्य प्रथमपादस्य समाप्तिपर्यन्तम् ये केऽपि अर्थाः उक्ताः सन्ति, तेषां सर्वेषां विषये वर्तमानसूत्रेण 'स्त्री'-शब्दात् 'नञ्' प्रत्ययः , तथा 'पुम्स्'-शब्दात् स्नञ्-प्रत्ययः विधीयते । एतौ प्रत्ययौ सर्वेषाम् प्रत्ययानामपवादरूपेण आगच्छतः ।\nयथा -\n1. 'स्त्रीणां समूहः' अस्मिन् अर्थे <<प्राग्दीव्यतोऽण्>> [[4.1.83]] अनेन अण्-प्रत्यये प्राप्ते तस्य अपवादत्वेन स्त्री-शब्दात् नञ्-प्रत्ययः भवति ।\n स्त्री + नञ्\n→ स्त्रै + न [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ स्त्रैण [<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इति णत्वम्]\n2. 'पुम्भ्यः हितम्' अस्मिन् अर्थे <<तस्मै हितम्>> [[5.1.5]] इत्यनेन छ-प्रत्यये प्राप्ते तस्य अपवादत्वेन पुंस्-शब्दात् स्नञ्-प्रत्ययः भवति ।\nपुम्स् + स्नञ्\n→ पुम्स् + स्न [<<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इति अङ्गस्य पदसंज्ञा ]\n→ पौम्स् + स्न [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ पौम् स्न [<<संयोगान्तस्य लोपः>> [[8.2.23]] इति सकारस्य लोपः]\n→ पौंस्न [<<मोऽनुस्वारः>> [[8.3.23]] इति पदान्तमकारस्य अनुस्वारः]\nज्ञातव्यम् -\n1. पञ्चमाध्यायस्य द्वितीयपादस्य प्रथमम् सूत्रमस्ति <<धान्यानां भवने क्षेत्रे खञ्>> [[5.2.1]] । तदपर्यन्तम् एतयोः प्रत्यययोः प्रसक्तिः स्यात्, एतत् दर्शयितुमस्मिन् सूत्रे 'भवनात्' इति उक्तमस्ति ।\n2. पञ्चमाध्यायस्य प्रथमपादे <<तेन तुल्यं क्रिया चेद् वतिः>> [[5.1.115]] इति किञ्चन सूत्रमस्ति । अनेन सूत्रेण तुल्यविधानार्थं 'वति' प्रत्ययः विधीयते । इदं सूत्रम् पञ्चमाध्यायस्य प्रथमपादे अस्ति, अतः वस्तुतः अस्य सूत्रस्य विषये अपि वर्तमानसूत्रस्य प्रसक्तिः अस्ति । इत्युक्ते, वति-प्रत्ययस्य अपवादरूपेण स्त्री-शब्दात् 'नञ्', पुम्स्-शब्दात् च 'स्नञ्'-प्रत्ययः भवेत् । परन्तु आचार्यः सूत्रपाठे स्वयम् <<स्त्री पुंवत् च>> [[1.2.66]] एतादृशम् प्रयोगं करोति, यत्र पुम्स्-शब्दात् 'वति' प्रत्ययविधानं कृतं दृश्यते । अस्मात् निर्देशात् एतत् स्पष्टं भवति यत् पुम्स्-शब्दात् विहितः स्नञ्-प्रत्ययः वति-प्रत्ययस्य अपवादरूपेण न विधीयते । इत्युक्ते, येषु अर्थेषु 'वति' प्रत्ययस्य विधानं कृतमस्ति, तेषु अर्थेषु पुम्स्-शब्दात् अपि 'वति' प्रत्ययः एव करणीयः । यथा - पुंसा तुल्यम् = पुम्वत् ।\n3. यद्यपि स्त्री-शब्दस्य विषये अष्टाध्याय्याम् 'स्त्रीवत्' इति प्रयोगः न दृश्यते, तथापि वतिँ-प्रत्ययस्य अवकाशे प्राप्ते पुम्स्-शब्दवत् स्त्री-शब्दस्य विषये अपि वतिँ-प्रत्ययः एव विधीयते, नञ्-प्रत्ययः न । अस्मिन् विषये काशिकाकारः वदति - 'योगापेक्षं च ज्ञापकम्' । इत्युक्ते - स्त्री-शब्दात् नञ्-प्रत्ययः यस्मिन् सूत्रे दीयते, तस्मिन्नेव सूत्रे पुम्स्-शब्दात् स्नञ्-प्रत्ययः अपि दीयते, अतः यदि वतिँ-प्रत्ययस्य अवकाशे प्राप्ते पुम्स्-शब्दस्य विषये वर्तमानसूत्रस्य प्रसक्तिः न स्यात् , तर्हि स्त्री-शब्दस्य विषये अपि अस्य सूत्रस्य प्रसक्तिः न स्यात् । अतः स्त्री + वत् → स्त्रीवत् इत्येव प्रातिपदिकं सिद्ध्यति ।\nअतः सारांशरूपेण - वति-प्रत्ययार्थान् विहाय पञ्चमाध्यायस्य प्रथमपादं यावत् विहितेषु अन्येषु सर्वेषु अर्थेषु स्त्री-शब्दात् नञ्-प्रत्ययः तथा पुम्स्-शब्दात् स्नञ्-प्रत्ययः भवति ।\n" }, "41088": { "sa": "तद्धितार्थे विहितस्य द्विगु-समासस्य विषये अपत्यार्थं विहाय अन्येषु प्राग्दीव्यतीय-अर्थेषु विहितानां अजादि-तद्धितप्रत्ययानाम् लुक् भवति । ", "sd": "'द्विगु' इति तत्पुरुषसमासस्य कश्चन भेदः । <<तद्धितार्थोत्तरपदसमाहारे च>> [[2.1.51]] अनेन सूत्रेण अस्य समासस्य तद्धितार्थस्य विषये विधानम् कृतमस्ति । अस्यां प्रक्रियायाम् विहितस्य अजादि-तद्धितप्रत्ययस्य अनेन सूत्रेण लुक् भवति ।\nयथा -\n1. 'द्वौ वेदौ अधीते सः' इत्यत्र आदौ 'द्वौ' शब्दस्य 'वेदौ' शब्देन सह द्विगु समासं कृत्वा अग्रे <<तदधीते तद्वेद>> [[4.2.59]] इत्यस्मिन् अर्थे <<प्राग्दीव्यतोऽण्>> [[4.1.83]] इत्यनेन अण्-प्रत्ययः भवति । 'द्विवेद + अण्' इति स्थिते वर्तमानसूत्रेण अण्-प्रत्ययस्य लुक्-कृत्वा 'द्विवेद' इत्येव रूपं सिद्ध्यति । अतः - द्वौ वेदौ अधीते सः द्विवेदः । तथैव, त्रीन् वेदान् अधीते सः त्रिवेदः । चतुरः वेदान् अधीते सः चतुर्वेदः ।\n2. 'पञ्चसु कपालेषु संस्कृतः' इत्यत्र 'पञ्चसु' शब्दस्य 'कपालेषु' शब्देन सह समासं कृत्वा अग्रे <<संस्कृतं भक्षाः>> [[4.2.16]] इत्यनेन अण्-प्रत्ययः भवति । 'पञ्चकपाल + अण्' इति स्थिते वर्तमानसूत्रेण अण्-प्रत्ययस्य लुक्-कृत्वा 'पञ्चकपाल' इत्येव रूपं सिद्ध्यति ।\nज्ञातव्यम् -\n1. यदि प्रत्ययः अजादिः नास्ति, तर्हि अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा - 'पञ्चभ्यः गर्गेभ्यः आगतम्' इत्यत्र <<हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः>> [[4.3.81]] इत्यनेन 'रूप्य'प्रत्ययः विधीयते । अयम् प्रत्यययः अजादिः नास्ति, अतः अस्य लुक् अपि न भवति, अतः 'पञ्चगर्गरूप्य' इति प्रातिपदिकं सिद्ध्यति ।\n2. अपत्यार्थे विहितस्य तद्धितप्रत्ययस्य विषये अपि अस्य सूत्रस्य प्रसक्तिः न विद्यते । यथा, 'द्वयोः मित्रयोः अपत्यम्' इत्यत्र <<अत इञ्>> [[4.1.95]] इत्यनेन इञ्-प्रत्ययं कृत्वा 'द्वैमित्रि' इति प्रातिपदिकं सिद्ध्यति ।\n3. अनेन सूत्रेण विहितः प्रत्ययलुक् केवलं प्राग्दीव्यतीयेषु अर्थेषु एव अस्ति, अन्यत्र न । यथा, 'द्वयोः पारायणयोः कर्म वृत्तमस्य' इत्यत्र <<कर्माध्ययने वृत्तम्>> [[4.4.63]] इत्यनेन ठक्-प्रत्ययः भवति । अयम् प्रत्ययः प्राग्वहतीय-अधिकारे वर्तते, प्राग्दीव्यतीय न । अतः अत्र वर्तमानसूत्रस्य प्रसक्तिः नास्ति । अतः द्विपारायण + ठक् → द्वैपारायणिक इति रूपं सिद्ध्यति ।\n4. यदि तद्धितप्रत्ययः द्विगुनिमित्तकः नास्ति, तर्हि अस्य सूत्रस्य प्रसक्तिः न वर्तते । यथा, 'पञ्चकपालस्य इदम्' इत्यत्र यद्यपि द्विगुसमासः कृतः अस्ति, तथापि अयं द्विगुसमासः <<तस्येदम्>> [[4.3.120]] अस्मिन् अर्थे न क्रियते, अपितु <<तस्येदम्>> [[4.3.120]] इत्यस्य प्रयोगात् पूर्वमेव (तद्धितार्थभिन्नस्य विषये) अस्य समासस्य निर्माणं भवति । अस्यां स्थितौ वर्तमानसूत्रस्य प्रसक्तिः नास्ति । अतः अत्र लुग् अपि न भवति । 'पञ्चकपाल + अण् = पाञ्चकपाल' इत्येव प्रातिपदिकं सिद्ध्यति ।\n5. अस्मिन् सूत्रे वस्तुतः 'अजादि' इत्यस्य अनुवृत्तिः नास्ति । परन्तु कौमुदीकारः <<गोत्रेऽलुगचि>> [[4.1.89]] इत्यस्मात् सूत्रात् 'अचि' इति अपकर्षं कारयति । काशिकाकारः तु अस्य सूत्रस्य प्रसक्तिः 'सर्वेषाम् प्रत्ययानाम् विषये अस्ति' इति उक्त्वा इयम् 'व्यवस्थितविभाषा' अस्ति, अतः केषाञ्चन प्रत्ययानाम् विषये अस्य सूत्रस्य प्रसक्तिः न स्यात् - इति ब्रूते ।\n" }, "41089": { "sa": "", "sd": "" }, "41090": { "sa": "", "sd": "" }, "41091": { "sa": "", "sd": "" }, "41092": { "sa": "षष्ठीसमर्थात् सुबन्तात् 'अपत्यम्' अस्मिन् अर्थे अण् प्रत्ययः भवति । ", "sd": "'अपत्यम्' इत्युक्ते पुत्रपौत्रादयः । 'न पतन्ति नरके पितरः येन, तद् अपत्यम्' इति अस्य शब्दस्य व्याख्या दीयते । येषां श्राद्धादिकर्मभिः पितराणां नरकात् उद्धरणम् भवति, तानि अपत्यानि । अतः 'अपत्यम्' अनेन शब्देन पुत्रपौत्रादीनाम् सर्वेषाम् ग्रहणम् भवति ।\n'अपत्यम्' अस्मिन् अर्थे षष्ठीसमर्थात् सुबन्तात् अण्-प्रत्ययः उत तस्य यथाविहितः अपवादः विधीयते । यथा -\n1) 'उपगोः अपत्यम् पुमान्' अस्मिन् अर्थे 'उपगोः' शब्दात् औत्सर्गिकः अण्-प्रत्ययः भवति -\nउपगोः + अण् [<<प्राग्दीव्यतः अण्>> [[4.1.83]] इत्यनेन अण्-प्रत्ययः]\n→ उपगु + ङस् + अ [अलौकिकविग्रहः । <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इत्यनेन प्रातिपदिकसंज्ञा]\n→ उपगु + अ [<<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इत्यनेन ङस्-प्रत्ययस्य लुक्]\n→ औपगु + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इत्यनेन आदिवृद्धिः]\n→ औपगो + अ [<<ओर्गुणः>> [[6.4.146]] इति उकारस्य गुणः]\n→ औपगव [<<एचोऽयवायावः>> [[6.1.78]] इयि अवादेशः]\n2) 'पृथिव्याः अपत्यम् स्त्री' इत्यस्मिन् अर्थे 'पृथिवी' शब्दात् अनेन वार्तिकेन अञ्-प्रत्ययः भवति। अत्र प्रक्रिया इयम् जायते -\nपृथिव्याः + अञ् + ङीप् [ अनेन वार्तिकेन अञ्-प्रत्ययः । स्त्रीत्वस्य विवक्षायाम् <<टिड्ढाणञ्...>> [[4.1.15]] इति ङीप्-प्रत्ययः]\n→ पृथिवी + अञ् + ङीप् [<<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इत्यनेन ङस्-प्रत्ययस्य लुक्]\n→ पार्थिवी + अ + ई [<<तद्धितेष्वचामादेः>> [[7.2.117]] इत्यनेन आदिवृद्धिः]\n→ पार्थिव् + अ + ई [<<यस्येति च>> [[6.4.148]] इति ईकारलोपः]\n→ पार्थिव् + ई [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ पार्थिवी\n3) अश्वपतेः अपत्यम् पुमान् -\nअश्वपतेः + अण् [<<अश्वपत्यादिभ्यश्च>> [[4.1.84]] इति अण्-प्रत्ययः]\n→ अश्वपति + अण् [<<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इत्यनेन ङस्-प्रत्ययस्य लुक्]\n→ आश्वपति + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इत्यनेन आदिवृद्धिः]\n→ आश्वपत् + अ [<<यस्येति च>> [[6.4.148]] इति इकारलोपः]\n→ आश्वपत\n4) विनतायाः अपत्यम् पुमान्\nविनतायाः + ढक् [<<स्त्रीभ्यो ढक्>> [[4.1.120]]\n→ विनता + ढक् [<<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इत्यनेन ङस्-प्रत्ययस्य लुक्]\n→ विनता + एय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ढकारस्य एय-आदेशः]\n→ वैनता + एय [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ वैनत् + एय [<<यस्येति च>> [[6.4.148]] इति आकारलोपः]\n→ वैनतेय\nज्ञातव्यम् -\n1. अस्मिन् सूत्रे प्रथमः समर्थः 'तस्य' इति अस्ति । अतः <<समर्थानां प्रथमात् वा>> [[4.1.82]] इत्यनेन षष्ठीसमर्थात् प्रातिपदिकात् यथाविहितः तद्धितप्रत्ययः भवति । अत्र यद्यपि 'तस्य' इति पुंलिङ्ग-नपुंसकलिङ्गयोः एकवचनस्य रूपमस्ति, तथाप्यत्र लिङ्गवचनविभक्तयः सर्वे अविवक्षिताः सन्ति । इत्युक्ते 'तेषाम्', 'तासाम्', 'तस्याः' , 'मम', 'आवयो' - एतेषां सर्वेषाम् ग्रहणमत्र 'तस्य' इत्यनेनैव भवति ।\n2. 'अपत्यम्' अयम् निर्देशः लिङ्गविशिष्टः वचनविशिष्टः वा नास्ति, अतः स्त्रीलिङ्गवाचिनः अपत्यस्य तथा च पुंलिङ्गवाचिनः अपत्यस्य - उभयोः निर्देशार्थम्, तथा च त्रयाणामपि वचनानाम् निर्देशार्थम् अस्य सूत्रस्य प्रयोगः भवितुमर्हति । यथा\nअ) भानोः अपत्यम् पुमान् एकः = भानवः\nआ) भानोः अपत्यानि पुमांसः अनेके = भानवाः\nइ) भानोः अपत्यं स्त्री = भानवी [<<टिड्ढाण...>> [[4.1.15]] इति ङीप्-प्रत्ययः]\nई) भानोः अपत्यानि स्त्रियः अनेकाः = भानव्यः\n3. वस्तुतः प्राग्दीव्यतीय-अधिकारे <<तस्य इदम्>> [[4.3.120]] इत्यपि किञ्चन सूत्रमस्ति । अतः 'तस्य अपत्यम्' अयमर्थः 'तस्य इदम्' अनेनापि दर्शयितुम् शक्यते । परन्तु <<तस्य इदम्>> [[4.3.120]] अस्मिन् अर्थे वृद्धसंज्ञकात् <<वृद्धात् छः>> [[4.2.114]] इत्यनेन छ-प्रत्ययः भवति, यः <<तस्य अपत्यम्>> [[4.1.92]] अस्मिन् अर्थे न अपेक्षते । यथा -\nअ) 'भानोः इदम्' इत्यत्र <<तस्येदम्>> [[4.3.120]] अस्मिन् अर्थे <<वृद्धात् छः>> [[4.2.114]] इति छ-प्रत्यये कृते 'भानवीय' इति रूपं सिद्ध्यति ।\nआ) 'भानोः अपत्यम्' इत्यत्र <<तस्यापत्यम्>> [[4.1.92]] अस्मिन् अर्थे <<प्राग्दीव्यतोऽण्>> [[4.1.83]] इत्यनेन अण्-प्रत्यये कृते 'भानव' इति रूपं सिद्ध्यति ।\nअतः एव द्वयोः सूत्रयोः पृथक् रूपेण निर्माणं कृतमस्ति । अस्मिन् विषये वार्त्तिककारः वदति -\n\nअत्र वस्तुतः चत्वारि वार्त्तिकानि एकत्र स्थापितानि सन्ति -\n- तस्येदम् इति अपत्यार्थे = <<तस्य इदम्>> [[4.3.120]] इति सूत्रम् 'तस्य अपत्यम्' अस्मिन् अर्थे अपि भवितुमर्हति ।\n- बाधनार्थं कृतं भवेत् = <<तस्यापत्यम्>> [[4.1.92]] इति सूत्रम् <<तस्य इदम्>> [[4.3.120]] इत्यस्य बाधनार्थम् निर्मितमस्ति । इत्युक्ते, <<तस्य इदम्>> [[4.3.120]] इति उत्सर्गः, <<तस्यापत्यम्>> [[4.1.92]] इति अपवादः ।\n- उत्सर्गः शेषे एव असौ = उत्सर्गस्य प्रयोजनम् शेषाधिकारे दृश्यते ।\n- वृद्धानि अस्य प्रयोजनम् = वृद्धसंज्ञकानां विषये अपवादस्य प्रयोजनम् दृश्यते ।\nअस्य सम्पूर्णः अर्थः अयम् = <<तस्यापत्यम्>> [[4.1.92]] इति सूत्रम् <<तस्य इदम्>> [[4.3.120]] इत्यस्य अपवादरूपेण प्रयुज्यते । सामान्यतः शेषाधिकारे <<तस्य इदम्>> [[4.3.120]] इत्यस्य प्रयोगः भवति, परन्तु वृद्धसंज्ञकेभ्यः शब्देभ्यः <<तस्यापत्यम्>> [[4.1.92]] इत्यस्मिन् अर्थे वृद्धसंज्ञकेभ्यः शब्देभ्यः उत्सर्गं बाधितुम् <<तस्यापत्यम्>> [[4.1.92]] इत्यस्य निर्माणं कृतम् अस्ति ।\n " }, "41093": { "sa": "गोत्रापत्यस्य निर्देशार्थम् एकः एव प्रत्ययः भवति । ", "sd": "'गोत्र' इति अपत्याधिकारविशिष्टा संज्ञा । <<अपत्यं पौत्रप्रभृति गोत्रम्>> [[4.1.162]] इत्यनेन पौत्रप्रभृतीनां 'गोत्र'संज्ञा भवति । यथा - दशरथस्य गोत्रापत्यम् लवः, पाण्डोः गोत्रापत्यम् परीक्षितः - आदयः । एतादृशस्य गोत्रापत्यस्य निर्देशं कर्तुमपत्यविशिष्टप्रत्ययविधानम् करणीयमस्ति चेत् प्रत्यययोजनं कथं करणीयमस्मिन् विषये द्वौ नियमौ अनेन सूत्रेण उच्येते । उदाहरणम् एकं पश्यामश्चेत् स्पष्टं भवेत् -\nगर्गः इति कश्चन अस्तीति चिन्तयामः । तस्य अनन्तरापत्यस्य निर्देशं कर्तुम् <<अत इञ्>> [[4.1.95]] इत्यनेन गर्ग-शब्दात् इञ्-प्रत्ययं कृत्वा 'गार्गि' इति प्रातिपदिकं सिद्ध्यति । गर्गस्य अपत्यं गार्गिः । इदानीम्, 'गर्गस्य गोत्रापत्यम् = गार्गेः अनन्तरापत्यम्' अस्मिन् अर्थे प्रत्ययविधानम् इष्यते चेत् एकः प्रश्नः जायते - अयं प्रत्ययः 'गार्गि' शब्दात् कर्तव्यः उत 'गर्ग'शब्दात्? अस्य प्रश्नस्य उत्तरम् वर्तमानसूत्रेण दीयते । वर्तमानसूत्रेण एतत् उच्यते, यत् गोत्रापत्यस्य निर्देशार्थम् एकः एव प्रत्ययः भवेत्, न हि प्रत्ययद्वयं प्रत्ययत्रयं वा । इदानीम्, यदि 'गर्गस्य गोत्रापत्यम् = गार्गेः अनन्तरापत्यम्' इत्यस्य निर्देशार्थम् 'गार्गि' शब्दात् प्रत्ययः क्रियते, तर्हि निर्मिते तद्धितान्तशब्दे द्वौ प्रत्ययौ भवेताम्, यतः 'गार्गि'शब्दे स्वयमेव एकः प्रत्ययः अस्ति। परन्तु वर्तमानसूत्रेण एतत् निषिध्यते, अतः 'गर्गस्य गोत्रापत्यम् = गार्गेः अनन्तरापत्यम्' इत्यत्र 'गर्ग' शब्दादेव प्रत्ययः कर्तव्यः इति वर्तमानसूत्रेण स्पष्टीभवति । यथा - गर्गस्य गोत्रापत्यम् गार्ग्यः । अत्र 'गर्ग'शब्दात् <<गर्गादिभ्यः यञ्>> [[4.1.105]] इत्यनेन यञ्-प्रत्ययः विधीयते ।\nअतः वर्तमानसूत्रेण उक्तः प्रथमः नियमः अयम् - गोत्रापत्यस्य निर्देशार्थम् प्रथमप्रकृतेः एव प्रत्ययः भवति । 'गर्ग'शब्दात् प्रत्ययः भवेत् उत 'गार्गि'शब्दात्, इति संशये प्राप्ते अत्र 'प्रकृतेः स्वरूपं' नियम्यते ।\nइदानीमनेन सूत्रेण उक्तं द्वितीयं नियमं पश्यामः । गर्गस्य पौत्रस्य ये पुत्रपौत्रादयः (इत्युक्ते - 'गर्गस्य प्रपौत्रः / गर्गस्य प्रप्रपौत्रः / गर्गस्य प्रप्रप्रपौत्रः' एते सर्वे) तेऽपि <<अपत्यं पौत्रप्रभृति गोत्रम्>> [[4.1.162]] इत्यनेन गर्गस्य गोत्रापत्यानि एव । तर्हि एतेषाम् सर्वेषामपत्यवाचिप्रत्ययेन निर्देशः कथं कर्तव्यः - इति प्रश्नः जायते । यथा , गर्गात् यः पञ्चमः, सः 'गर्गस्य प्रप्रपौत्रः', तस्य च निर्देशार्थम् गर्गशब्दात् <<गर्गादिभ्यः यञ्>> [[4.1.105]] इत्यनेन 'यञ्' प्रत्ययः 'चतुर्वारं' भवेत् वा - इति संशयः उद्भवति । अस्यैव प्रश्नस्य उत्तरम् वर्तमानसूत्रेण दीयते - 'गोत्रापत्यस्य निर्देशार्थम् 'एकः' एव प्रत्ययः भवति' । अतः गर्गशब्दात् <<गर्गादिभ्यः यञ्>> [[4.1.105]] इत्यनेन यञ्-प्रत्ययं कृत्वा 'गार्ग्य' इति यत् प्रातिपदिकं सिद्ध्यति, तेनैव 'गर्गस्य प्रपौत्रः / गर्गस्य प्रप्रपौत्रः / गर्गस्य प्रप्रप्रपौत्रः' एतेषां सर्वेषाम् निर्देशः भवति - इति अनेन स्पष्टीभवति ।\nअतः वर्तमानसूत्रेण उक्तः द्वितीयः नियमः अयम् - गोत्रापत्यस्य निर्देशार्थम् प्रथमप्रकृतेः 'एकः' एव प्रत्ययः भवति । 'गर्गस्य प्रप्रप्रप्रप्रौत्र' इत्यस्य निर्देशे कति प्रत्ययाः भवेयुः इति संशये जाते अत्र 'प्रत्ययस्य स्वरूपं' नियम्यते ।\nअनेन प्रकारेण वर्तमानसूत्रेण प्रकृतेः तथा प्रत्ययस्य - द्वयोः अपि स्वरूपम् नियम्यते । गोत्रसंज्ञकस्य निर्देशार्थम् प्रथमप्रकृतेः एव प्रत्ययः भवति, तथा एकः एव प्रत्ययः भवति, इति अस्य सूत्रस्य आशयः ।\n" }, "41094": { "sa": "युवापत्यस्य निर्देशार्थम् गोत्रप्रत्ययान्तशब्दात् एव प्रत्ययः विधीयते । परन्तु, स्त्रीवाचि यत् अपत्यम्, तस्य विषये युवसंज्ञायाः अभावात् एतादृशः प्रत्ययः न भवति । ", "sd": "'युवा' इति अपत्याधिकारविशिष्टा संज्ञा । <<जीवति तु वंश्ये युवा>> [[4.1.163]], <<भ्रातरि च ज्यायसि>> [[4.1.164]], तथा <<वाऽन्यस्मिन् सपिण्डे स्थविरतरे जीवति>> [[4.1.165]] एतैः सूत्रैः इयम् संज्ञा दीयते। पौत्रप्रभृतीनाम् यद् अपत्यम्, तस्य एतैः सूत्रैः 'युवा'संज्ञा भवितुमर्हति । यथा, शन्तनोः प्रपौत्रः अर्जुनः, तस्य (कुन्ती जीविता अस्ति चेत्) <<जीवति तु वंश्ये युवा>> [[4.1.163]] इत्यनेन 'युवापत्यम्' इति संज्ञा भवति । शन्तनोः युवापत्यमर्जुनः । अत्र अपत्यविशिष्ट-प्रत्ययस्य प्रयोगेण युवापत्यस्य निर्देशः कथं कर्तव्यः इति प्रश्ने प्राप्ते वर्तमानसूत्रेण तस्य उत्तरं दीयते - युवापत्यस्य निर्देशार्थम् गोत्रप्रत्ययान्तात् एव प्रत्ययः भवति ।\nएकमुदाहरणं पश्यामश्चेत् स्पष्टं भवेत् । गर्गः इति कश्चन अस्तीति चिन्तयामः । तस्य अनन्तरापत्यस्य निर्देशं कर्तुम् <<अत इञ्>> [[4.1.95]] इत्यनेन गर्ग-शब्दात् इञ्-प्रत्ययं कृत्वा 'गार्गि' इति प्रातिपदिकं सिद्ध्यति । गर्गस्य अपत्यं गार्गिः । अग्रे गर्गस्य पौत्रस्य (= गोत्रापत्यस्य) निर्देशं कर्तुम् <<एको गोत्रे>> [[4.1.163]] इत्यनेन गर्गशब्दात् <<गर्गादिभ्यः यञ्>> [[4.1.105]] इति यञ्-प्रत्ययं कृत्वा 'गार्ग्य' इति रूपं सिद्ध्यति । इदानीम्, 'गर्गस्य युवापत्यम्' अस्य निर्देशं कर्तुम् 'कस्मात् प्रातिपदिकात् प्रत्ययविधानं भवेत्' इति प्रश्ने प्राप्ते वर्तमानसूत्रेण अस्य उत्तरम् दीयते - युवापत्यस्य निर्देशार्थम् गोत्रप्रत्ययान्तशब्दात् एव प्रत्ययः भवति । अतः गर्गस्य युवापत्यम् इत्यस्य निर्देशार्थम् 'गार्ग्य' शब्दादेव प्रत्ययः करणीयः, 'गर्ग' उत 'गार्गि'शब्दात् न् । <<यञिञोश्च>> [[4.1.101]] इत्यनेन अत्र फक्-प्रत्ययं कृत्वा गार्ग्य + फक् → गार्ग्यायण इति रूपं सिद्ध्यति ।\nअस्मिन् सूत्रे 'अस्त्रियाम्' इति अपि उक्तमस्ति । अस्मिन् विषये काशिकाकारः वदति - 'योगविभागः कर्तव्यः' । इत्युक्ते, अत्र सूत्रद्वयमस्तीति चिन्तनीयम् । 'गोत्रात् युनि' इति प्रथमं सूत्रम्, तथा च 'अस्त्रियाम्' इति अपरं सूत्रम् । एतत् 'अस्त्रियाम्' इति यत् सूत्रम्, तस्य अर्थः काशिकायाम् एतादृशः उच्यते - ' यूनि यदुक्तं तत् स्त्रियां न भवति। युवसंज्ञा एव प्रतिषिध्यते' । इत्युक्ते, स्त्रीवाचि यत् अपत्यम्, तस्य विषये 'युवासंज्ञा' एव न भवति - इति अस्य आशयः । अतः 'दक्षस्य प्रपौत्री' अस्य निर्देशः 'दक्षस्य गोत्रापत्यम्' इत्यनेनैव भवति, 'दक्षस्य युवापत्यम्' इत्यनेन न । स्त्रीवाचिशब्दानां विषये वर्तमानसूत्रस्य प्रसक्तिरेव नास्ति, इत्येव 'अस्त्रियाम्' इति शब्दः निर्देशयति - इति अस्य आशयः । " }, "41095": { "sa": "'तस्यापत्यम्' अस्मिन् अर्थे अदन्तेभ्यः प्रातिपदिकेभ्यः इञ्-प्रत्ययः भवति ।", "sd": "<<प्राग्दीव्यतः अण्>> [[4.1.83]] इत्यनेन सर्वेषु प्राग्दीव्यतीय-अर्थेषु औत्सर्गिकरूपेण अण्-प्रत्ययः भवति । तस्य अपवादत्वेन <<तस्य अपत्यम्>> [[4.1.92]] अस्मिन् अर्थे अदन्त-प्रातिपदिकात् इञ्-प्रत्ययः भवति । यथा, दक्षस्य अपत्यम् पुमान् इत्यत्र -\nदक्षस्य + इञ्\n→ दक्ष + इञ् [<<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति ङस्-प्रत्ययस्य लुक्]\n→ दाक्ष + इ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इत्यनेन अङ्गस्य आदिस्वरस्य वृद्धिः]\n→ दाक्ष् + इ [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ दाक्षि\nएवमेव -\n1. दशरथस्य अपत्यम् = दाशरथिः ।\n2. गर्गस्य अपत्यम् = गार्गिः ।\n3. सोमदत्तस्य अपत्यम् = सौमदत्तिः ।\nअत्र एकम् वार्तिकम् ज्ञातव्यम् - । इत्युक्ते, ये अदन्ताः शब्दाः 'सम्बन्धवाचकाः' सन्ति - यथा - मातुल, श्वशुर - आदयः - तेषाम् विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, 'श्वशुरस्य अपत्यम्' इत्यत्र <<राजश्वशुरात् यत्>> [[4.1.137]] इत्यनेन 'यत्' प्रत्ययं कृत्वा 'श्वशुर्य' इति रूपं सिद्ध्यति । परन्तु यदि 'श्वशुर' नाम कश्चन युवकः अस्ति, तर्हि तस्य अपत्यार्थम् वर्तमानसूत्रस्य प्रयोगं कृत्वा इञ्-प्रत्ययः एव भवति । यथा - श्वशुरनाम्नः युवकस्य अपत्यं पुमान् = श्वाशुरिः ।\nज्ञातव्यम् -\n1. 'इञ्' अस्मिन् प्रत्यये ञकारस्य प्रयोजनद्वयम् - <<तद्धितेष्वचामादेः>> [[7.2.117]] इत्यनेन अङ्गस्य आदिस्वरस्य वृद्धिः भवति, तथा <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] इत्यनेन समुदायस्य आदिस्वरः उदात्तः भवति ।\n2. अस्मिन् सूत्रे 'अतः' इति तपरकरणम् कृतमस्ति, अतः ह्रस्व-अकारान्त-शब्दस्य विषये एव अस्य सूत्रस्य प्रसक्तिः अस्ति ।\n3. रामायणे सुन्दरकाण्डे 'प्रदीयताम् दाशरथाय मैथिली' इति वाक्यं बहुवारं दृश्यते । अत्र 'दाशरथ' इति शब्दः दशरथ-शब्दात् अण्-प्रत्यये कृते सिद्ध्यति । वस्तुतः <<तस्यापत्यम्>> [[4.1.92]] इत्यस्मिन् अर्थे दशरथ-शब्दात् अपत्यार्थे 'इञ्' प्रत्ययः भवति । तर्हि अत्र अण्-प्रत्ययः कथम् कृतः? अस्य स्पष्टीकरणम् काशिकायां दीयते - 'कथं प्रदीयतां दाशरथाय मैथिली? शेषविवक्षया भविष्यति' । इत्युक्ते, 'दाशरथ' इति शब्दः <<तस्येदम्>> [[4.3.120]] अस्मिन् अर्थे 'दशरथ' शब्दात् अण्-प्रत्ययं कृत्वा सिद्ध्यति ।\n4. <<शिवादिभ्यः अण्>> [[4.1.112]] एतत् सूत्रम् वर्तमानसूत्रस्य अपवादरूपेण विधीयते । अनेन अपवादेन शिवादिगणे उपस्थितानां शब्दानामपत्यार्थे अण्-प्रत्ययः एव विधीयते, न अन्यत् ।\n" }, "41096": { "sa": "'तस्य अपत्यम्' अस्मिन् अर्थे बाह्वादिगणस्य शब्देभ्यः इञ्-प्रत्ययः भवति ।", "sd": "<<प्राग्दीव्यतः अण्>> [[4.1.83]] इत्यनेन सर्वेषु प्राग्दीव्यतीय-अर्थेषु औत्सर्गिकरूपेण अण्-प्रत्ययः भवति । तस्य अपवादत्वेन <<तस्य अपत्यम्>> [[4.1.92]] अस्मिन् अर्थे बाह्वादिगणे दत्तेभ्यः शब्देभ्यः इञ्-प्रत्ययः विधीयते ।\nबाह्वादिगणः अयम् -\nबाहु। उपबाहु। उपवाकु । निवाकु । शिवाकु। वटाकु । उपनिन्दु । उपबिन्दु। वृषली । वृकला । चूडा। बलाका। मूषिका । कुशला । भगला। छगला। ध्रुवका। धुवका। सुमित्रा। दुर्मित्रा। पुष्करसद् । अनुहरत्। देवशर्मन्। अग्निशर्मन्। भद्रशर्मन् । सुशर्मन् । कुनामन्। सुनामन्। पञ्चन्। सप्तन्। अष्टन्। अमितौजसः सलोपश्च । सुधावत् । उदञ्चु। शिरस्। माष । शराविन्। मरीची । क्षेमवृद्धिन्। शृङ्खलतोदिन्। खरनादिन्। नगरमर्दिन्। प्राकारमर्दिन्। लोमन्। अजीगर्त। कृष्ण। युधिष्ठिर । अर्जुन । साम्ब। गद। प्रद्युम्न। राम। उदङ्क संज्ञायाम् । सम्भूयोऽम्भसोः सलोपश्च । आकृतिगणोयम् । तेन - सात्त्विकिः । जाङ्घ्रिः । ऐन्द्रशर्मिः । आजधेनविः ।\nअस्मिन् गणे कानिचन गणसूत्राणि अपि सन्ति -\n1. अमितौजसः सलोपश्च - 'अमितौजस्' शब्दस्य सकारस्य लोपः भवति । यथा - अमितौजस् + इञ् → अमितौज + इञ् → आमितौजि ।\n2. उदङ्कः संज्ञायाम् - 'उदञ्च्' शब्दात् संज्ञायाः विषये (इत्युक्ते, 'उत्तरदिशा' अयम् निर्देशः अस्ति चेत्) अपत्यार्थे इञ्-प्रत्ययः भवति । उदीचः अपत्यम् = उदञ्च् + इञ् = औदञ्चि ।\n3. सम्भूयोऽम्भसोः सलोपश्च - 'सम्भूयस्' तथा 'अम्भस्' शब्दयोः विषये सकारलोपः भवति । यथा - सम्भूयस् + इञ् → सम्भूय + इञ् → साम्भूयि । अम्भस् + इञ् → अम्भ + इञ् → आम्भि ।\nकानिचन उदाहरणानि । एतेषु सर्वेषु उदाहरणेषु <<तद्धितेष्वचामादेः>> [[7.2.117]] इत्यनेन आदिवृद्धिं कृत्वा रूपम् सिद्ध्यति ।\n1. बाहु + इञ् → बाहवि । अत्र <<ओर्गुणः>> [[6.4.146]] इत्यनेन उकारस्य गुणः भवति ।\n2. उपबाहु + इञ् → औपबाहवि । अत्र <<ओर्गुणः>> [[6.4.146]] इत्यनेन उकारस्य गुणः भवति ।\n3. सुमित्रा + इञ् → सौमित्रि । अत्र <<यस्येति च>> [[6.4.148]] इति आकारलोपः भवति । अयम् इञ्-प्रत्ययः <<स्त्रीभ्यो ढक्>> [[4.1.120]] इत्यनेन निर्दिष्टस्य ढक्-प्रत्ययस्य अपवादरूपेण आगच्छतीति स्मर्तव्यम् ।\n4. देवशर्मन् + इञ् → दैवशर्मि । अत्र <<नस्तद्धिते>> [[6.4.144]] इत्यनेन अकार-नकारलोपः भवति ।\n5. पञ्चानामपत्यम् = पञ्चन् + इञ् → पाञ्चि । अत्र <<नस्तद्धिते>> [[6.4.144]] इत्यनेन अकार-नकारलोपः भवति ।\n6. हस्तिशिरस् + इञ् → हास्तिशीर्षि । अत्र <<अचि शीर्षः>> [[6.1.62]] इत्यनेन शिरस्-शब्दस्य शीर्ष-आदेशः भवति ।\n7. मरीची + इञ् → मारीचि । अत्र <<यस्येति च>> [[6.4.148]] इति ईकारलोपः भवति ।\n8. उडुलोमन् + इञ् → औडुलोमि । अत्र <<नस्तद्धिते>> [[6.4.144]] इत्यनेन टिलोपः भवति । यद्यपि बाह्वादिगणे 'लोमन्' इत्यस्यैव निर्देशः अस्ति, तथाप्यत्र उडुलोमन्, शरलोमन्, ऊर्ध्वलोमन् - एतेषां सर्वेषाम् ग्रहणं भवति, यतः केवल-लोमन्-शब्दात् अपत्यप्रत्ययस्य प्रयोगः न दृश्यते । (एतेषां शब्दानां विषये बहुवचनस्य प्रक्रियायां तु इञ्-प्रत्ययं बाधित्वा <<दित्यदित्यादित्य ....>> [[4.1.85]] इत्यत्य पाठितेन '' अनेन वार्त्तिकेन 'अ' प्रत्ययः भवतीति स्मर्तव्यम् ।)\n9. राम + इञ् → रामि । अत्र <<यस्येति च>> [[6.4.148]] इति अकारलोपः भवति ।\nअस्मिन् सूत्रे प्रयुक्तः 'च'कारः 'अनुक्तसमुच्चयार्थम्' अस्ति । इत्युक्ते, ये शब्दाः अस्मिन् गणे समाविष्टाः न सन्ति परन्तु येषाम् विषये अपत्यार्थे इञ्-प्रत्ययस्य प्रयोगः कृतः दृश्यते, तेषाम् समावेशः अपि अस्मिन् गणे भवितुमर्हति । अतएव अयमाकृतिगणः । यथा, इन्द्रशर्मन् + इञ् → ऐन्द्रशर्मि ।\nअत्र एकः प्रश्नः आगच्छति - राम, अर्जुन, कृष्ण - एते अदन्ताः शब्दाः तु <<अत इञ्>> [[4.1.95]] इत्यनेनैव इञ्-प्रत्ययं स्वीकुर्वन्ति । तेषाम् पुनः अस्मिन् गणे समावेशः किमर्थम् क्रियते? अस्य उत्तरम् एतत् - एतेषाम् शब्दानाम् इञ्-प्रत्यये प्राप्ते तं बाधित्वा <<ऋष्यन्धकवृष्णिकुरुभ्यश्च>> [[4.1.114]] इत्यनेन अण्-प्रत्ययविधानम् भवति । तत् तथा मा भूत् एतत् स्पष्टीकर्तुम् एतेषां शब्दानामत्र समावेशः क्रियते, येन एतेषाम् इञ्-प्रत्ययः एव भवति । यथा - कृष्णस्य अपत्यम् = कृष्ण + इञ् → कार्ष्णि ।\nअस्मिन् विषये एकं वार्त्तिकमपि ज्ञातव्यम् - । इत्युक्ते, बाह्वादिगणे उपस्थितैः शब्देः यदि प्रसिद्धस्य लौकिक-गोत्रस्य निर्देशः क्रियते, तर्हि एव अनेन सूत्रेण इञ्-प्रत्ययः भवति, न अन्यथा । यथा -\nअ) 'बाहु' नाम्नः ऋषेः अपत्यस्य निर्देशः 'बाहु + इञ् → बाहवि' इति कर्तुं शक्यते । परन्तु बाहु नाम कश्चन अन्यः पुरुषः अस्ति चेत् तस्य अपत्यं निर्देशयितुम् इञ्-प्रत्ययः न भवति, औत्सर्गिकः अण्-प्रत्ययः एव भवति । यथा - 'बाहु + अण् → बाहव' ।\nआ) वासुदेवकृष्णस्य अपत्यस्य निर्देशः 'कृष्ण + इञ् = कार्ष्णि' एवं भवितुमर्हति । परन्तु 'कृष्ण' नाम अन्यः कश्चन युवकः अस्ति चेत् तस्य अपत्यम् 'कृष्ण + अण् → कार्ष्ण' इत्येव सम्बुद्ध्यते ।\nएवमेव अजीगर्त, कृष्ण, युधिष्ठिर, अर्जुन, साम्ब, गद, प्रद्युम्न, राम - एतेषाम् विषये अपि प्रसिद्धगोत्रोत्पन्नस्यैव अत्र कृतनिर्देशः ज्ञातव्यः, अन्येषाम् न । " }, "41097": { "sa": "'तस्य अपत्यम्ः अस्मिन् अर्थे सुधातृ-शब्दात् इञ्-प्रत्ययः भवति, तथा सुधातृ-शब्दस्य अकङ्-आदेशः अपि भवति । ", "sd": "<<प्राग्दीव्यतः अण्>> [[4.1.83]] इत्यनेन सर्वेषु प्राग्दीव्यतीय-अर्थेषु औत्सर्गिकरूपेण अण्-प्रत्ययः भवति । तस्य अपवादत्वेन <<तस्य अपत्यम्>> [[4.1.92]] अस्मिन् अर्थे षष्ठीसमर्थ-'सुधातृ'-शब्दात् इञ्-प्रत्ययः भवति, तथा च सुधातृ-शब्दस्य अकङ्-आदेशः अपि भवति । यथा -\nसुधातुः + इञ्\n→ सुधातृ + इञ् [<<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति लुक्]\n→ सुधात् अक् + इञ् [<<सुधातुरकङ् च>> [[4.1.97]] इति सुधातृ-शब्दस्य अकङ्-आदेशः । ङित्वात् <<ङिच्च>> [[1.1.53]] इति अन्त्यादेशः]\n→ सौधातक् + इ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ सौधातकि\nअत्र एकम् वार्त्तिकम् ज्ञातव्यम् - । इत्युक्ते, व्यास, वरुड, निषाद, चण्डाल, तथा बिम्ब - एतेषाम् शब्दानामपि अपत्यार्थे इञ्-प्रत्ययः तथा अकङ्-आदेशः भवति । यथा -\n1) व्यास + इञ्\n→ व्यास् + अकङ् + इञ् [ व्यास-शब्दस्य अकङ्-आदेशः । ङित्वात् <<ङिच्च>> [[1.1.53]] इति अन्त्यादेशः]\n→ वै यास् + अकङ् + इ [<<न य्वाभ्यां पदान्ताभ्याम् पूर्वौ तु ताभ्यामैच्>> [[7.3.3]] इति यकारात् पूर्वम् ऐकारस्य आगमः]\n→ वैयासकि\n2) वरुड + इञ् → वारुडकि\n3) निषाद + इञ् → नैषादकि\n4) चण्डाल + इञ् → चाण्डालकि\n5) बिम्ब + इञ् → बैम्बकि\n" }, "41098": { "sa": "गोत्रापत्यस्य निर्देशार्थम् कुञ्जादिगणस्य षष्ठीसमर्थेभ्यः शब्देभ्यः च्फञ् प्रत्ययः भवति । ", "sd": "" }, "41099": { "sa": "गोत्रापत्यस्य निर्देशार्थम् नडादिगणस्य शब्देभ्यः फक्-प्रत्ययः भवति । ", "sd": "" }, "41100": { "sa": "युवापत्यस्य निर्देशार्थम् हरितादिगणस्य अञ्-प्रत्ययान्तशब्देभ्यः फक्-प्रत्ययः भवति । ", "sd": "" }, "41101": { "sa": "युवापत्यस्य निर्देशार्थम् यञ्-प्रत्ययान्तशब्देभ्यः इञ्-प्रत्ययान्तशब्देभ्यः च फक्-प्रत्ययः भवति । ", "sd": "" }, "41102": { "sa": "शरद्वत्-शब्दात् भृगुगोत्रस्य विषये, शुनक-शब्दात् वत्सगोत्रस्य विषये, तथा दर्भ-शब्दात् आग्रायणगोत्रस्य विषये गोत्रापत्यस्य निर्देशं कर्तुम् फक् प्रत्ययः भवति । ", "sd": "" }, "41103": { "sa": "द्रोण, पर्वत, जीवन्त - एतेभ्यः शब्देभ्यः गोत्रापत्यस्य निर्देशार्थम् विकल्पेन फक् प्रत्ययः भवति । ", "sd": "" }, "41104": { "sa": "गोत्रापत्यस्य निर्देशार्थम् बिदादिगणस्य शब्देभ्यः अञ्-प्रत्ययः भवति । परन्तु बिदादिगणे विद्यमानाः ये शब्दाः ऋषिवाचकाः न सन्ति, तेषां विषये अनन्तरापत्ये एव अञ् प्रत्ययः भवति । ", "sd": "" }, "41105": { "sa": "गोत्रापत्यस्य निर्देशार्थम् गर्गादिगणस्य शब्देभ्यः यञ् प्रत्ययः भवति । ", "sd": "" }, "41106": { "sa": "गोत्रापत्यस्य निर्देशार्थम् मधु-शब्दात् ब्राह्मणस्य निर्देशं कर्तुम् तथा बभ्रु-शब्दात् कौशिकगोत्रोत्पन्नस्य निर्देशं कर्तुम् यञ्-प्रत्ययः भवति । ", "sd": "" }, "41107": { "sa": "आङ्गिरसकुलवाची यः 'कपि'शब्दः 'बोध'शब्दः च, तस्मात् गोत्रापत्यस्य निर्देशार्थम् यञ् प्रत्ययः भवति । ", "sd": "" }, "41108": { "sa": "आङ्गिरसकुलवाची यः 'वतण्ड'शब्दः, तस्मात् गोत्रापत्यस्य निर्देशार्थम् यञ् प्रत्ययः भवति । ", "sd": "" }, "41109": { "sa": "आङ्गिरसकुलवाची यः 'वतण्ड'शब्दः, तस्मात् विद्यमानस्य यञ्-प्रत्ययस्य स्त्रीलिङ्गे लुक् भवति । ", "sd": "" }, "41110": { "sa": "गोत्रापत्यस्य निर्देशार्थमश्वादिगणस्य शब्देभ्यः फञ्-प्रत्ययः भवति । ", "sd": "" }, "41111": { "sa": "त्रैगर्तकुलवाची यः भर्गशब्दः, तस्मात् गोत्रापत्यस्य निर्देशार्थम् फञ् प्रत्ययः भवति । ", "sd": "" }, "41112": { "sa": "'तस्य अपत्यम्' अस्मिन् अर्थे शिवादिगणस्य शब्देभ्यःअण्-प्रत्ययः भवति ।", "sd": "<<प्राग्दीव्यतः अण्>> [[4.1.83]] इत्यनेन सर्वेषु प्राग्दीव्यतीय-अर्थेषु औत्सर्गिकरूपेण अण्-प्रत्ययः भवति । तस्य अपवादत्वेन भिन्नैः सूत्रैः भिन्नासु अवस्थासु विविधाः प्रत्ययाः विधीयन्ते । शिवादिगणस्य शब्दानाम् विषये अपत्यार्थे परन्तु तान् सर्वान् बाधित्वा अण्-प्रत्ययः एव जायते ।\nशिवादिगणस्य आवली इयम् -\nशिव। प्रोष्ठ। प्रोष्ठिक। चण्ड। जम्भ। मुनि। सन्धि। भूरि। कुठार। ककुभ् ।ककुभा । अनभिम्लान। कोहित । मुख । ककुस्थ । कहोड। कोहड । कहूय । कहय । रोध । कपिञ्जल । कुपिञ्जल । खञ्जन । वतण्ड । तृणकर्ण । क्षीरहृद । जलहृद । परिल । पथिक । पिष्ट । हैहय । पार्षिका । गोपिका । कपिलिका । जटिलिका । बधिरिका । मञ्जिरक । मजिरक । वृष्णिक । खञ्जास । खञ्जाह । कर्मार । रेख । लेख।आलेखन। विश्रवण। रवण। वर्तनाक्ष। ग्रीवाक्ष । पिटक। पिटाक। तृक्षाक। नभाक। ऊर्णनाभ। जरत्कारु। पृथा । उत्क्षेप । पुरोहोतिका । सुरोहितिका । मुरोहिका ।आर्यश्वेत। अर्यश्वेत । सुपिष्ट। मसूरकर्ण। मयूरकर्ण । खर्जुरकर्ण ।कदूरक । तक्षन् । ऋष्टिषेण। गङ्गा। विपाश। यस्क। लह्य। द्रुह्य । अयस्थूण। तृणकर्ण । तृण । कर्ण । पर्ण । भलन्द । विरूपाक्ष। भूमि। इला। सपत्नी। द्व्यचो नद्याः। त्रिवेणी त्रिवणं च।\nअस्मिन् गणे द्वे गणसूत्रे स्तः -\n1. द्व्यचो नद्याः - यदि नद्याः नाम्नि द्वौ स्वरौ स्तः तर्हि तस्मात् अपत्यार्थे अण्-प्रत्ययः भवति । यथा -\nअ) सन्ध्यायाः अपत्यम् = सन्ध्या + अण् → सान्ध्यः ।\nआ) कुल्यायाः अपत्यम् = कुल्या + अण् → कौल्यः ।\nअनेन गणसूत्रेण उक्तः अण्-प्रत्ययः <<द्व्यचः>> [[4.1.121]] इत्यनेन निर्दिष्टस्य ढक्-प्रत्ययस्य अपवादरूपेण विधीयते ।\n2. त्रिवेणी त्रिवणं च - त्रिवेणी शब्दात् अपत्यार्थे अण्-प्रत्ययः भवति, तथा त्रिवेणी-शब्दस्य 'त्रिवण' आदेशः जायते । यथा -\nत्रिवेणी + अण् → त्रिवण + अण् → त्रैवण ।\nकानिचन उदाहरणानि -\n1. शिव + अण् → शैव\n2. प्रोष्ठ + अण् → प्रौष्ठ\n3. चण्ड + अण् → चाण्ड\n4. मुनि + अण् → मौनः । अत्र इकारस्य <<यस्येति च>> [[6.4.148]] इत्यनेन लोपः जायते ।\n5. पथिक + अण् → पाथिक\n6. वृष्णिक + अण् → वार्ष्णिक\n7. लेख + अण् → लैख\n8. पृथा + अण् → पार्थ\n9. तक्षन् + अण् → ताक्ष्ण। अत्र नकार-अकारयोः <<नस्तद्धिते>> [[6.4.144]] इति लोपे प्राप्ते <<षपूर्वहन्धृतराज्ञामणि>> [[6.4.135]] इति उपधा-षकारस्य लोपः भवति ।\n10. भूमि + अण् → भौम\n11. सपत्नी + अण् → सापत्नः । अत्र <<स्त्रीभ्यो ढक्>> [[4.1.120]] इत्यनेन विहितस्य ढक्-प्रत्ययस्य अपवादरूपेण अण्-प्रत्ययः विधीयते ।]\nज्ञातव्यम् -\n1. शिवादिगणे 'गङ्गा' शब्दः पाठितः अस्ति । अयम् शब्दः <<तिकादिभ्यः फिञ्>> [[4.1.154]] इत्यत्र निर्दिष्टे तिकादिगणे अपि अस्ति । तथा, <<शुभ्रादिभ्यश्च>> [[4.1.123]] इत्यनेन निर्दिष्टे आकृतिगणे अपि तस्य स्वीकारः क्रियते । त्रिषु गणेषु अयं शब्दः पाठितः अस्ति, अतः अस्मात् शब्दात् अपत्यार्थे त्रयः प्रत्ययाः विधीयन्ते -\nअ) शिवादिगणस्य अण्-प्रत्ययः = गङ्गा + अण् → गाङ्ग\nआ) तिकादिगणस्य फिञ्-प्रत्ययः = गङ्गा + फिञ् → गाङ्गायनि\nइ) शुभ्रादिगणस्य ढक्-प्रत्ययः = गङ्गा + ढक् → गाङ्गेय ।\nअयम् शब्दः यद्यपि स्त्रीप्रत्ययान्तः अस्ति, तथापि <<द्व्यचः>> [[4.1.121]] इत्यनेन अस्मात् शब्दात् ढक्-प्रत्ययः न भवति, यतः तं बाधित्वा त्रिभिः सूत्रैः त्रयः प्रत्ययाः विधीयन्ते ।\n2. अनेन सूत्रेण पाठितः अण्-प्रत्ययः एतादृशमपवादकार्यम् करोति -\nअ) अस्मिन् गणे पाठितानामदन्तशब्दानाम् विषये <<अत इञ्>> [[4.1.95]] इत्यनेन विहितस्य इञ्-प्रत्ययस्य अपवादः ।\nआ) अस्मिन् गणे पाठितानाम् इदन्तशब्दानाम् विषये <<इतश्चानिञः>> [[4.1.122]] इत्यनेन विहितस्य ढक् -प्रत्ययस्य अपवादः ।\nइ) अस्मिन् गणे पाठितानामाबन्त/ङ्यन्त-शब्दानाम् विषये <<स्त्रीभ्यो ढक्>> [[4.1.120]] इत्यनेन निर्दिष्टस्य ढक्-प्रत्ययस्य अपवादः ।\nई) 'ऋष्टिषेण' शब्दस्य विषये <<सेनान्तलक्षणकारिभ्यश्च>> [[4.1.152]] इत्यनेन विहितस्य ण्य-प्रत्ययस्य अपवादः ।\nउ) 'गङ्गा'शब्दस्य विषये <<द्व्यचः>> [[4.1.121]] इत्यनेन विहितस्य ढक्-प्रत्ययस्य अपवादः ।\n" }, "41113": { "sa": "यः शब्दः वृद्धसंज्ञकः नास्ति, तथा च नद्याः / मानुष्याः नाम्नः निर्देशं करोति, तादृशात् शब्दात् 'तस्य अपत्यम्' अस्मिन् अर्थे अण्-प्रत्ययः भवति ।", "sd": "'वृद्ध' इति काचन संज्ञा । <<वृद्धिर्यस्याचामादिस्तद् वृद्धम्>> [[1.1.73]] इत्यनेन सूत्रेण इयम् संज्ञा दीयते । येषु शब्देषु प्रथमः अच्-वर्णः वृद्धिसंज्ञकः अस्ति (इत्युक्ते, आकारः / ऐकारः / औकारः अस्ति) तेषामनेन सूत्रेण 'वृद्ध'संज्ञा विधीयते । यथा - माला, वैनतेय, औपगव - आदयः ।\nयः शब्दः वृद्धसंज्ञकः नास्ति, तस्य निर्देशः अस्मिन् सूत्रे 'अवृद्ध' इत्यनेन कृतः अस्ति । एतादृशः अवृद्धः शब्दः यदि नद्याः / मानुष्याः (= मनुष्यस्त्रियाः) नाम्नः निर्देशं करोति, तस्मात् शब्दात् अपत्यार्थे वर्तमानसूत्रेण अण्-प्रत्ययः विधीयते । इत्युक्ते, यथा काशिकायामुक्तम् - अवृद्धानि यानि नदीनां मानुषीणां च नामधेयानि, तेभ्यः अपत्ये अण् प्रत्ययः भवति । यथा -\nनदीवाचकाः अवृद्धसंज्ञकाः शब्दाः =\nअ) यमुनायाः अपत्यम् = यमुना + अण् → यामुन\nआ) सरस्वत्याः अपत्यम् = सरस्वती + अण् → सारस्वत\nइ) नर्मदायाः अपत्यम् = नर्मदा + अण् → नार्मद\nई) इरावत्याः अपत्यम् = इरावती + अण् → ऐरावत\nउ) वितस्तायाः अपत्यम् = वितस्ता + अण् → वैतस्त\nमानुषीवाचकाः अवृद्धसंज्ञकाः शब्दाः (इत्युक्ते - मनुष्यस्त्रीणाम् नामानि)\nअ) सुभद्रायाः अपत्यम् = सुभद्रा + अण् → सौभद्र\nआ) शिक्षितायाः अपत्यम् = शिक्षिता + अण् → शैक्षित\nइ) चिन्तितायाः अपत्यम् = चिन्तिता + अण् → चैन्तित\nई) संस्कृतायाः अपत्यम् = संस्कृता + अण् → सांस्कृत\nउ) हिडिम्बायाः अपत्यम् = हिडिम्बा + अण् → हैडिम्ब\nएतेषाम् सर्वेषाम् शब्दानामपत्यार्थे <<स्त्रीभ्यो ढक्>> [[4.1.120]] इत्यनेन ढक्-प्रत्यये प्राप्ते अपवादत्वेन वर्तमानसूत्रेण अण्-प्रत्ययः भवति ।\nज्ञातव्यम् -\n1. यदि नद्याः मानुष्याः वा नाम वृद्धसंज्ञकः अस्ति, तर्हि वर्तमानसूत्रस्य प्रसक्ति एव नास्ति । यथा -\nअ) चान्द्रभागायाः अपत्यम् = चान्द्रभागा + ढक् → चान्द्रभागेय । अत्र <<स्त्रीभ्यो ढक्>> [[4.1.120]] इत्यनेन ढक्-प्रत्ययः विधीयते ।\nआ) वासवदत्तायाः अपत्यम् = वासवदत्ता + ढक् → वासवदत्तेय । अत्र <<स्त्रीभ्यो ढक्>> [[4.1.120]] इत्यनेन ढक्-प्रत्ययः विधीयते ।\n2. यदि अवृद्धः शब्दः नद्याः मानुष्याः वा नाम नास्ति, तर्हि वर्तमानसूत्रस्य प्रसक्तिः न भवति । यथा -\nअ) विनतायाः अपत्यम् = विनता + ढक् → वैनतेय । अत्र 'विनता' इति पक्षिण्याः नाम अस्ति, नद्याः उत मानुष्याः न । अतः अत्र <<स्त्रीभ्यो ढक्>> [[4.1.120]] इत्यनेन ढक्-प्रत्ययः एव विधीयते ।\nआ) शोभनायाः अपत्यम् = शोभना + ढक् → शौभनेय् । अत्र 'शोभना' इति मानुष्याः विशेषणरूपेण प्रयुक्तमस्ति, मानुष्याः अभिधानरूपेण न (यथा - शोभना सुभद्रा) । अतः अत्र <<स्त्रीभ्यो ढक्>> [[4.1.120]] इत्यनेन ढक्-प्रत्ययः एव विधीयते ।\nपरन्तु यदि 'विनता' / 'शोभना' एतौ शब्दौ नद्याः / मानुष्याः अभिधानरूपेण प्रयुज्येयाताम्, तर्हि तयोर्विषये वर्तमानसूत्रेण अण्-प्रत्ययः एव भवेत् । यथा - विनता-नाम-मानुष्याः अपत्यम् = विनता + अण् → वैनत । शोभना-नाम-नद्याः अपत्यम् = शोभना + अण् → शौभन ।\n3. यः अवृद्धः शब्दः द्व्यच् अस्ति, स्त्रीप्रत्ययान्तः अस्ति, तथा च नद्याः अभिधानमपि अस्ति, तस्य विषये अपत्यार्थे -\nअ) <<प्राग्दीव्यतः अण्>> [[4.1.83]] इत्यनेन औत्सर्गिकरूपेण अण्-प्रत्यये प्राप्ते -\nआ) तस्य अपवादत्वेन <<स्त्रीभ्यो ढक्>> [[4.1.120]] इत्यनेन ढक्-प्रत्यये प्राप्ते -\nइ) तस्यापि अपवादत्वेन <<अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः>> [[4.1.113]] इति वर्तमानसूत्रेण पुनः अण्-प्रत्यये प्राप्ते -\nई) तस्यापि अपवादत्वेन <<द्व्यचः>> [[4.1.121]] इत्यनेन ढक्-प्रत्यये प्राप्ते -\nउ) तं बाधित्वा <<शिवादिभ्यः अण्>> [[4.1.112]] इत्यत्र निर्दिष्टम् 'द्व्यचः नद्याः' एतत् यत् गणसूत्रम्, तेन अण्-प्रत्ययः एव भवति ।\nयथा - सन्ध्यायाः अपत्यम् = सन्ध्या + अण् → सान्ध्य ।\n4. यः अवृद्धः शब्दः द्व्यच् अस्ति, स्त्रीप्रत्ययान्तः अस्ति, तथा च मानुष्याः अभिधानमपि अस्ति, तस्य विषये अपत्यार्थे -\nअ) <<प्राग्दीव्यतः अण्>> [[4.1.83]] इत्यनेन औत्सर्गिकरूपेण अण्-प्रत्यये प्राप्ते -\nआ) तस्य अपवादत्वेन <<स्त्रीभ्यो ढक्>> [[4.1.120]] इत्यनेन ढक्-प्रत्यये प्राप्ते -\nइ) तस्यापि अपवादत्वेन <<अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः>> [[4.1.113]] इति वर्तमानसूत्रेण पुनः अण्-प्रत्यये प्राप्ते -\nई) तस्यापि अपवादत्वेन <<द्व्यचः>> [[4.1.121]] इत्यनेन ढक्-प्रत्ययः भवति ।\nयथा - दत्तायाः अपत्यम् = दत्ता + ढक् → दात्तेय ।" }, "41114": { "sa": "ऋषिवाचिशब्देभ्यः, अन्धककुलवाचिशब्देभ्यः वृष्णिकुलवाचिशब्देभ्यः तथा कुरुकुलवाचिशब्देभ्यः 'तस्य अपत्यम्' अस्मिन् अर्थे अण्-प्रत्ययः भवति ।", "sd": "यः शब्दः - ऋषिवाचकः अस्ति / अन्धककुलोत्पन्नस्य अभिधानम् अस्ति / वृष्णिकुलोत्पन्नस्य अभिधानम् अस्ति / कुरुकुलोत्पन्नस्य अभिधानमस्ति, तस्मात् शब्दात् अपत्यार्थे अण् प्रत्ययः विधीयते । उदाहरणानि अधः दत्तानि सन्ति । एतेषां सर्वेषां विषये <<अत इञ्>> [[4.1.95]] इत्यनेन इञ्-प्रत्यये प्राप्ते तं बाधित्वा वर्तमानसूत्रेण अण्-प्रत्ययः विधीयते ।\n1) ऋषिवाचकाः शब्दाः -\nअ) वसिष्ठस्य अपत्यम् पुमान् = वसिष्ठ + अण् → वासिष्ठ ।\nआ) विश्वामित्रस्य अपत्यम् पुमान् = विश्वामित्र + अण् → वैश्वामित्र ।\n2) अन्धककुलवाचकाः शब्दाः -\nअ) श्वफल्कस्य अपत्यम् पुमान् = श्वफल्क + अण् → श्वाफल्क ।\nआ) रन्धसः अपत्यम् पुमान् = रन्धस् + अण् → रान्धस ।\n3) वृष्णिकुलवाचकाः शब्दाः -\nअ) वसुदेवस्य अपत्यम् पुमान् = वसुदेव + अण् → वासुदेव ।\nआ) अनिरूद्धस्य अपत्यम् पुमान् = अनिरुद्ध + अण् = आनिरुद्ध ।\n4) कुरुकुलवाचकाः शब्दाः -\nअ) नकुलस्य अपत्यम् पुमान् = नकुल + अण् → नाकुल ।\nआ) सहदेवस्य अपत्यम् पुमान् = सहदेव + अण् → साहदेव ।\nज्ञातव्यम् -\n1. कृष्ण, युधिष्ठिर, अर्जुन, साम्ब, प्रद्युम्न - एते सर्वे शब्दाः यद्यप्यत्र निर्दिष्टकुलोत्पन्नानां अभिधानानि सन्ति, तथापि तेषाम् विषये वर्तमानसूत्रेण अण्-प्रत्यये प्राप्ते तं बाधित्वा <<बाह्वादिभ्यश्च>> [[4.1.96]] इत्यनेन इञ्-प्रत्ययः भवति ।\n2. 'अत्रि' अयम् ऋषिवाचकः शब्दः अस्ति, अतः वस्तुतः तस्य विषये वर्तमानसूत्रस्य प्रसक्तिः अस्ति, परन्तु तं परत्वात् बाधित्वा <<इतश्चानिञः>> [[4.1.122]] इत्यनेन ढक्-प्रत्ययविधानम् कृत्वा 'आत्रेय' इति रूपं सिद्ध्यति ।\n3. यदि नकुल, सहदेव एतादृशानि नामानि अन्यकुलोत्पन्नस्य विषये प्रयुज्यन्ते, तर्हि तत्र अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, नकुल-नाम्नः युवकस्य अपत्यनिर्देशार्थं तु <<अत इञ्>> [[4.1.95]] इत्यनेन इञ्-प्रत्ययः एव भवेत् ।\n4. अस्मिन् सूत्रे 'ऋषि' इति निर्देशः कृतः अस्ति । किम् नाम ऋषिः ? स्वस्य तपोबलेन प्रलीनान् वेदान् ये पुनः प्राप्नुवन्, ते 'ऋषयः' नाम्ना ज्ञायन्ते । तैत्तिरीयारण्यके द्वितीय प्रपाठके नवमे अनुवाके (2.9) उच्यते - 'अजान्ह वै पृश्नींस्तपस्यमानान्ब्रह्म स्वयम्भ्वभ्यानर्षत्, त ऋषयोऽभवन्, तदृषीणामृषित्वम्' । इत्युक्ते, 'तपोबलवशात् प्रलीनान् वेदान् ये अर्षन्ति (=प्राप्नुवन्ति) ते ऋषयः' ।\n" }, "41115": { "sa": "यः मातृ-शब्दः संख्यावाचीशब्दात् / 'सम्' शब्दात् / 'भद्र' शब्दात् परः आगच्छति, तस्मात् 'तस्य अपत्यम्' अस्मिन् अर्थे अण्-प्रत्ययः भवति, तथा 'मातृ' शब्दस्य उकारादेशः अपि भवति । ", "sd": "यदि मातृ-शब्दः संख्यावाचीशब्दात् / 'सम्' शब्दात् / 'भद्र' शब्दात् अनन्तरम् ('उत्तरपद'रूपेण) आगच्छति, तर्हि तादृशात् मातृ-शब्दात् अपत्यार्थे अण्-प्रत्ययः भवति, तथा मातृ-शब्दस्य उकारादेशः अपि भवति । <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यनेन अयमादेशः ऋकारस्य स्थाने विधीयते, अतः <<उरण् रपरः>> [[1.1.51]] इत्यनेन अस्मात् उकारात् अनन्तरम् रेफः आगच्छति । उदाहरणानि एतानि -\n1) षण्णाम् मातॄणामपत्यम् =\nषण्मातृ + अण्\n→ षण्मातुर् + अण् [<<मातुरुत् संख्यासम्भद्रपूर्वायाः>> [[4.1.115]] इति ऋकारस्य उकारादेशः । <<उरण् रपरः>> [[1.1.51]] इति सः रपरः]\n→ षाण्मातुर् + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ षाण्मातुर\nतथैव - द्वयोः मात्रोः अपत्यम् = द्विमातृ + अण् → द्वैमातुर ।\n2) सम्मातुः अपत्यम् = सम्मातृ + अण् = साम्मातुर ।\n3) भद्रमातुः अपत्यम् = भद्रमातृ + अण् = भाद्रमातुर ।\nज्ञातव्यम् -\n1. वस्तुतः मातृ-शब्दात् अण्-प्रत्ययविधानम् तु <<प्राग्दीव्यतोऽण्>> [[4.1.83]] इत्यनेनैव भवितुमर्हति । वर्तमानसूत्रस्य प्रयोजनं तु 'मातृ-शब्दस्य अण्-प्रत्यये परे उकारादेशः' - इत्येव अस्ति ।\n2. यदि मातृ-शब्दः सङ्ख्या/सम्/भद्र - एतेभ्यः परः न आगच्छति, तर्हि वर्तमानसूत्रस्य प्रसक्तिः नास्ति, अतः ऋकारस्य उकारादेशः अपि न भवति । अण्-प्रत्ययविधानम् तु <<प्राग्दीव्यतोऽण्>> [[4.1.83]] इत्यनेनैव भवितुमर्हति - सुमातुः अपत्यम् पुमान् = सौमात्रः ।\n3. वर्तमानसूत्रेण निर्दिष्टः मातृ-शब्दः 'अम्बा' अस्मिन् अर्थे प्रयुज्यमानः ऋकारान्तस्त्रीलिङ्गशब्दः अस्ति । संस्कृते अन्यः अपि एकः मातृ-शब्दः उपयुज्यते - जुहोत्यादिगणस्य 'मा' धातोः तृच्-प्रत्यये कृते अपि 'मातृ' इति प्रातिपदिकं सिद्ध्यति - 'यः मिमेति सः माता' । अस्य शब्दस्य रूपाणि तु कर्तृ-शब्दवत् भवन्ति । तस्य अत्र ग्रहणं न करणीयम् । अतः 'मिमेति सः माता, तस्य अपत्यम्' इत्यस्मिन् अर्थे मातृ-शब्दात् औत्सर्गिकरूपेण अण्-प्रत्यये कृते 'मात्र' इत्येव प्रातिपदिकं सिद्ध्यति । तत्र ऋकारस्य उकारादेशः न विधीयते ।\n" }, "41116": { "sa": "'तस्य अपत्यम्' अस्मिन् अर्थे 'कन्या'शब्दात् अण्-प्रत्ययः भवति, तथा कन्या-शब्दस्य 'कनीन' आदेशः भवति ।", "sd": "'कन्यायाः अपत्यम्' इत्यस्मिन् अर्थे 'कन्या' शब्दात् अण्-प्रत्ययः भवति, तथा 'कन्या' शब्दस्य 'कनीन' आदेशः अपि भवति । यथा -\nकन्यायाः अण्\n→ कन्या + ङस् + अण् [अलौकिकविग्रहः]\n→ कन्या + अण् [<<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति ङस्-प्रत्ययस्य लोपः]\n→ कनीन + अण् [<<कन्यायाः कनीन च>> [[4.1.116]] इति कन्या-शब्दस्य कनीन-आदेशः]\n→ कानीन + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ कानीन् + अ [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ कानीन\nज्ञातव्यम् - 'कन्या' इत्युक्ते अविवाहिता स्त्री । अतः स्त्रियाः विवाहात् पूर्वम् यत् अपत्यम्, तस्य निर्देशं कर्तुम् वर्तमानसूत्रस्य प्रयोगः क्रियते । यथा - व्यास, कर्ण - एतयोः उल्लेखः 'कानीन' शब्देन क्रियते । साहित्ये दृष्टानि उदाहरणानि एतानि -\n1. 'कानीनस्य प्रसादेन महाभारतमप्युत' - नारदपुराणम्, उत्तरार्धः, द्वितीयाध्यायस्य पञ्चमः श्लोकः । अत्र 'कानीन' शब्देन व्यासमहर्षेः निर्देशः कृतः अस्ति ।\n2. 'तदेतद्वचनं श्रुत्वा कानीनस्य महात्मनः' - पद्मपुराणम्, 7.2.40 । अत्रापि 'कानीन' शब्देन व्यासमहर्षेः निर्देशः कृतः अस्ति ।\n3. श्रीवेदव्यासाष्टोत्तरशतनामावल्यामपि 'कानीनाय नमः' इति व्यासमहर्षेः एकं नाम उक्तमस्ति ।\n4. 'योऽसौ कानीनगर्भो मे पुत्रवत्परिवर्तितः' - महाभारतम् 5.142.25 । अत्र कुन्तीपुत्रकर्णस्य उल्लेखः 'कानीन' नाम्ना कृतः अस्ति । " }, "41117": { "sa": "'विकर्ण' शब्दात् 'वत्स'कुलस्य अपत्यार्थम्, 'शुङ्ग' शब्दात् 'भरद्वाज'कुलस्य अपत्यार्थम्, तथा 'छगल'शब्दात् 'अत्रि'कुलस्य अपत्यार्थम् अण्-प्रत्ययः भवति ।", "sd": "अनेन सूत्रेण विशिष्ट-कुलानाम् विषये विशिष्ट-शब्देभ्यः अण्-प्रत्ययः विधीयते -\n1) 'वत्स'कुले उत्पनम् विकर्णस्य अपत्यम् = विकर्ण + अण् → वैकर्ण ।\nअन्येषु कुलेषु उत्पनम् विकर्णस्य अपत्यम् = [<<अत इञ्>> [[4.1.95]] इत्यनेन इञ्-प्रत्ययविधानम् ] विकर्ण + इञ् → वैकर्णि ।\n2) 'भरद्वाज'कुले उत्पनम् शुङ्गस्य अपत्यम् = शुङ्ग + अण् → शौङ्ग ।\nअन्येषु कुलेषु उत्पनम् शुङ्गस्य अपत्यम् = [<<अत इञ्>> [[4.1.95]] इत्यनेन इञ्-प्रत्ययविधानम् ] शुङ्ग + इञ् = शौङ्गि ।\nकेचन पण्डिताः 'शुङ्ग' इत्यस्य स्थाने 'शुङ्गा' इति आकारान्तस्य (टाप्-प्रत्ययान्तस्य ) शब्दस्य ग्रहणम् कुर्वन्ति - शुङ्गा + अण् → शौङ्ग ।\nअत्र अन्येषु कुलेषु उत्पनम् शुङ्गायाः अपत्यम् दर्शयितुम् <<द्व्यचः>> [[4.1.121]] इत्यनेन ढक्-प्रत्ययः विधीयते - शुङ्गा + ढक् → शौङ्गेय ।\n3) 'अत्रि'कुले उत्पन्नम् छगलस्य अपत्यम् = छगल + अण् → छागल ।\nअन्येषु कुलेषु उत्पनम् छगलस्य अपत्यम् = [<<अत इञ्>> [[4.1.95]] इत्यनेन इञ्-प्रत्ययविधानम् ] छगल + इञ् → छागलि ।\n" }, "41118": { "sa": "'तस्य अपत्यम्' अस्मिन् अर्थे 'पीला' शब्दात् अण्-प्रत्ययः विकल्पेन भवति । ", "sd": "'पीला' शब्दात् अपत्यार्थम् विकल्पेन अण्-प्रत्ययः भवति । पक्षे <<द्व्यचः>> [[4.1.121]] इत्यनेन ढक्-प्रत्ययः अपि विधीयते -\n1) पीला + अण्\n→ पैला + अण् [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ पैल् + अण् [<<यस्येति च>> [[6.4.148]] इति आकारलोपः]\n→ पैल\n2) पीला + ढक्\n→ पीला + एय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ढकारस्य एय्-आदेशः]\n→ पैला + एय [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ पैल् + एय [<<यस्येति च>> [[6.4.148]] इति आकारलोपः]\n→ पैलेय\nज्ञातव्यम् - <<समर्थानां प्रथमात् वा>> [[4.1.82]] अनेन अधिकारेण अपि 'वा' ग्रहणं क्रियते परन्तु तत् भिन्नमस्ति । तत्र तद्धितप्रत्यययोजनस्य विषये विकल्पः उच्यते । वर्तमानसूत्रे विद्यमानः 'वा' शब्दः तु अण्-प्रत्ययस्य वैकल्प्यम् दर्शयति । " }, "41119": { "sa": "'तस्य अपत्यम्' अस्मिन् अर्थे 'मण्डूक ' शब्दात् अपत्यार्थम् विकल्पेन ढक् तथा अण्-प्रत्ययौ विधीयेते ।", "sd": "षष्ठीसमर्थात् 'मण्डूक ' शब्दात् अपत्यार्थे वर्तमानसूत्रेण 'अण्' तथा 'ढक्' - द्वयोः प्रत्यययोः वैकल्पिकविधानम् क्रियते । यदि द्वयोः प्रयोगः न भवति तर्हि पक्षे <<अत इञ्>> [[4.1.95]] इत्यनेन इञ्-प्रत्ययः अपि विधीयते -\n1. मण्डूक + अण्\n→ माण्डूक + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ माण्डूक् + अ [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ माण्डूक\n2. मण्डूक + ढक्\n→ मण्डूक + एय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ढकारस्य एय्-आदेशः]\n→ माण्डूक + एय [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ माण्डूक् + एय [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ माण्डूकेय\n3. मण्डूक + इञ्\n→ माण्डूक + इ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ माण्डूक् + इ [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ माण्डूकि\nज्ञातव्यम् - अस्मिन् सूत्रे 'वा' शब्दः द्विवारमागच्छति । प्रथमः 'वा' शब्दः <<समर्थानां प्रथमात् वा>> [[4.1.82]] इत्यस्मात् स्वीक्रियते, येन तद्धितविधानमेव विकल्पेन भवति (अतः 'मण्डूकापत्यम्' उत 'मण्डूकस्य अपत्यम्' एतौ प्रयोगौ अपि साधु स्तः) । द्वितीयः 'वा' शब्दः अस्मिन् सूत्रे एव अस्ति, येन 'अण्' तथा 'ढक्' - द्वावपि प्रत्ययौ विकल्पेन भवतः, अतः तदभावे <<अत इञ्>> [[4.1.95]] इत्यनेन इञ्-प्रत्ययः विधीयते । " }, "41120": { "sa": "'तस्य अपत्यम्' अस्मिन् अर्थे स्त्रीप्रत्ययान्तशब्दात् ढक्-प्रत्ययः विधीयते ।", "sd": "षष्ठीसमर्थेभ्यः स्त्रीप्रत्ययान्तशब्देभ्यः अपत्यार्थम् ढक्-प्रत्ययः भवति ।\nप्रत्ययाधिकारे आहत्य अष्ट स्त्रीप्रत्ययाः पाठिताः सन्ति - टाप्, चाप्, डाप्, ङीप्, ङीष्, ङीन्, ऊङ्, ति । एतेषां सर्वेषामुदाहरणानि अधः दत्तानि सन्ति ।\nअत्र आदौ एकः विशेषः स्मर्तव्यः - <<अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः>> [[4.1.113]] एतत् सूत्रम् वर्तमानसूत्रस्य अपवादत्वेन आगच्छति । अतः ये स्त्री-प्रत्ययान्तशब्दाः वृद्धसंज्ञकाः न सन्ति, तथा नद्याः मानुष्याः वा नामरूपेण प्रयुज्यन्ते, तेषाम् विषये वर्तमानसूत्रस्य प्रसक्तिः नास्ति । अतः अधः दत्तेषु उदाहरणेषु प्रयुक्ताः अवृद्धाः स्त्री-प्रत्ययान्तशब्दाः नद्याः मानुष्याः नामरूपेण न प्रयुक्ताः सन्तीति स्मर्तव्यम् ।\n1. [टाप्-प्रत्ययान्तः] - विनतायाः अपत्यम् = विनता + ढक् → वैनतेय ।\n2. [चाप्-प्रत्ययान्तः] - कौसल्यायाः अपत्यम् = कौसल्या + ढक् → कौसल्येय ।\n3. [डाप्-प्रत्ययान्तः] - बहुराजायाः अपत्यम् = बहुराजा + ढक् → बाहुराजेय ।\n4. [ङीप्-प्रत्ययान्तः] - प्रमात्र्याः अपत्यम् = प्रमात्री + ढक् → प्रामात्रेय ।\n5. [ङीष्-प्रत्ययान्तः] - पावन्याः अपत्यम् = पावनी + ढक् → पावनेय ।\n6. [ङीन्-प्रत्ययान्तः] - शार्ङ्गरव्याः अपत्यम् = शार्ङ्गरवी + ढक् → शार्ङ्गरवेय ।\n7. [ऊङ्-प्रत्ययान्तः] - मद्रबाह्वाः अपत्यम् = मद्रबाहू + ढक् → माद्रबाहेय ।\n8. [ति-प्रत्ययान्तः] - युवतेः अपत्यम् = युवति + ढक् → यौवतेय ।\nप्रक्रियाः -\n1. टाप्, चाप्, डाप्, ङीप्, ङीष्, ङीन् - एतेषां सर्वेषाम् विषये प्रक्रिया समाना एव अस्ति । यथा, विनतायाः अपत्यम् इत्यस्मिन् अर्थे 'विनतायाः' इति षष्ठीसमर्थात् ढक्-प्रत्ययः भवति -\nविनतायाः + ढक्\n→ विनता + ढक् [<<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति ङस्-प्रत्ययस्य लुक्]\n→ विनता + एय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ढकारस्य एय्-आदेशः]\n→ वैनता + एय [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ वैनत् + एय [<<यस्येति च>> [[6.4.148]] इति आकारलोपः]\n→ वैनतेय\n2. 'ऊङ्' प्रत्ययान्तप्रातिपदिकस्य विषये प्रक्रिया इयम् जायते -\nमद्रबाहू + ढक्\n→ मद्रबाहू + एय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ढकारस्य एय्-आदेशः । <<यचि भम्>> [[1.4.18]] इति अङ्गस्य भसंज्ञा]\n→ माद्रबाहू + एय [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ माद्रबाहू + एय [<<ओर्गुणः>> [[6.4.146]] इत्यनेन भस्य अङ्गस्य अन्तिमवर्णस्य गुणे प्राप्ते, अपवादत्वेन <<ढे लोपोऽकद्र्वाः>> [[6.4.147]] इति अङ्गस्य अन्तिमवर्णस्य लोपः]\n→ माद्रबाहेय\n3. 'ति' प्रत्ययान्तप्रातिपदिकस्य विषये प्रक्रिया इयम् जायते -\nयुवतेः + ढक्\n→ युवति + ढक् [<<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति ङस्-प्रत्ययस्य लुक्]\n→ युवति + एय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ढकारस्य एय्-आदेशः]\n→ यौवति + एय [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ यौवत् + एय [<<यस्येति च>> [[6.4.148]] इति आकारलोपः]\n→ यौवतेय\nज्ञातव्यम् -\n1. सर्वे स्त्रीप्रत्ययान्तशब्दाः <ऽप्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापिग्रहणम्ऽ> अनया परिभाषया प्रातिपदिकसंज्ञां प्राप्नुवन्ति । अतएव प्रातिपदिकाधिकारे पाठिताः तद्धितप्रत्ययाः तेभ्यः भवितुमर्हन्ति ।\n2. अनेन सूत्रेण केवलं 'स्त्रीप्रत्ययान्त'शब्दानां विषये एव ढक्-प्रत्ययः भवति, 'स्त्रीलिङ्ग'शब्दानां न । अतः ये स्त्रीलिङ्गशब्दाः स्त्रीप्रत्ययान्ताः न सन्ति, तेषाम् विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा - मातृ, दुहितृ, मति, भक्ति, गति, श्री - आदयः ।\nउदाहरणानि एतानि -\nअ). मातुः अपत्यम् = मातृ + अण् → मात्र ।\nआ) भक्तेः अपत्यम् = भक्ति + ढक् → भाक्तेय । अत्र वर्तमानसूत्रस्य प्रसक्तिः नास्ति, परन्तु <<इतश्चानिञः>> [[4.1.122]] इत्यनेन ढक्-प्रत्ययः एव विधीयते ।\nइ) श्रियः अपत्यम् = श्री + अण् → श्रैयः । प्रक्रिया इयम् -\nश्री + अण्\n→ श् र् इयङ् + अण् [श्री-शब्दः धातुजः अस्ति, अतः <<अचि श्नुधातुभ्रुवाम् य्वोः इयङ्-उवङौ>> [[6.4.77]] इति इयङ्-आदेशः]\n→ श्रैय् + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ श्रैय\n3. शिवादिगणे उपस्थिताः ये स्त्रीप्रत्ययान्तशब्दाः (यथा - ककुभा, जटिलिका , सपत्नी - आदयः) - तेषां विषये अपत्यार्थे वर्तमानसूत्रस्य अपवादत्वेन <<शिवादिभ्योऽण्>> [[4.1.112]] इत्यनेन अण्-प्रत्ययः एव विधीयते । तथा च, अयं अण्-प्रत्ययः <<अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः>> [[4.1.113]] अस्यापि अपवादरूपेण आगच्छति ।\n4. बाह्वादिगणे उपस्थिताः ये स्त्रीप्रत्ययान्तशब्दाः (यथा - वृषली, सुमित्रा, चुडा - आदयः) तेषां विषये अपत्यार्थे वर्तमानसूत्रस्य अपवादत्वेन <<बाह्वादिभ्यश्च>> [[4.1.96]] इत्यनेन इञ्-प्रत्ययः एव विधीयते । तथा च, अयं इञ्-प्रत्ययः <<अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः>> [[4.1.113]] अस्यापि अपवादरूपेण आगच्छति ।\n5. शुभ्रादिगणे उपस्थिताः ये स्त्रीप्रत्ययान्तशब्दाः (यथा - किशोरिका, अम्बिका - आदयः) तेषां विषये अपत्यार्थे <<शुभ्रादिभ्यः ढक्>> [[4.1.123]] इत्यनेन ढक्-प्रत्ययः विधीयते । अयं ढक्-प्रत्ययः <<अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः>> [[4.1.113]] अस्यापि अपवादरूपेण आगच्छति ।\nअत्र वार्त्तिकद्वयं ज्ञातव्यम् -\n1. - 'वृषभ' अर्थे अभिधेये 'वडवा' शब्दात् ढक्-प्रत्ययः भवति । इत्युक्ते, 'वडवा + ढक् → वाडवेय' अयं शब्दः 'वृषः' अस्मिन् अर्थे प्रयुज्यते ।\nअस्य वार्त्तिकस्य विषये काशिकाकारः वदति - 'अपत्ये प्राप्तः ततो ऽपकृष्य विधीयते। तेन अपत्ये वाडवः इति भवति' । इत्युक्ते, अपत्यार्थे 'वडवा'शब्दात् अण् प्रत्ययः भवति । वडवायाः अपत्यं वाडवः ।\n2. - 'क्रुञ्चा' तथा 'कोकिला' शब्दाभ्यामपत्यार्थे अण्-प्रत्ययः भवति । क्रुञ्चायाः अपत्यम् = क्रुञ्चा + अण् → क्रौञ्च । कोकिलायाः अपत्यम् = कोकिल + अण् → कौकिल ।\n" }, "41121": { "sa": "", "sd": "" }, "41122": { "sa": "यः इकारान्तशब्दः इञ्-प्रत्ययान्तः नास्ति, यस्मिन् च द्वौ स्वरौ स्तः, तस्मात् शब्दात् 'तस्य अपत्यम्' अस्मिन् अर्थे ढक् प्रत्ययः भवति । ", "sd": "" }, "41123": { "sa": "'तस्य अपत्यम्' अस्मिन् अर्थे शुभ्रादिगणस्य शब्देभ्यः ढक् प्रत्ययः भवति । ", "sd": "" }, "41124": { "sa": "काश्यपकुलस्य निर्देशे 'तस्य अपत्यम्' अस्मिन् अर्थे विकर्णशब्दात् कुषीतकशब्दात् च ढक् प्रत्ययः भवति । ", "sd": "" }, "41125": { "sa": "'तस्य अपत्यम्' अस्मिन् अर्थे 'भ्रू'शब्दात् ढक् प्रत्ययः भवति, भ्रूशब्दस्य च 'वुक्' आगमः अपि भवति । ", "sd": "" }, "41126": { "sa": "'तस्य अपत्यम्' अस्मिन् अर्थे कल्याण्यादिगणस्य शब्देभ्यः ढक् प्रत्ययः भवति, तथा एतेषाम् शब्दानाम् 'इनङ्' आदेशः अपि जायते । ", "sd": "" }, "41127": { "sa": "'तस्य अपत्यम्' अस्मिन् अर्थे 'कुलटा'शब्दात् ढक्-प्रत्ययः भवति, तथा ढक्-प्रत्यये कृते कुलटा-शब्दस्य विकल्पेन इनङ्-आदेशः भवति । ", "sd": "" }, "41128": { "sa": "'तस्य अपत्यम्' अस्मिन् अर्थे 'चटका'शब्दात् ऐरक् प्रत्ययः भवति । ", "sd": "" }, "41129": { "sa": "'तस्य अपत्यम्' अस्मिन् अर्थे 'गोधा'शब्दात् ढ्रक्-प्रत्ययः भवति ।", "sd": "" }, "41130": { "sa": "उदीचामाचार्याणां मतेन 'तस्य अपत्यम्' अस्मिन् अर्थे 'गोधा'शब्दात् आरक् प्रत्ययः भवति । ", "sd": "" }, "41131": { "sa": "'तस्य अपत्यम्' अस्मिन् अर्थे क्षुद्रावाचिभ्यः शब्देभ्यः विकल्पेन ढ्रक् प्रत्ययः भवति । ", "sd": "" }, "41132": { "sa": "'तस्य अपत्यम्' अस्मिन् अर्थे 'पितृष्वसृ'शब्दात् छण् प्रत्ययः भवति ।", "sd": "" }, "41133": { "sa": "'तस्य अपत्यम्' अस्मिन् अर्थे 'पितृष्वसृ'शब्दात् ढक्-प्रत्ययः भवति, तथा ढक्-प्रत्यये कृते 'पितृष्वसृ'शब्दस्य (अन्तिमवर्णस्य) लोपः भवति । ", "sd": "" }, "41134": { "sa": "'तस्य अपत्यम्' अस्मिन् अर्थे 'मातृष्वसृ' शब्दात् ढक्-प्रत्ययः भवति, तथा ढक्-प्रत्यये कृते 'मातृष्वसृ'शब्दस्य (अन्तिमवर्णस्य) लोपः भवति । ", "sd": "" }, "41135": { "sa": "'तस्य अपत्यम्' अस्मिन् अर्थे चतुष्पादवाचिशब्देभ्यः ढञ्-प्रत्ययः भवति । ", "sd": "" }, "41136": { "sa": "'तस्य अपत्यम्' अस्मिन् अर्थे गृष्ट्यादिगणस्य शब्देभ्यः ढञ्-प्रत्ययः भवति । ", "sd": "" }, "41137": { "sa": "'तस्य अपत्यम्' अस्मिन् अर्थे 'राजन्'शब्दात् तथा 'श्वशुर'शब्दात यत्-प्रत्ययः भवति । ", "sd": "" }, "41138": { "sa": "'तस्य अपत्यम्' अस्मिन् अर्थे 'क्षत्र'शब्दात् घ-प्रत्ययः भवति । ", "sd": "" }, "41139": { "sa": "'तस्य अपत्यम्' अस्मिन् अर्थे 'कुल'शब्दात् ख-प्रत्ययः भवति । ", "sd": "" }, "41140": { "sa": "यस्य 'कुल'शब्दस्य पूर्वपदं न विद्यते, तादृशात् 'कुल'शब्दात् 'तस्य अपत्यम्' अस्मिन् अर्थे विकल्पेन 'यत्' तथा 'ढकञ्' प्रत्ययौ भवतः । ", "sd": "" }, "41141": { "sa": "'तस्य अपत्यम्' अस्मिन् अर्थे 'महाकुल'शब्दात् विकल्पेन 'अञ्' तथा 'खञ्' प्रत्ययौ भवतः । ", "sd": "" }, "41142": { "sa": "'तस्य अपत्यम्' अस्मिन् अर्थे 'दुष्कुल'शब्दात् विकल्पेन 'ढक्' प्रत्ययः भवति । ", "sd": "" }, "41143": { "sa": "'तस्य अपत्यम्' अस्मिन् अर्थे 'स्वसृ'शब्दात् छ-प्रत्ययः भवति । ", "sd": "" }, "41144": { "sa": "'तस्य अपत्यम्' अस्मिन् अर्थे 'भ्रातृ'शब्दात् 'छ' तथा 'व्यत्' प्रत्ययौ भवतः । ", "sd": "" }, "41145": { "sa": "'शत्रु' इत्यस्य निर्देशं कर्तुम् 'भ्रातु'शब्दात् व्यन् प्रत्ययः भवति । ", "sd": "" }, "41146": { "sa": "'तस्य अपत्यम्' अस्मिन् अर्थे रेवत्यादिगणस्य शब्देभ्यः ठक्-प्रत्ययः भवति । ", "sd": "" }, "41147": { "sa": "गोत्रसंज्ञकं यत् स्त्रीलिङ्गवाचि अपत्यम्, तस्मात् 'तस्य अपत्यम्' अस्मिन् अर्थे अपत्यस्य निन्दायां गम्यमानायाम् 'ण' तथा 'ठक्' प्रत्ययौ भवतः ।", "sd": "" }, "41148": { "sa": "सौवीरकुलवाचि यः वृद्धसंज्ञकः शब्दः, तस्मात् 'तस्य अपत्यम्' अस्मिन् अर्थे अपत्यस्य निन्दायां गम्यमानायाम् बहुलम् ठक्-प्रत्ययः भवति । ", "sd": "" }, "41149": { "sa": "सौवीरकुलवाचि यः फिञ्-प्रत्ययान्तशब्दः, तस्मात् 'तस्य अपत्यम्' अस्मिन् अर्थे अपत्यस्य निन्दायां गम्यमानायाम् 'छ' तथा 'ठक्' प्रत्ययौ भवतः ।", "sd": "" }, "41150": { "sa": "सौवीरकुलवाचिभ्याम् 'फाण्टाह्रति'-तथा-'मिमत'-शब्दाभ्याम् तस्य अपत्यमस्मिन् अर्थे 'ण' तथा 'फिञ्' प्रत्ययौ भवतः । ", "sd": "" }, "41151": { "sa": "'तस्य अपत्यम्' अस्मिन् अर्थे कुर्वादिगणस्य शब्देभ्यः ण्य-प्रत्ययः भवति । ", "sd": "" }, "41152": { "sa": "यस्य शब्दस्य अन्ते 'सेन' इति विद्यते तस्मात् शब्दात्, 'लक्षण'शब्दात् तथा 'कारिवाचि'शब्दात् 'तस्य अपत्यम्' अस्मिन् अर्थे ण्य-प्रत्ययः भवति । ", "sd": "" }, "41153": { "sa": "यस्य शब्दस्य अन्ते 'सेन' इति विद्यते तस्मात् शब्दात्, 'लक्षण'शब्दात् तथा 'कारिवाचि'शब्दात् 'तस्य अपत्यम्' अस्मिन् अर्थे उदीचामाचार्याणां मतेन इञ्-प्रत्ययः भवति । ", "sd": "" }, "41154": { "sa": " 'तस्य अपत्यम्' अस्मिन् अर्थे तिकादिगणस्य शब्देभ्यः फिञ्-प्रत्ययः भवति । ", "sd": "" }, "41155": { "sa": " 'तस्य अपत्यम्' अस्मिन् अर्थे कौसल्यशब्दात् कार्मार्यशब्दात् च फिञ्-प्रत्ययः भवति । ", "sd": "" }, "41156": { "sa": "यस्मिन् अण्-प्रत्ययान्तशब्दे द्वौ स्वरौ स्तः, तस्मात् 'तस्य अपत्यम्' अस्मिन् अर्थे फिञ्-प्रत्ययः भवति । ", "sd": "" }, "41157": { "sa": "यः वृद्धसंज्ञकः शब्दः गोत्रसंज्ञकः नास्ति, तस्मात् 'तस्य अपत्यम्' अस्मिन् अर्थे उदीचामाचार्याणां मतेन फिञ्-प्रत्ययः भवति । ", "sd": "" }, "41158": { "sa": "'तस्य अपत्यम्' अस्मिन् अर्थे उदीचामाचार्याणां मतेन वाकिनादिगणस्य शब्देभ्यः फिञ्-प्रत्ययः भवति तथा एतेषां शब्दानाम् 'कुक्' आगमः अपि जायते । ", "sd": "" }, "41159": { "sa": "यस्य वृद्धसंज्ञकस्य शब्दस्य अन्ते 'पुत्र' इति वर्तते, तस्मात् 'तस्य अपत्यम्' अस्मिन् अर्थे उदीचामाचार्याणां मतेन (फिञ्-प्रत्यये कृते) कुक्-आगमः अपि विकल्पेन भवति । ", "sd": "" }, "41160": { "sa": "यः शब्दः वृद्धसंज्ञकः नास्ति, तस्मात् 'तस्य अपत्यम्' अस्मिन् अर्थे पूर्वदिशि विद्यमानानामाचार्याणाम् मतेन बहुलं फिन् प्रत्ययः भवति । ", "sd": "" }, "41161": { "sa": "'मनु'शब्दात् जातिनिर्देशे कर्तव्ये 'अञ्' तथा 'यत्' प्रत्ययौ भवतः, तथा 'मनु'शब्दस्य षुक्-आगमः अपि भवति । ", "sd": "" }, "41162": { "sa": "पौत्रप्रभृतीनि अपत्यानि गोत्रसंज्ञकानि भवन्ति । ", "sd": "अनेन सूत्रेण अपत्याधिकारविशिष्टा 'गोत्र' इति संज्ञा पाठ्यते । पौत्रप्रभृतिः यद् अपत्यं, तद् 'गोत्र'संज्ञं भवति - इति अस्य सूत्रस्य आशयः । 'पौत्रप्रभृति' इत्युक्ते पौत्रात् आरभ्य अग्रिमः वंशः - पौत्रः, प्रपौत्रः, प्रप्रपौत्रः - आदयः ।\nउदाहरणमेकं पश्यामश्चेत् स्पष्टं भवेत् - पाण्डोः पुत्रः अर्जुनः । अर्जुनस्य पुत्रः अभिमन्युः । इत्युक्ते , अभिमन्युः पाण्डोः 'पौत्रः' । अतः अभिमन्युः पाण्डोः 'गोत्रापत्यम्' इत्यपि वक्तुं शक्यते (गोत्रसंज्ञकः यः, तस्य 'गोत्रापत्यम्' इति निर्देशः भवति) ।\nअभिमन्योः पुत्रः परीक्षितः, सः पाण्डोः प्रपौत्रः, अतः सः अपि पाण्डोः गोत्रापत्यमेव । तथैव, परीक्षितस्य पुत्रः जनमेजयः अपि पाण्डोः गोत्रापत्यमेव । जनमेजयः तु अर्जुनस्य अभिमन्योः अपि गोत्रापत्यम् ।\n'गोत्र'संज्ञायाः विषये केचन बिन्दवः ज्ञातव्यः ।\n1. यत् 'साक्षात्' अपत्यम्, तस्य गोत्रसंज्ञा न भवति । यथा, अर्जुनः पाण्डोः गोत्रापत्यम् न । तथैव, अभिमन्युः अर्जुनस्य गोत्रापत्यम् न । एतादृशं यत् 'साक्षात्' अपत्यम्, तस्य 'अनन्तरापत्यम्' इति काचन संज्ञा व्याख्यानेषु दीयते । अतः 'अर्जुनः पाण्डोः अनन्तरापत्यम्' इत्युच्यते । तथैव, अभिमन्युः अर्जुनस्य 'अनन्तरापत्यम्' । 'यत् साक्षात् अपत्यमस्ति, तत् अनन्तरापत्यम्; यत् पौत्रादयमपत्यम् , तत् गोत्रापत्यम्' इति अस्य आशयः ।\n2. स्वस्य 'साक्षात् अपत्यस्य पुत्रादयः' एव गोत्रसंज्ञकाः भवन्ति, स्वस्य बन्धोः भगिन्याः वा पुत्रादयः न । यथा, अभिमन्योः पुत्रः परीक्षितः सुभद्रायाः गोत्रापत्यमवश्यमस्ति, परन्तु कृष्णस्य गोत्रापत्यम् न, यतः सः कृष्णस्य स्वस्य पौत्रः नास्ति, अपितु कृष्णस्य भगिन्याः पौत्रः अस्ति ।\n3. कासुचन स्थितिषु 'गोत्रापत्यम्' इमां संज्ञां बाधित्वा 'युवापत्यम्' इति काचन संज्ञा विधीयते । अस्मिन् विषये <<जीवति तु वंशे युवा>> [[4.1.163]] इति अग्रिमसूत्रे विस्तारेण उक्तमस्ति ।यत्र एतादृशी 'युवा'संज्ञा भवति तत्र 'गोत्र'संज्ञायाः बाधः भवति । यथा, परीक्षिते जीविते सति जनमेजयः पाण्डोः 'युवापत्यम्' अस्ति इत्युच्यते । अस्याम् स्थितौ जनमेजयः पाण्डोः गोत्रापत्यम् नास्तीति स्मर्तव्यम् ।\n'गोत्र'संज्ञायाः प्रयोगः <<एको गोत्रे>> [[4.1.93]] तथा <<गोत्राद्यून्यस्त्रियाम्>> [[4.1.94]] इत्यत्र कृतः अस्ति । " }, "41163": { "sa": "पौत्रप्रभृतेः यद् अपत्यम्, तस्य पित्रादौ जीवति सति गोत्रसंज्ञां बाधित्वा युवसंज्ञा भवति ।", "sd": "अस्य सूत्रस्य शब्दशः अर्थं ज्ञातुमादौ पदपरिचयं पश्यामः । 'वंश्य' इत्युक्ते पितराः (पित्रादयः) । 'जीवति वंश्ये' इति सतिसप्तमी - 'वंश्यः जीवितः अस्ति चेत्' इत्यर्थः । अतः अस्य सूत्रस्य अर्थः जायते - ' पौत्रप्रभृतेः यत् अपत्यम्, तस्य पितरेषु कोऽपि जीवितः अस्ति चेत् तस्य 'युवा' संज्ञा भवति । इत्युक्ते, 'प्रपौत्र/प्रप्रपौत्र/प्रप्रप्रपौत्र/...' एतेषां सर्वेषाम् <<अपत्यं पौत्रप्रभृति गोत्रम्>> [[4.1.162]] इत्यनेन गोत्रसंज्ञायां प्राप्तायाम्; यदि तेषाम् पिताप्रभृतिः जीवितः अस्ति, तर्हि अनेन सूत्रेण गोत्रसंज्ञां बाधित्वा युवसंज्ञा विधीयते - इति अस्य आशयः ।\nयथा - अर्जुनस्य अपत्यमभिमन्युः । अभिमन्योः अपत्यम् परीक्षितः । परीक्षितस्य अपत्यम् जनमेजयः । अतः <<अपत्यं पौत्रप्रभृति गोत्रम्>> [[4.1.162]] इत्यनेन जनमेजयः अर्जुनस्य 'गोत्रापत्यम्' अस्तीति वक्तुं शक्यते । परन्तु यदि अर्जुनः / अभिमन्युः / परीक्षितः - एतेषु कोऽपि जीवितः अस्ति, तर्हि जनमेजयः अर्जुनस्य 'युवापत्यम्' अस्ति इत्युच्यते । अत्र गोत्रसंज्ञां बाधित्वा युवसंज्ञाविधानम् भवति ।\nयुवसंज्ञायाः विषये केचन बिन्दवः स्मर्तव्याः -\n1. 'युव'संज्ञाविधानम् नित्यम् गोत्रसंज्ञां बाधित्वा एव भवति । इत्युक्ते, यदि अर्जुनः / अभिमन्युः / परीक्षितः - एतेषु कोऽपि जीवितः अस्ति, तर्हि जनमेजयः अर्जुनस्य 'युवापत्यम्' अस्ति इत्येव वक्तव्यम्, न हि 'गोत्रापत्यम्' इति । अस्मिन् सूत्रे 'तु' इति ग्रहणम् एतत् स्पष्टीकर्तुमेव कृतमस्ति । 'वंश्ये जीवति पौत्रप्रभृतेः अपत्यम् (गोत्रं न, परन्तु तत्) तु युवा' इति आशयः ।\n2. अनेन सूत्रेण 'प्रपौत्रादीनाम्' एव युवसंज्ञा भवितुमर्हति, 'पौत्रस्य' न । अतः, यद्यपि अर्जुनः जीवितः अस्ति तथापि परीक्षितः अर्जुनस्य युवापत्यम् न भवितुमर्हति, यतः परीक्षितः अर्जुनस्य 'पौत्रः' अस्ति, प्रपौत्रः न ।\n3. अस्मिन् सूत्रे <<अपत्यं पौत्रप्रभृति गोत्रम्>> इत्यस्मात् 'पौत्रप्रभृति' इति अनुवर्तते, तत् षष्ठ्या च विपरिणम्यते । अतः 'पौत्रप्रभृतेः' इति प्रयोगः सम्पूर्णसूत्रे क्रियते ।\n'युवा'संज्ञायाः प्रयोगः <<गोत्राद्यून्यस्त्रियाम्>> [[4.1.94]] इत्यत्र कृतः अस्ति । " }, "41164": { "sa": "पौत्रप्रभृतेः यद् अपत्यम्, तस्य पित्रादयः जीविताः न सन्ति चेदपि, यदि ज्येष्ठः भ्राता जीवितः अस्ति, तर्हि तस्य गोत्रसंज्ञां बाधित्वा युवसंज्ञा भवति । ", "sd": "<<अपत्यं पौत्रप्रभृति गोत्रम्>> [[4.1.162]] इत्यनेन पौत्रप्रभृतीनाम् गोत्रसंज्ञायां प्राप्तायाम्, पितप्रभृतिषु यदि कोऽपि जीवितः अस्ति तर्हि पौत्रादीनाम् यद् अपत्यम्, तस्य गोत्रसंज्ञां बाधित्वा <<जीवति तु वंश्ये युवा>> [[4.1.163]] इत्यनेन 'युवा'संज्ञा भवति । परन्तु यद्यपि पितप्रभृतिषु कोऽपि जीवितः नास्ति, तथापि यदि 'ज्येष्ठभ्राता' जीवितः' अस्ति, तर्हि कनिष्ठभ्रातुः युवासंज्ञा भवति - इति वर्तमानसूत्रस्य आशयः ।\nयथा - शन्तनोः अपत्यम् विचित्रवीर्यः, विचित्रवीर्यस्य अपत्यम् पाण्डुः, पाण्डोः अपत्यम् च अर्जुनः । अतः <<अपत्यं पौत्रप्रभृति गोत्रम्>> [[4.1.162]] इत्यनेन अर्जुनस्य 'शन्तनोः गोत्रापत्यम्' इति संज्ञा भवितुमर्हति । परन्तु यदि अर्जुनस्य ज्येष्ठः भ्राता (धर्मः भीमः वा) जीवितः अस्ति, तर्हि अर्जुनः 'शन्तनोः युवापत्यमस्ति' इत्येव उच्यते, न हि गोत्रापत्यम् ।\nअत्र केचन बिन्दवः ज्ञातव्याः -\n1. यदि वंश्यः (=पित्रादयः) जीवितः अस्ति, तर्हि <<जीवति तु वंश्ये युवा>> [[4.1.163]] इत्यनेनैव 'युवा'संज्ञा विधीयते, अतः तदर्थम् वर्तमानसूत्रस्य आवश्यकता न । 'यदि सर्वे पित्रादयः मृताः सन्ति, तर्हि पौत्रादीनां यद् अपत्यम् तस्य युवासंज्ञा भवति वा?' इति पृष्टे एव वर्तमानसूत्रस्य प्रयोगः भवितुमर्हति । एतदेव स्पष्टीकर्तुम् काशिकाकारः वदति - 'अवंश्यार्थः अयमारम्भः' ।'वंश्ये कोऽपि जीवितः नास्ति चेदेव अस्य सूत्रस्य प्रयोगः भवति' इत्याशयः ।\n2. अनेन सूत्रेण 'प्रपौत्रादीनाम्' एव युवसंज्ञा भवितुमर्हति, 'पौत्रस्य' न । अतः, यद्यपि भीमः जीवितः अस्ति, तथापि अर्जुनः विचित्रवीर्यस्य युवापत्यम् न भवितुमर्हति, यतः अर्जुनः विचित्रवीर्यस्य 'पौत्रः' अस्ति, प्रपौत्रः न ।\n3. . अस्मिन् सूत्रे <<अपत्यं पौत्रप्रभृति गोत्रम्>> [[4.1.162]] इत्यस्मात् 'पौत्रप्रभृति' इति अनुवर्तते, तत् षष्ठ्या च विपरिणम्यते । अतः 'पौत्रप्रभृतेः' इति प्रयोगः सम्पूर्णसूत्रे क्रियते ।" }, "41165": { "sa": "यदि भ्रातरं विहाय अन्यः कोऽपि सपिण्डः ज्येष्ठः जीवितः अस्ति, तर्हि पौत्रप्रभृतेः जीवितम् यद् अपत्यम् तस्य विकल्पेन युवासंज्ञा भवति ।", "sd": "अस्य सूत्रस्य अर्थः किञ्चित् क्लिष्टः अस्ति, अतः क्रमेण पश्यामः -\n1. पौत्रादीनां यद् अपत्यम्, तस्य <<अपत्यं पौत्रप्रभृतिः गोत्रम्>> [[4.1.162]] इत्यनेन गोत्रसंज्ञायां प्राप्तायाम्, अनेन सूत्रेण तां बाधित्वा विकल्पेन 'युवा'संज्ञाविधानं क्रियते ।\n2. अत्र कस्य 'युवा'संज्ञाविधानम् क्रियते? 'पौत्रप्रभृतेः अपत्यम् जीवति सति तस्य युवासंज्ञा भवति' । इत्युक्ते, पौत्रप्रभृतेः यद् अपत्यम्, तत् जीवितमस्ति चेदेव तस्य अनेन सूत्रेण युवासंज्ञा भवितुम् शक्यते, न अन्यथा । (अत्र एतत् स्मर्तव्यम् यत् <<जीवति तु वंश्ये युवा>> [[4.1.163]] तथा <<भ्रातरि च ज्यायसि>> [[4.1.164]] एतयोः दत्ता युवासंज्ञा मृतस्य अपि भवितुमर्हति । परन्तु वर्तमानसूत्रेण पाठिता युवासंज्ञा केवलं जीवितस्यैव भवति ।)\n3. जीवितस्य विधीयमाना इयम् युवासंज्ञा कदा भवति? अस्य उत्तरम् 'सपिण्डे स्थविरतरे जीवति सति' इति उच्यते । 'सपिण्ड' इत्युक्ते सप्तमपुरुषं यावत् पितराः । 'स्थविरतरः' इत्युक्ते ज्येष्ठः । अतः सप्तमपुरुषं यावत्सु पितरेषु कोऽपि स्थानेन वयसा वा ज्येष्ठः जीवितः अस्ति, तर्हि पौत्रादीनाम् यत् जीवितमपत्यम्, तस्य विकल्पेन युवासंज्ञा विधीयते ।\n4. अस्मिन् सूत्रे अन्यः अपि एकः विशेषः उच्यते - 'भ्रातरि अन्यस्मिन् । इत्युक्ते, भ्रातरं विहाय यदि कोऽपि ज्येष्ठः सपिण्डः जीवितः अस्ति, तर्हि एव अस्य सूत्रस्य प्रयोगः कर्तव्यः ।\nअतः सम्पूर्णसूत्रस्य अर्थः एतादृशः जायते - पौत्रादीनाम् यद् अपत्यम् ; तस्य भ्रातरं विहाय अन्यः स्थविरतरः सपिण्डः जीवितः अस्ति चेत् ; तद् अपत्यम् स्वयमपि जीवितः अस्ति चेत् च ; तस्य गोत्रसंज्ञां बाधित्वा विकल्पेन युवासंज्ञा भवति ।\nउदाहरणम् - महाभारते विद्यमानस्य शन्तनोः वंशं पश्यामः । अस्मिन् वंशे अर्जुनस्य प्रपौत्रः जनमेजयः अस्ति । अतः <<अपत्यं पौत्रप्रभृतिः गोत्रम्>> [[4.1.162]] इत्यनेन जनमेजयः अर्जुनस्य 'गोत्रापत्यम्' अस्तीति वक्तुं शक्यते । परन्तु यदि अस्मिन्नेव वंशे विद्यमानः धृतराष्ट्रः जीवितः अस्ति, तर्हि अयम् धृतराष्ट्रः जनमेजयस्य 'जीवितः स्थविरतरः सपिण्डः' जायते, अतः जनमेजयः स्वयं जीवितः अस्ति चेत् सः विकल्पेन अर्जुनस्य 'युवापत्यम्' भवति । अत्र 'अर्जुनः जीवितः अस्ति उत नास्ति' इति चिन्तनम् न आवश्यकम् - इति स्मर्तव्यम् । 'कश्चन' स्थविरतरः सपिण्डः जीवितः भवेत्, तथा यस्य युवापत्यसंज्ञा भविष्यति सः स्वयं जीवितः भवेत् इत्येव आवश्यकम् ।\nज्ञातव्यम् -\n1. अस्मिन् सूत्रे 'जीवति' शब्दस्य प्रयोगः द्विवारं कृतः अस्ति । प्रथमः 'जीवति' शब्दः सूत्रे साक्षात् विद्यते । अस्य 'जीवति'शब्दस्य अन्वयः 'सपिण्डे' इत्यनेन सह भवति । द्वितीयः 'जीवति'शब्दः <<जीवति तु वंश्ये युवा>> [[4.1.163]] इत्यस्मात् अनुवर्तते । अस्य अन्वयः 'अपत्यम्' इत्यनेन सह क्रियते ।\n2. अनेन सूत्रेण 'युवा'संज्ञा विकल्पेनैव विधीयते । इयं युवासंज्ञा भवति चेत् 'गोत्र'संज्ञा बाधित्वा भवति । तथा च, युवासंज्ञायाः अभावे गोत्रसंज्ञा पुनः विधीयते ।\n3. यदि जीवितः सपिण्डः वयसा स्थानेन वा कनिष्ठः अस्ति, तर्हि अस्य सूत्रस्य प्रयोगः न भवति । यथा, यदि गर्गस्य प्रपौत्रः कश्चन देवदत्तः अस्तीति चिन्तयामः । इदानीं यदि देवदत्तः स्वयं जीवितः अस्ति, तथा, देवदत्तस्य सपिण्डेषु केवलं तस्य पितृव्यः जीवितः अस्ति, परन्तु एषः पितृव्यः वयसा देवदत्तात् कनिष्ठः अस्ति, तर्हि देवदत्तः गर्गस्य गोत्रापत्यमेव भवति, युवापत्यम् न ।\n " }, "41166": { "sa": "यः गोत्रसंज्ञकः अस्ति, तस्य आदरं कर्तुम् विकल्पेन युवासंज्ञा क्रियते । ", "sd": "अस्मिन् सूत्रे प्रयुक्तः 'वृद्ध'शब्दः <<वृद्धिर्यस्याचामादिस्तद्वृद्धम्>> [[1.1.73]] इत्यनेन दत्ता व्याकरणविशिष्टा संज्ञा न, अपितु 'गोत्र' इत्यस्य पर्यायवाचिशब्दः अस्ति । यः गोत्रसंज्ञक अस्ति, तस्य 'पूजायाम्' (इत्युक्ते, आदरवचने) विकल्पेन युवासंज्ञा भवति ।\nयथा - अर्जुनस्य प्रपौत्रः जनमेजयः वस्तुतः अर्जुनस्य गोत्रापत्यम् । परन्तु आदररूपेण 'तत्रभवान् अर्जुनस्य युवापत्यम् जनमेजयः' इत्यपि वक्तुं शक्यते ।\nअस्य सूत्रस्य किम् प्रयोजनम्? युवापत्यं दर्शयितुम् गोत्रापत्यं च दर्शयितुम् केषुचन स्थलेषु भिन्नौ प्रत्ययौ भवतः । यथा, 'गर्गस्य गोत्रापत्यम्' अस्मिन् अर्थे गर्ग-शब्दात् <<गर्गादिभ्यः यञ्>> [[4.1.105]] इत्यनेन यञ्-प्रत्ययं कृत्वा 'गार्ग्य' इति प्रातिपदिकं जायते । परन्तु युवापत्यनिर्देशे तु <<यञिञोश्च>> [[4.1.101]] इत्यनेन गर्गशब्दात् फक्-प्रत्ययं कृत्वा 'गार्ग्यायन' इति रूपं जायते । अस्यैव उदाहरणम् काशिकाकारः ददाति - 'तत्र भवान् गार्ग्यायणः गार्ग्यः वा' । 'तत्रभवान्' अयं शब्दः आदरं दर्शयितुम् प्रयुक्तः अस्ति । अस्यां स्थितौ वर्तमानसूत्रेण विकल्पेन युवासंज्ञायां प्राप्तायाम् फक्-प्रत्ययं कृत्वा 'गार्ग्यायण' इति रूपं जायते । पक्षे गोत्रसंज्ञां च कृत्वा यञ्-प्रत्ययं कृत्वा 'गार्ग्य' इत्यपि सिद्ध्यति ।\nविशेषः - यद्यपि काशिकाकारः एतत् सूत्रम् भिन्नरूपेण वदति, तथापि कौमुद्याम् एतत् सूत्रम् <<वाऽन्यस्मिन् सपिण्डे स्थविरतरे जीवति>> [[4.1.165]] इत्यत्र वार्त्तिकरूपेण दीयते । " }, "41167": { "sa": "यः युवासंज्ञकः अस्ति, तस्य निन्दने / निर्भत्सेन विकल्पेनैव युवासंज्ञा भवति, नित्यम् न ।", "sd": "यः युवासंज्ञक अस्ति, तस्य 'कुत्सायाम् ' (इत्युक्ते, निर्भत्सने) विकल्पेनैव युवासंज्ञा भवति, पक्षे गोत्रसंज्ञा च विधीयते ।\nयथा - अर्जुनस्य प्रपौत्रः जनमेजयः । यदि जनमेजयस्य पिता परीक्षितः जीवितः अस्ति, तर्हि जनमेजयः अर्जुनस्य 'युवापत्यम्' अस्तीति उच्यते । परन्तु कस्मिंश्चित् वाक्ये जनमेजस्य निर्भत्सना कर्तव्या, तर्हि युवसंज्ञायाः विकल्पेन बाधं कृत्वा 'जाल्मः अर्जुनस्य गोत्रापत्यम् जनमेजयः' इत्यपि वक्तुं शक्यते ।\nअस्य सूत्रस्य किम् प्रयोजनम्? युवापत्यं दर्शयितुम् गोत्रापत्यं च दर्शयितुम् केषुचन स्थलेषु भिन्नौ प्रत्ययौ भवतः । यथा, 'गर्गस्य गोत्रापत्यम्' अस्मिन् अर्थे गर्ग-शब्दात् <<गर्गादिभ्यः यञ्>> [[4.1.105]] इत्यनेन यञ्-प्रत्ययं कृत्वा 'गार्ग्य' इति प्रातिपदिकं जायते । परन्तु युवापत्यनिर्देशे तु <<यञिञोश्च>> [[4.1.101]] इत्यनेन गर्गशब्दात् फक्-प्रत्ययं कृत्वा 'गार्ग्यायन' इति रूपं जायते । अस्यैव उदाहरणम् काशिकाकारः ददाति - 'गार्ग्यः जाल्मः गार्ग्यायणः वा' । 'जाल्म' अयं शब्दः अत्र 'कुत्सायाम्' प्रयुक्तः अस्ति । अस्यां स्थितौ वर्तमानसूत्रेण विकल्पेन युवासंज्ञायाः निषेधं कृत्वा गोत्रसंज्ञा विधीयते, अतः यञ्-प्रत्ययं कृत्वा 'गार्ग्य' इति रूपं सिद्ध्यति । पक्षे फक्-प्रत्ययं कृत्वा 'गार्ग्यायण' इत्यपि रूपं जायते ।\nविशेषः - यद्यपि काशिकाकारः एतत् सूत्रम् भिन्नरूपेण वदति, तथापि कौमुद्याम् एतत् सूत्रम् <<वाऽन्यस्मिन् सपिण्डे स्थविरतरे जीवति>> [[4.1.165]] इत्यत्र वार्त्तिकरूपेण दीयते । " }, "41168": { "sa": "क्षत्रियवाची यः शब्दः जनपदस्य नामरूपेण अपि प्रयुज्यते, तस्मात् 'तस्य अपत्यम्' अस्मिन् अर्थे अञ्-प्रत्ययः भवति । ", "sd": "" }, "41169": { "sa": "'साल्वेय' तथा 'गान्धार' एतौ क्षत्रियवाचिनौ शब्दौ यदि जनपदस्य नामरूपेण अपि प्रयुज्येते, तर्हि ताभ्याम् 'तस्य अपत्यम्' अस्मिन् अर्थे अञ्-प्रत्ययः भवति । ", "sd": "" }, "41170": { "sa": "'मगध' , 'कलिङ्ग' तथा 'सूरमस' एते क्षत्रियवाचिनः शब्दाः, तथा येषु द्वौ स्वरौ स्तः ते क्षत्रियवाचिनः शब्दाः यदि जनपदस्य नामरूपेण अपि प्रयुज्यन्ते, तर्हि तेभ्यः 'तस्य अपत्यम्' अस्मिन् अर्थे अण्-प्रत्ययः भवति । ", "sd": "" }, "41171": { "sa": "'कोसल', 'अजाद' एतौ क्षत्रियवाचिनौ शब्दौ , वृद्धसंज्ञकाः क्षत्रियवाचिनः शब्दाः, तथा च इकारान्ताः क्षत्रियवाचिनः शब्दाः यदि जनपदस्य नामरूपेण अपि प्रयुज्यन्ते, तर्हि तेभ्यः 'तस्य अपत्यम्' अस्मिन् अर्थे ञ्यङ्-प्रत्ययः भवति । ", "sd": "" }, "41172": { "sa": "'कुरु' अयम् क्षत्रियवाची शब्दः तथा नकारादि-क्षत्रियवाचिशब्दाः यदि जनपदस्य नामरूपेण अपि प्रयुज्यन्ते, तर्हि तेभ्यः 'तस्य अपत्यम्' अस्मिन् अर्थे ण्य-प्रत्ययः भवति । ", "sd": "" }, "41173": { "sa": "साल्वदेशस्य जनपदवाचिनः अवयवाः, तथा प्रत्यग्रथ-जनपदः, कलकूट-जनपदः, आश्मक-जनपदः - एतेषां नामानि क्षत्रियस्य अभिधानस्वरूपेण अपि प्रयुज्यन्ते चेत् तेभ्यः 'तस्य अपत्यम्' अस्मिन् अर्थे 'इञ्' प्रत्ययः भवति । ", "sd": "" }, "41174": { "sa": "क्षत्रियवाचीनि यानि जनपदनामानि, तेभ्यः 'तस्य अपत्यम्' अस्मिन् अर्थे प्रयुक्ताः प्रत्ययाः 'तद्राज'संज्ञकाः भवन्ति । ", "sd": "" }, "41175": { "sa": "'कम्बोज'शब्दात् विहितस्य तद्राजप्रत्ययस्य लुक् भवति । ", "sd": "" }, "41176": { "sa": "'अवन्ति', 'कुन्ति' तथा 'कुरु' शब्देभ्यः प्रयुक्तः यः तद्राजसंज्ञकप्रत्ययः, तस्य स्त्रीत्वे विवक्षिते लुक् भवति । ", "sd": "" }, "41177": { "sa": "'अ' इति तद्राजप्रत्ययस्य स्त्रीत्वे विवक्षिते लुक् भवति । ", "sd": "" }, "41178": { "sa": "पूर्वदिशायां विद्यमानाः ये जनपदाः, भर्गादिगणे विद्यमानाः ये जनपदाः, तथा यौधेयादिगणे विद्यमानाः ये जनपदाः, तेभ्यः विहितस्य तद्राजसंज्ञकप्रत्ययस्य स्त्रीत्वे विवक्षिते लुक् न भवति । ", "sd": "" }, "42001": { "sa": "तृतीयासमर्थात् रागवाचिनः सुबन्तात् 'रक्तम्' अस्मिन् अर्थे अण् प्रत्ययः भवति । ", "sd": "प्राग्दीव्यतीय-अर्थेषु विद्यमानेभ्यः 44 अर्थेभ्यः अयम् द्वितीयः अर्थः । रागवाचिनः शब्दात् (यथा - नील, धवल, पीत, कषाय - आदयः) 'रक्तम्' (इत्युक्ते 'वर्णान्तरं प्राप्तम्') अस्मिन् अर्थे यथायोग्यः तद्धिप्रत्ययः अनेन सूत्रेण विधीयते ।\nयथा -\n1. कषायेण रक्तम् (वस्त्रम्) = कषाय + अण् = काषायम् वस्त्रम् ।\n2. मञ्जिष्ठेन रक्तम् (वसनम्) = मञ्जिष्ठ + अण् = माञ्जिष्ठम् वसनम् ।\n3. कुसुम्भेन रक्तम् (अम्बरम्) = कुसुम्भ + अण् = कौसुम्भमम्बरम् ।\nअस्मिन् अर्थे अण्-प्रत्ययस्य अपवादरूपेण एते अपवादाः विधीयन्ते -\n1. <<लाक्षारोचनाशकलकर्दमात् ठक्>> [[4.2.2]] इत्यनेन लाक्षा, रोचना, कर्दमा - एतेभ्यः शब्देभ्यः ठक्-प्रत्ययः भवति । लाक्षया रक्तम् लाक्षिकम् । रोचनया रक्तम् रोचनिकम् । कर्दमेन रक्तम् कार्दमिकम् ।\n2. - अनेन वार्त्तिकेन 'पीत' शब्दात् 'रक्तं रागात्' अस्मिन् अर्थे कन्-प्रत्ययः भवति । पीतेन रक्तम् पीतकम् ।\n3. - अनेन वार्त्तिकेन 'नीली' शब्दात् 'रक्तं रागात्' अस्मिन् अर्थे अन्-प्रत्ययः भवति । नील्या रक्तम् नीलम् ।\n4. - अनेन वार्त्तिकेन 'हरिद्रा, महारजना' एताभ्याम् शब्दाभ्यामञ्-प्रत्ययः भवति । हरिद्रया रक्तम् हारिद्रम् । महारजनेन रक्तम् माहारजनम् ।\nअत्र बिन्दुद्वयं स्मर्तव्यम् -\n1. 'रक्तम्' इत्यर्थं विहाय अन्येषु अर्थेषु अस्य सूत्रस्य प्रयोगः न भवति । यथा - 'कषायेन धूतम्' इत्यत्र अनेन सूत्रेण तद्धितप्रत्ययः न विधीयते ।\n2. 'रागवाचिनम् शब्दम्' विहाय अन्येषां शब्दानां विषये अस्य सूत्रस्य प्रयोगः न भवति । यथा - 'देवदत्तेन रक्तम्' इत्यत्र अनेन सूत्रेण तद्धितप्रत्ययः न विधीयते ।\nज्ञातव्यम् -\n1. 'राग' अयम् शब्दः 'रज्' धातोः करणे घञ्-प्रत्ययं कृत्वा सिद्ध्यति । रज्यते अनेन (इत्युक्ते, वर्णान्तरं प्राप्यते अनेन) सः रागः । यथा - नील, पीत, हरित - आदयः ।\n2. 'रक्त' अयम् शब्दः 'रज्' धातोः क्त-प्रत्ययं कृत्वा सिद्ध्यति । रक्तम् इत्युक्ते 'वर्णान्तरं प्राप्तम्' ।\n3. 'अण्' तथा 'अञ्' - द्वयोः प्रत्यययोः प्रयोगेण रूपं तु समानं जायते, परन्तु निर्मिते पदे स्वरभेदः दृश्यते । ञित्-प्रत्ययान्तशब्दाः <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] इत्यनेन आद्युदात्ताः भवन्ति ।\n" }, "42002": { "sa": "'रक्तम् रागात्' अस्मिन् अर्थे लाक्षा, रोचना, शकल, तथा कर्दम - एतेभ्यः तृतीयासमर्थेभ्यः शब्देभ्यः ठक्-प्रत्ययः विधीयते । ", "sd": "'रक्तम् रागात्' अस्मिन् अर्थे औत्सर्गिकरूपेण अण्-प्रत्ययः दत्तः अस्ति । तं बाधित्वा लाक्षा, रोचना, शकल, तथा कर्दम - एतेभ्यः शब्देभ्यः 'ठक्' प्रत्ययस्य विधानमनेन सूत्रेण क्रियते । यथा -\n1. लाक्षया रक्तम् = लाक्षा + ठक् → लाक्षिक । (लाक्षा इति रक्तवर्णस्य कश्चन भेदः ।)\n2. रोचनया रक्तम् = रोचना + ठक् → रौचनिक । (रोचना इति अपि रक्तवर्णस्य एकः भेदः ।)\n3. 'शकल' शब्दस्य विषये अयम् ठक्-प्रत्ययः विकल्पेनैव विधीयते, अतः पक्षे औत्सर्गिकः अण्-प्रत्ययः अपि भवति । यथा - शकलेन रक्तम् = शाकलिकम्, शाकलम् । ('शकल' अयम् कृष्णवर्णस्य कश्चन भेदः ।)\n4. 'कर्दम' शब्दस्य विषयेऽपि अयं ठक्-प्रत्ययः विकल्पेन विधीयते, पक्ष च अण्-प्रत्ययः भवति । यथा - कर्दमेन रक्तम् = कार्दमिकम्, कार्दमम् । (कर्दम इत्युक्ते मृत्तिकायाः वर्णः ।)\nअस्मिन् सूत्रे कानिचन वार्त्तिकानि अपि प्रोक्तानि सन्ति -\n1. - अनेन वार्त्तिकेन 'पीत' शब्दात् अण्-प्रत्ययं बाधित्वा कन्-प्रत्ययः भवति । पीतेन रक्तम् पीतकम् ।\n2. - अनेन वार्त्तिकेन 'नीली' शब्दात् 'रक्तं रागात्' अस्मिन् अर्थे कन्-प्रत्ययः भवति । नील्या रक्तम् नीलम् । ('नीली' अयम् कस्माच्चन वृक्षात् प्राप्तः नीलसदृशः वर्णः) ।\n3. - अनेन वार्त्तिकेन 'हरिद्रा' तथा 'महारजना' एताभ्याम् शब्दाभ्यामञ्-प्रत्ययः भवति । हरिद्रया रक्तम् हारिद्रम् । महारजनेन रक्तम् माहारजनम् । ('महारजन' इत्युक्ते काषायवर्णः) ।\n " }, "42003": { "sa": "नक्षत्रवाचिनः तृतीयासमर्थात् 'युक्तः कालः' अस्मिन् अर्थे अण् तद्धितप्रत्ययः विधीयते । ", "sd": "यदि कस्यचन नक्षत्रस्य नाम्नः प्रयोगं कृत्वा कालस्य कस्यचन विभागस्य (यथा - प्रातः, दिनम्, सायम्, रात्रिः - एतेषाम्) निर्देशः क्रियते, तर्हि तस्मात् नक्षत्रनाम्नः अनेन सूत्रेण यथाविहितः तद्धितप्रत्ययः भवति । यथा -\n1. पुष्येण युक्तं अहः = पुष्य + अण् = पौष । अत्र प्रक्रिया इयम् जायते -\nपुष्येण + अण्\n→ पुष्य + टा + अण् [अलौकिकविग्रहः]\n→ पुष्य + अण् [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति प्रातिपदिके उपस्थितस्य सुप्-प्रत्ययस्य लोपः]\n→ पुष्य + अ [इत्संज्ञालोपः]\n→ पौष्य + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ पौष्य् + अ [<<यस्येति च>> [[6.4.148]] इति अकारलोपः ]\n→ पौष् + अ [ अनेन वार्त्तिकेन 'पुष्य्' इत्यस्य यकारस्य लोपः भवति ।]\n→ पौष\n2. मघानक्षत्रेण युक्ता रात्री = मघा + अण् + ङीप् → माघ + ङीप् → माघी । अत्र <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इत्यनेन ङीप्-प्रत्ययः विधीयते ।\nज्ञातव्यम् -\n1. अस्य सूत्रस्य विषये काशिकाकारः वदति - ' पुष्यसमीपस्थेन चन्द्रमसा युक्तः इत्यर्थः' । इत्युक्ते चन्द्रमाः यस्मिन् नक्षत्रे वर्तते, तस्यैव नक्षत्रस्य विषये अस्य सूत्रस्य प्रसक्तिः अस्ति । यथा - चन्द्रमाः यस्याम् रात्रौ मघानक्षत्रेण युक्तः अस्ति, सा रात्री 'माघी' ।\nचन्द्रमाः एकस्मिन् नक्षत्रे प्रायः एकदिनं यावत् एव विराजति, अतः अस्मिन् सूत्रे प्रयुक्तः 'कालः' अयं शब्दः 'प्रातः, दिनम्, सायम्, रात्रिः' - एतेषामेव निर्देशं कर्तुमर्हति, पक्ष-मास-संवत्सरादीनाम् न ।\n2. अस्य सूत्रस्य प्रयोगार्थम् 'नक्षत्रम्', 'युक्त', तथा 'काल' - त्रयाणामपि उपस्थितिः भवेत् । यथा -\nअ) चन्द्रेण युक्तम् अहः - इत्यत्र 'नक्षत्रेण' इत्यत्र अभावात् अस्य सूत्रस्य प्रसक्तिः नास्ति ।\nआ) पुष्येण समाप्तम् अहः - इत्यत्र 'युक्तः' इत्यस्य अभावात् अस्य सूत्रस्य प्रसक्तिः नास्ति ।\nइ) पुष्येण युक्तः चन्द्रः - इत्यत्र 'कालः' इत्यत्र अभावात् अस्य सूत्रस्य प्रसक्तिः नास्ति ।\n" }, "42004": { "sa": "नक्षत्रवाचिनः तृतीयासमर्थात् 'युक्तः कालः' अस्मिन् अर्थे प्रयुक्तस्य तद्धितप्रत्ययस्य अविशेष-कालस्य निर्देशे लुप् भवति । ", "sd": "यदि कस्यचन नक्षत्रस्य नाम्नः प्रयोगं कृत्वा कालस्य कस्यचन विभागस्य (यथा - प्रातः, दिनम्, सायम्, रात्रिः - एतेषाम्) निर्देशः क्रियते, तर्हि तस्मात् नक्षत्रनाम्नः <<नक्षत्रेण युक्तः कालः>> [[4.2.3]] अनेन सूत्रेण यथाविहितः तद्धितप्रत्ययः भवति । परन्तु यदि सः कालः 'अविशेषः कालः' अस्ति (इत्युक्ते, तस्य कालस्य ' प्रातः / अहः / सायम् / रात्रिः' एतादृशम् विशेषरूपेण निर्देशः न भवति) तर्हि अस्य तद्धितप्रत्ययस्य लुप् (इत्युक्ते, लोपः) भवति ।\nयथा - 'पुष्येण युक्तः कालः' अस्मिन् वाक्ये कालस्य विशेषरूपेण उल्लेखः नास्ति, अतः अत्र प्राप्तस्य तद्धितप्रत्ययस्य लुप् भवति । प्रक्रिया इयम् -\nपुष्येण + अण्\n→ पुष्य + टा + अण् [अलौकिकविग्रहः]\n→ पुष्य + अण् [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति टा-प्रत्ययस्य लोपः]\n→ पुष्य [<<लुबविशेषे>> [[4.2.4]] इति अविशेष-कालस्य निर्देशे अण्-प्रत्ययस्य लुप् भवति ।]\nअतः 'पुष्येण युक्तः कालः = पुष्यः' इति रूपं सिद्ध्यति ।\nज्ञातव्यम् -\n1. यदि कालस्य विशेषरूपेण उल्लेखः कृतः अस्ति, तर्हि अनेन सूत्रेण निर्दिष्टः लुप् न भवति । यथा - पुष्येण युक्तमहः = पुष्य + अण् = पौषमहः । अत्र प्रत्ययस्य लुप् न भवति ।\n2. अस्मिन् सूत्रे तद्धितप्रत्ययस्य 'लुप्' उक्तः अस्ति । 'लुप्' इति प्रत्ययलोपस्य एकः भेेदः । <<लुपि युक्तवद् व्यक्तिवचने>> [[1.2.51]] इत्यनेन प्रत्ययस्य लुप् भवति चेत् निर्मितस्य शब्दस्य लिङ्गम् वचनम् च प्रकृतिवदेव जायते, न हि विशेष्यवत् । यथा -\n1) उत्तरया युक्तः कालः = उत्तरा + अण् → उत्तरा + X → उत्तरा कालः । अत्र 'उत्तरा' अयम् वस्तुतः अण्-प्रत्ययान्तशब्दः अस्ति यत्र अण्-प्रत्ययस्य लुप् कृतः अस्ति । अत्र यद्यपि अयं शब्दः 'काल' इत्यस्य विशेषणरूपेण आगच्छति, तथापि अयं शब्दः प्रकृतेः लिङ्गम् एव स्वीकरोति, अतः 'उत्तरा' अयं शब्दः स्त्रीलिङ्गे एव प्रयुज्यते ।\n2) श्रवणेन युक्तः कालः = श्रवण + अण् → श्रवण + X → श्रवणम् कालः ।\n" }, "42005": { "sa": "'युक्तः कालः' अस्मिन् अर्थे 'श्रवण' तथा 'अश्वत्थ' शब्दाभ्याम् प्रयुक्तस्य तद्धितप्रत्ययस्य संज्ञायाः निर्देशे लुप् भवति । ", "sd": "" }, "42006": { "sa": "'युक्तः कालः' अस्मिन् अर्थे नक्षत्रद्वन्द्वात् विशेषकालं अविशेषकालं च निर्देशयितुम् छ-प्रत्ययः भवति । ", "sd": "'नक्षत्रद्वन्द्वम्' इत्युक्ते द्वयोः नक्षत्रयोः एकत्रग्रहणम् । यस्मिन् काले चन्द्रमाः एकस्मात् नक्षत्रात् अग्रिमनक्षत्रे प्रविशति, तस्य कालस्य निर्देशं नक्षत्रद्वन्द्वस्य साहाय्येन वर्तमानसूत्रेण छ-प्रत्ययः भवति । यथा -\n1. राधया अनुराधया च युक्तमहः = राधानुराधा + छ → राधानुराधीयमहः / राधानुराधीया रात्रिः ।\n(राधा = विशाखानक्षत्रम्)\n2. तिष्येण पुनर्वसुना च युक्तः कालः = तिष्यपुनर्वसु + छ → तिष्यपुनर्वसवीयः अद्य ।\n(तिष्य = पुष्यनक्षत्रम् )\nज्ञातव्यम् -\n1. अनेन सूत्रेण उक्तः छ-प्रत्ययः विशेषकालस्य विषये अपि भवति, अविशेषकालस्य विषये अपि भवति । इत्युक्ते, अयं प्रत्ययः 'लुप्' इत्यस्यापि अपवादत्वेन आगच्छति ।\n2. एतत् नक्षत्रद्वन्द्वम् क्रमेण विद्यमानयोः नक्षत्रयोः एव भवेत्, यतः चन्द्रमाः क्रमेणैव नाक्षत्रमण्डलं भ्रमति ।\n" }, "42007": { "sa": "येन साम दृष्टम् तस्मात् तृतीयासमर्थात् 'साम' निर्देशयितुमण् प्रत्ययः भवति । ", "sd": "'साम' इति सामन्-शब्दस्य प्रथमैकवचनम् । 'वैदिकः मन्त्रः / पवित्रः श्लोकः' इति तस्य अर्थः । एतादृशस्य मन्त्रस्य निर्देशः तस्य द्रष्टारम् (= प्राप्तारम् / चिन्तितारम्) निर्दिश्य कर्तुमस्य सूत्रस्य प्रयोगः भवति । यथा -\n1. वसिष्ठेन दृष्टं साम = वसिष्ठ + अण् → वासिष्ठम् ।\n2. विश्वामित्रेण दृष्टं साम = विश्वामित्र + अण् → वैश्वामित्रम् ।\n3. क्रुञ्चेन दृष्टं साम = क्रुञ्च + अण् → क्रौञ्च ।\nअत्र एकं वार्त्तिकं ज्ञातव्यम् - । इत्युक्ते, अण्-प्रत्ययः 'दृष्टं साम' अस्मिन् अर्थे विकल्पेन डित्वत् भवति । डित्वात् <<टेः>> [[6.4.143]] इत्यनेन टिलोपः विधीयते ।\n यथा - उशनसा दृष्टं साम\n= उशनस + अण्\n→ औशनस + अण् [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ औशन् + अण् [अण्-प्रत्ययस्य डित्त्वात् <<टेः>> [[6.4.143]] इत्यनेन टिलोपः]\n→ औशन ।\nइदं डित्वम् वैकल्पिकमस्ति, अतः पक्षे <<यस्येति च>> [[6.4.148]] इति अकारलोपं कृत्वा 'औशनस' इत्यपि रूपं सिद्ध्यति ।\nज्ञातव्यम् -\n1. कलि-शब्दात् अण्-प्रत्ययस्य अपवादत्वेन <<कलेर्ढक्>> [[4.2.8]] इत्यनेन ढक्-प्रत्ययः भवति । कलिना दृष्टं साम = कालेयम् ।\n2. वामदेव-शब्दात् अण्-प्रत्ययस्य अपवादत्वेन <<वामदेवात् ड्यत्-ड्यौ>> [[4.2.9]] इत्यनेन ड्यत् / ड्य प्रत्ययौ भवतः । वामेदेवेन दृष्टं साम - वामदेव्य ।\n" }, "42008": { "sa": "'दृष्टं साम' अस्मिन् अर्थे तृतीयासमर्थात् कलि-शब्दात् ढक्-प्रत्ययः भवति । ", "sd": "कलिना दृष्टं साम\n= कलि + ढक्\n→ कालि + ढक् [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ कालि + एय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ढकारस्य एय-आदेशः]\n→ काल् + एय [<<यस्येति च>> [[6.4.148]] इति इकारलोपः]\n→ कालेय\nअयं प्रत्ययः अण्-प्रत्ययस्य अपवादरूपेण आगच्छति । " }, "42009": { "sa": "'दृष्टं साम' अस्मिन् अर्थे तृतीयासमर्थात् वामदेव-शब्दात् 'ड्यत्' तथा 'ड्य' प्रत्ययौ भवतः ", "sd": "<<दृष्टं साम>> [[4.2.7]] अस्मिन् अर्थे 'वामदेव' शब्दात् ड्यत् तथा ड्य एतौ प्रत्ययौ भवतः ।\nवामदेवेन दृष्टं साम\n→ वामदेव + ड्यत् / ड्य\n→ वामदेव् + य [<<टेः>> [[6.4.143]] इति टिलोपः]\n→ वामदेव्य\nज्ञातव्यम्\n1. ड्यत्-प्रत्ययान्तरूपम् ड्य-प्रत्ययान्तरूपम् च समानमेव भवति । द्वयोः रूपयोः केवलं स्वरभेदः अस्ति । <<तित्स्वरितम्>> [[6.1.185]] इत्यनेन ड्यत्-प्रत्ययान्त-'वामदेव्य' शब्दस्य यकारोत्तरः अकारः स्वरितः जायते, परन्तु ड्य-प्रत्ययनिर्मितस्य 'वामदेव्य' शब्दस्य विषये अस्य सूत्रस्य प्रसक्तिः नास्ति ।\n2. एतयोः प्रत्यययोः डकारस्य इत्संज्ञायाः किम् प्रयोजनम्? डकारः नास्ति चेदपि अङ्गस्य भसंज्ञां कृत्वा <<यस्येति च>> [[6.4.148]] इत्यनेन अन्तिमवर्णलोपं कृत्वा अपि एते एव रूपे भवतः । अतः अत्र डकारः किमर्थम् प्रयुक्तः इति प्रश्नः उपतिष्ठति । अस्मिन् विषये भाष्यकारः ब्रूते -\nसिद्धे 'यस्येति'लोपेन किमर्थं य-यतौ डितौ।\nग्रहणं माऽतदर्थे भूत् वामदेव्यस्य नञ्स्वरे ॥\nइत्युक्ते, केवलं य/यत् इति उच्यते चेत् <<ययतोः च अतदर्थे>> [[6.2.156]] अस्य सूत्रस्य अपि 'वामदेव्य' शब्दस्य विषये प्रसक्तिः स्यात् । एवं भवति चेत् 'अवामदेव्य' अस्य शब्दस्य अन्तिमस्वरः (यकारोत्तरः अकारः) उदात्तः भवेत् । तत् तथा मा भूत्, एतत् स्पष्टीकर्तुमत्र डकारः प्रयुक्तः अस्ति । (अवामदेव्य इत्यत्र अकारः उदात्तः भवति, अतः शेषनिघातेन यकारोत्तरः अकारः अनुदात्तः अस्ति ।) ।" }, "42010": { "sa": "तृतीयासमर्थात् 'परिवृतः' इत्यस्मिन् अर्थे रथं निर्देशयितुमण् प्रत्ययः भवति ।", "sd": "रथस्य आवरणस्य / आच्छादनस्य साहाय्येन रथस्य निर्देशं कर्तुमस्य सूत्रस्य प्रयोगः क्रियते । 'परिवृतः' इत्युक्ते 'समन्तात् वेष्टितः' । यथा - वस्त्रेण परिवृतः रथः वास्त्रः । चर्मणा परिवृतः रथः चार्मणः । (अत्र <<नस्तद्धिते>> [[6.4.144]] इत्यनेन नकारान्तस्य टिलोपे प्राप्ते <<न मपूर्वोऽपत्येऽवर्मणः>> [[6.4.170]] इत्यनेन सः निषिध्यते ।)\nज्ञातव्यम् -\n1. यदि रथस्य निर्देशः नास्ति तर्हि अस्य सूत्रस्त प्रसक्तिः नास्ति । यथा - 'वस्त्रेण परिवृतः कायः' इत्यत्र अस्य सूत्रस्य प्रयोगः न क्रियते ।\n2. 'छात्रैः परिवृतः रथः' एतादृशेषु वाक्येषु अपि अस्य सूत्रस्य प्रयोगः न भवति, यतः अत्र 'वेष्टनम् / आच्छादनम्' नास्ति ।\n" }, "42011": { "sa": "'पाण्डुकम्बल'शब्दात् 'परिवृतः' अस्मिन् अर्थे रथं निर्देशयितुम् इनि प्रत्ययः भवति । ", "sd": "<<परिवृतो रथः>> [[4.2.10]] अस्मिन् अर्थे 'पाण्डुकम्बल' शब्दात् 'इनि' प्रत्ययः भवति । अस्मिन् प्रत्यये नकारोत्तरः इकारः उच्चारणार्थः अस्ति, अतः तस्य प्रक्रियायां लोपः भवति ।\nपाण्डुकम्बलेन परिवृतो रथः\n= पाण्डुकम्बल + इन्\n→ पाण्डुकम्बल् + इन् [<<यस्येति च>> [[6.4.148]] इति अन्तिमवर्णलोपः]\n→ पाण्डुकम्बलिन्\n" }, "42012": { "sa": "द्वैपशब्दात् वैयाघ्रशब्दात् च 'परिवृतः' अस्मिन् अर्थे रथं निर्देशयितुम् 'अञ्' प्रत्ययः भवति । ", "sd": "<<परिवृतो रथः>> [[4.2.10]] अस्मिन् अर्थे 'द्वैप' तथा 'वैयाघ्र' शब्दाभ्यामञ्-प्रत्ययः विधीयते । यथा - द्वैपेन परिवृतो रथः = द्वैपः रथः । वैयाघ्रेन परिवृतो रथः वैयाघ्रः रथः ।\nज्ञातव्यम् - द्वैप तथा वैयाघ्र - द्वयोः अर्थः 'व्याघ्रस्य चर्म' इति भवति ।\n" }, "42013": { "sa": "'अविवाहितम्' अस्मिन् अर्थे 'कौमार' इति शब्दः निपात्यते ।", "sd": "" }, "42014": { "sa": "सप्तमीसमर्थात् अमत्रवाचिनः शब्दात् 'उद्धृतम्' इत्यस्मिन् अर्थे अण् प्रत्ययः भवति ।", "sd": "'अमत्र' इत्युक्ते पात्रम् । 'उद्धृतम्' इत्युक्ते (कस्माच्चित् पात्रात्) निष्कास्य (कस्मिंश्चित् पात्रे) स्थापनम् । यत्र कश्चन पदार्थः एकस्मात् पात्रात् निष्कास्य अन्यस्मिन् पात्रे स्थाप्यते, तत्र तस्य पदार्थस्य निर्देशः 'यस्मिन् पात्रे सः पदार्थः स्थाप्यते' तेन सह कर्तुमस्य सूत्रस्य प्रयोगः भवति । यथा -\n1) शरावेषु उद्धृतम् ओदनम् = शारावम् ओदनम् । अत्र 'शराव' इति कश्चन पात्रविशेषः । अस्मिन् पात्रे यत् ओदनमुद्धृतम्, तत् ओदनम् 'शारावम्' नाम्ना ज्ञायते ।\n2) मल्लिकासु उद्धृतम् ओदनम् = माल्लिकम् ओदनम् । अत्र 'मल्लिका' इति अपि कश्चन पात्रविशेषः ।\n3) कर्परे उद्धृतम् ओदनम् = कार्परम् ओदनम् ।\nज्ञातव्यम् - यदि पदार्थस्य उद्धरणम् 'अमत्रे' (पात्रे) न भवति, तर्हि अस्य सूत्रस्य प्रयोगः न भवति । यथा - 'पाणौ उद्धृतम् ओदनम्' इत्यत्र अस्य सूत्रस्य प्रसक्तिः नास्ति ।\n" }, "42015": { "sa": "'स्थण्डिल'शब्दात् 'यः व्रतस्य उद्देशेन शयनं करोति' तस्य निर्देशं कर्तुमण् प्रत्ययः भवति । ", "sd": "" }, "42016": { "sa": "सप्तमीसमर्थशब्दात् 'संस्कृतम्' इत्यस्मिन् अर्थे भक्षं निर्देशयितुमण् प्रत्ययः भवति ।", "sd": "'संस्कृतम्' इत्युक्ते 'प्रक्रियया परिवर्तितम्' । यदि कस्यचन भक्षस्य ( = खाद्यपदार्थस्य) कस्मिंश्चित् माध्यमे पात्रे वा प्रक्रियां कृत्वा परिवर्तनं क्रियते, तर्हि तस्य परिवर्तित-पदार्थस्य निर्देशं कर्तुम् 'यस्मिन् माध्यमे / पात्रे परिवर्तनं कृतम्' तस्मात् सप्तमीसमर्थात् शब्दात् यथाविहितः तद्धितप्रत्ययः भवति । यथा -\n1. कलशे संस्कृताः यवाः = कालशाः ।\n2. कुम्भे संस्कृताः अपूपाः = कौम्भाः ।\n3. घृते संंस्कृतम् ओदनम् = घार्तम् ओदनम् ।\n4. भ्राष्ट्रे संस्कृताः अपूपाः = भ्राष्ट्राः अपूपाः ।\n5. अष्टसु कपालेषु (= अष्टाकपालेषु) संस्कृतः पुरोडाशः = अष्टाकपालः पुरोडाशः । अत्र 'अष्टाकपाल' अयं शब्दः द्विगुसमासेन निर्मितः अस्ति, अतः <<द्विगोर्लुगनपत्ये>> [[4.1.88]] इति तस्मात् परस्य अण्-प्रत्ययस्य लुक् भवति ।\nज्ञातव्यम् -\n1. अत्र कलश, कुम्भ, भ्राष्ट्र, अष्टकपाल - एतानि सर्वाणि पात्रविशेषानि सन्ति येषु पदार्थस्य संस्करणम् कृतमस्ति । 'घृत' इति तु माध्यममस्ति यस्मिन् अन्यपदार्थस्य संस्करणम् कृतमस्ति । एतादृशम् पात्रवाचिनः शब्दात् तथा माध्यमवाचिनः शब्दात् - द्वाभ्यामपि शब्दाभ्यामनेन सूत्रेण यथाविहितः प्रत्ययः विधीयते ।\n2. 'भक्ष' इत्युक्ते भुज्यः / खाद्यः पदार्थः । भक्ष्यते तत् भक्ष्यम् । 'भक्ष्' इत्यस्मात् धातोः कर्मणि घञ्-प्रत्ययं कृत्वा अयं शब्दः सिद्ध्यति ।\n3. यदि भक्षस्य निर्देशः नास्ति तर्हि अस्य सूत्रस्य प्रयोगः न भवति । यथा - 'पुष्पपुटे संस्कृतः मालागुणः' इत्यत्र अस्य सूत्रस्य प्रसक्तिः नास्ति । " }, "42017": { "sa": "शूलशब्दात् उखाशब्दात् च 'संस्कृतं भक्षाः' इत्यस्मिन् अर्थे यत्-प्रत्ययः भवति । ", "sd": "<<संस्कृतं भक्षाः>> [[4.2.16]] इत्यस्मिन् अर्थे शूल तथा उखा - एताभ्याम् शब्दाभ्याम् 'यत्' प्रत्ययः विधीयते ।\nशूले संस्कृतम् शूल्यम् मांसम् । उखायाम् संस्कृतमुख्यम् मांसम् ।\nज्ञातव्यम् - शूल तथा उखा - द्वावपि पात्रविशेषौ स्तः । " }, "42018": { "sa": "दधिशब्दात् 'संस्कृतं भक्षाः' इत्यस्मिन् अर्थे ठक् -प्रत्ययः भवति ।", "sd": "<<संस्कृतं भक्षाः>> [[4.2.16]] इत्यस्मिन् अर्थे 'दधि'शब्दात् ठक् प्रत्ययः भवति । दध्नि संस्कृतम् दाधिकम् ।\nज्ञातव्यम् - प्राग्वहतीय-अधिकारे <<संस्कृतम्>> [[4.4.3]] इत्यनेन अपि दधि-शब्दात् ठक्-प्रत्ययः भवति, परन्तु तत्र तृतीयासमर्थात् एतत् प्रत्ययविधानं कृतमस्ति, अतः तत्र 'दध्ना संस्कृतम्' इति अर्थः स्वीकर्तव्यः । अत्र तु 'दध्नि संस्कृतम्' इति अर्थः अपेक्ष्यते ।\n" }, "42019": { "sa": "'संस्कृतम् भक्षाः' अस्मिन् अर्थे 'उदश्वित्' शब्दात् 'ठक्' तथा 'अण्' प्रत्ययौ भवतः ।", "sd": "<<संस्कृतं भक्षाः>> [[4.2.16]] इत्यस्मिन् अर्थे 'उदश्वित्' ( = तक्रम्) शब्दात् विकल्पेन ठक् प्रत्ययः भवति । पक्षे औत्सर्गिकः अण् प्रत्ययः अपि विधीयते । यथा -\n1. उदश्विति संस्कृतम्\n= उदश्वित् + ठक्\n→ उदश्वित् + क [<<इसुसुक्तान्तात् कः>> [[7.3.51]] इति ठकारस्य ककारः]\n→ औदश्वित् + क [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ औदश्वित्क\n2. उदश्विति संस्कृतम्\nउदश्वित् + अण्\n→ औदश्वित् + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ औदश्वित" }, "42020": { "sa": "'संस्कृतं भक्षाः' अस्मिन् अर्थे क्षीर-शब्दात् ढञ्-प्रत्ययः भवति । ", "sd": "<<संस्कृतं भक्षाः>> [[4.2.16]] इत्यस्मिन् अर्थे क्षीरशब्दात् ढञ् प्रत्ययः भवति । क्षीरे संस्कृतम् क्षैरेयम् ।\nक्षीरे संस्कृतम्\n= क्षीर + ढञ्\n→ क्षीर + एय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ढकारस्य एय्-आदेशः]\n→ क्षैर + एय [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ क्षैर् + एय [<<यस्येति च>> [[6.4.148]] इति अन्तिमवर्णलोपः]\n→ क्षैरेय\n" }, "42021": { "sa": "पौर्णमास्याः यत् प्रथमासमर्थं नाम, तस्मात् शब्दात् 'अस्मिन्' इत्यर्थे मासस्य, अर्धमासस्य, संवत्सरस्य वा निर्देशं कर्तुमण् प्रत्ययः भवति ।", "sd": "पौर्णमास्याः नाम्नः साहाय्येन 'इयम् पौर्णमासी अस्मिन् मासे / अर्धमासे / संवत्सरे वा अस्ति' इति मासस्य / अर्धमासस्य / संवत्सरस्य निर्देशः कर्तव्यः अस्ति चेत् वर्तमानसूत्रस्य प्रयोगः क्रियते । यथा -\n1. पौषी पौर्णमासी अस्मिन् मासे सः मासः\n= पौषी + अण्\n→ पौषी + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ पौष् + अ [<<यस्येति च>> [[6.4.148]] इति अन्तिमवर्णलोपः]\n→ पौष ।\n2. माघी पौर्णमासी अस्मिन् अर्धमासे सः अर्धमासः\n= माघी + अण्\n→ माघी + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ माघ् + अ [<<यस्येति च>> [[6.4.148]] इति अन्तिमवर्णलोपः]\n→ माघ ।\nज्ञातव्यम् -\n1. 'पौर्णमासी' इत्युक्ते सः दिवसः यस्मिन् चन्द्रमसः दर्शनम् सम्पूर्णरूपेण भवति । तस्मिन् दिने चन्द्रमाः यस्मिन् नक्षत्रे वर्तते, तस्य नक्षत्रस्य नाम्नः साहाय्येनैव प्रायः पौर्णमास्याः नाम अपि दीयते । यथा - 'मघया युक्ता पौर्णमासी' अस्मिन् अर्थे <<नक्षत्रेण युक्तः कालः>>[[4.2.3]] अनेन अण्-प्रत्ययविधानं कृत्वा 'माघी पौर्णमासी' इति सिद्ध्यति । अस्मात् एव 'माघी'शब्दात् अग्रे वर्तमानसूत्रेण पुनः अण्-प्रत्ययविधानं कृत्वा 'माघ' इति प्रातिपदिकं सिद्ध्यति ।\n2. अस्मिन् सूत्रे 'संज्ञायाम्' इति निर्दिष्टमस्ति । अस्मिन् विषये काशिकाकारः वदति - 'मास-अर्धमास-संवत्सराणाम् एषा संज्ञा' । अतः 'यस्मिन् मासे / अर्धमासे / संवत्सरे' काचन पौर्णमासी वर्तते, तस्य मासस्य / अर्धमासस्य / संवत्सरस्य निर्देशं पौर्णमास्याः नाम्ना कर्तुम् वर्तमानसूत्रस्य प्रयोगः क्रियते । मास/अर्धमास/संवत्सरान् त्यक्त्वा अन्येषु कालेषु अस्य प्रयोगः न भवति । यथा - 'पौषी पौर्णमासी अस्मिन् दशरात्रे' इत्यत्र 'दशरात्री' इत्यस्य कारणात् अत्र अस्य सूत्रस्य प्रसक्तिः न वर्तते ।\n" }, "42022": { "sa": "आग्रहायणी-शब्दात् तथा अश्वत्थ-शब्दात् 'सा अस्मिन् पौर्णमासी इति संज्ञायाम्' अस्मिन् अर्थे ठक् प्रत्ययः भवति । ", "sd": "<<सा अस्मिन् पौर्णमासी इति संज्ञायाम्>> [[4.2.21]] अस्मिन् अर्थे आग्रहायणी-शब्दात् अश्वत्थशब्दात् च ठक्-प्रत्ययः भवति । यथा -\n1. आग्रहायणी पौर्णमासी अस्मिन् मासे / अर्धमासे / संवत्सरे सः\n= आग्रहायणी + ठक्\n→ आग्रहायणी + इक [<<ठस्येकः>> [[7.3.50]] इत्यनेन ठकारस्य इक्-आदेशः]\n→ आग्रहायणी + इक [<<किति च>> [[7.3.118]] इति आदिवृद्धिः]\n→ आग्रहायण् + इक [<<यस्येति च>> [[6.4.148]] इति ईकारलोपः]\n→ आग्रहायणिक ।\n2. अश्वत्थः पौर्णमासी अस्मिन् मासे / अर्धमासे / संवत्सरे सः\n= अश्वत्थ + ठक्\n→ अश्वत्थ + इक [<<ठस्येकः>> [[7.3.50]] इत्यनेन ठकारस्य इक्-आदेशः]\n→ आश्वत्थ + इक [<<किति च>> [[7.3.118]] इति आदिवृद्धिः]\n→ अाश्वत्थ् + इक [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ आश्वत्थिक ।\nज्ञातव्यम् -\n1. अस्मिन् सूत्रे 'अश्वत्थात्' इति निर्देशः कृतः अस्ति । अस्मात् निर्देशात् पौर्णमास्याः नाम 'अश्वत्थ' इति 'पुंलिङ्गे ' अस्ति एतत् ज्ञायते । अतः <<संज्ञायाम् श्रवण-अश्वत्थाभ्याम्>> [[4.2.5]] अनेन सूत्रेण पौर्णमास्याः नाम्नः विषये अपि अण्-प्रत्ययस्य लुप् विधीयते, येन 'अश्वत्थः पौर्णमासी' अयं प्रयोगः सिद्ध्यति । " }, "42023": { "sa": "'सा अस्मिन् पौर्णमासी इति संज्ञायाम्' अस्मिन् अर्थे फाल्गुनी-श्रवणा-कार्त्तिकी-चैत्रीभ्यः ठक् तथा अण् प्रत्ययौ भवतः । ", "sd": "<<सा अस्मिन् पौर्णमासी इति संज्ञायाम्>> [[4.2.21]] अस्मिन् अर्थे 'फाल्गुनी', 'श्रवणा', 'कार्त्तिकी' तथा 'चैत्री' - एतेभ्यः शब्देभ्यः विकल्पेन ठक् प्रत्ययः भवति, पक्षे अण् प्रत्ययः अपि विधीयते । यथा -\n1. फाल्गुनी पौर्णमासी अस्मिन् मासे / अर्धमासे / संवत्सरे सः\n= फाल्गुनी + ठक्\n→ फाल्गुनी + इक [<<ठस्येकः>> [[7.3.50]] इति ठकारस्य इक्-आदेशः]\n→ फाल्गुनी + इक [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ फाल्गुन् + इक [<<यस्येति च>> [[6.4.148]] इति अन्तिमवर्णलोपः]\n→ फाल्गुनिक\nपक्षे फाल्गुनी + अण् → फाल्गुन ।\nतथैव -\n2. श्रवणा पौर्णमासी अस्मिन् मासे / अर्धमासे / संवत्सरे सः = श्रावणिकः / श्रावणः ।\n3. कार्त्तिकी पौर्णमासी अस्मिन् मासे / अर्धमासे / संवत्सरे सः = कार्त्तिकिकः / कार्त्तिकः ।\n4. चैत्री पौर्णमासी अस्मिन् मासे / अर्धमासे / संवत्सरे सः = चैत्रिकः / चैत्रः ।\n" }, "42024": { "sa": "प्रथमासमर्थात् देवतावाची-शब्दात् 'अस्य' इत्यस्मिन् अर्थे अण् प्रत्ययः भवति ।", "sd": "देवतायाः नाम्नः साहाय्येन 'अस्य' अस्मिन् अर्थे कस्यापि निर्देशं कर्तुम् वर्तमानसूत्रस्य प्रयोगः भवति । यथा -\n1. इन्द्रः देवता अस्य (भक्तस्य / हवेः / मन्त्रस्य / वाहनस्य / स्थानस्य / ऋचः / श्लोकस्य / नैवेद्यस्य / ...)\n→ इन्द्र + अण्\n→ ऐन्द्र ।\n2. बृहस्पतिः अस्य देवता\n= बृहस्पति + अण् [<<दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः>> [[4.1.85]] इति ण्यप्रत्ययः]\n → बार्हस्पत्य ।\nअन्यानि उदाहरणानि -\n1. भानुः अस्य देवता = भानवः ।\n2. शिवः अस्य देवता = शैवः ।\n3. विष्णुः अस्य देवता = वैष्णवः ।\n4. भगवान् अस्य देवता = भगवत् + अण् = भागवत ।\n5. पशुपतिः अस्य देवता = पशुपति + अण् = पाशुपत । अत्र <<अश्वपत्यादिभ्यश्च>> [[4.1.84]] इति अण् विधीयते ।\nज्ञातव्यम् - अस्मिन् सूत्रे प्रयुक्तः 'देवता' अयं शब्दः 'मन्त्रस्तुत्यः / पुरोडाशादेः स्वामी' अस्मिन् अर्थे प्रयुक्तः अस्ति । केनापि हविषा मन्त्रेण वा या तुष्यति, सा देवता अत्र अभिप्रीयते ।\n" }, "42025": { "sa": "'सा अस्य देवता' अस्मिन् अर्थे 'क' शब्दस्य 'इत्' आदेशः भवति । ", "sd": "<<सा अस्य देवता>> [[4.2.24]] अस्मिन् अर्थे 'क' (= प्रजापतिः) अस्मात् शब्दात् यदा औत्सर्गिकः अण्-प्रत्ययः विधीयते तदा अस्य शब्दस्य 'इत्' इति आदेशः भवति । <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यनेन अयमन्त्यादेशः भवति ।]\nकः अस्य देवता\n= क + अण्\n→ कि + अण् [<<कस्येत्>> [[4.2.25]] इति ककारस्य इत्-आदेशः]\n→ कि + अ [इत्संज्ञालोपः]\n→ कै + अ [<<यस्येति च>> [[6.4.48]] इत्यनेन अन्तिमवर्णलोपे प्राप्ते तं बाधित्वा <<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ काय [<<एचोऽयवायावः>> [[6.1.78]] इति आय्-आदेशः]\nयथा - कः अस्य हवेः देवताः तत् कायम् हविः ।\nज्ञातव्यम् -\n1. अस्मिन् सूत्रे 'इत्' इत्यत्र तकारः उच्चारणार्थः अस्ति । अत्र तपरकरणम् नास्तीति स्मर्तव्यम् ।\n2. 'काय' शब्दस्य सिद्धौ <<यस्येति च>> [[6.4.48]] इत्यस्य तथा <<तद्धितेष्वचामादेः>> [[7.2.117]] इत्यस्य - उभयोः अपि प्रसक्तिः अस्ति । अत्र आदिवृद्धिः परत्वात् अन्तिमवर्णलोपं बाधते, अतः केवलं आदिवृद्धिः एव विधीयते, अन्तिमवर्णलोपः न ।\n3. कौमुद्यामस्मिन् सूत्रे 'श्राय' अस्य शब्दस्यापि निर्देशः कृतः अस्ति । अस्य शब्दस्य प्रक्रिया इयम् -\nश्रीः अस्य देवता\n= श्री + अण्\n→ श्रै + अ [<<यस्येति च>> [[6.4.48]] इत्यनेन अन्तिमवर्णलोपे प्राप्ते तं बाधित्वा <<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ श्राय [<<एचोऽयवायावः>> [[6.1.78]] इति आय्-आदेशः]\n" }, "42026": { "sa": "'सा अस्य देवता' अस्मिन् अर्थे 'शुक्र'शब्दात् 'घन्' प्रत्ययः भवति । ", "sd": "<<सा अस्य देवता>> [[4.2.24]] इत्यस्मिन् अर्थे 'शुक्र' शब्दात् घन् प्रत्ययः भवति । यथा -\nशुक्रः अस्य देवता\n= शुक्र + घन्\n→ शुक्र + इय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इत्यनेन घकारस्य इय्-आदेशः]\n→ शुक्रिय\nयथा - शुक्रः अस्य अध्यायस्य देवता सः शुक्रियः अध्यायः । " }, "42027": { "sa": "'सा अस्य देवता' अस्मिन् अर्थे 'अपोनप्तृ' तथा 'अपान्नप्तृ' शब्दाभ्याम् 'घ'-प्रत्ययः भवति । ", "sd": "'अपोनप्तात्' तथा 'अपान्नप्तात्' एते द्वे देवतयोः नाम्नि । <<सा अस्य देवता>> [[4.2.24]] अस्मिन् अर्थे एताभ्याम् घ-प्रत्ययः भवति, तथा एतयोः 'अपोनप्तृ' तथा 'अपान्नप्तृ' इत्यपि परिवर्तनं भवति ।\nअपोनपात् अस्य देवता\n= अपोनप्तृ + घ\n→ अपोनप्तृ + इय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इत्यनेन घकारस्य इय्-आदेशः]\n→ अपोनप्त्रिय [<<इको यणचि>> [[6.1.77]] इति यणादेशः]\nअपान्नपात् अस्य देवता\n= अपान्नप्तृ + घ\n→ अपान्नप्तृ +इय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इत्यनेन घकारस्य इय्-आदेशः]\n→ अपान्नप्त्रिय [<<इको यणचि>> [[6.1.77]] इति यणादेशः]\n" }, "42028": { "sa": "'सा अस्य देवता' अस्मिन् अर्थे 'अपोनप्तृ' तथा 'अपान्नप्तृ' शब्दाभ्याम् 'छ'-प्रत्ययः भवति । ", "sd": "'अपोनप्तात्' तथा 'अपान्नप्तात्' एते द्वे देवतयोः नाम्नि ।<<सा अस्य देवता>> [[4.2.24]] अस्मिन् अर्थे <<अपोनप्त्रपान्नप्तृभ्यां घः>> [[4.2.27]] इत्यनेन एताभ्याम् घ-प्रत्यये प्राप्ते; वर्तमानसूत्रेण ताभ्यां छ-प्रत्ययः अपि विधीयते ।\n तथा एतयोः 'अपोनप्तृ' तथा 'अपान्नप्तृ' इत्यपि परिवर्तनं अपि भवति ।\nअपान्नपात् अस्य देवता\n= अपान्नप्तृ + छ\n→ अपान्नप्तृ + ईय् [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इत्यनेन छकारस्य ईय्-आदेशः]\n→ अपान्नप्त्रीय [<<इको यणचि>> [[6.1.77]] इति यणादेशः]\nअस्मिन् विषये वात्तिकद्वयं ज्ञातव्यम् -\n1. - पैङ्गाक्षीपुत्र, तार्णबिन्दव - एताभ्यां शब्दाभ्यामपि <<सा अस्य देवता>> [[4.2.28]] अस्मिन् अर्थे छ-प्रत्ययः भवति । पिङ्गाक्षीपुत्रः अस्य देवता सः = पैङ्गाक्षीपुत्रीयः । तृणबिन्दुः अस्य देवता सः = तार्णबिन्दवीयः ।\n2. - 'शतरुद्र'शब्दात् <<सा अस्य देवता>> [[4.2.28]] अस्मिन् अर्थे छ तथा घ - द्वौ अपि प्रत्ययौ भवतः । शतरुद्रः अस्य देवता सः = शतरुद्र + छ → शतरुद्रीय / शतरुद्र + घ → शतरुद्रिय । अत्र यद्यपि 'शतरुद्र' शब्दः द्विगुसमासेन निर्मितः अस्ति, तथाप्यत्र प्रत्ययविधानसामर्थ्यात् <<द्विगोः लुक् अनपत्ये>> [[4.1.88]] इत्यनेन प्रत्ययलुक् न भवति । अस्मिन् विषये कौमुदीकारः वदति - घच्छयोः विधानसामर्थ्यात् 'द्विगोर्लुगनपत्ये' इति न लुक् ।\nज्ञातव्यम् - अत्र <<छ च>> [[4.2.28]] एतत् सूत्रम् पृथक् किमर्थमुच्यते? 'अपोनप्तृ-अपान्नप्तृभ्याम् घच्छौ' इति किमर्थं न उक्तमस्ति? कौमुद्यामस्मिन् विषये उच्यते - 'योगविभागो यथासंख्यनिवृत्त्यर्थः ' । इत्युक्ते, यदि आचार्यः अपोनप्तृ-अपान्नप्तृभ्याम् घच्छौ इति अवदिष्यत्, तर्हि यथासङ्ख्यत्वात् अपोनप्तृ-शब्दात् 'घ' तथा अपान्नप्तृ-शब्दाय् 'छ' प्रत्ययविधानमभविष्यत् । परन्तु अत्र द्वाभ्यामपि शब्दाभ्यामुभावपि प्रत्ययौ उक्तौ स्तः । अतः स्पष्टनिर्देशार्थमत्र योगविभागः कृतः अस्ति ।\n" }, "42029": { "sa": "महेन्द्र-शब्दात् 'सा अस्य देवता' अस्मिन् अर्थे घ-प्रत्ययः, छ-प्रत्ययः, अण्-प्रत्ययः च भवन्ति । ", "sd": "<<सा अस्य देवता>> [[4.2.24]] अस्मिन् अर्थे महेन्द्र-शब्दात् घ-प्रत्ययः, छ-प्रत्ययः, तथा अण्-प्रत्ययः विधीयन्ते ।\n1) महेन्द्रः अस्य देवता\n= महेन्द्र + घ\n→ महेन्द्र + इय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति इय्-आदेशः]\n→ महेन्द्र् + इय [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ महेन्द्रिय\n2) महेन्द्र अस्य देवता\n= महेन्द्र + छ\n→ महेन्द्र + ईय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति इय्-आदेशः]\n→ महेन्द्र् + ईय [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ महेन्द्रीय\n3) महेन्द्र अस्य देवता\n= महेन्द्र + अण्\n→ माहेन्द्र + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ माहेन्द्र् + अ [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ माहेन्द्र ।\nअनेन प्रकारेण 'महेन्द्रिय' , 'महेन्द्रीय', तथा 'माहेन्द्र' एते शब्दाः सिद्ध्यन्ति । " }, "42030": { "sa": "'सा अस्य देवता' अस्मिन् अर्थे सोम-शब्दात् ट्यण्-प्रत्ययः भवति । ", "sd": "<<सा अस्य देवता>> [[4.2.24]] इत्यस्मिन् अर्थे 'सोम' शब्दात् ट्यण् प्रत्ययः भवति । यथा - सोमः अस्य देवता सः सौम्यः मन्त्रः । सोमः अस्य देवता तत् सौम्यं हविः ।\n'ट्यण्' इत्यतस्य टित्वात् स्त्रीत्वं द्योतयितुम् <<टिड्ढाण...>> [[4.1.15]] इति ङीप्-प्रत्ययः विधीयते । यथा - सोमः अस्य देवता सा ऋक् = सौमी ऋक् । प्रक्रिया इयम् -\nसोम + ट्यण् + ङीप् [<<सोमाट्ट्यण्>> [[4.2.30]] इति ट्यण्, स्त्रीत्वे <<टिड्ढाण...>> [[4.1.15]] इति ङीप्]\n→ सोम + य + ई [इत्संज्ञालोपः]\n→ सौम + य + ई [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ सौम् + य + ई [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ सौम + य् + ई [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ सौम् + ई [<<हलस्तद्धितस्य>> [[6.4.150]] इति उपधा-यकारलोपः । अत्र <<यस्येति च>> [[6.4.148]] इत्यनेन निर्दिष्टमाभीयकार्यम् <<हलस्तद्धितस्य>> [[6.4.150]] इत्यस्य कृते असिद्धमस्ति, अतः <<हलस्तद्धितस्य>> [[6.4.150]] इत्यस्य कृते यकारः उपधायाम् एव वर्तते । तस्य अनेन सूत्रेण लोपः क्रियते]\n→ सौमी\n" }, "42031": { "sa": "'सा अस्य देवता' अस्मिन् अर्थे 'वायु', 'ऋतु', 'पितृ' तथा 'उषस्' शब्दात् यत् प्रत्ययः भवति । ", "sd": "<<सा अस्य देवता>> [[4.2.24]] इत्यस्मिन् अर्थे एतेभ्यः शब्देभ्यः अण्-प्रत्ययस्य अपवादरूपेण यत्-प्रत्ययः विधीयते । यथा -\n1. वायुः अस्य देवता सः\n= वायु + यत्\n→ वायो + यत् [<<ओर्गुणः>> [[6.4.146]] इति गुणादेशः]\n→ वायव्य [<<वान्तो यि प्रत्यये>> [[6.1.79]] इति अवादेशः]\n2. ऋतुः अस्य देवता सः\n= ऋतु + यत्\n→ ऋतो + यत् [<<ओर्गुणः>> [[6.4.146]] इति गुणादेशः]\n→ ऋतव्य [<<वान्तो यि प्रत्यये>> [[6.1.79]] इति अवादेशः]\n3. पिता अस्य देवता सः\n= पितृ + यत्\n→ पित् रीङ् + य [<<रीङ् ऋतः>> [[7.4.27]] इति ऋकारस्य रीङ्-आदेशः । ङित्वात् <<ङिच्च>> [[1.1.53]] इति अन्त्यादेशः]\n→ पित् री + य [इत्संज्ञालोपः]\n→ पित् र् + य [<<यस्येति च>> [[6.4.148]] इति ईकारलोपः]\n→ पित्र्य\n4. उषाः अस्य देवता सः\n= उषस् + यत्\n→ उषस्य\n" }, "42032": { "sa": "'सा अस्य देवता' अस्मिन् अर्थे द्यावापृथिवी, शुनासीर, मरुत्वत्, अग्नीषोम, वास्तोष्पति, गृहमेध - एतेभ्यः शब्देभ्यः यत्-प्रत्ययः छ-प्रत्ययः च विधीयते । ", "sd": "<<सा अस्य देवता>> [[4.2.24]] अस्मिन् अर्थे द्यावापृथिवी, शुनासीर, मरुत्वत्, अग्नीषोम, वास्तोष्पति, गृहमेध - एतेभ्यः शब्देभ्यः यत्-प्रत्ययः छ-प्रत्ययः च विधीयते । यथा -\n1. द्यौः च पृथिवी च = द्यावापृथिवी । द्यावापृथिव्यौ देवते अस्य सः\n= द्यावापृथिवी + यत्\n→ द्यावापृथिव् + यत् [<<यस्येति च>> इति ईकारलोपः]\n→ द्यावापृथिव्य\n(उत -)\nद्यावापृथिवी + छ\n→ द्यावापृथिवी + ईय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति एय्-आदेशः]\n→ द्यावापृथिव् + ईय [<<यस्येति च>> इति ईकारलोपः]\n→ द्यावापृथिवीय\n2. शूनश्च सीरश्च शूनासीरः । (शूनः = वायुः, सीरः = आदित्यः) । शूनासीरौ देवते अस्य सः\n= शूनासीर + यत् → शूनासीर्य ।\n(उत -) शूनासीर + छ → शूनासीरीय ।\n3. मरुत्वान् अस्य देवता सः\n= मरुत्वत् + यत् → मरुत्वत्य\n(उत -) मरुत्वत् + छ → मरुत्वतीय ।\n4. अग्निश्च सोमश्च अग्निषोम । अग्निषोमौ देवते अस्य सः = अग्निषोम्य, अग्निषोमीय ।\n5. वास्तोष्पतिः अस्य देवता सः = वास्तोष्पत्य / वास्तोष्पतीय ।\n6. गृहमेधः अस्य देवता सः = गृहमेध्य / गृहमेधीय ।\nज्ञातव्यम् -\n1. 'द्यावापृथिवी' इत्यस्य निर्माणम् एतादृशं भवति -\nद्यौः च पृथिवी च\n→ दिव् + सुँ + पृथिवी + सुँ [अलौकिकविग्रहः]\n→ दिव् + पृथिवी [<<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुँ-प्रत्यययोः लुक्]\n→ द्यावा + पृथिवी [<<दिवो द्यावा>> [[6.3.29]] इति दिव्-इत्यस्य द्यावा-आदेशः]\n→ द्यावापृथिवी ।\n2. 'शूनासीर' इत्यस्य निर्माणम् एतादृशं भवति -\nशूनः च सीरः च\n→ शून + सुँ + सीर + सुँ [अलौकिकविग्रहः]\n→ शून + सीर [<<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुँ-प्रत्यययोः लुक्]\n→ शून् आनङ् + सीर [<<देवताद्वंन्द्वे च>> [[6.3.26]] इति पूर्वपदस्य आनङ्-आदेशः । <<ङिच्च>> [[1.1.53]] इति अन्त्यादेशः]\n→ शूनान् + सीर [इत्संज्ञालोपः]\n→ शूनासीर [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः]\n3. 'अग्नीषोम' इत्यस्य निर्माणम् एतादृशं भवति -\nअग्निश्च सोमश्च\n→ अग्नि + सुँ + सोम + सुँ [अलौकिकविग्रहः]\n→ अग्नि + सोम [<<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुँ-प्रत्यययोः लुक्]\n→ अग्नी + सोम [<<ईदग्नेः सोमवरुणयोः>> [[6.3.27]] इति ईत्वम्]\n→ अग्नी + षोम [<<अग्नेः स्तुत्स्तोमसोमाः>> [[8.3.82]] इति षत्वम्]\n→ अग्नीषोम\n4. 'वास्तोष्पति' शब्दस्य निपातनम् क्रियते । 'वास्तु' शब्दः वस्तुतः उकारान्त-नपुंसकलिङ्गे वर्तते, परन्तु अत्र निपातनात् तस्य पुंलिङ्गे परिवर्तनं क्रियते । अग्रे 'वास्तोः पतिः' इति स्थिते <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति ङस्-प्रत्ययस्य लुक्-प्राप्ते निपातनात् तादृशः लुक् न भवति । अग्रे विसर्गस्य <<षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु>> [[8.3.53]] इत्यनेन सकारादेशः, तस्य च अग्रे निपातनात् षत्वं कृत्वा 'वास्तोष्पति' इति प्रातिपदिकं सिद्ध्यति ।\n5. 'वास्तोष्पति' शब्दस्य विषये <<दित्यदित्या...>> [[4.1.85]] अनेन ण्य-प्रत्यये प्राप्ते तं बाधित्वा वर्तमानसूत्रेण <<सा अस्य देवता>> [[4.2.24]] अस्मिन् अर्थे यत्-प्रत्ययः तथा छ-प्रत्ययः भवति । अस्मिन् सूत्रे निर्दिष्टानां अन्येषां शब्दानां विषये तु औत्सर्गिकस्य अण्-प्रत्ययस्य अपवादरूपेण एतौ प्रत्ययौ उक्तौ स्तः ।\n" }, "42033": { "sa": "'सा अस्य देवता' अस्मिन् अर्थे 'अग्नि'शब्दात् ढक्-प्रत्ययः विधीयते । ", "sd": "'अग्नि' शब्दात् <<सा अस्य देवता>> [[4.2.24]] अस्मिन् अर्थे ढक्-प्रत्ययः भवति । अग्निः अस्य देवता सः आग्नेयः । प्रक्रिया इयम् -\nअग्नि + ढक्\n→ अग्नि + एय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ढकारस्य एय्-आदेशः]\n→ अाग्नि + एय [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ आग्न् + एय [<<यस्येति च>> [[6.4.148]] इति इकारलोपः]\n→ आग्नेय\nवस्तुतः अस्य सूत्रस्य विषये वार्त्तिककारः वदति - । इत्युक्ते, अग्नि-शब्दात् कलि-शब्दात् च सर्वेषु प्राग्दीव्यतीय-अर्थेषु ढक्-प्रत्ययः एव भवति, न अन्यः । यथा - अग्नेः अपत्यमाग्नेयः । कलेः अपत्यम् कालेयः ।\n" }, "42034": { "sa": "'तत्र भव' अस्मिन् अर्थे कालवाचिभ्यः प्रातिपदिकेभ्यः ये प्रत्ययाः विधीयन्ते, ते एव 'सा अस्य देवता' अस्मिन् अर्थे अपि विधीयन्ते । ", "sd": "<<तत्र भवः>> [[4.3.53]] इति कश्चन प्राग्दीव्यतीय-अर्थः । अस्मिन् अर्थे कालवाचिभ्यः प्रातिपदिकेभ्यः ये प्रत्ययाः उक्ताः सन्ति, ते एव <<सा अस्य देवता>> [[4.3.24]] अस्मिन् अर्थे अपि तेभ्यः भवन्ति । यथा -\n1. मास-शब्दात् <<तत्र भवः>> [[4.3.53]] इत्यस्मिन् अर्थे <<कालात् ठञ्>> [[4.3.11]] इत्यनेन ठञ्-प्रत्ययः भवति । अतः <<सा अस्य देवता>> [[4.3.24]] अस्मिन् अर्थे अपि मास-शब्दात् ठञ्-प्रत्ययः एव करणीयः । मासः अस्य देवता सः = मास + ठञ् → मासिकः ।\n2. 'वसन्त' (ऋतोः नाम) अयमपि कालवाची शब्दः । अस्मात् शब्दात् <<संधिवेलाद्यृतुनक्षत्रेभ्योऽण्>> [[4.3.16]] अनेन सूत्रेण <<तत्र भवः>> [[4.3.53]] इत्यस्मिन् अर्थे अण्-प्रत्ययः दीयते । अतः <<सा अस्य देवता>> [[4.3.24]] अस्मिन् अर्थे अपि वसन्त-शब्दात् अण्-प्रत्ययः एव करणीयः । वसन्तः अस्य देवता सः = वसन्त + अण् → वासन्तः ।\n3. 'प्रावृष्' (वर्षाऋतुः) अस्मात् कालवाचीशब्दात् <<प्रावृष एण्यः>> [[4.3.17]] इत्यनेन <<तत्र भवः>> [[4.3.53]] इत्यस्मिन् अर्थे एण्य-प्रत्ययः उक्तः अस्ति । अतः <<सा अस्य देवता>> [[4.3.24]] अस्मिन् अर्थे अपि प्रावृष्-शब्दात् एण्य-प्रत्ययः एव करणीयः । प्रावृट् अस्य देवता सः = प्रावृषेण्यः ।\nज्ञातव्यम् - एतत् सूत्रम् 'अतिदेशसूत्रम्' अस्ति, यतः अन्यसूत्रस्य विधानं कृत्वा तादृशमेव कार्यमत्रापि उक्तमस्ति ।\n" }, "42035": { "sa": "'सा अस्य देवता' अस्मिन् अर्थे 'महाराज' शब्दात् तथा 'प्रोष्ठपद' शब्दात् ठञ् प्रत्ययः भवति । ", "sd": "<<सा अस्य देवता>> [[4.2.24]] अस्मिन् अर्थे 'महाराज'शब्दात् तथा 'प्रोष्ठपद'शब्दात् ठञ्-प्रत्यय भवति । यथा -\n1. महाराजः अस्य देवता सः\n= महाराज + ठञ्\n→ महाराज + इक [<<ठस्येकः>> [[7.3.50]] इति इक्-आदेशः]\n→ माहाराज + इक [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ माहाराज् + इक [<<यस्येति च>> [[6.4.148]] इति कारलोपः]\n→ माहाराजिक\n2. प्रोष्ठपदः (भाद्रपदमासस्य अन्यत् नाम) अस्य देवता सः\n= प्रोष्ठपद + ठञ्\n→ प्रोष्ठपद + इक [<<ठस्येकः>> [[7.3.50]] इति इक्-आदेशः]\n→ प्रौष्ठपद + इक [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ प्रौष्ठपद् + इक [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ प्रौष्ठपदिक" }, "42036": { "sa": "पितृव्य, मातुल, मातामह,पितामह - एते शब्दाः निपात्यन्ते ।", "sd": "अस्मिन् सूत्रे आचार्यः 'पितृव्य', 'मातुल', 'मातामह', 'पितामह' एतेषाम् शब्दानाम् निपातनम् कारयति ।\n1. पितुः यः भ्राता, सः 'पितृव्यः' नाम्ना ज्ञायते । अस्य शब्दस्य यद्यपि पाणिनिमहर्षिः निपातनं कारयति, तथापि वार्त्तिककारः अस्य व्युत्पत्यर्थम् एकं वार्त्तिकं ददाति - । इत्युक्ते, पितृ-शब्दात् भ्रातुः निर्देशं कर्तुम् 'व्यत्' प्रत्ययः क्रियते । पितृ + व्यत् → पितृव्य । अस्मिन् प्रत्यये यकारोत्तरः अकारः <<तित्स्वरितम्>> इत्यनेन स्वरितः भवति ।\n2. मातुः यः भ्राता, सः 'मातुल' नाम्ना ज्ञायते । अस्य शब्दस्य व्युत्पत्यर्थमपि वार्त्तिककारः एकं वार्त्तिकं ददाति - । इत्युक्ते, मातृ-शब्दात् डुलच्-प्रत्ययं कृत्वा 'मातुल' शब्दः सिद्ध्यति । प्रक्रिया इयम् -\nमातृ + डुलच्\n→ मातृ + उल [डकारचकारयोः इत्संज्ञा, लोपः]\n→ मात् + उल [<<टेः>> [[6.4.143]] इति टिसंज्ञकस्य लोपः]\n→ मातुल\n3. मातुः पिता 'मातामहः' नाम्ना ज्ञायते, तथा पितुः पिता 'पितामहः' नाम्ना ज्ञायते । एतौ शब्दौ अनेन वार्त्तिकेन जायेते । यथा - मातृ + डामहच् → मातामह । पितृ + डामहच् → पितामह । उभयत्र <<टेः>> [[6.4.143]] इति टिसंज्ञकस्य लोपं कृत्वा रूपं सिद्ध्यति ।\n4. अत्र वार्त्तिककारः 'मातामही' तथा 'पितामही' एतयोः शब्दयोः अपि व्युत्पत्तिं दर्शयति । अनेन वार्त्तिकेन 'मातुः माता' तथा 'पितुः माता' अस्मिन् अर्थे डामहच्-प्रत्ययः एव भवति, परन्तु सः 'षित्' अपि अस्ति । षित्वात् <<षिद्गौरादिभ्यश्च>> [[4.1.41]] इत्यनेन स्त्रीत्वे विवक्षिते ङीष्-प्रत्ययः विधीयते । यथा - मातुः माता = मातृ + डामहच् + ङीष् → मातामही । पितुः माता = पितृ + डामहच् + ङीष् → पितामही ।\nअस्मिन् सूत्रे वार्त्तिककारः अन्ये अपि द्वे वार्त्तिके पाठयति -\n1. । इत्युक्ते, 'अवेः दुग्धम्' अस्मिन् अर्थे अवि (= मेषा / एडका) शब्दास् 'सोढ', 'दूस', तथा 'मरीसच्' - एते प्रत्ययाः भवन्ति । अवेः दुग्धम् = अविसोढम्, अविदूसम्, अविमरीसम् ।\n2. 'तिल-शब्दात्' निष्फलम् (= अनुपयोगी) अस्मिन् अर्थे 'पिञ्ज' तथा 'पेज' प्रत्ययौ भवतः । यथा - निष्फलं तिलम् = तिलपिञ्जम्, तिलपेजम् । (तत् तिलम् यस्य कोऽपि उपयोगः नास्ति) । अत्र अनेन वार्त्तिकेन पिञ्ज-प्रत्ययः वेदेषु डित्-भवति, अतः <<टेः>> [[6.4.143]] इत्यनेन टिलोपं कृत्वा 'तिल्पिञ्ज' इति वैदिकं रूपं जायते (यथा, अथर्ववेदे 12.2.54 इत्यत्र - 'इषीकां जरतीमिष्ट्वा तिल्पिञ्जं दण्डनं नडम्' अयम् प्रयोगः दृश्यते।)\n" }, "42037": { "sa": "षष्ठीसमर्थात् शब्दात् समूहस्य निर्देशं कर्तुमण् प्रत्ययः भवति ।", "sd": "'समूह' इत्युक्ते 'समुच्चयः' । षष्ठीसमर्थात् समूहस्य निर्देशं कर्तुम् यथाविहितः प्रत्ययः विधीयते । यथा -\n1. काकानाम् समूहः = काक + अण् → काक ।\n2. बकानाम् समूहः = बक + अण् → बाक ।\nसमूहवाचिनः शब्दाः प्रयोगवशात् नित्यम् नपुंसकलिङ्गे भवन्ति । यथा - काकानां समूहः काकम्, बकानां समूहः बाकम् ।\nअस्मिन् अर्थे अण्-प्रत्ययस्य भिन्नाः अपवादाः एतादृशाः उक्ताः सन्ति -\n1. भिक्षादिगणे विद्यमानानाम् शब्दानाम् विषये सर्वान् अपवादान् बाधित्वा <<भिक्षादिभ्यः अण्>> [[4.2.38]] इत्यनेन अण्-प्रत्ययः एव भवति ।\n2. अचित्तवाचिनः शब्दात्, तथा 'हस्तिन्' / 'धेनु' एताभ्याम् शब्दाभ्याम् <<अचित्तहस्तिधेनोः ठक्>> [[4.2.47]] अनेन सूत्रेण अण्-प्रत्ययस्य अपवादरूपेण ठक्-प्रत्ययः भवति ।\n3. ये शब्दाः अनुदात्तादयः सन्ति, तेषां विषये <<अनुदात्तादेः अञ्>> [[4.2.44]] इत्यनेन अञ्-प्रत्ययः विधीयते ।\n4. भिन्नानां गणानां विषये अण्-प्रत्ययस्य अपवादरूपेण केचन अन्ये भिन्नाः अपवादाः अपि प्रोक्ताः सन्ति । एतेषां सर्वेषामपवादानाम् सङ्कलनम् अत्र दृश्यताम् ।" }, "42038": { "sa": "भिक्षादिगणस्य शब्दानां विषये 'तस्य समूहः' अस्मिन् अर्थे अण्-प्रत्ययः विधीयते । ", "sd": "'भिक्षादिगणः' इति कश्चन गणः । अस्मिन् गणे ये शब्दाः पाठिताः सन्ति, तेषां विषये <<तस्य समूहः>> [[4.2.37]] अस्मिन् अर्थे सर्वान् अपवादान् बाधित्वा अण्-प्रत्ययः एव विधीयते ।\nभिक्षादिगणः अयम् -\nभिक्षा, गर्भिणी, क्षेत्र, करीष, अङ्गार, चर्मिन्, धर्मिन्, सहस्र, युवति, पदाति, पद्धति, अथर्वन्, दक्षिणा, भूत ।\nअस्मिन् गणे ये अचित्तवाचिनः शब्दाः सन्ति, तेषां विषये <<अचित्तहस्तिधेनोः ठक्>> [[4.2.47]] इत्यनेन ठक्-प्रत्यये प्राप्ते तं बाधित्वा वर्तमानसूत्रेण अण्-प्रत्ययः विधीयते । अन्येभ्यः शब्देभ्यः <<अनुदात्तादेः अञ्>> [[4.2.44]] अनेन सूत्रेण अञ्-प्रत्यये प्राप्ते तं बाधित्वा वर्तमानसूत्रेण अण्-प्रत्ययः विधीयते ।\n1. भिक्षाणां समूहः = भिक्षा + अण् → भैक्षम् ।\n2. गर्भिणीनां समूहः गार्भिणम् ।\n3. क्षेत्राणां समूहः क्षैत्रम् ।\n4. अङ्गाराणां समूहः आङ्गारम् ।\n5. चर्मिणाम् समूहः चार्मिणम् । अस्य प्रक्रिया इयम् -\nचर्मिन् + अण्\n→ चार्मिन् + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ चार्मिण [ <<नस्तद्धिते>> [[6.4.144]] इत्यनेन टिलोपे प्राप्ते <<संयोगादिश्च>> [[6.4.166]] इति टिलोपनिषेधः]\n6. धर्मिणां समूहः धार्मिणम् ।\n7. युवतीनां समूहः यौवनम् । प्रक्रिया इयम् -\nयुवती + अण्\n→ युवन् + अण् [ अनेन वार्त्तिकेन पुंवद्भावः]\n→ यौवन् + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ यौवन [<<अन्>> [[6.4.167]] इति टिलोपनिषेधः]\n8. पदातीनां समूहः पादातम् ।\n9. पद्धतीनां समूहः पाद्धतम् ।\n10. अथर्वणां समूहः आथर्वम् ।\n11. दक्षिणानां समूहः दाक्षिणम् ।\n12. भूतानां समूहः भौतम् ।\n " }, "42039": { "sa": "गोत्रवाचिनः शब्दाः, तथा उक्षन्, उष्ट्र, उरभ्र, राजन्, राजन्य, राजपुत्र, वत्स, मनुष्य, अज - एतेभ्यः शब्देभ्यः 'तस्य समूहः' अस्मिन् अर्थे वुञ्-प्रत्ययः भवति । ", "sd": " अत्र निर्दिष्टानां शब्दानां विषये <<तस्य समूहः>> [[4.2.37]] अस्मिन् अर्थे वुञ्-प्रत्ययः विधीयते । यथा -\n1. गोत्रवाची-शब्दाः - औपगवानां समूहः औपगवकम् । कापटवानां समूहः कापटवकम् । (औपगव, कापटव - एतौ गोत्रवाचिनौ शब्दौ) ।\n2. उक्ष्णां (वृषभानाम्) समूहः = उक्षन् + वुञ् → औक्षकम् । अत्र <<नस्तद्धिते>> [[6.4.144]] इति 'अन्' इत्यस्य लोपः भवति ।\n3. उष्ट्राणां समूहः औष्ट्रकम् ।\n4. उरभ्राणां (मेषानाम्) समूहः औरभ्रकम् ।\n5. राज्ञां समूहः राजकम् । अत्र <<नस्तद्धिते>> [[6.4.144]] इति 'अन्' इत्यस्य लोपः भवति ।\n6. राजन्यानाम् समूहः राजन्यकम् ।\n7. राजपुत्राणां समूहः राजपुत्रकम् ।\n8. वत्सानां समूहः वात्सकम् ।\n9. अजानां समूहः आजकम् ।\nएतेषु सर्वेषु <<युवोरनाकौ>> [[7.1.1]] इत्यनेन 'वु' इत्यस्य 'अक' आदेशः भवति । प्रत्ययस्य ञित्वात् <<तद्धितेष्वचामादेः>> [[7.2.117]] इत्यनेन आदिवृद्धिः अपि विधीयते ।\nअत्र काशिकाकारः एकं वार्त्तिकं पाठयति - । इत्युक्ते, 'वृद्ध' शब्दस्य विषये अपि समूहार्थे वुञ्-प्रत्ययः भवति । वृद्धानां समूहः वार्द्धकम् ।\nज्ञातव्यम् - अस्मिन् सूत्रे प्रयुक्तः 'गोत्र'शब्दः लौकिकगोत्रस्य निर्देशं करोति, न हि <<अपत्यं पौत्रप्रभृतिषु गोत्रम्>> [[4.1.162]] इत्यनेन निर्दिष्टस्य अपत्यवाचिनः अर्थस्य ।\n" }, "42040": { "sa": "'तस्य समूहः' अस्मिन् अर्थे केदार-शब्दात् यञ् तथा वुञ् प्रत्ययौ भवतः ।", "sd": "<<तस्य समूहः>> [[4.2.37]] अस्मिन् अर्थे 'केदाराणाम् समूहः' इति स्थिते वुञ् तथा यञ् प्रत्ययौ विधीयेते । यथा -\n1. केदार + वुञ् → कैदारक ।\n2. केदार + यञ् → कैदार्य ।\nअत्र एकं वार्त्तिकं पाठ्यते - । इत्युक्ते, गणिका-शब्दात् समूहार्थे यञ्-प्रत्ययः भवति । गणिकानां समूहः = गणिका + यञ् → गाणिक्यम् ।\n" }, "42041": { "sa": "'तस्य समूहः' अस्मिन् अर्थे केदार-शब्दात् कवचिन्-शब्दात् च 'ठञ्' प्रत्ययः भवति । ", "sd": "<<तस्य समूहः>> [[4.2.37]] अस्मिन् अर्थे केदार-शब्दात् <<केदारात् यञ्च>> [[4.2.40]] इत्यनेन यञ् तथा वुञ्-प्रत्यययोः प्राप्तयोः अनेन सूत्रेण ठञ्-प्रत्ययः अपि भवति । तथा, कवचिन् (= यः कवचं धारयति सः) शब्दात् अपि वर्तमानसूत्रेण ठञ्-प्रत्ययः उच्यते ।\n1. केदाराणाम् समूहः\n= केदार + ठञ्\n→ केदार + इक [<<ठस्येकः>> [[7.3.50]] इति ठकारस्य इक्-आदेशः]\n→ कैदार + इक [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ कैदार् + इक [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ कैदारिक\n2. कवचिनां समूहः\n= कवचिन् + ठक्\n→ कवचिन् + इक [<<ठस्येकः>> [[7.3.50]] इति ठकारस्य इक्-आदेशः]\n→ कावचिन् + इक [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ कावच् + इक [<<नस्तद्धिते>> [[6.4.144]] इति टिलोपः]\n→ कावचिक\n " }, "42042": { "sa": "'तस्य समूहः' अस्मिन् अर्थे 'ब्राह्मण', 'माणव', 'वाडव' शब्देभ्यः यन्-प्रत्ययः भवति । ", "sd": "<<तस्य समूहः>> [[4.2.37]] अस्मिन् अर्थे ब्राह्मण, माणव, वाडव -शब्देभ्यः यन्-प्रत्ययः भवति । यथा -\n1. ब्राह्मणानां समूहः = ब्राह्मण + यन् → ब्राह्मण्य ।\n2. माणवानां (युवकानां) समूहः = माणव + यन् → माणव्य ।\n3. वाडवानां (अग्नीनाम्) समूहः = वाडव + यन् → वाडव्य ।\nअस्मिन् सूत्रे कानिचन वार्त्तिकानि दीयन्ते -\n1. - 'पृष्ठ' शब्दात् अपि <<तस्य समूहः>> [[4.2.37]] अस्मिन् अर्थे यन्-प्रत्ययः भवति । पृष्ठानां समूहः = पृष्ठ + यन् → पृष्ठ्यम् ।\n2. - 'अहन्' शब्दस्य क्रतौ प्रयोगः भवति चेत् तेषां समूहं दर्शयितुम् 'ख' प्रत्ययः भवति ।\nअह्नाम् समूहः\n= अहन् + ख\n→ अहन् + ईन (<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति खकारस्य ईन्-आदेशः]\n→ अह् + ईन [<<नस्तद्धिते>> [[6.4.144]] इति टिसंज्ञकस्य लोपः]\n→ अहीन\n3. - 'पर्शु' (वृक्षस्य भेदनार्थम् प्रयुज्यमाणमायुधम्) शब्दात् <<तस्य समूहः>> [[4.2.37]] अस्मिन् अर्थे णस्-प्रत्ययः भवति । यथा -\nपर्शूनां समूहः\n= पर्शु + णस्\n→ पर्शु + अ [इत्संज्ञा, लोपः]\n→ → पार्शु + अ [आदिवृद्धिः]\n→ पार्श्व [अत्र प्रत्ययः 'सित्' अस्ति, अतः अङ्गस्य <<सिति च>> [[1.4.16]] इति पदसंज्ञा भवति । अतः <<ओर्गुणः>> [[6.4.146]] इत्यनेन गुणादेशः न विधीयते, अपितु <<इको यणचि>> [[6.1.77]] इति यणादेशं कृत्वा रूपं सिद्ध्यति ]\n4. - 'वात' शब्दात् <<तस्य समूहः>> [[4.2.37]] अस्मिन् अर्थे ऊल-प्रत्ययः भवति । वातानां समूहः = वात + ऊल → वातूल ।\nज्ञातव्यम् -\n1. 'यन्' प्रत्यये प्रयुक्तः नकारः स्वरार्थः अरस्ति । <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] इत्यनेन नित्-प्रत्यये परे प्रकृति-प्रत्यय-समुदायस्य आदिस्वरः नित्यमुदात्तः भवति ।\n2. 'माणव' अयम् शब्दः 'मनोः अपत्यम्' अस्मिन् अर्थे अण्-प्रत्ययं कृत्वा सिद्ध्यति । 'मनु + अण्' इत्यत्र इत्यनेन भाष्योक्तसिद्धान्तेन नकारस्य णकारादेशः भवति ।\n" }, "42043": { "sa": "'तस्य समूहः' अस्मिन् अर्थे ग्राम, जन, बन्धु, सहाय - एतेभ्यः शब्देभ्यः 'तल्' प्रत्ययः विधीयते । ", "sd": "<<तस्य समूहः>> [[4.2.37]] अस्मिन् अर्थे ग्राम, जन, बन्धु, सहाय - एतेभ्यः 'तल्' इति प्रत्ययः विधीयते । <ऽतलन्तःऽ> इति लिङ्गानुशासनस्य सूत्रेण तलन्तशब्दाः नित्यस्त्रीलिङ्गाः भवन्ति, अतः एतेषां टाप्-प्रत्ययः अपि भवति । यथा -\n1. ग्रामाणां समूहः = ग्राम + तल् + टाप् → ग्रामता ।\n2. जनानां समूहः = जन + तल् + टाप् → जनता ।\n3. बन्धूनां समूहः = बन्धु + तल् + टाप् → बन्धुता ।\n4. सहायानां समूहः = सहाय + तल् + टाप् → सहायता ।\nअत्र एकं वार्त्तिकमपि ज्ञातव्यम् - । इत्युक्ते, 'गजानाम् समूहः' इत्यत्रापि तल्-प्रत्ययः एव भवति । गजानां समूहः = गज + तल् + टाप् → गजता । " }, "42044": { "sa": "अनुदात्तादिशब्दात् 'तस्य समूहः' अस्मिन् अर्थे अञ्-प्रत्ययः भवति । ", "sd": "यस्य शब्दस्य प्रथमः स्वरः अनुदात्तः अस्ति, तस्मात् शब्दात् 'तस्य समूहः' अस्मिन् अर्थे अञ्-प्रत्ययः क्रियते । यथा, कपोत, मयूर, तित्तिर एते शब्दाः अनुदात्तादयः सन्ति, अतः एतेषां विषये अस्य सूत्रस्य प्रसक्तिः दृश्यते -\n1. कपोतानाम् समूहः कापोतम् ।\n2. मयूराणां समूहः मायूरम् ।\n3. तित्तिराणां समूहः तैत्तिरम् ।\nज्ञातव्यम् -\n1. 'अञ्' प्रत्ययः 'ञित्' अस्ति, अतः <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] इत्यनेन अञ्-प्रत्यये कृते प्रकृति-प्रत्यय-समुदायस्य आदिस्वरः उदात्तः जायते । अनेन प्रकारेण प्रकृतौ विद्यमानः अनुदात्तः आदिस्वरः प्रक्रियायाः अनन्तरमुदात्तत्वं प्राप्नोति ।\n2. यदि कश्चन शब्दः अचित्तवाची अस्ति तथा अनुदात्तादिः अपि अस्ति, तर्हि वर्तमानसूत्रेण अञ्-प्रत्यये प्राप्ते तं परत्वात् बाधित्वा <<अचित्तहस्तिधेनोष्ठक्>> [[4.2.47]] इत्यनेन ठक्-प्रत्ययः विधीयते । " }, "42045": { "sa": "'तस्य समूहः' अस्मिन् अर्थे खण्डिकादिगणे विद्यमानानां शब्दानां विषये अञ्-प्रत्ययः भवति । ", "sd": "<<तस्य समूहः>> [[4.2.37]] अस्मिन् अर्थे खण्डिकादिगणे उपस्थितानां शब्दानां विषये अञ्-प्रत्ययः विधीयते ।\nखण्डिकादिगणः अयम् -\nखण्डिका, वडवा, क्षुद्रकमालवात् सेना-संज्ञायाम् (गणसूत्रम्), भिक्षुक, शुक, उलूक, श्वन् , अहन्, युग, वरत्रा, हलबन्ध ।\nयथा -\n1. खण्डिकानाम् समूहः = खण्डिका + अञ् → खाण्डिकम् ।\n2. वडवानाम् समूहः = वडवा + अञ् → वाडवम् ।\n3. 'क्षुद्रकमालव' इति कस्यचन गोत्रस्य नाम । अस्मात् शब्दात् 'सेना' अस्मिन् अर्थे एव अञ्-प्रत्ययः भवति । यथा - क्षुद्रकमालवस्य सेना = क्षुद्रकमालव + अञ् → क्षौद्रकमालवी सेना । अन्यत्र तु (गोत्रत्वात्) <<गोत्रोक्षोष्ट्रो...>> [[4.2.39]] इत्यनेन वुञ्-प्रत्ययं कृत्वा क्षौद्रकमालवक' इति सिद्ध्यति ।\n4. भिक्षुकानां समूहः भैक्षुकम् ।\n5. शुकानां समूहः शौकम् ।\n6. उलूकानां समूहः औलुकम् ।\n7. श्वनाम् समूहः शौवम् । अत्र प्रक्रिया इयम् -\nश्वन् + अञ्\n→ शौवन् + अ [ <<द्वारादीनां च>> [[7.3.4]] इत्यनेन द्वारादिगणे विद्यमानस्य श्वन्-शब्दस्य वकारात् पूर्वम् औकारागमः भवति ]\n→ शौव् + अ [<<नस्तद्धिते>> [[6.4.144]] इत्यनेन टिलोपः]\n→ शौव\n8. अह्नाम् समूहः आहम् । (परन्तु 'क्रतु' अस्मिन् अर्थे तु ख-प्रत्ययः भवति एतत् <<ब्राह्मण-माणव-वाडवात् यन्>> [[4.2.42]] इत्यत्र स्पष्टीकृतमस्ति ।)\n9. युगानां समूहः यौगम् ।\n10. वरत्राणाम् समूहः वारत्रम् ।\n11. हलबन्धानाम् समूहः हालबन्धम् ।\nज्ञातव्यम् - <<अनुदात्तादेः अञ्>> [[4.2.44]] अनेन सूत्रेण अनुदात्तादि-शब्देभ्यः समूहार्थे अञ्-प्रत्यये कृते, वर्तमानसूत्रेण खण्डिकादिगणे विद्यमानानामाद्युदात्तशब्दानां विषये अपि अञ्-प्रत्ययः उक्तः अस्ति ।\n" }, "42046": { "sa": " चरणवाचिभ्यः (= पद्यपङ्क्तिवाचिभ्यः ) प्रातिपदिकेभ्यः 'चरणात् धर्माम्नानयोः इष्यते' अनेन वार्त्तिकेन उक्ताः प्रत्ययाः 'तस्य समूहः' अस्मिन् अर्थे अपि विधीयन्ते । ", "sd": "अस्मिन् सूत्रे 'चरण' शब्दः 'पद्यपङ्क्तिः' (पद्यस्य एकः श्लोकः एका ऋक् वा) अस्मिन् अर्थे प्रयुक्तः अस्ति । यत् प्रातिपदिकम् 'चरणवाची' प्रातिपदिकमस्ति, इत्युक्ते, यत् प्रातिपदिकम् पद्यपङ्क्तेः नाम्नः निर्देशं करोति, तस्मात् प्रातिपदिकात् <<तस्य समूहः>> [[4.2.37]] अस्मिन् अर्थे कीदृशम् प्रत्ययचयनम् करणीयमस्य सिद्धान्तः अस्मिन् सूत्रे उक्तः अस्ति ।\nकिमुच्यते अनेन सूत्रेण? <<गोत्रचरणात् वुञ्>> [[4.3.126]] अस्मिन् सूत्रे इति वार्त्तिकम् पाठितमस्ति । अस्मिन् वार्त्तिके यः 'धर्म' शब्दः प्रयुक्तः अस्ति, तस्यैव निर्देशः वर्तमानसूत्रे 'धर्मवत्' इत्यनेन क्रियते । अतः वर्तमानसूत्रस्य आशयः अयम् - अनेन वार्त्तिकेन चरणवाचिभ्यः शब्देभ्यः 'तस्य धर्मः' अस्मिन् अर्थे ये प्रत्ययाः भवन्ति, ते एव <<तस्य समूहः>> [[4.2.37]] अस्मिन् अर्थे अपि करणीयाः ।\nयथा -\n1. 'कठानाम् धर्मः' इत्यस्मिन् अर्थे कठ्-शब्दात् 'तस्य धर्मः' अस्मिन् अर्थे <<गोत्रचरणात् वुञ्>> [[4.3.126]] इत्यनेन वुञ्-प्रत्ययः उच्यते । कठानां धर्मः काठकम् । अतः समूहार्थे अपि 'कठ' शब्दात् 'वुञ्' प्रत्ययः एव करणीयः । कठानां समूहः = काठकम् ।\n2. 'कलापानाम् धर्मः' इत्यस्मिन् अर्थे कलाप-शब्दात् 'तस्य धर्मः' अस्मिन् अर्थे <<गोत्रचरणात् वुञ्>> [[4.3.126]] इत्यनेन\n वुञ्-प्रत्ययः उच्यते । कलापानां धर्मः कालापकम् । अतः समूहार्थे अपि 'कलाप' शब्दात् 'वुञ्' प्रत्ययः एव करणीयः । कलापानां समूहः = कालापकम् ।\n3. 'छन्दोग' शब्दात् 'तस्य धर्मः' अस्मिन् अर्थे <<छन्दोगौ...>> [[4.3.129]] अनेन सूत्रेण' ञ्य' प्रत्ययः विधीयते । छन्दोगानां धर्मः छान्दोग्यम् । अतः समूहार्थे अपि छन्दोग-शब्दात् 'ञ्य' प्रत्ययः एव कर्तव्यः । छन्दोगानां समूहः छान्दोग्यम् ।\n4. 'उक्थिक' शब्दात् 'तस्य धर्मः' अस्मिन् अर्थे <<छन्दोगौ...>> [[4.3.129]] अनेन सूत्रेण' ञ्य' प्रत्ययः विधीयते । उक्थिकानां धर्मः औक्थिक्यम् । अतः समूहार्थे अपि उक्थिक-शब्दात् 'ञ्य' प्रत्ययः एव कर्तव्यः । उक्थिकानां समूहः औक्थिक्यम्।\n5. 'आथर्वणिक' शब्दात् 'तस्य धर्मः' अस्मिन् अर्थे <<आथर्वणिकस्येकलोपश्च>> इत्यनेन वुञ्-प्रत्ययः, अग्रे तस्य लोपः च भवति, येन 'आथर्वण' इति प्रातिपदिकं सिद्ध्यति । यथा - आथर्वणिकस्य धर्मः आथर्वणः । अतः समूहार्थे अपि एतदेव रूपं जायते - आथर्वणिकानां समूहः आथर्वणः ।\nज्ञातव्यम् - एतत् सूत्रमतिदेशसूत्रमस्ति यतः अनेन सूत्रेण अन्य-अर्थवत् प्रक्रियाविधानं कृतमस्ति ।\n" }, "42047": { "sa": "अचित्तवाचिभ्यः शब्देभ्यः, 'हस्ति'शब्दात् तथा 'धेनु'शब्दात् 'तस्य समूहः' अस्मिन् अर्थे ठक्-प्रत्ययः भवति । ", "sd": "<<तस्य समूहः>> [[4.2.37]] अस्मिन् अर्थे अचित्तवाचिभ्यः शब्देभ्यः (इत्युक्ते, ते शब्दाः ये अचेतनवस्तूनां निर्देशं कुर्वन्ति, तेभ्यः) ठक्-प्रत्ययः भवति । तथा च, 'हस्तिन्' तथा 'धेनु' - एताभ्यां शब्दाभ्यामपि अनेन सूत्रेण ठक्-प्रत्ययः विधीयते । यथा -\n1. अपूपानां समूहः आपूपिकम् । प्रक्रिया इयम् -\nअपूप + ठक्\n→ अपूप + इक [<<ठस्येकः>> [[7.3.50]] इति इक्-आदेशः]\n→ आपूप + इक [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ आपूप् + इक [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ आपुपिक\n2. शष्कुलीनां समूहः\n= शष्कुली + ठक्\n→ शष्कुली + इक [<<ठस्येकः>> [[7.3.50]] इति इक्-आदेशः]\n→ शाष्कुली + इक [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ शष्कुल् + इक [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ शाष्कुलिक\n3. सक्तूनाम् समूहः\n= सक्तु + ठक्\n→ सक्तु + क [<<इसुसुक्तान्तात् कः>> [[7.3.51]] इति ठकारस्य ककारादेशः]\n→ साक्तु + क [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ साक्तुक\n3. हस्तिनां समूहः\n= हस्तिन् + ठक्\n→ हस्तिन् + इक [<<ठस्येकः>> [[7.3.50]] इति इक्-आदेशः]\n→ हास्तिन् + इक [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ हास्त् + इक [<<नस्तद्धिते>> [[6.4.144]] इति टिलोपः]\n→ हास्तिक\n4. धेनूनां समूहः\n= धेनु + ठक्\n→ धेनु + क [<<इसुसुक्तान्तात् कः>> [[7.3.51]] इति ठकारस्य ककारादेशः]\n→ धैनु + क [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ धैनुक\nअत्र एकं वार्त्तिकं ज्ञातव्यम् - । इत्युक्ते, नञ्-समासे विद्यमानस्य धेनु-शब्दस्य विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । अतः तत्र औत्सर्गिकरूपेण अण्-प्रत्ययः एव क्रियते । यथा -\nअधेनूनाम् समूहः\n= अधेनु + अञ् [<<उत्सादिभ्योऽञ्>> [[4.1.86]] इति अञ्]\n→ आधेनु + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ आधेनो + अ [<<ओर्गुणः>> [[6.4.146]] इति गुणादेशः]\n→ आधेनव [<<एचोऽयवायावः>> [[6.1.78]] इति अवादेशः]\nज्ञातव्यम् - यदि कश्चन शब्दः अचित्तवाची अस्ति तथा अनुदात्तादिः अपि अस्ति, तर्हि <<अनुदात्तादेः अञ्>> [[4.2.44]] इत्यनेन अञ्-प्रत्यये प्राप्ते तं परत्वात् बाधित्वा वर्तमानसूत्रेण ठक्-प्रत्ययः एव विधीयते । " }, "42048": { "sa": "'तस्य समूहः' अस्मिन् अर्थे केशशब्दात् यञ्-प्रत्ययः , तथा अश्वशब्दात् छ-प्रत्ययः विकल्पेन भवति । ", "sd": "<<तस्य समूहः>> [[4.2.37]] अस्मिन् अर्थे -\n1) 'केश' शब्दात् विकल्पेन यञ्-प्रत्ययः भवति, पक्षे <<अचित्तहस्तिधेनोष्ठक्>> [[4.2.47]] इत्यनेन ठक्-प्रत्ययः अपि विधीयते ।\n2) 'अश्व'शब्दात् विकल्पेन छ-प्रत्ययः भवति, पक्षे औत्सर्गिकः अण् प्रत्ययः अपि विधीयते ।\nयथा -\n1) केशानां समूहः कैश्यम् कैशिकम् वा ।\nयञ्-प्रत्यये परे प्रक्रिया -\nकेश + यञ्\n→ कैश + य [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ कैश् + य [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ कैश्य\n(पक्षे) ठक्-प्रत्यये परे प्रक्रिया -\nकेश+ ठक्\n→ केश + इक [<<ठस्येकः>> [[8.3.50]] इति इक्-आदेशः]\n→ कैश + इक [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ कैश् + इक [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ कैशिक\n2) अश्वानां समूहः अश्वीयमाश्वम् वा ।\nछ-प्रत्यये परे प्रक्रिया -\nअश्व + छ\n→ अश्व + ईय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ईय्-आदेशः]\n→ अश्व् + ईय [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ अश्वीय\n(पक्षे) अण्-प्रत्यये परे प्रक्रिया-\nअश्व + अण्\n→ अाश्व + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ आश्व् + अ [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ आश्व " }, "42049": { "sa": "पाशादिगणस्य शब्दानां विषये 'तस्य समूहः' अस्मिन् अर्थे य-प्रत्ययः भवति । ", "sd": "पाशादिगणस्य शब्देभ्यः <<तस्य समूहः>> [[4.2.37]] अस्मिन् अर्थे 'य' प्रत्ययः भवति । एते सर्वे शब्दाः प्रयोगवशात् स्त्रीलिङ्गे एव प्रयुज्यन्ते, अतः स्त्रीत्वं द्योतयितुम् एतेषाम् टाप्-प्रत्ययः अपि भवति ।\nपाशादिगणः अयम् -\nपाश, तृण, धूम, वात, अङ्गार, पोत, बालक, पिटक, पिटाक, शकट, हल, नड, वन ।\nयथा -\n1. पाशानां समूहः पाश्या ।\n2. तृणानां समूहः तृण्या ।\n3. धूमानां समूहः धूम्या ।\n4. वातानां समूहः वात्या ।\n5. अङ्गाराणां समूहः अङ्गार्या ।\n6. पोतानां समूहः पोत्या ।\n7. बालकानां समूहः बालक्या ।\n8. पिटकानां समूहः पिटक्या ।\n9. पिटाकानां समूहः पिटाक्या ।\n10. शकटानां समूहः शकट्या ।\n11. हलानां समूहः हल्या ।\n12. नडानां समूहः नड्या ।\n13. वनानां समूहः वन्या ।\nएतेषु सर्वेषु प्रक्रियायाम् <<यस्येति च>> [[6.4.148]] इत्यनेन अन्तिमवर्णलोपं कृत्वा अग्रे स्त्रीत्वं द्योतयितुम् टाप्-प्रत्ययं योजयित्वा अन्तिमं रूपं सिद्ध्यति । " }, "42050": { "sa": "'तस्य समूहः' अस्मिन् अर्थे 'खल', 'गो', तथा 'रथ' - एतेभ्यः शब्देभ्यः य-प्रत्ययः भवति । ", "sd": "<<तस्य समूहः>> [[4.2.37]] अस्मिन् अर्थे खल, गो, रथ - एतेभ्यः य-प्रत्ययः विधीयते । यत्-प्रत्ययान्तशब्दाः प्रयोगवशात् केवलं स्त्रीलिङ्गे भवन्ति, अतः प्रक्रियायां स्त्रीत्वं द्योतयितम् टाप्-प्रत्ययस्य विधानमपि भवति । यथा -\n1) खलानां समूहः\n= खल + य + टाप्\n→ खल् + य + आ [<<यस्येति च>> [[6.4.148]] इति अन्तिमवर्णलोपः]\n→ खल्या\n2) गवाम् समूहः\nगो + य + टाप्\n→ गव् + य + आ [<<वान्तो यि प्रत्यये>> [[6.1.79]] इति ओ-इत्यस्य अव्-आदेशः]\n→ गव्या\n3) रथ + य + टाप्\n→ रथ् + य [<<यस्येति च>> [[6.4.148]] इति अन्तिमवर्णलोपः]\n→ रथ्या\nज्ञातव्यम् - वस्तुतः <<पाशादिभ्यो यः>> [[4.3.36]] इत्यनेन पाशादिगणस्य शब्दानां विषये य-प्रत्ययविधानं कृतमस्ति । अतः अस्मिन् सूत्रे निर्दिष्टानां त्रयाणां शब्दानाम् पाशादिगणे एव किमर्थम् समावेशः न क्रियते (नूतनसूत्रनिर्माणं किमर्थम् कृतम्) - इति प्रश्नः आगच्छति । तस्य उत्तरार्थम् काशिकाकारः वदति - 'पाशादिषु अपाठः उत्तरार्थः' । इत्युक्ते, अग्रिमसूत्रे केवलं एतेषाम् त्रयाणामेव अनुवृत्तिः करणीया, अतः तेषाम् निर्देशः भिन्नसूत्रेण कृतः अस्ति ।\n" }, "42051": { "sa": "'तस्य समूहः' अस्मिन् अर्थे खल-शब्दात् इनि-प्रत्ययः भवति, गो-शब्दात् त्र-प्रत्ययः भवति, तथा रथ-शब्दात् कट्यच्-प्रत्ययः भवति । ", "sd": "<<खलगोरथात्>> [[4.2.50]] अनेन सूत्रेण खल, गो, रथ - एतेभ्यः शब्देभ्यः <<तस्य समूहः>> [[4.2.37]] अस्मिन् अर्थे य-प्रत्यये कृते वर्तमानसूत्रेण एतेभ्यः (क्रमेण) इनि, त्र, कट्यच् प्रत्ययाः अपि भवन्ति । एते शब्दाः स्त्रीलिङ्गे एव प्रयुज्यन्ते, अतः एतेभ्यः यथायोग्यं स्त्रीप्रत्ययः अपि कर्तव्यः । यथा -\n1. खलानां समूहः\n= खल + इनि\n→ खल + इन् [नकारोत्तरः इकारः उच्चारणार्थः, अतः तस्य लोपः भवति ।]\n→ खल + इन् + ङीप् [<<ऋन्नेभ्यो ङीप्>> [[4.1.5]] इति ङीप्-प्रत्ययः]\n→ खल् + इन् + ङीप् [<<यस्येति च>> [[6.4.148]] इति अन्तिमवर्णलोपः]\n→ खलिनी ।\n2. गवां समूहः\n= गो + त्र + टाप्\n→ गोत्रा\n3. रथानां समूहः\n= रथ + कट्यच् + टाप्\n→ रथकट्या\nअत्र कानिचन वार्त्तिकानि ज्ञातव्यानि -\n1. । इत्युक्ते, खलादिगणे निर्दिष्टेभ्यः शब्देभ्यः <<तस्य समूहः>> [[4.2.37]] इत्यस्मिन् अर्थे इनि-प्रत्ययः भवति । एते सर्वे इनि-प्रत्ययान्त-शब्दाः स्त्रीलिङ्गे एव भवन्ति, अतः एतेभ्यः <<ऋन्नेभ्यो ङीप्>> [[4.1.5]] इति ङीप्-प्रत्ययः अपि करणीयः ।\nखलादिगणः अयम् - खल, डाक, कुटुम्ब, शाक, कुण्डल । (आकृतिगणोऽयम्)।\nउदाहरणानि -\n1. खलानां समूहः खलिनी ।\n2. डाकानां समूहः डाकिनी ।\n3. कुटुम्बानां समूहः कुटुम्बिनी ।\n4. शाकानां समूहः शाकिनी ।\n5. कुण्डलानां समूहः कुण्डलिनी ।\nअयं आकृतिगणः अस्ति, अतः शिष्टप्रयोगमनुसृत्य अन्ये शब्दाः अपि अस्मिन् गणे भवितुमर्हन्ति ।\n2. । इत्युक्ते, कमलादिगणस्य शब्दानां विषये समूहार्थे 'खण्डच्' प्रत्ययः कर्तव्यः । कमलादिगणः अयम् -\nकमल, अम्भोज , पद्मिनी, कुमुद, सरोज, पद्म, नलिनी, कैरविणी । (आकृतिगणोऽयम्)।\nउदाहरणानि -\n1. कमलानां समूहः कमलखण्डम् ।\n2. अम्भोजानां समूहः अम्भोजखण्डम् ।\n3. पद्मिनीनां समूहः पद्मिनीखण्डम्\n4. सरोजानां समूहः सरोजखण्डम् ।\n5. पद्मानां समहः पद्मखण्डम् ।\n6. नलिनीनां समूहः नलिनीखण्डम् ।\n7. कैरविणीनां समूहः कैरविणीखञ्डम् ।\nअयमपि आकृतिगणः अस्ति, अतः शिष्टप्रयोगमनुसृत्य अन्ये शब्दाः अपि अस्मिन् गणे भवितुमर्हन्ति ।\n3. । इत्युक्ते, समूहार्थे नर-शब्दात्, करि-शब्दात् तुरङ्ग-शब्दात् च स्कन्धच्-प्रत्ययः भवति । यथा - नराणां समूहः नरस्कन्धः । करिणां समूहः करिस्कन्धः । तुरङ्गानां समूहः तुरङ्गस्कन्धः ।\n4. । इत्युक्ते, पूर्वादिगणस्य शब्देभ्यः समूहार्थे 'काण्डच्' प्रत्ययः करणीयः ।\nपूर्वादिगणः अयम् - पूर्व, तृण, कर्म ।\nउदाहरणानि -\n1. पूर्वाणां समूहः पूर्वकाण्डम् ।\n2. तृणानां समूहः तृणकाण्डम् ।\n3. कर्मणां समूहः कर्मकाण्डम् ।\n " }, "42052": { "sa": "षष्ठीसमर्थात् 'विषय' शब्दे परे देशस्य निर्देशं कर्तुम् यथाविहितः तद्धितप्रत्ययः भवति ।", "sd": "यदि 'विषय' अस्य शब्दस्य प्रयोगं कृत्वा देशस्य निर्देशः क्रियते, तर्हि यस्मात् षष्ठीसमर्थात् अयं निर्देशः भवति तस्मात् यथाविहितः तद्धितप्रत्ययः भवति । यथा, शिबीनाम् विषयः (देशः) = शिबि + अण् = शैबः देशः ।\nज्ञातव्यम् -\n1. विषयशब्दस्य अनेके अर्थाः सन्ति । काशिकाकारः अस्मिन् विषये चतुरः अर्थान् वदति -\nअ) ग्रामसमुदायः (यथा - मया शिबिविषयः लब्धः । अहं शिबिदेशं अगच्छम् - इत्यर्थः।)\nआ) इन्द्रियग्राह्यः पदार्थः (यथा - नेत्रयोः विषयः रूपम्)\nइ) यस्य विशेषरूपेण अध्ययनम् क्रियते सः (यथा - मम विषयः संस्कृतम्)\nई) अन्यत्र-अभावः । (यथा - मत्स्यानाम् विषयः जलम् । मत्स्याः जलं विना अन्यत्र न विद्यते - इत्याशयः)\nएतेभ्यः अर्थेभ्यः 'ग्रामसमुदाय' अस्मिन् अर्थे विषय-शब्दस्य प्रयोगः भवति चेदेव वर्तमानसूत्रस्य प्रसक्तिः अस्ति, अन्येषु अर्थेषु न । अतः 'देवदत्तस्य विषयः संस्कृतम्' इत्यत्र अस्य सूत्रस्य प्रसक्तिः नास्ति ।\n2. <<राजन्यादिभ्यः वुञ्>> [[4.2.53]] अनेन सूत्रेण राजन्यादिगणस्य शब्दानां विषये <<विषयो देशे>> [[4.2.52]] अस्मिन् अर्थे वुञ्-प्रत्यय; विधीयते ।\n3. <<भौरिक्याद्यैषुकार्यादिभ्यो विधल्भक्तलौ>> [[4.2.54]] अनेन सूत्रेण भौरिक्यादिगणस्य शब्देभ्यः <<विषयो देशे>> [[4.2.52]] अस्मिन् अर्थे विधल्-प्रत्ययः भवति, तथा ऐषुकार्यादि-गणस्य शब्देभ्यः <<विषयो देशे>> [[4.2.52]] अस्मिन् अर्थे\n भक्तल्-प्रत्ययः भवति । " }, "42053": { "sa": "'तस्य विषयः देशे' अस्मिन् अर्थे राजन्यादिगणस्य शब्देभ्यः वुञ्-प्रत्ययः विधीयते । ", "sd": "<<विषयो देशे>> [[4.2.52]] अस्मिन् अर्थे राजन्यादिगणस्य शब्देभ्यः औत्सर्गिकमण्-प्रत्ययं बाधित्वा वुञ्-प्रत्ययः भवति ।\nराजन्यादिगणः अयम् -\nराजन्य, देवयान, मालव, विराट, त्रिगर्त, शालङ्कायन, जालन्धरायण, आत्मकामेय, अम्बरीषपुत्र, वसाति, बैल्ववन, शैलूष, उदुम्बर, बैल्वल, आर्जुनायन, संप्रिय, दाक्षि, ऊर्णनाभ। आकृतिगणोऽयम् ।\nउदाहरणानि -\n1. राजन्यानां विषयः देशः राजन्यकः ।\n2. देवयानानां विषयः देशः दैवयानकः ।\n3. मालवानां विषयः देशः मालवकः ।\n4. विराटानां विषयः देशः वैराटकः।\n5. त्रिगर्तानां विषयः देशः त्रैगर्तकः ।\n6. शालङ्कायनानां विषयः देशः शालङ्कायनकः ।\n7. जालन्धरायणानां विषयः देशः जालन्धरायणकः ।\n8. आत्मकामेयानां विषयः देशः आत्मकामेयकः ।\n9. अम्बरीषपुत्राणां विषयः देशः आम्बरीषपुत्रकः ।\n10. वसातीनां विषयः देशः वासातकः ।\n11. बैल्ववनानां विषयः देशः बैल्ववनकः ।\n12. शैलूषानां विषयः देशः शैलूषकः ।\n13. उदुम्बराणां विषयः देशः औदुम्बरकः ।\n14. बैल्वलानां विषयः देशः बैल्वलकः ।\n15. आर्जुनायनां विषयः देशः आर्जुनायनकः ।\n16. संप्रियानां विषयः देशः सांप्रियकः ।\n17. ऊर्णनाभानां विषयः देशः और्णनाभकः ।\nअयमाकृतिगणः अस्ति, अतः शिष्टप्रयोगं अनुसृत्य अन्ये शब्दाः अपि अस्मिन् गणे भवितुमर्हन्ति ।\nएतेषु सर्वेषु प्रक्रियायाम् 'वु' इत्यस्य <<युवोरनाकौ>> [[7.1.1]] इति अक-आदेशः भवति, तथा प्रत्ययस्य ञित्वात् <<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः अपि विधीयते ।\n" }, "42054": { "sa": "'तस्य विषयः देशे' अस्मिन् अर्थे भौरिक्यादिगणस्य शब्देभ्यः विधल्-प्रत्ययः भवति, तथा ऐषुकार्यादि-गणस्य शब्देभ्यः भक्तल्-प्रत्ययः भवति । ", "sd": "<<विषयो देशे>> [[4.2.52]] अस्मिन् अर्थे भौरिक्यादिगणस्य शब्देभ्यः विधल्-प्रत्ययः भवति, तथा ऐषुकार्यादि-गणस्य शब्देभ्यः भक्तल्-प्रत्ययः भवति ।\nभौरिक्यादिगणः अयम् -\nभौरिकि। वैपेय। भौलिकि। चैटयत। काणेय। वाणिजक। वालिज। वालिज्यक। शैकयत। वैकयत।\nएतेभ्यः सर्वेभ्यः <<विषयो देशे>> [[4.2.52]] अस्मिन् अर्थे विधल्-प्रत्ययः भवति ।\nउदाहरणानि -\n1. भौरिकीनां विषयः देशः भौरिकिविधः ।\n2. वैपेयानां विषयः देशः वैपेयविधः ।\n3. चैटयतानां विषयः देशः चैटयतविधः ।\n4. काणेयानां विषयः देशः काणेयविधः ।\n5. वाणिजकानां विषयः देशः वाणिजकविधः ।\n6. वालिजानां विषयः देशः वालिजविधः ।\n7. वालिज्यकानां विषयः देशः वालिज्यकविधः ।\n8. शैकयतानां विषयः देशः शैकयतविधः ।\n9. वैकयतानां विषयः देशः वैकयतविधः ।\nऐषुकार्यादिगणः अयम् -\nऐषुकारि, सारस्यायन, चान्द्रायण, द्व्याक्षायण, त्र्याक्षायण, औडायन, जौलायन, खाडायन, सौवीर, दासमित्रि, दासमित्रायण, शौद्रायण, शापण्डायन, शायण्डायन, दाक्षायण, शपण्ड, शयण्ड, तार्क्ष्यायण, शौभ्रायण, शौण्ड, शयाण्डि, वैश्वमाणव, वैश्वधेनव, नड, तुण्डदेव, विश्वदेव।\nएतेभ्यः सर्वेभ्यः <<विषयो देशे>> [[4.2.52]] अस्मिन् अर्थे भक्तल् -प्रत्ययः भवति ।\n1. ऐषुकारीणां विषयः देशः ऐषुकारिभक्तः ।\n2. सारस्यायनानां विषयः देशः सारस्यायनभक्तः ।\n3. चान्द्रायणानां विषयः देशः चान्द्रायणभक्तः ।\n4. द्व्याक्षायणानां विषयः देशः द्व्याक्षायणभक्तः ।\n5. त्र्याक्षायणानां विषयः देशः त्र्याक्षायणभक्तः ।\n6. औडायनानां विषयः देशः औडायनभक्तः ।\n7. जौलायनानां विषयः देशः जौलायनभक्तः ।\n8. खाडायनानां विषयः देशः खाडायनभक्तः ।\n9. सौवीराणां विषयः देशः सौवीरभक्तः ।\n10. दासमित्रीणां विषयः देशः दासमित्रिभक्तः ।\n11. दासमित्रायणानां विषयः देशः दासमित्रायणभक्तः ।\n12. शौद्रायणानां विषयः देशः शौद्रायणभक्तः ।\n13. शापण्डायनानां विषयः देशः शापण्डायनभक्तः ।\n14. शायण्डायनानां विषयः देशः शायण्डायनभक्तः ।\n15. दाक्षायणानां विषयः देशः दाक्षायणभक्तः ।\n16. शपण्डानां विषयः देशः शपण्डभक्तः ।\n17. शयण्डानां विषयः देशः शयण्डभक्तः ।\n18. तार्क्ष्यायणानां विषयः देशः तार्क्ष्यायणभक्तः ।\n19. शौभ्रायणानां विषयः देशः शौभ्रायणभक्तः ।\n20. शौण्डानां विषयः देशः शौण्डभक्तः ।\n21. शयाण्डीनां विषयः देशः शयाण्डिभक्तः ।\n22. वैश्वमाणवानां विषयः देशः वैश्वमाणवभक्तः ।\n23. वैश्वधेनवानां विषयः देशः वैश्वधेनवभक्तः ।\n24. नडानां विषयः देशः नडभक्तः ।\n25. तुण्डदेवानां विषयः देशः तुण्डदेवभक्तः ।\n26. विशदेवानां विषयः देशः विशदेवभक्तः ।\n" }, "42055": { "sa": "प्रथमासमर्थ-छन्दवाचिभ्यः प्रातिपदिकेभ्यः 'प्रगाथस्य आदिः' अस्मिन् अर्थे यथाविहितः प्रत्ययः भवति । ", "sd": "किम् नाम प्रगाथः ? काशिकाकारः वदति - 'यत्र द्वे ऋचौ प्रग्रथनेन तिस्रः क्रियन्ते, स प्रग्रथनात् प्रकर्षगानाद् वा प्रगाथः इत्युच्यते' । इत्युक्ते, श्लोकानाम् काचन विशिष्टा गानपद्धतिः, यस्याम् द्वयोः पङ्क्त्योः सन्धानेन / संयोजनेन तिस्रः पङ्क्त्यः जायन्ते, सा 'प्रगाथः' नाम्ना प्रसिद्धा अस्ति । एतादृशस्य प्रगाथस्य या प्रथमा ऋक् तस्याः यत् गानवृत्तम्, तस्य साहाय्येन यदि प्रगाथस्य निर्देशः करणीयः अस्ति, तर्हि अस्य सूत्रस्य प्रयोगः भवति । यथा -\n1. यदि कस्यचन प्रगाथस्य प्रथमा ऋक् 'जगती' नाम्नी छन्दे गीयते, तर्हि तस्य प्रगाथस्य वर्णनम् (जगती + अञ् →) 'जागतः प्रगाथः' अनेन प्रकारेण भवति । जगतीछन्दस्का ऋक् अस्य प्रगाथस्य आदिः सः प्रगाथः जागतः प्रगाथः ।\n2. यदि कस्यचन प्रगाथस्य प्रथमा ऋक् 'पङ्क्ति' नाम्नी छन्दे गीयते, तर्हि तस्य प्रगाथस्य वर्णनम् (पङ्क्ति + अञ् →) 'पाङ्क्तः प्रगाथः' अनेन प्रकारेण भवति । पङ्क्तिच्छन्दस्का ऋक् अस्य प्रगाथस्य आदिः सः प्रगाथः पाङ्क्तः प्रगाथः ।\nज्ञातव्यम् - पङ्क्ति, जगती, अनुष्टुप्, त्रिष्टुप् एते शब्दाः <<उत्सादिभ्योऽञ्>> [[4.1.86]] इत्यत्र उत्सादिगणे समाविश्यन्ते । अतः एतेषां विषये <<सोऽस्यादिरिति च्छन्दसः प्रगाथेषु>> [[4.2.55]] अस्मिन् अर्थे अञ्-प्रत्ययः एव कर्तव्यः ।\nअत्र एकं वार्त्तिकं ज्ञातव्यम् - । इत्युक्ते, छन्दोवाचिभ्यः प्रातिपदिकेभ्यः स्वार्थे अपि (प्रगाथस्य सन्दर्भं विना अपि) अण्-प्रत्ययः भवति । यथा = जगती छन्दः = (जगती + अण् →) जागतम् छन्दः । त्रिष्टुब् छन्दः = (त्रिष्टुभ् + अण् →) त्रैष्टुभम् छन्दः ।\n" }, "42056": { "sa": "प्रथमासमर्थात् प्रयोजनवाचिनः / योद्धावाचिनः शब्दात् सङ्ग्रामस्य निर्देशं कर्तुम् यथाविहितः प्रत्ययः भवति । ", "sd": "यदि कश्चन सङ्ग्रामः तस्य 'प्रयोजनमनुसृत्य' / 'योद्धॄन् अनुसृत्य' वा वर्ण्यते, तर्हि तस्य सङ्ग्रामस्य निर्देशं कर्तुम् वर्तमानसूत्रेण प्रथमासमर्थात् प्रयोजनवाचिनः शब्दात् / योद्धृवाचिनः शब्दात् यथाविहितः प्रत्ययः भवति । यथा -\n1. भद्रा प्रयोजनमस्य सङ्ग्रामस्य सः = भद्रा + अण् → भाद्रः सङ्ग्रामः ।\n2. सुभद्रा प्रयोजनमस्य सङ्ग्रामस्य सः = सुभद्रा + अण् → सौभद्रः सङ्ग्रामः ।\n3. भरताः योद्धारः अस्य सङ्ग्रामस्य सः = भरत + अण् → भारतः सङ्ग्रामः ।\n4. अहिमालाः योद्धारः अस्य सङ्ग्रामस्य सः = अहिमाला + अण् → आहिमालः सङ्ग्रामः ।\n" }, "42057": { "sa": "प्रथमासमर्थात् प्रहरणवाचिनः शब्दात् क्रीडां द्योतयितुम् ण-प्रत्ययः भवति । ", "sd": "यदि कस्याश्चन क्रीडायाः वर्णनम् तस्याम् क्रीडायाम् प्रयुज्यमाणेन प्रहारस्य साधनेन करणीयमस्ति, तर्हि तस्मात् प्रथमासमर्थात् प्रहारसाधनवाचिनः शब्दात् 'ण' प्रत्ययः भवति । यथा -\n1. दण्डः प्रहरणमस्यां क्रीडायाम् सा = दाण्डा क्रीडा ।\n2. मुष्टिः प्रहरणमस्यां क्रीडायाम् सा = मौष्टा क्रीडा ।\nअत्र तद्धितान्तशब्दः 'क्रीडा' इत्यस्य विशेषणरूपेण आगच्छति, अतः तस्य टाप्-प्रत्ययान्तम् स्त्रीलिङ्गरूपम् प्रयुज्यते । यथा - दण्ड + ण + टाप् → दाण्डा । मुष्टि + ण + टाप् → मौष्टा ।\nज्ञातव्यम् -\n1. अस्मिन् सूत्रे निर्दिष्टे अर्थे 'ण' इति प्रत्ययः उक्तः अस्ति । अतः अस्मिन् अर्थे औत्सर्गिकरूपेण अण्-प्रत्ययविधानम् न भवति, ण-प्रत्ययविधानम् एव भवति । वस्तुतः अण् ( = अ + ण्) तथा ण (= ण् + अ) द्वयोः प्रक्रिया समाना एव, परन्तु अण्-प्रत्ययान्तशब्दानां विषये स्त्रीत्वे विवक्षिते <<टिड्ढाण्...>> [[4.1.5]] इत्यनेन ङीप्-प्रत्ययः भवति । अत्र वस्तुतः 'टाप्' प्रत्ययः कर्तव्यः । अतः आचार्यः अत्र 'ण' प्रत्ययविधानम् करोति । ण-प्रत्यये अपि तौ एव वर्णौ स्तः यौ अण्-प्रत्यये स्तः, अतः ण-प्रत्ययस्य अङ्गकार्यमन्तिमरूपम् च अण्-प्रत्ययवत् एव भवति । (दण्ड + अण् → दाण्ड, दण्ड + ण → दाण्ड ।) परन्तु ण-प्रत्ययस्य <<टिड्ढाण्...>> [[4.1.5]] अस्मिन् सूत्रे निर्देशाभावात् स्त्रीत्वे विवक्षिते <<अजाद्यतष्टाप्>> [[4.1.4]] इत्यनेन टाप्-प्रत्ययः एव भवति, येन आवश्यकम् रूपम् सिद्ध्यति ।\n2. अस्मिन् सूत्रे 'प्रहरणम्' तथा 'क्रीडा' द्वयोः निर्देशः कृतः अस्ति । अतः यत्र 'केवलं प्रहरणम्' उत 'केवलं क्रीडा' वर्तते, तत्र अस्य सूत्रस्य प्रयोगः न भवति । यथा -\nअ) 'दण्डः प्रहरणमस्यां सेनायाम्' इत्यत्र क्रीडायाः अभावात् वर्तमानसूत्रस्य प्रसक्तिः नास्ति ।\nआ) 'माला भूषणमस्यां क्रीडायाम्' इत्यत्र प्रहरणस्य अभावात् वर्तमानसूत्रस्य प्रसक्तिः नास्ति ।\n" }, "42058": { "sa": "", "sd": "" }, "42059": { "sa": "", "sd": "" }, "42060": { "sa": "", "sd": "" }, "42061": { "sa": "", "sd": "" }, "42062": { "sa": "", "sd": "" }, "42063": { "sa": "", "sd": "" }, "42064": { "sa": "", "sd": "" }, "42065": { "sa": "", "sd": "" }, "42066": { "sa": "", "sd": "" }, "42067": { "sa": "प्रथमासमर्थात् 'तत् अस्मिन् देशे अस्ति' इत्यर्थे देशस्य नाम्नः निर्देशं कर्तुम् यथाविहितः प्रत्ययः भवति । ", "sd": "प्रथमावाचिनः शब्दात् 'तत् यस्मिन् देशे अस्ति सः देशः' अनेन प्रकारेण देशस्य अभिधानम् करणीयम् अस्ति चेत् वर्तमानसूत्रस्य प्रयोगः क्रियते । यथा -\n1. उदुम्बराः सन्ति अस्मिन् देशे सः = उदुम्बर + अण् → औदुम्बरः देशः ।\n2. पलाशाः सन्ति अस्मिन् देशे सः = पलाश + अण् → पालाशः देशः ।\n3. पर्वताः सन्ति अस्मिन् देशे सः = पर्वत + अण् → पार्वतः देशः ।\n4. अरडवः अस्मिन् देशे सन्ति सः = अरडु + अञ् → आरडवः देशः । (अत्र <<ओरञ्>> [[4.2.71]] इत्यनेन अञ्-प्रत्ययः भवति ।)\n5. सिकताः सन्ति अस्मिन् देशे सः = सिकता + अञ् → सैकतः देशः (अत्र <<सङ्कलादिभ्यश्च>> [[4.2.75]] इत्यनेन अञ्-प्रत्ययः भवति ।)\nस्मर्तव्यम् - अष्टाध्याय्याम् <<तदस्मिन्नस्तीति देशे तन्नाम्नि>> [[4.2.67]], <<तेन निर्वृत्तम्>> [[4.2.68]], <<तस्य निवासः>> [[4.2.69]], तथा <<अदूरभवश्च>> [[4.2.70]] एते चत्वारः अर्थाः 'चतुरर्थाः' नाम्ना ज्ञायन्ते । एतेषु सर्वेषु चतुरर्थेषु 'देशे तन्नाम्नि' इत्यस्य अनुवृत्तिः क्रियते, अतः सर्वे चतुरर्थाः देशस्य अभिधानम् निर्देष्टुम् प्रयुज्यन्ते ।\n" }, "42068": { "sa": "तृतीयासमर्थात् 'तेन निर्वृत्तम्' इत्यर्थे देशस्य नाम्नः निर्देशं कर्तुम् यथाविहितः प्रत्ययः भवति । ", "sd": "'निर्वृत्तम्' इत्युक्ते निर्मितम् । देशस्य अभिधानम् तस्य निर्मातुः / हेतोः निर्देशं कृत्वा कर्तव्यमस्ति चेत् वर्तमानसूत्रस्य प्रयोगः भवति ।\nयथा -\n1. सहस्रैः निर्वृत्तम् नगरम् = सहस्र + अण् → साहस्रम् नगरम् । नगरस्य निर्माणे सहस्रजनानाम् साहाय्यमुपलब्धम् इत्यर्थः ।\n2. कुशाम्बेन निर्वृत्ता नगरी = कुशाम्ब + अण् + ङीप् → कौशाम्बी नगरी। कुशाम्बनाम्ना राज्ञा निर्मिता नगरी इत्यर्थः ।\nज्ञातव्यम् -\n1. 'देश' इत्यनेन क्षेत्र/ग्राम/नगर/राज्य - एतेषां सर्वेषाम् निर्देशः भवति । अतः नगर्याः नाम्नः निर्देशं कर्तुमपि अस्य सूत्रस्य प्रयोगः अर्ह्यः ।\n2. अष्टाध्याय्याम् <<तदस्मिन्नस्तीति देशे तन्नाम्नि>> [[4.2.67]], <<तेन निर्वृत्तम्>> [[4.2.68]], <<तस्य निवासः>> [[4.2.69]], तथा <<अदूरभवश्च>> [[4.2.70]] एते चत्वारः अर्थाः 'चतुरर्थाः' नाम्ना ज्ञायन्ते । एतेषु सर्वेषु चतुरर्थेषु 'देशे तन्नाम्नि' इत्यस्य अनुवृत्तिः क्रियते, अतः सर्वे चतुरर्थाः देशस्य अभिधानम् निर्देष्टुम् प्रयुज्यन्ते ।\n3. अस्मिन् सूत्रे निर्दिष्टेन 'तेन' इत्यनेन शब्देन कर्तुः निर्देशः अपि भवितुमर्हति, साधनस्य च अपि भवितुमर्हति । यथा, 'साहस्रम्' इत्यत्र 'सहस्रजनानाम् साहाय्येन निर्वृत्तम्' इत्यस्मिन् अर्थे प्रत्ययः भवति, तथा च 'कौशाम्बी' इत्यत्र तु 'कुशाम्ब' इति कर्तुः नाम्नः प्रत्ययविधानं क्रियते । " }, "42069": { "sa": "षष्ठीसमर्थात् 'तस्य निवासः' अस्मिन् अर्थे देशस्य नाम्नः निर्देशं कर्तुम् यथाविहितः प्रत्ययः भवति । ", "sd": "कस्यचन देशस्य नाम्नः निर्देशं तस्मिन् देशे यस्य निवासः अस्ति तस्य आधारेण कर्तुमस्य सूत्रस्य प्रयोगः भवति । यथा -\n1. शिबीनां निवासः देशः = शिबि + अण् → शैबः देशः ।\n2. उत्सानां निवासः देशः = उत्स + अण् → औत्सः देशः ।\n3. ऋजुनावां निवासः देशः = ऋजुनव + अण् → आर्जुनावः देशः ।\nस्मर्तव्यम् - अष्टाध्याय्याम् <<तदस्मिन्नस्तीति देशे तन्नाम्नि>> [[4.2.67]], <<तेन निर्वृत्तम्>> [[4.2.68]], <<तस्य निवासः>> [[4.2.69]], तथा <<अदूरभवश्च>> [[4.2.70]] एते चत्वारः अर्थाः 'चतुरर्थाः' नाम्ना ज्ञायन्ते । एतेषु सर्वेषु चतुरर्थेषु 'देशे तन्नाम्नि' इत्यस्य अनुवृत्तिः क्रियते, अतः सर्वे चतुरर्थाः देशस्य अभिधानम् निर्देष्टुम् प्रयुज्यन्ते ।\n" }, "42070": { "sa": "षष्ठीसमर्थात् 'अस्य निकटः देशः' अस्मिन् अर्थे देशस्य नाम्नः निर्देशं कर्तुम् यथाविहितः प्रत्ययः भवति । ", "sd": "'अदूरभव' इत्युक्ते 'निकटे अस्ति तत्' । कस्यचन देशस्य निर्देशः 'तस्य निकटे यत्किमपि अस्ति तस्य आधारेण' कर्तुम् वर्तमानसूत्रस्य प्रयोगः भवति । यथा -\n1. विदिशायाः अदूरभवम् (= निकटम्) नगरम् = विदिशा + अण् → वैदिशम् नगरम् ।\n2. हिमवतः अदूरभवम् नगरम् = हिमवत् + अण् → हैमवतम् नगरम् ।\nस्मर्तव्यम् - अष्टाध्याय्याम् <<तदस्मिन्नस्तीति देशे तन्नाम्नि>> [[4.2.67]], <<तेन निर्वृत्तम्>> [[4.2.68]], <<तस्य निवासः>> [[4.2.69]], तथा <<अदूरभवश्च>> [[4.2.70]] एते चत्वारः अर्थाः 'चतुरर्थाः' नाम्ना ज्ञायन्ते । एतेषु सर्वेषु चतुरर्थेषु 'देशे तन्नाम्नि' इत्यस्य अनुवृत्तिः क्रियते, अतः सर्वे चतुरर्थाः देशस्य अभिधानम् निर्देष्टुम् प्रयुज्यन्ते ।\n" }, "42071": { "sa": "चतुरर्थानां विषये उकारान्त-प्रातिपदिकात् अञ्-प्रत्ययः भवति । ", "sd": " अष्टाध्याय्याम् <<तदस्मिन्नस्तीति देशे तन्नाम्नि>> [[4.2.67]], <<तेन निर्वृत्तम्>> [[4.2.68]], <<तस्य निवासः>> [[4.2.69]], तथा <<अदूरभवश्च>> [[4.2.70]] एते चत्वारः अर्थाः 'चतुरर्थाः' नाम्ना ज्ञायन्ते । एतेषाम् सर्वेषाम् विषये उवर्णान्त-प्रातिपदिकात् औत्सर्गिकमण्-प्रत्ययं बाधित्वा अञ्-प्रत्ययः भवति । यथा -\n1. अरडवः अस्मिन् देशे सन्ति सः = अरडु + अञ् → आरडवः देशः ।\n2. पुरुणा निर्वृत्तः देशः = पुरु + अञ् → पौरवः देशः ।\n3. कक्षतूनाम् निवासः देशः = कक्षतु + अञ् → काक्षतवः देशः ।\n4. कर्कटेलूनामदूरभवः देशः = कर्कटेलु + अञ् → कार्कटेलवः देशः ।\nज्ञातव्यम् -\n1. अण्-प्रत्ययेन अञ्-प्रत्ययेन च समानमेव रूपं जायते, परन्तु अञ्-प्रत्ययान्तशब्दाः <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] इत्यनेन आद्युदात्ताः सन्ति ।\n2. चतुरर्थैः नद्याः नाम्नः निर्देशः कर्तव्यः अस्ति चेत् उवर्णान्त-प्रातिपदिकात् <<नद्यां मतुप्>> [[4.2.85]] इत्यनेन मतुप्-प्रत्ययः विधीयते । अयं प्रत्ययः वर्तमानसूत्रेण निर्दिष्टमञ्-प्रत्ययं बाधित्वा आगच्छति ।\n" }, "42072": { "sa": "यस्य मतुप्-प्रत्ययान्त-शब्दस्य अङ्गम् 'बह्वच्' अस्ति, तस्मात् चतुरर्थेषु अञ्-प्रत्ययः भवति । ", "sd": "यः शब्दः मतुप्-प्रत्ययान्तः अस्ति, तथा यस्य (मतुप्-प्रत्ययात् पूर्वम् विद्यमाने) अङ्गे त्रयः वा अधिकाः स्वराः सन्ति, तादृशात् शब्दात् चतुरर्थेषु अञ्-प्रत्ययः भवति । यथा -\n1. ऐषुकावती अस्मिन् अस्ति सः देशः = ऐषुकावती + अञ् → ऐषुकावतः देशः । अत्र 'ऐषुकावती' अस्मिन् शब्दे मतुप्-प्रत्ययान्तमङ्गम् 'ऐषुका' इत्यत्र त्रयः स्वराः सन्ति । अतः एतत् अङ्गम् 'बह्वजङ्गम्' अस्ति । अतः अत्र औत्सर्गिकमण्-प्रत्ययं बाधित्वा अञ्-प्रत्ययः विधीयते ।\n2. सैध्रकावती अस्मिन् अस्ति सः देशः = सैध्रकावती + अञ् → सैध्रकावतः देशः ।\nयदि अङ्गे एकः स्वरः द्वौ वा स्वरौ स्तः, तर्हि अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा - आहिमती अस्मिन् अस्ति सः देशः = आहिमती + अण् → आहिमतः देशः । अत्र औत्सर्गिकः अण्-प्रत्ययः एव विधीयते ।\nस्मर्तव्यम् -\n1. अङ्गे विद्यमानस्य 'अच्' वर्णस्य गणना यदा क्रियते तदा 'मतुप्' प्रत्यये उपस्थिताः अच्-वर्णाः न गण्यन्ते । अतः 'ऐषुकावती' इत्यत्र अङ्गे त्रयः अच्-वर्णाः सन्ति ।\n2. अष्टाध्याय्याम् <<तदस्मिन्नस्तीति देशे तन्नाम्नि>> [[4.2.67]], <<तेन निर्वृत्तम्>> [[4.2.68]], <<तस्य निवासः>> [[4.2.69]], तथा <<अदूरभवश्च>> [[4.2.70]] एते चत्वारः अर्थाः 'चतुरर्थाः' नाम्ना ज्ञायन्ते ।" }, "42073": { "sa": "यः शब्दः 'बह्वच्' अस्ति, तस्मात् कूपस्य निर्देशं कर्तुम् चतुरर्थेषु अञ्-प्रत्ययः भवति ।", "sd": "यस्मिन् प्रातिपदिके त्रयः वा अधिकाः स्वराः सन्ति, तत् प्रातिपदिकम् 'बह्वच्' इति नाम्ना ज्ञायते । अस्य प्रातिपदिकस्य साहाय्येन कूपस्य निर्देशः कर्तव्यः अस्ति चेत् चतुरर्थेषु अञ्-प्रत्ययः भवति । यथा -\n1. दीर्घवरत्रेण निर्वृत्तः कूपः = दीर्घवरत्र + अञ् → दैर्घवरत्रः कूपः ।\n2. कपिलवरत्रेण निर्वृतः कूपः = कपिलवरत्र + अञ् → कापिलवरत्रः कूपः ।\nस्मर्तव्यम् - अष्टाध्याय्याम् <<तदस्मिन्नस्तीति देशे तन्नाम्नि>> [[4.2.67]] , <<तेन निर्वृत्तम्>> [[4.2.68]], <<तस्य निवासः>> [[4.2.69]], तथा <<अदूरभवश्च>> [[4.2.70]] एते चत्वारः अर्थाः 'चतुरर्थाः' नाम्ना ज्ञायन्ते । " }, "42074": { "sa": "'विपाश्' नद्याः उत्तरदिशि ये कूपाः सन्ति, तेषाम् नाम्नः चतुरर्थेषु निर्देशं कर्तुमञ्-प्रत्ययः भवति ।", "sd": "'विपाश्' इति शकारान्त-स्त्रीलिङ्गः शब्दः । कस्याश्चन नद्याः इदम् नाम । अस्याः नद्याः साहाय्येन आचार्येण भूमेः भागद्वयम् प्रोक्तमस्ति । अस्याः नद्याः उत्तरतटेषु ये कूपाः, तेषाम् नाम्नः चतुरर्थेषु निर्देशं कर्तुमञ्-प्रत्ययः क्रियते ।\nयथा -\n1. विपाशः उत्तरे दत्तेन निर्वृत्तः कूपः = दत्त + अञ् → दात्तः कूपः ।\n2. विपाशः उत्तरे गुप्तेन निर्वृत्तः कूपः = गुप्त + अञ् → गौप्तः कूपः ।\nअस्याः नद्याः दक्षिणतटे ये कूपाः सन्ति, तेषां विषये तु औत्सर्गिकः अण्-प्रत्ययः एव विधीयते ।\nस्मर्तव्यम् - यदि प्रातिपदिके त्रयः वा अधिकाः स्वराः सन्ति, तर्हि यद्यपि कूपः विपाश्-नद्याः दक्षिणदिशि वर्तते, तथापि <<बह्वचः कूपेषु>> [[4.2.73]] इत्यनेन अञ्-प्रत्ययः एव भवति । अतः वर्तमानसूत्रस्य प्रयोगः केवलं एकाच् / द्व्यच्-शब्दानां विषये एव क्रियते ।\nविशेषः - अस्मिन् सूत्रे सूत्रकारस्य सूक्ष्मबुद्धेः दर्शनम् भवति ।विपाश्-नद्याः उत्तरदिशि स्थितानाम् कूपानाम् नामानि सर्वानि आद्युदात्तानि सन्ति, परन्तु अस्याः एव नद्याः दक्षिणदिशि स्थितानाम् कूपानाम् नामानि तादृशानि न सन्ति । एतं भेदम् सूक्षरूपेण ज्ञात्वा तस्य निर्देशार्थमाचार्येण अत्र अञ्-प्रत्ययः विहितः अस्ति । अतएव काशिकाकारः अत्र ' महती सूक्ष्मेक्षिका वर्तते सूत्रकारस्य' इत्युक्त्वा पाणिनिमहर्षिं स्तौति ।\nज्ञातव्यम् -\n1. 'उदक्' इति 'उदच्' शब्दस्य प्रथमैकवचनम् । 'उत्तरदिशायाम् यत् वर्तते तत् उदक्' इति अस्य शब्दस्य अर्थः ।\n2. 'विपाश्' नद्याः अद्यतन नाम 'विपाशा / बियास' । इयम् नदी हिमाचलप्रदेशे प्रवहति । " }, "42075": { "sa": "सङ्कलादिगणस्य शब्देभ्यः चतुरर्थेषु अञ् प्रत्ययः भवति । ", "sd": "अष्टाध्याय्याम् <<तदस्मिन्नस्तीति देशे तन्नाम्नि>> [[4.2.67]], <<तेन निर्वृत्तम्>> [[4.2.68]], <<तस्य निवासः>> [[4.2.69]], तथा <<अदूरभवश्च>> [[4.2.70]] एते चत्वारः अर्थाः 'चतुरर्थाः' नाम्ना ज्ञायन्ते । एतेषाम् विषये सङ्कलादिगणस्य शब्देभ्यः चतुरर्थेषु अण्-प्रत्ययः विधीयते ।\nसङ्कलादिगणः अयम् -\nसङ्कल। पुष्कल। उद्वप। उडुप। उत्पुट। कुम्भ। विधान। सुदक्ष। सुदत्त। सुभूत। सुनेत्र। सुपिङ्गल। सिकता। पूतीकी। पूलस। कूलास। पलाश। निवेश। गवेष। गम्भीर। इतर। शर्मन्। अहन्। लोमन्। वेमन्। वरुण। बहुल। सद्योज। अभिषिक्त। गोभृत्। राजभृत्। गृह। भृत। भल्ल। माल। वृत्।\nकानिचन उदाहरणानि -\n1. सङ्कलेन निर्वृत्तः देशः = सङ्कल + अञ् → साङ्कलः देशः ।\n2. पुष्कलेन निर्वृत्तः देशः = पुष्कल + अञ् → पौष्कलः देशः ।\n3. उडुपेन निर्वृत्तः देशः = उडुप + अञ् → औडुपः देशः ।" }, "42076": { "sa": "सौवीरे विद्यमानस्य देशस्य, साल्वे विद्यमानस्य देशस्य, तथा पूर्वदिशि विद्यमानस्य देशस्य चतुरर्थेषु स्त्रीलिङ्गे अभिधानम् कर्तव्यमस्ति चेत् अञ्-प्रत्ययः विधीयते । ", "sd": "यदि सौवीरे विद्यमानस्य देशस्य/साल्वे विद्यमानस्य देशस्य चतुरर्थेषु स्त्रीलिङ्गे निर्देशः कर्तव्यः अस्ति, यदि वा पूर्वदिशि विद्यमानाम् देशानाम् चतुरर्थेषु स्त्रीलिङ्गे निर्देशः कर्तव्यः अस्ति, तर्हि वर्तमानसूत्रेण अञ्-प्रत्ययः विधीयते ।\nयथा\n1. सौवीरदेशे वर्तमाना, दत्तमित्रेण निर्वृत्ता नगरी = दत्तमित्र + अञ् + ङीप् → दात्तमित्री नगरी ।\n2. साल्वदेशे वर्तमाना, विधूमाग्निना निर्वृत्ता नगरी = विधूमाग्नि + अञ् + ङीप् → वैधूमाग्नी नगरी ।\n3. पूर्वदिशि विद्यमाना, ककन्देन निर्वृत्ता नगरी = ककन्द + अञ् + ङीप् → काकन्दी नगरी ।\n4. पूर्वदिशि विद्यमाना, मकन्देन निर्वृत्ता नगरी = मकन्द + अञ् + ङीप् → माकन्दी नगरी ।\n5. पूर्वदिशि विद्यमाना, जरुषेण निर्वृत्ता नगरी = जरुष + अञ् + ङीप् → जारुषी नगरी ।\nज्ञातव्यम् -\n1. अस्मिन् सूत्रे प्रयुक्तः 'स्त्रीषु' अयम् शब्दः 'देश' इत्यस्य विशेषणरूपेण प्रयुक्तः अस्ति । यः देशः स्त्रीलिङ्गवाची अस्ति (यथा 'नगरी', 'पुरी' आदयः) तस्य अयम् निर्देशः ।\n2. अष्टाध्याय्याम् <<तदस्मिन्नस्तीति देशे तन्नाम्नि>> [[4.2.67]], <<तेन निर्वृत्तम्>> [[4.2.68]], <<तस्य निवासः>> [[4.2.69]], तथा <<अदूरभवश्च>> [[4.2.70]] एते चत्वारः अर्थाः 'चतुरर्थाः' नाम्ना ज्ञायन्ते । " }, "42077": { "sa": "सुवास्तुगणस्य शब्देभ्यः चतुरर्थेषु अण् प्रत्ययः भवति ।", "sd": "अष्टाध्याय्याम् <<तदस्मिन्नस्तीति देशे तन्नाम्नि>> [[4.2.67]], <<तेन निर्वृत्तम्>> [[4.2.68]], <<तस्य निवासः>> [[4.2.69]], तथा <<अदूरभवश्च>> [[4.2.70]] एते चत्वारः अर्थाः 'चतुरर्थाः' नाम्ना ज्ञायन्ते । एतेषाम् विषये सुवास्तुगणस्य शब्देभ्यः चतुरर्थेषु अण्-प्रत्ययः विधीयते ।\nवस्तुतः अण्-प्रत्ययः चतुरर्थेषु औत्सर्गिकरूपेणैव आगच्छति । परन्तु अस्मिन् गणे विद्यमानाः ये उकारान्तशब्दाः, तेषाम् विषये अयमण्-प्रत्ययः <<ओरञ्>> [[4.2.71]] इत्यनेन अण्-प्रत्ययं बाधित्वा अञ्-प्रत्ययः विधीयते, तस्य निषेधं कृत्वा अण्-प्रत्ययस्य पुनर्निर्देशार्थम् तेषामस्मिन् गणे समावेशः कृतः अस्ति । अन्येषाम् शब्दानाम् विषये तु <<बह्वचः कूपेषु>> [[4.2.73]] इत्यनेन कूपस्य निर्देशं कर्तुम् यः अञ्-प्रत्ययः प्रोच्यते, तस्य बाधनमत्र कृतमस्ति । नदीसंज्ञकाः ये शब्दाः अस्मिन् गणे सन्ति, तेषां विषये तु <<नद्यां मतुप्>> [[4.2.85]] इत्यनेन निर्दिष्टं मतुप्-प्रत्ययं बाधित्वा अण्-प्रत्ययः विधीयते ।\nसुवास्तुगणस्य आवली इयम् -\nसुवास्तु। वर्णु। भण्डु। खण्डु। सेचालिन्। कर्पूरिन्। शिखण्डिन्। गर्त। कर्कश। शटीकर्ण। कृष्ण। कर्क। कर्ङ्कधू मती। गोह्र। अहिसक्थ। वृत्।\nकानिचन उदाहरणानि -\n1. सुवास्तोः अदूरभवं नगरं = सुवास्तु + अण् → सौवास्तवम् नगरम् ।\n2. वर्णुः (नदी) अस्मिन् अस्ति सः देशः = वर्णु + अण् → वार्णवः देशः ।\n3. शिखण्डिना निर्वृतः कूपः = शिखण्डिन् + अण् → शैखण्डिनः कूपः । (अत्र <<नस्तद्धिते>> [[6.4.144]] इत्यनेन टिलोपे प्राप्ते <<इनण्यनपत्ये>> [[6.4.164]] इत्यनेन सः निषिध्यते ।)\n" }, "42078": { "sa": "'रोणी' शब्दान्त-प्रातिपदिकानि चतुरर्थेषु 'अण्' प्रत्ययम् स्वीकुर्वन्ति । ", "sd": "अष्टाध्याय्याम् <<तदस्मिन्नस्तीति देशे तन्नाम्नि>> [[4.2.67]], <<तेन निर्वृत्तम्>> [[4.2.68]], <<तस्य निवासः>> [[4.2.69]], तथा <<अदूरभवश्च>> [[4.2.70]] एते चत्वारः अर्थाः 'चतुरर्थाः' नाम्ना ज्ञायन्ते । एतेषां विषये 'रोणी' शब्दान्त-प्रातिपदिकानि 'अण्' प्रत्ययम् स्वीकुर्वन्ति । यथा -\n1. रोण्या निर्वृत्तः कूपः = रोणी + अण् → रौणः ।\n2. अजकरोण्या निर्वृत्तः कूपः = अजकरोणी + अण् → आजकरोणः\n3. सिहिकरोण्या निर्वृत्तः कूपः = सिहिकरोणी + अण् → सैहिकरोणः\nज्ञातव्यम् -\n1. अस्मिन् सूत्रे 'रोणी' इति लुप्तपञ्चम्यन्तम् पदमस्ति । <<येन विधिस्तदन्तस्य>> [[1.1.72]] इत्यत्य दत्तेन अनेन वार्त्तिकेन प्रत्ययविधौ तदन्तविधिः नास्ति एतत् स्पष्टं भवति, अतः 'रोण्याः' इति उच्यते चेत् अस्य सूत्रस्य प्रसक्तिः 'अजकरोणी / सिहिकरोणी' एतेषाम् विषये न भवेत् । परन्तु अत्र तदन्तविधिः अपि अपेक्षते, अतः अत्र लुप्तविभक्तिकः निर्देशः कृतः अस्ति । अस्मिन् विषये न्यासकारः वदति - ' यदि `रोण्याः` इत्यादिनिर्देशः क्रियेत, तदा <ऽग्रहणवता प्रातिपदिकेन तदन्तविधिर्नऽ> (परिभाषा 89) इति `केवलात्` एव स्यात, न तदन्तात्। `रोणी` इति शास्त्र-अनपेक्षेण निर्देशेन शास्त्रनिरपेक्षत्वम् इह उच्यते, तत् अस्याः परिभाषाया अनपेक्षणात् इह तदन्तात् अपि प्रत्ययः सिद्धो भवति' । " }, "42079": { "sa": "", "sd": "" }, "42080": { "sa": "", "sd": "" }, "42081": { "sa": "", "sd": "" }, "42082": { "sa": "", "sd": "" }, "42083": { "sa": "", "sd": "" }, "42084": { "sa": "", "sd": "" }, "42085": { "sa": "", "sd": "" }, "42086": { "sa": "", "sd": "" }, "42087": { "sa": "", "sd": "" }, "42088": { "sa": "", "sd": "" }, "42089": { "sa": "", "sd": "" }, "42090": { "sa": "", "sd": "" }, "42091": { "sa": "", "sd": "" }, "42092": { "sa": "", "sd": "" }, "42093": { "sa": "", "sd": "" }, "42094": { "sa": "", "sd": "" }, "42095": { "sa": "", "sd": "" }, "42096": { "sa": "", "sd": "" }, "42097": { "sa": "", "sd": "" }, "42098": { "sa": "", "sd": "" }, "42099": { "sa": "", "sd": "" }, "42100": { "sa": "", "sd": "" }, "42101": { "sa": "", "sd": "" }, "42102": { "sa": "", "sd": "" }, "42103": { "sa": "", "sd": "" }, "42104": { "sa": "", "sd": "" }, "42105": { "sa": "", "sd": "" }, "42106": { "sa": "", "sd": "" }, "42107": { "sa": "", "sd": "" }, "42108": { "sa": "", "sd": "" }, "42109": { "sa": "", "sd": "" }, "42110": { "sa": "", "sd": "" }, "42111": { "sa": "", "sd": "" }, "42112": { "sa": "", "sd": "" }, "42113": { "sa": "", "sd": "" }, "42114": { "sa": "", "sd": "" }, "42115": { "sa": "", "sd": "" }, "42116": { "sa": "", "sd": "" }, "42117": { "sa": "", "sd": "" }, "42118": { "sa": "", "sd": "" }, "42119": { "sa": "", "sd": "" }, "42120": { "sa": "", "sd": "" }, "42121": { "sa": "", "sd": "" }, "42122": { "sa": "", "sd": "" }, "42123": { "sa": "", "sd": "" }, "42124": { "sa": "", "sd": "" }, "42125": { "sa": "", "sd": "" }, "42126": { "sa": "", "sd": "" }, "42127": { "sa": "", "sd": "" }, "42128": { "sa": "", "sd": "" }, "42129": { "sa": "", "sd": "" }, "42130": { "sa": "", "sd": "" }, "42131": { "sa": "", "sd": "" }, "42132": { "sa": "", "sd": "" }, "42133": { "sa": "", "sd": "" }, "42134": { "sa": "", "sd": "" }, "42135": { "sa": "", "sd": "" }, "42136": { "sa": "", "sd": "" }, "42137": { "sa": "", "sd": "" }, "42138": { "sa": "", "sd": "" }, "42139": { "sa": "", "sd": "" }, "42140": { "sa": "", "sd": "" }, "42141": { "sa": "", "sd": "" }, "42142": { "sa": "", "sd": "" }, "42143": { "sa": "", "sd": "" }, "42144": { "sa": "", "sd": "" }, "42145": { "sa": "", "sd": "" }, "43001": { "sa": "", "sd": "" }, "43002": { "sa": "", "sd": "" }, "43003": { "sa": "", "sd": "" }, "43004": { "sa": "", "sd": "" }, "43005": { "sa": "", "sd": "" }, "43006": { "sa": "", "sd": "" }, "43007": { "sa": "", "sd": "" }, "43008": { "sa": "", "sd": "" }, "43009": { "sa": "", "sd": "" }, "43010": { "sa": "", "sd": "" }, "43011": { "sa": "", "sd": "" }, "43012": { "sa": "", "sd": "" }, "43013": { "sa": "", "sd": "" }, "43014": { "sa": "", "sd": "" }, "43015": { "sa": "", "sd": "" }, "43016": { "sa": "", "sd": "" }, "43017": { "sa": "", "sd": "" }, "43018": { "sa": "", "sd": "" }, "43019": { "sa": "", "sd": "" }, "43020": { "sa": "", "sd": "" }, "43021": { "sa": "", "sd": "" }, "43022": { "sa": "", "sd": "" }, "43023": { "sa": "प्राग्दीव्यतीयेषु शैषिकेषु अर्थेषु सायम्, चिरम्, प्राह्णे, प्रगे - एतेभ्यः शब्देभ्यः तथा कालवाचिभ्यः अव्ययेभ्यः ट्यु/ट्युलौ प्रत्ययौ, तथा प्रत्ययस्य तुट्-आगमः भवति । ", "sd": "सायम् (= सायंकालः), चिरम् (= नित्यम् / बहुकालम्), प्राह्णे (= प्रातःकालः), प्रगे (= प्रातःकालः) एतानि चत्वारि अव्ययानि अनेनैव सूत्रेण निपात्यन्ते । एतेभ्यः शब्देभ्यः, तथा अन्येभ्यः कालवाचिभ्यः अव्ययेभ्यः प्राग्दीव्यतीय-शैषिकेषु अर्थेषु 'ट्यु' तथा 'ट्युल्' एतौ प्रत्ययौ भवतः, तथा प्रत्ययस्य 'तुट्' अयमागमः अपि भवति । कानिचन उदाहरणानि एतानि -\n1. 'सायम् भवः' इत्यत्र <<तत्र भवः>> [[4.3.53]] अस्मिन् शैषिके अर्थे वर्तमानसूत्रेण ट्यु/ट्युलौ प्रत्ययौ कृत्वा -\nसायम् + ट्यु/ट्युल्\n→ सायम् + अन [<<युवोरनाकौ>> [[7.2.1]] इति यु-इत्यस्य अन-आदेशः]\n→ सायम् + तुट् + अन [<<सायंचिरम्प्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च>> [[4.2.23]] इति तुट्-आगमः । अयमागमः <<आद्यन्तौ टकितौ>> [[1.1.46]] इत्यनेन प्रत्ययस्य आद्यवयवरूपेण आगच्छति । 'तुट्' इत्यत्र टकारः इत्संज्ञकः, उकारः च उच्चारणार्थः; अतः 'त्' एव अवशिष्यते ।]\n→ सायंतन [<<मोऽनुस्वारः>> [[8.3.23]] इति पदान्तमकारस्य अनुस्वारः]\n→ सायन्तन [<<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति अनुस्वारस्य परसवर्णः नकारः]\nतथैव - चिरम् + ट्यु/ट्युल् → चिरन्तन । प्राह्णे + ट्यु/ट्युल् → प्राह्णेतन । प्रगे + ट्यु/ट्युल् → प्रगेतन ।\n2. 'श्वस्' इति कालवाचि अव्ययम् । अस्मात् अव्ययात् अपि वर्तमानसूत्रेण 'ट्यु' तथा 'ट्युल्' एतौ प्रत्ययौ भवतः -\nश्वस् + ट्यु/ट्युल्\n→ श्वस् + अन [<<युवोरनाकौ>> [[7.2.1]] इति यु-इत्यस्य अन-आदेशः]\n→ श्वस् + तुट् + अन [<<सायंचिरम्प्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च>> [[4.2.23]] इति तुट्-आगमः । अयमागमः <<आद्यन्तौ टकितौ>> [[1.1.46]] इत्यनेन प्रत्ययस्य आद्यवयवरूपेण आगच्छति ।]\n→ श्वस्तन\nएवमेव अद्यतन, अनद्यतन, ह्यस्तन, इदानीन्तन, पुरातन, प्राक्तन, दिवातन, दोषातन - एते शब्दाः अपि सिद्ध्यन्ति ।\nज्ञातव्यम् -\n1. ट्यु तथा ट्युल् - द्वयोः अपि प्रत्यययोः प्रयोगेण अन्तिमरूपम् तु समानमेव जायते, केवलं स्वरे तत्र कश्चन विशेषः विधीयते । 'ट्युल्' प्रत्ययः लित्-अस्ति, अतः <<लिति>> [[6.1.193]] अनेन सूत्रेण प्रत्ययात् पूर्वः यः स्वरः सः उदात्तः जायते । यथा - 'सायम् + ट्युल् → सायन्तन' इत्यत्र यकारोत्तरः अकारः उदात्तः अस्ति । ट्यु-प्रत्यये तु लकारः इत्संज्ञकः नास्ति, अतः 'सायम् + ट्यु → सायन्तन' इत्यत्र यकारोत्तरः अकारः उदात्तः नास्ति, अपितु <<अनुदात्तं पदमेकवर्ज्यम्>> [[6.1.158]] इत्यनेन अनुदात्तस्वरं प्राप्नोति ।\n2. अत्र निर्दिष्टायां प्रक्रियायामादौ ट्यु/ट्युल्-प्रत्यययोः 'अन'-आदेशं कृत्वा तदनन्तरम् 'तुट्' आगमः कृतः अस्ति । यदि 'अन'-आदेशात् पूर्वम् एव 'तुट्' आगमः क्रियेत, तर्हि किम् भवेत्? 'सायम् + ट्यु/ट्युल्' इत्यत्र तुट्-आगमे कृते 'सायम् + तुट् + ट्यु/ट्युल्' इति प्राप्ते अग्रे यु-इत्यस्य अन-आदेशः एव न सम्भवति - 'तुट्' इत्यस्य व्यवधानात् । (<<युवोरनाकौ>> [[7.2.1]] इति अङ्गाधिकारे अस्ति, अतः अङ्गात् परस्य 'यु' प्रत्ययस्यैव अन-आदेशः भवति । अतः अङ्ग-प्रत्यययोः मध्ये तुट्-आगमः भवति चेत् 'यु' इत्यस्य अन-आदेशः न जायते) । परन्तु पाणिनिना अष्टाध्याय्याम् <<अनद्यतने लङ्>> [[3.2.111]] इत्यत्र स्वयमेव 'अनद्यतन' अयम् शब्दः प्रयुक्तः अस्ति । एतत् अस्यैव ज्ञापकम् यत् अत्र आदौ अन-आदेशं कृत्वा तदनन्तरमेव तुट्-आगमः करणीयः ।\nअत्र कानिचन वार्त्तिकानि ज्ञातव्यानि -\n1. - चिर (= नित्यम् / बहुकालम्), परुत् (= गतवर्षे), परारि (= द्वौ वर्षौ पूर्वम्) - एतेभ्यः शब्देभ्यः शैषिकेषु अर्थेषु 'त्न' प्रत्ययः भवति । चिर + त्न → चिरत्न । परुत् + त्न → परुत्त्न । परारि + त्न → परारित्न ।\n2. - 'प्रग' (पूर्वम्) अस्य अव्ययस्य विषये वेदानां विषये शैषिकेषु अर्थेषु त्न-प्रत्ययः भवति, तथा प्रग-शब्दस्य 'ग' इत्यस्य लोपः अपि भवति । प्रग + त्न → प्रत्न । यथा - ऋग्वेदे 10.4.1 इत्यत्र 'धन्व॑न्निव प्र॒पा अ॑सि॒ त्वम॑ग्न इय॒क्षवे॑ पू॒रवे॑ प्रत्न राजन्' अयम् निर्देशः कृतः अस्ति ।\n3. - 'अग्र', 'आदि', 'पश्चात्' - एतेभ्यः शैषिकेषु अर्थेषु डिमच्-प्रत्ययः भवति । डिमच् अयम् डित्-प्रत्ययः , अतः <<टेः>> [[6.4.143]] इत्यनेन टिलोपं कृत्वा रूपं सिद्ध्यति । अग्र + डिमच् → अग्रिम । आदि + डिमच् → आदिम । पश्चात् + डिमच् → पश्चिम ।\n4. - 'अन्त' शब्दात् अपि शैषिकेषु अर्थेषु डिमच्-प्रत्ययः भवति । अन्त + डिमच् → अन्तिम ।\n " }, "43024": { "sa": "", "sd": "" }, "43025": { "sa": "", "sd": "" }, "43026": { "sa": "", "sd": "" }, "43027": { "sa": "", "sd": "" }, "43028": { "sa": "", "sd": "" }, "43029": { "sa": "", "sd": "" }, "43030": { "sa": "", "sd": "" }, "43031": { "sa": "", "sd": "" }, "43032": { "sa": "", "sd": "" }, "43033": { "sa": "", "sd": "" }, "43034": { "sa": "", "sd": "" }, "43035": { "sa": "", "sd": "" }, "43036": { "sa": "", "sd": "" }, "43037": { "sa": "", "sd": "" }, "43038": { "sa": "", "sd": "" }, "43039": { "sa": "", "sd": "" }, "43040": { "sa": "", "sd": "" }, "43041": { "sa": "", "sd": "" }, "43042": { "sa": "", "sd": "" }, "43043": { "sa": "", "sd": "" }, "43044": { "sa": "", "sd": "" }, "43045": { "sa": "", "sd": "" }, "43046": { "sa": "", "sd": "" }, "43047": { "sa": "", "sd": "" }, "43048": { "sa": "", "sd": "" }, "43049": { "sa": "", "sd": "" }, "43050": { "sa": "", "sd": "" }, "43051": { "sa": "", "sd": "" }, "43052": { "sa": "", "sd": "" }, "43053": { "sa": "", "sd": "" }, "43054": { "sa": "", "sd": "" }, "43055": { "sa": "", "sd": "" }, "43056": { "sa": "", "sd": "" }, "43057": { "sa": "", "sd": "" }, "43058": { "sa": "", "sd": "" }, "43059": { "sa": "", "sd": "" }, "43060": { "sa": "", "sd": "" }, "43061": { "sa": "", "sd": "" }, "43062": { "sa": "", "sd": "" }, "43063": { "sa": "", "sd": "" }, "43064": { "sa": "", "sd": "" }, "43065": { "sa": "", "sd": "" }, "43066": { "sa": "", "sd": "" }, "43067": { "sa": "", "sd": "" }, "43068": { "sa": "", "sd": "" }, "43069": { "sa": "", "sd": "" }, "43070": { "sa": "", "sd": "" }, "43071": { "sa": "", "sd": "" }, "43072": { "sa": "", "sd": "" }, "43073": { "sa": "", "sd": "" }, "43074": { "sa": "", "sd": "" }, "43075": { "sa": "", "sd": "" }, "43076": { "sa": "", "sd": "" }, "43077": { "sa": "", "sd": "" }, "43078": { "sa": "", "sd": "" }, "43079": { "sa": "", "sd": "" }, "43080": { "sa": "", "sd": "" }, "43081": { "sa": "", "sd": "" }, "43082": { "sa": "", "sd": "" }, "43083": { "sa": "", "sd": "" }, "43084": { "sa": "", "sd": "" }, "43085": { "sa": "", "sd": "" }, "43086": { "sa": "", "sd": "" }, "43087": { "sa": "", "sd": "" }, "43088": { "sa": "", "sd": "" }, "43089": { "sa": "", "sd": "" }, "43090": { "sa": "", "sd": "" }, "43091": { "sa": "", "sd": "" }, "43092": { "sa": "", "sd": "" }, "43093": { "sa": "", "sd": "" }, "43094": { "sa": "", "sd": "" }, "43095": { "sa": "", "sd": "" }, "43096": { "sa": "", "sd": "" }, "43097": { "sa": "", "sd": "" }, "43098": { "sa": "", "sd": "" }, "43099": { "sa": "", "sd": "" }, "43100": { "sa": "", "sd": "" }, "43101": { "sa": "", "sd": "" }, "43102": { "sa": "", "sd": "" }, "43103": { "sa": "", "sd": "" }, "43104": { "sa": "", "sd": "" }, "43105": { "sa": "", "sd": "" }, "43106": { "sa": "", "sd": "" }, "43107": { "sa": "", "sd": "" }, "43108": { "sa": "", "sd": "" }, "43109": { "sa": "", "sd": "" }, "43110": { "sa": "", "sd": "" }, "43111": { "sa": "", "sd": "" }, "43112": { "sa": "", "sd": "" }, "43113": { "sa": "", "sd": "" }, "43114": { "sa": "", "sd": "" }, "43115": { "sa": "", "sd": "" }, "43116": { "sa": "", "sd": "" }, "43117": { "sa": "", "sd": "" }, "43118": { "sa": "", "sd": "" }, "43119": { "sa": "", "sd": "" }, "43120": { "sa": "", "sd": "" }, "43121": { "sa": "", "sd": "" }, "43122": { "sa": "", "sd": "" }, "43123": { "sa": "", "sd": "" }, "43124": { "sa": "", "sd": "" }, "43125": { "sa": "", "sd": "" }, "43126": { "sa": "", "sd": "" }, "43127": { "sa": "", "sd": "" }, "43128": { "sa": "", "sd": "" }, "43129": { "sa": "", "sd": "" }, "43130": { "sa": "", "sd": "" }, "43131": { "sa": "", "sd": "" }, "43132": { "sa": "", "sd": "" }, "43133": { "sa": "", "sd": "" }, "43134": { "sa": "", "sd": "" }, "43135": { "sa": "", "sd": "" }, "43136": { "sa": "", "sd": "" }, "43137": { "sa": "", "sd": "" }, "43138": { "sa": "", "sd": "" }, "43139": { "sa": "", "sd": "" }, "43140": { "sa": "", "sd": "" }, "43141": { "sa": "", "sd": "" }, "43142": { "sa": "", "sd": "" }, "43143": { "sa": "", "sd": "" }, "43144": { "sa": "", "sd": "" }, "43145": { "sa": "", "sd": "" }, "43146": { "sa": "", "sd": "" }, "43147": { "sa": "", "sd": "" }, "43148": { "sa": "", "sd": "" }, "43149": { "sa": "", "sd": "" }, "43150": { "sa": "", "sd": "" }, "43151": { "sa": "", "sd": "" }, "43152": { "sa": "", "sd": "" }, "43153": { "sa": "", "sd": "" }, "43154": { "sa": "", "sd": "" }, "43155": { "sa": "", "sd": "" }, "43156": { "sa": "", "sd": "" }, "43157": { "sa": "", "sd": "" }, "43158": { "sa": "", "sd": "" }, "43159": { "sa": "", "sd": "" }, "43160": { "sa": "", "sd": "" }, "43161": { "sa": "", "sd": "" }, "43162": { "sa": "", "sd": "" }, "43163": { "sa": "", "sd": "" }, "43164": { "sa": "", "sd": "" }, "43165": { "sa": "", "sd": "" }, "43166": { "sa": "", "sd": "" }, "43167": { "sa": "", "sd": "" }, "43168": { "sa": "", "sd": "" }, "44001": { "sa": "प्राक्-वहतीय-अर्थेषु ठक्-प्रत्ययः औत्सर्गिकरूपेण भवति ।", "sd": "तद्धिताधिकारे पाठितेभ्यः पञ्च-महोत्सर्गेभ्यः द्वितीयः महोत्सर्गः अस्मात् सूत्रात् आरभ्यते । वर्तमानसूत्रतः <<तद्वहति रथयुगप्रासङ्गम्>> [[4.4.76]] इति यावत्सु सूत्रेषु आहत्य षट्त्रिंशत् (36) अर्थाः पाठिताः सन्ति । एते सर्वे अर्थाः 'प्राग्वहतीय-अर्थाः' नाम्ना ज्ञायन्ते । एतेषां सर्वेषाम् विषये औत्सर्गिकरूपेण ठक्-प्रत्ययः भवति । अस्य ठक्-प्रत्ययस्य अपवादरूपेण भिन्नैः सूत्रैः भिन्नासु अवस्थासु विविधानाम् प्रत्ययानाम् विधानम् क्रियते ।\nठक्-प्रत्ययस्य उदाहरणानि एतानि -\nअ) दध्ना संस्कृतम् = दधि + ठक् → दाधिक ।\nआ) शकटेन चरति = शकट + ठक् → शाकटिक ।\nइ) समाजं रक्षति = समाज + ठक् → सामाजिक ।\nप्रक्रिया इयम् -\nदधि + ठक् [<<प्राग्वहतेष्ठक्>> [[4.4.1]]\n→ दधि + इक [<<ठस्येकः>> [[7.3.50]] इति ठकारस्य इकारादेशः]\n→ दाधि + इक [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ दाध् + इक [<<यस्येति च>> [[6.4.148]] इति इकारलोपः]\n→ दाधिक\n36 प्राग्वहतीय-अर्थाः एते -\n1. <<तेन दीव्यति खनति जयति जितम्>> [[4.4.2]]\n2. <<संस्कृतम्>> [[4.4.3]]\n3. <<तरति>> [[4.4.5]]\n4. <<चरति>> [[4.4.8]]\n5. <<वेतनादिभ्यो जीवति>> [[4.4.12]]\n6. <<हरत्युत्सङ्गादिभ्यः>> [[4.4.15]]\n7.<<निर्वृत्तेऽक्षद्यूतादिभ्यः>> [[4.4.19]]\n8. <<संसृष्टे>> [[4.4.22]]\n9. <<व्यञ्जनैरुपसिक्ते>> [[4.4.26]]\n10. <<ओजस्सहोऽम्भसा वर्तते>> [[4.4.27]]\n11. <<प्रयच्छति गर्ह्यम्>> [[4.4.30]]\n12. <<उञ्छति>> [[4.4.32]]\n13. <<रक्षति>> [[4.4.33]]\n14. <<शब्ददर्दुरं करोति>> [[4.4.34]]\n15. <<पक्षिमत्स्यमृगान् हन्ति>> [[4.4.35]]\n16. <<परिपन्थं च तिष्ठति>> [[4.4.36]]\n17. <<माथोत्तरपदपदव्यनुपदं धावति>> [[4.4.37]]\n18. <<पदोत्तरपदं गृह्णाति>> [[4.4.38]]\n19. <<धर्मं चरति>> [[4.4.41]]\n20. <<प्रतिपथमेति ठंश्च>> [[4.4.42]]\n21. <<समवायान् समवैति>> [[4.4.43]]\n22. <<संज्ञायां ललाटकुक्कुट्यौ पश्यति>> [[4.4.46]]\n23. <<तस्य धर्म्यम्>> [[4.4.47]]\n24. <<अवक्रयः>> [[4.4.50]]\n25. <<तदस्य पण्यम्>> [[4.4.51]]\n26. <<शिल्पम्>> [[4.4.55]]\n27. <<प्रहरणम्>> [[4.4.57]]\n28. <<अस्तिनास्तिदिष्टं मतिः>> [[4.4.60]]\n29. <<शीलम्>> [[4.4.61]]\n30. <<कर्माध्ययने वृत्तम्>> [[4.4.63]]\n31. <<हितं भक्षाः>> [[4.4.65]]\n32. <<तदस्मै दीयते नियुक्तम्>> [[4.4.66]]\n33. <<तत्र नियुक्तः>> [[4.4.69]]\n34. <<अध्यायिन्यदेशकालात्>> [[4.4.71]]\n35. <<कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति>> [[4.4.72]]\n36. <<निकटे वसति>> [[4.4.73]]\nअत्र कानिचन वार्त्तिकानि ज्ञातव्यानि -\n1. । इत्युक्ते, अस्मिन् अधिकारे 'तत् आह' अस्मिन् अर्थे 'मा शब्दम्','नित्यं शब्दम् ', तथा 'कार्यं शब्दम् ' एतेभ्यः वाक्येभ्यः अपि ठक्-प्रत्ययः भवति । यथा - मा शब्दं कार्षीः इति यः आह, सः = मा शब्दम् + ठक् → माशब्दिकः । तथैव, नित्यं शब्दं कार्षीः इति यः आह, सः = नैत्यशब्दिकः । कार्यं शब्दं कार्षीः इति यः आह सः = कार्यशब्दिकः ।\n(अत्र ठक्-प्रत्ययः वाक्यस्य विषये क्रियते, न हि शब्दस्य विषये एतत् स्मर्तव्यम् ।)\n2. - 'प्रभृत' तथा 'पर्याप्त' एताभ्याम् शब्दाभ्याम् 'आह' अस्मिन् अर्थे ठक्-प्रत्ययः भवति । यथा - प्रभृतमाह सः = प्राभृतिकः । पर्याप्तमाह, सः = पार्याप्तिकः ।\n3. - 'पृच्छति' अस्मिन् अर्थे 'सुस्नात', 'सुखरात्रि ', 'सुखशयन' एतेभ्यः शब्देभ्यः ठक्-प्रत्ययः भवति । यथा - सुस्नातं पृच्छति सः = सौस्नातिकः । सुखरात्रिं पृच्छति सः = सौखरात्रिकः । सुखशयनं पृच्छति सः = सौखशायनिकः ।\nविशेषः - सुखशयन + ठक् इत्यस्य प्रक्रिया इयम् -\n→ सुखशयन + ठक्\n→ सुखशयन + इक [<<ठस्येकः>> [[7.3.50]] इति ठकारस्य इक्-आदेशः]\n→ सौखशायन + इक [<<अनुशतिकादीनां च>> [[7.3.20]] इत्यनेन पूर्वपदस्य तथा उत्तपदस्य प्रथमस्य अच्-वर्णस्य किति परे वृद्धिः]\n→ सौखशायन् + इक [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ सौखशायिन\n4. - 'गच्छति' इत्यस्मिन् अर्थे 'परदारा' तथा 'गुरुतल्प' एताभ्यां शब्दाभ्याम् ठक्-प्रत्ययः भवति । परदारान् गच्छति सः = पारदारिकः । गुरुतल्पं गच्छति सः = गौरुतल्पिकः । " }, "44002": { "sa": "तृतीयासमर्थात् 'दीव्यति', 'खनति', 'जयति' तथा 'जितम्' एतेषु अर्थेषु ठक्-प्रत्ययः भवति । ", "sd": "अस्मिन् सूत्रे चत्वारः शब्दाः दत्ताः सन्ति - दीव्यति ( इत्युक्ते द्युतक्रीडां करोति), खनति (इत्युक्ते छेदनम् / खननम् करोति), जयति (विजयं प्राप्नोति), तथा जितम् (विजयः प्राप्तः) । एतेषु सर्वेषु अर्थेषु तृतीयासमर्थात् 'ठक्' इति प्रत्ययः विधीयते ।एतेभ्यः आदीनि त्रीणि पदानि कर्तरि-प्रयोगे सन्ति, अतः ठक्-प्रत्ययान्तशब्दः अत्र कर्तुः निर्देशं करोति । 'जितम्' अयम् चतुर्थः शब्दः कर्मणि प्रयोगे अस्ति, अतः ठक्-प्रत्ययान्तशब्दः अत्र कर्मपदस्य निर्देशं करोति ।\nउदाहरणानि एतानि -\n1. अक्षैः दीव्यति सः आक्षिकः । यथा - आक्षिकः युधिष्ठिरः ।\n2. अभ्र्या खनति सः आभ्रिकः । यथा - आभ्रिकः घटकारः ।\n3. अक्षैः जयति सः आक्षिकः । यथा - आक्षिकः शकुनिः ।\n4. अक्षैः जीतम् तत् आक्षिकम् । यथा - आक्षिकम् राज्यम् ।\nएतेषां सर्वेषां प्रक्रिया समाना एव अस्ति । यथा -\nअक्ष + ठक्\n→ अक्ष + इक [ठक् प्रत्ययस्य <<ठस्येकः>> [[7.3.50]] इत्यनेन इक्-आदेशः]\n→ आक्ष + इक [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ अक्ष् + इक [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ आक्षिक\nज्ञातव्यम् -\n1. अस्मिन् सूत्रे प्रयुक्तः 'तेन' इति तृतीयासमर्थः शब्दः करणस्य (= साधनस्य) निर्देशं करोति । अतः 'देवदत्तेन जितम्' आदिषु वाक्येषु वर्तमानसूत्रस्य प्रयोगः न क्रियते ।\n2. यद्यपि अस्मिन् सूत्रे 'दीव्यति, खनति, जयति' इत्यत्र लट्लकारस्य प्रथमपुरुषैकवचनस्य प्रयोगः कृतः अस्ति, तथाप्यत्र सङ्ख्यायाः उत कालस्य विवक्षा नास्ति । इत्युक्ते, 'अक्षैः दीव्यन्ति', 'अभ्रिभ्यामखनत्' 'अक्षेण जेष्यसि' एतादृशेषु वाक्येषु अपि वर्तमानसूत्रस्य प्रयोगं कर्तुं शक्यते ।\n" }, "44003": { "sa": "तृतीयासमर्थात् 'संस्कृतम्' अस्मिन् अर्थे ठक्-प्रत्ययः भवति । ", "sd": "संस्कृतम् इत्युक्ते उत्कर्षः । यस्य साहाय्येन उत्कर्षः क्रियते, तस्य तृतीयासमर्थात् नाम्नः ठक्-प्रत्ययं कृत्वा संस्कृतस्य पदार्थस्य निर्देशं कर्तुं वर्तमानसूत्रस्य प्रयोगः क्रियते । यथा -\n1. दध्ना संस्कृतम् = दधि + ठक् → दाधिक । मूलरूपस्य अपेक्षया दध्ना यस्य उत्कर्षः कृतः अस्ति, तत् दाधिकम् ।\n2. मरीचैः (black pepper) संस्कृतम् = मरिच + ठक् → मारिचिक ।\nप्रक्रिया -\nदधि + ठक्\n→ दधि + इक [<<ठस्येकः>> [[7.3.50]] इति इक्-आदेशः]\n→ दाधि + इक <<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ दाध् + इक [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ दाधिक\nएवमेव 'मारिचिक' इत्यपि रूपम् सिद्ध्यति ।\nज्ञातव्यम् -\n1. अस्मिन् सूत्रे 'तेन' इत्यनेन संस्करणस्य यत् साधनम् तस्य ग्रहणं क्रियते । अतः 'देवदत्तेन संस्कृतम्' एतादृशेषु वाक्येषु अस्य सूत्रस्य प्रयोगः न भवति ।\n2. <<संस्कृतं भक्षाः>> [[4.2.16]] इति कश्चन प्राग्दीव्यतीयः अर्थः अस्ति, सः वर्तमानसूत्रात् भिन्नः अस्तीति स्मर्तव्यम् ।\n <<संस्कृतं भक्षाः>> [[4.2.16]] इत्यनेन सप्तमीसमर्थशब्दात् प्रत्ययविधानम् कृतमस्ति, वर्तमानसूत्रेण तु तृतीयासमर्थात् प्रत्ययविधानं क्रियते । " }, "44004": { "sa": "'संस्कृतम्' अस्मिन् अर्थे तृतीयासमर्थात् कुलत्थशब्दात् तथा ककारोपधशब्दात् अण्-प्रत्ययः भवति । ", "sd": "'संस्कृतम्' अस्मिन् अर्थे <<प्राग्वहतेष्ठक्>> [[4.4.1]] इत्यनेन सर्वेभ्यः प्रातिपदिकेभ्यः औत्सर्गिकरूपेण ठक्-प्रत्यये प्राप्ते कुलत्थशब्दात् तथा ककारोपधेभ्यः शब्देभ्यः अपवादत्वेन अण्-प्रत्ययः भवति । यथा -\n1. कुलत्थेन संस्कृतम् कौलत्थम् ।\n2. (ककारोपधस्य उदाहरणम् -) तित्तिडिकेन संस्कृतम् तैत्तिडिकम् । " }, "44005": { "sa": "'तरति' अस्मिन् अर्थे तृतीयासमर्थात् ठक्-प्रत्ययः भवति । ", "sd": "यः तरति (= प्लवति) तस्य निर्देशः तरणस्य साधनेन कर्तुम् साधनवाचिशब्दात् ठक्-प्रत्ययः भवति । यथा -\n1. काण्डप्लवेन तरति सः काण्डप्लविकः ।\n2. उडुपेन तरति सः औडुपिकः ।\nप्रक्रियायाः उदाहरणम् -\nउडुप + ठक्\n→ उडुप + इक [<<ठस्येकः>> [[7.3.50]] इति इक्-आदेशः]\n→ औडुप + इक [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ औडुप् + इक [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ औडुपिक\n" }, "44006": { "sa": "तृतीयासमर्थात् 'गोपुच्छ'शब्दात् 'तरति' अस्मिन् अर्थे ठञ्-प्रत्ययः भवति । ", "sd": "'गोपुच्छ' इत्युक्ते धेनोः पुच्छम् । तस्य साहाय्येन यः कोऽपि तरति, तस्य निर्देशं कर्तुम् तृतीयासमर्थात् 'गोपुच्छ'शब्दात् ठञ्-प्रत्ययः भवति ।\nयथा -\nगोपुच्छेन तरति सः\n= गोपुच्छ + ठञ्\n→ गोपुच्छ + इक् [<<ठस्येकः>> [[7.3.50]] इति इक्-आदेशः]\n→ गौपुच्छ + इक् [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति ञित्-प्रत्यये परे अङ्गस्य आदिवृद्धिः]\n→ गौपुच्छ् + इक [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ गौपुच्छिक\nज्ञातव्यम् - <<प्राग्वहतेष्ठक्>> [[4.4.1]] अनेन सूत्रेण <<तरति>> [[4.4.5]] अस्मिन् अर्थे औत्सर्गिकरूपेण ठक्-प्रत्ययः क्रियते । परन्तु तं बाधित्वा वर्तमानसूत्रेण ठञ्-प्रत्ययः उक्तः अस्ति । वस्तुतः तु ठक्-प्रत्ययेन अपि 'गौपुच्छिक' इत्येव रूपं जायते, परन्तु तत्र स्वरे विशेषत्वं वर्तते । ठञ्-प्रत्ययान्तः यः 'गौपुच्छिक'शब्दः, तस्य आदिस्वरः (औकारः) <<ञित्यादिर्नित्यम्>> [[6.1.197]] इत्यनेन उदात्तत्त्वं प्राप्नोति, तथा कित्-प्रत्यये परे तु तस्य अनुदात्तत्वम् जायते । इमं स्वरभेदं दर्शयितुमेव अत्र पाणिनिना 'ठञ्' प्रत्ययस्य विधानं कृतमस्ति । " }, "44007": { "sa": "'तरति' अस्मिन् अर्थे तृतीयासमर्थात् 'नौ'शब्दात् तथा 'द्व्यच्' शब्दात् ठन्-प्रत्ययः भवति ।", "sd": "यः 'तरणं /प्लवनं करोति' तस्य निर्देशं कर्तुम् तृतीयासमर्थात् 'नौ' शब्दात् तथा द्व्यच्-शब्दात् 'तरति' अस्मिन् अर्थे ठन्-प्रत्ययः भवति ।यथा -\n1. नावा तरति सः\n= नौ + ठन्\n→ नौ + इक [<<ठस्येकः>> [[7.3.50]] इति इक्-आदेशः]\n→ नाविक [<<एचोऽयवायावः>> [[6.1.78]] इति आव्-आदेशः]\n2. 'द्व्यच्' इत्युक्ते सः शब्दः यस्मिन् द्वौ स्वरौ वर्तेते । यथा -\nबाहुभ्यां तरति सः\n= बाहु + ठन्\n→ बाहु + क [<<इसुसुक्तान्तात् कः>> [[7.3.51]] इति ककारादेशः]\n→ बाहुक\nतथैव - घटेन तरति सः घटिकः, प्लवेन तरति सः प्लविकः - अत्र सर्वत्र ठन्-प्रत्ययः क्रियते ।\nज्ञातव्यम् - अस्मिन् सूत्रे 'नौद्व्यचष्ठन्' इत्यत्र प्रत्ययः 'ष्ठन्' इति नास्ति, अपितु 'ठन्' इत्येव अस्ति । षकारः अत्र सन्धिकार्येण जायते - 'द्व्यचस् + ठन्' इत्यत्र ष्टुत्वे कृते षकारः आगच्छति । अतः षकारः अनुबन्धः (= इत्संज्ञकः) न ज्ञातव्यः । एतदेव स्पष्टीकर्तुमस्य सूत्रस्य व्याख्याने काशिकाकारः वदति - ' षकारः सांहितिको नानुबन्धः' । किमस्य प्रमाणम्? यदि प्रत्यये षकारः इत्संज्ञकः अभविष्यत्, तर्हि स्त्रीत्वे विवक्षिते <<षिद्गौरादिभ्यश्च>> [[4.1.41]] इत्यनेन ङीष्-प्रत्ययः अभविष्यत् । परन्तु वस्तुतः अत्र <<अजाद्यतष्टाप्>> [[4.1.4]] इत्यनेन टाप्-प्रत्ययं कृत्वा 'नाविका / घटिका / बाहुका' एतादृशानि प्रातिपदिकानि सिद्ध्यन्ति । अतः काशिकाकारः अग्रे वदति - बाहुका स्त्री ।\n" }, "44008": { "sa": "'चरति' अस्मिन् अर्थे तृतीयासमर्थात् औत्सर्गिकरूपेण ठक्-प्रत्ययः भवति । ", "sd": "'चरति' इति चर्-धातोः लट्लकारस्य प्रथमपुरुषैकवचनम् । 'चरति' इत्यस्य अस्मिन् सूत्रे द्वौ अर्थौ स्वीक्रियेते - भक्षति, तथा गच्छति । द्वयोः अपि अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः वर्तमानसूत्रेण औत्सर्गिकरूपेण ठक्-प्रत्ययः विधीयते । यथा -\n1. दध्ना चरति (= भक्षति) सः दाधिकः ।\nदधि + ठक्\n→ दधि + इक [<<ठस्येकः>> [[7.3.50]] इति ठकारस्य इकारादेशः]\n→ दाधि + इक [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ दाध् + इक [<<यस्येति च>> [[6.4.148]] इति इकारलोपः]\n→ दाधिक\n2. शकटेन चरति (= गच्छति) सः शाकटिकः ।\nशकट + ठक्\n→ शकट + इक [<<ठस्येकः>> [[7.3.50]] इति ठकारस्य इकारादेशः]\n→ शाकट + इक [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ शाकट् + इक [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ शाकटिक\n3. हस्तिना चरति (= गच्छति) सः हास्तिकः ।\nहस्तिन् + ठक्\n→ हस्तिन् + इक [<<ठस्येकः>> [[7.3.50]] इति ठकारस्य इकारादेशः]\n→ हास्तिन् + इक [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ हास्त् + इक [<<नस्तद्धिते>> [[6.4.144]] इति टिलोपः]\n→ हास्तिक\n " }, "44009": { "sa": "तृतीयासमर्थात् 'आकर्ष'शब्दात् 'चरति' अस्मिन् अर्थे ष्ठल्-प्रत्ययः भवति । ", "sd": "'आकर्ष' इत्युक्ते सुवर्णस्य परीक्षणे प्रयुज्यमानः कश्चन धातुः । यः कोऽपि तस्य साहाय्येन गच्छति / खादति तस्य निर्देशं कर्तुम् तृतीयासमर्थात् आकर्ष-शब्दात् ष्ठल्-प्रत्ययः भवति ।\nआकर्षेण चरति\n= आकर्ष + ष्ठल्\n→ आकर्ष + ठ [षकारलकारयोः इत्संज्ञा, लोपः]\n→ आकर्ष + इक [<<ठस्येकः>> [[7.3.50]] इति इक्-आदेशः]\n→ आकर्ष + इक [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ आकर्ष् + इक [<<यस्येति च>> [[6.4.148]] इति अकारलोपः\n→ आकर्षिक ।\nस्त्रीत्वे विवक्षिते षित्वात् <<षिद्गौरादिभ्यश्च>> [[4.1.41]] इत्यनेन ङीष्-प्रत्ययं कृत्वा 'आकर्षिकी' इति प्रातिपदिकं सिद्ध्यति । आकर्षेण चरति सा आकर्षिकी ।\nज्ञातव्यम् - कौमुद्यां दीक्षितः वदति - 'आकषादिति पाठान्तरम्' । इत्युक्ते, अस्मिन् सूत्रे 'आकर्ष' इत्यस्य स्थाने 'आकष' इत्यपि प्रयोगः कृतः दृश्यते । अतः 'आकषेन चरति सः आकषिकः' इत्यपि रूपम् साधुः एव ।\n" }, "44010": { "sa": "पर्पादिगणस्य तृतीयासमर्थेभ्यः शब्देभ्यः 'चरति' अस्मिन् अर्थे ष्ठन्-प्रत्ययः भवति ।", "sd": "पर्पादिगणे निर्दिष्टानाम् शब्दानां विषये 'चरति' अस्मिन् अर्थे तृतीयासमर्थात् औत्सर्गिकं ठक्-प्रत्ययं बाधित्वा ष्ठन्-प्रत्ययः विधीयते ।\nपर्पादिगणः अयम् - पर्प। अश्व। अश्वत्थ। रथ। जाल। न्यास। व्याल। पादः पत् च (गणसूत्रम्) ।\nयथा -\n1. पर्पेण चरतिः सः = पर्प + ष्ठन् → पर्पिक । (पर्प = तत् शकटम् यस्मिन् उपविश्य पङ्गवः चरन्ति ) ।\nप्रक्रिया-\nपर्प + ष्ठन्\n→ पर्प + ठ [षकारनकारयोः इत्संज्ञा, लोपः]\n→ पर्प + इक [<<ठस्येकः>> [[7.3.50]] इति इक्-आदेशः]\n→ पर्प् + इक [<<यस्येति च>> [[6.4.148]] इति अकारलोपः\n→ पर्पिक ।\n2. रथेन चरति सः रथिकः । प्रक्रिया तु पर्प-शब्दवदेव ।\nपर्पादिगणे 'पादः पत्' इति गणसूत्रम् वर्तते । अनेन 'पाद' इति शब्दस्य ष्ठन्-प्रत्यये परे पद्-आदेशः भवति । पादेन चलति सः पदिकः । प्रक्रिया इयम् -\nपाद + ष्ठन्\n→ पाद + ठ [षकारनकारयोः इत्संज्ञा, लोपः]\n→ पाद + इक [<<ठस्येकः>> [[7.3.50]] इति इक्-आदेशः]\n→ पद् + इक ['पादः पत् च' इति गणसूत्रम् । अनेन 'पाद' शब्दस्य पद्-आदेशः भवति ।]\n→ पदिक\nज्ञातव्यम् -\n1. 'ष्ठन्'-प्रत्यये नकारः स्वरनिर्देशार्थम् स्वीक्रियते । <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] इत्यनेन नित्-प्रत्यये परे समुदायस्य आद्युदात्तत्वं विधीयते । अतः पर्पिक, रथिक, पदिक - एतेषु सर्वेषु शब्देषु प्रथमः स्वरः उदात्तत्वं प्राप्नोति ।\n2. 'ष्ठन्'-प्रत्यये षकारग्रहणम् 'ङीष्'विधानार्थम् क्रियते । षित्-प्रत्ययान्तशब्दाः स्त्रीलिङ्गे <<षिद्गौरादिभ्यश्च>> [[4.1.41]] इत्यनेन ङीष्-प्रत्ययं स्वीकुर्वन्ति । यथा = पर्पेण चरति सा = पर्पिक + ङीष् → पर्पिकी ।\n" }, "44011": { "sa": "'चरति' अस्मिन् अर्थे तृतीयासमर्थात् 'श्वगण' शब्दात् ष्ठन् तथा ठञ् प्रत्ययौ भवतः । ", "sd": "श्वगणेन (श्वानपथकस्य साहाय्येन) यः चरति, तस्य निर्देशं कर्तुम् तृतीयासमर्थात् 'श्वगण'शब्दात् 'ष्ठन्' तथा 'ठञ्' प्रत्ययौ भवतः । यथा -\n1. श्वगणेन चरति सः\n= श्वगण + ष्ठन्\n→ श्वगण + ठ [इत्संज्ञालोपः]\n→ श्वगण + इक [<<ठस्येकः>> [[7.3.50]] इति इक्-आदेशः]\n→ श्वगण् + इक [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ श्वगणिक ।\nस्त्रीलिङ्गे विवक्षिते प्रत्ययस्य षित्वात् <<षिद्गौरादिभ्यश्च>> [[4.1.41]] इत्यनेन ङीष्-प्रत्ययं कृत्वा 'श्वगणिकी' इति प्रातिपदिकं सिद्ध्यति ।\n2. श्वगणेन चरति सः\n= श्वगण + ठञ्\n→ श्वगण + ठ [इत्संज्ञालोपः]\n→ श्वगण + इक [<<ठस्येकः>> [[7.3.50]] इति इक्-आदेशः]\n→ श्वागण + इक [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ श्वागण् + इक [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ श्वागणिक ।\nस्त्रीलिङ्गे विवक्षिते <<टिड्ढाणञ्>> [[4.1.41]] इत्यनेन ङीप्-प्रत्ययं कृत्वा 'श्वागणिकी' इति प्रातिपदिकं सिद्ध्यति ।\nज्ञातव्यम् - 'श्वन्' अयम् शब्दः <<द्वारादीनां च>> [[7.3.4]] इत्यत्र द्वारादिगणे निर्दिष्टः अस्ति, अतः वस्तुतः 'श्वगण' इत्यत्र आदिवृद्धिं बाधित्वा ऐच्-आगमः भवेत् । परन्तु <<श्वादेरिञि>> [[7.3.8]] इत्यत्र निर्दिष्टेन अनेन वार्त्तिकेन अस्य ऐच्-आगमस्य निषेधः भवति । अतः [<<तद्धितेष्वचामादेः>> [[7.2.117]] इत्यनेन आदिवृद्धिं कृत्वैव रूपं सिद्ध्यति ।\n " }, "44012": { "sa": "वेतनादिगणस्य शब्दानां विषये तृतीयासमर्थात् 'जीवति' अस्मिन् अर्थे ठक्-प्रत्ययः भवति । ", "sd": "वेतनादिगणे ये शब्दाः पाठ्यन्ते, तेषां विषये 'अनेन सह जीवति सः' अस्मिन् अर्थे तृतीयासमर्थात् ठक्-प्रत्ययः भवति ।\nवेतानादिगणः अयम् - वेतन। वाह। अर्धवाह। धनुर्दण्ड। जाल। वेस। उपवेस। प्रेषन। उपस्ति। सुख। शय्या। शक्ति। उपनिषत्। उपवेष। स्रक्। पाद। उपस्थान।\nउदाहरणानि -\n1. वेतनेन जीवति सः\n= वेतन + ठक्\n→ वेतन + इक [<<ठस्येकः>> [[7.3.50]] इति इक्-आदेशः]\n→ वैतन + इक [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ वैतन् + इक [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ वैतनिक\nतथैव - जालेन जीवति सः = जाल + ठक् → जालिक । शक्त्या जीवति सः = शक्ति + ठक् → शाक्तिक ।\n2. उपनिषद्भिः जीवति सः\n= उपनिषद् + ठक्\n→ उपनिषद् + क [<<ठस्येकः>> [[7.3.50]] इति इक्-आदेशे प्राप्ते तं बाधित्वा <<इसुसुक्तान्तात् कः>> [[7.3.51]] इत्यनेन ककारादेशः]\n→ उपनिषत्क [<<खरि च>> [[8.4.55]] इति चर्त्वम्]\nज्ञातव्यम् - अस्मिन् गणे 'धनुर्दण्ड' शब्दः निर्दिष्टः अस्ति । अस्य विषये काशिकाकारः वदति - 'धनुर्दण्डग्रहणमत्र सङ्घातविगृहीतार्थम्'। इत्युक्ते, 'धनुर्दण्ड' इत्यनेन सह 'धनुष्' तथा 'दण्ड' - एतयोः अप्यत्र समावेशः कर्तव्यः । यथा - धनुषा जीवति सः धानुष्कः । दण्डेन जीवति सः दाण्डिकः । धनुर्दण्डेन जीवति सः धानुर्दण्डिक ।\n" }, "44013": { "sa": "वस्न, क्रय, विक्रय - एतेभ्यः शब्देभ्यः तृतीयासमर्थेभ्यः 'जीवति' अस्मिन् अर्थे ठन्-प्रत्ययः भवति । ", "sd": "वस्नम् (मूल्यम्), क्रयः, विक्रयः, क्रयविक्रयः - एतैः साहाय्येन यः जीवति, तस्य निर्देशं कर्तुम् एतेभ्यः शब्देभ्यः ठन्-प्रत्ययः भवति -\n1. वस्नेन जीवति सः वस्निकः ।\n2. क्रयेण जीवति सः क्रयिकः ।\n3. विक्रयेण जीवति सः विक्रयिकः ।\n4. क्रयविक्रयेण जीवति सः क्रयविक्रयिकः ।\nप्रक्रियायाः उदाहरणम् -\nवस्न + ठक्\n→ वस्न + इक [<<ठस्येकः>> [[7.3.50]] इति इक्-आदेशः]\n→ वस्न् + इक [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ वस्निक\nज्ञातव्यम् - अस्मिन् सूत्रे 'क्रयविक्रय' अयम् निर्देशः क्रय, विक्रय तथा क्रयविक्रय - त्रयाणामपि ग्रहणं करोति । अतएव कौमुद्याम् काशिकायाम् च उच्यते - क्रयविक्रयग्रहणं सङ्घातविगृहीतार्थम्।\n" }, "44014": { "sa": "'जीवति' अस्मिन् अर्थे तृतीयासमर्थात् 'आयुध'शब्दात् ठन् तथा छ-प्रत्ययौ भवतः ।", "sd": "आयुधस्य साहाय्येन यः जीवति, तस्य निर्देशार्थम् वर्तमानसूत्रेण आयुधशब्दात् ठन्-प्रत्ययः छ-प्रत्ययः च दीयेते । यथा -\n1. आयुधेन जीवति\n= आयुध + ठन्\n→ आयुध + इक [<<ठस्येकः>> [[7.3.50]] इति इक्-आदेशः]\n→ आयुध् + इक [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ आयुधिक\n2. आयुधेन जीवति\n= आयुध + छ\n→ आयुध + ईय [<<आयनेयीनीयः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इत्यनेन छकारस्य ईय्-आदेशः]\n→ आयुध् + ईय [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ आयुधीय\n" }, "44015": { "sa": "'हरति' अस्मिन् अर्थे उत्सङ्गादिगणस्य शब्देभ्यः तृतीयासमर्थेभ्यः ठक्-प्रत्ययः भवति । ", "sd": "उत्सङ्गादिगणे पाठितेभ्यः शब्देभ्यः तृतीयासमर्थेभ्यः 'हरति (= अन्यत्र नयति, हरणं करोति)' अस्मिन् अर्थे ठक् प्रत्ययः कर्तव्यः । यथा -\nउत्सङ्गेन हरति सः\n= उत्सङ्ग + ठक्\n→ उत्सङ्ग + इक [<<ठस्येकः>> [[7.3.50]] इति इक्-आदेशः]\n→ औत्सङ्ग + इक [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ औत्सङ्ग् + इक [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ औत्सङ्गिक\nउत्सङ्गादिगः अयम् -\n1. उत्सङ्ग - उत्सङ्गेन हरति सः औत्सङ्गिकः ।\n2. उडुप - उडुपेन हरति सः औडुपिकः ।\n3. उत्पत - उत्पतेन हरति सः औत्पतिकः ।\n4. पिटक - पिटकेन हरति सः पैटकिकः ।\n" }, "44016": { "sa": "भ्रस्त्रादिगणस्य शब्देभ्यः तृतीयासमर्थेभ्यः 'हरति' अस्मिन् अर्थे ष्ठन्-प्रत्ययः भवति । ", "sd": "भस्त्रादिगणे ये शब्दाः पाठ्यन्ते, तेभ्यः तृतीयासमर्थेभ्यः 'हरति' (= दूरं नयति / हरणं करोति) अस्मिन् अर्थे ष्ठन्-प्रत्ययः विधीयते ।\nभस्त्रादिगणः अयम् - भस्त्रा, भरट, भरण, शीर्षभार, शीर्षेभार, अंसभार, अंसेभार ।\nउदाहरणम् - भस्त्रया हरति सः\n= भस्त्र + ष्ठन्\n→ भस्त्र + ठ [षकारनकारयोः इत्संज्ञा, लोपः]\n→ भस्त्र + इक [<<ठस्येकः>> [[7.3.50]] इति इक्-आदेशः]\n→ भस्त्र् + इक [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ भस्त्रिक ।\nष्ठन्-प्रत्यये षकारः इत्संज्ञकः अस्ति, तस्य प्रयोजनम् '<<षिद्गौरादिभ्यश्च>> [[4.1.41]] इत्यनेन स्त्रीत्वस्य विवक्षायाम् ङीष्-प्रत्ययविधानम्' इति वर्तते । अतः 'भस्त्रया हरति सा' इत्यत्मिन् अर्थे भस्त्र + ष्ठन् + ङीष् → भस्रिकी इति रूपं सिद्ध्यति ।\n" }, "44017": { "sa": "'हरति' अस्मिन् अर्थे तृतीयासमर्थात् 'विवध'शब्दात् तथा 'वीवध'शब्दात् विकल्पेन ष्ठन् प्रत्ययः भवति । पक्षे औत्सर्गिकः ठक्-प्रत्ययः अपि विधीयते । ", "sd": "'हरति (= अन्यत्र नयति / हरणं करोति') अस्मिन् अर्थे विवध / वीवध (= बन्धनार्थम् प्रयुज्यमाना शृङ्खला) एताभ्यां शब्दाभ्याम् विकल्पेन ष्ठन् प्रत्ययः भवति, पक्षे <<प्राग्वहतेष्ठक्>> [[4.4.1]] इति औत्सर्गिकः ठक्-प्रत्ययः अपि विधीयते ।\nयथा -\n1. विवधेन हरति सः\n= विवध + ष्ठन्\n→ विवध + ठ [षकारनकारयोः इत्संज्ञा, लोपः]\n→ विवध + इक [<<ठस्येकः>> [[7.3.50]] इति इक्-आदेशः]\n→ विवध् + इक [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ विवधिक\nस्त्रीत्वे विवक्षिते <<षिद्गौरादिभ्यश्च>> [[4.1.41]] इत्यनेन ङीष्-प्रत्ययं कृत्वा 'विवधिकी' इति रूपं सिद्ध्यति ।\n2. विवधेन हरति सः\n= विवध + ठक्\n→ विवध + ठ [ककारस्य इत्संज्ञा, लोपः]\n→ विवध + इक [<<ठस्येकः>> [[7.3.50]] इति इक्-आदेशः]\n→ वैवध + इक [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ वैवध् + इक [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ वैवधिक\nस्त्रीत्वे विवक्षिते <<टिड्ढाणञ्..>> [[4.1.15]] इत्यनेन ङीप्-प्रत्ययं कृत्वा वैवधिकी' इति रूपं सिद्ध्यति ।\nएवमेव 'वीवध' शब्दात् अपि 'वीवधिक' तथा 'वैवधिक' एते प्रातिपदिके सिद्ध्यतः ।\nज्ञातव्यम् - कौमुद्यां भाष्ये च एतत् सूत्रम् 'विभाषा विवधात्' इत्येव दत्तमस्ति । वीवधा-शब्दस्य कृते अपि अस्य सूत्रस्य प्रयोगः भवेत् एतत् निर्देशयितुम् भाष्यकारः इति वार्त्तिकं पाठयति । कौमुदीकारः तु <ऽएकदेशविकृतमनन्यवत्ऽ> अनया परिभाषया 'विवध'शब्दवत् एव 'वीवध'शब्दात् अपि एतौ प्रत्ययौ भवतः इति निर्देशयति ।\n" }, "44018": { "sa": "'हरति' अस्मिन् अर्थे तृतीयासमर्थात् कुटिलिकाशब्दात् अण्-प्रत्ययः भवति । ", "sd": "'कुटिलिका' (व्याधैः प्रयुज्यमाना विशिष्टप्रकारस्य यष्टिः) अस्मात् शब्दात् 'हरति (= अन्यत्र नयति / हरणं करोति)' अस्मिन् अर्थे अण्-प्रत्ययः विधीयते । यथा - कुटिलिकया हरति सः कौटिलिकः व्याधः । प्रक्रिया इयम् -\nकुटिलिका + अण्\n→ कौटिलिका + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ कौटिलिक् + अ [<<यस्येति च>> [[6.4.148]] इति आकारलोपः]\n→ कौटिलिक\n" }, "44019": { "sa": "'निर्वृत्ते' अस्मिन् अर्थे तृतीयासमर्थेभ्यः अक्षद्यूतगणस्य शब्देभ्यः ठक्-प्रत्ययः भवति ।", "sd": "'निर्वृत्तम्' इत्युक्ते 'कृतम् / सिद्धम्' । अक्षद्यूतादिगणस्य शब्देभ्यः 'निर्वृत्तम्' अस्मिन् अर्थे ठक्-प्रत्ययः भवति ।\nअक्षद्यूतादिगणः एषः - अक्षद्यूत। जानुप्रहृत। जङ्घाप्रहृत। पादस्वेदन। कण्टकमर्दन। गतागत। यातोपयात। अनुगत।\nउदाहरणम् - अक्षद्यूतेन निर्वृत्तम् तत् आक्षद्यूतिकम् शत्रुत्वम् ।\nप्रक्रिया -\nअक्षद्यूत + अण्\n→ अक्षद्यूत + इक [<<ठस्येकः>> [[7.3.50]] इति इक्-आदेशः]\n→ आक्षद्यूत + इक [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ आक्षद्यूत् + इक [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ आक्षद्यूतिक\nज्ञातव्यम् -\n1. अस्मिन् सूत्रे 'तेन' अयम् शब्दः साधनस्य निर्देशं करोति, न हि कर्तुः । अतः 'अक्षद्यूतेन निर्वृत्तम्' इत्युक्ते' अक्षद्यूतस्य साहाय्येन निवृत्तम्' इति अर्थः क्रियते ।\n2. 'निर्वृत्तम्' इति कर्मणिप्रयोगः, अतः वर्तमानसूत्रेण निर्दिष्टः तद्धितान्तः शब्दः कर्मपदस्य निर्देशं करोति । यथा - अक्षद्यूतेन निर्वृत्तम् तत् आक्षद्यूतिकम् शत्रुत्वम् । " }, "44020": { "sa": "'निर्वृत्तम्' अस्मिन् अर्थे 'क्त्रि'प्रत्ययान्तशब्देभ्यः मप्-प्रत्ययः भवति । ", "sd": "'क्त्रि' इति कश्चन कृत्-प्रत्ययः । यस्मिन् धातौ औपदेशिक-अवस्थायाम् 'डु' इति इत्संज्ञकः अस्ति, तेभ्यः भावार्थे <<ड्वितः क्त्रिः>> [[3.3.88]] अनेन सूत्रेण 'क्त्रि' इति प्रत्ययः विधीयते । यथा - डुपचष् + क्त्रि = पक्त्रि ।एतादृशात् क्त्रि-प्रत्ययान्त-प्रातिपदिकात् 'निर्वृत्तम्' अस्मिन् अर्थे 'मप्' इति प्रत्ययः विधीयते । यथा -\n1. डुपचष् + क्त्रि = पक्त्रि (= पचनक्रिया )। पचनक्रियया निर्वृत्तम् = पक्त्रि + मप् → पक्त्रिम ।\n2. डुकृञ् + क्त्रि = कृत्रि (कृतिः / क्रिया इत्यर्थः) । कृत्या / क्रियया निर्वृत्तम् = कृत्रि + मप् → कृत्रिम ।\nअस्मिन् सूत्रे 'नित्यम्' इति उक्तमस्ति । अस्य स्पष्टीकरणार्थं काशिकाकारः वदति - 'नित्यग्रहणं स्वातन्त्र्यनिवृत्त्यर्थम्, तेन त्र्यन्तं नित्यं मप्प्रत्ययान्तमेव भवति, विषयान्तरे न प्रयोक्तव्यम्' । इत्युक्ते, 'क्त्रि' प्रत्ययान्तशब्दः नित्यम् मप्-प्रत्ययेन सह एव प्रयोक्तव्यः, अन्यथा न । केवलं 'पक्त्रि', 'कृत्रि' एतादृशानां शब्दानाम् प्रयोगः न करणीयः, नित्यम् 'पक्त्रिम', 'कृत्रिम' एतादृशम् 'मप्' प्रत्ययेन सह एव प्रयोगः कर्तव्यः - इति अस्य आशयः । अतः विग्रहवाक्ये अपि 'पचनक्रियया निर्वृत्तम् पक्त्रिमम्' इत्येव उच्यते, न हि 'पक्त्र्या निर्वृत्तम्' इति ।\nअत्र एकम् वार्त्तिकमपि ज्ञातव्यम् - । इत्युक्ते, 'क्रियायाः भावः' अस्मिन् अर्थे यदि कञ्चन कृत्-प्रत्ययं प्रयोज्य प्रातिपदिकनिर्माणं क्रियते, तर्हि तस्मात् कृदन्तात् 'तेन निर्वृत्तम्' अस्मिन् अर्थे इमप्-प्रत्ययः भवति । यथा -\n1. पचनक्रियायाः भावः = पच् + घञ् → पाक । पाकेन निर्वृत्तम् = पाक + इमप् → पाकिम ।\n2. त्यज् + घञ् → त्याग । त्यागेन निर्वृत्तम् → त्यागिम ।\nज्ञातव्यम् - प्राग्दीव्यतीय-अधिकारे <<तेन निर्वृत्तम्>> [[4.2.68]] इति किञ्चन सूत्रमस्ति । परन्तु तस्य प्रयोगः भिन्नेभ्यः प्रातिपदिकेभ्यः भवति, तथा केवलं देशस्य नाम्नः निर्देशार्थम् एव भवति । सः अर्थः भिन्नः, अयमर्थः भिन्नः ।\n" }, "44021": { "sa": "'निर्वृत्तम्' अस्मिन् अर्थे 'अपमित्य'शब्दात् कक्-प्रत्ययः, यथा 'याचित'शब्दात् कन्-प्रत्ययः भवति । ", "sd": "'अपमित्य' इति 'अप + माङ्' इत्यस्य ल्यप्-प्रत्ययान्तरूपम् । 'व्यतिहारं / विनिमयं कृत्वा' इति तस्य अर्थः । 'याचित' इति 'याच' धातोः क्त-प्रत्ययान्तरूपम् । 'याचनां कृत्वा प्राप्तम्' इति तस्य अर्थः । 'अपमित्य' तथा 'याचित' एताभ्याम् शब्दाभ्याम् 'निर्वृत्तम्' अस्मिन् अर्थे क्रमेण कक् तथा कन्-प्रत्ययौ भवतः । यथा -\n1. अपमित्य निर्वृत्तम् तत् = अपमित्य + कक् → आपमित्यक ।\n2. याचितेन निर्वृत्तम् तत् = याचित + कन् → याचितक ।\nज्ञातव्यम् -\n1. 'अपमित्य' इति अव्ययमस्ति, अतः तस्मात् विहितस्य तृतीयायाः प्रत्ययस्य <<अव्ययादाप्सुपः>> [[2.4.82]] इत्यनेन लुक् भवति । अतएव विग्रहवाक्ये 'अपमित्य निर्वृत्तम्' इत्येव उच्यते ।\n2. वस्तुतः 'याचित'शब्दात् कक्-प्रत्ययं कृत्वा अपि 'याचितक' इत्येव रूपं सिद्ध्यति । परन्तु स्वरविशेषं दर्शयितुम् 'कन्' इति नित्-प्रत्ययस्य विधानं क्रियते । <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] अनेन सूत्रेण 'नित्' प्रत्यये परे समुदायस्य आदिस्वरः उदात्तः जायते । यथा, कन्-प्रत्ययान्तस्य 'याचितक'शब्दस्य आदिस्वरः आकारः अनेन सूत्रेण उदात्तत्वं प्राप्नोति । यदि अत्र 'कक्' प्रत्ययः अभविष्यत्, तर्हि <<कितः>>[[6.1.165]] इत्यनेन समुदायस्य अन्तिमस्य स्वरस्य उदात्तत्वे प्राप्ते समुदायस्य आदिस्वरः <<अनुदात्तं पदमेकवर्ज्यम्>> [[6.1.158]] इत्यनेन अनुदात्तः अभविष्यत् । तत् तथा मा भूत्, इति निर्देशयितुम् कन्-प्रत्ययः अत्र प्रोच्यते ।\n" }, "44022": { "sa": "'संसृष्टम्' अस्मिन् अर्थे तृतीयासमर्थात् ठक्-प्रत्ययः भवति । ", "sd": "'संसृष्टम्' इत्युक्ते 'एकीकृतम्' । एकीकृतः यः पदार्थः, तस्य निर्देशः एकीकरणस्य साधनेन कर्तुम् वर्तमानसूत्रस्य प्रयोगः भवति । यथा - दध्ना संसृष्टम् दाधिकम् , मरिचेन संसृष्टम् मारिचिकम् ।\nप्रक्रिया इयम् -\nदधि + ठक्\n→ दधि + इक [<<ठस्येकः>> [[7.3.50]] इति ठकारस्य इकारादेशः]\n→ दाधि + इक [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ दाध् + इक [<<यस्येति च>> [[6.4.148]] इति इकारलोपः]\n→ दाधिक " }, "44023": { "sa": "'संसृष्टम्' अस्मिन् अर्थे तृतीयासमर्थात् चूर्णशब्दात् 'इनि'प्रत्ययः भवति । ", "sd": "'संसृष्टम्' इत्युक्ते एकीकृतम् । यत्र एकीकरणस्य साधनम् 'चूर्णम्' अस्ति, तत्र एकीकृतस्य पदार्थस्य निर्देशं कर्तुम् 'चूर्ण'शब्दात् इनिप्रत्ययः भवति । यथा -\nचूर्णेन संसृष्टम्\n→ चूर्ण + इनि\n→ चूर्ण् + इन् [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ चूर्णिन्\nज्ञातव्यम् - 'इनि' प्रत्यये अन्तिमः इकारः इत्संज्ञकः नास्ति, यतः तस्य इत्संज्ञायाः किमपि प्रयोजनम् न । अत्र अयम् इकारः उच्चारणार्थः उक्तः अस्ति । यदि आचार्यः केवलम् 'इन्' प्रत्ययमवदिष्यत्, तर्हि अन्तिमनकारस्य <<हलन्त्यम्>> [[1.3.3]] इत्यनेन इत्संज्ञा, ततः लोपः च अभविष्यत् । तत् तथा मा भूत्, अतः अत्र अन्ते इकारः स्थापितः अस्ति । " }, "44024": { "sa": "'संसृष्टम्' अस्मिन् अर्थे तृतीयासमर्थात लवणशब्दात् विहितस्य प्रत्ययस्य लुक् भवति । ", "sd": "'संसृष्टम्' इत्युक्ते एकीकृतम् । यत्र एकीकरणस्य साधनम् 'लवणम्' अस्ति, तत्र एकीकृतस्य पदार्थस्य निर्देशं कर्तुम् 'लवण'शब्दात् <<संसृष्टे>> [[4.4.22]] इत्यनेन ठक्-प्रत्यये कृते वर्तमानसूत्रेण तस्य लुक् ( = लोपः) भवति । यथा, लवणेन संसृष्टम् = लवण + ठक् → लवण + X → लवण । लवणेन संसृष्टम् लवणम् शाकम्, लवणः सूपः ।\nअस्मिन् विषये काशिकाकारः वदति - 'द्रव्यवाची' लवणशब्दः लुकं प्रयोजयति, न गुणवाची । इत्युक्ते, 'लवण' नाम यः पदार्थः अस्ति (common salt) तस्यैव निर्देशः अस्मिन् सूत्रे क्रियते, न हि 'लवण' इति रसस्य ।\n " }, "44025": { "sa": "'संसृष्टम्' अस्मिन् अर्थे तृतीयासमर्थात् मुद्गशब्दात् अण्-प्रत्ययः भवति । ", "sd": "'संसृष्टम्' इत्युक्ते एकीकृतम् । यत्र एकीकरणस्य साधनम् 'मुद्गाः' सन्ति, तत्र एकीकृतस्य पदार्थस्य निर्देशं कर्तुम् 'मुद्ग'शब्दात् अण्-प्रत्ययः क्रियते । यथा - मुद्गैः संसृष्टः मौद्गः ओदनः ।\nप्रक्रिया -\nमुद्ग + अण्\n→ मौद्ग + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ मौद् ग् + अ [<<यस्येति च>> [[6.4.148]] इति अन्तिमवर्णलोपः]\n→ मौद्ग ।\nज्ञातव्यम् - स्त्रीत्वे विवक्षिते <<टिड्ढाण्..>> [[4.1.15]] अनेन सूत्रेण अत्र ङीप्-प्रत्ययः विधीयते । यथा - मुद्गैः संसृष्टा 'मौद्गी' यवागूः ।\n " }, "44026": { "sa": "'उपसिक्तम्' अस्मिन् अर्थे तृतीयासमर्थेभ्यः व्यञ्जनवाचिभ्यः प्रातिपदिकेभ्यः ठक्-प्रत्ययः भवति । ", "sd": "'उपसिक्तम्' इत्युक्ते 'प्रोक्षणं कृतम् / सिञ्चनं कृतम्' । 'उप + सिञ्च्' धातोः इदं क्त-प्रत्ययान्तरूपम् । यस्य साहाय्येन उपसिञ्चनम् क्रियते, तत् व्यञ्जनमस्ति चेत् तस्मात् तृतीयासमर्थात् ठक्-प्रत्ययः भवति । यथा - सूपैः उपसिक्तम् = सूप + ठक् → सौपिकः ओदनः । दध्ना उपसिक्ताः दाधिकाः अपूपाः ।\nज्ञातव्यम् -\n1. किम् नाम व्यञ्जनम्? पदमञ्जरीकारः वदति - 'ओदनादिषु रसो येन व्यज्यत, तत् व्यञ्जनम्' । 'रसवर्धनार्थम् प्रयुक्तम् द्रव्यम्' इत्यर्थः ।\n2. यदि उपसिञ्चनस्य साधनम् व्यञ्जनम् नास्ति, तर्हि वर्तमानसूत्रस्य प्रसक्तिः नास्ति । यथा - 'उदकेन उपसिक्तः' इत्यत्र ठक्-प्रत्ययः न भवति ।\n3. अस्मिन् सूत्रे 'व्यञ्जनैः' इति बहुवचनस्य रूपम् निर्दिष्टमस्ति । अस्य प्रयोजनम् न्यासकारः वदति - 'बहुवचननिर्देशः स्वरूपविधिनिरासार्थः' । इत्युक्ते, अत्र ठक्-प्रत्ययस्य विधानम् 'व्यञ्जनवाचि'शब्दात् कृतमस्ति, न हि 'व्यञ्जन' इत्यस्मात् शब्दात् । एतत् निर्देशयितुमत्र बहुवचनप्रयोगः क्रियते ।\n" }, "44027": { "sa": "'वर्तते' अस्मिन् अर्थे ओजस्, सहस् तथा अम्भस् - एतेभ्यः तृतीयासमर्थेभ्यः शब्देभ्यः ठक्-प्रत्ययः भवति । ", "sd": "'ओजस्', 'सहस्', 'अम्भस्' - एतानि सर्वाणि सकारान्तप्रातिपदिकानि । एतेभ्यः 'वर्तते' अस्मिन् अर्थे ठक्-प्रत्ययः भवति । यथा -\n1. ओजस् इत्युक्ते तेजः, शक्तिः, बलम् । ओजसा वर्तते सः = ओजस् + ठक् → औजसिकः शूरः ।\n2. सहस् इत्युक्ते चौरकर्म, स्तेयम् । सहसा वर्तते सः = सहस् + ठक् → साहसिकः चौरः ।\n3. अम्भस् इत्युक्ते जलम् । अम्भसा सह वर्तते सः = अम्भस् + ठक् → आम्भसिकः मत्स्यः ।\nप्रक्रियायाः उदाहरणम् -\nओजस् + ठक्\n→ ओजस् + इक [<<ठस्येकः>> [[7.3.50]] इति इक्-आदेशः]\n→ औजस् + इक [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ औजसिक\n " }, "44028": { "sa": " 'प्रति'पूर्वकः 'अनु'पूर्वकः च यः ईप/लोम/कूल-शब्दः, तस्मात् द्वितीयासमर्थात् 'वर्तते' अस्मिन् अर्थे ठक् प्रत्ययः भवति । ", "sd": "अस्य सूत्रस्य अर्थम् सम्यक् ज्ञातुम् प्रारम्भे बिन्दुद्वयम् ज्ञातव्यम् -\n1. अस्मिन् सूत्रे 'ईप', 'लोम', 'कूल' एते शब्दाः प्रयुक्ताः सन्ति । एतेषामर्थाः एतादृशाः - ईप इत्युक्ते जलम् । लोम इत्युक्ते केशः । कूल इत्युक्ते तीरम् । परन्तु 'प्रति' तथा 'अनु' एताभ्यां सह एतेषां योजनं भवति चेत् निर्मिताः शब्दाः भिन्नमर्थं स्वीकुर्वन्ति, तेषाम् 'जलम् / केश / तीर' इत्येतैः सह कोऽपि सम्बन्धः न विधीयते । यथा -\n[अ] प्रति + ईप → प्रतीप । प्रति + लोम → प्रतिलोम । प्रति + कूल → प्रतिकूल । एतेषां त्रयाणाम् शब्दानामर्थः 'विपरीत' इत्येव भवति । तथैव -\n[आ] अनु + ईप → अन्वीप । अनु + लोम → अनुलोम । अनु + कूल → अनुकूल । एतेषां त्रयाणाम् शब्दानामर्थः अपि समानः एव ।\nअस्मिन् विषये बालमनोरमायामुच्यते - ' प्रतीपान्वीपशब्दौ हि प्रतिकूलानुकूलशब्दपर्यायौ' । अस्यापि अयमेव अर्थः ।\n2. अस्मिन् सूत्रे 'तत्' इति द्वितीयासमर्थः प्रयुक्तः अस्ति । वस्तुतः 'वृत्' धातुः अकर्मकः अस्ति, अतः तस्य प्रयोगे कर्मपदम् न विधीयते। अतः अत्र 'प्रतीप', 'अन्वीप', 'प्रतिलोम', 'अनुलोम', 'प्रतिकूल', 'अनुकूल' - एतेषां सर्वेषाम् प्रयोगः द्वितीयायां कथं भवितुमर्हति - इति प्रश्नः उपतिष्ठते । अस्य स्पष्टीकरणार्थम् काशिकाकारः वदति - 'क्रियाविशेषणमकर्मकाणामपि कर्म भवति' । इत्युक्ते, एते सर्वे शब्दाः 'वर्तते' इत्यनेन सह क्रियाविशेषणरूपेण प्रयुज्यन्ते ।\nइदानीमस्य सूत्रस्य अर्थः स्पष्टः स्यात् - 'प्रतीपं वर्तते / अन्वीपं वर्तते / प्रतिलोमं वर्तते / अनुलोमं वर्तते / प्रतिकूलं वर्तते / अनुलोमं वर्तते' एतेषु वाक्येषु द्वितीयासमर्थात् ठक् प्रत्यय भवति । यथा -\n1. प्रतीपं वर्तते सः प्रातिपिकः । प्रतिलोमं वर्तते सः प्रातिलोमिकः । प्रतिकूलं वर्तते सः प्रातिकुलिकः । त्रयाणामर्थाः समानाः एव । यथा - प्रातिपिकः / प्रातिलोमिकः / प्रातिकुलिकः निर्णयः इत्युक्ते विपरीतः निर्णयः ।\n2. अन्वीपं वर्तते सः आन्वीपिकः ।अनुलोमं वर्तते सः आनुलोमिकः । अनुकूलं वर्तते सः आनुकुलिकः । अत्रापि त्रयाणामर्थाः समानाः सन्ति । यथा - आन्विपिकः आनुलोमिकः आनुकुलिकः वा निश्चयः ।\nज्ञातव्यम् - 'प्रतीप' तथा 'अन्वीप' एतौ शब्दौ वस्तुतः 'प्रति + आप्' तथा 'अनु + आप्' एतादृशं बहुव्रीहिसमासेन निर्मिताः सन्ति । अत्र प्रक्रियायाम् <<द्वयन्तरुपसर्गेभ्योऽप ईत्>> [[6.3.97]] इत्यनेन आकारस्य ईकारादेशं कृत्वा अग्रे सन्धिकार्यं च कृत्वा एतयोः निर्माणं भवति । " }, "44029": { "sa": "'परिमुखम् वर्तते' इत्यस्मिन् अर्थे द्वितीयासमर्थात् 'परिमुख'शब्दात् ठक् प्रत्ययः भवति । ", "sd": "'परिमुखम्' इति अव्ययम् । यत्किमपि मुखस्य पुरतः / अग्रे नास्ति परन्तु अन्यत्र अस्ति (यथा - पार्श्वे अस्ति / दक्षिणे अस्ति / वामे अस्ति) तस्य निर्देशं कर्तुम् 'परिमुखम्' इत्यस्य प्रयोगः क्रियते । अस्मात् शब्दात् 'वर्तते' अस्मिन् अर्थे ठक् प्रत्ययः भवति । परिमुख + ठक् → पारिमुखिक । परिमुखम् वर्तते सः पारिमुखिकः । यथा, स्वामिनः मुखं वर्जयित्वा अन्यत्र वर्तते सः सेवकः 'पारिमुखिकः' ।\nज्ञातव्यम् -\n1. 'परिमुखम्' इति अव्ययम् नित्यं द्वितीयैकवचने एव प्रयुज्यते, अतः अत्र द्वितीयायाः सामर्थ्यमस्ति ।\n2. अस्मिन् सूत्रे 'च' इति निर्देशः कृतः अस्ति । अस्य कारणम् काशिकाकारः 'अनुक्तसमुच्चयार्थम्' इति ददाति । इत्युक्ते, शिष्टप्रयोगमनुसृत्य अन्येऽपि शब्दाः वर्तमानसूत्रेण ठक्-प्रत्ययं स्वीकर्तुमर्हन्ति । यथा - परिपार्श्वम् वर्तते सः पारिपार्श्विकः । " }, "44030": { "sa": "'गर्ह्यम् प्रयच्छति' इत्यर्थे द्वितीयासमर्थात् ठक्-प्रत्ययः भवति । ", "sd": "'गर्ह्यम्' इत्युक्ते 'निन्द्यम् / धर्मशास्त्रविरुद्धम्' । 'प्रयच्छति' इत्युक्ते ददाति । यत्र नियमबाह्यरूपेण (= निन्द्यरूपेण) किञ्चन दीयते, तत्र दातुः निर्देशं कर्तुम् द्वितीयासमर्थात् ठक्-प्रत्ययः भवति । यथा - द्विगुणं प्रयच्छति सः = द्विगुण + ठक् → द्वैगुणिकः धनिकः । अत्र प्रयुक्तः 'द्विगुण'शब्दः 'द्विगुणार्थम् यत् दीयते' तस्य निर्देशं करोति । यदि कश्चन धनिकः 'द्विगुणं कृत्वा पुनः स्वीकरिष्यामि' इति चिन्तयित्वा ऋणं ददाति, तर्हि तत् दानम् निन्द्यम् / धर्मशास्त्रविरुद्धमस्तीति मन्यते । अतः अत्र 'द्विगुणम्' इति गर्ह्यमस्ति, अतः वर्तमानसूत्रेण तस्मात् ठक्-प्रत्ययं कृत्वा 'द्वैगुणिक' इति प्रातिपदिकं सिद्ध्यति । यः धनिकः गर्ह्यं द्विगुणं प्रयच्छति, सः 'द्वैगुणिकः धनिकः' । तथैव - त्रिगुणं (गर्ह्यम्) प्रयच्छति सः = त्रिगुण + ठक् → त्रैगुणिकः धनिकः ।\nअत्र एकं वार्त्तिकं ज्ञातव्यम् - । इत्युक्ते, 'वृद्धि'शब्दात् 'गर्ह्यम् प्रयच्छति' अस्मिन् अर्थे ठक्-प्रत्ययः भवति, तथा 'वृद्धि'शब्दस्य 'वृधुषि' इति आदेशः भवति । वृद्धि + ठक् → वृधुषि + ठक् → वार्धुषिक / वार्द्धुषिक । वृद्धिं गर्ह्यं प्रयच्छति सः वार्धुषिकः । (वृद्ध्यर्थं यत् दीयते तस्यापि 'वृद्धि' इत्येव संज्ञा । तस्मात् अत्र प्रत्ययविधानं क्रियते ।)\n" }, "44031": { "sa": "'गर्ह्यम् प्रयच्छति' अस्मिन् अर्थे 'कुसीद'शब्दात् ष्ठन्, तथा 'दशैकादश'शब्दात् ष्ठच्-प्रत्ययः भवति । ", "sd": "'गर्ह्यम्' इत्युक्ते 'निन्द्यम् / धर्मशास्त्रविरुद्धम्' । 'प्रयच्छति' इत्युक्ते ददाति । यत्र नियमबाह्यरूपेण (= निन्द्यरूपेण) किञ्चन धनम् दीयते, यत्र दातुः निर्देशं कर्तुम् द्वितीयासमर्थात् औत्सर्गिकरूपेण <<प्रयच्छति गर्ह्यम्>> [[4.4.30]] इत्यनेन ठक्-प्रत्यये प्राप्ते 'कुसीद' तथा 'दशैकादश' शब्दयोः विषये तं बाधित्वा क्रमशः ष्ठन् तथा ष्ठच् प्रत्ययौ भवतः । क्रमेण पश्यामः -\n1. 'कुसीद' - 'कुसीद' इत्युक्ते वृद्ध्यर्थम् यत् दीयते तत् धनम् । कश्चन धनिकः यदि धर्मबाह्याम् वृद्धिम् प्राप्तुम् किञ्चन धनम् ऋणरूपेण ददाति, तर्हि तत् धनम् 'गर्ह्यम् कुसीदम्' नाम्ना ज्ञायते । एतस्यां स्थितौ धनिकस्य निर्देशं कर्तुम् कुसीद-शब्दात् ष्ठन्-प्रत्ययः क्रियते । कुसीदं गर्ह्यम् प्रयच्छति सः = कुसीद + ष्ठन् → कुसीदिक ।\n2. दशैकादश - यत्र दशमुद्राः ऋणरूपेण दत्त्वा एकादशमुद्राः व्याजरूपेण इष्यन्ते, तत्र दत्तं ऋणम् 'दशैकादश' नाम्ना ज्ञायते । ('एकादश च ते दश च ते दशैकादशाः' इति अयं शब्दः सिद्ध्यति ) । एतत् दशैकादशम् गर्ह्यम् (नियमबाह्यम्) अस्ति चेत् दातुः निर्देशं कर्तुमस्मात् ष्ठच्-प्रत्ययः भवति । दशैकादशम् गर्ह्यम् प्रयच्छति सः = दशैकादश + ष्ठच् → दशैकादशिक ।\nज्ञातव्यम् -\n1. 'ष्ठन्' तथा 'ष्ठच्' - द्वयोः प्रत्यययोः षकारः इत्संज्ञकः अस्ति । अतः स्त्रीत्वे विवक्षिते <<षिद्गौरादिभ्यश्च>> [[4.1.41]] इत्यनेन ङीष्-प्रत्ययः विधीयते । यथा - कुसीदं गर्ह्यम् प्रयच्छति सा = कुसीदिकी । दशैकादशम् गर्ह्यम् प्रयच्छति सा = दशैकादशिकी ।\n2. ष्ठन् प्रत्ययः 'नित्' अस्ति अतः 'कुसीदिक' शब्दस्य आदिस्वरः <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] इत्यनेन उदात्तः जायते । ष्ठच्-प्रत्ययः तु 'चित्' अस्ति, अतः 'दशैकादशिक' शब्दस्य अन्तिमस्वरः <<तद्धितस्य>> [[6.1.164]] इत्यनेन उदात्तः जायते । " }, "44032": { "sa": "'उञ्छति' अस्मिन् अर्थे द्वितीयासमर्थात् ठक् प्रत्ययः भवति । ", "sd": "'उञ्छति' इति 'उछिँ' धातोः लट्लकारस्य प्रथमपुरुषैकवचनम् । भूमौ पतितान् फलान् धान्यकणानामुपादानम् (चयनम् / स्वीकरणम्) उञ्छनम् नाम्ना ज्ञायते । यस्य पदार्थस्य उञ्छनम् क्रियते तस्मात् द्वितीयासमर्थात् वर्तमानसूत्रेण ठक्-प्रत्ययः भवति । यथा -\n1. बदराणि उञ्छति सः = बदर + ठक् → बादरिक ।\n2. श्यामाकानि उञ्छति सः = श्यामक + ठक् → श्यामकिक ।\n3. कणान् उञ्छति सः = कण + ठक् → काणिक ।\n " }, "44033": { "sa": "'रक्षति' अस्मिन् अर्थे द्वितीयासमर्थात् ठक् प्रत्ययः भवति । ", "sd": "'रक्षति' इत्युक्ते रक्षणं करोति । 'रक्ष्' धातोः लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् इदम् । 'यः रक्षति' तस्य निर्देशं कर्तुम् 'यस्य रक्षणं क्रियते' तस्मात् द्वितीयासमर्थात् अनेन सूत्रेण ठक्-प्रत्ययः विधीयते । यथा -\n1. समाजं रक्षति सः सामाजिकः । समाज + ठक् → सामाजिक ।\n2. सन्निवेशं रक्षति सः सान्निवेशिकः । सन्निवेश + ठक् → सान्निवेशिक ।\n" }, "44034": { "sa": "'करोति' अस्मिन् अर्थे 'शब्द' तथा 'दर्दुर' शब्दाभ्याम् द्वितीयासमर्थाभ्याम् ठक् प्रत्ययः भवति । ", "sd": "'तत्' इति द्वितीयासमर्थात् 'करोति' अस्मिन् अर्थे 'शब्द' तथा 'दर्दुर' एताभ्याम् शब्दाभ्याम् ठक् प्रत्ययः विधीयते । । अत्र 'शब्द' तथा 'दर्दुर' - उभयोः पदयोः विशिष्ट-अर्थे प्रयोगः कृतः अस्ति । क्रमेण पश्यामः -\n1. 'शब्दं करोति' इत्युक्ते शब्दस्य प्रकृति-प्रत्ययादिविभाजनम् करोति । अस्मिन्नेव अर्थे अत्र ठक्-प्रत्ययविधानम् क्रियते । यथा - शब्दं करोति सः शाब्दिकः वैयाकरणः । शब्द + ठक् → शाब्दिक ।\n2 'दर्दुर' इति कस्यचन पात्रस्य नाम । 'दर्दुरं करोति' इत्युक्ते दर्दुरनाम यत् पात्रम्, तस्य ध्वनिवत् शब्दं करोति । अस्मिन् अर्थे दर्दुरशब्दात् ठक् प्रत्ययः भवति । दर्दुरं करोति सः दार्दुरिकः । दर्दुर + ठक् → दार्दुरिक ।\n" }, "44035": { "sa": "'हन्ति' अस्मिन् अर्थे द्वितीयासमर्थात् पक्षिवाचिनः / मत्स्यवाचिनः / मृगवाचिनः प्रातिपदिकात् ठक् प्रत्ययः भवति । ", "sd": "'हन्ति' इत्युक्ते मारयति । हन्-धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपमिदम् । 'पक्षिणम् हन्ति' / 'मत्स्यम् हन्ति' / 'मृगम् हन्ति' एतान् अर्थान् दर्शयितुम् द्वितीयासमर्थात् ठक् प्रत्ययः वर्तमानसूत्रेण विधीयते । अस्य सूत्रस्य विषये वार्त्तिककारः एतत् वार्त्तिकम् पाठयति - । इत्युक्ते, अस्मिन् सूत्रे निर्दिष्टाः ये शब्दाः, तेभ्यः अपि ठक्-प्रत्ययः भवति, तथा तेषाम् पर्यायवाचिभ्यः शब्देभ्यः अपि ठक्-प्रत्ययः भवति, तथा च तेषां विशेषवाचिभ्यः (इत्युक्ते पक्षिणः नाम / मत्यस्य नाम आदयः) अपि ठक्-प्रत्ययः भवति । यथा -\n1. पक्षिणं हन्ति सः\n= पक्षिन् + ठक्\n→ पक्षिन् + इक [<<ठस्येकः>> [[7.3.50]] इत्यनेन ठक्]\n→ पाक्षिन् + इक [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ पाक्ष् + इक <<नस्तद्धिते>> [[6.4.144]] इति टिलोपः]\n→ पाक्षिक\nएवमेव -\n2. शकुनं हन्ति सः शाकुनिकः ।\n3. मयूरं हन्ति सः मायूरिकः ।\n4. तित्तिरं हन्ति सः तैत्तिरिकः ।\n5. मत्स्यान् हन्ति सः मात्स्यिकः ।\n6. मीनान् हन्ति सः मैनिकः ।\n7. मृगान् हन्ति सः मार्गिकः ।\n8. हरिणान् हन्ति सः हारिणिकः ।\n9. सारङ्गं हन्ति सः सारङ्गिकः ।\n10. सूकरान् हन्ति सः सौकरिकः ।\n" }, "44036": { "sa": "'तिष्ठति' तथा 'हन्ति' एतयोः अर्थयोः द्वितीयासमर्थात् 'परिपन्थ' शब्दात् 'ठक्' प्रत्ययः भवति । ", "sd": "'परिपन्थ' इत्यस्मात् शब्दात् 'तत् तिष्ठति' तथा 'तत् हन्ति' एतयोः अर्थयोः ठक्-प्रत्ययः भवति । किम् नाम परिपन्थम् ? अस्य शब्दस्य अर्थद्वयम् व्याख्याने दीयते -\n1. 'पन्थानम् वर्जयित्वा' अस्मिन् अर्थे अव्ययीभावसमासं कृत्वा 'परिपन्थम्' इति अव्ययं सिद्ध्यति ।\n2. 'पन्थानम् व्याप्य' अस्मिन् अर्थे प्रादितत्पुरुषसमासं कृत्वा 'परिपन्थ' इति प्रातिपदिकं सिद्ध्यति ।\nद्वयोः विषये 'तिष्ठति' तथा 'हन्ति' एतयोः अर्थयोः ठक्-प्रत्ययः भवति । यथा -\n1. परिपन्थं (=पन्थानं वर्जयित्वा / व्याप्य) तिष्ठति सः पारिपन्थिकः चौरः । 'चौरकार्यार्थं मार्गस्य मध्ये एव न तिष्ठति, मार्गात् बहिः स्थित्वा पथिकान् दृष्ट्वा आक्रमणं करोति, सः पारिपन्थिकः', इत्यर्थः । तथैव, मार्गम् व्याप्य / अवरुद्ध्य स्थित्वा पथिकमग्रे न गमयति सोऽपि पारिपन्थिकः एव ।\n2. परिपन्थं (=पन्थानं वर्जयित्वा / व्याप्य) हन्ति सः पारिपन्थिकः चौरः । अत्रापि तादृशमेव - मार्गात् बहिः स्थित्वा मार्गस्य मध्ये स्थित्वा वा यः पथिकं हन्ति, सः पारिपन्थिकः ।\nज्ञातव्यम् -\n1. वस्तुतः 'परिपन्थः' अयम् शब्दः साधु न । वस्तुतः 'पन्थानं व्याप्य / वर्जयित्वा' अस्मिन् अर्थे 'परिपथः' इति शब्दः जायते, न हि 'परिपन्थः' इति शब्दः । तथापि वर्तमानसूत्रे 'परिपन्थः' इत्येव शब्दप्रयोगः कृतः अस्ति । अयम् प्रयोगः 'निपातनम्' अस्तीति व्याख्यानेषु उच्यते ।\n2. अस्मिन् सूत्रे 'तत्' इति द्वितीयासमर्थः अनुवर्तते । अस्यां स्थितौ 'परिपन्थ'शब्दस्यापि द्वितीया किमर्थम् कृता, पञ्चमी किमर्थम् न प्रयुक्ता - इति प्रश्नः उपतिष्ठति । अस्य स्पष्टीकरणार्थम् काशिकाकारः वदति - 'समर्थविभक्तिप्रकरणे पुनर्द्वितियोच्चारणं लौकिकवाक्यप्रदर्शनार्थम्' । इत्युक्ते, काशिकाकारस्य मतेन आचार्यः अत्र द्वितीयायाः प्रयोगेण एतत् स्पष्टीकरोति यत् 'परिपन्थः' इदम् निपातनम् लौकिकवाक्येषु अपि भवितुमर्हति । अतः 'परिपन्थम् गच्छति' , 'परिपन्थम् पश्यति' एतादृशाः प्रयोगाः अपि समिचीनाः ।" }, "44037": { "sa": "'तत् धावति' अस्मिन् अर्थे 'माथ'-उत्तरपदस्थप्रातिपदिकात्, 'पदवी'शब्दात्, 'अनुपद'शब्दात् च ठक् प्रत्ययः भवति । ", "sd": "'माथः' इत्युक्ते मार्गः । यस्य शब्दस्य उत्तरपदम् 'माथ' इति अस्ति, तस्मात् द्वितीयासमर्थात् 'तत् धावति' अस्मिन् अर्थे ठक्-प्रत्ययः भवति । तथैव, 'पदवी'शब्दात्, 'अनुपद'शब्दात् अपि द्वितीयासमर्थात् 'तत् धावति' अस्मिन् अर्थे ठक्-प्रत्ययः भवति । उदाहरणानि एतानि -\n1. विद्यामाथं धावति सः वैद्यामाथिकः ।\n2. धर्ममाथं धावति सः धार्ममाथिकः ।\n3. दण्डमाथं धावति सः दाण्डमाथिकः ।\n4. शुल्कमाथं धावति सः शौल्कमाथिकः ।\n4. पदवीं धावति सः पादविकः । (पदवी इत्युक्ते अपि 'मार्गः' एव)\n5. अनुपदं धावति सः आनुपदिकः । अनुपदम् इत्युक्ते पदस्य समीपम् । मार्गसमीपम् इत्यर्थः ।\n" }, "44038": { "sa": "'धावति' अस्मिन् अर्थे द्वितीयासमर्थात् आक्रन्दशब्दात् ठञ् तथा ठक् प्रत्ययौ भवतः । ", "sd": "'आक्रन्द' इति कस्यचन देशस्य नाम । यस्मिन् देशे नित्यमाक्रन्दनं श्रूयते, तस्य अभिधानम् 'आक्रन्द'देशः । दुःखिनां रोदनस्थानम् इत्याशयः । अस्मात् शब्दात् 'धावति' अस्मिन् अर्थे ठक्-प्रत्ययः तथा ठञ्-प्रत्ययः - द्वावपि भवतः । आक्रन्दं धावति सः आक्रन्दिकः ।\nज्ञातव्यम् - ठक् तथा ठञ् - द्वयोः प्रत्यययोः प्रयोगेण 'आक्रन्दिक' एतत् समानमेव रूपं जायते । परन्तु द्वयोः रुपयोः स्वरे भेदः अस्ति । ठञ्-प्रत्ययान्तः 'आक्रन्दिक' शब्दः <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] इत्यनेन आद्युदात्तः भवति, तथा ठक्-प्रत्ययान्तः 'आक्रन्दिक'शब्दः <<कितः>> [[6.1.165]] इत्यनेन अन्तोदात्तः भवति । " }, "44039": { "sa": "'पद' यस्य उत्तरपदमस्ति, तादृशात् द्वितीयासमर्थात् 'गृह्णाति' अस्मिन् अर्थे ठक् प्रत्ययः भवति । ", "sd": "यस्य शब्दस्य उत्तरपदं 'पद' इति अस्ति, तस्मात् द्वितीयासमर्थात् 'गृह्णाति' (= स्वीकरोति) अस्मिन् अर्थे ठक्-प्रत्ययः भवति । यथा -\n1. पूर्वपदं गृह्णाति तत् पौर्वपदिकम् सूत्रम् ।\n2. उत्तरपदं गृह्णाति सः औत्तरपदिकः सिद्धान्तः ।\nएतयोः उदाहरणयोः 'पूर्वपद' तथा 'उत्तरपद' एतौ शब्दौ पदस्य विभागद्वयं निर्दिशतः । " }, "44040": { "sa": "'गृह्णाति' अस्मिन् अर्थे द्वितीयासमर्थात् प्रतिकण्ठ/अर्थ/ललामशब्दात् ठक् प्रत्ययः भवति । ", "sd": "'गृह्णाति' अस्मिन् अर्थे द्वितीयासमर्थात् 'प्रतिकण्ठ'शब्दात् , 'अर्थ'शब्दात्, 'ललाम'शब्दात् च ठक् प्रत्ययः भवति । क्रमेण पश्यामः । -\n1. प्रतिकण्ठ - 'कण्ठ' इत्युक्ते मतम् / विचारम् / चिन्तनम् / पर्यायः / शब्दः । भिन्नानां विचाराणाम् / पर्यायाणाम् / शब्दानाम् वा सङ्कलनम् 'प्रतिकण्ठ' नाम्ना ज्ञायते । कण्ठं कण्ठं प्रति = प्रतिकण्ठम् । 'प्रतिकण्ठम्' अस्य शब्दस्य अन्यः अपि एकः अर्थः भवितुमर्हति - <<लक्षणेनाभिप्रती आभिमुख्ये>> [[2.1.14]] इत्यनेन यत् 'कण्ठमाभिमुख्यम्' (कण्ठस्य दिशायां) वर्तते तदपि प्रतिकण्ठम् नाम्ना ज्ञायते । एतादृशं प्रतिकण्ठं यः गृह्णाति सः प्रातिकण्ठिकः । यथा, यः ग्रन्थः सर्वेषाम् मतानाम् चिन्तनानाम् च सङ्कलनम् करोति सः प्रातिकण्ठिकः ग्रन्थः ।\n2. अर्थ - अर्थं गृह्णाति (जानाति / स्वीकरोति) सः आर्थिकः ग्रन्थः । अर्थ + ठक् → आर्थिक ।\n3. ललाम - 'ललाम' इत्युक्ते अलङ्कारः। ललामम् गृह्णाति सः लालामिकः ग्रन्थः । यस्मिन् ग्रन्थे भिन्नाः शब्दालङ्काराः प्रयुज्यन्ते, तस्य निर्देशः अत्र कृतः अस्ति ।\n" }, "44041": { "sa": "'चरति' अस्मिन् अर्थे द्वितीयासमर्थात् 'धर्म'शब्दात् ठक् प्रत्ययः भवति । ", "sd": "यः धर्मम् चरति (धर्मसम्मतं वर्तनं करोति इत्यर्थः) तस्य निर्देशार्थम् द्वितीयासमर्थात् 'धर्म'शब्दात् ठक् प्रत्ययः भवति । धर्मं चरति सः धार्मिकः ।\nअत्र एकं वार्त्तिकं ज्ञातव्यम् - । इत्युक्ते, 'अधर्म' शब्दात् अपि ठक्-प्रत्ययः भवति । यथा - अधर्मं चरति सः = आधर्मिकः ।\n" }, "44042": { "sa": "'एति' अस्मिन् अर्थे द्वितीयासमर्थात् 'प्रतिपथ'शब्दात् ठक् तथा ठन् प्रत्ययौ भवतः । ", "sd": "'प्रतिपथम्' शब्दस्य अर्थद्वयम् भवति - (अ) प्रत्येकः मार्गः । (पन्थानं पन्थानं प्रति प्रतिपथम् ) । (आ) मुख्यं मार्गम् विहाय अन्यः मार्गः । एतयोः द्वयोः अपि विषये यः 'प्रतिपथम् एति' (= गच्छति) तस्य निर्देशं कर्तुम् 'प्रतिपथ' शब्दात् ठक् तथा ठन् प्रत्ययौ भवतः । यथा -\n1. प्रतिपथम् एति सः = प्रतिपथ + ठक् → प्रातिपथिक ।\n2. प्रतिपथम् एति सः = प्रतिपथ + ठन् → प्रतिपथिक ।\n " }, "44043": { "sa": "'समवायान् समवैति' अस्मिन् अर्थे द्वितीयासमर्थात् ठक् प्रत्ययः भवति । ", "sd": "'समवाय' इत्युक्ते समूहः । 'समवैति' इति 'सम् + अव + इण्' इत्यस्य लट्लकारस्य प्रथमपुरुषैकवचनम् । काशिकाकारः अस्य अर्थं 'आगत्य एकदेशी भवति' इति ब्रूते । इत्युक्ते, यदि कश्चन पदार्थः आदौ समूहे न वर्तते, परन्तु अनन्तरमागत्य समूहस्य सदस्यत्वं प्राप्नोति (समूहस्यैव अवयवरूपेण वर्तते) तर्हि सः 'समवैति' इत्युच्यते । एतादृशस्य पदार्थस्य निर्देशं कर्तुम् द्वितीयासमर्थात् समवायवाचिशब्दात् ठक्-प्रत्ययः भवति । यथा -\n1. समाजम् समवैति सः सामाजिकः । आदौ समाजे नास्ति, परन्तु अनन्तरमागत्य समाजस्यैव अवयवः भवति इत्यर्थः ।\n2. समूहम् समवैतिः सः सामूहिकः ।\n3. सन्निवेशं समवैति सः सान्निवेशिकः ।\n4. समवायम् समवैति सः सामवायिकः ।\nज्ञातव्यम् - अस्मिन् सूत्रे 'समवायान्' इति बहुवचनस्य निर्देशः एतत् दर्शयति यत् अत्र 'शब्दग्रहणम्' न इष्यते, अपितु अर्थग्रहणम् इष्यते । इत्युक्ते, 'समवाय' अस्मिन् अर्थे यः कोऽपि शब्दः प्रयुज्यते, तस्मात् अनेन सूत्रेण ठक् प्रत्ययः भवितुमर्हति । " }, "44044": { "sa": "'समवायान् समवैति' अस्मिन् अर्थे द्वितीयासमर्थात् 'परिषद्' शब्दात् ण्य-प्रत्ययः भवति । ", "sd": "'समवाय' इत्युक्ते समूहः । 'समवैति' इति 'सम् + अव + इण्' इत्यस्य लट्लकारस्य प्रथमपुरुषैकवचनम् । काशिकाकारः अस्य अर्थं 'आगत्य एकदेशी भवति' इति ब्रूते । इत्युक्ते, यदि कश्चन पदार्थः आदौ समूहे न वर्तते, परन्तु अनन्तरमागत्य समूहस्य सदस्यत्वं प्राप्नोति (समूहस्यैव अवयवरूपेण वर्तते) तर्हि सः 'समवैति' इत्युच्यते । <<समवायान् समवैति>> [[4.4.43]] अस्मिन् अर्थे <<प्राग्वहतेः ठक्>> [[4.4.1]] इत्यनेन औत्सर्गिकरूपेण ठक्-प्रत्यये प्राप्ते तं बाधित्वा 'परिषद्' शब्दस्य विषये वर्तमानसूत्रेण ण्य-प्रत्ययः भवति । यथा - परिषदम् समवैति सः पारिषद्यः । " }, "44045": { "sa": "'समवायान् समवैति' अस्मिन् अर्थे द्वितीयासमर्थात् 'सेना'शब्दात् विकल्पेन ण्य-प्रत्ययः भवति, पक्षे ठक् अपि विधीयते । ", "sd": "'समवाय' इत्युक्ते समूहः । 'समवैति' इति 'सम् + अव + इण्' इत्यस्य लट्लकारस्य प्रथमपुरुषैकवचनम् । काशिकाकारः अस्य अर्थं 'आगत्य एकदेशी भवति' इति ब्रूते । इत्युक्ते, यदि कश्चन पदार्थः आदौ समूहे न वर्तते, परन्तु अनन्तरमागत्य समूहस्य सदस्यत्वं प्राप्नोति (समूहस्यैव अवयवरूपेण वर्तते) तर्हि सः 'समवैति' इत्युच्यते । <<समवायान् समवैति>> [[4.4.43]] अस्मिन् अर्थे <<प्राग्वहतेः ठक्>> [[4.4.1]] इत्यनेन औत्सर्गिकरूपेण ठक्-प्रत्यये प्राप्ते तं विकल्पेन बाधित्वा 'सेना'शब्दात् वर्तमानसूत्रेण ण्य-प्रत्ययः अपि भवति । यथा -\n1. सेनां समवैति तत् सैन्यम् । सेना + ण्य = सैन्य । अत्र सैन्य-शब्दस्य अर्थः 'सेनायामादौ यः न विद्यते परन्तु अनन्तरम् सेनायाः एव अवयवः भवति सः (= सैनिकः)' इति अस्ति ।\n2. सेनां समवैति सः सैनिकः । सेना + ठक् → सैनिक ।\n" }, "44046": { "sa": "'पश्यति' अस्मिन् अर्थे द्वितीयासमर्थात् 'ललाट'शब्दात् तथा 'कुक्कुटी'शब्दात् संज्ञायाः विषये ठक्-प्रत्ययः भवति । ", "sd": "यः 'ललाटं पश्यति' तथा यः 'कुक्कुटीं पश्यति' तस्य निर्देशं कर्तुम् द्वितीयासमर्थात् वर्तमानसूत्रेण ठक्-प्रत्ययः भवति - इति अस्य सूत्रस्य सामान्यः अर्थः । परन्तु अस्मिन् सूत्रे 'संज्ञायाम्' इति निर्दिश्यते । अस्य अर्थं काशिकाकारः वदति - 'संज्ञाग्रहणमभिधेयनियमार्थं, न तु रूढ्यर्थम्'। इत्युक्ते, अत्र 'संज्ञा'शब्दस्य ग्रहणम् 'विशिष्ट'-अर्थस्य निर्देशार्थं कृतमस्ति, न हि रूढ्यर्थस्य निर्देशार्थम् । इत्युक्ते, शरीरस्य अवयवः ललाटः, उत पक्षिणः जातिः कुकुट्टी - एतौ अर्थौ अत्र न गृह्येते, अपि तु लक्षणार्थौ अत्र स्वीक्रियेते । सर्वेषु अवयवेषु ललाटं दूरात् दृश्यते, अतः 'ललाटं पश्यति' इत्युक्ते 'दूरे तिष्ठति' इति लाक्षणिकः अर्थः । तथैव, कुक्कुटी सदा भूमौ एव अस्ति, अतः 'कुक्कुटीं पश्यति' इत्युक्ते 'अधः एव पश्यति, इतरत्र न' इत्यर्थः ।\nउदाहरणं पश्यामश्चेत् स्पष्टं स्यात् -\n1. ललाट् + ठक् → लालाटिक । ललाटम् एव पश्यति, न अन्यत् ; सः 'लालाटिकः' सेवकः । यः सेवकः कार्ये कुशलः नास्ति, स्वामिनः दूरे एव तिष्ठति, समीपे न आगच्छति, तस्य निर्देशार्थमस्य शब्दस्य प्रयोगः भवति । सर्वेभ्यः अवयवेभ्यः ललाटम् दूरात् द्रष्टुं शक्यते, अतः 'ललाटमेव पश्यति' इत्यस्य अर्थः 'दूरे तिष्ठति' इति कर्तव्यः - इति काशिकाकारस्य मतम् ।\n2. कुक्कुटी + ठक् → कौक्कुटिकः । कुक्कुटीम् एव पश्यति, न अन्यत् ; सः 'कौक्कुटिकः' भिक्षुः । यथा कुकुट्टी बहु दूरे न डयते, स्वस्थानस्य समीपे एव कूर्दति ; तथैव, यस्य दृष्टिः दूरा नास्ति, केवलं स्वस्य निकटे एव वर्तते, सः 'कुक्कुटीम् पश्यति' इत्युच्यते । एतादृशस्य मनुष्यस्य निर्देशः 'कौक्कुटिक' शब्देन क्रियते । अस्य स्पष्टीकरणार्थं काशिकाकारः वदति - 'यः पादविक्षेपदेशे चक्षुः संयम्य गच्छति, सः कौक्कुटिकः' । इत्युक्ते, यः अधोमुखं चलति, यस्य च दृष्टिः तस्य पादयोः एव अस्ति, इतरत्र न; सः कौक्कुटिकः ।\n " }, "44047": { "sa": "'धर्म्यम्' अस्मिन् अर्थे षष्ठीसमर्थात् ठक् प्रत्ययः भवति । ", "sd": "'धर्म्यः' इत्युक्ते 'आचरणयोग्यः' । 'धर्म'शब्दात् <<धर्मपथ्यर्थन्यायादनपेते>> [[4.4.92]] इत्यनेन यत्-प्रत्ययं कृत्वा 'धर्म्य' इति शब्दः सिद्ध्यति । यत् वर्तनमाचरणयोग्यम्, तस्य निर्देशं कर्तुम् वर्तमानसूत्रस्य प्रयोगः भवति । यथा -\n1. आपणस्य धर्म्यम् = आपण + ठक् → आपणिकम् । आपणे आचरणयोग्यम् यत् कार्यम्, तत् 'आपणस्य धर्म्यम्' अस्ति इत्युच्यते, अतः तस्य निर्देशः 'आपणिकम्' इत्यनेन क्रियते ।\n2. शुल्कशालायाः धर्म्यम् = शुल्कशाला + ठक् → शौल्कशालिकम् । शुल्कशालायां आचरणयोग्यः व्यवहारः इत्यर्थः ।\n3. आकरस्य धर्म्यम् = आकर + ठक् → आकरिक । 'आकर' इत्युक्ते शुक्लशाला इत्येव ।\n" }, "44048": { "sa": "महिष्यादिगणस्य शब्दानां विषये 'धर्म्यम्' अस्मिन् अर्थे षष्ठीसमर्थात् अण्-प्रत्ययः भवति । ", "sd": "'महिष्यादि'गणे विद्यमानाः ये शब्दाः, तेषां विषये षष्ठीसमर्थात् 'धर्म्यम्' अस्मिन् अर्थे औत्सर्गिकं ठक्-प्रत्ययं बाधित्वा अण्-प्रत्ययः विधीयते ।\nमहिष्यादिगणः अयम् - महिषी, प्रजावती, प्रलेपिका, विलेपिका, अनुलेपिका, पुरोहित, मणिपाली, अनुचारक, होतृ, यजमान ।\nउदाहरणानि -\n1. महिष्याः धर्म्यम् = महिषी + अण् → माहिष ।\n2. प्रजावत्याः धर्म्यम् प्राजावतम् ।\n3. पुरोहितस्य धर्म्यम् पौरोहितम् ।\n4. यजमानस्य धर्म्यम् याजमानम् ।\n" }, "44049": { "sa": "'धर्म्यम्' अस्मिन् अर्थे षष्ठीसमर्थात् ऋकारान्तशब्दात् अञ्-प्रत्ययः भवति । ", "sd": "ऋकारान्तशब्देभ्यः 'तस्य धर्म्यम्' अस्मिन् अर्थे औत्सर्गिकं ठक्-प्रत्ययं बाधित्वा अञ्-प्रत्ययः भवति । यथा -\n1. पोतुः धर्म्यम्\n= पोतृ + अञ्\n→ पौतृ + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n → पौत्र [<<इको यणचि>> [[6.1.77]] इति यणादेशः]\n2. यातुः धर्म्यम् = यातृ + अञ् → यात्र ।\n3. नुः धर्म्यम्\n= नृ + अञ्\n→ नार् + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ नार\nअत्र त्रीणि वार्त्तिकानि ज्ञातव्यानि -\n1. - नरशब्दात् 'तस्य धर्म्यम्' अस्मिन् अर्थे अञ्-प्रत्ययः भवति ।नरस्य धर्म्यम् = नर + अञ् → नार । स्त्रीत्वे विवक्षिते <<टिड्ढाणञ्...>> [[4.1.15]] इति ङीप्-प्रत्ययं कृत्वा - नारी । नरस्य आचरणयोग्या या, सा नारी ।\n(अस्मिन् विषये भाष्यकारः 'नृनराभ्यामञ् वचनम्' इति ब्रूते । परन्तु नृ-शब्दस्य विषये तु स्वयं सूत्रेणैव अञ्-प्रत्ययः भवति, अतः काशिकाकारः कौमुदीकारः च केवलम् 'नरात्' इति गृहीत्वा वार्त्तिकम् पाठयतः ।)\n2. - 'विशसितृ' शब्दात् 'तस्य धर्म्यम्' अस्मिन् अर्थे अञ्-प्रत्ययः भवति, तथा 'विशसितृ' शब्दस्य इडागमस्य लोपः भवति । ('विशसितृ' शब्दः 'वि + शस्' धातोः 'तृच्' प्रत्यये कृते, प्रक्रियायाम् इडागमं च कृत्वा सिद्ध्यति । यः विशेषरूपेण शासनं करोति, सः विशसिता । अस्यैव शब्दस्य इडागमस्य अनेन वार्त्तिकेन लोपः उच्यते ) । विशसितुः धर्म्यम् = विशसितृ + अञ् → विशस्तृ + अञ् → वैशस्त्र । शासकस्य आचरणयोग्यम् इत्यर्थः ।\n3. - 'विभाजयितृ' शब्दात् 'तस्य धर्म्यम्' अस्मिन् अर्थे अञ्-प्रत्ययः भवति, तथा 'विभाजयितृ' शब्दस्य णिच्-प्रत्ययस्य लोपः भवति । ('विभाजयितृ'शब्दः 'वि + भाज्' धातोः णिच्-प्रत्ययं कृत्वा अग्रे तृच्-प्रत्ययं च कृत्वा सिद्ध्यति । यः विभाजनम् करोति सः विभाजयिता । अस्यां प्रक्रियायां विद्यमानस्य णिच्-प्रत्ययस्य अत्र लोपः उच्यते ) । विभाजयितुः धर्म्यम् = विभाजयितृ + अञ् → विभाजितृ + अञ् → वैभाजित्रम् । यः विभाजनं करोति, तस्य आचरणयोग्यम् तत् वैभाजित्रम् ।\nज्ञातव्यम् - अस्मिन् सूत्रे सर्वेभ्यः ऋकारान्तशब्देभ्यः 'तस्य धर्म्यम्' अस्मिन् अर्थे अञ्-प्रत्ययः उच्यते । परन्तु <<अण् महिष्यादिभ्यः>> [[4.4.48]] इत्यत्र महिष्यादिगणे 'होतृ'शब्दः अपि उक्तः अस्ति । अस्मात् शब्दात् अण्-प्रत्ययः भवेत् उत अञ्? अस्मिन् विषये विचारद्वयं वर्तते । केचन वदन्ति - महिष्यादिगणे निर्देशत्वात् होतृ-शब्दात् अण्-प्रत्ययः एव भवेत्, अञ् न । केचन अन्ये वदन्ति, 'ऋत्विक्' अस्मिन् अर्थे यः होतृशब्दः प्रयुज्यते तस्य महिष्यादिगणे निर्देशः क्रियते, अतः तस्मात् अण्-प्रत्ययः भवति, परन्तु अन्येषु अर्थेषु तु वर्तमानसूत्रेण अञ्-प्रत्ययः एव विधीयते । " }, "44050": { "sa": "'अवक्रयः' अस्मिन् अर्थे षष्ठीसमर्थात् ठक् प्रत्ययः भवति । ", "sd": "'अवक्रय' इत्युक्ते अधिभारः / विक्रीकरः । वाणिज्यार्थम् तैलधान्यादीनि वस्तूनि एकस्मात् स्थलात् अन्यस्मिन् स्थले यदा नीयन्ते, तदा यानि भिन्नानि शुल्कानि दातव्यानि, तेषाम् निर्देशः 'अवक्रय' अनेन क्रियते । यस्य स्थलस्य अवक्रयः निर्दिश्यते, तस्मात् षष्ठीसमर्थात् अवक्रयं निर्देशयितुम् ठक् प्रत्ययः भवति । यथा -\n1. शुल्कशालायाः अवक्रयः शौल्कशालिकः । शुल्कशाला + ठक् → शौल्कशालिक । शुल्कशालायां यः अधिभारः दातव्यः सः शौल्कशालिकः ।\n2. आपणस्य अवक्रयः आपणिकः । आपण + ठक् → आपणिक । आपणे दीयमानः अवक्रयः इत्यर्थः । " }, "44051": { "sa": "'अस्य पण्यम्' अस्मिन् अर्थे प्रथमासमर्थात् ठक् प्रत्ययः भवति । ", "sd": "'पण्य' इति पण् (व्यवहारे) धातोः 'यत्' प्रत्ययान्तरूपम् । व्यवहारम् कर्तुम् / क्रेतुम् योग्यम् तत् पण्यम् । 'अस्य पण्यम्' अस्मिन् अर्थे यत् पण्यम् तस्मात् प्रथमासमर्थात् ठक्-प्रत्यय भवति । यथा -\n1. अपूपाः पण्यमस्य सः आपूपिकः । यस्य अपूपाः क्रेतुम् योग्याः, सः आपूपिकः अस्ति इत्युच्यते ।\n2. मोदकाः पण्यमस्य सः मौदकिकः । यस्य मोेदकाः क्रेतुम् योग्याः, सः मौदकिकः ।\n" }, "44052": { "sa": "'अस्य पण्यम्' अस्मिन् अर्थे प्रथमासमर्थात् लवणशब्दात् ठञ् प्रत्ययः भवति । ", "sd": "'पण्य' इति पण् (व्यवहारे) धातोः 'यत्' प्रत्ययान्तरूपम् । व्यवहारम् कर्तुम् / क्रेतुम् योग्यम् तत् पण्यम् । <<तदस्य पण्यम्>> [[4.4.51]] इत्यत्र निर्दिष्टे 'पण्यम्' अस्मिन् अर्थे सर्वेभ्यः प्रातिपदिकेभ्यः औत्सर्गिकरूपेण ठक्-प्रत्यये प्राप्ते तं बाधित्वा लवणशब्दात् ठञ् प्रत्ययः विधीयते । यथा - लवणं पण्यमस्य सः लावणिकः । यस्य लवणम् क्रेतुम् योग्यमस्ति, तस्य इदं विशेषणम् ।\nज्ञातव्यम् - लवण-शब्दात् ठक्-प्रत्ययं कृत्वा अपि 'लावणिक' एतदेव रूपं सिद्ध्यति, परन्तु तत्र स्वरे भेदः वर्तते । ठञ्-प्रत्ययान्तः 'लावणिक'शब्दः <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] इत्यनेन आद्युदात्तः अस्ति । परन्तु कित्-प्रत्ययान्तः 'लावणिक'शब्दः <<कितः>> [[6.1.165]] इत्यनेन अन्तोदात्तः अस्ति । एतं भेदं दर्शयितुमेव अत्र ठक्-प्रत्ययं बाधित्वा ठञ्-प्रत्ययविधानं क्रियते ।\n" }, "44053": { "sa": "'अस्य पण्यम्' अस्मिन् अर्थे किशरादिगणस्य प्रथमासमर्थशब्देभ्यः ष्ठन्-प्रत्ययः भवति । ", "sd": "'पण्य' इति पण् (व्यवहारे) धातोः 'यत्' प्रत्ययान्तरूपम् । व्यवहारम् कर्तुम् / क्रेतुम् योग्यम् तत् पण्यम् । <<तदस्य पण्यम्>> [[4.4.51]] इत्यत्र निर्दिष्टे 'पण्यम्' अस्मिन् अर्थे सर्वेभ्यः प्रातिपदिकेभ्यः औत्सर्गिकरूपेण ठक्-प्रत्यये प्राप्ते तं बाधित्वा किशरादिगणस्य शब्देभ्यः ष्ठन्-प्रत्ययः भवति ।\nकिशरादिगणे सर्वे गन्धविशेषवाचिनः शब्दाः दीयन्ते । किशरादिगणः अयम् -\nकिशर, नरद, नलद, सुमङ्गल, तगर, गुग्गुलु, उशीर, हरिद्रा, हरिद्रायणी ।\nउदाहरणानि -\n1. किशराः पण्यमस्य सः किशरिकः ।\n2. नरदाः पण्यमस्य सः नरदिकः ।\n3. सुमङ्गलाः पण्यमस्य सः सुमङ्गलिकः ।\n'ष्ठन्' प्रत्यये षकारः इत्संज्ञकः अस्ति, तस्य प्रयोजनम् - स्त्रीत्वे विवक्षिते <<षिद्गौरादिभ्यश्च>> [[4.1.41]] इत्यनेन ङीष्-प्रत्ययविधानम् । यथा -\nकिशराः पण्यमस्याः सा\n= किशर + ष्ठन् +ङीष्\n→ किशर + ठ + ई [इत्संज्ञालोपः]\n→ किशर + इक + ई [<<ठस्येकः>> [[7.3.50]] इति इक्-आदेशः]\n→ किशर् + इक + ई [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ किशरिक + ई\n→ किशरिक् + ई [<<यस्येति च>> [[6.4.148]] इति ईकारे परे अकारलोपः]\n→ किशरिकी\n" }, "44054": { "sa": "'अस्य पण्यम्' अस्मिन् अर्थे प्रथमासमर्थात् 'शलालु'शब्दात् विकल्पेन ष्ठन् प्रत्ययः भवति, पक्षे औत्सर्गिकः ठक् अपि विधीयते । ", "sd": "'पण्य' इति पण् (व्यवहारे) धातोः 'यत्' प्रत्ययान्तरूपम् । व्यवहारम् कर्तुम् / क्रेतुम् योग्यम् तत् पण्यम् । <<तदस्य पण्यम्>> [[4.4.51]] इत्यत्र निर्दिष्ऱे 'पण्यम्' अस्मिन् अर्थे सर्वेभ्यः प्रातिपदिकेभ्यः औत्सर्गिकरूपेण ठक्-प्रत्यये प्राप्ते तं बाधित्वा 'शलालु'शब्दात् विकल्पेन ष्ठन्-प्रत्ययः भवति । (शलालु इति उकारान्तनपुंसकलिङ्गः गन्धविशेषवाची शब्दः) । यथा -\nशलालु पण्यमस्य सः = शलालु + ष्ठन् → शलालुक । स्त्रीत्वे विवक्षिते <<षिद्गौरादिभ्यश्च>> [[4.1.41]] इति ङीष्-प्रत्ययं कृत्वा - शलालुकी ।\nअत्र ष्ठन्-प्रत्ययविधानम् 'अन्यतरस्याम्' कृतमस्ति, अतः पक्षे ठक् अपि भवति । यथा - शलालु पण्यमस्य सः = शलालु + ठक् → शालालुकः । स्त्रीत्वे विवक्षिते <<टिड्ढाणञ्>> [[4.1.15]] इति ङीप्-प्रत्ययं कृत्वा - शालालुकी ।\n" }, "44055": { "sa": "'अस्य शिल्पम्' अस्मिन् अर्थे प्रथमासमर्थात् ठक् प्रत्ययः भवति । ", "sd": "'शिल्पम्' इत्युक्ते कौशल्यम् / प्रावीण्यम् । यस्य प्राविण्यम् विद्यते, तस्य निर्देशार्थम् 'यस्मिन् प्राविण्यम् विद्यते' तादृशात् प्रथमासमर्थात् ठक्-प्रत्ययः भवति । यथा -\n1. मृदङ्गवादनं शिल्पमस्य सः = मृदङ्ग + ठक् → मार्दङ्गिकः ।\n2. वीणावादनं शिल्पमस्य सः = वीणा + ठक् → वैणिकः ।\n3. पणववादनं शिल्पमस्य सः = पणव + ठक् → पाणविकः ।\nज्ञातव्यम् - अत्र उदाहरणेषु यद्यपि कौशलम् तु 'वादनम्' इति अस्ति, तथापि शिष्टप्रयोगमनुसृत्य तद्धितप्रत्ययः तु वाद्यवाचिशब्दात् विधीयते, न हि वादनवाचिशब्दात् । अस्मिन् विषये न्यासकारः वदति - 'मृदङ्गशब्द एव प्रत्ययमुत्पदयति, स तु मृदङ्गवादने वर्तमानः, न मृदङ्गे। अत्रशब्दशक्तिस्वाभाव्यं हेतुः।' इत्युक्ते अत्र 'मृदङ्ग'शब्देन 'मृदङ्गवादनम्' इत्यस्यैव अर्थस्य ग्रहणं भवति करणीयं च ।\n " }, "44056": { "sa": "'अस्य शिल्पम्' अस्मिन् अर्थे प्रथमासमर्थात् मड्डुकशब्दात् झर्झरशब्दात् च विकल्पेन अण्-प्रत्ययः भवति, पक्षे औत्सर्गिकः ठक्-प्रत्ययः अपि विधीयते ।", "sd": "'शिल्पम्' इत्युक्ते कौशल्यम् / प्रावीण्यम् । <<शिल्पम्>> [[4.4.55]] अस्मिन्नर्थे प्राविण्यवाचि-प्रथमासमर्थात् <<प्राग्वहतेष्ठक्>> [[4.4.1]] इत्यनेन ठक्-प्रत्यये प्राप्ते तं बाधित्वा मड्डुकशब्दात् झर्झरशब्दात् च वर्तमानसूत्रेण विकल्पेन अण्-प्रत्ययः भवति । पक्षे ठक् अपि विधीयते ।यथा -\n1. मड्डुकवादनम् शिल्पमस्य सः = मड्डुक + अण् → माड्डुक । पक्षे - मड्डुक + ठक् → माड्डुकिक ।\n2. झर्झरवादनम् शिल्पमस्य सः = झर्झर + अण् → झार्झरः । पक्षे - झर्झर + ठक् → झार्झरिक ।\nज्ञातव्यम् - मड्डुकः तथा झर्झरः - द्वावपि वाद्यविशैषणौ । " }, "44057": { "sa": "'अस्य प्रहरणम्' अस्मिन् अर्थे प्रथमासमर्थात् ठक् प्रत्ययः भवति । ", "sd": "प्रहरणम् इत्युक्ते शस्त्रम् । प्रथमासमर्थात् प्रहरणवाचिशब्दात् 'अस्य अस्ति' अस्मिन् अर्थे ठक्-प्रत्ययः भवति । यथा -\n1. दण्डः प्रहरणमस्य सः दाण्डिकः । दण्ड + ठक् → दाण्डिक ।\n2. चक्रं प्रहरणमस्य च चाक्रिकः ।\n3. धनुः प्रहरणमस्य सः धानुष्कः । प्रक्रिया इयम् -\nधनुस् + ठक् [यद्यपि प्रातिपदिकस्य दृश्यरूपम् 'धनुष्' इति अस्ति, तथापि <<आदेशप्रत्यययोः>> [[8.3.59]] इत्यनेन विधीयमानं 'षत्वम्' त्रिपादीकार्यमस्ति , अतः अत्र असिद्धम् ज्ञातव्यम् ।]\n→ धनुस् + क [<<इसुसुक्तान्तात् कः>> [[7.3.51]] इति ठकारस्य ककारादेशः]\n→ धानुस् + क [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ धानुरुँ + क [<<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इति अङ्गस्य पदसंज्ञा । <<ससजुषो रुँः>> [[8.2.66]] इति पदान्तसकारस्य रुँत्वम् ]\n→ धानुः + क [<<खरवसानयोर्विसर्जनीयः>> [[8.3.14]] इति विसर्गः]\n→ धानुष् + क [<<इणः षः>> [[8.3.39]] इति विसर्गस्य षकारः]\n→ धानुष्क\nज्ञातव्यम् - प्राग्दीव्यतीय-अधिकारे <<तदस्यां प्रहरणम् इति क्रीडायां णः>> [[4.2.57]] इति कश्चन अर्थः विधीयते । अस्मिन् अर्थे प्रहरणवाचिशब्दात् क्रीडायाः निर्देशं कर्तुम् 'ण'-प्रत्ययः भवति । यथा - दण्डं प्रहरणमस्यां क्रीडायाम् सा दाण्डा क्रीडा । वर्तमानसूत्रे तु प्रहरणधारिणः निर्देशः क्रियते, न तु क्रीडायाः । यथा, दण्डं प्रहरणमस्य राज्ञः सः दाण्डिकः राजा । द्वावपि अर्थौ भिन्नौ स्तः एतत् स्मर्तव्यम् ।\n" }, "44058": { "sa": "'अस्य प्रहरणम्' अस्मिन् अर्थे प्रथमासमर्थात् 'परश्वध'शब्दात् ठञ् तथा ठक् प्रत्ययौ भवतः । ", "sd": "'परश्वध' इति 'परशु'समानम् किञ्चन प्रहणम् (शस्त्रम्) । <<प्रहरणम्>> [[4.4.57]] अस्मिन् अर्थे 'परश्वध'शब्दात् <<प्राग्वहतेष्ठक्>> [[4.4.1]] इत्यनेन ठक्-प्रत्यये प्राप्ते वर्तमानसूत्रेण ठञ्-प्रत्ययः अपि विधीयते । द्वयोः प्रत्यययोः प्रयोगेण दृश्यरूपं तु समानमेव भवति - परश्वधं प्रहरणमस्य सः पारश्वधिकः । परन्तु द्वयोः रूपयोः उच्चारणे भेदः वर्तते। ठञ्-प्रत्ययान्तः 'पारश्वधिक'शब्दः <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] इत्यनेन आद्युदात्तः अस्ति । परन्तु कित्-प्रत्ययान्तः 'पारश्वधिक'शब्दः <<कितः>> [[6.1.165]] इत्यनेन अन्तोदात्तः अस्ति ।\nप्रक्रिये एते -\n1. परश्वध + ठक्\n→ परश्वध + इक [<<ठस्येकः>> [[7.3.50]] इति इक्-आदेशः]\n→ पारश्वध + इक [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ पारश्वध् + इक [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ पारश्वधिक\n2. परश्वध + ठञ्\n→ परश्वध + इक [<<ठस्येकः>> [[7.3.50]] इति इक्-आदेशः]\n→ पारश्वध + इक [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ पारश्वध् + इक [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ पारश्वधिक " }, "44059": { "sa": "'अस्य प्रहरणम्' अस्मिन् अर्थे प्रथमासमर्थात् 'शक्ति'शब्दात् 'यष्टि'शब्दात् च ईकक् प्रत्ययः भवति । ", "sd": "'प्रहरणम्' इत्युक्ते शस्त्रम् । <<प्रहरणम्>> [[4.4.57]] अस्मिन् अर्थे <<प्राग्वहतेष्ठक्>> [[4.4.1]] इत्यनेन औत्सर्गकरूपेण ठक्-प्रत्यये प्राप्ते तं बाधित्वा 'शक्ति'शब्दस्य विषये तथा 'यष्टि'शब्दस्य विषये 'ईकक्' प्रत्ययः भवति । यथा -\n1. शक्तिः (= 'शूल'सादृशं किञ्चन शस्त्रम्) प्रहरणमस्य सः = शक्ति + ईकक् → शाक्तीक ।\n2. यष्टिः (- 'दण्ड'सादृशं किञ्चन शस्त्रम्) प्रहरणमस्य सः = यष्टि + ईकक् → याष्टीक ।\nज्ञातव्यम् - अत्र तद्धितान्तरूपे दीर्घ-ईकारः इष्यते, अतः आचार्येण ठक् (= इकक्) इत्यस्य स्थाने 'ईकक्' इति विधानं कृतमस्ति । " }, "44060": { "sa": "'अस्य मतिः' अस्मिन् अर्थे 'अस्ति'शब्दात्, 'नास्ति'शब्दात् तथा 'दिष्ट'शब्दात् ठक् प्रत्ययः भवति । ", "sd": "'तद् अस्य मतिः (= विचारः / चिन्तनम् / बुद्धिः)' अस्मिन् अर्थे 'अस्ति'शब्दात्, 'नास्ति'शब्दात् तथा 'दिष्ट'शब्दात् ठक् प्रत्ययः विधीयते । यथा -\n1. 'अस्ति' इति अस्य मतिः सः = अस्ति + ठक् → आस्तिक । 'परलोकः / ईश्वरः अस्ति' इति यस्य चिन्तनम्, सः आस्तिकः ।\n2. 'नास्ति' इति यस्य मतिः सः = नास्ति + ठक् → नास्तिक । 'परलोकः / ईश्वरः नास्ति' इति यस्य चिन्तनम्, सः नास्तिकः ।\n3. 'दिष्टम्' (=प्रमाणमनुसृत्य) इति यस्य मतिः सः = दिष्ट + ठक् → दैष्टिकः । 'प्रमाणं लभ्यते चेत् परलोकः / ईश्वरः अस्ति' इति यस्य चिन्तनम्, सः दैष्टिकः ।\nज्ञातव्यम् -\n1. अस्मिन् सूत्रे प्रयुक्तौ 'अस्ति' तथा 'नास्ति' एतौ शब्दौ निपातौ (= अव्ययौ) स्तः । <<स्वरादिनिपातमव्ययम्>> [[1.1.37]] अस्मिन् सूत्रे निर्दिष्टः यः स्वरादिगणः, तस्मिन् एतौ शब्दौ स्वीक्रियेते । तथा च, तिङ्गन्तौ यौ 'अस्ति / नास्ति' शब्दौ, ताभ्यामपि वर्तमानसूत्रे निर्देशसामर्थ्यात् प्रत्ययः भवितुमर्हति एव ।\n2. यद्यपि अस्मिन् सूत्रे केवलम् 'अस्ति' / 'नास्ति' इति निर्देशः कृतः अस्ति, तथापि अस्य सूत्रस्य प्रयोजनम् परलोकस्य / ईश्वरस्य अस्तित्वस्य विषये एव क्रियते । अस्मिन् विषये न्यासकारः वदति - ' न च मतिसत्तामात्रे प्रत्यय इष्यते, किं तर्हि, परलोकोऽस्तीति यस्य मतिः स आस्तिकः' । " }, "44061": { "sa": "'अस्य शीलम्' अस्मिन् अर्थे प्रथमासमर्थात् ठक् प्रत्ययः भवति । ", "sd": "शीलम् इत्युक्ते स्वभावः । प्रथमासमर्थात् शीलवाचिशब्दात् 'अस्य शीलम् (= सः अस्य स्वभावः)' अस्मिन् अर्थे ठक्-प्रत्ययः भवति । यथा -\n1. अपूपभक्षणम् शीलमस्य सः आपूपिकः । यः स्वभावरूपेणैव नित्यमपूपान् भुङ्क्ते, सः आपूपिकः - इत्यर्थः ।\n2. शष्कुलिभक्षणम् शीलमस्य सः शाष्कुलिकः ।\n3. मोदकभक्षणम् शीलमस्य सः मौदकिकः गणेशः ।\nज्ञातव्यम् - अत्र उदाहरणेषु यद्यपि शीलम् तु 'भक्षणम्' इति अस्ति, तथापि शिष्टप्रयोगमनुसृत्य तद्धितप्रत्ययः तु भक्ष्यवाचिशब्दात् विधीयते । अस्मिन् विषये न्यासकारः वदति - 'भक्षणक्रिया तद्विषयञ्च शीलं तद्धितवृत्ताौ अन्तर्भवति। तेन तत्र प्रतीयमानत्वात् भक्षणशीलशब्दौ न प्रयुज्येते इति भावः' । 'अपूप' इत्यनेनैव अपूपभक्षणम्' इति अर्थः स्वीकर्तव्यः इति अस्य आशयः । " }, "44062": { "sa": " 'अस्य शीलम्' अस्मिन् अर्थे छत्रादिगणस्य प्रथमासमर्थेभ्यः शब्देभ्यः ण-प्रत्ययः भवति । ", "sd": "शीलम् इत्युक्ते स्वभावः । <<शीलम्>> [[4.4.61]] अस्मिन् अर्थे सर्वेभ्यः प्रातिपदिकेभ्यः <<प्राग्वहतेः ठक्>> [[4.4.1]] अनेन सूत्रेण ठक्-प्रत्यये प्राप्ते छत्रादिगणस्य शब्देभ्यः तं बाधित्वा 'ण'प्रत्ययः भवति ।\nछत्रादिगणः अयम् - छत्र, बुभुक्षा, शिक्षा, पुरोह, स्था, चुरा, उपस्थान, ऋषि, कर्मन्, विश्वधा, तपस्, सत्य, अनृत, शिबिका ।\nउदाहरणानि -\n1. छत्रम् शीलमस्य सः छात्रः । छत्र + ण → छात्र । 'छत्र' इत्युक्ते आवरणम् । अत्र एतत् आवरणम् 'गुरोः दोषेषु स्थापितमावरणम्' अस्ति । इत्युक्ते, गुरोः दोषान् यः स्वभावतः एव गोपयते / गूहते / आवृणोति, सः छात्रः ।\n2. बुभुक्षा शीलमस्य सः बौभुक्षः ।\n3. शिक्षा शीलमस्य सः शैक्षः ।\n4. अस्मिन् गणे विद्यमानः 'स्था'शब्दः नित्यमुपसर्गेण सह एव स्वीक्रियते । यथा - 'आस्था' शीलमस्य सः = आस्था + ण → आस्थ । 'संस्था' शीलमस्य सः = संस्था + ण → सांस्थ ।\n5. चुरा शीलमस्य सः चौरः ।\nज्ञातव्यम् - अत्र आचार्यः 'अण्' प्रत्ययविधानं न करोति, अपितु ण-प्रत्ययविधानं करोति । वस्तुतः तु अण्-प्रत्यये परे अपि रूपम् समानमेव जायते । परन्तु स्त्रीत्वे विवक्षिते अण्-प्रत्ययान्तशब्दात् <<टिड्ढाणञ्..>> [[4.1.15]] इत्यनेन ङीप्-प्रत्ययः विधीयते सः अत्र नेष्यते ।अत्र <<अजाद्यतष्टाप्>> [[4.1.4]] इत्यनेन टाप्-प्रत्ययः एव कर्तव्यः, अतः अत्र 'ण'प्रत्ययविधानम् कृतमस्ति । यथा - छत्रम् शीलमस्याः सा छात्रा ।\n" }, "44063": { "sa": "अध्ययनसम्बन्धी यः क्रियावाची शब्दः, तस्मात् प्रथमासमर्थात् कर्तुः निर्देशं कर्तुम् ठक्-प्रत्ययः भवति । ", "sd": "सूत्रे उपस्थितानां शब्दानां आदौ अर्थम् पश्यामः -\n1) अध्ययने = अध्ययनसमये / परीक्षासमये ।\n2) कर्म वृत्तम् = कर्म कृतम् । 'वृत्तम्' इति 'वृत्' धातोः क्त-प्रत्यययान्तरूपम् । 'कर्म' इति 'कर्मन्' शब्दस्य प्रथमैकवचनम् ।\nअतः अत्र सूत्रार्थः इत्थं भवति - अध्ययनसमये यत् किमपि कर्म कृतम्, तद्वाचिशब्दात् कर्तुः निर्देशं कर्तुम् ठक्-प्रत्ययः भवति ।\n उदाहरणम् पश्यामश्चेत् स्पष्टं भवेत् -\n1. परीक्षासमये कश्चन छात्रः यदि कस्यचित् प्रश्नस्य दोषपूर्णमुत्तरं ददाति (अथ वा, कस्यचित् शब्दस्य दोषपूर्णमुच्चारणम् करोति) तर्हि तस्य छात्रस्य वर्णनम् 'अध्ययने एकमन्यत् कार्यम् कृतमनेन छात्रेण' इति क्रियते । अत्र 'अन्यत्' इत्युक्ते 'यत् युक्तम् / समीचीनम् नास्ति तत्' इति अर्थः । अत्र एतादृशं कर्म 'एकान्यम्' इति नाम्ना सम्बुद्ध्यते । अस्यां स्थितौ 'अध्ययने एकान्यम् कार्यम् वृत्तमस्य छात्रस्य' इत्यत्र 'एकान्य'शब्दात् वर्तमानसूत्रेण ठक्-प्रत्ययः विधीयते । एकान्य + ठक् → ऐकान्यिक । अध्ययने एकान्यम् कार्यम् वृत्तमस्य छात्रस्य सः ऐकान्यिकः छात्रः । 'अध्ययने / परीक्षासमये एकवारं दोषं कृत्वा अग्रे समीचीनमुत्तरं ददाति सः ऐकान्यिकः छात्रः' इत्यर्थः ।\n2. तथैव, 'अध्ययने द्वे अन्ये कार्ये कृते अनेन छात्रेण' इत्यत्र कर्मणः निर्देशार्थम् 'द्व्यन्यम्' अस्य शब्दस्य प्रयोगः क्रियते । 'द्व्यन्यम् कार्यम् वृत्तमस्य छात्रस्य' सः = द्व्यन्य + ठक् → द्वैयन्यिकः छात्रः । प्रक्रिया इयम् -\nद्व्यन्य + ठक्\n→ द्व्यन्य + इक [<<ठस्येकः>> [[7.3.50]] इति 'इक'-आदेशः]\n→ द्वै यन्य + इक [<<किति च>> [[7.2.118]] इत्यनेन आदिवृद्धौ प्राप्तायाम्, तां बाधित्वा <<न य्वाभ्यां पदान्ताभ्याम् पूर्वौ तु ताभ्यामैच्>> [[7.3.3]] इति ऐच्-आगमः]\n→ द्वैयन्य् इक [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ द्वैयन्यिक\n3. अध्ययने त्रीणि अन्यानि कर्माणि कृतानि अनेन छात्रेण सः त्रैयन्यिकः छात्रः । अत्रापि 'द्वैयन्यिक' यावत् एव प्रक्रिया वर्तते ।\nज्ञातव्यम् - 'दोषपूर्णम् कर्म' इत्युक्ते दोषपूर्णम् लेखनम् / उच्चारणम् । यथा, अध्ययनकाले परीक्षाकाले वा यदि कश्चन छात्रः उदात्तस्वरस्य स्थाने अनुदात्तस्वरस्य उच्चारणं करोति, अथ वा ह्रस्वस्वरस्य लेखनसमये यदि सः दीर्घस्वरस्य लेखनं करोति, तर्हि एतत् कर्म 'अन्यत्' कर्म अस्ति इत्युच्यते । अस्य कर्मणः निर्देशेन छात्रस्य निर्देशं कर्तुम् वर्तमानसूत्रस्य प्रयोगः क्रियते ।" }, "44064": { "sa": "यस्य अध्ययनसम्बन्धिनः क्रियावाचिशब्दस्य पूर्वपदे त्रयः वा अधिकाः स्वराः सन्ति, तस्मात् प्रथमासमर्थात् कर्तुः निर्देशं कर्तुम् ठच्-प्रत्ययः भवति । ", "sd": " अध्ययनसमये यत् किमपि कर्म कृतम्, तद्वाचिशब्दात् कर्तुः निर्देशं कर्तुम् <<कर्माध्ययने वृत्तम्>> [[4.4.64]] अनेन सूत्रेण सामान्यतः ठक्-प्रत्ययः भवति । परन्तु यदि प्रकृतिः समस्तपदमस्ति तथा च तस्य समस्तपदस्य पूर्वपदम् बह्वच् अस्ति (इत्युक्ते, तस्मिन् पूर्वपदे त्रयः वा अधिकाः स्वराः विद्यन्ते) तर्हि ठक्-प्रत्ययस्य अपवादरूपेण ठच्-प्रत्ययः विधीयते । यथा -\n1. यः छात्रः पठनसमये परीक्षासमये वा द्वादश अपपाठान् करोति, तस्य निर्देशः 'द्वादशानि अन्यानि कर्माणि अध्ययने वृत्तानि अस्य' इति क्रियते । अत्र 'अन्यानि कर्माणि' इत्युक्ते दोषकर्माणि इत्यर्थः । अस्यां स्थितौ तद्धितप्रत्ययस्य प्रयोगात् पूर्वमादौ 'द्वादश + अन्य' इति समस्तपदं कृत्वा 'द्वादशान्य' अनेन शब्देन सर्वेषाम् द्वादशकर्मणाम् निर्देशः क्रियते । अग्रे 'द्वादशान्यम् कर्म अध्ययने वृत्तमस्य' इति स्थिते 'द्वादशान्य' इति अत्र प्रकृतिः अस्ति , तस्याः पूर्वपदम् 'द्वादश' इति च बह्वच् अस्ति । अतः अत्र औत्सर्गिकं ठक्-प्रत्ययं बाधित्वा ठच्-प्रत्ययः भवति - द्वादशान्य + ठच् → द्वादशान्यिक । द्वादशानि अन्यानि कर्माणि अध्ययने वृत्तानि अस्य, सः द्वादशान्यिकः छात्रः ।\n2. एवमेव - त्रयोदशान्यिकः, चतुर्दशान्यिकः , पञ्चदशान्यिकः, सहस्रान्यिकः - एतादृशाः शब्दाः सिद्ध्यन्ति ।\nज्ञातव्यम् - 'दोषपूर्णम् कर्म' इत्युक्ते दोषपूर्णम् लेखनम् / उच्चारणम् । यथा, अध्ययनकाले परीक्षाकाले वा यदि कश्चन छात्रः उदात्तस्वरस्य स्थाने अनुदात्तस्वरस्य उच्चारणं करोति, अथ वा ह्रस्वस्वरस्य लेखनसमये यदि सः दीर्घस्वरस्य लेखनं करोति, तर्हि एतत् कर्म 'अन्यत्' कर्म अस्ति इत्युच्यते । अस्य कर्मणः निर्देशेन छात्रस्य निर्देशं कर्तुम् वर्तमानसूत्रस्य प्रयोगः क्रियते ।\n" }, "44065": { "sa": "'भक्षाः अस्य हितम्' अस्मिन् अर्थे प्रथमासमर्थात् भक्ष्यवाचिशब्दात् ठक्-प्रत्ययः भवति । ", "sd": "'अस्य हितम्' इत्युक्ते 'अस्य उपकारकम् / अस्य लाभकारकम् ' इति । कस्यचन भक्षस्य विषये 'तत् भक्षमस्मै उपकारकं / लाभदायी भवति' अस्मिन् अर्थे वर्तमानसूत्रेण ठक्-प्रत्ययः भवति ।\nयथा -\n1) मोदकभक्षणम् हितम् (= लाभदायी ) अस्मै सः मौदकिकः । मोदकभक्षणेन यस्य लाभः भवति / वृद्धिः भवति, तस्य विषये 'मोदकभक्षणम् हितम्' इति उच्यते । अत्र वर्तमानसूत्रेण ठक्-प्रत्ययः विधीयते । मोदक + ठक् → मौदकिक ।\n2) अपूपभक्षणम् हितमस्मै सः आपूपिकः ।\nज्ञातव्यम् -\n1) अस्य सूत्रस्य प्रयोगः तदैव भवति यदा हितकारकः शब्दः खाद्यपदार्थः (= भक्ष्यः) अस्ति । 'अध्ययनम् हितमस्मै' एतादृशेषु वाक्येषु अस्य सूत्रस्य प्रयोगः न भवति ।\n2) वस्तुतः 'हितम्' इत्यस्य विषये <<चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः>> [[2.1.36]] इत्यनेन चतुर्थी विभक्तिः प्रयोक्तव्या । परन्तु अत्र 'अस्य' इति षष्ठीविभक्तेः प्रयोगः कृतः दृश्यते । अयमार्षप्रयोगः अस्ति । अस्मिन् विषये बालमनोरमाकारः वदति - 'तत्र षष्ठी चतुर्थ्याविपरिणम्यते' । भाष्येऽपि स्पष्टरूपेण उच्यते - 'स तर्हि चतुर्थीनिर्देशः कर्तव्यः...हितं भक्षास्तदस्मै' । अग्रिमसूत्रात् 'तदस्मै' इत्यस्य अपकर्षः करणीयः इति अत्र आशयः ।\n" }, "44066": { "sa": "'नित्यरूपेण, अव्यभिचाररूपेण अस्मै दीयते' अस्मिन् अर्थे प्रथमासमर्थात् 'ठक्' प्रत्ययः भवति । ", "sd": "'नियुक्तम्' इत्युक्ते नियोगेन / अव्यभिचारेण / अवधारणया दत्तम् । यत्र कश्चन पदार्थः कस्मैचित् नियममनुसृत्य दीयते (न हि भ्रष्टाचाररूपेण / व्यभिचाररूपेण), तत्र सः पदार्थः 'नियुक्तम्' दीयते इति उच्यते । यथा, कार्यालये वित्तकोषे वा पङ्क्तौ यः प्रथमः तिष्ठति, तस्य कार्यमादौ क्रियते, ततः यः द्वितीयः तिष्ठति तस्य कार्यम् क्रियते - एतादृशम् नियमरूपेण क्रमेणैव कार्यम् भवति, पङ्क्तिमुल्लङ्घ्य कार्यं न क्रियते, अतः अत्र 'नियुक्तम्' कार्यम् भवति इत्युच्यते । अस्यां स्थितौ यस्य कार्यं क्रियते तस्य निर्देशं कर्तुम् वर्तमानसूत्रस्य प्रयोगः क्रियते । यथा -\n1. अग्रे भोजनमस्मै नियुक्तं दीयते सः = अग्रभोजन + ठञ् → आग्रभोजनिकः । नियममनुसृत्य यस्मै आदौ भोजनं दीयते सः आग्रभोजनिकः । अत्र 'नियमः' इत्यनेन 'अधिकारः' / 'पङ्क्तौ क्रमाङ्कः' इति निर्दिश्यते ।\n2. अपूपाः अस्मै नियुक्तम् दीयन्ते सः आपूपिकः ।\n" }, "44067": { "sa": "'नित्यरूपेण, अव्यभिचाररूपेण अस्मै दीयते' अस्मिन् अर्थे श्राणा तथा मांसौदन - एताभ्यां शब्दाभ्यां प्रथमासमर्थाभ्याम् 'टिठन्' प्रत्ययः भवति ।", "sd": "'श्राणा' (यवागुः), तथा 'मांसौदन' (मांसमिश्रितम् ओदनम्) एताभ्यां शब्दाभ्याम् <<तदस्मै दीयते नियुक्तम्>> [[4.4.66]] अस्मिन् अर्थे औत्सर्गिकं ठक्-प्रत्ययं बाधित्वा टिठन्-प्रत्ययः विधीयते । 'टिठन्' इत्यत्र टकारनकारौ इत्संज्ञकौ स्तः, इकारः तु उच्चारणार्थः अस्ति ।\nश्राणा दीयते अस्मै नियुक्तम् सः\n= श्राणा + टिठन्\n= श्राणा + ठ\n→ श्राणा + इक [<<ठस्येकः>> [[7.3.50]] इति इक-आदेशः]\n→ श्राण् + इक [<<किति च>> [[7.2.118]] इति आदिवृद्धिः, <<यस्येति च>> [[6.4.148]] इति आकारलोपः]\n→ श्राणिक ।\nतथैव - मांसौदनम् दीयते अस्मै नियुक्तम् सः = मांसौदनिकः ।\nज्ञातव्यम् -\n1) 'टिठन्' इत्यत्र टकारः इत्संज्ञकः अस्ति । तस्य प्रयोजनम् स्त्रीप्रत्ययविधाने दृश्यते - स्त्रीत्वे विवक्षिते टित्-प्रत्ययान्तशब्दाः <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इत्यनेन ङीप्-प्रत्ययं प्राप्नुवन्ति ।यथा - श्राणा दीयते अस्यै नियुक्तम् सा = श्राणा + टिठन् + ङीप् → श्राणिकी ।\n2) 'टिठन्' इत्यत्र नकारः अपि इत्संज्ञकः अस्ति । तस्य प्रयोजनम् 'स्वरविधानम्' इति । <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] इत्यनेन नित्-प्रत्ययान्तशब्दानां प्रथमस्वरः उदात्तसंज्ञां प्राप्नोतो ।\n3) केचन पण्डिताः 'मांसौदन' शब्दस्य विग्रहं कृत्वा 'मांस' तथा 'ओदन' द्वयोः विषये भिन्नरूपेण अपि टिठन्-विधानम् कुर्वन्ति । यथा - मांसम् दीयते अस्मै नियुक्तम् सः मांसिकः , ओदनं दीयते अस्मै नियुक्तम् सः ओदनिकः । अस्मिन् विषये काशिकाकारः वदति - 'अथ ठञेव कस्मान् न उक्तः, न ह्यत्र ठञः टिठनः वा विशेषः अस्ति? मांसौदनग्रहणं सङ्घातविगृहीतार्थं केचिदिच्छन्ति, तत्र वृद्ध्यभावो विशेषः' । इत्युक्ते, यदि केवलं 'श्राणा' तथा 'मांसौदन' द्वौ शब्दौ एव अभविष्यताम्, तर्हि आचार्यः 'ठञ्' इत्येव प्रत्ययविधानमकरिष्यत् - यतः ञित्-प्रत्ययान्त-शब्दाः अपि स्त्रीत्वे विवक्षिते <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इत्यनेन ङीप्-प्रत्ययं प्राप्नुवन्ति, तथा च नित्-प्रत्ययवत् आद्युदात्तत्वमपि निदर्शयन्ति । परन्तु अत्र आचार्यः ञकारस्य प्रयोगम् न करोति अपितु नकारटकारयोः पृथक् रूपेण प्रयोगं करोति । एतत् अस्यैव ज्ञापकम् यत् अत्र आचार्यः 'ओदन' शब्दस्य अपि ग्रहणं कर्तुम् इच्छति, परन्तु तस्य विषये आदिवृद्धिं न इच्छति । अतएव अत्र 'मांस' तथा 'ओदन' - द्वयोः पृथक्-रूपेण अपि ग्रहणम् करणीयम् । " }, "44068": { "sa": "'नित्यरूपेण, अव्यभिचाररूपेण अस्मै दीयते' अस्मिन् अर्थे प्रथमासमर्थात् 'भक्त'शब्दात् विकल्पेन अण्-प्रत्ययः भवति, पक्षे औत्सर्गिकः ठक् अपि भवति । ", "sd": "'भक्त' इत्युक्ते ओदनम् । <<तदस्मै दीयते नियुक्तम्>> [[4.4.66]] अस्मिन् अर्थे औत्सर्गिकरूपेण ठक्-प्रत्यये प्राप्ते तं विकल्पेन बाधित्वा वर्तमानसूत्रेण अण्-प्रत्ययः विधीयते । भक्तम् दीयते अस्मै नियुक्तम् सः भाक्तः । पक्षे 'ठक्' अपि भवति - भक्तम् दीयते अस्मै नियुक्तम् सः भाक्तिकः ।\n" }, "44069": { "sa": "'नियुक्तः' (= अधिकृतः) अस्मिन् अर्थे सप्तमीसमर्थात् ठक्-प्रत्यय भवति । ", "sd": "'नियुक्तः' इत्युक्ते अधिकृतः / अधिकाररूपेण स्थापितः / नियोजितः । यस्मिन् स्थाने कश्चन मनुष्यः किञ्चन कार्यम् कर्तुमधिकाररूपेण स्थापितः अस्ति, तत्र तस्य मनुष्यस्य निर्देशं कर्तुम् स्थानवाचिशब्दात् ठक्-प्रत्ययः भवति । यथा -\n1) शुल्कशालायां नियुक्तः शौल्कशालिकः । शुल्कशालायाम् शुल्कग्रहणकार्यार्थम् यः अधिकृतः अस्ति, सः शौल्कशालिकः अस्ति इत्युच्यते ।\n2) द्वारे नियुक्तः सः दौवारिकः । प्रक्रिया इयम् -\nद्वार + ठक्\n→ द्वार + इक [<<ठस्येकः>> [[7.3.50]] इति इक्-आदेशः]\n→ दौवार + इक [<<द्वारादीनां च>> [[7.3.4]] इति ऐच्-आगमः]\n→ दौवार् + इक [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ दौवारिक ।\n3) आपणे नियुक्तः सः आपणिकः ।\n4) आकरे नियुक्तः सः आकरिकः । (आकरः इत्युक्ते शुल्कशाला)\nज्ञातव्यम् - पूर्वस्मिन् सूत्रे <<तदस्मै दीयते नियुक्तम्>> [[4.4.66]] इत्यत्र 'नियुक्तम्' शब्दः प्रयुक्तः अस्ति, अतः तस्मात् एव अत्र अनुवृत्तिः किमर्थम् न क्रियते, अस्मिन् सूत्रे पुनः 'नियुक्त' इति शब्दस्य प्रयोगः किमर्थम् कृतः अस्ति - इति प्रश्नः प्रायः उद्भवति । अस्य उत्तरार्थम् न्यासकारः वदति - 'अर्थभेदात्। न तस्य हि अव्यभिचारलक्षणो नित्यभावः अर्थः' । इत्युक्ते, <<तदस्मै दीयते नियुक्तम्>> [[4.4.66]] इत्यत्र 'नियुक्तम्' शब्दः 'अव्यभिचार' इत्यस्मिन् अर्थे प्रयुक्तः अस्ति, वर्तमानसूत्रे च 'अधिकारः' अस्मिन् अर्थे प्रयुक्तः अस्ति । द्वौ एतौ भिन्नौ अर्थौ स्तः । अनुवृत्तिः क्रियते चेत् तु अर्थभेदः न सम्भवति । अतः अत्र अनुवृत्तिः न क्रियते, अपितु 'नियुक्तम्' शब्दः पुनः निर्दिष्टः अस्ति ।\n" }, "44070": { "sa": "यस्य अन्ते 'अगार' इति विद्यते, तादृशात् सप्तमीसमर्थात् 'नियुक्तः' अस्मिन् अर्थे ठन्-प्रत्ययः भवति । ", "sd": "'अगार' (= स्थानम् / गृहम्) अयम् शब्दः यस्य अन्ते अस्ति, तादृशात् शब्दात् <<तत्र नियुक्तः>> [[4.4.69]] अस्मिन् अर्थे औत्सर्गिकम् ठक्-प्रत्ययं बाधित्वा ठन्-प्रत्ययः भवति । यथा -\n1. देवागारे नियुक्तः = देवागार + ठन् → देवागारिकः । देवालये अर्चनं कर्तुम् यः अधिकृतः अस्ति सः देवागारिकः ।\n2. कोष्ठागारे नियुक्तः = कोष्ठागार + ठन् → कोष्ठागारिकः ।\n3. भाण्डागारे नियुक्तः सः भाण्डागारिकः ।\n" }, "44071": { "sa": "यस्मिन् देशे काले वा अध्ययनम् निषिध्यते, तस्मिन् देशे काले वा यः अधीते, तस्य निर्देशं कर्तुम् सप्तमीसमर्थात् ठक्-प्रत्ययः भवति । ", "sd": "आदौ सूत्रे प्रयुक्तानां शब्दानामर्थम् पश्यामः -\n1) अध्यायिनि = 'अध्यायिन्' इत्यस्य इदम् सप्तमी-एकवचनम् । अध्येतुम् शीलम् (स्वभावः) अस्य सः अध्यायी, तस्मिन् ।\n2) अदेशकालात् = यः देशः (स्थलम्) कालः (समयः) वा निषिद्धः अस्ति, सः 'अदेशकालः' । अयुक्तः देशकालः इत्यर्थः ।\nशास्त्रानुसारम् कानिचन स्थलानि केचन च कालाः अध्ययनार्थम् निषिद्धाः सन्ति । एतेषु स्थलेषु कालेषु वा यः अधीते, तस्य निर्देशं कर्तुम् सप्तमीसमर्थात् ठक्-प्रत्ययः भवति । यथा -\n1) श्मशानमध्ययनार्थम् निषिद्धम् । श्मशाने अधीते सः = श्मशान + ठक् → श्माशानिक ।\n2) चतुष्पथे अध्ययनम् निषिद्धम् । चतुष्पथे अधीते सः चातुष्पथिकः ।\n3) अमावास्यायामध्ययनम् निषिद्धम् । अमावास्यायाम् अधीते सः आमावास्यिकः ।\n4) चतुर्दश्यामध्ययनम् निषिद्धम् । चतुर्दश्यामधीते सः चातुर्दशिकः । " }, "44072": { "sa": "'व्यवहरति' अस्मिन् अर्थे सप्तमीसमर्थात् कठिनान्तशब्दात्, प्रस्तारशब्दात् तथा संस्थानशब्दात् ठक्-प्रत्ययः भवति । ", "sd": "'व्यवहरति' इत्युक्ते 'सम्यक् / यथायोग्यम् व्यवहारम् / आचरणम् करोति' । यस्य शब्दस्य अन्ते 'कठिन' इति पदम् विद्यते, तस्मात् शब्दात्, 'प्रस्तार' (=अवयवः / विभागः ) शब्दात् तथा च 'संस्थान' (=संघटनम् / सन्निवेशः) शब्दात् 'व्यवहरति' अस्मिन् अर्थे ठक्-प्रत्ययः भवति । उदाहरणानि एतानि -\n1) यस्मिन् क्षेत्रे कठिनाः वंशाः (वेणवः) सन्ति, सः प्रदेशः 'वंशकठिन' नाम्ना ज्ञायते । अस्मिन् क्षेत्रे यः सम्यक् रूपेण व्यवहारं करोति सः = वंशकठिन + ठक् → वांशकठिनिकः ।\n2) यस्मिन् क्षेत्रे कठिनाः वर्ध्राः (चर्माणि) सन्ति, सः प्रदेशः 'वर्ध्रकठिन' नाम्ना ज्ञायते । अत्र यः सम्यक् रूपेण व्यवहारं करोति सः = वर्ध्रकठिन + ठक् → वार्ध्रकठिनिकः ।\n3) प्रस्तारे (विभागे) व्यवहरति सः प्रास्तारिकः ।\n4) संस्थाने (संघटने) व्यवहरति सः सांस्थानिकः ।\n " }, "44073": { "sa": "सप्तमीसमर्थात् 'निकट' शब्दात् 'वसति' अस्मिन् अर्थे ठक्-प्रत्ययः भवति । ", "sd": "यः कोऽपि शास्त्रनियमान् उल्लङ्घ्य निकटं वसति, तस्य निर्देशं कर्तुम् 'निकट' शब्दात् 'ठक्'प्रत्ययः भवति ।\nयथा - 'आरण्यके भिक्षुणा ग्रामात् कोशे वस्तव्यम्' इति शास्त्रम् विद्यते । इत्युक्ते, भिक्षुः नित्यम् वने एव निवसेत्, तथा ग्रामात् 'एकं कोशं' इति दूरम् एव निवसेत् । परन्तु यदि कश्चन भिक्षुः एतम् नियममुल्लङ्घ्यम् ग्रामस्य निकटे वसति, तर्हि तस्य निर्देशं कर्तुम् 'निकट' शब्दात् ठक्-प्रत्ययः भवति । निकटे वसति सः नैकटिकः भिक्षुः ।\n" }, "44074": { "sa": "सप्तमीसमर्थात् 'आवसथ'शब्दात् 'वसति' इत्यस्मिन् अर्थे ष्ठल्-प्रत्ययः भवति । ", "sd": "'आवसथ' इत्युक्ते निवासं कर्तुम् योग्यम् स्थलम् । अस्मात् शब्दात् सप्तमीसमर्थात् 'वसति' अस्मिन् अर्थे ष्ठल्-प्रत्ययः भवति ।\n आवसथे वसति सः = आवसथ + ष्ठल् → आवसथिकः ।\n'ष्ठल्' इत्यत्र षकारः इत्संज्ञकः अस्ति, तस्य प्रयोजनम् - 'स्त्रीत्वे विवक्षिते <<षिद्गौरादिभ्यश्च>> [[4.1.41]] इति ङीष्-प्रत्ययविधानम्' - इति अस्ति । यथा - आवसथे वसति सा = आवसथ + ष्ठल् + ङीष् → आवसथिकी ।\n'ष्ठल्' इत्यत्र लकारः अपि इत्संज्ञकः अस्ति, तस्य प्रयोजनम् - '<<लिति>> [[6.1.193]] इति प्रत्ययात् पूर्वस्य स्वरस्य उदात्तत्वम्' - इति अस्ति । तथा, 'आवसथिक' इत्यत्र 'इक' इति प्रत्ययः, तस्मात् पूर्वम् विद्यमानः सकारोत्तरः अकारः अनेन सूत्रेण उदात्तत्वं प्राप्नोति ।\nस्मर्तव्यम् - तद्धिताधिकारे ये पञ्च महोत्सर्गाः पाठ्यन्ते, तेषु द्वितीयः महोत्सर्गः (ठगधिकारः) यस्य प्रारम्भः <<प्राग्वहतेष्ठक्>> [[4.4.1]] इत्यत्र भवति, सः अत्र समाप्यते । " }, "44075": { "sa": "प्राक्-हितीय-अर्थेषु यत्-प्रत्ययः औत्सर्गिकरूपेण भवति ।", "sd": "तद्धिताधिकारे पाठितेभ्यः पञ्च-महोत्सर्गेभ्यः तृतीयः महोत्सर्गः अस्मात् सूत्रात् आरभ्यते । वर्तमानसूत्रतः <<तस्मै हितम्>> [[5.1.5]] इति यावत्सु सूत्रेषु आहत्य द्वात्रिंशत् (32) अर्थाः पाठिताः सन्ति । एते सर्वे अर्थाः 'प्राग्घितीय-अर्थाः' नाम्ना ज्ञायन्ते । एतेषां सर्वेषाम् विषये औत्सर्गिकरूपेण यत्-प्रत्ययः भवति । अस्य यत्-प्रत्ययस्य अपवादरूपेण भिन्नैः सूत्रैः भिन्नासु अवस्थासु विविधानाम् प्रत्ययानाम् विधानम् क्रियते ।\nयत्-प्रत्ययस्य कानिचन उदाहरणानि -\nअ) रथं वहति सः = रथ + यत् = रथ्य\nआ) छन्दसा (=इच्छया) निर्मितः = छन्दस् + यत् = छन्दस्य\nइ) सभायां साधुः = सभा + यत् = सभ्य ।\nप्रक्रिया इयम् -\nरथ + यत्\n→ रथ् + यत् [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ रथ्य\n31 प्राग्घितीय-अर्थाः एते -\n1. <<तद्वहति रथयुगप्रासङ्गम्>> [[4.4.76]]\n2. <<विध्यत्यधनुषा>> [[4.4.83]]\n3. <<धनगणं लब्धा>> [[4.4.84]]\n4. <<वशं गतः>> [[4.4.86]]\n5. <<पदमस्मिन् दृश्यम्>> [[4.4.87]]\n6. <<मूलमस्याबर्हि>> [[4.4.88]]\n7. <<गृहपतिना संयुक्ते ञ्यः>> [[4.4.90]]\n8. <<नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसम्मितेषु>> [[4.4.91]]\n9. <<धर्मपथ्यर्थन्यायादनपेते>> [[4.4.92]]\n10. <<छन्दसो निर्मिते>> [[4.4.93]]\n11. <<हृदयस्य प्रियः>> [[4.4.95]]\n12. <<बन्धने चर्षौ>> [[4.4.96]]\n13. <<मतजनहलात् करणजल्पकर्षेषु>> [[4.4.97]]\n14. <<तत्र साधुः>> [[4.4.98]]\n15. <<समानतीर्थे वासी>> [[4.4.107]]\n16. <<समानोदरे शयित ओ चोदात्तः>> [[4.4.108]]\n17. <<भवे छन्दसि>> [[4.4.110]]\n18. <<बर्हिषि दत्तम्>> [[4.4.119]]\n19. <<दूतस्य भागकर्मणी>> [[4.4.120]]\n20. <<रक्षोयातूनां हननी>> [[4.4.121]]\n21. <<रेवतीजगतीहविष्याभ्यः प्रशस्ये>> [[4.4.122]]\n22. <<असुरस्य स्वम्>> [[4.4.123]]\n23. <<मायायामण्>> [[4.4.124]]\n24. <<तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः>> [[4.4.125]]\n25. <<मत्वर्थे मासतन्वोः>> [[4.4.126]]\n26. <<पूर्वैः कृतमिनियौ च>> [[4.4.133]]\n27. <<अद्भिः संस्कृतम्>> [[4.4.134]]\n28. <<सहस्रेण संमितौ घः>> [[4.4.135]]\n29. <<सोममर्हति यः>> [[4.4.137]]\n30. <<मये च>> [[4.4.138]]\n31. <<शिवशमरिष्टस्य करे>> [[4.4.143]]\n32. <<भावे च>> [[4.4.144]]\nएतेभ्यः अर्थेभ्यः <<भवे छन्दसि>> [[4.4.110]] एतस्मात् सप्तदशात् अर्थात् आरभ्य <<भावे च>> [[4.4.144]] इति अन्तिममर्थम् यावत् निर्दिष्टाः अर्थाः केवलं छन्दसि (वेदेषु) एव विधीयन्ते इति स्मर्तव्यम् । " }, "44076": { "sa": "'वहति' अस्मिन् अर्थे द्वितीयासमर्थात् रथशब्दात्, युगशब्दात्, प्रासङ्गशब्दात् च यत्-प्रत्ययः भवति । ", "sd": "'वहति' अस्मिन् अर्थे वाहकस्य निर्देशं कर्तुम् रथशब्दात्, युगशब्दात्, प्रासङ्गशब्दात् च यत्-प्रत्ययः भवति । यथा -\n1. रथम् वहतिः सः रथ्यः अश्वः ।\n2. युगं (= युगलम्) वहति सः युग्यः वृषभः ।\n3. प्रासङ्गम् वहति सः प्रासङ्ग्यः वृषभः । (वृषभस्य कण्ठे तस्य दमनार्थम् यत् काष्ठम् बद्ध्यते तत् 'प्रासङ्ग' नाम्ना ज्ञायते । तादृशं काष्ठं यः वहति सः प्रासङ्ग्यः ।)\nअत्र एकम् वार्त्तिकम् ज्ञातव्यम् - । इत्युक्ते, रथशब्दात्, सीताशब्दात्, हलशब्दात् च यत्-प्रत्ययः यदा क्रियते तदा तदन्तस्य विषये अपि यत्-प्रत्ययविधानम् भवति । वर्तमानसूत्रस्य विषये अस्य वार्त्तिकस्य प्रयोगं कृत्वा 'परमरथ' शब्दात् अपि यत्-प्रत्ययविधानम् भवति । यथा - परमरथम् वहति सः परमरथ्यः अश्वः । उत्तमरथं वहति सः उत्तमरथ्यः अश्वः ।\nस्मर्तव्यम् - 'सीता'शब्दस्य विषये तथा च 'हल'शब्दस्य विषये वर्तमानसूत्रे अस्य वार्त्तिकस्य प्रयोजनम् नास्ति । अग्रे <<\tनौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसम्मितेषु>> [[4.4.91]] इत्यत्र 'सीता'शब्दस्य विषये तथा च <<मतजनहलात् करणजल्पकर्षेषु>> [[4.4.97]] इत्यत्र 'हल'शब्दस्य विषये 'यत्'-प्रत्ययविधानम् क्रियते तत्र अनयोः शब्दयोः विषये अस्य वार्त्तिकस्य प्रयोजनम् वर्तते ।\nज्ञातव्यम् - 'रथम वहति सः' अस्य वाक्यस्य 'रथस्य वाहकः / वोढा' इत्येव अर्थः अस्ति । अपि च, 'रथस्य वाहकः' इत्यस्य विषये <<तस्येदम्>> [[4.3.120]] इत्यस्मिन् अर्थे <<रथाद्यत्>> [[4.3.121]] इत्यनेन यत्-प्रत्ययः तु प्राग्दीव्यतीय-अधिकारे पूर्वमेव प्राप्तः अस्ति । अतः अत्र यत्-प्रत्ययस्य पुनर्विधानम् किमर्थम् क्रियते - इति प्रश्नः उपतिष्ठति । अस्य उत्तरार्थम् भाष्यकारः वदति - 'इदं तर्हि प्रयोजनम् - यो द्वौ रथौ वहति स द्विरथ्यः। यो द्वयो रथयोर्वोढा स द्विरथः' । इत्युक्ते, यद्यपि 'रथ' शब्दस्य विषये द्वयोः सूत्रयोः प्रक्रिया समाना एव, तथापि 'द्विरथ' शब्दस्य विषये तादृशं न दृश्यते । 'द्वयोः रथयोः वाहकः' इत्यस्मिन् प्राग्दीव्यतीये अर्थे द्विगुसमासस्य निर्माणप्रक्रियायां शब्दात् यत्-प्रत्यये कृते तस्य च अग्रे <<द्विगोर्लुगनपत्ये>> [[4.1.88]] इत्यनेन लुक् भवति । अतः, 'द्विरथस्य वाहकः = द्विरथः' इति अन्तिमम् रूपम् जायते । परन्तु 'द्वे रथे वहति' इति स्थिते वर्तमानसूत्रेण (निर्दिष्टवार्त्तिकेन च) 'यत्' प्रत्ययं कृत्वा तु 'द्वे रथे वहति सः = द्विरथ्यः' इति अन्तिमं रूपं सिद्ध्यति । अत्र <<द्विगोर्लुगनपत्ये>> [[4.1.88]] इत्यस्य प्रसक्तिः न भवति - तस्य 'प्राग्दीव्यतीय'अधिकारसीमितत्वात् । अतः यद्यपि 'रथम् वहति' इत्यत्र वर्तमानसूत्रमनावश्यकं भासते, तथापि 'द्विरथं वहति' इत्यत्र वर्तमानसूत्रस्य आवश्यकता अस्ति एव ।\nविशेषः -\n1. वस्तुतस्तु अत्र अस्मिन् वार्त्तिके 'रथ'शब्दस्य आवश्यकता एव नास्ति । वर्तमानसूत्रे रथ-ग्रहणमेव तदन्तविधेः अत्र ज्ञापकमस्ति । अस्य कारणम् एतत् - 'रथ'शब्दात् यत्-प्रत्ययं कर्तुम् तु <<तस्येदम्>> [[4.3.120]] इत्यत्र पाठितम् <<रथाद्यत्>> [[4.3.121]] इत्येव सूत्रम् पर्याप्तमस्ति । अतः यदि रथ-शब्दस्य विषये यत्-प्रत्यये परे तदन्तविधिः न भवेत्, तर्हि परमरथ / द्विरथ / त्रिरथ / उत्तमरथ - एतेभ्यः वर्तमानसूत्रेण यत्-प्रत्ययः न विधीयेत, तेन च वर्तमानसूत्रे रथ-शब्दात् यत्-प्रत्ययस्य न किमपि विशिष्टं प्रयोजनमवशिष्येत । अतः वर्तमानसूत्रे 'रथ' शब्दस्य ग्रहणमेव तदन्तविधेः ज्ञापकमस्ति ।\n2. यद्यपि <<द्विगोर्लुगनपत्ये>> [[4.1.88]] इति सूत्रमजादिप्रत्ययस्य विषये एव लुकं कारयति तथापि अस्य प्रसक्तिः 'द्विरथ' इत्यस्य विषये अपि भवतीति नागेशः प्रदीपोद्योते स्पष्टीकरोति । काशिकाकारः तु <<द्विगोर्लुगनपत्ये>> [[4.1.88]] इत्यत्र 'अचि' इति न उक्त्वा केवलं 'व्यवस्थितविभाषा' इत्येव वदति, येन अपि 'द्विरथ + यत्' इत्यत्र प्राग्दीव्यतीय-अधिकारे लुक् विधीयते ।\n " }, "44077": { "sa": "'वहति' अस्मिन् अर्थे द्वितीयासमर्थात् धुर्-शब्दात् यत् तथा ढक्-प्रत्ययौ भवतः । ", "sd": "'धुर्' इति रेफान्तः शब्दः, 'भारः' इत्यर्थः । 'भारम् वहति' अस्मिन् अर्थे द्वितीयासमर्थात् धुर्-शब्दात् 'यत्' तथा 'ढक्' प्रत्ययौ भवतः ।\n'धुर्वीँ हिंसायाम्' अस्मात् धातोः क्विप्-प्रत्यये कृते 'धुर्' इति प्रातिपदिकम् सिद्ध्यति । 'क्विबन्ताः विजन्ताश्च प्रातिपदिकत्वं न जहति, धातुत्वमपि न मुञ्चन्ति' इत्यनेन सिद्धान्तेन 'धुर्' इति प्रातिपदिकस्य धातुसंज्ञा अपि वर्तते । अस्यां स्थितौ अनेन सूत्रेण 'यत्'-प्रत्यये कृते 'धुर् + यत्' इति स्थिते <<हलि च>> [[8.2.77]] इत्यनेन उकारस्य दीर्घादेशः प्राप्नोति । परन्तु अत्र धुर्-शब्दस्य भसंज्ञा अपि भवति, अतः <<न भर्कुछुराम्>> [[8.2.79]] इत्यनेन तस्य निषेधः क्रियते, अतः अन्ते केवलं वर्णमेलनं कृत्वा रूपनिर्माणं भवति। धुर् + यत् → धुर्य ।\nपक्षे ढक्-प्रत्ययः अपि विधीयते । धुर् + ढक् → धुर् + एय → धौर् + एय → धौरेय ।\nज्ञातव्यम् -\n1. अस्मिन् सूत्रे वस्तुतः पूर्वसूत्रात् 'यत्' इति अनुवर्तते । अतः अत्र 'यत्' इति निर्देशः अनावश्यकः अस्ति । अस्मिन् विषये तत्वबोधिन्यामुच्यते - 'धुरः ढक् च - इत्येव सुवचम्' । इत्युक्ते, अस्य सूत्रस्य स्थाने 'धुरः ढक् च' इत्येव उक्त्वा 'यत्' इत्यस्य अनुवृत्तिः स्वीकरणीया । परन्तु न्यासकारस्य मतेन अत्र यत्-ग्रहणमपि आवश्यकमस्ति । अस्मिन् विषये न्यासकारः ब्रूते - 'यो हि धुरं वहति, धुरः असौ वोढा भवति। तस्य यथाविहिते प्रत्यये विज्ञायमाने <<तस्येदम्>> [[4.3.120]] इति अण्-अपि स्यात्। यद्-ग्रहणात् तस्येदम्-विवक्षायामपि यदेव भवति' । इत्युक्ते, 'धुरः वोढा' (भारस्य वाहकः) अस्मिन् अर्थे वस्तुतः <<तस्येदम्>> [[4.3.120]] इत्यनेन अण्-प्रत्ययः भवेत्, परन्तु अत्र यत्-इत्यस्य पुनर्ग्रहणेन एतत् निर्दिश्यते, यत् 'धुरः वोढा' अस्मिन् अर्थे अपि 'यत्'प्रत्ययः एव कर्तव्यः । धुरः वोढा सः धुर्यः ।\n2. अस्य सूत्रस्य विषये बालमनोरमाकारः वदति - 'यड्ढकञौ इति पाठान्तरम्' । इत्युक्ते, पाठभेदेन ढक्-इत्यस्य स्थाने ढकञ्-प्रत्ययः अपि कुत्रचित् क्रियते । धुरम् वहति सः = धुर् + ढकञ् → धौरेयक । परन्तु इमम् पाठभेदम् पदमञ्जरीकारः न स्वीकरोति । तस्य मतेन 'ढञ् अत्र विधीयते, न तु ढकञ्' । इत्युक्ते, अत्र पाठभेदेन ढञ्-प्रत्ययः भवितुमर्हति, न हि ढकञ्-प्रत्ययः ।" }, "44078": { "sa": "द्वितीयासमर्थात् 'सर्वधुरा' शब्दात् 'वहति' अस्मिन् अर्थे वाहकस्य निर्देशं कर्तुम् 'ख'-प्रत्ययः भवति । ", "sd": "'सर्वधुरा' इत्युक्ते सम्पूर्णः भारः । अयम् स्त्रीलिङ्गशब्दः । अस्मात् शब्दात् 'वहति' अस्मिन् अर्थे ख-प्रत्ययः भवति ।\nसर्वधुराम् वहति सः\n= सर्वधुरा + ख\n→ सर्वधुरा+ ईन [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ख-प्रत्ययस्य ईन-आदेशः]\n→ सर्वधुर् + ईन [<<यस्येति च>> [[6.4.148]] इति आकारलोपः]\n→ सर्वधुरीण [<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इति णत्वम्]\nसर्वधुरां वहति सः सर्वधुरीणः ।\nज्ञातव्यम्\n1. अस्मिन् सूत्रे 'सर्वधुरा' इति स्त्रीलिङ्गवाचिशब्दात् प्रत्ययः उच्यते, अतः अत्र वस्तुतः 'सर्वधुरायाः खः' इति वक्तव्यम् । परन्तु अस्मिन् सूत्रे 'सर्वधुरात्' इति नपुंकसस्य प्रयोगः कृतः अस्ति । अयम् प्रयोगः मूलप्रातिपदिकमात्रस्य (सर्वधुर-इत्यस्य) ग्रहणम् कृत्वा कृतः अस्तीति व्याख्यानेषु स्पष्टीक्रियते । न्यासकारः अस्मिन् विषये वदति - 'सर्वधुरादिति नपुंसकलिङ्गेन निर्देशः स शब्दरूपापेक्षः, अर्थापेक्षे हि निर्देशे परवल्लिङ्गता भवति' । इत्युक्ते, 'अर्थग्रहणे (तद्धितप्रत्यययोजने) तु स्त्रीलिङ्गस्यैव प्रयोगः कर्तव्यः' इति अत्र आशयः अस्ति ।\n2. अस्य सूत्रस्य 'योगविभागः करणीयः' इति काशिकाकारः वदति । इत्युक्ते, 'ख' इति भिन्नं सूत्रम् स्वीकृत्य अन्येषां शब्दानां विषये अपि ख-प्रत्ययविधानम् कर्तव्यम् । यथा , उत्तरधुरम् वहति सः उत्तरधुरीणः, दक्षिणधुरं वहति सः दक्षिणधुरीणः ।\n" }, "44079": { "sa": "'वहति' अस्मिन् अर्थे द्वितीयासमर्थात् एकधुरा-शब्दात् ख-प्रत्ययः भवति, तस्य च पक्षे लुक् भवति । ", "sd": "'एकधुरा' (= एकः भारः) अस्मात् शब्दात् 'वहति' अस्मिन् अर्थे ख-प्रत्ययः भवति, तस्य च लुक् भवति । अस्मिन् सूत्रे 'च' इति उच्यते अतः 'ख-प्रत्ययः अपि भवति, पक्षे च लुक् अपि भवति' इति अर्थः अत्र स्वीक्रियते । 'यदि अत्र नित्यम् लुक् अभविष्यत्, तर्हि चकारस्य प्रयोजनम् नास्ति' एतत् मत्वा लुग्विधानम् विकल्पेन क्रियते ।\nयथा - एकधुरां वहति सः = एकधुरा + ख → एकधुरीण । पक्षे लुक् - एकधुरां वहति सः एकधुरः (<<लुक्तद्धितलुकि>> [[1.2.49]] इति स्त्रीप्रत्ययस्य अपि लुक् भवति।)\n" }, "44080": { "sa": "'वहति' अस्मिन् अर्थे द्वितीयासमर्थात् शकटशब्दात् अण्-प्रत्ययः भवति । ", "sd": "'शकटम् वहति सः' अस्मिन् अर्थे शकटशब्दात् अण्-प्रत्ययः विधीयते । शकटम् वहति सः = शकट + अण् → शाकटः गौः ।\nज्ञातव्यम् - 'शकटम् वहति सः = शकटस्य वाहकः' इति प्राप्ते <<तस्येदम्>> [[4.3.120]] इत्यनेन अण्-प्रत्ययः पूर्वमेव प्राप्तः अस्ति । अतः अत्र अण्-प्रत्ययस्य पुनर्विधानम् किमर्थम् क्रियते - इति प्रश्नः उपतिष्ठति । अस्य उत्तरार्थम् तत्वबोधिन्यामुच्यते - 'आरम्भसामर्थ्यात् अत्र तदन्तविधिः। तेन द्वे शकटे वहति इत्यत्र <<द्विगोर्लुगनपत्ये>> [[4.1.88]] इति प्राग्दीव्यतीयो लुक् न भवति, <<तस्येदम्>> [[4.3.120]] इति अणि तु स्यादेव लुगिति' । इत्युक्ते, अस्मिन् सूत्रे 'अण्' प्रत्ययस्य पुनर्विधानम् तदन्तविधिम् दर्शयति । अतः 'द्वे शकटे वहति' इत्यत्र 'द्विशकट' इत्यस्मात् अपि अनेन सूत्रेण अण्-प्रत्ययः क्रियते, येन 'द्वैशकट' इति रूपं सिद्ध्यति । एवं न क्रियते चेत् किम् भवेत्? यदि वर्तमानसूत्रम् न अभविष्यत्, तर्हि 'द्वे शकटे वहति' = 'द्वयोः शकटयोः वोढा' इत्यत्र 'द्विशकट' इत्यस्मात् <<तस्येदम्>> [[4.3.120]] अस्मिन् अर्थे <<प्राग्दीव्यतः अण्>> [[4.1.83]] इत्यनेन अण्-प्रत्ययः भवेत्, यस्य अग्रे <<द्विगोर्लुगनपत्ये>> [[4.1.88]] इत्यनेन च लुक् प्राप्नुयात् । लुकि कृते च अन्तिमम् रूपम् 'द्विशकट' इत्येव स्यात् । परन्तु अण्-प्रत्यये कृते 'द्वैशकट' इति शब्दः अपि प्रयुज्यते, यत्र अण्-प्रत्ययस्य लुक् न क्रियते । अस्य रूपस्य सिद्ध्यर्थम् एव वर्तमानसूत्रम् विशिष्टरूपेण पाठितमस्ति । अतः यद्यपि 'शकटम् वहति' इत्यत्र वर्तमानसूत्रमनावश्यकं भासते, तथापि 'द्वे शकटे वहति' इत्यत्र वर्तमानसूत्रस्य आवश्यकता अस्ति एव ।\n'द्विशकटस्य वाहकः' इत्यत्र तु <<प्राग्दीव्यतः अण्>> [[4.1.83]] इत्यनेन अण्-प्रत्ययविधानम् कृत्वा <<द्विगोर्लुगनपत्ये>> [[4.1.88]] इति लुकि कृते 'द्विशकट' इत्येव रूपम् सिद्ध्यतीति स्मर्तव्यम् । इत्युक्ते, द्विशकटं वहति सः द्वैशकटः, परन्तु द्विशकटस्य वोढा सः द्विशकटः । अनेन प्रकारेण एकस्मिन्नेव अर्थे शब्दद्वयं सिद्ध्यति ।\nअतः अस्य सूत्रस्य निर्माणम् 'पाणिनिना सूत्रनिर्माणे कियता विस्तारेण चिन्तनम् कृतम्' अस्यैव ज्ञापकम् । " }, "44081": { "sa": "'वहति' अस्मिन् अर्थे द्वितीयासमर्थात् 'हल'शब्दात् 'सीर'शब्दात् च ठक्-प्रत्ययः भवति । ", "sd": "'हल' तथा 'सीर' एते द्वे कृषिकार्ये प्रयुक्ते साधने । एतयोः विषये 'वहति' अस्मिन् अर्थे ठक्-प्रत्ययः भवति ।\n1. हलम् वहति सः = हल + ठक् → हालिक ।\n2. सीरम् वहति सः = सीर + ठक् → सैरिक ।\nज्ञातव्यम् - वस्तुतः 'हलम् वहति सः' = 'हलस्य वोढा' इति स्थिते <<तस्येदम्>> [[4.3.120]] इत्यत्र पाठितेन <<हलसीराट्ठक्>> [[4.3.124]] इत्यनेन अपि 'हल'शब्दात् सीर'शब्दात् च ठक्-प्रत्ययः क्रियते । तर्हि वर्तमानसूत्रेण पुनः ठक्-प्रत्ययः किमर्थम् दीयते - इति प्रश्नः उपतिष्ठति । अस्य उत्तरार्थम् पदमञ्जरीकारः वदति - 'आरम्भसामर्थ्यादत्रापि तदन्तविधिः, द्वैहालिकः, द्वैसीरिकः, त्रैसीरिक इति लुक् न भवतीति' । इत्युक्ते, अत्र ठक्-प्रत्ययस्य पुनर्ग्रहणम् तदन्तविधेः निदर्शनार्थम् क्रियते - येन 'द्वौ हलौ वहति', 'त्रीन् सीरान् वहति' - इत्यत्रापि 'तत् वहति' अस्मिन् अर्थे वर्तमानसू्त्रेण ठक्-प्रत्ययः स्यात् । यदि वर्तमानसूत्रम् न अभविष्यत्, तर्हि 'द्वौ हलौ वहति सः' इत्यस्य स्थाने 'द्वयोः हलयोः वोढा' इति परिवर्तनं कृत्वा <<तस्येदम्>> [[4.3.120]] इत्यनेन ठक्-प्रत्ययविधानमभविष्यत्, यस्य अग्रे <<द्विगोर्लुगनपत्ये>> [[4.1.88]] इत्यनेन लुक् अप्राप्स्यत, येन भिन्नं रूपम् ('द्विहल') इति अजनिष्यत । परन्तु अत्र 'द्वैहलिक' इति रूपम् इष्यते, अतः वर्तमानसूत्रमत्र आवश्यकमस्ति ।'द्वयोः हलयोः वोढा' इत्यस्य विषये तु <<तस्येदम्>> [[4.3.120]] इत्यनेन ठक्-प्रत्ययविधानम् कृत्वा अग्रे <<द्विगोर्लुगनपत्ये>> [[4.1.88]] इत्यनेन लुकं कृत्वा 'द्विहल' इत्येव सिद्ध्यति । इत्युक्ते, द्वयोः हलयोः वोढा = द्विहलः , परन्तु द्वे हले वहति सः द्वैहलिकः । एतादृशम् एकस्मिन्नेव अर्थे शब्दद्वयं सिद्ध्यति ।\nस्मर्तव्यम् - 'द्वयोः हलयोः वोढा' उत 'द्वे हले वहति' - उभयत्र अपि तद्धितार्थः द्विगुः समासः क्रियते । इत्युक्ते, 'द्विहल' शब्दस्य निर्माणम् तद्धितप्रक्रियायाम् एव भवति, प्रारम्भे न । केवलम् अस्यां स्थितौ एव द्वयोः अर्थयोः भिन्नरूपे जायेते । परन्तु 'द्विहलस्य वोढा' / द्विहलं वहति' इति वाक्ये स्वीकुर्मश्चेत् अत्र द्विगुसमासः प्रारम्भे एव कृतः अस्ति - अतः अयं समाहार-द्विगुः अस्ति, न हि तद्धितार्थः द्विगुः । अस्य विषये तु <<तस्येदम्>> [[4.3.120]] इत्यस्य प्रयोगे <<द्विगोर्लुगनपत्ये>> [[4.1.88]] इत्यस्य प्रसक्तिः न विद्यते - अतः 'द्विहलस्य वोढा' / द्विहलं वहति' उभयत्र 'द्वैहलिक' एतदेव रूपम् सिद्ध्यति ।\nसंक्षेपेण -\n1) हलस्य वोढा हालिकः । हलं वहति सः हालिकः । अत्र द्वयोः अर्थयोः समानं रूपं जायते ।\n2) द्विहलस्य वोढा द्वैहलिकः । द्विहलं वहति सः द्वैहलिकः । अत्रापि द्वयोः अर्थयोः समानं रूपं जायते ।\n3) द्वयोः हलयोः वोढा द्विहलः । द्वे हले वहति सः द्वैहलिकः । अत्र द्वयोः रूपयोः भेदं द्रष्टुं शक्यते । " }, "44082": { "sa": "'वहति' अस्मिन् अर्थे द्वितीयासमर्थात् 'जनी'शब्दात् संज्ञायां गम्यमानायाम् यत्-प्रत्ययः भवति । ", "sd": "'जनी' इत्युक्ते वधूः । विवाहस्य पश्चात् नववधूम् तस्याः पत्युः समीपम् या प्रापयति, सा स्त्री (= प्रायः पत्युः सखी) 'जन्या' नाम्ना ज्ञायते । जनीम् ( = वधूम्) या वहति सा = जनी + यत् + टाप् → जन्या ।\nज्ञातव्यम् -\n1. यद्यप्यत्र व्याख्यानेषु 'पत्युः सखी / वयस्या' इत्यस्य निर्देशार्थम् 'जन्या' शब्दस्य प्रयोगः प्रोक्तः अस्ति, तथापि अस्य सूत्रस्य प्रसक्तिः 'जनीम् वहति' अस्मिन् अर्थे अस्ति, न हि 'पत्युः सखी' अस्मिन् विषये । अतः विवाहानन्तरम् यः कोऽपि / या कापि वधूं प्रापयेत्, तस्य संज्ञा अपि 'जन्य / जन्या' इति भवितुमर्हति । यथा, वधुं पतिं प्रति प्रापयति भृत्या साऽपि जन्या एव । यथा, कालिदासः रघुवंशे वदति -\nअथाङ्गराजादवतार्य चक्षुर्याहीति जन्यामवदत्कुमारी ।\nनासौ न काम्यो न च वेद सम्यक् द्रष्टुं न सा भिन्नरुचिर्हि लोकः ॥ रघुवंशः, 6.30 ॥\nअत्र 'जन्या' शब्दः कालिदासेन 'मातुः सखी' अस्मिन् अर्थे प्रयुक्तः अस्ति - इति रघुवंशस्य व्याख्याता मल्लिनाथः वदति ।\n2. अस्मिन् सूत्रे 'संज्ञायाम्' इति उच्यते । अयम् शब्दः 'जन्या' इत्यस्य प्रयोगव्याप्तिं दर्शयति । 'जनीं विवाहानन्तरम् पतिं प्रति प्रेषणम्' अस्य कार्यस्य विषये एव 'जन्या'शब्दस्य प्रयोगः क्रियते, न अन्यस्य, इति अर्थः अत्र अभिप्रीयते । " }, "44083": { "sa": "'विध्यति' अस्मिन् अर्थे द्वितीयासमर्थात् यत्-प्रत्ययः भवति, परन्तु 'धनुष्' इति करणमस्ति चेत् यत्-प्रत्ययः न भवति ।", "sd": "'विध्यति' इति 'व्यध् (ताडने)' इत्यस्य दिवादिगणस्य धातोः लट्लकारस्य प्रथमपुरुषैकवचनम् । 'ताडयति / वेदनां करोति' अस्मिन् अर्थे अस्य धातोः प्रयोगः भवति । यत्र केनचन पदार्थेन वेदना क्रियते, तत्र 'यम् वेदना भवति' तस्य निर्देशार्थम् वर्तमानसूत्रस्य प्रयोगः भवति । उदाहरणम् पश्यामश्चेत् स्पष्टम् स्यात् -\n1. वालुकायाः लघुकणाः ये भूमौ पतिताः सन्ति, तेषु पादौ स्थापयामश्चेत् प्रायः तैः कणैः पादवेदना जायते । अस्य निर्देशः 'वालुकाकणाः पादौ विध्यन्ति' इति क्रियते । अत्र ताडनक्रियायाः कर्म अस्ति पादौ । अस्मात् द्वितीयासमर्थात् वालुकाकणानाम् निर्देशं कर्तुम् वर्तमानसूत्रेण यत्-प्रत्ययः विधीयते । यथा -\nपाद + यत्\n→ पद् + यत् [<<पद् यत्यतदर्थे>> [[6.3.53]] इति पद्-आदेशः]\n→ पद्य\nपादौ विध्यन्ति ते पद्याः वालुकाकणाः ।\n2. गुल्मानाम् ( लघुवृक्षानाम्) कण्टकाः चलनसमये ऊरुम् (जङ्घाम्) पीडयन्ति । अस्य निर्देशः 'कण्टकाः ऊरुम् विद्ध्यन्ति' इति क्रियते । अत्र पीडनक्रियायाः कर्म अस्ति ऊरुः । अस्मात् द्वितीयासमर्थात् कण्टकानां निर्देशं कर्तुम् यत् प्रत्ययः क्रियते । ऊरून् विध्यन्ति ते ऊरव्याः कण्टकाः । प्रक्रिया इयम् -\nऊरु + यत्\n→ ऊरो + य [<<ओर्गुणः>> [[6.4.146]] इति गुणादेशः]\n→ ऊरव् + य [<<वान्तो यि प्रत्यये>> [[6.1.79]] इति अवादेशः]\n→ ऊरव्य\nयदि व्यधनक्रियायाः करणम् 'धनुः' इति अस्ति (इत्युक्ते, धनुषा ताडनम् / पीडनम् क्रियते), तर्हि वर्तमानसूत्रस्य प्रसक्तिः नास्ति । यथा - 'धनुषा पादान् विध्यन्ति ते शराः' अस्मिन् वाक्ये पाद-शब्दात् यत्-प्रत्ययविधानम् न भवति, यतः अत्र व्यधनक्रियायाः करणम् 'धनुः' इति अस्ति । तथा च, यत्र व्यधनक्रियायाः करणम् धनुः इति 'भवितुमर्हति', तत्रापि वर्तमानसूत्रस्य प्रसक्तिः न भवति । यथा - 'देवदत्तः शत्रुं विध्यति' इत्यत्र 'प्रायः धनुषा विध्यति / धनुषा व्यद्धुमर्हति' इति अर्थः जायते, अतः अत्रापि असय सूत्रस्य प्रसक्तिः न वर्तते । " }, "44084": { "sa": "'धनम् लभते' तथा 'गणम् लभते' अस्मिन् अर्थे कर्तारम् निर्देशयितुम् द्वितीयासमर्थात् धनशब्दात् गणशब्दात् च यत्-प्रत्ययः भवति । ", "sd": "'लब्धा' इति 'लभ्' धातोः तृन्-प्रत्ययान्तस्य प्रथमैकवचनम् । लभते सः लब्धा । यः धनम् लभते, उत यः गणम् लभते, तस्य निर्देशार्थम् यत्-प्रत्ययः क्रियते । धनम् लब्धा सः = धन + यत् → धन्य । गणम् लब्धा सः = गण + यत् → गण्य ।\nज्ञातव्यम् - लभ्-धातोः तृच्-प्रत्ययान्तरूपमपि 'लब्धा' इत्येव अस्ति । तस्यापि अर्थः समानः एव । परन्तु अस्मिन् सूत्रे प्रयुक्तः 'लब्धा'शब्दः लभ्-धातोः तृच्-प्रत्ययान्तरूपम् नास्ति, अपि तु तृन्-प्रत्ययानरूपमस्ति । किम् कारणम् ? यदि अत्र 'लब्धा' अयम् तृच्-प्रत्ययान्तशब्दः मन्यते, तर्हि धन-शब्दस्य <<कर्तृकर्मणोः कृतिः>> [[2.3.65]] इत्यनेन षष्ठीविभक्तिः स्यात् - यथा, धनस्य लब्धा । परन्तु अत्र सूत्रे 'धनम् लब्धा' इति द्वितीया प्रयुज्यते । अतः अत्र तृन्-प्रत्ययः एव विद्यते, यस्य विषये <<न लोकाव्ययनिष्ठाखलर्थतृनाम्>> [[2.3.69]] इत्यनेन षष्ठी प्रतिषिध्यते, अतः द्वितीया प्राप्नोति । अस्मिन् विषये काशिकाकारः वदति - 'लब्धा इति तृन्नन्तम् , तेन द्वितीयासमर्था विभक्तिः युज्यते' । " }, "44085": { "sa": "'अन्नम् लब्धा' इत्यस्मिन् अर्थे कर्तारम् निर्देशयितुम् द्वितीयासमर्थात् अन्न-शब्दात् ण-प्रत्ययः भवति । ", "sd": "अन्नम् लभते सः = अन्नम् लब्धा = अन्न + ण → आन्नः भिक्षुः । स्त्रीत्वे <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप् - अन्नम् लब्ध्री सा आन्ना सेविका ।\nज्ञातव्यम् - अत्र 'लब्धा' इति लभ्-धातोः तृन्-प्रत्ययान्तरूपमस्ति । लभते सः लब्धा । " }, "44086": { "sa": "'वशम् गतः' अस्मिन् अर्थे कर्तारम् निर्देशयितुम् द्वितीयासमर्थात् 'वश'शब्दात् यत्-प्रत्ययः भवति । ", "sd": "'वश' इति 'वश् (कान्तौ)' इत्यस्य अच्-प्रत्ययान्तरूपम् । परेच्छानुसारम् यः कार्यं करोति / यः संमोहितः अस्ति सः 'वशं गतः' अस्ति इत्युच्यते । एतादृशस्य निर्देशार्थम् वश-शब्दात् यत्-प्रत्ययः भवति । वशं गतः वश्यः राजपुत्रः ।" }, "44087": { "sa": "'अस्मिन् पदम् दृश्यम्' अस्मिन् अर्थे प्रथमासमर्थात् पद-शब्दात् यत् प्रत्ययः भवति । ", "sd": "'दृश्यम्' इति दृश्-धातोः 'क्यप्' प्रत्ययान्तरूपम् । द्रष्टुम् अर्ह्यम् / शक्यम् तत् दृश्यम् । 'दृश्यम्' अस्मिन् अर्थे पदशब्दात् वर्तमानसूत्रेण यत् प्रत्यविधानम् भवति । यस्मिन् पदार्थे पदं स्थापयामश्चेत् पदस्य चिह्नम् द्रष्टुं शक्यते, तस्य पदार्थस्य निर्देशार्थमयम् प्रत्ययविधानम् कृतमस्ति । उदाहरणद्वयं पश्यामश्चेत् स्पष्टं भवेत् -\n1. या मृत्तिका सम्पूर्णरूपेण शुष्का नास्ति, सम्पूर्णरूपेण आर्द्रा अपि नास्ति, तस्याः नाम 'कर्दम' इति दीयते (mud इत्यर्थः) । एतादृशि कर्दमे पदम् स्थापयामश्चेत् पदः चिह्नम् (foot-prints) मृत्तिकायां मुद्रितानि भवन्ति । एतादृशम् कर्दमम्, यस्मिन् पदचिह्नम् मुद्रितमस्ति, ज्ञापयितुम् पद-शब्दात् यत्-प्रत्ययः क्रियते । अस्मिन् कर्दमे पदम् दृश्यम् सः = पद + यत् → पद्यः कर्दमः ।\n2. 'पांसु' इति गोमयस्य (cow dung) अपरम् नाम । पांसौ पदम् स्थाप्यते चेत् तत्रापि पदचिह्नम् मुद्रितम् भवति । अतः अत्रापि वर्तमानसूत्रस्य प्रयोगः भवितुमर्हति - अस्मिन् पांसौ पदम् दृश्यम् सः = पद + यत् → पद्यः पांसुः ।\nस्मर्तव्यम् - अस्मिन् सूत्रे पूर्वसूत्रात् 'तत्' इति न अनुवर्तते । अतः अत्र समर्थेषु प्रथमः शब्दः 'पदम्' इति प्रथमान्तः अस्ति । अतएव अत्र 'प्रथमासमर्थात्' इति अर्थविधानम् क्रियते ।\n" }, "44088": { "sa": "'अस्य मूलमाबर्हि (= निष्कासनयोग्यम्)' अस्मिन् अर्थे प्रथमासमर्थात् 'मूल'शब्दात् मूलस्य वृक्षम् निर्देशयितुम् यत्-प्रत्ययः भवति । ", "sd": "आदौ 'आबर्हि' इति किम् तत् पश्यामः - 'बृहूँ (उद्यमने)' इति तुदादिगणस्य धातुः । 'आङ्'-उपसर्गेण सह अस्य प्रयोगः क्रियते चेत् 'आ + बृह्' इत्यस्य अर्थः 'उत्पाटनम् / निर्मूलनम् (uprooting) । 'आ + बृह्' धातोः भावे घञ्-प्रत्ययं कृत्वा अग्रे मतुबर्थे इनि-प्रत्यये कृते 'आबर्हिन्' इति प्रातिपदिकम् सिद्ध्यति । 'यस्य निर्मूलनम् (भूमेः निष्कासनम्) क्रियते', तत् 'आबर्हि' अनेन विशेषणेन सम्बुद्ध्यते । ('आबर्हि' इति आबर्हिन्-इत्यस्य नपुंसकलिङ्गस्य प्रथमैकवचनम्)।\nअतः अस्य सूत्रस्य अर्थः अयम् - 'अस्य वृक्षस्य मूलमाबर्हणम् कर्तुम् योग्यमस्ति' अस्मिन् अर्थे 'अस्य वृक्षस्य मूलमाबर्हि अस्ति' इति वाक्यं प्रयुज्यते । अस्यां स्थितौ तस्य वृक्षस्य निर्देशार्थम् 'मूल'शब्दात् यत्-प्रत्ययः भवति । उदाहरणद्वयम् पश्यामश्चेत् स्पष्टं भवेत् ।\n1. 'एते माषाः पक्वाः, एतेषाम् मूलस्य आबर्हणम् कर्तव्यम्' अस्मिन् अर्थे 'माषानाम् मूलमाबर्हि अस्ति' इति प्रयोगः क्रियते । अस्यां स्थितौ मूल-शब्दात् यत्-प्रत्ययविधानम् वर्तमानसूत्रेण भवति । मूल + यत् → मूल । येषाम् मूलमाबर्हि ते मूल्याः माषाः ।\n2. तथैव, 'एते मुद्गाः मूलम् गृहीत्वा उत्पाटितव्याः' अस्मिन् अर्थे मूल-शब्दात् यत्-प्रत्ययविधानम् क्रियते । येषम् मूलमाबर्हि ते मुद्गाः मूल्याः मुद्गाः ।\nज्ञातव्यम् - काशिकायामस्य सूत्रस्य निर्देशः 'मूलमस्य आवर्हि' इति कृतः अस्ति । 'बृहूँ' धातुम् यावत् एव 'वृहूँ (उद्यमने)' इत्यपि धातुः धातुपाठे दृश्यते, तस्य अयम् निर्देशः । द्वयोः अपि अर्थः समानः एव । " }, "44089": { "sa": "संज्ञायाः विषये 'धेनुष्या' शब्दः निपात्यते । ", "sd": "अनेन सूत्रेण 'धेनुष्या' अयम् शब्दः पाठ्यते ।\nकिम् नाम धेनुष्या ? यत्र कश्चन धनहीनः कस्माच्चित् धनिकात् ऋणरूपेण धनम् स्वीकरोति, तथा च 'यावत् ऋणमुक्तिः न स्यात् तावत् मम धेनोः दुग्धम् स्वीकुरु' इति उक्त्वा स्वस्य धेनुम् दुग्धनिष्कासनार्थम् धनिकाय अर्पयति , तत्र तादृश्याः धेनोः 'धेनुष्या' इति संज्ञा भवति । काशिकाकारः वदति - 'या धेनुः उत्तमर्णाय (= धनिकाय) ऋणप्रदानात् दोहनार्थम् दीयते, सा धेनुष्या' । 'धेनुष्याम् भवते ददामि' एतादृशाः वाक्याः लोके प्रसिद्धाः । एतेषु वाक्येषु विद्यमानस्य धेनुष्या-शब्दस्य निपातनम् वर्तमानसूत्रेण क्रियते ।\nअस्य निपातनस्य विषये कौमुद्यामुच्यते - 'धेनुशब्दस्य षुगागमो यप्रत्ययश्च स्वार्थे निपात्यते संज्ञायाम्' । इत्युक्ते, 'धेनुष्या'शब्दस्य निर्माणे 'षुक्' इति आगमः तथा च 'य' इति प्रत्ययः निपात्यते । प्रक्रिया इयम् -\nया धेनुः उत्तमर्णाय ऋणप्रदानात् दोहनार्थम् दीयते सा धेनुः\n= धेनु + षुक् [षुक्-आगमस्य निपातनम्]\n→ धेनु + ष् [ककार-उकारयोः लोपः]\n→ धेनु + ष् + य [य-प्रत्ययस्य निपातनम्]\n→ धेनुष्य + टाप् [<<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्]\n→ धेनुष्या\nज्ञातव्यम् -\n1) वस्तुतः अत्र 'यत्' इत्यस्य अधिकारः प्रचलति । तथापि 'धेनुष्या'शब्दस्य विषये 'य' प्रत्ययस्य निपातनम् कृतमस्ति - यत्-प्रत्ययः अत्र न प्रयुक्तः । अस्य कारणम् 'स्वरविशेषः' इति । यत्-प्रत्ययस्य अकारः <<तित्स्वरितम्>> [[6.1.185]] इत्यनेन स्वरितः अस्ति, तथा च 'य'प्रत्ययस्य अकारः <<आद्युदात्तश्च>> [[3.1.3]] इत्यनेन उदात्तः अस्ति । 'धेनुष्य' शब्दे विद्यमानः अन्तिमः स्वरः (यकारोत्तरः अकारः) उदात्तः अस्ति, स्वरितः न । अतः अत्र यत्-प्रत्यययोजनम् न समीचीनम् । अतएव अत्र 'य'प्रत्ययविधानम् क्रियते । अतः काशिकाकारः वदति - 'अन्तोदात्तः अपि हि अयम् इष्यते' ।\n2) अस्मात् सूत्रात् 'संज्ञायाम्' इत्यस्य अनुवृत्तिः चतुर्थाध्यायस्य चतुर्थपादसमाप्तिपर्यन्तम् गच्छति । बालमनोरमाकारः अस्मिन् विषये स्पष्टीकरोति - 'संज्ञायाम् इति आपादपरिसमाप्तेः अधिकारः' । अत्र 'अधिकारः' इत्युक्ते 'अनुवृत्तिः' इति । 'यत्'प्रत्ययस्य अधिकारः अपि तावदेव वर्तते, अतः 'यत्' प्रत्ययस्य अधिकारे अग्रे पाठिताः सर्वे शब्दाः केवलम् 'संज्ञायाम्' विषये एव प्रयुज्यन्ते । अत्र 'संज्ञायाम्' इत्युक्ते' 'विशिष्ट-प्रयोगे एव' इत्यर्थः ।\n" }, "44090": { "sa": "तृतीयासमर्थात् 'गृहपति' शब्दात् 'संयुक्तम् (= सम्बन्धी)' अस्मिन् अर्थे संज्ञायाम् ञ्य-प्रत्ययः भवति । ", "sd": "गृहपतिः इत्युक्ते गृहस्य पतिः (प्रमुखः) । 'संयुक्तम्' इत्युक्ते 'सम्बन्धी' । गृहपतिना सह यस्य सम्बन्धः, तस्य निर्देशं कर्तुम् संज्ञाविधानार्थम् गृहपति-शब्दात् ञ्य प्रत्ययः भवति । यथा - गृहपतिना संयुक्तः अग्निः = गृहपति + ञ्य → गार्हपत्य । 'गार्हपत्य' इति कश्चन अग्निविशेषः । वेदेषु अग्निनाम् भिन्नानि नामानि दत्तानि दृश्यन्ते, यथा गार्हपत्य-अग्निः, दक्षिण-अग्निः, आहवनीय-अग्निः आदयः । एतेषु 'गार्हपत्य' शब्दस्य व्युत्पत्यर्थम् रचितम् इदम् सूत्रम् ।\nज्ञातव्यम् -\n1. अस्मिन् सूत्रे 'गृहपतिना' इत्येव समर्थेषु प्रथमः स्वीक्रियते, अत्र पूर्वसूत्राणि यावत् 'तत्' इति न अनुवर्तते । अतः अत्र 'तृतीयासमर्थः गृहपति-शब्दः' इत्यस्मात् एव प्रत्ययविधानम् भवति ।\n2. वस्तुतः अस्मिन् सूत्रे 'गृहपतिना संयुक्तम्' इत्यस्मिन् अर्थे ञ्य-प्रत्ययः पाठितः अस्ति, न हि 'गृहपतिना संयुक्तः अग्निः' अस्मिन् अर्थे । अतः गृहपतिना सम्बधितम् यत् किमपि वर्तते (यथा - गृहपतिना संयुक्तम् गृहम् / कार्यम् / मन्दिरमादयः), तस्य सर्वस्य विषये अनेन सूत्रेण ञ्य-प्रत्ययविधानस्य प्रसक्तिः वर्तते । परन्तु तादृशम् न भवति, यतः अत्र 'संज्ञायाम्' इत्यपि पूर्वसूत्रात् अनुवर्तते । 'संज्ञायाम्' इत्यनेन 'गार्हपत्य' शब्दस्य प्रयोगस्य संज्ञायाः विषये नियमनम् क्रियते, अतः अन्यत्र (यत्र 'गार्हपत्य' इति संज्ञारूपेण न प्रयुज्यते तत्र) अस्य सूत्रस्य प्रयोगः न भवति । अतः 'गृहपतिना संयुक्तम् गृहम् / कार्यम् / मन्दिरम्' एतेषु स्थलेषु अस्य सूत्रस्य प्रसक्तिः नास्ति ।\n" }, "44091": { "sa": "तृतीयासमर्थेभ्यः नौ, वयस्, धर्म, विष, मूल, मूल, सीता, तुला - एतेभ्यः शब्देभ्यः (क्रमेण) तार्य, तुल्य, प्राप्य, वध्य, आनाम्य, सम, समित, सम्मित - एतेषु अर्थेषु संज्ञायाः विषये यत्-प्रत्ययः भवति । ", "sd": "अस्मिन् सूत्रे अष्ट शब्दाः अष्ट अर्थाः च उक्ताः सन्ति । प्रत्येकम् शब्दस्य विषये यथासङ्ख्यः यः अर्थः उच्यते, तस्मिन् अर्थे तस्मात् शब्दात् तृतीयासमर्थात् यत्-प्रत्ययः अनेन सूत्रेण उच्यते । क्रमेण पश्यामः -\n1) 'नौ'शब्दात् 'तार्य' (= तरणम् कर्तुम् योग्यम्) अस्मिन् अर्थे यत् प्रत्ययः भवति ।\nनावा तार्यम्\n= नौ + यत्\n→ नाव् + य [<<वान्तो यि प्रत्यये>> [[6.1.79]] इति आव्-आदेशः]\n→ नाव्य\nनौकायाः साहाय्येन यस्य तरणम् कर्तुम् शक्यम्, तत् नाव्यम् जलम् , नाव्या नदी वा ।\n2) 'वयस्' शब्दात् 'तुल्य' (= समानम्) अस्मिन् अर्थे यत् प्रत्ययः भवति ।\nवयसा तुल्यम्\n= वयस् + यत्\n→ वयस्य\nवयसा यः तुल्यः सः वयस्यः । समानवर्षीयः / सखा इत्यर्थः ।\nस्मर्तव्यम् - अस्मिन् सूत्रे 'संज्ञायाम्' इति अनुवर्तते, अतः अस्य सूत्रस्य प्रयोगः सर्वत्र न भवति, संज्ञायाः विषये एव भवति । 'वयस्य' इति 'मित्र'स्य अपरम् नाम, अतः यद्यपि 'वयस्य' शब्दस्य अर्थः 'समानवर्षीयः' इति अस्ति, तथापि 'समानवर्षीयः शत्रुः' अस्मिन् अर्थे अयं शब्दः न प्रयुज्यते ।\n3) 'धर्म'शब्दात् 'प्राप्य' (= प्राप्तुम् योग्यम्) अस्मिन् अर्थे यत् प्रत्ययः भवति ।\nधर्मेण प्राप्यम्\n= धर्म + यत्\n→ धर्म् + य [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ धर्म्य\nधर्मेण प्राप्यम् धर्म्यम् ।\n4) 'विष'शब्दात् 'वध्य' (= नाशं कर्तुम् योग्यम्) अस्मिन् अर्थे यत्-प्रत्ययः भवति ।\nविषेण वध्यम्\n= विष + यत्\n→ विष् + य [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ विष्य ।\nविषेण वध्यं विष्यम् । 'विषस्य साहाय्येन नाशं कर्तुम् योग्यम्' इत्यर्थः ।\n5) 'मूल' शब्दात् 'आनाम्य' अस्मिन् अर्थे यत्-प्रत्ययः भवति ।\nकिम् नाम मूलम्? आपणिकाः आरम्भे वस्तूनाम् निर्माणार्थम् यत् किमपि धनम् व्ययीकुर्वन्ति, तद् 'मूलम्' नाम्ना ज्ञायते ('initial investment') । विक्रयात् अनन्तरम् यत् किमपि अधिकम् धनम् 'लाभ'रूपेण प्राप्यते, सा प्रक्रिया 'आनाम्य' नाम्ना ज्ञायते । 'मूलेन आनाम्यम्' इत्युक्ते मूलात् आरभ्य यत् लाभरूपेण प्राप्तुमर्ह्यते, तत् ।\nमूलेन आनाम्यम्\n= मूल + यत्\n→ मूल् + य [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ मूल्य\nमूलेन आनाम्यम् मूल्यम् । मूलात् आरभ्य यत् लाभरूपेण (अधिकरूपेण) प्राप्तुमर्ह्यम्, तत् मूल्यम् ।\nविशेषः - इदानींतन काले वस्तूनाम् शुल्कमेव मूल्यम् नाम्ना ज्ञायते । परन्तु प्राचीनकाले वस्तूनाम् विक्रयेन यः लाभः अजायत, तस्य निर्देशः 'मूल्य' इत्यनेन अक्रियत । तस्यैव व्युत्पत्तिः अत्र निर्दिष्टा अस्ति । )\n6) 'मूल'शब्दात् 'सम' अस्मिन् अर्थे यत्-प्रत्ययः भवति ।\nअत्र अपि 'मूल' शब्दस्य अर्थः पूर्ववत् एव वर्तते । आपणिकाः आरम्भे वस्तूनाम् निर्माणार्थम् यत् किमपि धनम् व्ययीकुर्वन्ति, तद् 'मूलम्' इत्युच्यते । यस्य वस्तुनः विक्रयणशुल्कम् मूलम् यावत् एव अस्ति, यत्र च विक्रयणेन कश्चन अधिकः लाभः न जायते, तत्र तस्य वस्तुनः निर्देशं कर्तुम् 'मूलेन समम्' इत्युच्यते ।\nमूलेन समम्\n= मूल + यत्\n→ मूल् + य [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ मूल्य\nमूलेन समः मूल्यः पटः । 'मूल्यः पटः' इत्युक्ते तत् वस्त्रम् यस्य मूलम् तथा विक्रयशुल्कम् समानमेव वर्तते ।\n7) 'सीता'शब्दात् 'समित' अस्मिन् अर्थे यत्-प्रत्ययः भवति ।\nहलस्य अग्रभागः 'सीता' नाम्ना ज्ञायते । 'समितम् ' इत्युक्ते 'एकसमम् कृतम्' (made uniform) । हलस्य साहाय्येन या भूमिः समिता क्रियते, तस्याः निर्देशार्थमयम् प्रयोगः दृश्यते ।\nसीतया समितम्\n= सीता + यत्\n→ सीत् + य [<<यस्येति च>> [[6.4.148]] इति आकारलोपः]\n→ सीत्य\nसीतया समितम् सीत्यम् क्षेत्रम् । तत् क्षेत्रम् यत् हलस्य साहाय्येन उन्नतरहितम्/निम्नरहितम् (= समितम् / एकसमम्) क्रियते तस्य निर्देशः 'सीत्य' क्षेत्रम् इत्यनेन क्रियते ।\nस्मर्तव्यम् - अनेन वार्त्तिकेन सीताशब्दस्य विषये अत्र तदन्तविधिः अपि भवति । द्वाभ्यां सीताभ्यां समीकृतम् तत् द्विसीत्यम् क्षेत्रम् । परमया सीतया समीकृतम् तत् परमसीत्यम् क्षेत्रम् । तथैव - उत्तमसीत्यम्, त्रिसीत्यम् - आदयः शब्दाः अपि सिद्ध्यन्ति ।\n8) 'तुला'शब्दात् 'सम्मित' अस्मिन् अर्थे यत्-प्रत्ययः भवति ।\n'सम्मित' इत्युक्ते समानम् । तुलया मापनम् कृत्वा यत् 'समानम्' गम्यते, तस्य निर्देशार्थमस्य सूत्रस्य प्रयोगः भवति ।\nतुल्या सम्मितम्\n= तुला + यत्\n→ तुल् + य [<<यस्येति च>> [[6.4.148]] इति आकारलोपः]\n→ तुल्य\nतुल्या समानम् तुल्यम् । सदृशम् इत्यर्थः ।\nअनेन प्रकारेण वर्तमानसूत्रेण 'नाव्य', 'वयस्य', धर्म्य', 'विष्य', 'मूल्य', 'मूल्य', 'सीत्य', 'तुल्य' - एते अष्ट शब्दाः पाठ्यन्ते ।\nज्ञातव्यम् - अस्मिन् सूत्रे वस्तुतः कोऽपि शब्दः तृतीयासमर्थः नास्ति । परन्तु सूत्रेण निर्दिष्टः अर्थः तृतीयासमर्थेनैव स्पष्टीभवति, अतः अत्र तृतीयासमर्थस्य अध्याहारः क्रियते । अस्मिन् विषये काशिकाकारः वदति - 'प्रत्ययार्थद्वारेण तृतीया समर्थविभक्तिः लभ्यते' ।\n" }, "44092": { "sa": "धर्म, पथिन् अर्थ, न्याय - एतेभ्यः पञ्चमीसमर्थेभ्यः संज्ञायाः विषये 'अनपेतम्' (अच्युतम् / युक्तम्) अस्मिन् अर्थे यत्-प्रत्ययः भवति । ", "sd": "'अनपेतम्' इत्युक्ते 'न अपेतम्' (न च्युतम्) । अस्मिन् अर्थे पञ्चमीसमर्थात् 'धर्म', 'पथिन्', 'अर्थ' तथा 'न्याय' शब्दात् यत्-प्रत्ययः भवति ।\n1. धर्मात् अनपेतम् तत् धर्म्यम् । धर्मसम्मतम्, धर्मात् न च्युतम् - इत्यर्थः । प्रक्रिया इयम् -\nधर्म + यत्\n→ धर्म् + य [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ धर्म्य\n2. पथः अनपेतम् तत् पथ्यम् । मार्गसम्मतम् इत्यर्थः । प्रक्रिया इयम् -\nपथिन् + यत्\n→ पथ् + य [<<नस्तद्धिते>> [[6.4.144]] इति टिलोपः]\n→ पथ्य\n3. अर्थात् अनपेतम् तत् अर्थ्यम् ।\nअर्थ + यत्\n→ अर्थ् + य [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ अर्थ्य ।\n4. न्यायात् अनपेतम् तत् न्याय्यम् ।\nन्याय + यत्\n→ न्याय् + य [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ न्याय्य\nस्मर्तव्यम् - अस्मिन् सूत्रे 'संज्ञायाम्' इति अनुवर्तते, अतः एतेषां शब्दानां प्रयोगः विशिष्ट-अर्थे एव भवति, सामान्यरूपेण न । यथा, शास्त्रीय-मार्गात् यत् अनपेतं वर्तते, तस्यैव नाम 'पथ्यम्' इति दीयते, न हि प्रत्यक्ष-मार्गात् यत् अनपेतम् तस्य।\n" }, "44093": { "sa": "'छन्दसः (इच्छया) निर्मितः' अस्मिन् अर्थे संज्ञायाः विषये तृतीयासमर्थात् यत्-प्रत्ययः भवति । ", "sd": "'छन्दस्' इत्युक्ते इच्छा । 'इच्छया निर्मितः' अस्मिन् अर्थे तृतीयासमर्थात् संज्ञायाः विषये 'छन्दस्'शब्दात् यत्-प्रत्ययः भवति । छन्दसा निर्मितम् तत् छन्दस्यम् ।\nज्ञातव्यम् -\n1. प्रत्ययार्थमनुसृत्य अस्मिन् सूत्रे 'तृतीयासमर्थ'ग्रहणम् क्रियते । अतः काशिकाकारः वदति - 'प्रत्ययार्थसामर्थ्यलभ्या समर्थविभक्तिः' ।\n2. अत्र 'संज्ञायाम्' इति अनुवर्तते, अतः विशिष्ट-अर्थेषु एव 'छन्दस्य' शब्दस्य प्रयोगः भवति, सर्वत्र न । यथा, छन्दस्या वाक् ।\n3. यद्यपि 'छन्दस्' शब्दस्य सामान्यरूपेण 'वेदः' तथा 'गानवृत्तम्' एतौ द्वौ अर्थौ स्तः, तथापि अस्मिन् सूत्रे 'छन्दस्' शब्दस्य अर्थः 'इच्छा' इति गृह्यते ।\n" }, "44094": { "sa": "उरस्-शब्दात् 'निर्मितः' अस्मिन् अर्थे संज्ञायाः विषये 'अण्' तथा 'यत्' प्रत्ययौ भवतः ।", "sd": "'उरसा निर्मितः' अस्मिन् अर्थे उरस्-शब्दात् अण् तथा यत् प्रत्ययौ भवतः ।\n1. अण्-प्रत्यये परे प्रक्रिया -\nउरसा निर्मितः\n= उरस् + अण्\n→ औरस् + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ औरस ।\n2. यत्-प्रत्यये परे प्रक्रिया -\nउरसा निर्मितः\n= उरस् + यत्\n→ उरस् + य\n→ उरस्य\nज्ञातव्यम् -\n1. अस्मिन् सूत्रे अर्थसामर्थ्यात् तृतीयासामर्थ्यम् गृह्यते ।\n2. अत्र 'संज्ञायाम्' इति अनुवर्तते, अतः औरस / उरस्य शब्दयोः प्रयोगः केवलम् 'पुत्रम्' अस्मिन्नेव अर्थे भवति । सः पुत्रः, यः गर्भात् न निर्मितः अपितु केवलं पुत्ररूपेण स्वीकृतः, तस्य निर्देशः 'औरस' / 'उरस्य' अनेन शब्देन क्रियते । " }, "44095": { "sa": "षष्ठीसमर्थात् 'हृदय' शब्दात् 'प्रियः' अस्मिन् अर्थे संज्ञायां विषये यत्-प्रत्ययः भवति । ", "sd": "षष्ठीसमर्थात् 'हृदय'शब्दात् 'प्रियः' अस्मिन् अर्थे यत्-प्रत्ययः विधीयते ।\nहृदयस्य प्रियः\n= हृदय + यत्\n→ हृद् + य [<<हृदयस्य हृल्लेखयदण्लासेषु>> [[6.3.50]] इत्यनेन भसंज्ञकस्य 'हृदय'शब्दस्य यत्-प्रत्यये परे हृद्-आदेशः]\n→ हृद्य\nअत्र 'संज्ञायाम्' इति अनुवर्तते, अतः 'हृदस्य प्रियः हृद्यः देशः / हृदस्य प्रियम् हृद्यम् वनम्' एतेषु एव अर्थेषु 'हृद्य' शब्दः प्रयुज्यते, न हि 'हृदस्य प्रियः पुत्रः / हृद्स्य प्रियः हृद्यः सखा' एतेषु अर्थेषु ।\n" }, "44096": { "sa": "षष्ठीसमर्थात् 'हृदय' शब्दात् 'बन्धने' अस्मिन् अर्थे ऋषौ (वेदे) अभिधेये संज्ञायाम् यत्-प्रत्ययः भवति । ", "sd": "आदौ सूत्रे प्रयुक्तानां शब्दानामर्थं पश्यामः -\n1. बन्धनम् = बद्ध्यते (बाधनम् क्रियते) येन, तत् बन्धनम् ।\n2. ऋषिः = वेदमन्त्रः ।\nअतः अस्य सूत्रस्य अर्थः अयम् - येन वेदमन्त्रेण हृदयस्य बन्धनम् क्रियते (इत्युक्ते, मनः वशीक्रियते), तस्य निर्देशार्थम् 'हृदय' शब्दात् यत्-प्रत्ययः भवति ।\nहृदयस्य बन्धनम् करोति सः\n= हृदय + यत्\n→ हृद् + य [<<हृदयस्य हृल्लेखयदण्लासेषु>> [[6.3.50]] इत्यनेन भसंज्ञकस्य 'हृदय'शब्दस्य यत्-प्रत्यये परे हृद्-आदेशः]\n→ हृद्यः ऋषिः (वेदमन्त्रः)\nज्ञातव्यम् - अत्र 'संज्ञायाम्' इति अनुवर्तते, अतः अत्र 'ऋषि' इत्यस्य अर्थः केवलं 'वेदः' इत्येव स्वीक्रियते, न हि 'मुनिः' इति ।\n" }, "44097": { "sa": "षष्ठीसमर्थात् 'मत'शब्दात् 'करण' अस्मिन् अर्थे, 'जन' शब्दात् 'जल्प' अस्मिन् अर्थे, 'हल' शब्दात् 'कर्ष' अस्मिन् अर्थे संज्ञायाः विषये यत्-प्रत्ययः भवति ।", "sd": "अस्मिन् सूत्रे त्रयः शब्दाः त्रयः अर्थाः च उच्यन्ते । प्रत्येकस्मात् शब्दात् यथासङ्ख्ये अर्थे गम्यमाने संज्ञायाः विषये 'यत्' प्रत्ययः विधीयते । यथा -\n1. षष्ठीसमर्थात् 'मत'शब्दात् 'करणम्' अस्मिन् अर्थे यत्-प्रत्ययः भवति । 'मत' इत्युक्ते ज्ञानम्, विश्वासः (मन्यते तत् मतम्) । मतस्य करणम् (प्राप्तिसाधनम्) तत् = मत + यत् → मत्यम् मननम् ।\n2. षष्ठीसमर्थात् 'जन'शब्दात् 'जल्प' अस्मिन् अर्थे यत्-प्रत्ययः भवति । जनस्य जल्पः जन्यः ।\n3. षष्ठीसमर्थात् 'हल'शब्दात् 'कर्ष' अस्मिन् अर्थे यत्-प्रत्ययः भवति । हलस्य कर्षः (pull) हल्यः । अनेन वार्त्तिकेन अत्र तदन्तविधिः अपि दृश्यते - परमहलस्य कर्षः परमहल्यः । द्वयोः हलयो कर्षः = द्विहल + यत् → द्विहल्यः ।\nस्मर्तव्यम् - अस्मिन् सूत्रे अर्थसामर्थ्यात् षष्ठीसामर्थ्यम् गृह्यते । काशिकाकारः अस्मिन् विषये वदति - 'प्रत्ययार्थसामर्थ्यात् लब्धा षष्ठी समर्थविभक्तिः' ।\n" }, "44098": { "sa": "सप्तमीसमर्थात् साधुः (कुशलः / प्रवीणः / योग्यः) अस्मिन् अर्थे संज्ञायाः विषये यत्-प्रत्यय भवति । ", "sd": "'साधुः' इत्युक्ते प्रवीणः, कुशलः, योग्यः । 'साधुः' अस्मिन् अर्थे सप्तमीसमर्थात् यत्-प्रत्ययः वर्तमानसूत्रेण विधीयते ।\nयद्यपि अस्य सूत्रस्य प्रयोगः सर्वेभ्यः सप्तमीसमर्थेभ्यः भवितुमर्हति, तथापि 'संज्ञायाम्' इत्यस्य अनुवृत्तिः अत्र विद्यते, अतः केवलं विशिष्ट-प्रयोगेषु एव अस्य सूत्रस्य प्रसक्तिः अस्ति, न अन्यत्र ।\nयथा -\n1. सामसु साधुः\n= सामन् + यत्\n→ सामन्य । [<<नस्तद्धिते>> [[6.4.144]] इत्यनेन टिलोपे प्राप्ते, तथा च <<अल्लोपोऽनः>> [[6.4.134]] इत्यनेन उपधा-अकारस्य लोपे प्राप्ते, <<ये चाभावकर्मणोः>> [[6.4.168]] इत्यनेन प्रकृतिभावः]\nसामकार्येषु प्रवीणः सः सामन्यः ।\nएवमेव -\n2. कर्मणि साधुः सः कर्मण्यः ।\n3. वेमनि (हत्यायाम्) साधुः सः वेमन्यः ।\n4. शरणे साधुः सः शरण्यः ।\n" }, "44099": { "sa": "'साधुः' अस्मिन् अर्थे प्रतिजनादिगणस्य शब्देभ्यः सप्तमीसमर्थेभ्यः शब्देभ्यः संज्ञायाः विषये खञ्-प्रत्ययः भवति । ", "sd": "'साधुः' इत्युक्ते प्रवीणः, कुशलः, योग्यः । 'साधुः' अस्मिन् अर्थे प्रतिजनादिगणस्य सप्तमीसमर्थेभ्यः शब्देभ्यः संज्ञायाः विषये खञ्-प्रत्ययः भवति ।\nप्रतिजनादिगणः अयम् -\nप्रतिजन, इदंयुग, संयुग, समयुग, परयुग, परकुल, परस्यकुल, अमुष्यकुल, सर्वजन, विश्वजन, पञ्चजन, महाजन ।\nउदाहरणानि -\n1. जनम् जनम् प्रतिजनम् । प्रतिजने साधुः सः प्रतीजनीनः ।\nप्रतिजन + खञ्\n→ प्रतिजन + ईन [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति खकारस्य ईन्-आदेशः]\n→ प्रातिजन + ईन [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ प्रातिजन् + ईन [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ प्रातिजनीन\nप्रत्येकम् जनम् प्रति (व्यवहारे) यः कुशलः, सः प्रातिजनीनः उच्यते ।\n2. इदंयुगे साधुः ऐदंयुगीनः । अस्मिन् युगे (भिन्नेषु कर्तव्येषु) यः प्रवीणः सः ऐदंयुगीनः ।\n3. परयुगे साधुः पारयुगीणः ।\n4. विश्वजने साधुः वैश्वजनीनः ।\n5. महाजने साधुः माहाजनीनः ।\n " }, "44100": { "sa": "'साधुः' इत्यस्मिन् अर्थे सप्तमीसमर्थात् 'भक्त' (पक्वः ओदनः) शब्दात् संज्ञायाः विषये ण-प्रत्ययः भवति । ", "sd": "'भक्त' इत्युक्ते पक्वः ओदनः (cooked rice) । 'साधुः' इत्युक्ते प्रवीणः, कुशलः, योग्यः । 'साधुः' अस्मिन् अर्थे सप्तमीसमर्थात् 'भक्त'शब्दात् ण-प्रत्ययः भवति -\nभक्ते साधुः\n= भक्त + ण\n→ भक्त + अ [इत्संज्ञालोपः]\n→ भाक्त + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] आदिवृद्धिः]\n→ भाक्त् + अ [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ भाक्त\nभक्ते साधुः भाक्ताः तण्डुलाः । ते तण्डुलाः येषु उत्तमाः गुणाः सन्ति, येभ्यः पक्व-ओदनस्य निर्माणम् भवितुमर्हति, ते तण्डुलाः 'भाक्ताः' नाम्ना ज्ञायन्ते ।\nस्त्रीत्वे विवक्षिते <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्-प्रत्ययः विधीयते । भक्ते साधुः भाक्ता यवागूः । " }, "44101": { "sa": "'साधुः' अस्मिन् अर्थे सप्तमीसमर्थात् परिषद्-शब्दात् संज्ञायाम् विषये ण्य-प्रत्ययः भवति । ", "sd": " 'साधुः' इत्युक्ते प्रवीणः, कुशलः, योग्यः । 'साधुः' अस्मिन् अर्थे सप्तमीसमर्थात् 'परिषद्'शब्दात् ण्य-प्रत्ययः भवति -\nपरिषदि साधुः\n= परिषद् + ण्य\n→ पारिषद् + य [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ पारिषद्य\nपरिषदि (सभायाम्) साधुः पारिषद्यः विचारः ।\nज्ञातव्यम् -\n1. वस्तुतः भाष्यकारेण <<पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च>> [[2.1.58]] इत्यत्र 'सर्ववेदपारिषदं हि इदं शास्त्रम्' अयम् प्रयोगः कृतः अस्ति । अस्मिन् वाक्ये प्रयुक्तः 'पारिषद' शब्दः 'परिषदि साधुः' अस्मिन् अर्थे कृतः अस्ति । अस्य प्रयोगस्य सिद्धतायै काशिकाकारः अत्र वदति - 'णप्रत्ययः अप्यत्र इष्यते। तदर्थं योगविभागः क्रियते' । इत्युक्ते -\n[1] अत्र योगविभागं कृत्वा 'परिषदः' इति अन्यत् सूत्रम् स्वीक्रियते, तत्र च पूर्वसूत्रात् 'ण' इति अनुवर्तते । अनेन सूत्रेण परिषद्-शब्दात् तत्र साधुः अस्मिन् अर्थे ण-प्रत्ययः अपि विधीयते । परिषदि साधुः परिषद् + ण = पारिषद ।\n[2] ततः च 'ण्य' इति भिन्नं सूत्रं स्वीकृत्य तस्मिन् 'परिषदः' इत्यस्य अनुवृत्तिः क्रियते, येन 'पारिषद्य' अयं शब्दः अपि सिद्ध्यति ।\n2. कौमुद्यामस्य सूत्रस्य विषये उच्यते - 'पर्षद इति पाठः ' । इत्युक्ते, 'परिषद् ' इत्यस्य स्थाने 'पर्षद् ' इति अपि पाठः कृतः दृश्यते । 'पर्षद्' इत्यस्य अपि 'परिषद्' इत्येव अर्थः । पर्षदि साधुः पार्षदः ।\n" }, "44102": { "sa": "'साधुः' अस्मिन् अर्थे कथादिगणस्य सप्तमीसमर्थेभ्यः शब्देभ्यः संज्ञायाः विषये ठक्-प्रत्ययः भवति । ", "sd": " 'साधुः' इत्युक्ते प्रवीणः, कुशलः, योग्यः । 'साधुः' अस्मिन् अर्थे कथादिगणस्य सप्तमीसमर्थेभ्यः शब्देभ्यः ठक्-प्रत्ययः भवति ।\nकथादिगणः अयम् - कथा, विकथा, वितण्डा, कुष्टचित्, जनवाद, जनेवाद, वृत्ति, सद्गृह, गुण, गण, आयुर्वेद ।\nउदाहरणानि -\n1. कथायां साधुः\n= कथा + ठक्\n→ कथा + इक [<<ठस्येकः>> [[7.3.50]] इति इक्-आदेशः]\n→ काथ + इक [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ काथ् + इक [<<यस्येति च>> [[6.4.148]] इति अन्तिम-आकारलोपः]\n→ काथिक\nकथायां साधु काथिकम् चित्रम् ।\n2. विकथायां साधुः वैकथिकः ।\n3. वितण्डायां साधुः वैतण्डिकः । 'वितण्डा' इत्युक्ते 'विश्लेषणम् / चोदनम्' (criticism).\n4. आयुर्वेदे साधुः आयुर्वेदिकः ।\n" }, "44103": { "sa": "'साधुः' अस्मिन् अर्थे गुडादिगणस्य सप्तमीसमर्थेभ्यः शब्देभ्यः संज्ञायाः विषये ठञ्-प्रत्ययः भवति । ", "sd": "'साधुः' इत्युक्ते योग्यः, प्रवीणः । गुडादिगणस्य सप्तमीसमर्थेभ्यः शब्देभ्यः संज्ञायाः विषये ठञ्-प्रत्ययः भवति ।\nगुडादिगणः अयम् - गुड, कुल्माष, सक्तु, अपूप, मांसौदन, इक्षु, वेणु, सङ्ग्राम, सङ्घात, प्रवास, निवास, उपवास ।\nउदाहरणानि -\n1. गुडे साधुः\n= गुड + ठञ्\n→ गुड + इक [<<ठस्येकः>> [[7.3.50]] इति ठक्-इत्यस्य इक-आदेशः]\n→ गौड + इक [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ गौड् + इक [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ गौडिक\nगुडे साधुः सः गौडिकः इक्षुः । यस्मात् उत्तमः गुडः जायते सः गौडिकः इक्षुः ।\n2. सक्तौ साधुः साक्तविकः ।\nसक्तु + ठञ्\n→ सक्तु + इक [<<ठस्येकः>> [[7.3.50]] इति ठक्-इत्यस्य इक-आदेशः]\n→ साक्तु + इक [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ साक्तो + इक [<<ओर्गुणः>> [[6.4.146]] इति गुणः]\n→ साक्तव् + इक [<<एचोऽयवायावः>> [[6.1.78]] इति अवादेशः]\n→ साक्तविक ।\n3. अपूपे साधुः आपुपिकः ।\n4. इक्षौ साधुः ऐक्षविकः ।\n" }, "44104": { "sa": "'साधुः' अस्मिन् अर्थे पथिन्, अतिथि, वसति, स्वपति -एतेभ्यः सप्तमीसमर्थेभ्यः शब्देभ्यः संज्ञायाः विषये ढञ्-प्रत्ययः भवति । ", "sd": "'साधुः' इत्युक्ते योग्यः, प्रवीणः । पथिन्, अतिथि, वसति, स्वपति - एतेभ्यः सप्तमीसमर्थेभ्यः शब्देभ्यः संज्ञायाः विषये ढञ्-प्रत्ययः भवति ।\nअस्मिन् सूत्रे 'संज्ञायाम्' इति अनुवर्तते, अतः अस्य सूत्रस्य प्रयोगः विशिष्टेषु प्रयोगेषु एव क्रियते । उदाहरणानि एतानि -\n1. पथि साधुः\n= पथिन् + ढञ्\n→ पथिन् + एय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति एय्-आदेशः]\n→ पाथिन् + एय [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ पाथ् + एय [<<नस्तद्धिते>> [[6.4.144]] इति टिलोपः]\n→ पाथेय ।\nपथि साधुः पाथेयम् खाद्यम् पेयम् वा ।\n2. अतिथौ साधुः आतिथेयः व्यवहारः । अतिथिं प्रति यः व्यवहारः कार्यः , सः अतिथौ योग्यः आतिथेयः व्यवहारः ।\n3. वसतौ साधुः वासतेयम् गृहम् । 'वसति' इत्युक्ते निवसनम् । वसनकार्यार्थम् योग्यम् / उचितम् गृहम् वासतेयम् गृहम् ।\n4. स्वपतौ साधुः स्वापतेयम् धनम् । 'स्वपति' इत्युक्ते धनिकः । धनिकस्य समीपे यत् साधुः भासते, तत् स्वापतेयम् धनम् ।\n " }, "44105": { "sa": "सप्तमीसमर्थात् 'सभा'शब्दात् संज्ञायाः विषये 'य' प्रत्ययः भवति । ", "sd": "'साधुः' इत्युक्ते योग्यः, प्रवीणः । सप्तमीसमर्थात् 'सभा' शब्दात् 'साधुः' अस्मिन् अर्थे संज्ञायाः विषये 'य'-प्रत्ययः भवति ।\nसभायां साधुः\n= सभा + य\n→ सभ् + य [<<यस्येति च>> [[6.4.148]] इति आकारलोपः]\n→ सभ्य ।\nसभायाम् साधुः सभ्यः । सभायाम् भाषणे वर्तने व्यवहारे च यः प्रवीणः, सः सभ्यः पुरुषः ।\nज्ञातव्यम् - वस्तुतः अत्र 'यत्' इति औत्सर्गिकः प्रत्ययः अनुवर्तते । परन्तु तं बाधित्वा अस्मिन् सूत्रे 'य' प्रत्ययः उक्तः अस्ति । द्वयोः अपि प्रत्यययोः प्रयोगेण समानम् एव रूपम् जायते, परन्तु तयोर्मध्ये स्वरभेदः अस्ति । 'यत्'प्रत्ययान्तः 'सभ्य'शब्दः <<यतोऽनावः>> [[6.1.213]] इत्यनेन आद्युदात्तः जायते, परन्तु 'य'प्रत्ययान्तः 'सभ्य'शब्दः <<आद्युदात्तश्च>> [[3.1.3]] इत्यनेन अन्तोदात्तत्वं प्राप्नोति । (<<आद्युदात्तश्च>> [[3.1.3]] इत्यनेन प्रत्ययस्य आदिस्वरः उदात्तः जायते । अतः अत्र अनेन सूत्रेण यकारोत्तरः अकारः उदात्तः भवति । अयमकारः 'सभ्य' इति सम्पूर्णशब्दस्य अन्तिमस्थाने अस्ति, अतः अत्र 'सभ्य'शब्दः अन्तोदात्तत्वं प्राप्नोति) । " }, "44106": { "sa": "'साधुः' अस्मिन् अर्थे सप्तमीसमर्थात् 'सभा'शब्दात् वेदेषु संज्ञायाः विषये 'ढ'प्रत्ययः भवति । ", "sd": "'साधुः' इत्युक्ते कुशलः, प्रवीणः, योग्यः । सप्तमीसमर्थात् 'सभा'शब्दात् वेदेषु संज्ञायाः विषये ढ-प्रत्ययः अपि कृतः दृश्यते ।\nयथा, शुक्लयजुर्वेदे 22 तमे अध्याये 22 तमः श्लोके उच्यते - 'पुरन्धिर्योषा जिष्णू रथेष्ठाः सभेयो युवास्य यजमानस्य वीरो जायताम् ' । अत्र प्रयुक्तः 'सभेयः' अयं शब्दः 'सभायां साधुः' अस्मिन् अर्थे प्रयुक्तः अस्ति ।\nप्रक्रिया इयम् -\nसभायां साधुः\n= सभा + ढ\n→ सभा + एय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति एय् -आदेशः]\n→ सभ् + एय [<<यस्येति च>> [[6.4.148]] इति आकारलोपः]\n→ सभेय ।\nविशेषः - शुक्लयजुर्वेदस्य 22 तम-अध्यायस्य 22 तमः श्लोकः 'वैदिकम् राष्ट्रगीतम्' नाम्ना अपि प्रसिद्धः अस्ति । अयम् सम्पूर्णः श्लोकः अधः दत्तः अस्ति -\nआ ब्रह्यन्ब्राह्मणो ब्रह्मवर्चसी जायताम् ।\nआ राष्ट्रे राजन्यः शूरऽइषव्योतिव्याधी महारथो जायताम् ।\nदोग्ध्री धेनुर्वोढानड्वानाशुः सप्तिः पुरन्धिर्योषा जिष्णू रथेष्ठाः सभेयो युवास्य यजमानस्य वीरो जायताम् ।\nनिकामे निकामे नः पर्जन्यो वर्षतु फलवत्यो न ओषधयः पच्यन्ताँयोगक्षेमो नः कल्पताम् ॥ शुक्लयजुर्वेदः 22.22 ॥\n" }, "44107": { "sa": "'वासी' (निवसति) अस्मिन् अर्थे सप्तमीसमर्थात् 'समानतीर्थ' शब्दात् संज्ञायाः विषये यत्-प्रत्ययः भवति । ", "sd": "'तीर्थम्' इत्युक्ते गुरुः (आचार्यः) । 'समाने तीर्थे निवसति' (= समानगुरोः समीपे अध्ययनम् करोति) अस्मिन् अर्थे 'समानतीर्थ' शब्दात् यत्-प्रत्ययः भवति ।\nसमानतीर्थे वासी\n= समानतीर्थ + यत्\n→ सतीर्थ + यत् [<<तीर्थे ये>> [[6.3.87]] इति यत्-प्रत्यये परे तीर्थ-शब्दे उत्तरपदे 'समान' इत्यस्य 'स'आदेशः भवति ।]\n→ सतीर्थ् + य [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ सतीर्थ्य\nययोः गुरुः समानः अस्ति, तौ 'सतीर्थ्यौ' नाम्ना ज्ञायेते । " }, "44108": { "sa": "'शयितः' अस्मिन् अर्थे सप्तमीसमर्थात् 'समानोदर'शब्दात् संज्ञायाः विषये यत्-प्रत्ययः भवति, तथा च निर्मितस्य शब्दस्य ओकारः उदात्तः जायते । ", "sd": "'शयितः' इति 'शी' धातो' क्त-प्रत्ययान्तरूपम् । 'शयनम् कृतः / स्थितः' इत्यर्थः । सप्तमीसमर्थात् 'समानोदर'शब्दात् संज्ञायाः विषये यत्-प्रत्ययः भवति । यथा -\nसमानोदरे शयितः\n= समानोदर + यत्\n→ समानोदर् + य [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ समानोदर्यः ।\nसमाने उदरे शयितः सः समानोदर्यः भ्राता । समाने उदरे शयिता सा समानोदर्या स्वसा ।\nअनेन सूत्रेण 'समानोदर्य' शब्दस्य ओकारस्य उदात्तत्वमपि विधीयते । वस्तुतः तु यत्-प्रत्ययः 'तित्' अस्ति, अतः <<तित्स्वरितम्>> [[6.1.185]] इत्यनेन तित्-प्रत्ययस्य आदिस्वरस्य उदात्तत्वम् विधीयते, येन अन्ये स्वराः <<अनुदात्तं पदमेकवर्ज्यम्>> [[6.1.158]] इत्यनेन अनुदात्तस्वरं प्राप्नुवन्ति । परन्तु तत् बाधित्वा अनेन सूत्रेण 'समानोदर्य' शब्दस्य ओकारः उदात्तः क्रियते ।\n" }, "44109": { "sa": "'शयितः' अस्मिन् अर्थे सप्तमीसमर्थात् 'सोदर'शब्दात् संज्ञायां विषये 'यः' अयम् प्रत्ययः विधीयते । ", "sd": "'सोदर' इत्युक्ते 'समानमुदरम्' । 'समानोदर' इत्यस्मात् शब्दात् 'शयितः' (शयनम् कृतः / स्थितः) अस्मिन् अर्थे 'य' प्रत्यये कृते <<विभाषोदरे>> [[6.3.88]] इत्यनेन 'समान' इत्यस्य विकल्पेन 'स' आदेशं कृत्वा 'सोदर' इति शब्दः सिद्ध्यति । तस्मात् अग्रे य-प्रत्ययं कृत्वा 'सोदर्य' इति तद्धितान्तः शब्दः सिद्ध्यति । प्रक्रिया इयम् -\nसमानोदरे शयितः\n= समानोदर + य\n→ सोदर + य [ <<विभाषोदरे>> [[6.3.88]] इति 'समान' इत्यस्य वैकल्पिकः 'स' आदेशः]\n→ सोदर् + य [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ सोदर्य\nसोदरे (= समाने उदरे) शयितः सः सोदर्यः भ्राता, सा च सोदर्या स्वसा ।\nज्ञातव्यम् -\n1. अस्मिन् सूत्रे वस्तुतः 'यत्' इति प्रत्ययः अनुवर्तते । परन्तु तं बाधित्वा अत्र 'य'प्रत्ययविधानम् कृतमस्ति । अस्य प्रयोजनम् स्वरविशेषः । 'यत्'प्रत्ययः <<तित्स्वरितम्>> [[6.1.185]] इत्यनेन स्वरितः जायते, परन्तु 'य'प्रत्ययः तु <<आद्युदात्तश्च>> [[3.1.3]] इत्यनेन आद्युदात्तः अस्ति । अत्र प्रत्ययस्य आद्युदात्तत्वम् इष्यते, अतः अत्र विशिष्टरूपेण 'य'प्रत्ययविधानम् कृतमस्ति ।\n2. 'समानोदर' शब्दस्य सोदर-आदेशः विकल्पेनैव भवति । पक्षे <<समानोदरे शयित ओ चोदात्तः>> [[4.4.108]] इत्यनेन 'समानोदर्य' इति अपि रूपं जायते । 'समानोदर्य' इत्यस्य ओकारः उदात्तः अस्ति परन्तु 'सोदर्य' शब्दस्य ओकारः उदात्तः नास्तीति अपि द्वयोर्मध्ये भेदः ।\n" }, "44110": { "sa": "'भवः' अस्मिन् अर्थे वेदेषु संज्ञायाः विषये सप्तमीसमर्थेभ्यः यत्-प्रत्ययः कृतः दृश्यते । ", "sd": "भिन्नानां शब्दानां विषये सप्तमीसमर्थात् 'भवः' (= तत्र वर्तते) अस्मिन् अर्थे यत्-प्रत्ययः भवति।\n<<तत्र भवः>> [[4.3.53]] इति प्राग्दीव्यतीय-अधिकारे पाठितम् किञ्चन सूत्रम् विद्यते । अस्मिन् सूत्रे 'भवः' इति अर्थः उक्तः अस्ति । अस्यैव निर्देशः वर्तमानसूत्रे अपि क्रियते । अस्मिन् अर्थे भिन्नेभ्यः शब्देभ्यः प्राग्दीव्यतीय-अधिकारस्य औत्सर्गिकः अण्-प्रत्ययः (उत तस्य अपवादाः) विधीयन्ते । परन्तु वेदेषु अस्मिन्नेव अर्थे केभ्यश्चन शब्देभ्यः 'यत्' प्रत्ययः प्रयुक्तः दृश्यते । यथा - 'नमो मेघ्याय च विद्युत्याय च' इति रूद्रनमके दृश्यते । अस्य सिद्ध्यर्थम् वर्तमानसूत्रस्य निर्माणं कृतमस्ति । प्रक्रिया एतादृशी\nमेघे भवः\n= मेघ + यत्\n→ मेघ् + य [<<यस्येति च>> [[6.4.148]] इति आकारलोपः]\n→ मेघ्य\nज्ञातव्यम् -\n1. 'सर्वे विधयः छन्दसि विकल्प्यन्ते' इति कश्चन सिद्धान्तः अस्ति । 'वेदेषु सर्वे विधयः वैकल्पिकरूपेण भवितुमर्हन्ति' इति अस्य आशयः । अतः 'तत्र भवः' अस्मिन् अर्थे वेदेषु वर्तमानसूत्रेण उक्तः यत्-प्रत्ययः तु दृश्यते एव, परन्तु <<तत्र भवः>> [[4.3.53]] इत्यत्र प्राग्दीव्यतीय-अधिकारे पाठितः उचितः प्रत्ययः अपि प्रयुक्तः दृश्यते । यथा, ऋग्वेदे 10.34.1 इत्यत्र 'सोमस्येव मौजवतस्य भक्षः' इति दृश्यते । अत्र प्रयुक्तः 'मौजवत'शब्दः मुजवत्-शब्दात् अण्-प्रत्ययं कृत्वा सिद्ध्यति । मुजवति भवः = मुञ्जवत् + अण् → मौजवत । 'मुजवान्' नाम कश्चन पर्वतः, अस्मिन् पर्वति विद्यमानः 'मौजवतः' सोमः - इति अत्र प्रयोगः दृश्यते ।\n2. अस्मात् सूत्रात् आरभ्य आपादपरिसमाप्तेः 'छन्दसि' इति अनुवर्तते । इत्युक्ते, अग्रे प्राग्घितीय-अधिकारे पाठिताः सर्वे अर्थाः प्रत्ययाः च वेदानाम् विषये एव विधानं कुर्वन्तीति स्मर्तव्यम् ।" }, "44111": { "sa": "सप्तमीसमर्थात् 'पाथस्'शब्दात् 'नदी'शब्दात् च 'भवः' अस्मिन् अर्थे वेदेषु संज्ञायाः विषये ड्यण्-प्रत्ययः कृतः दृश्यते । ", "sd": "'पाथस्' (= अन्तरिक्षः) तथा 'नदी' - एताभ्यां शब्दाभ्यां 'भवः' अस्मिन् अर्थे वेदेषु ड्यण्-प्रत्ययः कृतः दृश्यते ।\n1. पाथसि भवः\n= पाथस् + ड्यण्\n→ पाथस् + य [<<इत्संज्ञालोपः>>]\n→ पाथस् + य [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ पाथ् + य [<<टेः>> [[6.4.143]] इति डित्-प्रत्यये परे अङ्गस्य टिलोपः]\n→ पाथ्य\nपाथसि भवः पाथ्यः । अन्तरिक्षे विद्यमानः इत्यर्थः ।\nयथा - तमु त्वा पाथ्यो वृषा समीधे दस्युहन्तमम् । धनञ्जयं रणेरणे ॥ ऋग्वेदः 6.16.15 ॥\n2. नद्यां भवः\n= नदी + ड्यण्\n→ नदी + य [<<इत्संज्ञालोपः>>]\n→ नादी + य [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ नाद् + य [<<टेः>> [[6.4.143]] इति डित्-प्रत्यये परे अङ्गस्य टिलोपः]\n→ नाद्य\nनद्यां भवः नाद्यः ।\nयथा - उपेमसृक्षि वाजयुर्वचस्यां चनो दधीत नाद्यो गिरो मे ॥ ऋग्वेदः 2.35.1 ॥\n" }, "44112": { "sa": "सप्तमीसमर्थात् 'वेशन्त'शब्दात् तथा 'हिमवत्'शब्दात् वेदेषु संज्ञायाः विषये 'भवः' अस्मिन् अर्थे अण्-प्रत्ययः कृतः दृश्यते । ", "sd": "'वेशन्त' इत्युक्ते सरः । 'हिमवत्' इत्युक्ते हिमालयः । एताभ्यां शब्दाभ्यां 'भवः' अस्मिन् अर्थे वेदेषु संज्ञायाः विषये 'अण्' प्रत्ययः कृतः दृश्यते ।\n1. वेशन्ते भवः\n= वेशन्त + अण्\n→ वैशन्त + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ वैशन्त् + अ [<<यस्येति च>> [[6.4.148]] इतो अकारलोपः]\n→ वैशन्त\nयथा - तैत्तिरीयसंहिता 7.4.13 इत्यत्र - वैशन्तीभ्यः स्वाहा, पल्वल्याभ्यः स्वाहा, वर्ष्याभ्यः स्वाहा ।\n2. हिमवति भवः\n= हिमवत् + अण्\n→ हैमवत् + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ हैमवत\nज्ञातव्यम् - 'तत्र भवः' अस्मिन् अर्थे छन्दसि <<भवे छन्दसि>>[[4.4.110]] इत्यनेन यत्-प्रत्यये प्राप्ते वेशन्तशब्दस्य विषये हिमवत्-शब्दस्य विषये च तं बाधित्वा अनेन सूत्रेण अण्-प्रत्ययविधानम् क्रियते । " }, "44113": { "sa": "'भवः' अस्मिन् अर्थे सप्तमीसमर्थात् स्रोतस्-शब्दात् वेदेषु संज्ञायाः विषये विकल्पेन ड्यत्, ड्य प्रत्ययौ कृतौ दृश्येते । पक्षे यत्-प्रत्ययः अपि भवति । ", "sd": "'स्रोतस्' इत्युक्ते प्रवाहः । अस्मात् शब्दात् सप्तमीसमर्थात् 'भवः' अस्मिन् अर्थे वेदेषु ड्यत्, ड्य, तथा यत् प्रत्ययाः कृताः दृश्यन्ते । उदाहरणानि एतानि -\n1. स्रोतस् + ड्यत्\n→ स्रोतस् + य [इत्संज्ञालोपः]\n→ स्रोत् + य [<<टेः>> [[6.4.143]] इति डित्-प्रत्यये परे टिलोपः]\n→ स्रोत्य\n2. स्रोतस् + ड्य\n→ स्रोतस् + य [इत्संज्ञालोपः]\n→ स्रोत् + य [<<टेः>> [[6.4.143]] इति डित्-प्रत्यये परे टिलोपः]\n→ स्रोत्य\nज्ञातव्यम् - 'ड्यत्' तथा 'ड्य' - द्वयोः अपि प्रयोगेण रूपम् समानमेव जायते, परन्तु तत्र स्वरभेदः दृश्यते । 'ड्यत्' प्रत्ययस्य यकारोत्तरः अकारः <<तित्स्वरितम्>> [[6.1.185]] इत्यनेन स्वरितः अस्ति, तथा च 'ड्य' प्रत्ययस्य यकारोत्तरः अकारः <<आद्युदात्तश्च>> [[3.1.3]] इत्यनेन उदात्तत्वं प्राप्नोति ।\nवेदेषु प्रयोगः - ऋग्वेदे 10.104.8 इत्यत्र - न॒व॒तिं स्रो॒त्या नव॑ च॒ स्रव॑न्तीर्दे॒वेभ्यो॑ गा॒तुं मनु॑षे च विन्दः ।\nअत्र 'स्रो॒त्य' इत्यत्र यकारोत्तरः अकारः उदात्तः अस्ति, अतः इदम् 'ड्य'प्रत्ययस्य उदाहरणम् ।\n3. स्रोतस् + यत्\n→ स्रोतस् + य [इत्संज्ञालोपः]\n→ स्रोतस्य\nवेदेषु प्रयोगः - अथर्ववेदे 19.2 इत्यत्र - अपामह दिव्यानामपां स्रोतस्यानाम् ।\n " }, "44114": { "sa": "'भवः' अस्मिन् अर्थे सप्तमीसमर्थेभ्यः 'सगर्भ', 'सयूथ', 'सनुत' शब्देभ्यः वेदेषु संज्ञायाः विषये यन्-प्रत्ययः कृतः दृश्यते । ", "sd": "'सगर्भः' (= समानः गर्भः), 'सयूथ' (समानः समूहः), 'सनुत' (समाना देवता) - एतेभ्यः सप्तमीसमर्थेभ्यः शब्देभ्यः 'भवः' अस्मिन् अर्थे संज्ञायाः विषये वेदेषु 'यन्' प्रत्ययः कृतः दृश्यते । यथा -\n1. सगर्भे भवः = सगर्भ + यन् → सगर्भ्य । अनुजः इत्यर्थः ।\nयथा - यजुर्वेदे 4.20 - अनु त्वा माता मन्यतामनु पिताऽनु भ्राता सगर्भ्योऽनु सखा सयूथ्यः ।\n2. सयूथे भवः = सयूथ + यन् → सयूथ्य । सखा इत्यर्थः ।\nयथा - यथा - यजुर्वेदे 4.20 - अनु त्वा माता मन्यतामनु पिताऽनु भ्राता सगर्भ्योऽनु सखा सयूथ्यः ।\n3. सनुते भवः = सनुत + यन् → सनुत्य । समानदेवतायाः भक्तः इत्यर्थः ।\nयथा - ऋग्वेदे 2.30.9 - यो न सनुत्य उत वा जिघत्नु रभिख्याय तं तिगितेन विध्य ।\nज्ञातव्यम् - वस्तुतः अत्र 'यत्' प्रत्ययस्य अधिकारः प्रचलति । परन्तु तम् बाधित्वा अत्र यन्-प्रत्ययविधानम् कृतमस्ति । द्वयोः प्रत्यययोः योजनेन रूपम् तु समानमेव जायते, परन्तु द्वयोः रुपयोः मध्ये स्वरभेदः अस्ति । 'यन्' प्रत्ययान्तशब्दः <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] इत्यनेन आद्युदात्तत्वं प्राप्नोति, परन्तु यत्-प्रत्ययान्तशब्दस्य विषये तु <<तित्स्वरितम्>> [[6.1.185]] इत्यनेन प्रत्ययस्वरस्य स्वरितत्वम् इष्यते (येन आदिस्वरः अनुदात्तः विधीयते) । " }, "44115": { "sa": "'भवः' अस्मिन् अर्थे सप्तमीसमर्थात् 'तुग्र'शब्दात् वेदेषु संज्ञायाः विषये घन्-प्रत्ययः कृतः दृश्यते । ", "sd": "'तुग्र'शब्दस्य अनेके अर्थाः विद्यन्ते । 'अन्नम्', 'आकाशः', 'यज्ञः', 'वरिष्ठः' - एते चत्वारः अर्थाः काशिकायां दीयन्ते । अस्मात् सप्तमीसमर्थात् 'तुग्र'शब्दात् 'भवः' अस्मिन् अर्थे वेदेषु घन्-प्रत्ययः कृतः दृश्यते ।\nतुग्रे भवः\n= तुग्र + घन्\n→ तुग्र + इय [<<आयनेयीनीयियः फघखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति घकारस्य इय्-आदेशः]\n→ तुग्र् + इय [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ तुग्रिय\nज्ञातव्यम् - अस्य सूत्रस्य विषये कौमुदीकारः <<स्रोतसो विभाषा ड्यड्यौ>> [[4.4.113]] इत्यस्मात् 'विभाषा' इत्यस्य अनुवृत्तिं कृत्वा पक्षे यत्-प्रत्ययं अपि पाठयति । तुग्रे भवः = तुग्र + यत् → तुग्र्यः ।\nउदाहरणम् - ऋग्वेदे 1.33.15 इत्यत्र - आ वः॒ शमं॑ वृष॒भं तुग्र्या॑सु । (पाठभेदेन अत्र 'तुग्रियासु' इत्यपि पाठः दृश्यते) ।\n" }, "44116": { "sa": "'भवः' अस्मिन् अर्थे सप्तमीसमर्थात् 'अग्र'शब्दात् वेदेषु संज्ञायाः विषये यत्-प्रत्ययः कृतः दृश्यते । ", "sd": "सप्तमीसमर्थात् 'अग्र'शब्दात् वेदेषु संज्ञायाः विषये यत्-प्रत्ययः कृतः दृश्यते । अग्रे भवः अग्र्यः ।\nयथा - यजुर्वेदे 16.30 (इत्युक्ते रुद्रपाठे नमकम्) इत्यत्र - 'नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च सवृधे च नमोऽग्र्याय च प्रथमाय च' इति प्रयोगः दृश्यते ।\nज्ञातव्यम् - वस्तुतः अत्र 'यत्' प्रत्ययः अधिकाररूपेण उपस्थितः अस्त्येव । परन्तु अस्मिन् सूत्रे 'यत्'प्रत्ययस्य पुनर्विधानम् कृतमस्ति । 'अग्रिमसूत्रेण निर्दिष्टौ 'घ' तथा 'छ'प्रत्ययौ यत्-प्रत्ययं न बाधेयाताम्' - इति स्पष्टीकर्तुमत्र यत्-प्रत्ययस्य पुनर्विधानम् कृतमस्ति ।\n" }, "44117": { "sa": "'भवः' अस्मिन् अर्थे सप्तमीसमर्थात् 'अग्र'शब्दात् वेदेषु संज्ञायाः विषये घन्, घ तथा छ प्रत्ययाः प्रयुक्ताः दृश्यन्ते । ", "sd": "'तत्र भवः' अस्मिन् अर्थे 'अग्र'शब्दात् सप्तमीसमर्थात् घन्, घ तथा छ प्रत्ययाः कृताः दृश्यन्ते ।\nयथा -\n1) अग्रे भवः\n= अग्र + घन्\n→ अग्र + इय [<<आयनेयीनियियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति इय-आदेशः]\n→ अग्र् + इय [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ अग्रिय\n2) अग्रे भवः\n= अग्र + घ\n→ अग्र + इय [<<आयनेयीनियियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति इय-आदेशः]\n→ अग्र् + इय [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ अग्रिय\nघन्-प्रत्ययान्तरूपम् तथा घ-प्रत्ययान्तरुपम् समानमेव वर्तते, परन्तु तत्र कश्चन स्वरभेदः अपि अस्ति । घन्-प्रत्ययान्तशब्दाः <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] इत्यनेन आद्युदात्ताः सन्ति । परन्तु घ-प्रत्ययान्तशब्दानां विषये तु <<आद्युदात्तश्च>> [[3.1.3]] इत्यनेन प्रत्ययस्य प्रथमस्वरः उदात्तः भवति, अतः <<अनुदात्तं पदमेकवर्जम्>> [[6.1.158]] इत्यनेन तद्धितान्तस्य प्रथमस्वरः अनुदात्तः जायते ।\nवेदेषु प्रयोगः - 'घन्' प्रत्ययान्तः आद्युदात्तः 'अग्रिय' शब्दः - (ऋग्वेदः 1.16.7) - अ॒यं ते॒ स्तोमो॑ अग्रि॒यो हृ॑दि॒स्पृग॑स्तु॒ शंत॑मः । अथा॒ सोमं॑ सु॒तं पि॑ब ।\n3) अग्रे भवः\n= अग्र + छ\n→ अग्र + ईय [<<आयनेयीनियियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ईय-आदेशः]\n→ अग्र् + इय [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ अग्रीय\nज्ञातव्यम्\n1. अस्मिन् सूत्रे 'घच्छौ' इति उच्यते । वस्तुतः अत्र प्रत्ययः 'घ' तथा 'छ' एतौ एव स्तः । घकारात् परस्य अकारस्य छकारे परे <<छे च>> [[6.1.73]] इत्यनेन तुगागमं कृत्वा तस्य <<स्तोः श्चुना श्चुः>> [[8.4.40]] इत्यनेन श्चुत्वे कृते चकारः जायते ।\n2. 'घच्छौ च' इत्यत्र प्रयुक्तम् 'च' इति अव्ययम् <<तुग्रात् घनः>> [[4.4.115]] इत्यस्मात् 'घन्' इत्यस्य अनुवृत्तिं कारयितुम् स्थापितः अस्ति । अतः अत्र घन्, घ, छ - त्रयः प्रत्ययाः निर्दिश्यन्ते ।\n3. 'अग्र'शब्दात् <<अग्राद्यत्>> [[4.4.116]] इत्यनेन पूर्वसूत्रेण यत्-प्रत्ययः अपि विधीयते इति स्मर्तव्यम् ।\n" }, "44118": { "sa": "'भवः' अस्मिन् अर्थे सप्तमीसमर्थात् समुद्रशब्दात् अभ्रशब्दात् च वेदेषु संज्ञायाः विषये घ-प्रत्ययः कृतः दृश्यते । ", "sd": "सप्तमीसमर्थात् 'समुद्र'शब्दात् 'अभ्र'शब्दात् च 'तत्र भवः' अस्मिन् अर्थे वेदेषु संज्ञायाः विषये 'घ'प्रत्ययः कृतः दृश्यते ।\n1. समुद्रे भवः\n= समुद्र + घ\n→ समुद्र + इय [<<आयनेयीनियियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति इय्-आदेशः]\n→ समुद्र् + इय [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ समुद्रिय\nयथा - ऋग्वेदे ७.८७.१ - 'रद॑त्प॒थो वरु॑ण॒: सूर्या॑य॒ प्रार्णां॑सि समु॒द्रिया॑ न॒दीना॑म्' । अत्र समुद्रिया इत्यत्र 'समुद्रिय' इति प्रातिपदिकम् । 'अर्णांसि' इत्यस्य तद् विशेषणम्; अतः नपुंकसकलिङ्गस्य प्रथमाबहुवचने प्रयोगः । तत्र प्रक्रियायां <<सुपां सुलुक्पूर्वसवर्णाऽऽच्छेयाडाड्यायाजालः>> [[7.1.39]] इति सूत्रेण जस्-प्रत्ययस्य आकारादेशे कृते 'समुद्रिया' इति प्रयोगः जायते ।\n2. अभ्रे (= मेघे) भवः\n= अभ्र + घ\n→ अभ्र + इय [<<आयनेयीनियियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति इय्-आदेशः]\n→ अभ्र् + इय [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ अभ्रिय\nयथा - ऋग्वेदे 10.68.1 - उ॒द॒प्रुतो॒ न वयो॒ रक्ष॑माणा॒ वाव॑दतो अ॒भ्रिय॑स्येव॒ घोषा॑: ।\n " }, "44119": { "sa": "'दत्तम्' अस्मिन् अर्थे सप्तमीसमर्थात् 'बर्हिस्' शब्दात् वेदेषु संज्ञायाः विषये यत्-प्रत्ययः कृतः दृश्यते । ", "sd": "'बर्हिस्' (अग्निः) अस्मात् शब्दात् सप्तमीसमर्थात् दत्तमस्मिन् अर्थे वेदेषु संज्ञायाः विषये यत्-प्रत्ययः कृतः दृश्यते ।\nबर्हिषि दत्तम्\n= बर्हिस् + यत्\n→ बर्हिष्य [<<आदेशप्रत्यययोः>> [[8.3.59]] इति षत्वम्]\nयथा - ऋग्वेदः 10.15.5 - उप॑हूताः पि॒तर॑: सो॒म्यासो॑ बर्हि॒ष्ये॑षु नि॒धिषु॑ प्रि॒येषु॑ ।\n" }, "44120": { "sa": "षष्ठीसमर्थात् 'दूत'शब्दात् 'भाग' अस्मिन् अर्थे तथा च 'कर्म' अस्मिन् अर्थे वेदेषु संज्ञायाः विषये यत्-प्रत्ययः कृतः दृश्यते । ", "sd": "'दूत' अस्मात् षष्ठीसमर्थात् 'भागः' (अंशः) अस्मिन् अर्थे, तथा च 'कर्म' (क्रिया) अस्मिन् अर्थे वेदेषु संज्ञायाः विषये यत्-प्रत्ययः कृतः दृश्यते । दूतस्य भागः कर्म वा = दूत + यत् → दूत्य ।\nयथा - ऋग्वेदे 1.12.4 - ताँ उ॑श॒तो वि बो॑धय॒ यद॑ग्ने॒ यासि॑ दू॒त्य॑म् । दे॒वैरा स॑त्सि ब॒र्हिषि॑ ॥\nज्ञातव्यम् - अस्मिन् सूत्रे पूर्वस्मात् सूत्रात् 'तत्र' इति न अनुवर्तते । अतः अत्र 'दूतस्य' इति समर्थेषु प्रथमः अस्ति, अतः च अत्र षष्ठीसामर्थ्यम् स्वीक्रियते । " }, "44121": { "sa": "षष्ठीसमर्थात् रक्षस्-शब्दात् 'यातु'शब्दात् च 'हननी' अस्मिन् अर्थे वेदेषु संज्ञायाम् यत्-प्रत्ययः कृतः दृश्यते । ", "sd": "'हननी' इति हन्-धातोः ल्युट्-प्रत्ययान्तरूपम् । हन्यते अनया सा हननी ।\nरक्षस् (= असूरः / राक्षसः ) तथा यातु (= राक्षसः / पिशाचः) - एताभ्यां शब्दाभ्याम् षष्ठीसमर्थाभ्याम् 'हननम्' अस्मिन् अर्थे वेदेषु संज्ञायाम् यत्-प्रत्ययः कृतः दृश्यते ।\n1. रक्षसाम् हननी\n= रक्षस् + यत् + टाप् [<<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्]\n→ रक्षस्या ।\nरक्षसाः यया हन्यन्ते सा रक्षस्या । रक्षसानां हननस्य साधनम् इत्यर्थः ।\n2. यातूनाम् हननी\n= यातु + यत् + टाप् [<<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्]\n→ यातो + आ + आ [<<ओर्गुणः>> [[6.4.146]] इति गुणः]\n→ यातव् + य + आ [<<वान्तो यि प्रत्यये>> [[6.1.79]] इति अवादेशः]\n→ यातव्या\nयातवाः यया हन्यन्ते सा यातव्या । यातूनाम् हननस्य साधनम् इत्यर्थः ।\nज्ञातव्यम् - वस्तुतः अस्मिन् सूत्रे 'रक्षस्' तथा 'यातु' - द्वौ एव शब्दौ स्तः, अतः सूत्रे वस्तुतः द्विवचनस्य प्रयोगः भवेत् । परन्तु अत्र 'रक्षोयातूनाम्' इति बहुवचनस्य प्रयोगः कृतः अस्ति । अस्य स्पष्टीकरणार्थं काशिकाकारः वदति - 'बहुवचनं स्तुतिवैशिष्ट्यज्ञापनार्थम्' । इत्युक्ते, अनेन सूत्रेण निर्दिष्टा हननी 'बहूनाम् रक्षसाम् यातूनाम् च हन्तुम् समर्था अस्ति, केवलं एकस्यैव न', इति हनन्याः स्तुतिं कर्तुमत्र बहुवचनम् कृतमस्ति । तत्वबोधिनीकारः वदति - 'बहुवचनान्तात्प्रत्यये बहूनां रक्षसां हनने सामर्थ्यमुद्भाव्यते मन्त्रे, तथा च स्तुतिविशिष्टा सम्पूर्णा भवति' । अनेके राक्षसः यातवः च यया हन्यन्ते, तस्याः सामर्थ्यस्य स्तुतिः अत्र विवक्ष्यते - इति आशयः ।\n" }, "44122": { "sa": "षष्ठीसमर्थेभ्यः 'रेवती', 'जगती', 'हविष्या' शब्देभ्यः 'प्रशंसनम्' अस्मिन् अर्थे वेदेषु संज्ञायाम् यत्-प्रत्ययः कृतः दृश्यते । ", "sd": "'प्रशस्य' एतत् 'प्र + शस्' इत्यस्य क्यप्-प्रत्ययान्तरूपम् । 'प्रशंसनम्' / 'प्रशंसा' इति अर्थः ।षष्ठीसमर्थात् 'रेवती'शब्दात्, 'जगती'शब्दात्, 'हविष्या'शब्दात् च 'प्रशंसनम्' अस्मिन् अर्थे वेदेषु संज्ञायाम् यत्-प्रत्ययः कृतः दृश्यते ।\n1. 'रेवती' इति नक्षत्रस्य नाम । रेवत्याः प्रशस्यम् = रेवती + यत् → रेवत्यम् ।\n2. 'जगती' इति छन्दसः नाम । जगत्याः प्रशस्यम् = जगती + यत् → जगत्यम् ।\n3. 'हविष्या' इत्युक्ते आहुतिः । हविष्यायाः प्रशस्यम् =\nहविष्या + यत्\n→ हविष्य् + यत् [<<यस्येति च>> [[6.4.148]] इति आकारलोपः]\n→ हविष्य्य\n→ हविष्य [<<हलो यमां यमि लोपः>> [[8.4.64]] इति वैकल्पिकः यकारलोपः]\nवेदेषु प्रयोगः -\n1. रेवत्यम्, जगत्यम् - (मानवश्रौत्रसूत्रम्) - यद्वो रेवती रेवत्यँ यद्वो हविष्या हविष्यम् ।\n2. हविष्यम् - (ऋग्वेदः 1.162.4) यद्ध॑वि॒ष्य॑मृतु॒शो दे॑व॒यानं॒ त्रिर्मानु॑षा॒: पर्यश्वं॒ नय॑न्ति ।\nज्ञातव्यम् - अत्र वस्तुतः षष्ठीसमर्थम् पदम् सूत्रे न विद्यते, परन्तु 'प्रत्ययार्थम्' स्वीकृत्य अत्र षष्ठीसमर्थात् प्रत्ययविधानं कृतमस्ति । " }, "44123": { "sa": "षष्ठीसमर्थात् असुर-शब्दात् 'स्वम्' (आत्मीयम्) अस्मिन् अर्थे वेेदेषु संज्ञायाम् यत्-प्रत्ययः भवति । ", "sd": "षष्ठीसमर्थात् 'असुर' शब्दात् 'स्वम्' (स्वीयम् / आत्मीयम्) अस्मिन् अर्थे वेदेषु संज्ञायाः विषये यत्-प्रत्ययः कृतः दृश्यते ।\nअसुरस्य स्वम् = असुर + यत् → असूर्य । असूरस्य स्वकीयः / आत्मीयः इत्यर्थः ।\nयथा - (ऋग्वेदः 10.105.11) श॒तं वा॒ यद॑सुर्य॒ प्रति॑ त्वा सुमि॒त्र इ॒त्थास्तौ॑द्दुर्मि॒त्र इ॒त्थास्तौ॑त् ।\n" }, "44124": { "sa": "षष्ठीसमर्थात् 'असुर'शब्दात् 'आत्मीया माया' अस्मिन् अर्थे वेदेषु संज्ञायाः विषये अण्-प्रत्ययः कृतः दृश्यते । ", "sd": "'असुरस्य आत्मीया माया' अस्मिन् अर्थे वेदेषु संज्ञायाः विषये षष्ठीसमर्थात् असुर-शब्दात् अण्-प्रत्ययः कृतः दृश्यते ।\nअसुरस्य आत्मीया माया = असुर + अण् + ङीप् → आसुरी माया ।\nयथा - (अथर्ववेदः 1.24) - 'तदासुरी युधा जिता रूपं चक्रे वनस्पतीन्' ।\nज्ञातव्यम् - 'असुरस्य आत्मीया माया' अस्मिन् अर्थे <<असूरस्य स्वम्>> [[4.4.123]] इत्यनेन विहितं यत्-प्रत्ययं बाधितुम् तथा च स्पष्टरूपेण अण्-प्रत्ययविधानं कर्तुमस्य सूत्रस्य निर्माणं कृतमस्ति । परन्तु अस्मिन् सूत्रे 'अण्' इति वस्तुतः न आवश्यकम् । केवलम् 'मायायां न' इति उच्यते चेदपि 'असुरस्य आत्मीया माया' इत्यत्र <<तस्येदम्>> [[4.3.120]] इत्यनेन अण्-प्रत्ययः एव विधीयेत । अतः अस्मिन् सूत्रे निर्दिष्टः अण्-प्रत्ययः केवलं स्पष्टतायै कृतः अस्ति - इति पण्डिताः मन्यन्ते । न्यासकारः अस्मिन् विषये वदति - 'मायायां नेति वक्तव्ये अण्-ग्रहणं विस्पष्टार्थम्' ।\n" }, "44125": { "sa": "'उपधानमन्त्रः आसाम् इष्टकानाम्' अस्मिन् अर्थे प्रथमासमर्थात् मतुप्-प्रत्ययान्तशब्दात् वेदेषु संज्ञायाः विषये यत्-प्रत्ययः कृतः दृश्यते, तथा च प्रक्रियायाम् मतुप्-प्रत्ययस्य लुक् अपि कृतः दृश्यते ।", "sd": "अस्य सूत्रस्य अर्थं ज्ञातुमारम्भे काचित् पीठिका ज्ञातव्या ।\n1. यज्ञादिकार्यादिषु 'यज्ञकुण्डस्य' निर्माणार्थम् याः इष्टकाः (bricks) रच्यन्ते, तासां चयनार्थम् वेदेषु केचन मन्त्राः प्रोक्ताः सन्ति (There are some mantras that are specifically chanted while selecting the bricks to be used for constructing fireplace of the yajna) । एते मन्त्राः 'उपधानमन्त्राः' नाम्ना ज्ञायन्ते । एतादृशानामुपधान-मन्त्राणाम् संज्ञार्थमस्मिन् सूत्रे 'यत्' प्रत्ययविधानम् कृतमस्ति ।\n2. सूत्रे प्रयुक्तः 'आसाम्' इति शब्दः 'इदम्' इत्यस्य षष्ठ्येकवचनमस्ति । अयम् शब्दः 'इष्टका' इत्यस्य विशेषणरूपेण प्रयुज्यते, तथा च 'अर्थस्य' निर्देशं करोति । इत्युक्ते, 'आसाम् इष्टकानाम्' अस्मिन् अर्थे वर्तमानसूत्रेण यत्-प्रत्ययः विधीयते ।\n3. अस्मिन् सूत्रे उपस्थितः 'तद्वान्' अयं शब्दः 'तद् + मतुप्' इत्यस्य प्रथमैकवचनमस्ति । 'तद् अस्मिन् अस्ति' सः तद्वान् । 'उपधानमन्त्रः' इत्यस्य इदम् विशेषणम् । 'तद्वान् उपधानमन्त्रः' इत्युक्ते 'सः (= कश्चन शब्दः) अस्मिन् उपधानमन्त्रे अस्ति सः उपधानमन्त्रः' । यथा, 'वर्चस्वान् उपधानमन्त्रः' इत्युक्ते 'वर्चस्-शब्दः यस्मिन् उपधानमन्त्रे अस्ति' सः उपधानमन्त्रः ।\n4. अस्मिन् सूत्रे विद्यमानः प्रथमः शब्दः 'तद्वान्' इत्येव अस्ति; स च प्रथमाविभक्तौ विद्यते । अतः अनेन सूत्रेण प्रथमासमर्थात् यत्-प्रत्ययविधानम् क्रियते । अयम् प्रत्ययविधानम् साक्षात् 'तद्वान्' अस्मात् शब्दात् न भवति, अपितु 'तद्वान्' इत्यनेन निर्दिष्टः यः मतुप्-प्रत्ययान्तशब्दः, तस्मात् भवति । यथा, 'वर्चस्वान् उपधानमन्त्रः' इत्यत्र 'वर्चस्वान्' इत्यस्मात् यत्-प्रत्ययः भवितुमर्हति ।\nइदानीमस्य सूत्रस्य अर्थः स्पष्टः स्यात् - 'तद्वान् उपधानमन्त्रः आसाम् इष्टकानाम्' अस्मिन् अर्थे मतुप्-प्रत्ययान्तशब्दात् 'यत्'-प्रत्ययः भवति, तथा च प्रक्रियायाम् मतुप्-प्रत्ययस्य लुक् भवति ।\nअधिक-स्पष्टतायै एकमुदाहरणं पश्यामः । 'वर्चस्वान् उपधानमन्त्रः आसाम् इष्टकानाम्' इति वाक्यं दृश्यताम् । अत्र 'वर्चस्वान्' इति 'तद्वान्' इत्यनेन निर्दिष्टः मतुप्-प्रत्ययान्तशब्दः अस्ति । 'वर्चस्' (= तेजस्) शब्दात् मतुप्-प्रत्यये कृते अयम् शब्दः सिद्ध्यति । 'मन्त्रः' इत्यस्य इदम् विशेषणम् । 'वर्चस्वान् मन्त्रः' इत्युक्ते 'वर्चस्' इति शब्दः यस्मिन् मन्त्रे विद्यते सः मन्त्रः । अयम् 'वर्चस्वान् मन्त्रः' यदि इष्टकानाम् 'उपधानमन्त्रः' अनेन रूपेण प्रयुज्यते, तर्हि 'वर्चस्वत्' शब्दात् वर्तमानसूत्रेण यत्-प्रत्ययविधानम् क्रियते, तथा च यत्-प्रत्यये कृते मतुप्-प्रत्ययस्य अनेन सूत्रेण लोपः अपि विधीयते ।\nप्रक्रिया इयम् -\nवर्चस्वान् उपधानमन्त्रः आसाम् इष्टकानाम्\n= वर्चस्वत् + यत्\n→ वर्चस् + यत् [मतुप्-प्रत्ययस्य लोपः]\n→ वर्चस्य\nवर्चस्वान् उपधानमन्त्रः आसाम् इष्टकानाम् ताः वर्चस्याः इष्टकाः ।\nएवमेव -\n1. तेजस्वान् उपधानमन्त्रः आसाम् इष्टकानाम् ताः तेजस्याः इष्टकाः ।\n2. रेतस्वान् उपधानमन्त्रः आसाम् इष्टकानाम् ताः रेतस्याः इष्टकाः ।\n3. पयस्वान् उपधानमन्त्रः आसाम् इष्टकानाम् ताः पयस्याः इष्टकाः ।\nवेदेषु प्रयोगः - तैत्तिरीयब्राह्मणः 1.10.9.1 -\nआयुर्वै हिरण्यम् । आयुष्या एवैनमभ्यति क्षरन्ति ॥\nतेजो वै हिरण्यम् । तेजस्या एवैनमभ्यति क्षरन्ति ॥\nवर्चो वै हिरण्यम् । वर्चस्या एवैनमभ्यति क्षरन्ति ॥\nज्ञातव्यम् - अस्मिन् सूत्रे 'इति' अयम् शब्दः प्रयुज्यते । अस्य प्रयोजनम् काशिकाकारः ब्रवीति - 'इतिकरणो नियमार्थः। अनेकपदसम्भवेऽपि केनचिदेव पदेन तद्वान् मन्त्रो गृह्यते, न सर्वेण' । इत्युक्ते, यद्यपि मन्त्रे अनेके शब्दाः विद्यन्ते, तथापि प्रत्येकं शब्दं स्वीकृत्य 'तद्वान्' इति उक्त्वा 'यत्'-प्रत्ययः न भवति, अपितु विशिष्टम् शब्दम् स्वीकृत्य एव भवति - इति अस्य आशयः । " }, "44126": { "sa": "'अश्विमान् उपधानमन्त्रः आसाम् इष्टकानाम्' अस्मिन् अर्थे अश्विमत्-शब्दात् प्रथमासमर्थात् वेदेषु संज्ञायाः विषये अण्-प्रत्ययः कृतः दृश्यते, तथा च प्रक्रियायाम् मतुप्-प्रत्ययस्य लुक् अपि कृतः दृश्यते ।", "sd": "'तद्वान् उपधानमन्त्रः आसाम् इष्टकानाम्' अस्मिन् अर्थे मतुप्-प्रत्ययान्तशब्दात् वेदेषु संज्ञायाः विषये <<तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः>> [[4.4.125]] अनेन सूत्रेण यत्-प्रत्यये प्राप्ते 'अश्विमान्' शब्दस्य विषये तद् बाधित्वा अण्-प्रत्ययः विधीयते ।\n'अश्विमान्' अयम् शब्दः 'अश्विन्' शब्दात् मतुप्-प्रत्ययं कृत्वा सिद्ध्यति । 'अश्विन्' शब्दः विद्यते यस्मिन् उपधानमन्त्रे सः अश्विमान् उपधानमन्त्रः । एतादृशः अश्विमान् उपधानमन्त्रः आसाम् इष्टकानाम् ताः च आश्विन्यः इष्टकाः । प्रक्रिया इयम् -\nअश्विमान् उपधानमन्त्रः आसाम् इष्टकानाम्\n= अश्विमान् + अण्\n→ अश्विन् + अण् [मतुप्-प्रत्ययस्य लुक्]\n→ अाश्विन् + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ आश्विन [ <<नस्तद्धिते>> [[6.4.144]] इत्यनेन टिलोपे प्राप्ते <<इनण्यनपत्ये>> [[6.4.164]] इति प्रकृतिभावः]\nस्त्रीत्वे विवक्षिते <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इति ङीप्-प्रत्ययं कृत्वा 'अश्विनी' इति सिद्ध्यति । अश्विमान् उपधानमन्त्रः अस्याः इष्टकायाः सा अश्विनी इष्टका ।\nवेदेषु प्रयोगः - शतपथब्राह्मणम् 8.2.1.11 - 'यद्वेवैता आश्विनीरुपदधाति । प्रजापतिं विस्रस्तं देवता आदाय व्युदक्रामंस्तस्य यदूर्ध्वं प्रतिष्ठाया अवाचीनं मध्यात्तदस्याश्विनावादायोत्क्रम्यातिष्ठताम्' । " }, "44127": { "sa": "'वयस्वान् मूर्धन्वान् उपधानमन्त्रः आसाम् इष्टकानाम्' अस्मिन् अर्थे प्रथमासमर्थात् मतुप्-प्रत्ययान्त-मूर्धन्-शब्दस्य वेदेषु संज्ञायाम् मतुप्-प्रत्ययः कृतः दृश्यते । ", "sd": "यस्मिन् उपधानमन्त्रे 'वयस्' तथा 'मूर्धन्' द्वावपि शब्दौ स्तः, तादृशः उपधानमन्त्रः 'वयस्वान्' अस्ति इत्यपि उच्यते, 'मूर्धन्वान् अस्ति इत्यपि उच्यते । अस्य मन्त्रस्य विषये 'आसाम् इष्टकानाम्' इत्यस्मिन् अर्थे प्रारम्भे वयस्वत्-शब्दात् <<तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः>> [[4.4.125]] इत्यनेन यत्-प्रत्ययः भवति । अग्रे तेनैव सूत्रेण 'मूर्धन्वत्' शब्दात् अपि यत्-प्रत्यये प्राप्ते तं बाधित्वा वर्तमानसूत्रेण (आरम्भे 'मूर्धन्वत्' इत्यत्र विद्यमानस्य मतुप्-प्रत्ययस्य लुकं कृत्वा ततः पुनः) मतुप्-प्रत्ययः विधीयते ।\nयथा - वयस्वान् मूर्धन्वान् मन्त्रः आसाम् इष्टकानाम् ताः इष्टकाः =\n[1] वयस्वत्-शब्दात् यत्-प्रत्ययः -\nवयस्वत् + यत्\n→ वयस् + यत् [ <<तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः>> [[4.4.125]] इति मतुप्-प्रत्ययस्य लुक्]\n→ वयस्य\n[2] मूर्धन्वत्-शब्दात् मतुप्-प्रत्ययः -\nमूर्धन्वत् + मतुप्\n→ मूर्धन् + मत् [<<वयस्यासु मूर्ध्नो मतुप्>> [[4.4.27]] इति मतुप्-प्रत्ययस्य लुक्]\n→ मूर्धन् + वत् [<<मादुपधायाश्च मतोर्वोऽयवादिभ्यः>> [[8.2.9]] इति वकारादेशः]\n→ मूर्धन्वत्\nवयस्वान् मूर्धन्वान् मन्त्रः आसाम् इष्टकानाम् ताः वयस्याः मूर्धन्वत्यः इष्टकाः ।\nवेदेषु प्रयोगः - बौधायनश्रौतसूत्रेषु 10.38 - '...मूर्धन्वतीरुपदधाति विष्टम्भो वय इति चतस्रः पुरस्ताद्धँ सपातिनीस्तयादेवतं कृत्वा सूददोहसः करोत्यथ वसस्या उपदधाति...' ।\nज्ञातव्यम् -\n1. अस्य सूत्रस्य प्रयोगः केवलं तेषाम् मन्त्राणाम् विषये एव भवति येषु 'वयस्' तथा 'मूर्धन्' द्वावपि शब्दौ स्तः । यदि मन्त्रे केवलं मूर्धन्-शब्दः विद्यते, तर्हि सः मन्त्रः 'वयस्वान्' न भवति, केवलं 'मूर्धन्वान्' भवति । अस्य मन्त्रस्य विषये वर्तमानसूत्रस्य प्रसक्तिः नास्ति, अतः अस्यां स्थितौ 'मूर्धन्वत्' शब्दात् औत्सर्गिकः यत्-प्रत्ययः एव विधीयते, न हि मतुप्-प्रत्ययः ।\n2. अनेन सूत्रेण द्वे कार्ये उच्येते - मूर्धन्वान् शब्दात् विद्यमानस्य मतुप्-प्रत्ययस्य लुक्, तथा च नूतनरूपेण 'मतुप्' प्रत्ययविधानम् । आरम्भिकम् लुकम् दर्शयितुमेव 'मूर्ध्नः' इति लुप्त-मतुप्-प्रत्ययान्तस्य योजनम् सूत्रे कृतमस्ति । अस्मिन् विषये काशिकाकारः वदति - 'मूर्धन्वतः इति वक्तव्ये मूर्ध्नः इत्युक्तं, मतुपो लुकं भाविनं चित्ते कृत्वा' । इत्युक्ते, यद्यपि मतुप्-प्रत्ययः 'मूर्धन्वत्' शब्दात् विधीयते, तथापि सूत्रे उपस्थितः लुक्-मतुबन्तः 'मूर्धन्' शब्दः अग्रे भविष्यमाणम् लुकम् निर्देशयति - इति आशयः ।\n" }, "44128": { "sa": "मतुप्-प्रत्ययस्य अर्थः 'मास' उत 'तनू' इत्यस्य विशेषणरूपेण प्रयुज्यते चेत् मतुप्-प्रत्ययस्य स्थाने वेदेषु संज्ञायाः विषये यत्-प्रत्ययः अपि कृतः दृश्यते । ", "sd": "'मतुप्' इति कश्चन तद्धितप्रत्ययः । <<तदस्यास्त्यस्मिन्निति मतुप्>> [[5.2.94]] इत्यनेन 'तत् अस्य अस्मिन् वा अस्ति' अस्मिन् अर्थे मतुप्-प्रत्ययः विधीयते । यदि अयमर्थः 'मास' उत 'तनू' इत्यस्य विशेषणरूपेण प्रयुज्यते, तर्हि वेदेषु मतुप्-प्रत्ययस्य स्थाने यत्-प्रत्ययः अपि प्रयुक्तः दृश्यते ।\nयथा - नभांसि विद्यन्ते अस्मिन् मासे सः\n= नभस् + यत् ['तद् अस्मिन् अस्ति' अस्मिन् अर्थे <<तदस्यास्त्यस्मिन्निति मतुप्>> [[5.2.94]] इत्यनेन मतुप्-प्राप्ते 'मास' इत्यस्य उपस्थितौ मतुप्-प्रत्ययस्य स्थाने यत्-प्रत्ययः अपि कृतः दृश्यते]\n→ नभस्य\nतथैव - ओजः विद्यते अस्यां तन्वां सा ओजस्या तनूः । अत्र 'ओज'शब्दस्य उपस्थितौ वेदेषु मतुबर्थे यत्-प्रत्ययः कृतः दृश्यते ।अ\nअन्यानि उदाहरणानि -\n1. सहांसि विद्यते अस्मिन् मासे सः सहस्यः मासः ।\n2. तपांसि विद्यते अस्मिन् मासे सः तपस्यः मासः ।\n3. मधूनि सन्ति अस्मिन् मासे सः मधव्यः मासः ।\n4. रक्षांसि विद्यन्ते अस्यां तन्वां सा रक्षस्या तनूः ।\nअत्र वार्त्तिकद्वयं ज्ञातव्यम् -\n1. । इत्युक्ते, 'तद् अस्य अस्मिन् वा अस्ति' इत्यस्य स्थाने 'तद् अस्य अस्मिन् वा अनन्तरे अस्ति' अयमर्थः 'मास' उत 'तनू' इत्यस्य विशेषणरूपेण प्रयुज्यते चेत् अपि यत्-प्रत्ययः कृतः दृश्यते । यथा - 'मधूनि अनन्तरम् विद्यन्ते अस्मिन् मासे' सोऽपि मधव्यः मासः ।\n2. । इत्युक्ते, वर्तमानसूत्रेण यत्र यत्-प्रत्ययस्य विधानम् कृतमस्ति, तत्र केषुचन स्थलेषु यत्-प्रत्ययस्य लुक् कृतः अपि दृश्यते, केषुचन अन्येषु स्थलेषु यत्-प्रत्ययस्य स्थाने 'अ', 'इ', 'र' एते प्रत्ययाः अपि कृताः दृश्यन्ते । यथा -\n[अ] यत्-प्रत्ययस्य लुक् - तपः विद्यते अस्मिन् मासे सः तपः मासः । प्रक्रिया इयम् -\nतपः विद्यते अस्मिन् मासे सः\n= तपस् + यत् [<<मत्वर्थे मासतन्वोः>> [[4.4.128]] इति यत्-प्रत्ययः]\n→ तपस् [ इत्यनेन यत्-प्रत्ययस्य लुक्]\n[आ] यत्-प्रत्ययस्य स्थाने 'अ'प्रत्ययः - ऊर्क् अस्ति अस्मिन् मासे सः ऊर्जः मासः । प्रक्रिया इयम् -\n ऊर्क् अस्ति अस्मिन् मासे सः\n= ऊर्ज् + अ [ इत्यनेन अ-प्रत्ययः]\n→ ऊर्ज\n[इ] यत्-प्रत्ययस्य स्थाने 'इ'प्रत्ययः । शुक् ( = पावित्र्यम्) अस्ति अस्मिन् मासे सः शुचिः मासः । प्रक्रिया इयम् -\nशुक् अस्ति अस्मिन् मासे सः\n= शुच् + इ [ इत्यनेन अ-प्रत्ययः]\n→ शुचि\n[ई] यत्-प्रत्ययस्य स्थाने 'र' प्रत्ययः । शुक् अस्ति अस्मिन् मासे सः शुक्रः मासः । प्रक्रिया इयम् -\nशुक् अस्ति अस्मिन् मासे सः\n= शुच् + र\n= शुक्र [ रेफादौ प्रत्यये परे अङ्गस्य पदसंज्ञा, अतः <<चोः कुः>> [[8.2.30]] इति कुत्वम् । अग्रे <<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वे प्राप्ते <<अयस्मायादीनि च्छन्दसि>> [[1.4.20]] इत्यनेनैव अङ्गस्य भसंज्ञा भवति अतः जश्त्वं निषिध्यते ।]\nएतेषां चतुर्ण्णामपि उदाहणम् वेदेषु तैत्तिरीयसंहितायाम् एकस्मिन्नेव मन्त्रे दृश्यते -\n(तैत्तिरीयसंहिता 1.4.14.1) मधुश्च माधवश्च शुक्रश्च शुचिश्च नभश्च नभस्यश्चेषश्चोर्जश्च सहश्च सहस्यश्च तपश्च तपस्यश्च मधुश्च माधवश्च शुक्रश्च शुचिश्च नभश्च नभस्यश्चेषश्चोर्जश्च सहश्च सहस्यश्च तपश्च तपस्यश्च ।\nज्ञातव्यम् - अस्मिन् सूत्रे 'मत्वर्थे' इत्यस्य स्थाने केवलं 'मतौ' इति उच्यते चेदपि आवश्यकः अर्थबोधः भवत्येव । स्वयमाचार्यः अपि <<मतौ च्छः सूक्तसाम्नोः>> [[5.2.59]] इत्यत्र 'मत्वर्थे' इत्स्यस्य निर्देशार्थम् 'मतौ' इत्येव प्रयुज्यति । अतः वर्तमानसूत्रे अपि 'मतौ' इत्येव वक्तव्यम् ।अस्मिन् विषये न्यासकारः वदति - 'अर्थग्रहणं किमर्थम्, यावता मतौ छः सूक्तसाम्नोः 5।2॥59 इत्यत्र यथा मतौ इत्युच्यमानो मत्वर्थे प्रत्यय उच्यते, तथेहापि लभ्यते, तस्मात् मतौ इत्येवं कस्मान्नोक्तम्? सत्यमेतत्; विस्पष्टार्थमर्थग्रहणम्' ।\n" }, "44129": { "sa": "मत्वर्थे मधु-शब्दात् वेदेषु संज्ञायाः विषये ञ-प्रत्ययः यत्-प्रत्ययः च कृतौ दृश्येते । ", "sd": "'मतुप्' इति कश्चन तद्धितप्रत्ययः । <<तदस्यास्त्यस्मिन्निति मतुप्>> [[5.2.94]] इत्यनेन 'तत् अस्य अस्मिन् वा अस्ति' अस्मिन् अर्थे मतुप्-प्रत्ययः विधीयते , अतः अयमर्थः 'मत्वर्थः' नाम्ना अपि ज्ञायते । अस्मिन् अर्थे 'मधु'शब्दात् वेदेषु संज्ञायाः विषये ञ-प्रत्ययः यत्-प्रत्ययः च कृतौ दृश्येते ।\n1. मधु अस्ति अस्मिन् सः\n = मधु + ञ\n→ माधु + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ माधो + अ [<<ओर्गुणः>> [[6.4.146]] इति गुणः]\n→ माधव् + अ [<<एचोऽयवायावः>> [[6.1.78]] इति अवादेशः]\n→ माधव\nस्त्रीत्वे विवक्षिते - <<अजाद्यतष्टाप्>> [[4.1.4]] इत्यनेन टाप्-प्रत्यये कृते - माधवा तनूः ।\n2. मधु अस्ति अस्मिन् सः\n= मधु + यत्\n→ मधो + य [<<ओर्गुणः>> [[6.4.146]] इति गुणः]\n→ मधव् + य [<<एचोऽयवायावः>> [[6.1.78]] इति अवादेशः]\n→ मधव्य\n स्त्रीत्वे विवक्षिते - <<अजाद्यतष्टाप्>> [[4.1.4]] इत्यनेन टाप्-प्रत्यये कृते - मधव्या तनूः ।\nयथा - (तैत्तिरीयसंहिता 1.4.14.1) 'मधुश्च माधवश्च शुक्रश्च शुचिश्च...' । अत्र विद्यमानस्य माधव-शब्दस्य व्युत्पत्तिः अनेन सूत्रेण दातुं शक्यते ।\nज्ञातव्यम् -\n1. अस्य सूत्रस्य विषये काशिकाकारः वदति - 'उपसङ्ख्यानात् लुक् च' । इत्युक्ते, मधु-शब्दस्य विषये मत्वर्थे प्रत्ययस्य लुक् अपि कृतः दृश्यते । एतत् क्रियते चेत् - 'मधु अस्ति अस्मिन् सः मधुः' इति सिद्ध्यति\n2. <<मत्वर्थे मासतन्वोः>> [[4.4.128]] इत्यस्मात् अस्मिन् सूत्रे 'मत्वर्थे' इत्येव अनुवर्तते, 'मासतन्वोः' इति न । अतः अस्य सूत्रस्य प्रसक्तिः अन्यत्र (मास-विषयकः तनू-विषयकः अर्थः न विद्यते चेदपि) भवितुमर्हति । " }, "44130": { "sa": " प्रथमासमर्थात् ओजस्-शब्दात् मत्वर्थे अहनि अभिधेये वेदेषु संज्ञायाः विषये यत्-प्रत्ययः तथा ख-प्रत्ययः कृतः दृश्यते । ", "sd": "'मतुप्' इति कश्चन तद्धितप्रत्ययः । <<तदस्यास्त्यस्मिन्निति मतुप्>> [[5.2.94]] इत्यनेन 'तत् अस्य अस्मिन् वा अस्ति' अस्मिन् अर्थे मतुप्-प्रत्ययः विधीयते , अतः अयमर्थः 'मत्वर्थः' नाम्ना अपि ज्ञायते । अस्मिन् अर्थे ओजस्-शब्दात् अहन् (= दिवसः) अस्य निर्देशार्थम् संज्ञायाः विषये 'यत्' तथा 'ख' प्रत्ययौ भवतः ।\n1. ओजः अस्मिन् अहनि वर्तते सः ओजस्यम् अहः । ओजस् + यत् → ओजस्य ।\n2. ओजः अस्मिन् अहनि वर्तते सः ओजसीनम् अहः । प्रक्रिया इयम् -\nओजस् + ख\n→ ओजस् +ईन [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति खकारस्य ईन्-आदेशः]\n→ ओजसीन\nउदाहरणम् - (तैत्तिरीयसंहिता 4.4.12.1) - 'उग्रा दिशामभिभूतिर्वयोधाः शुचिः शुक्रे अहन्योजसीना' ।\nज्ञातव्यम् - अस्मिन् सूत्रे आचार्यः 'यत्' प्रत्ययस्य स्पष्टरूपेण निर्देशं करोति । अत्र अयं प्रश्नः उपतिष्ठते यत् 'ओजसोऽहनि ख च' इति उच्यते चेदपि औत्सर्गिकरूपेण यत्-प्रत्ययः भवेदेव किल? अस्य प्रश्नस्य समाधानम् न्यासकारेण उच्यते - 'नैवं शक्यम्; चकारेण हि सन्देहः स्यात् -किमनेनानन्तरसूत्रविहितो ञोऽनुकृष्यते, अथ प्रकृतो यदिति? तस्मादसन्देहार्थं यद्ग्रहणं कर्तव्यम्' । इत्युक्ते, यदि केवलं 'च' इति उच्येत, तर्हि पूर्वसूत्रात् 'ञ' इति अनुवर्तनीयः उत 'यत्' इति स्वीकर्तव्यः इति सन्देहः जायेत । अतएव अत्र आचार्यः स्पष्टरूपेण 'यत्' इति निर्देशयति ।\n" }, "44131": { "sa": "यस्य आदौ 'वेशस् '/ 'यशस्' अस्ति तथा च यस्य अन्ते 'भग' अस्ति तादृशात् प्रथमासमर्थात् मत्वर्थे वेदेषु संज्ञायाः विषये यल्-प्रत्ययः भवति । ", "sd": "आदौ पदपरिचयः -\n1. 'मतुप्' इति कश्चन तद्धितप्रत्ययः । <<तदस्यास्त्यस्मिन्निति मतुप्>> [[5.2.94]] इत्यनेन 'तत् अस्य अस्मिन् वा अस्ति' अस्मिन् अर्थे मतुप्-प्रत्ययः विधीयते , अतः अयमर्थः 'मत्वर्थः' नाम्ना अपि ज्ञायते ।\n2. 'वेशस्' इत्युक्ते बलम् । 'यशस्' इत्युक्ते पराक्रमः । 'भग' इत्यस्य 'श्रीकाम', 'प्रयत्न', 'माहात्म्य', 'वीर्य', 'यशः' एते अर्थाः सन्ति ।\nयस्य शब्दस्य आदौ वेशस् / यशस् इति विद्यते, तथा अन्ते 'भग' इति विद्यते, तादृशात् शब्दात् मत्वर्थे वेदेषु संज्ञायाम् 'यल्' प्रत्ययः कृतः दृश्यते । यथा -\n1. वेशश्च भगश्च वेशोभगः । वेशोभगः अस्मिन् अस्ति सः = वेशोभग + यल् → वेशोभग्य ।\n2. यशश्च भगश्च यशोभगः । यशोभगः अस्मिन् अस्ति सः = यशोभग + यल् → यशोभग्य ।\nज्ञातव्यम् - 'यल्' प्रत्ययस्य लकारः इत्संज्ञकः अस्ति । अस्य प्रयोजनम् 'स्वरनिर्देशः' इति । <<लिति>> [[6.1.193]] इत्यनेन लित्-प्रत्यये परे प्रत्ययात् पूर्वः स्वरः उदात्तत्वं प्राप्नोति । यथा, 'वेशोभग्य' तथा 'यशोभग्य' उभयत्र भकारोत्तरः अकारः उदात्तत्वं प्राप्नोति ।\n" }, "44132": { "sa": "यस्य आदौ 'वेशस् '/ 'यशस्' अस्ति तथा च यस्य अन्ते 'भग' अस्ति तादृशात् प्रथमासमर्थात् मत्वर्थे वेदेषु संज्ञायाः विषये ख-प्रत्ययः भवति । ", "sd": "आदौ पदपरिचयः -\n1. 'मतुप्' इति कश्चन तद्धितप्रत्ययः । <<तदस्यास्त्यस्मिन्निति मतुप्>> [[5.2.94]] इत्यनेन 'तत् अस्य अस्मिन् वा अस्ति' अस्मिन् अर्थे मतुप्-प्रत्ययः विधीयते , अतः अयमर्थः 'मत्वर्थः' नाम्ना अपि ज्ञायते ।\n2. 'वेशस्' इत्युक्ते बलम् । 'यशस्' इत्युक्ते पराक्रमः । 'भग' इत्यस्य 'श्रीकाम', 'प्रयत्न', 'माहात्म्य', 'वीर्य', 'यशः' एते अर्थाः सन्ति ।\nयस्य शब्दस्य आदौ वेशस् / यशस् इति विद्यते, तथा अन्ते 'भग' इति विद्यते, तादृशात् शब्दात् मत्वर्थे वेदेषु संज्ञायाम् <<वेशोयशआदेर्भगाद्यल्>> [[4.4.131]] इत्यनेन यल्-प्रत्यये प्राप्ते वर्तमानसूत्रेण 'ख' प्रत्ययः अपि कृतः दृश्यते । यथा -\n1. वेशश्च भगश्च वेशोभगः । वेशोभगः अस्मिन् अस्ति सः = वेशोभग + ख → वेशोभगीन ।\n2. यशश्च भगश्च यशोभगः । यशोभगः अस्मिन् अस्ति सः = यशोभग + ख → यशोभगीन ।\nज्ञातव्यम् - यदि <<वेशोयशआदेर्भगाद्यल्>> [[4.4.131]] इत्यत्रेव ख-प्रत्ययस्य विधानम् क्रियेत तर्हि 'यथासङ्ख्यत्वात्' 'वेशादि'शब्दात् यल्-प्रत्ययविधानम् तथा च 'यशादि'शब्दात् ख-प्रत्ययविधानम् भवेत् । परन्तु अत्र उभाभ्यामपि शब्दाभ्यामाचार्यः द्वावपि प्रत्ययौ पाठयितुम् इच्छति । अतएव ख-प्रत्ययविधानार्थम् 'ख च' इति भिन्नसूत्रस्य निर्माणम् कृतमस्ति । " }, "44133": { "sa": "तृतीयासमर्थात् 'पूर्व'शब्दात् 'कृतम्' अस्मिन् अर्थे वेदेषु संज्ञायाः विषये 'इन', 'य' तथा 'ख' प्रत्ययाः कृताः दृश्यन्ते । ", "sd": "'पूर्वैः कृतम्' अस्मिन् अर्थे तृतीयासमर्थात् 'पूर्व'शब्दात् वेदेषु संज्ञायाः विषये 'इन', 'य 'तथा 'ख' - एते प्रत्ययाः कृताः दृश्यन्ते ।\n1. पूर्वैः कृतम् = पूर्व + इन → पूर्विण ।\n2. पूर्वैः कृतम् = पूर्व + य → पूर्व्य ।\n3. पूर्वैः कृतम् =\nपूर्व + ख\n→ पूर्व + ईन [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ईन्-आदेशः]\n→ पूर्वीण ।\nवेदेषु उदाहरणम् - (आश्वलायन-श्रौत्रसूत्रम् 2.7.9) अथैनान् प्रवाहयेत् परेतन पितरः सोम्यासो गम्भीरेभिः पथिभिः पूर्विणेभिः ।\n(ज्ञातव्यम् - अत्र 'पूर्विण'शब्दात् तृतीया-बहुवचनस्य भिस्-प्रत्यये कृते <<अतो भिस ऐस्>> [[7.1.9]] इत्यनेन ऐस्-आदेशे प्राप्ते <<बहुलं छन्दसि>> [[7.1.10]] इत्यनेन अयमादेशः न कृतः अपि दृश्यते ।)\nज्ञातव्यम् -\n1. अस्मिन् सूत्रे प्रथमः विद्यमानः शब्दः 'पूर्वैः' इत्यनेन तृतीयासामर्थ्यम् दर्श्यते, अतः सूत्रार्थे 'तृतीयासमर्थात्' इति निर्देशः कृतः अस्ति ।\n2. अस्मिन् सूत्रे 'पूर्वैः' इति बहुवचनान्तप्रयोगः कृतः अस्ति । अस्मिन् विषये काशिकाकारः वदति - ' पूर्वैः इति बहुवचनान्तेन पूर्वपुरुषाः उच्यन्ते' । इत्युक्ते, अस्य सूत्रस्य प्रयोगः तत्रैव कृतः दृश्यते यत्र 'पूर्व' शब्दस्य अर्थः 'पूर्वपुरुषः' इति वर्तते । यथा, उपरिनिर्दिष्टे उदाहरणे 'पूर्विण' इत्युक्ते 'पूर्वपुरूषैः कृतम् तत्' ।\n" }, "44134": { "sa": "तृतीयासमर्थात् 'अप्' शब्दात् 'संस्कृतम्' अस्मिन् अर्थे वेदेषु संज्ञायाः विषये यत्-प्रत्ययः कृतः दृश्यते । ", "sd": "'संस्कतम्' इत्युक्ते संस्करणम् कृतम् । तृतीयासमर्थात् 'अप्' (= जलम्) शब्दात् 'अनेन संस्करणम् कृतम्' अस्मिन् अर्थे वेदेषु यत्-प्रत्ययः कृतः दृश्यते । अद्भिः संस्कतृम् = अप् + यत् → अप्य । यथा - अप्यम् हविः ।\nवेदेषु प्रयोगः - ऋग्वेदे 10.86.11 - यस्ये॒दं अप्यं॑ ह॒विः प्रि॒यं दे॒वेषु॒ गच्छ॑ति॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।\nज्ञातव्यम् - 'अद्भिः' इति सूत्रे विद्यमानः यः प्रथमः शब्दः, तेनैव तृतीयासामर्थ्यम् निर्दिश्यते । " }, "44135": { "sa": "तृतीयासमर्थात् 'सहस्र'शब्दात् 'सम्मिति' (समानता, सादृश्यता) अस्मिन् अर्थे वेदेषु संज्ञायाः विषये घ-प्रत्ययः कृतः दृश्यते । ", "sd": "तृतीयासमर्थात् 'सहस्र'शब्दात् 'अनेन सम्मितम् / तुल्यम् / समानम्' अस्मिन् अर्थे घ-प्रत्ययः भवति ।\nसहस्रेण सम्मितः\n= सहस्र + घ\n→ सहस्र + इय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति इय्-आदेशः]\n→ सहस्र् + इय\n→ सहस्रिय ।\nयथा - सहस्रेण तुल्यः सहस्रियः अग्निः ।\nवेदेषु प्रयोगः - तैत्तिरीयसंहिता 2.4.5.1 - 'सविता यः सहस्रियः' ।\n" }, "44136": { "sa": "'सहस्र'शब्दात् मत्वर्थे वेदेषु संज्ञायाः विषये 'घ'-प्रत्ययः कृतः दृश्यते । ", "sd": "'मतुप्' इति कश्चन तद्धितप्रत्ययः । <<तदस्यास्त्यस्मिन्निति मतुप्>> [[5.2.94]] इत्यनेन 'तत् अस्य अस्मिन् वा अस्ति' अस्मिन् अर्थे मतुप्-प्रत्ययः विधीयते । अस्मिन् अर्थे 'सहस्र'शब्दात् वेदेषु घ-प्रत्ययः कृतः दृश्यते ।\nसहस्रमस्य अस्मिन् वा विद्यते\n= सहस्र + घ\n→ सहस्र + इय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति इय्-आदेशः]\n→ सहस्र् + इय\n→ सहस्रिय ।\nज्ञातव्यम् -\n1. मत्वर्थीयप्रकरणे सहस्रशब्दात् <<तपःसहस्राभ्यां विनीनी>> [[5.2.102]] इत्यनेन विहितस्य इनि-प्रत्ययस्य अपवादरूपेण इदम् सूत्रम् विहितमस्ति ।\n2. यद्यपि वर्तमानसूत्रे 'सहस्रेण' इत्यनुवर्तते, तथापि मत्वर्थनिर्देशसामर्थ्यात् अत्र तृतीयासामर्थ्यं न इष्यते ।\n" }, "44137": { "sa": "द्वितीयासमर्थात् 'सोम'शब्दात् 'अर्हति' अस्मिन् अर्थे वेेदेषु संज्ञायाः विषये य-प्रत्ययः कृतः दृश्यते । ", "sd": "यः 'सोममर्हति', तस्य निर्देशार्थं द्वितीयासमर्थात् 'सोम'शब्दात् वेदेषु संज्ञायाः विषये य-प्रत्ययः कृतः दृश्यते । सोममर्हति सः सोम्यः ।\nवेदेषु प्रयोगः - (ऋग्वेदः 1.14.10) - विश्वे॑भिः सो॒म्यं मध्वग्न॒ इन्द्रे॑ण वा॒युना॑ ।\nज्ञातव्यम् -\n1. 'सोमम्' इति सूत्रे प्रयुक्तः यः प्रथमः शब्दः, तेनैव द्वितीयासामर्थ्यं निर्दिश्यते ।\n2. वस्तुतः अत्र 'यत्' इति औत्सर्गिकः प्रत्ययः अनुवर्तते । परन्तु तं बाधित्वा अस्मिन् सूत्रे 'य' प्रत्ययः उक्तः अस्ति । द्वयोः अपि प्रत्यययोः प्रयोगेण समानम् एव रूपम् जायते, परन्तु तयोर्मध्ये स्वरभेदः अस्ति । 'यत्'प्रत्ययान्तः 'सोम्य'शब्दः <<यतोऽनावः>> [[6.1.213]] इत्यनेन आद्युदात्तः जायते, परन्तु 'य'प्रत्ययान्तः 'सोम्य'शब्दः <<आद्युदात्तश्च>> [[3.1.3]] इत्यनेन अन्तोदात्तत्वं प्राप्नोति । (<<आद्युदात्तश्च>> [[3.1.3]] इत्यनेन प्रत्ययस्य आदिस्वरः उदात्तः जायते । अतः अत्र अनेन सूत्रेण यकारोत्तरः अकारः उदात्तः भवति । अयमकारः 'सोम्य' इति सम्पूर्णशब्दस्य अन्तिमस्थाने अस्ति, अतः अत्र 'सोम्य'शब्दः अन्तोदात्तत्वं प्राप्नोति) ।" }, "44138": { "sa": "'मयट्' प्रत्ययस्य अर्थे सोमशब्दात् वेदेषु संज्ञायाः विषये 'य'प्रत्ययः कृतः दृश्यते । ", "sd": "'मयट्' इति कश्चन तद्धितप्रत्ययः । सूत्रपाठे भिन्नेषु अर्थेषु मयट्-प्रत्ययः उक्तः अस्ति । एतेभ्यः अस्य सूत्रस्य विषये काशिकाकारः चतुरः अर्थान् ब्रूते -\n1. <<मयट् च>> [[4.3.82]] इत्यनेन <<ततः आगतः>> [[4.3.74]] अस्मिन् अर्थे मयट्-प्रत्ययविधानम् कृतमस्ति ।\n2. <<मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः>> [[4.3.143]] इत्यनेन <<तस्य विकारः>> [[4.3.134]] तथा च <<अवयवे च प्राण्योषधिवृक्षेभ्यः>> [[4.3.135]] इत्येययोः अर्थयोः मयट्-प्रत्ययविधानम् कृतमस्ति ।\n3. <<तत्प्रकृतवचने मयट्>> [[5.4.21]] इत्यनेन 'प्रकृतम् (= प्राचुर्यम्)' अस्मिन् अर्थे मयट्-प्रत्ययः उच्यते ।\nएते चत्वारः अर्थाः अस्मिन् सूत्रे स्वीक्रियन्ते । एतेषु अर्थेषु वेदेषु 'सोम'शब्दात् 'य'प्रत्ययः कृतः दृश्यते ।\nसोमात् आगतः / सोमस्य विकारः / सोमस्य अवयवः / सोमम् प्रकृतम्\n= सोम + य\n→ सोम्य [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\nवेदेषु प्रयोगः - (ऋग्वेदः 9.67.8, विकारः अस्मिन् अर्थे) - क॒कु॒हः सो॒म्यो रस॒ इन्दु॒रिन्द्रा॑य पू॒र्व्यः ।\nज्ञातव्यम् -\n1. अस्मिन् सूत्रे मयट्-प्रत्ययस्य 'आगतः', 'विकारः', 'अवयवः' तथा 'प्रकृतम्' एते चत्वारः अर्थाः स्वीकृताः सन्ति । एतेषां सर्वेषां भिन्नाः समर्थविभक्तयः सन्ति । यथा - 'आगतः' इत्यत्र पञ्चमीसामर्थ्यमपेक्षते, 'विकारः' तथा 'अवयवः' इत्यत्र षष्ठीसामर्थ्यमपेक्षते, तथा च 'प्रकृतम्' इत्यत्र प्रथमासमर्थात् प्रत्ययः भवति ।\n2. वस्तुतः अत्र 'यत्' इति औत्सर्गिकः प्रत्ययः अनुवर्तते । परन्तु तं बाधित्वा अस्मिन् सूत्रे 'य' प्रत्ययः उक्तः अस्ति । द्वयोः अपि प्रत्यययोः प्रयोगेण समानम् एव रूपम् जायते, परन्तु तयोर्मध्ये स्वरभेदः अस्ति । 'यत्'प्रत्ययान्तः 'सोम्य'शब्दः <<यतोऽनावः>> [[6.1.213]] इत्यनेन आद्युदात्तः जायते, परन्तु 'य'प्रत्ययान्तः 'सोम्य'शब्दः <<आद्युदात्तश्च>> [[3.1.3]] इत्यनेन अन्तोदात्तत्वं प्राप्नोति । (<<आद्युदात्तश्च>> [[3.1.3]] इत्यनेन प्रत्ययस्य आदिस्वरः उदात्तः जायते । अतः अत्र अनेन सूत्रेण यकारोत्तरः अकारः उदात्तः भवति । अयमकारः 'सभ्य' इति सम्पूर्णशब्दस्य अन्तिमस्थाने अस्ति, अतः अत्र 'सोम्य'शब्दः अन्तोदात्तत्वं प्राप्नोति) ।" }, "44139": { "sa": "मधु-शब्दात् मयट्-प्रत्ययस्य अर्थे वेदेषु संज्ञायाः विषये यत्-प्रत्ययः कृतः दृश्यते । ", "sd": "'मयट्' इति कश्चन तद्धितप्रत्ययः । सूत्रपाठे भिन्नेषु अर्थेषु मयट्-प्रत्ययः उक्तः अस्ति । एतेभ्यः अस्य सूत्रस्य विषये काशिकाकारः चतुरः अर्थान् ब्रूते -\n1. <<मयट् च>> [[4.3.82]] इत्यनेन <<ततः आगतः>> [[4.3.74]] अस्मिन् अर्थे मयट्-प्रत्ययविधानम् कृतमस्ति ।\n2. <<मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः>> [[4.3.143]] इत्यनेन <<तस्य विकारः>> [[4.3.134]] तथा च <<अवयवे च प्राण्योषधिवृक्षेभ्यः>> [[4.3.135]] इत्येययोः अर्थयोः मयट्-प्रत्ययविधानम् कृतमस्ति ।\n3. <<तत्प्रकृतवचने मयट्>> [[5.4.21]] इत्यनेन 'प्रकृतम् (= प्राचुर्यम्)' अस्मिन् अर्थे मयट्-प्रत्ययः उच्यते ।\nएते चत्वारः अर्थाः अस्मिन् सूत्रे स्वीक्रियन्ते । एतेषु अर्थेषु वेदेषु 'मधु'शब्दात् 'यत् 'प्रत्ययः कृतः दृश्यते ।\nमधुनः आगतः / मधुनः विकारः / मधुनः अवयवः / मधु प्रकृतम्\n= मधु + यत्\n→ मधो + य [<<ओर्गुणः>> [[6.4.146]] इति गुणः]\n→ मधव् + य [<<वान्तो यि प्रत्यये>> [[6.1.79]] इति अवादेशः]\n→ मधव्य\nवेदेषु प्रयोगः - (पैप्पलादसंहिता 1.88.2, 'विकारः' अस्मिन् अर्थै) - मधव्यान् स्तोकानपि यान् रराध सं मा तैः सृजतु विश्वकर्मा ।\nज्ञातव्यम् - अस्मिन् सूत्रे मयट्-प्रत्ययस्य 'आगतः', 'विकारः', 'अवयवः' तथा 'प्रकृतम्' एते चत्वारः अर्थाः स्वीकृताः सन्ति । एतेषां सर्वेषां भिन्नाः समर्थविभक्तयः सन्ति । यथा - 'आगतः' इत्यत्र पञ्चमीसामर्थ्यमपेक्षते, 'विकारः' तथा 'अवयवः' इत्यत्र षष्ठीसामर्थ्यमपेक्षते, तथा च 'प्रकृतम्' इत्यत्र प्रथमासमर्थात् प्रत्ययः भवति । " }, "44140": { "sa": " मयट्-प्रत्ययस्य अर्थेषु तथा च 'तस्य समूहः' अस्मिन् अर्थे 'वसु' (= द्रव्यम्) शब्दात् वेदेषु संज्ञायाः विषये यत्-प्रत्ययः कृतः दृश्यते । ", "sd": "'मयट्' इति कश्चन तद्धितप्रत्ययः । सूत्रपाठे भिन्नेषु अर्थेषु मयट्-प्रत्ययः उक्तः अस्ति । एतेभ्यः अस्य सूत्रस्य विषये काशिकाकारः चतुरः अर्थान् ब्रूते -\n1. <<मयट् च>> [[4.3.82]] इत्यनेन <<ततः आगतः>> [[4.3.74]] अस्मिन् अर्थे मयट्-प्रत्ययविधानम् कृतमस्ति ।\n2. <<मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः>> [[4.3.143]] इत्यनेन <<तस्य विकारः>> [[4.3.134]] तथा च <<अवयवे च प्राण्योषधिवृक्षेभ्यः>> [[4.3.135]] इत्येययोः अर्थयोः मयट्-प्रत्ययविधानम् कृतमस्ति ।\n3. <<तत्प्रकृतवचने मयट्>> [[5.4.21]] इत्यनेन 'प्रकृतम् (= प्राचुर्यम्)' अस्मिन् अर्थे मयट्-प्रत्ययः उच्यते ।\nएते चत्वारः अर्थाः अस्मिन् सूत्रे स्वीक्रियन्ते । एतेषु अर्थेषु, तथा च 'तस्य समूहः' अस्मिन् अर्थे वेदेषु 'वसु'(=द्रव्यम्) शब्दात् 'यत् 'प्रत्ययः कृतः दृश्यते ।\nवसोः आगतः / वसोः विकारः / वसोः अवयवः / वसुः प्रकृतम् / वसूनां समूहः\n= वसु + यत्\n→ वसो + य [<<ओर्गुणः>> [[6.4.146]] इति गुणः]\n→ वसव् + य [<<वान्तो यि प्रत्यये>> [[6.1.79]] इति अवादेशः]\n→ वसव्य\nवेदेषु प्रयोगः - (ऋग्वेदः 2.13.13, 'समूहः' अस्मिन् अर्थे) - अ॒स्मभ्यं॒ तद्व॑सो दा॒नाय॒ राध॒: सम॑र्थयस्व ब॒हु ते॑ वस॒व्य॑म् ।\nअत्र द्वे वार्त्तिके ज्ञात्वये -\n1. । इत्युक्ते, कोऽपि वेदमन्त्रः 'अक्षरसमूहः' अस्तीति मत्वा 'छन्दस्' (= वेदमन्त्रः) अस्मात् शब्दात् स्वार्थे एव यत्-प्रत्ययं कृत्वा तस्य मन्त्रस्य निर्देशः वेदेषु कृतः दृश्यते । यथा, प्रजापतिना निर्मितः सप्तदश-अक्षराणाम् मन्त्रः - 'ओ श्रावय, अस्तु श्रौषट्, यज, ये यजामहे, वौषट्' - अयम् 'छन्दस्य' नाम्ना ज्ञायते । अयम् सप्तदश-अक्षराणाम् छन्दः (= वेदमन्त्रः) अस्ति, अस्यैव विधानम् 'अक्षरसमूहम्' इति चिन्तयित्वा 'छन्दस्य' इत्यनेन अपि भवति ।अत्र 'छन्दस्'शब्दात् स्वार्थे यत्-प्रत्ययः कृतः दृश्यते ।\n2. । इत्युक्ते, वसु-शब्दात् स्वार्थे अपि यत्-प्रत्ययः कृतः दृश्यते । यथा, तैत्तिरीयसंहितायाम् 'हस्तौ पृणस्व बहुभिर्वसव्यैः' इति प्रयोगः दृश्यते । अत्र 'वसव्य' शब्दस्य 'वसु' (= द्रव्यम्) इत्येव अर्थः अस्ति, केवलं स्वार्थे यत्-प्रत्ययः कृतः दृश्यते ।\nज्ञातव्यम् - अस्मिन् सूत्रे मयट्-प्रत्ययस्य 'आगतः', 'विकारः', 'अवयवः' तथा 'प्रकृतम्' एते चत्वारः अर्थाः स्वीकृताः सन्ति । एतेषां सर्वेषां भिन्नाः समर्थविभक्तयः सन्ति । यथा - 'आगतः' इत्यत्र पञ्चमीसामर्थ्यमपेक्षते, 'विकारः' तथा 'अवयवः' इत्यत्र षष्ठीसामर्थ्यमपेक्षते, तथा च 'प्रकृतम्' इत्यत्र प्रथमासमर्थात् प्रत्ययः भवति । तथा च, 'समूहः' इत्यस्मिन् अर्थे षष्ठीसमर्थात् प्रत्ययः विधीयते ।\n" }, "44141": { "sa": "'नक्षत्र'शब्दात् वेदेषु संज्ञायाः विषये 'घ' प्रत्ययः स्वार्थे भवति । ", "sd": "नक्षत्रशब्दात् स्वार्थे (स्वस्यैव अर्थे) वेदेषु संज्ञायाः विषये 'घ'प्रत्ययः कृतः दृश्यते ।\nनक्षत्रम् एव इदम्\n= नक्षत्र + घ\n→ नक्षत्र + इय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति इय्-आदेशः]\n→ नक्षत्र् + इय [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ नक्षत्रिय\nवेदेषु प्रयोगः - (शुक्लयजुर्वेदः, वाजसनेयिसंहिता 22.28) - 'नक्षत्रेभ्यः स्वाहा नक्षत्रियेभ्यः स्वाहा अहोरात्रेभ्यः स्वाहा' ।" }, "44142": { "sa": "'सर्व' शब्दात् तथा च 'देव'शब्दात् वेदेषु संज्ञायाः विषये स्वार्थे 'तातिल्' प्रत्ययः कृतः दृश्यते । ", "sd": "'सर्व' तथा 'देव' एताभ्याम् शब्दाभ्याम् स्वार्थे (स्वस्य अर्थे एव) तातिल्-प्रत्ययः वेदेषु संज्ञायाः विषये कृतः दृश्यते । 'तातिल्' इत्यस्मिन् प्रत्यये लकारः इत्संज्ञकः अस्ति, तस्य लोपं कृत्वा 'ताति' इत्यवशिष्यते ।\nसर्वः एव = सर्व + तातिल् → सर्वताति ।\nदेवः एव = देव + तातिल् → देवताति ।\nवेदेषु प्रयोगः -\n1. (सर्वताति-शब्दप्रयोगः) ऋग्वेदः 10.36.14 - स॒वि॒ता न॑: सुवतु स॒र्वता॑तिं सवि॒ता नो॑ रासतां दी॒र्घमायु॑: ।\n2. (देवताति-शब्दप्रयोगः) ऋग्वेदः 3.19.2 - प्र॒द॒क्षि॒णिद्दे॒वता॑तिमुरा॒णः सं रा॒तिभि॒र्वसु॑भिर्य॒ज्ञम॑श्रेत् । " }, "44143": { "sa": "'करोति' अस्मिन् अर्थे षष्ठीसमर्थात् 'शिव'शब्दात्, 'शम्'शब्दात्, 'अरिष्ट'शब्दात् च वेदेषु संज्ञायाः विषये तातिल्-प्रत्ययः कृतः दृश्यते । ", "sd": "'करे' इति 'कर' इत्यस्य सप्तम्येकवचनम् । कृ-धातोः अच्-प्रत्ययं कृत्वा 'कर' इति प्रातिपदिकं सिद्ध्यति । करोति सः करः । अस्मिन्नेव अर्थे 'शिव', 'शम्' तथा 'अरिष्ट' - एतेभ्यः शब्देभ्यः वेदेषु संज्ञायाः विषये तातिल्-प्रत्ययः कृतः दृश्यते ।\n1. शिवस्य करः = शिवम् करोति सः = शिव + तातिल् → शिवताति ।\n2. शमः करः = शमं करोति सः = शम् + ताति → शन्ताति ।\n3. अरिष्टस्य करः = अरिष्टं करोति सः = अरिष्ट + ताति = अरिष्टताति ।\nवेदेषु प्रयोगः -\n1. (शिवताति) - पैप्पलादसंहिता (अथर्ववेदः) 5.36.1 - ये भौमा भूम्या अधि संबभूवुस्ते त्वा न हिंसाञ्छिवतातिरस्तु ते ।\n2. (शन्ताति) - ऋग्वेदः 8.18.7 - उ॒त स्या नो॒ दिवा॑ म॒तिरदि॑तिरू॒त्या ग॑मत् । सा शंता॑ति॒ मय॑स्कर॒दप॒ स्रिध॑: ॥\n3. (अरिष्टताति) - ऋग्वेदः 10.60.8 - ए॒वा दा॑धार ते॒ मनो॑ जी॒वात॑वे॒ न मृ॒त्यवेऽथो॑ अरि॒ष्टता॑तये ॥\nज्ञातव्यम् -\n1. सूत्रे विद्यमानः 'शिव-शम्-अरिष्टस्य' इति प्रथमः शब्दः षष्ठीसामर्थ्यम् निर्देशयति ।\n2. 'तातिल्' इत्यत्र लकारः इत्संज्ञकः अस्ति, तस्य लोपं कृत्वा 'ताति' इत्यवशिष्यते । " }, "44144": { "sa": "'भावः' अस्मिन् अर्थे षष्ठीसमर्थात् शिव-शब्दात्, शम्-शब्दात् तथा अरिष्ट-शब्दात् वेदेषु संज्ञायाः विषये तातिल्-प्रत्ययः कृतः दृश्यते । ", "sd": " वेदेषु संज्ञायाः विषये 'भावः' अस्मिन् अर्थे षष्ठीसमर्थात् 'शिव'शब्दात्, 'शम्'शब्दात् तथा 'अरिष्ट'शब्दात् तातिल्-प्रत्ययः कृतः दृश्यते ।\nशिवस्य भावः = शिव + तातिल् → शिवताति ।\nशमः भावः = शम् + तातिल् → शन्ताति ।\nअरिष्टस्य भावः = अरिष्ट + तातिल् → अरिष्टताति ।\nवेदेषु प्रयोगः - (सामवेद-पूर्वार्चिकम् 2.1.1.6) - सा शन्ताता मयस्करदप स्रिधः ।\nअत्र 'शन्ताति' शब्दस्य सप्तम्येकवचने 'ङि' प्रत्ययस्य <<सुपां सुलुक्पूर्वसवर्णाऽऽच्छेयाडाड्यायाजालः>> [[7.1.39]] इति डा-आदेशं कृत्वा अङ्गस्य <<टेः>> [[6.4.143]] इति टिलोपे कृते 'शन्ताता' इति रूपम् सिद्ध्यति । 'शमः यः भावः, तस्मिन्' इत्यर्थः ।\nज्ञातव्यम् -\n1. सूत्रे अनुवर्तमानः 'शिव-शम्-अरिष्टस्य' इति प्रथमः शब्दः षष्ठीसामर्थ्यम् निर्देशयति ।\n2. 'तातिल्' इत्यत्र लकारः इत्संज्ञकः अस्ति, तस्य लोपं कृत्वा 'ताति' इत्यवशिष्यते ।\nस्मर्तव्यम् - तद्धिताधिकारे ये पञ्च महोत्सर्गाः पाठ्यन्ते, तेषु तृतीयः महोत्सर्गः (यदधिकारः) - यस्य प्रारम्भः <<प्राग्घिताद्यत्>> [[4.4.75]] इत्यत्र भवति - सः अत्र समाप्यते ।\n" }, "51001": { "sa": "प्राक्-क्रीतीय-अर्थेषु छ-प्रत्ययः औत्सर्गिकरूपेण भवति ।", "sd": "तद्धिताधिकारे पाठितेभ्यः पञ्च-महोत्सर्गेभ्यः चतुर्थःमहोत्सर्गः अस्मात् सूत्रात् आरभ्यते । वर्तमानसूत्रतः <<तेन क्रीतम्>> [[5.1.37]] इति यावत्सु सूत्रेषु आहत्य त्रयः अर्थाः पाठिताः सन्ति । एते सर्वे अर्थाः 'प्राक्-क्रीतीय-अर्थाः' नाम्ना ज्ञायन्ते । एतेषां सर्वेषाम् विषये औत्सर्गिकरूपेण छ-प्रत्ययः भवति । अस्य छ-प्रत्ययस्य अपवादरूपेण भिन्नैः सूत्रैः भिन्नासु अवस्थासु विविधानाम् प्रत्ययानाम् विधानम् क्रियते ।\nछ-प्रत्ययस्य कानिचन उदाहरणानि -\nअ) वत्सेभ्यः हितः = वत्स + छ = वत्सीय\nआ) अङ्गाराय इदम् = अङ्गार + छ = अङ्गारीय (काष्ठम्)\nइ) प्रासादः अस्याम् सा = प्रासाद + छ = प्रासादीय (भूमिः)\nप्रक्रिया इयम् -\nवत्स + छ\nवत्स + ईय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति छकारस्य ईय्-आदेशः]\nवत्स् + ईय [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ वत्सीय\nत्रयः प्राक्क्रीतीयाः अर्थाः एते -\n1. <<तस्मै हितम्>> [[5.1.5]]\n2. <<तदर्थं विकृतेः प्रकृतौ>> [[5.1.12]]\n3. <<तदस्य तदस्मिन् स्यादिति>> [[5.1.16]]\nज्ञातव्यम् - यद्यपि अस्मिन् सूत्रे 'प्राक्-क्रीतीय' इति उक्तमस्ति, तथापि वस्तुतः <<तदस्य तदस्मिन् स्यादिति>> [[5.1.16]] इत्यस्मात् अनन्तरम् <<तेन क्रीतम्>> [[5.1.37]] सूत्रपर्यन्तम् कोऽपि अर्थः न उच्यते । अतः अस्य सूत्रस्य अधिकारः <<तदस्य तदस्मिन् स्यादिति>> [[5.1.16]] इत्यस्य <<परिखाया ढञ्>> [[5.1.17]] इत्यनेन पाठितः यः अपवादः , तावदेव प्रचलति । तस्मात् अग्रे ठञ्-प्रत्ययस्य अधिकारः आरभते ।\n" }, "51002": { "sa": "प्राक्-क्रीतीय-अर्थेषु उवर्णान्त-प्रातिपदिकेभ्यः तथा गवादिगणस्य शब्देभ्यः यत्-प्रत्ययः भवति । ", "sd": "तद्धिताधिकारे पाठितेभ्यः पञ्च-महोत्सर्गेभ्यः चतुर्थः महोत्सर्गः 'प्राक्-क्रीतीय-अधिकारः' <<प्राक्क्रीतात् छः>> [[5.1.1]] इत्यस्मात् <<परिखाया ढञ्>> [[5.1.17]] इति यावत् प्रचलति । अस्मिन् अधिकारे आहत्य त्रयः अर्थाः पाठ्यन्ते, येषु औत्सर्गिकरूपेण छ-प्रत्ययविधानं भवति । परन्तु उवर्णान्त-प्रातिपदिकेभ्यः तथा च गवादिगणस्य प्रातिपदिकेभ्यः प्राक्क्रीतीय-अधिकारस्य त्रिषु अपि अर्थेषु औत्सर्गिकं छ-प्रत्ययं बाधित्वा वर्तमानसूत्रेण यत्-प्रत्ययः विधीयते ।\nगवादिगणः अयम् -\nगो, हविस्, वर्हिष्, खट, अष्टका, युग, मेधा, स्रक्, नाभि नभं च (गणसूत्रम्), शुनः सम्प्रसारणं वा च दीर्घत्वं तत्सन्नियोगेन चान्तोदात्तत्वम् (गणसूत्रम्), ऊधसोऽनङ् च (गणसूत्रम्), खर, स्खद, अक्षर, विष ।\nकानिचन उदाहरणानि एतानि -\n1. 'शङ्कु' इति उकारान्तशब्दः । 'शङ्कु'शब्दात् <<तस्मै हितम्>> [[5.1.5]] अस्मिन् अर्थे दारुणः (= काष्ठस्य) निर्देशं कर्तुम् यत्-प्रत्ययः भवति ।\nशङ्कवे हितम्\n= शङ्कु + यत्\n→ शङ्को + य [<<ओर्गुणः>> [[6.4.146]] इति गुणः]\n→ शङ्कव् + य [<<वान्तो यि प्रत्यये>> [[6.1.79]] इति अवादेशः]\n→ शङ्कव्य\nशङ्कवे हितम् शङ्कव्यम् दारु । ('दारु' इति उकारान्त-नपुंसकलिङ्गवाचीशब्दः, 'काष्ठम्' इत्यर्थः ।)\n2. 'पिचु' (= वस्त्रम्) इति उकारान्तशब्दः । अस्मात् शब्दात् <<तदर्थं विकृते प्रकृतौ>> [[5.1.12]] अस्मिन् अर्थे कर्पासस्य निर्देशं कर्तुम् यत्-प्रत्ययः भवति ।\nपिचुभ्यः अयम्\n= पिचु + यत्\n→ पिचो + य [<<ओर्गुणः>> [[6.4.146]] इति गुणः]\n→ पिचव् + य [<<वान्तो यि प्रत्यये>> [[6.1.79]] इति अवादेशः]\n→ पिचव्य\nपिचुभ्यः अयम् पिचव्यः कार्पासः ।\n3. 'गो' इति गवादिगणे विद्यमानः शब्दः । अस्मात् शब्दात् <<तस्मै हितम्>> [[5.1.5]] अस्मिन् अर्थे यत्-प्रत्ययः भवति ।\nगवे हितम्\n= गो + यत्\n→ गव् + य [<<वान्तो यि प्रत्यये>> [[6.1.79]] इति अवादेशः]\n→ गव्य\nगवे हितः गव्यः घासः ।\n4. 'विष' इति गवादिगणे विद्यमानः शब्दाः । अस्मात् शब्दात् <<तद् अस्य तदस्मिन् स्यात्>> [[5.1.16]] अस्मिन् अर्थे सर्पस्य निर्देशं कर्तुम् यत्-प्रत्ययः भवति -\nविषं यस्मिन् सर्पे स्यात् सः सर्पः\n= विष + यत्\n→ विष् + य [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ विष्य\n विषं यस्मिन् सर्पे स्यात् सः विष्यः सर्पः ।\nएतादृशमुकारान्तशब्देभ्यः तथा गवादिगणे विद्यमानेभ्यः शब्देभ्यः त्रिषु अपि प्राक्क्रीतीय-अर्थेषु यत्-प्रत्ययः भवति ।\nगवादिगणे कानिचन गणसूत्राणि उक्तानि सन्ति । तानि एतादृशानि -\n1. 'नाभि नभं च' - नाभिशब्दात् यत्-प्रत्ययः भवति तत्सन्नियोगेन च नाभिशब्दस्य 'नभ' इति आदेशः भवति । नाभि + यत् → नभ + यत् → नभ्य । अस्मिन् गणसूत्रे 'नाभि' अयम् शब्दः 'चक्रस्य मध्यभागः' (central part of a wheel) अस्मिन् अर्थे प्रयुज्यते । यथा - नाभये हितम् नभ्यः अक्षः (A spoke that is useful for the central part of a wheel) । अन्येषु अर्थेषु नाभि-शब्दः अस्मिन् गणे न विद्यते । यथा, शरीरस्य अवयवः नाभिः (navel) इत्यस्मिन् अर्थे नाभि-शब्दः अस्मिन् गणे न विद्यते, अतः तस्य 'नभ' आदेशः अपि न भवति । यथा, नाभये हितम् तैलम् = नाभि + यत् [<<शरीरावयवाद्यत्>> [[5.1.6]] इति यत्] → नाभ्य । नाभये हितम् नाभ्यम् तैलम् ।\n2. 'शुनः सम्प्रसारणं वा च दीर्घत्वं तत्सन्नियोगेन चान्तोदात्तत्वम्' - 'श्वन्'शब्दः अस्मिन् गणे समाविश्यते, अतः तस्मात् यत्-प्रत्ययः भवति । यत्-प्रत्यये परे 'श्वन्' इत्यस्य अङ्गस्य सम्प्रसारणम् क्रियते । (वस्तुतः भसंज्ञकस्य श्वन्-शब्दस्य <<श्वयुवमघोनामतद्धिते>> [[6.4.133]] इत्यनेन सम्प्रसारणम् भवितुमर्हति, परन्तु अस्य सूत्रस्य प्रसक्तिः तद्धितभिन्ने प्रत्यये परे एव वर्तते, अतः अत्र गणसूत्रे सम्प्रसारणस्य निर्देशः आवश्यकः अस्ति) । सम्प्रसारणे कृते अग्रे विकल्पेन दीर्घादेशः अपि भवति, तथा च दीर्घादेशे कृते तद्धितान्तशब्दस्य अन्तोदात्तत्वमपि विधीयते । प्रक्रिया इयम् -\nश्वन् + यत्\n→ शुअन् + य [<<इग्यणः सम्प्रसारणम्>>[[1.1.45]] इत्यनेन वकारस्य सम्प्रसारणमुकारः]\n→ शुन् + य [<<सम्प्रसारणाच्च>> [[6.1.108]] इति पूर्वपरयोः एकः पूर्वरूपः आदेशः]\n→ शुन् / शून् + य [विकल्पेन दीर्घादेशः]\n→ शुन्य, शून्य ।\nअत्र स्वरविधानम् एतादृशम् भवति - दीर्घादेशस्य अभावात् 'शुन्य' शब्दस्य <<यतोऽनावः>> [[6.1.213]] इत्यनेन आद्युदात्तत्वम् विधीयते, तथा च दीर्घादेशे कृते 'शून्य'शब्दस्य वर्तमान-गणसूत्रेण अन्तोदात्तत्वं जायते ।\nअत्र एकः विशेषः स्मर्तव्यः । प्रक्रियायाम् <<नस्तद्धिते>> [[6.4.144]] इत्यनेन टिलोपस्य प्रसक्तिः विद्यते, परन्तु सः अत्र न इष्यते । अस्मिन् विषये काशिकाकारः वदति - 'चकारस्य अनुक्तसमुच्चयार्थत्वात् नस्तद्धिते इति लोपो न स्यात्' । अस्य अर्थः अयम् - अस्मिन् गणसूत्रे 'च' इति द्विवारम् प्रयुज्यते - 'च दीर्घत्वम्' तथा 'चान्तोदात्तत्वम्' । वस्तुतस्तु एकवारं चकारः प्रयुज्यते चेदपि स एव अर्थः स्यात् - 'शुनः सम्प्रसारणम्, वा दीर्घर्त्वम् तत्सन्नियोगेन च अन्तोदात्तत्वम्' । अत्र एकवारम् चकारग्रहणम् तु आवश्यकमेव - यतः चकारस्य अनुपस्थितौ 'अन्तोदात्तत्वमपि वैकल्पिकं भवति वा' इति प्रश्नः भवितुमर्हति । परन्तु द्विवारम् चकारनिर्देशः वस्तुतः न आवश्यकः । अतः अत्र चकारस्य द्वितीयम् ग्रहणम् 'नस्तद्धिते इति लोपो न' इति अध्याहरति - इति काशिकाकारः मन्यते । इत्युक्ते, अत्र सम्पूर्णम् गणसूत्रम् एतादृशमस्ति - 'शुनः सम्प्रसारण्, (नस्तद्धिते इति लोपो न) च, वा दीर्घत्वम्, तत्सन्नियोगेन चान्तोदात्तत्वम्' । अनेन प्रकारेण अत्र टिलोपः निषिध्यते ।\nअस्मिन् विषये केचन पण्डिताः वदन्ति - अत्र <<नस्तद्धिते>> [[6.4.144]] इत्यस्य अध्याहारः नैव आवश्यकः । केवलं 'दीर्घविधानसामर्थ्यात्' एव अत्र <<नस्तद्धिते>> [[6.4.144]] इत्यस्य प्रसक्तिः न वर्तते । इत्युक्ते, यदि <<नस्तद्धिते>> [[6.4.144]] इत्यस्य प्रयोगेण टिलोपः स्यात्, तर्हि 'श्' इत्येव अवशिष्येत, ततश्च दीर्घः कथम् विधीयेत - इति अत्र चिन्तनम् । परन्तु एतत् चिन्तनम् न वरम् । अस्मिन् विषये न्यासकारः वदति - 'एवमपि पक्षे स्यात्' । इत्युक्ते, यद्यपि अनेन चिन्तनेन दीर्घादेशस्य विषये टिलोपः निषिध्यते, तथापि दीर्घादेशाभापक्षे तु टिलोपः स्यात् एव । तस्य निवारणार्थम् <<नस्तद्धिते>> [[6.4.144]] इत्यस्य अध्याहारः आवश्यकः एव - इति आशयः ।\n3. 'ऊधसः अनङ् च' - 'ऊधस्' इति शब्दः अस्मिन् गणे समाविश्यते, तथा प्रत्ययसन्नियोगेन अस्य शब्दस्य 'अनङ्'आदेशः भवति । <<ङिच्च>> [[1.1.53]] इति अयमन्त्यादेशः ।\nऊधस् + यत्\n→ ऊध + अनङ् + य\n→ ऊध + अन् + य ['अनङ्' इत्यत्र ङकारस्य इत्संज्ञा, नकारोत्तरः अकारः उच्चारणार्थः । द्वयोः लोपः भवति ।]\n→ ऊधन् + य [<<अतो गुणे>> [[6.1.97]] इति पूर्वपरयोः एकादेशः अकारः]\n→ ऊधन्य [<<नस्तद्धिते>> [[6.4.144]] इति टिलोपे प्राप्ते <<ये चाभावकर्मणोः>> [[6.4.168]] इति प्रकृतिभावः]\nउधसे हितः ऊधन्यः ।\nविशेषः - गवादिगणस्य शब्देभ्यः अनेन सूत्रेण उक्तः यत्-प्रत्ययः तदन्ते अपि विधीयते । यथा, गवे हितम् गव्यम्, सुगवे हितम् सुगव्यम् । अस्मिन् विषये <<असमासे निष्कादिभ्यः>> [[5.1.20]] इत्यत्र निरूपितमस्ति ।\nज्ञातव्यम् - वर्तमानसूत्रम् <<प्राक्क्रीतात् छः>> [[5.1.1]] अस्मिन् अधिकारे विद्यमानान् अन्यान् सर्वान् अपि अपवादसूत्रान् बाधते । अतः अस्मिन् अधिकारे निर्दिष्टानाम् त्रिषु अपि अर्थेषु उवर्णान्तशब्दानां विषये यत्-प्रत्ययः एव भवति । यथा -\n[अ] सनङ्गु (a leather object) इति चर्मणः विकारः । अतः <<तदर्थं विकृते प्रकृतौ>> [[5.1.12]] अस्मिन् अर्थे विद्यमानेन <<चर्मणोऽञ्>> [[5.1.15]] इत्यनेन अपवादसूत्रेण 'सनङ्गु'शब्दात् 'चर्मणः विकारः' अस्मिन् अर्थे वस्तुतः अञ्-प्रत्ययस्य प्रसक्तिः अस्ति । परन्तु 'सनङ्गु' अयं शब्दः उकारान्तः अस्ति, अतः अञ्-प्रत्ययं बाधित्वा अस्य विषये वर्तमानसूत्रेण यत्-प्रत्ययः एव भवति -\nसनङ्गवे इदम् चर्म\n= सनङ्गु + य\n→ सनङगो + य [<<ओर्गुणः>> [[6.4.146]] इति गुणः]\n→ सनङ्गव् + य [<<वान्तो यि प्रत्यये>> [[6.1.79]] इति अव्-आदेशः]\n→ सनङ्गव्य\nसनङ्गवे इदम् सनङ्गव्यं चर्म ।\n[आ] <<विभाषा हविरपूपादिभ्यः>> [[5.1.4]] इत्यस्मिन् सूत्रे विद्यमानेन 'अन्नविकारेभ्यश्च' अनेन गणसूत्रेण वस्तुतः 'चरु', 'सक्तु' एताभ्यां विषये केवलं पक्षे यत्-प्रत्ययः विधीयते । परन्तु एतौ शब्दौ उवर्णान्तौ स्तः, अतः एतयोः विषये <<विभाषा हविरपूपादिभ्यः>> [[5.1.4]] इति बाधित्वा <<उगवादिभ्यो यत्>> [[5.1.2]] इत्यनेन नित्यमेव यत्-प्रत्ययः विधीयते । चरु + यत् → चरव्य । सक्तु + यत् → सक्तव्य ।\n" }, "51003": { "sa": "प्राक्-क्रीतीय-अर्थेषु 'कम्बल'शब्दात् संज्ञायाः विषये यत्-प्रत्ययः भवति । ", "sd": "'कम्बल' शब्दात् प्राक्-क्रीतीय-अर्थेषु संज्ञायाः विषये औत्सर्गिकं छ-प्रत्ययं बाधित्वा यत्-प्रत्ययः भवति ।\nयथा - कम्बलाय हितम् कम्बल्यम् ऊर्णापलशतम् । शतम् पलम् यस्याः परिमाणम्, तादृशी ऊर्णा कम्बलस्य निर्माणार्थं प्रयुज्यते चेत् तस्याः नाम 'कम्बल्य' इत्यपि दीयते । A woolen thread of 100 पल length that is used to weave a कम्बल gets the term कम्बल्य ।\nअस्मिन् सूत्रे 'संज्ञायाम्' इति उक्तमस्ति, अतः केवलम् 'ऊर्णा' इति उच्यते चेत् न भवति (ऊर्णापलशतम् इत्यस्यैव विषये भवति - इत्याशयः) । कम्बलाय हितम् कम्बलीया ऊर्णा । अत्र औत्सर्गिकः छ-प्रत्ययः एव विधीयते । " }, "51004": { "sa": "हविर्विशेषवाचिभ्यः शब्देभ्यः तथा अपूपादिगणस्य शब्देभ्यः प्राक्क्रीतीय-अर्थेषु यत्-प्रत्ययः विकल्पेन भवति । पक्षे औत्सर्गिकः छ-प्रत्ययः (उत तस्य अन्यः यथाविहितः अपवादः) विधीयते । ", "sd": "'हविस्' इत्युक्ते यज्ञः । हविर्विशेषवाची शब्दः इत्युक्ते यज्ञक्रियाविशिष्टः शब्दः - यथा - पुरोडाशः, आमीक्षा - आदयः । एतादृशेभ्यः हविर्विशेषवाचिभ्यः शब्देभ्यः, तथा च 'अपूपादि'गणे ये शब्दाः विद्यन्ते, तेभ्यः सर्वेषु प्राक्क्रीतीय-अर्थेषु वर्तमानसूत्रेण विकल्पेन यत्-प्रत्ययः भवति । पक्षे यथायोग्यमन्यः प्रत्ययः अपि भवति ।\nअपूपादिगणः अयम् -\nअपूप, तण्डुल, अभ्यूष, अभ्योष, पृथुक, अभ्येष, अर्गल, मुसल, सूप, कटक, कर्णवेष्टक, किण्व, अन्नविकारेभ्यः (गणसूत्रम्), पूप, स्थूणा, पीप, अश्व, पत्र ।\nउदाहरणानि -\n1. आमीक्षायै हितम् = आमीक्षा + यत् → आमीक्ष्य । पक्षे औत्सर्गिकः छ-प्रत्ययः - आमीक्षीयम् ।\n2. पुरोडाशाय हितम् = पुरोडाश + यत् → पुरोडाश्य । पक्षे - औत्सर्गिकः छ-प्रत्ययः - पुरोडाशीयम् ।\n3. अपूपाय हितम् = अपूप + यत् → अपूप्य । पक्षे औत्सर्गिकः छ-प्रत्ययः - अपूपीयम् ।\n4. तण्डुलेभ्यः हितम् = तण्डुल + यत् → तण्डुल्य । पक्षे औत्सर्गिकः छ-प्रत्ययः - तण्डुलीयम् ।\nअपूपादिगणे 'अन्नविकारेभ्यः' इति गणसूत्रमपि विद्यते । अत्र 'अन्न' इत्युक्ते धान्यम् (grains / cereals) । अनेन गणसूत्रेण अन्नस्य विकाराणां विषये अपि प्राक्क्रीतीय-अर्थेषु विकल्पेन यत्-प्रत्ययः भवति । यथा - भक्ताय हितम् भक्त्यम् भक्तीयम् वा ओदनम् ।\nज्ञातव्यम् -\n1. ये उवर्णान्तशब्दाः 'अन्नविकारवाचिनः / 'हविर्विशेषवाचिनः' सन्ति, तेषां विषये वर्तमानसूत्रेण विहितम् पाक्षिकं यत्-विधानम् बाधित्वा <<उगवादिभ्यो यत्>> [[5.1.2]] इत्यनेन नित्यमेव यत्-प्रत्ययविधानम् भवति । यथा, चरु + यत् → चरव्य । सक्तु (= crushed grains) + यत् → सक्तव्य । अत्र वस्तुतः द्वावपि एतौ शब्दौ 'अन्नविकारौ' स्तः, अतः एतयोर्विषये केवलं विकल्पेन एव यत्-प्रत्ययस्य प्रसक्तिः अस्ति । परन्तु एतौ शब्दौ उवर्णान्तौ अपि स्तः, अतः अत्र <<विभाषा हविरपूपादिभ्यः>> [[5.1.4]] इति बाधित्वा <<उगवादिभ्यो यत्>> [[5.1.2]] इत्यनेन नित्यमेव यत्-प्रत्ययः विधीयते ।\n2. यद्यपि अस्मिन् सूत्रे 'हविस्' इति उच्यते, तथापि स्वयम् हविस्-शब्दः तु तु 'गवादिगणे' विद्यते, अतः <<उगवादिभ्यो यत्>> [[5.1.2]] अनेन सूत्रेण हविस्-शब्दात् सर्वेषु प्राक्क्रीतीय-अर्थेषु नित्यमेव यत्-प्रत्ययः भवति । अतः अस्मिन् सूत्रे विद्यमानेन 'हविस्' इत्यनेन स्वरूपस्य ग्रहणं न भवति अपितु यज्ञविशेषवाचिनां शब्दानां ग्रहणं भवति । अयमंशः सूत्रात् स्पष्टः न भवति परन्तु व्याख्यानेषु स्पष्टीकृतः वर्तते ।\n3. वर्तमानसूत्रेण उक्तः यत्-प्रत्ययः तदन्ते अपि विधीयते । यथा - अपूपेभ्यो हितमपूप्यमपूपीयम् वा ; यवापूपेभ्यो हितम् यवापूप्यम् यवापूपीयम् वा । अस्मिन् विषये <<असमासे निष्कादिभ्यः>> [[5.1.20]] इत्यत्र निरूपितमस्ति ।\n " }, "51005": { "sa": "चतुर्थीसमर्थात् 'हितम्' अस्मिन् अर्थे यथाविहितं प्रत्ययः भवति । ", "sd": "'हितम्' इत्युक्ते 'योग्यम् / आवश्यकम् / हितकारकम् / उपयोगी / उपयुक्तम् ' । 'हितम्' अस्मिन् अर्थे चतुर्थीसमर्थात् प्रातिपदिकात् औत्सर्गिकरूपेण छ-प्रत्ययः भवति । <<आयनेयीनीयियः फघखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इत्यनेन छ-प्रत्ययस्य ईय-आदेशः भवति ।\nयथा -\n1. वत्साय हितम्\n= वत्स + छ\n→ वत्स + ईय [<<आयनेयीनीयियः फघखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इत्यनेन छ-प्रत्ययस्य ईय-आदेशः ]\n→ वत्स् + ईय [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ वत्सीय\nवत्साय हितः वत्सीयः गोधुक् । धेनोः अपत्यार्थम् यावत् दुग्धमावश्यकम् तावत् अवशेषय्य परिशिष्टं दुग्धम् यः दोग्धि, सः गोधुक् 'वत्सीयः' नाम्ना ज्ञायते ।\n2.पटाय हितम्\n= पट + छ\n→ पट + ईय\n→ पट् + ईय\n→ पटीय\nपटाय हितः पटीयः तन्तुः ।" }, "51006": { "sa": "'हितम्' अस्मिन् अर्थे चतुर्थीसमर्थात् शरीरस्य अवयववाचि-प्रातिपदिकात् यत्-प्रत्ययः भवति । ", "sd": "'हितम्' इत्युक्ते 'योग्यम् / आवश्यकम् / हितकारकम् / उपयोगी / उपयुक्तम् ' । 'हितम्' अस्मिन् अर्थे चतुर्थीसमर्थात् प्रातिपदिकात् <<प्राग्क्रीतात् छः>> [[5.1.1]] इत्यनेन औत्सर्गिकरूपेण छ-प्रत्यये प्राप्ते इत्यनेन औत्सर्गिकरूपेण छ-प्रत्यये प्राप्ते; शरीरस्य अवयवस्य विषये तस्य अपवादरूपेण यत्-प्रत्ययः भवति ।\n1. दन्ताय हितम् दन्त्यम् मञ्जनम् ।\n2. कण्ठाय हितम् कण्ठ्या ओषधिः ।\n3. ओष्टाभ्यां हितम् ओष्ठ्यम् घृतम् ।\nअत्र वार्त्तिकद्वयं ज्ञातव्यम् -\n1. । इत्युक्ते, नासिकाशब्दस्य यत्-प्रत्यये परे नस्-आदेशः भवति ।\nयथा - नासिकायै हितम्\n= नासिका + यत्\n→ नस् + य [ इति नासिका-इत्यस्य नस्-आदेशः]\n→ नस्य ।\n2. । इत्युक्ते, 'रथ'शब्दात् अपि 'हितम्' अस्मिन् अर्थे यत्-प्रत्ययः भवति । रथाय हितम् रथ्यम् चक्रम् ।\nज्ञातव्यम् -\n1. <<शरीरावयवाच्च>> [[4.3.55]] इति किञ्चन सूत्रम् <<तत्र भवः>> [[4.3.53]] अस्मिन् अर्थे पाठितमस्ति । अनेन सूत्रेण अपि शरीरस्य अवयववाचिशब्दात् यत्-प्रत्ययः एव भवति, परन्तु सः 'भवः' अस्मिन् अर्थे जायते । यथा - दन्ते भवः दन्त्यः । वर्तमानसूत्रेण तु 'हितम्' अस्मिन् अर्थे प्रत्ययः विधीयते ।\n2. अनेन सूत्रेण उक्तः यत्-प्रत्ययः तदन्तस्य विषये अपि भवति । यथा, दन्ताय हितम् दन्त्यम् ; राजदन्ताय हितम् राजदन्त्यम् । अस्मिन् विषये <<असमासे निष्कादिभ्यः>> [[5.1.20]] इत्यत्र विस्तारेण निरूपितमस्ति । " }, "51007": { "sa": "'हितम्' अस्मिन् अर्थे चतुर्थीसमर्थात् खल,यव,माष, तिल, वृष, ब्रह्मन् - एतेभ्यः शब्देभ्यः यत् प्रत्ययः भवति । ", "sd": "'हितम्' इत्युक्ते 'योग्यम् / आवश्यकम् / हितकारकम् / उपयोगी / उपयुक्तम् ' । 'हितम्' अस्मिन् अर्थे चतुर्थीसमर्थात् प्रातिपदिकात् <<प्राक्क्रीतात् छः>> [[5.1.1]] इत्यनेन औत्सर्गिकरूपेण छ-प्रत्यये प्राप्ते; 'खल', 'यव', 'माष', 'तिल', वृष' ( वृषभः), 'ब्रह्मन् ' - एतेभ्यः शब्देभ्यः यत्-प्रत्ययः भवति ।\n1. खलाय हितम् खल्यम् ।\n2. यवाय हितम् यव्यम् ।\n3. माषाय हितम् माष्यम् ।\n4. तिलाय हितम् तिल्यम् ।\n5. वृषाय हितम् वृष्यम् ।\n6. ब्रह्मणे हितम् ब्रह्मण्यम् । अत्र <<नस्तद्धिते>> [[6.4.144]] इत्यनेन टिलोपे प्राप्ते <<ये चाभावकर्मणोः>> [[6.4.168]] इत्यनेन सः निषिध्यते । अत्र <<अल्लोपोऽनः>> [[6.4.135]] इत्यस्य तु प्रसक्तिरेव नास्ति - <<न संयोगाद्वमन्तात्>> [[6.4.137]] इति निषेधात् ।]\nज्ञातव्यम् -\n1.अस्मिन् सूत्रे 'वृष' शब्दः स्वीक्रियते, न हि 'वृषन्' इति नकारान्तशब्दः । तथा च, 'ब्रह्मन्' इति नकारान्तशब्दः एव स्वीक्रियते, न हि 'ब्राह्मण' इति अकारान्तशब्दः ।\n2. अस्मिन् सूत्रे 'च' इति उक्तमस्ति । अयम् चकारः 'अनुक्तसमुच्चयार्थः' अस्तीति काशिकाकारः वदति । इत्युक्ते, केचन अन्ये शब्दाः अपि शिष्टप्रयोगमनुसृत्य <<तस्मै हितम्>> [[5.1.4]] इत्यस्मिन् अर्थे 'यत्' प्रत्ययं स्वीकुर्वन्ति । यथा - रथाय हितम् रथ्यम् ।\n3. अनेन सूत्रेण उक्तः यत्-प्रत्ययः तदन्तस्य विषये अपि भवति । यथा, कृष्णतिलेभ्यो हितः कृष्णतिल्यः , राजमाषेभ्यो हितं राजमाष्यम् । अस्मिन् विषये <<असमासे निष्कादिभ्यः>> [[5.1.20]] इत्यत्र विस्तारेण निरूपितमस्ति ।\n" }, "51008": { "sa": "'हितम्' अस्मिन् अर्थे चतुर्थीसमर्थात् 'अज'शब्दात् 'अवि'शब्दात् च थ्यन्-प्रत्ययः भवति ।", "sd": "चतुर्थीसमर्थात् 'अज'शब्दात् तथा 'अवि' (= सूर्यः / ईश्वरः) शब्दात् 'हितम्' अस्मिन् अर्थे थ्यन्-प्रत्ययः भवति ।\n1. अजाय हितमजथ्यम् पुष्पम् । अज + थ्यन् → अजथ्य । स्त्रीत्वे टाप् - अजथ्या यूथिः (jasmine flower).\n2. अवये हितमविथ्यम् चन्दनम् । अवि + थ्यन् → अविथ्य ।\nज्ञातव्यम् - प्रत्यये विद्यमानः इत्संज्ञकः नकारः स्वरार्थः अस्ति । नित्-प्रत्ययान्तशब्दाः <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] इत्यनेन आद्युदात्ताः भवन्ति । " }, "51009": { "sa": "'हितम्' अस्मिन् अर्थे चतुर्थीसमर्थात् आत्मन्-शब्दात्, विश्वजन-शब्दात् तथा यस्य उत्तरपदं 'भोग' इति अस्ति तस्मात् शब्दात् ख-प्रत्ययः भवति । ", "sd": "यस्मिन् शब्दे 'भोग' इति उत्तरपदं विद्यते, तस्मात् शब्दात्, आत्मन्-शब्दात् तथा च विश्वजन-शब्दात् चतुर्थीसमर्थात् 'हितम्' अस्मिन् अर्थे ख-प्रत्ययः भवति । क्रमेण पश्यामः -\n1. आत्मने हितम्\n= आत्मन् + ख\n→ आत्मन् + ईन [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ईन्-आदेशः]\n→ आत्मनीन [<<नस्तद्धिते>> [[6.4.144]] इति टिलोपे प्राप्ते <<आत्माध्वानौ खे>> [[6.4.168]] इति प्रकृतिभावः ।]\n'आत्मन्' शब्दस्य विषये काशिकाकारः वदति - 'आत्मन्निति नलोपो न कृतः प्रकृतिपरिमाणज्ञापनार्थम्' । इत्युक्ते, अस्मिन् सूत्रे 'आत्मन् + विश्वजन' इत्यत्र 'आत्मन्' इत्यस्य <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इत्यनेन नकारलोपः न कृतः अस्ति, एतत् अस्य ज्ञापकम् यत् 'उत्तरपद' अयम् शब्दः केवलम् 'भोग' इत्यनेन सह अन्वेति, न हि 'आत्मन्' उत 'विश्वजन' इत्येताभ्याम् सह ।\n2. 'विश्वजन' इति समस्तपदम् भिन्नैः समासैः भवितुमर्हति -\n(अ) कर्मधारयः = विश्वम् च सः जनः ।\n(आ) बहुव्रीहिः = विश्वम् यस्य जनः सः ।\n(इ) षष्ठीतत्पुरुषः = विश्वस्य जनः ।\nएतेभ्यः केवलं कर्मधारयसमासस्य विषये एव अनेन सूत्रेण ख-प्रत्ययविधानम् भवति । अन्येषां विषये तु औत्सर्गिकः छ-प्रत्ययः एव विधीयते -\nविश्वम् च सः जनः विश्वजनः, तेभ्यो हितम्\n= विश्वजन + ख\n→ विश्वजन + ईन [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ईन्-आदेशः]\n→ विश्वजन् + ईन [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ विश्वजनीन\nविश्वस्य जनः विश्वजनः, तेभ्यो हितम्\n= विश्वजन + छ\n→ विश्वजन + ईय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ईय्-आदेशः]\n→ विश्वजन् + ईय [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ विश्वजनीय ।\n3. अस्मिन् सूत्रे प्रयुक्तः भोग-शब्दः 'शरीरम्' अस्मिन् अर्थे प्रयुक्तः अस्ति । अयम् शब्दः यस्य उत्तरपदे विद्यते , तस्मात् शब्दात् 'हितम्' अस्मिन् अर्थे ख-प्रत्ययः भवति ।\nमातृभोगाय इदम् मातृभोगीणम् । मातुः शरीरार्थम् हितकारकम् इत्यर्थः । तथैव - पितृभोगीणम्, स्वसृभोगीणम्, भ्रातृभोगीणम् - आदयः शब्दाः अपि सिद्ध्यन्ति ।\nअत्र कानिचन वार्त्तिकानि ज्ञातव्यानि -\n1. - कर्मधारय-समासेन निर्मितः यः 'पञ्चजन' शब्दः (= पञ्च च ते जनाः) तस्मात् 'हितम्' अस्मिन् अर्थे ख-प्रत्ययः भवति । पञ्चजनेभ्यो हितम् पञ्चजनीयम् । अन्येषां समासानां विषये (यथा - पञ्चानाम् जनः) तु औत्सर्गिकः छ-प्रत्ययः एव विधीयते । पञ्चजनाय हितम् पञ्चजनीयम् ।\n2. - कर्मधारय-समासेन निर्मितः यः 'सर्वजन' शब्दः (= सर्वे च ते जनाः) , तस्मात् 'हितम्' अस्मिन् अर्थे ठञ् तथा ख-प्रत्ययौ भवतः । सर्वजनेभ्यो हितम् सार्वजनिकम् सर्वजनीनम् वा । अन्येषां समासानां विषये (यथा - सर्वेषाम् जनः) तु औत्सर्गिकः छ-प्रत्ययः एव विधीयते । सर्वजनस्य हितम् सर्वजनीयम् ।\n3. - तत्पुरुष-समासेन निर्मितः यः 'महाजन'शब्दः (= महताम् जनः) तस्मात् 'हितम्' अस्मिन् अर्थे ठञ्-प्रत्ययः भवति । महाजनाय हितम् महाजनिकम् । अन्येषां समासानां विषये (यथा - महान् अस्य जनः) तु औत्सर्गिकः छ-प्रत्ययः एव विधीयते । महाजनाय हितम् महाजनीयम् ।\n4. - 'राजभोग' तथा 'आचार्यभोग' अस्मात् शब्दात् 'हितम्' अस्मिन् अर्थे ख-प्रत्ययः भवति, तथा च 'आचार्य'शब्दस्य प्रक्रियायाम् णत्वं न भवति । यथा - राजभोगाय हितम् राजभोगीनम्, आचार्यभोगाय इदमाचार्यभोगीनम् (अत्र वस्तुतः <<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इत्यनेन णत्वस्य प्रसक्तिः विद्यते, परन्तु वार्तिकेन णत्वनिषेधः भवति) । अस्मिन् वार्त्तिके 'नित्यम्' इति स्वीक्रियते, तस्य प्रयोजनम् 'केवल राज-शब्दात् आचार्य-शब्दात् वा 'हितम्' अस्मिन् अर्थे कोऽपि प्रत्ययः मा भूत्' - इति । यथा, 'राज्ञे हितम्' तथा 'आचार्याय हितम्' इत्यत्र औत्सर्गिकः छ-प्रत्ययः अपि न भवति ।\n" }, "51010": { "sa": "'हितम्' अस्मिन् अर्थे चतुर्थीसमर्थात् 'सर्व'शब्दात् ण-प्रत्ययः भवति , तथा च ' वधः, विकारः, समूहः, तेन कृतम्' एतेषु अर्थेषु 'पुरुष' शब्दात् ढञ्-प्रत्ययः भवति । ", "sd": "<<तस्मै हितम्>> [[5.1.5]] इत्यनेन सर्वेभ्यः शब्देभ्यः 'हितम्' अस्मिन् अर्थे औत्सर्गिकरूपेण छ-प्रत्यये प्राप्ते वर्तमानसूत्रेण तस्य अपवादरूपेण 'सर्व'शब्दात् ण-प्रत्ययः भवति, तथा च वार्त्तिककारेण प्रोक्तेषु विशिष्टेषु अर्थेषु पुरुष-शब्दात् ढञ्-प्रत्ययः विधीयते ।\n1. सर्वेभ्यो हितम्\n= सर्व + ण\n→ सर्व + अ [इत्संज्ञालोपः]\n→ सार्व + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ सार्व् + अ [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ सार्व\nअत्र भाष्यकारः एकं वार्त्तिकम् पाठयति - । इत्युक्ते, 'सर्व'शब्दात् ण-प्रत्ययः केवलं विकल्पेन एव भवति, नित्यम् न । अतः पक्षे औत्सर्गिकः छ-प्रत्ययः अपि भवति - सर्वेषाम् हितम् सर्वीयम् ।\n2. 'पुरुष' शब्दस्य विषये भाष्यकारः अन्यत् एकम् वार्त्तिकम् पाठयति - । इत्युक्ते, पुरुष-शब्दात् ढञ्-प्रत्ययः 'हितम्' अस्मिन् अर्थे न भवति, अपि तु 'वध', 'विकार', 'समूह' तथा 'तेन कृतम्' एतेषु अर्थेषु भवति -\n[अ] पुरुषस्य वधः - अत्र <<तस्येदम्>> [[4.3.120]] इत्यनेन दत्तमण्-प्रत्ययं बाधित्वा ढञ्-प्रत्ययः भवति ।\n[आ] पुरुषस्य विकारः - अत्र <<तस्य विकारः>> [[4.3.134]] अस्मिन् अर्थे पाठितेन <<प्राणिरजतादिभ्योऽञ्>> [[4.3.154]] इत्यनेन सूत्रेण अञ्-प्रत्यये प्राप्ते तं बाधित्वा ढञ्-प्रत्ययः विधीयते ।\n[इ] पुरुषाणां समूहः - अत्र <<तस्य समूहः>> [[4.2.37]] इत्यनेन निर्दिष्टस्य अण्-प्रत्ययस्य बाधकरूपेण ढञ्-प्रत्ययः भवति ।\n[ई] पुरुषेण कृतः ग्रन्थः - अत्र <<कृते ग्रन्थे>> [[4.3.116]] अनेन प्राप्तं अण्-प्रत्ययं बाधित्वा ढञ्-प्रत्ययः भवति ।\n[उ] पुरुषेण कृतः (अग्रन्थः) - अत्र तु अन्यसूत्रैः किमपि प्रत्ययविधानं न कृतमस्ति, अतः विशिष्टरूपेण ढञ्-प्रत्ययः विधीयते ।\nपुरुषस्य बधः पुरुषस्य विकारः / पुरुषाणां समूहः / पुरुषेण कृतम्\n= पुरुष + ढञ्\n→ पुरुष + एय [<<आयनेयीनीयिय फघखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति एय्-आदेशः]\n→ पौरुष + एय [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ पौरुष् + एय [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ पौरुषेय\nएतेषु चतुर्षु अपि अर्थेषु यथायोग्यम् समर्थविभक्तिः स्वीक्रियते इति स्मर्तव्यम् ।\nविशेषः - अत्र वार्त्तिके 'तेन कृतम्' इति विशिष्टरूपेण 'तेन' इति तृतीयासामर्थ्यम् निर्दिष्टमस्ति । अतः अन्येषु अर्थेषु - यथा 'तस्मै कृतम्' इत्यत्र वर्तमानसूत्रस्य प्रसक्तिः नास्तीति स्मर्तव्यम् ।\n" }, "51011": { "sa": "चतुर्थीसमर्थात् 'माणव'शब्दात् 'चरक'शब्दात् च 'हितम्' अस्मिन् अर्थे खञ्-प्रत्ययः भवति । ", "sd": "<<तस्मै हितम्>> [[5.1.5]] अनेन सूत्रेण 'हितम्' अस्मिन् अर्थे सर्वेभ्यः शब्देभ्यः औत्सर्गिकरूपेण छ-प्रत्यये प्राप्ते वर्तमानसूत्रेण तस्य अपवादरूपेण 'माणव' तथा 'चरक' शब्दात् खञ्-प्रत्ययः भवति ।\n1. माणवाय हितम्\n= माणव + ख\n→ माणव + ईन [<<आयनेयीनीयिय फघखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ईन्-आदेशः]\n→ माणव् + ईन [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः ; <<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ माणवीन\n2. चरकाय हितम्\n= चरक + ख\n→ चरक + ईन [<<आयनेयीनीयिय फघखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ईन्-आदेशः]\n→ चारक + ईन [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः ]\n→ चारक् + ईन [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ चारकीण [<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इति णत्वम्]" }, "51012": { "sa": "चतुर्थीसमर्थात् विकृतिवाचकशब्दात् तस्य कारणभूतां प्रकृतिं निर्देशयितुम् यथाविहितं प्रत्ययः भवति । ", "sd": "अस्य सूत्रस्य अर्थम् ज्ञातुमादौ पदपरिचयं पश्यामः ।\n1. 'प्रकृतिः' इत्युक्ते उपादानस्य (निर्माणस्य) कारणम् । यथा, अङ्गाराणाम् निर्माणम् काष्ठेभ्यः भवति (काष्ठानाम् दहनेन अङ्गाराः जायन्ते) । अतः अङ्गाराणाम् प्रकृतिः काष्ठम् - इति उच्यते । तथैव, जलस्य प्रकृतिः कूपः, यतः कूपे जलं उद्भवति ।\n2. 'विकृतिः' इत्युक्ते अवस्थान्तरम् / परिवर्तनम् । यथा, अङ्गारः इति काष्ठस्य विकृतिः (दहनात् अनन्तरम् काष्ठस्य अवस्थायां परिवर्तनम् जायते इत्याशयः) ।\n3. यदि प्रकृत्याः कस्यचन पदार्थस्य निर्माणम् भवति परन्तु तत्र प्रकृत्याः अवस्थान्तरं न जायते, तर्हि निर्मितः पदार्थः 'विकृतिः' इत्यपि अभिधानम् न प्राप्नोति । यथा, 'जलस्य प्रकृतिः कूपः' इति उच्यते (यतः जलम् कूपात् उद्भवति), परन्तु जलम् इति कूपस्य विकृतिः न, यतः जलस्य निर्माणार्थम् कूपस्य अवस्थान्तरम् न भवति । अस्मिन् सूत्रे 'विकृतेः प्रकृतौ' इति द्वयोः ग्रहणेन अयमेव बिन्दुः निर्दिष्टः अस्ति - यत्र काचन प्रकृतिः विकृतिं जनयति तत्रैव अस्य सूत्रस्य प्रयोगः भवितुमर्हति । सर्वासाम् प्रकृतीनाम् विकृतीनाम् विषये च सूत्रमिदम् न विहितम्, इति आशयः ।\nइदानीम् सूत्रार्थं पश्यामः - यत्र काचन प्रकृतिः विकृतिम् जनयति, तत्र प्रकृत्याः निर्देशं कर्तुम् चतुर्थीसमर्थात् विकृतिवाचिशब्दात् छ-प्रत्ययः औत्सर्गिकरूपेण विधीयते । उदाहरणत्रयं पश्यामश्चेत् स्पष्टतरम् स्यात् -\n1. काष्ठम् इति प्रकृतिः, अङ्गाराः इति विकृतिः, काष्ठानां दाहनेन च अङ्गाराः जायन्ते । अतः काष्ठस्य निर्देशार्थम् 'अङ्गार'-शब्दात् छ-प्रत्ययः भवति । यथा - अङ्गारेभ्यः एतानि अङ्गारीयाणि काष्ठानि । प्रक्रिया इयम् -\nअङ्गार + छ\n→ अङ्गार + ईय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ईय्-आदेशः]\n→ अङ्गार् + ईय [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ अङ्गारीय\n2. प्राकारः (fence) इति विकृतिः, इष्टका (bricks) इति प्रकृतिः । प्राकाराय एताः प्राकारीयाः इष्टकाः । प्रक्रिया इयम् -\nप्राकार + छ\n→ प्राकार + ईय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ईय्-आदेशः]\n→ प्राकार् + ईय [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ प्राकारीय\n3. पिचुः (वस्त्रम्) इति विकृतिः, कार्पासः इति प्रकृतिः । अत्र औत्सर्गिकं छ-प्रत्ययं बाधित्वा <<उगवादिभ्यो यत्>> [[5.1.2]] इत्यनेन यत्-प्रत्ययः भवति । पिचवे अयम् पिचव्यः कार्पासः । प्रक्रिया इयम् -\nपिचु + यत् [<<उगवादिभ्यो यत्>> इति यत्]\n→ पिचो + य [<<ओर्गुणः>> [[6.4.146]] इति गुणः]\n→ पिचव् + य [<<वान्तो यि प्रत्यये>> [[6.1.79]] इति अवादेशः]\n→ पिचव्य ।\nज्ञातव्यम् -\n1. यत्र प्रकृत्याः 'विकृतिः' न जायते, अपितु अन्यः कश्चन पदार्थः निर्मीयते, तत्र अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, कूपम् इति जलस्य प्रकृतिः, परन्तु कूपस्य विकृतिः जलम् न - यतः कूपस्य परिवर्तनं कृत्वा जलं न जायते । अतः अत्र अस्य सूत्रस्य प्रसक्तिः नास्ति ।\n2. अस्मिन् सूत्रे 'तदर्थम्' इति शब्दः प्रयुज्यते । 'तदर्थम्' अनेन शब्देन प्रकृति-विकृत्योर्मध्ये विद्यमानः सम्बन्धः अत्र निर्दिश्यते । कः अस्य अर्थः? प्रकृतिविकृत्योर्मध्ये वस्तुतः भिन्नाः सम्बन्धाः भवितुमर्हन्ति , तेभ्यः केवलं 'तादर्थ्यसम्बन्ध'स्य विषये एव अस्य सूत्रस्य प्रयोगः भवति, न अन्येषाम् - इति अत्र आशयः । यथा, यवागूसेवनेन मूत्रनिर्माणम् भवति, अतः अत्र 'यवागूः' इति प्रकृतिः अस्ति, 'मूत्रम्' इति च विकृतिः । परन्तु अयम् सम्बन्धः 'योग्यता'सम्बन्धः अस्ति (यवागूः मूत्रनिर्माणार्थम् योग्या - इत्याशयः), न हि 'तादर्थ्य'सम्बन्धः (यतः यवागूः न सेव्यते चेदपि मूत्रनिर्माणम् भवत्येव) । अतः अत्र अस्य सूत्रस्य प्रयोगः न क्रियते । अन्यदेकमुदाहरणम् एतत् - यवानामावरणम् निष्कास्यते चेत् धानाः जायन्ते । (When the outer coating of यव is removed, what is obtained is referred as धाना) । अत्र यवः इति प्रकृतिः, धाना इति विकृतिः । परन्तु अत्र द्वयोर्मध्ये विद्यमानः सम्बन्धः 'अन्तरव्यावृतिः' ('removal') इति अस्ति, न हि 'तादर्थ्यम्' । अतः अत्रापि अस्य सूत्रस्य प्रयोगः न भवति । काष्ठ-अङ्गाराणाम् विषये तु तादर्थ्य-सम्बन्धः ('अनन्यार्थता) दृश्यते - काष्ठानि अङ्गाराश्च मूलरूपेण एकम् एव वस्तु । अतः अत्र अस्य सूत्रस्य प्रसक्तिः अस्ति । अस्मिन् विषये अधिकं पिपठिषवः न्यासम् पदमञ्जरीं च पश्यन्तु ।\n3. 'तदर्थम्' इत्यनेन निर्दिष्टः 'तादर्थ्य'सम्बन्धः यदि प्रकृतिविकृतिसम्बन्धस्य विषये नास्ति, तर्हि अस्य सूत्रस्य प्रयोगः न भवति । यथा, खड्गस्य कोशः 'खड्गार्थम्' एव विद्यते - इत्युक्ते, खड्गकोशयोर्मध्ये 'तादर्थ्य'सम्बन्धः अस्ति, परन्तु 'कोशः' इति खड्गस्य प्रकृतिः न । अतः अत्रापि अस्य सूत्रस्य प्रसक्तिः नास्ति ।\n4. काशिकाकारस्य मतेन केचन पण्डिताः <<तस्मै हितम्>> [[5.1.5]] इत्यस्मात् 'हितम्' इत्यस्य अप्यत्र अनुवृत्तिं कारयन्ति । यथा - अङ्गारेभ्यः हितानि अङ्गारीयानि काष्ठानि । अस्यापि अर्थः समानः एव ।\n5. यत्र यत्र विकृतिः अस्ति, तत्र तत्र तस्याः काचन प्रकृतिः भवेदेव । अतः केवलम् 'तदर्थं विकृतेः' इति उच्यते चेदपि प्रायः सम्पूर्णः अर्थः विधीयेत । तथाप्यत्र 'प्रकृतौ' इति स्पष्टरूपेण निर्दिष्टमस्ति । अस्य कारणम् काशिकाकारः वदति - 'द्वयोरपि प्रकृतिविकृत्योर्ग्रहणे विवक्षितः प्रकृतिविकारभावो लभ्यते' । इत्युक्ते, प्रकृति-विकृत्योः द्वयोः ग्रहणम् - 'केवलम् विशिष्टेषु अर्थेषु एव अस्य सूत्रस्य प्रसक्तिः स्यात्' - एतत् प्रतिपादयितुम् कृतमस्ति । " }, "51013": { "sa": "चतुर्थीसमर्थात् विकृतिवाचकेभ्यः 'छदिष्', 'उपधि', 'बलि' एतेभ्यः शब्देभ्यः कारणभूतां प्रकृतिं निर्देशयितुम् ढञ्-प्रत्ययः भवति ।", "sd": "<<तदर्थम् विकृतेः प्रकृतौ>> [[5.1.12]] इत्यत्र पाठितस्य औत्सर्गिकस्य छ-प्रत्ययस्य अपवादरूपेण 'छदिष्' (= गृहस्य छत्रम्), 'उपधि' (रथस्य चक्रम्), तथा 'बलि' (यज्ञे यस्य आहूतिः दीयते तत्) एतेभ्यः चतुर्थीसमर्थेभ्यः शब्देभ्यः ढञ्-प्रत्ययः भवति ।\n1. छदिषः निर्माणम् तृणानां परिवर्तनेन भवति, द्वयोर्मध्ये 'तादर्थ्य'सम्बन्धः अपि अस्ति - अतः 'छदिषे एतानि तृणानि' इत्यत्र 'छदिः' इति विकृतिः अस्ति, तृणम् इति प्रकृतिः अस्ति । अतः तृणानाम् निर्देशार्थम् 'छदिष्' शब्दात् ढञ्-प्रत्ययः भवति ।\nछदिष् + ढञ्\n→ छदिष् + एय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति एय्-आदेशः]\n→ छादिष् + एय [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ छादिषेय\nछदिषे एतानि छादिषेयानि तृणानि ।\n2. 'उपधिः' (रथस्य चक्रम्) इत्यस्य निर्माणम् दारुणः (wood) भवति, अतः 'उपधये इदम् दारु' इत्यत्र दारुणः निर्देशार्थम् 'उपधि' शब्दात् ढञ्-प्रत्ययः भवति ।\nउपधि + ढञ्\n→ उपधि + एय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति एय्-आदेशः]\n→ औपधि + एय [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ औपध् + एय [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ औपधेय ।\nउपधये इदम् औपधेयम् दारु ।\nअत्र एकं वार्त्तिकं ज्ञातव्यम् - - इत्युक्ते, 'उपधि' शब्दात् स्वार्थे अपि छ-प्रत्ययः भवति । उपधिः एव औपधेयम् ।\n3. 'बलिः' (यज्ञे दीयमाना आहूतिः) तण्डुलैः निर्मीयते । अत्र 'बलिः' इति विकृतिः, तण्डुलाः इति प्रकृतिः । अतः 'बलये एते तण्डुलाः' इत्यत्र तण्डुलानाम् निर्देशार्थं बलि-शब्दात् ढञ्-प्रत्ययः भवति ।\nबलि + ढञ्\n→ बलि + एय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति एय्-आदेशः]\n→ बालि + एय [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ बाल् + एय [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ बालेय\nबलये एते बालेयाः तण्डुलाः ।\nविशेषः - 'प्रकृतिः', 'विकृतिः' तथा 'तदर्थम्' - एतेषामर्थः <<तदर्थम् विकृतेः प्रकृतौ>> [[5.1.12]] इत्यत्र विस्तारेण प्रोक्तः अस्ति, सः तत्रैव द्रष्टव्यः । " }, "51014": { "sa": "चतुर्थीसमर्थात् विकृतिवाचकेभ्यः 'ऋषभ', तथा 'उपानह्' शब्दाभ्याम् प्रकृतिं निर्देशयितुम् ञ्य-प्रत्ययः भवति । ", "sd": "<<तदर्थम् विकृतेः प्रकृतौ>> [[5.1.12]] इत्यत्र पाठितस्य औत्सर्गिकस्य छ-प्रत्ययस्य अपवादरूपेण 'ऋषभ' (= वृषभः) तथा 'उपानह्' (= पादत्राणम्) एताभ्यां चतुर्थीसमर्थाभ्यां शब्दाभ्यां ञ्य-प्रत्ययः भवति ।\n1. ऋषभस्य नूतनम् अपत्यम् 'वत्स' नाम्ना ज्ञायते । निर्गता कालेन वत्सस्य ऋषभे परिवर्तनं भवति । अतः 'वत्स' इति प्रकृतिः, 'ऋषभः' इति विकृतिः - इति उच्यते । अत्र वत्स-ऋषभयोर्मध्ये 'तादर्थ्य'सम्बन्धः विद्यते, अतः वत्सस्य निर्देशं कर्तुम् ऋषभ-शब्दात् ञ्य-प्रत्ययविधानम् भवति ।\nऋषभाय अयम् वत्सः\n= ऋषभ + ञ्य\n→ आर्षभ + य [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ आर्षभ् + य [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ आर्षभ्य\nऋषभाय अयमार्षभ्यः वत्सः\n2. 'उपानह्' इत्युक्ते पादत्राणम् । अयम् हकारान्त-स्त्रीलिङ्गः शब्दः । उपानहः निर्माणम् 'मुञ्ज' नाम्ना तृणात् क्रियते, अतः 'मुञ्ज'इति प्रकृतिः, 'उपानह्'-इति विकृतिः । द्वयोर्मध्ये 'तादर्थ्यसम्बन्धः' अस्ति, अतः अत्र मुञ्जस्य निर्देशं कर्तुम् 'उपानह्'-शब्दात् ञ्य-प्रत्ययः विधीयते ।\nउपानहे अयम् मुञ्जः\n= उपानह् + ञ्य\n→ औपानह् + य [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ औपानह्य\nउपानहे अयम् औपानह्यः मुञ्जः ।\nअन्यद् उदाहरणम् - उपानहः निर्माणं चर्मणः अपि भवितुमर्हति, अतः 'चर्मन्' इत्यस्याः प्रकृत्याः 'उपानह्' इति विकृतिः । अतः चर्मणः निर्देशं कर्तुम् 'उपानह्'शब्दात् ञ्य-प्रत्ययः भवति । उपानहे इदम् औपानह्यम् चर्म । अत्र वस्तुतः <<चर्म्मणोऽञ्>> [[5.1.15]] इत्यनेन अग्रिमसूत्रेण उपानह्-शब्दात् अञ्-प्रत्ययः अपि विधीयते, परन्तु अत्र 'पूर्वविप्रतिषेधेन' वर्तमानसूत्रस्यैव प्रयोगः भवति । अस्मिन् विषये कौमुद्यां उच्यते - 'चर्मणि अपि अयमेव पूर्वविप्रतिषेधेन' ।\nज्ञातव्यम् - 'प्रकृतिः', 'विकृतिः' तथा 'तदर्थम्' - एतेषामर्थः <<तदर्थम् विकृतेः प्रकृतौ>> [[5.1.12]] इत्यत्र विस्तारेण प्रोक्तः अस्ति, सः तत्रैव द्रष्टव्यः ।\n" }, "51015": { "sa": "प्रकृतिवाचकस्य 'चर्मन्' शब्दस्य विकृतिं दर्शयितुम् चतुर्थीसमर्थात् विकृतिवाचकेभ्यः शब्दात् अञ्-प्रत्ययः भवति ।", "sd": "चर्मणः यः विकारः, तस्मात् चतुर्थीसमर्थात् चर्मणः निर्देशं कर्तुम् <<तदर्थम् विकृतेः प्रकृतौ>> [[5.1.12]] इत्यत्र पाठितस्य औत्सर्गिकस्य छ-प्रत्ययस्य अपवादरूपेण अञ्-प्रत्ययः विधीयते ।\nयथा - चर्मणः परिवर्तनं कृत्वा वर्ध्रस्य (leather band) निर्माणं क्रियते । अत्र 'चर्मन्' इति प्रकृतिः, 'वर्ध्र' इति विकृतिः । अत्र 'चर्मन्' इत्यस्य निर्देशार्थं चतुर्थीसमर्थात् वर्ध्र-शब्दात् अञ्-प्रत्ययः भवति । यथा -\nवर्ध्राय इदम् चर्म\n= वर्ध्र + अञ्\n→ वार्ध्र + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ वार्ध्र् + अ [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ वार्ध्र\nवर्ध्राय इदम् वार्ध्रम् चर्म । तथैव - वरत्रायै इदम् वारत्रम् चर्म । ('वरत्रा' इति 'वर्ध्र' इत्यस्यैव पर्यायवाची शब्दः)।\nज्ञातव्यम् -\n1. 'उपानह्' (पादत्राणम्) इत्यत्रापि निर्माणम् चर्मणः भवितुमर्हति । अतः 'उपानहे इदम् चर्म' इत्यस्मिन् अर्थे उपानह्-शब्दात् अपि वर्तमानसूत्रेण अञ्-प्रत्ययस्य प्रसक्तिः विद्यते । परन्तु तत् बाधित्वा <<ऋषभोपानहोर्ञ्यः>> [[5.1.14]] इत्यनेन पूर्वसूत्रेण अत्र उपानह्-शब्दात् ञ्य-प्रत्ययः विधीयते - उपानहे इदम् औपानह्यम् चर्म ।\n2. 'प्रकृतिः', 'विकृतिः' तथा 'तदर्थम्' - एतेषामर्थः <<तदर्थम् विकृतेः प्रकृतौ>> [[5.1.12]] इत्यत्र विस्तारेण प्रोक्तः अस्ति, सः तत्रैव द्रष्टव्यः)।\n" }, "51016": { "sa": "प्रथमासमर्थात् 'अस्य स्यात्' तथा च 'अस्मिन् स्यात्' एतयोः अर्थयोः यथाविहितं प्रत्ययः भवति । ", "sd": "'अस्य स्यात्' तथा 'अस्मिन् स्यात्' एतयोः अर्थयोः प्रथमासमर्थात् औत्सर्गिकरूपेण छ-प्रत्ययः अनेन सूत्रेण उच्यते । कानिचन उदाहरणानि पश्यामः -\n1. इष्टकाभिः (bricks) प्राकारस्य (wall) निर्माणं भवति । अतः काश्चन इष्टकाः प्राकारस्य निर्माणार्थम् पृथक् संस्थाप्य 'प्राकारः एतासाम् इष्टकानाम् स्यात्' इति वक्तुं शक्यते । अस्यां स्थितौ प्रथमासमर्थात् 'प्राकार'शब्दात् इष्टकानां निर्देशार्थम् वर्तमानसूत्रेण छ-प्रत्ययः भवति -\nप्राकारः यासाम् इष्टकानाम् स्यात् ताः इष्टकाः\n= प्राकार + छ\n→ प्राकार + ईय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ईय-आदेशः]\n→ प्राकार् + ईय [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ प्राकारीय\nप्राकारः यासाम् इष्टकानाम् स्यात् ताः प्राकारीयाः इष्टकाः\n2. 'प्राकारः अस्मिन् देशे स्यात्' अस्मिन् अर्थे प्रथमासमर्थात् 'प्राकार'शब्दात् 'देश'स्य निर्देशं कर्तुम् वर्तमानसूत्रेण छ-प्रत्ययः भवति ।\nप्राकराः यस्मिन् देशे स्युः सः देशः\n = प्राकार + छ\n→ प्राकार + ईय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ईय-आदेशः]\n→ प्राकार् + ईय [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ प्राकारीय\nप्राकराः यस्मिन् देशे स्युः सः प्राकारीयः देशः\n3. प्रासादः (castle) दारुणः (woods) जायते । अतः 'प्रासादः अस्य दारुणः स्यात्' अस्मिन् अर्थे दारुणः निर्देशं कर्तुम् प्रासाद-शब्दात् वर्तमानसूत्रेण छ-प्रत्ययः विधीयते । प्रासादः यस्य दारुणः स्यात् तत् प्रासादीयम् दारू । तथैव, 'प्रासादः अस्मिन् नगरे स्यात्' अस्मिन् अर्थे नगरस्य निर्देशं कर्तुम् प्रासाद-शब्दात् छ-प्रत्ययः भवति । प्रासादः यस्मिन् नगरे स्यात् तत् प्रासादीयम् नगरम् ।\nअस्य सूत्रस्य विषये केचन बिन्दवः विशेषरूपेण अत्र ज्ञेयाः । क्रमेण पश्यामः -\n1. अस्मिन् सूत्रे 'स्यात्' इति प्रयोगः कृतः अस्ति । 'स्यात्' इति अस्-धातोः विधिलिङ्-लकारस्य प्रथमपुरुषैकवचनम् । अत्र विधिलिङ्लकारः <<सम्भावनेऽलमिति चेत् सिद्धाप्रयोगे>> [[3.3.154]] अनेन सूत्रेण प्रसज्यते । इत्युक्ते, अत्र 'सम्भावना / योग्यता / शक्तिः' अस्मिन् अर्थे विधिलिङ्लकारः प्रयुज्यते । यथा, 'प्राकारः यासाम् इष्टकानाम् स्यात् ताः प्राकारीयाः इष्टकाः ' इत्यत्र 'बह्व्यः इष्टकाः एकत्रीक्रियन्ते चेत् प्राकारस्य / प्रासादस्य निर्माणे आवश्यकीं शक्तिं/योग्यतां प्राप्नुवन्ति' - इति अत्र चिन्तनमस्ति । तथैव, 'प्राकारः यस्मिन् देशे स्यात् सः प्राकारीयः देशः' इत्यत्र 'देशः स्वस्य वातावरणेन (तथा च भिन्नैः गुणैः) प्राकारस्य निर्माणे आवश्यकीं योग्यतां प्राप्नोति' - इति मन्यते । एतादृशी योग्यता विद्यते चेदेव अस्य सूत्रस्य प्रयोगः भवति, न अन्यथा । यथा, 'प्रासादः देवदत्तस्य स्यात्' अस्मिन् वाक्ये यद्यपि विधिलिङ्लकारः प्रयुज्यते, तथाप्यत्र 'शक्तिः / योग्यता' इति अर्थः नास्ति, अपितु 'विधिः / प्रार्थना' एतेषु अर्थेषु 'स्यात्' इत्यस्य प्रयोगः कृतः अस्ति, अतः अत्र वर्तमानसूत्रस्य प्रसक्तिः न विद्यते ।\n2. 'प्राकारः यासाम् इष्टकानाम् स्यात् ताः इष्टकाः' इत्यत्र उत 'प्राकाराः यस्मिन् देशे स्यात् सः देशः' इत्यत्र प्राकार-इष्टकयोर्मध्ये / प्राकार-देशयोर्मध्ये 'हितम्' इति सम्बन्धः उत 'प्रकृति-विकृति' इत्यपि सम्बन्धः नास्तीति स्मर्तव्यम् । अतः अस्मिन् उदाहरणे <<तस्मै हितम्>> [[5.1.5]] उत <<तदर्थं विकृतेः प्रकृतौ>> [[5.1.12]] एतयोः प्रसक्तिः नास्ति ।\n3. अस्मिन् सूत्रे 'इति' अयम् शब्दः प्रयुक्तः अस्ति । अस्य कारणम् कौमुद्यामुच्यते - 'इति शब्दो लौकिकीं विवक्षामनुसारयति' । इत्युक्ते, लोके ये प्रयोगाः साधवः सन्ति, तेषां विषये एव अनेन सूत्रेण छ-प्रत्ययः कर्तव्यः, अन्येषां विषये न । यथा - 'प्रासादः देवदत्तस्य स्यात्' इत्यत्र यद्यपि 'देवदत्तः स्वस्य शक्त्या / योग्यतया प्रासारं क्रीणीयात्' इति अर्थं स्वीकृत्य 'योग्यता / शक्तिः' इति निर्दिश्यते, तथापि अस्य वाक्यस्य विषये वर्तमानसूत्रस्य प्रयोगः न क्रियते, यतः एतादृशाः प्रयोगाः लोके न दृश्यन्ते । एतदेव स्पष्टीकर्तुम् काशिकाकारः वदति - 'इतिकरणः विवक्षार्थः' ।\n4. तद्धितप्रकरणे अग्रे <<तद् अस्य अस्ति अस्मिन् इति मतुप्>> [[5.2.94]] इति किञ्चन सूत्रम् विद्यते, येन 'तत् अस्य अस्ति / तत् अस्मिन् अस्ति' अस्मिन् अर्थे मतुप्-प्रत्ययविधानम् भवति । यथा - वृक्षः अस्मिन् अस्ति सः वृक्षवान् पर्वतः । एतत् सूत्रम् वर्तमानसूत्रेण सह बहु साधर्म्यम् दर्शयति । परन्तु द्वे एते सूत्रे समाने न । <<तद् अस्य अस्ति अस्मिन् इति मतुप्>> [[5.2.94]] इत्यत्र 'अस्ति' इति लट्-लकारस्य प्रयोगः विद्यते, परन्तु वर्तमानसूत्रे 'स्यात्' इति विधिलिङ्लकारः प्रयुज्यते । अयम् क्रियापदस्य भेदः अर्थभेदमपि स्पष्टीकरोति - <<तद् अस्य अस्ति अस्मिन् इति मतुप्>> [[5.2.94]] इत्यस्य प्रयोगः 'वर्तते / सत्ता' अस्मिन् अर्थे भवति, तथा च वर्तमानसूत्रस्य प्रयोगः 'योग्यता / शक्तिः' अस्मिन् अर्थे । उदाहरम् एतादृशम् - 'प्राकाराः सन्ति अस्मिन् देशे' इति स्थिते <<तद् अस्य अस्ति अस्मिन् इति मतुप्>> [[5.2.94]] इत्यनेन मतुप्-प्रत्ययं कृत्वा 'प्राकारवान् अयम् देशः' इति जायते । परन्तु 'प्राकाराः स्युः अस्मिन् देशे' इत्यत्र तु वर्तमानसूत्रस्यैव प्रसक्तिः अस्ति, अतः अत्र 'छ'प्रत्ययं कृत्वा 'प्राकारीयः देशः' इति जायते ।\n5. <<तद् अस्य अस्ति अस्मिन् इति मतुप्>> [[5.2.94]] तथा वर्तमानसूत्रम् <<तदस्य तदस्मिन् स्यादिति>> [[5.1.16]] एतयोर्मध्ये अन्यः अपि एकः भेदः दृश्यते- <<तद् अस्य अस्ति अस्मिन् इति मतुप्>> [[5.2.94]] इत्यस्मिन् सूत्रे 'तद्' अयम् प्रथमासमर्थः एकवारम् एव प्रयुक्तः अस्ति । परन्तु <<तदस्य तदस्मिन् स्यादिति>> [[5.1.16]] इत्यस्मिन् वर्तमानसूत्रे 'तद्' अयम् शब्दः द्विवारम् निर्दिश्यते । अस्य प्रयोजनम् किमस्ति इत्यस्मिन् विषये पण्डितानाम् मताः भिद्यन्ते । भाष्यकारः कौमुदीकारश्च अस्मिन् विषये किमपि न भाषेते । तत्त्वबोधिनीकारः वदति - 'द्विस्तद्शब्दस्य ग्रहणम् स्पष्टप्रतिपत्यर्थम्' । इत्युक्ते, <<तद् अस्य अस्ति अस्मिन् इति मतुप्>> [[5.2.94]] इत्यत्र यथा एकवारम् एव 'तद्' शब्दः प्रयुज्यते, तथैव वर्तमानसूत्रे अपि भवितुमर्हति, परन्तु केवलं अधिक-स्पष्टतायै अत्र द्विवारम् 'तत्' इत्यस्य ग्रहणम् क्रियते । काशिकाकारस्तु अस्मिन् विषये विशेषं मतं प्रदर्शयति । सः वदति - 'अनेकसमर्थविभक्तिः न्यायप्रदर्शनार्थम्' इति । इत्युक्ते, अस्मिन् सूत्रे 'तत्' इत्यस्य द्विवारम् ग्रहणमाचार्येण पाणिनिना 'ज्ञापकरूपेण' स्थापितमस्ति (न्याय = ज्ञापकम्) । कस्य इदम् ज्ञापकम्? - यथा वर्तमानसूत्रे द्वौ प्रत्ययार्थौ उच्येते ('अस्य अस्ति' तथा 'अस्मिन् अस्ति'), तथैव सूत्रपाठे अन्यत्र यत्र कुत्रापि द्वौ वा अधिकाः अर्थाः एकस्मिन् एव सूत्रे उच्यन्ते, तत्र समर्थविभक्तिः यद्यपि एकवारम् एव दीयते, तथापि सा तावन्ति वारमावर्तते - इत्यस्य इदम् ज्ञापकम् । यथा, <<तेन दीव्यति खनति जयति जितम्>> [[4.4.2]] इत्यत्र चत्वारः अर्थाः पाठ्यन्ते, परन्तु समर्थविभक्तिः 'तेन' इति तु एकवारम् एव विद्यते । अस्यां स्थितौ अनेन ज्ञापकेन एतत् स्पष्टीभवति, यत् चतुर्षु अपि विद्यमानेषु अर्थेषु 'तेन दीव्यति, तेन खनति, तेन जयति, तेन जितम्' एतादृशम् चतुर्वारम् 'तेन' इति ग्रहीतव्यम् । अनेन आवर्तनेन प्रत्येकः प्रत्ययार्थः अन्यस्य अपेक्षया स्वतन्त्ररूपेण विधीयते । यथा - 'अक्षैः दीव्यति' इत्यत्र यद्यपि केवलं 'दीव्यति' इत्यैव अर्थः अस्ति, तथाप्यत्र <<तेन दीव्यति खनति जयति जितम्>> [[4.4.2]] इत्यस्य प्रयोगः भवितुमर्हति - इति अनेन स्पष्टीभवति । पदमञ्जरीकारः एतदेव स्पष्टीकर्तुमन्यदेकमुदाहरणम् ददाति - 'यदि पुनरयं न्यायोऽत्र न प्रदर्श्येत, तदा तदस्यास्त्यस्मिन्निति मतुप् इत्यत्र समुदायेन समर्थविभक्तिसम्बन्धो विज्ञायेत' । इत्युक्ते, यदि वर्तमानसूत्रे द्विवारम् 'तत्' इति ग्रहणम् न अभविष्यत्, तर्हि उपरिनिर्दिष्टं ज्ञापकं अपि न अवर्तिष्यत, तर्हि च <<तद् अस्य अस्ति अस्मिन् इति मतुप्>> [[5.2.94]] इत्यत्र 'तत् अस्य अस्मिन् च' इति अर्थनिष्पत्तिः अभविष्यत्, तथा च केवलम् 'तत् अस्य' उत केवलं 'तत् अस्मिन्' इत्यत्र इष्टं मतुप्-प्रत्ययविधानम् न अभविष्यत् । परन्तु वर्तमानसूत्रे निर्दिष्टेन ज्ञापकेन अयं दोषः न जायते, येन 'गौः अस्ति अस्य देवदत्तस्य' इत्यत्र, तथा च 'वृक्षाः सन्ति अस्मिन् पर्वते' इत्यत्रापि मतुप्-प्रत्ययविधानं कृत्वा 'गोमान् देवदत्तः' / 'वृक्षवान् पर्वतः' एतादृशाः प्रयोगाः सिद्ध्यन्ति ।\n" }, "51017": { "sa": "प्रथमासमर्थात् परिखा-शब्दात् 'अस्य स्यात्' तथा च 'अस्मिन् स्यात्' एतयोः अर्थयोः ढञ्-प्रत्ययः भवति । ", "sd": "'अस्य स्यात्' तथा 'अस्मिन् स्यात्' एतयोः अर्थयोः प्रथमासमर्थात् <<तदस्य तदस्मिन् स्यादिति>> [[5.1.16]] अनेन सूत्रेण औत्सर्गिकरूपेण छ-प्रत्यये उक्ते 'परिखा' (= कर्षू / खननेन निर्मिता रेषा / trench) शब्दस्य विषये तं बाधित्वा ढञ्-प्रत्ययः भवति । यथा - परिखा अस्याः अस्ति अस्यामस्ति वा सा पारिखेया भूमि ।\nप्रक्रिया इयम् -\nपरिखा अस्याः अस्ति अस्यामस्ति वा सः =\nपरिखा + ढञ्\n→ परिखा + एय [<<आयनेयीनीयियः फडखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति एय्-आदेशः]\n→ पारिखा + एय [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ पारिख् + एय [<<यस्येति च>> [[6.4.148]] इति आकारलोपः । अत्र ढकारादिः प्रत्ययः अस्ति अतः पुंवद्भावः न भवति ( अस्य वार्त्तिकस्य प्रसक्तिः नास्ति)]\n→ पारिखेय\nस्त्रीत्वे <<टिड्ढाणञ्..>> [[4.1.4]] इति ङीप् - पारिखेयी । परिखा अस्याः अस्ति अस्यामस्ति वा सा पारिखेयी भूमिः ।\nज्ञातव्यम् - तद्धिताधिकारे ये पञ्च महोत्सर्गाः पाठ्यन्ते, तेषु चतुर्थः महोत्सर्गः (छाधिकारः) - यस्य प्रारम्भः <<प्राक्क्रीतात् छः>> [[5.1.1]] इत्यत्र भवति - अत्र समाप्यते ।\n" }, "51018": { "sa": "प्राक्-वतीय-अर्थेषु ठञ्-प्रत्ययः औत्सर्गिकरूपेण भवति ।", "sd": "तद्धिताधिकारे पाठितेभ्यः पञ्च-महोत्सर्गेभ्यः पञ्चम (अन्तिमः) महोत्सर्गः अस्मात् सूत्रात् आरभ्यते । वर्तमानसूत्रतः <<तेन तुल्यं क्रिया चेद्वतिः>> [[5.1.115]] इति यावत्सु सूत्रेषु आहत्य सप्तविंशतिः अर्थाः पाठिताः सन्ति । एते सर्वे अर्थाः 'प्राक्-वतीय-अर्थाः' नाम्ना ज्ञायन्ते । एतेषां सर्वेषाम् विषये औत्सर्गिकरूपेण ठञ्-प्रत्ययः भवति । अस्य ठञ्-प्रत्ययस्य अपवादरूपेण भिन्नैः सूत्रैः भिन्नासु अवस्थासु विविधानाम् प्रत्ययानाम् विधानम् क्रियते ।\nठञ्-प्रत्ययस्य कानिचन उदाहरणानि -\nअ) शूर्पेण क्रीतम् = शूर्प + ठञ् = शौर्पिक\nआ) योजनं शतं गच्छति = योजन + ठञ् = यौजनिक\nइ) मासं ब्रह्मचर्यं यस्य = मास + ठञ् = मासिक\nप्रक्रिया इयम् -\nशूर्प + ठञ्\n→ शूर्प + इक [<<ठस्येकः>> [[7.3.50]] इति ठकारस्य इक-आदेशः]\n→ शौर्प + इक [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ शौर्प् + इक [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ शौर्पिक\n27 प्राग्वतीयाः अर्थाः एते -\n1. <<तेन क्रीतम्>> [[5.1.37]]\n2. <<तस्य निमित्तं संयोगोत्पातौ>> [[5.1.38]]\n3. <<तस्येश्वरः>> [[5.1.42]]\n4. <<तत्र विदित इति च>> [[5.1.43]]\n5. <<तस्य वापः>> [[5.1.45]]\n6. <<तदस्मिन् वृद्ध्यायलाभशुल्कोपदा दीयते>> [[5.1.47]]\n7. <<तद्धरति वहत्यावहति भाराद्वंशादिभ्यः>> [[5.1.50]]\n8. <<सम्भवत्यवहरति पचति>> [[5.1.52]]\n9. <<सोऽस्यांशवस्नभृतयः>> [[5.1.56]]\n10. <<तदस्य परिमाणम्>> [[5.1.57]]\n11. <<तद् अर्हति>> [[5.1.63]]\n12. <<पारायणतुरायणचान्द्रायणं वर्तयति>> [[5.1.72]]\n13. <<संशयमापन्नः>> [[5.1.73]]\n14. <<योजनं गच्छति>> [[5.1.74]]\n15. <<उत्तरपथेनाहृतं च>> [[5.1.77]]\n16. <<तेन निर्वृत्तम्>> [[5.1.79]]\n17. <<तमधीष्टो भृतो भूतो भावी>> [[5.1.80]]\n18. <<षष्टिकाः षष्टिरात्रेण पच्यन्ते>> [[5.1.90]]\n19. <<तेन परिजय्यलभ्यकार्यसुकरम्>> [[5.1.93]]\n20. <<तदस्य ब्रह्मचर्यम्>> [[5.1.94]]\n21. <<तस्य च दक्षिणा यज्ञाख्येभ्यः>> [[5.1.95]]\n22. <<तत्र च दीयते कार्यं भववत्>> [[5.1.96]]\n23. <<सम्पादिनि>> [[5.1.99]]\n24. <<तस्मै प्रभवति>> [[5.1.101]]\n25. <<समयस्तदस्य प्राप्तम्>> [[5.1.104]]\n26. <<प्रकृष्टे ठञ्>> [[5.1.108]]\n27. <<प्रयोजनम्>> [[5.1.109]]\n" }, "51019": { "sa": "प्राग्वतीय-अर्थेषु 'तदर्हति' अर्थपर्यन्तम् ये अर्थाः पाठिताः सन्ति, तेषां विषये 'गोपुच्छ' इति शब्दम् , संख्यावाचिशब्दम् तथा परिमाणवाचिशब्दं विहाय अन्येभ्यः शब्देभ्यः ठक्-प्रत्ययः भवति । ", "sd": "<<प्राग्वतेष्ठञ्>> [[5.1.18]] अनेन सूत्रेण सर्वेषु प्राग्वतीय-अर्थेषु औत्सर्गिकरूपेण ठञ्-प्रत्ययः उच्यते । तं बाधित्वा प्रायः सर्वेषां शब्दानां विषये अनेन सूत्रेण केषुचन अर्थेषु ठक्-प्रत्ययविधानम् क्रियते । अस्मिन् विषये बिन्दुत्रयं क्रमेण पश्यामः -\n1. केषु अर्थेषु ठक्-प्रत्ययविधानं कृतमस्ति? सूत्रे उच्यते - 'आ अर्हात्' । इत्युक्ते, <<तेन क्रीतम्>> [[5.1.37]] इत्यस्मात् प्रथमात् अर्थात् आरभ्य <<तदर्हति>> [[5.1.63]] इति एकादशमर्थं यावत् ये केऽपि अर्थाः प्राग्वतीय-अधिकारे पाठ्यन्ते, तेषाम् विषये अनेन सूत्रेण औत्सर्गिकं ठञ्-प्रत्ययं बाधित्वा ठक्-प्रत्ययः पाठ्यते । अस्मिन् सूत्रे 'आ' (= 'आङ्') इति अव्ययम् 'अभिविधि' (till and including) अस्मिन् अर्थे कृतमस्ति, अतः अत्र आवल्याम् <<तदर्हति>> [[5.1.63]] इतस्य अपि समावेशः क्रियते इति स्मर्तव्यम् । अतः आहत्य एकादश-अर्थेषु वर्तमानसूत्रेण ठञ्-प्रत्ययं बाधित्वा ठक्-प्रत्ययः प्रोच्यते ।\n2. केषाम् शब्दानाम् विषये एतत् ठक्-प्रत्ययविधानम् कृतमस्ति? 'अ-गोपुच्छ-संख्या-परिमाणात्' । इत्युक्ते, संख्यावाचिशब्दान्, परिमाणवाचिशब्दान् (unit of measurement) तथा 'गोपुच्छ' एतम् शब्दम् विहाय अन्येषां सर्वेषां शब्दानां विषये ठञ्-प्रत्ययं बाधित्वा ठक्-प्रत्ययः विधीयते ।\n3. को भेदः ठञ्-ठक्-प्रत्यययोः? ठञ्-प्रत्ययः ञित्-अस्ति, अतः ठञ्-प्रत्ययान्तशब्दाः <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] इत्यनेन आद्युदात्ताः भवन्ति । परन्तु ठक्-प्रत्ययः तु कित्-अस्ति, अतः ठक्-प्रत्ययान्तशब्दाः <<कितः>> [[6.1.165]] इत्यनेन अन्तोदात्ताः जायन्ते । द्वयोरपि प्रयोगेण रूपम् तु समानमेव भवतीति स्मर्तव्यम् ।\nयथा, <<तेन क्रीतम्>> [[5.1.37]] इति प्राग्वतीय-अधिकारस्य प्रथमः अर्थः । अस्मिन् अर्थे गोपुच्छशब्दात्, संख्याशब्दात् तथा च परिमाणवाचिशब्दात् ठञ्-प्रत्ययः भवति, अन्येभ्यः शब्देभ्यः च ठक्-प्रत्ययः भवति ।\nउदाहरणानि -\n[अ] गोपुच्छेन क्रीतम् = गोपुच्छ + ठञ् → गौपुच्छिक ।\n[आ] सप्तत्या क्रीतम् = सप्तति + ठञ् → साप्ततिक ।\n[इ] प्रस्थेन (Kilogram) क्रीतम् = प्रस्थ + ठञ् → प्रास्थिक ।\nविशेषः - किम् नाम परिमाणम् ? येन वस्तुनः मापनम् क्रियते, तस्य निर्देशः 'परिमाणम्' इत्यनेन क्रियते । अस्मिन् विषये भाष्ये एका कारिका उक्ता अस्ति -\n'ऊर्ध्वमानं किल उन्मानं परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात् सङ्ख्या बाह्या तु सर्वतः ॥'\nअस्यां कारिकायाम् 'सङ्ख्या' तथा 'परिमाण' एतयोर्मध्ये विद्यमानः भेदः स्पष्टीकृतः अस्ति । जडत्वस्य मापनार्थम् यत् प्रयुज्यते तत् 'उन्मानम्' नाम्ना ज्ञायते (उन्मान is a unit of measurement of weight. The reference here is that the weighing balance needs to be heldd vertically for assessing the correct weight. Hence the word 'ऊर्ध्वमान' is used in the वार्त्तिक) । सर्वप्रकारस्य मापनार्थम् यत् प्रयुज्यते तत् 'परिमाणम्' नाम्ना ज्ञायते । (परिमाण is a general term used for the unit of measurement) । आयामस्य (breadth / height / depth) मापनार्थम् यत् प्रयुज्यते तत् प्रमाणम् इति कथ्यते । उन्मान-प्रमाणयोः तु परिमाणेनैव ग्रहणम् भवति, अतः सूत्रे केवलम् 'परिमाण' इत्येव उच्यते । परन्तु एतेभ्यः सर्वेभ्यः सङ्ख्या भिन्ना अस्ति, अतः 'परिमाण' शब्देन सङ्ख्याशब्दानां ग्रहणं न भवति; अतः च तेषां निर्देशः अस्मिन् सूत्रे विशिष्टरूपेण कृतः अस्ति ।" }, "51020": { "sa": "प्राग्वतीय-अर्थेषु 'तदर्हति' अर्थपर्यन्तम् ये अर्थाः पाठिताः सन्ति, तेषां विषये निष्कादिगणस्य शब्देभ्यः समासं विहाय अन्यत्र ठक्-प्रत्ययः भवति । ", "sd": "<<प्राग्वतेष्ठञ्>> [[5.1.18]] अनेन सूत्रेण सर्वेषु प्राग्वतीय-अर्थेषु औत्सर्गिकरूपेण ठञ्-प्रत्ययः उच्यते । तं बाधित्वा प्रायः सर्वेभ्यः शब्देभ्यः आर्हीय-अर्थेषु <<आर्हादगोपुच्छसंख्यापरिमाणाट्ठक्>> [[5.1.19]] इत्यनेन ठक्-प्रत्ययः विधीयते । परन्तु ये शब्दाः सङ्ख्यावाचिनः परिमाणवाचिनः वा सन्ति, तेषां विषये <<आर्हादगोपुच्छसंख्यापरिमाणाट्ठक्>> [[5.1.19]] इत्यस्य प्रसक्तिः नास्ति, अतः तेषाम् विषये सर्वेषु आर्हीय-अर्थेषु अपि औत्सर्गिकः ठञ्-प्रत्ययः एव विधीयते । अयम् ठञ्-प्रत्ययः निष्कादिगणस्य शब्दानां विषये वर्तमानसूत्रेण बाध्यते, तथा च तस्य स्थाने ठक्-प्रत्ययविधानम् भवति ।\nनिष्कादिगणः अयम् - निष्क, पण, पाद, माष, वाह, द्रोण, षष्टि ।\nअस्मिन् निष्कादिगणे सर्वे शब्दाः परिमाणवाचिनः सङ्ख्यावाचिनः वा सन्ति । अतः एतेषां सर्वेषां आर्हीय-अधिकारे विषये औत्सर्गिकरूपेण ठञ्-प्रत्ययविधानमेव जायते । परन्तु यदि निष्कादिगणस्य शब्दाः समासं विहाय अन्यत्र आर्हीय-अर्थेषु प्रयुज्यन्ते, तर्हि तेभ्यः ठक्-प्रत्ययः कर्तव्यः, न हि ठञ्-प्रत्ययः - इति वर्तमानसूत्रेण स्पष्टीभवति ।\nयथा, 'निष्क' (सुवर्णमुद्रा) इति परिमाणवाची शब्दः । <<तेन क्रीतम्>> [[5.1.37]] इति प्रथमः आर्हीयः अर्थः । अस्मिन् अर्थे 'निष्केन क्रीतम्' इति स्थिते निष्क-शब्दात् ठञ्-प्रत्ययं बाधित्वा वर्तमानसूत्रेण ठक्-प्रत्ययः भवति । यथा - निष्क + ठक् → नैष्किक । निष्केन क्रीतम् नैष्किकम् रत्नम् ।\nअन्यानि उदाहरणानि एतानि -\n1. पणेन (ताम्रमुद्रया) क्रीतम् = पण + ठक् → पाणिक ।\n2. पादेन (मुद्रायाः 1/4-भागः पाद-नाम्ना ज्ञायते । यथा - 25 paisa) क्रीतम् = पाद + ठक् → पादिक ।\n3. माषेन (माष इति मापनस्य परिमाणम्) क्रीतम् = माष + ठक् → माषिक ।\n4. वाहः (जलस्य किञ्चन परिमाणम् - यथा liter etc) अस्य परिमाणम् = वाह + ठक् → वाहिक । अत्र <<तदस्य परिमाणम्>> [[5.1.57]] इति दशमः आर्हीयः अर्थः प्रयुक्तः अस्ति ।\n5. द्रोणः (= परिमाणवाचिशब्दः) यस्य परिमाणम् = द्रोण + ठक् → द्रौणिक ।\n6. षष्ट्या (= सङ्ख्यावाचिशब्दः) क्रीतम् = षष्टि + ठक् → षाष्टिक ।\nपरन्तु यदि निष्कादिगणस्य शब्दाः समासे विद्यन्ते, तर्हि वर्तमानसूत्रस्य प्रयोगः न भवतीति स्मर्तव्यम् ।\nयथा, परमनिष्केन क्रीतम् =\n→ परमनिष्क + ठञ्\n→ परमनिष्क + इक [<<ठस्येकः>> [[7.3.50]] इति इक-आदेशः]\n→ परमनैष्क + इक [<<परिमाणान्तस्यासंज्ञाशाणयोः>> [[7.3.17]] इति उत्तरपदवृद्धिः]\n→ परमनैष्क् + इक [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ परमनैष्किक\nतथैव -\n1. द्विपादेन क्रीतम् = द्विपाद + ठञ् → द्विपादम्। अत्र औत्सर्गिकस्य ठञ्-प्रत्ययस्य <<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> [[5.1.28]] इत्यनेन लुक् भवति ।\n2. द्विषष्ट्या क्रीतम् = द्विषष्टि + ठञ् → द्विषाष्टिक । अत्र <<संख्यायाः संवत्सरसंख्यस्य च>> [[7.3.15]] इत्यनेन उत्तरपदवृद्धिः भवति ।\nज्ञातव्यम् - वस्तुतः <ऽग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यतेऽ> अनया परिभाषया प्रत्ययविधौ तदन्तविधिः नैव इष्यते, अतः 'निष्कादिभ्यः' इति उच्यते चेदपि 'परमनिष्क' आदिभ्यः शब्देभ्यः वर्तमानसूत्रस्य प्रसक्तिः तादृशी एव न स्यात् । तर्हि अत्र पुनः 'असमासे' इति किमर्थमुक्तम् - इति प्रश्नः जायते । अस्य उत्तरार्थम् काशिकायाम् भाष्ये च वार्त्तिकद्वयम् दीयते । तदित्थम् -\n1. । इत्युक्ते, अस्मिन् सूत्रे 'असमास'ग्रहणम् 'पूर्वसूत्रेषु तदन्तविधिः अनुमन्यते' इत्यस्य ज्ञापकमस्ति ।\nपूर्वसूत्रेषु इत्युक्ते कुत्र कुत्र ? सम्पूर्णा आवली तु शास्त्रेषु न विद्यते, परन्तु कानिचन उदाहरणानि एतानि -\n[1] प्राक्क्रीतीय-अधिकारे <<उगवादिभ्यो यत्>> [[5.1.2]] इत्यनेन उगवादिगणस्य शब्दानां विषये यः यत्-प्रत्ययः पाठ्यते, सः तदन्ते अपि भवति । यथा, गवे हितम् गव्यम्, सुगवे हितम् सुगव्यम् ।\n[2] प्राक्क्रीतीय-अधिकारे <<विभाषा हविरपूपादिभ्यः>> [[5.1.4]] इत्यनेन यः यत्-प्रत्ययः पाठ्यते, सः तदन्ते अपि स्यात् । यथा, अपूपेभ्यो हितमपूप्यमपूपीयम् वा । यवापूपेभ्यो हितम् यवापूप्यपम् यवापूपीयम् वा ।\n[3] प्राक्क्रीतीय-अधिकारे <<शरीरावयवात् यत्>> [[5.1.6]] इत्यनेन शरीरस्य अवयववाचिभ्यः शब्देभ्यः पाठितः यत्-प्रत्ययः तदन्तेभ्यः अपि भवति । दन्ताय हितम् दन्त्यम् ; राजदन्ताय हितम् राजदन्त्यम् ।\n[4] प्राक्क्रीतीय-अधिकारे <<खलयवमाषतिलवृषब्रह्मणश्च>> [[5.1.7]] इत्यनेन उक्तः यत्-प्रत्ययः तदन्तेभ्यः अपि भवति । यथा - कृष्णतिलेभ्यो हितः कृष्णतिल्यः , राजमाषेभ्यो हितं राजमाष्यम् ।\n2. । इत्युक्ते, प्राग्वतीय-अधिकारे अपि सङ्ख्यापूर्वपदवाचिभ्यः अलुगन्तेभ्यः प्रातिपदकेभ्यः तदन्तविधिः भवति । यथा -\n[अ] <<पारायणतुरायणचान्द्रायणं वर्तयति>> [[5.1.72]] अस्मिन् अर्थे पारायणशब्दात् तु औत्सर्गिकः ठञ्-प्रत्ययः भवत्येव, परन्तु 'द्विपारायञण' शब्दात् अपि तदन्तविधिना ठञ्-प्रत्ययः एव भवति । द्विपारायणं वर्तयति सः द्वैपारायणिकः । यदि अत्र तदन्तविधिः न अभविष्यत्, तर्हि' द्विपारायणं वर्तयति' इत्यत्र कस्यापि प्रत्ययस्य प्रसक्तिः न अजनिष्यत - यतः <<पारायणतुरायणचान्द्रायणं वर्तयति>> [[5.1.72]] इत्यत्र पाठितः 'वर्तयति' इति अर्थः पारायण-तुरायण-चान्द्रायण-एतेभ्यः त्रिभ्यः प्रातिपदिकेभ्यः एव उक्तः अस्ति ।\n[आ] 'अलुगन्तेभ्यः' इति किम् तत् पश्यामः -\nद्वाभ्यां शूर्पाभ्यां क्रीतम्\n= द्वि + शूर्प + अञ् [<<तद्धितार्थोत्तरपदसमाहारे च>> [[2.1.51]] इत्यनेन द्विगुः समासः, <<शूर्पादञन्यतस्याम्>> [[5.1.26]] इति अञ्-प्रत्ययः । अत्रापि सङ्ख्यापूर्वपदत्वात् तदन्तविधिना अञ्-प्रत्ययः भवति]\n→ द्विशूर्प [<<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> [[5.1.28]] इति अञ्-प्रत्ययस्य लुक्]\nएतादृशम् निर्मितः 'द्विशूर्प' अयम् शब्दः 'लुप्तप्रत्ययान्तः' अस्ति । अग्रे 'द्विशूर्पेण क्रीतम्' इति स्थिते द्विशूर्प-शब्दात् अपि तदन्तविधिना <<शूर्पादञन्यतस्याम्>> [[5.1.26]] इत्यनेन वैकल्पिकः अञ् भवेत् वा - इति प्रश्नः आगच्छति । अस्य उत्तरार्थम् काशिकाकारः वदति - 'लुगन्तायाः प्रकृतेः न इष्यते' । इत्युक्ते, अत्र प्रकृतिः स्वयं लुप्तप्रत्ययान्ता अस्ति, अतः अत्र तदन्तविधिः न कर्तव्यः, इति । अतः अत्र तु औत्सर्गिकः ठञ्-प्रत्ययः एव भवति । द्विशूर्पेण क्रीतम् द्विशौर्पिकम् ।\n" }, "51021": { "sa": "प्राग्वतीय-अर्थेषु 'तदर्हति' अर्थपर्यन्तम् ये अर्थाः पाठिताः सन्ति, तेषां विषये 'शत'शब्दात् अशते अभिधेये समासं विहाय अन्यत्र ठन् तथा यत्-प्रत्ययौ भवतः । ", "sd": "<<प्राग्वतेष्ठञ्>> [[5.1.18]] अनेन सूत्रेण सर्वेषु प्राग्वतीय-अर्थेषु औत्सर्गिकरूपेण ठञ्-प्रत्ययः उच्यते । तं बाधित्वा प्रायः सर्वेभ्यः शब्देभ्यः आर्हीय-अर्थेषु <<आर्हादगोपुच्छसंख्यापरिमाणाट्ठक्>> [[5.1.19]] इत्यनेन ठक्-प्रत्ययः विधीयते । परन्तु ये शब्दाः सङ्ख्यावाचिनः परिमाणवाचिनः वा सन्ति, तेषां विषये <<आर्हादगोपुच्छसंख्यापरिमाणाट्ठक्>> [[5.1.19]] इत्यस्य प्रसक्तिः नास्ति, अतः तेषाम् विषये सर्वेषु आर्हीय-अर्थेषु अपि औत्सर्गिकः ठञ्-प्रत्ययः एव विधीयते । अयम् ठञ्-प्रत्ययः केभ्यश्चन सङ्ख्यावाचकेभ्यः शब्देभ्यः <<सङ्ख्यायाः अतिशदन्तायाः कन्>> [[5.1.22]] इत्यत्र पाठितेन 'कन्' इत्यनेन बाध्यते । 'शत'शब्दस्य विषये अपि अनेन सूत्रेण 'कन्' प्रत्ययस्य प्रसक्तिः विद्यते । परन्तु समासं विहाय अन्यत्र सोऽपि वर्तमानसूत्रेण बाध्यते, तस्य स्थाने च 'ठन्' तथा 'यत्' प्रत्ययौ भवतः ।\nयथा - <<तेन क्रीतम्>> [[5.1.37]] अस्मिन् अर्थे - शतेन क्रीतम् = शत + ठन् → शतिक । पक्षे शत + यत् → शत्य ।\nशतेन क्रीतम् शतिकम् शत्यम् वा वस्तु । शतरूप्यकाणि दत्त्वा यत् क्रीयते, तस्य निर्देशः 'शतिकम्' / 'शत्यम्' अनेन भवति ।\nअस्मिन् सूत्रे 'अशते' इति अपि उच्यते । अस्य अर्थः अयम् - आर्हीय-अर्थेषु शत-शब्दात् प्रत्ययविधानम् कृत्वा यदि पुनः 'शतम्' इत्येव अर्थः सिद्ध्यति, तत्र वर्तमानसूत्रस्य प्रसक्तिः नास्ति ।'शतात् अशते अभिधेये एव ठन्-यतौ, न अन्यथा' - इति अस्य सूत्रस्य आशयः । अस्य स्पष्टीकरणम् किञ्चित् क्लिष्टमस्ति, अतः एकमुदाहरणम् स्वीकृत्य अर्थं पश्यामः । 'सङ्घ' इति कश्चन शब्दः, समूहः इति अस्य अर्थः । यस्मिन् समूहे शतं जनाः सन्ति, तस्य निर्देशार्थम् <<तदस्य परिमाणम्>> [[5.1.57]] अस्मिन् अर्थे 'शतम् परिमाणमस्य सङ्घस्य' इति वाक्यम् क्रियते । अत्र प्रकृतिः अस्ति 'शतम्' इति, प्रत्ययस्य अर्थः अपि 'शतम्' इत्येव । The measure of a group of 100 people is 100 itself - इति अत्र आशयः । अस्यां स्थितौ वर्तमानसूत्रस्य प्रसक्तिः न विद्यते, यतः अत्र 'शतम्' इत्यस्मिन् अर्थे एव शत-शब्दात् प्रत्ययः कृतः अस्ति । अतः अत्र <<संख्यायाः अतिशदन्तायाः कन्>> [[5.1.22]] इति कन्-प्रत्ययः सिद्ध्यति - शतं परिमाणमस्य सङ्घस्य शतकः सङ्घः ।\nअत्र एकम् वार्त्तिकमपि ज्ञातव्यम् - । इत्युक्ते, यत्र तद्धितार्थे निर्मितः शब्दः कस्यचन अन्यस्य शतस्य निर्देशं करोति, तर्हि वर्तमानसूत्रेण उक्तः प्रतिषेधः न जायते - इत्युक्ते, वर्तमानसूत्रस्य प्रसक्तिः अस्ति एव । यथा, 'शतेन क्रीतम् शाटकशतम्' इत्यत्र 'शतम्' दत्वा किञ्चन अन्यम् वस्तु (शतम् शाटकानि) स्वीक्रियते । अत्र यद्यपि तद्धितान्तः शब्दः (= शाटकशतम्) 'शतम्' इत्यस्यैव विषये अस्ति, तथापि तद्धितान्तेन निर्दिष्टम् शतम् शाटकस्य विषये अस्ति, परन्तु प्रकृत्या निर्दिष्टं शतम् मूल्यस्य विषये अस्ति । अत्र द्वयोः शब्दयोः भिन्नम् शतम् निर्दिश्यते, अतः अत्र वर्तमानसूत्रे विद्यमानेन 'अ-शते' इत्यनेन अत्र प्रतिषेधः न जायते, अपितु वर्तमानसूत्रस्यैव प्रसक्तिः विद्यते - इत्युक्ते, अत्र शत-शब्दात् ठन् तथा यत्-प्रत्ययौ एव भवतः । शतेन क्रीतम् शत्यम् शतिकम् वा शाकटशतम् ।\nज्ञातव्यम् -\n1. समासस्य विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । इत्युक्ते, यदि 'शत'शब्दः समासे उत्तरपदस्थाने आगच्छति, तथा च तस्य पूर्वपदम् सङ्ख्यावाचिशब्दः अस्ति, तर्हि अत्र वर्तमानसूत्रस्य प्रसक्तिः नास्ति, अतः अत्र <<संख्याया अतिशदन्तायाः कन्>> [[5.1.22]] इत्यनेन कन्-प्रत्ययः एव विधीयते । यथा - द्विशतेन क्रीतम् = द्विशत + कन् → द्विशतकम् ।\n2. अस्मिन् सूत्रे उक्तौ ठन्-यत्-प्रत्ययौ <<सङ्ख्यायाः अतिशदन्तायाः कन्>> [[5.1.22]] इत्यस्य अपवादरूपेण विधीयते । " }, "51022": { "sa": "यः सङ्ख्यावाची शब्दः 'ति' इत्यनेन उत 'शत्' इत्यनेन न समाप्यते, तस्मात् आर्हीय-प्रकरणे कन्-प्रत्ययः भवति । ", "sd": "<<प्राग्वतेष्ठञ्>> [[5.1.18]] अनेन सूत्रेण सर्वेषु प्राग्वतीय-अर्थेषु औत्सर्गिकरूपेण ठञ्-प्रत्ययः उच्यते । तं बाधित्वा प्रायः सर्वेभ्यः शब्देभ्यः आर्हीय-अर्थेषु <<आर्हादगोपुच्छसंख्यापरिमाणाट्ठक्>> [[5.1.19]] इत्यनेन ठक्-प्रत्ययः विधीयते । परन्तु ये शब्दाः सङ्ख्यावाचिनः परिमाणवाचिनः वा सन्ति, तेषां विषये <<आर्हादगोपुच्छसंख्यापरिमाणाट्ठक्>> [[5.1.19]] इत्यस्य प्रसक्तिः नास्ति, अतः तेषाम् विषये सर्वेषु आर्हीय-अर्थेषु अपि औत्सर्गिकः ठञ्-प्रत्ययः एव विधीयते । अयम् ठञ्-प्रत्ययः वर्तमानसूत्रेण विशिष्टानां सङ्ख्यावाचिशब्दानां विषये बाध्यते, तथा च तस्य स्थाने कन्-प्रत्ययः विधीयते ।\nकेषाम् विषये वर्तमानसूत्रेण कन्-प्रत्ययस्य विधानम् भवति? यस्य अन्ते 'ति' उत 'शत्' इति न विद्यते, तस्य विषये वर्तमानसूत्रेण कन्-प्रत्ययः भवति । यथा - पञ्चन्, सप्तन्, एकादशन् , शत, सहस्र - आदयः ।\nउदाहरणम् - पञ्चभिः क्रीतम् = पञ्च + कन् → पञ्चक । सप्तभिः क्रीतम् = सप्त + कन् → सप्तक ।\nस्मर्तव्यम् -\n1. 'ति' येषामन्ते अस्ति ते सङ्ख्यावाचिनः शब्दाः (सप्ततिः, अशीतिः, नवतिः आदयः) वर्तमानसूत्रेण कन्-प्रत्ययं न स्वीकुर्वन्ति, अतः तेभ्यः औत्सर्गिकः ठञ्-प्रत्ययः एव विधीयते । सप्तत्या क्रीतम् = सप्तति + ठञ् → साप्ततिक । अस्मिन् विषये भाष्यकारः वदति - 'अर्थवतस्तिशब्दस्य ग्रहणम्' । इत्युक्ते, अनेन सूत्रेण केवलं तस्यैव 'ति'-शब्दान्तस्य ग्रहणम् भवति, यत्र विहितः 'ति' अयम् शब्दः स्वयमर्थपूर्णः अस्ति । कः अस्य अर्थः ? 'कति' शब्दम् स्वीकुर्मश्चेत् स्पष्टं भवेत् । 'कति' अयम् सङ्ख्यावाची शब्दः अस्ति, अस्य अन्ते अपि 'ति' इति विद्यते, अतः कति-शब्दात् वर्तमानसूत्रेण कन्-प्रत्ययः न जायेत - इति भासते । परन्तु 'कति' इत्यत्र उपस्थितः 'ति' शब्दः अर्थपूर्णः नास्ति (सः स्वयम् कमपि अर्थं न दर्शयति) अपितु 'डति' प्रत्ययस्य अंशः अस्ति । अस्यां स्थितौ वर्तमानसूत्रेण उक्तः 'अ-ति' इति प्रतिषेधः कति-सूत्रस्य विषये न विद्यते । अतः 'कति'शब्दस्य विषये वर्तमानसूत्रेण कन्-प्रत्ययः एव भवति । 'कतिभिः क्रीतम् कतिकम्' ।\n2. 'विंशति'शब्दस्य विषये वर्तमानसूत्रम् बाधित्वा <<विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम्>> [[5.1.24]] इत्यनेन ड्वुन्-प्रत्ययः भवति । परन्तु संज्ञायाः विषये <<विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम्>> [[5.1.24]] इत्यस्य प्रसक्तिः नास्ति, अतः तत्र वर्तमानसूत्रेण कन्-प्रत्ययः एव भवति । अस्मिन् विषये एतत् स्मर्तव्यम् यत् 'विंशति'शब्दस्य अन्ते यद्यपि 'ति' इति वर्तते, तथापि अस्य शब्दस्य विषये कन्-प्रत्ययः न निषिध्यते । किम् कारणमस्य? <<विंशतिकात्खः>> [[5.1.32]] इत्यत्र आचार्यः स्वयम् 'विंशतिक' इति कन्-प्रत्ययान्तशब्दस्य प्रयोगं करोति । एतदेव अस्य ज्ञापकम् यत् 'विंशति'शब्दस्य अन्ते 'ति' अस्ति तथापि तस्मात् कन्-प्रत्ययः एव करणीयः ।\n3. 'शत्' येषामन्ते अस्ति ते सङ्ख्यावाचिनः शब्दाः (यथा, चत्वारिंशत्, पञ्चाशत् - आदयः) अपि वर्तमानसूत्रेण कन्-प्रत्ययं न स्वीकुर्वन्ति, अतः तेभ्यः औत्सर्गिकः ठञ्-प्रत्ययः एव विधीयते । चत्वारिंशता क्रीतम् = चत्वारिंशत् + ठञ् → चात्वारिंशत्क ।\n4. त्रिंशत् शब्दस्य विषये अपि वर्तमानसूत्रम् बाधित्वा <<विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम्>> [[5.1.24]] इत्यनेन ड्वुन्-प्रत्ययः भवति । परन्तु संज्ञायाः विषये <<विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम्>> [[5.1.24]] इत्यस्य प्रसक्तिः नास्ति, अतः तत्र वर्तमानसूत्रेण कन्-प्रत्ययः एव भवति । अस्मिन् विषये अपि एतत् स्मर्तव्यम् यत् 'त्रिंशत्'शब्दस्य अन्ते यद्यपि 'शत्' इति वर्तते, तथापि अस्य शब्दस्य विषये कन्-प्रत्ययः न निषिध्यते । अस्य स्पष्टीकरणार्थम् <<विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम्>> [[5.1.24]] इत्यत्र योगविभागं कृत्वा 'विंशतित्रिंशद्भ्याम्' इति भिन्नं सूत्रं परिकल्प्य तस्मिन् सूत्रे 'कन्' इत्यस्य अनुवृत्तिं कृत्वा 'विंशति-त्रिंशद्भ्याम् संज्ञायाम् कन्' इति सूत्रनिर्माणम् कर्तव्यम्, येन संज्ञाविषये 'विंशति'शब्दात् 'त्रिंशत्'शब्दात् च कन्-प्रत्ययः भवेत् - इति भाष्ये स्पष्टीकृतमस्ति ।\n" }, "51023": { "sa": "'वतुँप्' प्रत्ययान्तेभ्यः सङ्ख्यावाचिभ्यः शब्देभ्यः आर्हीय-अर्थेषु प्राप्तस्य कन्-प्रत्ययस्य विकल्पेन इडागमः भवति । ", "sd": "<<प्राग्वतेष्ठञ्>> [[5.1.18]] अनेन सूत्रेण सर्वेषु प्राग्वतीय-अर्थेषु सङ्ख्यावाचिभ्यः शब्देभ्यः औत्सर्गिकरूपेण ठञ्-प्रत्ययः उच्यते । परन्तु 'वतुँप्' प्रत्ययान्ताः ये सङ्ख्यावाचिनः शब्दाः सन्ति, तेषां विषये सर्वेषु आर्हीय-अर्थेषु एतम् औत्सर्गिकम् प्रत्ययं बाधित्वा <<संख्याया अतिशदन्तायाः कन्>> [[5.1.22]] इत्यनेन कन्-प्रत्ययः विधीयते । वर्तमानसूत्रेण अस्य कन्-प्रत्ययस्य विकल्पेन इडागमः भवति ।\nआदौ किम् नाम 'वतुँप्' तत् पश्यामः । 'वतुँ' इति कश्चन तद्धितप्रत्ययः । <<यद्तदेतेभ्यः परिमाणे वतुप्>> [[5.2.39]] इत्यनेन यद् / तद् इत्येतयोः वतुप्-प्रत्ययः विधीयते , येन 'यावत्' / 'तावत्' एतौ शब्दौ सिद्ध्यतः । <<बहुगणवतुडति संख्या>> [[1.1.23]] इत्यनेन एतौ शब्दौ 'सङ्ख्या' इति संज्ञां प्राप्नुतः । अतः एतेषाम् विषये <<संख्याया अतिशदन्तायाः कन्>> [[5.1.22]] इत्यनेन कन्-प्रत्ययः भवति । अस्य कन्-प्रत्ययस्य वर्तमानसूत्रेण विकल्पेन इडागमः भवति । <<आद्यन्तौ टकितौ>> [[1.1.46]] इत्यनेन अयम् इडागमः प्रत्ययस्य आद्यवयवरूपेण आगच्छति ।\nयथा - यावता क्रीतम्\n= यावत् + कन्\n→ यावत् + इट् + कन् [<<वतोरिड्वा>> [[5.1.23]] इति विकल्पेन इडागमः]\n→ यावतिक\nइडागमस्य अभावपक्षे 'यावत् + कन् → यावत्क' इत्यपि रूपं सिद्ध्यति । यावता क्रीतम् यावतिकम् यावत्कम् च । तथैव, तावता क्रीतम् तावत्कम् तावतिकम् च ।\n " }, "51024": { "sa": "'विंशति' शब्दात् तथा च 'त्रिंशत्' शब्दात् आर्हीय-अर्थेषु संज्ञां वर्जयित्वा अन्यत्र ड्वुन्-प्रत्ययः भवति । ", "sd": "<<प्राग्वतेष्ठञ्>> [[5.1.18]] अनेन सूत्रेण सर्वेषु प्राग्वतीय-अर्थेषु सङ्ख्यावाचिभ्यः शब्देभ्यः औत्सर्गिकरूपेण ठञ्-प्रत्ययः उच्यते । परन्तु 'विंशति' तथा 'त्रिंशत्' शब्दानां विषये आर्हीय-अर्थेषु वर्तमानसूत्रेण तस्य बाधनं कृत्वा संज्ञां वर्जयित्वा अन्यत्र ड्वुन्-प्रत्ययः भवति । यथा -\n1. विंशत्या क्रीतम्\n= विंशति + ड्वुन्\n→ विंशति + अक [डकारनकारयोः इत्संज्ञा, लोपः । 'वु' इत्यस्य <<युवोरनाकौ>> [[7.1.1]] इति अक-आदेशः]\n→ विंश + अक [<<ते विंशतेर्डिति>> [[6.4.142]] इति 'ति' इत्यस्य लोपः]\n→ विंशक [<<अतो गुणे>> [[6.1.97]] इति पररूप-एकादेशः]\n2. त्रिंशता क्रीतम्\n= त्रिंशत् + ड्वुन्\n→ त्रिंशत् + अक [डकारनकारयोः इत्संज्ञा, लोपः । 'वु' इत्यस्य <<युवोरनाकौ>> [[7.1.1]] इति अक-आदेशः]\n→ त्रिंश् + अक [<<टेः>> [[6.4.143]] इति टिलोपः]\n→ त्रिंशक\nपरन्तु यदि संज्ञायाः (कस्यचन वस्तुनः नाम्नः) निर्देशः करणीयः अस्ति, तर्हि वर्तमानसूत्रेण ड्वुन्-प्रत्ययः न भवति - यतः अस्मिन् सूत्रे 'असंज्ञायाम्' इति उच्यते । अस्यां स्थितौ विंशतिशब्दात् त्रिंशत्-शब्दात् च कन्-प्रत्ययः करणीयः - इति भाष्यकारः वदति । वस्तुतः अत्र कन्-प्रत्ययस्य प्रसक्तिः नास्ति - अत्र औत्सर्गिकः ठञ्-प्रत्ययः एव भवेत्, परन्तु अत्र कन्-प्रत्ययः एव इष्यते । तदर्थम् <<संख्याया अतिशदन्तायाः कन्>> [[5.1.22]] इत्यस्मात् 'कन्' इत्यस्य अनुवृत्तिं कृत्वा भाष्यकारः योगविभागं कारयति - 'विंशतित्रिंशद्भ्यां कन् ; असंज्ञायाम् ड्वुन्' इति । अनेन प्रकारेण संज्ञायाः विषये विंशतिशब्दात् त्रिंशत्-शब्दात् च कन्-प्रत्ययः भवति । विंशत्या क्रीतम् विंशतिकम् , त्रिंशता क्रीतम् त्रिंशत्कम् ।\n" }, "51025": { "sa": "'कंस'शब्दात् आर्हीय-अर्थेषु टिठन्-प्रत्ययः भवति । ", "sd": "<<प्राग्वतेष्ठञ्>> [[5.1.18]] अनेन सूत्रेण सर्वेषु प्राग्वतीय-अर्थेषु परिमाणवाचिभ्यः शब्देभ्यः औत्सर्गिकरूपेण ठञ्-प्रत्ययः उच्यते । परन्तु अस्य अपवादरूपेण सर्वेषु आर्हीय-अर्थेषु 'कंस' (1 cup measure इत्यर्थः) अस्मात् शब्दात् टिठन्-प्रत्ययः भवति । यथा -\nकंसः परिमाणमस्य सः\n= कंस + टिठन्\n→ कंस + इक [<<ठस्येकः>> [[7.3.50]] इति इक-आदेशः]\n→ कंस् + इक [<<यस्येति च>> [[6.4.148]] इति अन्तिमवर्णलोपः]\n→ कंसिक\nटित्वात् स्त्रीत्वे विवक्षिते <<टिड्ढाणञ्..>> [[4.1.15]] इति ङीप्-प्रत्ययः भवति - कंसः परिमाणमस्य सा कंसिकी ।\nअत्र कानिचन वार्त्तिकानि ज्ञातव्यानि -\n1. । अर्धशब्दात् अपि सर्वेषु आर्हीय-अर्थेषु ठञ्-प्रत्ययं बाधित्वा टिठन्-प्रत्यय भवति । अर्धेन क्रीतः अर्धिकः, अर्धेन क्रीता अर्धिकी ।\n2. । कार्षापणशब्दात् अपि सर्वेषु आर्हीय-अर्थेषु टिठन्-प्रत्ययः भवति, तस्य च विकल्पेन 'प्रति' आदेशः भवति ।\n('कार्षापण' इति मुद्रायाः कश्चन भेदः) । यथा - कार्षापणेन क्रीतः काषार्पणिकः , कार्षार्पणेन क्रीता कार्षार्पणिका । पक्षे - कार्षापणेन क्रीतः प्रतिकः, कार्षापणेन क्रीता प्रतिकी ।\n" }, "51026": { "sa": "शूर्प-शब्दात् आर्हीय-अर्थेषु विकल्पेन अञ्-प्रत्ययः भवति । ", "sd": "<<प्राग्वतेष्ठञ्>> [[5.1.18]] अनेन सूत्रेण सर्वेषु प्राग्वतीय-अर्थेषु परिमाणवाचिभ्यः शब्देभ्यः औत्सर्गिकरूपेण ठञ्-प्रत्ययः उच्यते । तं बाधित्वा 'शूर्प' (कश्चन परिमाणवाचीशब्दः) अस्मात् शब्दात् सर्वेषु आर्हीय-अर्थेषु विकल्पेन अञ्-प्रत्ययः भवति । पक्षे औत्सर्गिकः ठञ् अपि भवति । शूर्पम् परिमाणमस्य सः = शूर्प + अञ् → शौर्प । पक्षे - शूर्प + ठञ् → शौर्पिक । " }, "51027": { "sa": "सर्वेषु आर्हीय-अर्थेषु शतमान, विंशतिक, सहस्र, वसन - एतेभ्यः शब्देभ्यः अण्-प्रत्ययः भवति । ", "sd": "प्राग्वतीय-अधिकारे <<तेन क्रीतम्>> [[5.1.37]] इत्यस्मात् प्रथमात् अर्थात् आरभ्य <<तदर्हति>> [[5.1.63]] इति यावन्तः एकादश-अर्थाः 'आर्हीय-प्रकरणे' समाविश्यन्ते । एतेषु सर्वेषु अर्थेषु 'शतमान', 'विंशतिक', 'सहस्र', 'वसन' - एतेभ्यः शब्देभ्यः अण्-प्रत्ययः भवति । क्रमेण पश्यामः -\n1. शतमान (a weight of 100 units) इति कश्चन परिमाणवाची शब्दः । अस्मात् शब्दात् <<प्राग्वतेष्ठञ्>> [[5.1.18]] इत्यनेन औत्सर्गिकरूपेण ठञ्-प्रत्यये प्राप्ते तं बाधित्वा वर्तमानसूत्रेण अण्-प्रत्ययः भवति । शतमानेन क्रीतम् शातमानम् ।\n2. 'विंशतिक' अयम् शब्दः कस्यचन परिमाणस्य संज्ञा अस्ति । 'विंशति' शब्दात् <<विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम्>> [[5.1.24]] इत्यस्य योगविभागेन संज्ञायाः विषये कन्-प्रत्ययं कृत्वा 'विंशतिक' इति शब्दः सिद्ध्यति । अस्मात् अग्रे आर्हीय-अर्थेषु औत्सर्गिकं ठञ्-प्रत्ययं बाधित्वा अण्-प्रत्ययः भवति । विंशतिकेन क्रीतम् वैंशतिकम् ।\n3. 'सहस्र' इति सङ्ख्यावाची शब्दः । अस्मात् शब्दात् <<संख्यायाः अतिशदन्तायाः कन्>> [[5.1.22]] इति कन्-प्रत्यये प्राप्ते तं बाधित्वा वर्तमानसूत्रेण आर्हीय-अर्थेषु अण्-प्रत्ययः भवति । सहस्रेण क्रीतम् साहस्रम् ।\n4. 'वसन' इत्युक्ते वस्त्रम् । 'वसन' शब्दात् सर्वेषु आर्हीय-अर्थेषु <<आर्हादगोपुच्छसंख्यापरिमाणाट्ठक्>> [[5.1.19]] इत्यनेन ठक्-प्रत्यये प्राप्ते तम् बाधित्वा वर्तमानसूत्रेण आर्हीय-अर्थेषु अण्-प्रत्ययः भवति । वसनेन क्रीतम् वासनम् । " }, "51028": { "sa": "सर्वेषु आर्हीय-अर्थेषु तद्धितार्थे जायमानात् अध्यर्धपूर्वपदसमासात् द्विगुसमासात् च परस्य तद्धितप्रत्ययस्य संज्ञाविषयं विहाय अन्यत्र लुक् भवति । ", "sd": "'अध्यर्ध' इति कश्चन सङ्ख्यावाचीशब्दः । a half more than something / something plus a half - इत्यर्थः । तद्धितार्थे जायमानस्य अध्यर्धपूर्वसमासस्य तथा च द्विगु-समासस्य विषये विहितस्य आर्हीय-प्रत्ययस्य अनेन सूत्रेण लुक् भवति । परन्तु निर्मितः तद्धितान्तशब्दः संज्ञां दर्शयति चेत् अयं लुक् निषिध्यते ।\nउदाहरणानि पश्यामः -\n1. 'अध्यर्धेन कंसेन क्रीतम्' इति वाक्यं स्वीक्रियताम् । अत्र <<तेन क्रीतम्>> [[5.1.37]] इत्यस्मिन् अर्थे 'तद्धितार्थद्विगुः' समासः भवितुमर्हति । अत्र वस्तुतः 'कंस' शब्दात् आर्हीयेषु अर्थेषु <<कंसात् टिठन्>> [[5.1.25]] इत्यनेन टिठन्-प्रत्ययः उच्यते; तदन्तविधिना च सः 'अध्यर्ध + कंस' इत्यत्रापि प्राप्नोति । (अस्मिन् स्थले तदन्तविधिः कथम् विधीयते अस्य विवरणम् <<असमासे निष्कादिभ्यः>> [[5.1.20]] इत्यत्र दत्तमस्ति, तत् तत्रैव दृश्यताम्) । अस्य 'टिठन्' प्रत्ययस्य वर्तमानसूत्रेण लुक् भवति -\nअर्ध्यर्धेन कंसेन क्रीतम्\n= अध्यर्ध + कंस + टिठन्\n→ अध्यर्धकंस [टिठन्-प्रत्ययस्य लुक्]\n2. 'द्वाभ्यां कंसाभ्यां क्रीतम्' इति वाक्येऽपि तद्धितार्थद्विगुः समासः विधीयते, अतः अत्रापि टिठन्-प्रत्ययस्य लुक् भवति ।\nद्वाभ्यां कंसाभ्यां क्रीतम्\n= द्वि + कंस + टिठन्\n→ द्विकंस\nविशेषः - अत्र निर्मितः यः 'द्विकंस' शब्दः, तस्य विषये अग्रे पुनः आर्हीय-अर्थः क्रियते चेत् तत्र अनेन वार्त्तिकेन तदन्तविधिः निषिध्यते । अतः अस्मात् 'द्विकंस'शब्दात् <<तेन क्रीतम्>> [[5.1.37]] अस्मिन् अर्थे औत्सर्गिकः ठञ्-प्रत्ययः एव भवति । अग्रे पुनः वर्तमानसूत्रस्य प्रसक्तिः स्यात् वा - इति प्रश्ने प्राप्ते, अत्र एतत् स्मर्तव्यम्, यत् अत्र विहितः तद्धितप्रत्ययः द्विगुनिमित्तकः नास्ति (इत्युक्ते, अयं प्रत्ययः तद्धितार्थ-द्विगुसमासं न जनयति), अतः अत्र वर्तमानसूत्रस्य प्रसक्तिः नास्ति । अत्र <<परिमाणान्तस्यासंज्ञाशाणयोः>> [[7.3.17]] इति उत्तरपदवृद्धिः एव भवति, वर्तमानसूत्रेण लोपः न विधीयते । द्विकंसेन क्रीतम् द्विकांसिकम् ।\n3. परन्तु, यदि निर्मितः तद्धितान्तशब्दः संज्ञावाचकः अस्ति, तर्हि अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, 'पञ्च कलापानि (unit of time) परिमाणमस्य' इत्यत्र विहितः ठञ्-प्रत्ययः 'पाञ्चकलापिकम्' इति संज्ञाशब्दं जनयति; अतः तस्य निर्माणे वर्तमानसूत्रस्य प्रयोगः न भवति -\nपञ्च कलापानि परिमाणमस्य\n= पञ्च + कलाप + ठञ्\n→ पाञ्चकलापिक\nतथैव, पञ्च लोहिन्यः परिमाणमस्य =\nपञ्च + लोहिनी + ठञ्\n→ पञ्च + लोहित + ठञ् [ अनेन वार्त्तिकेन अत्र पुंवद्भावः जायते । <<वर्णादनुदात्तात्तोपधात्तो नः>> [[4.1.39]] इत्यनेन 'लोहिनी'शब्दः 'लोहित'शब्दात् सिद्ध्यति, अतः अत्र पुंवद्भावे 'लोहित' इति जायते । ]\n→ पञ्च + लोहित् + इक [<<ठस्येकः>> [[8.3.50]], <<यस्येति च>> [[6.4.148]] ]\n→ पाञ्चलोहितिक\nअत्र केचन बिन्दवः ज्ञातव्याः -\n1. ठञ्-प्रत्ययस्य लुकि कृते अग्रे स्त्रीत्वे विवक्षिते <<द्विगोः>> [[4.1.21]] इत्यनेन द्विगुसंज्ञकात् स्त्रियाम् ङीप्-प्रत्ययः भवति । यथा - अध्यर्धकंसी, द्विकंसी - आदयः ।\n2. वस्तुतस्तु 'अध्यर्ध' शब्दः स्वयमपि एकाम् सङ्ख्यामेव दर्शयति, अतः अस्मिन् सूत्रे केवलम् 'द्विगोः' इति उच्यते चेदपि पर्याप्तं स्यात् (यतः द्विगुसमासस्य निर्माणे सङ्ख्यावाची शब्दः पूर्वपदरूपेण विधीयते) ।एवं सति अस्मिन् सूत्रे 'अध्यर्ध' शब्दस्य विशिष्टरूपेण किमर्थम् ग्रहणम् कृतमस्ति - इति प्रश्नः उपतिष्ठति । अस्य उत्तरार्थम् काशिकाकारः वदति - ' ज्ञापकार्थं, क्वचिदस्य सङ्ख्याकार्यं न भवति' - इति । इत्युक्ते, अत्र 'अध्यर्ध'ग्रहणमस्य ज्ञापकमस्ति यत् सङ्ख्याशब्दस्य विषये उक्तानि सर्वाणि कार्याणि 'अध्यर्ध'शब्दस्य विषये न प्रवर्तन्ते । यथा, <<संख्यायाः क्रियाऽभ्यावृत्तिगणने कृत्वसुच्>> [[5.4.17]] इत्यनेन उक्तः कृत्वसुच्-प्रत्ययः यद्यपि सर्वेभ्यः सङ्ख्यावाचिभ्यः शब्देभ्यः विधीयते, तथापि 'अध्यर्ध'शब्दस्य विषये तस्य प्रसक्तिः नास्ति ।\n3. अस्मिन् सूत्रे प्रयुक्तस्य 'अध्यर्ध'शब्दस्य विषये भाष्यकारः किञ्चित् भिन्नम् मतम् प्रकटीकरोति । सः ब्रूते - 'उक्तं संख्यात्वे प्रयोजनं तस्मादिहाध्यर्धग्रहणानर्थक्यम्' । अस्य अर्थः अयम् - <<बहुगणवतुडति सङ्ख्या>> [[1.1.23]] इत्यत्र 'संख्या' इति संज्ञा पाठ्यते, तत्र वार्तिककारः 'समासविधौ कन्-प्रत्ययविधौ च अध्यर्ध-शब्दस्य अपि संख्यासंज्ञा भवति' इति स्पष्टरूपेण वदति । अतः वर्तमानसूत्रस्य विषये 'द्विगोः' इत्यनेन यदा (सङ्ख्यापूर्व-)समासः उच्यते, तदा अध्यर्ध-शब्दस्य ग्रहणम् भवत्येव - तस्य भिन्नरूपेण निर्देशः न आवश्यकः । इत्युक्ते, भाष्यकारस्य मतेेन अस्मिन् सूत्रे 'अध्यर्ध'शब्दः न आवश्यकः ।\n4. वर्तमानसूत्रात् 'अध्यार्धपूर्वद्विगोः' इत्यस्य अनुवृत्तिः <<द्वित्रिपूर्वादण् च>> [[5.1.36]] इति यावत् गच्छति । अतः एतेषु सर्वेषु सूत्रेषु उक्ताः विधयः केवलं अध्यर्धपूर्वशब्दानाम् तथा द्विगुसमासेन निर्मितानां शब्दानां विषये एव पाठिताः सन्तीति स्मर्तव्यम् ।\n5. केवलं तद्धितार्थद्विगुसमासस्य विषये एव अस्य सूत्रस्य प्रसक्तिः अस्ति, समाहारद्विगोः / उत्तरपदद्विगोः विषये न । परन्तु यत्र अ-तद्धितार्थद्विगुसमासः तद्धितार्थद्विगुसमासस्य विषये एव विधीयते, तत्र वर्तमानसूत्रस्य प्रसक्तिः भवति । यथा - 'द्वयोः शूर्पयोः समाहारः द्विशूर्पी' इत्यनेन 'द्विशूर्पी' इति शब्दः समाहारद्विगुसमासेन जायते । अग्रे 'द्विशूर्प्या क्रीतम्' इति स्थिते अस्य वाक्यस्य अर्थः 'द्वाभ्यां शूर्पाभ्यां क्रीतम्' इत्येव भवति, अतः 'द्विशूर्प्या क्रीतम्' इत्यस्य परिवर्तनम् 'द्वाभ्यां शूर्पाभ्यां क्रीतम्' इत्यस्मिन् वाक्ये कृत्वा ततः वर्तमानसूत्रं प्रयुज्य 'द्विशूर्पम्' इति शब्दनिर्माणम् कर्तुं शक्यते । अस्मिन् विषये भाष्ये विस्तारेण चर्चा कृता अस्ति, जिज्ञासवः तां पश्यन्तु ।\n6. अस्मिन् सूत्रे 'अध्यर्धपूर्वद्विगोः' इति षष्ठ्यन्तम् रूपमस्ति । इयम् सम्बन्धषष्ठी अस्तीति भाष्यात् स्पष्टीभवति । 'अध्यर्धपूर्वस्य द्विगुसमासस्य च सम्बन्धी निमित्तभूतः यः तद्धितप्रत्ययः, तस्य लुक् भवति' इति अत्र आशयः वर्तते । " }, "51029": { "sa": "सर्वेषु आर्हीय-अर्थेषु तद्धितार्थे जायमानात् अध्यर्धपूर्वपदसमासात् द्विगुसमासात् च परस्य तद्धितप्रत्ययस्य 'कार्षापण'शब्दस्य विषये 'सहस्र'शब्दस्य विषये च विकल्पेन लुक् भवति । ", "sd": "तद्धितार्थे जायमानस्य अध्यर्धपूर्वसमासस्य द्विगुसमासस्य च विषये विहितस्य तद्धितप्रत्ययस्य <<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> [[5.1.28]] इत्यनेन नित्यं लोपे प्राप्ते, 'कार्षापण'शब्दस्य विषये 'सहस्र'शब्दस्य च विषये सः विकल्प्यते ।\nयथा -\n1. 'अध्यर्धेन कार्षापणेन क्रीतम्' इत्यत्र तद्धितार्थे द्विगुसमासः जायते । अस्यां स्थितौ <<कंसाट्टिठन्>> [[5.1.25]] इत्यत्र निर्दिष्टेन अनेन वार्त्तिकेन तदन्तविधिना अत्र टिठन्-प्रत्ययः विधीयते । अस्य टिेठन्-प्रत्ययस्य <<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> [[5.1.28]] इत्यनेन नित्यं लोपे प्राप्ते वर्तमानसूत्रेण केवलं विकल्पेनैव लोपः भवति, नित्यम् न । यथा -\nअध्यर्धेन कार्षापणेन क्रीतम्\n= [लोपे कृते] अध्यर्धकार्षापणम्\n= [लोपाभावे ] अध्यर्धकार्षापणिकम् , प्रतिकम् ।\n(स्मर्तव्यम् - अनेन वार्त्तिकेन टिठन्-प्रत्ययस्य उपस्थितौ कार्षापण-शब्दस्य विकल्पेन प्रति-आदेशः अपि भवति । अतः अत्र 'प्रतिकम्' इति रूपमपि जायते ।)\n2. तथैव - द्वयोः कार्षापणयोः क्रीतम् द्विकार्षापणम् द्विकार्षापणिकम् द्विप्रतिकम् वा ।\n3. अध्यर्धेन सहस्रेण क्रीतमध्यर्धसहस्रमध्यर्धसाहस्रम् वा । अत्र <<शतमानविंशतिकसहस्रवसनादण्>> [[5.1.27]] इत्यनेन सहस्रशब्दात् अण्-प्रत्यये प्राप्ते तस्य पक्षे एव लुक् भवति, न नित्यम् । तथा च, लुकः अभावात् <<संख्यायाः संवत्सरसंख्यस्य च>> [[7.3.15]] इति उत्तरपदवृद्धिः एव भवति ।\n4. तथैव, त्रिभिः सहस्रैः क्रीतम् त्रिसहस्रम् त्रिसाहस्रम् ।\nज्ञातव्यम् - वस्तुतः प्रत्ययविधौ तदन्तविधिः प्रतिषिध्यते । परन्तु <<असमासे निष्कादिभ्यः>> [[5.1.20]] इत्यत्र पाठितेन 'प्राग्वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि' इत्यनेन वार्त्तिकेन / भाष्यवाक्येन सङ्ख्यापूर्वसमासस्य विषये आर्हीयप्रकरणे तदन्तविधिः अपि इष्यते । अतः अत्र टिठन् / अण् प्रत्यययोः प्रसक्तिः निर्दिष्टा अस्ति । तयोश्च वर्तमानसूत्रेण वैकल्पिकः लुक् उच्यते ।\nअत्र एकम् वार्त्तिकम् ज्ञातव्यम् - । इत्युक्ते, 'सुवर्ण' तथा 'शतमान' एतयोः विषये अपि अनेन सूत्रेण विकल्पेन प्रत्ययलुक् भवति । यथा -\n1. अध्यर्धेन सुवर्णेन क्रीतमध्यर्धसुवर्णमध्यर्धसौवर्णिकम् वा । अत्र औत्सर्गिकस्य ठञ्-प्रत्ययस्य विकल्पेन लुक् भवति । लुकः अभावपक्षे <<परिमाणान्तस्यासंज्ञाशाणयोः>> [[7.3.17]] इति उत्तरपदवृद्धिः भवति ।\n2. तथैव - द्वयोः सुवर्णयोः क्रीतम् द्विसुवर्णम्, द्विसौवर्णिकम् वा ।\n3. अध्यर्धेन शतमानेन क्रीतमध्यर्धशतमानमध्यर्थशातमानम् वा । अत्र <<शतमानविंशतिकसहस्रवसनादण्>> [[5.1.27]] इत्यनेन प्राप्तस्य अण्-प्रत्ययस्य वैकल्पिकः लुक् भवति । पक्षे <<परिमाणान्तस्यासंज्ञाशाणयोः>> [[7.3.17]] इति उत्तरपदवृद्धिः भवति ।\n4. द्वयोः शतमानयोः क्रीतम् द्विशतमानम् द्विशातमानम् वा । " }, "51030": { "sa": "यस्य तद्धितार्थद्विगुसमासस्य पूर्वपदे 'द्वि' तथा 'त्रि' शब्दः, तथा उत्तरपदे 'निष्क' शब्दः विद्यते, तस्मात् विहितस्य आर्हीयप्रत्ययस्य विकल्पेन लुक् भवति । ", "sd": "'द्वे निष्के', तथा 'त्रीणि निष्कानि' एतयोर्विषये तद्धितार्थद्विगुसमासेन निर्मितात् शब्दात् आर्हीय-अर्थेषु विहितस्य प्रत्ययस्य विकल्पेन लुक् भवति, इति अस्य सूत्रस्य आशयः । यथा -\n1. द्वाभ्यां निष्काभ्यां क्रीतम् द्विनिष्कम् द्विनैष्किकम् वा । अत्र औत्सर्गिकस्य ठञ्-प्रत्ययस्य विकल्पेन लुक् भवति । लुकः अभावे <<परिमाणान्तस्यासंज्ञाशाणयोः>> [[7.3.17]] इत्यनेन उत्तरपदवृद्धिः भवति ।\n2. तथैव - त्रिभिः निष्कैः क्रीतम् त्रिनिष्कम्, त्रिनैष्किकम् वा ।\nअत्र एकं वार्त्तिकं ज्ञातव्यम् - । इत्युक्ते' बहूनि निष्कानि' इत्यस्य विषये अपि वर्तमानसूत्रस्य प्रसक्तिः अस्ति । बहूभिः निष्कैः क्रीतम् बहुनिष्कम् बहुनैष्किकम् वा । अत्रापि लुकः अभावे औत्सर्गिकः ठञ्-प्रत्ययः तथा च <<परिमाणान्तस्यासंज्ञाशाणयोः>> [[7.3.17]] इत्यनेन उत्तरपदवृद्धिः भवति ।\n " }, "51031": { "sa": "यस्य तद्धितार्थद्विगुसमासस्य पूर्वपदे 'द्वि' तथा 'त्रि' शब्दः, तथा उत्तरपदे 'बिस्त' शब्दः विद्यते, तस्मात् विहितस्य आर्हीयप्रत्ययस्य विकल्पेन लुक् भवति । ", "sd": "'बिस्त' इति कश्चन परिमाणवाचीशब्दः । 'द्वि' तथा 'त्रि' एताभ्यां सह अस्य शब्दस्य योजनं तद्धितार्थद्विगुसमासेन क्रियते चेत् तस्मात् विहितस्य आर्हीयप्रत्ययस्य विकल्पेन लुक् भवति ।\n1. द्वौ बिस्तौ अस्य परिमाणम् तत् द्विबिस्तम् द्विबैस्तिकम् वा । अत्र औत्सर्गिकस्य ठञ्-प्रत्ययस्य विकल्पेन लुक् भवति । लुकः अभावपक्षे <<परिमाणान्तस्यासंज्ञाशाणयोः>> [[7.3.17]] इत्यनेन उत्तरपदवृद्धिः भवति ।\n2. त्रयः बिस्ताः अस्य परिमाणम् तत् त्रिबिस्तम् त्रिबैस्तिकम् वा ।\nपूर्वसूत्रवत् अस्मिन् सूत्रे अपि इति वार्त्तिकम् गृह्यते । यथा - बहवः बिस्ताः परिमाणमस्य तत् बहुबिस्तम् बहुबैस्तिकम् वा ।\nज्ञातव्यम् - वस्तुतः सूत्रम् इदम् पूर्वसूत्रे एव स्थापयितुम् शक्यते । यथा - 'द्वित्रिपूर्वात् निष्कबिस्ताभ्याम्' । परन्तु एवं क्रियते चेत् यथासङ्ख्यत्वस्य प्रसक्तिः विद्यते - 'द्विपूर्वात् निष्कशब्दात् त्रिपूर्वात् बिस्तशब्दात् च तद्धितप्रत्ययस्य बिभाषा लुक् स्यात्' इति अर्थः तर्हि अत्र जायेत । तत् तथा मा भूत्, अतः अत्र योगविभागः (भिन्नसूत्रनिर्माणम्) कृतमस्ति । " }, "51032": { "sa": "सर्वेषु आर्हीय-अर्थेषु 'विंशतिक'शब्दस्य विषये तद्धितार्थे विहितात् अध्यर्धपूर्व/द्विगुसमासात् ख-प्रत्ययः भवति । ", "sd": "'विंशतिक' शब्दस्य विषये तद्धितार्थे विहितः यः अध्यर्धपूर्वसमासः द्विगुसमासः वा, तस्मात् आर्हीयेषु अर्थेषु ख-प्रत्ययः भवति ।\n1. द्वौ विंशतिकौ परिमाणम् अस्य तत् -\nद्वि + विंशतिक + ख\n→ द्विविंशतिक + ईन [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ईन-आदेशः]\n→ द्विविंशतिक् + ईन [<<यस्येति च>> [[6.4.148]] इति अकालोपः]\n→ द्विविंशतिकीन ।\nतथैव -\n2. अध्यर्धम् विंशतिकम् परिमाणमस्य तत् अध्यर्धविंशतिकीनम् ।\n3. त्रिभिः विंशतिकाभिः क्रीतम् तत् त्रिविंशतिकीनम् ।\nज्ञातव्यम् -\n1. 'विंशतिक' अयम् शब्दः संज्ञावाचकः अस्ति । कस्यचन परिमाणस्य संज्ञा इयम् । <<विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम्>> [[5.1.24]] इत्यनेन अयं शब्दः सिद्ध्यति । अस्य शब्दस्य विषये <<शतमानविंशतिकसहस्रवसनादण्>> [[5.1.27]] इत्यनेन अण्-प्रत्ययविधानम् क्रियते । अध्यर्धपूर्वसमासस्य तथा द्विगुसमासस्य विषये तद् बाधित्वा अनेन सूत्रेण ख-प्रत्ययः विधीयते ।\n2. द्विगुसमासस्य विषये आर्हीय-प्रत्ययस्य <<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> [[5.1.28]] इत्यनेन वस्तुतः लुक्-भवति । परन्तु अत्र निर्देशसामर्थ्यात् लुकं बाधित्वा ख-प्रत्ययः क्रियते ।\n " }, "51033": { "sa": "सर्वेषु आर्हीय-अर्थेषु 'खारी'शब्दस्य विषये तद्धितार्थे विहितात् अध्यर्धपूर्व/द्विगुसमासात् ईकन्-प्रत्ययः भवति ।", "sd": "'खारी' (= मापनस्य किञ्चन परिमाणम्, quintal इत्यर्थः) शब्दस्य विषये तद्धितार्थे विहितः यः अध्यर्धपूर्वसमासः द्विगुसमासः वा, तस्मात् आर्हीयेषु अर्थेषु ख-प्रत्ययः भवति ।\nद्वे खार्यौ परिमाणमस्य तत्\n= द्वि + खारी + ईकन्\n→ द्वि + खार + ईकन् [ अनेन वार्त्तिकेन पुंवद्भावः]\n→ द्विखार् + ईक [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ द्विखारीक\nतथैव, तिस्रः खार्यः परिमाणमस्य तत् त्रिखारीकम् । अध्यर्धा खारी परिमाणमस्य तत् अध्यर्धखारीकम् ।\nविशेषः - अस्मिन् सूत्रे 'कन्' इति प्रत्ययः उच्यते चेदपि तदेव रूपम् स्यात् - इति भासते । यथा - द्वि + खारी + कन् → द्विखारीक' । परन्तु वस्तुतः ककारादौ प्रत्यये परे <<केऽणः>> [[7.4.13]] इत्यनेन अङ्गस्य ह्रस्वादेशः विधीयेत, येन 'खारिक' इति अनिष्टं रूपं सिद्ध्येत । अतः अत्र 'कन्' प्रत्ययविधानम् भवितुम् न अर्हति । अतएव आचार्यः अत्र 'ईकन्' इति प्रत्ययं पाठयति ।\nअत्र द्वे वार्त्तिके ज्ञातव्ये -\n1. । इत्युक्ते, केवलात् 'खारी'शब्दात् अपि आर्हीय-अर्थेषु ईकन्-प्रत्ययः भवति । खारी परिमाणमस्य तत् खारीकम् ।\n2. । इत्युक्ते, 'काकिणी'(=अन्तरस्य किञ्चन परिमाणम्) अस्य शब्दस्य विषये अध्यर्धपूर्व/द्विगुसमासात्, तथा च केवलात् 'काकिणी'शब्दात् अपि सर्वेषु आर्हीय-अर्थेषु ईकन्-प्रत्ययः भवति । द्वे काकिण्यौ परिमाणमस्य तत द्विकाकिणीकम् । अध्यर्धया काकिण्या क्रीतमध्यर्धकाकिणीकम् । काकिणी परिमाणमस्य तत् काकिणीकम् ।\nज्ञातव्यम् - अध्यर्धपूर्व/द्विगुसमासस्य विषये आर्हीय-प्रत्ययस्य <<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> [[5.1.28]] इत्यनेन वस्तुतः लुक्-भवति । परन्तु अत्र निर्देशसामर्थ्यात् लुकं बाधित्वा ईकन्-प्रत्ययः क्रियते ।\n" }, "51034": { "sa": "सर्वेषु आर्हीय-अर्थेषु 'पण', 'पाद', 'माष', 'शत' - एतेषां विषये अध्यर्धपूर्व/द्विगुसमासात् यत्-प्रत्ययः भवति ।", "sd": "'पण', 'पाद', 'माष' (त्रीणि अपि मापनस्य परिमाणानि) उत 'शत' शब्दस्य विषये तद्धितार्थे विहितः यः अध्यर्धपूर्वसमासः द्विगुसमासः वा, तस्मात् आर्हीयेषु अर्थेषु यत्-प्रत्ययः भवति ।\n1. द्वौ पणौ परिमाणमस्य तत् द्विपण्यम् ।\n2. अध्यर्धेन पादेन क्रीतम् तत् अध्यर्धपाद्यम् ।\n3. त्रयः माषाः परिमाणमस्य तत् त्रिमाष्यम् ।\nअत्र त्रिषु अपि उदाहरणेषु औत्सर्गिकरूपेण विहितं ठञ्-प्रत्ययं बाधित्वा यत्-प्रत्ययः विधीयते ।\n4. अध्यर्धेन शतेन क्रीतमध्यर्धशत्यम् । द्वाभ्याम् शताभ्याम् क्रीतम् द्विशत्यम् । अत्र 'शत' शब्दात् <<संख्याया अतिशदन्तायाः कन्>> [[5.1.22]] इत्यस्य अपवादरूपेण यत्-प्रत्ययः भवति । तथा च, अत्र नित्यरूपेण विहितः यत्-प्रत्ययः अग्रिमसूत्रे निर्दिष्टेन <ऽशताच्चेति वक्तव्यम्ऽ> अनेन वार्त्तिकेन विकल्प्यते, अतः पक्षे कन्-प्रत्ययः अपि विधीयते, तस्य च <<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> [[5.1.28]] इत्यनेन लुक् भवति । यथा - द्वाभ्यां शताभ्यां क्रीतम् द्विशतम् ।\nज्ञातव्यम् -\n1. पाद-शब्दस्य विषये <<पद् यत्यतदर्थे>> [[6.3.53]] इत्यनेन पद्-आदेशः न भवति यतः तस्मिन् सूत्रे 'पाद' इत्यनेन केवलं शरीरस्य अवयवः एव गृह्यते, न हि परिमाणवाची पादशब्दः ।\n2. अध्यर्धपूर्व/द्विगुसमासस्य विषये आर्हीय-प्रत्ययस्य <<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> [[5.1.28]] इत्यनेन वस्तुतः लुक्-भवति । परन्तु अत्र निर्देशसामर्थ्यात् लुकं बाधित्वा यत्-प्रत्ययः क्रियते । " }, "51035": { "sa": "सर्वेषु आर्हीय-अर्थेषु 'शाण' शब्दस्य विषये अध्यर्धपूर्व-द्विगुसमासात् विकल्पेन यत्-प्रत्ययः भवति ।", "sd": "'शाण' (मापनस्य किञ्चन परिमाणम्) शब्दस्य विषये तद्धितार्थे विहितः यः अध्यर्धपूर्वसमासः द्विगुसमासः वा, तस्मात् आर्हीयेषु अर्थेषु यत्-प्रत्ययः भवति । पक्षे औत्सर्गिकः ठञ्-प्रत्ययः अपि विधीयते । यथा -\n1. पञ्च शाणं परिमाणमस्य = पञ्चशाण + यत् → पञ्चशाण्यम् ।\nपक्षे ठञ् - पञ्चशाण + ठञ् → पञ्चशाणम् । अत्र <<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> [[5.1.28]] इत्यनेन प्रत्ययस्य लुक् भवति ।\n2. अध्यर्धेन शाणेन क्रीतमध्यर्धशाण्यमध्यर्धशाणम् वा ।\nअत्र एकम् वार्त्तिकम् ज्ञातव्यम् - । इत्युक्ते, 'शत' शब्दस्य विषये द्विगुसमासे कर्तव्ये <<पणमाषपादशताद्यत्>> [[5.1.34]] इत्यनेन यत्-प्रत्यये नित्यरूपेण प्राप्ते अनेन वार्त्तिकेन सः विकल्प्यते । पक्षे <<संख्याया अतिशदन्तायाः कन्>> [[5.1.22]] इत्यनेन कन्-प्रत्ययः भवति, तस्य च <<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> [[5.1.28]] इत्यनेन लुक् भवति । यथा - पञ्च शतम् परिमाणमस्य तत् पञ्चशत्यम्, पञ्चशतम् वा । " }, "51036": { "sa": "सर्वेषु आर्हीय-अर्थेषु 'द्वौ शाणौ', 'त्रयः शाणाः' एतयोः विषये 'अण्' तथा 'यत्' प्रत्ययौ विकल्पेन भवतः ।", "sd": "शाण-शब्दस्य पूर्वपदम् 'द्वि' उत 'त्रि' इति जायते चेत् सर्वेषु आर्हीयेषु अर्थेषु <<शाणाद्वा>> [[5.1.35]] इत्यनेन विकल्पेन यत्-प्रत्यये प्राप्ते पक्षे विकल्पेन अण्-प्रत्ययः अपि विधीयते । पक्षे च औत्सर्गिकः ठञ्-प्रत्ययः अपि भवति, यस्य च <<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> [[5.1.28]] इत्यनेन लुक् जायते ।\nद्वौ शाणौ परिमाणमस्य तत् -\n1) द्वि + शाण + यत् → द्विशाण्यम् ।\n2) द्वि + शाण + अण् → द्वैशाणम् । अत्र <<परिमाणान्तस्यासंज्ञाशाणयोः>> [[7.3.17]] इत्यनेन उत्तरपदवृद्धिः न भवतीति स्मर्तव्यम्, अस्मिन् सूत्रे 'असंज्ञाशाणयोः' इति निषेधात् ।\n3) द्वि + शाण + ठञ् → द्विशाणम् । अत्र <<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> [[5.1.28]] इत्यनेन प्रत्ययलुक् भवति ।\nज्ञातव्यम् - अत्र प्राग्वतीय-प्रकरणस्य आर्हीय-विशिष्टाः अर्थनिरपेक्ष-अपवादाः समाप्यन्ते । अग्रिमसूत्रात् आरभ्य आर्हीयअर्थाः तेषाम् विशिष्टाः अपवादाः च पाठिताः सन्ति । " }, "51037": { "sa": "'क्रीतम्' अस्मिन् अर्थे तृतीयासमर्थप्रातिपदिकेभ्यः यथाविहितं प्रत्ययः भवति । ", "sd": "'क्रीतम्' इति क्री-धातोः क्त-प्रत्ययान्तरूपम् । 'मूल्यं दत्त्वा स्वीकृतम्' इत्यर्थः । तृतीयासमर्थात् मूल्यवाचिशब्दात् 'क्रीतम्' अस्मिन् अर्थे वस्तुनः निर्देशं कर्तुम् यथाविहितं प्रत्ययः भवति । यथा -\n1. सप्तत्या क्रीतम् = सप्तति + ठञ् [<<प्राग्वतेष्ठञ्>> [[5.1.18]] इति ठञ्] → साप्ततिकम् ।\n2. पञ्चभिः क्रीतम् = पञ्च + कन [<<संख्याया अतिशदन्तायाः कन्>> [[5.1.22]] इति कन्] → पञ्चक\n3. पादेन क्रीतम् = पाद + ठक् [<<असमासे निष्कादिभ्यः>> [[5.1.20]] इति ठक्] → पादिक\nज्ञातव्यम् -\n1. अस्मिन् सूत्रे प्रयुक्तः 'तेन' इति तृतीयासमर्थः केवलम् मूल्यम् एव दर्शयति, साधनमुत कर्तारम् न । यथा, 'हस्तेन क्रीतम्' उत 'देवदत्तेन क्रीतम्' एतेषु वाक्येषु अस्य सूत्रस्य प्रयोगः न भवति । अस्मिन् विषये कोऽपि सिद्धान्तः नास्ति, केवलं 'अनभिधानात्' (इत्युक्ते, शिष्टप्रयोगस्य अभावात्) एतादृशाः प्रयोगाः न क्रियन्ते ।\n2. अस्य सूत्रस्य प्रयोगः प्रायः एकवचनस्य विषये एव भवति । यथा - 'प्रस्थेन क्रीतम्' इत्यत्र 'प्रस्थ + ठञ् → प्रास्थिक' इति सिद्ध्यति, परन्तु 'प्रस्थाभ्यां क्रीतम् / प्रस्थैः क्रीतम्' इत्यत्र तद्धितप्रत्ययस्य प्रयोगः न भवति । अत्रापि विशिष्टं कारणं नास्ति, केवलम् 'अनभिधानात्' इत्येव भाष्ये उच्यते । परन्तु यत्र प्रकृतेः एकवचनमसमीचीनम् वर्तते, तत्र तु यथायोग्यं द्विवचन-बहुवचनयोः प्रयोगः भवत्येव । यथा, 'द्वि' शब्दः नित्यद्विवचनान्तः अस्ति, अतः 'द्वाभ्याम् क्रीतम्' इत्यत्र द्विवचने सत्यपि तद्धितप्रत्ययस्य प्रयोगः भवति । तथैव, 'मुद्गैः क्रीतम्' इत्यत्रापि तद्धितप्रत्यययोजनं भवितुमर्हति, यतः एकेन वा द्वाभ्याम् मुद्गाभ्याम् न किञ्चित् क्रयणम् सम्भवति ।\n" }, "51038": { "sa": "'निमित्तम्' अस्मिन् अर्थे संयोगमुत्पातम् वा दर्शयितुम् षष्ठीसमर्थात् यथाविहितं प्रत्ययः भवति । ", "sd": "अस्य सूत्रस्य अर्थम् ज्ञातुम् प्रारम्भे सूत्रे प्रयुक्तानां शब्दानामर्थम् पश्यामः ।\n1. निमित्तम् इत्युक्ते कारणम् ।\n2. संयोगः इत्युक्ते सम्बन्धः / मेलनम् ।\n3. उत्पातः इत्युक्ते महाभूतानाम् किञ्चन कार्यम् ।\nसूत्रे किमुच्यते? यदि कस्यचन वस्तुनः प्राप्तेः निमित्तम् / कारणम् -\n(अ) 'केनचित् सह संयोगः' इति वर्तते, नो चेत्\n(आ) 'महाभूतानाम् किञ्चन कार्यम्' इति वर्तते;\nतर्हि तस्य निर्देशार्थम् षष्ठीसमर्थात् यथाविहितं प्रत्ययः भवति ।\nअस्य कः अर्थः ? उदाहरणद्वयम् स्वीकृत्य पश्यामः ।\n1. कश्चन रामः अद्य शतं रूप्यकाणि प्राप्तवान् इति चिन्तयतु । अत्र 'शतम्' इति रामस्य प्राप्तिः । 'अस्याः प्राप्तेः किम् कारणम् ?' इति रामं पृच्छामश्चेत् - 'कश्चन धनपतिः मह्यम् शतं रूप्यकाणि दत्तवान्' इति रामः उत्तरति । इत्युक्ते, 'धनपतिना सह संयोगः ' इति रामस्य शतरूप्यकाणाम् निमित्तम् । धनपतिना सह संयोगः यदि न अभविष्यत्, तर्हि रामः अपि शतं रूप्यकाणि न अप्राप्स्यत् - इति अत्र आशयः । अतः अत्र 'शतम्' इति फलम्, 'धनपतिसंयोग' इति निमित्तम् । अस्यां स्थितौ 'शतस्य निमित्तम् संयोगः' इति वक्तुं शक्यते, अतश्च शत-शब्दात् यथायोग्यः प्राग्वतीय-प्रत्ययः अत्र भवितुमर्हति -\nशतस्य निमित्तः संयोगः\n= शत + ठन् / यत् [<<शताच्च ठन्यतावशते>> [[5.1.21]] इति ठन् तथा यत् प्रत्ययौ]\n→ शतिक / शत्य ।\nअतः 'धनपतिसंयोगः शतिकः अस्ति / शत्यः अस्ति' इति उच्यते । शतस्य प्राप्तेः निमित्तमयम् धनपतिसंयोगः - इति अस्य अर्थः ।\nअन्यदेकमुदाहरणम् - देवदत्तः सहस्ररूप्यकाणि प्राप्तवान् । किम् कारणम्? राजा देवदत्ताय सहस्ररूप्यकाणि अददात् । अतः राज्ञा सह संयोगः अयम् देवदत्तस्य सहस्रस्य कारणम् । अस्यां स्थितौ -\nसहस्रस्य निमित्तः यः संयोगः सः\n= सहस्र + अण् [<<शतमानविंशतिकसहस्रवसनादण्>> [[5.1.27]] इति अण्]\n→ साहस्र ।\nअतः 'राजसंयोगः साहस्रः अस्ति' इति उच्यते ।\n2. कश्चन रामः अस्ति, तस्य दक्षिणनेत्रम् स्पन्दमानमस्ति (His right eye is flittering) । अस्य वर्णनम् सः इत्थं करोति - 'मम दक्षिणनेत्रस्य स्पन्दनम् मम शतलाभस्य शुभवार्तां ददाति' (He believes that flittering of his right eye is a 'divine signal' that he will be earning 100 rupess soon). अत्र सः एवं मन्यते, यत् तस्य शरीरे पञ्चमहाभूतानाम् काचित् क्रिया जायते, यया तस्य दक्षिणनेत्रस्य स्पन्दनं भवति, येन च सः शतम् लप्स्यते । इत्युक्ते, शरीरे विद्यमानः पञ्चभूतानाम् 'उत्पातः' तस्य शतप्राप्तेः कारणमस्ति - इति तस्य चिन्तनम् । अतः -\nशतस्य निमित्तः दक्षिणनेत्रस्पन्दनकारक-उत्पातः\n= शत + ठन् / यत् [<<शताच्च ठन्यतावशते>> [[5.1.21]] इति ठन् तथा यत् प्रत्ययौ]\n→ शतिक / शत्य ।\nअतः 'दक्षिणनेत्रस्पन्दनकारकः उत्पातः शतिकः / शत्यः अस्ति' इति उच्यते ।\nतथैव -\nसहस्रस्य निमित्तः वामनेत्रस्पन्दनकारकः उत्पातः\n= सहस्र + अण् [<<शतमानविंशतिकसहस्रवसनादण्>> [[5.1.27]] इति अण्]\n→साहस्र ।\nअतः 'वामनेत्रस्पन्दनकारकः उत्पातः साहस्रः अस्ति' इति उच्यते ।\nअनेन प्रकारेण अस्य सूत्रस्य प्रयोगः विशिष्टेषु अर्थेषु एव भवति ।\nअत्र वार्त्तिकद्वयम् ज्ञातव्यम् -\n[1] । षष्ठीसमर्थेभ्यः 'वात', 'पित्त' तथा 'श्लेष्म' शब्देभ्यः 'शमनम्' तथा 'कोपनम्' एतयोः अर्थयोः अपि यथाविहितं प्रत्ययः भवति । अस्य अर्थः अयम् - 'वात', 'पित्त' तथा 'श्लेष्मन् (mucus)' एतेषाम् विषये तेषाम् 'शमनम्' (दमनम्) तथा कोपनम् (वर्धनम् ) एतयोः अर्थयोः यथाविहितं प्राग्वतीयः प्रत्ययः भवति । यथा -\n- वातस्य शमनं कोपनं वा = वात् + ठक् → वातिक ।\n- पित्तस्य शमनं कोपनं वा = पित्त + ठक् → पैत्तिक ।\n- श्लेष्मणः शमनं कोपनं वा = श्लेमन् + ठक् → श्लैष्मिकम् । प्रक्रिया इयम् -\nश्लेष्मन् + ठक्\n→ श्लेष्मन् + इक [<<ठस्येकः>> [[7.3.50]] इति इक-आदेशः]\n→ श्लैष्मन् + इक [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ श्लैष्म् + इक [<<नस्तद्धिते>> [[6.4.144]] इति टिलोपः]\n→ श्लैष्मिक\n[2] - षष्ठीसमर्थात् 'सन्निपात'शब्दात् अपि 'शमनम्' तथा 'कोपनम्' एतयोः अर्थयोः यथाविहितं प्रत्ययः भवति । (सन्निपातः इत्युक्ते वातादीनाम् युगपद्-उद्भवः इति पदमञ्जरीकारः स्पष्टीकरोति) ।\nयथा - सन्निपातस्य शमनं कोपनं वा = सन्निपात + ठक् → सान्निपातिक ।\n" }, "51039": { "sa": "'निमित्तम्' अस्मिन् अर्थे संयोगमुत्पातम् वा दर्शयितुम् षष्ठीसमर्थात् 'गो'शब्दात् तथा च अश्वादिगणं विहाय अन्यात् अ-संख्या-परिमाणवाचि-द्व्यच्-शब्दात् यत् प्रत्ययः भवति । ", "sd": "'निमित्तम्' इत्युक्ते कारणम् । यत्र कस्यचन वस्तुनः निमित्तम् संयोगः उत उत्पातः अस्ति, तत्र <<तस्य निमित्तं संयोगोत्पातौ>> [[5.1.38]] अनेन सूत्रेण सर्वेभ्यः प्रातिपदिकेभ्यः औत्सर्गिकरूपेण ठञ्-प्रत्यये प्राप्ते केभ्यश्चन प्रातिपदिकेभ्यः तं बाधित्वा यत्-प्रत्ययः भवति । उदाहरणरूपेण क्रमेण पश्यामः -\n1. 'गो' शब्दात् यत् प्रत्ययः भवति ।गोः (= धेनोः) निमित्तम् यः गव्यः संयोगः । यथा - कश्चन राजा यदि देवदत्ताय एकां गां ददाति, तर्हि अस्यां स्थितौ राज्ञा सह संयोगः गोप्राप्तेः निमित्तमस्तीति मत्त्वा अयम् संयोगः 'गव्यः' संयोगः अस्ति इत्युच्यते ।\n2. यः शब्दः द्व्यच् अस्ति, परन्तु सङ्ख्यावाची परिमाणवाची वा नास्ति, तथा च अश्वादिगणे न वर्तते, तस्मात् अपि यत् प्रत्ययः भवति । यथा -\n[अ] स्वर्गस्य निमित्तः यः संयोगः सः स्वर्ग्यः संयोगः ।\n[आ] धनस्य निमित्तः यः उत्पातः वा सः धन्यः उत्पातः ।\n[इ] यशसः निमित्तः यः संयोगः सः यशस्यः संयोगः ।\nसंख्यावाचिशब्दस्य परिमाणवाचिशब्दस्य विषये तु अस्य सूत्रस्य प्रसक्तिः नास्ति ।\n[अ] पञ्चानाम् निमित्तः यः संयोगः सः पञ्चकः संयोगः । अत्र <<सङ्ख्यायाः अतिशदन्तायाः कन्>> [[5.1.22]] इति कन्-प्रत्ययः भवति ।\n[आ] खार्याः (quintal इत्यर्थः) निमित्तः यः उत्पातः सः खारीकः उत्पातः । अत्र <<खार्याः ईकन्>> [[5.1.33]] इत्यत्र पाठितेन अनेन वार्त्तिकेन ईकन्-प्रत्ययः भवति ।\nतथैव, अश्वादिगणे विद्यमानानां शब्दानां विषये अनेन सूत्रेण निर्दिष्टः यत्-प्रत्ययः न विधीयते ।\nअश्वादिगणः अयम् - अश्व। अश्मन्। गण। ऊर्णा। उमा। वसु। वर्ष। भङ्ग ।\nयथा - अश्वस्य निमित्तः यः संयोगः सः आश्विकः संयोगः, ऊर्णायाः निमित्तं यः संयोगः सः और्णिकः संयोगः । उभयत्र ठञ्-प्रत्ययः एव भवति ।\nअत्र एकं वार्त्तिकं ज्ञातव्यम् - । इत्युक्ते, <<तस्य निमित्तं संयोगोत्पात्तौ>> [[5.1.38]] इत्यस्मिन् अर्थे 'ब्रह्मवर्चस' (sacred knowledge) शब्दात् अपि यत्-प्रत्ययः भवति । ब्रह्मवर्चसस्य निमित्तः अयमुत्पातः सः ब्रह्मवर्चस्यः उत्पातः ।\n" }, "51040": { "sa": "'निमित्तम्' अस्मिन् अर्थे संयोगमुत्पातम् वा दर्शयितुम् षष्ठीसमर्थात् 'पुत्र'शब्दात् यत् तथा छ-प्रत्ययौ भवतः । ", "sd": "'निमित्तम्' इत्युक्ते कारणम् ।यत्र पुत्रस्य निमित्तम् कश्चन संयोगः उत्पातः वा अस्ति, तत्र तस्य संयोगस्य / उत्पातस्य निर्देशं कर्तुम् 'पुत्र'शब्दात् <<गोद्व्यचोऽसंख्यापरिमाणाश्वादेर्यत्>> [[5.1.39]] इत्यनेन नित्यं यत्-प्रत्यये प्राप्ते वर्तमानसूत्रेण तस्य विकल्पेन छ-प्रत्ययः अपि भवति । यथा -\n1. पुत्रस्य निमित्तः संयोगः / उत्पातः सः = पुत्र + यत् → पुत्र्यः संयोगः / उत्पातः ।\n2. पुत्रस्य निमित्तः संयोगः / उत्पातः सः = पुत्र + छ → पुत्रीयः संयोगः / उत्पातः ।\n " }, "51041": { "sa": "'निमित्तम्' अस्मिन् अर्थे संयोगमुत्पातम् वा दर्शयितुम् षष्ठीसमर्थात् 'सर्वभूमि' शब्दात् अण् प्रत्ययः तथा पृथिवीशब्दात् अञ्-प्रत्ययः भवति । ", "sd": "'निमित्तम्' इत्युक्ते कारणम् ।सर्वभूमेः पृथिव्याः वा निमित्तम् यदि कश्चन संयोगः उत्पात वा अस्ति, तर्हि तस्य संयोगस्य उत्पात्तस्य वा निर्देशं कर्तुम् 'सर्वभूमि' शब्दात् अण्-प्रत्ययः तथा पृथिवी-शब्दात् अञ्-प्रत्ययः भवति ।\n1. सर्वभूमेः निमित्तः संयोगः / उत्पातः = सर्वभूमि + अण् → सार्वभौमः । अत्र <<अनुशतिकादीनां च>> [[7.3.20]] इति उभयपदवृद्धिः भवति ।\n2. पृथिव्याः निमित्तः संयोगः / उत्पात = पृथिवी + अञ् → पार्थिवः ।\nज्ञातव्यम् -\n1. अण्-प्रत्ययेन तथा च अञ्-प्रत्ययेन समानमेव रूपं जायते, केवलं स्वरयोर्मध्ये भेदः अस्ति । अञ्-प्रत्ययः ञित् अस्ति, अतः अञ्-प्रत्ययान्तशब्दाः <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] इत्यनेन आद्युदात्ताः भवति । परन्तु णित्-प्रत्ययान्तशब्दानामादिस्वरः सामान्यतः अनुदात्तः जायते ।\n2. अस्मात् सूत्रात् 'सर्वभूमि' तथा 'पृथिवी' एतौ शब्दौ अग्रिम-अर्थज्ञापके सूत्रे अपि अनुवर्तेते । " }, "51042": { "sa": "'ईश्वरः' अस्मिन् अर्थे षष्ठीसमर्थात् सर्वभूमिशब्दात् पृथिवीशब्दात् च यथासङ्ख्यमण् तथा अञ्-प्रत्ययः भवति । ", "sd": "'ईश्वरः' इत्युक्ते स्वामी । षष्ठीसमर्थात् 'सर्वभूमि' शब्दात् 'पृथिवी'शब्दात् च 'ईश्वरः' अस्मिन् अर्थे क्रमशः अण् तथा अञ्-प्रत्ययौ भवतः । यथा -\n1. सर्वभूमेः ईश्वरः सः = सर्वभूमि + अण् → सार्वभौमः । सर्वभूमेः यः राजा वा सः सार्वभौमः राजा । अत्र <<अनुशतिकादीनां च>> [[7.3.20]] इति उभयपदवृद्धिः भवति ।\n2. पृथिव्याः ईश्वरः सः = पृथिवी + अण् → पार्थिव ।\nज्ञातव्यम् -\n1. वस्तुतः अत्र <<तस्य निमित्तं संयोगोत्पातौ>> [[5.1.38]] इत्यस्मात् 'तस्य' इति अनुवर्तते । परन्तु अस्मिन् सूत्रे पुनः 'तस्य' इति स्वीकृतमस्ति । अयं पुनर्ग्रहणम् 'अर्थभेदम्' दर्शयति । इत्युक्ते, यद्यपि पूर्वसूत्रात् 'सर्वभूमि' तथा 'पृथिवी' एतयोः अनुवृत्तिः क्रियते, तथापि 'तस्येश्वरः' तथा 'तस्य निमित्तं संयोगोत्पातौ' एतौ द्वौ भिन्नौ अर्थौ स्तः , समानौ न; एतत् दर्शयितुमत्र 'तस्य' इत्यस्य ग्रहणं कृतमस्ति । यदि एतत् न क्रियते चेत् 'सर्वभूमेः निमित्तः यः ईश्वरः' इति असमीचिनः अर्थः जायेत । तत् तथा मा भूत् अतएव आचार्यः अत्र 'तस्य' इत्यस्य पुनर्ग्रहणं करोति ।\n2. अण्-प्रत्ययेन तथा च अञ्-प्रत्ययेन समानमेव रूपं जायते, केवलं स्वरयोर्मध्ये भेदः अस्ति । अञ्-प्रत्ययः ञित् अस्ति, अतः अञ्-प्रत्ययान्तशब्दाः <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] इत्यनेन आद्युदात्ताः भवति । परन्तु णित्-प्रत्ययान्तशब्दानामादिस्वरः सामान्यतः अनुदात्तः जायते । " }, "51043": { "sa": "'विदितः' अस्मिन् अर्थे सप्तमीसमर्थात् सर्वभूमिशब्दात् पृथिवीशब्दात् च यथासङ्ख्यमण् तथा अञ् प्रत्ययः भवति । ", "sd": "'विदितः' इत्युक्ते ज्ञातः / प्रकाशितः / प्रसिद्धः (well known). । विद् (ज्ञाने) इत्यस्य अदादिगणस्य धातोः क्त-प्रत्ययान्तरूपम् एतत् । 'विदितः' अस्मिन् अर्थे सप्तमीसमर्थात् 'सर्वभूमि'शब्दात् अण्-प्रत्ययः तथा 'पृथिवी'शब्दात् अञ्-प्रत्ययः अनेन सूत्रेण पाठ्यते । यथा -\n1. सर्वभूमौ विदितः = सर्वभूमि + अण् → सार्वभौमः । सर्वस्यां भूमौ यः ज्ञातः अस्ति, सः विषयः मनुष्यः वा सार्वभौमः अस्ति इत्युच्यते । अत्र <<अनुशतिकादीनां च>> [[7.3.20]] इति उभयपदवृद्धिः भवति ।\n2. पृथिव्यां विदितम् = पृथिवी + अण् → पार्थिव । पृथिव्यां प्रकाशितम् ज्ञातम् वा तत् पार्थिवम् ।\nज्ञातव्यम् - अस्मिन् सूत्रे प्रयुक्तः 'इति' शब्दः विवक्षार्थः अस्ति न्यासकारः वदति । इत्युक्ते, केवलं विशिष्टानां विषयानां प्रसिद्ध्यर्थम् एव अनयोः शब्दयोः प्रयोगः भवति । अस्मिन् विषये व्याख्यानेषु अधिकम् न उच्यते, अतः शिष्टप्रयोगमनुसृत्य एव अनयोः शब्दयोः प्रयोगस्य साधुत्वस्य निर्णयः करणीयः । " }, "51044": { "sa": "'विदितः' अस्मिन् अर्थे सप्तमीसमर्थात् लोकशब्दात् सर्वलोकशब्दात् च ठञ्-प्रत्ययः भवति । ", "sd": "'विदितः' इत्युक्ते ज्ञातः / प्रकाशितः / प्रसिद्धः (well known). । विद् (ज्ञाने) इत्यस्य अदादिगणस्य धातोः क्त-प्रत्ययान्तरूपम् एतत् । 'विदितः' अस्मिन् अर्थे सप्तमीसमर्थात् 'लोक'शब्दात् 'सर्वलोक'शब्दात् च ठञ्-प्रत्ययः भवति । यथा -\n1. लोके विदितः सः लौकिकः विषयः।\n2. सर्वलोके विदितः सः सार्वलौकिकः विषयः । अत्र <<अनुशतिकादीनां च>> [[7.3.20]] इति उभयपदवृद्धिः भवति ।\n" }, "51045": { "sa": "'वापः' (= क्षेत्रम्) अस्मिन् अर्थे षष्ठीसमर्थात् प्रातिपदिकात् यथाविहितं प्रत्ययः भवति । ", "sd": "वापः इत्युक्ते क्षेत्रम् । वप्-धातोः अधिकरणे घञ्-प्रत्ययं कृत्वा अयं शब्दः सिद्ध्यति - उप्यते अस्मिन् सः वापः । अस्मिन् अर्थे षष्ठीसमर्थात् प्रातिपदिकात् यथाविहितं प्रत्ययः भवति । यथा -\n1. प्रस्थस्य वापः = प्रस्थ + ठञ् → प्रास्थिक । 'प्रस्थ' इति गुरुत्वस्य किञ्चन परिमाणम् (kilogram इत्यर्थः) । यस्मिन् क्षेत्रे एकप्रस्थं यावत् बीजानि वप्तुम् शक्यन्ते, तस्य निर्देशं कर्तुम् 'प्रस्थ'शब्दात् औत्सर्गिकः ठञ्-प्रत्ययः भवति । A field where 1 kg of seeds are sown सः प्रास्थिकः वापः ।\n2. द्रोणस्य वापः = द्रोण + ठक् → द्रौणिक । 'द्रोण' इति मापनस्य किञ्चन परिमाणम् , bowl इत्यर्थः । द्रोणं यावत् बीजमुप्यन्ते अस्मिन् वापे सः द्रौणिकः वापः । अत्र <<असमासे निष्कादिभ्यः>> [[5.1.20]] इति ठक्-प्रत्ययः भवति ।\n3. पञ्चानां द्रोणानां वापः पञ्चद्रोणः । अत्र <<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> [[5.1.28]] इत्यनेन प्रत्ययस्य लुक् भवति ।\n4. खार्याः वापः खारीकः । अत्र <<खार्या ईकन्>> [[5.1.33]] इत्यत्र पाठितेन अनेन वार्त्तिकेन ईकन्-प्रत्ययः भवति । खारी + ईकन् → खारीक ।\nज्ञातव्यम् - अस्य सूत्रस्य प्रयोगः केवलं कर्मणि-अर्थे एव भवति, कर्तरि-अर्थे न । इत्युक्ते, 'प्रस्थस्य वापः' इत्यत्र 'प्रस्थमुप्यते अस्मिन्' इति स्थिते प्रस्थशब्दः कर्मरूपेण विधीयते, अतः प्रस्थ-शब्दात् अत्र प्रत्ययविधानम् भवति; परन्तु 'देवदत्तस्य वापः' इत्यत्र 'देवदत्तेन उप्यते अस्मिन्' इति स्थिते देवदत्तशब्दः कर्तारूपेण विधीयते, अतः अत्र वर्तमानसूत्रस्य प्रयोगः न भवति । अस्मिन् विषये पदमञ्जरीकारः ददाति - 'तस्येति वापापेक्षया कर्मणि षष्ठी, न तु कर्तरि; तेन देवदतस्य वापः क्षेत्रमित्यादौ न भवति' ।\n" }, "51046": { "sa": "'वापः' (क्षेत्रम्) अस्मिन् अर्थे षष्ठीसमर्थात् पात्रशब्दात् ष्ठन् प्रत्ययः भवति । ", "sd": "'वापः' इत्युक्ते क्षेत्रम् । उप्यते अस्मिन् सः वापः । षष्ठीसमर्थात् वापस्य निर्देशं कर्तुम् पात्रशब्दात् ष्ठन्-प्रत्ययः भवति । पात्रस्य वापः पात्रिकः । एकम् पात्रम् (मापनस्य किञ्चन परिमाणम्) यावत् बीजानि उप्यन्ते यस्मिन् सः पात्रिकः वापः ।\nज्ञातव्यम् - अस्मिन् प्रत्यये षकारनकारौ इत्संज्ञकौ स्तः -\n(अ) नकारस्य प्रयोजनमस्ति <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] इत्यनेन तद्धितान्तस्य आद्युदात्तत्वविधानम् । इत्युक्ते, 'पात्रिक' शब्दस्य प्रथमः स्वरः अत्र आद्युदात्तः विधीयते ।\n(आ) षकारस्य प्रयोजनमस्ति <<षिद्गौरादिभ्यश्च>> [[4.1.41]] इत्यनेन स्त्रीत्वस्य विवक्षायाम् ङीष्-प्रत्ययविधानम् । यथा, पात्रस्य वापः पात्रिकी क्षेत्रभक्तिः (क्षेत्रस्य कश्चन अंशः) । " }, "51047": { "sa": "'अस्मिन् वृद्धिः / आयः / लाभः / शुल्कः / उपदा दीयते' अस्मिन् अर्थे प्रथमासमर्थात् यथाविहितं प्रत्ययः भवति । ", "sd": "'दीयते' इति 'दा' धातोः कर्मणि लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् । यस्मिन् वृद्धिः / आयः / लाभः / शुल्कः / उपदा दीयते, तस्य निर्देशं कर्तुम् प्रथमासमर्थात् यथाविहितं प्रत्ययः भवति । क्रमेण पश्यामः -\n1. वृद्धिः इत्युक्ते 'interest given on a loan.' । कश्चन धनिकः कस्मैचित् निर्धनाय किञ्चन धनम् ऋणरूपेण ददातीति चिन्तयामः । अग्रे सः निर्धनः धनिकाय तत् धनम् तु प्रत्यार्पयति एव, परन्तु तस्य उपरि किञ्चन अधिकमपि धनम् ददाति, यत् वृद्धिः नाम्ना ज्ञायते । यथा - धनिकेन दत्तानि शतं रूप्यकाणि प्रत्यार्पयितुम् यदि निर्धनः तस्मै शतोत्तरपञ्चं रूप्यकाणि ददाति, तर्हि अत्र पञ्चरूप्यकाणि वृद्धिः अस्ति । अस्यां स्थितौ 'पञ्च रूप्यकाणि वृद्धिः दीयते अस्मिन् व्यवहारे' इत्यत्र पञ्च-शब्दात् <<सङ्ख्यायाः अतिशदन्तायाः कन्>> [[5.1.22]] इति कन्-प्रत्ययः भवति । पञ्च रूप्यकाणि वृद्धिः दीयते यस्मिन् व्यवहारे सः पञ्चकः व्यवहारः ।\n2. 'आयः' इत्युक्ते 'tax' । देशस्य राजा सर्वेभ्यः जनेभ्यः धनस्य अन्नस्य वा यमंशम् देशार्थम् स्वीकरोति, सः अंशः 'आयः' नाम्ना ज्ञायते । अस्यां स्थितौ 'आयः दीयते अस्मिन् देशे / ग्रामे' इत्यत्र प्रथमासमर्थात् आयवाचिशब्दात् अनेन सूत्रेण यथाविहितं प्रत्ययः भवति । यथा, शतमायः दीयते यस्मिन् देशे सः शतिकः देशः । अत्र 'शत'शब्दात् <<शताच्च ठन्यतावशते>> [[5.1.21]] इत्यनेन ठन्-प्रत्ययं कृत्वा 'शतिक'रूपं सिद्ध्यति ।\n3. लाभः इत्युक्ते 'profit' । आपणिकः वस्तूनां विक्रयेण मूलात् अतिरिक्तं यत् धनम् लभते, तत् 'लाभः' नाम्ना ज्ञायते । अस्यां स्थितौ 'लाभः दीयते अस्मिन् व्यवहारे / क्रयणे' इत्यत्र प्रथमासमर्थात् लाभवाचिशब्दात् यथाविहितं प्रत्ययः भवति । यथा, सहस्रम् लाभः दीयते यस्मिन् व्यवहारे सः साहस्रः व्यवहारः । अत्र <<शतमानविंशतिकसहस्रवसनादण्>> [[5.1.27]] इत्यनेन अण्-प्रत्ययं कृत्वा रूपं सिद्ध्यति ।\n4. 'शुल्क' इति अपि विशिष्ट-प्रकारस्य आयः एव, परन्तु तस्य विशिष्टः अर्थः व्याख्यानेषु दीयते । सैनिकानाम् वेतनार्थम् यत् धनम् राज्ञे दीयते, तत् धनम् शुल्कम् नाम्ना ज्ञायते । A specific tax given to the king that is used to pay the salaries of soldiers is called शुल्क । (अस्मिन् विषये अधिकम् जिज्ञासवः न्यासं पश्यन्तु) ।\nउदाहरणम् - विंशतिः शुल्कम् दीयते अस्मिन् राज्ये तत् विंशकम् राज्यम् । अत्र <<विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम्>> [[5.1.24]] इति ड्वुन्-प्रत्ययः भवति ।\n5. 'उपदा' इत्युक्ते bribe । स्वस्य लाभार्थम् यत् धनम् कस्मैचित् अवैधरूपेण दीयते, तत् 'उपदा' नाम्ना ज्ञायते ।\nउदाहरणम् - चत्वारिंशत् उपदा दीयते यस्मिन् व्यवहारे सः चात्वारिंशत्कः व्यवहारः । अत्र औत्सर्गिकरूपेण ठञ्-प्रत्ययः भवति ।\nज्ञातव्यम् - अत्र कौमुदीकारः इति वार्त्तिकमपि पाठयति । इत्युक्ते, 'तद् अस्मिन् दीयते' इत्यस्य स्थाने 'तत् अस्मै दीयते' इति अर्थः स्वीक्रियते चेदपि अस्य सूत्रस्य प्रयोगः भवति - इति आशयः । यथा, 'शतम् वृद्धिः दीयते अस्मै धनिकाय सः शतिकः धनिकः' - इति । भाष्यकारस्तु अस्य वार्त्तिकस्य निर्देशं न करोति, अपितु 'यस्मै दीयते तस्मिन्नपि तद्दीयते' इति उक्त्वा 'अधिकरणेन विवक्षया सम्प्रदानकारकमपि निर्दिश्यते' इति स्पष्टीकरोति । अस्मिन् विषये काशिकाकारः वदति - 'सिद्धं त्वधिकरणत्वेन विवक्षितत्वात्' । इत्युक्ते, 'तस्मै' इत्यस्य निर्देशः विवक्षया 'तस्मिन्' इत्यनेन अपि भवितुमर्हति (यतः कारकाणि विवक्षातः भवन्ति), अतः विशिष्टरूपेण 'तस्मै' ग्रहणस्य आवश्यकता नास्ति - इति ।\n" }, "51048": { "sa": "'अस्मिन् वृद्धिः, आयः, लाभः, शुल्कः, उपदा दीयते' इत्यस्मिन् अर्थे प्रथमासमर्थात् पूरणप्रत्ययान्तशब्दात् तथा च 'अर्ध'शब्दात् ठन्-प्रत्ययः भवति । ", "sd": "यस्मिन् व्यवहारे वृद्धिः / आयः / लाभः / शुल्कः / उपदा दीयते, तस्य व्यवहारस्य निर्देशं कर्तुम् प्रथमासमर्थात् पूरणप्रत्ययान्तशब्दात् तथा च 'अर्ध'शब्दात् ठन् प्रत्ययः भवति ।\nअत्र बिन्दुद्वयं स्मर्तव्यम् -\n1. किम् नाम पूरणप्रत्ययाः? पूर्यते यैः अर्थाः ते पूरणाः । इत्युक्ते, गणने ये शब्दाः प्रयुज्यन्ते - यथा 'प्रथम, द्वितीय, तृतीय' - एते शब्दाः पूरणप्रत्ययान्ताः ('cardinal numbers') नाम्ना ज्ञायन्ते । पूरणप्रत्ययाः <<तस्य पूरणे डट्>> [[5.2.48]] इत्यत्र पाठिताः सन्ति । एतेभ्यः सर्वेभ्यः 'वृद्धिः / आयः / लाभः / शुल्कः / उपदा' एतेषु अर्थेषु ठन्-प्रत्ययः भवति । अत्र द्वितीय वृद्धिः / द्वितीयः आयः इत्युक्ते धनस्य द्वितीयः अंशः, यः वृद्धिरूपेण आयरूपेण वा दीयते - इत्यर्थः । When the second part of the income is given as a वृद्धिः / आयः etc, we say that the वृद्धिः / आयः is द्वितीयः । अग्रे उदाहरणेषु एतत् अधिकम् स्पष्टीकृतमस्ति ।\n2. 'अर्ध' इत्युक्ते रूप्यकस्य अर्धः भागः । 50 paise इत्यर्थः । अस्मिन् विषये काशिकाकारः स्पष्टीकरोति - अर्धशब्दो रूपकस्यार्धे रूढः । It does not mean 'half of the money' ; rather it means '50 paise' - इति आशयः ।\nइदानीं सूत्रार्थः स्पष्टः स्यात् - <<तदस्मिन् वृद्ध्यायलाभशुल्कोपदा दीयते>> [[5.1.47]] इत्यस्मिन् अर्थे पूरणप्रत्ययान्तशब्देभ्यः तथा च 'अर्ध'शब्दात् अनेन सूत्रेण ठन्-प्रत्ययः विधीयते । यथा -\n1. वृद्धिः ('interest given on a loan') - द्वितीयः वृद्धिः अस्मिन् दीयते सः द्वितीयिकः व्यवहारः । धनस्य प्रथमं अंशं स्वस्य कृते संस्थाप्य द्वितीयं अंशं वृद्धिरूपेण दीयते चेत् 'द्वितीयः वृद्धिः दीयते' इति प्रयोगः भवति । half of the income is kept for ourselves and half is given as the interest - इत्यर्थः । अस्मिन् विषये अनेन सूत्रेण ठन्-प्रत्ययः भवति । द्वितीय + ठन् → द्वितीयिक । तथैव, अर्धः वृद्धिः अस्मिन् दीयते सः अर्धिकः व्यवहारः । 50 paise is given as interest - इत्यर्थः ।\n2. आयः (tax) - तृतीयः आयः दीयते अस्मिन् देशे सः तृतीयीकः देशः । धनस्य तृतीयः अंशः आयरूपेण दीयते इति अत्र आशयः । अर्धः आयः दीयते अस्मिन् देशे सः अर्धिकः देशः । 50-paise is given as tax - इत्यर्थः ।\n3. लाभः (profit) - अर्धः लाभः दीयते अस्मिन् व्यवहारे सः अर्धिकः व्यवहारः ।50-paise लाभरूपेण दीयते इत्यर्थः । तथैव, द्वितीयः लाभः दीयते अस्मिन् व्यवहारे सः द्वितीयिकः व्यवहारः ।\n4. शुल्कः (A type of tax) - सप्तमः शुल्कः दीयते अस्मिन् देशे सः सप्तमः देशः । धनस्य सप्तमः अंशः शुल्करूपेण दीयते इत्यर्थः । अर्धं शुल्कं दीयते अस्मिन् व्यवहारे सः अर्धिकः व्यवहारः ।\n5. उपदा (bribe) - चतुर्थी उपदा दीयते अस्मिन् व्यवहारे सः चतुर्थिकः व्यवहारः । अर्धा उपदा दीयते अस्मिन् देशे सः अर्धिकः देशः ।\nज्ञातव्यम् -\n1. पूरणप्रत्ययान्तशब्देभ्यः <<आर्हादगोपुच्छसंख्यापरिमाणाट्ठक्>> [[5.1.19]] इत्यनेन सर्वेषु आर्हीय-अर्थेषु विहितं ठक्-प्रत्ययं बाधित्वा अनेन सूत्रेण ठन्-प्रत्ययः भवति ।\n2. <<कंसात् टिठन्>> [[5.1.25]] इत्यत्र इत्यनेन निर्दिष्टेन वार्त्तिकेन 'अर्ध'शब्दात् सर्वेषु आर्हीय-अर्थेषु टिठन्-प्रत्ययः विधीयते, तं बाधित्वा अर्ध-शब्दात् अनेन सूत्रेण ठन्-प्रत्ययः भवति । 'टिठन्' तथा 'ठन्' - द्वयोः रूपाणि समानानि एव भवन्ति, परन्तु द्वयोर्मध्ये 'टि' इत्येव भेदः अस्ति, येन स्त्रीप्रत्ययः भिद्यते । 'टिठन्'-प्रत्ययान्तः 'अर्धिक' शब्दः स्त्रीत्वे विवक्षिते <<टिड्ढाणञ्...>> [[4.1.15]] इत्यनेन ङीप्-प्रत्ययं स्वीकरोति, येन 'अर्धिकी' इति रूपं जायते । परन्तु ठन्-प्रत्ययान्तः 'अर्धिक'शब्दः स्त्रीत्वे विवक्षिते <<अजाद्यतष्टाप्>> [[4.1.4]] इत्यनेन टाप्-प्रत्ययं स्वीकरोति, येन 'अर्धिका' इति रूपं सिद्ध्यति ।\n" }, "51049": { "sa": "'अस्मिन् वृद्धिः, आयः, लाभः, शुल्कः, उपदा दीयते' इत्यस्मिन् अर्थे प्रथमासमर्थात् 'भाग'शब्दात् ठन् तथा यत् प्रत्ययौ भवतः । ", "sd": "यस्मिन् व्यवहारे वृद्धिः / आयः / लाभः / शुल्कः / उपदा दीयते, तस्य व्यवहारस्य निर्देशं कर्तुम् प्रथमासमर्थात् 'भाग'शब्दात् ठन् तथा यत् प्रत्ययौ भवतः । 'भागः' इत्युक्ते रूप्यकस्य अर्धः अंशः (50 paise इत्यर्थः) ।\nयथा - भागः वृद्धिः आयः लाभः शुल्कः उपदा वा दीयते अस्मिन् व्यवहारे सः भाग्यः भागिकः वा व्यवहारः / तत् भाग्यं भागिकं वा शतम् / सा भाग्या भागिका वा विंशतिः ।\nज्ञातव्यम् - <<आर्हातगोपुच्छसङ्ख्यापरिमाणात् ठक्>> [[5.1.19]] इत्यनेन प्राप्तम् ठक्-प्रत्ययं बाधित्वा अनेन सूत्रेण ठन्-प्रत्ययः विधीयते ।\n" }, "51050": { "sa": "'हरति', 'वहति', 'आवहति' एतेषु अर्थेषु वंशादिगणस्यशब्देभ्यः अनन्तरम् समस्तपदे विद्यमानात् 'भार'शब्दात् यथाविहितं प्रत्ययः भवति । ", "sd": "यदि कस्यचन समस्तपदस्य उत्तरपदम् 'भार (= load) ' शब्दः अस्ति, तथा च तस्य पूर्वपदम् वंशादिगणे विद्यमानः कश्चनः शब्दः अस्ति, तर्हि तस्मात् शब्दात् 'हरति' / 'वहति' / 'आवहति' एतेषु अर्थेषु यथाविहितं प्रत्ययः भवति ।\nक्रियापदानां अर्थाः एतादृशाः - 'हरति' इत्युक्ते देशान्तरं नयति / प्रापयति (carry to some other place / steal) । 'वहति' इत्युक्ते उत्क्षिप्य धारयति / नयति (lift and carry) । 'आवहति' इत्युक्ते उत्पादयति / स्वसमीपे आनयति (manufactures / produces / bring closer to oneself) ।\nवंशादिगणः अयम् - वंश। कुटज। बल्वज। मूल। अक्ष। स्थूणा। अश्मन्। अश्व। इक्षु। खट्वा।\nउदाहरणानि -\n1. वंशभारं (weight involving bamboos) हरति वहति आवहति वा, सः वांशभारिकः ।\n2. अश्वभारं हरति वहति आवहति वा, सः आश्वभारिकः ।\n3. मूलभारं हरति वहति आवहति वा, सः मौलभारिकः ।\n4. इक्षुभारं हरति वहति आवहति वा, सः ऐक्षुभारिकः ।\nसर्वत्र <<आर्हादगोपुच्छ...>> [[5.1.19]] इत्यनेन ठक्-प्रत्ययः भवति ।\nज्ञातव्यम् -\n1. अस्य सूत्रस्य अर्थः अन्यरूपेण अपि क्रियते । 'भारात् वंशादिभ्यः' इत्यत्र 'भार' शब्दः 'भारभूत (= loaded / heavy)' इत्यस्मिन् अर्थे स्वीकृत्य वंशादिगणस्य शब्देभ्यः विशेषणरूपेण प्रयुज्य अप्यत्र अर्थविधानम् क्रियते । यथा, 'भारभूतान् वंशान् वहति सः वांशिकः' । The one who carries heavy bamboo stems सः वांशिकः - इति अत्र अर्थः अस्ति । द्वावपि अर्थौ समीचीनौ एव ।\n2. केवलं वंशादिगणस्य शब्देभ्यः एव अस्य सूत्रस्य प्रसक्तिः अस्ति, अन्येषां विषये न । यथा, 'व्रीहिभारं वहति' / 'भारभूतान् व्रीहीन् वहति' इत्यत्र वर्तमानसूत्रस्य प्रयोगः न भवति ।\n3. भारस्य निर्देशः न क्रियते चेत् अस्य सूत्रस्य प्रयोगः न भवति । यथा, 'वंशं वहति' इत्यत्र वर्तमानसूत्रस्य प्रयोगः न भवति ।\n3. अस्मिन् सूत्रे यद्यपि 'तद्धरति' इति धकारस्य प्रयोगः कृतः अस्ति, तथाप्यत्र वस्तुतः हकारः अस्तीति स्मर्तव्यम् । सन्धिप्रक्रियायाम् 'तद् + हरति' इति स्थिते <<झयो होऽन्यतरस्याम्>> [[8.4.62]] इत्यनेन हकारस्य विकल्पेन वर्गचतुर्थे धकारे प्राप्ते 'तद्धरति' इति सिद्ध्यति ।\n" }, "51051": { "sa": "'हरति', 'वहति', 'आवहति' एतेषु अर्थेषु द्वितीयासमर्थात् 'वस्न'शब्दात् ठन्-प्रत्ययः तथा च 'द्रव्य'शब्दात् कन्-प्रत्ययः भवति । ", "sd": "'हरति' (देशान्तरं नयति / प्रापयति / carry to some other place), 'वहति' (उत्क्षिप्य नयति /lift and carry) तथा 'आवहति' (उत्पादयति / स्वसमीपे आनयति / manufactures / produces / brings something closer to oneself) एतेषु अर्थेषु वस्न (मूल्यम्) शब्दात् तथा 'द्रव्य' (धनम्) शब्दात् <<आर्हादगोपुच्छ..>> [[5.1.19]] इत्यनेन प्राप्तं ठक्-प्रत्ययं बाधित्वा यथासङ्ख्यम् ठन् तथा कन् प्रत्ययः भवति -\n1. वस्नं हरति वहति आवहति वा, सः = वस्न + ठन् → वस्निकः ।\n2. द्रव्यम् हरति वहति आवहति वा, सः = द्रव्य + कन् → द्रव्यकः ।\n" }, "51052": { "sa": "सम्भवति, अवहरति, पचति - एतेषु अर्थेषु द्वितीयासमर्थात् यथाविहितं प्रत्ययः भवति ।", "sd": "अस्मिन् सूत्रे त्रीणि क्रियापदानि पाठ्यन्ते । प्रत्येकम् अर्थम् क्रमेण पश्यामः -\n1. सम्भवति - सम् + भू धातोः लट्लकारस्य प्रथमपुरुषैकवचनस्य एतत् रूपम् । अस्य धातोः अनेके अर्थाः सन्ति, परन्तु अस्मिन् सूत्रे अस्य अर्थः व्याख्यानेषु 'आधारप्रमाणात् आधेयप्रमाणस्य अनाधिक्यम् ' इति उच्यते । इत्युक्ते, यदि कस्यचन आधारस्य (पात्रस्य) सीमितत्वात् (boundedness) तस्मिन् कस्यचित् प्रमाणस्य अपेक्षया अधिकम् न स्थापयितुम् शक्यते, तर्हि तस्मिन् पात्रे तस्य प्रमाणस्य 'सम्भवनम् भवति' इति उच्यते । due to limited capacity of a container, it cannot hold more amount that a certain quantity - इति आशयः ।\n2. अवहरति - अव + हृ धातोः, लट्लकारस्य प्रथमपुरुषैकवचनस्य एतत् रूपम् । अस्यापि अनेके अर्थाः सन्ति, परन्तु अत्र 'एकत्रीकरणम्' (collect / bring together) इति अर्थः स्वीक्रियते ।\n3. पचतीति पच्-धातोः लट्लकारस्य प्रथमपुरुषैकवचनस्य एतत् रूपम्, पाकक्रियां करोति इत्यर्थः ।\nएतेषु त्रिषु अर्थेषु द्वितीयासमर्थात् यथाविहितं प्रत्ययः भवति । यथा -\n1. प्रस्थम् (kilogram) सम्भवति सः प्रास्थिकः कटाहः (container) । सः कटाहः यः एकप्रस्थम् यावत् पदार्थम् धारयति, तस्मात् अधिकम् न - सः प्रास्थिकः कटाहः । A container that can fit one Kg of grains - इत्यर्थः । अत्र औत्सर्गिकः ठञ्-प्रत्ययः विधीयते ।\n2. कुडवमवहरति सः कौडविकः । 'कुडव' इति मापनस्य किञ्चन परिमाणम् । एककुडवं यावत् धान्यम् यः एकत्रीकरोति सः कौडविकः । अत्रापि औत्सर्गिकः ठञ्-प्रत्ययः आगच्छति ।\n3. प्रस्थम् पचति सा प्रास्थिकी ब्राह्मणी । एकप्रस्थम् यावत् अन्नम् पचति - इत्यर्थः । अत्र औत्सर्गिकः ठञ्-प्रत्ययः तथा च स्त्रीत्वे विवक्षिते <<टिड्ढाणञ्...>> [[4.1.15]] इत्यनेन ङीप्-प्रत्ययं कृत्वा रूपं सिद्ध्यति ।\nअत्र एकं वार्त्तिकं ज्ञातव्यम् - । इत्युक्ते, 'तत् पचति' अस्मिन् अर्थे 'द्रोण' (= bowl) शब्दात् अण् प्रत्ययः अपि भवति । पक्षे <<असमासे निष्कादिभ्यः>> [[5.1.20]] इत्यनेन ठक्-प्रत्ययः अपि विधीयते । द्रोणं पचति सः द्रौणः द्रौणिकः वा । स्त्रीत्वे उभयत्र <<टिड्ढाणञ्...>> [[4.1.15]] इति ङीप् - द्रौणी, द्रौणिकी ।\nअस्य वार्त्तिकस्य विषये बिन्दुद्वयं ज्ञातव्यम् -\n1. अस्य वार्त्तिकस्य प्रयोगः 'पचति' अस्मिन् अर्थे एव भवति, न हि 'सम्भवति / अवहति' एतयोः अर्थयोः - इति स्पष्टीकर्तुमत्र 'पचति' इत्यस्य निर्देशः क्रियते ।\n2. अस्य वार्त्तिकस्य विषये कौमुदीकारः वदति - 'चात् ठञ्' । इत्युक्ते, कौमुदीकारस्य मतेन अत्र 'च' इति ग्रहणम् ठञ्-प्रत्ययस्य अनुवृत्यर्थमस्ति, न हि ठक्-प्रत्ययस्य । अतः कौमुदीकारस्य मतेन 'द्रोणम् पचति' इत्यत्र अण् तथा ठञ् एतौ प्रत्ययौ भवतः । अस्य कारणम् व्याख्यानेषु न स्पष्टीक्रियते, परन्तु प्रायः कौमदीकारस्य मतेन निष्कादिगणे 'द्रोण' शब्दः न विद्यते, अतः तत्र ठक्-प्रत्ययस्य प्रसक्तिरेव नास्ति, अतश्च औत्सर्गिकः ठञ्-प्रत्ययः एव विधीयते । ठञ्-प्रत्ययेनापि 'द्रौणिकः' इत्येव रूपं सिद्ध्यति, परन्तु तत्र स्वरविशेषः विद्यते, इति स्मर्तव्यम् । ञित्-प्रत्ययान्तशब्दाः <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] इत्यनेन आद्युदात्ताः सन्ति, परन्तु कित्-प्रत्ययाः <<किति>> [[6.1.165]] इत्यनेन अन्तोदात्ताः सन्ति (अतः तेषामादिस्वरः अनुदात्तः विधीयते)।\n " }, "51053": { "sa": "सम्भवति, अवहरति, पचति - एतेषु अर्थेषु द्वितीयासमर्थेभ्यः आढक / आचित / पात्र - एतेभ्यः शब्देभ्यः ख-प्रत्ययः विकल्पेन भवति । ", "sd": "आढक (= unit of measuring grain ), आचित (= unit of measurement, equivalent to 10 भाराः ), पात्र (= vessel, unit of capacity) - एतानि सर्वाणि विशिष्टानि परिमाणानि । एतेषां विषये <<सम्भवत्यवहरति पचति>> [[5.1.52]] अस्मिन् अर्थे औत्सर्गिकरूपेण ठञ्-प्रत्यये प्राप्ते ; तं बाधित्वा विकल्पेन ख-प्रत्ययः अपि भवति । पक्षे औत्सर्गिकः ठञ् तु भवत्येव । यथा -\n1. आढकम् सम्भवति / अवहरति / पचति सः आढकीनः आढकिकः वा ।\nप्रक्रिया -\nआढक + ख\n→ आढक + ईन [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ख्-इत्यस्य ईन्-आदेशः]\n→ आढक् + ईन [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ आढकीन ।\nपक्षे - आढक + ठञ्\n→ आढक + इक [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः, <<ठस्येकः>> [[7.3.50]] इति इक्-आदेशः]\n→ आढक् + इक [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ आढकिक\nस्त्रीत्वे - 'ख'प्रत्ययान्तशब्दात् <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्-प्रत्ययः भवति, तथा च ठञ्-प्रत्ययान्तशब्दात् <<टिड्ढाणञ्..>> [[4.1.15]] इति ङीप्-प्रत्ययः भवति । आढकं परिमाणमस्य सा आढकीना आढकिकी वा ।\nतथैव -\n2. आचितं सम्भवति / अवहरति / पचति सः आचितीनः, आचितिकः । स्त्रीत्वे - आचितीना, आचितिकी ।\n3. पात्रं सम्भवति / अवहरति / पचति सः पात्रीणः, पात्रिकः । स्त्रीत्वे - पात्रिणी, पात्रिकी ।\nवाक्येषु प्रयोगः -\n1. 'आढकीनः कटाहः' - एकमाढकम् यावत् एव यस्य प्रमाणमस्ति, तस्मात् अधिकम् न, सः आढकीनः कटाहः ।\n2. 'आढकीना माता' - सा माता या एकमाढकम् यावत् धान्यस्य एकत्रीकरणं करोति ।\n3. 'आढकीनः पाचकः - सः पाचकः यः एकमाढकम् यावत् धान्यम् पचते ।\nज्ञातव्यम् - 'आचित' शब्दस्य 'loaded / collected' इति अपि कश्चन अर्थः अस्ति । तथैव, 'पात्र' शब्दस्य अपि 'व्याप्तिः' (यथा - नद्याः पात्रम्) इति अपि कश्चन अर्थः अस्ति । परन्तु 'आढक' शब्दस्य केवलं 'परिमाण' इत्येव अर्थः विद्यते, अतः अस्मिन् सूत्रे 'आढक' इत्यस्य साहचर्येण आचित-शब्दस्य तथा पात्र-शब्दस्यापि 'परिमाण' अयमेव अर्थः स्वीक्रियते । इत्युक्ते, केवलं परिमाणवाची यौ आचित/पात्रशब्दौ, तयोर्विषये एव वर्तमानसूत्रस्य प्रसक्तिः अस्ति ।\n" }, "51054": { "sa": "सम्भवति, अवहरति, पचति - एतेषु अर्थेषु द्विगुसमासे विद्यमानेभ्यः द्वितीयासमर्थेभ्यः आढक / आचित / पात्र - एतेभ्यः शब्देभ्यः ष्ठन् प्रत्ययः भवति, तथा च विकल्पेन ख-प्रत्ययः अपि भवति ।", "sd": "आढक (= unit of measuring grain ), आचित (= unit of measurement, equivalent to 10 भाराः ), पात्र (= vessel, unit of capacity) - एतानि सर्वाणि विशिष्टानि परिमाणानि । एते शब्दाः यदि द्विगुसमासस्य उत्तरपदे विद्यन्ते, तर्हि तादृशात् द्वितीयासमर्थात् प्रातिपदिकात् <<सम्भवत्यवहरति पचति>> [[5.1.52]] अस्मिन् अर्थे -\n[1] वर्तमानसूत्रेण ष्ठन्-प्रत्ययः भवति ।\n[2] पक्षे ख-प्रत्ययः अपि विकल्पेन विधीयते ।\n[3] पक्षे च औत्सर्गिकः ठञ्-प्रत्ययः अपि भवति, यस्य <<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> [[5.1.28]] इति लुक् भवति ।\nअत्र एकः विशेषः ज्ञातव्यः - वस्तुतः <<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> [[5.1.28]] इत्यनेन तद्धितार्थद्विगुसमासानां विषये प्रत्ययस्य लुक् उच्यते । परन्तु अस्मिन् सूत्रे विशिष्टरूपेण द्विगोः विषये एव ष्ठन् तथा ख-प्रत्ययविधानम् कृतमस्ति; अतः विधानसामर्थ्यात् ष्ठन्-प्रत्ययस्य ख-प्रत्ययस्य च लुक् अत्र न भवति । पक्षे यः औत्सर्गिकः ठञ्-प्रत्ययः विधीयते, तस्य लुक् तु भवत्येव ।\nउदाहरणानि क्रमेण पश्यामः । अस्य सूत्रस्य व्याख्यानेषु दत्तानि सर्वाणि उदाहरणानि तद्धितार्थद्विगुसमास्य विषये एव सन्ति । तानि एतादृशानि -\n[1] ष्ठन् -प्रत्ययः -\nअ) द्वौ आढकौ सम्भवति / अवहरति / पचति सः = द्वि + आढक + ष्ठन् → द्व्याढकिक । स्त्रीत्वे <<षिद्गौरादिभ्यश्च>> [[4.1.41]] इति ङीष् - द्व्याढकिकी ।\nआ) त्रयः आचिताः सम्भवति / अवहरति / पचति सः = त्रि + आचित + ष्ठन् → त्र्याचितिक । स्त्रीत्वे ङीष् - त्र्यचितिकी ।\nइ) पञ्च पात्राणि सम्भवति / अवहरति / पचति सः = पञ्च + पात्र + ष्ठन् → पञ्चपात्रिक । स्त्रीत्वे ङीष् - पञ्चपात्रिकी ।\n[2] ख-प्रत्ययः -\nअ) द्वौ आढकौ सम्भवति / अवहरति / पचति सः = द्वि + आढक + ख → द्व्याढकीन । स्त्रीत्वे <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप् - द्व्याढकीना ।\nआ) त्रयः आचिताः सम्भवति / अवहरति / पचति सः = त्रि + आचित + ख → त्र्याचितीन । स्त्रीत्वे टाप् - त्र्यचितीना ।\nइ) पञ्च पात्राणि सम्भवति / अवहरति / पचति सः = पञ्च + पात्र + ख → पञ्चपात्रीण । स्त्रीत्वे टाप् -पञ्चपात्रीणा ।\n[3] ठञ्-प्रत्ययः , तस्य च लुक् -\nअ) द्वौ आढकौ सम्भवति / अवहरति / पचति सः\n= द्वि + आढक + ठञ्\n→ द्व्याढक [<<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> [[5.1.28]] इति ठञ्-प्रत्ययस्य लुक्] ।\nस्त्रीत्वे <<द्विगोः>> [[4.1.21]] इत्यनेन ङीप्-प्रत्ययः भवति - द्व्याढकी ।\nआ) त्रयः अचिताः सम्भवति / अवहरति / पचति सः = त्रि + आचित + ठञ् → त्रि + आचित → त्र्याचित । स्त्रीत्वे <<द्विगोः>> [[4.1.21]] इत्यनेन ङीप्-प्रत्यये प्राप्ते <<अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि>> [[4.1.22]] इति ङीप्-प्रत्ययः निषिध्यते, अतः अत्र <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप् एव भवति - त्र्याचिता ।\nइ) पञ्च पात्राणि सम्भवति / अवहरति / पचति सः = पञ्च + पात्र + ठञ् → पञ्चपात्र । स्त्रीत्वे <<द्विगोः>> [[4.1.21]] इति ङीप् - पञ्चपात्री ।\nज्ञातव्यम् - अस्मिन् सूत्रे 'ष्ठन् + च' इत्यत्र एतादृशं सन्धिकार्यम् भवति -\nष्ठन् + च\n→ ष्ठरुँ + च [<<नश्छव्यप्रशान्>> [[8.3.7]] इति नकारस्य रुँत्वम्]\n→ ष्ठंरुँ + च [<<अनुनासिकात् परोऽनुस्वारः>> [[8.3.4]] इति अनुस्वारः । एतत् सूत्रम् रुँत्वप्रकरणे एव विद्यते, अतः <<नश्छव्यप्रशान्>> [[8.3.7]] इत्यनेन विहितं नकारस्य रुँत्वमस्य कृते सिद्धमस्ति ।]\n→ ष्ठंः + च [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] रुँ-इत्यस्य इति विसर्गः]\n→ ष्ठंस् + च [<<विसर्जनीयस्य सः>> [[8.3.34]] इति विसर्गस्य सकारादेशः]\n→ ष्ठंश् + च [<<स्तोः श्चुना श्चुः>> [[8.4.40]] इति श्चुत्वम्]\n→ ष्ठंश्च\n" }, "51055": { "sa": "सम्भवति, अवहरति, पचति - एतेषु अर्थेषु द्विगुसमासे विद्यमानात् 'कुलिज' शब्दात विकल्पेन ष्ठन् तथा ख-प्रत्ययौ भवतः ; पक्षे औत्सर्गिकः ठञ्-प्रत्ययः तस्य च वैकल्पिकः लुक् अपि भवति । ", "sd": "'कुलिज' इति मापनस्य किञ्चन परिमाणम् । अयं शब्दः यदि द्विगुसमासस्य उत्तरपदे विद्यन्ते, तर्हि तादृशात् द्वितीयासमर्थात् प्रातिपदिकात् <<सम्भवत्यवहरति पचति>> [[5.1.52]] अस्मिन् अर्थे -\n1. विकल्पेन ख-प्रत्ययः भवति ।\n2. पक्षे विकल्पेन ष्ठन्-प्रत्ययः भवति ।\n3. पक्षे औत्सर्गिकः ठञ्-प्रत्ययः भवति । परन्तु तस्य <<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> [[5.1.28]] इति नित्यं लुकि प्राप्ते वर्तमानसूत्रेण केवलं विकल्पेनैव लुक् भवति ।\nयथा - द्वे कुलिजे सम्भवति, अवहरति, पचति सः -\n1. द्वि + कुलिज + ख → द्विकुलिजीन ।\n2. द्वि + कुलिज + ष्ठन् → द्विकुलिजिक । स्त्रीत्वे <<षिद्गौरादिभ्यश्च>> [[4.1.41]] इति ङीष् - द्विकुलीजिकी ।\n3. द्वि + कुलिज + ठञ् → द्वि + कुलिज → द्विकुलिज । अत्र ठञ्-प्रत्ययस्य वैकल्पिकः लुक् भवति ।\n4. द्वि + कुलिज + ठञ् → द्वैकुलिजिक । ठञ्-प्रत्ययस्य लुकः अभावात् आदिवृद्धिः विधीयते । वस्तुतः अत्र <<परिमाणान्तस्यासंज्ञाशाणयोः>> [[7.3.17]] इति उत्तरपदवृद्धिः भवेत्, परन्तु तत्रैव अनेन पाठितेन वार्त्तिकेन कुलिजशब्दस्य विषये उत्तरपदवृद्धिनिषेधः कृतः अस्ति, अतः अत्र आदिवृद्धिः एव क्रियते ।\n" }, "51056": { "sa": "'अंशः', 'वस्नम् ', 'भृतिः' - एतेषु अर्थेषु प्रथमासमर्थात् यथाविहितं प्रत्ययः भवति । ", "sd": "'अंश' इत्युक्ते भागः । 'वस्नम्' इत्युक्ते मूल्यम् । 'भृति' इत्युक्ते वेतनम् । एतेषु सर्वेषु अर्थेषु प्रथमासमर्थात् यथाविहितं प्रत्ययः भवति । उदाहरणानि एतानि -\n1. पञ्च अंशाः अस्य सः = पञ्चकः । <<सङ्ख्यायाः अतिशदन्तायाः कन्>> [[5.1.22]] इति कन् ।\n2. सहस्रम् वस्नमस्याः सा साहस्री । <<शतमानविंशतिकसहस्रवसनादण्>> [[5.1.27]] इति अण् । स्त्रीत्वे <<टिड्ढाणञ्..>> [[4.1.15]] इति ङीप् ।\n3. द्वे शते भृतिः अस्य सः द्विशत्यः द्विशतः वा । <<पणपादमाषशताद्यत्>> [[5.1.34]] इति यत् । तस्य अनेन वार्त्तिकेन विकल्पः । पक्षे <<सङ्ख्यायाः अतिशदन्तायाः कन्>> [[5.1.22]] इति कन्, तस्य च लुक् । " }, "51057": { "sa": "'अस्य परिमाणम्' अस्मिन् अर्थे प्रथमासमर्थात् यथाविहितं प्रत्ययः भवति । ", "sd": "'परिमाणम्' इत्युक्ते मापनम् / राशिः (measurement / quantity / amount) । प्रथमासमर्थात् परिमाणवाचिशब्दात् 'अस्य' अस्मिन् षष्ठ्यर्थे यथाविहितं प्रत्ययः भवति ।\nकानिचन उदाहरणानि एतानि -\n1. प्रस्थः (kilogram) परिमाणमस्य सः प्रास्थिकः । अत्र औत्सर्गिकः ठञ्-प्रत्ययः भवति ।\n2. वाहम् परिमाणमस्य तत् वाहिकम् । अत्र <<असमासे निष्कादिभ्यः>> [[5.1.20]] इति ठक्-प्रत्ययः भवति ।\n3. शतम् परिमाणमस्य सः शतिकः शत्यः वा । अत्र <<शताच्च ठन्यतावशते>> [[5.1.21]] इति ठन् तथा यत् प्रत्ययः भवति ।\n4. वर्षशतं परिमाणमस्य वार्षशतिकः । अत्र औत्सर्गिकः ठञ्-प्रत्ययः भवति ।\n5. सहस्रम् परिमाणमस्य सः साहस्रः । <<शतमानविंशतिकसहस्रवसनादण्>> [[5.1.27]] इति अण् ।\nविशेषः - वस्तुतः अस्मिन् सूत्रे 'तद्' इति प्रथमासमर्थः तथा च 'अस्य' इति षष्ठ्यर्थः (प्रत्ययार्थः) द्वयोरपि आवश्यकता नास्ति, यतः पूर्वसूत्रात् (<<सोऽस्यांशवस्नभृतयः>> [[5.1.56]]) इत्यस्मात् 'सः' तथा 'अस्य' द्वयोरपि अनुवृत्तिः भवितुमर्हति । तथापि आचार्यः अत्र द्वयोः अपि ग्रहणं कारयति । इदम् ग्रहणम् केवलं स्पष्टतायै कृतमस्तीति वक्तुं शक्यते, यतः अस्मिन् विषये कौमुद्याम् भाष्ये च किमपि नोक्तम् । परन्तु अस्मिन् विषये काशिकाकारः ब्रूते - ' पुनर्विधानसामर्थ्यादध्यर्धपूर्वद्विगोर्लुक् न भवति' । इत्युक्ते, <<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> [[5.1.28]] अनेन सूत्रेण उक्तः लुक् अस्य सूत्रस्य विषये केषुचन स्थलेषु मा भूत् - इति स्पष्टीकर्तुमत्र पुनरुक्तिः कृता अस्ति । अस्मिन् विषये काशिकाकारः उदाहरणद्वयं ददाति -\nअ) द्वे षष्टी जीवितम् परिमाणमस्य द्विषाष्टिकः । अत्र औत्सर्गिकस्य ठञ्-प्रत्ययस्य <<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> [[5.1.28]] इत्यनेन लुक् न भवति ।\nआ) तथैव, द्वे सप्तती परिमाणमस्य सः द्विसाप्ततिकः ।\nलुकः अयं प्रतिषेधः केषाञ्चन-शब्दानां विषये एव भवति, सर्वत्र न - इति स्मर्तव्यम् । यथा - 'द्वौ बिस्तौ अस्य परिमाणम्' इत्यत्र <<बिस्ताच्च>> [[5.1.31]] इत्यनेन विकल्पेन लुक् कृत्वा 'द्विबिस्त' इति रूपम् तु सिद्ध्यति एव ।\n" }, "51058": { "sa": "प्रथमासमर्थात् सङ्ख्यावाचिशब्दात् संज्ञायाः निर्देशार्थम्, सङ्घस्य निर्देशार्थम्, सूत्राणाम् निर्देशार्थम् तथा अध्ययनस्य निर्देशार्थम् विशिष्ट-सन्दर्भेषु यथाविहितं प्रत्ययः भवति । ", "sd": "<<तत् अस्य परिमाणम्>> [[5.1.57]] इत्यनेन परिमाणवाचिभ्यः शब्देभ्यः 'अस्य' अस्मिन् अर्थे यथाविहितं प्रत्ययः विधीयते । परन्तु केषुचन स्थलेषु सङ्ख्यावाचकं शब्दं स्वीकृत्य विशिष्ट-सन्दर्भे (in specific situations / references) 'परिमाणम्' इति प्रत्ययविधानम् इष्यते, यत् <<तत् अस्य परिमाणम्>> [[5.1.57]] इत्यनेन सामान्यसूत्रेण न भवति । एतान् प्रयोगान् स्पष्टीकर्तुम् एव अस्य सूत्रस्य निर्माणम् कृतमस्ति ।\nअस्मिन् सूत्रे चत्वारः शब्दाः उच्यन्ते - संज्ञा, सङ्घः, सूत्रम्, तथा अध्ययनम् । एते विशिष्टाः सन्दर्भाः एतादृशाः -\n1. संज्ञा - अस्य शब्दस्य अर्थः वार्त्तिककारेण स्पष्टीकृतः अस्ति - । इत्युक्ते, सङ्ख्याशब्दात् विशिष्टसंज्ञायाः निर्देशम् कर्तुम् 'स्वार्थे' एव यथाविहितं प्रत्ययः भवति (परिमाणार्थे न - इत्याशयः) । अत्र विग्रहवाक्ये 'परिमाणम्' इति शब्दः न दृश्यते । यथा - 'पञ्चक' इति काचन संज्ञा । पञ्च पक्षिणः एकत्ररूपेण डयन्ते चेत् 'पञ्चकाः शकुनयः' इति संज्ञा लोके प्रयुज्यते । तस्याः निर्देशः अत्र कृतः अस्ति । 'पञ्च एव शकुनयः पञ्चकाः' इति अत्र विग्रहवाक्यम् दीयते । अत्र पञ्च शब्दात् 'तदेव' अस्मिन् अर्थे (इत्युक्ते स्वार्थे) <<सङ्ख्यायाः अतिशदन्तायाः कन्>> [[5.1.22]] इति कन्-प्रत्ययः भवति ।\n2. सङ्घ - यत्र केचन पदार्थाः मिलित्वा सङ्घनिर्माणम् कुर्वन्ति, तत्र 'परिमाणमस्य' अस्मिन् अर्थे सङ्घस्य निर्देशं कर्तुम् यथाविहितं प्रत्ययः भवति । यथा - 'पञ्च परिमाणमस्य सङ्घस्य सः पञ्चकः ' । अत्र 'पञ्च' शब्दः वस्तुतः परिमाणवाचकः नास्ति, अतः <<तत् अस्य परिमाणम्>> [[5.1.58]] इत्यनेन अयम् प्रयोगः न सम्भवति । अत्र पञ्च-शब्दः केवलं सङ्ख्यारूपेण प्रयुज्यते । अस्यां स्थितौ 'पञ्चकः सङ्घः' एतादृशम् प्रयोगम् साधयितुम् इदम् सूत्रम् प्रयुज्यते ।\n3. सूत्र - यत्र सूत्राणाम् सङ्ख्या 'अध्यायरूपेण' उच्यते, तत्र वर्तमानसूत्रेण यथाविहितं प्रत्ययः भवति । यथा - 'अष्टौ अध्यायाः परिमाणमस्य तत् अष्टकम् पाणिनीयम्' । अत्र सूत्राणाम् सङ्ख्या 'अध्यायानाम्' निर्देशेन दीयते । इत्युक्ते, 'एतानि सूत्राणि अष्टसु अध्यायेषु विभाजितानि सन्ति' इति निर्देशः अत्र क्रियते । अस्यां स्थितौ 'अष्टौ अध्यायाः' इति परिमाणवाचिशब्दः नास्ति अतः अत्र <<तत् अस्य परिमाणम्>> [[5.1.58]] इत्यनेन अयम् प्रयोगः न सम्भवति । अतएव वर्तमानसूत्रे 'सूत्र' इत्यस्य ग्रहणम् कृतमस्ति ।\n4. अध्ययन - अध्ययनस्य प्रकाराः / पौनःपुन्यम् (repetion) दर्शयितुम् यथाविहितम् प्रत्ययः भवति । यथा - 'पञ्चरूपाणि अस्य अध्ययनस्य तत् पञ्चकमध्ययनम्' । यदि किञ्चन अध्ययनम् पञ्चप्रकारैः / पञ्चवारम् क्रियते, तर्हि तस्य निर्देशः पञ्चकमध्ययनम्' इत्यनेन भवति । अस्यां स्थितौ परिमाणवाचिशब्दस्य अभावात् <<तत् अस्य परिमाणम्>> [[5.1.58]] इत्यनेन प्रत्ययविधानम् न सम्भवति, अतः वर्तमानसूत्रे 'अध्यययन' इत्यस्य ग्रहणम् कृतमस्ति ।\nसङ्क्षेपेण, प्रयोगे विद्यमानाः केचन साधुशब्दाः ये <<तत् अस्य परिमाणम्>> [[5.1.57]] इत्यनेन न साध्यन्ते, तेषाम् साधनार्थम् वर्तमानसूत्रस्य निर्माणम् कृतमस्ति ।\nअत्र वार्त्तिकद्वयम् ज्ञातव्यम् -\n1. - 'पञ्चदश' तथा अधिकाः सङ्ख्यावाचिकाः शब्दाः 'स्तोमम् परिमाणमस्य' अस्मिन् अर्थे 'ड'प्रत्ययं स्वीकुर्वन्ति । यथा - पञ्चदश स्तोमम् (मन्त्रम्) परिमाणमस्य सः पञ्चदशः स्तोमः ।\n2. - 'शन्' उत 'शत्' यस्य अन्ते अस्ति, तादृशात् शब्दात् , तथा च 'विंशति'शब्दात् वेदेषु भिन्नेषु विषयेषु परिमाणार्थे 'डिनि' प्रत्ययः कृतः दृश्यते । अस्मिन् प्रत्यये नकारोत्तरः इकारः 'नकारस्य इत्संज्ञा मा भूत्' इति ज्ञापयितुम् स्थापितः अस्ति । उदाहरणानि एतानि -\n[अ] 'पञ्चदशन्' - पञ्चदश अहानि (दिनानि) परिमाणमस्य\n= पञ्चदशन् + डिनि\n→ पञ्चदश् + इन् [<<टेः>> [[6.4.143]] इति टिलोपः]\n→ पञ्चदशिन्\nपञ्चदश अहानि परिमाणमस्य सः पञ्चदशी अर्धमासः ।\n[आ] 'त्रिंशत्' - त्रिंशत् अहानि परिमाणमस्य\n= त्रिंशत् + डिनि\n→ त्रिंश् + इन् [<<टेः>> [[6.4.143]] इति टिलोपः]\n→ त्रिंशिन्\nत्रिंशत् अहानि परिमाणमस्य सः त्रिंशी मासः ।\n[इ] विंशतिः गोत्राणि परिमाणमस्य\n= विंशति + डिनि\n→ विंश् + इन् [<<ते विंशतेर्डिति>> [[6.4.142]] इति टिलोपः[\n→ विंशिन्\nविंशतिः गोत्राणि परिमाणम् एषाम् ते विंशिनः अङ्गिरसः ।A group of people who have the same main gotra but twenty sub-gotras - इत्याशयः । " }, "51059": { "sa": "'तत् अस्य परिमाणम्' अस्मिन् अर्थे 'पङ्क्ति' शब्दः, तथा 'तत् अस्य सङ्घस्य परिमाणम्' अस्मिन् अर्थे 'विंशति', 'त्रिंशत्', 'चत्वारिंशत्', 'पञ्चाशत्', 'षष्टि', 'सप्तति', 'अशीति', 'नवति', 'शतम्' - एते शब्दाः निपात्यन्ते ।", "sd": "'अस्य परिमाणम्' अस्मिन् अर्थे केचन विशिष्टाः शब्दाः अनेन सूत्रेण निपात्यन्ते । क्रमेण पश्यामः -\n1. पङ्क्ति - 'पञ्च परिमाणमस्य छन्दस्य' अस्मिन् अर्थे 'पङ्कति' शब्दः निपात्यते ।\nपन्चन् [प्रकृत्याः मूलरूपे नकारः विद्यते । प्रक्रियायाः अन्ते तस्य अनुस्वार-परसवर्णे ञकारः भवति । अतः अत्र नकारेणैव प्रक्रिया दर्शनीया ]\n→ पन्चन् + ति [निपातनात् 'ति' प्रत्ययः]\n→ पन्च् + ति [निपातनात् टिलोपः । अङ्गस्य <<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इति पदसंज्ञा]\n→ पन्क् + ति [<<चोः कुः>> [[8.2.30]] इति कुत्वम् ।\n→ पंक् + ति [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति नकारस्य अनुस्वारः]\n→ पङ्क् + ति [<<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति परसवर्णः]\n→ पङ्क्ति ।\nक्रमः (row) अस्मिन् अर्थे अपि अस्य शब्दस्य प्रयोगः भवति । यथा - ब्राह्मणपङ्क्तिः (A queue of brahmins इत्यर्थः) ।\nअग्रे निर्दिष्टाः सर्वे शब्दाः 'तत् परिमाणमस्य सङ्घस्य' अस्मिन् अर्थे निपात्यन्ते । अत्र 'सङ्घ' इत्यस्य अर्थः 'प्राणिसमुदायः' (group of animals) इति विद्यते । (Note - The word 'animal' here represent all living things except plants) ।\n2. विंशति - 'द्वौ दशतौ परिमाणमस्य सङ्घस्य' अस्मिन् अर्थे 'विंशति' शब्दः निपात्यते ।\nद्वि + दशत् + शतिच् ['दशानाम् वर्गः' अस्मिन् अर्थे <<पञ्चद्दशतौ वर्गे वा>> [[5.1.60]] इत्यनेन दशत्-शब्दः निपात्यते । तस्मात् वर्तमानसूत्रेण 'शतिच्' प्रत्ययः निपात्यते । ]\n→ विन् + शति [चकारस्य इत्संज्ञा, लोपः । अग्रे निपातनात् सम्पूर्णस्य अङ्गस्य विन् ' इति आदेशः भवति, तथा च अस्य पदसंज्ञा अपि निषिध्यते ।]\n→ विंशति [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति अपदान्त-नकारस्य अनुस्वारः]\nअस्य शब्दस्य रूपाणि नित्यं एकवचने स्त्रीलिङ्गे ('मति'शब्दवत्) भवन्तीति बालमनोरमायाम् स्पष्टीक्रियते ।\n4. त्रिंशत् - 'त्रयः दशतः परिमाणमस्य सङ्घस्य' अस्मिन् अर्थे 'त्रिंशत्' शब्दः निपात्यते ।\nत्रि + दशत् + शत् ['दशानाम् वर्गः' अस्मिन् अर्थे <<पञ्चद्दशतौ वर्गे वा>> [[5.1.60]] इत्यनेन दशत्-शब्दः निपात्यते । तस्मात् वर्तमानसूत्रेण 'शत्' प्रत्ययः निपात्यते । ]\n→ त्रिन् + शत् [निपातनात् सम्पूर्णस्य अङ्गस्य 'त्रिन्' इति आदेशः भवति, तथा च अस्य पदसंज्ञा अपि निषिध्यते ।]\n→ त्रिंशत् [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति अपदान्त-नकारस्य अनुस्वारः]\nअस्य शब्दस्य रूपाणि नित्यं एकवचने स्त्रीलिङ्गे ('सरित्'शब्दवत्) भवन्ति ।\n5. चत्वारिंशत् - 'चत्वारः दशतः परिमाणमस्य सङ्घस्य' अस्मिन् अर्थे 'चत्वारिंशत्' शब्दः निपात्यते ।\nचतुर् + दशत् + शत् ['दशानाम् वर्गः' अस्मिन् अर्थे <<पञ्चद्दशतौ वर्गे वा>> [[5.1.60]] इत्यनेन दशत्-शब्दः निपात्यते । तस्मात् वर्तमानसूत्रेण 'शत्' प्रत्ययः निपात्यते । ]\n→ चत्वारिन् + शत् [निपातनात् सम्पूर्णस्य अङ्गस्य 'चत्वारिन्' इति आदेशः भवति, तथा च अस्य पदसंज्ञा अपि निषिध्यते ।]\n→ चत्वारिंशत् [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति अपदान्त-नकारस्य अनुस्वारः]\nअस्य शब्दस्य रूपाणि नित्यं एकवचने स्त्रीलिङ्गे ('सरित्'शब्दवत्) भवन्ति ।\n6. पञ्चाशत् - 'पञ्च दशतः परिमाणमस्य सङ्घस्य' अस्मिन् अर्थे 'पञ्चाशत्' शब्दः निपात्यते ।\nपञ्च + दशत् + शत् ['दशानाम् वर्गः' अस्मिन् अर्थे <<पञ्चद्दशतौ वर्गे वा>> [[5.1.60]] इत्यनेन दशत्-शब्दः निपात्यते । तस्मात् वर्तमानसूत्रेण 'शत्' प्रत्ययः निपात्यते । ]\n→ पञ्चा + शत् [निपातनात् सम्पूर्णस्य अङ्गस्य 'पञ्चा' इति आदेशः भवति ।]\n→ पञ्चाशत्\nअस्य शब्दस्य रूपाणि नित्यं एकवचने स्त्रीलिङ्गे ('सरित्'शब्दवत्) भवन्ति ।\n6. षष्टि - 'षट् दशतः परिमाणमस्य सङ्घस्य' अस्मिन् अर्थे 'षष्टि'शब्दः निपात्यते ।\nषट् + दशत् + ति ['दशानाम् वर्गः' अस्मिन् अर्थे <<पञ्चद्दशतौ वर्गे वा>> [[5.1.60]] इत्यनेन दशत्-शब्दः निपात्यते । तस्मात् वर्तमानसूत्रेण 'ति' प्रत्ययः निपात्यते । ]\n→ षष् + ति [निपातनात् सम्पूर्णस्य अङ्गस्य 'षष्' इति आदेशः भवति, तथा च अस्य पदसंज्ञा अपि निषिध्यते ।]\n→ षष् + टि [<<ष्टुना ष्टुः>> [[8.4.41]] इति ष्टुत्वम्]\n→ षष्टि\nअस्य शब्दस्य रूपाणि नित्यं एकवचने स्त्रीलिङ्गे 'मति'शब्दवत् भवन्ति ।\n7. सप्तति - 'सप्त दशतः परिमाणमस्य सङ्घस्य' अस्मिन् अर्थे 'सप्तति' शब्दः निपात्यते ।\nसप्त + दशत् + ति ['दशानाम् वर्गः' अस्मिन् अर्थे <<पञ्चद्दशतौ वर्गे वा>> [[5.1.60]] इत्यनेन दशत्-शब्दः निपात्यते । तस्मात् वर्तमानसूत्रेण 'ति' प्रत्ययः निपात्यते । ]\n→ सप्त + ति [निपातनात् सम्पूर्णस्य अङ्गस्य 'सप्त' इति आदेशः भवति।]\n→ सप्तति ।\nअस्य शब्दस्य रूपाणि नित्यं एकवचने स्त्रीलिङ्गे 'मति'शब्दवत् भवन्ति ।\n8. अशीति - 'अष्ट दशतः परिमाणमस्य सङ्घस्य' अस्मिन् अर्थे 'अशीति'शब्दः निपात्यते ।\nअष्ट + दशत् + ति ['दशानाम् वर्गः' अस्मिन् अर्थे <<पञ्चद्दशतौ वर्गे वा>> [[5.1.60]] इत्यनेन दशत्-शब्दः निपात्यते । तस्मात् वर्तमानसूत्रेण 'ति' प्रत्ययः निपात्यते । ]\n→ अशी + ति [निपातनात् सम्पूर्णस्य अङ्गस्य 'अशी' इति आदेशः भवति ।]\n→ अशीति\nअस्य शब्दस्य रूपाणि नित्यं एकवचने स्त्रीलिङ्गे 'मति'शब्दवत् भवन्ति ।\n9. नवति - 'नव दशतः परिमाणमस्य सङ्घस्य' अस्मिन् अर्थे 'नवति' शब्दः निपात्यते ।\nनव + दशत् + ति ['दशानाम् वर्गः' अस्मिन् अर्थे <<पञ्चद्दशतौ वर्गे वा>> [[5.1.60]] इत्यनेन दशत्-शब्दः निपात्यते । तस्मात् वर्तमानसूत्रेण 'ति' प्रत्ययः निपात्यते । ]\n→ नव + ति [निपातनात् सम्पूर्णस्य अङ्गस्य 'नव' इति आदेशः भवति ।]\n→ नवति\nअस्य शब्दस्य रूपाणि नित्यं एकवचने स्त्रीलिङ्गे 'मति'शब्दवत् भवन्ति ।\n10. शत - 'दश दशतः परिमाणमस्य सङ्घस्य' अस्मिन् अर्थे 'शत' शब्दः निपात्यते ।\nदश + दशत् + त ['दशानाम् वर्गः' अस्मिन् अर्थे <<पञ्चद्दशतौ वर्गे वा>> [[5.1.60]] इत्यनेन दशत्-शब्दः निपात्यते । तस्मात् वर्तमानसूत्रेण 'त' प्रत्ययः निपात्यते ।\n→ श + त [निपातनात् सम्पूर्णस्य अङ्गस्य 'श' आदेशः भवति ।]\n→ शत\nअस्य शब्दस्य रूपाणि नित्यं एकवचने पुंल्लिङ्गे 'बाल'शब्दवत् तथा नपुंसकलिङ्गे 'फल' शब्दवत् भवन्ति । अस्य शब्दस्य स्त्रीलिङ्गे रूपाणि न जायन्ते ।\nअनेन प्रकारेण वर्तमानसूत्रेण 'पङ्क्ति', 'विंशति', 'त्रिंशत्', 'चत्वारिंशत्', 'पञ्चाशत्' , 'षष्टि', 'सप्तति', 'अशीति', 'नवति' तथा 'शतम्' एतानि अव्युत्पन्नानि प्रातिपदिकानि निपात्यन्ते ।\nज्ञातव्यम् -\n1. भाष्यकारस्य मतेन अन्यानि अव्युत्पन्नानि प्रातिपदिकानि - यथा - सहस्रम्, अयुतमादीनि अपि अनेन प्रकारेण एव निपाततेन साधनीयानि ।\n2. अस्मिन् सूत्रे निर्दिष्टा शब्दाः 'सङ्घ' इत्यस्मिन् अर्थे एव निपात्यन्ते । लौकिकभाषायाम् 'सङ्ख्या'रूपेण प्रयुज्यमानाः विंशति-आदयः शब्दाः सर्वथा भिन्नाः सन्ति । The words given in this sutra should not be confused with similar looking words (like विंशति etc) which are used to denote corresponding numbers. " }, "51060": { "sa": "'अस्य वर्गस्य परिमाणम्' अस्मिन् अर्थे 'पञ्चत्' तथा 'दशत्' शब्दौ विकल्पेन निपात्येते ।", "sd": "'पञ्च परिमाणमस्य वर्गस्य' अस्मिन् अर्थे वर्तमानसूत्रेण 'पञ्चत्' इति शब्दः निपात्यते । तथैव, 'दश परिमाणमस्य वर्गस्य' अस्मिन् अर्थे 'दशत्' अयम् शब्दः अपि निपात्यते ।\nपञ्च परिमाणमस्य वर्गस्य / पञ्चानां समूहः\n= पञ्च + डति [निपातनात् डति-प्रत्ययः । प्रत्ययस्थः इकारः उच्चारणार्थः]\n→ पञ्च् + अत् [<<टेः>> [[6.4.143]] इति टिलोपः]\n→ पञ्चत्\nतथैव, दश परिमाणमस्य वर्गस्य / दशानां समूहः\n= दश + डति [निपातनात् डति-प्रत्ययः । प्रत्ययस्थः इकारः उच्चारणार्थः]\n→ दश् + अत् [<<टेः>> [[6.4.143]] इति टिलोपः]\n→ दशत्\nस्मर्तव्यम् - अस्मिन् सूत्रे 'वा' इति उच्यते, अतः पक्षे 'पञ्च' शब्दात् तथा 'दश' शब्दात् <<सङ्ख्याया अतिशदन्तायाः कन्>> [[5.1.22]] इत्यनेन कन्-प्रत्ययः अपि एताभ्याम् शब्दाभ्याम् विधीयते । अतः 'पञ्च परिमाणमस्य सः पञ्चकः' तथा 'दश परिमाणमस्य सः दशकः' इति शब्दौ अपि सिद्ध्यतः ।\nज्ञातव्यम् - अस्मिन् सूत्रे 'वर्ग' इति शब्दः प्रयुज्यते । वस्तुतः द्वौ सूत्रौ पूर्वम् <<संख्यायाः संज्ञासंघसूत्राध्ययनेषु>> [[5.1.58]] इत्यत्र विद्यमानः 'सङ्घ' शब्दः अत्र अनुवृत्या स्वीक्रियते चेत् 'वर्ग' ग्रहणस्य आवश्यकता एव नास्तीति भासते । अस्य उत्तरार्थम् न्यासकारः वदति - 'सङ्घशब्दो हि प्राणिसमुदाये रूढः। वर्गशब्दस्तु समूहमात्रे इति वर्गग्रहणं कर्तव्यः' । इत्युक्ते, 'सङ्घ' शब्दः केवल् प्राणिनाम् समूहार्थम् प्रयुज्यते, अन्येषाम् समूहार्थम् न । The word सङ्घ commonly represents only a group of animals. । अत्र निपातितौ 'पञ्चत्' तथा 'दशत्' शब्दौ साधारणवर्गानाम् निर्देशार्थमपि प्रयुज्यते, न हि केवलम् प्राणिनाम् निर्देशार्थम् । अतएव अत्र 'वर्ग' शब्दस्य विशिष्टरूपेण ग्रहणम् कृतमस्ति । " }, "51061": { "sa": "'अस्य वर्गस्य परिमाणम्' अस्मिन् अर्थे प्रथमासमर्थात् 'सप्तन्' शब्दात् वेदेषु अञ्-प्रत्ययः कृतः दृश्यते ।", "sd": "'सप्त अस्य वर्गस्य परिमाणम्' अस्मिन् अर्थे वेदेषु सप्त-शब्दात् अञ्-प्रत्ययः कृतः दृश्यते -\nसप्त अस्य वर्गस्य परिमाणम्\n= सप्त + अञ्\n→ साप्त [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\nयथा - ऋग्वेदे 1.20.7 इत्यत्र 'ते नो॒ रत्ना॑नि धत्तन॒ त्रिरा साप्ता॑नि सुन्व॒ते' अयम् प्रयोगः दृश्यते । अत्र 'साप्तानि' इत्युक्ते 'सप्त येषां परिमाणम्, तानि वर्गाणि' इति अर्थः ।\nअस्य सूत्रस्य विषये कौमुदीकारः अस्मिन् सूत्रे कानिचन वार्त्तिकानि अपि पाठयति । तानि एतानि -\n1. । इत्युक्ते, 'तद् अस्य वर्गस्य परिमाणम्' अस्मिन् अर्थे वेदेषु 'शन्' तथा 'शत्' इत्यन्ताः शब्दाः 'डिनि' प्रत्ययमपि स्वीकुर्वन्ति ।\nउदाहरणम्\nअ) पञ्चदशन् + डिनि → पञ्चदशिन् । यथा - 'आरण्यास्तेषां दश पञ्चदशिन एकादश दशिनः' इति मानवश्रौत्रसूत्रे उल्लेखः अस्ति ।\nआ) त्रिंशत् + डिनि → त्रिंशिन् ।\nवस्तुतः एतत् वार्त्तिकम् भाष्यकारेण <<प्रमाणे द्वयसज्दघ्नञ्मात्रचः>> [[5.2.37]] इत्यत्र पाठ्यते ।\n2. । 'विंशति' शब्दात् अपि , 'तद् अस्य वर्गस्य परिमाणम्' अस्मिन् अर्थे वेदेषु 'डिनि' प्रत्ययः कृतः दृश्यते ।विंशतिः परिमाणमस्य तत् = विंशति + डिनि -→ विंशिन् ।\nएतत् वार्त्तिकम् अपि भाष्यकारः <<प्रमाणे द्वयसज्दघ्नञ्मात्रचः>> [[5.2.37]] इत्यत्र पाठयति ।\n3. । 'युष्मद्' तथा 'अस्मद्' एताभ्याम् सर्वनामशब्दाभ्याम् 'सादृश्यम्' दर्शयितुम् 'वतुँप्' प्रत्ययः भवति । यथा -\nअ) युष्मत् + वतुँप्\n→ युष्मत् + वत् [इत्संज्ञालोपः]\n-> त्वत् + वत् [<<प्रत्ययोत्तरपदयोश्च>> [[7.2.98]] इत्यनेन 'युष्म' इत्यस्य 'त्व' आदेशः भवति ।]\n→ त्वावत् [<<आ सर्वनाम्नः>> [[6.3.91]] इति आकारादेशः । <<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः ]\nयथा - ऋग्वेदे 6.30.4 - 'स॒त्यमित्तन्न त्वावाँ॑ अ॒न्यो अ॒स्तीन्द्र॑' ।\nआ) अस्मत् + वतुँप्\n→ अस्मत् + वत् [इत्संज्ञालोपः]\n→ मत् + वत् [<<प्रत्ययोत्तरपदयोश्च>> [[7.2.98]] इत्यनेन 'अस्म' इत्यस्य 'म' आदेशः भवति ।]\n→ मावत् [<<आ सर्वनाम्नः>> [[6.3.91]] इति आकारादेशः । <<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः ]\nयथा - ऋग्वेदे 1.17.2 - गन्ता॑रा॒ हि स्थोऽ॑वसे॒ हवं॒ विप्र॑स्य॒ माव॑तः ।\nएतत् वार्त्तिकम् भाष्यकारः काशिकाकारः च <<यद्तदेतेभ्यः परिमाणे वतुप्>> [[5.2.39]] इत्यत्र पाठयति । " }, "51062": { "sa": "'एषाम् ब्राह्मणानाम् परिमाणम्' अस्मिन् अर्थे प्रथमासमर्थात् त्रिंशत्-शब्दात् चत्वारिंशत्-शब्दात् च संज्ञां दर्शयितुम् 'डण्' प्रत्ययः भवति । ", "sd": " 'त्रिंशत् परिमाणम् एषाम् ब्राह्मणानाम्' तथा च 'चत्वारिंशत् परिमाणम् एषाम् ब्राह्मणानाम्' अनयोः अर्थयोः भाषायां प्रयुज्यमाणौ 'त्रैंश' तथा 'चात्वारिंश' एतौ संज्ञावाचिनौ शब्दौ अनेन सूत्रेण सिद्ध्यतः । अत्र 'ब्राह्मण'शब्दः 'वेदस्य मन्त्रभिन्नः भागः' अस्मिन् अर्थे प्रयुक्तः अस्ति, न हि 'ब्राह्मणजातिः' अस्मिन् अर्थे । यथा -\n1. त्रिंशत् अध्यायाः परिमाणम् एषाम् ब्राह्मणानाम्\n= त्रिंशत् + डण्\n→ त्रैंशत् + अ [इत्संज्ञालोपः, णित्वात् <<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ त्रैंश् + अ [<<टेः>> [[6.4.143]] इति टिलोपः]\n→ त्रैंश\n2. तथैव - चत्वारिंशत् सूक्तानि परिमाणम् एषाम् ब्राह्मणानाम् = चात्वारिंश ।\nयथा - त्रैंशानि ब्राह्मणानि, चात्वरिंशानि ब्राह्मणानि - एतादृशाः प्रयोगाः दृश्यते । तेषाम् समर्थनार्थम् इदम् सूत्रम् निर्मितमस्ति । " }, "51063": { "sa": "'अर्हति' अस्मिन् अर्थे द्वितीयासमर्थात् यथाविहितं प्रत्ययः भवति । ", "sd": "'अर्हति' इत्युक्ते 'लब्धुम् योग्यः भवति' । 'अर्हति' अस्मिन् अर्थे द्वितीयासमर्थात् यथाविहितं प्रत्ययः भवति । कानिचन उदाहरणानि एतानि -\n1. वसनमर्हति सः = वसन + अण् → वासनः । अत्र <<शतमानविंशतिकसहस्रवसनादण्>> [[5.1.27]] इति अण् प्रत्ययः विधीयते ।\n2. शतमर्हति सः शतिकः शत्यः वा । अत्र <<शताच्च ठन्यतावशते>> [[5.1.21]] इति ठन्, यत् प्रत्ययौ भवतः ।\n3. द्वे शते अर्हति सः द्विशत्यः द्विशतः वा । अत्र <<पणपादमाषशतादत्>> [[5.1.34]] इति यत् प्रत्ययः भवति, तथा च अनेन वार्त्तिकेन तस्य वैकल्प्यमपि जायते ; अतः पक्षे <<संख्याया अतिशदन्तायाः कन्>> [[5.1.22]] इति कन् अपि विधीयते, तस्य च <<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> [[5.1.28]] इत्यनेन लुक् भवति । ]\n4. श्वेतच्छत्रमर्हतिः सः श्वैतच्छत्रिकः । <<आर्हादगोपुच्छसङ्ख्यापरिमाणात् ठक्>> [[5.1.19]] इति ठक् ।\n5. द्रोणमर्हति सः द्रौणिकः । अत्र <<असमासे निष्कादिभ्यः>> [[5.1.20]] इति ठक् प्रत्ययः भवति ।\n" }, "51064": { "sa": "छेदादिगणस्य शब्देभ्यः 'नित्यमर्हति' अस्मिन् अर्थे यथाविहितं प्रत्ययः भवति । ", "sd": "<<तदर्हति>> [[5.1.63]] अनेन सूत्रेण सर्वेभ्यः प्रातिपदिकेभ्यः 'अर्हति' अस्मिन् अर्थे प्रत्यनविधानं भवति । तद् बाधित्वा अनेन सूत्रेण 'नित्यम् (= सर्वदा) अर्हति' अस्मिन्नेव अर्थे छेदादिगणस्य शब्देभ्यः प्रत्ययविधानम् क्रियते । इत्युक्ते, 'क्वचित् अर्हति' अस्मिन् अर्थे छेदादिगणस्य शब्देभ्यः प्रत्ययविधानम् न भवति, केवलं 'नित्यमर्हति' अस्मिन्नेव अर्थे भवति - इति स्मर्तव्यम् ।\nछेदादिगणः अयम् -\nछेद, भेद, द्रोह, दोह, वर्त, कर्ष, संप्रयोग, विप्रयोग, प्रेषण, संप्रश्न, विप्रकर्ष, विराग विरङ्गं च (गणसूत्रम्) ।\nएतेभ्यः सर्वेभ्यः शब्देभ्यः <<आर्हादगोपुच्छसङ्ख्यापरिमाणात् ठक्>> [[5.1.19]] इत्यनेन ठक्-प्रत्ययः भवति ।\nयथा -\n1. छेदं नित्यमर्हति सः छैदिकः वंशः । स्त्रीत्वे <<टिड्ढाणञ्..>> [[4.1.15]] इति ङीप् - छैदिकी वेणुः ।\n2. भेदं नित्यमर्हति सः भैदिकः ।\n3. द्रोहं नित्यमर्हति सः द्रौहिकः ।\nअस्मिन् गणे एकं गणसूत्रमपि विद्यते - 'विराग विरङ्गं च' । इत्युक्ते, 'विराग' शब्दस्य प्रक्रियायाम् 'विरङ्ग' आदेशः अपि भवति । यथा - विरागं नित्यमर्हति सः = विराग + ठक् → वैरङ्ग + ठक् → वैरङ्गिकः ।\nविशेषः - भाष्यकारः <<पन्थो ण नित्यम्>> [[5.1.76]] इत्यत्र वदति - 'छेदादिपथिभ्यः नित्यग्रहणमनर्थकम्' । सामान्यभाषायाम्, अस्मिन् सूत्रे 'नित्यग्रहणम्' अनावश्यकमस्तीति सः प्रतिपादयति, यतः तस्य मतेन छेदादिगणस्य शब्देभ्यः 'कदाचित् अर्हति' अस्मिन् अर्थे अपि ठक्-प्रत्ययः कृतः दृश्यते । एतदेव विषयम् स्वीकृत्य बालमनोरमाकारः अग्रे वदति - 'सूत्रमेवेदं न आरब्धव्यम्' । इत्युक्ते, यदि नित्यग्रहणमत्र न आवश्यकम्, तर्हि अस्य सूत्रस्यैव न किमपि प्रयोजनम् - यतः छेदादिगणस्य शब्देभ्यः <<तदर्हति>> [[5.1.63]] इत्यनेनैव प्रत्ययविधानं क्रियते ।\n" }, "51065": { "sa": "'नित्यमर्हति' अस्मिन् अर्थे द्वितीयासमर्थात् 'शीर्षच्छेद' यत् प्रत्ययः भवति, पक्षे ठक् प्रत्ययः अपि विधीयते । ", "sd": "<<तदर्हति>> [[5.1.63]] अनेन सूत्रेण सर्वेभ्यः प्रातिपदिकेभ्यः 'अर्हति' अस्मिन् अर्थे प्रत्यनविधानं भवति । तद् बाधित्वा अनेन सूत्रेण 'नित्यम् (= सर्वदा) अर्हति' अस्मिन् अर्थे 'शीर्षच्छेद' शब्दात् यत्-प्रत्ययः भवति ।\nअस्मिन् सूत्रे 'च' इति उच्यते, अतः पक्षे <<आर्हादगोपुच्छसङ्ख्यापरिमाणात् ठक्>> [[5.1.19]] इति ठक्-प्रत्ययः अप्यत्र विधीयते ।\nउदाहरणात् पूर्वमत्र एकः बिन्दुः ज्ञातव्यः । काशिकायाम् कौमुद्यां च एतत् स्पष्टीक्रियते, यत् अत्र विग्रहवाक्यम् 'शिरसः छेदम् नित्यमर्हति' एतादृशम् भवति । अत्र विग्रहवाक्ये वस्तुतः 'शिरस्' इति शब्दः विद्यते । परन्तु प्रक्रियायां प्रत्ययसन्नियोगेन 'शिरस्' इत्यस्य 'शीर्ष' अयमादेशः निपात्यते । प्रक्रिया इयम् -\n1) यत्-प्रत्ययः -\nशिरसः छेदम् नित्यमर्हति सः\n= शिरस् + छेद + यत्\n→ शीर्षछेद + यत् [प्रत्ययसंनियोगेन शिरसः शीर्षभावो निपात्यते - इति काशिका ।]\n→ शीर्षछेद् + य [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ शीर्षत्छेद्य [<<छे च>> [[6.1.73]] इति तुगागमः]\n→ शीर्षच्छेद्य [<<स्तोः श्चुना श्चुः>> [[8.4.40]] इति श्चुत्वम्]\n2) ठक्-प्रत्ययः -\n शिरसः छेदम् नित्यमर्हति सः\n= शिरस् + छेद + ठक्\n→ शीर्षछेद + ठक् [प्रत्ययसंनियोगेन शिरसः शीर्षभावो निपात्यते - इति काशिका ।]\n→ शैर्षछेद + ठक् [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ शैर्षछेद + इक [<<ठस्येकः>> [[8.3.50]] इति इक-आदेशः]\n→ शैर्षछेद् + इक [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ शैर्षत्छेदिक [<<छे च>> [[6.1.73]] इति तुगागमः]\n→ शैर्षच्छेदिक [<<स्तोः श्चुना श्चुः>> [[8.4.40]] इति श्चुत्वम्]\nशिरसः छेदम् नित्यमर्हति सः शीर्षच्छेद्यः शैर्षच्छेदिकः वा अरिः ।\nस्मर्तव्यम् - शिरस्-इत्यस्य 'शीर्ष' आदेशः प्रक्रियायाम् एव भवति, केवलवाक्यस्य विषये न । यथा 'शिरसः छेदमर्हति' इत्यत्र अयं आदेशः न भवति, अतः 'शीर्षच्छेदम् अर्हति' इति न वक्तव्यम् । 'शिरसः छेदमर्हति' इति वक्तव्यम् , नो चेत् 'शीर्षच्छेद्य / शैर्षच्छेदिक' इति वक्तव्यम् ।\n" }, "51066": { "sa": "दण्डादिगणस्य द्वितीयासमर्थेभ्यः शब्देभ्यः 'अर्हति' अस्मिन् अर्थे यत्-प्रत्ययः भवति । ", "sd": "दण्डादिगणस्य शब्देभ्यः 'अर्हति' अस्मिन् अर्थे यत्-प्रत्ययः भवति ।\nदण्डादिगणः अयम् -\nदण्ड, मुसल, मधुपर्क, कशा, अर्घ, मेधा, मेघ, युग, उदक, वध, गुहा, भाग, इभ।\nयथा -\n1. दण्डमर्हति सः दण्ड्यः।\n2. मुसलमर्हति सः मुसल्यः ।\n3. मधुपर्कमर्हति सः मधुपर्क्यः ।\n4. कशामर्हति सः कश्यः ।\n5. अर्घ्यमर्हति सः अर्घ्यः ।\n5. मेधामर्हति सः मेध्यः ।\n6. मेघमर्हति सः मेघ्यः ।\n7. गुहामर्हति सः गुह्यः । गोपनीयः इत्याशयः ।\nस्मर्तव्यम् - यत्-प्रत्यये तकारः इत्संज्ञकः अस्ति । अस्य प्रयोजनद्वयम् -\nअ) मुसल्य, मधुपर्क्य इत्यत्र <<तित्स्वरितम्>> [[6.1.185]] इत्यनेन यत्-प्रत्ययस्य यकारः स्वरितः भवति ।\nआ) अन्यत्र सर्वत्र <<यतोऽनावः>> [[6.1.213]] इत्यनेन तद्धितान्तस्य आदिस्वरः उदात्तः जायते । " }, "51067": { "sa": "'अर्हति' अस्मिन् अर्थे वेदेषु भिन्नेभ्यः प्रातिपदिकेभ्यः यत् प्रत्ययः कृतः दृश्यते । ", "sd": "'अर्हति' अस्मिन् अर्थे <<दण्डादिभ्यः>> [[5.1.66]] इत्यनेन दण्डादिगणस्य शब्देभ्यः यत्-प्रत्यये प्राप्ते; वेदेषु तु अन्येभ्यः प्रातिपदिकेभ्यः अपि यत्-प्रत्ययः कृतः दृश्यते । तस्य समर्थनार्थम् एतत् सूत्रम् निर्मितमस्ति । यथा -\n1. यथा - ऋग्वेदः 1.91.20 - सा॒द॒न्यं॑ विद॒थ्यं॑ स॒भेयं॑ पितृ॒श्रव॑णं॒ यो ददा॑शदस्मै ।\nअत्र विद्यमानः 'सादन्य' शब्दः यत्-प्रत्ययान्तः अस्ति = सादनम् (सदनम् / गृहम् इत्यर्थः) अर्हति सः = सादन + यत् → सादन्य ।\n2. कौषितकीब्राह्मणे दशमाध्याये - 'अथ यूप्य एको द्रव्य एको गर्त्य एकः' । अत्र त्रिवारम् यत्-प्रत्ययः 'अर्हति' अस्मिन् अर्थे कृतः अस्ति - यूपम् (बलिम्) अर्हति सः यूप्यः । द्रवम् अर्हति सः द्रव्यः । गर्तमर्हति सः गर्त्यः । " }, "51068": { "sa": "'अर्हति' अस्मिन् अर्थे द्वितीयासमर्थात् पात्रशब्दात् घन् तथा यत् प्रत्ययः भवतः । ", "sd": "'पात्रमर्हति सः' अस्मिन् अर्थे पात्रशब्दात् घन् तथा यत्-प्रत्ययौ भवतः । यथा -\n1. पात्रमर्हति सः\n= पात्र + घन्\n→ पात्र + इय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति इय्-आदेशः]\n→ पात्र् + इय [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ पात्रिय\nप्रत्यये इत्संज्ञकः नकारः स्वरनिर्देशार्थम् स्थापितः अस्ति । <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] अनेन सूत्रेण 'पात्रिय' शब्दस्य आदिस्वरः उदात्तः भवेत्, इति अस्य प्रयोजनम् ।\n2. पात्रमर्हति सः\n= पात्र + यत्\n→ पात्र् + य [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ पात्र्य\nप्रत्यये इत्संज्ञकः तकारः स्वरनिर्देशार्थम् स्थापितः अस्ति । <<यतोऽनावः>> [[6.1.197]] अनेन सूत्रेण 'पात्र्य' शब्दस्य आदिस्वरः उदात्तः भवेत्, इति अस्य प्रयोजनम् ।\nस्मर्तव्यम् -\n1. 'पात्र'शब्दः परिमाणवाची अपि अस्ति, तथा च भाजन (container) वाची अपि अस्ति । अतः अनेन सूत्रेण विहितौ घन्/ यत् प्रत्ययौ 'परिमाणम्' अस्मिन् अर्थे ठञ्-प्रत्ययं बाधित्वा, तथा च 'भाजनम्' अस्मिन् अर्थे ठक्-प्रत्ययं बाधित्वा विधीयन्ते ।\n2. अस्य सूत्रस्य आशयम् न्यासकारः इत्थम् वदति - चाण्डालादयः पात्रे भोजनम् खादन्ति चेत् तत् पात्रम् 'अशुद्धम्' जायते, तस्य अग्रे क्षालनेन अपि शुद्धिः न भवति । अतः चाण्डालादीन् अन्नदानम् कर्तव्यमस्ति चेत् तेभ्यः पात्रम् पुनः नः स्वीक्रीयते, इत्युक्ते पात्रदानमपि भवति । अतः 'पात्रमर्हति सः पात्रियः पात्र्यः वा चाण्डालः' इति प्रयोगः कियते ।\n" }, "51069": { "sa": "'तद् अर्हति' अस्मिन् अर्थे 'कडङ्कर'शब्दात् 'दक्षिणा'शब्दात् च छ-प्रत्ययः यत्-प्रत्ययः च विधीयते । ", "sd": "'कडङ्करमर्हति' तथा 'दक्षिणामर्हति' एतयोः अर्थयोः 'कडङ्कर' तथा 'दक्षिण' शब्दात् छ-यत्-प्रत्ययौ भवतः । यथा -\n1. 'कडङ्कर' इत्युक्ते धेनवे दीयमानम् खाद्यम् । कडङ्करमर्हति सः कडङ्करीयः कडङ्कर्यः वा गौः ।\n2. 'दक्षिणा' इत्युक्ते पूजादिकर्मणि ब्राह्मणाय दीयमानम् धनम् । दक्षिणामर्हति सः दक्षिणीयः दक्षिण्यः भिक्षुः ।\nज्ञातव्यम् - अस्मिन् सूत्रे 'कडङ्करदक्षिण' इति पुंलिङ्गशब्दः समाहारद्वन्द्वेन जायते - कडङ्करश्च दक्षिणा च तयोः समाहारःकडङ्करदक्षिणः । यद्यपि समासान्ते अत्र 'दक्षिण' इति पुंलिङ्गः शब्दः दृश्यते, तथाप्यत्र प्रातिपदिकम् 'दक्षिणा' इति अस्ति, 'दक्षिण' इति न , इति स्मर्तव्यम् । " }, "51070": { "sa": "'अर्हति' अस्मिन् अर्थे 'स्थालीबिल'शब्दात् छ-प्रत्ययः यत्-प्रत्ययः च भवति । ", "sd": "स्थाल्याः उत पात्रस्य अन्तर्भागः 'स्थालीबिल' नाम्ना ज्ञायते । The interior of a vessel इत्यर्थः । अस्मात् शब्दात् 'अर्हति' इत्यस्मिन् अर्थे छ-प्रत्ययः तथा च यत्-प्रत्ययः भवति ।यथा, स्थालीबिलमर्हति तत् स्थालीबिलीयम् स्थालीबिल्यम् वा ओदनम् । स्थालीबिलमर्हति ते स्थालीबिलीयाः स्थालीबिल्याः वा तण्डुलाः ।\nप्रक्रिये एतादृशे -\n1. स्थालीबिल + छ\n→ स्थालीबिल + ईय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ईय्-आदेशः]\n→ स्थालीबिल् + ईय [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ स्थालीबिलीय ।\n2. स्थालीबिल + यत्\n→ स्थालीबिल् + यत् [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ स्थालीबिल्य\nस्त्रीत्वे विवक्षिते उभयत्र <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्-प्रत्ययः भवति । स्थालीबिलीया स्थालीबिल्या वा रोटिका । " }, "51071": { "sa": "'अर्हति' अस्मिन् अर्थे 'यज्ञ'शब्दात् घ-प्रत्ययः तथा ऋत्विज्-शब्दात् खञ्-प्रत्ययः भवति । ", "sd": "'यज्ञमर्हति' अस्मिन् अर्थे 'यज्ञ'शब्दात् घ-प्रत्ययः तथा च 'ऋत्विज्' शब्दात् 'खञ्' प्रत्ययः भवति । यथा -\n1. तम् यज्ञमर्हति\nयज्ञ + घ\n→ यज्ञ + इय [<<आयनेयीनियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति इय्-आदेशः]\n→ यज्ञ् + इय [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ यज्ञिय ।\nयज्ञमर्हति सः यज्ञियः ब्राह्मणः ।\n2. तम् ऋत्विजम् (= दानम् / sacrifice इत्यर्थः) अर्हति\n= ऋत्विज् + खञ्\n→ ऋत्विज् + ईन [<<आयनेयीनियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ईन्-आदेशः]\n→ आर्त्विज् + ईन [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ आर्त्विजीन\nऋत्विजमर्हति सः आर्त्विजीनः ब्राह्मणः ।\nअत्र एकम् वार्त्तिकम् ज्ञातव्यम् - । इत्युक्ते, अनेन सूत्रेण निर्दिष्टौ शब्दौ 'यज्ञकर्म अर्हति' तथा 'ऋत्विक्कर्म अर्हति' एतयोः अर्थयोः अपि प्रयुज्येते । यथा - यज्ञकर्म अर्हतो सः यज्ञियः देशः । ऋत्विक्कर्म अर्हति तत् आर्त्विजीनम् ब्राह्मणकुलम् । अत्र यद्यपि विग्रहवाक्ये 'यज्ञकर्म' / 'ऋत्विजकर्म' एतौ शब्दौ भवतः, तथापि प्रत्ययविधानम् तु 'यज्ञ / ऋत्विज्' शब्दादेव भवति, न हि 'यज्ञकर्म / ऋत्विक्कर्म' शब्दात् - एतत् स्मर्तव्यम् ।\nज्ञातव्यम् - <<प्राग्वतेः ठञ्>> [[5.1.18]] इत्यस्मिन् अधिकारे <<आर्हादगोपुच्छसङ्ख्यापरिमाणात् ठक्>> [[5.1.19]] अनेन सूत्रेण यत् आर्हीयप्रकरणम् प्रारभ्यते, तत् अत्र समाप्यते । इत्युक्ते, <<आर्हादगोपुच्छसंख्यापरिमाणाट्ठक्>> [[5.1.19]] इत्यस्मात् आरभ्य <<द्वित्रिपूर्वादण् च>> [[5.1.36]] इति यावत्सु सूत्रेषु निर्दिष्टाः अपवादाः अग्रिमसूत्रात् आरभ्य अग्रे न विधीयन्ते ।\n" }, "51072": { "sa": "'वर्तयति' अस्मिन् अर्थे द्वितीयासमर्थेभ्यः 'पारायण', 'तुरायण', 'चान्द्रायण' शब्देभ्यः ठञ्-प्रत्ययः विधीयते । ", "sd": "'पारायण', 'तुरायण' तथा 'चान्द्रायण' एते त्रयः शब्दाः अस्मिन् सूत्रे उक्ताः सन्ति । एतेभ्यः 'वर्तयति' (करोति / conducts) इत्यस्मिन् अर्थे औत्सर्गिकः ठञ्-प्रत्ययः विधीयते ।\nशब्दानामर्थाः आदौ पश्यामः -\n1. पारायण - वेदस्य प्रारम्भात् आरभ्य अन्तपर्यन्तम् क्रमेण अध्ययनम् । The process of studying a वेद from beginning all the way to the end.\n2. तुरायण - वर्षस्य अन्ते क्रियमाणः कश्चन यज्ञविशेषः । A specific type of यज्ञ that is conducted at the end of the year. ।\n3.चान्द्रायण - काचन विशिष्टा भोजनपद्धतिः यस्याम् चन्द्रस्य कलामनुसृत्य भोजनस्य मात्रा निर्धार्यते । प्रायः तपस्विनः जनाः एतादृशमाचरणम् कुर्वन्ति, अतः अयम् कश्चन तपविशेषः अस्ति इत्यपि उच्यते । A specific technique of eating / fasting where the amount of food consumed on any particular day depends on the phase of moon on that day. Thus, for fifteen days, the amount gradually increases, and then for next fifteen days it gradually decreases, finally resulting in a complete fast on the new-moon day.\nएतेभ्यः शब्देभ्यः 'वर्तयति' (= करोति / executes / conducts) अस्मिन् अर्थे ठञ्-प्रत्ययः भवति । यथा -\n1. पारायणम् वर्तयति सः पारायणिकः छात्रः । अयम् शब्दः केवलं छात्रस्य निर्देशम् कर्तुम् प्रयुज्यते, न हि गुरोः - यतः अध्ययनक्रियां शिष्यः करोति, न हि गुरुः ।\n2. तुरायणम् वर्तयति सः तौरायणिकः यजमानः । अयम् शब्दः केवलं यजमानस्य निर्देशार्थम् एव प्रयुज्यते, न हि ऋत्विजः\n/ पुरोहितस्य ; यतः यद्यपि यज्ञस्य कर्ता ऋत्विज् / पुरोहितः अस्ति, तथापि सः धनम् स्वीकृत्य यज्ञं कारयति, अतश्च यज्ञस्य फलम् तु यजमानाय एव गच्छति ।\n3. चान्द्रायणम् वर्तयति सः चान्द्रायणिकः तपस्वी ।\nस्मर्तव्यम् - <<असमासे निष्कादिभ्यः>> [[5.1.21]] इत्यत्र निर्दिष्टेन अनेन वार्त्तिकेन अत्र सङ्ख्यापूर्वपदानां विषये तदन्तविधिः अपि इष्यते । यथा - द्वे पारायणे वर्तयति सः द्वैपारायणिकः छात्रः । पञ्च तुरायणानि वर्तयति सः पाञ्चतुरायणिकः यजमानः । " }, "51073": { "sa": "'आपन्नः' अस्मिन् अर्थे द्वितीयासमर्थात् 'संशय'शब्दात् ठञ्-प्रत्ययः भवति । ", "sd": "आपन्नः इत्युक्ते प्राप्तः । 'आ + पद्' धातोः 'क्त'प्रत्यये कृते अयम् शब्दः सिद्ध्यति । 'आपन्नः' अस्मिन् अर्थे द्वितीयासमर्थात् 'संशय'शब्दात् संशयस्य अधिष्ठानम् (कर्म) निर्देशयितुम् ठञ्-प्रत्ययः भवति । संशयमापन्नः सांशयिकः ।\nकः अस्य अर्थः ? उदाहरणम् एकम् पश्यामः । कश्चन स्थाणुः (pillar / stem) अस्तीति मन्यामहे । कश्चन देवदत्तः रात्रौ प्रकाशस्य अभावात् एतम् स्थाणुं दृष्ट्वा 'अयम् कोऽपि पशुः / मनुष्यः अस्ति वा' इति चिन्तयति । अत्र अन्धःकारस्य कारणात् भ्रमवशात् 'पशुरूपेण / मनुष्यरूपेण भासमानः स्थाणुः संशयम् प्राप्तः अस्ति' इति उच्यते ।अत्र संशयस्य कर्ता अस्ति देवदत्तः, तथा च संशयस्य कर्म अस्ति स्थाणुः । अस्यां स्थितौ अस्य संशयस्य कर्मणः (इत्युक्ते स्थाणोः) निर्देशः 'सांशयिकः स्थाणुः' इति क्रियते । संशयमापन्नः सांशयिकः स्थाणुः । The object of the confusion / doubt is called सांशयिक ।\nज्ञातव्यम् -\n1. अत्र स्त्रीत्वे <<टिड्ढाणञ्..>> [[4.1.15]] इत्यनेन ङीप्-प्रत्ययः विधीयते । यथा, अन्धःकारे सर्परूपेण भासमाना रज्जूः संशयमापन्ना, अतः सा 'सांशयिकी रज्जूः' अस्तीति उच्यते ।\n2. यः संशयस्य कर्ता अस्ति (इत्युक्ते यस्य मनसि संशयः जायते) तस्य विषये अस्य सूत्रस्य प्रयोगः न भवति । संशयस्य यत् कर्म (इत्युक्ते यस्मिन् वस्तुनि संशयस्य अधिष्ठानम् भवति), तस्य विषये एव 'सांशयिक' शब्दस्य प्रयोगः भवति । यथा, उपरिनिर्दिष्टे उदाहरणे 'सांशयिकः' इति स्थाणोः विशेषणमस्ति, न हि देवदत्तस्य । " }, "51074": { "sa": "'गच्छति' अस्मिन् अर्थे द्वितीयासमर्थात् 'योजन'शब्दात् ठञ् प्रत्ययः भवति । ", "sd": "'योजन' इति अन्तरस्य किञ्चन परिमाणम् । (योजन is a unit of distance, 1 योजन = approximately 7 km). योजनम् यावत् अन्तरम् यः गच्छति, तस्य निर्देशं कर्तुम् 'योजन'शब्दात् ठञ्-प्रत्ययः भवति । योजनं गच्छति सः यौजनिकः ।\n<<असमासे निष्कादिभ्यः>> [[5.1.20]] इत्यत्र निर्दिष्टेन अनेन वार्त्तिकेन संङ्ख्यापूर्वपदस्य विषये अत्र तदन्तविधिः अपि इष्यते । यथा - द्वे योजने गच्छति सः द्वियौजनिकः । <<परिमाणान्तस्यासंज्ञाशाणयोः>> [[7.3.17]] इति अत्र उत्तरपदवृद्धिः जायते ।\nअत्र वार्त्तिकद्वयम् ज्ञातव्यम् -\n1. । इत्युक्ते, 'क्रोशशत' तथा 'योजनशत' शब्दयोः विषये अपि अनेन सूत्रेण ठञ्-प्रत्ययः कर्तव्यः । क्रोशशतं गच्छति सः क्रौशशतिकः । योजनशतं गच्छति सः यौजनशतिकः ।\n2. । इत्युक्ते, 'क्रोशशत' तथा 'योजनशत' शब्दयोः विषये पञ्चमीसमर्थात् 'अभिगमनमर्हति' (तस्मात् अग्रे अपि गन्तुं शक्नोति / can even go beyond इत्यर्थः) अस्मिन् अर्थे अपि ठञ्-प्रत्ययः कर्तव्यः । क्रोशशतात् अभिगमनमर्हति सः क्रौशशतिकः । योजनशतात् अभिगमनमर्हति सः यौजनशतिकः । " }, "51075": { "sa": "'गच्छति' अस्मिन् अर्थे द्वितीयासमर्थात् 'पथिन्' शब्दात् ष्कन्-प्रत्ययः भवति । ", "sd": "'पथः' इति 'पथिन्' शब्दस्य पञ्चम्येकवचनम् । 'पथिन्' इत्युक्ते मार्गः । 'पन्थानम् गच्छति' अस्मिन् अर्थे गन्तुः निर्देशं कर्तुम् 'पथिन्' शब्दात् ष्कन् प्रत्ययः भवति । पन्थानम् गच्छति सः पथिकः । प्रक्रिया इयम् -\nपथिन् + ष्कन्\n→ पथिन् + क [षकारनकारयोः इत्संज्ञा, लोपः]\n→ पथि + क [<<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इति अङ्गस्य पदसंज्ञा । <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः]\n→ पथिक ।\nस्मर्तव्यम् -\n1. प्रत्यये इत्संज्ञकः षकारः ङीष्-प्रत्ययविधानार्थमुक्तः अस्ति । स्त्रीत्वे विवक्षिते <<षिद्गौरादिभ्यश्च>> [[4.1.41]] इत्यनेन अत्र ङीष्-प्रत्ययः विधीयते । पन्थानम् गच्छति सा पथिकी ।\n2. प्रत्यये विद्यमानः इत्संज्ञकः नकारः स्वरनिर्देशार्थमुक्तः अस्ति । <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] इत्यनेन 'पथिक' शब्दस्य पकारोत्तरः अकारः अनेन उदात्तः जायते ।\n" }, "51076": { "sa": "'नित्यम् गच्छति' अस्मिन् अर्थे द्वितीयासमर्थात पथिन्-शब्दात् ण-प्रत्ययः भवति, तथा च तस्य 'पन्थ' इति आदेशः अपि जायते । ", "sd": "'मार्गम् नित्यम् गच्छति' (Regularly travels on that road) अस्मिन् अर्थे पथिन्-शब्दात् <<पथः ष्कन्>> [[5.1.75]] इत्यनेन निर्दिष्टं ष्कन्-प्रत्ययं बाधित्वा वर्तमानसूत्रेण 'ण' प्रत्ययः क्रियते, तथा च 'पथिन्' शब्दस्य 'पन्थ' इति आदेशः अपि भवति । यथा -\nपन्थानम् नित्यम् गच्छति सः\n= पथिन् + ण\n→ पन्थ + ण [पथिन्-शब्दस्य पन्थ-आदेशः]\n→ पान्थ + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ पान्थ् + अ [<<यस्येति च>> [[6.4.148]] इति अन्तिमवर्णलोपः]\n→ पान्थ\nपन्थानम् नित्यम् गच्छति सः पान्थः भिक्षुः ।\nज्ञातव्यम् - भाष्यकारस्य मतेन लोके 'पान्थ' शब्दस्य प्रयोगः केवलम् 'नित्यम् गच्छति' अस्मिन्नेव अर्थे भवतीति न, अपितु 'कदाचित् गच्छति' इत्यस्मिन् अर्थे अपि भवति । अतः अस्मिन् सूत्रे 'नित्य'ग्रहणमनावश्यकमस्तीति सः प्रतिपादयति । इत्युक्ते, सः वदति - अत्र केवलम् 'पन्थः णः' इति वक्तव्यम्, येन 'तत् पन्थानम् गच्छति' इत्यस्मिन् अर्थे अपि पान्थ-शब्दः सिद्ध्यति ।\n" }, "51077": { "sa": "तृतीयासमर्थात् 'उत्तरपथ' शब्दात् 'आहृतम्' तथा 'गच्छति' एतयोः अर्थयोः ठञ्-प्रत्ययः भवति । ", "sd": "आदौ सूत्रे विद्यामानानां शब्दानामर्थम् पश्यामः -\n1. उत्तरपथ - उत्तरस्यां दिशि विद्यमानः मार्गः 'उत्तरपथ' नाम्ना ज्ञायते ।Northern road इत्यर्थः ।\n2. आहृत - 'आ + हृ' इत्यस्य क्त-प्रत्ययान्तरुपम् । 'आनीतम्' (brought) बइति अर्थः ।\n3. गच्छति - गम्-धातोः लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् ।\nअतः अस्य सूत्रस्य अर्थः अयम् - 'उत्तरपथेन (= उत्तरमार्गेण) आनीतम्' अस्मिन् अर्थे, तथा 'उत्तरपथेन गच्छति' अस्मिन् अर्थे 'उत्तरपथ'शब्दात् ठञ्-प्रत्ययः भवति । यथा -\n1. उत्तरपथेन आनीतः औत्तरपथिकः अश्वः ।\n2. उत्तरपथेन गच्छति सः औत्तरपथिकः रथः ।\nअत्र वार्त्तिकत्रयम् ज्ञातव्यम् -\n1. । इत्युक्ते, यदि पूर्वपदम् 'वारि' / 'जङ्गल' / 'स्थल' / 'कान्तार' एतेषु किञ्चन अस्ति, तर्हि अपि पथिन्-शब्दात् 'आहृतम्' तथा 'गच्छति' एतयोः अर्थयोः ठञ्-प्रत्ययः भवति । यथा -\nअ) वारिपथेन (= जलमार्गेन, through road made of water) आहृता गच्छति वा सा वारिपथिकी नौका ।\nआ) जङ्गलपथेन (= वनमार्गेन, through the jungle) आहृतः गच्छति वा सः जाङ्गलपथिकः रथः ।\nइ) स्थलपथेन (=स्थलमार्गेन) आनीतः गच्छति वा सः स्थालपथिकः व्याघ्रः ।\nई) कान्तारपथेन (= गहनम् वनम् 'कान्तार'नाम्ना ज्ञायते, तेन मार्गेण,through the deep forest) आनीतः गच्छति वा सः कान्तारपथिकः अश्वः ।\n2. । अजपथेन आनीतः गच्छति वा सः आजपथिकः । शङ्कुपथेन आनीतः गच्छति वा सः शाङ्कुपथिकः ।\n3. । इत्युक्ते, मधुक (honey) तथा मरिच (pepper) एतयोः विषये 'स्थलपथेन आनीतम्' अस्मिन् अर्थे अण्-प्रत्ययः अपि भवति । स्थलपथेन आनीतः स्थालपथम् मधुकम् मरिचम् वा । (मधुकः मरिचः वा स्वयम् गमनक्रियां न करोति अतः अत्र 'गच्छति' अयमर्थः नापेक्षते) ।\n" }, "51078": { "sa": "अधिकारसूत्रम् इदम् । इतः परम् 'व्युष्टादिभ्यः अण्' [[5.1.97]] इत्यस्मात् पूर्वम् ये अर्थाः पाठ्यन्ते ते औत्सर्गिकरूपेण कालवाचिप्रातिपदिकेभ्यः एव भवन्ति । ", "sd": "अस्मिन् अधिकारे सप्त अर्थाः पाठ्यन्ते -\n1. <<तेन निर्वृत्तम्>> [[5.1.79]]\n2. <<तमधीष्टो भृतो भूतो भावी>> [[5.1.80]]\n3. <<षष्टिकाः षष्टिरात्रेण पच्यन्ते>> [[5.1.90]]\n4. <<तेन परिजय्यलभ्यकार्यसुकरम्>> [[5.1.93]]\n5. <<तदस्य ब्रह्मचर्यम्>> [[5.1.94]]\n6. <<तस्य च दक्षिणा यज्ञाख्येभ्यः>> [[5.1.95]]\n7. <<तत्र च दीयते कार्यं भववत्>> [[5.1.96]]\nएतेषां सर्वेषामर्थानाम् प्रयोगः औत्सर्गिकरूपेण कालिवाचिप्रातिपदिकेभ्यः एव भवति ।\n" }, "51079": { "sa": "'निर्वृत्तम्' अस्मिन् अर्थे तृतीयासमर्थात् कालवाचीप्रातिपदिकात् ठञ्-प्रत्ययः भवति । ", "sd": "'निवृत्तम्' इत्युक्ते 'कृतम् / निष्पादितम्' । 'निर्मितम्' अस्मिन् अर्थे तृतीयासमर्थात् कालवाचिप्रातिपदिकात् ठञ्-प्रत्ययः भवति । यथा -\n1. मासेन निर्वृत्तम् = मास + ठञ् → मासिक । तत् कार्यम् यत् एकमासेन निष्पाद्यते (a task accomplished in a month) , मासिकम् नाम्ना ज्ञायते ।\n2. अह्ना निर्वृत्तमाह्निकम् । प्रकिया इयम् -\nअहन् + ठञ्\n→ अहन् + इक [<<ठस्येकः>> [[7.3.50]] इति इक-आदेशः]\n→ आहन् + इक [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ आह् न् + इक [<<नस्तद्धिते>> [[6.4.144]] इति टिलोपे प्राप्ते <<अह्नष्टखोरेव>> [[6.4.145]] इति सः प्रतिषिध्यते, अतः <<अल्लोपोऽनः>> [[6.4.134]] इति उपधा-अकारलोपः भवति ।]\n→ आह्निक । a task accomplished in a day इत्यर्थः ।\n3. वर्षेण निर्वृत्तम् वार्षिकम् ।\n4. अर्धमासेन निर्वृत्तमार्धमासिकम् ।\nज्ञातव्यम् - अस्मिन् सूत्रे 'तेन' इति 'करणे' प्रयुज्यते । तथा च, <<कालात्>> [[5.1.78]] इति अधिकारः अत्र प्रवर्तते, अतः 'निर्वृत्तम्' अस्य अर्थः अत्र 'निष्पादितम्' (\taccomplished / achieved / done / prepared) इति स्वीकर्तव्यः । अत्र क्त-प्रत्ययः भूते न प्रयुज्यते, अपितु वर्तमाने प्रयुज्यते ।\n " }, "51080": { "sa": "'अधीष्टः', 'भृत', 'भूतः' तथा 'भावी' एतेषु चतुर्षु अर्थेषु द्वितीयासमर्थात् कालवाचिप्रातिपदिकात् ठञ् प्रत्ययः भवति । ", "sd": "अस्मिन् सूत्रे चत्वारः शब्दाः उक्ताः सन्ति - 'अधीष्टः', 'भृतः', 'भूतः' तथा 'भावी' । एते शब्दाः भिन्नान् अर्थान् दर्शयन्ति । एतेषु प्रत्येकस्मिन् अर्थे द्वितीयासमर्थात् कालवाचिशब्दात् अनेन सूत्रेण ठञ्-प्रत्ययः विधीयते । क्रमेण पश्यामः -\n1. अधीष्टः = 'अधि + इष्' इत्यस्य क्त-प्रत्ययान्तरूपम् इदम् । काशिकाकारः अस्य अर्थः 'सत्कृत्य व्यापारितः' इति कथयति । सामान्यभाषायाम् 'आदरपूर्वकम् व्यापारः' (To employ somebody for some work not just by offering money but also by showing respect to them) इति वक्तुं शक्यते । यथा, कश्चन पिता स्वस्य पुत्रम् पाठयितुम् कञ्चन अध्यापकम् यदि वदति - 'भवान् मम पुत्रम् पाठयतु इति प्रार्थये, तदर्थमहम् भवते उचितम् धनमपि दास्यामि', तर्हि सः सत्कारपूर्वकम् व्यापारं करोतीति उच्यते ।\nप्रत्ययविधानम् - द्वितीयासमर्थात् कालवाचिप्रातिदिकात् 'अधीष्टः' अस्मिन् अर्थे ठञ्-प्रत्ययः भवति । यथा, मासमधीष्टः मासिकः अध्यापकः । सः अध्यापकः येन सह एकमासम् यावत् सत्कारपूर्वकम् व्यापारः क्रियते, सः मासिकः अध्यापकः ।\n2. भृतः - धनम् / वेतनम् दत्त्वा यस्य साहाय्यम् स्वीक्रियते, सः भृतः अस्तीति उच्यते । यथा, कश्चन धनिकः वेतनम् दत्त्वा कर्मकारात् कार्यम् कारयति चेत् सः कर्मकारः तस्य धनिकस्य 'भृतः' (employee) अस्तीति उच्यते । 'अधीष्ट'वत् अत्र 'सत्कारः' नास्ति, केवलम् धनस्य विनिमयेन साहाय्यम् स्वीक्रियते ।\nप्रत्ययविधानम् - द्वितीयासमर्थात् कालवाचिप्रातिदिकात् 'भृतः' अस्मिन् अर्थे ठञ्-प्रत्ययः भवति । यथा, मासम् भृतः मासिकः कर्मकरः । धनस्य विनिमयेन यस्य कर्मकरस्य साहाय्यम् एकमासम् यावत् स्वीक्रियते, सः मासिकः कर्मकरः (Employed for one month इत्यर्थः) ।\n3. भूतः - 'भू' धातोः क्त-प्रत्ययान्तरूपम् इदम् । 'यत् अभवत् / आसीत् / अवर्तत तत्' (The one that happened / existed) इत्येव अर्थः ।\nप्रत्ययविधानम् - द्वितीयासमर्थात् कालवाचिप्रातिदिकात् 'भूतः' अस्मिन् अर्थे ठञ्-प्रत्ययः भवति । यथा, मासम् भूतः मासिकः ज्वरः । कश्चन ज्वरः इदानीम् नास्ति, परन्तु एकमासपर्यन्तमासीत्, सः मासिकः ज्वरः अस्ति इत्युच्यते ।\n4. भावी - 'भविष्यति' अस्मिन् अर्थे <<भविष्यति गम्यादयः>> [[3.3.3]] इत्यनेन 'भावी' अयं शब्दः पाठ्यते । 'अग्रे भविष्यति' (The one that will happen in future) इत्येव अर्थः ।\nप्रत्ययविधानम् - द्वितीयासमर्थात् कालवाचिप्रातिदिकात् 'भावी' अस्मिन् अर्थे ठञ्-प्रत्ययः भवति । यथा, मासम् भावी मासिकः उत्सवः । कश्चन उत्सवः इदानीम् न प्रारब्धः, परन्तु अग्रे गत्वा एकमासं यावत् प्रचलिष्यति, सः मासिकः उत्सवः ।\nस्मर्तव्यम् - यद्यपि चत्वारः अर्थाः अत्र एकस्मिन्नेव सूत्रे उच्यन्ते, तथापि तेषु परस्परसम्बन्धः न विद्यते । 'तम्' इति समर्थविभक्तिः प्रत्येकेन अर्थेन सह पृथग् रूपेण प्रयोक्तव्या । अस्मिन् विषये <<तदस्य तदस्मिन् स्यादिति>> [[5.1.16]] इत्यत्र अन्तिमबिन्दौ विस्तारेण उक्तमस्ति, तत् दृश्यताम् ।\n " }, "51081": { "sa": "'भूतः' अस्मिन् अर्थे द्वितीयासमर्थात् 'मास' शब्दात् वयसि अभिधेये यत् तथा खञ् प्रत्ययौ भवतः । ", "sd": "सूत्रार्थम् सम्यक् रूपेण ज्ञातुमादौ केचन बिन्दवः ज्ञातव्याः ।\n1. अत्र 'कालात्' इति अधिकारः प्रचलत् अस्ति । अतः अस्मिन् सूत्रे कालविशेषवाची 'मास'शब्दात् यत् तथा खञ्-प्रत्ययौ क्रियेते, याभ्याम् 'मासीन' तथा 'मास्य' एते रूपे भवतः ।\n2. <<तमधीष्टो भृतो भूतो भावी>> [[5.1.80]] अनेन पूर्वसूत्रेण सर्वेभ्यः कालवाचकेभ्यः प्रातिपदिकेभ्यः 'अधीष्टः', 'भृतः', 'भूतः' तथा 'भावी' एतेषु चतुर्षु अर्थेषु औत्सर्गिकः ठञ्-प्रत्ययः पाठ्यते । एतेभ्यः 'भूतः' अस्मिन् अर्थे 'मास'शब्दात् वर्तमानसूत्रेण ठञ्-प्रत्ययं बाधित्वा यत् तथा खञ् प्रत्ययौ भवतः ।\n3. अस्मिन् सूत्रे 'वयसि' इति अपि शब्दः प्रयुज्यते ।अनेन शब्देन अस्य सूत्रस्य कुत्र प्रयोगः कर्तव्यः इत्यस्य विषये नियमः उक्तः अस्ति । किम् नाम 'वयः' ? शरीरस्य निर्गता कालेन जाता अवस्था 'वयः' ( = आयुः / age) नाम्ना ज्ञायते । यथा - शिशुः, बालकः, कुमारः आदयः । अस्याः अवस्थायाः निर्देशः कर्तव्यः अस्ति चेदेव अस्य सूत्रस्य प्रयोगः भवति ।\nयथा - कश्चन शिशुः एकमासपूर्वमजायत चेत् तस्य निर्देशार्थम् 'मासं भूतः' इति उच्यते । One month ago the baby was born - इत्याशयः । अस्यां स्थितौ अस्य शिशोः वर्णनम् 'मासीनः शिशुः / मास्यः शिशुः' इति क्रियते । मासम् भूतः मासीनः मास्यः वा शिशुः ।\nअस्य सूत्रस्य विषये व्याख्यानेषु स्पष्टमुदाहरणम् किमपि नोपलभ्यते - इति स्मर्तव्यम् ।\nज्ञातव्यम् -\n1. <<तमधीष्टो भृतो भूतो भावी>> [[5.1.80]] इत्यस्मात् केवलम् 'भूतः' इत्येव वर्तमानसूत्रे अनुवर्तते । 'अधीष्टः / भृतः / भावी' इत्यस्य विषये वर्तमानसूत्रस्य प्रसक्तिः नास्ति - इति व्याख्यानेषु स्पष्टीक्रियते ।\n2. 'वयस्' इति अर्थः नापेक्षते चेत् वर्तमानसूत्रस्य प्रसक्तिः नास्ति, अतः पूर्वसूत्रेण औत्सर्गिकः ठञ्-प्रत्ययः एव भवति । यथा - मासं भूतः मासिकः ज्वरः ।\n3. खञ्-प्रत्यये ञकारः इत्संज्ञकः अस्ति । अस्य प्रयोजनद्वयम् -\n(अ) <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] इत्यनेन आदिस्वरस्य उदात्तत्वम्, तथा च -\n(आ) <<तद्धितेष्वचामादेः>> [[7.2.117]] इत्यनेन आदिवृद्धिः ।\nपरन्तु अत्र एकः विषयः चिन्तनीयः । 'मास' शब्दस्य आदिस्वरः मूलतः एव वृद्धिसंज्ञकः अस्ति । अतः वस्तुतः आदिवृद्धेः अत्र आवश्यकता एव न । इत्युक्ते, ञकारः अत्र केवलं स्वरविधानार्थम् एव उपयुज्यते । परन्तु एवमस्ति चेत् अत्र ञकारस्य का आवश्यकता? स्वरकार्यम् तु 'खन्' इति प्रत्ययः क्रियते चेदपि सिद्ध्यति, यतः नकारञकारयोः स्वरकार्यम् तु समानमेव । तर्हि अत्र खञ्-प्रत्ययः किमर्थम् प्रयुक्तः; खन्-प्रत्ययः किमर्थम् नोच्यते ? - इति प्रश्नः अत्र जायते । अस्य उत्तरार्थम् न्यासकारः वदति - 'मासीनाभार्य इति <<वृद्धिनिमितस्य च तद्धितस्यारक्तविकारे>> [[6.3.39]] इति पुंवद्भावप्रतिषेदो यथा स्यात्' । इत्युक्ते, 'मासीना भार्या यस्य सः' इत्यत्र समासे कर्तव्ये वस्तुतः पूर्वपदस्य पुंवद्भावः विधीयते, यः अत्र न इष्यते । इत्युक्ते, अत्र 'मासीनाभार्य' इति अन्तिमं रूपम् कर्तव्यम्, न हि 'मासीनभार्य' इति । एतदेव साधयितुमत्र प्रत्यये वृद्धिनिमित्तकः ञकारः स्थापितः अस्ति । अयम् वृद्धिनिमित्तकः ञकारः <<वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे>> [[6.3.39]] इत्यनेन पुंवद्भावम् प्रतिषिध्यति, येन 'मासीनाभार्य' इति रूपम् जायते ।\nNote - मासीनाभार्यः would represent a person whose wife is 1 month old. This does not make much sense in today's society, but in the olden days where marriages were fixed even before (or immediately after the) birth, this might had been a term in the usage).\n" }, "51082": { "sa": "'तम् भूतः' अस्मिन् अर्थे द्विगुसमासस्य उत्तरपदरूपेण विहितात् द्वितीयासमर्थात् 'मास' शब्दात् वयसि अभिधेये यप् प्रत्ययः भवति । ", "sd": "<<मासाद्वयसि यत्खञौ>> [[5.1.81]] इत्यनेन 'मास' शब्दात् 'भूतः' अस्मिन् अर्थे वयसि अभिधेये यत् तथा खञ् प्रत्ययौ उक्तौ स्तः । परन्तु यदि अयम् 'मास'शब्दः द्विगुसमासस्य उत्तरपदरूपेण आगच्छति, तर्हि एतौ प्रत्ययौ बाधित्वा वर्तमानसूत्रेण यप्-प्रत्ययः भवति ।\n1. द्वौ मासौ भूतः = द्वि + मास + यप् → द्विमास्यः शिशुः ।\n2. त्रीन् मासान् भूतः = त्रि + मास + यप् → त्रिमास्यः शिशुः ।\n2. पञ्च मासान् भूतः = पञ्च + मास + यप् → पञ्चमास्यः शिशुः ।\nज्ञातव्यम् -\n1. <<असमासे निष्कादिभ्यः>> [[5.1.20]] इत्यत्र पाठितेन अनेन वार्त्तिकेन सङ्ख्यापूर्वपदस्थानां शब्दानां विषये तदन्तविधिः इष्यते । अतः मास-शब्दात् <<मासाद्वयसि यत्खञौ>> [[5.1.81]] इत्यनेन विहितौ यत्-खञ्-प्रत्ययौ 'द्वौ मासौ भूतः', 'त्रीन् मासान् भूतः' इत्यस्य विषये अपि विधीयते । एतौ बाधित्वा वर्तमानसूत्रेण यप्-प्रत्ययः विधीयते ।\n2. 'यप्' प्रत्यये इत्संज्ञकः पकारः स्वरनिर्देशार्थम् स्थापितः अस्ति । <<आद्युदात्तश्च>> [[3.1.3]] इत्यनेन प्रत्ययस्य आदिस्वरस्य उदात्तत्वे प्राप्ते पित्-प्रत्ययस्य विषये तं बाधित्त्वा <<अनुदात्तौ सुप्पितौ>> [[3.1.4]] इत्यनेन प्रत्ययस्य आदिस्वरः अनुदात्तः विधीयते ।\n3. अस्य सूत्रस्य प्रयोगः 'वयसि' इत्येव भवति, अन्यत्र न । यथा - द्वौ मासौ भूतः ज्वरः द्विमासिकः ज्वरः । अत्र औत्सर्गिकः ठञ्-प्रत्ययः एव विधीयते । " }, "51083": { "sa": "'भूतः' अस्मिन् अर्थे द्विगुसमासस्य उत्तरपदरूपेण विहितात् द्वितीयासमर्थात् 'मास' शब्दात् 'षट्' इत्यस्मिन् पूर्वपदे वयसि अभिधेये ण्यत्, यप्, ठञ् प्रत्ययाः विधीयन्ते । ", "sd": "<<मासाद्वयसि यत्खञौ>> [[5.1.81]] इत्यनेन 'मास' शब्दात् 'भूतः' अस्मिन् अर्थे वयसि अभिधेये यत् तथा खञ् प्रत्ययौ उक्तौ स्तः । परन्तु यदि अयम् 'मास'शब्दः द्विगुसमासस्य उत्तरपदरूपेण आगच्छति, तर्हि एतौ प्रत्ययौ बाधित्वा <<द्विगोर्यप्>> [[5.1.82]] इत्यनेन यप्-प्रत्ययः भवति । 'षट् + मास' इत्यत्र अयम् यप्-प्रत्ययः तु भवत्येव, परन्तु वर्तमानसूत्रेण विकल्पेन ठञ् तथा ण्यत् प्रत्ययौ अपि भवतः । यथा -\n1) षट् मासान् भूतः = षट् + मास + यप् → षण्मास्यः शिशुः ।\n2) षट् मासान् भूतः = षट् + मास + ठञ् → षाण्मासिकः शिशुः ।\n3) षट् मासान् भूतः = षट् + मास + ण्यत् → षाण्मास्यः शिशुः ।\nज्ञातव्यम् -\n1. पूर्वसूत्रे विद्यमानस्य 'यप्' प्रत्ययस्य यकारोत्तरः अकारः स्वरितः अस्ति, अतः <<स्वरितेनाधिकारः>> [[1.3.11]] इत्यनेन अस्मिन् सूत्रे 'यप्' इति अनुवर्तते । परन्तु ठञ्-प्रत्ययः अप्यत्र इष्यते । अतएव अस्मिन् सूत्रे 'च' इति उक्तमस्ति । 'च' इत्यनेन ठञ्-प्रत्ययस्य ग्रहणम् कर्तव्यम् - इति अत्र व्याख्यानेषु स्पष्टीक्रियते ।\n2. अस्य सूत्रस्य प्रयोगः 'वयसि' इत्येव भवति, अन्यत्र न । यथा - 'षट् मासान् भूतः ज्वरः' इत्यत्र अस्य सूत्रस्य प्रसक्तिः नास्ति । तत्र अग्रिमसूत्रेण ठन् तथा ण्यत् द्वौ प्रत्ययौ उक्तौ स्तः, तयोः एव प्रयोगः भवति । " }, "51084": { "sa": "'भूतः' अस्मिन् अर्थे द्विगुसमासस्य उत्तरपदरूपेण विहितात् द्वितीयासमर्थात् 'मास' शब्दात् 'षट्' इत्यस्मिन् पूर्वपदे 'वयः' इति अर्थम् विहाय अन्यत्र ठन् तथा ण्यत् प्रत्ययौ भवतः ।", "sd": "'षट् + मास' इत्यत्र द्विगुसमासस्य विषये 'वयः' इति अर्थे अभिधेये <<षण्मासाण्ण्यच्च>> [[5.1.83]] इत्यनेन यप् , ण्यत् तथा ठञ् प्रत्ययाः उच्यन्ते । परन्तु यदि 'वयः' इति विहाय अन्यः अर्थः वक्तव्यः अस्ति चेत् तस्य सूत्रस्य प्रसक्तिः नास्ति । अस्यां स्थितौ <<तमधीष्टो भृतो भूतो भावी>> [[5.1.80]] इत्यनेन (तथा च अनेन निर्दिष्टेन तदन्तविधिना) औत्सर्गिकरूपेण ठञ्-प्रत्यये प्राप्ते तं बाधित्वा वर्तमानसूत्रेण ण्यत् तथा ठन् प्रत्ययौ भवतः । यथा -\n1. षट् मासान् भूतः ज्वरः = षट् + मास + ण्यत् → षाण्मास्यः ज्वरः ।\n2. षट् मासान् भूता पीडा = षट् + मास + ठन् → षण्मासिका पीडा । <<अजाद्यतष्टाप्>> [[4.1.4]] इति अत्र टाप् प्रत्ययः भवति ।\nज्ञातव्यम् - अत्र औत्सर्गिकः ठञ्-प्रत्ययः उत पूर्वसूत्रात् यप्-प्रत्ययः न भवतः ।\nस्मर्तव्यम् - अस्मिन् सूत्रे 'ठंश्च' इति शब्दः 'ठन् + च' इत्यनेन एतादृशम् निर्मितः अस्ति -\nठन् + च\n→ ठरुँ + च [<<नश्छव्यप्रशान्>> [[8.3.7]] इति नकारस्य रुँत्वम्]\n→ ठंरुँ + च [<<अनुनासिकात् परोऽनुस्वारः>> [[8.3.4]] इति अनुस्वारः । एतत् सूत्रम् रुँत्वप्रकरणे एव विद्यते, अतः <<नश्छव्यप्रशान्>> [[8.3.7]] इत्यनेन विहितं नकारस्य रुँत्वमस्य कृते सिद्धमस्ति ।]\n→ ठंः + च [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] रुँ-इत्यस्य इति विसर्गः]\n→ ठंस् + च [<<विसर्जनीयस्य सः>> [[8.3.34]] इति विसर्गस्य सकारादेशः]\n→ ठंश् + च [<<स्तोः श्चुना श्चुः>> [[8.4.40]] इति श्चुत्वम्]\n→ ठंश्च" }, "51085": { "sa": "द्वितीयासमर्थात् 'समा'शब्दात् 'अधीष्टः', 'भृतः', 'भूतः' तथा 'भावी' एतेषु अर्थेषु ख-प्रत्ययः भवति । ", "sd": "<<तमधीष्टो भृतो भूतो भावी>> [[5.1.80]] इत्यनेन द्वितीयासमर्थात् शब्दात् 'अधीष्टः' / 'भृतः' / 'भूतः' तथा 'भावी' एतेषु अर्थेषु औत्सर्गिकः ठञ्-प्रत्ययः उक्तः अस्ति । तं बाधित्वा 'समा' (= 'वर्षम्' इत्यर्थः) शब्दस्य विषये वर्तमानसूत्रेण ख-प्रत्ययः विधीयते । चतुर्षु अपि अर्थेषु 'समा + ख → समीन' इति रूपम् सिद्ध्यति । यथा -\n1. समामधीष्टः समीनः अध्यापकः । एकवर्षं यावत् सत्कारपूर्वकम् येन सह व्यापारः क्रियते, सः समीनः अध्यापकः ।\n2. समाम् भृतः समीनः सेवकः । एकवर्षं यावत् वेतनं दत्त्वा यस्मात् कार्यम् क्रियते, सः समीनः सेवकः ।\n3. समाम् भूतः समीनः ज्वरः । एकवर्षं यावत् यः अविद्यत, सः समीनः ज्वरः ।\n4. समाम् भावी समीनः उत्सवः । एकवर्षं यावत् यः भविष्यतिः, सः समीनः उत्सवः ।\nसर्वत्र प्रक्रिया इयम् -\nसमा + ख\n→ समा + ईन [<<आयनेयीनियीयः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ईन-आदेशः]\n→ सम + ईन [ अनेन वार्त्तिकेन पुंवद्भावः]\n→ सम् + ईन [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ समीन\nअस्य सूत्रस्य विषये काशिकाकारः वदति - 'केचित् तु <<तेन निर्वृत्तम्>> [[5.1.79]] इति सर्वत्र अनुवर्तयन्ति' । इत्युक्ते, केषाञ्चन मतेन 'समा' शब्दात् वर्तमानसूत्रेण उक्तः ख-प्रत्ययः <<तमधीष्टो भृतो भूतो भावी>> [[5.1.80]] इत्यस्य विषये तु भवत्येव, परन्तु <<तेन निर्वृत्तम्>> [[5.1.79]] ) इत्यस्यविषये अपि भवति। यथा - समया निर्वृत्तम् समीनम् (एकवर्षम् यावता कालेन निष्पादितम् - इत्यर्थः) ।\nज्ञातव्यम् - अत्र <<तमधीष्टो भृतो भूतो भावी>> [[5.1.80]] इत्यस्मात् 'अधीष्टः', 'भृतः' तथा 'भावी' एते शब्दाः मण्डूकप्लुत्या स्वीक्रियन्ते । 'तम्' तथा 'भूतः' एतौ शब्दौ तु पूर्वसूत्रे अपि अनुवर्तेते, अतः तस्मात् अत्रापि तौ स्वीक्रियेते ।\n" }, "51086": { "sa": "'अधीष्टः', 'भृतः', 'भूतः', 'भावी' एतेषु अर्थेषु द्वितीयासमर्थात्, तथा च 'निर्वृत्तम्' अस्मिन् अर्थे तृतीयासमर्थात् द्विगु-शब्दस्य उत्तरपदे विद्यमानात् 'समा' शब्दात् विकल्पेन ख-प्रत्ययः भवति । ", "sd": "<<तेन निर्वृत्तम्>> [[5.1.79]] इत्यनेन निर्दिष्टस्य 'निवृत्तम्' अस्य अर्थस्य विषये ; तथा च <<तमधीष्टो भृतो भूतो भावी>> [[5.1.80]] इत्यनेन निर्दिष्टानाम् 'अधीष्टः, भृतः, भूत, भावी' - एतेषामर्थानाम् विषये द्विगुसमासस्य उत्तरपदरूपे विद्यमानात् 'समा' (= 'वर्षम्' इत्यर्थः) शब्दात् अनेन सूत्रेण विकल्पेन 'ख' प्रत्ययः भवति ।\nद्वयोः अर्थयोः विषये क्रमेण पश्यामः -\n1. <<तेन निर्वृत्तम्>> [[5.1.79]] - द्वाभ्यां समाभ्यां निर्वृत्तम् द्विसमीनम् । अत्र अनेन वार्त्तिकेन तदन्तविधिना औत्सर्गिके ठञ्-प्रत्यये प्राप्ते तं बाधित्वा विकल्पेन 'ख' प्रत्ययः क्रियते । अतः पक्षे ठञ्-प्रत्ययः अपि भवत्येव - द्वाभ्यां समाभ्यां निर्वृत्तम् द्वैसमिकम् ।\n2. <<तमधीष्टो भृतो भूतो भावी>> [[5.1.80]] - अत्र <<समायाः खः>> [[5.1.85]] इत्यनेन पूर्वसूत्रेण (तदन्तविधिना च) नित्यम् ख-प्रत्यये प्राप्ते सः द्विगु-समासस्य विषये विकल्प्यते । पक्षे औत्सर्गिकः ठञ्-प्रत्ययः अपि भवति -\nअ) द्वे समे अधीष्टः द्विसमीनः द्वैसमिकः वा अध्यापकः ।\nआ) द्वे समे भृतः द्विसमीनः द्वैसमिकः वा सेवकः ।\nइ) द्वे समे भूतः द्विसमीनः द्वैसमिकः वा ज्वरः ।\nई) द्वे समे भावी द्विसमीनः द्वैसमिकः वा उत्सवः ।\nतथैव त्रिसमीनः / त्रैसमिकः, पञ्चसमीनः / पाञ्चसमिकः - एते शब्दाः अपि सिद्ध्यन्ति । " }, "51087": { "sa": "'अधीष्टः', 'भृतः', 'भूतः', तथा 'भावी' एतेषु अर्थेषु द्वितीयासमर्थात्, तथा च 'निर्वृत्तम्' अस्मिन् अर्थे तृतीयासमर्थात् द्विगु-शब्दस्य उत्तरपदे विद्यमानेभ्यः 'रात्रि'/'अहन्'/'संवत्सर' शब्देभ्यः विकल्पेन ख-प्रत्ययः भवति ।", "sd": "<<तेन निर्वृत्तम्>> [[5.1.79]] इत्यनेन निर्दिष्टस्य 'निवृत्तम्' अस्य अर्थस्य विषये ; तथा च <<तमधीष्टो भृतो भूतो भावी>> [[5.1.80]] इत्यनेन निर्दिष्टानाम् 'अधीष्टः, भृतः, भूत, भावी' - एतेषामर्थानाम् विषये द्विगुसमासस्य उत्तरपदरूपे विद्यमानात् 'रात्रि', 'अहन्' तथा 'संवत्सर' शब्देभ्यः अनेन सूत्रेण विकल्पेन 'ख' प्रत्ययः भवति । पक्षे तदन्तविधिना औत्सर्गिकः ठञ्-प्रत्ययः अपि विधीयते ।\nआदौ रूपनिर्माणम् कथम् भवति तत् दृष्ट्वा ततः द्वयोः अर्थयोः विषये क्रमेण पश्यामः ।\n1. रात्रि - द्वि + रात्रि + ख → द्विरात्रीण । पक्षे - द्वि + रात्रि + ठञ् → द्वैरात्रिक ।\nतथैव त्रिरात्रीण / त्रैरात्रिक , पञ्चरात्रीण / पाञ्चरात्रिक - एते शब्दाः अपि सिद्ध्यन्ति ।\n2. 'अहन्' -\nद्वि + अहन् + ख\n→ द्वि + अहन् + ईन [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ख-प्रत्ययस्य ईन-आदेशः]\n→ द्व्यहन् + ईन [<<इको यणचि>> [[6.1.77]] इति यणादेशः]\n→ द्व्यह् + ईन [<<अह्नष्टखोरेव>> [[6.4.145]] इत्यनेन टिलोपः]\n→ द्व्यहीन\nपक्षे ठञ्-प्रत्ययः -\nद्वि + अहन् + ठञ्\n→ द्वि + अहन् + इक [<<ठस्येकः>> [[7.1.2]] इति इक-आदेशः]\n→ द्व्यहन् + इक [ <<इको यणचि>> [[6.1.77]] इति यणादेशः । तद्धितप्रत्ययाः सन्धिकार्यात् अनन्तरम् एव विधीयन्ते इति <<समर्थानाम् प्रथमाद्वा>> [[4.1.82]] इत्यत्र स्पष्टीकृतमस्ति, अतः यणादेशात् पूर्वमादिवृद्धेः प्रसक्तिः न विद्यते ।]\n→ द् व् ऐ य् अ हन् + इक [<<न य्वाभ्यां पदान्ताभ्याम् पूर्वौ तु ताभ्यामैच्>> [[7.3.3]] इति आदिवृद्धिनिषेधः; ततः च ऐच्-आगमः भवति ।]\n→ द्वैयहन् + इक\n→ द्वैयह् न् + इक [<<नस्तद्धिते>> [[6.4.144]] इत्यनेन टिलोपे प्राप्ते <<अह्नष्टखोरेव>> [[6.4.145]] इत्यनेन ट-प्रत्ययं ख-प्रत्ययं च विहाय अन्यत्र सः प्रतिषिध्यते । अतः अत्र <<अल्लोपोऽनः>> [[6.4.134]] इति उपधा-अकारलोपः भवति]\n→ द्वैयह्निक\nतथैव त्र्यहीण / त्रैयह्निक , पञ्चाहीन, पाञ्चाह्निक - एते शब्दाः सिद्ध्यन्ति ।\n3. द्वि + संवत्सर + ख → द्विसंवत्सरीण ।\nपक्षे - द्वि + संवत्सर + ठञ् → द्विसांवत्सरिक । अत्र <<संख्यायाः संवत्सरसंख्यस्य च>> [[7.3.15]] इति उत्तरपदवृद्धिः विधीयते ।\nइदानीम् एते शब्दाः द्वयोः अर्थयोः सन्दर्भेण पश्यामः -\n1. <<तेन निर्वृत्तम्>> [[5.1.79]] -\nअ) द्वाभ्यां रात्रिभ्यां निर्वृत्तम् द्विरात्रीणम् द्वैरात्रिकम् वा ।\nआ) द्वाभ्यां अहभ्यां निर्वृत्तम् द्व्यहीनम् द्वैयह्निकम् वा ।\nइ) द्वाभ्यां संवत्सराभ्यां निर्वृत्तम् द्विसंवत्सरीणम् द्विसांवत्सरिकं वा ।\n2. <<तमधीष्टो भृतो भूतो भावी>> [[5.1.80]] -\nअ) द्वे रात्री अधीष्टः द्विरात्रीणः द्वैरात्रिकः वा नर्तकः । द्वे अह्नी अभीष्टः द्व्यहीनः द्वैयह्निकः वा अध्यापकः । द्वौ संवत्सरौ अधीष्टः द्विसंवत्सरीणः द्विसांवत्सरिकः वा प्राचार्यः ।\nआ) द्वे रात्री भृतः द्विरात्रीणः द्वैरात्रिकः वा सेवकः । द्वे अह्नी भृता द्व्यहीना द्वैयह्निकी वा दासी । द्वौ संवत्सरौ भृतः द्विसंवत्सरीणः द्विसांवत्सरिकः वा दासः ।\nइ) द्वे रात्री भूतः द्विरात्रीणः द्वैरात्रिकः वा ज्वरः । द्वे अह्नी भूता द्व्यहीना द्वैयह्निकी वा पीडा । द्वौ संवत्सरौ भूतः द्विसंवत्सरीणा द्विसांवत्सरिकी वा वेदना ।\nई) द्वे रात्री भावी द्विरात्रीणः द्वैरात्रिकः वा यज्ञः । द्वे अह्नी भावी द्व्यहीना द्वैयह्निकी वा पूजा । द्वौ संवत्सरौ भावी द्विसंवत्सरीणः द्विसांवत्सरिकः वा उत्सवः । " }, "51088": { "sa": "'अधीष्टः', 'भृतः', 'भूतः' तथा 'भावी' एतेषु अर्थेषु द्वितीयासमर्थात्, तथा च 'निर्वृत्तम्' अस्मिन् अर्थे तृतीयासमर्थात् द्विगु-शब्दस्य उत्तरपदे विद्यमानात् 'वर्ष'शब्दात् विकल्पेन ख-प्रत्ययः भवति । पक्षे औत्सर्गिकः ठञ्-प्रत्ययः, पक्षे च प्रत्ययस्य लुक् अपि विधीयते ।", "sd": "<<तेन निर्वृत्तम्>> [[5.1.79]] इत्यनेन निर्दिष्टस्य 'निवृत्तम्' अस्य अर्थस्य विषये ; तथा च <<तमधीष्टो भृतो भूतो भावी>> [[5.1.80]] इत्यनेन निर्दिष्टानाम् 'अधीष्टः, भृतः, भूत, भावी' - एतेषामर्थानाम् विषये द्विगुसमासस्य उत्तरपदरूपे विद्यमानात् 'वर्ष' शब्दात् अनेन सूत्रेण विकल्पेन 'ख' प्रत्ययः भवति, तथा च तस्य विकल्पेन लुक् अपि विधीयते । पक्षे तदन्तविधिना औत्सर्गिकः ठञ्-प्रत्ययः अपि विधीयते । यथा -\n1) ख-प्रत्यये कृते - द्वि + वर्ष + ख → द्विवर्षीण ।\n2) ठञ्-प्रत्यये कृते - द्वि + वर्ष + ठञ् → द्विवार्षिक । अत्र <<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धौ प्राप्तायाम् तं बाधित्वा <<वर्षस्याभविष्यति>> [[7.3.16]] इति उत्तरपदवृद्धिः भवति ।\n3) प्रत्ययस्य लुकि कृते - द्वि + वर्ष + ख/ठञ् → द्वि + वर्ष → द्विवर्ष ।\nएवमेव - त्रिवर्षीण / त्रिवार्षिक / त्रिवर्ष ; पञ्चवर्षीण / पञ्चवार्षिक / पञ्चवर्ष - एतादृशाः शब्दाः अपि सिद्ध्यन्ति ।\nयथा -\n1. द्वाभ्यां वर्षाभ्यां निर्वृत्तम् द्विवर्षीणम्, द्विवार्षिकम् द्विवर्षम् वा ।\n2. द्वे वर्षे अधीष्टः / भृतः / भूतः द्विवर्षीणः द्विवार्षिकः द्विवर्षः वा । यथा - द्विवर्षीणः अध्यापकः, द्विवार्षिकः भृत्यः, द्विवर्षः ज्वरः - आदयः ।\n3. द्वे वर्षे भावी द्विवर्षीणः द्वैवर्षिकः द्विवर्षः वा । अत्र ठञ्-प्रत्यये परे <<तद्धितेष्वचामादेः>> [[7.2.117]] इत्यनेन आदिवृद्धिः भवति । ।\nज्ञातव्यम् -\n1. 'द्विवार्षिक' तथा 'द्वैवर्षिक' एतयोर्मध्ये विद्यमानम् सूक्ष्मभेदमत्र आचार्यः स्पष्टीकरोति । 'द्वे वर्षे भूतः' इत्यस्मिन् अर्थे 'द्विवार्षिक' तथा द्वे वर्षे भावी' इत्यस्मिन् अर्थे 'द्वैवर्षिक' अयं शब्दः सिद्ध्यतीति सर्वदा स्मर्तव्यम् ।\n2. 'द्वे वर्षे भूतः' इत्यस्मिन् अर्थे यदि जीवितस्य निर्देशः क्रियते, तर्हि वर्तमानसूत्रेण विकल्पेन प्राप्तः लुक् अग्रिमसूत्रेण नित्यरूपेण भवति । यथा, 'द्वे वर्षे भूतः पुत्रः' इत्यत्र 'द्विवर्षः पुत्रः' इत्येव रूपम् सिद्ध्यति । अस्मिन् विषये अग्रिमसूत्रे विस्तारेण उच्यते । " }, "51089": { "sa": "'भूतः' अस्मिन् अर्थे द्वितीयासमर्थात् द्विगु-शब्दस्य उत्तरपदे विद्यमानात् 'वर्ष'शब्दात् विहितस्य प्रत्ययस्य चित्तवति अभिधेये नित्यम् लुक् भवति । ", "sd": "अस्य सूत्रस्य अर्थज्ञानात् पूर्वमादौ केचन विषयाः ज्ञातव्याः -\n1. अस्मिन् सूत्रे <<तमधीष्टो भृतो भूतो भावी>> [[5.1.80]] इत्यस्मात् केवलम् 'तम् भूतः' इत्येव अनुवर्तते , अन्ये शब्दाः न । (अस्मिन् विषये सूत्रे स्पष्टरूपेण किमपि नोच्यते, परन्तु न्यासकारः पदमञ्जरीकारश्च एतम् विषयम् स्पष्टीकुरुतः) ।\n2. 'चित्तवति' इति 'चित्तवत्' शब्दस्य सप्तम्येकवचनम् । यः कोऽपि चेतनायुक्तः / जीवितः (alive) अस्ति तस्य निर्देशः 'चित्तवान्' इत्यनेन भवति ।\n3. 'द्वे वर्षे भूतः' इत्यस्मिन् अर्थे यत्र तद्धितान्तशब्दः 'चितवान्' इति अर्थं निर्देशयति, तत्र <<वर्षाल्लुक् च>> [[5.1.88]] इत्यनेन प्रत्ययस्य विकल्पेन लुकि प्राप्ते वर्तमानसूत्रेण सः लुक् नित्यम् विधीयते, न हि विकल्पेन ।\nयथा - द्वे वर्षे भूतः दारकः (पुत्रः) = द्विवर्षः दारकः । अस्मिन् उदाहरणे 'दारक' इत्यनेन चित्तवतः (जीवितस्य) निर्देशः क्रियते, अतः अत्र पूर्वसूत्रेण ख-प्रत्ययस्य विकल्पेन लुकि प्राप्ते सः वर्तमानसूत्रेण नित्यरूपेण भवति । 'द्विवर्षः दारकः' इत्युक्ते सः पुत्रः यः द्वे वर्षे जीवित्वा मृत्युं प्राप्तवान् - इति ।\nज्ञातव्यम् -\n1. अस्य सूत्रस्य विषये काशिकायाः केषुचन संस्करणेषु 'निर्वृत्तादिष्वर्थेषु उत्पन्नस्य प्रत्ययस्य लुक् भवति' इति निर्दिश्यते । अयम् निर्देशः सर्वथा प्रामादिकः अस्ति । अस्य सूत्रस्य प्रसक्तिः निर्वृत्तादिषु अर्थेषु न भवति, केवलम् 'भूत' अस्मिन्नेव अर्थे भवति । यथा, 'द्वे वर्षे अधीष्टः अध्यापकः' इत्यत्र यद्यपि अध्यापकः चितवान् अस्ति, तथापि वर्तमानसूत्रेण प्रत्ययस्य नित्यम् लुक् न भवति, अपितु <<वर्षाल्लुक् च>> [[5.1.88]] इत्यनेन पूर्वसूत्रेण केवलं विकल्पेनैव भवति , येन 'द्विवर्षीणः / द्विवार्षिकः अध्यापकः' एते रूपे अपि सिद्ध्यतः । अयम् बिन्दुः न्यासे तथा पदमञ्जर्याम् - उभयत्र निर्दिष्टः अस्ति ।\n2. चित्तवतः निर्देशः न क्रियते चेत् वर्तमानसूत्रस्य प्रसक्तिः नास्ति । यथा, 'द्वे वर्षे भूतः ज्वरः' इत्यत्र वर्तमानसूत्रेण नित्यम् लुक् न भवति, अपितु पूर्वसूत्रेण वैकल्पिकः एव लुक् विधीयते । द्वे वर्षे भूतः द्विवर्षीणः द्विवार्षिकः द्विवर्षः वा ज्वरः ।\n" }, "51090": { "sa": "'षष्टिरात्रेण पच्यन्ते' अस्मिन् अर्थे 'षष्टिक'शब्दः निपात्यते । ", "sd": "अनेन सूत्रेण 'षष्टिक' इति शब्दः निपात्यते । अयम् कस्यचन धान्यविशेषस्य संज्ञा अस्ति । यत् धान्यम् 'षष्टिरात्रेण पच्यते' (इत्युक्ते षष्टिरात्रम् यावत् पाकक्रियां कृत्वा यस्य संस्करणम् भवति) तस्य निर्देशार्थम् 'षष्टिक' इति संज्ञा विधीयते । षष्टिक is a specific type of grain whose processing invokes cooking for a period of sixty days.\nप्रक्रिया इयम्\n'षष्टिरात्रेण पच्यन्ते' अस्मिन् अर्थे कन्-प्रत्ययस्य निपातनम्\n→ षष्टिरात्र + कन्\n→ षष्टिक ['रात्र' शब्दस्य निपातनात् लोपः]\nज्ञातव्यम् -\n1. सर्वेषाम् धान्यानाम् (यथा मुद्गादीनाम्) विषये अयम् शब्दः न प्रयुज्यते । आचार्यस्य काले प्रयुज्यमाणस्य कस्यचन विशिष्टस्य धान्यस्य इयम् संज्ञा अस्ति । अतएव भाष्यकारः अत्र वदति - षष्टिके संज्ञाग्रहणं कर्तव्यम् । इत्युक्ते, 'षष्टिक'शब्दः संज्ञारूपेणैव बोध्यः ।\n2. यद्यपि अस्मिन् सूत्रे 'षष्टिकाः' इति बहुवचनान्तप्रयोगः कृतः अस्ति, तथाप्यत्र बहुवचनस्य न किमपि प्रयोजनम् । 'षष्टिक'शब्दस्य रूपाणि त्रिषु वचनेषु प्रयुक्तानि दृश्यन्ते । " }, "51091": { "sa": "यः शब्दः 'वत्सर' इत्यनेन समाप्यते, तस्मात् 'निर्वृत्तम्' इत्यस्मिन् अर्थे तथा च 'अधीष्टः', 'भृतः', 'भूतः' तथा 'भावी' एतेषु अर्थेषु वेदेषु छ-प्रत्ययः कृतः दृश्यते । ", "sd": "'वत्सर' इत्युक्ते वर्षम् । यस्य शब्दस्य अन्ते 'वत्सर' इति पदमागच्छति, तादृशः शब्दः 'वत्सरान्तः' अस्तीति उच्यते । अस्मात् 'वत्सरान्त'शब्दात् <<तेन निर्वृत्तम्>> [[5.1.79]] इत्यनेन निर्दिष्टस्य 'निवृत्तम्' अस्य अर्थस्य विषये ; तथा च <<तमधीष्टो भृतो भूतो भावी>> [[5.1.80]] इत्यनेन निर्दिष्टानाम् 'अधीष्टः, भृतः, भूत, भावी' - एतेषामर्थानाम् विषये वेदेषु छ-प्रत्ययः कृतः दृश्यते ।\nअस्य सम्यक् अर्थं ज्ञातुम् प्रारम्भे काचन पीठिका ज्ञेया । वेदेषु बहुत्र 'युगम्' इति संज्ञा 'पञ्चवर्षाणाम् समूहः' अस्मिन् अर्थे कृता दृश्यते । यथा, यजुर्वेदे 'पञ्चकम् युगम्' इति प्रयोगः बहुत्र दृश्यते । अस्मिन् 'पञ्चके' युगे यानि पञ्चवर्षाणि विद्यन्ते, तेषाम् क्रमेण - 'संवत्सर, परिवत्सर, इदावत्सर, इद्वत्सर, तथा वत्सर' - एतानि नामानि अपि दत्तानि सन्ति । एतानि पञ्च नामानि एव अस्मिन् सूत्रे 'वत्सरान्त' इत्यनेन निर्दिष्टानि सन्ति । एतेभ्यः एव -\n(अ) <<तेन निर्वृत्तम्>> [[5.1.79]] इत्यनेन निर्दिष्टे 'निवृत्तम्' अस्मिन् अर्थे ; तथा च\n(आ) <<तमधीष्टो भृतो भूतो भावी>> [[5.1.80]] इत्यनेन निर्दिष्टेषु 'अधीष्टः, भृतः, भूत, भावी' एतेषु अर्थेषु\nवेदेषु छ-प्रत्ययः कृतः दृश्यते । अनेन 'संवत्सरीय', 'परिवत्सरीय', 'इदावत्सरीय', 'इद्वत्सरीय' तथा 'वत्सरीय' - एते शब्दाः सिद्ध्यन्ति ।\nज्ञातव्यम् - 'संवत्सर' तथा 'परिवत्सर' शब्दाभ्याम् <<सम्परिपूर्वात् ख च>> [[5.1.92]] इत्यनेन अग्रिमसूत्रेण 'ख' प्रत्ययः अपि उच्यते, येन 'संवत्सरीण' तथा 'परिवत्सरीण' एते रूपे सिद्ध्यतः । " }, "51092": { "sa": "'संवत्सर' तथा 'परिवत्सर' एताभ्यां शब्दाभ्याम् 'निर्वृत्तम्' इत्यस्मिन् अर्थे तथा च 'अधीष्टः', 'भृतः', 'भूतः', तथा 'भावी' एतेषु अर्थेषु वेदेषु 'ख' तथा 'छ' एतौ प्रत्ययौ कृतौ दृश्येते । ", "sd": "'संवत्सर' तथा 'परिवत्सर' एताभ्याम् शब्दाभ्याम् <<वत्सरान्ताच्छश्छन्दसि>> [[5.1.91]] इत्यनेन पूर्वसूत्रेण\n<<तेन निर्वृत्तम्>> [[5.1.79]] इत्यत्र निर्दिष्टे 'निर्वृत्तम्' अस्मिन् अर्थे ; तथा च <<तमधीष्टो भृतो भूतो भावी>> [[5.1.80]] इत्यत्र निर्दिष्टेषु अधीष्टादिषु अर्थेषु वेदेषु छ-प्रत्ययविधानम् कृतमस्ति । वर्तमानसूत्रेण एताभ्यामेव शब्दाभ्याम् एतयोः एव अर्थयोः वेदस्य विषये ख-प्रत्ययः अपि उच्यते ।\nयथा - संवत्सरेण निर्वृत्तम् संवत्सरीणम् संवत्सरीयम् च । परिवत्सरं अधीष्टः भृतः भूतः भावी वा परिवत्सरीणः परिवत्सरीयः च ।\nज्ञातव्यम् - वेदेषु बहुत्र 'युगम्' इति संज्ञा 'पञ्चवर्षाणाम् समूहः' अस्मिन् अर्थे कृता दृश्यते । यथा, यजुर्वेदे 'पञ्चकम् युगम्' इति प्रयोगः बहुत्र दृश्यते । अस्मिन् 'पञ्चके' युगे यानि पञ्चवर्षाणि विद्यन्ते, तेषाम् क्रमेण - 'संवत्सर, परिवत्सर, इदावत्सर, इद्वत्सर, तथा वत्सर' - एतानि नामानि अपि दत्तानि सन्ति । अत्र विद्यमानौ संवत्सर-परिवत्सरशब्दौ एव अस्मिन् सूत्रे गृह्येते । " }, "51093": { "sa": "'परिजय्य', 'लभ्य', 'कार्य' तथा 'सुकर' इत्येतेषु अर्थेषु तृतीयासमर्थात् कालवाचिप्रातिपदिकात् ठञ्-प्रत्ययः भवति । ", "sd": "अस्मिन् सूत्रे प्रोक्तानाम् शब्दानामर्थः एतादृशः -\n1. परिजय्य - <<क्षय्यजय्यौ शक्यार्थे>> [[6.1.81]] इत्यनेन 'जय्य' अयम् शब्दः निपात्यते । जेतुं शक्यम् = जय्यम् । यस्मिन् विजयं प्राप्तुं शक्यते, तत् जय्यमस्ति, इति उच्यते । तथैव, परिजेतुम् (= सर्वतः जेतुम्) शक्यते तत् परिजय्यम् ।\n2. लभ्य - <<पोरदुपधात्>> [[3.1.98]] अनेन सूत्रेण लभ्-धातोः 'यत्' प्रत्यये कृते 'लभ्य' शब्दः सिद्ध्यति । लब्धुम् योग्यम् लभ्यम् । 'शक्यम्' अस्मिन् अर्थे अपि अयम् शब्दः प्रयुज्यते - लब्धुं शक्यम् लभ्यम् ।\n3. कार्यम् - <<ऋहलोर्ण्यत्>> [[3.1.124]] अनेन सूत्रेण 'कृ' धातो' ण्यत्-प्रत्यये कृते 'कार्य' शब्दः सिद्ध्यति । कर्तुम् योग्यम् कार्यम् । 'शक्यम्' अस्मिन् अर्थे अपि अस्य प्रयोगः भवति - कर्तुं शक्यम् कार्यम् ।\n4. सुकर - सरलम् / सुलभम् इत्यर्थः ।\nएतेषु सर्वेषु अर्थेषु तृतीयासमर्थात् कालवाचिप्रातिपदिकात् ठञ्-प्रत्ययः भवति । यथा -\n1. मासेन परिजय्यः मासिकः ज्वरः । तादृशः ज्वरः यः एकमासं यावता कालेन पूर्णरूपेण गच्छति सः मासिकः ज्वरः ।\n2. मासेन लभ्यः मासिकः पटः । कश्चन पटः इदानीमापणे नोपलभ्यते, परन्तु एकमासात् अनन्तरमापणात् प्राप्तुम् शक्यते सः मासिकः पटः ।\n3. मासेन कार्यः मासिकः यज्ञः । एकमासात् अनन्तरम् कर्तुम् योग्यः इत्यर्थः ।\n4. मासेन सुकरम् मासिकम् हविः । एकमासात् अनन्तरं क्रियते चेत् सुलभरूपेण कर्तुम् शक्यते इत्याशयः ।\n " }, "51094": { "sa": "'अस्य ब्रह्मचर्यम्' अस्मिन् अर्थे द्वितीयासमर्थात् प्रथमासमर्थात् च कालात् ठञ् प्रत्ययः भवति । ", "sd": "सूत्रार्थस्य विवेचनात् पूर्वमत्र कश्चन विशेषः ज्ञातव्यः - अस्मिन् सूत्रे 'तत्' इति शब्दः प्रयुज्यते । 'तद्' अस्य सर्वनामशब्दस्य नपुंसकलिङ्गस्य एतत् प्रथमा-द्वितीया-एकवचनम् । एतेद्वे अपि विभक्ती अस्य सूत्रस्य व्याख्यानेषु स्वीक्रियेते, अतः च भिन्नरूपेण द्वयोः अर्थयोः विधानम् व्याख्यानेषु अत्र कृतम् दृश्यते । क्रमेण पश्यामः -\n1. तत् इति प्रथमैकवचनस्य ग्रहणम् कृत्वा प्रथमासमर्थात् कालवाचिशब्दात् ब्रह्मचर्यस्य निर्देशं कर्तुमनेन सूत्रेण ठञ्-प्रत्ययः विधीयते । यथा - 'मासः अवधिः अस्य ब्रह्मचर्यस्य, तत् मासिकम् ब्रह्मचर्यम्' । अत्र विग्रहवाक्ये 'मास' इति प्रथमासमर्थः शब्दः वर्तते, तथा च 'ब्रह्मचर्य' शब्दः षष्ठ्या विपरिणम्यते ।\n2. तत् इति द्वितीयैकवचनस्य ग्रहणं कृत्वा द्वितीयासमर्थात् कालवाचिशब्दात् ब्रह्मचर्यस्य पालकस्य निर्देशं कर्तुमनेन सूत्रेण ठञ्-प्रत्ययः विधीयते । यथा - 'यस्य ब्रह्मचर्यम् मासम् यावत् विद्यते, सः मासिकः ब्रह्मचारी' । अत्र 'ब्रह्मचर्य' शब्दः प्रथमायामस्ति, 'मास' इति तु द्वितीयासमर्थः स्वीक्रियते ।\nसंक्षेपेण, 'तत्' इति प्रथमा स्वीक्रियते चेत् निर्मितः शब्दः ब्रह्मचर्यस्य निर्देशं करोति । परन्तु 'तत्' इति द्वितीया स्वीक्रियते चेत् निर्मितः शब्दः ब्रह्मचारिणः निर्देशं करोति ।\nअन्यानि उदाहरणानि - वार्षिकम् ब्रह्मचर्यम्, वार्षिकः ब्रह्मचारी । पाक्षिकम् ब्रह्मचर्यम्, पाक्षिकः ब्रह्मचारी । द्विसांवत्सरिकम् ब्रह्मचर्यम्, द्विसांवत्सरिकः ब्रह्मचारी । ('द्विसांवत्सरिक' इत्यत्र <<संख्यायाः संवत्सरसंख्यस्य च>> [[7.3.15]] इति उत्तरपदवृद्धिः भवति) ।\nअत्र कानिचन वार्त्तिकानि ज्ञातव्यानि -\n1. - 'महानाम्नी', 'गौदान', 'आदित्यव्रत' - एतेभ्यः शब्देभ्यः षष्ठीसमर्थेभ्यः 'तत् ब्रह्मचर्यम्' अस्मिन् अर्थे ठञ् प्रत्ययः भवति । एतानि त्रीणि अपि व्रतानाम् नामानि सन्ति । एतेषाम् व्रतानामाचरणे यः ब्रह्मचर्यम् पालयति, तस्य निर्देशः अनेन वार्त्तिकेन क्रियते । यथा -\nअ) महानाम्न्याः ब्रह्मचर्यमस्य सः माहानामिकः । यः मनुष्यः महानाम्नीव्रतस्य कृते (काले वा) ब्रह्मचर्यम् पालयति, सः माहानामिकः । अत्र इत्यने पुंवद्भावं कृत्वा ततः <<नस्तद्धिते>> [[6.4.144]] इति टिलोपः क्रियते ।\nआ). गौदानस्य ब्रह्मचर्यमस्य सः गौदानिकः ।\nइ). आदित्यव्रतस्य ब्रह्मचर्यमस्य सः आदित्यव्रतिकः ।\n2. - 'महानाम्नी', 'गौदान', 'आदित्यव्रत' - एतेभ्यः शब्देभ्यः द्वितीयासमर्थेभ्यः 'चरति' अस्मिन् अर्थे ठञ् प्रत्ययः भवति । महानाम्नीम् चरति सः माहानामिकः (महानाम्नीव्रतस्य आचरणम् करोति इत्यर्थः) । गौदानम् चरति सः गौदानिकः । आदित्यव्रतम् चरति सः आदित्यव्रतिकः ।\n3. - 'अवान्तरदीक्षा' तथा 'तिलव्रत' एते द्वे व्रतस्य नामनी । एतयोः विषये 'चरति' अस्मिन् अर्थे 'डिनि' प्रत्ययः भवति ।\nअ) अवान्तरदीक्षां चरति सः अवान्तरदीक्षी । अत्र इत्यने पुंवद्भावं कृत्वा ततः <<टेः>> [[6.4.143]] इति टिलोपः भवति ।\nआ) तिलव्रतं चरति सः तिलव्रती ।\n'डिनि' प्रत्यये नकारोत्तरः अकारः नकारस्य इत्संज्ञा मा भूत् इति ज्ञापयितुम् स्थापितः अस्ति ।\n4. - 'अष्टचत्वारिंशत्' इति वर्षाणि यः व्रतं चरति, तस्य निर्देशार्थम् 'अष्टचत्वारिंशत्' शब्दात् ड्वुन् तथा डिनि प्रत्ययौ भवतः ।\nअ) अष्टचत्वारिंशत् + ड्वन्\n→ अष्टचत्वारिंशत् + अक [<<युवोरनाकौ>> [[7.1.1]] इति अक-आदेशः]\n→ अष्टचत्वारिंश् + अक [<<टेः>> [[6.4.143]] इति टिलोपः]\n→ अष्टचत्वारिंशक\nआ) अष्टचत्वारिंशत् + डिनि\n→ अष्टचत्वारिंश् + इन् [<<टेः>> [[6.4.143]] इति टिलोपः]\n→ अष्टचत्वारिंशिन् ।\nअष्टचत्वारिंशत् वर्षाणि यावत् व्रतं चरति सः अष्टचत्वारिंशकः अष्टचत्वारिंशी वा ।\nस्मर्तव्यम् - 'अष्टचत्वारिंशत्' इत्यस्य कः विशेषः ? प्राचीनकाले प्रत्येकम् वेदस्य अध्ययनम् द्वादशवर्षाणि यावत् क्रियते स्म । अतः सर्वेषाम् चतुर्ण्णामपि वेदानामध्ययनार्थमाहत्य 12 * 4 = 48 वर्षाणि आवश्यकानि । अतः यः छात्रः अष्टचत्वारिंशत् वर्षाणि यावत् समग्ररूपेण वेदाध्ययनस्य व्रतमाचरति, तस्य निर्देशः अत्र अष्टचत्वारिंशकः / अष्टचत्वारिंशी अनेन कृतः अस्ति ।\n5. - 'चातुर्मास्य' शब्दात् 'तत् चरति' अस्मिन् अर्थे ड्वुन् तथा डिनि-प्रत्ययौ भवतः, तथा च प्रक्रियायाम् 'चातुर्मास्य' शब्दस्य 'य' (= य् + अ) इत्यस्य लोपः अपि भवति । ('चातुर्मास्य' इति कश्चन यज्ञविधिः । अग्रिमवार्त्तिके वात्तिककारः अस्यापि शब्दस्य व्युप्तत्तिं दर्शयति) ।\nअ) चातुर्मास्यम् चरति सः\n= चातुर्मास्य + ड्वुन्\n→ चातुर्मास्य + अक [<<युवोरनाकौ>> [[7.1.1]] इति अक-आदेशः]\n→ चातुर्मास् + अक [यकारलोपः]\n→ चातुर्मासक\nआ) चातुर्मास्य + डिनि\n→ चातुर्मास् + इन् [यकारलोपः]\n→ चातुर्मासिन्\nयथा - चातुर्मासं चरति सः चातुर्मासकः चातुर्मासी ।\n6. - अस्मिन् वार्त्तिके वार्त्तिककारः पूर्ववार्त्तिके प्रयुक्तस्य 'चातुर्मास्य'शब्दस्य व्युत्पत्तिं दर्शयति । 'चतुर्षु मासेषु भवम् यज्ञादिव्रतम् = चतुर्मास + ण्य → चातुर्मास्य ।\n7. - 'चतुर्मास' शब्दात् 'तत्र भवः' अस्मिन् अर्थे संज्ञां दर्शयितुमण् प्रत्ययः भवति । चतुर्षु मासेषु भवः चातुर्मासः । चतुर्षु मासेषु भवा चातुर्मासी पौर्णमासी (स्त्रीत्वे <<टिड्ढाणञ्..>> [[4.1.15]] इति ङीप्) । अत्र निर्मितौ 'चातुर्मास' तथा 'चातुर्मासी' एतौ शब्दौ संज्ञारूपेण एव प्रयुज्येते ।\n" }, "51095": { "sa": "'दक्षिणा' अस्मिन् अर्थे षष्ठीसमर्थेभ्यः यज्ञवाचिभ्यः प्रातिपदिकेभ्यः ठञ्-प्रत्ययः भवति । ", "sd": "'यज्ञाख्य' इत्युक्ते 'यज्ञस्य नाम' (यज्ञस्य आख्या यज्ञाख्यः) । षष्ठीसमर्थात् यज्ञस्य नामवाचिनः प्रातिपदिकात् दक्षिणायाः निर्देशं कर्तुमनेन सूत्रेण ठञ् प्रत्ययः भवति ।\n कानिचन उदाहरणानि एतानि -\n1. अग्निष्टोमस्य दक्षिणा आग्निष्टोमिकी । स्त्रीत्वे <<टिड्ढाणञ्..>> [[4.1.15]] इति ङीप् ।\n2. वाजपेयस्य दक्षिणा वाजपेयिकी ।\n3. राजसूयस्य दक्षिणा राजसूयिकी ।\n4. द्वादशाहस्य दक्षिणा द्वादशाहिकी ।\nज्ञातव्यम् - वस्तुतः अत्र 'कालात्' इत्यस्य अधिकारः प्रचलति । अतः ये यज्ञवाचकाः शब्दाः कालवाचकाः अपि सन्ति (यथा - द्वादशाह = द्वादशानि दिनानि यावत् क्रियमाणः यज्ञः) तेभ्यः एव अस्य सूत्रस्य प्रसक्तिः स्यात् । परन्तु वस्तुतः अस्य सूत्रस्य प्रयोगः सर्वेभ्यः यज्ञवाचिभ्यः शब्देभ्यः इष्यते । अतएव अस्मिन् सूत्रे 'यज्ञाख्य' इति स्पष्टरूपेण उक्तमस्तीति व्याख्यानेषु स्पष्टीक्रियते । यथा, काशिकाकारः वदति - 'आख्याग्रहणमकालादपि यज्ञवाचिनो यथा स्यादिति' । इत्युक्ते, 'आख्या' अस्य शब्दस्य प्रयोगेण पाणिनिः एतत् स्पष्टीकरोति यत् अत्र सर्वेषाम् यज्ञानाम् नामानि ग्रहीतव्यानि - इति ।\n" }, "51096": { "sa": "'दीयते' तथा 'कार्यम्' एतयोः अर्थयोः सप्तमीसमर्थेभ्यः कालवाचिप्रातिपदिकेभ्यः 'तत्र भवः' इत्यस्मिन् अर्थे ये प्रत्ययाः उक्ताः सन्ति ते अत्रापि विधीयन्ते । ", "sd": "अस्मिन् सूत्रे 'दीयते' तथा 'कार्यम्' ( = करणीयम् / कर्तुम् शक्यम् - इत्यर्थः) एतौ द्वौ अर्थौ उच्येते । एतयोः अर्थयोः कालवाचिभ्यः प्रातिपदिकेभ्यः अनेन सूत्रेण अतिदेशरूपेण प्रत्ययविधानम् कृतमस्ति ।कथम् अयमतिदेशः क्रियते? प्राग्दीव्यतीय-अधिकारे शैषिक-प्रकरणे <<तत्र भवः>> [[4.3.53]] अस्मिन् अर्थे कालवाचकेभ्यः प्रातिपदिकेभ्यः ये प्रत्ययाः उक्ताः सन्ति, ते एव अत्रापि प्रयोक्तव्याः - इति अस्य सूत्रस्य आशयः ।\n<<तत्र भवः>> [[4.3.53]] अस्मिन् अर्थे कालवाचकेभ्यः प्रातिपदिकेभ्यः के के प्रत्ययाः उच्यन्ते ? मुख्यान् प्रत्ययान् अस्य सूत्रस्य उदाहरणानि स्वीकृत्य पश्यामः -\n1. <<कालात् ठञ्>> [[4.3.11]] - सर्वेभ्यः कालवाचिभ्यः शब्देभ्यः ठञ्-प्रत्ययः भवति । यथा - मासे दीयते तत् मासिकम् धनम् । मासे कार्यम् तत् मासिकमध्ययनम् ।\n2. <<निशाप्रदोषाभ्यां च>> [[4.3.14]] - 'निशा'शब्दात् तथा 'प्रदोष'शब्दात् ठञ् तथा अण्-प्रत्ययौ भवतः । निशायां दीयते सा नैशिकी नैशी वा औषधिः । प्रदोषे दीयते सः प्रादोषिकः प्रादोषः वा प्रसादः ।\n3. <<श्वसस्तुट् च>> [[4.3.15]] इत्यनेन 'श्वः' शब्दात् ठञ्-प्रत्ययः तथा तुट्-आगमः भवति । श्वः दीयते कार्यम् वा तत् शौवस्तिकम् ।\n4. <<संधिवेलाऽऽद्यृतुनक्षत्रेभ्योऽण्>> [[4.3.16]] इत्यनेन ऋतुवाचिभ्यः शब्देभ्यः अण् प्रत्ययः भवति । ग्रीष्मे दीयते कार्यम् वा तत् ग्रैष्मम् ।वसन्ते दीयते कार्यम् वा तत् वासन्तम् । हेमन्ते दीयते कार्यम् वा तत् हैमनम् (<<सर्वत्राण् च तलोपश्च>> [[4.3.32]] इति तकारलोपः) ।\n5. <<प्रावृष एण्यः>> [[4.3.17]] - 'प्रावृष' (वर्षाऋतुः) शब्दात् एण्य-प्रत्ययः भवति । प्रावृषि दीयते कार्यम् वा तत् प्रावृषेण्यम् ।\n6. <<वर्षाभ्यष्ठक्>> [[4.3.18]] वर्षायाम् दीयते कार्यम् वा तत् वार्षिकम् ।\n7. <<सायंचिरम्प्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च>> [[4.3.19]] - सायंकाले दीयते कार्यम् वा तत् सायन्तनम् । चिरकाले दीयते कार्यम् वा तत् चिरन्तनम् । एवमेव अनेन सूत्रेण तत्रस्थैश्च वार्त्तिकैः केचन अन्याः शब्दाः अपि सिद्ध्यन्ति - प्राह्णेतन, प्रगेतन, दिवातन - आदयः ।\nअस्य सूत्रस्य विषये अन्यः एकः विशेषः अपि ज्ञेयः । अस्मात् सूत्रात् 'तत्र दीयते' इति स्वीकृत्य तस्य नूतनसूत्रम् कृत्वा तस्मिन् सूत्रे पूर्वसूत्रात् 'यज्ञाख्येभ्यः' इत्यस्य अनुवृत्तिः क्रियते । अनेन 'यज्ञाख्येभ्यः तत्र दीयते' इति सम्पूर्णं सूत्रम् सिद्ध्यति । अस्य सूत्रस्य अर्थः अयम् - सप्तमीसमर्थात् यज्ञवाचिशब्दात् 'तत्र दीयते' अस्मिन् अर्थे ठञ् प्रत्ययः भवति । यथा - राजसूये दीयते सः राजसूयिकः बलिः ।\nस्मर्तव्यम् -\n1. प्राग्दीव्यतीय-अधिकारे <<साऽस्य देवता>> [[4.2.24]] इत्यत्र <<कालेभ्यो भववत्>> [[4.2.34]] इति अन्यदेकम् सूत्रमपि अतिदेशरूपेण स्थापितमस्ति । अनेन सूत्रेण प्रथमासमर्थात् कालवाचिशब्दात् 'देवता' अस्मिन् अर्थे अपि <<तत्र भवः>> [[4.3.53]] इति सूत्रवत् एव प्रत्ययाः भवन्ति । अतः आहत्य चतुर्षु अर्थेषु समानमेव रूपम् सिद्ध्यति । यथा, 'मासः अस्य देवता', 'मासे भवम्' , 'मासे दीयते', 'मासे कार्यम्' - सर्वेषु अपि अर्थेषु 'मासिक' शब्दः प्रयुज्यते । तथा च, <<कालात् ठञ्>> [[4.3.11]] एतत् सूत्रम् शैषिकप्रकरणस्य अर्थनिरपेक्ष-अपवादेषु स्थापितमस्ति, अतः अन्येषु शैषिकेषु अर्थेषु अपि अस्य प्रयोगः भवितुमर्हति । यथा - मासे जातः मासिकः, मासे कृतः मासिकः - आदयः ।\n2. <<कालात्>> [[5.1.78]] इत्यस्य अधिकारः अत्र समाप्यते । अतः इतः परमुक्ताः प्रत्ययाः सर्वेभ्यः प्रातिपदिकेभ्यः भवितुमर्हन्ति, न हि केवलं कालवाचिभ्यः प्रातिपदिकेभ्यः । " }, "51097": { "sa": "व्युष्टादिगणस्य सप्तमीसमर्थेभ्यः शब्देभ्यः 'दीयते' तथा 'कार्यम्' एतयोः अर्थयोः अण् प्रत्ययः भवति । ", "sd": "'दीयते' तथा 'कार्यम्' (= करणीयम् / कर्तुम् शक्यम्) एतयोः अर्थयोः व्युष्टादिगणस्य शब्देभ्यः अण् प्रत्ययः विधीयते ।\nव्युष्टादिगणः अयम् - व्युष्ट, नित्य, निष्क्रमण, प्रवेशन, तीर्थ, सम्भ्रम, आस्तरण, सङ्ग्राम, सङ्घात, अग्निपद, पीलुमूल, प्रवास, उपसङ्क्रमण ।\nउदाहरणानि -\n1. व्युष्टे (दिने / प्रभाते) दीयते कार्यम् वा तत् वैयुष्टम् । प्रकिया इयम् -\nव्युष्ट + अण्\n→ व् ऐ य् उ ष्ट + अ [ 'व्युष्ट' अयम् शब्दः 'वि + उष् + क्त' इति निर्मितः अस्ति अतः अत्र यकारः पदान्तः अस्ति । अस्यां स्थितौ <<तद्धितेष्वचामादेः>> [[7.2.117]] इत्यनेन आदिवृद्धौ प्राप्तायां तां बाधित्वा <<न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच्>> [[7.3.3]] इति ऐच् आगमः भवति ।]\n→ वैयुष्ट् + अ [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ वैयुष्ट\n2. नित्यम् दीयते कार्यम् वा तत् नैत्यम् ।\n3. तीर्थे दीयते कार्यम् वा तत् तैर्थम् ।\n4. अग्निपदे दीयते कार्यम् वा तत् आग्निपदम् ।\nज्ञातव्यम् - कौमुदीकारः अत्र एकम् वार्त्तिकम् पाठयति - । इत्युक्ते, 'अग्निपद', 'पीलुमुल' एतयोः विषये अपि अस्य सूत्रस्य प्रसक्तिः अस्ति - इति । कौमुदीकारस्य मतेन एतौ शब्दौ व्युष्टादिगणे न विद्येते, अतः एतयोः विषये विशिष्टम् वार्त्तिकम् कृतमस्ति । परन्तु काशिकाकारः तु एतौ शब्दौ व्युष्टादिगणे एव पाठयति, अतः तस्य मतेन अस्य वार्त्तिकस्य आवश्यकता एव न वर्तते ।\n" }, "51098": { "sa": "'दीयते' तथा 'कार्यम्' एतयोः अर्थयोः 'यथाकथाच' शब्दात् ण-प्रत्ययः तथा च 'हस्त' शब्दात् यत्-प्रत्ययः भवति । ", "sd": "'यथाकथाच' इति किञ्चन अव्ययम् , 'अनादरेण' इति तस्य अर्थः । अस्मात् शब्दात् तृतीयासमर्थात् 'दीयते' तथा कार्यम्' एतयोः अर्थयोः ण-प्रत्ययः भवति । तथा च, 'हस्त' शब्दात् एतयोः द्वयोः अर्थयोः 'यत्' प्रत्ययः क्रियते ।\nउदाहरणम् -\n1. यथाकथाच दीयते कार्यम् वा तत् याथाकथाचम् ।\n2. हस्तेन दीयते कार्यं वा हस्त्यम् ।\nज्ञातव्यम् -\n1. <<तत्र च दीयते कार्यं भववत्>> [[5.1.96]] इत्यस्मात् सूत्रात् अत्र 'दीयते' तथा 'कार्यम्' एतौ अर्थौ स्वीक्रियेते , परन्तु समर्थविभक्तिः न अनुवर्तति । अस्मिन् सूत्रे 'तेन' इति तृतीयासमर्थविधानम् कृतमस्ति, अतः अनेन सूत्रेण 'तेन दीयते' तथा 'तेन कार्यम्' अस्मिन् अर्थे एव प्रत्ययविधानम् कर्तव्यम् ।\n2. अनेन सूत्रेण द्वौ अर्थौ उच्येते - 'तेन दीयते', तथा च 'तेन कार्यम्' । प्रातिपदिकौ अप्यत्र द्वौ दत्तौ - 'यथाकथाच' तथा 'हस्त' । प्रत्ययौ अपि च द्वौ एव - ण तथा यत् । तर्हि अत्र 'यथासङ्ख्यत्वम्' भवति वा - इति प्रश्नः जायते । अस्य उत्तरम् काशिकाकारः ददाति - 'दीयते, कार्यम् इत्येतयोरर्थयोः प्रत्येकमभिसम्बधः, यथासङ्ख्यं न इष्यते' । इत्युक्ते, अर्थस्य विषये अत्र यथासङ्ख्यम् न इष्यते, केवलम् प्रातिपदिकस्य प्रत्ययस्य च विषये इष्यते । इत्युक्ते, 'यथाकथाच' इत्यस्मात् प्रातिपदिकात् द्वयोः अपि अर्थयोः ण-प्रत्ययः कर्तव्यः, तथैव च 'हस्त' इत्यस्मात् प्रातिपदिकात् अपि द्वयोः एव अर्थयोः 'यत्' प्रत्ययः कर्तव्यः ।\n" }, "51099": { "sa": "'सम्पादिनि' (शोभते) अस्मिन् अर्थे तृतीयासमर्थात् ठञ् प्रत्ययः भवति । ", "sd": "'सम्पादिनि' इति सम्पादिन्-शब्दस्य सप्तम्येकवचनम् । सम्पादिन् इत्युक्ते 'यः शोभते सः' (The one that looks beautiful - इत्यर्थः) । तृतीयासमर्थात् 'सम्पादी' अस्मिन् अर्थे वर्तमानसूत्रेण ठञ् प्रत्ययः भवति । यथा -\n1. कर्णवेष्टकाभ्याम् सम्पादि मुखम् = कार्णवेष्टिकम् मुखम् । कर्णयोः आभूषणेन यस्य सौन्दर्यम् वर्धते, तादृशम् मुखम् 'कार्णवेष्टिकम्' मुखम् नाम्ना ज्ञायते ।\n2. नूपुराभ्याम् सम्पादिनौ पादौ = नौपुरिकौ पादौ । यौ पादौ नूपुरयोः शोभेते तौ नौपुरिकौ पादौ ।\n3. वस्त्रयुगेण सम्पादि शरीरम् = वास्त्रयुगिकम् शरीरम् । यत् शरीरम् द्वयोः वस्त्रयोः सुशोभते, तत् वास्त्रयुगिकम् शरीरम् ।\nज्ञातव्यम् - 'सम्पाद' शब्दात् <<आवश्यकाधमर्णयोर्णिनिः>> [[3.3.170]] अनेन सूत्रेण 'णिनि' प्रत्ययं कृत्वा 'सम्पादिन्' इति इन्नन्तः शब्दः सिद्ध्यति ।" }, "51100": { "sa": "तृतीयासमर्थात् 'कर्म'शब्दात् 'वेष'शब्दात् च 'सम्पादिनि' अस्मिन् अर्थे यत्-प्रत्ययः भवति । ", "sd": "'सम्पादिनि' इति सम्पादिन्-शब्दस्य सप्तम्येकवचनम् । सम्पादिन् इत्युक्ते 'यः शोभते सः' (The one that looks beautiful - इत्यर्थः) । तृतीयासमर्थात् <<सम्पादिनि>> [[5.1.100]] इत्यनेन सर्वेभ्यः प्रातिपदिकेभ्यः ठञ्-प्रत्यये प्राप्ते तं बाधित्वा 'कर्म'शब्दात् तथा 'वेष'शब्दात् वर्तमानसूत्रेण यत्-प्रत्ययः भवति । यथा -\n1. कर्मेण सम्पादि कर्म्यम् शरीरम् । कर्म कृत्वैव यत् शोभते, न हि आलस्येन, तत् कर्म्यम् शरीरम् ।\n2. वेषेण सम्पादी वेष्यः नटः । उचितं वेषं धारयित्वा यः शोभते सः वेष्यः नटः (actor) ।\nज्ञातव्यम् - 'सम्पत्ति' शब्दात् <<आवश्यकाधमर्णयोर्णिनिः>> [[3.3.170]] अनेन सूत्रेण 'णिनि' प्रत्ययं कृत्वा 'सम्पादिन्' इति इन्नन्तः शब्दः सिद्ध्यति ।" }, "51101": { "sa": "'प्रभवति' अस्मिन् अर्थे चतुर्थीसमर्थात् सन्तापादिगणस्य शब्देभ्यः ठञ्-प्रत्ययः भवति । ", "sd": "'प्रभवति' इत्युक्ते 'अलम्' (sufficient) / समर्थः (capable) / शक्तः (competent) । अस्मिन् अर्थे सन्तापादिगणस्य शब्देभ्यः चतुर्थीसमर्थेभ्यः ठञ्-प्रत्ययः भवति ।\nसन्तापादिगणः अयम् - सन्ताप, सन्नाह, सङ्ग्राम, संयोग, संपराय, संपेष, निष्पेष, निसर्ग, असर्ग, विसर्ग, उपसर्ग, उपवास, प्रवास, सङ्घात, संमोदन, निर्घोष, सर्ग, सम्पात, संवाद, संवेशन, सक्तुमांसौदन ।\nउदाहरणानि -\n1. सन्तापाय प्रभवति सान्तापिकम् कार्यम् । यत् कार्यम् यत् सन्तापजनकमस्ति, सन्तापम् कारयितुम् समर्थम् वा; तस्य निर्देशः 'सान्तापिक' इत्यनेन भवति ।\n2. सन्नाहाय (कवचाय) प्रभवति सान्नाहिकम् लौहम् ।\n3. सङ्ग्रामाय प्रभवति साङ्ग्रामिकम् वर्तनम् ।\n4. प्रवासाय प्रभवति प्रावासिकम् शकटम् ।\nअस्मिन् गणे 'सक्तुमांसौदन' इति शब्दः विद्यते । अस्य विगृहीतादपि प्रयोगः इष्यते । यथा -\n1. सक्तवे प्रभवति साक्तुकः मिश्रकः (mixer) । अत्र ठञ्-प्रत्ययस्य <<इसुसुक्तान्तात् कः>> [[7]3]51]] इति 'क' आदेशः भवति ।\n2. मांसाय प्रभवति मांसिकम् धनम् ।\n3. ओदनाय प्रभवति औदनिकम् क्षेत्रम् ।\n4. सक्तुमांसौदनाय प्रभवति साक्तुमांसौदनिकः ।\nज्ञातव्यम् - अस्मिन् सूत्रे 'प्रभवति' इति शब्दः 'अलम्' अस्मिन् अर्थे प्रयुक्तः अस्ति, अतः समर्थपदम् चतुर्थ्यां विद्यते ।\n" }, "51102": { "sa": "'प्रभवति' अस्मिन् अर्थे चतुर्थीसमर्थात् 'योग'शब्दात् 'यत्' तथा 'ठञ्' प्रत्ययः भवति । ", "sd": "'प्रभवति' इत्युक्ते 'अलम्' (sufficient) / समर्थः (capable) / शक्तः (competent) । अस्मिन् अर्थे चतुर्थीसमर्थात् 'योग'शब्दात् 'यत्' तथा 'ठञ्' प्रत्ययौ भवतः । योगाय प्रभवतिः तत् योग्यम् यौगिकम् वा कार्यम् ।\nस्त्रीत्वे यत्-प्रत्ययान्तशब्दात् <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्-प्रत्ययः भवति, तथा च ठञ्-प्रत्ययान्तशब्दात् <<टिड्ढाणञ्..>> [[4.1.15]] इति ङीप्-प्रत्ययः भवति । योगाय प्रभवतिः सा योग्या यौगिकी वा क्रिया । " }, "51103": { "sa": "'प्रभवति' अस्मिन् अर्थे चतुर्थीसमर्थात् कर्मन्-शब्दात् उकञ्-प्रत्ययः भवति । ", "sd": "'प्रभवति' इत्युक्ते 'अलम्' (sufficient) / समर्थः (capable) / शक्तः (competent) । अस्मिन् अर्थे चतुर्थीसमर्थात् 'कर्म'शब्दात् 'उकञ्' प्रत्ययः भवति ।\nकर्मणे प्रभवति तत् = कर्मन् + उकञ् → कार्मुकम् धनुः । प्रक्रिया इयम् -\nकर्मन् + उकञ्\n→ कार्मन् + उक [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ कार्म् + उक [ <<नस्तद्धिते>> [[6.4.144]] इति टिलोपः]\n→ कार्मुक\n'युद्धकर्म' कर्तुम् यत् धनुः पर्याप्तम्, तत् 'कार्मुकम् धनुः' - इति आशयः ।\nज्ञातव्यम् - अनेन सूत्रेण निर्मितः 'कार्मुक' शब्दः केवलम् 'धनुः' इत्यस्मिन्नेव अर्थे प्रयुज्यते, अन्येषु अर्थेषु न । अस्मिन् विषये पाणिनिना किमपि नोक्तम्, परन्तु तादृशाः प्रयोगाः एव नैव विद्यन्ते ।\nरामरक्षायामयं शब्दः प्रयुक्तः दृश्यते - 'स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः' । येन ईशकार्मुकम् (शिवधनुः) अभज्यत, सः भग्नेशकार्मुकः रामः मम भुजौ (हस्तौ) रक्षतु - इति अर्थः ।\n" }, "51104": { "sa": "'अस्य प्राप्तम्' अस्मिन् अर्थे प्रथमासमर्थात् समय-शब्दात् ठञ् प्रत्ययः भवति । ", "sd": "प्रथमासमर्थात् समय-शब्दात् 'प्राप्तः' (निकटः आगतः) अस्मिन् अर्थे 'यस्य समयः प्राप्तः' तस्य निर्देशं कर्तुम् ठञ् प्रत्ययः भवति । यथा - समयः प्राप्तः अस्य कार्यस्य तत् सामयिकम् कार्यम् । 'सामयिकम् कार्यम्' इत्युक्ते तत् कार्यम् यस्य उचितः समयः इदानीमुपलब्धः - इति अर्थः ।\nविशेषः - अस्मिन् सूत्रे वस्तुतः 'तत् अस्य प्राप्तम्' इति अर्थः उच्यते । यद्यपि 'समयः' इति अस्य सूत्रस्य प्रथमः शब्दः अस्ति, तथापि 'समयः' इति 'तत्' अस्य विशेषणम् स्वीक्रियते, अतः अत्र समर्थविभक्तिः 'तत्' इति गृह्यते । अतएव 'समय' इति पदम् पदच्छेदे पञ्चम्या परिवर्त्य 'समयात्' इति गृह्यते, येन 'तत् अस्य प्राप्तम् इति समयात् ठञ्' इति सम्पूर्णं सूत्रम् प्राप्यते ।केषुचन व्याख्यानेषु तु 'समय' इत्येव प्रथमासमर्थं स्वीकृत्य 'तत्' इत्यस्य ग्रहणमुत्तरसूत्रार्थम् कृतमस्ति इत्युच्यते । " }, "51105": { "sa": "'अस्य प्राप्तम्' अस्मिन् अर्थे प्रथमासमर्थात् 'ऋतु'शब्दात् अण् प्रत्ययः भवति ।", "sd": "प्रथमासमर्थात् 'ऋतु'शब्दात् 'प्राप्तः' (निकटः आगतः) अस्मिन् अर्थे 'यस्य ऋतुः प्राप्तः' तस्य निर्देशं कर्तुमण् प्रत्ययः भवति । यथा, ऋतुः प्राप्तः अस्य पुष्पस्य तत् आर्तवम् पुष्पम् (The flower that is about to blossom - इत्यर्थः) । प्रक्रिया इयम् -\nऋतु + अण्\n→ आर्तु + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः । ऋकारस्य वृद्धिः आकारः, स च <<उरण् रपरः>> [[1.1.51]] इति रपरः]\n→> आर्तो + अ [<<ओर्गुणः>> [[6.4.146]] इति गुणः]\n→ आर्तव [<<एचोऽयवायावः>> [[6.1.78]] इति अवादेशः]\nज्ञातव्यम् - अस्मिन् सूत्रे 'ऋतु' इत्यनेन शब्दस्वरूपम् गृह्यते, न हि ऋतुवाचकः शब्दः (यथा वसन्त-ग्रीष्मादयः) ।\nअत्र एकम् वार्त्तिकम् ज्ञातव्यम् - । इत्युक्ते, 'तदस्य प्राप्तम्' अस्मिन् अर्थे 'उपवस्तृ', 'प्राशितृ' एताभ्यामपि अण्-प्रत्ययः भवति । उपवस्ता (यः उपवासं करोति सः) प्राप्तः अस्य उपवासस्य सः औपवस्त्रः उपवासः (A convoluted way of saying that the 'fast' has obtained its doer). । प्राशिता (यज्ञे देवाय दीयमानः अंशः) प्राप्तः अस्य सः प्राशित्रः यज्ञः ।" }, "51106": { "sa": "'अस्य प्राप्तम्' अस्मिन् अर्थे प्रथमासमर्थात् 'ऋतु'शब्दात् वेदेषु घस्-प्रत्ययः कृतः दृश्यते । ", "sd": "प्रथमासमर्थात् 'ऋतु'शब्दात् 'प्राप्तः' (निकटः आगतः) अस्मिन् अर्थे 'यस्य ऋतुः प्राप्तः' तस्य निर्देशं कर्तुम् वेदेषु घस्-प्रत्ययः कृतः दृश्यते ।\nऋतु + घस्\n→ ऋतु + इय [<<आयनेयीनीयीयः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति इय-आदेशः]\n→ ऋत्विय [<<सिति च>> [[1.4.16]] इति अङ्गस्य पदसंज्ञा । <<इको यणचि>> [[6.1.77]] इति यणादेशः]\nयथा - तैत्तिरीयब्राह्मणे 2.5.8.1 इत्यत्र 'अयं ते योनिरृत्वियः' इति प्रयोगः दृश्यते ।\n" }, "51107": { "sa": "'अस्य प्राप्तम्' अस्मिन् अर्थे प्रथमासमर्थात् 'काल'शब्दात् यत् प्रत्ययः भवति । ", "sd": "प्रथमासमर्थात् 'काल'शब्दात् 'प्राप्तः' (निकटः आगतः) अस्मिन् अर्थे 'यस्य कालः प्राप्तः' तस्य निर्देशं कर्तुम् यत् प्रत्ययः भवति । यथा - कालः प्राप्तः अस्य तत् काल्यम् शीतम्, काल्यः तापः, काल्या वर्षा । " }, "51108": { "sa": "'अस्य प्रकृष्टः ( = दीर्घः)' अस्मिन् अर्थे प्रथमासमर्थात् 'काल'शब्दात् ठञ् प्रत्ययः भवति ।", "sd": "'प्रकृष्टः' इत्युक्ते दीर्घः । 'अस्य कालः दीर्घः अस्ति' अस्मिन् अर्थे प्रथमासमर्थात् 'काल'शब्दात् ठञ् प्रत्ययः भवति ।\nयथा - प्रकृष्टः कालः अस्य ऋणस्य तत् कालिकम् ऋणम् । प्रकृष्टः कालः अस्याः शत्रुतायाः सा कालिकी शत्रुता । (स्त्रीत्वे <<टिड्ढाणञ्..>> [[4.1.15]] इत्यनेन ङीप्-प्रत्ययः भवति)।\nज्ञातव्यम् - वस्तुतः अस्मिन् सूत्रे 'ठञ्' प्रत्ययः अधिकारसामर्थ्येन उपस्थितः अस्ति एव । तस्य सूत्रे विशिष्टरूपेण निर्देशस्य कापि आवश्यकता नास्ति । केवलम् स्पष्टतायै अत्र 'ठञ्' इति पुनरुच्यते । " }, "51109": { "sa": "'अस्य प्रयोजनम्' अस्मिन् अर्थे प्रथमासमर्थात् प्रयोजनवाचिशब्दात् यथाविहितं प्रत्ययः भवति । ", "sd": "प्रयोजनम् इत्युक्ते उद्देशः / कारणम् / फलम् (goal / purpose) । प्रथमासमर्थात् उद्देशवाचीशब्दात् 'अस्य' इत्यस्मिन् अर्थे औत्सर्गिकः ठञ् प्रत्ययः भवति ।\nवस्तुतस्तु कमपि शब्दम् स्वीकृत्य 'तत् अस्य प्रयोजनम्' इति अर्थः वक्तुं शक्यते । तथापि, अस्य सूत्रस्य प्रयोगः शिष्टप्रयोगमनुसृत्य एव करणीयः । अस्मिन् विषये व्याख्यानेषु लभ्यमानानि उदाहरणानि एतानि सन्ति -\n1. इन्द्रमहः (= इन्द्रस्य उत्सवः) प्रयोजनमस्य तत् ऐन्द्रमहिकम् वाद्यम् ।\n2. गङ्गामहः (= गङ्गायाः उत्सवः) प्रयोजनमस्याः सा गाङ्गामहिकी पुष्पमाला । अत्र स्त्रीत्वे <<टिड्ढाणञ्..>> [[4.1.15]] इति ङीप्-प्रत्ययः क्रियते ।\n" }, "51110": { "sa": "'अस्य प्रयोजनम्' अस्मिन् अर्थे प्रथमासमर्थात् 'विशाखा' शब्दात् मन्थस्य निर्देशं कर्तुम्, तथा च 'आषाढा' शब्दात् दण्डस्य निर्देशं कर्तुमण् प्रत्ययः भवति । ", "sd": "प्रयोजनम् इत्युक्ते उद्देशः / कारणम् / फलम् (goal / purpose) । प्रथमासमर्थात् उद्देशवाचीशब्दात् 'अस्य' इत्यस्मिन् अर्थे <<प्रयोजनम्>> [[5.1.109]] इत्यनेन औत्सर्गिकरूपेण ठञ्-प्रत्यये प्राप्ते तं बाधित्वा वर्तमानसूत्रेण 'विशाखा' शब्दात् मन्थस्य निर्देशं कर्तुम्, तथा च 'आषाढा' शब्दात् दण्डस्य निर्देशं कर्तुमण्-प्रत्ययः भवति । क्रमेण पश्यामः -\n1) 'विशाखा' शब्दात् 'मन्थ' (मन्थनार्थे प्रयुक्तः दण्डः) अस्मिन् अर्थे अण् प्रत्ययः भवति । विशाखा प्रयोजनमस्य सः वैशाखः मन्थः । सः दण्डः यः मन्थनार्थम् विशाखानक्षत्रे प्रयुज्यते, सः वैशाखः मन्थः ।\n2) 'आषाढा' शब्दात् 'दण्ड' (मुनीनाम् हस्ते अस्ति सः दण्डः) अस्मिन् अर्थे अण् प्रत्ययः भवति । आषाढा प्रयोजनमस्य सः आषाढः दण्डः । आषाढानक्षत्रे प्रयुज्यमानः दण्डः 'आषाढः' इति संज्ञां प्राप्नोति ।\nस्मर्तव्यम् - 'वैशाखः मन्थः तथा आषाढः दण्डः - एतौ द्वौ विशिष्टौ संज्ञावाचकशब्दौ स्तः । कस्यचन विशिष्टस्य मन्थस्य नाम 'वैशाख' इति अस्ति; तथा च कस्यचन विशिष्टस्य दण्डस्य नाम 'आषाढः दण्डः' इति वर्तते । एतयोः शब्दयोः व्युत्पत्यर्थमस्य सूत्रस्य निर्माणम् कृतमस्ति ।\nअत्र वार्त्तिकमेकं ज्ञातव्यम् - - 'चूडा' तथा 'श्रद्धा' - एताभ्यां शब्दाभ्यां 'प्रयोजनम्' अस्मिन् अर्थे अण् प्रत्ययः भवति । चूडा प्रयोजनमस्य चौडम् । श्रद्धा प्रयोजनमस्य तत् श्राद्धम् ।\n" }, "51111": { "sa": "'अस्य प्रयोजनम्' अस्मिन् अर्थे अनुप्रवचनादिगणस्य प्रथमासमर्थेभ्यः शब्देभ्यः छ-प्रत्ययः भवति । ", "sd": "प्रयोजनम् इत्युक्ते उद्देशः / कारणम् / फलम् (goal / purpose) । प्रथमासमर्थात् उद्देशवाचीशब्दात् 'अस्य' इत्यस्मिन् अर्थे <<प्रयोजनम्>> [[5.1.109]] इत्यनेन औत्सर्गिकरूपेण ठञ्-प्रत्यये प्राप्ते तं बाधित्वा अनुप्रवचनादिगणस्य शब्देभ्यः छ-प्रत्ययः भवति ।\nअनुप्रवचनादिगणः अयम् -\nअनुप्रवचन, उत्थापन, प्रवेशन, अनुप्रवेशन, उपस्थापन, संवेषन, अनुवेशन, अनुवचन, अनुवादन, अनुवासन, आरम्भण, आरोहण, प्ररोहण, अन्वारोहण ।\nउदाहरणानि -\n1. अनुप्रवचनम् (= उपनयनसंस्कारस्य कश्चन अंशः) प्रयोजनमस्य सः अनुप्रवचनीयः यज्ञः ।\n2. उत्थापनम् प्रयोजनमस्य सः उत्थापनीयः विधिः ।\n3. अनुवादनम् प्रयोजनमस्य सः अनुवादनीयः प्रश्नः ।\n4. आरोहणम् प्रयोजनमस्य सा आरोहणीया पताका । <<अजाद्यतष्टाप्>> [[4.1.4]] इति अत्र टाप्-प्रत्ययः विधीयते ।\nअत्र कानिचन वार्त्तिकानि ज्ञेयानि -\n1. \nअस्य वार्त्तिकस्य अर्थः अयम् - यदि कस्यचन समस्तपदस्य उत्तरपदम् 'विश्' , 'पूर्', 'पत्', तथा 'रुह्' - एतेभ्यः केनचन धातुना 'यु' (= अन) प्रत्ययं कृत्वा निर्मितमस्ति, तर्हि तादृशात् शब्दात् 'तत् अस्य प्रयोजनम्' अस्मिन् अर्थे छ-प्रत्ययः भवति ।\nउदाहरणात् पूर्वम् वार्त्तिकस्य विषये किञ्चित् अधिकं जानीमः -\nअ) अस्मिन् वार्त्तिके 'विशि-पूरि-पति-रुहि' इत्यनेन 'विश्', 'पूर्', 'पत्', 'रुह्' एते चत्वारः धातवः निर्दिष्टाः सन्ति । वार्त्तिके उपस्थितम् 'प्रकृतेः' इदम् पदम् प्रत्येकेन धातुना सह सम्बध्यते । इत्युक्ते, यस्य कस्यापि शब्दस्य मूलप्रकृतिः एतेभ्यः कश्चित् धातुः अस्ति, तस्य शब्दस्य अनेन वार्त्तिकेन ग्रहणम् भवति ।\nआ) अस्मिन् वार्त्तिके 'अनात्' इत्यस्य अर्थः 'अन-यस्य अन्ते अस्ति तस्मात्' इति क्रियते । अत्र 'अन' इत्यनेन 'यु' प्रत्ययस्य <<युवोरनाकौ>> [[7.1.1]] इत्यनेन प्राप्तः अन-आदेशः निर्दिश्यते । अतः अस्य सूत्रस्य प्रसक्तिः 'यु' प्रत्ययान्तशब्दानां विषये अस्ति । इत्युक्ते, 'विश्', 'पूर्', 'पत्', 'रुह्' एतेषाम् 'यु' (= ल्युट्) प्रत्ययान्तरूपाणि अस्मिन् वार्त्तिके गृह्यन्ते ।\nइ) अत्र 'सपूर्वपदात्' इति शब्दः प्रयुक्तः अस्ति । 'पूर्वपदेन सह विद्यमानः' इति अस्य अर्थः । अतः 'विश्', 'पूर्', 'पत्', 'रुह्' एतेषाम् 'यु' (= ल्युट्) प्रत्ययान्तरूपाणि यदि पूर्वपदेन सह विद्यमानानि सन्ति, चेत् तेषाम् विषये अनेन वार्त्तिकेन 'तत् अस्य प्रयोजनम्' अस्मिन् अर्थे छ-प्रत्ययः उच्यते ।\nउदाहरणानि एतानि -\nअ) 'विश्' - गृहप्रवेशनम् प्रयोजनमस्य सः गृहप्रवेशनीयः यज्ञः ।\nअत्र 'गृह' इति पूर्वपदम्, 'प्रवेशन' इति उत्तरपदम् । अस्य उत्तरपदस्य मूलप्रकृतिः 'विश्' धातुः, तथा च अत्र विद्यमानः प्रत्ययः 'ल्युट्' ।\nएवमेव -\nआ) 'पूर्' - प्रपापूरणम् (= तृष्णाशमनम्) प्रयोजनमस्य सः प्रपापूरणीयः घटः । 'प्रपा' (= तृष्णा) इति पूर्वपदम्, पूरणम् (= पूर् + ल्युट्) इति उत्तरपदम् ।\nइ) 'पत्' - अश्वप्रपतनम् प्रयोजनमस्य सः अश्वप्रपतनीयः बाणः । 'अश्व' इति पूर्वपदम्, प्रपतन (= प्र + पत् + ल्युट्) इति उत्तरपदम् ।\nई) 'रुह्' - प्रासादारोहणम् प्रयोजनमस्य सः प्रासादारोहणीयः सोपानः । 'प्रासाद' इति पूर्वपदम्, 'आरोहण' (= आ + रुह् + ल्युट्) इति उत्तरपदम् ।\n2. - स्वर्ग, यशस्, आयुष्, काम, धन - एतेभ्यः 'तद् अस्य प्रयोजनम्' अस्मिन् अर्थे यत्-प्रत्ययः भवति । यथा -\nअ) स्वर्गः प्रयोजनमस्य सः स्वर्ग्यः यज्ञः ।\nआ) यशः प्रयोजनमस्य सः यशस्यः यज्ञः (यशस् + यत् → यशस्य) ।\nइ) आयुः प्रयोजनमस्य सः आयुष्यः वरः (आयुष् + यत् → आयुष्य) ।\nई) कामम् प्रयोजनमस्य सः काम्यः प्रसादः ।\nउ) धनम् प्रयोजनमस्य तत् धन्यम् कार्यम् ।\n3. - पुण्याहवाचन, स्वस्तिवाचन, शान्तिवाचन - एतेषां विषये 'तदस्य प्रयोजनम्' अस्मिन् अर्थे औत्सर्गिकप्रत्ययस्य लुक् भवति । यथा -\nअ) पुण्याहवाचनम् प्रयोजनमस्य सः पुण्याहवाचनः विधिः ।\nआ) स्वस्तिवाचनम् प्रयोजनमस्य सः स्वस्तिवाचनः विधिः ।\nइ) शान्तिवाचनम् प्रयोजनमस्य सः शान्तिवाचनः विधिः ।\n" }, "51112": { "sa": "'अस्य प्रयोजनम्' अस्मिन् अर्थे समस्तपदस्य उत्तरपदम् 'समापन' इति अस्ति चेत् तस्मात् शब्दात् छ-प्रत्ययः भवति । ", "sd": "प्रयोजनम् इत्युक्ते उद्देशः / कारणम् / फलम् (goal / purpose) । प्रथमासमर्थात् उद्देशवाचीशब्दात् 'अस्य' इत्यस्मिन् अर्थे <<प्रयोजनम्>> [[5.1.109]] इत्यनेन औत्सर्गिकरूपेण ठञ्-प्रत्ययः भवति । परन्तु यस्य शब्दस्य उत्तरपदम् 'समापन' (= समाप्तिः\n/ अन्तः / completion / conclusion) इति वर्तते तस्मात् शब्दात् एतम् औत्सर्गिकप्रत्ययं बाधित्वा छ-प्रत्ययः विधीयते । यथा -\n1. छन्दःसमापनम् प्रयोजनमस्य सः छन्दःसमापनीयः वर्गः ।\n2. व्याकरणसमापनम् प्रयोजनमस्य सः व्याकरणसमापनीयः पाठः ।\n" }, "51113": { "sa": "'चौरः' अस्मिन् अर्थे 'ऐकागारिक' अयं शब्दः निपात्यते । ", "sd": "अनेन सूत्रेण 'ऐकागारिक' अयम् कश्चन शब्दः पाठ्यते । 'चौरः' अस्मिन् अर्थे अस्य शब्दस्य प्रयोगः भवति ।\nकिम् नाम ऐकागारिक? 'एकागार' ( = एकाकि गृहम्) शब्दात् 'तत् अस्य प्रयोजनम्' अस्मिन् अर्थे 'इकट्' प्रत्ययं कृत्वा 'ऐकागारिक' शब्द' सिद्ध्यति -\nएकागारः अस्य प्रयोजनम्\n= एकागार + इकट्\n→ ऐकागारिक (आदिवृद्धिः निपात्यते)\nचौरः सामान्यरूपेण कञ्चित् असहाय्यम् (= एकाकिनम्) गृहम् संलक्ष्य तस्मिन्नेव चौरकर्म करोति । एतदेव विचिन्त्य चौरस्य निर्देशः 'एकागारः (= एकः आगारः) प्रयोजनम् (लक्ष्यम्) यस्य सः' इति क्रियते । एकागारः यस्य प्रयोजनम् सः ऐकागारिकः चौरः ।\nज्ञातव्यम् -\n1. 'एकागारः अस्य प्रयोजनम्' अस्मिन् अर्थे <<प्रयोजनम्>> [[5.1.109]] इत्यनेन औत्सर्गिकः ठञ्-प्रत्ययः न कर्तव्यः, केवलम् इकट्-प्रत्ययः एव कर्तव्यः इति अनेन सूत्रेण स्पष्टीक्रियते ।\n2. वस्तुतः इदम् सूत्रम् नियमसूत्रमस्ति । 'एकागार' शब्दात् इकट्-प्रत्ययं कृत्वा निर्मितः 'ऐकागारिक' शब्दः केवलं 'चौरः' अस्मिन्नेव अर्थे प्रयोक्तव्यः - इति अपि अनेन सूत्रेण ज्ञाप्यते । इत्युक्ते 'एकागारः प्रयोजनमस्य सः भिक्षुः / साधुः / पान्थस्थः' इत्यत्र 'ऐकागारिक' शब्दः न प्रयोक्तव्यः ।\n3. 'एकागार' शब्दात् <<प्रयोजनम्>> [[5.1.109]] अस्मिन् अर्थे औत्सर्गिकरूपेण ठञ्-प्रत्ययः क्रियते चेदपि 'ऐकागारिक' अयमेव शब्दः सिद्ध्यति । अयमेव पक्षं स्वीकृत्य भाष्यकारः वदति - 'एकागारात् चोरे इत्येव ब्रूयात्' । इत्युक्ते, 'एकागार' शब्दात् चोरस्य निर्देशार्थम् ठञ्-प्रत्ययः भवेत् - इति आशयः । वस्तुतः तु ठञ्-प्रत्ययान्तः ऐकागारिक-शब्दः आद्युदात्तः अस्ति, तथा च अस्मिन् सूत्रे पाठितः 'ऐकागारिक' अयम् शब्दः आद्यनुदात्तः अस्ति । तथापि भाष्यकारस्य मतेन ठञ्-प्रत्ययान्तः आद्युदात्तः ऐकारागिक-शब्दः एव अत्र साधुः अस्ति, न हि आद्यनुदात्तः 'ऐकागारिक'-शब्दः ।\n4. 'इकट्' प्रत्यये इत्संज्ञकः टकारः स्त्रीत्वे विवक्षिते <<टिड्ढाणञ्..>> [[4.1.15]] इत्यने ङीप्-प्रत्ययस्य निर्देशं करोति । यथा - एकागारः अस्य प्रयोजनम् सा ऐकागारिकी ।\n" }, "51114": { "sa": "'समानकालौ आद्यन्तौ अस्य' अस्मिन् अर्थे 'आकालिक' शब्दः निपात्यते । ", "sd": "अनेन सूत्रेण 'आकालिक' इति शब्दः पाठ्यते ।\nकिम् नाम आकालिकः? यदि कस्यचन पदार्थस्य आदिः तथा अन्तः समानकाले एव भवतः (इत्युक्ते सः पदार्थः लघुसमयम् यावत् एव जीवति, अधिकम् न), तर्हि तस्य पदार्थस्य निर्देशः 'आकालिक' इत्यनेन क्रियते । यथा -\n1. मनसि उत्पन्नः विचारः क्षणम् यावत् एव तिष्ठति; अधिकम् न । अतः एतादृशः विचारः 'आकालिकः' नाम्ना ज्ञायते ।\n2. आकाशेे निर्मितः मेघः यदि लघुसमयम् एव जीवति, तर्हि सः 'आकालिकः मेघः' इति उच्यते ।\n3. आकाशे जायमाना विद्युत् क्षणम् यावत् एव तिष्ठति; अधिकम् न । अतः इयम् विद्युत् 'आकालिकी' विद्यत् नाम्ना ज्ञायते ।\nअस्मिन् सूत्रे 'आद्यन्तवचने' इति शब्दः उक्तः अस्ति । 'आदिः' तथा 'अन्तः' द्वयोः एकत्ररूपेण निर्देशार्थम् 'आद्यन्तवचन' शब्दः अत्र प्रयुज्यते ।\n'आकालिक' शब्दस्य सिद्धौ व्याख्यानेषु प्रक्रियायाः प्रारम्भे 'समानकाल' इति प्रातिपदिकम् स्वीक्रियते । प्रक्रिया इयम् -\nसमानकालौ आद्यन्तौ अस्य ['समानकाल' इति प्रातिपदिकम् । अस्य ज्ञापनम् व्याख्यानेभ्यः एव भवति , सूत्रे न कृतमस्ति । तथैव, 'आद्यन्तवचने' इत्यस्य निर्देशार्थम् 'आद्यन्तौ' इति शब्दः विग्रहवाक्ये स्वीक्रियते । 'आद्यन्तवचने' इति अत्र प्रत्ययस्य अर्थः, तथा 'समानकाल' इति प्रातिपदिकम् ।]\n→ समानकाल + इकट् [वर्तमानसूत्रेण 'इकट्' प्रत्ययः निपात्यते]\n→ आकाल + इकट् ['समानकाल' इत्यस्य 'आकाल' इति आदेशः निपात्यते]\n→ आकाल् + इकट् [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ आकालिक ।\nप्रत्यये प्रयुक्तः इत्संज्ञकः टकारः स्त्रीत्वे विवक्षिते <<टिड्ढाणञ्..>> [[4.1.15]] इत्यनेन ङीप्-प्रत्ययं जनयति । यथा - समानकालौ आद्यन्तौ अस्याः सा आकालिकी विद्युत् ।\nअत्र एकम् वार्त्तिकम् ज्ञातव्यम् - । इत्युक्ते, 'समानकाल' इत्यस्य 'आकाल' इति परिवर्तनं कृत्वा ततः ठन्-प्रत्ययः अपि भवितुमर्हति । ठन्-प्रत्यये कृते अपि 'आकालिक' इत्येव रूपम् जायते, परन्तु इत्संज्ञकः नकारः तत्र <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] इति आद्युदात्तत्वं कारयति । तथा च, स्त्रीत्वे विवक्षिते <<अजाद्यतष्टाप्>> [[6.1.77]] इत्यनेन टाप्-प्रत्ययः विधीयते । यथा - समानकालौ आद्यन्तौ अस्याः सा आकालिका विद्युत् ।\nविशेषः - अस्य वार्त्तिकस्य विषये पदमञ्जरीकारः वदति - 'वार्त्तिककारो मन्यते - न समानकालशब्दस्याकालशब्द आदेशो निपात्यः, नापीकट् प्रत्ययः, किं तर्हि ? आकालात् ठन् चेति सूत्रम् कर्तव्यम्' । इत्युक्ते, पदमञ्जरीकारस्य मतेन अस्य वार्त्तिकस्य अर्थः किञ्चन भिन्नः अस्ति । कोऽयम् भिन्नः अर्थः ? पदमञ्जरीकारः चिन्तयति - अनेन वार्त्तिकेन 'आकाल' शब्दात् ठन्, तथा चकारात् ठञ्-प्रत्ययः पाठ्यते । अतः वस्तुतः अत्र इकट्-प्रत्ययस्य न कापि आवश्यकता, अपितु एतत् वार्त्तिकम् एव वर्तमानसूत्रस्य स्थाने सूत्ररूपेण स्थापितव्यम् । तेन 'निपातनस्य' अपि आवश्यकता न वर्तते - यतः 'आकाल'शब्दात् स्वार्थे ठन्-ठञ् प्रत्ययौ कृत्वा 'आकालिका' / 'आकालिकी' शब्दौ भवितुमर्हतः - इति । अस्मिन् विषये अधिकम् जिज्ञासवः पदमञ्जरीं पश्यन्तु ।\nज्ञातव्यम् - <<प्राग्वतेष्ठञ्>> [[5.1.18]] इत्यत्र आरब्धः प्राग्वतीयः ठञधिकारः (= तद्धिताधिकारे पाणिनिना पाठितः पञ्चमः महोत्सर्गः) अत्र समाप्यते । " }, "51115": { "sa": "'तुल्यम् क्रियाम् करोति' अस्मिन् अर्थे तृतीयासमर्थात् वति-प्रत्ययः भवति । ", "sd": "'तुल्यम्' इत्युक्ते 'समानम्' (similar / comparable) । कस्यचन पदार्थस्य क्रिया केनचित् अन्येन सह समाना / तुल्या अस्ति, तर्हि तस्य पदार्थस्य निर्देशं कर्तुम् 'येन सह तुल्यम्' तस्मात् प्रातिपदिकात् 'वति' प्रत्ययः भवति ।\nयथा - 'अयम् देवदत्तः क्षत्रियः, परन्तु यथा ब्राह्मणः अध्ययनं करोति तथैव अयमपि करोति' अस्मिन् अर्थे 'देवदत्तः ब्राह्मणवत् अधीते' इति प्रयोगः क्रियते । 'ब्राह्मणेन तुल्यमधीते सः ब्राह्मणवत्' - इति अत्र विग्रहवाक्यम् । अत्र अध्ययनक्रियायाः समानता / तुल्यभावः उक्तः अस्ति, अतः 'वति' प्रत्ययस्य प्रयोगः भवति ।\nप्रक्रिया इयम् -\nब्राह्मणेन तुल्यमधीते\n= ब्राह्मण + वति\n→ ब्राह्मण + वत् [इकारः उच्चारणार्थः, अतः तस्य लोपः भवति]\n→ ब्राह्मणवत्\nतथैव - द्रोणः क्षत्रियवत् युद्ध्यति । आञ्जनेयः पवनवत् डयते । लक्ष्मणः रामवत् आचरति ।\nविशेषः - सूत्रपाठे वति-प्रत्ययः चतुर्षु अर्थेषु पाठ्यते - <<तेन तुल्यं क्रिया चेद्वतिः>> [[5.1.115]], <<तत्र तस्येव>> [[5.1.116]], <<तदर्हम्>> [[5.1.117]], तथा च <<उपसर्गाच्छन्दसि धात्वर्थे>> [[5.1.118]] । एते चत्वारः अर्थाः सामान्यरूपेण 'वत्यर्थाः' नाम्ना ज्ञायन्ते । एतेभ्यः प्रथमः अर्थः वर्तमानसूत्रेण दीयते ।\nज्ञातव्यम् -\n1. द्वयोः पदार्थयोः तुलना भिन्नैः प्रकारैः भवितुमर्हति । यथा - गुणस्य आधारेण, क्रियायाः आधारेण, द्रव्यस्य आधारेण - आदयः । एतेभ्यः केवलं क्रियायाः आधारेण तुलना क्रियते चेदेव वर्तमानसूत्रेण 'वति' प्रत्ययः क्रियते । गुणस्य आधारेण / द्रव्यस्य आधारेण तुलना भवति चेत् अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा - 'अयम् देवदत्तः यज्ञदत्तेन तुल्यः स्थूलः' अस्मिन् वाक्ये देवदत्त-यज्ञदत्तयोः तुलना 'स्थुलता' इति गुणमनुसृत्य कृता अस्ति, न हि क्रियामनुसृत्य । अतः अत्र 'वति' प्रत्ययः न प्रयुज्यते । इत्युक्ते, 'देवदत्तः यज्ञदत्तवत् स्थूलः' इति अशुद्धम् वाक्यमस्ति । तथैव, 'अयम् देवदत्तः यज्ञदत्तेन तुल्यः धनिकः अस्ति' अस्मिन् वाक्ये देवदत्त-यज्ञदत्तयोः तुलना 'धनम्' इति द्रव्यमनुसृत्य कृता अस्ति, न हि क्रियामनुसृत्य। अतः अत्रापि वर्तमानसूत्रस्य प्रसक्तिः नास्ति ।\n2. <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] अनेन सूत्रेण वति-प्रत्ययान्तशब्दाः अव्ययसंज्ञकाः भवन्ति । इत्युक्ते, एतेभ्यः विहितः सुप्-प्रत्ययः <<अव्ययादाप्सुपः>> [[2.4.82]] इत्यनेन लुप्यति । यथा -\nअ) ब्राह्मणवत् आचरन्तम् देवदत्तम् रामः वदति ।\nआ) ब्राह्मणवत् आचरता देवदत्तेन कार्यं क्रियते ।\nइ) ब्राह्मणवत् आचरते देवदत्ताय धनम् ददामि ।\nआदयः ।\n3. वति-प्रत्यये परे अङ्गस्य <<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इत्यनेन पदसंज्ञा भवति, अतः पदविशिष्टं कार्यमपि भवितुमर्हति । यथा -\nअ) राज्ञा तुल्यं शास्ते सः\n= राजन् + वति\n→ राज + वत् [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः]\n→ राजवत्\nदेवदत्तः राजवत् शास्ते - इत्युक्ते यथा राजा शासनं करोति तथैव देवदत्तः अपि करोति ।\nआ) मरुता तुल्यं वहति सः\n= मरुत् + वत्\n→ मरुद् + वत् [<<झलां जशोऽन्ते>> [[8.2.39]] इति पदान्त-तकारस्य दकारः]\n→ मरुद्वत्\nहनुमान् मरुद्वत् वहति ।\nस्मर्तव्यम् - 'मरुत्वत्' इति कश्चन भिन्नः शब्दः अस्ति । मरुत्-शब्दात् <<तदस्यास्त्यस्मिन्निति मतुप्>> [[5.2.94]] इत्यनेन मतुप्-प्रत्ययं कृत्वा 'मरुत्वत्' शब्दः जायते । अयम् 'मरुत्वत्' शब्दः अव्ययसंज्ञकः नास्ति । अस्य अर्थः अपि भिन्नः - 'मरुत् अस्मिन् अस्ति तत् मरुत्वत्' । 'मरुत्वत्' तथा 'मरुद्वत्' द्वयोर्मध्ये सम्भ्रमः न कदापि कर्तव्यः ।\nविशेषः - एतादृशानाम् सूक्ष्मभेदानाम् सम्यक् अध्ययनार्थमेव व्याकरणमध्येतव्यम् इति पस्पशाह्निके भाष्यकारः वदति ।\n4. 'वति' प्रत्यये इकारः इत्संज्ञकः नास्ति, यतः तस्य इत्संज्ञायाः किमपि प्रयोजनम् न । अत्र इकारः केवलमुच्चारणार्थः स्थापितः अस्ति । किमर्थमयमावश्यकः ? यदि केवलम् 'वत्' इति प्रत्ययविधानम् क्रियते, तर्हि प्रत्ययान्ते विद्यमानस्य तकारस्य <<हलन्त्यम्>> [[1.3.3]] इत्यनेन इत्संज्ञा लोपश्च भवेत् - यः न इष्यते । अतः अस्य तकारस्य इत्संज्ञा मा भूत् - इति निर्देशयितुमत्र इकारः स्थाप्यते ।\n5. तद्धिताधिकारे <<तस्यापत्यम्>> [[4.1.92]] इत्यस्मात् आरभ्य <<धान्यानां भवने क्षेत्रे खञ्>> [[5.2.1]] इति यावत् ये अर्थाः पाठ्यन्ते तेषु सर्वेषु 'स्त्री'शब्दात् तथा 'पुम्स्' शब्दात् <<स्त्रीपुंसाभ्याम् नञ्स्नञौ भवनात्>> [[4.1.87]] अनेन सूत्रेण सर्वान् अपवादान् बाधित्वा 'नञ्' तथा 'स्नञ्' प्रत्ययौ एव भवतः । यथा - स्त्रीणामपत्यम् / समूहः / विकारः / .. = स्त्रैणम् । परन्तु 'वति'प्रत्ययस्य ये चत्वारः अर्थाः प्रोक्ताः सन्ति, तेषाम् विषये एताभ्याम् शब्दाभ्याम् नञ्/स्नञ्-प्रत्ययौ बाधित्वा 'वति' प्रत्ययः एव भवति । अस्मिन् विषये अष्टाध्याय्यां विशिष्टं सूत्रं न विद्यते, परन्तु आचार्यः स्वयम् <<स्त्री पुंवच्च>> [[1.2.66]] तथा <<स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु>> [[6.3.34]] एतयोः सूत्रयोः 'पुंवत्' शब्दस्य प्रयोगं करोति । एतदेव ज्ञापकम् स्वीकृत्य 'स्त्री' तथा 'पुम्स्' शब्दाभ्याम् चतुर्षु वत्यर्थेषु 'वति' प्रत्ययः उच्यते । यथा - स्त्रिया तुल्यम् चलति सः 'स्त्रीवत्' चलति, पुंसा तुल्यं भाषते सा पुंवत् भाषते - इति । 'पुंवत्' शब्दस्य प्रक्रिया इयम् -\nपुम्स् + वत्\n→ पुम् + वत् [अङ्गस्य <<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इति पदसंज्ञा । <<संयोगान्तस्य लोपः>> [[8.2.23]] इति सकारलोपः]\n→ पुं + वत् [<<मोऽनुस्वारः>> [[8.3.23]] इति मकारस्य अनुस्वारः]\n→ पुंवत् ।\n6. अग्रिमसूत्रे (<<तत्र तस्येव>> [[5.1.116]] इत्यत्र) वर्तमानसूत्रस्य विषये पदमञ्जरीकारः वदति - 'तुल्यार्थैरिति या तृतीया तयेवशब्दयोगे सर्वे विभक्त्यर्था व्याप्ताः' । इत्युक्ते, वर्तमानसूत्रेण निर्दिष्टम् क्रियातुल्यत्वम् यद्यपि तृतीयासमर्थात् उच्यते, तथापि 'इव' इति शब्दस्य प्रयोगं कृत्वा सर्वाः विभक्तयः अत्र तृतीयया उपलक्ष्यन्ते । यथा -\n[प्रथमा] - ब्राह्मण इव अधीते (studies like a brahmin) = ब्राह्मणेन तुल्यमधीते = ब्राह्मणवत् अधीते ।\n[द्वितीया] - ब्राह्मणम् इव पश्यति (Sees someone as if he is a brahmin) = ब्राह्मणेन तुल्यम् पश्यति = ब्राह्मणवत् पश्यति ।\n[तृतीया] - ब्राह्मणेन इव अधीतम् (Studied like a brahmin) = ब्राह्मणेन तुल्यमधीतम् = ब्राह्मणवत् अधीतम् ।\n[चतुर्थी] - ब्राह्मणाय इव ददाति (Donates just like one would donate to a brahmin) = ब्राह्मणेन तुल्यम् ददाति = ब्राह्मणवत् ददाति ।\n[पञ्चमी] - ब्राह्मणात् इव अधीते (Studies from someone as if he would study from a brahmin) = ब्राह्मणेन तुल्यमधीते = ब्राह्मणवत् अधीते ।\n[षष्ठी] - ब्राह्मणस्य इव स्वम् (The existence / everything associated with a person is just like a brahmin) = ब्राह्मणेन तुल्यम् वर्तते = ब्राह्मणवत् वर्तते ।\n[सप्तमी] - ब्राह्मणे इव वर्तते (Something exists in someone as if it would exist in a brahmin) = ब्राह्मणेन तुल्यम् वर्तते = ब्राह्मणवत् वर्तते ।\n" }, "51116": { "sa": "'इव' अस्मिन् अर्थे षष्ठीसमर्थात् तथा च सप्तमीसमर्थात् 'वति' प्रत्ययः भवति । ", "sd": "'इव' इति किञ्चन अव्ययम् । समानम् / तुल्यम् इति अस्य अर्थः । अस्मिन्नेव अर्थे सप्तमीसमर्थात् तथा षष्ठीसमर्थात् अनेन सूत्रेण 'वति' प्रत्ययः भवति । यथा -\n1. सप्तमीसमर्थस्य उदाहरणम् -\nएतत् वाक्यम् स्वीकुर्मः - 'मथुरायाम् यादृशः दुर्गः (fort) अस्ति, तादृशः एव द्वारकायामपि वर्तते' । अस्मिन् वाक्ये द्वारकायाम् विद्यमानस्य दुर्गस्य निर्देशः मथुरायाम् विद्यमानेन दुर्गेण सह तुलनाम् कृत्वा क्रियते । अस्यां स्थितौ 'मथुरायाम् इव दुर्गः द्वारकायामस्ति' इति उच्यते । एवं स्थिते अत्र वर्तमानसूत्रेण 'मथुरा'शब्दात् 'इव' अस्मिन् अर्थे 'वति' प्रत्ययः भवति - 'मथुरावत् द्वारकायाम् दुर्गः (वर्तते)' - इति ।\nएवमेव अन्यानि उदाहरणानि - पाटलिपुत्रवत् साकेते परिखा वर्तते । गृहे मन्दिरवत् पूजा चलति । रात्रौ दिनवत् प्रकाशः दृश्यते । सुखवत् दुःखे सन्तोषः कर्तव्यः ।\n2. षष्ठीसमर्थस्य उदाहरणम् -\nएतत् वाक्यम् स्वीकुर्मः - 'देवदत्तस्य यादृशी धेनुः विद्यते, तादृशी एव यज्ञदत्तस्य अपि वर्तते' । अस्मिन् वाक्ये यज्ञदत्तस्य धेनोः निर्देशः देवदत्तस्य समीपे विद्यमानया धेनुना सह तुलनाम् कृत्वा कृतः अस्ति । अस्यां स्थितौ 'देवदत्तस्य इव धेनुः यज्ञदत्तस्य अस्ति' इति उच्यते । एवं स्थिते अत्र वर्तमानसूत्रेण 'देवदत्त'शब्दात् 'इव' अस्मिन् अर्थे 'वति'प्रत्ययः भवति - 'देवदत्तवत् यज्ञदत्तस्य धेनुः (वर्तते)' - इति ।\nएवमेव अन्यानि उदाहरणानि - रामवत् लक्ष्मणस्य पूजा कर्तव्या । नदीवत् सरसः जलम् पेयम् । सूर्यवत् चन्द्रस्य अस्तः सम्भवति । यज्ञदत्तवत् देवदत्तस्य दन्ताः ।\nविशेषः - सूत्रपाठे वति-प्रत्ययः चतुर्षु अर्थेषु पाठ्यते - <<तेन तुल्यं क्रिया चेद्वतिः>> [[5.1.115]], <<तत्र तस्येव>> [[5.1.116]], <<तदर्हम्>> [[5.1.117]], तथा च <<उपसर्गाच्छन्दसि धात्वर्थे>> [[5.1.118]] । एते चत्वारः अर्थाः सामान्यरूपेण 'वत्यर्थाः' नाम्ना ज्ञायन्ते । एतेभ्यः द्वितीयः अर्थः वर्तमानसूत्रेण दीयते ।\nज्ञातव्यम् -\n1. यदि क्रियायाः तुलना क्रियते, तर्हि <<तेन तुल्यं क्रिया चेद्वतिः>> [[5.1.115]] इत्यनेनैव वति-प्रत्ययः भवति । वर्तमानसूत्रेण क्रियायाः तुल्यत्वे प्रत्ययविधानं न क्रियते, अपि तु द्रव्यस्य उत गुणस्य तुल्यविधाने प्रत्ययः उच्यते । तत्रापि केवलम् षष्ठीसमर्थात् सप्तमीसमर्थादेव अत्र प्रत्ययः भवति, अन्येषु विषयेषु न । यथा - 'रामः यादृशः सत्यवचनी अस्ति तादृशः लक्ष्मणः अपि अस्ति' अस्मिन् वाक्ये अस्य सूत्रस्य प्रसक्तिः नास्ति ।\n2. वति-प्रत्ययस्य विषये केचन बिन्दवः <<तेन तुल्यं क्रिया चेद्वतिः>> [[5.1.115]] इत्यत्र उक्ताः सन्ति । ते अत्र संक्षेपेण निर्दिश्यन्ते । विस्तारेण पिपठिषवः <<तेन तुल्यं क्रिया चेद्वतिः>> [[5.1.115]] इत्यत्र पश्येयुः ।\n[अ] <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] अनेन सूत्रेण वति-प्रत्ययान्तशब्दाः अव्ययसंज्ञकाः भवन्ति ।\n[आ] वति-प्रत्यये परे अङ्गस्य <<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इत्यनेन पदसंज्ञा भवति, अतः पदविशिष्टं कार्यमपि भवितुमर्हति ।\n[इ] 'वति' प्रत्यये तकारस्य इत्संज्ञा मा भूत् - इति निर्देशयितुम् इकारः स्थापितः अस्ति ।\n[ई] स्त्री-शब्दात् तथा पुम्स्-शब्दात् <<स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्>> [[4.1.87]] इति बाधित्वा वत्यर्थेषु 'वति' प्रत्ययः एव भवति ।\n" }, "51117": { "sa": "'अर्हति' अस्मिन् अर्थे क्रियायाः निर्देशे कर्त्तव्ये द्वितीयासमर्थात् वति-प्रत्ययः भवति ।", "sd": "अस्य सूत्रस्य अर्थज्ञानात् पूर्वम् केचन बिन्दवः ज्ञातव्याः -\n1. अस्मिन् सूत्रे 'अर्हम्' इति विद्यमानः शब्दः 'अर्ह' इत्यस्य प्रथमैकवचनम् । 'अर्ह' अयम् शब्दः अर्ह्-धातोः <<नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः>> [[3.1.134]] इत्यनेन अच्-प्रत्ययं कृत्वा सिद्ध्यति । अर्हति सः अर्हः । अस्मिन्नेव अर्थे द्वितीयासमर्थात् वति-प्रत्ययः विधीयते ।\n2. <<नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः>> [[3.1.134]] इत्यनेन अच्-प्रत्यये कृते कर्ता वस्तुतः <<कर्तृकर्मणोः कृति>> [[2.3.65]] इत्यने षष्ठीविभक्तौ भवेत् । यथा - 'आसनमर्हति सः आसनस्य अर्हः' इति । परन्तु अस्मिन् सूत्रे द्वितीया प्रयुज्यते । अतः अस्य सूत्रस्य सम्यक् अर्थम् कारयितुम् 'अर्हः' इत्यस्य स्थाने विग्रहवाक्ये 'अर्हति' इत्यस्यैव प्रयोगः क्रियते । यथा - 'आसनमर्हति' इति ।\n3. <<तेन तुल्यम् क्रिया चेद्वतिः>> [[5.1.115]] इत्यस्मात् 'क्रिया' इत्यस्य अनुवृत्तिः अस्मिन् सूत्रे भवति । अपि च, एतम् शब्दं सप्तम्या विपरिणम्यते । इत्युक्ते, 'अर्हति' अस्मिन् अर्थे क्रियायाः विषये एव अस्य सूत्रस्य प्रयोगः भवति, न हि 'गुणस्य / वस्तुनः / पदार्थस्य विषये ।\nएकमुदाहरणम् पश्यामश्चेत् स्पष्टतरं स्यात् । कश्चन देवदत्तः यः स्वयम् ब्राह्मणः अस्ति, सः ब्राह्मणम् यावत् एव (समीचीनम्) वर्तनम् करोति - इति चिन्तयामः ।अस्यां स्थितौ 'देवदत्तस्य वर्तनम् ब्राह्मणमर्हति' इति प्रयोगः भाषायां भवति । 'ब्राह्मणमर्हति' इत्यत्र 'वर्तन'क्रियायाः योग्यता उक्ता अस्ति । अतः अत्र वर्तमानसूत्रस्य प्रयोगं कृत्वा 'देवदत्तः ब्राह्मणवत् वर्तते' इति उच्यते ।\nअन्यानि अपि उदाहरणानि अग्रे वक्ष्यन्ते; परन्तु तस्मात् पूर्वमत्र कश्चन बिन्दुः ज्ञातव्यः । वस्तुतः उपरिनिर्दिष्टे उदाहरणे 'देवदत्तः ब्राह्मणेन तुल्यम् वर्तते' इति वाक्यं क्रियते चेत् <<तेन तुल्यं क्रिया चेद्वतिः>> [[5.1.115]] इत्यनेनापि 'वति'प्रत्ययविधानम् भवति । इत्युक्ते, सामान्यरूपेण 'ताम् क्रियामर्हति' इत्यस्य स्थाने 'तेन तुल्यम् क्रियां करोति' इति वाक्यपरिवर्तनं कृत्वा नित्यमेव <<तेन तुल्यं क्रिया चेद्वतिः>> [[5.1.115]] इत्यनेन वति-प्रत्ययं कर्तुम् शक्यते । एवमस्ति चेत् वर्तमानसूत्रम् निरर्थकमेव स्यात् - इति भासते । परन्तु भाष्यकारः तु अस्य सूत्रस्य समर्थनमेव करोति । अस्य स्पष्टीकरणम् भाष्यकारेण एतादृशम् दीयते - <<तेन तुल्यं क्रिया चेद्वतिः>> [[5.1.115]] इत्यत्र 'यदाऽन्येन कर्तव्यां क्रियामन्यः करोति तदा प्रत्यय उत्पाद्यते'; अपितु वर्तमानसूत्रे 'आत्म-अर्हायाम् क्रियायाम् प्रत्ययः उत्पाद्यते' । कः अस्य अर्थः ? भाष्यकारस्य मतेन <<तेन तुल्यं क्रिया चेद्वतिः>> [[5.1.115]] इत्यस्य प्रसक्तिः तदा वर्तते यदा 'अन्येन कर्तव्या क्रिया अन्यः करोति' । यथा, 'देवदत्तः स्वयम् राजा नास्ति, परन्तु राजा यथा शासनम् करोति तथैव सोऽपि शासनम् करोति' - अस्यामवस्थायाम् देवदत्तः 'अन्येन कर्तव्या क्रिया स्वयं करोति', अतः अत्र <<तेन तुल्यं क्रिया चेद्वतिः>> [[5.1.115]] इत्यनेन वति-प्रत्ययं कृत्वा 'देवदत्तः राजवत् शास्ते' इति प्रयोगः भवति । परन्तु वर्तमानसूत्रे 'आत्म-अर्हायाम् क्रियायाम्' प्रत्ययः उत्पाद्यते । इत्युक्ते, 'देवदत्तः, यः स्वयम् एकः राजा अस्ति, सः तादृशम् शासनम् करोति यादृशम् राज्ञा कर्तव्यम्' - इत्यत्र देवदत्तः 'स्वेन कर्तव्या क्रिया एव करोति' । अस्यां स्थितौ अत्र काऽपि तुलना एव न वर्तते; अतः च अत्र <<तेन तुल्यं क्रिया चेद्वतिः>> [[5.1.115]] इत्यस्य प्रसक्तिः अपि नास्ति । अस्यामवस्थायाम् 'वति' प्रत्ययं कारयितुम् 'राजानमर्हति देवदत्तः' इति उक्त्वा वर्तमानसूत्रम् प्रयुज्यते, अतश्च 'देवदत्तः राजवत् अर्हति ' इति प्रयोगः सिद्ध्यति । अतः भाष्यकारस्य मतेन वर्तमानसूत्रमावश्यकमेव । अस्मिन् विषये अधिकः विस्तारः तु जिज्ञासुभिः प्रदीपोद्योते द्रष्टव्यः ।\nइदानीमन्यानि उदाहरणानि स्पष्टरूपेण दातुम् शक्यन्ते -\n1. देवदत्तेन प्रजायाः कृतम् पालनम् राजानमर्हति (इत्युक्ते, यथा राजा पालयति तथैव देवदत्तः अपि पालयति)। अतः देवदत्तः 'राजवत्' प्रजाम् पालयति ।\n2. रामेण कृता इयम् पूजा विधिमर्हति (इत्युक्ते, विधिमनुसृत्य एव पूजा कृता अस्ति) । अतः रामः 'विधिवत्' पूजयति ।\n3. वसिष्ठेन कृतम् तपः ऋषिमर्हति । अतः वसिष्ठः 'ऋषिवत्' तपते । वसिष्ठः स्वयम् एकः ऋषिः एव, अतः 'आत्म-अर्हायाम् क्रियायाम्' प्रत्ययः उत्पाद्यते ।\n4. कृष्णेन शत्रूणाम् कृतम् हननम् क्षत्रियमर्हति । अतः कृष्णः 'क्षत्रियवत्' हन्ति ।\nविशेषः - सूत्रपाठे वति-प्रत्ययः चतुर्षु अर्थेषु पाठ्यते - <<तेन तुल्यं क्रिया चेद्वतिः>> [[5.1.115]], <<तत्र तस्येव>> [[5.1.116]], <<तदर्हम्>> [[5.1.117]], तथा च <<उपसर्गाच्छन्दसि धात्वर्थे>> [[5.1.118]] । एते चत्वारः अर्थाः सामान्यरूपेण 'वत्यर्थाः' नाम्ना ज्ञायन्ते । एतेभ्यः तृतीयः अर्थः वर्तमानसूत्रेण दीयते ।\nज्ञातव्यम् - वति-प्रत्ययस्य विषये केचन बिन्दवः <<तेन तुल्यं क्रिया चेद्वतिः>> [[5.1.115]] इत्यत्र उक्ताः सन्ति । ते अत्र संक्षेपेण निर्दिश्यन्ते । विस्तारेण पिपठिषवः <<तेन तुल्यं क्रिया चेद्वतिः>> [[5.1.115]] इत्यत्र पश्येयुः ।\n[अ] <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] अनेन सूत्रेण वति-प्रत्ययान्तशब्दाः अव्ययसंज्ञकाः भवन्ति ।\n[आ] वति-प्रत्यये परे अङ्गस्य <<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इत्यनेन पदसंज्ञा भवति, अतः पदविशिष्टं कार्यमपि भवितुमर्हति ।\n[इ] 'वति' प्रत्यये तकारस्य इत्संज्ञा मा भूत् - इति निर्देशयितुम् इकारः स्थापितः अस्ति ।\n[ई] स्त्री-शब्दात् तथा पुम्स्-शब्दात् <<स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्>> [[4.1.87]] इति बाधित्वा वत्यर्थेषु 'वति' प्रत्ययः एव भवति ।\n" }, "51118": { "sa": "उपसर्गसंज्ञकः शब्दः धातोः एव अर्थे वति-प्रत्ययेन सह प्रयुक्तः वेदेषु उपलभ्यते । ", "sd": "'वति' प्रत्ययस्य वेदेषु लभ्यमानम् विशिष्टम् प्रयोगम् स्पष्टीकर्तुमस्य सूत्रस्य निर्माणम् कृतमस्ति । अस्य सूत्रस्य अर्थः अयम् - वेदेषु केषुचन स्थलेषु उपसर्गस्य प्रयोगः धातोः अर्थे एव, परन्तु धातुम् विना कृतः दृश्यते । यथा, 'उद् + गम्' इत्यस्य स्थाने केवलम् 'उद्' इति उपसर्गः प्रयुक्तः दृश्यते । अपि च, अस्मिन् स्थाने अयम् 'धात्वर्थे प्रयुक्तः उपसर्गः' प्रायः 'वति'प्रत्ययेन सह प्रयुक्तः दृश्यते । अत्र 'वति'प्रत्ययेन कोऽपि नूतनः अर्थः न निर्दिश्यते; अपि तु धात्वर्थे एव (इत्युक्ते, स्वार्थे एव) अस्य प्रत्ययस्य प्रयोगः भवति ।\nयथा - ऋग्वेदे 10.142.4 इत्यत्र - यदु॒द्वतो॑ नि॒वतो॒ यासि॒ बप्स॒त् पृथ॑ग् एषि प्रग॒र्धिनी॑व॒ सेना॑ ।\nअस्मिन् उदाहरणे -\nअ) 'उद्वतः' इति रूपमुद्वत्-शब्दस्य द्वितीयाबहुवचनस्य रूपमस्ति । 'उद् + गम्' इत्यस्मिन् अर्थे अत्र केवलम् 'उद्' उपसर्गः प्रयुक्तः अस्ति, तथा च स्वार्थे एव तस्मात् वति-प्रत्ययः अपि प्रयुक्तः अस्ति । 'उद्वतः' इत्यस्य अत्र अर्थः 'ये उद्गच्छन्ति तान् (to those which travel upwards)' इति अस्ति ।\nआ) 'निवतः' इति रूपम् निवत्-शब्दस्य द्वितीयाबहुवचनस्य रूपमस्ति । 'नि + गम्' इत्यस्मिन् अर्थे अत्र केवलम् 'नि' उपसर्गः प्रयुक्तः अस्ति, तथा च स्वार्थे एव तस्मात् वति-प्रत्ययः अपि प्रयुक्तः अस्ति । 'निवतः' इत्यस्य अत्र अर्थः 'ये निगच्छन्ति तान् (to those who travel downwards)' इति स्वीक्रियते ।\nस्मर्तव्यम् - वस्तुतः <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] अनेन सूत्रेण वति-प्रत्ययान्तशब्दाः अव्ययसंज्ञकाः भवन्ति । परन्तु अस्याम् ऋचायाम् 'उद्वतः / निवतः' इति बहुवचनस्य रूपम् प्रयुक्तम् दृश्यते । अस्य कारणम् 'सर्वे विधयः छन्दसि विकल्प्यन्ते' इत्येव अस्ति । इत्युक्ते, वेदेषु अष्टाध्याय्याः नियमान् उल्लङ्घ्य अपि रूपाणि केषुचन स्थलेषु लभ्यन्ते - इति । तस्यैव इदमपि एकमुदाहरणम् ।\nविशेषः - सूत्रपाठे वति-प्रत्ययः चतुर्षु अर्थेषु पाठ्यते - <<तेन तुल्यं क्रिया चेद्वतिः>> [[5.1.115]], <<तत्र तस्येव>> [[5.1.116]], <<तदर्हम्>> [[5.1.117]], तथा च <<उपसर्गाच्छन्दसि धात्वर्थे>> [[5.1.118]] । एते चत्वारः अर्थाः सामान्यरूपेण 'वत्यर्थाः' नाम्ना ज्ञायन्ते । एतेभ्यः चतुर्थः अर्थः वर्तमानसूत्रेण दीयते । अयमर्थः केवलम् वेदेषु एव प्रयुक्तः दृश्यते, न च लोके । " }, "51119": { "sa": "'भावः' अस्मिन् अर्थे षष्ठीसमर्थात् 'त्व' तथा 'तल्' प्रत्ययौ भवतः । ", "sd": "अस्य सूत्रस्य अर्थम् ज्ञातुम् प्रारम्भे 'भाव' शब्दस्य अर्थम् पश्यामः ।\nकिम् नाम भावः ? जगति विद्यमानस्य प्रत्येकमपि पदार्थस्य केचन विशिष्ट-गुणधर्माः वर्तन्ते, यैः सः पदार्थः भिन्नप्रकारस्य पदार्थानामपेक्षया पृथक् रूपेण अवगन्तुम् शक्यते ।यथा, 'घट' इति वस्तु स्वीकुर्मश्चेत् घटस्य केचन विशिष्ट गुणधर्माः सन्ति यैः घटः 'घटः एव अस्ति, न अन्यः' इति ज्ञायते । यथा - घटः मृत्तिकायाः निर्मितः अस्ति, घटः प्रायः गोलाकारः अस्ति, घटे जलम् स्थापयितुम् शक्यते, घटः चक्रस्य साहाय्येन निर्मीयते - आदयः भिन्नाः गुणधर्माः घटस्य अवगमनार्थम् प्रयुज्यन्ते । एते सर्वे गुणधर्माः घटस्य 'धर्मविशेषाः' सन्ति इत्युच्यते । एतेषामेव साहाय्येन कोऽपि मनुष्यः किञ्चन नूतनं वस्तु दृष्ट्वा 'अयम् घटः अस्ति' इति वक्तुम् शक्नोति । एते धर्मविशेषाः एव 'भावः' नाम्ना ज्ञायन्ते । The inherent characteristics of an object that distinguish it from other different objects, there by enabling someone to identify other objects similar to that object are collectively termed as 'भाव' ।\nएकमुदाहरणम् पश्यामश्चेत् इतोऽपि स्पष्टम् स्यात् । कश्चन देवदत्तः नूतनम् (इत्युक्ते पूर्वमदृष्टम्) पशुम् पश्यति । तदा सः झटिति जानाति - अयम् पशुः गौः अस्ति - इति । इदानीम् प्रश्नः आगच्छति - नूतनमदृष्टपूर्वम् पशुम् दृष्ट्वा अयम् 'गौः' अस्तीति ज्ञानम् कथम् भवति ? अस्य उत्तरम् एतत् - सर्वेषाम् गवाम् ये केऽपि समानाः गुणधर्माः सन्ति (यथा - चत्वारः पादाः, शृङ्गद्वयम्, पृष्ठे विद्यमाना ककुद् , कम्पमाना त्वक् - आदयः) ते सर्वे अस्मिन् पशौ अपि दृश्यन्ते, अतः अयम् पशुः गौः अस्तीति विज्ञायते । सरलभाषायाम् - यैः गुणैः 'अयम् पशुः गौः अस्ति, न हि अश्वः हस्ती गर्दभः वा' इति प्रतीयते, ते गुणाः 'गोः भावः' नाम्ना ज्ञायन्ते । The property of 'being a cow (and not something else)' is called the भाव of the cow.\nकाशिकाकारः 'भाव'शब्दस्य अर्थम् वदति - 'भवतः अस्माद् अभिधानप्रत्ययौ इति भावः' । इत्युक्ते - सः गुणः, येन वस्तु प्रतीयते, येन च पदार्थस्य जातिस्वरुपस्य नाम्नः ज्ञानम् भवति (यथा - अयम् घटः अस्ति, सर्पः न - इति), 'भावः' नाम्ना ज्ञायते । कौमुदीकारः इममेव विषयम् केनचित् भिन्नरूपेण स्पष्टीकरोति -'प्रकृतिजन्यबोधे प्रकारः भावः' । इत्युक्ते, पदार्थस्य बोधे (ज्ञाने) यस्य प्रकारस्य (गुणस्य) साहाय्यम् स्वीक्रियते, सः प्रकारः एव पदार्थस्य भावः अस्ति इत्युच्यते । The properties of an object that help in uniquely identifying that object from other objects is called भाव. ।\nअस्य भावस्य निर्देशार्थम् षष्ठीसमर्थात् प्रातिपदिकात् औत्सर्गिकरूपेण 'त्व' तथा 'तल्' एतौ प्रत्ययौ वर्तमानसूत्रेण उच्येते ।\n यथा - घटस्य भावः घटत्वमुत घटता । गोः भावः गोत्वमुत गोता । अश्वस्य भावः अश्वत्वमुत अश्वता । जडस्य भावः जडत्वमुत जडता ।\n'त्व' तथा 'तल्' प्रत्यययोः विषये एतत् स्मर्तव्यम् -\n1. 'त्व' प्रत्ययान्तशब्दाः नित्यम् नपुंसकलिङ्गे एव प्रयुज्यन्ते - गोत्वम्, अश्वत्वम्, जडत्वम् - आदयः ।\n2. 'तलन्तः' इति किञ्चन सूत्रम् लिङ्गानुशासने विद्यते, येन तल्-प्रत्ययान्तशब्दाः नित्यम् स्त्रीलिङ्गे एवप्रयुज्यन्ते । यथा - गोता, अश्वता, जडता - आदयः । अत्र 'तल्' प्रत्यये लकारः <<लिति>> [[6.1.193]] इत्यनेन स्वरविधानार्थमस्ति । प्रक्रियायामादौ तस्य लोपः भवति, अग्रे च <<अजाद्यतष्टाप्>> [[4.1.4]] इत्यनेन टाप्-प्रत्ययः क्रियते -\nघट + तल्\n→ घट + त [इत्संज्ञकस्य लोपः]\n→ घट + त + टाप् ['तलन्तः' इति स्त्रीत्वम्, <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्]\n→ घटता\nविशेषः - पदार्थेषु विद्यमानः भावः त्रिविधः भवति - जातिः, गुणः तथा क्रिया । यथा, 'गोत्वम्' इति जातिः (structure) अस्ति इत्युच्यते; 'नीलत्वम्' इति गुणः(quality) अस्ति इत्युच्यते ; तथा च 'पाचकत्वम्' इति क्रिया (action) अस्ति इत्युच्यते । अस्मिन् विषये अधिकं पिपठिषवः तर्कसङ्ग्रहमुत न्यायशास्त्रस्य अन्यान् ग्रन्थान् पश्यन्तु । " }, "51120": { "sa": "'तस्य भावस्त्वतलौ' (5.1.119) इत्यनेन विहितौ त्व-तल्-प्रत्ययौ 'ब्रह्मणस्त्वः' (5.1.136) इति सूत्रपर्यन्तमपवादानां विधाने अपि विकल्पेन विधीयन्ते । ", "sd": "<<तस्य भावस्त्वतलौ>> [[5.1.119]] इत्यनेन सूत्रेण 'भावः' अस्मिन् अर्थे 'त्व' तथा 'तल्' प्रत्ययौ उच्येते । एतयोः प्रत्यययोः व्याप्तेः विषये अस्मिन् सूत्रे द्वौ बिन्दू पाठ्येते -\n1) <<ब्रह्मणस्त्वः>> [[5.1.136]] इति सूत्रपर्यन्तम् एतयोः प्रत्यययोः व्याप्तिः अस्ति । इत्युक्ते, <<ब्रह्मणस्त्वः>> [[5.1.136]] इति सूत्रपर्यन्तम् ये केऽपि अर्थाः / प्रातिपदिकशब्दाः उक्ताः सन्ति, तेषाम् विषये 'त्व' तथा 'तल्'-प्रत्ययौ भवतः ।\n2) <<ब्रह्मणस्त्वः>> [[5.1.136]] इति सूत्रपर्यन्तम् यद्यपि विशिष्टेभ्यः प्रातिपदिकेभ्यः विशिष्ट-अपवादाः उच्यन्ते, तथाऽपि ते अपवादाः त्व-तल्-प्रत्ययौ विकल्पेन एव बाधेते । इत्युक्ते, येषाम् विषये अपवादाः विहिताः सन्ति, तेषाम् विषये अपि विकल्पेन त्व-तल्-प्रत्ययौ भवतः ।\nसंक्षेपेण, त्व-तल्-प्रत्ययौ, तथा च तयोः अपवादाः - एतयोर्मध्ये बाध्य-बाधकभावः न विद्यते - इति अस्य सूत्रस्य आशयः ।\nकानिचन उदाहरणानि पश्यामः -\nअ) <<गुणवचनब्राह्मणादिभ्यः कर्मणि च>> [[5.1.124]] इत्यनेन सूत्रेण 'जडस्य कर्म' अस्मिन् अर्थे जड-शब्दात् ष्यञ्-प्रत्ययः विधीयते, येन 'जाड्य' इति रूपम् सिद्ध्यति । एतत् सूत्रम् <<ब्रह्मणस्त्वः>> [[5.1.136]] इत्यस्मात् पूर्वमुक्तमस्ति, अतः 'जडस्य कर्म' अस्मिन् अर्थे वर्तमानसूत्रेण त्व-प्रत्ययः तल्-प्रत्ययः च अपि भवतः । जडस्य कर्म जडत्वम् जडता वा ।\nआ) <<पृथ्वादिभ्य इमनिज्वा>> [[5.1.122]] इत्यनेन सूत्रेण 'पृथु'शब्दात् इमनिच् तथा अण् प्रत्ययौ भवतः । यथा -\nपृथोः भावः प्रथिमा पार्थवम् वा । एतत् सूत्रम् <<ब्रह्मणस्त्वः>> [[5.1.136]] इत्यस्मात् पूर्वमुक्तमस्ति, अतः 'पृथोः भावः' अस्मिन् अर्थे वर्तमानसूत्रेण त्व-प्रत्ययः तल्-प्रत्ययः च अपि भवतः । पृथोः भावः पृथुत्वम् पृथुता वा ।\nइ) <<सख्युर्यः>> [[5.1.126]] अनेन सूत्रेण 'सख्युः भावः कर्म वा' अस्मिन् अर्थे सखि-शब्दात् य-प्रत्ययः भवति, येन 'सख्य' इति शब्दः सिद्ध्यति । एतत् सूत्रम् <<ब्रह्मणस्त्वः>> [[5.1.136]] इत्यस्मात् पूर्वमुक्तमस्ति, अतः 'सख्युः भावः कर्म वा' अस्मिन् अर्थे वर्तमानसूत्रेण त्व-प्रत्ययः तल्-प्रत्ययः च अपि भवतः । सख्युः भावः सखित्वम् सखिता वा ।\nई) एतत् वार्त्तिकम् <<सख्युर्यः>> [[5.1.126]] इत्यत्र पाठितमस्ति । अनेन वार्त्तिकेन 'दूतस्य भावः कर्म वा' अस्मिन् अर्थे 'दूत्य' अयम् शब्दः सिद्ध्यति । एतत् सूत्रम् <<ब्रह्मणस्त्वः>> [[5.1.136]] इत्यस्मात् पूर्वमुक्तमस्ति, अतः अत्रापि त्व-तल्-प्रत्ययौ भवतः, याभ्याम् 'दूतत्वम्' तथा 'दूतता' एतौ शब्दौ अपि सिद्ध्यतः ।\nविशेषः - 'स्त्री' तथा 'पुम्स्' शब्दयोः विषये वस्तुतः <<स्त्रीपुंसाभ्याम् नञ्स्नञौ भवनात्>> [[4.1.87]] इत्यनेन अस्मिन् अधिकारे नञ् तथा स्नञ् प्रत्ययौ उक्तौ स्तः । परन्तु वर्तमानसूत्रे 'च' इत्यस्य ग्रहणेन एतयोः शब्दयोः विषये 'त्व' तथा 'तल्' प्रत्ययौ अपि विकल्पेन विधीयेते । यथा - स्त्रीणाम् भावः स्त्रैणम् स्त्रीत्वम् स्त्रीता वा । पुंसाम् भावः पौंस्नम् पुंस्त्वम् पुंस्ता वा ।\n'पुंस्त्व' शब्दस्य प्रक्रिया इयम् -\nपुम्स् + त्व\n→ पुम् + त्व ['त्व' प्रत्यये परे <<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इति अङ्गस्य पदसंज्ञा ।<<संयोगान्तस्य लोपः>> [[8.2.7]] इति पदान्ते विद्यमानस्य संयोगस्य अन्तिमवर्णस्य लोपः]\n→ पुँरुँ + त्व / पुंरुँ + त्व [<<पुमः खय्यम्परे>> [[8.3.6]] इति मकारस्य रुँत्वम् । <<अत्रानुनासिकः पूर्वस्य तु वा>> [[8.3.2]] इति विकल्पेन अनुनासिकः ; पक्षे <<अनुनासिकात्परोऽनुस्वारः>> [[8.3.4]] इति अनुस्वारः]\n→ पुँः / पुंः + त्व [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n→ पुँस्त्व / पुंस्त्व [<<विसर्जनीयस्य सः>> [[8.3.34]] इति विसर्गस्य सकारः]\nज्ञातव्यम् -\n1. अस्मिन् सूत्रे प्रयुक्तः 'त्वात्' शब्दः <<ब्रह्मणस्त्वः>> [[5.1.136]] इत्यत्र निर्दिष्टस्य 'त्व' शब्दस्य निर्देशं करोति । 'आ त्वात्' इत्युक्ते 'त्व' शब्दपर्यन्तम् । अतः अनेन सूत्रेण त्व/तल्-प्रत्यययोः व्याप्तिः <<ब्रह्मणस्त्वः>> [[5.1.136]] इति पर्यन्तमस्ति एतत् स्पष्टीभवति ।\n2. अनेन सूत्रेण त्व-तल्-प्रत्यययोः व्याप्तिः निर्दिश्यते, अतः एतत् सूत्रम् 'अधिकारसूत्रम्' अस्तीति स्वीक्रियते ।\n" }, "51121": { "sa": "'भावः' इत्यस्मिन् अर्थे अग्रे विहिताः अपवादप्रत्ययाः चतुर-संगत-लवण-वट-युध-कत-रस-लस-शब्दान् वर्जयित्वा अन्येषां विषये नञ्-तत्पुरुष-समासात् पूर्वम् न विधीयन्ते । ", "sd": "<<तस्य भावस्त्वतलौ>> [[5.1.119]] इत्यनेन सूत्रेण 'भावः' अस्मिन् अर्थे 'त्व' तथा 'तल्' प्रत्ययौ उच्येते ।<<ब्रह्मणस्त्वः>> [[5.1.136]] इति सूत्रपर्यन्तम् एतयोः प्रत्यययोः भिन्नाः अपवादाः अपि पाठिताः सन्ति । एतेषाम् अपवादानाम् विषये द्वौ नियमौ वर्तमानसूत्रेण निर्दिष्टौ स्तः -\n1.यदि प्रातिपदिकम् नञ्-तत्पुरुष-समासेन निर्मितमस्ति, तर्हि 'भावः' अस्मिन् अर्थे त्व-तल्-प्रत्यययोः एव प्रयोगः करणीयः, अपवादरूपेण विहितानाम् प्रत्ययानाम् प्रयोगः न करणीयः ।\n2. परन्तु, 'चतुर', 'संगत', 'लवण', 'वट'. 'युध', 'कत', 'रस', 'लस' - एतेषाम् शब्दानां विषये नञ्-समासेन निर्मितम् प्रातिपदिकमस्ति चेद् यथोचितः अपवादप्रत्ययः प्रयोक्तव्यः ।\nउदाहरणानि कानिचन एतादृशानि -\n1. 'भावः' अस्मिन् अर्थे <<पत्यन्तपुरोहितादिभ्यो यक्>> [[5.1.128]] इति किञ्चन सूत्रम् पाठ्यते । अनेन सूत्रेण 'पति' शब्दः यस्य अन्ते विद्यते तादृशात् शब्दात् 'यक्' प्रत्ययः भवति । यथा - सेनापतेः भावः सैनापत्यम् । परन्तु नञ्-तत्पुरुष-समासेन निर्मितस्य 'अपति' शब्दस्य विषये वर्तमानसूत्रेण अयम् यक्-प्रत्ययः निषिध्यते, अतः 'अपतेः भावः' अस्मिन् अर्थे औत्सर्गिकौ त्व-तल्-प्रत्ययौ एव भवत, याभ्याम् 'अपतित्वम्' तथा 'अपतिता' एतौ शब्दौ भवतः ।\n2. <<इगन्ताच्च लघुपूर्वात्>> [[5.1.131]] इत्यनेन सूत्रेण 'शुचि' शब्दात् 'भावः' अस्मिन् अर्थे 'अण्' प्रत्ययः भवति - शुचेः भावः शौचम् । परन्तु नञ्-तत्पुरुष-समासेन निर्मितात् 'अशुचि' शब्दात् वर्तमानसूत्रेण अस्य प्रत्ययस्य निषेधः भवति, अतः ओत्सर्गिकौ त्व-तल्-प्रत्ययौ एव भवतः । न शुचिः अशुचिः, अशुचेः भावः अशुचित्वम्, अशुचिता ।\nस्मर्तव्यम् -\n[1] 'अशौचम्' अयमपि कश्चन शब्दः भाषायाम् प्रयुज्यते, परन्तु तस्य अर्थः भिन्नः अस्ति -\nअ) न विद्यते शौचम् यस्मिन् तत् अशौचम् - इति बहुव्रीहिसमासेन अत्र शब्दः सिद्ध्यति ।\nआ) 'न शौचम्' इति नञ्-तत्पुरुषसमासेन अयम् शब्दः सिद्ध्यति ।\n[2] नञ्-बहुव्रीहिसमासेन निर्मितः यः 'अशुचि' शब्दः, तस्य विषये अपि वर्तमानसूत्रस्य प्रसक्तिः नास्ति, अतः तस्मात् शब्दात् अपि 'भावः' अस्मिन् अर्थेे <<इगन्ताच्च लघुपूर्वात्>> [[5.1.131]] इत्यनेनैव 'अण्' प्रत्ययः एव क्रियते । न विद्यते शुचिः यस्य सः अशुचिः, अशुचेः भावः अशौचमाशौचम् वा (<<नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम्>> [[7.3.30]] इति उत्तरपदवृद्धिः, वैकल्पिका पूर्वपदवृद्धिश्च) ।\n3. <<योपधाद्गुरूपोत्तमाद्वुञ्>> [[5.1.132]] इत्यनेन 'रमणीयस्य भावः' अस्मिन् अर्थे 'रामणीयक' इति शब्दः सिद्ध्यति । परन्तु नञ्-तत्पुरुष-समासेन निर्मितः यः 'अरमणीय'शब्दः, तस्मात् 'अरमणीयस्य भावः' अस्मिन् अर्थे वर्तमानसूत्रेण वुञ्-प्रत्ययः निषिध्यते, अतः औत्सर्गिकौ त्व-तल्-प्रत्ययौ एव भवतः । अरमणीयस्य भावः अरमणीयत्वमरमणीयता वा ।\nअनेन सूत्रेण उक्तः निषेधः 'चतुर', 'संगत', 'लवण', 'वट'. 'युध', 'कत', 'रस', 'लस' - एतेषाम् शब्दानां विषये न विद्यते । एतेषाम् सर्वेषाम् विषये <<गुणवचनब्राह्मणादिभ्यः कर्मणि च>> [[5.1.124]] अनेन सूत्रेण विहितः ष्यञ्-प्रत्ययः नञ्-तत्पुरुष-समासस्य विषये अपि विधीयते । यथा -\n1. अचतुरस्य भावः आचतुर्यम् ।\n2. असंगतस्य भावः आसङ्गत्यम्\n3. अलवणस्य भावः आलवण्यम् ।\n4. अवटस्य भावः आवट्यम् ।\n5. अयुधस्य भावः आयुध्यम् ।\nविशेषः - काशिकायाः केषुचन संस्करणेषु 'युध' इत्यस्य स्थाने 'बुध' इति शब्दः दृश्यते । अबुधस्य भावः आबुध्यम् ।\n6. अकतस्य भावः आकत्यम् ।\n7. अरसस्य भावः आरस्यम् ।\n8. अलसस्य भावः आलस्यम् ।\nविशेषः - <<गुणवचनब्राह्मणादिभ्यः कर्मणि च>> [[5.1.124]] अस्मिन् सूत्रे पाठितः ब्राह्मणादिगणः आकृतिगणः अस्तीति स्वीक्रियते, अतः च एते सर्वे शब्दाः ब्राह्मणादिगणे समाविश्यन्ते । अतएव एतेभ्यः ष्यञ्-प्रत्ययः भवति ।\nस्मर्तव्यम् -\n1. अनेन सूत्रेण उक्तः निषेधः केवलं नञ्-तत्पुरुषसमासस्य विषये एव अस्ति ; नञ्-बहुब्रीहिसमासस्य विषये न । यथा, 'न विद्यन्ते अस्य पटवः सः अपटुः' अस्मिन् अर्थे नञ्-बहुब्रीहिसमासेन जायमानात् 'अपटु' शब्दात् तु <<इगन्ताच्च लघुपूर्वात्>> [[5.1.131]] इत्यनेन अण्-प्रत्ययः भवत्येव - अपटोः भावः आपटवम् ।\n2. भावकर्मार्थप्रकरणे <<गुणवचनब्राह्मणादिभ्यः कर्मणि च>> [[5.1.124]] इत्यस्मात् अग्रे उक्ताः प्रत्ययाः 'भावः' अस्मिन् अर्थे तु सन्ति एव, परन्तु 'कर्म' अस्मिन् अर्थे अपि प्रोक्ताः सन्ति ।अस्यां स्थितौ वर्तमानसूत्रेण उक्तः निषेधः द्वयोः अपि अर्थयोः विषये स्वीक्रियते इति ज्ञेयम् । यथा - न शुचिः अशुचिः, अशुचेः कर्म अशुचित्वम्, अशुचिता ।\n3. यद्यपि अनेन सूत्रेण नञ्-तत्पुरुष-समासस्य विषये अपवादप्रत्ययविधानम् निषिध्यते, तथापि प्रारम्भे अपवाद-प्रत्ययं कृत्वा ततः नञ्-तत्पुरुषसमासविधानम् भवितुमर्हत्येव । यथा - शुचेः भावः शौचम् (अण्-प्रत्ययः), न शौचम् इति अशौचम् ।\n4. अस्मिन् सूत्रे उक्तः निषेधः 'भावः' अस्मिन् अर्थे विहितानाम् प्रत्ययानां विषये अस्ति । एतेभ्यः शब्देभ्यः 'कर्म' अस्मिन् अर्थे अपि एतादृशम् एव प्रत्ययविधानम् भवति वा - अस्मिन् विषये व्याख्यानेषु स्पष्टरूपेण किमपि न उच्यते ।\n " }, "51122": { "sa": "'भावः' अस्मिन् अर्थे पृथ्वादिगणस्य शब्देभ्यः षष्ठीसमर्थेभ्यः विकल्पेन 'इमनिच्' प्रत्ययः विधीयते । ", "sd": "<<तस्य भावस्त्वतलौ>> [[5.1.119]] अनेन सूत्रेण 'भावः' अस्मिन् अर्थे सर्वेभ्यः प्रातिपदिकेभ्यः 'त्व' तथा 'तल्' प्रत्ययौ विधीयेते । वर्तमानसूत्रेण अस्मिन्नेव अर्थे पृथ्वादिगणस्य शब्देभ्यः इमनिच्-प्रत्ययः अपि क्रियते । 'इमनिच्' अस्मिन् प्रत्यये नकारोत्तरः इकारः उच्चारणार्थः अस्ति, चकारः तु इत्संज्ञकः अस्ति । अतः प्रक्रियायाम् 'इमन्' इत्यस्यैव प्रयोगः क्रियते ।\nपृथ्वादिगणः अयम् - पृथु, मृदु, महत्, पटु, तनु, लघु, बहु, साधु, वेणु, आशु, बहुल, गुरु, दण्ड, ऊरु, खण्ड, चण्ड, बाल, अकिंचन, होड, पाक, वत्स, मन्द, स्वादु, ह्रस्व, दीर्घ, प्रिय, वृष, ऋजु, क्षिप्र, क्षुप्र, क्षुद्र, अणु ।\n'इमनिच्' प्रत्यये परे विशिष्टानि अङ्गकार्याणि भवितुमर्हन्ति । तेषु यानि अङ्गकार्याणि पृथ्वादिगणस्य शब्दानां विषये दृश्यन्ते, तानि अधः प्रक्रियासु दत्तानि सन्ति -\n1. पृथोः भावः\n= पृथु + इमनिच्\n→ पृथु + इमन् [इत्संज्ञालोपः]\n→ प्रथु + इमन् [<<र ऋतो हलादेर्लघोः>> [[6.4.161]] इति ऋकारस्य 'र' इत्यादेशः]\n→ प्रथ् + इमन् [<<टेः>> [[6.4.155]] इति इमनिच्-प्रत्यये परे टिलोपः]\n→ प्रथिमन्\nइमनिच्-प्रत्ययान्तशब्दाः नित्यम् पुंलिङ्गे एव भवन्ति । अतः 'प्रथिमन्' अस्य नकारान्तशब्दस्य रूपाणि राजन्-शब्दवत् भवन्ति । यथा - प्रथिमा, प्रथिमानौ, प्रथिमानः, प्रथिमानम्, प्रथिमानौ, प्रथिम्नः - आदयः ।\n2. मृदोः भावः\n= मृदु + इमनिच्\n→ मृदु + इमन् [इत्संज्ञालोपः]\n→ म्रदु + इमन् [<<र ऋतो हलादेर्लघोः>> [[6.4.161]] इति ऋकारस्य 'र' इत्यादेशः]\n→ म्रद् + इमन् [<<टेः>> [[6.4.155]] इति इमनिच्-प्रत्यये परे टिलोपः]\n→ म्रदिमन्\nअस्य नकारान्तशब्दस्य रूपाणि अपि राजन्-शब्दवत् भवन्ति । यथा - म्रदिमा, म्रदिमानौ, म्रदिमानः, म्रदिमानम्, म्रदिमानौ, म्रदिम्नः - आदयः ।\n3. महतः भावः\n= महत् + इमनिच्\n→ महत् + इमन् [इत्संज्ञालोपः]\n→ मह् + इमन् [<<टेः>> [[6.4.155]] इति इमनिच्-प्रत्यये परे टिलोपः]\n→ महिमन्\nरूपाणि - महिमा, महिमानौ महिमानः महिमानम् महिमानौ महिम्नः ।\nस्मर्तव्यम् - 'महिमा' इति कश्चन अन्यः शब्दः अस्मिन्नेव अर्थे स्त्रीलिङ्गे अपि विद्यते । यथा - महिमा, महिमे, महिमाः ।\n4. पटोः भावः\n= पटु + इमनिच्\n→ पटु + इमन् [इत्संज्ञालोपः]\n→ पट् + इमन् [<<टेः>> [[6.4.155]] इति इमनिच्-प्रत्यये परे टिलोपः]\n→ पटिमन्\nस्मर्तव्यम् - अत्र प्रक्रियायाम् 'पटु + इमन्' इति स्थिते <<ओर्गुणः>> [[6.4.146]] इत्यस्यापि प्रसक्तिः अस्ति । परन्तु अनेन सूत्रेण कृतः गुणादेशः\n<<टेः>> [[6.4.155]] इत्यस्य कृते असिद्धः अस्ति ।\n5. बहोः भावः\n= बहु + इमनिच्\n= भू + मन् [<<बहोर्लोपो भू च बहोः>> [[6.4.158]] इति बहु-शब्दस्य 'भू'आदेशः, प्रत्ययादिस्थस्य इकारस्य लोपः ।]\n→ भूमन् ।\nप्रथमायाः रूपाणि - भूमा भूमानौ भूमानः ।\n6. बहुलस्य भावः\n= बहुल + इमनिच्\n→ बंह् + इमन् [<<प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिवृन्दाः>> [[6.4.157]] इति 'बहुल' इत्यस्य 'बंह् ' आदेशः]\n→ बंहिमन्\nप्रथमायाः रूपाणि - बंहिमा बंहिमानौ बंहिमानः ।\n7. गुरोः भावः\n= गुरु + इमनिच्\n→ गर् + इमन् [<<प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिवृन्दाः>> [[6.4.157]] इति 'गुरु' इत्यस्य 'गर्' आदेशः]\n→ गरिमन्\nप्रथमायाः रूपाणि - गरिमा गरिमाणौ गरिमाणः ।\n8. उरोः भावः\n= उरु + इमनिच्\n→ वर् + इमन् [<<प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिवृन्दाः>> [[6.4.157]] इति 'उरु' इत्यस्य 'वर्' आदेशः]\n→ वरिमन्\nप्रथमायाः रूपाणि - वरिमा वरिमाणौ वरिमाणः ।\n9. ह्रस्वस्य भावः\n= ह्रस्व + इमनिच्\n→ ह्रस् + इमन् [<<स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः>> [[6.4.156]] इति 'व' इत्यस्य लोपः]\n→ ह्रसिमन्\nप्रथमायाः रूपाणि - ह्रसिमा ह्रसिमानौ ह्रसिमानः ।\n10. दीर्घस्य भावः\n= दीर्घ + इमनिच्\n→ द्राघ् + इमन् [<<प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिवृन्दाः>> [[6.4.157]] इरि 'द्राघ्' आदेशः]\n→ द्राघिमन्\nप्रथमायाः रूपाणि - द्राघिमा द्राघिमाणौ द्राघिमाणः ।\n11. प्रियस्य भावः\n= प्रिय + इमनिच्\n→ प्र + इमनिच् [<<प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिवृन्दाः>> [[6.4.157]] इरि 'प्र' आदेशः]\n→ प्रेमन् [<<आद्गुणः>> [[6.1.87]] इति गुण-एकादेशः]\nप्रथमायाः रूपाणि - प्रेमा प्रेमाणौ प्रेमाणः ।\n12. वृषस्य भावः\n= वृष + इमनिच्\n→ वृष् + इमन् [<<टेः>> [[6.4.155]] इति टिलोपः]\n→ वृषिमन्\nप्रथमायाः रूपाणि - वृषिमा वृषिमाणौ वृषिमाणः ।\n विशेषः - 'वृष' शब्दस्य <<र ऋतो हलादेर्लघोः>> [[6.4.161]] इत्यत्र परिगणनम् न क्रियते, अतः तस्य विषये ऋकारस्य रेफादेशः न भवति ।\n13. ऋजोः भावः\n= ऋजु + इमनिच्\n→ ऋज् + इमन् [<<टेः>> [[6.4.155]] इति टिलोपः]\n→ ऋजिमन्\nप्रथमयाः रूपाणि - ऋजिमा ऋजिमानौ ऋजिमानः ।\nविशेषः - अत्र ऋकारात् पूर्वम् हल्-वर्णः नास्ति, अतः अत्र <<र ऋतो हलादेर्लघोः>> [[6.4.161]] इत्यस्य प्रसक्तिः एव न विद्यते, अतः च ऋकारस्य 'र' इत्यादेशः अप्यत्र न भवति ।\nस्मर्तव्यम् - वेदेषु 'ऋजु' शब्दस्य ऋकारस्य इमनिच्-प्रत्यये परे <<विभाषर्जोश्छन्दसि>> [[6.4.162]] इत्यनेन विकल्पेन रेफादेशः भवति । ऋजोः भावः रजिमा ।\n14. क्षिप्रस्य भावः\n→ क्षिप्र + इमनिच्\n→ क्षेप् + इमन् [<<स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः>> [[6.4.156]] इति 'र' इत्यस्य लोपः, इकारस्य गुणः एकारः]\n→ क्षेपिमन्\nप्रथमायाः रूपाणि - क्षेपिमा क्षेपिमाणौ क्षेपिमाणः ।\n15. क्षुद्रस्य भावः\n→ क्षुद्र + इमनिच्\n→ क्षोद् + इमन् [<<स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः>> [[6.4.156]] इति 'र' इत्यस्य लोपः, उकारस्य गुणः ओकारः]\n→ क्षोदिमन्\nप्रथमायाः रूपाणि - क्षोदिमा क्षोदिमानौ क्षोदिमानः ।\nअन्येषां शब्दानां विषये केवलम् <<टेः>> [[6.4.155]] इति टिलोपं कृत्वा रूपं सिद्ध्यति -\n16. तनोः भावः तनिमा\n17. लघोः भावः लघिमा\n18, साधोः भावः साधिमा\n19. वेणोः भावः वेणिमा\n20. आशोः भावः आशिमा\n21. स्वादोः भावः स्वादिमा\n22. बालस्य भावः बालिमा\n23. वत्सस्य भावः वत्सिमा\n24. मन्दस्य भावः मन्दिमा\n25. पाकस्य भावः पाकिमा\n26. होडस्य भावः होडिमा\n27. अकिञ्चनस्य भावः अकिञ्चिनिमा\n28. चण्डस्य भावः चण्डिमा\n29. खण्डस्य भावः खण्डिमा\n30. दण्डस्य भावः दण्डिमा\n31. अणोः भावः अणिमा\nज्ञातव्यम् -\n1. <<आ च त्वात्>> [[5.1.120]] इत्यनेन पृथ्वादिगणस्य शब्देभ्यः 'त्व' तथा 'तल्' प्रत्ययौ अपि भवतः । यथा - पृथोः भावः पृथुत्वम्, पृथुता ।\n2. अस्मिन् सूत्रे 'वा' इति शब्दः प्रयुज्यते । अनेन 'इमनिच्' प्रत्ययविधानमत्र केवलं विकल्पेन भवति । पक्षे त्व-तल्-प्रत्ययौ तु <<आ च त्वात्>> [[5.1.120]] इत्यनेनैव भवतः, अतः तयोः विधानार्थम् 'वा' इत्यस्य आवश्यकता न । अतः अस्मिन् सूत्रे 'वा'ग्रहणम् किमर्थम् क्रियते - इति प्रश्नः उपतिष्ठते ।अस्य उत्तरार्थम् काशिकाकारः वदति - 'वावचनमणादेः समावेशार्थम्' । इत्युक्ते, पृथ्वादिगणस्य शब्देभ्यः अन्यसूत्रैः विहिताः अपवादाः अपि यथायोग्यम भवितुमर्हन्ति, इति स्पष्टीकर्तुमत्र 'वा' इति स्वीक्रियते । एते अपवादाः एतादृशाः -\n[अ] पृथु, मृदु, पटु, तनु, लघु, बहु, साधु, वेणु, आशु, गुरु, ऊरु, ऋजु - एतेषाम् विषये <<इगन्ताच्च लघुपूर्वात्>> [[5.1.131]] इत्यनेन अण्-प्रत्ययः अपि विधीयते । यथा - पृथोः भावः पार्थवम् , मृदोः भावः मार्दवम् ; पटोः भावः पाटवम् ; तनोः भावः तानवम् - आदयः ।\n[आ] बहुल, दण्ड, खण्ड, चण्ड - एतेषाम् विषये <<गुणवचनब्राह्मणादिभ्यः कर्मणि च>> [[5.1.124]] इत्यनेन ष्यञ्-प्रत्ययः अपि विधीयते । बहुलस्य भावः बाहुल्यम्, दण्डस्य भावः दाण्ड्यम् - आदयः ।\n[इ] बाल, वत्स - एतयोः विषये <<प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ्>> [[5.1.129]] इत्यनेन अञ्-प्रत्ययः अपि भवति । यथा - बालस्य भावः बालः, वत्सस्य भावः वात्सः ।\n" }, "51123": { "sa": "'भावः' अस्मिन् अर्थे षष्ठीसमर्थेभ्यः वर्णवाचिभ्यः शब्देभ्यः दृढादिगणस्य च शब्देभ्यः इमनिच् तथा ष्यञ् प्रत्ययौ भवतः । ", "sd": "<<तस्य भावस्त्वतलौ>> [[5.1.119]] अनेन सूत्रेण 'भावः' अस्मिन् अर्थे सर्वेभ्यः प्रातिपदिकेभ्यः 'त्व' तथा 'तल्' प्रत्ययौ विधीयेते । अस्मिन्नेव अर्थे वर्तमानसूत्रेण वर्णवाचिभ्यः शब्देभ्यः, दृढादिगणस्य च शब्देभ्यः ष्यञ् तथा इमनिच् प्रत्ययौ अपि भवतः । ष्यञ्-प्रत्यये षकारञकारयोः इत्संज्ञा भवति, अतः 'य' इति प्रक्रियायाम् प्रयुज्यते । इमनिच्-प्रत्यये नकारोत्तरः इकारः उच्चारणार्थः अस्ति, चकारः च इत्संज्ञकः अस्ति, अतः 'इमन्' इति प्रक्रियायाम् प्रयुज्यते ।\nउदाहरणानि क्रमेण पश्यामः -\n[अ] वर्णवाचिनः शब्दाः\nये शब्दाः वर्णस्य (color) निर्देशं कुर्वन्ति (यथा - शुक्ल, हरित, पीत, कृष्ण - आदयः ) ते शब्दाः 'वर्णवाचिनः' सन्ति इत्युच्यते । एतेभ्यः 'भावः' अस्मिन् अर्थे 'ष्यञ्' तथा 'इमनिच्' प्रत्ययौ भवतः । यथा -\n1. शुक्लस्य भावः\n= शुक्ल + ष्यञ्\n→ शुक्ल + य [इत्संज्ञालोपः]\n→ शौक्ल + य [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ शौक्ल् + य [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ शौक्ल्य\nपक्षे - शुक्लस्य भावः\n= शुक्ल + इमनिच्\n→ शुक्ल + इमन् [इत्संज्ञालोपः]\n→ शुक्ल् + इमन् [<<टेः>> [[6.4.155]] इति इमनिच्-प्रत्यये परे टिलोपः]\n→ शुक्लिमन् ।\nअस्य रूपाणि शुक्लिमा, शुक्लिमानौ, शुक्लिमानः - एतादृशम् भवन्ति ।\nएवमेव -\n1. कृष्णस्य भावः कार्ष्ण्यम् कृष्णिमा वा ।\n2. पीतस्य भावः पैत्यम् पीतिमा वा ।\n3. हरितस्य भावः हारित्यम् हरितिमा वा ।\n[आ] - दृढादिगणस्य शब्दाः - दृढादिगणस्य शब्देभ्यः अपि 'भावः' अस्मिन् अर्थे ष्यञ् तथा इमनिच् प्रत्ययौ भवतः ।\nदृढादिगणः अयम् -\nदृढ, परिवृढ, भृश, कृश, चक्र, आम्र, लवण, ताम्र, अम्ल, शीत, उष्ण, जड, बधिर, पण्डित, मधुर, मूर्ख, मूक, बाल, तरुण, मन्द, स्थिर, बहुल, दीर्घ, मूढ, आकृष्ट, वेर्यातलाभमतिमनःशारदानाम् (गणसूत्रम्), समो मतिमनसोः (गणसूत्रम्) ।\nउदाहरणानि -\n1. दृढस्य भावः\n= दृढ + ष्यञ्\n→ दृढ + य [इत्संज्ञालोपः]\n→ दार्ढ + य [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवद्धिः]\n→ दार्ढ् + य <<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ दार्ढ्य\nपक्षे - दृढस्य भावः\n→ दृढ + इमनिच्\n→ दृढ + इमन् [इत्संज्ञालोपः]\n→ द्रढ + इमन् [<<र ऋतो हलादेर्लघोः>> [[6.4.161]] इति ऋकारस्य 'र' इत्यादेशः]\n→ द्रढ् + इमन् [<<टेः>> [[6.4.155]] इति टिलोपः]\n→ द्रढिमन्\nअस्य रूपाणि 'द्रढिमा द्रढिमानौ द्रढिमानः' एतादृशं भवन्ति ।\nएवमेव 'परिवृढ', 'भृश', 'कृश' - एतेषां विषये अपि <<र ऋतो हलादेर्लघोः>> [[6.4.161]] इत्यनेन ऋकारस्य 'र' इत्यादेशः भवति -\n2. परिवृढस्य भावः पारिवृढ्यम् परिव्रढिमा वा ।\n3. भृशस्य भावः भार्श्यम् भ्रशिमा वा ।\n4. कृशस्य भावः कार्श्यम् क्रशिमा वा ।\nअन्येषाम् शब्दानां विषये <<टेः>> [[6.4.155]] इति टिलोपः भवति -\n5. चक्रस्य भावः चाक्र्यम् चक्रिमा वा ।\n6. लवणस्य भावः लावण्यम् लवणिमा वा ।\n7. अम्लस्य भावः आम्ल्यमम्लिमा वा ।\n8. शीतस्य भावः शैत्यम् शीतिमा वा ।\n9. उष्णस्य भावः औष्ण्यमुष्णिमा वा ।\n10. जडस्य भावः जाड्यम् जडिमा वा ।\n11. पण्डितस्य भावः पाण्डित्यम् पण्डितिमा वा ।\n12. मधुरस्य भावः माधुर्यम् मधुरिमा वा ।\n13. बालस्य भावः बाल्यम् बालिमा वा ।\n14. तरुणस्य भावः तारुण्यम् तरुणिमा वा ।\n15. स्थिरस्य भावः स्थैर्यम् स्थिरिमा वा ।\n16. आकृष्टस्य भावः आकृष्ट्यमाकृष्टिमा वा ।\n'दीर्घ'शब्दः पृथ्वादिगणे विद्यति, दृढादिगणे चापि स्वीक्रियते । तस्यात् इमनिच्-प्रत्यये प्राप्ते 'द्राघिमन्' इति प्रातिपदिकं सिद्ध्यति -\n17. दीर्घस्य भावः\n= दीर्घ + इमनिच्\n→ द्राघ् + इमन् [<<प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिवृन्दाः>> [[6.4.157]] इरि 'द्राघ्' आदेशः]\n→ द्राघिमन्\nप्रथमायाः रूपाणि - द्राघिमा द्राघिमाणौ द्राघिमाणः ।\nअस्मिन् गणे द्वे गणसूत्रे अपि पाठ्येते -\n1. वेः यात-लाभ-मति-मनः-शारदानाम् - 'वियात', 'विलाभ', 'विमति', 'विमन', 'विशारद' एते शब्दाः अपि अस्मिन् गणे स्वीक्रियन्ते । यथा -\nअ) वियातस्य भावः वैयात्यम् वियातिमा वा ।\nआ) विलाभस्य भावः वैलाभ्यम् विलाभिमा वा ।\nइ) विमतेः भावः वैमत्यम् विमतिमा वा ।\nई) विमनस्य भावः वैमनम् विमनिमा वा ।\nउ) विशारदस्य भावः वैशारद्यम् विशारदिमा वा ।\n2. समो मति-मनसोः - 'संमति' तथा 'संमनस्' एतौ शब्दौ अपि अस्मिन् गणे स्वीक्रियेते । यथा -\nअ) संमतेः भावः सांमत्यम् संमतिमा वा ।\nआ) संमनसः भावः सांमनस्यम् संमनिमा वा ।\nज्ञातव्यम् -\n1. अस्मिन् सूत्रे निर्दिष्टेभ्यः सर्वेभ्यः शब्देभ्यः <<आ च त्वात्>> [[5.1.120]] इत्यनेन त्व-तल्-प्रत्ययौ अपि भवतः । तथा -\nअ) शुक्लस्य भावः शुक्लत्वम् शुक्लता वा ।\nआ) कृष्णस्य भावः कृष्णत्वम् कृष्णता वा ।\nइ) दृढस्य भावः दृढत्वम् दृढता वा ।\nई) पण्डितस्य भावः पण्डितत्वम् पण्डितता वा ।\nउ) वियातस्य भावः वियातत्वम् वियातता वा ।\nऊ) संमतेः भावः संमतित्वम् संमतत्वा वा ।\nआदयः ।\n2. ष्यञ्-प्रत्यये प्रयुक्तः षकारः स्त्रीप्रत्ययनिर्देशार्थमस्ति । ष्यञ्-प्रत्ययान्तशब्दाः <<षिद्गौरादिभ्यश्च>> [[4.1.41]] इत्यनेन स्त्रीत्वे विवक्षिते 'ङीष्' प्रत्ययं स्वीकुर्वन्ति । यथा - शुल्कस्य भावः स्त्री शौक्ली, दृढस्य भावः स्त्री दार्ढी - आदयः । उभयत्र <<हलस्तद्धितस्य>> [[6.4.150]] इति यकारलोपं कृत्वा रूपं सिद्ध्यति ।\nविशेषः - काशिकाकारः वदति - ' षकारो ङीषर्थः - औचिती, याथाकामी' । अत्र काशिकाकारेण 'उचित' तथा 'यथाकाम' एताभ्याम् शब्दाभ्याम् 'भावः' अस्मिन् अर्थे ष्यञ्-प्रत्ययः कृतः अस्ति । वस्तुतः एतौ द्वौ शब्दौ वर्णवाचकौ न स्तः ; दृढादिगणे अपि च न समाविश्येते । अतः एतयोः उदाहरणमत्र न दातव्यम् । परन्तु काशिकाकारः कौमुदीकारः च द्वावपि एतौ शब्दौ अत्र पाठयतः । एतयोः सिद्धिः एतादृशी वर्तते -\n[अ] 'उचित' अयम् शब्दः <<गुणवचनब्राह्मणादिभ्यः कर्मणि च>> [[5.1.124]] इत्यत्र निर्दिष्टे ब्राह्मणादिगणे आकृतिगणत्वात् स्वीक्रियते, अतः तस्मात् <<गुणवचनब्राह्मणादिभ्यः कर्मणि च>> [[5.1.124]] इत्यनेन सूत्रेण ष्यञ्-प्रत्ययः भवति, तस्य च स्त्रीत्वे ङीष्-प्रत्ययः विधीयते -\nउचित + ष्यञ् + ङीष्\n→ उचित + य + ई [इत्संज्ञालोपः]\n→ औचित + य + ई [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ औचित् + य + ई [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ औचित् + य् + ई [<<यस्येति च>> [[6.4.148]] इति यकारात् परस्य अकारस्य लोपः]\n→ औचित् + ई [<<हलस्तद्धितस्य>> [[6.4.150]] इति यकारलोपः]\n→ औचिती\n[आ] 'यथाकाम' अयम् शब्दः अपि आकृतिगणत्वात् ब्राह्मणादिगणे स्वीक्रियते । अतः तस्मात् <<गुणवचनब्राह्मणादिभ्यः कर्मणि च>> [[5.1.124]] इत्यनेन सूत्रेण ष्यञ्-प्रत्ययः भवति, तस्य च स्त्रीत्वे ङीष्-प्रत्ययः विधीयते -\nयथाकाम + ष्यञ् + ङीष्\n→ यथाकाम + य + ई [इत्संज्ञालोपः]\n→ याथाकाम + य + ई [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ याथाकाम् + य + ई [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ याथाकाम् + य् + ई [<<यस्येति च>> [[6.4.148]] इति यकारात् परस्य अकारस्य लोपः]\n→ याथाकाम् + ई [<<हलस्तद्धितस्य>> [[6.4.150]] इति यकारलोपः]\n→ याथाकामी\n3. कौमुद्यामस्मिन् सूत्रे इति किञ्चन वार्त्तिकम् पाठ्यते । वस्तुतः एतत् वार्त्तिकम् काशिकाकारेण <<र ऋतो हलादेर्लघोः>> [[6.4.161]] इत्यत्र पाठितमस्ति । अस्य वार्त्तिकस्य आशयः अयम् - <<र ऋतो हलादेर्लघोः>> [[6.4.161]] इत्यत्र ऋकारस्य निर्दिष्टः 'र' इत्यादेशः केवलम् 'पृथु, मृदु, कृश, भृश, दृढ, परिदृढ' एतेषां षण्णाम् विषये एव भवति, अन्येषाम् शब्दानां विषये न ।\n4. पाण्डित्यम्, लावण्यम्, शैत्यम्, माधुर्यम्, बाल्यम्, तारुण्यम्, स्थैर्यम् - एतादृशाः नेके प्रचलिताः शब्दाः अनेन सूत्रेण सिद्ध्यन्ति ।\n5. अस्य सूत्रस्य विषये न्यासकारः वदति - वर्णदृढादीनां गुणवचनत्वादेव सिद्धे पुनर्वचनमिमनिजर्थम् । यद्येवम्, ष्यञ्ग्रहणनर्थकम् ; इमनिजेव विधेयः, स च विभाषयैव प्रकृतः ? तदुच्यते; अवश्यम् ष्यञ्ग्रहणमुत्तरार्थ कर्तव्यम् - इति । अस्य आशयः अयम् - वर्णवाचिनः शब्दाः दृढादिगणस्य च सर्वे शब्दाः 'गुणवाचिनः' सन्ति, अतः <<गुणवचनब्राह्मणादिभ्यः कर्मणि च>> [[5.1.124]] अनेन सूत्रेण तेभ्यः ष्यञ्-प्रत्ययः भवत्येव । अतः वर्तमानसूत्रस्य निर्माणम् केवलम् 'इमनिच्' प्रत्ययविधानार्थम् कृतमस्ति । वर्तमानसूत्रे निर्दिष्टः ष्यञ्-प्रत्ययः वस्तुतः उत्तरसूत्रार्थमस्ति' - इति ।\n" }, "51124": { "sa": "षष्ठीसमर्थेभ्यः गुणवाचिभ्यः शब्देभ्यः ब्राह्मणादिगणस्य च शब्देभ्यः 'भावः' तथा 'क्रिया' अस्मिन् अर्थे ष्यञ् प्रत्ययः भवति । ", "sd": "ये शब्दाः 'गुण'स्य निर्देशम् कुर्वन्ति, तेभ्यः शब्देभ्यः ; तथा च ब्राह्मणादिगणस्य शब्देभ्यः 'भावः' (= प्रकृतिनिमित्तम् / धर्मविशेषः ; विस्तारेण <<तस्य भावस्त्वतलौ>> [[5.1.119]] इत्यत्र द्रष्टव्यम् ) तथा 'कर्म' (= कार्यम् / क्रिया) एतयोः अर्थयोः ष्यञ्-प्रत्ययः भवति । अस्मिन् प्रत्यये षकारञकारयोः इत्संज्ञा लोपः च भवति, अतः प्रक्रियायाम् 'य' इति प्रयुज्यते ।\n[अ] गुणवाचिनः शब्दाः -\nये शब्दाः किञ्चन गुणम् (quality / विशेषम्) दर्शयन्ति, ते सर्वे शब्दाः 'गुणवाचिनः' सन्ति इत्युच्यते । संदर्भमनुसृत्य अनेके शब्दाः गुणवाचिनः भवितुमर्हन्ति । यथा - जड, अलस, तरुण, बाल, मधुर, मूढ - आदयः । एतेभ्यः सर्वेभ्यः 'तस्य भावः' तथा च 'तस्य कर्म' अस्मिन् अर्थे ष्यञ्-प्रत्ययः भवति । यथा -\n1) जडस्य भावः जाड्यम् । जडस्य कर्म (क्रिया) जाड्यम् ।\n2) अलसस्य भावः कर्म वा आलस्यम् ।\n3) तरुणस्य भावः कर्म वा तारुण्यम् ।\n4) बालस्य भावः कर्म वा बाल्यम् ।\nआदयः ।\n[आ] ब्राह्मणादिगणस्य शब्देभ्यः अपि 'भाव' / 'कर्म' अस्मिन् अर्थे ष्यञ्-प्रत्ययः भवति ।\nब्राह्मणादिगणः अयम् -\nब्राह्मण, वाडव, माणव, चोर, मूक, आराधय, विराधय, अपराधय, उपराधय, एकभाव, द्विभाव, त्रिभाव, अन्यभाव, समस्थ, विषमस्थ, परमस्थ, मध्यमस्थ, अनीश्वर, कुशल, कपि, चपल, अक्षेत्रज्ञ, निपुण, अर्हतो नुम् च (गणसूत्रम्), संवादिन्, संवेशिन्, बहुभाषिन्, बालिश, दुष्पुरुष, कापुरुष, दायाद्, विशसि, धूर्त, राजन्, संभाषिन्, शीर्षपातिन्, अधिपति, अलस, पिशाच, पिशुन, विशाल, गणपति, धनपति, नरपति, गडुल, निव, निधान, विष, सर्ववेदादिभ्यः स्वार्थे (गणसूत्रम्), चतुर्वेदस्य उभयपदवृद्धिश्च (गणसूत्रम्), स्वभाव, निघातिन्, विघातिन्, राजपुरुष, विशस्ति, विशाय, विशात, विजात, नयात, सुहित, दीन, विदग्ध, उचित, समग्र, शील, तत्पर, इदम्पर, यथा, तथा, पुरस्, पुनःपुनर्, अभीक्ष्ण, तरतम, प्रकाम, यथाकाम, निष्कुल, स्वराज, युवराज, सम्राज्, अविदुर, अपिशुन, अनृशंस, अयथायथ, अयथापुर, स्वधर्म, अनुकूल, परिमण्डल, विश्वरूप, ऋत्विज्, उदासीन, ईश्वर, प्रतिभू, साक्षि, मानुष, आस्तिक, नास्तिक, युगपत्, पूर्वापर, उत्तराधर ।\nउदाहरणानि -\n1. ब्राह्मणस्य भावः कर्म वा ब्राह्मण्यम् ।\n2. वाडवस्य भावः कर्म वा वाडव्यम् ।\n3. चोरस्य भावः कर्म वा चौर्यम् ।\n4. चपलस्य भावः कर्म वा चापल्यम् ।\nआदयः ।\nअस्मिन् गणे कानिचन गणसूत्राणि अपि पाठितानि सन्ति -\n[अ] अर्हतो नुम् च - इत्युक्ते 'अर्हत्' शब्दः अस्मिन् गणे समाविश्यते, तस्य च प्रक्रियायाम् नुमागमः भवति । मित्वात् <<मिदचोऽन्त्यात्परः>> [[1.1.47]] इत्यनेन अयम् नुमागमः अन्तिम-स्वरात् पूर्वम् विधीयते ।\nअर्हत् + ष्यञ्\n→ अर्ह + न् + त् + ष्यञ्\n→ आर्हन्त्य ।\nअर्हतः भावः कर्म वा आर्हन्त्यम् ।\n[आ] सर्ववेदादिभ्यः स्वार्थे - 'सर्ववेद' शब्दात् स्वार्थे ष्यञ्-प्रत्ययः भवति । 'सर्वान् वेदान् पठति' अस्मिन् अर्थे <<तदधीते तद्वेद>> [[4.2.59]] इत्यनेन अण्-प्रत्ययः, तस्य च अनेन वार्त्तिकेन लुक् कृत्वा 'सर्ववेद'शब्दः सिद्ध्यति । तस्मात् स्वार्थे अत्र ष्यञ्-प्रत्ययः क्रियते - सर्ववेदः एव सार्ववेद्यः ।\nविशेषः - यद्यपि अस्मिन् गणसूत्रे 'सर्ववेदादिभ्यः' इति उक्तमस्ति, तथापि व्याख्यानेषु अस्य उदाहरणार्थम् केवलं 'सर्ववेद' तथा 'चतुर्वेद' एतौ द्वौ शब्दौ पाठितौ स्तः । एताभ्याम् 'चतुर्वेद'शब्दस्य विषये अग्रिमम् गणसूत्रमपि उक्तमस्ति -\n[इ] चतुर्वेदस्य उभयपदवृद्धिश्च - 'चतुरः वेदान् अधीते' इत्यत्र तद्धितार्थ-द्विगु-समासस्य निर्माणे <<तदधीते तद्वेद>> [[4.2.59]] इत्यनेन अण्-प्रत्ययं कृत्वा <<द्विगोर्लुगनपत्ये>> [[4.1.88]] इत्यनेन तस्य लुक् भवति, येन 'चतुर्वेद' अयं शब्दः सिद्ध्यति । अयम् 'चतुर्वेद' शब्दः अस्मिन् गणे स्वीक्रियते, तस्मात् स्वार्थे ष्यञ्-प्रत्ययः, तथा च प्रक्रियायामङ्गस्य उभयपदवृद्धिः भवति । चतुर्वेदः एव चातुर्वैद्यः ।\nअस्य गणस्य विषये वार्त्तिककारः एकम् वार्त्तिकम् पाठयति - । इत्युक्ते, 'चतुर्वण' आदयः केचन शब्दाः 'स्वार्थे' ष्यञ्-प्रत्ययम् स्वीकुर्वन्ति । अस्य चातुर्वर्ण्य-गणस्य आवली एतादृशी अस्ति (अस्यामावल्याम् मूलप्रातिपदिकानि न दीयन्ते, अपितु ष्यञ्-प्रत्ययान्तशब्दाः एव पाठ्यन्ते) -\nचातुर्वर्ण्यम् (= चतुर्वर्ण + ष्यञ्), चातुराश्रम्यम् (= चतुराश्रम + ष्यञ्), त्रैलोक्यम् (= त्रिलोकी + ष्यञ्), त्रैस्वर्ग्यम् (त्रिस्वर्गी + ष्यञ्), षाड्गुण्यम् (षड्गुणी + ष्यञ्), सैन्यम् (= सेना +ष्यञ्) , सान्निध्यम् (सन्निधि + ष्यञ्), सामीप्यम् (= समीप + ष्यञ्), औपम्यम् (= उपमा + ष्यञ्), सौख्यम् (= सुख + ष्यञ्), तादर्थ्यम् (तदर्थ + ष्यञ्) ।\nस्मर्तव्यम् -\n1. <<आ च त्वात्>> [[5.1.119]] इत्यनेन सूत्रेण गुणवचनेभ्यः ब्राह्मणादिगणस्य च शब्देभ्यः 'भावः' तथा 'कर्म' एतयोः अर्थयोः 'त्व' तथा 'तल्' प्रत्ययौ अपि भवतः । यथा -\nअ) जडस्य भावः कर्म वा जडत्वम् / जडता ।\nआ) चोरस्य भावः कर्म वा चोरत्वम् / चोरता ।\nइ) ब्राह्मणस्य भावः कर्म वा ब्राह्मण्यम् / ब्राह्मणता ।\nई) चपलस्य भावः कर्म वा चपलत्वम् / चपलता ।\n2. ब्राह्मणादिगणे उपस्थिताः केचन शब्दाः भिन्नैः सूत्रैः विविधान् प्रत्ययान् प्राप्तुमर्हन्ति । एतेषाम् सर्वेषाम् विषये ष्यञ्-प्रत्ययस्य अपि निर्देशार्थम् ब्राह्मणादिगणे एतेषाम् समावेशः क्रियते । अस्मिन् विषये एते मुख्याः अपवादाः ज्ञेयाः -\n[अ] 'माणव', 'वाडव', 'आराधय', 'विराधय', 'अपराधय', 'उपराधय' शब्देभ्यः <<गोत्रचरणाच्श्लाघात्याकारतदवेतेषु>> [[5.1.134]] इत्यनेन विहितम् वुञ्-प्रत्ययं बाधित्वा ष्यञ्-प्रत्ययः विधीयते ।\n[आ] 'चोर' तथा 'धूर्त' शब्दाभ्याम् <<द्वन्द्वमनोज्ञादिभ्यश्च>> [[5.1.133]] इत्यनेन वुञ्-प्रत्यये प्राप्ते ; पक्षे ष्यञ्-प्रत्ययस्य विधानार्थमस्मिन् गणे अपि एतयोः निर्देशः क्रियते ।\n[इ] 'अनीश्वर', 'अक्षेत्रज्ञ' , 'अपिशुन' - एतेभ्यः शब्देभ्यः <<न नञ्पूर्वात्तत्पुरुषादचतुरसंगतलवणवटयुधकतरसलसेभ्यः>> [[5.1.121]] इत्यनेन उक्तं निषेधं बाधित्वा ष्यञ्-प्रत्ययविधानार्थम् तेषां समावेशः अस्मिन् गणे क्रियते ।\n[ई] 'कुशल', 'चपल', 'निपुण' , 'पिशुन', 'अनृशंस' - एतेभ्यः शब्देभ्यः <<हायनान्तयुवादिभ्योऽण्>> [[5.1.130]] इत्यनेन अण्-प्रत्यये प्राप्ते; पक्षे ष्यञ्-प्रत्ययस्य विधानार्थम् एतेषामत्र अपि ग्रहणं क्रियते ।\n[उ] 'राजन्' शब्दः <<पत्यन्तपुरोहितादिभ्यो यक्>> [[5.1.128]] इत्यनेन यक्-प्रत्ययं प्राप्नोति; पक्षे ष्यञ्-प्रत्ययविधानं कर्तुमत्र तस्य ग्रहणम् भवति ।'ष्यञ्' तथा 'यक्' - द्वयोः प्रत्यययोः रूपम् तु समानमेव भवति, परन्तु स्वरे तथा स्त्रीप्रत्ययस्य प्राप्तौ द्वयोः भेदः दृश्यते । यथा - राजन् + ष्यञ् + ङीष् → राजी । राजन् + यक् + टाप् → राज्या । उभयत्र <<नस्तद्धिते>> [[6.4.144]] इति टिलोपः भवति । तथा च, अत्र निर्दिष्टः 'राजन्' शब्दः तदन्तग्रहणमपि करोति, अतः 'अधिराजन्, महिराजन्, पृथ्वीराजन्' - एतादृशाः शब्दाः अपि अस्मिन् गणे समाविश्यन्ते । अस्मिन् विषये <<पत्यन्तपुरोहितादिभ्यो यक्>> [[5.1.128]] इत्यत्र विस्तारेण उक्तमस्ति ।\n[ऊ] 'गणपति', 'धनपति', 'नरपति' - एतेभ्यः <<पत्यन्तपुरोहितादिभ्यो यक्>> [[5.1.128]] इत्यनेन यक्-प्रत्ययं प्राप्नोति; तं बाधित्वा ष्यञ्-प्रत्ययस्य निर्देशार्थम् एतेषामत्र ग्रहणम् क्रियते ।\n[ऋ] 'एकभाव', 'द्विभाव', 'त्रिभाव', 'अन्यभाव' - एतेषाम् सर्वेषाम् ब्राह्मणादिगणे समावेशः 'स्वार्थे' प्रत्ययविधानम् कर्तुम् कृतः अस्ति । यथा - एकभावः एव ऐक्यभाव्यम् । द्विभावः एव द्वैभाव्यम् ।\nअस्मिन् विषये विस्तारेण जिज्ञासवः न्यासम् पदमञ्जरीं च पश्यन्तु ।\n3. ब्राह्मणादिगणः आकृतिगणः अस्ति, अतः केचन अन्ये शब्दाः अप्यत्र स्वीक्रियन्ते । यथा, ब्राह्मणादिगणस्य उपरिनिर्दिष्टायामावल्याम् 'स्वभाव' इत्यस्मात् आरभ्य अग्रे ये केऽपि शब्दाः दत्ताः सन्ति ते मूलतः ब्राह्मणादिगणे न विद्यन्ते, अपितु आकृतिगणत्वात् अत्र स्थापिताः सन्ति - इति केचन पण्डिताः मन्यन्ते । काशिकायाः अपि बहुषु संस्करणेषु स्वभावादयः शब्दाः पाठिताः न लभ्यन्ते । अन्येऽपि केचन शब्दाः शिष्टप्रयोगेण अत्र भवितुमर्हन्ति ।\n4. <<तसिलादिष्वाकृत्वसुचः>> [[6.3.35]] इत्यत्र पाठितेन इत्यनेन वार्त्तिकेन 'त्व' तथा 'तल्' प्रत्यययोः परयोः स्त्रीवाचिनः गुणवाचकस्य प्रातिपदिकस्य पुंवद्भावः भवति ।\nयथा - 'पट्व्याः भावः'\n= पट्वी + त्व / तल्\n→ पटु + त्व / तल् [पुंवद्भावः]\n→ पटुत्वम्, पटुता ।\n" }, "51125": { "sa": "'भावः' तथा 'कर्म' एतयोः अर्थयोः षष्ठीसमर्थात् 'स्तेन' शब्दात् 'यत्' प्रत्ययः भवति, तथा च प्रक्रियायाम् 'स्तेन' शब्दस्य 'न' इत्यस्य लोपः भवति । ", "sd": "'भावः' तथा 'कर्म' एतयोः अर्थयोः 'स्तेन'शब्दात् ( = चौरः / thief इत्यर्थः) औत्सर्गिकरूपेण 'त्व' तथा 'तल्' प्रत्यययोः प्राप्तयोः पक्षे यत्-प्रत्ययविधानम् कर्तुम् इदम् सूत्रम् पाठितमस्ति । वर्तमानसूत्रेण 'स्तेनस्य भावः कर्म वा' अस्मिन् अर्थे स्तेन-शब्दात् यत्-प्रत्ययः भवति, प्रक्रियायां च 'न' इत्यस्य लोपः अपि जायते -\nस्तेनस्य भावः कर्म वा\n= स्तेन + यत्\n→ स्ते + य [नकारस्य लोपः]\n→ स्तेय ।\n स्तेनस्य भावः कर्म वा स्तेयम् ।\nविशेषः - अस्य सूत्रस्य योगविभागम् कृत्वा 'स्तेनात्' इति भिन्नं सूत्रम् क्रियते, यस्मिन् च पूर्वसूत्रात् 'ष्यञ्' इति प्रत्ययमनुवर्त्यते । अनेन 'स्तेनस्य भावः कर्म वा' अस्मिन् अर्थे ष्यञ्-प्रत्ययः अपि भवति । स्तेनस्य भावः कर्म वा = स्तेन + ष्यञ् → स्तैन्यम् ।\nज्ञातव्यम् - <<आ च त्वात्>> [[5.1.120]] इत्यनेन 'स्तेन' शब्दात् 'त्व' प्रत्ययः 'तल्' प्रत्ययः अपि भवतः । स्तेनस्य भावः स्तेनत्वम् स्तेनता वा । " }, "51126": { "sa": "'भावः' तथा 'कर्म' एतयोः अर्थयोः षष्ठीसमर्थात् 'सखि'शब्दात् य-प्रत्ययः भवति । ", "sd": "'भावः' तथा 'कर्म' एतयोः अर्थयोः 'सखि'शब्दात् ( = मित्रम् / friend इत्यर्थः) औत्सर्गिकरूपेण 'त्व' तथा 'तल्' प्रत्यययोः प्राप्तयोः पक्षे य-प्रत्ययविधानम् कर्तुम् इदम् सूत्रम् पाठितमस्ति । वर्तमानसूत्रेण 'सख्युः भावः कर्म वा' अस्मिन् अर्थे सखि-शब्दात् 'य'-प्रत्ययः भवति । सख्युः भावः कर्म वा सख्यम् ।\nअत्र काशिकाकारः एकम् वार्त्तिकम् पाठयति - । इत्युक्ते, 'दूत' शब्दात् तथा 'वणिज्' शब्दात् अपि भावकर्मार्थयोः य-प्रत्ययः भवति । दूतस्य भावः कर्म वा दूत्यम्, वणिजः भावः कर्म वा वणिज्यम् ।\nविशेषः -\n1. 'वणिज्य' शब्दः काशिकायाम् यद्यपि नपुंसकलिङ्गे दत्तः अस्ति, तथापि कौमुदीकारस्य मतेन अयम् शब्दः स्वभावतः स्त्रीलिङ्गे एव प्रयुज्यते , तथा च केवलम् 'भाव' अस्मिन् अर्थे एव प्रयुज्यते, न हि कर्म अस्मिन् अर्थे । यथा - वणिजः भावः वणिज्या ।\n2. एतत् वार्त्तिकम् वस्तुतः भाष्ये न पाठ्यते । तथापि काशिकाकारः अस्य निर्देशम् करोति ।\nज्ञातव्यम् -\n1. सखि, दूत, वणिज् - एतेभ्यः शब्देभ्यः <<आ च त्वात्>> [[5.1.120]] इत्यनेन त्व/तल्-प्रत्ययौ अपि भवतः । यथा - सख्युः भावः सखित्वम् सखिता वा । दूतस्य भावः दूतत्वम् दूतता वा । वणिजः भावः वणिक्त्वम् वणिक्ता वा । प्रक्रिया इयम् -\nवणिज् + त्व\n→ वणिग् + त्व [<<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इति अङ्गस्य पदसंज्ञा । पदान्तजकारस्य <<चोः कुः>> [[8.2.30]] इति कुत्वम् ]\n→ वणिक् + त्व [<<खरि च>> [[8.4.5]] इति चर्त्वम्]\n→ वणिक्त्व ।\nएवमेव 'वणिक्ता' शब्दः अपि सिद्ध्यति ।\n2. 'वणिज्' शब्दः ब्राह्मणादिगणस्य आकृतिगणत्वात् तत्रापि स्वीक्रियते, अतः तस्मात् <<गुणवचनब्राह्मणादिभ्यः कर्मणि च>> [[5.1.124]] इत्यनेन ष्यञ्-प्रत्ययः अपि भवति - वणिजः भावः कर्म वा वाणिज्यम् ।\n" }, "51127": { "sa": "'भावः' तथा 'कर्म' एतयोः अर्थयोः षष्ठीसमर्थात् 'कपि'शब्दात् 'ज्ञाति'शब्दात् च ढक्-प्रत्ययः भवति । ", "sd": "'भावः' तथा 'कर्म' एतयोः अर्थयोः 'कपि' (= मर्कटः / monkey) तथा 'ज्ञाति' (स्वजातीय / सम्बन्धी / relative) एतौ शब्दौ औत्सर्गिकरूपेण 'त्व' तथा 'तल्' प्रत्ययौ स्वीकुरुतः ; पक्षे च वर्तमानसूत्रेण ढक्-प्रत्ययमपि प्राप्नुवतः । यथा -\nकपेः भावः कर्म वा\nकपि + ढक्\n→ कपि + एय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति 'ढ' इत्यस्य एय-आदेशः]\n→ कापि + एय [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ काप् + एय [<<यस्येति च>> [[6.4.148]] इति इकारलोपः]\n→ कापेय ।\nपक्षे 'कपित्व' तथा 'कपिता' - एतौ शब्दौ अपि भवतः । कपेः भावः कर्म वा कापेयम्, कपित्वम्, कपिता ।\nतथैव - ज्ञातेः भावः कर्म वा ज्ञातेयम्, ज्ञातित्वम्, ज्ञातिता ।\nस्मर्तव्यम् - यद्यपि अस्मिन् सूत्रे 'भाव' तथा 'कर्म' द्वयोः अर्थयोः विषये 'कपि' तथा 'ज्ञाति' द्वे प्रातिपदिके निर्दिष्टे स्तः, तथाप्यत्र 'यथासङ्ख्यत्वम्' न इष्यते । <<गुणवचनब्राह्मणादिभ्यः कर्मणि च>> [[5.1.124]] इत्यस्मात् आरभ्य <<ब्रह्मणस्त्वः>> [[5.1.136]] इति यावत्सु सर्वेषु सूत्रेषु उक्तानाम् सर्वेषाम् प्रातिपदिकानाम् विषये 'भाव' तथा 'कर्म' द्वयोः अपि अर्थयोः प्रसक्तिः विद्यते ।" }, "51128": { "sa": "'पति' यस्य अन्ते अस्ति तादृशेभ्यः शब्देभ्यः तथा पुरोहितादिगणस्य शब्देभ्यः षष्ठीसमर्थेभ्यः 'भावः' तथा 'कर्म' अनयोः अर्थयोः यक्-प्रत्ययः भवति । ", "sd": "ये शब्दाः 'पत्यन्ताः' सन्ति (इत्युक्ते येषामन्ते 'पति' शब्दः विद्यते) ते शब्दाः, तथा च 'पुरोहितादि'गणे स्थापिताः शब्दाः 'भावः' तथा 'कर्म' एतयोः अर्थयोः औत्सर्गिकरूपेण 'त्व' तथा 'तल्' प्रत्ययौ स्वीकुर्वन्ति ; पक्षे च वर्तमानसूत्रेण यक्-प्रत्ययमपि प्राप्नुवन्ति । क्रमेण पश्यामः -\n1. पत्यन्ताः शब्दाः -\n[अ] सेनापतेः भावः कर्म वा = सेनापति + यक् → सैनापत्यम् ।\n[आ] गृहपतेः भावः कर्म वा गार्हपत्यम् ।\n[इ] प्रजापतेः भावः कर्म वा प्राजापत्यम् ।\nपक्षे औत्सर्गिकौ त्व-तल्-प्रत्ययौ अपि भवतः - सेनापतित्वम् / सेनापतिता ; गृहपतित्वम् / गृहपतिता - आदयः ।\n2. पुरोहितादिगणः अयम् -\nपुरोहित, राजासे (गणसूत्रम्), संग्रामिक, एषिक, वर्मित, खण्डिक, दण्डिक, छत्रिक, मिलिक, पिण्डिक, बाल, मन्द, स्तनिक, चूडितिक, कृषिक, पूतिक, पत्रिक, प्रतिक, अजानिक, सलनिक, सूचिक, शाक्वर, सूचक, पक्षिक, सारथिक, जलिक, सूतिक, अञ्जलिक,\nयथा -\n[अ] पुरोहितस्य भावः कर्म वा = पुरोहित + यक् → पौरोहित्यम् ।\n[आ] छत्रिकस्य भावः कर्म वा छात्रिक्यम् ।\n[इ] बालस्य भावः कर्म वा बाल्यम् ।\nपक्षे औत्सर्गिकौ त्व-तल्-प्रत्ययौ अपि भवतः - पुरोहितत्वम् / पुरोहितता, बालत्वम् / बालता - आदयः ।\nअस्मिन् गणे एकम् गणसूत्रमपि पाठ्यते - 'राजा असे' । इत्युक्ते 'राजन्' शब्दः समासे विद्यमानः नास्ति चेदेव अस्मिन् गणे समाविश्यते । यथा - राज्ञः भावः कर्म वा = राजन् + यक् → राज्यम् । प्रक्रिया इयम् -\nराजन् + यक्\n→ राजन् + य [इत्संज्ञालोपः]\n→ राजन् + य [<<किति च>> [[7.2.117]] इति आदिवृद्धिः]\n→ राज् + य [<<नस्तद्धिते>> [[6.4.144]] इति टिलोपः]\n→ राज्य\nअत्र एकः विषयः चिन्तनीयः । वस्तुतः प्रत्ययविधौ सामान्यरूपेण तदन्तविधिः नास्ति । तर्हि अस्मिन् गणे केवलम् 'राजन्' इति उच्यते चेदपि सः एव अर्थः भवेत् - यतः 'राजन्' इत्यस्य निर्देशेन 'अधिराजन् / पृथ्वीराजन्' आदयः तदन्ताः नैव स्वीक्रियन्ते । तथाप्यत्र 'राजासे' इति गणसूत्रमुच्यते, येन 'राजन्' शब्दः 'असमासे' एव स्वीक्रियते । अस्य कः अर्थः ? इदम् गणसूत्रम् एतत् ज्ञापयति, यत् अस्मिन् भावकर्मार्थ-प्रकरणे अन्यत्र यदि राजन्-शब्दः निर्दिश्यते, तर्हि सः समासस्य अवयवः भवितुमर्हति । An explicit, uncalled negation over here actually indicates that तदन्तविधि should be acceptable for the word राजन् in all other places in this section. अन्यत्र इत्युक्ते कुत्र ? तर्हि <<गुणवचनब्राह्मणादिभ्यः कर्मणि च>> [[5.1.124]] इत्यत्र ब्राह्मणादिगणे निर्दिष्टः राजन्-शब्दः समासान्तः अपि भवितुमर्हति - इत्यस्यैव 'राजासे' इति ज्ञापकमस्ति । अतः 'राजन्' शब्दात् तु भावकर्मार्थयोः वर्तमानसूत्रेण 'यक्' प्रत्ययः भवति, परन्तु 'अधिराजन् / पृथ्वीराजन्' एतेभ्यः शब्देभ्यः भावकर्मार्थयोः <<गुणवचनब्राह्मणादिभ्यः कर्मणि च>> [[5.1.124]] इत्यनेन ष्यञ्-प्रत्ययः क्रियते । अधिराज्ञः भावः कर्म वा = अधिराजन् + ष्यञ् → आधिराज्यम् । (राजन्-शब्दस्य विषये अपि <<गुणवचनब्राह्मणादिभ्यः कर्मणि च>> [[5.1.124]] इत्यनेन ष्यञ्-प्रत्ययः भवितुमर्हत्येव) ।\nस्मर्तव्यम् -\n1. 'गणपति', 'धनपति', 'नरपति' - एते त्रयः शब्दाः यद्यपि पत्यन्ताः सन्ति, तथापि एतेभ्यः शब्देभ्यः वर्तमानसूत्रेण प्राप्तम् यक्-प्रत्ययं बाधित्वा <<गुणवचनब्राह्मणादिभ्यः कर्मणि च>> [[5.1.124]] इत्यनेनष्यञ्-प्रत्ययः विधीयते । द्वयोः प्रत्यययोः रूपम् समानमेव विद्यते, परन्तु स्त्रीत्वे विवक्षिते ष्यञ्-प्रत्ययान्तशब्दाः ङीष्-प्रत्ययं स्वीकुर्वन्ति । प्रक्रिया इयम् -\nधनपति + ष्यञ् + ङीष्\n→ धनपति + य + ई [इत्संज्ञालोपः]\n→ धानपति + य + ई [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ धानपत् + य + ई [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ धानपत् + य् + ई [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ धानपत् + ई [<<हलस्तद्धितस्य>> [[6.4.150]] इति यकारलोपः]\n→ धानपती\nधनपतेः कर्म धानपती पूजा ।\n2. नञ्-तत्पुरुष-समासनिर्मितः यः 'अपति' शब्दः, तस्य विषये वर्तमानसूत्रेण प्राप्तस्य यक्-प्रत्ययस्य <<न नञ्पूर्वात्तत्पुरुषादचतुरसंगतलवणवटयुधकतरसलसेभ्यः>> [[5.1.121]] इत्यनेन निषेधः भवति, अतः केवलम् औत्सर्गिकौ त्व-तल्-प्रत्ययौ एव भवतः । अपतेः भावः अपतित्वमपतिता वा । परन्तु 'न विद्यते पतिः यस्य सः' इत्यस्मिन् अर्थे बहुव्रीहिसमासेन निर्मितः 'अपति' शब्दः तु भावकर्मार्थयोः यक्-प्रत्ययम् स्वीकरोति एव । यथा - न विद्यते पतिः यस्य सः अपतिः, अपतेः भावः कर्म वा आपत्यम् ।\n" }, "51129": { "sa": "'भावः' तथा 'कर्म' एतयोः अर्थयोः षष्ठीसमर्थेभ्यः प्राणिवाचकेभ्यः शब्देभ्यः, वयोवाचिभ्यः शब्देभ्यः तथा उद्गात्रादिगणस्य शब्देभ्यः अञ्-प्रत्ययः भवति । ", "sd": "प्रारम्भे अस्मिन् सूत्रे प्रयुक्तानाम् शब्दानामर्थम् पश्यामः -\n1. प्राणभृज्जाति - 'प्राणभृत् + जाति' इत्यनेन अयम् शब्दः जायते । द्वयोः शब्दयोः प्रयोजनम् एतादृशम् -\n[अ] 'प्राणभृत्' = 'प्राण + भृ + शतृ' इति अयम् शब्दः सिद्ध्यति ।प्राणम् बिभर्ति (धारयति /पोषयति) सः प्राणभृत् । सर्वे जीविताः मनुष्याः, पशवः पक्षिणश्च अनेन शब्देन निर्दिश्यन्ते । वृक्षाणाम् / तृणानाम् / लतानाम् ग्रहणम् तु अनेन न क्रियते ।\n[आ] 'जाति' - वर्गः/सामान्यरूपम् (category) इति अस्य शब्दस्य अर्थः । 'अश्वः / गौः / गरुड. / सर्पः एतादृशाः पशूनाम् / पक्षिणाम् ये जातिवाचकाः शब्दाः, तेषामत्र ग्रहणम् भवति ; परन्तु 'देवदत्तः / कपिला / वैनतेयः' एतादृशानाम् विशिष्टव्यक्तिवाचकशब्दानाम् ग्रहणम् न भवति । The word जाति is used to indicate that the individual proper nouns are excluded, only the 'class' is included.\nअतः संक्षेपेण 'प्राणभृज्जाति' इत्यनेन पशूनाम् / पक्षिणाम् / मनुष्याणाम् गणस्य निर्देशः भवति, यथा - अश्व, गो, उष्ट्र, गरुड - आदयः ।\nस्मर्तव्यम् - 'पुरुष' इति शब्दः अपि प्राणभृज्जातिवाचकः अस्ति, परन्तु सः <<हायनान्तयुवादिभ्योऽण्>> [[5.1.130]] इत्यत्र निर्दिष्टे युवादिगणे समाविश्यते, अतः तस्मात् <<हायनान्तयुवादिभ्योऽण्>> [[5.1.130]] इत्यनेन अण्-प्रत्ययः भवति ।\n2. वयोवचनम् - यैः शब्दैः आयुषः अवस्थानाम् निर्देशः भवति, ते शब्दाः वयोवाचिनः शब्दाः नाम्ना ज्ञायन्ते । (words indicating age / stages of life). यथा - शिशु, बाल, तरुण, प्रौढ, वृद्ध - आदयः ।\nस्मर्तव्यम् - 'युवन्' तथा 'स्थविर' (old) एतौ शब्दौ वयोवाचिनौ स्तः । परन्तु एतौ शब्दौ <<हायनान्तयुवादिभ्योऽण्>> [[5.1.130]] इत्यत्र निर्दिष्टे युवादिगणे समाविश्येते, अतः एताभ्याम् वर्तमानसूत्रेण अञ्-प्रत्यये तं बाधित्वा <<हायनान्तयुवादिभ्योऽण्>> [[5.1.130]] इत्यनेन अण्-प्रत्ययः एव विधीयते ।\n3. 'उद्गात्रादिगण' - अयम् गणः एतादृशः अस्ति -\nउद्गातृ, उन्नेतृ, प्रतिहर्तृ, रथगणक, पक्षिगणक, सुष्ठु, दुष्ठु, अध्वर्यु, वधू, 'सुभग मन्त्रे' (गणसूत्रम्) ।\nएतेभ्यः सर्वेभ्यः शब्देभ्यः 'तस्य भावः' तथा 'तस्य कर्म' अस्मिन् अर्थे औत्सर्गिकरूपेण त्व-तल्-प्रत्यययोः प्राप्तयोः पक्षे वर्तमानसूत्रेण अञ्-प्रत्ययः अपि भवति । यथा -\n1. प्राणभृज्जातिवाचकाः शब्दाः - अश्वस्य भावः कर्म वा = अश्व + अञ् → आश्वम् । उष्ट्रस्य भावः कर्म वा औष्ट्रम् । नकुलस्य भावः कर्म वा नाकुलम् । हंसस्य भावः कर्म वा हांसम् ।गरुडस्य भावः कर्म वा गारुडम् । मनुषस्य भावः कर्म वा मानुषम् ।\n2. वयोवाचिनः शब्दाः - शिशोः भावः कर्म वा = शिशु + अञ् → शैशवम् । तरुणस्य भावः कर्म वा तारुणम् । किशोरस्य भावः कर्म वा कैशोरम् । कुमारस्य भावः कर्म वा कौमारम् । प्रौढस्य भावः कर्म वा प्रौढम् । वृद्धस्य भावः कर्म वा वार्द्धम् ।\n3. उद्गात्रादिगणस्य शब्दाः - उद्गातुः भावः कर्म वा = उद्गातृ + अञ् → औद्गात्रम् । उन्नेतुः भावः कर्म वा औन्नेत्रम् । सुष्ठोः भावः कर्म वा सौष्ठवम् । अध्वर्योः भावः कर्म वा आध्वर्यवम् ।\nअस्मिन् उद्गात्रादिगणे 'सुभग मन्त्रे' इति गणसूत्रम् विद्यते । अस्य अर्थः अयम् - 'सुभग' शब्दात् अनेन सूत्रेण 'अञ्' प्रत्ययं कृत्वा 'सौभग' अयम् शब्दः केवलं वेदेषु दृश्यते । यथा - 'उच्छ्र॑यस्व मह॒ते सौभ॑गाय' (ऋग्वेदः 3.8.2) । अत्र प्रक्रिया इयमस्ति -\nसुभग + अञ्\n→ सौभग + अ [<<हृद्भगसिन्ध्वन्ते पूर्वपदस्य च>> [[7.3.19]] इत्यनेन उभयपदयोः वृद्धौ प्राप्तायाम् 'सर्वे वेदाः छन्दसि विकल्प्यन्ते' इति न्यायेन अत्र केवलम् पूर्वपदवृद्धिः एव भवति]\n→ सौभग् + अ [<<यस्येति च>> [[6.4.148]] इति अन्तिमवर्णलोपः]\n→ सौभग\nअन्यत्र तु 'सुभग' शब्दः ब्राह्मणादिगणे स्वीकृत्य <<गुणवचनब्राह्मणादिभ्यः कर्मणि च>> [[5.1.124]] इत्यनेन तस्मात् ष्यञ्-प्रत्ययः क्रियते -\nसुभग + ष्यञ्\n→ सौभाग + य [<<हृद्भगसिन्ध्वन्ते पूर्वपदस्य च>> [[7.3.19]] इत्यनेन उभयपदवृद्धिः]\n→ सौभाग् + य [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ सौभाग्य\nसुभगस्य भावः कर्म वा सौभाग्यम् ।\nज्ञातव्यम् - अस्मिन् सूत्रे निर्दिष्टेभ्यः सर्वेभ्यः शब्देभ्यः औत्सर्गिकौ त्व-तल्-प्रत्ययौ अपि भवतः । यथा - अश्वस्य भावः कर्म वा अश्वत्वम् / अश्वता । शिशोः भावः कर्म वा शिशुत्वम् / शिशुता । उद्गातुः भावः कर्म वा उद्गातृत्वम् / उद्गातृता ।\n " }, "51130": { "sa": "'भावः' तथा 'कर्म' एतयोः अर्थयोः षष्ठीसमर्थेभ्यः हायनान्तशब्देभ्यः युवादिगणस्य च शब्देभ्यः अण् प्रत्ययः भवति । ", "sd": "ये शब्दाः 'हायनान्ताः' सन्ति, तथा च ये शब्दाः युवादिगणे विद्यन्ते, तेभ्यः षष्ठीसमर्थेभ्यः 'भावः' तथा 'कर्म' एतयोः अर्थयोः औत्सर्गिकरूपेण त्व-तल्-प्रत्यययोः प्राप्तयोः पक्षे वर्मानसूत्रेण अण्-प्रत्ययः अपि भवति । क्रमेण पश्यामः -\n1. हायनान्ताः शब्दाः -\nवर्षम् यावत् यस्य अवधिः अस्ति, नो चेत् प्रतिवर्षम् यः पुनः पुनः जायते, तस्य निर्देशः 'हायन' इत्यनेन क्रियते । Something that either lasts a year, or reappears every year is called हायन । 'हायनान्ताः' शब्दाः - यथा,द्विहायन (two year old) त्रियाहन (three year old) - आदयः वस्तुतः वयोवाचिनः सन्ति, अतः तेषाम् विषये <<प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ्>> [[5.1.129]] इत्यनेन अञ्-प्रत्यये प्राप्ते तं बाधित्वा अण्-प्रत्ययविधानम् कर्तुम् इदम् सूत्रमुच्यते । यथा - द्विहायनस्य भावः कर्म वा द्वैहायनम् । पञ्चहायनस्य भावः कर्म वा पाञ्चहायनम् - आदयः ।\n2. युवादिगणः अयम् -\n युवन्, स्थविर, होतृ, यजमान, कमण्डलु, पुरुषासे (गणसूत्रम्), सुहृत्, यातृ, श्रवण, कुस्त्री, सुस्त्रि, सुहृदय, सुभ्रातृ, वृषल, दुर्भ्रातृ, हृदयासे (गणसूत्रम्), क्षेत्रज्ञ, कृतक, परिव्राजक, कुशल, चपल, निपुण, पिशुन, सब्रह्मचारिन्, कुतूहल, अनृशंस ।\nयथा -\nअ) यूनः भावः कर्म वा\n= युवन् + अण्\n→ यौवन् + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः । <<नस्तद्धिते>> [[6.4.144]] इति टिलोपे प्राप्ते; तथा च <<अल्लोपोऽनः>> [[6.4.134]] इति उपधा-अकारस्य लोपे प्राप्ते <<अन्>> [[6.4.167]] इति प्रकृतिभावः।]\n→ यौवन\n2) स्थविरस्य भावः कर्म वा स्थाविरम् ।\n3) होतुः भावः कर्म वा हौत्रम् ।\n4) कुशलस्य भावः कर्म वा कौशलम् ।\n5) निपुणस्य भावः कर्म वा नैपुणम् ।\n6) कुतूहलस्य भावः कर्म वा कौतुहलम् ।\n7) सुहृदः भावः सौहार्दम् । अत्र <<हृद्भगसिन्ध्वन्ते पूर्वपदस्य च>> [[7.3.19]] इति उभयपदवृद्धिः भवति ।\nअस्मिन् गणे द्वे गणसूत्रे स्थापिते स्थः -\n1. 'पुरुष-असे' - 'पुरुष' शब्दः समासं विना आगच्छति चेत् अस्मिन् गणे समाविश्यते । अत्र 'स' शब्दः 'समास' अस्मिन् अर्थे प्रयुक्तः अस्ति । अतः 'अ-से' इत्युक्ते अ-समासे । यथा - पुरुषस्य भावः कर्म वा पौरूषम् ।\nसमासे विद्यमानस्य पुरुष-शब्दस्य विषये तु औत्सर्गिकौ त्व-तल्-प्रत्ययौ एव भवतः । महापुरुषस्य भावः कर्म वा महापुरुषत्वम् / महापुरुषता ।\n2. 'हृदय-असे' - 'हृदय' शब्दः समासं विना आगच्छति चेत् अस्मिन् गणे समाविश्यते । यथा - हृदयस्य भावः कर्म वा हार्दम् । प्रक्रिया इयम् -\nहृदय + अण्\n→ हृद् + अण् [<<हृदयस्य हृल्लेखयदण्लासेषु>> [[6.3.50]] इति हृद्-आदेशः]\n→ हार्द् + अण् [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ हार्द\nपरन्तु समासे विद्यमानस्य पुरुष-शब्दस्य विषये तु औत्सर्गिकौ त्व-तल्-प्रत्ययौ एव भवः । परमहृदयस्य भावः कर्म वा परमहृदयत्वम्/परमहृदयता ।\nस्मर्तव्यम् - 'सहार्दम्' अयम् शब्दः 'हार्देन सह' इति निर्मितः अस्ति । 'सहृदयस्य भावः' अस्मिन् अर्थे तु सहृदयत्वम् / सहृदयता - एतौ एव शब्दौ भवतः ।\nविशेषः - अत्र द्वयोः अपि गणसूत्रयोः 'असे (= असमासे)' इति उक्तमस्ति । किम् तस्य प्रयोजनम् ? वस्तुतः प्रत्ययविधौ तदन्तविधिः न इष्यते; अतः युवादिगणे केवलम् 'पुरुष' उत 'हृदय' इति उच्यते चेदपि स एव अर्थः जायते यः 'असे' इत्यनेन निर्दिष्टः अस्ति । इत्युक्ते, अत्र 'असे' इत्यस्य आवश्यकता एव न । अतएव अस्मिन् विषये पदमञ्जरीकारः वदति - ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधादेव सिद्धे समासप्रतिषेधः चिन्त्यप्रयोजनः । न्यासकारस्य मतम् तु अस्मिन् विषये किञ्चित् भिद्यते; तत् अधिकम् ज्ञातुम् जिज्ञासवः न्यासमेव पश्यन्तु ।\nयुवादिगणस्य विषये द्वौ बिन्दू स्मर्तव्यौ -\n1. 'युवन्' तथा 'स्थविर' (old) एतौ शब्दौ वयोवाचिनौ स्तः । अतः एतेभ्यः <<प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ्>> [[5.1.129]] इत्यनेन अञ्-प्रत्यये प्राप्ते तं बाधित्वा अण्-प्रत्ययः विधीयते ।\n2. 'कुशल', 'चपल', 'निपुण' , 'पिशुन', 'अनृशंस' - एते सर्वे शब्दाः <<गुणवचनब्राह्मणादिभ्यः कर्मणि च>> [[5.1.124]] इत्यत्र निर्दिष्टे ब्राह्मणादिगणे अपि सन्ति, अतः तेभ्यः <<गुणवचनब्राह्मणादिभ्यः कर्मणि च>> [[5.1.124]] इत्यनेन ष्यञ्-प्रत्ययः अपि विधीयते ।\nअत्र एकम् वार्त्तिकम् ज्ञातव्यम् - । इत्युक्ते, 'श्रोत्रिय' शब्दात् अपि 'भाव' तथा 'कर्म' एतयोः अर्थयोः अण् प्रत्ययः भवति, तथा च श्रोत्रियशब्दस्य यकारस्य लोपः भवति । यथा -\nश्रोत्रियस्य भावः कर्म वा\n= श्रोत्रिय + अण्\n→ श्रोत्रि + अ ['य' इत्यस्य लोपः]\n→ श्रौत्रि + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ श्रौत्र् + अ [<<यस्येति च>> [[6.4.148]] इति अन्तिम-इकार-लोपः]\n→ श्रौत्र\nविशेषः - पदमञ्जरीकारस्य मतेन एतत् वार्त्तिकम् इति अस्ति । इत्युक्ते, 'श्रोत्रिय' शब्दात् अण्-प्रत्यये कृते अस्मिन् शब्दे विद्यमानः घ-प्रत्ययः (= 'इय' इति दृश्यरूपम्) लुप्यते । रूपम् तु अत्रापि समानमेव भवति । यथा -\nश्रोत्रिय + अण्\n→ श्रोत्र् + अण् ['घ' (= इय) इत्यस्य लोपः]\n→ श्रौत्र् + अ [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ श्रौत्र\nस्मर्तव्यम् - अस्मिन् सूत्रे निर्दिष्टेभ्यः शब्देभ्यः भावकर्मार्थयोः औत्सर्गिकौ त्व-तल्-प्रत्ययौ अपि भवतः । यथा - द्विहायनस्य भावः कर्म वा द्विहायनत्वम् / द्विहायनता । यूनः भावः कर्म वा युवत्वम् / युवता ।\n" }, "51131": { "sa": "षष्ठीसमर्थात् इगन्त-लघुपूर्वशब्दात् 'भावः' तथा 'कर्म' एतयोः अर्थयोः अण्-प्रत्ययः भवति । ", "sd": "अस्य सूत्रस्य अर्थम् ज्ञातुमादौ 'इगन्त-लघुपूर्व-शब्दः' इत्युक्ते किम्, तत् पश्यामः -\n[अ] 'इक्' इति कश्चन प्रत्याहारः । इवर्णः, उवर्णः, ऋवर्णः तथा ऌवर्णः अनेन प्रत्याहारेण निर्दिश्यन्ते ।अत; 'इगन्त' इत्युक्ते सः शब्दः यस्य अन्ते इक्-वर्णः विद्यते ।\n[आ] 'लघु' इति स्वरस्य कश्चन भेदः अस्ति । शब्दे विद्यमानः ह्रस्वः स्वरः, यस्मात् अनन्तरम् संयुक्ताक्षरम् न विद्यते, <<ह्रस्वं लघु>> [[1.4.10]] इत्यनेन सूत्रेण 'लघु' इति संज्ञां प्राप्नोति ।\n[इ] अतः इगन्त-लघुपूर्वः शब्दः इत्युक्ते सः शब्दः यस्य अन्ते इक्-वर्णः अस्ति, तथा च तस्मात् इक्-वर्णात् पूर्वम् यः स्वरः विद्यते, सः लघुसंज्ञकः अस्ति । कानिचन उदाहरणानि एतानि -\n(1) 'मुनि' इत्यस्मिन् शब्दे अन्तिमः स्वरः इकारः अस्ति, तथा अस्मात् इकारात् पूर्वम् विद्यमानः उकारः लघुसंज्ञकः अस्ति । अतः 'मुनि' अयम् शब्दः 'इगन्त-लघुपूर्व-शब्दः' अस्ति इत्युच्यते ।\n(2) 'नगरी' अस्मिन् शब्दे अन्तिमः स्वरः ईकारः अस्ति (यः अपि इक्-प्रत्याहारे अन्तर्भवति), तथा च अस्मात् इकारात् पूर्वम् विद्यमानः अकारः लघुसंज्ञकः अस्ति । अतः अयमपि 'इगन्त-लघुपूर्व-शब्दः' अस्ति\n(3) 'प्रभु' अस्मिन् शब्दे अन्तिमः स्वरः उकारः अस्ति, तथा अस्मात् उकारात् पूर्वम् विद्यमानः अकारः लघुसंज्ञकः अस्ति (अस्मिन् शब्दे अकारात् पूर्वम् संयुक्ताक्षरम् विद्यते, अकारात् अनन्तरम् न - अतः अकारस्य लघुसंज्ञायाः बाधः न भवति), अतः अयम् शब्दः 'इगन्त-लघुपूर्व-शब्दः' अस्ति ।\n(4) 'पितृ' अयम् शब्दः अपि 'इगन्त-लघुपूर्व-शब्दः' अस्ति ।\n(5) 'कर्तृ' अयम् शब्दः इगन्तः अस्ति परन्तु लघुपूर्वः नास्ति ।\n(6) 'पट' अयम् शब्दः लघुपूर्वः अस्ति परन्तु इगन्तः नास्ति ।\n(7) 'कृष्ण' अयम् शब्दः लघुपूर्वः अपि नास्ति, इगन्तः अपि नास्ति ।\nइदानीमस्य सूत्रस्य अर्थः स्पष्टं स्यात् - यः शब्दः इगन्त-लघुपूर्वः अस्ति, तस्मात् 'भावः' तथा 'कर्म' एतयोः अर्थयोः अण्-प्रत्ययः भवति । यथा -\n1. 'शुचि' इति इगन्तलघुपूर्वः शब्दः । शुचेः भावः कर्म वा = शुचि + अण् → शौचम् ।\n2. मुनेः भावः कर्म वा मौनम् ।\n3. नगर्याः भावः कर्म वा नागरम् ।\n4. लघोः भावः कर्म वा लाघवम् ।\n5. कवेः भावः कर्म वा कावम् ।\nविशेषः - 'कवि'शब्दः <<गुणवचनब्राह्मणादिभ्यः कर्मणि च>> [[5.1.124]] इत्यत्र निर्दिष्टे ब्राह्मणादिगणे अपि आकृतिगणत्वात् स्वीक्रियते, अतः तस्मात् <<गुणवचनब्राह्मणादिभ्यः कर्मणि च>> [[5.1.124]] इत्यनेन ष्यञ्-प्रत्ययं कृत्वा 'कवेः भावः काव्यम्' इति अपि प्रयोगः सिद्ध्यति ।\n6. ऋषेः भावः कर्म वा आर्षम् ।\n7. स्वसुः भावः कर्म वा स्वास्रम् ।\n8. मृदोः भावः कर्म वा मार्दवम् ।\n9. गुरोः भावः कर्म वा गौरवम् ।\n10. पितुः भावः पैत्रम् ।\nआदयः ।\nविशेषः - केचन वैयाकरणाः अस्य सूत्रस्य अर्थम् भिन्नरूपेण प्रतिपादयन्ति । तेषाम् मतेन 'इगन्त-लघुपूर्वः' इत्यनेन सः शब्दः निर्दिश्यते, यस्मिन् उपोत्तमः (second last) स्वरः स्वयम् इक्-वर्णः तथा लघु-वर्णः अस्ति । यथा - 'मिथुन' अस्मिन् शब्दे विद्यमानः उपोत्तमः स्वरः (थकारोत्तरः उकारः) इक्-वर्णः तथा लघु-वर्णः अस्ति, अतः तेषां मतेन अस्मात् शब्दात् अपि भावकर्मार्थयोः अण्-प्रत्ययः भवति । यथा - मिथुनस्य भावः मैथुनम् । अस्मिन् विषये अधिकम् पिपठिषवः न्यासम् काशिकाम् च पश्यन्तु । (ये पण्डिताः एतम् पक्षम् न स्वीकुर्वन्ति, तेषाम् मतेन 'मिथुनस्य भावः' इत्यत्र <<तस्येदम्>> [[4.3.120]] इति विवक्षायामण् कृत्वा 'मैथुन' इति रूपम् सिद्ध्यति )।\nज्ञातव्यम् - <<आ च त्वात्>> [[5.1.120]] इत्यनेन अत्र निर्दिष्टेभ्यः सर्वेभ्यः शब्देभ्यः भावकर्मार्थयोः औत्सर्गिकौ 'त्व' / 'तल्' प्रत्ययौ अपि भवतः । यथा - शुचेः भावः कर्म वा शुचित्वम् / शुचिता ।\n" }, "51132": { "sa": "'भावः' तथा 'कर्म' एतयोः अर्थयोः षष्ठीसमर्थात् यकारोपध-गुरूपोत्तम-शब्दात् वुञ्-प्रत्ययः भवति । ", "sd": "अस्य सूत्रस्य अर्थम् ज्ञातुमादौ 'यकारोपध-गुरूपोत्तम-शब्दः' इत्युक्ते किम् तत् जानीमः -\n[1] यस्य शब्दस्य उपधावर्णः (second last letter) 'य्' इति अस्ति, सः शब्दः 'यकारोपधः' अस्ति इत्युच्यते । यथा - काय, माया, स्थायि, वायु, कार्य - एते सर्वे यकारोपधशब्दाः सन्ति ।\n[2] यस्य शब्दस्य उपोत्तमः स्वरः (second last vowel) गुरुसंज्ञकः अस्ति, सः शब्दः गुरूपोत्तमः अस्ति इत्युच्यते ।\nकिम् नाम गुरुः? -\n[अ] सः ह्रस्वः स्वरः, यस्मात् अनन्तरम् संयुक्ताक्षरमस्ति, <<संयोगे गुरु>> [[1.4.11]] इत्यनेन गुरूसंज्ञकः भवति ।\n[आ] प्रत्येकः दीर्घः स्वरः <<दीर्घम् च>> [[1.4.11]] इत्यनेन गुरूसंज्ञकः भवति ।\nगुरूपोत्तमशब्दानाम् कानिचन उदाहरणानि - 'भूत', 'वर्तमान', 'भविष्य' - आदयः ।\n[3] यः शब्दः यकारोपधः अस्ति, गुरूपोत्तमः च अपि अस्ति, सः 'यकारोपध-गुरूपोत्तम-शब्दः' इत्यनेन निर्दिश्यते । यथा - 'रमणीय', 'वसनीय' , 'भविष्य' - आदयः ।\nएतादृशात् 'यकारोपध-गुरूपोत्तम-शब्दात् भावकर्मार्थयोः 'वुञ्' प्रत्ययः भवति ।\nयथा - रमणीयस्य भावः कर्म वा\n= रमणीय + वुञ्\n→ रमणीय + वु [ञकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा, लोपः]\n→ रमणीय + अक [<<युवोरनाकौ>> [[7.1.1]] इति अक-आदेशः]\n→ रामणीय + अक [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ रामणीय् + अक [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ रामणीयक\nरमणीयस्य भावः कर्म वा रामणीयकम् । वसनीयस्य भाव कर्म वा वासनीयकम् ।\nअत्र एकम् वार्त्तिकमपि ज्ञेयम् - । इत्युक्ते, 'सहाय' शब्दात् भावकर्मार्थयोः विकल्पेन वुञ्-प्रत्ययः भवति - सहायस्य भावः कर्म वा साहायकम् । पक्षे ब्राह्मणादिगणे स्वीकृत्य <<गुणवचनब्राह्मणादिभ्यः कर्मणि च>> [[5.1.124]] इति ष्यञ्-प्रत्ययः अपि भवति - सहायस्य भावः कर्म वा साहाय्यम् ।\nज्ञातव्यम् - अस्मिन् सूत्रे निर्दिष्टेभ्यः शब्देभ्यः <<आ च त्वात्>> [[5.1.120]] इत्यनेन भावकर्मार्थयोः त्व/तल्-प्रत्ययौ अपि भवतः । रमणीयस्य भावः कर्म वा रमणीयत्वम् / रमणीयता । सहायस्य भावः कर्म वा सहायत्वम् / सहायता ।\nविशेषः - अस्मिन् सूत्रे 'उपधा' तथा 'उपोत्तम' एतौ द्वौ अपि शब्दौ प्रयुक्तौ स्तः । एतयोः द्वयोः अर्थौ भिन्नौ स्तः इति स्मर्तव्यम् । 'उपधा' इत्युक्ते अन्यात् पूर्वः वर्णः । उपधावर्णः 'स्वरः' अपि भवितुमर्हति, उत 'व्यञ्जनम्' अपि । परन्तु 'उपोत्तम' अयम् शब्दः केवलम् स्वरस्यैव निर्देशार्थम् प्रयुज्यते । शब्दे विद्यमानः यः अन्तिमः स्वरः, (सः अन्तिमस्थाने भवेत् उत न भवेत्, परन्तु) तस्मात् पूर्वः यः स्वरः विद्यते, सः उपोत्तमस्वरः नाम्ना ज्ञायते । यथा - 'मरुत् = म् + अ + र् + उ + त्' इत्यस्मिन् शब्दे उपधावर्णः 'उ' इति अस्ति, परन्तु उपोत्तमः स्वरः 'अ' इति अस्ति ।\nउपधा is used to represent the second last letter, which can be a vowel or a consonant. On the other hand, उपोत्तम always represents a vowel which is at the second-last position when only vowels are considered (and consonants are ignored).\n" }, "51133": { "sa": "द्वन्द्वसमासेन निर्मितेभ्यः प्रातिपदिकेभ्यः तथा च मनोज्ञादिगणस्य शब्देभ्यः षष्ठीसमर्थेभ्यः 'भावः' तथा 'कर्म' एतयोः अर्थयोः वुञ्-प्रत्ययः भवति । ", "sd": "यः शब्दः द्वन्द्वसमासेन सिद्ध्यति, तस्मात् शब्दात् , तथा च मनोज्ञादिगणस्य शब्दात् 'भावः' तथा 'कर्म' एतयोः अर्थयोः 'वुञ्' प्रत्ययः भवति । उदाहरणानि एतानि -\n[अ] द्वन्द-समासनिर्मितानि प्रातिपदिकानि - एतानि प्रातिपदकानि 'वुञ्'प्रत्ययं स्वीकृत्य प्रायः स्त्रीत्वे एव प्रयुज्यन्ते, अतः एतेभ्यः <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्-प्रत्ययः अपि भवति ।\n1. गोपालाः च पशुपालाः च गोपालपशुपालाः । तेषाम् भावः -\n= गोपालपशुपाल + वुञ् + टाप्\n→ गोपालपशुपाल + वु + आ [इत्संज्ञालोपः]\n→ गोपालपशुपाल + अक + आ[<<युवोरनाकौ>> [[7.1.1]] इत्यनेन 'वु' इत्यस्य अक-आदेशः भवति।]\n→ गौपालपशुपाल + अक + आ[<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ गौपालपशुपाल् + अक + आ [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ गौपालपशुपालक + आ\n→ गौपालपशुपालिक + आ [<<प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः>> [[7.3.4]] इति इत्वम्]\n→ गौपालपशुपालिका [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः]\n2. शिष्यश्च उपाध्यायश्च शिष्योपाध्यायौ, तयोः भावः = शिष्योपाध्याय + वुञ् + टाप् → शैष्योपाध्यायिका ।\nविशेषः - वस्तुतः 'शिष्योपाध्याय' शब्दः यकारोपधः गुरूपोत्तमः अस्ति, अतः <<योपधाद्गुरूपोत्तमाद्वुञ्>> [[5.1.132]] इत्यनेन अपि तस्मात् वुञ्-प्रत्ययः भवितुमर्हति । प्रयोगे तु स्त्रीप्रत्ययान्तः शब्दः एव दृश्यते, अतः वुञ्-प्रत्ययात् परम् टाप्-प्रत्ययः अपि विधीयते ।\n[आ] मनोज्ञादिगणः अयम् -\nमनोज्ञ, कल्याण, प्रियरूप, छान्दस, छात्र, मेधाविन्, अभिरूप, आढ्य, कुलपुत्र, श्रोत्रिय, चोर, धूर्त, वैश्वदेव, युवन्, ग्रामपुत्र, ग्रामखण्ड, ग्रामकुमार, अमुष्यपुत्र, अमुष्यकुल, शतपत्र, कुशल ।\nयथा -\n1. मनोज्ञस्य भावः कर्म वा मानोज्ञकम् ।\n2. प्रियरूपस्य भावः कर्म वा प्रैयरूपकम् ।\n3. छान्दसः भावः कर्म वा छान्दसकम् ।\n4. छात्रस्य भावः कर्म वा छात्रकम् ।\n5. कल्याणस्य भावः कर्म वा काल्याणकम् ।\n6. श्रोत्रियस्य भावः कर्म वा श्रौत्रियकम् ।\nविशेषः - 'श्रोत्रिय'शब्दः <<हायनान्तयुवादिभ्योऽण्>> [[5.1.130]] इत्यत्र निर्दिष्टे युवादिगणे अपि गृह्यते ।\n7. आढ्यस्य भावः आढ्यकम् ।\nविशेषः - वस्तुतः अस्मात् शब्दात् <<योपधाद्गुरूपोत्तमाद्वुञ्>> [[5.1.132]] इत्यनेन अपि वुञ्-प्रत्ययः भवति ।\n8. यूनः भावः यौवनकम् । प्रक्रिया इयम् -\nयुवन् + वुञ्\n→ युवन् + अक [<<युवोरनाकौ>> [[7.1.1]] इत्यनेन 'वु' इत्यस्य अक-आदेशः भवति।]\n→ यौवन् + अक [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ यौवनक [<<नस्तद्धिते>> [[6.4.144]] इति टिलोपे प्राप्ते <<प्रकृत्यैकाच्>> [[6.4.163]] इत्यत्र पाठितेन अनेन वार्त्तिकेन प्रकृतिभावः विधीयते । ]\nज्ञातव्यम् - अस्मिन् सूत्रे निर्दिष्टेभ्यः शब्देभ्यः <<आ च त्वात्>> [[5.1.120]] इत्यनेन पक्षे त्व-तल्-प्रत्ययौ अपि भवतः । यथा - गोपालपशुपालानाम् भावः कर्म वा गोपालपशुपालत्वम् / गोपालपशुपालता । मनोज्ञस्य भावः कर्म वा मनोज्ञकत्वम् / मनोज्ञता । " }, "51134": { "sa": "षष्ठीसमर्थेभ्यः गोत्रप्रत्ययान्तेभ्यः चरणवाचिभ्यः च शब्देभ्यः 'श्लाघा', 'अत्याकार' तथा 'तदवेत' एतेषु विषयेषु 'भावः' तथा 'कर्म' अस्मिन् अर्थे वुञ्-प्रत्ययः भवति ।", "sd": "अस्य सूत्रस्य अर्थं ज्ञातुमादौ सूत्रे विद्यमानानाम् शब्दानाम् परिचयम् प्राप्नुमः ।\n1. गोत्रवाचिनः शब्दाः - ये शब्दाः गोत्रप्रत्ययान्ताः सन्ति ते । अपत्याधिकारे पाठितस्य गोत्रप्रत्ययान्तशब्दस्य अयम् निर्देशः अस्ति । यथा - गार्ग्यः, कौञ्जायनः - आदयः ।\n2. चरणवाचिनः शब्दाः - वेदस्य काश्चन शाखाः 'चरण' नाम्ना प्रसिद्धाः सन्ति । यथा - कठ, कलाप, पिप्पलाद - आदयः । एतेषाम् चरणामध्येतारः अपि एतैः शब्दैः एव ज्ञायन्ते । यथा - कठं अधीते के कठाः, कलापमधीते ते कलापाः - आदयः । एते अध्येतृवाचिनः शब्दाः 'चरणवाचिनः' नाम्ना अस्मिन् सूत्रे निर्दिष्टाः सन्ति ।\n3. श्लाघा - विकत्थनम्, आत्मप्रौढी (the act of praising oneself)\n4. अत्याकार - परस्य अवमानः (the act of insulting others)\n5. तदवेत - 'तत् प्राप्नोति सः' इति अर्थः । (the act of attaining / obtaining something)\nइदानीम् सूत्रार्थमपि क्रमशः पश्यामः, यतः अस्मिन् सूत्रे अनेके बिन्दवः युगपत् उक्ताः सन्ति ।\n1. यदि कश्चन मनुष्यः गोत्रप्रत्ययान्तशब्दस्य साहाय्येन स्वस्य निर्देशम् कृत्वा आत्मस्तुतिम् करोति (यथा - 'अहम् गार्ग्यः अस्मि' इति श्लाघते), तर्हि अस्य भावस्य / कर्मणः निर्देशम् कर्तुम् गोत्रवाचिशब्दात् वुञ्-प्रत्ययः भवति । अयम् वुञ्-प्रत्ययान्तशब्दः प्रयोगे स्त्रीलिङ्गे एव प्रयुज्यते, अतः तत्र स्त्रीप्रत्ययः अपि विधीयते । उदाहरणम् एकम् पश्यामः -\nगार्ग्य + वुञ् + टाप् ['गार्ग्य' इति गोत्रप्रत्ययान्तशब्दः । भावार्थकः वुञ्-प्रत्ययः । स्त्रीत्वे <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्]\n→ गार्ग्य + अक + आ [<<युवोरनाकौ>> [[7.1.1]] इति 'वु' इत्यस्य 'अक' आदेशः]\n→ गार्ग्य + अक + आ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ गार्ग्य् + अक + आ [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ गार्ग् + अक + आ ['गार्ग्य' अयमपत्यप्रत्ययान्तशब्दः अस्ति, अतः <<आपत्यस्य च तद्धितेनाऽति>> [[6.4.151]] इत्यनेन यकारलोपः विधीयते ।]\n→ गार्गक + आ\n→ गार्गिक + आ [<<प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः>> [[7.3.44]] इति इत्वम्]\n→ गार्गिका [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः]\nकश्चन गार्ग्यः श्लाघते; तस्य भावः कर्म वा गार्गिका ।अस्यैव निर्देशार्थम् 'गार्गिकया श्लाघते' इति प्रयोगः रूढ अस्ति ।\n2. यदि कस्य मनुष्यः स्वस्य चरणस्य निर्देशं कृत्वा आत्मस्तुतिम् करोति (यथा - 'अहम् कठः अस्मि' इति श्लाघते), तर्हि अस्य भावस्य / कर्मणः निर्देशं कर्तुम् चरणवाचिशब्दात् वुञ्-प्रत्ययः भवति । पूर्ववत् एव वुञ्-प्रत्ययान्तशब्दः प्रयोगे स्त्रीलिङ्गे एव प्रयुज्यते, अतः तत्र स्त्रीप्रत्ययः अपि विधीयते । उदाहरणम् एतादृशम् -\nकठ + वुञ् + टाप् ['कठ' इति चरणवाचिशब्दः । भावार्थकः वुञ्-प्रत्ययः । स्त्रीत्वे <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्]\n→ कठ + अक + आ [<<युवोरनाकौ>> [[7.1.1]] इति 'वु' इत्यस्य 'अक' आदेशः]\n→ काठ + अक + आ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ कठ् + अक + आ [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ काठक + आ\n→ काठिक + आ [<<प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः>> [[7.3.4]] इति इत्वम्]\n→ काठिका [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः]\nकश्चन कठः श्लाघते, तस्य भावः कर्म वा 'काठिका' । अस्यैव निर्देशार्थम् 'काठिकया श्लाघते' इति प्रयोगः रूढ अस्ति ।\n3. यदि कश्चन मनुष्यः अन्यस्य गोत्रस्य उत चरणस्य निर्देशं कृत्वा तस्य निन्दां करोति, तर्हि अस्य भावस्य / कर्मणः निर्देशं कर्तुम् तादृशात् गोत्रवाचिशब्दात् / चरणवाचिशब्दात् वुञ्-प्रत्ययः भवति । यथा -\n[अ] कश्चन 'त्वम् गार्ग्यः असि' इति अत्याकुरुते ( = निन्दति), तस्य भावः कर्म वा 'गार्गिका' । अस्यैव निर्देशार्थम् 'गार्गिकया अत्याकुरुते' इति निर्दिश्यते ।\n[आ] कश्चन 'त्वम् कठः असि' इति अत्याकुरुते ( = निन्दति), तस्य भावः कर्म वा 'काठिका' । अस्यैव निर्देशार्थम् 'काठिकया अत्याकुरुते' इति निर्दिश्यते ।\n4. यदि कश्चन मनुष्यः कस्मिंश्चित् गोत्रे चरणे वा अन्तर्भवति (gets included in that specific गोत्र / चरण), तर्हि तस्य भावस्य / कर्मणः निर्देशार्थम् तादृशात् गोत्रवाचिशब्दात् / चरणवाचिशब्दात् वुञ्-प्रत्ययः भवति । यथा -\n[अ] गार्गिकामवेतः ('गार्ग्य-गोत्रम् प्राप्तवान्' - one who became the part of गार्ग्य gotra इत्यर्थः) ।\n[आ] काठिकामवेतः ('कठ-चरणम् प्राप्तवान्' - one who became the part of the group that studies the कठ चरण of the Vedas.)\nएतादृशम् अनेन सूत्रेण 'गार्गिकया श्लाघते / काठिकया श्लाघते / गार्गिकया अत्याकुरुते / काठिकया अत्याकुरुते / गार्गिकामवेतः / काठिकामवेतः' एते प्रयोगाः सिद्ध्यन्ति ।\nविशेषः - अस्य सूत्रस्य विषये व्याख्यानेषु केवलम् 'गार्गिका' तथा 'काठिका' एते द्वे एव उदाहरणे दत्ते स्तः ।\nस्मर्तव्यम् - <<आ च त्वात्>> [[5.1.120]] इत्यनेन अत्र त्व-तल्-प्रत्ययौ अपि भवितुमर्हतः । यथा -\n1) गार्ग्यत्वेन श्लाघते , कठत्वेन श्लाघते, गार्ग्यतया श्लाघते, कठतया श्लाघते ।\n2) गार्ग्यत्वेन अत्याकुरुते, कठत्वेन अत्याकुरुते, गार्ग्यतया अत्याकुरुते, कठतया अत्याकुरुते ।\n3) गार्ग्यत्वमवेतः, कठत्वमवेतः, गार्ग्यतामवेतः, कठतामवेतः ।\n" }, "51135": { "sa": "षष्ठीसमर्थेभ्यः होतृवाचकेभ्यः शब्देभ्यः 'भावः' तथा 'कर्म' एतयोः अर्थयोः छ-प्रत्ययः भवति । ", "sd": "यज्ञस्य विधीन् यः करोति/कारयति सः ऋत्विग्विशेषः 'होतृ' नाम्ना ज्ञायते । ये शब्दाः होतृवाचकाः सन्ति, तेभ्यः 'भावः' तथा 'कर्म' एतयोः अर्थयोः वर्तमानसूत्रेण छ-प्रत्ययः भवति । यथा -\n1. अच्छावाकस्य भावः कर्म वा\n= अच्छावाक + छ\n→ अच्छावाक + ईय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ईय्-आदेशः]\n→ अच्छावाक् + ईय [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ अच्छावाकीय\n2. मित्रावरुणस्य भावः कर्म वा मित्रावरुणीयम् ।\n3. ब्राह्मणाच्छंसस्य भावः कर्म वा ब्राह्मणाच्छंसीयम् ।\n4. आग्नीध्रस्य भावः कर्म वा आग्नीध्रंसीयम् ।\n5. प्रतिप्रस्थातुः भावः कर्म वा = प्रतिपस्थातृ + छ → प्रतिपस्थात्रीयम् ।\n6. त्वष्टुः भावः कर्म वा = त्वष्टृ + छ → त्वष्ट्रीयम् ।\n7. पोतुः भावः कर्म वा = पोतृ + छ → पोत्रीयम् ।\nस्मर्तव्यम् - अत्र व्याख्यानेषु पाठिताः सर्वे शब्दाः होतृ-विशेषवाचिनः सन्ति (All the words presented in the examples here are specific terms that were used in olden days to indicate different levels/orders of priests) । एतेषां सम्पूर्णा आवली व्याख्यानेषु न कुत्रचित् दत्ता अस्ति, अतः यानि उदाहरणानि अत्र दीयन्ते, तानि एव प्रयोक्तव्यानि ।\nज्ञातव्यम् -\n1. <<आ च त्वात्>> [[5.1.120]] इत्यनेन सूत्रेण एतेभ्यः शब्देभ्यः 'त्व' तथा 'तल्' प्रत्ययौ अपि भवतः । यथा - मित्रावरुणस्य भावः कर्म वा मित्रावरुणत्वम् / मित्रावरुणता ।\n2. अस्मिन् सूत्रे 'होत्राभ्यः' इति बहुवचनस्य प्रयोगः 'स्वरुपविधिनिरासार्थः' अस्ति । इत्युक्ते, 'होतृ'शब्दात् छ-प्रत्ययः न भवति अपितु होतृवाचिशब्दात् भवति - एतत् स्पष्टीकर्तुमत्र बहुवचनम् प्रयुज्यते ।\n" }, "51136": { "sa": "होतृवाची यः 'ब्रह्मन्' शब्दः, तस्मात् षष्ठीसमर्थात् 'भावः' तथा 'कर्म' अनयोः अर्थयोः त्व-प्रत्ययः भवति । ", "sd": "यज्ञस्य विधीन् यः करोति/कारयति सः ऋत्विग्विशेषः 'होतृ' नाम्ना ज्ञायते । ये शब्दाः होतृवाचकाः सन्ति, तेभ्यः 'भावः' तथा 'कर्म' एतयोः अर्थयोः <<होत्राभ्यश्छः>> [[5.1.135]] इत्यनेन छ-प्रत्ययः भवति । परन्तु होतृवाची यः 'ब्रह्मन्' शब्दः, तस्मात् एतम् छ-प्रत्ययम् बाधित्वा त्व-प्रत्ययः विधीयते ।\nब्रह्मणः भावः कर्म वा\n= ब्रह्मन् + त्व\n→ ब्रह्मत्व [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः]\nब्रह्मणः भावः कर्म वा ब्रह्मत्वम् ।\nस्मर्तव्यम् -\n1. वस्तुतः <<आ च त्वात्>> [[5.1.120]] इत्यनेन अत्र त्व-तल्-प्रत्यययोः प्रसक्तिः अस्ति एव । अतः केवलम् 'ब्रह्मणः न' इति उच्यते चेदपि छ-प्रत्ययस्य निषेधं कृत्वा त्व-तल्-प्रत्यययोः विधानम् भवितुमर्हति । परन्तु अत्र आचार्यः स्पष्टरूपेण 'त्व'प्रत्ययस्य विधानम् करोति । एतत् विधानमेव अस्य ज्ञापकम्, यत् अत्र 'तल्' प्रत्ययः न भवेत् । अतः 'ब्रह्मण भावः कर्म वा' अस्मिन् अर्थे ब्रह्मन्-शब्दात् केवलम् त्व-प्रत्ययः एव भवति, न हि छ-प्रत्ययः उत तल्-प्रत्ययः ।\n2. अस्मिन् सूत्रे निर्दिष्टः 'ब्रह्मन्' शब्दः होतृवाचकः अस्ति चेदेव अस्य सूत्रस्य प्रसक्तिः विद्यते । जातिवाचकः ब्रह्मन्-शब्दात् ('ब्राह्मण' इत्यर्थः) तु औत्सर्गिकौ त्व-तल् प्रत्ययौ भवतः एव - ब्रह्मणः भावः कर्म वा ब्रह्मत्वम् / ब्रह्मता ।\nज्ञातव्यम् -\n1. <<तस्य भावस्त्वतलौ>> [[5.1.119]] इत्यत्र प्रारब्धा त्व/तल्-प्रत्यययोः व्याप्तिः अत्र समाप्यते ।\n2. <<स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्>> [[4.1.87]] इत्यनेन स्त्री-शब्दात् यः नञ्-प्रत्ययः तथा पुरुष-शब्दात् यः स्नञ्-प्रत्ययः उक्तः अस्ति, तयोः व्याप्तिः अप्यत्र समाप्यते ।\n" }, "52001": { "sa": "धान्यविशेषवाचिभ्यः षष्ठीसमर्थेभ्यः शब्देभ्यः तेषामुत्पत्तेः क्षेत्रस्य निर्देशार्थम् खञ् प्रत्ययः भवति । ", "sd": "अस्मिन् सूत्रे चत्वारः शब्दाः प्रयुक्ताः सन्ति -\n1) धान्यानाम् - अयम् षष्ठीसमर्थः । धान्यवाचिभ्यः शब्देभ्यः प्रत्ययविधानम् भवति - इत्यर्थः । अत्र बहुवचनस्य रूपम् 'स्वरूपविधिनिरासार्थम्' प्रयुक्तमस्ति । इत्युक्ते, 'धान्यानाम्' इत्यनेन 'धान्य' इत्यस्य शब्दरूपस्य निर्देशः न भवति अपितु धान्यवाचिनः शब्दस्य (यथा - मुद्ग, तण्डुल - आदयः) निर्देशः भवति ।\n2) भवने - भू-धातोः ल्युट्-प्रत्ययान्तरूपम् 'भवन' इति । भवति / जायते यत्र तत् भवनम् । अत्र <<करणाधिकरणयोश्च>> [[3.3.117]] इत्यनेन अधिकरणे ल्युट्-प्रत्ययः कृतः अस्ति ।\n3) क्षेत्रे - क्षेत्र (farm) इत्यस्य सप्तम्येकवचनमस्य रूपम् । अयम् शब्दः 'भवन' इत्यस्य विशेषणरूपेण प्रयुक्तः अस्ति । धान्यानामुत्पत्तिस्थानम् (= भवनम्) यदि क्षेत्रमस्ति, तर्हि एव अस्य सूत्रस्य प्रयोगः भवति - इति आशयः ।\n4) खञ् - अयम् तद्धितप्रत्ययः । अत्र ञकारः इत्संज्ञकः अस्ति, तस्य च प्रयोजनद्वयम् - <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] इत्यनेन तद्धितान्तस्य आद्युदात्तत्वम्, तथा च <<तद्धितेष्वचामादेः>> [[7.2.117]] इत्यनेन आदिवृद्धिः ।\nअतः अस्य सूत्रस्य अर्थः अयम् - षष्ठीसमर्थात् धान्यवाचिशब्दात् तस्य निर्मितेः क्षेत्रस्य निर्देशं कर्तुं खञ् प्रत्यय भवति ।\nयथा - मुद्गानाम् भवनम् क्षेत्रम् मौद्गीनम् । प्रक्रिया इयम् -\nमुद्ग + खञ्\n→ मुद्ग + ईन [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ईन-आदेशः]\n→ मौद्ग + ईन [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ मौद्ग् + ईन [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ मौद्गीन\nतथैव - कुलत्थानाम् भवनम् क्षेत्रम् कौलत्थीनम् । कोद्रवानामुत्पत्तिस्थानम् कौद्रवीनम् ।\nज्ञातव्यम् - अस्मिन् सूत्रे 'भवने' तथा 'क्षेत्रे' द्वयोः ग्रहणम् कृतमस्ति । अस्य प्रयोजनम् 'भवन-शब्दस्य अर्थनियमनम्' इति अस्ति । इत्युक्ते, वस्तुतः 'भवन' शब्दस्य अर्थः 'भवति / अस्ति / विद्यते यत्र, तत् भवनम्' एतादृशमपि भवितुमर्हति । अतः धान्यभाण्डारम् (storage unit) अपि धान्यानाम् भवनमस्तीति वक्तुम् शक्यते । परन्तु 'क्षेत्रे' इत्यस्य ग्रहणेन केवलम् क्षेत्रस्य निर्देशार्थम् एव अस्य सूत्रस्य प्रयोगः कर्तव्यः - इति स्पष्टीभवति, येन 'भवन'शब्दस्य अर्थः अपि केवलम् 'जायते / उद्भवति यत्र तत् भवनम्' इति नियम्यते । अतः सूत्रार्थे 'भवन' शब्दस्य अर्थः 'उत्पत्ति-क्षेत्रम्' इति उक्तः अस्ति । एतदेव स्पष्टीकर्तुम् न्यासकारः वदति - 'क्षेत्रग्रहणे त्वसति, भवतिः सत्तावचनोऽपि गृह्रते। तथा कुसूलेऽपि प्रसज्येत' । इत्युक्ते, 'क्षेत्र' शब्दः न स्वीक्रियेत चेत् 'भवन' इत्यनेन 'कुसूल' (store-room) शब्दात् अपि प्रत्ययः विधीयते, यः च न इष्यते । अतएव अत्र 'क्षेत्र'ग्रहणमावश्यकमस्ति ।\n " }, "52002": { "sa": "षष्ठीसमर्थात् 'व्रीहि' तथा 'शालि' शब्दात् उत्पत्तेः क्षेत्रस्य निर्देशार्थम् ढक् प्रत्ययः भवति ।", "sd": "<<धान्यानां भवने क्षेत्रे खञ्>> [[5.2.1]] इत्यनेन सूत्रेण धान्यवाचिभ्यः प्रातिपदिकेभ्यः तेषामुत्पत्तेः क्षेत्रस्य निर्देशार्थम् औत्सर्गिकरूपेण खञ्-प्रत्ययः उक्तः अस्ति । अस्य अपवादरूपेण 'व्रीहि' तथा 'शालि' (द्वयोः अर्थः तण्डुलम् - rice - इत्येव) एताभ्याम् शब्दाभ्याम् ढक्-प्रत्ययः भवति । यथा -\n1. व्रीहीणाम् भवनम् क्षेत्रम्\n= व्रीहि + ढक्\n→ व्रीहि + एय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति एय-आदेशः]\n→ व्रैहि + एय [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ व्रैह् + एय [<<यस्येति च>> [[6.4.148]] इति इकारलोपः]\n→ व्रैहेय\nव्रीहीणाम् भवनम् क्षेत्रम् व्रैहेयम् ।\n2. तथैव, शालिनाम् भवनम् क्षेत्रम् शालेयम् ।\n" }, "52003": { "sa": "षष्ठीसमर्थेभ्यः 'यव', 'यवक', 'षष्टिक' शब्देभ्यः तेषामुत्पत्तेः क्षेत्रस्य निर्देशार्थम् 'यत्' प्रत्ययः भवति ।", "sd": "<<धान्यानां भवने क्षेत्रे खञ्>> [[5.2.1]] इत्यनेन सूत्रेण धान्यवाचिभ्यः प्रातिपदिकेभ्यः तेषामुत्पत्तेः क्षेत्रस्य निर्देशार्थम् औत्सर्गिकरूपेण खञ्-प्रत्ययः उक्तः अस्ति । अस्य अपवादरूपेण 'यव' (barley), 'यवक' (barley), तथा 'षष्टिक' एतेभ्यः शब्देभ्यः यत्-प्रत्ययः भवति ।\n1. यवानाम् भवनम् क्षेत्रम् यव्यम् ।\n2. यवकानाम् भवनम् क्षेत्रम् यवक्यम् ।\n3. षष्टिकानाम् भवनम् क्षेत्रम् षष्टिक्यम् ।\nज्ञातव्यम् - 'षष्टिक' इति कस्यचन धान्यविशेषस्य संज्ञा अस्ति । अस्य शब्दस्य निपातनम् <<षष्टिकाः षष्टिरात्रेण पच्यन्ते>> [[5.1.90]] इत्यनेन क्रियते । " }, "52004": { "sa": "षष्ठीसमर्थेभ्यः 'तिल', 'माष', 'उमा', 'भङ्गा' तथा 'अणु' - एतेभ्यः शब्देभ्यः तेषामुत्पत्तेः क्षेत्रस्य निर्देशार्थम् विकल्पेन यत्-प्रत्ययः भवति, पक्षे औत्सर्गिकः खञ्-प्रत्ययः अपि विधीयते । ", "sd": "<<धान्यानां भवने क्षेत्रे खञ्>> [[5.2.1]] इत्यनेन सूत्रेण धान्यवाचिभ्यः प्रातिपदिकेभ्यः तेषामुत्पत्तेः क्षेत्रस्य निर्देशार्थम् औत्सर्गिकरूपेण खञ्-प्रत्ययः उक्तः अस्ति । परन्तु 'तिल' (sesame), 'माष' (black gram), 'उमा' (flax), 'भङ्गा' (marijuana) तथा 'अणु' (a type of rice) - एतेभ्यः शब्देभ्यः अस्मिन्नेव अर्थे वर्तमानसूत्रेण विकल्पेन यत्-प्रत्यय अपि विधीयते । यथा -\n1. तिलानाम् भवनम् क्षेत्रम तिल्यम् , तैलीनम् वा ।\n2. माषानाम् भवनम् क्षेत्रम् माष्यम् माषीणम् वा ।\n3. उमानाम् भवनम् क्षेत्रमुम्यम् औमीनम् वा ।\n4. भङ्गानाम् भवनम् क्षेत्रम् भङ्ग्यम् भाङ्गीनम् वा ।\n5. अणूनाम् भवनम् क्षेत्रमणव्यमाणवीनम् वा । प्रक्रिया इयम् -\nअणु + यत्\n→ अणो + य [<<ओर्गुणः>> [[6.4.146]] इति गुणादेशः]\n→ अणव् + य [<<वान्तो यि प्रत्यये>> [[6.1.79]] इति अवादेशः]\n→ अणव्य\nपक्षे -\nअणु + खञ्\n→ अणु + ईन [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.2.117]] इति ईन-आदेशः]\n→ आणु + ईन [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ आणो + ईन [<<ओर्गुणः>> [[6.4.146]] इति गुणादेशः]\n→ आणवीन [<<एचोऽयवायावः>> [[6.1.78]] इति अवादेशः]\nविशेषः - रुद्रपाठस्य चमकप्रश्ने 'तिल', 'माष', 'अणु' - आदीनाम् धान्यानाम् निर्देशः क्रियते । यथा - 'व्रीहयश्च मे यवाश्च मे माषाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियंगवश्च मेऽणवश्च मे श्यामाकाश्च मे नीवाराश्च मे...' । परन्तु अत्र 'उमा' तथा 'भङ्गा' एतयोः निर्देशः नास्ति । अतः एतौ द्वौ शब्दौ धान्यविशेषवाचिनौ स्तः वा - इति प्रश्नः उपतिष्ठते । अस्यैव स्पष्टीकरणार्थम् काशिकाकारः वदति - 'उमाभङ्गयोरपि धान्यत्वमाश्रितमेव' । इत्युक्ते, एतौ द्वौ शब्दौ अपि धान्यवाचिनौ स्तः - इति ।\n" }, "52005": { "sa": "तृतीयासमर्थात् सर्वचर्मन्-शब्दात् 'सर्वः कृतः' अस्मिन् अर्थे ख तथा खञ्-प्रत्ययौ भवतः । ", "sd": "अस्य सूत्रस्य अर्थज्ञानात् पूर्वम् बिन्दुद्वयम् ज्ञातव्यम् -\n1. अनेन सूत्रेण उक्तौ ख-खञ्-प्रत्ययौ 'तृतीयासमर्थात्' उच्येते । अत्र वस्तुतः कोऽपि तृतीयासमर्थः शब्दः नास्ति, परन्तु 'कृतः' इत्यनेन 'तेन कृतः' इति अर्थः स्पष्टीभवति, अतः अत्र 'तृतीयासमर्थात्' सर्वचर्मन्-शब्दात् प्रत्ययविधानम् क्रियते ।\n2. यद्यपि अस्मिन् सूत्रे 'सर्वचर्म' शब्दात् प्रत्ययः उच्यते, तथाप्यत्र 'सर्वचर्मन्' इति मूलम् प्रातिपदिकम् नास्ति, यतः 'सर्व' शब्दस्य अन्वयः अत्र 'चर्मन्' इत्यनेन सह न क्रियते, अपितु 'कृतः' इत्यनेन सह क्रियते । 'चर्मणा सर्वम् कृतम्' इति अत्र विग्रहवाक्यं दत्त्वा अग्रे प्रत्ययविधानम् 'सर्वचर्मन्' शब्दात् कर्तव्यम् । अतएव व्याख्यानानि अत्र 'असमर्थ-समासः' अस्ति स्पष्टीकुर्वन्ति ।\nइदानीम् सूत्रार्थः स्पष्टः स्यात् - 'तृतीयासमर्थात् 'सर्वचर्मन्' शब्दात् 'चर्मणा सर्वम् कृतम्' अस्मिन् अर्थे 'ख' तथा 'खञ्' प्रत्ययौ भवतः ।\n1. सर्वचर्मन् + ख\n→ सर्वचर्मन् + ईन [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ईन-आदेशः]\n→ सर्वचर्म् + ईन [<<नस्तद्धिते>> [[6.4.144]] इति टिलोपः[\n→ सर्वचर्मीन\n→ सर्वचर्मीण [<<अट्कुप्वाङ्नुम्व्ययायेऽपि>> [[8.4.2]] इति णत्वम्]\n2. सर्वचर्मन् + खञ्\n→ सर्वचर्मन् + ईन [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ईन-आदेशः]\n→ सार्वचर्म + इन [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ सार्वचर्म् + ईन [<<नस्तद्धिते>> [[6.4.144]] इति टिलोपः[\n→ सार्वचर्मीन\n→ सार्वचर्मीण [<<अट्कुप्वाङ्नुम्व्ययायेऽपि>> [[8.4.2]] इति णत्वम्]\nचर्मणा सर्वः कृतः सः सर्वचर्मीणः सार्वचर्मीणः वा स्यूतः । A bag that is made completely with leather - इत्यर्थः ।\n" }, "52006": { "sa": "षष्ठीसमर्थात् 'यथामुख' शब्दात् तथा च 'सम्मुख' शब्दात् 'दर्शनः (दर्पणः)' अस्मिन् अर्थे ख-प्रत्ययः भवति । ", "sd": "अस्मिन् सूत्रे प्रयुक्तः 'दर्शन' इति शब्दः <<करणाधिकरणयोश्च>> [[3.3.117]] इत्यनेन दृश्-धातोः अधिकरणे ल्युट्-प्रत्ययं कृत्वा सिद्ध्यति । 'दृश्यते यस्मिन् ; सः दर्शनः' - इति अत्र अर्थः । यस्मिन् वस्तुनि प्रतिबिम्बस्य (reflection) दर्शनम् भवति, तत् वस्तु 'दर्शन' इत्यनेन निर्दिश्यते ।यथा - दर्पणः (mirror), जलकुम्भः (a pot filled with water), स्थालिका (a steel plate) - आदयः । एतादृशस्य पदार्थस्य निर्देशार्थमस्मिन् सूत्रे 'यथामुख' तथा 'सम्मुख' शब्दाभ्याम् 'ख' प्रत्ययः उक्तः अस्ति । क्रमेण पश्यामः -\n1. 'यथामुखम् दर्शनः' = यथामुख + ख → यथामुखीनः दर्पणः । मुखम् यथा प्रत्यक्षरूपेण विद्यते, तथैव यस्मिन् दर्पणे दृश्यते, सः 'यथामुखीनः दर्पणः' । An object (E.g. mirror) that shows the exact reflection of the face, without any distortions or blurring - is referred as यथामुखीन ।\nविशेषः -\n[अ] अत्र 'यथामुख' अयम् शब्दः 'मुखस्य सदृशम्' अस्मिन् अर्थे प्रयुक्तः अस्ति । वस्तुतस्तु <<यथाऽसादृश्ये>> [[2.1.7]] इत्यनेन 'यथा' इति शब्दः अव्ययीभावसमासे केवलम् 'असादृश्यम्' अस्मिन् अर्थे एव प्रयुज्यते; अतः 'सादृश्ये' अस्मिन् अर्थे 'यथा' इत्यनेन सह अव्ययीभावसमासः भवितुमेव न अहर्ति । तर्हि अस्मिन् सूत्रे 'यथामुख' इत्यस्य प्रयोगः 'मुखस्य सदृशः' इत्यस्मिन् अर्थे कथम् भवति - इति प्रश्नः उपतिष्ठते । अस्यैव उत्तरार्थम् काशिकाकारः वदति - 'निपातनात् सादृश्येऽव्ययीभावः' । इत्युक्ते, अत्र 'यथामुखम्' शब्दः 'मुखस्य सदृशम्' अस्मिन् अर्थे निपातनेन सिद्ध्यति (न हि केनचित् सूत्रेण) - इति आशयः ।\n[आ] अत्र विग्रहवाक्ये अव्ययीभावसमासात् विहितस्य षष्ठ्येकचनस्य प्रत्ययस्य <<नाव्ययीभावादतोऽम्त्वपञ्चम्याः>> [[2.4.83]] इत्यनेन 'अम्'-आदेशः भवति, अतः 'यथामुखम्' इति अम्- प्रत्ययान्तम् रूपम् विग्रहवाक्ये प्रयुज्यते । यथामुखम् दर्शनः यथामुखीनः दर्पणः ।\n2. सर्वस्य मुखस्य दर्शनः = सम्मुख +ख → सम्मुखीनः दर्पणः । यस्मिन् दर्पणे सम्पूर्णम् मुखम् दृश्यते, सः सम्मुखीनः दर्पणः । An object (E.g. mirror) that shows the reflection of the complete face (not just a part of it) is referred as सम्मुखीन ।\nविशेषः - अत्र प्रयुक्तः 'सम्मुख' शब्दः 'सर्वम् मुखम्' अस्मिन् अर्थे ख-प्रत्ययस्य प्रयोगार्थम् निपात्यते । तदर्थम् 'समम् (= सर्वम्) च तत् मुखम्' इति कर्मधारय-समासेन 'सममुख' इति शब्दं कृत्वा अग्रे निपातनेन मकारोत्तर-अकारस्य लोपं कृत्वा 'सम्मुख' शब्दः सिद्ध्यति ।विग्रहवाक्ये तु 'सर्वस्य मुखस्य' इत्येव वक्तव्यम् । " }, "52007": { "sa": "'व्याप्नोति' अस्मिन् अर्थे द्वितीयासमर्थेभ्यः 'सर्वपथ', 'सर्वाङ्ग', 'सर्वकर्म', 'सर्वपत्र' तथा 'सर्वपात्र' एतेभ्यः शब्देभ्यः ख-प्रत्ययः भवति । ", "sd": "'व्याप्नोति' इति 'वि + आप्' इत्यस्य लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् । आच्छादयति / बिभर्ति (occupy / covers up / fills up) इति अस्य अर्थः ।\n'सर्व' इति शब्दः यस्य पूर्वपदमस्ति तादृशात् द्वितीयासमर्थात् 'पथिन्', 'अङ्ग', 'कर्मन्', पत्र' तथा 'पात्र' शब्दात् 'व्याप्नोति' इत्यस्मिन् अर्थे अनेन सूत्रेण ख-प्रत्ययः भवति । क्रमेण पश्यामः -\n1. सर्वपथम् (complete road) व्याप्नोति सः सर्वपथीनः रथः । प्रक्रिया इयम् -\nसर्वपथ + ख\n→ सर्वपथ + ईन [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इत्यनेन ख-इत्यस्य ईन-आदेशः]\n→ सर्वपथ् + ईन [<<यस्येति च>> इति अकारलोपः]\n→ सर्वपथीन\nविशेषः - 'सर्वपथ' इति शब्दः 'सर्वः च अयम् पन्थाः' इति कर्मधारय-समासं कृत्वा सिद्ध्यति । प्रक्रिया इयम् -\nसर्वः च अयम् पन्थाः\n= सर्व + सुँ + पथिन् + सुँ [<<पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन>> [[2.1.49]] इति कर्मधारयसमासः । समस्तपदस्य <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा]\n→ सर्व + पथिन् [<<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुँ-प्रत्यययोः लोपः]\n→ सर्व + पथिन् + अ [ <<ऋक्पूरब्धूःपथामानक्षे>> [[5.4.74]] इति समासान्ते 'अ' प्रत्ययः]\n→ सर्व + पथ् + अ [<<नस्तद्धिते>> [[6.4.144]] इति टिलोपः]\n→ सर्वपथ ।\n2. सर्वाङ्गम् व्याप्नोति सः सर्वाङ्गीणः ज्वरः । सर्वाङ्गम् व्याप्नोति तत् सर्वाङगीणम् कवचम् । सर्वाङ्गम् व्याप्नोति सा सर्वाङ्गीणा माला । अत्र <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्-प्रत्ययः भवति ।\n3. सर्वकर्म व्याप्नोति सः सर्वकर्मीणः पुरुषः । यः पुरुषः सर्वम् कर्म करोति सः 'सर्वकर्मीणः' अस्ति इत्युच्यते ।\n4. सर्वपत्रम् (all chariots) व्याप्नोति सः सर्वपत्त्रीणः सारथी । A driver who can drive all types of chariots - इत्यर्थः ।\n5. सर्वपात्रम् व्याप्नोति सः सर्वपात्रीणः ओदनः । अधिकया मात्रया विद्यमानः ओदनः सर्वेषु पात्रेषु स्थापयितुम् शक्यते (Rice being ample in quantity, can occupy all vessels) इति आशयः ।\n" }, "52008": { "sa": "'प्राप्नोति' अस्मिन् अर्थे 'आप्रपद' शब्दात् ख-प्रत्ययः भवति । ", "sd": "'प्राप्नोति' इति 'प्र + आप्' इत्यस्य लट्-लकारस्य प्रथमपुरुषैकचनस्य रूपम् । 'समीपम् गच्छति' (reaches there) अस्मिन् अर्थे अयम् शब्दः अत्र प्रयुज्यते ।\n'प्रपद' इत्युक्ते पदस्य अग्रभागः (tip of the tow) । 'आप्रपद' अयम् शब्दः 'प्रपद' शब्दात् 'आङ्' इत्यस्य योजनं कृत्वा सिद्ध्यति । अत्र 'आङ्' इत्यस्य अर्थः 'मर्यादा' इति स्वीक्रियते । अतः 'आप्रपद' शब्दस्य अर्थः अत्र 'पदस्य अग्रभागम् यावत्, परन्तु तत् विहाय' - इति गृह्यते । Till the tip of the toe, with without including it - इति आशयः ।\nएतादृशात् 'आप्रपद' शब्दात् द्वितीयासमर्थात् 'प्राप्नोति' अस्मिन् अर्थे ख-प्रत्ययः भवति । आप्रपद + ख → आप्रपदीन । आप्रपदम् प्राप्नोति तत् आप्रपदीनम् वस्त्रम् । यत् वस्त्रम् पदस्य अग्रभागम् यावत् गच्छति, परन्तु तमग्रभागम् पूरयितुमसमर्थः वर्तते, तस्य निर्देशः 'आप्रपदीनम् वस्त्रम् ' इति क्रियते । A piece of clothing that reaches till the tip of the toe but fails to cover the tip of the toe completely is called आप्रपदीन ।\nविशेषः -\n1. वर्तमानसूत्रे 'प्राप्नोति' इति क्रियापदमुच्यते । पूर्वस्मिन् सूत्रे <<तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं व्याप्नोति>> [[5.2.7]] इत्यत्र 'व्याप्नोति' इति क्रियापदम् प्रयुक्तमस्ति । द्वयोः शब्दयोः सूक्ष्मः भेदः विद्यते यः न्यासकारेण स्पष्टीक्रियते - 'सम्बन्धमात्रं प्राप्तिः, सम्बन्ध एव साकल्येन व्याप्तिरित्येव विशेषः' । इत्युक्ते, 'प्राप्नोति' इति शब्दः केवल-सम्बन्धस्य (mere contact) निर्देशार्थम् प्रयुज्यते , तथा च 'व्याप्नोति' अयम् शब्दः 'सम्पूर्णरूपेण आच्छादयति' (filling up completely) अस्मिन् अर्थे प्रयुज्यते ।\n2. 'आप्रपदम्' अयम् शब्दः अव्ययीभावसमासेन निर्मितः अस्ति, अतः अस्मात् शब्दात् विहितस्य सुप्-प्रत्ययस्य <<नाव्ययीभावादतोऽम्त्वपञ्चम्याः>> [[2.4.83]] इत्यनेन 'अम्'-आदेशः भवति । अतएव विग्रहवाक्ये 'आप्रपदम्' इति शब्दः प्रयुज्यते । " }, "52009": { "sa": "द्वितीयासमर्थात् 'अनुपद' शब्दात् 'बद्धा' अस्मिन् अर्थे ; 'सर्वान्न' शब्दात् 'भक्षयति' अस्मिन् अर्थे ; तथा 'अयानय' शब्दात् 'नेयम्' अस्मिन् अर्थे ख-प्रत्ययः भवति । ", "sd": "अस्मिन् सूत्रे त्रीणि प्रातिपदिकानि, त्रयश्च अर्थाः उच्यन्ते । प्रत्येकस्मात् प्रातिपदिकात् यथासङ्ख्ये निर्दिष्टे अर्थे अनेन सूत्रेण ख-प्रत्ययः भवति । क्रमेण पश्यामः -\n1. अनुपदम् बद्धा -\n[अ] 'अनुपदम्' इत्युक्ते 'पदस्य आयामम् यावत् यस्य प्रमाणं विद्यते तत्' । The one whose dimensions / measurement is same as that of a foot. ।\n[आ] 'बद्धा' इति 'बध्' धातो' तृन्-प्रत्ययान्तरूपम् । बद्ध्नाति / बन्धनं करोति सः बद्धा ।\nअतः 'अनुपदम् बद्धा' इत्युक्ते तत् बन्धनम् यस्य प्रमाणम् पादम् यावत् विद्यते । एतादृशस्य बन्धनस्य निर्देशार्थम् 'अनुपद' शब्दात् ख-प्रत्ययः भवति । अनुपदम् बद्धा तत् अनुपदीनम् पादत्राणम्, अनुपदीना उपानद् (footwear) वा ।\n2. सर्वान्नम् भक्षयति - सर्वमन्नम् / सर्वप्रकारस्य अन्नम् यः भक्षयति, तस्य निर्देशार्थम् 'सर्वान्न' शब्दात् ख-प्रत्ययः भवति । सर्वान्नम् भक्षयति सः सर्वान्नीनः भिक्षुः ।\n3. अयानयम् नेयः - द्यूतक्रीडायाम् पटे विद्यमानस्य कस्यचन विशिष्टस्थानस्य नाम 'अयानय'इति वर्तते, यत्र क्रीडकेन स्वस्य शाराः नेयाः - इति नियमः विद्यते । In the game of gambling (द्यूत), a certain place on the gambling-board is termed as 'अयानय' and an important 'goal' in the game is that the players should try to take their pieces to this location in order to make them safe from the attack of the opponent. एतादृशानाम् शारानाम् (game-pieces) निर्देशार्थम् 'अयानय' शब्दात् वर्तमानसूत्रेण ख-प्रत्ययः भवति । अयानयम् नेयाः ते अयानयीनाः शाराः ।\nविशेषः - 'अय' तथा 'अनय' एतयोः मेलनेन 'अयानय' शब्दः सिद्ध्यति । दक्षिणमार्गक्रमणम् (going in the right direction) 'अय' नाम्ना ज्ञायते, वाममार्गगमनम् (going in the left direction) 'अनय' नाम्ना ज्ञायते । द्यूतक्रीडायाम् एकस्य पक्षस्य शाराः 'दक्षिण'दिशि तथा अपरस्य पक्षस्य शाराः 'वाम'दिशि गच्छन्ति, परन्तु सर्वेऽपि शाराः यस्मिन् स्थाने नेतुम् योग्याः, तत् स्थानम् 'अयानय' नाम्ना ज्ञायन्ते । The place that can be reached (or the place that is worth reaching) by the pieces that are traversing in the right direction as well the pieces that are traversing in the left direction - इत्यर्थः ।\nस्मर्तव्यम् - अस्मिन् सूत्रे 'बद्धाभक्षयतिनेयेषु' इति पदम् कथं जायत् अस्मिन् विषये द्वौ पक्षौ वर्तेते -\nअ) 'बद्धा च भक्षयति च नेयम् च तत् बद्धाभक्षयतिनेयम्, तेषु' - एतादृशम् द्वन्द्वसमासेन 'बद्धाभक्षयतिनेयेषु' इति पदम् निर्मितमस्ति । अयम् वस्तुतः आर्षप्रयोगः अस्ति, यतः 'बद्धा' तथा 'भक्षयति' एतौ द्वौ अपि तिङन्तपदौ स्तः, ययोः द्वन्द्वसमासः नैव भवितुमर्हति ।\nॠ) 'बद्धाभक्षयतिनेयेषु' अत्र 'बद्धा', 'भक्षयति', तथा 'नेय' एतानि त्रीणि भिन्नानि पदानि गृह्यन्ते । अत्रापि 'नेयेषु' इति बहुवचनमप्रस्तुतम्, अतः आर्षप्रयोगः एव मन्यते । " }, "52010": { "sa": "द्वितीयासमर्थेभ्यः 'परोवर', 'परम्पर', 'पुत्रपौत्र' शब्देभ्यः 'अनुभवति' अस्मिन् अर्थे ख-प्रत्ययः भवति । ", "sd": "अस्मिन् सूत्रे त्रयः शब्दाः उच्यन्ते - 'परोवर', 'परम्पर', 'पुत्रपौत्र' । एतेभ्यः 'अनुभवति' (अनुभवम् प्राप्नोति / experiences) अस्मिन् अर्थे 'ख' प्रत्ययः भवति । क्रमेण पश्यामः -\n1. परोवर - अयम् शब्दः 'पर' तथा 'अवर' एतयोः मेलनेन जायते । 'पर + अवर' इति स्थिते निपातनात् 'अवर' शब्दस्य अकारस्य उकारादेशः भवति, ततश्च गुण-एकादेशं कृत्वा 'परोवर' शब्दः सिद्ध्यति । 'पर' तथा 'अवर' द्वाभ्यां शब्दाभ्यां अत्र द्वौ लोकौ निर्दिश्येते । परलोकम् (उच्चतरम् लोकम् - यथा स्वर्गलोकम् )) तथा च अवरलोकम् (निम्नतरम् लोकम्, यथा भूलोकम्) द्वावपि यः अनुभवति, तस्य निर्देशार्थमस्मिन् सूत्रे 'परोवर'शब्दात् 'ख' प्रत्ययः उक्तः अस्ति । परान् च अवरान् च अनुभवति सः परोवरीणः ।\n2. 'परम्पर' - अयम् शब्दः 'पर' तथा 'परतर' एतयोः मेलनेन जायते । 'पर + परतर' इति स्थिते मेलनं कृत्वा द्वयोः 'परम्पर' इति एकादेशः निपात्यते । परम् परतरम् च यः अनुभवति, तस्य निर्देशार्थम् 'परम्पर' शब्दात् 'ख' प्रत्ययः भवति । यथा - परान् च परतरान् च अनुभवति सः परम्परीणः ।\nविशेषः - 'परम्परा' इति कश्चन अन्यः स्त्रीलिङ्गवाची शब्दः अस्ति, सः अत्र न गृह्यते ।\n3. 'पुत्रपौत्र' - 'पुत्र' तथा 'पौत्र' एताभ्याम् द्वन्द्वसमासेन 'पुत्रपौत्र'शब्दः सिद्ध्यति - पुत्राः च पौत्राः च पुत्रपौत्राः । पुत्रपौत्रान् यः अनुभवति (one who sees / experiences the company of children and grandchildren) तस्य निर्देशार्थम् 'पुत्रपौत्र'शब्दात् 'ख' प्रत्ययः भवति । पुत्रपौत्रान् अनुभवति सः पुत्रपौत्रीणः ।\nस्मर्तव्यम् - 'परोवर' तथा 'परम्पर' एतौ द्वौ शब्दौ ख-प्रत्ययप्रयोगार्थम् एव निपात्येते । एतयोः शब्दयोः पृथक्-रूपेण वाक्ये प्रयोगः न कर्तव्यः । अतएव उभयत्र 'परान् च अवरान् च अनुभवति' तथा 'परान् च परतरान् च अनुभवति' एते एव विग्रहवाक्ये उच्येते । " }, "52011": { "sa": "'गामी' इत्यस्मिन् अर्थे 'अवारपार', 'अत्यन्त' तथा 'अनुकाम' एतेभ्यः द्वितीयासमर्थेभ्यः 'ख'-प्रत्ययः भवति । ", "sd": "'गामी' इत्युक्ते 'गमिष्यति सः' । 'गम्' धातोः <<आवश्यकाधमर्ण्ययोर्णिनिः>> [[3.3.170]] इत्यनेन 'णिनि' प्रत्ययं कृत्वा 'गामिन्' इति प्रातिपदिकम् सिद्ध्यति, तस्य इदम् प्रथमैकवचनम् ।\nअस्मिन् सूत्रे 'गामी' इत्यस्मिन् अर्थे त्रिभ्यः शब्देभ्यः 'ख'प्रत्ययः उच्यते । क्रमेण पश्यामः -\n1. 'अवारपार' - 'अवारपार' इत्युक्ते सागरस्य द्वितीयः तटः (other end of ocean). सागरमपि उल्लङ्घ्य यः गमिष्यते , तस्य निर्देशार्थम् 'अवारपार'शब्दात् ख-प्रत्ययः क्रियते । अवारपारम् गामी अवारपारीणः ।\nअस्य शब्दस्य विषये वार्त्तिकमेकम् पाठ्यते - । इत्युक्ते, 'अवार', 'पार', तथा 'पारावार' - एतेभ्यः शब्देभ्यः अपि वर्तमानसूत्रेण ख-प्रत्ययः भवति । अवारं गामी अवारीणः । पारं गामी पारीणः । पारावारं गामी पारावारीणः ।\n2. 'अत्यन्त' - 'बहु' अस्मिन् अर्थे अयम् शब्दः प्रयुज्यते । अत्यन्तम् गामी अत्यन्तीनः । भृशमन्तरम् गच्छति (The one who will travel a huge amount of distance) इत्यर्थः ।\n3. अनुकाम - 'काममनुसृत्य' (यथेच्छम्, based on the will) इति अस्य शब्दस्य अर्थः । अनुकामम् गच्छति अनुकामीनः ।\n" }, "52012": { "sa": "'विजायते' इत्यस्मिन् अर्थे द्वितीयासमर्थात् 'समांसमा' शब्दात् 'ख'-प्रत्ययः भवति । ", "sd": "सूत्रे प्रयुक्तयोः शब्दयोः अर्थमादौ पश्यामः -\n1. 'समा' इत्युक्ते 'वर्षम्' । 'समांसमाम्' इत्यत्र 'वीप्सा' / पौनःपुन्यम्' (repeation) इति निर्देशयितुम् <<नित्यवीप्सयोः>> [[8.1.4]] इत्यनेन द्विरूक्तिः / द्विर्वचनम् क्रियते । 'समांसमाम्' इत्युक्ते 'प्रतिवर्षम्' ।\n2. 'विजायते' इत्युक्ते 'गर्भं धारयति' (becomes pregnant) ।\nअतः सम्पूर्णस्य सूत्रस्य अर्थः अयम् - 'प्रतिवर्षम् गर्भं धारयति' अस्मिन् अर्थे 'समांसमा' शब्दात् ख-प्रत्ययः भवति । यथा -\nअ) समांसमां विजायते सा = समांसमा + ख + टाप् → समांसमीना गौः । A cow that carries a baby every year - इत्याशयः ।\nआ) समांसमां विजायते सा समांसमीना वडवा (female horse) ।\nअत्र केचन विशेषाः स्मर्तव्याः -\n1. 'समांसमाम् विजायते' इति अत्र विग्रहवाक्यमस्ति । अस्मिन् विग्रहवाक्ये <<कालाध्वनोरत्यन्तसंयोगे>> [[2.3.5]] इत्यनेन द्वितीया प्रयुज्यते । परन्तु केचन पण्डिताः अत्र 'समायाम् समायाम् विजायते' इति सप्तमीनिर्देशम् स्वीकुर्वन्ति । अतः 'समांसमीन' इत्यत्र द्वे विग्रहवाक्ये भवतः - 'समां समां विजायते' तथा 'समायां समायां विजायते' । अस्मिन्नेव विषये वार्त्तिककारः एकं वार्त्तिकं पाठयति - । इत्युक्ते, मूलरूपेण 'समायां समायां विजायते' इति विग्रहवाक्यं स्वीकृत्य तत्र पूर्वपदे तथा उत्तरपदे - उभयत्र विद्यमानस्य यकारस्य समानकाले एव विकल्पेन लोपं कृत्वा 'समाम् समाम् विजायते' इति वाक्यमपि साधु ज्ञेयम् । (अत्र ख-प्रत्ययस्य अनुपस्थितौ एव विग्रहवाक्यस्य परिवर्तनं भवति, अतः अत्र वार्त्तिके 'खप्रत्ययानुत्पत्तौ' इति शब्दः गृह्यते ।)\n2. अत्र प्रक्रियायाम् 'समाम् समाम्' / 'समायाम् समायाम्' इति 'सुबन्तसमुदायः' (The group of two सुबन्तs) इत्येव प्रकृतिः अस्ति । इत्युक्ते, अत्र केवलम् 'समा'शब्दात् प्रत्ययः न उत्पाद्यते, अपितु समुदायात् एव प्रत्ययः उत्पाद्यते । अस्यां प्रक्रियायाम् पूर्वपदे विद्यमानानां केषाञ्चन वर्णानाम् निपातनेन अलुक् विधीयते । तत् इत्थम् -\n[प्रथमः पक्षः] - 'समाम् समाम् विजायते' इति स्थिते -\n= समाम् समाम् + ख [वर्तमानसूत्रेण 'ख'प्रत्ययः]\n→ समा + अम् + समा + अम् + ख [ <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इत्यनेन प्रातिपदिकसंज्ञा । अतः अलौकिकविग्रहः दर्श्यते ]\nअस्यां स्थितौ प्रातिपदिके विद्यमानस्य सुप्-प्रत्ययस्य <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इत्यनेन लुक् विधीयते । अत्र प्रातिपदिके वस्तुतः द्वौ सुप्-प्रत्ययौ स्तः (द्वावपि 'अम्' इत्येव)। परन्तु अत्र केवलमुत्तरपदे विहितस्य 'अम्' प्रत्ययस्य एव लुक् भवति ; पूर्वपदे विद्यमानस्य अम्-प्रत्ययस्य लुकि प्राप्ते तस्य 'अलुक्' (= लुक्-निषेधः) निपात्यते । अतः -\n→ समा + अम् + समा + ख [उत्तरपदस्य 'अम्' प्रत्ययस्य <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति लुक् ; पूर्वपदस्य अम्-प्रत्ययस्य निपातनात् लुक्-निषेधः]\n→ समांसमा + ख [<<अमि पूर्वः>> [[6.1.107]] इति पूर्वरूपः एकादेशः ]\n→ समांसमा + ईन [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ईन-आदेशः]\n→ समांसम + ईन [ इति पुंवद्भावः]\n→ समांसम् + ईन [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ समांसमीन\n[ द्वितीयः पक्षः] 'समायाम् समायाम् विजायते' इति स्थिते -\n= समायाम् समायाम् + ख [वर्तमानसूत्रेण 'ख'प्रत्ययः]\n→ समा + याट् + आम् + समा + याट् + आम् + ख [ <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इत्यनेन प्रातिपदिकसंज्ञा ; अतः अलौकिकविग्रहः दर्श्यते । अत्र मूलरूपेण 'ङि'प्रत्ययः विद्यते, तस्य <<ङेराम्नद्याम्नीभ्यः>> [[7.3.116]] इत्यनेन आम्-आदेशः भवति, तथा च तस्मात् <<याडापः>> [[7.3.113]] इति याट्-आगमः विधीयते । अतः अत्र 'याट् + आम्' इति दर्शितमस्ति । ]\nअत्र अपि तद्धितान्तस्य <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इत्यनेन प्रातिपदिकसंज्ञा भवति, अतः उभयत्र विद्यमानस्य 'याट् + आम्' प्रत्ययस्य लुक् विधीयते । अस्यां स्थितौ पूर्वपदे विद्यमानस्य 'आम्' इत्यस्य लुकः निपातनेन निषेधः क्रियते - केवलम् 'याट्' इत्यस्यैव लुक् भवति । उत्तरपदस्य तु सम्पूर्णप्रत्ययस्य लुक् भवति । अतः -\n→ समा + आम् + समा + ख [<<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति उत्तरपदस्य 'याट् + आम्' इत्यस्य लुक् । अनेनैव सूत्रेण पूर्वपदस्य प्रत्ययस्य लुकि प्राप्ते निपातनात् 'आम्' इत्यस्य लुक् न भवति ; केवलम् 'याट्' इत्यस्यैव लुक् क्रियते ।]\n→ समांसमा + ख [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः]\n→ समांसमा + ईन [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ईन-आदेशः]\n→ समांसम + ईन [ इति पुंवद्भावः]\n→ समांसम् + ईन [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ समांसमीन\nअनेन प्रकारेण द्वाभ्यामपि विग्रहवाक्याभ्यां आरभ्य यथोचितम् पूर्वपदस्थप्रत्ययस्य लुकम् कृत्वा 'समांसमीन' इत्येव अन्तिमम् रूपम् सिद्ध्यति । " }, "52013": { "sa": "'अद्य श्वः वा विजायते' अस्मिन् अर्थे 'अद्यश्वीन' शब्दः निपात्यते । ", "sd": "वर्तमानसूत्रेण 'अद्यश्वीन' इति शब्दः निपात्यते । 'अवष्टब्धे (= समीपकाले, in very near future) विजायते (= गर्भं धारयति / जन्म ददाति , becomes pregnant / gives birth)' अस्मिन् अर्थे अस्य शब्दस्य प्रयोगः भवति । अत्र 'अद्य वा श्वो वा विजायते' इति विग्रहवाक्यं स्वीकृत्य तस्मात् ख-प्रत्ययान्तस्य 'अद्यश्वीन'शब्दस्य निपातनम् क्रियते ।\nउदाहरणम् - 'इयम् गौः अद्यश्वीना अस्ति' । इयम् गौः अद्य वा श्वः वा प्रसविष्यति - इति आशयः ।\nस्मर्तव्यम् -\n1. केचन पण्डिताः अस्मिन् सूत्रे 'विजायते' इत्यस्य अनुवृत्तिम् न स्वीकुर्वन्ति । अतः तेषाम् मतेन या काऽपि क्रिया 'अद्य वा श्वः वा' भविष्यति, तस्याः निर्देशः 'अद्वश्वीन' इत्यनेन भवितुमर्हति । यथा, अद्यश्वीनम् मरणम् ; अद्यश्वीना परीक्षा ; अद्यश्वीनः वियोगः - आदयः ।\n2. अस्मिन् सूत्रे 'अवष्टब्ध' इति शब्दः प्रयुज्यते । अयम् शब्दः 'अव + स्तम्भ्' इत्यत्र क्त-प्रत्ययान्तरूपमस्ति । 'निकटम् प्राप्तः / आपन्नः' अस्मिन् अर्थे अयम् शब्दः प्रयुज्यते । " }, "52014": { "sa": "'यावत् गोप्रतिदानम् न क्रियते; तावत् कार्यम् करोति' अस्मिन् अर्थे 'आगवीन'-शब्दः निपात्यते । ", "sd": "अनेन सूत्रेण 'आगवीनः' अस्य शब्दस्य निपातनम् क्रियते ।\nकिम् नाम आगवीनः ? यदि कश्चन निर्धनः कस्माच्चित् धनिकात् कांश्चन गाम् (धेनुम्) ऋणरूपेण स्वीकरोति ; तथा च यावत् सा गौः तस्मै धनिकाय न प्रत्यार्प्यते तावत् तस्य धनिकस्य भृत्यरूपेण कार्यम् करोति, तर्हि तादृशः भृत्यः 'आगवीन' नाम्ना ज्ञायते । A person who takes a cow from someone on rent for a certain period, and serves the owner of the cow during that period is called आगवीन.\nअनेन सूत्रेण 'आगवीन' शब्दस्य निपातनम् एतादृशम् क्रियते -\n1. 'गोः मर्यादा' अस्मिन् अर्थे 'आङ्' अव्ययेन सह 'गो' शब्दस्य अव्ययीभावसमासम् कृत्वा प्रारम्भे 'आगु' इति शब्दः सिद्ध्यति । अत्र 'गो' शब्दः 'गोप्रतिदानम्' (returning of a cow) अस्मिन् अर्थे प्रयुक्तः अस्तीति भाष्ये स्पष्टीक्रियते ।\n2. 'आगु' अस्मात् शब्दात् 'कर्म करोति' अस्मिन् अर्थे ख-प्रत्ययः निपात्यते । यः 'गोप्रतिदानम् मर्यादारूपेण स्वीकृत्य कार्यम् करोति' (इत्युक्ते, यावत् गौः स्वसमीपे स्थापयति तावत् कार्यम् करोति') तस्य निर्देशार्थम् इदम् निपातनम् क्रियते ।\n3. 'ख' इत्यस्य <<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इत्यनेन 'ईन' आदेशः भवति ।\n3. 'आगु + ईन' इत्यत्र <<ओर्गुणः>> [[6.4.146]] इत्यनेन गुणादेशं कृत्वा अग्रे <<एचोऽयवायावः>> [[6.1.78]] इति अवादेशं कृत्वा वर्णमेलने कृते 'आगवीन' इति रूपम् सिद्ध्यति ।\n " }, "52015": { "sa": "'अनुगु' शब्दात् 'अलङ्गामी (पर्याप्तम् गच्छति)' अस्मिन् अर्थे ख-प्रत्ययः भवति । ", "sd": "'अनुगु' इति किञ्चन अव्ययम् । 'गोः पश्चात्' इत्यस्मिन् अर्थे 'अनु' अव्ययेन सह अव्ययीभावसमासं कृत्वा 'अनुगु' शब्दः सिद्ध्यति । अस्मात् 'अनुगु' शब्दात् 'अलम् (= पर्याप्तम्) गच्छति' अस्मिन् अर्थे ख-प्रत्ययः भवति ।\nयथा -\nअनुगु अलङ्गामी (= पर्याप्तं गच्छति)\n= अनुगु + ख\n→ अनुगु + ईन [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ख-प्रत्ययस्य ईन-आदेशः]\n→ अनुगो + ईन [<<ओर्गुणः>> [[6.4.146]] इति गुण-एकादेशः]\n→ अनुगव् + इन [<<एचोऽयवायावः>> [[6.1.78]] इति अव्-आदेशः]\n→ अनुगवीन\nयः गोपालः धेनूनाम् रक्षणार्थम् तेभ्यः पश्चात् बहु दूरं यावत् गच्छति, धेनूभ्यः अवधानम् न त्यजति, तस्य निर्देशार्थम् 'अनुगवीन' शब्दस्य प्रयोगः क्रियते । A गोपाल who closely / appropriately follows the herd of cows wherever they go and does not leave the cows alone is referred as अनुगवीनः ।" }, "52016": { "sa": "'अलङ्गामी (= पर्याप्तम् गच्छति)' अस्मिन् अर्थे द्वितीयासमर्थात् 'अध्वन्' शब्दात् यत् तथा खः प्रत्ययौ भवतः । ", "sd": "'अध्वन्' इत्युक्ते 'मार्गः' । 'कस्मिंश्चित् मार्गे पर्याप्तम् गच्छति' (sufficiently travels a road) अस्मिन् अर्थे अध्वन्-शब्दात् यत् तथा ख-प्रत्ययौ भवतः । प्रकिये एतादृश्यौ -\n1) अध्वानमलङ्गामी सः\n= अध्वन् + यत्\n→ अध्वन् + य [<<नस्तद्धिते>> [[6.4.144]] इति टिलोपे प्राप्ते तं बाधित्वा <<ये चाभावकर्मणोः>> [[6.4.168]] इति यकारादौ तद्धितप्रत्यये परे प्रकृतिभावः]\n→ अध्वन्य\n2) अध्वानमलङ्गामी सः\n= अध्वन् + ख\n→ अध्वन् + ईन [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ईन-आदेशः]\n→ अध्वनीन [ [<<नस्तद्धिते>> [[6.4.144]] इति टिलोपे प्राप्ते <<आत्माध्वानौ खे>> [[6.4.169]] इति प्रकृतिभावः।\nअध्वानमलङ्गामी सः अध्वन्यः अध्वनीनः वा । " }, "52017": { "sa": "'पर्याप्तम् गच्छति' अस्मिन् अर्थे द्वितीयासमर्थात् 'अभ्यमित्र' शब्दात् यत्, खः, छः - एते प्रत्ययाः भवति । ", "sd": "'अभ्यमित्रम्' इति किञ्चन अव्ययम् ।'अमित्रस्य सम्मुखम्' (facing an enemy) अस्मिन् अर्थे 'अभि' अव्ययेन सह 'अमित्र' शब्दस्य अव्ययीभावसमासं कृत्वा 'अभ्यमित्रम्' इति शब्दः सिद्ध्यति । अस्मात् शब्दात् 'अलम् गच्छति' अस्मिन् अर्थे यत्,खः, छः - एते प्रत्ययाः विधीयन्ते ।\n'अभ्यमित्रमलम् गच्छति' इत्युक्ते 'अमित्रस्य (= शत्रोः) सम्मुखम् पर्याप्तरूपेण गच्छति' । appropriately faces an enemy - इति आशयः ।\nरूपाणि एतादृशानि -\n1. अभ्यमित्र + यत् → अभ्यमित्र्य ।\n2. अभ्यमित्र + ख → अभ्यमित्रीण ।\n3. अभ्यमित्र + छ → अभ्यमित्रीय ।\nअभ्यमित्रमलङ्गामी सः अभ्यमित्र्यः, अभ्यमित्रीणः, अभ्यमित्रीयः वा ।\nविशेषः - वस्तुतः 'अभ्यमित्रम्' इति अव्ययमस्ति । परन्तु अस्मिन् सूत्रे क्रियाविशेषणरूपेण अस्य प्रयोगः भवति, अतः अत्र 'द्वितीयासमर्थात्' इति निर्देशः क्रियते । मूलरूपेण अत्र 'अभ्यमित्र' इति प्रातिपदिकम् । अस्मात् शब्दात् द्वितीया-एकवचनस्य अम्-प्रत्यये कृते <<अव्ययादाप्सुपः>> [[2.4.82]] इत्यनेन तस्य लोपे प्राप्ते तं बाधित्वा <<नाव्ययीभावादतोऽम्त्वपञ्चम्याः>> [[2.4.83]] इत्यनेन अम्-प्रत्ययस्य 'अम्' इत्येव आदेशं कृत्वा 'अभ्यमित्रम्' इति रूपम् सिद्ध्यति ।\n" }, "52018": { "sa": "यस्मिन् स्थाने पूर्वकाले गोष्ठम् अविद्यत, तस्य निर्देशार्थम् 'गोष्ठ' शब्दात् खञ् प्रत्ययः भवति । ", "sd": "'गोष्ठ' इत्युक्ते गवाम् निवासस्थानम् (A place where cows are kept, E.g. cowshed) । यस्मिन् स्थाने पूर्वकाले गोष्ठमासीत् (परन्तु इदानीम् नास्ति), तस्य स्थानस्य निर्देशं कर्तुम् 'गोष्ठ' शब्दात् खञ्-प्रत्ययः भवति । गोष्ठम् भूतपूर्वम् यत्र, तत् गौष्ठीनम् स्थानम् । A place where a cowshed used to exist earlier (but not anymore) is called गौष्ठीनम् ।\nविशेषः - यदि कस्मिंश्चित् स्थले वर्तमानकाले अपि गोष्ठं वर्तते, तर्हि तस्य निर्देशः 'गौष्ठीनम्' इत्यनेन न भवति - एतत् स्पष्टीकर्तुम् एव अस्मिन् सूत्रे 'भूतपूर्व' इति निर्दिश्यते । " }, "52019": { "sa": "'एकाहगम' अस्मिन् अर्थे अश्वशब्दात् खञ्-प्रत्ययः भवति । ", "sd": "'एकाहगम' इति 'मार्ग' इत्यस्य किञ्चन विशेषणम् । एकस्मिन् अहनि यावत् अन्तरम् गन्तुम् शक्यते, तावन्ती व्याप्तिः यस्य मार्गस्य, सः मार्गः 'एकाहगमः' नाम्ना ज्ञायते । A road (or its part) whose length is almost as same as the distance that can be traversed in one day is called एकाहगम ।\nवर्तमानसूत्रेण 'एकाहगम' अस्मिन् अर्थे 'अश्व' शब्दात् खञ्-प्रत्ययः उच्यते ।अश्व + खञ् → आश्वीन । एकस्मिन् दिने अश्वः यावन्तम् मार्गम् गन्तुम् शक्नोति, तावान् मार्गः 'आश्वीनः' नाम्ना ज्ञायते । अश्वस्य एकाहगमः अध्वा आश्वीनः ।\nज्ञातव्यम् -\n1. अस्मिन् सूत्रे 'अश्वस्य' इत्यनेन षष्ठीसामर्थ्यम् निर्दिश्यते । अतएव विग्रहवाक्ये 'अश्वस्य एकाहगमः' इति उक्तमस्ति ।\n2. 'एकाहगम' अस्य शब्दस्य निर्माणम् एतादृशम् भवति -\n(अ) 'एकम् च इदमहः च' इति कर्मधारयसमासं कृत्वा 'एकाह' शब्दः सिद्ध्यति ।\n(आ) 'एकाहेन गम्यते' इत्यत्र तृतीयातत्पुरुषसमासः भवति । प्रक्रियायाम् <<अकर्तरि च कारके संज्ञायाम्>> [[3.3.19]] इत्यनेन गम्-धातोः घञ्-प्रत्ययः भवति । 'गम् + घञ्' इत्यत्र वस्तुतः <<अतः उपधायाः>> [[7.2.116]] इत्यनेन उपधावृद्धिः विधीयते, परन्तु निपातनात् सः निषिध्यते, येन 'गम' इति प्रातिपदिकम् सिद्ध्यति , अतश्च 'एकाहगमः' इति समस्तपदम् जायते ।\n" }, "52020": { "sa": "'अधृष्ट' अस्मिन् अर्थे 'शालीन' शब्दः, तथा 'अकार्य' अस्मिन् अर्थे 'कौपीन' शब्दः निपात्यते । ", "sd": "अनेन सूत्रेण 'शालीन' तथा 'कौपीन' - द्वयोः शब्दयोः निपातनमुच्यते । एतयोः अर्थौ एतादृशौ -\n1. शालीन - 'शालाप्रवेशमर्हति' अस्मिन् अर्थे 'शालाप्रवेश' शब्दात् खञ्-प्रत्ययं कृत्वा 'प्रवेश' शब्दस्य निपातनेन लोपं कृत्वा 'शालीन' इति शब्दः सिद्ध्यति । यः मनुष्यः मूढः / अचतुरः अस्ति, समाजे प्रगल्भरूपेण वर्तनम् कर्तुम् न शक्नोति (= 'अधृष्टम्' वर्तनम् करोति), तस्य निर्देशार्थम् 'शालीन' इति शब्दः प्रयुज्यते । A person who is not capable of doing an appropriate / intelligent behavior in the society, and should rather be sent to school (for learning such a behavior) is called शालीन. । यथा - शालाप्रवेशमर्हति शालीनः मूढः ।\n2. कौपीन - 'कूपावतारमर्हति' अस्मिन् अर्थे 'कूपावतार' शब्दात् खञ् -प्रत्ययं कृत्वा निपातनेन 'अवतार'शब्दस्य लोपम् कृत्वा 'कौपीन' शब्दः सिद्ध्यति । अत्र 'कूप' शब्दः 'नरक' शब्दस्य पर्यायरूपेण प्रयुज्यते, तथा च 'अवतार' शब्दस्य अर्थः 'पतनम् प्रवेशनम् / अधोगमनम्' इति स्वीक्रियते । मनुष्येण कृतम् निन्द्यकर्म / पापकर्म (= 'अकार्यम्') नरके पतितुमर्हति , अतः तादृशम् कर्म 'कौपीनम्' नाम्ना ज्ञायते । The bad deed that deserves going to the hell is called कौपीनः)\nविशेषः -\n1. यः मनुष्यः लोके निन्दनीयम् कार्यम् / पापकार्यम् करोति, तस्य निर्देशार्थमपि 'कौपीन' इति शब्दः प्रयुज्यते । नरके अधोगन्तुम् / प्रविष्टुमर्हति सः कौपीनः युवक।\n2. कटिभागस्य समीपे बध्यमानम् यत् वस्त्रम् (A piece of cloth tied to the waist) तदपि 'कौपीन' नाम्ना ज्ञायते । अस्यापि सिद्धिः अनेनैव सूत्रेण दीयते । मनुष्येन सह यत् वस्त्रम् कूपप्रवेशमर्हति तत् कौपीनमाच्छादनम् ।\n " }, "52021": { "sa": "तृतीयासमर्थात् 'व्रात' शब्दात् 'जीवति' अस्मिन् अर्थे खञ्-प्रत्ययः भवति । ", "sd": "अस्मिन् सूत्रे प्रयुक्तयोः शब्दयोः अर्थौ एतादृशौ -\n1. जीवति = जीविकाम् प्राप्नुवन्ति (earn a living) इत्याशयः ।\n2. व्रात = शरीरपरिश्रमस्य कर्म 'व्रात' नाम्ना ज्ञायते ।\nअतः 'व्रातेन जीवति' इत्युक्ते सः मनुष्यः यः स्वस्य जीवनार्थम् शरीरपरिश्रमस्य कार्यम् करोति, न हि बुद्धिवैभवस्य । a person who earns his living by doing activities that require intense use of their body (rather than their brain) - इत्याशयः । For example - porters, construction workers, laborers - etc. एतेषाम् निर्देशार्थम् 'व्रात' शब्दात् खञ्-प्रत्ययः भवति । व्रातेन जीवति व्रातीनः भृत्यः ।\nविशेषः -\n1. 'व्रात' शब्दस्य अर्थः काशिकायाम् 'नानाजातीयाः अनियतवृत्तयः उत्सेधजीविनः सङ्घाः व्राताः' इति दीयते । A group of people who do not have any fixed employment and who seek temporary employments that involve heavy laborious work with their body is known as व्रात । अस्मात् शब्दात् <<तस्येदम्>> [[4.3.120]] इत्यनेन अण्-प्रत्ययं कृत्वा 'व्रातानाम् कर्म = व्रात + अण् → व्रात' इत्यनेन कर्मणः निर्देशार्थमपि 'व्रात' शब्दः प्रयुज्यते । अस्यैव प्रयोगः अस्मिन् सूत्रे कृतः अस्ति ।\n2. यदा मनुष्यः स्वस्य शरीरपरिश्रमस्य साहाय्येन स्वस्य जीविकां प्राप्नोति, तदा एव तस्य निर्देशः 'व्रातीन' शब्देन क्रियते । यदि सः कस्यचन अन्यस्य शरीरपरिश्रमस्य कार्येण जीवति, तर्हि तस्य निर्देशः 'व्रातीन' इत्यनेन न क्रियते । यथा - यदि देवदत्तः विष्णुदत्तस्य शरीरपरिश्रमेण जीवति, तर्हि देवदत्तस्य निर्देशः 'व्रातीनः' इति न भवति ।\n" }, "52022": { "sa": "'सख्यम्' अस्मिन् अर्थे 'साप्तपदीन' शब्दः निपात्यते । ", "sd": "अनेन सूत्रेण 'सख्यम्' (= मित्रत्वम् / मित्रता) अस्मिन् अर्थे 'साप्तपदीन' अयम् शब्दः निपात्यते । 'सप्तभिः पदैः अवाप्यते' अस्मिन् अर्थे 'सप्तपद' शब्दात् खञ्-प्रत्ययं कृत्वा 'साप्तपदीन' अयम् शब्दः सिद्ध्यति । अत्र 'सप्त पदानि' इत्यस्य अर्थः 'सुखदुःखादयः भिन्नाः अवस्थाः' इति स्वीक्रियते । The role / duty by virtue of which the people help each other during various situation occurring in ones life - is called साप्तपदीनम् ।\nविशेषः - 'साप्तपदीन' अस्य शब्दस्य प्रयोगः 'मित्रम्' / 'सखा' अस्मिन् अर्थे अपि भवति । यथा - 'साप्तपदीनः सखा' । अत्र 'लक्षणा'-अर्थेन (implied meaning) अस्य शब्दस्य प्रयोगः भवति । इत्युक्ते, 'अयम् सखा साप्तपदीनः अस्ति' इत्युक्ते 'अस्य सख्युः भावः साप्तपदीनमस्ति' इति अर्थः स्वीक्रियते ।\n" }, "52023": { "sa": "संज्ञायाः विषये 'हैयङ्गवीनम्' अयम् शब्दः निपात्यते । ", "sd": "अनेन सूत्रेण 'हैयङ्गवीन' इति शब्दः निपात्यते ।'घृत' (ghee) इत्यस्य इयम् संज्ञा अस्ति ।\nअस्य शब्दस्य निपातनमनेन प्रकारेण भवति -\n1. 'गो' इतस्मात् शब्दात् 'दोह' (yield / extract / milk / secretion) इत्यस्य शब्दस्य समासम् कृत्वा 'गोदोह' इति शब्दः सिद्ध्यति । गोः दोहः गोदोहः । दुग्धम् इत्यर्थः ।\n2. यत् गोदोहमद्य न प्राप्तमपितु ह्यस्तन दिने प्राप्तम्, तस्य निर्देशः 'ह्योगोदोह' इत्यनेन भवति । ह्यः + गोदोहः = ह्योगोदोहः । The milk that was extracted yesterday from the cow - इत्याशयः ।\n3. 'ह्योगोदोहस्य विकारः' अस्मिन् अर्थे <<तस्य विकारः>> [[4.3.134]] इत्यनेन प्राप्तमण्-प्रत्ययं बाधित्वा वर्तमानसूत्रेण 'खञ्' प्रत्ययः भवति ।\n4. 'ह्योगोदोह + ख' इति स्थिते 'ह्योगोदोह' इत्यस्य निपातनेन 'हियङ्गु' इति आदेशः भवति ।\n5. 'हियङ्गु + ख' इति स्थिते अग्रे इयम् प्रक्रिया जायते -\nहियङ्गु + ख\n→ हियङ्गु + ईन [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]]]\n→ हैयङ्गु + ईन [<<तद्धितेष्वचामादेः>> [[7.2.117]]]\n→ हैयङ्गो + ईन [<<ओर्गुणः>> [[6.4.146]]]\n→ हैयङ्गवीन [<<एचोऽयवायावः>> [[6.1.78]]]\nह्योगोदोहस्य विकारः हैयङ्गवीनम् घृतम् ।The ghee that has been created from milk obtained yesterday is called हैयङ्गवीन ।\nविशेषः -\n1. 'हैयङ्गवीन' इति शब्दः संज्ञारूपेण प्रयुज्यते । घृतस्य भिन्नाः भेेदाः / प्रकाराः सन्ति, तेषु 'हैयङ्गवीनम्' इति कश्चन भेदः ।\n2. यद्यपि दधि, तक्रमादीनाम् निर्माणमपि ह्योगोदोहेन भवितुमर्हति, तथापि 'संज्ञायाम्' इति निर्देशात् केवलम् घृतस्यैव इयम् संज्ञा क्रियते, न हि दधितक्रादीनाम् । " }, "52024": { "sa": "'पाकः' अस्मिन् अर्थे पील्वादिगणस्य शब्देभ्यः षष्ठीसमर्थेभ्यः 'कुणप्' प्रत्ययः ; तथा च 'मूलम्' अस्मिन् अर्थे कर्णादिगणस्य शब्देभ्यः षष्ठीसमर्थेभ्यः जाहच्-प्रत्ययः भवति । ", "sd": "अस्मिन् सूत्रे द्वौ अर्थौ, द्वौ गणौ तथा द्वौ प्रत्ययौ उच्येते, येषाम् विषये सर्वत्र 'यथासङ्ख्यत्वम्' इष्यते । इत्युक्ते, द्वे भिन्ने सूत्रे एकत्रीकृत्य अत्र स्थापिते स्तः । क्रमेण पश्यामः ।\n1) 'तस्य पाके पील्वादिभ्यः कुणप्' - इति प्रथमम् सूत्रम् । 'पाकः' (= पक्वता / परिवर्तनम् । some kind of transformation, like 'ripening' etc.) अस्मिन् अर्थे पील्वादिगणस्य शब्देभ्यः षष्ठीसमर्थेभ्यः 'कुणप्' इति प्रत्ययः भवति ।\nपीलादिगणे वृक्षाणाम् नामानि विद्यन्ते । पीलादिगणः अयम् - पीलु, कर्कन्धु, शमी, करीर, कुवल, बदर, अश्वत्थ, खदिर ।\nयथा -\nअ) पीलूनाम् पाकः = पीलु + कुणप् = पीलुकुण ।\nआ) कर्कन्धूनाम् पाकः = कर्कन्धु + कुणम् = कर्कन्धुकुण ।\n2) 'तस्य मूले कर्णादिभ्यः जाहच्' - इदि द्वितीयम् सूत्रम् । 'मूलम्' (प्रारम्भस्थानम् / origin / base) अस्मिन् अर्थे कर्णादिगणस्य शब्देभ्यः षष्ठीसमर्थेभ्यः 'जाहच्' इति प्रत्ययः भवति ।\nकर्णादिगणे शरीरावयवानाम् नामानि विद्यन्ते । कर्णादिगणः अयम् - कर्ण, अक्षि, नख, मुख, केश, पाद, गुल्फ, भ्रू, शृङ्ग, दन्त, ओष्ठ, पृष्ठ, अङ्गुष्ठ ।\n यथा -\nअ) कर्णस्य मूलम् = कर्ण + जाहच् → कर्णजाह ।\nआ) अक्ष्णः मूलम् = अक्षि + जाहच् → अक्षिजाह ।\nविशेषः - जाहच्-प्रत्यये वस्तुतः <<चुटू>> [[1.3.7]] इत्यनेन जकारस्य इत्संज्ञा विधीयते, परन्तु तद्धितप्रत्ययेषु जकारस्य इत्संज्ञायाः किमपि प्रयोजनम् न वर्तते । अतः अत्र जकारस्य इत्संज्ञा न भवति । (तद्धितप्रत्ययानां विषये इत्संज्ञकवर्णानां प्रयोजनानि अत्र द्रष्टुं शक्यन्ते ।)" }, "52025": { "sa": "'मूल' इत्यस्मिन् अर्थे 'पक्ष' शब्दात् 'ति'प्रत्ययः भवति । ", "sd": "'मूल' (प्रारम्भस्थानम् / origin / base) अस्मिन् अर्थे 'पक्ष' शब्दात् 'ति' प्रत्ययं कृत्वा 'पक्षति' इति तद्धितान्तरूपम् सिद्ध्यति । पक्षस्य मूलम् पक्षतिः ।\nविशेषः - 'पक्ष' इत्यस्य द्वौ अर्थौ स्तः - 'पञ्चदशानां दिनानां समूहः - यथा शुक्लपक्षः / कृष्णपक्षः आदयः', तथा 'पक्षिणामुड्डयने प्रयुक्तः अवयवः (wings)' । एतयोः द्वयोः अपि अर्थयोः 'पक्षति' शब्दस्य प्रयोगः भवति । यथा -\n[अ] शुक्लपक्षस्य मूलम् (प्रथमदिनम्) पक्षतिः प्रतिपद् । (The first day of a fortnight).\n[आ] काकस्य पक्षस्य मूलम् पक्षतिः । (The base of a wing).\n" }, "52026": { "sa": "'वित्तः (ज्ञातः)' अस्मिन् अर्थे तृतीयासमर्थेभ्यः शब्देभ्यः 'चुञ्चुप्' तथा 'चणप्' एतौ प्रत्ययौ भवतः । ", "sd": "'वित्तः' इत्युक्ते ज्ञातः / प्रतीतः (famous / wellknown) । <<वित्तो भोगप्रत्यययोः>> [[8.2.58]] इत्यनेन अयम् शब्दः निपात्यते । तृतीयासमर्थेभ्यः शब्देभ्यः वित्तः (प्रतीतः / ज्ञातः / प्रसिद्धः) अस्मिन् अर्थे 'चुञ्चुप्' तथा 'चणप्' एतौ प्रत्ययौ भवतः । यथा , विद्यया वित्तः ( विद्यया प्रतीतः / ज्ञातः) विद्याचुञ्चुः पुरुषः ; विद्याचणः पुरुषः वा ।\nस्मर्तव्यम् -\n1. 'चुञ्चुप्' तथा 'चुणप्' - उभयत्र चकारस्य इत्संज्ञा प्रयोजनाभावात् न भवति । यद्यपि सामान्यरूपेण चकारस्य इत्संज्ञा <<तद्धितस्य>> [[6.1.164]] इत्यनेन समुदायस्य अन्तोदात्तत्वम् कारयितुम् विधीयते, तथाप्यत्र तत् न इष्यते । एवं च, <<चुटू>> [[1.3.7]] इति सूत्रमनित्यमस्ति, एतत् अनित्यत्व् अनुसृत्य अप्यत्र इत्संज्ञा न भवति ।\n2. 'चुञ्चुप्' इत्यत्र चकारोत्तरः उकारः अनुनासिकः नास्ति, अतः तस्य इत्संज्ञा न भवति । अयमुकारः प्रत्ययस्यैव उकारः अस्ति, प्रत्यये च तस्य श्रवणमपि भवति । यथा - विद्या + चुञ्चुप् = विद्याचुञ्चु । अस्य शब्दस्य रूपाणि पुंलिङ्गे 'साधु' शब्दवत् भवन्ति ।\n3. 'वित्तम्' इति नपुंसकलिङ्गे प्रयुज्यते चेत् तस्य 'धनम्' इति अर्थः भवति । परन्तु अयमर्थः अत्र न इष्यते । अत्र 'वित्तः' इति पुंलिङ्गवाचिनः शब्दस्यैव ग्रहणम् भवति, यस्य अर्थः 'ज्ञातः / प्रतीतः' इत्येव विद्यते ।\n" }, "52027": { "sa": "'नसह' अस्मिन् अर्थे प्रयुक्ताभ्याम् 'वि' तथा 'नञ्' एताभ्याम् शब्दाभ्याम् स्वार्थे क्रमशः 'ना' तथा 'नाञ्' प्रत्ययौ भवतः । ", "sd": "'नसह' इत्युक्ते 'पृथक् रूपेण' (सह नास्ति तत् नसह ) । अस्मिन् अर्थे प्रयुक्ताभ्याम् 'वि' तथा 'नञ्' एताभ्याम् शब्दाभ्याम् क्रमेण 'ना' तथा 'नाञ्' एतौ प्रत्ययौ स्वार्थे भवतः । यथा -\n1. वि + ना = विना । यथा - 'रामः लक्ष्मणम् विना गच्छति' इत्युक्ते लक्ष्मणेन सह न गच्छति, पृथग्रूपेण गच्छति - इत्यर्थः ।\n2. नञ् + नाञ् → नाना । अत्र प्रकृतौ ञकारस्य इत्संज्ञा भवति, प्रत्ययस्य ञकारेण ति अङ्गस्य <<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः भवति । 'रामः लक्ष्मणम् नाना गच्छति' इत्युक्ते लक्ष्मणेन सह न गच्छति, पृथग्रूपेण गच्छति - इत्यर्थः ।\nविशेषः -\n1. अस्मिन् सूत्रे 'नसह' इति शब्दः प्रत्ययार्थम् न दर्शयति, अपितु प्रकृतिविशेषणम् दर्शयति । इत्युक्ते, 'वि' तथा 'नञ्' एतौ अव्ययौ यत्र 'पृथक् / नसह' अस्मिन् अर्थे प्रयुज्येते, तत्र ताभ्याम् वर्तमानसूत्रेण यथासङ्ख्यम् 'ना' तथा 'नाञ्' प्रत्ययौ भवतः । अस्मिन् सूत्रे प्रत्ययस्य अर्थः न उच्यते, अतः स्वार्थे प्रत्ययविधानम् भवतीति ज्ञेयम् ।\n2. 'विना' तथा 'नाना' एतौ द्वौ तद्धितान्तशब्दौ <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यनेन अव्ययसंज्ञां प्राप्नुवन्ति ।\n3. 'विना' तथा 'नाना' द्वयोः अपि योगे विद्यमानस्य शब्दस्य <<पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम्>> [[2.3.32]] इत्यनेन द्वितीया / तृतीया उत पञ्चमी विभक्तिः विधीयते । यथा - रामेण विना / रामम् विना / रामात् विना । तथैव, रामेण नाना / रामम् नाना / रामात् नाना ।\n" }, "52028": { "sa": "'वि' इत्यस्मात् स्वार्थे शालच् तथा 'शङ्कटच्' एतौ प्रत्ययौ भवतः । ", "sd": "'वि' इति कश्चन उपसर्गः । प्रायः अस्य प्रयोगः 'विस्तृतम्' (big / large) अस्मिन् अर्थे क्रियते । अस्मिन्नेव अर्थे अस्मात् उपसर्गात् स्वार्थे शालच् तथा शङ्कटच् एतौ प्रत्ययौ भवतः । यथा -\n1. वि + शालच् = विशाल ।\n2. वि + शङ्कटच् = विशङ्कट ।\n'विशाल' तथा 'विशङ्कट' - द्वौ शब्दौ अनेन सूत्रेण सिद्ध्येते । द्वयोरपि अर्थः 'विस्तृतम्' इत्येव अस्ति । यथा - विशाले शृङ्गे विशङ्कटे शृङ्गे वा ।\nविशेषः -\n1. यस्याः धेनोः शृङ्गे विशाले, सा धेनुः अपि 'विशाला धेनुः' / 'विशङ्कटा धेनुः' इत्यनने निर्दिश्यते । अत्र 'विशाले शृङ्गे अस्य सः विशालः' , 'विशङ्कटे शृङ्गे अस्य सः विशङ्कटः' एतादृशी व्युत्पत्तिः भाष्यकारेण दीयते । भाष्यकारस्य मतेन अत्र 'तदस्य अस्ति' इत्यस्मिन् अर्थे 'अ' प्रत्यययोजनम् कृत्वा रूपसिद्धिः भवति ।\n2. 'वि' इत्यस्य अनेके अर्थाः भवन्ति । बहुषु स्थलेषु 'वि' इति अव्ययमुपसर्गसंज्ञां विना अपि प्रयुज्यते । परन्तु अस्य सूत्रस्य विषये 'वि' इति उपसर्गवाचकस्यैव ग्रहणम् भवति । अतएव कौमुदीकारः स्पष्टीकरोति - 'कियाविशिष्टसाधनवाचकात् स्वार्थे' । क्रियायाः सम्बन्धरूपेण यत्र 'वि' इत्यस्य प्रयोगः भवति, तस्मिन्नेव अर्थे एतौ प्रत्ययौ भवतः - इति अस्य आशयः ।\n3. यद्यपि 'वि' उपसर्गस्य अनेके अर्थाः भवन्ति, तथापि 'विस्तृतम् / व्यापकम्' अस्मिन्नेव अर्थे अत्र 'वि' इति शब्दः गृह्यते ।\n4. अत्र प्रत्यययोः अर्थौ भिन्नरूपेण उक्तौ न स्तः । अतः अत्र 'स्वार्थे' प्रत्ययविधानम् भवति इत्येव उच्यते ।\n" }, "52029": { "sa": "'वि', 'सम्' 'प्र', 'उद्' एतेभ्यः उपसर्गेभ्यः स्वार्थे 'कटच्' प्रत्ययः भवति । ", "sd": "अनेन सूत्रेण चतुर्भ्यः उपसर्गेभ्यः 'कटच्' प्रत्ययः उच्यते । क्रमेण पश्यामः -\n1. सम् + कटच् → सङ्कट । 'संबाधम् (crisis)' इति अर्थः ।\n2. प्र + कटच् → प्रकट । 'प्रकाशितम् / appear' इति अर्थः ।\n3. उद् + कटच् -> उत्कट । 'अधिकम् / intense' इति अर्थः ।\n4. वि + कटच् → विकट । 'विकृतम् / horrible' इति अर्थः ।\nतद्धितान्तशब्दानाम् एते सर्वे अर्थाः व्याख्यानैः एव स्पष्टीभवन्ति, सूत्रात् तेषाम् ज्ञानं न भवति ।\nअस्मिन् सूत्रे अनेकानि वार्त्तिकानि अपि पाठितानि सन्ति । तानि एतादृशानि -\n1. । अलाबू (bottle-gourd), तिल (sesame), तथा उमा (flax) एतेभ्यः शब्देभ्यः 'रजः' (चूर्णम् / powder) अस्मिन् अर्थे अञ्-प्रत्यये प्राप्ते तं बाधित्वा वर्तमानसूत्रेण कटच्-प्रत्ययः भवति । यथा - अलाबूनाम् रजः अलाबूकटम् । तिलानाम् रजः तिलकटम् । उमानाम् रजः उमाकटम् ।\nविशेषः - 'अलाबू' शब्दात् <<ओरञ्>> [[4.3.139]] इत्यनेन अञ्-प्रत्यये प्राप्ते ; तथा च तिल-शब्दात् उमा शब्दात् च <<अनुदात्तादेश्च>> [[4.3.140]] इत्यनेन अञ्-प्रत्यये प्राप्ते तं बाधित्वा अत्र कटच्-प्रत्ययः प्रोच्यते ।\n2. - भङ्गा (cannabis) शब्दात् रजः (चूर्णम् / powder) अस्मिन् अर्थे 'तृणम् धान्यानाम् द्व्यषाम्' अनेन फिट्-सूत्रेण प्राप्तमण्-प्रत्ययं बाधित्वा वर्तमानसूत्रेण 'कटच्' प्रत्ययः भवति । भङ्गानाम् रजः भङ्गाकटम् ।\nविशेषः - काशिकाकारःद्वे अपि एते वार्त्तिके एकत्रीकृत्य 'अलाबू-तिल-उमा-भङ्गाभ्यो रजसि उपसंख्यानम्' इति एकमेव वार्त्तिकं पाठयति ।\n3. पशूनाम् यानि नामानि, तेभ्यः 'गोष्ठच्' आदयः प्रत्ययाः स्थानस्य निर्देशार्थम् विधीयन्ते । यथा - गवाम् स्थानम् गोगोष्ठम् । महिषीनाम् स्थानम् महिषीगोष्ठम् ।\n(अस्मिन् वार्त्तिके 'आदयः' इत्यनेन ये अन्ये प्रत्ययाः तथा च 'स्थानादि' इत्यनेन ये अन्ये अर्थाः गृह्यन्ते, ते अग्रिमवार्त्तिकानाम् निर्देशं कुर्वन्तीति ज्ञेयम्) ।\n4. - पशूनाम् सङ्घातस्य ('समूहः' इत्याशयः) निर्देशार्थम् पशुवाचकशब्दात् 'कटच्' प्रत्ययः भवति ।यथा - अवीनाम् (sheep) सङ्घातः अविकटः । a group of sheep इत्यर्थः ।\n5. - पशूनाम् विस्तारस्य (spreading इत्याशयः) निर्देशार्थम् पशुवाचकशब्दात् 'पटच्' प्रत्ययः भवति । यथा - अवीनाम् विस्तारः अविपटः । a spread / distributed group of sheep इत्यर्थः ।\n6. - पशुवाचकशब्दात् 'द्वित्वम्' (double in number) अस्मिन् अर्थे 'गोयुगच्' प्रत्ययः भवति । उष्ट्राणाम् द्वित्वम् = द्वौ उष्ट्रौ = उष्ट्रगोयुगम् । द्वौ खरौ (donkey) = खरगोयुगम् । द्वौ अश्वौ अश्वगोयुगम् ।\n7. - पशुवाचकशब्दात् 'षट्' सङ्ख्यायाः निर्देशं कर्तुम् 'षङ्गवच्' प्रत्ययः भवति । यथा, षट् उष्ट्राः = उष्ट्रषङ्गवम् ।\nविशेषः - एतत् वार्त्तिकम् भाष्ये न दीयते ।\n8. - 'विकारः' अस्मिन् अर्थे स्नेहस्य (= oil इत्यर्थः) निर्देशं कर्तुम् 'तैलच्' प्रत्ययः भवति । यथा - एरण्डानां विकारः स्नेहः एरण्डतैलम् ।तिलानां विकारः स्नेहः तिलतैलम् ।\nविशेषः - 'तैलम्' इति कश्चन भिन्नः शब्दः अपि वर्तते , यस्यापि अर्थः समानः एव । अतः 'तिलानाम् तैलम्' अस्मिन् अर्थे अपि 'तिलतैल' शब्दः सिद्ध्यति । परन्तु स्वरवैशिष्ट्यार्थमस्मिन् वार्त्तिके 'तैलच्' प्रत्ययः उच्यते ।\n9. - पदार्थानामुत्पादनस्य क्षेत्रस्य निर्देशार्थम् पदार्थवाचिशब्दात् 'शाकट' तथा 'शाकिन' एतौ प्रत्ययौ भवतः । यथा - इक्षूनाम् भवनं क्षेत्रम् इक्षुशाकटम् इक्षुशाकिनम् वा ।\n" }, "52030": { "sa": "'अव' उपसर्गात् स्वार्थे कुटारच् तथा कटच् प्रत्ययौ भवतः । ", "sd": "'अवाचीनः' (directed downwards) अस्मिन् अर्थे प्रयुक्तात् 'अव' अस्मात् उपसर्गात् स्वार्थे कुटारच् तथा कटच् प्रत्ययौ भवतः -\n(अ) अव + कुटारच् = अवकुटार ।\n(आ) अव + कटच् = अवकट ।\nद्वयोः अपि शब्दयोः अर्थः 'अवाचीनः' (directed downwards) इत्येव अस्तीति व्याख्यानेषु स्पष्टीक्रियते ।\n" }, "52031": { "sa": "'नता नासिका' अस्मिन् सन्दर्भे संज्ञायाः विषये 'अव' उपसर्गात् 'टीटच्', 'नाटच्', तथा 'भ्रटच्' एते प्रत्ययाः भवन्ति । ", "sd": "नासिकायाः विशिष्टां स्थितिम् निर्देशयितुमस्मिन् सूत्रे प्रत्ययविधानम् क्रियते । यदि नासिका नता / अधोगता अस्ति (nose pointing / bent downwards) तर्हि तस्याः नतस्य (pointedness) निर्देशार्थम् 'अव' उपसर्गात् टीटच्', 'नाटच्', तथा 'भ्रटच्' एते प्रत्ययाः भवन्ति । यथा -\n(अ) अव + टीटच् = अवटीट ।\n(आ) अव + नाटच् → अवनाट ।\n(इ) अव + भ्रटच् → अवभ्रट ।\nनासिकायाः नतम् (pointedness of the nose) अवटीटम्, अवनाटम्, अवभ्रटम् । एते त्रयः शब्दाः अस्य नतस्य संज्ञारूपेण प्रयुज्यन्ते ।\nस्मर्तव्यम् -\n1. या नासिका नता अस्ति, सापि 'अवटीटा' / 'अवनाटा' / 'अवभ्रटा' अनेन शब्देन सम्बुध्यते ।तथा च, यस्य पुरुषस्य नासिका नता अस्ति, सः पुरुषः अपि 'अवटीटः' / 'अवनाटः' / 'अवभ्रटः' अनेन शब्देन सम्बुध्यते । एतेषाम् सर्वेषाम् व्युत्पत्तिः अनेनैव सूत्रेण लक्षणार्थम् स्वीकृत्य दीयते ।\n2. 'टीटच्' अस्मिन् प्रत्यये आदिस्थस्य टकारस्य <<चुटू>> [[1.3.7]] इत्यनेन न भवति, यतः अत्र टकारस्य इत्संज्ञायाः किमपि प्रयोजनम् नास्ति । एवं च, <<चुटू>> [[1.3.7]] इत्यस्य अनित्यत्वं स्वीकृत्य अप्यत्र इत्संज्ञायाः निषेधः उच्यते ।\n3. अस्मिन् सूत्रे प्रयुक्तः 'टीटञ्नाटज्भ्रटजः' अयम् प्रयोगः चिन्तनीयः अस्ति । 'टीटच् + नाटच्' इत्यत्र वस्तुतः <<स्तोः श्चुना श्चुः>> [[8.4.40]] इत्यनेन नकारस्य श्चुत्वे ञकारे कृते 'टीटच्-ञाटच्' इति प्रयोगः भवेत् । परन्तु अत्र 'टीटञ्नाटच्' इत्यत्र श्चुत्वम् नैव कृतम् दृश्यते ; अपितु चकारस्य ञकारादेशः कृतः दृश्यते ; यः केनाऽपि सूत्रेण न विधीयते (<<यरोऽनुनासिकेऽनुनासिको वा>> [[8.4.45]] इत्यस्य अत्र प्रसक्तिः नास्ति, यतः अत्र 'टीटच्' इत्यस्य पदसंज्ञा न भवति । यद्यप्यत्र अस्य प्रसक्तिः गृह्णीयात्, तथापि श्चुत्वस्य कृते अस्य असिद्धत्त्वमेव स्यात्) । अस्य स्पष्टीकरणम् व्याख्यानेषु न दत्तमस्ति । अतः 'छन्दोवत् सूत्राणि भवन्ति' इत्येव अस्य समाधानम् । " }, "52032": { "sa": "'नता नासिका' अस्मिन् सन्दर्भे संज्ञायाः विषये 'नि' उपसर्गात् 'बिडच्' तथा 'बिरीसच्' प्रत्ययौ भवतः । ", "sd": "नासिकायाः विशिष्टां स्थितिम् निर्देशयितुमस्मिन् सूत्रे प्रत्ययविधानम् क्रियते । यदि नासिका नता / अधोगता अस्ति (nose pointing / bent downwards) तर्हि तस्याः नतस्य (pointedness) निर्देशार्थम् 'नि' उपसर्गात् 'बिडच्' तथश 'बिरीसच्' प्रत्ययौ भवतः ।\n(अ) नि + बिडच् = निबिड ।\n(आ) नि + बिरीसच् → निबिरीस ।\nनासिकायाः नतम् (The pointedness of nose) निबिडम् निबीरीसम् वा । एतौ द्वौ शब्दौ अस्य नतस्य संज्ञारूपेण प्रयुज्येते ।\nस्मर्तव्यम् - या नासिका नता अस्ति, सापि 'निबिडा' / 'निबिरीसा' अनेन शब्देन सम्बुध्यते ।तथा च, यस्य पुरुषस्य नासिका नता अस्ति, सः पुरुषः अपि 'निबिडः' / 'निबिरीसः' अनेन शब्देन सम्बुध्यते । एतेषाम् सर्वेषाम् व्युत्पत्तिः अनेनैव सूत्रेण लक्षणार्थम् स्वीकृत्य दीयते ।\nविशेषः - 'निबिडः' अस्य शब्दस्य प्रयोगः अन्येषु सन्दर्भेषु अपि क्रियते । यथा - निबिडाः केशाः, निबिडम् वनम् - आदयः । अस्य स्पष्टीकरणार्थं न्यासकारः वदति - 'उपमानाद्भविष्यति' । इत्युक्ते, तर्कशास्त्रे पदार्थानाम् ज्ञानार्थम् 'उपमान' नाम किञ्चन प्रमाणम् यत् पाठ्यते, तस्य साहाय्येन एते प्रयोगाः साधुत्वम् प्राप्नुवन्ति । सामान्यभाषायाम्, 'समानतायाः आधारेण' (on the account of resemblance) एतादृशाः प्रयोगाः सिद्धाः भवन्ति । इत्युक्ते, यथा नासिका निबिडा, तथैव यत् दृश्यते, तत् निबिडम् वनम् / निबिडाः केशाः - इति आशयः । वस्तुतः तु अस्मिन् सूत्रे केवलम् 'संज्ञायाम्' इत्यस्यैव अनुवृत्तिः क्रियते चेदपि एतानि रूपाणि साधयितुम् शक्यन्ते । परन्तु अयम् विषयः व्याख्यानेषु न उक्तः अस्ति ।\n" }, "52033": { "sa": "'नता नासिका' अस्मिन् सन्दर्भे 'नि' उपसर्गात् 'इनच्' तथा 'पिटच्' प्रत्ययौ भवतः , तत्सन्नियोगेन च 'नि' इत्यस्य यथासङ्ख्यम् 'चिक' तथा 'चि' आदेशौ अपि भवतः । ", "sd": "नासिकायाः विशिष्टां स्थितिम् निर्देशयितुमस्मिन् सूत्रे प्रत्ययविधानम् क्रियते । यदि नासिका नता / अधोगता अस्ति (nose pointing / bent downwards) तर्हि तस्याः नतस्य (pointedness) निर्देशार्थम् 'नि' उपसर्गात् 'इनच्' तथा 'पिटच्' प्रत्ययौ भवतः ; तथा च एतयोः उपस्थितौ 'नि' इत्यस्य क्रमेण 'चिक' तथा 'चि' एतौ आदेशौ भवतः -\n(अ) नि + इनच्\n→ चिक + इन\n→ चिक् + इन [<<यस्येति च>> [[6.4.148]]\n→ चिकिन\n(आ) नि + पिटच्\n→ चि + पिट\n→ चिपिट\nयथा - नासिकायाः नतम् चिकिनम् चिपिटम् वा ।\nस्मर्तव्यम् - या नासिका नता अस्ति, सापि 'चिकिना' / 'चिपिटा' अनेन शब्देन सम्बुध्यते ।तथा च, यस्य पुरुषस्य नासिका नता अस्ति, सः पुरुषः अपि 'चिकिनः' / 'चिपिटः' अनेन शब्देन सम्बुध्यते । एतेषाम् सर्वेषाम् व्युत्पत्तिः अनेनैव सूत्रेण लक्षणार्थम् स्वीकृत्य दीयते ।\nअत्र कानिचन वार्त्तिकानि ज्ञातव्यानि -\n1. - नासिकायाः नतस्य निर्देशार्थम् 'नि' उपसर्गात् 'क' इति प्रत्ययः भवति, तथा च तत्सन्नियोगेन अङ्गस्य 'चिक्' इति आदेशः भवति । यथा - नि + क → चिक् + क → चिक्क । उदाहरणानि - चिक्कम् नतम् ; चिक्का नासिका , चिक्कः पुरुषः ।\n2. - यस्य मनुष्यस्य नेत्रे क्लिन्ने (अश्रुपूर्णौ / wet) स्तः ; तस्य निर्देशार्थम् 'क्लिन्न' शब्दात् 'ल' इति प्रत्ययः विधीयते, तथा च तत्सन्नियोगेन 'क्लिन्न' शब्दस्य 'चिल्' तथा 'पिल्' एतौ आदेशौ भवतः । क्लिन्न + ल → चिल् + ल → चिल्ल । क्लिन्न + ल → पिल् + ल → पिल्ल । चिल्लः पिल्लः वा पुरुषः ।\n3. - यस्य मनुष्यस्य नेत्रे क्लिन्ने (अश्रुपूर्णौ / wet) स्तः ; तस्य निर्देशार्थम् 'क्लिन्न' शब्दात् 'ल' इति प्रत्ययः विधीयते, तथा च तत्सन्नियोगेन 'क्लिन्न' शब्दस्य 'चुल्' आदेशः भवति । यथा - क्लिन्न + ल → चुल् + ल → चुल्ल । चुल्लः पुरुषः ।\nविशेषः - 'क्लिन्न' शब्दस्य विषये उक्तयोः द्वयोः अपि वार्त्तिकयोः विषये 'तस्मान्नार्थोऽस्य ग्रहणेन' इति भाष्ये उच्यते । इत्युक्ते, भाष्यकारस्य मतेन अनयोः वार्त्तिकयोः 'अस्य' इत्यस्य शब्दस्य ग्रहणम् न इष्टम्, यतः 'चिल्ल' 'पिल्ल', तथा 'चुल्ल' - एते सर्वे शब्दाः क्लिन्नयोः नेत्रयोः एव निर्देशं कुरुतः । यथा - चिल्ले पिल्ले चुल्ले वा नेत्रे । ततः 'तद् अस्य अस्ति' अस्मिन् अर्थे 'अ' प्रत्ययं कृत्वा एतादृशे नेत्रे यस्य पुरुषस्य तस्यापि निर्देशः एतैः शब्दैः भवितुमर्हति ; यथा - चिल्ले पिल्ले चुल्ले वा चक्षुषी यस्य, सः चिल्लः पिल्लः चुल्लः वा पुरुषः ।\n" }, "52034": { "sa": "'आसन्न' अस्मिन् अर्थे 'उप' उपसर्गात् तथा 'आरूढ' अस्मिन् अर्थे 'अधि' उपसर्गात् संज्ञायाः विषये स्वार्थे त्यकन्-प्रत्ययः भवति । ", "sd": "'उप' तथा 'अधि' एताभ्यामुपसर्गाभ्यामनेन सूत्रेण स्वार्थे त्यकन्-प्रत्ययः उच्यते । क्रमेण पश्यामः -\n1. 'आसन्न' (समीप / close / next to) अस्मिन् अर्थे प्रयुज्यमानः यः 'उप' उपसर्गः, तस्मात् स्वार्थे 'त्यकन्' प्रत्ययः भवति ।उप + त्यकन् = उपत्यक ।\n2. 'आरूढ' (elevated / raised up) अस्मिन् अर्थे प्रयुज्यमानः यः 'अधि' उपसर्गः, तस्मात् स्वार्थे 'त्यकन्' प्रत्ययः भवति । अधि + त्यकन् = अधित्यक ।\nविशेषः - अस्मिन् सूत्रे 'संज्ञायाम्' इत्यपि अनुवर्तते, अतः अनेन सूत्रेण निर्मितयोः शब्दयोः प्रयोगः केवलम् विशिष्ट-सन्दर्भेषु एव भवति । यथा - पर्वतस्य आसन्ना उपत्यका भूमिः ; पर्वतस्य आरूढा अधित्यका भूमिः । The land next to the mountain ('lowland') is called उपत्यका; whereas the land on the top of the mountain ('highland') is called अधित्यका । अत्र 'उपत्यक + टाप्' तथा 'अधित्यक + टाप्' इत्यत्र <<प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः>> [[7.3.44]] इत्यनेन ककारात् पूर्वस्य अकारस्य इकारादेशः न भवति यतः अत्र 'संज्ञायाम्' इति उच्यते । संज्ञायाः विषये वेदेषु च <<प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः>> [[7.3.44]] इत्यस्य प्रसक्तिः नास्ति । " }, "52035": { "sa": "सप्तमीसमर्थात् 'कर्मन्' शब्दात् 'घटः (= निमग्नः / व्याप्तः)' अस्मिन् अर्थे अठच्-प्रत्ययः भवति । ", "sd": "अस्मिन् सूत्रे प्रयुक्तः 'घट' शब्दः 'घट्' अस्मात् धातोः अच्-प्रत्ययं कृत्वा सिद्ध्यति । घटते (= चेष्टते / प्रयत्नं करोति / व्याप्तः भवति / निमग्नः भवति (involved / occupied इत्याशयः)) सः घटः । अस्मिन् अर्थे 'कर्मन्'शब्दात् सप्तमीसमर्थात् 'अठच्' प्रत्ययः विधीयते । यथा -\nकर्मणि घटः\n= कर्मन् + अठच्\n→ कर्म् + अठ [<<नस्तद्धिते>> [[6.4.144]] इति टिलोपः]\n→ कर्मठ\nकर्मणि घटः सः कर्मठः । यः सदा कार्ये निमग्नः वर्तते, सः पुरुषः 'कर्मठः' नाम्ना ज्ञायते ।\nविशेषः - अत्र आचार्यः 'अठच्' इति प्रत्ययम् पाठयति; यतः 'ठच्' इति प्रत्ययः उच्यते चेत् ठकारस्य <<ठस्येकः>> [[7.3.50]] इत्यनेन 'इक' आदेशः स्यात्, यः न इष्यते । " }, "52036": { "sa": " तारकादिगणस्य शब्देभ्यः प्रथमासमर्थेभ्यः 'अस्य' अस्मिन् अर्थे 'सञ्जात' इति सन्दर्भे इतच्-प्रत्ययः भवति । ", "sd": "तारकादिगणस्य शब्देभ्यः 'अस्य' अस्मिन् अर्थे 'सञ्जाताः' (arisen / grown / appeared / produced) इत्यस्मिन् सन्दर्भे इतच् प्रत्ययः भवति ।\nतारकादिगणः अयम् - तारका। पुष्प। मुकुल। कण्टक। पिपासा। सुख। दुःख। ऋजीष। कुड्मल। सूचक। रोग। विचार। व्याधि। निष्क्रमण। मूत्र। पुरीष। किसलय। कुसुम। प्रचार। तन्द्रा। वेग। पुक्षा। श्रद्धा। उत्कण्ठा। भर। द्रोह। गर्भात् अप्राणिनि (गणसूत्रम्) । आकृतिगणोऽयम् ।\nयथा - तारकाः सञ्जाताः अस्य\n= तारका + इतच्\n→ तारक् + इत [<<यस्येति च>> [[6.4.148]] इति आकारलोपः]\n→ तारकित\nतारकाः सञ्जाताः अस्य तत् तारकितम् नभः ।\nतथैव -\n1. पुष्पाणि सञ्जातानि अस्य सः पुष्पितः वृक्षः ।\n2. रोगः सञ्जातः यस्य सः रोगितः पुरुषः ।\n3. प्रचारः सञ्जातः यस्य सः प्रचारितः विषयः ।\n4. वेगः सञ्जातम् यस्य तत् वेगितम् शकटम् ।\nविशेषः -\n1. तारकादिगणः आकृतिगणः अस्ति, अतः अनेके अन्ये शब्दाः अपि अस्मिन् गणे भवितुमर्हन्ति । यथा, केचन पण्डिताः एतान् अन्यान् अपि शब्दान् तारकादिगणे स्वीकुर्वन्ति - स्तबक, अङ्गार, वर्णक, बुभुक्षा, निद्रा, कर्णक, फल, उच्चार, पल्लव, अग्र, अङ्गारक, पुलक, कुवलय, शैवल, गर्व, तरङ्ग, कल्लोल, पण्डा, हस्तक, सीमन्त, कर्दम, कज्जल, कलङ्क, कुतूहल, कन्दल, अन्धकार, कारक, अङ्कुर, रोमाञ्च, हर्ष, उत्कर्ष, क्षुध, ज्वर, गर, दोह, शास्त्र, मुकुर, तिलक, चन्द्रक, मुद्रा, राग, मञ्जरी, शृङ्गार, तृष, वृण, गर्ध, गौरव, स्थपुट, कञ्चुक, बकुल, श्वभ्र, वर्म, अराल, मूर्धा, प्रतिबिम्ब, विघ्न, तन्त्र, प्रत्यय, दीक्षा, गर्ज - आदयः ।\n2. अस्मिन् गणै 'गर्भात् अप्राणिनि' इति गणसूत्रम् पाठ्यते । अस्य अर्थः अयम् - 'गर्भ' शब्दात् 'प्राणिभिन्नेषु' अर्थेषु (इत्युक्ते, embryo एतमर्थम् विहाय ; center / core / fundamental एतेषु अन्येषु अर्थेषु) अनेन सूत्रेण इतच् प्रत्ययः भवति । यथा - गर्भः (core / centre / crux) सञ्जातः अस्य सः गर्भितः अर्थः ।\n3. अस्मिन् सूत्रे प्रयुक्तः 'सञ्जात' इति शब्दः तद्धितान्तस्य / प्रत्ययस्य विशेषणम् नास्ति, अपितु प्रकृतेः विशेषणमस्ति । यथा, 'तारकाः सञ्जाताः अस्य तत् तारकितम् नभः' इत्यत्र 'सञ्जाताः' (arisen) अयम् शब्दः तारकानाम् विषये प्रयुज्यते, न हि नभसः विषये ।\n" }, "52037": { "sa": "'प्रमाणम्' इत्यस्मिन् अर्थे प्रयुज्यमानात् प्रथमासमर्थात् 'अस्य' इत्यस्मिन् अर्थे 'द्वयसच्', 'दघ्नच्' तथा 'मात्रच्' प्रत्ययाः भवन्ति ।", "sd": "यदि कश्चन शब्दः 'प्रमाणम्' (measure) इत्यस्मिन् सन्दर्भे प्रयुज्यते, तर्हि तस्मात् शब्दात् 'अस्य' इत्यस्मिन् अर्थे द्वयसच्, दघ्नच्, मात्रच् - एते त्रयः प्रत्ययाः भवन्ति । उदाहरणद्वयम् पश्यामश्चेत् स्पष्टं स्यात् -\n1. कस्याश्चित् नद्याः जलम् 'जानु' यावत् अस्तीति चिन्तयामः । (deep enough for the knees to be immersed, but not deeper) । अत्र 'नद्याम् कियत् जलमस्ति' इति प्रश्नः क्रियते चेत् 'जानु यावत् जलम् विद्यते' इति उत्तरम् लभ्यते । अतः अत्र 'जानु' शब्दः प्रमाण (measure) अस्मिन् अर्थे प्रयुज्यते । अस्यां स्थितौ वर्तमानसूत्रेण 'जानु' शब्दात् द्वयसच्, दघ्नच्, मात्रच् - एते त्रयः प्रत्ययाः भवन्ति; यैः 'जानुद्वयसम् जलम्', 'जानुदघ्नम् जलम्', 'जानुमात्रम् जलम्' - इति प्रयोगाः सिद्ध्यन्ति । अत्र विग्रहवाक्यमस्ति 'जानु प्रमाणमस्य' । जानु प्रमाणमस्य जलस्य तत् जानुद्वयसम् जानुदघ्नम् जानुमात्रम् वा जलम् ।\n'द्वयसच्', 'दघ्नच्' तथा 'मात्रच्' प्रत्ययान्तशब्दाः स्त्रीत्वे विवक्षिते <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इत्यनेन ङीप्-प्रत्ययं प्राप्नुवन्ति । यथा - उरु (chest) प्रमाणमस्याः राश्याः (This heap reaches the chest) सा उरुद्वयसी उरुदघ्नी उरुमात्री वा राशिः ।\nएतेषाम् त्रयाणाम् प्रत्ययानाम् विषये भाष्यकारः वदति - 'प्रथमश्च द्वितीयश्च ऊर्ध्वमाने मतौ मम' । इत्युक्ते, 'द्वयसच्' तथा 'दघ्नच्' एतयोः प्रत्यययोः निर्मिताः शब्दाः 'ऊर्ध्वमानम्' प्रमाणम् (Vertical measure of an object - E.g. height or depth) निर्देशयन्ति । 'मात्रच्' प्रत्ययान्तशब्दानां प्रयोगः तु भिन्नेषु मानेषु (depth / height / width / breadth / span etc) अपि भवितुमर्हति ।\nविशेषः -\nअस्य सूत्रस्य विषये कानिचन वार्त्तिकानि ज्ञेयानि -\n1. - ये शब्दाः 'प्रमाणम्' इत्यनया संज्ञया प्रसिद्धाः सन्ति, तेभ्यः विहितस्य 'मात्रच्' प्रत्ययस्य लोपः भवति । यथा - शमः प्रमाणमस्य = शम + मात्रच् → शमः । दिष्टिः प्रमाणमस्य = दिष्टि + मात्रच् → दिष्टिः । वितस्तिः प्रमाणमस्य = वितस्ति + मात्रच् → वितस्तिः । (शम, दिष्टि, वितस्ति were some popular names of units of measurement ).\nविशेषः -\nअ) अनेन वार्त्तिकेन केवलम् मात्रच्-प्रत्ययस्यैव लुक् उच्यते, यतः एतेभ्यः शब्देभ्यः केवलम् मात्रच्-प्रत्ययः एव भवितुमर्हति, अन्यौ द्वौ प्रत्ययौ न । एतस्य ज्ञानम् व्याख्यानादेव जायते ।\nआ) 'केभ्यः शब्देभ्यः विहितस्य मात्रच्-प्रत्ययस्य लुक् भवति' एतत् अस्मिन् सूत्रे विस्तारेण न उच्यते । केवलम् 'प्रमाणवाचकेभ्यः शब्देभ्यः विहितस्य प्रत्ययस्य लोपः भवति' इति अत्र निर्देशः कृतः अस्ति । The words that are commonly referred as 'प्रमाण' are being considered here । अतः व्याख्यानं दृष्ट्वैव अस्य वार्त्तिकस्य प्रयोगः कर्तव्यः ।\n2. - ये शब्दाः 'प्रमाणम्' इत्यनया संज्ञया प्रसिद्धाः सन्ति, ते यस्य द्विगुसमासस्य उत्तरपदे सन्ति, तस्मात् द्विगुसमासात् विहितस्य मात्रच्-प्रत्ययस्य नित्यम् लुक् भवति । यथा - द्वौ शमौ परिमाणमस्य सः द्विशमः । द्वौ दिष्टी परिमाणमस्य सः द्विदिष्टिः । द्वौ वितस्ती परिमाणमस्य सः द्विवितस्तिः ।\nविशेषः -\nअ) अनेन वार्त्तिकेन अपि केवलम् मात्रच्-प्रत्ययस्यैव लुक् उच्यते, द्वयसच्-प्रत्ययस्य उत दघ्नच्-प्रत्ययस्य न ।\nआ) पूर्ववार्त्तिकेन उक्तः लुक् द्विगुसमासस्य विषये 'तदन्तस्य' अपि स्यात् एतत् स्पष्टीकर्तुम् इदम् वार्त्तिकम् कृतमस्ति । अस्मिन् वार्त्तिके अपि पूर्ववार्त्तिकवत् प्रसिद्ध-प्रमाणानामेव ग्रहणं भवति ।\nइ) अस्मिन् वार्त्तिके केवलम् 'द्विगोः लः' इति उच्यते चेदपि वरम् स्यात् । अस्यां स्थितौ वार्त्तिककारः 'नित्यम्' इति वदति । अत्र नित्यग्रहणेन वार्त्तिककारः एतत् स्पष्टीकरोति, यत् द्विगुसमासस्य विषये केवलम् वर्तमानसूत्रेण प्रयुक्तस्य मात्रच्-प्रत्ययस्यैव लुक् भवतीति न, अपि तु अग्रिमवार्त्तिकेन ( इत्यनेन) भिन्ने अर्थे उक्तस्य मात्रच्-प्रत्ययस्य अपि लुक् भवति, इति । अस्य उदाहरणमग्रिमवार्त्तिके दत्तमस्ति ।\n3. - प्रमाणवाचिभ्यः शब्देभ्यः , परिमाणवाचिभ्यः शब्देभ्य , तथा च सङ्ख्यावाचिभ्यः शब्देभ्यः 'संशयः' ('अस्ति वा' - इति आशयः) अस्मिन् अर्थे मात्रच्-प्रत्ययः भवति । यथा - 'शमः प्रमाणमस्य स्यात् वा' (Is this really of the same measure as a शम) इति संशये प्राप्ते तस्य निर्देशार्थम् मात्रच्-प्रत्ययः भवितुमर्हति - 'शमः प्रमाणमस्य स्यात् वा इति शममात्रम्' । तथैव - दिष्टिः प्रमाणमस्य स्यात् वा = दिष्टिमात्रम् ।\nविशेषः - इति पूर्वस्मिन् वार्त्तिके नित्यग्रहणेन एतत् स्पष्टीभवति यत् अत्र निर्दिष्टस्य 'मात्रच्' प्रत्ययस्य अपि द्विगुसमासस्य विषये लुक् स्यात् । यथा - द्वौ शमौ प्रमाणमस्य स्यात् वा = द्विशमम् ।\n4. - 'स्तोम' इति कश्चन यज्ञविशेषः ।यत्र स्तोमस्य प्रमाणम् दीयते, तत्र प्रमाणवाचिशब्दात् 'अस्य' इत्यस्मिन् अर्थे 'डट्' प्रत्ययः भवति । यथा - पञ्चदश अहानि प्रमाणमस्य स्तोमस्य सः = पञ्चदशन् + डट् → पञ्चदशः स्तोमः । तथैव, द्वादश मन्त्राः अस्य स्तोमस्य सः द्वादशः स्तोमः ।\nविशेषः - अस्य वार्त्तिकस्य उदाहरणार्थम् काशिकाकारः वदति - 'पञ्चदशी रात्रिः' । अस्मिन् वाक्ये 'रात्रि' अयम् शब्दः 'रात्रौ जायमानः स्तोमः' इत्यस्य निर्देशार्थम् प्रयुज्यते । 'रात्रि' अयम् स्त्रीलिङ्गवाची शब्दः अस्ति अतः 'पञ्चदश' शब्दस्यापि स्त्रीत्वं विवक्षते । अस्यां स्थितौ प्रत्ययस्य टित्वात् प्रक्रियायाम् 'ङीप्' प्रत्ययविधानम् भवति, अतः 'पञ्चदशी' इति प्रयोगः सिद्ध्यति ।\n5. - 'शन्' तथा 'शत्' ययोः अन्ते विद्यते, तौ प्रमाणवाचिनौ शब्दौ 'अस्य' इत्यस्मिन् अर्थे 'डिनि' प्रत्ययं स्वीकुरुतः । यथा - पञ्चदश प्रमाणमस्य सः पञ्चदशी अर्धमासः (पञ्चदशन् + डिनि → पञ्चदशिन् ) । त्रिंशत् प्रमाणमस्य सः त्रिंशी मासः (त्रिंशत् + डिनि → त्रिंशी) ।\n6. - प्रमाणवाचिनः 'विंशति' शब्दात् 'अस्य' अस्मिन् अर्थे 'डिनि' प्रत्ययः भवति । प्रक्रिया इयम् -\nविंशति + डिनि\n→ विंशत् + इन् [डित्वात् <<टेः>> [[6.4.143]] इति टिलोपः]\n→ विंशतिन्\nयथा - विंशतिः प्रमाणम् एषाम् ते विंशिनः अङ्गिरसः । (अङ्गिरसामाहत्य 20 भेदाः सन्तीति अत्र सन्दर्भः अस्ति ।)\nविशेषः - इति वार्त्तिकम् भाष्यकारेण उक्तमस्ति, न हि वार्त्तिककारेण ।\n7. - 'वतुँप्'प्रत्ययान्तशब्देभ्यः स्वार्थे द्वयसच् तथा मात्रच् प्रत्ययौ कुत्रचित् कृताः दृश्यन्ते । यथा - यावत् + द्वयसच् → यावद्वयसम् । तावत् + मात्रम् → तावन्मात्रम् - आदयः ।\nविशेषः - 'बहुलम्' इत्युक्ते 'कुत्रचित् भवति, कुत्रचित् न भवति' इति । The word बहुलम् is used to indicate the lack of a common rule / pattern. And hence, the decision should be taken only by looking at the प्रयोगः) ।\n " }, "52038": { "sa": "'प्रमाणम्' इत्यस्मिन् अर्थे प्रयुज्यमानात् प्रथमासमर्थात्'पुरुष' शब्दात् तथा 'हस्तिन्' शब्दात् 'अस्य' इत्यस्मिन् अर्थे 'द्वयसच्', 'दघ्नच्' 'मात्रच्' , तथा 'अण्' प्रत्ययाः भवन्ति ।", "sd": "'प्रमाणम्' इत्यस्मिन् अर्थे प्रयुज्यमानात् प्रथमासमर्थात् 'अस्य' अस्मिन् अर्थे <<प्रमाणे द्वयसज्दघ्नञ्मात्रचः>> [[5.2.37]] इत्यनेन औत्सर्गिकरूपेण 'द्वयसच्', 'दघ्नच्' तथा 'मात्रच्' प्रत्ययाः भवन्ति । 'पुरुष' तथा 'हस्तिन्' एताभ्याम् शब्दाभ्यामस्मिन्नेव अर्थे वर्तमानसूत्रेण अण्-प्रत्ययः अपि विधीयते । यथा -\n1. पुरुषः प्रमाणमस्य सः पुरुषद्वयसः पुरुषदघ्नः पुरुषमात्रः पौरुषः वा स्तम्भः ।\n2. हस्ति प्रमाणमस्य तत् हस्तिद्वयसम् हस्तिदघ्नम् हस्तिमात्रम् हास्तिनम् वा उदकम्।\nविशेषः - 'हास्तिन' शब्दस्य प्रक्रिया इयम् -\nहस्तिन् + अण्\n→ हास्तिन् + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ हास्तिन [<<नस्तद्धिते>> [[6.4.144]] इति टिलोपे प्राप्ते <<इनण्यनपत्ये>> [[6.4.164]] इति प्रकृतिभावः ।]\nस्मर्तव्यम् - 'द्वयसच्', 'दघ्नच्' तथा 'मात्रच्' प्रत्ययान्तशब्दाः स्त्रीत्वे विवक्षिते <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इत्यनेन ङीप्-प्रत्ययं प्राप्नुवन्ति । यथा - पुरुषद्वयी नदी , पुरुषदघ्नी नदी, पुरुषमात्री नदी ।\nअत्र काशिकाकारः इति किञ्चन वार्त्तिकम् पाठयति । अस्य अर्थः अयम् - प्रमाणरूपेण प्रयुज्यमानः यः द्विगुसमासेन निर्मितः शब्दः, तस्मिन् विद्यमानात् 'पुरुष'शब्दात् तथा 'हस्तिन्'शब्दात् विहितानाम् 'द्वयसच्', 'दघ्नच्', तथा 'मात्रच्' प्रत्ययानाम् नित्यं लुक् भवति । यथा -\nअ) द्वौ पुरुषौ प्रमाणमस्य तत् द्विपुरुषमुदकम् ।\nआ) द्वौ हस्तिनौ प्रमाणमस्य तत् द्विहस्ति उदकम् ।\nइ) द्वौ पुरुषौ प्रमाणमस्य सा द्विपुरुषा द्विपुरुषी वा माला । अत्र <<पुरुषात् प्रमाणेऽन्यतरस्याम्>> [[4.1.24]] इति ङीप्-प्रत्ययः भवति; पक्षे <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्-प्रत्ययः विधीयते ।\nई) द्वौ हस्तिनौ प्रमाणमस्य सा द्विहस्तिनी नौका । अत्र <<ऋन्नेभ्यो ङीप्>> [[4.1.5]] इति ङीप्-प्रत्ययः विधीयते ।\nस्मर्तव्यम् -\n1. द्विगुसमासेन निर्मितेभ्यः शब्देभ्यः <<प्रमाणे द्वयसज्दघ्नञ्मात्रचः>> [[5.2.37]] इत्यनेन पूर्वसूत्रेणैव द्वयसच् / दघ्नच् / मात्रच् प्रत्ययाः भवन्ति । यदि एतेषु शब्देषु उत्तरपदम् 'पुरुष' उत 'हस्तिन्' एताभ्याम् किञ्चन विद्यते, तर्हि अस्यां स्थितौ पूर्वसूत्रे विद्यमानेन अनेन वार्त्तिकेन लोपः भवितुम् न अर्हति, यतः 'पुरुष' तथा 'हस्तिन्' एतौ 'प्रसिद्धप्रमाणौ' न स्तः । (पूर्वस्मिन् सूत्रे विद्यमानम् इति वार्त्तिकम् प्रसिद्ध-प्रमाणस्य विषये एव अस्ति, अन्येषां विषये न । तथा च, तेन केवलं मात्रच्-प्रत्ययस्यैव लुक् क्रियते, त्रयाणामपि प्रत्ययानाम् न) । अतः अत्र अस्य वार्त्तिकस्य पुनः निर्देशः अत्र कृतः अस्ति ।\n2. वर्तमानसूत्रेण विहितः अण्-प्रत्ययः द्विगुसमासस्य विषये भवितुमेव न अर्हति, यतः <ऽग्रहणवता प्रातिपदिकेन तदन्तविधिः नास्तिऽ> अनया परिभाषया अत्र तदन्तविधिः प्रतिषिध्यते । अतः अनेन वार्त्तिकेन 'अण्' प्रत्ययस्य लुक् नैव उक्तः अस्ति ।\n3. वर्तमानसूत्रेण विहितः अण्-प्रत्ययः द्विगुसमासस्य विषये भवितुमेव न अर्हति, यतः <ऽग्रहणवता प्रातिपदिकेन तदन्तविधिः नास्तिऽ> अनया परिभाषया अत्र तदन्तविधिः प्रतिषिध्यते । अतः अनेन वार्त्तिकेन 'अण्' प्रत्ययस्य लुक् नैव उक्तः अस्ति ।\n4. अस्मिन् वार्त्तिके 'नित्य' ग्रहणस्य किमपि विशिष्टं प्रयोजनं व्याख्यानेषु न दीयते ।\n " }, "52039": { "sa": "'परिमाण' इत्यस्य विशेषणरूपेण प्रयुक्ताः ये 'यत्', 'तत्', 'एतद्' शब्दाः, तेभ्यः प्रथमासमर्थेभ्यः 'अस्य' इत्यस्मिन् अर्थे 'वतुप्' प्रत्ययः भवति । ", "sd": "'यत्', 'तत्' तथा 'एतत्' एतानि सर्वनामशब्दानि यत्र 'परिमाण' (= amount, quantity, magnitude) शब्दस्य 'उपाधिरूपेण' (विशेषणरूपेण) प्रयुज्यन्ते, तत्र तेभ्यः 'अस्य' अस्मिन् अर्थे वतुँप् प्रत्ययः भवति । यथा -\n1) यत् परिमाणमस्य = यत् + वत् → यावत् । (till as much - इति सामान्यः अर्थः) ।\n2) तत् परिमाणमस्य = तत् + वत् → तावत् । (till that much - इति सामान्यः अर्थः) ।\n3) एतत् परिमाणमस्य = एतत् + वत् → एतावत् । (till this much - इति सामान्यः अर्थः) ।\n'यावत्' शब्दस्य निर्माणप्रक्रिया इयम् -\nयत् + वतुँप्\n→ यत् + वत् [पकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा । उँकारस्य <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इति इत्संज्ञा । द्वयोः <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ या + वत् [<<आ सर्वनाम्नः>> [[6.3.91]] इत्यनेन वतुँप् प्रत्यये परे सर्वनामसंज्ञकशब्दस्य आकारादेशः । <<अलोऽन्त्यस्य>> [[1.1.52]] इति अन्त्यादेशः]\n→ यावत्\nएवमेव तावत्, एतावत् एतौ शब्दौ सिद्ध्यतः ।\nविशेषः -\n1. 'यावत्', 'तावत्' , 'एतावत्' एतेषां रूपाणि त्रिषु लिङ्गेषु भवन्ति -\nअ) पुँल्लिगे - अस्य रूपाणि 'भवत्' शब्दवत् भवन्ति । यथा - 'यावान् , यावन्तौ, यावन्तः, यावन्तम्, यावन्तौ, यावतः' एतादृशम् भवन्ति । प्रथमैकवचनस्य प्रक्रिया इयम् -\nयावत् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः]\n→ यावात् + सुँ [<<अत्वसन्तस्य चाधातोः>> [[6.4.14]] इति उपधादीर्घः]\n→ यावान् त् + सुँ [<<उगिदचां सर्वनामस्थाने अधातोः>> [[7.1.70]] इति नुमागमः]\n→ यावान् त् [<<हल्ङ्याभ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति सुँ-प्रत्ययस्य लोपः]\n→ यावान् [<<संयोगान्तस्य लोपः>> [[8.2.23]] इति तकारलोपः]\n आ) स्त्रीलिङ्गे - 'यावत्' शब्दः स्त्रीत्वे विवक्षिते <<उगितश्च>> [[4.1.6]] इत्यनेन ङीप्-प्रत्ययः भवति, येन 'यावती' इति प्रातिपदिक सिद्ध्यति । अस्य रूपाणि 'नदी' शब्दवत् भवन्ति । यथा - यावती यावत्यौ यावत्यः, यावतीम्, यावत्यौ, यावती ।\n(इ) नपुंसकलिङ्गे - 'जगत्' शब्दवत् अस्य रूपाणि भवन्ति । यथा - यावत्, यावती, यावन्ति । अत्र जस्-शस्-प्रत्यययोः परयोः यद्यपि <<उगिदचां सर्वनामस्थाने अधातोः>> [[7.1.70]] इत्यनेन नुमागमः भवितुमर्हति, तथापि तद् बाधित्वा विप्रतिषेधेन <<नपुंसकस्य झलचः>> [[7.1.72]] इत्यनेन पुनः नुमागमः एव विधीयते ।\n2. <<चादयोऽसत्वे>> [[1.4.57]] इत्यत्र निर्दिष्टे चादिगणे 'यावत्' तथा 'तावत्' एतौ शब्दौ पाठितौ स्तः । एतौ द्वौ अव्ययसंज्ञकौ शब्दौ वतुँप्-प्रत्ययान्तौ / तद्धितान्तौ न, एतयोः च वर्तमानसूत्रेण निर्देशः न क्रियते । The words यावत् and तावत् specified in the चादिगण are completely different than the words presented in this sutra. यथा - 'अहम् शालाम् यावत् गच्छामि' अस्मिन् वाक्ये अव्ययसंज्ञकस्य 'यावत्' शब्दस्य प्रयोगः क्रियते, न हि वतुँप्-प्रत्ययान्तस्य यावत्-शब्दस्य ।\nवाक्येषु प्रयोगः -\n1) त्वम् यावान् उन्नतः असि, तावान् अहमपि उन्नतः अस्मि । I am as tall as you are.\n2) अस्य महिमा एतावान् । His greatness is this much.\n3) यावती विद्या भवता ज्ञेया, तावती मया पूर्वमेव पाठिता । Whatever is appropriate for you to learn, I have already taught you that much.\n4) सः सर्पः त्रिंशत् पादम् यावत् लम्बमानः अस्ति । That snake is thirty feet long.\nविशेषः - वस्तुतः अस्मिन् सूत्रे <<प्रमाणे द्वयसज्दघ्नञ्मात्रचः>> [[5.2.37]] इत्यस्मात् 'प्रमाण'शब्दस्य अनुवृत्तिः भवितुमर्हति । तथाप्यत्र सा अनुवृत्तिः न स्वीक्रियते, अपितु 'परिमाण' इत्यस्य विशिष्टरूपेण निर्देशः कृतः अस्ति । अतः 'कः भेदः प्रमाण-परिमाणयोः?' इति प्रश्नः अत्र उद्भवति । सामान्यतः तु द्वयोः शब्दयोः अर्थः समानः एव । परन्तु सूक्ष्मरूपेण चिन्तयामश्चेत् अस्य उत्तरार्थम् भाष्यकारः अस्मिन् विषये एकम् श्लोकवार्त्तिकम् पाठयति -\n'ऊर्ध्वमानं किल उन्मानम्, परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात्, सङ्ख्या भिन्ना तु सर्वतः' ।\nअस्य अर्थः अयम् - ऊर्ध्वदिशि गृहीत्वा मापनम् येन क्रियते तत् 'उन्मान' नाम्ना ज्ञायते । (उन्मान is the unit of measurement of weight. The reference here is that the weighing balance is held vertically for measuring the weight.) । आयामस्य मापनं येन भवति तत् प्रमाणम् । (प्रमाण is used for measuring distance / height / depth etc) । 'परिमाण' अयम् शब्द तु सर्वेषाम् मापनानाम् विषये प्रयुज्यते, अतः तेन उन्मान-प्रमाणयोः अपि ग्रहणं भवति । The word परिमाण is used as a general term of measurement, which includes उन्मान as well as प्रमाण ।\nअत्र किञ्चन वार्त्तिकम् ज्ञातव्यम् - । इत्युक्ते, 'युष्मद्' तथा 'अस्मद्' शब्दाभ्याम् 'सादृश्यम्' अस्मिन् अर्थे वेदेषु वतुँप्-प्रत्ययः कृतः दृश्यते । यथा -\nअ) ऋग्वेदे 7.32.23 - 'न त्वावाँ॑ अ॒न्यो दि॒व्यो न पार्थि॑वो॒ न जा॒तो न ज॑निष्यते ' ।\nअत्र 'त्वावान्' अयम् शब्दः 'युष्मद् + वतुँप्' इत्यस्य प्रथमैकवचनमस्ति । अत्र वतुँप्-प्रत्ययः 'सदृशः' अस्मिन् अर्थे प्रयुक्तः दृश्यते - 'त्वावान्' इत्युक्ते 'त्वत्-सदृशः' (similar to you) । प्रक्रिया इयम् -\nयुष्मद् + वतुँप्\n→ युष्मद् + वत् [इत्संज्ञालोपः]\n→ त्वद् + वत् [<<प्रत्ययोत्तरपदयोश्च>> [[7.2.98]] इति 'युष्म' इत्यस्य 'त्व' इति आदेशः ]\n→ त्वा + वत् [<<आ सर्वनाम्नः>> [[6.3.91]] इति आकारादेशः]\n→ त्वावत्\nअस्य पुंलिङ्गे प्रथमैकवचनस्य रूपम् 'त्वावान्' इति । प्रक्रिया इयम् -\nत्वावत् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः]\n→ त्वावात् + सुँ [<<अत्वसन्तस्य चाधातोः>> [[6.4.14]] इति उपधादीर्घः]\n→ त्वावा न् त् + स् [<<उगिदचां सर्वनामस्थाने अधातोः>> [[7.1.70]] इति नुमागमः]\n→ त्वावान् त् [<<हल्ङ्याभ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति सुँ-प्रत्ययस्य लोपः]\n→ त्वावान् [<<संयोगान्तस्य लोपः>> [[8.2.23]] इति तकारलोपः]\nआ) ऋग्वेदे 1.142.2 - 'य॒ज्ञं विप्र॑स्य॒ माव॑तः शशमा॒नस्य॑ दा॒शुषः॑' ।\nअत्र 'मावतः' अयं शब्दः 'अस्मद् + वतुँप्' इत्यस्य षष्ठ्येकवचनमस्ति । 'मावत्' इति अत्र प्रातिपदिकम् । 'मावतः' इत्युक्ते मत्सदृशस्य । प्रक्रिया इयम् -\nअस्मद् + वतुँप्\n→ अस्मद् + वत् [इत्संज्ञालोपः]\n→ म + वत् [<<प्रत्ययोत्तरपदयोश्च>> [[7.2.98]] इति 'अस्म' इत्यस्य 'म' इति आदेशः ]\n→ मा+ वत् [<<आ सर्वनाम्नः>> [[6.3.91]] इति आकारादेशः]\n→ मावत्\n→ मावत् + ङस् [षष्ठ्येकवचनस्य विवक्षायाम् ङस्-प्रत्ययः]\n→ मावत् + अस् [इत्संज्ञालोपः]\n→ मावतः [<<ससजुषो रुँः>> [[8.2.66]] इति रुँत्वम्, <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\nस्मर्तव्यम् -\n1. 'वतुँप्-प्रत्ययान्तशब्दाः <<बहुगणवतुडति सङ्ख्या>> [[1.1.23]] इत्यनेन 'सङ्ख्या' संज्ञां प्राप्नुवन्ति । अतः 'यावत्, तावत्, एतावत्' एतेषामपि 'सङ्ख्या'संज्ञा भवति ।\n2. वर्तमानसूत्रेण उक्तः 'वतुँप्' प्रत्ययः , तथा च <<तेन तुल्यं क्रिया चेद्वतिः>> [[5.1.115]] इत्येतेन उक्तः 'वति'-प्रत्ययः - द्वयोः अपि दृश्यरूपम् 'वत्' इति समानमेव विद्यते । परन्तु द्वावपि प्रत्ययौ, तयोः अर्थौ, तयोः उदाहरणानि च सम्पूर्णरूपेण भिन्नानि सन्तीति स्मर्तव्यम् ।\n" }, "52040": { "sa": "'परिमाण' इत्यस्य विशेषणरूपेण प्रयुक्तौ यौ 'किम्' तथा 'इदम्' शब्दौ, ताभ्याम् प्रथमासमर्थाभ्याम् 'अस्य' इत्यस्मिन् अर्थे 'वतुप्' प्रत्ययः भवति; तथा च प्रक्रियायाम् प्रत्ययस्य वकारस्य घकारादेशः भवति । ", "sd": "'किम्' तथा 'इदम्' एते सर्वनामशब्दे यत्र 'परिमाण' (= amount, quantity, magnitude) शब्दस्य 'उपाधिरूपेण' (विशेषणरूपेण) प्रयुज्यन्ते, तत्र ताभ्याम् 'अस्य' अस्मिन् अर्थे वतुँप् प्रत्ययः भवति ; तथा च प्रक्रियायाम् 'वतुँप्' इत्यस्य वकारस्य घकारादेशः भवति । क्रमेण पश्यामः -\n1) किम् परिमाणमस्य (What is the measure of this - इति प्रश्नः)\n= किम् + वतुँप् [वर्तमानसूत्रेण वतुँप्-प्रत्ययविधानम्]\n→ किम् + वत् [इत्संज्ञालोपः]\n→ किम् + घत् [वर्तमानसूत्रेण 'वतुँप्' इत्यस्य वकारस्य घकारादेशः]\n→ किम् + इयत् [<<आयनेयीनीयियः फघखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति घ-इत्यस्य इय-आदेशः]\n→ की + इयत् [<<इदङ्किमोरीश्की>> [[6.3.90]] इत्यनेन 'किम्' इत्यस्य वतुँप्-प्रत्यये परे 'की' आदेशः । अनेकाल्त्वात् <<अनेकाल्शित्सर्वस्य>> [[1.1.55]] इति सर्वादेशः]\n→ क् + इयत् [<<यस्येति च>> [[6.4.148]] इति ईकारलोपः]\n→ कियत् । (how much / what is the measure of - इति अर्थः) ।\nअयं शब्दः त्रिषु लिङ्गेषु प्रयुज्यते -\nअ) पुंलिङ्गे अस्य रूपाणि 'यावत्' शब्दवत् भवन्ति । यथा - कियान्, कियन्तौ, कियन्तः, कियन्तम्, कियन्तौ, कियतः । 'कियान्' शब्दस्य प्रक्रिया इयम् -\nकियत् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः]\n→ कियात् + सुँ [<<अत्वसन्तस्य चाधातोः>> [[6.4.14]] इति उपधादीर्घः]\n→ कियान् त् + सुँ [<<उगिदचां सर्वनामस्थाने अधातोः>> [[7.1.70]] इति नुमागमः]\n→ कियान् त् [<<हल्ङ्याभ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति सुँ-प्रत्ययस्य लोपः]\n→ कियान् [<<संयोगान्तस्य लोपः>> [[8.2.23]] इति तकारलोपः]\n आ) स्त्रीलिङ्गे - 'कियत्' शब्दः स्त्रीत्वे विवक्षिते <<उगितश्च>> [[4.1.6]] इत्यनेन ङीप्-प्रत्ययः भवति, येन 'कियती' इति प्रातिपदिक सिद्ध्यति । अस्य रूपाणि 'नदी' शब्दवत् भवन्ति । यथा - कियती कियत्यौ कियत्यः ।\n(इ) नपुंसकलिङ्गे - 'जगत्' शब्दवत् अस्य रूपाणि भवन्ति । यथा - कियत्, कियती, कियन्ति ।\nविशेषः - अग्रिमसूत्रेण <<किमः संख्यापरिमाणे डति च>> [[5.2.41]] इत्यनेन अपि 'कियत्' इत्यवे शब्दः सिद्ध्यति । परन्तु तत्रस्थस्य 'कियत्' शब्दस्य अर्थः 'how many' इति अस्ति । वर्तमानसूत्रेण निर्दिष्टस्य 'कियत्' शब्दस्य अर्थः 'how much' इति अस्ति ।\n2) इदम् परिमाणमस्य (This is the measure of this other thing - इत्यर्थः)\n= इदम् + वतुँप् [वर्तमानसूत्रेण वतुँप्-प्रत्ययविधानम्]\n→ इदम् + वत् [इत्संज्ञालोपः]\n→ इदम् + घत् [वर्तमानसूत्रेण 'वतुँप्' इत्यस्य वकारस्य घकारादेशः]\n→ इदम् + इयत् [<<आयनेयीनीयियः फघखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति घ-इत्यस्य इय-आदेशः]\n→ ई + इयत् [<<इदङ्किमोरीश्की>> [[6.3.90]] इत्यनेन 'इदम्' इत्यस्य वतुँप्-प्रत्यये परे 'ई' आदेशः । शित्वात् <<अनेकाल्शित्सर्वस्य>> [[1.1.55]] इति सर्वादेशः । ]\n→ X + इयत् [<<यस्येति च>> [[6.4.148]] इति अङ्गस्य ईकारलोपः।]\n→ इयत्\nअत्र प्रकृतेः सम्पूर्णरूपेण लोपः भवति, केवलम् प्रत्ययस्यैव दृश्यरूपमवशिष्यते ।\nइयत्-शब्दस्य अर्थः 'this much / this is the measure of' इति अस्ति । अयं शब्दः त्रिषु लिङ्गेषु प्रयुज्यते । 'कियत्' शब्दवदेव अस्यापि रूपाणि भवन्ति । यथा -\nअ) पुंलिङ्गे - इयान् इयन्तौ इयन्तः ।\nआ) स्त्रीलिङ्गे - इयती इयत्यौ इयत्यः ।\nइ) नपुंसकलिङ्गे - इयत् इयती इयन्ति ।\nस्मर्तव्यम् -\n1. अस्मिन् सूत्रे उक्तः वकारस्य घकारादेशः 'प्रत्यये विद्यमानस्य वकारस्य' विषये उक्तः अस्ति । अतः इदम् 'प्रत्ययकार्यम्' अस्ति, न हि 'अङ्गकार्यम्' ।\n2. अस्मिन् सूत्रे कार्यद्वयमुक्तमस्ति - (अ) किम् / इदम् शब्दाभ्याम् वतुँप्-प्रत्ययविधानम्, तथा (आ) किम्/इदम् शब्दाभ्यां विहितस्य वतुँप्-प्रत्ययस्य वकारस्य घकारादेशः । एतौ कार्यौ स्वतन्त्रौ स्तः । इत्युक्ते, यद्यपि केनचित् अन्येन सूत्रेण एताभ्याम् शब्दाभ्याम् 'वतुँप्' प्रत्ययः क्रियते, तथापि तस्य वकारस्य घकारादेशः वर्तमानसूत्रेण भवितुमर्हति । यथा, अग्रिमसूत्रेण <<किमः सङ्ख्यापरिमाणे डति च>> [[5.2.40]] इत्यनेन 'किम्' शब्दात् 'वतुँप्' प्रत्यये कृते वर्तमानसूत्रेण तस्य वकारस्य घकारादेशः अवश्यम् भवति ।\n3. 'वतुँप्-प्रत्ययान्तशब्दाः <<बहुगणवतुडति सङ्ख्या>> [[1.1.23]] इत्यनेन 'सङ्ख्या' संज्ञां प्राप्नुवन्ति । अतः 'कियत्' तथा 'इयत्' द्वयोः अपि 'सङ्ख्या' इति संज्ञा भवति ।\n " }, "52041": { "sa": "'सङ्ख्या' अस्मिन् विवक्षायाम् प्रयुक्तः यः 'परिमाण' शब्दः, तस्य विशेषणरूपेण युक्तः यः 'किम्' शब्दः, तस्मात् प्रथमासमर्थात् 'अस्य' इत्यस्मिन् अर्थे 'डति' प्रत्ययः 'वतुँप्' प्रत्ययः च विधीयते । ", "sd": "यत्र 'किम्' अयम् सर्वनामशब्दः 'सङ्ख्या' इत्यस्य विवक्षायाम् 'परिमाण' शब्दस्य विशेषणरूपेण प्रयुज्यते (That is, quantity representing a number), तत्र तस्मात् शब्दात् 'अस्य' इत्यस्मिन् अर्थे डति-प्रत्ययः वतुँप्-प्रत्ययः च भवति ।\nयथा - 'का सङ्ख्या परिमाणम् एतेषाम्' इति वाक्यम् स्वीकुर्मः । What number represents the quantity of these - इति अस्य शब्दशः अनुवादः । (How many are these' इति आशयः) । अत्र प्रश्नस्य उत्तरार्थम् सङ्ख्यावाची शब्दः अपेक्षितः अस्ति; अतः अत्र 'सङ्ख्यापरिमाणे' प्रत्ययविधानम् इष्यते । अस्यां स्थितौ 'किम्' शब्दात् 'डति' तथा 'वतुँप्' एतौ प्रत्ययौ विधीयेते । क्रमेण पश्यामः -\n1. डति-प्रत्ययः -\nकिम् + डति\n→ किम् + अति [डकारस्य <<चुटू>> [[1.3.7]] इति इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति लोपः । तकारोत्तरः इकारः न हि इत्संज्ञकः अस्ति न हि उच्चारणार्थः । अयम् इकारः तु प्रत्ययस्यैव अंशः अस्ति ।]\n→ क् + अति [डित्-प्रत्यये परे <<टेः>> [[6.4.143]] इति टिलोपः]\n→ कति\n'कति' शब्दस्य अर्थः 'का सङ्ख्या परिमाणम् एषाम्' (how many) इति ।\nविशेषः -\nअ) <<डति च>> [[1.1.25]] इत्यनेन डति-प्रत्ययान्तशब्दाः षट्-संज्ञकाः भवन्ति । अतः 'कति' शब्दस्य 'षट्' इति संज्ञा भवति । (सङ्ख्यावाची 'six' इत्यस्मिन् अर्थे प्रयुक्तः षट्-शब्दः तु सर्वथा भिन्नः अस्तीति स्मर्तव्यम् ) ।\nआ) <<बहुगणवतुडति सङ्ख्या>> [[1.1.23]] इत्यनेन डति-प्रत्ययान्तशब्दाः 'सङ्ख्या' इति संज्ञां प्राप्नुवन्ति । अतः 'कति' शब्दस्य 'सङ्ख्या' इति अपि संज्ञा भवति ।\nइ) 'कति' शब्दः नित्यं बहुवचने एव प्रयुज्यते । अस्य रूपाणि त्रिषु अपि लिङ्गेषु समानानि एव भवन्ति - 'कति, कति, कतिभिः, कतिभ्यः, कतिभ्यः, कतीनाम्, कतिषु'। अस्य प्रथमाद्वितीयाबहुवचनयोः प्रक्रिया इयम् -\nकति + जस् / शस् [प्रथमाबहुवचनस्य जस्-प्रत्ययः / द्वितीयाबहुवचनस्य शस्-प्रत्ययः]\n→ कति [षट्-संज्ञकात् परस्य जस्/शस्-प्रत्यययोः <<षड्भ्यो लुक्>> [[7.1.22]] इति लुक् ]\nयथा - कति वृक्षाः , कति नद्यः, कति फलानि ।\n2. वतुँप्-प्रत्ययः\n= किम् + वतुँप्\n→ किम् + वत् [इत्संज्ञालोपः]\n→ किम् + घत् [<<किमिदंभ्यां वो घः>> [[5.2.40]] इत्यनेन वकारस्य घकारादेशः]\n→ किम् + इयत् [<<आयनेयीनीयियः फघखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति घ-इत्यस्य इय-आदेशः]\n→ की + इयत् [<<इदङ्किमोरीश्की>> [[6.3.90]] इत्यनेन 'किम्' इत्यस्य वतुँप्-प्रत्यये परे 'की' आदेशः । अनेकाल्त्वात् <<अनेकाल्शित्सर्वस्य>> [[1.1.55]] इति सर्वादेशः]\n→ क् + इयत् [<<यस्येति च>> [[6.4.148]] इति ईकारलोपः]\n→ कियत् ।\nअत्र निर्मितः 'कियत्' शब्दः 'का सङ्ख्या परिमाणम् एषाम्' (how many) अस्मिन् अर्थे प्रयुज्यते ।\nविशेषः -\n1. 'कियत्' अयम् शब्दः वर्तमानसूत्रस्य सन्दर्भे केवलम् बहुवचनेषु एव प्रयुज्यते (To indicate the meaning of 'how many', only a plural makes sense.) ।\n2. अस्य शब्दस्य त्रिषु अपि लिङ्गेषु रूपाणि भवितुमर्हन्ति । पुंलिङ्गे अस्य रूपाणि 'यावत्' शब्दवत् भवन्ति - 'कियन्तः, कियतः, कियद्भिः, कियद्भ्यः, कियद्भ्यः, कियताम्, कियत्सु' । स्त्रीलिङ्गे <<उगितश्च>> [[4.1.6]] इत्यनेन ङीप्-प्रत्ययः भवति, येन 'कियती' इति प्रातिपदिक सिद्ध्यति ; अस्य च रूपाणि 'नदी' शब्दवत् भवन्ति । यथा - कियत्यः, कियतीः, कियतीभिः, कियतीभ्यः, कियतीभ्यः, कियतीनाम्, कियतीषु । नपुंसकलिङ्गे अस्य रूपाणि 'जगत्' शब्दवत् भवन्ति । यथा - कियन्ति, कियन्ति, कियद्भिः, कियद्भ्यः, कियद्भ्यः, कियताम्, कियत्सु' ।\nउदाहरणानि - कियन्त वृक्षाः, कियत्यः नद्यः, कियन्ति फलानि ।\n3. <<बहुगणवतुडति सङ्ख्या>> [[1.1.23]] इत्यनेन वतुँप्-प्रत्ययान्तशब्दाः 'सङ्ख्या' इति संज्ञां प्राप्नुवन्ति । अतः 'कियत्' शब्दस्य अपि 'सङ्ख्या' इति संज्ञा भवति ।\n4. <<किमिदंभ्यां वो घः>> [[5.2.40]] इत्यनेन अपि 'कियत्' शब्दस्य निर्माणम् भवति, परन्तु तत्र निर्मितः 'कियत्' शब्दः सामान्यपरिमाणस्य विवक्षायाम् ('What is the measure of this' / 'how much' अस्मिन् अर्थे) प्रयुज्यते । वर्तमानसूत्रेण निर्मितः कियत्-शब्दः तु सङ्ख्यापरिमाणस्य अर्थे (= 'how many' इति) प्रयुज्यते ।\nस्मर्तव्यम् - अस्मिन् सूत्रे 'सङ्ख्यापरिमाणे' इति उच्यते । वस्तुतः 'सङ्ख्या' इत्येव उच्यते चेदपि स एव अर्थः सिद्ध्यति - इति भासते । यथा - 'का सङ्ख्या एषाम्' इत्यस्य अर्थः अपि 'का सङ्ख्या परिमाणम् एषाम्' इत्येव अस्तीति भासते । परन्तु द्वयोः वाक्ययोः मध्ये सूक्ष्मः भेदः अस्ति । केषुचन स्थलेषु सङ्ख्यावाची शब्दः परिमाणरूपेण नैव प्रयुज्यते । यथा - 'का सङ्ख्या एषां दशानाम्' (What number is being given to this set of ten - इति आशयः) । अत्र 'किम्' इति शब्दः केवलम् 'सङ्ख्यायाः' विवक्षायाम् एव प्रयुज्यते, अत्र 'परिमाणस्य' निर्देशः नास्ति । (The question being asked here is not 'how many', but the question is 'what number is this' - इति आशयः) । अतः अत्र वर्तमानसूत्रस्य प्रयोगः न भवति ।" }, "52042": { "sa": "प्रथमासमर्थात् सङ्ख्यावाचिशब्दात् 'अवयवाः अस्य' इत्यस्मिन् अर्थे तयप्-प्रत्ययः भवति । ", "sd": "'अवयव' इत्युक्ते 'विभागः / parts'. कस्यचन पदार्थस्य निर्देशः तस्य विभागानाम् सङ्ख्यायाः साहाय्येन कर्तुमस्य सूत्रस्य प्रयोगः क्रियते । This sutra is used when an entity is to be expressed using the number of its parts.\nयथा - 'पञ्च अवयवाः अस्य' इत्यस्मिन् अर्थे 'पञ्चन्' शब्दात् 'तयप्' प्रत्ययः भवति ।\nपञ्चन् + तयप्\n→ पञ्च + तय [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः]\n→ पञ्चतय ।\nविशेषः - 'तयप्' प्रत्ययान्तशब्दाः शब्दः त्रिषु लिङ्गेषु प्रयुज्यते । पुंलिङ्गे एतेषाम् रूपाणि 'बाल'शब्दवत् भवन्ति । नपुंसकलिङ्गे अस्य रूपाणि 'फल'शब्दवत् भवन्ति । स्त्रीत्वे विवक्षिते <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इत्यनेन ङीप्-प्रत्ययं कृत्वा स्त्रीलिङ्गवाची प्रातिपदिकम् सिद्ध्यति, यस्य रूपाणि नदी'शब्दवत् भवन्ति । यथा - पञ्चतयी, पञ्चतय्यौ, पञ्चतय्यः ।\nतथैव -\n1) द्वौ अवयवाः अस्य तत् द्वितयम् ।\n2) त्रयः अवयवाः अस्य तत् त्रितयम् ।\n3) चत्वारः अवयवाः अस्य सः चतुष्टयः । प्रक्रिया इयम् -\nचतुर् + तयप्\n→ चतुः + तय [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति रेफस्य विसर्गः]\n→ चतुस् + तय [<<विसर्जनीयस्य सः>> [[8.3.34]] इति विसर्गस्य सकारादेशः]\n→ चतुष् + तय [ <<ह्रस्वात् तादौ तद्धिते>> [[8.3.101]] इति षत्वम् ]\n→ चतुष् + टय [<<ष्टुना ष्टुः>> [[8.4.41]] इति तकारस्य टकारादेशः]\n→ चतुष्टय ।\n4) षट् अवयवाः अस्य सः षट्तयः । अत्र 'षष्' इति प्रातिपदिकमस्ति । प्रक्रिया इयम् -\nषष् + तयप्\n→ षड् + तय [<<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वम्]\n→ षड् + तय [<<ष्टुना ष्टुः>> [[8.4.41]] इत्यनेन ष्टुत्वे प्राप्ते <<न पदान्ताट्टोरनाम्>> [[8.2.42]] इति निषेधः ; अतः तकारस्य टकारः न भवति ]\n→ षट् + तय [<<खरि च>> [[8.4.55]] इति चर्त्वे डकारस्य टकारः]\n→ षट्तय ।\n5) दश अवयवाः अस्य तत् दशतयम् ।\n6) विंशतिः अवयवाः यस्याः सा विंशतीतयी ।\n7) शतमवयवाः अस्य सः शततयः ।\nस्मर्तव्यम् - <<प्रथमचरमतयाल्पार्धकतिपयनेमाश्च>> [[1.1.33]] इत्यनेन 'तयप्' प्रत्ययान्तशब्दाः पुंलिङ्गे जस्-प्रत्यये परे विकल्पेन सर्वनामसंज्ञां प्राप्नुवन्ति । सर्वनामसंज्ञायां सत्याम् इयम् प्रक्रिया विधीयते -\nपञ्चतय + जस् [प्रथमाबहुवचनस्य जस्-प्रत्ययः]\n→ पञ्चतय + शी [<<जसः शी>> [[7.1.17]] इत्यनेन अदन्तात् सर्वनामसंज्ञकात् परस्य 'जस्' प्रत्ययस्य 'शी' इति आदेशः भवति । अनेकाल्त्वात् <<अनेकाल्शित्सर्वस्य>> [[1.1.55]] इति सर्वादेशः ।]\n→ पञ्चतय + ई [इत्संज्ञालोपः]\n→ पञ्चतये [<<आद्गुणः>> [[6.1.87]] इति गुण-एकादेशः]\nयथा - पञ्चतये प्रश्नाः (Questions which have five parts each इत्यर्थः) । पक्षे 'पञ्चतयाः प्रश्नाः' इत्यपि साधु ।\n" }, "52043": { "sa": "'द्वि' तथा 'त्रि' एताभ्याम् शब्दाभ्याम् विहितस्य 'तयप्' प्रत्ययस्य विकल्पेन 'अयच्' इति आदेशः भवति । ", "sd": "<<संख्याया अवयवे तयप्>> [[5.2.42]] इत्यनेन सूत्रेण सङ्ख्यावाचिभ्यः शब्देभ्यः 'अवयवाः अस्य' अस्मिन् अर्थे 'तयप्' इति प्रत्ययः विधीयते । यदि अस्य प्रत्ययस्य अङ्गम् 'द्वि' तथा 'त्रि' एतत् अस्ति, तर्हि अस्य प्रत्ययस्य वर्तमानसूत्रेण विकल्पेन 'अयच्' इति आदेशः भवति । यथा -\n1. द्वौ अवयवौ अस्य\n= द्वि + तयप् [<<संख्याया अवयवे तयप्>> [[5.2.42]] इति तयप्-प्रत्ययः]\n→ द्वि + अयच् ['तयप्' प्रत्ययस्य वर्तमानसूत्रेण वैकल्पिकः 'अयच्' आदेशः]\n→ द्व् + अयच् [<<यस्येति च>> [[6.4.148]] इति इकारलोपः]\nपक्षे 'अयच्' आदेशस्य अप्राप्तौ 'द्वितय' इति प्रातिपदिकमपि सिद्ध्यति । द्वौ अवयवौ यस्य तत् द्वयम् द्वितयम् वा ।\n2. त्रयः अवयवाः अस्य\n= त्रि + तयप् [<<संख्याया अवयवे तयप्>> [[5.2.42]] इति तयप्-प्रत्ययः]\n→ त्रि + अयच् ['तयप्' प्रत्ययस्य वर्तमानसूत्रेण वैकल्पिकः 'अयच्' आदेशः]\n→ त्र् + अयच् [<<यस्येति च>> [[6.4.148]] इति इकारलोपः]\nपक्षे 'अयच्' आदेशस्य अप्राप्तौ 'त्रितय' इति प्रातिपदिकमपि सिद्ध्यति । त्रयः अवयवाः यस्य तत् त्रयम् त्रितयम् वा ।\nविशेषः - यदि आचार्यः अस्मिन् सूत्रे 'तयस्य' इति न उक्त्वा 'अयच्' प्रत्ययस्य स्वतन्त्ररूपेण विधानम् कुर्यात्, तर्हि अपि एते एव रूपे भवेताम् । एवं सति 'अयच्' इति प्रत्ययः स्वतन्त्ररूपेण किमर्थम् न उच्यते , तयप्-प्रत्ययस्य आदेशरूपेण किमर्थमुच्यते - इति प्रश्नः उपतिष्ठति । अस्य उत्तरम् एतत् - 'तयप्' प्रत्ययस्य आदेशरूपेण उक्तः अयच्-प्रत्ययः स्थानिवद्भावेन 'तयप्' प्रत्ययस्य गुणान् अपि स्वीकरोति । यथा -\nअ) स्त्रीत्वे विवक्षिते तयप्-प्रत्ययान्तशब्दाः यथा <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इत्यनेन ङीप्-प्रत्ययम् प्राप्नुवन्ति, तथैव अयच्-प्रत्ययान्तशब्दाः अपि प्राप्नुवन्ति ; येन 'द्वयी, त्रयी' एते रूपे सिद्ध्यतः । यदि 'अयच्' इति स्वतन्त्ररूपेण ब्रूयात्, तर्हि स्त्रीत्वे विवक्षिते ङीप्-प्रत्ययः न विधीयेत ।\n(आ) यथा तयप्-प्रत्ययान्तशब्दाः जस्-प्रत्यये परे <<प्रथमचरमतयाल्पार्धकतिपयनेमाश्च>> [[1.1.33]] इत्यनेन विकल्पेन सर्वनामसंज्ञां प्राप्नुवन्ति; तथैव 'अयच्' प्रत्ययान्तशब्दाः अपि विकल्पेन सर्वनामसंज्ञकाः भवन्ति । सर्वनामसंज्ञायां प्राप्तायाम् जस्-प्रत्ययस्य विकल्पेन इकारादेशः भवति, येन 'द्वये', 'त्रये' एते रूपे सिद्ध्यतः । यदि अयच्-प्रत्ययः स्वतन्त्ररूपेण विधीयेत, तर्हि एते रूपे न सिद्ध्येताम् । " }, "52044": { "sa": "'उभ' शब्दात् विहितस्य तयप्-प्रत्ययस्य नित्यमाद्युदात्तः 'अयच्' आदेशः भवति । ", "sd": "'उभ' (both) इति शब्दः लौकिकसंस्कृते 'द्वौ' इत्यस्मिन् अर्थे सङख्यारूपेण प्रयुज्यते । अस्मात् शब्दात् <<संख्याया अवयवे तयप्>> [[5.2.42]] इत्यनेन 'अवयवाः अस्य' इत्यस्मिन् अर्थे 'तयप्' प्रत्ययः विधीयते । अस्य तयप्-प्रत्ययस्य वर्तमानसूत्रेण नित्यम् 'अयच्' इति आदेशः भवति । यथा -\nउभौ (= द्वौ) अवयवौ अस्य\n= उभ + तयप् [<<संख्याया अवयवे तयप्>> [[5.2.42]] इति तयप्-प्रत्ययः]\n→ उभ + अयच् [वर्तमानसूत्रेण 'तयप्' इत्यस्य 'अयच्' आदेशः]\n→ उभ् + अयच् [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ उभय ।\nएतादृशम् निर्मितः 'उभय' शब्दः नित्यम् एकवचने एव प्रयुज्यते ।\nउदाहरणम् - उभयः मणिः । An bead/gem with two parts - इत्यर्थः ।\nअत्र कश्चन विशेषः ज्ञातव्यः । 'उभ' शब्दस्य 'द्वावपि' (both) इति अपि कश्चन अर्थः अस्ति, परन्तु अस्मिन् अर्थे 'उभ' शब्दः सङ्ख्यावाची नास्ति । अस्मिन् अर्थे वस्तुतः <<संख्याया अवयवे तयप्>> [[5.2.42]] इत्यनेन तयप्-प्रत्ययः न भवति । परन्तु अस्यां स्थितौ <<संख्याया अवयवे तयप्>> [[5.2.42]] इत्यस्य योगविभागं कृत्वा केवलम् 'तयप्' इति भिन्नं सूत्रं स्वीकृत्य 'उभ' शब्दात् 'अवयव' अस्मिन् अर्थे 'तयप्'प्रत्ययः विधीयते, यस्य च वर्तमानसूत्रेण 'अयच्' इति आदेशः भवति । यथा -\nउभ + तयप्\n→ उभ + अयच् [वर्तमानसूत्रेण 'तयप्' इत्यस्य 'अयच्' आदेशः]\n→ उभ् + अयच् [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ उभय ।\nएतादृशं निर्मितः 'उभय' शब्दः' नित्यम् बहुवचने एव प्रयुज्यते । यथा - उभये देवमनुष्याः । द्वौ राशी समुदायस्य अवयवौ- एकः देवानां राशिः, अपरः मनुष्याणाम् - इति अत्र आशयः अस्ति । 'One section of the group is gods and second section of the group is humans ' - इत्यर्थः ।\nअस्मिन् सूत्रे 'उदात्तः' इति अपि निर्देशः क्रियते । अनेन निर्देशेन 'उभय' इति शब्दः आद्युदात्तत्वम् प्राप्नोति । वस्तुतः 'अयच्' प्रत्यये चकारः इत्संज्ञकः अस्ति, येन <<तद्धितस्य>> [[6.4.164]] इत्यनेन तद्धितान्तस्य अन्तोदात्तत्वम् विधीयते । तत् बाधित्वा आद्युदात्तत्वम् कारयितुमत्र 'उदात्तः' इति स्वीक्रियते ।\nविशेषः -\n1. अस्मिन् सूत्रे केवलम् 'उदात्तः' इत्येव निर्देशः क्रियते, न हि 'आद्युदात्तः' इति । तर्हि अनेन शब्देन 'अयच्' इत्यस्य 'आद्युदात्तत्वम्' कथं सिद्ध्यति - इति प्रश्नः आगच्छति । अस्य उत्तरार्थम् काशिकाकारः वदति - 'वचनसामर्थ्यात् आदेरुदात्तत्वं विज्ञायते' । इत्युक्ते, अस्मिन् सूत्रे यदि 'उदात्त' शब्दस्य ग्रहणं न क्रियेत, तर्हि <<तद्धितस्य>> [[6.4.164]] इत्यनेन प्रत्ययस्य अन्तोदात्तत्वम् विधीयेत । अतः 'उदात्त' इत्यस्य ग्रहणमस्यैव अन्तोदात्तस्वरस्य बाधकं भवति । इत्युक्ते, प्रत्ययस्य अन्तिमः स्वरः अनेन उदात्तत्वं न प्राप्नोति , अपितु 'आदि'स्वरः एव उदात्तत्वम् प्राप्नोति । अतः अत्र 'उभय' शब्दस्य भकारोत्तर-अकारस्य आद्युदात्तत्वम् निर्दिश्यते ।\n2. अस्मिन् सूत्रे उक्तः 'अयच्' इति शब्दः 'तयप्' प्रत्ययस्य आदेशरूपेण उक्तः अस्ति, न हि स्वतन्त्रप्रत्ययरूपेण । अस्य प्रयोजनम् 'ङीप्' प्रत्ययविधानम् इति अस्ति । स्त्रीत्वे विवक्षिते तयप्-प्रत्ययान्तशब्दाः यथा <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इत्यनेन ङीप्-प्रत्ययम् प्राप्नुवन्ति, तथैव 'उभय' शब्दः अपि ङीप्-प्रत्ययं एव स्वीकुर्यात्, येन 'उभयी' इति शब्दः सिद्ध्येत् - इति चिन्तयित्वा अत्र आचार्येण 'अयच्' इति तयप्-प्रत्ययस्य आदेशरूपेण उच्यते ।\nविशेषः - यद्यपि 'अयच्' इति प्रत्ययः काशिकायाम् तथा कौमुद्याम् - उभयत्र 'तयप्' प्रत्ययस्य आदेशरूपेण पाठ्यते, तथापि भाष्यकारस्य चिन्तनमस्मिन् विषये सम्पूर्णरूपेण भिद्यते । भाष्यकारः अस्मिन् सूत्रे 'तयस्य' इत्यस्य शब्दस्य अनुवृत्तिमेव न स्वीकरोति ; अतश्च 'अयच्' इति शब्दः 'तयप्' इत्यस्य आदेशरूपेण न मत्वा स्वतन्त्रप्रत्ययरूपेण स्वीकरोति । इत्युक्ते, भाष्यकारस्य मतेन 'उभ' शब्दात् 'अयच्' इति स्वतन्त्रः प्रत्ययः विधीयते । अस्मिन् विषये <<स्थानिवदादेशोऽनल्विधौ>> [[1.1.56]] इत्यत्र भाष्यकारः स्पष्टरूपेण वदति - 'अयच् प्रत्ययान्तरम्' । इत्युक्ते, 'अयच्' इति भिन्नरूपेण प्रत्ययः स्वीकर्तव्यः ; न हि तयप्-प्रत्ययस्य आदेशरूपेण - इति । अस्य कारणम् भाष्यकारेण एतादृशम् दीयते - यदि 'उभ' शब्दात् विहितः 'अयच्' इति प्रत्ययः तयप्-प्रत्ययस्य आदेशरूपेण स्वीक्रियते, तर्हि <<प्रथमचरमतयाल्पार्धकतिपयनेमाश्च>> [[1.1.33]] इत्यनेन यथा तयप्-प्रत्ययान्तशब्दाः जस्-प्रत्यये परे विकल्पेन सर्वनामसंज्ञकाः भवन्ति, तथैव 'उभय' शब्दः अपि जस्-प्रत्यये परे विकल्पेनैव सर्वनामसंज्ञकः भवेत्, येन 'उभय' शब्दस्य पुंलिङ्गस्य प्रथमाबहुवचनस्य रूपम् 'उभयाः' इति अपि भवेत्, यत् न इष्यते । अतः 'अयच्' इति प्रत्ययः स्वतन्त्ररूपेणैव ग्रहीतव्यः ।\nपरन्तु एवं क्रियते चेदपि दोषः उद्भवति । यदि 'अयच्' इति तयप्-प्रत्ययस्य आदेशरूपेण न स्वीक्रियते, तर्हि स्त्रीत्वे विवक्षिते 'उभय' इति शब्दः <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इत्यनेन ङीप्-प्रत्ययम् नैव प्राप्नुयात्, यतः <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] अस्मिन् सूत्रे केवलम् 'तयप्' इत्येव गृह्यते, न हि 'अयच्' इति । अस्यां स्थितौ 'उभयी' इति शब्दः एव न सिद्ध्येत् । अस्य समाधानम् अपि भाष्यकारः ददाति - मात्रच इत्येवं भविष्यति । कथम् ? मात्रजिति नेदं प्रत्ययग्रहणम्। किं तर्हि? प्रत्याहारग्रहणम्। क्व संनिविष्टानां प्रत्याहारः? मात्रशब्दात् प्रभृति आ अयचश्चकारात् । इत्युक्ते, भाष्यकारस्य मतेन <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इत्यत्र निर्दिष्टः 'मात्रच्' इति शब्दः कस्यचन प्रत्ययस्य निर्देशं न करोति अपितु 'प्रत्याहारस्य' निर्देशं करोति । 'मात्रच्' इति अयम् प्रत्याहारः 'मात्र + च्' इति विभज्य <<प्रमाणे द्वयसज्दघ्नञ्मात्रचः>> [[5.2.37]] इत्यस्मिन् सूत्रे विद्यमानात् 'मात्र' प्रत्ययात् आरभ्य <<द्वित्रिभ्यां तयस्यायज्वा>> [[5.2.43]] इत्यस्मिन् सूत्रे विद्यमानम् 'अयच्' प्रत्ययं यावत् सर्वेषाम् मध्यगानाम् प्रत्ययानामपि ग्रहणं करोति । The word मात्रच् in the aforementioned sutra is considered a प्रत्याहार, which spans all the प्रत्ययाः between <<प्रमाणे द्वयसज्दघ्नञ्मात्रचः>> [[5.2.37]] and <<द्वित्रिभ्यां तयस्यायज्वा>> [[5.2.43]] । इत्युक्ते, 'मात्रच्' इत्यनेन प्रत्याहारेण 'मात्रच्, अण्, वतुप्, डति, तयप्, अयच्' एते षट्-प्रत्ययाः गृह्यन्ते । एवंप्रकारेण <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इत्यस्मिन् सूत्रे 'अयच्' प्रत्ययस्यापि ग्रहणम् क्रियते, येन 'उभयी' इति शब्दः सिद्ध्यति ।\nअस्मिन् विषये अधिकं जिज्ञासवः <<स्थानिवदादेशोऽनल्विधौ>> [[1.1.56]] इत्यस्य भाष्यम् पश्येयुः ।\n" }, "52045": { "sa": "'दश' यस्य अन्ते विद्यते तादृशात् प्रथमासमर्थात् 'अस्मिन्' इत्यस्मिन् अर्थे 'अधिकम्' इति वक्तव्ये 'ड'-प्रत्ययः भवति । ", "sd": "सूत्रार्थम् सम्यक् ज्ञातुमादौ केचन बिन्दवः ज्ञेयाः -\n1. 'दशान्त' इत्युक्ते सः शब्दः यस्य अन्ते 'दश' इति विद्यते । एकादश, द्वादश, ..., अष्टादश, नवदश - एते नव शब्दाः अनेन सूत्रेण गृह्यन्ते ।\n2. अस्मिन् सूत्रे 'तत् अधिकमस्मिन्' इति उक्तमस्ति । एतस्य स्पष्टीकरणार्थम् वार्त्तिककारः एकम् वार्त्तिकम् पाठयति - । इत्युक्ते, 'तत् अधिकमस्मिन् शते' ( A certain number more than hundred) तथा 'तत् अधिकमस्मिन् सहस्रे' (A certain number more than thousand) इत्येतयोः एव अर्थयोः अस्य सूत्रस्य प्रयोगः भवति ।\n3. अस्मिन् सूत्रे 'ड' इति प्रत्ययः उच्यते । अस्मिन् प्रत्यये 'ड्' इत्यस्य <<चुटू>> [[1.3.7]] इत्यनेन इत्संज्ञा भवति, तस्य <<तस्य लोपः>> [[1.3.9]] इत्यनेन च लोपः भवति । प्रत्ययस्य डित्वात् <<टेः>> [[6.4.143]] इत्यनेन अङ्गस्य टिलोपः अपि विधीयते ।\nइदानीम् कानिचन उदाहरणानि पश्यामः -\n1. एकादश अधिकमस्मिन् शते (eleven more than hundred)\n= एकादशन् + ड\n→ एकादश् + अ [<<टेः>> [[6.4.143]] इति टिलोपः]\n→ एकादश\nयथा - इदम् एकादशम् शतम् । (This is eleven more than a hundred)\n2. पञ्चादश अधिकमस्मिन् सहस्रे (fifteen more than thousand)\n= पञ्चादशन् + ड\n→ पञ्चादशन्\n→ पञ्चादशम् सहस्रम् ।\n3. नवदश अधिकमस्मिन् शते (nineteen more than hundred) = नवदश + ड → नवदशम् शतम् ।\n4. षोडश अधिकमस्मिन् शते (sixteen more than thousand) = षोडश + ड → षोडशम् सहस्रम् ।\nस्मर्तव्यम् -\n1. अस्मिन् सूत्रे 'दशान्त' इति शब्दः उक्तः अस्ति । अतः अन्येषाम् शब्दानाम् विषये अस्य सूत्रस्य प्रसक्तिः न विद्यते । यथा - 'पञ्च अधिकाः अस्मिन् शते' इत्यत्र ड-प्रत्ययः न भवति ।\n2. अस्य सूत्रस्य प्रयोगः 'शतम्' / 'सहस्रम्' एतयोः विषये एव भवति । यथा - 'एकादश अधिकाः अस्मिन् त्रिंशति' इत्यत्र इदम् सूत्रम् न प्रयुज्यते ।\n3. अस्य सूत्रस्य विषये 'व्यपदेशिवद्भावः' न भवतीति व्याख्यानेषु स्पष्टीकृतमस्ति । इत्युक्ते, 'दश' शब्दस्य विषये अस्य सूत्रस्य प्रसक्तिः न वर्तते; केवलम् 'दशान्त' शब्दस्य विषये एव विद्यते । यथा - 'दश अधिकमस्मिन् सहस्रे' इत्यत्र अनेन सूत्रेण ड-प्रत्ययः न भवति ।\n4. अस्य सूत्रस्य प्रयोगस्य विषये एकम् वार्त्तिकम् ज्ञातव्यम् - । इत्युक्ते, यत्र 'दशान्त' शब्दः तथा च 'शतम् / सहस्रम्' शब्दः समानवस्तुनोः निर्देशं कुरुतः, तत्रैव अस्य सूत्रस्य प्रसक्तिः विद्यते, अन्यथा न । This sutra is applicable when the 'hundred / thousands' reference the same type of entity as the दशान्त represents.\nयथा - 'एकादश कार्षापणाः (coins) अधिकम् एतेषु शतेषु कार्षापणेषु' इत्यत्र 'एकादशम् कार्षापणशतम्' इति प्रयोगः भवति, परन्तु 'एकादश कार्षापणाः अधिकाः एतेषु शतेषु माषेषु (grains)' इत्यत्र वर्तमानसूत्रस्य प्रयोगः न भवति ।\n5. अस्मिन् सूत्रे 'इति' शब्दः स्वीक्रियते । अस्य प्रयोजनम् 'विवक्षा' इति अस्ति एतत् व्याख्यानानि स्पष्टीकुर्वन्ति । अत्र 'विवक्षा' इत्यनेन 'शत' तथा 'सहस्र' एतयोः निर्देशः भवति । इत्युक्ते, केवलम् 'शत' तथा 'सहस्र' एतयोः विषये एव वर्तमानसूत्रस्य प्रसक्तिः भवेत् - इति स्पष्टीकर्तुमेव अत्र 'इति' शब्दः उक्तः अस्ति । " }, "52046": { "sa": "'अस्मिन्' इत्यस्मिन् अर्थे 'अधिकम्' इति वक्तव्ये 'शत्' यस्य अन्ते अस्ति तादृशात् शब्दात्, तथा च 'विंशति' शब्दात् प्रथमासमर्थात् ड-प्रत्ययः भवति । ", "sd": "सूत्रार्थम् सम्यक् ज्ञातुमादौ केचन बिन्दवः ज्ञेयाः -\n1. 'शदन्त' इत्युक्ते सः शब्दः यस्य अन्ते 'शत्' इति विद्यते । यथा - त्रिंशत्, चत्वारिंशत्, एकत्रिंशत्, द्विचत्वारिंशत् - एतादृशाः शब्दाः अनेन पदेन गृह्यन्ते ।\n2. अस्मिन् सूत्रे 'अधिकमस्मिन्' इति अर्थः उक्तः अस्ति । एतस्य स्पष्टीकरणार्थम् वार्त्तिककारः एकम् वार्त्तिकम् पाठयति - । इत्युक्ते, 'तत् अधिकमस्मिन् शते' ( A certain number more than hundred) तथा 'तत् अधिकमस्मिन् सहस्रे' (A certain number more than thousand) इत्येतयोः एव अर्थयोः अस्य सूत्रस्य प्रयोगः भवति ।\n3. अस्मिन् सूत्रे 'ड' इति प्रत्ययः उच्यते । अस्मिन् प्रत्यये 'ड्' इत्यस्य <<चुटू>> [[1.3.7]] इत्यनेन इत्संज्ञा भवति, तस्य <<तस्य लोपः>> [[1.3.9]] इत्यनेन च लोपः भवति । प्रत्ययस्य डित्वात् <<टेः>> [[6.4.143]] इत्यनेन अङ्गस्य टिलोपः अपि विधीयते ।\nइदानीम् कानिचन उदाहरणानि पश्यामः -\n1. त्रिंशत् अधिकाः अस्मिन् शते\n= त्रिंशत् + ड\n→ त्रिंश् + अ [<<टेः>> [[6.4.143]] इति टिलोपः]\n→ त्रिंश\nयथा - 'त्रिंशम् शतम्' । This is thirty more than hundred - इत्यर्थः ।\n2. द्विचत्वारिंशत् अधिकाः अस्मिन् सहस्रे\n= द्विचत्वारिंशत् + ड\n→ द्विचत्वारिंश् + अ [<<टेः>> [[6.4.143]] इति टिलोपः]\n→ द्विचत्वारिंश\nयथा - द्विचत्वारिंशम् सहस्रम् । This is forty-two more than thousand - इत्यर्थः ।\n3. विंशतिः अधिकाः अस्मिन् सहस्रे\n= विंशति + ड\n→ विंश + अ [<<ति विंशतेर्डिति>> [[6.4.142]] इति 'ति' इत्यस्य लोपः]\n→ विंश [<<अतो गुणे>> [[6.1.197]] इति पररूपम्]\nयथा - विंशम् सहस्रम् ।\nअत्र द्वे वार्त्तिके ज्ञातव्ये -\n1. । इत्युक्ते, 'शदन्त' इत्यनेन केवलम् सङ्ख्यावाचिशब्दानां एव ग्रहणं भवति, अन्येषाम् न । यथा - 'गोत्रिंशत् अधिका अस्मिन् शते' इत्यत्र वर्तमानसूत्रम् न प्रयुज्यते, यतः अत्र 'गोत्रिंशत्' इति समस्तपदम् सङ्ख्यासंज्ञकम् नास्ति ।\n2. । इत्युक्ते, 'विंशति' शब्दस्य विषये 'तदन्तविधिः' स्वीकर्तव्यः, अत्रापि च सङ्ख्यावाचिशब्दानाम् एव ग्रहणम् कर्तव्यम्, अन्येषाम् न । यथा -\n[अ] पञ्चविंशतिः अधिकाः अस्मिन् शते = पञ्चविंशम् शतम् ।\n[आ] गोविंशतिः अधिकाः अस्मिन् सहस्रे' - इत्यत्र प्रत्ययः न विधीयते ।\nअस्य सूत्रस्य विषये केचन बिन्दवः स्मर्तव्याः -\n1. अस्य सूत्रस्य प्रयोगः 'शतम्' / 'सहस्रम्' एतयोः विषये एव भवति । यथा - 'एकविंशतिः अधिका अस्मिन् त्रिंशति' इत्यत्र इदम् सूत्रम् न प्रयुज्यते ।\n2.अस्य सूत्रस्य प्रयोगस्य विषये एकम् वार्त्तिकम् ज्ञातव्यम् - । इत्युक्ते, यत्र 'शदन्त / विंशत्यन्त' शब्दः तथा च 'शतम् / सहस्रम्' शब्दः समानवस्तुनोः निर्देशं कुरुतः, तत्रैव अस्य सूत्रस्य प्रसक्तिः विद्यते, अन्यथा न । This sutra is applicable when the 'hundred / thousands' reference the same type of entity as the दशान्त represents.\nयथा - 'एकत्रिंशत् कार्षापणाः (coins) अधिकम् एतेषु शतेषु कार्षापणेषु' इत्यत्र 'एकत्रिंशम् कार्षापणशतम्' इति प्रयोगः भवति, परन्तु 'एकत्रिंशत् कार्षापणाः अधिकाः एतेषु शतेषु माषेषु (grains)' इत्यत्र वर्तमानसूत्रस्य प्रयोगः न भवति ।\n3. अस्मिन् सूत्रे 'इति' अयम् शब्दः अनुवृत्त्या स्वीक्रियते । अस्य प्रयोजनम् 'विवक्षा' इति अस्ति एतत् व्याख्यानानि स्पष्टीकुर्वन्ति । अत्र 'विवक्षा' इत्यनेन 'शत' तथा 'सहस्र' एतयोः निर्देशः भवति । इत्युक्ते, केवलम् 'शत' तथा 'सहस्र' एतयोः विषये एव वर्तमानसूत्रस्य प्रसक्तिः भवेत् - इति स्पष्टीकर्तुमेव अत्र 'इति' शब्दः उक्तः अस्ति ।\n" }, "52047": { "sa": "कस्यचन वस्तुनः मूल्यम् कस्यचन अन्यवस्तुनः भागानाम् सङ्ख्यायाः निर्देशेन कारयितुम् प्रथमासमर्थात् सङ्ख्यावाचिशब्दात् 'अस्य मूल्यम्' इत्यस्मिन् अर्थे मयट्-प्रत्ययः भवति । ", "sd": "अस्य सूत्रस्य अर्थः किञ्चित् क्लिष्टः अस्ति, अतः क्रमेण पश्यामः -\n1. अस्मिन् सूत्रे 'मयट्' इति प्रत्ययः उक्तः अस्ति । अयम् प्रत्ययः संख्यावाचिभ्यः शब्देभ्यः क्रियते । यथा - पञ्चन् + मयट् → पञ्चमय । द्वि + मयट् → द्विमय । शतम् + मयट् → शतमय - आदयः ।\n2. यत्र कस्यचन वस्तुनः एकस्य भागस्य मूल्यम् कस्यचन अन्यवस्तुनः द्वौ वा अधिकान् भागान् यावत् अस्ति, तत्र वर्तमानसूत्रस्य प्रयोगः भवति । When the cost of one unit of an entity is to be expressed in terms of the cost of two-or-more unit of another entity, then the current sutra is used.\nयथा - 'यवानाम् द्वयोः भागयोः एकत्ररूपेण यत् मूल्यम्, तदेव उदश्वितः एकस्य भागस्य मूल्यमस्ति' (The cost of one unit of the buttermilk is same as the cost of two unit of barley. That is, one can give two units of barley and in return take one part of buttermilk - इत्याशयः) । अस्याम् स्थितौ 'द्वि' इत्यस्मात् सङ्ख्यवाचिशब्दात् 'मयट्' प्रत्ययं कृत्वा 'द्विमय' शब्दः सिद्ध्यति, येन 'द्विमयमुदश्वित् यवानाम्' एतत् वाक्यम् जायते ।\n3. 'द्विमयमुदश्वित् यवानाम्' इत्यत्र विग्रहवाक्यम् 'यवानाम् द्वौ गुणौ निमानमस्य उदश्विद्भागस्य' इति क्रियते । अत्र 'निमानम्' अयम् शब्दः 'मूल्यम्' इत्यस्मिन् अर्थे प्रयुक्तः अस्ति ; तथा च 'गुणः' अयम् शब्दः 'भागः' अस्मिन् अर्थे प्रयुक्तः अस्ति । उदश्वितः एकस्य गुणस्य यत् निमानम्, तदेव निमानम् यवानाम् द्वयोः गुणयोः अस्ति - इति अत्र आशयः । अत्र 'गुणः' इति शब्दः 'भागः / गणः' (group /unit) इत्यस्मिन् अर्थे प्रयुक्तः अस्ति, न हि 'अंशः / अवयवः' (subcomponents) इत्यस्मिन् अर्थै । One unit of buttermilk costs same as two units of barley - इति आशयः ।\nविशेषः - 'मेङ् प्रणिदाने' अस्मात् धातोः 'नि' उपसर्गं कृत्वा 'निमीयते (क्रीयते) अनेन तत् निमानम्' अनेन प्रकारेण ल्युट्-प्रत्ययं कृत्वा 'निमानः' शब्दः सिद्ध्यति ।\nइदानीम् सूत्रार्थः स्पष्टः स्यात् - कस्यचन वस्तुनः ( उदश्वितः) मूल्यम् कस्यचन अन्यवस्तुनः ( यवानाम् ) भागानाम् सङ्ख्यायाः ( द्वौ इत्यस्य ) निर्देशेन कारयितुम् प्रथमासमर्थात् सङ्ख्यावाचिशब्दात् ( 'द्वि' शब्दात् ) 'अस्य मूल्यम्' इत्यस्मिन् अर्थे मयट्-प्रत्ययः भवति । यवानाम् द्वौ भागौ निमानमस्य उदश्विद्भागस्य तत् द्विमयमुदश्वित् ।\n .\nअस्य सूत्रस्य विषये केचन विशेषबिन्दवः ज्ञेयाः । ते एतादृशाः -\n1. अत्र विग्रहवाक्ये 'उदश्वितः एकस्य भागस्य मूल्यम्' इति निर्देशः क्रियते। इत्युक्ते, अत्र 'उदश्वितः' मूल्यम् न निर्दिश्यते, अपि तु 'उदश्वितः कस्यचन भागस्य' मूल्यमत्र निर्दिश्यते । The reference is to the cost of one unit of उदश्वित्, and not the entire उदश्वित् । अस्यां स्थितौ 'द्विमयमुदश्विद्भागः' इत्येव साधु भवेत्, न हि 'द्विमयमुदश्वित्' इति - इति संशयः जायते । अस्य स्पष्टीकरणार्थं काशिकाकारः वदति - भागेऽपि तु विधीयमानः प्रत्ययः प्राधान्येन भागवन्तमाचष्टे । तेन सामान्याधिकरण्यं भवति द्विमयमुदश्विदिति । इत्युक्ते, अत्र 'भाग' इत्यनेन 'मूलपदार्थस्यैव निर्देशः कृतः अस्ति, न हि मूलपदार्थस्य कस्यचन अंशस्य । अतः द्वयोर्मध्ये सामान्याधिकरण्यं भवितुमर्हति, येन 'उदश्वित्' शब्दात् अप्यत्र प्रत्ययविधानम् भवितुमर्हति । In the context of this sutra, the word भाग does not represent a distinct part of उदश्वित्, but it represents उदश्वित् itself, and hence it is acceptable to associate the मयट्-प्रत्ययान्त word with उदश्वित् itself.\n2. अस्य सूत्रस्य प्रयोगः तदा एव भवति यदा कस्यचन वस्तुनः 'एकस्य भागस्य' मूल्यमन्यवस्तुनः 'द्वौ वा अधिकान् भागान्' यावत् अस्ति ।\nThe sutra can only be used when 'one unit' of some entity is represented in terms of 'more than one units' of some other entity.\nअतः अधोदत्तेषु उदाहरणेषु अस्य सूत्रस्य प्रयोगः न भवति -\n1. 'यवानाम् द्वौ भागौ निमानम् एषाम् त्रयाणामुदश्विद्भागानाम्' - अत्र उदश्वितः त्रयाणाम् भागानाम् मूल्यम् निर्दिश्यते, न हि एकस्य भागस्य । अतः अत्र अस्य सूत्रस्य प्रयोहः न भवति ।\n2. 'यवानाम् एकः भागः निमानमस्य उदश्विद्भागस्य' - अत्र यवानाम् एकस्य भागस्यैव मूल्यम् गृह्यते, न हि द्वयोः अधिकानाम् वा भागानाम् । अतः अत्र अस्य सूत्रस्य प्रयोगः न भवति ।\n3. 'यवानाम् द्वौ भागौ निमानमस्य अध्यर्धस्य उदश्विद्भागस्य' - अत्र उदश्वितः 'एकः भागः' न गृह्यते (अर्धः एव गृह्यते), अतः अत्र अस्य सूत्रस्य प्रयोगः न भवति ।\n3. यत्र 'निमानम्' इति सन्दर्भः नापेक्षते, तत्र अस्य सूत्रस्य प्रयोगः न भवति । यथा - 'द्वौ भागौ क्षीरस्य एकं च तैलस्य' ( one unit of oil for every two units of milk) अत्र केवलम् प्रमाणयोः सम्बन्धः दर्श्यते, न हि मूल्यस्य । अतः अत्र वर्तमानसूत्रस्य प्रयोगः न भवति ।\n4. अस्मिन् सूत्रे 'गुण' इत्यनेन एकस्यैव वस्तुनः भागाः गृह्यन्ते । अतः अत्र द्वयोः वा अधिकानाम् वस्तूनाम् भागैः सह मूल्यनिर्देशः क्रियते तत्र वर्तमानसूत्रस्य प्रयोगः न भवति । यथा - 'द्वौ व्रीहियवौ निमानमस्य उदश्वितभागस्य' अत्र यद्यपि 'द्वौ भागौ' इति अर्थः दृश्यते, तथापि एतौ द्वौ भागौ एकस्यैव वस्तुनः न स्तः, अपितु द्वयोः भिन्नयोः पदार्थयोः स्तः । The cost of one unit of उदश्वित् is being equated to two parts of two distinct entities (व्रीहि and यव) - इति आशयः) । अतः अत्र अस्य सूत्रस्य प्रयोगः न भवति ।\n5. अस्य सूत्रस्य विषये भाष्यकारः ब्रूते - 'निमेये चापि प्रत्ययो दृश्यते' । इत्युक्ते, 'मयट्' प्रत्ययस्य प्रयोगः 'निमेय' अस्मिन् अर्थे अपि क्रियते । किम् नाम निमेयम् ? 'निमानं (= मूल्यम्) दत्त्वा यत् क्रीयते' तत् निमेयम् । The entity that is purchased by giving the specified cost is called निमेय । यथा, यवानां द्वौ भागौ दत्त्वा उदश्वितः एकभागस्य क्रयणम् क्रियते चेत् 'यवानां द्वौ भागौ' इति निमानम्, यथा 'उदश्वितः एकः भागः' इति निमेयम् । अस्यां स्थितौ भाष्यकारस्य मतेन अत्र 'निमेयम्' अस्मिन् अर्थे अपि अस्य सूत्रस्य प्रयोगः भवति । यथा - 'उदश्वितः त्रयः भागाः निमेयमस्य यवभागस्य' Three parts of उदश्वित् can be purchased by giving one part of यव ) इत्यत्र 'त्रिमयाः यवाः उदश्वितः' इति प्रयोगः भवितुमर्हति ।\nअतः मयट्-प्रत्ययस्य विधानम् द्वयोः अर्थयोः भवितुमर्हतीति स्मर्तव्यम् -\n(अ) यवानाम् द्वौ भागौ निमानमस्य उदश्वितः एकभागस्य (Two parts of यव is the cost of one part of उदश्वित्) - अत्र 'द्विमयमुदश्वित् यवानाम्' इति प्रयोगः क्रियते । अस्मिन उदाहरणे 'यवान्' दत्त्वा 'उदश्वित्' स्वीक्रियते ।\n(आ) यवानाम् द्वौ भागौ निमेयमस्य उदश्वितः एकभागस्य (Two parts of यव can be purchased by giving one part of उदश्वित्) - अत्रापि 'द्विमयमुदश्वित् यवानाम्' इति प्रयोगः क्रियते । परन्तु अस्मिन् वाक्ये उदश्वितः दत्त्वा यवाः स्वीक्रियन्ते - इति विशेषः ।\nअतः अस्य सूत्रस्य विषये नित्यम् वाक्यस्य सन्दर्भं दृष्ट्वा एव प्रत्ययस्य अर्थः ज्ञेयः । अस्य चित्ररूपेण स्पष्टीकरणम् अत्र अपि दत्तमस्ति, जिज्ञासुभिः तदपि दृश्यताम् ।\n6. मयट्-प्रत्यये परे कानिचन रूपाणि एतादृशानि -\n1) द्वि + मयट् → द्विमय ।\n2) त्रि + मयट् → त्रिमय ।\n3) चतुर् + मयट् → चतुर्मय ।\n4) पञ्चन् + मयट् → पञ्चमय ।\n5) षष् + मयट् → षण्मय । अत्र षकारस्य <<झलां जशोऽन्ते>> [[8.2.39]] इति डकारः भवति । ततः <<यरोऽनुनासिकेऽनुनासिको वा>> [[8.4.45]] इत्यनेन डकारस्य विकल्पेन णकारादेशे प्राप्ते तस्मिन्नेव सूत्रे निर्दिष्टेन अनेन वार्त्तिकेन नित्यम् णकारादेशः भवति, येन 'षण्मय' इति रूपं सिद्ध्यति ।\n6) विंशति + मयट् → विंशतिमय ।\n7) त्रिंशत् + मय → त्रिंशन्मय । अत्रापि प्रारम्भे <<झलां जशोऽन्ते>> [[8.2.39]] इति दकारादेशः भवति; ततः अनेन वार्त्तिकेन नित्यम् नकारादेशः विधीयते ।\n8) शत + मयट् → शतमय\n7. 'मयट्' इत्यस्मिन् टकारः इत्संज्ञकः अस्ति । तथापि अयम् 'आगमः' नास्ति, प्रत्ययः एव अस्ति । अस्य ज्ञानम् तु व्याख्यानादेव भवति । " }, "52048": { "sa": "षष्ठीसमर्थात् सङ्ख्यावाचिनः शब्दात् 'पूरणः' इत्यस्मिन् अर्थे 'डट्' प्रत्ययः उच्यते । ", "sd": "अस्य सूत्रस्य अर्थम् ज्ञातुमादौ 'पूरणः' इति किम् तत् ज्ञेयम् । 'पूर्यते अनेन' अस्मिन् अर्थे 'पॄ (पूरणे)' धातोः ल्युट्-प्रत्ययं कृत्वा 'पूरण' इति शब्दः सिद्ध्यति । 'गणनायाः पूर्णता भवति' इति अर्थः अत्र विवक्षितः अस्ति । Ordinal number - इति आशयः ।\nयथा - पञ्च जनाः सन्तीति चिन्तयामः । 'एतेषाम् गणना कर्तव्या चेत् कीदृशी कुर्यात्' इति प्रश्ने प्राप्ते -'अयम् प्रथमः, अयम् द्वितीयः, अयं तृतीयः' - एतादृशम् पृथक्करणम् कर्तुम् शक्यते । अत्र 'द्वितीय', 'तृतीय', 'चतुर्थ' एतादृशाः शब्दाः गणनायाः पूर्णतायै प्रयुज्यन्ते, अतः एते सर्वे 'पूरणवाचकाः शब्दाः' सन्ति इत्युच्यते । एतेषाम् निर्माणार्थम् यस्य प्रत्ययस्य साहाय्यम् स्वीक्रियते, सः प्रत्ययः 'पूरणप्रत्ययः' नाम्ना ज्ञायते । वर्तमानसूत्रेण 'डट्' इति पूरणप्रत्ययः पाठितः अस्ति ।\nयथा -\n1. एकादशानाम् पूरणः\n= एकादशन् + डट्\n→ एकादश् + अ [डित्त्वात् <<टेः>> [[6.4.143]] इति टिलोपः[\n→ एकादश (eleventh इत्यर्थः)\n2. द्वादशानाम् पूरणः द्वादशः । (twelfth इत्यर्थः)\n3. विंशतीनाम् पूरणम् विंशः (twentieth इत्यर्थः) । प्रक्रिया इयम् -\nविंशति + डट्\n→ विंश + अ [<<ति विंशतेर्डिति>> [[6.4.142]] इति डित्-प्रत्यये परे 'विंशति' शब्दस्य 'ति' इत्यस्य लोपः]\n→ विंश [<<अतो गुणे>> [[6.1.97]] इति पररूप-एकादेशः]\nस्मर्तव्यम् -\n1. डट्-प्रत्यये टकारः इत्संज्ञकः अस्ति, अतः डट्-प्रत्ययान्तशब्दाः <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इत्यनेन स्त्रीत्वे विवक्षिते 'ङीप्' प्रत्ययं स्वीकुर्वन्ति । यथा - एकादशी तिथी (eleventh day), षोडशी नदी (sixteenth river) - आदयः ।\n2. यद्यपि डट्-प्रत्यये टकारः इत्संज्ञकः अस्ति, तथापि अयम् 'आगमः' नास्ति, प्रत्ययः एव अस्तीति स्मर्तव्यम् । अस्य ज्ञानं तु व्याख्यानादेव भवति ।\nविशेषः - पूरणप्रत्ययानाम् प्रकरणे इदम् सूत्रम् औत्सर्गिकरूपेण डट्-प्रत्ययस्य विधानं करोति । अस्मात् अग्रे <<षष्ट्यादेश्चासंख्यादेः>> [[5.2.58]] इति यावत्सु सूत्रेषु अस्य डट्-प्रत्ययस्य केचन आगमाः / अपवादाः अपि विधीयन्ते । एतेषां सर्वेषाम् सङ्कलनम् अस्मिन् लेखे कृतमस्ति । " }, "52049": { "sa": "यः नकारान्तसङ्ख्यावाची शब्दः सङ्ख्यादिः नास्ति, तस्मात् 'पूरणः' इत्यस्मिन् अर्थे विहितस्य 'डट्' प्रत्ययस्य 'मट्' आगमः भवति । ", "sd": "<<तस्य पूरणे डट्>> [[5.2.48]] अनेन सूत्रेण सङ्ख्यावाचिभ्यः शब्देभ्यः 'पूरणः' अस्मिन् अर्थे औत्सर्गिकरूपेण डट्-प्रत्ययः भवति । परन्तु यदि अत्र प्रकृतिवाचकः सङ्ख्यावाची शब्दः नकारान्तः अस्ति, तथा च तस्मिन् शब्दे पूर्वपदमन्यः सङ्ख्यावाची शब्दः नास्ति, तर्हि तस्मात् विहितस्य डट्-प्रत्ययस्य 'मट्' इति आगमः भवति ।\nयथा -\n1. 'पञ्चानाम् पूरणः\n= पञ्चन् + डट् [<<तस्य पूरणे डट्>> [[5.2.48]] इति डट्]\n→ पञ्चन् + मट् + डट् [डट्-प्रत्ययस्य <<नान्तादसंख्यादेर्मट्>> [[5.2.49]] इति मट्-आगमः । <<आद्यन्तौ टकितौ>> [[1.1.46]] इति आद्यवयवः ।]\n→ पञ्चन् + (म् + अ) [मट्-प्रत्यये परे टकारः इत्संज्ञकः अस्ति, मकारोत्तरः अकारः उच्चारणार्थः अस्ति । डट्-प्रत्यये परे डकारटकारौ इत्संज्ञकौ स्तः । एतेषाम् चतुर्ण्णामपि लोपः भवति ।]\n→ पञ्च + म [<<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इत्यनेन पञ्चन्-इत्यस्य पदसंज्ञा; <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इत्यनेन नकारलोपः]\n→ पञ्चम\nतथैव -\n2. सप्तानाम् पूरणः सप्तमः ।\n3. अष्टानाम् पूरणः अष्टमः ।\n4. नवानाम् पूरणः नवमः ।\n5. दशानाम् पूरणः दशमः ।\n'दशन्' शब्दात् अनन्तरम् ये केऽपि नकारान्ताः शब्दाः सन्ति (यथा - 'एकादशन्', 'द्वादन्' , 'त्रयोदशन्' आदयः) तेषु सर्वेषु पूर्वपदमपि सङ्ख्यावाची शब्दः अस्ति (यथा - 'एकादशन्' इत्यत्र 'एक' - आदयः) अतः एतेषाम् विषये अस्य सूत्रस्य प्रसक्तिः न विद्यते । यथा - 'एकादशानां पूरणम्' इत्यत्र केवलम् डट्-प्रत्ययः एव भवति, तस्य 'मट्' आगमः न विधीयते । अतः अस्य सूत्रस्य प्रसक्तिः 'पञ्चन्', 'सप्तन्', 'अष्टन्', 'नवन्', 'दशन्' - एतेषाम् विषये एव भवति ।\nस्मर्तव्यम् -\n1. डट्-प्रत्यये टकारः इत्संज्ञकः अस्ति, अतः डट्-प्रत्ययान्तशब्दाः <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इत्यनेन स्त्रीत्वे विवक्षिते 'ङीप्' प्रत्ययं स्वीकुर्वन्ति । यथा - पञ्चमी तिथी (fifth day), सप्तमी परीक्षा (seventh exam), दशमी कक्षा (tenth class) - आदयः ।\n2. 'षष्' (six) इति सङ्ख्यावाची शब्दः नकारान्तः नास्ति, अतः अस्मात् विहितस्य डट्-प्रत्ययस्य 'मट्' आगमः न भवति; अपितु <<षट्कतिकतिपयचतुरां थुक्>> [[5.2.51]] इत्यनेन अङ्गस्य थुक्-आगमः भवति, येन 'षष्ठ' इति शब्दः सिद्ध्यति । अतः 'षण्णाम् पूरणम्' इत्यस्मिन् अर्थे 'षष्ठ' इत्येव शब्दः प्रयुज्यते, न हि 'षष्ठम' इति । One of the very common mistake done by beginners and experts alike is to use 'षष्ठम' to mean 'sixth', which is grammatically incorrect. The correct word for 'sixth' is षष्ठ, and not षष्ठम ।\n3. 'मट्' इत्यत्र इत्संज्ञकस्य टकारस्य प्रयोजनम् '<<आद्यन्तौ टकितौ>> [[1.1.46]] इत्यनेन आद्यवयवविधानम्' - इति अस्ति ।\n4. वस्तुतः अत्र प्रक्रियायाम् 'पञ्चन् + म् + अ' इति स्थिते <<टेः>> [[6.4.143]] इति टिलोपः विधीयते । परन्तु यदि अत्र टिलोपः क्रियते तर्हि 'अन्म्' इत्यस्य लोपः भवेत्, येन मट्-आगमस्य प्रयोजनमेव विनश्येत् । अतः 'मट्' इत्यस्य विधानसामर्थ्यात् एतादृशः टिलोपः अत्र न भवति । तथा च, मट्-आगमः अन्तरङ्गः अस्ति, टिलोपः बहिरङ्गः अस्ति, अतः अपि टिलोपस्य अपेक्षया मट्-प्रत्ययस्यैव कार्यम् भवति ।\n" }, "52050": { "sa": "यः नकारान्तसङ्ख्यावाची शब्दः सङ्ख्यादिः नास्ति, तस्मात् 'पूरणः' इत्यस्मिन् अर्थे विहितस्य 'डट्' प्रत्ययस्य वेदेषु 'थट्' उत 'मट्' आगमः कृतः दृश्यते ।", "sd": "<<तस्य पूरणे डट्>> [[5.2.48]] अनेन सूत्रेण सङ्ख्यावाचिभ्यः शब्देभ्यः 'पूरणः' अस्मिन् अर्थे औत्सर्गिकरूपेण डट्-प्रत्ययः भवति । यदि अत्र विहितः प्रकृतिवाचकः सङ्ख्यावाची शब्दः नकारान्तः अस्ति, तथा च तस्मिन् शब्दे पूर्वपदमन्यः सङ्ख्यावाची शब्दः नास्ति, तर्हि तस्मात् विहितस्य डट्-प्रत्ययस्य वेदेषु 'थट्' आगमः उत 'मट्' आगमः कृतः दृश्यते ।\nअस्य सूत्रस्य प्रसक्तिः 'पञ्चन्', 'सप्तन्', 'अष्टन्', 'नवन्' तथा 'दशन्' एतेषां विषये एव भवति, यतः 'एकादशन्' इत्यतः अग्रे विद्यमानानाम् नकारान्तशब्दानाम् पूर्वपदमपि सङ्ख्यावाची शब्दः एव अस्ति ।\nमट्-आगमे परे रूपाणि -\n1. पञ्चन् + मट् + डट् → पञ्चम ।\n2. सप्तन् + मट् + डट् → सप्तम ।\n3. अष्टन् + मट् + डट् → अष्टम ।\n4. नवन् + मट् + डट् → नवम ।\n5. दशन् + मट् + डट् → दशम ।\nथट्-आगमे परे रूपाणि -\n1. पञ्चन् + थट् + डट् → पञ्चथ ।\n2. सप्तन् + थट् + डट् → सप्तथ ।\n3. अष्टन् + थट् + डट् → अष्टथ ।\n4. नवन् + थट् + डट् → नवथ ।\n5. दशन् + थट् + डट् → दशथ ।\nसर्वत्र सङ्ख्यावाचिनः शब्दस्य अन्ते विद्यमानस्य नकारस्य <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति लोपः भवति ।\nस्मर्तव्यम् -\n1. 'थट्' इत्यत्र इत्संज्ञकस्य टकारस्य प्रयोजनम् '<<आद्यन्तौ टकितौ>> [[1.1.46]] इत्यनेन आद्यवयवविधानम्' - इति अस्ति ।\n2. अस्मिन् सूत्रे 'च' इति उक्तमस्ति, परन्तु तस्य अर्थः 'थट् आगमः मट्-आगमः च कृतः दृश्यते' इति न कर्तव्यः । उभावपि आगमौ एकस्मिन्नेव शब्दे कदापि न भवतः । 'केषुचन स्थलेषु थट्-आगमः कृतः दृश्यते, केषुचन अन्येषु च स्थलेषु मट्-आगमः कृतः दृश्यते' इति अत्र चकारेण स्पष्टीक्रियते ।\n" }, "52051": { "sa": "षष्, कति, कतिपय तथा चतुर् - एतेषाम् विषये 'पूरणः' अस्मिन् अर्थे विहिते 'डट्' प्रत्यये परे अङ्गस्य 'थुक्' आगमः भवति । ", "sd": "<<तस्य पूरणे डट्>> [[5.2.48]] इत्यनेन सङ्ख्यावाचिभ्यः शब्देभ्यः 'डट्' प्रत्ययः भवति । अस्मिन् डट्-प्रत्यये परे 'षष्', 'कति', 'कतिपय' तथा 'चतुर्' एतेषामङ्गस्य 'थुक्' आगमः भवति । अयमागमः 'कित्' अस्ति, अतः <<आद्यन्तौ टकितौ>> [[1.1.46]] इत्यनेन अन्तावयवरूपेण आगच्छति । तथा च, अस्मिन् आगमे ककारः इत्संज्ञकः अस्ति, थकारोत्तरः उकारः च उच्चारणार्थः अस्ति, अतः द्वयोः अपि लोपं कृत्वा 'थ्' इत्येव अवशिष्यते ।\nसर्वान् शब्दान् क्रमेण पश्यामः -\n1. षष् (six) -\nषण्णाम् पूरणः\n= षष् + डट् [<<तस्य पूरणे डट्>> [[5.2.48]] इति डट्]\n→ षष् + थुक् + डट् [वर्तमानसूत्रेण अङ्गस्य 'थुक्' आगमः । अयमागमः कित्वात् अङ्गस्य अन्तावयवरूपेण विधीयते ।]\n→ षष् + थ् + अ ['थुक्' इत्यत्र थकारोत्तरः उकारः उच्चारणार्थः अस्ति, ककारः इत्संज्ञकः अस्ति । डट्-प्रत्यये डकारटकारौ द्वावपि इत्संज्ञकौ स्तः । चतुर्ण्णामपि लोपः भवति ।]\n→ (षष् + थ्) + अ [वस्तुतः अत्र <<टेः>> [[6.4.143]] इति टिलोपः विधीयते । परन्तु यदि अत्र टिलोपः क्रियते तर्हि 'अष्ठ्' इत्यस्य लोपः भवेत्, येन थुक्-आगमस्य प्रयोजनमेव विनश्येत् । अतः 'थुक्' इत्यस्य विधानसामर्थ्यात् एतादृशः टिलोपः अत्र न भवति ।]\n→ षष् + ठ् + अ [<<ष्टुना ष्टुः>> [[8.4.41]] इति थकारस्य ठकारः]\n→ षष्ठ\nषण्णाम् पूरणः षष्ठः (sixth)\nविशेषः - 'षण्णाम् पूरणः' इत्यस्मिन् अर्थे 'षष्ठ' इत्येव शब्दः प्रयुज्यते, न हि 'षष्ठम' इति - एतत् वर्तमानसूत्रेण स्पष्टं स्यात् । One of the very common mistake done by beginners and experts alike is to use 'षष्ठम' to mean 'sixth', which is grammatically incorrect. The correct word for 'sixth' is षष्ठ, and not षष्ठम ।There is no मकार generated anywhere in this प्रक्रिया ।\n2. कति (how many) -\n'कति' इति शब्दः 'किम्' इत्यस्मात् <<किमः संख्यापरिमाणे डति च>> [[5.2.41]] इत्यनेन 'डति' प्रत्ययं कृत्वा सिद्ध्यति । 'डति' प्रत्ययान्तशब्दाः <<बहुगणवतुडति संख्या>> [[1.1.23]] इत्यनेन सङ्ख्यासंज्ञकाः सन्ति, अतः 'कति' शब्दः अपि सङ्ख्यासंज्ञां स्वीकरोति । अस्मात् शब्दात् 'पूरणम्' अस्मिन् अर्थे <<तस्य पूरणे डट्>> [[5.2.48]] इत्यनेन डट् प्रत्यये प्राप्ते; वर्तमानसूत्रेण अङ्गस्य 'थुक्' आगमः अपि भवति । प्रक्रिया इयम् -\nकतीनाम् पूरणः\n= कति + डट् [<<तस्य पूरणे डट्>> [[5.2.48]] इति डट्]\n→ कति + थुक् + डट् [वर्तमानसूत्रेण अङ्गस्य 'थुक्' आगमः ]\n→ कति + थ् + अ ['थुक्' इत्यत्र थकारोत्तरः उकारः उच्चारणार्थः अस्ति, ककारः इत्संज्ञकः अस्ति । डट्-प्रत्यये डकारटकारौ द्वावपि इत्संज्ञकौ स्तः । चतुर्ण्णामपि लोपः भवति ।वस्तुतः अत्र <<टेः>> [[6.4.143]] इति टिलोपः अपि विधीयते । परन्तु यदि अत्र टिलोपः क्रियते तर्हि 'इथ्' इत्यस्य लोपः भवेत्, येन थुक्-आगमस्य प्रयोजनमेव विनश्येत् । अतः 'थुक्' इत्यस्य विधानसामर्थ्यात् एतादृशः टिलोपः अत्र न भवति ।]\n→ कतिथ ।\nकतीनां पूरणम् कतिथ । ('of what index' - इति आशयः) ।\nउदाहरणम् - 'भरतः दशरथस्य कतिथः पुत्रः' ? तृतीयः । अद्य मासस्य कतिथी रात्रिः ? नवमी । अद्य सप्ताहस्य कतिथं दिनम् ? द्वितीयम् ।\nविशेषः - Surprisingly, the word कतिथ does not have an exact equivalent in most of the languages, including English. We can loosely translate it as 'which rank / what index'.\n3. 'कतिपय' (केचन / several इत्याशयः)\n'कतिपय' अयम् शब्दः वस्तुतः सङ्ख्यावाची शब्दः नास्ति । अतः वस्तुतः अस्मात् शब्दात् 'डट्' प्रत्ययस्य प्रसक्तिरेव न विद्यते । परन्तु वर्तमानसूत्रे अस्य निर्देशः कृतः अस्ति, अतः अस्मात् निर्देशसामर्थ्यात् अस्मात् सूत्रात् अपि पूरणार्थे डट्-प्रत्ययः, तथा च तस्मिन् परे अङ्गस्य थुक्-आगमः भवति । यथा -\nकतिपयानां पूरणः\n= कतिपय + डट् [वर्तमानसूत्रस्य विधानसामर्थ्यात् डट्-प्रत्ययः ।]\n→ कतिपय + थुक् + डट् [वर्तमानसूत्रेण अङ्गस्य 'थुक्' आगमः ]\n→ कतिपय + थ् + अ ['थुक्' इत्यत्र थकारोत्तरः उकारः उच्चारणार्थः अस्ति, ककारः इत्संज्ञकः अस्ति । डट्-प्रत्यये डकारटकारौ द्वावपि इत्संज्ञकौ स्तः । चतुर्ण्णामपि लोपः भवति ।वस्तुतः अत्र <<टेः>> [[6.4.143]] इति टिलोपः अपि विधीयते । परन्तु यदि अत्र टिलोपः क्रियते तर्हि 'अथ्' इत्यस्य लोपः भवेत्, येन थुक्-आगमस्य प्रयोजनमेव विनश्येत् । अतः 'थुक्' इत्यस्य विधानसामर्थ्यात् एतादृशः टिलोपः अत्र न भवति ।]\n→ कतिपयथ । ('of some index' - इति आशयः )\n4. चतुर् (four)\nचतुर्ण्णाम् पूरणः\n= चतुर् + डट् [<<तस्य पूरणे डट्>> [[5.2.48]] इति डट्]\n→ चतुर् + थुक् + डट् [वर्तमानसूत्रेण अङ्गस्य 'थुक्' आगमः ]\n→ चतुर् + थ् + अ ['थुक्' इत्यत्र थकारोत्तरः उकारः उच्चारणार्थः अस्ति, ककारः इत्संज्ञकः अस्ति । डट्-प्रत्यये डकारटकारौ द्वावपि इत्संज्ञकौ स्तः । चतुर्ण्णामपि लोपः भवति ।वस्तुतः अत्र <<टेः>> [[6.4.143]] इति टिलोपः अपि विधीयते । परन्तु यदि अत्र टिलोपः क्रियते तर्हि 'उर्थ्' इत्यस्य लोपः भवेत्, येन थुक्-आगमस्य प्रयोजनमेव विनश्येत् । अतः 'थुक्' इत्यस्य विधानसामर्थ्यात् एतादृशः टिलोपः अत्र न भवति ।]\n→ चतुर्थ । [अत्र रेफः पदान्ते नास्ति अतः अत्र <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इत्यस्य प्रसक्तिः नास्तीति स्मर्तव्यम् ।]\nचतुर्ण्णाम् पूरणः चतुर्थः ।\n'चतुर्' शब्दस्य विषये एकम् वार्त्तिकमत्र ज्ञातव्यम् - । इत्युक्ते पूरणार्थे 'चतुर्' शब्दात् 'छ' तथा 'यत्' प्रत्ययौ अपि भवतः ; तथा च एतयोः उपस्थितौ 'चतुर्' शब्दस्य 'च' (= च् + अ) इत्यस्य लोपः भवति ।\nयथा -\n[अ] चतुर् + छ\n→ चतुर् + ईय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ईय-आदेशः]\n→ तुर् + ईय [छ-प्रत्ययस्य उपस्थितौ चतुर्-शब्दस्य 'च' इत्यस्य लोपः]\n→ तुरीय ।\n'तुरीयः' इत्यस्य अर्थः अपि 'चतुर्थः' इत्येव ।\n[आ] चतुर् + यत्\n→ चतुर् + य [इत्संज्ञालोपः]\n→ तुर् + य [यत्-प्रत्ययस्य उपस्थितौ चतुर्-शब्दस्य 'च' इत्यस्य लोपः]\n→ तुर्य\nचतुर्ण्णाम् पूरणः तुर्यः । 'चतुर्थः' इत्येव अर्थः ।\nएतादृशमनेन सूत्रेण 'षष्ठ', 'कतिथ', 'कतिपयथ', 'चतुर्थ', 'तुरीय' तथा 'तुर्य' एते शब्दाः सिद्ध्यन्ति ।\nस्मर्तव्यम् -\n1. अनेन सूत्रेण उक्तः 'थुक्' आगमः 'अङ्गस्य' आगमः अस्ति, न हि 'प्रत्ययस्य' । अतएव अस्मिन् सूत्रे 'डट्' इति सप्तम्या विपरिणम्यते, येन परनिमित्तस्य निर्देशं कृत्वा सङ्ख्यावाचिशब्दस्य / 'कतिपय'शब्दस्य 'स्थानित्वम्' निर्दिष्टमस्ति ।\n2. डट्-प्रत्यये टकारः इत्संज्ञकः अस्ति, अतः डट्-प्रत्ययान्तशब्दाः <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इत्यनेन स्त्रीत्वे विवक्षिते 'ङीप्' प्रत्ययं स्वीकुर्वन्ति । यथा - षष्ठी तिथी (sixth day), चतुर्थी परीक्षा (fourth exam), कतिथी कक्षा (how manieth class), कतिपयथी माला (a garland of whatsoever index) - आदयः ।\n3. 'यत्' प्रत्ययान्तः 'तूर्य' शब्दः तथा 'छ'-प्रत्ययान्तः 'तुरीय' शब्दः स्त्रीत्वे विवक्षिते <<अजाद्यतष्टाप्>> [[4.1.4]] इत्यनेन टाप्-प्रत्ययं स्वीकुरुतः । यथा - तुर्या कक्षा / तुरीया कक्षा ।\n4. 'षष्', 'चतुर्' तथा 'कति' एते शब्दाः स्त्रीप्रत्ययं न स्वीकुर्वन्ति, परन्तु 'कतिपय' शब्दस्य स्त्रीत्वे विवक्षिते 'टाप्' प्रत्ययं स्वीकृत्य 'कतिपया' इति परिवर्तनं भवति । अस्मात् शब्दात्अपि वर्तमानसूत्रेण 'डट्' प्रत्ययः तथा तस्य 'थुक्' आगमः भवति । अस्यां प्रक्रियायाम् थुक्-आगमात् पूर्वमेव 'कतिपया' शब्दस्य पुंवद्भावः विधीयते । प्रक्रिया इयम् -\nकतिपया + डट्\n→ कतिपय + डट् [ इत्यनेन कतिपया-शब्दस्य पुंवद्भावः]\n→ कतिपय + थुक् + डट् [वर्तमानसूत्रेण थुक्-आगमः]\n→ कतिपयथ\n→ कतिपयथ + ङीप् [स्त्रीत्वे विवक्षिते <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इत्यनेन 'ङीप्']\n→ कतिपयथी\nकतिपयानाम् पूरणी कतिपयथी ।\nप्रश्नः - अस्मिन् सूत्रे 'थुक्' इति नूतनः आगमः किमर्थमुच्यते? पूर्वसूत्रात् 'थट्' इत्यस्य अनुवृत्तिं स्वीकृत्य प्रत्ययस्य आद्यवयवरूपेण आगमे विहिते अपि एतानि एव रूपाणि भवेयुः किल?\nउत्तरम् - यदि 'थट्' इति आगमः उच्येत, तर्हि <ऽयदागमास्तद्गुणीभूताः तद्ग्रहणेन गृह्यन्तेऽ> अनया परिभाषया अत्र 'थट्' इति प्रत्ययस्यैव अवयवः भवेत्, येन प्रत्ययस्य दृश्यरूपम् 'थ' इति सिद्ध्येत । अस्यां स्थितौ <<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इत्यनेन 'थ' इत्यस्य उपस्थितौ अङ्गस्य पदसंज्ञा भवेत् , येन 'षष् + थ' इत्यत्र <<झलांं जशोऽन्ते>> [[8.2.39]] इत्यनेन षकारस्य जश्त्वे डकारः स्यात् ; यस्य अग्रे चर्त्वे टकारः भवेत् , येन 'षट्ठ' इति असमीचीनम् रूपम् जायेत । तथैव, 'चतुर् + थ' इत्यत्र रेफस्य विसर्जनीये ततश्च सकारे कृते 'चतुस्थ' इति असाधु रूपम् सिद्ध्येत, न हि 'चतुर्थ' इति । अतः 'षष्ठ' तथा 'चतुर्थ' एते साधुरूपे साधयितुमेव अस्मिन् सूत्रे 'थुक्' इति अङ्गस्य अन्त्यागमः विधीयते, न हि 'थट्' इति प्रत्ययस्य आद्यागमः ।\n " }, "52052": { "sa": "बहु, पूग, गण, सङ्घ - एतेषाम् विषये 'पूरणः' अस्मिन् अर्थे विहिते 'डट्' प्रत्यये परे अङ्गस्य 'तिथुक्' आगमः भवति । ", "sd": "<<तस्य पूरणे डट्>> [[5.2.48]] इत्यनेन सङ्ख्यावाचिभ्यः शब्देभ्यः 'डट्' प्रत्ययः भवति । अस्मिन् डट्-प्रत्यये परे 'बहु', 'पूग', 'गण' तथा 'सङ्घ' एतेषामङ्गस्य 'तिथुक्' आगमः भवति । अयमागमः 'कित्' अस्ति, अतः <<आद्यन्तौ टकितौ>> [[1.1.46]] इत्यनेन अन्तावयवरूपेण आगच्छति । तथा च, अस्मिन् आगमे ककारः इत्संज्ञकः अस्ति, थकारोत्तरः उकारः च उच्चारणार्थः अस्ति, अतः द्वयोः अपि लोपं कृत्वा 'तिथ्' इत्येव अवशिष्यते ।\nसर्वान् शब्दान् क्रमेण पश्यामः -\n1. 'बहु' - 'अनेेके' (many) अस्मिन् अर्थे 'बहु' शब्दस्य <<बहुगणवतुडति सङ्ख्या>> [[1.1.23]] इत्यनेन 'सङ्ख्या' संज्ञा भवति । अतः अस्मात् शब्दात् <<तस्य पूरणे डट्>> [[5.2.48]] इत्यनेन डट्-प्रत्ययः भवति । अस्मिन् प्रत्यये परे वर्तमानसूत्रेण अङ्गस्य 'तिथुक्' आगमः अपि विधीयते । प्रक्रिया इयम् -\nबहूनाम् पूरणम्\n= बहु + डट् [<<तस्य पूरणे डट्>> [[5.2.48]] इति डट्]\n→ बहु + तिथुक् + डट् [वर्तमानसूत्रेण तिथुक्-आगमः]\n→ बहु + तिथ् + अ ['तिथुक्' इत्यत्र थकारोत्तरः उकारः उच्चारणार्थः अस्ति, ककारः इत्संज्ञकः अस्ति । डट्-प्रत्यये डकारटकारौ द्वावपि इत्संज्ञकौ स्तः । चतुर्ण्णामपि लोपः भवति ।वस्तुतः अत्र <<टेः>> [[6.4.143]] इति टिलोपः अपि विधीयते । परन्तु यदि अत्र टिलोपः क्रियते तर्हि 'इथ्' इत्यस्य लोपः भवेत्, येन तिथुक्-आगमस्य प्रयोजनमेव विनश्येत् । अतः 'तिथुक्' इत्यस्य विधानसामर्थ्यात् एतादृशः टिलोपः अत्र न भवति ।]\n→ बहुतिथ\nबहूनाम् पूरणम् बहुतिथ । 'manieth' (of some large index) इत्यर्थः ।\n2. 'पूग' - समूहः (group / set) अस्मिन् अर्थे अयम् शब्दः प्रयुज्यते । वस्तुतः अयम् शब्दः सङ्ख्यावाची नास्ति, अतः अस्मात् <<तस्य पूरणे डट्>> [[5.2.48]] इत्यनेन डट्-प्रत्ययः न विधीयते । परन्तु वर्तमानसूत्रेण अस्मात् शब्दात् 'डट्-प्रत्यये परे तिथुक् आगमः' उच्यते, अतः वर्तमानसूत्रस्य विधानसामर्थ्यात् अस्मात् शब्दात् डट्-प्रत्ययः अपि भवति । प्रक्रिया इयम् -\nपूगस्य पूरणम्\n→ पूग + तिथुक् + डट् [वर्तमानसूत्रेण डट्-प्रत्ययः, तस्मिन् परे च अङ्गस्य तिथुक्-आगमः ]\n→ पूगतिथ ['तिथुक्' इत्यत्र थकारोत्तरः उकारः उच्चारणार्थः अस्ति, ककारः इत्संज्ञकः अस्ति । डट्-प्रत्यये डकारटकारौ द्वावपि इत्संज्ञकौ स्तः । चतुर्ण्णामपि लोपः भवति ।वस्तुतः अत्र <<टेः>> [[6.4.143]] इति टिलोपः अपि विधीयते । परन्तु यदि अत्र टिलोपः क्रियते तर्हि 'इथ्' इत्यस्य लोपः भवेत्, येन तिथुक्-आगमस्य प्रयोजनमेव विनश्येत् । अतः 'तिथुक्' इत्यस्य विधानसामर्थ्यात् एतादृशः टिलोपः अत्र न भवति ।]\nपूगस्य पूरणम् पूगतिथ । अयम् शब्दः पूगस्य अन्तिमसदस्यस्य क्रमाङ्कम् दर्शयति । पूगतिथ is used to denote the index of the last member of the group.\nविशेषः - 'पूग' शब्दस्य अर्थमनुसृत्य अत्र विग्रहवाक्ये प्रायः एकवचनमेव क्रियते ।\n3. 'गण' - 'गणना' (count) अस्मिन् अर्थे प्रयुक्तस्य 'गण' शब्दस्य <<बहुगणवतुडति सङ्ख्या>> [[1.1.23]] इत्यनेन 'सङ्ख्या' संज्ञा भवति ।\nअतः अस्मात् शब्दात् <<तस्य पूरणे डट्>> [[5.2.48]] इत्यनेन डट्-प्रत्ययः भवति । अस्मिन् प्रत्यये परे वर्तमानसूत्रेण अङ्गस्य 'तिथुक्' आगमः अपि विधीयते । प्रक्रिया इयम् -\nगणस्य पूरणः\n= गण + डट् [<<तस्य पूरणे डट्>> [[5.2.48]] इति डट्]\n→ गण + तिथुक् + डट् [वर्तमानसूत्रेण तिथुक्-आगमः]\n→ गण + तिथ् + अ ['तिथुक्' इत्यत्र थकारोत्तरः उकारः उच्चारणार्थः अस्ति, ककारः इत्संज्ञकः अस्ति । डट्-प्रत्यये डकारटकारौ द्वावपि इत्संज्ञकौ स्तः । चतुर्ण्णामपि लोपः भवति ।वस्तुतः अत्र <<टेः>> [[6.4.143]] इति टिलोपः अपि विधीयते । परन्तु यदि अत्र टिलोपः क्रियते तर्हि 'इथ्' इत्यस्य लोपः भवेत्, येन तिथुक्-आगमस्य प्रयोजनमेव विनश्येत् । अतः 'तिथुक्' इत्यस्य विधानसामर्थ्यात् एतादृशः टिलोपः अत्र न भवति ।]\n→ गणतिथ\nगणस्य पूरणम् गणतिथ । 'manieth' (of countable index) इत्यर्थः ।\n4. 'सङ्घ' - समूहः (group / set) अस्मिन् अर्थे अयम् शब्दः प्रयुज्यते । वस्तुतः अयम् शब्दः सङ्ख्यावाची नास्ति, अतः अस्मात् <<तस्य पूरणे डट्>> [[5.2.48]] इत्यनेन डट्-प्रत्ययः न विधीयते । परन्तु वर्तमानसूत्रेण अस्मात् शब्दात् 'डट्-प्रत्यये परे तिथुक् आगमः' उच्यते, अतः वर्तमानसूत्रस्य विधानसामर्थ्यात् अस्मात् शब्दात् डट्-प्रत्ययः अपि भवति । प्रक्रिया इयम् -\nसङ्घस्य पूरणम्\n→ सङ्घ + तिथुक् + डट् [वर्तमानसूत्रेण डट्-प्रत्ययः, तस्मिन् परे च अङ्गस्य तिथुक्-आगमः ]\n→ सङ्घतिथ ['तिथुक्' इत्यत्र थकारोत्तरः उकारः उच्चारणार्थः अस्ति, ककारः इत्संज्ञकः अस्ति । डट्-प्रत्यये डकारटकारौ द्वावपि इत्संज्ञकौ स्तः । चतुर्ण्णामपि लोपः भवति ।वस्तुतः अत्र <<टेः>> [[6.4.143]] इति टिलोपः अपि विधीयते । परन्तु यदि अत्र टिलोपः क्रियते तर्हि 'इथ्' इत्यस्य लोपः भवेत्, येन तिथुक्-आगमस्य प्रयोजनमेव विनश्येत् । अतः 'तिथुक्' इत्यस्य विधानसामर्थ्यात् एतादृशः टिलोपः अत्र न भवति ।]\nसङ्घस्य पूरणम् सङ्घतिथ । अयम् शब्दः सङ्घस्य अन्तिमसदस्यस्य क्रमाङ्कम् दर्शयति । सङ्घतिथ is used to denote the index of the last member of the group.\nविशेषः - 'सङ्घ' शब्दस्य अर्थमनुसृत्य अत्र विग्रहवाक्ये प्रायः एकवचनमेव क्रियते ।\nस्मर्तव्यम् -\n1. अनेन सूत्रेण जायमानाः सर्वे पूरणप्रत्ययान्तशब्दाः स्त्रीत्वे विवक्षिते <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इत्यनेन ङीप्-प्रत्ययं प्राप्नुवन्ति । यथा - बहुतिथी, पुगतिथी, गणतिथी, सङ्घतिथी ।\n2. 'पूग', 'गण', 'सङ्घ' एते शब्दाः नियतलिङ्गाः सन्ति, अतः तेभ्यः स्त्रीप्रत्ययः न भवति । परन्तु 'बहु' शब्दात् स्त्रीत्वे विवक्षिते 'बह्वी' इति प्रातिपदिकं सिद्ध्यति । अस्मात् शब्दात् अपि वर्तमानसूत्रेण 'डट्' प्रत्ययः तथा तस्य 'तिथुक्' आगमः भवति । अस्यां प्रक्रियायाम् 'तिथुक्-आगमात् पूर्वमेव 'बह्वी' शब्दस्य पुंवद्भावः विधीयते । प्रक्रिया इयम् -\nबह्वीनाम् पूरणी\nबह्वी + डट्\n→ बहु + डट् [ इत्यनेन बह्वी-शब्दस्य पुंवद्भावः]\n→ बहु + तिथुक् + डट् [वर्तमानसूत्रेण तिथुक्-आगमः]\n→ बहुतिथ + ङीप् [स्त्रीत्वे विवक्षिते <<टिड्ढाणञ्..>> [[4.1.15]] इति ङीप्]\n→ बहुतिथ् + ई [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ बहुतिथी\nबह्वीनां पूरणी बहुतिथी ।\n3. अस्मिन् सूत्रे 'तिथुक्' इति अङ्गस्य आगमः उच्यते । 'तिथुक्' इत्यस्य स्थाने 'तिथुट्' इति प्रत्ययस्य आद्यवयवरूपेण अपि आगमविधानं भवितुमर्हति । परन्तु पूर्वस्मात् सूत्रात् 'डटि' इति अत्र अनुवर्तते, अतः अत्र 'तिथुक्' इत्येव आगमः उक्तः अस्ति ।\n " }, "52053": { "sa": "वतुँप्-प्रत्ययान्तशब्देभ्यः 'पूरणः' अस्मिन् अर्थे विहिते 'डट्' प्रत्यये परे अङ्गस्य 'इथुक्' आगमः भवति । ", "sd": "'वतुँप्' इति कश्चन तद्धितप्रत्ययः । 'यद्', 'तद्', 'एतद्' , 'किम्' तथा 'इदम्' एतेभ्यः शब्देभ्यः 'वतुँप्' इति प्रत्ययः विधीयते, यैः 'यावत्', 'तावत्', 'एतावत्', 'कियत्' तथा 'इयत्' एते पञ्च शब्दाः सिद्ध्यन्ति । एते 'वतुँप्'प्रत्ययान्तशब्दाः <<बहुगणवतुडति सङ्ख्या>> [[1.1.23]] इत्यनेन सङ्ख्यासंज्ञकाः भवन्ति । अतः एतेभ्यः <<तस्य पूरणे डट्>> [[5.2.48]] इत्यनेन पूरणार्थे डट्-प्रत्ययः विधीयते । अस्मिन् डट्-प्रत्यये परे अङ्गस्य वर्तमानसूत्रेण 'इथुक्' इति आगमः विधीयते ।\n'इथुक्' अस्मिन् आगमे ककारः इत्संज्ञकः अस्ति, अतः <<आद्यन्तौ टकितौ>> [[1.1.46]] इत्यनेन अयमागमः अङ्गस्य अन्त्यादेशरूपेण विधीयते । यथा -\n1) यावताम् पूरणः\n= यावत् + डट् [<<तस्य पूरणे डट्>> [[5.2.48]] इति डट्]\n→ यावत् + इथुक् + डट् [वर्तमानसूत्रेण अङ्गस्य इथुक्-आगमः]\n→ यावत् + इथ् + अ ['इथुक्' इत्यत्र थकारोत्तरः उकारः उच्चारणार्थः अस्ति, ककारः इत्संज्ञकः अस्ति । डट्-प्रत्यये डकारटकारौ द्वावपि इत्संज्ञकौ स्तः । चतुर्ण्णामपि लोपः भवति ।वस्तुतः अत्र <<टेः>> [[6.4.143]] इति टिलोपः अपि विधीयते । परन्तु यदि अत्र टिलोपः क्रियते तर्हि 'इथ्' इत्यस्य लोपः भवेत्, येन इथुक्-आगमस्य प्रयोजनमेव विनश्येत् । अतः 'इथुक्' इत्यस्य विधानसामर्थ्यात् एतादृशः टिलोपः अत्र न भवति ।]\n→ यावतिथ (as manieth / how manieth / to whatsoever place - इति अर्थः)\nउदाहरणम् - यो यो यावतिथश्चैषाम् स स तावद्गुणः स्मृतः - इति मनुस्मृतौ सन्दर्भः लभ्यते । आकाशादीनाम् द्रव्यानाम् शब्दादयः गुणाः 'यावतिथाः' भवन्तीति अत्र निर्देशः कृतः अस्ति।\nएवमेव -\n2) तावतां पूरणः तावतिथः ।\n3) एतावतां पूरणः एतावतिथः ।\n4) कियतां पूरणः कियतिथः ।\n5) इयतां पूरणः इयतिथः ।\nज्ञातव्यम् -\n1. सर्वेभ्यः पूरणप्रत्ययान्तशब्देभ्यः स्त्रीत्वे विवक्षिते <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इत्यनेन ङीप्-प्रत्ययः भवति । यथा - यावतिथी, तावतिथी, एतावतिथी, कियतिथी, इयतिथी ।\n2. यावती, तावती, एतावती, कियती, इयती - एतेभ्यः विहितस्य डट्-प्रत्ययस्य अपि वर्तमानसूत्रेण 'इथुक्' आगमः भवति । अग्रे प्रक्रियायाम् पुंवद्भावं कृत्वा रूपाणि सिद्ध्यन्ति । यथा -\nयावतीनाम् पूरणी\n= यावती + डट् [<<तस्य पूरणे डट्>> [[5.2.48]] इति डट्]\n→ यावत् + डट् [ इति पुंवद्भावः]\n→ यावत् + इथुक् + डट् [वर्तमानसूत्रेण अङ्गस्य इथुक्-आगमः]\n→ यावत् + इथ [इत्संज्ञालोपः]\n→ यावतिथ\n→ यावतिथ + ङीप् [स्त्रीत्वे विवक्षिते <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इति ङीप्]\n→ यावतिथी\n3. <<यत्तदेतेभ्यः परिमाणे वतुँप्>> [[5.2.39]] तथा <<किमिदंभ्यां वो घः>> [[5.2.41]] इत्यनेन 'यावत्', 'तावत्', 'एतावत्', 'इयत्' एते शब्दाः केवलम् सामान्यपरिमाणस्य निर्देशार्थम् एव प्रयुज्यन्ते, सङ्ख्यापरिमाणस्य निर्देशार्थम् न । तथापि तेषाम् 'सङ्ख्या' इति संज्ञा भवति, अतः तेभ्यः अपि पूरणप्रत्ययाः विधीयन्ते । एषामर्थः सामान्यरूपेण उपरि दत्तः अस्ति, परन्तु निश्चितरूपेण अर्थनिर्णयः तु सन्दर्भं दृष्ट्वा एव कर्तव्यः । " }, "52054": { "sa": "षष्ठीसमर्थात् 'द्वि' शब्दात् 'पूरणः' इत्यस्मिन् अर्थे 'तीय' प्रत्ययः विधीयते ।", "sd": "<<तस्य पूरणे डट्>> [[5.2.48]] अनेन सूत्रेण 'पूरणम्' अस्मिन् अर्थे सङ्ख्यावाचिभ्यः शब्देभ्यः औत्सर्गिकरूपेण 'डट्' प्रत्ययः विधीयते । अस्य अपवादरूपेण 'द्वि' शब्दात् 'तीय' इति प्रत्ययविधानम् वर्तमानसूत्रेण क्रियते । यथा -\nद्वयोः पूरणः\n= द्वि + तीय\n→ द्वितीय (second इत्यर्थः) ।\n'द्वितीय' शब्दात् स्त्रीत्वे विवक्षिते <<अजाद्यतष्टाप्>> [[4.1.4]] इत्यनेन टाप्-प्रत्ययः विधीयते, येन 'द्वितीया' इति शब्दः सिद्ध्यति ।\n" }, "52055": { "sa": "षष्ठीसमर्थात् 'त्रि' शब्दात् 'पूरणः' इत्यस्मिन् अर्थे 'तीय' प्रत्ययः विधीयते, तथा च प्रक्रियायाम् 'त्रि' शब्दस्य सम्प्रसारणमपि भवति । ", "sd": "<<तस्य पूरणे डट्>> [[5.2.48]] अनेन सूत्रेण 'पूरणम्' अस्मिन् अर्थे सङ्ख्यावाचिभ्यः शब्देभ्यः औत्सर्गिकरूपेण 'डट्' प्रत्ययः विधीयते । अस्य अपवादरूपेण 'त्रि' शब्दात् 'तीय' इति प्रत्ययविधानम् वर्तमानसूत्रेण क्रियते । अस्मिन् प्रत्यये परे 'त्रि' शब्दस्य सम्प्रसारणमपि भवति । इत्युक्ते, 'त्रि' (= त् + र् + इ) इत्यत्र उपस्थितस्य रेफस्य <<इग्यणः सम्प्रसारणम्>> [[1.1.45]] इत्यनेन ऋकारादेशः भवति । प्रक्रिया इयम् -\nत्रयाणां पूरणः\n= त्रि + तीय [वर्तमानसूत्रेण पूरणे 'तीय' प्रत्ययः]\n= त् + र् + इ + तीय\n→ त् + ऋ + इ + तीय ['तीय' प्रत्ययस्य उपस्थितौ अङ्गस्य सम्प्रसारणम् । रेफस्य सम्प्रसारणम् ऋकारः ]\n→ त् + ऋ + तीय [<<सम्प्रसारणाच्च>> [[6.1.108]] इति पूर्वरूपम्]\n→ तृतीय\nस्त्रीत्वे विवक्षिते <<अजाद्यतष्टाप्>> [[4.1.4]] इत्यनेन टाप्-प्रत्यये कृते 'तृतीया' इति रूपं सिद्ध्यति ।\nविशेषः - 'तृ + तीय' इत्यत्र वस्तुतः <<हलः>> [[6.4.2]] इत्यनेन अङ्गस्य दीर्घादेशः भवति यः न इष्यते । अस्य समाधानम् भाष्यकारः <<हलः>> [[6.4.2]] इत्यत्र द्वाभ्याम् प्रकाराभ्यां करोति -\n(अ) <<हलः>> [[6.4.2]] अस्मिन् सूत्रे <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] इत्यस्मात् 'अणः' इति अनुवृत्तिं स्वीकृत्य 'अण् वर्णस्यैव दीर्घादेशः भवति' इति अर्थविधानं कृत्वा ऋकारान्तस्य दीर्घस्य आपत्तेः निराकरणम् भवति - इति प्रथमः सिद्धान्तः ।\n(आ) <<द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम्>> [[2.2.3]] इत्यत्र 'तृतीय' शब्दस्य ग्रहणेन 'त्रयाणां पूरणम्' अस्यां प्रक्रियायाम् निपातनेन <<हलः>> [[6.4.2]] इति सूत्रमेव न स्वीकर्तव्यम् - इति द्वितीयः सिद्धान्तः ।\n" }, "52056": { "sa": "षष्ठीसमर्थेभ्यः 'विंशतिः' आदिभ्यः शब्देभ्यः 'पूरणः' अस्मिन् अर्थे विहितस्य डट्-प्रत्ययस्य विकल्पेन 'तमट्' आगमः भवति । ", "sd": "<<तस्य पूरणे डट्>> [[5.2.48]] अनेन सूत्रेण सर्वेभ्यः सङ्ख्यावाचिभ्यः शब्देभ्यः 'पूरणम्' अस्मिन् अर्थे औत्सर्गिकरूपेण 'डट्' इति प्रत्ययः भवति । 'विंशति' तथा तस्मात् अग्रे ये शब्दाः विद्यन्ते, तेभ्यः विहितस्य डट्-प्रत्ययस्य वर्तमानसूत्रेण 'तमट्' इति विकल्पेन आगमः भवति । यथा -\n1. विंशतेः पूरणः\n= विंशति + डट् [<<तस्य पूरणे डट्>> [[5.2.48]] इति डट्-प्रत्ययः]\n→ विंशति + तमट् + डट् [<<विंशत्यादिभ्यस्तमडन्यतरस्याम्>> [[5.2.53]] इति डट्-प्रत्ययस्य विकल्पेन तमट्-आदेशः । <<आद्यन्तौ टकितौ>> [[1.1.46]] इति आद्यवयवः]\n→ विंशति + तम् + अ [<<टेः>> [[6.4.143]] इति टिलोपः]\n→ विंशतितम\nपक्षे तमट्-प्रत्ययस्य अप्राप्तौ 'विंश' इति अपि साधुरूपम् सिद्ध्यति । विंशतेः पूरणम् विंशतितमम् विंशम् वा । Twentieth इत्यर्थः ।\nएवमेव -\n2. एकविंशतेः पूरणः एकविंशतितमः एकविंशः वा ।\n3. द्वाविंशतेः पूरणः द्वाविंशतितमः द्वाविंशः वा ।\n4. त्रिंशतः पूरणः त्रिंशत्तमः त्रिंशः वा ।\n5. एकत्रिंशतः पूरणः एकत्रिंशत्तमः एकत्रिंशः वा ।\n6. एकचत्वारिंशतः पूरणः एकचत्वारिंशत्तमः एकचत्वारिंशः वा ।\n7. पञ्चाशतः पूरणः पञ्चाशत्तमः पञ्चाशः वा ।\nअनेन प्रकारेण 'विंशति' इत्यस्मात् अग्रे विद्यामानानाम् सङ्ख्याशब्दानां विषये वर्तमानसूत्रेण 'डट्' प्रत्ययस्य विकल्पेन 'तमट्' आगमः भवति ।\nस्मर्तव्यम् -\n1. अस्मिन् सूत्रे विद्यमानस्य 'विंशत्यादि' शब्दस्य अर्थः 'विंशति-शब्दः यस्य आदौ विद्यते सः' इति नास्ति, अपितु 'विंशतिः इत्यस्मात् आरभ्य अग्रे विद्यमानाः सर्वाः सङ्ख्याः' इति अस्ति । All numbers greater than or equal to twenty - इति आशयः ।\n2. 'षष्टि', 'सप्तति', 'अशीति', 'नवति' एतेभ्यः चतुर्भ्यः शब्देभ्यः डट्-प्रत्ययस्य वर्तमानसूत्रेण विकल्पेन 'तमट्' आगमे प्राप्ते <<षष्ट्यादेः च असंख्यादेः>> [[5.2.58]] इत्यनेन नित्यमेव तमट्-आगमः भवति । यथा - षष्टेः पूरणम् षष्टितमम् ।\n3. 'शत' इत्यस्मात् अग्रे विद्यमानानाम् शब्दानाम् विषये अपि <<नित्यं शतादिमासार्धमाससंवत्सराच्च>> [[5.2.57]] इत्यनेन नित्यमेव तमट्-आगमः भवति । शतस्य पूरणः शततमः । द्विशतस्य पूरणः द्विशततमः (=200th) । शतोत्तरएकस्य पूरणः शतोत्तरएकतमः (= 101th) ।\nविशेषः - अस्मिन् सूत्र निर्दिष्टः 'विंशत्यादयः' इति शब्दः केषाम् ग्रहणम् करोति अस्मिन् विषये काशिकाकारस्य मतम् भाष्यकारात् भिद्यते । भाष्यकारस्य मतेन अत्र <<पङ्क्तिविंशतित्रिंशत्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम्>> [[5.1.59]] इत्यस्मिन् सूत्रे विद्यमानानाम् विंशति-आदीनाम् शब्दानाम् ग्रहणं भवति, न हि लौकिकानां सङ्ख्यावाचीशब्दानाम् । अस्मिन् पक्षे वस्तुतः 'एकविंशति' शब्दात् 'तमट्' आगमः नैव विधीयते, यतः ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते । परन्तु अत्र भाष्यकारः विशेषविधानं कृत्वा तदन्तविधिमपि ज्ञापयति । अस्मिन् विषये अधिकम् पिपठिषवः <<षष्ट्यादेश्चासंख्याऽऽदेः>> [[5.2.58]] अस्य सूत्रस्य भाष्यम् पश्येयुः ।\n" }, "52057": { "sa": "षष्ठीसमर्थेभ्यः 'शत' आदिभ्यः शब्देभ्यः, तथा च 'मास', 'अर्धमास', 'संवत्सर' एतेभ्यः शब्देभ्यः 'पूरणः' अस्मिन् अर्थे विहितस्य डट्-प्रत्ययस्य नित्यम् 'तमट्' आगमः भवति । ", "sd": "<<तस्य पूरणे डट्>> [[5.2.48]] अनेन सूत्रेण सर्वेभ्यः सङ्ख्यावाचिभ्यः शब्देभ्यः 'पूरणम्' अस्मिन् अर्थे औत्सर्गिकरूपेण 'डट्' इति प्रत्ययः भवति । 'विंशति' तथा तस्मात् अग्रे ये शब्दाः विद्यन्ते, तेभ्यः विहितस्य अस्य डट्-प्रत्ययस्य <<विंशत्यादिभ्यस्तमडन्यतरस्याम्>> [[5.2.56]] इत्यनेन 'तमट्' इति विकल्पेन आगमः अपि भवति । परन्तु 'शत' इत्यस्मात् अग्रे विद्यमानानां शब्दानां विषये विहितस्य डट्-प्रत्ययस्य अनेन सूत्रेण नित्यम् तमट्-आगमः विधीयते । तथा च 'मास', 'अर्धमास', 'संवत्सर' एतेषाम् विषये अपि वर्तमानसूत्रेण पूरणार्थे 'डट्' प्रत्ययः तथा च तस्य 'तमट्' आगमः विधीयते ।\nक्रमेण पश्यामः -\n1. 'शतादि' - 'शत' तथा तस्मात् अग्रे ये सङ्ख्यावाचकाः शब्दाः विद्यन्ते, तेभ्यः विहितस्य डट्-प्रत्ययस्य नित्यम् 'तमट्' आगमः भवति ।\nशतस्य पूरणः\n= शत + तमट् + डट्\n→ शततम् + अ [<<टेः>> [[6.4.143]] इति टिलोपः]\n→ शततम\nएवमेव - द्विशतस्य पूरणः द्विशततमः । शतोत्तरएकस्य पूरणः शतोत्तरएकतमः । सहस्रस्य पूरणः सहस्रतमः । लक्षस्य पूरणः लक्षतमः ।\n2. 'मास', 'अर्धमास', तथा 'संवत्सर' एते शब्दाः संख्यासंज्ञकाः न सन्ति, अतः तेभ्यः वस्तुतः <<तस्य पूरणे डट्>> [[5.2.48]] अस्य सूत्रस्य प्रसक्तिः एव नास्ति । परन्तु वर्तमानसूत्रेण विधानसामर्थ्यात् तेभ्यः अपि पूरणार्थे 'डट्' प्रत्ययः तथा तस्य नित्यम् तमट्-आगमः भवति यथा -\nअ) मासस्य पूरणः मासतमः दिवसः । मासस्य अन्तिमदिवसस्य इयम् संज्ञा ।\nआ) अर्धमासस्य पूरणः अर्धमासतमः दिवसः । अर्धमासस्य अन्तिमदिवसस्य इयं संज्ञा ।\nइ) संवत्सरस्य पूरणः संवत्सरतमः दिवसः । संवत्सरस्य अन्तिमदिवसस्य इयम् संज्ञा ।\nविशेषः - वस्तुतः अग्रिमसूत्रेण <<षष्ट्यादेश्चासंख्यादेः>> [[5.2.58]] इत्यनेन 'शतम्' इत्यस्मात् विहितस्य डट्-प्रत्ययस्य नित्यम् तमट्-आगमः उच्यते एव । परन्तु तस्मिन् सूत्रे 'असङ्ख्यादेः' इति निर्दिष्टमस्ति, अतः 'एकाधिकशतम्', 'द्विशतम्', 'त्रिशतम्', 'एकोनशतम्' एतेषां विषये <<षष्ट्यादेश्चासंख्यादेः>> [[5.2.58]] इत्यस्य प्रसक्तिः नैव वर्तते । एतेभ्यः शब्देभ्यः विहितस्य डट्-प्रत्ययस्य अपि तमट्-आगमः भवेत्, एतत् स्पष्टीकर्तुमस्मिन् सूत्रे 'शत' इत्यस्य ग्रहणं क्रियते ।\n" }, "52058": { "sa": "असङ्ख्यादयः 'षष्टि' आदयः ये शब्दाः, तेभ्यः 'पूरणः' अस्मिन् अर्थे विहितस्य डट्-प्रत्ययस्य नित्यम् 'तमट्' आगमः भवति । ", "sd": "<<तस्य पूरणे डट्>> [[5.2.48]] अनेन सूत्रेण सर्वेभ्यः सङ्ख्यावाचिभ्यः शब्देभ्यः 'पूरणम्' अस्मिन् अर्थे औत्सर्गिकरूपेण 'डट्' इति प्रत्ययः भवति । 'विंशति' तथा तस्मात् अग्रे ये शब्दाः विद्यन्ते, तेभ्यः विहितस्य अस्य डट्-प्रत्ययस्य <<विंशत्यादिभ्यस्तमडन्यतरस्याम्>> [[5.2.56]] इत्यनेन 'तमट्' इति विकल्पेन आगमः अपि भवति । परन्तु 'षष्टि', 'सप्तति', अशीति', तथा 'नवति' एतेभ्यः शब्देभ्यः विहितस्य डट्-प्रत्ययस्य वर्तमानसूत्रेण नित्यम् तमट्-आगमः विधीयते ।\nयथा -\n1. षष्टेः पूरणम् षष्टितमः ।\n2. सप्ततेः पूरणः सप्ततितमः ।\n3. अशीतेः पूरणः अशीतितमः ।\n4. नवतेः पूरणः नवतीतमः ।\nज्ञातव्यम् -\n1. अस्य सूत्रस्य प्रसक्तिः 'असङ्ख्यादेः' विषये एव अस्ति । अतः एकषष्टि, द्विषष्टि, एकसप्तति - एतेषां विषये वर्तमानसूत्रम् न प्रयुज्यते, अतः तेभ्यः विहितस्य डट्-प्रत्ययस्य विकल्पेनैव तमट्-आगमः भवति । यथा - एकषष्टः / एकषष्टितमः , एकसप्ततः / एकसप्ततितमः - आदयः ।\n2. 'शत' इत्यस्मात् अग्रे विद्यमानाः ये शब्दाः तेभ्यः विहितस्य डट्-प्रत्ययस्य तु <<नित्यं शतादिमासार्धमाससंवत्सराच्च>> [[5.2.57]] इत्यनेन नित्यमेव 'तमट्' आगमः भवति । अतः वर्तमानसूत्रस्य प्रसक्तिः केवलम् 'षष्टि', 'सप्तति', अशीति', तथा 'नवति' एतेषां विषये एव वर्तते ।\n" }, "52059": { "sa": "मतुबर्थयोः सूक्तस्य साम्नः च निर्देशं कर्तुम् प्रथमासमर्थात् प्रातिपदिकात् छ-प्रत्ययः भवति । ", "sd": "<<तदस्यास्त्यस्मिन्निति मतुँप्>> [[5.2.94]] अनेन सूत्रेण 'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः औत्सर्गिकरूपेण 'मतुँप्' इति प्रत्ययः विधीयते । अतः एतौ अर्थौ 'मतुबर्थौ' इति नाम्ना ज्ञायेते । एतयोः एव निर्देशः अस्मिन् सूत्रे 'मतौ' इत्यनेन कृतः अस्ति । एताभ्यामर्थाभ्याम् निर्मितः शब्दः यदि सूक्तस्य उत साम्नः निर्देशं करोति, तर्हि वर्तमानसूत्रेण औत्सर्गिकस्य मतुँप्-प्रत्ययस्य अपवादस्वरूपेण 'छ' प्रत्ययविधानम् भवति ।\nयथा -\n1. 'अच्छावाक' शब्दः अस्ति अस्मिन् सूक्ते तत् अच्छावाकीयम् सूक्तम् । अत्र सूक्तस्य निर्देशः 'अच्छावाकः (Name of a sage) इति शब्दः अस्मिन् सूक्ते अस्ति' एतादृशम् क्रियते । अतः अत्र वर्तमानसूत्रेण मतुँप्-प्रत्ययस्य अपवादरूपेण छ-प्रत्ययः भवति ।\nप्रक्रिया इयम् -\nअच्छावाक + छ\n→ अच्छावाक + ईय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति 'छ' इत्यस्य इय-आदेशः]\n→ अच्छावाक् + ईय [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ अच्छावाकीय\n2. मित्रावरुणशब्दः अस्ति अस्मिन् सूक्ते तत् मित्रावरुणीयम् सूक्तम् ।\n3. यज्ञायज्ञशब्दः अस्ति अस्मिन् साम्नि तत् यज्ञायज्ञीयम् साम ।\n4. वारवन्तशब्दः अस्ति अस्मिन् साम्नि तत् वारवन्तीयम् साम ।\nअस्य सूत्रस्य विषये कश्चन विशेषः ज्ञेयः । अत्र दर्शितेषु विग्रहवाक्येषु शब्दस्य 'स्वस्य रूपस्य' निर्देशः भवति, न हि अर्थस्य । When we say 'अच्छावाकः अस्ति अस्मिन् सूक्ते', what we mean is that the word 'अच्छावाकः' is present in the sukta, and not the person with that name. On the other hand, almost everywhere else, even though the प्रत्यय is attached to the word, the तद्धितवृत्ति uses the meaning of the word. For example, when we say 'दशरथस्य अपत्यम्', we are talking about offspring of the person named दशरथ, and not the word दशरथ । अस्यैव स्पष्टीकरणार्थः काशिकाकारः वदति - अनुकरणशब्दाश्च स्वरूपामात्रप्रधानाः प्रत्ययमुत्पादयन्ति ; तेन अनेकपदादपि सिद्धम् । इत्युक्ते, अत्र विग्रहवाक्ये प्रयुक्तः शब्दः स्वस्य रूपस्यैव निर्देशं करोति, न हि अर्थस्य । अस्यां स्थितौ पदसमूहस्य / वाक्यखण्डस्य अप्यत्र वृत्तौ प्रयोगः भवितुमर्हति । यथा - 'अस्य वाम' इति वाक्यखण्डः अस्ति अस्मिन् सूक्ते तत् 'अस्यवामीयम्' सूक्तम् । अत्र 'अस्य वाम' इति वस्तुतः वाक्यखण्डः अस्ति, न हि प्रातिपदिकम् । परन्तु अत्र शब्दस्वरूपस्य ग्रहणम् भवति, अतः अत्र 'अस्य वाम' इत्यस्य अर्थः न स्वीक्रियते, अपितु 'शब्दस्वरूपम्' (A physical sequence of letters) इति स्वीकृत्य अस्मात् वाक्यखण्डात् प्रत्ययः भवति ।\nस्मर्तव्यम् -\n1. अनेन सूत्रेण मत्वर्थयोः 'छ' प्रत्ययः दीयते । अतः मत्वर्थस्य विषये <<तदस्यास्त्यस्मिन्निति मतुँप्>> [[5.2.94]] इत्यत्र उक्ताः सर्वे बिन्दवः अस्य सूत्रस्य विषये अपि स्मर्तव्याः ।\n2. सूत्रपाठे <<तदस्यास्त्यस्मिन्निति मतुँप्>> [[5.2.94]] इत्यतः <<अहंशुभमोर्युस्>> [[5.2.140]] इति यावत्सु सूत्रेषु 'मत्वर्थयोः' प्रत्ययविधानम् कृतमस्ति । अतः वस्तुतः वर्तमानसूत्रमपि तस्मिन्नेव प्रकरणे भवितुम अर्हति । परन्तु पाणिनिना तत् सूत्रमत्र स्थापितमस्ति । अस्य किमपि कारणम् व्याख्यानेषु न दीयते ।\n" }, "52060": { "sa": "मतुबर्थयोः अध्यायस्य अनुवाकस्य च निर्देशं कर्तुम् प्रथमासमर्थात् प्रातिपदिकात् छ-प्रत्ययः भवति, तस्य च विकल्पेन लुक् भवति । ", "sd": "<<तदस्यास्त्यस्मिन्निति मतुँप्>> [[5.2.94]] अनेन सूत्रेण 'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः औत्सर्गिकरूपेण 'मतुँप्' इति प्रत्ययः विधीयते । अतः एतौ अर्थौ 'मतुबर्थौ' इति नाम्ना ज्ञायेते । एतयोः एव निर्देशः अस्मिन् सूत्रे 'मतौ' इत्यनेन कृतः अस्ति । एताभ्यामर्थाभ्याम् निर्मितः शब्दः यदि अध्यायस्य उत अनुवाकस्य (two types of sections found in vedas) निर्देशं करोति, तर्हि वर्तमानसूत्रेण औत्सर्गिकस्य मतुँप्-प्रत्ययस्य अपवादस्वरूपेण 'छ' प्रत्ययविधानम् भवति, तस्य च विकल्पेन लोपः अपि जायते ।\nयथा -\n1. 'गर्दभाण्ड' शब्दः अस्ति अस्मिन् अध्याये अनुवाके वा सः गर्दभाण्डीयः अध्यायः अनुवाकः वा ।\nगर्दभाण्ड + छ\n→ गर्दभाण्ड + ईय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति 'छ' इत्यस्य इय-आदेशः]\n→ गर्दभाण्ड् + ईय [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ गर्दभाण्डीय\nपक्षे प्रत्ययलुकं कृत्वा 'गर्दभाण्ड' इत्यपि शब्दः सिद्ध्यति ।\n2. 'दीर्घजीवित' शब्दः अस्ति अस्मिन् अध्याये अनुवाके वा सः दीर्घजीवितीयः / दीर्घजीवितः अध्यायः अनुवाकः वा ।\n3. 'पलितस्तम्भ' शब्दः अस्ति अस्मिन् अध्याये अनुवाके वा सः पलितस्तम्भीयः / पलितस्तम्भः अध्यायः अनुवाकः वा ।\nविशेषः -\n1. अत्र विग्रहवाक्येषु 'शब्दस्वरूप'स्य ग्रहणम् भवति, न हि अर्थस्वरूपस्य । When we say 'गर्दभाण्डः शब्दः अस्ति अस्मिन् अध्याये, we mean that the word गर्दभाण्ड is present in that अध्याय and not the entity represented by that word.\n2. वस्तुतः अस्मिन् सूत्रे 'छ' इति न अनुवर्तते, यतः पूर्वसूत्रे 'छ' इत्यत्र स्वरितः स्वरः नास्ति । (केवलम् ते शब्दाः एव अनुवृत्तिरूपेण कार्यम् कुर्वन्ति येषु कश्चन स्वरः स्वरितः अस्ति । एतत् <<स्वरितेनाधिकारः>> [[1.3.11]] इत्यत्र स्पष्टीकृतमस्ति) । परन्तु अस्मिन् सूत्रे 'लुक्' उक्तः अस्ति, अतः कश्चन प्रत्ययः तु स्यात् एव - इति न्यायेन अत्र 'छ' प्रत्ययस्य ग्रहणम् क्रियते ।\n3. अस्मिन् सूत्रे भाष्यकारः 'अन्यतरस्याम्' इत्यस्य अनुवृत्तिं न स्वीकरोति, अपितु इति वार्त्तिकम् पाठयति । अस्यापि अर्थः अयमेव ।\nस्मर्तव्यम् -\n1. अनेन सूत्रेण मत्वर्थयोः 'छ' प्रत्ययः तथा तस्य लुक् पाठितः अस्ति । अतः मत्वर्थस्य विषये <<तदस्यास्त्यस्मिन्निति मतुँप्>> [[5.2.94]] इत्यत्र उक्ताः सर्वे बिन्दवः अस्य सूत्रस्य विषये अपि स्मर्तव्याः ।\n2. सूत्रपाठे <<तदस्यास्त्यस्मिन्निति मतुँप्>> [[5.2.94]] इत्यतः <<अहंशुभमोर्युस्>> [[5.2.140]] इति यावत्सु सूत्रेषु 'मत्वर्थयोः' प्रत्ययविधानम् कृतमस्ति । अतः वस्तुतः वर्तमानसूत्रमपि तस्मिन्नेव प्रकरणे भवितुम अर्हति । परन्तु पाणिनिना तत् सूत्रमत्र स्थापितमस्ति । अस्य किमपि कारणम् व्याख्यानेषु न दीयते । " }, "52061": { "sa": "मतुबर्थयोः अध्यायस्य अनुवाकस्य च निर्देशं कर्तुम् विमुक्तादिगणस्य शब्देभ्यः प्रथमासमर्थेभ्यः अण्-प्रत्ययः भवति । ", "sd": "<<तदस्यास्त्यस्मिन्निति मतुँप्>> [[5.2.94]] अनेन सूत्रेण 'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः औत्सर्गिकरूपेण 'मतुँप्' इति प्रत्ययः विधीयते । अतः एतौ अर्थौ 'मतुबर्थौ' इति नाम्ना ज्ञायेते । एतयोः एव निर्देशः अस्मिन् सूत्रे 'मतौ' इत्यनेन कृतः अस्ति । एताभ्यामर्थाभ्याम् निर्मितः शब्दः यदि अध्यायस्य उत अनुवाकस्य (two types of sections found in vedas) निर्देशं करोति, तर्हि <<अध्यायानुवाकयोर्लुक्>> [[5.2.60]] इत्यनेन तस्मात् छ-प्रत्ययः भवति, तस्य च वैकल्पिकः लुक् अपि जायते । परन्तु यदि प्रक्रियायाम् विहितम् प्रातिपदकम् 'विमुक्तादि'गणे विद्यते, तर्हि तस्मात् छ-प्रत्ययस्य अपवादस्वरूपेण वर्तमानसूत्रेण अण्-प्रत्ययः भवति ।\nविमुक्तादिगणः अयम् - विमुक्त, देवासुर, वसुमत्, सत्वत्, उपसत्, दशार्हपयस्, हविर्द्धान, मित्री, सोमापूषन्, अग्नाविष्णु, वृत्रहति, इडा, रक्षोसुर, सदसत्, परिषादक्, वसु, मरुत्वत्, पत्नीवत्, महीयल, दशार्ह, वयस्, पतत्रि, सोम, महित्री, हेतु ।\nउदाहरणानि -\n1. 'विमुक्त'शब्दः अस्ति अस्मिन् अध्याये अनुवाके वा सः वैमुक्तः अध्यायः अनुवाकः वा ।\nप्रक्रिया इयम् -\nविमुक्त + अण्\n→ वैमुक्त + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ वैमुक्त् + अ [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ वैमुक्त\n2. 'देवासुर'शब्दः अस्ति अस्मिन् अध्याये अनुवाके वा, सः दैवासुरः अध्यायः अनुवाकः वा ।\n3. 'वसुमत्' शब्दः अस्ति अस्मिन् अध्याये अनुवाके वा सः वासुमतः अध्यायः अनुवाकः वा ।\n4. 'मित्री'शब्दः अस्ति अस्मिन् अध्याये अनुवाके वा सः मैत्रः अध्यायः अनुवाकः वा ।\nविशेषः - अत्र विग्रहवाक्येषु 'शब्दस्वरूप'स्य ग्रहणम् भवति, न हि अर्थस्वरूपस्य । When we say 'विमुक्तः शब्दः अस्ति अस्मिन् अध्याये, we mean that the word विमुक्त is present in that अध्याय , and not the entity represented by that word.\nस्मर्तव्यम् -\n1. अनेन सूत्रेण मत्वर्थयोः 'अण्' प्रत्ययः दीयते । अतः मत्वर्थस्य विषये <<तदस्यास्त्यस्मिन्निति मतुँप्>> [[5.2.94]] इत्यत्र उक्ताः सर्वे बिन्दवः अस्य सूत्रस्य विषये अपि स्मर्तव्याः ।\n2. सूत्रपाठे <<तदस्यास्त्यस्मिन्निति मतुँप्>> [[5.2.94]] इत्यतः <<अहंशुभमोर्युस्>> [[5.2.140]] इति यावत्सु सूत्रेषु 'मत्वर्थयोः' प्रत्ययविधानम् कृतमस्ति । अतः वस्तुतः वर्तमानसूत्रमपि तस्मिन्नेव प्रकरणे भवितुम अर्हति । परन्तु पाणिनिना तत् सूत्रमत्र स्थापितमस्ति । अस्य किमपि कारणम् व्याख्यानेषु न दीयते । " }, "52062": { "sa": "मतुबर्थयोः अध्यायस्य अनुवाकस्य च निर्देशं कर्तुम् गोषदादिगणस्य शब्देभ्यः प्रथमासमर्थेभ्यः वुन्-प्रत्ययः भवति । ", "sd": "<<तदस्यास्त्यस्मिन्निति मतुँप्>> [[5.2.94]] अनेन सूत्रेण 'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः औत्सर्गिकरूपेण 'मतुँप्' इति प्रत्ययः विधीयते । अतः एतौ अर्थौ 'मतुबर्थौ' इति नाम्ना ज्ञायेते । एतयोः एव निर्देशः अस्मिन् सूत्रे 'मतौ' इत्यनेन कृतः अस्ति । एताभ्यामर्थाभ्याम् निर्मितः शब्दः यदि अध्यायस्य उत अनुवाकस्य (two types of sections found in vedas) निर्देशं करोति, तर्हि <<अध्यायानुवाकयोर्लुक्>> [[5.2.60]] इत्यनेन तस्मात् छ-प्रत्ययः भवति, तस्य च वैकल्पिकः लुक् अपि जायते । परन्तु यदि प्रक्रियायाम् विहितम् प्रातिपदकम् 'गोषदादि'गणे विद्यते, तर्हि तस्मात् छ-प्रत्ययस्य अपवादस्वरूपेण वर्तमानसूत्रेण वुन् -प्रत्ययः भवति ।\nगोषदादिगणः अयम् - गोषद, इषेत्वा, मातरिश्वन्, देवस्यत्वा, देवीरापः, कृष्णोस्याख्यरेष्टः, दैवींधियम्, रक्षोहण, अञ्जन, प्रभूत, प्रतूर्त, कृशानु ।\nउदाहरणानि -\n1. 'गोषद'शब्दः अस्ति अस्मिन् अध्याये अनुवाके वा सः गोषदकः अध्यायः अनुवाकः वा ।\nप्रक्रिया इयम् -\nगोषद + वुन्\n→ गोषद + अक [<<युवोरनाकौ>> [[7.2.1]] इति 'अक'-आदेशः]\n→ गोषद् + अक [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ गोषदक\n2. 'इषेत्वा'शब्दः अस्ति अस्मिन् अध्याये अनुवाके वा, सः इषेत्वकः अध्यायः अनुवाकः वा ।\n3. 'देवस्यत्वा' शब्दः अस्ति अस्मिन् अध्याये अनुवाके वा सः देवस्यत्वकः अध्यायः अनुवाकः वा ।\n4. 'कृशानु'शब्दः अस्ति अस्मिन् अध्याये अनुवाके वा सः कृशानवकः अध्यायः अनुवाकः वा । अत्र <<ओर्गुणः>> [[6.4.146]] इत्यनेन उकारस्य गुणादेशः ओकारः, ततश्च <<एचोऽयवायावः>> [[6.1.78]] इति अवादेशं कृत्वा रूपं सिद्ध्यति ।\nविशेषः - अत्र विग्रहवाक्येषु 'शब्दस्वरूप'स्य ग्रहणम् भवति, न हि अर्थस्वरूपस्य । When we say 'गोषदः शब्दः अस्ति अस्मिन् अध्याये, we mean that the word गोषद is present in that अध्याय , and not the entity represented by that word.\nस्मर्तव्यम् -\n1. अनेन सूत्रेण मत्वर्थयोः 'वुन्' प्रत्ययः दीयते । अतः मत्वर्थस्य विषये <<तदस्यास्त्यस्मिन्निति मतुँप्>> [[5.2.94]] इत्यत्र उक्ताः सर्वे बिन्दवः अस्य सूत्रस्य विषये अपि स्मर्तव्याः ।\n2. सूत्रपाठे <<तदस्यास्त्यस्मिन्निति मतुँप्>> [[5.2.94]] इत्यतः <<अहंशुभमोर्युस्>> [[5.2.140]] इति यावत्सु सूत्रेषु 'मत्वर्थयोः' प्रत्ययविधानम् कृतमस्ति । अतः वस्तुतः वर्तमानसूत्रमपि तस्मिन्नेव प्रकरणे भवितुम अर्हति । परन्तु पाणिनिना तत् सूत्रमत्र स्थापितमस्ति । अस्य किमपि कारणम् व्याख्यानेषु न दीयते । " }, "52063": { "sa": "सप्तमीसमर्थात् 'पथिन्' शब्दात् 'कुशलः' अस्मिन् अर्थे 'वुन्' प्रत्ययः भवति । ", "sd": "सप्तमीसमर्थात् 'पथिन्' (= मार्गः) शब्दात् 'कुशलः' (= प्रवीणः) अस्मिन् अर्थे 'वुन्' प्रत्ययः भवति ।\nपथि कुशलः\n= पथिन् + वुन्\n→ पथिन् + अक [<<युवोरनाकौ>> [[7.1.1]] इति 'अक' आदेशः]\n→ पथ् + अक [<<नस्तद्धिते>> [[6.4.144]] इति टिलोपः]\n→ पथक\nपथि कुशलः पथकः । यात्रायाम् यः कुशलः अस्ति (expert in road / traveling - knows the directions / road signs etc) सः पथकः ।\nज्ञातव्यम् - <<कृतलब्धक्रीतकुशलाः>> [[4.3.38]] इत्यत्र पाठितस्य अण्-प्रत्ययस्य अपवादरूपेण अयम् 'वुन्' प्रत्ययः विधीयते ।\n" }, "52064": { "sa": "आकर्षादिगणस्य शब्देभ्यः सप्तमीसमर्थेभ्यः 'कुशलः' अस्मिन् अर्थे कन्-प्रत्ययः भवति । ", "sd": "'कुशलः' (प्रवीणः) अस्मिन् अर्थे आकर्षादिगणस्य सप्तमीसमर्थेभ्यः शब्देभ्यः 'कन्' इति प्रत्ययः विधीयते ।\nआकर्षादिगणः अयम् - आकर्ष, त्सरु, पिप्पसा, पिचण्ड, अशनि, अश्मन्, विचय, चय, जय, आचय, अय, नय, निपाद, गद्गद, दीप, हृद, ह्याद, ह्लाद, शकुनि ।\nयथा -\n1. आकर्षे कुशलः आकर्षकः । 'आकर्ष' इति द्यूतम् । द्यूतक्रीडायाम् यः प्रवीणः अस्ति तस्य निर्देशः 'आकर्षक' इत्यनेन भवति । 'सुवर्णस्य परिक्षायाम् प्रयुज्यमानः कश्चन धातुः' इति अपि 'आकर्ष' शब्दस्य अन्यः अर्थः अस्ति, अतः सुवर्णपरीक्षायाम् यः प्रवीणः, तस्यापि निर्देशः 'आकर्षक' इत्यनेन क्रियते ।\n2. त्सरौ कुशलः त्सरुकः । 'त्सरु' इत्युक्ते खड्गमुष्टिः । हस्ते खड्गमुष्टिम् यः कुशलतया धारयति, सः त्सरुकः ।\nज्ञातव्यम् - स्त्रीत्वे विवक्षिते 'कन्' प्रत्ययान्तशब्दाः <<अजाद्यतष्टाप्>> [[4.1.4]] इत्यनेन टाप्-प्रत्ययं स्वीकुर्वन्ति; तथा च प्रक्रियायाम् <<प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः>> [[7.3.44]] इत्यनेन ककारात् पूर्वम् इकारादेशः अपि क्रियते । यथा - आकर्षे कुशला आकर्षिका ।\nविशेषः - अस्य सूत्रस्य 'आकषादिभ्यः कन्' इति अपि कश्चन पाठः दृश्यते । 'आकष' शब्दस्य अर्थः अपि 'सुवर्णस्य परिक्षायाम् प्रयुज्यमानः कश्चन धातुः' इत्येव अस्ति । अस्मात् शब्दात् कन्-प्रत्ययं कृत्वा 'आकषक' इति शब्दः सिद्ध्यति । सुवर्णपरीक्षायाम् यः प्रवीणः सः आकषकः।\n" }, "52065": { "sa": "सप्तमीसमर्थात् 'धन' तथा 'हिरण्य' एताभ्यां शब्दाभ्याम् 'काम' (इच्छा / अभिलाषा) इत्यस्य निर्देशार्थम् कन्-प्रत्ययः भवति । ", "sd": "सप्तमीसमर्थात् 'धन' शब्दात् तथा 'हिरण्य' (= सुवर्णम्) शब्दात् 'इच्छा / अभिलाषा' इत्यस्य निर्देशम् कर्तुम् 'कन्' प्रत्यय भवति । यथा -\n1. धने कामः धनकः । धनप्राप्तौ धनसङ्ग्रहे वा वर्त्तमाना इच्छा 'धनक' नाम्ना ज्ञायते । यथा - देवदत्तस्य धनकः (= देवदत्तस्य धनप्राप्तेः इच्छा) ।\n2. हिरण्ये कामः हिरण्यकः । हिरण्यप्राप्तौ विद्यमाना इच्छा 'हिरण्यक' नाम्ना ज्ञायते । यथा - देवदत्तस्य हिरण्यकः (= देवदत्तरस्य सुवर्णप्राप्तेः इच्छा) ।\nस्मर्तव्यम् - अनेन सूत्रेण जायमानौ 'धनक / हिरण्यक' शब्दौ 'इच्छा' अस्मिन् अर्थे प्रयुज्यते, न हि 'यस्य इच्छा अस्ति' तस्य विषये । अतएव उदाहरणेषु 'देवदत्तस्य धनकः' (= देवदत्तस्य इच्छा) इति उच्यते, न हि 'देवदत्तः धनकः' इति ।\n" }, "52066": { "sa": "स्वाङ्गवाचिनः ये शब्दाः, तेभ्यः सप्तमीसमर्थेभ्यः 'प्रसितः' (रचनायाम् तत्परः / उत्सुकः) अस्मिन् अर्थे कन् प्रत्ययः भवति । ", "sd": "सूत्रे प्रयुक्तयोः शब्दयोः अर्थमादौ पश्यामः -\n1. 'स्वाङ्गवाचिनः' = शरीरस्य अवयवस्य निर्देशः यैः शब्दैः भवति, ते शब्दाः 'स्वाङ्गवाचिनः' नाम्ना ज्ञायन्ते । यथा - केश,नासिका हस्त, पाद - आदयः ।\n2. 'प्रसित' = 'रचनायाम् तत्परः / उत्सुकः' (= interested in decorating) इति अर्थः । 'प्र + षिञ्' इत्यस्य क्त-प्रत्ययान्तरूपम् इदम् ।\nअतः अस्य सूत्रस्य अर्थः अयम् - शरीरस्य अवयवस्य प्रसाधने (decoration) यः उत्सुकः / तत्परः अस्ति, तस्य निर्देशार्थम् सप्तमीसमर्थात् अवयववाचिशब्दात् 'कन्' प्रत्ययः भवति ।यथा - केशेषु प्रसितः केशकः । hair-dresser इत्यर्थः ।\nविशेषः - अस्मिन् सूत्रे 'स्वाङ्गवाचिभ्यः' इति बहुवचनमुच्यते । तस्य प्रयोजनार्थम् काशिकाकारः वदति - ' बहुवचनं स्वाङ्गसमुदायशब्दादपि यथा स्यात्' । इत्युक्ते, अवयवानाम् समुदायवाचिभ्यः शब्देभ्यः अपि अनेन सूत्रेण 'कन्' प्रत्ययः भवति । यथा -\n1. केशनखेषु प्रसितः केशनखकः (one who is interested / active in decorating hairs and nails - इत्यर्थः) ।\n2. दन्तौष्ठेषु प्रसितः दन्तौष्ठकः । (one who is interested / active in decorating teeth and lips - इत्यर्थः) ।\nज्ञातव्यम् -\n1. स्त्रीत्वे विवक्षिते 'कन्' प्रत्ययान्तशब्दाः <<अजाद्यतष्टाप्>> [[4.1.4]] इत्यनेन टाप्-प्रत्ययं स्वीकुर्वन्ति; तथा च प्रक्रियायाम् <<प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः>> [[7.3.44]] इत्यनेन ककारात् पूर्वम् इकारादेशः अपि क्रियते । यथा - केशेषु प्रसिता केशका ।\n2. अस्मिन् सूत्रे 'स्व + अङ्ग' इति निर्देशः क्रियते । अत्र 'स्व' इत्यस्य किमपि प्रयोजनम् व्याख्यानेषु उक्तम् नास्ति ।\n" }, "52067": { "sa": "सप्तमीसमर्थात् 'उदर' शब्दात् 'प्रसितः (=तत्परः) आद्युनः (बुभुक्षितः)' अस्मिन् अर्थे ठक् प्रत्ययः भवति । ", "sd": "प्रारम्भे अस्मिन् सूत्रे प्रयुक्तानाम् शब्दानामर्थम् पश्यामः -\n1. उदर - अयम् शरीरस्य अवयवः । जठरः (stomach) इत्यर्थः ।\n2. प्रसित - 'तत्परः / उत्सुकः' (= interested) इति अर्थः । 'उदरे प्रसितः' इत्युक्ते 'उदरभरणे' (भोजने) उत्सुकः । The one who is interested in consuming food.\n3. 'आद्युनः' - 'अविजिगीषु' (= विजस्य इच्छा नास्ति यस्य सः) इति अस्य शब्दस्य अर्थः ।\nअतः अस्य सूत्रस्य अर्थः अयम् - यः कोऽपि नित्यमुदरभरणे उत्सुकः अस्ति, तथा 'उदरम् जेतुम् इच्छुकः' नास्ति (इत्युक्ते यस्य उदरभरणम् कदापि न भवति - इति आशयः) तस्य निर्देशार्थम् 'उदर'शब्दात् 'ठक्' प्रत्ययः भवति ।\nउदरे प्रसितः आद्युनः\n= उदर + ठक्\n→ उदर + इक [<<ठस्येकः>> [[7.3.50]] इति इक-आदेशः]\n→ औदर + इक [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ औदर् + इक [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ औदरिक\nयः मनुष्यः नित्यम् बुभुक्षितः अस्ति / उदरभरणे उत्सुकः अस्ति, तथा च उदरं जेतुम् न इच्छति (Not interested in controlling his stomach / Not interested in suppressing his hunger) सः 'औदरिकः' नाम्ना ज्ञायते ।\nज्ञातव्यम् -\n1. ठक्-प्रत्ययान्तशब्दाः <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इत्यनेन स्त्रीत्वे विवक्षिते ङीप्-प्रत्ययं स्वीकुर्वन्ति । उदरे प्रसिता आद्यूना औदरिकी ।\n2. अनेन सूत्रेण निर्दिष्टः 'औदरिक' शब्दः 'आद्युन' (= जेतुमनिच्छुकः) इत्यस्य विशेषणरूपेण एव प्रयुज्यते । यदि 'आद्युन' इति सन्दर्भः नास्ति, केवलम् 'उदरभरणे उत्सुकः' इत्यवे निर्देशः कर्तव्यः, तर्हि वर्तमानसूत्रस्य प्रयोगः न भवति । अस्यां स्थितौ <<स्वाङ्गेभ्यः प्रसिते>> [[5.2.66]] इत्यनेन कन्-प्रत्ययं कृत्वा 'उदरक' इत्येव रूपं सिद्ध्यति ।\n " }, "52068": { "sa": "तृतीयासमर्थात् सस्य (= गुण) शब्दात् परिजातः (= सर्वतः परिपूर्णः) अस्मिन् अर्थे कन्-प्रत्ययः भवति । ", "sd": "अस्मिन् सूत्र प्रयुक्तयोः शब्दयोः अर्थः एतादृशः -\n1. सस्यम् = गुणः (quality) । अत्र सस्य शब्दस्य अर्थः 'धान्यम्' इति न स्वीक्रियते, अपितु 'गुणः' इति स्वीक्रियते ।\n2. परिजातः = परिपूर्णः (full of) इत्यर्थः ।\nइदानीम् सूत्रार्थः स्पष्टः स्यात् - यत् किमपि गुणैः परिपूर्णमस्ति (full of appropriate qualities), इत्युक्ते यत् सर्वगुणसम्पन्नम् विद्यते, तथा च यस्मिन् कोऽपि दुर्गुणः न दृश्यते, तस्य निर्देशार्थम् 'सस्य' शब्दात् 'कन्' प्रत्ययः भवति । यथा -\n1. सस्येन परिजातः सस्यकः साधुः । सर्वगुणसम्पन्नः साधुः - इति आशयः ।\n2. सस्येन परिजातः सस्यकः मणिः । सः मणिः यस्मिन् कोऽपि दोषः न विद्यते - इति आशयः ।\n" }, "52069": { "sa": "द्वितीयासमर्थात् 'अंश' (= भागः) शब्दात् 'हारी' (हरणं करोति) अस्मिन् अर्थे 'कन्' प्रत्ययः भवति । ", "sd": "'अंश' इत्युक्ते भागः (portion / part) । यः कोऽपि अंशस्य हरणं करोति (Takes away a part of something) तस्य निर्देशार्थम् द्वितीयासमर्थात् 'अंश' शब्दात् कन्-प्रत्ययः भवति । अंशं हारी सः अंशकः दायादः (बान्धवः) । पूर्वजैः प्राप्तात् धनात् अंशं हरति सः - इत्याशयः । A relative who (probably legally) takes away a part of estate obtained from forefathers - इति आशयः ।\nज्ञातव्यम् -\n1. अस्मिन् सूत्रे प्रयुक्तः 'हारी' शब्दः 'हारिन्' इत्यस्य प्रथमैकवचनमस्ति । 'हरणम् करोति' अस्मिन् अर्थे 'हृ' धातोः <<आवश्यकाधमर्ण्ययोर्णिनिः>> [[3.3.170]] इत्यनेन 'णिनि' प्रत्ययं कृत्वा अयं शब्दः सिद्ध्यति । 'अंशं हारी' इत्यत्र <<अकेनोर्भविष्यदाधमर्ण्ययोः>> [[2.3.70]] इत्यनेन षष्ठ्याः निषेधः भवति, अतः <<कर्मणि द्वितीया>> [[2.3.2]] इत्यनेन द्वितीया विधीयते ।\n2. यद्यपि 'हारी' इति 'हृ' धातोः रूपमस्ति, तथाप्यत्र 'चौरकर्म' इति अर्थः न विद्यते । यः मनुष्यः पूर्वजैः प्राप्तस्य धनस्य अंशः नियमरूपेण (legally) गृह्णाति, तस्य निर्देशार्थमपि अस्य सूत्रस्य प्रयोगः भवति । " }, "52070": { "sa": "'अचिरापहृते' (इदानीम् एव दूरीकृतम्) अस्मिन् अर्थे पञ्चमीसमर्थात् 'तन्त्र' शब्दात् कन्-प्रत्ययः भवति । ", "sd": "प्रारम्भे सूत्रे प्रयुक्तयोः शब्दयोः अर्थम् पश्यामः -\n1. 'तन्त्र' = 'वस्त्रनिर्माणस्य यन्त्रम्' (A textile machine for weaving yarn into a textile)\n2. 'अचिरापहृतम्' = अचिरात् अपहृतम् इति अचिरापहृतम् । इदानीमेव निष्कासितम् / दूरीकृतम् - इत्याशयः ।\nअतः अस्य सूत्रस्य अर्थः अयम् - यत् वस्त्रम् तन्त्रात् इदानीमेव निष्कासितम् / दूरीकृतमस्ति (इत्युक्ते, इदानीमेव यस्य वस्त्रस्य निर्माणम् कृतमस्ति) तस्य निर्देशार्थम् 'तन्त्र' शब्दात् कन्-प्रत्ययः भवति । तन्त्रात् अचिरापहृतम् तन्त्रकम् वस्त्रम् ।A piece of cloth that is newly constructed इत्याशयः ।तथैव - तन्त्रकः पटः । तन्त्रका शाटी ।\n" }, "52071": { "sa": "संज्ञायाः विषये 'ब्राह्मणक' तथा 'उष्णिका' एतौ द्वौ शब्दौ निपात्येते । ", "sd": "अनेन सूत्रेण 'ब्राह्मणक' तथा 'उष्णिका' एतयोः शब्दयोः विशिष्टेषु अर्थेषु निपातनम् क्रियते । क्रमेण पश्यामः -\n1. 'ब्राह्मणक' = इयम् प्रदेशस्य संज्ञा । यस्मिन् देशे (= प्रदेशे / क्षेत्रे) आयुधजीविनः ब्राह्मणाः (= ते ब्राह्मणाः ये शस्त्रप्रयोगेण जीवनम् चालयति) बाहुल्येन निवसन्ति, सः 'ब्राह्मणकः' देशः । युद्धकार्ये कुशलाः निमग्नाः वा ब्राह्मणाः सन्ति यस्मिन् देशे, सः ब्राह्मणकः देशः । ( अत्र 'देश' शब्दस्य अर्थः 'प्रदेश' / स्थान' इति अस्ति ।)\n2. 'उष्णिका' = इयम् 'यवागूः' (= rice-gruel / a dish made with rice, water and a few spices) इत्यस्य संज्ञा । यस्याम् यवाग्वामन्नस्य मात्रा न्यूना अस्ति, तथा च जलस्य मात्रा अधिका अस्ति ( rice-gruel that contains very little rice and a lot of water) तस्याः निर्देशः 'उष्णिका' इत्यनेन क्रियते ।\nस्मर्तव्यम् - एतौ द्वौ अपि 'कन्' प्रत्ययान्तनिपातनौ स्तः -\n[अ] ब्राह्मण + कन् → ब्राह्मणक ।\n[आ] अल्पान्न + कन् → उष्णिका । 'अल्पान्न' (= अल्प + अन्न) शब्दस्य 'उष्णि' इति आदेशः निपात्यते । अग्रे <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्-प्रत्ययं कृत्वा रूपं सिद्ध्यति ।\n" }, "52072": { "sa": "द्वितीयासमर्थात् 'शीत' तथा 'उष्ण' शब्दाभ्याम् 'कारी' अस्मिन् अर्थे कन्-प्रत्ययः भवति । ", "sd": "'कारी' इति 'कारिन्' इत्यस्य प्रथमैकवचनम् । करोति सः कारी । अस्मिन् अर्थे द्वितीयासमर्थात् 'शीत' तथा 'उष्ण' शब्दाभ्याम् 'कन्' प्रत्ययः भवति । क्रमेण पश्यामः -\n1. शीत = अस्य शब्दस्य अर्थः अत्र 'मन्दता / शैथिल्यम् / आलस्यम्' इति अस्ति , न हि 'शीतल' इति । यः मन्दरूपेण कार्यम् करोति, अलसः (lazy) अस्तिः तस्य निर्देशार्थम् 'शीत'शब्दात् कन्-प्रत्ययः भवति । शीतं करोति शीतकः मन्दः ।\n2. उष्ण = अस्य शब्दस्य अर्थः अत्र 'शीघ्रता / दक्षता' इति अस्ति, न हि 'उष्णता' इति । यः शीघ्रतया / दक्षतया कार्यम् करोति, तस्य निर्देशार्थम् 'उष्ण'शब्दात् कन्-प्रत्ययः भवति । उष्णं करोति उष्णकः दक्षः ।\nस्मर्तव्यम् - अस्मिन् सूत्रे 'कारी' इति शब्दः णिनि-प्रत्ययान्तशब्दः अस्ति । अस्मिन् शब्दे परे <<कर्मणि द्वितीया>> [[2.3.2]] इत्यनेन द्वितीया विभक्तिः प्रयुज्यते । अतएव सूत्रे यद्यपि द्वितीयासामर्थ्यम् स्पष्टरूपेण न दीयते, तथाप्यत्र द्वितीयासामर्थ्यम् एव स्वीक्रियते ।\n" }, "52073": { "sa": "'अधिक' इति शब्दः निपात्यते । ", "sd": "अनेन सूत्रेण 'अधिक' शब्दस्य निपातनम् क्रियते । भूयान् / उपरि अस्मिन् अर्थे अयम् शब्दः प्रयुज्यते । The word अधिक is used to indicate an 'addition' to an existing quantity. For example: 200 grams more than 1 Kg - etc.\nव्याख्यानेषु अस्य निपातनम् एतादृशम् दीयते - 'अधि + आङ् + रुह्' धातोः क्त-प्रत्ययं कृत्वा 'अध्यारूढ' इति क्त-प्रत्ययान्तशब्दः सिद्ध्यति । अस्य शब्दस्य अर्थः - 'उपरि' (above / more / larger / at a higher place) इति क्रियते । <<गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च>> [[3.4.72]] इत्यनेन अयम् शब्दः कर्तरि तथा कर्मणि - द्वयोः स्थित्योः प्रयुज्यते । उभयत्रापि अस्मिन्नेव अर्थे 'अधिक' शब्दः अनेन सूत्रेण निपात्यते । अस्मिन् निपातने 'आरूढ' शब्दस्य लोपं कृत्वा ततः 'कन्' प्रत्ययः विधीयते -\nअध्यारूढ इति\n= अधि + आरूढ + कन्\n→ अधि + X + कन्\n→ अधिक\nद्वयोः प्रयोगयोः उदाहरणे एते -\n(1) कर्त्तरि प्रयोगः -\nद्रोणः खार्यामधिकः । The quantity of a certain substance is being described as 1 द्रोण more than a खारी.\nविशेषः - 'द्रोणः खारीमध्यारूढः' इत्यत्र 'अधिक' शब्दस्य प्रयोगं कृत्वा इदम् वाक्यम् सिद्ध्यति । वस्तुतः अत्र 'खारीम्' इति द्वितीया विभक्तिः एव इष्यते, परन्तु <<तदस्मिन् अधिकम् इति दशान्तात् डः>> [[5.2.45]] इत्यत्र आचार्येण कृतम् प्रयोगम् ज्ञापकरूपेण स्वीकृत्य 'अधिक' शब्दस्य विषये कर्मपदस्य सप्तमी विभक्तिः क्रियते । अतः 'द्रोणः खार्यामधिकः' इति प्रयोगः कृतः अस्ति । Also note - The word 'अधिक' is not used here in the sense of comparison. Rather it is used in the sense of 'in addition to something'. खारी तु अस्ति एव, परन्तु तस्यामुपरि द्रोणः अपि अस्ति - इति आशयः । Hence सप्तमी is apt here.\n(2) कर्मणि प्रयोगे - द्रोणेन खारी अधिका । The substance having an initial quantity of 'खारी' has been enhanced by doing an addition of 'द्रोण'.\nस्पष्टीकरणम्- द्रोेणेन खारी अध्यारूढा । खारी is being 'topped up' by द्रोण - इत्याशयः ।\nविशेषः - 'खारी' इत्युक्ते quintal, तथा द्रोण इत्युक्ते 10.24 Kg. । अतएव अत्र 'खार्याम् द्रोणः अधिकः' इति उच्यते । A large quantity is being 'topped up' / 'enhanced by' a little more - इति अत्र आशयः अस्ति । " }, "52074": { "sa": "'इच्छति सः' अस्मिन् अर्थे 'अनुक', 'अभिक', 'अभीक' - एते शब्दाः निपात्यन्ते । ", "sd": "'कमिता' इति 'कम्' धातोः तृच्-प्रत्ययान्तरूपम् । कामयते सः कमिता - इति अर्थः । अस्मिन् अर्थे वर्तमानसूत्रेण त्रयः शब्दाः निपात्यन्ते । एते सर्वे शब्दाः 'कन्' प्रत्ययान्ताः सन्तीति व्याख्यानैः स्पष्टीभवति ।\n1. अनुकामयते सः = अनु + कन् → अनुक ।\n2. अभिकामयते सः = अभि + कन् → अभिक ।\n3. अभिकामयते सः = अभि + कन् → अभीक । अत्र अङ्गस्य दीर्घादेशः निपात्यते । " }, "52075": { "sa": "'अन्विच्छति' अस्मिन् अर्थे तृतीयासमर्थात् 'पार्श्व'शब्दात् कन्-प्रत्ययः भवति । ", "sd": "अन्विच्छति (= इच्छति) अस्मिन् अर्थे 'पार्श्व' (= अयोग्यः उपायः / कुटिलः मार्गः) शब्दात् तृतीयासमर्थात् 'कन्' प्रत्ययः भवति । यः मनुष्यः किञ्चन वस्तुम् / लाभमनुचितमार्गेण (= अनृजुणा उपायेन) इच्छति, तस्य निर्देशार्थम् 'पार्श्व' शब्दात् कन् प्रत्ययः भवति ।\nअनृजुः उपायः पार्श्वः । तेन अन्विच्छति सः = पार्श्व + क = पार्श्वकः । One who desires to obtain certain things by inappropriate measures इत्याशयः ।\n" }, "52076": { "sa": "तृतीयासमर्थाभ्याम् 'अयःशूल' तथा 'दण्डाजिन' शब्दाभ्याम् 'अन्विच्छति' इत्यस्मिन् अर्थे यथासङ्ख्यम् ठक् तथा ठञ् प्रत्ययौ भवतः । ", "sd": "'अन्विच्छति' इत्युक्ते इच्छां करोति । अस्मिन् अर्थे 'अयःशूल' शब्दात् ठक्-प्रत्ययः , तथा 'दण्डाजिन' शब्दात् ठञ्-प्रत्ययः अनेन सूत्रेण उच्यते । क्रमेण पश्यामः -\n1. अयःशूलः - 'अयः' इत्युक्ते लोहः । शूलः इति किञ्चन शस्त्रम् (spear)। लोहस्य शूलः यादृशः तीक्ष्णः अस्ति, तादृशेनैव तीक्ष्णेन / घोरेण उपायेन यः कार्यपूर्तिम् इच्छति, तस्य निर्देशार्थम् 'अयःशूल' शब्दात् ठक् प्रत्ययः भवति । अयःशूलेन अन्विच्छति सः आयःशूलिकः । One who wishes to take extreme measures to achieve something इत्यर्थः ।\n2. 'दण्डाजिन' - 'दण्ड' (rod) तथा 'अजिन' (fur used for sitting) एते द्वे संन्यासिनाम् वस्तुनी । यः कोऽपि स्वयं संन्यासी नास्ति, सः एते वस्तू धारयितुम् न अर्हति । परन्तु, संन्यासी न सत्यपि एतेषाम् एव साहाय्येन (इत्युक्ते, 'अहम् संन्यासी अस्मि' इति दम्भं कृत्वा) यः कार्यपूर्तिम् इच्छति, तस्य निर्देशार्थम् 'दण्डाजिन' शब्दात् ठञ्-प्रत्ययः भवति । दण्डाजिनेन अन्विच्छति सः दाण्डाजिनिकः ।One who wishes to project himself as a संन्यासिन् in order to achieve something - इत्याशयः ।\nज्ञातव्यम् - अस्मिन् सूत्रे 'अयःशूलः' तथा 'दण्डाजिनः' एतौ द्वौ अपि शब्दौ लक्ष्यार्थेन गृह्येते । अत्र 'अयःशूलस्य साहाय्येन इच्छति' उत 'दण्डाजिनस्य साहाय्येन इच्छति' एतादृशः अर्थः न क्रियते । " }, "52077": { "sa": "'ग्रहणम्' अस्य विशेषणरूपेण प्रयुज्यमानात् पूरणप्रत्ययान्तशब्दात् स्वार्थे कन्-प्रत्ययः भवति, तथा च पूरणप्रत्ययस्य विकल्पेन लुक् भवति । ", "sd": "अस्य सूत्रस्य अर्थः किञ्चित् क्लिष्टः अस्ति । तथा च, सूत्रकारेण वार्त्तिककारेण च सूत्रस्य अर्थः भिन्नरूपेण उक्तः अस्ति । प्रारम्भे पाणिनिना उक्तं अर्थम् ज्ञात्वा ततः वार्त्तिककारस्य (भाष्यकारस्य च) मतम् पश्यामः । परन्तु तस्मादपि पूर्वम् सूत्रे विद्यमानानाम् शब्दानामर्थं पश्यामः -\n1. 'तावतिथ' - अयम् पूरणप्रत्ययान्तः शब्दः । तावताम् पूरणम् तावतिथम् ('that manieth' इत्यर्थः) । परन्तु अत्र एकः विशेषः ज्ञातव्यः । अस्मिन् सूत्रे (वार्त्तिके च) 'तावतिथ' अयम् शब्दः 'तावताम् पूरणम्' इत्यस्मिन् विशिष्टे अर्थे न प्रयुज्यते, अपितु 'पूरणप्रत्ययान्तस्य निदर्शकरूपेण' अयं शब्दः अत्र स्थापितः अस्ति । इत्युक्ते, अत्र 'तावतिथ' शब्देन सर्वेषाम् पूरणप्रत्ययान्तशब्दानां सामान्यग्रहणं भवति । The word तावतिथ in this sutra is not used with the particular meaning of 'that manieth', but it is instead used as a placeholder for any पूरणप्रत्ययान्त word in general.\n(This is very similar to how the word 'तस्य' in तस्यापत्यम् acts as a general placeholder for a षष्ठीसमर्थ).\n2. 'ग्रहणम्' - अयम् शब्दः अत्र 'ग्रन्थस्य ग्रहणम्' (Understanding the subject matter presented in a book) अस्मिन् अर्थे प्रयुक्तः अस्ति । सूत्रे प्रयुक्तः 'इति' अयम् शब्दः अस्यैव अर्थस्य निर्देशं करोतीति व्याख्यानेषु स्पष्टीक्रियते ।\nइदानीम् सूत्रे प्रयुक्तस्य 'तावतिथम् ग्रहणम्' इत्यस्य अर्थम् पश्यामः । यदि कश्चन छात्रः कञ्चन ग्रन्थम् पञ्चवारम् पठित्वा (= पञ्चवारम् ग्रहणं कृत्वा ) तस्य ग्रन्थस्य सम्पूर्णम् ज्ञानम् प्राप्नोति, तर्हि अस्यां स्थितौ छात्रेण कृतम् ग्रहणम् 'पञ्चमम् ग्रहणम्' अस्ति- इति उच्यते ।The student was able to comprehend the meaning of the book in 'Fifth reading' - इत्याशयः । एवं सति वर्तमानसूत्रेण 'ग्रहणम्' (study / understanding) अस्य विशेषणरूपेण प्रयुज्यमानात् पूरणप्रत्ययान्तशब्दात् 'स्वार्थे' कन्-प्रत्ययः भवति, तथा च पूरणप्रत्ययस्य विकल्पेन लुक् भवति । पञ्चमम् ग्रहणम् तत् पञ्चमकम् पञ्चकम् वा ग्रहणम् ।\nलोपस्य पक्षे प्रक्रिया इयम् -\nपञ्चमम् ग्रहणम् तत्\n= पञ्चम + कन् [वर्तमानसूत्रेण कन्-प्रत्ययः]\n= पञ्चन् + मट् + डट् + कन् ['पञ्चम' अस्य शब्दस्य निर्माणम् 'पञ्चन्' शब्दात् <<तस्य पूरणे डट्>> [[5.2.48]] इत्यनेन डट्-प्रत्ययं कृत्वा तथा च तस्य <<नान्तादसंख्यादेर्मट्>> [[5.2.49]] इत्यनेन मट्-आगमं कृत्वा भवति । अस्मात् शब्दात् अग्रे वर्तमानसूत्रेण 'कन्' प्रत्ययः भवति।]\n→ पञ्चन् + कन् [वर्तमानसूत्रेण डट्-प्रत्ययस्य वैकल्पिकः लोपः । 'मट्' इति आगमः अपि प्रत्ययस्यैव आगमः अस्ति, अतः प्रत्ययेन सह सोऽपि लुप्यते]\n→ पञ्च + क [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः]\n→ पञ्चक\nपञ्चमम् ग्रहणम् तत् पञ्चकम् ।\nकन्-प्रत्यये परे पूरणप्रत्ययस्य विकल्पेन लोपः भवति, अतः पक्षे 'पञ्चम + कन् → पञ्चमक' इत्यपि सिद्ध्यति ।\nएवमेव -\n1. सप्तमं ग्रहणम् तत् सप्तमकम् सप्तकम् वा ग्रहणम् । Seventh reading इत्याशयः ।\n2. दशमं ग्रहणम् तत् दशमकम् दशकम् वा ग्रहणम् ।\n3. तृतीयं ग्रहणम् तत् तृतीयकम् त्रिकम् वा ग्रहणम् । अत्र अत्र 'तीय' इति प्रत्ययः अस्ति, अतः लोपपक्षे तस्य लोपः भवति ।\n4. द्वितीयं ग्रहणम् तत् द्वितीयकम् द्विकम् वा ग्रहणम् । अत्रापि 'तीय' इत्यस्य प्रत्ययस्य लोपः जायते ।\n5. चतुर्थं ग्रहणम् तत् चतुर्थकम् चतुष्कम् वा ग्रहणम् । लोपपक्षे प्रक्रिया इयम् -\nचतुर् + थुक् + डट् + कन् [<<तस्य पूरणे डट्>> [[5.2.48]] इत्यनेन डट्-प्रत्ययः, अस्मिन् प्रत्यये परे अङ्गस्य <<षट्कतिकतिपयचतुरां थुक्>> [[5.2.51]] इति थुक्-आगमः । वर्तमानसूत्रेण च कन्-प्रत्ययः। ]\n→ चतुर् + कन् [वर्तमानसूत्रेण डट्-प्रत्ययस्य लोपः, तन्निमितकस्य थुक्-आगमस्य अपि लोपः । यद्यपि थुक्-आगमः अङ्गस्य आगमः अस्ति, तथापि सः 'डट्-प्रत्ययनिमित्तकः अस्ति', अतः डट्-प्रत्ययस्य लोपे प्राप्ते सोऽपि लुप्यते।]\n→ चतुः + क [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n→ चतुस् + क [<<विसर्जनीयस्य सः>> [[8.3.34]] इति सकारादेशः]\n→ चतुष् + क [<<इदुदुपधस्य चाप्रत्ययस्य>> [[8.3.41]] इति सकारस्य षकारः]\n→ चतुष्क\n6. षष्ठं ग्रहणम् तत् षष्ठकम् षट्कम् वा ग्रहणम् । लोपपक्षे प्रक्रिया इयम् -\nषष् + थुक् + डट् + कन् [<<तस्य पूरणे डट्>> [[5.2.48]] इत्यनेन डट्-प्रत्ययः, अस्मिन् प्रत्यये परे अङ्गस्य <<षट्कतिकतिपयचतुरां थुक्>> [[5.2.51]] इति थुक्-आगमः । वर्तमानसूत्रेण च कन्-प्रत्ययः। ]\n→ षष् + कन् [वर्तमानसूत्रेण डट्-प्रत्ययस्य लोपः, तन्निमितकस्य थुक्-आगमस्य अपि लोपः । यद्यपि थुक्-आगमः अङ्गस्य आगमः अस्ति, तथापि सः 'डट्-प्रत्ययनिमित्तकः अस्ति', अतः डट्-प्रत्ययस्य लोपे प्राप्ते सोऽपि लुप्यते।]\n→ षड् + क [<<झलां जशोऽन्ते>> [[8.2.9]] इति जश्त्वम्]\n→ षट् + क [<<खरि च>> [[8.4.55]] इति चर्त्वम् ]\n→ षट्क\nविशेषः - अत्र सूत्रे उक्तः लुक् 'पूरणप्रत्ययस्य' लुक् अस्ति, न हि कन्-प्रत्ययस्य - इति स्मर्तव्यम् ।\nइदानीमस्य सूत्रस्य विषये वार्त्तिककारस्य किम् मतम् - तत् पश्यामः । वार्त्तिककारः अत्र स्पष्टीकरणार्थम् इदम् वार्त्तिकम् ब्रूते - । अस्य अर्थः अयम् - 'तावतिथेन गृह्णाति' अस्मिन् अर्थे पूरणप्रत्ययान्तशब्दात् ग्राहकस्य निर्देशं कर्तुम् कन्-प्रत्ययः भवति, तथा च पूरणप्रत्ययस्य नित्यम् लुक् भवति ।\nउदाहणम् एकं पश्यामश्चेत् स्पष्टं स्यात् । यदि कश्चन छात्रः कञ्चन ग्रन्थम् पञ्चवारम् पठित्वा तस्य ग्रन्थस्य सम्पूर्णम् ज्ञानम् प्राप्नोति, तर्हि एतादृशस्य छात्रस्य वर्णनम् 'पञ्चमेन रूपेण ग्रन्थस्य ग्रहणम् करोति (= ग्रन्थं गृह्णाति)' इति क्रियते । A student who understands a book by reading it five times is described by the sentence 'पञ्चमेन रूपेण गृह्णाति' । अत्र 'पञ्चम' इति पूरणप्रत्ययान्तशब्दः अस्ति । अस्यैव निर्देशः अस्मिन् वार्त्तिके 'तावतिथेन' इत्यनेन क्रियते । 'तावतिथेन गृह्णाति' इत्यस्य 'पञ्चमेन रूपेण गृह्णाति' इति अत्र आशयः । अस्यां स्थितौ वर्तमानसूत्रेण 'पञ्चम' शब्दात् 'कन्' इति प्रत्ययः स्वार्थे विधीयते, तथा च 'पञ्चम' शब्दे विद्यमानस्य पूरणप्रत्ययस्य नित्यम् लुक् भवति । पञ्चमेन रूपेण गृह्णाति सः पञ्चकः छात्रः । प्रक्रिया उपरि एव निर्दिष्टा अस्ति ।\nएवमेव -\n1. सप्तमेन रूपेण गृह्णाति सः सप्तकः । One who understand after studying seven times इत्याशयः ।\n2. दशमेन रूपेण गृह्णाति सः दशकः ।\n3. तृतीयेन रूपेण गृह्णाति सः त्रिकः ।\n4. द्वितीयेन रूपेण गृह्णाति सः द्विकः ।\n5. चतुर्थेन रूपेण गृह्णाति सः चतुष्कः\nअनेन प्रकारेण अत्र रूपाणि सिद्ध्यन्ति । एतानि रूपाणि वार्त्तिककारेण भाष्यकारेण च निर्दिष्टानि सन्ति ।\nअतः संक्षेपेण एतत् स्मर्तव्यम् -\n1. सूत्रस्य आशयः -\n(अ) 'ग्रहणस्य' (= act of studying) निर्देशार्थम् पूरणप्रत्ययान्तशब्दात् कन्-प्रत्ययः भवति ।\n(आ) प्रक्रियायाम् पूरणप्रत्ययस्य विकल्पेन लुक् भवति ।\n(इ) यथा - द्वितीयम् ग्रहणम् तदेव द्विकम् द्वितीयकम् वा ग्रहणम् ।\n2. वार्त्तिककारस्य / भाष्यकारस्य आशयः -\n(अ) 'ग्राहकस्य' (= The person who studies) निर्देेशार्थम् पूरणप्रत्ययान्तशब्दात् कन्-प्रत्ययः भवति ।\n(आ) प्रक्रियायाम् पूरणप्रत्ययस्य नित्यम् लुक् भवति ।\n(इ) यथा - द्वितीयेन रूपेण गृह्णाति सः द्विकः छात्रः ।\n " }, "52078": { "sa": "'ग्रामणीः' इत्यस्य विशेष्यरूपेण प्रयुक्तात् प्रथमासमर्थात् 'एषाम्' इत्यस्मिन् अर्थे कन् प्रत्ययः भवति । ", "sd": "'ग्रामणीः' इत्युक्ते 'ग्रामस्य प्रमुखः / प्रधानः' (The head of a village). कस्यचन ग्रामस्य जनानाम् वर्णनम् तेषाम् प्रमुखस्य नाम्ना कर्तुम् वर्तमानसूत्रस्य प्रयोगः भवति । यथा, 'एतेषाम् सर्वेषाम् जनानाम् ग्रामणीः देवदत्तः अस्ति' इत्यत्र सर्वेषाम् जनानाम् निर्देशार्थम् 'देवदत्त'शब्दात् कन् प्रत्ययः भवति । देवदत्त + कन् → देवदत्तक । देवदत्तः ग्रामणीः येषाम् ते देवदत्तकाः । तथैव -\n1. ब्रह्मदत्तः ग्रामणीः येषाम् ते ब्रह्मदत्तकाः ।\n2. त्वम् ग्रामणीः असि येषाम् ते त्वत्काः । प्रक्रिया इयम् -\nयुष्मद् + क\n→ त्वद् + क [<<प्रत्ययोत्तरपदयोश्च>> [[7.2.98]] इत्यनेन 'युष्म' इत्यस्य 'त्व' आदेशः]\n→ त्वत् + क [<<खरि च>> [[8.4.55]] इति चर्त्वम्]\n→ त्वत्क ।\n3. अहम् ग्रामणीः अस्मि येषाम् ते मत्काः । प्रक्रिया इयम् -\nअस्मद् + क\n→ मद् + क [<<प्रत्ययोत्तरपदयोश्च>> [[7.2.98]] इत्यनेन 'युष्म' इत्यस्य 'त्व' आदेशः]\n→ मत् + क [<<खरि च>> [[8.4.55]] इति चर्त्वम्]\n→ मत्क ।\n" }, "52079": { "sa": "'अस्य बन्धनम्' अस्मिन् अर्थे करभस्य निर्देशं कर्तुम् 'शृङ्खल' शब्दात् प्रथमासमर्थात् कन्-प्रत्ययः भवति । ", "sd": "'करभः' इत्युक्ते उष्ट्रस्य शिशुः (baby camel) । यदि कश्चम करभः शृङ्खलेन बद्धः अस्ति (A baby camel which has been tied with a chain / wooden rod - most commonly around the feet region - so that it cannot move freely), तर्हि तस्य निर्देशार्थम् 'शृङ्खल'शब्दात् 'कन्' प्रत्ययः भवति । शृङ्खल + कन् → शृङ्खलक । शृङ्खलम् बन्धनमस्य करभस्य सः शृङ्खलकः करभः ।\nस्मर्तव्यम् - गजस्य शुण्डः अपि 'करभः' नाम्ना ज्ञायते । परन्तु तस्य निर्देशः अस्मिन् सूत्रे न कृतः अस्ति । अत्र केवलमुष्ट्रस्य शिशूनाम् विषये एव उक्तमस्ति । " }, "52080": { "sa": "'उन्मनाः' अस्मिन् अर्थे 'उत्कः' अयम् शब्दः निपात्यते । ", "sd": "उद्गतम् मनः यस्य सः उन्मनाः । यस्य मनः नित्यम् विचलितमस्ति, सः (The one whose mind continuously wonders) तस्य निर्देशार्थमनेन सूत्रेण 'उत्क' इति शब्दः निपात्यते । 'उत्सुकः', 'उत्कण्ठितः' (curious / eager) एतयोः अर्थयोः अपि अयम् शब्दः प्रयुज्यते । यथा - उत्कः देवदत्तः, उत्कः प्रवासी - आदयः ।\nव्याख्यानैः 'उत्' इत्यस्मात् उपसर्गात् 'तद्वान्' (= उद्गतम् मनः अस्य सः / One having the a wandering mind) अस्मिन् अर्थे 'कन्' प्रत्ययं कृत्वा अयम् शब्दः निपात्यते । उत् + कन् → उत्क ।\n" }, "52081": { "sa": "रोगस्य निर्देशार्थम् कालवाचिशब्दात् प्रयोजनवाचिशब्दात् च संज्ञायाः निर्देशार्थम् 'कन्' प्रत्ययः भवति । ", "sd": "अनेन सूत्रेण 'कालवाचि'शब्दात् तथा 'प्रयोजनवाचि'शब्दात् 'रोगस्य संज्ञायाः' निर्देशार्थम् कन्-प्रत्ययः भवति । अस्मिन् सूत्रे विशिष्टा समर्थविभक्तिः न विद्यते, यतः उभयोः विषये निर्देशसामर्थ्यात् भिन्ना समर्थविभक्तिः गृह्यते । क्रमेण पश्यामः -\n1. कालवाचिनः शब्दाः - यैः शब्दैः कालस्य निर्देशः क्रियते (यथा - दिवसः, रात्रिः - आदयः) तेषाम् विशेषणरूपेण प्रयुक्तेभ्यः शब्देभ्यः सप्तमीसमर्थेभ्यः रोगस्य निर्देशार्थम् 'कन्' प्रत्ययः भवति । यथा -\nअ) द्वितीये अह्नि भवः = द्वितीय + क → द्वितीयकः ज्वरः । A fever that happens on the second day.\nआ) चतुर्थे अह्नि भवः = चतुर्थ + क → चतुर्थकः ज्वरः ।\nविशेषः - अत्र प्रत्ययविधानम् कालवाचिशब्दात् न भवति अपितु 'द्वितीय', 'चतुर्थ' एतादृशात् विशेषणवाचिशब्दात् भवति । अस्य ज्ञापकार्थम् एव अग्रिमसूत्रात् 'संज्ञायाम्' इत्यस्य अपकर्षः अत्र क्रियते । विशिष्टशब्दानां सिद्ध्यर्थम् एव अनेन सूत्रेण प्रत्ययविधानाम् क्रियते - इति अनेन स्पष्टीभवति ।\n2. प्रयोजनवाचिनः शब्दाः - यैः शब्दैः रोगस्य कारणम् (= निर्माणकारणम्, trigger) उत फलम् ( = परिणामः, effect) निर्दिश्यते, तेभ्यः शब्देभ्यः तृतीयासमर्थेभ्यः रोगस्य निर्देशार्थम् कन् प्रत्ययः भवति । यथा -\nअ) विषपुष्पैः जनितः = विषपुष्प + कन् → विषपुष्पकः ज्वरः । A fever caused due to a certain type of flowers.\nआ) काषपुष्पैः जनितः काशपुष्पकः ज्वरः ।\nइ) उष्णम् कार्यमस्य = उष्ण + कन् → उष्णकः ज्वरः । अत्र रोगस्य परिणामः / फलम् 'उष्णता' इति विद्यते, अतः 'उष्ण'शब्दात् अत्र कन्-प्रत्ययः भवति । A fever that causes rise in temperature.\nई) शीतम् कार्यमस्य = शीत + कन् → शीतकः ज्वरः । A fever that causes cold.\nअत्रापि 'संज्ञायाम्' इत्यस्य अपकर्षेण विशिष्टशब्दानाम् सिद्ध्यर्थम् एव अस्य सूत्रस्य प्रयोगः भवति ।\n" }, "52082": { "sa": "'तत् अन्नम् बाहुल्येन विद्यते' इत्यस्मिन् अर्थे प्रथमासमर्थात् अन्नवाचिशब्दात् संज्ञायाः निर्देशार्थम् कन्-प्रत्ययः भवति । ", "sd": "अस्य सूत्रस्य प्रयोगः भिन्नानाम् पौर्णमासीनाम् संज्ञानाम् निर्देशार्थम् भवति । कानिचानि उदाहरणानि पश्यामश्चेत् स्पष्टं स्यात् -\nअ) कस्यांश्चित् पौर्णमास्याम् 'गुडमिश्रिताः अपूपाः' प्राधान्येन पच्यन्ते - इति चिन्तयामः । Sweet pakoras are prepared specifically to celebrate a certain full-moon day. अस्यां स्थितौ - अस्यां पौर्णमास्याम् गुडापूपाः (= गुडमिश्रिताः अपूपाः प्रायेण (= प्रामुख्येन / बाहुल्येन) विद्यन्ते' इति प्रयोगः भवति । अस्मिन्नेव सन्दर्भे अस्याः पौर्णमास्याः निर्देशः 'गुडापूप + कन् → गुडापूपिका' इत्यनेन भवति । प्रक्रिया इयम् -\nगुडापूप + कन्\n→ गुडापूपक\n→ गुडापूपक + टाप् [स्त्रीत्वे विवक्षिते <<अजाद्यतष्टाप्>> [[4.1.14]] इति टाप्]\n→ गुडापूपिका [<<प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः>> [[7.3.44]] इति इकारः]\nगुडापूपाः प्रायेण अन्नमस्यां पौर्णमास्याम् सा गुडापूपिका पौर्णमासी ।\nआ) यस्याम् पौर्णमास्याम् तिलापूपाः (= तिलस्य अपूपाः) प्रायेण अन्नम्, सा तिलापूपिका पौर्णमासी ।\nअत्र एकम् वार्त्तिकम् ज्ञेयम् - । यस्यां पौर्णमास्याम् वटकाः (A type of parkoras made from grams) प्रायेण अन्नम्, सा वटकिनी पौर्णमासी । वटक + इनि → वटकिन् इति अत्र प्रातिपदिकम् ।\nविशेषः - गुडापूपिका, तिलापूपिका, वटकिनी - एतानि पौर्णमास्याः विशिष्टानि नामानि पाणिनेः काले विद्यमानानि आसन् । एतेषाम् सिद्ध्यर्थम् एव अस्य सूत्रस्य निर्माणम् कृतमस्ति । अद्यतन काले अपि भिन्नासु प्रादेशिकभाषासु एतादृशाः शब्दाः विद्यन्ते एव । यथा - श्रावणमासस्य पौर्णमास्याः अपरम् नाम मराठीभाषायाम् 'नारळीपौर्णिमा' इति वर्तते ; अयम् निर्देशः 'नारिकेलस्य ओदनम् प्रायेण अन्नमस्यां पौर्णमास्याम्' इत्यस्मिन् अर्थे कृतः अस्ति । " }, "52083": { "sa": "'तत् अन्नम् बाहुल्येन विद्यते' इत्यस्मिन् अर्थे प्रथमासमर्थात् 'कुल्माष'शब्दात् संज्ञायाः निर्देशार्थमञ् -प्रत्ययः भवति ।", "sd": "'तत् अन्नम् बाहुल्येन विद्यते' इत्यस्मिन् अर्थे प्रथमासमर्थात् अन्नवाचिशब्दात् संज्ञायाः निर्देशार्थम् <<तदस्मिन्नन्नं प्राये संज्ञायाम्>> [[5.2.82]] अनेन सूत्रेण औत्सर्गिकरूपेण कन्-प्रत्यये विहिते 'कुल्माष'(a certain type of grain) शब्दात् अस्य अपवादरूपेण 'अञ्' प्रत्ययः भवति । कुल्माषाः प्रायेण अन्नमस्याम् पौर्णमास्याम्, सा कौल्माषी पौर्णमासी । प्रक्रिया इयम् -\nकुल्माष + अञ्\n→ कौल्माष + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ कौल्माष् + अ [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ कौल्माष\n→ कौल्माष + ङीप् [स्त्रीत्वे विवक्षिते <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इति ङीप्]\n→ कौल्माष् + ई [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ कौल्माषी\n " }, "52084": { "sa": "'छन्दः अधीते' अस्मिन् अर्थे 'श्रोत्रिय' इति शब्दः विकल्पेन निपात्यते । ", "sd": "'छन्दः अधीते' (studies a certain part of vedas) अस्मिन् अर्थे 'श्रोत्रिय' इति शब्दः अनेन सूत्रेण निपात्यते । छन्दः अधीते सः श्रोत्रियः ।\n'श्रोत्रिय' शब्दस्य निर्माणप्रक्रिया एतादृशम् दीयते -\nछन्दः अधीते\n→ श्रोत्र + घन् [छन्दस्-शब्दस्य निपातनात् 'श्रोत्र' इति आदेशः, 'घन्' इति च प्रत्ययः]\n→ श्रोत्र + इय [नकारस्य इत्संज्ञा, लोपः । <<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति इय-आदेशः ]\n→ श्रोत्र् + इय [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ श्रोत्रिय\nस्मर्तव्यम् - 'छन्दः अधीते' इत्यत्र <<तदधीते तद्वेद>> [[4.2.59]] इत्यस्मिन् अर्थे अण्-प्रत्ययं प्रयुज्य 'छान्दस' इति अपि शब्दः सिद्ध्यति । अतएव वर्तमानसूत्रे 'वा' इति ग्रहणम् कृत्वा 'श्रोत्रियः इति विकल्पेन निपात्यते' इति निर्देशः क्रियते । पक्षे 'छान्दसः' इत्यपि साधु - इति एव अत्र आशयः ।\nविशेषः - अस्मिन् सूत्रे 'श्रोत्रियन्' इत्यत्र निर्दिष्टः नकारः इत्संज्ञकः अस्ति, येन 'श्रोत्रिय' शब्दस्य आदिस्वरः <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] इति आद्युदात्तत्वं प्राप्नोति । अतएव अत्र निर्दिष्टायां प्रक्रियायाम् 'घन्' इति नित्-प्रत्ययः गृह्यते ।\n " }, "52085": { "sa": "'अनेन भुक्तम्' अस्मिन् अर्थे प्रथमासमर्थात् 'श्राद्ध' शब्दात् 'इनि' तथा 'ठन्' प्रत्ययौ भवतः । ", "sd": "'श्राद्ध' इति कश्चन कर्मविशेषः (certain type of ritual that is performed every year on death anniversary) । अस्मिन् कर्मणि यत् भोजनम् दीयते, तत् भोजनम् यः भुङ्क्ते, तस्य निर्देशार्थम् 'श्राद्ध' शब्दात् प्रथमासमर्थात् 'इनि' तथा 'ठन्' प्रत्ययौ भवतः । यथा, श्राद्धम् (= श्राद्धकर्मणः भोजनम्) अनेन भुक्तम् सः श्राद्धी श्राद्धिकः वा ।\nप्रक्रिये एते -\n1) श्राद्ध + इनि\n→ श्राद्ध् + इन् [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ श्राद्धिन्\n2. श्राद्ध + ठन्\n→ श्राद्ध + इक [<<ठस्येकः>> [[7.3.50]] इति इक-आदेशः]\n→ श्राद्ध् + इक [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ श्राद्धिक\nअत्र भाष्यकारः एकम् वार्त्तिकम् पाठयति - । इत्युक्ते, 'श्राद्धी' उत 'श्राद्धिक' एताभ्याम् शब्दाभ्याम् कस्यचन निर्देशः तस्मिन्नेव काले भवति यस्मिन् काले सः श्राद्धस्य भोजनस्य ग्रहणम् करोति । एकवारम् तत् कर्म समाप्यते चेत् अनयोः शब्दयोः प्रयोगः न भवति । यथा, यदि कश्चन देवदत्तः कस्मिंश्चित् काले श्राद्धस्य भोजनं भुङ्क्ते, तर्हि तस्मिन् भोजनकाले एव तस्य 'श्राद्धी / श्राद्धिकः देवदत्तः' इति अभिधानम् भवति, भोजनात् अनन्तरम् न । अस्यैव स्पष्टीकरणार्थम् काशिकाकारः वदति - 'अद्य भुक्ते श्राद्धे श्वः श्राद्धिकः इति मा भूत्' ।\n" }, "52086": { "sa": "'अनेन (कृतम्)' अस्मिन् अर्थे कालवाचकात् 'पूर्व' शब्दात् इनि-प्रत्ययः भवति । ", "sd": "अनेन सूत्रेण 'पूर्व' इति शब्दात 'इनि' इति प्रत्ययं कृत्वा 'पूर्विन्' इति प्रातिपदिकस्य निर्माणम् क्रियते । इदम् प्रातिपदिकम् कस्मिन् अर्थे प्रयुज्यते इति सूत्रात् तु न स्पष्टीभवति परन्तु व्याख्यानैः अस्य स्पष्टीकरणम् दीयते । केनचन मनुष्येन काचन क्रिया यदि 'पूर्वस्मिन् काले' कृता विद्यते, तर्हि तस्य मनुष्यस्य निर्देशः 'पूर्वी' इत्यनेन भवति । यथा -\n1. पूर्वमनेन गतम् सः पूर्वी । One who has left in past.\n2. पूर्वमनेन पीतम् सः पूर्वी । One who has drank in past.\n3. पूर्वमनेन भुङ्क्तम् सः पूर्वी । One who has ate in past.\n4. पूर्वमनेन कृतम् सः पूर्वी । One who has done in past.\n शिष्टप्रयोगं दृष्ट्वैव अस्य सूत्रस्य प्रयोगः करणीयः इति स्मर्तव्यम् ।\n " }, "52087": { "sa": "यस्मिन् शब्दे 'पूर्व' शब्दः कस्यचन समस्तपदस्य उत्तरपदरूपेण आगच्छति, तस्मात् प्रथमासमर्थात् 'अनेन' अस्मिन् अर्थे इनि-प्रत्ययः भवति ।", "sd": "<<पूर्वादिनिः>> [[5.2.86]] इत्यनेन सूत्रेण 'पूर्व'शब्दात् 'अनेन' इत्यस्मिन् अर्थे 'इनि' प्रत्ययः विधीयते । अयमेव 'पूर्व'शब्दः यदि कस्यचन समस्तपदस्य उत्तरपदरूपेण विद्यते तर्हि तस्मात् शब्दात् 'अनेन' इत्यस्मिन्नेव अर्थे वर्तमानसूत्रेण इनि-प्रत्ययः भवति ।\nयथा -\n1. अनेन कृतम् पूर्वम् सः कृतपूर्वी । अत्र 'कृतम् पूर्वम्' इत्यस्य समस्तपदं कृत्वा तस्मात् 'इनि' प्रत्ययः विधीयते, येन 'कृतपूर्विन्' इति शब्दः सिद्ध्यति । अनेन शब्देन कर्तुः निर्देशः भवति । यथा - देवदत्तः कृतपूर्वी कटम् । (Devadatta is the one who created the mat earlier)\n2. भुक्तम् अनेन पूर्वम् सः भुक्तपूर्वी । यथा - यज्ञदत्तः भुक्तपूर्वी ओदनम् । Yajnadatta is the one who ate the rice earlier - इत्याशयः ।\nविशेषः -\n1. 'देवदत्तः कटम् कृतपूर्वी' इति वाक्यम् वस्तुतः साधु नास्ति । 'देवदत्तः कटस्य कृतपूर्वी' इत्येव वाक्यम् वस्तुतः साधु, यतः अत्र <<कर्तृकर्मणोः कृति>> [[2.3.65]] इत्यनेन षष्ठी एव विधीयते । परन्तु व्याख्यानेषु 'देवदत्तः कटम् कृतपूर्वी' इत्येव वाक्यम् पाठ्यते, अतः अस्य वाक्यस्य साधुत्वम् ज्ञेयम् । अस्यैव स्पष्टीकरणार्थम् न्यासकारः वदति - नैष दोषः; नेयं कर्मणि निष्ठा, किं तर्हि? भावे । ... तस्माद्विशेषकर्मणोऽनभिहितत्वाद्द्वितीया भविष्यति । सामान्यभाषायामस्य अर्थः अयम् - 'कटम्' इति शब्दः अत्र 'कृतम्' इत्यस्य कर्मपदरूपेण न स्वीकर्तव्यः, यतः तादृशं क्रियते चेत् षष्ठीविभक्तिः एव इष्यते । अतः अत्र 'कृतम्' इति भावेप्रयोगं स्वीकृत्य तस्य 'पूर्वम्' इत्यनेन सह समस्तपदम् कृत्वा वर्तमानसूत्रेण 'इनि' इत्यस्य तद्धितप्रत्ययस्य योजनं कृत्वा 'कृतपूर्विन्' इति प्रातिपदिकस्य निर्माणम् प्रारम्भे कर्तव्यम्, ततः च 'किम् कृतपूर्वी ? कटम् कृतपूर्वी' इति अन्वयम् दत्त्वा 'कटम्' इति कर्मपदरूपेण ग्रहीतव्यम् , येन अस्य वाक्यस्य साधुत्वं सिद्ध्यति । अस्मिन् विषये जिज्ञासवः न्यासमेव पश्यन्तु ।\n2. वस्तुतः <<पूर्वादिनिः>> [[5.2.86]] इत्यनेन पूर्वसूत्रेण केवलात् 'पूर्व' शब्दात् प्रत्ययविधानम् कृतमेव अस्ति । तथापि पाणिनिः वर्तमानसूत्रस्य भिन्नरूपेण निर्माणम् कृत्वा 'पूर्वान्त'शब्दस्य विषये अस्य प्रत्ययस्य पुनः विधानम् करोति । अयम् विधानमस्यैव ज्ञापकम्, यत् पाणिनिः प्रातिपदिकग्रहणे तदन्तविधिं न गृह्णाति । अतः एतमेव सन्दर्भम् स्वीकृत्य नागेशः परिभाषेन्दुशेखरे <ऽग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्तिऽ> (परिभाषा 31) इति परिभाषाम् पाठयति । प्रातिपदिकस्य निर्देशं कृत्वा यत्र प्रत्ययविधानम् क्रियते, तत्र सः प्रत्ययः तदन्तात् न इष्यते - इति अस्याः परिभाषायाः आशयः ।\n3. वस्तुतः <<सपूर्वाच्च>> [[5.2.87]] इत्यस्य स्थाने 'पूर्वान्तात् इनिः' इति एकमेव सूत्रम् क्रियते चेत् व्यपदेशिवद्भावस्य आधारेण केवलम् पूर्व-शब्दात् अपि प्रत्ययविधानम् भवितुमर्हति । ( The word पूर्व indeed ends in पूर्व, and hence this word is technically 'पूर्वान्त' - The पूर्वपद being empty - इति आशयः) । अस्याम् स्थितौ वस्तुतः <<पूर्वादिनिः>> [[5.2.86]] इत्यस्य पूर्वसूत्रस्य आवश्यकता नास्ति, यतः तस्यापि अर्थः 'पूर्वात् सपूर्वात् इनिः' इत्यनेन निर्दिश्यते । तथापि आचार्यः पूर्वसूत्रस्य पृथक् रूपेण निर्देशं करोति । अयम् निर्देशः अस्यैव ज्ञापकम् यत् प्रातिपदिकग्रहणे व्यपदेशिवद्भावः न स्वीक्रियते । अस्मिन्नेव सन्दर्भे नागेशः परिभाषेन्दुशेखरे <ऽव्यपदेशिवद्भावः अप्रातिपदिकेनऽ> (परिभाषा 32) इमाम् परिभाषाम् पाठयति । प्रातिपदिकस्य निर्देशं कृत्वा यत्र प्रत्ययविधानम् क्रियते, तत्र व्यपदेशिवद्भावः न स्वीकर्तव्यः - इति अस्याः परिभाषायाः आशयः ।\n4. अस्मिन् सूत्रे 'सपूर्वात्' इति शब्दः प्रयुज्यते, तथा च 'पूर्वात्' इति शब्दः अनुवृत्तिरूपेण स्वीक्रियते । एतयोः द्वयोः शब्दयोः अर्थौ भिन्न स्तः । 'सपूर्वात्' इत्यत्र प्रयुक्तः 'पूर्व' शब्दः 'पूर्वपदेन सह' इत्यस्मिन् अर्थे प्रयुक्तः अस्ति । 'पूर्वात्' इत्यत्र प्रयुक्तः 'पूर्व'शब्दः तु 'पूर्वकालः' अस्मिन् अर्थे प्रयुक्तः अस्ति ।\n" }, "52088": { "sa": "इष्टादिगणस्य शब्देभ्यः 'अनेन' इति सन्दर्भे 'इनि' प्रत्ययः भवति । ", "sd": "इष्टादिगणस्य प्रातिपदिकेभ्यः 'अनेन' अस्मिन् सन्दर्भे 'इनि' इति प्रत्ययः भवति ।\nइष्टादिगणः अयम् - इष्ट, पूर्त, उपसादित, निगदित, परिवादित, निकथित, परिकथित, परिगदित, सङ्कलित, निपठित, सङ्कल्पित, अनर्चित, विकलित, संरक्षित, निपतित, पठित, परिकलित, अर्चित, परिरक्षित, पूजित, गणित, परिगणित, उपगणित, अनुगणित, अवकीर्ण, परित, आयुक्त, आम्नात, श्रुत, अधीत, आसेवित, अपवारित, अवकल्पित, निराकृत, उपकृत, उपाकृत, अनुयुक्त, उपनत, अनुगुणित, अनुपठित, व्याकुलित, निगृहीत, निषादित ।\nउदाहरणानि -\n1. अनेन इष्टम् सः इष्टी । The one who desired something - इत्यर्थः ।\n2. अनेन पूर्तम् सः पूर्ती । The one who has completed certain work ।\n4. अनेन उपसादितम् सः उपसादिती । The one who has come near ।\nआदयः ।\nएतेषाम् शब्दानां प्रयोगः शिष्टप्रयोगं दृष्ट्वैव कर्तव्यः ।\nविशेषः - इष्टादिगणे विद्यमानाः सर्वे शब्दाः 'क्त'प्रत्ययान्ताः सन्ति । एतेभ्यः निर्मिताः इन्-प्रत्ययान्तशब्दानाम् वाक्ये यदा प्रयोगः भवति, तदा वाक्ये विद्यमानस्य कर्मपदस्य सप्तमी विभक्तिः विधीयते । अस्मिन्नेव विषये काशिकाकारः वदति - 'क्तस्य इन्-विषयस्य कर्मणि इति सप्तम्युपसङ्ख्यायते' । यथा - यज्ञे इष्टी ( The one who desired a यज्ञ) । अत्र 'इष्टी' इति कर्ता, तस्य कर्मपदम् 'यज्ञ' इति । वाक्ये इदं कर्मपदम् सप्तम्या निर्दिश्यते, अतः 'यज्ञे इष्टी' इति वाक्यप्रयोगः क्रियते । एवमेव - श्राद्धे पूर्ती (The one who completed a श्राद्ध) । आचार्ये उपसादी (The one who has approached the teacher) - आदयः । अत्र सर्वत्र कर्मपदस्य सप्तमी विभक्तिः विधीयते । " }, "52089": { "sa": "वेदेषु 'परिपन्थिन्' तथा 'परिपरिन्' एतौ शब्दौ 'बलवान् शत्रुः' अस्मिन् अर्थे निपात्येते । ", "sd": "'बलशाली शत्रुः (dangerous / powerful enemy)' अस्मिन् अर्थे वेदेषु प्रयुज्यमानौ 'परिपन्थिन्' तथा 'परिपरिन्' एतौ शब्दौ अनेन सूत्रेण निपात्येते ।\nयथा - 'मा त्वा परिपरिणो विदन् मा त्वा परिपन्थिनो विदन्' (शुक्ल-यजुर्वेदः 4.34) । अत्र 'त्वाम् बलशालिनः शत्रवः न प्राप्नुयुः' इति अर्थः विद्यते ।\nविशेषः - सूत्रे प्रयुक्तः 'पर्यवस्थातरि' इति शब्दः 'पर्यवस्थातृ' इत्यस्य सप्तम्येकवचनमस्ति । 'पर्यवस्थातृ' इत्युक्ते बलवान् शत्रुः । अस्मात् शब्दात् स्वार्थे इनि-प्रत्ययः, तथा च अस्मिन् सूत्रे विद्यमानस्य 'अवस्थातृ' इत्यस्य 'पन्थि' / 'परि' एतौ आदेशौ निपात्येते, येन एते रूपे सिद्ध्यतः -\nपर्यवस्थातृ + इनि\n→ परिपन्थि / परिपरि + इनि\n→ परिपन्थिन्, परिपरिन् [<<यस्येति च>> [[6.4.148]] इति इकारलोपः]\nस्मर्तव्यम् - एतौ द्वौ शब्दौ केवलम् वेदेषु एव साधू स्तः । भाषायाम् एतयोः प्रयोगः न भवति । " }, "52090": { "sa": "'अन्वेष्टा' अस्मिन् अर्थे 'अनुपदी' शब्दः निपात्यते । ", "sd": "अन्वेषणम् करोति सः अन्वेष्टा (detective इत्याशयः) । अस्मिन् अर्थे 'अनुपदी' इति शब्दः निपात्यते ।\nयथा -\nअ) गवामनुपदी - गवामन्वेषणम् करोति सः । (One who searches for cows)\nआ) उष्ट्राणामनुपदी - उष्ट्राणामन्वेषणम् करोति सः ।\nविशेषः - 'अनुपदी' शब्दस्य निर्माणम् 'अनुपद' इत्यस्मात् शब्दात् 'इनि' प्रत्ययं कृत्वा क्रियते । अनुपद + इन् → अनुपदिन् । 'अनुपद' इति शब्दः 'पदस्य पश्चात्' इति अव्ययीभावसमासेन जायते ; अतः अनेन निर्मितः 'अनुपदी' शब्दः 'पदस्य पश्चात्' (= by following the footprints) इत्यस्मिन्नेव सन्दर्भे प्रयुज्यते । इत्युक्ते, पदचिह्नान् दृष्ट्वा यः अन्वेषणम् करोति (One who searches for say cows using their footprints - rather than by following their sound) तस्य निर्देशः 'अनुपदी' इत्यनेन भवति ।\n" }, "52091": { "sa": "'साक्षात्' इत्यस्मात् शब्दात् द्रष्टुः निर्देशार्थम् संज्ञायाः विषये 'इनि' प्रत्ययः भवति । ", "sd": "'साक्षात्' इति किञ्चन अव्ययम् । <<साक्षात्प्रभृतीनि च>> [[1.4.74]] अनेन सूत्रेण अस्य अव्ययसंज्ञा भवति । अस्मात् शब्दात् 'द्रष्टा' ( = पश्यति सः) अस्मिन् अर्थे संज्ञायाः निर्देशार्थम् 'इनि' प्रत्ययः भवति । प्रक्रिया इयम् -\nसाक्षात् द्रष्टा\n= साक्षात् + इनि\n→ साक्ष् + इन् [<<नस्तद्धिते>> [[6.4.144]] इत्यत्र निर्दिष्टेन अनेन वार्त्तिकेन अत्र टिलोपः भवति ।]\n→ साक्षिन्\nअस्य रूपाणि - साक्षी साक्षिणौ साक्षिणः - एतादृशं भवन्ति । यः पश्यति सः साक्षी ।\nविशेषः - अत्र 'संज्ञायाम्' इति निर्देशः क्रियते, अतः विशिष्टेषु सन्दर्भेषु एव अस्य शब्दस्य प्रयोगः भवति । यथा, यः कोऽपि स्वयं कार्यम् करोति सः यद्यपि स्वेन कृतं कार्यम् द्रष्टुमर्हति, तथापि तस्य निर्देशार्थम् 'साक्षी' इति शब्दः न विधीयते । यः केवलम् द्रष्टा अस्ति (स्वयम् कार्ये भागं न गृह्णाति) तस्यैव निर्देशः अत्र 'साक्षी' इत्यनेन भवति । Witness - इति सामान्यः अर्थः । " }, "52092": { "sa": "'परक्षेत्रे चिकित्स्यः' इत्यस्मिन् अर्थे 'क्षेत्रिय' इति शब्दः निपात्यते । ", "sd": "अनेन सूत्रेण 'क्षेत्रिय' इति शब्दस्य निपातनम् क्रियते । ('क्षेत्रियच्' इत्यत्र विद्यमानः चकारः इत्संज्ञकः अस्ति, <<तद्धितस्य>> [[6.1.164]] इत्यनेन यकारोत्तरस्य अकारस्य उदात्तस्वरविधानार्थमयम् चकारः अत्र स्थाप्यते )।\n'क्षेत्रिय' अस्य शब्दस्य 'परक्षेत्रे चिकित्स्यः' इति अर्थः अस्मिन् सूत्रे दीयते । 'परक्षेत्रम्' इत्युक्ते भिन्नम् शरीरम् (A different body) । 'चिकित्स्य' इत्युक्ते 'नष्टुम् शक्यः' (curable) । यः कोऽपि व्याधिः अस्मिन् शरीरे निवारयितुम् न शक्यते, अपितु भिन्नशरीरस्य स्वीकारः क्रियते चेदेव अस्य निरारकणम् सम्भवति, तस्य निर्देशार्थम् 'क्षेत्रियः' इति शब्दः प्रयुज्यते । (मृत्युः उत जन्मान्तरम् इत्येव अस्य व्याधेः निराकरणम् - इति आशयः । A terminal illness, that can only be cured when the person takes a different body (by dying and then taking another birth) is referred as क्षेत्रियः । यथा - क्षेत्रियः कुष्ठः ।\nअस्य शब्दस्य निर्माण् काशिकाकारः एतादृशं दर्शयति -\n'तस्मिन्' इत्यर्थे 'परक्षेत्र'शब्दात् घच्-प्रत्ययः\n= परक्षेत्र + घच्\n→ क्षेत्र + घच् [पर-शब्दस्य लोपः निपात्यते]\n→ क्षेत्र + इय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति इय-आदेशः]\n→ क्षेत्र् + इय [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ क्षेत्रिय\nविशेषः - अत्र निर्मितस्य 'क्षेत्रिय' शब्दस्य प्रयोगः केषुचन अन्येषु सन्दर्भेषु अपि भवति , यतः 'चिकित्स्यः' अस्य शब्दस्य अत्र भिन्नाः अर्थाः गृह्यन्ते । क्रमेण पश्यामः -\nअ) यदि कश्चन मनुष्यः विषप्राशनं करोति (consumes poison that does not have an antidote), तर्हि तस्य मनुष्यस्य विषात् मुक्तिः जन्मान्तरेण एव सम्भवति, अन्यथा न । अस्यां स्थितौ एतादृशस्य विषस्य निर्देशः अपि 'क्षेत्रियम् विषम्' इति भवति । अत्रापि 'परक्षेत्रे (= भिन्ने शरीरे) एव निवारयितुम् शक्यः' इति अत्र अर्थः ।\nआ) क्षेत्रे (= कृषिक्षेत्रे, in a farm land) धान्येन सह यत् तृणम् (weed) जायते, तस्य निर्देशः अपि 'क्षेत्रिय' इत्यनेन भवति । एकस्मात् स्थलात् निष्कास्य अन्यस्मिन् स्थले नीत्वा नष्टुम् यानि अर्ह्याणि / योग्यानि, तानि क्षेत्रियाणि तृणानि ।\nइ) यदि कश्चन मनुष्यः परस्त्रीभिः सह शरीरसम्बन्धं स्थापयति, तर्हि तस्य निर्देशः अपि 'क्षेत्रिय' इत्यनेन क्रियते । परक्षेत्रे (= परदाराणाम् शरीरस्य विषये) दण्डनीयः सः क्षेत्रियः । अत्र 'चिकित्स्यः' इत्यस्य अर्थः दण्डनीयः इति क्रियते, तथा च 'परक्षेत्रे' इत्यस्य अर्थः 'परदाराणाम् विषये' इति स्वीक्रियते ।\nएते सर्वे अर्थाः उचिताः एव सन्ति । परन्तु शिष्टप्रयोगं दृष्ट्वैव एतेषाम् प्रयोगः भवितुमर्हति इत्यपि स्मर्तव्यम् ।\n" }, "52093": { "sa": "इन्द्रलिङ्गम्, इन्द्रदृष्टम् , इन्द्रसृष्टम्, इन्द्रजुष्टम् , इन्द्रदत्तम् - एतेषु अर्थेषु 'इन्द्रियम्' इति शब्दः निपात्यते । ", "sd": "अनेन सूत्रेण 'इन्द्रिय' इत्यस्य शब्दस्य निपातनम् दीयते । अयम् शब्दः अनेन सूत्रेण भिन्नेषु अर्थेषु पाठितः अस्ति। क्रमेण पश्यामः -\n1. इन्द्रलिङ्गम् - 'इन्द्र' इत्युक्ते आत्मा । 'लिङ्गम्' इत्युक्ते अनुमानम् ( निष्कर्षः / evidence / indicator) । इन्द्रस्य विषये अनुमानम् यैः अवयवैः भवति ते 'इन्द्रियाणि' नाम्ना ज्ञायन्ते । इत्युक्ते, यद्यपि शरीरस्थः आत्मा न दृश्यते / श्रूयते , तथापि 'सः शरीरे अस्ति' इति निष्कर्षः येषाम् साहाय्येन क्रियते, तानि अवयवानि 'इन्द्रियाणि' इति उच्यन्ते । The organs that can prove the presence of a soul inside the body - are called इन्द्रिय ।\n2. इन्द्रदृष्टम् - 'इन्द्रेण दृष्टम्' इत्यस्मिन् अर्थे 'इन्द्रिय' शब्दः पाठ्यते । आत्मा स्वयम् इन्द्रियाणाम् कार्यम् पश्यति (The soul is an observer of the deeds done by the sense organs इति अत्र चिन्तनम्), अतः आत्मना दृष्टानि तानि 'इन्द्रियाणि' इति आशयः ।\n3. इन्द्रसृष्टम् - 'इन्द्रेण सृष्टम्' इत्यस्मिन् अर्थे 'इन्द्रिय' शब्दः पाठ्यते । आत्मना यानि शुभानि अशुभानि च कर्माणि क्रियन्ते, तेषाम् फलस्वरूपम् येषाम् दोषादोषसहितम् निर्माणम् भवति, तानि इन्द्रियाणि । Good or bad deeds in one life result in certain configuration of sense organs in the next life - इति आशयः ।\n4. इन्द्रजुष्टम् - 'इन्द्रेण जुष्टम् (= कर्मणि स्थापितम् / employed)' इत्यस्मिन् अर्थे 'इन्द्रिय' शब्दः पाठ्यते । ये अवयवाः इन्द्रस्य आदेशेन / साहाय्येन एव चलन्ति (आत्मा नास्ति चेत् येषाम् कार्यम् न सम्भवति) तानि इन्द्रियाणि ।\n5. इन्द्रदत्तम् - 'इन्द्रेण दत्तः' इत्यस्मिन् अर्थे 'इन्द्रिय' शब्दः पाठ्यते । विषयभोगार्थम् यानि अवयवानि आत्मना शरीराय दीयन्ते, तानि इन्द्रियाणि । The sense organs given by the soul for enjoying various worldly matters इति आशयः ।\nएतेषु सर्वेषु अर्थेषु 'इन्द्रिय' शब्दस्य प्रयोगः भवितुमर्हति । अस्य निर्माणम् एतादृशम् दीयते -\nइन्द्रलिङ्गम् / इन्द्रदृष्टम् / इन्द्रसृष्टम् / इन्द्रजुष्टम् / इन्द्रदत्तम् तत्\n= इन्द्र + घच् [घच्-प्रत्ययः तथा उत्तरपदस्य लोपः द्वावपि निपात्यते]\n→ इन्द्र + इय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति इय्-आदेशः]\n→ इन्द्र + इय [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ इन्द्रिय\nविशेषः -\n1. अस्मिन् सूत्रे 'इति' इत्यस्य निर्देशः 'अन्यप्रकारैः व्युत्पत्तिः अपि सम्भवति' इति निर्देशयितुम् कृतः अस्ति । इत्युक्ते, कैश्चन अन्यैः प्रकारैः अपि 'इन्द्रिय' इत्यस्य शब्दस्य निर्माणम् भवितुमर्हति । यथा - इन्द्रेण दुर्जयम् (difficult to be won by the soul) इत्यस्मिन् अर्थे अपि 'इन्द्रिय' शब्दः प्रयुज्यते ।\n2. अस्मिन् सूत्रे 'वा' इत्यस्य ग्रहणम् एतत् स्पष्टीकरोति यत् अस्मिन् सूत्रे ये भिन्नाः अर्थाः उच्यते, तेषु कोऽपि एकः एव अर्थः अस्ति चेदपि 'इन्द्रिय' इति शब्दः प्रयोक्तुम् शक्यते । इत्युक्ते, 'इन्द्रलिङ्गम् इन्द्रियम्, इन्द्रदृष्टम् वा इन्द्रियम्, इन्द्रसृष्टम् वा इन्द्रियम्, इन्द्रजुष्टम् वा इन्द्रियम् , इन्द्रदत्तम् वा च इन्द्रियम्' इति अत्र आशयः ।\n " }, "52094": { "sa": "'अस्य' तथा 'अस्मिन्' एतयोः अर्थयोः 'अस्ति' इत्यनेन निर्दिश्यमानात् प्रथमासमर्थात् मतुँप्-प्रत्ययः विधीयते । ", "sd": "अस्मिन् सूत्रे द्वौ प्रत्ययार्थौ उच्येते - 'अस्य' तथा 'अस्मिन्' । यत्र प्रकृतिः 'अस्ति' इत्यनेन निर्दिश्यते, तद्वाचिनः प्रथमासमर्थात् शब्दात् वर्तमानसूत्रेण औत्सर्गिकरूपेण 'मतुँप्' इति प्रत्ययः विधीयते । 'मतुँप्' प्रत्यये पकार-उकारयोः इत्संज्ञा लोपश्च भवति, अतः 'मत्' इति प्रत्ययस्य दृश्यरूपम् प्रक्रियायाम् प्रयुज्यते ।\nउदाहरणानि एतानि -\n1. गावः अस्य सन्ति सः 'गोमान्' देवदत्तः । अत्र देवदत्तस्य निर्देशः 'अस्य' इति षष्ठीनिर्देशेन , तथा च 'सन्ति' इत्यस्य निर्देशेन क्रियते, अतः वर्तमानसूत्रेण प्रथमासमर्थात् 'गो' शब्दात् देवदत्तस्य निर्देशं कर्तुम् मतुँप् प्रत्ययः भवति । गो + मतुँप् → गोमत् । तस्य पुंलिङ्गे प्रथमैकवचनम् 'गोमान्' इति भवति ।\n2. वह्निः यस्मिन् अस्ति सः 'वह्निमान्' पर्वतः । अत्र पर्वतस्य निर्देशः 'अस्मिन्' इति सप्तमीनिर्देशेन, तथा च 'अस्ति' इत्यस्य प्रयोगेण क्रियते, अतः वर्तमानसूत्रेण प्रथमासमर्थात् 'वह्नि' शब्दात् पर्वतस्य निर्देशं कर्तुम् 'मतुँप्' प्रत्ययः भवति । वह्नि + मतुँप् → वह्निमत् । अस्य पुंलिङ्गस्य प्रथमैकवचनम् 'वह्निमान्' इति ।\n3. शक्तिः अस्यामस्ति सा शक्तिमती काली । 'शक्ति' शब्दात् मतुँप्-प्रत्यये कृते 'शक्तिमत्' इति प्रातिपदिकम् सिद्ध्यति । स्त्रीत्वे विवक्षिते <<उगितश्च>> [[4.1.6]] इति ङीप्-प्रत्ययं कृत्वा 'शक्तिमती' इति रूपं सिद्ध्यति ।\n5. पशवः यस्मिन् सन्ति तत् पशुमत् गृहम् । अत्र 'पशुमत्' इति नपुंसकलिङ्गस्य प्रथमैकवचनम् ।\n6. वृक्षाः यस्मिन् सन्ति सः वृक्षवान् पर्वतः । अत्र 'वृक्ष + मतुँप्' इति स्थिते <<मादुपधायाश्च मतोर्वोऽयवादिभ्यः>> [[8.2.9]] इत्यनेन मकारस्य वकारादेशं कृत्वा 'वृक्षवान्' इति रूपं सिद्ध्यति ।\n7. भाः (illumination) यस्मिन् अस्ति सा भास्वती रजनी । अत्रापि <<मादुपधायाश्च मतोर्वोऽयवादिभ्यः>> [[8.2.9]] इत्यनेन मकारस्य वकारादेशः, तथा च स्त्रीत्वे विवक्षते <<उगितश्च>> [[4.1.6]] इति ङीप्-प्रत्ययं कृत्वा 'भास्वती' इति रूपं सिद्ध्यति ।\nअस्य सूत्रस्य विषये केचन बिन्दवः ज्ञेयाः -\n1. अस्मिन् सूत्रे 'अस्ति' इति निर्दिश्यते । अतः वर्तमाने विवक्षिते एव अस्य सूत्रस्य प्रयोगः भवति । यथा - . गावः अस्य सन्ति सः 'गोमान्' देवदत्तः । 'गावः अस्य आसन्' उत 'गावः अस्य स्युः' एतेषु अर्थेषु वर्तमानसूत्रस्य प्रयोगः न क्रियते ।\n2. अस्मिन् सूत्रे 'अस्य' तथा 'अस्मिन्' एतौ द्वौ अर्थौ उच्येते, परन्तु समर्थविभक्तिः 'तत्' इति एका एव अस्ति । अस्यां स्थितौ 'तत् अस्य अस्ति' तथा 'तत् अस्मिन् अस्ति' इति द्वयोः अर्थयोः भिन्नरूपेण विधानं मत्त्वा एतयोः द्वयोः अपि पृथग्-रूपेण प्रयोगः भवितुमर्हति । इत्युक्ते, केवलम् 'अस्य अस्ति' अस्मिन् अर्थे अपि मतुँप्-प्रत्ययः भवति (यथा - गोमान् देवदत्तः), तथा च केवलम् 'अस्मिन् अस्ति' इत्यत्रापि मतुँप्-प्रत्ययः भवितुमर्हति (यथा - वह्निमान् पर्वतः) । कुत्रचित् द्वावपि अर्थौ सकृदेव प्रवर्तेते, तत्रापि सूत्रमिदम् भवितुमर्हति (यथा - शाखाः अस्य अस्मिन् वा सन्ति सः शाखावान् वृक्षः) । अस्मिन् विषये <<तदस्य तदस्मिन् स्यादिति>> [[5.1.16]] इत्यत्रापि विस्तारेण चर्चा कृता अस्ति ।\n3. अस्मिन् सूत्रे 'इति' अस्य शब्दस्य ग्रहणम् 'विशेषविषयस्य' निर्देशार्थम् क्रियते । इत्युक्ते, केषुचन विशिष्ट-विषयेषु एव अस्य सूत्रस्य प्रसक्तिः वर्तते, सर्वेषु विषयेषु न - इति अत्र आशयः अस्ति । अस्मिन् विषये वार्त्तिककारः एकं श्लोकवार्त्तिकम् पाठयति -\n\nइत्युक्ते, वार्त्तिककारस्य मतेन अस्य सूत्रस्य प्रयोगः 'भूमा', 'निन्दा', 'प्रशंसा', 'नित्ययोग', 'अतिशायन', तथा 'संसर्ग' - एतेषु षट्सु विषयेषु एव भवति । यथा -\n(अ) भूमा (बहु / विपुलम् - इति अर्थः) । यथा - बहवः गावः सन्ति अस्य सः गोमान् देवदत्तः ।\n(आ) निन्दा (शरीरस्य किञ्चन वैचित्र्यम् - इति अर्थः) । यथा - कुष्ठमस्ति यस्य सः कुष्ठी । अत्र 'कुष्ठ' शब्दात् मत्वर्थे <<अत इनिठनौ>> [[5.2.115]] इत्यनेन 'इनि' प्रत्ययः भवति ।\n(इ) प्रशंसा । यथा - प्रशस्तम् रूपमस्ति अस्याः सा रूपवती कन्या । अत्र मतुँप्-प्रत्ययस्य मकारस्य <<मादुपधायाश्च मतोर्वोऽयवादिभ्यः>> [[8.2.9]] इत्यनेन वकारादेशः भवति ।\n(ई) नित्ययोग (नित्यसम्बन्धः / permanent contact इत्यर्थः) । यथा - क्षीरम् (milky juice / sap) अस्य अस्ति सः क्षीरी वृक्षः । अत्र मत्वर्थे <<अत इनिठनौ>> [[5.2.115]] इत्यनेन 'इनि' प्रत्ययः भवति ।\n(उ) अतिशायन (सामान्यपरिमाणस्य अपेक्षया अधिकम्, beyond the normal measures इत्यर्थः) । यथा - अतिशयेन उदरमस्ति यस्याः सा उदरिणी कन्या । ('अतिशायन' इति शब्दः आर्षप्रयोगः अस्ति, अतः विग्रहवाक्ये 'अतिशय' इत्यस्यैव प्रयोगः क्रियते) ।\n(ऊ) संसर्ग (तीव्रसंयोगः, close contact /ownership इति अर्थः) । यथा - दण्डः अस्य अस्ति सः दण्डी साधुः ।\nएतान् विहाय अन्यविषयस्य विवक्षायाम् 'मतुँप्' प्रत्ययस्य प्रयोगः न भवति । यथा - कस्मिंश्चित् गृहे यदि दण्डः स्थाप्यते, तर्हि 'दण्डः अस्ति अस्मिन् गृहे' इत्यत्र दण्ड-शब्दात् मतुँप्-प्रत्ययः (तस्य अपवादः वा) न विधीयते (अतः च 'दण्डि गृहम्' इति प्रयोगः न सिद्ध्यति), यतः अत्र एतेषु अर्थेषु कोऽपि अर्थः न विवक्षितः अस्ति ।\n4. उपरिनिर्दिष्टे श्लोकवार्त्तिके 'अस्ति' इति शब्दः अपि निर्दिष्टः अस्ति । केचन पण्डिताः अयम् 'अस्ति'शब्दः अव्यवयवाची अस्तीति मत्वा 'अस्ति + मतुँप् → अस्तिमत्' इति रूपं साधयन्ति । यः अस्ति / विद्यते सः अस्तिमान् । परन्तु एतत् चिन्तनम् भाष्यसम्मतम् नास्ति । अस्मिन् विषये अधिकं पिपठिषवः भाष्यमुत तस्य विस्तारम् पश्येयुः ।\n5. अत्र अन्यद् अपि एकं वार्त्तिकम् ज्ञेयम् - । इत्युक्ते, गुणवाचिभ्यः शब्देभ्यः विहितस्य मतुँप्-प्रत्ययस्य (तस्य अपवादस्य वा) लुक् भवति । यथा - 'शुक्लः गुणः अस्य अस्ति सः शुक्लः पटः । अत्र 'शुक्लः' शब्दः गुणरूपेण (quality / attribute) प्रयुक्तः अस्ति अतः शुक्ल-शब्दात् विहितस्य इनि-प्रत्ययस्य अत्र लोपः भवति ।\n6. वर्तमानसूत्रात् आरभ्य पञ्चमाध्यायस्य द्वितीयपादस्य समाप्तिं यावत् सर्वेषु सूत्रेषु 'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः एव अर्थयोः मतुँप्-प्रत्ययः उत तस्य अपवादाः पाठिताः सन्ति । एतौ द्वौ अर्थौ औत्सर्गिकरूपेण 'मतुँप्'-प्रत्ययमेव स्वीकुर्वन्ति, अतः एतयोः 'मतुबर्थौ' इति अपि अभिधानम् क्रियते । अतएव <<तदस्यास्त्यस्मिन्निति मतुप्>> [[5.2.94]] इत्यस्मात् <<अहंशुभमोर्युस्>> [[5.2.140]] इत्येतेषाम् सर्वेषाम् सूत्राणाम् एकत्ररूपेण 'मतुप्-प्रकरणम्' इति अपि संज्ञा दीयते । अस्मिन् प्रकरणे यस्मात् शब्दात् विशेषप्रत्ययविधानम् न क्रियते, तस्मात् शब्दात् वर्तमानसूत्रेण द्वयोः अपि अर्थयोः मतुँप्-प्रत्ययः एव विधीयते ।\n7. यदि किञ्चन प्रातिपदिकम् मतुँप्-प्रत्ययेन निर्मितमस्ति, तर्हि तस्मात् प्रातिपदिकात् 'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः पुनः सः एव मतुँप्-प्रत्ययः न भवति । एतदेव स्पष्टीकर्तुम् वार्त्तिककारः एकं श्लोकवार्त्तिकं पाठयति -\n\nमतुबर्थीयात् पुनः सरूपः (= identical) मतुबर्थिकः प्रत्ययः न भवतीति आशयः ।\nयथा - 'गावः अस्य अस्ति सः गोमान्' इत्यत्र 'गोमान्' शब्दः मतुबर्थे सिद्ध्यति । अयम् मतुँप्-प्रत्ययान्तः शब्दः अस्ति, अतः 'गोमान् यस्मिन् अस्ति' इति स्थिते 'गोमत्' शब्दात् पुनः यद्यपि मतुँप्-प्रत्ययः प्राप्नोति, तथापि सः न विधीयते ।\nयत्र 'असरूपः' प्रत्ययः भवति, तत्र तु तस्य प्रयोगे न बाधा विद्यते । यथा - दण्डः अस्य अस्ति सः दण्डी (= इनि-प्रत्ययः), दण्डिनः यस्याम् सन्ति सा दण्डिमती शाला (= मतुँप्-प्रत्ययः) ।\nविशेषः - अस्मिन् सन्दर्भे भाष्यकारः प्रतिपादयति - तस्मात् मत्वर्थीयात् मतुबादेः प्रतिषेधो वक्त्वयः। तं चापि ब्रुवता समानवृत्तौ सरूपे इति वक्तव्यम् । इत्युक्ते,कस्मिंश्चित् मतुबर्थे प्राप्तात् प्रातिपदिकात् तस्मिन्नेव अर्थे पुनः कोऽपि प्रत्ययः (सरूपो वा असरूपो वा) नैव भवति । यत्र अर्थभेदः वर्तते, तत्रैव असरूप-प्रत्ययविधानम् भवितुमर्हति । इत्युक्ते, 'अस्य अस्ति' अस्मिन् अर्थे यत् प्रातिपदिकं जायते, तस्मात् पुनः केवलम् 'अस्मिन् अस्ति' इत्यस्मिन् अर्थे एव प्रत्ययः भवितुमर्हति ; सोऽपि च असरूपः एव स्यात् - इति आशयः ।\n8. मतुबर्थे विहितेषु प्रत्ययेषु परेषु तकारान्तस्य सकारान्तस्य अङ्गस्य <<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इत्यनेन पदसंज्ञायां प्राप्तायाम् तां बाधित्वा <<तसौ मत्वर्थे>> [[1.4.19]] इत्यन्तेन भसंज्ञा भवति । यथा -\n[अ] गरुतौ (wings) अस्य स्तः सः = गरुत् + मत् → गरुत्मान् खगः । अत्र 'गरुत्' इत्यस्य भसंज्ञा भवति, अतः पदविशिष्टम् कार्यम् (<<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वम् ) न भवति ।\n[आ] विद्वांसः (experts / intelligent people) सन्ति यस्याम् सा विदुष्मती परिषद् । अत्र 'विद्वस् + मतुँप्' इति स्थिते विद्वस्-शब्दस्य भसंज्ञा भवति; अतः अतः <<वसोः सम्प्रसारणम्>> [[6.4.131]] इत्यनेन भसंज्ञकस्य विद्वस्-शब्दस्य उपधा-वकारस्य सम्प्रसारणम् (= उकारम्) कृत्वा <<आदेशप्रत्यययोः>> [[8.3.59]] इत्यनेन षत्वे कृते 'विदुष्मत्' इति प्रातिपदिकं जायते । यदि अत्र विद्वस्-शब्दस्य पदसंज्ञा अभविष्यत्, तर्हि <<वसुस्रंसुध्वंस्वनडुहां दः>> [[8.2.72]] इत्यनेन सकारस्य दकारादेशः अभविष्यत् ।\n[इ] तपः अस्य अस्ति सः तपस्वी । अत्र <<तपःसहस्राभ्यां विनीनी>> [[5.2.102]] इत्यनेन तपस्-शब्दात् मत्वर्थे 'विनिँ' प्रत्ययः भवति । 'तपस् + विनिँ' इत्यत्र अङ्गस्य भसंज्ञा भवति, अतः <<ससजुषोः रुः>> [[8.2.66]] इति रुत्वं न विधीयते ।\n9. मतुँप्-प्रत्ययान्तशब्दस्य अङ्गस्य अन्तिमवर्णः उत उपधावर्णः यदि 'अ', 'आ', 'म्' एतेषु किञ्चन अस्ति, तर्हि प्रक्रियायाम् <<मादुपधायाश्च मतोर्वोऽयवादिभ्यः>> [[8.2.9]] इत्यनेन मतुँप्-प्रत्ययस्य मकारस्य वकारादेशः भवति । यथा -\n(अकारान्तमङ्गम्) - वृक्ष + मतुँप् → वृक्षवत् ।\n(आकारान्तमङ्गम्) - माला + मतुँप् → मालावत् ।\n(मकारान्तमङ्गम्) - किम् + मतुँप् → किंवत् ।\n(अकारोपधमङ्गम्) - यशस् + मतुँप् → यशस्वत् ।\n(आकारोपधमङ्गम्) - भास् + मतुँप् → भास्वत् ।\n(मकारोपधमङ्गम्) - लक्ष्मी + मतुँप् → लक्ष्मीवत् ।\nएतानि सर्वाणि प्रातिपदिकानि यद्यपि 'वत्' इत्यनेन समाप्यन्ते, तथापि एतेषु 'वतुँप्' प्रत्ययः नास्ति अपितु 'मतुँप्' प्रत्ययः अस्तीति ज्ञेयम् ।\nविशेषः - <<मादुपधायाश्च मतोर्वोऽयवादिभ्यः>> [[8.2.9]] अस्मिन् सूत्रे पाठिते यवादिगणे विद्यमानानाम् शब्दानाम् विषये मतुँप्-प्रत्ययस्य मकारस्य वकारादेशः न भवति ।\n10. झय्-वर्णात् (= वर्गप्रथमः, वर्गद्वितीयः, वर्गतृतीयः, वर्गचतुर्थः) परस्य मतुँप्-प्रत्ययस्य मकारस्य <<झयः>> [[8.2.10]] इत्यनेन वकारादेशः भवति । यथा -\nअ) मरुत् अस्य अस्ति सः मरुत्वान् ।\nआ) विद्युत् अस्ति अस्ति सः विद्युत्वान् ।\nस्मर्तव्यम् - <<मादुपधायाश्च मतोर्वोऽयवादिभ्यः>> [[8.2.9]] अस्मिन् सूत्रे पाठिते यवादिगणे विद्यमानानाम् शब्दानाम् विषये मतुँप्-प्रत्ययस्य मकारस्य वकारादेशः न भवति । यथा - गरुत् + मत् → गरुत्मत् ।\n11. मतुँप्-प्रत्ययान्तशब्दानाम् त्रिषु लिङ्गेषु रूपाणि भवन्ति । तत् इत्थम् -\n[अ] मतुँप्-प्रत्यये उकारः इत्संज्ञकः अस्ति, अतः मतुँप्-प्रत्ययान्तशब्दः 'उगित्' अस्ति इत्युच्यते । अस्यां स्थितौ पुंलिङ्गे सर्वनामस्थानसंज्ञकेषु सुप्-प्रत्ययेषु परेषु <<उगिदचां सर्वनामस्थानेऽधातोः>> [[7.1.70]] इत्यनेन नुमागमस्य प्रसक्तिः अस्ति, । यथा, 'गोमत्' शब्दस्य पुंलिङ्गस्य रूपाणि 'गोमान्, गोमन्तौ, गोमन्तः, गोमन्तम्, गोमन्तौ, गोमतः' इति सिद्ध्यन्ति । प्रथमैकवचनस्य प्रक्रिया इयम् -\nगोमत् + सुँ\n→ गोमन् त् + स् [<<उगिदचां सर्वनामस्थानेऽधातोः>> [[7.1.70]] इति नुमागमः]\n→ गोमान् त् + स् [<<अत्वसन्तस्य चाधातोः>> [[6.4.14]] दीर्घादेशः]\n→ गोमान् त् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति सकारलोपः]\n→ गोमान् [<<संयोगान्तस्य लोपः>> [[8.2.23]] इति तकारलोपः]\n[आ] स्त्रीत्वे विवक्षिते <<उगितश्च>> [[4.1.6]] इति ङीप्-प्रत्ययं कृत्वा ईकारान्तप्रातिपदिकस्य निर्माणं भवति यस्य रूपाणि नदी-शब्दवत् भवन्ति । यथा - गोमती, गोमत्यौ, गोमत्यः ।\n[इ] मतुँप्-प्रत्ययान्तस्य नपुंसकलिङ्गशब्दस्य रूपाणि 'जगत्' शब्दवत् भवन्ति । यथा - गोमत् गोमती गोमन्ति । अत्र प्रथमाबहुवचनस्य द्वितीयाबहुवचनस्य च प्रक्रियायाम् <<उगिदचां सर्वनामस्थानेऽधातोः>> [[7.1.70]] इत्यनेन प्राप्तम् नुमागमं विप्रतिषेधेन (परत्वात्) बाधित्वा <<नपुंसकस्य झलचः>> [[7.1.72]] इति पुनः नुमागमः एव विधीयते ।\n12. प्राग्दीव्यतीय-अधिकारे चातुरर्थिकप्रकरणे <<तदस्मिन्नस्तीति देशे तन्नाम्नि>> [[4.2.67]] इति किञ्चन सूत्रम् विद्यते । तेन सूत्रेण अपि 'तद् अस्मिन् अस्ति' इत्येव अर्थः पाठ्यते, परन्तु तस्य सूत्रस्य प्रयोगः केवलं देशस्य अभिधाननिर्देशार्थम् एव क्रियते, अन्येषु विषयेषु न ।\n13. 'तत्, अस्य, अस्ति, अस्मिन्, इति' - एतेषां पञ्चानामनुवृत्तिः अस्मात् सूत्रात् आरभ्य पञ्चमाध्यायस्य द्वितीयपादस्य अन्तपर्यन्तम् गच्छति ।\n " }, "52095": { "sa": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः रसादिगणस्य प्रथमासमर्थेभ्यः शब्देभ्यः (सर्वान् अपवादान् बाधित्वा) मतुप्-प्रत्ययः भवति । ", "sd": "<<तदस्यास्त्यस्मिन्निति मतुँप्>> [[5.2.94]] अनेन सूत्रेण सर्वेभ्यः प्रातिपदिकेभ्यः 'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः औत्सर्गिकरूपेण मतुँप्-प्रत्यये प्राप्ते ; रसादिगणस्य शब्देभ्यः अनेन सूत्रेण मतुँप्-प्रत्ययस्य पुनर्विधानं क्रियते । एतत् पुनर्विधानम् 'सर्वान् अपवादान् बाधित्वा मतुँप्-प्रत्ययः एव भवति' इति निर्देशयितुमस्ति ।\nरसादिगणः अयम् - रस, रूप, गन्ध, स्पर्श, शब्द, स्नेह, गुणात् (गणसूत्रम्), एकाचः (गणसूत्रम्) ।\nयथा -\n1. रसः अस्य अस्मिन् वा अस्ति सः = रस + मतुँप् → रसवान् । अत्र <<मादुपधायाश्च मतोर्वोऽयवादिभ्यः>> [[8.2.9]] इत्यनेन मकारस्य वकारादेशं कृत्वा रूपं सिद्ध्यति ।\n2. रूपमस्य अस्मिन् वा अस्ति सः रूपवान् ।\n3. गन्धः अस्य अस्मिन् वा अस्ति सः गन्धवान् ।\n4. शब्दः अस्य अस्मिन् वा अस्ति सः शब्दवान् ।\n5. स्नेहः अस्य अस्मिन् वा अस्ति सः स्नेहवान् ।\nएतेभ्यः सर्वेभ्यः <<अत इनिठनौ>> [[5.2.115]] इत्यनेन इनि / ठन् एतयोः प्रत्ययोः प्रसक्तौ तयोः अपवादत्वेन अत्र मतुँप्-प्रत्ययः एव विधीयते ।\nअस्मिन् गणे द्वे गणसूत्रे दीयेते -\n[अ] गुणात् (गणसूत्रम्) - अनेन गणसूत्रेण कोऽपि नूतनः शब्दः न पाठ्यते, अपितु रस-रूप-गन्ध-स्पर्श-शब्द-स्नेहादीनामर्थः उच्यते । यत्र एते शब्दाः 'गुणवाचके' अर्थे उपयुज्यन्ते, तत्रैव एतेषामस्मिन् गणे समावेशः भवति - इति अस्य गणसूत्रस्य आशयः । यथा, 'रूप' शब्दस्य अर्थः यत्र गुणवाची अस्ति (beauty इत्यर्थः) तत्रैव 'रूपवान् / रूपवती' इति प्रयोगः भवति । यत्र 'रुप' शब्दः अन्येषु अर्थेषु प्रयुज्यते (यथा appearance / form इति) तत्र अस्य सूत्रस्य प्रयोगः न भवति । अतः तत्र <<अत इनिठनौ>> [[5.2.115]] इत्यनेन इनि / ठन् एतौ प्रत्ययौ एव भवतः । रूपिणी छाया ।\n[आ] एकाचः (गणसूत्रम्) - यस्मिन् शब्दे एकः एव स्वरः विद्यते, तस्मात् अपि मतुबर्थयोः नित्यम् मतुँप् प्रत्ययः एव भवति । यथा - धीः अस्य अस्ति सः धीमान् । स्वम् यस्य अस्ति सः स्ववान् ।\nविशेषः - यद्यपि गुणवाचिभ्यः रसादिभ्यः शब्देभ्यः मतुबर्थयोः सर्वान् अपवादान् बाधित्वा अनेन सूत्रेण मतुँप्-प्रत्ययः एव उच्यते, तथापि भाषायामन्ये प्रत्ययाः अपि कृताः दृश्यन्ते । यथा - रसिकः नटः, स्पर्शिकः वायुः, रूपिणी अप्सरा - आदयः । एतादृशानि उदाहरणानि भाष्यकारः अपि स्वीकरोति । अतएव बालमनोरमाकारः वदति - 'इदं सूत्रं भाष्ये प्रत्याख्यातम्' । सूत्रमिदम् भाष्यकारस्य मतेन अनावश्यकमस्ति, यतः अन्यानि अपि उदाहरणानि दृश्यन्ते एव - इति अस्य आशयः । पक्षे एतेषाम् प्रयोगानाम् स्पष्टीकरणम् 'इति' इत्यस्य अनुवृत्या विवक्षां स्वीकृत्य अपि दातुं शक्यते । अस्मिन् विषये न्यासे अधिकमुक्तमस्ति ।\n " }, "52096": { "sa": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः प्राणिनामङ्गवाचिभ्यः आकारान्तशब्देभ्यः प्रथमासमर्थेभ्यः विकल्पेन लच्-प्रत्ययः भवति, पक्षे औत्सर्गिकः मतुँप्-प्रत्ययः अपि विधीयते । ", "sd": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः प्रथमासमर्थेभ्यः <<तदस्यास्त्यस्मिन्निति मतुँप्>> [[5.2.94]] इत्यनेन मतुँप्-प्रत्यये प्राप्ते ; ये आकारान्ताः शब्दाः प्राणिस्थवाचकाः सन्ति (= प्राणिनामवयवस्य निर्देशं कुर्वन्ति) तेभ्यः वर्तमानसूत्रेण विकल्पेन लच्-प्रत्ययः अपि भवति । पक्षे मतुँप्-प्रत्ययः तु विधीयते एव ।\nयथा -\n1. चूडा (apex / crest / crown of head) अस्य अस्ति सः = चूडा + लच् → चूडालः (कश्चन पक्षी यस्य मस्तिष्के चूडा अस्ति । white cockato इति) । पक्षे मतुँप्-प्रत्यये कृते <<मादुपधायाश्च मतोर्वोऽयवादिभ्यः>> [[8.2.9]] इत्यनेन मकारस्य वकारादेशं कृत्वा चूडावान् इत्यपि सिद्ध्यति ।\n2. कर्णिका (specific type of long ears) अस्य अस्ति सः कर्णिकालः कर्णिकावान् वा शृगालः ।\nविशेषः -\n1. अस्मिन् सूत्रे 'प्राणिस्थ' इति उच्यते । अस्य शब्दस्य अर्थः 'प्राणिषु तिष्ठति तत्' इति भवति । अतः 'प्राणिषु विद्यमाना चिकीर्षा, इच्छा, माया, मेधा' - एतेषाम् विषये अपि अस्य सूत्रस्य प्रसक्तिः उद्भवति । परन्तु अस्य सूत्रस्य प्रयोगः केवलम् 'प्राणिनामङ्गवाचिभ्यः शब्देभ्यः' एव क्रियते, चिकीर्षादिभ्यः अन्येभ्यः शब्देभ्यः न । अस्य स्पष्टीकरणार्थमेव वार्त्तिककारः वदति - । अङ्गवाचिभ्यः शब्देभ्यः एव प्रत्ययः विधीयते, इति अस्य वार्त्तिकस्य आशयः । अतः 'चिकीर्षा, इच्छा, माया, मेधा' - एतादृशानां शब्दानां विषये केवलम् मतुँप्-प्रत्ययः एव भवति । यथा - चिकीर्षावान्, मेधावान् - आदयः ।\n2. अस्य सूत्रस्य प्रसक्तिः आकारान्तशब्दानाम् विषये एव अस्ति - इति स्मर्तव्यम् । अतएव 'हस्त', 'दन्त', 'पाद' एतेभ्यः शब्देभ्यः वर्तमानसूत्रेण लच्-प्रत्ययः न भवति ।\n3. अस्मिन् सूत्रे 'लच्' इति प्रत्यये चकारः इत्संज्ञकः अस्ति । अस्य प्रयोजनम् '<<तद्धितस्य>> [[6.1.164]] इत्यनेन तद्धितान्तस्य अन्तोदात्तत्वविधानम्' इति अस्ति । इत्युक्ते, 'चुडाल' इति शब्दस्य अन्तिमः स्वरः (= लकारोत्तरः अकारः) अनेन उदात्तत्वं प्राप्नोति । यदि अस्मिन् प्रत्यये चकारः इत्संज्ञकः न स्यात्, अपितु केवलं 'ल' इत्येव प्रत्ययः उच्येत, तर्हि <<आद्युदात्तश्च>> [[3.1.3]] इत्यनेन प्रत्ययस्य आदिस्वरः (लकारोत्तरः अकारः) प्रारम्भे उदात्तः एव भवेत्, परन्तु 'चूडालोऽस्ति' एतादृशेषु वाक्येषु अयमुदात्तस्वरः उत्तरपदस्य अनुदात्तस्वरेण सह एकादेशं कृत्वा <<स्वरितो वाऽनुदात्ते पदादौ>> [[8.2.6]] इत्यनेन विकल्पेन स्वरितत्वं प्राप्नुयात् । अस्य बाधनार्थम् एव प्रत्यये चकारः इत्संज्ञकः पाठितः अस्ति ।\n4. लच्-प्रत्ययान्तशब्दाः स्त्रीत्वे विवक्षिते <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्-प्रत्ययं स्वीकुर्वन्ति । यथा - चूडाला, कर्णिकाला । " }, "52097": { "sa": "सिध्मादिगणस्य शब्देभ्यः प्रथमासमर्थेभ्यः 'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः विकल्पेन लच्-प्रत्ययः भवति, पक्षे मतुँप्-प्रत्ययः विधीयते । ", "sd": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः प्रथमासमर्थेभ्यः <<तदस्यास्त्यस्मिन्निति मतुँप्>> [[5.2.94]] इत्यनेन मतुँप्-प्रत्यये प्राप्ते ; सिध्मादिगणस्य शब्देभ्यः वर्तमानसूत्रेण विकल्पेन लच्-प्रत्ययः अपि भवति । पक्षे मतुँप्-प्रत्ययः तु विधीयते एव ।\nसिध्मादिगणः अयम् -\nसिध्म, गडु, मणि, नाभि, जीव, निष्पाव, पांसु, सक्तु, हनु, मांस, परशु, पार्ष्णिधमन्योर्दीर्घश्च (गणसूत्रम्), पर्ण, उदक, प्रज्ञा, मण्ड, पार्श्व, गण्ड, ग्रन्थि, वातदन्तबलललाटानामूङ् च (गणसूत्रम्), जटाघटाकलाः क्षेपे (गणसूत्रम्), सक्थि, कर्ण, स्नेह, शीत, श्याम, पिङ्ग, पित्त, शुष्क, पृथु, मृदु, मञ्जु, पत्र, चटु, कपि, कण्डु, संज्ञा, क्षुद्रजन्तूपतापाच्च इष्यते (गणसूत्रम्) ।\nअस्मिन् गणे केचन अदन्तशब्दाः अपि सन्ति । एतेभ्यः लच्-प्रत्ययः न क्रियते चेत् औत्सर्गिकः मतुँप्-प्रत्ययः एव भवति, न हि <<अत इनिठनौ>> [[5.2.115]] इत्यनेन इनि/ठन्-प्रत्ययौ । अस्य निर्देशार्थम् एव अस्मिन् सूत्रे 'मतुँप्' इत्यस्य विशिष्टरूपेण अनुवृत्तिः स्वीक्रियते ।\nकानिचन उदाहरणानि एतादृशानि -\n1. सिध्मः (कश्चन चर्मरोगः) अस्य अस्ति सः = सिध्म + लच् → सिध्मलः । पक्षे <<मादुपधायाश्च मतोर्वोऽयवादिभ्यः>> [[8.2.9]] इत्यनेन मकारस्य वकारादेशं कृत्वा 'सिध्मवान्' इति अपि रूपं सिद्ध्यति ।\n2. गडु (hump / hunch) अस्य अस्ति सः गडुलः गडुमान् वा मनुष्यः ।\n3. पांसु (गोमय /dung / manure) अस्मिन् अस्ति तत् पांसुलम् पांसुमत् वा स्थानम् ।\n4. प्रज्ञा अस्य अस्ति सः प्रज्ञालः प्रज्ञावान् वा पुरूषः ।\n5. शीतमस्मिन् अस्ति सः शीतलः शीतः वा वायुः । ('शीत' शब्दः गुणवाची अस्ति, अतः अस्मात् विहितस्य मतुँप्-प्रत्ययस्य अनेन वार्त्तिकेन लुक् भवति, येन 'शीत' इत्येव प्रातिपदिकं सिद्ध्यति ) ।\n6. मञ्जु (charm) यस्मिन् अस्ति सः मञ्जुलः मञ्जुः वा स्वरः । ('मञ्जु' शब्दः गुणवाची अस्ति, अतः अस्मात् विहितस्य मतुँप्-प्रत्ययस्य अनेन वार्त्तिकेन लुक् भवति, येन 'मञ्जु' इत्येव प्रातिपदिकं सिद्ध्यति ) ।\n7. कपि (brown) यस्याः अस्ति सा कपिला कपिः वा धेनुः । ('कपि' शब्दः गुणवाची अस्ति, अतः अस्मात् विहितस्य मतुँप्-प्रत्ययस्य अनेन वार्त्तिकेन लुक् भवति, येन 'कपि' इत्येव प्रातिपदिकं सिद्ध्यति ) ।\nअस्मिन् गणे कानिचन गणसूत्राणि अपि उच्यन्ते । तानि एतादृशानि -\n1. पार्ष्णि-धमन्योः दीर्घः च (गणसूत्रम्) - 'पार्ष्णि' (= heel) तथा धमनि (= pipe / vein) एतयोः शब्दयोः अस्मिन् गणे ग्रहणं भवति, तथा च एताभ्याम् लच्-प्रत्यये परे अङ्गस्य दीर्घादेशः अपि भवति । यथा - पार्ष्णिः अस्य अस्ति सा पार्ष्णीला उपानद् । धमनिः अस्य अस्ति तत् धमनीलम् हृदयम् ।\n2. वात-दन्त-बल-ललाटानाम् ऊङ् च (गणसूत्रम्) - वात, दन्त, बल, तथा ललाट - एतेभ्यः शब्देभ्यः लच्-प्रत्ययः भवति, तथा च एतेषाम् 'ऊङ्' इति आदेशः भवति । ङित्वात् अयमादेशः अन्तिमवर्णस्य स्थाने एव विधीयते । यथा - वातः अस्य अस्ति सः वातूलः । एवमेव - दन्तूलः, बलूलः, ललाटूलः ।\n3. जटा-घटा-कलाः क्षेपे (गणसूत्रम्) - जटा, घटा, कला (various arrangements of hairs) एतेभ्यः शब्देभ्यः 'क्षेप' (= निन्दा / insult ) अस्मिन् अर्थे लच्-प्रत्ययः भवति । यथा - जटा अस्य अस्ति सः जटालः मूढः । घटा अस्य अस्ति सः घटालः । कला अस्य अस्ति सः कलालः । पक्षे मतुँप्-प्रत्ययः अपि भवति - जटावान्, घटावान्, कलावान् । यत्र 'क्षेप' इति अर्थः न प्रयुज्यते, तत्र तु औत्सर्गिकः मतुँप्-प्रत्ययः एव भवति ।\nविशेषः - एतत् गणसूत्रम् <<लोमादिपामादिपिच्छादिभ्यः शनेलचः>> [[5.2.100]] इत्यत्र पिच्छादिगणे पुनः पाठ्यते । परन्तु तत्र एतेभ्यः शब्देभ्यः इलच्-प्रत्ययः विधीयते ।\n4. क्षुद्रजन्तु-उपतापात् च इष्यते (गणसूत्रम्) - ये शब्दाः क्षुद्रजन्तूनाम् (micro-organisms, insects) यथा उपतापादीनाम् (pain, injury, bruise आदयः) निर्देशं कुर्वन्ति तेषामपि अस्मिन् गणे समावेशः भवति । यथा -\n[अ] क्षूद्रजन्तवः - यूका (lice) अस्मिन् अस्ति सः यूकालः । मक्षिका (bee) अस्मिन् अस्ति सः मक्षिकालः (bee hive) ।\n[आ] उपतापादयः - विचर्चिका (itch) अस्य अस्ति सः विचर्चिकालः । मूर्च्छा (fainting) अस्य अस्ति सः मूर्च्छालः । विपादिका (certain foot-disease) अस्य अस्ति सः विपादिकालः ।\nएतेभ्यः सर्वेभ्यः शब्देभ्यः पक्षे मतुँप्-प्रत्ययः अपि भवति । यथा - पार्ष्णिवान्, दन्तवान्, जटावान् - आदयः ।\nविशेषः -\n1. सिध्मादिगणः आकृतिगणः अस्ति, अतः अस्मिन् गणे केचन अन्ये शब्दाः अपि भवितुमर्हन्ति । यथा - कृष्ण, पेश, पक्ष्मन्, श्री, श्लेश्मन्, कुश, धारा - आदयः ।\n2. अस्मिन् सूत्रे 'लच्' इति प्रत्यये चकारः इत्संज्ञकः अस्ति । अस्य प्रयोजनम् '<<तद्धितस्य>> [[6.1.164]] इत्यनेन तद्धितान्तस्य अन्तोदात्तत्वविधानम्' इति अस्ति । इत्युक्ते, 'सिध्मल' इति शब्दस्य अन्तिमः स्वरः (= लकारोत्तरः अकारः) अनेन उदात्तत्वं प्राप्नोति । यदि अस्मिन् प्रत्यये चकारः इत्संज्ञकः न स्यात्, अपितु केवलं 'ल' इत्येव प्रत्ययः उच्येत, तर्हि <<आद्युदात्तश्च>> [[3.1.3]] इत्यनेन प्रत्ययस्य आदिस्वरः (लकारोत्तरः अकारः) प्रारम्भे उदात्तः एव भवेत्, परन्तु प्रक्रियायामग्रे <<स्वरितो वाऽनुदात्ते पदादौ>> [[8.2.6]] इत्यनेन सः स्वरितत्वं प्राप्नुयात् । अस्य बाधनार्थम् एव प्रत्यये चकारः इत्संज्ञकः पाठितः अस्ति ।\n" }, "52098": { "sa": "'काम' अस्मिन् अर्थे प्रयुज्यमानात् 'वत्स' शब्दात् ; तथा च 'बल' अस्मिन् अर्थे प्रयुज्यमानात् 'अंस' शब्दात् प्रथमासमर्थात् 'अस्य अस्मिन् वा अस्ति' अस्मिन् अर्थे लच्-प्रत्ययः भवति । ", "sd": "अनेन सूत्रेण 'वत्स' तथा 'अंस' एताभ्यां शब्दाभ्याम् 'लच्' प्रत्ययः पाठ्यते । क्रमेण पश्यामः -\n1. 'वत्स' - कामम् / अनुरागः (love) अस्मिन् अर्थे प्रयुक्तः यः 'वत्स' शब्दः, तस्मात् 'कामवान् (= कामः अस्य अस्मिन् वा अस्ति)' अस्मिन् अर्थे प्रथमासमर्थात् लच्-प्रत्ययः भवति ।\nयथा - वत्समस्य अस्ति सः = वत्स + ल → वत्सलः पिता । कामवान् इत्यर्थः ।\n2. 'अंस' - बलम् / power अस्मिन् अर्थे प्रयुक्तः यः 'अंस' शब्दः, तस्मात् 'बलवान् (= बलमस्य अस्मिन् वा अस्ति)' अस्मिन् अर्थे प्रथमासमर्थात् लच्-प्रत्ययः भवति ।\nयथा - अंसः अस्य अस्ति सः = अंस + ल → अंसलः पुरुषः । बलवान् इत्यर्थः ।\nज्ञातव्यम् -\n1. वस्तुतः 'वत्स' शब्दः 'पुत्रः' अस्मिन् अर्थे तथा 'अंस' शब्दः 'स्कन्ध' अस्मिन् अर्थे भाषायाम् प्रयुज्यते । परन्तु एतयोः शब्दयोः एतौ अर्थौ अस्मिन् सूत्रे न स्वीक्रियेते । अस्मिन् सूत्रे 'वत्स' शब्दस्य अर्थः 'काम' इति, तथा 'अंस' शब्दस्य अर्थः 'बल' इति गृह्यते । एतौ अर्थौ अस्य सूत्रस्य प्रयोगार्थम् एव प्रयोक्तव्यौ, न हि अन्यत्र ।\n2. यद्यपि अस्मिन् सूत्रे 'कामबले' इति उच्यते, तथापि काशिकाकारः तथा कौमुदीकारः द्वावपि अस्य शब्दस्य अर्थः 'कामवति / बलवति' इति कुरुतः । इत्युक्ते, तद्धितप्रत्ययविधानमत्र 'कामः' अस्य अस्मिन् वा अस्ति' (= कामवान्) तथा 'बलमस्य अस्मिन् वा अस्ति (= बलवान्) अस्मिन् अर्थे भवति ।\n3. अस्मिन् सूत्रे 'मतुँप्' इति न अनुवर्तते । अत्र केवलम् 'लच्' इति प्रत्ययः उच्यते ।\n" }, "52099": { "sa": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः प्रथमासमर्थात् 'फेन' शब्दात् लच्, इलच् तथा मतुँप् प्रत्ययाः भवन्ति ।", "sd": "प्रथमासमर्थात् फेन (= foam) अस्मात् शब्दात् मतुबर्थे (= तत् अस्य अस्ति / तत् अस्मिन् अस्ति एतयोः अर्थयोः) 'इलच्' प्रत्ययः अनेन सूत्रेण पाठ्यते । सूत्रे 'च' इति निर्दिश्यते, अतः पूर्वसूत्रात् 'लच्' तथा 'अन्यतरस्याम्' एतौ द्वौ शब्दौ अनुवर्तेते । इत्युक्ते, फेन-शब्दात् लच् तथा इलच् - द्वावपि विकल्पेन भवितुमर्हतः । पक्षे औत्सर्गिकः मतुँप्-प्रत्ययः अपि भवति ।\nयथा -\n1. फेनः अस्य अस्ति सः = फेन + इलच् → फेनिल ।\n2. फेनः अस्य अस्ति सः = फेन + लच् → फेनल ।\n3. फेनः अस्य अस्ति सः = फेल + मतुँप् → फेनवत् ।\nत्रयः अपि एते शब्दाः 'फेनक' (soap) अस्मिन् अर्थे प्रयुज्यन्ते ।\n " }, "52100": { "sa": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः लोमादिगणस्य प्रथमासमर्थेभ्यः शब्देभ्यः श-प्रत्ययः, पामादिगणस्य शब्देभ्यः न-प्रत्ययः, तथा पिच्छादिगणस्य शब्देभ्यः इलच्-प्रत्ययः भवति । पक्षे सर्वेभ्यः गणेभ्यः मतुँप् प्रत्ययः अपि विधीयते । ", "sd": "<<तदस्यास्त्यस्मिन्नति मतुँप्>> [[5.2.94]] अनेन सूत्रेण सर्वेभ्यः प्रातिपदिकेभ्यः 'अस्य अस्ति' तथा 'अस्मिन् अस्ति' अनयोः अर्थयोः औत्सर्गिकरूपेण 'मतुँप्' प्रत्ययः उच्यते । एतयोः एव अर्थयोः त्रयाणाम् गणानाम् विषये वर्तमानसूत्रेण त्रयः प्रत्ययाः विकल्पेन उच्यन्ते । क्रमेण पश्यामः -\n1. लोमादिगणः - लोमन्, रोमन्, वल्गु, बभ्रु, हरि, कपि, शुनि, तरु।\nएतेभ्यः सर्वेभ्यः शब्देभ्यः 'अस्य अस्ति' तथा 'अस्मिन् अस्ति' अनयोः अर्थयोः 'श' इति प्रत्ययः विकल्पेन भवति । पक्षे औत्सर्गिकः मतुँप्-प्रत्ययः अपि विधीयते ।\nयथा -\nअ) लोम्नः (hairs) अस्य अस्मिन् वा सन्ति सः\n= लोमन् + श\n→ लोमश [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः]\nलोम्नः यस्य सन्ति सः लोमशः (furry / hairy इत्यर्थः) । पक्षे - 'लोमवान्' इति अपि सिद्ध्यति ।\nआ) रोम्णः (hairs) अस्य अस्मिन् वा सन्ति सः = रोमन् + श → रोमश । (furry / hairy इत्यर्थः) । पक्षे 'रोमवान्' इत्यपि सिद्ध्यति ।\nविशेषः - 1. 'गिरि' शब्दः अपि अस्मिन् गणे स्वीक्रियते इति <<अधिकरणे शेतेः>> [[3.2.15]] इत्यत्र भट्टोजीदिक्षितः वदति । गिरिः अस्य अस्ति इति गिरिशः । कुमारसम्भवे 'गिरिशमुपचचार' इत्यत्र अयमेव शब्दः प्रयुक्तः अस्ति ।\n2. 'श' प्रत्यये शकारः केनापि सूत्रेण इत्संज्ञकः न भवतीति स्मर्तव्यम् ।\n2. पामादिगणः -\nपामन्, वामन्, हेमन्, श्लेष्मन्, कद्रु, बलि, श्रेष्ठ, पलल, सामन्, अङ्गात् कल्याणे (गणसूत्रम्), शाकी-पलाली-दद्र्वां ह्रस्वत्वम् च (गणसूत्रम्), विष्वगित्युत्तरपदलोपश्चाकृतसन्धेः (गणसूत्रम्), लक्ष्म्या अच्च (गणसूत्रम्) ।\nएतेभ्यः सर्वेभ्यः शब्देभ्यः 'अस्य अस्ति' तथा 'अस्मिन् अस्ति' अनयोः अर्थयोः 'न' इति प्रत्ययः विकल्पेन भवति । पक्षे औत्सर्गिकः मतुँप्-प्रत्ययः अपि विधीयते ।\nयथा -\nअ) पामा (scab / itch) अस्य अस्ति सः\n= पामन् + न\n→ पाम + न [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः]\n→ पामनः ।\nपामा अस्य अस्ति सः पामनः पक्षे 'पामवान्' इति अपि भवति ।\nआ) वाम अस्य अस्ति सः वामनः । पक्षे 'वामवान्' इति अपि भवति ।\nअस्मिन् गणे कानिचन गणसूत्राणि अपि दीयन्ते । तानि एतादृशानि -\nअ) अङ्गात् कल्याणे (गणसूत्रम्) । 'कल्याण' (fair / beautiful) इत्यनेन विशिष्टः 'अङ्ग'शब्दः अस्मिन् गणे स्वीक्रियते । कल्याणमङ्गम् यस्याः सा = अङ्ग + न + टाप् → अङ्गना । पक्षे 'अङ्गवान्' / 'अङ्गवती' एते रूपे अपि भवतः ।\nआ) शाकी-पलाली-दद्र्वां ह्रस्वत्वम् च (गणसूत्रम्) । शाकी (group of vegetables), पलाली (stem) यथा दद्रू (skin-disease) एतेषाम् शब्दानामस्मिन् गणे समावेशः भवति, तथा च 'न'प्रत्यये परे तेषां ह्रस्वादेशः अपि विधीयते । यथा -\ni) शाकी अस्य अस्मिन् अस्ति सः शाकिनः ।\nii) पलाली अस्य अस्मिन् अस्ति वा पलालिनः ।\niii) दद्रूः अस्य अस्मिन् अस्ति सः दद्रुणः ।\nपक्षे शाकीमान्, पलालीमान्, दद्रूमान् - एते शब्दाः अपि सिद्ध्यन्ति । (मतुँप्-प्रत्यये परे ह्रस्वादेशः न भवति, यतः गणसूत्रस्य प्रयोजनम् केवलम् न-प्रत्ययार्थम् एव अस्ति )।\n(इ) विष्वक् इति उत्तरपदलोपः च अकृतसन्धेः (गणसूत्रम्) । इत्युक्ते, 'विष्वञ्च्' (one who traverses both sides इत्यर्थः) शब्दः अस्मिन् गणे समाविश्यते, तथा च 'विष्वञ्च्' शब्दात् न-प्रत्यये कृते प्रक्रियायाम् 'विषु + अञ्च्' इति सन्धिच्छेदं कृत्वा 'अञ्च्' इति यत् उत्तरपदम्, तस्य लोपः भवति । विष्वक् अस्य अस्ति सः = विषु + न → विषुण । पक्षे 'विश्वक्वान्' इति मतुँप्-प्रत्ययः अपि भवति ।\nस्मर्तव्यम् -\ni) अस्मिन् सूत्रे 'विष्वक्' इति उच्यते । अयं शब्दः 'विष्वञ्च्' इत्यस्य प्रथमैकवचनमस्ति । अतः अत्र मूलप्रातिपदिकम् 'विष्वञ्च्' इति ज्ञेयम् ।\nii) अस्मिन् गणसूत्रे 'अकृतसन्धेः' इति उच्यते । अस्य अर्थः अयम् - 'विष्वञ्च्' शब्दस्य निर्माणे यत् सन्धिकार्यम् भवति, तस्मात् कार्यात् पूर्वम् प्रक्रियायाम् यत् उत्तरपदम् विद्यते, तस्य अत्र लोपः भवति । अतः अत्र कस्य लोपः भवतीति ज्ञातुमादौ 'विष्वञ्च्' शब्दः कथं सिद्ध्यति, तत् ज्ञेयम् । 'विष्वञ्च्' इति शब्दः 'विषु' उपपदात् 'अञ्च्' धातुम् प्रयुज्य तस्मात् 'क्विन्' प्रत्ययं कृत्वा सिद्ध्यति । 'विषु' इत्युक्ते 'दिशा' (directions), तथा 'अञ्च्' इति धातुः 'गच्छति' अस्मिन् अर्थे प्रयुक्तः अस्ति । विषु + अञ्च् + क्विन् → विष्वञ्च् । यः भिन्नासु दिशासु गच्छति, तस्य निर्देशः 'विष्वक्' इत्यनेन भवति ((The one who roams in two or more directions इत्यर्थः) । अत्र 'विषु' इति पूर्वपदम्, 'अञ्च्' इति उत्तरपदम् । अतः एतस्मात् शब्दात् अग्रे न-प्रत्यये कृते 'अञ्च्' इत्यस्य लोपं कृत्वा 'विषु + न → विषुण' इति शब्दः सिद्ध्यति ।\n(ई) लक्ष्म्या अच्च (गणसूत्रम्) । 'लक्ष्मी' शब्दस्य अस्मिन् गणे समावेशः भवति, तथा च 'लक्ष्मी' शबदस्य न-प्रत्यये परे अकारादेशः भवति ।\nलक्ष्मीः अस्य अस्ति सः = लक्ष्मी + न → लक्ष्मण । पक्षे 'लक्ष्मीवान्' इति मतुँप्-प्रत्ययः अपि भवति - । ,\n3) पिच्छादिगणः - पिच्छ, उरस्, घ्रुवका, क्षुवका, जटाघटाकलाः क्षेपे (गणसूत्रम्), वर्ण, उदक, पङ्क, प्रज्ञा ।\nएतेभ्यः शब्देभ्यः 'अस्य अस्ति' तथा 'अस्मिन् अस्ति' अनयोः अर्थयोः 'इलच्' इति प्रत्ययः विकल्पेन भवति । पक्षे औत्सर्गिकः मतुँप्-प्रत्ययः अपि विधीयते ।\nयथा -\n1. पिच्छः (feather) अस्य अस्ति सः पिच्छ + इलच् → पिच्छिलः । पक्षे 'पिच्छवान्' इति अपि भवति ।\n2. उरः (chest) अस्य अस्ति सः उरस् + इलच् → उरसिलः । पक्षे 'उरस्वान्' इति अपि भवति ।\nअस्मिन् गणे 'जटाघटाकलाः क्षेपे' इति गणसूत्रम् पाठ्यते । अस्य अर्थः अयम् - जटा, घटा, कला (various arrangements of hairs) एतेभ्यः शब्देभ्यः 'क्षेप' (= निन्दा / insult ) अस्मिन् अर्थे इलच्-प्रत्ययः भवति । यथा - जटा अस्य अस्ति सः जटिलः मूढः । घटा अस्य अस्ति सः घटिलः । कला अस्य अस्ति सः कलिलः । पक्षे मतुँप्-प्रत्ययः अपि भवति - जटावान्, घटावान्, कलावान् । यत्र 'क्षेप' इति अर्थः न प्रयुज्यते, तत्र तु औत्सर्गिकः मतुँप्-प्रत्ययः एव भवति ।\nविशेषः - एतत् गणसूत्रम् <<सिध्मादिभ्यश्च>> [[5.2.97]] इत्यत्र निर्दिष्टे सिध्मादिगणे अपि पाठितमस्ति । परन्तु तत्र एतेभ्यः शब्देभ्यः लच्-प्रत्ययः विधीयते ।\n " }, "52101": { "sa": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः प्रथमासमर्थात् प्रज्ञा-शब्दात्, श्रद्धा-शब्दात् अर्चा-शब्दात् च 'ण'-प्रत्ययः भवति, पक्षे 'मतुँप्' अपि भवति । ", "sd": "<<तदस्यास्त्यस्मिन्नति मतुँप्>> [[5.2.94]] अनेन सूत्रेण सर्वेभ्यः प्रातिपदिकेभ्यः 'अस्य अस्ति' तथा 'अस्मिन् अस्ति' अनयोः अर्थयोः औत्सर्गिकरूपेण 'मतुँप्' प्रत्ययः उच्यते । एतयोः एव अर्थयोः 'प्रज्ञा', 'श्रद्धा', तथा 'अर्चा' - एतेभ्यः शब्देभ्यः विकल्पेन ण-प्रत्ययः अपि भवति । यथा -\n1. प्रज्ञा अस्य अस्मिन् वा अस्ति = प्रज्ञा + ण → प्राज्ञ । पक्षे - प्रज्ञा + मतुँप् → प्रज्ञावत् ।\n2. श्रद्धा अस्य अस्मिन् वा अस्ति = श्रद्धा + ण → श्राद्ध । पक्षे - श्रद्धा + मतुँप् → श्रद्धावत् ।\n3. अर्चा अस्य अस्मिन् वा अस्ति = अर्चा + ण → आर्च । पक्षे - अर्चा + मतुँप् → अर्चावत् ।\nअत्र एकम् वार्त्तिकमपि ज्ञातव्यम् - । इत्युक्ते, 'वृत्ति' शब्दस्य अपि अस्मिन् सूत्रे ग्रहणं भवति । यथा -\nवृत्तिः अस्य अस्मिन् वा अस्ति सः वार्त्तः । पक्षे मतुँप् प्रत्ययं कृत्वा 'वृत्तिमान्' इत्यपि रूपं सिद्ध्यति ।\nस्मर्तव्यम् - 'ण'-प्रत्ययान्तशब्दाः स्त्रीत्वे विवक्षिते <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्-प्रत्ययं स्वीकुर्वन्ति । यथा - प्राज्ञा, श्राद्धा, आर्चा, वार्त्ता ।\nविशेषः - काशिकायाः बहुषु संस्करणेषु इदम् सूत्रम् 'प्रज्ञाश्रद्धार्चावृत्तिभ्यो णः' इति पाठ्यते । इत्युक्ते, 'वृत्ति' शब्दः सूत्रे एव निर्दिश्यते । परन्तु मूलरूपेण (पाणिनीय-रचनायाम्) 'वृत्ति' शब्दः सूत्रे नास्ति - इति भाष्यात् स्पष्टीभवति ।\n " }, "52102": { "sa": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः प्रथमासमर्थाभ्याम् 'तपस्' तथा 'सहस्र' शब्दाभ्याम् यथासङ्ख्यम् 'विनि' तथा 'इनि' प्रत्ययौ भवतः । ", "sd": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः <<तदस्यास्त्यस्मिन्निति मतुँप्>> [[5.2.94]] इत्यनेन सर्वेभ्यः प्रातिपदिकेभ्यः औत्सर्गिकरूपेण मतुँप्-प्रत्ययः उच्यते । अस्य अपवादरूपेण 'तपस्' तथा 'सहस्र' एताभ्यां शब्दाभ्याम् यथासङ्ख्यम् 'विनि' तथा 'इनि' एतौ प्रत्ययौ भवतः । यथा -\n1. तपः अस्य अस्मिन् वा अस्ति सः तपस्वी । अत्र तपस् + विन् → तपस्विन् इति प्रातिपदिकम् ।\nविशेषः - <<अस्मायामेधास्रजो विनिः>> [[5.2.121]] इत्यनेन सर्वेभ्यः 'असन्त'शब्देभ्यः 'विनि' प्रत्ययविधानम् भवति । तपस्-शब्दः 'असन्तः' (= 'अस्' यस्य अन्ते विद्यते सः) अस्ति, अतः <<अस्मायामेधास्रजो विनिः>> [[5.2.121]] इत्यनेन तपस्-शब्दात् अपि विनि-प्रत्ययः भवितुमर्हति । अस्यां स्थितौ वर्तमानसूत्रेण पुनः विनि-प्रत्ययः किमर्थमुक्तः अस्तीति प्रश्नः उपतिष्ठति । अस्य उत्तरार्थम् काशिकाकारः वदति - 'अणा वक्ष्यमाणेन बाधा मा भूत्' । इत्युक्ते, <<अण् च>> [[5.2.103]] इत्यनेन अग्रिमसूत्रेण 'तपस्' शब्दात् अण्-प्रत्ययः उच्यते, सः अण्-प्रत्ययः <<अस्मायामेधास्रजो विनिः>> [[5.2.121]] इत्यनेन प्राप्तम् विनि-प्रत्ययम् विशिष्टत्वात् बाधते । अतः तपस्-शब्दात् विनि-प्रत्ययस्य पुनर्विधानम् कर्तुमस्मिन् सूत्रे 'विनि' प्रत्ययः विशिष्टरूपेण प्रोक्तः अस्ति ।\n2. सहस्रमस्य अस्मिन् वा अस्ति सः सहस्री । अत्र सहस्र + इन् → सहस्रिन् इति प्रातिपदिकम् ।\nविशेषः - <<अत इनिठनौ>> [[5.2.115]] अनेन सूत्रेण सर्वेभ्यः अदन्तशब्देभ्यः मतुबर्थयोः 'इनि' तथा 'ठन्' एतौ प्रत्ययौ भवतः । अस्यां स्थितौ सहस्र-शब्दात् अस्मिन् सूत्रे विशिष्टरूपेण 'इनि' प्रत्ययविधानम् 'ठन्'प्रत्ययस्य बाधनार्थमस्ति । अतः सहस्र-शब्दात् मतुबर्थयोः केवलम् इनि-प्रत्ययः भवति, ठन् न । तथा च, 'तपस्' शब्दवत् 'सहस्र' शब्दस्य विषये अपि अग्रिमसूत्रे पाठितः अण्-प्रत्ययः अपि भवत्येव ।\nविशेषः -\n1. 'विनि' तथा 'इनि' उभयत्र नकारोत्तरः इकारः 'नकारस्य इत्संज्ञा मा भूत्', इति ज्ञापयितुम् स्थापितः अस्ति ।\n2. विनि-प्रत्ययान्तशब्दाः तथा च इनि-प्रत्ययान्तशब्दाः स्त्रीत्वे विवक्षिते <<ऋन्नेभ्यो ङीप्>> [[4.1.5]] इत्यनेन ङीप्-प्रत्ययं स्वीकुर्वन्ति । यथा - तपस्विनी, सहस्रिणी ।\n" }, "52103": { "sa": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः प्रथमासमर्थाभ्याम् 'तपस्' तथा 'सहस्र' शब्दाभ्यामण्-प्रत्ययः भवति । ", "sd": "'तपस्' तथा 'सहस्र' एताभ्यां शब्दाभ्याम् 'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः <<तपःसहस्राभ्यां विनीनी>> [[5.2.102]] अनेन सूत्रेण विनि तथा इनि प्रत्ययौ भवतः । वर्तमानसूत्रेण एताभ्यां शब्दाभ्यामण्-प्रत्ययः अपि विधीयते । यथा -\n1. तपः अस्य अस्मिन् वा अस्ति वा सः तापसः । अत्र 'तपस् + अण् → तापस' इति प्रातिपदिकम् ।\n2. सहस्रमस्य अस्मिन् वा अस्ति सः साहस्रः । अत्र 'सहस्र + अण् → साहस्र' इति प्रातिपदिकम् ।\nअत्र एकं वार्त्तिकं ज्ञातव्यम् - । इत्युक्ते, 'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः ज्योत्स्नादिगणस्य शब्देभ्यः अपि अण्-प्रत्ययः भवति ।\nज्योत्स्नादिगणस्य आवल्यामण्-प्रत्ययं योजयित्वा एव शब्दाः पाठ्यन्ते । इयमावली एतादृशी -\nज्यौत्स्नः (= ज्योत्स्ना + अण्), तामिस्रः (तमिस्र + अण्), कौण्डलः (= कुण्डल + अण्), कौतपः (= कुतप + अण्), वैसर्पः (= विसर्प + अण्), वौपादिकः (वुपादिक + अण्) ।\nविशेषः - वस्तुतः अण्-प्रत्ययः पूर्वस्मिन् सूत्रे एव भवितुमर्हति । परन्तु अग्रिमसूत्रे केवलम् 'अण्' इति अनुवर्तनीयमस्ति अतः (स्पष्टतायै) अण् इति सूत्रम् भिन्नरूपेण गृह्यते - इति व्याख्यानानि स्पष्टीकुर्वन्ति । " }, "52104": { "sa": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः प्रथमासमर्थाभ्याम् 'सिकता' तथा 'शर्करा' शब्दाभ्यामण्-प्रत्ययः भवति । ", "sd": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः <<तदस्यास्त्यस्मिन्निति मतुँप्>> [[5.2.94]] इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अस्य अपवादरूपेण 'सिकता' (sand) तथा 'शर्करा' (sugar) एताभ्यां शब्दाभ्यां अण्-प्रत्ययः भवति । यथा -\n1. सिकताः अस्य अस्मिन् वा सन्ति सः सैकतः । प्रक्रिया इयम् -\nसिकता + अण्\n→ सैकता + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ सैकत् + अ [<<यस्येति च>> [[6.4.148]] इति आकारलोपः]\n→ सैकत\nयथा - सैकतः घटः (The pot which contains the sand).\n2. शर्करा अस्य अस्मिन् वा अस्ति सः शार्करः ।\nस्मर्तव्यम् -\n1. 'अप्सुमनःसमासिकतावर्षाणां बहुत्वं च' इति किञ्चन सूत्रम् लिङ्गानुशासने विद्यते, येन 'सिकता-शब्दः केवलं बहुवचने एव प्रयोक्तव्यः अस्ति' - इति ज्ञायते । अतः विग्रहवाक्ये 'सिकताः सन्ति' इति उच्यते । परन्तु एषः विषयः चिन्तनीयः अस्ति, यतः भाष्यकारः स्वयम् 'एका च सिकता तैलदाने असमर्था' इति प्रयोगः हयवरट्-सूत्रस्य भाष्ये करोति ।\n2. 'सिकताः सन्ति यस्मिन् देशे' इति विवक्ष्यते चेत् <<देशे लुबिलचौ च>> [[5.2.105]] इत्यनेन अग्रिमसूत्रेण मतुँप् तथा इलच् प्रत्ययौ अपि भवितुमर्हतः, तथा च पक्षे प्रत्ययस्य लुप् अपि भवति । अतः अत्र 'सैकतः घटः' इति देशभिन्नम् विशिष्टमुदाहरणम् दत्तमस्ति ।\n3. अण्-प्रत्ययान्तशब्दाः स्त्रीत्वे विवक्षिते <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> [[4.1.15]] इत्यनेन ङीप्-प्रत्ययं स्वीकुर्वन्ति। यथा - सैकती नदी, शार्करी धमनी । " }, "52105": { "sa": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः प्रथमासमर्थाभ्याम् 'सिकता' तथा 'शर्करा' शब्दाभ्याम् देशे अभिधेये अण्, इलच्, मतुँप् प्रत्ययाः भवन्ति, तथा पक्षे प्रत्ययस्य लुप् अपि विधीयते । ", "sd": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः <<तदस्यास्त्यस्मिन्निति मतुँप्>> [[5.2.94]] इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अस्य अपवादरूपेण 'सिकता' (sand) तथा 'शर्करा' (sugar) एताभ्यां शब्दाभ्यां <<सिकताशर्कराभ्यां च>> [[5.2.104]] अनेन पूर्वसूत्रेण अण्-प्रत्ययः भवति । परन्तु यदि तद्धितान्तशब्देन देशस्य (place) निर्देशः क्रियते, तर्हि वर्तमानसूत्रेण एताभ्यां शब्दाभ्याम् 'इलच्' तथा 'मतुँप्' प्रत्ययः अपि भवति, तथा च पक्षे प्रत्ययलुप् अपि विधीयते । यथा -\n1. अण्-प्रत्ययः =\nअ) सिकताः सन्ति अस्मिन् देशे सः सैकतः देशः ।\nआ) शर्कराः सन्ति अस्मिन् देशे सः शार्करः देशः ।\n2. इलच्-प्रत्ययः =\nअ) सिकताः सन्ति अस्मिन् देशे सः सिकतिलः देशः ।\nआ) शर्कराः सन्ति अस्मिन् देशे सः शर्करिलः देशः ।\n3. मतुँप्-प्रत्ययः\nअ) सिकताः सन्ति अस्मिन् देशे सः सिकतावान् देशः । अत्र <<मादुपधायाश्च मतोर्वोऽयवादिभ्यः>> [[8.2.9]] इति मकारस्य वकारादेशः भवति ।\nआ) शर्कराः सन्ति अस्मिन् देशे सः शर्करावान् देशः । अत्र <<मादुपधायाश्च मतोर्वोऽयवादिभ्यः>> [[8.2.9]] इति मकारस्य वकारादेशः भवति ।\n4. प्रत्ययस्य लुप् ( लोपः) - (कस्य प्रत्ययस्य लुप् भवतीति ज्ञानमत्र न आवश्यकम् इति काशिकाकार वदति) ।\nअ) सिकताः सन्ति अस्मिन् देशे सः सिकताः देशः ।\nआ) शर्कराः सन्ति अस्मिन् देशे सः शर्करा देशः ।\nज्ञातव्यम् -\n1. 'अप्सुमनःसमासिकतावर्षाणां बहुत्वं च' इति किञ्चन सूत्रम् लिङ्गानुशासने विद्यते, येन 'सिकता-शब्दः केवलं बहुवचने एव प्रयोक्तव्यः अस्ति' - इति ज्ञायते । अतएव 'सिकताः देशः' इत्यत्र लुपि कृते अपि <<लुपि युक्तवद् व्यक्तिवचने>> [[1.2.51]] इत्यनेन तद्धितान्तशब्दः प्रकृतिवत् बहुवचने एव प्रयुक्तः अस्ति । बालमनोरमाकारस्य मतेन तु 'सिकता देशः' इति एकवचनप्रयोगः अपि अर्ह्यः अस्ति यतः भाष्यकारः स्वयम् 'एका च सिकता तैलदाने असमर्था' इति प्रयोगः हयवरट्-सूत्रस्य भाष्ये करोति, येन 'सिकता' शब्दः एकवचने अपि प्रयुज्यते इति स्पष्टीभवति ।\n2. 'शर्करा देशः' इत्यत्रापि <<लुपि युक्तवद् व्यक्तिवचने>> [[1.2.51]] इत्यनेन प्रकृतेः लिङ्गम् तद्धितान्ते स्थापितम् दृश्यते । " }, "52106": { "sa": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः 'उन्नत' इत्यनेन विशिष्टात् प्रथमासमर्थात् 'दन्त'शब्दात् उरच्-प्रत्ययः भवति । ", "sd": "यदि 'दन्त' शब्दः 'उन्नत' (elevated, elongated) इत्यनेन विशेषणेन सह प्रयुज्यते, तर्हि तस्मात् 'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः <<तदस्यास्त्यस्मिन्निति मतुँप्>> [[5.2.94]] इत्यनेन विहितं मतुँप्-प्रत्ययं बाधित्वा उरच्-प्रत्ययः भवति । यथा -\nउन्नताः दन्ताः सन्ति यस्य सः\nदन्त + उरच्\n→ दन्त् + उरच् [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ दन्तुर\nउन्नताः दन्ताः सन्ति यस्य सः दन्तुरः ।\nयदि 'उन्नत' इति विशेषणम् न प्रयुज्यते, तर्हि अस्य सूत्रस्य प्रयोगः न भवति । यथा - दन्ताः सन्ति अस्य सः दन्तवान् ।\n" }, "52107": { "sa": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः ऊष, सुषि, मुष्क, मध - एतेभ्यः शब्देभ्यः प्रथमासमर्थेभ्यः\n 'र' प्रत्ययः भवति । ", "sd": "<<तदस्यास्त्यस्मिन्निति मतुँप्>> [[5.2.94]] अनेन सूत्रेण सर्वेभ्यः प्रातिपदिकेभ्यः 'तस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः औत्सर्गिकरूपेण मतुँप्-प्रत्ययः उच्यते ।अस्य अपवादरूपेण अनेन सूत्रेण 'ऊष' (infertile / sterile soil), 'सुषि' (hole present in a wooden pipe), 'मुष्क' (= large testicle), तथा 'मधु' (sweetness) एतेभ्यः शब्देभ्यः 'र' इति प्रत्ययः भवति । यथा -\n1. ऊषः अस्मिन् अस्ति तत् ऊषरम् क्षेत्रम् ।\n2. सुषिः यस्मिन् अस्ति तत् सुषिरम् काष्ठम् ।\n3. मुष्कौ अस्य स्तः सः मुष्करः पशुः ।\n4. मधु अस्मिन् अस्ति तत् मधुरम् फलम् ।\nविशेषः - अस्य सूत्रस्य प्रयोगः विशिष्टेषु अर्थेषु एव भवतीति व्याख्यानेषु स्पष्टीक्रियते । अतः 'ऊषः अस्ति अस्मिने घटे' / 'सुषिः अस्ति अस्मिन् घटे' - एतादृशेषु स्थलेषु अस्य सूत्रस्य प्रयोगः न भवति । शिष्टप्रयोगमनुसृत्य एव अस्य सूत्रस्य प्रयोगः करणीयः - इति आशयः ।\nअत्र त्रीणि वार्त्तिकानि ज्ञेयानि -\n1. । इत्युक्ते, 'ख', 'मुख' तथा 'कुञ्ज' शब्देभ्यः अपि मतुबर्थयोः र-प्रत्ययः भवति । यथा -\n[अ] ख - cavity of the throat (कण्ठविवरम्) अस्मिन् अर्थे अयम् शब्दः प्रयुज्यते । खमस्ति अस्य सः खरः । गर्दभः इत्यर्थः ।\n[आ] मुख - मुखमस्य अस्ति सर्वस्मिन् वक्तव्ये सः मुखरः (वाचालः इत्यर्थः) । अत्र 'सर्वस्मिन् वक्तव्ये' इति सन्दर्भे एव प्रत्ययविधानम् भवति । The one who has to say something in every discussion / talkative / noisy इति अर्थः ।\n[इ] कुञ्ज - हस्तिनः दन्तौ, हनु वा 'कुञ्ज' नाम्ना ज्ञायते (The jaw / teeth of an elephant) । कुञ्जौ स्तः अस्य सः कुञ्जरः गजः । अत्र विग्रहवाक्ये द्विवचनस्य प्रयोगः भवति, यतः 'हनु' तथा 'दन्त' उभयोः सङ्ख्या 'द्वौ' एव अस्ति ।\n2. । इत्युक्ते, नग, पांसु, पाण्डु - एतेभ्यः शब्देभ्यः अपि मतुबर्थयोः र-प्रत्ययः भवति । यथा -\n[अ] नगाः (= पर्वताः) सन्ति अस्मिन् तत् नगरम् ।\n[आ] पांसु (dung / manure) अस्ति अस्मिन् तत् पांसुरम् ।\n[इ] पाण्डु (शुक्लत्वम्, brightness / whiteness) अस्ति अस्मिन् तत् पाण्डुरः ।\n3. । इत्युक्ते 'कच्छू' शब्दात् मतुबर्थयोः र-प्रत्ययः भवति, तथा च अस्य शब्दस्य ह्रस्वादेशः अपि विधीयते । यथा - कच्छू (itch) अस्ति यस्मिन् सः कच्छुरः ।\n" }, "52108": { "sa": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः 'दिव्'शब्दात् तथा 'द्रु' शब्दात् प्रथमासमर्थात् 'म' प्रत्ययः भवति । ", "sd": "<<तदस्यास्त्यस्मिन्निति मतुँप्>> [[5.2.94]] इत्यनेन 'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः औत्सर्गिकरूपेण 'मतुँप्' प्रत्ययः विधीयते । अस्य अपवादरूपेण प्रथमासमर्थात् 'दिव्' (= स्वर्ग ) तथा 'द्रु' (= शाखा / branch) एताभ्याम् शब्दाभ्याम् म-प्रत्ययः भवति । क्रमेण पश्यामः -\n1. द्युः अस्मिन् अस्ति सः ('द्युः' इति दिव्-शब्दस्य प्रथमैकवचनम् । अतः अत्र प्रातिपदिकम् 'दिव्' इति अस्ति ।]\n= दिव् + म\n→ द्यु + म [<<दिव उत्>> [[6.1.131]] इति पदसंज्ञकस्य दिव्-शब्दस्य उकारादेशः । ]\n→ द्युम\nद्युः अस्मिन् अस्ति सः द्युमः । आकाशः इत्यर्थः ।\nविशेषः - अस्मिन् सूत्रे 'द्यु' इति निर्देशः 'दिव्' इत्यस्य प्रथमैकवचनस्य निर्देशः अस्तीति व्याख्यानात् स्पष्टीभवति ।\n2. द्रुवः (शाखाः) अस्मिन् सन्ति सः = द्रु + म → द्रुमः । वृक्षः इत्यर्थः ।\n" }, "52109": { "sa": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः प्रथमासमर्थात् 'केश' शब्दात् 'व' तथा 'मतुँप्' - द्वावपि प्रत्ययौ विकल्पेन भवतः । पक्षे 'इनि' तथा 'ठन्' प्रत्ययौ अपि भवतः । ", "sd": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः <<तदस्यास्त्यस्मिन्निति मतुँप्>> [[5.2.94]] इत्यनेन मतुँप्-प्रत्ययः भवति । अस्य विकल्पेन अदन्तेभ्यः शब्देभ्यः <<अत इनिठनौ>> [[5.2.115]] इत्यनेन 'इनि' तथा 'ठन्' प्रत्ययौ अपि भवतः । एतेषाम् सर्वेषामपि विकल्पेन 'केश' शब्दात् 'व' इति प्रत्ययः वर्तमानसूत्रेण उच्यते । यथा - केशाः (mane, hairs) सन्ति अस्य सः = केश + व → केशवः ।\nपक्षे अन्ये त्रयः प्रत्ययाः अपि भवन्ति -\n1. केश + मतुँप् - केशवत् ।\n2. केश + इनि - केशिन् ।\n3. केश + ठन् → केशिक ।\nविशेषः - अस्मिन् सूत्रे 'अन्यतरस्याम्' इति शब्दः स्वीक्रियते । वस्तुतः <<प्राणिस्थादातो लजन्यतरस्याम्>> [[5.2.96]] इत्यस्मात् 'अन्यतरस्याम्' इति शब्दः अनुवर्तते एव । इत्युक्ते, अत्र सम्पूर्णसूत्रे द्विवारमन्यतरस्याम् इति ग्रहणम् कृतमस्ति । एतेभ्याम् एकः 'अन्यतरस्याम्' शब्दः 'मतुँप्' प्रत्ययस्य वैकल्पिकविधानार्थम् , तथा अपरः 'अन्यतरस्याम्' शब्दः <<अत इनिठनौ>> [[5.2.115]] इत्यनेन प्राप्यमानयोः 'इनि' तथा 'ठन्' प्रत्यययोः वैकल्पिकविधानार्थमस्तीति व्याख्यानेषु स्पष्टीभवति । अतएव अत्र आहत्य चत्वारि रूपाणि भवन्ति - केशव, केशवत्, केशिन्, केशिक ।\nअत्र कानिचन वार्त्तिकानि ज्ञेयानि -\n1. । इत्युक्ते, मतुबर्थयोः अस्मिन् सूत्रे पाठितः 'व' प्रत्ययः अन्येभ्यः शब्देभ्यः अपि कृतः दृश्यते । यथा -\nअ) मणिः अस्ति अस्मिन् सः मणिवः सर्पः ।\nआ) हिरण्यमस्ति अस्मिन् तत् हिरण्यवं रत्नम् ।\nइ) कुररः अस्ति अस्य सः कुररावः । अत्र प्रक्रियायामङ्गस्य दीर्घादेशः अपि निपात्यते ।\n(उ) कुञ्जः अस्ति अस्य सः कुञ्जावः । प्रक्रियायामङ्गस्य दीर्घादेशः अपि निपात्यते ।\n(ऊ) राजिः अस्य अस्ति सः राजीवः । प्रक्रियायामङ्गस्य दीर्घादेशः अपि निपात्यते ।\n(ए) इष्टकाः सन्ति अस्मिन् सः इष्टकावः ।\n(ऐ) बिम्बमस्ति अस्य सः बिम्बावः ।\n2. । 'अर्णस्' (foamy waves) शब्दात् वर्तमानसूत्रेण 'व' प्रत्ययः भवति, तथा च 'अर्णस्' शब्दस्य सकारस्य प्रक्रियायाम् लोपः भवति । अर्णांसि सन्ति यस्मिन् सः अर्णवः महासागरः ।\n3. । वेदेषु केभ्यश्चन शब्देभ्यः 'ई', 'वनिप्', 'व', 'मतुँप्' - एते प्रत्ययाः मतुबर्थयोः कृताः दृश्यन्ते । यथा -\nअ) 'ई' प्रत्ययः - सुष्ठु मङ्गलमस्याः अस्ति सा सुमङ्गली वधूः । यथा - 'वासे वासे सुमङ्गलीरियम् वधूरितीक्षकानीक्षेत्' (आश्वलायनगृह्यसूत्राणि) । अत्र 'ई' प्रत्ययान्तशब्दः पुनः स्त्रीप्रत्ययं न स्वीकरोति, अतः 'सुमङ्गली' इत्येव स्त्रीलिङ्गे अपि प्रयुज्यते ।\nआ) 'वनिप्' प्रत्ययः - मघः (power) अस्य अस्ति सः मघवान् इन्द्रः । अत्र 'वन्' इति प्रत्ययः अस्तीति काशिकायामुच्यते ।\nयथा - 'इमं नो यज्ञमिह बोध्या गहि स्पृधो जयन्तं मघवानमीमहे' (ऋग्वेदे 10.167.2)\n4. । मतुबर्थयोः वेदेषु केषुचन स्थलेषु 'मेधा' शब्दात् 'इरन्' तथा 'रथा' शब्दात् 'इरच्' प्रत्ययः कृतः दृश्यते । मेधा + इरच् → मेधिर । रथ + इरच् → रथिर । यथा -\nरथः अस्य अस्ति सः = रथ + इरच् → रथिर ।यथा (ऋग्वेदे 3.26.1) - सु॒दानुं॑ दे॒वं र॑थि॒रं व॑सू॒यवो॑ गी॒र्भी र॒ण्वं कु॑शि॒कासो॑ हवामहे ।\n" }, "52110": { "sa": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः 'गाण्डी' शब्दात् तथा 'अजग' शब्दात्\nप्रथमासमर्थात् संज्ञायाः विषये 'व' इति प्रत्ययः भवति ।", "sd": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः संज्ञायाः विषये 'गाण्डी' शब्दात् तथा 'अजग' शब्दात् संज्ञायाः विषये 'व' इति प्रत्ययः अनेन सूत्रेण दीयते । क्रमेण पश्यामः -\n1. 'गाण्डी (name of a tree) अस्मिन् अस्ति' अस्मिन् अर्थे 'गाण्डी' शब्दात् 'व' प्रत्ययं कृत्वा 'गाण्डीव' इति शब्दः सिद्ध्यति । गाण्डी + व → गाण्डीव । अर्जुनस्य धनुषः इदम् नाम । 'गाण्डी' नाम्नः वृक्षस्य काष्ठम् प्रयुज्य अस्य निर्माणमभवत्, अतः 'गाण्डी अस्मिन् अस्ति' इति अस्य विग्रहः दीयते ।\nविशेषः - 'गाण्डि' (name of a tree) इत्यस्मात् ह्रस्व-इकारान्तशब्दादपि अनेन सूत्रेण व-प्रत्ययः भवति - इति व्याख्यानैः स्पष्टीक्रियते । गाण्डिः अस्मिन् अस्ति तत् गाण्डिवम् । अयं शब्दः अपि अर्जुनस्य धनुषः नाम्नः निर्देशार्थमेव प्रयुज्यते ।\n2. 'अजग (= विष्णुः) अस्मिन् अस्ति' अस्मिन् अर्थे 'अजग' शब्दात् 'व'प्रत्ययं कृत्वा 'अजगव' इति शब्दः सिद्ध्यति । अजग + व → अजगव । शङ्करस्य धनुषः इदम् नाम । त्रिपुरासुरस्य वधस्य समये स्वयम् भगवान् विष्णुः शररूपेण शङ्करस्य धनुषि अतिष्ठत् - इति काचन कथा वर्तते । एतामनुसृत्य एव शङ्करस्य धनुषः नाम 'अजगव' इति दत्त्म अस्ति । अजगः यस्मिन् अस्ति तत् अजगवम् शिवधनुः ।\nस्मर्तव्यम् - अस्मिन् सूत्रे 'संज्ञायाम्' इति उच्यते अतः अनेन सूत्रेण निर्मितौ शब्दौ केवलं विशिष्टे अर्थे एव प्रयुज्येते ।" }, "52111": { "sa": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः प्रथमासमर्थात् 'काण्ड'शब्दात् ईरन्-प्रत्ययः तथा 'अण्ड'शब्दात् ईरच्-प्रत्ययः भवति । ", "sd": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः <<तदस्यास्त्यस्मिन्निति मतुँप्>> [[5.2.94]] इत्यनेन मतुँप्-प्रत्ययः भवति । अस्य अपवादरूपेण 'काण्ड' (stem) शब्दात् 'ईरन्' प्रत्ययः तथा 'अण्ड' (sphere, egg) अस्य अस्ति' अस्मात् शब्दात् 'ईरच्' प्रत्ययः भवति ।\nअ) काण्डमस्य अस्मिन् वा अस्ति सः = काण्ड + ईरन् → काण्डीरः ।\nआ) अण्डमस्य अस्मिन् वा अस्ति सः = अण्ड + ईरच् → अण्डीरः ।\nविशेषः -\n1. ईरन् तथा ईरच् - द्वयोः अपि प्रत्यययोः समानमेव रूपं भवति, परन्तु तत्र स्वरभेदः दृश्यते । 'ईरन्' प्रत्ययान्तः 'काण्डीर' शब्दः <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] इत्यनेन आद्युदात्तः भवति, तथा च 'ईरच्' प्रत्ययान्तः 'अण्डीर' शब्दः <<तद्धितस्य>> [[6.1.164]] इत्यनेन अन्तोदात्तत्वं प्राप्नोति ।\n2. अस्मिन् सूत्रे 'ईरन् + ईरच्' इत्यत्र <<ङमो ह्रस्वादचि ङमुण् नित्यम्>> [[8.3.32]] इत्यनेन 'ईरच्' इत्यस्य ईकारस्य नुट्-आगमः भवति, अतः 'ईरन्निरच्' इत्यत्र द्वौ नकारौ श्रूयेते ।\n" }, "52112": { "sa": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः 'रजस्', 'कृषि', 'आसुति' तथा 'परिषद्' एतेभ्यः शब्देभ्यः प्रथमासमर्थेभ्यः 'वलच्' प्रत्ययः भवति । ", "sd": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः <<तदस्यास्त्यस्मिन्निति मतुँप्>> [[5.2.94]] इत्यनेन मतुँप्-प्रत्ययः भवति । अस्य अपवादरूपेण चतुर्भ्यः शब्देभ्यः अनेन सूत्रेण वलच्-प्रत्ययः भवति । क्रमेण पश्यामः -\n1. रजः (impurity) अस्य अस्मिन् वा अस्ति = रजस् + वलच् → रजस्वल । स्त्रीत्वे <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप् - रजस्वला । यथा - रजस्वला स्त्री ।\n2. कृषि (agriculture / cultivation) अस्य अस्मिन् वा अस्ति = कृषि + वलच् → कृषीवल । यथा - कृषीवलः वैश्यः । अत्र <<वले>> [[6.3.118]] इति अङ्गस्य दीर्घादेशः भवति ।\n3. आसुति (brew / distillation) अस्य अस्मिन् वा अस्ति = आसुति + वलच् → आसुतीवल । यथा - आसुतीवलः शङ्कुः । अत्रापि <<वले>> [[6.3.118]] इति अङ्गस्य दीर्घादेशः भवति ।\n4. परिषद् (council / conference) अस्य अस्मिन् वा अस्ति = परिषद् + वलच् → परिषद्वल । यथा - परिषद्वलः राजा ।\nअत्र एकम् वार्त्तिकं ज्ञेयम् - । इत्युक्ते, 'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः अनेभ्यः केभ्यश्चन शब्देभ्यः अपि 'वलच्' प्रत्ययः भवति । यथा -\nअ) भ्राता अस्य अस्ति सः भ्रातृवलः ।\nआ) उत्साहः अस्य अस्मिन् वा अस्ति सः उत्साहवलः ।\n(इ) पिता अस्य अस्ति सः पितृवलः ।\nएतेषु उदाहरणेषु <<वले>> [[6.3.118]] इति अङ्गस्य दीर्घादेशः न भवति, यतः तत्र 'संज्ञायाम्' इति अनुवृत्तिः स्वीक्रियते (इत्युक्ते, विशिष्टेभ्यः शब्देभ्यः एव <<वले>> [[6.3.118]] इत्यनेन अङ्गस्य दीर्घादेशः भवति, सर्वेभ्यः न) ।\nविशेषः - अनेन सूत्रेण जायमानानाम् शब्दानाम् विशिष्टेषु अर्थेषु एव प्रयोगः भवति । यथा - 'रजस्वल' शब्दस्य स्त्रियाः विषये एव प्रयोगः क्रियते ।\n" }, "52113": { "sa": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः 'दन्त' तथा 'शिखा' एताभ्यां प्रथमासमर्थाभ्याम् शब्दाभ्याम् संज्ञायाम् गम्यमानायाम् 'वलच्' प्रत्ययः भवति । ", "sd": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः <<तदस्यास्त्यस्मिन्निति मतुँप्>> [[5.2.94]] इत्यनेन मतुँप्-प्रत्ययः भवति । अस्य अपवादरूपेण 'दन्त' तथा 'शिखा' शब्दाभ्याम् संज्ञायाः निर्देशे कर्तव्ये अनेन सूत्रेण वलच्-प्रत्ययः भवति । यथा -\n1. दन्ताः अस्य अस्मिन् वा सन्ति = दन्त + वलच् → दन्तावल । यथा - दन्तावलः गजः । अत्र <<वले>> [[6.3.118]] इति दीर्घादेशः भवति ।\n2. शिखा अस्य अस्मिन् वा अस्ति = शिखा + वलच् → शिखावल । यथा - शिखावलः मयूरः ।\nस्मर्तव्यम् - 'शिखा' शब्दात् <<शिखाया वलच्>> [[4.2.89]] इत्यनेन चातुर्थिकप्रकरणे अपि वलच्-प्रत्ययः भवति, परन्तु तत्र देशस्य निर्देशः क्रियते (यथा - शिखा अस्मिन् देशे अस्ति सः शिखावलः देशः) । अत्र निर्दिष्टः 'शिखावल' शब्दः देशभिन्नस्य निर्देशं करोति । " }, "52114": { "sa": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः 'ज्योत्स्ना', 'तमिस्रा', 'शृङ्गिण', 'ऊर्जस्विन्', 'ऊर्जस्वल', 'गोमिन्', 'मलिन', तथा 'मलीमस' - एते शब्दाः निपात्यन्ते । ", "sd": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः अनेन सूत्रेण केचन शब्दाः निपात्यन्ते । क्रमेण पश्यामः -\n1) ज्योत्स्ना - 'चन्द्रप्रभा' (moonlight) अस्मिन् अर्थे अयम् शब्दः निपात्यते । अस्य निर्माणम् 'ज्योतिस्' इत्यस्यात् शब्दात् क्रियते । ज्योतिः (brightness) यस्याः अस्ति सा ज्योत्स्ना । प्रक्रिया इयम् -\nज्योतिस् + न [न-प्रत्ययस्य निपातनम्]\n→ ज्योत्स् + न [निपातनात् अङ्गस्य उपधालोपः]\n→ ज्योत्स्न\nस्त्रीत्वे विवक्षिते <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्-प्रत्ययं कृत्वा 'ज्योत्स्ना' इति शब्दः सिद्ध्यति ।\n2) तमिस्रा - 'रात्रिः' अस्मिन् अर्थे 'तमस्' (अन्धकारः / darkness) शब्दात् र-प्रत्ययं कृत्वा अयं शब्दः सिद्ध्यति । प्रक्रिया इयम् -\nतमः अस्मिन् अस्ति\n= तमस् + र [निपातनम्]\n→ तमिस् + र [अङ्गस्य उपधावर्णस्य निपातनेन इकारादेशः]\n→ तमिस्र ।\nस्त्रीत्वे विवक्षिते <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्-प्रत्ययं कृत्वा 'तमिस्रा' इति शब्दः सिद्ध्यति ।\nविशेषः - 'अन्धकारः अस्मिन् अस्ति' इत्यर्थे अन्येषाम् शब्दानाम् विशेषणरूपेण अपि 'तमिस्र' शब्दः प्रयुक्तः दृश्यते । यथा - तमिस्रं नभः ।\n3) शृङ्गिण (having a horn इत्यर्थः) - 'शृङ्गम् (horn) अस्य अस्ति' अस्मिन् अर्थे 'इनच्' प्रत्ययं कृत्वा अयं शब्दः निपात्यते ।यथा - शृङ्गिणः पशुः ।\n4) ऊर्जस्विन् (शक्तिमान् / powerful इत्यर्थः) - 'ऊर्जः (शक्तिः / power / strength) अस्मिन् अस्ति' इत्यर्थे ऊर्ज-शब्दात् 'विनि' प्रत्ययः तथा च अङ्गस्य 'असुक्' आगमः निपात्यते -\nऊर्जः अस्मिन् अस्ति\n= ऊर्ज + विनि ['विनि' प्रत्ययः निपात्यते ।]\n→ ऊर्ज + असुक् + विनि ['असुक्' आगमः निपात्यते । <<आद्यन्तौ टकितौ>> [[1.1.46]] इति अन्तावयवः]\n→ ऊर्ज + अस् + विन् [इत्संज्ञालोपः]\n→ ऊर्जस्विन् [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\nयथा - ऊर्जस्वी बालकः ।\nविशेषः - अस्य शब्दस्य विषये कौमुदीकारः 'ऊर्जस्' इति मूलप्रातिपदिकं पाठयति, यस्यापि अर्थः 'शक्तिः' इत्येव अस्ति । अस्यां स्थितौ असुक्-आगमः न आवश्यकः । ऊर्जाः अस्मिन् अस्ति सः = ऊर्जस् + विनि → ऊर्जस्विन् ।\n5) ऊर्जस्वल (शक्तिमान् / powerful इत्यर्थः) - 'ऊर्जः (शक्तिः / power / strength) अस्मिन् अस्ति' इत्यर्थे ऊर्ज-शब्दात् 'वलच्' प्रत्ययः तथा च अङ्गस्य 'असुक्' आगमः निपात्यते -\nऊर्जः अस्मिन् अस्ति\n= ऊर्ज + वलच् ['वलच्' प्रत्ययः निपात्यते ।]\n→ ऊर्ज + असुक् + वलच् ['असुक्' आगमः निपात्यते । <<आद्यन्तौ टकितौ>> [[1.1.46]] इति अन्तावयवः]\n→ ऊर्ज + अस् + वलच् [इत्संज्ञालोपः]\n→ ऊर्जस्वल [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\nयथा - ऊर्जस्वलः बालकः ।\nविशेषः - अस्य शब्दस्य विषये कौमुदीकारः 'ऊर्जस्' इति मूलप्रातिपदिकं पाठयति, यस्यापि अर्थः 'शक्तिः' इत्येव अस्ति । अस्यां स्थितौ असुक्-आगमः न आवश्यकः । ऊर्जाः अस्मिन् अस्ति सः = ऊर्जस् + वलच् → ऊर्जस्वल ।\n6) गोमिन् (owner of cows) - 'गो' शब्दात् 'अस्य अस्ति' अस्मिन् अर्थे 'मिनि' प्रत्ययं कृत्वा 'गोमिन्' शब्दः सिद्ध्यति । गावः अस्य सन्ति सः गोमी ।\n7) मलिन (dirty) - 'मलः अस्मिन् अस्ति' इत्यत्र 'मल' शब्दात् 'इनच्' प्रत्ययं कृत्वा' मलिन' शब्दः सिद्ध्यति । यथा - मलिनम् वस्त्रम् ।\n8) मलीमस (dirty) - 'मलः अस्मिन् अस्ति' इत्यत्र 'मल' शब्दात् 'ईमसच्' प्रत्ययं कृत्वा 'मलिमस' शब्दः सिद्ध्यति । यथा - मलीमसम् वस्त्रम् ।\nस्मर्तव्यम् - अत्र विवरणे निर्दिष्टेभ्यः प्रातिपदिकेभ्यः औत्सर्गिकः मतुँप्-प्रत्ययः अपि भवितुमर्हति । यथा - ऊर्जाः अस्य अस्ति सः ऊर्जस्वान् , गावः अस्य सन्ति सः गोमान् - आदयः ।" }, "52115": { "sa": "'अस्य अस्ति' अस्मिन् अर्थे प्रथमासमर्थेभ्यः अदन्तशब्देभ्यः विकल्पेन 'इनि' तथा 'ठन्' प्रत्ययौ भवतः, पक्षे मतुँप्-प्रत्ययः अपि विधीयते । ", "sd": "'अस्य अस्ति' अस्मिन् अर्थे सर्वेभ्यः प्रातिपदिकेभ्यः <<तदस्यास्त्यस्मिन्निति मतुँप्>> [[5.2.94]] इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । ह्रस्व-अकारान्तशब्दानां विषये अस्मिन्नेव अर्थे वर्तमानसूत्रेण 'इनि' तथा 'ठन्' एतौ प्रत्ययौ अपि भवतः । यथा -\n1. इनि-प्रत्ययः -\nअस्मिन् प्रत्यये नकारोत्तरः अकारः इत्संज्ञकः नास्ति, अपितु 'नकारस्य <<हलन्त्यम्>> [[1.3.3]] इत्यनेन इत्संज्ञा मा भूत्' इति ज्ञापयितुम् स्थापितः अस्ति । प्रक्रियायामस्य लोपः भवति, अतः 'इन्' इति प्रत्ययः प्रयुज्यते । यथा -\nअ) दण्डः अस्य अस्ति सः = दण्ड + इन् → दण्डिन् । <<यस्येति च>> [[6.4.148]] इति अकारलोपं कृत्वा रूपं सिद्ध्यति\nआ) छत्रः अस्य अस्ति सः = छत्र + इन् → छत्रिन् ।\n(इ) कामः अस्य अस्ति सः = काम + इन् → कामिन् ।\n(ई) चक्रमस्य अस्ति सः = चक्र + इन् → चक्रिन् ।\n(उ) रथः अस्य अस्ति सः = रथ + इन् → रथिन् ।\nएवमेव शार्ङिन्, गुणिन्, फलिन्, अधिकारिन् - एते शब्दाः अपि सिद्ध्यन्ति । एतेषाम् सर्वेषाम् रूपाणि त्रिषु अपि लिङ्गेषु भवन्ति -\nअ) पुंलिङ्गे अस्य रूपाणि 'शशिन्' शब्दवत् भवन्ति । यथा - दण्डी, दण्डिनौ, दण्डिनः ।\nआ) स्त्रीत्वे विवक्षिते <<ऋन्नेभ्यो ङीप्>> [[4.1.5]] इत्यनेन एते शब्दाः ङीप्-प्रत्ययं स्वीकुर्वन्ति, तथा च एतेषां रूपाणि 'नदी' शब्दवत् भवन्ति । यथा - दण्डिनी दण्डिन्यौ दण्डिन्यः ।\n(इ) नपुंसकलिङ्गे एतेषां प्रथमाद्वितीययोः रूपाणि 'दण्डि दण्डिनी दण्डीनि' इति भवन्ति । तृतीयातः आरभ्य पुंलिङ्गवत् एव रूपाणि जायन्ते । सम्बोधनस्य प्रथमैकवचने अनेन वार्त्तिकेन विकल्पेन नकारलोपं कृत्वा 'हे दण्डि' तथा 'हे दण्डिन्' इति रूपद्वयम् जायते ।\n2. ठन्-प्रत्ययः\nअस्मिन् प्रत्यये विद्यमानस्य ठकारस्य <<ठस्येकः>> [[7.3.50]] इत्यनेन इक्-आदेशः भवति । यथा -\nअ) दण्डः अस्य अस्ति सः = दण्ड + ठन् → दण्ड + इक → दण्डिक । <<यस्येति च>> [[6.4.148]] इति अकारलोपं कृत्वा रूपं सिद्ध्यति ।\nआ) छत्रः अस्य अस्ति सः छत्रिकः ।\n(इ) कामः अस्य अस्ति सः कामिकः ।\nएवमेव गुणिकः, फलिकः, अधिकारिकः - आदयः शब्दाः अपि सिद्ध्यन्ति । एतेषाम् रूपाणि पुंलिङ्गे बाल-शब्दवत्, स्त्रीलिङ्गे माला-शब्दवत् तथा नपुंसकलिङ्गे फल-शब्दवत् भवन्ति ।\nविशेषः -\n1. सर्वेभ्यः अदन्तशब्देभ्यः वर्तमानसूत्रेण विकल्पेन मतुँप्-प्रत्ययः अपि भवति । तथा च, प्रक्रियायाम् <<मादुपधायाश्च मतोर्वोऽयवादिभ्यः>> [[8.2.9]] इत्यनेन यवादिगणं विहाय अन्येभ्यः शब्देभ्यः विहितस्य मतुँप्-प्रत्ययस्य मकारस्य वकारादेशः अपि भवति । यथा - दण्डः अस्य अस्ति सः दण्डवान्, बलमस्य अस्ति सः बलवान् - आदयः ।\n2. अनेन सूत्रेण 'अस्य अस्ति' इत्यस्मिन् षष्ठ्यर्थे एव 'इनि' तथा 'ठन्' प्रत्ययौ पाठ्येते । 'अस्मिन् अस्ति' इत्यस्मिन् अर्थे (= सप्तम्यर्थे) एतौ प्रत्ययौ न भवतः । यथा - दण्डाः सन्ति अस्याम् शालायाम्' इत्यत्र एतौ प्रत्ययौ न भवतः । औत्सर्गिकः मतुँप्-प्रत्ययः तु भवत्येव । यथा - दण्डवती शाला ।\n3. <<द्वन्द्वोपतापगर्ह्यात् प्राणिस्थादिनिः>> [[5.2.128]] इत्यस्मात् आरभ्य <<बलादिभ्यो मतुबन्यतरस्याम्>> [[5.2.136]] इति यावद्भिः सूत्रैः केभ्यश्चन शब्देभ्यः वर्तमानसूत्रस्य अपवादरूपेण केवलम् 'इनि' प्रत्ययविधानम् क्रियते (इत्युक्ते, ठन् तथा मतुँप्-प्रत्यययोः निषेधः भवति )।\nअत्र एकम् वार्त्तिकम् ज्ञातव्यम् - । इत्युक्ते, वर्तमानसूत्रेण पाठितौ इनि/ठन्-प्रत्ययौ एकाक्षरस्य अङ्गस्य विषये, कृदन्तस्य अङ्गस्य विषये, जातिवाचकस्य अङ्गस्य विषये तथा च सप्तम्यर्थे न भवन्ति । उदाहरणानि एतानि -\nअ) एकाक्षरम् - यदि अङ्गे एकम् एव अक्षरम् (= प्रारम्भे कानिचन व्यञ्जनानि ; तदनन्तरम् एकः स्वरः) विद्यते, तर्हि तस्मात् अङ्गात् 'इनि' तथा 'ठन्' प्रत्ययौ न भवतः । यथा - स्वः अस्य अस्ति सः स्ववान् । खमस्य अस्ति सः खवान् ।\n(आ) कृदन्तशब्दः - कृत्-प्रत्ययान्तम् यत् अङ्गम्, तस्मात् 'इनि' तथा 'ठन्' प्रत्ययौ न भवतः । यथा - कारकः अस्य अस्ति सः कारकवान् । लेखनमस्य अस्ति सः लेखनवान् ।\n(इ) जातिवाचकः शब्दः - यदि अङ्गम् जातिवाचकमस्ति (indicates a species or a cast) तर्हि तस्मात् 'इनि' तथा 'ठन्' प्रत्ययौ न भवतः । यथा - व्याघ्रः अस्य अस्ति सः व्याघ्रवान् । शूद्रः अस्य अस्ति सः शूद्रवान् ।\n(ई) सप्तम्यर्थै - वर्तमानसूत्रेण उक्तौ 'इनि' तथा 'ठन्' प्रत्ययौ केवलम् 'अस्य अस्ति' अस्मिन्नेव अर्थे प्रयुज्येते, न हि 'अस्मिन् अस्ति' इत्यर्थे । यथा, 'दण्डाः सन्ति अस्यां शालायाम्' इत्यत्र 'इनि' तथा 'ठन्' प्रत्ययौ न भवतः ।\nविशेषः - केषुचन स्थलेषु कृदन्तेभ्यः / जातिवाचकेभ्यः शब्देभ्यः अपि इनि-प्रत्ययः तथा ठन्-प्रत्ययः कृतः दृश्यते । यथा - कार्यमस्य अस्ति सः कार्यी । तण्डुलाः अस्य सन्ति सः तण्डुलिकः - आदयः । एतादृशानाम् प्रयोगानाम् समर्थनार्थम् काशिकाकारः सूत्रे 'इति' एतम् शब्दमनुवृत्तिरूपेण 'विवक्षा' इत्यस्मिन् अर्थे स्वीकरोति, येन एते शब्दाः अपि साधुत्वं प्राप्नुवन्ति । भाष्यकारः तु 'अनभिधानात् न भविष्यति' इति उक्त्वा 'अस्य वार्त्तिकस्य आवश्यकता एव नास्ति' इति निदर्शयति ।\n" }, "52116": { "sa": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः व्रीह्यादिगणस्य शब्देभ्यः प्रथमासमर्थेभ्यः विकल्पेन 'इनि' तथा 'ठन्' प्रत्ययौ भवतः, पक्षे मतुँप्-प्रत्ययः अपि विधीयते । ", "sd": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः <<तदस्यास्त्यस्मिन्निति मतुँप्>> [[5.2.94]] इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । व्रीह्यादिगणस्य शब्देभ्यः अस्मिन्नेव अर्थे वर्तमानसूत्रेण 'इनि' तथा 'ठन्' एतौ प्रत्ययौ अपि भवतः ।\nव्रीह्यादिगणः अयम् - व्रीहि, माया, शिखा, मेखला, संज्ञा, बलाका, माला, वीणा, वडवा, अष्टका, पताका, कर्मन्, चर्मन्, हंसा, यवखद, कुमारी, नौ , शीर्षात् नञः (गणसूत्रम्) ।\nअस्य सूत्रस्य विषये व्याख्यानेषु उच्यते - न च व्रीह्यादिभ्यः सर्वेभ्यः प्रत्ययद्वयम् इष्यते । इत्युक्ते, व्रीह्यादिगणे विद्यमानाः केचन शब्दाः केवलम् 'इनि' प्रत्ययमेव स्वीकुर्वन्ति, केचन अन्ये च 'ठन्' प्रत्ययम् एव स्वीकुर्वन्ति । क्रमेण पश्यामः -\n1) 'व्रीहि' तथा 'माया' एताभ्याम् शब्दाभ्याम् 'इनि' तथा 'ठन्' द्वावपि प्रत्ययौ भवतः । यथा -\nव्रीहिः अस्य अस्ति सः व्रीही व्रीहिकः वा । व्रीहि + इन् → व्रीहिन् । व्रीहि + ठन् → व्रीहिक ।\n माया अस्य अस्मिन् वा अस्ति सः मायी मायिकः वा । माया + इन् → मायिन् । माया + ठन् → मायिक ।\nविशेषः - <<अस्मायामेधास्रजो विनिः>> [[5.2.121]] इत्यनेन 'माया' शब्दात् अस्मिन्नेव अर्थे 'विनि' प्रत्ययं कृत्वा 'मायाविन्' इति अपि प्रातिपदिकम् सिद्ध्यति ।\n2) व्रीह्यादिगणे विद्यमानात् 'शिखा' शब्दात् अारभ्य 'हंसा' शब्दं यावत् पाठिताः शब्दाः 'शिखादिः' नाम्नि गणे अपि स्वीक्रियन्ते । एते शब्दाः केवलम् 'इनि' प्रत्ययमेव स्वीकुर्वन्ति, ठन्-प्रत्ययम् न ।\nयथा -\nअ) शिखा अस्य अस्ति सः शिखी । शिखा + इन् → शिखिन् ।\nआ) संज्ञा अस्य अस्ति सः संज्ञी । संज्ञा + इन् → संज्ञिन् ।\nइ) कर्म अस्य अस्ति सः कर्मी । कर्मन् + इन् → कर्मिन् । <<नस्तद्धिते>> [[6.4.144]] इति टिलोपः ।\nआदयः\n3) 'यवखद', 'कुमारी' तथा 'नौ' - एताभ्यां शब्दाभ्याम् 'ठन्' प्रत्ययः एव भवति । यथा -\nअ) यवखदः अस्य अस्मिन् वा अस्ति सः यवखदिकः ।\nआ) कुमारी अस्य अस्ति सः कुमारिकः ।\nइ) नौ अस्य अस्ति सः नाविकः ।\nविशेषः - काशिकायाम् 'ठन्' इत्यस्य स्थाने 'इकन्' इति प्रत्ययः उच्यते । 'इकन्' इति 'ठन्' इत्यस्यैव पूर्वाचार्यैः दत्तम् नाम । <<ठस्येकः>> [[7.3.50]] इत्यनेन ठकारस्य इकारादेशं कृत्वा ठन्-प्रत्ययस्य इकन्-आदेशः भवति, स एव अत्र निर्दिष्टः अस्ति ।\n4) अस्मिन् गणे 'शीर्षात् नञः' इति गणसूत्रमपि पाठ्यते । अस्य अर्थः अयम् - 'नञ्-समासे विद्यमानात् शीर्ष-शब्दात् एतयोः अर्थयोः इनि तथा ठन् प्रत्ययौ भवतः । यथा -\nन विद्यते शिरः अस्य (= विग्रहवाक्ये अत्र 'शिरस्' शब्दः स्वीक्रियते) ।\nअ + शिरस् + इनि / ठन्\n→ अ + शिरस् + इन् / इक [इत्संज्ञालोपः, ठकारस्य <<ठस्येकः>> [[7.3.50]] इति इक-आदेशः]\n→ अ + शीर्ष + इन् / इक [<<अचि शीर्षः>> [[6.1.62]] इति शिरस्-इत्यस्य शीर्ष-इति आदेशः]\n→ अशीर्ष् + इन् / इक [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ अशीर्षिन् / अशीर्षिक\nयस्य शिरः न विद्यते सः अशीर्षी अशीर्षिकः वा ।\nज्ञातव्यम् - व्रीह्यादिभ्यः सर्वेभ्यः शब्देभ्यः मतुँप्-प्रत्ययः तु भवत्येव । यथा - व्रीहिः अस्य अस्मिन् वा अस्ति सः व्रीहिमान् । माया अस्य अस्मिन् वा अस्ति सः मायावान् । एवमेव 'शिखावान्', 'संज्ञावान्', 'कर्मवान्' ' नौमान्' - आदीनि रूपाणि अपि सिद्ध्यन्ति ।\n" }, "52117": { "sa": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः तुन्दादिगणस्य प्रथमासमर्थेभ्यः शब्देभ्यः इलच्, इनि, ठन् तथा मतुँप् - एते प्रत्ययाः विधीयन्ते । ", "sd": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः <<तदस्यास्त्यस्मिन्निति मतुँप्>> [[5.2.94]] इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । तुन्दादिगणस्य शब्देभ्यः अस्मिन्नेव अर्थे वर्तमानसूत्रेण 'इलच्', 'इनि' तथा 'ठन्' एते प्रत्ययाः अपि भवन्ति ।\nतुन्दादिगणः अयम् - तुन्द, उदर, पिचण्ड, घट, यव, व्रीहि, स्वाङ्गाद् विवृद्धौ च ।\nयथा - तुन्दम् (tummy / pronounced belly) अस्य अस्ति सः तुन्दिलः तुन्दी, तुन्दिकः तुन्दवान् वा ।\n(अ) तुन्द + इलच् → तुन्दिल ।\n(आ) तुन्द + इनि → तुन्दिन् ।\n(इ) तुन्द + ठक् → तुन्दिक ।\n(ई) तुन्द + मतुँप् → तुन्दवत्\nएवमेव अन्येषाम् शब्दानामपि चत्वारि रूपाणि भवन्ति । यथा - उदरिलः, उदरी, उदरिकः, उदरवान् - आदयः ।\nविशेषः - अस्मिन् गणे 'व्रीहि' शब्दः पाठ्यते । यथा - व्रीहिः अस्य अस्मिन् वा अस्ति सः व्रीहिलः, व्रीही , व्रीहिक, व्रीहिमान् ।\nपरन्तु अत्र एकः विषयः चिन्तनीयः । यदि 'व्रीहि' इति शब्दः वर्तमानसूत्रे पाठिते तुन्दादिगणे स्वीक्रियते, तर्हि पूर्वसूत्रे <<व्रीह्यादिभ्यश्च>> [[5.2.116]] इत्यत्र अस्य शब्दस्य ग्रहणमनर्थकम् भवति, यतः पूर्वसूत्रेण उक्ताः सर्वे प्रत्ययाः वर्तमानसूत्रेण अपि भवन्त्येव । If the word व्रीहि is to be considered in the current sutra, then there is no reason to consider it in the previous sutra, because all pratyayas given by the previous sutra as also given by this sutra । अतः अस्मिन् सूत्रे पाठितः 'व्रीहि' शब्दः पर्यायशब्दानामपि ग्रहणम् करोति, केवलम् 'व्रीहि' इत्यस्य न - इति व्याख्यानानि वदन्ति । यथा - 'शालि' शब्दः 'व्रीहि' इत्यस्मिन्नेव अर्थे प्रयुज्यते, अतः तुन्दादिगणे 'शालि' शब्दस्यापि ग्रहणम् क्रियते । यथा - शालिः अस्य अस्मिन् वा अस्ति सः शालिलः / शाली / शालिकः / शालिवान् ।\n2. अस्मिन् गणे एकम् गणसूत्रम् पाठ्यते - 'स्वाङ्गाद् विवृद्धौ च' । इत्युक्ते शरीरस्य कश्चन अवयवः यदि 'विवृद्धः' (= bigger than normal / expanded / bulged ) अस्ति, तर्हि तस्मात् शब्दात् अपि 'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः 'इलच्', 'इनि' , ठन्' तथा 'मतुँप्' एते चत्वारः प्रत्ययाः भवन्ति । यथा - विवृद्धौ कर्णौ अस्य सः कर्णिलः / कर्णी / कर्णिकः / कर्णवान् । विवृद्धाः दन्ताः अस्य सः दन्तिलः / दन्ती / दन्तिक / दन्तवान् । " }, "52118": { "sa": "यस्मिन् शब्दे पूर्वपदम् 'एक' यथा 'गो' इति विद्यते, तस्मात् शब्दात् प्रथमासमर्थात् 'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः ठञ्-प्रत्ययः भवति । ", "sd": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः <<तदस्यास्त्यस्मिन्निति मतुँप्>> [[5.2.94]] इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । परन्तु यस्मिन् शब्दे पूर्वपदम् 'एक' उत 'गो' इति वर्तते, तस्मात् शब्दात् वर्तमानसूत्रेण मतुँप्-प्रत्ययं बाधित्वा 'ठञ्' प्रत्ययः भवति ।\nउदाहरणानि एतानि -\n1. एकशतमस्य अस्मिन् वा अस्ति\n= एकशत + ठञ्\n→ एकशत + इक [<<ठस्येकः>> [[7.3.50]] इति इक-आदेशः]\n→ ऐकशत + इक [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ ऐकशत् + इक [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ ऐकशतिक\n2 .एकसहस्रमस्य अस्मिन् वा अस्ति सः ऐकसहस्रिकः ।\n3. गोशतमस्य अस्मिन् वा अस्ति सः गौशतिकः ।\n4. गोसहस्रमस्य अस्मिन् वा अस्ति सः गौसहस्रिकः ।\n5. गोशकटी (bullock-cart) अस्य अस्मिन् वा अस्ति सः गौशकटिकः ।\nविशेषः -\n1. भाष्यकारस्य मतेन अस्य सूत्रस्य प्रयोगः केषाञ्चन शब्दानाम् विषये एव भवति, सर्वेषाम् न । यथा - 'एकविंशति' अस्य शब्दस्य विषये अनेन सूत्रेण 'ठञ्' प्रत्ययः न भवति । अतः शिष्टप्रयोगम् दृष्ट्वैव अस्य सूत्रस्य प्रयोगः करणीयः ।\n2. काशिकाकारः अस्मिन् सूत्रे <<अत इनिठनौ>> [[5.2.115]] इत्यस्मात् 'अत' इत्यस्य अनुवृत्तिं स्वीकरोति, येन 'एकविंशति' आदयः शब्दाः अत्र प्रत्ययम् प्राप्तुमेव न अर्हन्ति । अस्मिन् पक्षे 'गौशकटिकः' इत्यस्य विग्रहः 'गोशकटः अस्य अस्मिन् वा अस्ति' इति दीयते । परन्तु भाष्यकारस्य मतेन अस्मिन् सूत्रे 'अत' इति न अनुवर्त्तनीयम् ।\n3. अस्मिन् सूत्रे पाणिनिना निर्दिष्टः 'नित्यम्' इति शब्दः 'मतुँप्' प्रत्ययस्य बाधनार्थमस्ति । इतः पूर्वेषु सूत्रेषु 'अन्यतरस्याम्' तथा 'मतुँप्' द्वयोः अपि अनुवृत्तिः स्वीक्रियते । अस्मिन् सूत्रे इयमनुवृत्तिः मा आगच्छेत्, इति स्पष्टीकर्तुमत्र 'नित्य'शब्दः उच्यते ।\n" }, "52119": { "sa": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः 'निष्कशत' तथा 'निष्कसहस्र' एताभ्याम् शब्दाभ्याम् प्रथमासमर्थाभ्याम् ठञ्-प्रत्ययः भवति । ", "sd": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः <<तदस्यास्त्यस्मिन्निति मतुँप्>> [[5.2.94]] इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अस्य अपवादरूपेण वर्तमानसूत्रेण 'निष्कशत' तथा 'निष्कसहस्र' एताभ्याम् शब्दाभ्याम् एतयोः अर्थयोः 'ठञ्' प्रत्ययः विधीयते । यथा -\n1. निष्कशतमस्य अस्मिन् वा अस्ति = निष्कशत + ठञ् → नैष्कशतिक । One who owns or contains 100 gold coins - इत्यर्थः ।\n2. निष्कसहस्रमस्य अस्मिन् वा अस्ति = निष्कसहस्र + ठञ् → नैष्कसहस्रिक । One who owns or contains 1000 gold coins - इत्यर्थः ।\nस्मर्तव्यम् - वस्तुतः अस्मिन् सूत्रे 'शतसहस्रान्तात् निष्कात्' इति उक्तमस्ति । इत्युक्ते, येषु शब्देषु 'निष्कशत' तथा 'निष्कसहस्र' इति पदम् विद्यते, तेभ्यः सर्वेभ्यः शब्देभ्यः वर्तमानसूत्रेण ठञ्-प्रत्ययः भवेत् । यथा - सुवर्णनिष्कशत, महानिष्कसहस्र - एताभ्याम् शब्दाभ्यामपि अनेन सूत्रेण ठञ्-प्रत्ययः भवेत् । परन्तु तादृशाः शिष्टप्रयोगाः न विद्यन्ते, अतः तानि उदाहरणानि अत्र न दत्तानि सन्ति । केवलम् 'निष्कशत' तथा 'निष्कसहस्र' एतयोः शब्दयोः विषये एव अस्य सूत्रस्य प्रयोगः भवति । " }, "52120": { "sa": "'आहत' तथा 'प्रशंसा' एतयोः विशेष्यरूपेण प्रयुज्यमानात् रूप-शब्दात् प्रथमासमर्थात् 'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः यप्-प्रत्ययः भवति । ", "sd": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः <<तदस्यास्त्यस्मिन्निति मतुँप्>> [[5.2.94]] इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । परन्तु यत्र 'रूप'शब्दस्य विशेषणरूपेण 'आहत' (imprinted) तथा 'प्रशंसा' (praised) एतौ अर्थौ भवतः, तत्र 'रूप' शब्दात् यप्-प्रत्ययः क्रियते । क्रमेण पश्यामः -\n1. आहतम् रूपम् यस्मिन् तत् रूप्यम् नाणकम् । A coin on which an image (of a king / god etc) has been imprinted -\nइत्यर्थः । अत्र 'रूपमाहतमस्ति' इति अर्थः निर्दिष्यते, अतः अत्र 'रूप' शब्दात् यप्-प्रत्ययः भवति ।\nरूप + यप्\n--> रूप्य [<<हलन्त्यम्>> [[1.3.3]] इति पकारस्य इत्संज्ञा । <<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n2. प्रशस्तम् रूपम् यस्य तत् रूप्यम् पुष्पम् । A flower that looks very beautiful - इत्यर्थः । अत्र 'रूपम् प्रशस्तमस्ति' इति अर्थः निर्दिश्यते, अतः अत्र रूप-शब्दात् यप्-प्रत्ययः भवति ।\nविशेषः - अस्मिन् सूत्रे 'प्रशंसा' इति शब्दः प्रयुज्यते, परन्तु अत्र विग्रहवाक्येषु तु 'प्रशस्तम्' इत्येव गृह्यते ।\nस्मर्तव्यम् -\n1. 'आहतम्' तथा 'प्रशंसा' एतौ सन्दर्भौ विहाय अन्येषु सन्दर्भेषु रूप-शब्दः प्रयुज्यते चेत् तस्मात् तु औत्सर्गिकः मतुँप्-प्रत्ययः तथा <<अत इनिठनौ>> [[5.2.115]] इत्यनेन 'इनि' तथा 'ठन्' प्रत्ययौ एव भवतः । यथा - रूपमस्य अस्ति सः रूपवान् रूपी रूपिकः वा । अत्र केवलम् 'रूपमस्ति' (A form exists) इति निर्देशः क्रियते, अतः अत्र वर्तमानसूत्रस्य प्रयोगः न कर्तव्यः ।\n2. अस्य सूत्रस्य विषये भाष्यकारः वदति - । इत्युक्ते, 'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः यप्-प्रत्ययः केभ्यश्चन अन्येभ्यः शब्देभ्यः अपि कृतः दृश्यते । यथा - हिममस्मिन् अस्ति सः हिम्यः पर्वतः । गुणाः यस्मिन् सन्ति ते गुण्याः ब्राह्मणाः - आदयः । एतादृशानाम् शब्दानामावली तु भाष्ये न दीयते, अतः शिष्टप्रयोगं दृष्ट्वैव एतेषाम् ज्ञानम् भवति ।\n" }, "52121": { "sa": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः असन्तेभ्यः प्रातिपदिकेभ्यः, तथा 'माया', 'मेधा' तथा 'स्रज्' एतेभ्यः शब्देभ्यः प्रथमासमर्थेभ्यः 'विनि' तथा 'मतुप्' प्रत्ययौ भवतः । ", "sd": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः <<तदस्यास्त्यस्मिन्निति मतुँप्>> [[5.2.94]] इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । केभ्यश्चन शब्देभ्य एतयोः अर्थयोः 'विनि' इति अपि अपरः प्रत्ययः वर्तमानसूत्रेण पाठ्यते । क्रमेण पश्यामः -\n1. असन्ताः शब्दाः - ये शब्दाः 'अस्' इत्यनेन समाप्यन्ते, ते 'असन्ताः (= अस् + अन्ताः)' इति नाम्ना ज्ञायन्ते । यथा - चन्द्रमस्, पयस्, विद्वस्, यशस्, तपस् - आदयः । एतेभ्यः शब्देभ्यः 'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः 'विनि' प्रत्ययः भवति ।\nयथा -\nअ) यशः अस्य अस्ति सः यशस्वी । प्रक्रिया इयम् -\nयशस् + विनि\n→ यशस् + विन् [इकारः उच्चारणार्थः, तस्य लोपः]\n→ यशस् + विन् [<<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इति पदसंज्ञायां प्राप्तायाम् <<तसौ मत्वर्थे>> [[1.4.19]] इति भसंज्ञा विधीयते । अतः सकारस्य रुँत्वम् न भवति ।]\n→ यशस्विन् ।\nआ) तपः अस्य अस्ति सा तपस्विनी । 'तपस्विन्' इति प्रातिपदिकम् । स्त्रीत्वे विवक्षिते <<ऋन्नेभ्यो ङीप्>> [[4.1.5]] इत्यनेन ङीप्-प्रत्ययं कृत्वा 'तपस्विनी' इति प्रातिपदिकम् सिद्ध्यति । तस्य प्रथमैकवचनम् 'तपस्विनी' इति ।\nइ) पयः यस्मिन् विद्यते तत् पयस्वि । 'पयस्विन्' इति प्रातिपदिकम्, नपुंसकलिङ्गस्य प्रथमैकवचनम् 'पयस्वि' इति ।\nपक्षे वर्तमानसूत्रेण 'मतुप्' प्रत्ययः अपि भवतीति स्मर्तव्यम् । यथा - पयस्वान्, यशस्वान् - आदयः ।\n2. 'माया', 'मेधा' (talent) तथा 'स्रज्' (garland) एतेभ्यः शब्देभ्यः अपि 'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः विनि-प्रत्ययः भवति । यथा -\nअ) माया अस्य अस्मिन् वा अस्ति सः मायावी । माया + विन् → मायाविन् इति प्रातिपदिकम् ।\nआ) मेधा अस्य अस्मिन् वा अस्ति सः मेधावी । मेधा + विन् → मेधाविन् इति प्रातिपदिकम् ।\n(इ) स्रक् अस्य अस्मिन् वा अस्ति सः स्रग्वी । प्रक्रिया इयम् -\nस्रज् + विनि\n→ स्रज् + विन् [इकारः उच्चारणार्थः, तस्य लोपः]\n→ स्रग् + विन् [<<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इति पदसंज्ञा । पदान्ते विद्यमानस्य जकारस्य <<चोः कुः>> [[8.2.30]] इति कुत्वे गकारः ।]\n→ स्रग्विन् ।\nपक्षे वर्तमानसूत्रेण 'मतुप्' प्रत्ययः अपि भवति । यथा - मायावान्, मेधावान्, स्रग्वान् ।\nविशेषः - 'माया' इति शब्दः <<व्रीह्यादिभ्यश्च>> [[5.2.116]] इत्यत्र निर्दिष्टे व्रीह्यादिगणे अपि स्वीकृतः अस्ति । अतः तेन सूत्रेण 'माया' शब्दात् 'इनि' तथा 'ठन्' एतौ प्रत्ययौ अपो भवतः । माया अस्य अस्मिन् वा अस्ति सः मायी मायिकः वा ।\nस्मर्तव्यम् -\n1. 'विनि' प्रत्यये नकारोत्तरः इकारः इत्संज्ञकः नास्ति । केवलम् 'विन्' इति उच्यते चेत् नकारस्य इत्संज्ञा भवेत्, या न इष्यते ; अतः नकारस्य इत्संज्ञाबाधनार्थमन्ते इकारः स्थापितः अस्ति । प्रक्रियायाः प्रारम्भे एव अस्य लोपः भवति ।\n2. सिद्धान्तकौमुद्यामस्मिन् सूत्रे कानिचन वार्त्तिकानि पाठितानि सन्ति । एतानि सर्वाणि वार्त्तिकानि भाष्ये काशिकायां च अग्रिमे सूत्रे <<बहुलं छन्दसि>> [[5.2.122]] इत्यत्र पाठ्यन्ते, अतः तेषाम् विवरणम् तत्रैव दत्तमस्ति ।" }, "52122": { "sa": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः वेदेषु 'विनि' प्रत्ययः केषुचन स्थलेषु कृतः दृश्यते । ", "sd": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः <<तदस्यास्त्यस्मिन्निति मतुँप्>> [[5.2.94]] इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । परन्तु वेदेषु केषुचित् स्थलेषु 'विनि' इति प्रत्ययः अपि एतयोः अर्थयोः प्रयुक्तः दृश्यते । एतादृशानाम् प्रयोगानाम् साधुत्वार्थम् वर्तमानसूत्रस्य निर्माणमाचार्येण कृतमस्ति ।\nज्ञातव्यम् - अस्मिन् सूत्रे 'बहुलम्' इति शब्दः प्रयुज्यते । अस्य शब्दस्य अर्थः पण्डितैः एतादृशम् दीयते - 'क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव । विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति' ॥ इत्युक्ते, 'विशिष्टनियमस्य अभावः' बहुलं नाम्ना ज्ञायते । 'Lack of a consistent rule' - इति आशयः । अस्मिन् विषये अत्र विस्तारेण विवेचनम् कृतमस्ति, तत् तत्रैव दृश्यताम् ।\nविशेषः - अस्य सूत्रस्य उदाहरणार्थम् काशिकाकारः ' अग्ने तेजस्विन्' तथा 'सूर्यो वर्चस्वान्' एते वाक्ये ददाति । वस्तुतः एते उदाहरणे समीचीने नः, यतः उभयत्र <<अस्मायामेधास्रजो विनिः>> [[5.2.121]] इत्यनेनैव 'विनि' तथा 'मतुँप्' प्रत्ययौ भवतः, अतः एतयोर्विषये अस्य सूत्रस्य आवश्यकता न । अस्य सूत्रस्य उचितानि उदाहरणानि भाष्यकारेण द्वयोः वार्त्तिकयोः पाठितानि सन्ति - , तथा । इत्युक्ते, वेदेषु मतुबर्थयोः प्रयुक्तः 'विनि' प्रत्ययः 'अष्ट्रा', 'मेखला', 'द्वय', 'उभय', 'रुज', 'हृदय', तथा 'मर्मण' एतेभ्यः शब्देभ्यः कृतः दृश्यते, तथा च प्रक्रियायामङ्गस्य (आवश्यकं चेत्) दीर्घादेशः कृतः अपि दृश्यते । यथा -\nअ) अष्ट्रा (भयावहः ध्वनिः / frightening sound) अस्य अस्ति सः अष्ट्रावी ।\nउदाहरणम् - (ऋग्वेदः 10.102.8) शु॒नम॑ष्ट्रा॒व्य॑चरत्कप॒र्दी व॑र॒त्रायां॒ दार्वा॒नह्य॑मानः । नृ॒म्णानि॑ कृ॒ण्वन्ब॒हवे॒ जना॑य॒ गाः प॑स्पशा॒नस्तवि॑षीरधत्त ॥\nआ) मेखलावी - मेखला (girdle / belt) अस्य अस्मिन् वा अस्ति सः मेखलावी ।\nइ) द्वयावी - द्वयमस्य अस्मिन् वा अस्ति सः द्वयावी । अत्र 'द्वय + विन्' इति स्थिते अङ्गस्य दीर्घादेशः भवति ।\nउदाहरणम् (ऋग्वेदः 2.23.5) न तमंहो॒ न दु॑रि॒तं कुत॑श्च॒न नारा॑तयस्तितिरु॒र्न द्व॑या॒विन॑: । विश्वा॒ इद॑स्माद्ध्व॒रसो॒ वि बा॑धसे॒ यं सु॑गो॒पा रक्ष॑सि ब्रह्मणस्पते ॥\nई) उभयावी - उभयमस्य अस्मिन् वा अस्ति सः उभयावी । अत्र 'उभयम् + विन्' इति स्थिते अङ्गस्य दीर्घादेशः भवति ।\nउदाहरणम् (ऋग्वेदः 8.1.2) अ॒व॒क्र॒क्षिणं॑ वृष॒भं य॑था॒जुरं॒ गां न च॑र्षणी॒सह॑म् । वि॒द्वेष॑णं सं॒वन॑नोभयंक॒रं मंहि॑ष्ठमुभया॒विन॑म् ॥\n(उ) रुजावी - रुजा ( agony) अस्य अस्मिन् वा अस्ति सः रुजावी ।\n(ऊ) हृदयावी - हृदयमस्य अस्मिन् वा अस्ति सः हृदयावी ।\n(ऋ) मर्मावी (core / secret) - मर्म अस्य अस्मिन् वा अस्ति सः मर्मावी । प्रक्रिया इयम् -\nमर्मन् + विन्\n→ मर्म + विन् [<<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इति अङ्गस्य पदसंज्ञा । <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इत्यनेन पदान्तनकारस्य लोपः]\n→ मर्मा + विन् [वार्त्तिकेन अङ्गस्य दीर्घादेशः]\n→ मर्माविन्\nअस्मिन् सूत्रे भाष्यकारः कानिचन अन्यानि वार्त्तिकानि अपि पाठयति, येषां प्रयोगः लौकिकभाषायामपि भवति, न हि केवलम् वेदेषु । एतानि सर्वाणि अधः दत्तानि सन्ति -\n1. । इत्युक्ते, 'आमय' (disease / injury / sickness) शब्दात् सर्वत्र (वेदेषु तथा लोके - उभयत्र) मतुबर्थयोः विनि-प्रत्ययः कृतः दृश्यते, तथा च अङ्गस्य दीर्घादेशः अपि भवति । आमयमस्य अस्मिन् वा अस्ति सः आमयवी । 'रोगी' इत्यर्थः ।\n2. । इत्युक्ते, 'शृङ्ग' (horns) तथा 'वृन्दा' (sacred basil) एताभ्याम् शब्दाभ्याम् मतुबर्थयोः 'आरकन्' प्रत्ययः भवति । यथा - शृङ्गौ अस्य स्तः सः शृङ्गारकः पशुः । वृन्दाः अस्मिन् सन्ति तत् वृन्दारकम् वनम् ।\n3. । इत्युक्ते, 'फल' तथा 'बर्ह' (feathers) एताभ्याम् शब्दात् मतुबर्थयोः 'इनच्' प्रत्ययः भवति । यथा - फलानि सन्ति अस्मिन् सः फलिनः वृक्षः । बर्हमस्ति अस्य सः बर्हिणः मयूरः।\n4. । इत्युक्ते , 'हृदय' शब्दात् मतुबर्थयोः विकल्पेन 'चालु' प्रत्ययः अपि भवति । यथा - हृदयमस्ति यस्मिन् सः हृदयालुः । ('चालु' प्रत्यये चकारस्य <<चुटू>> [[1.3.7]] इति इत्संज्ञा लोपः च भवतीति स्मर्तव्यम्)।\nविशेषः - अस्मिन् वार्त्तिके 'अन्यतरस्याम्' इति उच्यते अतः 'हृदय' शब्दात् <<अत इनिठनौ>> [[5.2.115]] इत्यनेन इनि, ठन्, तथा मतुँप् -एते प्रत्ययाः अपि भवितुमर्हन्ति । यथा - हृदयमस्य अस्ति सः हृदयी हृदयिकः वा । हृदयमस्य अस्मिन् वा अस्ति सः हृदयवान् ।\n5. । इत्युक्ते, 'शीत', 'उष्ण', तथा 'तृप्र' एतेभ्यः शब्देभ्यः 'न सहते' इत्यस्मिन् अर्थे अलुच्-प्रत्ययः भवति । यथा - शीतं न सहते सः शीतालुः । उष्णम् न सहते सः उष्णालुः । तृप्रम् (= दुःखम्) न सहते सः तृप्रालुः ।\n6. । इत्युक्ते, 'हिम' शब्दात् 'न सहते' अस्मिन् अर्थे 'चेलु' प्रत्ययः भवति । हिमम् न सहते सः हिमेलुः ।\n7. । इत्युक्ते, 'न सहते' अस्मिन् अर्थे 'बल' शब्दात् 'उलच्' प्रत्ययः भवति । बलं न सहते सः बलूलः ।\nविशेषः - <<सिध्मादिभ्यश्च>> [[5.2.97]] इत्यनेन 'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः अपि 'बलूल' शब्दः विधीयते ।\n8. । इत्युक्ते, 'वातानाम् समूहः' तथा 'वातं न सहते' एतयोः अर्थयोः वात-शब्दात् 'ऊलच्' प्रत्ययः भवति । वातानाम् समूहः वातूलः, वातं न सहते सोऽपि वातूलः ।\nविशेषः - <<सिध्मादिभ्यश्च>> [[5.2.97]] इत्यनेन 'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः अपि 'वातूल' शब्दः विधीयते ।\n9. । इत्युक्ते, 'पर्व' (bamboo tree) तथा मरुत् (air) एताभ्यां शब्दाभ्याम् 'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः 'तन्' प्रत्ययः भवति । पर्वाणि सन्ति यस्मिन् सः पर्वतः । मरुत् अस्ति अस्य अस्मिन् वा सः मरुत्तः (name of a king).\nविशेषः - भाष्यकारः अस्मिन् वार्त्तिके 'तप्' इति प्रत्ययं पाठयति । 'तप्' तथा 'तन्' द्वयोः प्रत्यययोः रूपम् समानमेव भवति, परन्तु स्वरभेदः जायते । 'तन्' प्रत्ययान्तशब्दाः <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] इत्यनेन आद्युदात्ताः सन्ति । पित्-प्रत्ययान्तौ पर्वत/मरुत्त-शब्दौ तौ मध्योदात्तौ भवतः ।\n10. । इत्युक्ते, 'अर्थ' शब्दात् 'अभावः अस्मिन् अस्ति' अस्मिन् अर्थे 'इनि' प्रत्ययः भवति । यथा - अर्थस्य अभावः अस्ति अस्मिन् (= अर्थः नास्ति यस्य सः ) अर्थी ।\nविशेषः - एतत् वार्त्तिकम् भाष्ये कौमुद्यां च न दीयते ।\n " }, "52123": { "sa": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः प्रथमासमर्थात् 'ऊर्णा' शब्दात् युस्-प्रत्ययः भवति । ", "sd": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः <<तदस्यास्त्यस्मिन्निति मतुँप्>> [[5.2.94]] इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अस्य अपवादस्वरूपेण 'ऊर्णा' (wool) शब्दात् 'युस्' इति प्रत्ययः वर्तमानसूत्रेण दीयते । यथा -\nऊर्णा अस्य अस्ति सः\n= ऊर्णा + युस्\n→ ऊर्णायु । [युस्-प्रत्यये परे <<यचि भम्>> [[1.4.18]] इत्यनेन अङ्गस्य भसंज्ञायां प्राप्तायाम् <<सिति च>> [[1.4.16]] इत्यनेन अङ्गस्य पदसंज्ञा भवति, अतः <<यस्येति च>> [[6.4.148]] इत्यनेन अङ्गस्य आकारस्य लोपः न जायते ।]\nउर्णा अस्य अस्ति सः ऊर्णायुः (sheep) ।\nविशेषः - केचन पण्डिताः अस्मिन् सूत्रे पूर्वसूत्रात् 'छन्दसि' इति अनुवृत्तिं स्वीकुर्वन्ति । एतेषाम् मतेन 'ऊर्णायु' इति शब्दः वेदेषु एव प्रयुज्यते, भाषायां तु 'ऊर्णवान्' इत्येव साधुरूपम् । एतत् प्रायः समीचीनमेव, यतः यदि अत्र 'छन्दसि' न आवश्यकम् मन्यते चेत् वर्तमानसूत्रस्य भिन्नरूपेण निर्माणमेव भवितुम् न अर्हति, अपितु अस्मिन्नेव प्रकरणे <<अहंशुभमोर्युस्>> [[5.2.140]] इत्यत्र यः युस्-प्रत्ययः पाठ्यते, तत्रैव 'ऊर्णा' शब्दस्यापि ग्रहणं भवितुमर्हति । अतः वर्तमानसूत्रस्य विशेषरूपेण निर्माणमेव अस्य ज्ञापकम् यत् अत्र 'छन्दसि' इति अनुवृत्तिः इष्यते । " }, "52124": { "sa": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः 'वाच्' शब्दात् प्रथमासमर्थात् 'ग्मिनि' प्रत्ययः भवति । ", "sd": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः <<तदस्यास्त्यस्मिन्निति मतुँप्>> [[5.2.94]] इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अस्य अपवादस्वरूपेण 'वाच्' शब्दात् वर्तमानसूत्रेण 'ग्मिनि' प्रत्ययः भवति । प्रशस्ता वाक् अस्य अस्ति सः वाग्ग्मी । One who can speak fluently इत्याशयः । प्रक्रिया इयम् -\nवाच् + ग्मिनि\n→ वाच् + ग्मिन् [इकारः उच्चारणार्थः, तस्य लोपः । अङ्गस्य <<स्वादिष्वसर्वमानस्थाने>> [[1.4.17]] इति पदसंज्ञा]\n→ वाक् + ग्मिन् [<<चोः कुः>> [[8.2.30]] इति कुत्वे ककारः]\n→ वाग् + ग्मिन् [<<झलां जशोऽन्ते>> [[8.2.39]] इति पदान्तककारस्य गकारः]\n→ वाग्ग्मिन्\nअत्र तद्धितान्ते शब्दे द्वयोः गकारयोः श्रवणम् भवतीति ज्ञातव्यम् ।\nस्मर्तव्यम् -\n1. 'ग्मिनि' इत्यत्र आदिस्थः गकारः इत्संज्ञकः नास्ति, यतः तद्धितप्रत्ययेषु आदिस्थस्य कवर्गीयवर्णस्य इत्संज्ञा न भवति ।\n2. 'ग्मिनि' इत्यत्र नकारोत्तरः इकारः 'नकारस्य इत्संज्ञा मा भूत्' इति निर्देशयितुम् स्थापितः अस्ति । प्रक्रियायां तस्य लोपः भवति ।\n" }, "52125": { "sa": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः प्रथमासमर्थात् 'वाच्' शब्दात् 'बहुभाषी' एतमर्थम् दर्शयितुम् 'आलच्' तथा 'आटच्' प्रत्ययौ भवतः । ", "sd": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः <<तदस्यास्त्यस्मिन्निति मतुँप्>> [[5.2.94]] इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अस्य अपवादत्वेन 'वाच्' शब्दात् <<वाचो ग्मिनिः>> [[5.2.124]] इत्यनेन 'ग्मिनि' प्रत्ययः भवति । परन्तु यत्र 'बहुभाषी' इति अर्थः अपेक्षते, तत्र एतम् 'ग्मिनि'प्रत्ययं बाधित्वा वर्तमानसूत्रेण 'आलच्' तथा 'आटच्' एतौ प्रत्ययौ भवतः । यथा - बह्वी वाक् अस्य अस्ति सः वाचालः वाचाटः वा । वाच् + आलच् → वाचाल । वाच् + आटच् → वाचाट ।\nअत्र एकम् वार्त्तिकम् ज्ञातव्यम् - । इत्युक्ते, यः कुत्सितम् बहु भाषते (speaks irrelevant / bad things a lot) तस्यैव निर्देशार्थम् 'वाचाल' तथा 'वाचाट' एतयोः प्रयोगः भवति । यः 'सम्यक् बहु भाषते', तस्य निर्देशार्थम् तु <<वाचो ग्मिनिः>> [[5.2.124]] इत्यनेन 'ग्मिनि' प्रत्ययः एव क्रियते । यथा - सम्यक् बहु भाषते सः वाग्ग्मी ।\n " }, "52126": { "sa": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः ऐश्वर्ये गम्यमाने 'स्वामिन्' शब्दः निपात्यते । ", "sd": "अनेन सूत्रेण 'स्वामिन्' इति शब्दः निपात्यते । 'ऐश्वर्य' (= ईश्वरत्वम् / प्रभुत्वम् / ownership) अस्मिन् अर्थे प्रयुज्यमानः यः 'स्व' शब्द', तस्मात् निपातनेन 'आमिन्' प्रत्ययं कृत्वा अस्य शब्दस्य निर्माणम् भवति ।\nस्वम् (= ऐश्वर्यम्) अस्य अस्तिः सः\n= स्व + आमिन्\n→ स्व् + आमिन् [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ स्वामिन्\nयस्य प्रभुत्वम् / ownership अस्ति, तस्य निर्देशः 'स्वामी' इत्यनेन क्रियते । यथा - धनस्य स्वामी, भूमेः स्वामी - आदयः ।\nविशेषः - 'स्व' शब्दस्य 'ज्ञाति' (kinsmen / relatives) तथा धनम् - एतौ अन्यौ अर्थौ अपि स्तः । एतयोः अर्थयोः तु अस्मात् शब्दात् मतुँप्-प्रत्ययः एव भवति । यथा - स्वमस्य अस्ति सः स्ववान् ।\n" }, "52127": { "sa": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयो अर्शआदिगणस्य शब्देभ्यः प्रथमासमर्थेभ्यः अच्-प्रत्ययः भवति । ", "sd": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः <<तदस्यास्त्यस्मिन्निति मतुँप्>> [[5.2.94]] इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । परन्तु 'अर्शआदि'गणस्य विषये अस्य अपवादरूपेण अच्-प्रत्ययः भवति ।\nअर्शआदिगणः अयम् -\nअर्शस्, उरस्, तुन्द, चतुर, पलित, जटा, घता, अभ्र, कर्दम, आम, लवण, स्वाङ्गाद्धीनात् (गणसूत्रम्), वर्णात् (गणसूत्रम्) । आकृतिगणोऽयम् ।\nउदाहरणानि -\n1. अर्शः (piles) अस्य सन्ति सः अर्शसः (अर्शस् + अच् → अर्शस)\n3. उरः (chest / breast) अस्य अस्ति सः उरसः\n4. तुन्दम् (protruded belly) अस्य अस्ति सः तुन्दः ।\nआदयः ।\nअत्र द्वे गणसूत्रे पाठिते स्तः -\n1. स्वाङ्गात् हीनात् (गणसूत्रम्) - इत्युक्ते स्वस्य हीन-अङ्गवाचिभ्यः शब्देभ्यः (inferior state of a body organ) अच् प्रत्ययः भवति । यथा - खञ्जः (broken / lame / handicapped) पादः अस्य अस्ति सः खञ्जः , काणः चक्षुः अस्य अस्ति सः काणः - आदयः ।\n 2. वर्णात् (गणसूत्रम्) - वर्णवाचकात् शब्दात् मतुबर्थयोः अच्-प्रत्ययः भवति । यथा - शुक्लः अस्य अस्मिन् वा अस्ति सः शुक्लः, कृष्णः अस्य अस्मिन् वा अस्ति सः कृष्णः ।\nविशेषः - <<तदस्यास्त्यस्मिन्निति मतुँप्>> [[5.2.94]] इत्यत्र इति किञ्चन वार्त्तिकम् पाठ्यते । अनेन वार्त्तिकेन गुणवाचिभ्यः शब्देभ्यः विहितस्य मतुँप्-प्रत्ययस्य लुक् भवति । यथा - शुक्लः अस्य अस्ति सः शुक्लः । अत्र तु प्रत्ययलुकं कृत्वा अपि 'शुक्ल' इत्येव शब्दः सिद्ध्यति । तर्हि अत्र पाठितस्य 'वर्णात्' गणसूत्रस्य किम् प्रयोजनम् - इति प्रश्नः जायते । अस्य समाधानम् एतादृशम् दीयते - प्रारम्भे गुणवाचिभ्यः शब्देभ्यः विहितस्य मतुप्-प्रत्ययस्य लुक्-कृत्वा यः शब्दः सिद्ध्यति, तस्मात् पुनः मतुबर्थे वर्तमानसूत्रेण अच्-प्रत्ययः भवति । यथा - 'शुक्लः वर्णः यस्य प्रासादस्य सः प्रासादः अपि शुक्लः ( = शुक्ल + मतुँप् → शुक्ल) । अयम् शुक्लः (प्रासादः) अस्ति यस्मिन् नगरे तत् शुक्लम् नगरम् (शुक्ल + अच् → शुक्ल) ।\nज्ञातव्यम् -\n1. अयम् 'अर्शआदिगणः' आकृतिगणः अस्ति । अनेके अन्ये शब्दाः शिष्टप्रयोगमनुसृत्य अस्मिन् गणे भवितुमर्हन्ति ।\n2. अस्मिन् गणे पाठितेभ्यः शब्देभ्यः अन्ये प्रत्ययाः अपि भवितुमर्हन्ति । यथा - 'तुन्दः अस्य अस्ति' इत्यत्र <<तुन्दादिभ्यः इलच् वा>> [[5.2.117]] इत्यनेन इलच्-प्रत्ययः अपि भवति, येन 'तुन्दिल' इति अपि रूपं सिद्ध्यति ।\n3. अस्य गणस्य नाम 'अर्शआदि' इति दत्तमस्ति । अत्र प्रक्रिया इयम् -\nअर्शः यस्य आदिः अस्ति सः ['अर्शस्' इति अस्य गणस्य प्रथमः शब्दः । अतः तस्य आधारेण <<अनेकमन्यपदार्थे>> [[2.2.24]] इत्यनेन अत्र बहुव्रीहिसमासः भवति]\nअर्शस् + आदि [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति प्रत्यययोः लोपः । ]\n→ अर्शरुँ + आदि [<<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यनेन लुप्त-सुँ-प्रत्ययेन प्राप्ता पदसंज्ञा 'अर्शस्' इत्यस्यापि भवति । अतः <<ससजुषोः रुँ>> [[8.2.66]] इति रुँत्वम् ]\n→ अर्शय् + आदि [<<भोभगोअघोऽपूर्वस्य योऽशि>> [[8.3.17]] इति यकारादेशः]\n→ अर्श + आदि [<<लोपः शाकल्यस्य>> [[8.3.19]] इति यकारलोपः]\nअग्रे असिद्धत्वात् सवर्णदीर्घम् न सम्भवति, अतः 'अर्शआदि' इत्येव गणस्य नाम ।\n" }, "52128": { "sa": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः द्वन्द्वसमासेन निर्मितेभ्यः शब्देभ्यः, रोगवाचिभ्यः शब्देभ्यः तथा च निन्दावाचिभ्यः ह्रस्व-अकारान्तशब्देभ्यः प्रथमासमर्थेभ्यः 'प्राणिषु स्थितम्' अस्मिन् सन्दर्भे इनि-प्रत्ययः भवति । ", "sd": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः <<तदस्यास्त्यस्मिन्निति मतुँप्>> [[5.2.94]] इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अदन्तशब्देभ्यः तु <<अत इनिठनौ>> [[5.2.115]] इत्यनेन 'इनि' तथा 'ठन्' एतौ द्वौ प्रत्ययौ अपि एतयोः अर्थे भवितुमर्हतः । परन्तु केभ्यश्चन अदन्तशब्देभ्यः केवलम् इनि-प्रत्ययः एव भवितुमर्हति, 'मतुँप्' उत 'ठन्' एतौ प्रत्ययौ न भवतः । एतादृशानाम् शब्दानाम् निर्देशः अस्मिन् सूत्रे कृतः अस्ति । क्रमेण पश्यामः -\n1. द्वन्द्वसमासेन निर्मिताः अदन्तशब्दाः यदि प्राणिषु स्थितस्य पदार्थस्य निर्देशं कुर्वन्ति, तर्हि तेभ्यः शब्देभ्यः वर्तमानसूत्रेण इनि-प्रत्ययः भवति । यथा -\nअ) कटकम् (bracelet) च वलयम् (bangle) च कटकवलये । कटकवलये स्तः अस्याः सा कटकवलयिनी स्त्री । A lady who own / wears bracelet and bangles इत्याशयः । अत्र 'कटकवलय' इति द्वन्द्वसमासेन निर्मितम् प्रातिपदिकम्, अस्य च प्रयोगः 'प्राणिषु विद्यते' अस्मिन् अर्थे अत्र कृतः अस्ति, अतः अस्मात् शब्दात् वर्तमानसूत्रेण 'इनि' प्रत्ययं कृत्वा अग्रे स्त्रीत्वे विवक्षिते <<ऋन्नेभ्यो ङीप्>> [[4.1.5]] इत्यनेन ङीप्-प्रत्ययं कृत्वा 'कटकवलयिनी' इति प्रातिपदिकम् सिद्ध्यति ।\nआ) शङ्खश्च नूपुरश्च शङ्खनूपुरौ । शङ्खनूपुरौ स्तः अस्याः सा शङ्खनूपुरिणी स्त्री । अत्रापि 'शङ्खनूपुर' अस्मात् द्वन्द्वसमासेन निर्मितात् प्रातिपदिकात् वर्तमानसूत्रेण 'इनि' प्रत्ययः क्रियते ।\nविशेषः - यदि द्वन्दसमासेन निर्मितं प्रातिपदिकम् 'प्राणिषु स्थितम्' अस्मिन् अर्थे न प्रयुज्यते, तर्हि अस्य सूत्रस्य प्रयोगः न भवति । यथा - पुष्पाणि च फलानि च पुष्पफलानि, तानि सन्ति यस्मिन् सः पुष्पफलवान् वृक्षः । अत्र 'वृक्ष' इति प्राणिवाचकः शब्दः नास्ति, अतः 'पुष्पफल' शब्दात् वर्तमानसूत्रस्य प्रयोगः न भवति । अतः औत्सर्गिकरूपेण 'मतुँप्' प्रत्यय कृत्वा रूपं सिद्ध्यति । (अत्र <<अत इनिठनौ>> [[5.2.115]] इत्यस्य प्रसक्तिरेव नास्ति यतः <<अत इनिठनौ>> [[5.2.115]] इत्यनेन केवलम् 'अस्य अस्ति' अस्मिन् अर्थे प्रत्ययः विधीयते, न हि 'अस्मिन् अस्ति' इत्यस्मिन् अर्थे)।\n2. रोगवाचिनः ये शब्दाः, तेभ्यः 'प्राणिस्थम्' इत्यस्मिन् अर्थे इनि-प्रत्ययः भवति । यथा - कुष्ठम् (leprosy) अस्ति अस्य सः कुष्ठी । किलासः (leprosy) अस्ति अस्मिन् सः किलासी । उभयत्र <<अत इनिठनौ>> [[5.2.115]] इत्यनेन ठन् तथा मतुँप् प्रत्यययोः प्राप्तयोः वर्तमानसूत्रेण तौ निषिध्येते ।\n3. निन्दावाचिनः (= दोषवाचिनः) ये शब्दाः, तेभ्यः 'प्राणिस्थम्' अस्मिन् अर्थे इनि-प्रत्ययः भवति । यथा, ककुदावर्त (hump) विद्यते यस्मिन् सः ककुदावर्ती । अत्र 'ककुदावर्त' शब्दः शरीरस्य दोषम् दर्शयितुम् प्रयुज्यते, अतः अस्मात् वर्तमानसूत्रेण 'इनि' प्रत्ययः भवति । एवमेव, 'काकतालुकः विद्यते अस्य सः काकतालुकी (one whose voice is like a crow. Sings / speaks very badly इत्याशयः) । उभयत्र <<अत इनिठनौ>> [[5.2.115]] इत्यनेन ठन् तथा मतुँप् प्रत्यययोः प्राप्तयोः वर्तमानसूत्रेण तौ निषिध्येते ।\nअत्र एकम् वार्त्तिकम् ज्ञातव्यम् - । इत्युक्ते, प्राणिनामङ्गवाचिनः ये शब्दाः, तेषाम् विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा - 'पाणिश्च पादश्च पाणिपादम् , तत् अस्ति यस्मिन् सः' इत्यत्र वर्तमानसूत्रेण 'इनि'प्रत्ययः न भवति । औत्सर्गिकम् मतुँप्-प्रत्ययं कृत्वा 'पाणिपादवान्' इत्येव रूपमत्र जायते ।\n" }, "52129": { "sa": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयो' 'वात' तथा 'अतिसार' शब्दाभ्याम् प्रथमासमर्थाभ्याम् 'इनि' प्रत्ययः भवति, तथा च प्रक्रियायामङ्गस्य 'कुक्' आगमः अपि विधीयते । ", "sd": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः <<तदस्यास्त्यस्मिन्निति मतुँप्>> [[5.2.94]] इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अस्य अपवादस्वरूपेण रोगवाचिभ्यः शब्देभ्यः <<द्वन्द्वोपतापगर्ह्यात् प्राणिस्थादिनिः>> [[5.2.128]] इत्यनेन इनि-प्रत्ययः विधीयते । अस्मिन्नेव 'इनि' प्रत्यये परे 'वात' (gas) तथा 'अतिसार' (diarrhoea) एतयोः अङ्गस्य वर्तमानसूत्रेण 'कुक्' इति आगमः भवति । यथा -\nअ) वातः अस्य अस्ति सः\n= वात + कुक् + इन् [वर्तमानसूत्रेण इन्-प्रत्ययः, अङ्गस्य च कुक्-आगमः]\n→ वात + क् + इन् ['कुक्' इत्यत्र ककारः इत्संज्ञकः, उकारः उच्चारणार्थः । द्वयोः लोपः भवति ।]\n→ वातकिन्\nवातः अस्य अस्ति सः वातकी ।\nआ) अतिसारः अस्य अस्ति सः अतिसारकी ।\nविशेषः - व्याख्यानेषु अत्र 'रोगे च अयम् इष्यते' इति उच्यते । इत्युक्ते, 'रोगः' अस्मिन् अर्थे प्रयुज्यमानौ यौ वात-अतिसार-शब्दौ, तयोर्विषये एव अस्य सूत्रस्य प्रसक्तिः अस्ति, अन्येषां विषये न । यथा - 'वातः विद्यते यस्याम् गुहायाम्' अत्र वर्तमानसूत्रस्य प्रयोगः न भवति, केवलम् औत्सर्गिकः मतुँप्-प्रत्ययः एव विधीयते, येन 'वातवती गुहा' इति रूपं सिद्ध्यति ।\nअत्र एकं वार्त्तिकम् ज्ञातव्यम् - । इत्युक्ते, 'पिशाच'शब्दात् अपि अनेन सूत्रेण मतुबर्थयोः 'इनि' प्रत्ययः तथा च अङ्गस्य कुक्-आगमः भवति । पिशाचः विद्यते अस्मिन् सः पिशाचकी । " }, "52130": { "sa": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः प्रथमासमर्थेभ्यः पूरणप्रत्ययान्तशब्देभ्यः वयसः निर्देशं कर्तुम् 'इनि' प्रत्ययः भवति । ", "sd": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः <<तदस्यास्त्यस्मिन्निति मतुँप्>> [[5.2.94]] इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अस्य अपवादस्वरूपेण पूरणप्रत्ययान्तशब्देभ्यः वयसि अभिधेये (to indicate an age) वर्तमानसूत्रेण 'इनि' प्रत्ययः विधीयते । यथा -\n1. पञ्चमः मासः अस्य अस्ति सः पञ्चमी शिशुः । A five-month old baby.\n2. अष्टमम् वर्षमस्य अस्ति सः अष्टमी कुमारः । An eight year old boy.\nविशेषः -\n1. पूरणप्रत्ययान्तशब्दाः सर्वे अदन्ताः सन्ति । एतेभ्यः 'अस्य अस्ति' अस्मिन् अर्थे <<अत इनिठनौ>> [[5.2.115]] इत्यने 'इनि' तथा 'ठन्' द्वयोरपि प्रत्यययोः प्राप्तयोः वर्तमानसूत्रेण पुनः 'इनि' प्रत्ययविधानं क्रियते, येन 'ठन्' प्रत्ययस्य निषेधः भवति ।\n2. यत्र वयसः निर्देशः नास्ति, तत्र वर्तमानसूत्रस्य प्रयोगः न भवति । यथा - पञ्चमः स्वरः विद्यते यस्मिन् सः पञ्चमवान् रागः । " }, "52131": { "sa": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सुखादिगणस्य प्रथमासमर्थेभ्यः शब्देभ्यः 'इनि' प्रत्ययः भवति । ", "sd": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः <<तदस्यास्त्यस्मिन्निति मतुँप्>> [[5.2.94]] इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अस्य अपवादस्वरूपेण सुखादिगणस्य शब्देभ्यः वर्तमानसूत्रेण 'इनि' इति प्रत्ययः विधीयते । अस्मिन् गणे ये अदन्तशब्दाः सन्ति तेभ्यः 'अस्य अस्ति' अस्मिन् अर्थे <<अत इनिठनौ>> [[5.2.115]] इत्यनेन 'मतुँप्', 'इनि' तथा 'ठन्' प्रत्ययेषु प्राप्तेषु वर्तमानसूत्रेण 'इनि' प्रत्ययस्य पुनर्विधानम् कृत्वा 'मतुँप्' तथा 'ठन्' प्रत्यययोः बाधनम् क्रियते ।\nसुखादिगणः अयम् - सुख, दुःख, तृप्र, कृच्छ्र, आम्र, अलीक, करुणा, कृपण, सोढ, प्रमीप, शील, हल, माला क्षेपे (गणसूत्रम्) , प्रणय ।\nउदाहरणानि -\n1. सुखम् विद्यते यस्मिन् सः सुखी ।\n2. दुःखम् विद्यते यस्मिन् सः दुःखी ।\n3. तृप्रम् ( (= दुःखम्) विद्यते यस्मिन् सः तृप्री ।\n4. करुणा विद्यते यस्मिन् सः करूणी ।\n5. प्रणयः विद्यते यस्याम् सा प्रणयिनी ।\nअत्र 'माला क्षेपे' इति गणसूत्रम् पाठ्यते । अस्य अर्थः अयम् - 'माला' शब्दात् 'क्षेप' (= निन्दा / insult) अस्मिन् अर्थे वर्तमानसूत्रेण इनि-प्रत्ययः भवति । माला अस्मिन् अस्ति सः माली निन्द्यः । one who has worn a garland for bad reasons - इत्याशयः ।\nविशेषः - 'माला' इति शब्दः <<व्रीह्यादिभ्यश्च>> [[5.2.116]] इत्यत्र पाठिते शिखादिगणे विद्यते अतः अस्मात् शब्दात् केवलम् 'इनि' तथा 'मतुँप्' प्रत्ययौ एव भवतः । अस्यां स्थितौ 'क्षेप (= निन्दा)' अस्मिन् अर्थे वर्तमानसूत्रेण मतुँप्-प्रत्ययस्यापि निषेधः भवति, केवलम् इनि-प्रत्ययः एव विधीयते ।\n" }, "52132": { "sa": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः धर्मान्तशब्देभ्यः शीलान्तशब्देभ्यः तथा वर्णान्तशब्देभ्यः प्रथमासमर्थेभ्यः 'इनि' प्रत्ययः भवति । ", "sd": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः <<तदस्यास्त्यस्मिन्निति मतुँप्>> [[5.2.94]] इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । परन्तु यस्मिन् शब्दे 'धर्म', 'शील' तथा 'वर्ण' (cast) एतेषु कश्चनशब्दः अन्ते विद्यते, तस्मात् शब्दात् मतुँप्-प्रत्ययं बाधित्वा वर्तमानसूत्रेण 'इनि' प्रत्ययः विधीयते ।\nयथा -\n1. ब्राह्मणधर्मः अस्य अस्ति सः ब्राह्मणधर्मी ।\n2. क्षत्रियशीलमस्य अस्ति सः क्षत्रियशीली ।\n3. वैश्यवर्णः अस्य अस्ति सः वैश्यवर्णी ।\nज्ञातव्यम् - एतेभ्यः सर्वेभ्यः शब्देभ्यः 'अस्य अस्ति' अस्मिन् अर्थे <<अत इनिठनौ>> [[5.2.115]] इत्यनेन मतुँप्, इनि, तथा ठन् प्रत्ययेषु प्राप्तेषु वर्तमानसूत्रेण पुनः 'इनि' प्रत्ययः विधीयते, येन 'मतुँप्' तथा 'ठन्' प्रत्यययोः निषेधः भवति ।\n" }, "52133": { "sa": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः 'हस्त'शब्दात् जातेः निर्देशार्थम् इनि-प्रत्ययः भवति । ", "sd": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः <<तदस्यास्त्यस्मिन्निति मतुँप्>> [[5.2.94]] इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अस्य अपवादरूपेण 'हस्त'( = trunk) शब्दात् जातिनिर्देशे (to indicate category of animals) 'इनि' प्रत्ययः भवति । हस्तः अस्ति यस्य सः 'हस्ती' (हस्तिन् इति प्रातिपदिकम्) ।The species of animals that contain trunk - इत्याशयः ।\nविशेषः - 'अस्य अस्ति' अस्मिन् अर्थे 'हस्त'शब्दात् <<अत इनिठनौ>> [[5.2.115]] इत्यनेन मतुँप्, इनि, तथा ठन् प्रत्ययेषु प्राप्तेषु जातिनिर्देशे गम्यमाने वर्तमानसूत्रेण पुनः 'इनि' प्रत्ययः विधीयते, येन 'मतुँप्' तथा 'ठन्' प्रत्यययोः निषेधः भवति । परन्तु यदि जातिनिर्देशः न भवति, तर्हि तु अस्य सूत्रस्य प्रयोगः न क्रियते, अतः <<अत इनिठनौ>> [[5.2.115]] इत्यनेन मतुँप्, इनि, तथा ठन् एते सर्वे प्रत्ययाः भवितुमर्हन्ति । यथा - हस्तौ विद्यते अस्य सः हस्तवान् पुरुषः, हस्ती पुरुषः, हस्तिकः पुरूषः ।\n" }, "52134": { "sa": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः 'वर्ण' शब्दात् ब्रह्मचारिणः निर्देशं कर्तुम् 'इनि' प्रत्ययः भवति । ", "sd": "अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः <<तदस्यास्त्यस्मिन्निति मतुँप्>> [[5.2.94]] इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अस्य अपवादस्वरूपेण 'वर्ण' (cast) शब्दात् 'ब्रह्मचारिणः' निर्देशं कर्तुम् वर्तमानसूत्रेण 'इनि' प्रत्ययः भवति । वर्ण + इनि → वर्णिन् ।\nअस्य अर्थः अयम् - 'ब्रह्मचारी' इत्युक्ते यः ब्रह्म चरति (= नियमान् आचरति) सः । चतुर्वर्णेभ्यः 'ब्राह्मण', 'क्षत्रिय' तथा 'वैश्य' एतेषु त्रिषु वर्णेषु उपनयनसंस्कारः भवतीति मन्यते । अस्मात् संस्कारात् अनन्तरम् छात्रः केषाञ्चन नियमानाम् पालनं कृत्वा वेदाध्ययनम् कर्तुम् प्रारभते । अस्यैव निर्देशः 'अयम् ब्रह्मचारी अस्ति / ब्रह्मचर्यस्य पालनम् करोति' इत्यनेन क्रियते । अस्य ब्रह्मचारिणः निर्देशार्थयम् 'वर्ण' शब्दात् 'इनि' प्रत्ययः भवति । यथा - वर्णः अस्य सः वर्णी ब्रह्मचारी ब्राह्मणः क्षत्रियः वैश्यः वा ।\nस्मर्तव्यम् - 'वर्ण' शब्दात् 'ब्रह्मचारी' अर्थे गम्यमाने <<अत इनिठनौ>> [[5.2.115]] इत्यनेन मतुँप्, इनि तथा ठन् प्रत्ययेषु प्राप्तेषु वर्तमानसूत्रेण केवलम् 'इनि' प्रत्ययस्यैव विधानं भवति, 'मतुँप्' तथा 'ठन्' प्रत्ययौ निषिध्येते । परन्तु यत्र 'ब्रह्मचारी' इति निर्देशः न अपेक्षते तत्र तु <<अत इनिठनौ>> [[5.2.115]] इत्यनेन मतुबादयः प्रत्ययाः भवन्ति । यथा - वर्णः अस्य सः वर्णवान् ब्राह्मणः (A brahmin who is proud of his cast इत्याशयः) ।\n" }, "52135": { "sa": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः पुष्करादिगणस्य शब्देभ्यः प्रथमासमर्थेभ्यः देशे गम्यमाने 'इनि' प्रत्ययः भवति । ", "sd": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः <<तदस्यास्त्यस्मिन्निति मतुँप्>> [[5.2.94]] इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अस्य अपवादस्वरूपेण पुष्करादिगणस्य शब्देभ्यः देशस्य (place) निर्देशार्थम् 'इनि' प्रत्ययः विधीयते ।\nपुष्करादिगणः अयम् - पुष्कर, पद्म, उत्पल, तमाल, कुमुद, नड, कपित्थ, बिस, मृणाल, कर्दम, शालूक, विगर्ह, करीष, शिरीष, यवास, प्रवास, हिरण्य ।\nउदाहरणानि -\n1. पुष्कराणि (blue lotus) सन्ति अस्मिन् ग्रामे सः पुष्करी ग्रामः । पुष्कराः (the front part of trunk of an elephant) सन्ति अस्यां नद्याम् सा पुष्करिणी नदी (A river which contains many elephants - इत्याशयः) । (स्त्रीत्वे विवक्षिते <<ऋन्नेभ्यो ङीप्>> [[4.1.5]] इति ङीप्-प्रत्ययः भवति)।\n2. पद्मानि (red lotus) सन्ति अस्मिन् सरसि तत् पद्मि सरसम् । पद्मानि सन्ति अस्यां नद्यां सा पद्मिनी नदी ।\n3. उत्पलानि (water-lily) सन्ति अस्याम् सरिति सा उत्पलिनी सरित् ।\nज्ञातव्यम् - देशस्य (place / location) निर्देशः न क्रियते चेत् वर्तमासूत्रस्य प्रसक्तिः नास्ति, अतः तत्र औत्सर्गिकः मतुँप्-प्रत्ययः एव भवति । यथा - पुष्करम् विद्यते अस्य सः पुष्करवान् गजः ।\nअत्र कानिचन वार्त्तिकानि ज्ञेयानि -\n1. । इत्युक्ते, 'बाहुबल' तथा 'उरुबल' एताभ्याम् शब्दाभ्यामपि वर्तमानसूत्रेण 'इनि' प्रत्ययः भवति । बाहुबलम् विद्यते यस्मिन् सः बाहुबली । उरुबलं विद्यते यस्मिन् सः उरुबली ।\n2. । यस्य शब्दस्य प्रारम्भः 'सर्व' इत्यनेन भवति, तस्मात् शब्दात् मतुबर्थयोः 'इनि' प्रत्ययः भवति । यथा - सर्वधनम् विद्यते यस्मिन् सः सर्वधनी । सर्वज्ञानम् विद्यते यस्मिन् सः सर्वज्ञानी ।\n3. । 'अर्थ' (= धनम्) शब्दात् 'असन्निहितम्' (समीपम् नास्ति इत्यर्थः) अस्मिन् अर्थे 'इनि' प्रत्ययः भवति । अर्थः न सन्निहितः अस्य सः अर्थी । याचकः / दरिद्रः इत्यर्थः ।\n4. । 'अर्थ' शब्दः यस्य अन्ते विद्यते, तादृशात् शब्दात् अपि 'असन्निहितम्' (समीपम् नास्ति इत्यर्थः) अस्मिन् अर्थे 'इनि' प्रत्ययः भवति । यथा - ज्ञानार्थः (=ज्ञानम् च सः अर्थः - The knowledge itself being as valuable as the money ) न सन्निहितः अस्य सः ज्ञानार्थी (one who expects the knowledge इत्याशयः) । एवमेव - धनार्थी, पुत्रार्थी, ज्ञानार्थी, मोक्षार्थी - आदयः शब्दाः सिद्ध्यन्ति ।\n" }, "52136": { "sa": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः बलादिगणस्य शब्देभ्यः 'इनि' तथा 'मतुँप्' प्रत्ययौ भवतः । ", "sd": "बलादिगणस्य शब्देभ्यः 'अस्य अस्ति' तथा अस्मिन् अस्ति' एतयोः अर्थयो' इनि यथा मतुँप् प्रत्ययौ भवतः ।\nबलादिगणः अयम् - बल, उत्साह, उद्भाव, उद्वास, उद्वाम, शिखा, पूग, मूल, दंश, कुल, आयाम, व्यायाम, उपयाम, आरोह, अवरोह, परिणाह, युद्ध ।\nयथा -\n1. बलं विद्यते अस्मिन् सः बलवान् बली वा ।\n2. उत्साहः विद्यते अस्मिन् सः उत्साही उत्साहवान् वा ।\n3. मूलम् विद्यते यस्य सः मूली मूलवान् वा ।\n" }, "52137": { "sa": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः मन्नन्तेभ्यः शब्देभ्यः तथा 'म' यस्य अन्ते अस्ति तेभ्यः शब्देभ्यः संज्ञायाः विषये 'इनि' प्रत्ययः भवति । ", "sd": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः <<तदस्यास्त्यस्मिन्निति मतुँप्>> [[5.2.94]] इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । परन्तु केभ्यश्चन मन्नन्तेभ्यः शब्देभ्यः ( = 'मन्' यस्य अन्ते अस्ति तेभ्यः शब्देभ्यः) तथा च 'म' यस्य अन्ते अस्ति तेभ्यः शब्देभ्यः एतयोः अर्थयोः संज्ञायाः विषये वर्तमानसूत्रेण 'इनि' प्रत्ययः भवति । उदाहरणानि एतानि -\n1. मन्नन्तशब्दौ -\nअ). प्रथिमा (= विस्तारः ) अस्ति अस्य सा प्रथिमिनी पृथ्वी । प्रक्रिया इयम् -\n प्रथिमन् + इन्\n→ प्रथिमन् + इन् [<<नस्तद्धिते>> [[6.4.144]] इति टिलोपः]\n→ प्रथिमिन्\n→ प्रथिमिन् + ङीप् [स्त्रीत्वे विवक्षिते <<ऋन्नेभ्यो ङीप्>> [[4.1.5]] इति ङीप्]\n→ प्रथिमिनी\nआ) दामा (नगः / खण्डः) अस्ति अस्याः सा दामिनी (lightening) । अत्रापि दामन् + इन्+ ङीप् → दामिनी इति प्रातिपदिकं सिद्ध्यति । विद्युत् प्रायः पर्वतम् यावत् उच्चैः दृश्यते अतः अत्र 'नगः अस्ति अस्याः' इति निर्देशः कृतः अस्ति । Since the lightening is typically seen as high as a mountain, the tip of the mountain is said to belong to the lightening. That is the context used here.\n2. 'म' (= म् + अ) अन्ते विद्यमानौ शब्दौ -\nअ) होमः अस्ति यस्याः सा =होमिनी । कस्याश्चन स्त्रियः इयम् संज्ञा ।\nआ) सोमः अस्ति अस्याः सा सोमिनी । कस्याश्चन स्त्रियः इयम् संज्ञा ।\nज्ञातव्यम् - अस्य सूत्रस्य प्रयोगः संज्ञायाः साधुत्वार्थम् एव भवति ।\n" }, "52138": { "sa": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः 'कम्' तथा 'शम्' एताभ्याम् शब्दाभ्याम् 'ब', 'भ', 'युस्', 'ति', 'तु', 'त', 'यस्' - एते प्रत्ययाः भवन्ति । ", "sd": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः <<तदस्यास्त्यस्मिन्निति मतुँप्>> [[5.2.94]] इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अस्य अपवादरूपेण 'कम्' तथा 'शम्' (उभावपि मकारान्तशब्दौ) एताभ्याम् शब्दाभ्याम् वर्तमानसूत्रेण 'ब', 'भ', 'युस्', 'ति', 'तु', 'त', 'यस्' - एते सप्त-प्रत्ययाः उच्यन्ते । क्रमेण पश्यामः -\n1.कम् (मकारान्तशब्दः, 'जल' इत्यर्थः ) । कमस्य अस्मिन् वा अस्ति सः =\nअ) कम् + ब → कंब, कम्ब । प्रक्रियायाम् <<मोऽनुस्वारः>> [[8.3.23]] इत्यनेन मकारस्य अनुस्वारः, तस्य च <<वा पदान्तस्य>> [[8.4.59]] इति विकल्पेन मकारादेशः भवति ।\nआ) कम् + भ → कंब, कम्भ । प्रक्रियायाम् <<मोऽनुस्वारः>> [[8.3.23]] इत्यनेन मकारस्य अनुस्वारः, तस्य च <<वा पदान्तस्य>> [[8.4.59]] इति विकल्पेन मकारादेशः भवति ।\nइ) कम् + युस् → कंयु, कय्ँयु । अत्र प्रत्यये सकारः इत्संज्ञकः अस्ति, येन अङ्गस्य <<सिति च>> [[1.4.16]] इति पदसंज्ञा भवति, येन प्रक्रियायाम् <<मोऽनुस्वारः>> [[8.3.23]] इत्यनेन मकारस्य अनुस्वारः, तस्य च <<वा पदान्तस्य>> [[8.4.59]] इति विकल्पेन परसवर्णादेशः (य्ँ) भवति ।\nई) कम् + ति → कंति, कन्ति । प्रक्रियायाम् <<मोऽनुस्वारः>> [[8.3.23]] इत्यनेन मकारस्य अनुस्वारः, तस्य च <<वा पदान्तस्य>> [[8.4.59]] इति विकल्पेन नकारादेशः भवति ।\nउ) कम् + तु → कंतु, कन्तु । प्रक्रियायाम् <<मोऽनुस्वारः>> [[8.3.23]] इत्यनेन मकारस्य अनुस्वारः, तस्य च <<वा पदान्तस्य>> [[8.4.59]] इति विकल्पेन नकारादेशः भवति ।\nऊ) कम् + त → कंत, कन्त । प्रक्रियायाम् <<मोऽनुस्वारः>> [[8.3.23]] इत्यनेन मकारस्य अनुस्वारः, तस्य च <<वा पदान्तस्य>> [[8.4.59]] इति विकल्पेन नकारादेशः भवति ।\n(ऋ) कम् + यस् → कंय, कय्ँय । अत्र प्रत्यये सकारः इत्संज्ञकः अस्ति, येन अङ्गस्य <<सिति च>> [[1.4.16]] इति पदसंज्ञा भवति, येन प्रक्रियायाम् <<मोऽनुस्वारः>> [[8.3.23]] इत्यनेन मकारस्य अनुस्वारः, तस्य च <<वा पदान्तस्य>> [[8.4.59]] इति विकल्पेन परसवर्णादेशः (य्ँ) भवति ।\nअनेन प्रकारेण 'कम्' शब्दात् सप्त प्रत्ययान् कृत्वा 'कंब / कम्ब', 'कंभ / कम्भ', 'कंयु / कय्ँयु', 'कंति / कन्ति', 'कंतु / कन्तु', 'कंत / कन्त', 'कंय / कय्ँय' - एते चतुर्दश शब्दाः सिद्ध्यन्ति ।\n2. शम् (मकारान्तशब्दः, सुखम् इत्यर्थः) । अस्मात् शब्दात् अपि एते सप्त प्रत्ययाः विधीयन्ते येन चतुर्दश रूपाणि सिद्ध्यन्ति - 'शंब / शम्ब', 'शंभ / शम्भ', 'शंयु / शय्ँयु', 'शंति / शन्ति', 'शंतु / शन्तु', 'शंत / शन्त', 'शंय / शय्ँय' । " }, "52139": { "sa": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः 'तुन्दि', 'वलि' तथा 'वटि' एतेभ्यः शब्देभ्यः 'भ' प्रत्ययः भवति । ", "sd": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः <<तदस्यास्त्यस्मिन्निति मतुँप्>> [[5.2.94]] इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अस्य अपवादरूपेण 'तुन्दि', 'वलि' तथा 'वटि' - एतेभ्यः शब्देभ्यः वर्तमानसूत्रेण 'भ' प्रत्ययः पाठ्यते । क्रमेण पश्यामः -\n1. तुन्दिः (protruded belly) अस्य अस्ति सः तुन्दिभः ।\n2. वलिः (wrinkles) अस्य अस्ति सः वलिभः ।\n3. वटिः (मोदकः) अस्य अस्ति सः वटिभः ।\nएतानि त्रीणि अपि गणेशस्य विशेषणानि । (गणेशस्य शुण्डे वलयः सन्ति अतः तस्य नाम 'वलिभ' इति अपि दीयते) । एतेषां प्रयोगः अन्येषाम् शब्दानाम् विशेषणरूपेण अपि भवितुमर्हत्येव ।\n " }, "52140": { "sa": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः 'अहम्' तथा 'शुभम्' एताभ्याम् शब्दाभ्याम् 'युस्' प्रत्ययः भवति । ", "sd": "'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः <<तदस्यास्त्यस्मिन्निति मतुँप्>> [[5.2.94]] इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अस्य अपवादरूपेण 'अहम्' तथा 'शुभम्' (उभावपि मकारान्तशब्दौ) एताभ्याम् शब्दाभ्याम् वर्तमानसूत्रेण 'युस्' इति प्रत्ययः विधीयते । 'युस्' प्रत्यये सकारः इत्संज्ञकः अस्ति, अतः अङ्गस्य <<सिति च>> [[1.4.16]] इति पदसंज्ञा भवति ।\n1) अहम् (अव्ययम्, 'अहङ्कारः' इत्यर्थः) अस्य अस्मिन् वा अस्ति सः अहंयुः, अहय्ँयुः\n2) शुभम् (अव्ययम्, 'मङ्गलम्' इत्यर्थः) अस्य अस्मिन् वा अस्ति सः शुभंयुः, शुभय्ँयुः\nउभयत्र प्रत्यये सकारः इत्संज्ञकः अस्ति, येन अङ्गस्य <<सिति च>> [[1.4.16]] इति पदसंज्ञा भवति, येन प्रक्रियायाम् <<मोऽनुस्वारः>> [[8.3.23]] इत्यनेन मकारस्य अनुस्वारः, तस्य च <<वा पदान्तस्य>> [[8.4.59]] इति विकल्पेन परसवर्णादेशः (य्ँ) भवति ।\nज्ञातव्यम् - <<तदस्यास्त्यस्मिन्निति मतुँप्>> [[5.2.94]] इत्यत्र आरब्धः मतुप्-प्रत्ययस्य अधिकारः अस्मिन् सूत्रे समाप्यते ।\n" }, "53001": { "sa": "इतः परम् 5.3.26 इति यावत् ये प्रत्ययाः पाठ्यन्ते, ते विभक्तिसंज्ञकाः सन्ति । ", "sd": "पञ्चमाध्यायस्य तृतीयपादस्य प्रथमं सूत्रमिदमधिकारसूत्रम् । अस्मात् सूत्रात् 'विभक्ति'संज्ञायाः अधिकारः प्रारभते । अस्मात् सूत्रात् आरभ्य <<दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः>> [[5.3.27]] इत्यस्मात् पूर्वम् यावत् अस्य सूत्रस्य अधिकारः प्रचलति । एतेषु सर्वेषु सूत्रेषु ये केऽपि प्रत्ययाः पाठ्यन्ते, ते सर्वे 'विभक्ति'संज्ञकाः सन्ति ।\nएतेषाम् सर्वेषां विभक्तिसंज्ञकप्रत्ययानां आवली इयम् -\n1. तसिल् - <<पञ्चम्यास्तसिल्>> [[5.3.7]], <<तसेश्च>> [[5.3.8]]\n2. त्रल् - <<सप्तम्यास्त्रल्>> [[5.3.10]]\n3. ह - <<इदमो हः>> [[5.3.10]]\n4. अत् - <<किमोऽत्>> [[5.3.12]]\n5. दा - <<सर्वैकान्यकिंयत्तदः काले दा>> [[5.3.15]]\n6. र्हिल् - <<इदमो र्हिल्>> [[5.3.16]]\n7. धुना - <<अधुना>> [[5.3.17]]\n8. दानीम् - <<दानीं च>> [[5.3.18]]\n9. द्यस् , उद्, अरि, समसण्, एद्यवि, एद्युस् - <<सद्यःपरुत्परार्यैषमःपरेद्यव्यद्यपूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः>> [[5.3.22]]\n10. थाल् - <<प्रकारवचने थाल्>> [[5.3.23]]\n11. थमु - <<इदमस्थमुः>> [[5.3.24]]\n12. था - <<था हेतौ च च्छन्दसि>> [[5.3.26]]\nएते सर्वे प्रत्ययाः विभक्तिसंज्ञां प्राप्नुवन्ति ।\nकिमर्थम् एतेषाम् विभक्तिसंज्ञा क्रियते? अस्य मुख्यानि त्रीणि प्रयोजनानि सन्ति ।\n1. इत्संज्ञानिषेधः - विभक्तिसंज्ञामनुसृत्य <<न विभक्तौ तुस्माः>> [[1.3.4]] इत्यनेन एतेषु प्रत्ययेषु उपस्थितानामन्तिम-तवर्ग-सकार-मकाराणाम् इत्संज्ञा न भवति । यथा - 'दानीम्' इत्यत्र मकारः वस्तुतः <<हलन्त्यम्>> [[1.3.3]] इत्यनेन इत्संज्ञकः स्यात्, परन्तु विभक्तिसंज्ञया तस्य प्रतिषेधः भवति । अतएव 'दानीम्' प्रत्ययस्य मकारः इत्संज्ञकः नास्ति ।\n2. विभक्तिविशिष्टमङ्गकार्यम् - सूत्रपाठे केषुचन स्थलेषु विभक्ति-प्रत्ययविशिष्टम् कार्यम् पाठ्यते । एतत् सर्वम् कार्यम् एतेषु प्रत्ययेषु परेषु अपि भवति । यथा - <<किमः कः>> [[7.2.103]] इत्यनेन 'किम्' इत्यस्य विभक्तिप्रत्यये परे 'क' इति आदेशः भवति । अयमादेशः एतेषु प्रत्ययेषु परेषु अपि भवति । यथा - किम् + दा → कदा ।\n3. विभक्तिविशिष्टम् स्वरविधानम् - स्वरप्रकरणे कांश्चन विभक्तिप्रत्ययान् अनुसृत्य विशिष्टं स्वरविधानम् कृतमस्ति । एतत् विधानमस्मिन् अधिकारे पाठितानां विभक्तिप्रत्ययानां विषये अपि विद्यते । यथा, <<ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः>> [[6.1.171]] इत्यनेन 'इदम्' शब्दात् विहितः विभक्तिप्रत्ययः उदात्तः भवति । यथा, 'इदम् + तसिल् → इतः' इत्यत्र तकारोत्तरः अकारः अनेन सूत्रेण उदात्तः जायते । (यदि अत्र 'तसिल्' इत्यस्य विभक्तिसंज्ञा न अभिष्यत्, तर्हि <<लिति>> [[6.1.193]] इत्यनेन प्रत्ययात् पूर्वः स्वरः उदात्तः स्यात्, न हि प्रत्ययस्वरः) ।\nअस्य सूत्रस्य विषये केचन महत्त्वपूर्णाः बिन्दवः ज्ञातव्याः -\n1. <<समर्थानाम् प्रथमात् वा>> [[4.1.82]] इत्यनेन पाठितः तद्धिताधिकारस्य महत्तमः अधिकारः ( = समर्थाधिकारः) पूर्वस्मिन् सूत्रे अंशतः समाप्यते । अस्मात् सूत्रात् आरभ्य अग्रे 'समर्थानाम्' तथा 'प्रथमात्' इत्यस्य अधिकारः नास्ति । इत्युक्ते, अस्मात् सूत्रात् आरभ्य अग्रे प्रकृत्यर्थे (= 'स्वार्थे') एव प्रत्ययविधानम् भवति, अत्र सूत्रे विद्यमानानाम् शब्दानाम् परस्परसम्बन्धः (= सामर्थ्यम्) न चिन्तनीयः । इतः अग्रे 'अर्थज्ञापकसूत्राणि' न सन्ति, केवलम् प्रत्ययज्ञापकसूत्राणि एव विद्यन्ते, इति आशयः ।\n2. 'वा' इत्यस्य अधिकारः तु अत्रापि प्रचलति । अतः एतेषां सर्वेषां प्रत्ययानां प्रयोगः विकल्पेन भवितुमर्हति ।\n3. विभक्तिसंज्ञकानां तद्धितप्रत्ययानां योजनेन निर्मिताः तद्धितान्ताः <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यनेन अव्ययसंज्ञकाः अपि भवन्ति ।\nएते त्रयः बिन्दवः एकेन उदाहरणेन प्रायः स्पष्टीभवेयुः । <<सप्तम्यास्त्रल्>> [[5.3.10]] इत्यनेन 'कस्मिन्' इत्यस्मात् सप्तम्यन्तशब्दात् 'त्रल्' इति प्रत्ययः उच्यते । अत्र -\n(अ) 'कस्मिन्' अस्य शब्दस्य यः अर्थः, तस्मिन्नेव अर्थे (= स्वार्थे) अत्र 'त्रल्' इति प्रत्ययः विधीयते । अत्र प्रत्यनेन कोऽपि नूतनः अर्थः न दीयते । 'कस्मिन् + त्रल्' इति स्थिते अग्रे प्रक्रियां कृत्वा 'कुत्र' इति शब्दः सिद्ध्यति । 'कस्मिन्' इत्येव 'कुत्र' इत्यस्यापि अर्थः ।\n(आ) 'कस्मिन्' इत्यस्मात् शब्दात् 'त्रल्' प्रत्ययः विकल्पेन एव भवति । इत्युक्ते, प्रत्ययस्य अभावे 'कस्मिन्' इति शब्दः अपि भाषायाम् प्रयोक्तुं शक्यते, तथा च प्रत्ययस्य प्रयोगेण निर्मितः 'कुत्र' शब्दः अपि साधु एव ।\n(इ) 'त्रल्' प्रत्ययनिर्मितः 'कुत्र' शब्दः अव्ययसंज्ञकः अस्ति ।\nस्मर्तव्यम् - सूत्रपाठे विद्यमानेन <<विभक्तिश्च>> [[1.4.104]] इत्यनेन सूत्रेण केवलं सुप्-प्रत्ययानां तथा तिङ्-प्रत्ययानामेव विभक्तिसंज्ञा भवति, न हि तद्धितप्रत्ययानाम् । परन्तु केषाञ्चन तद्धितप्रत्ययानामपि विभक्तिसंज्ञा इष्यते । तेषाम् सङ्कलनमस्मिन् अधिकारे कृतमस्ति ।\n " }, "53002": { "sa": "सर्वादिगणे विद्यमानाः 'सर्व' इत्यस्मात् आरभ्य 'एक' इति यावत् शब्दाः, 'बहु' शब्दः तथा च 'किम्' शब्दः प्राग्दिशीय-विभक्तिप्रत्ययान् प्राप्नुवन्ति । ", "sd": "विभक्तिसंज्ञकप्रत्ययाः केभ्यः प्रातिपदिकेभ्यः विधीयते तत् अनेन सूत्रेण स्पष्टीक्रियते । सूत्रे उपस्थितान् शब्दान् क्रमेण पश्यामः -\n1. अद्व्यादिभ्यः सर्वनामेभ्यः -\n<<सर्वादीनि सर्वनामानि>> [[1.1.27]] अनेन सूत्रेण सर्वनामशब्दानामावली दीयते । इयमेव आवली 'सर्वादिगणः' नाम्ना ज्ञायते । इयमावली एतादृशी दृश्यते - 'सर्व, विश्व, उभ, उभय...., एक, द्वि, युष्मत्, अस्मत्, भवतुँ, किम्'\nअस्यामावल्याम् 'द्वि' इति यत् सर्वनाम वर्तते, तस्मात् आरभ्य अस्य गणस्य अन्तपर्यन्तम् ये शब्दाः पाठ्यन्ते - 'द्वि, युष्मत्, अस्मत्, भवतुँ, किम्' - एतेषाम् सर्वेषां 'द्व्यादयः' इत्यनेन अस्मिन् सूत्रे निर्देशः कृतः अस्ति । एतान् द्व्यादीन् विहाय सर्वादिगणस्य अन्ये शब्दाः विभक्तिसंज्ञकानं तद्धितप्रत्ययान् प्राप्तुमर्हन्ति - इति 'अद्व्यादिभ्यः सर्वनामेभ्यः' इत्यस्य आशयः ।\n2. 'किम्' - किमयम् सर्वनामशब्दः यद्यपि द्व्यादिगणे विद्यते, तथापि तस्मात् विभक्तिसंज्ञकाः तद्धितप्रत्ययाः भवितुमर्हन्ति - इति स्पष्टीकर्तुमत्र 'किम्' शब्दस्य विशिष्टरूपेण ग्रहणम् कृतमस्ति ।\n3. 'बहु' अस्मात् शब्दात् अपि विभक्तिसंज्ञकप्रत्ययाः भवितुमर्हन्ति ।\nअतः अस्य सूत्रस्य सम्पूर्णः अर्थः अयम् - 'किम्' , 'बहु' एताभ्यां शब्दाभ्याम्, तथा च सर्वादिगणे विद्यमानेभ्यः परन्तु द्व्यादिगणे अविद्यमानेभ्यः शब्देभ्यः विभक्तिसंज्ञकाः तद्धितप्रत्ययाः भवितुमर्हन्ति ।\nयथा -\n1. 'तसिल्' प्रत्ययः - किम् + तसिल् → कुतः । बहु + तसिल् → बहुतः । सर्व + तसिल् → सर्वतः ।\n2. 'था' प्रत्ययः - यद् + था → यथा । तद् + था → तथा । सर्व + था → सर्वथा ।\n3. 'ह' प्रत्ययः - इदम् + ह → इह ।\nअत्र एकं वार्त्तिकं ज्ञातव्यम् - । इत्युक्ते, 'बहु' शब्दः यत्र 'सङ्ख्या' ( = अनेके / many) अस्मिन् अर्थे प्रयुज्यते, तत्रैव विभक्तिसंज्ञकाः तद्धितप्रत्ययाः तस्मात् भवितुमर्हन्ति । अन्येषु अर्थेषु (यथा - विपुलता - too much /huge / large - अस्मिन् अर्थे) यदि अयं शब्दः प्रयुज्यते, तर्हि अस्मात् शब्दात् एते प्रत्ययाः न भवन्ति । यथा - 'बहुभ्यः जनेभ्यः' इत्यत्र 'बहुतः' इति प्रयोगः भवितुमर्हति, परन्तु 'बहोः सूपात्' इत्यत्र 'बहुतः' इति प्रयोगः न क्रियते ।\nज्ञातव्यम् - सर्वे विभक्तिसंज्ञकाः तद्धितप्रत्ययाः अस्मिन् सूत्रे पाठितेभ्यः सर्वेभ्यः शब्देभ्यः न विधीयन्ते । अस्मिन् विषये अग्रे विस्तारेण सूत्राणि पाठितानि सन्ति । अत्र केवलं विभक्तिसंज्ञक-तद्धितप्रत्ययानां 'सीमारेषा' (domain) निर्धार्यते । इत्युक्ते, 'विभक्तिसंज्ञकाः तद्धितप्रत्ययाः भवन्ति चेत् एतेभ्यः शब्देभ्यः एव भवन्ति, अन्येभ्यः न' - इति अस्य आशयः । अतः अस्मिन् सूत्रे अनुक्ताः ये शब्दाः - यथा - वन, वृक्ष, माला - आदयः - तेभ्यः एते प्रत्ययाः न भवन्ति ।\n" }, "53003": { "sa": "'इदम्' शब्दस्य प्राग्दिशीय-विभक्तिप्रत्यये परे 'इश्' इति आदेशः भवति । ", "sd": "'इदम्' इति सर्वनामशब्दः । <<किंसर्वनामबहुभ्योऽद्व्यादिभ्यः>> [[5.3.2]] अनेन सूत्रेण अस्मात् शब्दात् प्राग्दिशीय-विभक्तिप्रत्ययाः भवितुमर्हन्ति । एतेषु प्रत्ययेषु परेषु इदम्-शब्दस्य 'इश्' इति आदेशः भवति । <<अनेकाल्शित्सर्वस्य>> [[1.1.55]] इत्यनेन अयम् सर्वादेशरूपेण विधीयते ।\nयथा -\n1. इदम् + तसिल् [<<पञ्चम्यास्तसिल्>> [[5.3.7]] इत्यनेन पञ्चमी-विभक्त्याः अर्थे इदम्-सर्वनाम्नः तसिल्-प्रत्ययः]\n→ इदम् + तस् [लकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा, लोपः । इकारः उच्चारणार्थः, अतः तस्यापि लोपः ।]\n→ इ + तस् [<<इदमः इश्>> [[5.3.3]] इत्यनेन इदम्-शब्दस्य 'इ' इति सर्वादेशः]\n→ इतः\n2. इदम् + ह [<<इदमो हः>> [[5.3.11]] इत्यनेन इदम्-शब्दात् ह-प्रत्ययः]\n→ इ + ह [<<इदमः इश्>> [[5.3.3]] इत्यनेन इदम्-शब्दस्य 'इ' इति सर्वादेशः]\n→ इह\nज्ञातव्यम् - सूत्रमिदम् तद्धितप्रकरणे विद्यते, न हि अङ्गाधिकारे । अतः अस्मिन् सूत्रे पाठितः 'इ' इति आदेशः 'अङ्गकार्यम्' इति न उच्यते, केवलं 'प्राकृतिककार्यम्' इत्येव तस्य अभिधानम् ।\n" }, "53004": { "sa": "'इदम्' सर्वनाम्नः रेफादौ विभक्तिसंज्ञके तद्धितप्रत्यये परे 'एत' इति आदेशः भवति, तथा च थकारादौ विभक्तिसंज्ञके तद्धितप्रत्यये परे 'इत्' इति आदेशः भवति । ", "sd": "'इदम्' इति सर्वनामसंज्ञकः शब्दः । <<किंसर्वनामबहुभ्योऽद्व्यादिभ्यः>> [[5.3.2]] अनेन सूत्रेण अस्मात् शब्दात् प्राग्दिशीय-विभक्तिप्रत्ययाः भवितुमर्हन्ति । तत्र यदि इदम्-शब्दात् रेफादि-प्रत्ययः विधीयते, तर्हि इदम्-शब्दस्य 'एत' इति आदेशः भवति । तथा च, यदि थकारादि-प्रत्ययः विधीयते, तर्हि 'इदम्'शब्दस्य 'इत्' इति आदेशः भवति । क्रमेण पश्यामः -\n1. इदम्-शब्दात् रेफादिः विभक्तिसंज्ञकः एकः एव प्रत्ययः भवितुमर्हति - र्हिल् (= र् + हिल्) । अयम् प्रत्ययः 'अस्मिन्' इत्यस्मात् सप्तमीविभक्त्यन्तात् भवति ।\nअस्मिन् + र्हिल् ['अस्मिन् काले' इति विवक्षिते स्वार्थे <<इदमो र्हिल्>> [[5.3.16]] इति र्हिल्-प्रत्ययः]\n→ इदम् + र्हि [लकारस्य इत्संज्ञा, लोपः । सुप्-प्रत्ययस्य अपि लुक् ।]\n→ एत + र्हि [<<एतेतौ रथोः>> [[5.3.4]] इति इदम्-शब्दस्य रेफादौ प्रत्यये परे एत-आदेशः]\n→ एतर्हि ।\n2. इदम्-शब्दात् थकारादिः विभक्तिसंज्ञकः एकः एव प्रत्ययः भवितुमर्हति - थमु ।\nअनेन + थमु ['प्रकारवचने' विवक्षिते स्वार्थे <<इदमस्थमुः>> [[5.3.12]] इति थमु-प्रत्ययः]\n→ इदम् + थम् [उकारः उच्चारणार्थः, तस्य लोपः । सुप्-प्रत्ययस्य अपि लुक् । ]\n→ इत् + थम् [<<एतेतौ रथोः>> [[5.3.4]] इति इदम्-शब्दस्य थकारादौ प्रत्यये परे इत् -आदेशः]\n→ इद् + थम् [थम्-प्रत्यये परे अङ्गस्य <<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इति पदसंज्ञा । पदसंज्ञायां सत्याम् <<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वे तकारस्य दकारः]\n→ इत् + थम् [<<खरि च>> [[8.4.55]] इति चर्त्वे तकारः]\n→ इत्थम् ।\nज्ञातव्यम् -\n1. <<इदमो इश्>> [[5.3.3]] अनेन सूत्रेण इदम्-शब्दस्य विभक्तिसंज्ञके तद्धितप्रत्यये परे इश्-आदेशः भवति । तं बाधित्वा 'र्हिल्' तथा 'थमु' प्रत्यययोः विषये वर्तमानसूत्रेण विशिष्ट-आदेशौ उक्तौ स्तः ।\n2. अस्मिन् सूत्रे 'रथोः' इति रथ्' इत्यस्य सप्तमीद्विवचनम् । अत्र 'र' इत्यत्र अकारः केवलं उच्चारणार्थः स्थापितः अस्ति । विधानम् तु 'र्' इत्यनेन आरभ्यमाणस्य प्रत्ययस्यैव भवति । 'थ्' इत्यस्य विषये तु विधानमेव हलन्तस्य कृतमस्ति अतः तत्र कोऽपि संशयः न विद्येत ।\n3. अस्मिन् सूत्रे 'रथोः' इति सप्तमीविभक्तेः प्रयोगः कृतः अस्ति । इयम् परसप्तमी । अत्र <ऽयस्मिन् विधिः तदादौ अल्ग्रहणेऽ> अनेन वार्त्तिकेन 'रथोः' इत्यस्य अर्थः 'रेफादिः / थकारादिः' इति क्रियते ।\n4. अस्मिन् सूत्रे स्थानी एकः अस्ति - 'इदमः' इति । निमित्तौ द्वौ - 'रेफथकारौ' । आदेशौ अपि द्वौ - 'एत-इतौ' । <<यथासंख्यमनुदेशः समानाम्>> [[1.3.10]] इत्यनेन अत्र यथासङ्ख्यमादेशविधानम् भवति । इत्युक्ते, रेफादि-प्रत्यये परे 'एत' इति आदेशः भवति, तथा च थकारादौ प्रत्यये परे 'इत्' इति आदेशः भवति ।\n5. 'एत' तथा 'इत्' द्वावपि आदेशौ अनेकालौ स्तः, अतः सर्वादेशरूपेण विधीयेते ।\n6. सूत्रमिदम् तद्धितप्रकरणे विद्यते, न हि अङ्गाधिकारे । अतः अस्मिन् सूत्रे पाठितौ आदेशौ 'अङ्गकार्यम्' न स्तः, केवलं प्राकृतिककार्यमेव स्तः ।\n" }, "53005": { "sa": "'एतद्' शब्दस्य प्राग्दिशीये तद्धितप्रत्यये परे 'अन्' इति आदेशः भवति । ", "sd": "'एतद्' इति सर्वनामशब्दः । <<किंसर्वनामबहुभ्योऽद्व्यादिभ्यः>> [[5.3.2]] अनेन सूत्रेण अस्मात् शब्दात् प्राग्दिशीय-विभक्तिप्रत्ययाः भवितुमर्हन्ति । एतेषु प्रत्ययेषु परेषु एतद्-शब्दस्य 'अन्' इति आदेशः भवति । <<अनेकाल्शित्सर्वस्य>> [[1.1.55]] इत्यनेन अयम् सर्वादेशरूपेण विधीयते ।\nयथा -\n1. एतद् + त्रल् [<<सप्तम्यास्त्रल्>> [[5.3.10]] इति त्रल्-प्रत्ययः]\n→ एतद् + त्र [लकारस्य <<हलन्त्यम्>> [[1.3.3]] इतो इत्संज्ञा, लोपः]\n→ अन् + त्र [<<एतदोऽन्>> [[5.3.5]] इति एतद्-शब्दस्य अन्-आदेशः]\n→ अत्र [<<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इति अङ्गस्य पदसंज्ञा ; स्थानिवद्भावात् च अङ्गस्य प्रातिपदिकसंज्ञा । अग्रे <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः]\n2. एतद् + तसिल् [<<पञ्चम्यास्तसिल्>> [[5.3.7]] इति तसिल्-प्रत्ययः]\n→ एतद् + तस् [लकारस्य इत्संज्ञा, लोपः । इकारः उच्चारणार्थः, अतः तस्यापि लोपः]\n→ अन् + तस् [<<एतदोऽन्>> [[5.3.5]] इति एतद्-शब्दस्य अन्-आदेशः]\n→ अ + तस् [<<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इति अङ्गस्य पदसंज्ञा ; स्थानिवद्भावात् च अङ्गस्य प्रातिपदिकसंज्ञा । अग्र <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः]\n→ अतः [<<ससजुषो रुँः>> [[8.2.66]] इति रुँत्वम्, <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\nअस्य सूत्रस्य विषये भाष्यकारः वदति - 'एतद इति योगविभागः कर्तव्यः' । इत्युक्ते, अस्य सूत्रस्य योगविभागं कृत्वा 'एतदः' इति नूतनं सूत्रम् कर्तव्यम्, तस्मिन् च <<एतेतौ रथोः>> [[5.3.4]] इत्यस्य पूर्वसूत्रस्य अनुवृत्तिः कार्या । अनेन 'एतदः एतेतौ रथौ' इति नूतनं सूत्रं सिद्ध्यति । अस्य अर्थः अयम् - एतद्-शब्दस्य रेफादौ थकारादौ च प्रत्यये परे (क्रमेण) 'एत' / 'इत्' एतौ आदेशौ भवतः । यथा -\n1. एतद् + र्हिल् → एत + र्हि → एतर्हि । 'एतस्मिन् काले' इत्यर्थः ।\n2. एतद् + थमु → इत् + थम् → इत्थम् । 'एतेन प्रकारेण' इत्यर्थः । (वस्तुतः थमु-प्रत्ययः केवलम् इदम्-शब्दात् एव विधीयते, परन्तु <<इदमस्थमुः>> [[5.3.24]] इत्यत्र अनेन पाठितेन वार्त्तिकेन अयं प्रत्ययः एतद्-शब्दस्य विषये अपि भवति ।]\nविशेषः - अस्य सूत्रस्य विधानम् काशिकायाम् <<एतदः अश्>> इति क्रियते । अत्र आदेशरूपेण 'अश्' इति उच्यते, न हि अन् । अत्रापि <<अनेकाल्शित्सर्वस्य>> [[1.1.55]] इत्यनेन अयम् सर्वादेशरूपेणैव विधीयते, अतः अन्तिमरूपम् तु समानमेव जायते ।\nज्ञातव्यम् -\n1. 'इदम्' तथा 'एतद्' द्वयोः अपि शब्दयोः 'एतर्हि' तथा 'इत्थम्' एतौ समानौ एव शब्दौ सिद्ध्यतः । परन्तु 'इदम्' तथा 'एतद्' एतयोर्मध्ये सूक्ष्मः भेदः वर्तते । अस्मिन् विषये एका कारिका प्रसिद्धा अस्ति -\n'इदमस्तु सन्निकृष्टे समीपतरवर्ति चैतदो रूपम्। अदस्तु विप्रकृष्टे तदिति परोक्षे विजानीयात्॥'\nइत्युक्ते, यत् वस्तु समीपे अस्ति तस्य विषये 'इदम्' शब्दः प्रयुज्यते, परन्तु यत् वस्तु बहुसमीपे अस्ति, तस्य विषये 'एतद्' शब्दस्य प्रयोगः भवति । द्वौ शब्दौ समानौ न, अतः इदम्-शब्दात् निर्मितस्य 'एतर्हि' शब्दस्य अर्थः तथा एतद्-शब्दात् निर्मितस्य 'एतर्हि' शब्दस्य अर्थः अपि भिन्नः एव ।\n2. सूत्रमिदमङ्गाधिकारे न विद्यते, अतः अनेन सूत्रेण निर्दिष्टाः आदेशाः 'अङ्गकार्याणि' न सन्ति, केवलं 'प्राकृतिककार्याणि' सन्ति ।\n" }, "53006": { "sa": "प्राग्दिशीये दकारादौ तद्धितप्रत्यये परे 'सर्व' इत्यस्य विकल्पेन 'स' इति आदेशः भवति ।", "sd": "'सर्व' इति सर्वनामशब्दः । <<सर्वैकान्यकिंयत्तदः काले दा>> [[5.3.15]] इत्यनेन 'दा' इति दकारादिः प्राग्दिशीयः विभक्तिसंज्ञकः तद्धितप्रत्ययः अस्मात् शब्दात् विधीयते । अस्मिन् प्रत्यये परे 'सर्व' इत्यस्य वर्तमानसूत्रेण विकल्पेन 'स' इति आदेशः भवति । सर्व + दा → सर्वदा, सदा । 'सर्वस्मिन् काले' इति उभयोः शब्दयोः अर्थः ।\nस्मर्तव्यम् - अस्मिन् सूत्रे 'दकारादौ प्रत्यये परे' इति उच्यते । प्राग्दिशीय-प्रकरणे द्वौ दकारादौ प्रत्ययौ पाठ्येते - 'दानीम्' तथा 'दा' । एताभ्याम् 'दानीम्' इति प्रत्ययः 'सर्व' शब्दात् नैव विधीयते, अतः अस्य सूत्रस्य प्रसक्तिः केवलम् 'दा' प्रत्यये परे एव अस्ति । " }, "53007": { "sa": "सर्वादिगणे विद्यमानेभ्यः 'सर्व' इत्यस्मात् आरभ्य 'एक' इति यावत् शब्देभ्यः, 'बहु' शब्दात् तथा च 'किम्' शब्दात् पञ्चम्यन्तात् 'तसिल्' प्रत्ययः भवति । ", "sd": "अनेन सूत्रेण 'तसिल्' इति विभक्तिसंज्ञकः प्रत्ययः पाठ्यते । अस्मिन् प्रत्यये सकारोत्तरः इकारः उच्चारणार्थः अस्ति, लकारश्च इत्संज्ञकः अस्ति । द्वयोः अपि प्रक्रियायाः प्रारम्भे लोपः भवति, अतः 'तस्' इत्येव प्रयोगे दृश्यते ।\n<<किंसर्वनामबहुभ्योऽद्व्यादिभ्यः>> [[5.3.2]] इत्यनेन भिन्नेभ्यः शब्देभ्यः विभक्तिसंज्ञकाः तद्धितप्रत्ययाः उच्यन्ते । वर्तमानसूत्रेण उक्तः 'तसिल्' प्रत्ययः अपि विभक्तिसंज्ञकः एव अस्ति, अतः अयम् प्रत्ययः अपि एतेभ्यः सर्वेभ्यः शब्देभ्यः विधीयते । कानिचन उदाहरणानि पश्यामः -\n1) कस्मात् इत्येव\n= कस्मात् + तसिल् ['कस्मात्' शब्दात् स्वार्थे प्रत्ययविधानम्]\n→ किम् + तस् [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति पञ्चमीप्रत्ययस्य लुक्]\n→ कु + तस् [<<किमः कः>> [[7.2.103]] इत्यनेन विभक्तिसंज्ञके प्रत्यये परे 'किम्' इत्यस्य 'क' इति आदेशे प्राप्ते तं बाधित्वा तकारादौ प्रत्यये परे <<कु तिहोः>> [[7.2.104]] इति 'कु' आदेशः ]\n→ कुतः [<<ससजुषो रुँः>> [[8.2.66]] इति रुँत्वम् । <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n2) अमुष्मात् इत्येव\n= अमुष्मात् + तसिल् ['अस्मात्' शब्दात् स्वार्थे प्रत्ययविधानम्]\n→ अदस् + तस् [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति पञ्चमीप्रत्ययस्य लुक्]\n→ अदस् + तरुँ [<<ससजुषोः रुँः>> [[8.2.66]] इति रुँत्वम्]\n→ अमु + तरुँ [<<अदसोऽसेर्दादु दो मः>> [[8.2.80]] इति 'अदस्' इत्यस्य अमु' आदेशः ।]\n→ अमुतः [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n3) यस्मात् इत्येव\n= यस्मात् + तसिल् ['यस्मात्' शब्दात् स्वार्थे प्रत्ययविधानम्]\n→ यद् + तस् [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति पञ्चमीप्रत्ययस्य लुक्]\n→ य + तस् [<<त्यदादीनामः>> [[7.2.102]] इति दकारस्य अकारादेशः । <<अतो गुणे>> [[6.1.97]] इति पररूप-एकादेशः ]\n→ यतः [<<ससजुषो रुँः>> [[8.2.66]] इति रुँत्वम् । <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n4) अस्मात् इत्येव\n= अस्मात् + तसिल् ['अस्मात्' शब्दात् स्वार्थे प्रत्ययविधानम्]\n→ इदम् + तस् [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति पञ्चमीप्रत्ययस्य लुक्]\n→ इ + तस् [<<इदम इश्>> [[5.3.3]] इति 'इदम्' इत्यस्य 'इ' आदेशः ।]\n→ इतः [<<ससजुषो रुँः>> [[8.2.66]] इति रुँत्वम् । <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\nएवमेव 'बहुतः', 'सर्वतः', 'विश्वतः', 'उभयतः', 'ततः', 'अन्यतः', 'पूर्वतः', 'एकतः' - आदयः शब्दाः सिद्ध्यन्ति । एते सर्वे <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यनेन अव्ययसंज्ञां अपि स्वीकुर्वन्ति ।\nविशेषः -\n1. अनेन सूत्रेण पञ्चमीविभक्त्यन्तात् प्रत्ययः उच्यते, न हि 'पञ्चमीसमर्थात्' इति स्मर्तव्यम् । अत्र समर्थाधिकारः न प्रचलति, अतः अत्र स्वार्थे एव प्रत्ययविधानम् क्रियते, सामर्थ्यम् नापेक्षते ।\n2. तसिल्-प्रत्यये परे <<तसिलादिष्वाकृत्वसुचः>> [[6.3.35]] इत्यनेन स्त्रीवाचिनः अङ्गस्य पुंवद्भावः भवति ।\nयथा - बह्व्याः इत्येव\n= बह्वी + तसिल्\n→ बहु + तसिल् [पुंवद्वावः]\n→ बहुतः ।\n" }, "53008": { "sa": "सर्वादिगणे विद्यमानेभ्यः 'सर्व' इत्यस्मात् आरभ्य 'एक' इति यावत् शब्देभ्यः, 'बहु' शब्दात् तथा च 'किम्' शब्दात् विहितस्य 'तसि' प्रत्ययस्य 'तसिल्' आदेशः भवति । ", "sd": "'तसि' इति कश्चन तद्धितप्रत्ययः स्वार्थिकप्रकरणे <<प्रतियोगे पञ्चम्यास्तसिः>> [[5.4.44]] तथा <<अपादाने चाहीयरुहोः>> [[5.4.45]] एताभ्याम् सूत्राभ्याम् पञ्चमीविभक्तिभ्यः शब्देभ्यः पाठितः अस्ति । यदि अयम् तसि-प्रत्ययः सर्वादिगणे विद्यमानेभ्यः 'सर्व' इत्यस्मात् आरभ्य 'एक' इति यावत् शब्देभ्यः, 'बहु' शब्दात् तथा च 'किम्' शब्दात् विधीयते, तर्हि तस्य वर्तमानसूत्रेण 'तसिल्' आदेशः भवति ।\nयथा -\nकस्मात् + तसि [<<प्रतियोगे पञ्चम्यास्तसिः>> [[5.4.44]] इत्यनेन तसि-प्रत्ययः]\n→ कस्मात् + तसिल् [वर्तमानसूत्रेण 'तसि' प्रत्ययस्य 'तसिल्' आदेशः]\n→ किम् + तस् [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति पञ्चमीप्रत्ययस्य लुक्]\n→ कु + तस् [<<किमः कः>> [[7.2.103]] इत्यनेन विभक्तिसंज्ञके प्रत्यये परे 'किम्' इत्यस्य 'क' इति आदेशे प्राप्ते तं बाधित्वा तकारादौ प्रत्यये परे <<कु तिहोः>> [[7.2.104]] इति 'कु' आदेशः ]\n→ कुतः [<<ससजुषो रुँः>> [[8.2.66]] इति रुँत्वम् । <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\nएवमेव 'यतः', 'ततः', 'सर्वतः' - आदयः शब्दाः अपि सिद्ध्यन्ति ।\nज्ञातव्यम् - 'तसि'-प्रत्ययस्य 'तसिल्' इत्यस्य आदेशस्य प्रयोजनद्वयम् -\nअ) 'तसिल्' प्रत्ययः विभक्तिसंज्ञकः अस्ति, अतः अस्मिन् आदेशे कृते विभक्तिविशिष्टाः आदेशाः (यथा - <<त्यदादीनामः>> [[7.2.102]], <<किमः कः>> [[7.2.103]] - आदयः) भवितुमर्हन्ति । 'तसिल्' आदेशः न भवेत् चेत् एते आदेशाः अपि न विधीयन्ते, अतः इष्टरूपम् न सिद्ध्येत ।\nआ) 'तस्' प्रत्ययस्य आदिस्वरः तकारः <<आद्युदात्तश्च>> [[3.1.3]] इत्यनेन आद्युदात्तः भवति । परन्तु तसिल्-प्रत्यये परे <<लिति>> [[6.1.193]] इत्यनेन प्रत्ययात् पूर्वं विद्यमानः स्वरः उदात्तत्वं प्राप्नोति, न हि प्रत्ययस्य आदिस्वरः । एतम् स्वरभेदम् दर्शयितुमपि 'तसि' इत्ययस्य 'तसिल्' आदेशः आचार्येण प्रोक्तः अस्ति ।\nस्मर्तव्यम् - तसिल्-प्रत्यये परे <<तसिलादिष्वाकृत्वसुचः>> [[6.3.35]] इत्यनेन स्त्रीवाचिनः अङ्गस्य पुंवद्भावः भवति ।\nयथा - बह्व्याः इत्येव\n= बह्वी + तस् [<<प्रतियोगे पञ्चम्यास्तसिः>> [[5.4.44]] इत्यनेन तसि-प्रत्ययः]\n= बह्वी + तसिल् [वर्तमानसूत्रेण 'तसि' प्रत्ययस्य 'तसिल्' आदेशः]\n→ बहु + तसिल् [पुंवद्वावः]\n→ बहुतः । " }, "53009": { "sa": "'परि' तथा 'अभि' एताभ्याम् 'तसिल्' प्रत्ययः भवति । ", "sd": "'परि' तथा 'अभि' एतौ द्वौ गतिसंज्ञकौ शब्दौ । एताभ्याम् वर्तमानसूत्रेण 'तसिल्' इति प्रत्ययः स्वार्थे विधीयते ।\nपरि तथा अभि - एतयोः द्वयोः अपि शब्दयोः अनेके अर्थाः सन्ति । एतेभ्यः कस्मिन् अर्थे अयम् तसिल्-प्रत्ययः विधीयते एतत् स्पष्टीकर्तुम् वार्त्तिककारः एकम् वार्त्तिकम् पाठयति - । इत्युक्ते, 'परि' उपसर्गात् 'सर्व' अस्मिन् अर्थे, तथा 'अभि' उपसर्गात् 'उभय' अस्मिन् अर्थे 'तसिल्' इति प्रत्ययः क्रियते । यथा -\n1) परि (= सर्व) + तसिल् → परितः । 'सर्वतः' इत्यर्थः ।\n2) अभि (= उभय) + तसिल् → अभितः । 'उभयतः' इत्यर्थः ।\n" }, "53010": { "sa": "सर्वादिगणे विद्यमानेभ्यः 'सर्व' इत्यस्मात् आरभ्य 'एक' इति यावत् शब्देभ्यः, 'बहु' शब्दात् तथा च 'किम्' शब्दात् सप्तम्यन्तात् स्वार्थे 'त्रल्' प्रत्ययः भवति । ", "sd": "अनेन सूत्रेण 'त्रल्' इति विभक्तिसंज्ञकः प्रत्ययः पाठ्यते । अस्मिन् प्रत्यये लकारः इत्संज्ञकः अस्ति, अतः 'त्र' इत्येव प्रयोगे दृश्यते ।\n<<किंसर्वनामबहुभ्योऽद्व्यादिभ्यः>> [[5.3.2]] इत्यनेन भिन्नेभ्यः शब्देभ्यः विभक्तिसंज्ञकाः तद्धितप्रत्ययाः उच्यन्ते । वर्तमानसूत्रेण उक्तः 'त्रल्' प्रत्ययः अपि विभक्तिसंज्ञकः एव अस्ति, अतः अयम् प्रत्ययः अपि एतेभ्यः सर्वेभ्यः शब्देभ्यः विधीयते । कानिचन उदाहरणानि पश्यामः -\n1) कस्मिन् इत्येव\n= कस्मिन् + त्रल् ['कस्मिन्' शब्दात् स्वार्थे प्रत्ययविधानम्]\n→ किम् + त्र [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सप्तमीप्रत्ययस्य लुक्]\n→ कु + त्र [<<किमः कः>> [[7.2.103]] इत्यनेन विभक्तिसंज्ञके प्रत्यये परे 'किम्' इत्यस्य 'क' इति आदेशे प्राप्ते तं बाधित्वा तकारादौ प्रत्यये परे <<कु तिहोः>> [[7.2.104]] इति 'कु' आदेशः ]\n→ कुत्र\nविशेषः - 'कस्मिन्' इत्यस्मात् पक्षे <<किमोऽत्>> [[5.3.12]] इत्यनेन 'अत्' इत्यपि प्रत्ययः विधीयते, तेन 'क्व' इति अपि शब्दः सिद्ध्यति ।\n2) अमुष्मिन् इत्येव\n= अमुष्मिन् + त्रल् ['अस्मिन्' शब्दात् स्वार्थे प्रत्ययविधानम्]\n→ अदस् + त्र [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सप्तमीप्रत्ययस्य लुक्]\n→ अमु + त्र [<<अदसोऽसेर्दादु दो मः>> [[8.2.80]] इति 'अदस्' इत्यस्य अमु' आदेशः ।]\n→ अमुत्र\n3) यस्मिन् इत्येव\n= यस्मिन् + त्रल् ['यस्मिन्' शब्दात् स्वार्थे प्रत्ययविधानम्]\n→ यद् + त्र [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सप्तमीप्रत्ययस्य लुक्]\n→ य + त्र [<<त्यदादीनामः>> [[7.2.102]] इति दकारस्य अकारादेशः । <<अतो गुणे>> [[6.1.97]] इति पररूप-एकादेशः ]\n→ यत्र [<<ससजुषो रुँः>> [[8.2.66]] इति रुँत्वम् । <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n4) एतस्मिन् इत्येव\n= एतस्मिन् + त्रल् ['एतस्मिन्' शब्दात् स्वार्थे प्रत्ययविधानम्]\n→ एतद् + त्रल् [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सप्तमीप्रत्ययस्य लुक्]\n→ अन् + त्र [<<एतदोऽन्>> [[5.3.5]] इति एतद्-शब्दस्य अन्-आदेशः]\n→ अत्र [<<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इति अङ्गस्य पदसंज्ञा ; स्थानिवद्भावात् च अङ्गस्य प्रातिपदिकसंज्ञा । अग्रे <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः]\nएवमेव 'बहुत्र', 'सर्वत्र', 'एकत्र', 'उभयत्र', 'पूर्वत्र', 'अन्यत्र', 'तत्र', 'यत्र' - एते शब्दाः अपि सिद्ध्यन्ति ।\nविशेषः -\n1. 'इदम्' शब्दस्य विषये वर्तमानसूत्रेण 'त्रल्' प्रत्यये प्राप्ते तं बाधित्वा <<इदमो हः>> [[5.3.11]] इत्यनेन 'ह' प्रत्ययः विधीयते, येन 'इह' इति शब्दः सिद्ध्यति ।\n2. अनेन सूत्रेण सप्तमीविभक्त्यन्तात् प्रत्ययः उच्यते, न हि 'सप्तमीसमर्थात्' इति स्मर्तव्यम् । अत्र समर्थाधिकारः न प्रचलति, अतः अत्र स्वार्थे एव प्रत्ययविधानम् क्रियते, सामर्थ्यम् नापेक्ष्यते ।\n4. सर्व, एक, अन्य, किम्, यद्, तथा तद् - एतेषाम् विषये सप्तम्यन्तः शब्दः यदि कालस्य विशेषणरूपेण प्रयुज्यते (यथा - 'कस्मिन् काले / एकस्मिन् काले - आदयः), तर्हि वर्तमानसूत्रेण विहितम् 'त्रल्' प्रत्ययं बाधित्वा <<सर्वैकान्यकिंयत्तदः काले दा>> [[5.3.15]] इत्यनेन 'दा' इति प्रत्ययः विधीयते, येन 'सर्वदा', 'एकदा' - एतादृशाः शब्दाः सिद्ध्यन्ति ।\n5. त्रल्-प्रत्यये परे <<तसिलादिष्वाकृत्वसुचः>> [[6.3.35]] इत्यनेन स्त्रीवाचिनः अङ्गस्य पुंवद्भावः भवति ।\nयथा - बह्वीषु इत्येव\n= बह्वी + त्रल्\n→ बहु + त्रल् [पुंवद्वावः]\n→ बहुत्र ।\n" }, "53011": { "sa": "'इदम्' शब्दस्य सप्तमीविभक्त्यन्तात् स्वार्थे 'ह' प्रत्ययः भवति । ", "sd": "'इदम्' इति सर्वनामशब्दः । अस्य सप्तमीविभक्त्यन्तात् <<सप्तम्यास्त्रल्>> [[5.3.10]] इत्यनेन औत्सर्गिकरूपेण 'त्रल्' प्रत्यये प्राप्ते तं बाधित्वा वर्तमानसूत्रेण 'ह' प्रत्ययः विधीयते । यथा -\nअस्मिन् इत्येव\n= अस्मिन् + ह\n→ इदम् + ह [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सप्तमीप्रत्ययस्य लुक्]\n→ इ + ह [<<इदम इश्>> [[5.3.3]] इति इश्-आदेशः]\n→ इह\nअनेन प्रकारेण 'इह' इति शब्दः सिद्ध्यति । <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यनेन अस्य अव्ययसंज्ञा विधीयते ।\n" }, "53012": { "sa": "'किम्' शब्दस्य सप्तमीविभक्त्यन्तात् स्वार्थे विकल्पेन 'अत्' प्रत्ययः विधीयते । ", "sd": "'किम्' इति कश्चन सर्वनामशब्दः । अस्य सप्तम्येकवचनस्य रूपात् स्वार्थे <<सप्तम्यास्त्रल्>> [[5.3.10]] इत्यनेन त्रल्-प्रत्यये प्राप्ते वर्तमानसूत्रेण विकल्पेन 'अत्' प्रत्ययः अपि भवति । यथा -\nकस्मिन् इत्येव\n= कस्मिन् + अत् ['अत्' इति प्रत्ययः।]\n→ कस्मिन् + अ [तकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ किम् + अ [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सप्तमीप्रत्ययस्य लुक्]\n→ क्व + अ [<<क्वाति>> [[7.2.105]] इति 'किम्' इत्यस्य 'क्व'-आदेशः]\n→ क्व् + अ [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ क्व\nअनेन निर्मितः 'क्व' शब्दः 'कुत्र' अस्मिन्नेव अर्थे प्रयुज्यते । <<तद्धितश्चासर्वविभक्तिः>> [[1.3.38]] इत्यनेन अस्य अव्ययसंज्ञा अपि भवति ।\nस्मर्तव्यम् - अस्मिन् सूत्रे 'वा' इति अपकर्षः अस्ति, <<वा ह च च्छन्दसि>> [[5.3.13]] इत्यस्मात् अस्य ग्रहणं भवति । अतः पक्षे <<सप्तम्यास्त्रल्>> इत्यनेन 'त्रल्' प्रत्ययं कृत्वा 'कुत्र' इत्यपि रूपं सिद्ध्यति ।\nविशेषः - अस्मिन् सूत्रे पाठितः 'अत्' अयम् प्रत्ययः वस्तुतः <<प्राग्दिशो विभक्तिः>> [[5.3.1]] इत्यनेन विभक्तिसंज्ञकः अस्ति । अतः अस्य तकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञायाम् प्राप्तायाम् <<न विभक्तौ तुस्माः>> [[1.3.4]] इत्यनेन तस्याः निषेधः भवेत् । इत्युक्ते, तकारस्य इत्संज्ञा नैव कर्तव्या । परन्तु अत्र 'अत्' प्रत्यये तकारस्य इत्संज्ञा अवश्यम् इष्यते । अस्य स्पष्टीकरणार्थम् <<न विभक्तौ तुस्माः>> [[1.3.4]] इत्यस्य अनित्यत्वमुदाह्रियते । इत्युक्ते, <<न विभक्तौ तुस्माः>> [[1.3.4]] इति सूत्रमनित्यमस्ति, अतः अत्र तकारस्य इत्संज्ञासमये अस्य प्रसक्तिः न विद्यते - इति आशयः । अस्मिन् विषये <<इदमस्थमुः>> [[5.3.24]] इत्यत्र अधिकेन उक्तमस्ति, तदपि दृश्येत ।\n" }, "53013": { "sa": "'किम्' शब्दस्य सप्तमीविभक्त्यन्तात् वेदेषु स्वार्थे विकल्पेन 'ह' प्रत्ययः कृतः दृश्यते ।", "sd": "'किम्' इति कश्चन सर्वनामशब्दः । अस्य सप्तम्येकवचनस्य रूपात् स्वार्थे <<सप्तम्यास्त्रल्>> [[5.3.10]] इत्यनेन त्रल्-प्रत्ययः तथा च <<किमोऽत्>> [[5.3.12]] इत्यनेन अत्-प्रत्ययः भवति । वेदेषु अस्मादेव शब्दात् 'ह' प्रत्ययः कृतः अपि दृश्यते ।\nप्रक्रिया इयम् -\nकिम् + ह\n→ कु + ह [<<किमः कः>> [[7.2.103]] इत्यनेन विभक्तिसंज्ञके प्रत्यये परे 'किम्' इत्यस्य 'क' इति आदेशे प्राप्ते तं बाधित्वा हकारादौ प्रत्यये परे <<कु तिहोः>> [[7.2.104]] इति 'कु' आदेशः ]\n→ कुह\n'कुत्र' इत्यस्मिन्नेव अर्थे 'कुह' इति शब्दः वेदेषु प्रयुज्यते । यथा, ऋग्वेदे 10.129 (नासदीयसूक्तम्) इत्यस्य प्रथमा ऋक् -\nनास॑दासी॒न्नो सदा॑सीत्त॒दानीं॒ नासी॒द्रजो॒ नो व्यो॑मा प॒रो यत् । किमाव॑रीव॒: कुह॒ कस्य॒ शर्म॒न्नम्भ॒: किमा॑सी॒द्गह॑नं गभी॒रम् ॥\nस्मर्तव्यम् - अस्मिन् सूत्रे 'वा' इत्यनेन विकल्पः निर्दिश्यते ।किम्-शब्दात् 'त्रल्' तथा 'अत्' प्रत्ययौ कृत्वा अपि रूपाणि वेदेषु भवितुमर्हन्ति - इति अस्य विकल्पस्य अर्थः ।\n" }, "53014": { "sa": "अत्र पाठिताः तसिलादयः प्रत्ययाः पञ्चमी/सप्तमीविभक्तिं विहाय अन्येभ्यः विभक्तिप्रत्ययेभ्यः अपि कृताः दृश्यन्ते । ", "sd": "अस्मिन् प्राग्दिशीयप्रकरणे पाठिताः विभक्तिसंज्ञकप्रत्ययाः प्रायः सर्वे सप्तम्यन्तशब्दात् उत पञ्चम्यन्तशब्दात् उक्ताः सन्ति । परन्तु केषुचन स्थलेषु एते प्रत्ययाः अन्यविभक्त्यन्तात् अपि विहिताः दृश्यन्ते । एतादृशानां प्रयोगानाम् साधुत्वम् द्योतयितुम् पाणिनिना इदम् सूत्रम् विरचितमस्ति । शिष्टप्रयोगमनुसृत्य कुत्रचित् तसिल् /त्रल् आदयः प्रत्ययाः सप्तमीविभक्तिं पञ्चमीविभक्तिं वा विहाय अन्यविभक्तिवाचकेभ्यः शब्देभ्यः अपि भवितुमर्हन्ति, इति अस्य सूत्रस्य आशयः ।\n'एते शिष्टप्रयोगाः के के' - इति काशिकाकारः स्पष्टीकरोति । सः वदति - 'भवान् दीर्घायुरायुष्मान् देवानां प्रियः इति' । इत्युक्ते, 'भवान्', 'दीर्घायुः', 'आयुष्मान्', तथा 'देवानांप्रियः' (समस्तपदम् इदम्, 'मूर्खः' इति अर्थः) एतेषाम् विशेषणरूपेण यदि सर्वनामवाचकः शब्दः आगच्छति, तर्हि तस्मात् सर्वनामवाचकशब्दात् वर्तमानसूत्रेण तसिलादयः प्रत्ययाः भवितुमर्हन्ति ।\nयथा -\n1) 'सः भवान्' अस्मिन् वाक्यखण्डे 'सः' इति तद्-शब्दस्य प्रथमैकवचनम् 'भवान्' इत्यस्य विशेषणरूपेण प्रयुक्तमस्ति । अस्यां स्थितौ 'तद्' इत्यस्मात् शब्दात् 'त्रल्' इति प्रत्ययः वर्तमानसूत्रेण भवितुमर्हति, येन 'तत्र' इति रूपं सिद्ध्यति । 'सः भवान्' इत्येव = तत्रभवान् । एवमेव 'तद्' शब्दात् 'तसिल्' प्रत्ययं कृत्वा 'ततः भवान्' इति अपि शब्दः अस्मिन् अर्थे एव सिद्ध्यति । 'सः भवान्' इत्येव = ततोभवान् ।\nअनेनैव प्रकारेण अन्येषाम् विभक्त्यन्तानां विषये अपि ज्ञातव्यम् -\n2) तम् भवन्तम् = तत्रभवन्तम् / ततोभवन्तम् ।\n3) तेन भवता = तत्रभवता / ततोभवता ।\n4) तस्मै भवते = तत्रभवते / ततोभवते ।\n4) तस्मात् भवतः = तत्रभवतः / ततोभवतः ।\n5) तस्य भवतः = तत्रभवतः / ततोभवतः ।\n6) तस्मिन् भवति = तत्रभवति / ततोभवति ।\nअन्येषाम् शब्दानां विषये अपि एतादृशमेव ज्ञेयम् -\n1) सः दीर्घायुः = तत्रदीर्घायुः / ततोदीर्घायुः ।\n2) सः आयुष्मान् = तत्रायुष्मान् / तत आयुष्मान् ।\n3) सः देवानां प्रियः = तत्र देवानां प्रियः / ततोदेवानां प्रियः ।\n4) अयम् भवान् = इहभवान् / इतोभवान् ।\n5) कः भवान् = क्वभवान् / कुतोभवान् ।\nविशेषः -\n1. अस्मिन् सूत्रे 'दृश्यन्ते' इति शब्दः प्रयुक्तः अस्ति । अस्य स्पष्टीकरणम् कौमुद्यां दीयते - 'दृशिग्रहणाद्भवदादियोग एव' । इत्युक्ते, शिष्टप्रयोगमनुसृत्य (= 'भवान्' आदीनाम् विषये एव) सूत्रम् इदम् प्रयोक्तव्यम् - इति अत्र आशयः ।\n2. अनेन सूत्रेण 'अत्र भवान्' , 'तत्र भवान्' एतादृशानि वाक्यानि सिद्ध्यन्ति । परन्तु केचन पण्डिताः अत्र केवलसमासं कृत्वा 'अत्रभवान्', 'तत्रभवान्' एतादृशम् एकपदात्मकम् प्रयोगमपि समीचीनमेव ज्ञापयन्ति । " }, "53015": { "sa": "'सर्व', 'एक', 'अन्य', 'किम्', 'यत्' तद्' एतेषाम् सप्तमीविभक्त्यन्तात् 'काले' अभिधेये 'दा' इति प्रत्ययः स्वार्थे विधीयते । ", "sd": "अनेन सूत्रेण 'दा' इति विभक्तिसंज्ञकः शब्दः पाठ्यते । कालस्य विशेषणरूपेण प्रयुज्यमानात् 'सर्व', 'एकः, 'अन्य', 'किम्', 'यत्' तद्' एतेषाम् सप्तमीविभक्त्यन्तरूपात् <<सप्तम्यास्त्रल्>> [[5.3.10]] इत्यनेन औत्सर्गिकरूपेण त्रल्-प्रत्यये प्राप्ते तं बाधित्वा 'दा' प्रत्ययः अनेन सूत्रेण स्वार्थे विधीयते । क्रमेण पश्यामः -\n1. सर्वस्मिन् काले इत्येव\n= सर्वस्मिन् + दा\n→ सर्व + दा [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्ययस्य लुक्]\n→ सर्वदा, सदा [<<सर्वस्य सोऽन्यतरस्यां दि>> [[5.3.6]] इति विकल्पेन 'स' आदेशः]\n2. एकस्मिन् काले\n= एकस्मिन् + दा\n→ एक + दा [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्ययस्य लुक्]\n→ एकदा\n3. अन्यस्मिन् काले\n= अन्यस्मिन् + दा [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्ययस्य लुक्]\n→ अन्यदा\n4. कस्मिन् काले\n= कस्मिन् + दा\n→ किम् + दा [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्ययस्य लुक्]\n→ क + दा [<<किमः कः>> [[7.2.103]] इति 'किम्' इत्यस्य 'क' आदेशः।]\n→ कदा\n5. यस्मिन् काले\n→ यस्मिन् + दा\n→ यद् + दा [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्ययस्य लुक्]\n→ यअ + दा [<<त्यदादीनामः>> [[7.2.102]] इति दकारस्य अकारादेशः]\n→ य + दा [<<अतो गुणे>> [[6.1.97]] इति गुण-एकादेशः]\n→ यदा\n5. तस्मिन् काले\n→ तस्मिन् + दा\n→ तद् + दा [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्ययस्य लुक्]\n→ तअ + दा [<<त्यदादीनामः>> [[7.2.102]] इति दकारस्य अकारादेशः]\n→ त + दा [<<अतो गुणे>> [[6.1.97]] इति गुण-एकादेशः]\n→ यदा\nअनेन प्रकारेण 'सर्वदा', 'एकदा', 'अन्यदा', 'यदा', 'तदा' - एते शब्दाः अनेन सूत्रेण सिद्ध्यन्ति । एते सर्वे शब्दाः <<तद्धितश्चासर्वविभक्तिः>> [[1.2.38]] इत्यनेन अव्ययसंज्ञकाः भवन्ति ।\nज्ञातव्यम् - अस्मिन् सूत्रे प्रयुक्तः 'काले' इति शब्दः प्रत्ययार्थम् न बोधयति, अपि तु प्रकृतेः विशेष्यम् ज्ञापयति । इत्युक्ते, 'काले' इति 'सर्वस्मिन् / एकस्मिन् / यस्मिन्' इत्येतेषाम् विशेष्यम्। प्रत्ययः अपि 'यस्मिन् काले' इत्यस्मिन्नेव अर्थे (= स्वार्थे) भवति ।\n" }, "53016": { "sa": "'इदम्' शब्दस्य सप्तमीविभक्त्यन्तात् काले अभिधेये 'र्हिल्' इति प्रत्ययः स्वार्थे विधीयते । ", "sd": "अनेन सूत्रेण 'र्हिल्' ( = र् + ह् + इ + ल्) इति प्रत्ययः पाठ्यते । 'काले' इत्यस्य विशेषणरूपेण प्रयुज्यमात् इदम्-शब्दस्य सप्तम्यन्तात् अयम् प्रत्ययः स्वार्थे भवति । प्रक्रिया इयम् -\nअस्मिन् काले इत्येव\n= अस्मिन् + र्हिल्\n→ अस्मिन् + र्हि [लकारस्य इत्संज्ञा, लोपः]\n→ इदम् + र्हि [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्ययस्य लुक्]\n→ एत + र्हि ['इदम्' सर्वनाम्नः रेफादौ विभक्तिप्रत्यये परे <<एतेतौ रथोः>> [[5.3.4]] इत्यनेन 'एत' इति आदेशः ]\n→ एतर्हि\nअनेन प्रकारेण निर्मितः 'एतर्हि' शब्दः 'अस्मिन् काले' इत्यस्मिन्नेव अर्थे प्रयुज्यते । <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यनेन अस्य अव्ययसंज्ञा भवति ।\nज्ञातव्यम् - <<दानीं च>> [[5.3.18]] इत्यनेन 'इदम्' इत्यस्य सप्तम्यन्तरूपात् 'अस्मिन् काले' इत्यमिन्नेव अर्थे 'दानीम्' प्रत्ययः अपि विधीयते, येन 'इदानीम्' इति अव्ययम् सिद्ध्यति । अस्यापि अर्थः 'एतर्हि' इत्येव ।\n" }, "53017": { "sa": "'अस्मिन् काले' इत्यस्मिन् अर्थे 'अधुना' इति शब्दः निपात्यते । ", "sd": "अनेन सूत्रेण 'अधुना' इत्यस्य अव्ययस्य निपातनम् क्रियते । 'अस्मिन् काले' इत्यस्मिन् अर्थे 'अधुना' इति शब्दः निपात्यते ।\nअस्य प्रक्रिया व्याख्यानेषु द्वयोः प्रकारयोः दीयते -\n[अ] 'अस्मिन्' शब्दात् 'धुना' इति प्रत्ययः निपात्यते -\nअस्मिन् काले इत्येव\n= अस्मिन् + धुना ['अस्मिन्' शब्दात् 'धुना' इति प्रत्ययः निपात्यते]\n→ इदम् + धुना [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्ययस्य लुक्]\n→ अ + धुना ['इदम्' शब्दस्य 'अश्' इति आदेशः निपात्यते । शित्त्वात् सर्वादेशः]\n→ अधुना\n[आ] 'अस्मिन्' शब्दात् 'अधुना' इति प्रत्ययः निपात्यते -\nअस्मिन् काले इत्येव\n= अस्मिन् + अधुना ['अस्मिन्' शब्दात् 'अधुना' इति प्रत्ययः निपात्यते]\n→ इदम् + अधुना [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्ययस्य लुक्]\n→ इ + अधुना [<<इदमः इश्>> [[5.3.3]] इति इश्-आदेशः । शकारस्य इत्संज्ञा । शित्वात् सर्वादेशः]\n→ X + अधुना [<<यस्येति च>> [[6.4.148]] इति इकारलोपः]\n→ अधुना\nअत्र निर्मितः 'अधुना' शब्दः यदि प्रत्ययवत् दृश्यते तथापि इदम् पदमस्तीति स्मर्तव्यम् ।\n" }, "53018": { "sa": "'इदम्' शब्दस्य सप्तमीविभक्त्यन्तात् काले अभिधेये 'दानीम्' इति प्रत्ययः स्वार्थे विधीयते ।", "sd": "अनेन सूत्रेण 'दानीम्' इति प्रत्ययः पाठ्यते । 'काले' इत्यस्य विशेषणरूपेण प्रयुज्यमात् इदम्-शब्दस्य सप्तम्यन्तात् अयम् प्रत्ययः स्वार्थे भवति । अस्मिन् प्रत्यये मकारस्य <<हलन्त्यम्>> [[1.3.3]] इत्यनेन इत्संज्ञायाम् प्राप्तायाम् <<न विभक्तौ तुस्माः>> [[1.3.4]] इत्यनेन सा निषिध्यते ।\nअस्मिन् काले इत्येव\n= अस्मिन् + दानीम्\n→ इदम् + दानीम् [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्ययस्य लुक्]\n→ इ + दानीम् ['इदम्' सर्वनाम्नः <<इदम इश्>> [[5.3.3]] इति इश्-आदेशः । शित्त्वात् सर्वादेशः ।]\n→ इदानीम्\nअनेन प्रकारेण निर्मितः 'इदानीम्' शब्दः 'अस्मिन् काले' इत्यस्मिन्नेव अर्थे प्रयुज्यते । <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यनेन अस्य अव्ययसंज्ञा भवति ।\nस्मर्तव्यम् - <<इदमो र्हिल्>> [[5.3.16]] इत्यनेन 'इदम्' इत्यस्य सप्तम्यन्तरूपात् 'अस्मिन् काले' इत्यमिन्नेव अर्थे 'र्हि' प्रत्ययः अपि विधीयते, येन 'एतर्हि' इति अव्ययम् सिद्ध्यति । अस्यापि अर्थः 'इदानीम्' इत्येव ।\n" }, "53019": { "sa": "'तद्' शब्दस्य सप्तमीविभक्त्यन्तात् काले अभिधेये 'दा' तथा 'दानीम्' एतौ प्रत्ययौ स्वार्थे विधीयेते ।", "sd": "काले' इत्यस्य विशेषणरूपेण प्रयुज्यमात् तद्-शब्दस्य सप्तम्यन्तात् अनेन सूत्रेण 'दानीम्' तथा 'दा' एतौ प्रत्ययौ स्वार्थै उच्येते । यथा -\nतस्मिन् काले\n= तस्मिन् + दा / दानीम्\n→ तद् + दा / दानीम् [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्ययस्य लुक्]\n→ तअ + दा/दानीम् [<<त्यदादीनामः>> [[7.2.102]] इति दकारस्य अकारादेशः]\n→ त + दा/दानीम् [<<अतो गुणे>> [[6.1.97]] इति पररूपम्]\n→ तदा / तदानीम्\nअनेन प्रकारेण 'तस्मिन् काले' इत्यस्मिन्नेव अर्थे 'तदा' तथा 'तदानीम्' एतौ शब्दौ सिद्ध्येते । एतयोः द्वयोः अपि <<तद्धितश्चासर्वविभक्तिः>> [[1.3.38]] इत्यनेन इत्संज्ञा भवति ।\nविशेषः - अस्मिन् सूत्रे 'दा' इति विधानमनावश्यकमस्ति, यतः 'तद्' इत्यमात् 'तस्मिन् काले' इति अभिधेये <<सर्वैकान्यकिंयत्तदः काले दा>> [[5.3.15]] इत्यनेन 'दा' प्रत्ययः पूर्वरूपेणैव उक्तः अस्ति । अतः इदम् सूत्रम् 'तदो च' इत्येव उच्यते चेदपि अलम् ।\nज्ञातव्यम् - 'दानीम्' प्रत्यये मकारस्य <<हलन्त्यम्>> [[1.3.3]] इत्यनेन इत्संज्ञायाम् प्राप्तायाम् <<न विभक्तौ तुस्माः>> [[1.3.4]] इत्यनेन सा निषिध्यते ।" }, "53020": { "sa": "'इदम्' तथा 'तद्' एत्येताभ्याम् यथासङ्ख्यम् 'दा' तथा 'र्हिल्' एतौ प्रत्ययौ वेदेषु कृतौ दृश्येते । ", "sd": " वेदेषु केषुचन स्थलेषु 'इदम्' इत्यस्मात् 'दा' प्रत्ययः तथा 'तद्' इत्यस्मात् 'र्हि' प्रत्ययः कृतः दृश्यते । एतयोः साधुत्वार्थम् वर्तमानसूत्रस्य निर्माणम् कृतमस्ति । क्रमेण पश्यामः -\n1) इदम् + दा\n→ इदा [<<इदमः इश्>> [[5.3.3]] इति इदम्-इत्यस्य 'इश्' आदेशः । शित्त्वात् सर्वादेशः]\nयथा - ऋग्वेदे 8.27.11 - इ॒दा हि व॒ उप॑स्तुतिमि॒दा वा॒मस्य॑ भ॒क्तये॑ ।\nअत्र 'इदा' इति शब्दः 'अस्मिन् काले' इत्यस्मिन् अर्थे प्रयुक्तः अस्ति ।\n2. तद् + र्हिल्\n→ त र्हि [<<त्यदादीनामः>> [[7.2.102]] इति दकारस्य अकारादेशः । <<अतो गुणे>> [[6.1.97]] इति पररूपम्]\n→ तर्हि\nअयम् 'तर्हि' इति शब्दः 'तस्मिन्' इत्यस्मिन् अर्थे प्रयुज्यते । ('तस्मिन् काले' इत्यस्मिन् अर्थे तु <<अनद्यतने र्हिलन्यतरस्याम्>> [[5.3.21]] इत्यनेन अग्रिमसूत्रेण लौकिकवैदिकसंस्कृतयोः उभयोः अस्य सिद्धिः भवितुमर्हति, अतः तस्य उदाहरणानि अत्र न देयानि)।\nज्ञातव्यम् -\n1. अस्मिन् सूत्रे 'तयोः' इति निर्देशः 'इदम्' तथा 'तद्' एतयोः निर्देशार्थमस्ति । पूर्वसूत्रेषु 'इदम्' तथा 'तद्' एतयोर्विषये आचार्येण उक्तमस्ति, तस्यैव सन्दर्भम् स्वीकृत्य अत्र आचार्यः 'तयोः' इत्यनेन 'इदम्' तथा 'तद्' एतयोः ग्रहणम् करोति ।\n2. पूर्वसूत्रेषु 'इदम्' तथा 'तद्' एताभ्याम् विहिताः अन्ये प्रत्ययाः अपि वेदेषु दृश्यन्ते एव - इति स्मर्तव्यम् ।\n3. अनेन सूत्रेण साधितः 'तर्हि' इति शब्दः केवलम् वैदिकसंस्कृते एव दृश्यते । लौकिकसंस्कृते प्रयुज्यमाणः 'तर्हि' इति शब्दः <<अनद्यतने र्हिलन्यतरस्याम्>> [[5.3.21]] इत्यनेन पाठितः अस्ति । " }, "53021": { "sa": "सर्वादिगणे विद्यमानेभ्यः 'सर्व' इत्यस्मात् आरभ्य 'एक' इति यावद्भ्यः शब्देभ्यः, 'बहु' शब्दात् तथा च 'किम्' शब्दात् सप्तम्यन्तात् अनद्यतने काले अभिधेये स्वार्थे 'र्हिल्' प्रत्ययः विकल्पेन भवति । ", "sd": "अनेन सूत्रेण 'र्हिल्' इति विभक्तिसंज्ञकः प्रत्ययः पाठ्यते । अस्मिन् प्रत्यये लकारः इत्संज्ञकः अस्ति, अतः 'र्हि' इत्येव प्रयोगे दृश्यते ।\n<<किंसर्वनामबहुभ्योऽद्व्यादिभ्यः>> [[5.3.2]] इत्यनेन भिन्नेभ्यः शब्देभ्यः विभक्तिसंज्ञकाः तद्धितप्रत्ययाः उच्यन्ते । एतेषाम् शब्दानाम् सप्तम्यन्तरूपात् <<सप्तम्यास्त्रल्>> [[5.3.10]] इत्यनेन 'त्रल्' इति प्रत्ययः उक्तः अस्ति । यत्र अयम् सप्तम्यन्तशब्दः 'कालस्य' विशेषणरूपेण प्रयुज्यते, तत्र 'सर्व', 'एक', 'अन्य', 'किम्', 'यद', 'तद्' - एतेभ्यः षड्भ्यः शब्देभ्यः <<सर्वैकान्यकिंयत्तदः काले दा>> [[5.3.15]] इत्यनेन 'दा' इति प्रत्ययः भवति, अन्येभ्यः च शब्देभ्यः 'त्रल्' इत्येव प्रत्ययः क्रियते । परन्तु यत्र अयम् सप्तम्यन्तशब्दः 'अनद्यतनकालस्य' (= Time that does not belong to today) विशेषणरूपेण प्रयुज्यते, तत्र एतयोः प्रत्यययोः वैकल्पिक-अपवादरूपेण 'र्हिल्' इति प्रत्ययः वर्तमानसूत्रेण उच्यते । यथा -\n1. कस्मिन् काले\n= कस्मिन् + र्हिल्\n→ किम् + र्हि [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्ययस्य लुक्]\n→ क + र्हि [<<किमः कः>> [[7.2.103]] इति 'क' आदेशः]\n→ कर्हि\n'कस्मिन् काले' इत्यस्मिन्नेव अर्थे 'कर्हि' इति शब्दः प्रयुज्यते । पक्षे 'दा' प्रत्ययं कृत्वा 'कदा' इत्यपि रूपं सिद्ध्यति ।\n2. यस्मिन् काले\n= यस्मिन् + र्हि\n= यद् + र्हि [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्ययस्य लुक्]\n→ य + र्हि [<<त्यदादीनामः>> [[7.2.102]] इति दकारस्य अकारादेशः। <<अतो गुणे>> [[6.1.97]] इति पररूपम् ]\n→ यर्हि\nएवमेव 'तर्हि', 'एतर्हि', 'अन्यर्हि' एते शब्दाः अपि सिद्ध्यन्ति ।\nस्मर्तव्यम् -\n1. अनेन सूत्रेण निर्मिताः शब्दाः 'अनद्यतन काले' इत्यस्मिन् सन्दर्भे एव विधीयन्ते ।\n2. अनेन सूत्रेण उक्तः 'र्हिल्' प्रत्ययः विकल्पेनैव भवति । अतः पक्षे <<सर्वैकान्यकिंयत्तदः काले दा>> [[5.3.15]] इत्यनेन 'दा' प्रत्ययः उत <<सप्तम्यास्त्रल्>> [[5.3.10]] इत्यनेन 'त्रल्' - एताभ्याम् यथायोग्यं प्रत्ययः अपि भवितुमर्हति ।\n3. 'इदम्' शब्दात् तु <<इदमो र्हिल्>> [[5.3.16]] इत्यनेन सर्वेषु कालेषु अभिधेयेषु 'र्हिल्' प्रत्ययः विधीयते ।\n" }, "53022": { "sa": "काले अभिधेये स्वार्थे 'सद्यः , परुत्, परारि, ऐषमः, परेद्यवि, अद्य, पूर्वेद्युः, अन्येद्युः, अन्यतरेद्युः, इतरेद्युः , अपरेद्युः, अधरेद्युः, उभयेद्युः, उत्तरेद्युः' - एते शब्दाः निपात्यन्ते ।", "sd": "अनेन सूत्रेण आहत्य चतुर्दशानाम् शब्दानाम् निपातनम् दीयते । एते सर्वे शब्दाः सप्तम्यन्तात् काले अभिधेये उचितं प्रत्ययं कृत्वा सिद्ध्यन्ति । एतेषाम् सर्वेषामावली इयम् -\nसद्यः , परुत्, परारि, ऐधमः, परेद्यवि, अद्य, पूर्वेद्युः, अन्येद्युः, अन्यतरेद्युः, इतरेद्युः , अपरेद्युः, अधरेद्युः, उभयेद्युः, उत्तरेद्युः\nक्रमेण पश्यामः । भाष्यकारेण प्रत्येकस्मिन् सन्दर्भे पाठितानि वार्त्तिकानि अप्यत्र दत्तानि सन्ति -\n1. सद्यः - () । 'समान' इति शब्दः यत्र 'अहन्' (day) इत्यस्य विशेषणरूपेण प्रयुज्यते, तत्र सप्तम्यन्तात् (= 'समाने' इत्यस्मात् शब्दात्) स्वार्थे 'द्यस्' इति प्रत्ययं कृत्वा 'सद्य' इति शब्दः सिद्ध्यति । प्रक्रिया इयम् -\nसमाने अहनि इत्येव\n= समान + द्यस् [द्यस्-प्रत्ययः]\n→ स + द्यस् ['समान' इत्यस्य 'स' इति आदेशः निपात्यते]\n→ सद्यः [विसर्गनिर्माणम्]\n'सद्यः' इत्युक्ते 'समाने अहनि' (on the same day).\nअग्रिमौ द्वौ शब्दौ अस्मात् वार्त्तिकात् सिद्ध्यतः -\n2. परुत् - 'पूर्व' इति शब्दः यत्र 'संवत्सर' (year) इत्यस्य विशेषणरूपेण प्रयुज्यते, तत्र सप्तम्यन्तात् (= 'पूर्वे' इत्यस्मात् शब्दात्) स्वार्थे 'उत्' प्रत्ययः भवति । प्रक्रिया इयम् -\nपूर्वे संवत्सरे इत्येव\n= पूर्व + उत्\n→ पर+ उत् ['पूर्व' इत्यस्य 'पर' आदेशः निपात्यते]\n→ पर् + उत् [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ परुत्\n'परुत्' इत्युक्ते 'पूर्वस्मिन् संवत्सरे' (in the previous year)\n3. परारि - 'पूर्वतर' इति शब्दः यत्र 'संवत्सर' (year) इत्यस्य विशेषणरूपेण प्रयुज्यते, तत्र सप्तम्यन्तात् (= 'पूर्वतरे' इत्यस्मात् शब्दात्) स्वार्थे 'आरि' प्रत्ययः भवति । प्रक्रिया इयम् -\nपूर्वतरे संवत्सरे इत्येव\n= पूर्वतर + आरि\n→ पर + आरि ['पूर्वतर' इत्यस्य 'पर' आदेशः निपात्यते]\n→ पर् + आरि [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ परारि\n'परारि' इत्युक्ते 'पूर्वतरे संवत्सरे' (in the year previous to the previous year).\n4. ऐषमः - () । 'इदम्' इति शब्दः यत्र 'संवत्सर' (year) इत्यस्य विशेषणरूपेण प्रयुज्यते, तत्र सप्तम्यन्तात् (= 'अस्मिन्' इत्यस्मात् शब्दात्) स्वार्थे 'समसण्' प्रत्ययः भवति । प्रक्रिया इयम् -\nअस्मिन् संवत्सरे इत्येव\n= इदम् + समसण्\n→ इदम् + समस् [प्रत्यये णकारस्य इत्संज्ञा, सकारोत्तरः अकारः उच्चारणार्थः । द्वयोः लोपः भवति ।]\n→ इ + समस् [<<इदमः इश्>> [[5.3.3]] इति इश्-आदेशः]\n→ ऐ + समस् [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ ऐसमः [<<ससजुषो रुँः>> [[8.2.66]] इति रुँत्वम्, <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n→ ऐषमः [<<आदेशप्रत्यययोः>> [[8.3.59]] इति षत्वम्]\n'ऐषमः' इत्युक्ते 'अस्मिन् संवत्सरे' (in the current year).\n5. परेद्यवि - () । 'पर' इति शब्दः यत्र 'अहन्' (day) इत्यस्य विशेषणरूपेण प्रयुज्यते, तत्र सप्तम्यन्तात् (= 'परस्मिन्' इत्यस्मात् शब्दात्) स्वार्थे 'एद्यवि' इति प्रत्ययं कृत्वा 'परेद्यवि' इति शब्दः सिद्ध्यति । प्रक्रिया इयम् -\nपरस्मिन् अहनि इत्येव\n= पर + एद्यवि [एद्यवि-प्रत्ययः]\n→ पर् + एद्यवि [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\nपरेद्यवि\n'परेद्यवि' इत्युक्ते 'परस्मिन् अहनि' (on the next day / on a different day).\n6. अद्य - () । 'इदम्' इति शब्दः यत्र 'अहन् ' (day) इत्यस्य विशेषणरूपेण प्रयुज्यते, तत्र सप्तम्यन्तात् (= 'अस्मिन्' इत्यस्मात् शब्दात्) स्वार्थे 'द्य' प्रत्ययः भवति । प्रक्रिया इयम् -\nअस्मिन् अहनि इत्येव\n= इदम् + द्य\n→ अ + द्य [इदम्-शब्दस्य 'अश्' इति आदेशः निपात्यते । शित्वात् सर्वादेशः।]\n→ अद्य\n'अद्य' इत्युक्ते 'अस्मिन् अहनि' (today).\nअग्रे विद्यमानानाम् सर्वेषाम् शब्दानाम् विषये 'अहनि' इत्यस्मिन् सन्दर्भे स्वार्थे 'एद्युसुच्' इति प्रत्ययः निपात्यते । अस्य सिद्ध्यर्थम् भाष्यकारः इति वार्त्तिकम् पाठयति । सर्वान् शब्दान् क्रमेण पश्यामः । सर्वत्र प्रक्रियायाम् <<यस्येति च>> [[6.4.148]] इति अकारलोपं कृत्वा रूपं सिद्ध्यतीति स्मर्तव्यम् ।\n7. पूर्वेद्युः -\nपूर्वस्मिन् अहनि = पूर्व + एद्युस् → पूर्वेद्युः । On the previous day इत्यर्थः ।\n8. अन्येद्युः -\nअन्यस्मिन् अहनि = अन्य + एद्युस् → अन्येद्युः ।On the other day इत्यर्थः ।\n9. अन्यतरेद्युः -\nअन्यतरे अहनि = अन्यतर + एद्युस् → अन्यतरेद्युः । On any / either day इत्यर्थः ।\n10. इतरेद्युः -\nइतरस्मिन् अहनि = इतर + एद्युस् → इतरेद्युः । On a different day इत्यर्थः ।\n11. अपरेद्युः -\nअपरस्मिन् अहनि = अपर + एद्युस् → अपरेद्युः । On an another day इत्यर्थः ।\n12. अधरेद्युः -\nअधरस्मिन् अहनि = अधर + एद्युस् → अधरेद्युः ।On a previous / lower day इत्यर्थः ।\n13. उभयेद्युः -\nउभययोः अह्नोः = उभय + एद्युस् → उभयेद्युः । In two days / On both days इत्यर्थः ।\n'उभय' शब्दस्य विषये भाष्यकारः अन्यद् अपि एकम् वार्त्तिकं पाठयति - । इत्युक्ते, 'उभय' शब्दात् 'द्युः' इति प्रत्ययः अपि भवति -\nउभययोः अह्नोः = उभय + द्युस् → उभयद्युः । In two days / On both days इत्येव अर्थः ।\n14. उत्तरेद्युः -\nउत्तरस्मिन् अहनि = उत्तर + एद्युस् → उत्तरेद्युः । On a future / later day इत्यर्थः ।\nस्मर्तव्यम् -\n1. अनेन सूत्रेण निर्मिताः सर्वे शब्दाः <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यनेन अव्ययसंज्ञकाः भवन्ति ।\n2. एते सर्वे शब्दाः 'काले' इत्यस्मिन् सन्दर्भे एव प्रयुज्यन्ते ।\n3. महर्षिपाणिनिना एते सर्वे शब्दाः निपातनेनैव दत्ताः सन्ति । एतेषाम् विषये प्रकृतिः / प्रत्ययः / आदेशः एतादृशम् विधानम् तु भाष्यकारेण कृतमस्तीति स्मर्तव्यम् ।\nसंक्षेपः - अनेन सूत्रेण सिद्धाः संक्षेपरूपेण सर्वे शब्दाः अधः दत्ताः सन्ति -\n[अ] दिवसवाचकाः शब्दाः (Words related to 'day') -\n- today = अद्य\n- on the same today / currently = सद्यः\n- On a previous day / earlier day = पूर्वेद्युः, अधरेद्युः\n- On a next day / later day = उत्तरेद्युः, परेद्यवि\n- On both days / In two days = उभयेद्युः, उभयद्युः\n- On some other / separate / different day = अन्येद्युः, अन्यतरेद्युः, अपरेद्युः, इतरेद्युः ।\n[आ] संवत्सरवाचकाः शब्दाः (Words related to 'year') -\n- This year - ऐषमः\nIn previous year - परुत् ।\nTwo years ago - परारि\n " }, "53023": { "sa": "सर्वादिगणे विद्यमानेभ्यः 'सर्व' इत्यस्मात् आरभ्य 'एक' इति यावत् शब्देभ्यः, 'बहु' शब्दात् तथा च 'किम्' शब्दात् प्रकारवचनस्य निर्देशार्थम् स्वार्थे 'थाल्' प्रत्ययः भवति । ", "sd": "अनेन सूत्रेण 'थाल्' इति विभक्तिसंज्ञकः प्रत्ययः पाठ्यते । अस्मिन् प्रत्यये लकारः इत्संज्ञकः अस्ति, अतः 'था' इत्येव प्रयोगे दृश्यते ।\n<<किंसर्वनामबहुभ्योऽद्व्यादिभ्यः>> [[5.3.2]]] इत्यनेन भिन्नेभ्यः शब्देभ्यः विभक्तिसंज्ञकाः तद्धितप्रत्ययाः उच्यन्ते । वर्तमानसूत्रेण उक्तः 'थाल्' प्रत्ययः अपि विभक्तिसंज्ञकः एव अस्ति, अतः अयम् प्रत्ययः अपि एतेभ्यः सर्वेभ्यः शब्देभ्यः विधीयते । अयम् प्रत्ययः वर्तमानसूत्रेण 'प्रकारेण' अस्मिन् सन्दर्भे स्वार्थे उक्तः अस्ति । एकमुदाहरणम् पश्यामः -\nयेन प्रकारेण इत्येव\nयेन + थाल् [वर्तमानसूत्रेण थाल् इति प्रत्ययः । विवक्षया अत्र तृतीयान्तात् प्रत्ययः भवति ।]\n→ यद् + था [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सप्तमीप्रत्ययस्य लुक्]\n→ य + था [<<त्यदादीनामः>> [[7.2.102]] इति दकारस्य अकारादेशः । <<अतो गुणे>> [[6.1.97]] इति पररूपम् ।]\n→ यथा\nएवमेव 'तथा', सर्वथा', 'अन्यथा', 'उभयथा' - एते शब्दाः सिद्ध्यन्ति । <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यनेन एतेषाम् सर्वेषाम् अव्ययसंज्ञा अपि विधीयते ।\nज्ञातव्यम् -\n1. अस्मिन् सूत्रे प्रयुक्तः 'प्रकारवचने' इति शब्दः प्रत्ययार्थम् न बोधयति, अपि तु प्रकृतेः विशेष्यम् ज्ञापयति । इत्युक्ते, 'प्रकारेण' इति 'केन' इत्यस्य विशेष्यम् । प्रत्ययः अपि 'केन प्रकारेण' इत्यस्मिन्नेव अर्थे (= स्वार्थे) भवति ।\n2. 'किम्' तथा 'इदम्' शब्दाभ्याम् वर्तमानसूत्रेण 'थाल्' प्रत्यये प्राप्ते तं बाधित्वा <<इदमस्थमुः>> [[5.3.24]] तथा <<किमश्च>> [[5.3.25]] इत्यनेन 'थमु' इति प्रत्ययः विधीयते, येन 'इत्थम्' तथा 'कथम्' एतौ शब्दौ सिद्ध्यतः ।\n" }, "53024": { "sa": "'इदम्' सर्वनामशब्दात् प्रकारवचने अभिधेये स्वार्थे थमु-प्रत्ययः विधीयते । ", "sd": "'इदम्' इति सर्वनामसंज्ञकः शब्दः । अस्मात् शब्दात् 'प्रकारवचने' वाच्ये <<प्रकारवचने थाल्>> [[5.3.23]] इत्यनेन स्वार्थे थाल्-प्रत्यये प्राप्ते तं बाधित्वा वर्तमानसूत्रेण 'थमु' इति प्रत्ययः उच्यते । अस्मिन् प्रत्यये उकारः उच्चारणार्थः अस्ति, अतः प्रक्रियायाम् तस्य लोपः विधीयते ; प्रयोगे 'थम्' इत्येव दृश्यते । प्रक्रिया इयम् -\nअनेन प्रकारेण इत्येव\n= अनेन + थमु [विवक्षया अत्र तृतीयान्तात् प्रत्ययः भवति ।]\n→ अनेन + थम् [उकारस्य लोपः]\n→ इदम् + थम् [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्ययस्य लुक्]\n→ इत् + थम् [<<एतेतौ रथोः>> [[5.3.4]] इति इदम्-शब्दस्य थकारादौ प्रत्यये परे इत् -आदेशः]\n→ इद् + थम् [थम्-प्रत्यये परे अङ्गस्य <<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इति पदसंज्ञा । पदसंज्ञायां सत्याम् <<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वे तकारस्य दकारः]\n→ इत् + थम् [<<खरि च>> [[8.4.55]] इति चर्त्वे तकारः]\n→ इत्थम् ।\nएतादृशम् 'अनेन प्रकारेण' इत्यस्मिन् अर्थे 'इत्थम्' इति शब्दः सिद्ध्यति । <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यनेन अस्य अव्ययसंज्ञा अपि जायते ।\nअत्र एकम् वार्त्तिकम् ज्ञेयम् - । इत्युक्ते, वर्तमानसूत्रेण पाठितः थमु-प्रत्ययः 'एतद्' शब्दात् अपि विधीयते । यथा -\nएतेन प्रकारेण इत्येव\n= एतद् + थम् [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्ययस्य लुक्]\n→ इत् + थम् [<<एतदोऽन्>> [[5.3.5]] इत्यस्य योगविभागेन एतद्-शब्दात् थकारादौ प्रत्यये परे तस्य इत्-आदेशः]\n→ इद् + थम् [थम्-प्रत्यये परे अङ्गस्य <<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इति पदसंज्ञा । पदसंज्ञायां सत्याम् <<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वे तकारस्य दकारः]\n→ इत् + थम् [<<खरि च>> [[8.4.55]] इति चर्त्वे तकारः]\n→ इत्थम् ।\nविशेषः - अस्मिन् सूत्रे 'थमु' इति प्रत्यये मकारोत्तरः उकारः उच्चारणार्थः अस्ति । यद्यप्यत्र उकारः न पाठ्यते, तथापि 'थम्' इति स्थिते मकारस्य <<हलन्त्यम्>> [[1.3.3]] इत्यनेन इत्संज्ञा नैव भवितुमर्हति, यतः विभक्तिप्रत्ययस्य अन्ते विद्यमानस्य मकारस्य इत्संज्ञा <<न विभक्तौ तुस्माः>> [[1.3.4]] इत्यनेन निषिध्यते । अतः वस्तुतः अस्मिन् सूत्रे मकारोत्तरस्य अकारस्य न किमपि प्रयोजनम् ; केवलम् 'थम्' इत्येव उच्येत चेदपि साधु एव । एवं सत्यपि आचार्यः अत्र मकारात् अनन्तरमुकारं स्थापयति । अयमुकारः अस्य ज्ञापकम् , यत् <<न विभक्तौ तुस्माः>> [[1.3.4]] इत्यनेन निर्दिष्टः इत्संज्ञानिषेधः अनित्यः अस्ति - इत्युक्ते, केषुचन स्थलेषु अयम् न विधीयते । एतत् अनित्यत्वम् एव कारणम् यत् <<किमोऽत्>> [[5.3.12]] इत्यत्र पाठिते 'अत्' प्रत्यये तकारस्य इत्संज्ञानिषेधः न भवति । " }, "53025": { "sa": "'किम्' सर्वनामशब्दात् प्रकारवचने अभिधेये स्वार्थे थमु-प्रत्ययः विधीयते ।", "sd": "'किम्' इति सर्वनामसंज्ञकः शब्दः । अस्मात् शब्दात् 'प्रकारवचने' वाच्ये <<प्रकारवचने थाल्>> [[5.3.23]] इत्यनेन स्वार्थे थाल्-प्रत्यये प्राप्ते तं बाधित्वा वर्तमानसूत्रेण 'थमु' इति प्रत्ययः उच्यते । अस्मिन् प्रत्यये उकारः उच्चारणार्थः अस्ति, अतः प्रक्रियायाम् तस्य लोपः विधीयते ; प्रयोगे 'थम्' इत्येव दृश्यते । प्रक्रिया इयम् -\nकेन प्रकारेण इत्येव\n= केन + थमु [विवक्षया अत्र तृतीयान्तात् प्रत्ययः भवति ।]\n→ केन + थम् [उकारस्य लोपः]\n→ किम् + थम् [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्ययस्य लुक्]\n→ क + थम् [<<किमः कः>> [[7.2.103]] इति किम्-शब्दस्य 'क' आदेशः ।]\n→ कथम्\nएतादृशं 'केन प्रकारेण' इत्यस्मिन् अर्थे 'कथम्' इति शब्दः सिद्ध्यति । <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यनेन अस्य अव्ययसंज्ञा अपि जायते ।\n " }, "53026": { "sa": "'किम्' शब्दात् प्रकारवचने उत हेतौ अभिधेये वेदेषु 'था' प्रत्ययः कृतः दृश्यते । ", "sd": "'किम्' इति सर्वनामसंज्ञकः शब्दः । अस्मात् शब्दात् 'था' प्रत्यये कृते प्राप्यमाणः 'कथा' इति शब्दः वेदेषु प्रयुक्तः दृश्यते । अस्य शब्दस्य सिद्ध्यर्थ वर्तमानसूत्रस्य निर्माणम् कृतमस्ति । 'किम्' इत्यस्मात् शब्दात् स्वार्थे 'केन हेतुना' उत 'केन प्रकारेण' एतयोः सन्दर्भयोः अयम् 'था' प्रत्ययः वेदेषु प्रयुक्तः दृश्यते । क्रमेण पश्यामः -\n1. हेतुः - हेतुः इत्युक्ते कारणम् / प्रयोजनम् । 'केन हेतुना' (= केन कारणेन) इति अभिधेये 'केन' इत्यस्मात् तृतीयान्तात् स्वार्थे 'था' प्रत्ययं कृत्वा 'कथा' इति शब्दः सिद्ध्यति । अयम् शब्दः वेदेषु 'केन हेतुना' इत्यस्मिन् अर्थे प्रयुक्तः दृश्यते । यथा -\nऋग्वेदे 10.146.1 - क॒था ग्रामं॒ न पृ॑च्छसि॒ न त्वा॒ भीरि॑व विन्दती३ँ ।\nअत्र 'केन हेतुना ग्रामं न पृच्छसि' (Why do you not decorate the city - इत्याशयः) ।\n2. प्रकारवचनम् - 'केन प्रकारेण' इति अभिधेये अपि 'केन' इत्यस्मात् तृतीयान्तात् स्वार्थे 'था' प्रत्ययं कृत्वा 'कथा' इति शब्दः सिद्ध्यति । अयम् शब्दः वेदेषु 'केन प्रकारेण' इत्यस्मिन्नेव अर्थे प्रयुक्तः दृश्यते । यथा -\nऋग्वेदे 4.3.5 - क॒था ह॒ तद्वरु॑णाय॒ त्वम॑ग्ने क॒था दि॒वे ग॑र्हसे॒ कन्न॒ आग॑: । क॒था मि॒त्राय॑ मी॒ळ्हुषे॑ पृथि॒व्यै ब्रव॒: कद॑र्य॒म्णे कद्भगा॑य ॥\nअत्र 'कथा' शब्दः त्रिवारं प्रयुक्तः अस्ति । सर्वत्र अस्य अर्थः 'केन प्रकारेण' इत्येव वर्तते ।\nज्ञातव्यम् - पञ्चमाध्यायस्य प्रथमपादस्य प्रथमसूत्रात् प्रारब्धः प्राग्दिशीयः विभक्त्यधिकारः अत्र समाप्यते । " }, "53027": { "sa": "दिशावाचकाः शब्दाः यदा 'दिशा', 'स्थान' उत 'काल' एतेषु अर्थेषु प्रयुज्यन्ते, तदा तेषाम् सप्तम्यन्तेभ्यः, पञ्चम्यन्तेभ्यः तथा च प्रथमान्तेभ्यः रूपेभ्यः 'अस्ताति' इति प्रत्ययः स्वार्थे विधीयते । ", "sd": "अनेन सूत्रेण 'दिशावाचकेभ्यः' शब्देभ्यः 'अस्ताति' इति प्रत्ययः पाठ्यते । यद्यपि दिशावाचकाः शब्दाः प्रायः 'दिशा' इत्यस्मिन्नेव अर्थे प्रयुज्यते, तथापि एते शब्दाः भाषायाम् 'स्थान' तथा 'काल' एतयोः अर्थयोः अपि प्रयुक्ताः दृश्यन्ते । यथा, 'पूर्व' इति दिशावाचकः शब्दः 'पूर्वदेशः' / पूर्वकालः' एतादृशमपि प्रयुज्यते । एतेषु एव अर्थेषु प्रयुज्यमाणाः ये दिशावाचकाः शब्दाः, तेषाम् सप्तम्यन्तात्, पञ्चम्यन्तात्, प्रथमान्तात् च स्वार्थे 'अस्ताति'प्रत्ययविधानमत्र उक्तमस्ति । 'अस्ताति' इत्यत्र तकारोत्तरः इकारः उच्चारणार्थः अस्ति, प्रयोगे तु 'अस्तात्' इत्येव दृश्यते । <<हलन्त्यम्>> [[1.3.3]] इत्यनेन तकारस्य इत्संज्ञा मा भूत् इति स्पष्टीकर्तुमत्र इकारः स्थापितः अस्ति ।\nकानिचन उदाहरणानि पश्यामः -\n1. 'पूर्व' (= east direction) इति दिशावाचकः शब्दः । अयम् शब्दः 'देशः' अस्मिन् अर्थे (= पूर्वः देशः) तथा 'कालः' अस्मिन् अर्थे (= गतः कालः) एतयोः अन्ययोः अर्थयोः अपि भाषायाम् प्रयुज्यते । अतः एतेषु त्रिषु अपि अर्थेषु वर्तमानसूत्रेण 'पूर्व' शब्दात् 'अस्ताति' प्रत्ययः भवति । प्रक्रिया इयम् -\nपूर्वस्याम् दिशि / पूर्वस्मिन् देशे / पूर्वस्मिन् काले / पूर्वस्याः दिशः / पूर्वस्मात् देशात् / पूर्वस्मात् कालात् / पूर्वा दिक् / पूर्वः देशः / पूर्वः कालः\nपूर्वस्याम् / पूर्वस्मिन् / पूर्वस्याः / पूर्वस्मात् / पूर्वा / पूर्वः + अस्ताति\n= पूर्व + अस्तात् [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्ययस्य लुक्]\n→> पुर् + अस्तात् [<<अस्ताति च>> [[5.3.40]] इत्यनेन 'पूर्व' इत्यस्य 'पुर्' इति आदेशः]\n→ पुरस्तात्\nअनेन प्रकारेण निर्मितः 'पुरस्तात्' शब्दः उपरिनिर्दिष्टेषु नवसु अपि अर्थेषु प्रयुज्यते । यथा -\nअ) 'अव पुरस्तात्' - 'पूर्वस्याः दिशः मम रक्षणम् करोतु' इत्याशयः ।\nआ) 'पुरस्ताद्वसति स्म' - पूर्वस्मिन् काले वसति स्म' इत्याशयः ।\nइ) अयम् पुरस्तात् - 'अयम् पूर्वः देशः' इत्यर्थः ।\nएवमेव -\n2. अधरस्याम् दिशि / अधरस्मिन् देशे / अधरस्मिन् काले / अधरस्याः दिशः / अधरस्मात् देशात् / अधरस्मात् कालात् / अधरा दिक् / अधरः देशः / अधरः कालः\n→ अधर + अस्ताति [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्ययस्य लुक्]\n→ अध् + अस्तात् [<<अस्ताति च>> [[5.3.40]] इत्यनेन 'अधर' इत्यस्य 'अध्' आदेशः]\n→ अधस्तात्\n3. अवरस्याम् दिशि / अवरस्मिन् देशे / अवरस्मिन् काले / अवरस्याः दिशः / अवरस्मात् देशात् / अवरस्मात् कालात् / अवरा दिक् / अवरः देशः / अवरः कालः\n→ अवर + अस्ताति [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्ययस्य लुक्]\n→ अव् + अस्तात् [<<अस्ताति च>> [[5.3.40]] इत्यनेन 'अवर' इत्यस्य 'अव्' आदेशः]\n→ अवस्तात्\nअनेन सूत्रेण निर्मिताः 'अस्ताति'प्रत्ययान्तशब्दाः <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यनेन अव्ययसंज्ञकाः भवन्ति ।\nविशेषः - स्त्रीप्रत्ययान्तशब्देभ्यः अस्ताति-प्रत्यये कृते प्रातिपदिकस्य इत्यनेन पुंवद्भावः भवति, अतः प्रक्रिया पुंलिङ्गशब्दवदेव जायते । यथा - पूर्वा + अस्ताति → पूर्व + अस्ताति → पुरस्तात् ।\nज्ञातव्यम् -\n1. भिन्नेभ्यः दिशावाचकेभ्यः शब्देभ्यः वर्तमानसूत्रेण विहितस्य 'अस्ताति' प्रत्ययस्य अपवादरूपेण अन्ये प्रत्ययाः अग्रिमेषु सूत्रेषु पाठिताः सन्ति ।\n2. अस्मिन् सूत्रे उक्ताः 'दिशा', 'देशः' तथा 'कालः' एते अर्थाः प्रकृत्यर्थाः सन्ति, न हि प्रत्ययार्थाः । प्रत्ययविधानम् तु स्वार्थे एव भवति ।\n3. यद्यपि अस्मिन् सूत्रे तिस्रः विभक्तयः त्रयः च प्रकृत्यर्थाः दीयन्ते, तथाप्यत्र 'यथासङ्ख्यत्वम्' न इष्यते इति स्मर्तव्यम् ।\n" }, "53028": { "sa": "'दक्षिण' तथा 'उत्तर' एतौ शब्दौ यदा 'दिशा', 'स्थान' उत 'काल' एतेषु अर्थषु प्रयुज्येते, तदा तयोः सप्तम्यन्तेभ्यः, पञ्चम्यन्तेभ्यः तथा च प्रथमान्तेभ्यः रूपेभ्यः 'अतसुच्' इति प्रत्ययः स्वार्थे विधीयते ।", "sd": "'दिशा', 'देश', तथा 'काल' इत्येतेषु अर्थेषु प्रयुज्यमाणेभ्यः दिशावाचिभ्यः शब्देभ्यः <<दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः>> [[5.3.27]] इत्यनेन सप्तम्यन्तात्, पञ्चम्यन्तात्, प्रथमान्तात् च स्वार्थे औत्सर्गिकरूपेण 'अस्ताति' प्रत्यये प्राप्ते तस्य अपवादस्वरूपेण 'दक्षिण' तथा 'उत्तर' एताभ्याम् शब्दाभ्याम् वर्तमानसूत्रेण 'अतसुच्' प्रत्ययः विधीयते । अस्मिन् प्रत्यये चकारः इत्संज्ञकः अस्ति, उकारः उच्चारणार्थः अस्ति, अतः द्वयोः अपि लोपः भवति ; 'अतस्' इत्येव अवशिष्यते ।\nउदाहरणे एते -\n1. दक्षिणस्याम् दिशि / दक्षिणे देशे / दक्षिणस्याः दिशः / दक्षिणात् देशात् / दक्षिणा दिक् / दक्षिणः देशः\n= दक्षिणायाम् / दक्षिणे / दक्षिणस्याः / दक्षिणात् + अतस्\n→ दक्षिण + अतस् [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्ययस्य लुक्]\n→ दक्षिण् + अतस् [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ दक्षिणतः [सकारस्य रेफः, विसर्गः]\nविशेषः - 'दक्षिण' शब्दः 'काल' अस्मिन् अर्थे न प्रयुज्यते, अतः तस्य उदाहरणानि न लभन्ते ।\n2. उत्तरस्याम् दिशि / उत्तरे देशे / उत्तरे काले / उत्तरस्याः दिशः / उत्तरात् देशात् / उत्तरात् कालात् / उत्तरा दिक् / उत्तरः देशः / उत्तरः कालः\n= उत्तरस्याम् / उत्तरे / उत्तरस्याः / उत्तरात् / उत्तरा / उत्तरः + अतस्\n→ उत्तर + अतस् [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्ययस्य लुक्]\n→ उत्तर् + अतस् [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ उत्तरतः [सकारस्य रेफः, विसर्गः]\nअनेन सूत्रेण निर्मितयोः 'दक्षिणतः' तथा 'उत्तरतः' एतयोः द्वयोः अपि शब्दयोः <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यनेन अव्ययसंज्ञा भवति ।\nज्ञातव्यम् - अस्मिन् सूत्रे 'अतसुच्' इत्यस्य स्थाने 'तसुच्' इति प्रत्ययः प्रोच्यते तथापि तादृशमेव रूपम् सिद्ध्येत् । परन्तु <<षष्ठ्यतसर्थप्रत्ययेन>> [[2.3.30]] इत्यस्मिन् सूत्रे विशिष्टरूपेण 'अतस्' प्रत्ययस्य ग्रहणमावश्यकम्, अतः अत्र प्रत्यये अकारः स्थापितः अस्ति । यदि अत्र 'तसुच्' इत्येव प्रत्ययः उच्येत, तर्हि <<षष्ठ्यतसर्थप्रत्ययेन>> [[2.3.30]] इत्यस्य स्थाने 'षष्ठीतसर्थप्रत्ययेन' इति 'तसर्थ' एतादृशः उल्लेखः आवश्यकः स्यात् । परन्तु एतादृशः उल्लेखः क्रियते चेत् अन्ये 'तसर्थाः' (यथा - तसिल् प्रत्ययः) अप्यत्र निर्दिष्टाः भवेयुः, येषाम् ग्रहणमत्र न इष्यते । अतएव अत्र 'अतसुच्' इत्यत्र प्रारम्भे अकारस्य योजनम् कृतमस्ति, येन अस्य प्रत्ययस्य अन्येभ्यः 'तसर्थेभ्यः' भिन्नरूपेण विधानम् सम्भवेत् । " }, "53029": { "sa": "'पर' तथा 'अवर' एतौ शब्दौ यदा 'दिशा', 'स्थान' उत 'काल' एतेषु अर्थेषु प्रयुज्यन्ते, तदा तयोः सप्तम्यन्तेभ्यः, पञ्चम्यन्तेभ्यः तथा च प्रथमान्तेभ्यः रूपेभ्यः विकल्पेन 'अतसुच्' प्रत्ययः भवति । पक्षे औत्सर्गिकः अस्ताति-प्रत्ययः अपि विधीयते । ", "sd": "'दिशा', 'देश', तथा 'काल' इत्येतेषु अर्थेषु प्रयुज्यमाणेभ्यः दिशावाचिभ्यः शब्देभ्यः <<दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः>> [[5.3.27]] इत्यनेन सप्तम्यन्तात्, पञ्चम्यन्तात्, प्रथमान्तात् च स्वार्थे औत्सर्गिकरूपेण 'अस्ताति' प्रत्यये प्राप्ते तस्य अपवादस्वरूपेण 'पर' (= other) तथा 'अवर' (= posterior) एताभ्याम् शब्दाभ्याम् वर्तमानसूत्रेण 'अतसुच्' प्रत्ययः विकल्पेन विधीयते । पक्षे औत्सर्गिकः 'अस्ताति'प्रत्ययः अपि भवति । यथा -\n1. परास्याम् दिशि / परस्मिन् देशे / परस्मिन् काले / परस्याः दिशः / परस्मात् देशात् / परस्मात् कालात् / परा दिक् / परः देशः / परः कालः\n= परास्याम् / परस्मिन् / परस्याः / परस्मात् / परा / परः + अतसुच्\n→ परास्याम् / परस्मिन् / परस्याः / परस्मात् / परा / परः + अतस् [चकारस्य इत्संज्ञा, लोपः । उकारः उच्चारणार्थः, तस्यापि लोपः भवति ।]\n→ पर + अतस् [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्ययस्य लुक्]\n→ पर् + अतस् [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ परतः [सकारस्य रेफः, विसर्गः]\nएवमेव 'अवर' शब्दात् इमामेव प्रक्रियां कृत्वा 'अवरतः' इति शब्दः सिद्ध्यति । पक्षे 'अस्ताति' प्रत्यये परे अपि समाना एव प्रक्रिया भवति, येन 'परस्तात्' तथा 'अवरस्तात्' एतौ शब्दौ सिद्ध्यतः ।\n'परतः', 'अवरतः', 'परस्तात्' तथा 'अवरस्तात्' एतेषां सर्वेषाम् <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यनेन अव्ययसंज्ञा भवति ।" }, "53030": { "sa": "'अञ्च्' धातुः यस्य अन्ते अस्ति, तादृशेभ्यः दिशावाचिभ्यः शब्देभ्यः विहितस्य 'अस्ताति' प्रत्ययस्य लुक् भवति । ", "sd": "'दिशा', 'देश', तथा 'काल' इत्येतेषु अर्थेषु प्रयुज्यमाणेभ्यः दिशावाचिभ्यः शब्देभ्यः <<दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः>> [[5.3.27]] इत्यनेन सप्तम्यन्तात्, पञ्चम्यन्तात्, प्रथमान्तात् च स्वार्थे औत्सर्गिकरूपेण 'अस्ताति' प्रत्ययः विधीयते । परन्तु 'अञ्च्' धातुः यस्य अन्ते आगच्छति, तादृशात् दिशावाचकशब्दात् विहितस्य 'अस्ताति' प्रत्ययस्य वर्तमानसूत्रेण लुक् विधीयते ।\nप्रारम्भे 'अञ्च्' इति किम् तत् पश्यामः । 'अञ्च्' (अञ्चुँ गतौ) इति भ्वादिगणस्य कश्चन धातुः । यदि अयम् धातुः उपपदेन सह प्रयुज्यते, तर्हि अस्मात् धातोः <<ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च>> [[3.2.59]] इत्यनेन 'क्विन्' प्रत्ययं कृत्वा भिन्नाः दिशावाचकशब्दाः सिद्ध्यन्ति । यथा -\n1) प्र + अञ्च् + क्विन् → प्राच् । 'पूर्वः' इत्यर्थः ।\n2) प्रति + अञ्च् + क्विन् → प्रत्यच् । 'पश्चिमः' इत्यर्थः ।\n3) उद् + अञ्च् + क्विन् → उदच् । 'उत्तरः' इत्यर्थः ।\nएते त्रयः अपि शब्दाः 'अञ्चुँ' इत्यन्ताः सन्ति अतः 'उगितः' सन्ति । अतः एतेषाम् प्रयोगः यदा 'दिश्' इति स्त्रीलिङ्गशब्दस्य विशेषणरूपेण क्रियते, तदा एतेषामपि स्त्रीत्वमपेक्ष्यते । अस्यां स्थितौ <<उगितश्च>> [[4.1.6]] इत्यनेन एते सर्वे शब्दाः ङीप् प्रत्ययं स्वीकुर्वन्ति । यथा -\n1. 'प्राच्' शब्दस्य स्त्रीत्वे -\n= प्र + अच् + ङीप् [<<उगितश्च>> [[4.1.16]] इति ङीप्]\n→ प्र + च् + ई [<<अचः>> [[6.4.138]] इत्यनेन 'अच्' इत्यस्य अकारस्य लोपः भवति]\n→ प्रा + च् + ई [<<चौ>> [[6.3.138]] इति अङ्गस्य दीर्घादेशः ]\n→ प्राची ।\nयथा - प्राची दिक् । पूर्वदिशा - इत्यर्थः ।\nस्मर्तव्यम् - देशस्य कालस्य वा विशेषणरूपेण तु 'प्राच्' इति मूलशब्दः एव प्रयुज्यते, तत्र 'ङीप्' इति प्रत्ययः न भवति, यतः 'देश' उत 'काल' एतौ शब्दौ स्त्रीवाचिनौ न स्तः । यथा - प्राङ् देशः, प्राङ् कालः । (प्रथमैकवचनस्य रूपे <<उगिदचां सर्वनामस्थाने अधातोः>> [[7.1.70]] इति नुमागमः, तथा च <<चोः कुः>> [[8.2.30]] इति कुत्वम् विधीयते)।\nएवमेव -\n2) 'प्रत्यच्' शब्दस्य स्त्रीत्वे -\n= प्रति + अच् + ङीप् [<<उगितश्च>> [[4.1.16]] इति ङीप्]\n→ प्रति + च् + ई [<<अचः>> [[6.4.138]] इत्यनेन 'अच्' इत्यस्य अकारस्य लोपः भवति]\n→ प्रती + च् + ई [<<चौ>> [[6.3.138]] इति अङ्गस्य दीर्घादेशः ]\n→ प्रतीची ।\nयथा - प्रतीची दिक् । पश्चिमदिशा - इत्यर्थः ।\nदेशस्य कालस्य वा विशेषणरूपेण तु 'प्रत्यच्' इति मूलशब्दः एव प्रयुज्यते । यथा - प्रत्यङ् देशः, प्रत्यङ् कालः । (प्रथमैकवचनस्य रूपे <<उगिदचां सर्वनामस्थाने अधातोः>> [[7.1.70]] इति नुमागमः, तथा च <<चोः कुः>> [[8.2.30]] इति कुत्वम् विधीयते)।\nतथैव -\n3) 'उदच्' शब्दस्य स्त्रीत्वे -\n= उद् + अच् + ङीप् [<<उगितश्च>> [[4.1.16]] इति ङीप्]\n→ उद् + ईच् + ई [<<उद ईत्>> [[6.4.139]] इति अकारस्य इकारादेशः]\n→ उदीची ।\nयथा - उदीची दिक् । उत्तरदिशा - इत्यर्थः ।\nदेशस्य कालस्य वा विशेषणरूपेण तु 'उदच्' इति मूलशब्दः एव प्रयुज्यते । यथा - उदङ् देशः, उदङ् कालः । (प्रथमैकवचनस्य रूपे <<उगिदचां सर्वनामस्थाने अधातोः>> [[7.1.70]] इति नुमागमः, तथा च <<चोः कुः>> [[8.2.30]] इति कुत्वम् विधीयते)।\nएतादृशम् निर्मिताः 'प्राची, प्राच्, प्रतीची, प्रत्यच्, उदीची, उदच्' एते सर्वे शब्दाः दिशावाचकाः सन्ति । एतेषाम् सप्तम्यन्तात् / पञ्चम्यन्तात् / प्रथमान्तात् स्वार्थे विहितस्य 'अस्ताति' प्रत्ययस्य लुक् भवति ।\nयथा -\n1. प्राच्यां दिशि / प्राच्यः दिशः / प्राची दिक्\n= प्राच्याम् / प्राच्यः / प्राची + अस्ताति\n→ प्राची + अस्ताति [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्ययस्य लुक्]\n→ प्राची ['अस्ताति'प्रत्ययस्य लुक्]\n→ प्राच् [<<लुक् तद्धितलुकि>> [[1.2.49]] इति स्त्रीप्रत्ययस्य अपि लुक् । स्त्रीप्रत्ययस्य निवृत्तौ ङीप्-प्रत्ययविशिष्टमङगकार्यमपि निवर्तते, अतः 'प्र + अच्' इत्यवे अवशिष्यते । सवर्णदीर्घं कृत्वा 'प्राच्' इति सिद्ध्यति । अस्य <<तद्धितश्चासर्वविभक्तिः>> [[1.3.38]] इति अव्ययसंज्ञा विधीयते ।]\n→ प्राच् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः ]\n→ प्राच् [<<अव्ययादाप्सुपः>> [[2.4.82]] इति सुँ-प्रत्ययस्य लुक्]\n→ प्राक् [सुँ-प्रत्ययस्य लुकि अपि <<सुप्तिङन्तं पदम्>> [[1.4.14]] इति पदसंज्ञा । अतः <<चोः कुः>> [[8.2.30]] इति पदान्तचकारस्य कुत्वे ककारः]\n→ प्राग् [<<झलां जशोऽन्ते>> [[8.2.39]] इति पदान्तककारस्य जश्त्वे गकारः]\nउदाहरणम् - 'प्राग् वसति' (= प्राच्यां दिशि वसति) । प्राग् आगतः (प्राच्यः दिशः आगतः) ।\nविशेषः - देशस्य तथा कालस्य विशेषणरूपेण यत्र 'प्राच्' शब्दः प्रयुज्यते, तत्रापि 'प्राच्' शब्दात् अस्ताति-प्रत्यये प्राप्ते तस्य लुक् कृत्वा 'प्राग्' इत्येव रूपम् सिद्ध्यति । यथा - 'प्राचि काले' / 'प्राचि देशे' / 'प्राचः कालात्' / 'प्राचः देशात्' / प्राङ् कालः / प्राङ् देशः = प्राग् । अस्यापि प्रक्रिया समाना एव, परन्तु तत्र स्त्रीप्रत्ययविशिष्टः अंशः नास्ति ।\n2. प्रतीच्यां दिशि / प्रतीच्यः दिशः / प्रतीची दिक् / प्रतीचि देशे / प्रतीचः देशात् / प्रत्यङ् देशः / प्रतीचि काले / प्रतीचः कालात् / प्रत्यङ् कालः = प्रत्यग् । अस्यापि प्रक्रिया 'प्राक्' शब्दवदेव भवति । इत्युक्ते -\n[अ] 'प्रतीची' शब्दस्य विषये 'अस्ताति' प्रत्ययस्य लुकि कृते ङीप्-प्रत्ययस्य <<लुक् तद्धितलुकि>> [[1.2.49]] इत्यनेन लुक् विधीयते, तेन च ङीप्-निमित्तभूतम् कार्यमपि विनश्यति, अतः 'प्रति + अच्' इत्येव अवशिष्यते । अग्रे यणादेशं कृत्वा 'प्रत्यच्' इति प्रातिपदिकम् सिद्ध्यति । 'प्रत्यग्' इति तस्य प्रथमैकवचनम् ।\n[आ] पुंलिङ्गनपुंसकलिङ्गयोः 'प्रत्यच्' शब्दस्य विषये तु केवलं प्रत्ययलुक् तथा अग्रे कुत्वजश्त्वे 'प्रत्यग्' इति अव्ययं सिद्ध्यति ।\n3. उदीच्यां दिशि / उदीच्यः दिशः / उदीची दिक् / उदीचि देशे / उदीचः देशात् / उदङ् देशः / उदीचि काले / उदीचः कालात् / उदङ् कालः = उदग् । अस्यापि प्रक्रिया 'प्राक्' शब्दवदेव भवति -\n[अ] 'उदीची' शब्दस्य विषये 'अस्ताति' प्रत्ययस्य लुकि कृते अङ्गस्य ङीप्-प्रत्ययस्य <<लुक् तद्धितलुकि>> [[1.2.49]] इत्यनेन लुक् विधीयते, तेन च ङीप्-निमित्तभूतम् कार्यमपि विनश्यति, अतः 'उद् + अच्' इत्येव अवशिष्यते । अग्रे वर्णमेलनं कृत्वा 'उदच्' इति प्रातिपदिकम् सिद्ध्यति । 'उदग्' इति तस्य प्रथमैकवचनम् ।\n[आ] पुंलिङ्गनपुंसकलिङ्गयोः 'उदच्' शब्दस्य विषये तु तु केवलं प्रत्ययलुक् तथा अग्रे कुत्वजश्त्वे 'उदग्' इति अव्ययं सिद्ध्यति ।\nअनेन प्रकारेण अस्मिन् सूत्रे 'प्राग्, प्रत्यग्, उदग्' एतेषां त्रयाणां शब्दानां सिद्धिः दत्ता अस्ति ।\n" }, "53031": { "sa": "'उपरि' तथा 'उपरिष्टात्' एतौ शब्दौ निपात्येते । ", "sd": "अनेन सूत्रेण 'उपरि' तथा 'उपरिष्टात्' एतयोः शब्दयोः निपातनम् दीयते । 'दिशा', 'देश', तथा 'काल' इत्येतेषु अर्थेषु प्रयुज्यमणस्य 'ऊर्ध्व' शब्दस्य प्रथमान्तरूपात्, पञ्चम्यन्तरूपात्, तथा च सप्तम्यन्तरूपात् स्वार्थे 'रिल्' तथा 'रिष्टातिल्' एतौ प्रत्ययौ कृत्वा एतयोः शब्दयोः सिद्धिः दत्ता अस्ति । यथा -\nऊर्ध्वा दिक् / उर्ध्वायाः दिशः / उर्ध्वायाम् दिशि / ऊर्ध्वः देशः / उर्ध्वात् देशात् / उर्ध्वे देशे\n= ऊर्ध्व + रिल् / रिष्टातिल् [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्ययस्य लुक्]\n→ ऊर्ध्व + रि / रिष्टात् [लकारस्य इत्संज्ञा, लोपः । 'रिष्टातिल्' इत्यत्र इकारः उच्चारणार्थः, अतः तस्यापि लोपः]\n→ उप + रि / रिष्टात् ['ऊर्ध्व' शब्दस्य 'उप' आदेशः ]\n→ उपरि / उपरिष्टात् ।\nज्ञातव्यम् - <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यनेन 'उपरि' तथा 'उपरिष्टात्' एतौ शब्दौ अव्ययसंज्ञकौ भवतः । " }, "53032": { "sa": "'पश्चात्' इति शब्दः निपात्यते । ", "sd": "अनेन सूत्रेण 'पश्चात्' अस्य शब्दस्य निपातनम् दीयते । 'दिशा', 'देश', तथा 'काल' इत्येतेषु अर्थेषु प्रयुज्यमणस्य 'अपर' शब्दस्य प्रथमान्तरूपात्, पञ्चम्यन्तरूपात्, तथा च सप्तम्यन्तरूपात् स्वार्थे 'आति' प्रत्ययं कृत्वा अस्य शब्दस्य सिद्धिः दत्ता अस्ति । यथा -\nअपरा दिक् / अपरस्याः दिशः / अपरस्याम् दिशि / अपरः देशः / अपरस्मात् देशात् / अपरस्मिन् देशे\n= अपर + आति [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्ययस्य लुक्]\n→ अपर + आत् [इकारः उच्चारणार्थः, अतः तस्य लोपः भवति ।]\n→ पश्च + आत् ['अपर' शब्दस्य 'पश्च' आदेशः निपात्यते]\n→ पश्च् + आत् [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ पश्चात्\nज्ञातव्यम् - <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यनेन 'पश्चात्' शब्दस्य अव्ययसंज्ञा भवति ।\nअत्र त्रीणि वार्त्तिकानि ज्ञेयानि -\n1. । यदि कस्यचन शब्दस्य पूर्वपदम् कश्चन दिशावाची शब्दः अस्ति, तथा च उत्तरपदम् 'अपर' इति शब्दः अस्ति (यथा - उत्तरापर (north-west), दक्षिणापर (south-west)), तर्हि तादृशस्य शब्दस्य विषये अपि सप्तम्यन्तरूपात् / पञ्चम्यन्तरूपात् / प्रथमान्तरूपात् च स्वार्थे 'आति' प्रत्ययः, तथा च अङ्गे विद्यमानस्य 'अपर' शब्दस्य 'पश्च' इति आदेशः भवति । यथा -\nदक्षिणापरा दिक् / दक्षिणापरस्याः दिशः / दक्षिणापरस्याम् दिशि / दक्षिणापरः देशः / दक्षिणापरस्मात् देशात् / दक्षिणापरस्मिन् देशे\n= दक्षिणापर + आति\n→ दक्षिणापर + आत् [इकारः उच्चारणार्थः, अतः तस्य लोपः भवति ।]\n→ दक्षिणपश्च + आत् ['अपर' शब्दस्य 'पश्च' आदेशः निपात्यते]\n→ दक्षिणपश्च् + आत् [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ दक्षिणपश्चात्\nएवमेव 'उत्तरपश्चात्' इत्यपि शब्दः निपात्यते । एतौ द्वावपि शब्दौ <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यनेन अव्ययसंज्ञकौ भवतः ।\n2. । यदि कस्यचन शब्दस्य पूर्वपदम् कश्चन दिशावाची शब्दः अस्ति, तथा च उत्तरपदम् 'अपर' इति शब्दः अस्ति (यथा - उत्तरापर, दक्षिणापर), तर्हि तादृशस्य शब्दस्य 'अर्ध' इत्यनेन समासे प्राप्ते प्रक्रियायाम् पूर्वपदे विद्यमानस्य 'अपर' इत्यस्य 'पश्च' इति आदेशः भवति । यथा -\nउत्तरापरश्च अर्धश्च\n= उत्तरापर + अर्ध\n→ उत्तरपश्च + अर्ध ['अपर' इत्यस्य 'पश्च' आदेशः]\n→ उत्तरपश्चार्ध\nएवमेव 'दक्षिणपश्चार्ध' इत्यपि सिद्ध्यति ।\n3. । 'अपर' शब्दस्य 'अर्ध' शब्देन समासः क्रियते चेत् 'अपर' शब्दस्य 'पश्च' इति आदेशः भवति । यथा -\nअपरश्च अर्धश्च\n= अपर + अर्ध\n→ पश्च + अर्ध\n→ पश्चार्ध (half of the west side इत्यर्थः ।)\n" }, "53033": { "sa": "वेदेषु 'पश्च' तथा 'पश्चा' एतौ शब्दौ प्रयुक्तौ दृश्येते, ते निपात्येते इति ज्ञेयम् । ", "sd": "<<पश्चात्>> [[5.3.32]] इत्यनेन पाठितस्य 'पश्चात्' शब्दस्य अर्थे एव वेदेषु 'पश्च' तथा 'पश्चा' शब्दौ प्रयुज्येते, तयोः निपातनमनेन सूत्रेण दीयते । 'दिशा', 'देश', तथा 'काल' इत्येतेषु अर्थेषु प्रयुज्यमणस्य 'अपर' शब्दस्य प्रथमान्तरूपात्, पञ्चम्यन्तरूपात्, तथा च सप्तम्यन्तरूपात् स्वार्थे 'अ' तथा 'आ' प्रत्ययौ कृत्वा एतयोः सिद्धिः भवति । यथा -\nअपरा दिक् / अपरस्याः दिशः / अपरस्याम् दिशि / अपरः देशः / अपरस्मात् देशात् / अपरस्मिन् देशे\n= अपर + अ/आ [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्ययस्य लुक्]\n→ अपर + अ/आ\n→ पश्च + अ/आ ['अपर' शब्दस्य 'पश्च' आदेशः निपात्यते]\n→ पश्च् + अ/आ [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ पश्च / पश्चा\nयथा - सामवेदे पूर्वार्चिकायाम् 4.2.7 - 'न पश्चा पश्चात् दध्यति तस्मै' ।\n" }, "53034": { "sa": "'उत्तर', 'अधर' तथा 'दक्षिण' एते शब्दाः यदा 'दिशा', 'स्थान' उत 'काल' एतेषु अर्थेषु प्रयुज्यन्ते, तदा तेषाम् सप्तम्यन्तेभ्यः, पञ्चम्यन्तेभ्यः तथा च प्रथमान्तेभ्यः रूपेभ्यः 'आति' इति प्रत्ययः स्वार्थे विधीयते ।", "sd": "'दिशा', 'देश', तथा 'काल' इत्येतेषु अर्थेषु प्रयुज्यमाणेभ्यः दिशावाचिभ्यः शब्देभ्यः <<दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः>> [[5.3.27]] इत्यनेन सप्तम्यन्तात्, पञ्चम्यन्तात्, प्रथमान्तात् च स्वार्थे औत्सर्गिकरूपेण 'अस्ताति' प्रत्यये प्राप्ते तस्य अपवादस्वरूपेण 'उत्तर', 'अधर' तथा 'दक्षिण' एतेभ्यः शब्देभ्यः वर्तमानसूत्रेण 'आति' प्रत्ययः विधीयते । अस्मिन् प्रत्यये तकारोत्तरः इकारः उच्चारणार्थः अस्ति, अतः तस्य लोपः भवति । यथा -\n1. उत्तरस्याम् दिशि / उत्तरस्मिन् देशे / उत्तरस्मिन् काले / उत्तरस्याः दिशः / उत्तरस्मात् देशात् / उत्तरस्मात् कालात् / उत्तरा दिक् / उत्तरः देशः / उत्तरः कालः\n= उत्तर + आति [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्ययस्य लुक्]\n→ उत्तर + आत्\n→ उत्तर् + आत् [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ उत्तरात्\n2. अधरस्याम् दिशि / अधरस्मिन् देशे / अधरस्मिन् काले / अधरस्याः दिशः / अधरस्मात् देशात् / अधरस्मात् कालात् / अधरा दिक् / अधरः देशः / अधरः कालः\n= अधर + आति [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्ययस्य लुक्]\n→ अधर + आत्\n→ अधर् + आत् [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ अधरात्\n3. दक्षिणस्याम् दिशि / दक्षिणे देशे / दक्षिणस्याः दिशः / दक्षिणात् देशात् / दक्षिणा दिक् / दक्षिणः देशः\n= दक्षिण + आति [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्ययस्य लुक्]\n→ दक्षिण + आत्\n→ दक्षिण् + आत् [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ दक्षिणात्\nविशेषः - 'दक्षिण' शब्दः 'काल' अस्मिन् अर्थे न प्रयुज्यते, अतः तस्य उदाहरणानि न लभन्ते ।\nअनेन प्रकारेण 'उत्तरात्', 'अधरात्', 'दक्षिणात्' एते शब्दाः सिद्ध्यन्ति । एतेषामव्ययसंज्ञा भवति ।\nज्ञातव्यम् -\n1. अत्र प्राप्ताः 'उत्तरात्', 'अधरात्', 'दक्षिणात्' - एते शब्दाः <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यनेन अव्ययसंज्ञकाः भवन्ति । यद्यपि एते 'पञ्चम्यन्त'रूपवत् दृश्यन्ते, तथापि एते भिन्नाः शब्दाः इति ज्ञेयम् । यथा - 'दक्षिणात् वसति', 'दक्षिणात् दिक्', 'दक्षिणात् आगतः' - एते त्रयः अपि प्रयोगाः साधवः एव ।\n2. <<दक्षिणोत्तराभ्यामतसुच्>> [[5.3.28]] इत्यनेन 'दक्षिण' तथा 'उत्तर' एताभ्याम् शब्दाभ्याम् 'अतसुच्' इति प्रत्ययः अपि अस्मिन्नेव सन्दर्भे उक्तः अस्ति । " }, "53035": { "sa": "'उत्तर', 'अधर' तथा 'दक्षिण' एते शब्दाः यदा 'अदूर' अस्मिन् सन्दर्भे 'दिशा', 'स्थान' उत 'काल' एतेषु अर्थेषु प्रयुज्यन्ते, तदा तेषाम् सप्तम्यन्तेभ्यः तथा च प्रथमान्तेभ्यः रूपेभ्यः विकल्पेन 'एनप्' इति प्रत्ययः स्वार्थे विधीयते ।", "sd": "'दिशा', 'देश', तथा 'काल' इत्येतेषु अर्थेषु प्रयुज्यमाणेभ्यः दिशावाचिभ्यः शब्देभ्यः <<दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः>> [[5.3.27]] इत्यनेन सप्तम्यन्तात्, पञ्चम्यन्तात्, प्रथमान्तात् च स्वार्थे औत्सर्गिकरूपेण 'अस्ताति' प्रत्यये प्राप्ते तस्य अपवादस्वरूपेण 'उत्तर', 'अधर' तथा 'दक्षिण' एतेभ्यः शब्देभ्यः <<उत्तराधरदक्षिणादातिः>> [[5.3.34]] इत्यनेन 'आति' प्रत्ययः विधीयते । यदि अत्र निर्दिश्यमाना दिक् / देशः / कालः अदूरः (= निकटः / समीपः close) अस्ति, तर्हि अस्मिन्नेव अर्थे एतेषाम् शब्दानाम् सप्तम्यन्तात् तथा प्रथमान्तरूपात् वर्तमानसूत्रेण विकल्पेन 'एनप्' इति प्रत्ययः विधीयते । यथा -\n1. उत्तरस्यामदूरायाम् दिशि / उत्तरस्मिन् अदूरे देशे / उत्तरस्मिन् अदूरे काले / उत्तरा अदूरा दिक् / उत्तरः अदूरः देशः / उत्तरः अदूरः कालः\n= उत्तर + एनप् [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्ययस्य लुक्]\n→ उत्तर + एन\n→ उत्तर् + एन [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ उत्तरेण [<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इति णत्वम्]\n2. अधरस्यामदूरायाम् दिशि / अधरस्मिन् अदूरे देशे / अधरस्मिन् अदूरे काले / अधरा अदूरा दिक् / अधरः अदूरः देशः / अधरः अदूरः कालः\n= अधर + एनप् [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्ययस्य लुक्]\n→ अधर + एन\n→ अधर् + एन [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ अधरेण [<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इति णत्वम्]\n3. दक्षिणस्यामदूरायाम् दिशि / दक्षिणे अदूरे देशे / दक्षिणा अदूरा दिक् / दक्षिणः अदूरः देशः\n= दक्षिण + एनप् [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्ययस्य लुक्]\n→ दक्षिण + एन\n→ दक्षिण् + एन [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ दक्षिणेन\nविशेषः - 'दक्षिण' शब्दः 'काल' अस्मिन् अर्थे न प्रयुज्यते, अतः तस्य उदाहरणानि न लभन्ते ।\nस्मर्तव्यम् -\n1. अत्र सिद्धाः 'उत्तरेण', 'अधरेण' तथा 'दक्षिणेन' एते शब्दाः <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यनेन अव्ययसंज्ञकाः भवन्ति । एते शब्दाः तृतीयाप्रथमैकवचनस्य रूपवत् दृश्यन्ते, परन्तु एते भिन्नाः शब्दाः सन्तीति स्मर्तव्यम् । यथा - 'उत्तरेण वसति', 'उत्तरेण दिक्' एतादृशाः प्रयोगाः समीचीनाः ज्ञेयाः ।\n2. 'अदूर' इत्यस्यमिन् सन्दर्भे एव अस्य सूत्रस्य प्रयोगः भवति । केवलम् 'उत्तरस्याम् दिशि / उत्तरा दिक्' इति वक्तव्यमस्ति चेत् अस्य 'एनप्' प्रत्ययस्य प्रयोगः न भवति ।\n3. पूर्वसूत्रात् 'सप्तमीपञ्चमीप्रथमाभ्यः' इत्यस्य अनुवृत्त्यां प्राप्तायाम् वर्तमानसूत्रे 'अपञ्चम्याः' इति निर्देशेन अत्र केवलम् सप्तम्यन्तेभ्यः तथा प्रथमान्तेभ्यः रूपेभ्यः एव प्रत्ययविधानम् भवति ।\n4. केचन पण्डिताः अस्मिन् सूत्रे 'उत्तर-अधर-दक्षिणात्' इति न अनुवर्तयन्ति । तेषां मतेन सर्वेभ्यः दिशावाचिभ्यः शब्देभ्यः 'अदूरे' अस्मिन् अर्थे वर्तमानसूत्रेण विकल्पेन 'एनप्' प्रत्ययः भवति । यथा = 'पूर्वस्यां अदूरायाम् दिशि / पूर्वस्मिन् अदूरे देशे / पूर्वस्मिन् अदूरे काले / पूर्वा अदूरा दिक् / पूर्वः अदूरः देशः / पूर्वः अदूरः कालः = पूर्वेण ।\n" }, "53036": { "sa": "'दक्षिण' शब्दः यदा 'दिशा' उत 'स्थानम्' एतेषु अर्थषु प्रयुज्यते, तदा तस्य सप्तम्यन्तात् प्रथमान्तात् च रूपात् 'आच्' प्रत्ययः स्वार्थे विधीयते ।", "sd": "'दिशा' तथा 'देश' एतयोः अर्थयोः प्रयुज्यमाणेभ्यः दिशावाचिभ्यः शब्देभ्यः <<दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः>> [[5.3.27]] इत्यनेन सप्तम्यन्तात्, प्रथमान्तात् च स्वार्थे औत्सर्गिकरूपेण 'अस्ताति' प्रत्यये प्राप्ते तस्य अपवादस्वरूपेण वर्तमानसूत्रेण 'दक्षिण' शब्दात् अस्मिन्नेव अर्थे 'आच्' इति प्रत्ययः भवति । यथा -\nदक्षिणस्याम् दिशि / दक्षिणे देशे / दक्षिणा दिक् / दक्षिणः देशः\n= दक्षिण + आच् [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्ययस्य लुक्]\n→ दक्षिण + आ [चकारः उच्चारणार्थः, विशेषणार्थश्च । तस्य लोपः भवति ।]\n→ दक्षिण् + आ [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ दक्षिणा\nएतादृशं निर्मितः 'दक्षिणा' शब्दः <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यनेन अव्ययसंज्ञकः अस्ति । यथा - दक्षिणा वसति / दक्षिणा तत्र ।\nज्ञातव्यम् -\n1. वस्तुतस्तु अस्मिन् सूत्रे 'दिक्-देश-कालेषु' इति सम्पूर्णः शब्दः अनुवर्तते, परन्तु 'दक्षिण' शब्दः 'काल' अस्मिन् अर्थे न प्रयुज्यते, अतः तस्य उदाहरणानि न लभन्ते ।\n2. पूर्वसूत्रात् 'सप्तमीपञ्चमीप्रथमाभ्यः' इत्यस्य अनुवृत्त्यां प्राप्तायाम् वर्तमानसूत्रे 'अपञ्चम्याः' इति निर्देशेन अत्र केवलम् सप्तम्यन्तात् प्रथमान्तात् च रूपात् अत्र प्रत्ययविधानम् भवति ।\n3. अत्र पाठिते 'आच्' प्रत्यये चकारस्य 'इत्संज्ञा' न भवति, यतः चकारस्य इत्संज्ञायाः किमपि प्रयोजनमत्र न विद्यते । सामान्यरूपेण चित्-प्रत्यये कृते समुदायस्य <<तद्धितस्य>> [[6.1.164]] इत्यनेन अन्तोदात्तत्वं विधीयते । परन्तु 'आच्' प्रत्ययस्य आकारः <<आद्युदात्तश्च>> [[1.3.3]] इत्यनेनैव उदात्तत्वं प्राप्नोति, अतः 'आच्' इत्यत्र चकारस्य स्वरनिर्देशार्थम् न किञ्चित् प्रयोजनम् । अत्र चकारस्य ग्रहणम् 'आच्' इति प्रत्ययस्य अनेभ्यः 'आ' प्रत्ययेभ्यः भिन्नरूपेण ग्रहणार्थमस्ति । <<अन्यारादितरर्त्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते>> [[2.3.29]] इति सूत्रम् 'आच्' प्रत्ययस्य विषये विधानम् करोति, अनेष्याम् 'आ' प्रत्ययानाम् विषये न (यथा - <<पश्च पश्चा च च्छन्दसि>> [[5.3.33]] इत्यत्र पाठितः 'आ' प्रत्ययः उत 'आ' इति उपसर्गः - एतयोः ग्रहणं अत्र न इष्यते) । अतः पाणिनिः <<अन्यारादितरर्त्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते>> [[2.3.29]] इत्यत्र 'आच्' इति विशिष्टम् निर्देशं कर्तुम् इच्छति, तदर्थमेव चकारस्य ग्रहणम् वर्तमानसूत्रे कृतमस्ति ।\n4. एतेषु एव सन्दर्भेषु 'दक्षिण' शब्दात् <<दक्षिणोत्तराभ्यामतसुच्>> [[5.3.28]] इत्यनेन 'अतसुच्' प्रत्ययः, तथा <<उत्तराधरदक्षिणादातिः>> [[5.3.34]] इत्यनेन 'आति' प्रत्ययः अपि भवति ।\n" }, "53037": { "sa": "'दक्षिण' शब्दः यदा 'दूरस्था दिशा' उत 'दूरस्थम् स्थानम्' एतयोः अर्थयोः प्रयुज्यते, तदा तस्य सप्तम्यन्तात् प्रथमान्तात् च रूपात् 'आहि' तथा 'आच्' प्रत्ययौ स्वार्थे विधीयेते ।", "sd": "'दिशा' तथा 'देश' एतयोः अर्थयोः प्रयुज्यमाणेभ्यः दिशावाचिभ्यः शब्देभ्यः <<दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः>> [[5.3.27]] इत्यनेन सप्तम्यन्तात्, प्रथमान्तात् च स्वार्थे औत्सर्गिकरूपेण 'अस्ताति' प्रत्यये प्राप्ते ; तस्य अपवादेन <<दक्षिणादाच्>> [[5.3.36]] इत्यनेन दक्षिण-शब्दात् 'आच्' प्रत्यये विहिते, 'दूरे' इत्यस्मिन् सन्दर्भे 'दक्षिण' शब्दात् वर्तमानसूत्रेण 'आहि' इति प्रत्ययः अपि भवति ।\nयथा - दक्षिणस्याम् दूरायाम् दिशि / दक्षिणे दूरे देशे / दक्षिणा दूरा दिक् / दक्षिणः दूरः देशः\n= दक्षिण + आच् / आहि [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्ययस्य लुक्]\n→ दक्षिण + आ / आहि ['आच्' इत्यत्र चकारः उच्चारणार्थः, विशेषणार्थश्च । तस्य लोपः भवति ।]\n→ दक्षिण् + आ / आहि [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ दक्षिणा / दक्षिणाहि\nअत्र निर्मितौ 'दक्षिणा' तथा 'दक्षिणाहि' एतौ शब्दौ <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यनेन अव्ययसंज्ञकौ भवतः ।यथा - 'दक्षिणाहि वसति / दक्षिणा वसति / दक्षिणा दिक् / दक्षिणाहि दिक्' - आदयः ।\nज्ञातव्यम् -\n1. वस्तुतस्तु अस्मिन् सूत्रे 'दिक्-देश-कालेषु' इति सम्पूर्णः शब्दः अनुवर्तते, परन्तु 'दक्षिण' शब्दः 'काल' अस्मिन् अर्थे न प्रयुज्यते, अतः तस्य उदाहरणानि न लभन्ते ।\n2. पूर्वसूत्रात् 'सप्तमीपञ्चमीप्रथमाभ्यः' इत्यस्य अनुवृत्त्यां प्राप्तायाम् वर्तमानसूत्रे 'अपञ्चम्याः' इति निर्देशेन अत्र केवलम् सप्तम्यन्तात् प्रथमान्तात् च रूपात् अत्र प्रत्ययविधानम् भवति । पञ्चमीविभक्त्यन्तरूपस्य विषये अस्य सूत्रस्य प्रसक्तिः नास्ति ।\n3. अत्र पाठिते 'आच्' प्रत्यये चकारस्य 'इत्संज्ञा' न भवति, यतः चकारस्य इत्संज्ञायाः किमपि प्रयोजनमत्र न विद्यते । सामान्यरूपेण चित्-प्रत्यये कृते समुदायस्य <<तद्धितस्य>> [[6.1.164]] इत्यनेन अन्तोदात्तत्वं विधीयते । परन्तु 'आच्' प्रत्ययस्य आकारः <<आद्युदात्तश्च>> [[1.3.3]] इत्यनेनैव उदात्तत्वं प्राप्नोति, अतः 'आच्' इत्यत्र चकारस्य स्वरनिर्देशार्थम् न किञ्चित् प्रयोजनम् । अत्र चकारस्य ग्रहणम् 'आच्' इति प्रत्ययस्य अनेभ्यः 'आ' प्रत्ययेभ्यः भिन्नरूपेण ग्रहणार्थमस्ति । <<अन्यारादितरर्त्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते>> [[2.3.29]] इति सूत्रम् 'आच्' प्रत्ययस्य विषये विधानम् करोति, अनेष्याम् 'आ' प्रत्ययानाम् विषये (यथा - टाप्, टा, डा - आदयः) न । अतः पाणिनिः <<अन्यारादितरर्त्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते>> [[2.3.29]] इत्यत्र 'आच्' इति विशिष्टम् निर्देशं कर्तुम् इच्छति, तदर्थमेव चकारस्य ग्रहणम् वर्तमानसूत्रे कृतमस्ति ।\n" }, "53038": { "sa": "'उत्तर' शब्दः यदा 'दूरस्था दिशा' / 'दूरस्थम् स्थानम्' / 'दूरस्थः कालः' एतेषु अर्थेषु प्रयुज्यते, तदा तस्य सप्तम्यन्तात् प्रथमान्तात् च रूपात् 'आहि' तथा 'आच्' प्रत्ययौ स्वार्थे विधीयेते ।", "sd": "'दिशा', 'देश' तथा 'काल' एतेषु अर्थेषु प्रयुज्यमाणेभ्यः दिशावाचिभ्यः शब्देभ्यः <<दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः>> [[5.3.27]] इत्यनेन सप्तम्यन्तात्, प्रथमान्तात् च स्वार्थे औत्सर्गिकरूपेण 'अस्ताति' प्रत्यये प्राप्ते ; तस्य अपवादेन 'दूरे' इत्यस्मिन् सन्दर्भे 'उत्तर' शब्दात् वर्तमानसूत्रेण 'आहि' तथा 'अाच्' एतौ प्रत्ययौ भवतः ।\nयथा - उत्तरस्याम् दूरायाम् दिशि / उत्तरे दूरे देशे / उत्तरा दूरा दिक् / उत्तरः दूरः देशः\n= उत्तर + आच् / आहि [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्ययस्य लुक्]\n→ उत्तर + आ / आहि ['आच्' इत्यत्र चकारः उच्चारणार्थः, विशेषणार्थश्च । तस्य लोपः भवति ।]\n→ उत्तर + आ / आहि [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ उत्तरा / उत्तराहि\nअत्र निर्मितौ 'उत्तरा' तथा 'उत्तराहि' एतौ शब्दौ <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यनेन अव्ययसंज्ञकौ भवतः ।यथा - 'उत्तराहि वसति / उत्तरा वसति / उत्तरा विद्यते / उत्तराहि विद्यते - आदयः ।\nज्ञातव्यम् - पूर्वसूत्रात् 'सप्तमीपञ्चमीप्रथमाभ्यः' इत्यस्य अनुवृत्त्यां प्राप्तायाम् वर्तमानसूत्रे 'अपञ्चम्याः' इति निर्देशेन अत्र केवलम् सप्तम्यन्तात् प्रथमान्तात् च रूपात् अत्र प्रत्ययविधानम् भवति । पञ्चमीविभक्त्यन्तरूपस्य विषये अस्य सूत्रस्य प्रसक्तिः नास्ति ।\n" }, "53039": { "sa": "'पूर्व', 'अधर', 'अवर' एते शब्दाः यदा 'दिशा', 'स्थान' उत 'काल' एतेषु अर्थेषु प्रयुज्यन्ते, तदा तेषाम् सप्तम्यन्तेभ्यः, पञ्चम्यन्तेभ्यः तथा च प्रथमान्तेभ्यः रूपेभ्यः 'असि' प्रत्ययः स्वार्थे विधीयते, तथा च प्रक्रियायाम् तेषाम् (क्रमेण) पुर्, अध्, अव् - एते आदेशाः भवन्ति । ", "sd": "'दिशा', 'देश', तथा 'काल' इत्येतेषु अर्थेषु प्रयुज्यमाणेभ्यः दिशावाचिभ्यः शब्देभ्यः <<दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यः दिग्देशकालेष्वस्तातिः>> [[5.3.27]] इत्यनेन सप्तम्यन्तात्, पञ्चम्यन्तात्, प्रथमान्तात् च स्वार्थे औत्सर्गिकरूपेण 'अस्ताति' प्रत्यये प्राप्ते वर्तमानसूत्रेण 'पूर्व', 'अवर' तथा 'अधर' एतेभ्यः शब्देभ्यः 'असि' प्रत्ययः अपि विधीयते, तथा च प्रक्रियायाम् 'पूर्व' शब्दस्य 'पुर्' आदेशः, 'अधर' शब्दस्य 'अध्' आदेशः, तथा च 'अवर' शब्दस्य 'अव्' आदेशः अपि भवति । यथा -\n1. पूर्वस्याम् दिशि / पूर्वस्मिन् देशे / पूर्वस्मिन् काले / पूर्वस्याः दिशः / पूर्वस्मात् देशात् / पूर्वस्मात् कालात् / पूर्वा दिक् / पूर्वः देशः / पूर्वः कालः\nपूर्वस्याम् / पूर्वस्मिन् / पूर्वस्याः / पूर्वस्मात् / पूर्वा / पूर्वः + असि\n= पूर्व + अस् [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्ययस्य लुक्]\n→ पुर् + अस् [ 'पूर्व' इत्यस्य 'पुर्' इति आदेशः]\n→ पुरस्\n2. अधरस्याम् दिशि / अधरस्मिन् देशे / अधरस्मिन् काले / अधरस्याः दिशः / अधरस्मात् देशात् / अधरस्मात् कालात् / अधरा दिक् / अधरः देशः / अधरः कालः\n→ अधर + अस् [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्ययस्य लुक्]\n→ अध् + अस् ['अधर' इत्यस्य 'अध्' आदेशः]\n→ अधस्\n3. अवरस्याम् दिशि / अवरस्मिन् देशे / अवरस्मिन् काले / अवरस्याः दिशः / अवरस्मात् देशात् / अवरस्मात् कालात् / अवरा दिक् / अधरः देशः / अधरः कालः\n→ अवर + अस् [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्ययस्य लुक्]\n→ अव् + अस् ['अवर' इत्यस्य 'अव्' आदेशः]\n→ अवस्\nज्ञातव्यम् -\n1. 'असि' अस्मिन् प्रत्यये सकारोत्तरः इकारः उच्चारणार्थः अस्ति, सकारस्य च इत्संज्ञा मा भूत् इति निर्देशयितुम् स्थाप्यते ।\n2. यद्यपि वर्तमानसूत्रम् 'अस्ताति' इत्यस्य अपवादरूपेण आगच्छति, तथापि <<अस्ताति>> [[5.3.40]] इत्यनेन अग्रिसूत्रेण एतत् ज्ञाप्यते यत् 'असि' प्रत्ययः 'अस्ताति' प्रत्ययं नैव बाधते । इत्युक्ते, पूर्व, अधर, अवर - एतेभ्यः शब्देभ्यः अस्ताति-प्रत्ययः अपि भवत्येव ।" }, "53040": { "sa": "'पूर्व', 'अधर', 'अवर' शब्दानामस्ताति-प्रत्यये परे यथासङ्ख्यम् 'पुर्', 'अध्', 'अव्' आदेशाः भवन्ति । ", "sd": "'दिशा', 'देश', तथा 'काल' इत्येतेषु अर्थेषु प्रयुज्यमाणेभ्यः दिशावाचिभ्यः शब्देभ्यः <<दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यः दिग्देशकालेष्वस्तातिः>> [[5.3.27]] इत्यनेन सप्तम्यन्तात्, पञ्चम्यन्तात्, प्रथमान्तात् च स्वार्थे औत्सर्गिकरूपेण 'अस्ताति' प्रत्ययः विधीयते । अस्मिन्नवे 'अस्ताति' प्रत्यये परे 'पूर्व', 'अधर', 'अवर' इत्येतेषामङ्गस्य यथासङ्ख्यम् 'पुर्', 'अध्', 'अव्' एते आदेशाः भवन्ति । यथा -\n1. पूर्वस्याम् दिशि / पूर्वस्मिन् देशे / पूर्वस्मिन् काले / पूर्वस्याः दिशः / पूर्वस्मात् देशात् / पूर्वस्मात् कालात् / पूर्वा दिक् / पूर्वः देशः / पूर्वः कालः\nपूर्वस्याम् / पूर्वस्मिन् / पूर्वस्याः / पूर्वस्मात् / पूर्वा / पूर्वः + असि\n= पूर्व + अस्ताति [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्ययस्य लुक्]\n→ पुर् + अस्तात् [ 'पूर्व' इत्यस्य 'पुर्' इति आदेशः]\n→ पुरस्तात्\n2. अधरस्याम् दिशि / अधरस्मिन् देशे / अधरस्मिन् काले / अधरस्याः दिशः / अधरस्मात् देशात् / अधरस्मात् कालात् / अधरा दिक् / अधरः देशः / अधरः कालः\n→ अधर + अस्ताति [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्ययस्य लुक्]\n→ अध् + अस्तात् ['अधर' इत्यस्य 'अध्' आदेशः]\n→ अधस्तात्\n3. अवरस्याम् दिशि / अवरस्मिन् देशे / अवरस्मिन् काले / अवरस्याः दिशः / अवरस्मात् देशात् / अवरस्मात् कालात् / अवरा दिक् / अवरः देशः / अवरः कालः\n→ अवर + अस्ताति [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्ययस्य लुक्]\n→ अव् + अस्तात् ['अवर' इत्यस्य 'अव्' आदेशः]\n→ अवस्तात्\nअनेन सूत्रेण निर्मितानाम् 'पुरस्तात्', 'अधस्तात्', 'अवस्तात्' एतेषां शब्दानां <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] अव्ययसंज्ञा भवति ।\nज्ञातव्यम् -\n1. 'अवर'शब्दस्य विषये वर्तमानसूत्रेण नित्यम् 'अव्' आदेशे प्राप्ते अग्रिमसूत्रेण <<विभाषावरस्य>> [[5.3.41]] इत्यनेन अयम् 'अव्' आदेशः विकल्पेन भवति । अतः 'अवरस्तात्' अयं शब्दः अपि सिद्ध्यति ।\n2. <<दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यः दिग्देशकालेष्वस्तातिः>> [[5.3.27]] इत्यनेन 'पूर्व', 'अधर' तथा 'अपर' शब्दानाम् सप्तम्यन्तात्, पञ्चम्यन्तात्, प्रथमान्तात् च स्वार्थे औत्सर्गिकरूपेण 'अस्ताति' प्रत्यये प्राप्ते, तं बाधित्वा <<पूर्वाधरावराणामसि पुरधवश्चैषाम्>> [[5.3.39]] इत्यनेन 'असि' प्रत्यये विधीयते । परन्तु वर्तमानसूत्रेण 'अस्ताति' प्रत्यये परे एव एतेषामादेशाः उक्ताः सन्ति । एतत् विधानमस्यैव ज्ञापकम्, यत् एतेभ्यः शब्देभ्यः 'असि' प्रत्ययेन सह 'अस्ताति'प्रत्ययः अपि भवितुमर्हति ।\n" }, "53041": { "sa": "'अवर' शब्दस्य अस्ताति-प्रत्यये परे विकल्पेन अव-आदेशः भवति । ", "sd": "'दिशा', 'देश', तथा 'काल' इत्येतेषु अर्थेषु प्रयुज्यमाणेभ्यः दिशावाचिभ्यः शब्देभ्यः <<दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यः दिग्देशकालेष्वस्तातिः>> [[5.3.27]] इत्यनेन सप्तम्यन्तात्, पञ्चम्यन्तात्, प्रथमान्तात् च स्वार्थे औत्सर्गिकरूपेण 'अस्ताति' प्रत्ययः विधीयते । अस्मिन्नेव प्रत्यये परे 'अवर' शब्दस्य <<पूर्वाधरावराणामसि पुरधवश्चैषाम्>> [[5.3.39]] इत्यनेन 'अव्' आदेशे प्राप्ते; वर्तमानसूत्रेण अयमादेशः केवलम् विकल्पेनैव भवति । यथा -\nअवरस्याम् दिशि / अवरस्मिन् देशे / अवरस्मिन् काले / अवरस्याः दिशः / अवरस्मात् देशात् / अवरस्मात् कालात् / अवरा दिक् / अधरः देशः / अधरः कालः\n→ अवर + अस्ताति [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्ययस्य लुक्]\n→ अवर+ अस्तात् ['अवर' इत्यस्य <<पूर्वाधरावराणामसि पुरधवश्चैषाम्>> [[5.3.39]] इत्यनेन 'अव्' आदेशे प्राप्ते वर्तमानसूत्रेण सः विकल्प्यते ।]\n→ अवर् + अस्तात् [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ अवरस्तात्\nपक्षे अवर'शब्दस्त 'अव्' इति आदेशं कृत्वा 'अवस्तात्' इति रूपमपि सिद्ध्यति ।\nज्ञातव्यम् -\n1. अनेन सूत्रेण निर्मितस्य 'अवरस्तात्' शब्दस्य <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यनेन अव्ययसंज्ञा भवति ।\n2. पूर्वसूत्रेण <<अस्ताति च>> [[5.3.40]] इत्यनेन 'अवर' शब्दस्य 'अस्ताति'प्रत्यये परे नित्यम् 'अव्' आदेशे प्राप्ते वर्तमानसूत्रेण सः विकल्प्यते, अतः इयम् 'व्यवस्थितविभाषा' अस्ति । " }, "53042": { "sa": "'विधा' (= क्रियाप्रकारः) इत्यस्य विशेषणरूपेण प्रयुक्तेभ्यः सङ्ख्यावाचिभ्यः शब्देभ्यः स्वार्थे 'धा' प्रत्ययः भवति । ", "sd": "'सङ्ख्या' इति व्याकरणविशिष्टा काचन संज्ञा । <<बहुगणवतुडति सङ्ख्या>> [[1.1.23]] इत्यनेन 'बहु' शब्दः, 'गण' शब्दः, वतुँप्-प्रत्ययान्तशब्दाः (यावत्, तावत्, एतावत्, इयत्, कियत्) तथा 'डति'प्रत्ययान्तः कति-शब्दः एतेषां 'सङ्ख्या' संज्ञा भवति । तथा च, 'एक' / द्वि' आदीनाम् सङ्ख्याशब्दानामपि 'सङ्ख्या' इति संज्ञा दीयते । एते सर्वे शब्दाः यदा 'क्रियाप्रकारः' अस्मिन् अर्थे प्रयुज्यते, तथा तेभ्यः शब्देभ्यः 'क्रियाप्रकारम्' अस्मिन् अर्थे 'धा' प्रत्ययः भवति । यथा -\n1. एकेन प्रकारेण = एक + धा = एकधा । यथा - एकधा भुङ्क्ते ।\n2. द्वयोः प्रकारयोः = द्वि + धा = द्विधा । यथा - द्विधा ब्रूते ।\n3. त्रिभिः प्रकारैः = त्रि + धा = त्रिधा । यथा - त्रिधा नयति ।\n4. चतुर्भिः प्रकारैः = चतुर् + धा = चतुर्धा । यथा - चतुर्धा स्पष्टीकरोति ।\n5. पञ्चभिः प्रकारैः = पञ्चन् + धा = पञ्चधा । [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः]\n6. षड्भिः प्रकारैः\n= षष् + धा\n→ षड् + धा [<<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वम्]\n→ षड्धा\n7. बहुभिः प्रकारैः = बहु + धा = बहुधा\n8. कतिभिः प्रकारैः = कति + धा = कतिधा\n9. यावद्भिः प्रकारैः = यावत् + धा = यावद्धा\nअनेन सूत्रेण निर्मिताः सर्वे शब्दाः <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यनेन अव्ययसंज्ञकाः भवन्ति ।\nस्मर्तव्यम् -\n1. 'क्रियायाः प्रकारः' अस्मिन् अर्थे एव अनेन सूत्रेेण 'धा' प्रत्ययः विधीयते । केवलम् 'प्रकारः' इति अर्थः अपेक्षते चेत् <<प्रकारवचने जातीयर्>> [[5.3.69]] इत्यनेन 'जातीयर्' प्रत्ययः भवति । यथा - एकजातीय, द्विजातीय, बहुजातीय - आदयः ।\n2. अत्र 'क्रियायाः प्रकारः' इति उच्यते, अतः विग्रहवाक्ये अत्र तृतीयाविभक्त्याः प्रयोगः भवति । " }, "53043": { "sa": "सङ्ख्यावाचिभ्यः शब्देभ्यः 'अधिकरणविचालः' (= एकस्य अनेकत्वम्, अनेकस्य वा एकत्वम्) अस्मिन् अर्थे 'धा' प्रत्ययः भवति ।", "sd": "'सङ्ख्या' इति व्याकरणविशिष्टा काचन संज्ञा । <<बहुगणवतुडति सङ्ख्या>> [[1.1.23]] इत्यनेन 'बहु' शब्दः, 'गण' शब्दः, वतुँप्-प्रत्ययान्तशब्दाः (यावत्, तावत्, एतावत्, इयत्, कियत्) तथा 'डति'प्रत्ययान्तः कति-शब्दः एतेषां 'सङ्ख्या' संज्ञा भवति । तथा च, 'एक' / द्वि' आदीनाम् सङ्ख्याशब्दानामपि 'सङ्ख्या' इति संज्ञा दीयते । एतेभ्यः सर्वेभ्यः शब्देभ्यः 'अधिकरणविचालः' ( एकस्य अनेकत्वम्, अनेकस्य वा एकत्वम् - Conversion of one to many or many to one) अस्मिन् अर्थे 'धा' प्रत्ययः भवति । यथा -\n1. एक + धा = एकधा । यथा - अष्ट राश्यः एकधा कुरु । (Combine eight heaps into one single heap)\n2. द्वि + धा = द्विधा । यथा - एकम् फलम् द्विधा अभवत् । (The fruit got cut into two pieces).\n3. त्रि + धा = त्रिधा ।\n4. चतुर् + धा = चतुर्धा । यथा - चतुर्धा स्पष्टीकरोति ।\n5. पञ्चन् + धा = पञ्चधा । [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः]\n6. षष् + धा\n→ षड् + धा [<<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वम्]\n→ षड्धा\n7. बहु + धा = बहुधा\n8. कति + धा = कतिधा\nअनेन सूत्रेण निर्मिताः सर्वे शब्दाः <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यनेन अव्ययसंज्ञकाः भवन्ति ।\n" }, "53044": { "sa": "'एक' शब्दात् 'धा' प्रत्ययस्य विकल्पेन 'ध्यमुञ्' आदेशः भवति । ", "sd": "<<संख्याया विधार्थे धा>> [[5.3.42]] तथा <<अधिकरणविचाले च>> [[5.3.43]] एतयोः सूत्रयोः सङ्ख्यावाचिभ्यः शब्देभ्यः 'धा' इति प्रत्ययः भवति । 'एक' शब्दात् विहितस्य अस्यैव 'धा' प्रत्ययस्य वर्तमानसूत्रेण विकल्पेन 'ध्यमुञ्' इति आदेशः विधीयते । अस्मिन् आदेशे ञकारस्य इत्संज्ञा भवति, तथा च मकारोत्तरः अकारः उच्चारणार्थः अस्ति । द्वयोः अपि लोपः भवति । प्रक्रिया एतादृशी -\nएक + धा\n→ एक + ध्यमुञ् ['धा' इत्यस्य 'ध्यमुञ्' आदेशः ]\n→ ऐक + ध्यम् [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ ऐकध्यम् ।\nयथा - ऐकध्यम् भुङ्क्ते (= एकेन प्रकारेण भुङ्क्ते) । अष्ट राश्यः ऐकध्यम् कुरु (= अष्टानाम् राशीनाम् मिलित्वा एका राशिः कुरु) ।\nज्ञातव्यम् -\n1. अनेन सूत्रेण निर्मितस्य 'ऐकध्यम्' शब्दस्य <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यनेन अव्ययसंज्ञा भवति ।\n2. 'ऐकध्यम्' इत्यत्र अन्ते विद्यमानः मकारः शब्दस्य एव अवयवः अस्ति । अयं मकारः नपुंसकलिङ्गस्य एकवचनस्य न - इति स्मर्तव्यम् । 'ऐकध्यम्' इति शब्दः अव्ययसंज्ञकः अस्ति, अतः अस्मात् विहितानाम् 'सुँप्' प्रत्ययानाम् <<अव्ययादाप्सुपः>> [[2.4.82]] इत्यनेन लोपः भवति । " }, "53045": { "sa": "'द्वि' तथा 'त्रि' एताभ्याम् विहितस्य 'धा' प्रत्ययस्य विकल्पेन 'धमुञ्' इति आदेशः भवति । ", "sd": "<<संख्याया विधार्थे धा>> [[5.3.42]] तथा <<अधिकरणविचाले च>> [[5.3.43]] एतयोः सूत्रयोः सङ्ख्यावाचिभ्यः शब्देभ्यः 'धा' इति प्रत्ययः भवति । 'द्वि' तथा 'त्रि' एताभ्याम् विहितस्य अस्यैव 'धा' प्रत्ययस्य वर्तमानसूत्रेण विकल्पेन 'धमुञ्' इति आदेशः विधीयते । अस्मिन् आदेशे ञकारस्य इत्संज्ञा भवति, तथा च मकारोत्तरः अकारः उच्चारणार्थः अस्ति । द्वयोः अपि लोपः भवति । प्रक्रिया एतादृशी -\nद्वि / त्रि + धा\n→ द्वि / त्रि + धमुञ् ['धा' इत्यस्य 'धमुञ्' आदेशः ]\n→ द्वै / त्रै + धम् [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ द्वैधम् / त्रैधम् ।\nअयमादेशः विकल्पेन भवति, अतः पक्षे 'द्विधा' तथा 'त्रिधा' एते रूपे अपि भवतः ।\nयथा - द्वैधम् भुङ्क्ते (= द्वाभ्यां प्रकाराभ्यां भुङ्क्ते) । त्रैधं वदति (= त्रिभिः प्रकारैः वदति) । एका राशी द्वैधम् त्रैधम् वा कुरु ।\nअत्र एकं वार्त्तिकं ज्ञातव्यम् - । इत्युक्ते, यद्यपि धमुञ्-प्रत्ययान्तशब्दाः अव्ययसंज्ञकाः सन्ति, तथापि तेभ्यः स्वार्थे कुत्रचित् 'ड' प्रत्ययं कृत्वा 'द्वैध / त्रैध' एतयोः प्रातिपदिकयोः निर्माणं कृत्वा तयोः सुबन्तरूपाणि उपयुक्तानि दृश्यन्ते । यथा - 'तस्मिन्नेव मतिद्वैधे मनुः स्वायंभुवोऽब्रवीत्' इति प्रयोगः महाभारतस्य वनपर्वे लभ्यते । अत्र 'मतेः द्वैधम्' (Two forms of the same intellect / Two types of thoughts इत्याशयः) इत्यत्र समासे कृते 'मतिद्वैधम्' इति जाते अस्मात् शब्दात् 'ड' प्रत्ययः स्वार्थे भवति, येन 'मतिद्वैध' इति प्रातिपदिकं सिद्ध्यति ।\nज्ञातव्यम् -\n1. अनेन सूत्रेण निर्मितयोः 'द्वैधम्' तथा 'त्रैधम्' शब्दयोः <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यनेन अव्ययसंज्ञा भवति ।\n2. 'द्वि' तथा 'त्रि' एतेभ्यः विहितस्य 'धा' प्रत्ययस्य विकल्पेन <<एधाच्च>> [[5.3.46]] इत्यनेन 'एधाच्' आदेशः अपि भवति ।\n3. अत्र निर्मितौ 'द्वैधम्' तथा 'त्रैधम्' इत्यत्र अन्ते विद्यमानः मकारः शब्दस्य एव अवयवः अस्ति । अयं मकारः नपुंसकलिङ्गस्य एकवचनस्य न - इति स्मर्तव्यम् । एतौ शब्दौ अव्ययसंज्ञकौ स्तः, अतः एतेभ्यः विहितानाम् सुँप्-प्रत्ययानाम् <<अव्ययादाप्सुपः>> [[2.4.82]] इत्यनेन लोपः भवति । " }, "53046": { "sa": "'द्वि' तथा 'त्रि' एताभ्याम् विहितस्य 'धा' प्रत्ययस्य विकल्पेन 'एधाच्' इति आदेशः भवति ।", "sd": "<<संख्याया विधार्थे धा>> [[5.3.42]] तथा <<अधिकरणविचाले च>> [[5.3.43]] एतयोः सूत्रयोः सङ्ख्यावाचिभ्यः शब्देभ्यः 'धा' इति प्रत्ययः भवति । 'द्वि' तथा 'त्रि' एताभ्याम् विहितस्य अस्यैव 'धा' प्रत्ययस्य वर्तमानसूत्रेण विकल्पेन 'एधाच्' इति आदेशः विधीयते । अस्मिन् आदेशे चकारस्य इत्संज्ञा भवति । प्रक्रिया एतादृशी -\nद्वि / त्रि + धा\n→ द्वि / त्रि + एधाच् ['धा' इत्यस्य 'एधाच्' आदेशः ]\n→ द्व् / त्र् + एधा [<<यस्येति च>> [[6.4.148]] इति इकारलोपः]\n→ द्वेधा, त्रेधा ।\nयथा - द्वेधा भुङ्क्ते (= द्वाभ्यां प्रकाराभ्यां भुङ्क्ते) । त्रेधा वदति (= त्रिभिः प्रकारैः वदति) । एका राशी द्वेधा त्रेधा वा कुरु ।\nअयमादेशः विकल्पेन भवति, अतः पक्षे 'द्विधा' तथा 'त्रिधा' एते रूपे अपि भवतः ।\nज्ञातव्यम् -\n1. अनेन सूत्रेण निर्मितयोः 'द्वेधा' तथा 'त्रेधा' शब्दयोः <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यनेन अव्ययसंज्ञा भवति ।\n2. 'द्वि' तथा 'त्रि' एताभ्यां विहितस्य 'धा' प्रत्ययस्य <<द्वित्र्योश्च धमुञ्>> [[5.3.45]] इत्यनेन विकल्पेन धमुञ्-आदेशः अपि भवति । 'धमुञ्' इत्यत्र ञकारस्य इत्संज्ञा भवति, उकारश्च उच्चारणार्थः अस्ति । द्वयोः अपि लोपे कृते 'धम्' इत्येव प्रयोगे दृश्यते, येन 'द्वैधम्' तथा 'त्रैधम्' एते रूपे सिद्ध्यतः ।\n" }, "53047": { "sa": "'याप्यः' (कुत्सितः) अस्य विशेष्यरूपेण प्रयुक्तात् प्रातिपदिकात् स्वार्थे 'पाशप्' प्रत्ययः भवति । ", "sd": "अनेन सूत्रेण 'पाशप्' इति प्रत्ययः पाठ्यते । यत्र 'याप्यः' (= कुत्सितः / अप्रवीणः / bad) इत्यस्य विशेष्यरूपेण किञ्चन प्रातिपदिकम् प्रयुज्यते, तत्र तस्मात् प्रातिपदिकात् स्वार्थे 'पाशप्' इति प्रत्ययः भवति । अस्मिन् प्रत्यये पकारः इत्संज्ञकः अस्ति, <<अनुदात्तौ सुप्पितौ>> [[3.1.4]] इत्यनेन प्रत्ययस्थ-आकारस्य अनुदात्तस्वरनिर्देशार्थम् च सः अत्र स्थापितः अस्ति ।\nउदाहरणम् एतादृशम् -\nयाप्यः वैयाकरणः (सः वैयाकरणः यः किमपि व्याकरणम् न जानाति । A person who, by degree, is a grammatician, but in reality knows nothing or very little about grammar).\n= वैयाकरण + पाशप्\n→ वैयाकरणपाश ।\nएवमेव - याप्यः नैयायिकः नैयायिकपाशः । याप्यः याज्ञिकः याज्ञिकपाशः । याप्यः भिषग् भिषक्पाशः ( a bad doctor) ।\nज्ञातव्यम् -\n1. अस्य सूत्रस्य प्रयोगः तदा एव भवति यदा 'याप्य' इति शब्दः प्रातिपदिकेन निर्दिष्टस्य विषयस्य सन्दर्भे एव विधीयते । इत्युक्ते, यदि कश्चन वैद्यः किमपि वैद्यकार्यम् न जानाति, तर्हि तस्य निर्देशः अत्र 'याप्यः भिषग्' इत्यनेन क्रियते, तथा च अस्यां स्थितौ वर्तमानसूत्रस्य प्रयोगं कृत्वा एतादृशस्य वैद्यस्य निर्देशः 'भिषक्पाशः' इत्यनेन अपि भवितुमर्हति । A doctor who does not know anything about his subject - इत्याशयः । परन्तु कश्चन वैद्यः यदि वैद्यकार्ये कुशलः अस्ति, परन्तु स्वभावेन दुःशीलः / कुत्सितः / दुष्टः अस्ति, तर्हि यद्यपि तस्य निर्देशः 'याप्यः भिषग्' इति भवितुमर्हति, तथापि अस्मिन् सन्दर्भे वर्तमानसूत्रस्य प्रयोगः न क्रियते, यतः अत्र 'कुत्सितत्वम्' वैद्यस्य स्वभावस्य विषये अस्ति, न हि 'वैद्य' इत्यनेन निर्दिष्टस्य अर्थस्य (= वैद्यकीयकार्यस्य) विषये ।\n2. पाशप्-प्रत्यये परे <<तसिलादिष्वाकृत्वसुचः>> [[6.3.35]] इत्यनेन स्त्रीवाचिनः अङ्गस्य पुंवद्भावः भवति ।\nयथा - याप्या वैयाकरणी (a female, who, by degree, is a grammatician, but in reality knows nothing or very little about grammar). )\n= वैयाकरणी + पाशप्\n→ वैयाकरण + पाशप् [पुंवद्वावः]\n→ वैयाकरणपाश\n→ वैयाकरणपाश + टाप् [स्त्रीत्वे विवक्षिते <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्-प्रत्ययः]\n→ वैयाकरणपाशा ।\n" }, "53048": { "sa": "'भागः' इत्यस्य विशेषणरूपेण प्रयुक्तः यः 'तीय'प्रत्ययान्तशब्दः, तस्मात् स्वार्थे अन्-प्रत्ययः भवति । ", "sd": "'तीय' इति कश्चन पूरणप्रत्ययः । <<द्वेस्तीयः>> [[5.2.54]] तथा <<त्रेः सम्प्रसारणं च>> [[5.2.55]] इत्यनेन 'द्वि' तथा 'त्रि' एताभ्यां शब्दाभ्याम् पूरणार्थे अयम् प्रत्ययः विधीयते, तेन 'द्वितीय' तथा 'तृतीय' एतौ शब्दौ सिद्ध्यतः । 'भाग' इत्यस्य विशेषणरूपेण यत्र एतौ शब्दौ प्रयुज्येते, तत्र ताभ्याम् स्वार्थे 'अन्' प्रत्ययः वर्तमानसूत्रेण विधीयते । यथा -\nद्वितीयः भागः\n= द्वितीय + अन्\n→ द्वितीय् + अ [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ द्वितीय\nएवमेव - तृतीयः भागः = तृतीयः ।\nज्ञातव्यम् -\n1. वस्तुतः अत्र 'अन्' प्रत्ययस्य प्रयोगेण पुनः 'द्वितीय' तथा 'तृतीय' एतौ एव शब्दौ सिद्ध्यतः । अत्र प्रत्ययविधानमपि स्वार्थे कृतमस्ति, अतः अत्र 'द्वितीय' इत्यस्मिन्नेव अर्थे पुनः 'द्वितीय' इत्येव शब्दः सिद्ध्यति । अतः अस्य सूत्रस्य प्रयोजनम् किम् - इति प्रश्नः उपतिष्ठते । अस्य स्पष्टीकरणार्थम् काशिकाकारः वदति - 'स्वरार्थम् वचनम्' । इत्युक्ते, पूरणप्रत्ययान्तः 'द्वितीय'शब्दः, तथा अन्-प्रत्ययान्तः 'द्वितीय'शब्दः एतयोः स्वरे अन्तरम् विद्यते -\n(अ) पूरणप्रत्ययान्तः यः 'द्वितीय' शब्दः, तस्मिन् तकारोत्तरः ईकारः <<आद्युदात्तश्च>> [[3.1.3]] इत्यनेन उदात्तस्वरम् प्राप्नोति ।\n(आ) अन्-प्रत्ययान्तः यः 'द्वितीय'शब्दः, तस्मिन् वकारोत्तरः इकारः <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] इत्यनेन उदात्तस्वरम् प्राप्नोति ।\nएतम् स्वरविशेषम् द्योतयितुम् एव अत्र 'अन्' इति प्रत्ययः उक्तः अस्ति । वस्तुतः तु अस्मिन् प्रत्यये 'अ' इत्यस्य किमपि प्रयोजनम् न, केवलम् 'न्' इति इत्संज्ञकस्यैव अत्र कार्यमस्ति । परन्तु केवलम् इत्संज्ञकः वर्णः प्रत्ययरूपेण विधातुम् न शक्यते, अतः प्रत्ययस्य प्रारम्भे 'अ' इति स्थापितः अस्ति ।\n2. अस्मिन् सूत्रे 'पूरणात्' इति निर्देशः वस्तुतः अत्र न आवश्यकः, यतः 'तीय' इति प्रत्ययः पूरणार्थे एव विधीयते । परन्तु 'पूरणात्' इत्यस्य अनुवृत्तिः अग्रिमसूत्रेषु आवश्यकी, अतः तदर्थमस्य शब्दस्य अत्र ग्रहणम् कृतमस्ति ।\nविशेषः - अस्मिन् सूत्रे कौमुद्याम् वार्त्तिकम् एकम् पाठ्यते - । इत्युक्ते, 'तीय' प्रत्ययान्तशब्दात् स्वार्थे 'ईकक्' इति प्रत्ययः भवितुमर्हति, यदि अनेन निर्मितः तद्धितान्तशब्दः 'विद्या' इत्यस्य विशेषणरूपेण न प्रयुज्यते । यथा - द्वितीय + ईकक् → द्वितीयीक । द्वितीयम् इत्येव द्वितीयीकम् । 'द्वितीया विद्या' इत्यत्र तु निषेधात् 'द्वितीयीका' इति न भवति । " }, "53049": { "sa": "'एकादश' इत्यस्मात् पूर्वम् विद्यमानाः ये पूरणप्रत्ययान्तशब्दाः, ते लौकिकसंस्कृते यदि 'भाग' इत्यस्य विशेषणरूपेण प्रयुज्यन्ते, तर्हि तेभ्यः स्वार्थे अन्-प्रत्ययः विधीयते । ", "sd": "'एकादश' इति पूरणप्रत्ययान्तशब्दः अस्मिन् सूत्रे निर्दिष्टः अस्ति । एकादशानाम् पूरणम् = एकादशन् + डट् → एकादश । अस्मात् पूर्वम् ये पूरणप्रत्ययान्तशब्दाः विद्यते, ते यदि 'भाग' इत्यस्य विशेषणरूपेण विधीयन्ते, तर्हि तेभ्यः 'अन्' इति प्रत्ययः स्वार्थे विधीयते । यथा -\n1. चतुर्थः भागः\n= चतुर्थ + अन्\n→ चतुर्थ् + अन् [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ चतुर्थ ।\n2. पञ्चमः भागः = पञ्चम + अन् → पञ्चम ।\n3. षष्ठः भागः = षष्ठ + अन् → षष्ठ ।\n4. सप्तमः भागः = सप्तम + अन् → सप्तम ।\n5. अष्टमः भागः = अष्टम + अन् → अष्टम ।\n6. नवमः भागः = नवम + अन् → नवम ।\n7. दशमः भागः = दशम + अन् → दशम ।\n'एकादश' इत्यस्मात् अग्रे तु अस्य सूत्रस्य प्रयोगः न भवति ।\nज्ञातव्यम् -\n1. वस्तुतः अत्र 'अन्' प्रत्ययस्य प्रयोगेण पुनः 'चतुर्थ', 'पञ्चम' एतादृशाः शब्दाः एव सिद्ध्यन्ति । अत्र प्रत्ययविधानमपि स्वार्थे कृतमस्ति, अतः अत्र 'चतुर्थ' / 'पञ्चम' इत्यस्मिन्नेव अर्थे पुनः 'चतुर्थ' / 'पञ्चम' एतादृशाः शब्दाः सिद्ध्यन्ति अतः अस्य सूत्रस्य प्रयोजनम् किम् - इति प्रश्नः उपतिष्ठते । अस्य स्पष्टीकरणार्थम् काशिकाकारः वदति - 'स्वरार्थम् वचनम्' । इत्युक्ते, पूरणप्रत्ययान्तशब्दाः तथा अन्-प्रत्ययान्तशब्दाः - एतेषु स्वरे अन्तरम् विद्यते ।\nपूरणप्रत्ययान्तशब्देषु प्रत्ययस्य आदिस्वरः <<आद्युदात्तश्च>> [[3.1.3]] इत्यनेन उदात्तस्वरम् प्राप्नोति । अन्-प्रत्ययान्तशब्दानाम् विषये तु समुदायस्य प्रथमः स्वरः <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] इत्यनेन उदात्तस्वरम् प्राप्नोति ।\n2. पूर्वसूत्रात् 'पूरणात्' इत्यस्य अनुवृत्तिः अस्मिन् सूत्रे आवश्यकी अस्ति, यतः 'एकादश' इति सङ्ख्यावाची शब्दः अपि अस्ति, परन्तु तस्य विषये अस्य सूत्रस्य प्रसक्तिः न वर्तते । इत्युक्ते, 'प्राक् एकादशात्' इत्यस्य अर्थः 'प्राक् एकादशात् विद्यमानाः पूरणप्रत्ययान्तशब्दाः' इति अस्ति, न हि 'प्राक् एकादशात् विद्यमानाः सङ्ख्यावाचकशब्दाः' - इति स्पष्टीकरणार्थमत्र 'पूरणात्' इति स्वीकृतमस्ति ।\n3. एतादृशः स्वरभेदः वेदेषु कृतः न लभ्यते, अतः पाणिनिना अस्मिन् सूत्रे 'अच्छन्दसि' इति निर्दिष्टमस्ति ।\n4. 'द्वितीय' तथा 'तृतीय' एताभ्याम् शब्दाभ्याम् <<पूरणाद्भागे तीयादन्>> [[5.3.48]] इत्यनेन पूर्वसूत्रेण एव 'अन्' प्रत्ययः भवति, अतः तस्य उदाहरणानि अत्र दत्तानि न सन्ति ।\n5. 'षष्ठ' तथा 'अष्टम' एताभ्याम् शब्दाभ्यामग्रिमसूत्रेण 'ञ' प्रत्ययः अपि विधीयते, येन 'षाष्ठ' तथा 'आष्टम' एते रूपे भवतः ।\n6. वस्तुतः 'प्रागेकादशेभ्यः' इति उच्यते चेत् तत्र 'द्वितीय' तथा 'तृतीय' एतयोः अपि ग्रहणं भवत्येव । तथापि 'द्वितीय' तथा 'तृतीय' शब्दयोः <<पूरणाद्भागे तीयादन्>> [[5.3.48]] इत्यत्र विशिष्टः निर्देशः कृतः अस्ति । अस्य स्पष्टीकरणार्थम् बालमनोरमाकारः वदति - नचानेनैव सिद्धत्वात्पूर्वसूत्रं किमर्थमिति शङ्क्यं, तस्य छन्दस्यापि प्रवृत्त्यर्थत्वात् । इत्युक्ते, पूर्वसूत्रेण सिद्धौ 'द्वितीय' तथा 'तृतीय' एतौ अन्-प्रत्ययान्तशब्दौ वेदेषु अपि दृश्यन्ते, अतः तेषाम् निर्देशः भिन्नरूपेण कृतः अस्ति ।\n" }, "53050": { "sa": "'षष्ठ' तथा 'अष्टम' एतौ शब्दौ लौकिकसंस्कृते यदि 'भाग' इत्यस्य विशेषणरूपेण प्रयुज्येते, तर्हि तेभ्यः स्वार्थे 'अन्' तथा 'ञ' प्रत्ययौ भवतः । ", "sd": "'षष्ठ' तथा 'अष्टम' एतौ द्वौ पूरणप्रत्ययान्तशब्दौ । एतयोः प्रयोगः 'भागः' इत्यस्य विशेषणरूपेण यत्र भवति, तत्र ताभ्याम् स्वार्थे <<प्रागेकादशभ्योऽच्छन्दसि>> [[5.3.49]] इत्यनेन 'अन्' प्रत्यये प्राप्ते ; वर्तमानसूत्रेण पक्षे 'ञ' प्रत्ययः अपि विधीयते ।\nयथा - षष्ठः भागः\n= षष्ठ + ञ\n→ षष्ठ + अ [ञकारस्य इत्संज्ञा, लोपः]\n→ षाष्ठ + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ षाष्ठ् + अ [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ षाष्ठ\nएवमेव - अष्टमः भागः आष्टमः ।\nज्ञातव्यम् -'षाष्ठ' तथा 'आष्टम' एतयोः शब्दयोः प्रयोगः वेदेषु न दृश्यते, अतः अस्मिन् सूत्रे 'अच्छन्दसि' इत्यस्य अनुवृत्तिः स्वीक्रियते । " }, "53051": { "sa": "'षष्ठ' तथा 'अष्टम' एतौ शब्दौ 'भाग' इत्यस्य विशेषणरूपेण 'मानम्' तथा 'पश्वङ्गम्' एतयोः सन्दर्भयोः प्रयुज्यते तर्हि तेभ्यः स्वार्थे विकल्पेन यथासङ्ख्यम् कन्-प्रत्ययः तथा च प्रत्ययस्य लुक् भवति । ", "sd": "'षष्ठ' तथा 'अष्टम' एतौ द्वौ पूरणप्रत्ययान्तशब्दौ । एतयोः प्रयोगः 'भागः' इत्यस्य विशेषणरूपेण यत्र भवति, तत्र ताभ्याम् स्वार्थे <<षष्ठाष्टमाभ्यां ञ च>> [[5.3.50]] इत्यनेन 'अन्' तथा 'ञ' प्रत्ययौ भवतः । परन्तु यदि अयम् भागः 'मानम्' (measurement) उत पश्वङ्गम् (= पशोः अङ्गम्, organ of an animal) अस्मिन् सन्दर्भे प्रयुज्यते, तर्हि 'षष्ठ' शब्दात् विकल्पेन कन्-प्रत्ययः भवति, तथा च अष्टम-शब्दात् विहितयोः प्रत्यययोः विकल्पेन लुक् भवति ।\nक्रमेण पश्यामः -\n1) 'षष्ठः भागः मानम्' अस्मिन् सन्दर्भे षष्ठ-शब्दात् स्वार्थे कन्-प्रत्ययः विकल्पेन भवति ।\nयथा - षष्ठः भागः मानम् = षष्ठ + कन् → षष्ठकः ।\nIf sixth part of an object is used as a measurement, then that sixth part is called षष्ठक । That is, if an object has certain markings such that 1/6th of that can be used as a unit of measurement, then that 1/6th part is called षष्ठक. For example, '10 minutes' can be referred as षष्ठक because it is 1/6 of an hour.\nपक्षे पूर्वसूत्रेण अन् / ञ प्रत्ययौ कृत्वा षष्ठः भागः / षाष्ठः भागः एतौ शब्दौ अपि सिद्ध्यतः ।\nविशेषः - पदमञ्जरीकारः अत्र 'मानम्' इत्यस्य अर्थः 'व्रीहिपरिमितम् सुवर्णम्' इति करोति । Sixth part of a certain quantity of gold that is used as unit of measurement - इति अस्य आशयः ।\n2) 'अष्टमः भागः पश्वङ्गम्' अस्मिन् सन्दर्भे अष्टम-शब्दात् स्वार्थे विहितयोः अन् / ञ-प्रत्यययोः विकल्पेन लुक् भवति ।\nयथा - अष्टमः भागः पश्वङ्गम् = अष्टम + अन्/ञ → अष्टम + X → अष्टम । If eighth part of an object is used to refer to an organ of an animal, then that part is called अष्टम । अस्य विशिष्टानि उदाहरणानि व्याख्यानेषु न दृश्यन्ते ।\nपक्षे पूर्वसूत्रेण अन् / ञ प्रत्ययौ कृत्वा अष्टमः भागः / आष्टमः भागः एतौ शब्दौ अपि सिद्ध्यतः ।\nविशेषः - 'अन्' प्रत्यये कृते प्राप्तः 'अष्टमः शब्दः तथा लुकि कृते प्राप्तः 'अष्टम' शब्दः एतयोर्मध्ये स्वरभेदः अस्ति । अन्-प्रत्ययान्तस्य 'अष्टम' शब्दस्य आदिस्वरः अकारः <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] इत्यनेन उदात्तसंज्ञकः अस्ति । परन्तु लुकि कृते प्राप्तस्य अष्टम-शब्दस्य मकारोत्तरः अकारः <<आद्युदात्तश्च>> [[3.1.3]] इत्यनेन उदात्तसंज्ञकः भवति । " }, "53052": { "sa": "'असहाय' अस्य विशेषणरूपेण प्रयुक्तः यः 'एक' शब्दः, तस्मात् स्वार्थे आकिनिच् प्रत्ययः तथा कन्-प्रत्ययः भवति । पक्षे द्वयोः अपि प्रत्यययोः लुक् अपि विधीयते । ", "sd": "'असहायः' (without a company / alone / helpless) अस्य विशेषणरूपेण प्रयुक्तः यः 'एक'शब्दः, तस्मात् स्वार्थे 'आकिनिच्' तथा 'कन्' एतौ प्रत्ययौ भवतः । पक्षे द्वयोः अपि प्रत्यययोः लुक् अपि विधीयते । यथा -\n1. असहायः एकः\n= एक + आकिनिच्\n→ एक + आकिन् [प्रत्ययस्थस्य चकारस्य इत्संज्ञा, लोपः । नकारोत्तरः इकारः उच्चारणार्थः, अतः तस्यापि लोपः भवति ।]\n→ एक् + आकिन् [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ एकाकिन्\n2. असहायः एकः\n= एक + कन्\n→ एकक\n3. असहायः एकः\n= एक + X (प्रत्ययलुक्)\n→ एक\nअनेन प्रकारेण 'असहायः एकः' अस्मिन् अर्थे 'एकाकिन्', 'एककः' तथा 'एकः' एते शब्दाः प्रयुज्यन्ते ।\nविशेषः - अस्मिन् सूत्रे प्रयुक्तः 'एक' शब्दः सङ्ख्यायाः अर्थे न प्रयुज्यते, अपितु 'असहायः कश्चन' इत्यस्मिन् अर्थे प्रयुज्यते । अतः 'एकाकिन्' शब्दस्य त्रिषु अपि वचनेषु रूपाणि भवितुमर्हन्ति - एकाकी, एकाकिनौ, एकाकिनः । यथा, शिशुपालवधे प्रयोगः दृश्यते - 'एकाकिनोऽपि परितः पौरुषेयवृताविव' । अत्र 'त्रयः जनाः एकाकिनः आसन्' इति अर्थः अस्ति ।\n" }, "53053": { "sa": "'भूतपूर्व' इत्यस्य विशेष्यरूपेण प्रयुक्तात् प्रातिपदिकात् स्वार्थे चरट्-प्रत्ययः भवति । ", "sd": "'भूतपूर्वः' इत्युक्ते 'पूर्वम् भूतः (used to exist before)' । 'भूतपूर्वः' इत्यस्य विशेष्यरूपेण यत् प्रातिपदिकम् प्रयुज्यते, तस्मात् स्वार्थे 'चरट्' प्रत्ययः भवति । 'चरट्' इत्यत्र टकारस्य इत्संज्ञा भवति, अतः प्रयोगे 'चर' इति प्रयुज्यते । यथा -\nभूतपूर्वः आढ्यः (One who used to be rich earlier) = आढ्य + चरट् → आढ्यचरः ।\nभूतपूर्वः सुकुमारः = सुकुमारचरः ।\nस्त्रीत्वे <<टिड्ढाणञ्..>> [[4.1.15]] इत्यनेन ङीप्-प्रत्यये कृते 'आढ्यचरी', 'सुकुमारचरी' एतादृशाः शब्दाः सिद्ध्यन्ति ।\nज्ञातव्यम् - स्त्रीवाचिनः प्रातिपदिकात् चरट्-प्रत्यये विहिते <<तसिलादिष्वाकृत्वसुचः>> [[6.3.35]] इत्यनेन पुंवद्भावः विधीयते । यथा - भूतपूर्वा आढ्या सा\n= आढ्या + चर\n→ आढ्य + चर [पुंवद्भावः]\n→ आढ्यचर\n→ आढ्यचर + ङीप् [स्त्रीत्वे विवक्षिते <<टिड्ढाणञ्..>> [[4.1.15]] इत्यनेन ङीप्-प्रत्ययः]\n→ आढ्यचर् + ई [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ आढ्यचरी\nविशेषः - 'चरट्' प्रत्ययस्य आदिस्थस्य चकारस्य <<चुटू>> [[1.3.7]] इत्यनेन इत्संज्ञा न भवति, यतः अत्र इत्संज्ञायाः किमपि प्रयोजनम् न विद्यते । " }, "53054": { "sa": "षष्ठीसमर्थात् 'भूतपूर्वः' अस्मिन् अर्थे चरट् तथा रूप्य एतौ प्रत्ययौ भवतः । ", "sd": "षष्ठीसमर्थात् प्रातिपदिकात् 'अस्य भूतपूर्वः' (Belonging to someone in past ) अस्मिन् अर्थे 'चरट्' तथा 'रूप्य' एतौ प्रत्ययौ भवतः । यथा -\n1. देवदत्तस्य भूतपूर्वः गौः (A cow that used to belong to Devadatta in past) = देवदत्तचरः गौः / देवदत्तरूप्यः गौः ।\n2. कृष्णस्य भूतपूर्वः गौः = कृष्णचरः गौः / कृष्णरूप्यः गौः ।\nज्ञातव्यम् -\n1. यद्यपि अस्मिन् सूत्रे <<समर्थानाम् प्रथमात् वा>> [[4.1.82]] इत्यस्मात् 'समर्थानाम्' इति न अनुवर्तते, तथाप्यत्र सूत्रस्य विधानसामर्थ्यात् षष्ठीसमर्थात् एव प्रत्ययविधानम् भवति ।\n2. अत्र 'भूतपूर्वः इति षष्ठ्यन्तस्य विशेषणम् नास्ति अपितु प्रथमान्तस्य विशेषणमस्ति, यस्य सम्बन्धः षष्ठीसमर्थेन सह विद्यते । तस्यैव प्रथमान्तस्य निर्देशः तद्धितान्तशब्देन अपि भवति । यथा, ' देवदत्तस्य भूतपूर्वः गौः' इत्यत्र 'भूतपूर्वः' इति शब्दः 'गौः' इत्यस्य विशेषणरूपेण प्रयुज्यते न हि 'देवदत्तः' इत्यस्य । तथा च, 'देवदत्तचरः' तथा 'देवदत्तरूप्यः' एताभ्यां शब्दाभ्यामपि 'गौः' इत्यस्यैव निर्देशः भवति ।\n3. चरट्-प्रत्यये परे <<तसिलादिष्वाकृत्वसुचः>> [[6.3.35]] इत्यनेन अङ्गस्य पुंवद्भावः विधीयते ।\nयथा - शुभ्रायाः भूतपूर्वः गौः\n= शुभ्रा + चरट्\n→ शुभ्र + चरट् [पुंवद्भावः]\n→ शुभ्रचर\n'रूप्य' प्रत्यये परे तु पुंवद्भावः न भवति, यतः <<तसिलादिष्वाकृत्वसुचः>> [[6.3.35]] इत्यत्र 'रूप्य' प्रत्ययस्य ग्रहणं न भवति ।\nयथा - शुभ्रायाः भूतपूर्वः गौः = शुभ्रा + रूप्य → शुभ्रारूप्यः ।\n" }, "53055": { "sa": "'प्रकर्षेण' इत्यस्मिन् सन्दर्भे प्रातिपदिकात् स्वार्थे तमप् तथा इष्ठन् प्रत्ययौ भवतः । ", "sd": "'अतिशायन' इत्यस्य अर्थः 'प्रकर्षः' (eminent / most rigorous / most superior). अस्मिन् अर्थे प्रातिपदिकात् 'तमप्' तथा 'इष्ठन्' एतौ प्रत्ययौ भवतः ।\nयथा -\n1. केचन जनाः सन्ति, सर्वेऽपि पटवः (कुशलाः/ skillful इत्यर्थः) एव । परन्तु तेषु सर्वेषु अपि देवदत्तः अतिशयेन / प्रकर्षेण पटुः(most skillful amongst all) अस्तीति चिन्तयामः । अस्यां स्थितौ देवदत्तस्य निर्देशः 'अयम् अतिशयेन पटुः' इति भवितुमर्हति । अस्यैव निर्देशार्थम् 'पटु' शब्दात् वर्तमानसूत्रेण 'तमप्' तथा 'इष्ठन्' एतौ प्रत्ययौ भवतः -\n(अ) पटु + तमप् → पटुतम । प्रत्यये इत्संज्ञकः पकारः <<अनुदात्तौ सुप्पितौ>> [[3.1.4]] इत्यनेन प्रत्ययादिस्वरस्य अनुदात्तत्वं विधातुम् स्थापितः अस्ति ।\n(आ) पटु + इष्ठन् → पटिष्ठ । अत्र <<टेः>> [[6.4.155]] इत्यनेन टिलोपे कृते रूपं सिद्ध्यति । प्रत्यये इत्संज्ञकः नकारः <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] इत्यनेन समुदायस्य आद्युदात्तत्वम् दर्शयितुम् स्थाप्यते ।\nएते सर्वेऽपि पटवः, परन्तु एतेषु देवदत्तः पटुतमः पटिष्ठः वा - इति अनयोः शब्दयोः प्रयोगः भवति ।\n2. गुरु + तमप् → गुरुतम । गुरु + इष्ठन् → गरिष्ठ । प्रक्रियायाम् <<प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिवृन्दाः>> [[6.4.157]] इति 'गुरु'शब्दस्य 'गर्' आदेशः भवति । एते सर्वे गुरवः (senior), भीष्मः एषामतिशयेन गुरुः । अतः भीष्मः गुरुतमः गरिष्ठः वा ।\n3. आढ्य (= धनवान्) + तमप् → आढ्यतम ।\n('आढ्य' शब्दः गुणवाचकः नास्ति, अतः अस्मात् शब्दात् केवलम् 'तमप्' प्रत्ययः एव भवति । 'इष्ठन्' प्रत्ययस्य विषये <<अजादी गुणवचनादेव>> [[5.3.58]] इत्यनेन नियमः क्रियते येन अयम् प्रत्ययः गुणवाचकेभ्यः शब्देभ्यः एव भवति । अतः इष्ठन्-प्रत्ययः 'आढ्य'शब्दात् न विधीयते) ।\nविशेषः - केचन इष्ठन्-प्रत्ययान्तशब्दाः अतिशयार्थे पुनः 'तमप्' प्रत्ययमपि स्वीकुर्वन्ति । यथा - प्रशस्य (excellent / eminent ) + इष्ठन् → श्रेष्ठ । प्रक्रियायाम् <<प्रशस्यस्य श्रः>> [[5.3.60]] इत्यनेन 'प्रशस्य' इत्यस्य 'श्र' इति आदेशं कृत्वा रूपं सिद्ध्यति । अतिशयेन प्रशस्यः सः श्रेष्ठः । अनेन प्रकारेण प्राप्तः यः 'श्रेष्ठ' शब्दः, तस्मात् पुनः 'अतिशयेन श्रेष्ठः' इत्यस्मिन् सन्दर्भे 'तमप्' प्रत्ययं कृत्वा 'श्रेष्ठतम' इति अपि शब्दः सिद्ध्यति । यथा - 'युधिष्ठिरः श्रेष्ठतमः कुरूणाम्' । अत्र - 'सर्वे कुरवः अतिशयेन श्रेष्ठाः, परन्तु युधिष्ठिरः तेषामपि अतिशयेन श्रेष्ठः' - इति अर्थस्य निर्देशार्थम् 'श्रेष्ठतम' इति शब्दः प्रयुज्यते । एवमेव 'वरिष्ठतम', भूयिष्ठतम', 'गर्विष्ठतम', 'कनिष्ठतम' - आदयः प्रयोगाः अपि दृश्यन्ते । परन्तु एतादृशाः प्रयोगाः विरलाः सन्ति, शिष्टप्रयोगमनुसृत्यैव एषाम् प्रयोगः कर्तव्यः ।\nज्ञातव्यम् -\n1. अस्मिन् सूत्रे 'अतिशायेन' इति शब्दः उक्तः अस्ति । वस्तुतः तु अयमार्षप्रयोगः । 'शीङ्' धातोः 'अति' उपसर्गं योजयित्वा तस्य ल्युट्-प्रत्ययं कृत्वा 'अतिशयन' इति शब्दः सिद्ध्यति । अत्र शकारात् परः अकारः अस्ति, न हि आकारः । परन्तु अस्मिन् सूत्रे 'अतिशायन' इति शकारोत्तरम् आकारम् स्वीकृत्य शब्दप्रयोगः क्रियते । अयमाकारः केनापि सूत्रेण न सिद्ध्यति, अतः निपातनेन एव अस्य साधुत्वम् गृह्यते । प्रयोगे तु अस्य शब्दस्य प्रयोगः न कर्तव्यः, अतः विग्रहवाक्येषु 'अतिशय' (most prominent इत्यर्थः) इति शब्दः प्रयुज्यते । यथा - 'एते सर्वे लघवः, अयम् एतेषामतिशयेन लघुः, अतः अयम् लघुतमः लघिष्ठः' वा ।\n2. तमप्-प्रत्यये परे स्त्रीवाचिनः अङ्गस्य <<तसिलादिष्वाकृत्वसुचः>> [[6.3.35]] इत्यनेन पुंवद्भावः भवति । यथा -\nएताः सर्वाः दर्शनीयाः । इयम् एतासामातिशयेन दर्शनीया , अतः इयम् दर्शनीयतमा । अत्र प्रक्रिया इयम् -\nदर्शनीया + तमप्\n→ दर्शनीय + तमप् [पुंवद्भावः]\n→ दर्शनीयतम\n→ दर्शनीयतम + टाप् [स्त्रीत्वे विवक्षिते <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्]\n→ दर्शनीयतमा । [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः]\nपरन्तु ये स्त्रीप्रत्ययान्तशब्दाः ईकारान्ताः (= ङीप् / ङीष् / ङीन्-प्रत्ययान्ताः) सन्ति, तेषां विषये 'तमप्' प्रत्यये परे <<तसिलादिष्वाकृत्वसुचः>> [[6.3.35]] इत्येनन प्राप्तं पुंवद्भावं बाधित्वा <<घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः>> [[6.3.43]] इत्यनेन अङ्गस्य ह्रस्वादेशः भवति । यथा -\n पट्वी + तमप्\n→ पट्वि + तमप् [<<घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः>> [[6.3.43]] इत्यनेन अङ्गस्य ह्रस्वादेशः]\n→ पट्वितम\n→ पट्वितम + टाप् [स्त्रीत्वे विवक्षिते <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्]\n→ पट्वितमा [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः]\nतथा च, ये नदीसंज्ञकाः शब्दाः ङीप्/ङीष्/ङीन्-प्रत्ययान्ताः न सन्ति, तेभ्यः तेषां विषये 'तमप्' प्रत्यये परे पुंवद्भावं बाधित्वा <<नद्याः शेषस्यान्यतरस्याम्>> [[6.3.44]] इत्येनन अङ्गस्य विकल्पेन ह्रस्वादेशः भवति । यथा -\nब्रह्मबन्धू + तमप्\n→ ब्रह्मबन्धू / ब्रह्मबन्धु + तमप्\n→ ब्रह्मबन्धूतम / ब्रह्मबन्धुतम\n→ ब्रह्मबन्धूतम / ब्रह्मबन्धुतम + टाप् [स्त्रीत्वे विवक्षिते <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्]\n→ ब्रह्मबन्धूतमा / ब्रह्मबन्धुतमा [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः]\nविशेषः - <<नद्याः शेषस्यान्यतरस्याम्>> [[6.3.44]] इत्यत्र पाठितेन इत्यनेन वार्त्तिकेन 'लक्ष्मी', 'श्री' एतयोः शब्दयोः विषये अयम् वैकल्पिकः ह्रस्वादेशः निषिध्यते, अतः अत्र दीर्घादेशः नित्यं भवति । यथा - लक्ष्मी + तमप् → लक्ष्मीतमा । श्री + तमप् → श्रीतमा ।\n3. इष्ठन्-प्रत्यये परे स्त्रीवाचिनः अङ्गस्य इत्यनेन वार्त्तिकेन पुंवद्भावः भवति । यथा -\nपट्वी + इष्ठन्\n→ पटु + इष्ठन् [पुंवद्भावः]\n→ पट् + इष्ठन् [<<टेः>> [[6.4.155]] इति टिलोपः]\n→ पटिष्ठ\n→ पटिष्ठ + टाप् [स्त्रीत्वे विवक्षिते <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्]\n→ पटिष्ठा [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः]\n4. 'तरप्' तथा 'तमप्' एतयोः प्रत्यययोः <<तरप्तमपौ घः>> [[1.1.22]] इत्यनेन 'घ' इति संज्ञा भवति ।\n5 यदि द्वयोः एव तुलना अस्ति ('एतौ द्वौ पटू, अयम् एतयोः अतिशयेन पटुः - इति) तर्हि वर्तमानसूत्रम् बाधित्वा <<द्विवचनविभज्योपपदे तरबीयसुनौ>> [[5.3.57]] इत्यनेन 'तरप्' तथा 'ईयसुन्' एतौ प्रत्ययौ भवतः । यथा - एतौ द्वौ पटू, अयम् एतयोः पटुतरः पटीयान् वा ।\n6. यद्यपि अनेन सूत्रेण 'तमप्' तथा 'इष्ठन्' द्वावपि प्रत्ययौ समान-सन्दर्भे उक्तौ स्तः, तथापि <<अजादी गुणवचनादेव>> [[5.3.58]] इत्यनेन इष्ठन्-प्रत्ययस्य प्रयोगः केवलम् गुणवाचकेभ्यः शब्देभ्यः एव नियम्यते । अतः 'अतिशयेन पाचकः' इत्यत्र केवलम् 'तमप्' प्रत्ययं कृत्वा 'पाचकतम' इति शब्दः सिद्ध्यति । 'पाचक' शब्दः गुणवाची नास्ति, अतः अस्मात् शब्दात् 'इष्ठन्' प्रत्ययः न भवति ।\n7. यदि वर्तमानसूत्रेण विहितः तमप् प्रत्ययः 'अद्रव्यप्रकर्षे' विधीयते (the subject of comparison is not a physical entity), तर्हि अस्मात् 'तमप्' प्रत्ययान्तशब्दात् नित्यम् <<किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे>> [[5.4.11]] इत्यनेन नित्यम् 'आम्' प्रत्ययः भवति । यथा - 'एते सर्वे उच्चैः क्रन्दन्ति, अयम् एतेषु अतिशयेन उच्चैः क्रन्दति, अतः अयमुच्चैस्तमाम् क्रन्दति' । अत्र 'उच्चैः' इत्यनेन शब्देन क्रन्दनक्रियायाः प्रकर्षः क्रियते । क्रन्दनक्रिया इति किञ्चन वस्तु न, अतः अत्र 'तमप्' प्रत्ययान्तशब्दात् <<किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे>> [[5.4.11]] इत्यनेन नित्यम् 'आम्' प्रत्ययः भवति, येन 'उच्चैस्तमाम्' इत्येव रूपम् जायते । अस्मिन् विषये अधिकम् जिज्ञासवः <<किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे>> [[5.4.11]] एतम् सूत्रम् पश्यन्तु ।\n" }, "53056": { "sa": "'प्रकर्षेण' इत्यस्मिन् सन्दर्भे तिङन्तात् स्वार्थे 'तमप्' प्रत्ययः भवति । ", "sd": "अनेन सूत्रेण तिङन्तात् तद्धितप्रत्ययविधानम् क्रियते । यद्यपि तद्धितप्रत्ययाः केवलं प्रातिपदिकेभ्यः / सुबन्तेभ्यः विधीयन्ते, तथाप्यत्र निर्देशसामर्थ्यात् 'तमप्' प्रत्ययः तिङन्तात् विहितः अस्ति । यथा -\n1. 'एते सर्वे पचन्ति, परन्तु एषु सर्वेषु देवदत्तः प्रकर्षेण पचति' - अस्मिन् अर्थे 'पचति' इत्यस्मात् तिङन्तात् 'तमप्' प्रत्ययं कृत्वा 'पचतितम' इति कृत्वा अग्रे <<किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे>> [[5.4.11]] इत्यनेन 'आमु' प्रत्ययं कृत्वा 'पचतितमाम्' इति रूपम् सिद्ध्यति । <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यनेन अस्य अव्ययसंज्ञा भवति । यथा - 'देवदत्तः पचतितमामस्ति' इति प्रयोगः क्रियते ।\n2. एते सर्वे जल्पन्ति, परन्तु एतेषु सर्वेषु अपि यज्ञदत्तः प्रकर्षेण जल्पति' - अस्मिन् अर्थे 'जल्पति' इत्यस्मात् तिङन्तात् 'तमप्' प्रत्ययं कृत्वा तस्मात् अग्रे <<किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे>> [[5.4.11]] इत्यनेन 'आमु' प्रत्ययं कृत्वा 'जल्पतितमाम्' इति रूपम् सिद्ध्यति । 'यज्ञदत्तः जल्पतितमाम् अस्ति' इति प्रयोगः अत्र क्रियते ।\nज्ञातव्यम् - अनेन सूत्रेण निर्मिताः शब्दाः <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यनेन अव्ययसंज्ञकाः भवन्ति ।\nस्मर्तव्यम् -\n1. अस्य सूत्रस्य प्रयोगः शिष्टप्रयोगमनुसृत्य एव करणीयः । सर्वेभ्यः तिङन्तेभ्यः अनेन सूत्रेण तमप्-प्रत्ययः न भवति ।\n2. अनेन सूत्रेण केवलम् 'तमप्' प्रत्ययः विधीयते, न हि 'इष्ठन्', यतः <<अजादी गुणवचनादेव>> [[5.3.58]] इत्यनेन इष्ठन्-प्रत्ययस्य प्रयोगः केवलम् गुणवाचकेभ्यः शब्देभ्यः एव नियम्यते ।\n" }, "53057": { "sa": "'द्वयोः एकः अतिशयेन प्रकृष्टः अस्ति' अस्मिन् सन्दर्भे, तथा च केचन पदार्थाः विभज्य 'एते पदार्थाः अन्येभ्यः केभ्यश्चन प्रकृष्टाः सन्ति' इति वक्तव्यमस्ति चेत् तस्मिन् सन्दर्भे प्रातिपदिकात् स्वार्थे तरप्-प्रत्ययः तथा ईयसुँन्-प्रत्ययः भवति । केभ्यश्चन तिङन्तेभ्यः अपि अस्मिन्नेव सन्दर्भे 'तरप्' प्रत्ययः विधीयते । ", "sd": "अनेन सूत्रेण 'अतिशयनम्' अस्मिन् विषये 'तमप्' तथा 'इष्ठन्' एतौ प्रत्ययौ बाधित्वा 'तरप्' तथा 'ईयसुन्' एतौ प्रत्ययौ पाठितौ स्तः । सूत्रस्य आशयः सूत्रस्थानाम् पदानामाधारेण पश्यामः -\n1. अतिशायने - 'अतिशयः / प्रकृष्टः' अस्य निर्देशार्थम् वर्तमानसूत्रस्य प्रयोगः क्रियते ।\n2. द्विवचन - यत्र द्वयोः पदार्थयोः तुलना कर्तव्या अस्ति, तत्रैव अस्य सूत्रस्य प्रयोगः भवति - इति स्पष्टीकर्तुम् 'द्विवचन' शब्दः अत्र स्थापितः अस्ति । व्याख्यानेषु अस्य शब्दस्य अर्थः 'द्वयोः अर्थयोः वचनम्' इति कृतः अस्ति । अत्र 'द्वयोः अर्थयोः' इत्युक्ते 'द्वयोः पदार्थयोः' इति । अत्र व्याकरणविशिष्टा 'द्विवचन' इति संज्ञा नापेक्षते इति स्मर्तव्यम् । अस्य कारणमधः उदाहरणेषु दत्तमस्ति ।\n3. उपपदम् - 'समीपे उच्चारितम् पदम्' अस्मिन् अर्थे अत्र 'उपपद' शब्दस्य प्रयोगः क्रियते । अत्रापि व्याकरणविशिष्टा उपपद-संज्ञा नापेक्षते, यतः तद्धिताधिकारे तस्य न किञ्चन प्रयोजनम् । 'द्विवचन'वाचकम् पदयम् यत्र 'अतिशयेन' इत्यस्य शब्दस्य उपपदरूपेण निर्दिश्यते, तत्र तुलनावाचकशब्दात् 'ईयसुँन्' तथा 'तरप्' एतौ प्रत्ययौ भवतः - इति अस्य आशयः ।\n4. विभज्य - विभक्तुम् योग्यम् तत् विभज्यम् । अनेन शब्देन तरप् / ईयसुन्- प्रत्यययोः अन्यत् एकम् प्रयोजनमुच्यते । यत्र कस्यचन गणस्य अन्यस्मात् गणात् विभज्य प्रकृष्टत्वम् दर्श्यते, तत्रापि एतयोः प्रत्यययोः प्रयोगः भवति ।\n5. तिङः - केभ्यश्चन तिङन्तेभ्यः शब्देभ्यः अपि 'द्वयोः एकः प्रकृष्टः' अस्मिन् अर्थे एतौ प्रत्ययौ भवतः ।\nअतः अस्य सूत्रस्य अर्थः एतादृशम् भवति -\n[अ] द्विवचनोपपदे द्वयोः पदार्थयोः तुलनायाम् प्राप्तायाम् यत्र कश्चन शब्दः 'अतिशयेन' इत्यस्य उपपदरूपेण विद्यते, तत्र तरप्/ईयसुन्-प्रत्ययस्य प्रयोगः भवति ।\n[आ] विभज्योपपदे - यत्र कश्चन गणः अन्यस्मात् गणात् विभज्य निर्दिष्टव्यः अस्ति, तत्रापि तरप्/ईयसुन्-प्रत्ययस्य प्रयोगः भवति ।\n[इ] तिङः - केभ्यश्चन तिङन्तेभ्यः शब्देभ्यः अपि 'द्वयोः एकः प्रकृष्टः' अस्मिन् अर्थे 'तरप्' प्रत्ययः भवति ।\nकानिचन उदाहरणानि पश्यामः यैः अयम् विषयः स्पष्टः स्यात् ।\n[अ] 'द्विवचनोपपदे' इत्यस्य उदाहरणानि \n1. 'रामकृष्णौ द्वावपि गुरू, रामः एतयोः अतिशयेन गुरुः' इति वाक्यम् स्वीकुर्मः । अत्र द्वयोः पदार्थयोः (= रामः, कृष्णः) तुलना क्रियते, अतः अत्र 'द्विवचनम्' इति सन्दर्भः विद्यते । अपि च, 'द्वौ अपि गुरू स्तः, परन्तु तयोर्मध्ये रामः अतिशयेन गुरुः अस्ति' इत्यत्र 'अतिशयेन' इत्यस्य उपपदरूपेण 'रामः' इति पदम् स्वीक्रियते ; अतः अत्र 'उपपदम्' इति अपि सन्दर्भः विधीयते । अस्यां स्थितौ अस्य उपपदस्य (= रामस्य) निर्देशार्थम् वर्तमानसूत्रेण 'गुरु' शब्दात् 'ईयसुन्' तथा 'तरप्' एतौ प्रत्ययौ भवतः -\n(अ) गुरु + तरप् → गुरुतर ।\n(आ) गुरु + ईयसुँन्\n→ गर् + ईयस् [<<प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिवृन्दाः>> [[6.4.157]] इति 'गुरु'शब्दस्य 'गर' आदेशः]\n→ गरीयस्\nयथा - रामकृष्णयोः रामः गुरुतरः गरीयान् वा ।\n2. 'पाणिपादम् कोमलम् , तस्य पाणी अतिशयेन कोमलौ' (Hands and legs - both are delicate, but the hands are more delicate than the legs) - इति वाक्यम् स्वीकुर्मः । अत्र 'पाणि' तथा 'पाद' एतौ द्वौ पदार्थौ स्तः । एतयोर्मध्ये पाणी अतिशयेन कोमलौ स्तः एतत् निर्देशः अत्र इष्यते । 'अतिशयेन' इत्यस्य उपपदरूपेण अत्र 'तस्य' इति शब्दः स्वीक्रियते । अस्यां स्थितौ वर्तमानसूत्रेण 'कोमल' शब्दात् 'तरप् / ईयसुन्' प्रत्ययं कृत्वा 'पाणिपादस्य पाणी कोमलतरौ / कोमलीयांसौ' इति वाक्यम् सिद्ध्यति ।\nविशेषः - अस्मिन् उदाहरणे 'अस्य' इति शब्दः वस्तुतः द्वयोः पदार्थयोः निर्देशं करोति (= पाणिः तथा पादम्) परन्तु अस्य प्रयोगः एकवचने कृतः अस्ति यतः 'पाणिपादम्' इति शब्दः अपि एकवचने प्रयुज्यते । अस्मात् उदाहरणात् एतत् स्पष्टम् स्यात्, यत् अस्मिन् सूत्रे प्रयुक्तः 'द्विवचन' अयम् शब्दः व्याकरणविशिष्टस्य द्विवचनस्य निर्देशं न करोति, अपितु 'द्वौ पदार्थौ' अस्य निर्देशं करोति ।\n3.'परुत् (= द्वौ वर्षौ पूर्वम्) रामः क्रीडायाम् पटुः आसीत्, ऐषमः (= पूर्वस्मिन् वर्षे) अपि तस्यामेव क्रीडायाम् सः अतिशयेन पटुत्वम् दर्शितवान्' - इति वाक्यं स्वीकुर्मः । Ram was expert (in a certain game) two years ago, and his expertise enhanced last year - इत्याशयः । अत्र 'ऐषमः' इति शब्दः 'अतिशयेन' इत्यस्य उपपदरूपेण स्थापितः अस्ति । अस्यां स्थितौ अत्र 'रामः ऐषमः पटुतरः / पटीयान्' इति प्रयोग भवति ।\nविशेषः - अत्रापि व्याकरणविशिष्टम् द्विवचनम् न दृश्यते इति ज्ञेयम् ।\n[आ] 'विभज्य उपपदे' इत्यस्य उदाहरणानि \n4. 'मथुरानगरवासिनः (= माथुराः) पाटलिपुत्रनगरवासिभ्यः (= पाटलिपुत्रकेभ्यः) अपेक्षया अतिशयेन पटवः सन्ति' - इति वाक्यम् स्वीकुर्मः । The residents of Mathura are more skilled than the residents of Pataliputra - इत्याशयः । अत्र वस्तुतः 'अनेके जनाः (= माथुराः) अन्येषामनेकानामपेक्षया (= पाटलिपुत्रकानामपेक्षया) अतिशयेन पटवः सन्ति' - इति अर्थः स्पष्टीभवति । इत्युक्ते, अत्र अनेके पदार्थाः निर्दिश्यन्ते, न केवलम् द्वौ (Many people are being compared with many other people) । अस्याम् स्थितौ यद्यपि 'द्विवचनम्' न विधीयते, तथाप्यत्र मथुरायाः जनाः विभक्तरूपेण निर्दिष्टाः सन्ति (The people of Mathura are being separated out from a bigger group that contains people of Mathura as well as that of Pataliputra), तथा च 'अतिशयेन' अस्य उपपदरूपेण 'पाटलिपुत्रकेभ्यः' इति पदम् प्रयुक्तमस्ति । अतः अत्रापि ईयसुन् / तरप्-प्रत्यययोः प्रयोगः भवति - माथुराः पाटलिपुत्रकेभ्यः पटुतराः / पटीयांसः ।\nविशेषः -\n(अ) अस्मिन् विषये तत्त्वबोधिन्यामुच्यते - विभक्तव्यः पृथक्कर्तव्यः, स चातिशय्यमानः। तस्य ह्युपपदत्वम्, न अतिशयितुः ; ततः प्रत्ययविधानात्।इत्युक्ते, 'यस्मात् विभाजनम् दर्श्यते, तस्य निर्देशः उपपदरूपेण क्रियते, न हि यस्य विभाजनम् दर्श्यते, तस्य' इति आशयः । सामान्यभाषायाम्, 'तरप्' / 'ईयसुँन्' प्रत्ययान्तशब्देन यस्य निर्देशः न भवति, तस्य निर्देशः उपपदरूपेण भवति । अस्मिन् उदाहरणे 'माथुराः' इत्यस्य निर्देशः 'पटुतराः' इत्यनेन भवति, अतः अत्र 'माथुराः' इति उपपदरूपेण न गृह्यते, अपि तु 'पाटलिपुत्रकाः' इति गृह्यते ।\n(आ) उपरिनिर्दिष्टे उदाहरणे 'द्विवचनस्य' आरोपणम् भवितुमर्हति वा - इति प्रश्नः जायते । 'माथुराः' इति एकः गणः, 'पाटलिपुत्रकाः' इति च अपरः गणः, अतः तयोर्मध्ये तुलनां कृत्वा 'द्विवचन' इत्यस्यैव साहाय्येन अत्र इयसुन् / तरप् प्रत्ययः भवितुमर्हति - तर्हि 'विभज्य' इत्यस्य किम् प्रयोजनम् - इति आशयः । अस्य स्पष्टीकरणार्थम् न्यासकारः वदति - नैतदस्ति; यद्यप्यत्र राश्यपेक्षा द्व्यर्थता अस्ति, तथापि नासौ शब्देनोपादीयते। किं तर्हि? अवयवभेदः। अत एव माथुराः पाटलिपुत्रकेभ्य इति बहुवचनम् । इत्युक्ते, यद्यप्यत्र द्वौ गणौ स्तः, तथापि 'माथुराः' इत्यनेन अनेके जनाः (= पदार्थाः) निर्दिश्यन्ते, अतः अत्र द्विवचनम् न स्वीकर्तव्यम् । We are effectively saying that people of one group are expert than people of another. Hence, the eventual expertise is being discussed for the 'members of the group', rather than the 'group' itself. As a result, this cannot be considered as द्विवचन । अतः अस्यां स्थितौ 'विभज्य' इत्यस्य आधारेणैव तरप्-प्रत्ययः भवति, न हि 'द्विवचन' इत्यस्य आधारेण । यदि वर्तमानसूत्रे 'विभज्य' इति न उच्येत, तर्हि अत्र तरप्-प्रत्ययस्य प्रसक्तिः न स्यात् ।\n5. उदीच्याः (= उत्तरदिशि विद्यमानाः जनाः) प्राच्यानाम् (= पूर्वदिशि विद्यमानानां जनानाम्) अपेक्षया अधिकरूपेण आढ्याः (= धनिकाः) सन्ति - इति चिन्तयामः । अत्रापि उदीच्याः प्राच्यानामपेक्षया विभज्यरूपेण निर्दिष्टाः सन्ति, तथा च अत्र 'प्राच्यानाम्' इति पदम् 'अतिशयेन' इत्यस्य उपपदरूपेण अपि प्रयुज्यते । अतः यद्यप्यत्र द्विवचनम् न विद्यते, तथाप्यत्र तरप्-प्रत्ययस्य प्रयोगः भवति - उदीच्याः प्राच्येभ्यः आढ्यतराः । ('आढ्य'-शब्दः गुणवाची नास्ति अतः अत्र ईयसुन्-प्रत्ययस्य प्रसक्तिः नास्ति।)\n6. साङ्काश्यकेभ्यः पाटलिपुत्रकेभ्यश्च माथुराः अतिशयेन सुकुमाराः' इति वाक्यम् स्वीकुर्मः । अत्र साङ्काश्यनगरस्थितानाम् पाटलिपुत्रनगरस्थितानां च अपेक्षया 'मथुरावासिनः' अधिकरूपेण सुकुमाराः सन्ति - इत निर्देशः कृतः अस्ति । अत्रापि मथुरावासिनः अन्येभ्यः विभज्य निर्दिश्यन्ते, तथा च 'साङ्काश्यकेभ्यः पाटलिपुत्रकेभ्यश्च' अयम् वाक्यखण्डः 'अतिशयेन' अस्य उपपदरूपेण प्रयुज्यते । अतः अस्यां स्थितौ 'साङ्काश्यकेभ्यः पाटलिपुत्रकेभ्यश्च माथुराः सुकुमारतराः' इति प्रयोगः भवति ।\nविशेषः - अत्र गणानामपि बहुवचनमस्ति, तथा च येषाम् तुलना क्रियते तेषामपि बहुवचनमस्ति । अतः अत्रापि 'विभज्योपपदे' इत्यस्य साहाय्येनैव तरप्-प्रत्ययः भवति ।\n[इ] 'तिङः' इत्यस्य उदाहरणद्वम् \n7.'एतौ द्वौ पचतः । अयम् एतयोः अतिशयेन पचति' - इति वाक्यम् स्वीकुर्मः । अत्र 'एतौ' इति पदम् 'अतिशयेन' इत्यस्य उपपदरूपेण विधीयते । तथा च, अत्र द्वयोः पदार्थयोः (= द्विवचनस्य) निर्देशः अपि अस्ति । अस्यां स्थितौ तिङन्तेभ्यः अपि प्रत्ययविधानम् भवति । यथा, अत्र 'पचति'शब्दात् स्वार्थे 'तरप्' इति प्रत्ययः भवति, तस्मात् च अग्रे <<किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे>> [[5.4.11]] इत्यनेन 'आमु' प्रत्ययं कृत्वा 'पचतितराम्' इति रूपम् सिद्ध्यति ।<<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यनेन अस्य अव्ययसंज्ञा भवति । यथा - 'अयम् पचतितराम्' इति प्रयोगः क्रियते ।\nविशेषः -\nअ. तिङन्तात् केवलम् 'तरप्' इत्येव प्रत्ययः भवति, न हि 'ईयसुँन्' इति, यतः <<अजादी गुणवचनादेव>> [[5.3.58]] इत्यनेन 'ईयसुँन्'प्रत्ययस्य प्रयोगः केवलम् गुणवाचिभ्यः शब्देभ्यः एव भवति ।\nआ. सर्वेभ्यः तिङन्तेभ्यः 'तरप्' प्रत्ययः भवितुम् न अर्हति । शिष्टप्रयोगं दृष्ट्वैव तिङन्तेभ्यः 'तरप्' प्रत्ययस्य प्रयोगः कर्तव्यः ।\n8. माथुराः पाटलिपुत्रकानामपेक्षया अतिशयेन गायन्ति ।The people of mathura sing more profoundly than those of pataliputra. अस्यां स्थितौ 'विभज्योपपदे' इत्यस्य आधारेण 'माथुराः गायन्तितराम् सन्ति' इति प्रयोगः क्रियते ।\nअनेन प्रकारेण 'द्विवचनोपपदे', 'विभज्योपपदे' तथा 'तिङः' एतेषामन्यानि अपि उदाहरणानि ज्ञेयानि ।\nज्ञातव्यम् -\n1. स्त्रीत्वे विवक्षिते तरप्-प्रत्ययान्तशब्दाः <<अजाद्यतष्टाप्>> [[4.1.4]] इत्यनेन टाप्-प्रत्ययं स्वीकुर्वन्ति । यथा - गुरुतरा । ईयसुन्-प्रत्ययान्तशब्दाः तु <<उगितश्च>> [[4.1.6]] इत्यनेन ङीप्-प्रत्ययं स्वीकुर्वन्ति । यथा - गरीयसी ।\n2. तरप्-प्रत्यये परे स्त्रीवाचिनः अङ्गस्य <<तसिलादिष्वाकृत्वसुचः>> [[6.3.35]] इत्यनेन पुंवद्भावः भवति । यथा -\nएते द्वे दर्शनीये । इयम् एतयोः आतिशयेन दर्शनीया , अतः इयम् दर्शनीयतरा । अत्र प्रक्रिया इयम् -\nदर्शनीया + तरप्\n→ दर्शनीय + तरप् [पुंवद्भावः]\n→ दर्शनीयतर\n→ दर्शनीयतर + टाप् [स्त्रीत्वे विवक्षिते <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्]\n→ दर्शनीयतरा । [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः]\nपरन्तु ये स्त्रीप्रत्ययान्तशब्दाः ईकारान्ताः (= ङीप् / ङीष् / ङीन्-प्रत्ययान्ताः) सन्ति, तेषां विषये 'तरप्' प्रत्यये परे <<तसिलादिष्वाकृत्वसुचः>> [[6.3.35]] इत्येनन प्राप्तं पुंवद्भावं बाधित्वा <<घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः>> [[6.3.43]] इत्यनेन अङ्गस्य ह्रस्वादेशः भवति । यथा -\nपट्वी + तरप् [पुंवद्भावः]\n→ पट्वि + तरप् [<<घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः>> [[6.3.43]] इत्यनेन अङ्गस्य ह्रस्वादेशः]\n→ पट्वितर\n→ पट्वितर + टाप् [स्त्रीत्वे विवक्षिते <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्]\n→ पट्वितरा [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः]\n3. इयसुन्-प्रत्यये परे स्त्रीवाचिनः अङ्गस्य इत्यनेन वार्त्तिकेन पुंवद्भावः भवति । यथा -\nपट्वी + ईयसुन्\n→ पटु + ईयस् [पुंवद्भावः]\n→ पट् + ईयस् [<<टेः>> [[6.4.155]] इति टिलोपः]\n→ पटीयस्\n→ पटीयस् + ङीप् <<उगितश्च>> [[4.1.6]] इत्यनेन ङीप्]\n→ पटीयसी\n4. अनेन सूत्रेण उक्तौ 'तरप्' तथा 'ईयसुन्' प्रत्ययौ <<अतिशायने तमप्-इष्ठनौ>> [[5.3.35]] इत्यनेन विहितयोः 'तमप्' तथा 'इष्ठन्' प्रत्यययोः अपवादरूपेण विधीयेते ।\n5. 'तरप्' तथा 'तमप्' एतयोः प्रत्यययोः <<तरप्तमपौ घः>> [[1.1.22]] इत्यनेन 'घ' इति संज्ञा भवति ।\n6. यद्यपि अनेन सूत्रेण 'तरप्' तथा 'ईयसुँन्' द्वावपि प्रत्ययौ समान-सन्दर्भे उक्तौ स्तः, तथापि <<अजादी गुणवचनादेव>> [[5.3.58]] इत्यनेन ईयसुँन्-प्रत्ययस्य प्रयोगः केवलम् गुणवाचकेभ्यः शब्देभ्यः एव नियम्यते । अतः 'द्वयोः अयमतिशयेन पाचकः' इत्यत्र केवलम् 'तरप्' प्रत्ययं कृत्वा 'पाचकतर' इति शब्दः सिद्ध्यति । 'पाचक' शब्दः गुणवाची नास्ति, अतः अस्मात् शब्दात् 'ईयसुँन्' प्रत्ययः न भवति ।\n7. यदि वर्तमानसूत्रेण विहितः तरप् प्रत्ययः 'अद्रव्यप्रकर्षे' विधीयते (the subject of comparison is not a physical entity), तर्हि अस्मात् 'तरप्' प्रत्ययान्तशब्दात् नित्यम् <<किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे>> [[5.4.11]] इत्यनेन नित्यम् 'आम्' प्रत्ययः भवति । यथा - 'एतौ द्वौ उच्चैः क्रन्दतः, अयम् एतयोः अतिशयेन उच्चैः क्रन्दति, अतः अयमुच्चैस्तराम् क्रन्दति' । अत्र 'उच्चैः' इत्यनेन शब्देन क्रन्दनक्रियायाः प्रकर्षः क्रियते । क्रन्दनक्रिया इति किञ्चन वस्तु न, अतः अत्र 'तरप्' प्रत्ययान्तशब्दात् <<किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे>> [[5.4.11]] इत्यनेन नित्यम् 'आम्' प्रत्ययः भवति, येन 'उच्चैस्तराम्' इत्येव रूपम् जायते । अस्मिन् विषये अधिकम् जिज्ञासवः <<किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे>> [[5.4.11]] एतम् सूत्रम् पश्यन्तु ।\n" }, "53058": { "sa": "'अतिशय' अस्मिन् सन्दर्भे विहितौ 'इष्ठन्' तथा 'ईयसुन्' एतौ अजादिप्रत्ययौ केवलम् गुणवाचिभ्यः शब्देभ्यः एव विधीयन्ते । ", "sd": "<<अतिशायने तमबिष्ठनौ>> [[5.3.55]] तथा <<द्विवचनविभज्योपपदे तरबीयसुनौ>> [[5.3.57]] एतयोः सूत्रयोः 'अतिशय' अस्मिन् सन्दर्भे 'तमप्', 'इष्ठन्', 'तरप्', 'इयसुन्' एतौ प्रत्ययौ विधीयेते । एतयोः द्वौ प्रत्ययौ (= इष्ठन्, ईयसुँन्) अजादी स्तः । एतयोः प्रयोगः वर्तमानसूत्रेण नियम्यते । केवलम् गुणवाचिनः ये शब्दाः (= words indicating a quality), तेभ्यः एव एतयोः प्रत्यययोः प्रयोगः भवति । (तरप्-तमप् प्रत्ययौ तु गुणवाचिभ्यः शब्देभ्यः अपि विधीयन्ते, अगुणवाचिभ्यः शब्देभ्यः चापि विधीयन्ते इति स्मर्तव्यम्) ।\nयथा - 'शुक्ल', 'कृष्ण', 'लघु', 'गुरु' एतादृशेभ्यः गुणवाचकेभ्यः शब्देभ्यः 'इष्ठन्' तथा 'ईयसुँन्' प्रत्ययौ विधीयेते -\n1. एते सर्वे शुक्लाः, अयम् एतेषामतिशयेन शुक्लः, अतः अयम् शुक्लिष्ठः शुक्लतमः वा ।\n2. एतौ द्वावपि कृष्णौ, अयम् एतयोः अतिशयेन कृष्णः, अतः अयम् कृष्णियान् कृष्णतरः वा ।\n3. एते सर्वे गुरवः, अयम् एतेषामतिशयेन गुरुः, अतः अयम् गरिष्ठः गुरुतमः वा।\n4. एतौ द्वावपि लघू, अयम् एयोः अतिशयेन लघुः, अतः अयम् लघियान् लघुतरः वा ।\nपरन्तु ये शब्दाः गुणवाचिनः न सन्ति, तेभ्यः एतयोः प्रत्यययोः प्रयोगः न भवति, अतः तेभ्यः केवलम् 'तरप्' तथा 'तमप्' एतौ प्रत्ययौ एव भवतः । यथा -\n1. एते सर्वे पाचकाः । अयम् एतेषामतिशयेन पाचकः, अतः अयम् पाचकतमः ।\n2. एतौ द्वौ लेखकौ । अयम् एतयोः अतिशयेन लेखकः, अतः अयम् लेखकतरः ।\nविशेषः -\n1. अस्मिन् सूत्रे प्रयुक्तः 'एव' इति शब्दः 'गुणवचनात्' इत्यनेन सह अन्वेतव्यः, न हि 'अजादी' इत्यनेन सह । इत्युक्ते, 'अजादिः प्रत्ययः गुणवचनात् एव भवति, अन्येभ्यः शब्देभ्यः न' इति अस्य सूत्रस्य आशयः अस्ति, न हि 'अजादिः एव गुणवचनेभ्यः भवति, अन्यः न' इति । अतः गुणवाचिभ्यः शब्देभ्यः तु चत्वारः अपि प्रत्ययाः विधीयन्ते ।\n2. <<तिङश्च>> [[5.3.56]] तथा च <<द्विवचनविभज्योपपदे तरबीयसुनौ>> [[5.3.57]] एताभ्यां सूत्राभ्याम् तिङन्तेभ्यः 'तमप्' तथा 'तरप्' एतौ प्रत्ययौ एव भवतः । यद्यपि एताभ्यां सूत्राभ्याम् 'ईयसुँन्' तथा 'ईष्ठन्' एतयोः अपि विधानं क्रियते, तथापि तिङन्तशब्दाः 'गुणवाचकाः' न सन्ति, अतः तेभ्यः एतौ अजादीप्रत्ययौ नैव विधीयेते ।\n3. केचन अगुणवाचिनः शब्दाः अपि विधानसामर्थ्यात् 'ईयसुँन्' तथा 'इष्ठन्' एतौ अजादी प्रत्ययौ स्वीकुरुतः ।एतेषां विषये <<तुश्छन्दसि>> [[5.3.59]] इत्यस्मात् <<विन्मतोर्लुक्>> [[5.3.65]] एतेषु सूत्रेषु अधिकमुक्तमस्ति ।\n " }, "53059": { "sa": "वेदेषु 'तृच्' तथा 'तृन्' प्रत्ययान्तशब्देभ्यः 'अतिशय' अस्मिन् सन्दर्भे अजादिप्रत्ययौ कृतौ दृश्येते । ", "sd": "<<अतिशायने तमबिष्ठनौ>> [[5.3.55]] तथा <<द्विवचनविभज्योपपदे तरबीयसुनौ>> [[5.3.57]] एतयोः सूत्रयोः 'अतिशय' अस्मिन् सन्दर्भे 'तमप्', 'इष्ठन्', 'तरप्', 'इयसुन्' एतौ प्रत्ययौ विधीयेते । एतयोः द्वौ अजादी प्रत्ययौ (= इष्ठन्, ईयसुँन्) <<अजादी गुणवचनादेव>> [[5.3.58]] इत्यनेन गुणवाचिभ्यः शब्देभ्यः एव भवितुमर्हन्ति, अन्येभ्यः न । तृच्/तृन्-प्रत्ययान्तशब्दाः (यथा - कर्ता, धर्ता, पठिता) गुणवाचिनः न सन्ति, अतः एतेभ्यः एतौ अजादी प्रत्ययौ वस्तुतः न भवतः । परन्तु वेदेषु एतौ अजादी प्रत्ययौ तृच्/तृन्-प्रत्ययान्तशब्देभ्यः अपि कृतौ दृश्येते । एतादृशानाम् प्रयोगानाम् साधुत्वबोधनार्थम् एव अस्य सूत्रस्य निर्माणम् कृतमस्ति ।\nविशेषः - 'अस्मिन् सूत्रे 'तुः' इति निर्दिश्यते । 'तृ' इत्यस्य इदम् पञ्चम्येकवचनम् । 'तृ' इत्यनेन अस्मिन् सूत्रे 'तृच्' तथा 'तृन्' एतयोः प्रत्ययोः युगपद्ग्रहणम् भवति । इत्युक्ते, 'तृच्' तथा 'तृन्' प्रत्ययान्तशब्दानाम् निर्देशः 'तुः' इत्यनेन अत्र क्रियते ।\nयथा - ऋग्वेदे 7.97.7 - बृहस्पतिः स स्वावेश ऋष्वः पुरू सखिभ्य आसुतिं करिष्ठः ।\nअत्र ' करिष्ठ' इति शब्दः 'कर्तृ' इत्यस्मात् 'इष्ठन्' प्रत्यये कृते सिद्ध्यति । प्रक्रिया इयम् -\nकर्तृ + इष्ठन्\n→ कर् + इष्ठ [<<तुरिष्ठेमेयस्सु>> [[6.4.154]] इत्यनेन 'तृ' इत्यस्य लोपः]\n→ करिष्ठ\n" }, "53060": { "sa": "'अतिशय' अस्मिन् सन्दर्भे 'प्रशस्य' शब्दस्य अजाद्योः प्रत्यययोः परयोः 'श्र' इति आदेशः भवति । ", "sd": "'प्रशस्य' एतत् 'प्र + शस्' इत्यस्य क्यप्-प्रत्ययान्तरूपम् । 'प्रशंसनमर्हति' / 'प्रशंसां अर्हति' इति सः प्रशस्यः । The one to be praised / congratulated इत्याशयः । अस्मात् शब्दात् 'अतिशय' अस्मिन् सन्दर्भे <<अतिशायने तमबिष्ठनौ>> [[5.3.55]] इत्यनेन 'इष्ठन्' तथा <<द्विवचनविभज्योपपदे तरबीयसुनौ>> [[5.3.57]] इत्यनेन 'ईयसुँन्' एतौ द्वौ अजादिप्रत्ययौ विधीयेते । एतयोः प्रत्यययोः परयोः प्रशस्य'शब्दस्य 'श्र' इति आदेशः भवति । यथा -\n1. एते सर्वे प्रशस्याः । अयम् एतेषामतिशयेन प्रशस्यः, अतः अयम् 'श्रेष्ठः' । प्रक्रिया इयम् -\nप्रशस्य + इष्ठन्\nश्र + इष्ठ [वर्तमानसूत्रेण 'प्रशस्य' शब्दस्य 'श्र' आदेशः]\n→ श्रेष्ठ [<<टेः>> [[6.4.155]] इत्यनेन टिलोेपे प्राप्ते <<प्रकृत्यैकाच्>> [[6.4.163]] इति निषेधः । अतः <<आद्गुणः>> [[6.1.87]] इति गुण-एकादेशः]\n2. एतौ द्वौ प्रशस्यौ । अयम् एतयोः अतिशयेन प्रशस्यः, अतः अयम् श्रेयान् । प्रक्रिया इयम् -\nप्रशस्य + ईयसुँन्\n→ श्र + ईयस् [वर्तमानसूत्रेण 'प्रशस्य' शब्दस्य 'श्र' आदेशः]\n→ श्रेयस् [<<टेः>> [[6.4.155]] इत्यनेन टिलोेपे प्राप्ते <<प्रकृत्यैकाच्>> [[6.4.163]] इति निषेधः । अतः <<आद्गुणः>> [[6.1.87]] इति गुण-एकादेशः]\nअस्य प्रथमैकवचने <<उगिदचां सर्वनामस्थानेऽधातोः>> [[7.1.70]] इति नुमागमे कृते 'श्रेयान्' इति रूपम् सिद्ध्यति ।\nविशेषः - <<ज्य च>> [[5.3.61]] इत्यनेन अग्रिमसूत्रेण 'प्रशस्य' शब्दस्य अजादिप्रत्यययोः परयोः 'ज्य' इत्यपि आदेशः भवति ।\nज्ञातव्यम् - 'प्रशस्य' शब्दः वस्तुतः गुणवाची नास्ति, अतः अस्मात् शब्दात् 'अतिशय' अस्मिन् सन्दर्भे <<अतिशायने तमबिष्ठनौ>> [[5.3.55]] तथा <<द्विवचनविभज्योपपदे तरबीयसुनौ>> [[5.3.57]] इत्यनयोः सूत्रयोः 'इष्ठन्', 'तमप्', ईयसुँन्', 'तरप्' एतेषु चतुर्षु प्रत्ययेषु प्राप्तेषु <<अजादी गुणवचनादेव>> [[5.3.58]] इत्यनेन सूत्रेण 'इष्ठन्' तथा 'ईयसुँन्' एतौ अजादिप्रत्ययौ वस्तुतः नियम्येते (= न प्रयुज्येते) । परन्तु वर्तमानसूत्रेण अजादिप्रत्यययोः परयोः एव 'प्रशस्य' शब्दस्य 'श्र' आदेशः उक्तः अस्ति । अतः विधानसामर्थ्यात् 'प्रशस्य'शब्दात् अपि अजादी प्रत्ययौ भवतः एव । " }, "53061": { "sa": "'अतिशय' अस्मिन् सन्दर्भे 'प्रशस्य' शब्दस्य अजाद्योः प्रत्यययोः परयोः 'ज्य' इति आदेशः भवति ।", "sd": "'प्रशस्य' एतत् 'प्र + शस्' इत्यस्य क्यप्-प्रत्ययान्तरूपम् । 'प्रशंसनमर्हति' / 'प्रशंसां अर्हति' इति सः प्रशस्यः । The one to be praised / congratulated इत्याशयः । अस्मात् शब्दात् 'अतिशय' अस्मिन् सन्दर्भे <<अतिशायने तमबिष्ठनौ>> [[5.3.55]] इत्यनेन 'इष्ठन्' तथा <<द्विवचनविभज्योपपदे तरबीयसुनौ>> [[5.3.57]] इत्यनेन 'ईयसुँन्' एतौ द्वौ अजादिप्रत्ययौ स्वार्थे विधीयेते । एतयोः प्रत्यययोः परयोः प्रशस्य'शब्दस्य <<प्रशस्यस्य श्रः>> [[5.3.60]] इत्यनेन 'श्र' आदेशे प्राप्ते पक्षे वर्तमानसूत्रेण 'ज्य' आदेशः अपि भवति । यथा -\n1. एते सर्वे प्रशस्याः । अयम् एतेषामतिशयेन प्रशस्यः, अतः अयम् 'ज्येष्ठः' । प्रक्रिया इयम् -\nप्रशस्य + इष्ठन्\nज्य + इष्ठन् [वर्तमानसूत्रेण 'प्रशस्य' शब्दस्य 'ज्य' आदेशः]\n→ ज्येष्ठ [<<यस्येति च>> [[6.4.148]] इत्यनेन अकारलोपे प्राप्ते ; तं बाधित्वा <<टेः>> [[6.4.155]] इत्यनेन टिलोपे प्राप्ते ; <<प्रकृत्यैकाच्>> [[6.4.163]] इत्यनेन अङ्गस्य प्रकृतिभावः विधीयते । अग्रे <<आद्गुणः>> [[6.1.87]] इति गुण-एकादेशं कृत्वा रूपं सिद्ध्यति ।]\n2. एतौ द्वौ प्रशस्यौ । अयम् एतयोः अतिशयेन प्रशस्यः, अतः अयम् ज्यायान् । प्रक्रिया इयम् -\nप्रशस्य + ईयसुँन्\n→ ज्य + ईयस् [वर्तमानसूत्रेण 'प्रशस्य' शब्दस्य 'ज्य' आदेशः]\n→ ज्य + आयस् [<<ज्यादादीयसः>> [[6.4.160]] इति ईकारस्य आकारः]\n→ ज्यायस् [<<यस्येति च>> [[6.4.148]] इत्यनेन अकारलोपे प्राप्ते ; तं बाधित्वा <<टेः>> [[6.4.155]] इत्यनेन टिलोपे प्राप्ते ; <<प्रकृत्यैकाच्>> [[6.4.163]] इत्यनेन अङ्गस्य प्रकृतिभावः विधीयते । अग्रे <<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घं कृत्वा रूपं सिद्ध्यति ।]\nअस्य प्रथमैकवचने <<उगिदचां सर्वनामस्थानेऽधातोः>> [[7.1.70]] इति नुमागमे कृते 'ज्यायान्' इति रूपम् सिद्ध्यति ।\nपक्षे <<प्रशस्यस्य श्रः>> [[5.3.60]] इत्यनेन 'श्र' आदेशे कृते 'श्रेष्ठ / श्रेयस्' एते प्रातिपदिके अपि सिद्ध्यतः ।\nज्ञातव्यम् -\n1. 'प्रशस्य' शब्दः वस्तुतः गुणवाची नास्ति, अतः अस्मात् शब्दात् 'अतिशय' अस्मिन् सन्दर्भे <<अतिशायने तमबिष्ठनौ>> [[5.3.55]] तथा <<द्विवचनविभज्योपपदे तरबीयसुनौ>> [[5.3.57]] इत्यनयोः सूत्रयोः 'इष्ठन्', 'तमप्', ईयसुँन्', 'तरप्' एतेषु चतुर्षु प्रत्ययेषु प्राप्तेषु <<अजादी गुणवचनादेव>> [[5.3.58]] इत्यनेन सूत्रेण 'इष्ठन्' तथा 'ईयसुँन्' एतौ अजादिप्रत्ययौ वस्तुतः नियम्येते (= न प्रयुज्येते) । परन्तु वर्तमानसूत्रेण अजादिप्रत्यययोः परयोः एव 'प्रशस्य' शब्दस्य 'ज्य आदेशः उक्तः अस्ति । अतः विधानसामर्थ्यात् 'प्रशस्य'शब्दात् अपि अजादी प्रत्ययौ भवतः एव ।\n2. वस्तुतः 'प्रशस्यस्य श्रः ज्यः च' इति एकम् सूत्रमपि भवितुमर्हति । परन्तु तादृशं क्रियते चेत् 'इष्ठन्' प्रत्यये परे 'श्रः' तथा 'ईयसुँन' प्रत्यये परे 'ज्य' इति आदेशः भवेत् वा - इति संशयः उपपद्येत । तथा च, अग्रिमसूत्रे <<वृद्धस्य च>> [[5.3.62]] इत्यत्र केवलम् 'ज्य' इत्यस्यैव अनुवृत्तिः इष्यते, न हि 'श्रः' इत्यस्य । अतएव अत्र आचार्यः योगविभागं कृत्वा द्वे सूत्रे निर्माति । " }, "53062": { "sa": "'अतिशय' अस्मिन् सन्दर्भे 'वृद्ध' शब्दस्य अजाद्योः प्रत्यययोः परयोः 'ज्य' इति आदेशः भवति ।", "sd": "'वृद्ध' (= old / grown up) इत्यस्मात् शब्दात् 'अतिशय' अस्मिन् सन्दर्भे अतिशायने <<तमबिष्ठनौ>> [[5.3.55]] इत्यनेन 'इष्ठन्' तथा <<द्विवचनविभज्योपपदे तरबीयसुनौ>> [[5.3.57]] इत्यनेन 'ईयसुँन्' एतौ द्वौ अजादिप्रत्ययौ विधीयेते । एतयोः प्रत्यययोः परयोः 'वृद्ध'शब्दस्य 'ज्य' इति आदेशः भवति । यथा -\n1. एते सर्वे वृद्धाः । अयम् एतेषामतिशयेन वृद्धः, अतः अयम् 'ज्येष्ठः' । प्रक्रिया इयम् -\nवृद्ध + इष्ठन्\nज्य + इष्ठन् [वर्तमानसूत्रेण 'वृद्ध' शब्दस्य 'ज्य' आदेशः]\n→ ज्येष्ठ [<<यस्येति च>> [[6.4.148]] इत्यनेन अकारलोपे प्राप्ते ; तं बाधित्वा <<टेः>> [[6.4.155]] इत्यनेन टिलोपे प्राप्ते ; <<प्रकृत्यैकाच्>> [[6.4.163]] इत्यनेन अङ्गस्य प्रकृतिभावः विधीयते । अग्रे <<आद्गुणः>> [[6.1.87]] इति गुण-एकादेशं कृत्वा रूपं सिद्ध्यति ।\n2. एतौ द्वौ वृद्धौ। अयम् एतयोः अतिशयेन वृद्धः , अतः अयम् ज्यायान् । प्रक्रिया इयम् -\nवृद्ध + ईयसुँन्\n→ वृद्ध + ईयस्\n→ ज्य + ईयस् [वर्तमानसूत्रेण 'वृद्ध' शब्दस्य 'ज्य' आदेशः]\n→ ज्य + आयस् [<<ज्यादादीयसः>> [[6.4.160]] इति ईकारस्य आकारः]\n→ ज्यायस् [<<यस्येति च>> [[6.4.148]] इत्यनेन अकारलोपे प्राप्ते ; तं बाधित्वा <<टेः>> [[6.4.155]] इत्यनेन टिलोपे प्राप्ते ; <<प्रकृत्यैकाच्>> [[6.4.163]] इत्यनेन अङ्गस्य प्रकृतिभावः विधीयते । अग्रे <<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घं कृत्वा रूपं सिद्ध्यति ।]\nअस्य प्रथमैकवचने <<उगिदचां सर्वनामस्थानेऽधातोः>> [[7.1.70]] इति नुमागमे कृते 'ज्यायान्' इति रूपम् सिद्ध्यति ।\nविशेषः - <<प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिवृन्दाः>> [[6.4.157]] अनेन सूत्रेण 'वृद्ध' शब्दस्य इष्ठन्/ईयसुन्-प्रत्यययोः परयोः 'वर्ष्' इति अपि आदेशः भवति । अतः पक्षे 'वर्षिष्ठ' तथा 'वर्षीयस्' एते प्रातिपदिके अपि सिद्ध्यतः ।\nज्ञातव्यम् -\n1. 'वृद्ध' इति 'वृध्' धातोः क्त-प्रत्ययान्तरूपम् । अयम् शब्दः वस्तुतः गुणवाची नास्ति, अतः अस्मात् शब्दात् 'अतिशय' अस्मिन् सन्दर्भे <<अतिशायने तमबिष्ठनौ>> [[5.3.55]] तथा <<द्विवचनविभज्योपपदे तरबीयसुनौ>> [[5.3.57]] इत्यनयोः सूत्रयोः 'इष्ठन्', 'तमप्', ईयसुँन्', 'तरप्' एतेषु चतुर्षु प्रत्ययेषु प्राप्तेषु <<अजादी गुणवचनादेव>> [[5.3.58]] इत्यनेन सूत्रेण 'इष्ठन्' तथा 'ईयसुँन्' एतौ अजादिप्रत्ययौ वस्तुतः नियम्येते (= न प्रयुज्येते) । परन्तु वर्तमानसूत्रेण अजादिप्रत्यययोः परयोः एव 'वृद्ध' शब्दस्य 'ज्य आदेशः उक्तः अस्ति । अतः विधानसामर्थ्यात् 'वृद्ध'शब्दात् अपि अजादी प्रत्ययौ भवतः एव ।\n2. अस्मिन् सूत्रे 'वृद्ध' इत्यनेन 'वृद्ध' इत्यस्य शब्दस्य ग्रहणम् क्रियते, न हि 'वृद्ध' इति व्याकरणविशिष्टस्य संज्ञावाचिशब्दस्य । " }, "53063": { "sa": "'अतिशय' अस्मिन् सन्दर्भे अजाद्योः प्रत्यययोः परयोः 'अन्तिक' शब्दस्य 'नेद' आदेशः तथा 'बाढ' शब्दस्य 'साध' आदेशः भवति ।", "sd": "'अन्तिक' (near / proximate / closeby) तथा 'बाढ' (strong / loud / hard / aggressive) एताभ्यां शब्दाभ्यां 'अतिशय' अस्मिन् सन्दर्भे <<अतिशायने तमबिष्ठनौ>> [[5.3.55]] इत्यनेन 'इष्ठन्' तथा <<द्विवचनविभज्योपपदे तरबीयसुनौ>> [[5.3.57]] इत्यनेन 'ईयसुँन्' एतौ द्वौ अजादिप्रत्ययौ विधीयेते । एतयोः प्रत्यययोः परयोः 'अन्तिक' शब्दस्य 'नेद' इति आदेशः, तथा 'बाढ' शब्दस्य 'साध' इति आदेशः भवति । यथा -\n1. एते सर्वे अन्तिकाः । अयम् एतेषामतिशयेन अन्तिकः, अतः अयम् नेदिष्ठः । प्रक्रिया इयम् -\nअन्तिक + इष्ठन्\n→ नेद + इष्ठन् [वर्तमानसूत्रेण 'अन्तिक' इत्यस्य 'नेद' आदेशः]\n→ नेद् + इष्ठ [<<टेः>> [[6.4.155]] इति टिलोपः]\n→ नेदिष्ठ\n2. एतौ द्वौ अन्तिकौ । अयम् एतयोः अतिशयेन अन्तिकः, अयः अयम् नेदीयान् । प्रक्रिया इयम् -\nअन्तिक + ईयसुँन्\n→ नेद + ईयस् [वर्तमानसूत्रेण 'अन्तिक' इत्यस्य 'नेद' आदेशः]\n→ नेद् + ईयस् [<<टेः>> [[6.4.155]] इति टिलोपः]\n→ नेदीयस्\nअस्य प्रथमैकवचने <<उगिदचां सर्वनामस्थानेऽधातोः>> [[7.1.70]] इति नुमागमे कृते 'नेदीयान्' इति रूपम् सिद्ध्यति ।\n3.एते सर्वे बाढाः । अयम् एतेषामतिशयेन बाढः, अतः अयम् साधिष्ठः । प्रक्रिया इयम् -\nबाढ + इष्ठन्\n→ साध + इष्ठन् [वर्तमानसूत्रेण 'बाढ' इत्यस्य 'साध' आदेशः]\n→ साध् + इष्ठ [<<टेः>> [[6.4.155]] इति टिलोपः]\n→ साधिष्ठ\n4. एतौ द्वौ बाढौ । अयम् एतयोः अतिशयेन बाढः, अयः अयम् साधीयान् । प्रक्रिया इयम् -\nबाढ + ईयसुँन्\n→ साध + ईयस् [वर्तमानसूत्रेण 'बाढ' इत्यस्य 'साध' आदेशः]\n→ साध् + ईयस् [<<टेः>> [[6.4.155]] इति टिलोपः]\n→ साधीयस्\nअस्य प्रथमैकवचने <<उगिदचां सर्वनामस्थानेऽधातोः>> [[7.1.70]] इति नुमागमे कृते 'साधीयान्' इति रूपम् सिद्ध्यति ।\nज्ञातव्यम् - 'अन्तिक' तथा 'बाढ' शब्दौ वस्तुतः गुणवाचिनौ न स्तः, अतः एताभ्याम् 'अतिशय' अस्मिन् सन्दर्भे <<अतिशायने तमबिष्ठनौ>> [[5.3.55]] तथा <<द्विवचनविभज्योपपदे तरबीयसुनौ>> [[5.3.57]] इत्यनयोः सूत्रयोः 'इष्ठन्', 'तमप्', ईयसुँन्', 'तरप्' एतेषु चतुर्षु प्रत्ययेषु प्राप्तेषु <<अजादी गुणवचनादेव>> [[5.3.58]] इत्यनेन सूत्रेण 'इष्ठन्' तथा 'ईयसुँन्' एतौ अजादिप्रत्ययौ वस्तुतः नियम्येते (= न प्रयुज्येते) । परन्तु वर्तमानसूत्रेण अजादिप्रत्यययोः परयोः एव आदेशविधानम् कृतमस्ति । अतः विधानसामर्थ्यात् एताभ्याम् शब्दाभ्याम् अपि अजादी प्रत्ययौ भवतः एव । " }, "53064": { "sa": "'अतिशय' अस्मिन् सन्दर्भे अजाद्योः प्रत्यययोः परयोः 'युवन्' शब्दस्य तथा 'अल्प'शब्दस्य विकल्पेन कन्-आदेशः भवति । ", "sd": "'युवन्' (youth) तथा 'अल्प' (young / low/ little / handful) एताभ्यां शब्दाभ्यां 'अतिशय' अस्मिन् सन्दर्भे <<अतिशायने तमबिष्ठनौ>> [[5.3.55]] इत्यनेन 'इष्ठन्' तथा <<द्विवचनविभज्योपपदे तरबीयसुनौ>> [[5.3.57]] इत्यनेन 'ईयसुँन्' एतौ द्वौ अजादिप्रत्ययौ विधीयेते । एतयोः प्रत्यययोः परयोः एतयोः शब्दयोः 'कन्' इति आदेशः विकल्पेन भवति । यथा -\n1. एते सर्वे यूवानः । अयम् एतेषामतिशयेन युवा, अतः अयम् कनिष्ठः । प्रक्रिया इयम् -\nयुवन् + इष्ठन्\n→ कन् + इष्ठन् [युवन्-शब्दस्य कन्-आदेशः]\n→ कनिष्ठ [<<टेः>> [[6.4.155]] इत्यनेन टिलोेपे प्राप्ते <<प्रकृत्यैकाच्>> [[6.4.163]] इत्यनेन अङ्गस्य प्रकृतिभावः विधीयते, अतः केवलं वर्णमेलनं कृत्वा रूपं सिद्ध्यति ।\n2. एतौ द्वौ युवानौ । अयम् एतयोः अतिशयेन युवा, अतः अयम् कनीयान् । प्रक्रिया इयम् -\nयुवन् + ईयसुन्\n→ कन् + ईयसुन् [युवन्-शब्दस्य कन्-आदेशः]\n→ कनीयस् [<<टेः>> [[6.4.155]] इत्यनेन टिलोेपे प्राप्ते <<प्रकृत्यैकाच्>> [[6.4.163]] इत्यनेन अङ्गस्य प्रकृतिभावः विधीयते, अतः केवलं वर्णमेलनं कृत्वा रूपं सिद्ध्यति ।\nअस्य प्रथमैकवचने <<उगिदचां सर्वनामस्थानेऽधातोः>> [[7.1.70]] इति नुमागमे कृते 'कनीयान्' इति रूपम् सिद्ध्यति ।\n3. एते सर्वे अल्पाः । अयम् एतेषामतिशयेन अल्पः, अतः अयम् कनिष्ठः । प्रक्रिया इयम् -\nअल्प + इष्ठन्\n→ कन् + इष्ठन् [अल्प-शब्दस्य कन्-आदेशः]\n→ कनिष्ठ [<<टेः>> [[6.4.155]] इत्यनेन टिलोेपे प्राप्ते <<प्रकृत्यैकाच्>> [[6.4.163]] इत्यनेन अङ्गस्य प्रकृतिभावः विधीयते, अतः केवलं वर्णमेलनं कृत्वा रूपं सिद्ध्यति ।\n4. एतौ द्वौ अल्पौ । अयम् एतयोः अतिशयेन अल्पः, अतः अयम् कनीयान् । प्रक्रिया इयम् -\nअल्प + ईयसुन्\n→ कन् + ईयसुन् [अल्प-शब्दस्य कन्-आदेशः]\n→ कनीयस् [<<टेः>> [[6.4.155]] इत्यनेन टिलोेपे प्राप्ते <<प्रकृत्यैकाच्>> [[6.4.163]] इत्यनेन अङ्गस्य प्रकृतिभावः विधीयते, अतः केवलं वर्णमेलनं कृत्वा रूपं सिद्ध्यति ।]\nअस्य प्रथमैकवचने <<उगिदचां सर्वनामस्थानेऽधातोः>> [[7.1.70]] इति नुमागमे कृते 'कनीयान्' इति रूपम् सिद्ध्यति ।\nज्ञातव्यम् -\n1. अनेन सूत्रेण विहितः 'कन्' आदेशः विकल्पेन भवति, अतः पक्षे 'यविष्ठ', 'यवीयान्', 'अल्पिष्ठ' तथा 'अल्पीयान्' एते शब्दाः अपि सिद्ध्यन्ति । 'यविष्ठ' शब्दस्य प्रक्रिया इयम् -\nयुवन् + इष्ठन्\n→ यो + इष्ठ [<<स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः>> [[6.4.156]] इत्यनेन 'युवन्' इत्यस्य 'वन्' इत्यस्य लोपः, तथा च यकारोत्तस्य उकारस्य गुणः ओकारः]\n→ यव् + इष्ठ [<<एचोऽयवायावः>> [[6.1.78]] इति अवादेशः]\n→ यविष्ठ\n2. 'युवन्' तथा 'अल्प' शब्दौ वस्तुतः गुणवाचिनौ न स्तः, अतः एताभ्याम् 'अतिशय' अस्मिन् सन्दर्भे <<अतिशायने तमबिष्ठनौ>> [[5.3.55]] तथा <<द्विवचनविभज्योपपदे तरबीयसुनौ>> [[5.3.57]] इत्यनयोः सूत्रयोः 'इष्ठन्', 'तमप्', ईयसुँन्', 'तरप्' एतेषु चतुर्षु प्रत्ययेषु प्राप्तेषु <<अजादी गुणवचनादेव>> [[5.3.58]] इत्यनेन सूत्रेण 'इष्ठन्' तथा 'ईयसुँन्' एतौ अजादिप्रत्ययौ वस्तुतः नियम्येते (= न प्रयुज्येते) । परन्तु वर्तमानसूत्रेण अजादिप्रत्यययोः परयोः एव आदेशविधानम् कृतमस्ति । अतः विधानसामर्थ्यात् एताभ्याम् शब्दाभ्यामपि अजादी प्रत्ययौ भवतः एव ।" }, "53065": { "sa": "'अतिशय' अस्मिन् सन्दर्भे अजाद्योः प्रत्यययोः परयोः अङ्गे विद्यमानयोः 'विनि' तथा 'मतुँप्' प्रत्यययोः लुक् भवति । ", "sd": "'विनि' तथा 'मतुँप्' एतौ द्वौ कौचन तद्धितप्रत्ययौ । 'तद् अस्य अस्ति' तथा 'तद् अस्मिन् अस्ति' एतयोः अर्थयोः एतौ प्रत्ययौ भिन्नेभ्यः प्रातिपदिकेभ्यः विधीयन्ते । अनेन प्रकारेण निर्मिताः ये प्रातिपदिकाः, तेभ्यः 'अतिशय' अस्मिन् सन्दर्भे <<अतिशायने तमबिष्ठनौ>> [[5.3.55]] इत्यनेन 'इष्ठन्' तथा <<द्विवचनविभज्योपपदे तरबीयसुनौ>> [[5.3.57]] इत्यनेन 'ईयसुँन्' एतयोः द्वयोः अजादिप्रत्ययोः प्राप्तयोः अङ्गे विद्यमानस्य 'विनि' तथा 'मतुँप्' प्रत्ययस्य वर्तमानसूत्रेण लोपः भवति ।\nकानिचन उदाहरणानि पश्यामः -\n1. 'स्रज्' (माला / (garland)) इति कश्चन जकारान्तः शब्दः । अस्मात् शब्दात् <<अस्मायामेधास्रजो विनिः>> [[5.2.121]] अनेन सूत्रेण 'विनि' इति प्रत्ययः विधीयते । स्रक् अस्य अस्ति सः स्रग्वी । अस्मात् 'स्रग्विन्' शब्दात् इष्ठन् / ईयसुन्-प्रत्यये परे विनि-प्रत्ययस्य लोपः भवति । यथा -\nएते सर्वे स्रग्विणः । अयम् एतेषामतिशयेन स्रग्वी, अतः अयम् स्रजिष्ठः । प्रक्रिया इयम् -\nस्रज् + विनि + इष्ठन्\n→ स्रज् + इष्ठन् [वर्तमानसूत्रेण विनि-प्रत्ययस्य लोपः । <<प्रकृत्यैकाच्>> [[6.4.163]] इति अङ्गस्य प्रकृतिभावः ।]\n→ स्रजिष्ठ\nएवमेव 'स्रज् + विनि + ईयसुँन्' इत्यत्र 'विनि' प्रत्ययस्य लोपं कृत्वा 'स्रजीयस्' इति प्रातिपदिकं सिद्ध्यति ।\n2. 'त्वच्' (skin) इति कश्चन चकारान्तः शब्दः । अस्मात् शब्दात् <<तदस्यास्त्यस्मिन्निति मतुँप्>> [[5.2.94]] इत्यनेन मतुँप्-प्रत्ययः भवति । त्वक् अस्य अस्ति सः त्वग्वान् । अस्मात् 'त्वग्वत्' शब्दात् इष्ठन् / ईयसुन्-प्रत्यये परे अङ्गे विद्यमानस्य मतुँप्-प्रत्ययस्य लोपः भवति । यथा -\nयथा - एते सर्वे त्वग्वन्तः । अयम् एतेषामतिशयेन त्वग्वान् । अतः अयम् त्वगिष्ठः । प्रक्रिया इयम् -\nत्वच् + मतुँप् + इष्ठन्\n→ त्वच् + इष्ठन् [वर्तमानसूत्रेण विनि-प्रत्ययस्य लोपः । <<प्रकृत्यैकाच्>> [[6.4.163]] इति अङ्गस्य प्रकृतिभावः ।]\n→ त्वचिष्ठ\nएवमेेव 'त्वच् + मतुँप् + ईयसुँन्' इत्यत्र 'त्वचीयस्' इत्यपि प्रातिपदिकं सिद्ध्यति ।\nज्ञातव्यम् - 'विनि' तथा 'मतुँप्' प्रत्ययान्तशब्दाः वस्तुतः गुणवाचिनः न सन्ति , अतः एतेभ्यः 'अतिशय' अस्मिन् सन्दर्भे <<अतिशायने तमबिष्ठनौ>> [[5.3.55]] तथा <<द्विवचनविभज्योपपदे तरबीयसुनौ>> [[5.3.57]] इत्यनयोः सूत्रयोः 'इष्ठन्', 'तमप्', ईयसुँन्', 'तरप्' एतेषु चतुर्षु प्रत्ययेषु प्राप्तेषु <<अजादी गुणवचनादेव>> [[5.3.58]] इत्यनेन सूत्रेण 'इष्ठन्' तथा 'ईयसुँन्' एतौ अजादिप्रत्ययौ वस्तुतः नियम्येते (= न प्रयुज्येते) । परन्तु वर्तमानसूत्रेण अजादिप्रत्यययोः परयोः एव प्रत्ययस्य लुक् उक्तः अस्ति अतः विधानसामर्थ्यात् एतेभ्यः शब्देभ्यः अपि अजादी प्रत्ययौ भवतः एव ।\nस्मर्तव्यम् - <<अतिशायने तमबिष्ठनौ>> [[5.3.55]] इत्यत्र प्रारब्धम् 'अतिशायिक'प्रकरणमत्र समाप्यते । " }, "53066": { "sa": "प्रशंसाम् द्योतयितुम् प्रातिपदिकात् तिङन्तात् च स्वार्थे रूपप्-प्रत्ययः भवति । ", "sd": "अनेन सूत्रेण 'रूपप्' इति प्रत्ययः स्वार्थे विधीयते । कस्यचन प्रशंसा कर्तव्या अस्ति चेत् तस्मात् प्रातिपदिकात् (तिङन्तात् वा) स्वार्थे 'रूपप्' इति प्रत्ययः भवति । यथा -\n1. प्रशस्तः वैयाकरणः (A grammatician who deserves to be praised) अस्मिन् अर्थे 'वैयाकरण' शब्दात् 'रूपप्' इति प्रत्ययं योजयित्वा 'वैयाकरणरूप' इति शब्दः सिद्ध्यति । वैयाकरणरूपः इत्युक्ते सः वैयाकरणः यः प्रशंसनीयः अस्ति ।\n2. प्रशंसनीयम् पचति (a cook whose cooking is commendable) अस्मिन् अर्थे 'पचति' अस्मात् तिङन्तात् 'रूपप्' इति प्रत्ययं योजयित्वा 'पचतिरूप' इति प्रातिपदिकं सिद्ध्यति । यथा - 'देवदत्तः पचतिरूपमस्ति' इत्युक्ते देवदत्तः प्रशंसनीयम् पचति ।\nज्ञातव्यम् -\n1. अनेन सूत्रेण निर्दिष्टः रूपप्-प्रत्ययः स्वार्थे विधीयते । अतः, यदा अयम् 'रूपप्' प्रत्ययः तिङन्तात् विधीयते, तदा निर्मितम् प्रातिपदिकम् क्रियाम् एव द्योतयति, न हि कर्तारम् । अनेनैव कारणेन अस्य प्रातिपदिकस्य प्रयोगः क्रियाविशेषणरूपेण क्रियते ।इत्युक्ते, एतत् प्रातिपदिकम् नित्यम् द्वितीयायाम् नपुंसकलिङ्गे एकवचने च प्रयुज्यते । उदाहरणत्रयं पश्यामश्चेत् स्पष्टम् स्यात् -\n(अ) देवदत्तः प्रशंसनीयम् पचति = देवदत्तः पचतिरूपमस्ति ।\n(आ) रामकृष्णौ प्रशंसनीयम् गायतः = रामकृष्णौ गायतोरूपम् स्तः । (गै + तस् + रूपम् → गायतोरूपम्)\n(इ) सर्वे प्रशंसनीयम् पठन्ति = सर्वे पठन्तिरूपम् सन्ति ।\n2. अनेन सूत्रेण विहितः रूपप्-प्रत्ययः 'कार्ये उत्कृष्टत्वम् / excellency' अस्मिन् अर्थे विधीयते । अतः यद्यपि किञ्चन कर्म दुष्कर्म विद्यते, तथापि 'तस्मिन् कर्मणि उत्कृष्टः' यः कोऽपि, तस्य निर्देशार्थम् रूपप्-प्रत्ययः भवत्येव । यथा, यद्यपि 'चौरकर्म' प्रशंसनीयम् नास्ति, तथापि चौराणाम् समूहे यः कोऽपि देवदत्तः स्वस्य कर्मणा प्रशंसामर्हति, तस्य निर्देशार्थम् 'चौररूपः' इति प्रयोगः भवत्येव ।\n3. 'रूपप्' प्रत्यये परे स्त्रीवाचकस्य अङ्गस्य <<तसिलादिष्वाकृत्वसुचः>> [[6.3.35]] इत्यनेन पुंवद्भावः भवति । यथा - 'प्रशस्ता गायिका' अस्मिन् सन्दर्भे 'गायिका' शब्दात् रूपप्-प्रत्यये कृते अङ्गस्य पुंवद्भावः भवति -\nगायिका + रूपप्\n→ गायक + रूप [पुंवद्भावः]\n→ गायकरूप\n→ गायकरूप + टाप् [ स्त्रीत्वे विवक्षिते <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्]\n→ गायकरूपा\n4. यदि अङ्गम् ङीप्-प्रत्ययान्तमस्ति, तर्हि 'रूपप्' प्रत्यये परे पुंवद्भावं बाधित्वा <<घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः>> [[6.3.43]] इत्यनेन अङ्गस्य ह्रस्वादेशः भवति । यथा - दासी + रूपप् → दासिरूपा ।\n" }, "53067": { "sa": "'किञ्चित् न्यूनम्' अस्मिन् सन्दर्भे प्रातिपदिकात् तिङन्तात् च स्वार्थे 'कल्पप्', 'देश्य' तथा 'देशीयर्' प्रत्ययाः विधीयन्ते । ", "sd": "कस्यचन गुणस्य विषये 'अस्य गुणस्य किञ्चित् न्यूनता विद्यते' इति द्योतयितुम् प्रातिपदिकात् तिङन्तात् च स्वार्थे 'कल्पप्', 'देश्य' तथा 'देशीयर्' एते प्रत्ययाः अनेन सूत्रेण विधीयन्ते । उदाहरणानि कानिचन पश्यामः -\n1. कश्चन देवदत्तः यदि कस्मिंश्चित् कार्ये बह्वंशरूपेण पटुः अस्ति परन्तु सम्पूर्णरूपेण न, तर्हि तस्य निर्देशार्थम् 'पटु' शब्दात् 'कल्पप्', 'देश्य', तथा 'देशीयर्' एते प्रत्ययाः भवन्ति । यथा - अयम् देवदत्तः पटुकल्पः पटुदेश्यः पटुदेशीयः वा (Devadatta is almost an expert, but not completely - इति आशयः) ।\n2. किञ्चन फलम् प्रायः बह्वंशरूपेण मृदु विद्यते परन्तु सम्पूर्णरूपेण न, तर्हि तस्य निर्देशार्थम् 'मृदु' शब्दात् एते त्रयः प्रत्ययाः विधीयन्ते । यथा - आम्रफलम् इदम् मृदुकल्पम् मृदुदेश्यम् मृदुदेशीयम् वा । This mango is mostly soft, but not completely - इति आशयः ।\n3. कश्चन यज्ञदत्तः बह्वंशरूपेण विद्वत्तां प्राप्तवान्, परन्तु इतोऽपि सम्पूर्णरूपेण विद्वान् नास्ति तस्य निर्देशः 'विद्वत्कल्प', 'विद्वद्देश्य', 'विद्वद्देशीय' इत्यनेन भवति ।\n4. 'देवदत्तः किञ्चित् न्यूनम् पचति' (The cooking skill of Devadatta is a little below the perfection) अस्मिन् सन्दर्भे 'पचति'इत्यस्मात् तिङन्तात् 'कल्पप्', 'देश्य', तथा 'देशीयर्' एते प्रत्ययाः भवन्ति । यथा - देवदत्तः पचतिकल्पम् पचतिदेश्यम् पचतिदेशीयम् वा अस्ति । अत्र सर्वत्र तद्धितान्तशब्दः क्रियाप्रधानः अस्ति (= क्रियायाः अर्थे एव प्रयुज्यते) अतः तस्य प्रयोगः क्रियाविशेषणरूपेणैव क्रियते, न हि कर्तुः विशेषणेन । इत्युक्ते, अयम् शब्दः नित्यम् नपुंसकलिङ्गे द्वितीयायाः एकवचने एव प्रयुज्यते । केचन प्रयोगाः एते -\n(अ) तौ किञ्चित् न्यूनम् पचतः = तौ पचतःकल्पम् पचतोदेश्यम् पचतोदेशीयम् वा स्तः । अत्र 'पचतः' अस्मात् तिङन्तात् एते त्रयः प्रत्ययाः विधीयन्ते ।\n(आ) ते किञ्चित् न्यूनम् पचन्ति = ते पचन्तिकल्पम् पचन्तिदेश्यम् पचन्तिदेशीयम् वा सन्ति ।\n(इ) त्वं किञ्चित् न्यूनम् पचसि = त्वम् पचसिकल्पम् पचसिदेश्यम् पचसिदेशीयम् वा असि ।\n5. देवदत्तः पञ्चवर्षकल्पः पञ्चवर्षदेश्यः पञ्चवर्षदेशीयः वा = देवदत्तस्य आयुः पञ्चवर्षात् किञ्चित् न्यूनमस्ति । ईषदूनः पञ्चवर्षः इत्याशयः ।\n6. रघुवंशे - 'प्रभातकल्पा शशिनेव शर्वरी' (३.२) - ईषदूनः प्रभातः इत्याशयः । A little before morning.\nज्ञातव्यम् -\n1. अस्मिन् सूत्रे 'ईषद्-असमाप्तिः' इति शब्दः प्रयुज्यते । अत्र 'ईषद्' इत्युक्ते 'किञ्चित्' (slight / a little) , तथा 'समाप्तिः' इत्युक्ते 'सम्पूर्णता' (completeness) । 'सम्पूर्णतायाः किञ्चित् अभावः' (A little below the completion) अस्य निर्देशार्थमत्र 'ईषद्-असमाप्तिः' इति प्रयोगः कृतः अस्ति ।\n2. कल्पप्, देश्य, देशीयर् - एतेषु प्रत्ययेषु परेषु स्त्रीवाचकस्य अङ्गस्य <<तसिलादिष्वाकृत्वसुचः>> [[6.3.35]] इत्यनेन पुंवद्भावः भवति । यथा - 'सीता इयम् बह्वंशरूपेण पट्वी, परन्तु न हि सम्पूर्णरूपेण' - अस्मिन् सन्दर्भे 'पट्वी' शब्दात् कल्पप्, देश्य, देशीयर् एतेषु त्रिषु प्रत्ययेषु कृतेषु अङ्गस्य पुंवद्भावः भवति -\nपट्वी + कल्पप् / देश्य / देशीयर्\n→ पटु + कल्पप् / देश्य / देशीयर् [पुंवद्भावः]\n→ पटुकल्प / पटुदेश्य / पटुदेशीय\n→ पटुकल्प / पटुदेश्य / पटुदेशीय + टाप् [<<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्]\n→ पटुकल्पा / पटुदेश्या / पटुदेशीया\n3. यदि अङ्गम् ङीप्-प्रत्ययान्तमस्ति, तर्हि 'कल्पप्' प्रत्यये परे पुंवद्भावं बाधित्वा <<घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः>> [[6.3.43]] इत्यनेन अङ्गस्य ह्रस्वादेशः भवति । यथा -\nदासी + कल्पप् → दासिकल्पा । (Almost a servant इत्याशयः) ।\n'देश्य' / 'देशीयर्' प्रत्यययोः परयोः तु पुंवद्भावः एव भवति । यथा - दासी + देश्य / देशीयर् → दासदेश्या / दासदेशीया ।\n" }, "53068": { "sa": "'किञ्चित् न्यूनम्' अस्मिन् सन्दर्भे सुबन्तशब्दस्य अग्रे विकल्पेन 'बहुच्' इति प्रत्ययः विधीयते । ", "sd": "'सम्पूर्णतायाः किञ्चित् अभावः' अस्मिन् सन्दर्भे <<ईषदसमाप्तौ कल्पब्देश्यदेशीयरः>> [[5.3.67]] इत्यनेन कल्पप्, देश्य, देशीयर् - एते प्रत्ययाः उक्ताः सन्ति । एतस्मिन्नेव सन्दर्भे सुबन्तशब्दस्य अग्रे 'बहुच्' इति प्रत्ययः वर्तमानसूत्रेण विधीयते ।\nयथा -\n1. कश्चन देवदत्तः यदि कस्मिंश्चित् कार्ये बह्वंशरूपेण पटुः अस्ति परन्तु सम्पूर्णरूपेण न, तर्हि तस्य निर्देशार्थम् 'पटुः' अस्य सुबन्तस्य प्रारम्भे 'बहुच्' इति प्रत्ययः विधीयते । यथा -\nईषद् पटुः\n= बहुच् + पटुः\n= बहु + पटु [<<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुँलोपः]\n→ बहुपटु ।\nयथा - अयम् देवदत्तः बहुपटुः । Devadatta is almost an expert, but not completely - इति आशयः ।\nज्ञातव्यम् - पक्षे <<ईषदसमाप्तौ कल्पब्देश्यदेशीयरः>> [[5.3.67]] इत्यनेन कल्पप्, देश्य, देशीयर् - एते प्रत्ययाः अपि भवन्ति । यथा - अयम् देवदत्तः पटुकल्पः पटुदेश्यः पटुदेशीयः वा ।\nयथा - अयम् देवदत्तः बहुपटुः पटुकल्पः पटुदेश्यः पटुदेशीयः वा\nविशेषः - 'बहुच्' इति प्रत्ययः सुबन्तस्य प्रारम्भे विधीयते इति स्मर्तव्यम् । अस्य निर्देशार्थम् एव अस्मिन् सूत्रे 'पुरस्तात्' इति उक्तमस्ति ।\n2. एवमेव - किञ्चन फलम् प्रायः बह्वंशरूपेण मृदु विद्यते परन्तु सम्पूर्णरूपेण न, तर्हि तस्य निर्देशः 'आम्रफलम् इदम् बहुमृदु' इति भवति । पक्षे 'आम्रफलम् इदम् मृदुकल्पम् मृदुदेश्यम् मृदुदेशीयम् वा' इति अपि प्रयोगः साधु एव । This mango is mostly soft, but not completely - इति आशयः ।\nज्ञातव्यम् -\n1. 'सम्पूर्णतायाः किञ्चित् अभावः' अस्मिन् सन्दर्भे <<ईषदसमाप्तौ कल्पब्देश्यदेशीयरः>> [[5.3.67]] इत्यनेन उक्ताः कल्पप्, देश्य, देशीयर - एते प्रत्ययाः तिङन्तेभ्यः अपि विधीयन्ते । परन्तु वर्तमानसूत्रेण उक्तः 'बहुच्' प्रत्ययः केवलम् सुबन्तात् एव भवति, न हि तिङन्तात् । एतस्य निर्देशार्थमेव अस्मिन् सूत्रे 'सुपः' इति निर्देशः क्रियते ।\n2. यद्यपि प्रायः सर्वे प्रत्ययाः <<परश्च>> [[3.1.2]] इत्यनेन प्रकृत्याः अनन्तरम् विधीयन्ते, तथाप्यत्र पाठितः 'बहुच्' इति प्रत्ययः 'पुरस्तात्' इति निर्देशसामर्थ्यात् प्रकृतेः प्रारम्भे एव भवति, अनन्तरम् न । तथा च, यद्यप्यत्र प्रत्ययः प्रारम्भे विधीयते, तथापि अस्य प्रयोगेण निर्मितः शब्दः 'तद्धितान्तः' इत्यनेनैव निर्दिश्यते, न हि 'तद्धितादिः' इत्यनेन ।\n3. अस्मिन् सूत्रे 'ईषद्-असमाप्तिः' इति शब्दः अनुवर्तते । अत्र 'ईषद्' इत्युक्ते 'किञ्चित्' (slight / a little) , तथा 'समाप्तिः' इत्युक्ते 'सम्पूर्णता' (completeness) । 'सम्पूर्णतायाः किञ्चित् अभावः' (A little below the completion) अस्य निर्देशार्थमत्र 'ईषद्-असमाप्तिः' इति प्रयोगः कृतः अस्ति ।\n4. 'बहुच्'-प्रत्ययेन निर्मिताः शब्दाः 'समस्तपदानि सन्ति' इति भासते, परन्तु तादृशम् नास्ति इति स्मर्तव्यम् । यथा, अत्र निर्मितः बहुपटुः' इति शब्दः 'बहुच्'प्रत्ययान्तः अस्ति, न हि 'बहु + पटु' इत्यनेन निर्मितम् समस्तपदम् ।\n" }, "53069": { "sa": "प्रकारस्य निर्देशार्थम् प्रातिपदिकात् स्वार्थे 'जातीयर्' इति प्रत्ययः भवति । ", "sd": "यत्र कस्यचन पदार्थस्य कश्चन प्रकारः निर्देष्टव्यः (= प्रकारवचनम् कर्तव्यम्), तत्र तस्मात् प्रातिपतिकात् स्वार्थे 'जातीयर्' इति प्रत्ययः भवति । यथा -\n1. पटोः प्रकारः (A certain type of an expert) = पटुजातीयः ।\n2. मृदोः प्रकारः (a variety of soft) = मृदुजातीयः ।\n3. दर्शनीयस्य प्रकारः (a variety of beautiful) = दर्शनीयजातीयः ।\nज्ञातव्यम् -\n1. <<प्रकारवचने थाल्>> [[5.3.23]] इत्यनेन प्रकारवचने 'थाल्' इति प्रत्ययः अपि पाठ्यते । परन्तु अयम् 'थाल्' प्रत्ययः केवलम् विशिष्टेभ्यः शब्देभ्यः एव भवति, सर्वेभ्यः प्रातिपदिकेभ्यः न । तथा च, 'थाल्' प्रत्ययेन प्रकारविशेषः न निर्दिश्यते, अपि तु 'प्रकारः' इति सामान्यः अर्थः एव निर्दिश्यते । यथा - 'येन प्रकारेण = यथा' । अत्र थाल्-प्रत्ययं कृत्वा रूपं सिद्ध्यति ।\n2. 'जातीयर्' प्रत्ययस्य आदिस्थः जकारः <<चुटू>> [[1.3.7]] इत्यनेन इत्संज्ञकः न भवति, यतः जकारस्य इत्संज्ञायाः अत्र किमपि प्रयोजनम् न विद्यते ।\n3. <<स्थूलादिभ्यः प्रकारवचने कन्>> [[5.4.3]] इत्यनेन स्थूलादिगणस्य शब्देभ्यः प्रकारवचनस्य निर्देशार्थम् जातीयर्-प्रत्ययं बाधित्वा 'कन्' प्रत्ययः विधीयते । " }, "53070": { "sa": "अधिकारोऽयम् । इतः परम् 'इवे प्रतिकृतौ' 5.3.96 इति यावत् उक्तेषु विषयेषु प्रातिपदिकेभ्यः 'क' प्रत्ययः भवति । ", "sd": "अधिकारसूत्रम् इदम् । अस्य अधिकारः <<अवक्षेपणे कन्>> [[5.3.95]] इतिपर्यन्तम् प्रचलति । अस्मिन् अर्थे उक्तेषु सन्दर्भेषु प्रातिपदिकेभ्यः औत्सर्गिकरूपेण क-प्रत्ययः स्वार्थे विधीयते ।\nअस्मिन् अधिकारे पाठिताः मुख्याः सन्दर्भाः एतादृशाः सन्ति -\n1. अज्ञातम् - <<अज्ञाते>> [[5.3.73]] इति सूत्रम् ।\n2. कुत्सितम् - <<कुत्सिते>> [[5.3.74]] तथा <<संज्ञायां कन्>> [[5.3.75]], <<अवक्षेपणे कन्>> [[5.3.95]] एतानि सूत्राणि ।\n3. अनुकम्पा - <<अनुकम्पायाम्>> [[5.3.76]] इत्यतः <<शेवलसुपरिविशालवरुणार्यमादीनां तृतीयात्>> [[5.3.84]] एतावन्ति सूत्राणि ।\n4. अल्पम् - <<अल्पे>> [[5.3.85]] एतत् सूत्रम् ।\n5. ह्रस्वम् - <<ह्रस्वे>> [[5.3.86]] इत्यतः <<कासूगोणीभ्यां ष्टरच्>> [[5.3.90]] एतानि सूत्राणि ।\n6. तनुत्वम् - <<वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे>> [[5.3.91]] इति सूत्रम् ।\n7. निर्धारणम् - <<किंयत्तदो निर्द्धारणे द्वयोरेकस्य डतरच्>> [[5.3.92]] इत्यतः <<एकाच्च प्राचाम्>> [[5.3.94]] एतानि सूत्राणि ।\nएतेषु सर्वेष विषयेषु प्रातिपदिकात् स्वार्थे 'क' प्रत्ययः (उत तस्य अपवादः) विधीयते ।\nस्मर्तव्यम् -\n1. 'क' इति प्रत्ययः तद्धितप्रत्ययः अस्ति, अतः <<लशक्वतद्धिते>> [[1.3.8]] इत्यनेन अस्य इत्संज्ञा न भवति ।\n2. अङ्गस्य अन्ते यदि विसर्गः विद्यते, तर्हि तस्मात् क-प्रत्यये परे <<सोऽपदादौ>> [[8.3.38]] इत्यनेन विसर्गस्य नित्यम् सकारादेशः एव भवति । यथा - यशः + क → यशस्क ।\n" }, "53071": { "sa": "अव्ययानाम् सर्वनामशब्दानाम् तिङन्तानाम् च विषये प्राग्-इवीयेषु विषयेषु स्वार्थे क-प्रत्ययस्य अपवादरूपेण अकच्-प्रत्ययः टेः प्राक् भवति । ", "sd": "<<इवे प्रतिकृतौ>> [[5.3.96]] इति यावत् ये सन्दर्भाः प्रोक्ताः सन्ति, तेषु सर्वेषु <<प्रागिवात् कः>> [[5.3.70]] इत्यनेन सर्वेभ्यः प्रातिपदिकेभ्यः औत्सर्गिकरूपेण 'क' इति प्रत्ययः विधीयते । परन्तु अव्ययसंज्ञकेभ्यः सर्वनामसंज्ञकेभ्यः च शब्देभ्यः एतम् क-प्रत्ययम् बाधित्वा वर्तमानसूत्रेण 'अकच्' इति प्रत्ययः विधीयते । तथा च, अस्मिन् सूत्रे 'तिङः' इत्यस्यापि अनुवृत्तिः स्वीक्रियते, अतः अयम् प्रत्ययः तिङन्तेभ्यः अपि भवितुमर्हति ।\nअस्य 'अकच्' प्रत्ययस्य कश्चन विशेषः आदौ एव ज्ञेयः - अयम् प्रत्ययः यद्यपि <<परश्च>> [[3.1.2]] अस्मिन् अधिकारे उक्तः अस्ति, तथापि विधानसामर्थ्यात् अयम् प्रत्ययः टिसंज्ञकात् पूर्वम् विधीयते ।\n'अकच्' प्रत्यये चकारः इत्संज्ञकः अस्ति, ककारोत्तरः अकारः उच्चारणार्थः अस्ति । प्रक्रियायाम् द्वयोः लोपः भवति, 'अक्' इत्येव अवशिष्यते ।\nकानिचन उदाहरणानि पश्यामः -\n[अ] अव्ययसंज्ञकेभ्यः अकच्-प्रत्ययविधानम् - \nअव्ययसंज्ञकेभ्यः शब्देभ्यः अकच्-प्रत्यये कृते ये शब्दाः सिद्ध्यन्ति, तेऽपि अव्ययसंज्ञकाः एव भवन्ति । उदाहरणानि एतानि -\n1. 'उच्चैस्' इत्यस्मात् अव्ययात् <<अज्ञाते>> [[5.3.73]] इत्यनेन स्वार्थे क-प्रत्यये प्राप्ते वर्तमानसूत्रेण तं बाधित्वा 'अकच्' इति प्रत्ययः भवति । अयम् प्रत्ययः अङ्गस्य टि-संज्ञकात् पूर्वम् विधीयते । यथा -\nअज्ञातः उच्चैः [<<अज्ञाते>> [[5.3.73]] इति प्रत्ययविधानम्]\n= उच्चैस् + अकच् [अकच्-प्रत्ययविधानम्]\nउच्च् + अकच् + ऐस् ['उच्चैस्' इत्यत्र 'ऐस्' इति टि-संज्ञकः अस्ति, अतः अकच्-प्रत्ययः अस्मात् पूर्वम् विधीयते ।]\n→ उच्च् + अक् + ऐस् [चकारस्य इत्संज्ञा, ककारोत्तरः अकारः उच्चारणार्थः । उभयोः लोपः]\n→ उच्च् + अकैस्\n→ उच्चकैस्\n→ उच्चकैः [सकारस्य रुत्वम्, विसर्गः]\n2. नीचैस् + अकच् → नीचकैः ।\n3. शनैस् + अकच् → शनकैः ।\n[आ] सर्वनामसंज्ञकेभ्यः अकच्-प्रत्ययविधानम् - \nवर्तमानसूत्रेण विहितः अकच्-प्रत्ययः सर्वनामशब्दानाम् विषये सुप्-प्रत्ययान्तरूपात् विधीयते, न हि प्रातिपदिकात् । अस्य स्पष्टीकरणार्थम् <<विभाषा सुपो बहुच् पुरस्तात्तु>> [[5.3.68]] इत्यस्मात् 'सुप' इतस्य अनुवृत्तिः क्रियते । कानिचन उदाहरणानि एतानि -\n1) सर्वे + अकच् ।\n→ सर्व् + अक् + ए\n→ सर्वके ।\n2. तौ + अकच्\n→ त् + अकच् + औ\n→ तकौ\n3. एषः + अकच्\n→ एष् + अक् + अः\n→ एषकः\n4. तेभ्यः + अकच्\n→ तेभ्य् + अक् + अः\n→ तेभ्यकः\n5. त्वया + अकच्\n→ त्वय् + अक् + आ\n→ त्वयका\nविशेषः -\n1. 'किम्' सर्वनाम्नः विषये अकच्-प्रत्ययः नित्यम् प्रातिपदिकस्य टि-संज्ञकात् प्राक् एव भवति, तथा च अकच्-प्रत्ययस्य प्रयोगेण निर्मितम् यत् प्रातिपदिकम्, तस्यापि सुबन्तप्रक्रियायाम् <<किमः कः>> [[7.2.103]] इत्यनेन ककारादेशः विधीयते । यथा -\nकिम् + अकच् + सुँ\n→ ककिम् + सुँ [अकच्-प्रत्ययस्य 'किम्' इत्यस्य टेः पूर्वम् योजनम् क्रियते]\n→ क + सुँ [<<किमः कः>> [[7.2.103]] इत्यनेन 'ककिम्' इत्यस्यापि ककारादेशः भवति]\n→ कः ।\nइत्युक्ते, 'किम्' सर्वनाम्नः विषये अकच्-प्रत्ययान्तस्यापि रूपाणि सर्वत्र मूलशब्दवत् एव भवन्ति ।\n2. 'युष्मद्' तथा 'अस्मद्' एतयोः सर्वनामशब्दयोः विषये अत्र एकं वार्त्तिकम् ज्ञातव्यम् - । अस्य अर्थः अयम् - यदि युष्मद् तथा अस्मद् शब्दाभ्याम् ओकारादिः / भकारादिः / सकारादिः सुप्-प्रत्ययः विधीयते, तर्हि वर्तमानसूत्रेण पाठितः अकच्-प्रत्ययः सर्वनामशब्दात् (= प्रातिपदिकात्) विधीयते, न हि सुबन्तात् । अन्येषु विभक्तिप्रत्ययेषु परेषु तु सुबन्तात् एव प्रत्ययविधानं भवति । यथा -\nअ) 'युष्माभिः + अकच्' इत्यत्र विभक्तिप्रत्ययः 'भिस्' इति भकारादिः अस्ति । अतः अत्र सुबन्तात् अकच्-प्रत्ययः न विधीयते, अपितु प्रातिपदिकात् आदौ अकच्-प्रत्ययं योजयित्वा ततः भिस्-प्रत्ययः प्रयोक्तव्यः । यथा -\nयुष्माभिः + अकच्\n→ युष्म् + अकच् + अद् + भिस्\n→ युष्मकाभिः\nयदि अत्र सुबन्तात् परः अकच्-प्रत्ययः अभविष्यत्, तर्हि अत्र 'युष्माभकिः' इति अनिष्टम् रूपम् स्यात् ।\nआ) अस्मासु + अकच् इत्यत्र 'सुप्' इति सकारादिप्रत्ययः अस्ति, अतः अत्रापि प्रातिपदिकात् परः अकच्-प्रत्ययः भवति । यथा -\nअस्मासु + अकच्\n→ अस्म् + अकच् + अद् + सुप्\n→ अस्मकासु\nयदि अत्र सुबन्तात् परः अकच्-प्रत्ययः अभविष्यत्, तर्हि अत्र 'अस्मासकु' इति अनिष्टम् रूपम् स्यात् ।\nइ) 'युवयोः + अकच्' इत्यत्र विभक्तिप्रत्ययः 'ओस्' इति ओकारादिः अस्ति । अतः अत्रापि प्रातिपदिकात् एव अकच्-प्रत्ययः भवति ।\nयुवयोः + अकच्\n→ युष्म् + अकच् + अद् + ओस्\n→ युवकयोः\nयदि अत्र सुबन्तात् परः अकच्-प्रत्ययः अभविष्यत्, तर्हि अत्र 'युवयकोः' इति अनिष्टम् रूपम् स्यात् ।\nअनेन प्रकारेण सर्वनामसंज्ञकेभ्यः शब्देभ्यः अकच्-प्रत्ययः विधीयते ।\nस्मर्तव्यम् - अत्र निर्दिष्टस्य वार्त्तिकस्य प्रयोगः केवलं 'युष्मद्' तथा 'अस्मद्' एतयोः शब्दयोः विषये एव कर्तव्यः । यद्यपि वार्त्तिके तादृशः स्पष्टः निर्देशः नास्ति, तथापि लघुशब्देन्दुशेखरे नागेशेन अस्मिन् विषये स्पष्टीक्रियते ।\n[इ] तिङन्तेभ्यः अकच्-प्रत्ययविधानम् - \nवर्तमानसूत्रेण उक्तः अकच्-प्रत्ययः भिन्नेभ्यः तिङन्तेभ्यः अपि विधीयते । यथा -\n1. 'पचति' इत्यस्मात् तिङन्तात् <<अज्ञाते>> [[5.3.73]] इत्यनेन स्वार्थे क-प्रत्यये प्राप्ते वर्तमानसूत्रेण तस्य स्थाने अपवादत्वेन अकच्-प्रत्ययः आगच्छति । अयम् प्रत्ययः टि-संज्ञकात् पूर्वमागच्छति, अतः -'पचत् + अकच् + इ' इति जायते । इत्संज्ञालोपं वर्णमेलनं कृत्वा 'पचतकि' इति सिद्ध्यति । 'पचति' इत्येव अर्थः । अयम् शब्दः अपि क्रियापदरूपेणैव प्रयुज्यते । यथा - 'रामः पचतकि' ।\nअस्य सूत्रस्य विषये वार्त्तिकद्वयम् ज्ञातव्यम् -\n1. । इत्युक्ते, 'तूष्णीम्' अव्ययस्य विषये अकच्-इत्यस्य स्थाने 'काम्' प्रत्ययः भवति । <<मिदचोऽन्त्यात्परः>> [[1.1.47]] इत्यनेन अयं प्रत्ययः अन्त्यात् अचः परः आगच्छति । अतः 'तूष्णीम् + काम् → तूष्णीकाम्' इति रूपं सिद्ध्यति । 'तूष्णीम्' इत्यस्यैव अर्थे अयम् शब्दः प्रयुज्यते ।\n2. । इत्युक्ते, 'तूष्णीम्' शब्दात् परम् 'शील' इति उत्तरपदम् विद्यते चेत् 'तूष्णीम्' शब्दात् क-प्रत्ययः तथा 'तूष्णीम्' इत्यस्य मकारस्य लोपः भवति । यथा - तूष्णींशीलः (= silent character) इत्येव = तूष्णीम् + क → तूष्णीक ।\n" }, "53072": { "sa": "अकच्-प्रत्ययस्य सन्नियोगेन ककारान्तस्य अङ्गस्य दकारादेशः भवति । ", "sd": "<<अव्ययसर्वनाम्नामकच् प्राक् टेः>> [[5.3.71]] इत्यनेन अव्ययानाम् विषये प्राग्-इवीयेषु सन्दर्भेषु 'अकच्' इति प्रत्ययः स्वार्थे विधीयते ।अस्य प्रत्ययस्य सन्नियोगेन ककारान्तस्य अङ्गस्य दकारादेशः भवति । उदाहरणानि एतानि -\n1. धिक् + अकच् [ <<अव्ययसर्वनाम्नामकच् प्राक् टेः>> इत्यनेन स्वार्थे टेः प्राक् अकच्-प्रत्ययः भवति ।]\n= ध् + अकच् + इक्\n→ ध् + अक् + इक् [इत्संज्ञालोपः]\n→ धक् + इद् [वर्तमानसूत्रेण ककारस्य दकारादेशः]\n→ धकिद्\n→ धकिद् / धकित् [सुप्-प्रत्ययस्य <<अव्ययादाप्सुपः>> [[2.4.82]] इति लोपे कृते पदसंज्ञायां विद्यमानायाम् <<वाऽवसाने>> [[8.4.56]] इति वैकल्पिकं चर्त्वम्]\n2. हिरुक् + अकच् [ <<अव्ययसर्वनाम्नामकच् प्राक् टेः>> इत्यनेन स्वार्थे टेः प्राक् अकच्-प्रत्ययः भवति ।]\n= हिर् + अकच् + उक्\n→ हिर् + अक् + उक् [इत्संज्ञालोपः]\n→ हिर् + अक् + उद् [वर्तमानसूत्रेण ककारस्य दकारादेशः]\n→ हिरकुद्\n→ हिरकुत् / हिरकुद् [सुप्-प्रत्ययस्य <<अव्ययादाप्सुपः>> [[2.4.82]] इति लोपे कृते पदसंज्ञायां विद्यमानायाम् <<वाऽवसाने>> [[8.4.56]] इति वैकल्पिकं चर्त्वम्]\n3. पृथक् + अकच् [ <<अव्ययसर्वनाम्नामकच् प्राक् टेः>> इत्यनेन स्वार्थे टेः प्राक् अकच्-प्रत्ययः भवति ।]\n= पृथ् + अकच् + अक्\n→ पृथ् + अक् + अक् [इत्संज्ञालोपः]\n→ पृथ् + अक् + अद् [वर्तमानसूत्रेण ककारस्य दकारादेशः]\n→ पृथकद्\n→ पृथकद् / पृथकत् [सुप्-प्रत्ययस्य <<अव्ययादाप्सुपः>> [[2.4.82]] इति लोपे कृते पदसंज्ञायां विद्यमानायाम् <<वाऽवसाने>> [[8.4.56]] इति वैकल्पिकं चर्त्वम्]\nज्ञातव्यम् - <<अव्ययसर्वनाम्नामकच् प्राक् टेः>> [[5.3.71]] इत्यनेन विहितः 'अकच्' प्रत्ययः अव्ययेभ्यः, सर्वनामशब्देभ्यः तथा च तिङन्तेभ्यः उक्तः अस्ति । परन्तु तिङन्तशब्दाः सर्वनामशब्दाः च 'क्' इत्यनेन न समाप्यन्ते, अतः अस्य सूत्रस्य प्रयोगः केवलमव्ययानाम् विषये एव भवति । " }, "53073": { "sa": "'अज्ञातः' इत्यस्य विशेषणरूपेण विहितात् प्रातिपदिकात् तिङन्तात् च स्वार्थे क-प्रत्ययः (उत तस्य अपवादः) विधीयते ।", "sd": "'अज्ञातम्' (unknown) इत्यनेन यस्य पदार्थस्य निर्देशः भवति, तस्मात् प्रातिपदिकात् स्वार्थे 'क' इति प्रत्ययः (उत तस्य अपवादः) विधीयते । अत्र 'अज्ञात' इत्यनेन 'अज्ञातः सम्बन्धः' इति अर्थः ग्रहीतव्यः - इति व्याख्यानेषु स्पष्टीक्रियते । कानिचन उदाहरणानि पश्यामश्चेत् स्पष्टं स्यात् -\n1. अज्ञातः अश्वः = अश्व + क → अश्वकः । सः अश्वः, यस्य स्वामी अज्ञातः अस्ति, 'अश्वक' इत्यनेन सम्बुध्यते ।\n2. अज्ञातः गर्दभः = गर्दभ + क → गर्दभक ।\n3. अज्ञातः उष्ट्रः = उष्ट्र + क → उष्ट्रक ।\nअव्ययानाम्, सर्वनामशब्दानाम्, तथा च तिङन्तानाम् विषये अपि अस्य सूत्रस्य प्रसक्तिः विद्यते, परन्तु एतेभ्यः परस्य क-प्रत्ययस्य अपवादरूपेण <<अव्ययसर्वनाम्नामकच् प्राक् टेः>> [[5.3.71]] इति अकच्-प्रत्ययः विधीयते, सः च अङ्गस्य टि-संज्ञकात् पूर्वमागच्छति । एतेषाम् विषये तु सामान्यविहिता अज्ञातता एव स्वीक्रियते, यत' 'अज्ञातः सम्बन्धः' इति अर्थः अत्र साधु न भवति । उदाहरणानि एतानि -\n1. अज्ञातः उच्चैः (unknown height) = उच्च् + अकच् + ऐस् → उच्चकैः ।\n2. अज्ञातः शनैः (unknown slow speed) = शन् + अकच् + ऐस् → शनकैः ।\n3. अज्ञाताः सर्वे (unknown all) = सर्व् + अकच् + जस् → सर्वके ।\n4. अज्ञातम् पचति (someone cooks something unknown) = पचतकि । अयम् शब्दः क्रियापदरूपेणैव प्रयुज्यते । यथा - 'रामः पचतकि' । 'रामः अज्ञातम् पचति' इत्याशयः ।\n" }, "53074": { "sa": "'कुत्सितः' इत्यस्य विशेषणरूपेण विहितात् प्रातिपदिकात् तिङन्तात् च स्वार्थे क-प्रत्ययः तस्य अपवादः वा विधीयते ।", "sd": "'कुत्सितः' (निन्दितः / bad / spoiled / inappropriate ) इत्यनेन यस्य पदार्थस्य निर्देशः भवति, तस्मात् प्रातिपदिकात् स्वार्थे 'क' इति प्रत्ययः (उत तस्य अपवादः) विधीयते । यथा -\n1. कुत्सितः अश्वः = अश्व + क → अश्वकः । कार्ये असमीचीनः यः अश्वः (a horse that is useless for work) तस्य निर्देशार्थम् 'अश्वक' शब्दः प्रयुज्यते ।\n2. कुत्सितः गर्दभः = गर्दभ + क → गर्दभक ।\n3. कुत्सितः उष्ट्रः = उष्ट्र + क → उष्ट्रक ।\nअव्ययानाम्, सर्वनामशब्दानाम्, तथा च तिङन्तानाम् विषये अपि अस्य सूत्रस्य प्रसक्तिः विद्यते, परन्तु एतेभ्यः परस्य क-प्रत्ययस्य अपवादरूपेण <<अव्ययसर्वनाम्नामकच् प्राक् टेः>> [[5.3.71]] इति अकच्-प्रत्ययः विधीयते, सः च अङ्गस्य टि-संज्ञकात् पूर्वमागच्छति । उदाहरणानि एतानि -\n1. कुत्सितः उच्चैः (inappropriate height) = उच्च् + अकच् + ऐस् → उच्चकैः ।\n2. कुत्सितः शनैः (inappropriate slow speed) = शन् + अकच् + ऐस् → शनकैः ।\n3. कुत्सिताः सर्वे (inappropriate all) = सर्व् + अकच् + जस् → सर्वके ।\n4. कुत्सितम् पचति (someone cooks something inappropriate) = पचतकि । अयम् शब्दः क्रियापदरूपेणैव प्रयुज्यते । यथा - 'रामः पचतकि' । 'रामः कुत्सितम् पचति' इत्याशयः ।\nज्ञातव्यम् - <<अज्ञाते>> [[5.3.73]] इत्यनेन सूत्रेण 'अज्ञातः' अस्मिन् अर्थेऽपि एते एव सर्वे शब्दाः सिद्ध्यन्ति । अतः सन्दर्भं दृष्ट्वैव अर्थस्य निर्णयः कर्तव्यः ।\n" }, "53075": { "sa": "'कुत्सितः' इत्यस्य विशेषणरूपेण विहितात् प्रातिपदिकात् संज्ञायाः निर्देशार्थम् कन्-प्रत्ययः भवति । ", "sd": "सर्वेभ्यः प्रातिपदिकेभ्यः <<कुत्सिते>> [[5.3.74]] इत्यनेन स्वार्थे 'क' प्रत्ययः भवति । परन्तु केचन संज्ञावाचकाः शब्दाः केभ्यश्चन प्रातिपदिकेभ्यः 'कन्' प्रत्ययं कृत्वा सिद्ध्यन्ति । एतेषाम् साधुत्वज्ञापनार्थमस्य सूत्रस्य निर्माणम् कृतमस्ति । यथा -\n1. कुत्सितः (= निन्दितः) शूद्रः = शूद्र + कन् → शूद्रकः । कस्यचन राज्ञः इयम् संज्ञा ।\n2. कुत्सितः राधः (= inappropriate gift) = राध + कन् → राधकः ।\n2. कुत्सितः पूर्णः = पूर्णकः ।\nज्ञातव्यम् - 'क' प्रत्ययेन अपि ते एव शब्दाः सिद्ध्यन्ति ते 'कन्' प्रत्ययेन सिद्ध्यन्ति । परन्तु द्वयोर्मध्ये स्वरभेदः जायते । यथा, 'क'प्रत्ययान्तस्य 'शुद्रक' शब्दस्य ककारोत्तरः अकारः <<आद्युदात्तश्च>> [[3.1.3]] इत्यनेन उदात्तत्वं प्राप्नोति ।परन्तु 'कन्'प्रत्ययान्तस्य 'शूद्रक'शब्दस्य शकारोत्तरः उकारः <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] इत्यनेन उदात्तसंज्ञां प्राप्नोति । संज्ञारूपेण प्रयुज्यमाने 'शूद्रक' शब्दे शकारोत्तरः उकारः उदात्तः अस्ति, न हि ककारोत्तरः अकारः । अतएव अस्य शब्दस्य निर्माणार्थम् भिन्नरूपेण 'कन्' प्रत्ययः अस्मिन् सूत्रे उच्यते । एवमेव 'राधकः', 'पूर्णकः' एतादृशानां शब्दानां विषये अपि ज्ञेयम् । " }, "53076": { "sa": "अनुकम्पायाम् गम्यमानायाम् प्रातिपदिकात् तिङन्तात् च स्वार्थे क-प्रत्ययः उत तस्य अपवादः विधीयते । ", "sd": "'अनुकम्पा' इत्युक्ते कारूण्यम् (compassion / sympathy) । यत्र अनुकम्पा दृश्यते, तत्र 'अनुकम्पायाः यत् कर्म, तस्मात् प्रातिपदिकात्, तथा च अनुकम्पाविहिता या क्रिया, तस्मात् तिङन्तात् स्वार्थे यथाविहितं प्रत्ययः भवति । यथा -\n[अ] प्रातिपदिकेभ्यः प्रत्यविधानम्\n1. अनुकम्पितः पुत्रः (A sympathized son) । अत्र अनुकम्पायाः कर्म (object of compassion) पुत्रः अस्ति, अतः अस्मिन् सन्दर्भे 'पुत्र'शब्दात् औत्सर्गिकः 'क' प्रत्ययः भवति । अनुकम्पितः पुत्रः पुत्रकः ।\nएवमेव -\n2. अनुकम्पितः बुभुक्षितः = बुभुक्षितकः ।\n3. अनुकम्पितः वत्सः = वत्सकः ।\n4. अनुकम्पितः दुर्बलः = दुर्बलकः ।\n[आ] तिङन्तेभ्यः प्रत्ययविधानम् - यत्र क्रिया अनुकम्पासहिता विद्यते, तत्र तिङन्तात् वर्तमानसूत्रेण प्रत्ययविधानम् भवितुमर्हति । तिङन्तेभ्यः क-प्रत्ययस्य अपवादरूपेण <<अव्ययसर्वनाम्नामकच् प्राक् टेः>> [[5.3.71]] इत्यनेन अकच्-प्रत्ययः भवतीति स्मर्तव्यम् । यथा -\n1. अनुकम्पितम् विश्वसिति = विश्वसित् + अकच् + इ → विश्वसितकि । The act of belief involves compassion - इत्याशयः ।\n2. अनुकम्पितम् स्वपिति = स्वपितकि । The act of sleeping involves compassion - इत्याशयः ।\nउभयत्र क्रियायाः अनुकम्पा निर्दिश्यते ।\nस्मर्तव्यम् - तिङन्तेभ्यः अकच्-प्रत्ययेन निर्मिताः शब्दाः क्रियापदरूपेणैव प्रयुज्यन्ते ।\n" }, "53077": { "sa": "सामदानदण्डभेदरूपायाम् नीतौ गम्यमानायाम् अनुकम्पा यदा प्रदर्श्यते, तदा अनुकम्पायाः साधनात् स्वार्थे यथाविहितम् प्रत्ययः भवति । ", "sd": "'अनुकम्पा' इत्युक्ते कारूण्यम् (compassion / sympathy) । यत्र व्यवहारे कश्चन मनुष्यः कञ्चन अन्यम् मनुष्यम् प्रति सामोपचारेण (by gentle means) अथवा दानेन (by monitory means ) अनुकम्पां प्रदर्शयति, तत्र अनुकम्पायाः यत् साधनम्, (इत्युक्ते सामोपचारस्य विषयः उत दानस्य वस्तु) तस्मात् शब्दात् (= प्रातिपदिकात् / तिङन्तात्) स्वार्थे यथाविहितम् प्रत्ययः भवति ।\nकानिचन उदाहरणानि पश्यामः -\n1. कश्चन देवदत्तः यज्ञदत्तमनुकम्पया 'एहि' (come here ) इति वदति - इति चिन्तयामः । अत्र अनुकम्पार्थम् प्रयुक्तम् साधनमस्ति 'एहि' इति तिङन्तम् । अस्मात् तिङन्तात् वर्तमानसूत्रेण यथाविहितं प्रत्ययविधानम् भवति । अत्र <<अव्ययसर्वनाम्नामकच् प्राक् टेः>> [[5.3.71]] इत्यनेन अकच्-प्रत्ययः विधीयते, अतः 'एहि + अकच् → एह् + अकच् + इ → एहकि' इति रूपम् सिद्ध्यति । अयम् शब्दः अपि क्रियापदवत् एव प्रयुज्यते । यथा - 'एहकि यज्ञदत्त' इति । अनुकम्पया सामोपचारस्य साहाय्येन 'एहि' इत्यस्य विधानम् एव 'एहकि' इत्यनेन निर्दिश्यते ।\nएवमेव अनुकम्पया 'अद्धि' (eat) इति वक्तव्यमस्ति चेत् 'अद्धि + अकच् → अद्ध् + अकच् + इ → अद्धकि' इति प्रयोगः भवितुमर्हति ।\n2. कश्चन देवदत्तः यज्ञदत्तमनुकम्पया तिलान् ददाति - इति चिन्तयामः । अत्र 'तिलानाम्' प्रयोगः अनुकम्पायाः साधनरूपेण कृतः अस्ति, अतः अत्र 'तिल' शब्दात् <<प्रागित्वात् कः>> [[5.3.70]] इत्यनेन क-प्रत्ययं कृत्वा 'तिलक' इति शब्दः सिद्ध्यति । अनुकम्पायाः साधनरूपेण दत्ताः तिलाः तिलकाः - इति अत्र आशयः ।\nएवमेव, अनुकम्पया दानरूपेण दीयमानाः धानाः (grains) 'धानकाः' नाम्ना अपि ज्ञायन्ते । धाना + कन् → धानक (<<केऽणः>> [[7.4.13]] इति ह्रस्वादेशं कृत्वा रूपं सिद्ध्यति)।\nज्ञातव्यम् -\n1. अन्यजनस्य प्रति व्यवहारस्य विषये शास्त्रे चत्वारः मार्गाः उक्ताः सन्ति - 'साम' (by talking gently), दान (by giving something), दण्ड ( by using physical force), तथा भेद (by using inappropriate measures) । एतेषु 'साम' तथा 'दान' एतौ द्वौ 'अनुकम्पापूर्णमार्गौ स्तः' इति मन्यते । वर्तमानसूत्रे 'अनुकम्पा' इति निर्देशः कृतः अस्ति, अतः वर्तमानसूत्रेण एतयोः द्वयोः एव ग्रहणम् भवति, न हि दण्डभेदयोः ।\n2. वस्तुतः <<अनुकम्पायाम्>> [[5.3.76]] इत्यनेन पूर्वसूत्रेण अपि 'अनुकम्पा' अस्मिन्नेव अर्थे प्रत्ययः विधीयते । परन्तु द्वयोः सूत्रयोः मध्ये भेदः अस्ति । <<अनुकम्पायाम्>> [[5.3.76]] इत्यनेन अनुकम्पायाः कर्मपदात् प्रत्ययः विधीयते । परन्तु वर्तमानसूत्रेण अनुकम्पार्थम् प्रयुक्तम् यत् साधनम्, तस्मात् प्रत्ययविधानम् भवति । यथा, 'पिता अनुकम्पया पुत्राय धानम् (grains) ददाति' (The father offers the grains to the son due to sympathy) इति चिन्तयामः । अत्र पितुः अनुकम्पायाः कर्म पुत्रः अस्ति, तथा च साधनम् 'धानम्' इति अस्ति । (The object of compassion is the son where as the instrument of compassion are the grains). अस्यां स्थितौ -\n[अ] <<अनुकम्पायाम्>> [[5.3.76]] इत्यनेन पुत्रस्य निर्देशः'पुत्रकः' इति भवति । पित्रा अनुकम्पितः यः पुत्रः, सः पुत्रकः - इति अत्र आशयः ।\n[आ] <<नीतौ च तद्युक्तात्>> [[5.3.77]] इत्यनेन धानस्य निर्देशः 'धानकः' इति भवति । अनुकम्पार्थम् नीतौ प्रयुक्ताः याः धानाः, ते धानकाः' - इति अत्र आशयः ।\n" }, "53078": { "sa": "अनुकम्पायाम् गम्यमानायामनुकम्पायाः कर्मपदम्, तथा च नीतिपूर्वक-अनुकम्पायाम् गम्यमानायामनुकम्पायाः साधनम् - एतेषु किञ्चन यदि मनुष्यस्य नाम तथा च बह्वच् अस्ति, तर्हि तस्मात् स्वार्थे विकल्पेन ठच्-प्रत्ययः भवति । ", "sd": "<<अनुकम्पायाम्>> [[5.3.76]] इत्यनेन सूत्रेण अनुकम्पायाम् गम्यमानायाम् तस्य कर्मपदात् प्रातिपदिकात् स्वार्थे 'क' प्रत्ययविधानम् भवति । <<नीतौ च तद्युक्तात्>> [[5.3.77]] इत्यनेन अनुकम्पायाम् गम्यमानायाम् 'नीतिमनुसृत्य प्रयुक्तम् यत् साधनम्', तस्मात् स्वार्थे 'क'प्रत्ययः विधीयते । यदि उभयत्र विहितम् प्रातिपदिकम् बह्वच् अस्ति (इत्युक्ते तस्मिन् प्रातिपदिके त्रयः वा अधिकाः स्वराः सन्ति), तथा च तेन प्रातिपदिकेन मनुष्यस्य नाम्नः निर्देशः क्रियते, तर्हि तस्मात् प्रातिपदिकात् वर्तमानसूत्रेण एतयोः द्वयोः एव सन्दर्भयोः ठच्-प्रत्ययः अपि विकल्पेन विधीयते ।\nकानिचन उदाहरणानि पश्यामः -\n1. कश्चन देवदत्तः यज्ञदत्तम् प्रति अनुकम्पां प्रदर्शयति - इति चिन्तयामः । अत्र अनुकम्पायाः कर्मपदम् 'यज्ञदत्त' इति अस्ति । अत्र 'यज्ञदत्त' इति मनुष्यस्य नाम अस्ति, तथा च अस्मिन् शब्दे चत्वारः स्वराः विद्यन्ते, अतः अयम् 'बह्वच्' शब्दः अपि अस्ति । अतः अस्मात् शब्दात् वर्तमानसूत्रेण स्वार्थे 'ठच्' प्रत्ययः भवति ।\nठच्-प्रत्यये परे प्रकिया एतादृशी जायते -\nयज्ञदत्त + ठच्\n→ यज्ञदत्त + ठ [चकारस्य इत्संज्ञा, लोपः]\n→ यज्ञ + ठ [<<ठाजादावूर्ध्वं द्वितीयादचः>> [[5.3.83]] इत्यनेन अङ्गे विद्यमानात् द्वितीयात् अच्-वर्णात् अग्रे विद्यमानस्य खण्डस्य लोपः भवति]\n→ यज्ञ + इक [<<ठस्येकः>> [[7.3.50]] इति इक-आदेशः]\n→ यज्ञ् + इक [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ यज्ञिक\nअनेन प्रकारेण 'अनुकम्पितः यज्ञदत्तः' इत्यस्मिन् अर्थे 'यज्ञिक' इति शब्दः प्रयुज्यते । एवमेव 'अनुकम्पितः देवदत्तः = देवकः', 'अनुकम्पितः समीहनः = समीकः' एतादृशाः शब्दाः सिद्ध्यन्ति ।\n2. कश्चन देवदत्तः यज्ञदत्तं प्रति अनुकम्पां दर्शयित्वा तस्मै 'वायुदत्तः' नाम कश्चन दासः (servant) ददाति - इति चिन्तयामः । अत्र अनुकम्पायाः साधनम् 'वायुदत्त' इति मनुष्यः अस्ति, तथा च अस्मिन् शब्दे चत्वारः अच्-वर्णाः सन्ति अतः अयम् 'बह्वच्' शब्दः अपि अस्ति । अतः अस्मात् शब्दात् वर्तमानसूत्रेण स्वार्थे 'ठच्' प्रत्ययः भवति । ठच्-प्रत्यये परे इयम् प्रक्रिया जायते -\nवायुदत्त + ठच्\n→ वायुदत्त + ठ [चकारस्य इत्संज्ञा, लोपः]\n→ वायु + ठ [<<ठाजादावूर्ध्वं द्वितीयादचः>> [[5.3.83]] इत्यनेन अङ्गे विद्यमानात् द्वितीयात् अच्-वर्णात् अग्रे विद्यमानस्य खण्डस्य लोपः भवति]\n→ वायु + क [<<इसुसुक्तान्तात् कः>> [[7.3.51]] इति क-आदेशः]\n→ वायुक\nअनुकम्पायाः साधनम् यः वायुदत्तः , सः वायुकः - इति आशयः ।\nविशेषः - <<ठाजादावूर्ध्वं द्वितीयादचः>> [[5.3.83]] इत्यनेन उक्तम् कार्यम् प्राकृतिककार्यमस्ति, तथा च ठच्-प्रत्ययस्य आदेशस्य अपेक्षया एतत् नित्यमपि अस्ति। अतः एतत् कार्यम् प्रारम्भे भवति । ततः यद् अङ्गम् जायते, तस्मात् ठकारस्य यथोचितम् 'इक' उत 'क' एतादृशाः आदेशाः भवन्ति ।\nज्ञातव्यम् - अनेन सूत्रेण उक्तः ठच्-प्रत्ययः विकल्पेन भवति, अतः पक्षे औत्सर्गिकम् क-प्रत्ययं संस्थाप्य 'यज्ञदत्तक' , 'वायुदत्तक' एते प्रातिपदिके अपि जायेते । तथा च विकल्पेन <<घनिलचौ च>> [[5.3.79]] इत्यनेन 'घन्' तथा 'इलच्' एतौ प्रत्ययौ कृत्वा 'यज्ञिक' / 'यज्ञिल' / 'वायविय' / 'वायविल' एतानि प्रातिपदिकानि अपि अस्मिन्नेव सन्दर्भे सिद्ध्यन्ति ।\n" }, "53079": { "sa": "अनुकम्पायाम् गम्यमानायामनुकम्पायाः कर्मपदम्, तथा च नीतिपूर्वक-अनुकम्पायाम् गम्यमानायामनुकम्पायाः साधनम् - एतेषु किञ्चन यदि मनुष्यस्य नाम तथा च बह्वच् अस्ति, तर्हि तस्मात् स्वार्थे विकल्पेन घन् तथा इलच्-प्रत्ययौ भवतः ।", "sd": "<<अनुकम्पायाम्>> [[5.3.76]] इत्यनेन सूत्रेण अनुकम्पायाम् गम्यमानायाम् तस्य कर्मपदात् प्रातिपदिकात् स्वार्थे 'क' प्रत्ययविधानम् भवति । <<नीतौ च तद्युक्तात्>> [[5.3.77]] इत्यनेन अनुकम्पायाम् गम्यमानायाम् 'नीतिमनुसृत्य प्रयुक्तम् यत् साधनम्', तस्मात् स्वार्थे 'क'प्रत्ययः विधीयते । यदि उभयत्र विहितम् प्रातिपदिकम् बह्वच् अस्ति (इत्युक्ते तस्मिन् प्रातिपदिके त्रयः वा अधिकाः स्वराः सन्ति), तथा च तेन प्रातिपदिकेन मनुष्यस्य नाम्नः निर्देशः क्रियते, तर्हि तस्मात् प्रातिपदिकात् एतयोः द्वयोः एव सन्दर्भयोः <<बह्वचो मनुष्यनाम्नष्ठज्वा>> [[5.3.78]] इत्यनेन ठच्-प्रत्ययः विकल्पेन विधीयते । पक्षे वर्तमानसूत्रेण 'घन्' तथा 'इलच्' एतौ प्रत्ययौ अपि विकल्पेन विधीयेते ।\nकानिचन उदाहरणानि पश्यामः -\n1. कश्चन देवदत्तः यज्ञदत्तम् प्रति अनुकम्पां प्रदर्शयति - इति चिन्तयामः । अत्र अनुकम्पायाः कर्मपदम् 'यज्ञदत्त' इति अस्ति । अत्र 'यज्ञदत्त' इति मनुष्यस्य नाम अस्ति, तथा च अस्मिन् शब्दे चत्वारः स्वराः विद्यन्ते, अतः अयम् 'बह्वच्' शब्दः अपि अस्ति । अतः अस्मात् शब्दात् वर्तमानसूत्रेण स्वार्थे 'घन्' तथा 'इलच्' एतौ प्रत्ययौ भवतः ।\nघन् -प्रत्यये परे प्रकिया एतादृशी जायते -\nयज्ञदत्त + घन्\n→ यज्ञदत्त + घ [नकारस्य इत्संज्ञा, लोपः]\n→ यज्ञदत्त + इय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इत्यनेन इय-आदेशः]\n→ यज्ञ + इय [<<ठाजादावूर्ध्वं द्वितीयादचः>> [[5.3.83]] इत्यनेन अजादिप्रत्यये परे अङ्गे विद्यमानात् द्वितीयात् अच्-वर्णात् अग्रे विद्यमानस्य खण्डस्य लोपः भवति]\n→ यज्ञ् + इय [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ यज्ञिय\nइलच्-प्रत्यये परे प्रक्रिया एतादृशी जायते -\nयज्ञदत्त + इलच्\n→ यज्ञदत्त + इल [चकारस्य इत्संज्ञा, लोपः]\n→ यज्ञ + इलच् [<<ठाजादावूर्ध्वं द्वितीयादचः>> [[5.3.83]] इत्यनेन अजादिप्रत्यये परे अङ्गे विद्यमानात् द्वितीयात् अच्-वर्णात् अग्रे विद्यमानस्य खण्डस्य लोपः भवति]\n→ यज्ञ् + इल [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ यज्ञिल\nअनेन प्रकारेण 'अनुकम्पितः यज्ञदत्तः' इत्यस्मिन् अर्थे 'यज्ञिय' तथा 'यज्ञिल' एतौ शब्दौ सिद्ध्यतः । एवमेव 'अनुकम्पितः देवदत्तः = देवियः / देविलः', 'अनुकम्पितः समीहनः = समियः / समिलः' , 'अनुकम्पितः वायुदत्तः = वायवियः, वायविलः' एतादृशाः शब्दाः सिद्ध्यन्ति ।\n2. कश्चन देवदत्तः यज्ञदत्तं प्रति अनुकम्पां दर्शयित्वा तस्मै 'वायुदत्तः' नाम कश्चन दासः (servant) ददाति - इति चिन्तयामः । अत्र अनुकम्पायाः साधनम् 'वायुदत्त' इति मनुष्यः अस्ति, तथा च अस्मिन् शब्दे चत्वारः अच्-वर्णाः सन्ति अतः अयम् 'बह्वच्' शब्दः अपि अस्ति । अतः अस्मात् शब्दात् वर्तमानसूत्रेण स्वार्थे 'घन्' तथा 'इलच्' प्रत्ययौ भवतः । एतयोः प्रत्ययोः परयोः प्रक्रिया इयम् भवति -\nवायुदत्त + घन् / इलच्\n→ वायुदत्त + घ / इल [इत्संज्ञालोपः]\n→ वायुदत्त + इय / इल [प्रत्ययादेशः]\n→ वायु + इय / इल [<<ठाजादावूर्ध्वं द्वितीयादचः>> [[5.3.83]] इत्यनेन अजादिप्रत्यये परे अङ्गे विद्यमानात् द्वितीयात् अच्-वर्णात् अग्रे विद्यमानस्य खण्डस्य लोपः भवति]\n→ वायो + इय / इल [<<ओर्गुणः>> [[6.4.146]] इति गुणादेशः]\n→ वायव् + इय / इल [<<एचोऽयवायावः>> [[6.1.78]] इति अवादेशः]\n→ वायविय, वायविल\nअनुकम्पायाः साधनम् यः वायुदत्तः , सः वायवियः वायविलः वा - इति आशयः ।\nज्ञातव्यम् - अनेन सूत्रेण उक्तौ प्रत्ययौ विकल्पेन भवतः । पक्षे <<बह्वचो मनुष्यनाम्नष्ठज्वा>> [[5.3.78]] इत्यनेन वैकल्पिकं ठच्-प्रत्ययं कृत्वा 'यज्ञिक' / 'वायुक', तथा च औत्सर्गिकम् क-प्रत्ययं संस्थाप्य 'यज्ञदत्तक' , 'वायुदत्तक' एतादृशानि प्रातिपदिकानि अपि सिद्ध्यन्ति ।\nविशेषः - वस्तुतस्तु पूर्वसूत्रे <<बह्वचो मनुष्यनाम्नष्ठज्वा>> [[5.3.78]] इत्यत्रैव 'घन्' तथा 'इलच्' प्रत्यययोः स्थापना कर्तुम् शक्यते । परन्तु पाणिनिना अत्र भिन्नम् सूत्रम् निर्मितमस्ति । अस्य किमपि विशिष्टम् प्रयोजनम् न विद्यते । " }, "53080": { "sa": "अनुकम्पायाम् गम्यमानायामनुकम्पायाः कर्मपदम्, तथा च नीतिपूर्वक-अनुकम्पायाम् गम्यमानायामनुकम्पायाः साधनम् - एतेषु किञ्चन यदि मनुष्यस्य 'उप' इत्यनेन प्रारभ्यमाणम् नाम तथा च बह्वच् अस्ति, तर्हि तस्मात् स्वार्थे प्राचाम् वैयाकरणानाम् मतेन विकल्पेन 'अडच्' तथा 'वुच्' प्रत्ययौ भवतः ।", "sd": "<<अनुकम्पायाम्>> [[5.3.76]] इत्यनेन सूत्रेण अनुकम्पायाम् गम्यमानायाम् तस्य कर्मपदात् प्रातिपदिकात् स्वार्थे 'क' प्रत्ययविधानम् भवति । <<नीतौ च तद्युक्तात्>> [[5.3.77]] इत्यनेन अनुकम्पायाम् गम्यमानायाम् 'नीतिमनुसृत्य प्रयुक्तम् यत् साधनम्', तस्मात् स्वार्थे 'क'प्रत्ययः विधीयते । यदि उभयत्र विहितम् प्रातिपदिकम् बह्वच् अस्ति (इत्युक्ते तस्मिन् प्रातिपदिके त्रयः वा अधिकाः स्वराः सन्ति), तथा च तेन प्रातिपदिकेन मनुष्यस्य नाम्नः निर्देशः क्रियते, तर्हि तस्मात् प्रातिपदिकात् एतयोः द्वयोः एव सन्दर्भयोः <<बह्वचो मनुष्यनाम्नष्ठज्वा>> [[5.3.78]] इत्यनेन ठच्-प्रत्ययः , तथा च <<घनिलचौ च>> [[5.3.79]] इत्यनेन 'घन्' तथा 'इलच्' प्रत्ययौ - एते सर्वे विकल्पेन विधीयन्ते । अस्मिन्नेव सन्दर्भे यदि प्रकृतिः (= मनुष्यस्य बह्वच् नाम) 'उप' इत्यनेन प्रारभ्यते, तर्हि तस्मात् स्वार्थे 'अडच्' तथा 'वुच्' एतौ द्वौ प्रत्ययौ वर्तमानसूत्रेण विधीयेते ।\nउदाहरणद्वयम् पश्यामः -\n1. कश्चन देवदत्तः उपेन्द्रदत्तम् प्रति अनुकम्पां प्रदर्शयति - इति चिन्तयामः । अत्र अनुकम्पायाः कर्मपदम् 'उपेन्द्रदत्त' इति अस्ति । अत्र 'उपेन्द्रदत्त' इति मनुष्यस्य नाम अस्ति, अस्य प्रारम्भः 'उप' इत्यनेन भवति, तथा च अस्मिन् शब्दे पञ्च स्वराः विद्यन्ते, अतः अयम् 'बह्वच्' शब्दः अपि अस्ति । अतः अस्मात् शब्दात् वर्तमानसूत्रेण स्वार्थे 'अडच्' तथा 'वुच्' एतौ प्रत्ययौ भवतः । प्रक्रिया इयम् -\nउपेन्द्रदत्त + अडच् / वुच्\n→ उपेन्द्रदत्त + अडच् + अक [इत्संज्ञालोपः । <<युवोरनाकौ>> [[7.1.1]] इति 'वु' इत्यस्य 'अक' आदेशः ।]\n→ उप + अडच् / अक [<<ठाजादावूर्ध्वं द्वितीयादचः>> [[5.3.83]] इत्यनेन अजादिप्रत्यये परे अङ्गे विद्यमानात् द्वितीयात् अच्-वर्णात् अग्रे विद्यमानस्य खण्डस्य लोपः भवति । अत्र यद्यपि द्वितीयः अच्-वर्णः 'ए' इति अस्ति, तथापि इदम् सन्ध्यक्षरमस्ति, अतः <<ठाजादावूर्ध्वं द्वितीयादचः>> [[5.3.83]] इत्यत्र पाठितेन अनेन वार्त्तिकेन तस्य छेदं कृत्वा 'अ + इ' इति प्राप्ते 'अ' इत्येव द्वितीयं स्वरं मत्त्वा तस्मात् अग्रे विद्यमानस्य खण्डस्य लोपः क्रियते । अस्मिन् विषये नागेशेन कश्चन अन्यः पक्षः लघुशब्देन्दुशेखरे उक्तः अस्ति, जिज्ञासुभिः सोऽपि द्रष्टव्यः]\n→ उप् + अड / अक [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ उपड / उपक\n2. कश्चन देवदत्तः यज्ञदत्तं प्रति अनुकम्पां दर्शयित्वा तस्मै 'उपेन्द्रदत्तः' नाम कश्चन दासः (servant) ददाति - इति चिन्तयामः । अत्र अनुकम्पायाः साधनम् 'उपेन्द्रदत्तः' इति मनुष्यः अस्ति । अत्रापि पूर्ववदेव प्रकियां कृत्वा 'उपड' तथा 'उपक' एतौ शब्दौ सिद्ध्यतः ।\nअनुकम्पायाः साधनम् यः उपेन्द्रदत्तः , सः उपडः उपकः वा - इति आशयः ।\nज्ञातव्यम् - अनेन सूत्रेण उक्तौ प्रत्ययौ विकल्पेन भवतः । पक्षे -\n[अ] <<बह्वचो मनुष्यनाम्नष्ठज्वा>> [[5.3.78]] इत्यनेन वैकल्पिकं ठच्-प्रत्ययं कृत्वा 'उपिक' इति शब्दः सिद्ध्यति ।\n[आ] <<घनिलचौ च>> [[5.3.79]] इत्यनेन वैकल्पिकं घन्/ इलच् प्रत्ययौ कृत्वा 'उपिय' / 'उपिल' एतौ शब्दौ अपि भवतः ।\n[इ] औत्सर्गिकम् क-प्रत्ययं संस्थाप्य 'उपेन्द्रदत्तक' इति अपि शब्दः सिद्ध्यति ।\nअनेन प्रकारेण 'अनुकम्पितः उपेन्द्रदत्तः' उत 'अनुकम्पायाः साधनमुपेन्द्रदत्तः' एतेषु सन्दर्भेषु 'उपड / उपक / उपिक / उपिय / उपिल / उपेन्द्रदत्तक' एते षट् शब्दाः सिद्ध्यन्ति ।\nविशेषः - अस्मिन् सूत्रे 'प्राचाम्' इत्यनेन कृतः 'पूर्वदिशि विद्यमानानाम् वैयाकरणानाम् निर्देशः' पूजार्थम् / आदरार्थमस्ति । पूर्वसूत्रात् अत्र 'वा' इत्यनुवर्तते, अतः अत्र 'प्राचाम्' इत्यस्य पदस्य प्रयोगः आचार्येण विकल्पार्थम् नैव कृतः अस्ति । " }, "53081": { "sa": "अनुकम्पायाम् गम्यमानायामनुकम्पायाः कर्मपदम्, तथा च नीतिपूर्वक-अनुकम्पायाम् गम्यमानायामनुकम्पायाः साधनम् - एतेषु किञ्चन यदि मनुष्यस्य नाम तथा जातिवाचकः शब्दः अस्ति, तर्हि तस्मात् स्वार्थे विकल्पेन कन्-प्रत्ययः भवति । ", "sd": "<<अनुकम्पायाम्>> [[5.3.76]] इत्यनेन सूत्रेण अनुकम्पायाम् गम्यमानायाम् तस्य कर्मपदात् प्रातिपदिकात् स्वार्थे 'क' प्रत्ययविधानम् भवति । <<नीतौ च तद्युक्तात्>> [[5.3.77]] इत्यनेन अनुकम्पायाम् गम्यमानायाम् 'नीतिमनुसृत्य प्रयुक्तम् यत् साधनम्', तस्मात् स्वार्थे 'क'प्रत्ययः विधीयते । यदि उभयत्र विहितम् प्रातिपदिकम् जातिवाचकमस्ति परन्तु तेन मनुष्यस्य नाम्नः निर्देशः अपि क्रियते, तर्हि तस्मात् प्रातिपदिकात् एतयोः द्वयोः एव सन्दर्भयोः वर्तमानसूत्रेण कन्-प्रत्ययः विकल्पेन भवति । पक्षे अन्ये अपि प्रत्ययाः यथायोग्यम् भवितुमर्हन्ति ।\nकानिचन उदाहरणानि पश्यामः -\n1. 'व्याघ्रः' इति कस्यचन मनुष्यस्य नाम अस्तीति चिन्तयामः । कश्चन देवदत्तः नाम मनुष्यः एतम् व्याघ्रम् प्रति अनुकम्पां प्रदर्शयति - इत्यपि चिन्तयामः । अत्र अनुकम्पायाः कर्मपदम् 'व्याघ्र' इति अस्ति । अयम् 'व्याघ्र'शब्दः अत्र मनुष्यस्य नाम्नः निर्देशं करोति, परन्तु अयम् जातिवाचकः शब्दः अपि अस्ति (The word indicates the name of the person as well as name of a species of animals) । अस्यां स्थितौ अस्मात् शब्दात् वर्तमानसूत्रेण स्वार्थे 'कन्' इति प्रत्ययः विधीयते, येन 'व्याघ्रक' इति प्रातिपदिकं सिद्ध्यति । अनुकम्पितः व्याघ्रः सः व्याघ्रकः ।\nएवमेव - अनुकम्पितः 'सिंहः' नामा मनुष्यः सः सिंहकः ।\n2. कश्चन देवदत्तः कस्मैचित् यज्ञदत्ताय अनुकम्पया 'शरभ' नामा कश्चन मनुष्यः दासरूपेण ददाति - इति चिन्तयामः । Devdadatta, out of his compassion towards Yajnadatta, gifts him a servant named Sharabha. अत्र 'शरभ' इतिशब्दः अत्र मनुष्यस्य नाम्नः निर्देशं करोति, परन्तु अयम् जातिवाचकः शब्दः अपि अस्ति (The word Sharabha indicates species of an insect) । अस्यां स्थितौ अस्मात् शब्दात् वर्तमानसूत्रेण स्वार्थे 'कन्' इति प्रत्ययः विधीयते, येन 'शरभक' इति प्रातिपदिकं सिद्ध्यति । अनुकम्पायाः साधनम् यः शरभः, सः शरभकः ।\nएवमेव - अनुकम्पायाः साधनम् यः रासभः, सः रासभकः ।\nज्ञातव्यम् - अनेन सूत्रेण विहितः कन्-प्रत्ययः विकल्पेन विधीयते, अतः अन्यैः सूत्रैः अन्ये प्रत्ययाः अपि अस्मिन्नेव सन्दर्भे भवितुमर्हन्ति । यथा - 'अनुकम्पितः शरभः' इत्यत्र 'शरभ'शब्दात् स्वार्थे -\n[अ] <<घनिलचौ च>> [[5.3.79]] इत्यनेन घन्/इलच्-प्रत्ययौ कृत्वा 'शरिय' तथा 'शरिल' एते शब्दाः सिद्ध्यन्ति ।\n[आ] <<बह्वचो मनुष्यनाम्नष्ठज्वा>> [[5.3.78]] इत्यनेन 'ठच्' प्रत्ययं कृत्वा 'शरिक' अयम् शब्दः सिद्ध्यति ।\n[इ] औत्सर्गिकरूपेण 'क'प्रत्ययं कृत्वा 'शरभक' इति शब्दः अपि सिद्ध्यति ।\nविशेषः - 'क' प्रत्ययं कृत्वा अपि तदेव रूपं सिद्ध्यति यत् वर्तमानसूत्रेण 'कन्' प्रत्ययं कृत्वा सिद्ध्यति । परन्तु द्वयोः रूपयोः स्वरभेदः विद्यते । कन्-प्रत्यये विद्यमानः नकारः <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] इत्यनेन समुदायस्य आदिस्वरस्य उदात्तत्वम् बोधयति । 'क' प्रत्ययस्य विषये तु प्रत्ययस्य आदिस्वरः <<आद्युदात्तश्च>> [[3.1.3]] इत्यनेन उदात्तत्वं प्राप्नोति । एतम् भेदम् दर्शयितुमेव अस्य सूत्रस्य निर्माणम् कृतमस्ति ।\n" }, "53082": { "sa": "अनुकम्पायाम् गम्यमानायामनुकम्पायाः यत् कर्मपदम्, सः शब्दः यदि मनुष्यस्य नाम्नः निर्देशं करोति, तथा च तस्य शब्दस्य उत्तरपदम् 'अजिन' इति विद्यते, तर्हि तस्मात् शब्दात् स्वार्थे कन्-प्रत्ययः भवति, तथा च तस्य शब्दस्य उत्तरपदस्य लोपः विधीयते । ", "sd": "<<अनुकम्पायाम्>> [[5.3.76]] इत्यनेन सूत्रेण अनुकम्पायाम् गम्यमानायाम् तस्य कर्मपदात् प्रातिपदिकात् स्वार्थे 'क' प्रत्ययविधानम् भवति । यदि एतत् प्रातिपदिकम् मनुष्यस्य नाम्नः निर्देशं करोति, तथा च तस्य उत्तरपदम् 'अजिन' इति विद्यते, तर्हि तस्मात् शब्दात् स्वार्थे औत्सर्गिकं क-प्रत्ययम् (अन्यान् वा यथाप्राप्तान् प्रत्ययान्) बाधित्वा 'कन्' इति प्रत्ययः विधीयते ।\nयथा - 'व्याघ्राजिन' नामा कश्चन मनुष्यः अस्तीति चिन्तयामः । कश्चन देवदत्तः एतम् 'व्याघ्राजिनम्' प्रति अनुकम्पां दर्शयति - इत्यपि चिन्तयामः । अस्यां स्थितौ 'व्याघ्राजिन' शब्दात् वर्तमानसूत्रेण 'कन्' प्रत्ययः भवति, तथा च प्रक्रियायाम् 'व्याघ्राजिन' इत्यत्र विद्यमानस्य 'अजिन'शब्दस्य लोपः भवति । यथा -\nव्याघ्राजिन + कन्\n→ व्याघ्र + क\n→ व्याघ्रक\nअनुकम्पितः व्याघ्राजिनः सः व्याघ्रकः ।\nएवमेव 'अनुकम्पितः व्याघ्रमहाजिनः' सः अपि व्याघ्रकः । अत्र 'व्याघ्रमहाजिन' शब्दस्य उत्तरपदम् (= महाजिन) इत्यस्य लोपं कृत्वा रूपं सिद्ध्यति ।\n" }, "53083": { "sa": "अनुकम्पायाम् गम्यमानायाम् विहिते ठकारादौ अजादौ वा प्रत्यये परे अङ्गस्य द्वितीयात् अच्-वर्णात् अनन्तरम् विद्यमानस्य शब्दखण्डस्य लोपः भवति । ", "sd": "<<अनुकम्पायाम्>> [[5.3.76]] इत्यस्मात् सूत्रात् आरभ्य <<अजिनान्तस्योत्तरपदलोपश्च>> [[5.3.82]] इति सूत्रपर्यन्तम् सर्वेषु सूत्रेषु अनुकम्पायाम् गम्यमानायाम् भिन्नाः प्रत्ययाः उक्ताः सन्ति । यदि एषु कश्चन प्रत्ययः ठकारादिः अजादिः वा अस्ति, तर्हि तस्य उपस्थितौ प्रकृतौ जायमानम् परिवर्तनम् (= प्राकृतिककार्यम्) अनेन सूत्रेण पाठ्यते । प्रकृतौ विद्यमानात् द्वितीयात् स्वरात् अनन्तरम् विद्यमानः शब्दखण्डः ठकारादौ अजादौ प्रत्यये वा परे लुप्यते - इति अस्य सूत्रस्य आशयः ।\nक्रमेण उदाहरणानि पश्यामः -\n[1] <<अनुकम्पायाम्>> [[5.3.76]] तथा <<नीतौ च तद्युक्तात्>> [[5.3.77]] इत्येताभ्यां सूत्राभ्याम् प्रातिपदिकेभ्यः 'कन्' इति प्रत्ययः विधीयते । अयम् प्रत्ययः ठकारादिः अजादिः वा नास्ति, अतः कन्-प्रत्ययस्य विषये अस्य सूत्रस्य प्रयोगः न भवति ।\n[2] <<अनुकम्पायाम्>> [[5.3.76]] तथा <<नीतौ च तद्युक्तात्>> [[5.3.77]] इत्येताभ्यां सूत्राभ्याम् तिङन्तेभ्यः 'अकच्' इति प्रत्ययः विधीयते । अयम् प्रत्ययः अजादिः अस्ति, परन्तु अस्मिन् प्रत्यये परे वर्तमानसूत्रस्य प्रसक्तिः न विद्यते, यतः वर्तमानसूत्रे 'तिङः' इति न अनुवर्तते । प्रातिपदिकाधिकारात् 'प्रातिपदिकात्' इति तु अधिक्रियते एव । अतः अस्य सूत्रस्य प्रसक्तिः केवलम् प्रातिपदिकेभ्यः विहितानाम् प्रत्ययानां विषये विद्यते ।\n[3] <<बह्वचो मनुष्यनाम्नष्ठज्वा>> [[5.3.78]] इत्यनेन 'ठच्' प्रत्ययः उच्यते । अयम् प्रत्ययः ठकारादिः अस्ति, अतः अस्मिन् प्रत्यये परे वर्तमानसूत्रस्य प्रसक्तिः विद्यते । यथा -\nअनुकम्पितः यज्ञदत्तः\n= यज्ञदत्त + ठच्\n→ यज्ञदत्त + ठ [चकारस्य इत्संज्ञा, लोपः]\n→ यज्ञ + ठ [वर्तमानसूत्रेण अङ्गे विद्यमानात् द्वितीयात् अच्-वर्णात् अग्रे विद्यमानस्य खण्डस्य (= 'दत्त' इत्यस्य) लोपः भवति]\n→ यज्ञ + इक [<<ठस्येकः>> [[7.3.50]] इति इक-आदेशः]\n→ यज्ञ् + इक [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ यज्ञिक\n[4] <<बह्वचो मनुष्यनाम्नष्ठज्वा>> [[5.3.78]] इत्यस्य अन्यद् एकमुदाहरणम् पश्यामः -\nअनुकम्पितः वायुदत्तः\n= वायुदत्त + ठच्\n→ वायुदत्त + ठ [चकारस्य इत्संज्ञा, लोपः]\n→ वायु + ठ [वर्तमानसूत्रेण अङ्गे विद्यमानात् द्वितीयात् अच्-वर्णात् अग्रे विद्यमानस्य खण्डस्य लोपः भवति]\n→ वायु + क [<<इसुसुक्तान्तात् कः>> [[7.3.51]] इति क-आदेशः]\n→ वायुक\nज्ञातव्यम् - वर्तमानसूत्रेण उक्तम् कार्यम् प्राकृतिककार्यमस्ति, तथा च ठच्-प्रत्ययस्य आदेशस्य अपेक्षया एतत् नित्यमपि अस्ति। अतः एतत् कार्यम् प्रारम्भे भवति । ततः यद् अङ्गम् जायते, तस्मात् ठकारस्य यथोचितम् 'इक' उत 'क' एतादृशाः आदेशाः भवन्ति । अस्मिन् सूत्रे 'ठ' इत्यस्य विशेषरूपेण ग्रहणमपि एतदेव सूचयति यत् ठकारस्य ककारादेशे प्राप्ते अपि अस्य सूत्रस्य प्रसक्तिः स्यात् । अन्यथा केवलम् 'इक' आदेशः ग्रहीतव्यः स्यात् चेत् सूत्रे 'अजादिः' इत्येव निर्देशः अलम् स्यात् ।\n[5] <<घनिलचौ च>> [[5.3.79]] इत्यनेन 'घन्' तथा 'इलच्' एतौ प्रत्ययौ उच्येते । प्रक्रियायाम् 'घ' इत्यस्य <<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इत्यनेन 'इय' आदेशः भवति । 'इय' तथा 'इल' द्वावपि प्रत्ययौ अजादी स्तः, अतः द्वयोः अपि विषये अस्य सूत्रस्य प्रसक्तिः विद्यते । यथा -\nअनुकम्पितः यज्ञदत्तः\n= यज्ञदत्त + घन् / इलच्\n→ यज्ञदत्त + इय / इल [इत्संज्ञालोपः, प्रत्ययादेशः]\n→ यज्ञ + इय / इल [वर्तमानसूत्रेण अजादिप्रत्यये परे अङ्गे विद्यमानात् द्वितीयात् अच्-वर्णात् अग्रे विद्यमानस्य खण्डस्य लोपः भवति]\n→ यज्ञ् + इय / इल [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ यज्ञिय / यज्ञिल\n[6] <<प्राचामुपादेरडज्वुचौ च>> [[5.3.80]] इत्यनेन 'अडच्' तथा 'वुच्' एतौ प्रत्ययौ उक्तौ स्तः । प्रक्रियायाम् 'वु' इत्यस्य <<युवोरनाकौ>> [[7.1.1]] इत्यनेन 'अक' आदेशः भवति । 'अड' तथा 'अक' द्वावपि प्रत्ययौ अजादी स्तः, अतः द्वयोः अपि विषये अस्य सूत्रस्य प्रसक्तिः विद्यते । यथा -\nअनुकम्पितः उपेन्द्रदत्तः\n= उपेन्द्रदत्त + अडच् / वुच्\n→ उपेन्द्रदत्त + अडच् + अक [इत्संज्ञालोपः । <<युवोरनाकौ>> [[7.1.1]] इति 'वु' इत्यस्य 'अक' आदेशः ।]\n→ उप + अडच् / वुच् [ वर्तमानसूत्रेण अङ्गे विद्यमानात् द्वितीयात् अच्-वर्णात् अग्रे विद्यमानस्य खण्डस्य लोपः भवति । अत्र यद्यपि द्वितीयः अच्-वर्णः 'ए' इति अस्ति, तथापि इदम् सन्ध्यक्षरमस्ति, अतः अधः पाठितेन अनेन वार्त्तिकेन 'ए' इतस्य छेदं कृत्वा 'अ + इ' इति प्राप्ते 'अ' इत्येव द्वितीयं स्वरं मत्त्वा तस्मात् अग्रे विद्यमानस्य खण्डस्य लोपः क्रियते ।]\n→ उप् + अड / अक [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ उपड / उपक\n[7] <<जातिनाम्नः कन्>> [[5.3.81]] तथा <<अजिनान्तस्योत्तरपदलोपश्च>> [[5.3.82]] इत्येताभ्याम् कन्-प्रत्ययः विधीयते । अयम् प्रत्ययः ठकारादिः अपि नास्ति, अजादिः अपि नास्ति । अतः अस्य प्रत्ययस्य विषये वर्तमानसूत्रस्य प्रसक्तिः न विद्यते ।\nविशेषः - अनेन सूत्रेण उक्तम् कार्यम् 'अङ्गकार्यम्' नास्तीति स्मर्तव्यम् ।\nअत्र कानिचन वार्त्तिकानि अपि पाठितानि सन्ति । अस्मिन् सूत्रे यः लोपः उच्यते, तस्यैव विषये एतैः वार्त्तिकैः केचन विशिष्टाः नियमाः 'कुत्रचित्' (only in certain examples - इत्याशयः) उच्यन्ते । क्रमेण पश्यामः -\n1. । यदि शब्दे पञ्च वा अधिकाः स्वराः विद्यन्ते, तर्हि कुत्रचित् चतुर्थात् स्वरात् अग्रे विद्यमानस्य खण्डस्य लोपः कृतः अपि दृश्यते । यथा - 'अनुकम्पितः बृहस्पतिदत्तः' सः = बृहस्पति + घन् → बृहस्पतियः । पक्षे बृहस्पति + इलच् → बृहस्पतिलः । पक्षे बृहस्पति + ठच् → बृहस्पतिकः ।\n2. । वर्तमानसूत्रेण उक्तः लोप अजादिभिन्ने प्रत्यये परे अपि (इत्युक्ते कन् / क-प्रत्यये परे अपि) कुत्रचित् विकल्पेन लोपः कृतः दृश्यते । यथा - 'अनुकम्पितः देवदत्तः' = देवदत्त + क → देवकः ।\n3. । वर्तमानसूत्रेण उक्तः लोपः कुत्रचित् पूर्वपदस्य विषये अपि भवति, तथा च अजादिभिन्ने प्रत्यये परे अपि (इत्युक्ते कन् / क-प्रत्यये परे अपि) भवितुमर्हति । यथ - 'अनुकम्पितः देवदत्तः' = देवदत्त + ठच् → दत्तिकः । पक्षे देवदत्त + क → दत्तकः । एवमेव - देवदत्त + इलच् → दत्तिलः ।\n4. । वर्तमानसूत्रेण उक्तः लोपः प्रत्ययस्य अनुपस्थितौ कुत्रचित् पूर्वपदस्य विषये तथा च कुत्रचित् अन्यत्र उत्तरपदस्य विषये अपि विकल्पेन विधीयते । इत्युक्ते, 'अनुकम्पितः देवदत्तः' इत्यत्र केवलम् 'देवदत्त' इति रूपं निर्माय अस्य पूर्वपदस्य / उत्तरपदस्य वैकल्पिकं लोपं कृत्वा 'देवदत्तः / देवः / दत्तः' एते शब्दाः सिद्ध्यन्ति । अनुकम्पितः देवदत्तः सः देवदत्तः देवः दत्तः वा ।\n5. । उकारात् ऋकारात् च परस्य 'इल्' प्रत्ययस्य इकारस्य कुत्रचित् विकल्पेन लोपः भवति । यथा - अनुकम्पितः भानुदत्तः = भानुलः भानविलः वा । तथैव अनुकम्पितः दातुः = दातृलः दात्रिलः वा ।\n6. । यदि अङ्गे विद्यमानः द्वितीयः स्वरः संयुक्तस्वरः अस्ति, तर्हि तस्य पूर्वस्वरः अवशिष्यते; परस्वरः तथा तस्मात् अग्रे विद्यमानाः वर्णाः लुप्यन्ते । यथा - अनुकम्पितः लहोडः = लहकः । अत्र हकारोत्तरः ओकारः संयुक्तस्वरः अस्ति ( ओ = अ + उ), अतः अत्र उकारस्यापि लोपः विधीयते, अकारः एव अवशिष्यते ।\n7. । यदि अङ्गस्य पूर्वपदे एकम् एव स्वरः विद्यते, तर्हि वर्तमानसूत्रेण उक्तः लोपः सम्पूर्णस्य उत्तरपदस्य भवति । यथा - 'अनुकम्पितः वागीशः' इति स्थिते 'वागीश' अस्मिन् शब्दे पूर्वपदे ('वाक्' इत्यत्र) एकः एव स्वरः अस्ति, अतः वर्तमानसूत्रेण उक्तः लोपः सम्पूर्णस्य उत्तरपदस्य भवति । यथा - अनुकम्पितः वागीशः = वाक् + इलच् → वागिलः ।\nएतेषाम् सर्वेषाम् वार्त्तिकानां प्रयोगः शिष्टप्रयोगं दृष्ट्वैव करणीयः ।\nविशेषः - अस्मिन् सूत्रे काशिकाकारः 'षडङ्गुलिदत्तः षडिकः इति षषः ठाजादिवचनात् सिद्धम्' इति किञ्चन भाष्यवाक्यम् पाठयति । एतत् वाक्यम् भाष्यकारेण अग्रिमसूत्रे <<शेवलसुपरिविशालवरुणार्यमादीनां तृतीयात्>> [[5.3.84]] इत्यत्र कथितमस्ति । अनेन भाष्यवाक्येन 'षडिक' इति शब्दस्य सिद्धिः दीयते । 'अनुकम्पितः षडङ्गुलिदत्तः' इत्यस्मिन् सन्दर्भे 'षडिक' इति शब्दः उपयुज्यते । अस्य सिद्धिः एतादृशी दत्ता अस्ति -\nषडङ्गुलिदत्तः + ठच् [<<बह्वचो मनुष्यनाम्नष्ठज्वा>> [[5.3.78]] इत्यनेन 'ठच्' ]\n→ षड् + अङ्गुलिदत्तः + ठ [अङ्गस्य पूर्व-उत्तरपदविग्रहः । अत्र पूर्वपदम् वस्तुतः 'षट्' इति अस्ति, परन्तु समासे पूर्वपदस्य पदसंज्ञा विद्यते, अतः जश्त्वे कृते डकारः सिद्ध्यति ।]\n→ षड् + अ + ठच् [वर्तमानसूत्रेण द्वितीयात् अच्-वर्णात् अग्रे विद्यमानः खण्डः लुप्यते ।]\n→ षड् + अ + इक् [<<ठस्येकः>> [[7.3.50]] इति इक्-आदेशः]\n→ षट् + इक् [<<यस्येति च>> [[6.4.148]] इति अकारलोपः । अकारलोपे कृते उत्तरपदम् सम्पूर्णरूपेण विनश्यति, अतः 'षड्' इत्यस्य पदसंज्ञा अपि विनश्यति, अतः जश्त्वस्य निवृत्तिः भवति, अतश्च 'षट्' इत्येव जायते ]\n→ षड् + इक [टकारात् परः लुप्त-अकारः स्थानिवद्भावेन उत्तरपदत्वं स्वीकरोति । अस्यां स्थितौ पुनः 'षट्' इत्यस्य पुनः पदसंज्ञा भवति । अतः पुनः जश्त्वे कृते 'षड्' इति जायते ]\n→ षडिक\nअनेन प्रकारेण सिद्धः 'षडिक' शब्दः 'अनुकम्पितः षडङ्गुलिकः' इत्यस्मिन् सन्दर्भे प्रयुज्यते । अनुकम्पितः षडङ्गुलिकः सः षडकः । " }, "53084": { "sa": "अनुकम्पायाम् गम्यमानायाम् विहिते ठकारादौ अजादौ वा प्रत्यये परे 'शेवल', 'सुपरि', 'विशाल', 'वरुण', 'अर्यमन्' एते शब्दाः यस्य आदौ सन्ति, तस्य अङ्गस्य तृतीयात् अच्-वर्णात् अनन्तरम् विद्यमानस्य शब्दखण्डस्य लोपः भवति ।", "sd": "<<अनुकम्पायाम्>> [[5.3.76]] इत्यस्मात् सूत्रात् आरभ्य <<अजिनान्तस्योत्तरपदलोपश्च>> [[5.3.82]] इति सूत्रपर्यन्तम् सर्वेषु सूत्रेषु अनुकम्पायाम् गम्यमानायाम् भिन्नाः प्रत्ययाः उक्ताः सन्ति । यदि एषु कश्चन प्रत्ययः ठकारादिः अजादिः वा अस्ति, तर्हि औत्सर्गिकरूपेण <<ठाजादावूर्ध्वं द्वितीयादचः>> [[5.3.83]] इत्यनेन अङ्गस्य द्वितीयात् अच्-वर्णात् अनन्तरम् विद्यमानस्य शब्दखण्डस्य लोपे प्राप्ते ; 'शेवल', 'सुपरि', 'विशाल', 'वरुण', 'अर्यमन्' एते शब्दाः यस्य प्रारम्भे विद्यन्ते, तेषाम् विषये अपवादत्वेन अङ्गस्य तृतीयात् अच्-वर्णात् अनन्तरम् विद्यमानस्य शब्दखण्डस्य लोपः भवति ।\nकानिचन उदाहरणानि एतानि -\n1. अनुकम्पितः शेवलदत्तः\n= शेवलदत्त + ठच् / घन् / इलच् [<<बह्वचो मनुष्यनाम्नष्ठज्वा>> [[5.3.78]] इति ठच् । पक्षे <<घनिलचौ च>> [[5.3.79]] इत्यनेन 'घन्' तथा 'इलच्' एतौ प्रत्ययौ अपि भवतः]\n→ शेवल + ठच् / घन् / इलच् [वर्तमानसूत्रेण तृतीयात् अचः अग्रे विद्यमानस्य शब्दखण्डस्य लोपः]\n→ शेवल + इक / इय / इल [<<ठस्येकः>> [[7.3.50]] इति ठकारस्य 'इक्' आदेशः । <<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इत्यनेन घकारस्य 'इय्' आदेशः]\n→ शेवल् + इक / इय + इल [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ शेवलिक / शेवलिय / शेवलिल\nएवमेव -\n2. अनुकम्पितः सुपरिदत्तः = सुपरिकः / सुपरियः / सुपरिलः ।\n3. अनुकम्पितः विशालदत्तः = विशालिकः / विशालियः / विशालिलः ।\n4. अनुकम्पितः वरुणदत्तः = वरुणिकः / वरुणियः / वरुणिलः ।\n5. अनुकम्पितः अर्यमादत्तः = अर्यमिकः / अर्यमियः / अर्यमिलः ।\nअत्र एकं वार्त्तिकं ज्ञातव्यम् - । इत्युक्ते, यदि अङ्गस्य आदौ विद्यमानानाम् शेवलादीनाम् शब्दानाम् सन्धिकार्यम् कृतम् दृश्यते, तर्हि सन्धिच्छेदं कृत्वा ततः अस्य सूत्रस्य प्रयोगः करणीयः । यथा -\nअनुकम्पितः शेवलेन्द्रदत्तः\n= शेवलेन्द्रदत्त + ठच् / घन् / इलच्\n→ शेवल+इन्द्रदत्त + ठच् / घन् / इलच् [सन्धिच्छेदः]\n→ शेवल + ठच् / घन् / इलच् [तृतीयात् अच्-वर्णात् अनन्तरं विद्यमानः 'इन्द्रदत्त' इति खण्डः लुप्यते ।]\n→ शेवलिक / शेवलिय / शेवलिल\nयदि अत्र सन्धिकार्यात् पूर्वमस्य सूत्रस्य प्रयोगः क्रियेत, तर्हि 'शेवले + ठच् / घन् / इलच्' इति अवशिष्य 'शेवलयिक / शेवलयिय / शेवलयिल' एतानि अनिष्टरूपाणि सिद्ध्येयुः । तत् तथा मा भूत्, अतः अस्य वार्त्तिकस्य निर्माणं कृतमस्ति । " }, "53085": { "sa": "'अल्प' इत्यस्य विशेष्यरूपेण विहितात् प्रातिपदिकात् तिङन्तात् च स्वार्थे यथाविहितं प्रत्ययः भवति । ", "sd": "'अल्प' (लघु / little quantity) इत्यस्य विशेष्यरूपेण विहितं यत् प्रातिपदिकम्, तस्मात् वर्तमानसूत्रेण स्वार्थे औत्सर्गिकः क-प्रत्ययः उत तस्य अपवादः विधीयते । यथा -\n1. अल्पम् तैलम् इत्येव = तैल + क → तैलकम् । A little oil इत्याशयः ।\n2. अल्पम् क्षीरम् इत्येव = क्षीर + क → क्षीरकम् ।\n3. अल्पम् घृतम् इत्येव = घृत + क → घृतकम् ।\nअव्ययानाम्, सर्वनामशब्दानाम्, तथा च तिङन्तानाम् विषये अपि अस्य सूत्रस्य प्रसक्तिः विद्यते, परन्तु एतेभ्यः परस्य क-प्रत्ययस्य अपवादरूपेण <<अव्ययसर्वनाम्नामकच् प्राक् टेः>> [[5.3.71]] इति अकच्-प्रत्ययः विधीयते, सः च अङ्गस्य टि-संज्ञकात् पूर्वमागच्छति । उदाहरणानि एतानि -\n1. अल्पमुच्चैः (a little above) = उच्चैस् + अकच् → उच्चकैः ।\n2. अल्पम् सर्वम् (a little of everything) = सर्वम् + अकच् → सर्वकम् । 'सर्व' शब्दस्य विषये 'अकच्' प्रत्ययः सुबन्तात् अनन्तरम् विधीयते इति <<अव्ययसर्वनाम्नामकच् प्राक् टेः>> [[5.3.71]] इत्यत्र स्पष्टीकृतमस्ति ।\n3. अल्पम् पचति (Cooks a little quantity) = पचति + अकच् → पचतकि । 'देवदत्तः पचतकि' एतादृशमस्य प्रयोगः भवति ।\n " }, "53086": { "sa": "'ह्रस्व' इत्यस्य विशेष्यरूपेण विहितात् प्रातिपदिकात् स्वार्थे यथाविहितं प्रत्ययः भवति ।", "sd": "'ह्रस्व' (यत् दीर्घः नास्ति तत्, short) इत्यस्य विशेष्यरूपेण विहितं यत् प्रातिपदिकम्, तस्मात् वर्तमानसूत्रेण स्वार्थे 'क' प्रत्ययः उत तस्य अपवादः विधीयते । यथा -\n1. ह्रस्वः वृक्षः इत्येव = वृक्ष + क → वृक्षकः ।\n2. ह्रस्वः स्तम्भः (stem of a tree) इत्येव = स्तम्भ + क → स्तम्भकः ।\n3. ह्रस्वः प्लक्षः (= किञ्चन फलम्) इत्येव = प्लक्ष + क → प्लक्षकः ।\nविशेषः - अस्मिन् प्रकरणे प्रायः सर्वेषु सूत्रेषु 'तिङः' इति अनुवृत्तिः स्वीकृता अस्ति । परन्तु अत्र अस्याः किमपि प्रयोजनम् न, अतः अत्र इयमनुवृत्तिः न स्वीक्रियते ।\nज्ञातव्यम् - पूर्वसूत्रे <<अल्पे>> [[5.3.85]] इत्यत्र 'अल्प' इत्यस्य विशेषणरूपेण विहितात् प्रातिपदिकात् प्रत्ययविधानं कृतमस्ति । अस्मिन् सूत्रे 'ह्रस्व' इत्यस्मिन् सन्दर्भे प्रत्ययविधानं कृतमस्ति । 'अल्प' तथा 'ह्रस्व' एतयोर्मध्ये सूक्ष्मः भेदः विद्यते । 'अल्प' इत्यनेन प्रमाणस्य मापनं क्रियते, तथा च 'ह्रस्व' इत्यनेन आयामस्य-\n(अ) अल्प = little quantity ; यथा - अल्पम् तैलम् ।\n(आ) ह्रस्व = short in length or size ; यथा - अल्पः पटः ।\nइत्युक्ते, भाषायाम् 'अल्प' तथा 'ह्रस्व' शब्दाः भिन्नेषु अर्थेषु प्रयुक्ताः दृश्यन्ते । यत्र 'अल्प' इति शब्दः साधु अस्ति तत्र 'ह्रस्व' इत्यपि शब्दः साधु एव स्यात् इति नैव आवश्यकम् । अतएव द्वयोः अपि शब्दयोः भिन्नरूपेण ग्रहणम् क्रियते । " }, "53087": { "sa": "'ह्रस्व' इत्यस्य विशेष्यरूपेण विहितात् प्रातिपदिकात् संज्ञायां गम्यमानायां स्वार्थे 'कन् ' प्रत्ययः भवति ।", "sd": "'ह्रस्व' (यत् दीर्घः नास्ति तत्, short) इत्यस्य विशेष्यरूपेण विहितं यत् प्रातिपदिकम्, तस्मात् <<ह्रस्वे>> [[5.3.86]] इत्यनेन क-प्रत्यये प्राप्ते संज्ञायाः विषये तं बाधित्वा कन्-प्रत्ययः भवति ।\nयथा -\n1. ह्रस्वः वंशः (= bamboo cane) इत्येव = वंश + कन् → वंशकः । A वंशक is a term given for a small bamboo cane.\n2. ह्रस्वः वेणुः (= flute) इत्येव = वेणु + कन् → वेणुकः । A वेणुक is a term given for a small flute.\n3. ह्रस्वः दण्डः इत्येव = दण्ड + कन् → दण्डकः । A दण्डक is a term given for a small दण्ड . (rod)\nस्मर्तव्यम् - 'क' तथा 'कन्' प्रत्ययाभ्याम् उभाभ्यां समानमेव रूपं जायते, परन्तु द्वयोः रूपयोः स्वरभेदः विद्यते । 'क' प्रत्ययान्तशब्दानामन्तिमः अकारः <<आद्युदात्तश्च>> [[3.1.3]] इत्यनेन उदात्तसंज्ञकः अस्ति । परन्तु 'कन्' प्रत्ययान्तशब्दानाम् विषये तु प्रथमः स्वरः <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] इत्यनेन उदात्तसंज्ञकः भवति । एतत् भेदम् स्पष्टीकर्तुम् एव अत्र 'कन्' इति प्रत्ययः विशिष्टरूपेण प्रोक्तः अस्ति । " }, "53088": { "sa": "'ह्रस्व' इत्यस्य विशेष्यरूपेण विहितेभ्यः 'कुटी', 'शमी', 'शुण्डा' एतेभ्यः शब्देभ्यः स्वार्थे 'र' प्रत्ययः भवति । ", "sd": "'ह्रस्व' (यत् दीर्घः नास्ति तत्, short) इत्यस्य विशेष्यरूपेण विहितं यत् प्रातिपदिकम्, तस्मात् <<ह्रस्वे>> [[5.3.86]] इत्यनेन औत्सर्गिकरूपेण क-प्रत्यये प्राप्ते 'कुटी', 'शमी', 'शुण्डा' एतेषां विषये तं बाधित्वा 'र' प्रत्ययः भवति ।\n1. ह्रस्वा कुटी (small-sized hut) इत्येव = कुटी + र → कुटीर ।\n2. ह्रस्वा शमी (legume) इत्येव = शमी + र → शमीर ।\n3. ह्रस्वा शुण्डा (trunk) इत्येव = शुण्डा + कन् → शुण्डार ।\nस्मर्तव्यम् - 'कुटीर', 'शमीर', 'शुण्डार' एते त्रयः अपि तद्धितान्ताः शब्दाः पुंलिङ्गे प्रयुज्यन्ते । " }, "53089": { "sa": "'ह्रस्व' इत्यस्य विशेष्यरूपेण विहितात् 'कुतू' शब्दात् स्वार्थे 'डुपच्' प्रत्ययः भवति ।", "sd": "'ह्रस्व' (यत् दीर्घः नास्ति तत्, short) इत्यस्य विशेष्यरूपेण विहितं यत् प्रातिपदिकम्, तस्मात् <<ह्रस्वे>> [[5.3.86]] इत्यनेन औत्सर्गिकरूपेण क-प्रत्यये प्राप्ते 'कुतू' अस्य विषये अपवादरूपेण 'डुपच्' प्रत्ययः भवति ।\nह्रस्वा कुतू (oil bag / oil bottle) इत्येव\n= कुतू + डुपच्\nकुतू + उप [डकारचकारयोः इत्संज्ञा, लोपः]\n→ कुत् + उप [डित्त्वात् <<टेः>> [[6.4.143]] इति टिलोपः]\n→ कुतुप ।\nA small-sized oil container / bottle is called कुतुपः । अयम् शब्दः पुंलिङ्गे प्रयुज्यते ।\n" }, "53090": { "sa": "'ह्रस्व' इत्यस्य विशेष्यरूपेण विहितात् 'कासू' तथा 'गोणी' शब्दाभ्याम् स्वार्थे 'ष्टरच्' प्रत्ययः भवति । ", "sd": "'ह्रस्व' (यत् दीर्घः नास्ति तत्, short) इत्यस्य विशेष्यरूपेण विहितं यत् प्रातिपदिकम्, तस्मात् <<ह्रस्वे>> [[5.3.86]] इत्यनेन औत्सर्गिकरूपेण क-प्रत्यये प्राप्ते 'कासू' तथा 'गोणी' एतयोः विषये अपवादत्वेन 'ष्टरच्' प्रत्ययः भवति ।\nविशेषः - अत्र मूलरूपेण 'तर' इति प्रत्ययः अस्ति । षकारः प्रत्यये अनुबन्धरूपेण प्रयुज्यते, अतः ष्टुत्वं अपि भवति येन तकारस्य टकारादेशः भवति । प्रक्रियायाः प्रथमसोपाने <<षः प्रत्ययस्य>> [[1.3.6]] इत्यनेन षकारस्य इत्संज्ञा तथा <<तस्य लोपः>> [[1.3.9]] इत्यनेन लोपे कृते <ऽनिमित्तापाये नैमित्तिकस्याप्यपायःऽ> अनेन सिद्धान्तेन ष्टुत्वं अपि निवर्तते -\nह्रस्वा कासूः (A type of weapon) इत्येव\n= कासू + ष्टरच्\n→ कासू + तर [षकारचकारयोः इत्संज्ञा, लोपः । षकारलोपे <ऽअकृतव्यूहाः पाणिनीयाःऽ> इत्यनया परिभाषया (= <ऽनिमित्तापाये नैमित्तिकस्याप्यपायःऽ> इत्यनेन सिद्धान्तेन) ष्टुत्वमपि विनश्यति, अतः 'तर' इत्येव अवशिष्यते ।\n→ कासूतर\n→ कासूतर + ङीष् [स्त्रीत्वे विवक्षिते <<षिद्गौरादिभ्यश्च>> [[4.1.41]] इति ङीष्]\n→ कासूतर् + ई [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ कासूतरी । a small weapon - इत्याशयः ।\nएवमेव ह्रस्वा गोणी (small sack / bag) इत्येव = गोणी + ष्टरच् → गोणीतरी । " }, "53091": { "sa": "वत्स, उक्षन्, अश्व तथा ऋषभ - एतेभ्यः शब्देभ्यः तनुत्वे द्योत्ये स्वार्थे 'ष्टरच्' प्रत्ययः भवति । ", "sd": "'तनुत्व' अस्मिन् सन्दर्भे अनेन सूत्रेण 'ष्टरच्' प्रत्ययः उक्तः अस्ति । 'तनुत्वम्' इत्युक्ते 'गुणस्य न्यूनत्वम्' / 'गुणस्य अभावः' । Lack of a certain characteristics इति अर्थः । सन्दर्भं पश्यामश्चेत् अधिकम् स्पष्टम् स्यात् -\n1. वत्सः = धेनोः शिशुः वत्सः इति नाम्ना ज्ञायते । अत्र 'वत्स' अयम् शब्दः 'वयः' अस्य गुणस्य आधारेण प्रयुज्यते । An offspring of cow is called वत्स only when it is very young in age. So the word वत्स is associated with the quality of being 'young'. अस्य गुणस्य न्यूनत्वम् इत्युक्ते 'शिशु-अवस्थातः कुमार-अवस्थायाः प्राप्तिः' । When a वत्स becomes a little older, the very quality that was responsible for referring it as वत्स (=young age) ceases to exist. अस्यैव निर्देशः 'तनुत्वम्' इत्यनेन अत्र कृतः अस्ति । वत्सस्य तनुत्वे प्राप्ते या स्थितिः जायते (= The stage of life after being a baby) तस्याः निर्देशार्थम् 'वत्स' शब्दात् ष्टरच्-प्रत्ययः भवति । प्रक्रिया इयम् -\nवत्स + ष्टच्\n→ वत्स + तर [षकारचकारयोः इत्संज्ञे, लोपः भवति । षकारलोपे <ऽअकृतव्यूहाः पाणिनीयाःऽ> इत्यनया परिभाषया (= <ऽनिमित्तापाये नैमित्तिकस्याप्यपायःऽ> इत्यनेन सिद्धान्तेन) ष्टुत्वमपि विनश्यति, अतः 'तर' इत्येव अवशिष्यते।]\n→ वत्सतर\nवत्सतरः = कुमारावस्थायां प्राप्तः वत्सः = A baby of cow that has become young adult.\nस्त्रीत्वे <<षिद्गौरादिभ्यश्च>> [[4.1.41]] इति ङीष्-प्रत्ययं कृत्वा - 'वत्सतरी' इति सिद्ध्यति ।\n2. 'उक्षन्' = कुमार-अवस्थायां प्राप्तः वृषभः 'उक्षन्' नाम्ना ज्ञायते । A young adult bull is called उक्षन् । अत्र अनेन शब्देन 'कुमारम् वयः' इति गुणः द्योतितः अस्ति । अस्य गुणस्य 'तनुत्वम्' (= न्यूनत्वम्) इत्युक्ते कुमार-अवस्थातः प्रौढ-अवस्थाप्राप्तिः । When a उक्षा becomes a old, the very quality that was responsible for referring it as उक्षा (=young adult) ceases to exist. अस्यैव निर्देशः 'तनुत्वम्' इत्यनेन अत्र कृतः अस्ति । उक्ष्णः तनुत्वे प्राप्ते या स्थितिः जायते (= The stage of life after being a young adult) तस्याः निर्देशार्थम् 'उक्षन्' शब्दात् ष्टरच्-प्रत्यः भवति ।\nउक्षन् + ष्टरच्\n→ उक्षन् + तर [षकारलोपे ष्टुत्वनिवृत्तिः]\n→ उक्ष + तर [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः]\n→ उक्षतर\nA mature / old bull is called उक्षतर ।\n3. अश्व = 'अश्वा' (female horse) इत्यस्याः जातः पुत्रः 'अश्वः' नाम्ना तदा एव उच्यते यदा तस्य पिता अपि स्वयम् 'अश्वः' अस्ति (An animal is typically called 'अश्व' if is born due to a breeding between a female horse and a male horse.) । परन्तु कुत्रचित् अश्वायाः गर्दभेन सह मेलनं कृत्वा अपि कस्यचन पशोः जन्म सम्भवति (A female horse can also breed with a male donkey to create an offspring) । अस्मिन् पशौ 'अश्व'इत्यस्य गुणस्य न्यूनत्वम् (= तनुत्वम्) विद्यते (This offspring is not a 100% horse, so it is said to have the न्यूनत्वम् of the 'horse' characteristics) । अस्य पशोः निर्देशार्थम् 'अश्व' शब्दात् 'ष्टरच्' प्रत्ययः वर्तमानसूत्रेण क्रियते ।\nअश्व + ष्टरच् → अश्वतरः । mule इत्यर्थः ।\nविशेषः - अस्य सूत्रस्य विषये काशिकाकारः वदति - 'अन्यपितृकता' । इत्यस्य अयमेव अर्थः - अश्वायाः सह कस्यचन अन्यस्य पशोः मेलनं कृत्वा जायमानः पशुः, यस्य पिता स्वयमश्वः नास्ति, तस्य निर्देशः अत्र 'अश्वतर' इत्यनेन भवति । Note that a mule is the offspring of a male donkey and a female horse. Reverse breeding is not very common and it is not clear from the commentaries whether it also gets the same name.\n4. ऋषभ - शक्तिमान् वृषभः 'ऋषभः' नाम्ना ज्ञायते । A fully grown superior bull who is capable of carrying a load is referred as ऋषभ । अस्य न्यूनता (= तनुत्वम्) इत्युक्ते भारवहनशक्तेः अभावः । एतादृशः भारवहने असमर्थः यः ऋषभः, तस्य निर्देशार्थम् 'ऋषभ' शब्दात् 'ष्टरच्' प्रत्ययः भवति । भारवहने असमर्थः ऋषभः = तनुत्वं प्राप्तः ऋषभः = ऋषभतरः । A fully grown bull which is inferior due to its inability of carrying a load is called ऋषभतरः\nएतादृशमनेन सूत्रेण 'वत्सतर', 'उक्षतर', 'अश्वतर' तथा 'ऋषभतर' एतेषाम् शब्दानां सिद्धिः भवति । " }, "53092": { "sa": "द्वयोः एकस्य निर्धारणम् कर्तव्यमस्ति चेत् 'किम्', 'यत्', 'तद्' एतेभ्यः शब्देभ्यः स्वार्थे 'डतरच्' प्रत्ययः भवति । ", "sd": "निर्धारणम् इत्युक्ते निश्चयः / निर्वचनम् (determination / selection / ascertainment / specification) । यत्र द्वाभ्यां पदार्थाभ्याम् कस्यचन निर्धारणम् करणीयमस्ति, तत्र 'किम्', 'यत्', 'तद्' एतेभ्यः शब्देभ्यः स्वार्थे 'डतरच्' इति प्रत्ययः भवति । The डतरच् प्रत्यय is used to separate one entity from other, on the basis of certain quality । क्रमेण पश्यामः -\n1) द्वयोः कः (who amongst the two) अस्मिन् सन्दर्भे 'किम्' शब्दात् स्वार्थे 'डतरच्' प्रत्ययः भवति ।\nद्वयोः कः इत्येव\n= किम् + डतरच्\n→ किम् + अतर [डकारचकारयोः इत्संज्ञा, लोपः]\n→ क् + अतर [डित्-प्रत्यये परे <<टेः>> [[6.4.143]] इति अङ्गस्य टिलोपः]\n→ कतर \nयथा - भवतोः कतरः देवदत्तः ? Who amongst you two is देवदत्त ?\n3) 'द्वयोः यः' अस्मिन् सन्दर्भे 'यद्' शब्दात्, तथा 'द्वयोः सः' अस्मिन् सन्दर्भे 'तद्' शब्दात् स्वार्थे डतरच् प्रत्ययः भवति ।\nद्वयोः यः इत्येव = यद् + डतरच् → यतर । Whosoever amongst two इत्यर्थः ।\nद्वयोः सः इत्येव = तद् + डतरच् → ततर ।That amongst two इत्यर्थः ।\nयथा - यतरः भवतो देवदत्तः, ततरः अत्र आगच्छतु ।\nविशेषः -\n1. अनेन सूत्रेण निर्मिताः 'कतर', 'यतर', 'ततर' एते शब्दाः सर्वनामसंज्ञकाः सन्ति । <<सर्वादीनि सर्वनामानि>> [[1.1.27]] इत्यस्मिन् सूत्रे निर्दिष्टे सर्वादिगणे 'डतर' तथा 'डतम' एतयोः प्रत्यययोः निर्देशः कृतः अस्ति । अयम् निर्देशः 'डतरच्' तथा 'डतमच्' एतयोः विषये एव अस्ति । एतयोः प्रत्यययोः योजनेन निर्मिताः शब्दाः सर्वनामसंज्ञकाः भवन्ति - इति अस्य अर्थः । अतएव 'कतर', 'यतर', 'ततर' एतेषाम् सर्वनामसंज्ञा भवति । एतेषाम् सर्वेषाम् रूपाणि 'सर्व' शब्दवदेव भवन्ति, परन्तु नपुंसकलिङ्गे प्रथमाद्वितीयैकवचनस्य रूपयोः <<अद्ड् डतरादिभ्यः पञ्चभ्यः>> [[7.1.25]] इत्यनेन सुँ/अम्-प्रत्यययोः अद्ड्-आदेशः भवति, अतः 'कतरत् / यतरत् / ततरत्' एतादृशम् रूपम् जायते ।\n2. अस्मिन् सूत्रे 'निर्धारणम्' (= चयनम्) अस्मिन् सन्दर्भे प्रत्ययविधानं कृतमस्ति । एतत् चयनम् चतुर्भिः प्रकारैः सम्भवति - इति काशिकायाम् स्पष्टीक्रियते । अस्मिन् विषये काशिकाकारः वदति - जात्या, क्रियया, गुणेन, संज्ञया वा समुदायादेकदेशस्य पृथक्करणं निर्धारणम्। । इत्युक्ते, यत्र जात्याः आधारेण, क्रियायाः आधारेण, गुणस्य आधारेण उत संज्ञायाः आधारेण पृथक्करणम् क्रियते, तत्रैव तस्य नाम 'निर्धारणम्' इति दीयते । अस्यां स्थितौ वर्तमानसूत्रस्य प्रयोगः भवितुमर्हति । अस्य उदाहरणानि एतानि -\nअ) जात्याः आधारेण निर्धारणम् - कतरः एतयोः अश्वः ? कतरा एतयोः ब्राह्मणी ? कतरत् एतयोः आम्रफलम् ?\nआ) क्रियायाः आधारेण निर्धारणम् - कतरः एतयोः कारकः ? कतरा एतयोः अध्यापिका ? कतरत् एतयोः वाहकम् ?\nइ) गुणस्य आधारेण निर्धारणम् - कतरः एतयोः शूरः ? कतरा एतयोः पट्वी ? कतरत् एतयोः मधुरम् ?\nई) संज्ञायाः आधारेण निर्धारणम् - कतरः एतयोः देवदत्तः ? कतरा एतयोः सीता ? कतरत् एतयोः श्रवणम् (नक्षत्रम्) ?\nअस्मिन् विषये <<यतश्च निर्धारणम्>> [[2.3.41]] इत्यस्मिन् सूत्रे विस्तारेण पाठितमस्ति ।\nस्मर्तव्यम् -\n1. अस्मिन् सूत्रे 'निर्धारणे' इति 'विषयसप्तमी' अस्ति । निर्धारणस्य विवक्षायाम् अस्य सूत्रस्य प्रयोगः भवति - इति अस्य अर्थः ।\n2. तद्धिताधिकारे <<द्विवचनविभज्योपपदे तरबीयसुनौ>> [[5.3.57]] इत्यनेन 'तरप्' इति अपि किञ्चन प्रत्ययः पाठ्यते । अयम् प्रत्ययः सर्वथा भिन्नः अस्ति, अस्य योजनेन रुपाणि अपि भिद्यन्ते (यथा - किम् + तरप् → किंतर) इति ज्ञातव्यम् ।\n3. <<समर्थानां प्रथमाद्वा>> [[4.1.82]] इतस्मात् प्रारब्धः 'वा' इत्यस्य अधिकारः अत्र प्रचलन् अस्ति, अतः एतौ प्रत्ययौ विकल्पेन भवतः । अतः 'द्वयोः यः देवदत्तः सः आगच्छतु' एतादृशम् वाक्यमपि साधु एव ।\n4. <<अव्ययसर्वनाम्नामकच्प्राक्टेः>> [[5.3.71]] इत्यनेन विहितस्य अकच्-प्रत्ययस्य अपवादरूपेण अत्र डतरच्-प्रत्ययः प्रोक्तः अस्ति ।\n5. वर्तमानसूत्रेण उक्तः डतरच्-प्रत्ययः 'किम्' 'यद्', तथा 'तद्' एतेभ्यः त्रिभ्यः शब्देभ्यः एव विधीयते । अन्येभ्यः शब्देभ्यः अस्य प्रसक्तिः नास्ति । " }, "53093": { "sa": "बहुषु एकस्य निर्धारणम् कर्तव्यमस्ति चेत् 'किम्', 'यत्', 'तद्' एतेभ्यः शब्देभ्यः स्वार्थे विकल्पेन 'डतमच्' प्रत्ययः भवति । पक्षे औत्सर्गिकः अकच्-प्रत्ययः अपि विधीयते । ", "sd": "निर्धारणम् इत्युक्ते निश्चयः / निर्वचनम् (determination / selection / ascertainment / specification) । यत्र बहुषु पदार्थेषु कस्यचन निर्धारणम् करणीयमस्ति, तत्र 'किम्', 'यत्', 'तद्' एतेभ्यः शब्देभ्यः स्वार्थे 'डतमच्' इति प्रत्ययः भवति । The डतमच् प्रत्यय is used to separate a particular entity from many entities on the basis of certain quality / action / name / group etc. । क्रमेण पश्यामः -\n1) अनेकेषु कः (who amongst many) अस्मिन् सन्दर्भे 'किम्' शब्दात् स्वार्थे 'डतमच्' प्रत्ययः भवति ।\nअनेकेषु कः इत्येव\n= किम् + डतमच्\n→ किम् + अतम [डकारचकारयोः इत्संज्ञा, लोपः]\n→ क + अतम [डित्-प्रत्यये परे <<टेः>> [[6.4.143]] इति अङ्गस्य टिलोपः]\n→ कतम [<<अतो गुणे>> [[6.1.97]] इति पररूप-एकादेशः]\nयथा - भवतां कतमः देवदत्तः ? Who amongst you all is देवदत्त ?\n3) 'अनेकेषु यः' अस्मिन् सन्दर्भे 'यद्' शब्दात्, तथा 'अनेकेषु सः' अस्मिन् सन्दर्भे 'तद्' शब्दात् स्वार्थे डतमच् प्रत्ययः भवति ।\nअनेकेषु यः इत्येव = यद् + डतमच् → यतम। Whosoever amongst many इत्यर्थः ।\nअनेकेषु सः इत्येव = तद् + डतमच् → ततम ।That amongst many इत्यर्थः ।\nयथा - यतमः भवतां देवदत्तः, ततमः अत्र आगच्छतु ।\nविशेषः -\n1. अनेन सूत्रेण निर्मिताः 'कतम', 'यतम', 'ततम' एते शब्दाः सर्वनामसंज्ञकाः सन्ति । <<सर्वादीनि सर्वनामानि>> [[1.1.27]] इत्यस्मिन् सूत्रे निर्दिष्टे सर्वादिगणे 'डतर' तथा 'डतम' एतयोः प्रत्यययोः निर्देशः कृतः अस्ति । अयम् निर्देशः 'डतरच्' तथा 'डतमच्' एतयोः विषये एव अस्ति । एतयोः प्रत्यययोः योजनेन निर्मिताः शब्दाः सर्वनामसंज्ञकाः भवन्ति - इति अस्य अर्थः । अतएव 'कतम', 'यतम', 'ततम' एतेषाम् सर्वनामसंज्ञा भवति ।\n2. अस्मिन् सूत्रे 'वा' इति निर्देशः क्रियते । <<अव्ययसर्वनाम्नामकच्प्राक्टेः>> [[5.3.71]] इत्यनेन विहितस्य अकच्-प्रत्ययस्य वैकल्पिक-विधानार्थमयं निर्देशः कृतः अस्ति । अतः अनेन सूत्रेण उक्तेषु सन्दर्भेषु पक्षे 'अकच्' प्रत्ययः अपि भवति ।\nअ) अनेकेषु यः इत्येव = यः + अकच् → यकः ।\nआ) अनेकेषु सः इत्येव = सः + अकच् → सकः ।\nइ) अनेकेषु कः इत्येव - किम् + अकच् + सुँ → कः । (अस्य प्रक्रिया <<अव्ययसर्वनाम्नामकच् प्राक् टेः>> [[5.3.71]] इत्यत्र निर्दिष्टा अस्ति ।)\nउदाहरणम् - भवताम् कः देवदत्तः ? यकः देवदत्तः, सकः आगच्छतु ।\n3. <<समर्थानां प्रथमाद्वा>> [[4.1.82]] इतस्मात् प्रारब्धः 'वा' इत्यस्य अधिकारः अत्र प्रचलन् अस्ति, अतः 'अकच्' तथा 'डतमच्' एतौ द्वौ अपि प्रत्ययौ विकल्पेन भवतः । अतः 'भवताम् कः देवदत्तः ? यः देवदत्तः सः आगच्छतु' एतादृशम् वाक्यमपि साधु एव ।\n3. अस्मिन् सूत्रे 'निर्धारणम्' (= चयनम्) अस्मिन् सन्दर्भे प्रत्ययविधानं कृतमस्ति । एतत् चयनम् चतुर्भिः प्रकारैः सम्भवति - इति काशिकायाम् स्पष्टीक्रियते । अस्मिन् विषये काशिकाकारः वदति - जात्या, क्रियया, गुणेन, संज्ञया वा समुदायादेकदेशस्य पृथक्करणं निर्धारणम्। । इत्युक्ते, यत्र जात्याः आधारेण, क्रियायाः आधारेण, गुणस्य आधारेण उत संज्ञायाः आधारेण पृथक्करणम् क्रियते, तत्रैव तस्य नाम 'निर्धारणम्' इति दीयते । अस्यां स्थितौ वर्तमानसूत्रस्य प्रयोगः भवितुमर्हति । अस्य उदाहरणानि एतानि -\nअ) जात्याः आधारेण निर्धारणम् - कतमः एतेषामश्वः ?\nआ) क्रियायाः आधारेण निर्धारणम् - यतमः एतेषाम् कारकः ।\nइ) गुणस्य आधारेण निर्धारणम् - ततमः एतेषाम् शूरः ।\nई) संज्ञायाः आधारेण निर्धारणम् - कतमः एतेषां देवदत्तः ?\nअस्मिन् विषये <<यतश्च निर्धारणम्>> [[2.3.41]] इत्यस्मिन् सूत्रे विस्तारेण पाठितमस्ति ।\n4. अस्मिन् सूत्रे सूत्रकारेण 'जातिपरिप्रश्ने' इति किञ्चन पदम् स्थापितमस्ति । अस्य पदस्य आशयः अयम् - 'यत्र जात्याः आधारेण उत परिप्रश्नस्य आधारेण (= repeated question, interrogation, insulting question etc) बहुषु एकस्य चयनम् कर्तव्यमस्ति, (यथा - भवताम् यतमः ब्राह्मणः, भवताम् कतमः मूर्खः) तत्रैव अस्य सूत्रस्य प्रयोगः स्यात्, अन्यत्र न स्यात्' - इति । परन्तु यदि एतादृशम् स्वीक्रियते चेत् 'यतमः एतेषाम् शूरः / ततमः एतेषां देवदत्तः' एतादृशाः इष्टप्रयोगाः नैव सिद्ध्येयुः । अतः भाष्यकारेण 'जातिपरिप्रश्ने' इति पदमत्र प्रत्याख्यातमस्ति । इत्युक्ते, भाष्यकारस्य मतेन अस्मिन् सूत्रे 'जातिपरिप्रश्ने' इति पदम् नैव स्यात् - इति । कौमुद्यामपि इममेव पक्षमङ्गीकृत्य सूत्रार्थः पाठ्यते । परन्तु काशिकाकारः 'जातिपरिप्रश्ने' इति स्वीकृत्यैव सूत्रस्य अर्थनिर्देशं करोति । अतः काशिकाकारस्य मतेन 'यतमः एतेषाम् शूरः / ततमः एतेषां देवदत्तः' एतादृशाः प्रयोगाः असमीचीनाः एव ।\nअत्र एकम् वार्त्तिकमपि ज्ञेयम् - । इत्युक्ते, 'किम्' सर्वनाम्नः विषये बहुषु एकस्य निर्धारणे डतरच्-प्रत्ययः अपि भवितुमर्हति । यथा - 'कतरः भवताम् देवदत्तः' इति । अत्र वस्तुतः बहुषु एकस्य निर्धारणम् कर्तव्यमस्ति, अतश्च 'डतमच्' प्रत्ययः एव साधु । परन्तु अनेन वार्त्तिकेन अत्र 'डतरच्' प्रत्ययः अपि भवितुमर्हति ।\nअन्य एकः बिन्दुः अत्र ज्ञेयः - अस्मिन् वार्त्तिके 'बहुषु एकस्य निर्धाणरम्' इत्यस्मिन् सन्दर्भे केवलं 'किम्' शब्दस्य विषये एव डतरच्-प्रत्ययः उक्तः अस्ति, 'यद्' तथा 'तद्' एतयोः विषये न । परन्तु भाष्यकारस्य मतेन 'किम्', 'यत्', 'तत्' - एतेषाम् सर्वेषाम् विषये 'बहुनाम् एकस्य निर्धारणम् ' अस्मिन् सन्दर्भे डतरच् प्रत्ययः भवितुमर्हति । अतः 'भवताम् यतरः देवदत्तः ततरः आगच्छतु' इति वाक्यमपि भाष्यकारस्य मतेन साधु एव ।\nस्मर्तव्यम् -\n1. अस्मिन् सूत्रे 'निर्धारणे' इति 'विषयसप्तमी' अस्ति । निर्धारणस्य विवक्षायाम् अस्य सूत्रस्य प्रयोगः भवति - इति अस्य अर्थः ।\n2. अत्र प्रयुक्तः 'बहूनाम्' इति निर्धारणषष्ठी अस्ति । 'बहूनाम् मध्ये' इति अस्य अर्थः ।\n3. तद्धिताधिकारे <<द्विवचनविभज्योपपदे तरबीयसुनौ>> [[5.3.57]] इत्यनेन 'तमप्' इति अपि किञ्चन प्रत्ययः पाठ्यते । अयम् प्रत्ययः सर्वथा भिन्नः अस्ति, अस्य योजनेन रुपाणि अपि भिद्यन्ते (यथा - किम् + तमप् → किंतम) इति ज्ञातव्यम् ।4. वर्तमानसूत्रेण उक्तः डतरच्-प्रत्ययः 'किम्' 'यद्', तथा 'तद्' एतेभ्यः त्रिभ्यः शब्देभ्यः एव विधीयते । अन्येभ्यः शब्देभ्यः अस्य प्रसक्तिः नास्ति ।\n" }, "53094": { "sa": "पूर्वदिशि विद्यमानामाचार्याणाम् मतेन डतरच् तथा डतमच् प्रत्ययौ निर्धारणस्य विषये 'एक' शब्दात् अपि भवतः ।", "sd": "निर्धारणम् इत्युक्ते निश्चयः / निर्वचनम् (determination / selection / ascertainment / specification) । अस्मिन् सन्दर्भे <<किंयत्तदो निर्द्धारणे द्वयोरेकस्य डतरच्>> [[5.3.92]] तथा च <<वा बहूनां जातिपरिप्रश्ने डतमच्>> [[5.3.93]] एतयोः सूत्रयोः 'किम्', 'यद्' तथा 'तद्' एतेभ्यः शब्देभ्यः 'डतरच्' तथा 'डतमच्' एतौ प्रत्ययौ उच्येते । एतयोः एव विषयोः एतौ एव प्रत्ययौ 'एक' इत्यस्मात् शब्दात् अपि भवतः इति प्राचाम् मतम् (= पूर्वदिशि विद्यमानानामाचार्याणाम् मतम्) अस्ति - इति अत्र पाणिनिः स्पष्टीकरोति । क्रमेण पश्यामः -\n1. द्वयोः एकः इत्येव = एक + डतरच् → एकतर । यथा - भवतोः एकतरो देवदत्तः । One amongst you two is Devadatta.\n2. अनेकेषु एकः इत्येव = एक + डतमच् → एकतम । यथा - भवताम् एकतमः देवदत्तः । One amongst you all is Devadatta.\nविशेषः - <<समर्थानाम् प्रथमात् वा>> [[4.1.82]] इत्यस्मात् 'वा' इत्यस्य अनुवृत्तिः अत्र भवितुमर्हति, अतः अनेन सूत्रेण उक्तौ प्रत्ययौ विकल्पेनैव विधीयते । यथा - 'भवतोः एकः देवदत्तः / भवताम् एकः देवदत्तः' एतादृशाः प्रयोगाः अपि साधवः एव । अतः अस्मिन् सूत्रे 'प्राचाम्' इत ग्रहणम् विकल्पार्थम् नैव क्रियते, अपितु पूजार्थम् कृतमस्ति । " }, "53095": { "sa": "'अवक्षेपण' अस्मिन् सन्दर्भे प्रातिपदिकात् स्वार्थे कन्-प्रत्ययः भवति । ", "sd": "अवक्षेपण इत्युक्ते निन्दायाः करणम् (= यस्य निर्देेशं कृत्वा निन्दा क्रियते, तस्य नाम अवक्षेपण इति दीयते) । अस्मिन् सन्दर्भे प्रातिपदिकात् स्वार्थे कन्-प्रत्ययः भवति । यथा -\n1. 'व्याकरणेन नाम त्वं गर्वितः' (You have an ego of your knowledge of grammar) - अस्मिन् सन्दर्भे 'व्याकरण'शब्दात् वर्तमानसूत्रेण 'कन्' प्रत्ययं कृत्वा 'व्याकरणक' इति शब्दः सिद्ध्यति । 'व्याकरणकेन नाम त्वं गर्वितः' इत्युक्ते 'त्वम् व्याकरणेन गर्वितः असि' इत्येव ।\n2. 'याज्ञिक्येन नाम त्वं गर्वितः' ( You have ego of being a याज्ञिक) - अस्मिन् सन्दर्भे 'याज्ञिक्य' शब्दात् 'कन्' प्रत्ययं कृत्वा 'याज्ञिक्येन नाम त्वं गर्वितः' इति प्रयोगः सिद्ध्यति ।\nज्ञातव्यम् -\n1. यस्य कारणेन गर्वः जातः, तस्मात् प्रातिपदिकात् स्वार्थे प्रत्ययविधानमत्र कृतमस्ति । यथा, 'व्याकरणेन नाम त्वं गर्वितः' इत्यत्र 'व्याकरण' इति गर्वस्य मूलकारणम्, अतः 'व्याकरण' शब्दात् स्वार्थे कन्-प्रत्ययं कृत्वा 'व्याकरणक' इति शब्दः 'व्याकरण' अस्मिन्नेव अर्थे सिद्ध्यति । व्याकरणेन यः गर्वितः अस्ति, तस्य निर्देशः 'व्याकरणक' इत्यनेन न क्रियते - इति स्मर्तव्यम् । तथा च, स्वयं व्याकरणमत्र न निन्द्यते, अपितु व्याकरणस्य साहाय्येन यः गर्वं करोति तस्य अत्र निन्दा कृता अस्ति - इति स्मर्तव्यम् ।\n2. <<कुत्सिते>> [[5.3.74]] इत्यनेन सूत्रेण अपि निन्दायाम् एव प्रत्ययविधानम् भवति, परन्तु तत् विधानम् कर्मणः निर्देशं कारयति, न हि करणस्य । यथा - 'कुत्सितः देवदत्त' 'इत्युक्ते देवदत्तः स्वयमेव कुत्सितः अस्ति, न हि केनचित् विशिष्टकारणेन । The current sutra gives a प्रत्यय that gets attached to a 'करण', where as the sutra <<कुत्सिते>> [[5.3.74]] gives the प्रत्यय that gets attached to the कर्म । अस्यैव स्पष्टीकरणार्थम् भाष्येषु उक्तमस्ति - 'येन इतरः कुत्स्यते तद् इह उदाहरणम्' । The grammar is being used as an instrument of the निन्दा of someone else, hence the current sutra is applicable here. If grammar itself undergoes निन्दा, then we would have used <<कुत्सिते>> [[5.3.74]] - इत्याशयः ।\n3. कन् तथा क - द्वयोः प्रत्यययोः समानमेव रूपं सिद्ध्यति, परन्तु तयोर्मध्ये स्वरभेदः विद्यते । कन्-प्रत्ययान्तशब्दानामादिस्वरः <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] इत्यनेन उदात्तः भवति । क-प्रत्ययान्तशब्दानां विषये तु <<आद्युदात्तश्च>> [[3.1.3]] इत्यनेन प्रत्ययस्य आदिस्वरः उदात्तः भवति ।\nस्मर्तव्यम् - अस्य सूत्रस्य विषये काशिकाकारः <<कुत्सिते>> [[5.3.74]] इत्यस्य प्रयोगे अपि कन्-प्रत्ययम् एव पाठयति । इदम् विधानम् प्रायः दोषपूर्णम्, यतः तत्वबोधिन्याम् 'अवक्षेपणे कन्। कुत्सिते तु कः। स्वरे विशेषः' इति स्पष्टरूपेण प्रतिपादितमस्ति ।\nविशेषः - <<प्रागित्वात् कः>> [[5.3.70]] इत्यत्र प्रारब्धः 'क' प्रत्ययस्य अधिकारः अत्र समाप्यते । " }, "53096": { "sa": "'इव' इत्यस्य प्रयोगेण यदा प्रतिकृतिः निर्दिश्यते, तदा स्वार्थे कन्-प्रत्ययः भवति । ", "sd": "'इव' इति किञ्चन अव्ययम् । सामान्यरूपेण साधर्म्यम् (similarity) दर्शयितुमस्य अव्ययस्य प्रयोगः भवति । यथा - 'अयम् पशुः गौः इव अस्ति' - इति ।एतादृशम् साधर्म्यम् यत्र प्रतिकृतेः (= photocopy / identical model) इत्यस्य विषये विधीयते, तत्र वर्तमानसूत्रेण प्रातिपदिकात् स्वार्थे कन् प्रत्ययः भवति । When the word इव is used to indicate similarity between two distinct entities, oneof which is a photocopy or a model of another, the कन् is used to indicate the photocopy).\nयथा -\n1. 'अश्वः इव इयमश्वस्य प्रतिकृतिः' (This statue of a horse is exactly like the original horse) अस्मिन् वाक्ये 'इव' शब्दस्य प्रयोगः प्रतिकृतेः साधर्म्यम् निर्देशयितुम् कृतः अस्ति । अतः अस्याः प्रतिकृतेः निर्देशः 'अश्व + कन् = अश्वक' इत्यनेन अपि क्रियते । अश्व इव अयमश्वप्रतिकृतिः अश्वकः ।\nएवमेव -\n2. उष्ट्रः इव इयम् प्रतिकृतिः = उष्ट्रकः ।\n3. गर्दभः इव इयम् प्रतिकृतिः = गर्दभकः ।\nस्मर्तव्यम् - यदि प्रतिकृत्या सह साधर्म्यम् न उच्यते, तर्हि वर्तमानसूत्रस्य प्रयोगः न भवति । यथा - 'गौः इव अयम् गवयः (This ox is just like a cow)' इत्यस्मिन् वाक्ये गवयस्य साधर्म्यमुच्यते, 'गवयः' इति तु नैव प्रतिकृतिः । अतः अत्र अस्य सूत्रस्य प्रयोगः न भवति ।\nविशेषः - अस्मिन् सूत्रे लघुसिद्धान्तकौमुद्याम् किञ्चन वार्त्तिकं लभ्यते - । इत्युक्ते, 'कन्' प्रत्ययः सर्वेभ्यः प्रातिपदिकेभ्यः स्वार्थे भवितुमर्हति । अस्य वार्त्तिकस्य साहाय्येन भिन्नानां शब्दानां व्युत्पत्तिः अपि सम्भवति । यथा - 'बालः एव बालकः । पुष्पम् एव पुष्पकम् । माला एव मालाका । भूमि एव भूमिका' - आदयः । एतत् वार्त्तिकम् महाभाष्ये न विद्यते, परन्तु काशिकाकारेण <<न सामिवचने>> [[5.4.5]] इत्यत्र अस्य ज्ञापनं कृतमस्ति । परन्तु अनेके पण्डिताः एतत् वार्त्तिकम् न स्वीकुर्वन्ति । तेषां मतेन <<यावादिभ्यः कन्>> [[5.4.29]] इत्यत्र निर्दिष्टः यावादिगणः आकृतिगणः अस्ति, अतः येभ्यः शब्देभ्यः स्वार्थे कन्-प्रत्ययः इष्यते, ते सर्वे शब्दाः यावादिगणे भवितुमर्हन्ति एव । " }, "53097": { "sa": "'इव' इत्यस्य प्रयोगेण यत्र संज्ञा निर्दिश्यते, तत्र प्रातिपदिकात् स्वार्थे कन्-प्रत्ययः भवति । ", "sd": "<<इवे प्रतिकृतौ>> [[5.3.96]] इत्यनेन प्रतिकृतेः विषये कन्-प्रत्ययविधानम् क्रियते । परन्तु यत्र 'इव' इत्यस्य प्रयोगः प्रतिकृतिभिन्नविषये क्रियते (When the word इव is used to indicate similarity between two distinct entities, neither of which is a photocopy or a model of another), तत्रापि केषुचन स्थलेषु कन्-प्रत्ययान्तरूपम् प्रयुज्यते । एतादृशानां रूपाणां साधुत्वार्थमस्य सूत्रस्य निर्माणं कृतमस्ति ।\nयथा - 'अश्वः इव इदम् वस्तु, अस्य नाम अश्वकः' । अत्र किञ्चन वस्तु अश्वः (उत तस्य प्रतिकृतिः) नास्ति, परन्तु अश्वः इव दृश्यते । तस्य संज्ञानिर्माणार्थम् 'अश्व' शब्दात् 'कन्' प्रत्ययं कृत्वा 'अश्वक' इति शब्दः सिद्ध्यति । यथा - शिशूनाम् क्रीडनकमश्व इव दृश्यते, तस्य नाम 'अश्वक' इति दीयते । A toy horse is termed अश्वक if it looks similar (not necessarily identical) to an अश्व.\nज्ञातव्यम् - केवलम् संज्ञायाः विषये एव अस्य सूत्रस्य प्रयोगः भवति । अतः इदम् सूत्रम् शिष्टप्रयोगमनुसृत्यैव प्रयोक्तव्यम् । " }, "53098": { "sa": "'इव' इत्यस्य प्रयोगेण मनुष्यस्य संज्ञायां गम्यमानायाम् स्वार्थे विहितस्य कन्-प्रत्ययस्य लोपः भवति । ", "sd": "<<संज्ञायां च>> [[5.3.97]] इत्यनेन सूत्रेण 'इव' इत्यस्य प्रयोगेण संज्ञायाः निर्देशे कन्-प्रत्ययः विधीयते । परन्तु इयम् संज्ञा मनुष्यस्य संज्ञा अस्ति चेत् अस्य कन्-प्रत्ययस्य वर्तमानसूत्रेण लोपः भवति । यथा -\n1. चञ्चा (scarecrow) इव अयम् मनुष्यः = चञ्चा + कन् → चञ्चा + X → चञ्चा । यथा चञ्चा वातम् वर्षाम् वा न सहते तथैव यः मनुष्यः वातवर्षादीन् सोढुम् न शक्नोति, तस्य निर्देशार्थम् इयं संज्ञा प्रयुज्यते । Just like a scarecrow (A human-shaped object placed in farms to scare bird away) cannot sustain rains / winds, in the same way a human who cannot sustain heavy rains / winds etc is termed as चञ्चा.\n2. दासी इव अयम् मनुष्यः = दासी । यः मनुष्यः दासीवत् वर्तनम् करोति, तस्य अयम् निर्देशः ।\nविशेषः -\n1. अत्र प्रत्ययस्य लोपः 'लुप्' इति संज्ञया उक्तः अस्ति । <<लुपि युक्तवद्व्यक्तिवचने>> [[1.2.51]] इत्यनेन लुपि कृते प्रकृत्याः लिङ्गम् वचनम् च तद्धितान्तस्य विषये अपि विधीयेत - इति निर्देशयितुमयम् निर्देशः अत्र आवश्यकः । इत्युक्ते, 'चञ्चा इव अयम् मनुष्यः' इत्यनेन निर्दिष्टः मनुष्यः यद्यपि पुमान् अस्ति, तथापि 'चञ्चा' इति स्त्रीवाचकात् शब्दात् कन्-प्रत्ययं तस्य च लुप् कृत्वा 'चञ्चा' इति तद्धितान्तः शब्दः यः जायते, सः स्त्रीलिङ्गे एव स्यात् - इति अत्र आशयः । अतः 'अयम् चञ्चा मनुष्यः' इत्येव प्रयोगः साधु अस्ति ।\n2. अस्मिन् सूत्रे काशिकाकारः वदति - ' देवपथादेराकृतिगणत्वात् तस्य एव अयं प्रपञ्चो वेदितव्यः' । इत्युक्ते, काशिकाकारस्य मतेन वर्तमानसूत्रस्य न काऽपि आवश्यकता, यतः अनेन सूत्रेण येषाम् शब्दानाम् विषये लोपः विधीयते ते सर्वे शब्दाः <<देवपथादिभ्यश्च>> [[5.3.100]] इत्यत्र निर्दिष्टे 'देवपथादिगणे' आकृतिगणत्वात् भवितुमर्हन्ति एव । " }, "53099": { "sa": "यदि कश्चन प्रतिकृतिः जीविकार्थे प्रयुज्यते परन्तु विक्रयणार्थम् नास्ति, तर्हि तस्मात् 'इव' अस्मिन् सन्दर्भे विहितस्य कन्-प्रत्ययस्य लुक् भवति । ", "sd": "'इव' शब्दस्य प्रयोगेण यत्र प्रतिकृतिः निर्दिश्यते, तत्र <<इवे प्रतिकृतौ>> [[5.3.96]] इत्यनेन प्रातिपदिकात् स्वार्थे कन्-प्रत्ययः भवति । परन्तु यदि इयम् प्रतिकृतिः जीविकार्थे अस्ति (used in the process of earning money) परन्तु पण्यम् नास्ति (not sold away / not made available for selling), तर्हि तस्य विषये कन्-प्रत्ययस्य लुप् भवति ।\nयथा -\n1. कश्चन ब्राह्मणः शिवस्य कांश्चन मूर्तिम् स्वीकृत्य मन्दिरे स्थापयतीति चिन्तयामः । अत्र ब्राह्मणस्य कृते इयम् मूर्तिः जीविकायाः साधनमस्ति (यतः मन्दिरे भक्तजनाः दर्शनं स्वीकृत्य दक्षिणाम् ददति येन धनिकस्य जीविका प्रचलति) परन्तु इयम् मूर्तिः पण्या नास्ति (यतः ब्राह्मणः मूर्तेः विक्रयणम् न करोति) । अस्यां स्थितौ शिवस्य अस्याः प्रतिकृतेः निर्देशार्थम् <<इवे प्रतिकृतौ>> [[5.3.96]] इत्यनेन विहितस्य कन्-प्रत्ययस्य लुप् भवति । शिवः इव इयम् प्रतिकृतिः या जीविकार्थे अस्ति परन्तु पण्ये नास्ति सा = शिव + कन् → शिव + X → शिव ।\n2. कश्चन भिक्षुकः कृष्णस्य एकां मूर्तिम् गृहीत्वा गृहं गृहं गत्वा कृष्णस्य नाम्ना भिक्षां याचते इति चिन्तयामः । अत्र भिक्षुकस्य कृते इयम् प्रतिकृतिः जीविकायाः साधनमस्ति, परन्तु पण्यम् नास्ति । अस्यां स्थितौ अतः अस्याः प्रतिकृतेः निर्देशम् कर्तुम् <<इवे प्रतिकृतौ>> [[5.3.96]] इत्यनेन विहितः कन्-प्रत्ययः लुप्यते । यथा - कृष्णः इव इयम् प्रतिकृतिः या जीविकार्थे अस्ति परन्तु पण्ये नास्ति, सा = कृष्ण + कन् → कृष्ण + X → कृष्णः ।\n" }, "53100": { "sa": "देवपथादिगणे विद्यमानेभ्यः शब्देभ्यः 'इव' अस्मिन् सन्दर्भे विहितस्य कन्-प्रत्ययस्य लुप् भवति । ", "sd": "<<इवे प्रतिकृतौ>> [[5.3.96]] इत्यनेन तथा <<संज्ञायाम्>> [[5.3.97]] इत्यनेन भिन्नेभ्यः प्रातिपदिकेभ्यः स्वार्थे कन्-प्रत्ययः उच्यते । अस्य कन्-प्रत्ययस्य देवपथादिगणस्य शब्दानां विषये वर्तमानसूत्रेण लुप् विधीयते ।\nदेवपथादिगणः वस्तुतः आकृतिगणः अस्ति । इत्युक्ते, अस्मिन् गणे अत्र न निर्दिष्टाः अपि केचन शब्दाः भवितुमर्हन्ति । गणपाठे दत्ता देवपथादिगणस्य आवली एतादृशी अस्ति -\nदेवपथ, हंसपथ, वारिपथ, जलपथ, राजपथ, शतपथ, सिंहगति, उष्ट्रग्रीवा, चामरज्जु, रज्जु, हस्त, इन्द्र, दण्द, पुष्प, मत्स्य । आकृतिगणोऽयम् ।\nउदाहरणानि -\n1. देवपथः इव इयम् प्रतिकृतिः = देवपथ + कन् → देवपथ + X → देवपथ ।\n2. हस्तः इव इयम् प्रतिकृतिः = हस्त + कन् → हस्त + X → हस्त ।\n5. इन्द्रः इव इयम् प्रतिकृतिः = इन्द्र + कन् → इन्द्र + X → इन्द्र ।\nविशेषः - देवपथादिगणे कीदृशाः शब्दाः भवेयुः इत्यस्मिन् विषये वार्त्तिककारः एकम् श्लोकवार्त्तिकम् पाठयति -\n ।\nइत्युक्ते, देवपथे ते शब्दाः भवितुमर्हन्ति ये 'अर्चा', 'पूजनम्', 'चित्रकर्म' उत 'ध्वज' एतेषु सन्दर्भेषु विधीयन्ते । यथा -\nअ) अर्चार्यै / पूजनार्थे (= प्रार्थनायै / धूप-दीप-स्नानादिक्रियासु) प्रयुज्यमाना इयम् शिवः इव प्रतिकृतिः = शिव + कन् → शिव + X → शिवः ।\nआ) चित्रकर्म - अर्जुन इव अर्जुनस्य इदम् चित्रकर्म = अर्जुन + कन् → अर्जुन + X → अर्जुन ।\nइ) ध्वज - गरुडः इव प्रतिकृतिः विद्यते यस्मिन् ध्वजे सः = गरुड + कन् → गरुड + X → गरुडः ।\nविशेषः - अस्य सूत्रस्य प्रयोगः तदा एव भवति यदा कन्-प्रत्ययः 'प्रतिकृतिः' इत्यस्मिन् सन्दर्भे उत संज्ञायाः विषये विहितः अस्ति । अस्मिन्नेव प्रकरणे अग्रे विद्यमानैः सूत्रैः विहितस्य प्रत्ययस्य लुक् वर्तमानसूत्रेण न भवति । " }, "53101": { "sa": "'वस्ति' शब्दात् 'इव' अस्मिन् सन्दर्भे स्वार्थे ढञ्-प्रत्ययः भवति । ", "sd": "'वस्ति' (कट्याः अधोभागे धारणार्थम् प्रयुक्तम् किञ्चन वस्त्रम् - A specific type of garment that is typically worn in the lower half of the body) इत्यस्मात् शब्दात् 'इव' इति सन्दर्भे ढञ् इति प्रत्ययः भवति । यथा -\nवस्तिः इव इदम् वस्त्रम्\n= वस्ति + ढञ्\n→ वस्ति + एय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ढकारस्य एय्-आदेशः]\n→ वास्ति + एय [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ वास्त् + एय [<<यस्येति च>> [[6.4.148]] इति इकारलोपः]\n→ वास्तेय ।\nवस्तिः इव इदम् वस्त्रम् वास्तेयम् । अधरीयस्य निर्देशार्थमस्य शब्दस्य प्रयोगः भवति ।\nविशेषः - स्त्रीत्वे विवक्षिते <<टिड्ढाणञ्..>> [[4.1.15]] इत्यनेन ङीप्-प्रत्यये कृते 'वास्तेयी' इति शब्दः अपि सिद्ध्यति । शाटिकायाः निर्देशार्थमस्य शब्दस्य प्रयोगः क्रियते ।\nस्मर्तव्यम् - <<इवे प्रतिकृतौ>> [[5.2.96]] इत्यनेन प्रतिकृतेः विषये निर्दिष्टम् कन्-प्रत्ययं बाधित्वा प्रतिकृतेः विषये अन्येषु च विषयेषु सर्वत्र 'वस्ति' शब्दात् 'इव' इति सन्दर्भे ढञ्-प्रत्ययः एव भवति । " }, "53102": { "sa": "शिला शब्दात् 'इव' अस्मिन् सन्दर्भे स्वार्थे ढ-प्रत्ययः भवति । ", "sd": "'शिला' (rock / stone) इत्यस्मात् शब्दात् 'इव' इति सन्दर्भे 'ढ' इति प्रत्ययः भवति । यथा -\nशिला इव अयम् खण्डः\n= शिला + ढ\n→ शिला + एय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ढकारस्य एय्-आदेशः]\n→ शिल् + एय [<<यस्येति च>> [[6.4.148]] इति आकारलोपः ।]\n→ शिलेय ।\nशिला इव यः सः शिलेयः ।As hard as a rock इति अर्थः । यदि कश्चन पदार्थः शिला इव कठिनः अस्ति, तर्हि तस्य निर्देशः 'शिलेय' इति भवति ।\nविशेषः - केचन पण्डिताः शिला-शब्दात् 'ढञ्' प्रत्ययं अपि विदधति । तदर्थमस्य सूत्रस्य योगविभागं कृत्वा 'शिलायाः' इति भिन्नं सूत्रं निर्माय तस्मिन् सूत्रे <<वस्तेर्ढञ्>> [[5.3.101]] इत्यस्मात् ढञ्-प्रत्ययस्य अनुवृत्तिं कारयित्वा 'शिलायाः ढञ्' इति नूतनम् सूत्रम् कार्यते, येन 'शिला इव सः शैलेयः' इति अपि शब्दः सिद्ध्यति ।\nस्मर्तव्यम् - <<इवे प्रतिकृतौ>> [[5.2.96]] इत्यनेन प्रतिकृतेः विषये निर्दिष्टम् कन्-प्रत्ययं बाधित्वा प्रतिकृतेः विषये अन्येषु च विषयेषु सर्वत्र 'शिला' शब्दात् 'इव' इति सन्दर्भे ढ-प्रत्ययः एव भवति ।" }, "53103": { "sa": "शाखादिगणस्य शब्देभ्यः 'इव' अस्मिन् सन्दर्भे स्वार्थे 'यत्' प्रत्ययः विधीयते । ", "sd": "शाखादिगणस्य शब्देभ्यः 'इव' इति सन्दर्भे 'यत्' इति प्रत्ययः भवति ।\nशाखादिगणः अयम् - शाखा, मुख, जघन, शृङ्ग, मेघ, चरण, स्कन्ध, शिरस्, उरस्, अग्र, शरण, सोम।\nरूपाणि एतानि -\n1. शाखा इव = शाखा + यत् → शाख्य ।\n2. मुखः इव = मुख्य । यथा मुखम् शरीरस्य प्रमुखः अवयवः, स एव च भाषते (अन्ये अवयवाः न भाषन्ते), तथैव यः सङ्घस्य प्रमुखः सः 'मुख्यः' इत्यनेन निर्दिश्यते ।\n3. जघनः इव = जघन्य ।\n4. शृङ्गः इव = शृङ्ग्यः ।\n5. मेघः इव = मेघ्यः ।\n6. चरणः इव = चरण्यः ।\n7. स्कन्धः इव = स्कन्ध्यः ।\n8. शिरः इव = शिरस्यः ।\n9. उरः इव = उरस्यः ।\n10. अग्रः इव = अग्र्यः ।\n11. शरणः इव = शरण्यः ।\n12. सोमः इव = सोम्यः ।\nविशेषः -\n1. स्त्रीत्वे विवक्षिते सर्वत्र <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्-प्रत्ययः विधीयते । यथा - मुख्या, शाख्या - आदयः ।\n2. केषुचन पुस्तकेषु / संस्करणेषु अत्र 'यत् ' इत्यस्य स्थाने 'य' इति प्रत्ययः पाठ्यते ।परन्तु तत् असमीचीनमस्तीति बालमनोरमायां स्पष्टीक्रियते ।\nस्मर्तव्यम् - <<इवे प्रतिकृतौ>> [[5.2.96]] इत्यनेन प्रतिकृतेः विषये निर्दिष्टम् कन्-प्रत्ययं बाधित्वा प्रतिकृतेः विषये अन्येषु च विषयेषु सर्वत्र शाखादिगणस्य शब्देभ्यः 'इव' इति सन्दर्भे यत्-प्रत्ययः एव भवति । " }, "53104": { "sa": "'द्रव्यम्' इति शब्दः 'भव्यम्' इत्यस्मिन् अर्थे निपात्यते । ", "sd": "भव्य (= योग्यम्, उचितम्, appropriate / adequate / full of ) एतस्मिन् अर्थे 'द्रव्य' अयम् शब्दः अनेन सूत्रेण निपात्यते ।\nकाशिकाकारः अस्य अर्थम् एतादृशम् वदति - 'अभिप्रेतानामर्थानाम् पात्रभूतः' । The one who has appropriate qualities that are required - इति आशयः ।\nयथा - द्रव्यः राजपुत्रः = सः राजपुत्रः यः सर्वैः गुणैः सम्पन्नः अस्ति । One who is appropriately called a prince - इति आशयः ।\nविशेषः - द्रु (वृक्षः) अस्मात् शब्दात् 'इव' इति सन्दर्भे यत्-प्रत्ययं कृत्वा 'द्रव्य' शब्दः सिद्ध्यतीति - व्याख्यानैः स्पष्टीभवति । 'सकल-गुणानाम् वृक्षः इव ' इति अत्र आशयः अस्ति । यथा - कश्चन राजपुत्रः यदि राजकर्मणि आवश्यकानाम् गुणानाम् वृक्षः इव अस्ति, तर्हि तस्य निर्देशः 'द्रव्यः राजपुत्रः' इत्यनेन क्रियते ।\n" }, "53105": { "sa": "'कुशाग्र' इत्यस्मात् शब्दात् 'इवे' इति सन्दर्भे 'छ' प्रत्ययः भवति । ", "sd": "'कुशाग्र' (Tip of a grass) शब्दात् 'इव' अस्मिन् सन्दर्भे स्वार्थे छ-प्रत्ययः भवति । यथा -\nकुशाग्रम् इव चिन्तनम् (A thought process that is as fine / सूक्ष्म as the tip of the grass)\n= कुशाग्र + छ\n→ कुशाग्र + ईय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति छकारस्य ईय्-आदेशः]\n→ कुशाग्र् + ईय [<<यस्येति च>> [[6.4.148]] इति अकारलोपः ।]\n→ कुशाग्रीय ।\nकुशाग्रः इव यः सः कुशाग्रीय ।As fine / सूक्ष्म as the tip of the grass) इति अर्थः ।\nयथा - कुशाग्रीयम् शस्त्रम् । कुशाग्रीया बुद्धिः । कुशाग्रीयः प्रश्नः ।\nस्मर्तव्यम् - <<इवे प्रतिकृतौ>> [[5.2.96]] इत्यनेन प्रतिकृतेः विषये निर्दिष्टम् कन्-प्रत्ययं बाधित्वा प्रतिकृतेः विषये अन्येषु च विषयेषु सर्वत्र 'कुशाग्र' शब्दात् 'इव' इति सन्दर्भे छ-प्रत्ययः एव भवति ।" }, "53106": { "sa": "इव-शब्दस्य प्रयोगेण समासे प्राप्ते ततः 'इव' इत्यस्यैव प्रयोगेण निर्दिश्यमाने भिन्ने सन्दर्भे समस्तपदात् छ-प्रत्ययः विधीयते । ", "sd": "भाषायाम् कुत्रचित् 'इव' इति सन्दर्भं स्वीकृत्य समासस्य निर्माणं कृत्वा ततः पुनः'इव' इत्यस्मिन्नेव (परन्तु भिन्ने) सन्दर्भे 'छ' इति प्रत्ययं कृत्वा केचन शब्दाः प्रयुज्यन्ते । यथा - 'काकतालीय', 'अजाकृपाणीय', 'खल्वाटबिल्वीय', 'अन्धकवर्तकीय' - आदयः । एतादृशानां शब्दानां सिद्ध्यर्थम् एतत् सूत्रम् निर्मितमस्ति ।\nअधिक-स्पष्टतायै उदाहरणानि विस्तारेण पश्यामः -\n1. 'काकतालीय' इति शब्दम् स्वीकुर्मः ।'काकताल' इति शब्दात् वर्तमानसूत्रेण छ-प्रत्ययं कृत्वा 'काकतालीय' इति शब्दः सिद्ध्यति । काकतालम् इव काकतालीयम् - इति आशयः । किम् नाम 'काकतालम्'? 'ताल' इति कस्यचन वृक्षस्य नाम (palm tree इत्यर्थः) । कश्चन काकः (crow) कस्यचन तालवृक्षस्य अधः आगच्छति, तस्मिन्नेव समये दैववशात् तालवृक्षस्य फलं शाखातः पृथक् भूत्वा काकस्य शिरसि निपतति, येन काकस्य मृत्युः जायते - इति सन्दर्भम् स्वीकृत्य 'काकताल' इति शब्दः सिद्ध्यति । काकस्य आगमनम् इव तालस्य पतनम् इव (The arrival of the crow was as unexpected as the falling of the fruit)- इत्यस्मिन् अर्थे 'इव' इति सन्दर्भे अयम् शब्दः निर्मीयते । अस्मात् शब्दात् पुनः 'काकतालम् इव' इति सन्दर्भे वर्तमानसूत्रेण छ-प्रत्ययं कृत्वा 'काकतालीय' इति शब्दः जायते । यदि द्वे सम्पूर्णरूपेण भिन्ने असम्बन्धिनी कार्ये काक-तालवत् एव समानकाले भवतः याभ्याम् कश्चन अपूर्वचिन्तितः प्रसङ्गः जायते, तर्हि तस्य 'काकतालीय' शब्दस्य प्रयोगः क्रियते । The word काकतालीय is used to describe a situation (like काकताल) where two completely unrelated events happen together purely by chance, causing an unexpected result. । यथा, कश्चन देवदत्तः निबिडे अरण्ये यदा गच्छति तदा तस्मिन्नेव समये दैववशात् केचन दस्यवः तत्र आगत्य देवदन्तम् घ्नन्तीति चिन्तयामः ।Devadatta goes in a deep forest, and by chance some dacoits come there at the same time and they kill Devadatta । अस्यां स्थितौ 'देवदत्तस्य वनगमनम् तथा दस्यूनां च उपनिपातः' एते द्वे परस्पर-असम्बन्धिनी कार्ये 'काकस्य आगमनम् तथा तालस्य पतनम् इव' स्तः इति सन्दर्भं दत्त्वा 'काकताल' शब्दात् 'छ' प्रत्ययं कृत्वा 'काकतालीय' इति शब्दः सिद्ध्यति । देवदत्तस्य दस्यूनां च समागमः काकतालीयः - इति प्रयोगः अत्र क्रियते । अस्य स्पष्टीकरणार्थम् कौमुद्यामुच्यते - 'अतर्कित-उपनतम्' । Two unrelated acts coming together without any logical explanation - इति अर्थः । अस्मिन् सन्दर्भे 'काकतालीय' शब्दः प्रयुज्यते ।\nविशेषः - अत्र 'इव' शब्दस्य द्विवारम् प्रयोगः भवति । तत् एतादृशम् -\nअ) समासस्य निर्माणे 'काकस्य आगमनम् इव तालस्य पतनम्' (The arrival of the crow was as unexpected as the falling of the fruit) इत्यस्मिन् सन्दर्भे 'काक' तथा 'ताल' एतयोः समासं कृत्वा 'काकताल' शब्दः सिद्ध्यति । अयम् समासः केनापि सूत्रेण न जायते, अपितु केवलम् <<सह सुपा>> [[2.1.4]] इत्यस्य योगविभागेन 'सुप्सुपा' इति सूत्रम् यत् जायते तस्य प्रयोगेण अस्य समस्तपदस्य सिद्धिः दीयते । अपि च, अत्र निर्मितः 'काकताल' शब्दः तादृशः एव भाषायाम् नैव प्रयुज्यते, अपितु केवलम् वर्तमानसूत्रेण छ-प्रत्ययस्य विवक्षायाम् एव अस्य शब्दस्य निर्माणम् कृतमस्ति । अतः अत्र निर्मितात् 'काकताल' शब्दात् अग्रिम-सोपानेन छ-प्रत्ययः नित्यमेव विधीयते - इति आशयः ।\nआ) 'काकताल' शब्दात् 'काकतालः इव अयम् समागमः (Two things happening together just like the काकताल) इति सन्दर्भे वर्तमानसूत्रेण छ-प्रत्ययः भवति । अत्र अपि 'इव' इत्येव सन्दर्भः अस्ति परन्तु समासनिर्माणे प्रयुक्तः य इवार्थः, तस्मात् अयम् भिन्नः अस्तीति ज्ञेयम् । While constructing the samaas, two independent and dissimilar actions are equated using इव, where as in this step similarity between two pairs of actions is shown using इव. अत्र 'काकताल' शब्दात् वर्तमानसूत्रेण 'छ'प्रत्ययं कृत्वा 'काकतालीय' इति शब्दः सिद्ध्यति ।\n2) 'अजाकृपाणीय' इति कश्चन अन्यः शब्दः अपि अनेन सूत्रेण सिद्ध्यति । अस्य अपि 'काकतालीय' इत्यस्य समानम् एव अर्थः । काचन अजा कस्यचन स्तम्भस्य समीपे आगच्छति, तस्मिन्नेव समये दैववशात् तस्य स्तम्भस्य उपरि स्थापितः कृपाणः अधः अजायाः ग्रीवायां पतित्वा तेन अजायाः मृत्युः भवति । A lamb walks near a pole , and at the same time a weapon that was tied on the top of the pole falls on the neck of the lamb, thereby killing it. - इति आशयः । अस्मिन् सन्दर्भे 'अजागमनम् इव कृपाणपतनम्' इति निर्देशयितुम् 'अजाकृपाण' इति समस्तपदम् निर्माय तस्मात् 'अजाकृपाणम् इव देवदत्त-दस्यु-समागमः' इत्यस्मिन् सन्दर्भे 'अजाकृपाण + छ → अजाकृपाणीय' इति शब्दः सिद्ध्यति ।\n3) 'खल्वाटबिल्वीय' - अस्यापि अर्थः काकतालीयः इत्येव । तापेन त्रस्तः कश्चन खल्वाटः (Bald man irritated due to heat) छायार्थम् बिल्ववृक्षस्य अधः उपविशति । तस्मिन्नेव समये वृक्षात् बिल्वफलम् तस्य शिरसि पतति येन तस्य शिरवेदना जायते ।अत्रापि 'परस्पर-असम्बन्धिनी द्वे कार्ये समानकाले भवतः' इति आशयं स्पष्टीकर्तुमस्य शब्दस्य प्रयोगः भवति । 'खल्वाटागमनम् इव बिल्वपतनम्' इति सन्दर्भे आदौ समासं कृत्वा ततः 'खल्वाटबिल्वम् इव देवदत्तहननम्' इति निर्देशयितुम् 'खल्वाटबिल्वीय' शब्दः प्रयुज्यते । देवदत्तस्य मृत्युः खल्वाटवबिल्वीयः - इति वाक्यम् ।\nएतादृशम् दैववशात् जायमानायाः कस्याश्चन अप्रियायाः घटनायाः निर्देशार्थम् 'काकतालीय', 'अजाकृपाणीय', 'खल्वाटबिल्वीय' एते शब्दाः प्रयुज्यन्ते । Thse three words are typically used to indicate an unfortunate event that arises purely by chance. परन्तु कुत्रचित् दैववशात् काचन शुभघटना अपि भवति । तस्याः निर्देशार्थम् 'अन्धकवर्तकीय' इति शब्दस्य प्रयोगः भवति । अयम् शब्दः अपि वर्तमानसूत्रेण सिद्ध्यति । तत् इत्थम् -\n4) 'अन्धकवर्तकीय' - अस्य शब्दस्य आशयः अयम् - कश्चन अन्धः मनुष्यः हस्तं प्रसार्य उपविष्टः आसीत् । तस्मिन्नेव समये दैववशात् 'वर्तक' नाम कश्चन पक्षी तस्य हस्ते पतितः । A bird fell into hands of a blind person who was merely sitting by spreading his palms. । अनेन प्रकारेण दैववशात् प्रयत्नं विना अपि अन्धेन सः पक्षी हस्तगतः । The blind man was able to capture that bird (and later on use it for his own benefit) without any efforts, purely by luck. अनेन प्रकारेण यत्र परस्पर-असम्बन्धिनी द्वे कार्ये समानकाले भवतः येन कश्चन अनपेक्षितः लाभः जायते, तत्र 'अन्धकवर्तकीय' शब्दः प्रयुज्यते । अत्रापि प्रारम्भे समस्तपदं कृत्वा ततः तद्धितान्तस्य निर्माणं भवति । यथा - 'अन्धकहस्तप्रसारणम् इव वर्तकपतनम् इव' इति सन्दर्भे 'अन्धकवर्तक' इति समासः, ततश्च 'अन्धवर्तकीयः देवदत्तधनलाभः' इति तद्धितान्तः ।\nस्मर्तव्यम् - अस्मिन् सूत्रे निर्दिष्टानि समस्तपदानि केवलम् छ-प्रत्ययस्य प्रयोगार्थम् एव जायन्ते । तेषाम् स्वतन्त्ररूपेण प्रयोगः न करणीयः ।\nविशेषः - अनेन सूत्रेण निर्मिताः शब्दाः लौकिकन्यायरूपेण अपि प्रसिद्धाः सन्ति । यथा - काकतालीयन्यायः, अन्धकवर्तकीयन्यायः - आदयः । " }, "53107": { "sa": "शर्करादिगणस्य शब्देभ्यः 'इव' अस्मिन् सन्दर्भे स्वार्थे 'अण्' प्रत्ययः विधीयते ।", "sd": "शर्करादिगणस्य शब्देभ्यः 'इव' इति सन्दर्भे अण् इति प्रत्ययः भवति ।\nशर्करादिगणः अयम् - शर्करा, कपालिका, पिष्टिक, पुण्डरीक, शतपत्र, गोलोमन्, गोपुच्छ, नराची, नकुला, सिकता ।\nउदाहरणानि -\n1. शर्करा इव = शर्करा + अण् → शार्करः ।\n2. कपालिका इव = कपालिका + अण् → कापालिकः ।\n2. सिकता इव = सिकता + अण् → सैकतः ।\nआदयः ।\nविशेषः -\n1. स्त्रीत्वे विवक्षिते सर्वत्र <<टिड्ढाणञ्..>> [[4.1.15]] इति ङीप्-प्रत्ययः विधीयते । यथा - शार्करी, सैकती - आदयः\nस्मर्तव्यम् - <<इवे प्रतिकृतौ>> [[5.2.96]] इत्यनेन प्रतिकृतेः विषये निर्दिष्टम् कन्-प्रत्ययं बाधित्वा प्रतिकृतेः विषये अन्येषु च विषयेषु सर्वत्र शर्करादिगणस्य शब्देभ्यः 'इव' इति सन्दर्भे अण्-प्रत्ययः एव भवति ।" }, "53108": { "sa": "अङ्गुल्यादिगणस्य शब्देभ्यः 'इव' इति सन्दर्भे स्वार्थे 'ठक्' इति प्रत्ययः भवति । ", "sd": "अङ्गुल्यादिगणस्य शब्देभ्यः 'इव' इति सन्दर्भे 'ठक्' इति प्रत्ययः भवति ।\nअङ्गुल्यादिगणः अयम् - अङ्गुलि, भरुजा, बभ्रु, वल्गु, मण्डर, मण्डल, शष्कुल, कपि, उदश्वित्, गोणी, उरस्, शिखर, कुलिश ।\nउदाहरणानि -\n1. अङ्गुलिः इव\n= अङ्गुलि + ठक्\n→ अङ्गुलि + इक [<<ठस्येकः>> [[7.3.50]] इति इक्]\n→ आङ्गुलि + इक [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ आङ्गुल् + इक [<<यस्येति च>> [[6.4.148]] इति इकारलोपः]\n→ आङ्गुलिक\n2. बभ्रुः इव\n= बभ्रु + ठक्\n→ बभ्रु + क [<<इसुसुक्तान्तात् कः>> [[7.3.51]] इति ककारादेशः]\n→ बाभ्रु + क [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ बाभ्रुक ।\n3. उदश्वित् इव\n= उदश्वित् + ठक्\n→ उदश्वित् + क [<<इसुसुक्तान्तात् कः>> [[7.3.51]] इति ककारादेशः]\n→ औदश्वित् + क [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ औदश्वित्क\nविशेषः -\n1. स्त्रीत्वे विवक्षिते सर्वत्र <<टिड्ढाणञ्..>> [[4.1.15]] इति ङीप्-प्रत्ययः विधीयते । यथा - आङ्गुलिकी, बाभ्रुकी - आदयः\nस्मर्तव्यम् - <<इवे प्रतिकृतौ>> [[5.2.96]] इत्यनेन प्रतिकृतेः विषये निर्दिष्टम् कन्-प्रत्ययं बाधित्वा प्रतिकृतेः विषये तथा च अन्येषु अपि सर्वेषु विषयेषु अङ्गुल्यादिगणस्य शब्देभ्यः 'इव' इति सन्दर्भे ठक्-प्रत्ययः एव भवति ।" }, "53109": { "sa": "'एकशाला' शब्दात् 'इव' इति सन्दर्भे स्वार्थे ठच् प्रत्ययः विकल्पेन भवति । पक्षे ठक् प्रत्ययः अपि विधीयते । ", "sd": "'एकशाला' (single room) शब्दात् 'इव' अस्मिन् सन्दर्भे स्वार्थे ठच् तथा ठक् प्रत्ययौ भवतः ।\nएकशाला इव गृहम् (A house that has a single room)\n= एकशाला + ठक् / ठच्\n→ एकशाला + इक [<<ठस्येकः>> [[7.3.50]] इति इक-आदेशः]\n→ ऐकशाला / एकशाला + इक [ठक्-प्रत्ययस्य विषये <<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ ऐकशाल् / एकशाल् + इक [<<यस्येति च>> [[6.4.148]] इति आकारलोपः]\n→ ऐकशालिक / एकशालिक\nएकशाला इव तत् ऐकशालिकम् एकशालिकम् वा । Just like a single hall / single room - इत्याशयः ।\nस्मर्तव्यम् - <<इवे प्रतिकृतौ>> [[5.2.96]] इत्यनेन प्रतिकृतेः विषये निर्दिष्टम् कन्-प्रत्ययं बाधित्वा प्रतिकृतेः विषये अन्येषु च विषयेषु सर्वत्र 'एकशाला' शब्दात् 'इव' इति सन्दर्भे ठक् / ठच् प्रत्ययः एव भवति ।" }, "53110": { "sa": "'कर्क' तथा 'लोहित' शब्दाभ्याम् 'इव' इति सन्दर्भे स्वार्थे ईकक् प्रत्ययः भवति । ", "sd": "'कर्क' (= श्वेतः अश्वः / A white horse) तथा 'लोहित'(reddish / copper-color) एताभ्यां शब्दाभ्याम् 'इव' अस्मिन् सन्दर्भे स्वार्थे 'ईकक्' प्रत्ययः विधीयते ।\nकर्कः इव\n= कर्क + इकक्\n→ कार्क + इकक् [ <<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ कार्क् + ईकक् [<<यस्येति च>> [[6.4.148]] इति आकारलोपः]\n→ कार्कीक ।\nकर्कः इव अयम् पशुः = कार्किकः । An animal that is not a white horse but looks exactly like a white horse - इत्याशयः ।\nएवमेव - लोहितः इव = लौहितीक । यथा - लौहितीकः स्फटिकः । A crystal that is not actually reddish but appears reddish due to reflection of light - इत्याशयः ।\nस्मर्तव्यम् - <<इवे प्रतिकृतौ>> [[5.2.96]] इत्यनेन प्रतिकृतेः विषये निर्दिष्टम् कन्-प्रत्ययं बाधित्वा प्रतिकृतेः विषये अन्येषु च विषयेषु सर्वत्र 'कर्क' तथा 'लोहित' शब्दाभ्याम् 'इव' इति सन्दर्भे ईकक् प्रत्ययः एव भवति ।" }, "53111": { "sa": "प्रत्न, पूर्व, विश्व, इम - एतेभ्यः शब्देभ्यः 'इव' इति सन्दर्भे स्वार्थे वेदेषु 'थाल्' प्रत्ययः कृतः दृश्यते । ", "sd": "प्रत्न (old), पूर्व (earlier), विश्व (world) , इम (this) - एतेभ्यः शब्देभ्यः 'इव' अस्मिन् सन्दर्भे स्वार्थे वेदेषु 'थाल्' प्रत्ययः कृतः दृश्यते ।\nयथा - ऋग्वेदे 5.44.1 - तं प्र॒त्नथा॑ पू॒र्वथा॑ वि॒श्वथे॒मथा॑ ज्ये॒ष्ठता॑तिं बर्हि॒षदं॑ स्व॒र्विद॑म् ।\nअत्र 'प्रत्न + थाल् → प्रत्नथा' , 'पूर्व + थाल् → पूर्वथा', 'विश्व + थाल् → विश्वथा', 'इम + थाल् → इमथा' एते शब्दाः प्रयुक्ताः सन्ति ।\n" }, "53112": { "sa": "पूगवाची शब्दात् स्वार्थे ञ्य-प्रत्ययः भवति । परन्तु 'ग्रामणीः एषाम्' इति निर्देशेन यत्र पूगस्य नाम दीयते तत्र अयम् ञ्य-प्रत्ययः न विधीयते । ", "sd": "'पूग' इति कश्चन शब्दः । ये जनाः अनियतजीविकाः सन्ति (people without any fixed source of income), ये प्रायः केवलं अर्थस्य कामस्य वा आधारेण सङ्घटिताः सन्ति (people who have come together to satisfy their basic materialistic needs), तेषाम् समूहः 'पूग' नाम्ना ज्ञायते । एतादृशेभ्यः पूगवाचिभ्यः शब्देभ्यः स्वार्थे 'ञ्य-' इति प्रत्ययः वर्तमानसूत्रेण पाठ्यते । यथा -\n1. 'लोहितध्वज' इति कस्यचन पूगस्य नाम । यस्य पूगस्य ध्वजा लोहितवर्णस्य अस्ति तस्य नाम 'लोहितध्वज' इति । (A troop characterized by red colored flag - इत्याशयः) अस्मात् शब्दात् स्वार्थे 'ञ्य' प्रत्ययं कृत्वा लौहितध्वज्यः इति शब्दः सिद्ध्यति । लोहितध्वजः पूगः स एव लौहितध्वज्यः ।\nप्रक्रिया इयम् -\nलोहितध्वज + ञ्य\n→ लौहितध्वज + य [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ लौहितध्वज् + य [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ लौहितध्वज्य\nलोहितध्वजः पूगः स एव लौहितध्वज्यः ।\nस्मर्तव्यम् - <<समर्थानां प्रथमात् वा>> [[4.1.86]] इत्यस्मात् 'वा' इत्यस्य अधिकारः अत्र प्रचलति, अतः अनेन सूत्रेण उक्तः 'ञ्य' प्रत्ययः विकल्पेनैव विधीयते । अतः 'लोहितध्वजः' इत्यपि साधु रूपम्, 'लौहितध्वज्यः' इत्यपि च साधु एव ।\nएवमेव -\n2. शिबिः एव = शिबि + ञ्य → शैब्य ।\n3. चातकः एव = चातक + ञ्य → चातक्य ।\nअस्मिन् सूत्रे 'अग्रामणीः' इति पदमपि गृह्यते । अस्य अर्थः अयम् - यदि कस्यचन पूगस्य नाम तेषाम् प्रमुखस्य आधारेण 'ग्रामणीः एषाम्' इति निर्देशेन क्रियते, तर्हि तस्मात् स्वार्थे ञ्य-प्रत्ययः न भवति । यथा - 'देवदत्तः ग्रामणीः अस्य पूगस्य सः = देवदत्तकः पूगः । अत्र <<स एषां ग्रामणीः>> [[5.2.78]] इत्यनेन कन्-प्रत्ययः भवति ।\nविशेषः - अस्मात् सूत्रात् आरभ्य <<ञ्यादयस्तद्राजाः>> [[5.3.119]] इति यावत्सु सूत्रेषु पाठिताः प्रत्ययाः 'तद्राज' इति संज्ञां स्वीकुर्वन्ति । तद्राजसंज्ञकप्रत्ययानाम् एकम् वैशिष्ठ्यम् विद्यते - <<तद्राजस्य बहुषु तेनैवास्त्रियाम्>> [[2.4.62]] इत्यनेन सूत्रेण तद्राजसंज्ञकप्रत्ययान्तशब्दानां बहुवचनरूपे तद्राजप्रत्ययस्य लुक् भवति । यथा - 'शिबिः पूगः एव = शैब्यः' इत्यस्य रूपाणि 'शैब्यः, शैब्यौ, शिबयः' इति भवन्ति । अत्र प्रथमाबहुवचनस्य रूपसिद्धिः एतादृशी जायते -\nशिबि + ञ्य + जस् [<<पूगाञ्ञ्योऽग्रामणीपूर्वात्>> [[5.3.112]] इति स्वार्थे ञ्य-प्रत्ययः]\n→ शिबि + जस् [<<तद्राजस्य बहुषु तेनैवास्त्रियाम्>> [[2.4.62]] इति ञ्य-प्रत्ययस्य लुक्]\n→ शिबयः ।\nएवमेव - 'लौहितध्वज्यः, लौहितध्वज्यौ लोहितध्वजाः' इत्यपि सिद्ध्यति ।\n" }, "53113": { "sa": "व्रातवाचिभ्यः शब्देभ्यः तथा च्फञ्-प्रत्ययान्तशब्देभ्यः स्वार्थे ञ्य-प्रत्ययः भवति । परन्तु तद्धितान्तशब्दः स्त्रीलिङ्गे प्रयुज्यते चेत् अयम् प्रत्ययः न विधीयते । ", "sd": "व्रातवाचिनः शब्दाः, तथा च च्फञ्-प्रत्ययान्तशब्दाः यदा स्त्रीत्वं न द्योतयन्ति तदा तेभ्यः स्वार्थे 'ञ्य' इति प्रत्ययः विधीयते । क्रमेण पश्यामः -\n1. 'व्रात' इति कश्चन शब्दः । ये जनाः शरीरपरिश्रमेण जीविकाम् प्राप्नुवन्ति, तेषाम् सङ्घः 'व्रातः' नाम्ना ज्ञायते । People who primarily do laborious work for earning the living - इत्याशयः । यथा - कपोतपाक, व्रीहिमत् - आदीनि भिन्नानां व्रातानां नामानि सन्ति । एतादृशेभ्यः व्रातवाचिभ्यः शब्देभ्यः स्वार्थे ञ्य-प्रत्ययः भवति । यथा -\n[अ] कपोतपाकः व्रातः इत्येव = कपोतपाक + ञ्य → कापोतपाक्यः ।\n[आ] व्रीहिमान् व्रातः इत्येव = व्रीहिमत् + ञ्य → व्रैहिमत्यः ।\nस्मर्तव्यम् - <<समर्थानां प्रथमात् वा>> [[4.1.86]] इत्यस्मात् 'वा' इत्यस्य अधिकारः अत्र प्रचलति, अतः अनेन सूत्रेण उक्तः 'ञ्य' प्रत्ययः विकल्पेनैव विधीयते । अतः 'कपोतपाकः' इत्यपि साधु रूपम्, 'कापोतपाक्यः' इत्यपि च साधु एव ।\n2. 'च्फञ्' इति कश्चन तद्धितप्रत्ययः । <<गोत्रे कुञ्जादिभ्यः च्फञ्>> [[4.1.98]] इत्यनेन कुञ्जादिगणस्य शब्देभ्यः गोत्रापत्यस्य निर्देशार्थम् च्फञ्-प्रत्ययः विधीयते । अस्मात् च्फञ्-प्रत्ययान्तशब्दात् नित्यम् स्वार्थे ञ्य-प्रत्ययः वर्तमानसूत्रेण दीयते । यथा - कुञ्जस्य गोत्रापत्यम् = कुञ्ज + च्फञ् + ञ्य → कौञ्जायन्यः । प्रक्रिया इयम् -\nकुञ्ज + च्फञ् + ञ्य\n→ कुञ्ज + आयन + य [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति आयन-आदेशः]\n→ कौञ्ज + आयन + य [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ कौञ्ज् + आयन + य [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ कौञ्जायन् + य [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ कौञ्जायन्य\nएवमेव - ब्रध्नस्य गोत्रापत्यम् ब्राध्नायन्यः ।\nविशेषः - यद्यपि <<समर्थानां प्रथमात् वा>> [[4.1.86]] इत्यस्मात् 'वा' इत्यस्य अधिकारः अत्र प्रचलति, तथापि च्फञ्-प्रत्ययान्तशब्दात् ञ्य-प्रत्ययः नित्यम् विधीयते, विकल्पेन न ।\nअस्मिन् सूत्रे 'अस्त्रियाम्' इति उच्यते, यतः स्त्रीलिङ्गे ये तद्धितान्तशब्दाः प्रयुज्यन्ते, तेषां विषये अयम् प्रत्ययः न भवति । यथा -\n1) कपोतपाकः व्रातः इत्येव = कपोतपाका परिषद् । अत्र स्त्रीत्वे विवक्षिते <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्-प्रत्यये कर्तव्ये ञ्य-प्रत्ययः न भवति ।\n2) कुञ्जस्य गोत्रापत्यम् स्त्री = कुञ्जायन + च्फञ् + ङीष् → कौञ्जायनी । अत्र <<जातेरस्त्रीविषयादयोपधात्>> [[4.1.63]] इत्यनेन ङीष्-प्रत्यये कर्त्तव्ये च्फञ्-प्रत्ययात् अनन्तरम् ञ्य-प्रत्ययः न भवति ।\nविशेषः - अनेन सूत्रेण उक्तस्य ञ्य-प्रत्ययस्य <<ञ्यादयस्तद्राजाः>> [[5.3.119]] इत्यनेन 'तद्राजसंज्ञा' भवति ।तद्राजसंज्ञकप्रत्ययानाम् च एकम् वैशिष्ठ्यम् विद्यते - <<तद्राजस्य बहुषु तेनैवास्त्रियाम्>> [[2.4.62]] इत्यनेन सूत्रेण तद्राजसंज्ञकप्रत्ययान्तशब्दानां बहुवचनरूपे तद्राजप्रत्ययस्य लुक् भवति । यथा , 'कौञ्जायन्य' शब्दस्य रूपाणि 'कौञ्जाजन्यः कौञ्जायन्योः कौञ्जायनाः ' इति भवन्ति । अत्र प्रथमाबहुवचनस्य रूपसिद्धिः एतादृशी जायते -\nकुञ्जायन + च्फञ् + ञ्य + जस्\n→ कुञ्जायन + च्फञ् + जस् [<<तद्राजस्य बहुषु तेनैवास्त्रियाम्>> [[2.4.62]] इति ञ्य-प्रत्ययस्य लुक्]\n→ कौञ्जायनाः ।\nएवमेव - 'कापोतपाक्यः, कापोतपाक्यौ कापोतपाकाः' इत्यपि सिद्ध्यति ।" }, "53114": { "sa": "वाहीकेषु आयुधजीविनाम् सङ्घस्य निर्देशकाः ये शब्दाः, तेभ्यः स्वार्थे ञ्यट् प्रत्ययः भवति । परन्तु ब्राह्मणवाचिभ्यः शब्देभ्यः तथा च 'राजन्य' शब्दस्य विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । ", "sd": "'वाहीक' इति कस्यचन देशस्य नाम । अस्मिन् देशे ये सङ्घाः आयुधजीविनः सन्ति (इत्युक्ते, ते सङ्घाः येषां जनाः शस्त्राणाम् साहाय्येन मृगयादीनि कार्याणि कृत्वा जीविकामर्जयन्ति - people who earn their living using weapons, E.g. by hunting etc) तेषाम् निर्देशार्थमायुधजीविनां सङ्घवाचिभ्यः शब्देभ्यः (यथा - कुण्डिबृस, क्षुद्रक - आदिभ्यः शब्देभ्यः) स्वार्थे 'ञ्यट्' प्रत्ययः भवति । कानिचन उदाहरणानि एतानि -\n1. कुण्डिबृसः इत्येव = कुण्डिबृस + ञ्यट् → कौण्डिबृस्यः ।\n2. क्षुद्रकः इत्येव = क्षुद्रक + ञ्यट् → क्षौद्रक्यः ।\n3. मालवः इत्येव = मालव + ञ्यट् → मालव्यः ।\nविशेषः - <<समर्थानां प्रथमात् वा>> [[4.1.86]] इत्यस्मात् 'वा' इत्यस्य अधिकारः अत्र प्रचलति, अतः अनेन सूत्रेण उक्तः 'ञ्यट्' प्रत्ययः विकल्पेनैव विधीयते । अतः 'कुण्डिबृसः' इत्यपि साधु रूपम्, 'कौण्डिबृस्यः' इत्यपि च साधु एव ।\nस्मर्तव्यम् -ञ्यट्-प्रत्ययः टित् अस्ति, अतः तस्मात् स्त्रीत्वे विवक्षिते <<टिड्ढाणञ्...>> [[4.1.15]] इत्यनेन ङीप्-प्रत्ययः भवति । यथा -\n1. कुण्डिबृसः इत्येव परिषद्\n= कुण्डिबृस + ञ्यट् + ङीप्\n→ कौण्डिबृस + य + ई [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ कौण्डिबृस् + य + ई [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ कौण्डिबृस् + य् + ई [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ कौण्डिबृस् + ई [<<हलस्तद्धितस्य>> [[6.4.150]] इति यकारलोपः]\n→ कौण्डिबृसी ।\nकुण्डिबृसः सङ्घः इत्यवे कौण्डीबृसी परिषद् ।\nएवमेव -\n2. क्षुद्रकः सङ्घः इत्येव = क्षौद्रकी परिषद् ।\n3. मालवः सङ्घः इत्येव = मालवी परिषद् ।\nअस्मिन् सूत्रे 'अ-ब्राह्मण-राजन्यात्' इत्यपि निर्देशः कृतः अस्ति । अस्य अर्थः एतादृशः -\nअ) ये सङ्घाः ब्राह्मणवाचकाः सन्ति, तेषाम् विषये अयम् 'ञ्यट्' प्रत्ययः न विधीयते । यथा - गोपालकः सङघः इत्येव = गोपालकः ।\nआ) 'राजन्य' इति वाहिकेषु विद्यमानस्य कस्यचन आयुधजीविनः सङ्घस्य नाम । अस्मात् शब्दात् अपि अयम् प्रत्ययः न भवति । यथा - राजन्यः सङ्घः इत्येव = राजन्यः ।\nअत्र 'ब्राह्मण' इति शब्दः 'ब्राह्मणवाचकः' इत्यस्मिन् अर्थे स्वीकृतः अस्ति, परन्तु 'राजन्य' अयं शब्दः स्वस्य रूपस्य ग्रहणं करोतीति ज्ञेयम् ।\nस्मर्तव्यम् - सूत्रम् दलकृत्य प्रत्येकं पदस्य प्रयोजनम् एतादृशम् -\n1) 'वाहीकेषु' इति किमर्थम् ? 'शबर', 'पुलिन्द' एतानि अपि आयुधजीविनां सङ्घानाम् नामानि सन्ति । परन्तु एतानि वाहीकदेशे न विद्यन्ते, अतः एतेषाम् विषये अस्य सूत्रस्य प्रसक्तिः नास्ति ।\n2) 'आयुधजीविनः' इति किमर्थम् ? वाहिकेषु विद्यमानाः ये अन्ये सङ्घाः (=यथा मल्लाः, शयण्डाः) तेषाम् विषये अस्य सूत्रस्य प्रसक्तिः नास्ति ।\n3) 'सङ्घ' इति किमर्थम् ? वाहिकेषु विद्यमानाः आयुधजीविनाम् निर्देशकाः परन्तु सङ्घभिन्नाः शब्दाः (यथा - सम्राट्) एतम् प्रत्ययं न प्राप्नुयुः ।\nविशेषः - अनेन सूत्रेण उक्तस्य ञ्यट्-प्रत्ययस्य <<ञ्यादयस्तद्राजाः>> [[5.3.119]] इत्यनेन 'तद्राज' इति संज्ञा भवति ।तद्राजसंज्ञकप्रत्ययानाम् च एकम् वैशिष्ठ्यम् विद्यते - <<तद्राजस्य बहुषु तेनैवास्त्रियाम्>> [[2.4.62]] इत्यनेन सूत्रेण तद्राजसंज्ञकप्रत्ययान्तशब्दानां बहुवचनरूपे तद्राजप्रत्ययस्य लुक् भवति । यथा , 'कौण्डिबृस्य' शब्दस्य रूपाणि 'कौण्डिबृस्यः कौण्डिबृस्यौ कुण्डिबृसाः' इति भवन्ति । अत्र प्रथमाबहुवचनस्य रूपसिद्धिः एतादृशी जायते -\nकुण्डिबृस + ञ्यट् + जस्\n→ कुण्डिबृस + जस् [<<तद्राजस्य बहुषु तेनैवास्त्रियाम्>> [[2.4.62]] इति ञ्यट्-प्रत्ययस्य लुक्]\n→ कुण्डिबृसाः ।\nएवमेव - 'क्षौद्रक्यः, क्षौद्रक्यौ क्षुद्रकाः' इत्यपि सिद्ध्यति ।\nNote - All of the words shown as examples in this description represent names of the Vaahik tribes.\n" }, "53115": { "sa": "आयुधजीविनाम् सङ्घस्य निर्देशवाची यः 'वृक' शब्दः, तस्मात् टेण्यण् प्रत्ययः स्वार्थे भवति । ", "sd": "'वृक' इति कस्यचन सङ्घस्य आयुधजीविनाम् सङ्घस्य नाम (Name of a tribe of people who earn their living using weapons, E.g. by hunting) । अस्मात् शब्दात् वर्तमानसूत्रेण स्वार्थे टेण्यण्-प्रत्ययः भवति । यथा -\nवृक + टेण्यण्\n→ वृक + एण्य [टकारणकारयोः इत्संज्ञा, लोपः]\n→ वार्क + एण्य [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ वार्क् + एण्य [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ वार्केण्य ।\nविशेषः - <<समर्थानां प्रथमात् वा>> [[4.1.86]] इत्यस्मात् 'वा' इत्यस्य अधिकारः अत्र प्रचलति, अतः अनेन सूत्रेण उक्तः टेण्यण्-प्रत्ययः विकल्पेनैव भवति ।\nस्मर्तव्यम् -\n1. 'टेण्यण्' प्रत्ययस्य टित्वात् स्त्रीत्वे <<टिड्ढाणञ्..>> [[4.1.15]] इत्यनेन ङीप्-प्रत्यये कृते 'वार्केणी' इति रूपं सिद्ध्यति । प्रक्रिया इयम् -\nवृक + टेण्यण् + ङीप्\n→ वृक + एण्य + ई [टकारणकारयोः इत्संज्ञा, लोपः]\n→ वार्क + एण्य + ई[<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ वार्क् + एण्य + ई [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ वार्केण्य् + ई [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ वार्केण् + ई [<<हलस्तद्धितस्य>> [[6.4.150]] इति यकारलोपः]\n→ वार्केणी\n2. ''वृक' इत्यस्य शब्दस्य 'शृगालः' (Jackal) इत्यपि अन्यः अर्थः अस्ति । परन्तु तस्मिन् सन्दर्भे वर्तमानसूत्रस्य प्रसक्तिः नास्ति । एतदेव स्पष्टीकर्तुमस्मिन् सूत्रे 'आयुधजीविसङ्घात्' इति शब्दः प्रयुज्यते । केवलमायुधजीविवाचिनि अर्थे प्रयुक्तः यः 'वृक'शब्दः, तस्मात् एव 'टेण्यण्' प्रत्ययः स्यात् - इति आशयः ।\n3. अनेन सूत्रेण उक्तस्य टेण्यण्-प्रत्ययस्य <<ञ्यादयस्तद्राजाः>> [[5.3.119]] इत्यनेन 'तद्राज' इति संज्ञा भवति । तद्राजसंज्ञकप्रत्ययानाम् च एकम् वैशिष्ठ्यम् विद्यते - <<तद्राजस्य बहुषु तेनैवास्त्रियाम्>> [[2.4.62]] इत्यनेन सूत्रेण तद्राजसंज्ञकप्रत्ययान्तशब्दानां बहुवचनरूपे तद्राजप्रत्ययस्य लुक् भवति । इत्युक्ते, अत्र 'वार्केण्य' शब्दस्य बहुवचनस्य प्रक्रियायाम् 'टेण्यण्' प्रत्ययस्य लुक् भवति । यथा -\nवृक + टेण्यण् + जस् [प्रथमाबहुवचनस्य प्रत्ययः]\n→ वृक + जस् [टेण्यण्-प्रत्ययस्य <<तद्राजस्य बहुषु तेनैवास्त्रियाम्>> [[2.4.62]] इति लुक्]\n→ वृकाः\nअतः 'वार्केण्य' शब्दस्य रूपाणि - 'वार्केण्यः, वार्केण्यौ, वृकाः' इति भवन्ति ।" }, "53116": { "sa": "आयुधजीविनाम् सङ्घस्य निर्देशवाचिभ्यः दामन्यादिगणस्य शब्देभ्यः त्रिगर्तषष्ठेभ्यः च स्वार्थे छ-प्रत्ययः भवति । ", "sd": "'दामन्यादिगणः' इति कश्चन शब्दसमूहः । अस्मिन् समूहे विद्यमानाः शब्दाः यदि आयुधजीविनाम् सङ्घस्य निर्देशं कुर्वन्ति, तदा तेभ्यः स्वार्थे 'छ' प्रत्ययः विधीयते । तथैव, आयुधजीविनाम् ये सङ्घाः 'त्रिगर्तषष्ठ' नाम्ना ज्ञायन्ते, तेभ्यः अपि स्वार्थे छ-प्रत्ययः भवति । क्रमेण पश्यामः -\n1. दामन्यादिगणः - अस्मिन् शब्दे एते सङ्घवाचकाः शब्दाः पाठ्यन्ते - दामनि, औलपि, आकिदन्ती, काकरन्ति, काकदन्ति, शत्रुन्तपि, सार्वसेनि, बिन्दु, मौञ्जायन, उलभ, सावित्रीपुत्र ।\nएते सर्वे शब्दाः यदा आयुधजीवीनाम् सङ्घस्य नामरूपेण प्रयुज्यते, तदा तेभ्यः स्वार्थे 'छ' प्रत्ययः भवति । यथा -\nअ) दामनि इत्येव\n= दामनि + छ\n→ दामनि + ईय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति छकारस्य ईय-आदेशः]\n→ दामन् + ईय [<<यस्येति च>> [[6.4.148]] इति इकारलोपः]\n→ दामनीय\nएवमेव -\nआ) औलपि इत्येव = औलपीयः ।\nइ) आकिदन्ती इत्येव = आकिदन्तीयः ।\n2. त्रिगर्तषष्ठः - केचन आयुधजीविनः सङ्घाः 'त्रिगर्तषष्ठ' इति नाम्ना अपि ज्ञायन्ते । एतेषामावली एकेन श्लोकेन दीयते -\nआहुस्त्रिगर्तषष्ठांस्तु कौण्डोपरथदाण्डकी। क्रौष्टकिर्जालमानिश्च ब्रह्मगुप्तोऽथ जानकिः।\nइत्युक्ते, 'कौण्डोपरथ', 'दाण्डकि', 'क्रौष्टकि', 'जालमानि', 'ब्रह्मगुप्त' (कुत्रचित् 'ब्राह्मगुप्त' इत्यपि दृश्यते) तथा 'जानकि' (कुत्रचित् 'जालकि' इत्यपि दृश्यते) एते षट् आयुधजीविनः सङ्घाः 'त्रिगर्तषष्ठः' नाम्ना ज्ञायन्ते । एतेभ्यः अपि स्वार्थे छ-प्रत्ययः भवति । यथा -\nअ) कौण्डोपरथः इत्येव = कौण्डोपरथीयः ।\nआ) दाण्डकिः इत्येव = दाण्डकीयः ।\nस्मर्तव्यम् -\n1. <<समर्थानां प्रथमात् वा>> [[4.1.86]] इत्यस्मात् 'वा' इत्यस्य अधिकारः अत्र प्रचलति, अतः अनेन सूत्रेण उक्तः छ-प्रत्ययः विकल्पेनैव भवति । अतः 'दामनिः' इत्यपि साधु प्रयोगः, 'दामनीयः' इत्यपि च साधु प्रयोगः ।\n2. अनेन सूत्रेण उक्तस्य छ-प्रत्ययस्य <<ञ्यादयस्तद्राजाः>> [[5.3.119]] इत्यनेन 'तद्राज' इति संज्ञा भवति । तद्राजसंज्ञकप्रत्ययानाम् च एकम् वैशिष्ठ्यम् विद्यते - <<तद्राजस्य बहुषु तेनैवास्त्रियाम्>> [[2.4.62]] इत्यनेन सूत्रेण तद्राजसंज्ञकप्रत्ययान्तशब्दानां बहुवचनरूपे तद्राजप्रत्ययस्य लुक् भवति । इत्युक्ते, अत्र 'दामनि' शब्दस्य बहुवचनस्य प्रक्रियायाम् 'छ' प्रत्ययस्य लुक् भवति । यथा -\nदामनी + छ + जस् [प्रथमाबहुवचनस्य प्रत्ययः]\n→ दामनि + जस् [छ-प्रत्ययस्य <<तद्राजस्य बहुषु तेनैवास्त्रियाम्>> [[2.4.62]] इति लुक्]\n→ दामनयः\nअतः 'दामनीय' शब्दस्य रूपाणि - 'दामनीयः, दामनीयौ, दामनयः' इति भवति । एवमेव अन्येषां विषये अपि ज्ञेयम् ।" }, "53117": { "sa": "आयुधजीविनाम् सङ्घस्य निर्देशकेभ्यः पर्श्वादिगणस्य शब्देभ्यः तथा च यौधेयादिगणस्य शब्देभ्यः स्वार्थे यथासङ्ख्यमण् तथा अञ् प्रत्ययः विधीयते । ", "sd": "'पर्श्वादिगणः' तथा च 'यौधेयादिगणः' एतौ द्वौ कौचन शब्दसमूहौ । एतेषु विद्यमानाः शब्दाः यदि आयुधजीविनाम् सङ्घस्य निर्देशं कुर्वन्ति, तदा तेभ्यः स्वार्थे यथासङ्ख्यम् 'अण्' तथा 'अञ्' प्रत्ययः विधीयते । क्रमेण पश्यामः -\n1. पर्श्वादिगणः - अस्मिन् शब्दे एते सङ्घवाचकाः शब्दाः पाठ्यन्ते -\nपर्शु, असुर, रक्षस्, बाह्लीक, वयस्, मरुत्, दशार्ह, पिशाच, विशाल, अशनि, कार्षापण, सत्वत्, वसु ।\nएते सर्वे शब्दाः यदा आयुधजीवीनाम् सङ्घस्य नामरूपेण प्रयुज्यते, तदा तेभ्यः स्वार्थे 'अण् ' प्रत्ययः भवति । यथा -\nअ) पर्शुः इत्येव\n= पर्शु + अण्\n→ पार्शु + अ [<<तद्धितेष्वचामादेः>> [[7.3.117]] इति आदिवृद्धिः]\n→ पार्शो + अ [<<ओर्गुणः>> [[6.4.146]] इति गुणादेशः]\n→ पार्शवः [<<एचोऽयवायावः>> [[6.1.78]] इति अवादेशः]\nएवमेव -\nआ) असुरः सङ्घः इत्येव = आसुरः ।\nइ) रक्षाः सङ्घः इत्येव = रक्षस् + अण् → राक्षसः ।\n2. यौधेयादिगणः - अस्मिन् शब्दे एते सङ्घवाचकाः शब्दाः पाठ्यन्ते -\nयौधेय, कौशेय, क्रौशेय, शौक्रेय, शौभ्रेय, धार्तेय, वार्तेय, जाबालेय, त्रिगर्त, भरत, उशीनर ।\nएते सर्वे शब्दाः यदा आयुधजीवीनाम् सङ्घस्य नामरूपेण प्रयुज्यते, तदा तेभ्यः स्वार्थे 'अञ् ' प्रत्ययः भवति । यथा -\nअ) यौधेयः इत्येव\n= यौधेयः + अञ्\n→ यौधेय + अ [<<तद्धितेष्वचामादेः>> [[7.3.117]] इति आदिवृद्धिः]\n→ यौधेय् + अ [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ यौधेयः [<<एचोऽयवायावः>> [[6.1.78]] इति अवादेशः]\nयद्यप्यत्र पुनः 'यौधैयः' इत्येव शब्दः सिद्ध्यति, तथाप्यत्र स्वरे भेदः विद्यते । अञ्-प्रत्ययान्तशब्दस्य आदिस्वरः <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] इत्यनेन आद्युदात्तः भवति । एतं स्वरभेदं दर्शयितुमेव अत्र अञ्-प्रत्ययविधानम् कृतमस्ति ।\nएवमेव -\nआ) शौक्रेयः सङ्घः इत्येव = शौक्रेयः ।\nइ) भरतः सङ्घः इत्येव = भारतः ।\nस्मर्तव्यम् -\n1. <<समर्थानां प्रथमात् वा>> [[4.1.86]] इत्यस्मात् 'वा' इत्यस्य अधिकारः अत्र प्रचलति, अतः अनेन सूत्रेण उक्तौ प्रत्ययौ विकल्पेनैव भवतः । अतः 'पर्शु' इत्यपि साधु प्रयोगः, 'पार्शवः' इत्यपि च साधु प्रयोगः । एवमेव अन्येषां विषये अपि ज्ञेयम् ।\n2. अनेन सूत्रेण उक्तस्य अण्/ अञ्-प्रत्यययोः <<ञ्यादयस्तद्राजाः>> [[5.3.119]] इत्यनेन 'तद्राज' इति संज्ञा भवति । तद्राजसंज्ञकप्रत्ययानाम् च एकम् वैशिष्ठ्यम् विद्यते - <<तद्राजस्य बहुषु तेनैवास्त्रियाम्>> [[2.4.62]] इत्यनेन सूत्रेण तद्राजसंज्ञकप्रत्ययान्तशब्दानां बहुवचनरूपे तद्राजप्रत्ययस्य लुक् भवति । इत्युक्ते, अत्र 'पर्शु' शब्दस्य बहुवचनस्य प्रक्रियायाम् 'छ' प्रत्ययस्य लुक् भवति । यथा -\nपर्शु + अण् + जस् [प्रथमाबहुवचनस्य प्रत्ययः]\n→ पर्शु + जस् [अण्-प्रत्ययस्य <<तद्राजस्य बहुषु तेनैवास्त्रियाम्>> [[2.4.62]] इति लुक्]\n→ पर्शवः\nअतः 'पार्शव' शब्दस्य रूपाणि - 'पार्शवः, पार्शवौ, पर्शवः' इति भवन्ति । एवमेव अन्येषां विषये अपि ज्ञेयम् ।\n3. <<अतश्च>> [[4.1.177]] इत्यनेन पर्श्वादिगणस्य शब्दानाम् स्त्रीलिङ्गरूपप्रक्रियायामण्-प्रत्ययस्य लुक् भवति । अण्-प्रत्ययस्य लुकि कृते एव यथोचितः स्त्रीप्रत्ययः विधीयते । यथा -\nपर्शुः परिषद् इत्येव = पर्शु + अण् + (स्त्रीप्रत्ययस्य विवक्षा) → पर्शु + X → पर्शु + ऊङ् [<<ऊङुतः>> [[4.1.66]] इति ऊङ्] → पर्शूः ।\nयौधेयादिगणस्य शब्देभ्यः अयम् लुक् न भवति, यतः <<न प्राच्यभर्गादियौधेयादिभ्यः>> [[4.1.178]] इति सः निषिध्यते ।\nयथा - यौधेयः परिषद् = यौधेय + ङीप् [<<टिड्ढाणञ्..>> [[4.1.15]] इति ङीप्] → यौधेयी । " }, "53118": { "sa": "'अभिजित्', 'विदभृत्', 'शालावत्', 'शिखावत्', 'शमीवत्', 'ऊर्णावत्', 'श्रुमत्' एतेषाम् शब्दानाम् 'अण्' प्रत्ययान्तम् यत् रूपम्, तस्मात् स्वार्थे 'यञ्' प्रत्ययः विधीयते । ", "sd": "'अभिजित्', 'विदभृत्', 'शालावत्', 'शिखावत्', 'शमीवत्', 'ऊर्णावत्', 'श्रुमत्' एते शब्दाः अस्मिन् सूत्रे निर्दिश्यन्ते । एतेभ्यः अण्-प्रत्ययः यदा विधीयते, तदा तस्मात् जायमानात् प्रातिपदिकात् वर्तमानसूत्रेण स्वार्थे 'यञ्' इति प्रत्ययविधानमपि भवितुमर्हति ।\nउदाहरणानि-\n1. 'अभिजितः अपत्यम्' इत्यस्मिन् अर्थे <<तस्यापत्यम्>> [[4.1.92]] इत्यनेन 'अभिजित्' शब्दात् 'अण्' प्रत्ययं कृत्वा 'आभिजित' इति शब्दः जायते । अस्मादेव शब्दात् अग्रे वर्तमानसूत्रेण 'यञ्' प्रत्ययः भवति । यथा -\nआभिजितः इत्येव\n= अभिजित् + अण् + यञ्\n→ आभिजित + य\n→ आभिजित् [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ आभिजित्य ।\nएवमेव -\n2. शालावतः अपत्यम् शालावतः (= शालावत् + अण्) । स एव शालावत्यः (= शालावत् + अण् + यञ्)\n3. ऊर्णावतः अपत्यम् और्णावतः (= ऊर्णावत् + अण्) । स एव और्णावत्यः (= ऊर्णावत् + अण् + यञ्)\nविशेषः - यद्यपि अण्-प्रत्ययः तद्धितप्रकरणे भिन्नेषु अर्थेषु विधीयते, तथापि वर्तमानसूत्रस्य प्रसक्तिः तदा एव अस्ति यदा 'अण्' इति प्रत्ययः अपत्यार्थे विधीयते । एतदेव स्पष्टीकर्तुम् भाष्यकारः 'गोत्रादिति च वक्तव्यम्' इति वदति ।\nस्मर्तव्यम् -\n 1. <<समर्थानां प्रथमात् वा>> [[4.1.86]] इत्यस्मात् 'वा' इत्यस्य अधिकारः अत्र प्रचलति, अतः अनेन सूत्रेण उक्तः प्रत्ययः विकल्पेनैव भवति। अतः 'आभिजितः' इत्यपि साधु प्रयोगः, 'आभिजित्य' इत्यपि च साधु प्रयोगः । एवमेव अन्येषां विषये अपि ज्ञेयम् ।\n2. अनेन सूत्रेण उक्तस्य यञ्-प्रत्ययस्य <<ञ्यादयस्तद्राजाः>> [[5.3.119]] इत्यनेन 'तद्राज' इति संज्ञा भवति । तद्राजसंज्ञकप्रत्ययानाम् च एकम् वैशिष्ठ्यम् विद्यते - <<तद्राजस्य बहुषु तेनैवास्त्रियाम्>> [[2.4.62]] इत्यनेन सूत्रेण तद्राजसंज्ञकप्रत्ययान्तशब्दानां बहुवचनरूपे तद्राजप्रत्ययस्य लुक् भवति । इत्युक्ते, अत्र 'आभिजित्य' शब्दस्य बहुवचनस्य प्रक्रियायाम् 'यञ्' प्रत्ययस्य लुक् भवति । यथा -\nअभिजित् + अण् + यञ् + जस् [प्रथमाबहुवचनस्य प्रत्ययः]\n→ अभिजित् + अण् + जस् [यञ्-प्रत्ययस्य <<तद्राजस्य बहुषु तेनैवास्त्रियाम्>> [[2.4.62]] इति लुक्]\n→ आभिजिताः\nअतः 'आभिजित्य' शब्दस्य रूपाणि - 'आभिजित्यः, आभिजित्यौ, आभिजिताः' इति भवन्ति । एवमेव अन्येषां विषये अपि ज्ञेयम् ।" }, "53119": { "sa": "पूगाञ्ञ्योऽग्रामणीपूर्वात् 5.3.112 इत्यस्मात् सूत्रात् आरभ्य वर्तमानसूत्रम् यावत् उक्ताः प्रत्ययाः 'तद्राज' इति संज्ञां स्वीकुर्वन्ति । ", "sd": "अनेन सूत्रेण 'तद्राज' इति काचन संज्ञा पाठ्यते । <<पूगाञ्ञ्योऽग्रामणीपूर्वात्>> [[5.3.112]] इत्यस्मात् सूत्रात् आरभ्य वर्तमानसूत्रं यावत् पाठिताः सर्वे प्रत्ययाः 'तद्राज' नाम्ना ज्ञायन्ते । एतेषामावली इयम् -\n1) ञ्य-प्रत्ययः - <<पूगाञ्ञ्योऽग्रामणीपूर्वात्>> [[5.3.112]], <<व्रातच्फञोरस्त्रियाम्>> [[5.3.113]]\n2) ञ्यट् -प्रत्ययः - <<आयुधजीविसंघाञ्ञ्यड्वाहीकेष्वब्राह्मणराजन्यात्>> [[5.3.114]]\n3) टेण्यण्-प्रत्ययः - <<वृकाट्टेण्यण्>> [[5.3.115]]\n4) छ-प्रत्ययः - <<दामन्यादित्रिगर्तषष्ठाच्छः>> [[5.3.116]]\n5) अण्-प्रत्ययः - <<पर्श्वादियौधेयादिभ्यामणञौ>> [[5.3.117]]\n6) अञ्-प्रत्ययः - <<पर्श्वादियौधेयादिभ्यामणञौ>> [[5.3.117]]\n7) यञ्-प्रत्ययः - <<अभिजिद्विदभृच्छालावच्छिखावच्छमीवदूर्णावच्छ्रुमदणो यञ्>> [[5.3.118]]\nकिम् प्रयोजनम् 'तद्राज'संज्ञायाः? तद्राजसंज्ञकप्रत्ययान्तशब्देभ्यः विहितः ये बहुवचनस्य सुप्-प्रत्ययाः, तेषाम् <<तद्राजस्य बहुषु तेनैवास्त्रियाम्>> [[2.4.62]] इत्यनेन लुक् उच्यते । उदाहरणद्वयम् पश्यामः -\nअ) <<आयुधजीविसंघाञ्ञ्यड्वाहीकेष्वब्राह्मणराजन्यात्>> [[5.3.115]] इत्यनेन 'कुण्डिबृस' शब्दात् स्वार्थे 'ञ्यट्' प्रत्ययं कृत्वा 'कौञ्डिबृस्य' इति प्रातिपदिकम् सिद्ध्यति । अस्य प्रथमाबहुवचनस्य रूपसिद्धिः इयम् -\nकुण्डिबृस + ञ्यट् + जस् [प्रथमाबहुवचनस्य प्रत्ययः]\n→ कुण्डिबृस + जस् [प्रथमाबहुवचनस्य जस्-प्रत्यये परे <<तद्राजस्य बहुषु तेनैवास्त्रियाम्>> [[2.4.62]] इति ञ्यट्-प्रत्ययस्य लुक्]\n→ कुण्डिबृसाः ।\nआ) <<वृकाट्टेण्यण्>> [[5.3.115]] इत्यनेन 'वृक' शब्दात् स्वार्थे 'टेण्यण्' प्रत्ययं कृत्वा 'वार्केण्य' इति प्रातिपदिकं सिद्ध्यति । अस्य चतुर्थीबहुवचनस्य रूपस्य प्रक्रिया इयम्\nवृक + टेण्यण् + भ्यस् [चतुर्थीबहुवचनस्य प्रत्ययः]\n→ वृक + भ्यस् [बहुवचनस्य प्रत्यये परे टेण्यण्-प्रत्ययस्य <<तद्राजस्य बहुषु तेनैवास्त्रियाम्>> [[2.4.62]] इति लुक्]\n→ वृकेभ्यः\nएवमेव सर्वासाम् विभक्तीनाम् विषये बहुवचनस्य प्रत्ययस्य लुक् भवति ।\nस्मर्तव्यम् -\n1. अत्र निर्दिष्टाः प्रत्ययाः केवलमस्मिन् सन्दर्भे एव तद्राजसंज्ञां स्वीकुर्वन्ति । यथा, 'छ' प्रत्ययः तदा एव तद्राजसंज्ञकः भवति यदा तस्य विधानम् <<दामन्यादित्रिगर्तषष्ठाच्छः>> [[5.3.116]] इत्यनेन क्रियते । अन्यैः सूत्रैः विहितः छ-प्रत्ययः तद्राजसंज्ञकः नास्ति । एवमेव अन्येषाम् विषये अपि ज्ञेयम् ।\n2. एते सर्वे तद्राजसंज्ञकप्रत्ययाः <<समर्थानां प्रथमात् वा>> [[4.1.86]] इत्यस्मात् 'वा' इत्यस्य अधिकारे विधीयन्ते, अतः एते सर्वेऽपि विकल्पेनैव भवन्ति ।\n3. तद्धिताधिकारे प्राग्दीव्यतीयप्रकरणे <<ते तद्राजाः>> [[4.1.174]] इत्यपि किञ्चन सूत्रम् पाठ्यते । अनेन सूत्रेण 'अञ्', 'अण्', 'ञ्यङ्', 'ण्य', 'इञ्' एते पञ्च प्रत्ययाः अपि विशिष्ट-सन्दर्भे तद्राजसंज्ञकाः भवन्ति ।\n4. प्राग्दीव्यतीयप्रकरणे <<कम्बोजाल्लुक्>> [[4.1.175]] तथा <<स्त्रियामवन्तिकुन्तिकुरुभ्यश्च>> [[4.1.176]] इत्यनेन तद्राजप्रत्ययस्य उक्तः लुक् वर्तमानप्रकरणे न विधीयते, यतः वर्तमानप्रकरणे एतेभ्यः शब्देभ्यः तद्राजप्रत्ययः न पाठ्यते । तथा च, <<अतश्च>> [[4.1.177]] इत्यनेन उक्तः लुक् अपि वर्तमानप्रकरणस्य विषये न विधीयते, यतः <<न प्राच्यभर्गादियौधेयादिभ्यः>> [[4.1.178]] इत्यनेन वर्तमानप्रकरणस्य विषये विशिष्टरूपेण अयम् लुक् निषिध्यते । " }, "54001": { "sa": "यस्य शब्दस्य आदौ सङ्ख्यावाचकः शब्दः विद्यते तथा च अन्ते 'पाद' उत 'शत' अयम् शब्दः विद्यते, तस्मात् शब्दात् वीप्सायाम् गम्यमानाम् स्वार्थे वुन्-प्रत्ययः भवति, तथा च प्रत्ययसंन्नियोगेन 'शत' / 'पाद' इत्यस्य अन्तिमवर्णस्य लोपः जायते । ", "sd": "सूत्रस्य अर्थं क्रमेण पश्यामः -\nअ) यस्य शब्दस्य आदौ 'सङ्ख्यावाचकः शब्दः' तथा अन्ते 'पाद' उत 'शत' अयम् शब्दः वर्तते, तादृशस्य शब्दस्य विषये अत्र प्रत्ययविधानम् कृतमस्ति । यथा - द्विपाद, त्रिपाद, द्विशत, त्रिशत - आदयः ।\nआ) एतादृशाात् शब्दात् वर्तमानसूत्रेण 'वुन्' प्रत्ययः उच्यते । 'वुन्' प्रत्यये नकारः इत्संज्ञकः अस्ति, तस्य लोपः भवति । 'वु' इत्यस्य <<युवोरनाकौ>> [[7.1.1]] इत्यनेन 'अक' आदेशः भवति ।\nइ) अयम् वुन्-प्रत्ययः 'वीप्सायाः' विषये भवति । वीप्सा इत्युक्ते 'पौनःपुन्यम्' (repetition) । यथा - 'द्वौ द्वौ पादौ', 'द्वे द्वे शते' आदिषु सन्दर्भेषु अय् प्रत्ययः विधीयते ।\nई) अनेन सूत्रेण प्रातिपदिकस्य अन्तिमवर्णस्य लोपः अपि विधीयते । एतत् प्राकृतिककार्यमस्ति, न हि अङ्गकार्यम् । एतत् स्पष्टीकर्तुम् सूत्रे 'लोपश्च' इति निर्दिष्टमस्ति ।\nस्पष्टतायै उदाहरणद्वयं पश्यामः ।\n[1] द्वौ द्वौ शतौ (प्रक्रियालेखने आदौ समस्तपदस्य निर्माणम् कृत्वा ततः 'वुन्' प्रत्ययः प्रयोक्तव्यः इति कौमुदीकारः स्पष्टीकरोति, अतः प्रक्रिया अपि तादृशी एव लिख्यते)\n→ द्वि + शत + वुन् [<<तद्धितार्थोपपदसमाहारे च>> [[2.1.51]] इति समस्तपदस्य निर्माणम् । ततः <<पादशतस्य संख्यादेर्वीप्सायां वुन् लोपश्च>> [[5.4.1]] इति वुन्-प्रत्ययः]\n→ द्वि + शत् + वुन् [वर्तमानसूत्रेण 'शत' इत्यस्य अन्तिमवर्णस्य लोपः । एतत् प्राकृतिककार्यमस्ति अतः प्रक्रियायाः प्रारम्भे एव भवति ।]\n→ द्वि + शत् + अक [<<युवोरनाकौ>> [[7.1.1]] इति अक-आदेशः]\n→ द्विशतक\n→ द्विशतक + टाप् [वुन्-प्रत्ययान्तशब्दाः केवलं स्त्रीलिङ्गे एव प्रयुज्यन्ते, अतः <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्-प्रत्ययः]\n→ द्विशतक + आ\n→ द्विशतिक + आ [<<प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः>> [[7.3.44]] इति इकारादेशः]\n→ द्विशतिका [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः]\nद्वौ द्वौ शतौ सा द्विशतिका । यथा - यदि कश्चन धनिकः पुनः पुनः द्वौ द्वौ शतौ ददाति , तर्हि सः 'द्विशतिकां ददाति' इति वक्तुं शक्यते । A donor who repeatedly gives two hundreds in donation can be said to be giving द्विशतिका ।\nएवमेव त्रयः त्रयः शताः सा 'त्रिशतिका' इत्यपि सिद्ध्यति ।\n'पाद' शब्दस्य विषये अपि एतादृशम् एव प्रक्रिया विधीयते -\n[2] द्वौ द्वौ पादौ\n→ द्वि + पाद + वुन् [<<तद्धितार्थोपपदसमाहारे च>> [[2.1.51]] इति समस्तपदस्य निर्माणम् । ततः <<पादशतस्य संख्यादेर्वीप्सायां वुन् लोपश्च>> [[5.4.1]] इति वुन्-प्रत्ययः]\n→ द्वि + पाद् + वुन् [वर्तमानसूत्रेण 'पाद्' इत्यस्य अन्तिमवर्णस्य लोपः]\n→ द्वि + पाद् + अक [<<युवोरनाकौ>> [[7.1.1]] इति अक-आदेशः]\n→ द्वि + पद् + अक [<<पादः पत्>> [[6.4.130]] इति 'पाद्' इत्यस्य 'पद्' आदेशः]\n→ द्विपदक\n→ द्विपदक + टाप् [वुन्-प्रत्ययान्तशब्दाः केवलं स्त्रीलिङ्गे एव प्रयुज्यन्ते, अतः <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्-प्रत्ययः]\n→ द्विपदिक + आ [<<प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः>> [[7.3.44]] इति इकारादेशः]\n→ द्विपदिका [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः]\nद्वौ द्वौ पादौ इति द्विपदिका । An entity that has two-two legs repeated (e.g. a song) is called द्विपदिका ।\nअत्र पाद-शब्दस्य अर्थः 'नाणकम्' ( coin / quarter) इत्यपि भवति, अतः 'द्विपदिकां ददाति' इत्यस्य अर्थः 'पुनः पुनः द्वौ नाणकौ ददाति' इति अपि भवितुमर्हति ।\nएवमेव - त्रयः त्रयः पादाः सा त्रिपदिका ।\nविशेषः - अस्मिन् सूत्रे वुन्-प्रत्यये परे प्रातिपदिकस्य अन्तिमवर्णस्य लोपः उक्तः अस्ति । यथा, उपरिनिर्दिष्टायां प्रक्रियायाम् 'द्वि + पाद + अक' इति स्थिते तकारोत्तरस्य अकारस्य लोपः वर्तमानसूत्रे निर्दिष्टेन 'लोप' शब्देन क्रियते । वस्तुतः तु वुन्-प्रत्ययस्य 'अक' इति आदेशे कृते <<यस्येति च>> [[6.4.148]] इत्यनेन अपि अकारलोपः भवितुमर्हति एव -\nद्वि + पाद + अक\n→ द्वि + पाद् + अक [ <<यस्येति च>> [[6.4.148]] इति अकारलोपः]\nपरन्तु एवम् क्रियते चेत् अग्रिमसोपाने 'पाद्' शब्दस्य <<पादः पत्>> [[6.4.130]] इत्यनेन 'पद' आदेशः भवितुम् न अर्हति, यतः <<यस्येति च>> [[6.4.148]] तथा <<पादः पत्>> [[6.4.130]] एते सूत्रे <<असिद्धवदत्राभात्>> [[6.4.22]] इत्यस्मिन् आभीये असिद्धाधिकारे उच्येते, अतश्च परस्पर-असिद्धौ स्तः । इत्युक्ते, <<यस्येति च>> [[6.4.148]] इत्यनेन प्राप्तः अकारलोपः <<पादः पत्>> [[6.4.130]] इत्यस्य कृते असिद्धः अस्ति, अतः <<पादः पत्>> [[6.4.130]] इत्यनेन सूत्रेण 'पाद' इति अकारान्तशब्दः एव दृश्यते, यस्य कृते अस्य सूत्रस्य अवकाशः एव न विद्यते । अतः अत्र <<यस्येति च>> [[6.4.148]] इत्येनन अकारलोपः क्रियते चेत् पाद्-शब्दस्य पद्-आदेशः नैव स्यात्, यः अत्र इष्यते । एतमादेशम् कारयितुम् एव अस्मिन् सूत्रे लोपविधानम् कृतमस्ति । अनेन सूत्रेण उक्तम् लोपविधानम् प्राकृतिककार्यमस्ति, अतः एतत् अङ्गकार्यात् पूर्वम् विधीयते । अतः अग्रे <<पादः पत्>> [[6.4.130]] इत्यनेन पाद्-शब्दस्य पद्-आदेशः भवितुमर्हति ।\nअत्र लोपग्रहणस्य अन्यत् एकम् प्रयोजनम् वर्तते । <<यस्येति च>> [[6.4.148]] इत्यनेन अकारलोपः क्रियते चेत् <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इत्यनेन स्थानिवद्भावेन लुप्त-अकारः पुनः आगच्छेत्, येन् 'पाद' इत्येव शब्दः पुनः लभ्येत, न हि 'पाद्' शब्दः । एवं सति <<पादः पत्>> [[6.4.130]] इत्यस्य विधानम् नैव सम्भवति, यत् अत्र प्रक्रियायामवश्यम् इष्यते । अस्य प्राप्त्यर्थम् एव वर्तमानसूत्रेण पुनः 'लोपः' उक्तः अस्ति । वर्तमानसूत्रेण उक्तः अयम् लोपः 'अनिमित्तकः' अस्ति - इत्युक्ते, अयम् लोपः प्राकृतिकरीत्या एव भवति, अस्य किमपि निमित्तम् न आवश्यकम् ; अतएव च अस्मिन् लोपे कृते <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इत्यस्य प्रसक्तिः अपि न विद्यते - यतः <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इत्यस्य प्रयोगार्थम् परनिमित्तकः लोपः आवश्यकः । इत्युक्ते, वर्तमानसूत्रेण कृतात् लोपात् परम् <<पादः पत्>> [[6.4.130]] इत्यनेन पाद्-शब्दस्य पद्-आदेशः अपि भवितुमर्हति ।\nअत्र एकम् वार्त्तिकमपि ज्ञातव्यम् - । इत्युक्ते, वर्तमानसूत्रे 'पाद' तथा 'शत' एतयोः निर्देशः न आवश्यकः, यतः अन्येषाम् शब्दानाम् विषये अपि वर्तमानसूत्रस्य प्रयोगः दृश्यते । यथा - 'द्वौ द्वौ मोदकौ सा द्विमोदिका ' ।\nयद्यपि अनेन वार्त्तिकेन अन्येषाम् शब्दानाम् विषये वर्तमानसूत्रस्य प्रयोगः अनुमीयते, तथापि सः सर्वत्र न भवति । यथा, 'द्वौ द्वौ माषौ' एतादृशे वाक्ये अस्य सूत्रस्य प्रयोगः न भवति । अतः शिष्टप्रयोगमनुसृत्यैव एतत् सूत्रम् प्रयोक्तव्यम् ।\nस्मर्तव्यम् -\n1. वर्तमानसूत्रस्य प्रयोगः वीप्सा (व्याप्तेः इच्छा / repeatition) अस्ति चेदेव भवति । केवलम् 'द्वौ पादौ' उत 'द्वौ शतौ' एतत् विवक्ष्यते चत् अस्य सूत्रस्य प्रयोगः नैव कर्तव्यः । The application of this sutra requires that something is being done again-and-again - इत्याशयः । यथा -\nअ) द्वौ द्वौ पादौ सा द्विपदिका ।\nआ) द्वौ द्वौ शतौ सा द्विशतिका ।\n2. एतत् सूत्रम् <<समर्थानां प्रथमाद्वा>> [[4.1.82]] इत्यत्र पाठितायां महाविभाषायां पाठ्यते, अतः अनेन सूत्रेण उक्तः प्रत्ययः विकल्पेन भवति । अतः पक्षे ' द्वौ द्वौ पादौ' इत्यपि प्रयोगः अपि साधु । " }, "54002": { "sa": "यस्य शब्दस्य आदौ सङ्ख्यावाचकः शब्दः विद्यते तथा च अन्ते 'पाद' उत 'शत' अयम् शब्दः विद्यते, तस्मात् शब्दात् 'दण्ड' तथा 'व्यवसर्ग' एतयोः निर्देशे कर्तव्ये स्वार्थे वुन्-प्रत्ययः भवति, तथा च प्रत्ययसंन्नियोगेन 'शत' / 'पाद' इत्यस्य अन्तिमवर्णस्य लोपः जायते ।", "sd": "यस्य शब्दस्य आदौ 'सङ्ख्यावाचकः शब्दः' तथा अन्ते 'पाद' उत 'शत' अयम् शब्दः वर्तते, तादृशः शब्दः यदि 'दण्ड' (दमन, punishment) उत 'व्यवसर्गः' (दानम्, donation) अस्मिन् अर्थे प्रयुज्यते, तर्हि तस्मात् स्वार्थे 'वुन्' इति प्रत्ययः वर्तमानसूत्रेण विधीयते, तथा च प्रक्रियायाम् प्राकृतिककार्यरूपेण प्रकृतेः अन्तिमवर्णस्य लोपः अपि भवति ।\nस्मर्तव्यम् - पूर्वसूत्रेण <<पादशतस्य संख्यादेर्वीप्सायां वुन् लोपश्च>> [[5.4.1]] इत्यनेन वीप्सायाम् एव प्रत्ययविधानम् क्रियते । वर्तमानसूत्रेण तु 'दण्ड' तथा 'व्यवसर्ग' एतयोर्विषये अ-वीप्सायामपि प्रत्ययविधानम् कृतमस्ति ।\nविशेषः - प्रक्रियालेखने आदौ समस्तपदस्य निर्माणम् कृत्वा ततः 'वुन्' प्रत्ययः प्रयोक्तव्यः इति कौमुदीकारः पूर्वस्मिन् सूत्रे स्पष्टीकरोति, अतः प्रक्रिया अपि तादृशी एव लिख्यते।\nउदाहरणद्वयम् पश्यामः -\n1. द्वौ शतौ इति दण्डः (A fine / punishment of Rs. 200)\n= द्वि + शत + वुन् [<<तद्धितार्थोपपदसमाहारे च>> [[2.1.51]] इति समस्तपदस्य निर्माणम् । ततः वर्तमानसूत्रेण वुन्-प्रत्ययः]\n→ द्वि + शत् + वुन् [वर्तमानसूत्रेण 'शत' इत्यस्य अन्तिमवर्णस्य लोपः । एतत् प्राकृतिककार्यमस्ति अतः प्रक्रियायाः प्रारम्भे एव भवति ।]\n→ द्वि + शत् + अक [<<युवोरनाकौ>> [[7.1.1]] इति अक-आदेशः]\n→ द्विशतक\n→ द्विशतक + टाप् [वुन्-प्रत्ययान्तशब्दाः केवलं स्त्रीलिङ्गे एव प्रयुज्यन्ते, अतः <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्-प्रत्ययः]\n→ द्विशतक + आ\n→ द्विशतिक + आ [<<प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः>> [[7.3.44]] इति इकारादेशः]\n→ द्विशतिका [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः]\nद्वौ शतौ इति दण्डः सा द्विशतिका । एवमेव, द्वौ शतौ इति व्यवसर्गः (A donation of Rs. 200) सा अपि द्विशतिका ।\n[2] द्वौ पादौ इति व्यवसर्गः (A donation of two quarters)\n= द्वि + पाद + वुन् [<<तद्धितार्थोपपदसमाहारे च>> [[2.1.51]] इति समस्तपदस्य निर्माणम् । ततः वर्तमानसूत्रेण 'वुन्' प्रत्ययः]\n→ द्वि + पाद् + वुन् [वर्तमानसूत्रेण 'पाद्' इत्यस्य अन्तिमवर्णस्य लोपः]\n→ द्वि + पाद् + अक [<<युवोरनाकौ>> [[7.1.1]] इति अक-आदेशः]\n→ द्वि + पद् + अक [<<पादः पत्>> [[6.4.130]] इति 'पाद्' इत्यस्य 'पद्' आदेशः]\n→ द्विपदक\n→ द्विपदक + टाप् [वुन्-प्रत्ययान्तशब्दाः केवलं स्त्रीलिङ्गे एव प्रयुज्यन्ते, अतः <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्-प्रत्ययः]\n→ द्विपदिक + आ [<<प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः>> [[7.3.44]] इति इकारादेशः]\n→ द्विपदिका [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः]\nद्वौ पादौ व्यवसर्गः सा द्विपदिका । एवमेव, द्वौ पादौ दण्डः सा द्वपदिका ।\nअनेनैव प्रकारेण त्रिशतिका, दशशतिका, सहस्रशतिका - एतादृशाः शब्दाः सिद्ध्यन्ति । 'रामः देवदत्ताय द्विपदिकां दण्डयति / रामः ब्राह्मणाय त्रिपदिकां व्यवसृजति' एतादृशरूपेण एतेषाम् प्रयोगः भवति । एतेषु वाक्येषु गौण-कर्मपदस्य चतुर्थी विभक्तिः भवति, मुख्यकर्मपदम् तु द्वितीयायाम् एव प्रयुज्यते ।\nविशेषः - उपरिनिर्दिष्टायां प्रक्रियायाम् <<यस्येति च>> [[6.4.148]] इत्यनेन यद्यपि लोपः भवितुमर्हति, तथापि तादृशं क्रियते चेत आभीय-असिद्धत्वात् <<पादः पत्>> [[6.4.130]] इत्यस्य प्रयोगः नैव सम्भवति, अतः पूर्वस्मात् सूत्रात् 'लोप' इत्यस्य अनुवृत्तिं स्वीकृत्य प्राकृतिककार्यरूपेणैव अयम् लोपः क्रियते । अस्मिन् विषये अधिकम् <<पादशतस्य संख्यादेर्वीप्सायां वुन् लोपश्च>> [[5.4.2]] इत्यत्र स्पष्टीकृतमस्ति । " }, "54003": { "sa": "स्थूलादिगणस्य शब्देभ्यः प्रकारस्य निर्देशं कर्तुम् कन्-प्रत्ययः भवति । ", "sd": "प्रकारस्य निर्देशार्थम् <<प्रकारवचने जातीयर्>> [[5.3.69]] अनेन सूत्रेण सर्वेभ्यः प्रातिपदिकेभ्यः स्वार्थे जातीयर्-प्रत्ययः भवति । परन्तु एतम् बाधित्वा स्थूलादिगणस्य शब्देभ्यः वर्तमानसूत्रेण 'कन्' प्रत्ययः विधीयते ।\nस्थूलादिगणः अयम् -\nस्थूल, अणु, माष, इषु, कृष्ण तिलेषु (गणसूत्रम्), यव व्रीहिषु (गणसूत्रम्), पाद्यकालावदाताः सुरायाम् (गणसूत्रम्), गोमूत्र आच्छादने (गणसूत्रम्), सुराया अहौ (गणसूत्रम्), जीर्ण शालिषु (गणसूत्रम्), पत्रमूले समस्तव्यस्ते (गणसूत्रम्), कुमारीपुत्र, कुमार, श्वशुर, मणि ।\nविशेषः - पदमञ्जर्यां उच्यते - 'प्रकारो भेदः सादृश्यं च, उभयत्रापि यथाभिधानं कन् भवति' । अस्य अर्थः अयम् - 'प्रकार' शब्दस्य द्वौ अर्थौ स्तः - भेदः (type), तथा 'सादृश्यम्' (similarity) । द्वयोः अपि अर्थयोः यथायोग्यम् प्रत्ययविधानम् भवति । अतः 'स्थूलक' इत्यनेन 'स्थूलस्य कश्चन भेदः' तथा 'स्थूलसादृश्यः एव कश्चन पदार्थः' द्वौ अपि अर्थौ विधीयेते ।\nउदाहरणानि\n1. स्थूलस्य प्रकारः = स्थूल + क → स्थूलक । स्थूलस्य कश्चन भेदः / स्थूलसदृशः कश्चन - इत्याशयः ।\n2. अणोः प्रकारः = अणु + क → अणुक । अणोः कश्चन भेदः / अणुसदृशः कश्चन - इत्याशयः ।\n3. इषोः प्रकारः = इषु + क → इषुक । इषोः (arrow) कश्चन भेदः / इषुसदृशः कश्चन - इत्याशयः ।\nस्थूलादिगणे कानिचन गणसूत्राणि अपि पाठ्यन्ते । एतैः गणसूत्रैः विशिष्टेषु अर्थेषु कन्-प्रत्ययविधानम् क्रियते ।\n1. कृष्ण तिलेषु - कृष्णवर्णस्य तिलानाम् निर्देशार्थम् कृष्णशब्दात् 'कन्' प्रत्ययः भवति । कृष्णप्रकारस्य तिलाः ते कृष्णकाः तिलाः ।\n2. यव व्रीहिषु - यवसदृशानाम् व्रीहीनाम् निर्देशार्थम् 'यव' शब्दात् 'कन्' प्रत्ययः भवति । यवप्रकारस्य व्रीहयः ते यवकाः व्रीहयः ।\n3. पाद्यकालावदाताः सुरायाम् - 'पाद्य', 'काल', तथा 'अवदात' एतेभ्यः शब्देभ्यः सुरायाः निर्देशार्थम् कन्-प्रत्ययः भवति । यथा - पाद्यप्रकारा (A quarter of सुरा) सुरा सा पाद्यिका सुरा । कालप्रकारा सुरा (a very old सुरा) सा कालिका सुरा । अवदातप्रकारा (white / pure / clean) सुरा सा अवदातिका सुरा ।\n4. गोमूत्र आच्छादने - 'गोमुत्र' शब्दात् 'आच्छादन'स्य निर्देशार्थ् कन्-प्रत्ययः भवति । गोमुत्रप्रकारमाच्छादनम् (A covering that is zigzag just like how cow-urine falls on ground - इत्याशयः) तत् गोमुत्रकमाच्छादनम् ।\n5. सुराया अहौ - 'सुरा'शब्दात् 'अहेः निर्देशार्थम् (सर्पस्य निर्देशार्थम्) कन्-प्रत्ययः भवति । सुराप्रकारः अहिः (A snake similar to the color of सुरा) सः सुरकः अहिः । प्रक्रियायाम् <<केऽणः>> [[7.4.13]] इत्यनेन 'सुरा' शब्दस्य आकारस्य ह्रस्वादेशः भवति ।\n6. जीर्ण शालिषु - 'जीर्ण' शब्दात् शालेः निर्देशार्थम् (A type of rice) कन्-प्रत्ययः भवति । जीर्णः शालिः सः जीर्णकः ।\n7. पत्रमूले समस्तव्यस्ते - पत्र, मूल, तथा पत्रमूल - त्रिभ्यः अपि शब्देभ्यः कन्-प्रत्ययः भवति । पत्रस्य प्रकारः पत्रकम् । मूलस्य प्रकारः मूलकम् । पत्रमूलस्य प्रकारः पत्रमूलकम् ।\nअत्र एकम् वार्त्तिकमपि ज्ञातव्यम् - । इत्युक्ते, 'चञ्चत्' (moving / walking) तथा 'बृहत्' (सामवेदस्य कश्चन विभागः) एताभ्याम् शब्दाभ्यामपि कन्-प्रत्ययः भवति । चञ्चतः प्रकारः चञ्चत्कः (यः कश्चन स्थिरः अस्ति परन्तु चञ्चत्सदृशः भासते, तस्य निर्देशार्थमस्य शब्दस्य प्रयोगः भवति) । बृहतः प्रकारः बृहत्कः (A series of ऋचा similar to the बृहत् part of Samved)\nविशेषः - अस्य वार्त्तिकस्य इति अपि निर्देशः कैश्चन क्रियते । तेषाम् मतेन 'चञ्चा' (scarecrow) तथा 'बृह' (= बृहत् इत्येव, large) शब्दाभ्याम् प्रकारवचने द्योते कन्-प्रत्ययः विधीयते । यथा - चञ्चाप्रकारः चञ्चकः (यः पुरुषः चञ्चावत् शीतम् वातम् वा न सहते, तस्य निर्देशार्थम् 'चञ्चक' शब्दः प्रयुज्यते । प्रक्रियायाम् <<केऽणः>> [[7.4.13]] इत्यनेन 'चञ्चा' शब्दस्य आकारस्य ह्रस्वादेशः भवति ) । एवमेव - बृहस्य प्रकारः बृहकः ।\nस्मर्तव्यम् - एतत् सूत्रम् <<समर्थानां प्रथमाद्वा>> [[4.1.82]] इत्यत्र पाठितायां महाविभाषायां पाठ्यते, अतः अनेन सूत्रेण उक्तः प्रत्ययः विकल्पेन भवति । अतः पक्षे 'बृहस्य प्रकारः' इत्यपि प्रयोगः अपि साधु । " }, "54004": { "sa": "'अत्यन्तगतेः अभावः' अस्मिन् सन्दर्भे क्त-प्रत्ययान्तशब्दात् कन्-प्रत्ययः स्वार्थे विधीयते । ", "sd": "'अत्यन्तगति' इत्युक्ते 'अशेषसम्बन्धः / सम्पूर्णसम्बन्धः' (completely, fully, to the maximum extent इत्याशयः) । यथा, किञ्चन वस्तु सम्पूर्णरूपेण भग्नम् भवति चेत् तस्य वर्णनम् 'अत्यन्तगत्या भग्नम्' इत्यनेन क्रियते । यत्र अत्यन्तगतिः न विद्यते, तत्र 'अनत्यन्तगति' (= न अत्यन्तगतिः) अस्तीति उच्यते । एतादृशस्य वस्तुनः निर्देशार्थम् 'क्त' प्रत्ययान्तप्रातिपदिकात् स्वार्थे कन्-प्रत्ययः भवति ।\nयथा - अनत्यन्तगत्या भग्नम् (किञ्चित् भग्नम्, सम्पूर्णरूपेण न भग्नम्, Only partially broken इत्याशयः)\n= भग्न + कन्\n→ भग्नक\nयत् किञ्चित् भग्नम् तत् भग्नकम् । यथा - भग्नकः शैलः । भग्निका मूर्तिः (<<प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः>> [[7.3.44]] इति इकारादेशं कृत्वा रूपं सिद्ध्यति)।\nएवमेव - अनत्यन्तगत्या छिन्नः छिन्नकः । अनत्यन्तगत्या भिन्नः भिन्नकः ।\n " }, "54005": { "sa": "अर्धवाचके उपपदे परे क्त-प्रत्ययान्तशब्दात् कन्-प्रत्ययः न भवति । ", "sd": "यदि क्त-प्रत्ययान्तात् प्रातिपदिकात् पूर्वम् 'सामि' (half, incomplete, premature) इत्यस्मिन् अर्थे किञ्चन उपपदं प्रयुज्यते, तर्हि तस्मात् कन्-प्रत्ययः न विधीयते - इति अस्य सूत्रस्य आशयः ।\nउदाहरणात् पूर्वम् एकः विषयः अवश्यम् ज्ञेयः । अत्र कन्-प्रत्ययस्य निषेधः उक्तः अस्ति । केन सूत्रेण विहितः कन्-प्रत्ययः अत्र निषिध्यते ? वस्तुतस्तु केनापि सूत्रेण 'सामि कृतम्' इत्यस्मात् कन्-प्रत्ययः नैव विधीयते । पूर्वसूत्रेण <<अनत्यन्तगतौ क्तात्>> [[5.4.4]] इत्यनेन 'कृत' इत्यस्मात् अनन्यन्तगतौ इत्यस्मिन् सन्दर्भे कन्-प्रत्ययः अवश्यमुच्यते (यथा - सामि कृतम् = कृतकम्) ; परन्तु 'सामिकृत' शब्दात् कन्-प्रत्ययः कुत्रचित् अपि न विहितः अस्ति । अतः तस्य निषेधः अपि नैव वक्तव्यः ।\nअस्य समाधानार्थम् काशिकाकारः वदति - 'केन पुनः स्वार्थिकः कन् विहितः? एतदेव ज्ञापकं भवति स्वार्थे कनिति' । अस्य अर्थः अयम् - वर्तमानसूत्रेण उक्तः निषेधः एव अस्य ज्ञापकम्, यत् भिन्नेभ्यः शब्देभ्यः स्वार्थे कन्-प्रत्ययः भवितुमर्हति । इत्युक्ते, सर्वेभ्यः प्रातिपदिकेभ्यः स्वार्थे कन्-प्रत्ययः भवितुमर्हति । क्त-प्रत्ययान्तशब्दात् विहितस्य अस्यैव कन्-प्रत्ययस्य सामिवचने उपपदे परे वर्तमानसूत्रेण निषेधः क्रियते ।\nयथा - सामि कृतम् = सामिकृतम् । अत्र 'सामिकृत' शब्दात् 'कन्' प्रत्ययः न भवति ।\nएवमेव - सामि भग्नम् = सामिभग्नम् । सामि छिन्नम् = सामिछिन्नम् ।\nविशेषः -\n1. अस्मिन् सूत्रे 'वचने' इति निर्देशः कृतः अस्ति । अस्य प्रयोजनम् काशिकायामुच्यते - 'वचनग्रहणं पर्यायार्थम्' । इत्युक्ते, 'सामि' शब्दस्य पर्यायवाचिनाम् शब्दानां विषये अपि कन्-प्रत्ययः अनेन सूत्रेण निषिध्यते । यथा - अर्धम् कृतमर्धकृतम् । नेमं कृतम् नेमकृतम् ।\n2. भाष्यकारः कुत्रचित् स्वार्थे कन्-प्रत्ययं कृत्वा 'अभिन्नतरक', 'बहुभिन्नतरक' आदीन् प्रयोगान् प्रयुङ्क्ते ।एते सर्वे प्रयोगाः वर्तमानसूत्रस्य ज्ञापकत्वेनैव साधवः ज्ञेयाः ।\n" }, "54006": { "sa": "'बृहती' शब्दात् आच्छादनस्य निर्देशार्थम् कन्-प्रत्ययः स्वार्थे विधीयते । ", "sd": "'बृहती' इति स्त्रीणाम् किञ्चन वस्त्रम् (shawl / stole) । आच्छादनरूपेण प्रयुक्ता या बृहती, तस्याः निर्देशार्थम् बृहतीशब्दात् स्वार्थे कन् प्रत्ययः भवति । आच्छादने प्रयुक्ता बृहती सा एव = बृहतिका । <<केऽणः>> [[7.4.13]] इत्यनेन ह्रस्वादेशं कृत्वा शब्दः सिद्ध्यति । बृहतिका इत्युक्ते प्रावारः ('ओढनी' इति हिन्दीभाषायाम्) ।\nविशेषः -\n1. अस्मिन् सूत्रे 'आच्छादनम्' इति उच्यते, अतः 'बृहती छन्दः' इत्यस्य विषये अस्य सूत्रस्य प्रयोगः न भवति ।\n2. यद्यपि इदम् सूत्रम् <<समर्थानाम् प्रथमात् वा>> [[4.1.82]] इत्यत्र निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, तथापि भाष्यकारस्य मतेन अत्र विकल्पः न विधीयते । इत्युक्ते, आच्छादने प्रयुक्ता या बृहती, तस्याः निर्देशः बृहतिका इत्यनेनैव क्रियते, न हि 'बृहती' इत्यनेन । (अस्मिन् विषये अधिकम् जिज्ञासवः <<अषडक्षाशितङ्ग्वलंकर्मालम्पुरुषाध्युत्तरपदात् खः>> [[5.4.7]] इत्यस्य व्याख्यानम् पश्येयुः ।)\n" }, "54007": { "sa": "'अषडक्ष', 'आशितङ्गु', 'अलङ्कर्म', 'अलम्पुरुषः' एतेभ्यः शब्देभ्यः, तथा च 'अधि' यस्य उत्तरपदमस्ति तादृशात् शब्दात् स्वार्थे ख-प्रत्ययः भवति । ", "sd": "अनेन सूत्रेण भिन्नेभ्यः शब्देभ्यः स्वार्थे ख-प्रत्ययः उच्यते । क्रमेण पश्यामः -\n1. 'अषडक्ष' = 'अविद्यमानानि षट् अक्षीणि यस्मिन्' (One that does not relate to six eyes)) इत्यस्मिन् अर्थे बहुव्रीहि-समासे कृते तस्मात् वर्तमानसूत्रेण 'ख' प्रत्ययः प्रयुज्यते, येन 'अषडक्षीण' इति शब्दः सिद्ध्यति । प्रक्रिया इयम् -\nअविद्यमानानि षडक्षीणि यस्मिन्\n→ अषडक्षि + षच् [<<बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच्>> [[5.4.113]] इति षच्]\n→ अषडक्ष् + अ [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ अषडक्ष + ख [वर्तमानसूत्रेण ख-प्रत्ययः]\n→ अषडक्ष + ईन [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ईन्-आदेशः]\n→ अषडक्ष् + ईन [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ अषडक्षीण [<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इति णत्वम् ]\nद्वौ एव यं जानीतः सः अषडक्षीणः मन्त्रः । (यः गुप्तसन्देशः केवलम् तस्य कथयिता तथा च तस्य श्रोता एतौ एव जानीतः, कोऽपि तृतीयः मनुष्यः न जानाति, तस्य निर्देशः 'अषडक्षीणः सन्देशः / अषडक्षीणः मन्त्रः' इत्यनेन क्रियते । When only two people know a certain message, it is said to be known by only four eyes (two per person). when a third person comes in the picture, the message gets known by 'six eyes', making it षडक्ष. Any message that is not षडक्ष is referred as अषडक्षीण)।\n2. 'आशितङ्गु' = 'आशिताः गावः अस्मिन्' (A place where cows have eaten their food) अस्मिन् अर्थे बहुव्रीहिसमासं कृत्वा निपातनरूपेण 'आशितङ्गु' इति शब्दः सिद्ध्यति । अस्मात् शब्दात् वर्तमानसूत्रेण स्वार्थे ख-प्रत्ययः भवति । आशिताः गावः अस्मिन् वने तत् आशीतङ्गवीनम् वनम् । प्रक्रिया इयम् -\nआशिताः गावः अस्मिन्\n= आशित + गौ [<<अनेकमन्यपदार्थे>> [[2.2.24]] इति बहुव्रीहिसमासः]\n→ आशित + गु [<<गोस्त्रियोरुपसर्ज्जनस्य>> [[1.2.48]] इति ह्रस्वः]\n→ आशित + मुम् + गु [निपातनात् पूर्वपदस्य मुम्-इति आगमः । <<मिदचोऽन्त्यात्परः>> [[1.1.47]] इत्यनेन अन्त्यात् अचः परः अयम् विधीयते।]\n→ आशित + मुम् + गु + ख [वर्तमानसूत्रेण 'ख' इति प्रत्ययः]\n→ आशित + म् + गु + ईन [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ईन्-आदेशः]\n→ आशितम् + गो + ईन [<<ओर्गुणः>> [[6.4.146]] इति गुणादेशः]\n→ आशितम्गवीन [<<एचोऽयवायावः>> [[6.1.78]] इति अवादेशः]\n→ आशितंगवीन [<<मोऽनुस्वारः>> [[8.3.13]] इति पदान्तमकारस्य अनुस्वारः]\n→ आशितङ्गवीन [<<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति परसवर्णः]\nआशिताः गावः यस्मिन् वने तत् आशितङ्गवीनम् वनम् । A forest where cows have grazed is called आशितङ्गवीनम् वनम् ।\n3. 'अलङ्कर्म' = 'अलम् कर्मणे (कर्मणे पर्याप्तः , Sufficient for doing some task) अस्मिन् अर्थे <<कुगतिप्रादयः>> [[2.2.18]] इत्यत्र पाठितेन अनेन वार्त्तिकेन तत्पुरुषसमासः विधीयते । अस्यां प्रक्रियायामग्रे वर्तमानसूत्रेण स्वार्थे ख-प्रत्ययः भवति ।\nअलम् कर्मणे\n= अलम् + कर्मन् + ख [वर्तमानसूत्रेण 'ख' इति प्रत्ययः]\n→ अलम् + कर्मन् + ईन [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ईन्-आदेशः]\n→ अलम् + कर्म् + ईन [<<नस्तद्धिते>> [[6.4.144]] इति टिलोपः]\n→ अलम्कर्मीन\n→ अलंकर्मीन [<<मोऽनुस्वारः>> [[8.3.23]] इति अनुस्वारः]\n→ अलंकर्मीण [<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इति णत्वम्]\n→ अलङ्कर्मीण [<<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति परसवर्णः ङकारः]\nयत् किमपि वस्तु किञ्चन कर्म कर्तुम् पर्याप्तमस्ति, तस्य निर्देशः 'अलङ्कर्मीण' इत्यनेन क्रियते । यथा, वृक्षच्छेदनाय अलङ्कर्मीणः परशुः (An axe that is sufficient for cutting a tree).\n4. 'अलम्पुरुष' - 'अलम् पुरुषाय' (पुरुषाय पर्याप्तः, sufficient for a man) अस्मिन् अर्थे <<कुगतिप्रादयः>> [[2.2.18]] इत्यत्र पाठितेन अनेन वार्त्तिकेन तत्पुरुषसमासः विधीयते । अस्यां प्रक्रियायामग्रे वर्तमानसूत्रेण स्वार्थे ख-प्रत्ययः भवति । प्रक्रिया पूर्ववदेव भवति -\nअलम् पुरुषाय\n= अलम् + पुरुष + ख [वर्तमानसूत्रेण 'ख' इति प्रत्ययः]\n→ अलम् + पुरुष + ईन [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ईन्-आदेशः]\n→ अलम् + पुरुष + ईन [<<नस्तद्धिते>> [[6.4.144]] इति टिलोपः]\n→ अलम्पुरुषीन\n→ अलंपुरुषीन [<<मोऽनुस्वारः>> [[8.3.23]] इति अनुस्वारः]\n→ अलंपुरुषीण [<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इति णत्वम्]\n→ अलम्पुरुषीण [<<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति परसवर्णः ङकारः]\n5. 'अध्युत्तपदशब्दाः' - 'अधि' इति शब्दः <<सप्तमी शौण्डैः>> [[2.1.40]] इत्यत्र निर्दिष्टे शौण्डादिगणे पाठ्यते । इत्युक्ते, अयम् शब्दः सप्तमी-तत्पुरुषसमासे उत्तरपदरूपेण विधीयते । अस्य समासस्य प्रक्रियायाम् वर्तमानसूत्रेण 'ख' प्रत्ययः विधीयते । यथा -\nराजनि अधि\n= राजन् + अधि + ख [ <<सप्तमी शौण्डैः>> [[2.1.40]] इति सप्तमीतत्पुरुषसमासः । वर्तमानसूत्रेण ख-प्रत्ययः]\n→ राजन् + अधि + ईन [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ईन्-आदेशः]\n→ राजन् + अध् + ईन [<<यस्येति च>> [[6.4.148]] इति इकारलोपः]\n→ राज + अध् + ईन [ <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः]\n→ राजाधीन [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः । <<नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति>> [[8.2.2]] इत्यनेन नकारलोपःकेवलम् सुप्-स्वर-संज्ञा-तुग्विधिषु एव असिद्धः अस्ति, नान्यत्र । अतः अत्र त्रिपाद्याः अनन्तरम् सपादसप्ताध्याय्याः प्रयोगः भवितुमर्हति ।]\nराजनि अधि सः राजाधीनः । एवमेव दैवाधीनः, कालाधीनः - आदयः शब्दाः अपि सिद्ध्यन्ति ।\nविशेषः - यद्यपि इदम् सूत्रम् <<समर्थानाम् प्रथमात् वा>> [[4.1.82]] इत्यत्र निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, तथापि भाष्यकारस्य मतेन अत्र विकल्पः न विधीयते । इत्युक्ते, 'अषडक्ष', 'आशितङ्गु', ' अलङ्कर्म', 'अलम्पुरुष' तथा च अध्युत्तरपदशब्डाः तादृशाः भाषायाम् नैव प्रयुज्यन्ते । तेभ्यः नित्यम् ख-प्रत्ययः भवत्येव । " }, "54008": { "sa": "यः 'अञ्च्' धातोः निर्मितः शब्दः 'दिशा' इत्यस्मिन्नर्थे स्त्रीलिङ्गे न प्रयुज्यते, तस्मात् स्वार्थे विकल्पेन ख-प्रत्ययः भवति । ", "sd": "'अञ्च्' (अञ्चुँ गतौ) इति भ्वादिगणस्य कश्चन धातुः । अस्मात् धातोः निर्मिताः शब्दाः यदा 'दिशा' अस्मिन् अर्थे स्त्रीलिङ्गे न प्रयुज्यन्ते, तदा तस्मात् स्वार्थे विकल्पेन ख-प्रत्ययः भवति ।\nउदाहरणद्वयम् पश्यामः -\n1) 'प्र + अञ्च्' इत्यस्मात् <<ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च>> [[3.2.59]] इत्यनेन क्विन्-प्रत्ययं कृत्वा 'प्राच्' इति शब्दः सिद्ध्यति । अयम् शब्दः 'पूर्वः कालः' अस्मिन् अर्थे प्रयुज्यते । अस्मात् शब्दात् स्वार्थे ख-प्रत्ययः वर्तमानसूत्रेण विधीयते । यथा -\nप्राक् इत्येव\n = प्राच् + ख\n→ प्राच् + ईन [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ईन्-आदेशः]\n→ प्र + च् + ईन [<<अचः>> [[6.4.138]] इत्यनेन 'अच्' इत्यस्य अकारस्य लोपः भवति]\n→ प्रा + च् + ईन [<<चौ>> [[6.3.138]] इति अङ्गस्य दीर्घादेशः ]\n→ प्राचीन\nअयम् ख-प्रत्ययः वैकल्पिकः अस्ति, अतः पक्षे 'प्राक्' इत्यपि शब्दः साधु एव ।\n2) 'अर्वन् + अञ्च्' इत्यस्मात् <<ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च>> [[3.2.59]] इत्यनेन क्विन्-प्रत्ययं कृत्वा 'अर्वाच्' इति शब्दः सिद्ध्यति । 'निकृष्टः कालः / निकटतमः कालः' अस्मिन् अर्थे अस्य प्रयोगः क्रियते । अस्मात् शब्दात् स्वार्थे ख-प्रत्ययः वर्तमानसूत्रेण विधीयते । यथा -\nअर्वाक् इत्येव\n= अर्वाच् + ख\n→ अर्वाच् + ईन [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ईन्-आदेशः]\n→ अर्व + च् + ईन [<<अचः>> [[6.4.138]] इत्यनेन 'अच्' इत्यस्य अकारस्य लोपः भवति]\n→ अर्वा + च् + ईन [<<चौ>> [[6.3.138]] इति अङ्गस्य दीर्घादेशः ]\n→ अर्वाचीन\nविशेषः -\n1) यदि प्रकृतिः केवलम् स्त्रीलिङ्गे अस्ति परन्तु दिशावाचिनी नास्ति तर्हि ख-प्रत्ययः भवत्येव । यथा - 'प्राची ब्राह्मणी' (An old brahmin lady) इत्यत्र 'प्राची' शब्दः स्त्रीलिङ्गे अस्ति परन्तु दिशावाची नास्ति । अतः अस्मात् ख-प्रत्ययः अवश्यम् विधीयते ।\nप्राची ब्राह्मणी इत्येव -\n= प्राची + ख\n→ प्राची + ईन [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ईन्-आदेशः]\n→ प्राच् + ईन [ इति पुंवद्भावः ।\n→ प्र + च् + ईन [<<अचः>> [[6.4.138]] इत्यनेन 'अच्' इत्यस्य अकारस्य लोपः भवति]\n→ प्रा + च् + ईन [<<चौ>> [[6.3.138]] इति अङ्गस्य दीर्घादेशः ]\n→ प्राचीन + टाप् [<<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्]\n→ प्राचीना [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः]\nप्राची ब्राह्मणी इत्येव प्राचीना ब्राह्मणी ।\n2) यद्यपि प्रकृतिः दिशावाचकशब्दः अस्ति, स्त्रीलिङ्गे च विद्यते, तर्हि तस्मात् विहितस्य स्त्रीप्रत्ययस्य लुक्-कृत्वा अग्रे 'ख' प्रत्ययविधानम् भवितुमर्हति - इति व्याख्यानैः स्पष्टीक्रियते । यथा, 'प्राची दिक्' इति विद्यते चेत् 'प्राची' शब्दात् <<दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः>> [[5.3.27]] इत्यनेन 'अस्ताति' इति प्रत्ययं कृत्वा, अग्रे <<अञ्चेर्लुक्>> [[5.3.30]] इत्यनेन अस्ताति-प्रत्ययस्य लुक्-कृत्वा अग्रे ख-प्रत्ययः भवति येन नपुंसकलिङ्गवाचि प्रातिपदिकम् सिद्ध्यति । प्रक्रिया इयम् -\nप्राची + अस्ताति [<<दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः>> [[5.3.27]] इति अस्ताति-प्रत्ययः]\n→ प्राची [<<अञ्चेर्लुक्>> [[5.3.30]] इति 'अस्ताति'प्रत्ययस्य लुक्]\n→ प्राच् [<<लुक् तद्धितलुकि>> [[1.2.49]] इति स्त्रीप्रत्ययस्य अपि लुक् । स्त्रीप्रत्ययस्य निवृत्तौ ङीप्-प्रत्ययविशिष्टमङगकार्यमपि निवर्तते, अतः 'प्र + अच्' इत्येव अवशिष्यते । सवर्णदीर्घं कृत्वा 'प्राच्' इति सिद्ध्यति । अस्य <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इति अव्ययसंज्ञा विधीयते ।]\n→ प्राच् + ख [वर्तमानसूत्रेण स्वार्थे ख-प्रत्ययविधानम्]\n→ प्राच् + ईन [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ईन्-आदेशः]\n→ प्र + च् + ईन [<<अचः>> [[6.4.138]] इत्यनेन 'अच्' इत्यस्य अकारस्य लोपः भवति]\n→ प्रा + च् + ईन [<<चौ>> [[6.3.138]] इति अङ्गस्य दीर्घादेशः ]\n→ प्राचीन\nअस्य शब्दस्य प्रयोगः नित्यं नपुंसकलिङ्गे च भवतीति व्याख्यानानि स्पष्टीकुर्वन्ति । यथा - 'प्राचीनम् दिक् रमणीयम्' । अत्र 'दिक्' इति नित्यस्त्रीलिङ्गः शब्दः अस्ति अतः तस्य लिङ्गम् तादृशमेव विद्यते । परन्तु 'रमणीयम्' इति शब्दः 'प्राचीन' इति शब्दवदेव अपि नपुंसकलिङ्गे प्रयुज्यते ।\nएवमेव 'प्रतीचीन' तथा 'उदीचीन' एतौ शब्दौ अपि सिद्ध्यतः । यथा -\nअ) 'प्रतीची दिक् रमणीया' इत्येव = प्रतीचीनम् दिक् रमणीयम् । प्रक्रिया इयम् -\nप्रतीची + अस्ताति [<<दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः>> [[5.3.30]] इति अस्ताति-प्रत्ययः]\n→ प्रतीची ['अस्ताति'प्रत्ययस्य लुक्]\n→ प्रत्यच् [<<लुक् तद्धितलुकि>> [[1.2.49]] इति स्त्रीप्रत्ययस्य अपि लुक् । स्त्रीप्रत्ययस्य निवृत्तौ ङीप्-प्रत्ययविशिष्टमङगकार्यमपि निवर्तते, अतः 'प्रति + अच्' इत्येव अवशिष्यते । यणादेशं कृत्वा 'प्रत्यच्' इति सिद्ध्यति । अस्य <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इति अव्ययसंज्ञा विधीयते । अस्य विस्तारेण प्रक्रिया <<अञ्चेर्लुक्>> [[5.3.30]] इत्यत्र द्रष्टव्या]\n→ प्रत्यच् + ख [वर्तमानसूत्रेण स्वार्थे ख-प्रत्ययविधानम्]\n→ प्रत्यच् + ईन [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ईन्-आदेशः]\n→ प्रति + च् + ईन [<<अचः>> [[6.4.138]] इत्यनेन 'अच्' इत्यस्य अकारस्य लोपः भवति]\n→ प्रतीच् + ईन [<<चौ>> [[6.3.138]] इति अङ्गस्य दीर्घादेशः ]\n→ प्रतीचीन\nआ) 'उदीची दिक् रमणीया' इत्येव = उदीचीनम् दिक् रमणीयम् । प्रक्रिया इयम् -\nउदीची + अस्ताति [<<दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः>> [[5.3.30]] इति अस्ताति-प्रत्ययः]\n→ उदीची ['अस्ताति'प्रत्ययस्य लुक्]\n→ उदच् [<<लुक् तद्धितलुकि>> [[1.2.49]] इति स्त्रीप्रत्ययस्य अपि लुक् । स्त्रीप्रत्ययस्य निवृत्तौ ङीप्-प्रत्ययविशिष्टमङगकार्यमपि निवर्तते, अतः 'उद् + अच्' इत्येव अवशिष्यते । वर्णमेलनं कृत्वा 'उदच्' इति सिद्ध्यति । अस्य <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इति अव्ययसंज्ञा विधीयते । अस्य विस्तारेण प्रक्रिया <<अञ्चेर्लुक्>> [[5.3.30]] इत्यत्र द्रष्टव्या]\n→ उदच् + ख [वर्तमानसूत्रेण स्वार्थे ख-प्रत्ययविधानम्]\n→ उदच् + ईन [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ईन्-आदेशः]\n→ उद् + ईच् + ईन [ [<<उद ईत्>> [[6.4.139]] इति अकारस्य इकारादेशः]]\n→ उदीचीन\nस्मर्तव्यम् - वस्तुतः इदम् सूत्रम् <<समर्थानां प्रथमात् वा>> [[4.1.82]] इत्यत्र निर्दिष्टायाः महाविभाषायाः अधिकारे एव पाठ्यते । परन्तु तथापि अस्मिन् सूत्रे 'विभाषा' इति निर्दिष्टमस्ति । अस्य स्पष्टीकरणार्थम् व्याख्यानेषु उच्यते - विभाषाग्रहणात् केचन स्वार्थिका नित्याः प्रत्ययाः स्मर्यन्ते । इत्युक्ते, अत्र विभाषाग्रहणेन एतत् स्पष्टीभवति यत् स्वार्थिकप्रकरणे केचन प्रत्ययाः नित्यमेव कर्तव्या, न हि विकल्पेन । यथा, पूर्वसूत्रेण <<अषडक्षाशितङ्ग्वलंकर्मालम्पुरुषाध्युत्तरपदात् खः>> [[5.4.7]] इत्यनेन उक्तः ख-प्रत्ययः विकल्पेन न भवति, नित्यमेव भवति ।\nज्ञेयम् - अग्रे प्रत्येकस्मिन् सूत्रे प्रत्ययविधानम् नित्यम् भवति उत विकल्पेन तत् स्पष्टरूपेण निर्दिष्टमस्ति ।\n" }, "54009": { "sa": "'जाति' इति शब्दः यस्य अन्ते अस्ति, तथा च 'बन्धु' इत्यस्मिन् अर्थे यः शब्दः प्रयुज्यते, तस्मात् स्वार्थे नित्यं छ-प्रत्ययः भवति । ", "sd": "यस्य शब्दस्य अन्ते 'जाति' इति विद्यते, (यथा -'ब्राह्मणजाति', 'क्षत्रियजाति', 'वैश्यजाति' आदयः) तादृशः शब्दः यदि तस्याः जातेः बन्धुनः (members of the cast) निर्देशं करोति, तर्हि तस्मात् स्वार्थे 'छ' प्रत्ययः भवति ।\nकिम् नाम बन्धु ? व्याख्यानेषु उच्यते - बध्यते अस्मिन् जातिः इति बन्धुशब्देन द्रव्यमुच्यते । येन ब्राह्मणत्वादिजातिः व्यज्यते तत् बन्धु द्रव्यम् । सामान्यभाषायाम्, जातौ विद्यमानः मासपिण्डादिः कश्चनः मनुष्यः येन सा जातिः व्यक्ता भवति 'बन्धु' / 'द्रव्यम्' इति नाम्ना ज्ञायते । A 'जाति' is just a theoretical concept, which can become practical only when some people who belong to that jati are shown explicitly. Such people are called बन्धु / द्रव्य of that जाति । एतादृशानाम् बन्धूनाम् निर्देशार्थम् जात्यन्तात् शब्दात् स्वार्थे 'छ' इति प्रत्ययः वर्तमानसूत्रेण विधीयते ।\nकानिचन उदाहरणानि एतानि -\n1. ब्राह्मणः जातिः यस्य सः\n= ब्राह्मण + जाति + छ [वर्तमानसूत्रेण स्वार्थे छ-प्रत्ययः]\n→ ब्राह्मण + जाति + ईय [<<आयनेयीनीयः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ईय-प्रत्ययः]\n→ ब्राह्मणजात् + ईय [<<यस्येति च>> [[6.4.148]] इति इकारलोपः]\n→ ब्राह्मणजातीय\nएवमेव -\n2. क्षत्रियः जातिः यस्य सः क्षत्रियजातीयः ।\n3. वैश्यः जातिः यस्य सः वैश्यजातीयः ।\nअत्र एकः विशेषः स्मर्तव्यः - यद्यपि इदम् सूत्रम् <<समर्थानाम् प्रथमात् वा>> [[4.1.82]] इत्यत्र निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, तथापि भाष्यकारस्य मतेन अत्र विकल्पः न विधीयते । इत्युक्ते, अत्र निर्दिष्टाः 'ब्राह्मणजाति', 'क्षत्रियजाति' एतादृशाः शब्दाः तादृशाः एव नैव प्रयुज्यन्ते, अपितु समासप्रक्रियायाम् तेभ्यः छ-प्रत्ययः नित्यम् भवति । अतएव उपरिनिर्दिष्टे सूत्रार्थे 'नित्य' इति शब्दः प्रयुक्तः अस्ति ।\nज्ञातव्यम् - 'ब्राह्मणजाति', 'क्षत्रियजाति' एतादृशाः शब्दाः जातेः निर्देशार्थम् तु तादृशाः एव प्रयुज्यन्ते । यथा - शोभना ब्राह्मणजातिः (The brahmin cast is glorious ) । परन्तु अस्मिन् अर्थे अस्मात् शब्दात् छ-प्रत्ययः न भवति । एतत् स्पष्टीकर्तुमेव अस्मिन् सूत्रे 'बन्धु' इति उच्यते ।\n" }, "54010": { "sa": "यस्य शब्दस्य अन्ते 'स्थान' इति विद्यते, तस्मात् 'सस्थानेन तुल्यमस्ति चेत्' अस्मिन् अर्थे छ-प्रत्ययः विकल्पेन भवति । ", "sd": "यस्य शब्दस्य अन्ते 'स्थान' इति विद्यते (यथा, 'पितृस्थान', 'मातृस्थान', 'गुरुस्थान' आदयः) तस्मात् शब्दात् 'सस्थानेन तुल्यमस्ति चेत्' (= समानम् स्थानमस्ति चेत्, equivalent in position to) अस्मिन् सन्दर्भे स्वार्थे 'छ'-प्रत्ययः विकल्पेन विधीयते ।\nउदाहरणानि एतानि -\n1. पितृस्थानम् इव स्थानम् यस्य [ अनेन वार्त्तिकेन उत्तरपदलोपबहुव्रीहिः समासः ]\n= पितृस्थान + छ [वर्तमानसूत्रेण छ-प्रत्ययः]\n→ पितृस्थान + ईय [<<आयनेयीनीयीयः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ईय्-आदेशः]\n→ पितृस्थान् + ईय [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ पितृस्थानीयः\nअयम् छ-प्रत्ययः विकल्पेन भवति, अतः 'पित्रा तुल्यः = पितृस्थानः' इति अपि साधु प्रयोगः ।\nएवमेव -\n2. मातृस्थानम् इव स्थानम् यस्य मातृस्थानीया मातृस्थाना वा ।\n3. गुरुस्थानम् इव स्थानम् यस्य गुरुस्थानीयः गुरुस्थानः वा ।\n4. राजस्थानम् इव स्थानम् यस्य राजस्थानीयः राजस्थानः वा ।\nज्ञातव्यम् -\n1. यत्र 'सस्थानस्य' निर्देशः न विद्यते, तत्र वर्तमानसूत्रस्य प्रयोगः न भवति । यथा - 'अश्वस्य स्थानमश्वस्थानम्' (location / place of horse) अत्र वर्तमानसूत्रस्य प्रसक्तिः नास्ति ।\n2. अस्मिन् सूत्रे निर्दिष्टः 'इति' अयम् शब्दः 'सस्थान' शब्दस्य अर्थम् स्पष्टीकरोति । वस्तुतः तु 'सस्थान' शब्दस्य अर्थद्वयम् विद्यते -\nअ) 'समानस्य स्थानम्' इति तत्पुरुषसमासः । The position of someone who is equivalent - इति आशयः ।\nआ) 'समानम् स्थानम् यस्य सः' इति बहुव्रीहिसमासः । The person whose position is equivalent - इति आशयः ।\nएताभ्याम् केवलम् बहुव्रीहिसमासेन निर्मितः 'सस्थान' शब्दः एव वर्तमानसूत्रस्य सन्दर्भे प्रयोक्तव्यः - एतत् स्पष्टीकर्तुमत्र 'इति' शब्द' स्वीक्रियते । अतः 'पित्रा तुल्यम् स्थानम्' इति निर्देशार्थम् वर्तमानसूत्रस्य प्रयोगः न भवति ।\n3. अस्मिन् सूत्रे प्रयुक्तः 'चेत्' इति शब्दः 'सम्बन्धम्' दर्शयति । इत्युक्ते, 'पितृस्थान' शब्दस्य मूलः सम्बन्धः पित्रा सह अस्ति, न हि स्थानेन सह - इति अनेन शब्देन स्पष्टीभवति ।\n4. वस्तुतः <<विभाषा अञ्चेरदिक्स्त्रियाम्>> [[5.4.8]] इत्यस्मिन् सूत्रे अपि 'विभाषा' शब्दः विद्यते एव । परन्तु वर्तमानसूत्रे अयम् शब्दः पुनः स्वीकृतः अस्ति । अस्य स्पष्टीकरणार्थम् काशिकाकारः वदति - द्व्योः विभाषयोः नित्याः विधयः इति पूर्वत्र नित्यविधयः। । इत्युक्ते, द्वयोः सूत्रयोः मध्ये विद्यमानेन <<जात्यन्नाच्छ बन्धुनि>> [[5.4.9]] अनेन सूत्रेण नित्यमेव प्रत्ययविधानम् क्रियते, न हि विकल्पेन - इति स्पष्टीकर्तुम् एव अत्र पुनः 'विभाषा' शब्दः स्वीकृतः अस्ति ।\nस्मर्तव्यम् - वस्तुतः इदम् सूत्रम् <<समर्थानां प्रथमात् वा>> [[4.1.82]] इत्यत्र निर्दिष्टायाः महाविभाषायाः अधिकारे एव पाठ्यते । परन्तु तथापि अस्मिन् सूत्रे 'विभाषा' इति निर्दिष्टमस्ति । अस्य स्पष्टीकरणार्थम् व्याख्यानेषु उच्यते - विभाषाग्रहणात् केचन स्वार्थिका नित्याः प्रत्ययाः स्मर्यन्ते । इत्युक्ते, अत्र विभाषाग्रहणेन एतत् स्पष्टीभवति यत् स्वार्थिकप्रकरणे केचन प्रत्ययाः नित्यमेव कर्तव्या, न हि विकल्पेन । अतएव अग्रे प्रत्येकस्मिन् सूत्रे 'प्रत्ययविधानम् नित्यम् भवति उत विकल्पेन' तत् स्पष्टरूपेण निर्दिष्टमस्ति ।" }, "54011": { "sa": "'किम्' शब्दः, एकारान्तशब्दाः, तिङन्तशब्दाः तथा च अव्ययवाचकशब्दाः - एतेषाम् 'घ'प्रत्ययान्तरूपेभ्यः यदि द्रव्यस्य प्रकर्षः न निर्दिश्यते, तर्हि स्वार्थे 'आमु' इति प्रत्ययः नित्यम् विधीयते । ", "sd": "अस्य सूत्रस्य अर्थज्ञानात् पूर्वम् केचन बिन्दवः प्रारम्भे ज्ञेयाः -\n1. 'घ' इति व्याकरणविशिष्टा संज्ञा अस्ति । <<तरप्तमपौ घः>> [[1.1.22]] अनेन सूत्रेण 'तरप्' तथा 'तमप्' एतयोः प्रत्यययोः 'घ'-इति संज्ञा भवति ।\n2. 'तरप्' तथा 'तमप्' एतौ द्वौ तद्धितप्रत्ययौ । <<द्विवचनविभज्योपपदे तरबीयसुनौ>> [[5.3.57]] अनेन तरप्-प्रत्ययः, तथा <<अतिशायने तमबिष्ठनौ>> [[5.3.55]] इत्यनेन तमप्-प्रत्ययः विधीयते ।\n3. 'प्रकर्षः' (द्वयोः प्रकर्षेण एकः / अनेकेषु प्रकर्षेण एकः - one with highest quality amongst two or many) अस्मिन् अर्थे 'तरप्' तथा 'तमप्' एतौ प्रत्ययौ प्रयुज्येते । यथा - देवदत्तयज्ञदत्तयोः देवदत्तः पटुतरः । सर्वेषु छात्रेषु देवदत्तः पटुतमः - आदयः ।\n4. एतौ 'तरप्' तथा 'तमप्' प्रत्ययौ तिङन्तेभ्यः अपि भवितुमर्हन्ति । यथा - 'देवदत्तः प्रकर्षेण पचति = देवदत्तः पचतितमाम्' ।\nएतौ 'तरप्' तथा 'तमप्' प्रत्ययौ यदि 'किम्' शब्दात्, 'एदन्त'शब्दात्, 'तिङन्त' शब्दात् उत अव्ययवाचकशब्दात् विधीयेते, तर्हि तेभ्यः अग्रे 'आमु' इति प्रत्ययः स्वार्थे विधीयते - इति वर्तमानसूत्रस्य आशयः । 'आमु' इत्यस्मिन् प्रत्यये मकारोत्तरः उकारः उच्चारणार्थः अस्ति । <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा मा भूत् - इति स्पष्टीकर्तुमयमुकारः स्थापितः अस्ति । प्रयोगात् पूर्वमस्य लोपः भवति, अत 'आम्' इत्येव प्रयोगे दृश्यते ।\nक्रमेण उदाहरणानि पश्यामः -\n1. 'किम्' शब्दः\nअयम् सर्वनामशब्दः । यत्र वस्तूनाम् विद्यमानेषु अनेकेषु विशेषेषु प्रकृष्टस्य विषयस्य विषये प्रश्नः क्रियते, तत्र 'किम्' शब्दात् <<द्विवचनविभज्योपपदे तरबीयसुनौ>> [[5.3.57]] अनेन तरप्-प्रत्ययः, तथा च <<अतिशायने तमबिष्ठनौ>> [[5.3.55]] इत्यनेन तमप्-प्रत्ययः विधीयते ।अस्मात् तरप्/तमप्-प्रत्ययान्तरूपात् अग्रे वर्तमानसूत्रेण 'आम्' इति प्रत्ययः स्वार्थे भवति । यथा -\nद्वयोः अतिशयेन किम् (specifically what amongst the two)\n= किम् + तरप् + आमु [ <<द्विवचनविभज्योपपदे तरबीयसुनौ>> [[5.3.57]] अनेन तरप्-प्रत्ययः । वर्तमानसूत्रेण 'आमु' प्रत्यय']\n→ किम् + तर् + आम् [पकारस्य इत्संज्ञा, लोपः । रेफोत्तरः अकारः उच्चारणार्थः, तस्यापि लोपः । मकारोत्तरः उकारः अपि उच्चारणार्थः, तस्यापि लोपः ।]\n→ किंतराम् [<<मोऽनुस्वारः>> [[8.3.23]]\n→ किंतराम्, किन्तराम् [<<वा पदान्तस्य>> [[8.4.59]] इति वैकल्पिकः परसवर्णः]\nएवमेव - अनेकेषु अतिशयेन किम् = किन्तमाम्, किंतमाम् ।\nयथा - किन्तराम् स उवाच / किन्तमाम् स उवाच । (द्वयोः / अनेकेषु कम् विशेषरूपेण दृष्ट्वा / सम्बुद्ध्य सः उवाच - इति अस्य अर्थः । Whom did he primarily talk to while speaking in a group - इति आशयः ) ।\nस्मर्तव्यम् - कुत्रचित् 'किम्' इति शब्दः 'कुत्सितः' / 'यःकश्चित्' (something worth ignoring / hated) अस्मिन् अर्थे अपि प्रयुज्यते । यथा -\nद्वयोः अतिशयेन किम् (The more hated amongst the two) = किंतराम् / किन्तराम् ।\nअनेकेषु अतिशयेन किम् (The more hated amongst the many) = किंतमाम् / किन्तमाम् ।\nयथा - अयम् विचारः एतयोः किन्तराम् । इदम् चिन्तनम् एतेषु किन्तमाम् । Amongst the two / many, this particular thought is most hated.\n2. एदन्तशब्दाः\nयस्य शब्दस्य अन्ते 'ए' वर्णः विद्यते सः शब्दः 'एदन्तः' अस्ति इत्युच्यते । अस्मात् विहितात् 'तरप्' / 'तमप्' प्रत्ययात् अग्रे स्वार्थे आम्-प्रत्ययः भवति । यथा - अ) प्राह्णे (प्रातःकाले / in the morning) -\nद्वयोः अतिशयेन प्राह्णे (earliest in the morning / explicitly in the morning - प्राह्णे + तरप् + आम् → प्राह्णेतराम् । एवमेव - प्राह्णेतमाम् ।\nआ) अपराह्णे (in the afternoon) -\nद्वयोः अतिशयेन अपराह्णे (precisely in the afternoon / explicitly in the afternoon) अपराह्णे + तरप् + आम् → अपराह्णेतराम् । एवमेव - अपराह्णेतमाम् ।\nयथा - पितापुत्रयोः पिता प्राह्णेतरामुत्तिष्ठति । गृहे मातामही प्राह्णेतमामुत्तिष्ठति ।\nविशेषः - यस्मिन् शब्दे कालवाचकशब्दः 'अहन्' इत्यस्य पूर्वपदरूपेण आगच्छति (यथा - पूर्वाह्ण, अपराह्ण - आदयः) तस्मात् यदि 'तरप्' / 'तमप्' प्रत्ययः भवति, तर्हि प्रक्रियायाम् <<घकालतनेषु कालनाम्नः>> [[6.3.17]] इत्यनेन विकल्पेन सप्तम्याः अलुक् भवति, येन 'पूर्वाह्णेतराम्' / 'पूर्वाह्णेतमाम्' एतौ शब्दौ सिद्ध्यतः । एतेभ्यः अपि स्वार्थे आम्-प्रत्ययः भवति । प्रक्रिया इयम् -\nअयम् पूर्वाह्ण, सोऽपि पूर्वाह्णः, द्वयोर्मध्ये अतिशयेन यः पूर्वाह्णः , तस्मिन् काले\n→ पूर्वाह्णे + तरप् [<<द्विवचनविभज्योपपदे तरबीयसुनौ>> [[5.3.57]] अनेन तरप्-प्रत्ययः ]\n→ पूर्वाह्ण + तरप् [<<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति विभक्तिप्रत्ययस्य लुक्]\n→ पूर्वाह्णे + तरप् [ <<घकालतनेषु कालनाम्नः>> [[6.3.17]] इत्यनेन विकल्पेन सप्तम्याः अलुक्]\n→ पूर्वाह्णे + तरप् + आम् [वर्तमानसूत्रेण एदन्तात् आम्-प्रत्ययः]\n→ पूर्वाह्णेतराम् ।\nयथा - पूर्वाह्णेतराम् काले ।\nएवमेव 'पूर्वाह्णेतमाम्' इति शब्दः अपि सिद्ध्यति । तथैव 'प्रगेतराम्', 'प्रगेतमाम्' एते शब्दाः अपि सिद्ध्यन्ति ।\nस्मर्तव्यम् - यत्र सप्तमीविभक्त्यन्तात् 'तरप्' / 'तमप्' प्रत्ययौ विधीयेते तत्रैव <<घकालतनेषु कालनाम्नः>> [[6.3.17]] इत्यनेन सप्तम्याः अलुक् भवितुमर्हति, अन्यत्र न । यथा - 'अयम् पूर्वाह्ण, सोऽपि पूर्वाह्णः, द्वयोर्मध्ये अतिशयेन यः पूर्वाह्णः, सः कालः' इति उच्यते चेत् अत्र प्रारम्भे 'पूर्वाह्ण + तरप्' इत्येव विद्यते । इत्युक्ते, अत्र सप्तम्याः प्रारम्भे लुक् एव न भवति, अतः अलुक् अपि नैव भवितुमर्हति । अस्यां स्थितौ वर्तमानसूत्रस्य अपि प्रसक्तिः नास्ति, केवलम् 'पूर्वाह्णेतरः कालः / पूर्वाह्णेतमः कालः' इत्येव प्रयोगः भवति ।\n3. तिङन्तशब्दाः -\nप्रायः सर्वे तद्धितप्रत्ययाः सुबन्तेभ्यः / प्रातिपदिकेभ्यः एव विधीयन्ते । परन्तु केचन तद्धितप्रत्ययाः तिङन्तेभ्यः अपि भवितुमर्हन्ति । यथा, 'तरप्' तथा 'तमप्' प्रत्ययौ द्वावपि तिङन्तेभ्यः विधीयेते । यथा - 'एतौ द्वौ पचतः, अयम् एतयोः अतिशयेन पचति, अतः अयम् पचतितराम्' । अत्र 'पचति' इत्यस्मात् 'तरप्' प्रत्ययं कृत्वा ततः वर्तमानसूत्रेण 'आम्' प्रत्ययः स्वार्थे विधीयते । प्रक्रिया इयम् -\nपचति + तरप् + आम् → पचतितराम् ।\nपचति + तमप् + आम् → पचतितमाम् ।\nयथा - देवदत्तः पचतितराम् । देवदत्तः पचतितमाम् । 'प्रकर्षण पचति' इत्यर्थः ।\n4. अव्ययशब्दाः\nअव्ययवाचकेभ्यः शब्देभ्यः विहितयोः तरप्/ तमप् प्रत्यययोः परयोः अपि स्वार्थे 'आम्' इति प्रत्ययः विधीयते । यथा -\nउच्चैस् + तरप् + आम् → उच्चैस्तराम् ।\nउच्चैस् + तमप् + आम् → उच्चैस्तमाम् ।\nयथा -\nअ) एतौ द्वौ उच्चैः आक्रोशति , अयम् एतयोः अतिशयेन उच्चैः आक्रोशति , अतः अयमुच्चैस्तरामाक्रोशति ।\nआ) सर्वेषु छात्रेषु देवदत्तः नीचैस्तराम् वदति ।\nएवमेव - प्रातस्तराम्, प्रातस्तमाम्, अतितराम्, अतितमाम्, सुतराम्, सुतमाम् - एते शब्दाः अपि सिद्ध्यन्ति ।\nअस्य सूत्रस्य विषये एकः मुख्यः बिन्दुः अत्र ज्ञेयः । अस्मिन् सूत्रे 'अद्रव्यप्रकर्षे' इति निर्दिश्यते । अतः यदि द्रव्यस्य प्रकर्षः विधीयते, तर्हि वर्तमानसूत्रस्य प्रयोगः न भवति । The आम् प्रत्यय given by the current sutra is not to be applied if an object is the topic of discussion. कानिचन उदाहरणानि स्वीकृत्य पश्यामः -\n1) किम् शब्दः -\nकिम्-शब्दस्य विषये प्रश्नवाचकशब्दात् प्रत्ययः विधीयते, अत्र द्रव्यप्रकर्षः नैव भवितुमर्हति, अतः अत्र विहितात् तरप् / तमप् प्रत्ययात् नित्यम् 'आम्' प्रत्ययः विधीयते ।\n2) एदन्तशब्दाः -\n 'प्राह्णे', 'प्रगे', 'पूर्वाह्णे' 'अपराह्णे' इत्यत्र समयस्य कस्यचन विभागस्य निर्देशः कृतः अस्ति । अयम् विभागः द्रव्यम् नास्तीति मन्यते ।The part of a day, like morning, afternoon etc are not considered to be objects in this context. अतः एतेभ्यः विहितात् 'तरप्' / 'तमप्' प्रत्ययात् नित्यम् 'आम्' प्रत्ययः भवितुमर्हति । (अस्मिन् विषये अधिकम् पिपठिषवः न्यासं पश्यन्तु) ।\n3) तिङन्ताः -\nतिङन्तशब्दाः नित्यम् क्रियाम् दर्शयन्ति, न हि द्रव्यम् । अतः एतेभ्यः विहितात् 'तरप्' / 'तमप्' प्रत्ययात् नित्यम् 'आम्' प्रत्ययः भवति । यथा - पचतितमाम्, पचतितराम् ।\n4) अव्ययशब्दाः -\nअव्ययशब्दाः यदि द्रव्यस्य निर्देशं कुर्वन्ति, तर्हि तेभ्यः विहितात् 'तरप्' / 'तमप्' प्रत्ययात् वर्तमानसूत्रेण 'आम्' प्रत्ययः न भवति । यथा-\nअ)एतौ द्वौ उच्चैः पर्वतौ । अयम् एतयोः अतिशयेन उच्चैः । अतः अयमुच्चैस्तरः - अत्र उच्चैः इत्यनेन शब्देन 'पर्वत' इत्यस्य प्रकर्षः क्रियते ।'पर्वत' इति तु द्रव्यवाचीशब्दः अस्ति । अतः अत्र वर्तमानसूत्रस्य प्रयोगः न भवति ।\nआ)एतौ द्वौ उच्चैः क्रन्दतः । अयम् एतयोः अतिशयेन उच्चैः क्रन्दति । अतः अयमुच्चैस्तराम् क्रन्दति - अत्र 'उच्चैः इत्यनेन शब्देन 'क्रन्दनक्रियायाः' इत्यस्य प्रकर्षः क्रियते । इदम् वस्तु / द्रव्यम् न । अतः अत्र वर्तमानसूत्रस्य प्रयोगः अवश्यम् भवति ।\nविशेषः - अष्टाध्याय्याम् <<उच्चैस्तरां वा वषट्कारः>> [[1.2.35]] इत्यस्मिन् सूत्रे 'उच्चैस्तराम्' इति शब्दः स्वयं पाणिनिना प्रयुक्तः अस्ति ।\nअनेन प्रकारेण अद्रव्यप्रकर्षस्य विषये वर्तमानसूत्रेण तरप्/तमप् प्रत्ययान्तशब्दात् स्वार्थे 'आम्' इति प्रत्ययः विधीयते ।\nज्ञातव्यम् -\n1. 'आमु' प्रत्ययान्तशब्दाः सर्वे <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यनेन अव्ययसंज्ञकाः भवन्ति । स्वरादिगणे अपि 'आम्' इति प्रत्ययः पाठ्यते, अतः <<स्वरादिनिपातमव्ययम्>> [[1.1.37]] इत्यनेनापि अस्य अव्ययसंज्ञा भवति ।\n2. यद्यपि इदम् सूत्रम् <<समर्थानाम् प्रथमात् वा>> [[4.1.82]] इत्यत्र निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, तथाप्यत्र विकल्पः न विधीयते । इत्युक्ते, अद्रव्यप्रकर्षस्य विषये विहितात् 'तरप्' 'तमप्' प्रत्ययान्तशब्दात् वर्तमानसूत्रेण उक्तः 'आम्' प्रत्ययः नित्यम् भवति । 'आम्' प्रत्ययं विना रूपम् नैव प्रयोक्तव्यम् ।\n" }, "54012": { "sa": "'किम्' शब्दः, एकारान्तशब्दाः, तिङन्तशब्दाः तथा च अव्ययवाचकशब्दाः - एतेषाम् 'घ'प्रत्ययान्तरूपेभ्यः यदि द्रव्यस्य प्रकर्षः न निर्दिश्यते, तर्हि वेदेषु स्वार्थे 'आमु' तथा 'अमु' एतौ प्रत्ययौ स्वार्थे प्रयुक्तौ दृश्येते । ", "sd": "<<किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे>> [[5.4.11]] इत्यनेन सूत्रेण 'किम्', 'एदन्तशन्दाः', 'तिङन्ताः' तथा 'अव्ययानि' - एतेभ्यः अद्रव्यप्रकर्षे विहितात् तरप् / तमप् -प्रत्ययात् नित्यम् 'आम्' प्रत्ययः विधीयते । वेदेषु अस्मिन्नेव सन्दर्भे 'अम्' इति प्रत्ययः अपि कृतः दृश्यते । अस्य साधुत्वार्थम् वर्तमानसूत्रस्य निर्माणं कृतमस्ति ।\nउदाहरणानि -\n1. ऋग्वेदे 10.126.8 - ए॒वो ष्व१॒॑स्मन्मु॑ञ्चता॒ व्यंह॒: प्र ता॑र्यग्ने प्रत॒रं न॒ आयु॑: ।\nअत्र 'प्रतरम्' इति शब्दः 'प्र' इत्यस्मात् अव्ययात् 'तरप्' प्रत्यये कृते तत 'अम्' प्रत्ययं कृत्वा सिद्ध्यति । 'अतिशयेन विशेषः / प्रमुखः' इति अर्थः ।\n2. शुक्लयजुर्वेदे 17.51 - इन्द्रेमं प्रतरां नय सजातानामसद्वशी ।\nअत्र 'प्रतराम्' इति शब्दः प्र' इत्यस्मात् अव्ययात् 'तरप्' प्रत्यये कृते तत 'आम्' प्रत्ययं कृत्वा सिद्ध्यति ।\nविशेषः - अम्-प्रत्ययान्तशब्दाः <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यनेन अव्ययसंज्ञकाः भवन्ति । स्वरादिगणे अपि 'अम्' इति प्रत्ययः पाठ्यते, अतः <<स्वरादिनिपातमव्ययम्>> [[1.1.37]] इत्यनेनापि अस्य अव्ययसंज्ञा भवति ।" }, "54013": { "sa": "'अनुगादिन्' शब्दात् स्वार्थे 'ठक्' प्रत्ययः भवति । ", "sd": "'अनुगादिन्' इति शब्दः 'अनु + गद्' इत्यस्मात् <<नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः>> [[3.1.134]] इत्यनेन 'णिनि' प्रत्ययं कृत्वा सिद्ध्यति । 'अनन्तरम् वदति' (speaks later) अस्मिन् अर्थे 'अनुगादिन्' शब्दः प्रयुज्यते । अस्मात् वर्तमानसूत्रेण स्वार्थे ठक्-प्रत्ययः भवति ।\nयथा - अनुगदति सः\n= अनु + गद् + णिनि + ठक् [<<नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः>> [[3.1.134]] इत्यनेन 'णिनि'प्रत्ययः । वर्तमानसूत्रेण स्वार्थे 'ठक्' प्रत्ययः]\n→ अनु + गद् + इन् + इक [ <<ठस्येकः>> [[7.3.50]] इति इक्-आदेशः]\n→ अनु + गाद् + इन् + इक [<<अतः उपधायाः>> [[7.2.116]] इति 'णिनि' प्रत्ययस्य अङ्गस्य उपधावृद्धिः]\n→ आनु + गाद् + इन् + इक [<<किति च>> [[7.2.118]] इति 'ठक्' प्रत्ययस्य अङ्गस्य आदिवृद्धिः]\n→ आनु + गाद् + इक [<<नस्तद्धिते>> [[6.4.144]] इति टिलोपः]\n→ आनुगादिक\nविशेषः - यद्यपि इदम् सूत्रम् <<समर्थानाम् प्रथमात् वा>> [[4.1.82]] इत्यत्र निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, तथाप्यत्र विकल्पः न विधीयते । भाष्ये अस्मिन् सन्दर्भे उच्यते - 'आमादयः प्राङ्मयटः नित्याः' । इत्युक्ते, <<किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे>> [[5.4.11]] इत्यस्मात् आरभ्य <<एकस्य सकृच्च>> [[5.4.19]] इतिपर्यन्तम् विहिताः सर्वे प्रत्ययाः नित्याः एव भवन्ति । इत्युक्ते, 'अनुगदति सः' इत्यस्मिन् अर्थे 'आनुगादिक' इत्येव शब्दः प्रयोक्तव्यः । केवलम् 'इनि' प्रत्ययं कृत्वा रूपमत्र न प्रयोक्तव्यम् । 'ठक्' प्रत्ययविधानमपि करणीयम् एव ।\n" }, "54014": { "sa": "णच्-प्रत्ययान्तशब्देभ्यः स्त्रीलिङ्गे नित्यमञ्-प्रत्ययः विधीयते । ", "sd": "'णच्' इति कश्चन कृत्-प्रत्ययः । <<कर्मव्यतिहारे णच् स्त्रियाम्>> [[3.3.43]] इत्यनेन कर्मव्यतिहारे (When exchange of actions is indicated. E.g. two people shouting on each other, two people making fun of each other etc.) स्त्रीलिङ्गे वाच्ये धातोः 'णच्' इति प्रत्यय विधीयते । अस्मात् णच्-प्रत्ययात् वर्तमानसूत्रेण 'अञ्' प्रत्ययः स्वार्थे विधीयते ।\nयथा - 'वि + व् + क्रुश्' इत्यस्मात् धातोः स्त्रीलिङ्गे कर्मव्यतिहारे वक्तव्ये <<कर्मव्यतिहारे णच् स्त्रियाम्>> [[3.3.43]] इत्यनेन णच्-प्रत्यये कृते इयम् प्रक्रिया भवति -\nव्यवक्रोशति इत्येव =\nवि + अव् + क्रुश् + णच् + अञ् [वर्तमानसूत्रेण स्वार्थे अञ्-प्रत्ययः]\n→ व्यवक्रुश् + अ + अ [इत्संज्ञालोपः]\n→ व्यवक्रोश् + अ + अ [<<पुगन्तलघूपधस्य च>> [[7.3.86]] इति उपधागुणः]\n→ व्यावक्रोश् + अ + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ व्यावक्रोश् + अ [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ व्यावक्रोश + ङीप् [स्त्रीत्वे विवक्षिते <<टिड्ढाणञ्...>> [[4.1.15]] इति ङीप्]\n→ व्यावक्रोश् + ङीप् [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ व्यावक्रोशी\nएवमेव -\n2. व्यवहसति सा = वि + अव् + हस् + णच् + अञ् → व्यावहासी ।\n3. व्यावलिखति सा = वि + अव् + लिख् + णच् + अञ् → व्यावलेखी ।\nएतादृशाः शब्दाः अपि सिद्ध्यन्ति ।\nज्ञातव्यम् -\n1. वस्तुतः <<कर्मव्यतिहारे णच् स्त्रियाम्>> [[3.3.43]] इत्यनेन णच्-प्रत्ययः स्त्रीलिङ्गे वाच्ये एव विधीयते । अतः अस्मात् स्वार्थे विहितः अञ्-प्रत्ययः अपि स्त्रीलिङ्गे वाच्ये एव भवितुमर्हति । एवम् सत्यपि वर्तमानसूत्रे 'स्त्रियाम्' इति पुनर्निदेशः कृतः अस्ति । अयम् निर्देशः अस्य ज्ञापकम्, यत् कुत्रचित् स्वार्थिकप्रत्ययानाम् प्रयोगेण लिङ्गपरिवर्तनमपि भवितुमर्हति । यथा - 'चत्वारः वर्णाः तदेव चातुर्वर्णम्', 'त्रयाः लोकाः तदेव त्र्यैलोक्यम्', 'देव एव देवता', 'ह्रस्वा कुटी सा एव कुटीरः' - आदीषु उदाहरणेषु यद्यपि प्रत्ययः स्वार्थे विधीयते, तथापि तद्धितान्तशब्दस्य लिङ्गम् प्रकृत्याः लिङ्गात् भिन्नम् विद्यते । अस्य ज्ञापकार्थम् एव वर्तमानसूत्रे 'स्त्रियाम्' इति निर्देशः क्रियते ।\n2. यद्यपि इदम् सूत्रम् <<समर्थानाम् प्रथमात् वा>> [[4.1.82]] इत्यत्र निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, तथाप्यत्र विकल्पः न विधीयते । भाष्ये अस्मिन् सन्दर्भे उच्यते - 'आमादयः प्राङ्मयटः नित्याः' । इत्युक्ते, <<किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे>> [[5.4.11]] इत्यस्मात् आरभ्य <<एकस्य सकृच्च>> [[5.4.19]] इतिपर्यन्तम् विहिताः सर्वे प्रत्ययाः नित्याः एव भवन्ति । इत्युक्ते, 'व्यवक्रोशति सा' इत्यस्मिन् अर्थे 'व्यावक्रोशी' इत्येव शब्दः प्रयोक्तव्यः । केवलम् 'णच्' प्रत्ययं कृत्वा रूपमत्र न प्रयोक्तव्यम् - इति आशयः । " }, "54015": { "sa": "'इनुण्' प्रत्ययान्तशब्दात् स्वार्थे अण्-प्रत्ययः विधीयते । ", "sd": "'इनुण्' इति कश्चन कृत्-प्रत्ययः । <<अभिविधौ भाव इनुण्>> [[3.3.44]] इत्यनेन अभिविधौ (= सर्वतः व्याप्तिः, inclusion from all directions) गम्यमाने धातोः भावे 'इनुण्' इति प्रत्ययः विधीयते । अस्मिन् प्रत्यये परे नित्यम् स्वार्थे 'अण्' इति प्रत्ययः भवति ।\nयथा -\n1. सर्वतः सङ्कूटनम् (सर्वतः दाहः, To burn from all sides)\n= सम् + कूट् + इनुण् + अण् [ <<अभिविधौ भाव इनुण्>> [[3.3.44]] इति इनुण् । वर्तमानसूत्रेण स्वार्थे अण्]\n→ सम् + कूट् + इन् + अ [इत्संज्ञालोपः । नकारोत्तरः अकारः उच्चारणार्थः, तस्यापि लोपः भवति]\n→ सम्कूटिन् + अ\n→ साम्कूटिन् + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ साम्कूटिन [<<नस्तद्धिते>> [[6.4.144]] इत्यनेन टिलोपे प्राप्ते <<इनण्यनपत्ये>> [[6.4.164]] इति प्रकृतिभावः]\n→ सांकूटिन [<<मोऽनुस्वारः>> [[8.3.23]] इति अनुस्वारः]\n→ सांकूटिन, साङ्कूटिन [<<वा पदान्तस्य>> [[8.4.59]] इति वैकल्पिकः परसवर्णः]\nसर्वतः सङ्कूटनम् तत् सांकूटिनम् साङ्कूटिनम् वा । The act of burning from all sides इत्याशयः ।\n2. सर्वतः रवणम् (To shout from all sides)\n= सम् + रु + इनुण् + अण् [ <<अभिविधौ भाव इनुण्>> [[3.3.44]] इति इनुण् । वर्तमानसूत्रेण स्वार्थे अण्]\n→ सम् + रौ + इन् + अ [<<अचो ञ्णिति>> [[7.2.115]] इति वृद्धिः]\n→ सम् + राविन् + अ [<<एचोऽयवायावः>> [[6.1.78]] इति आवादेशः]\n→ साम् + राविन् + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ साम्राविन [<<नस्तद्धिते>> [[6.4.144]] इत्यनेन टिलोपे प्राप्ते <<इनण्यनपत्ये>> [[6.4.164]] इति प्रकृतिभावः]\n→ सांराविन [<<मोऽनुस्वारः>> [[8.3.23]] इति अनुस्वारः]\n→ सांराविण [<<अट्कुप्वाङ्नुमव्यवायेऽपि>> [[8.4.2]] इति णत्वम्]\nसर्वतः रणवम् तत् सांराविणम् । The act of yelling from all sides इत्याशयः ।\nज्ञातव्यम् - यद्यपि इदम् सूत्रम् <<समर्थानाम् प्रथमात् वा>> [[4.1.82]] इत्यत्र निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, तथाप्यत्र विकल्पः न विधीयते । भाष्ये अस्मिन् सन्दर्भे उच्यते - 'आमादयः प्राङ्मयटः नित्याः' । इत्युक्ते, <<किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे>> [[5.4.11]] इत्यस्मात् आरभ्य <<एकस्य सकृच्च>> [[5.4.19]] इतिपर्यन्तम् विहिताः सर्वे प्रत्ययाः नित्याः एव भवन्ति । अतः वर्तमानसूत्रस्य सन्दर्भे अपि अण्-प्रत्ययान्तरूपाणि एव प्रयोक्तव्यानि । केवम् 'इनुण्' प्रत्ययं प्रयुज्य रूपनिर्माणम् न भवति ।\n" }, "54016": { "sa": "'विसारिन्' शब्दात् मत्स्यस्य निर्देशे कर्तव्ये स्वार्थे अण् प्रत्ययः भवति । ", "sd": "'मत्स्य (fish) इत्यस्य निर्देशार्थम् 'वि + सृ' धातोः णिनिँ प्रत्ययः यदा भवति, तदा तस्मात् स्वार्थे अण् प्रत्ययः अपि नित्यम् विधीयते - इति अस्य सूत्रस्य आशयः ।\nयथा - विसरति (इतरत्र गच्छति, moves in different direction) मत्स्यः सः\n= वि + सृ + णिनि + अण् [<<नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः>> [[3.1.134]] इति णिनि-प्रत्ययः । ततः स्वार्थे अण्]\n→ वि + सृ + इन् + अ [इत्संज्ञालोपः]\n→ वि + सारिन् + अ [<<अचो ञ्णिति>> [[7.2.115]] इति वृद्धिः]\n→ वैसारिन् + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ वैसारिन [<<नस्तद्धिते>> [[6.4.144]] इति टिलोपे प्राप्ते <<इनण्यनपत्ये>> [[6.4.164]] इति प्रकृतिभावः]\n→ वैसारिण [<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इति णत्वम्]\nविसरति सः वैसारिणः मत्स्यः ।\nस्मर्तव्यम् - केवलम् मत्स्यस्य निर्देशार्थम् एव अत्र अण्-प्रत्ययः विधीयते । अन्येषु विषयेषु तु केवलम् 'णिनि' प्रत्ययान्तरूपमेव प्रयुज्यते । यथा - विसारतिः सः विसारी मण्डूकः सर्पः वा । (विसारिन् इति प्रातिपदिकम् । अस्य पुंलिङ्गस्य प्रथमैकवचनम् 'विसारी' इति ।)\nज्ञातव्यम् - यद्यपि इदम् सूत्रम् <<समर्थानाम् प्रथमात् वा>> [[4.1.82]] इत्यत्र निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, तथाप्यत्र विकल्पः न विधीयते । भाष्ये अस्मिन् सन्दर्भे उच्यते - 'आमादयः प्राङ्मयटः नित्याः' । इत्युक्ते, <<किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे>> [[5.4.11]] इत्यस्मात् आरभ्य <<एकस्य सकृच्च>> [[5.4.19]] इतिपर्यन्तम् विहिताः सर्वे प्रत्ययाः नित्याः एव भवन्ति । अतः वर्तमानसूत्रस्य सन्दर्भे अपि मत्स्यस्य निर्देशे कर्तव्ये 'वैसारिण' इति अण्-प्रत्ययान्तरूपम् एव प्रयोक्तव्यम् ।\n" }, "54017": { "sa": "क्रियायाः पौनःपुन्यस्य गणनार्थम् सङ्ख्यावाचकशब्दात् 'कृत्वसुच्' प्रत्ययः भवति । ", "sd": "'अभ्यावृत्तिः' इत्युक्ते पौनःपुन्यम् (repetition) । यत्र काचन क्रिया पुनः पुनः भवति, तत्र तस्याः क्रियायाः आवर्तनस्य गणनार्थम् सङ्ख्यावाचकशब्दात् 'कृत्वसुच्' इति प्रत्ययः स्वार्थे विधीयते ।\n'कृत्वसुच्' प्रत्यये चकारः इत्संज्ञकः अस्ति, तस्य लोपः भवति । सकारोत्तरः उकारः उच्चारणार्थः अस्ति । 'कृत्वस्' इति अवशिष्यते, तस्य प्रक्रियायाम् प्रयोगः भवति । सकारस्य <<ससजुषो रुँः>> [[8.2.66]] इति रुँत्वे <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इत्यनेन विसर्गं कृत्वा 'कृत्वः' इति प्रयोगे दृश्यते ।\nयथा -\n1. पञ्चवारान् = पञ्चन् + कृत्वसुच् → पञ्चकृत्वः । यदि कश्चन देवदत्तः भोजनक्रियाम् पञ्चवारम् करोति (eats five times), तर्हि तस्य निर्देशः 'देवदत्तः पञ्चकृत्वः भुङ्क्ते' इति क्रियते ।\n2. षड्वारान् = षष् + कृत्वसुच्\n= षड् + कृत्व [<<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वम्]\n→ षट् + कृत्व [<<खरि च>> [[8.4.55]] इति वैकल्पिकं चर्त्वम्]\n→ षट्कृत्वः\nयथा - खगः षट्कृत्वः डयते ।\nएवमेव - सप्तकृत्वः, दशकृत्वः, विंशतिकृत्वः, त्रिंशत्कृत्वः, पञ्चाशत्कृत्वः, शतकृत्वः - आदयः शब्दाः सिद्ध्यन्ति ।\nअस्य सूत्रस्य विषये केचन बिन्दवः ज्ञेयाः -\n1. अस्मिन् सूत्रे 'सङ्ख्यायाः' इति निर्देशः कृतः अस्ति । अतः <<बहुगणवतुडति सङ्ख्या>> [[1.1.23]] इत्यत्र निर्दिष्टानां सङ्ख्यावाचकशब्दानां विषये अपि अस्य सूत्रस्य प्रसक्तिः अस्ति । यथा - बहुवारं भुङ्क्ते = बहुकृत्वः भुङ्क्ते । एवमेव - गणकृत्वः भुङ्क्ते, यावत्कृत्वः भुङ्क्ते, तावत्कृत्वः भुङ्क्ते, एतावत्कृत्वः भुङ्क्ते, कतिकृत्वः भुङ्क्ते - एते शब्दाः अपि सिद्ध्यन्ति ।\n2. 'अध्यर्ध' इति अपि कश्चन सङ्ख्यावाची शब्दः <<बहुगणवतुडति सङ्ख्या>> [[1.1.23]] इत्यत्र पाठितः अस्ति । परन्तु अस्मात् शब्दात् कृत्वसुच् प्रत्ययः न विधीयते । अस्मिन् विषये <<बहुगणवतुडति सङ्ख्या>> [[1.1.23]] इत्यत्र विस्तारेण उक्तमस्ति ।\n3. यदि क्रियायाः पौनःपुन्यम् दर्शयितुम् सङ्ख्यावाचकशब्दस्य प्रयोगः न क्रियते, तर्हि तत्र 'कृत्वसुच्' प्रत्ययः न भवति । यथा - 'अनेकवारम् भुङ्क्ते, वारं वारं भुङ्क्ते, भूरिवारान् भुङ्क्ते - एतेषु उदाहरणेषु कृत्वसुच् प्रत्ययः न भवति ।\n4. वस्तुतः 'पौनःपुन्यम्' (repetition) केवलम् क्रियायाः विषये एव सम्भवति । गुणस्य द्रव्यस्य विषये वा पौनःपुन्यम् नैव सम्भवति । (Only an action can be repeated. Even when we say that a certain quality is repeated, it is actually the 'existence' of quality being repeated, so the repetition is actually associated with action only.) । अतः अस्मिन् सूत्रे 'अभ्यावृत्ति' इत्येव उच्यते चेदपि अलम्, 'क्रिया' इत्यस्य निर्देशः नैव आवश्यकः । अयम् निर्देशः अग्रिमसूत्रार्थम् क्रियते । <<एकस्य सकृच्च>> [[5.4.19]] इत्यस्मिन् सूत्रे 'अभ्यावृत्ति' इति न अनुवर्तते, परन्तु अनेन सूत्रेण निर्दिष्टम् कार्यमपि क्रियायाः विषये एव भवति । तदर्थम् तत्र 'क्रिया' ग्रहणमावश्यकम् । वर्तमानसूत्रे तु 'क्रिया' शब्दस्य न किञ्चन प्रयोजनम् ।\n5. अस्मिन् सूत्रे 'अभ्यावृत्तिः' इति शब्दः प्रयुक्तः अस्ति । यत्र केवलम् क्रिया विद्यते, अभ्यावृत्तिः (repetition) न विद्यते, तत्र यद्यपि क्रिया बहुवारम् क्रियते, तत्र वर्तमानसूत्रस्य प्रसक्तिः नास्ति । यथा - 'पञ्च जनाः पञ्च भिन्नान् पदार्थान् पचन्ते' - इत्यत्र पचनक्रिया वस्तुतः पञ्चवारम् भवति । परन्तु अत्र 'पौनःपुन्यम्' नास्ति (Five different people are cooking five different things. There is no 'repetition' of a particular cooking task), अतः अत्र वर्तमानसूत्रस्य प्रयोगः न भवति ।\n6. यद्यपि सङ्ख्यावाची शब्दः वाक्ये भिन्नरूपेण प्रयुज्यते, तथापि यदि तेन क्रियायाः अभ्यावृत्तिः निर्दिश्यते, तर्हि वर्तमानसूत्रेण प्रत्ययविधानम् भवितुमर्हत्येव । यथा - 'पञ्च वारान् भुङ्क्ते' इत्यत्र वस्तुतः 'वारान्' इत्यनेन शब्देन अभ्यावृत्तिः दर्श्यते, न हि 'पञ्च' शब्देन । तथापि 'पञ्च' शब्दः 'वारान्' इत्यस्यैव विशेषणरूपेण प्रयुक्तः अस्ति, अतः अस्य अपि सम्बन्धः अभ्यावृत्त्या सह भवति । इत्युक्ते, अत्रापि वर्तमानसूत्रस्य प्रयोगं कृत्वा 'पञ्चकृत्वः भुङ्क्ते' इति प्रयोगः भवति । परन्तु 'दश जनाः भूरीन् वारान् भुङ्क्ते' इत्यत्र 'दश' शब्दस्य सम्बन्धः 'वारान्' इत्यनेन सह नास्ति, अतः अत्र 'दश' शब्दात् कृत्वसुच् प्रत्ययः न भवति ।\n7. कृत्वसुच्-प्रत्ययान्तशब्दाः <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यनेन अव्ययसंज्ञकाः भवन्ति । अतः सर्वेषु लिङ्गेषु वचनेषु एतेषां रूपाणि समानानि एव भवन्ति । यथा - 'देवदत्तः पञ्चकृत्वः भुङ्क्ते । सीता पञ्चकृत्वः भुङ्क्ते । बालाः पञ्चकृत्वः भुञ्जते । वयम् पञ्चकृत्वः भुञ्ज्महे ।\n8. यद्यपि इदम् सूत्रम् <<समर्थानाम् प्रथमात् वा>> [[4.1.82]] इत्यत्र निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, तथाप्यत्र विकल्पः न विधीयते । भाष्ये अस्मिन् सन्दर्भे उच्यते - 'आमादयः प्राङ्मयटः नित्याः' । इत्युक्ते, <<किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे>> [[5.4.11]] इत्यस्मात् आरभ्य <<एकस्य सकृच्च>> [[5.4.19]] इतिपर्यन्तम् विहिताः सर्वे प्रत्ययाः नित्याः एव भवन्ति । अतः वर्तमानसूत्रस्य सन्दर्भे अपि पौनःपुन्यम् दर्शयितुम् कृत्वसुच्-प्रत्ययः नित्यमेव प्रयोक्तव्यः । इत्युक्ते, 'पञ्च वारान् भुङ्क्ते' इति विग्रहवाक्यम् प्रयोक्तव्यम्, नो चेत् 'पञ्चकृत्वः भुङ्क्ते' इति तद्धितान्तशब्दः प्रयोक्तव्यः । परन्तु 'पञ्च वारान् भुङ्क्ते' इति निर्देशयितुम् केवलम् 'पञ्च भुङ्क्ते' इति प्रयोगः न साधु ।\n9. द्वि, त्रि, चतुर् - एतेभ्यः शब्देभ्यः कृत्वसुच्-प्रत्ययस्य अपवादरूपेण <<द्वित्रिचतुर्भ्यः सुच्>> [[5.4.18]] इत्यनेन सुच्-प्रत्ययः भवति ।\n10. 'एक' इत्यस्य विषये पौनःपुन्यम् नैव सम्भवति (An action that is done once cannot be called a 'repetition') अतः अस्मात् शब्दात् 'कृत्वसुच्' प्रत्ययः नैव भवितुमर्हति ।\n11. 'कृत्वसुच्' प्रत्यये चकारस्य इत्संज्ञा स्वरनिर्देशार्थमस्ति । <<तद्धितस्य>> [[6.1.164]] इत्यनेन चित्-प्रत्यये परे तद्धितान्तस्य अन्तिमः स्वरः उदात्तः भवति । यथा, 'पञ्चकृत्वः' इत्यत्र वकारोत्तः अकारः अनेन उदात्तत्वं प्राप्नोति । " }, "54018": { "sa": "क्रियायाः पौनःपुन्यस्य गणनार्थम् 'द्वि', 'त्रि' तथा 'चतुर्' एतेभ्यः शब्देभ्यः 'सुच्' प्रत्ययः भवति ।", "sd": "'अभ्यावृत्तिः' इत्युक्ते पौनःपुन्यम् (repetition) । यत्र काचन क्रिया पुनः पुनः भवति, तत्र तस्याः क्रियायाः आवर्तनस्य गणनार्थम् सङ्ख्यावाचकशब्दात् <<संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्>> [[5.4.17]] इत्यनेन औत्सर्गिकरूपेण 'कृत्वसुच्' इति प्रत्ययः स्वार्थे विधीयते । परन्तु 'द्वि', 'त्रि', तथा 'चतुर्' एतेभ्यः शब्देभ्यः 'कृत्वसुच्' प्रत्ययस्य अपवादस्वरूपेण 'सुच्' इति प्रत्ययः भवति ।\nयथा -\n1. द्विवारं भुङ्क्ते इत्येव\n= द्वि + सुच् [वर्तमानसूत्रेण सुच्-प्रत्ययः]\n→ द्वि + स् [चकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः । उकारः उच्चारणार्थः, तस्यापि लोपः भवति । ]\n→ द्विः [<<ससजुषो रुँः>> [[8.2.66]] इति रुत्वम् । <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\nयथा - द्विः भुङ्क्ते ।\n2. त्रिवारं भुङ्क्ते इत्येव\n= त्रि + सुच् [वर्तमानसूत्रेण सुच्-प्रत्ययः]\n→ त्रि + स् [चकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ त्रिः [<<ससजुषो रुँः>> [[8.2.66]] इति रुत्वम् । <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\nयथा - त्रिः भुङ्क्ते ।\n3. चतुर्वारं भुङ्क्ते इत्येव\n= चतुर् + सुच् [वर्तमानसूत्रेण सुच्-प्रत्ययः]\n→ चतुर् + स् [चकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ चतुर् [<<रात्सस्य>> [[8.2.24]] इति सकारलोपः]\n→ चतुः [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\nयथा - चतुः भुङ्क्ते ।\nस्मर्तव्यम् -\n1. अनेन सूत्रेण सिद्धाः 'द्विः', 'त्रिः', 'चतुः' एते शब्दाः <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यनेन अव्ययसंज्ञकाः भवन्ति ।\n2. 'सुच्' प्रत्यये चकारस्य इत्संज्ञा स्वरनिर्देशार्थमस्ति । <<तद्धितस्य>> [[6.1.164]] इत्यनेन चित्-प्रत्यये परे तद्धितान्तस्य अन्तिमः स्वरः उदात्तः भवति । यथा, 'द्विः' इत्यत्र वकारोत्तरः इकारः अनेन उदात्तत्वं प्राप्नोति ।\n3. यद्यपि इदम् सूत्रम् <<समर्थानाम् प्रथमात् वा>> [[4.1.82]] इत्यत्र निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, तथाप्यत्र विकल्पः न विधीयते । भाष्ये अस्मिन् सन्दर्भे उच्यते - 'आमादयः प्राङ्मयटः नित्याः' । इत्युक्ते, <<किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे>> [[5.4.11]] इत्यस्मात् आरभ्य <<एकस्य सकृच्च>> [[5.4.19]] इतिपर्यन्तम् विहिताः सर्वे प्रत्ययाः नित्याः एव भवन्ति । अतः वर्तमानसूत्रस्य सन्दर्भे अपि सुच्-प्रत्ययान्तरूपाणि एव प्रयोक्तव्यानि ।इत्युक्ते, 'द्वौ वारौ भुङ्क्ते' इति विग्रहवाक्यम् प्रयोक्तव्यम्, नो चेत् 'द्विः भुङ्क्ते' इति तद्धितान्तशब्दः प्रयोक्तव्यः । परन्तु 'द्वौ वारौ भुङ्क्ते' इति निर्देशयितुम् केवलम् 'द्वौ भुङ्क्ते' इति प्रयोगः न साधु । " }, "54019": { "sa": "क्रियायाः गणने कर्तव्ये 'एक' शब्दात् सुच्-प्रत्ययः भवति, तथा च 'एक' शब्दस्य 'सकृत्' इति आदेशः अपि भवति । ", "sd": "यदि काचित् क्रिया एकवारम् एव भवति, तर्हि तस्याः गणनायाः निर्देशार्थम् 'एक' शब्दात् 'सुच्' इति प्रत्ययः भवति, तथा च प्रक्रियायाम् 'एक' शब्दस्य 'सकृत्' इति आदेशः अपि भवति ।\nसुच् प्रत्यये चकारस्य इत्संज्ञा, लोपः च भवति । सकारोत्तरः उकारः उच्चारणार्थः अस्ति । प्रक्रियायाम् केवलम् 'स्' इत्यवशिष्यते । तस्यापि <<संयोगान्तस्य लोपः>> [[8.2.23]] इत्यनेन लोपः भवति, अतः 'सकृत्' इत्येव अवशिष्यते । प्रक्रिया इयम् -\nएकवारम् इत्येव\n= एक + सुच् [वर्तमानसूत्रेण सुच्-प्रत्ययः]\n→ सकृत् + स् [इत्संज्ञालोपः]\n→ सकृत् [<<संयोगान्तस्य लोपः>> [[8.2.23]] इति सकारलोपः]\n→ सकृत्\nयथा - देवदत्तः सकृत् भुङ्क्ते । एकवारं भुङ्क्ते इत्याशयः ।\nस्मर्तव्यम् -\n1. यद्यपि इदम् सूत्रम् <<समर्थानाम् प्रथमात् वा>> [[4.1.82]] इत्यत्र निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, तथाप्यत्र विकल्पः न विधीयते । भाष्ये अस्मिन् सन्दर्भे उच्यते - 'आमादयः प्राङ्मयटः नित्याः' । इत्युक्ते, <<किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे>> [[5.4.11]] इत्यस्मात् आरभ्य वर्तमानसूत्रपर्यन्तम् विहिताः सर्वे प्रत्ययाः नित्याः एव भवन्ति । अतः वर्तमानसूत्रस्य सन्दर्भे अपि सुच्-प्रत्ययान्तरूपम् एव प्रयोक्तव्यम् ।इत्युक्ते, 'एकवारं भुङ्क्ते' विग्रहवाक्यम् प्रयोक्तव्यम्, नो चेत् 'सकृत् भुङ्क्ते' इति तद्धितान्तशब्दः प्रयोक्तव्यः । परन्तु 'एकवारं भुङ्क्ते' इति निर्देशयितुम् केवलम् 'एकः भुङ्क्ते' इति प्रयोगः न साधु ।\n2. अनेन सूत्रेण निर्मितः 'सकृत्' शब्दः <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यनेन अव्ययसंज्ञकः भवति । अतः सर्वासु विभक्तिषु लिङ्गेषु वचनेषु च अस्य 'सकृत्' इत्येव रूपं प्रयुज्यते । यथा - सीता सकृत् गच्छति; पुष्पाणि सकृत् विकसन्ति; वयं सकृत् ब्रूमः - आदयः ।\n3. अस्मिन् सूत्रे 'क्रिया' इति शब्दः अनुवृत्तिरूपेण स्वीक्रियते, अतः केवलम् 'एकम् फलम्', 'एकः वृक्षः' इत्येतेषु विषयेषु वर्तमानसूत्रस्य प्रयोगः न भवति । केवलम् क्रिया निर्दिश्यते चेदेव अस्य सूत्रस्य प्रयोगः कर्तव्यः ।\n4. अनेन सूत्रेण उक्तः 'सुच्' प्रत्ययः <<संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्>> [[5.4.17]] इत्यस्य अपवादरूपेण नैव विधीयते, यतः अत्र क्रियायाः अभ्यावृत्तिः नैव सम्भवति । When an action is done only once, there is no question of having a repetition. । अतएव अस्मिन् सूत्रे केवलम् 'क्रियागणने' इत्यनुवर्तते, न हि 'अभ्यावृत्तिः' इति ।\n5. 'सुच्' प्रत्यये चकारस्य इत्संज्ञा स्वरनिर्देशार्थमस्ति । <<तद्धितस्य>> [[6.1.164]] इत्यनेन चित्-प्रत्यये परे तद्धितान्तस्य अन्तिमः स्वरः उदात्तः भवति । यथा, 'सकृत्' इत्यत्र ककारोत्तरः ऋकारः अनेन उदात्तत्वं प्राप्नोति ।" }, "54020": { "sa": "कस्मिंश्चित् अविप्रकृष्टे काले क्रियायाः पौनःपुन्यम् दर्शयितुम् 'बहु' शब्दात् विकल्पेन 'धा' प्रत्ययः भवति । पक्षे 'कृत्वसुच्' प्रत्ययः अपि विधीयते । ", "sd": "'अभ्यावृत्तिः' इत्युक्ते पौनःपुन्यम् (repetition) । यत्र काचन क्रिया पुनः पुनः भवति, तत्र तस्याः क्रियायाः आवर्तनस्य गणनार्थम् सङ्ख्यावाचकशब्दात् <<संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्>> [[5.4.17]] इत्यनेन औत्सर्गिकरूपेण 'कृत्वसुच्' इति प्रत्ययः स्वार्थे विधीयते । 'बहु' इति सङ्ख्यावाचकः शब्दः अस्ति, अतः अस्मात् शब्दात् अपि अनेन सूत्रेण 'कृत्वसुच्' प्रत्ययः भवितुमर्हति । परन्तु यदि क्रियायाः पौनःपुन्यम् कस्मिंश्चित् अविप्रकृष्टकाले (in a short span of time) भवति, तर्हि 'बहु' शब्दात् 'धा' प्रत्ययः अपि विकल्पेन भवितुमर्हति । पक्षे 'कृत्वसुच्' तु भवत्येव ।\nयथा - दिवसस्य बहुवारम् भुङ्क्ते इत्येव = दिवसस्य बहुधा भुङ्क्ते । अत्र भोजनक्रियायाः पौनःपुन्यम् 'दिवस' इत्यस्मिन् लघुकाले भवति । The action of 'eating' is repeated multiple times over a short span of times, like a day. अतः अत्र 'बहुधा' इति शब्दः भवितुमर्हति । परन्तु 'मासे /वर्षे बहुवारं भुङ्क्ते' इत्यत्र 'धा' प्रत्ययस्य प्रयोगः नैव भवति । When we say 'eats multiple times in a month, the action is being repeated over a larger span of time, and hence the धा प्रत्यय is not used in this context.\nअत्र उदाहरणे 'दिवसस्य' इति षष्ठीविभक्तिः प्रयुज्यते, यतः <<कृत्वोऽर्थप्रयोगे कालेऽधिकरणे>> [[2.3.64]] इत्यनेन 'कृत्वसुच्' प्रत्ययस्य अर्थे कालवाचिशब्दात् अधिकरणे विवक्षिते षष्ठी विभक्तिः भवति । एवमेव अग्रे अपि सर्वेषु उदाहरणेषु ज्ञेयम् ।\nस्मर्तव्यम् - कालस्य व्याप्तिः 'समीपस्था / निकटा' अस्ति वा - इति तु सन्दर्भात् एव ज्ञायते । Whether a certain duration of time is considered 'close enough' will depend on the context । कानिचन उदाहरणानि पश्यामश्चेत् स्पष्टं स्यात् -\n1. एकस्य निमिषस्य बहुधा श्वसीति । Somebody breaths multiple times in a second. अत्र श्वसनक्रियायाः पौनःपुन्यस्य विषये निमिषम् यावत् कालः निकटः गृह्यते । परन्तु अस्मिन् सन्दर्भे 'दिवस' इति कालः निकटः न गृह्यते । अतः 'एकस्मिन् दिवसे बहुवारम् श्वसीति' इत्यत्र धा-प्रत्ययः न भवति । Everyone will breath at least a few thousand times in a day. Hence, the span of a 'day' cannot be considered 'small' when the action of breathing is being considered.\n2. चन्द्रः एकस्य वर्षस्य बहुधा सूर्यम् ग्रासते । अत्र सूर्यग्रहणस्य विषये वर्षस्य व्याप्तिः अपि लघुः एव, यतः वर्षे सूर्यग्रहणम् एकवारं द्विवारं वा भवति । In context of an eclipse, the period of year is also a close enough, because the number of eclipses in a period is very limited । अतः कस्मिंश्चित् वर्षे सूर्यग्रहणं त्रिवारं भवति चेत् 'बहुधा' इति प्रयोगं कर्तुम् शक्यते ।\nपक्षे सर्वदा 'बहुकृत्वः' शब्दस्य प्रयोगः भवत्येव । तदर्थम् 'अविप्रकृष्टकाले' इति नैव आवश्यकम् । यथा - दिवसस्य बहुकृत्वः भुङ्क्ते ; मासस्य बहुकृत्वः भुङ्क्ते ; वर्षस्य बहुकृत्वः भुङ्क्ते - आदयः ।\nज्ञातव्यम् - यद्यपि इदम् सूत्रम् <<समर्थानाम् प्रथमात् वा>> [[4.1.82]] इत्यत्र निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, तथाप्यत्र विकल्पः विशेषरूपेण पुनः उच्यते । अयम् विकल्पः प्रत्ययस्य वैकल्पिकप्रयोगार्थम् नास्ति, अपि तु 'धा' प्रत्ययार्थम् एव अस्ति । इत्युक्ते, वर्तमानसूत्रेण 'धा' प्रत्ययः विकल्प्यते, पक्षे<<संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्>> [[5.4.17]] इत्यनेन 'कृत्वसुच्' प्रत्ययः तु नित्यम् भवति । महाविभाषायाः प्रयोगः अस्मिन् सूत्रे न क्रियते ।\n" }, "54021": { "sa": "'प्राचुर्यम्' अस्मिन् सन्दर्भे प्रातिपदिकात् स्वार्थे मयट् प्रत्ययः भवति । ", "sd": "'प्रकृत' इत्युक्ते 'प्राचुर्येण प्रस्तुतम् / वैपुल्येन उपलब्धम्' (made available in ample amount / abundance - इत्याशयः) । प्रातिपदिकात् 'प्रकृत' अस्मिन् सन्दर्भे स्वार्थे मयट्-प्रत्ययः भवति ।\nयथा -\n1. प्रकृतमन्नम् = अन्नमयम् । A lot of rice is called अन्नमय ।\n2. प्रकृतमपूपम् = अपूपमयम् । a large number of pakoras are referred as अपूपमय ।\nआदयः ।\nस्त्रीत्वे वाच्ये प्रत्ययस्य टित्त्वात् <<टिड्ढाणञ्...>> [[4.1.15]] इति ङीप्-प्रत्ययः भवति । यथा - जलमयी नदी ।\nविशेषः - इदम् सूत्रम् <<समर्थानाम् प्रथमात् वा>> [[4.1.82]] इत्यत्र निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति । अतः अत्र प्रत्ययस्य विकल्पः विधीयते । इत्युक्ते, 'प्रकृतमन्नम्' अस्मिन् अर्थे 'अन्न' शब्दस्य प्रयोगः अपि भवितुमर्हन्ति, 'अन्नमय' शब्दस्य प्रयोगः अपि भवितुमर्हति ।\nअत्र एकः विशेष बिन्दुः ज्ञेयः । अस्मिन् सूत्रे 'तत्' इति शब्दः 'प्रथमासमर्थः' अस्तीति अपि कैश्चन पण्डितैः स्वीक्रियते । अस्मिन् पक्षे प्रत्ययविधानम् 'स्वार्थे' न भवति, अपितु प्रथमासमर्थात् 'सप्तम्यर्थे' भवति । इत्युक्ते, 'प्रकृतवचने' इति शब्दस्य अर्थः अत्र 'प्राचुर्येण प्रस्तुतम् यस्मिन् सः' इति कृत्वा पदार्थस्य वैपुल्यम् यस्मिन् विद्यते, तस्य निर्देशार्थम् मयट्-प्रत्ययस्य प्रयोगः अत्र क्रियते । यथा -\n1. प्रकृतमन्नम् यस्मिन् सः = अन्नमयः यज्ञः । A sacrifice that contains a lot of rice.\n2. प्रकृतम् जलम् यस्मिन् तत् = जलमयम् स्थानम् । A place that contains lots of water.\n3. प्रकृतानि रत्नानि रत्नम् यस्मिन् सः = रत्नमयः आकरः । A mine with abundant jewels.\nअयमर्थः अपि समीचीनः एव । अत्र 'वचन' शब्दे प्रयुक्तः ल्युट्-प्रत्ययः अधिकरणे प्रयुक्तः अस्तीति मन्यते । तथा च, अस्मिन् पक्षे अपि महाविभाषा विधीयते । इत्युक्ते, प्राचुर्येण जलम् विद्यते यस्मिन् सः' इति वाक्यप्रयोगः अपि भवितुमर्हति, तथा च 'जलमय' इति मयट्-प्रत्ययान्तशब्दम् अपि प्रयोक्तुम् शक्यते ।\nएतादृशम् वर्तमानसूत्रस्य द्वौ अर्थौ भवतः ।\nस्मर्तव्यम् - 'प्राचुर्यम्' इत्यस्य अर्थः केवलं 'विपुलं' इति नास्ति । कुत्रचित् विपुलरूपेण विद्यमानम् वस्तु अपि 'प्राचुर्येण' नैव विद्यते । यथा, यदि कस्मिंश्चित् भोजनालये विपुलमन्नं पच्यते, परन्तु तत् सर्वेषां कृते पर्याप्तम् न भवति (a lot but still not sufficient इत्याशयः) तर्हि तत्र 'अन्नमयः भोजनालयः' इति प्रयोगः नैव करणीयः ।\n" }, "54022": { "sa": "'बहवः प्राचुर्येण उपस्थिताः' इति सन्दर्भे प्रातिपदिकात् स्वार्थे समूहवाचकप्रत्ययाः भवन्ति । पक्षे मयट्-प्रत्ययः अपि विधीयते । ", "sd": "<<तस्य समूहः>> [[4.2.37]] इति किञ्चन सूत्रं तद्धिताधिकारे प्राग्दीव्यतीयेषु अर्थेषु पाठ्यते । अस्मिन् विषये भिन्नेभ्यः प्रातिपदिकेभ्यः ये प्रत्ययाः उक्ताः सन्ति, ते सर्वे प्रत्ययाः 'बहवः प्राचुर्येण (abundant, many in number) ' अस्मिन् सन्दर्भे प्रातिपदिकेभ्यः स्वार्थे भवितुमर्हति । पक्षे मयट्-प्रत्ययः अपि भवति ।\nयथा - 'मोदकानां समूहः' अस्मिन् अर्थे 'मोदक' शब्दात् <<अचित्तहस्तिधेनोः ठक्>> इत्यनेन ठक्-प्रत्ययः भवति । यथा - मोदकानां समूहः मौदकिकम् । अतः 'बहवः मोदकाः प्राचुर्येण उपस्थिताः ' अस्मिन् सन्दर्भे अपि 'मोदक' शब्दात् 'ठक्' प्रत्ययं कृत्वा 'मौदकिकम्' इति रूपम् जायते । बहवः मोदकाः प्राचुर्येण उपस्थिताः तत् मौदकिकम् । Many मोदक, when available in abundance are collectively referred as मौदकिकम् । पक्षे मयट्-प्रत्ययः अपि भवति । यथा - बहवः मोदकाः प्राचुर्येण उपस्थिताः तत् मोदकमयम् ।\nएवमेव - बह्व्यः शष्कुलयः (rice cake / Idli) प्राचुर्येण प्रस्तुताः, तदेव 'शाष्कुलिकम्' । अत्रापि <<अचित्तहस्तिधेनोः ठक्>> [[4.2.47]] इति ठक्-प्रत्ययः भवति । पक्षे मयट्-प्रत्ययः अपि विधीयते । बह्व्यः शष्कुलयः तदेव शष्कुलीमयम् ।\nअत्र केचन विषयाः ज्ञेयाः -\n1. अस्मिन् सूत्रे 'बहुषु' इति उच्यते । 'बहु' इति शब्दः अत्र सङ्ख्यारूपेण प्रयुक्तः अस्ति । इत्युक्ते, येषाम् गणना 'त्रयः अथवा अधिकाः' इति विद्यते, ते शब्दाः 'बहवः' इत्यनेन निर्दिश्यते । The word बहवः is used to indicate a count of three or more. । अतः, यत्र 'विपुलम्' (a large amount, too much) इति अर्थः विद्यते परन्तु गणना भवितुम् न अर्हति, तत्र वर्तमानसूत्रस्य प्रयोगः न भवति । यथा - 'विपुलं व्रीहिः (A lot of rice), विपुलं जलम् (A lot of water) एतेषु सन्दर्भेषु वर्तमानसूत्रस्य प्रसक्तिः नास्ति ।\n2. यदि केवलम् 'बहवः' इति अर्थः अस्ति परन्तु 'प्रकृतवचने' (= abundant) इति अर्थः नास्ति तत्रापि वर्तमानसूत्रस्य प्रयोगः न भवति । यथा, कस्यांश्चित् पूजायाम् बहवः (= दश) मोदकाः सन्ति, परन्तु तानि पर्याप्तानि न, तत्र वर्तमानसूत्रस्य प्रयोगः न क्रियते ।\n3. <<तत्प्रकृतवचने मयट्>> [[5.4.21]] इति सूत्रवत् अत्रापि 'वचने' इत्यस्य 'अधिकरणे ल्युट्' इति अर्थम् स्वीकृत्य प्रथमासमर्थात् सप्तम्यर्थे प्रत्ययविधानम् भवति । यथा - बहवः मोदकाःप्राचुर्येण प्रस्तुताः यस्याम् पूजायाम् सा मौदकिकी मोदकमयी वा पूजा । बह्व्यः शष्कुलयः यस्मिन् यज्ञे सः शाष्कुलिकः शष्कुलीमयः वा यज्ञः ।\n4. इदम् सूत्रम् <<समर्थानाम् प्रथमात् वा>> [[4.1.82]] इत्यत्र निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति । अतः अत्र प्रत्ययस्य विकल्पः विधीयते । इत्युक्ते, 'बहवः मोदकाः प्राचुर्येण प्रस्तुताः' अस्मिन् अर्थे 'मोदक' शब्दस्य प्रयोगः अपि भवितुमर्हन्ति, 'मोदकमय / मौदकिक' शब्दस्य प्रयोगः अपि भवितुमर्हति ।\n5. अनेन सूत्रेण निर्मिताः शब्दाः नपुंसकलिङ्गे एकवचने एव प्रयुज्यन्ते । यथा - बहवाः मोदकाः प्राचुर्येण प्रस्तुताः ते एव मौदकिकम् मोदकमयम् वा - आदयः । (यत्र प्रथमासमर्थात् सप्तम्यर्थे प्रत्ययविधानम् भवति तत्र तु पुंलिङ्गे प्रयोगः साध्वेव) ।\n" }, "54023": { "sa": "अनन्त, आवसथ, इतिह, भेषज - एतेभ्यः शब्देभ्यः स्वार्थे ञ्य-प्रत्ययः भवति । ", "sd": "अनेन सूत्रेण चतुर्भ्यः शब्देभ्यः स्वार्थे ञ्य-प्रत्ययविधानम् क्रियते । <<समर्थानां प्रथमात् वा>> [[4.1.82]] इत्यत्र निर्दिष्टायां महाविभाषायामयम् प्रत्ययः पाठितः अस्ति, अतः अयम् विकल्पेनैव भवति । इत्युक्ते, प्रत्ययं विना अपि शब्दप्रयोगः साधु एव ।\nउदाहरणानि एतानि -\n1. अनन्तः (infinite, unlimited, beyond the end) इत्येव\n= अनन्त + ञ्य\n→ आनन्त + य [<<तद्धितेष्वचामादेः>>[[7.2.117]] इति आदिवृद्धिः]\n→ आनन्त् + य [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ आनन्त्य\nअनन्तः इत्येव आनन्त्यः\nएवमेव -\n2. आवसथः (निवासस्य स्थानम्, यथा गृहम्, आश्रमः, विश्रामगृहम्, hotel etc) इत्येव आवसथ्यः ।\n3. इतिह (= इति इत्येव) इत्येव = एतिह्य ।\nज्ञातव्यम् - 'इति' तथा 'ह' एतयोः अव्यययोः एकत्ररूपेण उच्चारणं कृत्वा 'इतिह' अयं शब्दः जायते । 'ह' इत्यस्य अत्र कोऽपि विशिष्टः अर्थः नास्ति । यथा 'ननु', 'किल', 'अपिच' , 'स्म' एतादृशाः शब्दाः अर्थम् विना अपि वाक्यनिर्माणे प्रयुज्यन्ते, तथैव 'ह' अयम् शब्दः अपि प्रयुक्तः दृश्यते ।\n4. भेषजम् (औषधम्, medicine) इत्येव भैषज्यम् ।\nअत्र महाविभाषया प्रत्ययः विकल्पेन विधीयते इति स्मर्तव्यम् ।\n" }, "54024": { "sa": "यस्य शब्दस्य अन्ते 'देवता' इति विद्यते, तस्मात् 'तदर्थम्' इत्यर्थे यत्-प्रत्ययः भवति । ", "sd": "यस्य अन्ते 'देवता' इति शब्दः विद्यते (यथा - अग्निदेवता, वायुदेवता, सूर्यदेवता - आदयः) तस्मात् शब्दात् चतुर्थीसमर्थात् प्रथमार्थे 'यत्' इति प्रत्ययः विधीयते ।\nयथा -\n1. अग्निदेवतायै इदम्\n= अग्निदेवता + यत्\n→ अग्निदेवत् + य [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ अग्निदेवत्यम् ।\n2. वायुदेवतायै इदम् = वायुदेवत्यम् ।\n3. पितृदेवतायै इदम् = पितृदेवत्यम् ।\n'यत्' प्रत्यये यकारः <<तित्स्वरितम्>> [[6.1.185]] इत्यनेन स्वरविधानम् कारयितुम् स्थापितः अस्ति ।\nविशेषः -\n1. यद्यपि इदम् सूत्रम् स्वार्थिकप्रकरणे विद्यते, तथाप्यत्र प्रत्ययः स्वार्थे न विधीयते, अपितु चतुर्थीसमर्थात् 'इदम्' अस्मिन् अर्थे विधीयते इति ज्ञातव्यम् ।\n2. अस्मिन् सूत्रे प्रयुक्तः 'तादर्थ्य' इति शब्दः स्वयम् तद्धितान्तः अस्ति । 'तदर्थम् इत्येव' इति विग्रहे <<गुणवचनब्राह्मणादिभ्यः कर्मणि च>> [[5.1.124]] इत्यत्र पाठिते इत्यस्मिन् वार्त्तिके निर्दिष्टे 'चातुर्वर्ण्यादि' गणे अस्य समावेशः भवति, अतः स्वार्थे ष्यञ्-प्रत्ययं कृत्वा 'तादर्थ्य' शब्दः सिद्ध्यति ।\n" }, "54025": { "sa": "'पाद' तथा 'अर्घ' शब्दाभ्याम् 'तदर्थम्' अस्मिन् अर्थे यत्-प्रत्ययः भवति । ", "sd": "'पाद' (feet) तथा 'अर्घ' (= स्वागतार्थे प्रयुक्तः गन्धोदकसमुदायः) एताभ्याम् शब्दाभ्याम् चतुर्थीसमर्थाभ्याम् प्रथमार्थे 'यत्' प्रत्ययः भवति । यथा -\n1. पादार्थम् इदम् = पाद्यमुदकम् । प्रक्रिया इयम् -\nपाद + यत्\n→ पाद् + यत् [<<यस्येति च>> [[6.4.148]] इति अकारलोपः ।\n→ पाद्य [<<यस्येति च>> [[6.4.148]] इत्यनेन कृतः अकारलोपः आभीय-असिद्धत्वात् <<पादः पत्>> [[6.4.130]] इत्यनेन न दृश्यते, अतः अत्र पाद्-इत्यस्य पद्-आदेशः न भवति । तथा च, <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इत्यनेन लुप्त-अकारस्य विधानमपि भवति, अतः असिद्धत्वस्य चिन्तनं विना अप्यत्र <<पादः पत्>> [[6.4.130]] इत्यस्य प्रसक्तिः न विद्यते ।]\n2. अर्घार्थम् इदम् = अर्घ्यमुदकम् । प्रक्रिया इयम् -\nअर्घ + यत्\n→ अर्घ् + यत् [<<यस्येति च>> [[6.4.148]] इति अकारलोपः ।\n→ अर्घ्य\n'पाद्य' तथा 'अर्घ्य' द्वौ अपि शब्दौ पूजाकार्ये जलस्य निर्देशार्थम् प्रयुज्येते । तत् जलम् यत् पादप्रोक्षणार्थम् प्रयुज्यते, 'पाद्यम्' नाम्ना ज्ञायते । तत् जलम् यत् गन्धोदकमिश्रितमस्ति, स्वागतार्थं च प्रयुज्यते, 'अर्घ्य' नाम्ना ज्ञायते ।\nविशेषः -\n1. अस्मिन् सूत्रे 'च' इति निर्दिष्टः अस्ति । अयम् चकारः 'अनुक्तसमुच्चायार्थः' अस्तीति काशिकाकारः वदति । इत्युक्ते, अन्येषां शब्दानां विषये अपि 'तदर्थम्' अस्मिन् अर्थे वर्तमानसूत्रेण यत्-प्रत्ययः कृतः दृश्यते । यथा, 'छन्दसे इदम् छन्दस्यम्' - आदयः ।\n2. यद्यपि इदम् सूत्रम् स्वार्थिकप्रकरणे विद्यते, तथाप्यत्र प्रत्ययः स्वार्थे न विधीयते, अपितु चतुर्थीसमर्थात् 'इदम्' अस्मिन् अर्थे विधीयते इति ज्ञातव्यम् ।\nअत्र कानिचन वार्त्तिकानि ज्ञेयानि -\n1. । एतेभ्यः शब्देभ्यः वेदेषु स्वार्थे यत्-प्रत्ययः कृतः दृश्यते इत्याशयः । यथा -\nक) वसु एव वसव्यः । ऋग्वेदे 4.55.8 इत्यत्र - अ॒ग्निरी॑शे वस॒व्य॑स्या॒ग्निर्म॒हः सौभ॑गस्य ।\nख) अपः एव अपस्यः । शुक्लयजुर्वेदे 10.7 इत्यत्र - एता अनाधृष्टा अपस्यो वसानाः । ।\nग) ओकः एव ओक्यः । ऋग्वेदे 3.42.8 इत्यत्र - तुभ्येदि॑न्द्र॒ स्व ओ॒क्ये॒३॒॑ सोमं॑ चोदामि पी॒तये॑ ।\nघ) कविः एव कव्यः । पञ्चविंशब्राह्मणे 1.4 इत्यत्र - कव्योऽसि कव्यवाहनः ।\nङ) क्षेमः एव क्षेम्यः । तैत्तिरीयसंहितायाम् 5.2.1.7 इत्यत्र - क्षेम्यमध्यवस्यति ।\nच) उदकम् एव उदक्यम् । मनुस्मृतौ - नोदक्ययाभिभाषेत यज्ञं गच्छेन्न चावृतः ।\nछ) वर्चः एव वर्चस्यम् । कृष्णयजुर्वेदे एकाग्निकाण्डे 2.7 - आयुष्यम् वर्चस्यम् सुवीर्यम् ।\nज) निष्केवलम् एव निष्केवल्यम् । शाङ्खायनसूत्रेषु 11.4.9 इत्यत्र - आ याह्यर्वाङिति निष्केवल्यम् ।\nझ) उक्थः एव उक्थ्यम् । ऋग्वेदे 8.66.2 - दाता जरित्र उक्थ्यम् ।\nञ) जनः एव जन्यः । जैमिनीयब्राह्मणे 2.182 - जन्यं ताभिः ।\nट) पूर्वः एव पूर्व्यः । अथर्ववेदे 19.34.6 - पूर्व्या विदुः ।\nठ) नवम् एव नव्यम् । ऋग्वेदे 1.109.2 - स्तोमं॑ जनयामि॒ नव्य॑म् ।\nड) सूरः एव सूर्यः । ऋग्वेदे 1.23.17 - अ॒मूर्या उप॒ सूर्ये॒ याभि॑र्वा॒ सूर्य॑: स॒ह ।\nढ) मर्तः एव मर्त्यः । ऋग्वेदे 1.19.2 - न॒हि दे॒वो न मर्त्यो॑ म॒हस्तव॒ क्रतुं॑ प॒रः ।\nण) यविष्ठः एव यविष्ठ्यः । ऋग्वेदे 1.36.6 - त्वे इद॑ग्ने सु॒भगे॑ यविष्ठ्य॒ विश्व॒मा हू॑यते ह॒विः ।\n2. । इत्युक्ते, 'अमुष्य' इत्यस्मिन्नेव अर्थे 'आमुष्यायण' इति शब्दः, तथा च 'अमुष्यपुत्र' इत्यस्मिन्नेव अर्थे 'आमुष्यपुत्रिका' अयम् शब्दः वेदेषु प्रयुक्तः दृश्यते ।\n3. । 'सम' शब्दात् स्वार्थे 'आवतु' प्रत्ययः भवति । सम इत्येव समावत् ।\n4. । 'नव' शब्दात् स्वार्थे 'त्नप्', 'तनप्' तथा 'ख' प्रत्ययाः भवन्ति, तथा च प्रक्रियायाम् नव-शब्दस्य 'नू' इति आदेशः भवति । नवम् इत्येव नूत्नम्, नूतनम्, नवीनम् च ।\n5. । 'पुराण' अस्मिन् अर्थे 'प्र' शब्दात् 'त्नप्', 'तनप्', 'ख' तथा 'न' एते प्रत्ययाः भवन्ति । पुराणम् इत्येव प्रत्नम्, प्रतनम्, प्रीणम्, प्रणम् ।\n6. । भाग, रूप, नाम - एतेभ्यः शब्देभ्यः स्वार्थे 'धेय' प्रत्ययः भवति । भागः इत्येव भागधेयः । रूपम् इत्येव रूपधेयम् । नाम इत्येव नामधेयम् ।\n7. । 'मित्र' शब्दात् वेदेषु स्वार्थे 'धेय' प्रत्ययः कृतः दृश्यते । मित्रम् एव मित्रधेयम् ।\n8. । 'आग्धीध्र' तथा 'साधारण' एताभ्याम् शब्दाभ्याम् स्वार्थे अञ्-प्रत्ययः कृतः दृश्यते । आग्नीध्रम् इत्येव आग्नीध्रम् । साधारणम् इत्येव साधारणम् । स्त्रीत्वे <<टिड्ढाणञ्...>> [[4.1.15]] इति ङीप् - आग्रीध्री, साधारणी ।\n9. । 'अयवस' तथा 'मरुत्' एताभ्यां शब्दाभ्यां वेदेषु स्वार्थे अञ्-प्रत्ययः कृतः दृश्यते । अयवसः इत्येव अयवस्यः । मरुत् इत्येव मरुत्यः ।\nएतैः सर्वेः वार्त्तिकैः विकल्पेन प्रत्ययविधानम् भवति, यतः सर्वत्र <<समर्थानां प्रथमाद्वा>> [[4.1.82]] इत्यस्याः महाविभाषायाः अधिकारः अस्ति ।\n" }, "54026": { "sa": "चतुर्थीसमर्थात् 'अतिथि'शब्दात् प्रथमार्थे ञ्य प्रत्ययः भवति । ", "sd": "'अतिथये इदम्' अस्मिन् अर्थे चतुर्थीसमर्थात् 'अतिथि' शब्दात् ञ्य-प्रत्ययः भवति ।\nअतिथ्यर्थम् / अतिथये इदम्\n= अतिथि + ञ्य\n→ आतिथि + य [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ आतिथ् + य [<<यस्येति च>> [[6.4.148]] इति इकारलोपः]\n→ आतिथ्य ।\nअतिथे इदमातिथ्यम् । A warm welcome extended to a guest is called आतिथ्य ।\nस्मर्तव्यम् - यद्यपि इदम् सूत्रम् स्वार्थिकप्रकरणे विद्यते, तथाप्यत्र प्रत्ययः स्वार्थे न विधीयते, अपितु चतुर्थीसमर्थात् 'इदम्' अस्मिन् अर्थे विधीयते ।" }, "54027": { "sa": "'देव' शब्दात् स्वार्थे 'तल्' प्रत्ययः भवति । ", "sd": "'देव' शब्दात् स्वार्थे 'तल्' प्रत्ययः भवति । <ऽतलन्तःऽ> इति लिङ्गानुशासनस्य सूत्रेण तलन्तशब्दाः नित्यस्त्रीलिङ्गाः भवन्ति, अतः तल्-प्रत्ययात् परः टाप्-प्रत्ययः अपि भवति ।\nदेवः इत्येव\n= देव + तल् + टाप्\n→ देवता [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः ।\n<<समर्थानां प्रथमाद्वा>> [[4.1.82]] अनया महाविभाषया प्रत्ययविधानम् विकल्पेन भवति, अतः 'देव' तथा 'देवता' द्वयोः अपि शब्दयोः प्रयोगः साधु एव ।\n" }, "54028": { "sa": "'अवि' शब्दात् स्वार्थे 'क' प्रत्ययः भवति । ", "sd": "'अवि' (रत्नम्, diamond) शब्दात् स्वार्थे 'क' प्रत्ययः भवति । अविः इत्येव अविकः । diamond इत्यर्थः ।\n<<समर्थानां प्रथमाद्वा>> [[4.1.82]] अनया महाविभाषया प्रत्ययविधानम् विकल्पेन भवति, अतः 'अवि' तथा 'अविक' द्वयोः अपि शब्दयोः प्रयोगः साधु एव ।\n" }, "54029": { "sa": "यावादिगणस्य शब्देभ्यः स्वार्थे कन्-प्रत्यय भवति । ", "sd": "यावादिगणस्य शब्देभ्यः स्वार्थे 'कन्' इति प्रत्ययः विधीयते । <<समर्थानां प्रथमाद्वा>> [[4.1.82]] अनया महाविभाषया एतत् प्रत्ययविधानम् विकल्पेन भवति, अतः प्रत्ययं विना अपि प्रयोगः भवितुमर्हति ।\nकन्-प्रत्यये नकारस्य इत्संज्ञा भवति । <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] इत्यनेन स्वरविधानार्थमस्य ग्रहणम् कृतमस्ति ।\nयावादिगणः अयम् -\nयाव, मणि, अस्थि, चण्ड, पीत, स्तम्भ, ऋतौ उष्णशीते (गणसूत्रम्), पशौ लूनवियाते (गणसूत्रम्), अणु निपुणे (गणसूत्रम्), पुत्र कृत्रिमे (गणसूत्रम्), स्नात वेदसमाप्तौ (गणसूत्रम्), शून्य रिक्ते (गणसूत्रम्), दान कुत्सिते (गणसूत्रम्), तनु सूत्रे (गणसूत्रम्), ईयसश्च (गणसूत्रम्), ज्ञात, कुमारीक्रीडनकानि च (गणसूत्रम्) ।\nउदाहरणानि -\n1. यावः (barley) इत्येव यावकः ।\n2. मणिः एव मणिकः ।\n3. अस्थि एव अस्थिकम् ।\n4. चण्डः एव चण्डकः\n5. पीतः एव पीतकः ।\n6. स्तम्भः एव स्तम्भकः ।\n7. ज्ञातमेव ज्ञातकम् ।\nअस्मिन् गणे कानिचन गणसूत्राणि पाठ्यन्ते । तानि एतादृशानि -\n1. ऋतौ उष्णशीते - ऋतुवाचकः यः 'उष्ण' तथा 'शीत' शब्दः, तस्मात् स्वार्थे कन्-प्रत्ययः भवति । उष्णः ऋतुः स एव उष्णकः । शीतः ऋतुः स एव शीतकः - अन्यत्र तु न भवति - यथा - उष्णं जलम्, शीतं जलम् ।\n2. पशौ लूनवियाते - 'लून' (wounded), तथा 'वियात' (ill-behaved) एतौ शब्दौ यदा पशोः सन्दर्भे प्रयुज्येते, तदा ताभ्याम् स्वार्थे कन्-प्रत्ययः भवति । यथा - लूनः पशुः स एव लूनकः । वियातः पशुः स एव वियातकः ।\n3. अणु निपुणे - 'निपुणः' (= सूक्ष्मद्रष्टा, expert इत्याशयः) अस्मिन् अर्थे 'अणु' शब्दात् कन् प्रत्ययः भवति । अणुकः इत्युक्ते निपुणः । अत्र स्वार्थे प्रत्ययविधानम् न भवति यतः 'अणु' शब्दस्य अर्थः 'निपुणः' इति नैव विद्यते ।\n4. पुत्र कृत्रिमे - 'कृत्रिम' अस्मिन् अर्थे 'पुत्र' शब्दात् स्वार्थे 'क' प्रत्ययः भवति । कृत्रिमः पुत्रः (यथा - लोहस्य निर्मिता पुत्रप्रतिमा) सः पुत्रकः ।\n5. स्नात वेदसमाप्तौ - वेदाध्यनसमाप्तेः निर्देशं कर्तुम् 'स्नात' (purified / One whose threading ceremony is done इत्याशयः) शब्दात् स्वार्थे कन्-प्रत्ययः भवति । वेदाध्ययनम् यस्य समाप्तम् सः स्नातः स्नातकः ।\n6. शून्य रिक्ते - 'रिक्तम्' (empty) अस्मिन् अर्थे 'शून्य' शब्दात् स्वार्थे कन्-प्रत्ययः भवति । रिक्तम् शून्यम् तदेव शून्यकम् ।\n7. दान कुत्सिते - कुत्सितस्य दानस्य (A donation given with bad intentions) निर्देशार्थम् 'दान' शब्दात् स्वार्थे कन्-प्रत्ययः भवति । कुत्सितम् दानम् तदेव दानकम् ।\n8. तनु सूत्रे - 'सूत्र' (thread) शब्दात् 'तनु' (lean / thin) अस्मिन् सन्दर्भे स्वार्थे कन्-प्रत्ययः भवति । तनु सूत्रम् तदेव तनुकम् ।\n9. ईयसश्च -'ईयस्' इति कश्चन तद्धितप्रत्ययः <<द्विवचनविभज्योपपदे तरबीयसुनौ>> [[5.3.57]] इत्यनेन पाठ्यते ।अयम् प्रत्ययः यस्य अन्ते विद्यते, तस्मात् शब्दात् स्वार्थे कन्-प्रत्ययः भवति । यथा - श्रेयः तदेव श्रेयस्कम् । प्रेयः तदैव प्रेयस्कम् । गरीयः तदेव गरीयस्कम् ।\n10. कुमारीक्रीडनकानि च - कुमारीणाम् क्रीडायाः यानि साधनानि, तेभ्यः 'कन्' प्रत्ययः स्वार्थे भवति । यथा - कन्दुः स एव कन्दुकः । अत्र 'कुमारी' इति शब्दः लिङ्गनिरपेक्षः अस्ति । इत्युक्ते, बालिकाः तथा बालाः - द्वयोः अपि ग्रहणम् 'कुमारी' शब्देन अत्र भवति ।\nविशेषः - केचन पण्डिताः यावादिगणमाकृतिगणम् मन्यन्ते । तेषाम् मतेन ये शब्दाः स्वार्थे कन्-प्रत्ययं स्वीकुर्वन्ति, ते सर्वे अस्मिन् गणे भवितुमर्हन्ति । यथा - बालः एव बालकः ।\nस्मर्तव्यम् - 'कन्' प्रत्ययान्तशब्दानाम् विषये स्त्रीप्रत्यये परे अङ्गस्य ह्स्वादेशः तथा इकारादेशः भवति । यथा -\nबाला इत्येव\n= बाला + कन् + टाप् [यावादिगणस्य आकृतिगणत्वात् स्वार्थे कन्-प्रत्ययः । स्त्रीत्वे विवक्षिते <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप् ]\n→ बाल + कन् + आ [<<केऽणः>> [[7.4.13]] इति ह्रस्वादेशः]\n→ बालि + क + आ [<<प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः>> [[7.3.34]] इति इकारादेशः]\n→ बालिका [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः]\nएवमेव अन्येषां विषये अपि ज्ञेयम् । " }, "54030": { "sa": " 'लोहित'शब्दात् मणेः निर्देशार्थम् स्वार्थे कन् प्रत्ययः भवति । ", "sd": "'लोहित' (red) शब्दात् मणेः (precious stone) निर्देशार्थम् स्वार्थे कन्-प्रत्ययः भवति । लोहितः मणिः स एव लोहितकः मणिः ।\n<<समर्थानां प्रथमाद्वा>> [[4.1.82]] अनया महाविभाषया एतत् प्रत्ययविधानम् विकल्पेन भवति, अतः प्रत्ययं विना केवलम् 'लोहित' इति अपि प्रयोगः भवितुमर्हति । लोहितः मणिः ।\nयत्र मणेः निर्देशः नास्ति तत्र तु कन्-प्रत्ययः न भवति । यथा - लोहितः खगः । " }, "54031": { "sa": "'लोहित'शब्दात् 'अनित्यः वर्णः' अस्मिन् सन्दर्भे स्वार्थे कन्-प्रत्ययः भवति । ", "sd": "'लोहित' (= red)) इति वर्णस्य नाम । यदि कस्यचन पदार्थस्य वर्णः मूलरूपेण लोहितः नास्ति, परन्तु प्रकृतिवशात् सः पदार्थः कञ्चित् समयम् यावत् लोहितवर्णस्य भासते, तर्हि तादृशस्य पदार्थस्य वर्णस्य निर्देशार्थम् 'लोहित' शब्दात् स्वार्थे कन्-प्रत्ययः भवति । अनित्यः लोहितः वर्णः स एव लोहितकः । An entity that is not always red in color, but turns red for some time is described by the word लोहितक ।\nयथा -\n1. लोहितकः पुरुषः । reddish person (e.g. due to anger).\n2. लोहितकम् व्योम । reddish sky (e.g. at the time of sunset).\nयत्र वस्तुनः वर्णः नित्यम् लोहितः अस्ति, तत्र तु वर्तमानसूत्रस्य प्रयोगः न भवति । यथा - लोहितम् रुधिरम् ।\nअत्र एकम् वार्त्तिकं ज्ञेयम् - । अस्य वार्त्तिकस्य अर्थः अयम् - 'लोहित' शब्दात् स्त्रीत्वे वाच्ये <<वर्णादनुदात्तात्तोपधात्तो नः>> [[4.1.39]] इति 'ङीप्' प्रत्ययः यदा विधीयते, तदा प्रक्रियायामनेनैव सूत्रेण तकारस्य नकारादेशः भवति, येन 'लोहिनी' इति रूपं सिद्ध्यति । परन्तु यत्र 'लोहित' शब्दात् ङीप्-प्रत्ययं कृत्वा ततः वर्तमानसूत्रेण स्वार्थे कन्-प्रत्ययः भवति, तत्र तु अयम् नकारादेशः विकल्पेनैव भवति - इति अस्य वार्त्तिकस्य अर्थः । अस्मिन् वार्त्तिके 'लिङ्ग' इति शब्दः 'लिङ्गविशिष्टम् कार्यम्' अस्मिन् अर्थे प्रयुक्तः अस्ति । ङीप्-प्रत्ययेन सञ्जातं यत् लिङ्गविशिष्टम् कार्यम् (= तकारस्य नकारादेशः), तत् कन्-प्रत्यये परे विकल्पेन बाध्यते - इति आशयः । यथा -\nलोहित + ङीप् + कन् + टाप् ['लोहित' शब्दात् स्त्रीत्वे विवक्षिते <<वर्णादनुदात्तात्तोपधात्तो नः>> [[4.1.39]] इति 'ङीप्' प्रत्ययः । ततः स्वार्थे कन्-प्रत्ययः, तस्मात् च स्त्रीत्वे विवक्षिते <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्-प्रत्ययः]\n→ लोहिती / लोहिनी + क + आ [ इति वार्त्तिकेन वैकल्पिकः नकारादेशः]\n→ लोहिति / लोहिनि + क + आ [<<केऽणः>> [[7.4.13]] इति ह्रस्वादेशः]\n→ लोहितिका / लोहिनिका [ [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः]\nयथा - सीता कोपेन लोहितिका लोहिनिता वा अभवत् । पक्षे (कन्-प्रत्ययस्य अनुपस्थितौ) - सीता कोपेन लोहिनी अभवत् ।\nविशेषः - 'लोहितक' इति शब्दात् टाप्-प्रत्ययः क्रियते चेत् तु 'लोहितिका' इत्येव रूपम् भवति । तत्र अस्य वार्त्तिकस्य प्रसक्तिः न विद्यते ।\nस्मर्तव्यम् - <<समर्थानां प्रथमाद्वा>> [[4.1.82]] इत्यनया महाविभाषया अत्र प्रत्ययः विकल्प्यते, अतः 'लोहितः पुरुषः' इति प्रयोगः अपि साधु ।" }, "54032": { "sa": "'रक्त' अस्मिन् सन्दर्भे लोहितशब्दात् स्वार्थे कन्-प्रत्ययः भवति । ", "sd": "'रक्त' इत्युक्ते वर्णेन लिप्तम् (colored). । यत्र किञ्चन वस्तु मूलरूपेण लोहितवर्णस्य नास्ति परन्तु रक्तेन तस्य वर्णपरिवर्तनं कृत्वा लोहितवर्णः विधीयते, तत्र तादृशस्य वर्णस्य निर्देशार्थम् लोहितशब्दात् स्वार्थे कन्-प्रत्ययः भवति ।\nयथा - लोहितेन रक्तम् कम्बलम् तत् लोहितकम् कम्बलम् ।\n<<वर्णे चानित्ये>> [[5.4.31]] इत्यत्र पाठितम् इति वार्त्तिकमस्य सूत्रस्य विषये अपि प्रयुज्यते । अस्य वार्त्तिकस्य अर्थः अयम् - 'लोहित' शब्दात् स्त्रीत्वे वाच्ये <<वर्णादनुदात्तात्तोपधात्तो नः>> [[4.1.39]] इति 'ङीप्' प्रत्ययः यदा विधीयते, तदा प्रक्रियायामनेनैव सूत्रेण तकारस्य नकारादेशः भवति, येन 'लोहिनी' इति रूपं सिद्ध्यति । परन्तु यत्र 'लोहित' शब्दात् ङीप्-प्रत्ययं कृत्वा ततः वर्तमानसूत्रेण स्वार्थे कन्-प्रत्ययः भवति, तत्र तु अयम् नकारादेशः विकल्पेनैव भवति - इति अस्य वार्त्तिकस्य अर्थः । अस्मिन् वार्त्तिके 'लिङ्ग' इति शब्दः 'लिङ्गविशिष्टम् कार्यम्' अस्मिन् अर्थे प्रयुक्तः अस्ति । ङीप्-प्रत्ययेन सञ्जातं यत् लिङ्गविशिष्टम् कार्यम् (= तकारस्य नकारादेशः), तत् कन्-प्रत्यये परे विकल्पेन बाध्यते - इति आशयः । यथा -\nलोहित + ङीप् + कन् + टाप् ['लोहित' शब्दात् स्त्रीत्वे विवक्षिते <<वर्णादनुदात्तात्तोपधात्तो नः>> [[4.1.39]] इति 'ङीप्' प्रत्ययः । ततः स्वार्थे कन्-प्रत्ययः, तस्मात् च स्त्रीत्वे विवक्षिते <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्-प्रत्ययः]\n→ लोहिती / लोहिनी + क + आ [ इति वार्त्तिकेन वैकल्पिकः नकारादेशः]\n→ लोहिति / लोहिनि + क + आ [<<केऽणः>> [[7.4.13]] इति ह्रस्वादेशः]\n→ लोहितिका / लोहिनिका [ [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः]\nयथा - लोहितवर्णेन रक्ता सा लोहितिका लोहिनिका वा शाटिका । पक्षे (कन्-प्रत्ययस्य अभावपक्षे) - लोहिनी शाटिका ।\nस्मर्तव्यम् - <<समर्थानां प्रथमाद्वा>> [[4.1.82]] इत्यनया महाविभाषया अत्र प्रत्ययः विकल्प्यते, अतः 'लोहितं कम्बलम्' इति प्रयोगः अपि साधु । " }, "54033": { "sa": "'काल' शब्दात् 'अनित्यः वर्णः' तथा 'रक्तः' एतयोः सन्दर्भयोः स्वार्थे कन्-प्रत्ययः भवति । ", "sd": "'काल' इति कृष्णवर्णस्य अन्यत् नाम । (The word काल here refers to 'black color' and not the 'time') । अस्मात् शब्दात्' अनित्यः वर्णः' तथा 'रक्तः' एतयोः सन्दर्भयोः स्वार्थे कन्-प्रत्ययः भवति । क्रमेण पश्यामः -\n1. यदि कस्यचन पदार्थस्य वर्णः मूलरूपेण कालः नास्ति, परन्तु प्रकृतिवशात् सः पदार्थः कञ्चित् समयम् यावत् कालवर्णस्य भासते, तर्हि तादृशस्य पदार्थस्य वर्णस्य निर्देशार्थम् 'काल' शब्दात् स्वार्थे कन्-प्रत्ययः भवति । यथा - अनित्यः कालः वर्णः स एव कालकः । An entity that is not always black in color, but turns black for some time, is described by the word कालक ।\nयथा - लज्जया तस्य मुखम् कालकम् सञ्जातम् । His face turned black due to shame.\n2. 'रक्त' इत्युक्ते वर्णेन लिप्तम् (colored). । यत्र किञ्चन वस्तु मूलरूपेण कालवर्णस्य नास्ति परन्तु रक्तेन तस्य वर्णपरिवर्तनं कृत्वा कालवर्णः विधीयते, तत्र तादृशस्य वर्णस्य निर्देशार्थम् कालशब्दात् स्वार्थे कन्-प्रत्ययः भवति ।\nयथा - कालेन रक्तम् कम्बलम् तत् कालकम् कम्बलम् ।\nस्त्रीप्रत्ययान्तात् 'काली' शब्दात् अपि स्वार्थे कन्-प्रत्ययः अनेन सूत्रेण भवितुमर्हति । यथा -\nवर्णेन रक्ता काली शाटिका\n= काली + कन् + टाप् [<<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्]\n→ कालिक + आ [<<केऽणः>> [[7.4.13]] इति ह्रस्वादेशः]\n→ कालिका [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः]\nस्मर्तव्यम् - <<समर्थानां प्रथमाद्वा>> [[4.1.82]] इत्यनया महाविभाषया अत्र प्रत्ययः विकल्प्यते, अतः 'कालम् मुखम्' इति प्रयोगः अपि साधु । " }, "54034": { "sa": "विनयादिगणस्य शब्देभ्यः स्वार्थे 'ठक्' प्रत्ययः भवति । ", "sd": "विनयादिगणस्य शब्देभ्यः स्वार्थे 'ठक्' प्रत्ययः भवति ।\nविनयादिगणः अयम् - विनय, समय, उपायाद् ह्रस्वत्वं च (गणसूत्रम्), सङ्गति, कथञ्चित्, अकस्मात्, समयाचार, उपचार, समाचार, व्यवहार, सम्प्रदान, समुत्कर्ष, समूह, विशेष, अत्यय ।\nउदाहरणानि -\n1. विनयः इत्येव\n= विनय + ठक्\n→ विनय + इक [<<ठस्येकः>> [[7.3.50]] इति इक्-आदेशः]\n→ वैनय + इक [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ वैनय् + इक [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ वैनयिक\n2. समयः इत्येव सामयिकः ।\n3. सङ्गतिः इत्येव साङ्गतिकः ।\n4. कथञ्चित् इत्येव\n= कथञ्चित् + ठक् [<<ठस्येकः>> [[7.3.50]] इति इक्-आदेशः]\n→ कथञ्चित् + क [<<इसुसुक्तान्तात् कः>> [[7.3.51]] इति 'क्' आदेशः]\n→ काथञ्चित् + क [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ काथञ्चित्क\n5. अकस्मात् इत्येव अाकस्मात्क\n6. समूहः इत्येव सामूहिकः ।\nस्मर्तव्यम् - <<समर्थानां प्रथमाद्वा>> [[4.1.82]] इत्यनया महाविभाषया अत्र प्रत्ययः विकल्प्यते, अतः 'विनयादिगणस्य शब्दाः तादृशाः अपि प्रयोक्तुम् शक्यन्ते । " }, "54035": { "sa": "'व्याहृता (पूर्वप्रकाशिता)' अस्मिन् अर्थे वाच् शब्दात् स्वार्थे ठक्-प्रत्ययः भवति । ", "sd": "'व्याहृता' इत्युक्ते 'पूर्वप्रकाशिता' / 'अन्येन उक्ता' । यः सन्देशः केनचितम् पूर्वमेव कथितः अस्ति, तादृशः सन्देशः 'व्याहृतः सन्देशः' नाम्ना ज्ञायते । एतादृशस्य सन्देशस्य निर्देशार्थम् 'वाच्' शब्दात् स्वार्थे 'ठक्' प्रत्ययः भवति ।\nप्रक्रिया इयम् -\nपूर्वमुक्ता वाक्\n= वाच् + ठक्\n→ वाच् + इक [<<ठस्येकः>> [[7.3.50]] इति इक्-आदेशः]\n→ वाचिक\nयथा - दूतः मन्त्रिणः वाचिकम् कथयति । अत्र मन्त्रिणा उक्ता वाक् दूतेन पुनः कथ्यते, अतः तस्य वाचः निर्देशः 'वाचिकम्' इत्यनेन क्रियते ।\nराजा वाचिकम् श्रुणोति ।\nस्त्रीत्वे विवक्षिते <<टिड्ढाणञ्...>> [[4.1.15]] इत्यनेन ङीप्-प्रत्यये कृते 'वाचिकी' इति शब्दः सिद्ध्यति । यथा - जनाः वाचिकीम् गीताम् पठन्ति ।\nयदि 'व्याहृता' इति अर्थः नापेक्षते, तर्हि वर्तमानसूत्रस्य प्रयोगः नैव भवति । यथा - देवदत्तस्य मधुरा वाक् ।\nस्मर्तव्यम् - <<समर्थानां प्रथमाद्वा>> [[4.1.82]] इत्यनेन अत्र प्रत्ययविधानम् विकल्प्यते, अतः 'वाक्' इत्यस्य शब्दस्य प्रयोगः अपि अस्मिन् विषये भवितुमर्हति । यथा - दूतः मन्त्रिणः वाचम् कथयति ।\n" }, "54036": { "sa": "व्याहृता (पूर्वप्रकाशिता) या वाक्, तत्प्रकारेण कृतम् कर्म दर्शयितुम् 'कर्मन्' शब्दात् स्वार्थे अण् प्रत्ययः भवति । ", "sd": "<<वाचो व्याहृतार्थायाम्>> [[5.4.35]] इत्यनेन 'व्याहृता (= पूर्वप्रकाशिता, अन्येन उक्ता) वाक्' - अस्मिन् सन्दर्भे 'वाच्' शब्दात् स्वार्थ ठक्-प्रत्ययः विधीयते, येन 'वाचिकम्' इति शब्दः सिद्ध्यति । एतादृशीं वाक् (= वाचिकम्) श्रुत्वा तत्प्रकारेण / तदनुसृत्य यत् कर्म क्रियते, तस्य निर्देशार्थम् वर्तमानसूत्रेण 'कर्मन्' शब्दात् स्वार्थे अण् प्रत्ययः भवति । वाचिकेन उक्तं कर्म तत् कार्मणम् । प्रक्रिया इयम् -\nकर्मन् + अण् [वर्तमानसूत्रेण अण्-प्रत्ययः]\n→ कार्मन् + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ कार्मन [<<नस्तद्धिते>> [[6.4.144]] इति टिलोपे प्राप्ते <<अन्>>[[6.4.167]] इति प्रकृतिभावः ]\n→ कार्मण [<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इति णत्वम् ]\nयथा - दूतेन उक्तः राज्ञः सन्देशः सः वाचिकः, तच्छ्रुत्वा तदनुसृत्य मन्त्रिणा यत् कर्म कृतम्, तत् कार्मणम् ।\nस्मर्तव्यम् - <<समर्थानां प्रथमाद्वा>> [[4.1.82]] इत्यनेन अत्र प्रत्ययविधानम् विकल्प्यते, अतः 'कर्मन्' इत्यस्य शब्दस्य प्रयोगः अपि अस्मिन् विषये भवितुमर्हति । यथा - वाचिकम् श्रुत्वा कृतम् कर्म ।\nअत्र कानिचन वार्त्तिकानि ज्ञेयानि -\n1. । इत्युक्ते, वेदेषु कुकाल, वरुड, निषाद, कर्मार, चण्डाल, मित्र तथा अमित्र - एतेभ्यः शब्देभ्यः स्वार्थे अण्-प्रत्ययः कृतः दृश्यते । यथा -\nक) कुलालः इत्येव कौलालः ।\nख) निषादः इत्येव नैषादः ।\nग) कर्मारः एव कार्मारः ।\nघ) चण्डालः इत्येव चाण्डालः ।\nङ) मित्रः इत्येव मैत्रः ।\nच) अमित्रः इत्येव आमित्रः ।\n2. । अस्मिन् वार्त्तिके दत्ताः अण्-प्रत्ययान्तशब्दाः भाषायाम् वेदे च प्रयुक्ताः दृश्यन्ते । एतेषामावली इयम् -\nक) सन्नायम् इत्येव सान्नायम् ।\nख) अनुजावरः इत्येव आनुजावरः ।\nग) अनुषूकः इत्येव आनुषूकः ।\nग) अष्टुभ् इत्येव आष्टुभः ।\nङ) चतुष्प्राश्यः इत्येव चातुष्प्राश्यः ।\nच) रक्षोहन् इत्येव राक्षोघ्नः । प्रक्रियायाम् <<षपूर्वहन्धृतराज्ञामणि>> [[6.4.135]] इत्यनेन हकारोत्तस्य नकारस्य लोपः, तथा <<हो हन्तेर्ञ्णिन्नेषु>> [[7.3.54]] इत्यनेन हकारस्य कुत्वे घकारं कृत्वा रूपं सिद्ध्यति ।\nछ) वियातः इत्येव वैयातः ।\nज) वारिवस्कृत् इत्येव वारिवस्कृतः ।\nझ) अग्रायणः इत्येव आग्रायणः ।\nञ) अग्रहायणः इत्येव आग्रहायणः ।\nट) सन्तपत्नः इत्येव सान्तपत्नः ।\nएतेषां सर्वेषाम् व्युत्पत्तिः पदमञ्जर्यां दत्ता अस्ति, जिज्ञासुभिः तत्रैव द्रष्टव्यम् ।\n" }, "54037": { "sa": "जातिभिन्ने अर्थे प्रयुक्तात् 'ओषधि' शब्दात् स्वार्थे अण् प्रत्ययः भवति । ", "sd": "'ओषधि' इत्यस्य शब्दस्य प्रामुख्येन द्वौ अर्थौ स्तः - भिषग् (medicine, usually created by processing a mixture of various substances), तथा च भिषग्वनस्पतिः (medicinal plant) । एतेषु 'भिषग्' इत्यस्मिन् अर्थे प्रयुक्तः यः 'ओषधि' शब्दः, तस्मात् स्वार्थे 'अण्' प्रत्ययः भवति । ओषधिः इत्येव औषधम् । प्रक्रिया इयम् -\nओषधि + अण्\n→ औषधि + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ औषध् + अ [<<यस्येति च>> [[6.4.148]] इति इकारलोपः]\n→ औषध\nस्मर्तव्यम् - <<समर्थानां प्रथमाद्वा>> [[4.1.82]] इत्यनेन अत्र प्रत्ययविधानम् विकल्प्यते, अतः 'ओषधिः' इत्यस्य शब्दस्य प्रयोगः अपि अस्मिन् विषये भवितुमर्हति ।\n'ओषधि' शब्दस्य अर्थः यत्र भिषग्वनस्पतिः (medicinal plant) इति क्रियते, तत्र तु वर्तमानसूत्रस्य प्रसक्तिः नास्ति । यथा - 'क्षेत्रे ओषधयः सन्ति' (The farm contains medicinal plants) ।\n" }, "54038": { "sa": "प्रज्ञादिगणस्य शब्देभ्यः स्वार्थे अण् प्रत्ययः विधीयते । ", "sd": "प्रज्ञादिगणस्य शब्देभ्यः स्वार्थे अण्-प्रत्ययः भवति । <<समर्थानां प्रथमाद्वा>> [[4.1.82]] इत्यत्र उक्तः महाविभाषा अत्र विधीयते, अतः अयम् प्रत्ययः विकल्पेन भवति, पक्षे मूलशब्दस्य प्रयोगः अपि भवितुमर्हति ।\nप्रज्ञादिगणः अयम् -\nप्रज्ञ, वणिज्, उशिज्, उष्णिह्, प्रत्यक्ष, विद्वस्, विदन् , षोडन्, षोडश, विद्या, मनस्, श्रोत्र शरीरे (गणसूत्रम्), जुह्वत् कृष्णमृगे (गणसूत्रम्), चिकीर्षत्, चोर, शत्रु, योध, चक्षुस्, वक्षस्, धूर्त, वस्, एत्, मरुत्, क्रुङ्, राजा, सत्वन्तु, दशार्ह, वयस्, आतुर, असुर, रक्षस्, पिशाच, अशनि, कार्षापण, देवता, बन्धु ।\nउदाहरणानि-\n1. प्रज्ञः एव प्राज्ञः ।\n2. वणिग् एव वाणिजः ।\n3. उशिग् (charming) एव औशिजः ।\n4. उष्णिग् इत्येव औष्णिहः\n5. मनः इत्येव मानसम् ।\n6. चोरः इत्येव चौरः।\n7. वस् इत्येव वासः ।\nअत्र द्वे गणसूत्रे पाठ्येते -\n1. श्रोत्र शरीरे - 'शरीरस्य अवयववाचकः यः श्रोत्रशब्दः, तस्मात् स्वार्थे अण् प्रत्ययः भवति । श्रोत्रम् इत्येव श्रौत्रम् ।\n2. जुह्वत् कृष्णमृगे - यः कृष्णमृगः जुह्वत् अस्ति (= बलिरूपेण विहितः अस्ति / sacrifice इत्याशयः) तस्य निर्देशार्थम् 'जुह्वत्' शब्दात् स्वार्थे अण् प्रत्ययः भवति । जुह्वत् कृष्णमृगः स एव जौह्वतः ।\nज्ञातव्यम् - केचन पण्डिताः तु केवलं 'कृष्णमृगे' इत्येव गणसूत्रम् स्वीकृत्य 'कृष्णशब्दात् मृगस्य निर्देशार्थमण्-प्रत्ययः स्वार्थे भवति, यथा कार्ष्णः मृगः' इति अर्थम् ज्ञापयन्ति ।\nएते सर्वे शब्दाः स्त्रीत्वे विवक्षिते <<टिड्ढाणञ्..>> [[4.1.15]] इत्यनेन ङीप्-प्रत्ययं स्वीकुर्वन्ति । यथा - प्राज्ञी, वाणिजी, चौरी - आदयः ।\nविशेषः - प्रज्ञादिगणः आकृतिगणः अस्तीति अनेकैः पण्डितैः मन्यते । अनेन भिन्नेभ्यः शब्देभ्यः स्वार्थे अण्-प्रत्ययः भवितुम अर्हति । अनेनैव 'बन्धुः एव बान्धवः, जेता एव जैत्रः, गोतमः एव गौतमः' एतादृशाः प्रयोगाः अपि सिद्ध्यन्ति । एवं च <<तद्युक्तात् कर्मणोऽण्>> [[5.4.36]] इत्यत्र पाठितयोः द्वयोः अपि वार्त्तिकयोः उक्ताः सर्वे शब्दाः प्रज्ञादिगणे स्वीकृत्य तेभ्यः अपि अण्-प्रत्ययः भवितुमर्हति । अस्यां स्थितौ तयोः वार्त्तिकयोः अपि न किञ्चन प्रयोजनम् ।\n" }, "54039": { "sa": "'मृद्' शब्दात् स्वार्थे तिकन्-प्रत्ययः भवति । ", "sd": "मृद् (soil, clay etc) शब्दात् स्वार्थे 'तिकन्' इति प्रत्ययः विधीयते । अस्मिन् प्रत्यये परे शब्दः नित्यम् स्त्रीलिङ्गे एव प्रयुज्यते, अतः प्रक्रियायाम् टाप् इति स्त्रीप्रत्ययः अपि विधीयते । यथा -\nमृद् इत्येव\n= मृद् + तिकन् + टाप् [स्त्रीत्वे <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्]\n→ मृद् + तिक + आ [इत्संज्ञालोपः]\n→ मृद् + तिका [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः ]\n→ मृत् + तिका [<<खरि च>> [[8.4.55]] इति दकारस्य चर्त्वे तकारः]\n→ मृत्तिका\nस्मर्तव्यम् - <<समर्थानां प्रथमाद्वा>> [[4.1.82]] इत्यत्र उक्तः महाविभाषा अत्र विधीयते, अतः अयम् 'तिकन्' प्रत्ययः विकल्पेन भवति । पक्षे 'मृद्' शब्दस्य प्रयोगः अपि भवितुमर्हति ।\nविशेषः - वस्तुतः अत्र 'तिकन्' इत्यस्य स्थाने 'तकन्' इत्येव प्रत्ययः स्यात् चेदपि 'मृत्तिका' इति रूपमेव असेत्स्यत् । यथा -\nमृद् इत्येव\n= मृद् + तकन् + टाप् ['तकन्' प्रत्ययस्य प्रयोगः । स्त्रीत्वे <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप् ]\n→ मृद् + तक + आ [इत्संज्ञालोपः]\n→ मृद् + तिक + आ [<<प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः>> [[7.3.44]] इति तकारोत्तस्य अकारस्य इकारादेशः]\n→ मृत्तिका [सवर्णदीर्घम्, चर्त्वम्]\nअस्यां स्थितौ 'तिकन्' इति प्रत्यये इकारः किमर्थम् पाठितः अस्ति - इति प्रश्नः उपतिष्ठति । अस्य उत्तरम् व्याख्यानेषु एतादृशं दीयते - 'प्रत्ययस्थात्' इत्येव सिद्धे इकारोच्चारणं प्रक्रियालाघवार्थं , टापो लुक्यपि श्रवणार्थं च । इत्युक्ते, 'तिकन्' प्रत्ययात् परस्य टाप्-प्रत्ययस्य यदि लोपः जायते, तर्हि <<प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः>> [[7.3.44]] इत्यस्य प्रसक्तिः नैव भवति । अस्यां स्थितौ अपि 'मृत्तिका' इत्येव रूपम् भवेत् इति स्पष्टीकर्तुम् प्रत्यये इकारः स्थापितः अस्ति । यथा -\nपञ्चभिः मृत्तिकाभिः क्रीतः\n= पञ्च + मृत्तिका + ठक् [<<तेन क्रीतम्>> [[5.1.37]] इति ठक्]\n→ पञ्च + मृत्तिका [<<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> [[5.1.28]] इति तद्धितप्रत्ययस्य लुक्]\n→ पञ्च + मृत्तिक [तद्धितप्रत्ययस्य लुकि कृते <<लुक् तद्धितलुकि>> [[1.2.49]] इति स्त्रीप्रत्ययस्य अपि लुक्]\nअस्यां स्थितौ 'मृत्तिक' इत्यस्मिन् शब्दे यदि 'तिकन्' इत्यस्य स्थाने 'तकन्' इति प्रत्ययः अभविष्यत्, तर्हि स्त्रीप्रत्ययस्य लुकि कृते <ऽअकृतव्यूहाः पाणिनीयाःऽ> अनया परिभाषया <<प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः>> [[7.3.44]] इत्यनेन प्राप्तः इकारादेशः अपि न्यवर्तिष्यत, येन 'पञ्चमृत्तक' इति अनिष्टं रूपमजनिष्यत । एतादृशं मा भूत्, अतः 'तिकन्' इत्येव प्रत्ययः मूलरूपेण अत्र आवश्यकः, येन 'पञ्चमृत्तिक' इति साधु रूपम् सिद्ध्येत् ।\n " }, "54040": { "sa": "प्रशस्तायाः मृदः निर्देशार्थम् 'मृद्' शब्दात् स्वार्थे 'स' तथा 'स्नौ' प्रत्ययौ भवतः । ", "sd": "प्रशंसायाम् गम्यमानायाम् 'मृद्' शब्दात् स्वार्थे 'स' तथा 'स्न' प्रत्ययौ भवतः ।\nयथा - प्रशस्ता मृद् (fertile soil) सा मृत्सा मृत्स्ना वा । उभयत्र <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप् प्रत्ययः विधीयते ।\nयद्यपि इदं सूत्रम् <<समर्थानां प्रथमाद्वा>> [[4.1.82]] इत्यस्यां विभाषायाम् पाठ्यते, तथापि अनेन सूत्रेण उक्तौ प्रत्ययौ नित्यौ भवतः । इत्युक्ते, 'प्रशस्ता मृद्' इति वक्तव्यमस्ति चेत् विग्रहवाक्यम् वक्तव्यम्, नो चेत् 'मृत्सा / मृत्स्ना' इति वक्तव्यम् । केवलम् 'मृद्' इति उक्त्वा 'प्रशंस्ता मृद्' इति अर्थः न विधीयते ।\nविशेषः - प्रशंसायाम् गम्यमानायाम् औत्सर्गिकरूपेण <<प्रशंसायां रूपप्>> [[5.3.66]] इत्यनेन रूपप्-प्रत्ययः भवति । तत् बाधित्वा 'मृद्' शब्दस्य विषये वर्तमानसूत्रेण 'स' तथा 'स्न' प्रत्ययौ कथ्येते । " }, "54041": { "sa": "प्रशंसायाम् गम्यमानायाम् वेदेषु 'वृक' तथा 'ज्येष्ठ' शब्दाभ्याम् यथासङ्ख्यम् 'तिल्' तथा 'तातिल्' प्रत्ययः कृतः दृश्यते । ", "sd": "प्रशंसायाम् गम्यमानायाम् वेदेषु 'वृक' (wolf) शब्दात् 'तिल्' प्रत्ययः तथा च 'ज्येष्ठ'शब्दात् 'तातिल्' प्रत्ययः प्रयुक्तः दृश्यते । यथा -\n1. प्रशस्तः वृकः = वृकतिः । यथा - ऋग्वेदे 4.41.4 - यो नो॑ दु॒रेवो॑ वृ॒कति॑र्द॒भीति॒स्तस्मि॑न्मिमाथाम॒भिभू॒त्योज॑: ।\n2. प्रशस्तः ज्येष्ठः = ज्येष्ठतातिः । यथा - ऋग्वेदे 5.41.1 - तं प्र॒त्नथा॑ पू॒र्वथा॑ वि॒श्वथे॒मथा॑ ज्ये॒ष्ठता॑तिं बर्हि॒षदं॑ स्व॒र्विद॑म् ।" }, "54042": { "sa": "'बहु' तथा 'अल्प' एतयोः अर्थयोः प्रयुक्तात् शब्दात् कारकस्य विषये विकल्पेन शस्-प्रत्ययः भवति ।", "sd": "'बहु' इत्यस्मिन् अर्थे तथा च 'अल्प' इत्यस्मिन् अर्थे प्रयुक्ताः शब्दाः यदि कारकरूपेण (यथा - कर्मकारकम् / करणकारकम् / सम्प्रदानकारकम् / अपादानकारकम् / अधिकरणकारकम् - एतेषु कस्मिंश्चित् सन्दर्भे) प्रयुज्यन्ते, तदा तेभ्यः स्वार्थे विकल्पेन शस्-प्रत्ययः भवति ।\nकानिचन उदाहरणानि पश्यामश्चेत् सूत्रार्थः स्पष्टः स्यात् -\n1.'बहून् पश्यति' - अस्मिन् वाक्ये 'बहु' शब्दः कर्मकारकरूपेण प्रयुक्तः अस्ति । अतः अत्र 'बहु' शब्दात् स्वार्थे विकल्पेन शस्-प्रत्ययः भवति । बहु + शस् → बहुशः । यथा - बहुशः पश्यति । 'बहून् पश्यति' इत्येव अस्य अर्थः ।\n2. 'भूरिभ्यः स्वीकरोति' - अत्र अपादाननरूपेण 'भूरि' (many) शब्दः प्रयुज्यते । अतः अत्रापि स्वार्थे शस्-प्रत्ययः भवति । भूरिभ्यः स्वीकरोति' इत्येव = भूरिशः स्वीकरोति ।\n3. 'अल्पेभ्यः ददाति' - अस्मिन् वाक्ये 'अल्प' शब्दः सम्प्रदानरूपेण प्रयुक्तः अस्ति । अतः अत्र 'अल्प' शब्दात् स्वार्थे विकल्पेन शस्-प्रत्ययः भवति । अल्प + शस् → अल्पशः । यथा - अल्पशः ददाति । 'अल्पेभ्यः ददाति' इत्येव अर्थः ।\n4. 'स्तोके विद्यते' - अस्मिन् वाक्ये 'स्तोक' (little) शब्दः अधिकरणरूपेण प्रयुक्तः अस्ति । अतः अत्रापि स्वार्थे शस्-प्रत्ययः भवति । 'स्तोके विद्यते' इत्येव = स्तोकशः विद्यते ।\nसूत्रे 'अन्यतरस्याम्' इति उच्यते, अतः प्रत्ययं विना अपि प्रयोगः भवितुमर्हति ।\nअत्र एकम् वार्त्तिकम् ज्ञातव्यम् - । इत्युक्ते, 'बहुशः' इति शब्दः 'माङ्गल्यार्थे', तथा 'अल्पशः' इति शब्दः 'अमाङ्गल्यार्थे' एव प्रयोक्तव्यः । यथा - 'यज्ञार्थम् बहुशः धनम् ददाति', (= माङ्गल्यार्थे प्रयोगः) । 'चौरेभ्यः अल्पशः धनम् ददाति' (= अमाङ्गल्यार्थे / अनिष्टार्थे प्रयोगः) । 'बहुशः' शब्दस्य प्रयोगः अमाङ्गल्यार्थे नैव क्रियते । तथैव, 'अल्पशः' शब्दस्य प्रयोगः माङ्गल्यार्थे न भवति ।\nज्ञातव्यम् -\n1. अस्मिन् सूत्रे 'कारकात्' इति उच्यते । अतः 'बहूनाम् स्वामी', 'अल्पस्य ग्रहणम्' एतादृशेषु वाक्येषु शस्-प्रत्ययः न भवति, यतः अत्र 'बहु' तथा 'अल्प' एतौ शब्दौ सम्बन्धरूपेण प्रयुज्येते, न हि कारकरूपेण ।\n2. वस्तुतः तु इदम् सूत्रम् <<समर्थानां प्रथमात् वा>> [[4.1.82]] इत्यत्र निर्दिष्टायां महाविभाषायाम् विधीयते । इत्युक्ते, अत्र महाविभाषया एव विभाषाग्रहणं भवति । एवं सत्यपि सूत्रे 'अन्यतरस्याम्' इति स्वीक्रियते । एतत् अस्य ज्ञापकम् यत् पूर्वस्मिन् सूत्रे विकल्पः नैव विधीयते । इत्युक्ते, <<सस्नौ प्रशंसायाम्>> [[5.4.40]] इत्यनेन सूत्रेण उक्तौ प्रत्ययौ नित्यौ भवतः, न हि विकल्पेन - इति ज्ञापयितुमस्मिन् सूत्रे 'अन्यतरस्याम्' इति निर्दिष्टमस्ति ।\n3. वर्तमानसूत्रेण उक्तः 'शस्' प्रत्ययः तद्धितप्रत्ययः अस्ति । द्वितीयाबहुवचनस्य 'शस्' इति सुप्-प्रत्ययः तु सर्वथा भिन्नः अस्तीति स्मर्तव्यम् । वर्तमानसूत्रेण विहितस्य 'शस्' प्रत्ययस्य विषये शकारस्य इत्संज्ञा न भवति । विभक्तिसंज्ञकस्य शस्-प्रत्ययस्य विषये यानि कार्याणि भवन्ति (यथा - <<जश्शसोः शिः>> [[7.1.20]] इत्यादीनि) , तानि अत्र न कर्तव्यानि ।\n4. शस्-प्रत्यये सकारस्य अपि प्रयोजनाभावात् इत्संज्ञा न भवति ।\n4. अनेन सूत्रेण निर्मिताः शस्-प्रत्ययान्तशब्दाः <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यनेन अव्ययसंज्ञकाः भवन्ति ।\n " }, "54043": { "sa": "सङ्ख्यावाचिशब्दः उत एकार्थवाचिशब्दः (= परिमाणवाचिशब्दः) यत्र पौनःपुन्यस्य निर्देशार्थम् कारकरूपेण प्रयुज्यते, तत्र तस्मात् स्वार्थे विकल्पेन शस्-प्रत्ययः भवति । ", "sd": "यत्र कश्चन सङ्ख्यावाची शब्दः (यथा - द्वौ, त्रि, चतुर् - आदयः) उत परिमाणवाची शब्दः (यथा - काषार्पणम्, पादम् - आदयः) वाक्ये कारकरूपेण तथा च वीप्साम् (repetition / पौनःपुन्यम्) दर्शयितुम् प्रयुज्यते तत्र तस्मात् स्वार्थे शस्-प्रत्ययः भवति ।\nकानिचन उदाहरणानि पश्यामश्चेत् स्पष्टं स्यात् -\n[अ] सङ्ख्यावाचकाः शब्दाः -\n1. 'द्वौ द्वौ गृह्णाति' - अस्मिन् वाक्ये 'द्वौ' इति शब्दः वीप्सायाम् प्रयुक्तः अस्ति (Takes two repeatedly - इति आशयः) । तथा च, अयम् शब्दः अत्र कर्मकारकरूपेण प्रयुक्तः अस्ति । अस्यां स्थितौ वर्तमानसूत्रेण 'द्वि' शब्दात् 'शस्' इति प्रत्ययं कृत्वा 'द्विशः ददाति' इत्यपि प्रयोगः भवितुमर्हति । 'द्वौ द्वौ ददाति' इत्येव = द्विशः ददाति ।\n2. 'पञ्चभ्यः पञ्चभ्यः स्वीकरोति' (Accepts from five people again and again) - अत्रापि 'पञ्चन्' शब्दः वीप्सायाम् तथा अपादानकारके प्रयुक्तः अस्ति । अतः अत्र शस्-प्रत्ययं प्रयुज्य 'पञ्चशः स्वीकरोति' इति अपि प्रयोगः भवति । 'पञ्चभिः पञ्चभिः स्वीकरोति' इत्येव = पञ्चशः स्वीकरोति ।\n[आ] एकार्थवाचकाः शब्दाः (= परिमाणवाचकाः शब्दाः)\n1. 'कार्षापणम् कार्षापणम् ददाति' (gives one-one coin) - अत्र 'कार्षापण' (a gold coin) इति परिमाणवाची शब्दः वीप्सायाम् तथा च कर्मकारके प्रयुक्तः अस्ति । अतः अत्र वर्तमानसूत्रेण शस्-प्रत्ययः विधीयते- 'कार्षापणम् कार्षापणम् ददाति' इत्येव = कार्षापणशः ददाति ।\n2. 'पादे पादे लिखति' (writes on one one quarter) - अत्रापि पाद (a coin of quarter value) इति परिमाणवाची शब्दः वीप्सायाम्, तथा स अधिकरणे प्रयुक्तः अस्ति । अतः अत्र स्वार्थे शस्-प्रत्ययः भवितुमर्हति । 'पादे पादे लिखति' इत्येव = पादशः लिखति ।\nयदि वीप्सा नास्ति (if there is no repetition), अथवा यदि कारकम् नास्ति, तर्हि वर्तमानसूत्रस्य प्रयोगः न भवतीति स्मर्तव्यम् । यथा -\n1. 'पञ्चभ्यः स्वीकरोति' - अत्र वीप्सा न विद्यते । अतः अत्र शस्-प्रत्ययः न भवति ।\n2. 'पञ्चानाम् पञ्चानाम् पठनम्' - अत्र कारकम् न विद्यते, केवलम् सम्बन्धः विधीयते । अतः अत्रापि शस्-प्रत्ययः न भवति ।\n3. 'काषार्पणम् ददाति - अत्र वीप्सा न विद्यते । अतः अत्र शस्-प्रत्ययः न भवति ।\n4. पादस्य पादस्य च गणना - अत्र कारकम् न विद्यते, केवलम् सम्बन्धः विधीयते । अतः अत्रापि शस्-प्रत्ययः न भवति ।\nविशेषः -\n1. अस्मिन् सूत्रे 'एकवचनात्' इति निर्दिश्यते । अयम् शब्दः अत्र व्यावहारिके अर्थे (= singular अस्मिन् अर्थे) नैव प्रयुक्तः अस्ति, अपितु 'एकोऽर्थ उच्यते येन' इत्यस्मिन् अर्थे प्रयुक्तः अस्ति । किम् नाम एकार्थः ? यदि कस्यचन वस्तुनः द्वौ उत अधिकाः आवृत्तयः भिन्नाः सत्यः अपि समानमेव अर्थम् वदन्ति, तर्हि तत्र 'एकार्थः' अस्तीति उच्यते ; तादृशस्य च वस्तुनः अत्र ग्रहणम् कृतमस्ति । When two or more copies of an object are always treated equivalent irrespective of their shape, size etc, we refer to it as एकार्थ. It is this meaning that is imparted here by the word एकवचन. For example, two gold coins of 1 unit are always considered equivalent, even if they differ a little in shape, size, polishing etc. Hence, a gold coin is considered एकार्थ in this context. In brief, एकार्थ is said to exist when multiple copies of an object are treated equivalent to each other for all practical purposes. In general, all परिमाणवाची words fall in this category, and that is why the सूत्रार्थ has mentioned 'एकवचन' as equivalent to 'परिमाणवाचिशब्दाः' ।\n2. यदि 'एकार्थः' न विद्यते, तर्हि वर्तमानसूत्रस्य प्रयोगः न भवति । यथा - 'घटं घटं मिमेति' - अत्र यद्यपि वीप्सा तथा कारकत्वम् - द्वावपि विद्येते, तथाप्यत्र एकार्थः न प्रतीयते । Two pots are not considered equivalent in a general usage, because people can choose one amongst the two using certain distinguishing characteristics. । अतः अत्र वर्तमानसूत्रेण प्रत्ययविधानम् नैव भवति ।\n3. शस्-प्रत्यये सकारस्य प्रयोजनाभावात् इत्संज्ञा न भवति ।\n4. अनेन सूत्रेण निर्मिताः शस्-प्रत्ययान्तशब्दाः <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यनेन अव्ययसंज्ञकाः भवन्ति ।\n5. क्रमशः, भागशः, गणशः - आदयः प्रसिद्धाः शब्दाः अनेनैव सूत्रेण सिद्ध्यन्ति । " }, "54044": { "sa": "'प्रति' इत्यस्य योगे प्रयुक्तात् पञ्चम्यन्तशब्दात् स्वार्थे 'तसि' प्रत्ययः भवति । ", "sd": "'प्रति' इत्यस्य योगे प्रयुक्तः यः पञ्चम्यन्तशब्दः, तस्मात् स्वार्थे 'तसि' प्रत्ययः भवति । 'तसि' प्रत्यये इकारः उच्चारणार्थः अस्ति । सकारस्य <<हलन्त्यम्>> [[1.3.3]] इत्यनेन इत्संजा मा भूत्, इति ज्ञापयितुम् स्थापितः अस्ति । प्रक्रियायाः प्रारम्भे अस्य लोपं कृत्वा 'तस्' इति प्रयोगे विधीयते ।\nकिम् नाम 'प्रति' ? वस्तुतः तु अस्य शब्दस्य अनेके अर्थाः सन्ति । परन्तु <<प्रतिः प्रतिनिधिप्रतिदानयोः>> [[1.4.92]] इत्यनेन सूत्रेण 'कर्मप्रवचनीय'संज्ञकः यः 'प्रति'शब्दः दीयते, तस्य ग्रहणमत्र कृतमस्ति । इत्युक्ते, 'मुख्यसदृशः' / 'प्रतिनिधिः' अस्मिन् अर्थे अत्र अस्य शब्दस्य ग्रहणम् भवति । कानिचन उदाहरणानि पश्यामः -\n1. 'अर्जुनः मुख्यः, तत्सदृशः एव अभिमन्युः' (Abhimanyu is just like his father Arjuna in every aspect - इति आशयः) । अस्मिन् सन्दर्भे 'अभिमन्युः अर्जुनात् प्रति' इति प्रयोगः भवति । अत्र 'अर्जुन' इति शब्दः 'प्रति' इत्यस्य योगे प्रयुक्तः अस्ति, तस्य च पञ्चमी विभक्तिः प्रयुज्यते । अस्यां स्थितौ 'अर्जुन' शब्दात् 'तसि' प्रत्ययं कृत्वा 'अभिमन्युः अर्जुनतः प्रति' इति वाक्यम् सिद्ध्यति । अभिमन्युः अर्जुनस्य प्रतिनिधिः इत्यर्थः । प्रक्रिया इयम् -\nअर्जुनात् + तसि\n→ अर्जुनात् + तस् [इकारः उच्चारणार्थः, त्यस्य लोपः]\n→ अर्जुन + ङसिँ + तस् [अलौकिकविग्रहः]\n→ अर्जुन + तस् [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति ङसिँ-प्रत्ययस्य लोपः]\n→ अर्जुनतः [सकारस्य <<ससजुषो रुँः>> [[8.2.66]] इति रुँत्वम् । <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\nएवमेव अन्ये प्रयोगाः अपि ज्ञेयाः -\n2. प्रद्युम्नः वासुदेवतः प्रति ।\n3. भोजः कर्णतः प्रति ।\n4. लवः रामतः प्रति ।\nआदयः\nअत्र एकम् वार्त्तिकम् ज्ञातव्यम् - । इत्युक्ते आद्यादिगणे विद्यमानेभ्यः शब्देभ्यः अपि 'तसि' इति प्रत्ययः विधीयते । यथा - आदौ इत्येव = आदितः । मध्ये इत्येव = मध्यतः । अन्ते इत्येव = अन्ततः । पृष्ठे इत्येव = पृष्ठतः । अग्रे इत्येव = अग्रतः । (सर्वत्र सप्तम्याः अर्थे प्रत्ययः विधीयते) । एवमेव - अर्थेन इत्येव = अर्थतः । स्वरेण इत्येव = स्वरतः । वर्णेन इत्येव = वर्णतः (सर्वत्र तृतीयायाः अर्थे प्रत्ययः विधीयते) । अयम् आद्यादिगणः आकृतिगणः अस्ति, अतः शिष्टप्रयोगमनुसृत्य अन्ये शब्दाः अप्यत्र भवितुमर्हन्ति ।\nविशेषः -\n1. <<प्रतिः प्रतिनिधिप्रतिदानयोः>> [[1.4.92]] इत्यनेन 'प्रतिनिधि' (A copy / representative) तथा 'प्रतिदान' (Giving something in return of taking something) एतयोः अर्थयोः 'प्रति' शब्दः पाठितः अस्ति । एताभ्याम् 'प्रतिनिधि' अस्मिन् अर्थे प्रयुक्तः यः 'प्रति'शब्दः, तस्यैव अत्र ग्रहणं भवति । 'प्रतिदान' इत्यस्मिन् अर्थे प्रयुक्तः यः 'प्रति' शब्दः, तस्य ग्रहणमत्र न भवति ।\n2. 'तसि' प्रत्ययान्तशब्दाः <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यनेन अव्ययसंज्ञकाः भवन्ति ।\n3. <<तसेश्च>> [[5.3.8]] इत्यनेन सर्वादिगणे विद्यमानेभ्यः 'सर्व' इत्यस्मात् आरभ्य 'एक' इति यावत् शब्देभ्यः, 'बहु' शब्दात् तथा च 'किम्' शब्दात् विहितस्य 'तसि' प्रत्ययस्य 'तसिल्' आदेशः भवति ।\n4. एतत् सूत्रम् <<समर्थानां प्रथमात् वा>> [[4.1.82]] अस्मिन् अधिकारे उक्तायाम् महाविभाषायां पाठितमस्ति । अतः अनेन सूत्रेण उक्तः 'तसि' प्रत्ययः विकल्पेनैव भवति । इत्युक्ते, पक्षे 'अभिमन्युः अर्जुनात् प्रति' इत्यपि प्रयोगाः सिद्ध्यन्ति ।\n" }, "54045": { "sa": "अपादानकारकस्य निर्देशार्थम् प्रातिपदिकात् 'तसि' प्रत्ययः भवति । परन्तु 'हा (त्यागे)', तथा 'रुह् (बीजजन्मनि प्रादुर्भावे च)' एतयोः विषये अयम् प्रत्ययः न विधीयते । ", "sd": "अपादानकारकस्य विषये सर्वेभ्यः प्रातिपदिकेभ्यः 'तसि' प्रत्ययः अनेन सूत्रेण विधीयते । 'तसि' इत्यत्र इकारः उच्चारणार्थः अस्ति, सकारस्य इत्संज्ञाबाधनार्थं च स्थापितः अस्ति । प्रक्रियायाः प्रारम्भे एव अस्य लोपं कृत्वा 'तस्' इति प्रयुज्यते ।\nयथा -\n1. ग्रामात् आगच्छति इत्येव = ग्राम + तस् → ग्रामतः आगच्छति । अत्र <<ध्रुवमपायेऽपादानम्>> [[1.4.24]] इत्यनेन अपादानकारकम् विधीयते । प्रक्रिया इयम् -\n प्रक्रिया इयम् -\nग्रामात् + तसि\n→ ग्रामात् + तस् [इकारः उच्चारणार्थः, त्यस्य लोपः]\n→ ग्राम + ङसिँ + तस् [अलौकिकविग्रहः]\n→ ग्राम + तस् [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति ङसिँ-प्रत्ययस्य लोपः]\n→ ग्रामतः [सकारस्य <<ससजुषो रुँः>> [[8.2.66]] इति रुँत्वम् । <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n2. चोरात् बिभेति इत्येव = चोरतः बिभेति । अत्र <<भीत्रार्थानां भयहेतुः>> [[1.4.25]] इत्यनेन अपादानकारकम् भवति ।\n3. अध्ययनात् पराजयते इत्येव = अध्ययनतः पराजयते । अत्र <<पराजेरसोढः>> [[1.4.26]] इत्यनेन अपादानकारकम् प्रयुज्यते ।\n4. यवेभ्यो वारयति इत्येव = यवतः वारयति । अत्र <<वारणार्थानां ईप्सितः>> [[1.4.27]] इत्यनेन अपादानम् क्रियते ।\n5. उपाध्यायात् निलीयते इत्येव = उपाध्यायतः निलीयते । अत्र <<अन्तर्द्धौ येनादर्शनमिच्छति>> [[1.4.28]] इत्यनेन अपादानकारकमनुमन्यते ।\n6. उपाध्यायात् अधीते इत्येव = उपाध्यायतः अधीते । अत्र अपादानार्थम् <<आख्यातोपयोगे>> [[1.4.29]] इति सूत्रम् प्रयुक्तमस्ति ।\n7. गोमयात् जायते इत्येव = गोमयतः जायते । अत्र <<जनिकर्तुः प्रकृतिः>> [[1.4.30]] इत्यनेन अपादानस्य निर्देशः कृतः अस्ति ।\n8. हिमवतः प्रभवति इत्येव = हिमवत्तः प्रभवति । 'हिमवत्' इति प्रातिपदिकम् । अत्र <<भुवः प्रभवः>> [[1.4.31]] इति अपादानम् ।\nआदयः ।\nपरन्तु यत्र 'हा' (त्यागे), उत 'रुह्' (बीजजन्मनि प्रादुर्भावे च) एतयोः धात्वोः कारकरूपेण अपादानकारकस्य प्रयोगः भवति, तत्र वर्तमानसूत्रस्य प्रयोगः न भवति । यथा -\n1. स्वर्गात् जहाति (throws away out of heaven) - इत्यत्र तसि-प्रत्ययः न विधीयते ।\n2. पर्वतात् अवरोहति (climbs down a mountain) - इत्यत्रापि तसि-प्रत्ययः न विधीयते ।\nविशेषः -\n1. धातुपाठे 'हा गतौ' इति अपि कश्चन धातुः पाठ्यते । परन्तु तस्य विषये अयमपवादः न विधीयते । यथा - 'भूम्याः उज्जिहीते इत्येव = भूमितः उज्जिहीते' । अस्य ज्ञापनार्थम् एव सूत्रे 'हीयते' इति कर्मणिप्रयोगे निर्देशः कृतः अस्ति । 'हा गतौ' इत्यस्य कर्मणिप्रयोगे रूपम् 'हायते' इति भवति, न हि 'हीयते' इति । तस्य ग्रहणम् मा भूत् इति ज्ञापयितुमत्र 'हीयते' इति प्रयोगः कृतः अस्ति ।\n2. यद्यपि सूत्रे 'रुह्' इति धातुः गृह्यते, तथापि अस्मात् धातोः अपादानकारकस्य प्रसङ्गः तदा एव भवति यदा 'अव' उपसर्गेण सह अस्य प्रयोगः भवति । यथा - पर्वतात् अवरोहति । अतः उदाहरणे अपि 'अव + रुह्' इत्यस्यैव निर्देशः कृतः अस्ति ।\nस्मर्तव्यम् -\n1. एतत् सूत्रम् <<समर्थानां प्रथमात् वा>> [[4.1.82]] अस्मिन् अधिकारे उक्तायाम् महाविभाषायां पाठितमस्ति । अतः अनेन सूत्रेण उक्तः 'तसि' प्रत्ययः विकल्पेनैव भवति । इत्युक्ते, पक्षे 'वृक्षात् पतति' एतादृशाः प्रयोगाः अपि विधीयन्ते ।\n2. 'तसि' प्रत्ययान्तशब्दाः <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यनेन अव्ययसंज्ञकाः भवन्ति । " }, "54046": { "sa": "'अतिग्रह', 'अव्यथन' तथा 'क्षेप' एतेषु विषयेषु तृतीयान्तशब्दात् स्वार्थे तसि-प्रत्ययः विधीयते । परन्तु यदि कर्ता तृतीयायां विद्यते तर्हि तस्मात् तसि-प्रत्ययः न भवति । ", "sd": "प्रारम्भे सूत्रे प्रयुक्तानाम् शब्दानामर्थम् पश्यामः -\n1. अतिग्रह = अनतिक्रम्य वर्तनम् (behavior without breaking the rules) इत्युक्ते अतिग्रहः । यथा - देवदत्तः चरित्रेण अतिगृह्यते । Devadatta is known by people as the one who will never behave immorally - इत्याशयः ।\n2. अव्यथन = मार्गात् अनिवृत्तिः / अचलनम् (Does not astray away / deviate / fall away from the appropriate path इत्याशयः) । यथा - देवदत्तः वृत्तेन न व्यथते । Devadatta does not deviate from the correct gesture - इत्याशयः ।\n3. क्षेप = निन्दा (insult) इत्याशयः । यथा - देवदत्तः वृत्तेन क्षिप्तः (Devadatta was insulted because of his behavior)।\nएतेषु विषयेषु तृतीतान्तशब्दात् स्वार्थे तसि-प्रत्ययः भवति । यथा -\n1.देवदत्तः चरित्रेण अतिगृह्यते इत्येव = देवदत्तः चरित्रतः अतिगृह्यते । प्रक्रिया इयम् -\nचरित्रेण + तसि\n→ चरित्रेण + तस् [इकारः उच्चारणार्थः, त्यस्य लोपः]\n→ चरित्र + टा + तस् [अलौकिकविग्रहः]\n→ चरित्र + तस् [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति टा-प्रत्ययस्य लोपः]\n→ चरित्रतः [सकारस्य <<ससजुषो रुँः>> [[8.2.66]] इति रुँत्वम् । <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\nएवमेव -\n2. देवदत्तः वृत्तेन न व्यथते इत्येव = देवदत्तः वृत्ततः न व्यथते ।\n3. देवदत्तः वृत्तेन क्षिप्तः इत्येव = देवदत्तः वृत्ततः क्षिप्तः ।\nयत्र कर्तुः तृतीया विभक्तिः विधीयते, तत्र तस्मात् तसि-प्रत्ययः न भवतीति स्पष्टीकर्तुमस्मिन् सूत्रे 'अकर्तरि' इति निर्दिष्टमस्ति । यथा - 'यज्ञदत्तः देवदत्तेन क्षिप्तः' अस्मिन् वाक्ये क्षेपक्रियायाः कर्ता 'देवदत्तः' तृतीयया गृह्यते, अतः अत्र तसि-प्रत्ययः न भवति ।\nज्ञातव्यम् -\n1. एतत् सूत्रम् <<समर्थानां प्रथमात् वा>> [[4.1.82]] अस्मिन् अधिकारे उक्तायाम् महाविभाषायां पाठितमस्ति । अतः अनेन सूत्रेण उक्तः 'तसि' प्रत्ययः विकल्पेनैव भवति । इत्युक्ते, पक्षे ' देवदत्तः चारित्रेण अतिगृह्यते' एतादृशाः प्रयोगाः अपि विधीयन्ते ।\n2. 'तसि' प्रत्ययान्तशब्दाः <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यनेन अव्ययसंज्ञकाः भवन्ति ।\n" }, "54047": { "sa": "'हीयमान' तथा 'पाप' एतयोः योगे विद्यमानः यः तृतीयान्तः शब्दः, तस्मात् स्वार्थे तसि-प्रत्ययः भवति । परन्तु तृतीयान्तशब्दः कर्तुः निर्देशं करोति चेत् अयम् प्रत्ययः न विधीयते । ", "sd": "'हीयमान' (= The one which is left out इत्यर्थः) तथा 'पाप' (= दुष्टः, evil) एतयोः शब्दयोः योगे विद्यमानाः यः तृतीयान्तशब्दः, तस्मात् स्वार्थे तसि-प्रत्ययः विधीयते । क्रमेण पश्यामः-\n1. 'हीयमान' - अयम् शब्दः 'हा (त्यागे)' इत्यस्य धातोः कर्मणि-शानच्-प्रत्ययान्तरूपमस्ति । हीयते तत् हीयमानम् । The one that is left out - इत्याशयः । कञ्चन देवदत्तम् तस्य बान्धवाः सर्वेे चारित्र्यस्य आधारेण त्यजन्तीति चिन्तयामः (Devadatta is left out by his family on the account of conduct इत्याशयः) । अस्यां स्थितो 'बन्धुभिः वृत्तेन (= चरित्रेण) हीयमानः देवदत्तः' इति वाक्यप्रयोगः भवति । अत्र त्यजनस्य हेतुः 'वर्तनम्' अस्ति, अतः <<हेतौ>> [[2.3.23]] इत्यनेन अस्य तृतीया विभक्तिः भवति । अस्मिन वाक्ये 'हीयमानः' अस्य सम्बन्धः 'वृत्तेन' इति तृतीयान्तशब्देन सह विद्यते, अतः अत्र वर्तमानसूत्रेण 'तसि' प्रत्ययं प्रयुज्य 'बन्धुभिः वृत्ततः हीयमानः देवदत्तः' इति रूपम् सिद्ध्यति ।\nएवमेव 'चरित्रेण हीयते देवदत्तः' अत्रापि 'चरित्रतः हीयते देवदत्तः' इति प्रयोगः क्रियते । यद्यपि सूत्रे 'हीयमान' इत्येव उच्यते, तथापि 'हीयते' इत्यस्यैव अर्थः अपि समानः एव, अतः 'हीयते' शब्दस्य विषये अपि अस्य सूत्रस्य प्रयोगः भवति ।\nप्रक्रिया एतादृशी -\nचरित्रेण + तसि\n→ चरित्रेण + तस् [इकारः उच्चारणार्थः, त्यस्य लोपः]\n→ चरित्र + टा + तस् [अलौकिकविग्रहः]\n→ चरित्र + तस् [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति टा-प्रत्ययस्य लोपः]\n→ चरित्रतः [सकारस्य <<ससजुषो रुँः>> [[8.2.66]] इति रुँत्वम् । <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n2. 'पाप' - अयम् शब्दः अत्र 'पापकर्म' अस्मिन् अर्थे न प्रयुज्यते अपितु 'पापम् करोति सः' अस्मिन अर्थे प्रयुक्तः अस्ति । (<<अर्शआदिभ्योऽच्>> [[5.2.127]] इत्यत्र निर्दिष्टे अर्श-आदिगणे अस्य शब्दस्य ग्रहणं कृत्वा 'पापमस्य अस्मिन् अस्ति सः पापः' इति शब्दः सिद्ध्यति) । अस्य शब्दस्य योगे यः तृतीयान्तः शब्दः प्रयुज्यते, तस्माय् वर्तमानसूत्रेण 'तसि' प्रत्ययः भवति । यथा - 'वृत्तेन पापः' (वृत्तेन दुष्टः / evil by character इत्यर्थः) इत्येव = वृत्ततः पापः ।\nयदि तृतीयान्तशब्दः कर्तुः निर्देशं करोति, तर्हि वर्तमानसूत्रस्य प्रयोगः न भवति । यथा - देवदत्तेन हीयते धनम् - अत्र अस्य सूत्रस्य प्रसक्तिः नास्ति ।\nस्मर्तव्यम् -\n1. यदि वाक्येन क्षेपः / निन्दा गम्यते, तर्हि <<अतिग्रहाव्यथनक्षेपेष्वकर्तरि तृतीयायाः>> [[5.4.46]] इत्यनेन पूर्वसूत्रेणैव तसि-प्रत्ययः विधीयते । अतः यत्र 'पाप' / 'हीयमान' इति विषयः अस्ति परन्तु निन्दा न गम्यते, तत्रैव वर्तमानसूत्रस्य प्रयोगः भवति ।\n2. 'तसि'-प्रत्यये सकारोत्तरः इकारः उच्चारणार्थः अस्ति, सकारस्य इत्संज्ञानिषेधार्थम् च स्थापितः अस्ति । प्रक्रियायाः प्रारम्भे एव तस्य लोपः भवति ।\n3. 'तसि'प्रत्ययान्तशब्दाः <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यनेन अव्ययसंज्ञकाः भवन्ति ।\n4. एतत् सूत्रम् <<समर्थानां प्रथमात् वा>> [[4.1.82]] अस्मिन् अधिकारे उक्तायाम् महाविभाषायां पाठितमस्ति । अतः अनेन सूत्रेण उक्तः 'तसि' प्रत्ययः विकल्पेनैव भवति । इत्युक्ते, पक्षे 'वृत्तेन हीयमानः देवदत्तः' एतादृशाः प्रयोगाः अपि विधीयन्ते ।" }, "54048": { "sa": "व्याश्रये गम्यमाने षष्ठ्यन्तात् तसि-प्रत्ययः भवति । ", "sd": "'व्याश्रय' इत्युक्ते 'सङ्घे / पक्षे समावेशः' (Take the side of / join the league of - इति) । व्याश्रये गम्यमाने षष्ठ्यन्तात् 'तसि' इति प्रत्ययः विधीयते । यथा -\n1. 'देवाः अर्जुस्य पक्षे अभवन् (= अर्जुनस्य साहाय्यमकुर्वन् इत्याशयः) इत्यत्र 'अर्जुनस्य' इत्यस्मात् तसि-प्रत्ययं योजयित्वा 'अर्जुनतः' इति शब्दः सिद्ध्यति । प्रक्रिया इयम् -\nअर्जुनस्य + तसि\n→ अर्जुनस्य + तस् [इकारः उच्चारणार्थः, त्यस्य लोपः]\n→ अर्जुन + ङस् + तस् [अलौकिकविग्रहः]\n→ अर्जुन + तस् [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति ङस्-प्रत्ययस्य लोपः]\n→ अर्जुनतः [सकारस्य <<ससजुषो रुँः>> [[8.2.66]] इति रुँत्वम् । <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\nयथा - देवाः अर्जुनतः अभवन् ।'देवाः अर्जुनस्य पक्षे समाविष्टाः अभवन्' इत्येव अस्य अर्थः ।\nएवमेव -\n2. कर्णः दुर्योधनतः अभवन् ।\n3. कृष्णः पाण्डवतः अभवन् ।\nतस्-प्रत्ययेन प्रयुक्तस्य शब्दस्य प्रयोगे 'पक्ष' इति नैव प्रयुज्यते - इति स्मर्तव्यम् ।\nज्ञेयाः -\n1. 'तसि'प्रत्ययान्तशब्दाः <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यनेन अव्ययसंज्ञकाः भवन्ति ।\n2. एतत् सूत्रम् <<समर्थानां प्रथमात् वा>> [[4.1.82]] अस्मिन् अधिकारे उक्तायाम् महाविभाषायां पाठितमस्ति । अतः अनेन सूत्रेण उक्तः 'तसि' प्रत्ययः विकल्पेनैव भवति । इत्युक्ते, पक्षे 'देवाः अर्जुनम् व्याश्रयन्' एतादृशाः प्रयोगाः अपि विधीयन्ते ।\n3. अत्र सूत्रे 'षष्ठ्या' इति उच्यते, अतः विग्रहवाक्ये 'अस्य पक्षे अभवन्' इत्येव निर्देशः क्रियते । 'व्याश्रय' इति शब्दः विग्रहवाक्ये नैव प्रयुज्यते ।\n4. 'तसि'-प्रत्यये सकारोत्तरः इकारः उच्चारणार्थः अस्ति, सकारस्य इत्संज्ञानिषेधार्थम् च स्थापितः अस्ति । प्रक्रियायाः प्रारम्भे एव तस्य लोपः भवति ।\n" }, "54049": { "sa": "षष्ठीविभक्तौ विद्यमानात् रोगवाचकशब्दात् अपनयनस्य सन्दर्भे तसि-प्रत्ययः भवति । ", "sd": "'अपनयन' इत्युक्ते 'उपचारः / चिकित्सा / प्रतिकारः / नाशनम् / दूरीकरणम्' ।षष्ठ्यन्तात् रोगवाचकशब्दात् 'अस्य अपनयनम्' इत्यस्मिन् विषये वर्तमानसूत्रेण तसि-प्रत्ययः भवति । यथा -\n1. प्रवाहिकायाः (\tdiarrhoea) अपनयनम् इत्येव\n= प्रवाहिकायाः + तसि [वर्तमानसूत्रेण तसि-प्रत्ययः]\n→ प्रवाहिकायाः + तस् [इकारः उच्चारणार्थः, तस्य लोपः भवति]\n→ प्रवाहिका + ङस् + तस् [अलौकिकविग्रहः]\n→ प्रवाहिका + तस् [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति ङस्-प्रत्ययस्य लोपः]\n→ प्रवाहिकातः [सकारस्य <<ससजुषो रुँः>> [[8.2.66]] इति रुँत्वम् । <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n'प्रवाहिकातः कुरु' इत्युक्ते 'प्रवाहिकायाः अपनयनम् कुरु' इति । 'प्रवाहिकातः' इति शब्दः 'प्रवाहिकायाः अपनयनम्' इत्येतम् सम्पूर्णमर्थम् दर्शयति । अतः 'प्रवाहिकातः' इति उच्यते चेत् पुनः 'अपनयनम्' इति न वक्तव्यम् ।\nएवमेव -\n2. कासस्य (diarrhoea इत्येव) अपनयनम् = कासतः ।\n3. छर्दिकायाः (vomiting) अपनयनम् = छर्दिकातः ।\nएतादृशाः शब्दाः सिद्ध्यन्ति ।\nज्ञातव्यम् -\n1. 'तसि'प्रत्ययान्तशब्दाः <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यनेन अव्ययसंज्ञकाः भवन्ति ।\n2. एतत् सूत्रम् <<समर्थानां प्रथमात् वा>> [[4.1.82]] अस्मिन् अधिकारे उक्तायाम् महाविभाषायां पाठितमस्ति । अतः अनेन सूत्रेण उक्तः 'तसि' प्रत्ययः विकल्पेनैव भवति । इत्युक्ते, पक्षे 'प्रवाहिकायाः अपनयनम्' एतादृशाः प्रयोगाः अपि विधीयन्ते ।\n3. 'तसि'-प्रत्यये सकारोत्तरः इकारः उच्चारणार्थः अस्ति, सकारस्य इत्संज्ञानिषेधार्थम् च स्थापितः अस्ति । प्रक्रियायाः प्रारम्भे एव तस्य लोपः भवति ।\n" }, "54050": { "sa": "अभूतपूर्वस्य विकारस्य सम्पादनम् क्रियते चेत् विकारवाचिशब्दात् 'कृ' 'भू' तथा 'अस्' एतेषाम् योगे स्वार्थे 'च्वि' इति प्रत्ययः भवति । ", "sd": "अस्य सूत्रस्य अर्थम् सम्यग् अवगन्तुम् प्रारम्भे सूत्रे विद्यमानानाम् शब्दानामर्थाः ज्ञेयाः । परन्तु तस्मादपि पूर्वम् एकमुदाहरणम् स्वीकुर्मः , येन सूत्रज्ञानम् सुलभं स्यात् ।\nकश्चन देवदत्तः अस्तीति चिन्तयामः । अस्य देवदत्तस्य समीपे मृत्तिकायाः कश्चन घटः विद्यते । वस्तुतः अयम् घटः मृत्तिकायाः वर्णस्यैव अस्ति (The pot is of mud-color originally ), परन्तु देवदत्तः अस्य घटस्य शुक्लवर्णेन रञ्जनम् (coloring) कृत्वा तस्य वर्णपरिवर्तनम् करोति । Devadatta paints this pot and gives it a white color. ।\nअस्य प्रसङ्गस्य विषये वर्तमानसूत्रस्य सन्दर्भे बिन्दुद्वयम् विशेषरूपेण वक्तुं शक्यते -\n[अ] घटः मूलरूपेण शुक्लवर्णस्य नास्ति । इत्युक्ते घटस्य 'प्रकृतिः' (original form) 'शुक्ल' इति नास्ति, परन्तु कारणवशात् सः शुक्लः भवति । अतः 'अशुक्ल' इति घटस्य मूलप्रकृतिः, 'शुक्ल' इति च तस्य विकारः (transformation) । अशुक्लः घटः शुक्लः सम्पद्यते (attains / happens / becomes) - इत्याशयः । एतादृशस्य परिवर्तनस्य निर्देशः यत्र क्रियते, तत्रैव वर्तमानसूत्रस्य प्रयोगः भवति - एतत् ज्ञापयितुमस्मिन् सूत्रे 'अभूततद्भाव' इति शब्दः गृह्यते । शुक्लवर्णस्य भावः (= तद्भावः) घटे अभूतः (प्रारम्भतः नास्ति ) इति आशयः ।\n[आ] देवदत्तस्य रञ्जनकृत्या अशुक्लः घटः शुक्लः भवति । अत्र परिवर्तनक्रियायाः ('सम्पद्यते' इत्यस्य) कर्ता अस्ति घटः (घटः सम्पद्यते) । अस्य कारणभूतः विकारः अस्ति 'शुक्लः' (घटः शुक्लः सम्पद्यते) । अस्मात् विकारवाचिनः 'शुक्ल'शब्दात् वर्तमानसूत्रेण प्रत्ययः विधीयते - एतत् दर्शयितुमस्मिन् सूत्रे 'सम्पद्यकर्तरि' इति शब्दः स्थापितः अस्ति । कर्तरि (= घटे) यः विकारः (= शुक्लः) सम्पद्यते, तस्मात् विकारवाचिशब्दात् प्रत्ययः भवति, इति आशयः ।\nअन्यौ अपि द्वौ बिन्दू अस्य सूत्रस्य विषये ज्ञातव्यौ -\n[इ] अस्मिन् सूत्रे ' कृ-भू-अस्ति-योगे' इति उच्यते । इत्युक्ते, अस्य सूत्रस्य प्रयोगः तदा एव भवति यदा विकारस्य निर्देशः 'कृ', 'भू' उत 'अस्' एतैः धातुभिः क्रियते ।\n[ई] अनेन सूत्रेण 'च्वि' इति प्रत्ययः पाठ्यते । अस्मिन् प्रत्यये चकारस्य इत्संज्ञा, लोपः च भवति । वकारोत्तरः इकारः उच्चारणार्थः अस्ति, तस्यापि लोपः भवति । केवलम् 'व्' इति अवशिष्यते, यस्य <<अपृक्तः एकाल् प्रत्ययः>> [[1.2.41]] इत्यनेन 'अपृक्त' इति संज्ञा भवति ।अस्य अपृक्त-वकारस्य <<वेरपृक्तस्य>> [[6.1.67]] इत्यनेन प्रक्रियायाम् लोपः भवति ।\nअस्य सर्वस्य कः आशयः ? एतानि त्रीणि वाक्यानि पश्यामः -\n[1] अशुक्लः शुक्लः सम्पद्यते, देवदत्तः तम् करोति ।\n[2] अशुक्लः घटः शुक्लः सम्पद्यते / सम्पद्यमानः भवति ।\n[3] अशुक्लः घटः शुक्लः सम्पद्येत् / सम्पद्यमानः स्यात् ।\nएतेषु त्रिषु अपि वाक्येषु - [अ] अभूततद्भाव , [आ] सम्पद्यकर्ता , तथा [इ] कृ-भू-अस्ति-योगः - एते त्रयः अपि विषयाः उपस्थिताः सन्ति । अतः सर्वत्र 'शुक्ल' शब्दात् स्वार्थे 'च्वि' इति प्रत्ययः विधीयते । प्रक्रिया इयम् -\nशुक्ल + च्वि\n→ शुक्ल + व् [ चकारस्य <<चुटू>> [[1.3.7]] इति इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः । इकारः उच्चारणार्थः, तस्यापि लोपः ]\n→ शुक्ली + व् [<<अस्य च्वौ>> [[7.4.32]] इति अकारस्य ईकारादेशः]\n→ शुक्ली + व् [<<च्वौ च>> [[7.4.26]] इति अङ्गस्य दीर्घः]\n→ शुक्ली + X [<<वेरपृक्तस्य>> [[6.1.67]] इति अपृक्तवकारस्य लोपः]\n→ शुक्ली\nअतः उपरिनिर्दिष्टानि त्रीणि अपि वाक्यानि एतादृशम् लेखितुम् शक्यन्ते -\n[1] देवदत्तः अशुक्लं घटं शुक्ली करोति ।\n[2] अशुक्लः घटः शुक्ली भवति ।\n[3] अशुक्लः घटः शुक्ली स्यात् ।\nइदानीमस्य सूत्रस्य अर्थः स्पष्टः स्यात् -\n[अ] अभूतपूर्वस्य विकारस्य = 'शुक्ल' इति विकारस्य\n[आ] सम्पादनम् क्रियते चेत् = 'घट' इत्यनेन शुक्लत्वम् लभ्यते चेत्\n[इ] विकारवाचिशब्दात् = 'शुक्ल' शब्दात्\n[ई] 'कृ' 'भू' तथा 'अस्' एतेषाम् योगे = 'शुक्लः सम्पद्यते, तम् करोति' / 'शुक्लः सम्पाद्यमानः भवति' / 'शुक्लः सम्पाद्यमानः स्यात्' एतादृशेषु वाक्येषु\n[उ] स्वार्थे = 'शुक्ल' इत्यस्मिन्नेव अर्थे\n[उ] 'च्वि' इति प्रत्ययः भवति = 'च्वि' प्रत्ययः विधीयते ।\nअत्र कश्चन विशेषः स्मर्तव्यः । अस्य सूत्रस्य विषये विग्रहवाक्येषु नित्यम् 'सम्पद्यते / सम्पाद्यमान' एतयोः शब्दयोः प्रयोगः भवति । यथा -\n1. अशुक्लः घटः शुक्लः सम्पद्यते, तम् करोति = अशुक्लं घटं शुक्ली करोति ।\n2. अशुक्लः घटः शुक्लः सम्पद्यमानः भवति = अशुक्लः घटः शुक्ली भवति ।\n3. अशुक्लः घटः शुक्लः सम्पद्यमानः स्यात् = अशुक्लः घटः शुक्ली स्यात् ।\nअत्र सर्वत्र 'शुक्ली' तथा 'करोति / भवति / स्यात्' एते द्वे भिन्ने पदे स्तः इति स्मर्तव्यम् । अत्र सुबन्त-तिङन्तयोर्मध्ये समासः न क्रियते । बहुत्र केवलमुच्चारणसौकर्यार्थम् 'शुक्लीकरोति / शुक्लीभवति / शुक्लीस्यात्' इति एकत्ररूपेण लिखितं दृश्यते । परन्तु तत् केवलम् सौकर्यार्थमस्ति, तत्र समासः न विद्यते एतत् ज्ञेयम् ।\nअन्यत् एकमुदाहरणम् पश्यामः । कश्चन कुम्भकारः मृत्तिकातः कुम्भस्य निर्माणं करोतीति चिन्तयामः । अत्र 'कुम्भः' इति विकारः । मृत्तिकायाम् मूलरूपेण कुम्भत्वम् नास्ति, तत् कुम्भकारेण तत्र आरोप्यते । अतः 'कुम्भकारः कुम्भाभिन्नां मृत्तिकाम् कुम्भम् करोति' इति अस्य वर्णनम् दीयते । अत्र परिवर्तनस्य कर्ता अस्ति 'मृत्तिका' इति । मृत्तिकायाम् यः विकारः (कुम्भः) सम्पद्यते, तस्मात् कृ-भू-अस्-धातूनां योगे च्वि-प्रत्ययः विधीयते । यथा -\n[अ] अकुम्भः कुम्भः सम्पद्यते, तं करोति = कुम्भी करोति ।\n[आ] अकुम्भः कुम्भः सम्पद्यमानः भवति = कुम्भी भवति ।\n[इ] अकुम्भः कुम्भः सम्पद्यमानः स्यात् = कुम्भी स्यात् ।\nअन्यानि कानिचन उदाहरणानि संक्षेपेण अधः दीयन्ते -\n1.अस्पष्टः स्पष्टः सम्पद्यते, तं करोति = स्पष्टी करोति । एवमेव - स्पष्टी भवति, स्पष्टी स्यात् ।\n2. अदूरम् दूरम् सम्पद्यते, तं करोति = दूरी करोति । एवमेव = दूरी भवति, दूरी स्यात् ।\n3. अकृष्णः कृष्णः सम्पद्यते, तं करोति = कृष्णी करोति । एवमेव - कृष्णी भवति, कृष्णी स्यात् ।\n4. अखट्वा खट्वा सम्पद्यते, तां करोति = खट्वी करोति । एवमेव - खट्वी भवति, खट्वी स्यात् । अत्रापि <<अस्य च्वौ>>[[7.4.32]] तथा <<च्वौ च>> [[7.4.26]] उभयोः प्रसक्तिः अस्ति ।\nकानिचन विशिष्टानि उदाहरणानि प्रक्रियया सह अधः दीयन्ते -\n1.अपटुः पटुः सम्पद्यते तं करोति = पटू करोति । एवमेव - पटू भवति, पटू स्यात् । प्रक्रिया इयम् -\nपटु + च्वि\n→ पटु + व् [ चकारस्य <<चुटू>> [[1.3.7]] इति इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः । अकारः उच्चारणार्थः, तस्यापि लोपः ]\n→ पटू + व् [<<च्वौ च>> [[7.4.26]] इति अङ्गस्य दीर्घः]\n→ पटू + X [<<वेरपृक्तस्य>> [[6.1.67]] इति अपृक्तवकारस्य लोपः]\n→ पटू\nयथा - पटूकरोति ।\n2. असुखी सुखी सम्पद्यते, तं करोति = सुखी करोति । एवमेव - सुखी भवति, सुखी स्यात् । प्रक्रिया इयम् -\nसुखिन् + च्वि\n→ सुखिन् + व् [ चकारस्य <<चुटू>> [[1.3.7]] इति इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः । अकारः उच्चारणार्थः, तस्यापि लोपः ]\n→ सुखिन् [<<वेरपृक्तस्य>> [[6.1.67]] इति अपृक्तवकारस्य लोपः]\n→ सुखि [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः\n→ सुखी [<<च्वौ च>> [[7.4.26]] इति अङ्गस्य दीर्घः । <<नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति>> [[8.2.2]] इत्यनेन नलोपः केवलम् सुब्विधौ, स्वरविधौ, संज्ञाविधौ तथा च तुग्विधौ असिद्धः अस्ति, नान्यत्र । अतः दीर्घादेशे कर्तव्ये अयम् नलोपः असिद्धः नास्ति ]\nयथा - सुखी करोति । एवमेव - सुखी भवति, सुखी स्यात् ।\n3. अगार्ग्यः गार्ग्यः सम्पद्यते, तं करोति = गार्गी करोति । एवमेव - गार्गी भवति, गार्गी स्यात् । प्रक्रिया इयम् -\nगार्ग्य + च्वि\n→ गार्ग्य + व् [ चकारस्य <<चुटू>> [[1.3.7]] इति इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ गार्ग्यी+ व् [<<अस्य च्वौ>> [[7.4.32]] इति अकारस्य ईकारादेशः]\n→ गार्गी + व् [<<क्यच्व्योश्च>> [[6.4.152]] इति यकारस्य लोपः]\n→ गार्गी + X [<<वेरपृक्तस्य>> [[6.1.67]] इति अपृक्तवकारस्य लोपः]\n→ गार्गी\nयथा - गार्गी करोति ।\n4. अदोषा दोषा सम्पद्यते, तं करोति । ('दोषा' इति किञ्चन अव्ययम्, 'रात्रिः' इति तस्य अर्थः । यत्र कृष्णमेघाः (अथवा सूर्यग्रहणं) दिने अपि रात्रिवत् अन्धःकारम् कारयन्ति, तत्र अस्य वाक्यस्य प्रयोगः भवति) । अत्र च्वि-प्रत्यये परे इयम् प्रक्रिया भवति -\n दोषा + च्वि\n→ दोषा + व् [ चकारस्य <<चुटू>> [[1.3.7]] इति इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः । अकारः उच्चारणार्थः, तस्यापि लोपः ]\n→ दोषा + व् [<<अस्य च्वौ>> [[7.4.32]] इति अकारस्य ईकारादेशे प्राप्ते इत्यनेन वार्त्तिकेन ईत्वम् निषिध्यते । अतः केवलं <<च्वौ च>> [[7.4.26]] इति अङ्गस्य दीर्घादेशः विधीयते । ]\n→ दोषा + X [<<वेरपृक्तस्य>> [[6.1.67]] इति अपृक्तवकारस्य लोपः]\n→ दोषा\nयथा - कृष्णमेघः अदोषा दिनम् दोषा कुर्वन्ति । एवमेव - दोषा भवति, दोषा स्यात् ।\nअस्य सूत्रस्य विषये केचन मुख्याः बिन्दवः ज्ञेयाः । ते सर्वे अधः क्रमेण स्पष्टीक्रियन्ते -\n1. वस्तुतः कौमुद्याम् इदम् सूत्रम् 'कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः' इत्येव पाठ्यते, तथा च 'अभूततद्भावे' इति तत्र वार्त्तिकरूपेण निर्दिष्टमस्ति । परन्तु काशिकाकारः तु 'अभूततद्भावे इति शब्दमपि सूत्रे एव स्वीकृत्य 'अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः' इत्यनेन प्रकारेण सूत्रम् पाठयति ।\n2. अस्मिन् सूत्रे प्रयुक्तः 'सम्पद्यते' इति शब्दः 'सम् + पद्' इत्यस्य दिवादिगणस्य धातोः कर्तरि-प्रयोगे लट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपमस्ति । 'भवति / परिवर्तते' इति अस्य अर्थः । अस्य शब्दस्य प्रयोगः विग्रहवाक्ये नित्यम् करणीयः । यथा - अशुक्लः शुक्लः सम्पद्यते, तं करोति = शुक्लीकरोति ।\n3. यदि अभूततद्भावः नास्ति तर्हि वर्तमानसूत्रस्य प्रयोगः न भवति । यथा - 'घटः शुक्लः सम्पद्यते, तं करोति' इत्येव उच्यते चेत् 'घटः मूलरूपेण शुक्लः आसीत् वा' इति स्पष्टरूपेण न ज्ञायते । अतः अत्र 'शुक्ल' इति शब्दः 'अभूततद्भावः विकारः' अस्ति वा, इति निश्चयेन न वक्तुं शक्यते । अस्यां स्थितौ वर्तमानसूत्रस्य प्रयोगः न भवति । एवमेव 'यवाः सम्पद्यन्ते' इति उच्यते चेत् 'कस्मात् सम्पद्यन्ते' इति नोच्यते, अतः अत्रापि अस्य सूत्रस्य प्रयोगः न भवति ।\n3. यदि सम्पादनक्रियायाः कर्तुः सम्बन्धेन विद्यमानस्य विकारस्य विषये अभूततद्भावस्य चर्चा न क्रियते अपितु कस्यचन अन्यस्यैव विषयस्य अभूततद्भावस्य चर्चा भवति, तत्र वर्तमानसूत्रम् न विधीयते । The अभूततद्भाव must be related to the transformation (विकार) under the discussion. If not, then current sutra cannot be applied. यथा, 'अदेवालये दृश्यमानम् वर्तनम् देवालये सम्पद्यते' इति वाक्यं स्वीकुर्मः । The conduct that is typically seen outside a temple was also seen inside the temple - इति अस्य वाक्यस्य आशयः । अस्मिन् वाक्ये सम्पादनक्रियायाः विषयः 'वर्तनम्' इति अस्ति, परन्तु अभूततद्भावः तु देवालयस्य विषये विधीयते ।अतः अत्रापि वर्तमानसूत्रस्य प्रयोगः न भवति । In this example, the transformation (विकार) is associated with non-temple being changed to temple, but the अभूततद्भाव is about the behavior (वर्तन). Since the two things are different, hence the current sutra cannot be used in this context.\n4. केवलम् 'कृ', 'भू' तथा 'अस्' एतेषाम् विषये एव अस्य सूत्रस्य प्रसक्तिः अस्ति । अतः 'अशुक्लः शुक्लः सम्पद्यते, तमानयति' उत 'अशुक्लः शुक्लः जायते' एतादृशानां वाक्यानां विषये वर्तमानसूत्रस्य प्रसक्तिः नास्ति ।\n5. <<ऊर्यादिच्विडाचश्च>> [[1.4.61]] अनेन सूत्रेण च्वि-प्रत्ययान्तशब्दानाम् निपातसंज्ञा भवति । अतः अनेन सूत्रेण निर्मिताः सर्वे शब्दाः <<स्वरादिनिपातमव्ययम्>> [[1.1.37]] इत्यनेन अव्ययवाचकाः अपि भवन्ति ।\n6. वर्तमानसूत्रम् <<समर्थानां प्रथमात् वा>> [[4.1.82]] अस्मिन् अधिकारे उक्तायाम् महाविभाषायां पाठितमस्ति । अतः अनेन सूत्रेण उक्तः 'च्वि' प्रत्ययः विकल्पेनैव भवति । इत्युक्ते, पक्षे 'अशुक्लः शुक्लः सम्पद्यते, तं करोति' एतादृशाः प्रयोगाः अपि विधीयन्ते ।\n7. अस्मिन् सूत्रे निर्दिष्टानां धातूनां सर्वेषाम् रूपाणां विषये इदम् सूत्रम् विधीयते । यथा -\n[अ] भिन्नाः लकाराः / पुरुषाः / वचनानि - शुक्लीकुर्वन्ति, शुक्ल्यकरोत्, शुक्लीबभूव, शुक्लीस्युः ।\n[आ] कर्मणिप्रयोगे - शुक्लीक्रियते, शुक्लीभूयते ।\n[इ] णिजन्ताः - शुक्लीकारयति, शुक्लीभावयति ।\n[ई] सन्नताः - शुक्लीचिकीर्षति, शुक्लीबोभूयते\n8. धातूनाम् कृत्-प्रत्ययान्तरूपाणां विषये अपि अस्य सूत्रस्य प्रसक्तिः अस्ति । परन्तु तत्र द्वौ विशेषौ ज्ञेयौ -\n[8.1] <<ऊर्यादिच्विडाचश्च>> [[1.4.61]] अनेन सूत्रेण च्वि-प्रत्ययान्तशब्दानाम् 'गति' संज्ञा अपि भवति, अतः कृत्-प्रत्ययान्तशब्दे परे द्वयोः <<कुगतिप्रादयः>> [[2.2.18]] इत्यनेन नित्यम् तत्पुरुषसमासः भवति । यथा - , 'शुक्लीकारकः', 'शुक्लीभूतः', 'शुक्लीसन्', आदयः । अत्र समस्तपदम् विद्यते, अतः अत्र 'शुक्ली कारकः' इति पदद्वयम् नैव लेखनीयम् ।\n[8.2] 'क्त्वा' प्रत्ययान्तशब्दस्य विषये गतिसंज्ञकस्य उपस्थितौ <<समासेऽनञ्पूर्वे क्त्वो ल्यप्>> [[7.1.37]] इत्यनेन ल्यप्-आदेशः कृतः दृश्यते । यथा - 'शुक्लः सम्पद्यते, तं कृत्वा = शुक्लीकृत्य' । अत्रापि <<कुगतिप्रादयः>> [[2.2.18]] इत्यनेन नित्यम् तत्पुरुषसमासः भवति ।\n9. 'शुक्ली करोति', 'शुक्ली भवति', 'शुक्ली स्यात्' एतादृशेषु वाक्येषु पदद्वयमस्तीति स्मर्तव्यम् । अत्र सुबन्त-तिङन्तयोर्मध्ये समासः नैव भवितुमर्हति । अतः यद्यपि लेखनसौकर्यार्थम् 'शुक्लीकरोति' इति एकः शब्दः लिख्यते, तथापि वस्तुतः अत्र पदद्वयमस्ति इत्येव समीचीनम् ।\n10. अनेन सूत्रेण निर्मिताः च्वि-प्रत्ययान्तशब्दाः <<ते प्राग्धातोः>> [[1.4.80]] इत्यनेन नित्यम् धातोः पूर्वम् एव विधीयन्ते । अतः 'शुक्ली करोति' इत्येव वक्तव्यम्, न हि 'करोति शुक्ली' इति ।\n11. सर्वेषु व्याख्यानेषु 'अस्' धातोः विषये केवलम् विधिलिङ्लकारस्यैव रूपाणि उदाहरणरूपेण दीयन्ते । अस्य कारणम् किमपि व्याख्यानेषु न दीयते । प्रायः शिष्टप्रयोगाः तादृशाः न लभन्ते, इत्येव अस्य समाधानम् ।\n " }, "54051": { "sa": "'अरुस्', 'मनस्', 'चक्षुष्', 'चेतस्', 'रहस्' तथा 'रजस्' एतेभ्यः शब्देभ्यः अभूतपूर्वस्य सम्पादने गम्यमाने 'कृ' 'भू' तथा 'अस्' एतेषाम् योगे स्वार्थे 'च्वि' इति प्रत्यये परे अन्तिमवर्णस्य लोपः भवति ।", "sd": "<<अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः>> [[5.4.50]] इत्यनेन सूत्रेण 'च्वि' इति प्रत्ययः पाठ्यते । अभूतपूर्वस्य विकारस्य सम्पादने 'कृ' 'भू' तथा 'अस्' एतेषाम् योगे अयम् प्रत्ययः विकारवाचिशब्दात् विधीयते । (अस्य विषयस्य विस्तारः <<अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः>> [[5.4.50]] इत्यत्रैव द्रष्टव्यः) । अस्मिन्नेव च्वि-प्रत्यये परे 'अरुस्', 'मनस्', 'चक्षुष्', 'चेतस्', 'रहस्' तथा 'रजस्' एतेषां शब्दानामन्तिमवर्णस्य लोपम् कारयितुम् वर्तमानसूत्रम् रचितमस्ति ।\nउदाहरणानि एतानि -\n1. अरुस् (wounded, painful, sore)\nन अरुः तद् अनरुः । अनरुः अरुः सम्पद्यते, तं करोति इत्येव = अरूकरोति । एवमेव - अरूभवति, अरूस्यात् ।\nप्रक्रिया इयम् -\nअरुस् + च्वि [पूर्वसूत्रेण च्वि-प्रत्ययः]\n→ अरुस् + व् [चकारस्य <<चुटू>> [[1.3.7]] इति इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः । इकारः उच्चारणार्थः, तस्यापि लोपः ।]\n→ अरु + व् [वर्तमानसूत्रेण सकारस्य लोपः । एतत् प्राकृतिककार्यमस्ति ।]\n→ अरू + व् [<<च्वौ च>> [[7.4.26]] इति अङ्गस्य दीर्घः]\n→ अरू + X [<<वेरपृक्तस्य>> [[6.1.67]] इति अपृक्तवकारस्य लोपः]\n→ अरू ।\n2. मनस् (mind)\nन उन्मनाः (sad) सः अनुन्मनाः । अनुन्मनाः उन्मनाः सम्पद्यते, तं करोति इत्येव = उन्मनीकरोति । एवमेव - उन्मनीभवति, उन्मनीस्यात् । प्रक्रिया इयम् -\nउन्मनस् + च्वि [पूर्वसूत्रेण च्वि-प्रत्ययः]\n→ उन्मनस् + व् [चकारस्य <<चुटू>> [[1.3.7]] इति इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः । अकारः उच्चारणार्थः, तस्यापि लोपः ।]\n→ उन्मन + व् [वर्तमानसूत्रेण सकारस्य लोपः । एतत् प्राकृतिककार्यमस्ति ।]\n→ उन्मनी + व् [<<अस्य च्वौ>> [[7.4.32]] इति ईकारादेशः]\n→ उन्मनी + व् [<<च्वौ च>> [[7.4.26]] इति अङ्गस्य दीर्घः]\n→ उन्मनी + X [<<वेरपृक्तस्य>> [[6.1.67]] इति अपृक्तवकारस्य लोपः]\n→ उन्मनी ।\nविशेषः - यद्यपि <ऽग्रहणवता प्रातिपदिकेन तदन्तविधेः प्रतिषेधःऽ> अनया परिभाषया प्रत्ययविधौ तदन्तविधिः प्रतिषिध्यते, तथाप्यत्र प्रत्ययविधानम् तु पूर्वसूत्रेणैव कृतमस्ति, तत्र प्रातिपदिकग्रहणम् नैव भवति । प्रातिपदिकग्रहणम् केवलम् वर्तमानसूत्रे लोपविधानार्थम् क्रियते । अतः अत्र तदन्तविधिः भवितुमर्हति । एवमेव अग्रेपि ज्ञातव्यम् ।\n3. चक्षुष् (eye) ।\nअस्य शब्दस्य विषये 'उच्चक्षु' (प्रबुद्धः, woken up) इत्यस्य उदाहरणम् दीयते । न उच्चक्षुः सः अनुच्चक्षुः । अनुच्चक्षुः उच्चक्षुः सम्पद्यते, तं करोति इत्येव = उच्चक्षूकरोति ।एवमेव - उच्चक्षूभवति, उच्चक्षूस्यात् । प्रक्रिया 'अरुस्' शब्दवत् एव भवति ।\n4. चेतस् (alive) ।\nअस्य शब्दस्य विषये 'विचेतस्' ( well-alive ) इत्यस्य उदाहरणम् दीयते । न विचेताः सः अविचेताः । अविचेताः विचेताः सम्पद्यते, तं करोति इत्येव = विचेतीकरोति । एवमेव - विचेतीभवति, विचेतीस्यात् । प्रक्रिया 'मनस्' शब्दवत् एव भवति ।\n5. रहस् (separation) ।\nअस्य शब्दस्य विषये 'विरहस्' (separation) इत्यस्य उदारणम् दीयते । न विरहः सः अविरहः । अविरहः विरहः सम्पद्यते, तं करोति इत्येव = विरहीकरोति । एवमेव - विरहीभवति, विरहीस्यात् । प्रक्रिया 'मनस्' शब्दवत् एव भवति ।\n6. रजस् (dirt) ।\nअस्य शब्दस्य विषये 'विरजस्' (lack of dirt) इत्यस्य उदाहरणम् दीयते । न विरजाः सः अविरजाः । अविरजाः विरजाः सम्पद्यते, तं करोति इत्येव = विरजीकरोति । एवमेव - विरजीभवति, विरजीस्यात् । प्रक्रिया 'मनस्' शब्दवत् एव भवति ।\n" }, "54052": { "sa": "अभूतपूर्वस्य विकारस्य सम्पूर्णरूपेण सम्पादनम् क्रियते चेत् विकारवाचिशब्दात् 'कृ' 'भू' तथा 'अस्' एतेषाम् योगे स्वार्थे विकल्पेन 'साति' प्रत्ययः भवति । ", "sd": "<<अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः>> [[5.4.50]] इत्यनेन सूत्रेण 'च्वि' इति प्रत्ययः पाठ्यते । अभूतपूर्वस्य विकारस्य सम्पादने 'कृ' 'भू' तथा 'अस्' एतेषाम् योगे अयम् प्रत्ययः विकारवाचिशब्दात् विधीयते । (अस्य विषयस्य विस्तारः <<अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः>> [[5.4.50]] इत्यत्रैव द्रष्टव्यः) । यदि अयम् विकारः सम्पूर्णरूपेण (अशेषेण, कार्त्स्न्येन) सम्पद्यते, तर्हि तस्मात् विकारवाचिनः शब्दात् 'च्वि' प्रत्ययस्य अपवादरूपेण विकल्पेन 'साति' इति प्रत्ययः भवति । पक्षे 'च्वि' प्रत्ययः अपि भवति, <<समर्थानां प्रथमाद्वा>> [[4.1.82]] इत्यनया महाविभाषया च प्रत्ययं विना वाक्यप्रयोगः अपि भवितुम् अर्हति ।\nयथा -\n1. अशुक्लः घटः सम्पूर्णरूपेण शुक्लः सम्पद्यते । तत् करोति इत्येव =\nशुक्ल + साति\n→ शुक्ल + सात् [इकारः उच्चारणार्थः, तकारस्य इत्संज्ञाबाधनार्थः च]\n→ शुक्लसात्\n→ शुक्लसाद् [<<झलां जशोऽन्ते>> [[8.2.39]] इति पदान्ततकारस्य जश्त्वे दकारः]\n→ शुक्लसाद्, शुक्लसात् [<<वाऽवसाने>> [[8.4.56]] इति वैकल्पिकम् चर्त्वम्]\nयथा - घटं शुक्लसात् करोति । घटः शुक्लसाद् भवति । घटः शुक्लसात् स्यात् - आदयः ।\nपक्षे 'घटम् शुक्लीकरोति' इति च्वि-प्रत्ययान्तरूपमपि भवितुमर्हति ।\nपक्षे च महाविभाषया 'घटः शुक्लः सम्पद्यते' इति अपि वाक्यप्रयोगः साधु ।\nअन्यानि कानिचन उदाहरणानि -\n2. अनग्निः शस्त्रम् कार्त्स्येन अग्निः सम्पद्यते (The weapon, which was different from fire becomes unanimous with fire इत्याशयः) । तत् करोति इत्येव = अग्निसात् करोति । एवमेव - अग्निसाद्भवति, अग्निसात् स्यात् ।\nविशेषः - अत्र 'शस्त्रमग्निम् समर्पयति / शस्त्रमग्नौ क्षिपति' एतादृशः अर्थः यद्यपि विवक्ष्यते, तथापि वाक्यप्रयोगः तु 'अनग्निः शस्त्रम् कार्त्स्येन अग्निः सम्पद्यते' इत्येव क्रियते । अत्र शस्त्रे 'अग्निः' इति विकारः सम्पूर्णरूपेण स्थाप्यते (The weapon becomes indifferent from the fire)- इति आशयः अस्ति । यदि एतादृशी विवक्षा न विद्यते, यदि केवलम् 'शस्त्रमग्नौ क्षिपति' इत्येव विवक्षा अस्ति तर्हि वर्तमानसूत्रस्य प्रयोगः नैव भवितुमर्हति । (अस्यां स्थितौ <<तदधीनवचने>> [[5.4.54]] इत्यनेन साति-प्रत्ययः अवश्यम् भवति, परन्तु विग्रहवाक्यं भिद्यते) । एवमेव अग्रेऽपि सर्वत्र ज्ञेयम् ।\n3. अनुदकम् लवणमुदकम् सम्पद्यते , तत् करोति इत्येव = उदकसात्करोति । एवमेव - उदकसाद्भवति, उदकसात्स्यात् ।\n4. अभस्मः असुरः भस्म सम्पद्यते, तत् करोति इत्येव भस्मसात्करोति । एवमेव - भस्मसाद्भवति, भस्मसात्स्यात् । (अत्र भस्मन् इति प्रातिपदिकमस्ति) ।\nस्मर्तव्यम् - 'साति' प्रत्ययान्तशब्दाः <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यनेन अव्ययसंज्ञकाः भवन्ति ।\nविशेषः - 'अग्निसाद्' आदिषु शब्देषु प्रत्ययसकारस्य <<आदेशप्रत्यययोः>> [[8.3.59]] इत्यनेन षत्वे प्राप्ते <<सात्पदाद्योः>> [[8.3.59]] इत्यनेन तत् निषिध्यते । अतः अत्र षत्वम् न भवति ।\n " }, "54053": { "sa": "अभूतपूर्वस्य विकारस्य अभिविध्या सम्पादनम् क्रियते चेत् विकारवाचिशब्दात् 'कृ' 'भू' तथा 'अस्' एतेषाम् योगे तथा च 'सम्पद्' धातोः योगे स्वार्थे विकल्पेन 'साति' प्रत्ययः भवति ।", "sd": "<<अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः>> [[5.4.50]] इत्यनेन सूत्रेण 'च्वि' इति प्रत्ययः पाठ्यते । अभूतपूर्वस्य विकारस्य सम्पादने 'कृ' 'भू' तथा 'अस्' एतेषाम् योगे अयम् प्रत्ययः विकारवाचिशब्दात् विधीयते । (अस्य विषयस्य विस्तारः <<अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः>> [[5.4.50]] इत्यत्रैव द्रष्टव्यः) । यदि अयम् विकारः अभिविधिरूपेण सम्पद्यते, तर्हि तस्मात् विकारवाचिनः शब्दात् 'कृ' 'भू' ,'अस्' तथा च 'सम्पद्' एतेषाम् योगे 'साति' इति प्रत्ययः विकल्पेन भवति । पक्षे 'कृ' 'भू' ,'अस्' एतेषाम् योगे 'च्वि' प्रत्ययः अपि भवितुमर्हति ।\nकिम् नाम अभिविधिः ? यत्र बहूनाम् वस्तूनाम् कस्यचन अवयवस्य विकारः विधीयते, तत्र 'अभिविधिः' अस्तीति सम्बुध्यते । यथा, 'महत्याः वर्षायाः कारणात् नगरे विद्यमानम् सर्वम् लवणमंशरूपेण जलम् सम्पद्यते' - इति चिन्तयामः । The entire salt from all households in the city has become moist due to heavy rains । अस्यां स्थितौ 'सम्पूर्णमजलम् लवणम् जलम् सम्पद्यते' इति वाक्यप्रयोगं कृत्वा' जल' शब्दात् वर्तमानसूत्रेण साति-प्रत्ययः भवितुमर्हति । यथा -\nअ) सम्पूर्णमजलम् लवणम् जलम् करोति = जलसात् करोति ।\nआ) सम्पूर्णमजलम् लवणम् जलम् भवति = जलसात् भवति ।\nइ) सम्पूर्णमजलम् लवणम् जलम् स्यात् = जलसात् स्यात् ।\nई) सम्पूर्णमजलम् लवणम् जलम् सम्पद्यते = जलसात् सम्पद्यते ।\nविशेषः - अस्मिन् सूत्रे 'सम्पद्यकर्तरि' इति न अनुवर्तते, अतः अत्र विग्रहवाक्येषु 'कृ', भू', 'अस्' एतेषां प्रयोगः भवितुमर्हति ।\nएवमेव अन्यद् एकमुदाहरणम् एतादृशम् - युद्धे सर्वम् अनग्निः शस्त्रमग्निः सम्पद्यते । अस्यैव निर्देशार्थम् 'साति' प्रत्ययं कृत्वा एते प्रयोगाः सिद्ध्यन्ति -\nअ) युद्धम् सर्वम् शस्त्रमग्निसात् करोति ।\nआ) सर्वं शस्त्रमग्निसात् भवति ।\nइ) सर्वं शस्त्रम् अग्निसात् स्यात् ।\nई) सर्वं शस्त्रम् अग्निसात् सम्पद्यते ।\nअत्र केचन बिन्दवः स्मर्तव्याः -\n1. यत्र एकस्मिन् वस्तुनि सम्पूर्णरूपेण परिवर्तनं भवति, तत्र <<विभाषा साति कार्त्स्न्ये>> [[5.4.52]] इत्यनेन पूर्वसूत्रेणैव प्रत्ययः विधीयते । यथा - यदि केवलम् एकम् शस्त्रम् सम्पूर्णरूपेण अग्निः सम्पद्यते, तर्हि <<विभाषा साति कार्त्स्न्ये>> [[5.4.52]] इत्यनेन 'शस्त्रमग्निसात् भवति' इति प्रयोगः विधीयते । परन्तु यत्र अनेकानाम् वस्तूनाम् एकदेशस्य (= असकलरूपेण) परिवर्तनं भवति, तत्र वर्तमानसूत्रेण प्रत्ययः विधीयते । यथा - युद्धे विद्यमानानाम् सर्वेषां शस्त्राणां निर्देशम् कृत्वा 'सर्वम् शस्त्रमग्निः भवति' इति यदि उच्यते, तर्हि अस्य अर्थः 'प्रत्येकम् शस्त्रम् एकदेशरूपेण अवश्यमग्निः भवति, परन्तु सम्पूर्णरूपेण भवतीति आवश्यकम् न' - इति आशयः अस्ति । The context here is that 'the entire set of weapons was converted into fire'. This means that every weapon in the set was definitely converted to fire at least to some extent. But whether an individual weapon was converted fully or only partially is not the point of discussion here। अस्यां स्थितौ 'अभिविधिः अस्ति' इति मत्वा वर्तमानसूत्रस्य प्रयोगः भवति । अस्यैव स्पष्टीकरणार्थम् कौमुद्यामुच्यते - एकस्याः व्यक्तेः सर्व-अवयव-अवच्छेदेन अन्यथाभावः कार्त्स्न्यम् ; बहूनां व्यक्तीनां किञ्चित्-अवयव-अवच्छेदेन अन्यथात्वं तु अभिविधिः ।\n2. अनेन सूत्रेण उक्तः साति-प्रत्ययः विकल्पेन भवति । पक्षे 'च्वि' प्रत्ययः अपि भवितुमर्हति । परन्तु अयम् च्वि-प्रत्ययः 'सम्पद्यते' इत्यस्य विषये न भवति, केवलम् 'कृ / भू / अस्' एतेषाम् विषये एव विधीयते । अयम् च्वि-प्रत्ययः अपि विकल्पेन भवति, यतः <<समर्थानां प्रथमाद्वा>> [[4.1.82]] इत्यत्र पाठितायां महाविभाषायाम् इदम् सूत्रम् प्रवर्तते । अतः पक्षे वाक्यस्यापि प्रयोगः भवितुमर्हति । यथा -\nअ) युद्धम् सर्वम् शस्त्रमग्नीकरोति / युद्धम् सर्वम् शस्त्रमग्निं करोति ।\nआ) सर्वम् शस्त्रमग्नीभवति / सर्वम् शस्त्रमग्निः भवति ।\nइ) सर्वम् शस्त्रमग्नीस्युः / सर्वम् शस्त्रमग्निः स्यात् ।\nई) सर्वम् शस्त्रमग्निः सम्पद्यते । (अत्र च्वि-प्रत्ययः नैव प्रयुज्यते) ।\n3. साति-प्रत्ययान्तशब्दाः <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यनेन अव्ययसंज्ञकाः भवन्ति ।\n" }, "54054": { "sa": "'तस्य अधीनः' अस्मिन् सन्दर्भे 'कृ', 'भू', 'अस्' तथा 'सम्पद्' एतेषां योगे प्रातिपदिकात् साति-प्रत्ययः भवति । ", "sd": "'तस्य अधीनः' (dependent on / belongs to / captured by / obtained by etc) अस्मिन् सन्दर्भे कृ', 'भू', 'अस्' तथा 'सम्पद्' एतेषां योगे प्रातिपदिकात् साति-प्रत्ययः भवति । अधिक-स्पष्टतायै कानिचन उदाहरणानि पश्यामः -\n1. शत्रुः राज्ञः अधीनः भवति (The enemy gets captured by the king) इत्यस्मिन् अर्थे 'राजन्' शब्दात् वर्तमानसूत्रेण 'साति' इति प्रत्ययः विधीयते । । प्रक्रिया इयम् -\nराजन् + साति\n→ राजन् + सात् [तकारोत्तरः इकारः उच्चारणार्थः अस्ति, तकारस्य इत्संज्ञाबाधनार्थम् च स्थापितः अस्ति । अतः तस्य लोपः भवति]\n→ राज + सात् [अङ्गस्य <<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इति पदसंज्ञा । पदान्ते विद्यमानस्य प्रातिपदिकस्य नकारस्य <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः]\n→ राजसात्\nयथा - शत्रुः राजसात् भवति ।\nअयम् साति-प्रत्ययः 'कृ', 'भू', 'अस्' तथा 'सम्पद्' - एतेषाम् धातूनाम् योगे भवति । यथा -\nअ) सेनापतिः शत्रुम् राज्ञः अधीनम् करोति इत्येव = सेनापतिः शत्रुम् राजसात् करोति ।\nआ) शत्रुः राज्ञः अधीनः भवति इत्येव = शत्रुः राजसात् भवति ।\nइ) शत्रुः राज्ञः अधीनः स्यात् इत्येव = शत्रुः राजसात् स्यात् ।\nई) शत्रुः राज्ञः अधीनः सम्पद्यते इत्येव = शत्रुः राजसात् सम्पद्यते ।\nएवमेव अन्यानि उदाहरणानि -\n2. अर्जुनः वृक्षमग्निसात् करोति । वृक्षः अग्निसात् भवति / स्यात् / सम्पद्यते ।\n3. देवदत्तः व्याकरणमात्मसात् करोति । व्याकरणमात्मसात् भवति / स्यात् /सम्पद्यते ।\n4. पिता पुत्रम् ब्राह्मणसात् करोति । ब्राह्मणसात् भवति / स्यात् / सम्पद्यते ।\nआदयः ।\nस्मर्तव्यम् -\n1. <<समर्थानां प्रथमाद्वा>> [[4.1.82]] इत्यत्र पाठितायां महाविभाषायाम् इदम् सूत्रम् प्रवर्तते, अतः अनेन सूत्रेण उक्तः 'सात्' प्रत्ययः विकल्पेनैव भवति । पक्षे वाक्यस्य अपि प्रयोगः भवितुमर्हति । यथा - सेनापतिः शत्रुम् राजाधीनम् करोति । शत्रुः राजाधीनः भवति ।\n2. साति-प्रत्ययान्तशब्दाः <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यनेन अव्ययसंज्ञकाः भवन्ति ।\n" }, "54055": { "sa": "'तस्य अधीनम् देयम्' अस्मिन् सन्दर्भे 'कृ', 'भू', 'अस्' तथा 'सम्पद्' एतेषां योगे प्रातिपदिकात् 'त्रा' तथा 'साति' एतौ प्रत्ययौ भवतः । ", "sd": "'तस्य अधीनः' (dependent on / belongs to / captured by / obtained by etc) अस्मिन् सन्दर्भे कृ', 'भू', 'अस्' तथा 'सम्पद्' एतेषां योगे प्रातिपदिकात् <<तदधीनवचने>> [[5.4.54]] इत्यनेन साति-प्रत्ययः भवति । यदि एतादृशः अधीनत्वं प्राप्तः पदार्थः 'देयः' अस्ति (= नियममनुसृत्य दातव्यः अस्ति), तर्हि तस्य निर्देशार्थम् प्रातिपदिकात् 'त्रा' इति प्रत्ययः वर्तमानसूत्रेण विकल्पेन विधीयते । पक्षे पूर्वसूत्रेण 'साति' इत्यपि प्रत्ययः भवति ।\nयथा - कस्यांश्चन पूजायाम् ब्राह्मणेभ्यः काचन दक्षिणा देया - इति चिन्तयामः । अस्यां स्थितौ यदि सा दक्षिणा ब्राह्मणेभ्यः दीयते, तर्हि सा दक्षिणा 'ब्राह्मणाधीना' भवतीति वक्तुं शक्यते । अयम् ब्राह्मणाधीना दक्षिणा 'देया' अपि अस्ति, अतः अत्र वर्तमानसूत्रेण 'साति' तथा 'त्रा' द्वावपि प्रत्ययौ भवतः । यथा - 'दक्षिणा ब्राह्मणसात् भवति / दक्षिणा ब्राह्मणत्रा भवति' ।\nअनयोः प्रत्यययोः प्रयोगः 'कृ' / 'भू', / 'अस्' / 'सम्पद्' एतेषाम् योगे भवितुमर्हति । यथा -\nअ) दक्षिणां ब्राह्मणसात् करोति / ब्राह्मणत्रा करोति ।\nआ) दक्षिणा ब्राह्मणसात् भवति / ब्राह्मणत्रा भवति ।\nइ) दक्षिणा ब्राह्मणसात् स्यात् / ब्राह्मणत्रा स्यात् ।\nई) दक्षिणा ब्राह्मणसात् सम्पद्यते / ब्राह्मणत्रा सम्पद्यते ।\nअन्यानि उदाहरणानि -\n1. माण्डलिकः धनम् राजसात् राजत्रा वा करोति । धनम् राजसात् राजत्रा वा भवति / स्यात् / सम्पद्यते ।\n2. धनिकः शुल्कम् शासकसात् शासकत्रा वा करोति । शुक्लम् शासकसात् शासकत्रा वा भवति / स्यात् / सम्पद्यते ।\nआदयः ।\nयत्र 'देयम्' न विद्यते तत्र तु वर्तमानसूत्रस्य प्रयोगः न भवति । यथा - पिता पुत्रमाचार्याधीनमाचार्यसात् वा करोति । अत्र यद्यपि पिता आचार्याय पुत्रम् ददाति, तथापि अयं पुत्रः 'देयः' नास्ति, अपितु केवलम् पाठनकार्यार्थम् पुत्रस्य समर्पणम् कृतमस्ति । अतः अत्र वर्तमानसूत्रेण त्रा-प्रत्ययः न भवति । पूर्वसूत्रेण <<तदधीनवचने>> [[5.4.54]] इत्यनेन 'साति' प्रत्ययः तु भवत्येव ।\nज्ञातव्यम् -\n1. <<समर्थानां प्रथमाद्वा>> [[4.1.82]] इत्यत्र पाठितायां महाविभाषायाम् इदम् सूत्रम् प्रवर्तते, अतः अनेन सूत्रेण उक्तः 'त्रा' प्रत्ययः विकल्पेनैव भवति । पक्षे 'साति' प्रत्ययः, उत वाक्यस्य अपि प्रयोगः भवितुमर्हति । यथा - दक्षिणां ब्राह्मणसात् करोति / ब्राह्मणत्रा करोति / ब्राह्मणाधीनम् करोति ।\n2. साति-प्रत्ययान्तशब्दाः तथा च 'त्रा' प्रत्ययान्तशब्दाः सर्वेऽपि <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यनेन अव्ययसंज्ञकाः भवन्ति ।\n" }, "54056": { "sa": "'देव', 'मनुष्य', 'पुरुष', 'पुरु', तथा 'मर्त्य' एतेषां शब्दानां द्वितीयान्तरूपात् सप्तम्यन्तरूपात् च स्वार्थे कुत्रचित् 'त्रा'प्रत्ययः कृतः दृश्यते । ", "sd": "'देव', 'मनुष्य', 'पुरुष', 'पुरु' तथा 'मर्त्य' एतेषाम् शब्दानां द्वितीयान्तरूपेभ्यः सप्तम्यन्तरूपेभ्यः च विषये केषाञ्चन धातूनां योगे स्वार्थे 'त्रा' प्रत्ययः कृतः भाषायाम् दृश्यते । एतादृशानां प्रयोगानाम् साधुत्वज्ञापनार्थम् वर्तमानसूत्रस्य निर्माणं कृतमस्ति ।\nयथा -\n1. देवान् गच्छति (goes towards gods) इत्येव = देवत्रा गच्छति ।एवमेव - मनुष्यत्रा गच्छति, पुरुषत्रा गच्छति, पुरुत्रा गच्छति, मर्त्यत्रा गच्छति ।\n2. देवेषु वसति (stays in the group of gods) इत्येव = देवत्रा वसति । एवमेव - मनुष्यत्रा वसति, पुरुषत्रा वसति, पुरुत्रा वसति, मर्त्यत्रा वसति ।\nविशेषः -\n1. एतादृशाः प्रयोगाः कुत्र साधवः मन्यन्ते, कुत्र च न - अस्मिन् विषये कोऽपि विशिष्टः नियमः नास्ति, अतः अस्मिन् सूत्रे 'बहुलम्' इति शब्दः स्वीक्रियते । अस्य शब्दस्य व्याख्या एतादृशी दीयते -\nक्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव । विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति ॥\nयत्र विशिष्टनियमस्य अभावः दृश्यते, तत्र 'बहुलम्' इति शब्दः प्रयुज्यते । अतः अस्य सूत्रस्य प्रयोगः शिष्टप्रयोगमनुसृत्यैव करणीयः ।\n'बहुलम्' शब्दस्य विषये विस्तारेण अस्मिन् लेखे निर्दिष्टमस्ति । जिज्ञासुभिः तदपि दृश्यताम् ।\n2. 'बहुलम्' इत्यस्य ग्रहणेन केभ्यश्चन अन्येभ्यः शब्देभ्यः अपि 'त्रा' प्रत्ययः भवति । यथा, पैप्पलादसंहितायाम् 19.38.5 इत्यत्र - 'भद्रं वैवश्वते चक्षुर्बहुत्रा जीवतो मनः' इति प्रयोगः दृश्यते । अस्य सिद्धिः वर्तमानसूत्रेण दातव्या ।\n3. 'त्रा' प्रत्ययान्तशब्दाः <<तद्धितश्चासर्वविभक्तिः>> [[1.1.38]] इत्यनेन अव्ययसंज्ञकाः भवन्ति ।" }, "54057": { "sa": "अव्यक्तानुकरणवाचिनः शब्दस्य द्वित्वे कृते पूर्वभागे द्वौ वा अधिकाः स्वराः विद्यन्ते चेत् तस्मात् कृ-भू-अस्-धातूनाम् योगे डाच् प्रत्ययः भवति । परन्तु 'इति' शब्दस्य योगे अयम् प्रत्ययः न विधीयते । ", "sd": "अस्य सूत्रस्य अर्थः गहनः अस्ति, अतः सर्वान् बिन्दून् क्रमेण पश्यामः -\n1. लोके विद्यमानाः अनेके ध्वनयः वर्णैः स्पष्टरूपेण व्यक्ताः न भवन्ति । Many sounds that occur around us cannot be precisely expressed using the letters in the language. यथा - द्वारस्य ध्वनिः (The sound of a knocking a door), घण्टायाः ध्वनिः (The sound of a bell), फलस्य पतनस्य ध्वनिः (The sound of a fruit falling on ground), जलप्रपातस्य ध्वनिः (The sound of a waterfall), सर्पस्य गमनस्य ध्वनिः ( The sound of crawling of snake) आदयः । एतेषाम् निर्देशार्थम् यद्यपि विशिष्टाः वर्णाः न विद्यन्ते, तथापि जनैः भिन्नासु भाषासु एते ध्वनयः भिन्नानाम् शब्दानाम् प्रयोगेण अवश्यम् निर्दिश्यन्ते । यथा - द्वारस्य ध्वनिः 'खट्-खट्' इत्यनेन, घटिकायाः ध्वनिः 'टिक्-टिक्' इत्यनेन, सर्पस्य ध्वनिः 'सर्-सर्' इत्यनेन, फलस्य पतनस्य ध्वनिः 'धम्' इत्यनेन - आदयः । संस्कृतभाषायामपि एतादृशाः शब्दाः प्रचलिताः सन्ति । यथा - पटत् (जलबिन्दूनाम् पतनस्य ध्वनिः - The sound of water droplets), धमत् (बकुरवादनस्य ध्वनिः, The sound of blowing a trumpet), छमत् (crackling noise) - आदयः । एतादृशाः शब्दाः 'अव्यक्तस्य' अनुकरणम् कुर्वन्ति (These sounds try to mimic an otherwise-non-reproducible sound) । एते सर्वे शब्दाः 'अव्यक्त-अनुकरण-वाचिनः' सन्तीति उच्यते । वर्तमानसूत्रम् एतादृशानामव्यक्त-अनुकरण-वाचिनाम् शब्दानाम् विषये प्रत्ययविधानम् करोति ।\n2. यदि अव्यक्तानुकरणवाचिनि कस्मिंश्चित् शब्दे द्वौ उत अधिकाः स्वराः सन्ति, तर्हि 'कृ', 'भू' तथा 'अस्' एतेषाम् योगे अस्मात् शब्दात् वर्तमानसूत्रेण 'डाच्' इति प्रत्ययः विधीयते । अस्य प्रत्ययस्य विवक्षायाम् , परन्तु प्रत्ययविधानात् पूर्वमेव इत्यनेन वार्त्तिकेन प्रकृतेः द्वित्वं भवति । In the anticipation of this pratyay, even before the pratyay can actually gets applied, the प्रकृति undergoes a द्वित्व । अस्मात् कृत-द्वित्वात् प्रातिपदिकात् डाच्-प्रत्ययस्य प्रत्यक्षस्थापनम् भवति । यथा -\nपटत् करोति / पटत् भवति / पटत् स्यात् इत्येव\n= पटत् + पटत् + डाच् [वर्तमानसूत्रेण डाच्-प्रत्ययः विधीयते । प्रत्ययस्य विवक्षायाम्, परन्तु प्रत्ययविधानाम् पूर्वम् इति वार्त्तिकम् प्रवर्तते ।अनेन वार्त्तिकेन प्रकृतेः द्वित्वं विधीयते । द्वित्वे कृते अनन्तरम् डाच्-इति प्रत्ययः प्रत्यक्षरूपेण उपतिष्ठति]\nविशेषः - इति वार्त्तिकम् भाष्यकारेण <<प्रकारे गुणवचनस्य>> [[8.4.12]] इत्यत्र पाठितमस्ति । डाच्-प्रत्ययस्य विषये प्रत्ययविधानात् पूर्वमेव प्रकृतेः द्वित्वम् विधीयते - इति अस्य वार्त्तिकस्य अर्थः ।\n3. यत्र द्वित्वं भवति, तत्र परशब्दस्य <<तस्य परमाम्रेडितम्>> [[8.1.2]] इत्यनेन 'आम्रेडित' इति संज्ञा भवति । On doing the द्वित्व, the 'second member' of the pair gets the term 'आम्रेडित' । यदा एतादृशात् आम्रेडितसंज्ञकशब्दात् डाच्-प्रत्ययः विधीयते, तदा द्वित्वे विद्यमानस्य पूर्वशब्दस्य अन्तिमः वर्णः, तथा च आम्रेडितसंज्ञकस्य प्रथमः वर्णः, एतयोः <<नित्यमाम्रेडिते डाचि>> [[6.1.100]] इत्यनेन पररूप-एकादेशः भवति । यथा-\nपटत् + पटत् + डाच् [<<तस्य परमाम्रेडितम्>> [[8.1.2]] इत्यनेन द्वितीयस्य पटत्-शब्दस्य आम्रेडितसंज्ञा]\n→ पटपटत् + डाच् [प्रथमस्य 'पटत्' शब्दस्य अन्तिमः वर्णः (= तकारः) तथा च आम्रेडितसंज्ञकस्य पटत्-शब्दस्य प्रथमः वर्णः (= पकारः) एतयोः <<नित्यमाम्रेडिते डाचि>> [[6.1.100]] इत्यनेन पररूप-एकादेशः (पकारः) विधीयते । त् + प् → प् इत्याशयः ।]\nविशेषः - <<नित्यमाम्रेडिते डाचि>> [[6.1.100]] इति सूत्रम् कौमुद्याम् वार्त्तिकरूपेण पाठ्यते, परन्तु काशिकायाम् एतत् सूत्रम् सूत्ररूपेण स्वीकृतमस्ति । तथा च, अनेन सूत्रेण एकादेशः तदा एव भवति यदा पूर्वशब्दे 'अत्' इति अन्ते विद्यते । प्रायः सर्वे अनुकरणवाचिनः शब्दाः (यथा - पटत्, दमत्, धमत् - आदयः) 'अत्' इत्यनेनैव समाप्यन्ते, अतः सर्वेषां विषये अस्य सूत्रस्य प्रसक्तिः विद्यते एव ।\n4. 'डाच्' प्रत्यये चकारडकारयोः इत्संज्ञा लोपश्च भवति, 'आ' इत्येव अवशिष्यते । प्रत्ययस्य डित्त्वात् <<टेः>> [[6.4.143]] इति टिलोपः भवति । यथा -\nपटपटत् + डाच्\n→ पटपटत् + आ [डकारस्य <<चुटू>> [[1.3.7]] इति इत्संज्ञा । चकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति द्वयोः लोपः भवति ]\n→ पटपट् + आ [<<टेः>> [[6.4.143]] इति टिलोपः]\n→ पटपटा\nइयम् सर्वा प्रक्रिया 'कृ' / 'भू' / 'अस्' एतेषाम् योगे एव भवतीति स्मर्तव्यम् । यथा - पटपटा करोति, पटपटा भवति, पटपटा स्यात् ।\nइदानीमस्य सूत्रस्य अर्थः स्पष्टः स्यात् -\n- अव्यक्तानुकरणवाचिनः शब्दस्य (यथा पटत्)\n- द्वित्वे कृते (यथा - पटत् पटत्)\n- पूर्वभागे (यथा - पटत् इत्यत्र)\n- द्वौ वा अधिकाः स्वराः विद्यन्ते चेत् (यथा - प् + अ + ट् + अ + त् इत्यत्र द्वौ स्वरौ स्तः)\n- तस्मात् (यथा - पटत् पटत् इत्यस्मात् कृतद्वित्वात् शब्दात्)\n- कृ-भू-अस्-धातूनाम् योगे (यथा - करोति, भवति, स्यात् - एतेषाम् योगे)\n- डाच् प्रत्ययः भवति (यथा - पटत् + पटत् + डाच् + करोति = पटपटा करोति) ।\nसम्पूर्णा प्रक्रिया अधः पुनरेकवारं दत्ता अस्ति -\nपटत् करोति / पटत् भवति / पटत् स्यात् इत्येव\n= पटत् + पटत् + डाच् [वर्तमानसूत्रेण डाच्-प्रत्ययः । इति वार्त्तिकेन डाच्-प्रत्ययस्य विषये द्वित्वम् । द्वित्वे कृते अनन्तरम् डाच्-प्रत्ययविधानम् ।]\n→ पटपटत् + डाच् [<<तस्य परमाम्रेडितम्>> [[8.1.2]] इत्यनेन द्वितीयस्य पटत्-शब्दस्य आम्रेडितसंज्ञा । <<नित्यमाम्रेडिते डाचि>> [[6.1.100]] इति पूर्ववर्ण-परवर्णयोः पररूपएकादेशः]\n→ पटपटत् + आ [डकारस्य <<चुटू>> [[1.3.7]] इति इत्संज्ञा । चकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति द्वयोः लोपः भवति ]\n→ पटपट् + आ [<<टेः>> [[6.4.143]] इति टिलोपः]\n→ पटपटा\nयथा - पटपटा करोति, पटपटा भवति, पटपटा स्यात् ।\nअन्यानि कानिचन उदाहरणानि -\n1. धमत् धमत् करोति = धमधमा करोति । एवमेव - धमधमा भवति, धमधमा स्यात् ।\n2. दमत् दमत् करोति = दमदमा करोति । एवमेव - दमदमा भवति, दमदमा स्यात् ।\n3. छमत् छमत् करोति = छमछमा करोति । एवमेव - छमछमा भवति, छमछमा स्यात् ।\n4. घरटत् घरटत् करोति = घरटघरटा करोति । एवमेव - घरटघरटा भवति, घरटघरटा स्यात् ।\nस्मर्तव्यम् - एतेषु सर्वेषु उदाहरणेषु मूलः अव्यक्तानुकरणवाचि शब्दः तु 'धमत्' / 'दमत्' / 'छमत्' / 'घरटत्' इत्येव अस्ति । परन्तु डाच्-प्रत्ययस्य विवक्षायाम् द्वित्वं कृत्वा कृतद्वित्वस्य शब्दस्यैव विग्रहवाक्ये प्रयोगः क्रियते ।\nअस्मिन् सूत्रे 'अनितौ' (= न इतौ) इति अपि निर्दिश्यते । अतः वाक्ये 'इति' शब्दस्य प्रयोगः भवति चेत् डाच्-प्रत्ययः न विधीयते (अतः द्वित्वादीनि कार्याणि अपि न भवन्ति) । यथा - 'पटत् इति करोति' इति उच्यते चेत् अत्र वर्तमानसूत्रस्य प्रयोगः न भवति, अपितु <<अव्यक्तानुकरणस्यात इतौ>> [[6.1.98]] इत्यनेन 'पटिति करोति' इति रूपम् सिद्ध्यति ।\nइदानीमस्य सूत्रस्य विषये केचन प्रमुखाः बिन्दवः ज्ञातव्याः -\n1. यदि अव्यक्तानुकरणवाचिनि शब्दे एकः एव स्वरः अस्ति, तर्हि तस्य विषये वर्तमानसूत्रस्य प्रसक्तिः नास्ति । यथा - 'श्रत्' अस्य शब्दस्य विषये केवलम् 'श्रत् करोति' इत्येव भवति । अत्र डाच्-प्रत्ययः एव नैव विधीयते, यतः डाच्-प्रत्यये कृते द्वित्वे कृते 'प्रथमशब्दे' द्वौ अच्-वर्णौ नैव लभ्येते ।\n2. यदि ध्वनेः निर्देशः व्यक्तरूपेण भवितुमर्हति, तर्हि वर्तमानसूत्रस्य प्रसक्तिः न विद्यते । यथा, कस्यचन शिशुः 'अ', 'क्' , 'स्' एतादृशान् ध्वनीन् करोति चेत् एते सर्वे वर्णैः व्यक्ताः ध्वनयः सन्ति । अतः एतेषाम् विषये वर्तमानसूत्रस्य प्रसक्तिः नास्ति ।\n3. ध्वनेः विशेषणरूपेण प्रयुक्तानाम् शब्दानाम् विषये अपि अस्य सूत्रस्य प्रयोग न क्रियते । यथा - 'ईषद् करोति' (makes a little sound), 'दीर्घः करोति' ( makes a prolonged sound) - एतादृशेषु वाक्येषु स्वयं ध्वनिः न उच्यते, अतः अत्र अस्य सूत्रस्य प्रसक्तिः नास्ति ।\n4. अस्मिन् सूत्रे 'द्व्यच् अवरार्धात्' इति उच्यते । अस्य अर्थः अयम् - द्वित्वे कृते यः 'अवरार्धः' शब्दः (the lower half / the first half), तस्मिन् द्वौ वा अधिकाः स्वराः भवेयुः - इति । वस्तुतः द्वित्वे कृते विद्यमानः 'अवरार्धः' शब्दः स्वयमव्यक्तवाची शब्दः एव अस्ति । The first half of the result of द्वित्व, by definition, is the original word itself । अतः 'द्व्यच् अवरार्धात्' अस्य अर्थः - 'मूलशब्दे द्वौ वा अधिकाः स्वराः भवेयुः' इत्येव विद्यते । अतः वस्तुतः आचार्यः पाणिनिः 'अनेकाच्' इत्येव ब्रूयात् चेदपि पर्याप्तम् , सुलभम् च । अतएव कौमुदीकारः वदति - अनेकाच इत्येव सूत्रयितुमुचितम् । प्रायः पाणिनिना एतत् सूत्रम् पूर्वचार्याणाम् व्याकरणेषु स्वीकृतमस्ति, अतः तादृशम् एव स्थापितम् स्यात् - इति पण्डिताः अस्मिन् विषये मन्यन्ते ।\n5. वर्तमानसूत्रेण विहितः डाच्-प्रत्ययः 'अस्', 'भू', 'कृ' एतेषाम् योगे एव भवति । परन्तु अत्र एतेषाम् धातूनाम् केवलम् 'तिङन्तरूपम्' आवश्यकम् इति कोऽपि नियमः नास्ति । अतः एतेषामन्येषाम् रूपाणां विषये अपि अस्य सूत्रस्य प्रसक्तिः विद्यते । यथा -\n[अ] सन्नन्तरूपाणि - पटपटा चिकीर्षति, पटपटा बोभूयति - आदयः ।\n[आ] णिजन्तरूपाणि - पटपटा कारयति, पटपटा भावयति - आदयः ।\n[इ] कृदन्तरूपाणि - पटपटाकृतम्, पटपटाभवितव्यम्, पटपटासन् - आदयः ।\n6. 'डाच्' अस्मिन् प्रत्यये चकारस्य ग्रहणम् किमर्थम् कृतमस्ति ? वस्तुतः तु चित्-प्रत्ययान्तशब्दस्य अन्तिमः स्वरः <<चितः>> [[6.1.163]] इत्यनेन उदात्तः भवति । इत्युक्ते, अत्र चकारग्रहणेन प्रत्ययस्य 'आ' इति स्वरस्य उदात्तत्वम् निर्दिश्यते, यतः अयम् 'आ' इति स्वरः तद्धितान्तशब्दस्य अन्तिमः स्वरः अपि अस्ति । परन्तु एतत् उदात्तत्वम् तु <<आद्युदात्तश्च>> [[3.1.3]] इत्यनेनैव सिद्ध्यति, यतः 'आ' इति स्वरः प्रत्ययस्यापि आदिस्वरः अस्ति । अतः अत्र चकारग्रहणस्य प्रयोजनमस्ति वा - इति प्रश्नः उपतिष्ठति वस्तुतः चकारग्रहणस्य अत्र प्रयोजनद्वयम् विद्यते -\nअ) 'पटपटा असि' एतादृशेषु वाक्येषु सन्धिकार्यम् कृत्वा 'पटपटासि' इति सिद्धे सवर्णदीर्घेन जायमानः टकारोत्तरः अकारः <<स्वरितो वाऽनुदात्ते पदादौ>> [[8.2.6]] इत्यनेन विकल्पेन स्वरितत्वम् प्राप्नोति । एतत् स्वरितत्वं बाधयितुम्, तथा च आकारस्य उदात्तत्वम् पुनःस्थापयितुमस्मिन् प्रत्यये चकारग्रहणम् क्रियते । चकारग्रहणेन एतत् ज्ञाप्यते, यत् सन्धिकार्यात् अनन्तरमपि आकारः उदात्तः एव स्यात् - इति ।\nआ) <<लोहितादिडाज्भ्यः क्यष्>> [[3.1.13]] अस्मिन् सूत्रे 'डाच्' इति प्रत्ययस्य विशिष्टनिर्देशः आवश्यकः, अतः तदर्थमपि 'डाच्' इति अत्र गृह्यते । यदि अत्र केवलम् 'डा' इत्येव उच्येत, तर्हि <<लोहितादिडाज्भ्यः क्यष्>> [[3.1.13]] अस्मिन् सूत्रे अपि 'डा' इत्येव निर्देशः आवश्यकः स्यात्, येन <<लुटः प्रथमस्य डारौरसः>> [[2.4.85]] तथा च <<सुपां सुलुक्पूर्वसवर्णाऽऽच्छेयाडाड्यायाजालः>> [[7.1.39]] इत्यत्र निर्दिष्टस्य डा-प्रत्ययस्य अपि अनिष्टम् ग्रहणम् स्यात् । परन्तु तत् न इष्यते, अपितु 'क्यष्' प्रत्ययः केवलम् 'डाच्' प्रत्ययात् परः एव भवितुमर्हति । अतः वर्तमानसूत्रे 'डाच्' इत्यत्र चकारग्रहणं कृत्वा अन्येभ्यः डा-प्रत्ययेभ्यः तस्य पृथग् निर्देशः क्रियते ।\n7. <<लोहितादिडाज्भ्यः क्यष्>> [[3.1.13]] इत्यनेन सूत्रेण डाच्-प्रत्ययान्तशब्दात् 'क्यष्' इति कश्चन सनादिप्रत्ययः भवति । वस्तुतः तु डाच्-प्रत्ययः केवलम् 'कृ' / 'भू' / 'अस्' - एतेषाम् योगे एव विधीयते । एवं सति 'क्यष्' प्रत्ययस्य योगे डाच्-प्रत्ययः कथं स्यात् - इति प्रश्नः विधीयते । अस्य उत्तरम् एतत् - <<लोहितादिडाज्भ्यः क्यष्>> [[3.1.13]] इति सूत्रमेव अस्य ज्ञापकम्, यत् 'क्यष्' प्रत्ययस्य योगे अपि प्रातिपदिकात् डाच्-प्रत्यय भवति । यथा, पटत् + पटत् + डाच् + क्यष् → पटपटाय । एतादृशः निर्मितः यः 'पटपटाय' शब्दः, तस्य <<सनाद्यन्ताः धातवः>> [[3.1.32]] इति धातुसंज्ञा भवति, अतः तस्य अग्रे 'पटपटायति / पटपटायते' इति रूपाणि भवन्ति । अयम् क्यष्-प्रत्ययः 'भवति' इत्यस्यैव अर्थे विधीयते, अतः 'पटपटायति' इत्युक्ते 'पटपटा भवति' इत्येव ।\n8. डाच्-प्रत्ययान्तशब्दानाम् (यथा, 'पटपटा', 'दमदमा' - आदीनाम्) <<ऊर्यादिच्विडाचश्च>> [[1.4.61]] इत्यनेन 'निपात' तथा 'गति'द्वे अपि संज्ञे भवतः । अस्य प्रयोजनानि एतानि -\nअ) निपातसंज्ञायाः कारणात् <<स्वरादिनिपातमव्ययम्>> [[1.1.37]] इत्यनेन एतेषाम् अव्ययसंज्ञा अपि भवति । इत्युक्ते, सर्वे डाच्-प्रत्ययान्तशब्दाः 'अव्यय'संज्ञकाः अपि सन्ति ।\nआ) डाच्-प्रत्ययान्तशब्दाः यदा कृदन्तशब्दानां योगे प्रयुज्यन्ते, तदा 'गतिसंज्ञा'कारणात् <<कुगतिप्रादयः>> [[2.2.18]] इत्यनेन तेषाम् कृदन्तशब्देन सह नित्यं तत्पुरुषसमासः भवति । यथा - पटपटाकृतम्, पटपटाभूतः, पटपटासन् - आदयः शब्दाः समस्तपदेन जायन्ते । अतः एतेषामुच्चारणसमये द्वयोर्मध्ये विरामः न ग्रहीतव्यः । तिङन्तैः सह योगे तु एतादृशम् समस्तपदम् न भवति, अतः तत्र 'पटपटा करोति' एतादृशम् शब्दद्वयमेव लेखनीयम् ।\nइ) गतिसंज्ञकाः शब्दाः <<ते प्राग्धातोः>> [[1.4.80]] इत्यनेन धातोः पूर्वम् एव प्रयोक्तव्याः । अतः 'पटपटा करोति' इत्येव वक्तव्यम्, न हि 'करोति पटपटा' इति ।\n9. इदम् सूत्रम् <<समर्थानाम् प्रथमात् वा>> [[4.1.82]] अस्मिन् सूत्रे निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, अतः अनेन सूत्रेण उक्तः 'डाच्' प्रत्ययः विकल्पेनैव विधीयते । इत्युक्ते, पक्षे वाक्यस्य अपि प्रयोगः भवति । यथा - 'पटत् पटत् करोति' , 'पटत् पटत् भवति', 'पटत् पटत् स्यात्' - आदयः ।\n10. अस्मिन् सूत्रे 'द्व्यच् अवरार्धात्' इति ग्रहणम् वस्तुतः दोषपूर्णमस्ति, यतः अनेन अत्र अन्योन्याश्रयः दोषः (circularity) विधीयते । तद् एतादृशम् -\nअव्यक्तशब्दस्य डाच्-प्रत्यये परे द्वित्वे कृते तस्य अवरस्मिन् भागे द्वौ वा अधिकाः अच्-वर्णाः सन्ति चेदेव तत्र डाच्-प्रत्ययः भवेत् - इति अस्य सूत्रस्य अर्थः ।\nअत्र एतादृशः अन्योन्याश्रयः दृश्यते -\nअ) द्वित्वस्य कारणम् डाच्-प्रत्ययः, यतः डाच्-प्रत्यये कृते एव द्वित्वम् सम्भवति । अतः प्रारम्भे डाच्-प्रत्ययं कृत्वा ततः द्वित्वम् करणीयम् ।\nआ)परन्तु डाच्-प्रत्ययार्थम् द्वित्वमावश्यकम्, यतः द्वित्वे कृते एव 'अवरार्ध'भागस्य निर्माणं भवति, यस्मिन् द्वौ वा अधिकाः अच्-वर्णाः सन्ति चेदेव डाच्-प्रत्ययविधानम् । अतः प्रारम्भे द्वित्वं कृत्वा ततः डाच्-प्रत्ययः प्रयोक्तव्यः ।\nThus, the word 'अवरार्ध' has caused a circular dependency in this sutra. The द्वित्व can only be done after डाच् प्रत्यय gets attached, where as the डाच् प्रत्यय can only be applied after doing द्वित्व and then counting the number of अच् letters in the अवरार्ध. This is indeed a problem.\nअस्य अन्योन्याश्रयदोषस्य समाधानम् कर्तुम् व्याख्यानानि 'विषयसप्तम्याः' साहाय्यं स्वीकुर्वन्ति । इत्युक्ते, अस्मिन् वार्त्तिके विद्यमाना 'डाचि' इति विषयसप्तमी स्वीक्रियते । अस्य अर्थः अयम् -\nअ) द्वित्वविधानम् डाच्-प्रत्ययं कृत्वा ततः न भवति, अपितु डाच्-प्रत्ययस्य विवक्षायाम् प्रारम्भे एव भवति । In the anticipation of the डाच्-प्रत्यय, the doubling (द्वित्व) happens well-in advance.\nआ) द्वित्वे कृते अवरार्धभागे विद्यमानान् द्वौ अच्-वर्णान् दृष्ट्वा ततः डाच्-प्रत्ययः प्रत्यक्षं विधीयते । On doing the द्वित्व, and on confirming that there are indeed two or more अच्-letters in the अवरार्ध, the डाच् प्रत्यय will then actually appear in the prakriya.\nइ) यदि द्वित्वे कृते अवरार्धभागे केवलं एकः एव अच्-वर्णः भवति, तर्हि डाच्-प्रत्ययः नैव विधीयते, अतः द्वित्वमपि मूलरूपेणैव न भवति । If, on doing the द्वित्व, it turn out that there is only one अच्-letter in the अवरार्ध, then the डाच् प्रत्यय will actually not be attached, and hence the द्वित्व will also not actually happen.\nअनेन 'विषयसप्तमी'विधानेन अन्योन्याश्रयस्य समाधानम् तु भवति, परन्तु तदर्थम् क्लिष्ट-स्पष्टीकरणमावश्यकम् विद्यते ।The concept of विषयसप्तमी indeed solves the problem of circular dependency, but the explanation is unnecessarily complex and tedious । वस्तुतः तु अस्य प्रश्नस्य सरलम् समाधानमपि एकम् विद्यते - 'अवरार्ध' इत्यस्य शब्दस्य सूत्रात् प्रत्याख्यानम् कृत्वा अन्योन्याश्रयः दोषः अपि निर्गच्छति । A better solution for the circular dependency is to get rid of the problematic word 'अवरार्ध' in the first place । अतएव कौमुदीकारः वदति - अनेकाच इत्येव सूत्रयितुमुचितम् । एवं हि डाचीति परसप्तम्येव द्वित्वे सुवचेत्यवधेयम् । इत्युक्ते, यदि इदम् सूत्रम् 'अव्यक्तानुकरणात् अनेकाच् अनितौ डाच्' इत्येव क्रियते, तर्हि अयमन्योन्याश्रयः नैव विधीयते,अतः, 'डाचि' इत्यपि विषयसप्तमी नैव आवश्यकी ।अस्य अर्थः एतादृशः -\nअ) [अव्यक्तानुकरणात् अनेकाच् अनितौ डाच्] - यदि अव्यक्तानुकरणवाची शब्दः (यथा - पटत्, छमत् - आदयः) अनेकाच् अस्ति, तर्हि तस्मात् डाच्-प्रत्ययः भवति ।\nआ)[] - डाच्-प्रत्यये परे अङ्गस्य द्वित्वम् विधीयते ।\nअत्र डाच्-प्रत्ययविधानम् 'अवरार्ध'स्य प्रतिक्षां नैव करोति, अतः तत् द्वित्वात् प्रारम्भे एव भवितुमर्हति ।\nएतादृशम् वस्तुतः 'अनेकाच्' इत्येव अत्र सुवचम् ।\n" }, "54058": { "sa": "'कर्षणम्' इत्यस्य सन्दर्भे प्रयुक्तेभ्यः 'द्वितीय', 'तृतीय', 'शम्ब' तथा 'बीज' एतेभ्यः शब्देभ्यः 'कृ' धातोः योगे स्वार्थे डाच्-प्रत्ययः भवति । ", "sd": "'द्वितीय', 'तृतीय', 'शम्ब', तथा 'बीज' एते शब्दाः यदा 'कृ' इत्यस्य योगे 'कर्षणम्' (To plow a field) अस्मिन् अर्थे प्रयुज्यन्ते, तदा तेभ्यः स्वार्थे 'डाच्' प्रत्ययः भवति । यथा -\n1. द्वितीयं कर्षणं करोति (द्वितीयवारम् क्षेत्रस्य कर्षणम् करोति - Plows a field second time) इत्येव = द्वितीय + डाच् → द्वितीया करोति । प्रक्रिया इयम् -\nद्वितीय + डाच्\n→ द्वितीय + आ [इत्संज्ञालोपः]\n→ द्वितीय् + आ [<<टेः>> [[6.4.143]] इति टिलोपः]\n→ द्वितीया\n2. तृतीयं कर्षणं करोति इत्येव = तृतीया करोति ।\n3. शम्बम् करोति (एकस्याम् दिशि कर्षणं कृत्वा ततः विरुद्धदिशि कर्षणं करोति इत्यर्थः । Plows a field second time in the reverse order.) = शम्बाकरोति ।\n4. बीजेन सह कर्षति (Plows a field with seeds) इत्येव बीज + डाच् → बीजाकरोति ।\nविशेषः -\n1. वस्तुतः पूर्वसूत्रात् 'कृ-भू-अस्ति-योगे' इत्यस्य अनुवृत्तिः भवितुमर्हति । परन्तु अस्मिन् सूत्रे केवलम् 'कृ' इत्यस्य योगे एव प्रत्ययविधानम् करणीयमस्ति अतः 'कृ' इत्यस्य पुनर्ग्रहणं कृत्वा 'भू' तथा 'अस्' एतयोः निवृत्तिः क्रियते ।\n2. अस्मिन् सूत्रे 'कृषौ' इति शब्देन कृषिविषयकम् 'कर्षण'कार्यम् गृह्यते, अतः तस्यैव निर्देशः सर्वेषु विग्रहवाक्येषु कृतः अस्ति ।\n3. डाच्-प्रत्ययान्तशब्दानाम् <<ऊर्यादिच्विडाचश्च>> [[1.4.61]] इत्यनेन 'निपात' तथा 'गति'द्वे अपि संज्ञे भवतः । अस्य प्रयोजनानि एतानि -\nअ) निपातसंज्ञायाः कारणात् <<स्वरादिनिपातमव्ययम्>> [[1.1.37]] इत्यनेन एतेषाम् अव्ययसंज्ञा अपि भवति । इत्युक्ते, सर्वे डाच्-प्रत्ययान्तशब्दाः 'अव्यय'संज्ञकाः अपि सन्ति ।\nआ) डाच्-प्रत्ययान्तशब्दाः यदा कृदन्तशब्दानां योगे प्रयुज्यन्ते, तदा 'गतिसंज्ञा'कारणात् <<कुगतिप्रादयः>> [[2.2.18]] इत्यनेन तेषाम् कृदन्तशब्देन सह नित्यं तत्पुरुषसमासः भवति । यथा - बीजाकृतः / बीजाकृत्य - आदयः शब्दाः समस्तपदेन जायन्ते । अतः एतेषामुच्चारणसमये द्वयोर्मध्ये विरामः न ग्रहीतव्यः । तिङन्तैः सह योगे तु एतादृशम् समस्तपदम् न भवति, अतः तत्र 'बीजा करोति' एतादृशम् शब्दद्वयमेव लेखनीयम् ।\nइ) गतिसंज्ञकाः शब्दाः <<ते प्राग्धातोः>> [[1.4.80]] इत्यनेन धातोः पूर्वम् एव प्रयोक्तव्याः । अतः 'बीजा करोति' इत्येव वक्तव्यम्, न हि 'करोति बीजा' इति ।\nस्मर्तव्यम् - इदम् सूत्रम् <<समर्थानाम् प्रथमात् वा>> [[4.1.82]] अस्मिन् सूत्रे निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, अतः अनेन सूत्रेण उक्तः 'डाच्' प्रत्ययः विकल्पेनैव विधीयते । इत्युक्ते, पक्षे वाक्यस्य अपि प्रयोगः भवति । यथा - 'द्वितीयं कर्षणं करोति' आदयः ।" }, "54059": { "sa": "यस्य सङ्ख्यावाचकशब्दस्य अन्ते 'गुण' इति शब्दः विद्यते, तस्मात् कर्षणस्य विषये कृ-धातोः योगे डाच् प्रत्ययः स्वार्थे विधीयते । ", "sd": "यस्य शब्दस्य उत्तरपदम् 'गुण' तथा पूर्वपदम् सङ्ख्यावाचकः शब्दः अस्ति, तस्मात् शब्दात् कर्षणस्य (To plow a field सन्दर्भे कृ-धातोः योगे 'डाच्' प्रत्ययः स्वार्थे भवति ।\nयथा - द्विगुणं कर्षणं करोति (Plows a field two times इत्येव = द्विगुणं + डाच् → द्विगुणा करोति । प्रक्रिया इयम् -\nद्विगुण + डाच्\n→ द्विगुण + आ [इत्संज्ञालोपः]\n→ द्विगुण् + आ [<<टेः>> [[6.4.143]] इति टिलोपः]\n→ द्विगुणा\nएवमेव - त्रिगुणं कर्षणं करोति इत्येव = त्रिगुणा करोति ।\nविशेषः - डाच्-प्रत्ययान्तशब्दानाम् <<ऊर्यादिच्विडाचश्च>> [[1.4.61]] इत्यनेन 'निपात' तथा 'गति'द्वे अपि संज्ञे भवतः । अस्य प्रयोजनानि एतानि -\nअ) निपातसंज्ञायाः कारणात् <<स्वरादिनिपातमव्ययम्>> [[1.1.37]] इत्यनेन एतेषाम् अव्ययसंज्ञा अपि भवति । इत्युक्ते, सर्वे डाच्-प्रत्ययान्तशब्दाः 'अव्यय'संज्ञकाः अपि सन्ति ।\nआ) डाच्-प्रत्ययान्तशब्दाः यदा कृदन्तशब्दानां योगे प्रयुज्यन्ते, तदा 'गतिसंज्ञा'कारणात् <<कुगतिप्रादयः>> [[2.2.18]] इत्यनेन तेषाम् कृदन्तशब्देन सह नित्यं तत्पुरुषसमासः भवति । यथा - द्विगुणाकृतः / द्विगुणाकृत्य - आदयः शब्दाः समस्तपदेन जायन्ते । अतः एतेषामुच्चारणसमये द्वयोर्मध्ये विरामः न ग्रहीतव्यः । तिङन्तैः सह योगे तु एतादृशम् समस्तपदम् न भवति, अतः तत्र 'द्विगुणा करोति' एतादृशम् शब्दद्वयमेव लेखनीयम् ।\nइ) गतिसंज्ञकाः शब्दाः <<ते प्राग्धातोः>> [[1.4.80]] इत्यनेन धातोः पूर्वम् एव प्रयोक्तव्याः । अतः 'द्विगुणा करोति' इत्येव वक्तव्यम्, न हि 'करोति द्विगुणा' इति ।\nस्मर्तव्यम् - इदम् सूत्रम् <<समर्थानाम् प्रथमात् वा>> [[4.1.82]] अस्मिन् सूत्रे निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, अतः अनेन सूत्रेण उक्तः 'डाच्' प्रत्ययः विकल्पेनैव विधीयते । इत्युक्ते, पक्षे वाक्यस्य अपि प्रयोगः भवति । यथा - 'द्विगुणं कर्षणं करोति' आदयः ।" }, "54060": { "sa": "'समय' शब्दात् कृ-धातोः योगे यापनायाम् गम्यमानायाम् स्वार्थे डाच्-प्रत्ययः भवति । ", "sd": "'यापना' (= विलम्बनम्, कालक्षेप, delay) अस्मिन् सन्दर्भे 'कृ' धातोः योगे 'समय' शब्दात् स्वार्थे डाच्-प्रत्ययः भवति ।\nयथा - समयम् यापयति इत्येव = समय + डाच् + कृ → समया करोति । प्रक्रिया इयम् -\nसमय + डाच्\n→ समय + आ [इत्संज्ञालोपः]\n→ समय् + आ [<<टेः>> [[6.4.143]] इति टिलोपः]\n→ समया\nस्मर्तव्यम् -\n1. 'यापनायाम्' इति निर्देशात् अत्र विग्रहवाक्ये 'यापयति' इति शब्दः प्रयुज्यते ।\n2. डाच्-प्रत्ययान्तशब्दानाम् <<ऊर्यादिच्विडाचश्च>> [[1.4.61]] इत्यनेन 'निपात' तथा 'गति'द्वे अपि संज्ञे भवतः । अस्य प्रयोजनानि एतानि -\nअ) निपातसंज्ञायाः कारणात् <<स्वरादिनिपातमव्ययम्>> [[1.1.37]] इत्यनेन एतेषाम् अव्ययसंज्ञा अपि भवति । इत्युक्ते, सर्वे डाच्-प्रत्ययान्तशब्दाः 'अव्यय'संज्ञकाः अपि सन्ति ।\nआ) डाच्-प्रत्ययान्तशब्दाः यदा कृदन्तशब्दानां योगे प्रयुज्यन्ते, तदा 'गतिसंज्ञा'कारणात् <<कुगतिप्रादयः>> [[2.2.18]] इत्यनेन तेषाम् कृदन्तशब्देन सह नित्यं तत्पुरुषसमासः भवति । यथा - समयाकृत्य / समयाकृतः - आदयः शब्दाः समस्तपदेन जायन्ते । अतः एतेषामुच्चारणसमये द्वयोर्मध्ये विरामः न ग्रहीतव्यः । तिङन्तैः सह योगे तु एतादृशम् समस्तपदम् न भवति, अतः तत्र 'समया करोति' एतादृशम् शब्दद्वयमेव लेखनीयम् ।\nइ) गतिसंज्ञकाः शब्दाः <<ते प्राग्धातोः>> [[1.4.80]] इत्यनेन धातोः पूर्वम् एव प्रयोक्तव्याः । अतः 'समया करोति' इत्येव वक्तव्यम्, न हि 'करोति समया' इति ।\n3. इदम् सूत्रम् <<समर्थानाम् प्रथमात् वा>> [[4.1.82]] अस्मिन् सूत्रे निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, अतः अनेन सूत्रेण उक्तः 'डाच्' प्रत्ययः विकल्पेनैव विधीयते । इत्युक्ते, पक्षे वाक्यस्य अपि प्रयोगः भवति । यथा - 'समयम् यापयति' इति । " }, "54061": { "sa": "'सपत्र' तथा 'निष्पत्र' एतयोः शब्दयोः 'अतिव्यथनम् / तीव्रपीडा' अस्मिन् सन्दर्भे कृ-धातोः संयोगे डाच्-प्रत्ययः भवति । ", "sd": "'अतिव्यथनम्' इत्युक्ते 'तीव्रपीडा' (Intense injury / pain) । अस्मिन् सन्दर्भे 'सपत्र' तथा 'निष्पत्र' शब्दाभ्याम् 'कृ' धातोः योगे डाच्-प्रत्ययः भवति ।\nकः अस्य अर्थः ? 'सपत्र' तथा 'निष्पत्र' एतयोः पदयोः विद्यमानेन 'पत्र' इत्यनेन शब्देन शरस्य अन्ते विद्यमानायाः पत्रसदृश्याः आकृतेः निर्देशः कृतः अस्ति । The feather-like shape present at the rear and of an arrow is referred as पत्र । एतादृशः शरः यदि कस्यचन मृगस्य शरीरं प्रविश्य तत्रैव स्थित्वा तस्मै तीव्रपीडां ददाति, तर्हि तस्य निर्देशः 'मृगः सपत्रम् जातः' इत्यनेन क्रियते । एवमेव यदि एतादृशः शरः मृगस्य शरीरं प्रविश्य विरुद्धदिशः बहिरागच्छति (the arrow passes through the animal and emerges from the other side) , तर्हि तस्य निर्देशः 'मृगः निष्पत्रम् जातः' इत्यनेन क्रियते । अस्मिन् सन्दर्भे 'कृ' धातोः संयोगे वर्तमानसूत्रेण 'डाच्' प्रत्ययः प्रयुज्यते । यथा -\n1. व्याधः मृगम् सपत्रम् करोति (= सपत्रम् शरम् शरीरे प्रवेशयति) इत्येव = व्याधः मृगम् सपत्रा करोति । प्रक्रिया इयम् -\nसपत्र + डाच्\n→ सपत्र + आ [डकारचकारयोः इत्संज्ञा, लोपः]\n→ सपत्र् + आ [<<टेः>> [[6.4.143]] इति टिलोपः]\n→ सपत्रा\nएवमेव = व्याधः मृगं निष्पत्रम् करोति = व्याधः मृगम् निष्पत्रा करोति ।\nस्मर्तव्यम् -\n1. डाच्-प्रत्ययान्तशब्दानाम् <<ऊर्यादिच्विडाचश्च>> [[1.4.61]] इत्यनेन 'निपात' तथा 'गति'द्वे अपि संज्ञे भवतः । अस्य प्रयोजनानि एतानि -\nअ) निपातसंज्ञायाः कारणात् <<स्वरादिनिपातमव्ययम्>> [[1.1.37]] इत्यनेन एतेषाम् अव्ययसंज्ञा अपि भवति । इत्युक्ते, सर्वे डाच्-प्रत्ययान्तशब्दाः 'अव्यय'संज्ञकाः अपि सन्ति ।\nआ) डाच्-प्रत्ययान्तशब्दाः यदा कृदन्तशब्दानां योगे प्रयुज्यन्ते, तदा 'गतिसंज्ञा'कारणात् <<कुगतिप्रादयः>> [[2.2.18]] इत्यनेन तेषाम् कृदन्तशब्देन सह नित्यं तत्पुरुषसमासः भवति । यथा - 'निष्पत्राकृतः', 'निष्पत्राकृत्य' - आदयः शब्दाः समस्तपदेन जायन्ते । अतः एतेषामुच्चारणसमये द्वयोर्मध्ये विरामः न ग्रहीतव्यः । तिङन्तैः सह योगे तु एतादृशम् समस्तपदम् न भवति, अतः तत्र 'निष्पत्रा करोति' एतादृशम् शब्दद्वयमेव लेखनीयम् ।\nइ) गतिसंज्ञकाः शब्दाः <<ते प्राग्धातोः>> [[1.4.80]] इत्यनेन धातोः पूर्वम् एव प्रयोक्तव्याः । अतः 'निष्पत्रा करोति' इत्येव वक्तव्यम्, न हि 'करोति निष्पत्रा' इति ।\n2. इदम् सूत्रम् <<समर्थानाम् प्रथमात् वा>> [[4.1.82]] अस्मिन् सूत्रे निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, अतः अनेन सूत्रेण उक्तः 'डाच्' प्रत्ययः विकल्पेनैव विधीयते । इत्युक्ते, पक्षे वाक्यस्य अपि प्रयोगः भवति । यथा - 'निष्पत्रम् करोति' इति । " }, "54062": { "sa": "'कृ' धातोः योगे प्रयुक्तात् 'निष्कुल' शब्दात् निष्कोषणे गम्यमाने डाच्-प्रत्ययः स्वार्थे विधीयते । ", "sd": "'निष्कोषणम्' इत्युक्ते 'अन्तरवयवानाम् बहिः निष्कासनम्' (To pull the internal organs out by killing someone) । अस्याः क्रियायाः निर्देशार्थम् 'निष्कुलम्' इति शब्दः अपि प्रयुज्यते । अयमेव शब्दः यदा 'कृ' धातोः योगेन प्रयुज्यते, तदा तस्मात् वर्तमानसूत्रेण 'डाच्' प्रत्ययः भवति । यथा -\nनिष्कुलम् करोति इत्येव = निष्कुला करोति ।प्रक्रिया इयम् -\nनिष्कुल + डाच्\n→ निष्कुल + आ [इत्संज्ञालोपः]\n→ निष्कुल् + आ [<<टेः>> [[6.4.143]] इति टिलोपः[\n→ निष्कुला ।\n'निष्कुल' शब्दः यत्र अन्येषु अर्थेषु प्रयुज्यते (यथा - कुलस्य नाशः इति) तत्र तु वर्तमानसूत्रस्य प्रयोगः न भवति । यथा - 'महाभारतयुद्धेन कौरवाः निष्कुलाः कृताः' - इत्यत्र वर्तमानसूत्रस्य प्रयोगः नैव क्रियते ।\nविशेषः -\n1. डाच्-प्रत्ययान्तशब्दानाम् <<ऊर्यादिच्विडाचश्च>> [[1.4.61]] इत्यनेन 'निपात' तथा 'गति'द्वे अपि संज्ञे भवतः । अस्य प्रयोजनानि एतानि -\nअ) निपातसंज्ञायाः कारणात् <<स्वरादिनिपातमव्ययम्>> [[1.1.37]] इत्यनेन एतेषाम् अव्ययसंज्ञा अपि भवति । इत्युक्ते, सर्वे डाच्-प्रत्ययान्तशब्दाः 'अव्यय'संज्ञकाः अपि सन्ति ।\nआ) डाच्-प्रत्ययान्तशब्दाः यदा कृदन्तशब्दानां योगे प्रयुज्यन्ते, तदा 'गतिसंज्ञा'कारणात् <<कुगतिप्रादयः>> [[2.2.18]] इत्यनेन तेषाम् कृदन्तशब्देन सह नित्यं तत्पुरुषसमासः भवति । यथा - 'निष्कुलाकृतः, निष्कुलाकृत्य - आदयः शब्दाः समस्तपदेन जायन्ते । अतः एतेषामुच्चारणसमये द्वयोर्मध्ये विरामः न ग्रहीतव्यः । तिङन्तैः सह योगे तु एतादृशम् समस्तपदम् न भवति, अतः तत्र 'निष्कुला करोति' एतादृशम् शब्दद्वयमेव लेखनीयम् ।\nइ) गतिसंज्ञकाः शब्दाः <<ते प्राग्धातोः>> [[1.4.80]] इत्यनेन धातोः पूर्वम् एव प्रयोक्तव्याः । अतः 'निष्कुला करोतिः इत्येव वक्तव्यम्, न हि 'निष्कुलम् करोति' इति ।\n2. इदम् सूत्रम् <<समर्थानाम् प्रथमात् वा>> [[4.1.82]] अस्मिन् सूत्रे निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, अतः अनेन सूत्रेण उक्तः 'डाच्' प्रत्ययः विकल्पेनैव विधीयते । इत्युक्ते, पक्षे वाक्यस्य अपि प्रयोगः भवति । यथा - 'निष्कुलं करोति ' इति ।\n" }, "54063": { "sa": "'कृ' धातोः योगे विद्यमानात् 'सुख' तथा 'प्रिय' शब्दात् आनुलोम्ये गम्यमाने डाच्-प्रत्ययः स्वार्थे विधीयते । ", "sd": "'आनुलोम्य' इत्युक्ते अनुकूल-वर्तनम् । 'कृ' धातोः योगे प्रयुक्ताभ्याम् 'सुख' तथा 'प्रिय' एताभ्यां शब्दाभ्यामानुलोम्ये गम्यमाने (= अनुकुलम् वर्तनम् इति सन्दर्भे) 'डाच्' प्रत्ययः स्वार्थे विधीयते । यथा -\n1. गुरुम् प्रति सुखपूर्वकं (= अनुकूलम् इत्याशयः) वर्तनं करोति = सुखा करोति ।\n2. पितॄन् प्रति प्रियपूर्वकं (= अनुकूलम् इत्याशयः) वर्तनं करोति = प्रिया करोति ।\nप्रक्रिया एतादृशी -\nसुख / प्रिय + डाच्\n→ सुख् / प्रिय् + आ [<<टेः>> [[6.4.143]] इति टिलोपः]\n→ सुखा / प्रिया\nअन्येषु सन्दर्भेषु अयम् प्रत्ययः न कर्त्तव्यः । यथा - 'सुखम् प्राप्नोति / सुखेन खादति / प्रियम् पश्यति' - इत्यत्र प्रत्ययः न भवति ।\nविशेषः -\n1. डाच्-प्रत्ययान्तशब्दानाम् <<ऊर्यादिच्विडाचश्च>> [[1.4.61]] इत्यनेन 'निपात' तथा 'गति'द्वे अपि संज्ञे भवतः । अस्य प्रयोजनानि एतानि -\nअ) निपातसंज्ञायाः कारणात् <<स्वरादिनिपातमव्ययम्>> [[1.1.37]] इत्यनेन एतेषाम् अव्ययसंज्ञा अपि भवति । इत्युक्ते, सर्वे डाच्-प्रत्ययान्तशब्दाः 'अव्यय'संज्ञकाः अपि सन्ति ।\nआ) डाच्-प्रत्ययान्तशब्दाः यदा कृदन्तशब्दानां योगे प्रयुज्यन्ते, तदा 'गतिसंज्ञा'कारणात् <<कुगतिप्रादयः>> [[2.2.18]] इत्यनेन तेषाम् कृदन्तशब्देन सह नित्यं तत्पुरुषसमासः भवति । यथा - 'सुखाकृत्य' / 'सुखाकृतः' आदयः शब्दाः समस्तपदेन जायन्ते । अतः एतेषामुच्चारणसमये द्वयोर्मध्ये विरामः न ग्रहीतव्यः । तिङन्तैः सह योगे तु एतादृशम् समस्तपदम् न भवति, अतः तत्र 'सुखा करोति' एतादृशम् शब्दद्वयमेव लेखनीयम् ।\nइ) गतिसंज्ञकाः शब्दाः <<ते प्राग्धातोः>> [[1.4.80]] इत्यनेन धातोः पूर्वम् एव प्रयोक्तव्याः । अतः 'सुखा करोति' इत्येव वक्तव्यम्, न हि 'करोति सुखा' इति ।\n2. इदम् सूत्रम् <<समर्थानाम् प्रथमात् वा>> [[4.1.82]] अस्मिन् सूत्रे निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, अतः अनेन सूत्रेण उक्तः 'डाच्' प्रत्ययः विकल्पेनैव विधीयते । इत्युक्ते, पक्षे वाक्यस्य अपि प्रयोगः भवति । यथा - 'सुखम् वर्तनम् करोति' इति ।\n" }, "54064": { "sa": "कृ-धातोः योगे प्रयुक्तात् 'दुःख'शब्दात् प्रातिलोम्ये गम्यमाने डाच्-प्रत्ययः भवति । ", "sd": "'प्रातिलोम्य' इत्युक्ते प्रतिकूल-वर्तनम् । 'कृ' धातोः योगे प्रयुक्ताभ्याम् 'दुःख' शब्दात् आनुलोम्ये गम्यमाने 'डाच्' प्रत्ययः स्वार्थे विधीयते ।\nयथा - गुरुम् प्रति दुःखपूर्वकं (= प्रतिकूलम् इत्याशयः) वर्तनं करोति = दुःखा करोति । प्रक्रिया एतादृशी -\nदुःख + डाच्\n→ दुःख् + आ [<<टेः>> [[6.4.143]] इति टिलोपः]\n→ दुःखा\nविशेषः -\n1. डाच्-प्रत्ययान्तशब्दानाम् <<ऊर्यादिच्विडाचश्च>> [[1.4.61]] इत्यनेन 'निपात' तथा 'गति'द्वे अपि संज्ञे भवतः । अस्य प्रयोजनानि एतानि -\nअ) निपातसंज्ञायाः कारणात् <<स्वरादिनिपातमव्ययम्>> [[1.1.37]] इत्यनेन एतेषाम् अव्ययसंज्ञा अपि भवति । इत्युक्ते, सर्वे डाच्-प्रत्ययान्तशब्दाः 'अव्यय'संज्ञकाः अपि सन्ति ।\nआ) डाच्-प्रत्ययान्तशब्दाः यदा कृदन्तशब्दानां योगे प्रयुज्यन्ते, तदा 'गतिसंज्ञा'कारणात् <<कुगतिप्रादयः>> [[2.2.18]] इत्यनेन तेषाम् कृदन्तशब्देन सह नित्यं तत्पुरुषसमासः भवति । यथा - 'दुःखाकृत्य' / 'दुःखाकृतः' आदयः शब्दाः समस्तपदेन जायन्ते । अतः एतेषामुच्चारणसमये द्वयोर्मध्ये विरामः न ग्रहीतव्यः । तिङन्तैः सह योगे तु एतादृशम् समस्तपदम् न भवति, अतः तत्र 'दुःखा करोति' एतादृशम् शब्दद्वयमेव लेखनीयम् ।\nइ) गतिसंज्ञकाः शब्दाः <<ते प्राग्धातोः>> [[1.4.80]] इत्यनेन धातोः पूर्वम् एव प्रयोक्तव्याः । अतः 'दुःखा करोति' इत्येव वक्तव्यम्, न हि 'करोति दुःखा' इति ।\n2. इदम् सूत्रम् <<समर्थानाम् प्रथमात् वा>> [[4.1.82]] अस्मिन् सूत्रे निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, अतः अनेन सूत्रेण उक्तः 'डाच्' प्रत्ययः विकल्पेनैव विधीयते । इत्युक्ते, पक्षे वाक्यस्य अपि प्रयोगः भवति । यथा - 'दुःखम् वर्तनम् करोति' इति ।\n" }, "54065": { "sa": "कृ-धातोः योगे प्रयुक्तात् 'शूल' शब्दात् पाकस्य निर्देशार्थम् डाच्-प्रत्ययः भवति । ", "sd": "कृ-धातोः योगे प्रयुक्तात् 'शूल' ( spear / an instrument with a pointed tip) अस्मात् शब्दात् पाकस्य निर्देशार्थम् 'डाच्' प्रत्ययः भवति ।\nयथा - शूलं करोति मांसम् (शूले मांसं पचति / cooks meat in a pointed vessel) इत्येव = शूला करोति । प्रक्रिया इयम् -\nशूल + डाच्\n→ शूल् + आ [<<टेः>> [[6.4.143]] इति टिलोपः]\n→ शूला\nविशेषः -\n1. डाच्-प्रत्ययान्तशब्दानाम् <<ऊर्यादिच्विडाचश्च>> [[1.4.61]] इत्यनेन 'निपात' तथा 'गति'द्वे अपि संज्ञे भवतः । अस्य प्रयोजनानि एतानि -\nअ) निपातसंज्ञायाः कारणात् <<स्वरादिनिपातमव्ययम्>> [[1.1.37]] इत्यनेन एतेषाम् अव्ययसंज्ञा अपि भवति । इत्युक्ते, सर्वे डाच्-प्रत्ययान्तशब्दाः 'अव्यय'संज्ञकाः अपि सन्ति ।\nआ) डाच्-प्रत्ययान्तशब्दाः यदा कृदन्तशब्दानां योगे प्रयुज्यन्ते, तदा 'गतिसंज्ञा'कारणात् <<कुगतिप्रादयः>> [[2.2.18]] इत्यनेन तेषाम् कृदन्तशब्देन सह नित्यं तत्पुरुषसमासः भवति । यथा - 'शूलाकृतः', 'शूलाकृत्य' - आदयः शब्दाः समस्तपदेन जायन्ते । अतः एतेषामुच्चारणसमये द्वयोर्मध्ये विरामः न ग्रहीतव्यः । तिङन्तैः सह योगे तु एतादृशम् समस्तपदम् न भवति, अतः तत्र 'शूला करोति' एतादृशम् शब्दद्वयमेव लेखनीयम् ।\nइ) गतिसंज्ञकाः शब्दाः <<ते प्राग्धातोः>> [[1.4.80]] इत्यनेन धातोः पूर्वम् एव प्रयोक्तव्याः । अतः 'शूला करोति' इत्येव वक्तव्यम्, न हि 'करोति शूला' इति ।\n2. इदम् सूत्रम् <<समर्थानाम् प्रथमात् वा>> [[4.1.82]] अस्मिन् सूत्रे निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, अतः अनेन सूत्रेण उक्तः 'डाच्' प्रत्ययः विकल्पेनैव विधीयते । इत्युक्ते, पक्षे वाक्यस्य अपि प्रयोगः भवति । यथा - 'शूलं करोति मांसम्' इति । अत्र 'शूलं करोति' इति शब्दः 'शूले पचति' इत्यस्मिन् अर्थे ग्रहीतव्यः ।\n" }, "54066": { "sa": "'कृ' धातोः योगे प्रयुक्तात् 'सत्य' शब्दात् 'शपथ' एतम् सन्दर्भं विहाय अन्येषु सन्दर्भेषु 'डाच्' इति प्रत्ययः स्वार्थे विधीयते । ", "sd": "'कृ' धातोः योगे प्रयुक्तः यः 'सत्य' शब्दः, तस्मात् स्वार्थे डाच्-प्रत्ययः विधीयते ।\nकृ-धातोः योगे 'सत्य' शब्दः कदा प्रयुज्यते ? यदा कश्चन मनुष्यः कञ्चित् निश्चयमुक्त्वा, तादृशम् प्रत्यक्षरूपेण करोति (brings his words / thought into reality) तदा तस्य निर्दशः 'सत्यम् करोति' इति उच्यते । यथा, 'अहम् एतत् भाण्डम् क्रेष्यामि' इति उक्त्वा कश्चन वणिक् तादृशम् भाण्डम् क्रेष्यति, तदा 'वणिक् भाण्डम् सत्यम् करोति (Really purchases the pot)' इति उच्यते । अस्यैव निर्देशार्थम् 'सत्य' शब्दात् डाच्-प्रत्ययः भवति । यथा - वणिक् भाण्डम् सत्या करोति ।\nप्रक्रिया इयम् -\nसत्य + डाच्\n→ सत्य् + आ [<<टेः>> [[6.4.143]] इति टिलोपः]\n→ सत्या\nयत्र सत्य शब्दः 'शपथ' अस्मिन् सन्दर्भे प्रयुज्यते - यथा 'विप्रः शपथे सत्यं करोति'' (A brahmin takes an oath of speaking the truth) तत्र तु अस्य सूत्रस्य प्रयोगः न भवति - इति स्पष्टीकर्तुमस्मिन् सूत्रे 'अशपथे' इतो ग्रहीतमस्ति ।\nविशेषः\n1. डाच्-प्रत्ययान्तशब्दानाम् <<ऊर्यादिच्विडाचश्च>> [[1.4.61]] इत्यनेन 'निपात' तथा 'गति'द्वे अपि संज्ञे भवतः । अस्य प्रयोजनानि एतानि -\nअ) निपातसंज्ञायाः कारणात् <<स्वरादिनिपातमव्ययम्>> [[1.1.37]] इत्यनेन एतेषाम् अव्ययसंज्ञा अपि भवति । इत्युक्ते, सर्वे डाच्-प्रत्ययान्तशब्दाः 'अव्यय'संज्ञकाः अपि सन्ति ।\nआ) डाच्-प्रत्ययान्तशब्दाः यदा कृदन्तशब्दानां योगे प्रयुज्यन्ते, तदा 'गतिसंज्ञा'कारणात् <<कुगतिप्रादयः>> [[2.2.18]] इत्यनेन तेषाम् कृदन्तशब्देन सह नित्यं तत्पुरुषसमासः भवति । यथा - 'सत्याकृत्य', 'सत्याकृतः' आदयः शब्दाः समस्तपदेन जायन्ते । अतः एतेषामुच्चारणसमये द्वयोर्मध्ये विरामः न ग्रहीतव्यः । तिङन्तैः सह योगे तु एतादृशम् समस्तपदम् न भवति, अतः तत्र 'सत्या करोति' एतादृशम् शब्दद्वयमेव लेखनीयम् ।\nइ) गतिसंज्ञकाः शब्दाः <<ते प्राग्धातोः>> [[1.4.80]] इत्यनेन धातोः पूर्वम् एव प्रयोक्तव्याः । अतः 'सत्या करोति' इत्येव वक्तव्यम्, न हि 'करोति सत्या' इति ।\n2. इदम् सूत्रम् <<समर्थानाम् प्रथमात् वा>> [[4.1.82]] अस्मिन् सूत्रे निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, अतः अनेन सूत्रेण उक्तः 'डाच्' प्रत्ययः विकल्पेनैव विधीयते । इत्युक्ते, पक्षे वाक्यस्य अपि प्रयोगः भवति । यथा - 'वणिग् भाण्डम् सत्यं करोति' इति । " }, "54067": { "sa": "कृ-धातोः योगे विद्यमानात् 'मद्र' शब्दात् 'परिवापण' अस्मिन् सन्दर्भे स्वार्थे डाच्-प्रत्ययः भवति । ", "sd": "'परिवापणम्' (= मुण्डनम्, removing all the hairs from the head) इत्यस्मिन् सन्दर्भे प्रयुक्तः यः 'मद्र' (= मङ्गलम्, भद्रम्, auspicious ) शब्दः , सः यदा 'कृ' धातोः योगे प्रयुज्यते तदा तस्मात् स्वार्थे डाच्-प्रत्ययः भवति ।\nयथा - मद्रम् परिवापणम् करोति इत्येव = मद्रा करोति । प्रक्रिया इयम् -\nमद्र + डाच्\n→ मद्र् + आ [<<टेः>> [[6.4.143]] इति टिलोपः]\n→ मद्रा\nयत्र 'मुण्डनम्' इति अर्थः न विद्यते, तत्र वर्तमानसूत्रस्य प्रयोगः न भवति । यथा - मद्रम् कार्यम् करोति ।\nअत्र एकम् वार्त्तिकम् ज्ञातव्यम् - । 'भद्र' शब्दात् अपि अस्मिन्नेव विषये डाच्-प्रत्ययः भवति इत्यर्थः । यथा - भद्रम् परिवापणम् करोति इत्येव = भद्राकरोति (माङ्गल्यार्थम् मुण्डनं करोति इत्याशयः) ।\nज्ञातव्यम् -\n1. डाच्-प्रत्ययान्तशब्दानाम् <<ऊर्यादिच्विडाचश्च>> [[1.4.61]] इत्यनेन 'निपात' तथा 'गति'द्वे अपि संज्ञे भवतः । अस्य प्रयोजनानि एतानि -\nअ) निपातसंज्ञायाः कारणात् <<स्वरादिनिपातमव्ययम्>> [[1.1.37]] इत्यनेन एतेषाम् अव्ययसंज्ञा अपि भवति । इत्युक्ते, सर्वे डाच्-प्रत्ययान्तशब्दाः 'अव्यय'संज्ञकाः अपि सन्ति ।\nआ) डाच्-प्रत्ययान्तशब्दाः यदा कृदन्तशब्दानां योगे प्रयुज्यन्ते, तदा 'गतिसंज्ञा'कारणात् <<कुगतिप्रादयः>> [[2.2.18]] इत्यनेन तेषाम् कृदन्तशब्देन सह नित्यं तत्पुरुषसमासः भवति । यथा - 'मद्राकृत्य', 'मद्राकृतः' - आदयः शब्दाः समस्तपदेन जायन्ते । अतः एतेषामुच्चारणसमये द्वयोर्मध्ये विरामः न ग्रहीतव्यः । तिङन्तैः सह योगे तु एतादृशम् समस्तपदम् न भवति, अतः तत्र 'मद्रा करोति' एतादृशम् शब्दद्वयमेव लेखनीयम् ।\nइ) गतिसंज्ञकाः शब्दाः <<ते प्राग्धातोः>> [[1.4.80]] इत्यनेन धातोः पूर्वम् एव प्रयोक्तव्याः । अतः 'मद्रा करोति' इत्येव वक्तव्यम्, न हि 'करोति मद्रा' इति ।\n2. इदम् सूत्रम् <<समर्थानाम् प्रथमात् वा>> [[4.1.82]] अस्मिन् सूत्रे निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, अतः अनेन सूत्रेण उक्तः 'डाच्' प्रत्ययः विकल्पेनैव विधीयते । इत्युक्ते, पक्षे वाक्यस्य अपि प्रयोगः भवति । यथा - 'मद्रम् करोति' इति ।\n " }, "54068": { "sa": "अधिकारसूत्रमिदम् । अस्मात् सूत्रात् आरभ्य पञ्चमाध्यायस्य अन्तपर्यन्तम् पाठिताः तद्धितप्रत्ययाः समासप्रक्रियायामन्तिमसोपाने विधीयन्ते । ", "sd": "इदमधिकारसूत्रम् । समासान्तप्रत्ययानामधिकारः अस्मात् सूत्रात् आरभ्य पञ्चमाध्यायस्य अन्तिमसूत्रपर्यन्तम् (= तद्धिताधिकारस्य अन्तपर्यन्तम्) गच्छति ।\nकिम् नाम समासान्ताः प्रत्ययाः ? समासप्रक्रियायाम् कुत्रचित् अन्तिमसोपाने कश्चन तद्धितप्रत्ययः विधीयते । अयम् प्रत्ययः समासान्तप्रत्ययः नाम्ना ज्ञायते । अस्य प्रत्ययस्य प्रयोगं विना समासस्य निर्माणमेव न भवति ।\nयथा - 'मद्राणाम् राजा' इत्यत्र एतादृशः समासः भवति -\nमद्राणाम् राजा [<<षष्ठी>> [[2.2.8]] इति षष्ठीतत्पुरुषः समासः]\n= मद्र + आम् + राजन् + सुँ [अलौकिकविग्रहः]\n→ मद्र + राजन् [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति आम्-प्रत्ययस्य सुँ-प्रत्ययस्य च लोपः]\n→ मद्र + राजन् + टच् [<<राजाहस्सखिभ्यष्टच्>> [[5.4.91]] इति 'टच्' प्रत्ययः । अयम् समासान्तप्रत्ययः अस्ति ]\n→ मद्र + राजन् + अ [टकारचकारयोः इत्संज्ञा, लोपः]\n→ मद्र + राज् + अ [<<नस्तद्धिते>> [[6.4.144]] इति टिलोपः]\n→ मद्रराज [वर्णमेलनम्]\nअनेन प्रकारेण 'मद्राणाम् राजा मद्रराजः' इति समासः सिद्ध्यति । यदि अत्र 'टच्' इति तद्धितप्रत्ययः न आगच्छेत्, तर्हि 'मद्रराजन्' इति अनिष्टं प्रातिपदिकम् सिद्ध्येत् । अतः अत्र समासप्रक्रियायाम् 'टच्' प्रत्ययस्य योजनमावश्यकमस्ति । एतादृशाः प्रत्ययाः, ये समासप्रक्रियायामन्ते विधीयन्ते , ते सर्व समासान्तप्रत्ययाः अस्मिन् अधिकारे पाठिताः सन्ति ।\nप्रश्नः - सर्वे समासान्तप्रत्ययाः तद्धितप्रत्ययाः अपि किमर्थम् सन्ति ?\nउत्तरम् - तद्धितप्रत्ययविशिष्टं कार्याणि (यथा <<नस्तद्धिते>> [[6.4.144]] इति टिलोपः, <<तद्धितस्य>> [[6.4.144]] इति स्वरविधानम् - आदयः) कारयितुम् एतेषाम् तद्धितसंज्ञा भवति । तथा च, एते प्रत्ययाः प्रातिपदिकात् विधीयन्ते, एतेषाम् योजनेन चापि प्रातिपदिकमेव सिद्ध्यति, अतः एतेषाम् 'तद्धित' इत्येव संज्ञा समीचीना ।\nज्ञातव्यम् -\n1. अस्मिन् अधिकारे विहितः समासान्तप्रत्ययः समासस्य अवयवरूपेणैव विधीयते । इत्युक्ते, समासस्य निर्माणम् सम्पूर्णरूपेण तदा एव भवति यदा समासान्तप्रत्यययोजननेन तद्धितान्तशब्दः सिद्ध्यति । अयम् तद्धितान्तशब्दः एव 'समस्तपदम्' नाम्ना ज्ञायते । समासविशिष्टानि कार्याणि (यथा, <<द्विगोः>> [[4.1.21]] इति ङीप्-प्रत्ययः, <<परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः>> [[2.4.26]] इति लिङ्गनिर्णयः - आदीनि) अस्मात् तद्धितान्तशब्दात् एव भवितुमर्हन्ति ।\n2. सर्वेषु समासेषु समासान्तप्रत्ययाः न भवन्ति । केषुचन समासेषु, केषाञ्चन शब्दानां विषये एव समासप्रक्रियायाम् तद्धितप्रत्ययः (= समासान्तप्रत्ययः) भवति । एतेषाम् सङ्कलनमस्मिन् अधिकारे कृतमस्ति ।\n3. अस्मिन् अधिकारे पाठिताः तद्धितप्रत्ययाः समासप्रक्रियायाम् एव प्रयोक्तव्याः । एतेषामन्यत्र (वाक्येषु / शब्दनिर्माणे) प्रयोगः नैव भवितुमर्हति । " }, "54069": { "sa": "पूजनवाचकेभ्यः शब्देभ्यः समासान्तप्रत्ययाः न विधीयन्ते । ", "sd": "<<समासान्ताः>> [[5.4.69]] अस्मिन् अधिकारे विहिताः समासान्तप्रत्ययाः पूजनवाचकेभ्यः शब्देभ्यः (= यत्र आदररूपेण विधानम् क्रियते तेभ्यः शब्देभ्यः) न विधीयन्ते ।\nअस्य सूत्रस्य प्रयोगार्थम् वार्त्तिककारः एकम् नियम् पाठयति - । इत्युक्ते, 'सु' तथा 'अति' एतौ शब्दौ यत्र पूर्वपदरूपेण आगच्छतः, तत्रैव अस्य सूत्रस्य प्रयोगः भवति, अन्यत्र न ।\nयथा -\n1. 'शोभनः राजा' इत्यत्र <<कुगतिप्रादयः>> [[2.2.18]] इत्यनेन तत्पुरुषसमासे कृते 'सु + राजन्' इति स्थिते वस्तुतः <<राजाहस्सखिभ्यष्टच्>> [[5.4.91]] इत्यनेन टच्-प्रत्ययः भवितुमर्हति, परन्तु वर्तमानसूत्रेण सः निषिध्यते, यतः अत्र 'शोभनः राजा' इति प्रयोगः आदरवाचक; / पूजनवाचकः अस्ति । अतः अत्र 'सुराजन्' इत्येव प्रातिपदिकं सिद्ध्यति ।\n2. 'अतिशयितः राजा' (extra-ordinary king) अत्रापि <<कुगतिप्रादयः>> [[2.2.18]] इत्यनेन तत्पुरुषसमासे कृते 'अति + राजन्' इति स्थिते<<राजाहस्सखिभ्यष्टच्>> [[5.4.91]] इत्यनेन प्राप्तः टच्-प्रत्ययः वर्तमानसूत्रेण निषिध्यते, अतः 'अतिराजन्' इत्येव प्रातिपदिकं सिद्ध्यति ।\nअत्र एकम् वार्त्तिकम् ज्ञातव्यम् - । इत्युक्ते, अस्य सूत्रस्य प्रसक्तिः <<बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच्>> [[5.4.113]] इति सूत्रात् प्राक् एव विद्यते । ततः यद्यपि पूजनवाची प्रातिपदिकमस्ति, तथापि समासान्तप्रत्ययः भवत्येव । यथा, 'शोभने अक्षिणी यस्य' इत्यस्मिन् अर्थे 'सु + अक्षि' इति स्थिते <<बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच्>> [[5.4.113]] इत्यनेन अत्र षच्-प्रत्ययः भवत्येव, येन 'स्वक्ष' इति प्रातिपदिकम् सिद्ध्यति ।\nस्मर्तव्यम् - यद्यपि अस्मिन् सूत्रे 'पूजनात्' इति निर्देशः अस्ति, तथापि केवलम् 'सु' तथा 'अति' एतयोः विषये एव अस्य सूत्रस्य प्रसक्तिः अस्ति, अन्येषाम् शब्दानाम् विषये न, इति ज्ञातव्यम् । यथा 'महान् राजा' इत्यत्र यद्यपि पूजावचनमस्ति, तथाप्यत्र टच्-प्रत्ययं कृत्वा 'महाराज' इत्येव प्रातिपदिकं सिद्ध्यति ।\n" }, "54070": { "sa": "यस्मिन् समासे 'किम्' इति शब्दः निन्दाम् प्रदर्शयितुम् प्रयुज्यते, तस्मिन् समासे समासान्तप्रत्ययाः न भवन्ति । ", "sd": "<<किं क्षेपे>> [[2.1.64]] इत्यनेन सूत्रेण क्षेप (= निन्दा) अस्मिन् अर्थे किम् इति शब्दः सुबन्तेन सह समस्यते । अस्मिन् समासे समासान्तप्रत्ययाः न भवन्ति - इति वर्तमानसूत्रस्य अर्थः ।\nयथा - 'कुत्सितः राजा' (hated king / bad king) इत्यत्र <<किं क्षेपे>> [[2.1.64]] इत्यनेन 'किम् + राजन्' इति स्थिते वस्तुतः <<राजाहस्सखिभ्यष्टच्>> [[5.4.91]] इत्यनेन टच्-प्रत्ययः भवितुमर्हति, परन्तु वर्तमानसूत्रेण सः निषिध्यते । अतः अत्र 'किंराजन्' इत्येव प्रातिपदिकम् सिद्ध्यति । कुत्सितः राजा = किंराजा ।\n" }, "54071": { "sa": "नञ्-तत्पुरुष-समासात् समासान्तप्रत्ययाः न भवन्ति । ", "sd": "<<समासान्ताः>> [[5.4.68]] अस्मिन् अधिकारे पाठिताः समासान्तप्रत्ययाः नञ्-तत्पुरुष-समासस्य विषये न भवन्ति ।\nयथा - 'न राजा' (not a king) अस्मिन् अर्थे नञ्-तत्पुरुषसमासेन 'अ + राजन्' इति प्राप्ते अत्र वस्तुतः <<राजाहस्सखिभ्यष्टच्>> [[5.4.91]] इत्यनेन टच्-प्रत्ययः विधीयते, परन्तु सः वर्तमानसूत्रेण निषिध्यते, अतः अत्र 'अराजन्' इत्येव प्रातिपदिकं सिद्ध्यति । न राजा = अराजा ।\nएवमेव - न सखा = असखा । अत्रापि <<राजाहस्सखिभ्यष्टच्>> [[5.4.91]] इत्यनेन विहितः टच्-प्रत्ययः वर्तमानसूत्रेण निषिध्यते ।\nज्ञातव्यम् - नञ्-बहुव्रीहिसमासस्य विषये अयम् निषेधः न प्रवर्तते । यथा - 'अविद्यमाना धूः यस्य सः अधुरः' । अत्र <<ऋक्पूरब्धूःपथामानक्षे>> [[5.4.74]] इति 'अ'-प्रत्ययः भवत्येव ।\n" }, "54072": { "sa": "'पथिन्' इति शब्दः यस्य उत्तरपदे विद्यते तस्मात् नञ्-तत्पुरुषशब्दात् समासान्तप्रत्ययाः विकल्पेन भवन्ति । ", "sd": "अस्मिन् अधिकारे पाठिताः समासान्तप्रत्ययाः नञ्-तत्पुरुषशब्दानां विषये <<नञस्तत्पुरुषात्>> [[5.4.71]] इत्यनेन सूत्रेण निषिध्यन्ते । परन्तु यदि पथिन्-शब्दस्य विषये नञ्-तत्पुरुषसमासः विधीयते, तर्हि एते प्रत्ययाः वर्तमानसूत्रेण विभाषा (= विकल्पेन) भवितुमर्हन्ति ।\nयथा - 'न पन्थाः' इत्यस्मिन् अर्थे 'अ + पथिन्' इति नञ्-तत्पुरुष-समासे प्राप्ते प्रक्रियायाम् <<ऋक्पूरब्धूःपथामानक्षे>> [[5.4.74]] इत्यनेन 'अ' इति प्रत्ययः भवति । अयम् प्रत्ययः प्रारम्भे <<नञस्तत्पुरुषात्>> [[5.4.71]] इत्यनेन सूत्रेण निषिध्यन्ते, परन्तु वर्तमानसूत्रेण अयम् निषेधः विकल्प्यते, अतः पक्षे 'अ' प्रत्ययः भवत्येव । यथा -\n1. [अ-प्रत्ययस्य निषेधपक्षः = ] न पन्थाः = अ + पथिन् → अपथिन् ।\n2. [अ-प्रत्ययस्य प्रयोगपक्षः =] न पन्थाः = अ + पथिन् + अ → अपथ । <<नस्तद्धिते>> [[6.4.144]] इति टिलोपः ।\nअतः - न पन्थाः = अपन्थाः अपथम् वा । (अत्र निर्मितः 'अपथ' शब्दः <<अपथं नपुंसकम्>> [[2.4.30]] इत्यनेन नपुंसकलिङ्गे एव विधीयते ।\nस्मर्तव्यम् -\n1. पूर्वसूत्रेण उक्तः विधिः अनेन सूत्रेण विकल्प्यते, अतः इयम् 'प्राप्तविभाषा' अस्ति । अस्मिन् विषये <<न वेति विभाषा>> [[1.1.44]] इत्यत्र विस्तारेण उक्तमस्ति ।\n2. अस्मिन् सूत्रे प्रयुक्तः 'विभाषा' इति शब्दः 'न' इत्यस्य विकल्पं कारयति । इत्युक्ते, पूर्वसूत्रेण उक्तः निषेधः वर्तमानसूत्रेण विकल्प्यते । समासान्तप्रत्ययाः पक्षे भवितुमर्हति इत्याशयः ।\n3. नञ्-बहुव्रीहिसमासस्य विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, 'न विद्यते पन्थाः अस्मिन् देशे' इत्यत्र नञ्-बहुव्रीहिसमासे कृते 'अ + पथिन्' इति स्थिते अत्र तु <<ऋक्पूरब्धूःपथामानक्षे>> [[5.4.74]] इत्यनेन 'अ' प्रत्ययः नित्यमेव भवति ।अ + पथिन् + अ = अपथ । यथा -\nन विद्यते पन्थाः अस्मिन् देशे सः अपथः देशः । " }, "54073": { "sa": "यस्य बहुव्रीहिसमासस्य उत्तरपदम् 'बहु' तथा 'गुण' एतौ शब्दौ विहाय कश्चन अन्यः सङ्ख्यावाचकः शब्दः अस्ति, तस्मात् गणनायां गम्यमानायां 'डच्' इति समासान्तप्रत्ययः भवति ।", "sd": "अनेन सूत्रेण बहुव्रीहिसमासस्य विषये 'डच्' इति समासान्तप्रत्ययः विधीयते । सङ्ख्यावाचकः शब्दः गणनार्थं यत्र बहुव्रीहिसमासस्य उत्तररूपेण विद्यते (इत्युक्ते, <<संख्ययाऽव्ययासन्नादूराधिकसंख्याः संख्येये>> [[2.2.25]] अनेन सूत्रेण यः बहुव्रीहिः समासः क्रियते), तस्य अन्ते अयम् 'डच्' प्रत्ययः आगच्छति ।\n'डच्' प्रत्यये डकारचकारयोः इत्संज्ञा, लोपः भवति । प्रत्ययस्य डित्त्वात् <<टेः>> [[6.4.143]] इति टिलोपः अपि विधीयते ।\nकानिचन उदाहरणानि पश्यामः -\n1. दशानां समीपे ये सन्ति ते = उप + दशन् + डच् → उपदशाः । Represents a entity whose count is approximately ten.\n2. पञ्चविंशतेः आसन्नाः = आसन्न + पञ्चविंशति + डच् → आसन्नपञ्चविंशाः । अत्र <<ति विंशतेर्डिति>> [[6.4.142]] इति 'ति' इत्यस्य लोपः भवति । Represents a entity whose count is approximately twenty-five.\n3. त्रिंशतः अदूराः = अदूर + त्रिंशत् + डच् → अदूरत्रिंशाः । Represents a entity whose count is close to thirty.\n4. पञ्चाशतः अधिकाः = अधिक + पञ्चाशत् + डच् → अधिकपञ्चाशाः । Represents a entity whose count is more than fifty.\n5. द्वौ वा त्रयः वा = द्वि + त्रि + डच् → द्वित्राः । Represents a entity whose count is either two or three.\n6. द्विरावृत्ताः दशः = द्वि + दशन् + डच् → द्विदशाः । Represents a entity whose count is equal to two units of ten.\nपरन्तु 'बहु' तथा 'गण' एतौ शब्दौ उत्तरपदरूपेण भवतः चेत् यद्यपि समासः क्रियते तथापि अस्य सूत्रस्य प्रसक्तिः न भवति । यथा -\n1. बहूनां समीपे ये सन्ति ते = उप + बहु → उपबहवः । अत्र डच्-प्रत्ययः न विधीयते, अतः समासान्तम् प्रातिपदिकमुकारान्तमेव विद्यते ।\n2. गणानां समीपे ये सन्ति ते = उप + गण → उपगणाः । अत्र डच्-प्रत्ययः न भवति, अतः <<बहुव्रीहौ प्रकृत्या पूर्वपदम्>> [[6.2.1]] इत्यनेन पूर्वपदस्य आदिस्वरः उदात्तत्वं प्राप्नोति । <<तद्धितस्य>> [[6.4.154]] इत्यनेन अन्तिमस्वरस्य उदात्तत्वं न जायते इत्याशयः ।\nअत्र एकम् वार्त्तिकं ज्ञातव्यम् - । इत्युक्ते, 'निर्' इत्यस्मात् अनन्तरम् त्रिंशत्, चत्वारिंशत् आदयः शब्दाः तत्पुरुषसमासे विद्यन्ते चेत् तत्रापि डच्-प्रत्ययः विधीयते । यथा -\nअ) निर्गतानि त्रिंशतः वर्षाणि तानि = निर् + त्रिंशत् + डच् → निस्त्रिंशानि वर्षाणि (देवदत्तस्य । (Thirty years of Devadattas life are over. Devadatta is thirty-one years old इत्याशयः ) ।\nआ) निर्गतानि चत्वारिंशतः दिवसाः = निर् + चत्वारिंशत् + डत् → निश्चत्वारिंशम् वर्षम् (Forty days of the year are over) ।\nइ) निर्गतः त्रिंशतः अङ्गुलिभ्यः = निर् + त्रिंशत् → निस्त्रिंशः खड्गः । A weapon whose measurement of length is not over even after counting for thirty finger-length. A weapon whose length is more than that of 30 times length of a finger - इत्याशयः ।\nअत्र सर्वेषु उदाहरणेषु <<कुगतिप्रादयः>> [[2.2.18]] इति तत्पुरुषसमासः विधीयते ।\nविशेषः - अस्मिन् सूत्रे 'सङ्ख्येय' इति शब्दः निर्दिष्टः अस्ति । अयम् निर्देशः <<संख्ययाऽव्ययासन्नादूराधिकसंख्याः संख्येये>> [[2.2.25]] इत्यत्र स्थापितस्य 'सङ्ख्येये' शब्दस्य निर्देशं करोति । यत्र समासेन निर्मितः शब्दः कस्यचन सङ्ख्येयस्य ( an entity that can be counted) निर्देशं करोति, तत्रैव समासः अपि भवितुमर्हति, तत्रैव च डच्-प्रत्ययः अपि विधीयते, इति अस्य अर्थः । " }, "54074": { "sa": "यस्मिन् समासे उत्तरपदम् 'ऋक्', 'पूर्' 'अप्', 'धूर्', तथा 'पथिन्' एतेषु किञ्चन विद्यते, तस्य विषये 'अ' इति समासान्तप्रत्ययः भवति । परन्तु यत्र समस्तपदेन अक्षस्य विषये विधानम् क्रियते, तत्र अयम् प्रत्ययः न भवति । ", "sd": "यस्मिन् समासे उत्तरपदम् 'ऋक्' (= वेदस्य ऋचा) , 'पूर्' ( = नगरी) , 'अप्' (= जलम्), 'धूर्' (= भारः), तथा 'पथिन्' (= मार्गः) एतेषु किञ्चन विद्यते, तस्य विषये 'अ' इति समासान्तप्रत्ययः भवति । परन्तु यदि समस्तपदेन अक्षस्य (axis of a wheel) विषयः कथ्यते, तत्र अस्य सूत्रस्य प्रसक्तिः नास्ति । क्रमेण पश्यामः -\n1. अर्धम् ऋचः (half of one ऋचा)\n= अर्ध + ऋच् + अ [<<अर्धं नपुंसकम्>> [[2.2.2]] इति तत्पुरुषसमासः । वर्तमानसूत्रेण समासान्ते 'अ'प्रत्ययः]\n→ अर्धर्च (half of a verse)\n2. विष्णोः पूः (City of Lord Vishnu)\n= विष्णु + पुर् + अ [<<षष्ठी>> [[2.2.8]] इति षष्ठीतत्पुरुषसमासः । वर्तमानसूत्रेण समासान्ते 'अ'प्रत्ययः]\n→ विष्णुपुर\n3. द्वयोः गताः आपः यस्मिन् (The one which has water on its both sides)\n= द्वि + अप् + अ [<<अनेकमन्यपदार्थे>> [[2.2.24]] इति बहुव्रीहिसमासः । वर्तमानसूत्रेण समासान्ते 'अ'प्रत्ययः]\n→ द्वीप [<<द्व्यन्तरुपसर्गेभ्यः अप ईत्>> [[6.3.97]] इति अकारस्य इकारादेशः]\n4. महती धूः यस्य सः (The one which has a heavy load)\n= महत् + धुर् + अ [ <<अनेकमन्यपदार्थे>> [[2.2.24]] इति बहुव्रीहिसमासः । वर्तमानसूत्रेण समासान्ते 'अ'प्रत्ययः]\n→ महाधूर [<<आन्महतः समानाधिकरणजातीययोः>> [[6.3.46]] इति महत् शब्दस्य अन्तिम-तकारस्य आकारादेशः । <<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः]\n5. सख्युः पन्थाः (Road of a friend)\n= सखिन् + पथिन् + अ [<<षष्ठी>> [[2.2.8]] इति षष्ठीतत्पुरुषसमासः । वर्तमानसूत्रेण समासान्ते 'अ'प्रत्ययः]\n→ सखि + पथ् + अ [सखिन् इत्यस्य पदसंज्ञा, अतः <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः । 'पथिन्' इत्यस्य विषये <<नस्तद्धिते>> [[6.4.144]] इति टिलोपः]\n→ सखिपथ\nयत्र समस्तपदेन अक्षस्य सम्बधी विधानम् क्रियते (when the समस्तपद talks about axis / spoke) तत्र तु वर्तमानसूत्रस्य प्रसक्तिः नास्ति । यथा -\nअक्षस्य धूः (The weight of an axis)\n= अक्ष + धुर् [<<षष्ठी>> [[2.2.8]] इति षष्ठीतत्पुरुषसमासः]\n→ अक्षधूः [<<र्वोरुपधाया दीर्घः इकः>> [[8.2.76]] इति दीर्घादेशः ; विसर्गनिर्माणम् ]\nअक्षस्य धूः अक्षधूः । Weight of an axis इत्यर्थः ।\nविशेषः - यदि 'अक्ष' शब्दः पूर्वपदे न विद्यते, तथापि समस्तपदेन 'अक्ष'शब्दस्य निर्देशः भवति चेदपि 'अ' प्रत्ययः समासान्ते नैव प्रयुज्यते । यथा -\nदृढा धूः यस्य सः (An axis whose weight is heavy)\n= दृढ + धुर [<<अनेकमन्यपदार्थे>> [[2.2.24]] इति बहुव्रीहिसमासः]\n→ दृढधूः [<<र्वोरुपधाया दीर्घः इकः>> [[8.2.76]] इति दीर्घादेशः ; विसर्गनिर्माणम् ]\nदृढा धूः यस्य सः दृढधूः । An axis whose weight is heavy इत्यर्थः । अत्र यद्यपि 'अक्ष' शब्दः समस्तपदस्य अवयवः नास्ति तथापि समस्तपदेन अक्षस्य निर्देशः भवति अतः अत्रापि 'अ' प्रत्ययस्य प्रसक्तिः नास्ति ।\n" }, "54075": { "sa": "यस्य समस्तपदस्य पूर्वपदम् 'प्रति', 'अनु', 'अव' एतेषु किञ्चन अस्ति, तथा च उत्तरपदं 'सामन्' उत 'लोमन्' एतेषु किञ्चन अस्ति तस्य विषये 'अच्' इति समासान्तप्रत्ययः भवति । ", "sd": "अनेन सूत्रेण 'अच्' इति समासान्तप्रत्ययः विधीयते । 'प्रति + सामन्', 'अनु + सामन्', 'अव + सामन्' तथा च 'प्रति + लोमन्', 'अनु + लोमन्', 'अव + लोमन्' एतेषां षण्णाम् विषये अयमच्-प्रत्ययः अत्र उक्तः अस्ति । क्रमेण पश्यामः -\n1. प्रतिगतम् साम / प्रतिगतम् साम अस्य / साम प्रति (एतादृशम् भिन्नाः समासाः भवितुमर्हन्ति इत्याशयः)\n= प्रति + सामन् + अच्\n→ प्रतिसाम [<<नस्तद्धिते>> [[6.4.144]] इति टिलोपः]\nएवमेव -\n2. अनुगतम् साम = अनु + सामन् + अच् → अनुसाम ।\n3. अवगतम् साम = अव + सामन् + अच् → अवसाम ।\n4. प्रतिगतम् लोम = प्रति + लोमन् + अच् → प्रतिलोम ।\n5. अनुगतम् लोम = अनु + सामन् + अच् → अनुलोम ।\n6. अवगतम् लोम = अव + लोमन् + अच् → अवलोम ।\nअनेन प्रकारेण एते षट् शब्दाः अत्र सिद्ध्यन्ति ।\nअत्र एकम् श्लोकवार्त्तिकम् ज्ञातव्यम् - \nअस्य अर्थः अयम् - 'कृष्ण + भूमि', 'उदक् + भूमि', 'पाण्डु + भूमि' एते समासाः तथा च यस्मिन् समासे पूर्वपदम् सङ्ख्याशब्दः अस्ति, उत्तरपदं च 'भूमि', 'नदी', 'गोदावरी' एतेषु कश्चन शब्दः अस्ति, तेषाम् सर्वेषां समासानां विषये 'अच्' प्रत्ययः भवति । यथा -\n1. कृष्णा भूमिः यस्मिन् सः = कृष्णा + भूमि + अच् → कृष्णभूमः देशः ।\n2. उदीची भूमिः यस्मिन् सः = उदक् + भूमि + अच् → उदग्भूमः देशः । The country of the northern land.\n3. पाण्डुः भूमिः यस्मिन् सः = पाण्डु + भूमि + अच् → पाण्डुभूमः देशः ।\n4. पञ्चानां भूमीनां समाहारः = पञ्चन् + भूमि + अच् → पञ्चभूमः ।\n5. पञ्चानां नदीनां समाहारः = पञ्चन् + नदी + अच् → पञ्चनदः ।\n6. पञ्चानां गोदावरीणां समाहारः = पञ्चन् + गोदावरी + अच् → पञ्चगोदावरः ।\nविशेषः - वस्तुतः केचन अन्ये समासाः अप्यत्र अच्-प्रत्ययं प्राप्तुमर्हन्ति । यथा -\nअ) पद्मम् नाभौ यस्यः सः = पद्म + नाभि + अच् → पद्मनाभः ।\nआ) ऊर्णा नाभौ यस्य सः = ऊर्णा + नाभि + अच् → ऊर्णनाभः ।\nएतेषाम् सिद्ध्यर्थमस्य सूत्रस्य योगविभागं कृत्वा 'अच्' इत्येव भिन्नम् सूत्रम् निर्मायते, तस्य साहाय्येन च एतेषाम् साधुत्वम् प्रतिपाद्यते ।\n" }, "54076": { "sa": "समस्तपदे उत्तरपदरूपेण विद्यमानात् 'अक्षि' शब्दात् 'अच्' इति समासान्तप्रत्ययः भवति । परन्तु यत्र समस्तपदेन 'नेत्रम्' इति अर्थः निर्दिश्यते तत्र अयम् प्रत्ययः न विधीयते । ", "sd": "यत्र समस्तपदस्य उत्तरपदरूपेण 'अक्षि' इति शब्दः विद्यते, तत्र 'अच्' इति समासान्तप्रत्ययः भवति । परन्तु यदि समस्तपदेन नेत्रस्य निर्देशः क्रियते, तर्हि अयमच्-प्रत्ययः न भवति ।\nयथा -\n1. लवणम् इव अक्षि यस्य सः [<<अनेकमन्यपदार्थे>> [[2.2.24]] इति बहुव्रीहिः ]\n= लवण + अक्षि + अच् [वर्तमानसूत्रेण 'अच्' इति समासान्तप्रत्ययः]\n→ लवणाक्षि + अच् [<<अकः सवर्णे दीर्घः>> [[6.1.101]]]\n→ लवणाक्ष् + अ [<<यस्येति च>> [[6.4.148]] इति इकारलोपः]\n→ लवणाक्ष\nलवणम् इव अक्षि यस्य सः लवणाक्षः । One having eyes full of tears - इत्याशयः ।\n2. पुष्करम् इदमक्षि इव [<<उपमितं व्याघ्रादिभिः सामान्याप्रयोगे>> [[2.1.56]] इति तत्पुरुषसमासः]\n= पुष्कर + अक्षि + अच् [वर्तमानसूत्रेण 'अच्' इति समासान्तप्रत्ययः]\n→ पुष्कराक्षि + अच् [<<अकः सवर्णे दीर्घः>> [[6.1.101]]]\n→ पुष्कराक्ष् + अच् [<<यस्येति च>> [[6.4.148]] इति इकारलोपः]\n→ पुष्कराक्ष [<<अकः सवर्णे दीर्घः>> [[6.1.101]]]\nपुष्करम् इदं अक्षि इव तत् पुष्कराक्षम् । A blue lotus resembling an eye.\nविशेषः - 'पुष्कराक्ष' अस्य शब्दस्य विषये 'पुष्करम् इव अक्षि यस्य सः' एतत् विग्रहवाक्यमपि भवितुमर्हन्ति ।\n3. गवामक्षि [<<षष्ठी>> [[2.2.8]] इति तत्पुरुषसमासः]\n= गो + अक्षि + अच्\n→ ग + अवङ् + अक्ष् + अच् [<<अवङ् स्फोटायनस्य>> [[6.1.123]] इति अवङ्-आदेशः । ङित्त्वात् अन्त्यादेशः]\n→ गवाक्ष् + अच् [<<यस्येति च>> [[6.4.148]] इति इकारलोपः]\n→ गवाक्ष\nगवामक्षि इव तत् गवाक्षम् । A small opening in the wall that resembles cows eye, typically used to see outside is called गवाक्षम् ।\nयदि 'नेत्रम्' अस्मिन् सन्दर्भे समस्तपदम् जायते, तर्हि अयम् प्रत्ययः न भवति । यथा - ब्राह्मणस्य अक्षि = ब्राह्मणाक्षि ।\n " }, "54077": { "sa": "", "sd": "" }, "54078": { "sa": "यस्य समासस्य पूर्वपदम् 'ब्रह्मन्' उत' हस्तिन्' एतेषु कश्चन शब्दः अस्ति, तथा च उत्तरपदम् 'वर्चस्' इति शब्दः अस्ति, तस्मात् 'अच्' इति समासान्तः प्रत्ययः भवति । ", "sd": "यस्मिन् समासे 'ब्रह्मन्' उत 'हस्तिन्' एतेषु कश्चन शब्दः पूर्वपदरूपेण विद्यते, तथा च 'वर्चस्' (= तेजः, दीप्तिः, glow) इति शब्दः उत्तरपदरूपेण विद्यते, तस्मात् 'अच्' इति प्रत्ययः समासस्य अन्ते विधीयते । यथा -\n1. ब्रह्मणः वर्चः [<<षष्ठी>> [[2.2.8]] इति तत्पुरुषसमासः]\n= ब्रह्मन् + वर्चस् + अच् [वर्तमानसूत्रेण 'अच्' इति समासान्तप्रत्ययः]\n→ ब्रह्म + वर्चस् + अ [पूर्वपदस्य <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः]\n→ ब्रह्मवर्चस\nब्रह्मणः वर्चः ब्रह्मवर्चसम् ।\n2. हस्तिनः वर्चः [<<षष्ठी>> [[2.2.8]] इति तत्पुरुषसमासः]\n= हस्तिन् + वर्चस् + अच् [वर्तमानसूत्रेण 'अच्' इति समासान्तप्रत्ययः]\n→हस्ति + वर्चस् + अ [पूर्वपदस्य <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः]\n→ हस्तिवर्चस\nहस्तिनः वर्चः हस्तिवर्चसम् ।\nअत्र एकं वार्त्तिकम् ज्ञातव्यम् - । यस्मिन् समासे 'पल्य' तथा 'राजन्' एतौ शब्दौ पूर्वपदरूपेण विद्येते, तथा च 'वर्चस्' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् शब्दात् अपि अच्-प्रत्ययः भवति । यथा - पल्यस्य वर्चः पल्यवर्चसम् । राज्ञः वर्चः राजवर्चसम् ।\n" }, "54079": { "sa": "'अव', 'सम्', 'अन्ध' एतेभ्यः परः विद्यमानात् तमस्-शब्दात् 'अच्' इति समासान्तप्रत्ययः भवति । ", "sd": "यस्मिन् समासे 'अव', 'सम्' 'अन्ध' एते शब्दाः पूर्वपदरूपेण विद्यते, तथा च 'तमस्' इति शब्दः उत्तरपदरूपेण विद्यते, तस्मात् शब्दात् 'अच्' इति समासान्तप्रत्ययः भवति ।\nयथा -\n1. अवहीनं तमः [<<कुगतिप्रादयः>> [[2.2.18]] इति तत्पुरुषसमासः]\n= अव + तमस् + अच् [वर्तमानसूत्रेण अच् प्रत्ययः]\n→ अवतमस\nअवहीनम् तमः तत् अवतमसम् ।\nविशेषः - अत्र 'अवहीनं तमसा' इति बहुव्रीहिसमासः अपि भवितुमर्हति ।\n2. सङ्गतम् तमः [<<कुगतिप्रादयः>> [[2.2.18]] इति तत्पुरुषसमासः]\n→ सम् + तमस् + अच् [वर्तमानसूत्रेण अच् प्रत्ययः]\n→ सन्तमस\nसङ्गतम् तमः तत् सन्तमसम् ।\nविशेषः - अत्र 'सङ्गतं तमसा' इति बहुव्रीहिसमासः अपि भवितुमर्हति ।\n3. अन्धं च तत् तमः च [<<विशेषणम् विशेष्येण बहुलम्>> [[2.1.57]] इति कर्मधारयसमासः]\n= अन्ध + तमस् + अच्\n→ अन्धतमस\nविशेषः - अत्र 'अन्धम् करोति' इत्यस्मिन् अर्थे <<नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः>> [[3.1.134]] इत्यनेन अन्ध-शब्दात् अच्-प्रत्ययं कृत्वा 'अन्ध + अच् → अन्ध' इति शब्दः जायते । अन्धं करोति इत्यस्मिन् अर्थे निर्मितः अयम् 'अन्ध' शब्दः ततः समासे प्रयुज्यते ।\n" }, "54080": { "sa": "यस्मिन् समस्तपदे पूर्वपदम् 'श्वस्' तथा उत्तरपदम् 'वसीयस्' उत 'श्रेयस्' एतेषु किञ्चन विद्यते, तस्मात् 'अच्' इति समासान्तप्रत्ययः भवति । ", "sd": "यस्मिन् समस्तपदे पूर्वपदम् 'श्वस्' इति अव्ययम् तथा च उत्तरपदम् 'वसीयस्' (= कल्याणम् / मङ्गलम्) उत 'श्रेयस्' एतयोः किञ्चन पदमस्ति, तस्मात् 'अच्' इति समासान्तप्रत्ययः भवति । अत्र 'श्वस्' इति शब्दः 'सुष्ठु' / 'शोभनम्' अस्मिन् अर्थे एव स्वीक्रियते इति स्मर्तव्यम् । 'अग्रिमः दिवसः' / tomorrow इति अस्य शब्दस्य अर्थः अत्र नैव स्वीक्रियते ।\nयथा -\n1. श्वस् + वसीयस् + अच् [<<मयूरव्यंसकादयश्च>> [[2.1.72]] इति तत्पुरुषसमासः । वर्तमानसूत्रेण अच् इति समासान्तप्रत्ययः]\n→ श्वरुँ + वसीयस् + अ [<<ससजुषोः रुः>> [[8.2.6]] इति पदान्तसकारस्य रुँत्वम् ]\n→ श्वउ + वसीयस् + अ [<<हशि च>> [[6.1.114]] इति उत्वम्]\n→ श्वो + वसीयस् + अ [<<आद्गुणः>> [[6.1.87]] इति गुण-एकादेशः]\n→ श्वोवसीयस\nयथा - श्वोवसीयं ते भूयात् (शोभनं मङ्गलं / सुमङ्गलं ते भूयात् इत्याशयः) ।\n2. श्वस् + श्रेयस् + अच् [<<मयूरव्यंसकादयश्च>> [[2.1.72]] इति तत्पुरुषसमासः । वर्तमानसूत्रेण अच् इति समासान्तप्रत्ययः]\n→ श्वरुँ + श्रेयस् + अ [<<ससजुषोः रुः>> [[8.2.6]] इति पदान्तसकारस्य रुँत्वम् ]\n→ श्वः + श्रेयस् + अ [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गादेशः]\n→ श्वः / श्वस् + श्रेयस् + अ [<<वा शरि>> [[8.3.36]] इति विसर्गस्य विकल्पेन सकारादेशः]\n→ श्वः / श्रश् + श्रेयस् + अ [<<स्तोः श्चुना श्चुः>> [[8.4.40]] इति श्चुत्वम्]\n→ श्वःश्रेयस / श्वश्रेयस\nयथा - श्वःश्रेयसम् / श्वश्श्रेयसम् ते भूयात् (सुकल्याणं ते भूयात् इत्याशयः) ।\n" }, "54081": { "sa": "यस्मिन् समासे पूर्वपदम् 'अनु', 'अव' उत 'तप्त' एतेषु किञ्चन अस्ति, उत्तरपदम् च 'रहस्' इति शब्दः वर्तते, तस्मात् 'अच्' इति समासान्तप्रत्ययः भवति । ", "sd": "'अनु', 'अव' तथा 'तप्त' एते शब्दाः यस्मिन् समासे पूर्वपदरूपेण विद्यन्ते, तथा च 'रहस्' (= अप्रकाश / secrecy / mystery) इति शब्दः उत्तरपदरूपेण विधीयते, तस्मात् 'अच्' इति समासान्तप्रत्ययः भवति । यथा -\n1. अनुगतं रहः [<<कुगतिप्रादयः>> [[2.2.18]] इति तत्पुरुषसमासः]\n→ अनु + रहस् + अच् [वर्तमानसूत्रेण अच्-प्रत्ययः]\n→ अनुरहस\nअत्र 'अनुगतम् रहसा' / 'अनुगतं रहः यस्मिन् सः' एतादृशानि भिन्नानि विग्रहवाक्यानि अपि भवितुमर्हन्ति ।\n2. अवहीनम् रहः [ <<कुगतिप्रादयः>> [[2.2.18]] इति तत्पुरुषसमासः]\n→ अव+ रहस् + अच् [वर्तमानसूत्रेण अच्-प्रत्ययः]\n→ अवरहस\nअत्र 'अवहीनम् रहसा' / 'अवहीनं रहः यस्मिन् सः' एतादृशानि भिन्नानि विग्रहवाक्यानि अपि भवितुमर्हन्ति ।\n3. तप्तं च तद् रहः च् [<<विशेषणम् विशेष्येण बहुलम्>> [[2.1.57]] इति कर्मधारयसमासः]\n→ तप्त + रहस् + अच् [वर्तमानसूत्रेण अच्-प्रत्ययः]\n→ तप्तरहस\n" }, "54082": { "sa": " 'प्रति' इत्यनेन सह 'उरसि' इति सप्तम्यन्तस्य पदस्य समासे जाते तस्मात् 'अच्' इति समासान्तप्रत्ययः भवति । ", "sd": "यस्मिन् समासे 'प्रति' इति शब्दः पूर्वपदरूपेण, तथा च सप्तम्यर्थे प्रयुक्तः 'उरस्' इति शब्दः उत्तरपदरूपेण विद्यते, तस्मात् समासात् 'अच्' इति समासान्तप्रत्ययः भवति । यथा -\nउरसि वर्तते इति [<<अव्ययं विभक्तिसमीप...>> [[2.1.6]] इति अव्ययीभावसमासः]\n→ प्रति + उरस् + अच् [वर्तमानसूत्रेण अच् इति समासान्तप्रत्ययः]\n→ प्रत्युरस [<<इको यणचि>> [[6.1.77]] इति यणादेशः]\nउरसि वर्तते तत् प्रत्युरसम् ।\nयत्र 'उरस्' शब्दः सप्तम्यर्थे न प्रयुज्यते, तत्र वर्तमानसूत्रस्य प्रयोगः न भवति । यथा - प्रतिगतमुरः प्रत्युरः ।\n" }, "54083": { "sa": " 'अनुगवम्' इति अच्-प्रत्ययान्तशब्दः 'आयामः' अस्मिन् अर्थे निपात्यते । ", "sd": "'आयामः' (length, distance) अस्मिन् अर्थे 'अनुगवम्' इति अच्-प्रत्ययान्तशब्दः अनेन सूत्रेण निपात्यते । एकस्याः गोः या व्याप्तिः (length of one cow) तादृशः आयामः 'एकमनुगवम्' इति उच्यते।\nअत्र 'अनु' इति पूर्वपदम्, 'गो' इति उत्तरपदम् तथा 'अच्' इति समासान्तप्रत्ययः भवति । यथा -\nअनु + गो + अच् [<<यस्य चायामः>> [[2.1.16]] इति अव्ययीभावसमासः]\n→ अनु + ग् + अव् + अच् [<<एचोऽयवायावः>> [[6.1.78]] इति अवादेशः । अत्र गो-शब्दः पदसंज्ञकः नास्ति अतः <<अवङ् स्फोटायनस्य>> [[6.1.123]] इत्यस्य प्रसक्तिः न विद्यते इति स्मर्तव्यम् ।]\n→ अनुगव\nयथा - अनुगवम् यानम् । A vehicle whose length is same as length of a cow.\n'आयाम' इत्येतमर्थं विहाय अन्येषु अर्थेषु अस्य शब्दस्य प्रयोगः भवति । यथा - 'गवां पश्चात् अनुगु' । अत्र अच्-प्रत्ययः न भवति ।\n" }, "54084": { "sa": "'वेदिः' अस्मिन् अर्थे 'द्विस्तावा' तथा 'त्रिस्तावा' एतौ शब्दौ निपात्येते । ", "sd": "वेदिः इत्युक्ते यज्ञस्य कुण्डम् । (The platform for doing a fire-sacrifice) । अस्मिन् सन्दर्भे 'द्विस्तावा' तथा 'त्रिस्तावा' एतौ शब्दौ निपात्येते ।\nकः अर्थः एतयोः शब्दयोः ? या वेदिः सामान्यस्य अपेक्षया द्विगुणा / त्रिगुणा विद्यते (The platform that is double or triple in size than what is usually seen)) तस्याः निर्देशः 'द्विस्तावा' / 'त्रिस्तावा' इत्यनेन क्रियते । अस्य प्रक्रिया एतादृशी अस्ति -\nद्विस्तावती / त्रिस्तावती वेदिः इत्येव\n= द्विस् / त्रिस् + तावत् + अच् [अत्र पूर्वपदम् 'सुच्' प्रत्ययान्तशब्दः अस्ति, <<द्वित्रिचतुर्भ्यः सुच्>> [[5.4.18]] इत्यनेन अस्य निर्माणं भवति । उत्तरपदम् 'तावत्' इति शब्दः अस्ति । अत्र समासस्य निर्माणार्थम् किमपि सूत्रम् न विद्यते, अतः समासः अतथा अच्-प्रत्ययः द्वावपि निपात्येते ।]\n→ द्विस् / त्रिस् + ताव् + अ [उत्तरपदस्य टिलोपः निपात्यते]\n→ द्विस्ताव / त्रिस्ताव [सकारस्य रुँत्वम्, विसर्गः, पुनः तकारे परे सकारः]\n→ द्विस्ताव / त्रिस्ताव + टाप् [स्त्रीत्वे विवक्षिते <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्-प्रत्ययः]\n→ द्विस्तावा / त्रिस्तावा [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः]\nया वेदिः सामान्यस्य अपेक्षया द्विगुणा / त्रिगुणा विद्यते तस्याः निर्देशः 'द्विस्तावा' / 'त्रिस्तावा' इति क्रियते ।\nस्मर्तव्यम् - अनेन सूत्रेण निपातितौ शब्दौ केवलम् 'वेद्याः' निर्देशार्थम् एव प्रयुज्यन्ते, अन्येषु विषयेषु न । यथा, 'द्विगुणिका / त्रिगुणिका रज्जूः' (A thread that is double / triple in size) इत्यत्र एतयोः शब्दयोः प्रयोगः न भवति । " }, "54085": { "sa": "उपसर्गात् विहितात् अध्वन् शब्दात् 'अच्' इति समासान्तप्रत्ययः भवति । ", "sd": "यस्मिन् समासे कश्चन उपसर्गः पूर्वपदरूपेण तथा च 'अध्वन्' (मार्गः) इति शब्दः उत्तरपदरूपेण विद्यते, तस्मात् 'अच्' इति समासान्तप्रत्ययः भवति ।\nयथा -\n1. प्रगतमध्वानम् [ इति वार्त्तिकेन तत्पुरुषसमासः]\n→ प्र + अध्वन् + अच् [वर्तमानसूत्रेण समासान्तः अच्-प्रत्ययः]\n→ प्राध्वन् + अ [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः]\n→ प्राध्व् + अ [<<नस्तद्धिते>> [[6.4.144]] इति टिलोपः]\n→ प्राध्व\nप्रगतः अध्वानम् सः प्राध्वः रथः । The chariot that has crossed the road इत्याशयः ।\n2. निष्क्रान्तमध्वनः [ इति वार्त्तिकेन तत्पुरुषसमासः]\n→ निर् + अध्वन् + अच् [वर्तमानसूत्रेण समासान्तः अच्-प्रत्ययः]\n→ निरध्व् + अ [<<नस्तद्धिते>> [[6.4.144]] इति टिलोपः]\n→ निरध्व ।\nनिष्क्रान्तः अध्वनः सः निरध्वः रथः । The chariot that has been taken out of the road इत्याशयः ।\nयदि पूर्वपदमुपसर्गसंज्ञकम् नास्ति, तर्हि अनेन सूत्रेण अच्-प्रत्ययः न भवति । यथा - परमश्च असौ अध्वा सः परमाध्वा ।\nस्मर्तव्यम् - अत्र सर्वसमासान्ताः प्रत्ययाः समाप्यन्ते । अस्मात् अग्रे विशिष्टसमासेषु समासान्तप्रत्ययविधानम् कृतमस्ति । " }, "54086": { "sa": "यस्मिन् तत्पुरुषसमासे पूर्वपदम् सङ्ख्यावाचकशब्दः उत अव्ययवाचकः शब्दः अस्ति, उत्तरपदम् च 'अङ्गुलि' इति शब्दः विद्यते, तस्मात् 'अच्' इति समासान्तप्रत्ययः विधीयते । ", "sd": "यस्मिन् तत्पुरुषसमासे पूर्वपदरूपेण कश्चन सङ्ख्यावाचकः शब्दः अव्ययवाचकः वा शब्दः विद्यते, उत्तरपदरूपेण च 'अङ्गुलि' इति शब्दः विद्यते, तस्मात् 'अच्' इति समासान्तप्रत्ययः भवति ।\nयथा -\n1. द्वे अङ्गुली प्रमाणमस्य [<<तद्धितार्थोत्तरपदसमाहारे च>> [[2.1.51]] इति तत्पुरुषसमासः]\n→ द्वि + अङ्गुलि + मात्रच् [<<प्रमाणे द्वयसज्दघ्नञ्मात्रचः>> [[5.2.37]] इत्यनेन 'प्रमाणमस्य' इत्यस्मिन् अर्थे मात्रच् प्रत्ययः भवति । अत्र विधानसामर्थ्यात् केवलम् मात्रच्-प्रत्ययः एव भवति, अन्यौ प्रत्ययौ न भवतः । ]\n→ द्वि + अङ्गुलि [<<प्रमाणे द्वयसज्दघ्नञ्मात्रचः>> [[5.2.37]] इत्यत्र पाठितेन इति वार्त्तिकेन मात्रच्-प्रत्ययस्य लुक् विधीयते ।]\n→ द्वि + अङ्गुलि+ अच् [वर्तमानसूत्रेण समासान्तः अच्-प्रत्ययः]\n→ द्व्यङ्गुलि + अ [<<इको यणचि>> [[6.1.77]] इति यणादेशः]\n→ द्व्यङ्गुल् + अ [<<यस्येति च>> [[6.4.148]] इति इकारलोपः]\n→ द्व्यङ्गुल\n द्वे अङ्गुली प्रमाणमस्य द्व्यङ्गुलः स्तम्भः ।\nएवमेव - त्रयः अङ्गुलयः प्रमाणमस्य सः त्र्यङ्गुलः । दश अङ्गुलयः प्रमाणमस्य सः दशाङ्गुलः ।\n2. निर्गतमङ्गुलिभ्यः इति [ इति वार्त्तिकेन तत्पुरुषसमासः]\n→ निर् + अङ्गुलि + अच् [वर्तमानसूत्रेण अच् इति समासान्तप्रत्ययः]\n→ निरङ्गुल् + अच् [<<यस्येति च>> [[6.4.148]] इति इकारलोपः]\n→ निरङ्गुल\nअङ्गुलिभ्यः निर्गतम् तत् निरङ्गुलम् ।\nएवमेव - अतिगता अङ्गुलिः तत् अत्यङ्गुलम् ।\nस्मर्तव्यम् - अस्य सूत्रस्य प्रसक्तिः केवलम् तत्पुरुषसमासस्य विषये एव विद्यते । अतः - द्वे अङ्गुुली अस्य / पञ्च अङ्गुलयः यस्य / अतिगताः अङ्गुल्यः यस्य'- इत्यत्र अच्-प्रत्ययः न भवति, अपितु केवलम् पूर्वपद-उत्तरपदयोः मेलनेनैव समासः जायते । यथा - द्वे अङ्गुली अस्य सः द्व्यङ्गुलिः ।\n" }, "54087": { "sa": "यस्य तत्पुरुषसमासस्य पूर्वपदम् 'अहन्', 'सर्व', 'सङ्ख्यात' तथा 'पुण्य' एतेषु कश्चन शब्दः , उत एकदेशवाचकः शब्दः / संख्यावाचकः शब्दः / अव्ययवाचकः शब्दः अस्ति, तथा च उत्तरपदम् 'रात्रि' इति शब्दः अस्ति, तस्मात् 'अच्' इति समासान्तप्रत्ययः भवति । ", "sd": "अनेन सूत्रेण तत्पुरुषसमासस्य विषये 'अच्' इति समासान्तप्रत्ययः विधीयते । यस्मिन् तत्पुरुषसमासे पूर्वपदरूपेण 'अहन्' / 'सर्व' / 'सङ्ख्यात' / 'पुण्य' एतेषु कश्चन शब्दः , उत एकदेशवाचकः शब्दः / सङ्ख्यावाचकशब्दः / अव्ययवाचकः शब्दः विद्यते, तथा च उत्तरपदम् 'रात्रि' इति शब्दः अस्ति, तस्मात् अच् इति समासान्तप्रत्ययः भवति ।\nउदाहरणानि एतानि -\n1. अहश्च रात्रिश्च एतयोः समाहारः [<<चार्थे द्वन्द्वः>> [[2.2.29]] इति द्वन्द्वसमासः । यद्यप्यत्र तत्पुरुषसमासान्ताः प्रत्ययाः पाठ्यते तथापि अहन्-शब्दस्य रात्रि-शब्देन सह तत्पुरुषसमासः नैव भवितुमर्हति । अतः विधानसामर्थ्यात् द्वन्द्वसमासस्य ग्रहणमेव अत्र क्रियते ।]\n= अहन् + रात्रि + अच् [वर्तमानसूत्रेण अच् इति समासान्तप्रत्ययः।]\n→ अहरुँ + रात्रि + अ [<<रोऽसुपि>> [[8.2.69]] इत्यत्र पाठितेन इत्यनेन वार्त्तिकेन अहन्-शब्दस्य नकारस्य रुँत्वं भवति ।]\n→ अहर् + रात्रि + अ [उँकारस्य <<उपदेशेऽजनुनासिक इत>> [[1.3.2]] इति इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ अह उ + रात्रि + अ [रेफस्य <<हशि च>> [[6.1.114]] इति उकारः]\n→ अहोरात्रि + अ [<<आद्गुणः>> [[6.1.87]] इति गुण-एकादेशः]\n→ अहोरात्र् + अ [<<यस्येति च>> [[6.4.148]] इति इकारलोपः]\n→ अहोरात्र [<<स नपुंसकम्>> [[2.4.17]] इत्यनेन प्राप्तं नपुंसकलिङ्गम् बाधित्वा <<रात्राह्नाहाः पुंसि>> [[2.4.29]] इत्यनेन पुंस्त्वम् ।]\n2. सर्वा रात्रिः [<<पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन>> [[2.1.48]] इति तत्पुरुषसमासः]\n→ सर्वा + रात्रि + अच् [वर्तमानसूत्रेण अच् इति समासान्तप्रत्ययः।]\n→ सर्व + रात्रि + अच् [ इत्यनेन वार्त्तिकेन पुंवद्भावः]\n→ सर्व + रात् र् + अ [<<यस्येति च>> [[6.4.148]] इति इकारलोपः]\n→ सर्वरात्र [<<रात्राह्नाहाः पुंसि>> [[2.4.29]] इत्यनेन पुंस्त्वम् ।]\n3. सङ्ख्याता (counted / measured) रात्रिः [<<विशेषणं विशेष्येण बहुलम्>> [[2.1.57]] इति कर्मधारयसमासः]\n= सङ्ख्याता + रात्रि + अच् [वर्तमानसूत्रेण अच् इति समासान्तप्रत्ययः]\n→ सङ्ख्यात + रात्रि + अ [<<पुंवत् कर्मधारयजातीयदेशीयेषु>> [[6.3.42]] इति पुंवद्भावः]\n→ सङ्ख्यात + रात् र्+ अ [<<यस्येति च>> [[6.4.148]] इति इकारलोपः]\n→ सङ्ख्यातरात्र [<<स नपुंसकम्>> [[2.4.17]] इत्यनेन प्राप्तं नपुंसकलिङ्गम् बाधित्वा <<रात्राह्नाहाः पुंसि>> [[2.4.29]] इत्यनेन पुंस्त्वम् ।]\n4. पुण्या रात्रिः [<<विशेषणं विशेष्येण बहुलम्>> [[2.1.57]] इति कर्मधारयसमासः]\n= पुण्या + रात्रि + अच् [वर्तमानसूत्रेण अच् इति समासान्तप्रत्ययः]\n→ पुण्य + रात्रि + अ [<<पुंवत् कर्मधारयजातीयदेशीयेषु>> [[6.3.42]] इति पुंवद्भावः]\n→ पुण्य + रात् र् + अ [<<यस्येति च>> [[6.4.148]] इति इकारलोपः]\n→ पुण्यरात्र [<<स नपुंसकम्>> [[2.4.17]] इत्यनेन प्राप्तं नपुंसकलिङ्गम् बाधित्वा <<रात्राह्नाहाः पुंसि>> [[2.4.29]] इत्यनेन पुंस्त्वम् ।]\n4. एकदेशवाचकशब्दः (= सः शब्दः येन एकस्य अवयवस्य निर्देशः भवति । A word that is used to indicate a part of a whole. यथा - मध्य, अर्ध, पूर्व, उत्तर, अपर - आदयः) -\nपूर्वम् रात्रेः [<<पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे>> [[2.2.1]] इति एकदेशिसमासः]\n= पूर्व + रात्रि + अच् [वर्तमानसूत्रेण अच् इति समासान्तप्रत्ययः]\n→ पूर्व + रात् र् + अच् [<<यस्येति च>> [[6.4.148]] इति इकारलोपः]\n→ पूर्वरात्र [<<रात्राह्नाहाः पुंसि>> [[2.4.29]] इत्यनेन पुंस्त्वम् ।]\nएवमेव - उत्तरात्रः, मध्यरात्रः, अपररात्रः आदयः शब्दाः अपि सिद्ध्यन्ति ।\n5. सङ्ख्यावाचकशब्दः -\nद्वयोः रात्र्योः समाहारः [<<तद्धितार्थोत्तरपदसमाहारे च>> [[2.1.51]] इति द्विगुः]\n→ द्वि + रात्रि + अच् [वर्तमानसूत्रेण अच् इति समासान्तप्रत्ययः]\n→ द्वि + रात् र् + अच् [<<यस्येति च>> [[6.4.148]] इति इकारलोपः]\n→ द्विरात्र [<<रात्राह्नाहाः पुंसि>> [[2.4.29]] इत्यनेन पुंस्त्वम् इति काशिकाकारस्य पक्षः ; <<संख्यापूर्वा रात्रिः>> इत्यनेन लिङ्गानुशासनसूत्रेण (लिङ्गानुशासनम् १३२) अत्र नपुंसकम् भवेत् इति कौमुदीमतम् ।]\nएवमेव - नवरात्रः/नवरात्रम्, पञ्चरात्रः/पञ्चरात्रम् - एते शब्दाः सिद्ध्यन्ति ।\n6. अव्ययवाचकशब्दः -\nअतिक्रान्तः रात्रिम् [<<कुगतिप्रादयः>> [[2.2.18]] इत्यत्र पाठितेन अनेन वार्त्तिकेन तत्पुरुषसमासः]\n→ अति + रात्रि + अच् [वर्तमानसूत्रेण अच् इति समासान्तप्रत्ययः]\n→ अति + रात् र् + अच् [<<यस्येति च>> [[6.4.148]] इति इकारलोपः]\n→ अतिरात्र [<<रात्राह्नाहाः पुंसि>> [[2.4.29]] इत्यनेन पुंस्त्वम् ।]\nएवमेव - नीरात्रः अयमपि शब्दः सिद्ध्यति ।\n" }, "54088": { "sa": "यस्मिन् समस्तपदे 'सर्व' शब्दः, 'सङ्ख्यात'शब्दः, एकदेशवाचकः शब्दः उत अव्ययवाचकः शब्दः पूर्वपदरूपेण विद्यते, तथा च 'अहन्' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् समासान्तप्रत्यये प्राप्ते अहन्-शब्दस्य अह्न-आदेशः भवति । ", "sd": "अनेन सूत्रेण तत्पुरुषसमासस्य उत्तरपदरूपेण विद्यमानस्य अहन्-शब्दस्य 'अह्न' इति आदेशः उच्यते । यस्मिन् तत्पुरुषसमासे उत्तरपदम् 'अहन्' इति शब्दः अस्ति, तथा च पूर्वपदम् 'सर्व' / 'सङ्ख्यात' / 'पुण्य' / एकदेशवाचकः शब्दः / अव्ययवाचकः शब्दः - एतेषु कश्चन विद्यते, तस्मात् <<राजाहस्सखिभ्यष्टच्>> [[5.4.91]] इत्यनेन 'टच्' इति समासान्तप्रत्ययः यदा भवति तदा अहन्-शब्दस्य 'अह्न' इति आदेशः विधीयते ।\nउदाहरणानि एतानि -\n1. सर्वमहः [<<पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन>> [[2.1.49]] इति तत्पुरुषसमासः]\n= सर्व + अहन् + टच् [<<राजाहस्सखिभ्यष्टच्>> [[5.4.91]] इति टच्-प्रत्ययः]\n→ सर्व + अह्न + अ [<<अह्नोऽह्न एतेभ्यः>> [[5.4.88]] इति अहन्-शब्दस्य अह्न-आदेशः]\n→ सर्वाह्न + अ [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः]\n→ सर्वाह्न् + अ [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ सर्वाह्ण् + अ [<<अह्नोदन्तात्>> [[8.4.7]] इति नकारस्य णकारः]\n→ सर्वाह्ण [<<रात्राह्नाहाः पुंसि>> [[2.4.39]] इत्यनेन पुंस्त्वम्]\n2. सङ्ख्यातम् (counted, measured) अहः [<<विशेषणं विशेष्येण बहुलम्>> [[2.1.57]] इति कर्मधारयसमासः]\n= सङ्ख्यात + अहन् + टच् [<<राजाहस्सखिभ्यष्टच्>> [[5.4.91]] इति टच्-प्रत्ययः]\n→ सङ्ख्यात + अह्न + अ [<<अह्नोऽह्न एतेभ्यः>> [[5.4.88]] इति अहन्-शब्दस्य अह्न-आदेशः]\n→ सङ्ख्याताह्न + अ [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः]\n→ सङ्ख्याताह्न् + अ [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ सङ्ख्याताह्न [<<रात्राह्नाहाः पुंसि>> [[2.4.39]] इत्यनेन पुंस्त्वम्]\n3. एकदेशवाचकशब्दः (= येन शब्देन एकदेशिसमासः जायते सः शब्दः) -\nपूर्वमह्नः [<<पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे>> [[2.2.1]] इति एकदेशिसमासः]\n= पूर्व + अहन् + टच् [<<राजाहस्सखिभ्यष्टच्>> [[5.4.91]] इति टच्-प्रत्ययः]\n→ पूर्व + अह्न + अ [<<अह्नोऽह्न एतेभ्यः>> [[5.4.88]] इति अहन्-शब्दस्य अह्न-आदेशः]\n→ पूर्वाह्न + अ [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः]\n→ पूर्वाह्न् + अ [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ पूर्वाह्ण् + अ [<<अह्नोदन्तात्>> [[8.4.7]] इति नकारस्य णकारः]\n→ पूर्वाह्ण [<<रात्राह्नाहाः पुंसि>> [[2.4.39]] इत्यनेन पुंस्त्वम्]\nएवमेव - अपराह्णः, मध्याह्नः - एतौ शब्दौ अपि सिद्ध्यतः ।\n4. सङ्ख्यावाचकशब्दः -\nद्वयोः अह्नोः भवः\n= द्वि + अहन् + ठञ् [<<कालाट्ठञ्>> [[4.3.11]] इति ठञ्-प्रत्ययः । <<तद्धितार्थोत्तरपदसमाहारे च>> [[2.1.51]] इति द्विगुसमासः ।]\n→ द्वि + अहन् [<<द्विगोर्लुगनपत्ये>> [[4.1.88]] इति ठञ्-प्रत्ययस्य लुक्]\n→ द्वि + अहन् + टच् [<<राजाहस्सखिभ्यष्टच्>> [[5.4.91]] इति टच्-प्रत्ययः]\n→ द्वि + अह्न + अ [<<अह्नोऽह्न एतेभ्यः>> [[5.4.88]] इति अहन्-शब्दस्य अह्न-आदेशः]\n→ द्व्यह्न + अ [<<इको यणचि>> [[6.1.77]] इति यणादेशः]\n→ द्वह्न् + अ [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ द्व्यह्न [<<रात्राह्नाहाः पुंसि>> [[2.4.39]] इत्यनेन पुंस्त्वम्]\nएवमेव - त्र्यह्नः, चतुरह्नः, पञ्चाह्नः - एतादृशः शब्दाः अपि सिद्ध्यन्ति ।\nविशेषः -\nअ) 'द्वयोः अह्नोः समाहारः' अत्र यद्यपि तत्पुरुषसमासः भवति तथा च समासान्तः टच्-प्रत्ययः अपि विधीयते, तथापि <<न संख्यादेः समाहारे>> [[5.4.89]] इत्यनेन अग्रिमसूत्रेण अत्र अहन्-शब्दस्य विषये अह्न-आदेशः निषिध्यते । अतः 'द्वयोः अह्नोः समाहारः द्व्यहः' इत्येव रूपम् सिद्ध्यति ।\nआ) 'एक' शब्दात् परस्य 'अहन्' इत्यस्य 'अह्न' इति आदेशः न भवतीति <<उत्तमैकाभ्यां च>> [[5.4.90]] इत्यनेन स्पष्टीभवति । यथा - एकमह्नः एकाहः ।\n5. अव्ययवाचकशब्दः -\nअतिक्रान्तमहः [<<कुगतिप्रादयः>> [[2.2.18]] इत्यत्र पाठितेन अत्यादयः क्रान्ताद्यर्थे अनेन वार्त्तिकेन तत्पुरुषसमासः]\n= अति + अहन् + टच् [<<राजाहस्सखिभ्यष्टच्>> [[5.4.91]] इति टच्-प्रत्ययः]\n→ अति + अह्न + अ [<<अह्नोऽह्न एतेभ्यः>> [[5.4.88]] इति अहन्-शब्दस्य अह्न-आदेशः]\n→ अत्यह्न + अ [<<इको यणचि>> [[6.1.77]] इति यणादेशः]\n→ अत्यह्न् + अ [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ अत्यह्न [<<रात्राह्नाहाः पुंसि>> [[2.4.39]] इत्यनेन पुंस्त्वम्]\nएवमेव 'निरह्न' इति शब्दः अपि सिद्ध्यति ।\nस्मर्तव्यम् -\n1. अस्मिन् सूत्रे 'अह्नः' इति शब्दः द्विवारं प्रयुक्तः अस्ति । एताभ्याम् प्रथमः 'अह्न' शब्दः 'अहन्' शब्दस्य षष्ठ्येकवचनमस्ति । द्वितीयः 'अह्न' शब्दः तु 'अह्न' इत्यस्यैव प्रथमैकवचनमस्ति ।\n2. पूर्वसूत्रात् 'अहः' इति अत्र न अनुवर्तेते इति व्याख्यानात् स्पष्टीभवति ।\n3. 'पुण्य' शब्दस्य विषये <<उत्तमैकाभ्यां च>> [[5.4.90]] इत्यनेन सूत्रेण वर्तमानसूत्रस्य प्रयोगः निषिध्यते, अतः 'पुण्य' शब्दस्य अनुवृत्तिः अपि अस्मिन् सूत्रे नैव स्वीक्रियते । " }, "54089": { "sa": "समाहारतत्पुरुषसमासस्य विषये अहन्-शब्दस्य 'अह्न' इति आदेशः न भवति । ", "sd": "<<अह्नोऽह्न एतेभ्यः>> [[5.4.88]] इत्यनेन सूत्रेण तत्पुरुषसमासे उत्तरपदरूपेण विद्यमानस्य अहन्-शब्दस्य 'अह्न' इति आदेशः उक्तः अस्ति । अयमादेशः यद्यपि सङ्ख्यावाचकस्य पूर्वपदस्य उपस्थितौ भवितुमर्हति, तथापि समाहारस्य विषये अयमादेशः वर्तमानसूत्रेण निषिध्यते ।\nयथा -\nद्वयोः अह्नोः समाहारः [<<तद्धितार्थोत्तरपदसमाहारे च>> [[2.1.51]] इति द्विगुसमासः]\n→ द्वि + अहन् + टच् [<<राजाहस्सखिभ्यष्टच्>> [[5.4.91]] इति समासान्तः टच्-प्रत्ययः]\n→ द्व्यहन् + अ [<<इको यणचि>> [[6.1.77]] इति यणादेशः]\n→ द्व्यह् + अ [<<अह्नष्टखोरेव>> [[6.4.145]] इति टिलोपः]\n→ द्व्यह [<<रात्राह्नाहाः पुंसि>> [[2.4.39]] इति पुंस्त्वम् ]\n अहन्-शब्दस्य <<अह्नोऽह्न एतेभ्यः>> [[5.4.88]] इत्यनेन प्राप्तः अह्नादेशः नैव भवतीति प्रक्रियाविशेषः अत् स्मर्तव्यः ।\nएवमेव - त्रयाणामह्नाम् समाहारः त्र्यहः ।\nस्मर्तव्यम् - 'द्वाभ्यां अहभ्यामागतः' एतादृशेषु वाक्येषु द्विगुसमासान्तप्रातिपदिकात् विहितस्य अजादितद्धितप्रत्ययस्य <<द्विगोर्लुगनपत्ये>> [[4.1.88]] इत्यनेन लुक् भवति । यथा -\nद्वाभ्यां अहभ्यामागतः\n= द्वि + अहन् + अण् [<<ततः आगतः>> [[4.3.74]] अस्मिन् अर्थे औत्सर्गिकः अण्-प्रत्ययः । <<तद्धितार्थोत्तरपदसमाहारे च>> [[2.1.51]] इति द्विगुः]\n→ द्वि + अहन् + टच् + अण् [<<राजाहस्सखिभ्यष्टच्>> [[5.4.91]] इति समासान्तः टच्-प्रत्ययः]\n→ द्वि + अहन् + टच् [<<द्विगोर्लुगनपत्ये>> [[4.1.88]] इति तद्धितप्रत्ययस्य लुक्]\n→ द्व्यहन् + अ [<<इको यणचि>> [[6.1.77]] इति यणादेशः]\n→ द्व्यह् + अ [<<अह्नष्टखोरेव>> [[6.4.145]] इति टिलोपः]\n→ द्व्यह [<<रात्राह्नाहाः पुंसि>> [[2.4.39]] इति पुंस्त्वम् ]\n द्वाभ्यां अहभ्यामागतः द्व्यहः । एवमेव - द्वयोः अह्नोः भवः द्व्यहः ।\n ,\nविशेषः - अस्मिन् सूत्रे 'सङ्ख्यादेः' इति पदम् वस्तुतः न आवश्यकम्, यतः तत्पुरुषसमासस्य विषये 'समाहार'समासः सङ्ख्यादिः एव भवितुमर्हति । अतः केवलं 'न समाहारे' इत्येव उच्यते चेदपि पर्याप्तम् । अतएव कौमुद्यामुच्यते - 'संख्यादेरिति स्पष्टार्थम्' ।\n" }, "54090": { "sa": "'पुण्य' शब्दस्य विषये तथा च 'एक' शब्दस्य विषये अहन् शब्दस्य अह्न-आदेशः न भवति । ", "sd": "<<अह्नोऽह्न एतेभ्यः>> [[5.4.88]] इत्यनेन सूत्रेण तत्पुरुषसमासे उत्तरपदरूपेण विद्यमानस्य अहन्-शब्दस्य 'अह्न' इति आदेशः उक्तः अस्ति । अयमादेशः 'पुण्य' शब्दस्य विषये तथा 'एक' शब्दस्य विषये न भवति ।\nअस्मिन् सूत्रे 'उत्तम' तथा 'एक' एतौ शब्दौ प्रयुक्तौ स्तः । द्वयोः प्रयोजनम् क्रमेण पश्यामः -\n[1] 'उत्तम'शब्दस्य प्रयोजनम् -\n<<अह्नोऽह्न एतेभ्यः>> [[5.4.88]] अस्मिन् सूत्रे प्रयुक्तः 'एतेभ्यः' इति शब्दः <<अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः>> [[5.4.87]] इत्यस्मात् 'अहस्सर्वैकदेशसंख्यातपुण्याच्च' इत्यस्य अनुवृत्तिं कारयितुम् स्थापितः अस्ति । परन्तु अस्यां अनुवृत्तौ 'उत्तम'शब्दस्य (= अन्तिमस्थाने विद्यमानस्य शब्दस्य) शब्दस्य अनुवृत्तिः न स्वीकरणीया - इति वर्तमानसूत्रेण स्पष्टीकर्तुम् वर्तमानसूत्रे 'उत्तम' इति शब्दः गृह्यते । The word उत्तम is used here in the meaning of 'last' । The last word of अहस्सर्वैकदेशसंख्यातपुण्याच्च, viz 'पुण्य' does not cause अहन् to be converted to अह्न - इति अत्र आशयः ।\nयथा - पुण्यमहः [<<विशेषणं विशेष्येण बहुलम्>> [[2.1.57]] इति कर्मधारयसमासः]\n= पुण्य + अहन् + टच् [<<राजाहस्सखिभ्यष्टच्>> [[5.4.91]] इति टच्]\n→ पुण्याहन् + अ [ <<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः]\n→ पुण्याह् + अ [<<नस्तद्धिते>> [[6.4.144]] इति टिलोपः]\n→ पुण्याह\nपुण्यमहः पुण्याहम् । अत्र <<रात्राह्नाहाः पुंसि>> [[2.4.29]] इत्यनेन पुँस्त्वे प्राप्ते इत्यनेन नपुंसकलिङ्गं विधीयते ।\nविशेषः -\nअ) अस्मिन् सूत्रे 'उत्तम' इत्यस्य स्थाने 'पुण्य' इत्यस्यैव ग्रहणम् वस्तुतः समीचीनमस्ति, तेन सूत्रार्थज्ञाने सम्भ्रमः अपि न जायते । पाणिनिना 'पुण्य' इत्यस्य स्थाने 'उत्तम' इति कृतः प्रयोगः विचित्रः अस्तीति व्याख्यानैः स्पष्टीक्रियते । अतः कौमुदीकारः वदति - 'पुण्यैकाभ्यामित्येव सूत्रयितुमुचितम्' ।\nआ) केचन पण्डिताः अस्मिन् सूत्रे निर्दिष्टस्य 'उत्तम' शब्दस्य अन्यत् एकम् प्रयोजनमस्तीति मन्यन्ते । तेषां मतेन <<अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः>> [[5.4.87]] इत्यस्मात् सूत्रात् 'सङ्ख्यात' शब्दस्य <<अह्नोऽह्न एतेभ्यः>> [[5.4.88]] इत्यत्र अनुवृत्तिः न करणीया - इति ज्ञापनार्थम् 'उत्तम'शब्दः अत्र प्रयुक्तः अस्ति । According to some experts, the word 'उत्तम' in this sutra is used to block the अनुवृत्ति of संख्यात as well as पुण्य in the sutra <<अह्नोऽह्न एतेभ्यः>> [[5.4.88]] । अतः एतेषां मतेन 'सङ्ख्यातमहः' इत्यत्र अहन्-शब्दस्य अह्न-आदेशः न भवति, अतः 'सङ्ख्याताहः' इत्येव समस्तपदं सिद्ध्यति ।\n[2] 'एक'शब्दस्य प्रयोजनम् -\nयस्मिन् समस्तपदे 'एक' इति शब्दः पूर्वपदरूपेण तथा च 'अहन्' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् <<राजाहस्सखिभ्यष्टच्>> [[5.4.91]] इत्यनेन टच्-प्रत्यये कृते अहन्-शब्दस्य <<अह्नोऽह्न एतेभ्यः>> [[5.4.88]] इत्यनेन प्राप्तः अह्न-आदेशः वर्तमानसूत्रेण निषिध्यते ।\nयथा - एकमहः [<<पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे>> [[2.2.1]] इत्यनेन एकदेशिसमासः]\n= एक + अहन् + टच् [<<राजाहस्सखिभ्यष्टच्>> [[5.4.91]] इति टच्]\n→ एकाहन् + अ [ <<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः]\n→ एकाह् + अ [<<नस्तद्धिते>> [[6.4.144]] इति टिलोपः]\n→ एकाह\n" }, "54091": { "sa": "यस्य तत्पुरुषसमास्य उत्तरपदरूपेण 'राजन्', 'अहन्' उत 'सखि' एतेषु कश्चन शब्दः विधीयते, तस्मात् टच् इति समासान्तप्रत्ययः भवति । ", "sd": "यस्य तत्पुरुषसमासस्य उत्तरपदम् राजन्, अहन्, सखि - एतेषु किञ्चन विद्यते तस्मात् 'टच्' इति समासान्तप्रत्ययः भवति ।\nउदाहरणानि -\n1. महान् च असौ राजा [<<सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः>> [[2.1.61]] इति तत्पुरुषसमासः]\n→ महत् + राजन् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः]\n→ महा + राजन् + अ [<<आन्महतः समानाधिकरणजातीययोः>> [[6.3.46]] इति महत्-शब्दस्य तकारस्य आकारादेशः]\n→ महा + राज् + अ [<<नस्तद्धिते>> [[6.4.144]] इति टिलोपः]\n→ महाराज\nएवमेव - मद्राणां राजा - मद्रराजः, परमश्चासौ राजा परमराजः - एतादृशाः शब्दाः अपि सिद्ध्यन्ति ।\n2. उत्तमम् च तद् अहः[<<सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः>> [[2.1.61]] इति तत्पुरुषसमासः]\n→ उत्तम + अहन् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः]\n→ उत्तमाहन् + अ [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः]\n→ उत्तमाह् + अ [<<अह्नष्टखोरेव>> [[6.4.145]] इति टिलोपः]\n→ उत्तमाह [<<रात्राह्नाहाः पुंसि>> [[2.4.29]] इत्यनेन पुंस्त्वम्]\nविशेषः - यस्मिन् समस्तपदे 'सर्व' शब्दः, 'सङ्ख्यात'शब्दः, एकदेशवाचकः शब्दः उत अव्ययवाचकः शब्दः पूर्वपदरूपेण विद्यते, तथा च 'अहन्' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् टच्-प्रत्यये प्राप्ते <<अह्नोऽह्न एतेभ्यः>> [[5.4.88]] इत्यनेन अहन्-शब्दस्य अह्न-आदेशः भवति । यथा - सर्वमहः सर्वाह्णः । सङ्ख्यातमहः सङ्ख्याताह्नः । अह्नः पूर्वम् पूर्वाह्णः । द्वयोः अह्नोः भवः द्व्यह्नः - आदयः ।\n3. कृष्णस्य सखा [<<षष्ठी>> [[2.2.8]] इति षष्ठीतत्पुरुषः]\n→ कृष्ण + सखि + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः]\n→ कृष्ण + सख् + अ [<<यस्येति च>> [[6.4.148]] इति टिलोपः]\n→ कृष्णसख\nएवमेव - परमश्चासौ सखा परमसखः इत्यपि सिद्ध्यति ।\nविशेषः - टच्-प्रत्याहारे टकारस्य ग्रहणम् <<टिड्ढाणञ्..>> [[4.1.15]] इत्यनेन ङीप्-प्रत्ययविधानार्थमस्ति । यथा -\nअतिक्रान्ता राजानम् (gone beyond / exceeded the king) [ इत्यनेन वार्त्तिकेन तत्पुरुषसमासः]\n→ अति + राजन् + टच् [वर्तमानसूत्रेण समासान्तः टच् प्रत्ययः]\n→ अति + राज् + अ [<<नस्तद्धिते>> [[6.4.144]] इति टिलोपः]\n→ अति + राज् + अ + ङीप् [स्त्रीत्वे विवक्षिते <<टिड्ढाणञ्..>> [[4.1.15]] इत्यनेन ङीप्]\n→ अति + राज् + अ + ई [इत्संज्ञालोपः]\n→ अति + राज् + ई [<<यस्येति च>> [[6.4.148]] इति टिलोपः]\n→ अतिराजी\nएवमेव 'अतिक्रान्ता सखायम्' सा अतिसखी - इत्यपि सिद्ध्यति ।\nस्मर्तव्यम् - समासान्तप्रकरणस्य विषये <ऽप्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्ऽ> इति परिभाषा न स्वीकर्तव्या इति परिभाषेन्दुशेखरे नागेशः स्पष्टीकरोति । अतः अस्मिन् सूत्रे निर्दिष्टेन 'राजन्' शब्देन 'राज्ञी' शब्दस्य ग्रहणम् न क्रियते । इत्युक्ते, 'मद्राणाम् राज्ञी' इत्यत्र 'मद्रराज्ञी' इत्येव समासान्तशब्दः सिद्ध्यति, अत्र टच्-प्रत्ययः न विधीयते ।\n " }, "54092": { "sa": "यः तत्पुरुषसमासः तद्धितलुग्भिन्नः अस्ति, यस्मिन् 'गो' इति शब्दः उत्तरपदरूपेण विधीयते, तस्मात् टच् इति समासान्तप्रत्ययः भवति । ", "sd": "यस्मिन् तत्पुरुषसमासे 'गो' इति शब्दः उत्तरपदरूपेण विद्यते, तथा च यत्र तद्धितप्रत्ययस्य लुक् न भवति, तत्र 'टच्' इति समासान्तप्रत्ययः विधीयते ।\nकानिचन उदाहरणानि पश्यामश्चेत् सूत्रार्थः स्पष्टः स्यात् ।\n1. परमश्च असौ गौः [<<सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः>> [[2.1.61]] इति कर्मधारयसमासः]\n= परम + गो + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः]\n→ परम + गव् + अ [<<एचोऽयवायावः>> [[6.1.78]] इति अवादेशः]\n→ परमगव\nअत्र प्रक्रियायाम् टच्-प्रत्ययात् पूर्वम् कोऽपि अन्यः तद्धितप्रत्ययः नैव विधीयते, अतः तद्धितलुक् अप्यत्र न सम्भवति । अतः अत्र टच्-प्रत्ययः भवत्येव ।\nएवमेव 'उत्तमश्चासौ गौ उत्तमगवः' इत्यपि सिद्ध्यति ।\n2. पञ्चानां गवां समाहारः [<<तद्धितार्थोत्तरपदसमाहारे च>> [[2.1.51]] इति द्विगुसमासः]\n→ पञ्चन् + गो + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः]\n→ पञ्चन् + गव् + अ [<<एचोऽयवायावः>> [[6.1.78]] इति अवादेशः]\n→ पञ्च + गव् + अ [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः]\n→ पञ्चगव\nपञ्चानां गवां समाहारः पञ्चगवम् । एवमेव - सप्तगवम्, दशगवम् एतादृशाः शब्दाः अपि सिद्ध्यन्ति ।\nअत्रापि प्रक्रियायाम् टच्-प्रत्ययात् पूर्वम् कोऽपि अन्यः तद्धितप्रत्ययः नैव विधीयते, अतः तद्धितलुक् अप्यत्र न सम्भवति । अतः अत्र टच्-प्रत्ययः भवत्येव ।\n3. पञ्चभ्यः गोभ्यः आगतम्\nपञ्चन् + गो + रूप्य [<<ततः आगतः>> अस्मिन्नर्थे <<हेतुमनुष्येभ्यः रूप्यः>> [[4.3.81]] इत्यनेन रूप्य-प्रत्ययः । <<तद्धितार्थोत्तरपदसमाहारे च>> [[2.1.51]] इति तद्धितप्रत्ययस्य विषये द्विगुसमासः]\n→ पञ्चन् + गो + टच् + रूप्य [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः । अयम् प्रत्ययः तद्धितप्रत्ययात् पूर्वम् विधीयते यतः समासः तु 'पञ्चन् + गो' इत्यस्यैव भवति । रूप्य-प्रत्ययः केवलम् समासनिमित्तकः अस्ति, समासस्य अवयवः न ।]\n→ पञ्चन् + गव् + अ + रूप्य [<<एचोऽयवायावः>> [[6.1.78]] इति अवादेशः]\n→ पञ्च + गव + रूप्य [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः]\n→ पञ्चगवरूप्य\nपञ्चभ्यः गोभ्यः आगतम् पञ्चगवरूप्यम् । अत्र प्रक्रियायाम् 'रूप्य' इति तद्धितप्रत्ययः विधीयते, परन्तु तस्य लोपः नैव क्रियते (<<द्विगोर्लुगनपत्ये>> [[4.1.88]] इत्यस्य प्रसक्तिः अत्र न विद्यते यतः अत्र 'रूप्य' इति अजादिप्रत्ययः नास्ति) । अतः अत्र 'टच्' इति समासान्तप्रत्ययः अवश्यं कर्तव्यः ।\n4. षड्भ्यः गोभ्यः आगतम्\n= षष् + गो + मयट् [<<ततः आगतः>> अस्मिन्नर्थे <<मयट् च>> [[4.3.81]] इत्यनेन रूप्य-प्रत्ययः । <<तद्धितार्थोत्तरपदसमाहारे च>> [[2.1.51]] इति तद्धितप्रत्ययस्य विषये द्विगुसमासः]\n→ षष् + गो + टच् + मय [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः । अयम् प्रत्ययः तद्धितप्रत्ययात् पूर्वम् विधीयते यतः समासः तु 'षष् + गो' इत्यस्यैव भवति । मयट्-प्रत्ययः केवलम् समासनिमित्तकः अस्ति, समासस्य अवयवः न ।]\n→ षष् + गव् + अ + मय [<<एचोऽयवायावः>> [[6.1.78]] इति अवादेशः]\n→ षड् + गव् + अ + मय [पदान्तषकारस्य <<झलां जशोऽन्ते>> [[8.2.29]] इति जश्त्वे डकारः]\n→ षड्गवमय ।\nषड्भ्यः गोभ्यः आगतम् षड्गवमयम् । अत्र प्रक्रियायाम् 'मयट्' इति तद्धितप्रत्ययः विधीयते, परन्तु तस्य लोपः नैव क्रियते । अतः अत्र 'टच्' इति समासान्तप्रत्ययः अवश्यं कर्तव्यः ।\n5. पञ्चभिः गोभिः क्रीतम्\nपञ्चन् + गो + ठक् [<<आर्हादगोपुच्छसङ्ख्यापरिमाणात् ठक्>> [[5.1.19]] इति ठक्-प्रत्ययः । <<तद्धितार्थोत्तरपदसमाहारे च>> [[2.1.51]] इति तद्धितप्रत्ययस्य विषये द्विगुसमासः]\n→ पञ्चन् + गो [<<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> [[5.1.28]] इति द्विगुसमासस्य विषये विहितस्य आर्हीय-प्रत्ययस्य लुक्]\n→ पञ्च + गु [<<प्रथमानिर्दिष्टं समास उपसर्जनम्>> [[1.2.43]] इत्यनेन 'गो' शब्दस्य उपसर्जनसंज्ञा । <<गोस्त्रियोरुपसर्जनस्य>> [[1.2.48]] इति ह्रस्वादेशः]\n→ पञ्चगु ।\nपञ्चभिः गोभिः क्रीतम् तत पञ्चगु । अत्र वस्तुतः तत्पुरुषसमासः एव भवति, परन्तु प्रक्रियायाम् 'ठक्' इति समासनिमित्तकस्य तद्धितप्रत्ययस्य लुक् क्रियते । अतः अत्र वर्तमानसूत्रेण समासान्तप्रत्ययः न भवति ।\nविशेषः - यदि तद्धितभिन्नस्य प्रत्ययस्य लुक् भवति तदा अनेन सूत्रेण उक्तः निषेधः नैव प्रयुज्यते (इत्युक्ते, टच्-प्रत्ययः तत्र भवत्येव) । यथा - 'राज्ञः गाम् आत्मानम् इच्छति' इत्यत्र <<सुपः आत्मनः क्यच्>> [[3.1.8]] इत्यनेन 'राजन् + गो + टच् + अम् + क्यच्' इति स्थिते <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इत्यनेन 'अम्' प्रत्ययस्य लोपः भवति । परन्तु अयमम्-प्रत्ययः सुप्-प्रत्ययः अस्ति, न हि तद्धितप्रत्ययः, अतः अत्र टच्-प्रत्ययः अवश्यम् कर्तव्यः । टच्-प्रत्यये कृते अग्रे अन्यां प्रक्रियां कृत्वा अत्र 'राजगवीयम्' इति रूपम् सिद्ध्यति ।\n" }, "54093": { "sa": "यस्य तत्पुरुषसमासस्य उत्तरपदरूपेण 'अग्रः' अस्मिन् अर्थे 'उरस्' शब्दः विधीयते, तस्मात् 'टच्' इति समासान्तप्रत्ययः भवति । ", "sd": "'उरस्' इति शब्दः 'अग्रः' (= प्रमुखः, प्रधानः, मुख्यः) अस्मिन् अर्थे यदा तत्पुरुषसमासस्य उत्तरपदरूपेण विधीयते, तदा तस्मात् तत्पुरुषसमासात् 'टच्' इति समासान्तप्रत्ययः भवति ।\nयथा - अश्वानाम् उरः [<<षष्ठी>> [[2.2.8]] इति तत्पुरुषसमासः]\n→ अश्व + उरस् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः]\n→ अश्वोरस् + अ [<<आद्गुणः>> [[6.1.87]] इति गुण-एकादेशः]\n→ अश्वोरस\nअश्वानामुरः अश्वोरसम् ।\nएवमेव - हस्तिनामुरः हस्त्युरसम् । रथानामुरः रथोरसम् ।\nयत्र उरस्-शब्दः अन्येषु अर्थेषु प्रयुज्यते, तत्र अस्य सूत्रस्य प्रयोगः न भवति । यथा - देवदत्तस्य उरः देवदत्तोरः । अत्र 'उरस्' शब्दः 'वक्षः' (chest) अस्मिन् अर्थे प्रयुक्तः अस्ति, अतः अत्र 'टच्' प्रत्ययः न भवति । " }, "54094": { "sa": "यस्य तत्पुरुषसमासस्य उत्तरपदरूपेण 'अनस्', 'अश्मन्', 'अयस्' तथा 'सरस्' एतेषु कश्चन शब्दः विद्यते, तस्मात् जातौ तथा संज्ञायाम् गम्यमानायाम् 'टच्' इति समासान्तप्रत्ययः भवति । ", "sd": "यस्य तत्पुरुषसमासस्य अन्ते 'अनस्' (गृहम्), 'अश्मन्', 'अयस्' तथा 'सरस्' एतेषु कश्चन शब्दः विद्यते, तथा च यत्र समस्तपदेन जातेः उत संज्ञायाः निर्देशः भवति, तत्र 'टच्' इति समासान्तप्रत्ययः विधीयते ।\nउदाहरणानि एतादृशानि -\n1. उपगतमनः [<<कुगतिप्रादयः>> [[2.2.18]] इति तत्पुरुषसमासः]\n→ उप + अनस् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः]\n→ उपानस [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः]\nउपानसम् इति काचन जातिः ।\n2. महान् च असौ अनः [<<सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः>> [[2.1.61]] इति कर्मधारयसमासः]\n→ महत् + अनस् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः]\n→ महा + अनस् + अ [<<आन्महतः समानाधिकरणजातीययोः>> [[6.3.46]] इति महत्-शब्दस्य तकारस्य आकारादेशः]\n→ महानस\nमहानस (kichen) इति संज्ञा अस्ति ।\n3. अमृतं च तद् अश्म [<<विशेषणं विशेष्येण बहुलम्>> [[2.1.57]] इति कर्मधारयसमासः]\n= अमृत + अश्म + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः]\n→ अमृताश्मन् + अ [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः]\n→ अमृताश्म् + अ [<<नस्तद्धिते>> [[6.4.144]] इति टिलोपः]\n→ अमृताश्म\nअमृताश्मः इयम् काचन जातिः ।\n4. पिण्डम् च तद् अश्म [<<विशेषणं विशेष्येण बहुलम्>> [[2.1.57]] इति कर्मधारयसमासः]\n= पिण्ड + अश्मन् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः]\n→ पिण्डाश्मन् + अ [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः]\n→ पिण्डाश्म् + अ [<<नस्तद्धिते>> [[6.4.144]] इति टिलोपः]\n→ पिण्डाश्म\n'पिण्डाश्मः' इति काचन संज्ञा ।\n5. कालं च तद् अयः [<<विशेषणं विशेष्येण बहुलम्>> [[2.1.57]] इति कर्मधारयसमासः]\n= काल + अयस् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः]\n→ कालायस् + अ [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः]\n→ कालायस\n'कालायसम्' इति लोहस्य कश्चन जातिः । Black iron इत्याशयः ।\n6. लोहितम् च तद् अयः [<<विशेषणं विशेष्येण बहुलम्>> [[2.1.57]] इति कर्मधारयसमासः]\n= लोहित + अयस् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः]\n→ लोहितायस् + अ [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः]\n→ लोहितायस\n'लोहितायसम्' इति ताम्रस्य संज्ञा अस्ति । Red colored metal इत्याशयः ।\n7. मण्डूकानाम् सरः [<<षष्ठी>> [[2.2.8]] इति षष्ठीतत्पुरुषः]\nमण्डूक + सरस् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः]\n→ मण्डूकसरस\nमण्डूकसरसम् इति सरसः काचन जातिः । A type of lake that contains lots of frogs इत्याशयः ।\n8. जलानाम् सरः\n→ जल + सरस् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः]\n→ जलसरस् + अ\n→ जलसरस\n→ जलसरस\nजलसरसम् इति काचन संज्ञा । A lake with lot of water इत्यर्थः ।\nयत्र 'जाति' उत 'संज्ञा' इति अर्थः नास्ति तत्र अस्य सूत्रस्य प्रयोगः न भवति । यथा - 'सतामनः सदनम्' अत्र केवलम् 'गृहम्' इत्येव अर्थः अस्ति अतः अत्र टच् प्रत्ययः न भवति । " }, "54095": { "sa": "यस्मिन् तत्पुरुषसमासे पूर्वपदम् 'ग्राम' तथा 'कौट' एतयोः किञ्चन अस्ति तथा च उत्तरपदम् 'तक्षन्' इति शब्दः अस्ति, तस्मात् 'टच्' इति समासान्तप्रत्ययः भवति । ", "sd": "यस्मिन् तत्पुरुषसमासे पूर्वपदम् 'ग्राम' तथा 'कौट' (= कुट्यां भवः इत्याशयः) एतौ शब्दौ स्तः तथा च 'तक्षन्' इति शब्दः अस्ति, तस्मात् 'टच्' इति समासान्तप्रत्ययः भवति ।\nयथा -\n1. ग्रामस्य तक्षा (carpenter of the village) [<<षष्ठी>> [[2.2.8]] इति षष्ठीतत्पुरुषसमासः]\n→ ग्राम + तक्षन् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः]\n→ ग्रामतक्ष् + अ [<<नस्तद्धिते>> [[6.4.144]] इति टिलोपः]\n→ ग्रामतक्ष\nग्रामस्य तक्षा ग्रामतक्षः ।\n2. कौटश्चासौ तक्षा च (carpenter who stays in a hut and works from there. Works independently, not under someone इत्याशयः) [<<विशेषणं विशेष्येण बहुलम्>> [[2.1.57]] इति कर्मधारयसमासः ]\n→ कौट + तक्षन् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः]\n→ कौटतक्ष् + अ [<<नस्तद्धिते>> [[6.4.144]] इति टिलोपः]\n→ कौटतक्ष\nविशेषः - 'कौट' इति शब्दः 'कुट्यां भवः' इत्यस्मिन् अर्थे <<प्राग्दीव्यतोऽण्>> [[4.1.83]] इति अण्-प्रत्ययं कृत्वा सिद्ध्यति ।\nज्ञातव्यम् - अन्येषु तत्पुरुषसमासेषु उत्तरपदरूपेण विद्यमानात् 'तक्षन्' शब्दात् टच् प्रत्ययः न भवति । यथा - राज्ञः तक्षा = राजतक्षा । " }, "54096": { "sa": "यस्मिन् तत्पुरुषसमासे पूर्वपदम् 'अति' तथा उत्तरपदम् 'श्वन्' इति अस्ति, तस्मात् टच् इति समासान्तप्रत्ययः भवति । ", "sd": "यस्मिन् तत्पुरुषसमासे पूर्वपदम् 'अति' तथा उत्तरपदम् 'श्वन्' इति अस्ति, तस्मात् टच् इति समासान्तप्रत्ययः भवति । यथा -\nअतिक्रान्तः श्वानम् (surpasses a dog in certain quality, e.g. speed of running) [ इति प्रादिसमासः]\n→ अति + श्वन् + टच्\n→ अति + श्व् + अ [<<नस्तद्धिते>> [[6.4.144]] इति टिलोपः]\n→ अतिश्व\nअतिक्रान्तः श्वानम् सः अतिश्वः वराहः ।\nस्त्रीत्वे विवक्षिते प्रत्ययस्य टित्त्वात् <<टिड्ढाणञ्...>> [[4.1.15]] इत्यनेन ङीप्-प्रत्ययः भवति । अतिक्रान्तः श्वानम् सः अतिश्वी अजा ।\nविशेषः - 'टच्' इति प्रत्ययः तद्धितप्रत्ययः अस्ति, अतः अत्र प्रक्रियायाम् <<श्वयुवमघोनामतद्धिते>> [[6.4.133]] इत्यनेन सम्प्रसारणम् न भवति । " }, "54097": { "sa": "उपमानवाची प्रयुक्तः श्वन् शब्दः यस्य तत्पुरुषसमासस्य उत्तरपदरूपेण प्रयुज्यते, तस्मात् टच् इति समासान्तप्रत्ययः भवति । परन्तु समस्तपदेन प्राणिनः निर्देशः क्रियते चेत् अयम् प्रत्ययः न विधीयते । ", "sd": "यस्मिन् तत्पुरुषसमासे 'श्वन्' इति शब्दः 'उपमानम्' अस्मिन् अर्थे प्रयुज्यते, तथा च यत्र समस्तपदेन प्राणिनः निर्देशः न भवति, तत्र 'टच्' इति समासान्तप्रत्ययः क्रियते ।\nयथा -\nआकर्षः श्वा इव [A wooden object is just like a dog - शुनः प्रतिकृतिः इत्याशयः । अत्र <<उपमितं व्याघ्रादिभिः सामान्याप्रयोगे>> [[2.1.56]] इत्यनेन तत्पुरुषसमासः भवति ।]\n→ आकर्ष + श्वन् + टच [वर्तमानसूत्रेण समासान्तः टच्-प्रत्ययः]\n→ आकर्ष + श्व् + अ [<<नस्तद्धिते>> [[6.4.144]] इति टिलोपः]\n→ आकर्षश्व\nआकर्षः श्वा इव सः आकर्षश्व । A wooden instrument that resembles a dog is called आकर्षश्व.\nएवमेव, फलकं श्वा इव = फलकश्वः इत्यपि सिद्ध्यति ।\nअस्मिन् सूत्रे 'अप्राणिषु' इति निर्दिश्यते, अतः 'वानरः श्वा इव' (A monkey that looks just like a dog) इत्यत्र टच्-प्रत्ययः न भवति । वानरः श्वा इव सः वानरश्वा ।अत्र 'वानर + श्वन् → वानरश्वन्' इति समासः जायते ।\n " }, "54098": { "sa": "यस्मिन् तत्पुरुषसमासे पूर्वपदम् 'उत्तर', 'मृग', 'पूर्व' एतेषु किञ्चन उत उपमानवाचकः शब्दः अस्ति, तथा च उत्तरपदम् 'सक्थिन्' शब्दः अस्ति, तस्मात् टच् इति समासान्तप्रत्ययः भवति । ", "sd": "यस्मिन् समासे 'सक्थिन्' (leg) इति शब्दः उत्तरपदरूपेण विद्यते, तथा च 'उत्तर', 'मृग' तथा 'पूर्व' एतेषु कश्चन शब्दः उत उपमानवाची कश्चन शब्दः पूर्वपदरूपेण विद्यते, तस्मात् टच् इति समासान्तप्रत्ययः भवति ।\nउदाहरणानि एतानि -\n1.उत्तरं सक्थि (The upper part of leg) [<<\tविशेषणं विशेष्येण बहुलम्>> [[2.1.57]] इति तत्पुरुषसमासः]\n→ उत्तर + सक्थिन् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः]\n→ उत्तर + सक्थ् + अ [<<नस्तद्धिते>> [[6.4.144]] इति टिलोपः]\n→ उत्तरसक्थ ।\nउत्तरं सक्थि उत्तरसक्थम् ।\n2. मृगस्य सक्थि (Leg of a deer) [<<षष्ठी>> [[2.2.8]] इति तत्पुरुषसमासः]\n→ मृग + सक्थिन् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः]\n→ मृग + सक्थ् + अ [<<नस्तद्धिते>> [[6.4.144]] इति टिलोपः]\n→ मृगसक्थ ।\nमृगस्य सक्थि मृगसक्थम् ।\n3. पूर्वं सक्थि (The lower part of a leg) [<<पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन>> [[2.1.49]] इति तत्पुरुषसमासः]\n→ पूर्व + सक्थिन् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः]\n→ पूर्व + सक्थ् + अ [<<नस्तद्धिते>> [[6.4.144]] इति टिलोपः]\n→ पूर्वसक्थ ।\nपूर्वं सक्थि पूर्वसक्थम् ।\nउपमानवाचकस्य पूर्वपदस्य उदाहरणम् एतत् -\n4. फलकम् इव सक्थि [<<मयूरव्यंसकादयश्च>> [[2.1.72]] इति तत्पुरुषसमासः]\n→ फलक + सक्थिन् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः]\n→ फलक + सक्थ् + अ [<<नस्तद्धिते>> [[6.4.144]] इति टिलोपः]\n→ फलकसक्थ ।\nफलकम् इव सक्थि फलकसक्थम् ।\n" }, "54099": { "sa": "यस्मिन् द्विगुसमासे 'नौ' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् टच् इति समासान्तप्रत्ययः भवति । परन्तु द्विगुसमासस्य निमित्तभूतस्य तद्धितप्रत्ययस्य यदि लुक् भवति तर्हि अयम् टच् प्रत्यय न भवति । ", "sd": "यस्मिन् द्विगुसमासे 'नौ' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् टच् इति समासान्तप्रत्ययः भवति । परन्तु यदि प्रक्रियायाम् द्विगुसमासस्य निमित्तभूतस्य तद्धितप्रत्ययस्य लुक् भवति, तत्र टच् प्रत्ययः न विधीयते ।\nकानिचन उदाहरणानि एतानि -\n1. पञ्चानां नावाम् समाहारः [<<तद्धितार्थोत्तरपदसमाहारे च>> [[2.1.51]] इति द्विगुसमासः]\n→ पञ्चन् + नौ + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः]\n→ पञ्चन् + नाव् + अ [<<एचोऽयवायावः>> [[6.1.78]] इति आवादेशः]\n→ पञ्च + नाव् + अ [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः]\n→ पञ्चनाव\nपञ्चानां नावां समाहारः पञ्चनावम् । एवमेव - द्विनावम्, त्रिनावम्, सप्तनावम्, दशनावम् एतादृशाः शब्दाः अपि सिद्ध्यन्ति ।\nअत्रापि प्रक्रियायाम् टच्-प्रत्ययात् पूर्वम् कोऽपि अन्यः तद्धितप्रत्ययः नैव विधीयते, अतः तद्धितलुक् अप्यत्र न सम्भवति । अतः अत्र टच्-प्रत्ययः भवत्येव ।\n3. पञ्चभ्यः नौभ्यः आगतम्\nपञ्चन् + नौ + रूप्य [ततः आगतः अस्मिन्नर्थे <<हेतुमनुष्येभ्यः रूप्यः>> [[4.3.81]] इत्यनेन रूप्य-प्रत्ययः । <<तद्धितार्थोत्तरपदसमाहारे च>> [[2.1.51]] इति तद्धितप्रत्ययस्य विषये द्विगुसमासः]\n→ पञ्चन् + नौ + टच् + रूप्य [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः । अयम् प्रत्ययः तद्धितप्रत्ययात् पूर्वम् विधीयते यतः समासः तु 'पञ्चन् + नौ' इत्यस्यैव भवति । रूप्य-प्रत्ययः केवलम् समासनिमित्तकः अस्ति, समासस्य अवयवः न ।]\n→ पञ्चन् + नाव् + अ + रूप्य [<<एचोऽयवायावः>> [[6.1.78]] इति अवादेशः]\n→ पञ्च + नाव + रूप्य [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः]\n→ पञ्चनावरूप्य\nपञ्चभ्यः नौभ्यः आगतम् पञ्चनावरूप्यम् । अत्र प्रक्रियायाम् 'रूप्य' इति तद्धितप्रत्ययः विधीयते, परन्तु तस्य लोपः नैव क्रियते (<<द्विगोर्लुगनपत्ये>> [[4.1.88]] इत्यस्य प्रसक्तिः अत्र न विद्यते यतः अत्र 'रूप्य' इति अजादिप्रत्ययः नास्ति) । अतः अत्र 'टच्' इति समासान्तप्रत्ययः अवश्यं कर्तव्यः ।\n4. षट् नावः प्रियाः अस्य [<<अनेकमन्यपदार्थे>> [[2.2.24]] इति बहुव्रीहिसमासः । अस्मिन् समासे प्रारम्भे <<तद्धितार्थोत्तरपदसमाहारे च>> [[2.1.51]] इति द्विगुसमासः]\n= षष् + नौ + टच् + प्रिय [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः । अयम् समासान्तप्रत्ययः द्विगुसमासस्य अन्ते विधीयते अतः 'प्रिय' शब्दात् पूर्वमेव अस्य स्थापनं क्रियते ।]\n→ षष् + नाव् + अ + प्रिय [<<एचोऽयवायावः>> [[6.1.78]] इति अवादेशः]\n→ षड् + नाव् + अ + प्रिय [पदान्तषकारस्य <<झलां जशोऽन्ते>> [[8.2.29]] इति जश्त्वे डकारः]\n→ षड्नावप्रिय ।\nषट् नावः प्रियाः अस्य सः षड्नावप्रियः ।\n5. पञ्चभिः नौभिः क्रीतः\n= पञ्चन् + नौ + ठक् [<<आर्हादगोपुच्छसङ्ख्यापरिमाणात् ठक्>> [[5.1.19]] इति ठक्-प्रत्ययः । <<तद्धितार्थोत्तरपदसमाहारे च>> [[2.1.51]] इति तद्धितप्रत्ययस्य विषये द्विगुसमासः]\n→ पञ्चन् + नौ [<<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> [[5.1.28]] इति द्विगुसमासस्य विषये विहितस्य आर्हीय-प्रत्ययस्य लुक्]\n→ पञ्च + नौ [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः]\n→ पञ्चनौ\n पञ्चभिः नौभिः क्रीतः सः पञ्चनौः अत्र वस्तुतः तत्पुरुषसमासः एव भवति, परन्तु प्रक्रियायाम् 'ठक्' इति समासनिमित्तकस्य तद्धितप्रत्ययस्य लुक् क्रियते । अतः अत्र वर्तमानसूत्रेण समासान्तप्रत्ययः न भवति ।\n" }, "54100": { "sa": "यस्मिन् तत्पुरुषसमासे 'अर्ध' शब्दः पूर्वपदरूपेण विद्यते तथा च 'नौ' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् 'टच्' इति समासान्तप्रत्ययः भवति । ", "sd": "यस्मिन् तत्पुरुषसमासे 'अर्ध' शब्दः पूर्वपदरूपेण विद्यते तथा च 'नौ' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् 'टच्' इति समासान्तप्रत्ययः भवति । यथा -\nअर्धम् नावः (half part of a boat) [<<अर्धं नपुंसकम्>> [[2.2.2]] इति प्रथमातत्पुरुषसमासः]\n→ अर्ध + नौ + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः]\n→ अर्ध + नौ + अ\n→ अर्ध + नाव् + अ [<<एचोऽयवायावः>> [[6.1.78]] इति आवादेशः]\n→ अर्धनाव\nअर्धम् नावः अर्धनावम् ।\n" }, "54101": { "sa": "यस्मिन् तत्पुरुषसमासे 'खारी' शब्दः उत्तरपदरूपेण विद्यते, तथा च 'अर्ध' शब्दः पूर्वपदरूपेण विद्यते उत द्विगुसमासविधानम् भवति, तत्र 'टच्' इति समासान्तप्रत्ययः भवति । ", "sd": "यस्मिन् तत्पुरुषसमासे 'खारी' (किञ्चन परिमाणम्, quintal इत्याशयः) इति शब्दः उत्तरपदरूपेण विद्यते, तथा च 'अर्ध' शब्दः पूर्वपदरूपेण विद्यते, तस्मात् प्राचामाचार्याणाम् मतेन (इत्युक्ते, विकल्पेन) 'टच्' इति समासान्तप्रत्ययः भवति । तथा च, यस्मिन् द्विगुसमासे 'खारी' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् अपि प्राचामाचार्याणाम् मतेन (इत्युक्ते, विकल्पेन) टच् इति समासान्तप्रत्ययः भवति ।\nउदाहरणे एते -\n1. अर्धम् खार्याः (half quintal) [<<अर्धं नपुंसकम्>> [[2.2.2]] इति प्रथमातत्पुरुषसमासः]\n→ अर्ध + खारी + टच् [वर्तमानसूत्रेण वैकल्पिकः टच्-प्रत्ययः]\n→ अर्ध + खार् + अ [<<यस्येति च>> [[6.4.148]] इति टिलोपः]\n→ अर्धखार\nअर्धं खार्याः अर्धखारम् ।\nपक्षे (टच्-प्रत्ययस्य अभावे) अर्धखारि इत्यपि रूपम् सिद्ध्यति । प्रक्रियायाम् 'अर्ध + खारी' इति स्थिते <<ह्रस्वो नपुंसके प्रातिपदिकस्य>> [[1.2.47]] इत्यनेन 'खारी' इत्यस्य ह्रस्वादेशः भवतीति विशेषः ।\n2. द्वयोः खार्योः समाहारः [<<तद्धितार्थोत्तरपदसमाहारे च>> [[2.1.51]] इति द्विगुसमासः]\n→ द्वि + खारी + टच् [वर्तमानसूत्रेण वैकल्पिकः टच्-प्रत्ययः]\n→ द्वि + खार् + अ [<<यस्येति च>> [[6.4.148]] इति टिलोपः]\n→ द्विखार [<<स नपुंसकम्>> [[2.4.17]] इत्यनेन नपुंसकलिङ्गम्]\nद्वयोः खार्योः समाहारः द्विखारम् ।\nपक्षे (टच्-प्रत्ययस्य अभावे) द्विखारि इत्यपि रूपम् सिद्ध्यति । अत्रापि 'द्वि + खारी' इति स्थिते <<ह्रस्वो नपुंसके प्रातिपदिकस्य>> [[1.2.47]] इत्यनेन 'खारी' इत्यस्य ह्रस्वादेशः भवति ।\nविशेषः - अस्मिन् सूत्रे 'अतद्धितलुकि' इति न अनुवर्तते, यतः खारी-शब्दस्य विषये तद्धितप्रत्ययस्य लुक् न सम्भवति । अस्मिन् विषये <<खार्या ईकन्>> [[5.1.33]] इत्यत्र विस्तारेण उक्तमस्ति ।\n" }, "54102": { "sa": "यस्मिन् द्विगुसमासे पूर्वपदम् 'द्वि' उत 'त्रि' एतयोः किञ्चन अस्ति तथा च उत्तरपदम् 'अञ्जलि' इति शब्दः अस्ति, तस्मात् प्राचामाचार्याणाम् मतेन 'टच्' इति समासान्तप्रत्ययः भवति । परन्तु प्रक्रियायाम् द्विगुनिमित्तकस्य तद्धितप्रत्ययस्य लुक् भवति चेत् टच्-प्रत्ययः न विधीयते । ", "sd": "यस्य द्विगुसमासस्य पूर्वपदम् 'द्वि' उत 'त्रि' एतयोः किञ्चन अस्ति तथा च उत्तरपदम् 'अञ्जलि' इति शब्दः अस्ति, तस्मात् प्राचामाचार्याणाम् मतेन (इत्युक्ते विकल्पेन) 'टच्' इति समासान्तप्रत्ययः भवति । परन्तु प्रक्रियायाम् द्विगुनिमित्तकस्य तद्धितप्रत्ययस्य लुक् भवति चेत् टच्-प्रत्ययः न विधीयते ।\nयथा - द्वयोः अञ्जल्योः समाहारः [<<तद्धितार्थोत्तरपदसमाहारे च>> [[2.1.51]] इति द्विगुसमासः]\n→ द्वि + अञ्जलि + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः]\n→ द्व्यञ्जलि + अ [<<इको यणचि>> [[6.1.77]] इति यणादेशः]\n→ द्व्यञ्जल् + अ [<<यस्येति च>> [[6.4.148]] इति इकारलोपः]\n→ द्व्यञ्जल\nद्वयोः अञ्जल्योः समाहारः द्व्यञ्जलम् । एवमेव - तिसृणामञ्जलीनाम् समाहारः त्र्यञ्जलम् ।\nपक्षे टच्-प्रत्ययं विना 'द्व्यञ्जलि' / 'त्र्यञ्जलि' एतौ शब्दौ अपि सिद्ध्यतः ।\nयत्र तद्धितप्रत्ययस्य लुक् भवति तत्र तु टच्-प्रत्ययः पक्षे अपि न विधीयते । यथा -\nद्वाभ्यां अञ्जलीभ्याम् क्रीतम् (purchased by giving two handfuls of something)\nद्वि + अञ्जली + ठक् [<<आर्हादगोपुच्छसङ्ख्यापरिमाणात् ठक्>> [[5.1.19]] इति ठक्-प्रत्ययः । <<तद्धितार्थोत्तरपदसमाहारे च>> [[2.1.51]] इति तद्धितप्रत्ययस्य विषये द्विगुसमासः]\n→ द्वि + अञ्जली [<<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> [[5.1.28]] इति द्विगुसमासस्य विषये विहितस्य आर्हीय-प्रत्ययस्य लुक्]\n→ द्व्यञ्जली [<<इको यणचि>> [[6.1.77]] इति यणादेशः]\nद्वाभ्यां अञ्जलीभ्याम् क्रीतम् तत् द्व्यञ्जलि । अत्र <<ह्रस्वो नपुंसके प्रातिपदिकस्य>> [[1.2.47]] इति नपुंसकलिङ्गस्य विषये ह्रस्वादेशः भवति । अत्र वस्तुतः तत्पुरुषसमासः एव भवति, परन्तु प्रक्रियायाम् 'ठक्' इति समासनिमित्तकस्य तद्धितप्रत्ययस्य लुक् क्रियते । अतः अत्र वर्तमानसूत्रेण समासान्तप्रत्ययः न भवति ।\n" }, "54103": { "sa": "यस्य तत्पुरुषसमास्य उत्तरपदस्य अन्ते 'अन्' तथा 'असन्' इति विद्यते, तस्मात् नपुंसकरूपस्य निर्माणे वेदेषु टच् इति समासान्तप्रत्ययः भवति । ", "sd": "यस्मिन् तत्पुरुषसमासे विद्यमानमुत्तरपदम् 'अन्' उत 'असन्' इत्यनेन समाप्यते, तथा च यत्र समस्तपदम् नपुंसकलिङ्गे प्रयुज्यते, तस्मात् वेदेषु 'टच्' इति समासान्तप्रत्ययः भवति ।\nयथा, काठकसंहितायाम् 'ऋषभचर्मे अभिषिञ्चति' इति निर्देशः विद्यते । अत्र 'ऋषभस्य चर्म' अत्र तत्पुरुषसमासे कृते 'टच्' इति समासान्तप्रत्ययः भवति येन 'ऋषभचर्म' इति अकारान्तशब्दः सिद्ध्यति ।\nअत्र एकम् वार्त्तिकम् ज्ञेयम् - । इत्युक्ते, अनेन सूत्रेण उक्तः टच्-प्रत्ययः वेदेषु विकल्पेनैव भवति । यथा, 'ब्रह्मणः साम' इत्यस्मिन् अर्थे टच्-प्रत्ययं विना 'ब्रह्मसाम' तथा टच्-प्रत्ययं प्रयुज्य 'ब्रह्मसामम्' एतौ द्वौ अपि प्रयोगौ दृश्येते ।\n" }, "54104": { "sa": "यस्मिन् तत्पुरुषसमासे 'ब्रह्मन्' शब्दः उत्तरपदरूपेण विद्यते तथा च येन समस्तपदेन ब्रह्मण जनपदेन सह सम्बन्धः निर्दिश्यते, तस्मात् टच् इति समासान्तप्रत्ययः भवति । ", "sd": "ब्रह्मन् (= ब्राह्मणः) इति शब्दः यस्मिन् तत्पुरुषसमासे उत्तरपदरूपेण विद्यते, तथा च येन समस्तपदेन 'जानपदम्' (= जनपदस्य इदम्) इति ब्रह्मणः निर्देशः भवति तस्मात् टच् इति समासान्तप्रत्ययः भवति ।\nयथा - सुराष्ट्रे ब्रह्मा (The brahmin of Surashtra) [<<सप्तमी शौण्डैः>> [[2.1.40]] इत्यस्मात् 'सप्तमी' इति योगविभागेन सप्तमीतत्पुरुषसमासः]\n→ सुराष्ट्र + ब्रह्मन् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः]\n→ सुराष्ट्र + ब्रह्म् + अ [<<नस्तद्धिते>> [[6.4.144]] इति टिलोपः]\n→ सुराष्ट्रब्रह्म ।\nसुराष्ट्रे ब्रह्मा सुराष्ट्रब्रह्मः । The brahmin belonging to Surashtra - इत्याशयः ।\nयदि जनपदेन सह सम्बन्धः न दर्श्यते, तर्हि वर्तमानसूत्रस्य प्रयोगः न भवति । यथा - देवानाम् ब्रह्मा देवब्रह्मा । अत्र टच्-प्रत्ययः न भवति ।\nस्मर्तव्यम् - यस्मिन् तत्पुरुषसमासे जनपदवाची शब्दः पूर्वपदरूपेण विद्यते, तत्रैव अस्य सूत्रस्य प्रयोगः भवति, यतः तदा एव समस्तपदम् 'जनपदेन सह ब्रह्मणः सम्बन्धम्' प्रदर्शयितुम् शक्नोति ।\n" }, "54105": { "sa": "यस्मिन् तत्पुरुषसमासे 'कु' उत 'महत्' शब्दः पूर्वपदरूपेण विद्यते, तथा च 'ब्रह्मन्' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् विकल्पेन 'टच्' इति समासान्तप्रत्ययः भवति । ", "sd": "यस्मिन् तत्पुरुषसमासे 'कु' उत 'महत्' शब्दः पूर्वपदरूपेण विद्यते, तथा च 'ब्रह्मन्' ( = ब्राह्मणः) शब्दः उत्तरपदरूपेण विद्यते, तस्मात् विकल्पेन 'टच्' इति समासान्तप्रत्ययः भवति । यथा -\n1. कुत्सितः ब्रह्मा [<<कुगतिप्रादयः>> [[2.2.18]] इति तत्पुरुषसमासः]\n→ कु + ब्रह्मन् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः]\n→ कु + ब्रह्म् + अ [<<नस्तद्धिते>> [[6.4.144]] इति टिलोपः]\n→ कुब्रह्म\nकुत्सितः ब्रह्मा कुब्रह्मः ।\nपक्षे टच्-प्रत्ययस्य अभावे 'कुब्रह्मा' इत्यपि सिद्ध्यति ।\n2. महान् च असौ ब्रह्मा [<<सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः>> [[2.1.61]] इति तत्पुरुषसमासः]\n→ महत् + ब्रह्मन् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः]\n→ महा + ब्रह्मन् + टच् [<<आन्महतः समानाधिकरणजातीययोः>> [[6.3.46]] इति तकारस्य आकारादेशः]\n→ महा + ब्रह्म् + अ [<<नस्तद्धिते>> [[6.4.144]] इति टिलोपः]\n→ महाब्रह्म\nपक्षे टच्-प्रत्ययस्य अभावे 'महाब्रह्मा' इति रूपमपि सिद्ध्यति ।\nस्मर्तव्यम् - <<तत्पुरुषस्याङ्गुलेः संख्याऽव्ययादेः>> [[5.4.86]] इत्यस्मात् प्रारब्धम् तत्पुरुषसमासान्तप्रत्ययानां प्रकरणमत्र समाप्यते ।\n " }, "54106": { "sa": "यस्य समाहारद्वन्द्वसमासस्य अन्ते चवर्गीयवर्णः, दकारः, षकारः उत हकारः विद्यते, तस्मात् 'टच्' इति समासान्तप्रत्ययः भवति ।", "sd": "यस्य द्वन्द्वसमासस्य अन्ते चवर्गीयवर्णः, दकारः, षकारः उत हकारः विद्यते, तस्मात् 'टच्' इति समासान्तप्रत्ययः भवति । अयम् प्रत्ययः केवलम् समाहारद्वन्द्वसमासस्य विषये एव विधीयते, इतरेतरद्वन्द्वसमासस्य विषये न - इति स्पष्टीकर्तुमस्मिन् सूत्रे 'समाहारे' इति पदं प्रयुक्तमस्ति ।\nउदाहरणानि एतानि -\n[अ] चकारान्तस्य उदाहरणद्वयम् -\n1. वाक् च त्वक् च एतयोः समाहारः = वाच् + त्वक् + टच् → वाक्त्वच ।\n2. स्रक् च त्वक् च एतयोः समाहारः = स्रच् + त्वच् + टच् → स्रक्त्च ।\n[आ] जकारान्तस्य उदाहरणद्वयम् -\n3. श्रीः च स्रक् च एतयोः समाहारः = श्री + स्रज् + टच् → श्रीस्रज ।\n4. वाक् च ऊर्क् च एतयोः समाहारः = वाच् + ऊर्ज् + टच् → वाचूर्ज ।\n[इ] दकारान्तस्य उदाहरणद्वयम् -\n5. समिध् च दृषद् च एतयोः समाहारः = समिद् + दृषद् + टच् → समिद्दृषद ।\n6. सम्पद् च विपद् च एतयोः समाहारः = सम्पद् + विपद् + टच् → सम्पद्विपद ।\n[ई] षकारान्तस्य उदाहरणद्वयम् -\n7. वाक् च विपृट् च एतयोः समाहारः = वाच् + विपृष् + टच् → वाग्विपृष ।\n8. ग्रीष्मः च प्रावृट् च एतयोः समाहारः = ग्रीष्म + प्रावृष् + टच् → ग्रीष्मप्रावृष ।\n[उ] हकारान्तस्य उदाहरणद्वयम् -\n9. छत्रं च उपानत् च एतयोः समाहारः = छत्र + उपानह् + टच् → छत्रोपानह ।\n10. धेनुः च गोधुक् च एतयोः समाहारः = धेनु + गोदुह् + टच् → धेनुगोदुह ।\nज्ञातव्यम् -\n1. यदि समासस्य अन्ते विद्यमानः वर्णः कश्चन अन्यः अस्ति, तर्हि टच्-प्रत्ययः न भवति । यथा - वाक् च समिध् च = वाक् + समिध् → वाक्समित् ।\n2. इतरेतरद्वन्द्वसमासस्य विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा - प्रावृट् च शरद् च = प्रावृट्शरदौ । अत्र टच्-प्रत्ययः न भवति ।\n" }, "54107": { "sa": "शरदादिगणे विद्यमानेभ्यः शब्देभ्यः अव्ययीभावसमासे 'टच्' इति समासान्तप्रत्ययः भवति । ", "sd": "शरदादिगणे विद्यमानाः शब्दाः यत्र अव्ययीभावसमासे प्रयुज्यन्ते, तत्र तेभ्यः 'टच्' इति समासान्तप्रत्ययः विधीयते ।\nशरदादिगणः अयम् - शरद्, विपाश्, अनस्, मनस्, उपानह्, दिव्, हिमवत्, अनडुह्, दिश्, दृश्, सदृश्, चतुर्, त्यद्, तद्, यद्, कियत्, जरायाः जरस् च (गणसूत्रम्), प्रतिपरसमनुभ्योऽक्ष्णः (गणसूत्रम्) , पथिनश्च (गणसूत्रम्) ।\nउदाहरणानि अधः दत्तानि सन्ति । सर्वत्र <<अव्ययं विभक्तिसमीप..>> [[2.1.6]] इत्यनेन अव्ययीभावसमासः भवति ।\n1. शरदः समीपम् = उप + शरद् + टच् → उपशरद ।\n2. विपाशः अभिमुखम् = प्रति + विपाश् + टच् → प्रतिविपाश ।\n3. अनसः (= शकटम् ) समीपम् = उप + अनस् + टच् → उपानस ।\n4. मनसः समृद्धिः = सु + मनस् + टच् → सुमनस ।\n5. उपानहा सह = स + उपानह् + टच् → सोपानह ।\n6. दिवः पश्चात् = अनु + दिव् + टच् → अनुदिव ।\n7. हिमवतः समीपम् = उप + हिमवत् + टच् → उपहिमवत ।\n8. अनडुहा सह = अनु + अनडुह् + टच् → अन्वनडुह ।\n9. दिशयोर्मध्ये = अप + दिश् + टच् → अपदिश ।\n10. दृशः समीपम् = उप + दृश् + टच् → उपदृश ।\n11. सदृशः समीपम् = उप + सदृश् + टच् → उपसदृश ।\n12. चतुर्ण्णाम् सदृशम् = स + चतुर् + टच् → सचतु ।\n13. त्यस्य समीपम् = उप + त्यद् + टच् → उपत्यद ।\n14. यस्य समीपम् = उप + यद् + टच् → उपयद ।\n15. तस्य समीपम् = उप + तद् + टच् → उपतद ।\n16. कियतः समीपम् = उप + कियत् + टच् → उपकियत ।\nअत्र त्रीणि गणसूत्राणि पाठ्यन्ते -\n1. जरायाः जरस् च - अव्ययीभावसमासे विहितस्य 'जरा' शब्दस्य 'जरस्' आदेशः भवति तथा च तस्मात् 'टच्' इति समासान्तप्रत्ययः विधीयते । यथा -\nजरसः समीपम् = उप + जरा + टच् → उप + जरस् + टच् → उपजरस ।\n2. प्रति-पर-सम-अनुभ्यः अक्ष्णः - 'अक्षि' इत्यस्य शब्दस्य 'प्रति', 'पर', 'सम', 'अनु' एतेषां योगे अव्ययीभावसमासे 'टच्' इति समासान्तप्रत्ययः भवति । यथा -\nअ) अक्षिमक्षिम् प्रति = प्रति + अक्षि + टच् → प्रत्यक्ष ।\nआ) अक्ष्णः परम् = पर + अक्षि + टच् → परोक्ष । अत्र रेफोत्तरस्य अकारस्य ओकारादेशः निपात्यते । <<परोक्षे लिट्>> [[3.2.115]] इत्यत्र पाणिनिना कृतः 'परोक्ष' इति निर्देशः अस्य ज्ञापकः अस्ति ।\nइ) अक्ष्णः योग्यम् = सम् + अक्षि + टच् → समक्ष ।\nई) अक्षः पश्चात् = अनु + अक्षि + टच् → अन्वक्ष ।\n3. पथिनश्च - 'पथिन्' शब्दस्य विषये अपि 'प्रति', 'पर', 'सम', 'अनु' एतेषां योगे अव्ययीभावसमासे 'टच्' इति समासान्तप्रत्ययः भवति । यथा -\nअ) पन्थानं पन्थानं प्रति = प्रति + पथिन् + टच् → प्रतिपथ । <<नस्तद्धिते>> [[6.4.144]] इति टिलोपः भवति । एवमेव अग्रेऽपि ज्ञेयम् ।\nआ) पथः परम् = पर + पथिन् + टच् → परपथ ।\nइ) पथः योग्यम् = सम् + पथिन् + टच् → संपथ, सम्पथ । <<वा पदान्तस्य>> [[8.4.59]] इति वैकल्पिके परसवर्णे कृते रूपद्वयं सिद्ध्यति ।\nई) पथः पश्चात् = अनु + पथिन् + टच् → अनुपथ ।\nस्मर्तव्यम् - अदन्त-अव्ययीभाव-समासात् विहितस्य विभक्तिप्रत्ययस्य <<नाव्ययीभावादतोऽम्त्वपञ्चम्याः>> [[2.4.83]] इत्यनेन अम्-आदेशः भवति । अतः अत्र निर्मिताः सर्वे शब्दाः 'अम्' प्रत्ययान्ताः एव प्रयुज्यन्ते । यथा - उपशरदम्, प्रतिविपाशम् - आदयः ।\n " }, "54108": { "sa": "यस्य अव्ययीभावसमासस्य अन्ते 'अन्' इति विद्यते तस्मात् टच् इति समासान्तप्रत्ययः भवति । ", "sd": "यस्य अव्ययीभावसमासस्य उत्तरपदम् 'अन्' इत्यनेन समाप्यते, तस्मात् 'टच्' इति समासान्तप्रत्ययः भवति । कानिचन उदाहरणानि एतानि -\n1. राजानं प्रति\n= प्रति + राजन् + टच् [वर्तमानसूत्रेण टच्-प्रत्ययः]\n→ प्रति + राज् + अ [<<नस्तद्धिते>> [[6.4.144]] इति टिलोपः]\n→ प्रतिराज ।\nराजानं प्रति प्रतिराजम् ।\n2. आत्मनि इत्येव\n= अधि + आत्मन् + टच् [वर्तमानसूत्रेण टच्-प्रत्ययः]\n→ अध्यात्मन् + टच् [<<इको यणचि>> [[6.1.77]] इति यणादेशः]\n→ अध्यात्म् + अ [<<नस्तद्धिते>> [[6.4.144]] इति टिलोपः]\n→ अध्यात्म ।\nआत्मनि इत्येव अध्यात्मम् ।\n3. पञ्चानाम् समीपम्\n= उप + पञ्चन् + टच् [वर्तमानसूत्रेण टच्-प्रत्ययः]\n→ उप + पञ्च् + अ [<<नस्तद्धिते>> [[6.4.144]] इति टिलोपः]\n→ उपपञ्च\nपञ्चानां समीपम् उपपञ्चम् ।\nस्मर्तव्यम् -\n1. यदि अन्नन्तः शब्दः नपुंसकलिङ्गवाची अस्ति, तर्हि <<नपुंसकादन्यतरस्याम्>> इत्यनेन अग्रिमसूत्रेण टच्-प्रत्ययः विकल्प्यते ।\n2. अदन्त-अव्ययीभाव-समासात् विहितस्य विभक्तिप्रत्ययस्य <<नाव्ययीभावादतोऽम्त्वपञ्चम्याः>> [[2.4.83]] इत्यनेन अम्-आदेशः भवति । " }, "54109": { "sa": "यस्य अव्ययीभावसमासस्य अन्ते अन्नन्त नपुंसकलिङगवाची शब्दः विद्यते, तस्मात् 'टच्' इति समासान्तप्रत्ययः विकल्पेन भवति । ", "sd": "यदि कश्चन अन्नन्तः नपुंसकलिङ्गवाचकः शब्दः अव्ययीभावसमासस्य उत्तरपदरूपेण विधीयते, तर्हि तस्मात् <<अनश्च>> [[5.4.108]] इत्यनेन प्राप्तः 'टच्' इति समासान्तप्रत्ययः वर्तमानसूत्रेण विकल्प्यते ।\nयथा -\n1. चर्मणः समीपम्\n= उप + चर्मन् + टच् [वैकल्पिकः टच्-प्रत्ययः]\n→ उप + चर्म् + अ [<<नस्तद्धिते>> [[6.4.144]] इति टिलोपः]\n→ उपचर्म ।\nअस्मात् अग्रे विहितस्य विभक्तिप्रत्ययस्य <<नाव्ययीभावादतोऽम्त्वपञ्चम्याः>> [[2.4.83]] इत्यनेन अम्-आदेशः भवति, अतः प्रयोगे 'उपचर्मम्' इति दृश्यते ।\nपक्षे टच्-प्रत्ययस्य अभावे 'उपचर्मन्' इत्यपि प्रातिपदिकम्म् सिद्ध्यति । अस्य प्रथमैकवचनम् 'उपचर्म' इति । अतः - चर्मणः समीपम् उपचर्मम् उपचर्म वा ।\nएवमेव -\n2. ब्रह्मणः समीपम् उपब्रह्मम् उपब्रह्म वा ।\n3. नाम अनुसृत्य अनुनामम् अनुनाम वा ।\n" }, "54110": { "sa": "यस्य अव्ययीभावसमासस्य अन्ते 'नदी', 'पौर्णमासी', 'आग्रहायणी' एतेषु कश्चन शब्दः विद्यते, तस्मात् विकल्पेन 'टच्' इति समासान्तप्रत्ययः भवति । ", "sd": "यस्य अव्ययीभावसमासस्य अन्ते 'नदी', 'पौर्णमासी', 'आग्रहायणी' एतेषु किञ्चन पदमस्ति तस्मात् 'टच्' इति समासान्तप्रत्ययः विकल्पेन भवति । यथा -\n1. नद्याः समीपम्\n= उप + नदी + टच् [वैकल्पिकः टच्-प्रत्ययः]\n→ उप + नद् + अ [<<यस्येति च>> [[6.4.148]] इति टिलोपः]\n→ उपनद\nपक्षे टच्-प्रत्ययं विना 'उपनदि' इत्यपि रूपं सिद्ध्यति । (<<ह्रस्वो नपुंसके प्रातिपदिकस्य>> [[1.2.47]] इति ह्रस्वादेशः विधीयते) । नद्याः समीपमुपनदमुपनदि वा ।\nएवमेव -\n2. पौर्णमास्याः समीपमुपपौर्णमासम् उपपौर्णिमासि वा ।\n3. आग्रहायण्याः समीपमुपाग्रहायणम्, उपाग्रहायणि वा ।\nस्मर्तव्यम् - अदन्त-अव्ययीभाव-समासात् विहितस्य विभक्तिप्रत्ययस्य <<नाव्ययीभावादतोऽम्त्वपञ्चम्याः>> [[2.4.83]] इत्यनेन अम्-आदेशः भवति । " }, "54111": { "sa": "यस्य अव्ययीभावसमासस्य अन्तिमवर्णः झय्-प्रत्याहारस्य वर्णः अस्ति तस्मात् विकल्पेन 'टच्' इति समासान्तप्रत्ययः भवति । ", "sd": "यस्मिन् अव्ययीभावसमासे अन्तिमवर्णः 'झय्' प्रत्याहारस्य (= वर्गचतुर्थः / वर्गतृतीयः / वर्गद्वितीयः / वर्गप्रथमः) वर्णः अस्ति, तस्मात् विकल्पेन टच् इति समासान्तप्रत्ययः भवति ।\nयथा -\n1. समिधः समीपम् = उप + समिध् + टच् → उपसमिध । पक्षे (टच्-प्रत्ययं विना) - उपसमिद् । समिधः समीपम् तत् उपसमिधमुपसमिद् वा ।\n2. दृषदः समीपम् = उप + दृषद् + टच् → उपदृषद । पक्षे - उपदृषद् । दृषदः समीपम् तत् उपदृषदमुपदृषद् वा ।\n3. वाचः समीपम् = उप + वाच् + टच् → उपवाच । पक्षे - उपवाच् । वाचः समीपम् तत् उपवाचमुपवाक् वा ।\n4. मरुतः समीपम् = उप + मरुत् + टच् → उपमरुत । पक्षे - उपमरुत् । मरुतः समीपम् तत उपमरुतमुपमरुत् वा ।\nस्मर्तव्यम् -\n1. यद्यप्यत्र 'झय्' इति प्रत्याहारः निर्दिश्यते, तथापि झय्-प्रत्याहारस्य सर्वे वर्णाः अव्ययीभावसमासस्य अन्ते नैव दृश्यन्ते । अतः सर्वाणि उदाहरणानि अत्र न उपलभ्यन्ते ।\n2. केभ्यश्चन झयन्तशब्देभ्यः नित्यम् टच्-प्रत्ययः विधीयते । एतेषाम् सङ्कलनम् <<अव्ययीभावे शरत्प्रभृतिभ्यः>> [[5.4.107]] इत्यत्र कृतमस्ति ।\n3. अदन्त-अव्ययीभाव-समासात् विहितस्य विभक्तिप्रत्ययस्य <<नाव्ययीभावादतोऽम्त्वपञ्चम्याः>> [[2.4.83]] इत्यनेन अम्-आदेशः भवति । " }, "54112": { "sa": "सेनकस्य मतेन 'गिरि'शब्दान्तात् अव्ययीभावसमासात् 'टच्' इति समासान्तप्रत्ययः विकल्पेन भवति । ", "sd": "यस्य अव्ययीभावसमासस्य अन्ते 'गिरि' इति शब्दः विद्यते, तस्मात् 'टच्' इति समासान्तप्रत्ययः विकल्पेन भवति ।\nयथा - गिरेः समीपम्\n= उप + गिरि + टच् [वर्तमानसूत्रेण वैकल्पिकः टच्-प्रत्ययः]\n→ उपगिर् + अ [<<यस्येति च>> [[6.4.148]] इति इकारलोपः]\n→ उपगिर\nपक्षे टच्-प्रत्ययं विना 'उपगिरि' इति शब्दः अपि सिद्ध्यति । गिरेः समीपम् तत् उपगिरमुपगिरि वा । (अदन्त-अव्ययीभाव-समासात् विहितस्य विभक्तिप्रत्ययस्य <<नाव्ययीभावादतोऽम्त्वपञ्चम्याः>> [[2.4.83]] इत्यनेन अम्-आदेशः भवति, अतः 'उपगिरम्' इति अम्-प्रत्ययान्तशब्दः एव प्रयुज्यते इति स्मर्तव्यम्) ।\nविशेषः - अस्मिन् सूत्रे 'सेनकस्य' इति शब्दः 'सेनक' नाम्नः वैयाकरणस्य निर्देशार्थम् प्रयुक्तः अस्ति । अयम् निर्देशः केवलमादरार्थम् / पूजार्थमस्ति, विकल्पार्थम् न, यतः विकल्पः तु 'अन्यतरस्याम्' इत्यस्य अनुवृत्या एव लभ्यते । " }, "54113": { "sa": "", "sd": "" }, "54114": { "sa": "", "sd": "" }, "54115": { "sa": "", "sd": "" }, "54116": { "sa": "", "sd": "" }, "54117": { "sa": "", "sd": "" }, "54118": { "sa": "", "sd": "" }, "54119": { "sa": "", "sd": "" }, "54120": { "sa": "", "sd": "" }, "54121": { "sa": "", "sd": "" }, "54122": { "sa": "", "sd": "" }, "54123": { "sa": "", "sd": "" }, "54124": { "sa": "", "sd": "" }, "54125": { "sa": "", "sd": "" }, "54126": { "sa": "", "sd": "" }, "54127": { "sa": "", "sd": "" }, "54128": { "sa": "", "sd": "" }, "54129": { "sa": "", "sd": "" }, "54130": { "sa": "", "sd": "" }, "54131": { "sa": "", "sd": "" }, "54132": { "sa": "", "sd": "" }, "54133": { "sa": "", "sd": "" }, "54134": { "sa": "", "sd": "" }, "54135": { "sa": "", "sd": "" }, "54136": { "sa": "", "sd": "" }, "54137": { "sa": "", "sd": "" }, "54138": { "sa": "", "sd": "" }, "54139": { "sa": "", "sd": "" }, "54140": { "sa": "", "sd": "" }, "54141": { "sa": "", "sd": "" }, "54142": { "sa": "", "sd": "" }, "54143": { "sa": "", "sd": "" }, "54144": { "sa": "", "sd": "" }, "54145": { "sa": "", "sd": "" }, "54146": { "sa": "", "sd": "" }, "54147": { "sa": "", "sd": "" }, "54148": { "sa": "", "sd": "" }, "54149": { "sa": "", "sd": "" }, "54150": { "sa": "", "sd": "" }, "54151": { "sa": "", "sd": "" }, "54152": { "sa": "", "sd": "" }, "54153": { "sa": "", "sd": "" }, "54154": { "sa": "", "sd": "" }, "54155": { "sa": "", "sd": "" }, "54156": { "sa": "", "sd": "" }, "54157": { "sa": "", "sd": "" }, "54158": { "sa": "", "sd": "" }, "54159": { "sa": "", "sd": "" }, "54160": { "sa": "", "sd": "" }, "61001": { "sa": "अधिकारोऽयम् । इतः परम् <<दाश्वान् साह्वान् मीढ्वांश्च>> [[6.1.12]] इति यावत्सु सूत्रेषु यत् द्वित्वं विधीयते, तत् द्वित्वं धातोः प्रथमस्य एकाच्-अवयवस्य भवति । ", "sd": "एतत् अधिकारसूत्रमस्ति । अस्य व्याप्तिः दाश्वान् साह्वान् मीढ्वांश्च [[6.1.12]] इति यावत् वर्तते । अस्मिन्अधिकारे यत्र कुत्रापि 'द्वित्वं स्यात्' इत्युक्तमस्ति, तत्र तत् द्वित्वम् 'प्रथम-एकाच्-अवयवस्य' भवतीति अस्य सूत्रस्य अर्थः अस्ति ।\nकिम् नाम प्रथम-एकाच्-अवयवः? अस्य शब्दस्य व्याख्यायाः विषये व्याकरणशास्त्रे महती चर्चा क्रियते । परन्तु संक्षेपेण एतत् वक्तुं शक्यते -\n1. यदि शब्दे एकः एव स्वरः अस्ति, तर्हि सः सम्पूर्णः शब्दः एव 'प्रथमः एकाच् अवयवः' नाम्ना ज्ञायते । यथा, 'पच्' इत्यस्य एकाच्-अवयवः अपि 'पच्' इत्येव ।\n2. यदि शब्दे द्वौ वा अधिकाः स्वराः सन्ति, तर्हि शब्दस्य प्रथमवर्णात् आरभ्य शब्दस्य 'द्वितीय'स्वरपर्यन्तम्, परन्तु द्वितीयस्वरं विहाय यः वर्णसमुदायः जायते, सः 'प्रथमः एकाच् अवयवः' भवति । यथा, 'जागृ' इत्यस्य एकाच् अवयवः 'जाग्' इति ।\nअयमधिकारः 'षाष्ठद्वित्वप्रकरणम्' नाम्ना अपि ज्ञायते । षष्ठाध्याये अस्ति अतः 'षाष्ठ' इति नाम । " }, "61002": { "sa": "<<एकाचो द्वे प्रथमस्य>> [[6.1.1]] अस्मिन् अधिकारे उक्तं द्वित्वमनेकाच्-अजादि-शब्दस्य द्वितीय-एकाच्-अवयवस्य भवति ।", "sd": "<<एकाचो द्वे प्रथमस्य>> [[6.1.1]] इत्यनेन उक्तस्य द्वित्वस्य अयमपवादः । अस्य प्रसक्तिः अस्मिन् द्वित्वप्रकरणे (इत्युक्ते, <<एकाचो द्वे प्रथमस्य>> [[6.1.1]] इत्यस्य अधिकारे) सर्वत्र भवति । यत्र अस्मिन् अधिकारे द्वित्वं विधीयते, तत्र यदि अङगमनेकाच् अस्ति, अजादिः च अस्ति, तर्हि <<एकाचो द्वे प्रथमस्य>> [[6.1.1]] इत्यनेन तस्य प्रथम-एकाच्-अवयवस्य द्वित्वे प्राप्ते अनेन सूत्रेण द्वितीय-एकाच्-अवयवस्य द्वित्वं विधीयते ।\nअजादि-शब्दस्य द्वितीय-एकाच्-अवयवः कः अस्ति? शब्दस्य प्रथमस्वरं विहाय द्वितीय-स्वर-पर्यन्तम् यः वर्णसमुदायः, तस्य 'द्वितीय-एकाच्-अवयवः' इति संज्ञा भवति । यथा. 'अटि' अस्य णिजन्तधातोः 'टि' इति द्वितीयः एकाच् अवयवः ।\nज्ञातव्यम् -\n1. अस्य सूत्रस्य अर्थे 'अनेकाच्' इति निर्दिष्टमस्ति । अतः अङ्गम् 'अनेकाच्' अस्ति अजादि च अस्ति , तत्रैव द्वितीय-एकाच्-अवयवस्य द्वित्वं जायते । यत्र अङ्गम् एकाच् अस्ति तत्र यद्यपि अङ्गमजादिः अस्ति तथापि अस्य सूत्रस्य प्रयोगः न भवति, अतः <<एकाचो द्वे प्रथमस्य>> [[6.1.1]] इत्यनेन प्रथमस्यैव एकाच्-अवयवस्य द्वित्वं भवति । यथा, 'अट्' धातोः द्वित्वे कृते प्रथम-एकाच्-अवयवस्य (इत्युक्ते 'अट्' इत्यस्यैव) द्वित्वं भवति ।\n2. मूलसूत्रे 'द्वितीयस्य' इति उक्तमस्ति । अयं शब्दः एव अस्य निर्देशकः यत् अङ्गमनेकाच् भवेत् । अतः अत्र सूत्रस्य अर्थे 'अनेकाच्' इति निर्दिश्यते ।\n" }, "61003": { "sa": "अनेकाचः अजादेः धातोः द्वित्वे प्राप्ते ; तस्मिन् धातौ द्वितीय-एकाच्-समुदाये उपस्थितानाम्, संयोगस्य आदिभूतानाम् नकार-दकार-रेफाणाम् द्वित्वं न भवति । ", "sd": "<<अजादेर्द्वितीयस्य>> [[6.1.2]] इत्यनेन धातोः अनेकाच्-अजादि-अवयवस्य द्वित्वे प्राप्ते ; यदि तस्मिन् अवयवे संयोगः अस्ति तथा च संयोगस्य प्रथमः वर्णः नकारः / दकारः / रेफः अस्ति, तर्हि तेषाम् द्वित्वं अनेन सूत्रेण निषिध्यते । यथा -\n1) 'उन्दि' इति कश्चन आतिदेशकः धातुः । अस्य द्वित्वे प्राप्ते वस्तुतः <<अजादेर्द्वितीयस्य>> [[6.1.2]] इत्यनेन धातोः द्वितीयः एकाच्-अवयवस्य (इत्युक्ते, 'न्दि' इत्यस्य) द्वित्वम् करणीयम् । परन्तु वर्तमानसूत्रेण संयोगस्य आदिभूतस्य नकारस्य द्वित्वनिषेधः उच्यते, अतः केवलं 'दि' इत्यस्यैव द्वित्वं भवति - उन्दि दि ।\n2) 'अद्डि' अयमपि कश्चन धातुः । अस्य द्वित्वे प्राप्ते वर्तमानसूत्रेण दकारस्य द्वित्वं निषिध्यते । अतः केवलं 'डि' इत्यस्यैव द्वित्वं भवति - अद्डिडि ।\n3) 'अर्चि' इति अर्च्-धातोः णिच्-प्रत्ययान्तः आतिदेशिकः धातुः । अत्र द्वित्वे प्राप्ते रेफस्य द्वित्वम् न भवति, अतः अर्चि चि इत्येव जायते ।\nअस्य सूत्रस्य विषये अनेकानि वार्तिकानि ज्ञातव्यानि -\n1. । इत्युक्ते, अनेकाच्-अजादि-धातोः द्वितीय-एकाच्-अवयवे संयोगादिः बकारः अस्ति चेत् तस्यापि द्वित्वं न भवति । यथा, 'उब्जि' इत्यस्य द्वित्वे 'उब्जि जि' इति जायते ।\n2. । इत्युक्ते, अनेन सूत्रेण निर्दिष्टः रेफस्य द्वित्वनिषेधः तदा न भवति यदा रेफात् परः यकारः अस्ति । यथा, 'आर्य' अस्य यङन्त-धातोः द्वित्वे 'आर्य र्य' इति जायते । अत्र रेफात् परः यकारः अस्ति, अतः तस्य लोपः न भवति ।\n3. । इत्युक्ते, 'ईर्ष्य्' धातोः तृतीयवर्णस्य द्वित्वं भवति । अत्र विषये सन्नन्तप्रक्रियायाम् 'ईर्ष्य् इट् सन्' इति स्थिते द्वित्वस्य विषये पक्षद्वयम् विद्यते । केचन वैयाकरणाः वदन्ति - तृतीयव्यञ्जनस्य (यकारस्य) स्वरेण सह (इकारेण सह) द्वित्वं करणीयम् । केचन अन्ये वदन्ति - तृतीय-एकाच्-अवयवस्य (इत्युक्ते, इस् इत्यस्य) द्वित्वं करणीयम् । प्रथमपक्षे द्वित्वे कृते 'ईर्ष्यियिष' इति धातुः सिद्ध्यति । द्वितीयपक्षे द्वित्वे कृते 'ईर्ष्यिषिष' इति धातुः सिद्ध्यति ।\n4. । इत्युक्ते, 'कण्ड्वादि' गणे ये शब्दाः समाविश्यन्ते, तेषाम् विषये तृतीय-एकाच्-अवयवस्य द्वित्वं भवति । यथा, 'कण्डूयि' अस्य धातोः द्वित्वे 'कण्डूयि यि' इति जायते ।\n5. । इत्युक्ते, नामधातूनाम् विषये विकल्पेन तृतीय-एकाच्-अवयवस्य द्वित्वं भवति । यथा, 'पुत्रीय' इत्यस्य द्वित्वे कृते <<एकाचो द्वे प्रथमस्य>> [[6.1.1]] इत्यनेन प्रथम-एकाच्-अवयवस्य द्वित्वे कृते 'पुत्र् पुत्रीय' इति अपि जायते, तथा अनेन वार्तिकेन तृतीयस्य एकाच्-अवयवस्य द्वित्वे कृते 'पुत्रीय य' इत्यपि जायते ।\n6. । इत्युक्ते, नामधातुषु वक्तुः इच्छानुसारम् केषाञ्चन अपि वर्णानाम् द्वित्वम् भवितुं शक्यते । यथा - 'पुत्रीय' अस्य धातोः द्वित्वे 'पुपुत्रीय', 'पुत्रीत्रीय', पुत्रीयय', 'पुपुत्रीयय' एतादृशम् किमपि कर्तुं शक्यते ।\nज्ञातव्यम् - अनेन सूत्रेण निर्दिष्टः नकार/दकार/रेफाणाम् द्वित्वनिषेधः केवलं अनेकाच् -अजादि-धातोः विषये एव भवति । यदि धातुः हलादिः अस्ति, उत एकाच्-अजादिः अस्ति, तर्हि तस्य विषये अयं द्वित्वं न निषिध्यते । यथा, 'द्रा' धातोः द्वित्वे दकारस्य द्वित्वे कृते 'द्रा द्रा' इत्येव सिद्ध्यति ।\n" }, "61004": { "sa": "अस्मिन् द्वित्वप्रकरणे ये द्वे विहिते, द्वयोः यः 'पूर्वः' (प्रथमः), तस्य 'अभ्यास' इति नाम दीयते । ", "sd": "यदा शब्दस्य (तस्य कस्यचन अवयवस्य वा) द्वित्वम् क्रियते, तर्हि द्वयोः यः प्रथमः, तस्य 'अभ्यास' संज्ञा भवति ।\nयथा,\n1. 'पच्' धातोः द्वित्वे कृते 'पच् पच्' इति स्थिते यः प्रथमः 'पच्', तस्य 'अभ्यास' संज्ञा भवति ।\n2. 'जागृ' धातोः द्वित्वे कृते 'जाग् जागृ' इति स्थिते यः प्रथमः जाग् ', तस्य 'अभ्यास' संज्ञा भवति ।\n3. 'अर्चि' धातोः द्वित्वे कृते 'अर्चि चि' इति स्थिते यः प्रथमः 'चि' तस्य अभ्याससंज्ञा भवति ।अत्र रेफस्य द्वित्वं न क्रियते अतः रेफस्य अभ्याससंज्ञायाम् समावेशः नैव करणीयः ।\n4. 'उन्दि' धातोः द्वित्वे कृते 'उन्दि दि' इति स्थिते यः प्रथमः 'दि' तस्य अभ्याससंज्ञा भवति । अत्र नकारस्य द्वित्वं न क्रियते अतः नकारस्य अभ्याससंज्ञायाम् समावेशः नैव करणीयः ।\n\n'अभ्यास' संज्ञायाः प्रयोगः <<लिटि धातोरनभ्यासस्य>> [[6.1.8]], तुजादीनां दीर्घोऽभ्यासस्य [[6.1.7]] एतादृशेषु सूत्रेषु कृतः अस्ति । " }, "61005": { "sa": "अस्मिन् द्वित्वप्रकरणे ये द्वे विहिते, तयोः द्वयोः मिलित्वा 'अभ्यस्त' इति संज्ञा भवति । ", "sd": "<<एकाचो द्वे प्रथमस्य>> [[6.1.1]] इत्यस्मिन् अधिकारे यत्र द्वित्वम् भवति, तत्र द्वयोः समुदायेन 'अभ्यस्त'संज्ञा भवति । यथा -\n1. 'पच्' इत्यस्य द्वित्वे कृते 'पच् पच्' इति प्राप्ते, अस्य समुदायस्य ('पच् पच्' इत्यस्य) अभ्यस्तसंज्ञा भवति ।\n2. 'जागृ' इत्यस्य द्वित्वे कृते 'जा जागृ' इति प्राप्ते, अस्य समुदायस्य ('जाजागृ' इत्यस्य) अभ्यस्तसंज्ञा भवति ।\n3. 'अटि' इत्यस्य द्वित्वे कृते ' अटि टि' इति प्राप्ते, अस्य समुदायस्य ('अटिटि' इत्यस्य) अभ्यस्तसंज्ञा भवति ।\n4. 'अर्चि' इत्यस्य द्वित्वे कृते 'अर्चि चि' इति प्राप्ते, अस्य समुदायस्य ('अर्चिचि' इत्यस्य) अभ्यस्तसंज्ञा भवति ।\nअत्र 'समुदायस्य' इयम् संज्ञा भवतीति ज्ञातव्यम् । अतः द्वयोः विहितयोः पृथक्-रूपेण अभ्यस्त-संज्ञा न भवति । तथा च, केवलं प्रथमस्य / केवलं द्वितीयस्य अपि 'अभ्यस्त'संज्ञा न भवति । अतएव अस्मिन् सूत्रे 'अभ्यस्तम्' इति एकवचनम् कृतमस्ति ।\n'अभ्यस्त' संज्ञायाः प्रयोगः <<अभ्यस्तानामादिः>> [[6.1.189]], <<अभ्यस्तस्य च>> [[6.1.33]] एतादृशेषु सूत्रेषु कृतः अस्ति । " }, "61006": { "sa": "जक्षित्यादिगणस्य धातूनाम् 'अभ्यस्त' संज्ञा भवति । ", "sd": "'जक्षित्यादिः' इति अदादिगणस्य कश्चन अन्तर्गणः अस्ति । अस्मिन् गणे सप्त-धातवः सन्ति -\n1. जक्षँ (भक्षहसनयोः)\n2. जागृ (निद्राक्षये)\n3. दरिद्रा (दुर्गतौ)\n4. चकासृँ (दीप्तौ)\n5. शासुँ (अनुशिष्टौ)\n6. दीधीङ् (दीप्तिदेवनयोः)\n7. वेवीङ् (गतिव्याप्तिप्रजनकान्त्यसनस्वादनेषु)\nएतेषां सर्वेषामभ्यस्तसंज्ञा भवति ।\nएतेषाम् गणनम् एकया कारिकया अपि क्रियते -\nजक्षि-जागृ-दरिद्राणाम् चकासेः शासेरेव च । दीधी-वेव्योश्च सप्तानाम् जक्षित्यादौ उपग्रहः ॥\nअभ्यस्त-संज्ञकस्य यत् किमपि कार्यमुक्तमस्ति, तत् सर्वम् एतेषाम् विषये अपि भवति । यथा, 'दरिद्रा' धातोः लोट्-लकारस्य प्रथमपुरुषबहुवचनस्य रूपम् एतादृशम् सिद्ध्यति -\nदरिद्रा + लोट् [<<लोट् च>> [[3.3.162]] इति लोट्]\n→ दरिद्रा + झि [<<तिप्तस्झि..>> [[3.4.78]] इति परस्मैपदस्य प्रथमपुरुषबहुवचनस्य विवक्षायाम् 'झि' प्रत्यय']\n→ दरिद्रा + शप् +झि [<<कर्तरि शप्>> [[3.1.68]] इति औत्सर्गिकं विकरणम् शप्]\n→ दरिद्रा + झि [<<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शपः लुक्]\n→ दरिद्रा + अति [<<जक्षित्यादयः षट्>> [[6.1.6]] इत्यनेन दरिद्रा-धातोः अभ्यस्तसंज्ञा । अभ्यस्तात् परस्य झ्-प्रत्ययस्य <<अदभ्यस्तात्>> [[7.1.4]] इति 'अत्' आदेशः ।]\n→ दरिद्रा + अतु [<<एरुः>> [[3.4.86]] इति इकारस्य उकारः]\n→ दरिद्र् + अतु [<<श्नाऽभ्यस्तयोरातः>> [[6.4.112]] इति सार्वधातुके ङित्-प्रत्यये परे अभ्यस्तस्य आकारस्य लोपः]\n→ दरिद्रतु" }, "61007": { "sa": "", "sd": "" }, "61008": { "sa": "लिट्-लकारे परे यस्य धातोः द्वित्वम् न कृतमस्ति तस्य द्वित्वं भवति ।", "sd": "अस्मिन् सूत्रे 'अनभ्यासः धातुः' इति उक्तमस्ति । अस्य अर्थः - सः धातुः यः अभ्यासेन सह न आगच्छति । <<पूर्वोभ्यासः>> [[6.1.4]] इत्यनेन द्वित्वे कृते द्वयोः यः पूर्वः (प्रथमः), तस्य अभ्याससंज्ञा भवति । अतः यस्य धातोः द्वित्वं कृतं नास्ति, तादृशः धातुः अनभ्यासः धातुः इत्युच्यते । अस्य धातोः लिट्-लकारस्य प्रत्यये परे द्वित्वं भवति ।\nयथा - पच्-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -\nपच् + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट्]\n→ पच् + तिप् [<<तिप्तस्झि...>> [[3.4.78]] इति तिप्-प्रत्ययः]\n→ पच् + णल् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इति तिप्-इत्यस्य णल्-आदेशः]\n→ पच् + अ [इत्संज्ञालोपः]\n→ पच् पच् + अ [अत्र पच्-धातोः द्वित्वम् कृतम् नास्ति, अतः लिट्-लकारस्य उपस्थितौ अस्य धातोः यः प्रथमः एकाच्-अवयवः 'पच्' तस्य <<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम् भवति ]\n→ प पच् + अ [<<हलादि शेषः>> [[7.4.60]] इति चकारलोपः]\n→ प पाच् + अ [<<अतः उपधायाः>> [[7.2.116]] इति अङ्गस्य उपधा-अकारस्य वृद्धिः आकारः]\n→ पपाच\nज्ञातव्यम् - अनेन सूत्रेण निर्दिष्टम् द्वित्वम् <<एकाचो द्वे प्रथमस्य>> [[6.1.1]] अस्मिन् अधिकारे यथा निर्दिष्टमस्ति तथैव भवति । " }, "61009": { "sa": "सन्-प्रत्यये परे यङ्-प्रत्यये वा परे यस्य धातोः द्वित्वम् न कृतमस्ति तस्य (यथानिर्दिष्टम्) द्वित्वं भवति । ", "sd": "अस्मिन् सूत्रे 'अनभ्यासः धातुः' इति अनुवर्तितम् अस्ति । 'अनभ्यास' इत्युक्ते सः धातुः यः अभ्यासेन सह न आगच्छति । <<पूर्वोभ्यासः>> [[6.1.4]] इत्यनेन द्वित्वे कृते द्वयोः यः पूर्वः (प्रथमः), तस्य अभ्याससंज्ञा भवति । अतः यस्य धातोः द्वित्वं कृतं नास्ति, तादृशः धातुः अनभ्यासः धातुः इत्युच्यते । अस्य धातोः सन्-प्रत्यये परे, यङ्-प्रत्यये च परे द्वित्वं भवति । यथा -\n1. पठ्-धातोः सन्-प्रत्ययान्तः आतिदेशिकः धातुः एतादृशम् सिद्ध्यति -\nपठ् + सन् [<<धातोः कर्मणः समानकर्तृकात् इच्छायां वा>> [[3.1.7]] इति सन्-प्रत्ययः]\n→ पठ् पठ् + स [<<सन्यङोः>> [[6.1.9]] इति पठ्-इत्यस्य द्वित्वम्]\n→ प पठ् + स [<<हलादि शेषः>> [[7.4.60]] इति ठकारलोपः]\n→ पि पठ् + स [<<सन्यतः>> [[7.4.79]] इति अभ्यासस्य इकारादेशः]\n→ पि पठ् इट् + स [<<आर्धधातुकस्य इड् वलादेः>> [[7.2.35]] इति इडागमः]\n→ पिपठिष [<<आदेशप्रत्यययोः>> [[8.3.59]] इति षत्वम्]\n2. भू-धातोः यङ्-प्रत्ययान्तः आतिदेशिकधातुः एतादृशं सिद्ध्यति -\nभू + यङ् [<<धातोरेकाचो हलादे क्रियासमभिहारे यङ्>> [[3.1.22]] इति यङ्]\n→ भू भू य [<<सन्यङोः>> [[6.1.9]] इति भू-इत्यस्य द्वित्वम्]\n→ भु भू य [ <<ह्रस्वः>> [[7.4.59]] इति अभ्यासस्य ह्रस्वः]\n→ भो भू य [<<गुणो यङ्लुकोः>> [[7.4.82]] इति यङ्-प्रत्यये परे अभ्यासस्य गुणः]\n→ बोभूय [<<अभ्यासे चर्च्च>> [[8.4.54]] इति जश्त्वम् ]\n" }, "61010": { "sa": "श्लौ परे यस्य धातोः द्वित्वम् न कृतमस्ति तस्य (यथानिर्दिष्टम्) द्वित्वं भवति ।", "sd": "'श्लु' इति प्रत्ययलोपस्य एका संज्ञा अस्ति, या <<प्रत्ययस्य लुक्-श्लु-लुपः>> [[1.1.61]] इत्यनेन दीयते । यत्र 'श्लु' संज्ञया प्रत्ययलोपः भवति, तत्र वर्तमानसूत्रेण अनभ्यासस्य अङ्गस्य द्वित्वम् भवति ।\nकिम् नाम 'अनभ्यासः'? <<पूर्वोभ्यासः>> [[6.1.4]] इत्यनेन द्वित्वे कृते द्वयोः यः पूर्वः (प्रथमः), तस्य 'अभ्यास'संज्ञा भवति । अतः यस्य धातोः द्वित्वं कृतं नास्ति, तादृशः धातुः 'अनभ्यासः धातुः' इत्युच्यते । अस्य धातोः श्लौ-परे द्वित्वं भवति ।\nयथा, जुहोत्यादिगणस्य 'दा' धातोः प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -\nदा + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ दा + तिप् [<<तिप्तस्..>> [[3.4.78]] इति तिप्]\n→ दा + शप् + ति [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ दा + ति [<<जुहोत्यादिभ्यः श्लुः>> [[2.4.75]] इति प्रत्ययस्य श्लुः (लोपः)।]\n→ दा दा + ति [प्रत्ययस्य श्लु-इत्यनेन लोपे कृते <<श्लौ>> [[6.1.10]] इत्यनेन अङ्गस्य द्वित्वं भवति ]\n→ द दा + ति [<<ह्रस्वः>> [[7.4.59]] इति ह्रस्वः]\n→ ददाति ।\nअत्र शप्-विकरणस्य लोपः 'श्लु' संज्ञया कृतः अस्ति । अतः लोपात् अनन्तरम् <<श्लौ>> [[6.1.10]] इत्यनेन अङ्गस्य द्वित्वं अपि क्रियते । " }, "61011": { "sa": "चङ्-प्रत्यये परे यस्य धातोः द्वित्वम् न कृतमस्ति तस्य द्वित्वं भवति ।", "sd": "'चङ्' इति कश्चन प्रत्ययः । लुङ्-लकारस्य विषये <<च्लि लुङि>> [[3.1.43]] इत्यनेन च्लि-विकरणे कृते अस्य विकरणस्य <<णिश्रिद्रुस्रुभ्यः कर्तरि चङ्>> [[3.1.48]] इत्यनेन ण्यन्त-धातूनाम् विषये, तथा च श्रि, द्रु, स्रु, इत्येतेषाम् विषये चङ्-आदेशः भवति । अस्मिन् आदेशे परे अङ्गस्य द्वित्वं कृतम् नास्ति चेत् अनेन सूत्रेण द्वित्वं विधीयते । यथा, कृ धातोः णिच्-प्रत्यये परे 'कारि' इति आतिदेशिकः धातुः सिद्ध्यति । अस्य धातोः लुङ्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् जायते -\nकारि + लुङ् [<<लुङ्>>[[3.2.110]] इति लुङ्]\n→ कारि च्लि ल् [<<च्लि लुङि>> [[3.1.43]] इति विकरणप्रत्ययः च्लि]\n→ कारि चङ् ल् [<<णिश्रिद्रुस्रुभ्यः कर्तरि चङ्>> [[3.1.48]] इत्यनेन ण्यन्त-धातूनाम् विषये च्लि-इत्यस्य चङ्-आदेशः]\n→ कारि अ ल् [इत्संज्ञालोपः]\n→ कार् कारि अ ल् [चङ्-आदेशे परे <<चङि>> [[6.1.11]] इत्यनेन धातोः द्वित्वम् । <<एकाचो द्वे प्रथमस्य>> [[6.1.1]] इत्यनेन 'कार्' इति प्रथम-एकाच्-अवयवस्य द्वित्वम् भवति ।]\n→ का कारि अ ल् [<<हलादि शेषः>> [[7.4.60]] इति अभ्यासस्य रेफलोपः]\n→ क कारि अ ल् [<<ह्रस्वः>> [[7.4.59]] इति ह्रस्वः]\n→ कि कारि अ ल् [<<सन्यतः>> [[7.4.79]] इति अभ्यासस्य इकारः]\n→ की कारि अ ल् [<<दीर्घो लघोः>> [[7.4.94]] इति अभ्यासस्य लघुवर्णस्य दीर्घः]\n→ ची कारि अ ल् [<<कुहोश्चुः>> [[7.4.62]] इति अभ्यासस्य ककारस्य चकारः]\n→ अट् ची कारि अ ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ ची करि अ ल् [<<णौ चङ्युपधायाः ह्रस्वः>> [[7.4.1]] इति उपधाह्रस्वः]\n→ अ ची कर् अ ल् [<<णेरनिटि>> [[6.4.51]] इति इकारलोपः]\n→ अ ची कर् अ तिप् [<<तिप्तस्..>> [[3.4.78]] इति तिप्]\n→ अ ची कर् अ त् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ अचीकरत्\nज्ञातव्यम् - ण्यन्ताः धातवः इत्युक्ते ते धातवः येषामन्ते 'णि' प्रत्ययः अस्ति । 'णि' इत्यनेन णिङ् तथा णिच् एतौ द्वौ प्रत्ययौ स्वीक्रियेते ।\n" }, "61012": { "sa": "", "sd": "" }, "61013": { "sa": "", "sd": "" }, "61014": { "sa": "", "sd": "" }, "61015": { "sa": "", "sd": "" }, "61016": { "sa": "", "sd": "" }, "61017": { "sa": "", "sd": "" }, "61018": { "sa": "", "sd": "" }, "61019": { "sa": "", "sd": "" }, "61020": { "sa": "", "sd": "" }, "61021": { "sa": "", "sd": "" }, "61022": { "sa": "", "sd": "" }, "61023": { "sa": "", "sd": "" }, "61024": { "sa": "", "sd": "" }, "61025": { "sa": "", "sd": "" }, "61026": { "sa": "", "sd": "" }, "61027": { "sa": "", "sd": "" }, "61028": { "sa": "", "sd": "" }, "61029": { "sa": "", "sd": "" }, "61030": { "sa": "", "sd": "" }, "61031": { "sa": "", "sd": "" }, "61032": { "sa": "", "sd": "" }, "61033": { "sa": "", "sd": "" }, "61034": { "sa": "", "sd": "" }, "61035": { "sa": "", "sd": "" }, "61036": { "sa": "", "sd": "" }, "61037": { "sa": "", "sd": "" }, "61038": { "sa": "", "sd": "" }, "61039": { "sa": "", "sd": "" }, "61040": { "sa": "", "sd": "" }, "61041": { "sa": "", "sd": "" }, "61042": { "sa": "", "sd": "" }, "61043": { "sa": "", "sd": "" }, "61044": { "sa": "", "sd": "" }, "61045": { "sa": "", "sd": "" }, "61046": { "sa": "", "sd": "" }, "61047": { "sa": "", "sd": "" }, "61048": { "sa": "", "sd": "" }, "61049": { "sa": "", "sd": "" }, "61050": { "sa": "", "sd": "" }, "61051": { "sa": "", "sd": "" }, "61052": { "sa": "", "sd": "" }, "61053": { "sa": "", "sd": "" }, "61054": { "sa": "", "sd": "" }, "61055": { "sa": "", "sd": "" }, "61056": { "sa": "", "sd": "" }, "61057": { "sa": "", "sd": "" }, "61058": { "sa": "", "sd": "" }, "61059": { "sa": "", "sd": "" }, "61060": { "sa": "", "sd": "" }, "61061": { "sa": "", "sd": "" }, "61062": { "sa": "", "sd": "" }, "61063": { "sa": "शस्-प्रभृतिषु प्रत्ययेषु परेषु पद्-दत्-नस्-मास्-हृत्-निश्-असन्-यूषन्-दोषन्-यकन्-शकन्-उदन्-आसन् एते आदेशाः विकल्पेन भवन्ति । ", "sd": "अस्मिन् सूत्रे त्रयोदश शब्दाः आदेशरूपेण दत्ताः सन्ति । एते आदेशाः तदा एव भवन्ति यदा स्थानिभ्यः अग्रे शस्-प्रभृतिषु कोऽपि प्रत्ययः आगच्छति ।\nअत्र बिन्दूद्वयम् ज्ञातव्यम् -\n(अ) शस्-प्रभृतयः इत्युक्ते किम्?\nद्वितीया-बहुवचनस्य 'शस्'-प्रत्ययात् आरभ्य सप्तमीबहुवचनस्य 'सुप्'-प्रत्ययं यावत् ये षोडष-प्रत्ययाः पाठिताः सन्ति, तेषामुपसंख्यानम् 'शस्प्रभृतयः' इत्यनेन क्रियते ।\n(आ) एते आदेशाः कस्य स्थाने भवन्ति?\nअस्मिन् सूत्रे स्थानिनः स्पष्टरूपेण प्रोक्ताः न सन्ति, अतः <<स्थानेऽन्तरतमः>> अस्मिन् सूत्रे प्रोक्तस्य 'अर्थसादृश्यस्य' साहाय्येन अत्र स्थानिभ्यः निर्णयः क्रियते । सिद्धान्तकौमुद्याम् एतेषां सर्वेषामावली दत्ता अस्ति, तां क्रमेण अधः पश्यामः । प्रत्येकम् शब्दस्य विषये उदाहरणत्रयमपि अधः दत्तमस्ति, तेषाम् क्रमः एतादृशः ज्ञातव्यः -\n[शसादयः] = शस्, टा, ङे, ङसिँ, ङस्, ओस्, आम्, ङि - एतेषाम् विषये समाना प्रक्रिया भवति, अत शस्-प्रत्ययस्य उदाहरणम् स्वीकृत्य प्रक्रिया दर्शिता अस्ति ।\n[भ्यामादयः] = भ्याम्, भिस्, भ्यस् - एतेषाम् विषये समाना प्रक्रिया जायते, अतः भ्याम्-प्रत्ययस्य उदाहरणम् स्वीकृत्य प्रक्रिया दर्शिता अस्ति । भिस्/भ्यस्-प्रत्यययोः विषये विसर्गनिर्माणमपि भवतीति स्मर्तव्यम् ।\n[सुप्] = सप्तमीबहुवचनस्य सुप्-प्रत्यये परे प्रक्रिया दर्शिता अस्ति ।\nअत्र निर्दिष्टाः आदेशाः विकल्पेन भवन्ति, अतः एतैः विना सामान्यप्रक्रियया अपि रूपाणि भवितुमर्हन्तीति स्मर्तव्यम् ।\n1. पाद-शब्दस्य पद्-आदेशः\n[शसादयः] - पाद + शस् → पद् + शस् → पदः ।\n[भ्यामादयः] - पाद + भ्याम् → पद् + भ्याम् → पद्भ्याम् ।\n[सुप्] - पाद + सुप् → पद् + सु → [<<खरि च>> [[8.4.55]] इति चर्त्वे] पत् + सु → पत्सु\n2. दन्त-शब्दस्य दत्-आदेशः\nयथा -\n[शसादयः] - दन्त् + शस् → दत् + शस् → दतः ।\n[भ्यामादयः] - दन्त + भ्याम् → दत् + भ्याम् → [<<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वे] दद्भ्याम् ।\n[सुप्] - दन्त + सुप् → दत् + सु → [<<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वे] दद् + सु → [<<खरि च>> [[8.4.55]] इति चर्त्वे] दत्सु ।\n3. नासिका-शब्दस्य नस्-आदेशः\nयथा -\n[शसादयः] - नासिका + शस् → नस् + शस् → नसः ।\n[भ्यामादयः] - नासिका + भ्याम् → नस् + भ्याम् → [<<ससजुषोः रुँः>> [[8.2.66]] इति रुँत्वे] नरुँ + भ्याम् → [<<अतो रोरप्लुतादप्लुते>> [[6.1.13]] इति उत्वे] नउ +भ्याम् → [<<आद्गुणः>> [[6.1.87]] इति अकार-उकारयोः गुणे] नोभ्याम् ।\n[सुप्] - नासिका + सुप् → नस् + सु → [<<ससजुषोः रुँः>> [[8.2.66]] इति रुँत्वे] नरुँ + सु → [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गे] नः सु → [<<वा शरि>> [[8.3.36]] इति विसर्गस्य वैकल्पिकं सत्वम्] नःसु, नस्सु ।\n4. मास-शब्दस्य मास्-आदेशः\n[शसादयः] - मास + शस् → मास् + शस् → मासः ।\n[भ्यामादयः] - मास + भ्याम् → मास् + भ्याम् → [<<ससजुषोः रुँः>> [[8.2.66]] इति रुँत्वे] मारुँ + भ्याम् → [<<भोभगोअघोअपूर्वस्य योऽशि>> [[8.3.17]] इति यकारादेशः] माय् + भ्याम् → [<<हलि सर्वेषाम्>> [[8.3.22]] इति यकारलोपः] → माभ्याम्\n[सुप्] - मास + सुप् → मास् + सु → [<<ससजुषोः रुँः>> [[8.2.66]] इति रुँत्वे] मारुँ + सु → [<<खरवसानयोर्विसर्जनीय>> [[8.3.15]] इति विसर्गः] माः + सु → [<<वा शरि>> [[8.3.36]] इति वैकल्पिकः सकारादेशः] → माःसु, मास्सु ।\n5. हृदय-शब्दस्य हृद्-आदेशः ।\n[शसादयः] - हृदय + शस् → हृद् + शस् → हृदः ।\n[भ्यामादयः] - हृदय + भ्याम् → हृद् + भ्याम् → हृद्भ्याम् ।\n[सुप्] - हृदय + सुप् → हृद् + सु →[<<खरि च>> [[8.4.55]] इति चर्त्वे] ह्रत्सु ।\n6. निशा-शब्दस्य निश्-आदेशः\n[शसादयः] - निशा + शस् → निश् + शस् → निशः ।\n[भ्यामादयः] - निशा + भ्याम् → निश् + भ्याम् → [<<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> [[8.2.36]] इति षत्वे] निष् + भ्याम् → [<<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वे] निड् + भ्याम् → निड्भ्याम् ।\n[सुप्] - निशा + सुप् → निश् + सुप् → [<<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> [[8.2.36]] इति षत्वे] निष् + सुप् → [<<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वे] निड् + सुप् → [<<डः सि धुट्>> [[8.3.29]] इति वैकल्पिकः धुडागमः] निड् + सुप् / निड् ध् + सुप् → [<<खरि च>> [[8.4.55]] इति चर्त्वे] → निट्सु, निट्त्सु ।\n7. असृज्-शब्दस्य असन्-आदेशः\n[शसादयः] - असृज् + शस् → असन् + शस् → [<<अल्लोपोऽनः>> [[6.4.134]] इति अकारलोपः] अस्नः ।\n[भ्यामादयः] - असृज् + भ्याम् → असन् + भ्याम् → [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः] असभ्याम् ।\n[सुप्] - असृज् + सुप् → असन् + सु → [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः] अससु ।\n8. यूष-शब्दस्य यूषन्-आदेशः\n[शसादयः] - यूष + शस् → यूषन् + शस् → [<<अल्लोपोऽनः>> [[6.4.134]] इति अकारलोपः] यूष्नः → [<<रषाभ्यां नो णः समानपदे>> [[8.4.1]] इति णत्वम्] → यूष्णः ।\n[भ्यामादयः] - यूष + भ्याम् → यूषन् + भ्याम् → [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः] यूषभ्याम् ।\n[सुप्] - यूष + सुप् → यूषन् + सु → [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः] यूषसु ।\n9. दोष-शब्दस्य दोषन्-आदेशः\nशसादयः] - दोष + शस् → दोषन् + शस् → [<<अल्लोपोऽनः>> [[6.4.134]] इति अकारलोपः] दोष्नः → [<<रषाभ्यां नो णः समानपदे>> [[8.4.1]] इति णत्वम्] → दोष्णः ।\n[भ्यामादयः] - दोष + भ्याम् → दोषन् + भ्याम् → [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः] दोषभ्याम् ।\n[सुप्] - दोष + सुप् → दोषन् + सु → [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः] दोषसु ।\n10. यकृत्-शब्दस्य यकन्-आदेशः\n[शसादयः] - यकृत् + शस् → यकन् + शस् → [<<अल्लोपोऽनः>> [[6.4.134]] इति अकारलोपः] यक्नः ।\n[भ्यामादयः] - यकृत् + भ्याम् → यकन् + भ्याम् → [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः] यकभ्याम् ।\n[सुप्] - यकृत् + सुप् → यकन् + सु → [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः] यकसु ।\n11. शकृत्-शब्दस्य शकन्-आदेशः\n[शसादयः] - शकृत् + शस् → शकन् + शस् → [<<अल्लोपोऽनः>> [[6.4.134]] इति अकारलोपः] शक्नः ।\n[भ्यामादयः] - शकृत् + भ्याम् → शकन् + भ्याम् → [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः] शकभ्याम् ।\n[सुप्] - शकृत् + सुप् → शकन् + सु → [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः] शकसु ।\n12. उदक-शब्दस्य उदन्-आदेशः\n[शसादयः] - उदक + शस् → उदन् + शस् → [<<अल्लोपोऽनः>> [[6.4.134]] इति अकारलोपः] उद्नः ।\n[भ्यामादयः] - उदक + भ्याम् -> उदन् + भ्याम् → [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः] उदभ्याम् ।\n[सुप्] - उदक + सुप् → उदन् + सुप् → [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः] उदसु\n13. आस्य-शब्दस्य आसन्-आदेशः\n[शसादयः] - आस्य + शस् → आसन् + शस् → [<<अल्लोपोऽनः>> [[6.4.134]] इति अकारलोपः] आस्नः ।\n[भ्यामादयः] - आस्य + भ्याम् → आसन् + भ्याम् → [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः] आसभ्याम् ।\n[सुप्] - आस्य + सुप् → आसन् + सुप् → [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः] आससु ।\n" }, "61064": { "sa": "धातोः औपदेशिकस्वरूपे आदिस्थस्य षकारस्य सकारादेशः भवति । ", "sd": "धातुपाठे पाठितेभ्यः ~ 2000 धातुभ्यः प्रायेण 90 धातूनाम् औपदेशिस्वरूपे प्रथमवर्णः षकारः विद्यते । एते सर्वे धातवः षोपदेशाः धातवः नाम्ना ज्ञायन्ते । एतेषाम् सर्वेषाम् षकारस्य प्रक्रियायाः प्रारम्भे (इत्संज्ञालोपात् अनन्तरम्) सकारादेशः भवति इति अस्य सूत्रस्य आशयः । कानिचन उदाहरणानि एतानि —\n\n1. ष्वदँ (आस्वादने, भ्वादिः <{1.18}>) → स्वद् ।\n2. ञिष्वपँ (शये, अदादिः, <{2.63}>) → स्वप् । अत्र 'ञि' इत्यस्य इत्संज्ञां कृत्वा, ततः लोपं कृत्वा प्रकृतसूत्रेण षकारस्य सकारादेशः भवति । \n3. षहँ (चक्यर्थे, दिवादिः, <{4.23}> → सह् ।\n4. षुञ् (अभिषवे, स्वादिः, <{5.1}> → सु ।\n5. षिचँ (क्षरणे, तुदादिः, <{6.170}> → सिच् ।\n\nएतादृशं षकारस्य सकारादेशे कृते धातौ द्वौ अन्यौ परिवर्तनौ अपि भवतः —\n1. धातौ आदिस्थात् षकारात् परः अव्यवहितरूपेण उत स्वरस्य व्यवधानेन णकारः अस्ति चेत् तस्य नकारादेशः भवति । यथा —\n\n1. षणँ (सम्भक्तौ, भ्वादिः, <{1.535}>) → सन् ।\n2. ष्णा (शौचे, अदादिः, <{2.47}>) → स्ना\n3. ष्णिहँ (प्रीतौ, दिवादिः, <{4.97}>) → स्निह् ।\n4. षणुँ (दाने, तनादिः, <{8.2}>) → सन् ।\n\nएतेषु सर्वेषु अपि धातुषु मूलरूपेण नकारः एव विद्यते, परन्तु षकारस्य उपस्थितौ <<रषाभ्यां नो णः समानपदे>> [[8.4.1]] अथ वा <<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इत्यनेन णत्वे कृते तस्य णकारादेशः कृतः वर्तते । अतः यदा षकारस्य निवृत्तिं कृत्वा तस्य स्थाने सकारः विधीयते तदा <ऽनिमित्तापाये नैमित्तिकस्याप्यपायःऽ> इति परिभाषाम् अनुसृत्य णत्वस्य अपि निवृत्तिः भवति, अतश्च णकारस्य स्थाने नकारः आदेशरूपेण विधीयते । \nयेषु धातुषु नकारस्य अग्रे अनुस्वार-परसवर्णः सम्भवति, तेषु धातुषु औपदेशिकस्वरूपे एतादृशं णत्वं न कृतं दृश्यते, यतः तत्र णत्वम् अनुनासिकादेशं प्रति असिद्धम् अस्ति । यथा षन्जँ (सङ्गे, <{1.1142}>) अस्मिन् धातौ विद्यमानस्य नकारस्य औपदेशिक-अवस्थायाम् णत्वं नैव कृतम् अस्ति यतः अयं नकारः णत्वात् पूर्वमेव अनुस्वारादेशं प्राप्य षंज् इत्येतं रूपं प्राप्नोति, तत्र च णत्वस्य नैव प्रसक्तिः विद्यते । इत्युक्ते, षन्जँ इत्यत्र षकारस्य सामर्थ्यात् अपि णत्वं न सम्भवति अतः अत्र नकारेण एव उपदेशः क्रियते । \n2. धातौ आदिस्थात् षकारात् परः अव्यवहितरूपेण टकारः ठकारः वा विद्यते चेत् तस्य यथासंख्यम् तकारः थकारः च भवति । एतादृशाः प्रायेण 25 धातवः धातुपाठे विद्यन्ते । कानिचन उदाहरणानि एतानि —\n\n1. ष्टगेँ (संवरणे, भ्वादिः, <{1.909}>) → स्तग् । \n2 ष्टिघँ (आस्कन्दने, स्वादिः, <{5.21}>) → स्तिघ् । \n3. ष्ठा (गतिनिवृत्तौ, भ्वादिः, <{1.1077}>) → स्था ।\n4. ष्ठल् (स्थाने, भ्वादिः, <{1.970}>) → स्थल् । \n\nएतेषु सर्वेषु अपि धातुषु मूलरूपेण तकारः / थकारः एव विद्यते, परन्तु षकारस्य उपस्थितौ <<ष्टुना ष्टुः>> [[8.4.41]] इत्यनेन ष्टुत्वे कृते तस्य टकारादेशः / ठकारादेशः कृतः वर्तते । अतः यदा षकारस्य निवृत्तिं कृत्वा तस्य स्थाने सकारः विधीयते तदा <ऽनिमित्तापाये नैमित्तिकस्याप्यपायःऽ> इत्यनया परिभाषया ष्टुत्वस्य अपि निवृत्तिः भवति, अतश्च टकारस्य ठकारस्य वा स्थाने अन्तरतमः तवर्गीयवर्णः आदेशरूपेण विधीयते । \n\n1. धातुपाठे षकारात् परः अव्यवहितरूपेण डकारः ढकारः वा नैव कुत्रचित् दृश्यते । अतः तेषाम् उदाहरणानि अत्र न दीयन्ते ।\n2. षकारात् परः अव्यवहितरूपेण णकारः यत्र विद्यते तत्र सः णकारः णत्वकार्येण सिद्धः स्वीक्रियते, न हि ष्टुत्वेन —‌ यतः णत्वं प्रति ष्टुत्वम् असिद्धम् अस्ति । अतः तत्र णत्वनिवृत्तिं कृत्वा एव णकारस्य स्थाने नकारः भवति । \n\nवार्त्तिकम् — <!सुब्धातु-ष्ठिवु-ष्वष्कतीनां सत्वप्रतिषेधो वक्तव्यः!> \nप्रातिपदिकेभ्यः सनादिप्रत्ययानां योजनेन ये धातवः सिद्ध्यन्ति तेषां विषये, ष्ठिवुँ (निरसने, <{1.641}>, <{4.4}>) इत्यस्य धातिः विषये, तथा च ष्वष्क् (गतौ, <{1.105}>) धातोः विषये प्रकृतसूत्रं नैव प्रवर्तते — इति अस्य वार्त्तिकस्य आशयः । यथा —\n\n1. षण्मुखः इव आचरति अस्मिन् अर्थे <<कर्तुः क्यङ् सलोपश्च>> [[3.1.11]] इत्यनेन षण्मुख-शब्दात् क्यङ्-प्रत्यये कृते षण्मुखाय इति धातुः सिद्ध्यति । अयम् नामधातुः (सुब्धातुः) अस्ति अतः अस्य आदौ विद्यमानस्य षकारस्य सकारादेशः न भवति । अतएव अस्य लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् षण्मुखायते इत्येव षकारघटितं सिद्ध्यति ।\n2. ष्ठिवुँ (निरसने, <{1.641}>, <{4.4}>) अयं धातुः भ्वादिगणे, दिवादिगणे च विद्यते । अस्मिन् धातौ विद्यमानस्य आदिस्थस्य षकारस्य प्रकृतसूत्रेण सकारादेशः न भवति । यथा — ष्ठीवति, ष्ठीवतु, अष्ठीवत् आदयः । अत्र षत्वनिवृत्तिः न भवति अतः अत्र ष्टुत्वनिवृत्तिः अपि नैव जायते ।\n3. ष्वष्क् (गतौ, <{1.105}>) इत्यस्मिन् धातौ विद्यमानस्य षकारस्य अपि प्रकृतसूत्रेण षत्वं न भवति । अतः अस्य रूपाणि ष्वष्कते / अष्वष्कत / ष्वष्कताम् एतादृशानि भवन्ति ।\n\nधातोः षोपदेशस्य प्रयोजनम्\nधातुपाठे विद्यमानाः सर्वे अपि सकारादयः धातवः मूलरूपेण षोपदेशाः न सन्ति । केवलम् केषाञ्चन धातूनां विषये एव औपदेशिकस्वरूपे षःकारः श्रूयते । एतेषु सर्वेषु धातुषु स्थापितस्य षकारस्य प्रयोजनम् षत्वप्रकरणे दृश्यते । तदित्थम् — षोपदेशधातुषु जायमानः सकारः आदेशरूपेण सिद्ध्यति, अतः एतादृशः सकारः यदा इण्-वर्णात् परः विद्यते तदा तस्य <<आदेशप्रत्यययोः>> [[8.3.59]] इति सूत्रेण षत्वं सम्भवति । एकम् उदाहरणम् एतादृशम् —\n\nषिवुँ (तन्तुसन्ताने, दिवादिः, <{4.2}>)\n→ षिव् [<<उपदेशेऽजनुनासिक इत्>> [[1.3.2]], <<तस्य लोपः>> [[1.3.9]] ]\n→ सिव् [<<धात्वादेः षः सः>> [[6.1.64]] इति षत्वम्]\n→ सिव् + लिट् [<<लिट् च>> [[3.4.115]] इति लिट्]\n→ सिव् + तिप् [<<तिप्तस्झि..>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]\n→ सिव् + णल् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इति णल्-आदेशः] \n→ सिव् + अ [णकारलकारयोः इत्संज्ञा, लोपः]\n→ सिव् सिव् + अ [<<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम् । <<द्विर्वचनेऽचि>> [[1.1.59]] इत्यनेन अजादेशात् पूर्वम् द्वित्वं भवति ।]\n→ सिव् सेव् + अ [द्वित्वे कृते <<पुगन्तलघूपधस्य च>> [[7.3.86]] इति लघूपधगुणः प्रवर्तते ।]\n→ सि सेव् + अ [<<हलादिः शेषः>> [[7.4.60]] इति अभ्यासस्य हलादिः अंशः अवशिष्यते ।]\n→ सिषेव [<<आदेशप्रत्यययोः>> [[8.3.59]] इति षत्वम् । अत्र सेव्-इत्यस्य सकारः षकारात् आदेशरूपेण सिद्ध्यति, अतः <<आदेशप्रत्यययोः>> [[8.3.59]] इत्यनेन तस्य षत्वं सम्भवति ।]\n\nये धातवः षोपदेशाः न सन्ति, तेषां विषये एतादृशं षत्वं न प्रवर्तते । यथा, स्रिवुँ (गतिशोषणयोः, दिवादिः, <{4.3}>) अस्य धातोः लिट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् सिस्रेव इति भवति । अत्र धातौ विद्यमानः सकारः आदेशनिर्मितः नास्ति, अतः <<आदेशप्रत्यययोः>> [[8.3.59]] इत्यनेन तस्य षत्वम् अपि न विधीयते । " }, "61065": { "sa": "धातोः औपदेशिकस्वरूपे आदिस्थस्य णकारस्य नकारादेशः भवति । ", "sd": "धातुपाठे पाठितेभ्यः ~ 2000 धातुभ्यः प्रायेण 35 धातूनाम् औपदेशिस्वरूपे प्रथमवर्णः णकारः विद्यते । एते सर्वे धातवः णोपदेशाः धातवः नाम्ना ज्ञायन्ते । एतेषाम् सर्वेषाम् आदिस्थस्य णकारस्य प्रक्रियायाः प्रारम्भे (इत्संज्ञालोपात् अनन्तरम्) नकारादेशः भवति इति अस्य सूत्रस्य आशयः । कानिचन उदाहरणानि एतानि —\n\n1. णीञ् (प्रापणे, भ्वादिः, <{1.1049}>) → नी ।\n2. णु (स्तुतौ, अदादिः, <{2.30}>) → नु ।\n3. णशँ (अदर्शने, दिवादिः, <{4.91}>) → नश् ।\n4. णुदँ (प्रेरणे, तुदादिः, <{6.162}>) → नुद् ।\n5. णभँ (हिंसायाम्, क्र्यादिः, <{9.56}>) → नभ् ।\n\nसर्वेषम् अपि णोपदेशधातूनां विषये एतादृशी णत्वनिवृत्तिः सर्वासाम् प्रक्रियाणाम् प्रारम्भे एव भवति । णत्वनिवृत्तेः अनन्तरम् णकारस्य स्थाने नित्यं नकारः एव विधीयते, अतः एते सर्वेऽपि धातवः नकारादयः एव स्वीक्रियन्ते ।\nसुब्धातूनां विषये इदं सूत्रं न प्रवर्तते \nप्रकृतसूत्रेण केवलम् औपदेशिकधातुषु विद्यमानस्य एव आदिस्थ-णकारस्य नकारादेशः भवति । आतिदेशिधातूनां विषये इदं सूत्रं न प्रवर्तते । अतः णकारम् आत्मनः इच्छति अस्मिन् अर्थे णकार-शब्दात् <<सुप आत्मनः क्यच्>> [[3.1.8]] इत्यनेन क्यच्-प्रत्यये कृते णकारीय इति यः नामधातुः सिद्ध्यति, तस्मिन् विद्यमानस्य णकारस्य प्रकृतसूत्रेण नत्वं नैव सम्भवति । अतएव अस्य धातोः रूपाणि णकारीयति, णकारीयतु, अणकारीयत् एतादृशानि णकारघटितानि एव भवन्ति ।\nणोपदेशधातूनां परिगणनम्\nभाष्यकारेण प्रकृतसूत्रे णोपदेशधातूनां परिगणनं कृतम् अस्ति । अस्मिन् सन्दर्भे भाष्यकारः ब्रूते —\n\nके पुनः णोपदेशाः धातवः पठितव्याः ? ... अन्तरेण अपि पाठः किञ्चित् शक्यते वक्तुम् । कथम् ? सर्वे नादयः णोपदेशाः, नृति-नन्दि-नर्दि-नन्कि-नाटि-नाथृ-नाधृ-नॄ-वर्जम् ।\n\nइत्युक्ते, धातुपाठे विद्यमानान् नृत्-आदीन् अष्टौ धातून् विहाय अन्ये सर्वे अपि नकारादयः धातवः मूलरूपेण णोपदेशाः एव सन्ति — इति अत्र आशयः ।वस्तुतस्तु चुरादिगणे निष्कँ (परिमाणे, <{10.209}>), नक्कँ (नाशने, <{10.82}>) — एतादृशाः केचन अत्र अपरिगणिताः अणोपदेशाः धातवः अपि विद्यन्ते, परन्तु अन्येषु गणेषु विद्यमानानाम् णोपदेशधातूनाम् सङ्कलनम् अस्याम् आवल्याम् साकल्येन एव कृतम् अस्ति । \nधातोः णोपदेशत्वस्य प्रयोजनम्\nधातुपाठे विद्यमानाः सर्वे अपि नकारादयः धातवः मूलरूपेण णोपदेशाः न सन्ति । केवलम् केषाञ्चन धातूनां विषये एव औपदेशिकस्वरूपे णकारः श्रूयते । एतेषु सर्वेषु धातुषु स्थापितस्य णकारस्य प्रयोजनम् णत्वप्रकरणे दृश्यते । तदित्थम् — उपसर्गस्थ-रेफेण धातौ विद्यमानस्य नकारणस्य <<रषाभ्यां नो णः समानपदे>> [[8.4.1]] अथ वा <<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इत्यनेन णत्वं न सम्भवति यतः उपसर्गः भिन्नं पदम् अस्ति । परन्तु यदि धातुः णोपदेशः अस्ति, तर्हि <<उपसर्गादसमासेऽपि णोपदेशस्य>> [[8.4.14]] अनेन सूत्रेण उपसर्गस्थ-रेफम् निमित्तरूपेण स्वीकृत्य धात्वादि-णकारस्य नत्वम् अवश्यम् सम्भवति । इत्युक्ते, येषाम् धातूनाम् आदौ विद्यमानस्य नकारस्य उपसर्गस्थ-रेफेण णत्वम् इष्यते, तेषाम् धातुपाठे णोपदेशरूपेण स्थापनम् कृतम् वर्तते इत्याशयः । एकम् उदाहरणम् एतादृशम् —\n\nणमँ (प्रह्वत्वे शब्दे च, भ्वादिः, <{1.1136}>)\n→ णम् [<<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इति अकारस्य इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ नम् [<<णो नः>> [[6.1.65]] इति धात्वादिणकारस्य नकारः]\n→ प्र + नम् + क्त्वा [<<समानकर्तृकयोः पूर्वकाले>> [[3.4.21]] इति क्त्वा-प्रत्ययः]\n→ प्र + नम् + ल्यप् [<<समासेऽनञ्पूर्वे क्त्वो ल्यप्>> [[7.1.37]] इति क्त्वा-प्रत्ययस्य ल्यप्-आदेशः]\n→ प्र + नम् + य [लकारस्य <<लशक्वतद्धिते>> [[1.3.8]] इति इत्संज्ञा । पकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति द्वयोः अपि लोपः]\n→ प्र + णम् + य [<<उपसर्गादसमासेऽपि णोपदेशस्य>> [[8.4.14]] इति नकारस्य णत्वम् । अत्र मूलः धातुः णोपदेशः अस्ति, अतः उपसर्गस्थ-रेफम् निमित्तरूपेण स्वीकृत्य धात्वादि-नकारस्य णत्वम् विधीयते ।]\n→ प्रणम्य\n\nयः धातुः णोपदेशः नास्ति, तस्य विषये एतादृशम् णत्वं न भवति । यथा, नर्दँ (शब्दे <{1.58}>) अस्य धातोः विषये णत्वं न विधीयते — प्र + नर्द् + ल्यप् → प्रनर्द्य। \n" }, "61066": { "sa": "वल्-प्रत्याहारस्य वर्णे परे वकार-यकारयोः लोपः भवति । ", "sd": "\nवल् = यकारम् विहाय सर्वाणि व्यञ्जनानि ।\n\nवकारात् / यकारात् परं यकारं विहाय अन्यं व्यञ्जनम् विद्यते चेत् वकारस्य / यकारस्य लोपः भवति । उदाहरणे एतादृशे —\n1. वकारस्य लोपः\nदिव्-धातोः क्वसु-प्रत्यये कृते दिदिवस् इति प्रातिपदिकम् सिद्ध्यति । अस्य प्रक्रियायाम् प्रकृतसूत्रेण वकारस्य लोपः क्रियते —\n\nदिवुँ (क्रीडादिषु, दिवादिः, <{4.1}>)\n→ दिव् + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट्]\n→ दिव् + क्वसुँ [<<क्वसुश्च>> [[3.2.107]] इति लिट्-इत्यस्य क्वसुँ-आदेशः]\n→ दिव् + वस् [ककार-उकारयोः इत्संज्ञा, लोपः]\n→ दिव् दिव् + वस् [<<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम्]\n→ दि दिव् + वस् [<<हलादि शेषः>> [[7.4.60]] इति 'दि' इत्येव अवशिष्यते ।]\n→ दिदिवस् [<<लोपो व्योर्वलि>> [[6.1.66]] इति वकारे परे वकारलोपः]\n\n2. यकारस्य लोपः\nपठ्-धातोः विधिलिङ्लकारस्य प्रथमपुरुष-एकवचनस्य प्रक्रियायाम् प्रकृतसूत्रेण यकारलोपः कृतः दृश्यते —\n\nपठँ (व्यक्तायां वाचि, भ्वादिः <{1.381}>)\n→ पठ् + लिङ् [<<विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्>> [[3.3.161]] इति लिङ्] \n→ पठ् + तिप् [<<तिप्तस्..>> [[3.4.78]] इत्यनेन प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]\n→ पठ् + शप् + ति [<<कर्तरि शप्>> [[3.1.68]] इति औत्सर्गिकम् विकरणम् शप्]\n→ पठ् + अ + यासुट् + ति [<<यासुट् परस्मैपदेषूदात्तो ङिच्च>> [[3.4.103]] इति यासुट्-आगमः]\n→ पठ् + अ + यास् + ति [टकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति लोपः । सकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।]\n→ पठ् + अ + यास् + सुट् + ति [<<सुट् तिथोः>> [[3.4.107]] इति सुट्-आगमः]\n→ पठ् + अ + यास् + स् + ति [टकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति लोपः । सकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।]\n→ पठ् + अ + या + ति [<<लिङः सलोपोऽनन्त्यस्य>> [[7.2.79]] इति उभयोः सकारयोः लोपः]\n→ पठ् + अ + इय् + ति [<<अतो येयः>> [[7.2.80]] इति 'या'-इत्यस्य इय्-आदेशः]\n→ पठ् + अ + इ + ति [<<लोपो व्योर्वलि>> [[6.1.66]] इति तकारे परे यकारलोपः]\n→ पठ् + अ + इ + त् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ पठ् + ए + त् [<<आद्गुणः>> [[6.1.87]] इति गुणः]\n→ पठेत्\n\n<qt>वाय्वोः</qt> इत्यत्र बहिरङ्गासिद्धत्वेन, स्थानिवद्भावेन वा यकारलोपस्य निषेधः\nवाय्वोः (वायु-शब्दस्य षष्ठी-सप्तमी-द्विवचनम् ) इत्यस्मिन् शब्दे यकारात् परः वल्-वर्णः अस्ति; अतः तत्र प्रकृतसूत्रेण अनिष्टः यकारलोपः प्रसज्यते । प्रक्रिया इयम् —\n\nवायु + ओस् [षष्ठीद्विवचनस्य प्रत्ययः]\n→ वाय् व् + ओस् [<<इको यणचि>> [[6.1.77]] इति यणादेशः । एतादृशे यणादेशे कृते <<लोपो व्योर्वलि>> [[6.1.66]] इति वकारस्य अनिष्टः लोपः प्राप्नोति ।]\n\nअस्य लोपस्य निवारणार्थम् द्वे पद्धती वैयाकरणैः दीयेते —\n१. यणादेशस्य बहिरङ्गत्वात् यलोपः न\nवाय्वोः इत्यत्र उकारस्य कृतः यणादेशः ओस्-इति बहिर्भूतं प्रत्ययं निमित्तरूपेण स्वीकृत्य भवति । यकारलोपः तु शब्दे एव विद्यमानम् वकारम् निमित्तरूपेण स्वीकृत्य भवति । अतः यकारलोपस्य अपेक्षया यणादेशः बहिरङ्गः अस्ति । अस्यां स्थितौ पूर्वं जातं बहिरङ्गं कार्यम् <ऽअसिद्धं बहिरङ्गमन्तरङ्गेऽ> इत्यनया परिभाषया अन्तरङ्गकार्यस्य कृते असिद्धं भवति । इत्युक्ते, वाय्वोः इत्यत्र जायमानः यणादेशः यलोपस्य कृते असिद्धः अस्ति । अतः <<लोपो व्योर्वलि>> [[6.1.66]] इति सूत्रेण अत्र वायु इत्येव दृश्यते, न हि वाय्वोः इत्यत्र । एवं स्थिते अत्र वल्-वर्णस्य अभावात यलोपः अपि न प्रवर्तते । \n२. यणादेशस्य स्थानिवद्भावात् यलोपः न\nवाय्वोः इत्यत्र उकारस्य कृतः यणादेशः <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इत्यनेन स्थानिवद् भवति; अतः तत्र उकारसदृशम् एव कार्यं भवति; इत्युक्ते वल्-वर्णस्य अभावात् यलोपः अपि न प्रवर्तते ।\nवस्तुतस्तु, यकारलोपस्य विषये <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इत्यनेन प्राप्तस्य स्थानिवद्भावस्य <<न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु>> [[1.1.58]] इत्यनेन निषेधः उक्तः अस्ति । परन्तु तत्रैव विद्यमानेन इति वार्त्तिकेन अयं निषेधः केवलं स्वरलोपस्य विषये प्रवर्तते; स्वरादेशस्य विषये न । अतः अयं निषेधः प्रकृतसन्दर्भे, इत्युक्ते यत्र उकारस्य लोपः न क्रियते अपितु आदेशः एव क्रियते, तत्र न प्रवर्तते । स्थानिवद्भावनिषेधस्य अभावात् स्थानिवद्भावः अवश्यं भवति; अतः अत्र वकारस्य अनुपस्थितौ यलोपः अपि न प्राप्नोति ।\n भाष्ये वलोपस्य प्रत्याख्यानम्\nप्रकृतसूत्रस्य प्रामुख्येण यकारलोपार्थम् एव प्रयोगः भवति । वकारलोपस्य बहूनि न्यूनानि उदाहरणानि विद्यन्ते । तेषु प्रायेण सर्वाणि अपि वैदिक-उदाहरणानि एव सन्ति । किं च, भाषायां बहुषु स्थलेषु रेफे परे वकारस्य लोपः न हि कृतः दृश्यते । यथा - व्रीहिः, तीव्रम्, व्रणः — आदयः । अतः अस्य सूत्रस्य भाष्ये वकारलोपस्य प्रत्याख्यानम् एव कृतम् वर्तते । तत्र भाष्यकारः ब्रूते — अनारम्भो वा पुनः वलोपस्य न्याय्यः । प्रकृतसूत्रेण वकारस्य वलि परे लोपः न उच्येत चेदेव वरम् — इति अस्य आशयः ।\n\n" }, "61067": { "sa": "'वि' इत्यस्य अपृक्त-अवस्थायाम् लोपः भवति । ", "sd": "येषां प्रत्ययानाम् इत्संज्ञकवर्णस्य लोपात् अनन्तरम् वि इति रूपं जायते, ततः च अग्रे वकारोत्तरम् इकारम् उच्चारणार्थं मत्त्वा तस्य अपि लोपे कृते व् इति एकवर्णात्मकम् रूपम् सिद्ध्यति, तत्र <<अपृक्तः एकाल् प्रत्ययः>> [[1.2.41]] अनेन सूत्रेण वकारस्य अपृक्तम् इति संज्ञायां जातायाम्, अस्य (वि-इत्यस्मात् सिद्धस्य) अपृक्तसंज्ञक-वकारस्य लोपः भवति — इति प्रकृतसूत्रस्य अर्थः ।\n<<अपृक्त एकाल् प्रत्ययः>> [[1.2.41]] इत्यनेन सूत्रेण एकवर्णात्मकस्य प्रत्ययस्य अपृक्तः इति संज्ञा भवति । \nअस्य सूत्रस्य प्रसक्तिः क्विप्, क्विन्, विट्, विच्, ण्वि, च्वि — एतेषाम् षण्णां प्रत्ययानां विषये दृश्यते । क्रमेण उदाहरणानि एतानि —\n1. क्विप्-प्रत्ययस्य वकारस्य लोपः \nक्विप्-प्रत्यये विद्यमानयोः ककारपकारयोः इत्संज्ञालोपे कृते वि इति अवशिष्यते । अत्र विद्यमानः वकारोत्तरः इकारः उच्चारणार्थः अस्ति, अतः तस्य लोपे जाते व् इति अपृक्तः (एकवर्णात्मकः) प्रत्ययः अवशिष्यते । अस्य प्रकृतसूत्रेण लोपः भवति । यथा —\n\nवृत्र हन्ति इति\n= हनँ (हिंसागत्योः <{2.2}>)\n→ वृत्रम् + हन् + क्विप् [<<सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्>> [[3.2.61]] इति क्विप्]\n→ वृत्रम् + हन् + वि [ककारस्य <<लशक्वतद्धिते>> [[1.3.8]] इति इत्संज्ञा । पकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा । उभयोः अपि <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ वृत्रम् + हन् + व् [वकारोत्तरः इकारः उच्चारणार्थः, अतः तस्य अपि लोपः भवति । अवशिष्टस्य व् इत्यस्य <<अपृक्त एकाल् प्रत्ययः>> [[1.2.41]] इति अपृक्तसंज्ञा भवति ।]\n→ वृत्रम् + हन् [<<वेरपृक्तस्य>> [[6.1.67]] इति अपृक्तवकारस्य लोपः]\n→ वृत्रहन् [<<उपपदमतिङ्>> [[2.2.19]] इति उपपदसमासः । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्ययस्य लोपः]\n\n2. क्विन्-प्रत्ययस्य वकारस्य लोपः — \nक्विन्-प्रत्यये विद्यमानयोः ककारनकारयोः इत्संज्ञालोपे कृते वि इति अवशिष्यते । अत्र विद्यमानः वकारोत्तरः इकारः उच्चारणार्थः अस्ति, अतः तस्य लोपे जाते व् इति अपृक्तः (एकवर्णात्मकः) प्रत्ययः अवशिष्यते । अस्य प्रकृतसूत्रेण लोपः भवति । यथा —\n\nघृतं स्पृशति इति\n= स्पृश् (संस्पर्शने, <{6.158}>)\n→ घृतम् + स्पृश् + क्विन् [<<स्पृशोऽनुदने क्विन्>> [[3.2.61]] इति क्विन्]\n→ घृतम् + स्पृश् + व् [ककारस्य <<लशक्वतद्धिते>> [[1.3.8]] इति इत्संज्ञा । नकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा । उभयोः अपि <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ घृतम् + स्पृश् + व् [वकारोत्तरः इकारः उच्चारणार्थः, अतः तस्य अपि लोपः भवति । अवशिष्टस्य व् इत्यस्य <<अपृक्त एकाल् प्रत्ययः>> [[1.2.41]] इति अपृक्तसंज्ञा भवति ।]\n→ घृतम् + स्पृश् [<<वेरपृक्तस्य>> [[6.1.67]] इति अपृक्तवकारस्य लोपः ।]\n→ घृतस्पृश् [<<उपपदमतिङ्>> [[2.2.19]] इति उपपदसमासः । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्ययस्य लोपः]\n\n3. विट्-प्रत्ययस्य वकारस्य लोपः — \nविट्-प्रत्यये विद्यमानस्य टकारस्य इत्संज्ञालोपे कृते वि इति अवशिष्यते । अत्र विद्यमानः वकारोत्तरः इकारः उच्चारणार्थः अस्ति, अतः तस्य लोपे जाते व् इति अपृक्तः (एकवर्णात्मकः) प्रत्ययः अवशिष्यते । अस्य प्रकृतसूत्रेण लोपः भवति । यथा —\n\nसस्यम् अत्ति इति\n→ अदँ (भक्षणे, अदादिः, <{2.1}>)\n→ सस्यम् + अद् + विट् [<<अदोऽनन्ने>> [[3.2.68]] इति विट्-प्रत्ययः]\n→ सस्यम् + अद् + वि [टकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ सस्यम् + अद् + व् [वकारोत्तरः इकारः उच्चारणार्थः, अतः तस्य अपि लोपः भवति । अवशिष्टस्य व् इत्यस्य <<अपृक्त एकाल् प्रत्ययः>> [[1.2.41]] इति अपृक्तसंज्ञा भवति ।]\n→ सस्यम् + अद् [<<वेरपृक्तस्य>> [[6.1.67]] इति अपृक्तवकारस्य लोपः ।]\n→ सस्य + अद् [<<उपपदमतिङ्>> [[2.2.19]] इति उपपदसमासः । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्ययस्य लोपः]\n→ सस्याद् [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः]\n\n4. विच्-प्रत्ययस्य वकारस्य लोपः — \nविच्-प्रत्यये विद्यमानस्य चकारस्य इत्संज्ञालोपे कृते वि इति अवशिष्यते । अत्र विद्यमानः वकारोत्तरः इकारः उच्चारणार्थः अस्ति, अतः तस्य लोपे जाते व् इति अपृक्तः (एकवर्णात्मकः) प्रत्ययः अवशिष्यते । अस्य प्रकृतसूत्रेण लोपः भवति । यथा —\n\nरिष् (हिंसायाम्, भ्वादिः, <{1.790}>)\n→ रिष् + विच् [<<अन्येभ्योऽपि दृश्यन्ते>> [[3.2.75]] इति विच्-प्रत्ययः]\n→ रिष् + वि [चकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ रिष् + व् [वकारोत्तरः इकारः उच्चारणार्थः, अतः तस्य अपि लोपः भवति । अवशिष्टस्य व् इत्यस्य <<अपृक्त एकाल् प्रत्ययः>> [[1.2.41]] इति अपृक्तसंज्ञा भवति ।]\n→ रिष् [<<वेरपृक्तस्य>> [[6.1.67]] इति अपृक्तवकारस्य लोपः ।]\n→ रेष् [प्रत्ययस्य लोपे कृते अपि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यनेन प्रत्ययलक्षणं कार्यम् अवश्यं भवति । अतः अत्र <<पुगन्तलघूपधस्य च>> [[7.3.86]] इत्यनेन उपधा-इकारस्य गुणादेशः भवति ।]\n\n5. ण्वि-प्रत्ययस्य वकारस्य लोपः — \nण्वि-प्रत्यये विद्यमानस्य णकारस्य इत्संज्ञालोपे कृते वि इति अवशिष्यते । अत्र विद्यमानः वकारोत्तरः इकारः उच्चारणार्थः अस्ति, अतः तस्य लोपे जाते व् इति अपृक्तः (एकवर्णात्मकः) प्रत्ययः अवशिष्यते । अस्य प्रकृतसूत्रेण लोपः भवति । यथा —\n\nअंशं भजति इति\n= भजँ (सेवायाम्, भ्वादिः, <{1.1159}>)\n→ अंशं + भज् + ण्वि [<<भजो ण्विः>> [[3.2.62]] इति ण्वि-प्रत्ययः]\n→ अंशं + भज् + वि [णकारस्य <<चुटू>> [[1.3.7]] । <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ अंशं + भज् + व् [वकारोत्तरः इकारः उच्चारणार्थः, अतः तस्य अपि लोपः भवति । अवशिष्टस्य व् इत्यस्य <<अपृक्त एकाल् प्रत्ययः>> [[1.2.41]] इति अपृक्तसंज्ञा भवति ।]\n→ अंशं + भज् [<<वेरपृक्तस्य>> [[6.1.67]] इति अपृक्तवकारस्य लोपः ।]\n→ अंशभज् [<<उपपदमतिङ्>> [[2.2.19]] इति उपपदसमासः । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्ययस्य लोपः]\n→ अंशभाज् [प्रत्ययस्य लोपे कृते अपि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यनेन प्रत्ययलक्षणं कार्यम् अवश्यं भवति । अतः अत्र <<अत उपधायाः>> [[7.2.116]] इत्यनेन उपधा-अकारस्य वृद्धिः प्रवर्तते ।]\n\n6. च्वि-प्रत्ययस्य वकारस्य लोपः — \nच्वि-इति तद्धितसंज्ञकः प्रत्ययः अस्ति । अस्मिन् प्रत्यये विद्यमानस्य चकारस्य इत्संज्ञालोपे कृते वि इति अवशिष्यते । अत्र विद्यमानः वकारोत्तरः इकारः उच्चारणार्थः अस्ति, अतः तस्य लोपे जाते व् इति अपृक्तः (एकवर्णात्मकः) प्रत्ययः अवशिष्यते । अस्य प्रकृतसूत्रेण लोपः भवति । यथा —\n\nअशुक्लः शुल्कः सम्पद्यमानः भवति\n→ शुक्ल + च्वि + भवति [<<अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः>> [[5.4.50]] इति च्वि-प्रत्ययः]\n→ शुक्ल् + वि + भवति [चकारस्य <<चुटू>> [[1.3.7]] । <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ शुक्ल + व् + भवति [वकारोत्तरः इकारः उच्चारणार्थः, अतः तस्य अपि लोपः भवति । अवशिष्टस्य व् इत्यस्य <<अपृक्त एकाल् प्रत्ययः>> [[1.2.41]] इति अपृक्तसंज्ञा भवति ।]\n→ शुक्ल + ० + भवति [<<वेरपृक्तस्य>> [[6.1.67]] इति अपृक्तवकारस्य लोपः ।]\n→ शुक्ली भवति [प्रत्ययस्य लोपे कृते अपि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यनेन प्रत्ययलक्षणं कार्यम् अवश्यं भवति । अतः अत्र <<अस्य च्वौ>> [[7.4.32]] इत्यनेन अकारस्य ईकारादेशः भवति ।]\n" }, "61068": { "sa": "हलन्तात्, दीर्घात् ङ्यन्तात्, दीर्घात् आबन्तात् च परस्य सुँ-ति-सि-प्रत्ययानाम् अपृक्तः हल् लुप्यते ।", "sd": "हलन्तात्, दीर्घ-ङ्यन्त-शब्दात् तथा च दीर्घ-आबन्त-शब्दात् विहितस्य प्रथमैकवचनस्य सुँ-प्रत्ययस्य, प्रथमपुरुषैकचवनस्य तिप्-प्रत्ययस्य, तथा च मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययस्य अपृक्त-अवस्थायाम् लोपः भवति । इत्युक्ते —\n\n1. हलन्तात्, दीर्घ-ङ्यन्तात्, दीर्घ-आबन्तात् विहितस्य सुँ-प्रत्ययस्य इत्संज्ञक-उकारस्य लोपे कृते यः अपृक्तः स् इति अवशिष्यते, तस्य प्रकृतसूत्रेण लोपः भवति ।\n2. हलन्तात् विहितस्य ति-प्रत्ययस्य इकारस्य <<इतश्च>> [[3.4.100]] इत्यनेन लोपे कृते यः अपृक्तः त् इति अवशिष्यते, तस्य प्रकृतसूत्रेण लोपः भवति ।\n3. हलन्तात् विहितस्य सि-प्रत्ययस्य इकारस्य <<इतश्च>> [[3.4.100]] इत्यनेन लोपे कृते यः अपृक्तः स् इति अवशिष्यते, तस्य प्रकृतसूत्रेण लोपः भवति ।\n\n<<अपृक्त एकाल् प्रत्ययः>> [[1.2.41]] इत्यनेन सूत्रेण एकवर्णात्मकस्य प्रत्ययस्य अपृक्तः इति संज्ञा भवति । \nक्रमेण उदाहरणानि एतानि —\n1. हलन्तात् विहितस्य सुँ-प्रत्ययस्य अपृक्त-सकारस्य लोपः —\nराजन्-शब्दस्य प्रथमैकवचनस्य प्रक्रियायाम् अपृक्तसकारस्य प्रकृतसूत्रेण लोपः भवति —\n\nराजन् + सुँ [<<स्वौजस्..>> [[4.1.2]] इति सुँ-प्रत्ययः]\n→ राजन् + स् [<<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इति उकारस्य इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ राजान् + स् [<<सर्वनामस्थाने चासम्बुद्धौ>> [[6.4.8]] इति सर्वनामस्थानप्रत्यये परे नकारान्तस्य अङ्गस्य उपधादीर्घः भवति ।]\n→ राजान् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति अपृक्त-सकारस्य लोपः]\n→ राजा [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति पदान्तनकारस्य लोपः]\n\nअस्यां प्रक्रियायाम् अपृक्त-सकारस्य <<संयोगान्तस्य लोपः>> [[8.2.23]] इत्यनेन लोपः न सम्भवति, यतः तादृशे लोपे कृते तस्य असिद्धत्वात् <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इत्यस्य कृते पदान्ते नकारः नैव विधीयेत, येन <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इत्यनेन नकारलोपः अपि नैव सम्भवेत् ।\n2. दीर्घ-ङ्यन्तात् विहितस्य सुँ-प्रत्ययस्य अपृक्त-सकारस्य लोपः —\nस्त्रीप्रत्ययप्रकरणे पाठिताः ङीप् / ङीष् / ङीन् एते त्रयः प्रत्ययाः साकल्येन ङ्यन्ताः नाम्ना ज्ञायन्ते । एतेषाम् एव निर्देशः अस्मिन् सूत्रे कृतः अस्ति । एतेषाम् कस्यचित् प्रत्ययस्य योजनेन सिद्धः शब्दः दीर्घस्वरान्तः (ईकारान्तः) अस्ति चेत् तस्मात् विहितस्य अपृक्त-सुँ-प्रत्ययस्य प्रकृतसूत्रेण लोपः भवति । यथा, नदी इति शब्दः नद शब्दात् ङीप्-प्रत्ययं कृत्वा सिद्ध्यति, तथा च अस्य अन्ते दीर्घः स्वरः विद्यते । अतः अस्य शब्दस्य प्रथमैकवचनस्य प्रक्रियायाम् प्रकृतसूत्रेण सुँ-प्रत्ययस्य लोपः भवति —\n\nनदी + सुँ [<<स्वौजस्..>> [[4.1.2]] इति सुँ-प्रत्ययः]\n→ नदी [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति सुँ-प्रत्ययस्य लोपः]\n\nये शब्दाः ङीप्/ङीष्/ङीन्—प्रत्ययान्ताः न सन्ति, तेषां विषये इदं सूत्रं न प्रवर्तते । यथा, लक्ष्मी इति शब्दः ङ्यन्तः नास्ति, अतः अस्य प्रथमैकवचनस्य रूपे सुँलोपः न जायते, अतश्च लक्ष्मीः इत्येव रूपं सिद्ध्यति । एतादृशाः आहत्य सप्त शब्दाः संस्कृतभाषायाम् सामान्यरूपेण प्रयुज्यन्ते । तेषाम् सङ्कलनम् एकस्यां कारिकायां कृतम् अस्ति —\n\nअवी-तन्त्री-तरी-लक्ष्मी-ह्री-श्री-धीनाम् उणादिषु ।\nसप्तानाम् अपि शब्दानां सुँलोपो न कदाचन ॥\n\nये शब्दाः ङीप्/ङीष्/ङीन्—प्रत्ययान्ताः सन्ति परन्तु दीर्घान्ताः न सन्ति, तेषां विषये अपि इदं सूत्रं न प्रवर्तते । यथा, कौशाम्बाः निर्गतः इत्यस्मिन् अर्थे इत्यनेन वार्त्तिकेन पञ्चमीतत्पुरुषसमासः भवति, येन निष्कौशाम्बिः इति शब्दः सिद्ध्यति । अस्मिन् शब्दे यद्यपि ङीप्-प्रत्ययः अन्ते विद्यते, तथापि <<गोस्त्रियोरुपसर्जनस्य>> [[1.2.48]] इति सूत्रेण तस्य ह्रस्वादेशे कृते अन्तिमरूपे ह्रस्वः इकारः एव श्रूयते । एतादृशानां शब्दानां विषये प्रकृतसूत्रं नैव प्रवर्तते । अतः निष्कौशाम्बि-शब्दस्य प्रथमैकवचनस्य रूपे सुँलोपः न भवति, येन निष्कौशाम्बिः इत्येव रूपं सिद्ध्यति ।\n3. दीर्घ-आबन्तात् विहितस्य सुँ-प्रत्ययस्य अपृक्त-सकारस्य लोपः —\nस्त्रीप्रत्ययप्रकरणे पाठिताः टाप् / डाप् / चाप् एते त्रयः प्रत्ययाः साकल्येन आबन्ताः नाम्ना ज्ञायन्ते । एतेषाम् एव निर्देशः अस्मिन् सूत्रे कृतः अस्ति । एतेषाम् कस्यचित् प्रत्ययस्य योजनेन सिद्धः शब्दः दीर्घस्वरान्तः (आकारान्तः) अस्ति चेत् तस्मात् विहितस्य अपृक्त-सुँ-प्रत्ययस्य प्रकृतसूत्रेण लोपः भवति । यथा, बाला इति शब्दः बाल-शब्दात् टाप्-प्रत्ययं कृत्वा सिद्ध्यति, तथा च अस्य अन्ते दीर्घः स्वरः विद्यते । अतः अस्य शब्दस्य प्रथमैकवचनस्य प्रक्रियायाम् प्रकृतसूत्रेण सुँ-प्रत्ययस्य लोपः भवति —\n\nबाला + सुँ [<<स्वौजस्..>> [[4.1.2]] इति सुँ-प्रत्ययः]\n→ बाला [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति सुँ-प्रत्ययस्य लोपः]\n\nसर्वेऽपि आकारान्त-स्त्रीलिङ्ग-शब्दाः आबन्ताः एव सन्ति, अतः तेभ्यः सर्वेभ्यः विहितस्य अपृक्त-सुँ-प्रत्ययस्य प्रकृतसूत्रे लोपः क्रियते । ब>आकारान्तपुंलिङ्गशब्दाः आबन्ताः न सन्ति, अतः तेषाम् विषये प्रकृतसूत्रम् नैव प्रवर्तते, अतः एतेषाम् प्रथमैकवचनस्य रूपे सुँलोपः न भवति । यथा विश्वपा-शब्दस्य प्रथमैकवचनस्य रूपे सुँ-प्रत्ययस्य सकारस्य विसर्गादेशे कृते विश्वपाः इति रूपं सिद्ध्यति ।\nयत्र आबन्तशब्दस्य अन्ते दीर्घः स्वरः न विद्यते, तत्र अपि प्रकृतसूत्रस्य प्रयोगः न भवति । यथा, अतिक्रान्तः खट्वाम् इत्यस्मिन् अर्थे इत्यनेन द्वितीयातत्पुरुषसमासे कृते अतिखट्वः इति शब्दः सिद्ध्यति । अस्मिन् शब्दे यद्यपि टाप्-प्रत्ययः अन्ते विद्यते, तथापि <<गोस्त्रियोरुपसर्जनस्य>> [[1.2.48]] इति सूत्रेण तस्य ह्रस्वादेशे कृते अन्तिमरूपे ह्रस्वः अकारः एव श्रूयते । एतादृशानां शब्दानां विषये प्रकृतसूत्रं नैव प्रवर्तते । अतः अतिखट्व-शब्दस्य प्रथमैकवचनस्य रूपे सुँलोपः न भवति, येन अतिखट्वः इत्येव रूपं सिद्ध्यति ।\n3. हलन्तात् विहितस्य ति-प्रत्ययस्य अपृक्त-तकारस्य लोपः —\nङित्-लकाराणाम् प्रक्रियासु हलन्तात् परस्य परस्मैपदस्य प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययस्य इकारस्य <<इतश्च>> [[3.4.100]] इत्यनेन लोपे कृते यः त्-इति अपृक्तः अंशः अवशिष्यते, तस्य प्रकृतसूत्रेण लोपः क्रियते । एतादृशः लोपः यद्यपि बहुषु स्थलेषु <<संयोगान्तस्य लोपः>> [[8.2.23]] इत्यनेन अपि सम्भवति, तथापि रेफात्-परस्य अपृक्त-तकारस्य लोपार्थम् प्रकृतसूत्रम् आवश्यकम् वर्तते, यतः रेफात् परस्य तकारस्य <<संयोगान्तस्य लोपः>> [[8.2.23]] इत्यनेन प्राप्तः लोपः <<रात्सस्य>> [[8.2.24]] इत्यनेन निषिध्यते । यथा, भृञ्-धातोः लङ्-लकारस्य प्रथमपुरुषैकवचनस्य रूपसिद्धेः प्रक्रिया इयम् —\n\nडुभृञ् (धारणपोषणयोः, जुहोत्यादिः, <{3.6}>)\n→ भृ [इत्संज्ञालोपः]\n→ भृ + लङ् [<<अनद्यतने लङ्>> [[3.2.111]] इति लङ्]\n→ अट् + भृ + लङ् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ + भृ + तिप् [<<तिप्तस्झि...>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य विवक्षायाम् तिप्-प्रत्ययः]\n→ अ + भृ + त् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ अ + भृ + शप् + त् [<<कर्तरि शप्>> [[3.1.68]] इति शप्-प्रत्ययः]\n→ अ + भृ + ० + त् [<<जुहोत्यादिभ्यः श्लुः>> [[2.4.75]] इति शप्-प्रत्ययस्य श्लुः (लोपः) ।]\n→ अ + भृ भृ + त् [<<श्लौ>> [[6.1.10]] इति द्वित्वम् । <<द्विर्वचनेऽचि>> [[1.1.59]] इत्यनेन इदम् अजादेशात् पूर्वं भवति ।]\n→ अ + भृ + भर् + त् [<<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति अङ्गस्य गुणः । <<उरण् रपरः>> [[1.1.51]] इति सः रपरः]\n→ अ + भिर् + भर् + त् [<<भृञामित्>> [[7.4.76]] इति अभ्यासस्य ईकारादेशः । <<उरण् रपरः>> [[1.1.51]] इति सः रपरः]\n→ अ + भि + भर् + त् [<<हलादिः शेषः>> [[7.4.60]] इति अभ्यासस्य हलादिः शिष्यते ।]\n→ अ + भि + भर् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति हलन्तात् विहितस्य अपृक्त-ति-प्रत्ययस्य लोपः । अत्र <<संयोगान्तस्य लोपः>> [[8.2.23]] इत्यनेन लोपः नैव सम्भवति, <<रात्सस्य>> [[8.2.24]] इति नियमात् ।]\n→ अ + भि + भः [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n→ अबिभः [<<अभ्यासे चर्च>> [[8.4.54]] इति जश्त्वम् ]\n\nङ्यन्तात् आबन्तात् च तिप्-प्रत्ययः नैव सम्भवति, अतः तयोः अत्र उदाहरणानि अपि न वर्तन्ते ।\n3. हलन्तात् विहितस्य सि-प्रत्ययस्य अपृक्त-तकारस्य लोपः —\nङित्-लकाराणाम् प्रक्रियासु हलन्तात् परस्य परस्मैपदस्य मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययस्य इकारस्य <<इतश्च>> [[3.4.100]] इत्यनेन लोपे कृते यः स्-इति अपृक्तः अंशः अवशिष्यते, तस्य प्रकृतसूत्रेण लोपः क्रियते । एतादृशः लोपः यद्यपि सर्वत्र एव <<संयोगान्तस्य लोपः>> [[8.2.23]] इत्यनेन सम्भवति, तथापि तादृशः कृतः सकारलोपः सन्धिकार्यार्थम् असिद्धः भवति, अतः ततः इष्टानि सन्धिकार्याणि न प्रवर्तन्ते । अतएव अपृक्त-सकारस्य अपि प्रकृतसूत्रे ग्रहणम् कृतम् अस्ति । यथा, भिद्-धातोः लङ्लकारस्य मध्यमपुरुषैकवचनस्य रूपात् इत्यस्मात् अनन्तरम् अत्र इति शब्दः विद्यते चेत् प्रक्रियायाम् प्रकृतसूत्रेण लोपे कृते एव सन्धिकार्यम् सम्भवति —\n\nभिदिँर् (विदारणे, रुधादिः, <{7.2}>)\n→ भिद् [ इति इँर्-इत्यस्य लोपः]\n→ भिद् + लङ् [<<अनद्यतने लङ्>> [[3.2.111]] इति लङ्]\n→ अट् + भिद् + लङ् + अत्र [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः । अग्रे सन्धिकार्यार्थम् 'अत्र' इति शब्दः अपि स्थापितः अस्ति ]\n→ अ + भिद् + सि + अत्र [<<तिप्तस्झि...>> [[3.4.78]] इत्यनेन मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः]\n→ अ + भिद् + स् + अत्र [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ अ + भि श्नम् द् + स् + अत्र [<<रुधादिभ्यः श्नम्>> [[3.1.78]] इति श्नम् । <<मिदचोऽन्त्यात्परः>> [[1.1.47]] इति सः अन्त्यात् अचः परः विधीयते ।]\n→ अ + भि न द् + स् [इत्संज्ञालोपः]\n→ अ + भि न द् + ० + अत्र [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति हल्-वर्णात् परस्य अपृक्त-सि-प्रत्ययस्य लोपः]\n→ अ + भि न रुँ + अत्र [<<दश्च>> [[8.2.75]] इति दकारस्य रुँत्वम् ]\n→ अ + भि न र् + अत्र [उकारस्य इत्संज्ञा, लोपः]\n→ अ + भि न उ + अत्र [<<हशि च>> [[6.1.114]] इति उत्वम् । <<दश्च>> [[8.2.75]] इति सूत्रेण कृतम् रुँत्वम् निर्देशसामर्थ्यात् उत्वस्य कृते सिद्धम् अस्ति । परन्तु यदि पूर्वस्मिन् सोपाने <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इत्यस्य स्थाने <<संयोगान्तस्य लोपः>> [[8.2.23]] इति सूत्रेण सकारलोपः क्रियते, तर्हि सः सकारलोपः उत्वस्य कृते असिद्धः स्यात् अतः अत्र रेफात् परम् सकारम् एव दृष्ट्वा उत्वं नैव प्रवर्तेत ! अतः पूर्वस्मिन् सोपाने सकारलोपार्थम् <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इत्येव सूत्रम् प्रयोक्तव्यम् ।]\n→ अ + भिनो + अत्र [<<आद्गुणः>> [[6.1.87]] इति गुणैकादेशः]\n→ अभिनोऽत्र [<<एङः पदान्तादति>> [[6.1.109]] इति पूर्वरूपैकादेशः]\n\nप्रकृतसूत्रे अपृक्तशब्दात् अनन्तरम् 'हल्' ग्रहणस्य प्रयोजनम्\nप्रकृतसूत्रेण सुँ/ति/सि-प्रत्ययस्य अपृक्तस्य हल्-वर्णस्य लोपः उच्यते । एतद् हल्ग्रहणम् णल्-प्रत्ययस्य अकारस्य लोपनिषेधार्थम् अस्ति । यदि अस्मिन् सूत्रे हल् इति शब्दः नैव विद्येत, तर्हि लिट्लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रियायाम् तिप्-प्रत्ययस्य णल्-आदेशे कृते, इत्संज्ञालोपात् अनन्तरम् तस्य इति रूपस्य अपृक्तत्वे सिद्धे पपाठ इत्यादिषु स्थलेषु प्रकृतसूत्रेण अस्य अकारस्य अपि अनिष्टः लोपः भवेत् । तस्य बाधनार्थम् एव प्रकृतसूत्रे अपृक्तशब्दस्य हल् इति विशेष्यम् विशिष्टरूपेण निर्दिष्टम् अस्ति ।" }, "61069": { "sa": "एङन्तात् / ह्रस्वान्तात् शब्दात् विहितस्य सम्बोधनैकवचनप्रत्ययस्य हल्-वर्णः लुप्यते ।", "sd": "एकारान्तम् / ओकारान्तम् / ह्रस्वस्वरान्तम् यत् शब्दस्वरूपम्, तस्मात् विहितस्य सम्बोधन-एकवचनस्य हल्-वर्णस्य प्रकृतसूत्रेण लोपः भवति ।\n<<एकवचनं संबुद्धिः>> [[2.3.49]] इति सूत्रेण सम्बोधनस्य एकवचनस्य प्रत्ययस्य सम्बुद्धिः इति संज्ञा दीयते । तस्याः एव अस्मिन् सूत्रे प्रयोगः कृतः अस्ति ।\nउदाहरणानि एतानि —\n1. एकारात् परस्य सम्बोधनस्य एकवचस्य हल्-वर्णस्य लोपः —\nइकारान्त-शब्दानाम् सम्बोधनैकवचनस्य सुँ-प्रत्यये परे <<ह्रस्वस्य गुणः>> [[7.3.108]] इत्यनेन गुणादेशे (एकारे) कृते तस्मात् परस्य सुँ-प्रत्ययस्य प्रकृतसूत्रेण लोपः भवति —\n\nमुनि + सुँ [सम्बोधनैकवचनस्य प्रत्ययः]\n→ मुनि + स् [<<उपदेशेऽजनुनासिक इत्>> [[1.3.2]], <<तस्य लोपः>> [[1.3.9]]]\n→ मुने + स् [<<ह्रस्वस्य गुणः>> [[7.3.108]]]\n→ मुने [<<एङ्ह्रस्वात् सम्बुद्धेः>> [[6.1.69]] इति एकारात् परस्य सम्बुद्धिप्रत्ययस्य हल्-वर्णस्य लोपः]\n\nएवमेव, आकारान्त-स्त्रीलिङ्गशब्दानाम् सम्बोधनैकवचनस्य सुँ-प्रत्यये परे <<सम्बुद्धौ च>> [[7.3.106]] इत्यनेन एकारादेशे कृते तस्मात् परस्य सुँ-प्रत्ययस्य प्रकृतसूत्रेण लोपः भवति —\n\nमाला + सुँ [सम्बोधनैकवचनस्य प्रत्ययः]\n→ माला + स् [<<उपदेशेऽजनुनासिक इत्>> [[1.3.2]], <<तस्य लोपः>> [[1.3.9]]]\n→ माले + स् [<<सम्बुद्धौ च>> [[7.3.106]]]\n→ माले [<<एङ्ह्रस्वात् सम्बुद्धेः>> [[6.1.69]] इति एकारात् परस्य सम्बुद्धिप्रत्ययस्य हल्-वर्णस्य लोपः]\n\n2. ओकारात् परस्य सम्बोधनस्य एकवचस्य हल्-वर्णस्य लोपः —\nउकारान्त-शब्दानाम् सम्बोधनैकवचनस्य सुँ-प्रत्यये परे <<ह्रस्वस्य गुणः>> [[7.3.108]] इत्यनेन गुणादेशे (ओकारे) कृते तस्मात् परस्य सुँ-प्रत्ययस्य प्रकृतसूत्रेण लोपः भवति —\n\nधेनु + सुँ [सम्बोधनैकवचनस्य प्रत्ययः]\n→ धेनु + स् [<<उपदेशेऽजनुनासिक इत्>> [[1.3.2]], <<तस्य लोपः>> [[1.3.9]]]\n→ धेनो + स् [<<ह्रस्वस्य गुणः>> [[7.3.108]]]\n→ धेनो [<<एङ्ह्रस्वात् सम्बुद्धेः>> [[6.1.69]] इति ओकारात् परस्य सम्बुद्धिप्रत्ययस्य हल्-वर्णस्य लोपः]\n\n3. ह्रस्वस्वरात् परस्य सम्बोधनस्य एकवचस्य हल्-वर्णस्य लोपः —\nअस्य उदाहरणानां क्रमेण परिगणनम् एतादृशम् —\n1. अकारान्तपुंलिङ्गशब्दानाम् सम्बोधनैकवचनस्य रूपम् —\n\nबाल + सुँ [सम्बोधनैकवचनस्य प्रत्ययः]\nबाल + स् [<<उपदेशेऽजनुनासिक इत्>> [[1.3.2]], <<तस्य लोपः>> [[1.3.9]]]\n→ बाल [<<एङ्ह्रस्वात् सम्बुद्धेः>> [[6.1.69]] इति ह्रस्वस्वरात् परस्य सम्बुद्धिप्रत्ययस्य हल्-वर्णस्य लोपः]\n\n2. अकारान्तनपुंसकलिङ्गशब्दानां सम्बोधनैकवचनस्य रूपम् —\n\nफल + सुँ [सम्बोधनैकवचनस्य प्रत्ययः]\n→ फल + अम् [<<अतोऽम्>> [[7.1.24]] इति सुँ-प्रत्ययस्य अम्-आदेशः]\n→ फलम् [<<अमि पूर्वः>> [[6.1.107]] इति पूर्वरूपैकादेशः]\n→ फल [<<एङ्ह्रस्वात् सम्बुद्धेः>> [[6.1.69]] इति सम्बुद्धिप्रत्ययस्य केवलम् हल्-वर्णः (मकारः) लुप्यते ।\n\n3. दीर्घ-ईकारान्तशब्दानाम्, दीर्घ-उकारान्तशब्दानाम् सम्बोधनैकवचनस्य रूपम् —\n\nनदी / वधू + सुँ [सम्बोधनैकवचनस्य प्रत्ययः]\n→ नदी / वधू + स् [<<उपदेशेऽजनुनासिक इत्>> [[1.3.2]], <<तस्य लोपः>> [[1.3.9]]]\n→ नदि / वधु + स् [<<अम्बार्थनद्योर्ह्रस्वः>> [[7.3.107]] इति ह्रस्वः]\n→ नदि / वधु [<<एङ्ह्रस्वात् सम्बुद्धेः>> [[6.1.69]] इति सुँ-प्रत्ययस्य लोपः]\n\nसूत्रप्रयोगस्य स्थलानि\nप्रकृतसूत्रस्य प्रयोगः अधोदत्तेषु स्थलेषु भवति —\n\n1. अकारान्त-पुंलिङ्ग-नपुंसकलिङ्गशब्दानाम् च सम्बोधन-एकवचनस्य रूपसिद्धिः ।\n2. आकारान्त-ईकारान्त-ऊकारान्त-स्त्रीलिङ्गशब्दानाम् सम्बोधन-एकवचनस्य रूपसिद्धिः ।\n3. इकारान्त-उकारान्त-पुंलिङ्ग-स्त्रीलिङ्गशब्दानाम् सम्बोधन-एकवचनस्य रूपसिद्धिः ।\n\nएतेषाम् सर्वेषाम् उदाहरणानि उपरि निर्दिष्टानि सन्ति ।\nकतर-शब्दस्य नपुंसकलिङ्गस्य प्रक्रियाविशेषः\nसर्वनामसंज्ञकस्य कतर-शब्दस्य नपुंसकलिङ्गस्य प्रक्रियायाम् प्रकृतसूत्रस्य प्रयोगः न भवति । तत्र प्रक्रिया एतादृशी वर्तते —\n\nकतर + सुँ [सम्बोधनैकवचनस्य प्रत्ययः । <<एकवचनं सम्बुद्धिः>> [[2.3.49]] इति सम्बुद्धिसंज्ञा ।]\n→ कतर + अद्ड् [<<अद्ड् डतरादिभ्यः पञ्चभ्यः>> [[7.1.25]] इति सुँ-प्रत्ययस्य अदड्-आदेशः ।]\n→ कतर + अद् [डकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः ।]\n→ कतर् + अद् [प्रत्ययस्य डित्त्वात् <<टेः>> [[6.4.143]] इति अकारलोपः]\n→ कतरद् [सम्बुद्ध्यैकवचनस्य सुँ-प्रत्ययः यद्यपि मूलरूपेण अकारान्तात् शब्दात् विहितः अस्ति, तथापि अत्र अद् इति प्रत्ययः हलन्तात् शब्दात् परः विद्यते । अतः अस्यां स्थितौ एङन्तस्य / ह्रस्वान्तस्य शब्दस्य अभावात् अत्र हल्-वर्णस्य (दकारस्य) लोपः न प्रवर्तते ।]\n\nअस्मिन्नेव सन्दर्भे भाष्यकारः ब्रूते —\nविहितविशेषणं ह्रस्वग्रहणम् । यस्माद्ह्रस्वात्संबुद्धिर्विहितेति ।\nअस्मिन् सूत्रे विद्यमानः ह्रस्वात् इति शब्दः यस्मात् ह्रस्वात् सम्बुद्धिप्रत्ययः विहितः अस्मिन् अर्थे स्वीकरणीयः इति अत्र भाष्यस्य आशयः वर्तते । अयमेव अर्थः सिद्धान्तकौमुद्याम् अङ्गशब्दस्य ग्रहणेन स्पष्टीकृतः अस्ति —\n\nएङन्तात् ह्रस्वन्तात् च अङ्गात् हल् लुप्यते, सम्बुद्धेः चेत् । सम्बुद्ध्याम् आक्षिप्तस्य अङ्गस्य एङ्-ह्रस्वाभ्याम् विशेषणात् न इह — हे कतरत् कुल इति ।\n\nसिद्धान्तकौमुदीकारः अस्मिन् सूत्रे अङ्गात् इति शब्दम् आक्षिपति, येन कतर् + अद् इत्यस्यां स्थितौ ह्रस्वान्तस्य अङ्गस्य अभावात् प्रकृतसूत्रम् नैव प्रवर्तते ।\n\n" }, "61070": { "sa": "वैदिकप्रयोगेषु कुत्रचित् 'शि' इत्यस्य लोपः कृतः दृश्यते । ", "sd": "<<जश्शसोः शिः>> [[7.1.20]] इत्यनेन नपुंसकात् परस्य जस्/शस्-प्रत्यययोः शि-आदेशः भवति । अस्य आदेशस्य वेदेषु बहुलम् (इत्युक्ते केषुचन स्थलेषु) लोपः कृतः दृश्यते । यथा - त्वे विश्वा संगतानि व्रता ध्रुवा यानि देवा अकृण्वत (ऋग्वेदे 1.36.5) इत्यत्र विद्यमानेषु विश्वा, व्रता, ध्रुवा एतेषु त्रिषु शब्देषु शि-प्रत्ययस्य लोपः कृतः अस्ति । अत्र प्रक्रिया एतादृशी वर्तते —\n\nविश्व+ शस् [द्वितीयाबहुवचनस्य प्रत्ययः]\n→ विश्व + शि [<<जश्शसोः शिः>> [[7.1.20]] इति शि-आदेशः]\n→ विश्व + न् + इ [<<नपुंसकस्य झलचः>> [[7.1.72]] इति नुमागमः]\n→ विश्वा न् इ [<<सर्वनामस्थाने चासम्बुद्धौ>> [[6.4.8]] इति उपधादीर्घः]\n→ विश्वान् [ <<शेश्छन्दसि बहुलम्>> [[6.1.70]] इति शि-प्रत्ययस्य लोपः]\n→ विश्वा [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः]\n
    \nएवमेव व्रता, ध्रुवा — एतौ शब्दौ सिद्ध्यतः ।अनेनैव प्रकारेण तानि इत्यस्य स्थाने ता, यानि इत्यस्य स्थाने या एतौ प्रयोगौ अपि दृश्येते । \n
    \nप्रकृतसूत्रेण उक्तः लोपः केवलम् केषुचन स्थलेषु एव दृश्यते, सर्वत्र न; अतएव अस्मिन् सूत्रे बहुलम् इति शब्दः स्वीकृतः वर्तते । \nवार्त्तिकम् — <!एमन्नादि छन्दसि पररूपं वक्तव्यम्!> \nकाशिकायां भाष्ये च <<एङि पररूपम्>> [[6.1.94]] इत्यत्र पाठितम् इदं वार्त्तिकम् कौमुदीकारेण तु प्रकृतसूत्रस्य व्याख्याने स्थापितम् अस्ति । एमन् , ओद्वन्, इष्टि एतेषु शब्देषु परेषु पररूपैकादेशः भवति — इति अस्य वार्त्तिकस्य अर्थः । यथा —\n\n1. त्वा + एमन् = त्वेमन् ।\n2. त्वा + ओद्वन् = त्वोद्वन् ।\n3. अभि + इष्टि = अभिष्टि ।\n4. परि + इष्टि = परिष्टि ।\n" }, "61071": { "sa": "ह्रस्वस्वरस्य कृत्-संज्ञके पित्-प्रत्यये परे तुगागमः भवति । ", "sd": "यस्मिन् कृत्-प्रत्यये पकारः इत्संज्ञकः अस्ति, सः कृत्-प्रत्ययः ह्रस्वस्वरात् अनन्तरम् विद्यते चेत् प्रकृतसूत्रेण ह्रस्वस्वरस्य तुक् इति आगमः भवति — इति अस्य सूत्रस्य अर्थः । अस्मिन् आगमे ककारः इत्संज्ञकः अस्ति, अतः <<आद्यन्तौ टकितौ>> [[1.1.46]] इत्यनेन अयं कित्-आगमः ह्रस्वस्वरात् अनन्तरम् विधीयते ।\nआहत्य षण्णाम् कृत्-प्रत्ययानाम् विषये प्रकृतसूत्रस्य प्रयोगः सम्भवति । उदाहरणानि क्रमेण एतादृशानि —\n1. क्विप्-प्रत्यये परे ह्रस्वस्वरस्य तुगागमः —\nशत्रुं जयति इत्यस्मिन् अर्थे जि-धातोः क्विप्-प्रत्यये कृते प्रकृतसूत्रेण तुगागमे कृते शत्रुजित् इति रूपं सिद्ध्यति । प्रक्रिया इयम् —\n\nशत्रुं जयति\n→ जि (अभिभवे, <{1.1096}>)\nशत्रुम् + जि + क्विप् [<<सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्>> [[3.2.61]] इति क्विप्]\n→ शत्रुम् + जि + ० [पकारककारयोः इत्संज्ञा, लोपः । वकारोत्तरः अकारः उच्चारणार्थः, सोऽपि लुप्यते । अपृक्तवकारस्य <<वेरपृक्तस्य>> [[6.1.67]] इति लोपः भवति ।]\n→ शत्रुजि [<<उपपदमतिङ्>> [[2.2.19]] इति उपपदसमासः । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्ययस्य लुक् ।]\n→ शत्रुजि तुक् [प्रत्ययलोपे कृते अपि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यनेन प्रत्ययनिमित्तकं कार्यम् अवश्यं भवति, अतः <<ह्रस्वस्य पिति कृति तुक्>> [[6.1.71]] इति ह्रस्वस्वरस्य तुगागमः विधीयते । अत्र <ऽ वर्णाश्रये नास्ति प्रत्ययलक्षणम् ऽ> इति परिभाषा नैव प्रवर्तते, यतः अत्र क्विप्-प्रत्ययस्य वर्णम् आश्रित्य किमपि कार्यं न क्रियते, केवलम् तस्य पित्त्वम् कृत्त्वं च आश्रित्य तुगागमः कृतः अस्ति ।]\n→ शत्रुजित् [ककारस्य इत्संज्ञा, लोपः । तकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।]\n\n2. ल्यप्-प्रत्यये परे ह्रस्वस्वरस्य तुगागमः —\nउपपदसमासे गतिसमासे वा क्त्वा-प्रत्ययस्य ल्यप्-आदेशे कृते ह्रस्वस्वरस्य प्रकृतसूत्रेण तुगागम भवति । यथा -\n\nडुकृञ् (करणे, तनादिः, <{8.10}>)\n→ उप + कृ + क्त्वा [<<समानकर्तृकयोः पूर्वकाले>> [[3.4.21]] इति क्त्वाप्रत्ययः]\n→ उप + कृ + ल्यप् [<<कुगतिप्रादयः>> [[2.2.18]] इति गतिसमासः । <<समासेऽनञ्पूर्वे क्त्वो ल्यप्>> [[7.1.37]] इति क्त्वा-प्रत्ययस्य ल्यप्-आदेशः]\n→ उप + कृ + य [इत्संज्ञालोपः]\n→ उप + कृ तुक् + य [<<ह्रस्वस्य पिति कृति तुक्>> [[6.1.71]] इति ह्रस्वस्वरस्य तुगागमः]\n→ उप + कृ त् + य [ककारस्य इत्संज्ञा, लोपः । तकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।]\n→ उपकृत्य \n\nयद्यपि धातोः अन्ते आदौ ह्रस्वस्वरः नास्ति, तथापि प्रक्रियायाम् धातोः अन्ते विद्यमानस्य वर्णस्य लोपः भवति चेत् ह्रस्वस्वरात् अनन्तरम् अव्यवहितरूपेण पित्-कृत्-प्रत्ययः भवितुम् अर्हति । अस्यां स्थितौ अपि प्रकृतसूत्रेण अस्य ह्रस्वस्वरस्य तुगागमः भवति । यथा —\n\nगमॢँ (गतौ, भ्वादिः, <{1.1137}>)\n→ आ + गम् + क्त्वा [<<समानकर्तृकयोः पूर्वकाले>> [[3.4.21]] इति क्त्वाप्रत्ययः]\n→ आ + गम् + ल्यप् [<<कुगतिप्रादयः>> [[2.2.18]] इति गतिसमासः । <<समासेऽनञ्पूर्वे क्त्वो ल्यप्>> [[7.1.37]] इति क्त्वा-प्रत्ययस्य ल्यप्-आदेशः]\n→ आ + गम् + य [इत्संज्ञालोपः]\n→ आ + ग + य [मकारस्य <<वा ल्यपि>> [[6.4.38]] इति विकल्पेन लोपः]\n→ आ + ग तुक् + य [गकारोत्तस्य अकारस्य पित्-कृत्-प्रत्यये परे <<ह्रस्वस्य पिति कृति तुक्>> [[6.1.71]] इति तुगागमः]\n→ आ + ग त् + य [ककारस्य इत्संज्ञा, लोपः । तकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।]\n→ आगत्य\n
    \nपक्षे मकारलोपं विना आगम्य इत्यपि रूपं सिद्ध्यति । तस्यां प्रक्रियायां तुगागमः नैव सम्भवति, यतः तत्र ह्रस्वस्वरात् अनन्तरम् अव्यवहितरूपेण पित्-कृत्-प्रत्ययः न विद्यते ।]\n
    \n3. क्यप्-प्रत्यये परे ह्रस्वस्वरस्य तुगागमः —\n<<एतिस्तुशास्वृदृजुषः क्यप्>> [[3.1.109]] इति सूत्रेण इण्, स्तु, स्वृ, दृ इत्येतेभ्यः अजन्तेभ्यः धातुभ्यः क्यप्-प्रत्यये कृते प्रक्रियायाम् प्रकृतसूत्रेण तुगागमः भवति —\n\nइण् (गतौ, अदादिः, <{2.40}>)\n→ इ + क्यप् [<<एतिस्तुशास्वृदृजुषः क्यप्>> [[3.1.109]]\n→ इ + य [ककारपकारयोः इत्संज्ञा, लोपः]\n→ इ तुुक् + य [<<ह्रस्वस्य पिति कृति तुक्>> [[6.1.71]] इति ह्रस्वस्वरस्य तुगागमः]\n→ इ त् + य [ककारस्य इत्संज्ञा, लोपः । तकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।]\n→ इत्य\n\n4. क्वनिप्-प्रत्यये परे ह्रस्वस्वरस्य तुगागमः —\nराजानं कृतवान् अस्मिन् अर्थे कृ-धातोः क्वनिप्-प्रत्यये कृते प्रक्रियायाम् तुगागमं कृत्वा रूपं सिद्ध्यति —\n\nराजानं कृतवान्\n→ डुकृञ् (करणे, तनादिः, <{8.10}>)\n→ राजानम् + कृ + क्वनिप् [<<राजनि युधिकृञः>> [[3.2.95]] इति क्वनिप्-प्रत्ययः]\n→ राजानम् + कृ + वन् [ककारपकारयोः इत्संज्ञा, लोपः । नकारोत्तरः इकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।]\n→ राजन् + कृ + वन् [<<उपपदमतिङ्>> [[2.2.19]] इति उपपदसमासः । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्ययस्य लुक्]\n→ राजन् + कृ तुक् + वन् [<<ह्रस्वस्य पिति कृति तुक्>> [[6.1.71]] इति ह्रस्वस्वरस्य तुगागमः]\n→ राजन् + कृ त् + वन् [ककारस्य इत्संज्ञा, लोपः । तकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।]\n→ राज + कृ + त् + वन् [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः]\n→ राजकृत्वन् \n\n5. ङ्वनिप्-प्रत्यये परे ह्रस्वस्वरस्य तुगागमः —\nसु-धातोः ङ्वनिप्-प्रत्यये कृते प्रकृतसूत्रेण तुगागमं कृत्वा रूपं सिद्ध्यति —\n\nषुञ् (अभिषवे, स्वादिः, <{5.1}>)\n→ सु + ङ्वनिप् [<<सुयजोर्ङ्वनिप्>> [[3.2.103]] इति ङ्वनिप्-प्रत्ययः]\n→ सु + वन् [ङकारपकारयोः इत्संज्ञा, लोपः । नकारोत्तरः इकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।]\n→ सु तुक् + वन् [<<ह्रस्वस्य पिति कृति तुक्>> [[6.1.71]] इति ह्रस्वस्वरस्य तुगागमः]\n→ सु त् + वन् [ककारस्य इत्संज्ञा, लोपः । तकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।]\n→ सुत्वन् \n\n6. क्वरप्-प्रत्यये परे ह्रस्वस्वरस्य तुगागमः —\n<<इण्नश्जिसर्त्तिभ्यः क्वरप्>> [[3.2.163]] इति सूत्रेण इण्, जि तथा च सृ एतेभ्यः त्रिभ्यः धातुभ्यः क्वरप्-प्रत्ययः विधीयते । अत्र प्रक्रियायाम् प्रकृतसूत्रेण तुगागमं कृत्वा रूपं सिद्ध्यति —\n\nइण् (गतौ, अदादिः, <{2.40}>)\n→ इ + क्वरप् [<<इण्नश्जिसर्त्तिभ्यः क्वरप्>> [[3.2.163]] ]\n→ इ + वर [ककारपकारयोः इत्संज्ञा, लोपः ]\n→ इ तुक् + वर [<<ह्रस्वस्य पिति कृति तुक्>> [[6.1.71]] इति ह्रस्वस्वरस्य तुगागमः]\n→ इ त् + वर [ककारस्य इत्संज्ञा, लोपः । तकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।]\n→ इत्वर \n
    \nअननैव प्रकारेण जि + क्वरप् → जित्वर, सृ + क्वरप्‌ → सृत्वर एतौ शब्दौ अपि सिद्ध्यतः ।\n
    \nप्रकृतसूत्रस्य अप्राप्तिः\nअष्टाध्याय्याम् आहत्य नव कृत्संज्ञकाः पित्-प्रत्ययाः सन्ति । एतेषु षण्णाम् प्रत्ययानां तु उदाहरणानि उपरि निर्दिष्टानि एव सन्ति । अन्येषाम् त्रयाणाम् प्रत्ययानाम् विषये प्रकृतसूत्रम् नैव प्रवर्तते —‌\n\n1. अप्-प्रत्ययः यद्यपि कृत्-संज्ञकः पित्-प्रत्ययः अस्ति तथापि तस्य विषये इदं सूत्रम् नैव प्रवर्तते, यथा अस्मिन् प्रत्यये परे अङ्गान्ते विद्यमानस्य ह्रस्वस्वरस्य <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इत्यनेन गुणः सम्भवति । गुणे कृते तत्र ह्रस्वः स्वरः एव न अवशिष्यते, अतः तुगागमस्य अपि प्रसक्तिः न वर्तते । यथा, लु + अप् → लो + अप् → लव् + अ → लव । अतएव <<ॠदोरप्>> [[3.3.57]] अस्य सूत्रस्य काशिकाव्याख्याने — इत्संज्ञकः पकारः <<अनुदात्तौ सुप्पितौ>> [[3.1.4]] इत्यनेन अनुदात्तस्वरविधानार्थम् कृतः अस्ति — इति स्पष्टकृतम् अस्ति ।\n2. कप्-प्रत्ययः यद्यपि कृत्-संज्ञकः पित्-प्रत्ययः अस्ति तथापि तस्य विषये इदं सूत्रम् नैव प्रवर्तते । <<दुहः कब् घश्च>> [[3.2.70]] इत्यनेनैव उक्तः कप्-प्रत्ययः केवलम् दुह् धातोः एव विधीयते । अस्मिन् धातौ अन्ते हल्-वर्णः अस्ति, अतः अस्य प्रक्रियायाम् ह्रस्वस्वरात् कप्-प्रत्ययः नैव सम्भवति । अतः अस्य प्रत्ययस्य विषये प्रकृतसूत्रं नैव प्रवर्तते ।\n3. वनिप्-प्रत्ययः यद्यपि कृत्-संज्ञकः पित्-प्रत्ययः अस्ति, तस्य विषये इदं सूत्रम् नैव प्रवर्तते, यथा अस्मिन् प्रत्यये परे अङ्गान्ते विद्यमानस्य ह्रस्वस्वरस्य <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इत्यनेन गुणः सम्भवति । गुणे कृते तत्र ह्रस्वः स्वरः एव न अवशिष्यते, अतः तुगागमस्य अपि प्रसक्तिः न वर्तते । \n\nदलकृत्यम्\n1. ह्रस्वस्य इति किमर्थम् ? — दीर्घस्वरस्य तुगागमः न भवति । यथा — सम् + भू + ल्यप् → सम्भूय अत्र ऊकारस्य तुगागमः न भवति ।\n2. पिति इति किमर्थम् ? — अपित्-कृत्-प्रत्यये परे ह्रस्वस्वरस्य तुगागमः न भवति । यथा, कृ + क्त → कृत अत्र ऋकारस्य तुगागमः न भवति । \n3. कृति इति किमर्थम् ? — कृद्भिन्नानां सूत्राणां विषये प्रकृतसूत्रं न प्रवर्तते । यथा, तिप् इति तिङन्तप्रत्यये परे तुगागमः न भवति — पठ् + शप् + तिप् → पठ् + अ + ति →‌ पठति । एवमेव क्विप् इति कश्चन अन्यः सनादिप्रत्ययः अपि विद्यते, तस्य विषये अयं तुगागमः न प्रवर्तते — क्लीबः इव आचरति = क्लीब + क्विप् → क्लीब । अत्र बकारोत्तरस्य अकारस्य तुगागमः न भवति । \nएकादेशस्य तुगागमं प्रति असिद्धत्वम्\n<<एकः पूर्वपरयोः>> [[6.1.84]] अस्मिन् अधिकारे निर्दिष्टानि कार्याणि <<षत्वतुकोरसिद्धः>> [[6.1.86]] अनेन सूत्रेण तुगागमार्थम् असिद्धानि भवन्ति । इत्युक्ते, तुगागमे कर्तव्ये <<एकः पूर्वपरयोः>> [[6.1.84]] इत्यत्र विद्यमानैः सूत्रैः कृतः एकादेशः नैव दृश्यते । अतएव, अधीत्य, अतीत्य एतादृशेषु शब्देषु आदौ सवर्णदीर्घ-एकादेशं कृत्वा, तस्य असिद्धत्वात् तत्र ह्रस्वस्वरम् एव दृष्ट्वा प्रकृतसूत्रेण तुगागमः सम्भवति —\n\nइणँ (गतौ, अदादिः, <{2.40}>)\n→ अधि + इ + क्त्वा [<<समानकर्तृकयोः पूर्वकाले>> [[3.4.21]] इति क्त्वा-प्रत्ययः]\n→ अधी + क्त्वा [अत्र समासे कृते एव क्त्वा-प्रत्ययस्य ल्यप्-आदेशः भवितुम् अर्हति । समासार्थम् तु आदौ सन्धिकार्यम् करणीयम्, अतः ल्यबादेशात् पूर्वम् <<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः विधीयते]\n→ अधी + ल्यप् [<<कुगतिप्रादयः>> [[2.2.18]] इति उपपदसमासः । समासे कृते <<समासेऽनञ्पूर्वे क्त्वो ल्यप्>> [[7.1.37]] इति ल्यबादेशः]\n→ अधी तुक् + य [यद्यपि अत्र दीर्घस्वरात् अनन्तरम् पित्-कृत्-प्रत्ययः विद्यते, तथापि अयं दीर्घस्वरः <<एकः पूर्वपरयोः>> [[6.1.84]] इत्यस्मिन् अधिकारे विद्यमानेन <<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सूत्रेण सिद्ध्यति । <<षत्वतुकोरसिद्धः>> [[6.1.86]] इति सूत्रसामर्थ्यात् अयम् एकादेशः (दीर्घस्वरः) तुगागमार्थम् असिद्धः अस्ति । अतएव अत्र <<ह्रस्वस्य पिति कृति तुक्>> [[6.1.71]] इति सूत्रेण अधि + इ इत्येव स्थितिः दृश्यते । अस्यां स्थितौ ह्रस्वस्वरस्य अवश्यम् तुगागमः सम्भवति ।]\n→ अधी त् + य [ककारस्य इत्संज्ञा, लोपः । तकारोत्तरः उकारः उच्चारणार्थः, तस्य अपि लोपः भवति ।]\n→ अधीत्य\n\nबहिरङ्गः ह्रस्वादेशः अन्तरङ्गस्य तुगागमस्य कृते असिद्धः अस्ति\n<ऽअसिद्धं बहिरङ्गमन्तरङ्गेऽ> अनया परिभाषया बहिरङ्गकारस्य अन्तरङ्गकार्यं प्रति असिद्धत्वम् उच्यते । एतादृशम् असिद्धत्वम् प्रकृतसूत्रस्य विषये अपि प्रवर्तते । इत्युक्ते, यदि कुत्रचित् मूलरूपेण दीर्घस्वरात् अनन्तरम् पित्-कृत्-प्रत्ययः विहितः अस्ति, तर्हि तस्य दीर्घस्वरस्य बहिरङ्गकार्येण ह्रस्वादेशे कृते तस्य असिद्धत्वात् प्रकृतसूत्रेण तुगागमः नैव प्रवर्तते । यथा, ग्रामं नयति इत्यस्मिन् अर्थे नी-धातोः क्विप्-प्रत्यये कृते ग्रामणी इति प्रातिपदिकं सिद्ध्यति । अत्र नी-धातोः दीर्घस्वरात् अनन्तरम् क्विप्-प्रत्ययः विद्यते, अतः तस्य प्रकृतसूत्रेण तुगागमः न भवति । परन्तु यत्र ग्रामणी इति प्रातिपदिकम् नपुंसकलिङ्गे प्रयुज्यते, तत्र <<ह्रस्वो नपुंसके प्रातिपदिकस्य>> [[1.2.47]] इति सूत्रेण कट>ग्रामणी शब्दस्य ह्रस्वादेशे कृते ग्रामणि इति ह्रस्वघटितं रूपं सिद्ध्यति । अयं ह्रस्वादेशः तुगागमस्य अपेक्षया बहिरङ्गः अस्ति (यतः अयम् अग्रे विद्यमानम् नपुंसकलिङ्गवाचिनं विशेष्यं दृष्ट्वा एव प्रवर्तते), अतः अयम् अन्तरङ्गस्य तुगागमस्य कृते असिद्धः भवति । अतएव अस्मिन् ह्रस्वादेशे कृते अपि प्रकृतसूत्रेण तुगागमः न प्रवर्तते । प्रक्रिया इयम् —\n\nग्रामं नयति तत् कुलम्\n→ ग्रामम् + नी + क्विप् + कुलम् [<<सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्>> [[3.2.61]] इति क्विप्-प्रत्ययः । अग्रे विशेष्यरूपेण कुलम् इति शब्दः स्थापितः अस्ति ।\n→ ग्रामम् + नी + ० + कुलम् [ककारपकारयोः इत्संज्ञा, लोपः । वकारोत्तरः इकारः उच्चारणार्थः, सोऽपि लुप्यते । <<वेरपृक्तस्य>> [[6.1.67]] इति अपृक्तवकारस्य लोपः] \n→ ग्राम + नी + कुलम् [<<उपपदमतिङ्>> [[2.2.19]] इति उपपदसमासः । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्ययस्य लुक् ]\n→ ग्रामणी कुलम् [ इति वार्त्तिकेन णत्वम्]\n→ ग्रामणि कुलम् [<<ह्रस्वो नपुंसके प्रातिपदिकस्य>> [[1.2.47]] इति ह्रस्वादेशः । अयम् तुगागमस्य अपेक्षया बहिरङ्गः अस्ति यतः अयम् अग्रे विद्यमानम् कुलम् शब्दं दृष्ट्वा प्रवर्तते । <ऽअसिद्धं बहिरङ्गमन्तरङ्गेऽ> अनया परिभाषया अयं बहिरङ्गः ह्रस्वादेशः अन्तरङ्ग-तुगागमार्थम् असिद्धः अस्ति । अतः अत्र <<ह्रस्वस्य पिति कृति तुक्>> [[6.1.71]] इति तुगागमः न हि प्रवर्तते ।]\n" }, "61072": { "sa": "इतः आरभ्य <<पारस्करप्रभृतीनि च संज्ञायाम्>> [[6.1.157]] इति यावत् यद् किमपि उच्यते तत् संहिताया: विषये एव भवति । ", "sd": "इदम् अधिकारसूत्रम् । अस्य सूत्रस्य अधिकारः <<पारस्करप्रभृतीनि च संज्ञायाम्>> [[6.1.157]] इति सूत्रम् यावत् प्रचलति । एतेषु सर्वेषु अपि सूत्रेषु उक्तानि कार्याणि संहितायाः विषये एव भवन्ति इति अस्य अधिकारस्य आशयः । यथा, अस्मिन् अधिकारे पाठितेन <<इको यणचि>> [[6.1.77]] इति सूत्रेण इक्-वर्णस्य उक्तः यणादेशः तदा एव भवति तत्र इक्-वर्णस्य यण्-वर्णस्य च मध्ये संहितायाः विवक्षा अस्ति । \nसंहितासंज्ञा <<परः सन्निकर्षः संहिता>> [[1.4.109]] इति सूत्रेण पाठिता अस्ति । \n'संहितायाम्' इति विषयसप्तमी\n'संहितायाम्' इति शब्दे विद्यमाना सप्तमी 'विषयसप्तमी' स्वीक्रियते, न हि सतिसप्तमी । इत्युक्ते, अस्य सूत्रस्य अर्थः  संहितायाम् सत्याम्  इति न क्रियते, अपि तु  संहितायाम् विषये  इति क्रियते । अस्य कारणम् <<इको यणचि>> [[6.1.77]] इति सूत्रस्य आधारेण इत्थं दातुं शक्यते — यदि संहितायाम् सत्याम्  इति अर्थः भवेत्, तर्हि — आदौ संहिता भवेत्, ततः संहितां दृष्ट्वा इक्-वर्णस्य यण्-वर्णादेशः भवेत् — इति अर्थविधानं स्यात् । अस्यां स्थितौ संहितायाः उपस्थितौ अपि किञ्चित् कालं यावत् इक्-वर्णस्यैव उपस्थितिः तत्र भवितुम् अर्हेत्, यत् न उचितम् । वस्तुतस्तु आदौ इक्-वर्णस्य स्थाने यण्-वर्णस्य उच्चारणं भवति, ततः विरामं विना (संहितां स्वीकृत्य) अच्-वर्णस्य उच्चारणं भवति । अतः संहितायाः विवक्षायाम्, परन्तु संहितायाः ग्रहणात् पूर्वम् एव इक्-वर्णस्य स्थाने यण्-वर्णः उच्चार्यते । एतत् तदा एव सम्भवति यदा 'संहितायाम्' इति विषयसप्तमी गृह्यते । अतएव प्रकृतसूत्रे विद्यमाना सप्तमी विषयसप्तमी अस्ति । \nसूत्रस्य प्रत्याख्यानम्\nअस्य सूत्रस्य भाष्ये भाष्यकारः इदं सूत्रं अनावश्यकम् उक्त्वा प्रत्याचष्टे । तत्र भाष्यकारस्य विधानम्, तदुपरि च कैयटस्य व्याख्यानम् एतादृशम् —\n\nअयं योगः शक्यः अवक्तुम् । कथम् ? अधिकरणो नाम त्रिःप्रकारणम् —‌ व्यापकम्, औपश्लेषिकम्, वैषयिकम् इति । शब्दस्य च शब्देन कः अन्यः अभिसम्बन्धः भवितुम् अर्हति अन्यतः उपश्लेषात् ? इको यणचि अचि उपश्लिष्टस्य — इति । तत्र अन्तरेण संहिताग्रहणं संहितायाम् एव भविष्यति ॥ — 6.1.72 इत्यत्र महाभाष्यम् ।\nउपश्लेषे च आश्रिते निर्दिष्टग्रहणम् अपि न कर्तव्यम्, व्यवहितयोः उपश्लेष-अभावात् उपश्लेषनिमित्तकार्य-अप्रसङ्गात् । संहिताधिकारे च प्रत्याख्याते, संहितासंज्ञा अपि प्रयोजनाभावात् प्रत्याख्याता एव ।— 6.1.72 इत्यत्र प्रदीपे कैयटः ।\n\nअत्र भाष्यकारः आदौ सप्तमीविभक्तेः त्रीन् अर्थान् विवृणोति । ते एतादृशाः —\n\n(i) व्यापकसप्तमी — यत्र एकः पदार्थः अपरं पदार्थं सम्पूर्णरूपेण व्याप्नोति, तत्र व्यापकसप्तमी अस्ति इति उच्यते । यथा, 'तिलेषु तैलम्' इत्यत्र तिलेषु-इति व्यापकसप्तमी अस्ति । तैलम् तिलस्य कस्मिंश्चित् एकस्मिन् विभागे न विद्यते, अपि तु सम्पूर्णं तिलं समग्ररूपेण व्याप्नोति, तस्य तिलात् पृथक्करणम् दुष्करम् एव अस्ति, इति अत्र आशयः वर्तते । 'दध्नि घृतम्' इति व्यापकसप्तमेः अन्यद् उदाहरणम् ।\n(ii) औपश्लेषिकसप्तमी — यत्र एकस्य पदार्थस्य अवयवानाम् अपरस्य पदार्थस्य अवयवैः सह साक्षात् संयोगः विद्यते (two objects are so close to each other that they are practically touching each other), तत्र औपश्लेषिकसप्तमी अस्ति इति उच्यते । यथा, 'देवदत्तः कटे उपविशति' इत्यत्र 'कटे' इति औपश्लेषिकसप्तमी अस्ति । कटस्य देवदत्तेन सह साक्षात् सम्पर्कः भवति, तत्र देवदत्त-कटयोर्मध्ये अवकाशः नास्ति इति आशयः । 'मथुरायां वसति' इति औपश्लेशिकसप्तमेः अन्यद् उदाहरणम् । \n(iii) वैषयिकसप्तमी — यत्र द्वयोः पदार्थयोः साक्षात् संयोगः नास्ति, परन्तु कश्चन कल्पितः सम्बन्धः स्वीक्रियते, तत्र वैषयिकसप्तमी अस्ति इति उच्यते । यथा, 'गङ्गायां घोषः' (गोपालानां गृहसमूहः, A station of cowherds on the bank of River Ganga) इत्यत्र 'गङ्गायाम्' इति विषयसप्तमी अस्ति इति स्वीक्रियते । अत्र घोषः वस्तुतः गङ्गायाः जले नास्ति, अपितु गङ्गायाः निकटे वर्तते इति कारणेन द्वयोर्मध्ये अधिकरणसम्बन्धं स्वीकृत्य सप्तमीविभक्तिः उपयुज्यते इति आशयः । 'गुरौ निष्ठा' इति विषयसप्तमेः अन्यद् उदाहरणम् ।\n\nतिसृणाम् अपि सप्तमीनाम् इत्थं निर्देशं कृत्वा भाष्यकारः अग्रे एतत् सूचयति, यत् शब्दशास्त्रे एकस्य शब्दस्य अपरेण शब्देन सह विद्यमानः सम्बन्धः केवलम् पौर्वापर्यभावः (इत्युक्ते, औपश्लेषिकः सम्बन्धः — Two words uttered in extreme closeness) इत्येव भवितुम् अर्हति । यत्र औपश्लेषिकः सम्बन्धः अस्ति, तत्र संहिता भवत्येव । अतः पुनः 'संहितायाम्' इति पृथक् अधिकारः नावश्यकः । अतएव च, <<तस्मिन्निति निर्दिष्टे पूर्वस्य>> [[1.1.66]] अस्मिन् सूत्रे 'निर्दिष्ट'शब्दः अपि अनावश्यकः अस्ति, तथा च संहिताधिकारे प्रत्याख्याते <<संहितायाम्>> [[6.1.72]] इति सूत्रम् अपि अनावश्यकम् इति सर्वम् अत्र कैयटः विवृणोति ।\n\n\n\n\n" }, "61073": { "sa": "ह्रस्वस्वरस्य छकारे परे संहितायाम् तुक्-आगमः भवति । ", "sd": "ह्रस्वस्वरात् परः संहितायाम् छकारः विद्यते चेत् ह्रस्वस्वरस्य प्रकृतसूत्रेण तुक्-आगमः भवति । अयम् कित्-आगमः, अतः <<आद्यन्तौ टकितौ>> [[1.1.46]] इत्यनेन अयम् आगमः आगमिनः अनन्तरम् विधीयते । उदाहरणम् इदम् —\n\nस्वस्य छाया [<<षष्ठी>> [[2.2.8]] इति षष्ठीतत्पुरुषसमासः]\n→ स्व छाया [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्यययोः लोपः]\n→ स्वत् छाया [<<छे च>> [[6.1.73]] इति तुगागमः]\n→ स्वद् छाया [<<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वम्]\n→ स्वज् छाया [<<स्तोः श्चुना श्चुः>> [[8.4.40]] इति श्चुत्वम् ]\n→ स्वच् छाया [<<खरि च>> [[8.4.55]] इति चर्त्वम् । अग्रे <<चोः कुः>> [[8.2.30]] इति कुत्वम् असिद्धत्वात् न प्रवर्तते ।]\n→ स्वच्छाया\n\nअस्याम् प्रक्रियायाम् स्वज् + छाया इत्यत्र <<अनचि च>> [[8.4.47]] इत्यनेन विकल्पेन द्वित्वं कृत्वा स्वज्ज्छाया इति प्राप्ते, अग्रे <<खरि च>> [[8.4.55]] इति चर्त्वम् कृत्वा स्वच्च्छाया इत्यपि सिद्ध्यति । ततः <<झरो झरि सवर्णे>> [[8.4.65]] इत्यनेन चकारस्य विकल्पेन लोपे कृते पुनः स्वच्छाया इति अपि रूपं सिद्ध्यति ।\nइतोऽपि कानिचन उदाहरणानि - प्रियच्छात्रः, दीर्घच्छदिः, जगतिच्छन्दः, तीव्रच्छलः ।\nअनेन सूत्रेण निर्दिष्टः तुगागमः संहितायाम् नित्य: (compulsory) अस्ति, वैकल्पिकः न । इत्युक्ते 'स्व + छाया' इत्यस्य समस्तपदम् स्वच्छाया इत्येव भवति, स्वछाया इति न । \nह्रस्वस्वरः एव आगमी, न हि ह्रस्वस्वरान्तशब्दः\n'तुक्' इति आगमस्य आगमी ह्रस्वस्वरः अस्ति उत ह्रस्वस्वरान्तशब्दः — इति प्रश्नं कृत्वा काशिकाकारेण अयम् आगमी 'ह्रस्वस्वरः' इत्येव, न हि ह्रस्वस्वरान्तशब्दः — इति उत्तरं दीयते । इत्युक्ते, स्व + छाया इत्यत्र वकारोत्तरः अकारः एव आगमिरूपेण स्वीक्रियते, न हि 'स्व' इति शब्दः । यदि अस्मिन् सूत्रे सम्पूर्णः शब्दः आगमिरूपेण स्वीक्रियेत, तर्हि <ऽयदागमास्तद्गुणीभूतास्तद्ग्रहणेन गृह्यन्तेऽ> (परिभाषा 11) अनया परिभाषया शब्दग्रहणेन आगमस्य अपि ग्रहणे कृते अभ्यासकार्येषु कश्चन दोषः सम्भवेत्, इति 'छिद्' धातोः लिट्-लकारस्य प्रथमपुरुषद्विवचनस्य प्रक्रियायाम् द्रष्टुं शक्यते । तदित्थम् —\n\nछिदिँर् (द्वैधीकरणे, रुधादिः, <{7.3}>)\n→ छिद् लिट् [<<परोक्षे लिट्>> [[3.2.115]]\n→ छिद् छिद् लिट् [<<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम्]\n→ छि छिद् लिट् [<<हलादिः शेषः>> [[7.4.60]] इति अभ्यासस्य हलादिः अवशिष्यते ।]\n→ छि त् छिद् लिट् [<<छे च>>[[6.1.73]] इति छकारे परे ह्रस्वस्वरस्य तुगागमः । यदि अत्र तुक्-आगमः 'छि' इति सम्पूर्णशब्दस्य आगमरूपेण स्वीक्रियेत, तर्हि 'छि' इति अभ्यासग्रहणेन तुगागमस्यापि ग्रहणे कृते, पुनः <<हलादिः शेषः>> [[7.4.60]] इत्यनेन अभ्यासस्य लोपः सम्भवति । एतादृशं मा भूत्, अतः अत्र तुगागमः केवलम् इकारस्यैव आगमरूपेण गृह्यते । अनेन अभ्यासग्रहणेन तुगागमस्य ग्रहणं न भवति, केवलम् इकारग्रहणेनैव तुगागमस्य ग्रहणं सम्भवति ।]\n→ छि त् छिद् अतुस् [प्रथमपुरुषद्विवचनस्य विवक्षायाम् <<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इति अतुस्-प्रत्ययः]\n→ चिच्छिदतुः <<ससजुषो रुः>> [[8.2.66]], <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]], <<स्तोः श्चुना श्चुः>> [[8.4.40]], <<अभ्यासे चर्च>> [[8.4.54]]]\n\n\n वार्त्तिकम् — <! विश्वजनादीनां छन्दसि वा तुगागमो भवतीति वक्तव्यम्।!> \nइदं वार्त्तिकम् <<पदान्ताद्वा>> [[6.1.76]] इति सूत्रभाष्ये निर्दिष्टम् लभ्यते । 'विश्वजन' तथा केषाञ्चन अन्येषां शब्दानां विषये वेदेषु अयं तुगागमः विकल्पेन भवति — इति अस्य वार्त्तिकस्य आशयः । यथा - 'विश्वजनछत्रम्' , 'नछाया' इति तुगागमरहितप्रयोगाः अपि वेदेषु दृश्यन्ते । एतेषाम् साधुत्वज्ञापनार्थम् इदं वार्त्तिकम् निर्मितम् अस्ति । " }, "61074": { "sa": "आङ्-इत्यस्य माङ्-इत्यस्य च छकारे परे संहितायाम् तुगागमः भवति । ", "sd": "'आङ्' तथा 'माङ्' इत्येतौ द्वौ निपातसंज्ञकौ शब्दौ । एतयोः द्वयोः अपि शब्दयोः छकारे परे संहितायाम् तुगागमः भवति । क्रमेण विवरणम् एतादृशम् —\nआङ्-शब्दस्य तुगागमः —\nआङ् इति प्रादिगणस्य शब्दः । अस्मिन् शब्दे ङकारः इत्संज्ञकः अस्ति, अतः प्रयोगे 'आ' इत्येव श्रूयते । अस्य शब्दस्य आहत्य चत्वारः अर्थाः सन्ति । एतेषु सर्वेषु अर्थेषु छकारे परे आङ्-शब्दस्य संहितायाम् नित्यम् तुगागमः भवति —\n\n1) 'ईषद्' (किञ्चित्) अस्मिन् अर्थे — आ + छाया = आच्छाया । \n2) 'मर्यादा' (boundary that is not included) — आ + छत्रम् = आच्छत्रम् । \n3) 'अभिविधिः' (boundary that is included) अस्मिन् अर्थे अस्मिन् अर्थे — आ + छदिः = आच्छदिः । \n4) 'उपसर्गः' अस्मिन् अर्थे — आ + छादयति = आच्छादयति । \n\nयत्र आङ्-शब्दः उपसर्गार्थे प्रयुज्यते, तत्र संहितैकपदे नित्या, नित्या धातूपसर्गयोः इति वचनम् अनुसृत्य संहिता नित्या अस्ति, अतः तुगागमः अपि नित्यः एव ज्ञातव्यः। अन्येषु त्रिषु अर्थेषु तु संहिता विवक्षाम् अपेक्षते, अतः — संहितायां सत्याम् तुगागमसहितम् रूपम् (यथा - आच्छाया), तथा च संहितां विना तुगागमरहितम् रूपम् (यथा - आ छाया) — इति उभयथा प्रयोगः सम्भवति ।\nमाङ्-शब्दस्य तुगागमः —\nमाङ् इति अव्ययं चादिगणे पाठ्यते । अस्य प्रयोगः निषेधं दर्शयितुम् क्रियते । अत्रापि ङकारः इत्संज्ञकः अस्ति, अतः तस्य लोपं कृत्वा 'मा' इत्येव प्रयोगे श्रूयते । अस्मात् शब्दात् परः संहितायां छकारः विद्यते चेत् अस्य शब्दस्य तुगागमः भवति । यथा, मा + छिदत् → माच्छिदत् । संहितां विना तु 'मा छिदत्' इति अपि साधुप्रयोगः एव । \nबाध्यबाधकभावः\n'आङ्' तथा 'माङ्' एतौ द्वौ निपातसंज्ञकौ स्तः, अतः <<स्वरादिनिपातमव्ययम्>> [[1.1.37]] इत्यनेन अव्ययसंज्ञायाम् प्राप्तायाम्, एतेषाम् पदत्वम् अपि सिद्ध्यति । अस्यां स्थितौ छकारे परे संहितायाम् <<पदान्ताद्वा>> [[6.1.76]] इति सूत्रेण विकल्पेन तुगागमः सम्भवति । एतादृशं विकल्पं बाधित्वा नित्यं तुगागमविधानार्थम् प्रकृतसूत्रम् निर्मितम् अस्ति । \n 'आ' तथा 'मा' एतौ द्वौ कौचन अन्यौ निपातसंज्ञकौ शब्दौ अपि स्तः। परन्तु तयोः विषये इदं सूत्रं न प्रवर्तते । अतः तयोः विषये तु संहितायाम् सत्याम् अपि <<पदान्ताद्वा>> [[6.1.76]] इति सूत्रेण विकल्पेन एव तुगागमः भवति, येन उपसर्गार्थे अपि 'आछाया', 'आच्छाया' इति रूपद्वयं सिद्ध्यति ।" }, "61075": { "sa": "दीर्घ-स्वरस्य छकारे परे संहितायाम् तुगागमः भवति । ", "sd": "दीर्घस्वरात् परः संहितायाम् छकारः विद्यते चेत् दीर्घस्वरस्य प्रकृतसूत्रेण तुक्-आगमः भवति । अयम् कित्-आगमः, अतः <<आद्यन्तौ टकितौ>> [[1.1.46]] इत्यनेन अयम् आगमः आगमिनः अनन्तरम् विधीयते । यथा, छिद्-धातोः यङ्-प्रत्यये परे इयं प्रक्रिया भवति —\n\nछिदिँर् (द्वैधीकरणे, रुधादिः, <{7.3}>)\n→ छिद् यङ् [<<धातोरेकाचो हलादेः क्रियासमभिहारे यङ्>> [[3.1.22]] इति यङ्-प्रत्ययः]\n→ छिद् छिद् य [<<यङोऽचि च>> [[2.4.74]] इति द्वित्वम्]\n→ छि छिद् य [<<हलादिः शेषः>> [[7.4.60]] इति अभ्यासस्य हलादिः अवशिष्यते ।]\n→ छे छिद् य [<<गुणो यङ्लुकोः>> [[7.4.82]] इति अभ्यासस्य गुणः]\n→ छे तुक् छिद् य [<<दीर्घात्>> [[6.1.75]] इति दीर्घस्वरस्य छकारे परे तुगागमः]\n→ छे त् छिद् य [ककारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति लोपः । तकारोत्तरः उकारः इत्संज्ञकः, अतः सः अपि लुप्यते।]\n→ छेच्छिद्य [<<स्तोः श्चुना श्चुः>> [[8.4.40]] इति श्चुत्वम् । <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञा ]\n\nअस्य सूत्रस्य अन्यद् उदाहरणम् एतादृशम् —\n\nम्लेछँ (अव्यक्ते शब्दे)\n→ म्लेछ् [<<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इति अकारस्य इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ म्लेछ् + अनीयर् [<<तव्यत्तव्यानीयरः>> [[3.1.96]] इति अनीयर्-प्रत्ययः]\n→ म्लेत् छ् + अनीय [<<दीर्घात्>> [[6.1.73]] इति संहितायाम् छकारे परे दीर्घस्वरस्य तुगागमः ]\n→ म्लेच् छ् + अनीय [<<स्तोः श्चुना श्चुः>> [[8.4.40]] इति श्चुत्वम्]\n→ म्लेच्छनीय\n\nअनेनैव प्रकारेण 'ह्रीच्छ्' इत्यस्मिन् धातौ अपि आदौ <<दीर्घात्>> [[6.1.73]] इत्यनेन तुगागमे कृते ततः <<स्तोः श्चुना श्चुः>> [[8.4.40]] इत्यनेन श्चुत्वं कृत्वा चकारः सिद्ध्यति ।\n बाध्यबाधकभावः\nयदि दीर्घस्वरः पदान्ते विद्यते, तर्हि प्रकृतसूत्रेण उक्तम् नित्यम् तुगागमं बाधित्वा <<पदान्ताद्वा>> [[6.1.76]] इति सूत्रेण विकल्पेन तुगागमः विधीयते । अतएव अस्मिन् सूत्रे केवलम् अपदान्त-दीर्घ-वर्णस्यैव उदाहरणानि दत्तानि सन्ति ।\nसूत्ररचना\nअस्मिन् सूत्रे स्थानिवाचकम् षष्ठ्यन्तं पदम् नास्ति । दीर्घात् इति पञ्चम्यन्तं पदम्, छे इति च सप्तम्यन्तपदम् - इत्येव पदे अत्र उपस्थिते स्तः । अस्याम् स्थितौ वस्तुतः <ऽ उभयनिर्देशे पञ्चमीनिर्देशः बलीयान् ऽ> इत्यनया परिभाषया सप्तम्यन्तेन निर्दिष्टस्य पदस्य स्थानिरूपेण ग्रहणं भवेत् । परन्तु तादृशं क्रियते चेत् अत्र इष्टरूपं नैव सिद्ध्यति । अतः, इष्टरूपसिद्ध्यर्थम् अत्र पञ्चम्यन्तेन निर्दिष्टस्य पदस्य एव स्थानिरूपेण ग्रहणम् कृत्वा तस्य तुगागमः क्रियते । इत्युक्ते, अत्र दीर्घात् इत्येव पदम् षष्ठ्या विपरिणमय्य तस्य स्थानिरूपेण ग्रहणं भवति । अस्य किं ज्ञापकम् इति चेत्; पाणिनिना स्वयमपि <<विभाषा सेनासुराच्छायाशालानिशानाम्>> [[2.4.25]] इत्यस्मिन् सूत्रे सुराच्छाया इत्यत्र आकारस्य एव तुगागमे, तस्य श्चुत्वे च कृते चकारः प्रयुक्तः अस्ति । अयमेव निर्देशः अत्र ज्ञापकरूपेण स्वीक्रियते । \n" }, "61076": { "sa": "पदान्ते विद्यमानस्य दीर्घ-स्वरस्य छकारे परे संहितायाम् विकल्पेन तुगागमः भवति ।", "sd": "पदान्ते विद्यमानात् दीर्घस्वरात् परः संहितायाम् छकारः विद्यते चेत् तस्य दीर्घस्वरस्य विकल्पेन तुक्-आगमः भवति । अयम् कित्-आगमः, अतः <<आद्यन्तौ टकितौ>> [[1.1.46]] इत्यनेन अयम् आगमः आगमिनः अनन्तरम् विधीयते । उदाहरणम् इदम् —\n\nलक्ष्म्याः छाया [<<षष्ठी>> [[2.2.8]] इति षष्ठीतत्पुरुषसमासः]\n→ लक्ष्मी छाया [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्यययोः लोपः]\n→ लक्ष्मीत् छाया [<<पदान्ताद्वा>> [[6.1.76]] इति वैकल्पिकः तुगागमः]\n→ लक्ष्मीद् छाया [<<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वम्]\n→ लक्ष्मीज् छाया [<<स्तोः श्चुना श्चुः>> [[8.4.40]] इति श्चुत्वम् ]\n→ लक्ष्मीच् छाया [<<खरि च>> [[8.4.55]] इति चर्त्वम् । अग्रे <<चोः कुः>> [[8.2.30]] इति कुत्वम् असिद्धत्वात् न प्रवर्तते ।]\n→ लक्ष्मीच्छाया\n
    \nपक्षे तुगागमं विना 'लक्ष्मीछाया' इत्यपि सिद्ध्यति । \n
    \nइतोऽपि कानिचन उदाहरणानि - \n\n1) प्रिया छात्रा → प्रियाच्छात्रा, प्रियाछात्रा । अत्र समासस्य अभावे वाक्ये विद्यमानां संहितां स्वीकृत्य तुगागमः क्रियते । समासे कृते तु पुंवद्भावे जाते, 'प्रिय' इति स्थिते <<छे च>> [[6.1.73]] इत्यनेन नित्यमेव तुगागमः भवेत् ।\n2) सा छिनत्ति → साच्छिनत्ति, सा छिनत्ति । \n3) मालिनी छन्दः →‌ मालिनीच्छन्दः, मालिनीछन्दः ।\n\n वार्त्तिकम् — <! विश्वजनादीनां छन्दसि वा तुगागमो भवतीति वक्तव्यम्।!> \n'विश्वजन' तथा केषाञ्चन अन्येषां शब्दानां विषये वेदेषु अयं तुगागमः विकल्पेन भवति — इति अस्य वार्त्तिकस्य आशयः । यथा - 'विश्वजनछत्रम्' , 'नछाया' इति तुगागमरहितप्रयोगाः अपि वेदेषु दृश्यन्ते । एतेषाम् साधुत्वज्ञापनार्थम् इदं वार्त्तिकम् निर्मितम् अस्ति । \n बाध्यबाधकभावः\nवस्तुतः दीर्घस्वरस्य विषये <<दीर्घात्>> [[6.1.75]] इत्येनेन नित्यम् तुगागमः उच्यते । परन्तु अयं दीर्घस्वरः यदि पदान्ते विद्यते, तर्हि तं सूत्रं बाधित्वा प्रकृतसूत्रेण विकल्पेन एव तुगागमः विधीयते । अतएव अस्मिन् सूत्रे 'पदान्तात्' तथा 'वा' इति द्वौ शब्दौ प्रयुक्तौ स्तः । \nसूत्ररचना\nअस्मिन् सूत्रे स्थानिवाचकम् षष्ठ्यन्तं पदम् नास्ति । दीर्घात् तथा पदान्तात् इति द्वे पञ्चम्यन्ते पदे, तथा च छे इति सप्तम्यन्तपदम् - इत्येव अत्र उपस्थितानि सन्ति । अस्याम् स्थितौ वस्तुतः <ऽ उभयनिर्देशे पञ्चमीनिर्देशः बलीयान् ऽ> इत्यनया परिभाषया सप्तम्यन्तेन निर्दिष्टस्य पदस्य स्थानिरूपेण ग्रहणं भवेत् । परन्तु अत्र तथा न इष्यते । अत्र पञ्चम्यन्तेन निर्दिष्टस्य पदस्य स्थानिरूपेण ग्रहणम् कृत्वा तस्य तुगागमः क्रियते चेदेव इष्टरूपं सिद्ध्यति । अतः अत्र दीर्घात् तथा पदान्तात् इत्येव पदे षष्ठ्या विपरिणमय्य तयोः स्थानिरूपेण ग्रहणं भवति । \n" }, "61077": { "sa": "इक्-वर्णस्य स्थाने स्वरे परे संहितायाम् यण्-वर्णादेशः भवति । ", "sd": "\nइक् = इ, ई, उ, ऊ, ऋ, ॠ, ऌ ।\nयण् = य्, व्, र्, ल् ।\nअच् = अ, आ, इ, ई, उ, ऊ, ऋ, ॠ, ऌ, ए, ऐ, ओ, औ ।\n\nइक्-वर्णानाम् स्थाने स्वरे परे संहितायाम् यण्-वर्णादेशाः भवन्ति । तत्र <<स्थानेऽन्तरतमः>> [[1.1.50]] इत्यनेन यथोचितम् आदेशाः विधीयन्ते । तद्यथा —\n\n(1) इकार-ईकारयोः स्थाने <<इचुयशानां तालु>> इति उच्चारणस्थानसाधर्म्यात् यकारादेशः भवति ।\n
  • दधि + अत्र → दध् य् + अत्र → दध्यत्र ।\n
  • नदी + ऊर्ध्वम् → नद् य् + ऊर्ध्वम् → नद्यूर्ध्वम् । \n
    \n(2) उकार-ऊकारयोः स्थाने <<उपूपध्मानीयानाम् ओष्ठौ>> तथा च <<वकारस्य दन्तोष्ठम्>> इत्यनयोः 'ओष्ठम्' इति उच्चारणस्थानसाधर्म्यात् वकारादेशः भवति ।\n
  • मधु + इति → मध् व् + इति → मध्विति ।\n
  • वधू + आदेशः → वध् व् + आदेशः → वध्वादेशः ।\n
    \n(3) ऋकार-ॠकारयोः स्थाने <<ऋटुरषाणां मूर्धा>> इति उच्चारणस्थानसाधर्म्यात् रेफादेशः भवति ।\n
  • पितृ + इच्छा → पित् र् + इच्छा → पित्रिच्छा ।\n
  • ॠ + अस्य → र् + अस्य → रस्य ।\n
    \n(4) ऌकारस्य स्थाने <<ऌतुलसानां दन्ताः>> इति उच्चारणस्थानसाधर्म्यात् लकारादेशः भवति ।\n
  • ऌ + आकृतिः → ऌ + आकृतिः → ल् आकृतिः → लाकृतिः ।\n\nबाध्यबाधकभावः\nप्रकृतसूत्रस्य द्वे अपवादसूत्रे स्तः —\n\n1. इक्-वर्णात् परः सवर्णः अच्-वर्णः विद्यते चेत् प्रकृतसूत्रेण उक्तं यणादेशं बाधित्वा <<अकः सवर्णे दीर्घः>> [[6.1.101]] इत्यनेन सवर्णदीर्घादेशः भवति । यथा, नदी + इयम् → नदीयम् इति । \n2. यदिः (दीर्घः) ईकारः ऊकारः वा द्विवचनस्य रूपस्य अन्ते विद्यते, तर्हि प्रकृतसूत्रेण उक्तं यणादेशं बाधित्वा <<प्लुतप्रगृह्या अचि नित्यम्>> [[6.1.125]] इत्यनेन प्रकृतिभावः भवति (इत्युक्ते, सन्धिः न भवति) । यथा, धेनू + इमे → धेनू इमे इति । \n\nसवर्णग्रहणम्\nअस्मिन् सूत्रे 'इक्' तथा 'अच्' एतौ अविधीयमानौ स्तः, अतः एतयोः प्रत्याहारयोः विद्यमानैः वर्णैः सवर्णस्यापि ग्रहणं भवति । इत्युक्ते —\n\n
  • 'इक्' इत्यत्र विद्यमानेन इकार-उकार-ऋकारैः दीर्घभेदस्यापि ग्रहणं सम्भवति । अत्र प्लुतस्य अपि ग्रहणं सम्भवति, परन्तु <<प्लुतप्रगृह्या अचि नित्यम्>> [[6.1.125]] इति सूत्रेण प्लुत-वर्णस्य अच्-वर्णे परे प्रकृतिभावः भवति, अतः तत्र सन्धिः नैव सम्भवति । \n
  • एवमेव अच्-प्रत्याहारे विद्यमानैः वर्णैः अपि दीर्घभेदस्य ग्रहणं क्रियते । अत्र सवर्णग्रहणेन प्लुतभेदस्यापि ग्रहणं सम्भवति, परन्तु प्लुतसंज्ञा त्रिपादीसूत्रैः एव सिद्ध्यति, अतः <<इको यणचि>> [[6.1.77]] सूत्रेण असिद्धत्वात् तत्र मूलः ह्रस्वस्वरः/दीर्घस्वरः एव दृश्यते । \n\nयथासङ्ख्यत्वेन आदेशनिर्णयः\nअत्र इक् तथा यण् इत्यत्र उभयत्र चत्वारः वर्णाः सन्ति, अतः अत्र <<यथासंख्यमनुदेशः समानाम्>> [[1.3.10]] इत्यनेन अपि आदेशनिर्णयः सम्भवति । अतएव न्यासे पदमञ्जर्यां च — इकां यणां च साम्याद् यथासङ्ख्यं भवति — इति निर्देशः कृतः अस्ति ।" }, "61078": { "sa": "एच्-वर्णानाम् स्थाने संहितायाम् स्वरे परे (क्रमेण) अय्-अव्-आय्-आव्- एते आदेशाः भवन्ति । ", "sd": "\nएच् = ए, ओ, ऐ, औ ।\nअच् = अ, आ, इ, ई, उ, ऊ, ऋ, ॠ, ऌ, ए, ऐ, ओ, औ ।\n\nएच्-वर्णानाम् स्थाने स्वरे परे संहितायाम् क्रमेण अय्/अव्/आय्/आव्-एते आदेशाः भवन्ति । <<यथासंख्यमनुदेशः समानाम्>> [[1.3.10]] इत्यनेन अत्र यथासङ्ख्यम् आदेशविधानम् क्रियते । तद्यथा —\n(1) एकारस्य स्थाने अय्-आदेशः भवति ।\n\nचिञ् (चयने, स्वादिः, <{5.5}>)\n→ चि [ञकारस्य <<हलन्त्यम्>> इति इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ चि + अनीयर् [<<तव्यत्तव्यानीयरः>> [[3.1.96]] इति अनीयर्-प्रत्ययः]\n→ चे + अनीय [<<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणः]\n→ च् अय् + अनीय [<<एचोऽयवायावः>> [[6.1.78]] इति एकारस्य अयादेशः]\n→ चयनीय\n\nअन्यद् उदाहरणम् —\n\nवने + इति \n→ वन् अय् इति [<<एचोऽयवायावः>> [[6.1.78]] इति एकारस्य अयादेशः]\n→ वनयिति, वन इति [ <<लोपः शाकल्यस्य>> [[8.3.19]] इत्यनेन विकल्पेन यकारलोप:]\n \n(2) ओकारस्य स्थाने अव्-आदेशः भवति ।\n\nभू (सत्तायाम्, स्वादिः, <{1.1}>)\n→ भू + अनीयर् [<<तव्यत्तव्यानीयरः>> [[3.1.96]] इति अनीयर्-प्रत्ययः]\n→ भो + अनीय [<<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणः]\n→ भ् अव् + अनीय [<<एचोऽयवायावः>> [[6.1.78]] इति ओकारस्य अवादेशः]\n→ भवनीय\n\nअन्यद् उदाहरणम् — \n\nसाधो + इति \n→ साध् अव् इति [<<एचोऽयवायावः>> [[6.1.78]] इति ओकारस्य अवादेशः]\n→ साधविति, साध इति [<<लोपः शाकल्यस्य>> [[8.3.19]] इत्यनेन विकल्पेन वकारलोप:]\n\n(3) ऐकारस्य स्थाने आय्-आदेशः भवति ।\n\nचिञ् (चयने, स्वादिः, <{5.5}>)\n→ चि [ञकारस्य <<हलन्त्यम्>> इति इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ चि + ण्वुल् [<<ण्वुल्तृचौ>> [[3.1.133]] इति ण्वुल्-प्रत्ययः]\n→ चि + अक [<<युवोरनाकौ>> [[7.1.1]] इति अक-आदेशः]\n→ चै + अक [<<अचो ञ्णिति>> [[7.2.115]] इति वृद्धिः\n→ च् आय् + अक [<<एचोऽयवायावः>> [[6.1.78]] इति ऐकारस्य आयादेशः]\n→ चायक\n\nअन्यद् उदाहरणम् — \n\nवन्दै + इति \n→ वन्द् आय् + इति [<<एचोऽयवायावः>> [[6.1.78]] इति ऐकारस्य आयादेशः]\n→ वन्दायिति, वन्दा इति [<<लोपः शाकल्यस्य>> [[8.3.19]] इत्यनेन विकल्पेन यकारलोप:]\n\n(4) औकारस्य स्थाने आव्-आदेशः भवति ।\n\nभू (सत्तायाम्, स्वादिः, <{1.1}>)\n→ भू + ण्वुल् [<<ण्वुल्तृचौ>> [[3.1.133]] इति ण्वुल्-प्रत्ययः]\n→ भू + अक [<<युवोरनाकौ>> [[7.1.1]] इति अक-आदेशः]\n→ भौ + अक [<<अचो ञ्णिति>> [[7.2.115]] इति वृद्धिः]\n→ भ् आव् + अक [<<एचोऽयवायावः>> [[6.1.78]] इति औकारस्य आवादेशः]\n→ भावक\n\nअन्यद् उदाहरणम् — \n\nबालौ + इति \n→ बाल् आव् + इति, बाला इति [<<लोपः शाकल्यस्य>> [[8.3.19]] इत्यनेन विकल्पेन यकारलोपः]\n→ बालाविति\n \nबाध्यबाधकभावः\nप्रकृतसूत्रस्य द्वे अपवादसूत्रे स्तः —\n1. पदान्त-एकार-ओकारात् परः अकारः विद्यते चेत् अयादेशं बाधित्वा <<एङः पदान्तादति>> [[6.1.109]] इत्यनेन पूर्वरूप-एकादेशः भवति । यथा, वने + अस्मिन् → वनेऽस्मिन् इति ।\n2. यदिः एकारः वचनस्य रूपस्य अन्ते विद्यते, तर्हि <<ईदूदेद्द्विवचनं प्रगृह्यम्>> [[1.1.11]] इत्यनेन तस्य प्रगृह्यसंज्ञा भवति, ततः च प्रकृतसूत्रेण उक्तं अयादेशं बाधित्वा <<प्लुतप्रगृह्या अचि नित्यम्>> [[6.1.125]] इत्यनेन प्रकृतिभावः भवति (इत्युक्ते, सन्धिः न भवति) । यथा, पचेते + इमे → पचेते इमे इति ।\n <<लोपः शाकल्यस्य>> [[8.3.19]] इति सूत्रम् प्रकृतसूत्रस्य अपवादः नास्ति। <<लोपः शाकल्यस्य>> [[8.3.19]] इत्यस्य प्रयोगः प्रकृतसूत्रस्य प्रयोगात् अनन्तरम् एव सम्भवति । यदि <<लोपः शाकल्यस्य>> [[8.3.19]] इति न प्रयुज्यते, तर्हि केवलम् वर्णमेलनं कृत्वा अन्तिमं रूपं सिद्ध्यति —\n\nवने + इति\n→ वन् अय् + इति [<<एचोऽयवायावः>> [[6.1.78]] इति अयादेशः]\n→ वन इति / वनयिति [<<लोपः शाकल्यस्य>> [[8.3.19]] इति पाक्षिकः यकारलोपः]\n\nयकारवकारयोः इत्संज्ञा न\nअस्मिन् सूत्रे दत्तेषु 'अय्', 'अव्', 'आय्', 'आव्' एतेषु आदेशेषु यद्यपि औपदेशिकस्वरूपे हल्-वर्णः (यकारः / वकारः) अन्ते विद्यते, तथापि एतयोः यकारवकारयोः प्रयोजनाभावात् इत्संज्ञा न भवति ।\n<<इको यणचि>>, <<एचोऽयवायावः>> च एतयोः एकत्रीकरणम्\n<<इको यणचि>> [[6.1.77]] इति सूत्रम् <<एचोऽयवायावः>> [[6.1.78]] इति सूत्रेण सह एकत्रीकृत्य <<इचोऽचि यणयवायावः>> इति एकमेव सूत्रम् निर्मातुम् शक्यम्, इति अस्य सूत्रस्य बालमनोरमाव्याख्याने निर्दिष्टम् अस्ति । " }, "61079": { "sa": "ओकार-औकारयोः यकारादि-प्रत्यये परे संहितायाम् क्रमेण अव्/आव् आदेशौ भवन्तः । ", "sd": "<<एचोऽयवायावः>> [[6.1.78]] इति सूत्रेण एच्-वर्णस्य स्थाने अचि परे यः वान्तः (वकारान्तः) आदेशः उच्यते, सः यकारादिप्रत्यये परे अपि भवति इति अस्य सूत्रस्य अर्थः । \n<<एचोऽयवायावः>> [[6.1.78]] इत्यस्मिन् सूत्रे आहत्य द्वौ वान्तौ आदेशौ पाठितौ स्तः - ओकारस्य स्थाने अव्, तथा च औकारस्य स्थाने आव् । एतयोः द्वयोः एव विषये यकारादौ प्रत्यये परे इदं सूत्रं प्रवर्तते । तत्र यथासङ्ख्यत्वात् ओकारस्य स्थाने अव्-आदेशः तथा औकारस्य स्थाने आव्-आदेशः विधीयते । यथा —\n1. ओकारस्य अवादेशः —\n\nगोः विकारः [तद्धितवृत्तिः]\n→ गो + यत् [<<गोपसोर्यत्>> [[4.3.160]] इत्यनेन यत्-प्रत्ययः]\n→ गव् + य [<<वान्तो यि प्रत्यये>> [[6.1.79]] इति ओकारस्य अव्-आदेशः]\n→ गव्य\n\nअन्यद् उदाहरणम् —\n\nबभ्रोः गोत्रापत्यम् [तद्धितवृत्तिः]\nबभ्रु + यञ् [<<मधुबभ्र्वोर्ब्राह्मणकौशिकयोः>> [[4.1.106]] इति यञ्-प्रत्ययः]\n→ बाभ्रु + यञ् [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः ]\n→ बाभ्रो + यञ् [<<ओर्गुणः>> [[6.4.146]] इत्यनेन गुणः]\n→ बाभ्रव् + य [<<वान्तो यि प्रत्यये>> [[6.1.79]] इति ओकारस्य अव्-आदेशः]\n→ बाभ्रव्य\n\n2) औकारस्य स्थाने आव्-आदेशः —\n\nनावा तार्यम् [तद्धितवृत्तिः]\n→ नौ + यत् [<<नौवयोधर्मविषमूल...>> [[4.4.91]] इति यत्-प्रत्ययः]\n→ नाव् + यत् [<<वान्तो यि प्रत्यये>> [[6.1.79]] इति औकारस्य आव्-आदेशः]\n→ नाव्य\n\nअन्यद् उदाहरणम् —\n\nनावम् आत्मनः इच्छति [सनाद्यन्तधातुवृत्तिः]\nनौ + क्यच् [<<सुप आत्मनः क्यच्>> [[3.1.8]] इति क्यच्-प्रत्ययः]\n→ नाव्+ य [<<वान्तो यि प्रत्यये>> [[6.1.79]] इति औकारस्य आव्-आदेशः ]\n→ नाव्य [<<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञा]\n\nअस्य सूत्रस्य प्रसक्तिः केवलम् प्रातिपदिकेभ्यः विहितानाम् प्रत्ययानाम् विषये एव भवति, यतः धातुभ्यः विहितानां प्रत्ययानां विषये एतं सूत्रं बाधित्वा <<धातोस्तन्निमित्तस्यैव>> [[6.1.80]] इति अग्रिमं सूत्रं प्रवर्तते ।\nगो-शब्दात् संहितायाम् युति-शब्दः\n'यूति' इति शब्दः <<ऊतियूतिजूतिसातिहेतिकीर्तयश्च>> [[3.3.97]] अनेन सूत्रेण निपात्यते । अयम् शब्दः यदा 'गो' इत्यस्मात् अनन्तरपम् संहितायाम् प्रयुज्यते, तदा गो + यूति इत्यत्र कासुचन स्थितिषु गो-शब्दस्य ओकारस्य अवादेशं कृत्वा गव्यूति इति रूपं सिद्ध्यति । अस्मिन् सन्दर्भे वार्त्तिककारः द्वे वार्त्तिके पाठयति —\n1. — वेदेषु 'यूति'-शब्दे परे गो-शब्दस्य ओकारस्य स्थाने अव्-इति वान्तादेशः भवति । यथा — आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम्' (ऋग्वेदः - 3.62.16) —इत्यत्र 'गव्यूति' इति शब्दः 'गावः यस्मिन् भूमौ चरन्ति सा' — इत्यर्थे प्रयुक्तः अस्ति ।\n2. — मार्गपरिमाणम् (इत्युक्ते, अन्तरस्य गणनाम्) दर्शयितुम् गो + युति इत्यत्र ओकारस्य वान्तादेशः भवति । यथा - गव्यूतिमात्रम् अध्वानं गतः इति प्रयोगः भाषायां दृश्यते । सः केवलं एकगव्युतिम् यावत् अन्तरं गतवान् इत्यर्थः । सामान्यरूपेण 1 गव्युतिः = 0.25 योजनम् = 2.27 miles = 3.65 km.\nगो + युति इत्यत्र ओकारस्य अव्-आदेशे कृते <<हलि सर्वेषाम्>> [[8.3.22]] इत्यनेन प्राप्तः वैकल्पिकः वकारलोपः न भवति । अस्य स्पष्टीकरणार्थम् सिद्धान्तकौमुद्यां दीक्षितः वदति —\n\nवान्तः इत्यत्र वकाराद् गोर्युतौ इत्यत्र छकाराद् वा पूर्वभावे लोपो व्योर्वलि इति लोपेन वकारः प्रश्लिष्यते । तेन श्रूयमाणवकारान्तः आदेशः स्यात् । वकारः न लुप्यते इति यावत् । सिद्धान्तकौमुदी - 6.1.79 ॥\n\n'वान्तः' इति शब्दः वस्तुतः 'व्वान्तः' इति द्वि-वकारकः अस्ति, एवमेव प्रथमवार्त्तिके 'छन्दसि' इति शब्दः 'व्छन्दसि' इति वकारादिः ग्रहीतव्यः — इति अत्र दीक्षितः प्रतिपादयति । अत्र वकारस्य अधिकरूपेण ग्रहणम् 'वकारस्य लोपः मा भूत्' इति ज्ञापयितुम् क्रियते (using an unnecessary copy of a letter to stress that such a letter must always be present), अतः प्रक्रियायाम् <<हलि सर्वेषाम्>> [[8.3.22]] इत्यनेन प्राप्तः वकारलोपः न भवति । एतस्य अधिकवकाेरस्य लोपः तु <<लोपो व्योर्वलि>> [[6.1.66]] इत्यनेन अवश्यं भवति, अतः सूत्रे अपि 'वान्तः' / 'छन्दसि' इति एकवकारकः शब्दः एव श्रूयते । \nभाष्ये तु अस्मिन् विषये किमपि प्रतिपादितं न दृश्यते ।\n" }, "61080": { "sa": "यकारादौ प्रत्यये परे संहितायाम् धातोः ओकार-औकारयोः वान्तादेशः तदा एव भवति यदा सः ओकारः/औकारः तेन यकारादि-प्रत्ययेन निर्मितः अस्ति ।", "sd": "यकारादि-प्रत्यये परे प्रकृतेः अन्ते विद्यमानयोः ओकार-औकारयोः यथासङ्ख्यम् 'अव्' / 'आव्' आदेशः भवति — अस्य <<वान्तो यि प्रत्यये>> [[6.1.79]] इति पूर्वसूत्रैण उक्तस्य विधेः प्रकृतसूत्रेण नियमनम् भवति । यदि कश्चन यकारादि-प्रत्ययः धातोः परः आगच्छति, तर्हि <<वान्तो यि प्रत्यये>> [[6.1.79]] इत्यनेन ओकार/औकारयोः प्राप्तौ अव्/आव्-आदेशौ तदा एव भवतः यदा तौ ओकार-औकारौ तेन यकारादि-प्रत्ययेनैव निर्मितौ स्तः — इति प्रकृतसूत्रस्य आशयः । कानिचन उदाहरणानि एतानि —\n1. लूञ् (छेदने) धातोः <<अचो यत्>> [[3.1.97]] अनेन सूत्रेण यत् प्रत्यये कृते <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इत्यनेन उकारस्य गुणादेशः ओकारः विधीयते । अत्र ओकारादेशः प्रत्ययेन निर्मितः अस्ति, अतः अस्य ओकारस्य अवादेशः अवश्यं भवति । प्रक्रिया इयम् —\n\nलूञ् (छेदने, क्र्यादिः, <{9.16}>)\n→ लू + यत् [<<अचो यत्>> [[3.1.97]] इति यत्-प्रत्ययः]\n→ लो + य [<<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणः]\n→ लव् + य [ओकारः यत्-प्रत्ययेन निर्मितः अस्ति, अतः <<धातोस्तन्निमित्तस्यैव>> [[6.1.80]] इत्यनेन ओकारस्य अवादेशः भवति ।]\n→ लव्य\n\n2. तथैव, लूञ् (छेदने) धातोः ण्यत्-प्रत्यये परे अपि इदं सूत्रम् उपयुज्य आवादेशः भवति । प्रक्रिया इयम् —\n\nलूञ् (छेदने, क्र्यादिः, <{9.16}>)\nलूञ् + ण्यत् [<<ओरावश्यके>> [[3.1.125]] इति ण्यत् ]\n→ लौ + य [<<अचो ञ्णिति>> [[7.2.115]] इति वृद्धिः]\n→ लाव्य [औकारस्य निर्माणम् यकारादिप्रत्ययेन क्रियते, अतः अस्य औकारस्य <<धातोस्तन्निमित्तस्यैव>> [[6.1.80]] इति औकारस्य आव्-आदेशः]\n\nसूत्रे 'तन्निमित्तस्य' इति ग्रहणस्य प्रयोजनम्\nयदि यकारात् पूर्वम् उपस्थितः ओकारः/औकारः धातुनिर्मितः नास्ति, तर्हि <<वान्तो यि प्रत्यये>> [[6.1.79]] इत्यनेन निर्दिष्टः अव्/आव्-आदेशः न भवति — इति स्पष्टीकर्तुम् <<धातोस्तन्निमित्तस्यैव>> [[6.1.80]] इत्यस्मिन् सूत्रे 'तन्निमित्तस्य' इति अंशः स्थापितः अस्ति । यथा, 'आ + वेञ्' इत्यस्य कर्मणि-लट्-प्रथमपुरुषैकवचनस्य प्रक्रियायाम् ओकारादेशः न क्रियते । प्रक्रिया इयम् —\n\nवेञ् (तन्तुसन्ताने, भ्वादिः, <{1.1161}>)\n→ आ + वेञ् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट् ]\n→ आ + वे + त [<<भावकर्मणोः>> [[1.3.13]] इति आत्मनेपदम् । <<तिप्तस्झि..>> [[3.4.78]] इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य 'त' प्रत्ययः]\n→ आ + वे + यक् + त [<<सार्वधातुके यक्>> [[3.1.67]] इति यक्-विकरणम्]\n→ आ + उ + य + त [<<वचिस्वपियजादीनां किति>> [[6.1.15]] इति सम्प्रसारणम् , <<सम्प्रसारणाच्च>> [[6.1.108]] इति पूर्वरूपम्]\n→ आ + उ + य + ते [<<टित आत्मनेपदानां टेरे>> [[3.4.79]] इति एकारः]\n→ ओ + य + ते [आकार-उकारयोः <<आद्गुणः>> [[6.1.87]] इति गुण-एकादेशः । अत्र धातोः ओकारात् परः यद्यपि प्रत्ययस्य यकारः अस्ति, तथापि अत्र ओकारस्य अव्-आदेशः न भवति, यतः अयम् ओकारः य-प्रत्ययेन निर्मितः नास्ति, <<आद्गुणः>> [[6.1.87]] इत्यनेन निर्मितः अस्ति ।]\n→ ओयते \n\nएवमेव, अस्यैव वेञ्-धातोः कर्मणि-प्रयोगे लङ्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रियायाम् आवादेशः न भवति —\n\nवेञ् (तन्तुसन्ताने, भ्वादिः, <{1.1161}>)\n→ वेञ् + लङ् [<<अनद्यतने लङ्>> [[3.2.111]] इति लङ्]\n→ वेञ् + त [<<भावकर्मणोः>> [[1.3.13]] इति आत्मनेपदम् । <<तिप्तस्झि..>> [[3.4.78]] इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य 'त' प्रत्ययः । यद्यपि 'लावस्थायाम् अट्' इति सिद्धान्तेन अडागमः लावस्थायाम् एव करणीयः, तथापि वेञ्-धातोः वकारस्य अग्रे भविष्यमाणम् उकारादेशं दृष्ट्वा अयम् अडागमः <ऽअकृतव्यूहाः पाणिनीयाःऽ> अनया परिभाषया आदौ एव न प्रवर्तते । ]\n→ वेञ् + यक् + त [<<सार्वधातुके यक्>> [[3.1.67]] इति यक्-विकरणम्]\n→ उ + य + त [<<वचिस्वपियजादीनां किति>> [[6.1.15]] इति सम्प्रसारणम् , <<सम्प्रसारणाच्च>> [[6.1.108]] इति पूर्वरूपम्]\n→ आट् + उ + य + त [<<आडजादीनाम्>> [[6.4.72]] इति आडागमः । ]\n→ औ + य + त [<<आटश्च>> [[6.1.90]] इति वृद्धि-एकादेशः । <ऽयदागमास्तद्गुणीभूतास्तद्ग्रहणेन गृह्यन्तेऽ> इति न्यायेन धातुग्रहणेन आडागमस्यापि ग्रहणे कृते, औकारः धातोः अन्ते वर्तते । तथापि अत्र औकारस्य आव्-आदेशः न भवति, यतः अयम् औकारः य-प्रत्ययेन निर्मितः नास्ति अपितु <<आटश्च>> [[6.1.90]] इत्यनेन निर्मितः अस्ति ।\n→ औयत \n\nसूत्रे 'एव' इति ग्रहणस्य प्रयोजनम्\nअस्मिन् सूत्रे विद्यमानः 'एव' इति शब्दः नियमार्थः प्रयुज्यते, सः च 'धातोः' इति शब्देन सह अन्वेति । धातोः एव तन्निमित्तस्य, प्रातिपदिकात् तु तन्निमित्तस्य, अतन्निमित्तस्य च — इति अत्र आशयः । इत्युक्ते, प्रातिपदिकात् यदा यकारादिप्रत्ययः विधीयते, तदा प्रातिपदिके विद्यमानः ओकारः यद्यपि प्रत्ययनिर्मितः नास्ति, तथापि अव्/आव्-आदेशः अवश्यं भवति । अतएव नौ + यत् → नाव्यम् इति उदाहरणम् <<वान्तो यि प्रत्यये>> [[6.1.79]] इत्यत्र सङ्गच्छते । " }, "61081": { "sa": "'शक्यम्' अस्मिन् अर्थे 'क्षय्य' तथा 'जय्य' एतौ शब्दौ निपात्येते ।", "sd": "यदा क्षि (क्षये) तथा च जि (जये) एताभ्याम् धातुभ्याम् 'शक्यम्' अस्मिन् अर्थे यदा 'यत्' इति प्रत्ययः विधीयते, तदा प्रकृतसूत्रेण 'क्षय्य' तथा 'जय्य' इति रूपे निपात्येते । तद्यथा —\n1) क्षेतुम् शक्यम् इत्यस्मिन् अर्थे क्षि-धातोः यत्-प्रत्यये कृते अयादेशः निपात्यते, येन 'क्षय्य' इति रूपं सिद्ध्यति । यस्य क्षयं कर्तुम् शक्यम्, तत् क्षय्यम् । यथा, क्षय्यम् धनम् । प्रक्रिया इयम् —\n\nक्षि (क्षये, भ्वादिः, <{1.269}>)\n→ क्षि + यत् [<<अचो यत्>> [[3.1.97]] इति यत्-प्रत्ययः]\n→ क्षे + य [<<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणः]\n→ क्षय् य [प्रकृतसूत्रेण एकारस्य अयादेशः निपात्यते ।]\n→ क्षय्य\n\n2) जेतुम् शक्यम् इत्यस्मिन् अर्थे जि-धातोः यत्-प्रत्यये कृते अयादेशः निपात्यते, येन 'जय्य' इति रूपं सिद्ध्यति । यस्मिन् जयं प्राप्तुम् शक्यम्, तत् जय्यम् । यथा, जय्यः शत्रुः । प्रक्रिया इयम् —\n\nजि (अभिभवे, भ्वादिः, <{1.1096}>)\n→ जि + यत् [<<अचो यत्>> [[3.1.97]] इति यत्-प्रत्ययः]\n→ जे + य [<<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणः]\n→ जय् य [प्रकृतसूत्रेण एकारस्य अयादेशः निपात्यते ।]\n→ जय्य\n\nक्षयः, क्षेयम्, क्षय्यम् ; जयः, जेयम्, जय्यम्\nक्षय, क्षेय तथा क्षय्य - एते त्रयः भिन्नार्थकाः शब्दाः सन्ति —\n\n1. क्षि-धातोः <<एरच्>> [[3.3.56]] इत्यनेन भावे अच्-प्रत्यये कृते क्षय शब्दः सिद्ध्यति । विनाशः / न्यूनीभवनम् (Reduction / Decay / Destruction) इति अर्थः । यथा — शत्रूणाम् क्षयः जातः । समृद्धेः अक्षयः इष्यते । \n2. क्षि-धातोः 'शक्यम्' इत्यस्मिन् <<अचो यत्>> [[3.1.97]] इति यत्-प्रत्यये कृते प्रकृतसूत्रेण क्षय्य इति शब्दः निपात्यते । क्षेतुम् शक्यम् (capable of getting reduced) इति अर्थः । यथा — धनम् क्षय्यम् । विद्या अक्षय्या । \n3. क्षि-धातोः भावकर्मणोः अर्थयोः <<अचो यत्>> [[3.1.97]] इति यत्-प्रत्यये कृते क्षेय इति शब्दः सिद्ध्यति । क्षेतुम् योग्यम् (appropriate for getting destroyed) इति अर्थः । यथा — पापम् क्षेयम् , अहङ्कारः क्षेयः ।\n\nअनेनैव प्रकारेण जय, जेय तथा जय्य - एते त्रयः अपि भिन्नार्थकाः शब्दाः सन्ति —\n\n1. जि-धातोः <<एरच्>> [[3.3.56]] इत्यनेन भावे अच्-प्रत्यये कृते जय शब्दः सिद्ध्यति । अभिभवः (win) इति अर्थः । यथा — राज्ञः जयः जातः । \n2. जि-धातोः 'शक्यम्' इत्यस्मिन् <<अचो यत्>> [[3.1.97]] इति यत्-प्रत्यये कृते प्रकृतसूत्रेण जय्य इति शब्दः निपात्यते । जेतुम् शक्यम् (capable of winning) इति अर्थः । यथा — शत्रुः जय्यः । अर्जुनः अजय्यः । \n3. क्षि-धातोः भावकर्मणोः अर्थयोः <<अचो यत्>> [[3.1.97]] इति यत्-प्रत्यये कृते जेय इति शब्दः सिद्ध्यति । क्षेतुम् योग्यम् (appropriate for winning over) इति अर्थः । यथा — मनः जेयम् । \n\n " }, "61082": { "sa": "'क्रय्य' शब्दः 'क्रेतुमुपलब्धम्' अस्मिन् अर्थे निपात्यते ।", "sd": "यदा क्री (द्रव्यविनिमये) अस्मात् धातोः 'उपलब्धम्' अस्मिन् अर्थे 'यत्' इति प्रत्ययः विधीयते, तदा प्रकृतसूत्रेण 'क्रय्य' इति शब्दः निपात्यते । \n1) क्रेतुम् उपलब्धम् (available for purchased) तत् क्रय्यम् । यथा, क्रय्याणि फलानि । प्रक्रिया इयम् —\n\nडुक्रीञ् (द्रव्यविनिमये, क्र्यादिः, <{9.1}>)\n→ क्री [<<आदिर्ञिटुडवः>> [[1.3.5]], <<हलन्त्यम्>> [[1.3.3]], <<तस्य लोपः>> [1.3.9]]]\n→ क्री + यत् [<<अचो यत्>> [[3.1.97]] इति यत्-प्रत्ययः]\n→ क्रे + य [<<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणः]\n→ क्रय् य [प्रकृतसूत्रेण एकारस्य अयादेशः निपात्यते ।]\n→ क्रय्य\n\nक्रयः, क्रेयम्, क्रय्यम् \nक्रय, क्रेय तथा क्रय्य - एते त्रयः भिन्नार्थकाः शब्दाः सन्ति —\n\n1. क्री-धातोः <<एरच्>> [[3.3.56]] इत्यनेन भावे अच्-प्रत्यये कृते क्रय शब्दः सिद्ध्यति । क्रयणम् (act of purchasing) इति अर्थः । यथा — वस्तूनाम् क्रयः कृतः ।\n2. क्री-धातोः 'उपलब्धम्' इत्यस्मिन् <<अचो यत्>> [[3.1.97]] इति यत्-प्रत्यये कृते प्रकृतसूत्रेण क्रय्य इति शब्दः निपात्यते । क्रेतुम् उपलब्धम् (available for purchase) इति अर्थः । यथा — फलानि क्रय्याणि ।\n3. क्री-धातोः भावकर्मणोः अर्थयोः <<अचो यत्>> [[3.1.97]] इति यत्-प्रत्यये कृते क्षेय इति शब्दः सिद्ध्यति क्रेतुम् योग्यम् (appropriate for purchasing) इति अर्थः । यथा — वस्त्रम् क्रेयम् । दूषितानि फलानि यद्यपि क्रय्याणि, तथापि न क्रेयाणि ।\n\n\n" }, "61083": { "sa": "वेदेषु - 'भय्य' तथा 'प्रवय्या' एतौ शब्दौ निपात्येते ।", "sd": "यदा भी (भये) तथा च वी (प्रजनादिषु) एताभ्याम् धातुभ्याम् यत्-प्रत्ययः भवति, यदा वेदेषु अयादेशं निपात्य रूपं प्रयुक्तं दृश्यते । तद्यथा —\n1) बिभेति अस्मात् (the one from which someone is afraid) अस्मिन् अर्थे भी-धातोः यत्-प्रत्यये कृते 'भय्य' इति शब्दः सिद्ध्यति । प्रक्रिया इयम् —\n\nबिभेति अस्मात् [कृद्वृत्तिः]\n→ ञिभी (भये, जुहोत्यादिः <{3.2}>)\n→ भी [<<आदिर्ञिटुडवः>> [[1.3.5]],<<तस्य लोपः>> [1.3.9]]]\n→ भी + यत् [<<कृत्यल्युटो बहुलम्>> [[3.3.113]] इति अपादाने यत्-प्रत्ययः]\n→ भे + य [<<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणः]\n→ भय् + य [प्रकृतसूत्रेण अयादेशः निपात्यते ]\n→ भय्य\n\n2) प्रवीयते इति (the one that is being impregnated) अस्मिन् अर्थे प्र-उपसर्गपूर्वात् वी-धातोः यत्-प्रत्यये कृते 'प्रवय्या' इति शब्दः सिद्ध्यति । प्रक्रिया इयम् —\n\nप्र + वी (गतिव्याप्तिप्रजनकान्त्यसनखादनेषु, अदादिः <{2.43}>)\n→ प्र + वी + यत् + आ [<<अचो यत्>> [[3.1.97]] इति यत्-प्रत्ययः । स्त्रीत्वं द्योतयितम् <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्-प्रत्ययः]\n→ प्र + वे + य + आ [<<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणः]\n→ प्र + वय् + य + आ [प्रकृतसूत्रेण अयादेशः निपात्यते ]\n→ प्रवय्या [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घादेशः]\n\nइदं सूत्रं वैदिकशब्दानाम् सिद्ध्यर्थम् एव प्रयुज्यते । लोके तु 'भेय' तथा 'प्रवेया' इत्येव रूपे भवतः ।\nवार्त्तिकम् - <!हृदय्या आपः उपसङ्ख्यानम्!> \n'हृद' शब्दात् तद्धितसंज्ञके यत्-प्रत्यये परे अकारस्य 'अय्' आदेशः निपात्यते, येन 'हृदय्य' इति शब्दः सिद्ध्यति — इति अस्य वार्त्तिकस्य आशयः । प्रक्रिया इयम्‌ —\n\nहृदे भवः [तद्धितवृत्तिः]\nहृद + यत् + टाप् [<<तत्र भवः>> [[4.3.53]] इत्यस्मिन् अर्थे <<शरीरावयवाच्च>> [[4.3.55]] इत्यनेन यत्-प्रत्ययः । स्त्रीत्वं द्योतयितम् <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्-प्रत्ययः]\nहृद् अय् + य + आ [अकारस्य अयादेशः निपात्यते]\n→ हृदय्या [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घादेशः]\n\nअस्य शब्दस्य प्रयोगः 'हृदय्याः आपः' अनेन प्रकारेण कृतः दृश्यते । अस्य प्रयोगस्य सिद्ध्यर्थम् एव इदं वार्त्तिकम् निर्मितम् अस्ति ।" }, "61084": { "sa": "इतः आरभ्य <<ऋतः उत्>> [[6.1.111]] इति यावत् यः कोऽपि आदेशः उच्यते सः पूर्वपरयोः उभयोः स्थाने एकादेशः भवति । ", "sd": "इदम् अधिकारसूत्रम् । अस्य सूत्रस्य अधिकारः <<ऋतः उत्>> [[6.1.111]] इति सूत्रम् यावत् प्रचलति । अस्मिन् अधिकारे उक्ताः आदेशाः पूर्वपरयोः स्थाने एकत्ररूपेण (इत्युक्ते, एकादेशरूपेण) भवन्ति इति अनेन अधिकारेण उच्यते । पूर्ववर्णस्य तथा परवर्णस्य उभयोः स्थाने मिलित्वा एकः एव आदेशः विधीयते (Two entities get replaced by one entity) इति अस्य अर्थः । यथा, अस्मिन् अधिकारे पाठितेन <<आद्गुणः>> [[6.1.87]] इति सूत्रेण अकार-इकारस्यः स्थाने एकत्ररूपेण एकारादेशः भवति । \n<<रदाभ्यां निष्ठातो नः पूर्वस्य च दः>> [[8.2.42]] इत्यनेन सूत्रेण रेफदकारयोः स्थाने पृथग्-पृथग्-रूपेण समानः एव (नकारादेशः) भवति । तादृशम् अत्र न इष्यते, अपि तु अत्र पूर्वपरयोः स्थाने मिलित्वा एकः एव आदेशः इष्यते । एतत् स्पष्टीकर्तुम् एव अस्मिन् सूत्रे एक-शब्दस्य ग्रहणं कृतम् अस्ति ।\nअयम् अधिकारः <<संहितायाम्>> [[6.1.72]] इत्यस्मिन् अधिकारे एव वर्तते, अतः अस्मिन् अधिकारे उक्तानि सर्वाणि अपि कार्याणि संहितायाः विषये एव भवन्ति । \n\n" }, "61085": { "sa": "'एकः पूर्वपरयोः' अस्मिन् अधिकारे उक्तः एकादेशः पूर्वशब्दस्य अन्तिमवर्णवत्, तथा परशब्दस्य आदिवर्णवत् भवति । ", "sd": "<<एकः पूर्वपरयोः>> [[6.1.84]] अस्मिन् अधिकारे विद्यमानैः सूत्रैः उक्ताः आदेशाः पूर्व-पर-शब्दयोः स्थाने एकादेशरूपेण विधीयन्ते । एते आदेशाः पूर्वशब्दस्य अन्तिमवर्णरूपेण गृह्यन्ते, परशब्दस्य च आदिरूपेण अपि गृह्यन्ते — इति प्रकृतसूत्रस्य आशयः । कानिचन उदाहरणानि एतादृशानि —\n1. 'ब्रह्मबन्धु' इति शब्दात् <<ऊङुतः>> [[4.1.66]] इत्यनेन ऊङ्-इति स्त्रीप्रत्ययं प्रयुज्य 'ब्रह्मबन्धू' इति शब्दः सिद्ध्यति । अत्र प्रक्रियायाम् 'ब्रह्मबन्धु' शब्दस्य अन्तिमः उकारः, तथा च 'ऊङ्' प्रत्ययस्य आदिस्थः ऊकारः - एतयोः <<अकः सवर्णे दीर्घः>> [[6.1.101]] इत्यनेन सवर्णैकादेशे कृते 'ऊ' इति सिद्ध्यति । <<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सूत्रम् <<एकः पूर्वपरयोः>> [[6.1.84]] अस्मिन् अधिकारे पाठितम् अस्ति; अतः अयम् 'ऊ' इति एकादेशः पूर्वशब्दस्य अन्तिमवर्णवर्णवत् भवति; इत्युक्ते 'ब्रह्मबन्धु' शब्देन 'ब्रह्मबन्धू' इत्यस्यापि ग्रहणं सम्भवति । अस्य किं प्रयोजनम् इति चेत्, ब्रह्मबन्धू-शब्दः वस्तुतः प्रातिपदिकसंज्ञकः नास्ति, तथा च आबन्तः / ङ्यन्तः अपि नास्ति, अतः <<ङ्याप्प्रातिपदिकात्>> [[4.1.1]] इत्यस्मिन् अधिकारे उक्ताः सुबादयः प्रत्ययाः अस्मात् शब्दात् नैव भवितुम् शक्नुवन्ति; परन्तु 'ब्रह्मबन्धु'शब्देनैव 'ब्रह्मबन्धू'शब्दस्यापि ग्रहणे कृते 'ब्रह्मबन्धु'शब्दस्य प्रातिपदिकसंज्ञा 'ब्रह्मबन्धू' इत्यत्रापि अतिदिश्यते, येन ब्रह्मबन्धूशब्दात् सुबादयः प्रत्ययाः भवितुम् अर्हन्ति ।\n2. बाल-शब्दस्य प्रथमाद्विवचनस्य रूपे 'बाल + औ' इत्यत्र <<वृद्धिरेचि>> [[6.1.88]] इति वृद्धि-एकादेशे कृते 'बालौ' इति सिद्ध्यति । अत्र अकार-औकारयोः एकादेशः कृतः दृश्यते । अयम् एकादेशः अत्र परशब्दस्य ('औ' इत्यस्य) आदिवर्णवत् भवति, अतः 'औ' इति परशब्दस्य सुप्-प्रत्ययत्वम् 'औ' इति एकादेशे अपि अतिदिश्यते, येन 'बालौ' इति शब्दः सुबन्तत्वं स्वीकरोति, अतश्च पदसंज्ञां अपि प्राप्नोति । \nअयम् कार्यातिदेशः\nएतत् अतिदेशसूत्रम् अस्ति, यतः अनेन सूत्रेण एकादेशस्य पूर्वशब्दवत्, परशब्दवत् वा प्रयोगः अनुमन्यते ।अयम् अतिदेशः कार्यातिदेशः अस्ति । इत्युक्ते, अनेन सूत्रेण केवलम् कार्यस्य एव अतिदेशः क्रियते; रूपस्य उत अर्थस्य न । यथा, 'ब्रह्मबन्धु' इत्यस्य शब्दस्य उकारान्तत्वम् (रूपम्) उत अर्थः (पुंलिङ्गवाचिनि अर्थः) ब्रह्मबन्धू-शब्दे नातिदिश्यते, केवलम् सुबादीनां विधानार्थम् (कार्यार्थम्) आवश्यकी प्रातिपदिकसंज्ञा एव 'ब्रह्मबन्धु' इत्यस्मात् ब्रह्मबन्धू-शब्दे अतिदिश्यते । \nअन्तादिवद्भावेन केचन अनिष्टप्रयोगाः अपि सिद्ध्यन्ति इति उक्त्वा तेषाम् निवारणार्थम् काशिकायाम् इति वार्त्तिकम् पाठितम् अस्ति । अस्य वार्त्तिकस्य निर्देशः भाष्ये अपि कृतः दृश्यते । परन्तु भाष्यकारेण अन्ते — न वा ताद्रूप्यातिदेशात् — इति निर्दिश्य इदं वार्त्तिकम् प्रत्याख्यातम् अस्ति । इत्युक्ते — प्रकृतसूत्रेण उक्तः अतिदेशः रूपातिदेशः नास्ति अपितु कार्यातिदेशः अस्ति — इति स्वीक्रियते चेत् एते दोषाः नैव भवन्ति इति अत्र भाष्यकारस्य आशयः अस्ति । अस्मिन् विषये अधिकं पिपठिषवः अस्य सूत्रस्य भाष्यम्, काशिकां वा पश्येयुः । \nअन्तवद्भावः / आदिवद्भावः विवक्षाम् न अनुसरति\nप्रकृतसूत्रेण उक्तः आदिवद्भावः तथा च अन्तवद्भावः कार्यातिदेशार्थम् यत्र यत्र सम्भवति तत्र तत्र सर्वत्र अवश्यं भवति । अयं न हि वैयाकरणस्य विवक्षाम् अनुसरति । इत्युक्ते, यदि आदिवद्भावम् / अन्तवद्भावम् उपयुज्य अनिष्टं रूपं सम्भवति, तर्हि तस्य निवारणार्थम् विशेषः यत्नः आवश्यकः एव वर्तते । न हि एतादृशेषु स्थलेषु तस्य आदिवद्भावस्य अन्तवद्भावस्य वा अविवक्षां कर्तुं शक्यते । अस्य द्वे उदाहरणे एतादृशे —\n1) 'ब्रह्मा + ऋषिः' इत्यत्र <<आद्गुणः>> [[6.1.87]] इत्यनेन गुणैकादेशे कृते 'ब्रह्मर्षिः' इति शब्दः सिद्ध्यति । अत्र 'अर्' इति एकादेशः पूर्वस्य अन्तवत् स्वीकृत्य 'ब्रह्मर्-षिः' इति विभाजनं क्रियते चेत् पदान्तरेफस्य <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इत्यनेन अनिष्टः विसर्गादेशः सम्भवति । एतादृशस्य अनिष्टस्य विसर्गादेशस्य निवारणं कर्तुम् — अत्र अन्तवद्भावस्य स्थाने आदिवद्भावम् एव स्वीकुर्मः‌ — इति विवक्षां न कर्तुं शक्यते । अत्र प्राप्तस्य अनिष्टविसर्गस्य यथोचितम् निवारणम् कर्तव्यमेव । अतएव सिद्धान्तकौमुद्यां दीक्षितः <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इत्यत्र 'उभयथर्क्षु, कर्तरि चर्षिदेवतयोः इति निर्देशात् ' — इति चख्यौ । पाणिनिना स्वयमेव <<उभयथर्क्षु>> [[8.3.8]] अस्मिन् सूत्रे, उत <<कर्तरि चर्षिदेवतयोः>> [[3.2.186]] अस्मिन् सूत्रे 'अर्' इति एकादेशं कृत्वा ततः रेफस्य विसर्गादेशः न क्रियते, अतः एकादेशे कृते रेफस्य विसर्गाभावः पाणिनिसम्मतः एव अस्ति, इति मत्त्वा अत्र रेफस्य विसर्गादेशस्य अनिष्टापत्तिः निवारयितुम् शक्यते — इति अत्र दीक्षितस्य आशयः अस्ति । \n2) 'कोऽस्य' इत्यत्र <<एङः पदान्तादति>> [[6.1.109]] इत्यनेन ओकार-अकारयोः एकादेशे कृते ओकारः सिद्ध्यति । अयम् ओकारः आदिवद्भावेन परशब्दस्य अवयवं स्वीकृत्य, 'ओस्य' इति परशब्दं मत्त्वा, तत्र विद्यमानस्य षष्ठी-एकवचनस्य सकारस्य <<इण्कोः>> [[8.3.57]] इत्यधिकारे विद्यमानेन <<आदेशप्रत्यययोः>> [[8.3.59]] इति सूत्रेण अनिष्टं षत्वम् आपतति । अस्य षत्वस्य निवारणम् कर्तुम् — अत्र आदिवद्भावस्य स्थाने अन्तवद्भावम् एव स्वीकुर्मः‌ — इति विवक्षां न कर्तुं शक्यते । अत्र प्राप्तस्य अनिष्टषत्वस्य यथोचितम् निवारणम् कर्तव्यमेव । तदर्थमेव च पाणिनिना <<षत्वतुकोरसिद्धः>> [[6.1.86]] इति सूत्रम् निर्मितम् अस्ति । षत्वे कर्तव्ये एकादेशः असिद्धः ज्ञेयः —‌ इति अस्य सूत्रस्य अर्थः । अस्य सूत्रस्य प्रयोगेण 'ओ' इति एकादेशः षत्वस्य कृते असिद्धः भवति, अतश्च अत्र अनिष्टं षत्वम् सरलरूपेण निवार्यते । \nउभयथा आश्रये नान्तादिवत् भवति (सीरदेवपरिभाषा 61) \nसीरदेवस्य बृहत्परिभाषावृत्तौ <ऽउभयथा आश्रये नान्तादिवत्ऽ> इति परिभाषा पाठिता लभ्यते । तत्र इत्थम् उच्यते —\n\nयत्र तु एकादेश उभयम् आश्रयति पूर्वं परं च, तत्र उभयतः आश्रये न अन्तवत्त्वं न अपि आदिवत्त्वम् इति वाक्यार्थः। तेन वृक्षम् इत्यत्र एकादेशस्य पूर्वग्रहणेन अग्रहणात् न अङ्गस्य अकारान्तत्वम् ; परग्रहणेन अग्रहणात् मकारस्य न सुप्त्वम्, इति दीर्घत्व-अभावः। ... अत्रेदं न वक्तव्यम् — एकादेशस्य पूर्वग्रहणेन ग्रहणे कृते एकदेशविकृतद्वारेण मकारमात्रस्य सुप्त्वम् आश्रित्य दीर्घत्वेन भवितव्यम् — इति। यदि अत्र एकदेशपरिभाषा स्याद्, उभयताश्रयपरिभाषा निर्विषया स्यात् । इयं च परिभाषा अन्तादिवच्च इत्यत्र भाष्यकारेण पठिता ॥\n— सीरदेवकृतात् बृहत्परिभाषावृत्तेः परिभाषा - 61\n\n<<अन्तादिवच्च>> [[6.1.85]] इत्यनेन उक्तः एकादेशः इष्टप्रयोगसिद्ध्यर्थम् — (i) पूर्वस्य अन्तवत्, अथवा (ii) परस्य आदिवत् स्वीकरणीयः — इति अस्याः परिभाषायाः आशयः । इत्युक्ते, एकस्याम् एव प्रक्रियायाम् अयम् एकादेशः उभयथा कार्यं कर्तुं न शक्नोति। At any given time, the current sutra enables the एकादेश to act either as an ending particle of the पूर्वशब्द, or as a leading particle of the परशब्द, but it does not allow the एकादेश to simultaneouslyact like the ending particle of the पूर्वशब्द and the leading particle of the परशब्द. ।\nयथा, 'बाल'शब्दात् प्रथमाद्विवचनस्य 'अम्'-प्रत्यये कृते <<अमि पूर्वः>> [[6.1.107]] इति सूत्रेण पूर्वपरयोः एकादेशे अकारे कृते 'बालम्' इति सिद्ध्यति । अत्र 'बालम्' शब्दे विद्यमानः लकारोत्तरः अकारः एकादेशः अस्ति । यदि अयम् एकादेशः पूर्वस्य अन्तवत् स्वीक्रियते (बालम् = बाल + म्) तर्हि अङ्गम् अकारान्तं भवति, परन्तु अग्रे सुप्-प्रत्ययः न वर्तते (यतः म् इति प्रत्ययः नास्ति - <ऽएकदेशविकृतमनन्यवत्ऽ> इति परिभाषा अत्र न स्वीक्रियते ) । यदि च अयम् एकादेशः परस्य आदिवत् स्वीक्रियते (बालम् = बाल् + अम्) तर्हि अग्रे सुप्-प्रत्ययः भवति परन्तु अङ्गम् अकारान्तम् न भवति । इदानीम् यदि अयम् आदेशः युगपत् परस्य आदिवत्, पूर्वस्य च अन्तवत् स्वीक्रियेत (i.e we treat it simultaneously as पूर्वस्य अन्तवत् and परस्य आदिवत्, purely to take the good things from both the sides), तर्हि 'अकारान्तम् अङ्गम्, मकारः सुप्-प्रत्ययः' इति मत्वा <<सुपि च>> [[7.3.102]] इति अनिष्टः दीर्घादेशः सम्भवेत् । एतादृशम् मा भूत् अतः इयं परिभाषा निर्मिता अस्ति ।\n\n\n" }, "61086": { "sa": "'एकः पूर्वपरयोः' अस्मिन् अधिकारे उक्तः एकादेशः षत्वार्थम् तुक्-आगमार्थम् च असिद्धः अस्ति । ", "sd": "<<एकः पूर्वपरयोः>> [[6.1.84]] अस्मिन् अधिकारे विद्यमानैः सूत्रैः उक्ताः आदेशाः पूर्व-पर-शब्दयोः स्थाने एकादेशरूपेण विधीयन्ते । एते आदेशाः षत्वकार्यार्थम्, तुगागमार्थम् वा असिद्धाः सन्ति (न दृश्यन्ते) — इति प्रकृतसूत्रस्य आशयः । अस्य असिद्धत्वस्य द्वौ प्रयोजनौ स्तः —\n\n1) असिद्धवचनम् आदेशलक्षणप्रतिषेधार्थम् । इत्युक्ते, <<एकः पूर्वपरयोः>> [[6.1.84]] अस्मिन् अधिकारे उक्तम् आदेशम् आदेशम् निमित्तरूपेण स्वीकृत्य षत्वम् / तुगागमविधिः न भवितुम् अर्हति । \n2) असिद्धवचनम् उत्सर्गलक्षणभावार्थम् । इत्युक्ते, <<एकः पूर्वपरयोः>> [[6.1.84]] अस्मिन् अधिकारे उक्तम् आदेशम् विना यदि षत्वम् / तुगागमः भवितुम् अर्हति चेत् एतादृशेन आदेशेन तस्य बाधः अपि न सम्भवति । \n\nअस्य असिद्धत्वस्य उदाहरणानि एतानि —\n1) 'कोऽस्य' इति शब्दस्य सिद्धिः एतादृशी —\n\nकिम् सुँ अस्य [किम्-शब्दस्य प्रथमैकवचनस्य रूपम् अत्र पूर्वपदम् । 'अस्य' इति सिद्धः शब्दः उत्तरपदम् ]\n→ क सुँ अस्य [<<किमः कः>> [[7.2.103]] इति क-आदेशः]\n→ क र् अस्य [<<ससजुषो रुः>> [[8.2.66]] इति पदान्तसकारस्य रुँत्वम्]\n→ क उ अस्य [<<अतो रोरप्लुतादप्लुते>> [[6.1.113]] इति उत्वम्]\n→ को अस्य [<<आद्गुणः>> [[6.1.87]] इति गुणैकादेशः]\n→ कोऽस्य [<<एङः पदान्तादति>> [[6.1.109]] इति ओकार-अकारयोः ओकारः एकादेशः]\n\nअत्र अन्तिमसोपाने ओकार-अकारयोः एकादेशे कृते ओकारः सिद्ध्यति । अयम् ओकारः आदिवद्भावेन उत्तरपदस्य आद्यवयवरूपेण स्वीक्रियते चेत् 'ओस्य' इति शब्दः उत्तरपदत्वं प्राप्नोति । तत्र विद्यमानस्य षष्ठ्येकवचनस्य स्य-प्रत्ययस्य अपदादि-सकारम् ओकारात् परं दृष्ट्वा <<इण्कोः>> [[8.3.57]] अस्मिन् अधिकारे विद्यमानेन <<आदेशप्रत्यययोः>> [[8.3.59]] इति सूत्रेण सकारस्य मूर्धन्यादेशः (षत्वं) सम्भवति । परन्तु अत्र अयम् ओकारः <<एङः पदान्तादति>> [[6.1.109]] इत्यनेन ओकार-अकारयोः एकादेशरूपेण सिद्ध्यति, अतः अयम् प्रकृतसूत्रेण षत्वार्थम् असिद्धः वर्तते । अनेन प्रकारेण अत्र आदेशम् निमित्तरूपेण स्वीकृत्य प्राप्तं अनिष्टं षत्वम् प्रतिषिध्यते । एतत् असिद्धवचनम् आदेशलक्षणप्रतिषेधार्थम् इत्यस्य उदाहरणम् । \n2) अधि-उपसर्गपूर्वकात् इण्-धातोः ल्यप्-प्रत्यये कृते <<ह्रस्वस्य पिति कृति तुक्>> [[6.1.71]] इत्यनेन तुगागमं कृत्वा 'अधीत्य' इति रूपं सिद्ध्यति । अत्र प्रक्रियायाम् 'अधि + इण्' इत्यस्मात् आदौ क्त्वा-प्रत्ययः विधीयते, ततः समासनिर्माणार्थम् अधि-उपसर्गस्य इण्-धातुना सह सन्धिः क्रियते, येन 'अधी' इति सिद्ध्यति । ततः एव <<समासेऽनञ्पूर्वे क्त्वो ल्यप्>> [[7.1.37]] इत्यनेन क्त्वा-प्रत्ययस्य ल्यप्-आदेशः भवति । अस्मिन् ल्यप्-आदेशे कृते, तस्य पित्त्वात् इण्-धातोः ह्रस्व-इकारस्य <<ह्रस्वस्य पिति कृति तुक्>> [[6.1.71]] इत्यनेन तुगागमः प्राप्नोति । परन्तु अत्र इण्-धातोः ह्रस्व-इकारः <<अकः सवर्णे दीर्घः>> [[6.1.101]] इति एकादेशेन दीर्घ-ईकारे परिवर्तितः अस्ति । अस्यां स्थितौ तुगागमः नैव सम्भवति । अस्य इष्ट-तुगागमस्य प्राप्त्यर्थम् अत्र प्रकृतसूत्रं प्रयुज्यते । प्रकृतसूत्रेण एकादेशः तुगागमस्य कृते असिद्धः भवति, अतः अत्र एकादेशात् पूर्वम् यस्य तुगागमस्य प्राप्तिः अस्ति सः तुगागमः एकादेशात् अनन्तरम् अपि, तस्य असिद्धत्वात् अवश्यं भवति । अनेन प्रकारेण अत्र आदेशम् असिद्धं मत्वा औत्सर्गिकरूपेण प्राप्तः तुगागमः अवश्यं विधीयते । एतत् असिद्धवचनम् उत्सर्गलक्षणभावार्थम् इत्यस्य उदाहरणम् । प्रक्रिया इयम् —\n\nइण् (गतौ, अदादिः, <{2.40}>)\n→ अधि + इ + क्त्वा [<<समानकर्तृकयोः पूर्वकाले>> [[3.4.21]] इति क्त्वा-प्रत्ययः]\n→ अधी + त्वा [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः एकादेशः]\n→ अधी + ल्यप् [<<समासेऽनञ्पूर्वे क्त्वो ल्यप्>> [[7.1.37]] इति क्त्वा-प्रत्ययस्य ल्यबादेशः]\n→ अधी + तुक् + य [एकादेशस्य असिद्धत्वात् अत्र ह्रस्व-इकारम् एव दृष्ट्वा <<ह्रस्वस्य पिति कृति तुक्>> [[6.1.71]] इति तुगागमः भवति ।]\n→ अधी + त् + य [ककारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति लोपः । उकारः उच्चारणार्थः, तस्यापि लोपः भवति ।]\n→ अधीत्य\n\nवार्त्तिकम् - <!सम्प्रसारण-ङि-इट्सु प्रतिषेधो वक्तव्यः!>\n(1) सम्प्रसारणसम्बन्धी एकादेशः, (2) सप्तम्येकवचनस्य ङि-प्रत्ययम् उपयुज्य कृतः एकादेशः , तथा च (3) आत्मनेपदस्य उत्तमपुरुषस्य एकवचनस्य 'इट्' प्रत्ययम् उपयुज्य कृतः एकादेशः — एते त्रयः एकादेशाः षत्वविधौ तुगागमे च असिद्धाः न सन्ति —‌ इति अस्य वार्त्तिकस्य अर्थः । क्रमेण उदाहरणानि एतानि —\n1) षत्वविधौ सम्प्रसारणस्य सिद्धत्वम् — \nह्वेञ् (स्पर्धायां शब्दे च) अयं भ्वादिगणस्य धातुः । अस्य धातोः क्विप् प्रत्यये परे 'हू' इति प्रातिपदिकं सिद्ध्यति ।अस्मिन् प्रातिपदिके विद्यमानः ऊकारः एकादेशेन सिद्ध्यति । अयम् ऊकारः षत्वविध्यर्थम् सिद्धः ज्ञेयः, येन 'हू' इति प्रातिपदिकस्य सप्तमीबहुवचनस्य रूपे प्रत्ययसकारस्य षत्वं भवितुम् अर्हति । प्रक्रिया इयम् —\n\nह्वेञ् (स्पर्धायां शब्दे च, भ्वादिः <{1.1163}>)\n→ ह्वा [<<आदेच उपदेशेऽशिति>> [[6.1.45]]\n→ ह्वा + क्विप् + सुप् [<<क्विप् च>> [[3.2.76]] इति क्विप्-प्रत्ययः । <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । तत्र सप्तमीबहुवचनस्य विवक्षायाम् सुप्-प्रत्ययः]\n→ ह्वा + ० + सु [द्वयोः पकारयोः <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा । ककारस्य <<लशक्वतद्धिते>> [[1.3.8]] इति इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति इत्संज्ञकवर्णानां लोपः । वकारोत्तरः इकारः उच्चारणार्थः, अतः सोऽपि लुप्यते । अपृक्तवकारस्य <<वेरपृक्तस्य>> [[6.1.67]] इति लोपः भवति ]\n→ ह् उ आ सु [लुप्त-क्विप्-प्रत्यये परे अपि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इति प्रत्ययविशिष्टं कार्यं अवश्यं सम्भवति । अतः <<वचिस्वपियजादीनां किति>> [[6.1.15]] इति कित्-प्रत्यये परे सम्प्रसारणम् भवति । वकारस्य सम्प्रसारणम् उकारः]\n→ ह् उ सु [<<सम्प्रसारणाच्च>> [[6.1.108]] इति पूर्वरूप-एकादेशः ।]\n→ ह् ऊ सु [<<हलः>> [[6.4.2]] इति अङ्गस्य दीर्घः]\n→ हू षु [<<आदेशप्रत्यययोः>> [[8.3.59]] इति षत्वम् । ऊकारं निमित्तरूपेण स्वीकृत्य इदं षत्वं प्रवर्तते । अत्र सिद्धः ऊकारः 'उ + आ' इत्यस्य एकादेशस्य दीर्घं कृत्वा सिद्ध्यति । अयम् एकादेशः सम्प्रसारणसम्बन्धी अस्ति (<<सम्प्रसारणाच्च>> [[6.1.108]] इति सूत्रेण कृतः अस्ति इत्याशयः) अतः अयम् षत्वार्थम् सिद्धः एव भवति ।]\n→ हूषु\n\n(2) तुगागमविधौ ङि-प्रत्ययविशिष्ट-एकादेशस्य सिद्धत्वम् —\nवृक्ष-शब्दस्य सप्तमी-एकवचनस्य प्रक्रियायाम् ङि-प्रत्यये परे 'वृक्ष + इ' इत्यत्र <<आद्गुणः>> [[6.1.87]] इति गुणैकादेशं कृत्वा 'वृक्षे' इति शब्दः सिद्ध्यति । अस्मात् शब्दात् संहितायाम् सत्याम् 'छाया' इति शब्दः यदा प्रयुज्यते, तदा 'वृक्षे + छाया' इत्यत्र <<पदान्तात् वा>> [[6.1.76]] इत्यनेन विकल्पेन तुगागमे कृते 'वृक्षेच्छाया', 'वृक्षेछाया' - एते द्वे रूपे सिद्ध्यतः । अत्र वस्तुतः वृक्षे-शब्दस्य अन्ते विद्यमानः एकारः एकादेशेन सिद्ध्यति, अतः सः तुगागमार्थम् असिद्धः स्यात् । परन्तु प्रकृतवार्त्तिकेन अयम् एकादेशः तुगागमस्य कृते सिद्धः उच्यते, अतएव अत्र <<पदान्तात् वा>> [[6.1.76]] इत्यनेन विकल्पेन तुगागमः प्राप्नोति । यदि अयम् एकादेशः तुगागमार्थम् असिद्धः अभविष्यत्, तर्हि 'इ' इति ह्रस्वस्वरम् एव दृष्ट्वा, <<छे च>> [[6.1.73]] इत्यनेन अयं तुगागमः नित्यम् एव भविष्यत्, येन 'वृक्षे छाया' इति तुगागमरहितं रूपम् साधुत्वं नैव प्राप्नुयात् । \n(3) तुगागमविधौ इट्-प्रत्ययविशिष्ट-एकादेशस्य सिद्धत्वम् —\n'लभ्' धातोः लङ्लकारस्य उत्तमपुरुषस्य प्रक्रियायाम् 'अ + लभ् + अ + इ' इत्यत्र अकार-इकारयोः <<आद्गुणः>> [[6.1.87]] इति गुणैकादेशं कृत्वा 'अलभे' इति शब्दः सिद्ध्यति । अस्मात् शब्दात् संहितायाम् सत्याम् 'छायाम्' इति शब्दः यदा प्रयुज्यते, तदा 'अलभे + छायाम्' इत्यत्र <<पदान्तात् वा>> [[6.1.76]] इत्यनेन विकल्पेन तुगागमे कृते 'अलभेच्छायाम्', 'अलभेछायाम्' - एते द्वे रूपे सिद्ध्यतः । अत्र वस्तुतः अलभे-शब्दस्य अन्ते विद्यमानः एकारः एकादेशेन सिद्ध्यति, अतः सः तुगागमार्थम् असिद्धः स्यात् । परन्तु प्रकृतवार्त्तिकेन अयम् एकादेशः तुगागमस्य कृते सिद्धः उच्यते, अतएव अत्र <<पदान्तात् वा>> [[6.1.76]] इत्यनेन विकल्पेन तुगागमः प्राप्नोति । यदि अयम् एकादेशः तुगागमार्थम् असिद्धः अभविष्यत्, तर्हि 'इ' इति ह्रस्वस्वरम् एव दृष्ट्वा, <<छे च>> [[6.1.73]] इत्यनेन अयं तुगागमः नित्यम् एव भविष्यत्, येन 'अलभे छाया' इति तुगागमरहितं रूपम् साधुत्वं नैव प्राप्नुयात् । \nपदस्य मध्ये विद्यमानस्य एकादेशस्य तुग्विधिं प्रति सिद्धत्वम् \nप्रकृतसूत्रेण तुगागमस्य कृते एकादेशस्य असिद्धत्वम् उच्यते । इदम् असिद्धत्वम् तदा एव स्वीकर्तव्यम् यदा अयम् एकादेशः द्वयोः पदयोः मध्ये कृतः अस्ति । एकस्मिन् एव पदे जायमानः एकादेशः तुगागमार्थम् नित्यं सिद्धः एव वर्तते । अयं विषयः भाष्यकारेण <<ई च खनः>> [[3.1.111]] इत्यस्मिन् सूत्रभाष्ये —पदान्त-पदाद्योः एकादेशः असिद्धः — इति उक्त्वा स्पष्टीकृतः अस्ति । अतएव च भाष्यकारेण <<ई च खनः>> [[3.1.111]] इत्यस्य स्थाने <<इ च खनः>> इति ह्रस्वघटितं सूत्रमेव तत्र उचिततरं प्रतिपाद्यते । प्रक्रिया इयम् —\n\nखनुँ (अवदारणे, भ्वादिः, <{1.1020}>)\n→ खन् [<<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इति उकारस्य इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ खइ + क्यप् [<<ई च खनः>> [[3.1.111]] इत्यनेन खन्-धातोः क्यप्-प्रत्ययः भवति । अनेनैव सूत्रेण खन्-धातोः नकारस्य ईकारादेशः उच्यते । परन्तु अत्र भाष्यमतेन, कौमुदीमतेन च 'ई' इत्यस्य स्थाने 'इ' इति ह्रस्वघटितः आदेशः एव उचिततरः । अतः स एव अत्र दर्शितः अस्ति ।]\n→ खे + य [अकार-इकारयोः <<आद्गुणः>> [[6.1.87]] इति गुणैकादेशे कृते एकारः सिद्ध्यति । अत्र यदि एकादेशः तुगागमार्थम् असिद्धः स्वीक्रियते, तर्हि एकारस्य स्थाने ह्रस्व-इकारं मत्त्वा तस्य <<ह्रस्वस्य पिति कृति तुक्>> [[6.1.71]] इति अनिष्टः तुगागमः विधीयेत । परन्तु अयम् एकादेशः द्वयोः पदयोः मध्ये न क्रियते अपितु एकस्मिन् एव पदे कृतः अस्ति, अतः भाष्यमतेन अयम् एकादेशः तुगागमार्थम् सिद्धः एव ज्ञेयः । अतएव अत्र <<ह्रस्वस्य पिति कृति तुक्>> [[6.1.71]] इति सूत्रेण दीर्घस्वरः एव दृश्यते, अतश्च तुगागमस्य अत्र प्रसक्तिः न भवति । ]\n→ खेय\n" }, "61087": { "sa": "अवर्णात् अच्-वर्णे परे संहितायाम् पूर्वपरयोः एकः गुणः आदेशः भवति ।", "sd": "अवर्णात् (अकारात् / आकारात्) संहितायाम् स्वरः विद्यते चेत् उभयोः गुणैकादेशः भवति । इत्युक्ते, 'गुण' इति संज्ञया निर्दिष्टः वर्णः आदेशरूपेण अत्र विधीयते । \nअष्टाध्याय्यां <<अदेङ् गुणः>> [[1.1.2]] इत्यनेन अकार-एकार-ओकाराणाम् गुणसंज्ञा भवति । एतेषु कः वर्णः आदेशरूपेण विधीयेत — इति प्रश्ने जाते, <<स्थानेऽन्तरतमः>> [[1.1.50]] इत्यस्याः परिभाषायाः आश्रयः स्वीक्रियते । अनया परिभाषया एतत् ज्ञाप्यते, यत् स्थानेन यः वर्णः सदृशतमः, तस्य आदेशरूपेण विधानम् भवति ।\nवर्णानाम् उच्चारणस्थानानि एतादृशानि — अवर्णस्य कण्ठः । इवर्णस्य तालु । उवर्णस्य ओष्ठौ । ऋवर्णस्य मूर्धा । ऌवर्णस्य दन्ताः । एकारस्य कण्ठतालु । ओकारस्य कण्ठोष्ठम् । रेफस्य मूर्धा ॥\nउदाहरणानि एतानि —\n1. अवर्णात् इवर्णे परे उभयोः एकादेशः एकारः विधीयते । अवर्णस्य उच्चारणस्थानम् कण्ठः, इवर्णस्य उच्चारणस्थानम् तालु, एकारस्य उच्चारणस्थानम् कण्ठतालु - इति स्थानेन आन्तरतम्यम् सिद्ध्यति। यथा —\n\n
  • देवानाम् इन्द्रः → देव + इन्द्रः → देवेन्द्रः ।\n
  • महान् च असौ इन्द्रश्च → महत् + इन्द्रः → महा + इन्द्र [<<आन्महतः समानाधिकरणजातीययोः>> [[6.3.46]] इति आकारादेशः] → महेन्द्रः ।\n
  • देवानाम् ईशः →‌ देव + ईशः → देवेशः।\n
  • महान् च असौ ईशश्च → महा + ईशः → महा + ईशः [<<आन्महतः समानाधिकरणजातीययोः>> [[6.3.46]] इति आकारादेशः] → महेशः ।\n\n2. अवर्णात् उवर्णे परे उभयोः एकादेशः ओकारः विधीयते । अवर्णस्य उच्चारणस्थानम् कण्ठः, उवर्णस्य उच्चारणस्थानम् ओष्ठौ, ओकारस्य उच्चारणस्थानम् कण्ठोष्ठम् - इति स्थानेन आन्तरतम्यम् सिद्ध्यति । यथा —\n\n
  • सूर्यस्य उदयः → सूर्य + उदयः → सूर्योदयः ।\n
  • गङ्गायाः उदकम् → गङ्गा + उदकम् → गङ्गोदकम् ।\n
  • पादेन ऊनम् → पाद + ऊनम् →‌ पादोनम् । \n
  • एकया ऊनम् → एका + ऊनम् → एकोनम् । \n\n3. अवर्णात् ऋवर्णे परे उभयोः एकादेशः अर् विधीयते । अत्र अवर्णस्य उच्चारणस्थानम् कण्ठः, ऋवर्णस्य उच्चारणस्थानम् मूर्धा । गुणसंज्ञकेभ्यः त्रिभ्यः वर्णेभ्यः 'मूर्धा' इति उच्चारणस्थानम् कस्यापि वर्णस्य नास्ति । परन्तु <<उरण् रपरः>> [[1.1.51]] इत्यनेन सूत्रेण एतत् ज्ञायते यत् ऋकारस्य स्थाने जायमानः अकारः नित्यम् रेफेण सह (इत्युक्ते, 'अर्' इत्यस्मिन् रूपे) विधीयते । अतः अवर्णात् ऋवर्णे परे उभयोः केवलम् 'अ' इति आदेशः कदापि नैव भवति, अपितु 'अर्' इति रेफयुक्तः आदेशः एव सम्भवति । अस्मिन् आदेशे विद्यमानस्य अकारस्य उच्चारणस्थानम् कण्ठः, रेफस्य उच्चारणस्थानम् च मूर्धा; अतः अत्र स्थानसाधर्म्यम् अपि सिद्ध्यति । अतः अवर्णात् ऋवर्णे परे 'अर्' इत्येव आदेशरूपेण विधीयते । यथा —\n\n
  • देवानाम् ऋषिः → देव + ऋषिः → देवर्षिः । \n
  • महान् च असौ ऋषिः → महत् + ऋषिः → महा + ऋषिः [<<आन्महतः समानाधिकरणजातीययोः>> [[6.3.46]] इति आकारादेशः] → महर्षिः । आकार-ऋकारयोः अपि अर्-आदेशः एव भवति, 'आर्' इति न । \n
  • प्रथमश्च असौ ॠकारश्च → प्रथम + ॠकारः → प्रथमर्कार ।\n
  • बालिकायाः ॠकारः → बालिका + ॠकारः → बालिकर्कार । आकार-ॠकारयोः अपि अर्-आदेशः एव भवति, 'आर्' इति न । \n\n4. अवर्णात् ऌवर्णे परे उभयोः एकादेशः अल् विधीयते । अत्र अवर्णस्य उच्चारणस्थानम् कण्ठः, ऌवर्णस्य उच्चारणस्थानम् दन्ताः । गुणसंज्ञकेभ्यः त्रिभ्यः वर्णेभ्यः 'दन्ताः' इति उच्चारणस्थानम् कस्यापि वर्णस्य नास्ति । परन्तु <<उरण् रपरः>> [[1.1.51]] इत्यनेन सूत्रेण एतत् ज्ञायते यत् ऌकारस्य स्थाने जायमानः अकारः नित्यम् लकारेण सह (इत्युक्ते, 'अल्' इत्यस्मिन् रूपे) विधीयते । अतः अवर्णात् ऌवर्णे परे उभयोः केवलम् 'अ' इति आदेशः कदापि नैव भवति, अपितु 'अल्' इति लकारयुक्तः आदेशः एव सम्भवति । अस्मिन् आदेशे विद्यमानस्य अकारस्य उच्चारणस्थानम् कण्ठः, लकारस्य उच्चारणस्थानम् च दन्ताः; अतः अत्र स्थानसाधर्म्यम् अपि सिद्ध्यति । अतः अवर्णात् ऌवर्णे परे 'अल्' इत्येव आदेशरूपेण विधीयते । यथा —\n\n
  • कृष्णस्य ऌकारः → कृष्ण + ऌकारः →‌ कृष्णल्कारः ।\n
  • महान् च असौ ऌकारश्च → महत् + ऌकारः → महा + ऌकारः [<<आन्महतः समानाधिकरणजातीययोः>> [[6.3.46]] इति आकारादेशः] → महल्कारः । आकार-ऌकारयोः अपि अल्-आदेशः एव भवति, 'आल्' इति न । \n\nबाध्यबाधकभावः\nप्रकृतसूत्रेण यद्यपि अचि परे गुणैकादेशः उक्तः अस्ति, तथापि अस्य सूत्रस्य प्रसक्तिः केवलम् 'इक्' वर्णे परे एव दृश्यते । अन्येषु वर्णेषु परेषु अस्य गुणादेशस्य सवर्णदीर्घेण वृद्ध्यादेशेन वा बाधः भवति । तदित्थम् —\n\n1) अवर्णात् अवर्णे परे, प्रकृतसूत्रेण उभयोः गुणादेशे प्राप्ते, तद् बाधित्वा <<अकः सवर्णे दीर्घः>> [[6.1.101]] इत्यनेन पूर्वपरयोः एकः सवर्णदीर्घादेशः भवति ।\n2) अवर्णात् एच्-वर्णे परे प्रकृतसूत्रेण उभयोः गुणादेशे प्राप्ते, तद् बाधित्वा <<वृद्धिरेचि>> [[6.1.88]] इत्यनेन पूर्वपरयोः एकः वृद्ध्येकादेशः भवति ।\n" }, "61088": { "sa": "अवर्णात् एच्-वर्णे परे संहितायाम् पूर्वपरयोः एकः वृद्धि-एकादेशः भवति । ", "sd": "अवर्णात् अच्-वर्णे परे <<आद्गुणः>> [[6.1.87]] इति सूत्रेण पूर्वपरयोः गुणैकादेशे प्राप्ते; तद्बाधित्वा अवर्णात् (अकारात् / आकारात्) संहितायाम् एकारः/ऐकारः/ओकारः/औकारः विद्यते चेत् उभयोः वृद्ध्येकादेशः भवति । 'वृद्धि' इति संज्ञया निर्दिष्टः वर्णः आदेशरूपेण अत्र विधीयते इत्यर्थः । \nअष्टाध्याय्यां <<वृद्धिरादैच्>> [[1.1.1]] इत्यनेन आकार-ऐकार-औकाराणाम् वृद्धिसंज्ञा भवति । एतेषु कः वर्णः आदेशरूपेण विधीयेत — इति प्रश्ने जाते, <<स्थानेऽन्तरतमः>> [[1.1.50]] इत्यस्याः परिभाषायाः आश्रयः स्वीक्रियते । अनया परिभाषया एतत् ज्ञाप्यते, यत् स्थानेन यः वर्णः सदृशतमः, तस्य आदेशरूपेण विधानम् भवति ।\nवर्णानाम् उच्चारणस्थानानि एतादृशानि — अवर्णस्य कण्ठः । एकारस्य ऐकारस्य च कण्ठतालु । ओकारस्य औकारस्य च कण्ठोष्ठम् ॥\nउदाहरणानि एतानि —\n1. अवर्णात् एकारे, ऐकारे वा परे उभयोः एकादेशः ऐकारः विधीयते । अवर्णस्य उच्चारणस्थानम् कण्ठः, एकारस्य ऐकारस्य च उच्चारणस्थानम् कण्ठतालु - इति स्थानेन आन्तरतम्यम् सिद्ध्यति। यथा —\n\n
  • कृष्णस्य एकत्वम् → कृष्ण + एकत्वम् → कृष्णैकत्वम् ।\n
  • ललितायाः एकत्वम् → ललिता + एकत्वम् → ललितैकत्वम् ।\n
  • देवस्य ऐश्वर्यम् → देव + ऐश्वर्यम् → देवैश्वर्यम् ।\n
  • ललितायाः ऐश्वर्यम् → ललिता + ऐश्वर्यम् → ललितैश्वर्यम् । \n\n2. अवर्णात् ओकारे, औकारे वा परे उभयोः एकादेशः औकारः विधीयते । अवर्णस्य उच्चारणस्थानम् कण्ठः, ओकारस्य औकारस्य च उच्चारणस्थानम् कण्ठोष्ठम् - इति स्थानेन आन्तरतम्यम् सिद्ध्यति । यथा —\n\n
  • जलस्य ओघः → जल + ओघः → जलौघः ।\n
  • गङ्गायाः ओघः → गङ्गा + ओघः → गङ्गौघः ।\n
  • कृष्णस्य औचित्यम् → कृष्ण + औचित्यम् → कृष्णौचित्यम् ।\n
  • गङ्गायाः औचित्यम् → गङ्गा + औचित्यम् → गङ्गौचित्यम् ।\n\n<<वृद्धिरेचि>> [[6.1.88]] सूत्रेण केवलम् ऐकारादेशः औकारादेशः वा भवति, आर्-आदेशः कदापि न विधीयते । अकारात् / आकारात् ऋवर्णे परे <<आद्गुणः>> [[6.1.87]] इत्यस्य अपवादत्वेन <<वृद्धिरेचि>> [[6.1.88]] इति सूत्रम् नैव प्रवर्तते इत्याशयः ।" }, "61089": { "sa": "अवर्णात् इण्-धातोः एध्-धातोः च एच्-वर्णे परे तथा ऊठ्-शब्दे परे संहितायाम् पूर्वपरयोः एकः वृद्धि-आदेशः भवति । ", "sd": "अवर्णात् (अकारात् / आकारात्) संहितायाम् इण्-धातोः एध्-धातोः वा एच्-वर्णे परे <<एङि पररूपम्>> [[6.1.94]] इत्यनेन प्राप्तम् पररूपम् बाधित्वा, तथा च ऊठ्-शब्दस्य ऊकारे परे <<आद्गुणः>> [[6.1.87]] इत्यनेन प्राप्तं गुणैकादेशं बाधित्वा पूर्वपरयोः वृद्ध्येकादेशः भवति — इति प्रकृतसूत्रस्य आशयः । 'वृद्धि' इति संज्ञया निर्दिष्टः वर्णः आदेशरूपेण अत्र विधीयते इत्यर्थः । \nअष्टाध्याय्यां <<वृद्धिरादैच्>> [[1.1.1]] इत्यनेन आकार-ऐकार-औकाराणाम् वृद्धिसंज्ञा भवति । एतेषु कः वर्णः आदेशरूपेण विधीयेत — इति प्रश्ने जाते, <<स्थानेऽन्तरतमः>> [[1.1.50]] इत्यस्याः परिभाषायाः आश्रयः स्वीक्रियते । अनया परिभाषया एतत् ज्ञाप्यते, यत् स्थानेन यः वर्णः सदृशतमः, तस्य आदेशरूपेण विधानम् भवति ।\nवर्णानाम् उच्चारणस्थानानि एतादृशानि — अवर्णस्य कण्ठः । ऊकारस्य ओष्ठौ । एकारस्य ऐकारस्य च कण्ठतालु । ओकारस्य औकारस्य च कण्ठोष्ठम् ॥\nउदाहरणानि एतानि —\n1. अवर्णात् इण्-धातोः एकारे/ऐकारे परे एकादेशः ऐकारः विधीयते । अवर्णस्य उच्चारणस्थानम् कण्ठः, एकारस्य ऐकारस्य च उच्चारणस्थानम् कण्ठतालु - इति स्थानेन आन्तरतम्यम् सिद्ध्यति। यथा —\n\nइण् (गतौ, अदादिः, <{2.40}>)\n→ उप + इ + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्-प्रत्ययः]\n→ उप + इ + तिप् [<<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य प्रक्रियायाम् तिप्-प्रत्ययः]\n→ उप + इ + शप् + ति [<<कर्तरि शप्>> [[3.1.68]] ]\n→ उप + इ + ति [<<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शपः लुक्]\n→ उप + ए + ति [<<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणः]\n→ उपैति [पकारोत्तरस्य अकारस्य इण्-धातोः एकारेण सह <<एत्येधत्यूठ्सु>> [[6.1.89]] इति वृद्धैकादेशः]\n\nएवमेव इण्-धातोः ऐकारादि-रूपस्य विषये अपि वृद्ध्येकादेशः ऐकारः भवति —\n\nइण् (गतौ, अदादिः, <{2.40}>)\n→ उप + इ + लङ् [<<अनद्यतने लङ्>> [[3.2.111]] इति लङ्-प्रत्ययः]\n→ उप + आट् + इ + लङ् [<<आडजादीनाम्>> [[6.4.72]] इति आडागमः]\n→ उप + आ + इ + तिप् [<<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य प्रक्रियायाम् तिप्-प्रत्ययः]\n→ उप + आ + इ + शप् + ति [<<कर्तरि शप्>> [[3.1.68]] ]\n→ उप + आ + इ + ति [<<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शपः लुक्]\n→ उप + आ + ए + ति [<<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणः]\n→ उप + आ + ए + त् [<<इतश्च>> [[3.4.100]] इति प्रत्यय-इकारस्य लोपः]\n→ उप + ऐ + त् [<<आटश्च>> [[6.1.90]] इति वृद्ध्येकादेशः ।]\n→ उपैत् [पकारोत्तरस्य अकारस्य इण्-धातोः ऐकारेण सह <<एत्येधत्यूठ्सु>> [[6.1.89]] इति वृद्धैकादेशः । ऐकारः यद्यपि <<आटश्च>> [[6.1.90]] इति वृद्ध्येकादेशेन सिद्ध्यति, तथापि आदिवद्भावेन, यदागमपरिभाषया वा सः धात्ववयवः एव स्वीक्रियते ।]\n\n2. अवर्णात् एध्-धातोः एकारे/ऐकारे परे एकादेशः ऐकारः विधीयते । अवर्णस्य उच्चारणस्थानम् कण्ठः, एकारस्य ऐकारस्य च उच्चारणस्थानम् कण्ठतालु - इति स्थानेन आन्तरतम्यम् सिद्ध्यति । यथा —\n\nएध् (वृद्धौ, भ्वादिः, <{2.40}>)\n→ उप + एध् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्-प्रत्ययः]\n→ उप + एध् + त [<<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> [[3.4.78]] इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य प्रक्रियायाम् त-प्रत्ययः]\n→ उप + एध् + शप् + त [<<कर्तरि शप्>> [[3.1.68]] ]\n→ उप + एध् + अ + ते [<<टित आत्मनेपदानां टेरे>> [[3.4.79]] इति एत्वम्]\n→ उपैधते [पकारोत्तरस्य अकारस्य एध्-धातोः एकारेण सह <<एत्येधत्यूठ्सु>> [[6.1.89]] इति वृद्धैकादेशः]\n\nएवमेव एध्-धातोः ऐकारादि-रूपस्य विषये अपि वृद्ध्येकादेशः ऐकारः भवति —\n\nएध् (वृद्धौ, भ्वादिः, <{2.40}>)\n→ उप + एध् + लङ् [<<अनद्यतने लङ्>> [[3.2.111]] इति लङ्-प्रत्ययः]\n→ उप + आट् + एध् + लङ् [<<आडजादीनाम्>> [[6.4.72]] इति आडागमः]\n→ उप + आ + एध् + त [<<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> [[3.4.78]] इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य प्रक्रियायाम् त-प्रत्ययः]\n→ उप + आ + एध् + शप् + त [<<कर्तरि शप्>> [[3.1.68]] ]\n→ उप + आ + एध् + अ + त [<<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शपः लुक्]\n→ उप + आ + एध् + त [<<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणः]\n→ उप + ऐध+ त [<<आटश्च>> [[6.1.90]] इति वृद्ध्येकादेशः ।]\n→ उपैधत [पकारोत्तरस्य अकारस्य इण्-धातोः ऐकारेण सह <<एत्येधत्यूठ्सु>> [[6.1.89]] इति वृद्धैकादेशः । ऐकारः यद्यपि <<आटश्च>> [[6.1.90]] इति वृद्ध्येकादेशेन सिद्ध्यति, तथापि आदिवद्भावेन, यदागमपरिभाषया वा सः धात्ववयवः एव स्वीक्रियते ।]\n\nसा + एति उत सा + एधते इत्यादिषु उदाहरणेषु अपि प्रकृतसूत्रेण वृद्धैकादेशं कृत्वा 'सैति', 'सैधते' इत्यादीनि रूपाणि अवश्यं भवन्ति । परन्तु एतादृशानाम् रूपाणाम् सिद्ध्यर्थम् <<वृद्धिरेचि>> [[6.1.88]] इत्येतम् सूत्रम् अपि पर्याप्तम् एव, अतः न हि तदर्थम् प्रकृतसूत्रम् रचितम् अस्ति । तर्हि अस्य सूत्रस्य मूलप्रयोजनम् किम्, इति चेत् — यत्र अवर्णान्तः उपसर्गः इण्/एध्-धातोः पूर्वम् प्रयुज्यते, तत्र <<वृद्धिरेचि>> [[6.1.88]] इत्यनेन उक्तम् वृद्ध्येकादेशं बाधित्वा <<एङि पररूपम्>> [[6.1.94]] इत्यनेन यः पररूपैकादेशः उच्यते; तस्य अपवादत्वेन पुनः वृद्ध्येकादेशं दातुम् इदं सूत्रम् पाठितम् अस्ति । अतः अस्य सूत्रस्य उदाहरणेषु उपसर्गविशिष्टानि एव उदाहरणानि दीयन्ते ।\n3. अवर्णात् ऊठ्-शब्दस्य ऊकारे परे एकादेशः औकारः विधीयते । अवर्णस्य उच्चारणस्थानम् कण्ठः, ऊकारस्य उच्चारणस्थानम् औष्ठौ, औकारस्य उच्चारणस्थानम् कण्ठोष्ठम् - इति स्थानेन आन्तरतम्यम् सिद्ध्यति । यथा —\n1. विश्ववाह्-शब्दस्य तृतीयैकवचनस्य रूपम् 'विश्वौहा' इति इत्थं सिद्ध्यति —\n\nविश्ववाह् + टा [<<स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्>> [[4.1.2]] इति तृतीयैकवचनस्य विवक्षायाम् टा-प्रत्ययः । टा-प्रत्यये परे विश्ववाह्-शब्दस्य <<यचि भम्>> [[1.4.18]] इति भसंज्ञा भवति । ]\n→ विश्व ऊठ् आ ह् + आ [भसंज्ञकस्य वाह्-शब्दस्य <<वाह ऊठ्>> [[6.4.132]] इति सम्प्रसारणे ऊठ्-आदेशः विधीयते ।]\n→ विश्व ऊ आ ह् + आ [ठकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ विश्व ऊ ह् + आ [ऊकार-आकारयोः <<सम्प्रसारणाच्च>> [[6.1.108]] इति पूर्वरूपैकादेशः ऊकारः]\n→ विश्वौहा [विश्वशब्दस्य अकारस्य ऊठ्-शब्दस्य ऊकारेण सह <<एत्येधत्यूठ्सु>> [[6.1.89]] इति वृद्धैकादेशः]\n\n2. क्र्यादिगणस्य 'खव्' धातोः लट्लकारस्य प्रथमपुरुषैकवचनम् 'खौनाति' इति इत्थं सिद्ध्यति —\n\nखवँ (भूतप्रादुर्भावे, क्र्यादिः, <{9.68}>)\n→ खव् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ खव् + तिप् [<<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य प्रक्रियायाम् तिप्-प्रत्ययः]\n→ खव् + श्ना + ति [<<क्र्यादिभ्यः श्ना>> [[3.1.81]] इति श्ना-विकरणप्रत्ययः]\n→ ख ऊठ् + ना + ति [अनुनासिकादौ ङिति प्रत्यये परे <<च्छ्वोः शूडनुनासिके च>> [[6.4.19]] इति वकारस्य ऊठ्-आदेशः]\n→ खौनाति [खशब्दस्य अकारस्य ऊठ्-शब्दस्य ऊकारेण सह <<एत्येधत्यूठ्सु>> [[6.1.89]] इति वृद्धैकादेशः]\n\nसूत्ररचना\nअस्य सूत्रस्य रचनायाः विषये केचन ज्ञातव्याः बिन्दवः एतादृशाः —\n1. एति तथा एधति इति सूत्रे प्रयुक्तौ शब्दौ यथासङ्ख्यम् 'इण्' तथा 'एध्' धात्वोः निर्देशं कुरुतः । इति वार्त्तिकम् अनुसृत्य अत्र 'श्तिप्' प्रत्ययं प्रयुज्य एतयोः धात्वोः निर्देशः कृतः वर्तते । \n2. <<वृद्धिरेचि>> [[6.1.88]] अस्मात् सूत्रात् 'एचि' इति पदम् अत्र अनुवर्तते, तत् च 'एति' तथा 'एधति' इत्येताभ्यां सह अन्वेति ।<ऽयस्मिन्विधिस्तदादावल्ग्रहणेऽ> (परिभाषा-33) इत्यनया परिभाषया अत्र 'एचि' इत्यस्य अर्थः 'एच्-वर्णादिः' इति क्रियते । अतः 'एचि एति' इत्यनेन 'इण्-धातो एच्-वर्णादिरूपम्' इति अर्थः सिद्ध्यति । एवमेव 'एचि एधति' इत्यनेन 'एध्-धातोः एच्-वर्णादि-रूपम्' इति अर्थः जायते । इत्युक्ते, यत्र इण्/एध्-धातोः रूपस्य आडौ एच्-भिन्नः वर्णः विद्यते, तत्र अस्य सूत्रस्य प्रसक्तिः नास्ति । अतएव इण्-धातोः लट्लकारस्य प्रथमपुरुषद्विवचनस्य 'इतः' इति रूपम् प्र-उपसर्गपूर्वकम् प्रयुज्यते चेत् 'प्र + इतः' इत्यत्र गुणैकादेशे कृते 'प्रेतः' इत्येव सिद्ध्यति । एवमेव, 'एध्-धातोः' णिजन्तस्य लुङ्-लकारस्य प्रथमपुरुषैकवचनम् 'इदिधत्' इत्यस्य विषये अपि अस्य सूत्रस्य प्रसक्तिः नास्ति, अतः 'उप + इदिधत्' इत्यत्रापि गुणैकादेशं कृत्वा 'उपेदिधत्' इति रूपं सिद्ध्यति । \nबाध्यबाधकभावः\nअवर्णान्त-उपसर्गात् इण्/एध्-धात्वोः एजादिरूपे परे बाध्यबाधकभावः एतादृशः जायते —\n\n
  • <<आद्गुणः>> इत्यनेन गुण-एकादेशे प्राप्ते तं बाधित्वा —\n
  • <<वृद्धिरेचि>> [[6.1.88]] इत्यनेन वृद्ध्येकादेशे प्राप्ते तं बाधित्वा —\n
  • <<एङि पररूपम्>> [[6.1.94]] इत्यनेन परररूपैकादेशे प्राप्ते तं बाधित्वा —\n
  • <<एत्येधत्यूठ्सु>> [[6.1.89]] इत्यनेन वृद्ध्येकादेशः भवति । \n\nउपसर्गभिन्न-अवर्णान्त-शब्दात् इण्/एध्-धात्वोः एजादिरूपे परे तु —\n\n
  • <<आद्गुणः>> इत्यनेन गुण-एकादेशे प्राप्ते तं बाधित्वा —\n
  • <<वृद्धिरेचि>> [[6.1.88]] इत्यनेन वृद्ध्येकादेशे प्राप्ते तं परत्वात् बाधित्वा —\n
  • <<एत्येधत्यूठ्सु>> [[6.1.89]] इत्यनेन वृद्ध्येकादेशः भवति । \n\nअवर्णात् ऊठ्-शब्दस्य ऊकारे परे —\n\n
  • <<आद्गुणः>> इत्यनेन गुण-एकादेशे प्राप्ते तं बाधित्वा —\n
  • <<वृद्धिरेचि>> [[6.1.88]] इत्यनेन वृद्ध्येकादेशः भवति ।\n\n<<एत्येधत्यूठ्सु>> [[6.1.89]] तथा च <<ओमाङोश्च>> [[6.1.95]] इत्येतयोर्मध्ये बाध्यबाधकभावः\nयदि किञ्चन सूत्रम् तस्मात् अनन्तरम् विद्यमानस्य सूत्रस्य अपवादरूपेण प्रवर्तते, तर्हि तत् सूत्रम् पुनः तस्मात् उत्सर्गात् अपि अनन्तरम् विद्यमानस्य सूत्रस्य अपवादरूपेण नैव भवितुम् अर्हति इति <ऽपुरस्तादपवादा अनन्तरान् विधीन्बाधन्ते नोत्तरान्ऽ> अनया परिभाषया सूच्यते । This paribhasha states that if a sutra A acts as an exception to a later-occurring sutra B, then A cannot again act as an exception for a sutra C that occurs after B । अतः <<एत्येधत्यूठ्सु>> [[6.1.89]] इति सूत्रम् <<एङि पररूपम्>> [[6.1.94]] इति परसूत्रस्य अपवादरूपेण एकवारं प्रवर्तते चेत्, तस्माद् अपि अग्रे विद्यमानस्य <<ओमाङोश्च>> [[6.1.95]] इति सूत्रस्य अपवादरूपैण नैव प्रवर्तते । अतएव, <<एत्येधत्यूठ्सु>> [[6.1.89]] तथा च <<ओमाङोश्च>> [[6.1.95]] इत्येतयोः युगपत्-प्राप्तौ सत्याम् परत्वात् <<ओमाङोश्च>> [[6.1.95]] इत्येव सूत्रस्य प्रयोगः भवति । यथा, इण्-धातोः लोट्-लकारस्य मध्यमपुरुषस्य एकवचनस्य 'इहि' इति रूपम् 'आ' उपसर्गेण सह, 'शिव' इति शब्देन सह च यत्र प्रयुज्यते, तत्र 'शिव + आ + इहि' अस्यां स्थितौ आदौ 'आ' उपसर्गस्य 'इहि' इत्यनेन सह <<आद्गुणः>> [[6.1.87]] इति गुणैकादेशे कृते 'शिव + एहि' इति जाते, आदिवद्भावेन एकारम् इण्-धातुरूपस्य आद्यवयवं मत्वा <<एत्येधत्यूठ्सु>> [[6.1.89]] इति सूत्रेण वृद्ध्येकादेशः अवश्यं प्राप्नोति । परन्तु अत्र <<ओमाङोश्च>> [[6.1.95]] इति सूत्रेण गुणैकादेशस्य अपि प्रसक्तिः अस्ति । अस्यां स्थितौ परत्वात् <<ओमाङोश्च>> [[6.1.95]] इति सूत्रेण गुणैकादेशे कृते 'शिवेहि' इत्येव रूपं सिद्ध्यति । \nवार्त्तिकानि\nविशिष्टप्रयोगानां सिद्ध्यर्थम् अत्र सिद्धान्तकौमुद्याम् कानिचन वार्त्तिकानि पाठ्यन्ते । तानि एतादृशानि —\n\nअक्ष-शब्दात् ऊहिनी-शब्दे परे पूर्वपरयोः गुणैकादेशं बाधित्वा अनेन वार्त्तिकेन वृद्ध्येकादेशः भवति, येन 'अक्षौहिणी' इति शब्दः सिद्ध्यति । प्रक्रिया इयम् -\n\nअक्षाणाम् ऊहिनी [<<षष्ठी>> [[2.2.8]] इति षष्ठीतत्पुरुषः]\n→ अक्ष + ऊहिनी [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्यययोः लोपः]\n→ अक्षौहिनी [अकार-ऊकारयोः इति वार्त्तिकेन वृद्ध्येकादेशः ।]\n→ अक्षौहिणी [<<पूर्वपदात् संज्ञायामगः>> [[8.4.3]] इति णत्वम्]\n\nसैन्ये विद्यमानानाम् रथिनाम्, अश्वानाम्, गजानाम् च परिमाणरूपेण अक्षौहिणी इति शब्दः प्रयुज्यते । Visit this or this wikipedia page to know more about this word.\n (स्वात् ईर-इरिणोः) । काशिकायाम् तु इति पाठभेदः दृश्यते । \n'स्व'शब्दात् 'ईर' तथा 'ईरिन् / ईरिणी' शब्दे परे पूर्वपरयोः गुणं बाधित्वा वृद्धिः भवति —\n\n1. ईर् (गतौ, अदादिः <{2.8}>) अस्मात् धातोः भावे घञ्-प्रत्ययं कृत्वा 'ईर' इति शब्दः सिद्ध्यति । गतिः / गमनम् इति अस्य अर्थः । 'स्वेन ईरः' अस्मिन् अर्थे <<कर्तृकरणे कृता बहुलम्>> [[2.1.32]] इति तृतीयासमासे कृते, अथ वा 'स्वस्य ईरः' अस्मिन् अर्थे <<षष्ठी>> [[2.2.8]] इत्यनेन षष्ठीसमासे कृते अकार-ईकारयोः इति वार्त्तिकेन वृद्ध्येकादेशः ऐकारः विधीयते, येन 'स्वैर' इति शब्दः सिद्ध्यति । अयं शब्दः शिष्टप्रयोगबलात् नपुंसकलिङ्गे एव प्रयुज्यते । \n2. 'स्वेन ईरितुम् शीलम् अस्य' अस्यां वृत्तौ 'स्व'-उपपदपूर्वात् ईर् (गतौ, अदादिः <{2.8}>) धातोः <<सुप्यजातौ णिनिस्ताच्छील्ये>> [[3.2.78]] इत्यनेन णिनि-प्रत्ययं कृत्वा 'स्व + इरिन्' इत्यवस्थायाम् इति वार्त्तिकेन वृद्ध्येकादेशः ऐकारः विधीयते, येन 'स्वैरिन्' इति शब्दः सिद्ध्यति । तत्र <<ऋन्नेभ्यो ङीप्>> [[4.1.5]] इति ङीप्-प्रत्ययं कृत्वा 'स्वैरिणी' इति स्त्रीलिङ्गशब्दः सिद्ध्यति । \n\n (प्रात् ऊह-ऊढ-ऊढि-एष-एष्येषु) ।\nप्र-उपसर्गात् परः ऊह/ऊढ-ऊढि/एष-एष्य एतेषु कश्चन शब्दः विद्यते चेत् पूर्वपरयोः एकः वृद्ध्येकादेशः भवति —\n\n1. ऊहँ (वितर्के, भ्वादिः, <{1.735}>) अस्मात् धातोः भावे घञ्-प्रत्यये 'ऊह' इति शब्दः सिद्ध्यति । अस्मात् शब्दात् पूर्वम् 'प्र' उपसर्गः विद्यते चेत् <<आद्गुणः>> [[6.1.87]] इत्यनेन प्राप्तं गुणैकादेशं बाधित्वा इत्यनेन वृद्ध्येकादेशं कृत्वा 'प्रौह' इति रूपं सिद्ध्यति । \n2. वह् (प्रापणे, भ्वादिः <{1.1159}>) अस्मात् धातोः क्त-प्रत्यये 'ऊढ' इति शब्दः सिद्ध्यति । अस्मात् शब्दात् पूर्वम् 'प्र' उपसर्गः विद्यते चेत् <<आद्गुणः>> [[6.1.87]] इत्यनेन प्राप्तं गुणैकादेशं बाधित्वा इत्यनेन वृद्ध्येकादेशं कृत्वा 'प्रौढ' इति रूपं सिद्ध्यति । \n वह्-धातोः क्तवतुँ-प्रत्ययान्तरूपम् 'ऊढवत्' इति विद्यते । तत्र विद्यमानः 'ऊढ' इति अंशः अनर्थकः अस्ति, अतः <ऽअर्थवद्ग्रहणे नानर्थकस्य ग्रहणम्ऽ> इत्यनया परिभाषया तस्य विषुे इदं वार्त्तिकं नैव प्रवर्तते । अतः 'प्र + ऊढवत्' इत्यत्र गुणैकादेशं कृत्वा 'प्रोढवत्' इत्येव रूपं सिद्ध्यति । \n3. वह् (प्रापणे, भ्वादिः <{1.1159}>) अस्मात् धातोः क्तिन्-प्रत्यये 'ऊढि' इति शब्दः सिद्ध्यति । अस्मात् शब्दात् पूर्वम् 'प्र' उपसर्गः विद्यते चेत् <<आद्गुणः>> [[6.1.87]] इत्यनेन प्राप्तं गुणैकादेशं बाधित्वा इत्यनेन वृद्ध्येकादेशं कृत्वा 'प्रौढि' इति रूपं सिद्ध्यति । \n4. इषुँ (गतौ <{4.22}>, इच्छायाम् <{6.78}>, आभीक्ष्य्णे <{9.61}> - अस्मात् धातोः भावे घञ्-प्रत्यये 'एष' इति शब्दः सिद्ध्यति । अस्मात् शब्दात् पूर्वम् 'प्र' उपसर्गः विद्यते चेत् <<एङि पररूपम्>> [[6.1.94]] इत्यनेन प्राप्तं पररूपं बाधित्वा इत्यनेन वृद्ध्येकादेशं कृत्वा 'प्रैष' इति रूपं सिद्ध्यति । \n5. इषुँ (गतौ <{4.22}>, इच्छायाम् <{6.78}>, आभीक्ष्य्णे <{9.61}> - अस्मात् धातोः भावकर्मणोः ण्यत्-प्रत्यये 'एष्य' इति शब्दः सिद्ध्यति । अस्मात् शब्दात् पूर्वम् 'प्र' उपसर्गः विद्यते चेत् <<एङि पररूपम्>> [[6.1.94]] इत्यनेन प्राप्तं पररूपं बाधित्वा इत्यनेन वृद्ध्येकादेशं कृत्वा 'प्रैष्य' इति रूपं सिद्ध्यति ।\n \n (काशिकायां इति पाठः वर्तते ।)\nतृतीयासमासे उत्तरपदरूपेण विद्यमानस्य 'ऋत'शब्दस्य ऋकारस्य, पूर्वपदान्ते विद्यमानस्य अवर्णेन सह <<आद्गुणः>> [[6.1.87]] इत्यनेन प्राप्तं गुणैकादेशं बाधित्वा 'आर्' इति वृद्ध्येकादेशः भवति । यथा - \n\n1. 'सुखेन ऋतः' अत्र <<कर्तृकरणे कृता बहुलम्>> [[2.1.32]] इति तृतीयासमासे कृते 'सुख + ऋत' इत्यत्र गुणं बाधित्वा अनेन वार्त्तिकेन वृद्धि-एकादेशं कृत्वा 'सुखार्तः' इति रूपं जायते ।\n2. 'पीड ऋतः' अत्र <<कर्तृकरणे कृता बहुलम्>> [[2.1.32]] इति तृतीयासमासे कृते 'पीडा + ऋत' इत्यत्र गुणं बाधित्वा अनेन वार्त्तिकेन वृद्धि-एकादेशं कृत्वा 'पीडार्त' इति रूपं जायते । \n\nतृतीयासमासः नास्ति चेत् तु इदं वार्त्तिकम् नैव प्रसज्यते, अतः <<आद्गुणः>> [[6.1.87]] इत्यनेन गुण-एकादेशः एव भवति । यथा, 'परमश्च असौ ऋतश्च' इत्यत्र कर्मधारयसमासे 'परम + ऋत' इति स्थिते अकार-ऋकारयोः गुणैकादेशः 'अर्' इति जाते 'परमर्तः' इत्येव सिद्ध्यति ।\n (प्र-वत्सतर-कम्बल-वसन-ऋण-दशानाम् ऋणे) ।\nअत्र काशिकाकारेण तु भाष्यम् अनुसृत्य तथा इति द्वे वार्त्तिके पृथक् पाठ्येते । \nप्र/वत्सतर/कम्बल/वसन/ऋण/दश - एतेषां शब्दानाम् ऋण-शब्दे परे गुणं बाधित्वा पूर्वपरयोः 'आर्' इति वृद्धि-एकादेशः भवति —\n\n
  • प्र + ऋणम् → प्रार्णम् ।\n
  • वत्सतरस्य (शिशुवत्सस्य ऋणम्) → वत्सतर + ऋणम् → वत्सतरार्णम् ।\n
  • कम्बलस्य ऋणम् → कम्बल + ऋणम् → कम्बलार्णम् ।\n
  • वसनस्य ऋणम् → वसन + ऋणम् → वसनार्णम् ।\n
  • ऋणस्य ऋणम् → ऋण + ऋणम् → ऋणार्णम् । एकस्य ऋणस्य अपनयनार्थम् क्रियमाणम् अपरं ऋणम् इत्याशयः ('Refinancing!')\n
  • दश ऋणानि अस्मिन् देशे सः = दश + ऋण → दशार्णः देशः । एवमेव दशार्णा नदी । \n" }, "61090": { "sa": "आट्-आगमात् अच्-वर्णे परे उभयोः एकः वृद्धि-एकादेशः भवति । ", "sd": "'आट्' इति अष्टाध्याय्याम् पाठितः कश्चन आगमः । अयम् आगमः त्रिषु स्थलेषु पाठितः अस्ति । एतेषु त्रिषु अपि स्थलेषु पाठितस्य अस्य आगमस्य आकारस्य तस्मात् परः विद्यमानेन स्वरेण सह प्रकृतसूत्रेण वृद्ध्येकादेशः विधीयते । एतानि त्रीणि स्थलानि सोदाहरणम् एतादृशानि —\n\n1) लुङ्/लङ्/लृङ्लकारप्रक्रियायाम् आडागमः, तस्य वृद्ध्येकादेशः —\nलुङ्-लङ्-लृङ्-लकाराणाम् प्रक्रियासु अजादिधातून<<आडजादीनाम्>> [[6.4.72]] इत्यनेन सूत्रेण आट्-आगमः भवति । अस्य आट्-आगमस्य आकारस्य धातोः आदिस्थस्वरेण सह प्रकृतसूत्रेण वृद्ध्येकादेशः विधीयते । द्वे उदाहरणे एतादृशे —\n1. 'ईक्ष्' धातोः लङ्-लकारस्य प्रथमपुरुषैकवचनस्य सिद्धिः इयम् —\n\nईक्षँ (दर्शने, भ्वादिः, <{1.694}>)\n→ ईक्ष् + लङ् [<<अनद्यतने लङ्>> [[3.2.111]]\n→ आट् + ईक्ष् + लङ् [<<आडजादीनाम्>> [[6.4.72]] इति आडागमः]\n→ आ + ईक्ष् + त [<<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> [[3.4.78]] इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य विवक्षायाम् त-आदेशः]\n→ आ + ईक्ष् + शप् + त [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ आ + ईक्ष् + अ + त [इत्संज्ञालोपः]\n→ ऐक्षत [<<आद्गुणः>> [[6.1.87]] इत्यनेन गुणैकादेशे प्राप्ते, तद्बाधित्वा <<आटश्च>> [[6.1.90]] इति वृद्ध्येकादेशः]\n\n2. उब्ज्-धातोः लुङ्-लकारस्य प्रथमपुरुषैकवचनस्य सिद्धिः इयम् - \n\nउब्जँ (आर्जवे, तुदादिः, <{6.23}>)\n→ उब्ज् + लुङ् [<<लुङ्>> [[3.2.101]] इति लुङ्-लकारः]\n→ आट् + उब्ज् + लुङ् [<<आडजादीनाम्>> [[6.4.72]] इति आडागमः]\n→ आ + उब्ज् + तिप् [<<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य विवक्षायाम् तिप्-आदेशः]\n→ आ + उब्ज् + च्लि + ति [<<च्लि लुङि>> [[3.1.43]] इति च्लि-विकरणम्]\n→ आ + उब्ज् + सिच् + ति [<<च्लेः सिच्>> [[3.1.44]] इति सिच्-आदेशः]\n→ आ + उब्ज् + स् + त् [<<इतश्च>> [[3.4.100]] इति ति-प्रत्यस्यय इकारस्य लोपः]\n→ आ + उब्ज् + इट् + स् + ति [<<आर्धधातुकस्येड् वलादेः>> [[7.2.35]] इति इडागमः]\n→ आ + उब्ज् + इ + स् + ई + त् [<<अस्तिसिचोऽपृक्ते>> [[7.3.96]] इति ईट्-आगमः]\n→ आ + उब्ज् + इ + ई + त् [<<इट ईटि>> [[8.2.28]] इति सकारलोपः]\n→ आ + उब्ज् + ई + त् [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति इकार-ईकारयोः सवर्णदीर्घः ईकारः]\n→ औब्ज् + ई + त् [आकार-उकारयोः <<आद्गुणः>> [[6.1.87]] इत्यनेन गुणैकादेशे प्राप्ते, तद्बाधित्वा <<आटश्च>> [[6.1.90]] इति वृद्ध्येकादेशः]\n→ औब्जीत्\n\n2) लोट्लकारस्य उत्तमपुरुषैकवचनस्य रूपे आडागमः, तस्य वृद्ध्येकादेशः —\n<<आडुत्तमस्य पिच्च>>[[3.4.92]] इत्यनेन लोट्लकारस्य उत्तमपुरुषस्य प्रत्ययानाम् 'आट्' इति आगमः भवति । तत्र आत्मनेपदस्य उत्तमपुरुषैकवचनस्य 'इ' इति अजादिप्रत्ययस्य अनेन आकारेण सह प्रकृतसूत्रेण वृद्ध्येकादेशः विधीयते । यथा, 'चक्ष्' धातोः लोट्लकारस्य उत्तमपुरुषैकवचनस्य प्रक्रिया इयम् —\n\nचक्षिङ् (व्यक्तायां वाचि, अदादिः, <{2.7}>\n→ चक्ष् [<<हलन्त्यम्>> [[1.3.3]] इति ङकारस्य इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः । इकारः उच्चारणार्थः, सोऽपि लुप्यते ।]\n→ चक्ष् + लोट् [<<लोट् च>> [[3.3.162]] इति लोट्लकारः]\n→ चक्ष् + इट् [<<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> [[3.4.78]] इति आत्मनेपदस्य उत्तमपुरुषैकवचनस्य इट्-प्रत्ययः]\n→ चक्ष् + शप् + इ [<<कर्तरि शप्>> [[3.1.68]] इति शप्-विकरणम्]\n→ चक्ष् + इ [<<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शपः लुक्]\n→ चक्ष् + आट् + इ [<<आडुत्तमस्य पिच्च>> [[3.4.92]] इति आडागमः]\n→ चक्ष् + ऐ [<<आटश्च>> [[6.1.90]] इति वृद्ध्येकादेशः]\n→ चक्षै\n\n3) नदीसंज्ञकशब्देभ्यः विहितस्य ङित्-विभक्तिप्रत्ययस्य आडागमः, तस्य वृद्ध्येकादेशः —\nनदीसंज्ञकशब्देभ्यः विहितस्य ङित्-प्रत्ययस्य <<आण्नद्याः>> [[7.3.112]] इत्यनेन आट्-आगमः भवति । वस्तुतः अत्र आट्-आगमे कृते, <<आटश्च>> [[6.1.90]] इति सूत्रं विना अपि, सवर्णदीर्घेण उत <<वृद्धिरेचि>> [[6.1.88]] इति वृद्ध्येकादेशेन उचितम् रूपम् अवश्यम् सम्भवति, परन्तु <ऽपर्जन्यवल्लक्षणप्रवृत्तिःऽ> इति परिभाषया अत्रापि <<आटश्च>> इत्यस्य अवश्यं प्रयोगः क्रियते । यथा, नदी-शब्दस्य चतुर्थ्येकवचनस्य प्रक्रियायाम् —\n\nनदी + ङे [चतुर्थी-एकवचनस्य प्रत्ययः]\n→ नदी + आट् + ए [ <<आण्नद्याः>> [[7.3.112]] इति आट्-आगमः]\n→ नदी + ऐ [<<आटश्च>> [[6.1.90]] इति वृद्धि-एकादेशः । अत्र <<वृद्धिरेचि>> [[6.1.88]] इत्यनेनैव वृद्ध्येकादेशे प्राप्ते परत्वात् <<आटश्च>> [[6.1.90]] इति वृद्ध्येकादेशः एव भवति ।]\n→ नद्यै [<<इको यणचि>> [[6.1.77]] इति यणादेशः।]\n" }, "61091": { "sa": "अवर्णान्तात् उपसर्गात् ऋकारादौ धातुरूपे परे पूर्वपरयोः एकः वृद्धि-एकादेशः भवति । ", "sd": "अवर्णान्त-उपसर्गात् ऋकारादौ धातुरूपे परे पूर्वपरयोः <<आद्गुणः>> [[6.1.87]] इत्यनेन गुणैकादेशे प्राप्ते तं बाधित्वा प्रकृतसूत्रेण 'आर्' इति वृद्ध्येकादेशः विधीयते । उदाहरणानि एतानि‌ — \n\n1. प्र + ऋच्छति → प्रार्च्छति । अत्र ऋच्छति इति ऋच्छँ (<{6.16}>) धातोः लट्लकारस्य एकवचनस्य रूपम् । \n2. परा + ऋणाति →‌ परार्णाति । अत्र ऋणाति इति ॠ (<{9.32}>) धातोः लट्लकारस्य एकवचनस्य रूपम् अस्ति ।\n3. अप + ऋध्नोति → अपार्ध्नोति । अत्र ऋध्नोति इति ऋध् (<{5.27}>) धातोः लट्लकारस्य एकवचनस्य रूपम् । \n4. अव + ऋणोति → अवार्णोति । अत्र ॠणोति इति ॠण् (<{8.5}>) धातोः लट्लकारस्य एकवचनस्य रूपम् । \n5. आ + ऋतीयते → आर्तीयते । अत्र ऋतीयते इति ऋति (<{1.1166}>) धातोः लट्लकारस्य एकवचनस्य रूपम् । \n7. उप + ऋच्छति → उपार्च्छति । अत्र ऋच्छति इति ऋ (<{1.1086}>) धातोः लट्लकारस्य एकवचनस्य रूपम् । \n \nआदेशनिर्णयः\nआकार-ऐकार-औकाराणाम् <<वृद्धिरेचि>> इत्यनेन वृद्धिसंज्ञा भवति । अतः एतेषु अन्तरतमः आदेशः एकादेशरूपेण विधीयते । तत्र अवर्णस्य उच्चारणस्थानम् कण्ठः इति, ऋवर्णस्य उच्चारणस्थानम् मूर्धा इति । वॄद्धिसंज्ञकेभ्यः त्रिभ्यः वर्णेभ्यः 'मूर्धा' इति उच्चारणस्थानम् कस्यापि वर्णस्य नास्ति । परन्तु <<उरण् रपरः>> [[1.1.51]] इत्यनेन सूत्रेण एतत् ज्ञायते यत् ऋकारस्य स्थाने जायमानः आकारः नित्यम् रेफेण सह (इत्युक्ते, 'आर्' इत्यस्मिन् रूपे) विधीयते । अतः अवर्णात् ऋवर्णे परे उभयोः केवलम् 'आ' इति आदेशः कदापि नैव भवति, अपितु 'आर्' इति रेफयुक्तः आदेशः एव सम्भवति । अस्मिन् आदेशे विद्यमानस्य आकारस्य उच्चारणस्थानम् कण्ठः, रेफस्य उच्चारणस्थानम् च मूर्धा; अतः अत्र स्थानसाधर्म्यम् अपि सिद्ध्यति । अतः अवर्णात् ऋवर्णे परे 'आर्' इत्येव वृद्ध्येकादेशरूपेण विधीयते ।\nदलकृत्यम्\nअस्मिन् सूत्रे विद्यमानानाम् शब्दानाम् प्रयोजनम् इत्थम् —\n1. उपसर्गात् इति किमर्थम् ? यत्र उपसर्गभिन्नः अवर्णान्तः शब्दः ऋकारादेः धातोः पूर्वम् प्रयुज्यते, तत्र प्रकृतसूत्रस्य प्रसक्तिः नास्ति । यथा, 'माला ऋच्छति' इत्यत्र <<आद्गुणः>> [[6.1.87]] इत्यनेन गुणैकादेशे कृते 'मालर्च्छति' इत्येव सिद्ध्यति ।\n2. 'प्रादेः' इति वक्तव्ये 'उपसर्गात्' इति किमर्थम् ? प्रादिगणस्य शब्दाः केवलम् क्रियायोगे एव उपसर्गसंज्ञकाः भवन्ति, अन्यसन्दर्भेषु न । यत्र प्रादिगणस्य शब्दाः उपसर्गसंज्ञकाः न सन्ति, तत्र अस्य सूत्रस्य प्रसक्तिः मा भूत्, इति स्पष्टीकर्तुम् अस्मिन् सूत्रे 'उपसर्गात्' इति पदं निर्दिश्यते । यथा, 'प्रगताः ऋच्छकाः अस्मात् देशात्' अत्र ऋच्छक-शब्दः ऋच्छ्-धातोः निर्मितःअस्ति, परन्तु अस्मिन् समासे 'प्र'शब्दः क्रियायोगे न प्रयुज्यते अतः तस्य उपसर्गसंज्ञा अपि नास्ति । अस्मिन् स्थले प्रकृतसूत्रं न प्रयुज्यते, अतः 'प्र + ऋच्छक' इति स्थिते <<आद्गुणः>> [[6.1.87]] इत्यनेन गुणैकादेशे कृते 'प्रर्च्छक' इत्येव सिद्ध्यति । प्र-उपसर्गपूर्वकात् ऋच्छ्-धातोः ण्वुल्-प्रत्यये कृते तु प्रकृतसूत्रेण 'प्रार्च्छक' इत्येव रूपं भवति ।\n3. ऋति धातौ इति किमर्थम् ? अत्र 'धातौ' इत्यनेन धातुरूपस्य ग्रहणं भवति । यत्र धातुरूपम् ऋकारादिः नास्ति, तत्र यद्यपि मूलधातुः ऋकारादिः अस्ति, तथापि प्रकृतसूत्रम् नैव प्रयोक्तव्यम् । यथा, जुहोत्यादिगणस्य 'ऋ' धातोः लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् 'इयर्ति' इति भवति । अत्र धातुरूपम् ऋकारादिः नास्ति, अतः अत्र प्रकृतसूत्रेण वृद्धिः न विधीयते, अपि तु <<आद्गुणः>> [[6.1.87]] इत्यनेन गुणैकादेशे कृते एव रूपं सिद्ध्यति । प्र + इयर्ति → प्रेयर्ति । \n4. उपसर्गात् इत्युच्यमाने पुनः धातुग्रहणम् किमर्थम्? 'उपसर्गात्' इत्यनेनैव धातोः सन्दर्भे स्पष्टे सति, अस्मिन् सूत्रे पुनः धातुविधानम् बाधकबाधनार्थम् क्रियते । अग्रे वक्ष्यमाणेन <<ऋत्यकः>> [[6.1.128]] इति सूत्रेण अकारात् ऋकारे परे विकल्पेन पूर्वपरयोः यः प्रकृतिभावः प्राप्नोति, तं बाधित्वा अत्र नित्यमेव वृद्ध्येकादेशविधानार्थम् अस्मिन् सूत्रे धातुग्रहणं क्रियते । अतः 'प्र + ऋच्छति' इत्यत्र प्रकृतिभावः नैव सम्भवति, अपितु वृद्ध्येकादेशे कृते 'प्रार्च्छति' इति एकमेव रूपम् सिद्ध्यति । \n5. ऋति इत्यत्र तपरकरणम् किमर्थम् ? दीर्घ-ॠकारादीनि धातुरूपाणि धातुपाठे नैव विद्यन्ते । परन्तु दीर्घ-ॠकारादि-सुब्धातूनां विषये इदं सूत्रं नैव प्रयोक्तव्यम्, इति ज्ञापयितुम् अस्मिन् सूत्रे 'ऋति' इति शब्दः स्वीक्रियते । अतएव 'ॠकारम् आत्मनः इच्छति' इत्यत्र 'ॠकारीय' इति दीर्घ-ॠकारादि-धातोः ॠकारस्य अकारान्त-उपसर्गेण सह वृद्ध्येकादेशः न सम्भवति, अपितु <<आद्गुणः>> [[6.1.87]] इत्यनेन गुणैकादेशे कृते एव रूपं सिद्ध्यति । प्र + ॠकारीयति → प्रर्कारीयति ।\n\n1. क्र्यादिगणस्य ॠ-धातुः यद्यपि दीर्घ-ॠकारादिः अस्ति, तथापि तस्य सर्वाणि ऋवर्णादीनि रूपाणि ह्रस्व-ऋकारादीनि एव सन्ति, यतः प्रक्रियायाम् <<प्वादीनां ह्रस्वः>> [[7.3.80]] इत्यनेन तस्य ह्रस्वादेशः विधीयते । अतः अस्य धातोः विषये प्रकृतसूत्रम् अवश्यम् प्रवर्तते । यथा, परा + ऋणाति →‌ परार्णाति । \n2. ह्रस्व-ॠकारादि-सुब्धातूनां विषये प्रकृतसूत्रेण नित्यम् वृद्ध्यादेशे प्राप्ते <<वा सुप्यापिशलेः>> [[6.1.92]] इति अग्रिमसूत्रेण सः विकल्प्यते । \n" }, "61092": { "sa": "अवर्णान्तात् उपसर्गात् ऋकारादौ सुब्धातौ परे विकल्पेन पूर्वपरयोः एकः वृद्धि-एकादेशः भवति । ", "sd": "अवर्णान्त-उपसर्गात् ऋकारादौ धातुरूपे परे पूर्वपरयोः <<आद्गुणः>> [[6.1.87]] इत्यनेन गुणैकादेशे प्राप्ते ; तं बाधित्वा <<उपसर्गादृति धातौ>> [[6.1.91]]\n इत्यनेन नित्यम् वृद्ध्येकादेशे प्राप्ते; नामधातूनां विषये प्रकृतसूत्रेण अयम् वृद्ध्येकादेशः विकल्प्यते, अतः पक्षे गुणैकादेशः अपि भवति। यथा —\n1. 'ऋषभम् आत्मनः इच्छति' इत्यत्र <<सुप आत्मनः क्यच्>> [[3.1.8]] इत्यनेन क्यच्-प्रत्यये कृते 'ऋषभीय' इति आतिदेशिकधातुः सिद्ध्यति । अस्य धातोः रूपम् अवर्णान्त-उपसर्गात् परम् विद्यते चेत् पूर्वपरयोः विकल्पेन वृद्ध्यादेशः भवति, पक्षे गुणैकादेशः अपि सिद्ध्यति । प्र + ऋषभीयति → प्रार्षभीयति, प्रर्षभीयति ।\n2. अस्मिन् सूत्रे अनुवृत्तिरूपेण 'ऋति' इति गृह्यमाणेन शब्देन तात्कालिकभेदग्रहणम् अपि भवति, अतः ऌकारस्य विषये अपि प्रकृतं सूत्रं प्रवर्तते । यथा, 'ऌकारम् आत्मनः इच्छति' इत्यत्र <<सुप आत्मनः क्यच्>> [[3.1.8]] इत्यनेन क्यच्-प्रत्यये कृते 'ऌकारीय' इति आतिदेशिकधातौ सिद्धे, तस्य रूपम् अवर्णान्त-उपसर्गात् परम् विद्यते चेत् पूर्वपरयोः विकल्पेन वृद्ध्यादेशः भवति, पक्षे गुणैकादेशः अपि सिद्ध्यति । प्र + ऌकारीयति → प्राल्कारीयति, प्रल्कारीयति ।\nऋति इत्यत्र तपरकरणम् \nकेवलम् 'ऋ' इति निर्देशः <<अणुदित् सवर्णस्य चाप्रत्ययः>> [[1.1.69]] इत्येतं सूत्रम् अनुसृत्य सवर्णग्रहणं करोति । तद्बाधित्वा <<तपरस्तत्कालस्य>> [[1.1.70]] इत्यनेन तात्कालिक-भेदानाम्व एव ग्रहणं कर्तुम् ऋति-शब्दे तपरकरणं क्रियते । अनेन तपरकरणेन दीर्घ-ॠकारस्य अस्मिन् सूत्रे ग्रहणं न भवति, अतश्च दीर्घ-ॠकारादि-धातुरूपाणां विषये इदं सूत्रं नैव प्रवर्तते । अतः 'ॠकारम् आत्मनः इच्छति' इत्यत्र 'ॠकार' शब्दात् <<सुप आत्मनः क्यच्>> [[3.1.8]] इत्यनेन क्यच्-प्रत्यये कृते 'ॠकारीय' इति नामधातुः सिद्ध्यति, तस्य विषये इदं सूत्रं न प्रवर्तते । अतः अस्य धातोः विषये <<आद्गुणः>> [[6.1.87]] इत्यनेन नित्यम् गुणैकादेशः एव विधीयते । प्र + ॠकारीयति → प्रर्कारीयति ।\nदीर्घ-ॠकारान्त-नामधातूनां विषये प्रकृतसूत्रेण वृद्ध्येकादेशस्य बाधः भवति चेत् <<उपसर्गादृति धातौ>> [[6.1.91]] इत्यनेन पुनः वृद्ध्येकादेशः न हि प्रवर्तते, यतः तस्मिन् सूत्रे अपि 'ऋति' इति शब्दः विद्यते एव । \nआपिशलिग्रहणम् पूजार्थम्\nप्रकृतसूत्रे 'आपिशलेः' इति निर्देशः 'आपिशलिः' इति कस्यचन वैयाकरणस्य निर्देशः अस्ति । अष्टाध्याय्यां सामान्यरूपेण यत्र पाणिनिः अन्येषाम् आचार्याणाम् नाम उक्त्वा किञ्चन कार्यं वदति, तत्र तत् कार्यं वैकल्पिकं मन्यते । परन्तु अत्र पाणिनिना 'वा' इति उक्त्वा आदौ एव वैकल्पिकत्वम् उक्तमस्ति । अतः अत्र 'आपिशलि'-मुनेः ग्रहणम् केवलं पूजार्थम् (आदरार्थम्, to show respect, to give credit etc) क्रियते, न हि विकल्पविधानार्थम् । \n" }, "61093": { "sa": "ओकारात् अम्/शस्-प्रत्यये परे पूर्वपरयोः एकः आकारादेशः भवति । ", "sd": "ओकारान्तशब्दात् पर: द्वितीया-एकवचनस्य अम्-प्रत्ययः / द्वितीयाबहुवचनस्य शस्-प्रत्ययः विधीयते चेत् पूर्वपरवर्णयोः एकः आकारादेशः भवति ।\nअम्-प्रत्ययस्य / शस्-प्रत्ययस्य आदौ अकारः एव विद्यते, अतः अत्र ओ + अ → आ इति भवति इत्याशयः ।\n अस्य सूत्रस्य प्रयोगः ओकारान्तशब्दानाम् रूपसिद्धौ एव भवति, नान्यत्र । उदाहरणे एते —\n1. गो-शब्दस्य द्वितीयैकवचनस्य अम्-प्रत्यये परे 'गाम्' इति रूपं इत्थं सिद्ध्यति —\n\nगो + अम् [द्वितीयैकवचनस्य प्रत्ययः]\n→ गाम् [<<औतोऽम्शसोः>> [[6.1.93]] इत्यनेन ओकार-अकारयोः एकादेशः आकारः । अत्र वस्तुतः <<गोतो णित्>> [[7.1.90]] इत्यनेन 'अम्' इति णिद्भावं प्राप्नोति, अतः णित्-प्रत्यये परे <<अचो ञ्णिति>> [[7.2.115]] इति सूत्रेण अत्र अङ्गस्य वृद्धिः प्राप्नोति । एतां वृद्धिं बाधित्वा अत्र सूत्रनिर्माणसामर्थ्यात् <<औतोऽम्शसोः>> [[6.1.93]] इत्यनेन ओकार-अकारयोः एकादेशः आकारः विधीयते ।]\n\nशस्-प्रत्ययस्य साहचर्यात् 'अम्' इत्यनेन द्वितीयैकवचनस्य अम्-प्रत्ययः एव गृह्यते, न हि लङ्-लकारस्य अम्-प्रत्ययः । \n2. द्यो-शब्दस्य द्वितीयाबहुवचनस्य शस्-प्रत्यये परे 'द्याः' इति रूपं इत्थं सिद्ध्यति —\n\nद्यो + शस् [द्वितीयैकवचनस्य प्रत्ययः]\n→ द्यो + अस् [शकारस्य <<लशक्वतद्धिते>> [[1.3.8]] इति इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ द्यास् [<<औतोऽम्शसोः>> [[6.1.93]] इत्यनेन ओकार-अकारयोः एकादेशः आकारः ]\n→ द्याः [<<ससजुषो रुः>> [[8.2.66]] इति रुत्वम्, <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n\n" }, "61094": { "sa": "अवर्णान्तात् उपसर्गात् एकारादि/ओकारादि-धातुरूपे परे पूर्वपरयोः एकः पररूपः आदेशः भवति । ", "sd": "उपसर्गस्य अन्ते विद्यमानात् अवर्णात् परः विद्यमानस्य धातुरूपस्य आदौ एकारः / ओकारः विद्यते चेत् पूर्वपरयोः <<वृद्धिरेचि>> [[6.1.88]] इत्यनेन प्राप्तां वृद्धिं बाधित्वा पररूप-एकादेशः भवति । इत्युक्ते, अवर्ण-एकारयोः मिलित्वा एकारादेशः भवति; अवर्ण-ओकारयोः च मिलित्वा ओकारादेशः भवति । यथा —\n\n1. प्र + एजते → प्रेजते । 'एजते' इति एजृ (दीप्तौ, <{1.263}>) धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् । अत्र अकार-एकारयोः पररूपम् एकारः भवति ।\n2. परा + एजते → परेजते । \n3. प्र + ओषति → प्रोषति । 'ओषति' इति उष् (दाहे, <{1.792}> धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् । अत्र अकार-ओकारयोः पररूपम् ओकारः भवति ।\n4. परा + ओषति → परोषति ।\n\nअत्र निर्दिष्टः एकारः / ओकारः धातुरूपस्य आदौ भवेत् इति अत्र आवश्यकम् । धातोः आदौ तु कोऽपि वर्णः भवितुम् अर्हति । अतएव 'उष्' धातोः विषये अपि उपरि निर्दिष्टे उदाहरणे अस्य सूत्रस्य प्रयोगः कृतः दृश्यते ।\n 'वा सुपि' इत्यस्य अनुवृत्तिः\nकेषाञ्चन वैयाकरणानां मतेन, अस्मिन् सूत्रे <<वा सुप्यापिशलेः>> [[6.1.92]] इत्यतः 'वा सुपि' इति अपि अनुवर्तते । इत्युक्ते, प्रकृतसूत्रेण उक्तम् पररूपम् सुब्धातूनां विषये विकल्पेन प्रवर्तते इति अत्र आशयः । यथा —\n\n1. 'एडकम् आत्मनः इच्छति' इत्यस्मिन् अर्थे 'एडक' शब्दात् <<सुप आत्मनः क्यच्>> [[3.1.8]] इत्यनेन क्यच्-प्रत्यये कृते 'एडकीय' इति आतिदेशिकधातुः सिद्ध्यति । अस्य धातोः रूपम् अवर्णान्त-उपसर्गात् परं विद्यते चेत् विकल्पेन पररूप-एकादेशः विधीयते; पक्षे च <<वृद्धिरेचि>> [[6.1.88]] इत्यनेन वृद्ध्येकादेशः अपि भवति । प्र + एडकीयति → प्रेडकीयति, प्रैडकीयति । \n2. 'ओदनम् आत्मनः इच्छति' इत्यस्मिन् अर्थे 'ओदन' शब्दात् <<सुप आत्मनः क्यच्>> [[3.1.8]] इत्यनेन क्यच्-प्रत्यये कृते 'ओदनीय' इति आतिदेशिकधातुः सिद्ध्यति । अस्य धातोः रूपम् अवर्णान्त-उपसर्गात् परं विद्यते चेत् विकल्पेन पररूप-एकादेशः विधीयते; पक्षे च <<वृद्धिरेचि>> [[6.1.88]] इत्यनेन वृद्ध्येकादेशः अपि भवति । उप + ओदनीयति → उपोदनीयति, उपौदनीयति ।\n\nवा इत्यस्य अनुवृत्तिः केवलम् 'सुपि' इत्यस्य कृते (इत्युक्ते, आतिदेशिकधातूनां विषये) एव अस्ति । औपदेशिकधातूनां विषये तु इदं सूत्रम् नित्यमेव प्रवर्तते, न हि विकल्पेन ।\nबाध्यबाधकभावः\nइण्-धातोः एध्-धातोः च एकारादौ रूपस्य विषये प्रकृतसूत्रं बाधित्वा <<एत्येधत्यूठ्सु>> [[6.1.89]] इत्यनेन वृद्ध्येकादेशः विधीयते । यथा, उप + एति‌ → उपैति, उप + एधते → उपैधते ।\nवार्त्तिकानि\nकाशिकायां सिद्धान्तकौमुद्यां च अस्मिन् सूत्रे कानिचन वार्तिकानि पाठ्यन्ते । तानि एतादृशानि —\n \n'शकन्ध्वादिः' इत्यस्मिन् गणे विद्यमानानाम् शब्दानाम् सिद्धौ पूर्वपदस्य टि-संज्ञकस्य उत्तरपदस्य आदिस्वरेण सह पररूप-एकादेशः विधीयते — इति अस्य वार्त्तिकस्य अर्थः । \nशकन्ध्वादिगणे विद्यमानाः शब्दाः ससिद्धिम् अधः प्रदर्शिताः सन्ति —\n\n1. शकन्धुः — अयं शब्दः 'शकस्य अन्धुः' इति षष्ठीसमासं कृत्वा सिद्ध्यति । 'शक' इति कस्यचन देशस्य नाम । अन्धुः इत्युक्ते कूपः । 'शक + अन्धुः' इत्यत्र पूर्वपदस्य टिसंज्ञकस्य (अकारस्य) उत्तरपदस्य आदिस्वरेण (अकारेण) सह पररूपैकादेशं कृत्वा अकारः सिद्ध्यति । शक + अन्धुः → शक् + (अ + अ) + न्धुः → शक् + अ + न्धुः →‌ शकन्धुः ।\n2. कर्कन्धुः — अयं शब्दः 'कर्कस्य अन्धुः' इति षष्ठीसमासं कृत्वा सिद्ध्यति । 'कर्क' इति कस्यचन देशस्य नाम । अन्धुः इत्युक्ते कूपः । 'कर्क + अन्धुः' इत्यत्र पूर्वपदस्य टिसंज्ञकस्य (अकारस्य) उत्तरपदस्य आदिस्वरेण (अकारेण) सह पररूपैकादेशं कृत्वा अकारः सिद्ध्यति । कर्क + अन्धुः → कर्क् + (अ + अ) + न्धुः → कर्क् + अ + न्धुः →‌ कर्कन्धुः ।\n3. कुलटा — अयं शब्दः 'कुलान् अटति' इत्यस्मिन् अर्थे कुल-उपपदात् अट्-धातोः अच्-प्रत्ययं कृत्वा सिद्ध्यति । वेश्या इति अस्य शब्दस्य अर्थः । प्रक्रियायाम् 'कुल + अटा' इति स्थिते, पूर्वपदस्य टिसंज्ञकस्य (अकारस्य) उत्तरपदस्य आदिस्वरेण (अकारेण) सह पररूपैकादेशं कृत्वा अकारः सिद्ध्यति । कुल + अटा → कुल् + (अ + अ) + टा → कुल् + अ + टा →‌ कुलटा ।\n4. सीमन्त: —‌ अयं शब्दः 'सीम्नः अन्तः' इति षष्ठीसमासं कृत्वा सिद्ध्यति । 'सीमन्' इत्युक्ते केशवेषः (केशानां मध्ये उपस्थिता रेषा इत्यर्थः) । अत्याः अन्तः (end point) सीमन्तः इति नाम्ना ज्ञायते । प्रक्रियायाम् 'सीमन्' शब्दस्य टिसंज्ञकस्य (अन् इत्यस्य) 'अन्त'शब्दस्य अकारेण सह पररूपैकादेशं कृत्वा अकारः जायते । सीमन् + अन्तः → सीम् + (अन् + अ) + न्तः → सीम् + अ + न्तः →‌ सीमन्तः ।\n5. मनीषा — अयं शब्दः 'मनसः ईषा (गमनम्)' इति षष्ठीसमासं कृत्वा सिद्ध्यति । 'इच्छा / बुद्धिः / चिन्तनम्' इति अस्य शब्दस्य अर्थः । प्रक्रियायाम् 'मनस्' शब्दस्य टिसंज्ञकस्य (अस् इत्यस्य) 'ईषा'शब्दस्य ईकारेण सह पररूपैकादेशं कृत्वा ईकारः जायते । मनस् + ईषा → मन् + (अस् + ई) + षा → मन् + ई + षा →‌ मनीषा ।\n6. हलीषा — अयं शब्दः 'हलस्य ईषा (अग्रः)' इति षष्ठीसमासं कृत्वा सिद्ध्यति । 'हलस्य अग्रः (The handle of a plough)' इति अस्य शब्दस्य अर्थः । प्रक्रियायाम् 'हल' शब्दस्य टिसंज्ञकस्य (अकारस्य) 'ईषा'शब्दस्य ईकारेण सह पररूपैकादेशं कृत्वा ईकारः जायते । हल + ईषा → हल् + (अ + ई) + षा → हल् + ई + षा →‌ हलीषा ।\n7. लाङ्गलीषा — अयं शब्दः 'लाङ्गलस्य ईषा (अग्रः)' इति षष्ठीसमासं कृत्वा सिद्ध्यति । 'लाङ्गलस्य अग्रः (The handle of a plough)' इति अस्य शब्दस्य अर्थः । प्रक्रियायाम् 'लाङ्गल' शब्दस्य टिसंज्ञकस्य (अकारस्य) 'ईषा'शब्दस्य ईकारेण सह पररूपैकादेशं कृत्वा ईकारः जायते । लाङ्गल + ईषा → लाङ्गल् + (अ + ई) + षा → लाङ्गल् + ई + षा →‌ लाङ्गलीषा ।\n8. पतञ्जलिः —‌ अयं शब्दः 'पतन् अञ्जलिः नमस्यतया यस्मिन्' इति बहुव्रीहिसमासं कृत्वा सिद्ध्यति । महाभाष्यस्य रचयितुः इदं नाम । प्रक्रियायाम् 'पतत्' शब्दस्य टिसंज्ञकस्य (अत् इत्यस्य) 'अञ्जलिः'शब्दस्य अकारेण सह पररूपैकादेशं कृत्वा अकारः जायते । पतत् + अञ्जलिः → पत् + (अत् + अ) + ञ्जलिः → पत् + अ + ञ्जलिः →‌ पतञ्जलिः ।\n9. सारङ्गः — अयं शब्दः 'साराणि (spotted) अङ्गानि (organs) यस्य सः' इति बहुव्रीहिसमासं कृत्वा सिद्ध्यति । कस्यचन पक्षिणः इदं नाम । प्रक्रियायाम् 'सार' शब्दस्य टिसंज्ञकस्य (अकारस्य) 'अङ्ग'शब्दस्य अकारेण सह पररूपैकादेशं कृत्वा अकारः जायते । सार + अङ्ग → सार् + (अ + अ) + ङ्गः → सार् + अ + ङ्गः →‌ सारङ्गः ।\n\nशकन्ध्वादिगणः आकृतिगणः अस्ति । अतः शिष्टप्रयोगैः अन्ये शब्दाः अपि अस्मिन् गणे भवितुम् अर्हन्ति । यथा - 'मृतम् अण्डम् यस्य सः' इत्यत्र बहुव्रीजहिसमासे कृते मृत + अण्ड → मृत् + (अ + अ) + ण्डः → मृत् + अ + ण्डः → मृतण्डः इति साधितः मृतण्डशब्दः अपि अस्मिन् गणे स्वीक्रियते । \n \n'नियोगः' इत्युक्ते अवधारणम् (निश्चयः) । सामान्यरूपेण वाक्ये एवशब्दस्य प्रयोगः नियोगार्थे एव भवति । यथा, 'गणेशः मोदकम् एव खादति' इत्युक्ते 'मोदकं विना गणेशः किमपि न खादति, सः निश्चयेन (for sure) मोदकम् एव खादति' इति । परन्तु कुत्रचित् नियोगभिन्नार्थे अपि 'एव'शब्दस्य प्रयोगः कृतः दृश्यते । एतेषु स्थलेषु पूर्वपदस्य अन्तिमस्वरेण सह एवशब्दस्य एकारस्य पररूपैकादेशः एकारः भवति — इति अस्य वार्त्तिकस्य आशयः । यथा, क्व + एव → क्वेव । कुत्र इत्याशयः । \nनियोगार्थे प्रयुक्तस्य एवशब्दस्य तु <<वृद्धिरेचि>> [[6.1.88]] इति वृद्ध्येकादेशः एव भवति । यथा, तव + एव → तवैव। \n \nयदि समस्तपदस्य उत्तरपदम् 'ओतु' (= मार्जारः) अथवा 'ओष्ठ' एताभ्याम् कश्चन शब्दः अस्ति, तर्हि तस्य समस्तपदस्य निर्माणं विकल्पेन पररूप-एकादेशं कृत्वा भवति । यथा —\n\n1. स्थूलश्च असौ ओतुश्च (कर्मधारयसमासः) → स्थूल + ओतु → स्थूलोतु, स्थूलौतु । अत्र अनेन विकल्पेन पररूप-एकादेशः भवति । पक्षे <<वृद्धिरेचि>> [[6.1.88]] इत्यनेन वृद्धि-एकादेशः भवति ।\n2. बिम्बः इव ओष्ठः यस्य सः (बहुव्रीहिसमासः) → बिम्ब + ओष्ठ → बिम्बोष्ठ, बिम्बौष्ठ ।\n3. दन्ताश्च ओष्ठौ च एतयोः समाहारः (द्वन्द्वसमासः) → दन्त + ओष्ठ → दन्तोष्ठ , दन्तौष्ठ ।\n4. कण्ठश्च ओष्ठौ च एतयोः समाहारः (द्वन्द्वसमासः) → कण्ठ + ओष्ठ →‌ कण्ठोष्ठ, कण्ठौष्ठ । \n\nसमस्तपदं न विद्यते चेत् एतत् वार्त्तिकम् नैव प्रवर्तते । यथा - तव + ओष्ठ = तवौष्ठ । अत्र <<वृद्धिरेचि>> [[6.1.88]] इति वृद्ध्येकादेशः एव भवति ।\n \n'एमन्' , 'ओद्वन्', 'इष्टि' — एतेषाम् शब्दानाम् विषये वेदेषु पररूपं दृश्यते । यथा —\n\n1. त्वा + एमन् = त्वेमन् । \n2. त्वा + ओद्वन् = त्वोद्वन् । \n3. अभि + इष्टि = अभिष्टि । \n4. परि + इष्टि = परिष्टि । (ऋग्वेदस्य प्रथममण्डलस्य 65 तमे सूक्ते तृतीये मन्त्रे 'परिष्टि' इत्यस्य प्रयोगः दृश्यते ।)\n" }, "61095": { "sa": "अवर्णात् ओम्-शब्दे परे आङ्-शब्दे च परे संहितायाम् पूर्वपरयोः एकः पररूप-एकादेशः भवति ।", "sd": "अवर्णात् (इत्युक्ते, अकारात् उत आकारात्) परः यदि 'ओम्' (ॐ) शब्दः, अथवा 'आङ्' उपसर्गः विद्यते चेत् संहिताया: विषये पूर्वपरवर्णयोः पररूप-एकादेशः भवति । \nउदाहरणानि क्रमेण एतादृशानि —\n(1) ओम्-शब्दः — अवर्णात् ओम्-शब्दस्य ओकारे परे पूर्वपरयोः <<वृद्धिरेचि>> [[6.1.88]] इत्यनेन वृद्ध्येकादेशे प्राप्ते, तद्बाधित्वा प्रकृतसूत्रेण पररूप-एकादेशः भवति ।\n\n
  • शिवाय ओम् नमः → शिवायोम् नमः ।\n
  • का ओम् अवोचत् → कोम् अवोचत् ।\n\n(2) आङ्-उपसर्गः — धातुरूपस्य आदौ विद्यमानः आङ्-उपसर्गः अवर्णात् परः विद्यते चेत् पूर्वपरयोः पररूप-एकादेशः भवति । वस्तुतस्तु अस्यां स्थितौ <ऽधातूपसर्गयोः कार्यम् अन्तरङ्गम्ऽ> इति परिभाषया आदौ आङ्-उपसर्गस्य धातुना सह सन्धिकार्यम् क्रियते । अनेन सन्धिकार्येण आङ्-इत्यस्य स्थाने जायमानेन वर्णेन सह तस्मात् पूर्वम् विद्यमानस्य अवर्णस्य पररूपैकादेशः भवितुम् अर्हति । यथा —\n\n
  • 1. अद्य + आ + इङ्खति इत्यत्र आङ्-उपसर्गस्य 'इङ्खति' इत्यस्य इकारेण सह गुणैकादेशे कृते अद्य + एङ्खति इति स्थिते, <<वृद्धिरेचि>> [[6.1.88]] इत्यनेन वृद्ध्येकादेशे प्राप्ते, तद्बाधित्वा प्रकृतसूत्रेण पररूप-एकादेशः भवति, येन अद्येङ्खति इति रूपं सिद्ध्यति ।\n
  • 2. अद्य + आ + उङ्खति इत्यत्र आङ्-उपसर्गस्य 'उङ्खति' इत्यस्य उकारेण सह गुणैकादेशे कृते अद्य + ओङ्खति इति स्थिते, <<वृद्धिरेचि>> [[6.1.88]] इत्यनेन वृद्ध्येकादेशे प्राप्ते, तद्बाधित्वा प्रकृतसूत्रेण पररूप-एकादेशः भवति, येन अद्योङ्खति इति रूपं सिद्ध्यति ।\n\n<<ओमाङोश्च>> [[6.1.95]] इति सूत्रम् सर्वेषाम् सन्धिकार्याणाम् बाधकम्\nप्रकृतसूत्रम् अन्येषाम् सर्वेषाम् सन्धिकार्याणाम् बाधकरूपेण विधीयते । तदित्थम् —\n1. <<ओमाङोश्च>> [[6.1.95]] इति <<वृद्धिरेचि>> [[6.1.88]] इत्यस्य बाधकम् — \nअद्य + आ + इङ्खति इत्यत्र आङ्-उपसर्गस्य 'इङ्खति' इत्यस्य इकारेण सह गुणैकादेशे कृते अद्य + एङ्खति इति स्थिते, <<वृद्धिरेचि>> [[6.1.88]] इत्यनेन वृद्ध्येकादेशे प्राप्ते, तद्बाधित्वा <<ओमाङोश्च>> [[6.1.95]] इत्यनेन पररूप-एकादेशः भवति, येन अद्येङ्खति इति रूपं सिद्ध्यति ।\n2. <<ओमाङोश्च>> [[6.1.95]] इति <<एत्येधत्यूठ्सु>> [[6.1.89]] इत्यस्य बाधकम् — \nशिव + आ + इहि इत्यत्र आङ्-उपसर्गस्य 'इहि' इत्यस्य इकारेण सह गुणैकादेशे कृते शिव + एहि इति स्थिते, <<एत्येधत्यूठ्सु>> [[6.1.89]] इत्यनेन वृद्ध्येकादेशे प्राप्ते, तत् परत्वात् बाधित्वा <<ओमाङोश्च>> [[6.1.95]] इत्यनेन पररूप-एकादेशः भवति, येन शिवेहि इति रूपं सिद्ध्यति ।\n3. <<ओमाङोश्च>> [[6.1.95]] इति <<एङि पररूपम्>> [[6.1.94]] इत्यस्य बाधकम् — \nप्र + आ + इङ्खति इत्यत्र आङ्-उपसर्गस्य 'इङ्खति' इत्यस्य इकारेण सह पररूपैकादेशे कृते प्र + एङ्खति इति स्थिते, <<एङि पररूपम्>> [[6.1.94]] इत्यनेन पररूप-एकादेशे प्राप्ते, तत् परत्वात् बाधित्वा <<ओमाङोश्च>> [[6.1.95]] इत्यनेन पुनः पररूप-एकादेशः एव भवति, येन प्रेङ्खति इति रूपं सिद्ध्यति ।\n4. <<ओमाङोश्च>> [[6.1.95]] इति <<अकः सवर्णे दीर्घः>> [[6.1.101]] इत्यस्य बाधकम् — \n'देवस्य आलयः' इत्यत्र देव + आङ् + लय इति स्थिते, <<अकः सवर्णे दीर्घः>> [[6.1.101]] इत्यनेन सवर्णदीर्घ-एकादेशे प्राप्ते, तत्बाधित्वा <<ओमाङोश्च>> [[6.1.95]] इत्यनेन पररूप-एकादेशः भवति, येन देवालय इति रूपं सिद्ध्यति । \nदेव + आलय → देवालय इत्यादिषु स्थलेषु <<अकः सवर्णे दीर्घः>> [[6.1.101]] इत्यनेन सवर्णदीर्घः मन्यते चेदपि नैव दोषाय इति बहवः वैयाकरणाः प्रतिपादयन्ति । तत् विधानम् छात्राणाम् सौलभ्यार्थम् कृतम् अस्ति । शास्त्रदृष्ट्या तु अत्र सवर्णदीर्घं बाधित्वा पररूप-एकादेशेन एव आकारः विधीयते ।" }, "61096": { "sa": "अपदान्त-अवर्णात् 'उस्' शब्दे परे संहितायाम् पूर्वपरयोः एकः पररूप-एकादेशः भवति ।", "sd": "<<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> [[3.4.78]] इति सूत्रेण विहितस्य प्रथमपुरुष-बहुवचनस्य झि-प्रत्ययस्य स्थाने <<झेर्जुस्>> [[3.4.108]] इत्यतः <<द्विषश्च>> [[3.4.112]] इत्येतैः सूत्रैः 'जुस्' इति आदेशः भवति । जुस्-प्रत्ययस्य जकारस्य इत्संज्ञा, लोपः भवति, येन 'उस्' इति अवशिष्यते । अयम् उस्-प्रत्ययः यदा अपदान्त-अवर्णात् (अकारात्/आकारात्) परः विद्यते, तदा अवर्ण-उकारयोः एकः पररूप-एकादेशः उकारः भवति — इति प्रकृतसूत्रस्य आशयः ।\nकेवलम् विधिलिङ्लकारस्य, लुङ्लकारस्य, तथा च लङ्लकारस्य परस्मैपदस्य प्रथमपुरुषबहुवचनस्य प्रक्रियासु इदम् सूत्रम् प्रयुक्तं दृश्यते । क्रमेण उदाहरणानि एतानि —\n1. विधिलिङ्लकारस्य परस्मैपदस्य प्रथमपुरुषबहुवचनस्य प्रक्रियायाम् अस्य सूत्रस्य प्रयोगः —\nविधिलिङ्-लकारस्य प्रथमपुरुषबहुवचनस्य झि-प्रत्ययस्य <<झेर्जुस्>> [[3.4.108]] इत्यनेन जुस्-आदेशः भवति । जकारस्य अत्र <<चुटू>> [[1.3.7]] इत्यनेन इत्संज्ञा भवति, तस्याः लोपे कृते प्रत्ययस्य दृश्यरूपम् उस् इति जायते । अपदान्त-अवर्णात् अयम् उस्-प्रत्ययः विद्यते चेत् पूर्वपरयोः एक पररूपैकादेशः विधीयते । यथा, रुधादिगणस्य भिद्-धातोः 'भिन्द्युः' इति रूपम् इत्थं सिद्ध्यति —\n\nभिदिँर् (अवदारणे, रुधादिः, <{7.2}>)\n→ भिद् [ इति वार्त्तिकेन 'इँर्' इति समुदायस्य इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ भिद् + लिङ् [<<विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्>> [[3.3.161]] इति विधिलिङ्लकारः]\n→ भिद् + झि [प्रथमपुरुषबहुवचनस्य विवक्षायाम् <<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> [[3.4.78]] इति झि-प्रत्ययः]\n→ भि श्नम् द् झि [<<रुधादिभ्यः श्नम्>> [[3.1.78]] इति श्नम्-प्रत्ययः ।<<मिदचोऽन्त्यात्परः>> [[1.1.47]] इति अयम् अन्त्यात् अचः परः विधीयते ।]\n→ भि न द् झि [मकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा, शकारस्य <<लशक्वतद्धिते>> [[1.3.8]] इति इत्संज्ञा । द्वयोः अपि <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ भि न् द् झि [<<श्नसोरल्लोपः>> [[6.4.111]] इति अकारलोपः]\n→ भि न् द् उस् [<<झेर्जुस्>> [[3.4.108]] इति झि-इत्यस्य जुस्-आदेशः । जकारस्य <<चुटू>> [[1.3.7]] इति इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ भि न् द् यास् उस् [<<यासुट् परस्मैपदेषूदात्तो ङिच्च>> [[3.4.103]] इत्यनेन यासुट्-आगमः]\n→ भि न् द् या उस् [<<लिङः सलोपोऽनन्त्यस्य>> [[7.2.79]] इत्यनेन यास्-इत्यस्य सकारस्य लोपः]\n→ भिन्द्युस् ['या' इत्यस्य अपदान्त-आकारात् 'उस्' प्रत्यये परे <<उस्यपदान्तात्>> [[6.1.96]] इत्यनेन पररूप-एकादेशः उकारः विधीयते ।]\n→ भिन्द्युः [<<ससजुषोः रुँः>> [[8.2.66]] इति रुँत्वम्, <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः ।]\n\n2. लुङ्लकारस्य परस्मैपदस्य प्रथमपुरुषबहुवचनस्य प्रक्रियायाम् अस्य सूत्रस्य प्रयोगः —\nआकारान्त-धातोः लुङ्-लकारस्य प्रक्रियायाम् सिच्-विकरणस्य लुक् भवति चेत् <<आतः>> [[3.4.110]] इति सूत्रेण झि-प्रत्ययस्य जुस्-आदेशः भवति । जकारस्य अत्र <<चुटू>> [[1.3.7]] इत्यनेन इत्संज्ञा भवति, तस्याः लोपे कृते प्रत्ययस्य दृश्यरूपम् उस् इति जायते । अस्मिन् उस्-प्रत्यये परे धातोः अन्ते विद्यमानस्य आकारस्य प्रकृतसूत्रेण पररूपैकादेशः कृतः दृश्यते । यथा, भ्वादिगणस्य 'पा' धातोः 'अपुः' इति रूपम् इत्थं सिद्ध्यति —\n\nपा (पाने, भ्वादिः, <{1.1074}>)\n→ पा + लुङ् [<<लुङ्>> [[3.2.110]] ]\n→ पा + च्लि + लुङ् [<<च्लि लुङि>> [[3.1.43]] ]\n→ पा + सिच् + लुङ् [<<च्लेः सिच्>> [[3.1.44]] इति सिच्-आदेशः]\n→ पा + लुङ् [<<गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु>> [[2.4.77]] इति सिच्-प्रत्ययस्य लुक्]\n→ अ + पा + लुङ् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ + पा + झि [प्रथमपुरुषबहुवचनस्य विवक्षायाम् <<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> [[3.4.78]] इति झि-प्रत्ययः]\n→ अ + पा + जुस् [<<आतः>> [[3.4.110]] इत्यनेन आकारात् अङ्गात् परस्य (सिच्-प्रत्ययस्य लुकि कृते) झि-प्रत्ययस्य जुस्-आदेशः]\n→ अ + पा + उस् [<<चुटू>> [[1.3.7]], <<तस्य लोपः>> [[1.3.9]]\n→ अ + प् + उस् ['पा' इत्यस्य अपदान्त-आकारात् 'उस्' प्रत्यये परे <<उस्यपदान्तात्>> [[6.1.96]] इत्यनेन पररूप-एकादेशः उकारः विधीयते ।]\n→ अपुः [<<ससजुषोः रुँः>> [[8.2.66]] इति रुँत्वम्, <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः ।]\n\n3. लङ्लकारस्य परस्मैपदस्य प्रथमपुरुषबहुवचनस्य प्रक्रियायाम् अस्य सूत्रस्य प्रयोगः —\nआकारान्तात् उत्तरस्य लङ्लकारस्य झि-प्रत्ययस्य <<लङः शाकटायनस्यैव>> [[3.4.111]] इत्यनेन विकल्पेन जुस्-आदेशः भवति । जकारस्य अत्र <<चुटू>> [[1.3.7]] इत्यनेन इत्संज्ञा भवति, तस्याः लोपे कृते प्रत्ययस्य दृश्यरूपम् उस् इति जायते । अस्मिन् उस्-प्रत्यये परे धातोः अन्ते विद्यमानस्य आकारस्य प्रकृतसूत्रेण पररूपैकादेशः कृतः दृश्यते । यथा, अदादिगणस्य 'पा (रक्षणे)' धातोः 'अपुः' इति रूपम् इत्थं सिद्ध्यति —\n\nपा (रक्षणे, अदादिः, <{2.51}>)\n→ पा + लङ् [<<अनद्यतने लङ्>> [[3.2.111]] इति लङ्]\n→ पा + झि [<<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> [[3.4.78]] इति प्रथमपुरु\n→ पा + च्लि + लुङ् [<<च्लि लुङि>> [[3.1.43]] ]\n→ पा + सिच् + लुङ [<<च्लेः सिच्>> [[3.1.44]] इति सिच्-आदेशः]\n→ पा + लुङ् [<<गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु>> [[2.4.77]] इति सिच्-प्रत्ययस्य लुक्]\n→ अ + पा + लुङ् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ + पा + झि [प्रथमपुरुषबहुवचनस्य विवक्षायाम् <<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> [[3.4.78]] इति झि-प्रत्ययः]\n→ अ + पा + शप् + झि [<<कर्तरि शप्>> [[3.1.68]] इति शप्-प्रत्ययः]\n→ अ + पा + झि [<<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शपः लुक्]\n→ अ + पा + जुस् [<<लङः शाकटायनस्यैव>> [[3.4.111]] इति झि-प्रत्ययस्य पाक्षिकः जुस्-आदेशः]\n→ अ + पा + उस् [<<चुटू>> [[1.3.7]], <<तस्य लोपः>> [[1.3.9]]\n→ अ + प् + उस् ['पा' इत्यस्य अपदान्त-आकारात् 'उस्' प्रत्यये परे <<उस्यपदान्तात्>> [[6.1.96]] इत्यनेन पररूप-एकादेशः उकारः विधीयते ।]\n→ अपुः [<<ससजुषोः रुँः>> [[8.2.66]] इति रुँत्वम्, <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः ।]\n\nदलकृत्यम्\nअपदान्तात् इति किमर्थम् ? पदान्त-अवर्णात् परस्य 'उस्' इत्यस्य विषये इदं सूत्रं नैव प्रवर्तते । यथा, 'का + उस्रा (धेनुः इत्यर्थः)' इत्यत्र अस्य सूत्रस्य प्रसक्तिः नास्ति यतः अत्र आकारः पदान्ते विद्यमानः अस्ति । अतः अत्र <<आद्गुणः>> [[6.1.87]] इति गुणैकादेशे कृते 'कोस्रा' इत्येव सिद्ध्यति । \nएवमेव, आङ्-उपसर्गपूर्वकात् वस्-धातोः क्त-प्रत्यये कृते आ + उषिता इत्यत्र <<शासिवसिघसीनां च>> [[8.3.60]] इति त्रिपादीसूत्रेण प्राप्तस्य षत्वस्य असिद्धत्वात् आ + उसिता इत्येव दृष्ट्वा प्रकृतसूत्रम् नैव प्रवर्तते, यतः 'आ' इति उपसर्गः पदसंज्ञकः अपि अस्ति, अतः अत्र अपदान्तः अवर्णः न हि विद्यते ।\nलिट्-लकारस्य उस्-प्रत्ययः\nलिट्-लकारस्य परस्मैपदस्य प्रथमपुरुषबहुवनस्य झि-प्रत्ययस्य <<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इति सूत्रेण उस्-आदेशः सम्भवति । परन्तु अस्य उस्-आदेशस्य विषये प्रकृतसूत्रं नैव प्रवर्तते, यतः अयम् उस्-प्रत्ययः <<लिट् च>> [[3.4.115]] इत्यनेन आर्धधातुकः अस्ति; अपि च अकारान्तात् / आकारान्तात् धातोः विहितः अयं प्रत्ययः <<असंयोगाल्लिट् कित्>> [[1.2.5]] इत्यनेन च किद्वत् अपि भवति, अतः अस्मात् प्रत्ययात् पूर्वम् विद्यमानस्य अकारस्य <<अतो लोपः>> [[6.4.48]] इत्यनेन, तथा च आकारस्य <<आतो लोप इटि च>> [[6.4.64]] इत्यनेनैव अङ्गकार्यस्य सोपानेषु एव लोपः क्रियते, तदर्थम् प्रकृतसूत्रम् नैव आवश्यकम् ।" }, "61097": { "sa": "अपदान्त-अकारात् गुणे परे संहितायाम् पूर्वपरयोः एकः पररूप-एकादेशः भवति । ", "sd": "अपदान्त-अकारात् संहितायाम् गुणसंज्ञकः वर्णः (अकार-एकार-ओकारः एतेषु कश्चन वर्णः) विद्यते चेत् पूर्वपरयोः एकः पररूप-एकादेशः भवति । इत्युक्ते, अकार-अकारयोः स्थाने अकारः, अकार-एकारयोः स्थाने एकारः, अकार-ओकारयोः स्थाने च ओकारः विधीयते । उदाहरणानि एतानि —\n1. अपदान्त-अकारात् अकारे परे पररूपैकादेशः अकारः —\nपठ्-धातोः लट्-लकारस्य प्रथमपुरुषबहुवचनस्य पठन्ति इति रूपस्य सिद्धौ अस्य सूत्रस्य प्रयोगः दृश्यते —\n\nपठँ (व्यक्तायां वाचि, भ्वादिः, <{1.381}>)\n→ पठ् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ पठ् + झि [<<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> [[3.4.78]] इति प्रथमपुरुषबहुवचनस्य विवक्षायाम् झि-प्रत्ययः]\n→ पठ् + शप् + झि [<<कर्तरि शप्>> [[3.1.68]] इति शप्-प्रत्ययः]\n→ पठ् + अ + अन्ति [<<झोऽन्तः>> [[7.1.3]] इति झकारस्य अन्तादेशः]\n→ पठ् + अन्ति [अपदान्त-अकारात् अकारे परे <<अतो गुणे>> [[6.1.97]] इति उभयोः पररूपैकादेशः अकारः]\n→ पठन्ति\n\n2. अपदान्त-अकारात् एकारे परे पररूपैकादेशः एकारः —\nलभ्-धातोः लट्-लकारस्य उत्तमपुरुषैकवचनस्य लभे इति रूपस्य सिद्धौ अस्य सूत्रस्य प्रयोगः दृश्यते —\n\nडुलभँष् (प्राप्तौ, भ्वादिः, <{1.1130}>)\n→ लभ् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ लभ् + इट् [<<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> [[3.4.78]] इति आत्मनेपदस्य उत्तमपुरुषैकवचनस्य विवक्षायाम् इट्-प्रत्ययः]\n→ लभ् + शप् + इ [<<कर्तरि शप्>> [[3.1.68]] इति शप्-प्रत्ययः]\n→ लभ् + अ + ए [<<टित आत्मनेपदानां टेरे>> [[3.4.79]] इति एकारः]\n→ लभ् + ए [अपदान्त-अकारात् एकारे परे <<अतो गुणे>> [[6.1.97]] इति उभयोः पररूपैकादेशः एकारः]\n→ लभे\n\n3. अपदान्त-अकारात् ओकारे परे पररूपैकादेशः ओकारः — अस्य उदाहरणानि न विद्यन्ते ।\nबाध्यबाधकभावः\nप्रकृतसूत्रम् <<वृद्धिरेचि>> [[6.1.88]] , <<अकः सवर्णे दीर्घः>> [[6.1.101]] तथा च <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इति त्रयाणाम् सूत्राणाम् अपवादत्वेन प्रवर्तते । एतानि त्रीणि सूत्राणि मिलित्वा प्रकृतसूत्रस्य प्रयोजनम् घ्नन्ति इत्याशयः । तदित्थम् —\n\n1. उपरिनिर्दिष्टायाम् लभे शब्दस्य निर्दिष्टायाम् प्रक्रियायाम् <<वृद्धिरेचि>> [[6.1.88]] इत्यनेन प्राप्तम् वृद्धेकादेशं बाधित्वा प्रकृतसूत्रेण पररूपैकादेशः विधीयते । \n2. उपरिनिर्दिष्टायाम् पठन्ति शब्दस्य प्रक्रियायाम् <<अकः सवर्णे दीर्घः>> [[6.1.101]] इत्यनेन प्राप्तम् सवर्णदीर्घं बाधित्वा प्रकृतसूत्रेण पररूपैकादेशः विधीयते । \n3. राम + जस् इत्यत्र <<अकः सवर्णे दीर्घः>> [[6.1.101]] इत्यनेन प्राप्तम् सवर्णदीर्घं परत्वात् बाधित्वा <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इत्यनेन पूर्वसवर्णदीर्घः प्राप्नोति । अस्य पूर्वसवर्णदीर्घस्य अपि अपवादत्वेन अत्र <<अतो गुणे>> [[6.1.97]] इति प्रकृतसूत्रं प्रवर्तते; परन्तु <ऽपुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान्ऽ> इति परिभाषया अयम् अपवादः <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इत्यस्य बाधकः न भवति । इत्युक्ते, राम + जस् इत्यत्र <<अतो गुणे>> [[6.1.97]] तथा च <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इत्येतयोः द्वयोः अपि प्राप्तौ सत्याम् परत्वात् <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इत्यस्यैव प्रयोगः भवति । प्रक्रिया इयम् —\n\nराम + जस् [<<स्वौजस्..>> [[4.1.2]] इति प्रथमाबहुवचनस्य जस्-प्रत्ययः]\n→ राम + अस् [<<चुटू>> [[1.3.7]], <<तस्य लोपः>> [[1.3.9]]]\n→ रामास् [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इत्यनेन सवर्णदीर्घैकादेशे (आकारे) प्राप्ते; परत्वात् तद्बाधित्वा <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इत्यनेन पूर्वसवर्णदीर्घे प्राप्ते; अपवादत्वात् तद्बाधित्वा <<अतो गुणे>> [[6.1.97]] इत्यनेन पररूप-एकादेशे (अकारे) प्राप्ते, <ऽपुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान्ऽ> इति न्यायेन <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इत्यस्यैव प्रयोगं कृत्वा पूर्वसवर्णदीर्घादेशः भवति ।]\n→ रामाः [<<ससजुषो रुः>> [[8.2.66]],<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] ]\n\n\nदलकृत्यम्\n1. अपदान्तात् इति किम् ? पदान्त-अकारस्य विषये इदं सूत्रं नैव प्रवर्तते । यथा, दण्डस्य अग्रम् इत्यत्र दण्ड + अग्रम् इति स्थिते पूर्वपदस्य अन्ते विद्यमानस्य अकारस्य पदान्तत्वं दृष्ट्वा अत्र प्रकृतसूत्रं नैव प्रवर्तते, अतः अत्र <<अकः सवर्णे दीर्घः>> [[6.1.101]] इत्यनेन सवर्णदीर्घे कृते रूपसिद्धिः भवति ।\n2. अत् इति तपरकरणम् किमर्थम् ? अकारेण जायमानस्य सवर्णग्रहणस्य नियमनार्थम् प्रकृतसूत्रे अत् इति अकारस्य तपरकरणम् कृतम् अस्ति । इत्युक्ते, <<तपरस्तत्कालस्य>> [[1.1.70]] इति सूत्रम् उपयुज्य अत् इत्यनेन अकारस्य केवलम् तत्कालवाचिभेदानाम् (ह्रस्वभेदानाम्) एव ग्रहणं भवति, दीर्घभेदानाम् न । अतः अपदान्त-आकारस्य विषये इदं सूत्रं नैव प्रवर्तते । अतएव या धातोः लट्लकारस्य प्रथमपुरुषबहुवचनस्य 'अन्ति' प्रत्यये परे प्रकृतसूत्रम् नैव विधीयते, अपितु केवलम् सवर्णदीर्घं कृत्वा 'यान्ति' इति रूपं सिद्ध्यति ।\n" }, "61098": { "sa": "अव्यक्तानुकरणवाचिपदस्य अन्ते विद्यमानः यः 'अत्' इति अंश, तस्मात् इति-शब्दे परे संहितायाम् पूर्वपरयोः एकः पररूप-एकादेशः भवति ।", "sd": "अव्यक्तानुकरणम् इत्युक्ते कस्यचन ध्वनेः अस्फुटरूपेण अनुकरणम् (Trying to imitate a sound by using syllables). लोके विद्यमानाः अनेके ध्वनयः वर्णैः स्पष्टरूपेण व्यक्ताः न भवन्ति । Many sounds that occur around us cannot be precisely expressed using the letters in the language. यथा - द्वारताडनस्य ध्वनिः (The sound of a knocking a door), घण्टायाः ध्वनिः (The sound of a bell), फलस्य पतनस्य ध्वनिः (The sound of a fruit falling on ground), जलप्रपातस्य ध्वनिः (The sound of a waterfall), सर्पस्य गमनस्य ध्वनिः ( The sound of crawling of snake) आदयः । एतेषाम् निर्देशार्थम् यद्यपि विशिष्टाः वर्णाः न विद्यन्ते, तथापि जनैः भिन्नासु भाषासु एते ध्वनयः भिन्नानाम् शब्दानाम् प्रयोगेण अवश्यम् निर्दिश्यन्ते । यथा - द्वारस्य ध्वनिः 'खट्-खट्' इत्यनेन, घटिकायाः ध्वनिः 'टिक्-टिक्' इत्यनेन, सर्पस्य ध्वनिः 'सर्-सर्' इत्यनेन, फलस्य पतनस्य ध्वनिः 'धम्' इत्यनेन - आदयः । संस्कृतभाषायाम् अपि एतादृशाः शब्दाः प्रयुक्ताः दृश्यन्ते । यथा - पटत् इति जलबिन्दूनाम् पतनस्य ध्वनिः (The sound of water droplets), धमत् इति बकुरवादनस्य ध्वनिः (The sound of blowing a trumpet), छमत् इति अग्निदहनस्य ध्वनिः (crackling noise appearing in fire) - आदयः । एतादृशाः शब्दाः अव्यक्तध्वनेः अनुकरणम् कुर्वन्ति (These words try to mimic an otherwise-non-reproducible sound), अतः एते सर्वे शब्दाः अव्यक्त-अनुकरण-वाचिनः सन्ति इति उच्यते । एतादृशेभ्यः अव्यक्तानुकरणवाचिभ्यः शब्देभ्यः अनन्तरम् यदि 'इति' अयम् शब्दः आगच्छति तर्हि पूर्वशब्दस्य 'अत्' तथा परशब्दस्य 'इ' एतयोः एकः पररूप-एकादेशः इकारः भवति — इति प्रकृतसूत्रस्य आशयः । यथा — \n\nपटत् इति \n→ पट् अत् + इ ति \n→ पट् इ ति [<<अव्यक्तानुकरणस्यात इतौ>> [[6.1.98]] इत्यनेन 'अत्' इत्यस्य इकारेण पररूपैकादेशः इकारः]\n→ पटिति\n \nएवमेव, घटत् इति → घटितिछमत् इति → छमितिडमत् इति → डमिति — एते शब्दाः अपि सिद्ध्यन्ति । \nवार्त्तिकम् - <!अनेकाचः इति वक्तव्यम् !>\nअस्य सूत्रस्य प्रयोगः अनेकाच्-शब्दानां विषये एव भवति इति अस्य वार्त्तिकस्य अर्थः । इत्युक्ते, यदि अनुकरणवाची शब्दः एकाच्-अस्ति, तर्हि इदम् पररूपम् न भवति । यथा - श्रत् इति → श्रदिति । अत्र जश्त्वे कृते वर्णमेलनं कृत्वा रूपं सिद्ध्यति । \nदलकृत्यम्\n\n1. अव्यक्तानुकरणस्य इति किम्? — यदि शब्दः ध्वनेः अनुकरणं न करोति तर्हि इदं सूत्रम् न प्रयुज्यते । जगत् + इति → जगदिति ।\n2. अतः इति किम् ? — यदि अनुकरणवाचिनः शब्दस्य अन्ते 'अत्' इति न विद्यते तर्हि इदं सूत्रम् न प्रयुज्यते । मरट् + इति → मरडिति । घटद् + इति → घटदिति । अत्र 'घटद्' इति दकारान्तः शब्दः अस्ति, तस्य तकारादेशः न सम्भवति, अतः अत्र अस्य सूत्रस्य प्रसक्तिः नास्ति । \n3. इतौ इति किम् ? — यदि उत्तरपदम् 'इति' इति न विद्यते तर्हि इदं सूत्रम् न प्रयुज्यते । पटत् + अत्र → पटदत्र ।\n\nअस्मिन् सूत्रे प्रयुक्तः 'अत्' अयं शब्दः अकारस्य तपरकरणम् नास्ति, अपितु 'अत्' इति साक्षात् द्विमात्रिकः शब्दः अस्ति । अतः पूर्वपदस्थः यः 'अत्', तस्य सम्पूर्णस्य पररूपम् भवति ।\n" }, "61099": { "sa": "अव्यक्तानुकरणवाचिशब्दस्य अन्ते विद्यमानः 'अत्' इति अंशः आम्रेडितसंज्ञकस्य अस्ति चेत् तस्मात् इति-शब्दे परे <<अव्यक्तानुकरणस्यात इतौ>> [[6.1.98]] इति पूर्वसूत्रेण उक्तः पररूप-एकादेशः न भवति, अपितु तकार-इकारयोः विकल्पेन पररूप-एकादेशः भवति ।", "sd": "<<अव्यक्तानुकरणस्यात इतौ>> [[6.1.98]] इति सूत्रेण उक्तस्य पररूप-एकादेशस्य आम्रेडितसंज्ञकशब्दानां विषये अनेन सूत्रेण अपवादः विधीयते । \nआम्रेडितम् — <<सर्वस्य द्वे>> [[8.1.1]] अस्मिन् अधिकारे विद्यमानैः सूत्रैः यदा द्वित्वं भवति, तदा तत्र निर्मिते ये द्वे आवृत्ती, ताभ्याम् द्वितीयस्य <<तस्य परमाम्रेडितम्>> [[8.1.2]] इति सूत्रेण आम्रेडितसंज्ञा भवति । The second word of the repetition is called आम्रेडित. \nअव्यक्तानुकरणम् — कस्यचन ध्वनेः अस्फुटरूपेण अनुकरणम् (Trying to imitate a sound by using syllables) अव्यक्तानुकरणम् नाम्ना ज्ञायते । यत्र ध्वनेः स्पष्टरूपेण वर्णनम् / अनुकरणम् कर्तुं न शक्यते, तत्र तम् ध्वनिं दर्शयितुम् तत्र केचन शब्दाः भाषायाम् प्रयुज्यन्ते; यथा - 'पटत्, घटत्, छमत्, डमत्' इत्यादयः, ते एव अव्यक्तानुकरणवाचिनः शब्दाः । अस्य शब्दस्य अधिकः विस्तरः <<अव्यक्तानुकरणस्यात इतौ>> [[6.1.98]] इति सूत्रार्थे दृश्यताम् ।\nएतादृशाः अव्यक्तानुकरणवाचिनः शब्दाः यत्र नित्यताम् उत पौनःपुन्यम् दर्शयितुम् प्रयुज्यन्ते, तत्र <<नित्यवीप्सयोः>> [[8.1.4]] इति सूत्रेण तेषाम् द्वित्वं भवति, अतः 'पटत् पटत्', 'डमत् डमत्' , 'धमत् धमत्' एतादृशाः प्रयोगाः भाषायाम् प्रयुक्ताः दृश्यन्ते । एतेभ्यः अव्यक्तानुकरणवाचिभ्यः कृतद्वित्वेभ्यः शब्देभ्यः अनन्तरम् यदि 'इति' इति शब्दः विद्यते, तर्हि तत्र विद्यमानस्य आम्रेडितसंज्ञकस्य शब्दस्य 'अत्' इति अंशस्य 'इति'शब्दस्य इकारेण सह <<अव्यक्तानुकरणस्यात इतौ>> [[6.1.98]] इति पूर्वसूत्रेण प्राप्तः पररूपैकादेशः प्रकृतसूत्रेण निषिध्यते, तथा च अन्तिम-तकारस्य इकारेण सह विकल्पेन पररूपैकादेशः विधीयते । यथा‌ — \n\nपटत् पटत् इति \n→ पटत् पट + (त् + इ) + ति‌ \n→ पटत् + पट + इ + ति [<<नाम्रेडितस्यान्त्यस्य तु वा>> [[6.1.99]] इति तकार-इकारयोः पररूपैकादेशः इकारः । अयं विकल्पेन भवति ।\n→ पटत्पटेति [<<आद्गुणः>> [[6.1.87]] इति गुणैकादेशः]\nपक्षे (यत्र पररूपैकादेशः न विधीयते तत्र) 'पटत् पटत् इति' इत्येव स्थिते, पदान्ततकारस्य जश्त्वे कृते 'पटत्पटदिति' इत्यपि सिद्ध्यति ।\n\nएवमेव, घटत् घटत् इति → घटद्घटेति / घटद्घटदितिछमत् छमत् इति → छमच्छमेति / छमच्छमदितिडमत् डमत् इति → डमड्डमेति / डमड्डमदिति — एते शब्दाः अपि सिद्ध्यन्ति । \n" }, "61100": { "sa": "यदि अव्यक्तानुकरणवाचिशब्दस्य अन्ते विद्यमानात् तकारात् परः आम्रेडितसंज्ञकः शब्दः विद्यते, तथा च आम्रेडितसंज्ञकात् परः डाच्-प्रत्ययः विहितः अस्ति, तर्हि तस्य अव्यक्तानुकरणवाचिशब्दस्य अन्तिमः वर्णः तथा च आम्रेडितसंज्ञकस्य आदिवर्णः - एतयोः पररूप-एकादेशः भवति । ", "sd": "अनेन सूत्रेण कृतद्वित्वस्य अव्यक्तानुकरणवाचिनः शब्दस्य डाच्-प्रत्यये परे पररूपैकादेशः उच्यते । \n\nअव्यक्तानुकरणवाची शब्दः — कस्यचन ध्वनेः अस्फुटरूपेण अनुकरणम् (Trying to imitate a sound by using syllables) अव्यक्तानुकरणम् नाम्ना ज्ञायते । यत्र ध्वनेः स्पष्टरूपेण वर्णनम् / अनुकरणम् कर्तुं न शक्यते, तत्र तम् ध्वनिं दर्शयितुम् तत्र केचन शब्दाः भाषायाम् प्रयुज्यन्ते; यथा - 'पटत्, घटत्, छमत्, डमत्' इत्यादयः, ते एव अव्यक्तानुकरणवाचिनः शब्दाः । अस्य शब्दस्य अधिकः विस्तरः <<अव्यक्तानुकरणस्यात इतौ>> [[6.1.98]] इति सूत्रार्थे दृश्यताम् । \nएतादृशाः अव्यक्तानुकरणवाचिनः शब्दाः 'कृ', 'भू' अथवा 'अस्' धातोः योगे प्रयुज्यन्ते चेत् <<अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच्>> [[5.4.67]] इति सूत्रेण एतेभ्यः शब्देभ्यः 'डाच्' इति तद्धितसंज्ञकः प्रत्ययः विधीयते । अस्य प्रत्ययस्य विवक्षायाम् अव्यक्तानुकरणवाचिनः शब्दस्य <<प्रकारे गुणवचनस्य>> [[8.1.12]] इत्यत्र पाठितेन इति वार्त्तिकेन द्वित्वम् अपि भवति । अस्मिन् द्वित्वे कृते, तत्र निर्मिते ये द्वे आवृत्ती, ताभ्याम् द्वितीयस्य <<तस्य परमाम्रेडितम्>> [[8.1.2]] इति सूत्रेण आम्रेडितसंज्ञा भवति । अस्याम् स्थितौ आम्रेडितसंज्ञकात् पूर्वं विद्यमानस्य शब्दस्य अन्ते उपस्थितः तकारः, तथा च आम्रेडितसंज्ञकस्य आदिवर्णः एतयोः मिलित्वा पररूप-एकादेशः भवति — इति प्रकृतसूत्रस्य आशयः । यथा —\n\nपटत् करोति [अत्र 'पटत्' इति अव्यक्तानुकरणवाची शब्दः अस्ति, सः च 'कृ' धातोः योगेः प्रयुक्तः अस्ति ।]\n→ पटत् पटत् डाच् करोति [<<अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच्>> [[5.4.67]] इत्यनेन पटत्-शब्दात् डाच्-प्रत्ययः, तस्य च विवक्षायाम् पटत्-शब्दस्य द्वित्वम् अपि भवति । ]\n→ पटत् पटत् आ करोति [डाच्-प्रत्ययस्य इत्संज्ञालोपः । अत्र विद्यमानस्य द्वितीय-पटत्-शब्दस्य <<तस्य परमाम्रेडितम्>> [[8.1.2]] इति आम्रेडितसंज्ञा भवति ।]\n→ पटपटत् आ करोति [प्रथमशब्दस्य अन्तिमवर्णः तकारः, तथा च आम्रेडितसंज्ञकस्य आदिवर्णः पकारः, एतयोः पररूप-एकादेशः (पकारः) भवति ।\n→ पटपट् आ करोति [<<टेः>> [[6.4.143]] इति डित्-प्रत्यये परे अङ्गस्य टिलोपः । अतः 'अत' इति अंशः अत्र लुप्यते ।]\n→ पटपटा करोति \n\nएवमेव अन्यानि अपि कानिचन उदाहरणानि —\n\n1. घटत् भवति → घटत्+घटत्+डाच् भवति → घटघटा भवति ।\n2. छमत् अस्ति → छमत्+छमत्+डाच् अस्ति → छमच्छमा अस्ति । अत्र पररूपैकादेशे कृते 'छम + छमा' इति स्थिते <<छे च>> [[6.1.73]] इति मकारोत्तरस्य अकारस्य तुगागमे, ततश्च श्चुत्वे कृते चकारः सिद्ध्यति ।\n3. डमत् अस्ति → डमत्+डमत्+डाच् अस्ति → डमडमा अस्ति । \n\nइदम् वस्तुतः वार्त्तिकम्, न हि सूत्रम्\nभाष्ये <<नित्यम् आम्रेडिते डाचि>> [[6.1.100]] इति वार्त्तिकरूपेण पाठ्यते, न हि सूत्ररूपेण । अतः कौमुद्याम् अपि इदं वार्त्तिकरूपेण एव स्वीकृतम् अस्ति । काशिकाकारेण तु इदं सूत्ररूपेण पाठयित्वा तस्य पृथक् सूत्रसङ्ख्या अपि दीयते ।\n" }, "61101": { "sa": "अक्-वर्णात् सवर्णे अच्-वर्णे परे संहितायाम् पूर्वपरयोः एकः दीर्घ-एकादेशः भवति । ", "sd": "\nअक् = अ, आ, इ, ई, उ, ऊ, ऋ, ॠ, ऌ ।\nअच् = अ, आ, इ, ई, उ, ऊ, ऋ, ॠ, ऌ, ए, ऐ, ओ, औ ।\n\nअक्-वर्णात् संहितायाम् सवर्णः अच्-वर्णः विद्यते चेत् पूर्वपरयोः एकः सवर्णदीर्घः भवति । उदाहरणानि एतानि —\n1. अवर्णात् परः अवर्णः —\n\n1. दैत्यस्य अरिः → दैत्य + अरिः → दैत्यारिः ।\n2. गङ्गायाः अरिः → गङ्गा + अरिः → गङ्गारिः ।\n3. कृष्णस्य आतिथ्यम् → कृष्ण + आतिथ्यम् → कृष्णातिथ्यम् ।\n4. सीतायाः आतिथ्यम् → सीता + आतिथ्यम् → सीताथित्यम् । \n\n2. इवर्णात् परः इवर्णः —\n\n1. शचेः इन्द्रः → शचि + इन्द्रः → शचीन्द्रः ।\n2. नद्याः इन्द्रः → नदी + इन्द्रः → नदीन्द्रः ।\n3. मुनीनाम् ईशः → मुनि + ईशः → मुनीशः । \n4. श्रियः ईशः → श्री + ईशः → श्रीशः ।\n4. सीतायाः आतिथ्यम् → सीता + आतिथ्यम् → सीताथित्यम् । \n\n3. उवर्णात् परः उवर्णः —\n\n1. भानोः उदयः → भानु + उदयः → भानूदयः ।\n2. भुवाः उदयः → भू + उदयः → भूदयः ।\n3. शिशोः ऊतिः (रक्षणम्) → शिशु + ऊतिः → शिशूतिः ।\n4. वध्वाः ऊतिः → वधू + ऊतिः → वधूतिः ।\n\n4. ऋवर्णात् परः ऋवर्णः/ऌवर्णः —\n\n1. पितुः ऋणम् → पितृ + ऋणम → पितॄणम् ।\n2. होतृ + ऌकारः → होतृ + ऌकारः → होतॄकारः । ऋकार-ऌकारयोः सवर्णदीर्घे दीर्घ-ॠकारः एकादेशरूपेण विधीयते ।\n\nवार्त्तिकद्वयम्\nअस्मिन् सूत्रे काशिकायां कौमुद्यां च द्वे वार्त्तिके पाठिते स्तः । एते वार्त्तिके एतदृशे —\n\nह्रस्व-ऋकारात् परः ह्रस्व-ऋकारः विद्यते चेत्, पूर्वपरयोः विकल्पेन 'र्रृ' इति कश्चन पररूपैकादेशः भवति — इति अस्य वार्त्तिकस्य अर्थः । अत्र पररूपैकादेशेन विहितः 'र्रृ' इति वर्णः द्विमात्रिकः अस्ति । द्वौ रेफौ तथा एकः ऋकारः एतेषाम् मेलनं कृत्वा अयं विशेषः वर्णः जायते (र्रृ = र् + र् + ऋ) । अस्य वर्णस्य नरसिंह-ऋकारः इति नाम दीयते । अतः होतृ + ऋकार इत्यत्र —\n\n1. अनेन वार्त्तिकेन विकल्पेन द्वयोः सामान्य-ऋकारयोः एकादेशे (नरसिंह-ऋकारे) कृते होत्र्रृकार इति शब्दः सिद्ध्यति । \n2. विकल्पाभावे <<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घं कृत्वा होतॄकार इत्यपि सिद्ध्यति । \n3. अपि च <<ऋत्यकः>> [[6.1.128]] अनेन सूत्रेण पाक्षिके प्रकृतिभावे कृते होतृऋकार इति अपि रूपं सिद्ध्यति ।\n\n\nह्रस्व-ऋकारात् परः ह्रस्व-ऌकारः विद्यते चेत्, पूर्वपरयोः विकल्पेन 'ल्लॢ' इति कश्चन पररूपैकादेशः भवति — इति अस्य वार्त्तिकस्य अर्थः । अत्र पररूपैकादेशेन विहितः 'ल्लॢ' इति वर्णः द्विमात्रिकः अस्ति । द्वौ लकारौ तथा एकः ऌकारः एतेषाम् मेलनं कृत्वा अयं विशेषः वर्णः जायते (ल्लॢ = ल् + ल् + ऌ) । अस्य नरसिंह-ऌकारः इति नाम दीयते । अतः होतृ + ऌकार इत्यत्र —\n\n1. अनेन वार्त्तिकेन विकल्पेन द्वयोः सामान्य-ऋकारयोः एकादेशे (नरसिंह-ऌकारे) कृते होत्ल्लॢकार इति शब्दः सिद्ध्यति । \n2. विकल्पाभावे <<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घं कृत्वा होतॄकार इत्यपि सिद्ध्यति । \n3. अपि च <<ऋत्यकः>> [[6.1.128]] अनेन सूत्रेण पाक्षिके प्रकृतिभावे कृते होतृऌकार इति अपि रूपं सिद्ध्यति ।\n\nबाध्यबाधकभावः\nप्रकृतसूत्रम् <<आद्गुणः>> [[6.1.87]] तथा च <<इको यणचि>> [[6.177]] इत्येतयोः अपवादरूपेण विधीयते । अवर्णात् सवर्णे अवर्णे परे <<आद्गुणः>> [[6.1.87]] इत्यनेन गुणैकादेशे प्राप्ते तं बाधित्वा अनेन सूत्रेण सवर्णदीर्घैकादेशः भवति (यथा, दैत्य + अरि → दैत्यारि इति) । एवमेव इवर्णात् उवर्णात् ऋवर्णात् वा सवर्णे अच्-वर्णे परे <<इको यणचि>> [[6.177]] इत्यनेन यणादेशे प्राप्ते तं बाधित्वा अनेन सूत्रेण सवर्णदीर्घैकादेशः भवति (यथा, मुनि + ईश → मुनीश इति) ।\n<<ओमाङोश्च>> [[6.1.95]] तथा च <<अतो गुणे>> [[6.1.97]] इति द्वे सूत्रे <<अकः सवर्णे दीर्घः>> [[6.1.101]] इत्यस्य सूत्रस्य अपवादरूपेण प्रवर्तेते ।\nसूत्रे 'अचि' पदस्य अनुवृत्तिः\nअस्मिन् सूत्रे <<इको यणचि>> [[6.1.77]] सूत्रात् 'अचि' इति पदम् अनुवर्तते । <<तुल्यास्यप्रयत्नं सवर्णम्>> [[1.1.9]] तथा <<नाज्झलौ>> [[1.1.10]] इत्येताभ्याम् सूत्राभ्याम् दीर्घ-ईकार-शकारयोः तथा च दीर्घ-ऋकार-षकारयोः सावर्ण्यं न निवार्यते, अतः अस्मिन् सूत्रे 'अचि' ग्रहणं न क्रियते चेत् 'कुमारी शेते' एतादृशेषु वाक्येषु अपि अनिष्टं सवर्णदीर्घं प्रसज्येत । अस्य विषयस्य विस्तरः अस्मिन् लेखे द्रष्टव्यः ।\nअकोऽकि दीर्घः इत्येव सुवचम्\nसिद्धान्तकौमुद्याम् अस्य सूत्रस्य व्याख्याने दीक्षितः <<अकोऽकि दीर्घः>> इत्येव सूत्रम् भवतु इति सूचयति । एतादृशम् सूत्रम् क्रियते चेत् लाघवम् अपि सम्भवति इति आशयः । तत्कथमिति चेत्, 'अकः अकि' इत्युच्यमाने 'अचि' इत्यस्य अनुवृत्तिः न हि आवश्यकी वर्तते । अपि च, सूत्रे 'सवर्ण' इति शब्दः अपि नैव आवश्यकः वर्तते, यतः <<यथासंख्यमनुदेशः समानाम्>> [[1.3.10]] इत्यनेन अक्-वर्णस्य यथासङ्ख्यम् अक्-वर्णेन सह एकादेशः यदा भवति तदा सः सवर्णेन सह एव भवितुम् शक्नोति ।\n" }, "61102": { "sa": "अक्-वर्णात् प्रथमा-द्वितीया-विभक्त्योः अजादि प्रत्यये परे पूर्वपरयोः एकः पूर्वसवर्णदीर्घः भवति । ", "sd": "<<स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्>> [[4.1.2]] इति सूत्रेण प्रथमाविभक्तेः द्वितीयाविभक्तेः च प्रत्येकं त्रयः त्रयः प्रत्ययाः विधीयन्ते । एतेषु औट्, शस्, अम्, ओ, जस् - एते पञ्च प्रत्ययाः अजादयः सन्ति । एतेभ्यः पञ्चभ्यः प्रत्ययेभ्यः कश्चन प्रत्ययः अक्-वर्णान्त-शब्दात् विधीयते चेत् सुबन्तप्रक्रियायाम् अक्-वर्णस्य प्रत्ययादिवर्णेन सह पूर्वसवर्णदीर्घादेशः भवति ।\nअस्य सूत्रस्य प्रयोगः केवलम् अक्-वर्णान्तशब्दानाम् प्रथमा-द्वितीया-विभक्त्योः प्रक्रियायाम् एव भवति । सोदाहरणम् परिगणनम् एतादृशम् —\n1. अकारान्तशब्दाः —\nअकारान्तशब्देभ्यः जस्/शस्-प्रत्यये परे <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इत्यनेन पूर्वसवर्णदीर्घैकादेशे कृते रूपं सिद्ध्यति । यथा —\n\nबाल + जस् [प्रथमाबहुवचनस्य प्रत्ययः]\n→ बाल + अस् [<<चुटू>> [[1.3.7]] इत्यनेन जकारस्य इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ बालास् [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इत्यनेन सवर्णदीर्घे प्राप्ते, तं परत्वात् बाधित्वा <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इति पूर्वसवर्णदीर्घः आकारः भवति ।]\n→ बालारुँ [<<ससजुषोः रुँः>> [[8.2.66]] इति रुँत्वम्]\n→ बालाः [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n\nएवमेव शस्-प्रत्यये परे अपि पूर्वसवर्णदीर्घे कृते, ततः <<तस्माच्छसो नः पुंसि>> [[6.1.103]] इति नकारादेशं कृत्वा 'बालान्' इति रूपं सिद्ध्यति ।\n2. आकारान्तशब्दाः —\nआकारान्तशब्देभ्यः शस्-प्रत्यये परे <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इत्यनेन पूर्वसवर्णदीर्घैकादेशे कृते रूपं सिद्ध्यति । यथा —\n\nमाला + शस् [द्वितीयाबहुवचनस्य प्रत्ययः]\n→ माला + अस् [<<लशक्वतद्धिते>> [[1.3.7]] इत्यनेन शकारस्य इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ मालास् [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इत्यनेन सवर्णदीर्घे प्राप्ते, तं परत्वात् बाधित्वा <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इति पूर्वसवर्णदीर्घः आकारः भवति ।]\n→ मालारुँ [<<ससजुषोः रुँः>> [[8.2.66]] इति रुँत्वम्]\n→ मालाः [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n\nएवमेव, हाहा इति आकारान्तपुंलिङ्गशब्दस्य विषये अपि शस्-प्रत्यये परे <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इति पूर्वसवर्णदीर्घे कृते, ततः <<तस्माच्छसो नः पुंसि>> [[6.1.103]] इति नकारादेशं कृत्वा हाहान् इति रूपं सिद्ध्यति ।\nआकारान्तशब्दानाम् विषये प्रथमैकवचनस्य जस्-प्रत्यये परे <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इत्यनेन पूर्वसवर्णदीर्घे प्राप्ते, <<दीर्घाज्जसि च>> [[6.1.105]] इत्यनेन तस्य निषेधः भवति, अतः जस्-प्रत्ययस्य विषये प्रकृतसूत्रं न प्रवर्तते । \n3. इकारान्तशब्दाः / उकारान्तशब्दाः —\nइकारान्तशब्देभ्यः / उकारान्तशब्देभ्यः औ/औट्/शस्-प्रत्ययेषु परेषु <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इत्यनेन पूर्वसवर्णदीर्घैकादेशे कृते रूपं सिद्ध्यति । यथा —\n\nमति + औ [प्रथमाद्विवचनस्य प्रत्ययः]\n→ मती [<<इको यणचि>> [[6.1.77]] इत्यनेन यणादेशे प्राप्ते तद्बाधित्वा <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इति पूर्वसवर्णदीर्घः ईकारः भवति ।]\n\nएवमेव मुनी, साधू, धेनू - एतानि औ/औट्-प्रत्ययान्तरूपाणि ; मतीः, धेनूः, मुनीन्, साधून् - एतानि शस्-प्रत्ययान्तरूपाणि सिद्ध्यन्ति ।\n4. ईकारान्तशब्दाः / ऊकारान्तशब्दाः —\nईकारान्तशब्देभ्यः / ऊकारान्तशब्देभ्यः शस्-प्रत्यये परे <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इत्यनेन पूर्वसवर्णदीर्घैकादेशे कृते रूपं सिद्ध्यति । यथा —\n\nनदी + शस् [द्वितीयाबहुवचनस्य प्रत्ययः]\n→ नदी + अस् [<<लशक्वतद्धिते>> [[1.3.7]] इत्यनेन शकारस्य इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ नदीस् [<<इको यणचि>> [[6.1.77]] इत्यनेन यणादेशे प्राप्ते तद्बाधित्वा <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इति पूर्वसवर्णदीर्घः ईकारः भवति ।]\n→ नदीरुँ [<<ससजुषोः रुँः>> [[8.2.66]] इति रुँत्वम्]\n→ नदीः [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n\nएवमेव वधू इति ऊकारान्तस्त्रीलिङ्गशब्दस्य द्वितीयाबहुवचस्य रूपे अपि <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इत्यनेन पूर्वसवर्णदीर्घैकादेशे कृते वधूः इति रूपं सिद्ध्यति । हुहू इति ऊकारान्तपुंलिङ्गशब्दस्य द्वितीयाबहुवचस्य रूपे अपि <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इत्यनेन पूर्वसवर्णदीर्घैकादेशे कृते, तथा च ततः <<तस्माच्छसो नः पुंसि>> [[6.1.103]] इति नकारादेशं कृत्वा हाहान् इति रूपं सिद्ध्यति ।\n5. ऋकारान्तशब्दाः —\nऋकारान्तशब्देभ्यः शस्-प्रत्यये परे <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इत्यनेन पूर्वसवर्णदीर्घैकादेशे कृते रूपं सिद्ध्यति । यथा —\n\nमातृ + शस् [द्वितीयाबहुवचनस्य प्रत्ययः]\n→ मातृ + अस् [<<लशक्वतद्धिते>> [[1.3.7]] इत्यनेन शकारस्य इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ मातॄस् [<<इको यणचि>> [[6.1.77]] इत्यनेन यणादेशे प्राप्ते तद्बाधित्वा <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इति पूर्वसवर्णदीर्घः ईकारः भवति ।]\n→ मातॄरुँ [<<ससजुषोः रुँः>> [[8.2.66]] इति रुँत्वम्]\n→ मातॄः [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n\nएवमेव पितृ इति ऋकारान्तपुंलिङ्गशब्दस्य द्वितीयाबहुवचस्य रूपे अपि <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इत्यनेन पूर्वसवर्णदीर्घैकादेशे कृते ततः <<तस्माच्छसो नः पुंसि>> [[6.1.103]] इति नकारादेशं कृत्वा पितॄन् इति रूपं सिद्ध्यति ।\n<<प्रथमयोः पूर्वसवर्णः>> तथा च <<अतो गुणे>> एतयोर्मध्ये बाध्यबाधकभावः\n<<अतो गुणे>> [[6.1.97]] इति सूत्रस्य अवकाशः <<वृद्धिरेचि>> [[6.1.88]], <<अकः सवर्णे दीर्घः>> [[6.1.101]] तथा च <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इति त्रिभिः सूत्रैः सम्पूर्णरूपेण विनश्यति । अतः <<अतो गुणे>> [[6.1.97]] इति सूत्रम् <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इति सूत्रस्य अपवादरूपेण अवश्यं स्वीक्रियते । परन्तु <ऽपुरस्तादपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्ऽ> इति परिभाषायाः सामर्थ्यात् अयम् अपवादः <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इत्येतम् उत्सर्गम् बाधितुं नैव शक्नोति । अतएव बाल + जस् इत्यत्र <<अतो गुणे>> [[6.1.97]] तथा च <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इत्येतयोः युगपत् प्राप्तौ सत्याम् अपि <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इति उत्सर्गसूत्रमेव प्रवर्तते, येन पूर्वसवर्णदीर्घं कृत्वा इष्टरूपं सिद्ध्यति । \n<<प्रथमयोः पूर्वसवर्णः>> तथा च <<अकः सवर्णे दीर्घः>> एतयोर्मध्ये बाध्यबाधकभावः\n<<इको यणचि>> [[6.177]] इत्यस्य अपवादरूपेण प्रवर्तमानयोः <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] तथा च <<अकः सवर्णे दीर्घः>> [[6.1.101]] एतयोः सूत्रयोः मध्ये तुल्यबलत्वम्, अतश्च विप्रतिषेधः अस्ति । तदित्थम् —\n\n1. पपी + ङि इत्यत्र <<इको यणचि>> [[6.177]] इत्यनेन यणादेशे प्राप्ते तद्बाधित्वा <<अकः सवर्णे दीर्घः>> [[6.1.101]] इत्यनेन सवर्णदीर्घः भवति । अत्र <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इत्यस्य तु प्राप्तिरेव नास्ति ।\n2. मुनि + औ इत्यत्र <<इको यणचि>> [[6.177]] इत्यनेन यणादेशे प्राप्ते तद्बाधित्वा <<प्रथमयोः पूर्वसवर्णः>> [[6.1.101]] इत्यनेन पूर्वसवर्णदीर्घः भवति । अत्र <<अकः सवर्णे दीर्घः>> [[6.1.101]] इत्यस्य तु प्राप्तिरेव नास्ति ।\n3. राम + जस् इत्यत्र <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] तथा च <<अकः सवर्णे दीर्घः>> [[6.1.101]] इति द्वे अपि सूत्रे युगपत् प्रवर्तेते । अस्यां स्थितौ <<विप्रतिषेधे परं कार्यम्>> [[1.4.2]] इत्यनेन परत्वात् <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इत्यस्यैव प्रयोगः भवति ।\n\nदलकृत्यम्\n\n1. प्रथमयोः इति किमर्थम् ? — अत्र प्रयुक्तः 'प्रथमयोः' इति शब्दः 'प्रथमायाः द्वितीयायाः च' अस्मिन् अर्थे प्रयुक्तः अस्ति । प्रथमाविभक्तेः द्वितीयाविभक्तेः च प्रत्ययानां विषये एव इदं सूत्रम् प्रवर्तते इति अत्र आशयः ।\n2. अकः इति किमर्थम् ? — शब्दस्य अन्ते 'अक्' वर्णः नास्ति चेत् प्रकृतसूत्रम् न प्रवर्तते । यथा, नौ + शस् इत्यत्र प्रकृतसूत्रस्य प्रयोगः न भवति ।\n" }, "61103": { "sa": "पुंलिङ्गशब्दात् शस्-प्रत्यये परे <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इति सूत्रेण पूर्वसवर्णदीर्घे कृते तस्मात् अनन्तरम् विद्यमानस्य शस्-प्रत्ययस्य सकारस्य नकारादेशः भवति । ", "sd": "अक्-वर्णान्त-पुंलिङ्गशब्दात् शस्-प्रत्यये परे <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इति सूत्रेण पूर्वपरयोः पूर्वसवर्णदीर्घैकादेशे कृते, तस्मात् (पूर्वसवर्णदीर्घात्) परस्य शस्-प्रत्ययस्य सकारस्य प्रकृतसूत्रेण नकारादेशः विधीयते । यथा, राम-शब्दस्य शस्-प्रत्यये परे 'रामान्' इति रूपम् एतादृशम् सिद्ध्यति —\n\nराम + शस् [द्वितीयाबहुवचनस्य प्रत्ययः]\n→ राम + अस् [<<लशक्वतद्धिते>> [[1.3.7]] इति शकारस्य इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ रामास् [<<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इति पूर्वसवर्णदीर्घः आकारः]\n→ रामान् [<<तस्माच्छसो नः पुंसि>> [[6.1.103]] इति सकारस्य नकारादेशः । ]\n\nअनेनैव प्रकारेण हाहान्, मुनीन्, हूहून्, साधून्, पितॄन् - एतानि सर्वाणि रूपाणि सिद्ध्यन्ति ।\nदलकृत्यम्\n1. तस्मात् इति किमर्थम् ? अस्मिन् सूत्रे विद्यमानः 'तस्मात्' इति शब्दः 'पूर्वसवर्णदीर्घः' इति शब्देन सह अन्वेति । अतः तस्मात् = पूर्वसवर्णदीर्घात् । अतः यत्र <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इति सूत्रेण पूर्वसवर्णदीर्घैकादेशः न सिद्ध्यति, तत्र प्रकृतसूत्रेण नत्वम् अपि न सम्भवति । यथा, 'विश्वपा + शस्' इत्यत्र <<आतो धातोः>> [[6.4.140]] इत्यनेन आकारलोपे कृते 'विश्वपस्' इति प्राप्ते अत्र यद्यपि पुंलिङ्गशब्दः शस्-प्रत्ययः च विद्यते, तथापि नत्वम् न भवति ।\n2. पुंसि इति किमर्थम् ? स्त्रीलिङ्गशब्दानां विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । अतः 'मतीः' इत्यत्र सवर्णदीर्घे कृते अपि नत्वम् न भवति ।\nसूत्रार्थे 'सकारः' इति शब्दस्य ग्रहणम्\nशस्-प्रत्ययस्य इत्संज्ञालोपे कृते अकारसकारौ इति केवलं द्वौ एव वर्णौ अवशिष्येते । एतेषु अकारः <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इति सूत्रेण निर्दिष्टे पूर्वसवर्णे भागं गृह्णाति । अस्मात् पूर्वसवर्णदीर्घात् अनन्तरम् केवलम् सकारः एव वर्तते, न कोऽपि अन्यः वर्णः । अतः 'तस्मात्' इति शब्देन 'पूर्वसवर्णदीर्घात् परस्य सकारस्य' एव ग्रहणं सम्भवति । अतएव यद्यपि अस्मिन् सूत्रे केवलम् 'शसः नकारः भवति' इति उच्यते तथापि सर्वेषु व्याख्यानेषु अत्र 'शसः सकारस्य नकारः भवति' इत्येव अर्थविधानम् क्रियते । \nप्रकृतसूत्रेण प्राप्तस्य नकारस्य णत्वं न भवति \nशस्-प्रत्ययान्तशब्दस्य सुबन्तत्वात् <<सुप्तिङन्तं पदम्>> [[1.4.14]] इत्यनेन पदसंज्ञा भवति, अतः प्रकृतसूत्रेण प्राप्तः नकारः नित्यम् पदान्ते एव विद्यते । अस्य नकारस्य <<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इत्यनेन णत्वे प्राप्ते <<पदान्तस्य>> [[8.4.37]] इत्यनेन तत् निषिध्यते । अतः अस्य नकारस्य णत्वं न भवति । यथा, रामान्, वृक्षान्, पितॄन् एतादृशेषु शब्देषु नकारस्य णत्वं न भवति । " }, "61104": { "sa": "अवर्णात् प्रथमा-द्वितीययोः इच्-वर्णे परे <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इत्यनेन पूर्वसवर्णदीर्घः न भवति । ", "sd": "अक्-वर्णात् प्रथमाद्वितीयाविभक्तेः अजादौ प्रत्यये परे <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इत्यनेन पूर्वपरयोः यः पूर्वसवर्णदीर्घैकादेशः विधीयते, तस्य अयम् निषेधः । अवर्णात् (इत्युक्ते, अकारात् / आकारात्) प्रथमाद्वितीयाविभक्तेः इजादौ प्रत्यये परे (इत्युक्ते, औ/औट्-प्रत्यये परे) अयम् सवर्णदीर्घः न भवति — इति अस्य सूत्रस्य आशयः ।\nअस्य सूत्रस्य प्रयोगः केवलम् अकारान्तपुंलिङ्गशब्दानाम्, अकारान्तनपुंसकलिङ्गशब्दानाम् विषये एव भवति । उदाहरणे एते —\n1) बालौ इति शब्दस्य सिद्धिः —\n\nबाल + औ/औट् [प्रथमा/द्वितीयाद्विवचनस्य प्रत्ययः]\n→ बालौ [<<वृद्धिरेचि>> [[6.1.88]] इत्यनेन वृद्धि-एकादेशे प्राप्ते ; युगपद् एव <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इत्यनेन पूर्वसवर्णदीर्घे प्राप्ते ; <<नादिचि>> [[6.1.104]] इत्यनेन पूर्वसवर्णदीर्घस्य निषेधः भवति । अतः <<वृद्धिरेचि>> [[6.1.88]] इत्यनेन वृद्धि-एकादेशः ]\n\n2) 'फले' इति शब्दस्य सिद्धिः —\n\n फल + औ/औट् [प्रथमा/द्वितीयाद्विवचनस्य प्रत्ययः]\n→ फल + शी [<<नपुंसकाच्च>> [[7.1.19]] इति औट्-प्रत्ययस्य शी-आदेशः]\n→ फल + ई [<<लशक्वतद्धिते>> [[1.3.7]] इति शकारस्य इत्संज्ञा, लोपः]\n→ फले [<<आद्गुणः>> [[6.1.87]] इत्यनेन गुण-एकादेशे प्राप्ते ; युगपद् एव <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इत्यनेन पूर्वसवर्णदीर्घे प्राप्ते ; <<नादिचि>> [[6.1.104]] इत्यनेन पूर्वसवर्णदीर्घस्य निषेधः । अतः <<आद्गुणः>> [[6.1.87]] इत्यनेन गुण-एकादेशः ]\n\nआकारान्तशब्दानाम् विषये यद्यपि <<नादिचि>> [[6.1.104]] इति सूत्रस्य प्रयोगः सम्भवति, तथापि परत्वात् <<दीर्घाज्जसि>> [[6.1.105]] इति सूत्रैणैव सवर्णदीर्घस्य निषेधः क्रियते ।\n<pv>सूत्रे <hl>इचि</hl> इति पदग्रहणस्य प्रयोजनम्\nप्रकृतसूत्रे वस्तुतः अचि इति पदम् अनुवृत्तिरूपेण स्वीकर्तुं शक्यते । परन्तु अवर्णात् अकारे परे प्रकृतसूत्रेण उक्तः निषेधः नैव प्रयोक्तव्यः, अपि तु तत्र <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इत्यस्य प्रयोगः अवश्यं सम्भवति — इति स्पष्टीकर्तुम् एव अत्र इचि इति पृथकम् पदम् स्थापितम् अस्ति । इत्युक्ते, राम + जस् इत्यत्र यद्यपि <<अतो गुणे>> [[6.1.97]] इति अपवादसूत्रम् तथा च <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इति उत्सर्गसूत्रं युगपत् प्रवर्तेते, तथापि अत्र परत्वात् पूर्वसवर्णदीर्घः एव करणीयः । अयमेव विषयः भाष्ये <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इत्यत्र निर्दिष्टः वर्तते —\n\nइज्ग्रहणं तु ज्ञापकं पररूप-अभावस्य । यद् अयं <<नादिचि>> इति इज्ग्रहणं करोति, तत् ज्ञापयति आचार्यः — न जस्-शसोः पररूपं भवति, इति । कथं कृत्वा ज्ञापकम् ? इज्ग्रहणस्य एतत् प्रयोजनम् — इह मा भूत् — वृक्षाः, वृक्षान् । यदि च जस्-शसोः पररूपं स्यात्, इज्ग्रहणम् अनर्थकं स्यात् । पश्यति तु आचार्यः — न जश्शसोः पररूपं भवति इति, तत् इज्ग्रहणं करोति । — प्रथमयोः पूर्वसवर्णः इत्यत्र महाभाष्यम् ।\n\nशास्त्ररूपेण राम + जस् इत्यत्र <<अतो गुणे>> [[6.1.97]] इति अपवादसूत्रम् तथा च <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इति उत्सर्गसूत्रं यदा युगपत् प्रवर्तेते, तदा <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इत्यनेन प्राप्तस्य पूर्वसवर्णदीर्घस्य एव प्रयोगं साधयितुम् <ऽपुरस्तादपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्ऽ> इति परिभाषायाः प्रयोगः क्रियते । अतश्च, प्रकृतसूत्रे विद्यमानम् इचि इति पदम् <ऽपुरस्तादपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्ऽ> इति परिभाषायाः अपि ज्ञापकरूपेण प्रयुज्यते । सिद्धान्तकौमुद्याः लक्ष्मीव्याख्याने अयं विषयः निर्दिष्टः अस्ति — \n\nअस्य पुरस्तादिति न्यायविषयत्वे नादिचि इत्यत्र इज्ग्रहणं लिङ्गम् । पररूपेण पूर्वसवर्णदीर्घबाधे हि रामाः, रामान् इत्यादौ पररूपप्रवृत्त्या दीर्घ-अप्राप्त्या अचि इति अनुवृत्तौ अपि दोष-अभावेन अज्ग्रहणं व्यर्थीभूय परिभाषां ज्ञापयति । ज्ञापितायाम् तु अस्याम्, पररूपं बाधित्वा प्रथमयोः इति प्राप्त-दीर्घ-निषेध-अभावाय इज्ग्रहणं चरितार्थम् । — प्रथमयोः पूर्वसवर्णः सिद्धान्तकौमुद्याः लक्ष्मी व्याख्या ।\n" }, "61105": { "sa": "दीर्घस्वरात् प्रथमा-द्वितीययोः इच्-वर्णे परे तथा प्रथमा-बहुवचनस्य जस्-प्रत्यये परे <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इत्यनेन पूर्वसवर्णदीर्घः न भवति ।", "sd": "अक्-वर्णात् प्रथमाद्वितीयाविभक्तेः अजादौ प्रत्यये परे <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इत्यनेन पूर्वपरयोः यः पूर्वसवर्णदीर्घैकादेशः विधीयते, तस्य अयम् निषेधः । दीर्घवर्णात् (इत्युक्ते, आकारात् / ईकारात् / ऊकारात् / ॠकारात्) प्रथमाद्वितीयाविभक्तेः इजादौ प्रत्यये परे (इत्युक्ते, औ/औट्-प्रत्यये परे) तथा च जस्-प्रत्यये परे अयम् पूर्वसवर्णदीर्घः न भवति — इति अस्य सूत्रस्य आशयः । उदाहरणानि एतानि ‌—\n1. औ/औट्-प्रत्यये परे पूर्वसवर्णदीर्घनिषेधः —\n1. 'माले' शब्दस्य सिद्धिः —\n\nमाला + औ/औट् [प्रथमा/द्वितीयाद्विवचनस्य प्रत्ययः]\n→ माला + शी [<<औङः आपः>> [[7.1.18]] इति औट्-प्रत्ययस्य शी-आदेशः]\n→ माला + ई [<<लशक्वतद्धिते>> [[1.3.7]] इति शकारस्य इत्संज्ञा, लोपः]\n→ माले [<<आद्गुणः>> [[6.1.87]] इत्यनेन गुण-एकादेशे प्राप्ते ; युगपद् एव <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इत्यनेन पूर्वसवर्णदीर्घे प्राप्ते ; <<दीर्घाज्जसि च>> [[6.1.105]] इत्यनेन पूर्वसवर्णदीर्घस्य निषेधः । अतः <<आद्गुणः>> [[6.1.87]] इत्यनेन गुण-एकादेशः ]\n\n2. 'हाहौ' शब्दस्य सिद्धिः —\n\nहाहा + औ/औट् [प्रथमा/द्वितीयाद्विवचनस्य प्रत्ययः]\n→ हाहौ [<<वृद्धिरेचि>> [[6.1.88]] इत्यनेन वृद्धि-एकादेशे प्राप्ते ; युगपद् एव <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इत्यनेन पूर्वसवर्णदीर्घे प्राप्ते ; <<दीर्घाज्जसि च>> [[6.1.105]] इत्यनेन पूर्वसवर्णदीर्घस्य निषेधः भवति । अतः <<वृद्धिरेचि>> [[6.1.88]] इत्यनेन वृद्धि-एकादेशः भवति । ]\n\n3. 'नद्यौ' शब्दस्य सिद्धिः —\n\nनदी + औ/औट् [प्रथमा/द्वितीयाद्विवचनस्य प्रत्ययः]\n→ नद्यौ [<<इको यणचि>> [[6.1.77]] इत्यनेन यणादेशे प्राप्ते ; युगपद् एव <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इत्यनेन पूर्वसवर्णदीर्घे प्राप्ते ; <<दीर्घाज्जसि च>> [[6.1.105]] इत्यनेन पूर्वसवर्णदीर्घस्य निषेधः भवति । अतः <<इको यणचि>> [[6.1.77]] इत्यनेन यणादेशः भवति । ]\n\nअनेनैव प्रकारेण वधू + औ → वध्वौ, हूहू + औ → हूह्वौ एतौ शब्दौ अपि सिद्ध्यतः ।\n2. जस्-प्रत्यये परे पूर्वसवर्णदीर्घनिषेधः —\n1) 'मालाः' शब्दस्य सिद्धिः —\n\n माला + जस्\n→ मालास् [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इत्यनेन सवर्णदीर्घे प्राप्ते ; युगपद् एव <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इत्यनेन पूर्वसवर्णदीर्घे प्राप्ते ; <<दीर्घात् जसि च>> [[6.1.105]] इत्यनेन पूर्वसवर्णदीर्घस्य निषेधः । अतः <<अकः सवर्णे दीर्घः>> [[6.1.101]] इत्यनेन सवर्णदीर्घः]\n→ मालारुँ [<<ससजुषोः रुँः>> [[8.2.66]] इति रुँत्वम्]\n→ मालाः [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n\nएवमेव हाहा + जस् → हाहाः इत्यपि शब्दः सिद्ध्यति ।\n2. 'नद्यः' शब्दस्य सिद्धिः —\n\nनदी + जस्\n→ नदी + अस् [जकारस्य <<चुटू>> [[1.3.7]] इति इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ नद्यस् [<<इको यणचि>> [[6.1.77]] इत्यनेन यणादेशे प्राप्ते ; युगपद् एव <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इत्यनेन पूर्वसवर्णदीर्घे प्राप्ते ; <<दीर्घात् जसि च>> [[6.1.105]] इत्यनेन पूर्वसवर्णदीर्घस्य निषेधः । अतः <<इको यणचि>> [[6.1.77]] इत्यनेन यणादेशः भवति । ]\n→ नद्यरुँ [<<ससजुषो रुः>> [[8.2.66]] इति रुँत्वम्]\n→ नद्यः [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n\nएवमेव वधू + जस् → वध्वः, हूहू + जस् → हूह्वः इत्यपि शब्दौ सिद्ध्यतः ।\nसूत्रनिर्माणस्य प्रयोजनम्\nउपरि निर्दिष्टेभ्यः उदाहरणेभ्यः 'माले, मालाः, हाहाः' एतेषां सिद्धौ आवश्यकः पूर्वसवर्णदीर्घनिषेधः वस्तुतस्तु <<नादिचि>> [[6.1.104]] इति सूत्रेण अपि भवितुम् अर्हति । अतः एतेषाम् कृते प्रकृतसूत्रम् नैव निर्मितम् । तर्हि, ईकारान्त/ऊकारान्तशब्दानाम् औ/औट्/जस्-प्रत्ययान्तरूपाणाम् सिद्धौ यः पूर्वसवर्णदीर्घनिषेधः इष्यते, सः <<नादिचि>> [[6.4.104]] इत्यनेन नैव सम्भवति, अतः तेषाम् कृते इदं सूत्रम् निर्मितम् अस्ति । अतएव 'नद्यौ, वध्वौ, हूह्वौ, नद्यः, वध्वः, हूह्वः' इत्येतानि एव अस्य शब्दस्य उचिततराणि उदाहरणानि ज्ञेयानि । यदा एतेषाम् कृते सूत्रं निर्मीयते, तदा <ऽपर्जन्यवल्लक्षणप्रवृत्तिःऽ> इति परिभाषया 'माले, मालाः, हाहाः' एतेषाम् कृते अपि अस्य प्रसक्तिः अवश्यं भवत्येव । " }, "61106": { "sa": "<<दीर्घाज्जसि च>> [[6.1.105]] इत्यनेन उक्तः पूर्वसवर्णदीर्घनिषेधः वैदिकप्रक्रियायाम् विकल्प्यते । ", "sd": "<<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इत्यनेन सूत्रेण निर्दिष्टस्य पूर्वसवर्णदीर्घस्य <<दीर्घात् जसि च>> [[6.1.105]] इत्यनेन विहितः निषेधः वैदिकरूपेषु विकल्पेन एव भवति । इत्युक्ते, दीर्घवर्णात् जस्-प्रत्यये परे / प्रथमा-द्वितीययोः इच्-वर्णे परे <<दीर्घात् जसि च>> [[6.1.105]] इत्यनेन प्राप्त: निषेधः रूपसिद्ध्यर्थम् कुत्रचित् क्रियते, कुत्रचित् वा न क्रियते ।\nयथा - मानुषीः ईळते विशः (ऋग्वेदः 5.8.3) इत्यत्र 'मानुषीः' इति मानुषीशब्दस्य प्रथमाबहुवचनस्य रूपम् अस्ति । एतत् रूपम् तदा एव सम्भवति यदा <<दीर्घाज्जसि च>> [[6.1.105]] इत्यनेन जस्-प्रत्यये परे उक्तः पूर्वसवर्णनिषेधः न प्रवर्तते —\n\nमानुषी + जस्\n→‌ मानुषी + अस् [इत्संज्ञालोपः]\n→ मानुषीस् [<<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इत्यनेन प्राप्तं पूर्वसवर्णस्य <<दीर्घाज्जसि च>> [[6.1.105]] इत्यनेन प्राप्तः निषेधः वैदिकरूपसिद्ध्यर्थम् <<वा छन्दसि>> [[6.1.106]] इत्यनेन पक्षे न भवति । अतः अत्र <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इत्यनेन पूर्वसवर्णदीर्घे कृते एव रूपं सिद्ध्यति ।\n→ मानुषीः [रुत्वविसर्गौ]\n\nअग्रिमसूत्रयोः अपि विकल्पः\n<<अमि पूर्वः>> [[6.1.107]] तथा <<समप्रसारणाच्च>> [[6.1.108]] एतयोः अग्रिमसूत्रयोः अपि <<वा छन्दसि>> [[6.1.106]] इत्यस्य अनुवृत्तिं कृत्वा एतयोः सूत्रयोः विषये अपि वैदिकरूपसिद्ध्यर्थम् तत्तत्कार्यस्य विकल्पः विधीयते । यथा —\n1) गौरीं च गौर्यं च (ऋग्वेदः 10.126.8) - इत्यत्र 'गौरी' शब्दस्य प्रथमाद्विवचनस्य अम्-प्रत्यये परे <<अमि पूर्वः>> [[6.1.107]] इत्यनेन प्राप्तम् पूर्वरूपम् विकल्प्यते, येन पक्षे <<इको यणचि>> [[6.1.77]] इति यणादेशं कृत्वा 'गौर्यम्' इति रूपम्, पक्षे च <<अमि पूर्वः>> [[6.1.107]] इत्यनेन पूर्वरूपं कृत्वा 'गौरीम्' इत्यपि रूपं सिद्ध्यति । \n2) एवैनं देवतेज्यमाना भूत्या... (तैत्तिरीयसंहिता 2.5.4.5) - इत्यत्र विद्यमानः 'इज्यमानः' इति शब्दः यज्-धातोः कर्मणि-शानच्-प्रत्ययान्तरूपम् अस्ति । अस्य प्रक्रियायाम् यज्-धातोः यकारस्य सम्प्रसारणे कृते, ततः <<सम्प्रसारणाच्च>> [[6.1.108]] इत्यनेन प्राप्तम् पूर्वरूपम् वैदिकप्रक्रियायां विकल्प्यते, अतः पूर्वरूपस्य स्थाने पुनः यणादेशं कृत्वा यकारघटितम् 'यज्यमान' इति रूपं सिद्ध्यति । प्रक्रिया इयम् —\n\nयज् + लट् [<<वर्त्तमाने लट्>> [[3.2.123]] इति लट्]\n→ यज् + यक् + शानच् [<<लटः शतृशानचावप्रथमासमानाधिकरणे>> [[3.2.124]] इति शानच्-प्रत्ययः । <<सार्वधातुके यक्>> [[3.1.67]] इति यक्]\n→ यज् + य + मुक् + आन [<<आने मुक्>> [[7.2.82]] इति अङ्गस्य मुक्-आगमः]\n→ इ अज् + य + म् + आन [<<वचिस्वपियजादीनां किति>> [[6.1.15]] इति यकारस्य सम्प्रसारणम् इकारः]\n→ यज् + य + म् + आन [<<सम्प्रसारणाच्च>> [[6.1.108]] इत्यनेन पूर्वरूपे प्राप्ते, वेदेषु <<वा छन्दसि>> [[6.1.106]] इति विकल्पः । अतः इकार-अकारयोः <<इको यणचि>> [[6.1.77]] इत्यनेन यणादेशं कृत्वा पुनः 'य' इति सिद्ध्यति ।]\n→ यज्यमानः ।\n\nपक्षे <<सम्प्रसारणाच्च>> [[6.1.108]] इत्यनेन पूर्वरूपैकादेशे कृते 'इज्यमान' इति रूपं अपि वेदेषु दृश्यते एव ।" }, "61107": { "sa": "अक्-वर्णात् अम्-प्रत्ययस्य अकारे परे पूर्वपरयोः एकः पूर्वरूप-एकादेशः भवति । ", "sd": "अक्-वर्णात् प्रथमाद्वितीयाविभक्त्योः अजादिप्रत्यये परे <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इत्यतेन पूर्वसवर्णदीर्घे प्राप्ते, अम्-प्रत्यये परे एतम् पूर्वसवर्णदीर्घं बाधित्वा प्रकृतसूत्रेण पूर्वरूपैकादेशः विधीयते ।कानिचन उदाहरणानि एतानि —\n1. अजन्तशब्दानाम् द्वितीयैकवचनस्य रूपसिद्धौ प्रकृतसूत्रेण पूर्वरूपैकादेशः भवति —\n\nराम / हाहा / माला / मुनि / मति / नदी / साधु / धेनु / हूहू / वधू + अम्\n→ रामम् / हाहाम् / मालाम् / मुनिम् / मतिम् / साधुम् / हूहूम् / वधूम् [ <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इत्यनेन पूर्वसवर्णदीर्घे प्राप्ते तद्बाधित्वा <<अमि पूर्वः>> [[6.1.107]] इति पूर्वरूपैकादेशः]\n\n2. त्यदादिगणस्य त्यद्, तद्, यद्, एतद्, किम् एतादृशानां शब्दानां द्वितीयैकवचनस्य प्रक्रियायाम् अपि प्रकृतसूत्रं प्रयुज्यते । यथा —\n\nतद् + अम् [द्वितीयैकवचनस्य अम्-प्रत्ययः]\n→ तअ + अम् [<<त्यदादीनामः>> [[7.2.102]] इति अकारादेशः]\n→ त + अम् [<<अतो गुणे>> [[6.1.97]] इति पररूपम्]\n→ तम् [<<अमि पूर्वः>> [[6.1.107]] इति पूर्वरूपम् ]\n
    \nएवमेव त्यम्, यम्, एतम् एतानि रूपाणि अपि सिद्ध्यन्ति । किम्शब्दस्य प्रक्रियायाम् <<किमः कः>> [[7.2.103]] इत्यनेन क इति आदेशे कृते ततः <<अमि पूर्वः>> [[6.1.107]] इति पूर्वरूपं कृत्वा कम् इति रूपं सिद्ध्यति । स्त्रीलिङ्गे अपि अदन्त-आदेशात् अनन्तरम् टाप्-प्रत्यये कृते ततः <<अमि पूर्वः>> [[6.1.107]] इति पूर्वरूपे कृते ताम्, त्याम्, याम्, एताम्, काम् इत्यादीनि रूपाणि सिद्ध्यन्ति । \n
    \n\n3. प्रकृतसूत्रस्य प्रयोगः युष्मद्/अस्मद्-सर्वनाम्नोः प्रथमाविभक्तेः त्रयाणां रूपाणां सिद्धौ अपि भवति । यथा —\n\nयुष्मद् + सुँ [प्रथमैकवचनस्य प्रत्ययः]\n→ युष्मद् + अम् [<<ङेः प्रथमयोरम्>> [[7.1.28]] इति सुँ-प्रत्ययस्य अम्-आदेशः]\n→ त्व अद् + अम् [<<त्वाहौ सौ>> [[7.2.94]] इति युष्म्-इत्यस्य त्व-आदेशः]\n→ त्व अ ० + अम् [<<शेषे लोपः>> [[7.2.90]]\n→ त्व + अम् [<<अतो गुणे>> [[6.1.97]] इति पररूपम्]\n→ त्वम् [<<अमि पूर्वः>> [[6.1.107]] इति पूर्वरूपम् ]\n
    \nएवमेव युवाम्, यूयम्, त्वाम्, अहम्, आवाम्, वयम्, माम् — एतेषाम् प्रक्रियायाम् अपि प्रकृतसूत्रस्य प्रयोगः भवति । \n
    \n4. अकारान्तनपुंसकलिङ्गशब्दाम् प्रथमैकवचनस्य, द्वितीयैकवचनस्य सम्बोधनैकवचनस्य रूपसिद्धौ अपि इदं सूत्रम् उपयुज्यते —\n\nफल + सुँ / अम्\n→ फल + अम् [<<अतोऽम्>> [[7.1.24]] ]\n→ फलम् [<<अमि पूर्वः>> [[6.1.107]] ]\n\nलङ्लकारस्य अम्-प्रत्ययस्य विषये अस्य सूत्रस्य प्रयोगः\nबालमनोरमायाम् भू-धातोः विषये लङ्लकारस्य उत्तमपुरुषैकवचनस्य अम्-प्रत्यये परे इदम् एव सूत्रम् उपयुज्य रूपसिद्धिः क्रियते । तत्र <<इतश्च>> [[3.4.100]] इत्यस्मिन् सूत्रे उच्यते - अभवम् इति मिपः अमादेशे शपि गुणे अवादेशे, पूर्वरूपम् — इति । इत्युक्ते, बालमनोरमाकारस्य मतेन अभव + अम् इत्यत्र <<अतो गुणे>> [[6.1.97]] इति सूत्रम् परत्वात् बाधित्वा <<अमि पूर्वः>> [[6.1.107]] इत्यनेन पूर्वरूपैकादेशे कृते 'अभवम्' इति रूपं सिद्ध्यति । \nवस्तुतस्तु अयं विषयः चिन्त्यः, यतः <<अमि पूर्वः>> [[6.1.107]] इत्यस्य विशेषप्रयोगस्य लङ्लकारस्य प्रक्रियायाम् न हि किञ्चन प्रयोजनम् वर्तते — तत्र <<अतो गुणे>> [[6.1.97]] इत्यनेन गुणैकादेशे कृते अपि साधु रूपम् एव सिद्ध्यति । अपि च, <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इत्यस्य अपवादरूपेण पाठितम्, अतएव केवलं द्वितीयैकवचनस्य अम्-प्रत्ययस्य विषये विद्यमानम् इदं सूत्रम् तिङन्तप्रक्रियायाम् कथं प्रयोगम् अर्हति इत्यस्मिन् विषये अन्यत्र कुत्रापि न किञ्चिदपि विवरीतम् अस्ति । यदि च <<अमि पूर्वः>> [[6.1.107]] इति सूत्रम् सर्वेषाम् अपि 'अम्' शब्दानाम् कृते उपयोक्तुम् शक्यम् स्यात्, तर्हि अव्ययसंज्ञके 'अम्' शब्दे परे अस्य प्रयोगस्य अतिप्रसङ्गः स्यात् । अतः इदम् सूत्रम् केवलम् प्रथमा-द्वितीययोः अम्-प्रत्ययस्य कृते एव प्रयोक्तव्यम् इत्येव उचितः निर्णयः ।\nप्रथमाद्वितीयां विहाय अन्येषु विभक्तिप्रत्ययेषु परेषु अस्य सूत्रस्य प्रयोगः\nयुष्मद्/अस्मद्-सर्वनाम्नोः चतुर्थ्यैकवचनस्य प्रक्रियायाम् प्रत्ययस्य अम्-आदेशः भवति । एतादृशे आदेशे कृते <<अमि पूर्वः>> [[6.1.107]] इत्यनेन पूर्वरूपे कृते अपि इष्टं रूपं सिद्ध्यति, अथ वा <<अतो गुणे>> [[6.1.97]] इति पररूपे कृते अपि इष्टरूपं सिद्ध्यति । यथा —\n\nयुष्मद् / अस्मद् + ङे [चतुर्थ्येकवचनस्य प्रत्ययः]\n→ युष्मद् / अस्मद् + अम् [<<ङे प्रथमयोरम्>> [[7.1.28]] इति अमादेशः]\n→ तुभ्यद् / मह्यद् + अम् [<<तुभ्यमह्यौ ङयि>> [[7.2.95]] इति तुभ्य / मह्य - आदेशः]\n→ तुभ्य + मह्य + अम् [<<शेषे लोपः>> [[7.2.90]] इति दकारलोपः]\n→ तुभ्यम् / मह्यम् [<<अमि पूर्वः>> [[6.1.107]] इति पूर्वरूपैकादेशः, अथ वा <<अतो गुणे>> [[6.1.97]] इति पररूपैकादेशः] \n\nयद्यपि अत्र <<अमि पूर्वः>> [[6.1.107]] इत्यस्य प्रयोगः कर्तुं शक्यः, तथापि एतादृशस्य प्रयोगस्य साधुत्वार्थम् <<अमि पूर्वः>> [[6.1.107]] इति सूत्रम् नैव रचितम् ; अपि तु अम्-प्रत्यये परे <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इत्यनेन प्राप्तस्य अनिष्टस्य पूर्वसवर्णदीर्घस्य बाधं कृत्वा इष्टस्य अकारैकादैशस्य प्राप्त्यर्थम् <<अमि पूर्वः>> [[6.1.107]] इति सूत्रम् विरचितम् अस्ति — इति स्मर्तव्यम् ।\nवैदिकप्रयोगेषु विकल्पः\nवैदिकप्रयोगेषु कुत्रचित् <<अमि पूर्वः>> [[6.1.107]] इति सूत्रम् विना अपि द्वितीयैकवचनस्य रूपम् प्रयुक्तं दृश्यते । यथा, गौरीं च गौर्यं च (ऋग्वेदः 10.126.8) - इत्यत्र 'गौरी' शब्दस्य प्रथमाद्विवचनस्य अम्-प्रत्यये परे <<अमि पूर्वः>> [[6.1.107]] इत्यनेन प्राप्तम् पूर्वरूपम् विकल्प्यते, येन पक्षे <<इको यणचि>> [[6.1.77]] इति यणादेशं कृत्वा 'गौर्यम्' इति रूपम्, पक्षे च <<अमि पूर्वः>> [[6.1.107]] इत्यनेन पूर्वरूपं कृत्वा 'गौरीम्' इत्यपि रूपं सिद्ध्यति । \nएतादृशानाम् रूपाणाम् साधुत्वज्ञापनार्थम् <<वा छन्दसि>> [[6.1.107]] इति पूर्वसूत्रम् अत्र सम्पूर्णरूपेण अनुवर्त्यते, येन 'अमि पूर्वः, छन्दसि वा' इति सूत्रम् सिद्ध्यति, येन वेदेषु अस्य सूत्रस्य पाक्षिकत्वम् स्पष्टम् भवति ।\nसूत्रे 'अचि' इत्यस्य अनुवृत्तिः\nसिद्धान्तकौमुद्याम् अस्मिन् सूत्रे 'अचि' इति पदस्य <<इको यणचि>> [[6.1.77]] इत्यतः अनुवृत्तिः स्वीक्रियते । 'अमि अचि' इति अस्य अन्वयं कृत्वा 'अम्-इत्यस्य अच्-वर्णे परे' इति अर्थविधानम् अत्र कृतम् अस्ति । अस्य प्रयोजनम् बालमनोरमायाम् उच्यते —\n\nअचि इति अननुवृत्तौ अकः अमि परे पूर्वपरयोः पूर्वरूपमैकादेशः स्याद् इति लभ्यते, तथा सति अमः मकारसहितस्य पूर्वरूपम् स्यात्, तत् मा भूत् इति अजनुवृत्तिः । — अमि पूर्वः सूत्रे बालमनोरमा ।\n\nपरन्तु एतादृशी अनुवृत्तिः वस्तुतः नैव आवश्यकी, यतः 'अमि' इत्यत्र <<आदेः परस्य>> [[1.1.54]] इत्यनेन आदिवर्णस्यैव ग्रहणम् सम्भवति । अयमेव बिन्दुः तत्त्वबोधिन्याम् अपि स्पष्टीकृतः अस्ति —\n\nकथं तर्हि काशिकादौ अमि परतः इत्येव उक्तम्, न तु अमि अचि इति चेद्, अत्र आहुः — <<तस्मादित्युत्तरस्य>> [[1.1.67]], <<आदेः परस्य>> [[1.1.54]] इति आदेः एव आदेशः इति निर्णिते <<एकः पूर्वपरयोः>> [[6.1.84]] इति आदेशः पूर्वपरयोः वर्णयोः एव भविष्यति, इत्याशयेन न उक्तम् । — अमि पूर्वः सूत्रे तत्त्वबोधिनी ।\n\n" }, "61108": { "sa": "सम्प्रसारणसंज्ञकात् वर्णात् अच् वर्णे परे पूर्वपरयोः एकः पूर्वरूप-एकादेशः भवति । ", "sd": "यण्-वर्णस्य स्थाने विधीयमानः इक्-वर्णः <<इग्यणः सम्प्रसारणम्>> [[1.1.45]] इत्यनेन सूत्रेण सम्प्रसारणसंज्ञकः भवति । अस्याः प्रक्रियायाः निर्देशः अपि 'सम्प्रसारणम्' इत्यननैव क्रियते । एतादृशे सम्प्रसारणे कृते, प्रारम्भे यण्-वर्णात् अनन्तरम् विद्यमानः अच्-वर्णः अनेन सम्प्रसारणसंज्ञकेन वर्णेन सह पुनः यणादेशं मा कार्षीत् इति स्पष्टीकर्तुम् प्रकृतसूत्रेण सम्प्रसारणसंज्ञकवर्णस्य अच्-वर्णेन सह पूर्वरूपम् उच्यते । इत्युक्ते, य (= य् + अ) इत्यत्र विद्यमानस्य यकारस्य सम्प्रसारणे इकारादेशे प्राप्ते, इ + अ इति जाते पुनः इकार-अकारयोः यणादेशे यकारः मा भूत् इति हेतुना अत्र —  अकारस्य इकारेण एकादेशं कृत्वा इकारः एव सिद्ध्यति —   इति ज्ञापनार्थम् इदं सूत्रम् निर्मितम् अस्ति । उदाहरणानि एतानि —\n1. यज्-धातोः निष्ठाप्रत्ययान्तस्य 'इष्ट' इति रूपस्य प्रक्रियायाम् <<वचिस्वपियजादीनां किति>> [[6.1.15]] इति सूत्रेण सम्प्रसारणं कृत्वा ततः <<सम्प्रसारणाच्च>> [[6.1.108]] इति सूत्रेण पूर्वरूपम् क्रियते —\n\nयजँ (देवपूजासङ्गतिकरणदानेषु, भ्वादिः, <{1.1157}>)\n→‌ यज् + क्त [<<निष्ठा>> [[3.2.102]] इति क्त-प्रत्ययः]\n→ इअज् + त [<<वचिस्वपियजादीनां किति>> [[6.1.15]] इत्यनेन कित्-प्रत्यये परे यकारस्य सम्प्रसारणम् इकारः । अत्र केवलं यकारस्य एव सम्प्रसारणम् भवति, 'य् + अ' इत्यस्य वर्णद्वयस्य न ।]\n→ इ ज् त [इकार-अकारयोः <<इको यणचि>> [[6.1.77]] इत्यनेन यणादेशः भवति चेत् पुनः यकारस्य एव निर्माणम् भवेत् । तद्बाधित्वा<<सम्प्रसारणाच्च>> [[6.1.108]] इत्यनेन पूर्वरूप-एकादेशः इकारः विधीयते ]\n→ इष् त [<<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> [[8.2.36]] इति जकारस्य षकारः]\n→ इष्ट [<<ष्टुना ष्टुः>> [[8.4.41]] इति ष्टुत्वम्]\n\n2. युवन्-शब्दस्य चतुर्थ्येकवचनस्य रूपे <<श्वयुवमघोनामतद्धिते>> [[6.4.133]] इत्यनेन वकारस्य सम्प्रसारणे (उकारे) कृते ततः <<सम्प्रसारणाच्च>> [[6.1.108]] इति सूत्रेण पूर्वरूपम् क्रियते —\n\nयुवन् + ङे [चतुर्थ्येकवचनस्य प्रत्ययः]\n→ यु उ अ न् + ए [<<श्वयुवमघोनामतद्धिते>> [[6.4.133]] इति वकारस्य सम्प्रसारणम् उकारः । ]\n→ यु उ न् ए [उकार-अकारयोः <<इको यणचि>> [[6.1.77]] इत्यनेन यणादेशः भवति चेत् पुनः वकारस्य एव निर्माणम् भवेत् । तद्बाधित्वा<<सम्प्रसारणाच्च>> [[6.1.108]] इत्यनेन पूर्वरूप-एकादेशः उकारः विधीयते ।]\n→ यूने [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः]\n\n3. 'त्रयाणाम् पूरणः' अस्मिन् अर्थे 'त्रि' शब्दात् 'तीय' इति तद्धितप्रत्ययः विधीयते । प्रक्रियायाम् <<त्रेः सम्प्रसारणं च>> [[5.2.55]] इत्यनेन सम्प्रसारणम् भवति । <<सम्प्रसारणाच्च>> [[6.1.108]] इति सूत्रेण पूर्वरूपम् क्रियते । प्रक्रिया इयम् -\n\nत्रयाणाम् पूरणः [तद्धितवृत्तिः]\nत्रि + तीय [<<त्रेः सम्प्रसारणं च>> [[5.2.55]] इति तीय-प्रत्ययः ]\n→ त् + ऋ + ई + तीय [<<त्रेः सम्प्रसारणं च>> [[5.2.55]] इत्यनेनैव सम्प्रसारणम् अपि भवति । रेफस्य सम्प्रसारणे ऋकारः जायते ।]\n→ त् + ऋ + तीय [ऋकार-ईकारयोः <<सम्प्रसारणाच्च>> [[6.1.108]] पूर्वरूप-एकादेशः ऋकारः भवति ।]\n→ तृतीय\n\nपूर्वरूपैकादेशस्य सम्प्रसारणसंज्ञा न विद्यते\nसम्प्रसारणसंज्ञकवर्णस्य तस्मात् अनन्तरम् विद्यमाननेन अच्-वर्णेन सह यः पूर्वरूपैकादेशः भवति, तस्य पुनः सम्प्रसारणसंज्ञा न भवति । यथा, शकान् ह्वयति इत्यत्र ह्वे-धातोः आदौ <<आदेच उपदेशेऽशिति>> [[6.1.45]] इत्यनेन आकारादेशे कृते, ततश्च क्विप्-प्रत्यये कृते,<<वचिस्वपियजादीनां किति>> [[6.1.15]] इत्यनेन वकारस्य सम्प्रसारणे उकारः, ततश्च उकार-आकारयोः <<सम्प्रसारणाच्च>> [[6.1.108]] इति पूर्वरूपं कृत्वा ततः <<हलः>> [[6.4.2]] इत्यनेन दीर्घादेशे कृते शकहू इति शब्दः सिद्ध्यति । अस्मिन् शब्दे विद्यमानः ऊकारः सम्प्रसारणप्रक्रियया निर्मितः नास्ति अपितु पूर्वरूपैकादेशं कृत्वा ततः दीर्घादेशं कृत्वा निर्मितः अस्ति, अतः अस्य सम्प्रसारणसंज्ञा न दीयते । यदि अस्यापि सम्प्रसारणसंज्ञा अभविष्यत्, तर्हि अस्य शब्दस्य प्रथमाद्विवचनस्य रूपे शकहू + औ इति स्थिते पुनः <<सम्प्रसारणाच्च>> [[6.1.108]] इत्यनेन अनिष्टः पूर्वरूपैकादेशः अभविष्यत् । परन्तु ऊकारस्य अत्र सम्प्रसारणसंज्ञायाः अभावात् तादृशः अनिष्टः प्रयोगः नैव सिद्ध्यति । अयमेव विषयः पदमञ्जर्याम् अपि स्पष्टीकृतः अस्ति —\n\nयणः स्थाने यः इक्, सः सम्प्रसारणम् । एकादेशः तु न यण्स्थानिकः । वर्णाश्रयत्वात् च अन्तादिवद्भावः अपि नास्ति, एवम् पूर्वत्वम् एव तावत्, न सम्प्रसारणम् । किं पुनः, तत्स्थानिक ऊकारः इति पूर्वैकादेशाभावः । \nThe ऊ generated by the दीर्घादेश is not even a पूर्वरूप-एकादेश (the पूर्वरूप-एकादेश was 'उ'), and hence there is no question of even thinking whether ऊ can be called सम्प्रसारणम् or not. \n\nकाशिकायाम् तु अयं विषयः किञ्चित् भिन्नरूपेण प्रतिपादितः अस्ति । तत्र काशिकाकारः वदति — अन्तरङ्गे च अचि कृतार्थम् वचनम् इति बाह्ये पश्चात् सन्निपतते पूर्वत्वं न भवति —‌ इति । काशिकाकारस्य मतेन अत्र पूर्वरूपैकादेशेन प्राप्तस्य उकारस्य यद्यपि सम्प्रसारणसंज्ञा स्वीक्रियते, तथापि तस्याः सम्प्रसारणसंज्ञायाः पूर्वमेव (पूर्वरूप-एकादेशस्य प्रक्रियायाम्) चरितार्थत्वात् पुनः तद्विषयकम् कार्यं न प्रवर्तते — इति । \nThe above technique used by काशिका, where — the उत्तरपक्ष temporarily agrees to the incorrect assumptions of पूर्वपक्ष, just so as to have some common grounds for argument, and also because such an incorrect assumption still allows the उत्तरपक्ष to prove the right point — is known as अभ्युपाय. For instance, in the current case, even if the actual point is that 'ऊ' is not a सम्प्रसारणसंज्ञक letter, still काशिका assumes it otherwise (just to agree to a common ground with the पूर्वपक्ष), and then proceeds to prove the required result nevertheless (that सम्प्रसारणाच्च can't still be applied). पदमञ्जरी aptly describes this attempt by saying — वृत्तिकारः तु सम्प्रसारणम् अभ्युपेत्य परिहारान्तरम् आह । \nवैदिकप्रयोगेषु विकल्पः\nवैदिकप्रयोगेषु कुत्रचित् सम्प्रसारणादनन्तरम् <<सम्प्रसारणाच्च>> [[6.1.108]] इति सूत्रम् विना एव पुनः यणादेशम् एव कृत्वा रूपम् प्रयुक्तं दृश्यते । यथा, एवैनं देवतेज्यमाना भूत्या... (तैत्तिरीयसंहिया 2.5.4.5)‌ - इत्यत्र विद्यमानः 'इज्यमानः' इति शब्दः यज्-धातोः कर्मणि-शानच्-प्रत्ययान्तरूपम् अस्ति । अस्य प्रक्रियायाम् यज्-धातोः यकारस्य सम्प्रसारणे कृते, ततः <<सम्प्रसारणाच्च>> [[6.1.108]] इत्यनेन प्राप्तम् पूर्वरूपम् वैदिकप्रक्रियायां विकल्प्यते, अतः पूर्वरूपस्य स्थाने पुनः यणादेशं कृत्वा यकारघटितम् 'यज्यमान' इति रूपं सिद्ध्यति । प्रक्रिया इयम् —\n\nयज् + लट् [<<वर्त्तमाने लट्>> [[3.2.123]] इति लट्]\n→ यज् + यक् + शानच् [<<लटः शतृशानचावप्रथमासमानाधिकरणे>> [[3.2.124]] इति शानच्-प्रत्ययः । <<सार्वधातुके यक्>> [[3.1.67]] इति यक्]\n→ यज् + य + मुक् + आन [<<आने मुक्>> [[7.2.82]] इति अङ्गस्य मुक्-आगमः]\n→ इ अज् + य + म् + आन [<<वचिस्वपियजादीनां किति>> [[6.1.15]] इति यकारस्य सम्प्रसारणम् इकारः]\n→ यज् + य + म् + आन [<<सम्प्रसारणाच्च>> [[6.1.108]] इत्यनेन पूर्वरूपे प्राप्ते, वेदेषु <<वा छन्दसि>> [[6.1.106]] इति विकल्पः । अतः इकार-अकारयोः <<इको यणचि>> [[6.1.77]] इत्यनेन यणादेशं कृत्वा पुनः 'य' इति सिद्ध्यति ।]\n→ यज्यमानः ।\n\nपक्षे <<सम्प्रसारणाच्च>> [[6.1.108]] इत्यनेन पूर्वरूपैकादेशे कृते 'इज्यमान' इति रूपं अपि वेदेषु दृश्यते एव । एतादृशानाम् रूपाणाम् साधुत्वज्ञापनार्थम् <<वा छन्दसि>> [[6.1.107]] इति पूर्वसूत्रम् अत्र सम्पूर्णरूपेण अनुवर्त्यते, येन 'सम्प्रसारणाच्च, छन्दसि वा' इति सूत्रम् सिद्ध्यति, येन वेदेषु अस्य सूत्रस्य पाक्षिकत्वम् स्पष्टम् भवति ।" }, "61109": { "sa": "पदान्त-एङ्-वर्णात् ह्रस्व-अकारे परे पूर्वपरयोः एकः पूर्वरूप-एकादेशः भवति । ", "sd": "एच्-वर्णात् संहितायाम् स्वरः विद्यते चेत् <<एचोऽयवायावः>> [[6.1.78]] इति सूत्रेण एच्-वर्णस्य यथासङ्ख्यम् अयादिषु कश्चन आदेशः भवति । परन्तु अयम् एच्-वर्णः यदि पदान्त-एकारः, पदान्त-ओकारः वा अस्ति, तथा च तस्माद् अग्रे ह्रस्वः अकारः विद्यते, तर्हि <<एचोऽयवायावः>> [[6.1.78]] इति सूत्रेण प्राप्तस्य अय्/अव्-आदेशस्य प्रकृतसूत्रेण बाधं कृत्वा तत्स्थाने प्रकृतसूत्रेण पूर्वरूप-एकादेशः विधीयते । यथा -\n1. वने + अस्मिन् → वनेस्मिन् । अत्र पदान्त-एकारस्य अकारेण सह पूर्वरूप-एकादेशः भवति ।\n2. विष्णो + अव → विष्णोव । अत्र पदान्त-ओकारस्य अकारेण सह पूर्वरूप-एकादेशः भवति ।\nसामान्यरूपेण <<एङः पदान्तादति>> [[6.1.109]] इति सूत्रेण प्राप्तः एकादेशः अवग्रहचिह्नेन सह निर्दिश्यते । यथा — वनेऽस्मिन्, विष्णोऽव इति । अत्र विद्यमानम् अवग्रहचिह्नम् केवलम् लेखनशैली इत्येव ज्ञेयम्, न हि कश्चन वर्णविशेषः उच्चारणविशेषः वा । अवग्रहचिह्नम् विना वनेस्मिन्, विष्णोव इति लिख्यते चेदपि नैव दोषाय । इत्युक्ते, वनेऽस्मिन् तथा वनेस्मिन् इति द्वौ भिन्नौ शब्दौ न स्तः; एकस्यैव शब्दस्य द्वे लेखनपद्धती स्तः ।\nदलकृत्यम्\n1. पदान्तात् इति किमर्थम् ? अपदान्त-एकार-ओकारयोः विषये इदं सूत्रं न प्रवर्तते । यथा, चि-धातोः ल्युट्-प्रत्यये कृते चि + अन इति स्थिते, <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इत्यनेन गुणे कृते चे + अन इत्यत्र अस्य सूत्रस्य प्रसक्तिः नास्ति, यतः चे इति पदम् नास्ति । अतः अत्र <<एचोऽयवायावः>> [[6.1.78]] इत्यनेन अयादेशे कृते चयन इत्येव रूपं सिद्ध्यति ।\n2. अति इत्यत्र तपरकरणम् किमर्थम् ? केवलम् 'अ' इति निर्दिश्यते चेत् <<अणुदित् सवर्णस्य चाप्रत्ययः>> [[1.1.69]] इत्यनेन सवर्णग्रहणम् भवेत्, येन आकारस्य विषये अपि अस्य सूत्रस्य अनिष्टा प्रसक्तिः स्यात् । अतः अस्मिन् सूत्रे तपरकरणम् कृत्वा अकारेण आकारग्रहणम् निषिध्यते, येन आकारस्य विषये इदं सूत्रं न प्रवर्तते । अतः वने आसीत् इत्यत्र <<एचोऽयवायावः>> [[6.1.78]] इत्यनेन अयादेशे कृते वनयासीत् इत्येव रूपं सिद्ध्यति ।\nप्रकृतिभावः\nद्विवचनस्य एकारान्तपदस्य विषये <<ईदूदेद्द्विवचनं प्रगृह्यम्>> [[1.1.11]] इत्यनेन प्रगृह्यसंज्ञायां जातायाम् <<प्लुतप्रगृह्या अचि नित्यम्>> [[6.1.125]] इत्यनेन अच्सन्धौ प्रकृतिभावः विधीयते । अतः अस्मिन् स्थले <<एङः पदान्तादति>> [[6.1.109]] इत्यनेन पूर्वरूप-एकादेशः न भवति । यथा, पचेते + अत्र → पचेते अत्र । " }, "61110": { "sa": "एङ्-वर्णात् ङसिँ/ङस्-प्रत्यययोः अकारे परे पूर्वपरयोः एकः पूर्वरूप-एकादेशः भवति । ", "sd": "एकारात् ओकारात् वा पञ्चमी-एकवचनस्य ङसिँ-प्रत्ययस्य अकारः, षष्ठ्येकवचनस्य ङस्-प्रत्ययस्य अकारः वा विद्यते चेत्, <<एचोऽयवायावः>> [[6.1.78]] इत्यनेन प्राप्तम् अय्/अव्-आदेशं बाधित्वा प्रकृतसूत्रेण पूर्वरूप-एकादेशः भवति ।\nअस्य सूत्रस्य प्रयोगः इकारान्त/उकारान्त/एकारान्त/ओकारान्तप्रातिपदिकानाम् पञ्चमी/षष्ठी-एकवचनस्य प्रक्रियायाम् एव भवति ।\nउदाहरणानि एतानि —\n1. इकारान्तशब्दस्य पञ्चमी/षष्ठी-एकवचनस्य रूपस्य सिद्धिः — \n\nमुनि + ङसिँ/ङस् [पञ्चमी/षष्ठी-एकवचनस्य प्रत्ययः]\n→ मुने + अस् [इत्संज्ञालोपः । <<घेर्ङिति>> [[7.3.111]] इति अङ्गस्य गुणः एकारः ]\n→ मुनेस् [<<एचोऽयवायावः>> [[6.1.78]] इत्यनेन अयादेशे प्राप्ते, अपवादत्वेन <<ङसिङसोश्च>> [[6.1.110]] इति पूर्वरूप-एकादेशः ]\n→ मुनेः [रुत्वम्, विसर्गनिर्माणम्]\n\nएवमेव मति + ङसिँ/ङस् → मतेः इत्यपि रूपम् सिद्ध्यति । यत्र मतिशब्दस्य घिसंज्ञा पक्षे निषिध्यते, तत्र तु घिसंज्ञायाः अभावात् गुणः अपि न भवति, अतः एकारस्य अनुपस्थितौ प्रकृतसूत्रेण पूर्वरूपैकादेशःअपि नैव प्रवर्तते ।\n2. उकारान्तशब्दस्य पञ्चमी/षष्ठी-एकवचनस्य सिद्धिः — \n\nसाधु + ङसिँ/ङस् [पञ्चमी/षष्ठी-एकवचनस्य रूपस्य प्रत्ययः]\n→ साधो + अस् [इत्संज्ञालोपः । <<घेर्ङिति>> [[7.3.111]] इति अङ्गस्य गुणः ओकारः ]\n→ साधोस् [<<एचोऽयवायावः>> [[6.1.78]] इत्यनेन अवादेशे प्राप्ते, अपवादत्वेन <<ङसिङसोश्च>> [[6.1.110]] इति पूर्वरूप-एकादेशः ]\n→ साधोः [रुत्वम्, विसर्गनिर्माणम्]\n\nएवमेव धेनु + ङसिँ/ङस् → धेनोः इत्यपि रूपम् सिद्ध्यति । यत्र धेनुशब्दस्य घिसंज्ञा पक्षे निषिध्यते, तत्र तु घिसंज्ञायाः अभावात् गुणः अपि न भवति, अतः ओकारस्य अनुपस्थितौ प्रकृतसूत्रेण पूर्वरूपैकादेशःअपि नैव प्रवर्तते ।\n3. एकारान्तशब्दस्य पञ्चमी/षष्ठी-एकवचनस्य रूपस्य सिद्धिः — \nसिद्धान्तकौमुद्याम् 'स्मृते' इति एकारान्तपुंलिङ्गशब्दः पाठ्यते । 'स्मृतः इः (कामदेवः) येन सः', अथ वा 'स्मृता ई (लक्ष्मीः) येन सः' इति बहुव्रीहिसमासेन अयं शब्दः सिद्ध्यति । अस्य पञ्चमी/षष्ठी-एकवचनस्य रूपनिर्माणे प्रकृतसूत्रं प्रयुज्यते —\n\nस्मृते + ङसिँ/ङस् [पञ्चमी/षष्ठी-एकवचनस्य प्रत्ययः]\n→ स्मृते + अस् [इत्संज्ञालोपः ]\n→ स्मृतेस् [<<एचोऽयवायावः>> [[6.1.78]] इत्यनेन अयादेशे प्राप्ते, अपवादत्वेन <<ङसिङसोश्च>> [[6.1.110]] इति पूर्वरूप-एकादेशः ]\n→ स्मृतेः [रुत्वम्, विसर्गनिर्माणम्]\n\n4. ओकारान्तशब्दस्य पञ्चमी/षष्ठी-एकवचनस्य रूपस्य सिद्धिः — \n'गो' इति ओकारान्तशब्दस्य पञ्चमी/षष्ठी-एकवचनस्य रूपनिर्माणे प्रकृतसूत्रं प्रयुज्यते —\n\nगो + ङसिँ/ङस् [पञ्चमी/षष्ठी-एकवचनस्य प्रत्ययः]\n→ गो + अस् [इत्संज्ञालोपः ]\n→ गोस् [<<एचोऽयवायावः>> [[6.1.78]] इत्यनेन अवादेशे प्राप्ते, अपवादत्वेन <<ङसिङसोश्च>> [[6.1.110]] इति पूर्वरूप-एकादेशः ]\n→ गोः [रुत्वम्, विसर्गनिर्माणम्]\n" }, "61111": { "sa": "ऋवर्णात् /ऌवर्णात् ङसिँ/ङस्-प्रत्यययोः अकारे परे पूर्वपरयोः एकः उकारादेशः भवति । ", "sd": "ह्रस्व-ऋकारात् / ह्रस्व ऌकारात् परः पञ्चमी-एकवचनस्य ङसिँ-प्रत्ययस्य अकारः, षष्ठ्येकवचनस्य ङस्-प्रत्ययस्य अकारः वा विद्यते चेत्, <<इको यणचि>> [[6.1.77]] इत्यनेन प्राप्तम् रेफादेश/लकारादेशं बाधित्वा प्रकृतसूत्रेण उकारः एकादेशरूपेण विधीयते । अयम् उकारः <<उरण् रपरः>> [[1.1.51]] इत्यनेन नित्यम् रपरः / लपरः एव भवति । \nअस्य सूत्रस्य प्रयोगः ऋकारान्त/ऌकारान्तप्रातिपदिकानाम् पञ्चमी/षष्ठी-एकवचनस्य प्रक्रियायाम् एव भवति ।\nउदाहरणे एते -\n1. ऋकारान्तशब्दानाम् पञ्चमी/षष्ठी-एकवचनस्य रुपसिद्धिः —\n\nपितृ + ङसिँ /ङस् [पञ्चमी/षष्ठी-एकवचनस्य प्रत्ययः]\n→ पितृ + अस् [इत्संज्ञालोपः]\n→ पितुर् स् [<<इको यणचि>> [[6.1.77]] इत्यनेन यणादेशे प्राप्ते अपवादत्वेन <<ऋत उत्>> [[6.1.111]] इति उकारः । <<उरण् रपर>> [[1.1.51]] इत्यनेन सः रपरः]\n→ पितुर् [<<रात्सस्य>> [[8.2.24]] इति रेफात् परस्य सकारस्य लोपः ]\n→ पितुः [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गनिर्माणम्]\n\n2. ऌकारान्तशब्दानाम् पञ्चमी/षष्ठी-एकवचनस्य रुपसिद्धिः —\nगमॢँ (गतौ, <{1,1137}>) इत्यस्य धातोः अनुकरणरूपेण (imitation / copy) 'गमॢ' इति ऋकारान्तशब्दः सिद्धान्तकौमुद्यां पाठितः अस्ति । 'गमॢँ-धातुः' इति अस्य शब्दस्य अर्थः । अस्य पञ्चमी/षष्ठी-एकवचनस्य रूपसिद्धौ प्रकृतसूत्रं प्रयुक्तं दृश्यते —\n\nगमॢ + ङसिँ /ङस् [पञ्चमी/षष्ठी-एकवचनस्य प्रत्ययः]\n→ गमॢ + अस् [इत्संज्ञालोपः,]\n→ गमुल् स् [<<इको यणचि>> [[6.1.77]] इत्यनेन यणादेशे प्राप्ते अपवादत्वेन <<ऋत उत्>> [[6.1.111]] इति ऌकारस्य उकारः । <<उरण् रपर>> [[1.1.51]] इत्यनेन सः लपरः]\n→ गमुल् [<<संयोगान्तस्य लोपः>> [[8.2.23]] इति सकारलोपः]\n\nदलकृत्यम्\n1. ऋत् इत्यत्र तपरकरणम् किमर्थम् ? केवलम् 'ऋ' इति निर्दिश्यते चेत् <<अणुदित् सवर्णस्य चाप्रत्ययः>> [[1.1.69]] इत्यनेन सवर्णग्रहणम् भवेत्, येन दीर्घ-ॠकारस्य विषये अपि अस्य सूत्रस्य अनिष्टा प्रसक्तिः स्यात् । अतः अस्मिन् सूत्रे तपरकरणम् कृत्वा ऋकारेण दीर्घ-ॠकारग्रहणम् निषिध्यते, येन दीर्घ-ॠकारस्य विषये इदं सूत्रं न प्रवर्तते । अतः तॄ (दीर्घ-ॠकारान्तप्रातिपदकम्) + ङसिँ/ङस् इत्यत्र <<इको यणचि>> [[6.1.77]] इत्यनेन यणादेशे कृते त्रः इत्येव रूपं सिद्ध्यति ।\n2. उत् इत्यत्र तकारस्य किं प्रयोजनम् ?अस्मिन् सूत्रे 'उत्' इति शब्दः यद्यपि विधीयमानः अस्ति, तथापि विधीयमानेन उकारेण सवर्णग्रहणम् सम्भवति इति <ऽभाव्यमानः अपि उकारः सवर्णान् गृह्णातिऽ> (नागेशपरिभाषा 20) इत्यनया परिभाषया ज्ञाप्यते । एतादृशेन सवर्णग्रहणेन अत्र ह्रस्व-उकारेण दीर्घभेदस्य अपि ग्रहणं भवेत्; तत् निवारयितुम् अस्मिन् सूत्रे उकारस्य अपि तपरकरणम् क्रियते । " }, "61112": { "sa": "'ख्य्' / 'त्य्' इत्यस्मात् परस्य ङसिँ/ङस् प्रत्ययस्य अकारस्य उकारादेशः भवति । ", "sd": "'खि / खी' इत्यस्मात् शब्दात् यणादेशे कृते प्राप्तः यः 'ख्य्' शब्दः, तथा च 'ति / ती' इत्यस्मात् शब्दात् यणादेशे कृते प्राप्तः यः 'त्य्' शब्दः, तस्मात् परस्य पञ्चमी-एकवचनस्य ङसिँ-प्रत्ययस्य तथा च षष्ठी-एकवचनस्य ङस्-प्रत्ययस्य अकारस्य उकारादेशः भवति । \nखि/ति/खी/ती इत्येतेषु कश्चन शब्दः यस्य प्रातिपदिकस्य अन्ते अस्ति, तादृशस्य प्रातिपदिकस्य सुबन्तप्रक्रियायाम् एव अस्य सूत्रस्य प्रयोगः भवितुम् अर्हति । क्रमेण उदाहरणानि एतानि —\n1. खि-अक्षरान्तः सखि-शब्दः\nसखि-शब्दस्य पञ्चमी-षष्ठी-एकवचने प्रकृतसूत्रेण उकारादेशं कृत्वा 'सख्युः' इति रूपं भवति । प्रकिया इयम् —\n\nसखि + ङसिँ / ङस् [पञ्चम्येकवचनस्य / षष्ठ्येकवचनस्य प्रत्ययः]\n→ सखि + अस् [इत्संज्ञालोपः]\n→ सख्य् अस् [<<इको यणचि>> [[6.1.77]] इति यणादेशः]\n→ सख्य् उस् [<<ख्यत्यात् परस्य>> [[6.1.112]] इति अकारस्य उकारः]\n→ सख्युः [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n\n2. ति-अक्षरान्तः पति-शब्दः\n\nपति + ङसिँ / ङस् [पञ्चम्येकवचनस्य / षष्ठ्येकवचनस्य प्रत्ययः]\n→ पति + अस् [इत्संज्ञालोपः]\n→ पत्य् अस् [<<इको यणचि>> [[6.1.77]] इति यणादेशः]\n→ पत्य् उस् [<<ख्यत्यात् परस्य>> [[6.1.112]] इति अकारस्य उकारः]\n→ पत्युः [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n\n3. खी-अक्षरान्तः सखी-शब्दः\n'सखी' इति कश्चन ईकारान्तपुंलिङ्गशब्दः 'सखम् आत्मनः इच्छति' (the one that likes an aerial entity, like airplane etc for himself) अस्मिन् अर्थे सिद्ध्यति । अस्य सिद्धिः अधः पृथग् रूपेण दर्शिता अस्ति । अस्य शब्दस्य पञ्चमी-षष्ठी-एकवचनस्य प्रक्रियायाम् अपि प्रकृतसूत्रस्य प्रयोगः कृतः दृश्यते —\n\nसखी + ङसिँ / ङस् [पञ्चम्येकवचनस्य / षष्ठ्येकवचनस्य प्रत्ययः]\n→ सखी + अस् [इत्संज्ञालोपः]\n→ सख्य् अस् [<<इको यणचि>> [[6.1.77]] इति यणादेशः]\n→ सख्य् उस् [<<ख्यत्यात् परस्य>> [[6.1.112]] इति अकारस्य उकारः]\n→ सख्युः [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n\n4) ती-अक्षरान्तः लूती-शब्दः \n'लूनी' इति कश्चन (नकारोपधः) ईकारान्तपुंलिङ्गशब्दः 'लूनम् आत्मनः इच्छति' (the one that likes sliced entities for himself) अस्मिन् अर्थे सिद्ध्यति । अस्य सिद्धिः अधः पृथग् रूपेण दर्शिता अस्ति । अस्मिन् शब्दे विद्यमानः उपधानकारः त्रिपादीसूत्रेण निर्मितः अस्ति, ततः सुबुत्पत्तेः समये अयम् नकारः असिद्धः वर्तते, तस्य स्थाने मूलरूपेण विद्यमानः तकारः एव दृश्यते । अतः लूती-इति शब्दात् सुबुत्पत्तिं कृत्वा, तत्र पञ्चमी-षष्ठी-एकवचनस्य प्रक्रियायाम् प्रकृतसूत्रस्य प्रयोगः कृतः दृश्यते —\n\nलूती + ङसिँ/ङस् [पञ्चम्येकवचनस्य / षष्ठ्येकवचनस्य प्रत्ययः]\n→ लूती + अस् [इत्संज्ञालोपः]\n→ लूत्य् अस् [<<इको यणचि>> [[6.1.77]] इति यणादेशः]\n→ लूत्य् उस् [<<ख्यत्यात् परस्य>> [[6.1.112]] इति अकारस्य उकारः]\n→ लून्य् उस् [ <<ल्वादिभ्यः>> [[8.2.34]] इति निष्ठातकारस्य नकारः]\n→ लून्युः [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n\nसूत्रप्रयोगस्य नियमः\nयद्यपि इदं सूत्रम् 'ति/ती/खि/खी' इत्यन्तानाम् शब्दानाम् पञ्चमी/षष्ठी-एकवचनस्य प्रक्रियायाम् प्रयोगम् अर्हति, तथापि इदम् सूत्रम् बहुषु स्थलेषु अङ्गकार्यस्य सूत्रैः बाध्यते । इत्युक्ते, यत्र किञ्चन अङ्गकार्यम् सम्भवति, तत्र <ऽवार्णादाङ्गं बलीयःऽ> इति परिभाषया अङ्गकार्यस्यैव प्राधान्यम् वर्तते अतः तेन अङ्गकार्येण प्रकृतसूत्रस्य बाधः भवति । प्रकृतसूत्रस्य प्रयोगः अङ्गकार्यस्य अप्राप्तौ एव सम्भवति इत्याशयः । उदाहरणद्वयम् एतादृशम् —\n1. घिसंज्ञाविशिष्टेन कार्येण प्रकृतसूत्रस्य बाधः — यत्र इकारान्तशब्दानाम् घि-संज्ञा भवति, तत्र <<घेर्ङिति>> [[7.3.111]] इत्यनेन ङित्-प्रत्यये परे अङ्गस्य गुणः सम्भवति । अस्मिन् गुणे कृते अग्रे यणादेशस्य प्राप्तिः नास्ति, अतः एतेषाम् शब्दानाम् प्रक्रियायाम् प्रकृतसूत्रम् नैव प्रवर्तते । \n\ni) प्रायेण सर्वेषाम् अपि ति/खि-अक्षरान्त-पुंलिङ्शब्दानाम् <<शेषो घ्यसखि>> [[1.4.7]] इति सूत्रेण घिसंज्ञा भवति । यथा —‌ मारुति, पदाति । \nii) समस्तपदे उत्तरपदरूपेण विद्यमानस्य पति-शब्दस्य <<पतिः समास एव>> [[1.4.8]] इति सूत्रेण घिसंज्ञा भवति । यथा — भूपति, गजपति । \nii) <<शेषो घ्यसखि>> [[1.4.7]] इत्यत्र निर्दिष्टेन 'सखि'शब्देन तदन्तस्य ग्रहणं न क्रियते (<ऽग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्तिऽ>), अतः 'सख्यन्त'शब्दानाम् घिसंज्ञा अवश्यं भवति । यथा — अतिसखि, सुसखि । \niv) इकारान्त-स्त्रीलिङ्गशब्दानाम् ङित्-प्रत्यये परे <<ङिति ह्रस्वश्च>> [[1.4.6]] इत्यनेन प्राप्तायाः वैकल्पिक-नदीसंज्ञायाः अभावपक्षे <<शेषो घ्यसखि>> [[1.4.7]] इति सूत्रेण घिसंज्ञा भवति । यथा — मति, गति । \n\n2. नदीसंज्ञाविशिष्टेन कार्येण प्रकृतसूत्रस्य बाधः — यत्र इकारान्तशब्दानाम् / ईकारान्तशब्दानाम् नदी-संज्ञा भवति, तत्र <<आण्नद्याः>> [[7.3.112]] इत्यनेन प्रक्रियायाम् आडागमः क्रियते । अस्मात् आडागमात् परस्य ङसिँ/ङस्-प्रत्यय-अकारस्य <<आटश्च>> [[6.1.90]] इति वृद्ध्येकादेशः भवति, अतः तत्र अस्य सूत्रस्य प्रयोगः नैव सम्भवति । \n\ni) ईकारान्तस्त्रीलिङ्गशब्दानाम् <<यू स्त्र्याख्यौ नदी>> [[1.4.3]] इत्यनेन नदीसंज्ञा भवति । यथा — जगती, बृहती, युवती ।\nii) इकारान्त-स्त्रीलिङ्गशब्दानाम् ङित्-प्रत्यये परे <<ङिति ह्रस्वश्च>> [[1.4.6]] इत्यनेन विकल्पेन नदीसंज्ञा भवति । यथा — मति, गति । \n\nसखी यथा लूनी (लूती) इति शब्दयोः सिद्धिः\nउपरि निर्दिष्टे तृतीये उदाहरणे निर्दिष्टस्य सखी-शब्दस्य सिद्धिः एतादृशी अस्ति —\n\n1. खेन (= आकाशेन) सह वर्तते सः अस्मिन् अर्थे <<तेन सहेति तुल्ययोगे>> [[2.2.28]] इत्यनेन बहुव्रीहिसमासं कृत्वा <<वोपसर्जनस्य>> [[6.3.82]] इत्यनेन सह-इत्यस्य -आदेशः भवति, येन सख इति प्रातिपदिकम् सिद्ध्यति ।\n2. सख इत्यस्मात् प्रातिपदिकात् सखम् आत्मनः इच्छति अस्मिन् अर्थे <<सुपः आत्मनः क्यच्>> [[3.1.8]] इत्यनेन क्यच्-प्रत्ययं कृत्वा सख + य इति जाते, <<क्यचि च>> [[7.4.33]] इत्यनेन अङ्गस्य ईकारादेशं कृत्वा सखीय इति शब्दः सिद्ध्यति । <<सनाद्यन्ताः धातवः>> [[3.1.32]] इत्यनेन अस्य धातुसंज्ञा भवति ।\n3. सखीय अस्मात् धातोः <<क्विप् च>> [[3.2.76]] इत्यनेन कर्त्रर्थे क्विप्-प्रत्यये कृते सखीय + क्विप् इति स्थिते <<अतो लोपः>> [[6.4.48]] इत्यनेन यकारात् परस्य अकारस्य लोपः, ततश्च <<लोपो व्योर्वलि>> [[6.1.66]] इत्यनेन यकारस्य अपि लोपः भवति । अत्र प्रक्रियायाम् लुप्त-अकारस्य <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इत्यनेन स्थानिवद्भावे प्राप्ते, <<न पदान्तद्विर्वचनवरेयलोप...>> [[1.1.58]] इत्यनेन स्थानिवद्भावः निषिध्यते । अतः अत्र यकारलोपः सम्भवति, यकारलोपे च कृते सखी इति प्रातिपदिकम् सिद्ध्यति । सखम् आत्मनः इच्छति सः सखीः इति अस्य शब्दस्य अर्थः । \n\nउपरि निर्दिष्टे चतुर्थे उदाहरणे निर्दिष्टस्य लुती-शब्दस्य सिद्धिः अनेनैव प्रकारेण लूञ् (छेदने, क्र्यादिः, <{9.16}>) इत्यस्मात् धातोः क्रियते । तत्र प्रक्रियायाम् लूयते इति अस्मिन् अर्थे लू-धातोः <<निष्ठा>> [[3.2.102]] इति सूत्रेण क्त-प्रत्ययः, तत्र 'आत्मनः इच्छति' अस्मिन् अर्थे <<सुप आत्मनः क्यच्>> [[3.1.8]] इत्यनेन क्यच्, ततश्च कर्तृनिर्देशार्थम् <<क्विप् च>> [[3.2.76]] इत्यनेन क्विप्-प्रत्ययः भवति । प्रक्रिया इयम् —\n\nलूञ् (छेदने, क्र्यादिः, <{9.16}>)\n→ लू + क्त + क्यच् + क्विप् [<<निष्ठा>> [[3.2.102]], <<सुप आत्मनः क्यच्>> [[3.1.8]], <<क्विप् च>> [[3.2.76]]\n→ लू + त + य + ० [इत्संज्ञालोपः । क्विप्-प्रत्यये वकारोत्तरः इकारः उच्चारणार्थः, सोऽपि लुप्यते । अवशिष्टवकारस्य <<वेरपृक्तस्य>> [[6.1.67]] इति लोपः भवति ।]\n→ लू + त् + ई + य [<<क्यचि च>> [[7.4.33]] इति अकारस्य इकारादेशः]\n→ लू + त् + ई [लुप्त-क्विप्-प्रत्यययविशिष्टम् कार्यम् <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यनेन अवश्यं प्रवर्तते, अतः यकारोत्तरस्य अकारस्य <<अतो लोपः>> [[6.4.48]] इत्यनेन लोपः भवति, यकारस्य च <<लोपो व्योर्वलि>> [[6.1.66]] इति लोपः विधीयते ।]\n→लू + न् + ई [<<ल्वादिभ्यः>> [[8.2.44]] इति निष्ठातकारस्य नकारः । इदम् सूत्रम् यद्यपि अत्र निर्दिष्टम् अस्ति, तथापि इदम् त्रिपादीसूत्रम् अस्ति अतः सपादसप्तयाध्याय्याः कृते असिद्धम् अस्ति । अतः, अत्र क्विबन्तात् प्रातिपदिकात् यदा सुबुत्पत्तिः भवति, तदा तत्र लूती इत्येव प्रातिपदिकं दृश्यते । अतः उपरि चतुर्थ्यां प्रक्रियायाम् लूती-प्रातिपदिकात् सुबुत्पत्तिं कृत्वा ततः एव <<ल्वादिभ्यः>> [[8.2.44]] इत्यनेन नत्वम् कृतम् अस्ति ।]\n→‌ लूनी\n" }, "61113": { "sa": "अप्लुत-ह्रस्व-अकारात् परस्य रुँ-इत्यस्य अप्लुत-ह्रस्व-अकारे परे उकारादेशः भवति । ", "sd": "'रुँ' इति आदेशात् पूर्वम्, तस्माद् अनन्तरम् च यदि अप्लुतः ह्रस्वः अकारः विद्यते, तर्हि रुँ इत्यस्य <<भोभगोअघोअपूर्वस्य योऽशि>> [[8.3.17]] इत्यनेन प्राप्तम् यकारादेशं बाधित्वा प्रकृतसूत्रेण उकारादेशः भवति —‌ इति अस्य सूत्रस्य आशयः । कानिचन उदाहरणानि एतानि —\n1. <<ससजुषो रुँः>> [[8.2.66]] इत्यनेन पदान्तसकारस्य रुँत्वे कृते, अग्रे अकारः विद्यते चेत् प्रकृतसूत्रेण रेफस्य उत्वम् सम्भवति —\n\nराम सुँ अस्ति\n→ राम रुँ अस्ति [<<ससजुषोः रुः>> [[8.2.66]] इति रुत्वम् ]\n→ राम उ अस्ति [<<अतो रोरप्लुतादप्लुते>> [[6.1.113]] इति रुँ-इत्यस्य उत्वम्]\n→ रामो अस्ति [<<आद्गुणः>> [[6.1.87]] इति गुण-एकादेशः]\n→ रामोस्ति [<<एङः पदान्तादति>> [[6.1.109]] इति पूर्वपरयोः एकः ओकारादेशः]\n\n2. <<अहन्>> [[8.2.68]] इत्यनेन पदान्तनकारस्य रुँत्वे कृते अग्रे अकारः विद्यते चेत् प्रकृतसूत्रेण रेफस्य उत्वम् सम्भवति —\n\nअहन् सुँ अत्र [अहन्-शब्दस्य प्रथमैकवचनस्य रूपम् । ततः 'अत्र' इति शब्दः स्थापितः अस्ति ।]\n→ अहन् अत्र [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति अपृक्त-सुँ-प्रत्ययस्य लोपः ]\n→ अहरुँ अत्र [<<अहन्>> [[8.2.68]] इति रुत्वम्]\n→ अह उ अत्र [<<अतो रोरप्लुतादप्लुते>> [[6.1.113]] इति रुँ-इत्यस्य उत्वम्]\n→ अहो अत्र [<<आद्गुणः>> [[6.1.87]] इति गुण-एकादेशः]\n→ अहोत्र [<<एङः पदान्तादति>> [[6.1.109]] इति पूर्वपरयोः एकः ओकारादेशः]\n\n3. <<सिपि धातोः रुर्वा>> [[8.2.74]] इति सूत्रेण धातोः अन्ते विद्यमानस्य सकारस्य सिप्-प्रत्यये परे विकल्पेन रुँ-आदेशः भवति । अस्मिन् आदेशे कृते अग्रे अकारः अस्ति चेत् प्रकृतसूत्रेण तस्य रुँत्वम् सम्भवति । यथा, 'अहिनोऽत्र' इति सन्धिः इत्थं सिद्ध्यन्ति —\n\nहिसिँ (हिंसायाम्, रुधादिः, <{7.19}>)\n→ हिन्स् [<<इदितो नुम् धातोः>> [[7.1.58]]]\n→ हिन्स् लङ् अत्र [<<अनद्यतने लङ्>> [[3.2.111]] इति लङ् । अग्रे 'अत्र' इति शब्देन सह अपि प्रक्रिया इष्यते अतः सः शब्दः अपि दर्शितः अस्ति ।]\n→ अट् हिन्स् लङ् अत्र [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ हिन्स् सिप् अत्र [<<तिप्तस्झि..>> [[3.4.78]] इति मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः]।\n→ अ हिन्स् स् अत्र [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ अ हि श्नम् न्स् स् अत्र [<<रुधादिभ्यः श्नम्>> [[3.1.78]] इति श्नम्-विकरणम्]\n→ अ हि न न्स् स् अत्र [इत्संज्ञालोपः]\n→ अ हिन स् स् अत्र [<<श्नान्नलोपः>> [[6.4.23]] इति नकारलोपः]\n→ अ हिन स् अत्र [<<स्कोः संयोगाद्योरन्ते च>> [[8.2.29]] इति सकारलोपः]\n→ अ हिन रुँ अत्र [<<सिपि धातो रुर्वा>> [[8.2.74]] इति पाक्षिकं रुत्वम् ]\n→ अ हिन उ अत्र [<<अतो रोरप्लुतादप्लुते>> [[6.1.113]] इति उत्वम्]\n→ अ हिनो अत्र [<<आद्गुणः>> [[6.1.87]] इति गुणैकादेशः]\n→ अहिनोत्र [<<एङः पदान्तादति>> [[6.1.109]] इति ओकारादेशः]\n\n4. <<दश्च>> [[8.2.75]] इति सूत्रेण धातोः अन्ते विद्यमानस्य दकारस्य सिप्-प्रत्यये परे विकल्पेन रुँ-आदेशः भवति । अस्मिन् आदेशे कृते अग्रे अकारः अस्ति चेत् प्रकृतसूत्रेण तस्य रुँत्वम् सम्भवति । यथा, 'अभिनोऽत्र' इति सन्धिः इत्थं सिद्ध्यन्ति —\n\nभिदिँर् (विदारणे, रुधादिः, <{7.2}>)\n→ भिद् [ इति इँर्-इत्यस्य इत्संज्ञा । <<तस्य लोपः>>[[1.3.9]] इति लोपः]\n→ भिद् लङ् अत्र [<<अनद्यतने लङ्>> [[3.2.111]] इति लङ् । अग्रे 'अत्र' इति शब्देन सह अपि प्रक्रिया इष्यते अतः सः शब्दः अपि दर्शितः अस्ति ।]\n→ अट् भिद् लङ् अत्र [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ भिद् सिप् अत्र [<<तिप्तस्झि..>> [[3.4.78]] इति मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः]।\n→ अ भिद् स् अत्र [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ अ भि श्नम् द् स् अत्र [<<रुधादिभ्यः श्नम्>> [[3.1.78]] इति श्नम्-विकरणम्]\n→ अ भि न द् स् अत्र [इत्संज्ञालोपः]\n→ अ भि न द् अत्र [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति अपृक्त-सि-प्रत्ययस्य लोपः]\n→ अ भि न रुँ अत्र [<<दश्च>> [[8.2.75]] इति पाक्षिकं रुत्वम् ]\n→ अ भिन उ अत्र [<<अतो रोरप्लुतादप्लुते>> [[6.1.113]] इति उत्वम्]\n→ अ भिनो अत्र [<<आद्गुणः>> [[6.1.87]] इति गुणैकादेशः]\n→ अभिनोत्र [<<एङः पदान्तादति>> [[6.1.109]] इति ओकारादेशः]\n\nप्रकृतसूत्रे स्थानीरूपेण निर्दिष्टः 'रुँ' इति शब्दः केवलं त्रिपादीसूत्रैः एव सिद्ध्यति, न हि कैश्चित् सपादसप्ताध्याय्याः सूत्रैः । अतः, अत्र सूत्रविधानसामर्थ्याद् एव <<ससजुषोः रुः>> [[8.2.66]], <<अहन्>> [[8.2.68]], <<सिपि धातो रुर्वा>> [[8.2.74]], <<दश्च>> [[8.2.75]] इत्यादीनि सर्वाणि त्रिपादीसूत्राणि <<अतो रोरप्लुतादप्लुते>> [[6.1.113]] इति सपादसप्ताध्याय्याः सूत्रस्य कृते सिद्धानि एव सन्ति । रुत्वात् अनन्तरम् उत्वे कृते ततः सपादसप्ताध्याय्याः सूत्रैः पाठितम् गुणकार्यम् अपि इष्यते, अतएव इदं सूत्रम् आचार्यैः सपादसप्ताध्याय्यां संस्थाप्य, रुत्वं प्रति निर्देशसामर्थ्यात् सिद्धं ज्ञापितम् अस्ति ।\n<<मतुवसो रु सम्बुद्धौ छन्दसि>> [[8.3.1]] इत्यस्मात् आरभ्य <<कानाम्रेडिते>> [[8.3.12]] इति यावद्भिः सूत्रैः अपि रुत्वम् आदेशरूपेण विधीयते । अस्य रुत्वस्य विषये अपि प्रकृतसूत्रस्य प्रसक्तिः अस्ति, परन्तु तत्र अस्य सूत्रस्य प्रयोगः केवलं वैदिकसन्दर्भे एव भवति । लौकिकसंस्कृतस्य उदाहरणे तु तत्र निर्देशात् रुँ इति आदेशात् अनन्तरम् पूर्वम् वा ह्रस्वः अकारः नैव सम्भवति, अतः प्रकृतसूत्रम् अपि तत्र नैव प्रवर्तते ।\nदलकृत्यम्\n1. अतः इत्यत्र तपरकरणम् किमर्थम् ? एवमेव अति इत्यत्र (अनुवृत्तौ) तपरकरणम् किमर्थम् ? <<तपरस्तत्कालस्य>> [[1.1.70]] इत्यनेन अकारस्य केवलम् तात्कालिकभेदानाम् (ह्रस्वभेदानाम्) ग्रहणं कर्तुम् अत्र अकारस्य तपरकरणम् कृतम् अस्ति । 'अति' इत्यत्र तपरकरणेन अकारस्य दीर्घभेदस्य (आकारस्य) ग्रहणं न भवति । अतः आकारात्-परस्य रुँ-आदेशस्य विषये इदं सूत्रं नैव प्रवर्तते । यथा, देवा सुँ अत्र → देवा रुँ अत्र → देवा अत्र — अस्याम् प्रक्रियायाम् उत्वं न भवति । एवमेव, 'अति' इत्यत्र तपरकरणेन अपि दीर्घभेदस्य (आकारस्य) ग्रहणं न भवति । अतः आकारे परे रुँ-आदेशस्य विषये इदं सूत्रं नैव प्रवर्तते । यथा, राम सुँ आसीत् → राम रुँ आसीत् → राम आसीत् — अस्याम् प्रक्रियायाम् उत्वं न भवति । \n2. रोः इत्यत्र 'रु' इति उकारान्तस्य ग्रहणम् किमर्थम्? इदं सूत्रम् केवलम् 'रुँ' इति आदेशस्य विषये एव प्रवर्तते, 'र्' इत्यस्य विषये न प्रवर्तते, अतः अस्मिन् सूत्रे 'रु' शब्दः साक्षात् स्वीकृतः अस्ति । यथा, पुनर् + अत्र → पुनरत्र —‌ अस्याम् प्रक्रियायाम् उत्वं न भवति । \n3. 'अति' इति अनुवृत्त्या ह्रस्व-अकारस्यैव ग्रहणे जाते 'अप्लुते' इति किमर्थम् ? एवमेव 'अतः' इत्यनेन ह्रस्व-अकारस्यैव ग्रहणे जाते 'अप्लुतात्' इति किमर्थम् ? 'प्लुत' इति संज्ञा केवलम् <<वाक्यस्य टेः प्लुत उदात्तः>> [[8.2.82]] इत्यस्मिन् अधिकारे विद्यमानैः सूत्रैः एव सम्भवति । एतानि सर्वाणि सूत्राणि त्रिपाद्याम् विद्यन्ते, अतः <<अतो रोरप्लुतादप्लुते>> [[6.1.113]] इत्यस्य कृते एतानि असिद्धानि सन्ति । अतः, यत्र मूलरूपेण ह्रस्वसंज्ञकस्य अकारस्य त्रिपादीसूत्रेण प्लुतादेशः भवति, तत्र <<अतो रोरप्लुतादप्लुते>> [[6.1.113]] इत्यनेन मूलः ह्रस्वः अकारः एव दृश्यते । अस्यां स्थितौ <<अतो रोरप्लुतादप्लुते>> [[6.1.113]] इत्यनेन तत्र अनिष्टं रुत्वम् सम्भवति । यथा, 'तिष्ठतु पय-रुँ अ३ग्निदत्त' अस्मिन् वाक्ये अग्निदत्तशब्दस्य अकारस्य <<गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम्>> [[8.2.86]] इति सूत्रेण प्लुतसंज्ञा भवति । अस्याः असिद्धत्वात् <<अतो रोरप्लुतादप्लुते>> [[6.1.113]] इति सूत्रेण 'तिष्ठतु पय-रुँ अग्निदत्त' इति ह्रस्व-अकारघटितम् रूपम् एव दृश्यते, अतश्च रुँ-इत्यस्य उत्वम् अपि सम्भवति । तन्निवारणाय एव अस्मिन् सूत्रे 'अप्लुते' इति शब्दः स्वीक्रियते । 'अप्लुते' इति ग्रहणेन <<अतो रोरप्लुतादप्लुते>> [[6.1.113]] इत्यस्य सूत्रस्य कृते त्रिपादीसूत्रैः विहिता प्लुतसंज्ञा सिद्धा भवति, ततश्च प्लुत-अकारस्य विषये प्राप्तम् उत्वम् अपि निषिध्यते । एवमेव सुस्रोत3रुँ अत्र इत्यत्र <<दूराद्धूते च>> [[8.2.84]] इति सूत्रेण तकारोत्तस्य अकारस्य प्राप्तायाः प्लुतसंज्ञायाः असिद्धत्वात् तत्र ह्रस्व-अकारम् एव दृष्ट्वा उत्वम् मा भूत् इति हेतुना अस्मिन् सूत्रे 'अप्लुते' इति अपि स्वीक्रियते ।\n वस्तुतस्तु अत्र भाष्ये 'अप्लुतात्' तथा 'अप्लुते' इत्येतयोः द्वयोः अपि शब्दयोः अस्मात् सूत्रात् एकदेशिना प्रत्याख्यानम् कृतम् अस्ति । तत्र आशयः अयम् — <<प्लुतप्रगृह्या अचि नित्यम्>> [[6.1.125]] इति सूत्रे विद्यमानेन 'प्लुत' तथा 'अचि' इति शब्दाभ्याम् सामान्यरूपेण  संहिताधिकारे सर्वत्र एव प्लुतशब्दस्य सिद्धत्वम् स्वीक्रियते । एतादृशं क्रियते चेत् प्रकृतसूत्रस्य कृते प्लुतसंज्ञा तादृशी एव सिद्धा भवति, अतः अत्र 'अतः' तथा 'अति' इति तपरकरणेन यथा दीर्घभेदस्य ग्रहणम् निषिध्यते, तथैव प्लुतभेदस्य ग्रहणम् अपि निषिध्येत; अतश्च अस्मिन् सूत्रे अप्लुतग्रहणम् अनावश्यम् —‌ इति । अस्मिन् सन्दर्भे विद्यमानम् भाष्यम्, तदुपरि विद्यमानम् कैयटनागेशयोः व्याख्यानम् अधः दर्शितम् अस्ति । अधिकम् पिपठिषवः मूलग्रन्थान् एव पश्येयुः ।\n\nभाष्यम् — सिद्धः प्लुतः स्वरसन्धिषु । कथं ज्ञायते ? यद् अयं प्लुतः 'प्रकृत्या' इति प्लुतस्य प्रकृतिभावं शास्ति । सतो हि कार्यिणः कार्येण भवितव्यम् । \nप्रदीपः — यदयम् इति । सामान्येन संहिताधिकारविहितकार्यापेक्षम् ज्ञापकम् आश्रीयते ।\nउद्द्योतः — सामान्येन इति । तदा एवम् अत्र पक्षे 'अप्लुतादप्लुते' इत्येतत् प्रत्याख्यातम् ।\n" }, "61114": { "sa": "अप्लुत-ह्रस्व-अकारात् परस्य रुँ-इत्यस्य हश्-वर्णे परे उकारादेशः भवति ।", "sd": "'रुँ' इति आदेशात् पूर्वम् यदि ह्रस्व-अकारः विद्यते, तथा च अस्मात् आदेशात् अनन्तरम् यदि हश्-वर्णः विद्यते, तर्हि रुँ इत्यस्य <<भोभगोअघोअपूर्वस्य योऽशि>> [[8.3.17]] इत्यनेन प्राप्तम् यकारादेशं बाधित्वा प्रकृतसूत्रेण उकारादेशः भवति —‌ इति अस्य सूत्रस्य आशयः ।\n\nहश् = सर्वाणि मृदुव्यञ्जनानि = वर्गतृतीयाः, वर्गचतुर्थाः, वर्गपञ्चमाः, अन्तःस्थाः, हकारः । इति आहत्य 20 वर्णाः ।\n\nकानिचन उदाहरणानि एतानि —\n1. <<ससजुषो रुँः>> [[8.2.66]] इत्यनेन पदान्तसकारस्य रुँत्वे कृते, अग्रे हश्-वर्णः विद्यते चेत् प्रकृतसूत्रेण रेफस्य उत्वम् सम्भवति —\n\nराम सुँ गच्छति\n→ राम रुँ गच्छति [<<ससजुषोः रुः>> [[8.2.66]] इति रुत्वम् ।]\n→ राम उ गच्छति [<<हशि च>> [[6.1.113]] इति रुँ-इत्यस्य उत्वम् ।]\n→ रामो गच्छति [<<आद्गुणः>> [[6.1.87]] इति गुण-एकादेशः]\n\n2. <<अहन्>> [[8.2.68]] इत्यनेन पदान्तनकारस्य रुँत्वे कृते अग्रे हश्-वर्णः विद्यते चेत् प्रकृतसूत्रेण रेफस्य उत्वम् सम्भवति —\n\nअहन् सुँ यद् [अहन्-शब्दस्य प्रथमैकवचनस्य रूपम् । ततः 'यद्' इति शब्दः स्थापितः अस्ति ।]\n→ अहन् यद् [सकारोत्तस्य उकारस्य <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इति इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः । <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति अपृक्तसकारलोपः ।]\n→ अहरुँ यद् [<<अहन्>> [[8.2.68]] इति रुत्वम्]\n→ अह उ यद् [<<हशि च>> [[6.1.113]] इति रुँ-इत्यस्य उत्वम् ।]\n→ अहो यद् [<<आद्गुणः>> [[6.1.87]] इति गुण-एकादेशः]\n\n3. <<सिपि धातोः रुर्वा>> [[8.2.74]] इति सूत्रेण धातोः अन्ते विद्यमानस्य सकारस्य सिप्-प्रत्यये परे विकल्पेन रुँ-आदेशः भवति । अस्मिन् आदेशे कृते अग्रे हश्-वर्णः अस्ति चेत् प्रकृतसूत्रेण तस्य रुँत्वम् सम्भवति । यथा,अहिनो ह्यः इति सन्धिः इत्थं सिद्ध्यन्ति —\n\nहिसिँ (हिंसायाम्, रुधादिः, <{7.19}>)\n→ हिन्स् [<<इदितो नुम् धातोः>> [[7.1.58]]]\n→ हिन्स् लङ् ह्यः [<<अनद्यतने लङ्>> [[3.2.111]] इति लङ् । अग्रे 'ह्यः' इति शब्देन सह अपि प्रक्रिया इष्यते अतः सः शब्दः अपि दर्शितः अस्ति ।]\n→ अट् हिन्स् लङ् ह्यः [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ हिन्स् सिप् ह्यः [<<तिप्तस्झि..>> [[3.4.78]] इति मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः]।\n→ अ हिन्स् स् ह्यः [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ अ हि श्नम् न्स् स् ह्यः [<<रुधादिभ्यः श्नम्>> [[3.1.78]] इति श्नम्-विकरणम्]\n→ अ हि न न्स् स् ह्यः [इत्संज्ञालोपः]\n→ अ हिन स् स् ह्यः [<<श्नान्नलोपः>> [[6.4.23]] इति नकारलोपः]\n→ अ हिन स् ह्यः [<<स्कोः संयोगाद्योरन्ते च>> [[8.2.29]] इति सकारलोपः]\n→ अ हिन रुँ ह्यः [<<सिपि धातो रुर्वा>> [[8.2.74]] इति पाक्षिकं रुत्वम् ]\n→ अ हिन उ ह्यः [<<हशि च>> [[6.1.113]] इति रुँ-इत्यस्य उत्वम् ।]\n→ अहिनो ह्यः [<<आद्गुणः>> [[6.1.87]] इति गुणैकादेशः]\n\n4. <<दश्च>> [[8.2.75]] इति सूत्रेण धातोः अन्ते विद्यमानस्य दकारस्य सिप्-प्रत्यये परे विकल्पेन रुँ-आदेशः भवति । अस्मिन् आदेशे कृते अग्रे हश्-वर्णः अस्ति चेत् प्रकृतसूत्रेण तस्य रुँत्वम् सम्भवति । यथा, 'अभिनो राजन्' इति सन्धिः इत्थं सिद्ध्यन्ति —\n\nभिदिँर् (विदारणे, रुधादिः, <{7.2}>)\n→ भिद् [ इति इँर्-इत्यस्य इत्संज्ञा । <<तस्य लोपः>>[[1.3.9]] इति लोपः]\n→ भिद् लङ् राजन् [<<अनद्यतने लङ्>> [[3.2.111]] इति लङ् । अग्रे 'राजन्' इति शब्देन सह अपि प्रक्रिया इष्यते अतः सः शब्दः अपि दर्शितः अस्ति ।]\n→ अट् भिद् लङ् राजन् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ भिद् सिप् राजन् [<<तिप्तस्झि..>> [[3.4.78]] इति मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः]।\n→ अ भिद् स् राजन् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ अ भि श्नम् द् स् राजन् [<<रुधादिभ्यः श्नम्>> [[3.1.78]] इति श्नम्-विकरणम्]\n→ अ भि न द् स् राजन् [इत्संज्ञालोपः]\n→ अ भि न द् राजन् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति अपृक्त-सि-प्रत्ययस्य लोपः]\n→ अ भि न रुँ राजन् [<<दश्च>> [[8.2.75]] इति पाक्षिकं रुत्वम् ]\n→ अ भिन उ राजन् [<<हशि च>> [[6.1.113]] इति रुँ-इत्यस्य उत्वम् ।]\n→ अभिनो राजन् [<<आद्गुणः>> [[6.1.87]] इति गुणैकादेशः]\n\nप्रकृतसूत्रे स्थानीरूपेण निर्दिष्टः 'रुँ' इति शब्दः केवलं त्रिपादीसूत्रैः एव सिद्ध्यति, न हि कैश्चित् सपादसप्ताध्याय्याः सूत्रैः । अतः, अत्र सूत्रविधानसामर्थ्याद् एव <<ससजुषोः रुः>> [[8.2.66]], <<अहन्>> [[8.2.68]], <<सिपि धातो रुर्वा>> [[8.2.74]], <<दश्च>> [[8.2.75]] इत्यादीनि सर्वाणि त्रिपादीसूत्राणि <<हशि च>> [[6.1.114]] इति सपादसप्ताध्याय्याः सूत्रस्य कृते सिद्धानि एव सन्ति । रुत्वात् अनन्तरम् उत्वे कृते ततः सपादसप्ताध्याय्याः सूत्रैः पाठितम् गुणकार्यम् अपि इष्यते, अतएव इदं सूत्रम् आचार्यैः सपादसप्ताध्याय्यां संस्थाप्य, रुत्वं प्रति निर्देशसामर्थ्यात् सिद्धं ज्ञापितम् अस्ति ।\n<<मतुवसो रु सम्बुद्धौ छन्दसि>> [[8.3.1]] इत्यस्मात् आरभ्य <<कानाम्रेडिते>> [[8.3.12]] इति यावद्भिः सूत्रैः अपि रुत्वम् आदेशरूपेण विधीयते । अस्य रुत्वस्य विषये अपि प्रकृतसूत्रस्य प्रसक्तिः अस्ति, परन्तु तत्र अस्य सूत्रस्य प्रयोगः केवलं वैदिकसन्दर्भे एव भवति । लौकिकसंस्कृतस्य उदाहरणे तु तत्र निर्देशात् रुँ इति आदेशात् अनन्तरम् हश्-वर्णः नैव सम्भवति, अतः प्रकृतसूत्रम् अपि तत्र नैव प्रवर्तते ।\nदलकृत्यम्\n1. अनुवृत्तिरूपेण स्वीकृते 'अतः' इति शब्दे तपरकरणम् किमर्थम् ? <<तपरस्तत्कालस्य>> [[1.1.70]] इत्यनेन अकारस्य केवलम् तात्कालिकभेदानाम् (ह्रस्वभेदानाम्) ग्रहणं कर्तुम् अत्र अकारस्य तपरकरणम् कृतम् अस्ति । 'अति' इत्यत्र तपरकरणेन अकारस्य दीर्घभेदस्य (आकारस्य) ग्रहणं न भवति । अतः आकारात्-परस्य रुँ-आदेशस्य विषये इदं सूत्रं नैव प्रवर्तते । यथा, देवा सुँ गच्छन्ति → देवा रुँ गच्छन्ति → देवा गच्छन्ति — अस्याम् प्रक्रियायाम् उत्वं न भवति । \n2. रोः इत्यत्र 'रु' इति उकारान्तस्य ग्रहणम् किमर्थम्? इदं सूत्रम् केवलम् 'रुँ' इति आदेशस्य विषये एव प्रवर्तते, 'र्' इत्यस्य विषये न प्रवर्तते, अतः अस्मिन् सूत्रे 'रु' शब्दः साक्षात् स्वीकृतः अस्ति । यथा, पुनर् + गच्छति → पुनर्गच्छति —‌ अस्याम् प्रक्रियायाम् उत्वं न भवति । " }, "61115": { "sa": "", "sd": "" }, "61116": { "sa": "", "sd": "" }, "61117": { "sa": "", "sd": "" }, "61118": { "sa": "", "sd": "" }, "61119": { "sa": "", "sd": "" }, "61120": { "sa": "", "sd": "" }, "61121": { "sa": "", "sd": "" }, "61122": { "sa": "पदसंज्ञकस्य गो-शब्दस्य अन्ते विद्यमानस्य ओकारस्य ह्रस्व अकारे परे संहितायाम् लोके वेदे च विकल्पेन प्रकृतिभावः भवति । ", "sd": "पदसंज्ञकस्य गो-शब्दस्य अन्ते विद्यमानस्य ओकारस्य ह्रस्व-अकारे परे <<एङः पदान्तादति>> [[6.1.109]] इत्यनेन नित्यम् पूर्वरूपैकादेशे प्राप्ते, प्रकृतसूत्रेण वैकल्पिकः प्रकृतिभावः (इत्युक्ते, अच्-सन्धेः अभावः) विधीयते । पक्षे (प्रकृतिभावस्य अभावे) <<एङः पदान्तादति>> [[6.1.109]] इत्यनेन पूर्वरूप-एकादेशः अपि भवति । यथा —\n\nगोः अग्रम् [<<षष्ठी>> [[2.2.8]] इति समासः]\n→ गो + अग्र [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्यययोः लुक् । समासे पूर्वपदस्य पदान्तत्वम् नैव विनश्यति अतः 'गो' इति शब्दः पदसंज्ञकः एव स्वीक्रियते ।]\n→ गोग्रम्, गोअग्रम् [पदसंज्ञकस्य गो-शब्दस्य ओकारात् परः ह्रस्वः अकारः विद्यते, अतः ओकारस्य <<सर्वत्र विभाषा गोः>> [[6.1.122]] इति पाक्षिकः प्रकृतिभावः विधीयते । पक्षे <<एङः पदान्तादति>> [[6.1.109]] इति पूर्वरूपम् अपि भवति । ततः सुबुत्पत्तिं कृत्वा 'अग्रम्' इति शब्दः सिद्ध्यति । अत्र प्रक्रियायाः अन्ते सिद्धे गोऽग्रम् तथा गोअग्रम् इति द्वे अपि समस्तपदे एव स्तः इति ज्ञेयम् ।]\n
    अत्र प्रक्रियायाम् गो-शब्दस्य <<अवङ् स्फोटायनस्य>> [[6.1.123]] इत्यने वैकल्पिकः अवङ्-आदेशः अपि सम्भवति, अतः 'गवाग्रम्' इति अपि अन्यत् वैकल्पिकम् रूपम् जायते ।\n
    \nअस्मिन् सूत्रे अनुवृत्तिरूपेण 'एङ्' इति शब्दः स्वीक्रियते । यद्यपि एङ्-प्रत्याहारे एकार-ओकारौ स्तः, तथापि गो-शब्दस्य अन्ते एकारः नैव सम्भवति । अतः अत्र सूत्रार्थे ओकारस्यैव उदाहरणम् विद्यते ।\nदलकृत्यम्\n1. सर्वत्र इति किमर्थम् ? प्रकृतसूत्रात् पूर्वम् विद्यमानानि प्रकृतिभावप्रकरणे पाठितानि सर्वाणि अपि सूत्राणि (<<प्रकृत्याऽन्तःपादमव्यपरे>> [[6.1.115]]\nइत्यतः <<अवपथासि च>> [[6.1.121]] इति यावन्ति सप्त सूत्राणि) केवलम् वैदिकप्रयोगानां विषये एव प्रवर्तन्ते । परन्तु इदं सूत्रम् वैदिकप्रयोगार्थम् लौकिकप्रयोगार्थम् च अपि पाठितम् अस्ति । अतः अस्मिन् सूत्रे 'सर्वत्र' इति शब्देन 'वेदेषु लोकेषु च' इतो अर्थः ज्ञाप्यते ।\n2. विभाषा इति किमर्थम् ? प्रकृतसूत्रेण उक्तः प्रकृतिभावः विकल्पेनैव भवति, अतः पक्षे <<एङः पदान्तादति>> [[6.1.109]] इत्यनेन पूर्वरूपसन्धिः अपि भवति इति ज्ञापयितुम् अस्मिन् सूत्रे 'विभाषा' इति शब्दः स्वीक्रियते ।\n 3. एङः इत्यस्य अनुवृत्तिः किमर्थम् ? यदि पदसंज्ञक-गो-शब्दस्य अन्ते कश्चन अन्यः वर्णः (यथा, उकारः) विद्यते तर्हि प्रकृतसूत्रस्य प्रयोगः न भवति । यथा, चित्राः गावः यस्य तत् (कुलम्) इत्यत्र चित्रगु इति ह्रस्व-उकारान्तशब्दस्य विषये इदं सूत्रं नैव प्रवर्तते, अतः चित्रगुणः अग्रम् अस्मिन् समासे चित्रगु + अग्रम् इति स्थिते <<इको यणचि>> इति यणादेशः एव भवति येन चित्रग्वम् इति शब्दः सिद्ध्यति ।\n4. पदान्ते इति किम्? गो शब्दस्य अपदान्त-ओकारस्य विषये इदं सूत्रम् नैव प्रवर्तते । अतएव गो-शब्दस्य पञ्चम्येकवचनस्य/षष्ठ्येकवचनस्य प्रक्रियायाम् 'गो + अस्' इति स्थिते अत्र गो-शब्दस्य पदसंज्ञायाः अभावात् प्रकृतसूत्रम् नैव प्रवर्तते, अतः <<ङसिङसोश्च>> [[6.1.110]] इत्यनेन पूर्वरूप-एकादेशे कृते गोः इत्येव सिद्ध्यति । एवमेव, पदस्य मध्ये विद्यमानस्य ओकारस्य विषये अपि इदं सूत्रं नैव प्रवर्तते, अतः गोः + अत्र इत्यत्र अपि प्रकृतसूत्रस्य प्रसक्तिः नास्ति । \nप्रतिपदोक्तस्यैव ओकारस्य ग्रहणम्, न हि सूत्रनिर्मितस्य\nगो-शब्दस्य अन्ते मूलरूपेण (प्रातिपदिकस्वरूपे) ओकारः विद्यते चेदेव प्रकृतसूत्रम् प्रवर्तते । यदि तत्र मूलरूपेण कश्चन अन्यः वर्णः अस्ति, प्रक्रियायां च तस्य ओकारादेशः भवति, तर्हि <ऽलक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्ऽ> अनया परिभाषया तस्य विषये इदं सूत्रं न प्रवर्तते । यथा, चित्रगु-इति उकारान्तशब्दस्य सम्बोधनस्य एकवचने उकारस्य गुणादेशे कृते ओकारः जायते, येन 'चित्रगो' इति ओकारान्तः शब्दः सिद्ध्यति । यद्यपि अत्र पदान्ते 'गो' शब्दस्य ओकारः अस्ति, तथापि अयम् ओकारः प्रातिपदिकस्य नास्ति अपितु लाक्षणिकः (सूत्रनिर्मितः) अस्ति इति कारणात् प्रकृतसूत्रम् अत्र न प्रवर्तते, अतः चित्रगो + अत्र इत्यत्र केवलम् <<एङः पदान्तादति>> [[6.1.109]] इत्यनेन पूर्वरूपं कृत्वा चित्रगोऽत्र इत्येव प्रयोगः सिद्ध्यति । " }, "61123": { "sa": "पदसंज्ञकस्य गो-शब्दस्य स्वरे परे संहितायाम् विकल्पेन अवङ्-आदेशः भवति । ", "sd": "पदसंज्ञकस्य गो-शब्दात् परः संहितायाम् स्वरः विद्यते चेत् गो-शब्दस्य विकल्पेन अवङ्-आदेशः भवति । अवङ् इति ङित्-आदेशः अस्ति, अतः <<ङिच्च>> [[1.1.53]] इत्यनेन अयम् स्थानिनः अन्तिमवर्णस्य स्थाने एव आगच्छति । पक्षे यथायोग्यम् अन्ये विधयः अपि प्रवर्तन्ते । द्वे उदाहरणे एतादृशे —\n1. गोः अग्रम् → गवाग्रम्, गोऽग्रम्, गोअग्रम् । प्रक्रिया एतादृशी —\n\nगोः अग्रम् [<<षष्ठी>> [[2.2.8]] इति समासः]\n→ गो + अग्र [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्यययोः लुक् । समासे पूर्वपदस्य पदान्तत्वम् नैव विनश्यति अतः 'गो' इति शब्दः पदसंज्ञकः एव स्वीक्रियते ।]\n→ ग् अवङ् अग्र [ओकारस्य अवङ्-आदेशः । <<ङिच्च>> [[1.1.53]] इति अन्त्यादेशः]\n→ ग् अव अग्र [ङकारस्य इत्संज्ञा, लोपः । \n→ गवाग्रम् [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः, ततः सुबुत्पत्तिः]\n
    पक्षे 'गो + अग्र' इत्यत्र <<सर्वत्र विभाषा गोः>> [[6.1.122]] इति पाक्षिके प्रकृतिभावे 'गोअग्रम्', तथा च तदभावे <<एङः पदान्तादति>> [[6.1.109]] इति पूर्वरूपे 'गोऽग्रम्' इति शब्दः अपि सिद्ध्यति ।]\n
    \n2. गोः ओदनम् → गवौदनम्, गवोदनम् । प्रक्रिया एतादृशी —\n\nगोः ओदनम् [<<षष्ठी>> [[2.2.8]] इति समासः]\n→ गो + ओदन [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्यययोः लुक् । समासे पूर्वपदस्य पदान्तत्वम् नैव विनश्यति अतः 'गो' इति शब्दः पदसंज्ञकः एव स्वीक्रियते ।]\n→ ग् अवङ् ओदन [ओकारस्य अवङ्-आदेशः । <<ङिच्च>> [[1.1.53]] इति अन्त्यादेशः]\n→ ग् अव ओदन [ङकारस्य इत्संज्ञा, लोपः । \n→ गवौदनम् [<<वृद्धिरेचि>> [[6.1.88]] इति वृद्ध्यैकादेशः, ततः सुबुत्पत्तिः]\n
    पक्षे 'गो + ओदन' इत्यत्र <<एचोऽयवायावः>> [[6.1.78]] इति अवादेशे 'गवोदन' इत्यपि सिद्ध्यति ।\n
    \nदलकृत्यम्\n1. स्फोटायनस्य इति किमर्थम् ? अस्मिन् सूत्रे पूर्वसूत्रात् 'विभाषा' इति शब्दः अनुवर्तते अतः अत्र स्फोटायनस्य ग्रहणम् विकल्पनिर्देशार्थम् नास्ति अपितु केवलम् पूजार्थम् (to pay respect, to give credit) कृतम् अस्ति ।\n2. पदसंज्ञकस्य इति किमर्थम्? गो शब्दस्य अपदान्त-ओकारस्य विषये इदं सूत्रम् नैव प्रवर्तते । अतएव गो-शब्दस्य सप्तम्येकवचनस्य प्रक्रियायाम् गो + इ इति स्थिते अत्र गो-शब्दस्य पदसंज्ञायाः अभावात् प्रकृतसूत्रम् नैव प्रवर्तते, अतः <<एचोऽयवायावः>> [[6.1.78]] इत्यनेन अवादेशे कृते गवि इत्येव सिद्ध्यति । यदि अत्रापि अवङ्-आदेशः स्यात्, तर्हि गुणैकादेशे कृते गवे इति अनुचितं रूपं भवेत् ।\nगो + अक्ष इत्यत्र सूत्रस्य नित्यत्वम्\nगवाम् अक्षि इव इत्यस्मिन् तत्पुरुषसमासे गो + अक्षि इति स्थिते, <<अक्ष्णोऽदर्शनात्>> [[5.4.76]] इत्यनेन 'अच्' इति समासान्तप्रत्यये कृते, ततः <<यस्येति च>> [[6.4.148]] इत्यनेन इकारस्य लोपे कृते, गो + अक्ष इत्यस्याम् स्थितौ प्रक्रियायाम् इदं सूत्रम् नित्यम् (compulsorily) कार्यम् करोति, न हि विकल्पेन । इत्युक्ते, अत्र केवलम् अवङादेशं कृत्वा गवाक्ष इत्येव रूपम् सिद्ध्यति; तत्र <<सर्वत्र विभाषा गोः>> [[6.1.122]] उत <<एचोऽयवायावः>> [[6.1.78]] इत्येतयोः सूत्रयोः विकल्पेन अपि प्रसक्तिः न विद्यते । एतादृशम् भेदम् समर्थयितुम् कौमुदीकारेण, काशिकाकारेण च अत्र व्यवस्थितविभाषायाः आश्रयः स्वीक्रियते । \nव्यवस्थितविभाषा — लक्ष्यानुसारेण व्यवस्थया प्रवृत्ता विभाषा व्यवस्थितविभाषा नाम्ना ज्ञायते । इत्युक्ते, अन्तिमरूपं दृष्ट्वा, तस्य सिद्ध्यर्थम् यत्र विभाषया कश्चन विशिष्टः मार्गः (एव) अवलम्ब्यते, तत्र व्यवस्थितविभाषा अस्ति इति उच्यते । A विभाषा in which instead of giving a real choice to the grammarian, a predefined option gets selected purely to lead a valid prayoga is referred as व्यवस्थितविभाषा । अत्र गो + अक्ष अस्यां स्थितौ यद्यपि <<अवङ् स्फोटायनस्य>> [[6.1.123]], <<सर्वत्र विभाषा गोः>> [[6.1.122]] तथा च <<एचोऽयवायावः>> [[6.1.78]] एतेषाम् त्रयाणाम् सूत्राणाम् विकल्पेन प्राप्तिः अस्ति, तथापि अत्र गवाक्ष इत्येव साधुप्रयोगः, न हि गोक्ष उत गोअक्ष इति । अतः अत्र व्यवस्थितविभाषां स्वीकृत्य <<अवङ् स्फोटायनस्य>> [[6.1.123]] इत्यस्यैव विकल्पस्य चयनं क्रियते, येन गवाक्ष इति इष्टं रूपं सिद्ध्यति । \nगवाक्षः इति नित्यपुंलिङ्गवाची शब्दः भाषायाम् वातायनम् (a small window) अस्मिन् अर्थे प्रयुज्यते ।\nप्रतिपदोक्तस्यैव ओकारस्य ग्रहणम्, न हि सूत्रनिर्मितस्य\nअयं विषयः शब्दरत्ने प्रतिपादितः अस्ति । अन्येषु व्याख्यानेषु अस्मिन् विषये किमपि उक्तम् नैव दृश्यते ।\nगो-शब्दस्य अन्ते मूलरूपेण (प्रातिपदिकस्वरूपे) ओकारः विद्यते चेदेव प्रकृतसूत्रम् प्रवर्तते । यदि तत्र मूलरूपेण कश्चन अन्यः वर्णः अस्ति, प्रक्रियायां च तस्य ओकारादेशः भवति, तर्हि <ऽलक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्ऽ> अनया परिभाषया तस्य विषये इदं सूत्रं न प्रवर्तते । यथा, चित्रगु-इति उकारान्तशब्दस्य सम्बोधनस्य एकवचने उकारस्य गुणादेशे कृते ओकारः जायते, येन 'चित्रगो' इति ओकारान्तः शब्दः सिद्ध्यति । यद्यपि अत्र पदान्ते 'गो' शब्दस्य ओकारः अस्ति, तथापि अयम् ओकारः प्रातिपदिकस्य नास्ति अपितु लाक्षणिकः (सूत्रनिर्मितः) अस्ति इति कारणात् प्रकृतसूत्रम् अत्र न प्रवर्तते, अतः चित्रगो + अत्र इत्यत्र केवलम् <<एङः पदान्तादति>> [[6.1.109]] इत्यनेन पूर्वरूपं कृत्वा चित्रगोऽत्र इत्येव प्रयोगः सिद्ध्यति । \n'अक् स्फोटायनस्य' इत्येव सुवचम् \nअस्मिन् सूत्रे 'अवङ्' आदेशस्य स्थाने 'अक्' इति आगमः वक्तव्यः —‌ इति अस्य सूत्रस्य भाष्ये, तत्त्वबोधिन्याम्, प्रौढमनोरमायाम् च निर्दिष्टम् अस्ति । 'अक्' इति आगमः कित्त्वात् <<आद्यन्तौ टकितौ>> [[1.1.46]] इति अन्त्यावयवरूपेण विधीयते । अस्मिन् आगमे कृते गोअ + अग्र इति स्थिते, गोअ इत्यस्य पदसंज्ञा भवति, अतः तत्र विद्यमानस्य अपदान्त-ओकारस्य अकारे परे <<एचोऽयवायावः>> [[6.1.78]] इत्यनेन अवादेशे कृते गव अग्र इति स्थिते, सवर्णदीर्घं कृत्वा गवाग्र इति शब्दः सिद्ध्यति । अनेन प्रकारेण अक्-आगमे कृते अपि साधुरूपम् अवश्यम् सिद्ध्यति । तदेव न, अपि तु अवङ्-आदेशेन वस्तुतः कश्चन स्वरदोषः जायते, तस्यापि निवारणम् अक्-आगमेन भवति । अतः अत्र 'अक्-आगमविधानम्' एव उचिततरम् — इति निर्णयः कृतः अस्ति । अस्मिन् विषये अधिकं पिपठिषवः भाष्यादीन् ग्रन्थान् पश्येयुः ।" }, "61124": { "sa": "गो-शब्दस्य इन्द्र-शब्दे परे संहितायाम् अवङ्-आदेशः भवति । ", "sd": "पदसंज्ञकस्य गो-शब्दात् परः संहितायाम् 'इन्द्र' इति शब्दः विद्यते चेत् <<अवङ् स्फोटायनस्य>> [[6.1.123]] इति सूत्रेण विकल्पेन प्राप्तः अवङ्-आदेशः <<इन्द्रे च नित्यम्>> [[6.1.124]] इत्यनेन नित्यम् (compulsory) एव विधीयते । यद्यपि अत्र सूत्रे 'नित्यम्' इति शब्दः नास्ति, तथापि अत्र सूत्रविधानसामर्थ्यात् एव नित्यत्वं सिद्ध्यति । इत्युक्ते, यदि 'इन्द्र' शब्दे परे अवङ्-आदेशः विकल्पेन एव अभविष्यत्, तर्हि <<अवङ् स्फोटायनस्य>> [[6.1.123]] इत्येव सूत्रं पर्याप्तं स्यात् । परन्तु इन्द्र-शब्दस्य विषये आचार्येण पृथक् सूत्रम् रचितम् अस्ति । एतदेव अवङ्-आदेशस्य नित्यत्वस्य ज्ञापकम् । \nअत्र प्रक्रिया एतादृशी वर्तते —\n\nगवाम् इन्द्रः [<<षष्ठी>> [[2.2.8]] इति षष्ठीतत्पुरुषसमासः]\n→ गो + इन्द्र [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्यययोः लुक् ]\n→ ग् अवङ् + इन्द्र [<<इन्द्रे च नित्यम्>> [[6.1.124]] इति नित्यम् अवङ्-आदेशः]\n→ ग् अव + इन्द्र [ङकारस्य इत्संज्ञा, लोपः]\n→ गवेन्द्र [<<आद्गुणः>> [[6.1.87]] इति गुणैकादेशः ।\n\n\n1. अपदान्तात् गो-शब्दात् 'इन्द्र' शब्दः नैव सम्भवति, अतः अत्र अर्थविधानसमये 'पदसंज्ञकस्य' इति निर्देशः कृतः अस्ति । काशिकायाम्, कौमुद्यां च तादृशः निर्देशः नैव दृश्यते । \n2. <ऽलक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्ऽ> अनया परिभाषया अत्र प्रातिपदिस्वरूपे विद्यमानः गो-शब्दः एव स्वीक्रियते । अस्मिन् विषये <<अवङ् स्फोटायनस्य>> [[6.1.123]] इत्यत्र अधिकम् विवरीतम् अस्ति ।\nकाशिकायाम् <<इन्द्रे च नित्यम्>> इति पाठः\nअग्रिमसूत्रे <<प्लुतप्रगृह्या अचि नित्यम्>> [[6.1.125]] इत्यत्र विद्यमानस्य 'नित्यम्' शब्दस्य ग्रहणम् काशिकाकारेण प्रकृतसूत्रे एव कृत्वा <<इन्द्रे च नित्यम्>> इति प्रकृतं सूत्रं पाठयित्वा, ततः <<प्लुतप्रगृह्या अचि>> इत्येवम् अग्रिमसूत्रम् पाठ्यते । भाष्ये, कौमुद्यां तु 'नित्यम्' इति शब्दः अग्रिमसूत्रे एव स्वीकृतः अस्ति । \n" }, "61125": { "sa": "प्लुतवर्णेभ्यः प्रगृह्यसंज्ञकशब्देभ्यः अनन्तरम् संहितायाम् स्वरः विद्यते चेद् अपि तत्र सन्धिः न भवति ।", "sd": "प्लुतसंज्ञकवर्णाः, प्रगृह्यसंज्ञकशब्दाः च तेभ्यः अनन्तरम् विद्यमानैः अच्-वर्णैः सह सन्धिकार्यम् न कुर्वन्ति, प्रकृत्या (मूलस्वरूपे) एव तिष्ठन्ति इति प्रकृतसूत्रस्य अर्थः । क्रमेण उदाहरणे एते -\n1. प्लुतवर्णानाम् अचि प्रकृतिभावः — \n<<ऊकालोऽज्झ्रस्वदीर्घप्लुतः>> [[1.2.27]] इत्यनेन स्वराणाम् ह्रस्व-दीर्घ-प्लुतादयः भेदाः कृताः सन्ति । त्रिमात्रिकः स्वरः प्लुतसंज्ञकः भवति इति अस्य सूत्रस्य आशयः । शब्देषु मूलरूपेण प्लुतस्वरः कुत्रापि न दृश्यते, परन्तु <<वाक्यस्य टेः प्लुतः उदात्तः>> [[8.2.82]] इत्यस्मिन् अधिकारे विद्यमानैः 27-सूत्रैः भिन्नेषु सन्दर्भेषु स्वराणाम् प्लुतसंज्ञा दीयते । एतैः सूत्रैः सिद्धः प्लुतः स्वरः तस्मात् अग्रे विद्यमानेन अच्-वर्णेन सह सन्धिकार्यम् न करोति इति प्रकृतसूत्रस्य आशयः । यथा, एहि कृष्ण3, अत्र गौश्चरति अस्मिन् वाक्ये कृष्ण-शब्दस्य अन्तिम-अकारस्य <<दूराद्धूते च>> [[8.2.84]] इत्यनेन प्लुतसंज्ञायाम् कृतायाम् तस्य अत्र-शब्दस्य अकारेण सह संहितायाम् सवर्णदीर्घः न भवति ।\n2. प्रगृह्यशब्दानाम् अचि प्रकृतिभावः —\n<<ईदूदेद् द्विवचनम् प्रगृह्यम्>> [[1.1.11]] इत्यस्मात् सूत्रात् <<ईदूतौ च सप्तम्यर्थे>> [[1.1.19]] एतेषु नव सूत्रेषु प्रगृह्यसंज्ञा पाठिता अस्ति । एतैः सूत्रैः सिद्धः प्रगृह्यसंज्ञकः वर्णः / शब्दः तस्मात् अग्रे विद्यमानेन अच्-वर्णेन सह सन्धिकार्यम् न करोति इति प्रकृतसूत्रस्य आशयः । यथा, मुनी एतौ इत्यत्र मुनी-शब्दस्य <<ईदूदेद् द्विवचनम् प्रगृह्यम्>> [[1.1.11]] इति सूत्रेण प्रगृह्यसंज्ञायाम् कृतायाम् तस्य एतौ-शब्दे परे संहितायाम् यणादेशः न भवति ।\nबाध्यबाधकभावः\n प्रकृतसूत्रम् सर्वेषाम् अपि अच्-सन्धि-विधायकसूत्राणाम् बाधकरूपेण प्रवर्तते । इत्युक्ते, प्लुतस्वरात् प्रगृह्यस्वरात् च संहितायाम् अच्-वर्णः विद्यते चेत् कोऽपि अच्-सन्धिः कदाऽपि नैव सम्भवति ।\nअपि च, प्रकृतसूत्रे 'नित्यम्' इति ग्रहणसामर्थ्यात् इदं सूत्रम् <<इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च>> [[6.1.127]] इति सूत्रस्य बाधकरूपेण प्रवर्तते । इत्युक्ते, यत्र <<इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च>> [[6.1.127]] तथा च <<प्लुतप्रगृह्या अचि नित्यम्>> [[6.1.125]] इति द्वयोः अपि सूत्रयोः प्रसक्तिः अस्ति, तत्र <<इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च>> [[6.1.127]] इत्यनेन विकल्पेन प्रकृतिभावे उक्ते, तद्बाधित्वा प्रकृतसूत्रेण नित्यम् एव प्रकृतिभावः विधीयते । अतएव, मुनी इतौ इत्यत्र यद्यपि <<इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च>> इत्यस्य प्राप्तिः अस्ति, तथापि तद्बाधित्वा मुनी-शब्दस्य प्रगृह्यसंज्ञां दृष्ट्वा <<प्लुतप्रगृह्याः अचि नित्यम्>> [[6.1.125]] इत्येव सूत्रम् प्रवर्तते, येन अत्र नित्यम् प्रकृतिभावः भवति । \nपूर्वम् विद्यमानस्य अच्-वर्णस्य विषये प्रकृतिभावः न भवति \nप्रकृतसूत्रे 'अचि' इति सप्तम्यन्तपदेन परनिमित्तस्यैव निर्देशः भवति । इत्युक्ते, यत्र सन्धिकार्ये प्लुतसंज्ञकात् / प्रगृह्यसंज्ञकात् वा अनन्तरम् अच्-वर्णः विद्यते, तत्रैव अनेन सूत्रेण प्रकृतिभावः भवति । यदि प्लुतसंज्ञकात् / प्रगृह्यसंज्ञकात् पूर्वम् अच्-वर्णः अस्ति, तर्हि तत्र सन्धिकार्यम् अवश्यम् भवति । यथा —\n\nजानु उ अत्र ['उ' इति अव्ययस्य <<निपात एकाजनाङ्>> [[1.1.14]] इत्यनेन प्रगृह्यसंज्ञा ]\n→ जानू अत्र [जानु-शब्दस्य उकारस्य 'उ' इति प्रगृह्यसंज्ञकेन सह <<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घैकादेशः भवति । अत्र प्रगृह्यसंज्ञकस्य पूर्ववर्णेन सह सन्धिः कृता अस्ति अतः <<प्लुतप्रगृह्या अचि नित्यम्>> [[6.1.125]] इति सूत्रम् अत्र न प्रवर्तते ।]\n→ जानू अत्र, जान्वत्र [दीर्घ-ऊकारः आदिवद्भावेन प्रगृह्यसंज्ञां प्राप्नोति, अतः अकारे परे <<इको यणचि>> [[6.1.77]] इत्यनेन तस्य यणादेशे प्राप्ते <<प्लुतप्रगृह्या अचि नित्यम्>> [[6.1.125]] इत्यनेन प्रकृतिभावः अवश्यम् भवति । परन्तु <<मय उञो वो वा>> [[8.3.33]] इति सूत्रेण 'उ' इति निपातस्य अचि परे विकल्पेन वकारादेशः अपि भवति । इदम् सूत्रम् 'उ' इति निपातविशिष्टम् अस्ति, अतः <<प्लुतप्रगृह्या अचि नित्यम्>> [[6.1.125]] इत्यनेन अस्य बाधः न भवति । अतः उकारस्य पाक्षिके वकारादेशे कृते 'जान्वत्र' इत्यपि रूपं सिद्ध्यति ।]\n\n\n\n\n" }, "61126": { "sa": "वैदिकप्रक्रियायाम् आङ् इत्यस्य संहितायाम् अच्-वर्णे परे अनुनासिकादेशः भवति, ततः च अच्-वर्णेन सह सन्धिः न भवति ।", "sd": "वैदिकप्रयोगेषु संहितायाम् सत्याम् 'आङ्' इति निपातः अचि परे अनुनासिकत्वं प्राप्य प्रकृतिभावम् अपि प्राप्नोति (इत्युक्ते, अग्रे सन्धिम् न करोति) । उदाहरणद्वयम् एतादृशम् —\n1) अभ्र आँ अपः (ऋग्वेदे 5.48.1) — अत्र आ अपः अस्यां स्थितौ सवर्णदीर्घैकादेशे प्राप्ते; तद्बाधित्वा 'आ' इत्यस्य अनुनासिकादेशः, प्रकृतिभावः च भवति ।\n2) गभीरआँ उग्रपुत्रे जिघांसत (ऋग्वेदे 8.67.11) — अत्र आ उग्रपुत्रे अस्यां स्थितौ गुणे प्राप्ते तद्बाधित्वा 'आ' इत्यस्य अनुनासिकादेशः, प्रकृतिभावः च भवति ।\nअस्य सूत्रस्य भाष्ये भाष्यकारः <<आङोऽनुनासिकश्छन्दसि बहुलम्>> इति बहुलग्रहणेन सूत्रम् पाठयति । आङ्-निपातस्य अच्-वर्णे परे कुत्रचित् सन्धिकार्यम् अवश्यं कृतम् दृश्यते, तादृशानाम् प्रयोगानाम् अपि अनेन बहुलग्रहणेन साधुत्वं जायते । यथा, इन्द्रो बाहुभ्यामातरत् इत्यत्र आ + अतरत् अत्र आङ्-इत्यस्य सवर्णदीर्घः अवश्यं कृतः दृश्यते ।\n" }, "61127": { "sa": "पदान्त-इक्-वर्णस्य असवर्णे अचि परे संहितायाम् शाकल्यस्य मतेन ह्रस्वादेशः भवति, तदनन्तरं च सन्धिकार्यं न भवति । ", "sd": "पदस्य अन्ते विद्यमानस्य इक्-वर्णस्य असवर्णे अच्-वर्णे परे <<इको यणचि>> [[6.1.77]] इत्यनेन यणादेशे प्राप्ते; तद्बाधित्वा शाकल्यस्य मतेन (इत्युक्ते, विकल्पेन) ह्रस्वादेशः, प्रकृतिभावः च भवति ।\nयथा - चक्री अत्र इत्यत्र प्रकृतसूत्रेण ह्रस्वादेशं प्रकृतिभावम् च कृत्वा चक्रि अत्र इति सिद्ध्यति । अत्र पुनः अग्रे यणादेशः न भवति । पक्षे, चक्री अत्र इत्यत्रैव <<इको यणचि>> [[6.1.77]] इत्यनेन यणादेशे कृते चक्र्यत्र इत्यपि रूपं सिद्ध्यति ।\nदलकृत्यम्\n1. पदान्तस्य इति किमर्थम् ? यत्र अपदान्तः इक्-वर्णः अस्ति तत्र अस्य सूत्रस्य प्रसक्तिः न विद्यते । यथा, नदी + औ → नद्यौइत्यत्र नदीशब्दस्य पदसंज्ञायाः अभावे ह्रस्वादेशः अपि न भवति, केवलम् यणादेशं कृत्वा रूपं सिद्ध्यति ।\n2. असवर्णे इति किमर्थम् ? पदान्त-इक्-वर्णात् सवर्णे इक्-वर्णे परे प्रकृतसूत्रं नैव प्रवर्तते । यथा, नदी + इयम् → नदीयम् इत्यत्र केवलं सवर्णदीर्घं कृत्वा रूपं सिद्ध्यति ।\n3. ह्रस्वश्च इत्यत्र चकारः किमर्थम् ? ह्रस्वादेशः भवति, ततः प्रकृतिभावः अपि भवति इति दर्शयितुम् अत्र सूत्रे चकारः स्थापितः अस्ति । वस्तुतस्तु अत्ह्रर स्वादेशसामर्थ्याद् एव प्रकृतिभावः अपि सिद्ध्यति, यतः ह्रस्वादेशात् अनन्तरम् यणादेशः क्रियते चेत् ह्रस्वादेशः व्यर्थः एव स्यात् । अतः ह्रस्वादेशेनैव प्रकृतिभावे अपि सिद्धे चकारग्रहणम् अस्मिन् सूत्रे अनावश्यकम् ।\n4. शाकल्यग्रहणम् विकल्पार्थम् उत पूजार्थम् ? इक्-वर्णात् असवर्णे अच्-वर्णे परे <<इको यणचि>> [[6.1.77]] इत्यनेन यणादेशे प्राप्ते; प्रकृतसूत्रेण पदान्त-इक्-वर्णस्य विषये ह्रस्वादेशः उच्यते । अतः अस्मिन् सूत्रे यदि शाकल्यग्रहणम् नैव क्रियते, तर्हि अत्र इदं सूत्रम् पदान्त-इक्-वर्णस्य विषये <<इको यणचि>> [[6.1.77]] इति सूत्रम् नित्यं बाधेत । तादृशं मा भूत् अतः अस्मिन् सूत्रे शाकल्यग्रहणम् कृतम् अस्ति । शाकल्यमुनेः नाम उक्त्वा 'तन्मतेन' (इत्युक्ते विकल्पेन) इदं सूत्रं प्रवर्तते, इति पाणिनेः आशयः । पूजार्थम् (to show respect / to give credit) ग्रहणम् कृतम् अस्ति इत्यत्र तु नैव कश्चन संदेहः । परन्तु विकल्पार्थम् अपि कृतम् अस्ति इति विशेषः । \nकाशिकायाम् अत्र — शाकल्यस्य ग्रहणं पूजार्थम्, आरम्भसामर्थ्यादेव हि यणादेशेन सह विकल्पः सिद्धः — इति उच्यते । एतत् तु चिन्त्यमेव, यतः यणादेशः अपदान्त-इक्-वर्णस्य विषये चारितार्थ्यं प्राप्य पदान्त-इक्-वर्णस्य विषये अवश्यं बाधं स्वीकुर्यात् ।\nबाध्यबाधकभावः\n<<प्लुतप्रगृह्या अचि नित्यम्>> [[6.1.125]] इति सूत्रेण प्रकृतसूत्रम् नित्यम् बाध्यते । इत्युक्ते, यत्र <<प्लुतप्रगृह्या अचि नित्यम्>> [[6.1.125]] इत्यस्य प्रसक्तिः अस्ति तत्र प्रकृतसूत्रम् नैव प्रवर्तते । अतएव मुनी एतौ इत्यत्र प्रकृतसूत्रेण ह्रस्वादेशः न भवति, अपि च <<प्लुतप्रगृह्या अचि नित्यम्>> [[6.1.125]] इत्यनेन नित्यम् प्रकृतिभावः एव विधीयते ।\nवार्त्तिकद्वयम्\n\nसित्-प्रत्यये परे, तथा च समासे प्रकृतसूत्रस्य प्रयोगः न भवति —‌ इति अस्य वार्त्तिकस्य अर्थः । यद्यपि अत्र वार्त्तिके 'नित्यसमास' इति निर्देशः कृतः अस्ति, तथापि सः अंशः भाष्यकारेण प्रत्याख्यातः अस्ति । नित्येषु अनित्येषु च समासेषु प्रकृतसूत्रस्य प्रयोगः नैव भवति, इति अत्र भाष्यकारस्य आशयः वर्तते।\nक्रमेण उदाहरणे एते —\n\n1.1) सित्-प्रत्यये परे प्रकृतसूत्रस्य निषेधः —\nयस्याः प्रकृतेः सित्-प्रत्ययः विधीयते, तस्याः <<सिति च>> [[1.4.16]] इति सूत्रेण पदसंज्ञा भवति । अतः एतादृशः सित्-प्रत्ययः यदि अजादिः अस्ति, तर्हि तत्र प्रकृतसूत्रेण विकल्पेन ह्रस्वादेशः प्रकृतिभावश्च प्राप्नोति । अस्य ह्रस्वादेशस्य, प्रकृतिभावस्य च निषेधं कर्तुम् इदं वार्त्तिकम् पाठ्यते । सित्-प्रत्यये परे प्रकृतसूत्रस्य प्रयोगः न भवति, इति अस्य वार्त्तिकस्य आशयः । अस्य द्वे उदाहरणे एतादृशे —\n\ni) <<ब्राह्मणमाणववाडवाद्यन्>> [[4.2.42]] अस्मिन् सूत्रे पाठितेन इति वार्त्तिकेन पर्शु-शब्दात् णस्-प्रत्ययः भवति । अयम् सित्-प्रत्ययः अस्ति, अयम् अजादिः अपि अस्ति, अतः अस्मिन् प्रत्यये परे प्रकृतसूत्रेण प्राप्तः वैकल्पिकः ह्रस्वादेशः प्रकृतिभावश्च इति वार्त्तिकेन निषिध्यते । प्रक्रिया इयम् —\n\nपर्शूनां समूहः\n= पर्शु + णस् [ इति वार्त्तिकेन पर्शु-शब्दात् णस्-प्रत्ययः]\n→ पर्शु + अ [इत्संज्ञालोपः । अत्र सकारस्यापि इत्संज्ञा अस्तीति स्मर्तव्यम् ]\n→ पार्शु + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः । ]\n→ पार्श्व [<<सिति च>> [[1.4.16]] इत्यनेन प्रकृतेः पदसंज्ञायां सत्याम् पदान्त-उकारस्य अच्-वर्णे परे प्रकृतसूत्रेण निर्दिष्टः ह्रस्वादेशः प्रकृतिभावः च अनेन वार्त्तिकेन निषिध्यते । अतः अत्र <<इको यणचि>> इति यणादेशं कृत्वा रूपं सिद्ध्यति ।]\n\nii) 'ऋतु' शब्दात् वेदेषु 'अस्य प्राप्तम्' अस्मिन् अर्थे <<छन्दसि घस्>> [[5.1.106]] इति सूत्रेण घस्-प्रत्ययः कृतः दृश्यते । अस्मिन् प्रत्यये सकारस्य इत्संज्ञा भवति । अयम् प्रत्ययः अजादिः अस्ति, अतः अस्मिन् प्रत्यये परे प्रकृतसूत्रेण प्राप्तः वैकल्पिकः ह्रस्वादेशः प्रकृतिभावश्च इति वार्त्तिकेन निषिध्यते । प्रक्रिया इयम् —\n\nऋतुः अस्य प्राप्तः\nऋतु + घस् [<<छन्दसि घस्>> [[5.1.106]] इति घस्]]\n→ ऋतु + इय [<<आयनेयीनीयीयः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति इय-आदेशः]\n→ ऋत्विय [<<सिति च>> [[1.4.16]] इत्यनेन प्रकृतेः पदसंज्ञायां सत्याम् पदान्त-उकारस्य अच्-वर्णे परे प्रकृतसूत्रेण निर्दिष्टः ह्रस्वादेशः प्रकृतिभावः च अनेन वार्त्तिकेन निषिध्यते । अतः अत्र <<इको यणचि>> इति यणादेशं कृत्वा रूपं सिद्ध्यति ।]\n\n\n1.2) समासे प्रकृतसूत्रस्य निषेधः —\nयत्र समस्तपदस्य पूर्वपदम् इगन्तम् अस्ति, उत्तरपदस्य आदौ च असवर्णः स्वरः विद्यते, तत्र प्रकृतसूत्रेण ह्रस्वादेशे, प्रकृतिभावे च प्राप्ते अनेन वार्त्तिकेन सः निषिध्यते । अस्य कानिचन उदाहरणानि अधः दत्तानि सन्ति । तत्र आदिस्थे द्वे उदाहरणे नित्यसमासस्य विषये स्तः, अग्रिमे द्वे उदाहरणे अनित्यसमास्य विषये स्तः ।\n\ni) व्याक्रियते अनेन इति → वि + आ + कृ + ल्युट् → वि + आ + कृ + अन → व्याकरण । अत्र कृ-धातोः ऋकारस्य अकारे परे प्रकृतिभावः न भवति । \nii) कुमार्यै इति →‌ कुमारी + अर्थम् → कुमार्यर्थम् । अत्र ईकारस्य अकारे परे ह्रस्वः प्रकृतिभावः च न भवति । \niii) वाप्याम् अश्वः →‌ वापी + अश्वः → वाप्यश्वः । अत्र ईकारस्य अकारे परे ह्रस्वः प्रकृतिभावः च न भवति । \niv) नद्याम् आतिः →‌ नदी + आतिः → नद्यातिः । अत्र ईकारस्य आकारे परे ह्रस्वः प्रकृतिभावः च न भवति । \n\n\n\nसिद्धान्तकौमुद्याम् इदं वार्त्तिकम् <<आङोऽनुनासिकश्छन्दसि>> [[6.1.126]] इत्यत्र पाठितम् अस्ति ।\nवेदेषु — ईशा अक्ष, का ईर्मिरे, यथा अङ्गदः, पथा अगमन्, ज्या इयम्, पूषा अविष्टु —एतादृशेषु केषुचित् प्रयोगेषु संहितायाम् सत्याम् अपि प्रकृतिभावः कृतः दृश्यते । एतेषाम् सर्वेषाम् शब्दानाम् साधुत्वार्थम् वार्त्तिककारेण इदं वार्त्तिकम् पाठितम् अस्ति । एतेषु सर्वेषु शब्देषु ह्रस्वादेशः न भवति परन्तु प्रकृतिभावः अवश्यं भवति, इति अस्य वार्त्तिकस्य अर्थः ।" }, "61128": { "sa": "पदान्त-अक्-वर्णस्य ह्रस्व-ऋकारे/ऌकारे परे संहितायाम् शाकल्यस्य मतेन ह्रस्वादेशः भवति, तदनन्तरं च सन्धिकार्यं न भवति । ", "sd": "पदस्य अन्ते विद्यमानस्य अक्-वर्णस्य असवर्णे ह्रस्व-ऋकारे/ऌकारे परे यणादेशं/सवर्णदीर्घं/गुणम् बाधित्वा शाकल्यस्य मतेन (इत्युक्ते, विकल्पेन) ह्रस्वादेशः, प्रकृतिभावः च भवति । \n\nक्रमेण उदाहरणानि एतानि —\n1. अवर्णात् ऋकारे/ऌकारे परे गुणैकादेशं बाधित्वा ह्रस्वादेशः, प्रकृतिभावः —\n\n1. सप्त ऋषिः → सप्तऋषिः । अग्रे गुणैकादेशः न भवति । पक्षे, <<आद्गुणः>> [[6.1.87]] इत्यनेन गुणैकादेशे कृते सप्तर्षिः अपि सिद्ध्यति ।\n2. सप्त ऌकारः → सप्तऌकारः, सप्तल्कारः ।\n3. ब्रह्मा ऋषिः → ब्रह्मऋषिः, ब्रह्मर्षिः ।\n4. ब्रह्मा ऌकारः → ब्रह्मऌकारः, ब्रह्मल्कारः ।\n\n2. इवर्णात् ऋकारे/ऌकारे परे यणादेशं बाधित्वा ह्रस्वादेशः, प्रकृतिभावः —\n\n1. मति ऋषिः→ मतिऋषिः । अग्रे यणादेशः न भवति । पक्षे, <<इको यणचि>> [[6.1.77]] इत्यनेन यणादेशे कृते मत्यृषिः इति अपि सिद्ध्यति ।\n2. नदी ऋषिः → नदिऋषिः, नद्यृषिः ।\n3. मति ऌकारः → मतिऌकारः, मत्यॢलकारः ।\n4. नदी ऌकारः → नदिऌकारः, नद्यॢकारः ।\n\n3. उवर्णात् ऋकारे/ऌकारे परे यणादेशं बाधित्वा ह्रस्वादेशः, प्रकृतिभावः —\n\n1. साधु ऋषिः → साधुऋषिः । अग्रे यणादेशः न भवति । पक्षे, <<इको यणचि>> [[6.1.77]] इत्यनेन यणादेशे कृते साध्वृषिः इति अपि सिद्ध्यति ।\n2. वधू ऋषिः → वधुऋषिः, वध्वृषिः ।\n3. साधु ऌकारः → साधुऌकारः, साध्वॢकारः ।\n4. वधू ऌकारः → वधुऌकारः, वध्वॢकारः ।\n\n4. ऋवर्णात् ऋकारे/ऌकारे परे सवर्णदीर्घं बाधित्वा ह्रस्वादेशः, प्रकृतिभावः —\n\n1. पितृ ऋषिः → पितृऋषिः । अग्रे सवर्णदीर्घः न भवति । पक्षे, <<अकः सवर्णे दीर्घः>> [[6.1.101]] इत्यत्र पाठितेन इति वार्त्तिकेन 'र्रृ' इति नरसिंह-ऋकारे कृते पित्र्रृकारः इति वैकल्पिकं रूपम्, तदभावे च <<अकः सवर्णे दीर्घः>> [[6.1.101]] इत्यनेन सवर्णदीर्घे कृते पितॄकारः इति रूपम् । \n2. तॄ ऋषिः → तृऋषिः । पक्षे <<अकः सवर्णे दीर्घः>> [[6.1.101]] इत्यनेन सवर्णदीर्घे कृते तॄषिः इति रूपम् । \n3. ऌ ऋषिः → ऌऋषिः । पक्षे सवर्णदीर्घं कृत्वा ॠषिः इति रूपम् । \n4. पितृ ऌकारः → पितृऌकारः । पक्षे, <<अकः सवर्णे दीर्घः>> [[6.1.101]] इत्यत्र पाठितेन इति वार्त्तिकेन 'ल्लॢ' इति नरसिंह-ऌकारे कृते पित्ल्लॢकार इति वैकल्पिकं रूपम्, तदभावे च <<अकः सवर्णे दीर्घः>> [[6.1.101]] इत्यनेन सवर्णदीर्घे कृते पितॄकारः इति रूपम् । \n5. तॄ ऌकारः → तृऌकारः । पक्षे सवर्णदीर्घं कृत्वा तॄकारः इति रूपम् । \n6. ऌ ऌकारः → ऌऌकारः । पक्षे सवर्णदीर्घं कृत्वा ॠकारः रूपम् । \n\n<<इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च>> [[6.1.127]] तथा च <<ऋत्यकः>> [[6.1.128]] इत्येतयोमर्ध्ये भेदः\nइवर्णात् उवर्णात् वा ऋकारे / ऌकारे परे <<ऋत्यकः>> [[6.1.128]] इत्यनेन यद् रूपम् सिद्ध्यति, तदेव रूपम् सामान्यतः <<इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च>> [[6.1.127]] इत्यनेन अपि सिद्ध्यति । परन्तु <<इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च>> [[6.1.127]] इति सूत्रम् इति वार्त्तिकसामर्थ्यात् समासस्य विषये न प्रवर्तते । <<ऋत्यकः>> [[6.1.128]] इति सूत्रम् तु समासस्य विषये अपि प्रवर्तते । अतः नद्याः ऋषिः इत्यत्र षष्ठीसमासे कृते <<इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च>> [[6.1.127]] इत्यनेन ह्रस्वादेशः प्रकृतिभावः वा नैव सम्भवति । अत्र तत्कार्यं कर्तुम् <<ऋत्यकः>> [[6.1.128]] इत्येव सूत्रम् प्रयोक्तव्यम् ।\nदलकृत्यम्\n1. ऋति इत्यत्र तपरकरणम् किमर्थम् ? अत्र ऋकारस्य तपरकरणेन <<तपरस्तत्कालस्य>> [[1.1.70]] इति तात्कालिकभेदस्य एव ग्रहणं भवति, अतः अस्य सूत्रस्य प्रसक्तिः केवलम् ऋकारे/ऌकारे परे च सम्भवति, न हि दीर्घ-ॠकारे परे । अतः पितृ + ॠकारः इत्यत्र केवलम् सवर्णदीर्घं कृत्वा पितॄकारः इति शब्दः सिद्ध्यति । \n2. पदान्तस्य इति किमर्थम् ? अक्-वर्णः पदान्ते नास्ति चेत् प्रकृतसूत्रेण ह्रस्वादेशः प्रकृतिभावः वा न भवति । यथा, ऋच्छ् धातोः लङ्लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रियायाम् आडागमे कृते आ + ऋच्छ् + त् इति स्थिते अत्र प्रकृतसूत्रम् नैव प्रवर्तते, यतः अत्र इति भिन्नम् पदम् नास्ति । अत्र <<आटश्च>> [[6.1.90]] इत्यनेन वृद्धि-एकादेशं कृत्वा आर्च्छत् इत्येव रूपं सिद्ध्यति ।\n \n\n" }, "61129": { "sa": "संहितायाम् अवैदिके 'इति' शब्दे परे प्लुतः अप्लुतवत् भवति ।", "sd": "उपस्थिते परे प्लुतः अप्लुतवत् भवति — इति अस्य सूत्रस्य पदशः अर्थः । 'उपस्थितः' इत्युक्ते अवैदिकवाङ्मये प्रयुज्यमानः 'इति' शब्दः । इत्युक्ते, लौकिकसंस्कृते वाक्येषु प्रयुज्यमानः इति अयं शब्दः उपस्थितः नाम्ना ज्ञायते । अस्मिन् शब्दे परे प्लुतस्वरः अप्लुतवत् कार्यं करोति — इत्युक्ते, तस्य <<प्लुतप्रगृह्या अचि नित्यम्>> [[6.1.125]] इत्यनेन अच्-सन्धौ प्रकृतिभावः न जायते — इति प्रकृतसूत्रस्य आशयः । \nयथा, सुश्लोक3 इति इत्यत्र ककारात् परः अकारः प्लुतः अस्ति, अतः <<प्लुतप्रगृह्या अचि नित्यम्>> [[6.1.125]] इत्यनेन प्रकृतिभावे प्राप्ते; प्रकृतसूत्रेण अयं प्लुतस्वरः अप्लुतवत् कार्यम् करोति, अतः संहितायाः विवक्षायाम् <<आद्गुणः>> [[6.1.87]] इत्यनेन गुण-एकादेशे कृते सुश्लोकेति एतादृशं रूपं सिद्ध्यति । एवमेव सुमङ्गल3 इति → सुमङ्गलेति इति प्रयोगः अपि सिदध्यति । \n इदं सूत्रम् वैकल्पिकविधानम् न करोति । अनेन सूत्रेण उक्तः अप्लुतवद्भावः नित्यः (compulsory) अस्ति इति ज्ञेयम् । \nअप्लुतवत् इत्यत्र 'वत्' ग्रहणस्य प्रयोजनम्\nप्रकृतसूत्रे अप्लुतवत् इति उक्तमस्ति, अप्लुतम् इति न । इत्युक्ते, अनेन सूत्रेण प्लुत-स्वरे परिवर्तनं कृत्वा तस्य ह्रस्वादेशः दीर्घादेशः वा न क्रियते । प्लुत-स्वरः प्लुतः एव तिष्ठति, परन्तु अच्-वर्णे परे तस्य कार्यम् अप्लुत-स्वरवत् भवति इत्याशयः । अतः अस्य प्लुतस्य उच्चारणं त्रिमात्रिकम् एव भवति । यथा - अग्नी3 इति इत्यत्र यद्यपि प्लुतः अप्लुतवत् कार्यं करोति, तथापि अग्नी शब्दः प्रगृह्यः अस्ति अतः <<प्लुतप्रगृह्या अचि नित्यम्>> [[6.1.125]] इत्यनेन प्रगृह्यत्वात् प्रकृतिभावः अवश्यं जायते । अस्यां स्थितौ अत्र सन्धिः न भवति, अग्नी3 इति इत्येव तिष्ठति । अत्र अग्नी3 शब्दान्ते विद्यमानस्य ईकारस्य उच्चारणम् त्रिमात्रिकम् एव करणीयम् । \n" }, "61130": { "sa": "चाक्रवर्मणस्य मतेन प्लुतः ईकारः संहितायाम् अचि परे अप्लुतवत् भवति । ", "sd": "प्लुत-ईकारात् संहितायाम् अच्-वर्णः अग्रे अस्ति चेत् चाक्रवर्मणस्य मतेन (इत्युक्ते, विकल्पेन) सः प्लुतः ईकारः अप्लुतवत् कार्यं करोति —‌ इत्युक्ते तत्र <<प्लुतप्रगृह्या अचि नित्यम्>> [[6.1.125]] इत्यनेन प्रकृतिभावः न विधीयते अपितु यथायोग्यं सन्धिकार्यम् भवति — इति अस्य सूत्रस्य आशयः ।यथा —\n\n1. चिनुहि3 इदम् इत्यत्र हकारात् परः विद्यमानः इकारः प्लुतः अस्ति, अतः <<प्लुतप्रगृह्या अचि नित्यम्>> [[6.1.125]] इत्यनेन अत्र नित्यं प्रकृतिभावे प्राप्ते; अयं प्लुतः प्रकृतसूत्रेण विकल्पेन अप्लुतवत् अपि कार्यम् करोति, अतः <<अकः सवर्णे दीर्घः>> [[6.1.101]] इत्यनेन सवर्णदीर्घे कृते चिनुहीदम् इति अपि रूपं जायते ।\n2. चिनुहि3 + इति इत्यत्र <<अप्लुतवदुपस्थिते>> [[6.1.129]] इत्यनेन प्लुत-ईकारस्य नित्यम् अप्लुतवत्त्वे प्राप्ते, प्रकृतसूत्रेण तद् विकल्प्यते । अतः पक्षे <<अकः सवर्णे दीर्घः>> [[6.1.101]] इत्यने सवर्णदीर्घे कृते चिनुहीति इति अपि रूपं जायते ।\n\nअस्मिन् सूत्रे चाक्रवर्मणस्य इति ग्रहणम् विकल्पविधानार्थम् अस्ति । \nउभयविभाषा\nईकारात् इति-शब्दे परे <<अप्लुतवदुपस्थिते>> [[6.1.129]] इत्यनेन प्राप्तः नित्यविधिः प्रकृतसूत्रेण विकल्प्यते । अन्येषु अजादिशब्देषु परेषु पूर्वम् अप्राप्तः विधिः अनेन सूत्रेण विकल्पेन विधीयते । अनेन प्रकारेण कुत्रचित् प्राप्तविभाषारूपेण, कुत्रचित् च अप्राप्तविभाषारूपेण — इति द्वयोः प्रकारयोः इदं सूत्रम् उपयुज्यते, अतः अस्मिन् सूत्रे उभयविभाषा प्रयुक्ता अस्ति इति निर्णयः । " }, "61131": { "sa": "'दिव्' इत्यस्य पदसंज्ञायां सत्याम् तस्य उत्-आदेशः भवति । ", "sd": "'दिव्' (स्वर्गः) इति वकारान्तस्त्रीलिङ्गः शब्दः । इदम् अव्युत्पन्नम् प्रातिपदिकम् अस्ति । कुत्रचित् 'दिव्' धातोः डिवि इति उणादिप्रत्यये कृते अस्य सिद्धिः दीयते । परन्तु इदं दिव्-धातोः क्विबन्तम् नास्ति । \nप्रक्रियायाम् यदा अस्य शब्दस्य पदसंज्ञा भवति तदा प्रकृतसूत्रेण तस्य उकारादेशः भवति । कानिचन उदाहरणानि एतानि —\n1. दिव्-शब्दस्य तृतीयाद्विवचनस्य रूपम् —\n\nदिव् + भ्याम् [तृतीयैकवचनस्य प्रत्ययः । अस्मिन् प्रत्यये परे दिव्-शब्दस्य <<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इति पदसंज्ञा भवति ।]\n→ दि उ + भ्याम् [<<दिव उत्>> [[6.1.131]] इति उत्-आदेशः । <<अलोऽन्त्यस्य>> [[1.1.52]] इति अन्त्यादेशः]\n→ द्युभ्याम् [<<इको यणचि>> [[6.1.77]] इति यणादेशः ।]\n\n2. 'द्यौः अस्य अस्ति' इति तद्धितवृत्तौ मतुप्-प्रत्यये परे —\n\nद्यौः अस्य अस्ति [तद्धितवृत्तिः]\nदिव् + मतुप् [<<तदस्यास्त्यस्मिन्निति मतुप्>> [[5.2.94]] इति मतुप्-प्रत्ययः । अस्मिन् प्रत्यये परे दिव्-शब्दस्य <<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इति पदसंज्ञा भवति ।]\n→ दिउ + मत् [<<दिव उत्>> [[6.1.131]] इति उत्-आदेशः ।]\n→ द्युमत् [<<इको यणचि>> [[6.1.77]] इति यणादेशः ।]\n\n3. 'दिवि कामः यस्य' इति समासप्रक्रियायाम् —\n\nदिवि कामः अस्य [<<अनेकमन्यपदार्थे>> [[2.2.24]] इति बहुव्रीहिसमासः]\n→ दिव् + काम [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्यययोः लुक् । पूर्वपदस्य <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यनेन सुबन्तत्वात् पदसंज्ञा ।]\n→ दिउ + काम [<<दिव उत्>> [[6.1.131]] इति उत्-आदेशः ।]\n→ द्युकाम [<<इको यणचि>> [[6.1.77]] इति यणादेशः ।]\n\nतदन्तविधिः\nप्रकृतसूत्रे विद्यमानः दिवः इति षष्ठ्यन्तः शब्दः 'पदस्य' इति शब्दस्य विशेषणरूपेण प्रयुक्तः अस्ति । <<येन विधिस्तदन्तस्य>> [[1.1.72]] इत्यनेन अयं शब्दः तदन्तस्य अपि ग्रहणं करोति, अतः प्रकृतसूत्रेण उक्तः उत्-आदेशः विमलदिव्, सुदिव् एतादृशानां शब्दानां विषये अपि भवति । यथा —\n1. सुदिव् इति वकारान्तपुंलिङ्गशब्दस्य तृतीयाद्विवचनम् \n\nसुदिव् + भ्याम् [तृतीयैकवचनस्य प्रत्ययः । अस्मिन् प्रत्यये परे दिव्-शब्दस्य <<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इति पदसंज्ञा भवति ।]\n→ सदि उ + भ्याम् [<<दिव उत्>> [[6.1.131]] इति उत्-आदेशः ।]\n→ सुद्युभ्याम् [<<इको यणचि>> [[6.1.77]] इति यणादेशः ।]\n\n1. विमलदिव् इति वकारान्तनपुंसकलिङ्गशब्दस्य द्वितीयैकवचनम् \n\nविमलदिव् + अम् [द्वितीयैकवचनस्य प्रत्ययः ]\n→ विमलदिव् [<<स्वमोर्नपुंसकात्>> [[7.1.23]] इति अम्-प्रत्ययस्य लुक् । प्रत्ययस्य लोपे कृते अपि प्रत्ययलक्षणम् पदत्वम् अवश्यम् विधीयते ।]\n→ विमलदि उ + भ्याम् [पदान्ते विद्यमानस्य वकारस्य <<दिव उत्>> [[6.1.131]] इत्यनेन उत्-आदेशः ।]\n→ विमलद्युभ्याम् [<<इको यणचि>> [[6.1.77]] इति यणादेशः ।]\n\nक्विप्-प्रत्ययान्तस्य द्यू-शब्दस्य अत्र न ग्रहणम्\nदिवुँ (क्रीडादिषु, दिवादिः, <{4.1}>) इत्यस्मात् धातोः क्विप्-प्रत्यये कृते द्यू इति कश्चन भिन्नः शब्दः सिद्ध्यति । अस्य शब्दस्य विषये इदं सूत्रम् नैव प्रवर्तते । तत्र प्रक्रियायाम् वकारस्य <<च्छ्वोः शूडनुनासिके च>> [[6.4.19]] इत्यनेन ऊठ्-आदेशः भवति । प्रक्रिया इयम्‌ —\n\nदीव्यति इति \n→ दिवुँ (क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु, दिवादिः, <{4.1}>)\n→ दिव् + क्विप् + भ्याम् [<<क्विप् च>> [[3.2.76]] इति क्विप्-प्रत्ययः । ततः तृतीयाद्विवचनस्य भ्याम्-प्रत्ययः]\n→ दिव् + ० + भ्याम् [ककारपकारयोः इत्संज्ञा, लोपः । तुगागमस्य उकारः उच्चारणार्थः अस्ति, तस्यापि लोपः भवति । ततः अपृक्त-वकारस्य <<वेरपृक्तस्य>> [[6.1.67]] इति लोपः भवति ।]\n→ दि ऊठ् + भ्याम् [लुप्त-क्विप्-प्रत्यये परे अपि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यनेन प्रत्ययलोपे कृते अपि प्रत्ययविशिष्टं कार्यम् प्रवर्तते, अतः <<च्छ्वोः शूडनुनासिके च>> [[6.4.19]] इति वकारस्य 'ऊठ्' आदेशः भवति ।]\n→ द्यूभ्याम् [<<इको यणचि>> [[6.1.77]] इति यणादेशः]\n\nअत्र प्रक्रियायाम् <<दिव उत्>> [[6.1.131]] इति सूत्रम् नैव प्रवर्तते । अस्मिन् सूत्रे 'दिव्' इति निरनुबन्धकः शब्दः प्रयुक्तः अस्ति, अयम् शब्दः <ऽनिरनुबन्धकग्रहणे न तदनुबन्धकस्यऽ> इति परिभाषया दिवुँ इति सानुबन्धकस्य ग्रहणम् नैव करोति इति अस्य कारणम् । \nउत् इत्यत्र तपरकरणस्य प्रयोजनम्\nप्रकृतसूत्रे 'उत्' इति उकारस्य तपरकरणस्य द्वे प्रयोजने भाष्ये निर्दिष्टे दृश्येते । एताभ्याम् एकम् प्रयोजनम् प्रधानरूपेण स्वीक्रियते, अपरं च गौणरूपेण (एकदेश्युक्तिरूपेण) स्वीक्रियते । एते द्वे प्रयोजने एतादृशे —\n1. उत् इत्यत्र तपरकरणम् व्यर्थम्, परिभाषाज्ञापनार्थम् च - इति प्रधानम् प्रयोजनम् ।\nप्रकृतसूत्रे उकारः आदेशरूपेण उच्यते, अतः अयम् हस्वः उकारः वस्तुतः दीर्घभेदस्य ग्रहणं नैव करोति, इति <<अणुदित् सवर्णस्य चाप्रत्ययः>> [[1.1.69]] इति सूत्रे विद्यमानेन 'अप्रत्यय' शब्देन स्पष्टीक्रियते । अस्मिन्नेव सन्दर्भे <ऽभाव्यमानः अण् सवर्णान् न गृह्णातिऽ> इति परिभाषा अपि परिभाषेन्दुशेखरे पाठिता अस्ति । इत्युक्ते, अत्र तपरकरणम् <<तपरस्तत्कालस्य>> [[1.1.70]] इत्यनेन तात्कालिकग्रहणार्थम् (दीर्घग्रहणनिषेधार्थम्) च नैव आवश्यकम् । अतश्च, अस्मिन् सूत्रे प्रयुक्तः तकारः सम्पूर्णरूपेण व्यर्थः अस्ति । अयमेव व्यर्थः तकारः भाष्यकारेण — विधीयमानेन उकारेण अपि सवर्णग्रहणम् अवश्यम् भवति —‌ इत्यस्य ज्ञापकरूपेण स्वीकृतः अस्ति । एतादृशम् भाष्यवचनम् च प्रमाणरूपेण स्वीकृत्य परिभाषेन्दुशेखरे <ऽभाव्यमानोऽप्युकारः सवर्णान् गृह्णातिऽ> इति परिभाषा अपि पाठिता वर्तते । अस्मिन्नेव विषये प्रकृतसूत्रस्य प्रदीपव्याख्याने कैयटः इत्थं विवृणोति —\n\nननु भाव्यमानत्वात् उकारः भिन्नकालं न ग्रहीष्यति इति न अर्थः तकारेण । एवं तर्हि तपरत्वम् एव ज्ञापकम् — भाव्यमानः अपि उकारः भिन्नकालं सवर्णं गृह्णाति इति । तेन अमूभ्याम् इत्यादौ दीर्घस्य दीर्घो भवति । \n— 6.1.131 इत्यत्र प्रदीपे कैयटः\n\n<<अदसोऽसेर्दादु दो मः>> [[8.2.80]] इति सूत्रे उपस्थितः 'उ' इति विधीयमानः वर्णः अस्याः परिभाषायाः आधारेणैव सवर्णग्रहणं करोति, येन अमू शब्दस्य सिद्ध्यर्थम् <<अदसोऽसेर्दादु दो मः>> [[8.2.80]] इति सूत्रेण दीर्घ-ऊकार: आदेशरूपेण विधीयते, इति अस्य आशयः । भाष्ये <<तित्स्वरितम्>> [[6.1.185]] इत्यत्र अपि अयमेव विषयः प्रतिपादितः अस्ति । \n2. उत् इत्यत्र तपरकरणम् सवर्णग्रहणनिषेधार्थम् - इति गौणम् प्रयोजनम् ।\nकेचन वैयाकरणाः तु <<ऋत उत्>> [[6.1.111]] इति सूत्रे विद्यमानस्य तपरकरणस्य व्यर्थत्वम् एव <ऽभाव्यमानोऽप्युकारः सवर्णान् गृह्णातिऽ> अस्याः परिभाषायाः ज्ञापकरूपेण स्वीकुर्वन्ति, ततश्च प्रकृतसूत्रे विद्यमानम् तपरकरणम् सवर्णग्रहणनिषेधार्थम् विद्यते इति प्रतिपादयन्ति । अयं पक्षः अपि अस्यैव सूत्रस्य भाष्ये निर्दिष्टः वर्तते । अस्य पक्षस्य प्रणेतारः आदौ <<च्छ्वोः शूडनुनासिके च>> [[6.4.19]] इत्यस्मिन् सूत्रे 'क्ङिति' इति पदम् नैव अनुवर्तयन्ति । इत्युक्ते, एतेषाम् मतेन सर्वेषु अपि झलादि-प्रत्ययेषु परेषु <<च्छ्वोः शूडनुनासिके च>> [[6.4.19]] इति सूत्रस्य प्राप्तिः अवश्यं वर्तते, न हि केवलम् कित्/ङित्-प्रत्ययेषु परेषु । अस्यां स्थितौ, उपरिनिर्दिष्टायाम् दिव् + भ्याम् इत्यस्याम् प्रक्रियायाम्, भ्याम्-प्रत्ययस्य झलादित्वात्, दिव्-शब्दस्य वकारस्य <<च्छ्वोः शूडनुनासिके च>> [[6.4.19]] इति सूत्रेण ऊठ्-आदेशः प्राप्नोति । तस्मिन्नेव समये <<दिव उत्>> [[6.1.131]] इति सूत्रेण तकारादेशः अपि प्रवर्तते । अस्यां स्थितौ परत्वात् अङ्गकार्यत्वात् च ऊठ्-आदेशः तकारादेशं बाधते, अतः आदौ वकारस्य ऊठ्-आदेशे कृते दिऊ + भ्याम् इति स्थितिः जायते । ततः पूर्वं बाधितः उकारादेशः <ऽपुनः प्रसङ्गविज्ञानात् सिद्धम्ऽ> इति परिभाषया पुनः प्राप्नोति । अस्य उकारादेशस्य स्थानी अत्र 'ऊ' वर्णः इति अस्ति । अस्यां स्थितौ यदि प्रकृतसूत्रे <<दिव उ>> इत्येव उच्यते, तर्हि उकारेण सवर्णग्रहणे कृते, ऊकारस्य स्थाने तादृशः द्विमात्रिकः एव उवर्णः, इत्युक्ते, दीर्घः ऊकारः आदेशरूपेण विधीयेत । तत् तथा मा भूत् इति कारणात् <<दिव उत्>> [[6.1.131]] इति सूत्रेण तपरकरणम् कृतम् अस्ति । तपरकरणेन केवलम् तात्कालिक-भेदानाम् एव ग्रहणं भवति, येन दीर्घ-ऊकारस्य स्थाने अपि ह्रस्व -ऊकारः एव आदेशरूपेण विधीयते । अनेन प्रकारेण अस्मिन् सूत्रे तपरकरणम् सवर्णग्रहणस्य निषेधार्थम् उपयुज्यते — इति अस्य पक्षस्य आशयः । अस्मिन् सन्दर्भे भाष्ये, प्रदीपे च इत्थं विवरणम् लभ्यते —\n\nभाष्ये —‌ ऊठि कृते आन्तर्यतो दीर्घस्य दीर्घः प्राप्नोति । तदर्थं तपरः कृतः । \nप्रदीपे कैयटः —‌ ऊठि कृते इति । द्युभ्याम् इत्यादौ परत्वाद् ऊठि कृते, पुनः प्रसङ्गविज्ञानात् उत्वं क्रियते । ऊठ्-विधौ तु क्ङिति इति नानुवर्तते इति पक्षम् आश्रित्य एतद् उक्तम् ।\n\nअयं पक्षः गौणरूपेण एव स्वीकार्यः, यतः अस्मिन् पक्षे <<च्छ्वोः शूडनुनासिके च>> [[6.4.19]] इत्यत्र 'क्ङिति' इत्यस्य (प्रायेण सर्वेः अपि अनुमन्यमाना) अनुवृत्तिः न हि स्वीक्रियते । \n" }, "61132": { "sa": "नञ्-समासं विहाय अन्यत्र ककारविहितात् एतद्/तद्-शब्दात् परस्य सुँ-प्रत्ययस्य व्यञ्जने परे संहितायाः विषये लोपः भवति । ", "sd": "एतद् तथा तद् एतयोः शब्दयोः प्रथमैकवचनस्य प्रक्रियायाम् सुँ-प्रत्ययस्य हल्-वर्णे परे संहितायाम् लोपं कारयितुम् इदं सूत्रम् निर्मितम् अस्ति । केषुचन स्थलेषु एतादृशः लोपः न हि इष्यते, अतः 'अकोः' तथा 'अनञ्समासे' इति द्वौ निषेधौ अपि अस्मिन्नेव सूत्रे स्थापिते स्तः । यत्र एतद् / तद् शब्दः नञ्-समासे प्रयुज्यते, यत्र वा अयम् अकच्-प्रत्ययेन सह प्रयुज्यते, तादृशं प्रयोगं त्यक्त्वा अन्येषु प्रयोगेषु एताभ्याम् विहितस्य सुँ-प्रत्ययस्य संहितायाम् हल्-वर्णे परे लोपः भवति — इति अस्य सूत्रस्य आशयः । क्रमेण उदाहरणानि पश्यामः -\n1. नञ्-समासः / अकच्-प्रत्ययः नास्ति चेत् हल्-वर्णे परे सुँलोपः भवति । यथा, एतद् + सुँ + विष्णुः इत्यत्र एतद्-शब्दात् विहितस्य सुँ-प्रत्ययस्य प्रकृतसूत्रेण लोपः भवति । प्रक्रिया इयम् —\n\nएतद् + सुँ + विष्णुः\n→ एसद् + सुँ + विष्णुः [<<तदोः सः सावनन्त्ययोः>> [[7.2.106]] इति तकारस्य सकारः]\n→ एस अ + सुँ + विष्णुः [<<त्यदादीनामः>> [[7.2.102]] इति दकारस्य अकारः]\n→ एस + सुँ + विष्णुः [<<अतो गुणे>> [[6.1.97]] इति गुण-एकादेशः पररूपः अकारः]\n→ एस + विष्णुः [<<एतत्तदोः सुलोपोऽकोरनञ्समासे हलि>> [[6.1.132]] इत्यनेन सुँ-प्रत्ययस्य लोपः]\n→ एष विष्णुः [<<आदेशप्रत्ययोः>> [[8.3.59]] इति षत्वम्]\n\nएवमेव तद् + सुँ + शम्भुः इत्यत्रापि सुँ-प्रत्ययस्य लोपं कृत्वा स शम्भुः इति प्रयोगः सिद्ध्यति । \n2. नञ्-समासे प्रयुक्तस्य एतद् / तद् शब्दस्य विषये इदं सूत्रं न प्रवर्तते । इत्युक्ते, यदि एतद् / तद् - शब्दः नञ्-समासस्य घटकः अस्ति तर्हि अपि अनेन सूत्रेण सुँ-प्रत्ययस्य लोपः न भवति । यथा - अनेषः ददाति इत्यस्य प्रक्रियायाम् नञ् + एतद् + सुँ + ददाति इति स्थितिः वर्तते । अत्र एतद्-शब्दस्य नञ्-शब्देन सह नञ्-समासः क्रियमाणः अस्ति ।अस्यां स्थितौ प्रकृतसूत्रेण अत्र सुँलोपः न सम्भवति । एवमेव, नञ् + तद् + सुँ शिवः इत्यत्र अपि प्रकृतसूत्रम् विना, सुँ-प्रत्ययस्य विसर्गे, सत्वे, श्चुत्वे च कृते असश्शिवः इति प्रयोगः सिद्ध्यति ।\nयत्र केवलम् 'न' अव्ययं प्रयुज्यते, नञ्-समासः नास्ति, तत्र तु इदम् सूत्रम् अवश्यमेव प्रयोक्तव्यम् । यथा, 'न एष ददाति' इत्यत्र यद्यपि 'न' इति अव्ययम् उपयुक्तं वर्तते, तथापि अस्य एतद्-शब्देन सह समासः नैव कृतः अस्ति, अतः अत्र एतद्-शब्दात् परस्य 'सुँ' प्रत्ययस्य हल्-वर्णे परे अवश्यं लोपः भवति ।\n3. अकच्-प्रत्ययेन सह प्रयुक्तस्य एतद् / तद् शब्दस्य विषये इदं सूत्रं न प्रवर्तते । अकच् इति कश्चन तद्धितप्रत्ययः <<अव्ययसर्वनाम्नामकच् प्राक्टेः>> [[5.3.71]] अनेन सूत्रेण सर्वनामशब्देभ्यः स्वार्थे विधीयते । अस्य प्रत्ययस्य उपस्थितौ एतकद् / तकद् इति प्रातिपदिके सिद्ध्यतः अयं प्रत्ययः एतद्/तद्-शब्दयोः मध्ये प्रयुज्यते (न हि तयोः अन्ते), अतः <ऽतन्मध्यपतितस्दग्रहणेन गृह्यतेऽ> इति परिभाषया प्रकृतसूत्रे विद्यमानेन एतद्/तद्-शब्देन अकच्-प्रत्यययुक्तस्य अपि शब्दस्य ग्रहणं भवति । अतः प्रकृतसूत्रेण उक्तः सुँलोपः एतयोः शब्दयोः प्रक्रियायाम् अपि प्राप्नोति । तादृशम् मा भूत् इति हेतुना अस्मिन् सूत्रे अकोः इति पदम् स्वीकृतम् अस्ति । अतएव एषको रुद्रः, सको ददाति इत्यादिषु प्रयोगेषु प्रकृतसूत्रेण सुँलोपः नैव क्रियते । \nबाध्यबाधकभावः\nप्रकृतसूत्रम् न हि कस्यचित् सूत्रस्य बाधकरूपेण प्रवर्तते । सामान्यरूपेण प्रक्रियायाम् सुँ-प्रत्ययस्य <<ससजुषो रुः>> [[8.2.66]] इति सूत्रेण रुँत्वम् भवति, परन्तु तत् रुत्वं त्रिपाद्यां विद्यते अतः प्रकृतसूत्रस्य कृते तद् असिद्धम् एव अस्ति । इत्युक्ते, तद् + सुँ + शम्भुः इत्यत्र अङ्गकार्यात् अनन्तरम् स + सुँ + शम्भुः इत्यस्यां स्थितौ रुत्वस्य असिद्धत्वात् प्रकृतसूत्रेणैव सुँलोपे कृते स शम्भुः इति रूपं सिद्ध्यति ।" }, "61133": { "sa": "वैदिकप्रक्रियायाम् त्यद्-शब्दस्य प्रथमैकवचनस्य सुँ-प्रत्ययस्य संहितायाः विषये हलि परे बहुलं लोपः भवति । ", "sd": "त्यद् इति सर्वनामसंज्ञकः शब्दः । अस्य शब्दस्य प्रथमैकवचनस्य प्रक्रियायाम् त्यद् + सुँ इत्यत्र सुँ-प्रत्ययात् अनन्तरम् संहितायाम् हल्-वर्णः विद्यते चेत् वैदिकप्रक्रियायासु अस्य सुँ-प्रत्ययस्य कुत्रचित् लोपः कृतः दृश्यते । अतः लोपे कृते त्य, तथा लोपाभावे त्यः इति द्वे रूपे अत्र सम्भवतः । प्रत्येकं प्रकारस्य एकम् उदाहरणम् इत्थम् —\n1. उत स्य वाजी क्षिपणिं (ऋग्वेदः 4.40.4) - अत्र स्य वाजी इत्यत्र त्यद्-शब्दात् परस्य सुँ-प्रत्ययस्य लोपः कृतः अस्ति । प्रक्रिया इयम् -\n\nत्यद् + सुँ + वाजी\n→ त्य अ + सुँ + वाजी [<<त्यदादीनामः>> [[7.2.102]]] इति दकारस्य अकारः]\n→ त्य + सुँ + वाजी [<<अतो गुणे>> [[6.1.97]] इति गुण-एकादेशः पररूपः अकारः]\n→ स्य + सुँ + वाजी [<<तदोः सः सावनन्त्ययोः>> [[7.2.106]] इति तकारस्य सकारः]\n→ स्य + वाजी [<<स्यश्छन्दसि बहुलम्>> [[6.1.133]] इति सुँलोपः]\n→ स्य वाजी\n\n2. यत्र स्यो निपतेत् एतादृशेषु वाक्येषु <<स्यश्छन्दसि बहुलम्>> [[6.1.133]] सुँ-प्रत्ययस्य लोपः नैव भवति, अपितु तस्य रुत्वे, उत्वे, गुणैकादेशे च कृते स्यो निपतेत् इति रूपं सिद्ध्यति । प्रक्रिया इयम् —\n\nत्यद् + सुँ + निपतेत्\n→ त्य अ + सुँ + निपतेत् [<<त्यदादीनामः>> [[7.2.102]]] इति दकारस्य अकारः]\n→ त्य + सुँ + निपतेत् [<<अतो गुणे>> [[6.1.97]] इति गुण-एकादेशः पररूपः अकारः]\n→ स्य + सुँ + निपतेत् [<<तदोः सः सावनन्त्ययोः>> [[7.2.106]] इति तकारस्य सकारः]\n→ स्य + रुँ + निपतेत् [<<ससजुषो रुः>> [[8.2.66]] इति रुत्वम्]\n→ स्य + उ + निपतेत् [<<हशि च>> [[6.1.114]] इति उत्वम् ]\n→ स्यो निपतेत् [<<आद्गुणः>> [[6.1.87]] इति गुणैकादेशः]\n\n\n" }, "61134": { "sa": "'सः' इत्यत्र विद्यमानस्य सुँ-प्रत्ययस्य संहितायाम् अचि परे पादपूरणार्थं लोप: भवति, यदि तादशम् एव पादपूरणम् सम्भवति ।", "sd": "पद्यवाङ्मये (वेदानाम् ऋक्षु, लौकिकसंस्कृतस्य श्लोकेषु) अक्षराणि प्रायेण विशिष्टेषु छन्दस्सु निबद्धानि सन्ति । प्रत्येकं छन्दसः विशिष्टाः नियमाः सन्ति । एतेषाम् नियमानाम् पूरणार्थम् यदि कश्चन अन्यः पर्यायः नास्ति, तर्हि 'सः' शब्दस्य सुँ-प्रत्ययस्य लोपं कृत्वा पादपूरणम् कर्तुं शक्यते —‌ इति अस्य सूत्रस्य अर्थः । वेदानाम् ऋक्षु (कुत्रचित् लौकिकसंस्कृतस्य श्लोकेषु अपि), यदि अच्-वर्णे परे 'तद्' शब्दस्य पुंलिङ्गस्य प्रक्रियायाम् 'सुँ' प्रत्ययस्य लोपेन एव पादपूरणम् सम्भवति, तर्हि प्रकृतसूत्रस्य आधारेण सः लोपः कर्तव्यः इति अस्य आशयः । कानिचन उदाहरणानि एतानि —\n1. ऋग्वेदे 1.32.15 —\n\nइन्द्रो यातोऽवसितस्य राजा शमस्य च शृङ्गिणो वज्रबाहुः । \nसेदु राजा क्षयति चर्षणीनामरान्न नेमिः परि ता बभूव ॥\n\nइयम् ऋक् त्रिष्टुप् नाम्नि छन्दसि निबद्धा अस्ति । अत्र द्वितीयपङ्क्तेः प्रथमपादस्य सः इत् ऊँ राजा क्षयति चर्षणीनाम् इति पदविग्रहः वर्तते । संहितायाम् तद् + सुँ + इदु इत्यत्र सामान्यं सन्धिकार्यं क्रियते चेत् एतादृशी प्रक्रिया भवेत् —\n\nतद् + सुँ + इदु\n→ सद् + सुँ + इदु [<<तदोः सः सावनन्त्ययोः>> [[7.2.106]] इति सकारः]\n→ सअ + सुँ + इदु [<<त्यदादीनामः>> [[7.2.102]] इति अकारः]\n→ स + सुँ + इदु [<<अतो गुणे>> [[6.1.97]] इति गुणैकादेशः]\n→ स + रुँ + इदु [<<ससजुषो रुः>> [[8.2.66]] इति रुत्वम्]\n→ स + य् + इदु [<<भोभगोअघोअपूर्वस्य योऽशि>> [[8.3.17]] इति यकारादेशः]\n→ स इदु [<<लोपः शाकल्यस्य>> [[8.3.19]] इति यलोपः । अस्य असिद्धत्वात् अग्रे <<आद्गुणः>> [[6.1.87]] इति गुणैकादेशः न सम्भवति ।]\n\nअनेन प्रकारेण स इदु राजा क्षयति चर्षणीनाम् इति सिद्ध्येत् । परन्तु तथा क्रियते चेत् त्रिष्टुप्-छन्दसः नियमस्य भङ्गः भवति । त्रिष्टुप्-छन्दसि प्रत्येकं पादे आहत्य 11 अक्षराणि एव सन्ति । अतः तां सङ्ख्यां प्राप्तुम् अस्मिन् पादे तद् + सुँ + इत् इत्यत्र प्रकृतसूत्रेण सुँ-प्रत्ययस्य लोपः क्रियते —\n\nतद् + सुँ + इदु\n→ सद् + सुँ + इदु [<<तदोः सः सावनन्त्ययोः>> [[7.2.106]] इति सकारः]\n→ सअ + सुँ + इदु [<<त्यदादीनामः>> [[7.2.102]] इति अकारः]\n→ स + सुँ + इदु [<<अतो गुणे>> [[6.1.97]] इति गुणैकादेशः]\n→ स + इदु [<<सोऽचि लोपे चेत् पादपूरणम्>> [[6.1.134]] इति पादपूरणार्थम् सुँ-प्रत्ययस्य लोपः]\n→ इदु [<<आद्गुणः>> [[6.1.87]] इति गुणैकादेशः]\n\nएतादृशे लोपे कृते पादपूरणम् (छन्दसः अक्षराणाम् नियमस्य पालनम्) भवति, अतः अयं लोपः अत्र प्रकृतसूत्रेण कर्तुं शक्यते, इति आशयः । \n2. ऋग्वेदे 8.43.9 —\n\nअप्स्वग्ने सधिष्टव । सौषधीरनु रुध्यसे । गर्भे सञ्जायसे पुन: ॥\n\nइयम् ऋक् गायत्री नाम्नि छन्दसि निबद्धा अस्ति । अस्मिन् छन्दसि विद्यामानासु ऋक्षु त्रयः पादाः सन्ति, प्रत्येकं पादे अष्ट अक्षराणि आवश्यकानि वर्तन्ते । अस्याः सङ्ख्याः पूरणार्थम् अत्र द्वितीयपादे तद् + सुँ + ओषधीः इति स्थिते प्रकृतसूत्रेण सुँलोपः भवति, ततश्च वृद्ध्येकादेशं कृत्वा सौषधी इति शब्दः सिद्ध्यति ।\n3. ऋग्वेदे 2.24.1 —\n\nसेमामविड्ढि प्रभृतिं य ईशिषेऽया विधेम नवया महा गिरा । \nयथा नो मीढ्वान्त्स्तवते सखा तव बृहस्पते सीषधः सोत नो मतिम् ॥\n\nइयम् ऋक् जगती नाम्नि छन्दसि निबद्धा अस्ति । अस्मिन् छन्दसि विद्यामानासु ऋक्षु चत्वारः पादाः सन्ति, प्रत्येकं पादे द्वादश अक्षराणि आवश्यकानि वर्तन्ते । अस्याः सङ्ख्याः पूरणार्थम् अत्र प्रथमपा तद् + सुँ + इमाम् इति स्थिते प्रकृतसूत्रेण सुँलोपः भवति, ततश्च गुणैकादेशं कृत्वा सेमाम् इति शब्दः सिद्ध्यति ।\nअस्य सूत्रस्य प्रयोगः प्रामुख्येण ऋग्वेदस्य ऋचाम् विषये एव प्रवर्तते इति काशिकाकारस्य मतम् अस्ति । परन्तु अनेके वैयाकरणाः लौकिकसंस्कृते अपि अस्य प्रयोगम् अनुमन्यन्ते । यथा, अधोदत्ते श्लोके अनुष्टुप्-छन्दसः नियमपालनार्थम् (प्रत्येकं पादे अष्टानाम् अक्षराणाम् सिद्ध्यर्थम् इत्याशयः) सर्वत्र 'सः एषः' इत्यस्य स्थाने सुँलोपं कृत्वा, ततः गुणैकादेशे कृते 'सैषः' इति शब्दः प्रयुक्तः दृश्यते —\n\nसैष दाशरथी रामः सैष राजा युधिष्ठिरः । \nसैष कर्णो महादानी सैष भीमो महाबलः ॥\n\nसूत्रे अचिग्रहणम् विस्पष्टार्थम्\nअस्मिन् सूत्रे 'अचि' इति शब्दः प्रयुक्तः अस्ति । अस्य सूत्रस्य प्रसक्तिः केवलम् अच्-वर्णे परे एव सम्भवति इति ज्ञापयितुम् अत्र 'अचि' इति पदं स्वीकृतम् वर्तते । परन्तु, यदि अग्रे अच्-वर्णस्य स्थाने हल्-वर्णः स्यात्, तर्हि <<एतत्तदोः सुलोपोऽकोरनञ्समासे हलि>> [[6.1.132]] इत्यनेनैव सूत्रेण सुँप्रत्ययस्य लोपः सम्भवति । अतः प्रकृतसूत्रम् केवलम् अच्-वर्णे परे एव प्रयोक्तुम् शक्यम्, इति निर्णयः । अस्यां स्थितौ अत्र 'अचि' इति पदग्रहणस्य न किमपि प्रयोजनम् । अतएव काशिकाकारेण अचीति विस्पष्टार्थम् (only used for more clarity) इति प्रयोजनम् स्पष्टीकृतम् अस्ति ।\nअवधारणार्थम् पूर्वसूत्रात् 'बहुलम्' शब्दस्य अनुवृत्तिः\nयदि पादपूरणार्थम् आवश्यकं वर्तते, तर्हि एव अस्य सूत्रस्य प्रयोगः करणीयः — इति अवधारणम् कर्तुम् अस्मिन् सूत्रे पूर्वस्मात् सूत्रात् 'बहुलम्' इति शब्दः 'एव' इत्यस्मिन् अर्थे अनुवृत्तिरूपेण स्वीक्रियते, सः च चेत् इति शब्देन सह अन्वेति । पादपूरणम् चेत् बहुलं (= एव ) लोपः — इति अत्र आशयः अस्ति । इत्युक्ते, कविः आदौ अन्यपद्धत्या पादपूरणं कर्तुं यत्नं कुर्यात्, परन्तु तादृशे यत्ने कृते अपि यदि पादपूरणम् न सम्भवति, तर्हि एव प्रकृतसूत्रस्य साहाय्यं स्वीकर्तुं शक्यते — इति अत्र आशयः अस्ति । अतश्च बहुषु स्थलेषु अस्य सूत्रस्य प्रयोगं विना अपि नियमितरूपेण सन्धिकार्यं कृत्वा श्लोकरचना कृता दृश्यते । यथा, रघुवंशे 1.5 इत्यत्र —\n\nसोऽहमाजन्मशुद्धानामाफलोदयकर्मणाम्।\nआसमुद्रक्षितीशानामानाकरथवर्त्मनाम् ॥ \n\nअत्र सः अहम् इत्यत्र सुँ-प्रत्ययस्य रुत्व-उत्व-गुण-पूर्वरूपं कृत्वा एव पादपूरणम् कृतम् अस्ति । अत्र प्रकृतसूत्रम् पादपूरणार्थम् न हि आवश्यकम्, अतः तस्य प्रयोगः अपि न क्रियते । अस्यैव निर्देशार्थम् सिद्धान्तकौमुद्याम् लोपे सत्येव पूर्येत इति प्रकारेण अस्य सूत्रस्य अर्थः उच्यते । अत्र प्रयुक्तः 'सत्येव' इति शब्दः <<स्यश्छन्दसि बहुलम्>> [[6.1.133]] इत्यस्मात् पूर्वसूत्रात् 'बहुलम्' इति शब्दस्य अनुवृत्तेः अर्थं स्पष्टीकरोति । " }, "61135": { "sa": "", "sd": "" }, "61136": { "sa": "", "sd": "" }, "61137": { "sa": "", "sd": "" }, "61138": { "sa": "", "sd": "" }, "61139": { "sa": "", "sd": "" }, "61140": { "sa": "", "sd": "" }, "61141": { "sa": "", "sd": "" }, "61142": { "sa": "", "sd": "" }, "61143": { "sa": "", "sd": "" }, "61144": { "sa": "", "sd": "" }, "61145": { "sa": "", "sd": "" }, "61146": { "sa": "", "sd": "" }, "61147": { "sa": "", "sd": "" }, "61148": { "sa": "", "sd": "" }, "61149": { "sa": "", "sd": "" }, "61150": { "sa": "", "sd": "" }, "61151": { "sa": "", "sd": "" }, "61152": { "sa": "", "sd": "" }, "61153": { "sa": "", "sd": "" }, "61154": { "sa": "", "sd": "" }, "61155": { "sa": "", "sd": "" }, "61156": { "sa": "", "sd": "" }, "61157": { "sa": "", "sd": "" }, "61158": { "sa": "पदम् एकवर्जमनुदात्तम् भवति । ", "sd": "इदम् परिभाषासूत्रम् स्वरनिर्णयस्य प्रमुखम् विधिम् पाठयति । पदे यदि कश्चन स्वरः स्वरितः / उदात्तः वा विधीयते, तर्हि तं स्वरं वहाय पदे विद्यमानाः अन्ये स्वराः अनुदात्ताः भवन्ति, इति अस्य सूत्रस्य आशयः ।\nउदाहरणात् पूर्वम् बिन्दुत्रयम् स्मर्तव्यम् -\n1. शब्दे यदि द्वौ वा अधिकाः स्वराः उदात्ता / स्वरिताः विद्यन्ते, तर्हि तत्र कस्य स्वरस्य उदात्तत्वम् / स्वरितत्वम् बलवत्तममस्ति अस्मिन् विषये एकः सामान्यः नियमः उक्तः अस्ति - यः स्वरः प्रक्रियायाम् अन्ते उदात्तत्वं / स्वरितत्वं प्राप्नोति, तस्य उदात्तत्वं / स्वरितत्वं तादृशमेव संस्थाप्य अन्ये उदात्त/स्वरितस्वराः वर्तमान-परिभाषया अनुदात्ताः भवन्ति । अयमेव विधिः 'सतिशिष्टस्वरस्य नियमः' नाम्ना ज्ञायते (यस्य उदात्तत्वम् / स्वरितत्वमवशिष्यते, सः शिष्टस्वरः अस्तीति नाम । तस्य निर्धारणम् येन विधिना क्रियते, सः सतिशिष्टस्वरविधिः - इति आशयः)।\n2. सतिशिष्टस्वरस्य विषये एकम् वार्त्तिकम् ज्ञातव्यम् - । इत्युक्ते, विकरणप्रत्ययः यद्यपि प्रक्रियायाः अन्ते विधीयते, तथापि सः सतिशिष्टनियमेन बलवान् न भवति - इति ।अस्य वार्त्तिकस्य प्रयोगः अधः द्वितीये उदाहरणे कृतः अस्ति ।\n3. त्रिपाद्याम् <<उदात्तादनुदात्तस्य स्वरितः>> [[8.4.66]] इति किञ्चन सूत्रम् पाठ्यते । अनेन सूत्रेण उदात्तस्वरात् परः विद्यमानः अनुदात्तस्वरः स्वरितः जायते । अयं स्वरितस्वरः उदात्तस्वरस्य आश्रयेण जायते, अतः अतम् 'आश्रितः स्वरः' अस्ति इत्युच्यते । तथा च, इदम् सूत्रम् प्रक्रियायाः अन्ते प्रयुज्यते, अस्य कार्यम् च वर्तमानसूत्रार्थमसिद्धमस्ति, अतः अस्य सूत्रस्य प्रयोगात् अनन्तरम् पुनः वर्तमानपरिभाषा न प्रसज्यते ।\nउदाहरणद्वयं पश्यामः -\n1. 'गोपाय' इति भ्वादिगणस्य धातुः । गुप्-धातोः 'आय' इति सनादिप्रत्ययं कृत्वा अग्रे <<सनाद्यन्ताः धातवः>> [[3.1.32]] इत्यनेन अस्य धातुसंज्ञा भवति । अस्य धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपमस्ति 'गोपायति' इति । अस्य रूपस्य प्रक्रिया तथा तस्याम् स्वरसञ्चारः इत्थं भवति -\nगुप् [<<धातोः>> [[6.1.162]] इति उकारस्य उदात्तत्वम्]\n→ गुप् + आय [<<गुपूधूपविच्छिपणिपनिभ्य आयः>> [[3.1.28]] इति 'आय' इति सनादिप्रत्ययः । <<आद्युदात्तश्च>> [[3.1.3]] इत्यनेन अस्य प्रत्ययस्य आदिस्वरः उदात्तः भवति । यकारोत्तरः अकारः तु औत्सर्गिकतया उदात्तः अस्ति ।]\n→ गोप् + आय [<<पुगन्तलघूपधस्य च>> [[7.3.86]] इति उपधास्वरस्य गुणादेशः]\n→ गोपाय [वर्णमेलनम् । अग्रे <<सनाद्यन्ताः धातवः>> [[3.1.32]] इत्यनेन 'गोपाय' इत्यस्य धातुसंज्ञा, अतः यकारोत्तरः अकारः <<धातोः>> [[6.1.162]] इति उदात्तः जायते ।]\n→ गोपाय + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ गोपाय + ति॒प् [प्रथमपुरुषैकवचनस्य विवक्षायाम् <<तिप्तस्झि>> [[3.4.78]] इति तिप्-प्रत्ययः । <<अनुदात्तौ सुप्पितौ>> [[3.1.4]] इति तकारोत्तरः इकारः अनुदात्तः भवति ।]\n→ गोपाय + श॒प् + ति॒प् [<<कर्तरि शप्>> [[3.1.68]] इति शप्-विकरणप्रत्ययः । <<अनुदात्तौ सुप्पितौ>> [[3.1.4]] इति शकारोत्तरः अकारः अनुदात्तः भवति ।]\n→ गोपाय + अ॒ + ति॒ [इत्संज्ञालोपः]\n→ गोपाय + ति॒ [ यकारोत्तर-अकारः तथा विकरणप्रत्ययस्य अकारः - द्वयोः <<अतो गुणे>> [[6.1.97]] इति एकः पररूपः एकादेशः अकारः ।<<एकादेश उदात्तेनोदात्तः>> [[8.2.5]] इति सः उदात्तः जायते। ]\n→ गोपायति॒ [<<सुप्तिङन्तं पदम्>> [[1.4.14]] इति पदसंज्ञा ।]\n→ गो॒पा॒यति॒ ['गोपायति॒' अस्मिन् पदे त्रयः उदात्तस्वराः सन्ति, एकः च अनुदात्तः स्वरः अस्ति । अतः <<अनुदात्तं पदमेकवर्जम्>> [[6.1.158]] इत्यनेन एकं उदात्तस्वरं वर्जयित्वा अन्यौ द्वौ स्वरौ अनुदात्तौ जायेते । अत्र त्रिषु स्वरेषु यकारोत्तरः अकारः सतिशिष्टनियमेन बलवत्तममस्ति, अतः तं विहाय अन्यौ स्वरौ अनुदात्तौ भवतः ।]\n→ गो॒पा॒यति॑ [ <<उदात्तादनुदात्तस्य स्वरितः>> [[8.4.66]] इति तकारोत्तरः इकारः आश्रित-स्वरितत्वं प्राप्नोति ।]\nएतादृशं गुप्-धातोः लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् 'गो॒पा॒यति॑' इति जायते ।\n2. 'ज्ञा' इति क्र्यादिगणस्य धातुः । अस्य धातोः परस्मैपदस्य लट्लकारस्य द्विवचनस्य रूपम् 'जानीतः' इति भवति । अस्य रूपस्य सिद्धिः तथा अस्यां स्वरसञ्चारः इत्थम् भवति -\nज्ञा॑ [क्र्यादिगणस्य धातुः । धातौ विद्यमानः आकारः मूलरूपेण स्वरितः अस्ति, येन धातुः उभयपदं स्वीकरोति ।]\n→ ज्ञा [धातौ विद्यमानः आकारः प्रक्रियायाः आरम्भे <<धातोः>> [[6.1.162]] इत्यनेन उदात्तः जायते ।]\n→ ज्ञा + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ ज्ञा + तस् [प्रथमपुरुषद्विवचनस्य विवक्षायाम् <<तिप्तस्..>> [[3.4.78]] इति 'तस्' प्रत्ययः । तकारोत्तरः आकारः <<आद्युदात्तश्च>> [[3.1.3]] इति उदात्तः भवति ।]\n→ ज्ञा + श्ना + तस् [<<क्र्यादिभ्यः श्ना>> [[3.1.81]] इति श्ना विकरणप्रत्ययः । अस्य आकारः <<आद्युदात्तश्च>> [[3.1.3]] इति उदात्तः भवति ।]\n→ जा + ना + तस् [<<ज्ञाजनोर्जा>> [[7.3.79]] इति शित्-प्रत्यये परे 'ज्ञा' इत्यस्य 'जा' आदेशः भवति ।]\n→ जा + नी + तस् [<<ई हल्यघोः>> [[6.4.133]] इति विकरणस्य आकारस्य ईकारः]\n→ जानीतस् [<<सुप्तिङन्तं पदम्>> [[1.4.14]] इति पदसंज्ञा]\n→ जा॒नी॒तस् [अत्र वस्तुतः श्ना-प्रत्ययस्य आकारः प्रक्रियायामन्ते उदात्तत्वं स्वीकरोति । अतः सतिशिष्टनियमेन तस्यैव उदात्तत्वं विधीयेत, अन्ये स्वराः अनुदात्ताः भवेयुः । परन्तु अयम् विकरणस्वरः अस्ति, अतः अनेन वार्त्तिकेन अस्य उदात्तत्वं बलवान् न भवति, अतः तं बाधित्वा प्रक्रियायाम् तस्मात् पूर्वसोपाने उदात्तत्वं येन प्राप्तम्, सः 'तस्' प्रत्ययस्य स्वरः उदात्तत्वं हरते, अन्ये स्वराः च अनुदात्ताः भवन्ति ।]\n→ जा॒नी॒तः [<<ससजुषो रुँः>> [[8.2.66]] इति रुँत्वम्, <<खरवसानयोर्विसर्जनीयः>> [[8.3.14]] इति विसर्गः]\nएतादृशं ज्ञा-धातोः लट्लकारस्य प्रथमपुरुषद्विवचनस्य रूपम् 'जा॒नी॒तः' इति भवति ।\n" }, "61159": { "sa": "", "sd": "" }, "61160": { "sa": "", "sd": "" }, "61161": { "sa": "", "sd": "" }, "61162": { "sa": "", "sd": "" }, "61163": { "sa": "चित्-प्रत्ययान्त-समुदायस्य अन्तिम-स्वरः उदात्तः भवति । ", "sd": "यस्मिन् प्रत्यये चकारः इत्संज्ञकः अस्ति, सः प्रत्ययः 'चित्' प्रत्ययः अस्ति इत्युच्यते । एतादृशः चित्-प्रत्ययः यस्य प्रकृति-प्रत्यय-समुदायस्य अन्ते अस्ति, तस्य अन्तिम-स्वरः उदात्तसंज्ञकः भवति । यथा -\n1. <<भञ्जभासमिदो घुरच्>> [[3.2.161]] इत्यनेन 'भास' धातोः 'घुरच्' अयं कृत्-प्रत्ययः भवति । अस्मिन् प्रत्यये परे 'भास + घुरच् → भा॒सु॒र' इति शब्दः सिद्ध्यति । अस्य शब्दस्य अन्तिमः स्वरः वर्तमानसूत्रेण उदात्तसंज्ञकः भवति ।\n2. <<लटः शतृशानचौ अप्रथमासमानाधिकरणे>> [[3.2.124]] इत्यनेन आत्मनेपदिभ्यः धातुभ्यः 'शानच्' अयम् कृत्-प्रत्ययः भवति । अस्मिन् प्रत्यये परे 'पच + शानच् → प॒च॒मा॒न' इति शब्दः सिद्ध्यति । अस्य शब्दस्य अन्तिमः स्वरः वर्तमानसूत्रेण उदात्तसंज्ञकः भवति ।\nज्ञातव्यम् -\n1. अस्मिन् सूत्रे 'चितः' अयम् शब्दः <<येन विधिस्तदन्तस्य>> [[1.1.72]] इत्यनेन 'चित्-प्रत्ययः यस्य अन्ते अस्ति सः' अस्मिन् अर्थे प्रयुक्तः अस्ति । अतः अत्र प्रकृति-प्रत्यययोः मेलनेन यस्य पदस्य निर्माणम् भवति, तस्य निर्देशः क्रियते । <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यनेन अस्य शब्दस्य अन्तिमस्वरः उदात्तः भवति ।\n2. अनेन सूत्रेण 'पदस्य' अन्तिमस्वरस्य उदात्तत्वम् न दीयते, अपितु प्रकृति-प्रत्यययोः समुदायस्य अन्ते विद्यमानस्य स्वरस्य उदात्तत्वं दीयते, एतत् स्मर्तव्यम् । यथा, उरच्-प्रत्ययान्तस्य 'भासुर' शब्दस्य अन्तिमः स्वरः (इत्युक्ते रेफोत्तरः अकारः) अनेन सूत्रेण इत्संज्ञकः भवति । " }, "61164": { "sa": "यः तद्धित-प्रत्ययः चित्-अस्ति, सः यस्य समुदायस्य अन्ते आगच्छति, तस्य समुदायस्य अन्तिम-स्वरः उदात्तः भवति ।", "sd": "यस्मिन् तद्धितप्रत्यये चकारः इत्संज्ञकः अस्ति, सः प्रत्ययः 'चित्' प्रत्ययः अस्ति इत्युच्यते । एतादृशः चित्-प्रत्ययः यस्य प्रकृति-प्रत्यय-समुदायस्य अन्ते अस्ति, तस्य अन्तिम-स्वरः उदात्तसंज्ञकः भवति ।\nयथा - मञ्जु + लच् → म॒ञ्जु॒ल । अत्र समुदायस्य अन्तिमस्वरः उदात्तसंज्ञकः भवति । अन्ये स्वराः <<अनुदात्तं पदमेकवर्जम्>> [[6.1.158]] इत्यनेन अनुदात्ताः भवन्ति ।\nज्ञातव्यम् - वस्तुतः <<चितः>> [[6.1.163]] अनेन पूर्वसूत्रेणैव एतत् अन्तोदात्तत्वं सिद्ध्यति । परन्तु, प्रत्यये यदि ञकारः अपि इत्संज्ञकः अस्ति, तर्हि पूर्वसूत्रस्य अपवादत्वेन <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] इत्यनेन समुदायस्य आद्युदात्तत्वं भवति, न हि अन्तोदात्तत्वम् । अतः <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] एतं बाधयितुम् वर्तमानसूत्रस्य निर्मितिः कृता अस्ति । यदि कस्मिंश्चित् तद्धितप्रत्यये ञकारः चकारः - द्वावपि इत्संज्ञकौ स्तः, तर्हि <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] इत्यनेन समुदायस्य आद्युदात्तत्वे प्राप्ते, तं बाधित्वा वर्तमानसूत्रेण समुदायस्य अन्तोदात्तत्वं एव जायते । यथा - <<गोत्रे कुञ्जादिभ्यः च्फञ्>> [[4.1.98]] इत्यनेन 'कुञ्ज' शब्दात् च्फञ्-प्रत्ययः भवति । 'कुञ्ज + च्फञ् (+ बहुवचनस्य जस् प्रत्ययः) → कौञ्जायनाः ' इति सिद्धे अत्र 'कौञ्जायनाः' पदस्य -\n1) <<चितः>> [[6.1.163]] इत्यनेन अन्तोदात्तत्वे प्राप्ते, तं बाधित्वा -\n2) <<ञ्नित्यादिर्नित्यम्>> [[6.1.197]] इत्यनेन आद्युदात्तत्वे प्राप्ते, तमपि बाधित्वा -\n3) <<तद्धितस्य>> [[6.1.164]] इत्यनेन पुनः अन्तोदात्तत्वं विधीयते ।\nअतः 'कौञ्जायनाः' अयं शब्दः स्वरैः सह लिखामश्चेत् - 'कौ॒ञ्जा॒य॒नाः' एतादृशं लिख्यते । अत्र अन्तिमः स्वरः उदात्तः अस्ति, तथा अन्ये स्वराः <<अनुदात्तं पदमेकवर्जम्>> [[6.1.158]] इत्यनेन अनुदात्ताः भवन्ति ।\n('कुञ्ज + च्फञ्' इत्यत्र प्रातिपदिकनिर्माणे तथा एकवचन-द्विवचनस्य रूपयोः 'ञ्य' इति कश्चन अन्यः प्रत्ययः अपि स्वार्थे आगच्छति, तत्र च स्वरनिर्णयः भिन्नरूपेण क्रियते, अतः अत्र बहुवचनस्य उदाहरणम् दत्तमस्ति ।)" }, "61165": { "sa": "यः तद्धित-प्रत्ययः कित्-अस्ति, सः यस्य समुदायस्य अन्ते आगच्छति, तस्य समुदायस्य अन्तिम-स्वरः उदात्तः भवति ।", "sd": "यस्मिन् तद्धितप्रत्यये ककारः इत्संज्ञकः अस्ति, सः प्रत्ययः 'कित्' प्रत्ययः अस्ति इत्युच्यते । एतादृशः तद्धितसंज्ञकः कित्-प्रत्ययः यस्य प्रकृति-प्रत्यय-समुदायस्य अन्ते अस्ति, तस्य अन्तिम-स्वरः उदात्तः भवति ।\nयथा - नड + फक् → ना॒डा॒य॒न । अत्र 'फक्' अयम् तद्धितप्रत्ययः 'कित्' अस्ति, अतः तस्य योजनेन निर्मितस्य समुदायस्य अन्तिमस्वरः उदात्तसंज्ञकः भवति । अन्ये स्वराः <<अनुदात्तं पदमेकवर्जम्>> [[6.1.158]] इत्यनेन अनुदात्ताः भवन्ति ।\n" }, "61166": { "sa": "", "sd": "" }, "61167": { "sa": "", "sd": "" }, "61168": { "sa": "", "sd": "" }, "61169": { "sa": "", "sd": "" }, "61170": { "sa": "", "sd": "" }, "61171": { "sa": "", "sd": "" }, "61172": { "sa": "", "sd": "" }, "61173": { "sa": "", "sd": "" }, "61174": { "sa": "", "sd": "" }, "61175": { "sa": "", "sd": "" }, "61176": { "sa": "", "sd": "" }, "61177": { "sa": "", "sd": "" }, "61178": { "sa": "", "sd": "" }, "61179": { "sa": "", "sd": "" }, "61180": { "sa": "", "sd": "" }, "61181": { "sa": "", "sd": "" }, "61182": { "sa": "", "sd": "" }, "61183": { "sa": "", "sd": "" }, "61184": { "sa": "", "sd": "" }, "61185": { "sa": "तित् प्रत्ययस्य आदिस्वरः स्वरितः भवति । ", "sd": "यस्मिन् प्रत्यये तकारः इत्संज्ञकः अस्ति, सः प्रत्ययः 'तित्' प्रत्ययः अस्ति इत्युच्यते । एतादृशस्य तित्-प्रत्ययस्य स्वरः स्वरितसंज्ञकः भवति ।\n1. पठ् + तव्यत् → पठि॑तव्य । अत्र 'तव्यत्' अयम् 'तित्' प्रत्ययः अस्ति, अतः अत्र प्रत्ययस्य आदिस्वरः तकारात् परः अकारः स्वरितः जायते ।\n2. किम् + अत् → क्व ॑ । अत्र 'अत्' अयम् 'तित्' प्रत्ययः अस्ति, अतः प्रत्ययस्य आदिस्वरः अकारः अत्र स्वरितः जायते ।\n(विशेषः - वस्तुतः 'अत्' इति विभक्तिंसंज्ञकः प्रत्ययः अस्ति, अतः <<न विभक्तौ तुस्माः>> [[1.3.4]] इत्यनेन तकारस्य इत्संज्ञा न भवितुमर्हति । परन्तु <<न विभक्तौ तुस्माः>> [[1.3.4]] एतत् सूत्रम् 'अनित्यम्' अस्ति, अतः तकारस्य अत्र इत्संज्ञा क्रियते ।)\nज्ञातव्यम् - <<आद्युदात्तश्च>> [[3.1.3]] अनेन सूत्रेण प्रत्ययस्य आदिस्थः स्वरः उदात्तत्वं प्राप्नोति । तस्य अपवादत्वेन तित्-प्रत्ययस्य विषये अयं स्वरः स्वरितः जायते ।\n" }, "61186": { "sa": "", "sd": "" }, "61187": { "sa": "", "sd": "" }, "61188": { "sa": "", "sd": "" }, "61189": { "sa": "", "sd": "" }, "61190": { "sa": "", "sd": "" }, "61191": { "sa": "", "sd": "" }, "61192": { "sa": "", "sd": "" }, "61193": { "sa": "लित्-प्रत्यये परे प्रत्ययात् पूर्वमुपस्थितः स्वरः उदात्तः भवति । ", "sd": "यस्मिन् प्रत्यये लकारः इत्संज्ञकः अस्ति, सः प्रत्ययः 'लित्' प्रत्ययः नाम्ना ज्ञायते । एतादृशः लित्-प्रत्ययः यस्य प्रकृति-प्रत्यय-समुदायस्य अन्ते अस्ति, तस्य समुदायस्य प्रत्ययात् पूर्वः स्वरः अनेन सूत्रेण उदात्तः भवति । यथा -\n1. भौरिकि + विधल् → भौ॒रि॒किवि॑ध । अत्र 'विधल्' इति प्रत्ययः अस्ति, अतः अस्मात प्रत्ययात् पूर्वम् विद्यमानः स्वरः (इत्युक्ते, ककारोत्तरः इकारः) अनेन सूत्रेण उदात्तः जायते ।\n2. पठ् + ण्वुल् → पाठ॑क । अत्र 'ण्वुल्' इति प्रत्ययः अस्ति । अस्मात् प्रत्ययात् पूर्वम् विद्यमानः स्वरः (इत्युक्ते, पकारोत्तरः आकारः) अनेन सूत्रेण उदात्तः जायते ।\nज्ञातव्यम् - अस्मिन् सूत्रे 'अङ्गस्य अन्तिमः स्वरः' इति प्रोक्तम् नास्ति, अपितु 'प्रत्ययात् पूर्वः स्वरः' इति उक्तमस्ति । किम् अस्य कारणम् ? एकमुदाहरणम् पश्यामः । कृ-धातोः सन्-प्रत्ययं कृत्वा अग्रे ण्वुल्-प्रत्ययः क्रियते चेत् 'कृ + सन् + ण्वुल्' अस्याम् स्थितौ अङ्गस्य अन्तिमः स्वरः अस्ति सकारोत्तरः अकारः । परन्तु अस्य अकारस्य उदात्तत्वमनेन सूत्रेण न विधीयते, अपितु प्रकृति-प्रत्यय समुदाये ण्वुल्-प्रत्ययात् पूर्वम् यः स्वरः श्रूयते, तस्य (इत्युक्ते इकारस्य) उदात्तत्वमनेन सूत्रेण विधीयते । प्रक्रियां पश्यामश्चेत् प्रायः स्पष्टं भवेत् -\nकृ + सन् + ण्वुल्\n→ कृ + स + वु [इत्संज्ञालोपः]\n→ कृ + स + अक [<<युवोरनाकौ>> [[7.2.1]] इति वु-इत्यस्य अक-आदेशः]\n→ कॄ + स + अक [<<अज्झनगमां सनि>> [[6.4.16]] इति दीर्घादेशः]\n→ किर् + स + अक [<<ऋत इद्धातोः>> [[7.1.100]] इति ॠकारस्य इकारादेशः । <<उरण् रपरः>> [[1.1.51]] इति सः रपरः]\n→ किर् स् किर् स + अक [<<सन्यङोः>> [[6.1.9]] इति द्वित्वम्]\n→ चिर् स् किर् स + अक [<<कुहोश्चुः>> [[7.4.62]] इति चकारः]\n→ चि किर् स + अक [<<हलादि शेषः>> [[7.4.60]] इति रेफसकारयोः लोपः]\n→ चि किर् स् + अक [<<अतो लोपः>> [[6.4.48]] इत्यनेन आर्धधातुके प्रत्यये परे अङ्गस्य अन्तिम-अकारस्य लोपः]\nइदानीम् प्रत्ययात् पूर्वः स्वरः अस्ति ककारोत्तरः इकारः । अतः अस्य इकारस्य वर्तमानसूत्रेण उदात्तत्वं विधीयते । अग्रे -\n→ चिकीर् सक [<<हलि च>> [[8.2.77]] इति उपधा-इकारस्य दीर्घः]\n→ चिकीर्षक [<<आदेशप्रत्यययोः>> [[8.3.59]] इति षत्वम्]\nअङ्गस्य अन्तिमः स्वरः यः, स एव सर्वदा प्रत्ययात् पूर्वः स्वरः नास्ति - एतत् अनेन उदाहरणेन स्पष्टं भवेत् । " }, "61194": { "sa": "", "sd": "" }, "61195": { "sa": "", "sd": "" }, "61196": { "sa": "", "sd": "" }, "61197": { "sa": "ञित् प्रत्यये परे नित्-प्रत्यये च परे प्रकृति-प्रत्यय-समुदायस्य आदिस्वरः नित्यमुदात्तः भवति । ", "sd": "यस्मिन् प्रत्यये ञकारः इत्संज्ञकः अस्ति, सः प्रत्ययः 'ञित्' प्रत्ययः अस्ति इत्युच्यते । तथैव, यस्मिन् प्रत्यये नकारः इत्संज्ञकः अस्ति, सः प्रत्ययः 'नित्' प्रत्ययः अस्ति इत्युच्यते । एतादृशः ञित्/नित्-प्रत्ययः यस्य प्रकृति-प्रत्यय-समुदायस्य अन्ते अस्ति, तस्य समुदायस्य आदि-स्वरः उदात्तसंज्ञकः भवति । यथा -\n1. गर्ग + यञ् → गार्ग्य॑\t । अत्र 'यञ्' प्रत्ययः ञित्-अस्ति, अतः समुदायस्य प्रथमस्वरः उदात्तः भवति ।\n2. विद् + घञ् → वेदऺ\t। अत्र 'घञ्' प्रत्ययः ञित्-अस्ति, अतः समुदायस्य प्रथमस्वरः उदात्तः भवति ।\n3. वासुदेव + वुन् → वासु॑देवक । अत्र 'वुन्' प्रत्ययः नित्-अस्ति, अतः समुदायस्य प्रथमस्वरः उदात्तः भवति ।\n4. धा + तृन् → धातृ॑\t। अत्र 'तृन्' प्रत्ययः नित्-अस्ति, अतः समुदायस्य प्रथमस्वरः उदात्तः भवति ।\nज्ञातव्यम् - यदि कस्मिंश्चित् तद्धितप्रत्यये चकारञकारौ द्वावपि इत्संज्ञकौ स्तः, तर्हि अस्मिन् प्रत्ययस्य संयोगेन निर्मितस्य समुदायस्य वर्तमानसूत्रेण आद्युदात्तत्वे प्राप्ते, तं बाधित्वा <<तद्धितस्य>> [[6.1.164]] इत्यनेन एतादृशस्य शब्दस्य अन्तोदात्तत्वं विधीयते । यथा, <<गोत्रे कुञ्जादिभ्यः च्फञ्>> [[4.1.98]] इत्यनेन 'कुञ्ज' शब्दात् च्फञ्-प्रत्यये कृते 'कुञ्ज + च्फञ् → कौ॒ञ्जा॒य॒न' इति सिद्ध्यति । अत्र यद्यपि प्रत्ययः ञित्-अस्ति, तथापि प्रत्ययः चित्-अपि अस्ति, अतः वर्तमानसूत्रम् बाधित्वा <<तद्धितस्य>> [[6.1.164]] इत्यनेन अस्य शब्दस्य अन्तोदात्तत्वं विधीयते । " }, "61198": { "sa": "", "sd": "" }, "61199": { "sa": "", "sd": "" }, "61200": { "sa": "", "sd": "" }, "61201": { "sa": "", "sd": "" }, "61202": { "sa": "", "sd": "" }, "61203": { "sa": "", "sd": "" }, "61204": { "sa": "", "sd": "" }, "61205": { "sa": "", "sd": "" }, "61206": { "sa": "", "sd": "" }, "61207": { "sa": "", "sd": "" }, "61208": { "sa": "", "sd": "" }, "61209": { "sa": "", "sd": "" }, "61210": { "sa": "", "sd": "" }, "61211": { "sa": "", "sd": "" }, "61212": { "sa": "", "sd": "" }, "61213": { "sa": "", "sd": "" }, "61214": { "sa": "", "sd": "" }, "61215": { "sa": "", "sd": "" }, "61216": { "sa": "", "sd": "" }, "61217": { "sa": "रित्-प्रत्यये परे प्रकृति-प्रत्यय-समुदायस्य उपोत्तमः स्वरः नित्यमुदात्तः भवति", "sd": "यस्मिन् प्रत्यये रेफः इत्संज्ञकः अस्ति, सः प्रत्ययः 'रित्' प्रत्ययः अस्ति इत्युच्यते । एतादृशः रित्-प्रत्ययः यस्य प्रकृति-प्रत्यय-समुदायस्य अन्ते अस्ति, तस्य समुदायस्य उपोत्तमः स्वरः उदात्तसंज्ञकः भवति ।\nकिम् नाम उपोत्तमः ? शब्दस्य अन्तिमः स्वरः 'उत्तमः' नाम्ना ज्ञायते । तस्मात् यः स्वरः पूर्वः, सः उपोत्तमः । यथा, 'साधुम्' अस्मिन् शब्दे धकारोत्तरः उकारः उत्तमसंज्ञकः स्वरः अस्ति, तथा सकारोत्तरः आकारः उपोत्तमः स्वरः अस्ति । रित्-प्रत्यये परे प्रकृति-प्रत्यय-समुदायस्य उपोत्तमस्वरस्य अनेन सूत्रेण उदात्तत्वं विधीयते ।\nयथा -\n1. मृदु + जातीयर् → मृ॒दु॒जातीय॑ । अत्र 'जातीयर्' अस्य प्रत्ययस्य उपोत्तमः स्वरः अस्ति तकारोत्तरः ईकारः । अस्य स्वरस्य अनेन सूत्रेण उदात्तत्वं विधीयते ।\n2. कृ + अनीयर् → क॒र॒णीय॑ । अत्र 'अनीयर्' अस्य प्रत्ययस्य उपोत्तमः स्वरः अस्ति नकारोत्तरः ईकारः । अस्य स्वरस्य अनेन सूत्रेण उदात्तत्वं विधीयते ।\n" }, "61218": { "sa": "", "sd": "" }, "61219": { "sa": "", "sd": "" }, "61220": { "sa": "", "sd": "" }, "61221": { "sa": "", "sd": "" }, "61222": { "sa": "", "sd": "" }, "61223": { "sa": "", "sd": "" }, "62001": { "sa": "", "sd": "" }, "62002": { "sa": "", "sd": "" }, "62003": { "sa": "", "sd": "" }, "62004": { "sa": "", "sd": "" }, "62005": { "sa": "", "sd": "" }, "62006": { "sa": "", "sd": "" }, "62007": { "sa": "", "sd": "" }, "62008": { "sa": "", "sd": "" }, "62009": { "sa": "", "sd": "" }, "62010": { "sa": "", "sd": "" }, "62011": { "sa": "", "sd": "" }, "62012": { "sa": "", "sd": "" }, "62013": { "sa": "", "sd": "" }, "62014": { "sa": "", "sd": "" }, "62015": { "sa": "", "sd": "" }, "62016": { "sa": "", "sd": "" }, "62017": { "sa": "", "sd": "" }, "62018": { "sa": "", "sd": "" }, "62019": { "sa": "", "sd": "" }, "62020": { "sa": "", "sd": "" }, "62021": { "sa": "", "sd": "" }, "62022": { "sa": "", "sd": "" }, "62023": { "sa": "", "sd": "" }, "62024": { "sa": "", "sd": "" }, "62025": { "sa": "", "sd": "" }, "62026": { "sa": "", "sd": "" }, "62027": { "sa": "", "sd": "" }, "62028": { "sa": "", "sd": "" }, "62029": { "sa": "", "sd": "" }, "62030": { "sa": "", "sd": "" }, "62031": { "sa": "", "sd": "" }, "62032": { "sa": "", "sd": "" }, "62033": { "sa": "", "sd": "" }, "62034": { "sa": "", "sd": "" }, "62035": { "sa": "", "sd": "" }, "62036": { "sa": "", "sd": "" }, "62037": { "sa": "", "sd": "" }, "62038": { "sa": "", "sd": "" }, "62039": { "sa": "", "sd": "" }, "62040": { "sa": "", "sd": "" }, "62041": { "sa": "", "sd": "" }, "62042": { "sa": "", "sd": "" }, "62043": { "sa": "", "sd": "" }, "62044": { "sa": "", "sd": "" }, "62045": { "sa": "", "sd": "" }, "62046": { "sa": "", "sd": "" }, "62047": { "sa": "", "sd": "" }, "62048": { "sa": "", "sd": "" }, "62049": { "sa": "", "sd": "" }, "62050": { "sa": "", "sd": "" }, "62051": { "sa": "", "sd": "" }, "62052": { "sa": "", "sd": "" }, "62053": { "sa": "", "sd": "" }, "62054": { "sa": "", "sd": "" }, "62055": { "sa": "", "sd": "" }, "62056": { "sa": "", "sd": "" }, "62057": { "sa": "", "sd": "" }, "62058": { "sa": "", "sd": "" }, "62059": { "sa": "", "sd": "" }, "62060": { "sa": "", "sd": "" }, "62061": { "sa": "", "sd": "" }, "62062": { "sa": "", "sd": "" }, "62063": { "sa": "", "sd": "" }, "62064": { "sa": "", "sd": "" }, "62065": { "sa": "", "sd": "" }, "62066": { "sa": "", "sd": "" }, "62067": { "sa": "", "sd": "" }, "62068": { "sa": "", "sd": "" }, "62069": { "sa": "", "sd": "" }, "62070": { "sa": "", "sd": "" }, "62071": { "sa": "", "sd": "" }, "62072": { "sa": "", "sd": "" }, "62073": { "sa": "", "sd": "" }, "62074": { "sa": "", "sd": "" }, "62075": { "sa": "", "sd": "" }, "62076": { "sa": "", "sd": "" }, "62077": { "sa": "", "sd": "" }, "62078": { "sa": "", "sd": "" }, "62079": { "sa": "", "sd": "" }, "62080": { "sa": "", "sd": "" }, "62081": { "sa": "", "sd": "" }, "62082": { "sa": "", "sd": "" }, "62083": { "sa": "", "sd": "" }, "62084": { "sa": "", "sd": "" }, "62085": { "sa": "", "sd": "" }, "62086": { "sa": "", "sd": "" }, "62087": { "sa": "", "sd": "" }, "62088": { "sa": "", "sd": "" }, "62089": { "sa": "", "sd": "" }, "62090": { "sa": "", "sd": "" }, "62091": { "sa": "", "sd": "" }, "62092": { "sa": "", "sd": "" }, "62093": { "sa": "", "sd": "" }, "62094": { "sa": "", "sd": "" }, "62095": { "sa": "", "sd": "" }, "62096": { "sa": "", "sd": "" }, "62097": { "sa": "", "sd": "" }, "62098": { "sa": "", "sd": "" }, "62099": { "sa": "", "sd": "" }, "62100": { "sa": "", "sd": "" }, "62101": { "sa": "", "sd": "" }, "62102": { "sa": "", "sd": "" }, "62103": { "sa": "", "sd": "" }, "62104": { "sa": "", "sd": "" }, "62105": { "sa": "", "sd": "" }, "62106": { "sa": "", "sd": "" }, "62107": { "sa": "", "sd": "" }, "62108": { "sa": "", "sd": "" }, "62109": { "sa": "", "sd": "" }, "62110": { "sa": "", "sd": "" }, "62111": { "sa": "", "sd": "" }, "62112": { "sa": "", "sd": "" }, "62113": { "sa": "", "sd": "" }, "62114": { "sa": "", "sd": "" }, "62115": { "sa": "", "sd": "" }, "62116": { "sa": "", "sd": "" }, "62117": { "sa": "", "sd": "" }, "62118": { "sa": "", "sd": "" }, "62119": { "sa": "", "sd": "" }, "62120": { "sa": "", "sd": "" }, "62121": { "sa": "", "sd": "" }, "62122": { "sa": "", "sd": "" }, "62123": { "sa": "", "sd": "" }, "62124": { "sa": "", "sd": "" }, "62125": { "sa": "", "sd": "" }, "62126": { "sa": "", "sd": "" }, "62127": { "sa": "", "sd": "" }, "62128": { "sa": "", "sd": "" }, "62129": { "sa": "", "sd": "" }, "62130": { "sa": "", "sd": "" }, "62131": { "sa": "", "sd": "" }, "62132": { "sa": "", "sd": "" }, "62133": { "sa": "", "sd": "" }, "62134": { "sa": "", "sd": "" }, "62135": { "sa": "", "sd": "" }, "62136": { "sa": "", "sd": "" }, "62137": { "sa": "", "sd": "" }, "62138": { "sa": "", "sd": "" }, "62139": { "sa": "", "sd": "" }, "62140": { "sa": "", "sd": "" }, "62141": { "sa": "", "sd": "" }, "62142": { "sa": "", "sd": "" }, "62143": { "sa": "", "sd": "" }, "62144": { "sa": "", "sd": "" }, "62145": { "sa": "", "sd": "" }, "62146": { "sa": "", "sd": "" }, "62147": { "sa": "", "sd": "" }, "62148": { "sa": "", "sd": "" }, "62149": { "sa": "", "sd": "" }, "62150": { "sa": "", "sd": "" }, "62151": { "sa": "", "sd": "" }, "62152": { "sa": "", "sd": "" }, "62153": { "sa": "", "sd": "" }, "62154": { "sa": "", "sd": "" }, "62155": { "sa": "", "sd": "" }, "62156": { "sa": "", "sd": "" }, "62157": { "sa": "", "sd": "" }, "62158": { "sa": "", "sd": "" }, "62159": { "sa": "", "sd": "" }, "62160": { "sa": "", "sd": "" }, "62161": { "sa": "", "sd": "" }, "62162": { "sa": "", "sd": "" }, "62163": { "sa": "", "sd": "" }, "62164": { "sa": "", "sd": "" }, "62165": { "sa": "", "sd": "" }, "62166": { "sa": "", "sd": "" }, "62167": { "sa": "", "sd": "" }, "62168": { "sa": "", "sd": "" }, "62169": { "sa": "", "sd": "" }, "62170": { "sa": "", "sd": "" }, "62171": { "sa": "", "sd": "" }, "62172": { "sa": "", "sd": "" }, "62173": { "sa": "", "sd": "" }, "62174": { "sa": "", "sd": "" }, "62175": { "sa": "", "sd": "" }, "62176": { "sa": "", "sd": "" }, "62177": { "sa": "", "sd": "" }, "62178": { "sa": "", "sd": "" }, "62179": { "sa": "", "sd": "" }, "62180": { "sa": "", "sd": "" }, "62181": { "sa": "", "sd": "" }, "62182": { "sa": "", "sd": "" }, "62183": { "sa": "", "sd": "" }, "62184": { "sa": "", "sd": "" }, "62185": { "sa": "", "sd": "" }, "62186": { "sa": "", "sd": "" }, "62187": { "sa": "", "sd": "" }, "62188": { "sa": "", "sd": "" }, "62189": { "sa": "", "sd": "" }, "62190": { "sa": "", "sd": "" }, "62191": { "sa": "", "sd": "" }, "62192": { "sa": "", "sd": "" }, "62193": { "sa": "", "sd": "" }, "62194": { "sa": "", "sd": "" }, "62195": { "sa": "", "sd": "" }, "62196": { "sa": "", "sd": "" }, "62197": { "sa": "", "sd": "" }, "62198": { "sa": "", "sd": "" }, "62199": { "sa": "", "sd": "" }, "63001": { "sa": "", "sd": "" }, "63002": { "sa": "", "sd": "" }, "63003": { "sa": "", "sd": "" }, "63004": { "sa": "", "sd": "" }, "63005": { "sa": "", "sd": "" }, "63006": { "sa": "", "sd": "" }, "63007": { "sa": "", "sd": "" }, "63008": { "sa": "", "sd": "" }, "63009": { "sa": "", "sd": "" }, "63010": { "sa": "", "sd": "" }, "63011": { "sa": "", "sd": "" }, "63012": { "sa": "", "sd": "" }, "63013": { "sa": "", "sd": "" }, "63014": { "sa": "", "sd": "" }, "63015": { "sa": "", "sd": "" }, "63016": { "sa": "", "sd": "" }, "63017": { "sa": "", "sd": "" }, "63018": { "sa": "", "sd": "" }, "63019": { "sa": "", "sd": "" }, "63020": { "sa": "", "sd": "" }, "63021": { "sa": "", "sd": "" }, "63022": { "sa": "", "sd": "" }, "63023": { "sa": "", "sd": "" }, "63024": { "sa": "", "sd": "" }, "63025": { "sa": "", "sd": "" }, "63026": { "sa": "", "sd": "" }, "63027": { "sa": "", "sd": "" }, "63028": { "sa": "", "sd": "" }, "63029": { "sa": "", "sd": "" }, "63030": { "sa": "", "sd": "" }, "63031": { "sa": "", "sd": "" }, "63032": { "sa": "", "sd": "" }, "63033": { "sa": "", "sd": "" }, "63034": { "sa": "", "sd": "" }, "63035": { "sa": "", "sd": "" }, "63036": { "sa": "", "sd": "" }, "63037": { "sa": "", "sd": "" }, "63038": { "sa": "", "sd": "" }, "63039": { "sa": "", "sd": "" }, "63040": { "sa": "", "sd": "" }, "63041": { "sa": "", "sd": "" }, "63042": { "sa": "", "sd": "" }, "63043": { "sa": "", "sd": "" }, "63044": { "sa": "", "sd": "" }, "63045": { "sa": "", "sd": "" }, "63046": { "sa": "", "sd": "" }, "63047": { "sa": "द्वि-शब्दस्य अष्टन्-शब्दस्य च सङ्ख्याशब्दे परे आकारादेशः भवति । परन्तु 'अशीतिः' शब्दस्य विषये, तथा च बहुव्रीहिसमासे अयमादेशः न भवति । ", "sd": "यस्मिन् समासे उत्तरपदम् सङ्ख्यावाची शब्दः अस्ति, तस्मिन् समासे पूर्वपदस्थस्य द्विशब्दस्य अष्टन्-शब्दस्य च आकारादेशः भवति । परन्तु, यदि उत्तरपदम् 'अशीति' इति अस्ति तर्हि एतादृशः आदेशः न भवति । तथा च यदि अयं समासः बहुव्रीहिसमासः अस्ति तर्हि अपि एतादृशः आदेशः न भवति । उदाहरणानि एतानि -\n1) 'द्वौ च दश च' इत्यर्थे 'द्वि + दशन्' इत्यत्र अयं द्वन्द्वसमासः भवति, अतः अत्र 'द्वि' इत्यत्र इकारस्य आकारादेशं कृत्वा द्वादशन् इति रूपं सिद्ध्यति । तथेैव, 'अष्ट + विंशति' इत्यत्रापि अष्टाविंशतीति रूपं सिद्ध्यति ।\n2) द्वि + अशीति इत्यत्र तु आकारादेशः न भवति, यतः अस्मिन् सूत्रे 'अबहुव्रीह्यशीत्योः' इति निर्दिष्टमस्ति । अतः अत्र यणादेशं कृत्वा 'द्व्यशीति' इति रूपं सिद्ध्यति ।\n3) 'द्वौ त्रयः यस्य' इत्यस्मिन् अर्थे 'द्वि + त्रि' अयं बहुव्रीहिसमासः सिद्ध्यति । अत्रापि 'अबहुव्रीह्यशीत्योः' इति निर्देशत्वात् द्वि-शब्दस्य आकारादेशः न भवति, अतः द्वित्राः इति रूपं सिद्ध्यति ।\nअत्र एकं वार्तिकमपि ज्ञातव्यम् - । इत्युक्ते, अयमाकारादेशः शतम् (100) इत्यस्मात् पूर्वमेव भवति । अतः द्विशतम्, अष्टशतम् इत्यत्र आकारादेशः न जायते ।\n" }, "63048": { "sa": "त्रि-शब्दस्य सङ्ख्याशब्दे परे त्रयस्-आदेशः भवति । परन्तु 'अशीतिः' शब्दस्य विषये, तथा च बहुव्रीहिसमासे अयमादेशः न भवति ।", "sd": "यस्मिन् समासे उत्तरपदम् सङ्ख्यावाची शब्दः अस्ति, तस्मिन् समासे पूर्वपदस्थस्य त्रिशब्दस्य 'त्रयस्' आदेशः भवति । परन्तु, यदि उत्तरपदम् 'अशीति' इति अस्ति तर्हि एतादृशः आदेशः न भवति । तथा च यदि अयं समासः बहुव्रीहिसमासः अस्ति तर्हि अपि एतादृशः आदेशः न भवति । यथा, त्रयोदशन् इत्यस्य निर्माणे त्रि + दशन् इत्यत्र <<त्रेस्त्रयः>> [[6.3.48]] अनेन सूत्रेण त्रि-शब्दस्य 'त्रयस्' आदेशः भवति । प्रक्रिया इयम् -\nत्रि + दशन्\n→ त्रयस् + दशन् [<<त्रेस्त्रयः>> [[6.3.48]] इति 'त्रयस्' आदेशः]\n→ त्रयरुँ + दशन् [<<ससजुषोः रुँः>> [[8.2.66]] इति रूत्वम् । ]\n→ त्रयउ दशन् [<<हशि च>> [[6.1.114]] इति उत्वम् । ]\n→ त्रयो दशन् [<<आद्गुणः>> [[6.1.87]] इति गुण-एकादेशः]\nअशीति-शब्दस्य उपस्थितौ अयमादेशः न विधीयते । यथा - त्रि + अशीतिः = त्र्यशीतिः ।\nबहुव्रीहिसमासस्य विषयेऽपि अयमादेशः न भवति । यथा - त्रयः दश यस्य सः = त्रिदश ।\nवार्त्तिकम् - । इत्युक्ते, अयमाकारादेशः शतम् (100) इत्यस्मात् पूर्वमेव भवति । अतः त्रिशतम्, त्रिसहस्रम् इत्यत्र 'त्रयस्' इत्यादेशः न भवति ।" }, "63049": { "sa": "", "sd": "" }, "63050": { "sa": "", "sd": "" }, "63051": { "sa": "", "sd": "" }, "63052": { "sa": "", "sd": "" }, "63053": { "sa": "", "sd": "" }, "63054": { "sa": "", "sd": "" }, "63055": { "sa": "", "sd": "" }, "63056": { "sa": "", "sd": "" }, "63057": { "sa": "", "sd": "" }, "63058": { "sa": "", "sd": "" }, "63059": { "sa": "", "sd": "" }, "63060": { "sa": "", "sd": "" }, "63061": { "sa": "", "sd": "" }, "63062": { "sa": "", "sd": "" }, "63063": { "sa": "", "sd": "" }, "63064": { "sa": "", "sd": "" }, "63065": { "sa": "", "sd": "" }, "63066": { "sa": "", "sd": "" }, "63067": { "sa": "", "sd": "" }, "63068": { "sa": "", "sd": "" }, "63069": { "sa": "", "sd": "" }, "63070": { "sa": "", "sd": "" }, "63071": { "sa": "", "sd": "" }, "63072": { "sa": "", "sd": "" }, "63073": { "sa": "", "sd": "" }, "63074": { "sa": "", "sd": "" }, "63075": { "sa": "", "sd": "" }, "63076": { "sa": "", "sd": "" }, "63077": { "sa": "", "sd": "" }, "63078": { "sa": "", "sd": "" }, "63079": { "sa": "", "sd": "" }, "63080": { "sa": "", "sd": "" }, "63081": { "sa": "", "sd": "" }, "63082": { "sa": "", "sd": "" }, "63083": { "sa": "", "sd": "" }, "63084": { "sa": "", "sd": "" }, "63085": { "sa": "", "sd": "" }, "63086": { "sa": "", "sd": "" }, "63087": { "sa": "", "sd": "" }, "63088": { "sa": "", "sd": "" }, "63089": { "sa": "", "sd": "" }, "63090": { "sa": "", "sd": "" }, "63091": { "sa": "", "sd": "" }, "63092": { "sa": "", "sd": "" }, "63093": { "sa": "'सम्' उपसर्गात् परं यदि 'अञ्च्' धातोः लुप्तप्रत्ययान्तरूपमागच्छति, तर्हि 'सम्' इत्यस्य 'समि' इति आदेशः भवति । ", "sd": "अस्मिन् सूत्रे प्रयुक्तानाम् शब्दानामादौ अर्थं पश्यामः -\n1) अप्रत्ययः = अविद्यमानः प्रत्ययः यस्मात् सः । इत्युक्ते, यस्मात् शब्दात् विहितस्य प्रत्ययस्य सम्पूर्णरूपेण लोपः भवति, प्रत्ययः च न श्रूयते, तादृशः शब्दः । क्विप् प्रत्ययः क्विन्-प्रत्ययः च सर्वापहारिणौ प्रत्ययौ स्तः, अतः एताभ्यां कश्चन प्रत्ययः यस्य अन्ते अस्ति, सः शब्दः अत्र अभिप्रेतः अस्ति । (स्मर्तव्यम् - अत्र 'अप्रत्ययः = न प्रत्ययः / प्रत्ययविहीनः' इति अर्थः नास्ति, केवलं 'अविद्यमानः / अश्रूयमाणः प्रत्ययः यस्मात्, सः' इत्येव अर्थः स्वीकर्तव्यः । )\n2) अञ्चतौ = इयम् परसप्तमी । अञ्चुँ (गतिपूजनयोः) अस्य धातोः अयं निर्देशः कृतः अस्ति । अत्र 'अप्रत्यये' इति 'अञ्चतौ' इत्यस्य विशेषणमस्ति, अतः अत्र तादृशस्य अञ्च्-धातोः ग्रहणं क्रियते यस्मात् सर्वापहारी क्विप् / क्विन् प्रत्ययः प्रयुक्तः अस्ति ।\n3) उत्तरपदे = उत्तरपदस्य उपस्थितौ । एतत् सूत्रम् <<अलुगुत्तरपदे>> [[6.3.1]] अस्मिन् अधिकारे अस्ति, अतः अत्र उत्तरपदस्य उपस्थितिः आवश्यकी । अत्र 'उत्तरपदे' इति 'अञ्चतौ' इत्यस्य विशेषणमस्ति । अतः अञ्च्-धातोः अप्रत्ययान्तरूपम् यत्र उत्तरपदरूपेण उपस्थीयते, तत्र अस्य सूत्रस्य प्रसक्तिः अस्ति ।\n4) समः = सम्-उपसर्गस्य स्थाने । इयं स्थानषष्ठी ।\n5) समि = अयमादेशः अस्ति ।\nअतः सूत्रस्य सम्पूर्णः अर्थः एतादृशः भवति -\nयदि अञ्च्-धातोः लुप्तप्रत्ययान्तरूपम् (कस्मिंश्चित् शब्दे) उत्तरपदरूपेण आगच्छति, तथा च, (तस्मिनन्नेव शब्दे) 'सम्' इति उपसर्गः पूर्वपदरूपेण उपस्थितः अस्ति, तर्हि 'सम्' उपसर्गस्य 'समि' इति आदेशः भवति ।\nयथा, 'सम् + अञ्च् + क्विन्' इत्यत्र क्विन्-प्रत्ययस्य सम्पूर्णरूपेण लोपः भवति । ततः वर्तमानसूत्रेण 'सम्' इत्यस्य 'समि' इति आदेशः भवति । अग्रे <<अनिदितां हलः उपधायाः क्ङितो>> [[6.4.24]] इत्यनेन नलोपं कृत्वा 'सम्यच्' इति प्रातिपदिकं सिद्ध्यति । अस्यैव अग्रे 'सम्यङ्, सम्यञ्चौ, सम्यञ्चः' एतादृशानि रूपाणि सिद्ध्यन्ति । " }, "63094": { "sa": "'तिरस्' इत्यस्मात् परं यदि 'अञ्च्' धातोः अलुप्त-अकारात्मकं लुप्तप्रत्ययान्तं च रूपमागच्छति, तर्हि 'तिरस्' इत्यस्य 'तिरि' इति आदेशः भवति ।", "sd": "अस्मिन् सूत्रे प्रयुक्तानाम् शब्दानामादौ अर्थं पश्यामः -\n1) अप्रत्ययः = अविद्यमानः प्रत्ययः यस्मात् सः । इत्युक्ते, यस्मात् शब्दात् विहितस्य प्रत्ययस्य सम्पूर्णरूपेण लोपः भवति, प्रत्ययः च न श्रूयते, तादृशः शब्दः । क्विप् प्रत्ययः क्विन्-प्रत्ययः च सर्वापहारिणौ प्रत्ययौ स्तः, अतः एताभ्यां कश्चन प्रत्ययः यस्य अन्ते अस्ति, सः शब्दः अत्र अभिप्रेतः अस्ति । (स्मर्तव्यम् - अत्र 'अप्रत्ययः = न प्रत्ययः / प्रत्ययविहीनः' इति अर्थः नास्ति, केवलं 'अविद्यमानः / अश्रूयमाणः प्रत्ययः यस्मात्, सः' इत्येव अर्थः स्वीकर्तव्यः । )\n2) अञ्चतौ = इयम् परसप्तमी । अञ्चुँ (गतिपूजनयोः) अस्य धातोः अयं निर्देशः कृतः अस्ति । अत्र 'अप्रत्यये' इति 'अञ्चतौ' इत्यस्य विशेषणमस्ति, अतः अत्र तादृशस्य अञ्च्-धातोः ग्रहणं क्रियते यस्मात् सर्वापहारी क्विप् / क्विन् प्रत्ययः प्रयुक्तः अस्ति ।\n3) अलोपे = अस्य शब्दस्य विग्रहः अयम् - 'अकारस्य लोपः = अल्लोपः ; न विद्यते अल्लोपः यस्मिन्, सः = अलोपः' । इत्युक्ते, यस्मिन् शब्दे अकारस्य लोपः न कृतः अस्ति, सः शब्दः अत्र 'अलोपः' इत्यनेन निर्दिश्यते । अयमपि 'अञ्चतौ' इत्यस्यैव विशेषणमस्ति, अतः अनेन तादृशः अञ्च्-शब्दः स्वीक्रियते यस्य अकारस्य लोपः कृतः नास्ति ।\n4) उत्तरपदे = उत्तरपदस्य उपस्थितौ । एतत् सूत्रम् <<अलुगुत्तरपदे>> [[6.3.1]] अस्मिन् अधिकारे अस्ति, अतः अत्र उत्तरपदस्य उपस्थितिः आवश्यकी । अत्र 'उत्तरपदे' इति 'अञ्चतौ' इत्यस्य विशेषणमस्ति । अतः अञ्च्-धातोः अप्रत्ययान्तरूपम् यत्र उत्तरपदरूपेण उपस्थीयते, तत्र अस्य सूत्रस्य प्रसक्तिः अस्ति ।\n5) तिरसः = तिरस्-शब्दस्य स्थाने। इयं स्थानषष्ठी ।\n6) तिरि = अयमादेशः अस्ति ।\nअतः सूत्रस्य सम्पूर्णः अर्थः एतादृशः भवति -\nयदि अञ्च्-धातोः लुप्तप्रत्ययान्तं रूपम्, यस्मिन् अकारस्य लोपः न कृतः अस्ति, (कस्मिंश्चित् शब्दे) उत्तरपदरूपेण आगच्छति, तथा च, (तस्मिनन्नेव शब्दे) 'तिरस्' इति शब्दः पूर्वपदरूपेण उपस्थितः अस्ति, तर्हि 'तिरस्' इत्यस्य 'तिरि' इति आदेशः भवति ।\nयथा, 'तिरस् + अञ्च् + क्विन्' इत्यत्र क्विन्-प्रत्ययस्य सम्पूर्णरूपेण लोपः भवति । तथा च, अञ्च्-इत्यस्य नकारस्य अपि <<अनिदितां हलः उपधायाः क्ङिति>> [[6.4.24]] इत्यनेन लोपः भवति, अतः 'तिरस् + अच्' इति प्रातिपदिकं जायते । अस्य प्रथमैकवचनस्य प्रक्रियायाम् 'तिरस् + अच् + सुँ' इत्यत्र अकारलोपः न भवति, अतः वर्तमानसूत्रेण तिरस्-इत्यस्य 'तिरि' इति आदेशः भवति, अतः 'तिर्यङ्' इति प्रथमैकवचनस्य रूपं सिद्ध्यति ।\nयत्र 'अञ्च्' धातोः अकारस्यापि लोपः भवति, तत्र तु अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, 'तिरस् + अच्' शब्दस्य द्वितीयाबहुवचनस्य प्रक्रिया इयम् -\nतिरस् + अच् + शस्\n→ तिरस् + च् + अस् [<<अचः>> [[6.4.138]] इति अकारस्य लोपः]\n→ तिरश्चः [अकारलोपे कृते वर्तमानसूत्रस्य प्रसक्तिः नास्ति, अतः तिरस्-इत्यस्य तिरि-आदेशः न भवति । अग्रे विसर्गनिर्माणं श्चुत्वं च कृत्वा रूपं सिद्ध्यति ।]\n" }, "63095": { "sa": "'सह' शब्दात् परं यदि 'अञ्च्' धातोः लुप्तप्रत्ययान्तरूपमागच्छति, तर्हि 'सह' इत्यस्य 'सध्रि' इति आदेशः भवति ।", "sd": "'सह' शब्दात् परं यदि 'अञ्च्' धातोः लुप्तप्रत्ययान्तरूपमागच्छति, तर्हि 'सह' इत्यस्य 'सध्रि' इति आदेशः भवति । अस्मिन् सूत्रे प्रयुक्तानाम् शब्दानामादौ अर्थं पश्यामः -\n1) अप्रत्ययः = अविद्यमानः प्रत्ययः यस्मात् सः । इत्युक्ते, यस्मात् शब्दात् विहितस्य प्रत्ययस्य सम्पूर्णरूपेण लोपः भवति, प्रत्ययः च न श्रूयते, तादृशः शब्दः । क्विप् प्रत्ययः क्विन्-प्रत्ययः च सर्वापहारिणौ प्रत्ययौ स्तः, अतः एताभ्यां कश्चन प्रत्ययः यस्य अन्ते अस्ति, सः शब्दः अत्र अभिप्रेतः अस्ति । (स्मर्तव्यम् - अत्र 'अप्रत्ययः = न प्रत्ययः / प्रत्ययविहीनः' इति अर्थः नास्ति, केवलं 'अविद्यमानः / अश्रूयमाणः प्रत्ययः यस्मात्, सः' इत्येव अर्थः स्वीकर्तव्यः । )\n2) अञ्चतौ = इयम् परसप्तमी । अञ्चुँ (गतिपूजनयोः) अस्य धातोः अयं निर्देशः कृतः अस्ति । अत्र 'अप्रत्यये' इति 'अञ्चतौ' इत्यस्य विशेषणमस्ति, अतः अत्र तादृशस्य अञ्च्-धातोः ग्रहणं क्रियते यस्मात् सर्वापहारी क्विप् / क्विन् प्रत्ययः प्रयुक्तः अस्ति ।\n3) उत्तरपदे = उत्तरपदस्य उपस्थितौ । एतत् सूत्रम् <<अलुगुत्तरपदे>> [[6.3.1]] अस्मिन् अधिकारे अस्ति, अतः अत्र उत्तरपदस्य उपस्थितिः आवश्यकी । अत्र 'उत्तरपदे' इति 'अञ्चतौ' इत्यस्य विशेषणमस्ति । अतः अञ्च्-धातोः अप्रत्ययान्तरूपम् यत्र उत्तरपदरूपेण उपस्थीयते, तत्र अस्य सूत्रस्य प्रसक्तिः अस्ति ।\n4) सहस्य = सह-शब्दस्य स्थाने । इयं स्थानषष्ठी ।\n5) सध्रि = अयमादेशः अस्ति ।\nअतः सूत्रस्य सम्पूर्णः अर्थः एतादृशः भवति -\nयदि अञ्च्-धातोः लुप्तप्रत्ययान्तरूपम् (कस्मिंश्चित् शब्दे) उत्तरपदरूपेण आगच्छति, तथा च, (तस्मिनन्नेव शब्दे) 'सह' इति शब्दः पूर्वपदरूपेण उपस्थितः अस्ति, तर्हि 'सह' उपसर्गस्य 'सध्रि' इति आदेशः भवति ।\nयथा, 'सह + अञ्च् + क्विन्' इत्यत्र क्विन्-प्रत्ययस्य सम्पूर्णरूपेण लोपः भवति । ततः वर्तमानसूत्रेण 'सह' इत्यस्य 'सध्रि' इति आदेशः भवति । अग्रे <<अनिदितां हलः उपधायाः क्ङितो>> [[6.4.24]] इत्यनेन नलोपं कृत्वा 'सध्र्यच्' इति प्रातिपदिकं सिद्ध्यति । अस्यैव अग्रे 'सध्य्रङ् , सध्र्यञ्चौ , सध्र्यञ्चः' एतादृशानि रूपाणि भवन्ति ।\n" }, "63096": { "sa": "", "sd": "" }, "63097": { "sa": "", "sd": "" }, "63098": { "sa": "", "sd": "" }, "63099": { "sa": "", "sd": "" }, "63100": { "sa": "", "sd": "" }, "63101": { "sa": "", "sd": "" }, "63102": { "sa": "", "sd": "" }, "63103": { "sa": "", "sd": "" }, "63104": { "sa": "", "sd": "" }, "63105": { "sa": "", "sd": "" }, "63106": { "sa": "", "sd": "" }, "63107": { "sa": "", "sd": "" }, "63108": { "sa": "", "sd": "" }, "63109": { "sa": "", "sd": "" }, "63110": { "sa": "संख्यावाचीशब्दात् परस्य , 'वि'शब्दात् परस्य, तथा 'साय'शब्दात् परस्य 'अह्न' शब्दस्य ङि-प्रत्यये परे विकल्पेन 'अहन्' आदेशः भवति । ", "sd": "यदि 'अह्न'-शब्दः कस्मिंश्चित् समस्तपस्य उत्तरपदे आगच्छति, तदा तस्य समस्तपदस्य पूर्वपदम् कश्चन संख्यावाची शब्दः अस्ति (यथा - एक, द्वि, त्रि आदयः), उत 'वि' शब्दः अस्ति, उत 'साय' शब्दः अस्ति, तर्हि सप्तमी-एकवचनस्य ङि-प्रत्यये परे 'अह्न' शब्दस्य वैकल्पिकः अहन्-आदेशः भवति । अग्रे [<<विभाषा ङिश्योः>> [[6.4.136]] इति वैकल्पिकः अकारलोपं कृत्वा 'अह्नि, अहनि' एते द्वे रूपे भवतः । अहन्-आदेशस्य अभावे तु 'राम'शब्दवत् 'अह्ने' इत्येव रूपम् भवति । कानिचन उदाहरणानि एतादृशानि -\n1. 'द्व्योः अह्नोः भवः' अस्मिन् अर्थे <<तद्धितार्थोत्तरपदसमाहारे च>> [[2.1.51]] इत्यनेन तद्धितार्थः समासः जायते, येन 'द्व्यह्नः' इति प्रातिपदिकम् सिद्ध्यति । अस्य सप्तम्येकवचनम् द्व्यह्ने, द्व्यह्नि, द्व्यहनि - एते भवन्ति ।\n2. 'व्यपगतमहः' अस्मिन् अर्थे <<कुगतिप्रादयः>> [[2.2.18]] इत्यनेन प्रादिसमासे कृते 'व्यह्नः' इति प्रातिपदिकम् सिद्ध्यति । अस्य सप्तम्येकवचनम् व्यह्ने, व्यह्नि, व्यहनि - एतानि भवन्ति ।\n3. 'सायमह्नः' अस्मिन् अर्थे <<पूर्वपरावरोत्तरमेकदेशिनैकाधिकरणे>> [[2.2.1]] एकदेशीसमासे कृते 'सायाह्नः' इति प्रातिपदिकम् सिद्ध्यति । अस्य सप्तम्येकवचनम् सायाह्ने, सायाह्नि, सायाहनि - एतानि भवन्ति ।\nएतान् शब्दान् विहाय अन्यत् किमपि पूर्वपदमस्ति चेत् अस्य सूत्रस्य प्रयोगः न भवति । यथा, 'पूर्वाह्न' इत्यस्य सप्तम्येकवचनम् 'पूर्वाह्ने' इत्येव जायते । " }, "63111": { "sa": "ढलोपनिमित्तके ढकारे परे ढकारलोपे कृते , रलोपनिमित्तके रेफे परे रलोपे कृते वा, तस्मात् पूर्वस्य अण्-वर्णस्य दीर्घः भवति ।", "sd": "\nअण् = अ, आ, इ, ई, उ, ऊ । अत्र पूर्वेण णकारेण प्रत्याहारनिर्माणम् । \n\nअण्-वर्णात् परः यः ढकारः, तस्य ढकारे परे लोपे कृते अण्-वर्णस्य दीर्घः भवति । एवमेव, अण्-वर्णात् परः यः रेफः, तस्य रेफे परे लोपे कृते अण्-वर्णस्य दीर्घः भवति । \nअस्य सूत्रस्य प्रसक्तिः तदा एव विद्यते यदा ढकारलोपः<<ढो ढे लोपः>> [[8.3.13]] इत्यनेन क्रियते, तथा च रेफलोपः <<रो रिः>> [[8.3.14]] इत्यनेन क्रियते । अतएव, निर्देशसामर्थ्यात् अस्य सूत्रस्य कृते <<ढो ढे लोपः>> [[8.3.13]] तथा च <<रो रिः>> [[8.3.14]] इति द्वे सूत्रे सिद्धे भवतः ।\nक्रमेण उदाहरणानि एतानि —\n1. ढकारलोपे कृते अण्-वर्णस्य दीर्घादेशः —\n1. लिह्-धातोः लोट्लकारस्य मध्यमपुरुषस्य बहुवचनस्य रूपसिद्धौ प्रकृतसूत्रेण इकारस्य दीर्घः भवति —\n\nलिहँ (आस्वादने, अदादिः, उभयपदी, <{2.6}>)\n→ लिह् + लोट् [<<लोट् च>> [[3.3.162]] इति लोट्]\n→ लिह् + ध्वम् [लोट्लकारस्य मध्यमपुरुषबहुवचनस्य विवक्षायाम् <<तिप्तस्झि..>> [[3.4.78]] इति ध्वम्-प्रत्ययः]\n→ लिह् + शप् + ध्वम् [<<कर्तरि शप्>> [[3.1.68]] इति शप्-विकरणप्रत्ययः]\n→ लिह् + ध्वम् [<<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शप्-प्रत्ययस्य लुक्]\n→ लिढ् + ध्वम् [<<हो ढः>> [[8.2.31]] इति ढत्वम्]\n→ लिढ् + ढ्वम् [<<ष्टुना ष्टुः>> [[8.4.41]] इति ढत्वम्]\n→ लि + ढ्वम् [<<ढो ढे लोपः>> [[8.3.13]] इति ढकारलोपः]\n→ लीढ्वम् [<<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] इति अण्-वर्णस्य दीर्घः]\n\n2. गुह् -धातोः क्त-प्रत्ययान्तरूपस्य सिद्धौ प्रकृतसूत्रेण उकारस्य दीर्घः भवति —\n\nगुहूँ (संवरणे, भ्वादिः, <{1.1043}>)\n→ गुह् + क्त [<<निष्ठा>> [[3.2.102]] इति सूत्रेण क्त-प्रत्ययः]\n→ गुढ् + त [ <<हो ढः>> [[8.2.31]] इति ढत्वम्]\n→ गुढ् + ढ [<<झषस्तथोर्धोऽधः>> [[8.2.40]] इति भष्भावे ढत्वम्]\n→ गु + ढ [<<ढो ढे लोपः>> [[8.3.13]] इति ढकारस्य ढकारे परे लोपः]\n→ गूढ [लुप्तढकारात् पूर्वस्य इकारस्य <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] इति दीर्घः]\n\n2. रेफलोपे कृते अण्-वर्णस्य दीर्घादेशः —\n1. पुनर्-इति अव्ययस्य रेफस्य लोपे कृते नकारात् अनन्तरम् विद्यमानस्य अकारस्य दीर्घः भवति —\n\nपुनर् + रमते\n→ पुन + रमते [<<रो रि>> [8.3.14]] इति रेफस्य लोपः]\n→‌ पुना रमते [<<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] इति लुप्तरेफात् पूर्वस्य अण्-वर्णस्य दीर्घः]\n\n2. इवर्णान्तशब्देभ्यः उवर्णान्तशब्देभ्यः विहितस्य सुँ-प्रत्ययस्य रुँत्वे कृते तस्य <<रो रि>> [[8.3.14]] इत्यनेन लोपः भवति चेत् इवर्णस्य / उवर्णस्य प्रकृतसूत्रेण दीर्घः भवति —\n\nहरि / शम्भु + सुँ + राजते \n→ हरि / शम्भु + रुँ + राजते [<<ससजुषो रुँः>> [[8.2.66]] इति रुँत्वम्]\n→ हरि+ शम्भु + र् + राजते [<<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इति उकारस्य इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ हरि + शम्भु + राजते [<<रो रि>> [[8.3.14]] इति रेफलोपः]\n→ हरी / शम्भू राजते [<<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] इति अण्-वर्णस्य दीर्घः]\n\n3. निर् इति उपसर्गस्य अन्ते विद्यमानस्य पदान्तरेफस्य रेफे परे प्रकृतसूत्रेण लोपः भवति —\n\nनिर्गतः रसः यस्य सः [<<अनेकमन्यपदार्थे>> [[2.2.24]] इति बहुव्रीहिसमासः]\n→ निर् + रस [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुँलोपः]\n→ नि रस [<<रो रि>> [[8.3.14]] इति रेफस्य रेफे परे लोपः]\n→‌ नीरस [<<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] इति दीर्घः]\n\n4. सिद्धान्तकौमुद्याम् अत्र अजर्घाः इति शब्दः उदाहरणरूपेण दत्तः अस्ति ।गृधुँ-धातोः यङ्लुकि लङ्लकारस्य मध्यमपुरुषैकवचनस्य रूपम् इदम् । अस्य सिद्धिः इयम् —\n\nगृधुँ (अभिकाङ्क्षायाम्, दिवादिः, <{4.161}>)\n→ गृध् + यङ् [<<धातोरेकाचो हलादेः क्रियासमभिहारे यङ्>> [[3.1.22]] इति यङ्-प्रत्ययः । ]\n→ गृध् [<<यङोऽचि च>> [[2.4.74]] इत्यत्र चकारग्रहणसामर्थ्यात् अच्-प्रत्ययभिन्नस्थले अपि यङ्-प्रत्ययस्य लुक् भवति । अन्तरङ्गात् अयम् द्वित्वात् पूर्वं भवति ।]\n→ गृध् गृध् [<<सन्यङोः>> [[6.1.9]] इति द्वित्वम्]\n→ गृ गृध् [<<हलादिः शेषः>> [[7.4.60]] इति अभ्यासस्य हलादिः अवशिष्यते ]\n→ गर् गृध् [<<गुणो यङ्लुकोः>> [[7.4.82]] इति इगन्तस्य अभ्यासस्य गुणः । <<उरण् रपरः>> [[1.1.51]] इति सः रपरः]\n→ ग गृध् <<हलादिः शेषः>> [[7.4.60]] इति अभ्यासस्य हलादिः अवशिष्यते ]\n→ ग रुक् गृध् [<<रुग्रिकौ च लुकि>> [[7.4.91]] इति यङ्लुकि रुगागमः]\n→ गर् गृध् [इत्संज्ञालोपः । रेफोत्तरः उकारः उच्चारणार्थः, सोऽपि लुप्यते ।]\n→ जर्गृध् [<<कुहोश्चुः>> [[7.4.62]] इति अभ्यासस्य चुत्वम् । ]\n→ जर्गृध् + लङ् [<<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञा । ततः <<अनद्यतने लङ्>> [[3.2.111]] इति लङ्]\n→ अट् + जर्गृध् + लङ् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ + जर्गृध् + सिप् [<<तिप्तस्झि...>> [[3.4.78]] इति मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः]\n→ अ + जर्र्गृध् + स् [<<हलन्त्यम्>> [[1.3.3]] इति पकारस्य इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः । <<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ अ + जगृध् + शप् + सि [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ अ + जर्गृध् + अ + सि [शकारपकारयोः इत्संज्ञा, लोपः]\n→ अ + जर्गृध् + स् [यङ्लुङन्ताः नित्यम् अदादिगणे एव स्वीक्रियन्ते, अतः तेभ्यः विहितस्य शप्-प्रत्ययस्य <<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति लुक् भवति ।]\n→ अ + जर्गर्ध् + स् [<<पुगन्तलघूपधस्य च>> [[7.3.86]] इति ऋकारस्य गुणः । <<उरण् रपरः>> [[1.1.51]] इति सः रपरः]\n→ अ + जर्गर्ध् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति अपृक्तसकारस्य लोपः]\n→ अ + जर्घर्ध् [<<एकाचो बशो भष् झषन्तस्य स्ध्वोः>> [[8.2.37]] इति गकारस्य भष्भावे घकारः]\n→ अ + जर्घर्द् [<<झलां जशोऽन्ते>> [[8.2.39]] इति पदान्तधकारसस्य जश्त्वे दकारः]\n→ अ + जर्घर् र् [<<दश्च>> [[8.2.75]] इति दकारस्य रेफः]\n→ अ + जर्घ र् [रेफे परे <<रो रि>> [[8.3.14]] इति रेफस्य लोपः]\n→ अ + जर्घा र् [<<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] इति दीर्घः]\n→ अजर्घाः [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n\nअण्-ग्रहणम् पूर्वेण णकारेण\nअस्मिन् सूत्रे विद्यमानः अण् इति प्रत्याहारः <<अइउण्>> इति सूत्रस्थणकारेण सिद्ध्यति । इत्युक्ते, अनेन प्रत्याहारेण केवलम् अवर्ण-इवर्ण-उवर्णानाम् एव निर्देशः भवति । एतान् विहाय अन्यस्वराणाम् अनेन सूत्रेण दीर्घः न भवति इति अत्र आशयः । यथा, तृहूँ-धातोः क्त-प्रत्ययान्त-रूपस्य सिद्धौ ढकारलोपे कृते अपि प्रकृतसूत्रेण दीर्घः नैव विधीयते ।\n\nतृहूँ (हिंसायाम्, <{6.75}>)\n→ तृह् + क्त [<<निष्ठा>> [[3.2.102]] इति क्त-प्रत्ययः]\n→ तृढ् + त [<<हो ढः>> [[8.2.31]] इति हकारस्य झलि परे ढकारः]\n→ तृढ् + ध [<<झषस्तथोर्धोऽधः>> [[8.2.40]] इत्यनेन तकारस्य धकारः]\n→ तृढ् + ढ [<<ष्टुना ष्टुः>> [[8.4.41]] इति ष्टुत्वे धकारस्य ढकारः]\n→ तृढ [<<ढो ढे लोपः>> [[8.3.13]] इति ढकारे परे ढकारस्य लोपः]\n
    \nअत्र ढकारलोपे कृते अपि ऋकारस्य <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] इति दीर्घः न भवति यतः अण्-प्रत्याहारे ऋकारः न स्वीक्रियते ।\n
    \n<qt>ढ्रलोपः</qt> इति शब्दस्य अर्थः\nअस्मिन् सूत्रे प्रयुक्तः ढ्रलोपः इति शब्दः ढकारस्य, रेफस्य च विशेषणरूपेण प्रयुक्तः अस्ति । ढ्रलोपः इत्युक्ते सः ढकारः / रेफः, येन पूर्वम् विद्यमानस्य ढकारस्य / रेफस्य लोपः कृतः अस्ति । अतः ढ्रलोपे परे (= ढकारलोपकारिणि ढकारे परे, रेफलोपकारिणि रेफे वा परे) पूर्वस्य अणः दीर्घः भवति इति सूत्रार्थः अत्र घटते ।\nसूत्रे 'पूर्वस्य' इति शब्दस्य प्रयोजनम् \nप्रकृतसूत्रे ढ्रलोपे इति सप्तम्यन्तम् पदम् प्रयुक्तम् अस्ति । <<तस्मिन्निति निर्दिष्टे पूर्वस्य>> [[1.1.66]] इत्यनेन सप्तमी विभक्तिः परनिमित्तं दर्शयति, अतः अत्र सप्तमीविभक्तेः प्रयोगेण एव 'पूर्वस्य' इति अर्थः अवश्यम् स्पष्टी भवति । तथापि अस्मिन् सूत्रे पाणिनिः पूर्वस्य इति पदं स्थापयति । अस्य किं कारणम् इति चेत्, प्रकृतसूत्रम् <<अलुगुत्तरपदे>> [[6.3.1]] इति उत्तरपदाधिकारे पाठ्यते । अस्मिन् अधिकारे पाठितानां सूत्राणां प्रयोगः प्रायेण तदा एव भवति यदा स्थानी पूर्वपदे, निमित्तं च उत्तरपदे विद्यते । यथा, पुनर् रमते इत्यत्र <<रो रि>> [[8.3.14]] इत्यनेन रेफलोपे कृते पुन रमते इति प्राप्ते; नकारोत्तरः अकारः (अण्-वर्णः) पूर्वपदे विद्यते, ढ्रलोपः (इत्युक्ते, रेफस्य लोपकारी रेफः) च उत्तरपदे विद्यते — अस्यां स्थितौ प्रकृतसूत्रेण पूर्वपदस्थस्य अण्-वर्णस्य उत्तरपदस्थरेफेण दीर्घः भवति । परन्तु, बहुषु स्थलेषु, यत्र निमित्तं स्थानी च एकस्मिन् एव पदे स्तः, तत्र अपि वर्तमानसूत्रस्य प्रयोगः इष्यते । एतदेव ज्ञापयितुम् अस्मिन् सूत्रे पूर्वस्य इति पदं स्थापितम् अस्ति । एतादृशं क्रियते अतएव उपरि निर्दिष्टासु लीढ, अजर्घाः एतादृशेषु स्थलेषु समानपदे विद्यमानेन रेफेण दीर्घादेशः सम्भवति । एतमेव बिन्दुं स्पष्टीकर्तुं काशिकाकारः ब्रूते — पूर्वग्रहणमनुत्तरपदेऽपि पूर्वमात्रस्य दीर्घार्थम् । उत्तरपदम् नास्ति चेदपि पूर्वस्यैव दीर्घः भवेत्, इति पूर्वग्रहणस्य प्रयोजनम् — इति अस्य आशयः । \nबाध्यबाधकभावः\n<<सहिवहोरोदवर्णस्य>> [[6.3.112]] इति सूत्रम् प्रकृतसूत्रस्य अपवादरूपेण प्रवर्तते सह् तथा वह् धात्वोः अकारस्य प्रकृतसूत्रेण प्राप्तं दीर्घं बाधित्वा <<सहिवहोरोदवर्णस्य>> [[6.3.112]] इत्यनेन ओकारादेशः भवति । \nत्रिपादीसूत्रयोः आश्रयात् सिद्धत्वम्; प्रकृतसूत्रस्य सपादसप्ताध्याय्यां उपस्थितिः चिन्त्या एव \nयद्यपि एतत् सूत्रम् सपादसप्ताध्याय्याम् विद्यते, तथापि अस्य सूत्रस्य प्रसक्तिः केवलं <<ढो ढे लोपः>> [[8.3.13]] उत <<रो रिः>> [[8.3.14]] इत्यस्मात् अनन्तरम् एव विद्यते । अतः अस्य सूत्रस्य कृते एते द्वे त्रिपादीसूत्रे आश्रयात् सिद्धे स्तः । \nवस्तुतस्तु, प्रकृतसूत्रस्य सपादसप्ताध्याय्याम् (उत्तरपदाधिकारे) स्थापनस्य प्रयोजनम् चिन्त्यम् एव । प्रकृतसूत्रात् अनन्तरम् केवलम् <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इत्यस्यैव प्रयोगः भवितुम् अर्हति, अतः प्रकृतसूत्रम् <<रो रि>> [[8.3.14]] इत्यस्मात् अनन्तरम् संस्थाप्यते चेदपि नैव दोषाय । किञ्च, एतादृशं क्रियते चेत् प्रकृतसूत्रे विद्यमानः पूर्वस्य इति शब्दः अपि निष्कासयितुम् शक्यः —\n\n(8.3.13) ढो ढे लोपः\n(8.3.14) रो रि\n(8.3.14अ) ढ्रलोपे दीर्घोऽणः — अत्र पूर्वस्य इति शब्दस्य ग्रहणम् नैव आवश्यकम्, यतः इदं सूत्रम् उत्तरपदाधिकारे नास्ति, अतः ढ्रलोपे इत्यत्र विद्यमानेन सप्तमीप्रयोगेनैव पूर्वस्य इति अर्थः स्पष्टी भवति ।\n8.3.15 खरवसानयोर्विसर्जनीयः\n\nएतादृशम् क्रियते चेद् सूत्रलाघवम् अपि जायते, आश्रयात् सिद्धत्वस्य अपि न काचित् आवश्यकता वर्तते ।\n" }, "63112": { "sa": "ढकारलोपनिमित्तके ढकारे परे सह्-धातोः वह्-धातोः च अवर्णस्य ओकारादेशः भवति । ", "sd": "ढकारलोपनिमित्तके ढकारे परे, रेफलोपनिमित्तके वा रेफे परे <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] इति सूत्रेण अकारस्य दीर्घादेशे प्राप्ते; सह् तथा वह् धात्वोः विषये तद्बाधित्वा प्रकृतसूत्रेण अण्-वर्णस्य ओकारादेशः भवति । क्रमेण उदाहरणानि एतादृशानि —\n1. सह्-धातोः प्रक्रियायाम् अकारस्य ओकारादेशः —\n1. सह्-धातोः तुमुन्-प्रत्यये कृते प्रकृतसूत्रेण ओकारादेशं कृत्वा अन्तिमं रूपं सिद्ध्यति —\n\nषहँ (मर्षणे, <{1.988}>, भ्वादिः)\n→ सह् [<<धात्वादेः षः सः>> [[6.1.64]]]\n→ सह् + तुम् [<<तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्>> [[3.3.10]] इति तुमुन्-प्रत्ययः]\n→ सढ् + तुम् [<<हो ढः>> [[8.2.31]] इति हकारस्य ढत्वम्]\n→ सढ् + धुम् [<<झषस्तथोर्धोऽधः>> [[8.2.40]] इति तकारस्य धकारः]\n→ सढ् + ढुम् [<<ष्टुना ष्टुः>> [[8.4.41]] इति ष्टुत्वे ढकारः]\n→ स + ढुम् [<<ढो ढे लोपः>> [[8.3.13]] इति ढकारे परे ढकारलोपः]\n→ सोढुम् [<<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] इत्यनेन अकारस्य दीर्घे प्राप्ते; तद्बाधित्वा <<सहिवहोरोदवर्णस्य>> [[6.3.112]] इति ओकारादेशः]\n\n2. सह्-धातोः लुट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपसिद्धौ प्रकृतसूत्रेण ओकारादेशः भवति —\n\nषहँ (मर्षणे, <{1.988}>, भ्वादिः)\n→ सह् [<<धात्वादेः षः सः>> [[6.1.64]]]\n→ सह् + लुट् [<<अनद्यतने लुट्>> [[3.3.15]] इति लुट्-लकारः]\n→ सह् + तास् + लुट् [<<स्यतासी लृतुटोः>> [[3.1.33]] इति विकरणप्रत्ययः]\n→ सह् + ता + तिप् [<<तिप्तस्झि..>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य विवक्षायाम् तिप्-प्रत्ययः]\n→ सह् + ता + डा [<<लुटः प्रथमस्य डारौरसः>> [[2.4.85]] इति तिप्-प्रत्ययस्य डा-आदेशः]\n→ सह् + त् + आ [<<टेः>> [[6.4.143]] इति टिसंज्ञकस्य लोपः]\n→ सढ् + त् + आ [<<हो ढः>> [[8.2.31]] इति अपदान्तहकारस्य झलि परे ढकारः]\n→ सढ् + ध् + आ [<<झषस्तथोर्धोऽधः>> [[8.2.40]] इत्यनेन तकारस्य धकारः]\n→ सढ् + ढ् + आ [<<ष्टुना ष्टुः>> [[8.4.41]] इति ष्टुत्वम्]\n→ स + ढ् + आ [<<ढो ढे लोपः>> [[8.3.13]] इति ढकारलोपः]\n→ सो + ढ् + आ [<<ढ्रलोपे पूर्वस्य दीर्घोणः>> [[6.3.111]] इत्यनेन अकारस्य दीर्घे प्राप्ते तस्य अपवादत्वेन <<सहिवहोरोदवर्णस्य>> [[6.3.112]] इति सह्-धातोः सकारात् परस्य अकारस्य ओकारादेशः]\n→ सोढा\n\n2. वह्-धातोः प्रक्रियायाम् अकारस्य ओकारादेशः —\n1. वह्-धातोः तृच्-प्रत्ययान्तरूपस्य सिद्धौ प्रकृतसूत्रेण ओकारादेशः भवति —\n\nवहँ (प्रापणे,भ्वादिः, <{1.1159}>)\n→ वह् + तृच् [<<ण्वुल्तृचौ>> [[3.1.133]] इति तृच्-प्रत्ययः]\n→ वढ् + तृ [<<हो ढः>> [[8.2.31]] इति अपदान्तहकारस्य झलि परे ढकारः]\n→ वढ् + धृ [<<झषस्तथोर्धोऽधः>> [[8.2.40]] इत्यनेन तकारस्य धकारः]\n→ वढ् + ढृ [<<ष्टुना ष्टुः>> [[8.4.41]] इति ष्टुत्वम्]\n→ व + ढृ [<<ढो ढे लोपः>> [[8.3.13]] इति ढकारलोपः]\n→ वोढृ [<<ढ्रलोपे पूर्वस्य दीर्घोणः>> [[6.3.111]] इत्यनेन अकारस्य दीर्घे प्राप्ते तस्य अपवादत्वेन <<सहिवहोरोदवर्णस्य>> [[6.3.112]] इति वह्-धातोः सकारात् परस्य अकारस्य ओकारादेशः]\n\n2. वह्-धातोः आत्मनेपदस्य लुङ्लकारस्य प्रथमपुरुषैकवचनस्य रूपसिद्धौ प्रकृतसूत्रेण ओकारादेशे कृते अन्तिमं रूपं सिद्ध्यति —\n\nवहँ (प्रापणे,भ्वादिः, <{1.1159}>)\n→ वह् + लुङ् [<<लुङ्>> [[3.2.110]] इति लुङ्-प्रत्ययः]\n→ अट् + वह् + लुङ् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ + वह् + च्लि + लुङ् [<<च्लि लुङि>> [[3.1.43]] इति च्लि-विकरणप्रत्ययः]\n→ अ + वह् + सिच् + लुङ् [<<च्लेः सिच्>> [[3.1.44]] इति सिच्-आदेशः]\n→ अ + वह् + स् + लुङ् [चकारस्य इत्संज्ञा, लोपः । सकारोत्तरः इकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।]\n→ अ + वह् + स् + त [<<तिप्तस्झि..>> [[3.4.78]] इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य त-प्रत्ययः]\n→ अ +वह् + त [<<झलो झलि>> [[8.2.26]] इति सकारलोपः]\n→ अ + वढ् + त [<<हो ढः>> [[8.2.31]] इति ढत्वम्]\n→ अ + वढ् + ध [<<झषस्तथोर्धोऽधः>> [[8.2.40]] इति धत्वम्]\n→ अ + वढ् + ढ [<<ष्टुना ष्टुः>> [[8.4.41]] इति ढत्वम्]\n→ अ + व + ढ [<<ढो ढे लोपः>>[[8.3.13]] इति ढकारलोपः]\n→ अवोढ [<<ढ्रलोपे पूर्वस्य दीर्घोणः>> [[6.3.111]] इत्यनेन अकारस्य दीर्घे प्राप्ते अपवादत्वेन <<सहिवहोरोदवर्णस्य>> [[6.3.112]] इति वह्-धातोः सकारात् परस्य अकारस्य ओकारादेशः]\n\nदलकृत्यम्\n1. अवर्णस्य इत्यत्र अकारग्रहणं किमर्थम् ? — <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] इत्यनेन अण्-वर्णस्य दीर्घादेशे प्राप्ते; तद्बाधित्वा केवलम् अवर्णस्यैव ओकारादेशस्य विधानम् कर्तुम् अस्मिन् सूत्रे अवर्णस्य इत्यत्र अकारस्य ग्रहणं कृतम् अस्ति । अतः वह्-धातोः वकारस्य यत्र उकारादेशः विधीयते, तत्र प्रकृतसूत्रस्य प्राप्तिः नैव विद्यते, अत तत्र <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] इत्यनेन अवश्यं दीर्घः सम्भवति । यथा, वह्-धातोः क्त-प्रत्यये परे <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] इत्यनेन उकारस्य दीर्घे कृते अन्तिमं रूपं सिद्ध्यति —\n\nवहँ (प्रापणे,भ्वादिः, <{1.1159}>)\n→ वह् + क्त [<<निष्ठा>> [[3.2.102]] इति क्त-प्रत्ययः]\n→ उह् + त [<<वचिस्वपियजादीनां किति>> [[6.1.15]] इति सम्प्रसारणम् । <<सम्प्रसारणाच्च>> [[6.1.108]] इति पूर्वरूपम् ]\n→ उढ् + त [<<हो ढः>> [[8.2.31]] इति ढत्वम्]\n→ उढ् + ध [<<झषस्तथोर्धोऽधः>> [[8.2.40]] इति धत्वम्]\n→ उढ् + ढ [<<ष्टुना ष्टुः>> [[8.4.41]] इति ढत्वम्]\n→ उ + ढ [<<ढो ढे लोपः>>[[8.3.13]] इति ढकारलोपः]\n→ ऊढ [<<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] इति उकारस्य दीर्घः]\n\nएतत् काशिकाकारस्य मतम् अस्ति । वस्तुतस्तु भाष्यकारेण अत्र भिन्नां प्रक्रियाम् उक्त्वा एतत् अवर्णग्रहणम् सम्पूर्णरूपेण प्रत्याख्यातम् वर्तते । तत्र भाष्यकारस्य मतेन, ढत्वादीनि कार्याणि अन्तरङ्गाणि सन्ति, सम्प्रसारणं तु बहिरङ्गं वर्तते; अतः आदौ ढत्वादीनि कार्याणि कृत्वा, ततः <<सहिवहोरोदवर्णस्य>> [[6.3.112]] इत्यनेन अकारस्य ओकारादेशे कृते, ततः सम्प्रसारणम् क्रियते । इत्युक्ते, सह्-धातोः वह्-धातोः च प्रक्रियायाम् केवलम् <<सहिवहोरोदवर्णस्य>> [[6.3.112]] इत्यस्य प्रयोगसमये केवलम् अकारः / आकारः एव दृश्यते, न हि कुत्रचित् ओकारः । अतः प्रकृतसूत्रे अवर्णस्य इति निर्देशः अपि नैव आवश्यकः — इति अत्र भाष्यकारस्य आशयः वर्तते । अस्मिन् पक्षे प्रकिया एतादृशी वर्तते —\n\nभाष्यमतेन ऊढ-शब्दस्य प्रक्रिया
    \nवहँ (प्रापणे,भ्वादिः, <{1.1159}>)\n→ वह् + क्त [<<निष्ठा>> [[3.2.102]] इति क्त-प्रत्ययः]\n→ वढ् + त [<<हो ढः>> [[8.2.31]] इति ढत्वम् । अन्तरङ्गत्वात् इदम् सम्प्रसारणात् पूर्वम् भवति ।]\n→ वढ् + ध [<<झषस्तथोर्धोऽधः>> [[8.2.40]] इति धत्वम्]\n→ वढ् + ढ [<<ष्टुना ष्टुः>> [[8.4.41]] इति ढत्वम्]\n→ व + ढ [<<ढो ढे लोपः>>[[8.3.13]] इति ढकारलोपः]\n→‌ वो + ढ [अत्र <<वचिस्वपियजादीनां किति>> [[6.1.15]] तथा च <<सहिवहोरोदवर्णस्य>> [[6.3.112]] इत्येतयोः युगपत् प्राप्तौ <<विप्रतिषेधे परं कार्यम्>> [[1.4.2]] इत्यनेन परत्वात् इ<<सहिवहोरोदवर्णस्य>> [[6.3.112]] इत्येव प्रवर्तते ।]\n→ उ ओ ढ [ इति परिभाषया पूर्वम् प्रतिषिद्धम् सम्प्रसारणम् अस्मिन् सोपाने प्रवर्तते । अतः अत्र <<वचिस्वपियजादीनां किति>> [[6.1.15]] इत्यनेन वकारस्य सम्प्रसारणे उकारः सिद्ध्यति ]\n→ उढ [<<सम्प्रसारणाच्च>> [[6.1.108]] इति उकार-ओकारयोः पूर्वरूपैकादेशः उकारः]\n→ ऊढ [<<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] इति अण्-वर्णस्य दीर्घादेशः । अत्र <ऽलक्ष्ये लक्षणं सकृदेव प्रवर्ततेऽ> इति न्यायेन पुनः <<सहिवहोरोदवर्णस्य>> [[6.3.112]] इति सूत्रम् वह्-धातोः विषये न प्रवर्तते, अतः अत्र <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] इत्यस्यैव प्रसक्तिः अस्ति ।]\n
    \nअनेन प्रकारेण अत्र अवर्णस्य किमपि प्रयोजनं न वर्तते इति उक्त्वा भाष्यकारेण प्रकृतसूत्रात् अवर्णस्य इत्यस्य प्रत्याख्यानं कृतम् अस्ति । अस्मिन् सन्दर्भे अधिकं पिपठिषवः प्रकृतसूत्रस्य भाष्यम्, एवमेव <ऽयस्य च लक्षणान्तरेण निमित्तं विहन्यते न तदनित्यम्ऽ> (परिभाषा-47) इति परिभाषाम् अपि पश्येयुः । \n2. अवर्णस्य इत्यत्र वर्णग्रहणम् किमर्थम् ?अवर्णस्य इत्यत्र वर्णग्रहणेन अकारेण सह अत्र आकारस्य अपि ग्रहणं भवति । अतः यत्र प्रक्रियायाम् अकारस्य स्थाने वृद्धिं कृत्वा आकारः विधीयते, तत्र तस्य अपि प्रकृतसूत्रेण ओकारादेशः सम्भवति । यथा, वह्-धातोः लुङ्लकारस्य परस्मैपदस्य मध्यमपुरुषद्विवचनस्य प्रक्रियायाम् <<वदव्रजहलन्तस्याचः>> [[7.2.3]] इत्यनेन अकारस्य वृद्धौ आकारादेशे कृते, तस्य प्रकृतसूत्रेण अग्रे अवश्यम् ओकारादेशः भवति —\n\nवहँ (प्रापणे,भ्वादिः, <{1.1159}>)\n→ वह् + लुङ् [<<लुङ्>> [[3.2.110]] इति लुङ्-प्रत्ययः]\n→ अट् + वह् + लुङ् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ + वह् + च्लि + लुङ् [<<च्लि लुङि>> [[3.1.43]] इति च्लि-विकरणप्रत्ययः]\n→ अ + वह् + सिच् + लुङ् [<<च्लेः सिच्>> [[3.1.44]] इति सिच्-आदेशः]\n→ अ + वह् + स् + लुङ् [चकारस्य इत्संज्ञा, लोपः । सकारोत्तरः इकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।]\n→ अ + वह् + स् + थ [<<तिप्तस्झि..>> [[3.4.78]] इति परस्मैपदस्य मध्यमपुरुषबहुवचनस्य त-प्रत्ययः]\n→ अ + वह् + स् + त [<<तस्थस्थमिपां तांतंतामः>> [[3.4.101]] इति थ-प्रत्ययस्य तकारादेशः]\n→ अ + वाह् + स् + त [<<वदव्रजहलन्तस्याचः>> [[7.2.3]] इत्यनेन अङ्गस्य अच्-वर्णस्य वृद्धिः । अकारस्य वृद्धिः आकारः]\n→ अ +वाह् + त [<<झलो झलि>> [[8.2.26]] इति सकारलोपः]\n→ अ + वाढ् + त [<<हो ढः>> [[8.2.31]] इति ढत्वम्]\n→ अ + वाढ् + ध [<<झषस्तथोर्धोऽधः>> [[8.2.40]] इति धत्वम्]\n→ अ + वाढ् + ढ [<<ष्टुना ष्टुः>> [[8.4.41]] इति ढत्वम्]\n→ अ + वा + ढ [<<ढो ढे लोपः>>[[8.3.13]] इति ढकारलोपः]\n→ अवोढ [<<ढ्रलोपे पूर्वस्य दीर्घोणः>> [[6.3.111]] इत्यनेन अकारस्य दीर्घे प्राप्ते अपवादत्वेन <<सहिवहोरोदवर्णस्य>> [[6.3.112]] इति वह्-धातोः सकारात् परस्य आकारस्य ओकारादेशः]\n\n3. ओत् इत्यत्र तकारग्रहणम् किमर्थम् ? — ओत् इत्यत्र तकारग्रहणम् उच्चारणार्थम् अस्ति । सवर्णग्रहणनियमार्थम् अत्र तकारः नैव प्रयुज्यते, यतः अकारेण अवश्यम् सवर्णग्रहणम् इष्यते, ओकारश्च विधीयमानः अस्ति अतः तेन सवर्णग्रहणं नैव सम्भवति ।\nबाध्यबाधकभावः\nसह् तथा वह् धात्वोः अकारस्य <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] इत्यनेन प्राप्तं दीर्घं बाधित्वा प्रकृतसूत्रेण ओकारादेशः भवति । अतः प्रकृतसूत्रम् <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] इत्यस्य अपवादरूपेण प्रवर्तते । \n<<ढो ढे लोपः>> [[8.3.13]] इत्यस्य आश्रयात् सिद्धत्वम् \nयद्यपि एतत् सूत्रम् सपादसप्ताध्याय्याम् विद्यते, तथापि अस्य सूत्रस्य प्रसक्तिः केवलं <<ढो ढे लोपः>> [[8.3.13]] इत्यस्मात् अनन्तरम् एव विद्यते । अतः प्रकृतसूत्रस्य कृते <<ढो ढे लोपः>> [[8.3.13]] इति त्रिपादीसूत्रम् आश्रयात् सिद्धम् ज्ञेयम् ।\n" }, "63113": { "sa": "", "sd": "" }, "63114": { "sa": "", "sd": "" }, "63115": { "sa": "", "sd": "" }, "63116": { "sa": "", "sd": "" }, "63117": { "sa": "", "sd": "" }, "63118": { "sa": "", "sd": "" }, "63119": { "sa": "", "sd": "" }, "63120": { "sa": "", "sd": "" }, "63121": { "sa": "", "sd": "" }, "63122": { "sa": "", "sd": "" }, "63123": { "sa": "", "sd": "" }, "63124": { "sa": "", "sd": "" }, "63125": { "sa": "", "sd": "" }, "63126": { "sa": "", "sd": "" }, "63127": { "sa": "", "sd": "" }, "63128": { "sa": "", "sd": "" }, "63129": { "sa": "", "sd": "" }, "63130": { "sa": "", "sd": "" }, "63131": { "sa": "", "sd": "" }, "63132": { "sa": "", "sd": "" }, "63133": { "sa": "", "sd": "" }, "63134": { "sa": "", "sd": "" }, "63135": { "sa": "", "sd": "" }, "63136": { "sa": "", "sd": "" }, "63137": { "sa": "", "sd": "" }, "63138": { "sa": "लुप्त-अकार-नकारे अञ्च्-शब्दे परे पूर्वस्य अण्-वर्णस्य दीर्घादेशः भवति । ", "sd": "अन्च् (गतौ) धातोः यदा क्विन्-प्रत्ययः भवति तदा <<अनिदितां हलः उपधायाः क्ङिति>> [[6.4.24]] इत्यनेन चकारात् पूर्वः यः नकारः तस्य लोपः जायते । अतः 'अन्च् + क्विन्' इत्यनेन 'अच्' इति प्रातिपदिकं सिद्ध्यति । एतादृशः लुप्तनकारः यः अन्च्-धातुनिर्मितः अच्-शब्दः, तदन्तम् यत् भसंज्ञकमङ्गम्, तस्य चकारात्-पूर्वस्य अकारस्य अपि <<अचः>> [[6.4.138]] इत्यनेन लोपः भवति । एतादृशः अकार-नकार-लुप्तः यः अञ्च्-शब्दः सः एव 'चौ' इत्यनेन अस्मिन् सूत्रे गृह्यते । एतादृशे चकारे परे पूर्वशब्दस्य अन्तिमस्वरस्य अनेन सूत्रेण दीर्घादेशः विधीयते ।\nयथा - प्रति + अन्च् (गतौ) अस्मात् धातोः क्विन्-प्रत्यये कृते अग्रे <<अनिदितां हलः उपधायाः क्ङिति>> [[6.4.24]] अनेन नकारलोपे कृते 'प्रति + अच्' इति प्रातिपदिकं सिद्ध्यति । अस्मात् प्रातिपदिकात् तृतीयैकवचनस्य 'टा' प्रत्यये परे 'प्रति + अच् + टा' इत्यत्र <<यचि भम्>> [[1.4.18]] इत्यनेन अङ्गस्य भसंज्ञां कृत्वा <<अचः>> [[6.4.138]] इत्यनेन चकारात् पूर्वस्य अकारस्य लोपः विधीयते । ततः 'प्रति + च् + टा' अस्याम् स्थितौ चकारात् पूर्वः यः अण्-वर्णः (इकारः) तस्य वर्तमानसूत्रेण दीर्घादेशः भवति । अतः 'प्रतीचा' इति रूपम् सिद्ध्यति ।\nज्ञातव्यम् - अस्मिन् सूत्रे अण्-प्रत्याहारः पूर्वणकारेण गृह्यते । इत्युक्ते, अकार-इकार-उकाराणम् एव अस्मिन् प्रत्याहारे समावेशः भवति ।" }, "63139": { "sa": "", "sd": "" }, "64001": { "sa": "अस्मात् सूत्रात् आरभ्य सप्तमाध्यायस्य अन्तपर्यन्तम् सर्वेषु सूत्रेषु 'अङ्गस्य' इति अध्याहारः कर्तव्यः । ", "sd": "व्याकरणशास्त्र प्रयुक्तासु भिन्नासु संज्ञासु अन्यतमा अस्ति 'अङ्गम्' इति संज्ञा । <<यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्>> [[1.4.13]] अनेन सूत्रेण इयं संज्ञा दीयते ।\nप्रक्रियायाम् अस्यैव अङ्गस्य यानि भिन्नानि परिवर्तनानि सम्भवन्ति, तेषाम् सर्वेषाम् सङ्कलनम् अस्मिन् अधिकारे कृतम् अस्ति ।\nउदाहरणानि -\n1) <<हलः>> [[6.4.2]] इत्यनेन उक्तः दीर्घादेशः अङ्गस्य दीर्घादेशः अस्ति ।\n2) <<ये च>> [[6.4.109]] इत्यनेन यकारादिप्रत्यये परे अङ्गस्य उकारस्य लोपः भवति ।\n3) <<नपुंसकस्य झलचः>> [[7.1.72]] इत्यनेन नपुंसकस्य अङ्गस्य नुमागमः विधीयते ।\n4) <<णौ चङ्युपधाया ह्रस्वः>> [[7.4.1]] इत्यनेन अङ्गस्य ह्रस्वादेशः भवति ।\nआदयः ।\nअङ्गात् परस्य प्रत्ययस्य कार्याणि अपि अस्मिन्नेव अधिकारे विद्यन्ते, अत्र अत्र बहुषु स्थलेषु (आवश्यकं चेत्) 'अङ्गस्य' इति षष्ठ्यन्तम् पदम् 'अङ्गात्' इति पञ्चम्या अपि विपरिणम्यते । यथा, <<युवोरनाकौ>> [[7.1.1]] इत्यनेन उक्तौ अन-अक-आदेशौ 'अङ्गात्' परः विद्यमानस्य प्रत्ययस्य भवतः, न हि अङ्गस्य । अतः तत्र 'अङ्गस्य' इति पदम् पञ्चम्या विपरिणम्यते । " }, "64002": { "sa": "अङ्गस्य अन्ते विद्यमानः सम्प्रसारणसंज्ञकः वर्णः तस्मिन्नेव अङ्गे हल्-वर्णात् परः विद्यते चेत् तस्य वर्णस्य दीर्घादेशः भवति । ", "sd": "'यण्' वर्णस्य स्थाने 'इक्' वर्णस्य विधानम्, तथा च अनेन विधानेन प्राप्तः इक्-वर्णः, उभयोः व्याकरणशास्त्रे <<इग्यणः सम्प्रसारणम्>> [[1.1.45]] इति सूत्रेण 'सम्प्रसारणम्' इति संज्ञा भवति । <<ष्यङः सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे>> [[6.1.13]] इत्यस्मात् आरभ्य <<विभाषा परेः>> [[6.1.44]] इत्येतेषु सूत्रेषु अष्टाध्याय्यां सम्प्रसारणकार्यम् प्रोक्तम् अस्ति । एतादृशः सम्प्रसारणकार्येण सिद्धः (सम्प्रसारणसंज्ञकः) वर्णः यदि अङ्गस्य अन्ते, तस्यैव अङ्गस्य हल्-वर्णात् परः विद्यते, तर्हि वर्तमानसूत्रेण तादृशस्य अङ्गस्य (इत्युक्ते, अङ्गान्ते विद्यमानस्य सम्प्रसारणसंज्ञकवर्णस्य) दीर्घादेशः भवति । कानिचन उदाहरणानि एतानि -\n1) <<वचिस्वपियजादीनां किति>> [[6.1.15]] इत्यनेन सूत्रेण 'ह्वे (स्पर्धायां शब्दे च, भ्वादिः <{1.1163}> अस्य धातोः अङ्गस्य कित्-प्रत्यये परे सम्प्रसारणे कृते वर्तमानसूत्रेण दीर्घादेशः अपि भवति -\n\nह्वे (स्पर्धायां शब्दे च)\n--> ह्वा [<<आदेच उपदेशेऽशिति>> [[6.1.45]] इति आकारादेशः]\n--> ह्वा + क्त [<<निष्ठा>> [[3.2.102]] इति क्तप्रत्ययः]\n--> ह् उ आ + त [कित्-प्रत्यये परे वकारस्य <<वचिस्वपियजादीनां किति>> [[6.1.15]] इति सम्प्रसारणम् । वकारस्य सम्प्रसारणे <<इग्यणः सम्प्रसारणम्>> [[1.1.45]] इति उकारः]\n--> ह् उ + त [<<सम्प्रसारणाच्च>> [[6.1.108]] इति पूर्वरूप-एकादेशः]\n--> हूत [<<हलः>> [[6.4.2]] इति हल्-वर्णात् परस्य अङ्गान्ते विद्यमानस्य उकारस्य दीर्घः]\n\n2) <<ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च>> [[6.1.16]] इत्यनेन सूत्रेण 'ज्या (वयोहानौ, क्र्यादिः. <{9.34}> अस्य धातोः अङ्गस्य कित्/ङित्-प्रत्यये परे सम्प्रसारणे कृते वर्तमानसूत्रेण दीर्घादेशः अपि भवति -\n\nज्या (वयोहानौ, क्र्यादिः)\n--> ज्या + क्त्वा [<<समानकर्तृकयोः पूर्वकाले>> [[3.4.21]] इति क्त्वाप्रत्ययः]\n--> ज् इ आ + त्वा [कित्-प्रत्यये परे यकारस्य <<ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च>> [[6.1.16]] इति सम्प्रसारणम् । यकारस्य सम्प्रसारणे <<इग्यणः सम्प्रसारणम्>> [[1.1.45]] इति इकारः]\n--> ज् इ + त्वा [<<सम्प्रसारणाच्च>> [[6.1.108]] इति पूर्वरूप-एकादेशः]\n--> ज् ई + त्वा [<<हलः>> [[6.4.2]] इति हल्-वर्णात् परस्य अङ्गान्ते विद्यमानस्य इकारस्य दीर्घः]\n--> जीत्वा\n\n3) ज्या-धातोः ङित्-प्रत्यये परे सम्प्रसारणे कृते अपि इदं सूत्रम् अवश्यमेव प्रवर्तते -\n\nज्या (वयोहानौ, क्र्यादिः)\n--> ज्या + लिङ् [<<आशिषि लिङ्लोटौ>> [[3.3.173]] इति आशिषि लिङ्]\n--> ज्या + तिप् [<<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]\n--> ज्या यासुट् + ति <<यासुट् परस्मैपदेषूदात्तो ङिच्च>> [[3.4.103]] इति यासुट्-आगमः, सः च ङित् भवति । ]\n--> ज्या + यास् + ति [इत्संज्ञालोपः]\n--> ज्या + यास् + सुट् + ति [<<सुट् तिथोः>> [[3.4.107]] इति सुट्-आगमः]\n--> ज्या + यास् + स् + ति [इत्संंज्ञालोपः]\n--> ज्या + यास् + स् + त् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n--> ज् इ आ + यास् + स् + त् [ङित्-प्रत्यये परे यकारस्य <<ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च>> [[6.1.16]] इति सम्प्रसारणम् । यकारस्य सम्प्रसारणे <<इग्यणः सम्प्रसारणम्>> [[1.1.45]] इति इकारः]\n--> ज् इ + यास् + स् + त् [<<सम्प्रसारणाच्च>> [[6.1.108]] इति पूर्वरूप-एकादेशः]\n--> ज् ई + यास् + स् + त् [<<हलः>> [[6.4.2]] इति हल्-वर्णात् परस्य अङ्गान्ते विद्यमानस्य इकारस्य दीर्घः]\n--> जीयात् [<<स्कोः संयोगाद्योरन्ते च>> [[8.2.29]] इति उभयोः सकारयोः लोपः]\n\n4. प्र-उपसर्गपूर्वकस्य स्यै-धातोः निष्ठाप्रत्यये परे सम्प्रसारणे कृते अनेन सूत्रेण दीर्घादेशः भवति -\n\nष्ट्यै (शब्दसङ्घातयोः, भ्वादिः, <{1.1059}>)\n--> स्त्यै [<<धात्वादेः षः सः>> [[6.1.64]], निमित्तापाये नैमित्तिकस्याप्यपायः इति टकारस्य तकारः]\n--> स्त्या [<<आदेच उपदेशेऽशिति>> [[6.1.45]] इति आकारादेशः]\n--> प्र + स्त्या + क्त [<<निष्ठा>> [[3.2.102]] इति क्तप्रत्ययः]\n--> प्र + स्त् इ आ + त [<<स्त्यः प्रपूर्वस्य>> [[6.1.23]] इति सम्प्रसारणम् । यकारस्य सम्प्रसारणे <<इग्यणः सम्प्रसारणम्>> [[1.1.45]] इति इकारः]\n--> प्र + स्त् इ + त [<<सम्प्रसारणाच्च>> [[6.1.108]] इति पूर्वरूप-एकादेशः]\n--> प्र + स्त् ई + त [<<हलः>> [[6.4.2]] इति दीर्घः]\n--> प्रस्तीत\n\nदलकृत्यम्\n1. यदि हल्-वर्णः नास्ति तर्हि अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, वेञ् + क्त इत्यत्र -\n\nवेञ् (तन्तुसन्ताने, भ्वादिः, <{1.1161}>)\n--> वा [<<आदेच उपदेशेऽशिति>> [[6.1.45]] इति आकारादेशः]\n--> वा + क्त [<<निष्ठा>> [[3.2.102]] इति क्तप्रत्ययः]\n--> उ आ + त [<<वचिस्वपियजादीनां किति>> [[6.1.15]] इति सम्प्रसारणम्]\n--> उत [<<सम्प्रसारणाच्च>> [[6.1.108]] इति पूर्वरूपैकादेशः । अत्र उवर्णात् पूर्वः हल्-वर्णः नास्ति, अतः अत्र दीर्घः न भवति ।\n\n2. यदि हल्-वर्णः अस्ति परन्तु अङ्गस्य अवयवः नास्ति (पृथग् रूपेण विद्यते) तर्हि अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, निर्+ वेञ् + क्त इत्यत्र -\n\nवेञ् (तन्तुसन्ताने, भ्वादिः, <{1.1161}>)\n--> वा [<<आदेच उपदेशेऽशिति>> [[6.1.45]] इति आकारादेशः]\n--> निर् + वा + क्त [<<निष्ठा>> [[3.2.102]] इति क्तप्रत्ययः]\n--> निर् + उ आ + त [<<वचिस्वपियजादीनां किति>> [[6.1.15]] इति सम्प्रसारणम्]\n--> निर् + उ + त [<<सम्प्रसारणाच्च>> [[6.1.108]] इति पूर्वरूपैकादेशः । अत्र उवर्णात् पूर्वः विद्यमानः हल्-वर्णः तस्मिन्नेव अङ्गे नास्ति (<<यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्>> [[1.4.13]] इत्यनेन उपसर्गः अङ्गावयवः न), अतः अत्र दीर्घः न भवति ।\n--> निरुत\n\n3. यदि अङ्गान्ते विद्यमानः वर्णः सम्प्रसारणसंज्ञकः नास्ति, तर्हि अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, 'जि + त --> जित' अत्र 'जि (जये, भ्वादिः)' इति धातौ अङ्गान्ते विद्यमानः इकारः औपदेशिक-अवस्थातः एव विद्यते, सम्प्रसारणनिर्मितः नास्ति । अतः अत्र वर्तमानसूत्रस्य प्रसक्तिः नास्ति ।\n4. यदि सम्प्रसारणसंज्ञकः वर्णः अङ्गस्य अन्ते न विद्यते, तर्हि अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, 'व्यध् + क्त' इत्यत्र यकारस्य सम्प्रसारणे पूर्वरूपैकादेशे कृते 'विध् + त' इत्यत्र इकारः अङ्गस्य अन्ते नास्ति अतः तस्य दीर्घः अपि न भवति । अन्तिमरूपे 'विद्ध' इति ह्रस्वः इकारः एव श्रूयते ।\nसूत्ररचनाविशेषाः\nअत्र सम्पूर्णम् सूत्रम् - अङ्गस्य हलः सम्प्रसारणस्य अङ्गस्य दीर्घः - इति स्वीक्रियते । अत्र 'अङ्गस्य' इति शब्दः सूत्रे द्विवारं प्रयुज्यते इति विशेषः । आदौ, अत्र 'अङ्गस्य हलः' इत्यत्र अवयवषष्ठीरूपेण 'अङ्गस्य' इति शब्दं स्वीकृत्य, तथा च <<तस्मादित्युत्तरस्य>> [[1.1.67]] इत्यनेन पूर्वनिमित्ताश्रयणेन 'अङ्गस्य अवयवः यः हल् वर्णः, तस्मात् परस्य' इति अर्थः सिद्ध्यति । अग्रे, द्वितीयः 'अङ्गस्य' इति शब्दः 'सम्प्रसारणस्य अङ्गस्य' इत्यत्र अन्वेति । अत्र <<येन विधिस्तदन्तस्य>> [[1.1.72]] इत्यनया परिभाषया 'सम्प्रसारणान्तस्य अङ्गस्य' इति तदन्तविधिः स्वीक्रियते । अन्ते, 'अङ्गस्य दीर्घः' इत्यत्र <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यनेन अङ्गान्ते विद्यमानस्य वर्णस्य दीर्घः भवेत् - इति अर्थः स्पष्टी भवति । अनेन प्रकारेण अत्र सम्पूर्णसूत्रस्य अर्थः - 'अङ्गस्य हल्-वर्णात् परस्य तस्यैव अङ्गस्य अन्ते विद्यमानस्य सम्प्रसारणसंज्ञकवर्णस्य दीर्घः भवेत्' इति सिद्ध्यति ।\nभाष्यविस्तरः\nयद्यपि अस्मिन् सूत्रे निर्दिष्टः सम्प्रसारणसंज्ञकः वर्णः 'इ, उ, ऋ, ऌ' एतेषु कश्चन भवितुम् अर्हति, तथापि अस्य सूत्रस्य प्रसक्तिः केवलं 'अण्' प्रत्याहारे विद्यमानानां वर्णानां विषये (इत्युक्ते, इवर्णस्य उवर्णस्य च विषये) विद्यते इति अत्र भाष्ये स्पष्टी क्रियते । यथा, 'तृतीय' इत्यस्य पूरणप्रत्ययान्तशब्दस्य सिद्धौ आदौ 'त्रि' इति शब्दात् <<त्रेः सम्प्रसारणं च>> [[5.2.55]] इत्यनेन सूत्रेण 'तीय' प्रत्ययः भवति, तथा च अनेनैव सूत्रेण 'त्रि' शब्दस्य सम्प्रसारणं कृत्वा 'तृ' इति सिद्ध्यति । अत्र सम्प्रसारणेन निर्मितः ऋकारः हल्-वर्णात् परः अस्ति, अतः <<हलः>> [[6.4.2]] इत्यनेन सूत्रेण तस्यापि दीर्घादेशस्य प्रसक्तिः विद्यते । परन्तु 'ऋ' वर्णः 'अण्' प्रत्याहारे न गृह्यते, अतः तस्य विषये इदं सूत्रं नैव प्रयोक्तव्यम्, इति अत्र भाष्यस्य आशयः । अस्य पक्षस्य पुष्ट्यर्थं <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] इत्यस्मात् सूत्रात् 'अण्' इत्यस्य अनुवृत्तिः वर्तमानसूत्रे स्वीक्रियते । " }, "64003": { "sa": "षष्ठीबहुवचनस्य नाम्-प्रत्यये परे अङ्गस्य दीर्घः भवति । ", "sd": "षष्ठीबहुवचनस्य आम्-प्रत्ययस्य यत्र नुडागमः भवति, तत्र तस्य 'नाम्' इति परिवर्तनं भवति । अस्य 'नाम्' प्रत्ययस्य उपस्थितौ अङ्गस्य अन्तिमस्वरस्य दीर्घः भवति । यथा - बाल + नाम् → बालानाम् । मुनि + नाम् → मुनीनाम् । पितृ + नाम् → पितॄणाम् । आदयः ।\nज्ञातव्यम् - <<अचश्च>> [[1.2.28]] परिभाषायाः साहाय्येन 'अच्-वर्णस्य' दीर्घः भवतीति ज्ञायते । <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यनेन अन्तिम-वर्णस्य दीर्घादेशः भवतीति स्पष्टीभवति ।\n" }, "64004": { "sa": "नाम्-प्रत्यये परे तिसृ-शब्दस्य चतसृ-शब्दस्य च दीर्घः न भवति ।", "sd": "'तिसृ' शब्दात् परस्य षष्ठीबहुवचनस्य आम्-प्रत्ययस्य <<ह्रस्वनद्यापो नुट्>> [[7.1.54]] इत्यनेन नुडागमः भवति । 'तिसृ + नाम्' इति स्थिते <<नामि>> [[6.4.3]] इत्यनेन अङ्गस्य दीर्घादेशः विधीयते । परन्तु वर्तमानसूत्रेण अयं दीर्घादेशः निषिध्यते । अतः 'तिसृणाम्' इत्येव रूपं सिद्ध्यति , न हि 'तिसॄणाम्' इति । तथैव चतसृ + नाम् → चतसृणाम् इत्यत्रापि अङ्गस्य दीर्घादेशः न भवति ।\n" }, "64005": { "sa": "वेदेषु - षष्ठीबहुवचनस्य नाम्-प्रत्यये परे अङ्गस्य दीर्घः कृतः अपि दृश्यते, न कृतः अपि दृश्यते । ", "sd": "षष्ठीबहुवचनस्य आम्-प्रत्ययस्य यत्र नुडागमः भवति, तत्र तस्य 'नाम्' इति परिवर्तनं भवति । अस्य 'नाम्' प्रत्ययस्य उपस्थितौ <<नामि>> [[6.4.3]] इत्यनेन सामान्यरूपेण अङ्गस्य अन्तिमस्वरस्य दीर्घः भवति । परन्तु वेदेषु इमम् दीर्घादेशं विना अपि रूपाणि दृश्यन्ते । यथा - 'धातॄणाम्' इत्यस्य स्थाने तैत्तिरीय-उपनिषदे 'धातृणाम्' इति ह्रस्वप्रयोगः क्रियते ।\nज्ञातव्यम् - वस्तुतः अस्मिन् सूत्रे 'तिसृचतसृ' इत्यस्य अनुवृत्तिः नास्ति । परन्तु काशिकाकारेण इमामनुवृत्तिम् स्वीकृत्य अस्य सूत्रस्य अर्थः - 'छन्दसि विषये तिसृ-चतस्रोः नामि परतः उभयथा दृश्यते, दीर्घः च, अदीर्घः च' इति दत्तः अस्ति । अतः काशिकाकारस्य मतेन 'उभयथा' रूपाणि केवलं तिसृ-चतसृ-शब्दयोः एव भवन्ति, अन्येषां शब्दानां विषये तु वेदेषु अपि दीर्घादेशः एव दृश्यते ।\n" }, "64006": { "sa": "षष्ठीबहुवचनस्य नाम्-प्रत्यये परे नृ-शब्दस्य दीर्घादेशः विकल्पेन भवति ।", "sd": "<<नामि>> [[6.4.3]] इत्यनेन षष्ठीबहुवचनस्य नाम्-प्रत्यये परे अङ्गस्य अन्तिमस्वरस्य दीर्घः भवति । अयं दीर्घादेशः नृ-शब्दस्य विषये विकल्पेन भवति । अतः नृ-शब्दस्य षष्ठीबहुवचनस्य द्वे रूपे भवतः - नृणाम्, नॄणाम् ।\nविशेषः - 'उभयथा' अस्य अर्थः अत्र 'वा / विकल्पेन' इति स्वीक्रियते । 'द्वाभ्याम् प्रकाराभ्याम्' इति अर्थग्रहणं क्रियते चेत् 'दीर्घः द्वाभ्यां प्रकाराभ्यां भवति' इति अनिष्टं वाक्यं सिद्ध्येत् । " }, "64007": { "sa": "षष्ठीबहुवचनस्य नाम्-प्रत्यये परे नकारान्तशब्दस्य उपधायाः दीर्घः भवति । ", "sd": "नकारान्तशब्दात् परस्य षष्ठीबहुवचनस्य आम्-प्रत्ययस्य सामान्यरूपेण नुडागमः न भवति । परन्तु ये नकारान्तशब्दाः 'षट्-संज्ञकाः' सन्ति, तेषां विषये <<षट्चतुर्भ्यश्च>> [[7.1.55]] इत्यनेन आम्-प्रत्ययस्य नुडागमः विधीयते । अस्यामवस्थायाम् तस्य नकारान्त-अङ्गस्य उपधावर्णस्य दीर्घादेशः भवति ।\nयथा - पञ्चन् शब्दस्य <<ष्णान्ता षट्>> [[1.1.24]] इत्यनेन षट्-संज्ञा भवति । अतः 'पञ्चन् + आम्' इत्यत्र <<षट्चतुर्भ्यश्च>> [[7.1.55]] इत्यनेन आम्-प्रत्ययस्य नुडागमः विधीयते । ततः 'पञ्चन् + नाम्' इति स्थिते वर्तमानसूत्रेण पञ्चन्-शब्दस्य यः उपधावर्णः अकारः तस्य दीर्घादेशः भवति । अग्रे नकारस्य <<नलोपः प्रातिपदिकान्तस्य>> [[8.4.7]] इत्यनेन लोपे कृते 'पञ्चानाम्' इति रूपं सिद्ध्यति ।\nज्ञातव्यम् - यत्र नकारान्तशब्दस्य षट्-संज्ञा न भवति तत्र नकारान्तशब्दात् परस्य आम्-प्रत्ययस्य नुडागमः अपि न भवति, अतः तत्र अयं दीर्घादेशः अपि न दृश्यते । यथा - शशिन् + आम् → शशिनाम् ।\n" }, "64008": { "sa": "असम्बुद्धिवाचके सर्वनामस्थाने परे नकारान्तस्य अङ्गस्य उपधायाः दीर्घः भवति ।", "sd": "पुंलिङ्गशब्दात् स्त्रीलिङ्गशब्दात् वा परस्य सुँ / औ / जस् / अम् / औट् एतेषां पञ्च प्रत्ययानाम् <<सुडनपुंसकस्य>> [[1.1.43]] इत्यनेन 'सर्वनामस्थान' संज्ञा भवति । तथैव, नपुंसकलिङ्गशब्दात् परस्य जस् / शस् एतयोः द्वयोः प्रत्यययोः <<शि सर्वनामस्थानम्>> [[1.1.42]] इत्यनेन सर्वनामस्थानसंज्ञा भवति । सर्वनामस्थानसंज्ञके प्रत्यये परे नकारान्तस्य अङ्गस्य उपधास्वरस्य अनेन सूत्रेण दीर्घः विधीयते । परन्तु सम्बोधनैकवचनस्य सुँ-प्रत्यये परे अयं दीर्घादेशः न भवति ।\nयथा - राजन् + औ इत्यत्र 'औ' प्रत्ययस्य सर्वनामसंज्ञायां प्राप्तायाम् नकारात् पूर्वः यः अकारः, तस्य दीर्घादेशः भवति, अतः राजानौ इति रूपं सिद्ध्यति । परन्तु राजन् + सुँ [सम्बोधनैकवचनम्] इत्यत्र अयं दीर्घादेशः न भवति, अतः 'राजन्' इत्येव रूपं जायते ।\nनपुंसकलिङ्गशब्दस्य विषये अपि अयं दीर्घादेशः जस्-शस्-प्रत्यययोः परयोः दृश्यते । यथा - नामन् + जस् / शस् → नामानि ।\nज्ञातव्यम् - 'फल + जस्/शस्' इत्यत्रापि अस्य सूत्रस्य प्रसक्तिः अस्तीति स्मर्तव्यम् । अस्य प्रक्रिया एतादृशी अस्ति -\nफल + जस् / शस्\n→ फल + शि [<<जश्शसोः शि>> [[7.1.20]] इति शि-आदेशः । <<शि सर्वनामस्थानम्>> [[1.1.42]] इति सर्वनामस्थानसंज्ञा ।]\n→ फलन् + इ [शकारस्य इत्संज्ञा, लोपः । <<नपुंसकस्य झलचः>> [[7.1.72]] इति अङ्गस्य नुमागमः]\n→ फलानि [<<सर्वनामस्थाने चासम्बुद्धौ>> [[6.4.8]] इति अङ्गस्य उपधावर्णस्य दीर्घः ।\nअनेनैव प्रकारेण वारीणि, मधूनि, धातॄणि इत्यत्रापि उपधावर्णस्य दीर्घः अनेन सूत्रेण भवति ।\n" }, "64009": { "sa": "वेदेषु - नकारान्तशब्दस्य उपधाभूतः यः अच्-वर्णः तस्मात् पूर्वम् यदि षकारः अस्ति, तर्हि तस्य अच्-वर्णस्य असम्बुद्धौ सर्वनामस्थाने विकल्पेन दीर्घः भवति ।", "sd": "'निगम' इत्यु्क्ते वेद । अतः एतत् सूत्रम् वेदविषयकं नियमं वदति । सामान्यरूपेण तु <<सर्वनामस्थाने चासम्बुद्धौ>> [[6.4.8]] अनेन सूत्रेण असम्बुद्धिवाचके सर्वनामस्थाने परे नकारान्तस्य अङ्गस्य उपधायाः दीर्घः विधीयते । परन्तु यस्मिन् नकारान्तशब्दे उपधाभूतात् स्वरात् पूर्वम् षकारः अस्ति, तस्य नकारान्तशब्दस्य उपधावर्णस्य असम्बुद्धिवाचके सर्वनामस्थाने परे वेदेषु दीर्घः न कृतः अपि दृश्यते । तस्य समर्थनार्थमनेन सूत्रेण दीर्घादेशः विकल्प्यते ।\nयथा - 'स तक्षणं तिष्ठन्तमब्रवीत्' इति प्रयोगः वेदेषु दृश्यते । अत्र मूलशब्दः अस्ति 'तक्षन्' । अयं नकारान्तशब्दः अस्ति, अतः <<सर्वनामस्थाने चासम्बुद्धौ>> [[6.4.8]] इत्यनेन तस्य द्वितीया-द्विवचनस्य रूपम् 'तक्षाणम्' इति भवति । परन्तु अस्मिन् शब्दे उपधावर्णः यः अकारः, तस्मात् पूर्वम् षकारः अस्ति (तक्षन् = तक् ष् अ न) । अतः वर्तमानसूत्रेण उपधावर्णस्य दीर्घादेशः वेदानाम् विषये विकल्प्यते, येन 'तक्षणम्' अस्य रूपस्य साधुत्वम् सिद्ध्यति ।\nज्ञातव्यम् - लौकिकप्रयोगे तु नित्यम् दीर्घः करणीयः - तक्षा, तक्षाणौ, तक्षाणः । " }, "64010": { "sa": "यस्मिन् शब्दे अन्ते नकार-सकार-संयोगः अस्ति, तस्य शब्दस्य, तथा महत्-शब्दस्य नकारस्य उपधास्वरस्य असम्बुद्धौ सर्वनामस्थानपरे दीर्घः भवति । ", "sd": "असम्बुद्धिवाचके सर्वनामस्थानसंज्ञके प्रत्यये परे -\n(1) महत्-शब्दे विद्यमानस्य नकारस्य उपधायाः दीर्घः भवति ।\n(2) 'न्स्' अयं संयोगः यस्य अन्ते दृश्यते, तस्य शब्दस्य 'संयोगे विद्यमानस्य नकारस्य' उपधायाः दीर्घः भवति ।\nयथा -\n(1) महत्-शब्दस्य प्रथमाद्विवचनस्य प्रक्रिया -\nमहत् + औ [प्रथमाद्विवचनस्य प्रत्ययः]\n→ महन् त् + औ [<<उगिदचां सर्वनामस्थानेऽधातोः>> [[7.1.70]] इति नुमागमः]\n→ महान् त् + औ [<<सान्तमहतः संयोगस्य>> [[6.4.10]] इत्यनेन नकारस्य उपधावर्णस्य दीर्घादेशः]\n→ महान्तौ\n(2) पयस्-शब्दस्य प्रथमाबहुवचनस्य प्रक्रिया -\nपयस् + जस् [प्रथमाबहुवचनस्य प्रत्ययः]\n→ पयस् + शि [<<जश्शसोः शि>> [[7.1.20]] इति शि-आदेशः । <<शि सर्वनामस्थानम्>> [[1.1.42]] इति सर्वनामस्थानसंज्ञा ।]\n→ पयन्स् इ [शकारस्य इत्संज्ञा, लोपः । <<नपुंसकस्य झलचः>> [[7.1.72]] इति अङ्गस्य नुमागमः]\n→ पयान्स् इ [<<सान्तमहतः संयोगस्य>> [[6.4.10]] इत्यनेन नकारस्य उपधावर्णस्य दीर्घादेशः]\n→ पयांसि [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति नकारस्य अनुस्वारः]\n(3) ईयसुँन्-प्रत्ययान्तः 'गरीयस्' शब्दः -\nगरीयस् + सुँ\n→ गरीय न् स् + स् [<<उगिदचां सर्वनामस्थानेऽधातोः>> [[7.1.70]] इति नुमागमः ]\n→ गरीयान्स् + स् [<<सान्तमहतः संयोगस्य>> [[6.4.10]] इति उपधादीर्घः ।]\n→ गरीयान्स् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति सुँ-प्रत्ययस्य लोपः]\n→ गरीयान् [<<संयोगान्तस्य लोपः>> [[8.2.23]] इति सकारलोपः]\nज्ञातव्यम् -\n1. सम्बोधनैकवचनस्य सुँ-प्रत्यये परे अयं दीर्घादेशः न भवति । यथा - हे महन् ।\n2. अनेन सूत्रेण निर्दिष्टः उपधादीर्घः धातोः विषये न भवति । यथा, 'सुहिन्स्' इदम् प्रातिपदिकम् 'सु + हिन्स् + क्विप्' एवम् सिद्ध्यति । <ऽक्विबन्ताः विजन्ताश्च प्रातिपदिकत्वं न जहति, धातुत्वमपि न मुञ्चन्तिऽ> अनेन सिद्धान्तेन 'सुहिंस्' इत्यत्र अन्ते विद्यमानः 'न्स्'अयं धातोः अवयवः अस्ति, अतः अस्य शब्दस्य विषये अयमुपधादीर्घः न विधीयते । यथा - सुहिन्स् + सुँ → सुहिन् । अत्र संयोगान्तलोपं कृत्वा रूपं सिद्ध्यति ।\n" }, "64011": { "sa": "तृन्-प्रत्ययान्तशब्दाः, तृच्-प्रत्ययान्तशब्दाः, तथा अप्, स्वसृ, नप्तृ, नेष्टृ, त्वष्टृ, क्षत्तृ, होतृ, पोतृ, तथा प्रशातृ - एतेषामङ्गस्य उपधायाः असम्बुद्धिवाचके सर्वनामस्थानपरे दीर्घः भवति । ", "sd": "अप् (= जलम्), तृच् (= तृच्-प्रत्ययान्तशब्दः), तृन् (= तृन्-प्रत्ययान्तशब्दः), स्वसृ ( = भगिनी), नप्तृ ( = पौत्रः / दौहित्रः), नेष्टृ ( = ऋत्विग्विशेषः), त्वष्टृ (= प्रजापतिः ), क्षत्तृ ( = सारथिः), होतृ (= ऋत्विग्), पोतृ (= ऋत्विग्विशेषः), प्रशास्तृ ( = राजा) एतेषां शब्दानां सर्वनामस्थानवाचके प्रत्यये परे अङ्गस्य उपधायाः दीर्घः भवति । परन्तु सम्बोधनैकवचनस्य सुँ-प्रत्यये परे अयं दीर्घादेशः न भवति ।\nकानिचन उदाहरणानि पश्यामः -\n1) तृच्-प्रत्ययान्तशब्दः यथा 'कर्तृ' - अस्य प्रथमा-द्विवचनस्य रूपम् -\nकर्तृ + औ [प्रथमा-द्विवचनस्य औ-प्रत्ययः]\n→ कर्तर् + औ [<<ऋतो ङिसर्वनामस्थानयोः>> [[7.3.110]] इत्यनेन सर्वनामस्थाने परे ऋकारान्तस्य अङ्गस्य गुणः । उरण् रपरः इत्यनेन सः च रपरः]\n→ कर्तार् + औ [<<अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्>> [[6.4.11]] इत्यनेन उपधादीर्घः]\n→ कर्तारौ ।\n2) त्वष्टृ + जस् [प्रथमाबहुवचनस्य प्रत्ययः] इति स्थिते -\n→ त्वष्टर् + अस् <<ऋतो ङिसर्वनामस्थानयोः>> [[7.3.110]] इत्यनेन ऋकारस्य गुणः रपरः अकारः]\n→ त्वष्टारः [<<अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्>> [[6.4.11]] इत्यनेन उपधादीर्घः]\n3) स्वसृ + अम् [द्वितीयैकवचनस्य प्रत्ययः] इति स्थिते -\n→ स्वसर् + अम् <<ऋतो ङिसर्वनामस्थानयोः>> [[7.3.110]] इत्यनेन ऋकारस्य गुणः रपरः अकारः]\n→ स्वसारम् [<<अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्>> [[6.4.11]] इत्यनेन उपधादीर्घः]\n4) अप्-शब्दस्य प्रथमाबहुचनस्य रूपमप् + जस् → आपः इति भवति । इत्यत्रापि उपधादीर्घः <<अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्>> [[6.4.11]] अनेन सूत्रेण विधीयते ।\nसम्बोधनैकवचनस्य सुँ-प्रत्यये परे अयं दीर्घादेशः न भवति । यथा - दातृ + सुँ [सम्बुद्धिः] = दातः ।\nज्ञातव्यम् - भाष्यकारेण उद्गातृ (= यज्ञेषु यः सामगायनं करोति सः) अयं शब्दः अपि अस्यामावल्याम् स्वीकृतः अस्ति । अतः अस्य शब्दस्य अपि सर्वनामस्थाने परे उपधादीर्घः भवति । यथा - उद्गातारौ, उद्गातारः ।\n" }, "64012": { "sa": "इन्नतशब्दाः, हन्-शब्दः, पूषन्-शब्दः, तथा अर्यमन्-शब्दः एतेषां अङ्गस्य केवलं शि-प्रत्यये परे एव उपधादीर्घः भवति, अन्येषु सर्वनामस्थानेषु परेषु न ।", "sd": "हन् (= हन्ति सः), पूषन् (= सूर्यः), अर्यमन् (= सहचरः) एतेषां शब्दानाम्, तथा 'इन्' येषामन्ते अस्ति तादृशानाम् शब्दानाम् <<सर्वनामस्थाने चासम्बुद्धौ>> [[6.4.8]] इत्यनेन सम्बुद्धिं विहाय अन्येषु सर्वेषु सर्वनामस्थानपरेषु अङ्गस्य दीर्घे प्राप्ते वर्तमानसूत्रेण केवलं शि-प्रत्यये परे एव उपधादीर्घः नियम्यते । इत्युक्ते, शि-प्रत्ययं विहाय अन्येषु सर्वनामस्थानप्रत्ययेषु परेषु अङ्गस्य उपधादीर्घः न भवति ।\nयथा - हन्-शब्दस्य प्रथमा-द्विवचनस्य रूपम् 'हनौ' इति भवति, न हि 'हानौ' । तथैव, पूषन् शब्दस्य प्रथमाबहुवचनस्य रूपम् 'पूषणः' इति भवति, न हि पूषाणः । एतेषु रूपेषु 'शि'-प्रत्ययः नास्ति, अतः अत्र सर्वत्र अनेन सूत्रेण उपधादीर्घः निषिध्यते ।\nशि-प्रत्ययस्य उदाहरणद्वयम् इदम् -\n1. 'दण्डिन्' (इन्नन्त-नपुंसकलिङ्गशब्दः) इत्यस्य प्रथमाबहुवचनस्य रूपम् भवति 'दण्डीनि' । अत्र प्रथमाबहुवचनस्य जस्-प्रत्ययस्य <<जश्शसोः शिः>> [[7.1.20]] इत्यनेन शि-आदेशः विधीयते, अतः अत्र अनेन सूत्रेण उपधादीर्घः अपि भवति ।\n2. 'पूषन्' इत्यस्य प्रथमाबहुवचनस्य रूपम् भवति 'पूषाणि' । अत्र प्रथमाबहुवचनस्य जस्-प्रत्ययस्य <<जश्शसोः शिः>> [[7.1.20]] इत्यनेन शि-आदेशः विधीयते, अतः अत्र अनेन सूत्रेण उपधादीर्घः अपि भवति ।\nअत्र एकः विशेषः स्मर्तव्यः । <ऽपदाङ्गाधिकारे तस्य च तदन्तस्य चऽ> अनया परिभाषया अस्मिन् सूत्रे विद्यमानाः 'हन्', 'पूषन्', 'अर्यमन्' एते शब्दाः तदन्तस्य अपि ग्रहणं कुर्वन्ति । अतः 'बहुपूषन्', 'भ्रूणहन्', 'बहुवृत्रहन्', 'बहुभ्रूणहन्', 'बह्वर्यमन्\n - एतेषां विषये अपि अनेन सूत्रेण शि-प्रत्यये परे उपधादीर्घः भवति । यथा - बहुपूषन् + जस् → बहुपूषाणि ।\nज्ञातव्यम् -\n1. अत्र निर्दिष्टः 'हन्' शब्दः प्रातिपदिकमस्ति, धातुः न । 'हन्' धातो' क्विप्' प्रत्ययं कृत्वा 'हन्' इति प्रातिपदिकं जायते ।\n2. <ऽसिद्धे सति आरम्भः नियमार्थःऽ> इति कश्चन सिद्धान्तः अस्ति । यत्र पूर्वसूत्रेणैव सिद्धः विधिः परसूत्रेण पुनः प्रतिपाद्यते, तत्र सः विधिः परसूत्रेण 'नियम्यते' इति ज्ञातव्यम् । यथा - इन्नतशब्दानामङ्गस्य उपधावर्णस्य शि-प्रत्यये परे दीर्घः तु <<सर्वनामस्थाने चासम्बुद्धौ>> [[6.4.8]] इत्यनेनैव विधीयते । वर्तमानसूत्रेण तस्यैव पुनःप्रतिपादनं कृतमस्ति । अतः वर्तमानसूत्रेण 'नियमः' प्रोक्तः अस्ति, इति कथ्यते । इत्युक्ते, इन्नतशब्दानामङ्गस्य उपधावर्णस्य शि-प्रत्यये परे 'एव' दीर्घः भवति, न अन्यत्र, इति अस्य अर्थः ।\n" }, "64013": { "sa": "इन्नतशब्दाः, हन्-शब्दः, पूषन्-शब्दः, तथा अर्यमन्-शब्दः एतेषां अङ्गस्य प्रथमा-एकवचनस्य सर्वनामस्थानसंज्ञके सुँ-प्रत्यये परे अपि उपधादीर्घः भवति । ", "sd": "हन् (= हन्ति सः), पूषन् (= सूर्यः), अर्यमन् (= सहचरः) एतेषां शब्दानाम्, तथा 'इन्' येषामन्ते अस्ति तादृशानाम् शब्दानाम् <<सर्वनामस्थाने चासम्बुद्धौ>> [[6.4.8]] इत्यनेन सम्बुद्धिं विहाय अन्येषु सर्वेषु सर्वनामस्थानपरेषु अङ्गस्य दीर्घे प्राप्ते <<इन्हन्पूषार्यम्णां शौ>> [[6.4.9]] इत्यनेन केवलं शि-प्रत्यये परे एव उपधादीर्घः नियम्यते । वर्तमानसूत्रेण अयमुपधादीर्घः पुंलिङ्ग-स्त्रीलिङ्ग-शब्दानां विषये प्रथमा-एकवचनस्य सुँ-प्रत्यये परे अपि भवति ।\nयथा - शशिन् + सुँ इत्यत्र प्रक्रिया इयमस्ति -\nशशिन् + सुँ [प्रथमैकवचनस्य प्रत्ययः]\n→ शशिन् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इत्यनेन सुँ-प्रत्ययस्य लोपः]\n→ शशीन् [<<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यनेन सुँ-प्रत्ययस्य लोपे अपि तस्य लक्षणम् विधीयते । अतः <<सौ च>> [[6।413]] इत्यनेन अङ्गस्य उपधायाः दीर्घः प्रवर्तते ]\n→ शशी [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इत्यनेन नकारलोपः]\nतथैव हन्-शब्दस्य प्रथमैकवचनम् 'हा' इति भवति , पूषन्-शब्दस्य 'पूषा' इति भवति, तथा अर्यमन्-शब्दस्य 'अर्यमा' इति भवति । सर्वत्र उपधादीर्घः <<सौ च>> [[6.4.13]] इत्यनेन क्रियते ।\nज्ञातव्यम् -\n1. <ऽपदाङ्गाधिकारे तस्य च तदन्तस्य चऽ> अनया परिभाषया अस्य सूत्रस्य प्रसक्तिः तेषां शब्दानां विषये अपि विद्यते येषामन्ते 'हन्', 'पूषन्' उत 'अर्यमन्' एते शब्दाः वर्तन्ते । यथा, 'वृत्रहन्', 'बहुपूषन्', 'बह्वर्यमन्' आदयः । अतः 'वृत्रहन् + सुँ → वृत्रहा' इति रूपं सिद्ध्यति ।\n2. नपुंसकलिङ्गस्य प्रथमैकवचने अस्य सूत्रस्य प्रसक्तिः नास्ति यतः नपुंसकात् परस्य सुँ-प्रत्ययस्य सर्वनामस्थानसंज्ञा एव न भवति । यथा - दण्डिन् इति नकारान्त-नपुंसकलिङशब्दस्य प्रथमैकवचनम् 'दण्डि' इत्येव जायते ।\n3. सम्बोधनैकवचनस्य सुँ-प्रत्यये परे अस्य सूत्रस्य प्रसक्तिर्नास्ति, केवलं प्रथमैकवचनस्य सुँ-प्रत्यये परे एव अस्य प्रसक्तिः अस्ति । यथा - शशिन् + सुँ = शशिन् - इत्यत्र उपधादीर्घः न भवति ।\n" }, "64014": { "sa": "अतु-प्रत्ययान्तशब्दस्य, तथा अस्-यस्य अन्ते अस्ति तादृशस्य शब्दस्य अङ्गस्य उपधायाः प्रथमैकवचनस्य सुँ-प्रत्यये परे दीर्घः भवति । परन्तु यस्य अन्ते धातुः अस्ति तादृशस्य शब्दस्य अयं दीर्घादेशः न भवति । ", "sd": "अतु-प्रत्ययान्तशब्दाः इत्युक्ते वत्-शब्दः /मत् शब्दः येषामन्ते अस्ति ते शब्दाः । यथा - भवत्, धीमत् , गतवत् आदयः । एतेषामङ्गस्य उपधायाः 'प्रथमैकवचनस्य सुँ-प्रत्यये परे' दीर्घादेशः भवति । तथैव 'अस्' येषामन्ते अस्ति - यथा - चन्द्रमस् , सुयशस् - एतेषामपि अङ्गस्य उपधायाः 'प्रथमैकवचनस्य सुँ-प्रत्यये परे' दीर्घादेशः भवति । यथा -\n1) मत्-येषामन्ते ते - धीमत् + सुँ = धीमान् ।\n2) वत्-येषामन्ते ते - भवत् + सुँ = भवान् । गतवत् + सुँ = गतवान् ।\n3) अस्-येषामन्ते ते - चन्द्रमस् + सुँ = चन्द्रमाः ।\nएतेषु सर्वेषु रूपेषु अङ्गस्य उपधावर्णस्य दीर्घादेशः अनेन सूत्रेण भवति ।\nपरन्तु ये मत्/वत्/अस्-अन्ताः धात्वन्तः अपि सन्ति, तेषां विषये अयं दीर्घादेशः न भवति । यथा -\n1) 'पिण्डं ग्रसते सः पिण्डग्रः' । अत्र मूलशब्दः अस्ति 'पिण्डग्रस्' । यद्यपि अस्य अन्ते 'अस्' अस्ति तथापि अयं शब्दः धात्वन्तः अपि अस्ति ('ग्रस्' इति धातुः) अतः अत्र दीर्घादेशः न भवति ।\n2) 'चर्म वस्ते सः चर्मवः' इत्यत्र मूलशब्दः यः 'चर्मवस्' तस्य अस्-अन्तत्वे अपि धात्वन्ते स्थितवति दीर्घादेशः न विधीयते ।\nज्ञातव्यम् - अङ्गस्य उपधावर्णस्य अयं दीर्घादेशः केवलं प्रथमैकवचनस्य सुँ-प्रत्यये परे एव भवति, सम्बुद्धिप्रत्यये परे न । यथा - हे धीमन्, हे भवन्, हे चन्द्रमः, आदयः ।\n" }, "64015": { "sa": "अनुनासिकान्तस्य अङ्गस्य उपधावर्णस्य - (1) क्विप्-प्रत्यये परे (2) झलादि-कित्-प्रत्यये परे (3) झलादि-ङित्-प्रत्यये परे - दीर्घादेशः भवति । ", "sd": "अनुनासिकान्त-अङ्गस्य यः उपधावर्णः, तस्य - (1) क्विप्-प्रत्यये परे, (2) झलादि कित्-प्रत्यये परे, तथा च (3) झलादि ङित्-प्रत्यये परे अनेन सूत्रेण दीर्घादेशः विधीयते । उदाहरणानि एतानि -\nक्विप्-प्रत्यय\nअष्टाध्याय्याम् द्वौ भिन्नौ 'क्विप्-प्रत्ययौ विद्येते । कृत्संज्ञकः 'क्विप्' प्रत्ययः <<क्विप् च>> [[3.2.76]] इति सूत्रेण सर्वेभ्यः धातुभ्यः विधीयते । सनादिसंज्ञकः 'क्विप्' प्रत्ययः इति वार्त्तिकेन सर्वेभ्यः प्रातिपदिकेभ्यः विधीयते । उदाहरणानि एतानि -\n1. शम्-धातोः क्विप्-प्रत्ययान्तरूपम् -\n\nशमुँ (उपशमे, दिवादिः, <{4.98}>)\n--> शम् + क्विप्\n--> शम् + व् [ककारस्य <<लशक्वतद्धिते>> [[1.3.8]] इति इत्संज्ञा, पकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा । द्वयोः <<तस्य लोपः>> [[1.3.9]] इति लोपः । इकारः उच्चारणार्थः, सः अपि लुप्यते ।]\n--> शाम् + व् [<<अनुनासिकस्य क्विझलोः क्ङिति>> इति उपधादीर्घः]\n--> शाम् [वकारस्य <<वेरपृक्तस्य>> [[6.1.67]] इति लोपः भवति]\n\nएवमेव -\nअ) प्र + तम् (काङ्क्षायाम्, <{4.99}>) + क्विप् --> प्रतान्\nआ) दम् (उपशमे, <{4.100}>) + क्विप् --> दाम्\nइ) घुण् (भ्रमणे, <{1.505}>) + क्विप् --> घूण् ।\nइत्यादीनि रूपाणि अपि सिद्ध्यन्ति ।\n2. इत्यनेन वार्त्तिकेन 'तत् इव आचरति' इत्यस्मिन् अर्थे सर्वेभ्यः प्रातिपदिकेभ्यः क्विप्-प्रत्ययः भवति । यथा - 'राजा इव आचरति' इत्यस्मिन् अर्थे राजन् शब्दस्य क्विप्-प्रत्ययः विधीयते -\n\nराजन् + क्विप्\n→ राजन् + व् [ककारस्य <<लशक्वतद्धिते>> [[1.3.8]] इति इत्संज्ञा, पकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा । द्वयोः <<तस्य लोपः>> [[1.3.9]] इति लोपः । इकारः उच्चारणार्थः, सः अपि लुप्यते ।]\n→ राजान् + व् [<<अनुनासिकस्य क्विझलोः क्ङिति>> [[6.1.14]] इत्यनेन अनुनासिकस्य अङ्गस्य उपधावर्णस्य क्विप्-प्रत्यये परे दीर्घादेशः भवति ।]\n--> राजान् [<<वेरपृक्तस्य>> [[6.1.67]] इति अपृक्तवकारस्य लोपः । <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञा ।]\n\nवाक्ये प्रयोगः - देवदत्तः राजानति । देवदत्तः राजा इव आचरति इत्यर्थः ।\nएवमेव -\nअ) पन्था इव आचरति इति पथीनति । अ्त्र 'पथिन् + क्विप् --> पथीन्' इति क्विबन्तधातुः ।\nआ) दण्डिन् इव आचरति इति दण्डीनति । अत्र 'दण्डिन् + क्विप् --> दण्डीन्' इति क्विबन्तधातुः ।\nझलादि कित्-प्रत्ययः \nयस्य प्रत्ययस्य आदिवर्णः झल्-अस्ति, तथा यस्मिन् प्रत्यये ककारः इत्संज्ञकः अस्ति, सः प्रत्ययः 'झलादि-कित्-प्रत्ययः' नाम्ना ज्ञायते । यथा - क्त्वा, क्त, क्तिन् आदयः । अस्मिन् प्रत्यये परे अङ्गस्य उपधावर्णस्य दीर्घः भवति । यथा -\n\nशमुँ (उपशमे, दिवादिः, <{4.98}>)\n--> शम् + क्त [<<निष्ठा>> [[3.2.102]] इति क्तप्रत्ययः]\n--> शाम् + त [<<अनुनासिकस्य क्विझलोः क्ङिति>> इति उपधादीर्घः]\n--> शांत [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति अनुस्वारः]\n--> शान्त [<<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति परसवर्णः]\n\nएवमेव\nअ) तम् (कांक्षायाम् <{4.99}>) + क्त --> तान्त\nआ) क्षम् (सहने, <{1.510}>) + क्त --> क्षान्त\nआदीनि रूपाणि अपि सिद्ध्यन्ति ।\nझलादि ङित्-प्रत्ययः\nयस्य प्रत्ययस्य आदिवर्णः झल्-अस्ति, तथा यस्मिन् प्रत्यये ङकारः इत्संज्ञकः अस्ति (नो चेत् यः प्रत्ययः अतिदेशेन ङित्त्वम् प्राप्नोति) सः प्रत्ययः 'झलादि-ङित्-प्रत्ययः' नाम्ना ज्ञायते । एतादृशे प्रत्यये परे अनुनासिकान्तस्य अङ्गस्य वर्तमानसूत्रेण उपधादीर्घः भवति । यथा -\n\nशमुँ (उपशमे, दिवादिः, <{4.98}>)\n--> शम् + यङ् [<<धातोरेकाचो हलादे क्रियासमभिहारे यङ्>> [[3.1.22]] इति क्रियासमभिहारे यङ्-प्रत्ययः]\n→ श + शम् + य [<<सन्यङोः>> [[6.1.9]] इति द्वित्वम्]\n--> श + शम् + य [<<हलादिः शेषः>> [[7.4.60]] इति मकारः लुप्यते ।]\n→ शन् + शम् + य [<<नृगतोऽनुनासिकान्तस्य>> [[7.4.85]] इति अभ्यासस्य नुक्-आगमः ।]\n→ शन् + शम् [<<यङोऽचि च>> [[2.4.74]] इति यङ्-प्रत्ययस्य लुक् । अयं बहिरङ्गत्वात् द्वित्वकार्यात् अनन्तरं भवति । ]\n→ शन्शम् [ <<सनाद्यन्ताः धातवः>> [[3.1.32]] इति धातुसंज्ञा ]\n→ शन्शम् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट् ]\n→ शन्शम् + तस् [<<तिप्तस्झि...>> [[3.4.78]] इति प्रथमाद्विवचनस्य विवक्षायाम् तस्-प्रत्ययः । <<सार्वधातुकमपित्>> [[1.2.4]] इत्यनेन तस्-प्रत्ययः ङिद्वत् कार्य करोति ।]\n→ शन्शम् + शप् + तस् [<<कर्तरि शप्>> [[3.1.68]] इति औत्सर्गिकं गणविकरणम् शप्]\n→ शन्शम् + तस् [<ऽचर्करीतं चऽ> इत्यनेन गणसूत्रेण यङ्लुगन्तानाम् अदादिगणे समावेशः क्रियते । अतः <<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शपः लुक् भवति । ]\n→ शन्शाम् + तस् [<<अनुनासिकस्य क्विझलोः क्ङिति>> [[6.4.15]] इति झलादि ङिति तस्-प्रत्यये परे उपधादीर्घः ]\n--> शन्शाम्तः [<<ससजुषोः रुँः>> [[8.2.66]] इति रुँत्वम्, <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः ]\n→ शंशांतः [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति अनुस्वारः]\n→ शंशान्तः [<<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति नकारादेशः]\n\nएवमेव 'तम् (कांक्षायाम् <{4.99}>)' इत्यस्य यङ्लुकि लटि प्रथमपुरुषे द्विवचनस्य रूपम् 'तन्तान्तः' इति सिद्ध्यति ।\nबाध्यबाधकभावः\n1) झलादि-कित्-ङित्-प्रत्यये परे <<अनुनासिकस्य क्विझलोः क्ङिति>> [[6.4.15]] अनेन सूत्रेण उक्तः उपधादीर्घः द्वाभ्यां सूत्राभ्याम् बाध्यते -\nअ) अनुदात्तोपदेशधातूनां विषये तथा च तनोत्यादिगणस्य धातूनां विषये अत्र उक्तम् उपधादीर्घं बाधित्वा <<अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिक लोपो झलि क्ङिति>> [[6.4.37]] इत्यनेन अनुनासिकलोपः भवति । यथा, गम् + क्त --> गत ।\nआ) जन्, सन्, खन् - एतेषां विषये अत्र उक्तम् उपधादीर्घं बाधित्वा <<जनसनखनां सञ्झलोः>> [[6.4.42]] इति अन्तिमवर्णस्य आकारादेशः भवति । यथा - जन् + क्त --> जात ।\n2) हन्-धातोः विषये क्विप्-प्रत्यये परे शिष्टप्रयोगसामर्थ्यात् इदं सूत्रं न प्रवर्तते । ब्रह्माणं अहन् = ब्रह्म + हन् + क्विप् --> ब्रह्महन् ।\nयदि प्रत्ययस्य इडागमः भवति, तर्हि तस्य अजादित्त्वात् इदं सूत्रं नैव प्रवर्तते । यथा, 'कणँ (शब्दे, सेट्, <{1.517}>) + क्त' इत्यत्र प्रत्ययस्य इडागमे कृते 'कणित' इति रूपं भवति । अत्र प्रत्ययस्य अजादित्त्वात् <<अनुनासिकस्य क्विझलोः क्ङिति>> [[6.4.15]] इति सूत्रं नैव प्रवर्तते ।]\n\n" }, "64016": { "sa": "", "sd": "" }, "64017": { "sa": "", "sd": "" }, "64018": { "sa": "क्रम्-धातोः झलादि-क्त्वा-प्रत्यये परे विकल्पेन उपधादीर्घः भवति । ", "sd": "क्रमुँ (पादविक्षेपे, भ्वादिः, <{1.545}>) अस्य धातोः क्त्वा-प्रत्यये परे इडागमस्य अनुपस्थितौ विकल्पेन उपधादीर्घः भवति ।\n\nक्रमुँ (पादविक्षेपे, भ्वादिः, <{1.545}>)\n--> क्रम् + क्त्वा [<<समानकर्तृकयोः पूर्वकाले>> [[3.4.21]] इति क्त्वाप्रत्ययः]\n--> क्रम् + त्वा [<<उदितो वा>> [[7.2.56]] इति विकल्पेन इडागमस्य अप्राप्तिः]\n--> क्राम् / क्रम् + त्वा [<<क्रमश्च क्त्वि>> [[6.4.18]] इति पाक्षिकः उपधादीर्घः]\n--> क्रांत्वा / क्रंत्वा [अपदान्तमकारस्य <<नश्चापदान्तस्य झलि>> [[8.3.24]] इति अनुस्वारः]\n--> क्रान्त्वा / क्रन्त्वा [अनुस्वारस्य <<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति परसवर्णः नकारः]\n\nयदि क्रम्-धातोः विहितस्य क्त्वा-प्रत्ययस्य <<उदितो वा>> [[7.2.56]] इति विकल्पेन इडागमः भवति, तर्हि इदं सूत्रं नैव प्रवर्तते -\n\nक्रमुँ (पादविक्षेपे, भ्वादिः, <{1.545}>)\n--> क्रम् + क्त्वा [<<समानकर्तृकयोः पूर्वकाले>> [[3.4.21]] इति क्त्वाप्रत्ययः]\n--> क्रम् + इट् + त्वा [<<उदितो वा>> [[7.2.56]] इति विकल्पेन इडागमस्य प्राप्तिः]\n--> क्रमित्वा\n\nबाध्यबाधकभावः\nयत्र क्त्वा-प्रत्ययस्य ल्यप्-आदेशः इष्यते, तत्र सः प्रक्रियायाः प्रारम्भे एव भवति । तथा क्रियते चेत् अग्रे प्रक्रियायाम् इदं सूत्रं नैव प्रवर्तते यतः ल्यप्-प्रत्ययः झलादिः नास्ति ।\n\nक्रमुँ (पादविक्षेपे, भ्वादिः, <{1.545}>)\n--> प्र + क्रम् + क्त्वा [<<समानकर्तृकयोः पूर्वकाले>> [[3.4.21]] इति क्त्वाप्रत्ययः]\n--> प्र + क्रम् + ल्यप् [<<समासेऽनञ्पूर्वे क्त्वो ल्यप्>> [[7.1.37]] इति ल्यबादेशः]\n--> प्रक्रम्य\n" }, "64019": { "sa": "अनुनासिकादौ अथवा झलादौ किति/ङिति प्रत्यये परे, तथा च क्विप्-प्रत्यये परे अङ्गान्ते विद्यमानस्य 'त्छ्' इत्यस्य 'श्' इति आदेशः भवति, तथा च 'व्' इत्यस्य 'ऊठ्' इति आदेशः भवति ।\n", "sd": "यदि अनुनासिकादिः कित् / ङित् प्रत्ययः, अथवा झलादिः कित्/ङित् प्रत्ययः, अथवा क्विप्-प्रत्ययः अङ्गात् परः विद्यते, तर्हि -\n1) अङ्गस्य अन्ते विद्यमानस्य 'त्छ्' इति समूहस्य 'श्' इति आदेशः भवति ।\n2) अङ्गस्य अन्ते विद्यमानस्य 'व्' इत्यस्य 'ऊठ्' इति आदेशः भवति ।\nउदाहरणानि एतानि -\n1. अङ्गान्ते विद्यमानस्य 'त्छ्' इत्यस्य अनुनासिकादि-ङित्-प्रत्यये परे शकारादेशः -\n\nप्रछँ (ज्ञीप्सायाम्, तुदादिः, <{6.149}>)\n--> प्रछ् + नङ् [<<यजयाचयतविच्छप्रच्छरक्षो नङ्>> [[3.3.90]] इति भावे नङ्-प्रत्ययः]\n--> प्र तुक् छ् + न [<<छे च>> [[6.1.73]] इति तुगागमः]\n--> प्रत् छ् + न [ककारस्य इत्संज्ञा, लोपः । तुगागमस्य उकारः उच्चारणार्थः अस्ति, तस्यापि लोपः भवति ]\n--> प्रश् + न [अङ्गान्ते विद्यमानस्य 'त्छ्' इत्यस्य अनुनासिकादि-ङित्-प्रत्यये परे <<च्छ्वोः शूडनुनासिके च>> [[6.4.19]] इति शकारादेशः । अत्र प्रकियायाम् वस्तुतः <<ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च>> [[6.1.16]] इति सम्प्रसारणम् अपि प्राप्नोति । परन्तु एतादृशं सम्प्रसारणं क्रियते चेत् 'प्रश्न' इति अन्तिमः शब्दः नैव सिद्ध्यति । परन्तु अयम् अवश्यं साधुशब्दः, यतः पाणिनिना सः शब्दः स्वयमेव <<प्रश्ने चासन्नकाले>> [[3.2.117]] इत्यत्र प्रयुक्तः अस्ति । अतः इदमेव सूत्रं अस्य शब्दस्य साधुत्वार्थं ज्ञापकरूपेण स्वीकृत्य अत्र सम्प्रसारणम् निषिध्यते ]\n--> प्रश्न [<<स्तोः श्चुना श्चुः>> [[8.4.40]] इति नकारस्य श्चुत्वे प्राप्ते <<शात्>> [[8.4.44]] इति निषिध्यते]\n\n2. अङ्गान्ते विद्यमानस्य 'त्छ्' इत्यस्य झलादि-कित्-प्रत्यये परे शकारादेशः -\n\nप्रछँ (ज्ञीप्सायाम्, तुदादिः, <{6.149}>)\n--> प्रछ् + क्त [<<निष्ठा>> [[3.2.102]] इति क्त-प्रत्ययः]\n--> प्र तुक् छ् + त [<<छे च>> [[6.1.73]] इति तुगागमः]\n--> प्रत् छ् + त [ककारस्य इत्संज्ञा, लोपः । तुगागमस्य उकारः उच्चारणार्थः अस्ति, तस्यापि लोपः भवति ]\n--> पृ त् छ् + त [<<ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च>> [[6.1.16]] इति सम्प्रसारणम् । रेफस्य सम्प्रसारणे <<इग्यणः सम्प्रसारणम्>> [[1.1.45]] इति ऋकारः]\n--> पृश् + त [अङ्गान्ते विद्यमानस्य 'त्छ्' इत्यस्य झलादि-कित्-प्रत्यये परे <<च्छ्वोः शूडनुनासिके च>> [[6.4.19]] इति शकारादेशः]\n--> पृष् + त [<<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> [[8.2.36]] इति षत्वम्]\n--> पृष् + ट [<<ष्टुना ष्टुः>> [[8.4.41]] इति ष्टुत्वम्]\n--> पृष्ट\n\n3. अङ्गान्ते विद्यमानस्य 'त्छ्' इत्यस्य क्विप्-प्रत्यये परे शकारादेशः -\n\nप्रछँ (ज्ञीप्सायाम्, तुदादिः, <{6.149}>)\n--> प्रछ् + क्विप् [<<क्विप् च>> [[3.2.76]] इति क्विप्-प्रत्ययः]\n--> प्र छ् + व् [<<लशक्तवतद्धिते>> [[1.3.8]] इति ककारस्य इत्संज्ञा । <<हलन्त्यम्>> [[1.3.3]] इति पकारस्य इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः ।]\n--> प्र तुक् छ् + व् <<छे च>> [[6.1.73]] इति तुगागमः]\n--> प्रत् छ् + व् [ककारपकारयोः इत्संज्ञा, लोपः । तुगागमस्य उकारः उच्चारणार्थः अस्ति, तस्यापि लोपः भवति ]\n--> प्रश् + व् [अङ्गान्ते विद्यमानस्य 'त्छ्' इत्यस्य क्विप्-प्रत्यये परे <<च्छ्वोः शूडनुनासिके च>> [[6.4.19]] इति शकारादेशः । अत्र वस्तुतः <<ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च>> [[6.1.16]] इति सम्प्रसारणम् प्राप्नोति, परन्तु इति वार्त्तिकेन ([[3.2.128]]) अत्र सम्प्रसारणं निषिध्यते]\n--> प्राश् + व् [ इति वार्त्तिकेन ([[3.2.128]]) अत्र उपधादीर्घः भवति ।]\n--> प्राश् [<<वेरपृक्तस्य>> [[6.1.67]] इति अपृक्तवकारलोपः]\n--> प्राष् [<<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> [[8.2.36]] इति षत्वम्]\n--> प्राड् [<<झलां जशोऽन्ते>> [[8.2.39]] इति ष्टुत्वम्]\n--> प्राट् / प्राड् [<<वाऽवसाने>> [[8.4.56]] इति वैकल्पिकं चर्त्वम्]\n\n4. अङ्गान्ते विद्यमानस्य 'व्' इत्यस्य अनुनासिकादि-ङित्-प्रत्यये परे 'ऊठ्' आदेशः -\n\nखवँ (भूतप्रादुर्भावे, क्र्यादिः, <{9.68}>)\n--> खव् + लट् [<<वर्तमाने लट्>> [[3.1.123]] इति लट्-प्रत्ययः]\n--> खव् + तिप् [<<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]\n--> खव् + श्ना + ति [<<क्र्यादिभ्यः श्ना>> [[3.1.81]] इति श्ना-प्रत्ययः । अयं <<सार्वधातुकमपित्>> [[1.2.4]] इति ङिद्वत् भवति ।]\n--> खव् + ना + ति [शकारस्य <<लशक्वतद्धिते>> [[1.3.8]] इति इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n--> ख ऊठ् + ना + ति [अनुनासिकादि-ङित्-प्रत्यये परे <<च्छ्वोः शूडनुनासिके च>> [[6.4.19]] इति वकारस्य 'ऊठ्' इदेशः]\n--> ख ऊ + ना + ति [ठकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n--> खौनाति [<<एत्येधत्यूठ्सु>> [[6.1.89]] इति वृद्ध्येकादेशः]\n\n5. अङ्गान्ते विद्यमानस्य 'व्' इत्यस्य झलादि-ङित्-प्रत्यये परे 'ऊठ्' आदेशः -\n\nदिवुँ (क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु, दिवादिः, <{4.1}>)\n--> दिव् + क्त [<<निष्ठा>> [[3.2.102]] इति क्त-प्रत्ययः]\n--> दि ऊठ् + त [झलादि-कित्-प्रत्यये परे <<च्छ्वोः शूडनुनासिके च>> [[6.4.19]] इति वकारस्य 'ऊठ्' इदेशः]\n--> दि ऊ + त [ठकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n--> द्यूत [<<इको यणचि>> [[6.1.77]] इति यणादेशः]\n\n6. अङ्गान्ते विद्यमानस्य 'व्' इत्यस्य क्विप्-प्रत्यये परे 'ऊठ्' आदेशः -\n\nदिवुँ (क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु, दिवादिः, <{4.1}>)\n--> दिव् + क्विप् [<<क्विप् च>> [[3.2.76]] इति क्विप्-प्रत्ययः]\n--> दिव् + व् [ककारपकारयोः इत्संज्ञा, लोपः । तुगागमस्य उकारः उच्चारणार्थः अस्ति, तस्यापि लोपः भवति ]\n--> दि ऊठ् + व् [क्विप्-प्रत्यये परे <<च्छ्वोः शूडनुनासिके च>> [[6.4.19]] इति वकारस्य 'ऊठ्' इदेशः]\n--> दि ऊ + व् [ठकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n--> दि ऊ [<<वेरपृक्तस्य>> [[6.1.67]] इति अपृक्तवकारलोपः]\n--> द्यू [<<इको यणचि>> [[6.1.77]] इति यणादेशः]\n\nसूत्ररचनाविशेषाः\n1. अस्मिन् सूत्रे 'च्छ्वोः' इत्यत्र 'च्छ्' इति निर्देशः वस्तुतः 'त्छ्' इत्यस्य निर्देशः अस्ति । 'त्छ्' इत्यत्र तकारस्य <<स्तोः श्चुना श्चुः>> [[8.4.40]] इति त्रिपादीसूत्रेण श्चुत्वे कृते यः चकारादेशः विधीयते, तेन सह अत्र सूत्रनिर्देशः कृतः अस्ति ।परन्तु अत्र सूत्रप्रयोगसमये सपादसप्ताध्याय्यां तु तस्य असिद्धत्वात् 'त्छ्' इत्येव स्वीक्रियते ।\n2. उपरिनिर्दिष्टायाम् 'पृष्ट' शब्दस्य प्रक्रियायाम् <<च्छ्वोः शूडनुनासिके च>> [[6.4.19]] इति शकारादेशस्य तादृशं न किञ्चन प्रयोजनम्, यतः अस्य शकारादेशस्य अनुपस्थितौ अपि <<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> [[8.2.36]] इति षत्वे कृते इष्टरूपम् अवश्यं सिद्ध्येत् । वस्तुतस्तु 'झलादिः' इति अनुवृत्तिः अस्मिन् सूत्रे केवलम् वकारार्थम् आवश्यकी, न हि 'त्छ्' इत्यर्थम्, यतः त्छ्-इत्यस्य झलादि-प्रत्यये परे शकारादेशे कृतेऽपि, अकृतेऽपि च <<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> [[8.2.36]] इति षत्वम् अवश्यमेव सिद्ध्यति । परन्तु एकवारम् अनुवृत्तिः क्रियते चेत् <ऽपर्जन्यवत् लक्षणप्रवृत्तिःऽ> इति न्यायेन सूत्रस्य प्रयोगः अवश्यं करणीयः, अतः झलादौ क्ङिति प्रत्यये परे 'त्छ्' इत्यस्य शकारादेशः अत्र अवश्यं क्रियते ।\n3. अस्मिन् सूत्रे 'क्ङिति' इति पदस्य अनुवृत्तिः नैव करणीया - इति कश्चन गौणपक्षः अस्य सूत्रस्य महाभाष्यव्याख्याने उपस्थापितः अस्ति । अस्मिन् पक्षे सर्वेषु झलादिप्रत्ययेषु 'त्छ्' इत्यस्य 'श्' इत्यादेशः भवति इति अर्थे कृते, अग्रे <<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> [[8.2.36]] इत्यत्र सतुक्-छकारस्य ग्रहणम् अनावश्यकं भवति इति निर्णयः सिद्ध्यति । अपि च, अस्मिन् पक्षे <<दिव उत्>> [[6.1.131]] इत्यत्र विद्यमानस्य तकारस्य प्रयोजनम् 'तपरकरणम्' अस्ति इति स्वीक्रियते । अस्मिन् विषये अधिकं ज्ञातुं जिज्ञासवः काशिकां भाष्यं वा पश्येयुः । " }, "64020": { "sa": "", "sd": "" }, "64021": { "sa": "", "sd": "" }, "64022": { "sa": "अग्रिमसूत्रात् आरभ्य, अस्य पादस्य समाप्तिपर्यन्तम् पाठितानि सूत्राणि समानाश्रये कर्तव्ये परस्पराणां सन्दर्भे असिद्धानि भवन्ति । ", "sd": "एतत् अधिकारसूत्रम् अस्ति । अस्य अधिकारस्य व्याप्तिः षष्ठाध्यायस्य चतुर्थपादस्य अन्तिमसूत्रपर्यन्तम् ([[6.4.175]] इति यावत्) प्रचलति ।\n'असिद्धवदत्राभात्' इत्यत्र 'असिद्धवत् + अत्र + आभात्' इति पदविग्रहः । प्रत्येकं पदार्थस्य अर्थः एतादृशः —\n\n1) आभात् = <<भस्य>> [[6.4.129]] इति अधिकारस्य परिसमाप्तिपर्यन्तम् (इत्युक्ते, षष्ठाध्यायस्य चतुर्थपादस्य परिसमाप्तिपर्यन्तम्) ।\n2) अत्र = समानाश्रये कर्तव्ये ।\n3) असिद्धवत् = असिद्धत्वं स्यात्। \n\nवर्तमानसूत्रात् आरभ्य षष्ठाध्यायस्य चतुर्थपादस्य परिसमाप्तिपर्यन्तम् विद्यमानानि सूत्राणि (आभीयसूत्राणि इत्यपि तेषाम् अन्यत् नाम) परस्पराणां विषये समानाश्रये कर्त्तव्ये असिद्धानि ज्ञेयानि - इत्याशयः ।\nकिं नाम समानाश्रयः ? नागेशः लघुशब्देन्दुशेखरे ब्रूते -\n\nतत्र हि समानाश्रयत्वम् असिद्धत्वाश्रयशास्त्रसम्बन्धिनिमित्तसमुदायान्यूनानतिरिक्ताश्रयकत्वम् ।\nपदविग्रहः — तत्र हि समानाश्रयत्वम् असिद्धत्व-आश्रयशास्त्रसम्बन्धि-निमित्तसमुदाय-अन्यून-अनतिरिक्त-आश्रयकत्वम् । \n\nअस्य सरलरूपेण अर्थः एतादृशः — प्रक्रियायाम् सूत्रस्य प्रयोगे आवश्यकः यः मूलस्थानी, यानि च मूलनिमित्तानि, तेषाम् 'आश्रयाः' इति संज्ञा भवति । The आश्रयाः for a sutra are its original स्थानी and all the original निमित्तs. अनेन प्रकारेण प्रत्येकं सूत्रस्य विशिष्टाः आश्रयाः वर्तन्ते । अस्यां स्थितौ, यदि द्वयोः सूत्रयोः आश्रयाः सम्पूर्णरूपेण समानाः सन्ति, तर्हि द्वयोः सूत्रयोः मध्ये समानाश्रयः अस्ति इति उच्यते । Two sutras participating in a prakriya are said to have समानाश्रय when the आश्रयाः for the first sutra are identical to that of the second sutra. \nअत्र इदं स्मर्तव्यम्, यत् द्वयोः सूत्रयोः स्थानी समानः भवेत्, उत निमित्तं समानं भवेत् - इति अत्र न आवश्यकम् । केवलम् आश्रयसमूहः (The set of all आश्रया:) समानः भवेत् - इत्येव अत्र अपेक्ष्यते । एतादृशं भवति चेत् समानाश्रयः अस्ति इत्युच्यते ।\nएतादृशः समानाश्रयः ययोः सूत्रयोः मध्ये वर्तते, ते सूत्रे परस्परयोः विषये असिद्धे ज्ञातव्ये - इति प्रकृतसूत्रस्य आशयः ।\nसमानाश्रयस्य द्वे उदाहरणे एतादृशे -\n(1) अस्-धातोः लोट्लकारस्य मध्यमपुरुषैकवचनस्य प्रक्रियायाम् 'अस् + हि' इत्यस्यां स्थितौ <<श्नसोरल्लोपः>> [[6.4.111]] तथा च <<घ्वसोरेद्धावभ्यासलोपश्च>> [[6.4.119]] इति द्वे सूत्रे युगपत् प्रवर्तेते । तत्र —\n\n(a) <<श्नसोरल्लोपः>> [[6.4.111]] इत्यनेन सूत्रेण 'अस्' धातोः हि-प्रत्यये परे अकारलोपः विधीयते । अतः अस्य सूत्रस्य आश्रयौ 'अस्, हि' एतौ स्तः ।\n(b) <<घ्वसोरेद्धावभ्यासलोपश्च>> [[6.4.119]] इत्यनेन तु अस्यैव अस्-धातोः अस्मिन्नेव हि-प्रत्यये परे 'ए' इति अन्त्यादेशः विधीयते । अतः अस्य सूत्रस्य आश्रयौ अपि 'अस्, हि' एतौ एव स्तः ।\n\nअनेन प्रकारेण अत्र <<श्नसोरल्लोपः>> [[6.4.111]] तथा च <<घ्वसोरेद्धावभ्यासलोपश्च>> [[6.4.119]] इति सूत्रयो: आश्रयौ समानौ स्तः, अतः एतयोर्मध्ये अत्र समानाश्रयः अस्ति इति उच्यते ।\n(2) हन्-धातोः लोट्लकारस्य मध्यमपुरुषैकवचनस्य प्रक्रियायाम् 'हन् + हि' इति स्थिते —\n\n(a) <<हन्तेर्जः>> [[6.4.36]] इति सूत्रेण 'हन्'-धातोः 'हि'-प्रत्यये परे 'ज' इति आदेशः भवति । अतः अत्र <<हन्तेर्जः>> [[6.4.36]] इति सूत्रस्य 'हन्, हि' इति आश्रयौ ।\n(b) अग्रे, एतम् 'ज' इति अकारान्तम् आदेशम् एव निमित्तरूपेण स्वीकृत्य <<अतो हेः>> [[6.4.105]] इति सूत्रेण अदन्तात् अङ्गात् परस्य 'हि'-प्रत्ययस्य लुक् प्रवर्तते । अत्र <<अतो हेः>> [[6.4.105]] इति सूत्रस्य स्थानी अस्ति 'हि' इति प्रत्ययः, तथा च मूलनिमित्तम् अस्ति 'हन्' इति धातुः । यद्यपि अत्र प्रत्यक्षं निमित्तम् 'ज' इति दृश्यते, तथापि स्थानिवद्भावेन 'हन्' इत्यस्यैव परिगणनम् अत्र कर्तव्यम् । अतएव उपरि दत्तायां व्याख्यायाम् 'मूलस्थानी' तथा 'मूलनिमित्तम्' इति शब्दौ प्रयुक्तौ स्तः । अतः, अत्रापि 'हन्, हि' इत्येव द्वौ आश्रयौ स्तः । \n\nअतः अत्रापि एतयोः द्वयोः सूत्रयोः मध्ये समानाश्रयः अस्ति इति उच्यते ।\nएतादृशः समानाश्रयः यदा द्वयोः सूत्रयोः मध्ये विद्यते तदा ते सूत्रे परस्परयोः विषये असिद्धे भवतः। इत्युक्ते, प्रक्रियायां ताभ्याम् एकेन सूत्रेण कृतं कार्यम् अपरस्य सूत्रस्य कृते असिद्धम् मन्तव्यम् - इति वर्तमानसूत्रस्य आशयः । अस्मिन्नेव सन्दर्भे भाष्ये - असिद्धवचनम् आदेशलक्षणप्रतिषेधार्थम् उत्सर्गलक्षणभावार्थम् - इति विधानं कृतम् अस्ति । अत्र भाष्यकारेण 'समानाश्रये जाते असिद्धत्वं कथं प्रवर्तते' इत्यस्य द्वौ नियमौ उक्तौ स्तः । एते द्वौ नियमौ, तथा च तयोः कानिचन उदाहरणानि अधः स्पष्टीक्रियन्ते ।\n1) आदेशलक्षणप्रतिषेधार्थम् असिद्धत्त्वम् \nयत्र प्रक्रियायां द्वयोः समानाश्रययुक्तयोः आभीयसूत्रयोः युगपत् प्राप्तिः नास्ति, तत्र प्रथमसूत्रेण निर्मितः आदेशः द्वितीयसूत्रस्य कृते असिद्धः भवति, अतः प्रथमसूत्रात् अनन्तरम् द्वितीयसूत्रम् नैव प्रवर्तते — इति अत्र आदेशलक्षणस्य प्रतिषेधार्थम् असिद्धत्वम् प्रयुज्यते । एतादृशम् असिद्धत्त्वम् नित्यम् द्वितीयसूत्रस्य निषेधार्थम् एव उपयुज्यते । अस्य स्पष्टीकरणार्थम् अधः द्वे उदाहरणे दत्ते स्तः -\nअ) हन्-धातोः लोट्लकारस्य मध्यमपुरुषैकवचनस्य प्रक्रियायाम् <<हन्तेर्जः>> [[6.4.36]] इति सूत्रेण 'हन्'-धातोः 'हि'-प्रत्यये परे 'ज' इति आदेशः भवति । अग्रे, एतम् 'ज' इति अकारान्तम् आदेशम् एव निमित्तरूपेण स्वीकृत्य <<अतो हेः>> [[6.4.105]] इति सूत्रेण अदन्तात् अङ्गात् परस्य 'हि'-प्रत्ययस्य लुक् प्रवर्तते । अत्र एतयोः सूत्रयोः मध्ये 'हन्, हि' इति समानाश्रयः वर्तते इति उपरि स्पष्टीकृतम् अस्ति । अस्यां स्थितौ, <<हन्तेर्जः>> [[6.4.36]] इत्यनेन कृतः आदेशः <<अतो हेः>> [[6.4.105]] इत्यस्य कृते <<असिद्धवदत्राभात्>> [[6.4.22]] इत्यनेन असिद्धः भवति । प्रक्रिया इयम् -\n\nहनँ (हिंसागत्योः, अदादिः, <{2.2}>)\n→ हन् + लोट् [<<लोट् च>> [[3.3.162]] इति लोट्-लकारः]\n→ हन् + सिप् [<<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> [[3.4.78]] इति मध्यमपुरुषैकवचनस्य विवक्षायां सि-प्रत्ययः]\n→ हन् + शप् + सिप् [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ हन् + सिप् [<<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शपः लुक्]\n→ हन् + हि [<<सेर्ह्यपिच्च>> [[3.4.87]] इति हि-आदेशः]\n→ ज + हि [ हि-प्रत्यये परे <<हन्तेर्जः>> [[6.4.36]] इति हन्-धातोः 'ज'-आदेशः । एतादृशे 'ज' आदेशे कृते तस्य अदन्तत्त्वात् अत्र <<अतो हेः>> [[6.4.105]] इति अन्यत् सूत्रम् प्रयोक्तुं शक्यते, येन अदन्तात् अङ्गात् परस्य 'हि'प्रत्ययस्य लोपः भवति । परन्तु अत्र द्वयोः सूत्रयोः मध्ये समानाश्रयः विद्यते । अस्यां स्थितौ आदेशलक्षणप्रतिषेधाय असिद्धत्त्वम् इति नियमम् अनुसृत्य द्वितीयसूत्रस्य कृते प्रथमसूत्रेण कृतः 'ज'-आदेशः असिद्धः अस्ति । इत्युक्ते, <<अतो हेः>> [[6.4.105]] इत्यस्य प्रयोगस्य समये 'ज' इति न दृश्यते, अपितु 'हन्' इत्येव मूलरूपं दृश्यते । 'हन्' इति तु अदन्तम् अङ्गम् नास्ति, अतः अत्र <<अतो हेः>> [[6.4.105]] इति सूत्रम् अपि अत्र प्रक्रियायां नैव प्रवर्तते । अतएव 'जहि' इत्येव अन्तिमं रूपम् अत्र सिद्ध्यति ।]\n→ जहि\n\nआ) 'द्वयोः अतिशयेन बहु' इत्यस्मिन् अर्थे 'बहु' शब्दात् <<द्विवचनविभज्योपपदे तरबीयसुनौ>> [[5.3.57]] इत्यनेन ईयसुन्-प्रत्यये कृते, <<बहोर्लोपो भू च बहोः>> [[6.4.158]] इत्यनेन बहु-शब्दस्य भू-आदेशः विधीयते । अस्मिन् आदेशे कृते 'भू' इत्यस्य ऊकारस्य <<ओर्गुणः>> [[6.4.146]] इत्यनेन गुणादेशः (ओकारः) अवश्यं सम्भवति । अत्र एतयोः द्वयोः अपि सूत्रयोः आश्रयौ 'बहु (= मूलस्थानी), ईयसुन्-प्रत्ययः' एतौ स्तः । अतः अत्र द्वयोः सूत्रयोः मध्ये समानाश्रयः विद्यते । अस्यां स्थितौ प्रथमसूत्रेण कृतः भू-आदेशः द्वितीयसूत्रस्य कृते असिद्धः अस्ति, अतः एव प्रक्रियायाम् <<ओर्गुणः>> [[6.4.146]] इत्यनेन भू-शब्दस्य गुणः नैव सम्भवति । प्रक्रिया इयम् -\n\nद्वयोः अतिशयेन बहु\n→ बहु + ईयसुँन् [<<द्विवचनविभज्योपपदे तरबीयसुनौ>> [[5.3.57]] इत्यनेन ईयसुन्-प्रत्ययः]\n→ बहु + ईयस् [नकार-उँकारयोः इत्संज्ञा, लोपः]\n→ भू + यस् [<<बहोर्लोपो भू च बहोः>> [[6.4.158]] इत्यनेन बहु-शब्दस्य भू-आदेशः, ईयसुँन्-प्रत्ययस्य ईकारस्य लोपः । अत्र भू-आदेशात् अनन्तरम् यद्यपि <<ओर्गुणः>> [[6.4.146]] इत्यनेन तस्य गुणादेशः सम्भवति, तथापि अत्र समानाश्रयस्य आधारेण 'आदेशलक्षणप्रतिषेधाय असिद्धत्त्वम्' इति असिद्धत्वं स्वीकृत्य <<बहोर्लोपो भू च बहोः>> [[6.4.148]] इत्यनेन कृतः भू-आदेशः <<ओर्गुणः>> [[6.4.146]] इत्यस्य कृते असिद्धः वर्तते । अतः अत्र <<ओर्गुणः>> [[6.4.146]] इत्यनेन 'बहु + ईयस्' इत्येव स्थितिः दृश्यते । अस्यां स्थितौ 'भू' इत्यस्य गुणः नैव सम्भवति । यद्यपि बहु-शब्दस्य गुणः तु अवश्यं भवितुम् अर्हति, तथापि तेन न कश्चन लाभः (भू-आदेशे कृते सः गुणः व्यर्थः एव), अतः सोऽपि न नैव क्रियते ।]\n→ भूयस्\n\n2) उत्सर्गलक्षणभावार्थम् असिद्धत्वम् । \n
    यत्र प्रक्रियायां द्वयोः समानाश्रययुक्तयोः आभीयसूत्रयोः युगपत् प्राप्तिः विद्यते, तत्र एकसूत्रेण निर्मितः आदेशः द्वितीयसूत्रस्य कृते असिद्धः भवति, अतः द्वितीयम् सूत्रम् मूलस्थानिनम् एव दृष्ट्वा अवश्यं प्रवर्तते — इति अत्र उत्सर्गलक्षणस्य भावार्थम् असिद्धत्वम् प्रयुज्यते । एतादृशम् असिद्धत्त्वम् नित्यम् द्वितीयसूत्रस्य प्रसक्त्यर्थम् एव उपयुज्यते । अस्य स्पष्टीकरणार्थम् अधः द्वे उदाहरणे दत्ते स्तः -\nअ) 'शास्' इति धातोः लोट्लकारस्य मध्यमपुरुषैकवचनस्य प्रक्रियायाम् 'शास् + हि' इति स्थिते <<हुझल्भ्यो हेर्धिः>> [[6.4.101]] इति सूत्रेण शास्-धातोः विहितस्य 'हि' प्रत्यस्यस्य 'धि' इति आदेशः; तथा च तस्मिन्नेव समये <<शा हौ>> [[6.4.35]] इत्यनेन 'हि'प्रत्यये परे 'शास्' इत्यस्य 'शा' आदेशः — इति द्वे कार्ये युगपत् सम्भवतः । अत्र एतयोः द्वयोः सूत्रयोः मध्ये 'हि' तथा 'शास्' इति आश्रयौ समानौ स्तः, अतः अत्र समानाश्रयः विद्यते । अस्यां स्थितौ 'उत्सर्गलक्षणभावार्थम् असिद्धत्वम्' प्रवर्तते । इत्युक्ते, <<हुझल्भ्यो हेर्धिः>> [[6.4.101]] इति सूत्रेण 'हि' प्रत्ययस्य कृतः 'धि' इति आदेशः <<शा हौ>> [[6.4.35]] इत्यनेन नैव दृश्यते । अतः अत्र <<शा हौ>> [[6.4.35]] इत्यस्य प्रयोगस्य समये 'हि' इत्येव दृश्यते । अस्यां स्थितौ <<शा हौ>> [[6.4.35]] इति सूत्रम् अवश्यं प्रवर्तते । अनेन प्रकारेण अन्तिमरूपसिद्ध्यर्थम् <<हुझल्भ्यो हेर्धिः>> [[6.4.101]] तथा च <<शा हौ>> [[6.4.35]] एतयोः द्वयोः अपि सूत्रयोः प्रयोगः क्रियते । सम्पूर्णा प्रक्रिया एतादृशी —\n\nशासुँ (इच्छायाम्, अदादिः, <{2.12}>)\n→ शास् + लोट् [<<लोट् च>> [[3.3.162]] इति लोट्-लकारः]\n→ शास् + सिप् [<<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> [[3.4.78]] इति मध्यमपुरुषैकवचनस्य विवक्षायां सि-प्रत्ययः]\n→ शास् + शप् + सिप् [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ शास् + सिप् [<<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शपः लुक्]\n→ शास् + हि [<<सेर्ह्यपिच्च>> [[3.4.87]] इति हि-आदेशः]\n→ शास् + धि [<<हुझल्भ्योः हेर्धिः>> [[6.4.101]] इत्यनेन शास्-धातोः परस्य हि-प्रत्ययस्य 'धि'आदेशः]\n→ शा + धि [<<शा हौ>> [[6.4.35]] इति सूत्रेण हि-प्रत्यये परे शास्-इत्यस्य शा-आदेशः भवति । वस्तुतः अत्र 'हि' इत्यस्य स्थाने 'धि' इति अस्ति । परन्तु अयम् आदेशः <<हुझल्भ्योः हेर्धिः>> [[6.4.101]] इत्यनेन कृत अस्ति, तथा च <<असिद्धवदत्राभात्>> [[6.4.22]] इत्यनेन <<हुझल्भ्योः हेर्धिः>> [[6.4.101]] इति सूत्रम् <<शा हौ>> [[6.4.35]] इत्यस्य प्रयोगस्य कृते असिद्धं भवति । इत्युक्ते, <<हुझल्भ्योः हेर्धिः>> [[6.4.101]] इत्यनेन कृतः 'धि' आदेशः <<शा हौ>> [[6.4.35]] इत्यनेन नैव दृश्यते । अतः <<शा हौ>> [[6.4.35]] इत्यस्य दृष्ट्या अत्र 'हि' इत्येव प्रत्ययः विद्यते । अस्मिन् प्रत्यये परे <<शा हौ>> [[6.4.35]] इति सूत्रेण 'शास्' इत्यस्य शा-आदेशः अवश्यं भवति ।]\n→ शाधि\n\nआ) असँ (भुवि, अदादिः <{2.60}>) इति धातोः लट्लकारस्य मध्यमपुरुषैकवचनस्य प्रक्रियायाम् <<श्नसोरल्लोपः>> [[6.4.111]] तथा <<घ्वसोरेद्धावभ्यासलोपश्च>> [[6.4.119]] इत्येतयोर्मध्ये, अपि च <<घ्वसोरेद्धावभ्यासलोपश्च>> [[6.4.119]] तथा <<हुझल्भ्यो हेर्धिः>> [[6.4.101]] इत्येतयोर्मध्ये अपि आभीयम् असिद्धत्वं विद्यते । प्रक्रिया इयम् —\n\n असँ (भुवि, अदादिः <{2.60}>)\n→ अस् + लोट् [<<लोट् च>> [[3.3.162]] इति लोट्-लकारः]\n→ अस् + सिप् [<<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> [[3.4.78]] इति मध्यमपुरुषैकवचनस्य विवक्षायां सि-प्रत्ययः]\n→ अस् + शप् + सिप् [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ अस् + सिप् [<<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शपः लुक्]\n→ अस् + हि [<<सेर्ह्यपिच्च>> [[3.4.87]] इति हि-आदेशः]\n→ स् + हि [<<श्नसोरल्लोपः>> [[6.4.111]] इत्यनेन हि-प्रत्यये परे अस्-धातोः अकारस्य लोपः भवति]\n→ ए + हि [<<घ्वसोरेद्धावभ्यासलोपश्च>> [[6.4.119]] इत्यनेन हि-प्रत्यये परे अस्-धातोः सकारस्य एकारः भवति । अत्र वस्तुतः अत्र 'अस्' इति अङ्गम् नैव वर्तते । परन्तु, युगपत् प्राप्तयोः <<श्नसोरल्लोपः>> [[6.4.111]] तथा <<घ्वसोरेद्धावभ्यासलोपश्च>> [[6.4.119]] इत्यतयोः मध्ये 'हि, अस्' एते समाने आश्रये (अतः समानाश्रयत्वम्) दृष्ट्वा, <<श्नसोरल्लोपः>> [[6.4.111]] इत्यनेन 'अस्' इत्यस्य कृतः सकारादेशः <<घ्वसोरेद्धावभ्यासलोपश्च>> [[6.4.119]] इतस्य कृते असिद्धः भवति । अतः <<घ्वसोरेद्धावभ्यासलोपश्च>> [[6.4.119]] इत्यनेन अत्र 'अस्' इत्येव दृश्यते, अतः तत्र सकारस्य एकारादेशः अपि भवितुम् अर्हति ।]\n→ ए + धि [<<हुझल्भ्यो हेर्धिः>> [[6.4.101]] इति अत्र झलन्तात् परस्य हि-प्रत्ययस्य धि-आदेशः भवति । अत्र यद्यपि अङ्गस्य अन्ते झल्-वर्णः नास्ति, तथापि तस्य विघातकम्, युगपत् प्राप्तम् <<घ्वसोरेद्धावभ्यासलोपश्च>> [[6.4.119]] इति सूत्रम् 'अस्, हि' इति समानाश्रयं दृष्ट्वा <<हुझल्भ्यो हेर्धिः>> [[6.4.101]] इत्यस्य कृते असिद्धम् भवति । अस्यां स्थितौ <<हुझल्भ्यो हेर्धिः>> [[6.4.101]] इत्यनेन 'ए' इति नैव द्रष्टुं शक्यते । अतः अत्र 'स्' इत्येव सकारान्तम् अङ्गम् स्वीकृत्य हि-प्रत्ययस्य धि-आदेशः विधीयते ।]\n→ एधि ।\n\nआभीय-असिद्धत्त्वस्य इतोऽपि अनेकानि अन्यानि उदाहरणानि भाष्ये सङ्गृहीतानि सन्ति, जिज्ञासुभिः तानि अवश्यं द्रष्टव्यानि ।\nदलकृत्यम्\nसूत्रे विद्यमानस्य प्रत्येकं अंशस्य प्रयोजनम् क्रमेण इत्थम् —\n1. असिद्धवत् इति शब्दस्य प्रयोजनम् - अस्मिन् सूत्रे विद्यमानः 'असिद्धवत्' इति शब्दः 'असिद्धः' इत्यस्मिन् अर्थे एव प्रयुक्तः अस्ति । अत्र 'असिद्धवत्' इत्यस्य स्थाने पाणिनिना 'असिद्धम्' इत्येव किमर्थं नोक्तम् इत्यस्मिन् विषये व्याख्यानेषु किमपि स्पष्टरूपेण नोच्यते ।\n2. अत्र इति शब्दस्य प्रयोजनम् - 'अत्र' अस्य शब्दस्य अस्मिन् सूत्रे द्वौ अर्थौ सम्भवतः । एकः तु सरलः अर्थः - 'अत्र इत्युक्ते अस्मिन् अधिकारे' इति । परन्तु तादृशः अर्थः 'आभात्' इति अग्रिमपदेनैव स्पष्टः भवति । अतः महाभाष्ये भाष्यकारेण 'अत्र' इति शब्दस्य अर्थः 'समानाश्रये कर्तव्ये' इति गृहीतः अस्ति । इत्युक्ते, द्वयोः सूत्रयोः मध्ये समानाश्रयः अस्ति चेदेव अत्र उक्तम् असिद्धत्त्वं तत्र ग्राह्यम् ; यदि द्वयोः सूत्रयोः मध्ये समानाश्रयः नास्ति, तर्हि ते सूत्रे परस्परयोः विषये असिद्धे नैव भवतः — इति । यथा, कथ्-धातोः ल्यप्-प्रत्ययस्य प्रक्रियायाम् <<अतो लोपः>> [[6.4.48]] तथा <<ल्यपि लघुपूर्वात्>> [[6.4.56]] एते द्वे आभीय-सूत्रे समानाश्रयस्य अभावात् परस्परयोः विषये सिद्धौ एव भवतः -\n\nकथ (वाक्यप्रबन्धे, चुरादिः <{10.389}>)\n→ प्र + कथ + णिच् + क्त्वा [<<सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्>> [[3.1.25]] इति णिच् । ततः <<समानकर्तृकयोः पूर्वकाले>> [[3.4.21]] इति क्त्वाप्रत्ययः]\n→ प्र + कथ + इ + ल्यप् [<<समासेऽनञ्पूर्वे क्त्वो ल्यप्>> [[7.1.37]] इति क्त्वाप्रत्ययस्य ल्यबादेशः]\n→ प्र + कथ् + इ + य [<<अतो लोपः>> [[6.4.48]] इति अकारलोपः]\n→ प्र + कथ् + अय् + य [<<ल्यपि लघुपूर्वात्>> [[6.4.56]] इति अयादेशः । अत्र वस्तुतः <<ल्यपि लघुपूर्वात्>> [[6.4.56]] तथा <<अतो लोपः>> [[6.4.48]] इति द्वे अपि सूत्रे आभीय-असिद्धाधिकारे स्तः । परन्तु अत्र एतयोः द्वयोः सूत्रयोः मध्ये समानाश्रयः न वर्तते । तत्कथमिति चेत्, <<अतो लोपः>> [[6.4.48]] इति प्रथमसूत्रस्य स्थानी अस्ति 'कथ' इति अदन्तधातुः, निमित्तम् च णिच्-प्रत्ययः । अतः अत्र 'कथ, णिच्' एतौ आश्रयौ । <<ल्यपि लघुपूर्वात्>> [[6.4.56]] इति द्वितीयसूत्रस्य स्थानी णिच्-प्रत्ययः । तत्र निमित्ते तु द्वे स्तः - ल्यप्-प्रत्ययः, तथा च 'कथ' इति अङ्गम् । अत्र यद्यपि दृश्यमानम् अङ्गम् 'कथ्' इति हलन्तम् अस्ति, तथापि निमित्तस्य मूलस्वरूपम् (भूतपूर्वगतिः) एव अत्र स्वीक्रियते । अतः अस्य सूत्रस्य आहत्य त्रयः आश्रयाः भवन्ति - 'कथ, णिच्, ल्यप्' । अतः अत्र द्वयोः अपि सूत्रयोः आश्रयौ समानौ न स्तः, अपि तु द्वितीयसूत्रस्य आश्रये 'ल्यप्' इति अधिकरूपेण विद्यते । अस्यां स्थितौ अत्र द्वयोः सूत्रयोः मध्ये समानाश्रयः नास्ति इति निर्णयः क्रियते । अस्यां स्थितौ अत्र असिद्धत्त्वम् अपि नैव ग्राह्यम् । अतः अत्र <<अतो लोपः>> [[6.4.48]] इति प्रथमसूत्रेण कृतः लोपः द्वितीयसूत्रेण अवश्यं दृश्यते, अतश्च अत्र <<ल्यपि लघुपूर्वात्>> [[6.4.56]] इति सूत्रेण अयादेशः अवश्यं भवति ।]\n→ प्रकथय्य \n\n3. आभात् इति शब्दस्य प्रयोजनम् - 'आभात्' शब्देन अस्य असिद्धाधिकारस्य व्याप्तिः दीयते । अत्र 'भ' शब्देन सह 'आङ्' इत्यस्य योजनं कृत्वा 'आभात्' इति (पञ्चम्येकवचनमस्य) रूपम् जायते । अत्र 'आङ्' इत्यस्य अर्थः 'अभिविधिः' (inclusive boundary) इति अस्ति । अतः 'आभात्' इत्युक्ते, 'भ' इत्यस्य समाप्तिपर्यन्तम् । अत्र प्रयुक्तः 'भ' शब्दः स्वयम् <<भस्य>> [[6.4.129]] इति अधिकारं दर्शयति । अतः 'आभात्' इत्युक्ते 'भाधिकारस्य समाप्तिपर्यन्तम्' । भाधिकारः षष्ठाध्यायस्य चतुर्थपादस्य अन्तिमसूत्रं यावत् प्रचलति, अतः तत्पर्यन्तम् अस्य असिद्धाधिकारस्य अपि प्रसक्तिः अस्ति । अस्मिन् अधिकारे विद्यमानानि सूत्राणि समानाश्रये कर्तव्ये परस्पराणां विषये असिद्धानि ज्ञेयानि - इति अत्र आशयः ।अतएव अस्य असिद्धत्वस्य निर्देशः 'आभीयम् असिद्धत्वम्' इति क्रियते । अत्र उक्तम् असिद्धत्वम् अस्मात् अधिकारात् बहिः नैव प्रवर्तते, इत्यपि अनेनैव स्पष्टी भवति । यथा 'राग' इति शब्दस्य सिद्धौ <<घञि च भावकरणयोः>> [[6.4.27]] तथा <<अत उपधायाः>> [[7.2.116]] इति द्वयोः सूत्रयोः मध्ये समानाश्रये सत्यपि <<अत उपधायाः>> [[7.2.116]] इति सूत्रम् आभीय-असिद्धाधिकारे नास्ति इति कारणात् <<घञि च भावकरणयोः>> [[6.4.27]] इति सूत्रं तं प्रति सिद्धमेव भवति -\n\nरन्जँ (रागे, भ्वादिः, <{1.1154}>)\n→ रन्ज् + घञ् [<<भावे>> [[3.3.18]] इति घञ्]\n→ रन्ज् + अ [इत्संज्ञालोपः]\n→ रज् + अ [<<घञि च भावकरणयोः>> [[6.4.27]] इति घञ्-प्रत्यये परे उपधानकारलोपः]\n→ राज् + अ [<<अत उपधायाः>> [[7.2.116]] इति उपधावृद्धिः । अत्र वस्तुतः <<घञि च भावकरणयोः>> [[6.4.27]] तथा <<अत उपधायाः>> [[7.2.116]] इत्येतयोर्मध्ये 'रज्, घञ्' इति समानाश्रयः अवश्यम् वर्तते । अस्यां स्थितौ यदि <<घञि च भावकरणयोः>> [[6.4.27]] इदं सूत्रम् आभीय-अधिकारात् बहिः अपि असिद्धमेव स्वीक्रियते, तर्हि अत्र <<अत उपधायाः>> [[7.2.116]] इत्यस्य कृते पूर्वं कृतः नकारलोपः असिद्धः स्यात्, येन अत्र उपधावृद्धिः अपि नैव सम्भवेत् । परन्तु अस्मिन् सूत्रे विद्यमाने 'आभात्' इति शब्देन अस्य अधिकारस्य व्याप्तिः नियम्यते, अतः षष्ठाध्यायस्य चतुर्थपादात् अनन्तरम् <<घञि च भावकरणयोः>> [[6.4.27]] इदं सूत्रम् (समानाश्रये सत्यपि) सिद्धमेव भवति । अतः अत्र तेन कृतः नकारलोपः <<अत उपधायाः>> [[7.2.116]] इत्यनेन अवश्यं दृश्यते ।]\n→ राग् + अ [<<चजोः कु घिण्ण्यतोः>> [[7.3.52]] इति कुत्वम्]\n→ राग\n\n वार्त्तिकम् - <!वुग्युटावुवङयणोः सिद्धौ वक्तव्यौ !> \nआभीय-असिद्धाधिकारस्य अपवादरूपेण इदं वार्त्तिकं वार्त्तिकारेण पाठितम् अस्ति । 'वुग्-युटौ उवङ्-यणोः सिद्धौ वक्तव्यौ' इति अस्य पदच्छेदः । अस्मिन् वार्त्तिके द्वौ नियमौ उक्तौ स्तः । प्रत्येकं नियमस्य अर्थः उदाहरणं च एतादृशम् -\n1. वुगागमः उवङ्-आदेशस्य कृते सिद्धः ज्ञेयः । <<भुवो वुग् लुङ्-लिटोः>> [[6.4.88]] इत्यनेन निर्दिष्टः वुक्-आगमः <<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> [[6.4.77]] इत्यनेन निर्दिष्टस्य उवङ्-आदेशस्य कृते सिद्धः स्यात् इत्याशयः । भू-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रियायाम् अस्य प्रयोगः दृश्यते । प्रक्रिया इयम् -\n\nभू (सत्तायाम्, <{1.1}>)\n→ भू + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट्]\n→ भू + तिप् [प्रथमपुरुषैकवचनस्य विवक्षायाम् <<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> [[3.4.78]] इति तिबादेशः]\n→ भू + णल् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इति णल्-आदेशः]\n→ भू + अ [इत्संज्ञालोपः]\n→ भू वुक् + अ [<<भुवो वुग्लुङ्लिटोः>> [[6.4.88]] इति वुगागमः । अयं द्वित्वात् पूर्वं भवति । अत्र <<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> [[6.4.77]] इत्यनेन उवङ्-आदेशस्यापि प्रसक्तिः अस्ति । द्वयोः अपि एतयोः सूत्रयोः 'अजादिप्रत्ययः, भू-धातुः' इति समानाश्रयः वर्तते । अस्यां स्थितौ यदि वुगागमः उवङ्-आदेशं प्रति असिद्धः स्यात् तर्हि अत्र 'भू + अ' इत्येव अस्ति इति मत्वा <<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> इत्यनेन उवङ्-आदेशे कृते 'भुव् वुक् अ' इति अनिष्टा स्थितिः प्रसज्येत । अतः अत्र वार्त्तिककारेण वुगागमः उवङ्-आदेशस्य कृते सिद्धः निर्दिष्टः अस्ति । अस्य सिद्धत्वात् 'भू वुक्' इत्यत्र ऊकारान्तत्वस्य अभावात् उवङ्-आदेशः अपि न भवति इत्याशयः ।]\n→ भूव् भूव् अ [<<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम्]\n→ भू भूव् अ [<<हलादिः शेषः>> [[7.4.60]] इतो वकारः लुप्यते]\n→ भु भूव् अ [<<ह्रस्वः>> [[7.4.59]] इति ह्रस्वादेशः]\n→ भ भूव् अ [<<भवतेरः>> [[7.4.73]] इति उकारस्य अकारः]\n→ बभूव [<<अभ्यासे चर्च>> [[8.4.54]] इति जश्त्वे बकारः]\n\n2. युडागमः यणादेशस्य कृते सिद्धः ज्ञेयः । <<दीङो युडचि क्ङिति>> [[6.4.63]] इत्यनेन निर्दिष्टः युट्-आगमः <<एरनेकाचोऽसंयोगपूर्वस्य>> [[6.4.82]] इत्यनेन निर्दिष्टस्य यणादेशस्य कृते सिद्धः स्यात् इत्याशयः । अस्य प्रयोगः दी-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रियायाम् दृश्यते । प्रक्रिया इयम् -\n\nदीङ् (क्षये, आत्मनेपदी, <{4.29}>)\n→ दी + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट्]\nभू (सत्तायाम्, <{1.1}>)\n→ दी + त [आत्मेनपदस्य प्रथमपुरुषैकवचनस्य विवक्षायाम् <<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> [[3.4.78]] इति त-आदेशः]\n→ दी + एश् [<<लिटस्तझयोरेशिरेच्>> [[3.4.82]] इति एश्-आदेशः । <<अनेकाल्शित्सर्वस्य>> [[1.1.55]] इति सर्वादेशः]\n→ दी + युट् ए [<<दीङो युडचि क्ङिति>> [[6.4.63]] इत्यनेन दीङ्-धातोः विहितस्य अजादि-कित्-प्रत्ययस्य युडागमः । अत्र लिट्-लकारस्य प्रत्ययाः <<असंयोगाल्लिट् कित्>> [[1.2.5]] इत्यनेन आतिदेशिकं कित्त्वं प्राप्नुवन्ति, अतः अत्र किद्विशिष्टं कार्यं सम्भवति । इदानीम् अत्र अस्मिन्नेव स्थले (इत्युक्ते, युगपत्) <<एरनेकाचोऽसंयोगपूर्वस्य>> [[6.4.82]] इति यणादेशस्य अपि प्रसक्तिः अस्ति । द्वयोरपि सूत्रयोः 'अजादि-प्रत्ययः' तथा 'दीङ्-धातुः' इति समानाश्रयः अपि वर्तते । अस्यां स्थितौ यदि आभीय-असिद्धत्त्वम् आश्रित्य अत्र युडागमः यणादेशं प्रति असिद्धः स्यात्, तर्हि 'दी + अ' इत्येव स्थितिः अस्ति इति मत्वा <<एरनेकाचोऽसंयोगपूर्वस्य>> [[6.4.82]] इत्यनेन यणादेशे कृते 'दिय् युट् अ' इति अनिष्टा स्थितिः प्रसज्येत । अतः अत्र वार्त्तिककारेण युडागमः यणादेशस्य कृते सिद्धः निर्दिष्टः अस्ति । अस्य सिद्धत्वात् 'दी युट्' इत्यत्र अङ्गस्य ईकारान्तत्वाभावात् यणादेशः न भवति इत्याशयः ।]\n→ दी + य् ए [इत्संज्ञालोपः]\n→ दी दी + य् ए [<<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम्]\n→ दिदीये [<<ह्रस्वः>> [[7.4.59]] इति ह्रस्वादेशः]\n\n 'असिद्धं बहिरङ्गमन्तरङ्गे' इति परिभाषायाः आभीयाधिकारे असिद्धत्त्वम् \n<ऽअसिद्धं बहिरङ्गमन्तरङ्गेऽ> इति काचित् परिभाषा परिभाषेन्दुशेखरे सङ्कलिता अस्ति । अनया परिभाषया 'जातं जायमानं वा बहिरङ्गं कार्यम् जनिष्यमाणस्य अन्तरङ्गकार्यस्य कृते असिद्धम् भवति' इति ज्ञाप्यते । अस्याः परिभाषायाः ज्ञापकरूपेण वैयाकरणैः <<वाह ऊठ्>> [[6.4.132]] इति सूत्रं स्वीक्रियते । इदं सूत्रम् स्वयमेव आभीय-असिद्धाधिकारे विद्यते, अतः <ऽअसिद्धं बहिरङ्गमन्तरङ्गेऽ> इति परिभाषा अपि आभीय-असिद्धाधिकारस्था एव स्वीकर्तव्या । इत्युक्ते, आभीयसूत्राणां बहिरङ्ग-अन्तरङ्गसम्बन्धस्य समये <ऽअसिद्धं बहिरङ्गमन्तरङ्गेऽ> इति परिभाषा स्वयम् <<असिद्धवदत्राभात्>> [[6.4.22]] इत्यनेन असिद्धा भवति, अतश्च आभीयं बहिरङ्गकार्यम् अन्यत् आभीयम् अन्तरङ्गकार्यं प्रति अवश्यं सिद्धम् ज्ञेयम् - इति । यथा, 'पा' धातो' क्वसुँ' प्रत्ययान्तरूपस्य द्वितीयाबहुवचनस्य प्रक्रियायाम् <<वसोः सम्प्रसारणम्>> [[6.4.131]] इति बहिरङ्गसूत्रम् <<आतो लोप इटि च>> [[6.4.64]] इति अन्तरङ्गसूत्रं प्रति अवश्यम् सिद्धम् भवति -\n\nपा (पाने, भ्वादिः <{1.1074}>)\n→ पा + लिट् [<<छन्दसि लिट्>> [[3.2.105]]\n→ पा + क्वसुँ + शस् [<<क्वसुश्च>> [[3.2.107]] । द्वितीयाबहुवचनस्य निर्देशार्थम् <<स्वौजसमौट्...>> [[4.1.2]] इति शस्-प्रत्ययः]\n→ पा + वस् + अस् [इत्संज्ञालोपः]\n→ पा पा वस् [<<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम्]\n→ प पा वस् [<<ह्रस्वः>> [[7.4.59]] इति ह्रस्वादेशः । अत्र वस्तुतः 'वस्' इति वलादि-आर्धधातुकप्रत्ययः, अतः अत्र <<वस्वेकाजाद्घसाम्>> [[7.2.67]] इति इडागमस्य प्राप्तिः अस्ति, परन्तु अग्रिमसोपाने जायमानेन <<वसोः सम्प्रसारणम्>> [[6.4.131]] इति बहिरङ्गकार्येण सम्प्रसारणे कृते इडागमस्य निमित्तत्वं (वलादित्त्वम्) विनश्यति , अतः अत्र <ऽअकृतव्यूहाः पाणिनीयाःऽ> इति परिभाषाम् अवलम्ब्य आदौ एव इडागमः न क्रियते ।]\n→ प पा उस् अस् [<<वसोः सम्प्रसारणम्>> [[6.4.131]] इति भसंज्ञक-अङ्गस्य अन्ते विद्यमानस्य क्वसु-प्रत्ययस्य सम्प्रसारणम् । ]\n→ प प् उस् अस् [<<आतो लोप इटि च>> [[6.4.64]] इति अजादि-आर्धधातुक-कित्-प्रत्यये परे आकारस्य लोपः । अत्र <<वसोः सम्प्रसारणम्>> [[6.4.131]] इत्यस्य आश्रयौ 'शस्,वस्' एतौ स्तः । <<आतो लोप इटि च>> [[6.4.64]] इत्यस्य आश्रयौ तु 'पपा, वस् (उस्-इत्यस्य मूलरूपम्)' एतौ स्तः। अतः अत्र एतयोः सूत्रयोः मध्ये समानाश्रयः नास्ति, अतश्च <<वसोः सम्प्रसारणम्>> [[6.4.131]] इति सूत्रम् <<आतो लोप इटि च>> [[6.4.64]] इत्यस्य कृते सिद्धमेव वर्तते । परन्तु अत्र <<वसोः सम्प्रसारणम्>> [[6.4.131]] इत्यस्य कृते 'अस्' इति बहिर्भूतं निमित्तम् आवश्यकम्, अतः तत् बहिरङ्गम् कार्यम् भवति; तस्य अपेक्षया <<आतो लोप इटि च>> [[6.4.64]] इति सूत्रम् अन्तरङ्गम् विद्यते । अस्यां स्थितौ वस्तुतः आदौ जातं बहिरङ्गं कार्यम् जनिष्यमाणस्य अन्तरङ्गकार्यस्य कृते <ऽअसिद्धं बहिरङ्गमन्तरङ्गेऽ> इति परिभाषया असिद्धमेव भवेत् । इत्युक्ते, यद्यपि अत्र <<असिद्धवदत्राभात्>> [[6.4.22]] इत्यनेन असिद्धत्त्वं नास्ति, तथापि <ऽअसिद्धं बहिरङ्गमन्तरङ्गेऽ> इत्यनेन असिद्धत्वं भवेदेव । परन्तु अत्र एते द्वे अपि सूत्रे आभीय-असिद्धाधिकारे भवतः, अस्मिन् अधिकारे च <<असिद्धवदत्राभात्>> [[6.4.22]] इत्यनेन <ऽअसिद्धं बहिरङ्गमन्तरङ्गेऽ> इति परिभाषा स्वयमेव असिद्धा भवति ! अतः <<वसोः सम्प्रसारणम्>> [[6.4.131]] इति बहिरङ्गं कार्यम् <<आतो लोप इटि च>> [[6.4.64]] इति अन्तरङ्गकार्येण अवश्यं दृश्यते, अतश्च सम्प्रसारणे कृते ततः आकारलोपं कृत्वा इष्टरूपं सिद्ध्यति ।]\n→ पपुषः [<<ससजुषो रुः>> [[8.2.66]] इति रुत्वम्, <<आदेशप्रत्यययोः>> [[8.3.59]] इति षत्वम्, <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः ।]\n\nअनेन प्रकारेण 'पपुषः' इति शब्दस्य सिद्धौ <ऽअसिद्धं बहिरङ्गमन्तरङ्गेऽ> इत्यस्याः परिभाषायाः असिद्धत्त्वम् स्वीकृत्य एव प्रक्रिया दीयते ।\n" }, "64023": { "sa": "", "sd": "" }, "64024": { "sa": "अनिदित्-हलन्तस्य अङ्गस्य उपधा-नकारस्य कित् प्रत्यये परे ङित्-प्रत्यये च परे लोपः भवति । ", "sd": "'इदित्' इत्युक्ते सः शब्दः यस्मिन् इकारः इत्संज्ञकः अस्ति । 'अनिदित्' इत्युक्ते सः शब्दः यस्मिन् इकारः इत्संज्ञकः नास्ति । यः अनिदित् हलन्तः शब्दः, तस्य उपधाभूतस्य नकारस्य कित्-प्रत्यये परे ङित्-प्रत्यये च परे अनेन सूत्रेण लोपः भवति ।\nयथा - मन्थँ विलोडने इति कश्चन धातुः । अस्मिन् धातौ इकारः इत्संज्ञकः नास्ति, अतः अयं धातुः अनिदित् अस्ति । इत्संज्ञकस्य अकारस्य लोपे कृते 'मन्थ्' इति हलन्तमङ्गमपि जायते । अतः अस्य कित् / ङित् प्रत्यये परे वर्तमानसूत्रेण नकारलोपः भवति । यथा - मन्थ् + क्त्वा = मथित्वा । मन्थ् + यक् + ते = मथ्यते ।\nयदि अङ्गम् इदित् अस्ति, अजन्तं वा अस्ति, तर्हि अयं लोपः न भवति । यथा -\n1) 'वदिँ अभिवादनस्तुत्योः' अयं इदित् धातुः । <<इदितो नुम् धातोः>> [[7.1.58]] इत्यनेन अस्य धातोः नुमागमे कृत् 'वन्द्' इति रूपम् सिद्ध्यति । 'वन्द् + क्त्वा' इति स्थिते यद्यपि 'वन्द्' इति हलन्तमङ्गम्, तथापि इदमनिदित् नास्ति, अतः अस्य नकारलोपः न भवति । वन्द् + क्त्वा = वन्दित्वा ।\n2) 'णी प्रापणे' अयं धातुः अनिदित् अस्ति परन्तु अजन्तः अस्ति । अतः अस्य उपधा-नकारस्य अपि अनेन सूत्रेण लोपः न भवति । यथा - नी + क्त्वा = नीत्वा ।\n" }, "64025": { "sa": "दंश्, सञ्ज्, स्वञ्ज् - एतेषाम् धातूनाम् अङ्गस्य उपधा-नकारस्य शप्-विकरणप्रत्यये परे लोपः भवति । ", "sd": "दन्शँ (दशने), षन्जँ (सङ्गे), तथा ष्वन्जँ (परिष्वङ्गे) एते त्रयः भ्वादिगणस्य धातवः । एतेभ्यः विहितस्य शप्-इत्यस्य गणविकरणस्य उपस्थितौ एतेषाम् अङ्गस्य उपधानकारस्य अनेन सूत्रेण लोपः भवति । यथा -\n1. दन्श् इत्यस्य लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -\nदन्श् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट् ]\n→ दन्श् + तिप् [<<तिप्तस्..>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]\n→ दन्श् + शप् + ति [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ दश् + अ + ति [शप्-प्रत्यये परे <<दन्शसञ्जस्वञ्जां शपि>> [[6.4.25]] इति उपधा-नकारस्य लोपः]\n→ दशति ।\n2. षन्ज्-धातोः शतृ-प्रत्ययान्तरूपम् -\nषन्ज्\n→ सन्ज् [<<धात्वादेः षः सः>> [[6.1.64]] इति षकारस्य सकारः]\n→ सन्ज् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट् ]\n→ सन्ज् + शतृ [<<लटः शतृशानचौ अप्रथमासमानाधिकरणे>> [[3.2.124]] इति शतृ-आदेशः]\n→ सन्ज् + शप् + अत् [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ सज् + अ + अत् [शप्-प्रत्यये परे <<दन्शसञ्जस्वञ्जां शपि>> [[6.4.25]] इति उपधा-नकारस्य लोपः]\n→ सजत् [<<अतो गुणे>> [[6.1.97]] इति गुण-एकादेशः]\n3. ष्वञ्ज्-धातोः शानच्-प्रत्ययान्तरूपम् -\nष्वन्ज्\n→ स्वन्ज् [<<धात्वादेः षः सः>> [[6.1.64]] इति षकारस्य सकारः]\n→ स्वन्ज् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट् ]\n→ स्वन्ज् + शानच् [<<लटः शतृशानचौ अप्रथमासमानाधिकरणे>> [[3.2.124]] इति शानच्-आदेशः]\n→ स्वन्ज् + शप् + मान [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ स्वन्ज् + मुक् + आन [<<आने मुक्>> [[7.2.82]] इति मुक्-आगमः]\n→ स्वज् + अ + मान [शप्-प्रत्यये परे <<दन्शसञ्जस्वञ्जां शपि>> [[6.4.25]] इति उपधा-नकारस्य लोपः]\n→ स्वजमान\nज्ञातव्यम् - एतेषु त्रिषु धातुषु मूलरूपेण नकारः एव अस्ति । तस्य अनुस्वारपरसवर्णौ त्रिपादीसूत्रैः प्रक्रियायाः अन्ते भवतः । " }, "64026": { "sa": "रञ्ज्-धातोः अङ्गस्य उपधा-नकारस्य शप्-प्रत्यये परे लोपः भवति । ", "sd": "रन्जँ (रागे) इति भ्वादिगणस्य धातुः । शप्-विकरणे परे अस्य धातोः उपधा-नकारस्य लोपः भवति । यथा -\nरन्ज् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट् ]\n→ रन्ज् + तिप् [<<तिप्तस्...>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]\n→ रन्ज् + शप् + ति [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ रज् + अ + ति [शप्-प्रत्यये परे <<रञ्जेश्च>> [[6.4.26]] इति उपधा-नकारस्य लोपः]\n→ रजति ।\nज्ञातव्यम् -\n1. अस्मिन् सूत्रे यद्यपि 'रञ्ज्' इत्यत्र ञकारः प्रयुक्तः अस्ति, तथापि अयं मूलरूपेण नकारः एव । तस्य अनुस्वारपरसवर्णौ त्रिपादीसूत्रैः प्रक्रियायाः अन्ते भवतः ।\n2. वस्तुतः रञ्ज्-धातोः निर्देशः अपि <<दन्शसञ्जस्वञ्जां शपि>> [[6.4.25]] अस्मिन्नेव सूत्रे भवितुमर्हति । परन्तु रञ्ज्-इत्यस्य अनुवृत्तिः अग्रिम-सूत्रे अपि आवश्यकी, अतः वर्तमानसूत्रे 'रञ्ज्' इति पृथग् रूपेण निर्दिष्टः अस्ति । " }, "64027": { "sa": "रञ्ज्-धातोः अङ्गस्य उपधा-नकारस्य घञ्-प्रत्यये परे भावे तथा करणे लोपः भवति । ", "sd": "घञ्-इति कश्चन कृत्-प्रत्ययः । धातोः परः अयं प्रत्ययः भावे, करणे तथा अधिकरणे विधीयते । एतेभ्यः भावकरणयोः अर्थयोः रन्ज्-धातोः उपधा-नकारस्य वर्तमानसूत्रेण लोपः भवति । यथा -\n1. रन्ज् + घञ् [<<भावे>> [[3.3.18]] इत्यनेन क्रियायाः अर्थे घञ्-प्रत्ययः]\n→ रन्ज् + अ [घकारञकारयोः इत्संज्ञा, लोपः]\n→ रज् + अ [ <<घञि च भावकरणयोः>> [[6.4.27]] इति उपधा-नकारस्य लोपः]\n→ राज् + अ [<<अचो ञ्णिति>> [[7.2.115]] इति उपधा-अकारस्य वृद्धिः]\n→ राग् + अ [<<चजोः कुः घिन्ण्यतोः>> [[7.3.52]] इति घित्-प्रत्यये परे जकारस्य गकारः]\n→ रागः ।\n2. रन्ज् + घञ् [<<हलश्च>> [[3.3.121]] इत्यनेन 'रज्यते अनेन इति' इत्यस्मिन् अर्थे करणे घञ्-प्रत्ययः]\n→ रन्ज् + अ [घकारञकारयोः इत्संज्ञा, लोपः]\n→ रज् + अ [ <<घञि च भावकरणयोः>> [[6.4.27]] इति उपधा-नकारस्य लोपः]\n→ राज् + अ [<<अचो ञ्णिति>> [[7.2.115]] इति उपधा-अकारस्य वृद्धिः]\n→ राग् + अ [<<चजोः कुः घिन्ण्यतोः>> [[7.3.52]] इति घित्-प्रत्यये परे जकारस्य गकारः]\n→ रागः ।\nअधिकरणस्य अर्थे विहिते घञ्-प्रत्यये परे अयं लोपः न भवति । यथा, 'रजन्ति तस्मिन् इति' इत्यत्रापि <<हलश्च>> [[3.3.121]] इत्यनेन अधिकरणे घञ्-प्रत्ययः भवति, परन्तु अत्र 'रङ्गः' इति अन्तिमम् रूपम् जायते । अत्र वर्तमानसूत्रस्य प्रसक्तिः नास्ति, अतः नलोपः अपि न भवति ।\n" }, "64028": { "sa": "", "sd": "" }, "64029": { "sa": "", "sd": "" }, "64030": { "sa": "अञ्च्-धातोः 'पूजायाम्' अस्मिन् अर्थे उपधा-नकारस्य लोपः न भवति । ", "sd": "अञ्च् (गतिपूजनयोः) इति भ्वादिगणस्य धातुः । अयम् धातुः 'गतिः' तथा 'पूजायाम्' एतयोः अर्थयोः प्रयुज्यते । वस्तुतः अस्मिन् धातौ विद्यमानः नकारः कित्-प्रत्यये परे ङित्-प्रत्यये च परे <<अनिदितां हलः उपधायाः क्ङिति>> [[6.4.24]] इत्यनेन लुप्यति । परन्तु यदि अयं धातुः 'पूजायाम्' अस्मिन् अर्थे प्रयुज्यते, तर्हि अयं नकारलोपः वर्तमानसूत्रेण निषिध्यते ।\nयथा, अञ्च् (पूजायाम्) इत्यस्य क्विन्-प्रत्यये परे 'अञ्च्' इत्येव प्रातिपदिकं सिद्ध्यति । परन्तु अञ्च् (गतौ) इत्यस्य क्विन्-प्रत्यये परे नकारलोपं भूत्वा 'अच्' इति प्रातिपदिकं सिद्ध्यति ।\nतथैव, 'क्त' प्रत्यये परे अञ्च् (पूजायाम्) इत्यस्मात् 'अञ्चित' इति प्रातिपदिकं सिद्ध्यति, तथा अञ्च् (गतौ) इत्यस्मात् तु 'अक्त' इति प्रातिपदिकं सिद्ध्यति । अत्रापि नकारस्य लोपः केवलं 'गतौ' अस्मिन् अर्थे कृतः दृश्यते ।\n" }, "64031": { "sa": "क्त्वा-प्रत्यये परे स्कन्द्-धातोः स्यन्द्-धातोः च उपधा-नकारस्य लोपः न भवति । ", "sd": "स्कन्दिँर् (गतिशोषणयो) तथा स्यन्दूँ (प्रस्रवणे) एतौ भ्वादिगणस्य धातू । एतयोः उपस्थितस्य नकारस्य कित्/ङित्-प्रत्यये परे <<अनिदितां हलः उपधायाः क्ङिति>> [[6.4.24]] इत्यनेन वस्तुतः लोपः भवति । परन्तु 'क्त्वा'-प्रत्यये परे वर्तमानसूत्रेण अयं लोपः निषिध्यते । यथा -\n1. स्कन्द् + क्त्वा [<<समानकर्तृकयोः पूर्वकाले>> [[3.4.21]] इति क्त्वा-प्रत्ययः]\n→ स्कन्द् + त्वा [<<अनिदितां हलः उपधायाः क्ङिति>> [[6.4.24]] इत्यनेन नलोपे प्राप्ते <<क्त्वि स्कन्दिस्यन्दोः>> [[6.4.31]] इति नलोपप्रतिषेधः ]\n→ स्कन्त्त्वा, स्कन्त्वा [<<खरि च>> [[8.4.55]] इति दकारस्य चर्त्वे तकारः । <<झरो झरि सवर्णे>> [[8.4.65]] इति वैकल्पिकः तकारलोपः]\n2. स्यन्द्-धातुः ऊदित् अस्ति, अतः अयम् वेट्-धातुः अस्ति (इत्युक्ते, अस्य विषये वैकल्पिकः इडागमः भवति) । अतः अत्र पक्षद्वयम् भवति -\n(अ) इडागम-अभावपक्षे स्कन्द्-धातुवदेव प्रक्रिया भवति, तथा 'स्यन्त्त्वा / स्यन्त्वा' एते रूपे सिद्ध्यतः ।\n(आ) इडागमस्य पक्षे <<न क्त्वा सेट्>> [[1.2.18]] इत्यनेन कित्वप्रतिषेधः भवति । इत्युक्ते, इडागमस्य उपस्थितौ क्त्वा-प्रत्यय कित् नास्ति । अतः तत्र <<अनिदितां हलः उपधायाः क्ङिति>> [[6.4.24]] इत्यनेन नलोपः एव न प्रभवति, अतः तस्य नलोपस्य वर्तमानसूत्रेण निषेधः अपि न आवश्यकः । यथा -\nस्यन्द् + क्त्वा\n→ स्यन्द् + इट् + क्त्वा [<<स्वरतिसूतिसूयतिधूञूदितो वा>> [[7.2.44]] इति वैकल्पिकः इडागमः]\n→ स्यन्दित्वा ।\nइत्युक्ते, स्यन्द्-धातोः विषये अस्य सूत्रस्य प्रसक्तिः केवलमनिट्-प्रक्रियायाम् एव विद्यते, यतः सेट्-प्रक्रियायाम् नकारः तादृशः अपि दृश्यते एव । " }, "64032": { "sa": "जकारान्तधातूनाम् विषये, तथा 'नश्' इत्यस्य विषये क्त्वा प्रत्यये परे उपधा-नकारस्य वैकल्पिकः लोपः भवति । ", "sd": "येषु धातुषु उपधा-स्थाने नकारः अस्ति तथा अन्तिम-स्थाने जकारः अस्ति, तेषामुपधानकारस्य क्त्वा-प्रत्यये परे <<अनिदितां हलः उपधायाः क्ङिति>> [[6.4.24]] इत्यनेन प्राप्तः लोपः वर्तमानसूत्रेण विकल्प्यते । यथा - रन्ज्, भन्ज् - एतेषाम् विषये अयं नकारलोपः विकल्पेन भवति । तथा च, 'नश्' अस्य धातोः <<मस्जिनशोर्झलि>> [[7.1.60]] अनेन सूत्रेण नुमागमे कृते तस्यापि <<अनिदितां हलः उपधायाः क्ङिति>> [[6.4.24]] इत्यनेन प्राप्तः लोपः वर्तमानसूत्रेण विकल्प्यते । प्रक्रियाः एताः -\n1. भन्ज् + क्त्वा\n→ भज् + त्वा / भन्ज् + त्वा [<<जान्तनशां विभाषा>> [[6.4.32]] इति वैकल्पिकः नकारलोपः]\n→ भग् त्वा / भन् ग् त्वा [<<चोः कुः>> [[8.2.30]] इति कुत्वम् गकारः]\n→ भक्त्वा / भङ्क्त्वा [नकारपक्षे <<नश्चापदान्तस्य झलि>> [[8.3.24]] इति अनुस्वारः । उभयोः पक्षयोः <<खरि च>> [[8.4.55]] इति चर्त्वम् । नकारपक्षे <<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति परसवर्णः]\nएवमेव रञ्ज् इत्यस्य रङ्क्त्वा / रक्त्वा एते द्वे रूपे भवतः\n2. नश् + क्त्वा\n→ नन् श् + त्वा [<<मस्जिनशोर्झलि>> [[7.1.60]] इत्यनेन झलादि-प्रत्यये परे नश्-धातोः नुमागमः]\n→ नश् त्वा / नन्श् त्वा [<<जान्तनशां विभाषा>> [[6.4.32]] इति वैकल्पिकः नकारलोपः]\n→ नष्ट्वा, नंष्ट्वा [<<व्रश्चभ्रस्ज..>> [[8.2.36]] इति शकारस्य षकारः । नकारश्रवणपक्षे <<नश्चापदान्तस्य झलि>> [[8.3.24]] इति अनुस्वारः । उभयोः पक्षयोः <<ष्टुना ष्टुः>> [[8.4.41]] इति ष्टुत्वे तकारस्य टकारः]\n " }, "64033": { "sa": "", "sd": "" }, "64034": { "sa": "", "sd": "" }, "64035": { "sa": "शास्-धातोः अङ्गस्य हि-प्रत्यये परे 'शा' आदेशः भवति । ", "sd": "'शास्' (अनुशिष्टौ) इति अदादिगणस्य परस्मैपदी धातुः । लोट्-लकारस्य मध्यमपुरुषैकवचनस्य 'हि' प्रत्यये परे अस्य धातोः 'शा' इति आदेशः भवति । प्रक्रिया इयम् -\nशास् + लोट् [<<लोट् च>> [[3.3.162]] इति लोट्]\n→ शास् + सिप् [<<तिप्तस्..>> [[3.4.78]] इति मध्यमपुरुषैकवचनस्य विवक्षायाम् सिप्-प्रत्ययः]\n→ शास् + शप् + तिप् [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ शास् + सिप् [<<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शपः लुक्]\n→ शास् + हि [<<सेह्यर्पिच्च>> [[3.4.87]] इति 'हि' आदेशः]\n→ शास् + धि [<<हुझल्भ्यो हेर्धिः>> [[6.4.101]] इति झलन्तात् परस्य हि-प्रत्ययस्य धि-आदेशः]\n→ शा + हि [<<शा हौ>> [[6.4.35]] इति हि-प्रत्यये परे शास्-इत्यस्य शा-आदेशः]\nअत्र एतत् स्मर्तव्यम् यत् <<हुझल्भ्यो हेर्धिः>> [[6.4.101]] तथा च <<शा हौ>> [[6.4.35]] एते द्वे अपि सूत्रे <<असिद्धवदत्राभात्>> [[6.4.22]] अस्मिन् अधिकारे आगच्छतः । अतः <<हुझल्भ्यो हेर्धिः>> [[6.4.101]] इत्यनेन हकारस्य कृतः धकारादेशः <<शा हौ>> [[6.4.35]] इत्यनेन न दृश्यते । <<शा हौ>> [[6.4.35]] इत्यस्य दृष्ट्या तु तत्र हकारः एव अस्ति । अतः तत्र <<शा हौ>> [[6.4.35]] इत्यस्य प्रयोगः भवितुमर्हति ।\nज्ञातव्यम् -\n1. 'शा' इति अनेकाल्-आदेशः अस्ति, अतः <<अनेकाल्शित्सर्वस्य>> [[1.1.55]] इत्यनेन अयमादेशः सर्वादेशरूपेण आगच्छति ।\n2. इदं सूत्रम् <<शास इदङ्हलोः >> [[6.4.34]] इति पूर्वसूत्रस्य अपवादरूपेण स्वीकर्तव्यम्, इति नागेशेन शेखरे स्पष्टीकृतम् अस्ति । अतएव अत्र प्रक्रियायाम् प्रकृतसूत्रेण 'शा' इत्यादेशे कृते तस्य आभीय-असिद्धत्त्वात् 'शास्' इत्येव दृष्ट्वा <<शास इदङ्हलोः >> [[6.4.34]] इति पुनः इकारादेशः न भवति ।\nप्रश्नः - त्रिपाद्यां <<धि च>> [[8.2.25]] इति किञ्चन सूत्रं विद्यते । अनेन सूत्रेण धकारादौ प्रत्यये परे सकारस्य लोपः उक्तः अस्ति । अतः 'शास् + धि' इत्यत्र <<शा हौ>> [[6.4.35]] इत्यस्य स्थाने <<धि च>> [[8.2.25]] इति सूत्रस्य प्रयोगं कृत्वा अपि इष्टसिद्धिः भवत्येव, अतश्च <<शा हौ>> [[6.4.35]] इति सूत्रमेव अनावश्यकम् किल ?\nउत्तरम् - <<शा हौ>> [[6.4.35]] इति सूत्रं निष्कास्यते चेत् 'शास् + धि' इत्यत्र <<शास इदङ्हलोः >> [[6.4.34]] इत्यनेन अनिष्टः इकारादेशः सम्भवति । तद्वारणार्थमेव <<शा हौ>> [[6.4.35]] इति सूत्रम् निर्मितम् ।\nप्रश्नः २ - तर्हि <<शा हौ>> [[6.4.35]] इत्यस्य स्थाने 'आ हौ' इत्येव सूत्रम् पर्याप्तम् । तत्र <<अनिदितां हल उपधायाः क्ङिति>> [[6.4.24]] इत्यस्मात् सूत्रात् 'उपधायाः' इत्यस्य अनुवृत्तिं कृत्वा 'शास्-धातोः उपधा-आकारस्य आकारादेशः भवति' इति आकारस्य पुनः आकारादेशम् उक्त्वा तद्विधानसामर्थ्यात् <<शास इदङ्हलोः >> [[6.4.34]] इत्यनेन सिद्धम् इत्त्वम् निवारयितुम् शक्यम् । ततश्च 'शास् + धि' इत्येव स्थिते <<धि च>> [[8.2.25]] इत्यनेन सकारलोपः सम्भवत्येव ।\nउत्तरम् - सत्यम् । परन्तु <<धि च>> [[8.2.25]] इत्यस्य सूत्रस्य अर्थज्ञापने कश्चन गौणः पक्षः अपि विद्यते । अस्मिन् पक्षे <<धि च>> [[8.2.25]] अनेन सूत्रेण केवलं सिच्-प्रत्ययस्य सकारस्यैव लोपः सम्भवति, न अन्येषाम् सकाराणाम् । ये वैयाकरणाः एतादृशं पक्षं मन्यन्ते, तेषां मतेन अत्र <<धि च>> [[8.2.25]] इत्यस्य प्रसक्तिरेव नास्ति । प्रायः अस्य पक्षस्य समर्थनार्थमेव पाणिनिना <<शा हौ>> [[6.4.35]] इति सूत्रम् उक्तम् स्यात् ।\n" }, "64036": { "sa": "हन् -धातोः अङ्गस्य हि-प्रत्यये परे 'ज' आदेशः भवति । ", "sd": "'हन्' (हिंसागत्योः) इति अदादिगणस्य परस्मैपदी धातुः । लोट्-लकारस्य मध्यमपुरुषैकवचनस्य 'हि' प्रत्यये परे अस्य धातोः 'ज' इति आदेशः भवति । अनेकाल्त्वात् अयम् सर्वादेशरूपेण आगच्छति । प्रक्रिया इयम् -\nहन् + लोट् [<<लोट् च>> [[3.3.162]] इति लोट्]\n→ हन् + सिप् [<<तिप्तस्..>> [[3.4.78]] इति मध्यमपुरुषैकवचनस्य विवक्षायाम् सिप्-प्रत्ययः]\n→ हन् + शप् + तिप् [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ हन् + सिप् [<<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शपः लुक्]\n→ हन् + हि [<<सेह्यर्पिच्च>> [[3.4.87]] इति 'हि' आदेशः]\n→ ज+ हि [<<हन्तेर्जः>> [[6.4.36]] इति हि-प्रत्यये परे हन्-इत्यस्य ज-आदेशः]\n→ जहि\nज्ञातव्यम् - 'ज + हि' इत्यत्र <<अतो हेः>> [[6.4.105]] इत्यस्य प्रसक्तिः नास्ति यतः <<असिद्धवदत्राभात्>> [[6.4.22]] इत्यनेन हन्-इत्यस्य जकारादेशः <<अतो हेः>> [[6.4.105]] इत्यर्थमसिद्धः अस्ति । " }, "64037": { "sa": "ये धातवः अनुनासिकान्ताः अनुदात्तोपदेशाः सन्ति, तेषामङ्गस्य, वन्-इत्यस्य अङ्गस्य, तथा च तनोति-इत्यादीनामङ्स्य झलादि कित्/ङित्-प्रत्यये परे अनुनासिकलोपः भवति । ", "sd": "अस्मिन् सूत्रे अनेके बिन्दवः समाविष्टाः सन्ति, अतः क्रमेण पश्यामः -\n1) 'अनुनासिकान्ताः अनुदात्तोपदेशाः' - अनेन तादृशानाम् धातूनाम् ग्रहणं भवति येषु - (अ) अन्तिमवर्णः अनुनासिकः अस्ति, तथा च येषु (आ) औपदेशिक-अवस्थायामनुदात्तः स्वरः विद्यते । एतादृशाः षट्-धातवः धातुपाठे पाठ्यन्ते - यम् (उपरमे), रम् (क्रीडायाम्), नम् (प्रहत्वे शब्दे च), गम् (गतौ), हन् (हिंसागत्योः - अदादिगणः) , मन् (ज्ञाने - दिवादिगणः) ।\n2) 'वनतेः' - इत्यनेन 'वन्' (सम्भक्तौ) अस्य भ्वादिगणस्य धातोः ग्रहणं भवति ।\n3) 'अनुनासिकाः तनोत्यादयः' - इत्यनेन तनादिगणस्य अनुनासिकान्ताः धातवः स्वीक्रियन्ते । अत्र तन् , क्षण्, क्षिण्, ऋण्, तृण् , घृण्, वन्, तथा मन् एतेषाम् ग्रहणं भवति । अत्रापि 'वन्' धातुः निर्दिष्टः अस्ति परन्तु अयम् तनादिगणस्य अस्तीति स्मर्तव्यम् । अपि च, तनादिगणे 'षणुँ दाने' अयमनुनासिकान्तः धातुः विद्यते, परन्तु तस्य अत्र ग्रहणं न भवति, यतः तस्य विषये अनुनासिकस्य लोपं बाधित्वा <<जनसनखनां सञ्झलोः>> [[6.4.42]] इत्यनेन आकारादेशः विधीयते ।\nएतेषाम् सर्वेषाम् विषये झलादि-कित्-प्रत्यये परे तथा झलादि-ङित्-प्रत्यये परे वर्तमानसूत्रेण अङ्गस्य अन्तिमवर्णस्य लोपः विधीयते ।\nउदाहरणानि एतादृशानि -\n1. यम् + क्त्वा → यत्वा ।\n2. रम् + क्तिन् → रतिः ।\n3. नम् + क्त → नत ।\n4. गम् + क्तवतु → गतवत् ।\n5. हन् धातोः लट्-लकारस्य प्रथमपुरुषद्विवचनस्य प्रक्रिया -\nहन् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ हन् + तस् [<<तिप्तस्..>> [[3.4.78]] इति प्रथमपुरुषबहुवचनस्य झि-प्रत्ययः]\n→ हन् + शप् + तस् [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ हन् + तस् [<<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शपः लुक्]\n→ ह + तस् [तस्-प्रत्ययः अपित्-सार्वधातुकप्रत्ययः अस्ति, अतः <<सार्वधातुकमपित्>> [[1.2.4]] इत्यनेन सः ङिद्वत् भवति । अतः <<अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति>> [[6.4.37]] इत्यनेन नकारलोपः अपि भवति ।]\n→ हतः [विसर्गनिर्माणम्]\n6. मन् + क्त्वा → मत्वा ।\n7. वन् + क्तिन् → वति ।\n8. तन् + क्त → तत ।\n9. क्षण् + क्त → क्षत ।\n10. क्षिण् + क्त्वा → क्षित्वा ।\n11. ऋण् + क्त → ऋत ।\n12. तृण् + क्तवतु → तृतवत् ।\n13. घृण् + क्तवतु → घृतवत् ।\n14. वन् + क्त → वत ।\n15. मन् + क्त → मत ।\nज्ञातव्यम् -\n1. अस्मिन् सूत्रे 'अनुनासिक' इति वस्तुतः 'अनुनासिकानाम्' एतादृशम् षष्ठी-बहुवचनस्य रूपमस्ति, परन्तु तस्य विभक्तेः लोपं कृत्वा तस्य निर्देशः अत्र कृतः अस्ति । अनुनासिकानाम् इत्यपि 'अनुदात्तोपदेश-वनति-तनोति-आदीनाम्' इति यावत् 'अङ्गस्य' इत्यस्य विशेषणमस्ति । अतः 'अनुनासिकलोप' इति एकः शब्दः नास्ति, शब्दद्वयं अस्तीति स्मर्तव्यम् ।\n2. अनेन सूत्रेण 'अङ्गस्य' लोपः उक्तः अस्ति । <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यनेन अयम् लोपः अङ्गस्य अन्तिमवर्णस्य भवति ।\n" }, "64038": { "sa": "", "sd": "" }, "64039": { "sa": "", "sd": "" }, "64040": { "sa": "", "sd": "" }, "64041": { "sa": "", "sd": "" }, "64042": { "sa": "", "sd": "" }, "64043": { "sa": "", "sd": "" }, "64044": { "sa": "", "sd": "" }, "64045": { "sa": "", "sd": "" }, "64046": { "sa": "", "sd": "" }, "64047": { "sa": "आर्धधातुके प्रत्यये परे भ्रस्ज्-धातोः रेफस्य तथा उपधावर्णस्य विकल्पेन 'रम्' इति आगमः भवति । ", "sd": "'भ्रस्ज्' (पाके) अस्य धातोः रेफस्य तथा उपधावर्णस्य (इत्युक्ते सकारस्य) आर्धधातुके प्रत्यये परे विकल्पेन रम्-इति आगमः भवति । अत्र बिन्दुद्वयम् स्मर्तव्यम् -\n1) 'रम्' अयम् मित्-आगमः अस्ति, अतः <<मिदचोऽन्त्यात्परः>> [[1.1.47]] इत्यनेन अयमन्तिम-स्वरात् अनन्तरमागच्छति । अत्र मकारः इत्संज्ञकः, अकारश्च उच्चारणार्थः अस्ति, अतः प्रयोगे केवलं 'र्' इत्येव दृश्यते ।\n2) यद्यपि 'रम्' इति आगमः अस्ति, तथापि अस्मिन् सूत्रे स्थानिनौ स्पष्टरूपेण निर्दिष्टौ स्तः, अतः अस्मिन् आगमे कृते निर्दिष्टयोः स्थानिनोः लोपः भवति ।\nइत्युक्ते, वर्तमानसूत्रेण 'भ्रस्ज्' इत्यस्य रेफ-सकारयोः लोपं कृत्वा 'र्' इत्यस्य आगमः विधीयते -\nभ्रस्ज् = भ् र् अ स् ज् → [रेफस्य लोपः ; सकारस्य लोपः ] भ् अ ज् → [अन्त्यात् अचः परः र् आगमः] → भ् अ र् ज् = भर्ज्\nयथा - भ्रस्ज्-धातोः तुमुन्-प्रत्ययान्तरूपम् -\nभ्रस्ज् + तुमुन् [<<तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्>> [[3.3.10]] इति तुमुन् । अयमार्धधातुकप्रत्ययः अस्ति ।]\n→ भर्ज् + तुम् [<<भ्रस्जो रोपधयोः रमन्यतरस्याम्>> [[6.4.47]] इत्यनेन रेफस्य तथा उपधावर्णस्य च लोपः, रम्-आगमः]\n→ भर्ष् + तुम् [<<व्रश्चभ्रस्ज...>> [[8.2.36]] इति षत्वम्]\n→ भर्ष्टुम् [<<ष्टुना ष्टुः>> [[8.4.41]] इति ष्टुत्वम्]\nअनेन सूत्रेण उक्तः विधिः वैकल्पिकः अस्ति, अतः अस्य अभावे 'भ्रष्टुम्' इत्यपि रूपम् सिद्ध्यति -\nभ्रस्ज् + तुमुन् [<<तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्>> [[3.3.10]] इति तुमुन् । अयमार्धधातुकप्रत्ययः अस्ति ।]\n→ भ्रज् + तुम् [<<स्कोः संयोगाद्योरन्ते च>> [[8.2.29]] इत्यनेन सकारलोपः]\n→ भ्रष्+ तुम् [<<व्रश्चभ्रस्ज...>> [[8.2.36]] इति षत्वम्]\n→ भ्रष्टुम् [<<ष्टुना ष्टुः>> [[8.4.41]] इति ष्टुत्वम्]\n" }, "64048": { "sa": "", "sd": "" }, "64049": { "sa": "", "sd": "" }, "64050": { "sa": "", "sd": "" }, "64051": { "sa": "", "sd": "" }, "64052": { "sa": "", "sd": "" }, "64053": { "sa": "", "sd": "" }, "64054": { "sa": "", "sd": "" }, "64055": { "sa": "", "sd": "" }, "64056": { "sa": "", "sd": "" }, "64057": { "sa": "", "sd": "" }, "64058": { "sa": "", "sd": "" }, "64059": { "sa": "", "sd": "" }, "64060": { "sa": "", "sd": "" }, "64061": { "sa": "", "sd": "" }, "64062": { "sa": "", "sd": "" }, "64063": { "sa": "", "sd": "" }, "64064": { "sa": "", "sd": "" }, "64065": { "sa": "", "sd": "" }, "64066": { "sa": "", "sd": "" }, "64067": { "sa": "", "sd": "" }, "64068": { "sa": "", "sd": "" }, "64069": { "sa": "", "sd": "" }, "64070": { "sa": "", "sd": "" }, "64071": { "sa": "लुङ्लकारे, लङ्लकारे, लृङ्लकारे च परे अङ्गस्य उदात्तः अट्-आगमः भवति । ", "sd": "लुङ्लकारस्य , लङ्लकारस्य, लृङ्लकारस्य प्रत्यये परे अङ्गस्य 'अट्' आगमः भवति । सः च उदात्तसंज्ञकः भवति ।\nयथा -\n1. पठ् + लङ् [<<अनद्यतने लङ्>> [[3.2.111]] इति लङ्]\n→ अट् + पठ् + लङ् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अट्-आगमः]\n→ अ + पठ् + तिप् [<<तिप्तस्..>> [[3.4.78]] इति तिप्]\n→ अ + पठ् + शप् + ति [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ अ + पठ् + अ + त् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ अपठत्\n2. पठ् + लुङ् [<<लुङ्>> [[3.2.110]] इति लुङ्]\n→ पठ् + च्लि + ल् [<<च्लि लुङि>> [[3.1.43]] इति लुङ्लकारस्य प्रत्यये परे लकारविकरणम् 'च्लि']\n→ पठ् + सिच् + ल् [<<च्लेः सिच्>> [[3.1.44]] इति च्ले-इत्यस्य सिच्-आदेशः ।]\n→ अट् पठ् + स् + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अट्-आगमः]\n→ अ पठ् + स् + तिप् [<<तिप्तस्..>> [[3.4.78]] इति तिप्]\n→ अ पठ् + स् + त् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ अ पठ् + इट् स् + त् [<<आर्द्धधातकस्य इड्वलादेः>> [[7.2.35]] इति इडागमः]\n→ अ पठ् + इ स् + ईट् त् [<<अस्तिसिचोऽपृक्ते>> [[7.3.96]] इति ईट्-आगमः]\n→ अ पठ् / पाठ् + इ स् + ई त् [<<अतो हलादेर्लघोः>> [[7.2.7]] इति वैकल्पिकवृद्धिः]\n→ अ पठ्/पाठ् + इ + ई + त् [<<इट ईटि>> [[8.2.28]] इति सकारलोपः]\n→ अपठीत् / अपाठीत् [ अनेन वार्तिकेन सवर्णदीर्घ-एकादेशे कर्तव्ये सिच्लोपः सिद्धः अस्ति । अतः <<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः]\n[ अस्य अर्थः अयम् - यदि एकादेशः कर्तव्यः अस्ति, तर्हि सिच्-प्रत्ययस्य कृतः लोपः (यद्यपि त्रिपाद्या क्रियते, तथापि, सपादसप्ताध्याय्याः) एकादेश-कारकेभ्यः सूत्रेभ्यः सिद्धः अस्ति । इत्युक्ते, एतानि सूत्राणि सकारलोपं द्रष्टुं शक्नुवन्ति । ]\n3. पठ + लृङ् [<<लिङ्निमित्ते लृङ् क्रियातिपत्तौ>> [[3.3.139]] इति लृङ्]\n→ अट् + पठ् + लृङ् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अट्-आगमः]\n→ अट् + पठ् + स्य + लृङ् [ <<स्यतासी लृलुटोः>> [[3.1.33]] इति विकरणम् 'स्य']\n→ अ + पठ् + स्य + तिप् [<<तिप्तस्..>> [[3.4.78]] इति तिप्]\n→ अ+ पठ् + इट् स्य + ति [<<आर्द्धधातुकस्य इड्वलादेः>> [[7.2.35]] इति इडागमः]\n→ अ पठ् + इ स्य + त् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ अपठिष्यत् [<<आदेशप्रत्यययोः>> [[8.3.59]] इति षत्वम् ]\nविशेषः -\n1. <<यस्मात् प्रत्ययविधिः तदादि प्रत्ययेङ्गम्>> [[1.4.13]] अनया व्याख्यया लकारस्य अङम् 'धातुः' अस्ति, यतः <<धातोः>> [[3.1.91]] अस्मिन् अधिकारे लकाराः पाठिताः सन्ति । अतः उपसर्गस्य उपस्थितौ अपि अडागमः केवलम् धातोः एव भवति, उपसर्गस्य न । यथा -\nसम् + गम् + लङ् [<<अनद्यतने लङ्>> [[3.2.111]] इति लङ् । <<समो गम्यृच्छि..>> [[1.3.29]] इति आत्मनेपदम्]\n→ सम् + अट् + गम् + लङ् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अट्-आगमः । अयमागमः धातोः पूर्वम् भवति, उपसर्गात् पूर्वम् न ।]\n→ सम् + अ + गम् + त [<<तिप्तस्..>> [[3.4.78]] इति आत्मनेपदस्य प्रथमपुरुषेकवचनस्य प्रत्ययः 'त']\n→ सम् + अ + गम् + शप् + त [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ सम् + अ + गछ् + अ + त [<<इषुगमियमां छः>> [[7.3.77]] इति छकारादेशः]\n→ सम् + अ + गत् छ् + अ + त [ <<छे च>> [[6.1.73]] इति तुगागमः]\n→ सम् + अ + गच् छ् + अ + त [<<स्तोः श्चुना श्चुः>> [[8.4.40]] इति श्चुत्वम्]\n→ समगच्छत\n2. यदि धातोः आदिवर्णः स्वरः अस्ति (यथा - अट्, इण् - आदयः), तर्हि वर्तमानसूत्रेण प्रोक्तस्य अडागमस्य अपवादत्वेन <<आडजादीनाम्>> [[6.4.72]] अनेन सूत्रेण आडागमः भवति । यथा, इष्-धातोः लङ्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -\nइष् + लङ् [<<अनद्यतने लङ्>> [[3.2.111]] इति लङ् । ]\nआट् + इष् + लङ् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इत्यनेन अडागमे प्राप्ते अपवादत्वेन <<आडजादीनाम्>> [[6.4.72]] इति आडागमः]\n→ आ + इष् + तिप् [<<तिप्तस्..>> [[3.4.78]] इति तिप्]\n→ आ + इष् + शप् + ति [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ आ + इछ् + अ + ति [<<इषुगमियमां छः>> [[7.3.77]] इति छकारादेशः]\n→ ऐछ् + अ + ति [<<आटश्च>> इति वृद्धि-एकादेशः]\n→ ऐत् छ् + अ + ति [<<छे च>> [[6.1.73]] इति तुगागमः । <<षत्वतुकोरसिद्धः>> [[6.1.86]] इत्यनेन वृद्धि-एकादेशः तुगागमार्थमसिद्धः अस्ति ।]\n→ ऐत् छ् + अ + त् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ ऐत् छ् + अ + त् [ <<स्तोः श्चुना श्चुः>> [[8.4.40]] इति श्चुत्वम्]\n→ ऐच्छत्\n3. यदि धातोः आदिवर्णः व्यञ्जनमस्ति, परन्तु प्रक्रियायाम् तस्य स्थाने स्वरादेशः भवति, तथापि अनेन सूत्रेण अडागमः न भवति, अपितु अपवादत्वेन <<आडजादीनाम्>> [[6.4.72]] अनेन सूत्रेण आडागमः भवति । यथा, 'वेञ्' धातोः कर्मणि-प्रयोगे लङ्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -\nवेञ् + लङ् [<<अनद्यतने लङ्>> [[3.2.111]]]\n→ वेञ् + त [<<भावकर्मणोः>> [[1.3.13]] इति आत्मनेपदम् । <<तिप्तस्झि..>> [[3.4.78]] इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य 'त' प्रत्ययः]\n→ वेञ् + यक् + त [<<सार्वधातुके यक्>> [[3.1.67]] इति यक्-विकरणम्]\n→ उ + य + त [<<वचिस्वपियजादीनां किति>> [[6.1.15]] इति सम्प्रसारणम् , <<सम्प्रसारणाच्च>> [[6.1.108]] इति पूर्वरूपः]\n→ आट् + उ + य + त [<<आडजादीनाम्>> [[6.4.72]] इति आडागमः ।]\n→ औयत [<<आटश्च>> [[6.1.90]] इति वृद्धि-एकादेशः]\nवस्तुतः अट्-आगमः लकारस्य उपस्थितौ, लादेशात् पूर्वमेव भवितुमर्हति, यतः अस्मिन् सूत्रे 'लुङ्-लङ्-लृङ्क्षु ' इति निर्दिष्टमस्ति । तथापि, लकारस्य तिबादयः आदेशाः अन्तरङ्गकार्याणि सन्ति, तथा अडागमः बहिरङ्गकार्यमस्ति । अतः अन्तरङ्गकार्यात् अनन्तरम् यदि अङ्गस्य आदिवर्णे परिवर्तनं भूत्वा तस्य स्वरादेशः भवेत्, तर्हि आदौ तादृशमादेशं कृत्वा अनन्तरमेव आडागमः करणीयः । एवं नास्ति चेत् तु आरम्भे एव अडागमः करणीयः ।\nज्ञातव्यम् - <ऽआगमाः अनुदात्ताः भवन्तिऽ> इयम् काचन परिभाषा अस्ति । अनया परिभाषया सर्वे आगमाः अनुदात्ताः विधीयन्ते । परन्तु अस्मिन् सूत्रे 'उदात्तः' इति स्पष्टरूपेण निर्दिष्टमस्ति, अतः अयमागमः उदात्तः एव ज्ञातव्यः ।\n" }, "64072": { "sa": "लुङ्लकारे, लङ्लकारे, लृङ्लकारे च परे अजादेः अङ्गस्य उदात्तः आट्-आगमः भवति ।", "sd": "लुङ्लकारस्य , लङ्लकारस्य, लृङ्लकारस्य प्रत्यये परे अङ्गस्य <<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इत्यनेन अट्-आगमे प्राप्ते अपवादत्वेन वर्तमानसूत्रेण आट्-आगमः भवति । आट्-आगमे कृते च तस्य आट्-आगमस्य तथा अङ्गस्य आदिस्वरस्य <<आटश्च>> इत्यनेन पूर्वपरयोः एकः वृद्धि-एकादेशः भवति । यथा -\n1. ईक्ष् + लङ् [<<अनद्यतने लङ्>> [[3.2.111]] इति लङ्]\n→ आट् + ईक्ष् + लङ् [<<आडजादीनाम्>> [[6.4.72]] इति आट्-आगमः]\n→ आ + ईक्ष् + त [<<तिप्तस्..>> [[3.4.78]] इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य प्रत्ययः 'त']\n→ आ + ईक्ष् + शप् + त [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ ऐक्षत [<<आटश्च>> [[6.1.90]] इति वृद्धि-एकादेशः]\n2. ईक्ष् + लुङ् [<<लुङ्>> [[3.2.110]] इति लुङ्]\n→ ईक्ष् + च्लि + ल् [<<च्लि लुङि>> [[3.1.43]] इति लुङ्लकारस्य प्रत्यये परे लकारविकरणम् 'च्लि']\n→ ईक्ष् + सिच् + ल् [<<च्लेः सिच्>> [[3.1.44]] इति च्ले-इत्यस्य सिच्-आदेशः ।]\n→ आट् ईक्ष्+ स् + ल् <<आडजादीनाम्>> [[6.4.72]] इति आट्-आगमः]\n→ आ ईक्ष् + स् + त [<<तिप्तस्..>> [[3.4.78]] इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य प्रत्ययः 'त']\n→ आ ईक्ष् + इट् स् + त [<<आर्द्धधातकस्य इड्वलादेः>> [[7.2.35]] इति इडागमः]\n→ ऐक्ष् + इ स् + त [<<आटश्च>> [[6.1.90]] इति वृद्धि-एकादेशः]\n→ एक्षिष् + त [<<आदेशप्रत्यययोः>> [[8.3.59]] इति प्रत्ययावयवस्य सकारस्य षत्वम्]\n→ ऐक्षिष्ट [<<ष्टुना ष्टुः>> [[8.4.41]] इति ष्टुत्वम्]\n3. ईक्ष् + लृङ् [<<लिङ्निमित्ते लृङ् क्रियातिपत्तौ>> [[3.3.139]] इति लृङ्]\n→ आट् + ईक्ष् + लृङ् [<<आडजादीनाम्>> [[6.4.72]] इति आट्-आगमः]\n→ आ + ईक्ष् + स्य + लृङ् [ <<स्यतासी लृलुटोः>> [[3.1.33]] इति विकरणम् 'स्य']\n→ आ + ईक्ष् + स्य + त [<<तिप्तस्..>> [[3.4.78]] इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य प्रत्ययः 'त']\n→ आ+ ईक्ष् + इट् स्य + त [<<आर्द्धधातुकस्य इड्वलादेः>> [[7.2.35]] इति इडागमः]\n→ ऐक्ष् + इ स्य + त [<<आटश्च>> [[6.1.90]] इति वृद्धि-एकादेशः]\n→ ऐक्षिष्यत [<<आदेशप्रत्यययोः>> [[8.3.59]] इति प्रत्ययावयवस्य सकारस्य षत्वम्]\nविशेषः - यदि धातोः आदिवर्णः व्यञ्जनमस्ति, परन्तु प्रक्रियायाम् तस्य स्थाने स्वरादेशः भवति, तर्हि <<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इत्यनेन अडागमः न भवति, अपितु अपवादत्वेन <<आडजादीनाम्>> [[6.4.72]] अनेन सूत्रेण आडागमः भवति । यथा, 'वेञ्' धातोः कर्मणि-प्रयोगे लङ्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -\nवे + लङ् [<<अनद्यतने लङ्>> [[3.2.111]]]\n→ वे + त [<<भावकर्मणोः>> [[1.3.13]] इति आत्मनेपदम् । <<तिप्तस्झि..>> [[3.4.78]] इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य 'त' प्रत्ययः]\n→ वे + यक् + त [<<सार्वधातुके यक्>> [[3.1.67]] इति यक्-विकरणम्]\n→ उ + य + त [<<वचिस्वपियजादीनां किति>> [[6.1.15]] इति सम्प्रसारणम् , <<सम्प्रसारणाच्च>> [[6.1.108]] इति पूर्वरूपः]\n→ आट् + उ + य + त [<<आडजादीनाम्>> [[6.4.72]] इति आडागमः ।]\n→ औयत [<<आटश्च>> [[6.1.90]] इति वृद्धि-एकादेशः]\nअस्य कारणम् एतत् - अडागमः / आडागमः लादेशापेक्षया बहिरङ्गकार्यमस्ति । अतः लादेशैः यदि अङ्गे परिवर्तनम् क्रियते, तर्हि तत् परिवर्तनमादौ कृत्वा ततः एव अडागमः / आडागमः क्रियते ।\n" }, "64073": { "sa": "वेदेषु - लुङ्लकारे, लङ्लकारे, लृङ्लकारे अनजादीनामपि आडागमः दृश्यते ।", "sd": "<<आडजादीनाम्>> [[6.4.72]] इत्यनेन केवलं अजादि-धातूनाम् विषये प्रोक्तः आट्-आगमः वेदेषु हलादि-धातूनाम् विषये अपि (बहुलम्) दृश्यते ।\nयथा - 'सुरुचो वेन आवः' (अथर्ववेदः, 4.1.1) - इत्यत्र 'आवः' इति रूपम् वृञ्-धातोः लृङ्लकारस्य प्रथमपुरुषैकवचनस्य रूपमस्ति । अत्र अडागमस्य स्थाने आडागमः कृतः दृश्यते । प्रक्रिया इयम् -\nवृञ् + लुङ् [<<लुङ्>> [[3.2.110]] इति लुङ्]\n→ वृ + च्लि + ल् [<<च्लि लुङि>> [[3.1.43]] इति लुङ्लकारस्य प्रत्यये परे लकारविकरणम् 'च्लि']\n→ वृ + सिच् + ल् [<<च्लेः सिच्>> [[3.1.44]] इति च्ले-इत्यस्य सिच्-आदेशः ।]\n→ आट् वृ + स् + ल् [<<छन्दस्यपि दृश्यते>> [[6.4.72]] इति हलादि-धातोः अपि आट्-आगमः]\n→ आ + वर् + स् + ल् [<<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणः, <<उरण् रपरः>> [[1.1.51]] इति सः रपरः]\n→ आ वर् + स् + तिप् [<<तिप्तस्..>> [[3.4.78]] इति तिप्]\n→ आ वर् + स् + त् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ आ वर् + त् [<<अस्तिसिचोऽपृक्ते>>\n→ आ वर् + स् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.168]] इति अपृक्त-तकार-लोपः]\n→ आ वर् स् [<<रात्सस्य>> [[8.3.24]] इति रेफात् परस्य सकारस्य लोपः]\n→ आवः [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति रेफस्य विसर्गः]" }, "64074": { "sa": "माङ्-इत्यस्य उपस्थितौ लुङ्लकारे, लङ्लकारे, लृङ्लकारे च अङ्गस्य अडागमः / आडागमः न भवति । ", "sd": "'माङ्' इति किञ्चन अव्ययम् । अस्य प्रयोगः निषेधं दर्शयितुम् भवति । माङ्-इत्यस्य उपस्थितौ <<माङि लुङ्>> इत्यनेन [[3.3.75]] इत्यनेन केवलं लुङ्-लकारस्यैव प्रयोगः भवितुमर्हति, अन्येषां लकाराणाम् न । तथा च, यदि माङ्-इत्येतेन सह 'स्म' इति अन्यत् अव्ययमपि प्रयुज्यते, तर्हि <<स्मोत्तरे लङ् च>> [[3.3.176]] इत्यनेन लङ्लकारस्य लुङ्लकारस्य वा एव प्रयोगः भवितुमर्हति, अन्येषाम् लकाराणाम् न । अस्मिन् प्रयोगे वर्तमानसूत्रेण अडागमः / आडागमः न क्रियते ।\nयथा - 'क्लैब्यं मा स्म गमः पार्थ' (भगवद्गीता, 2.3) - अत्र 'गम्' धातोः लुङ्लकारस्य मध्यमपुरुषैकवचनस्य रूपम् 'गमः' एतादृशम् सिद्ध्यति ।\nगम् + लुङ् [<<लोट् च>> [[3.3.162]] इत्यनेन 'विधिं' दर्शयितुम् लोट्लकारे प्राप्ते <<स्मोत्तरे लङ् च>> [[3.3.176]] इत्यनेन अपवादत्वेन लुङ्-लकारः विधीयते ।]\n→ गम् + च्लि + ल् [<<च्लि लुङि>> [[3.1.43]] इति लुङ्लकारस्य प्रत्यये परे लकारविकरणम् 'च्लि']\n→ गम् + अ + ल् [<<3-1-55 पुषादिद्युताद्यॢदितः परस्मैपदेषु>> [[3.1.55]] इति च्लि-इत्यस्य अङ्-आदेशः ।]\n→ गम् + अ + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इत्यनेन अडागमे प्राप्ते <<न माङ्योगे>> [[6.4.74]] इति अडागमनिषेधः]\n→ गम् + अ + सि [<<तिप्तस्..>> [[3.4.78]] इति सिप्]\n→ गम् + अ + स् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ गमः [विसर्गनिर्माणम्]\nतथैव - मा भवान् कार्षीत् / मा भवान् करोत् - एतादृशाः प्रयोगाः अपि सिद्ध्यन्ति ।\nज्ञातव्यम् - 'मा' इत्येपि अन्यत् एकमव्ययमस्ति, यस्यापि प्रयोगः 'निषेधार्थे' एव भवति । परन्तु अस्मात् अव्ययात् परः कस्यापि लकारस्य प्रयोगः भवितुमर्हति । तथा च, अस्य उपस्थितौ वर्तमानसूत्रस्य प्रसक्तिः नास्ति, अतः लुङ्/लङ्/लृङ्-लकाराणां विषये अडागमः / आडागमः भवत्येव । यथा, भर्तृहरिः वदति - 'अरसिकेषु कवित्वनिवेदनम्, शिरसि मा लिख, मा लिख, मा लिख । अत्र 'मा' इत्यस्मात् परः लोट्लकारः प्रयुक्तः अस्ति ।\n" }, "64075": { "sa": "वेदेषु - माङ्-योगे अपि अङ्गस्य अट् आट् बहुलम् भवतः ।", "sd": "माङ्-अव्ययस्य उपस्थितौ <<न माङ्योगे>> [[6.4.74]] इत्यनेन अङ्गस्य अट्/आट्-आगमस्य निषेधः क्रियते । परन्तु वेदेषु माङ्योगेऽपि एतौ आगमौ कृतौ दृश्येते, तथा माङ्-विना अपि एतयोः निषेधः कृतः दृश्यते ।\nयथा -\n1. 'जनिष्ठा उग्रः सहसे तुराय' (तैत्तिरीयब्राह्मणम् - 2.8.3.18) । अत्र 'जनिष्ठाः' इति जन्-धातोः लुङ्-लकारस्य मध्यमपुरुषैकवचनमस्ति । अत्र यद्यपि माङ्-ग्रहणम् नास्ति, तथापि अडागमः न दृश्यते ।\n2. 'मा वः क्षेत्रे परबीजानि अवाप्सुः' (आपस्तम्बधर्मसूत्राणि) - अत्र 'अवाप्सुः' इति वप्-धातोः लुङ्लकारस्य मध्यमपुरुषैकवचनमस्ति । अत्र यद्यपि माङ्-ग्रहणमस्ति , तथापि अडागमः दृश्यते ।" }, "64076": { "sa": "", "sd": "" }, "64077": { "sa": "अजादिप्रत्यये परे 'श्नु' इत्यस्य, धातुसंज्ञकस्य, तथा 'भ्रू' इत्यस्य इवर्णान्त/उवर्णान्तस्य अङ्गस्य इयङ्-उवङ्-आदेशौ भवतः । ", "sd": "अनेन सूत्रेण त्रिविधानामङ्गानामजादिप्रत्यये परे इयङ्/उवङ् आदेशौ उक्तौ स्तः । एतयोः अन्तिमः ङकारः इत्संज्ञकः अस्ति, तथा ङकारात् पूर्वं विद्यमानः अकारः उच्चारणार्थः अस्ति, अतः आदेशरूपेण 'इय्' तथा 'उव्' एतयोः एव प्रयोगः भवति । तथा च, ङित्वात् <<ङिच्च>> [[1.1.53]] इत्यनेन एतौ आदेशौ अन्त्यादेशरूपेण भवतः । क्रमेण पश्यामः -\n1) 'श्नु' इति स्वादिगणस्य विकरणप्रत्ययस्य अजादिप्रत्यये परे उवङ्-आदेशः भवति । यथा, 'आप्ऌ' (व्याप्तौ) इति स्वादिगणस्य धातुः । अस्य लट्-लकारस्य प्रथमपुरुषबहुवचनस्य प्रक्रिया इयम् -\nआप् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्लकारः]\n→ आप् + श्नु + लट् [<<स्वादिभ्यः श्नुः>> [[3.1.73]] इति विकरणप्रत्ययः 'श्नु']\n→ आप् + नु + झि [<<तिप्तस्...>> [[3.4.78]] इति प्रथमपुरुषबहुवचनस्य प्रत्ययः 'झि']\n→ आप् + नु + अन्ति [<<झोऽन्तः>> [[7.1.3]] इति झकारस्य 'अन्त्' आदेशः]\n→ आप् न् उवङ् + अन्ति [<<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> [[6.4.77]] इति श्नु-इत्यस्य उकारस्य अच्-वर्णे परे उवङ्-आदेशः ।\n→ आप् न् उव् अन्ति [ङकारस्य इत्संज्ञा, लोपः । अकारः उच्चारणार्थः।]\n→ आप्नुवन्ति\n2) धातोः इवर्णान्तस्य / उवर्णान्तस्य अङ्गस्य अजादिप्रत्यये परे (क्रमेण) इयङ् / उवङ्-आदेशौ भवतः । यथा\nअ) 'धि' (धारणे) इति तुदादिगणस्य धातुः । अस्य लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -\nधि + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ धि + तिप् [<<तिप्तस्..>> [[3.4.78]] इति तिप्]\n→ धि + श + ति [<<तुदादिभ्यः शः>> [[3.1.77]] इति विकरणप्रत्ययः 'श']\n→ ध् इयङ् + अ + ति [<<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> [[6.4.77]] इति इयङ्-आदेशः]\n→ धियति ।\nआ) 'णू' (स्तवने) इति तुदादिगणस्य धातुः । अस्य लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -\nणू\n→ नू [<<णो नः>> [[6.1.65]] इति नत्वम्]\n→ नू + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ नू + तिप् [<<तिप्तस्..>> [[3.4.78]] इति तिप्]\n→ नू + श + ति [<<तुदादिभ्यः शः>> [[3.1.77]] इति विकरणप्रत्ययः 'श']\n→ न् उवङ् + अ + ति [<<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> [[6.4.77]] इति उवङ्-आदेशः]\n→ नुवति ।\n3) भ्रू-शब्दस्य अजादिप्रत्यये परे उवङ्-आदेशः भवति । यथा -\nभ्रू + टा [<<स्वौजस्..>> [[4.1.2]] इति तृतीयैकवचनस्य टा-प्रत्ययः]\n→ भ्र् उवङ् + आ [<<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>>[[6.4.77]] इति भ्रू-इत्यस्य उवङ्-आदेशः]\n→ भ्रुवा\nविशेषः - धातोः क्विप्-प्रत्ययं कृत्वा यत् प्रातिपदिकं सिद्ध्यति, तस्यापि <ऽक्विबन्ताः धातुत्वं न जहतिऽ> अनया परिभाषया धातुसंज्ञा अस्ति एव । अतः तादृशानाम् शब्दानामपि अजादिप्रत्यये परे इयङ्/उवङ्-आदेशौ भवतः । यथा -\nअ) नी-धातोः <<क्विप् च>> [[3.2.76]] इत्यनेन क्विप्-प्रत्यये कृते 'नी' इति प्रातिपदिकं सिद्ध्यति । अस्य प्रातिपदिकस्य धातुसंज्ञा अपि अस्ति । अस्य तृतीयैकवचनस्य प्रक्रिया इयम् जायते -\nनी + टाप् [<<स्वौजस्..>> [[4.1.2]] इति टा-प्रत्ययः]\n→ न् इयङ् + आ [<<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> [[6.4.77]] इति ईकारान्तधातोः इयङ्-आदेशः]\n→ निया ।\nएवमेव 'धी', 'श्री' एतेषां शब्दानामपि इयङ्-आदेशः कृतः दृश्यते ।\nआ) पू-धातोः <<क्विप् च>> [[3.2.76]] इत्यनेन क्विप्-प्रत्यये कृते 'पू' इति प्रातिपदिकं सिद्ध्यति । अस्य प्रातिपदिकस्य धातुसंज्ञा अपि अस्ति । अस्य तृतीयैकवचनस्य प्रक्रिया इयम् जायते -\nपू + टाप् [<<स्वौजस्..>> [[4.1.2]] इति टा-प्रत्ययः]\n→ प् उवङ् + आ [<<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> [[6.4.77]] इति ऊकारान्तधातोः उवङ्-आदेशः]\n→ पुवा ।\nज्ञातव्यम् -\n1. अस्मिन् सूत्रे 'प्रत्यये' इति न अनुवर्तते । परन्तु एतत् सूत्रमङ्गाधिकारे अस्ति, अतः <<यस्मात् प्रत्ययविधिः तदादि प्रत्ययेङ्गम्>> [[1.4.13]] इत्यनेन अग्रे प्रत्ययस्यैव अच्-वर्णः भवितुमर्हति, अतः 'प्रत्यये' इति सूत्रार्थे उक्तमस्ति ।\n2. अस्मिन् सूत्रे 'प्रयुक्तः' 'य्वोः' अयं शब्दः 'इ+उ = यु' इत्यस्य षष्ठीद्विवचनमस्ति । अत्र इकारेण उकारेण च सर्वे अष्टादश सवर्णाः गृह्नन्ते । अतः दीर्घ-ईकारस्य / दीर्घ-ऊकारस्य विषये अपि अस्य सूत्रस्य प्रसक्तिः अस्ति ।\n3. अस्मिन् सूत्रे 'य्वोः' इति 'अङ्गस्य' इत्यस्य विशेषणमस्ति । अतः <<येन विधिस्तदन्तस्य>> [[1.1.72]] इत्यनेन 'य्वोः अङ्गस्य' इत्युक्ते इवर्णान्त/उवर्णान्तस्य अङ्गस्य । यद्यपि इयङ्/उवङ्-आदेशौ अनेकाल्-आदेशौ स्तः, तथापि <<ङिच्च>> [[1.1.53]] इत्यनेन अन्त्यादेशरूपेण आगच्छतः ।\n4. <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इत्यनेन निर्दिष्टः गुणादेशः / वृद्धि-आदेशः वर्तमानसूत्रम् बाधते ।\n5. <<एरनेकाचोऽसंयोगपूर्वस्य>> [[6.4.82]] इत्यनेन निर्दिष्टः यणादेशः अप्यत्र उक्तम् इयङ्-आदेशं बाधते ।\nप्रश्नः - अस्मिन् सूत्रे 'य्वोः अङ्गस्य' इत्यस्य स्थाने 'अङ्गस्य य्वोः' इति वक्तुं शक्यते वा?\nउत्तरम् - तथा कुर्मश्चेत् 'अङ्गस्य अन्ते विद्यमानस्य इवर्ण-उवर्णयोः' इति अर्थः न भवेत् । अतः क्षिप् / मिल् / लिख् एतादृशानां धातूनां विषये अपि अस्य सूत्रस्य प्रसक्तिः स्यात् । एतत् मा भूत् अतः अत्र 'य्वोः' इति अङ्गस्य इतस्य विशेषणरूपेण स्वीक्रियते । " }, "64078": { "sa": "अभ्यासस्य अन्ते विद्यमानः यः इवर्णः / उवर्णः, तस्य असवर्णे अचि परे (क्रमेण) इयङ् / उवङ्-आदेशौ भवतः । ", "sd": "यत्र द्वित्वं भवति तत्र <<पूर्वोभ्यासः>> [[6.1.4]] इत्यनेन द्वयोः यः प्रथमः, तस्य 'अभ्यास'संज्ञा जायते । अस्य अभ्यासस्य अन्ते विद्यमानः यः इवर्णः / उवर्णः, तस्य असवर्णे अच्-वर्णे परे (क्रमशः) इयङ्/उवङ्-आदेशौ भवतः । यथा -\nइष्-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -\nइष् + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट् ]\n→ इ इष् + तिप् [<<तिप्तस्..>> [[3.4.78]] इति तिप्]\n→ इष् + इष् + लिट् [<<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम्]\n→ इ इष् + लिट् [<<हलादि शेषः>> [[7.4.60]] इति अभ्यासस्य षकारस्य लोपः]\n→ इ इष् + णल् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इति तिप्-इत्यस्य णल्-आदेशः]\n→ इ एष् + अ [<<पुगन्तलघूपधस्य च>> [[7.3.86]] इति उपधागुणः]\n→ इयङ् एष् + अ [<<अभ्यासस्यासवर्णे>> [[6.4.78]] इति अभ्यासस्य इकारस्य इयङ्-आदेशः]\n→ इय् एष् + अ [ङकारस्य इत्संज्ञालोपः, यकारोत्तरः अकारः उच्चारणार्थः, तस्यापि लोपः]\n→ इयेष\nएवमेव 'उष्' धातो लिट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् 'उवोष' इति सिद्ध्यति ।\nज्ञातव्यम् - 'अभ्यासस्य य्वोः' इत्यस्य <<येन विधिस्तदन्तस्य>> [[1.1.72]] इत्यनेन 'अभ्यासस्य अन्ते विद्यमानस्य इवर्णस्य / उवर्णस्य' - अयमर्थः भवति ।\n" }, "64079": { "sa": "'स्त्री' शब्दस्य अजादिप्रत्यये परे इयङ्-आदेशः भवति । ", "sd": "'स्त्री' अयम् दीर्घ-ईकारान्तशब्दः । अस्य शब्दस्य अजादि प्रत्यये परे 'इयङ्' आदेशः भवति । <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यनेन स्त्री-शब्दस्य अन्तिम-ईकारस्य अयमादेशः भवति । यथा -\n1. स्त्री + औ/औट् [प्रथमा/द्वितीया-द्विवचनस्य प्रत्ययः]\n→ स्त्र् इयङ् + औ [<<स्त्रियाः>> [[6.4.79]] इति इयङ्-आदेशः]\n→ स्त्र् इय् औ [ङकारस्य इत्संज्ञा, अकारः उच्चारणार्थः । तयोः लोपः]\n→ स्त्रियौ\n2. स्त्री + टा [तृतीयैकवचनस्य प्रत्ययः]\n→ स्त्र् + इयङ् + आ [<<स्त्रियाः>> [[6.4.79]] इति इयङ्-आदेशः]\n→ स्त्रिया\nज्ञातव्यम् - षष्ठी-बहुवचनस्य आम्-प्रत्यये परे <<ह्रस्वनद्यापो नुट्>> [[7.1.54]] इत्यनेन नुडागमे कृते 'नाम्' प्रत्ययः सिद्ध्यति । अयं प्रत्ययः अजादिः नास्ति, अतः अत्र वर्तमानसूत्रस्य प्रसक्तिः नास्ति ।\n" }, "64080": { "sa": "स्त्री-शब्दस्य अम्-प्रत्यये परे शस्-प्रत्यये च परे विकल्पेन इयङ्-आदेशः भवति । ", "sd": "<<स्त्रियाः>> [[6.4.79]] इत्यनेन अजादिप्रत्यये परे स्त्री-शब्दस्य नित्यम् इयङ्-आदेशे प्राप्ते अम्-प्रत्यये परे शस्-प्रत्यये परे अनेन सूत्रेण केवलं वैकल्पिकः इयङ्-आदेशः भवति । यथा -\n1. स्त्री + अम् → [इयङ्-आदेशस्य अभावे <<अमि पूर्वः>> [[6.1.107]] इति पूर्वरूपे] स्त्रीम् । [इयङ्-आदेशे कृते] स्त्रियम् ।\n1. स्त्री + शस् → [इयङ्-आदेशस्य अभावे <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इति पूर्वसवर्णदीर्घे] स्त्रीः । [इयङ्-आदेशे कृते] स्त्रियः ।\n" }, "64081": { "sa": "'इण्'-धातोः अङ्गस्य अच्-वर्णे परे यणादेशः भवति । ", "sd": "'इण्' (गतौ) इति अदादिगणस्य धातुः । अस्य धातोः अजादिप्रत्यये परे <<अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ>> [[6.4.77]] इत्यनेन इयङ्-आदेशे प्राप्ते अपवादत्वेन इकारस्य यणादेशः यकारः भवति । यथा -\n1. इण्-धातोः लट्-लकारस्य प्रथमपुरुषबहुवचनस्य प्रक्रिया इयम् -\nइ + लट् [<<वर्तमाने लट्>> [[3.2.123]]]\n→ इ + झि [<<तिप्तस्..>> [[3.4.78]] इति प्रथमपुरुष-बहुवचनस्य झि-प्रत्ययः]\n→ इ + शप् + झि [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ इ + झि [<<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शप्-विकरणस्य लुक् ]\n→ इ + अन्ति [<<झोऽन्तः>> [[7.1.3]] इति अन्त्यादेशः]\n→ य् + अन्ति [<<इणो यण्>> [[6.4.81]] इति यणादेशः]\n→ यन्ति\n2. इण्-धातोः लङ्-लकारस्य प्रथमपुरुषबहुवचनस्य प्रक्रिया इयम् -\nइ + लङ् [<<अनद्यतने लङ्>> [[3.2.111]] इति लङ्]\n→ आट् + इ + ल् [<<आडजादीनाम्>> [[6.4.72]] इति आडागमः]\n→ आ + इ + झि [<<तिप्तस्..>> [[3.4.78]] इति प्रथमपुरुष-बहुवचनस्य झि-प्रत्ययः]\n→ आ + इ + शप् + झि [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ आ + इ + झि [<<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शप्-विकरणस्य लुक् ]\n→ आ + इ + अन्ति [<<झोऽन्तः>> [[7.1.3]] इति अन्त्यादेशः]\n→ आ + इ + अन्त् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ आ + य् + अन्त् [<<इणो यण्>> [[6.4.81]] इति इकारस्य यणादेशः]\n→ आयन् [<<संयोगान्तस्य लोपः>> [[8.2.7]] इति तकारलोपः]\nज्ञातव्यम् -\n1. अस्मिन् सूत्रे इकारस्य 'यण्' भवति इत्युक्तमस्ति । वस्तुतः यण्-प्रत्याहारे चत्वारः वर्णाः आगच्छन्ति । परन्तु स्थानसाधर्म्यात् इकारस्य यकारः एव भवति ।\n2. <ऽमध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्ऽ> अनया परिभाषया अयम् यणादेशः केवलं इयङ्-इत्यस्यैव अपवादरूपेण आगच्छति, गुण-वृद्धेः अपवादत्वेन न । यथा, इण्-धातोः ण्वुल्-प्रत्यये परे -\nइ + ण्वुल् [<<ण्वुल्तृचौ>> [[3.1.133]] इति ण्वुल्]\n→ इ + अक [<<युवोरनाकौ>> [[7.1.1]] इति 'अक' आदेशः]\n→ ऐ + अक [<<इणो यण्>> [[6.4.81]] इति इकारस्य यणादेशे प्राप्ते, परत्वात् <<अचो ञ्णिति>> [[7.2.115]] इति वृद्धिः]\n→ आयक [<<एचोऽयवायावः>> [[6.1.78]] इति आय्-आदेशः]\nअत्र वृद्धि-आदेशः यणादेशम् परत्वात् बाधते ।\n" }, "64082": { "sa": "धात्वन्त-अनेकाच्-अङ्गस्य धातोः असंयोगपूर्वस्य इवर्णस्य अजादिप्रत्यये परे यणादेशः भवति । ", "sd": "अस्य सूत्रस्य अर्थं किञ्चित् क्लिष्टः अस्ति, अतः क्रमेण पश्यामः -\n1. अनेन सूत्रेण अजादिप्रत्यये परे यणादेशः प्रोक्तः अस्ति ।\n2. कस्य यणादेशः? अत्र स्थानी अस्ति 'असंयोगपूर्वस्य एः धातोः' । 'धातोः' इति विशेष्यम्, 'असंयोगपूर्वस्य' तथा 'एः' एते विशेषणे ।\n3. प्रथमं विशेषणमस्ति - 'एः' इति । एतत् 'इ' इत्यस्य षष्ठी-एकवचनमस्ति । 'एः धातोः' इत्युक्ते 'इवर्णान्त-धातोः' (<<येन विधिस्तदन्तस्य>> [[1.1.72]] )।\n4. <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यनेन अस्य इवर्णान्तधातोः 'अन्तिमवर्णस्य' ( = इवर्णस्य) यणादेशः भवतीति अर्थः जायते ।\n4. 'धातोः' अस्य द्वितीयम् विशेषणमत्र प्रयुक्तमस्ति - असंयोगपूर्वः । इत्युक्ते, सः धातुः यस्य अन्तिम-इवर्णात् पूर्वः संयोगः नास्ति । किम् नाम संयोगः? <<हलोऽनन्तराः संयोगः>> [[1.1.7]] इत्यनेन द्वयोः व्यञ्जनयोः स्वरं विना उच्चारणम् संयोगसंज्ञां प्राप्नोति ।\n5. अतः अत्र स्थानिनः वर्णनम् कथम् कृतमस्ति? सः धातुः यस्य अन्ते इवर्णः अस्ति, तथा यस्मिन् धातौ इवर्णात् पूर्वः संयोगः नास्ति । एतादृशस्य धातोः अन्तिम-इवर्णस्य स्थाने अच्-प्रत्यये परे यणादेशः भवति ।\n6. अयं स्थानी 'अनेकाच्-अङ्गस्य' भवेत् इति उक्तमस्ति । इयम् सम्बन्धषष्ठी । अतः अत्र वर्णितः धातुः अनेकाच्-अङ्गस्य अवयवः भवेत् इति आवश्यकम् । 'अनेकाच्' इत्युक्ते सः शब्दः यस्मिन् द्वौ वा अधिकाः स्वराः सन्ति ।\n7. <ऽपदाङ्गाधिकारे तस्य च तदन्तस्य चऽ> अनया परिभाषया 'अनेकाचः अङ्गस्य धातोः' इत्युक्ते 'अनेकाच्-अङ्गस्य अन्ते विद्यमानस्य धातोः' इति अर्थः निष्पद्यते ।\nअतः अस्य सूत्रस्य सम्पूर्णः अर्थः अयम् - यत्र अङ्गमनेकाच् अस्ति, तत्र तस्य अङ्गस्य अन्ते यदि इवर्णान्तः असंयोगपूर्वः धातुः विद्यते, तर्हि तस्य धातोः इवर्णस्य अजादि-प्रत्यये परे यणादेशः भवति ।\nकानिचन उदाहरणानि पश्यामः ।\n1) 'सेनानी' इति दीर्घ-ईकारान्त-पुंलिङ्गशब्दः । 'सेनां नयति सः' अस्मिन् अर्थे 'सेना' उपपदस्य उपस्थितौ 'नी' धातोः क्विप् प्रत्ययं कृत्वा अयं शब्दः सिद्ध्यति । अस्य शब्दस्य प्रथमाद्विवचनस्य 'औ' प्रत्यये परे 'सेनानी + औ' इति स्थिते <<अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ>> [[6.4.77]] इत्यनेन इयङ्-आदेशः आगच्छति । परन्तु अत्र अङ्गमनेकाच् तथा धात्वन्तमस्ति, तथा अस्य अन्ते विद्यमानः धातुः असंयोगपूर्वः इवर्णान्तः च अस्ति, अतः इयङ्-आदेशं बाधित्वा अत्र यणादेशः भवति । अतः 'सेनान्यौ' इति रूपम् सिद्ध्यति ।\n2) नी-धातोः लिट्-लकारस्य प्रथमपुरुष-द्विवचनस्य रूपसिद्धेः प्रक्रिया इयम् -\nनी + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट्]\n→ नी नी ल् [<<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम्]\n→ नि नी ल् [<<ह्रस्वः>> [[7.4.59]] इति अभ्यासस्य ह्रस्वः]\n→ नि नी तस् [<<तिप्तस्..>> [[3.4.78]] इति प्रथमपुरुष-द्विवचनस्य प्रत्ययः तस्]\n→ नि नी अतुस् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इति तस्-इत्यस्य अतुस्-आदेशः]\nअत्र <<अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ>> [[6.4.77]] इत्यनेन इयङ्-आदेशस्य प्रसक्तिः अस्ति । परन्तु अत्र अङ्गम् 'निनी' इति अनेकाच् तथा असंयोगपूर्व-इवर्णान्त-धात्वन्तमस्ति, अतः परत्वात् अत्र <<एरनेकाचोऽसंयोगपूर्वस्य>> [[6.4.82]] इति यणादेशः विधीयते ।\n→ निन्यतुः [<<एरनेकाचोऽसंयोगपूर्वस्य>> [[6.4.82]] इति यणादेशः]\n3) 'यवक्री' अयम् कश्चन दीर्घ-ईकारान्त-पुंलिङ्गशब्दः । 'यवान् क्रीणाति' अस्मिन् अर्थे 'यव' उपपदस्य उपस्थितौ 'क्री' धातोः क्विप् प्रत्ययं कृत्वा अयं शब्दः सिद्ध्यति । अस्य शब्दस्य प्रथमाद्विवचनस्य 'औ'-प्रत्यये परे 'यवक्री + औ' इति स्थिते\n<<अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ>> [[6.4.77]] इत्यनेन इयङ्-आदेशः आगच्छति । अस्यामवस्थायाम् वर्तमानसूत्रस्य प्रसक्तिः नास्ति, यतः 'यवक्री' इत्यत्र यद्यपि अङ्गम् धात्वन्तमनेकाच् च अस्ति, तथापि अस्य अन्ते विद्यमानः धातुस्थः इवर्णः असंयोगपूर्वः नास्ति (क्री = क् + र् + ई) । अतः अत्र वर्तमानसूत्रेण यण्-आदेशः न भवति, अतः <<अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ>> [[6.4.77]] इत्यनेन इयङ्-आदेशे कृते 'यवक्रियौ' इति रूपं सिद्ध्यति ।\n4) नी-धातोः क्विप्-प्रत्ययं कृत्वा 'नी' इति दीर्घ-ईकारान्त-पुंलिङ्गः शब्दः जायते । अस्य शब्दस्य प्रथमाद्विवचनस्य 'औ'-प्रत्यये परे 'नी + औ' इति स्थिते <<अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ>> [[6.4.77]] इत्यनेन इयङ्-आदेशः आगच्छति । अस्यामवस्थायाम् वर्तमानसूत्रस्य प्रसक्तिः नास्ति, यतः 'नी' इत्यत्र अङ्गमनेकाच् नास्ति। अतः अत्र <<अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ>> [[6.4.77]] इत्यनेन इयङ्-आदेशे कृते 'नियौ' इति रूपं सिद्ध्यति ।\n5) 'उन्नी' अयं शब्दः उत् + नी इत्यस्मात् <<सत्सूद्विष...>> [[3.2.61]] इत्यनेन क्विप्-प्रत्ययं कृत्वा सिद्ध्यति । अस्मात् अस्य शब्दस्य प्रथमाद्विवचनस्य 'औ'-प्रत्यये परे 'उन्नी + औ' इति स्थिते <<अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ>> [[6.4.77]] इत्यनेन इयङ्-आदेशः आगच्छति । परन्तु अत्र अङ्गमनेकाच् तथा धात्वन्तमस्ति, तथा अस्य अन्ते विद्यमानः धातुः 'नी' इति इवर्णान्तः अस्ति, असंयोगपूर्वः च अस्ति, अतः इयङ्-आदेशं बाधित्वा अत्र यणादेशः भवति । अतः 'उन्न्यौ' इति रूपम् सिद्ध्यति । (स्मर्तव्यम् - अस्मिन् सूत्रे 'अङ्गम्' असंयोगपूर्वमुक्तम् नास्ति, 'धातुः' असंयोगपूर्वः उक्तः अस्ति । अतः 'उन्नी' इत्यत्र यद्यपि अङ्गम् संयोगपूर्वमस्ति, तथापि अयं संयोगः धातौ स्थितः नास्ति, उपसर्ग-धातोः योजनेन निर्मितः अस्ति । अतः अत्र धातुः असंयोगपूर्वः एव स्वीक्रियते ।]\nअत्र एकम् वार्त्तिकम् ज्ञातव्यम् - । इत्युक्ते, यदि अङ्गे विद्यमानम् पूर्वपदम् गतिसंज्ञकम् कारकसंज्ञकं वा नास्ति, तर्हि अयम् यणादेशः न भवति । यथा -\n1. 'प्रध्यायति सः' इत्यर्थे 'प्रधी' इति प्रातिपदिकम् सिद्ध्यति । अत्र पूर्वपदम् 'प्र' इति गतिसंज्ञकमस्ति, अतः अत्र वर्तमानसूत्रेण यणादेशं कृत्वा 'प्रध्यौ', 'प्रध्यः' आदीनि रूपाणि सिद्ध्यन्ति ।\n2. 'परमम् ब्रह्म ध्यायति सः' इत्यर्थे 'परमधी' इति प्रातिपदिकम् सिद्ध्यति । अत्र पूर्वपदम् 'परम' एतत् कारकसंज्ञकं अस्ति, यतः विग्रहवाक्ये एतत् कर्मकारकत्वं प्राप्नोति । अतः अत्रापि त वर्तमानसूत्रेण यणादेशं कृत्वा 'परमध्यौ', 'परमध्यः' आदीनि रूपाणि सिद्ध्यन्ति ।\n3. 'परमा धीः यस्य सः' इत्यर्थे अपि 'परमधी' इति प्रातिपदिकं सिद्ध्यति । परन्तु अत्र परम-शब्दः गतिसंज्ञकः अपि नास्ति, तथा कारकसंज्ञः नास्ति, अतः अत्र अनेन सूत्रेण यद्यपि अङ्गमनेकाच् तथा असंयोगपूर्व-इवर्णान्त-धात्वन्तमस्ति, तथाप्यत्र यणादेशः न भवति । अतः <<अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ>> [[6.4.77]] इत्यनेन इयङ्-आदेशः एव जायते । यथा - परमधियौ, परमधियः ।\n" }, "64083": { "sa": "धात्वन्त-अनेकाच्-अङ्गस्य धातोः असंयोगपूर्वस्य उवर्णस्य अजादौ सुप्-प्रत्यये परे यणादेशः भवति ।", "sd": "अस्य सूत्रस्य अर्थं किञ्चित् क्लिष्टः अस्ति, अतः क्रमेण पश्यामः -\n1. अनेन सूत्रेण अजादि-सुप्-प्रत्यये परे यणादेशः प्रोक्तः अस्ति ।\n2. कस्य यणादेशः? अत्र स्थानी अस्ति 'असंयोगपूर्वस्य ओः धातोः' । 'धातोः' इति विशेष्यम्, 'असंयोगपूर्वस्य' तथा 'ओः' एते विशेषणे ।\n3. प्रथमं विशेषणमस्ति - 'ओः' इति । एतत् 'उ' इत्यस्य षष्ठी-एकवचनमस्ति । 'ओः धातोः' इत्युक्ते 'उवर्णान्त-धातोः' (<<येन विधिस्तदन्तस्य>> [[1.1.72]] )।\n4. <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यनेन अस्य उवर्णान्तधातोः 'अन्तिमवर्णस्य' ( = उवर्णस्य) यणादेशः भवतीति अर्थः जायते ।\n4. 'धातोः' अस्य द्वितीयम् विशेषणमत्र प्रयुक्तमस्ति - असंयोगपूर्वः । इत्युक्ते, सः धातुः यस्य अन्तिम-उवर्णात् पूर्वः संयोगः नास्ति । किम् नाम संयोगः? <<हलोऽनन्तराः संयोगः>> [[1.1.7]] इत्यनेन द्वयोः व्यञ्जनयोः स्वरं विना उच्चारणम् संयोगसंज्ञां प्राप्नोति।\n5. अतः अत्र स्थानिनः वर्णनम् कथम् कृतमस्ति? सः धातुः यस्य अन्ते उकारः अस्ति, तथा यस्मिन् धातौ उकारात् पूर्वः संयोगः नास्ति । एतादृशस्य धातोः अन्तिम-इकारस्य स्थाने अजादि-सुप्-प्रत्यये परे यणादेशः भवति ।\n6. अयं स्थानी 'अनेकाच्-अङ्गस्य' भवेत् इति उक्तमस्ति । इयम् सम्बन्धषष्ठी । अतः अत्र वर्णितः धातुः अनेकाच्-अङ्गस्य अवयवः भवेत् इति आवश्यकम् । 'अनेकाच्' इत्युक्ते सः शब्दः यस्मिन् द्वौ वा अधिकाः स्वराः सन्ति ।\n7. <ऽपदाङ्गाधिकारे तस्य च तदन्तस्य चऽ> अनया परिभाषया 'अनेकाचः अङ्गस्य धातोः' इत्युक्ते 'अनेकाच्-अङ्गस्य अन्ते विद्यमानस्य धातोः' इति अर्थः निष्पद्यते ।\nअतः अस्य सूत्रस्य सम्पूर्णः अर्थः अयम् - यत्र अङ्गमनेकाच् अस्ति, तत्र तस्य अङ्गस्य अन्ते यदि उवर्णान्तः असंयोगपूर्वः धातुः विद्यते, तर्हि तस्य धातोः उवर्णस्य अजादि सुप्-प्रत्यये परे यणादेशः भवति ।\nउदाहरणानि एतानि -\n1) 'खलं पुनाति सः' अस्मिन् अर्थे क्विप्-प्रत्ययं कृत्वा 'खलपू' इति शब्दः सिद्ध्यति । अस्य प्रथमाद्विवचनस्य औ-प्रत्यये परे <<अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ>> [[6.4.77]] इत्यनेन उवङ्-आदेशः आगच्छति । परन्तु अत्र अङ्गमनेकाच् तथा धात्वन्तमस्ति, तथा अस्य अन्ते विद्यमानः धातुः असंयोगपूर्वः उवर्णान्तः च अस्ति, अतः उवङ्-आदेशं बाधित्वा अत्र यणादेशः भवति , ततः च 'खलप्वौ' इति रूपं सिद्ध्यति ।\n2) 'कटं प्रवति सः' अस्मिन् अर्थे क्विप्-प्रत्ययं कृत्वा 'कटप्रू' इति शब्दः सिद्ध्यति । अस्य प्रथमाद्विवचनस्य औ-प्रत्यये परे <<अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ>> [[6.4.77]] इत्यनेन उवङ्-आदेशः आगच्छति । अत्र अङ्गमनेकाच् तथा धात्वन्तमस्ति, परन्तु अस्य अन्ते विद्यमानः धातुः संयोगपूर्वः अस्ति । अतः अत्र वर्तमानसूत्रस्य प्रसक्तिः नास्ति, अतः उवङ्-आदेशे कृते 'कटप्रुवौ' इत्येव रूपं सिद्ध्यति ।\n3) अस्मिन् सूत्रे 'अचि' इत्यस्य 'सुपि' इति विशेषणमस्ति । अतः अस्य सूत्रस्य प्रसक्तिः केवलं सुप्-प्रत्यये परे एव अस्ति, अन्येषु प्रत्ययेषु परेषु न । यथा, 'लूञ्' (छेदने) अस्य धातोः लिट्-लकारस्य प्रथमपुरुषद्विवचनस्य रूपम् एतादृशं सिद्ध्यति -\nलू + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट्]\n→ लू लू ल् [<<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम्]\n→ लु लू ल् [<<ह्रस्वः>> [[7.4.59]] इति अभ्यासस्य ह्रस्वः]\n→ लु लू तस् [<<तिप्तस्..>> [[3.4.78]] इति प्रथमपुरुष-द्विवचनस्य प्रत्ययः तस्]\n→ लु लू अतुस् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इति तस्-इत्यस्य अतुस्-आदेशः]\n→ लु ल् उवङ् अतुस् [<<अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ>> [[6.4.77]] इत्यनेन उवङ्-आदेशः]\n→ लुलुवतुः\nअत्र एकम् वार्त्तिकम् ज्ञातव्यम् - । इत्युक्ते, यदि अङ्गे विद्यमानम् पूर्वपदम् गतिसंज्ञकम् कारकसंज्ञकं वा नास्ति, तर्हि अयम् यणादेशः न भवति । यथा -\n1. 'सुष्ठु लूनाति सः' इत्यर्थे 'सुलू' इति प्रातिपदिकम् सिद्ध्यति । अत्र पूर्वपदम् 'सु' इति गतिसंज्ञकमस्ति, अतः अत्र वर्तमानसूत्रेण यणादेशं कृत्वा 'सुल्वौ', 'सुल्वः' आदीनि रूपाणि सिद्ध्यन्ति ।\n2. 'परमम् वृक्षम् लूनाति सः' इत्यर्थे 'परमलू' इति प्रातिपदिकम् सिद्ध्यति । अत्र पूर्वपदम् 'परम' एतत् कारकसंज्ञकं अस्ति, यतः विग्रहवाक्ये एतत् कर्मकारकत्वं प्राप्नोति । अतः अत्रापि त वर्तमानसूत्रेण यणादेशं कृत्वा 'परमल्वौ, 'परमल्वः' आदीनि रूपाणि सिद्ध्यन्ति ।\n3. 'परमः च असौ लूः' इत्यर्थे अपि 'परमलू' इति प्रातिपदिकं सिद्ध्यति । परन्तु अत्र परम-शब्दः गतिसंज्ञकः अपि नास्ति, तथा कारकसंज्ञः नास्ति, अतः अत्र अनेन सूत्रेण यद्यपि अङ्गमनेकाच् तथा असंयोगपूर्व-उवर्णान्त-धात्वन्तमस्ति, तथाप्यत्र यणादेशः न भवति । अतः <<अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ>> [[6.4.77]] इत्यनेन उवङ्-आदेशः एव जायते । यथा - परमलुवौ, परमलुवः ।" }, "64084": { "sa": "'वर्षाभू' शब्दस्य अजादि-सुप्-प्रत्यये परे यणादेशः भवति । ", "sd": "वर्षाभूः इत्युक्ते मण्डुकः । अयम् दीर्घ-ऊकारान्त-पुंलिङ्गशब्दः अस्ति । अस्य शब्दस्य अजादि-सुप्-प्रत्यये परे वर्तमानसूत्रेण यणादेशः भवति ।\nयथा - वर्षाभू + औ [प्रथमाद्विवचनस्य प्रत्ययः] इत्यत्र -\n<<इको यणचि>> [[6.1.77]] इत्यनेन यणादेशे प्राप्ते ;\nपरत्वात् <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इत्यनेन पूर्वसवर्णदीर्घे प्राप्ते ;\n<<दीर्घात् जसि च>> [[6.1.105]] इत्यनेन पूर्वसवर्णदीर्घस्य निषेधे प्राप्ते ;\nपुनः <<इको यणचि>> [[6.1.77]] इत्यनेन यणादेशे प्राप्ते ;\nपरत्वात् <<अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ>> [[6.4.77]] इत्यनेन उवङ्-आदेशे प्राप्ते ;\nतं बाधित्वा <<ओः सुपि>> [[6.4.83]] इत्यनेन यणादेशे प्राप्ते ;\n<<न भूसुधियोः>> [[6.4.85]] इत्यनेन तस्य निषेधे प्राप्ते ;\nपुनः <<अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ>> [[6.4.77]] इत्यनेन उवङ्-आदेशे प्राप्ते ;\nपरत्वात् <<वर्षाभ्वश्च>> [[6.4.84]] इत्यनेन अन्ते यणादेशः विधीयते ।\nअतः वर्षाभू + औ → वर्षाभ्वौ इति रूपं सिद्ध्यति ।\nअत्र एकम् वार्त्तिकं ज्ञातव्यम् - । इत्युक्ते, दृम्भू, करभू, पुनर्भू - एतेषामं शब्दानामजादि सुप्-प्रत्यये परे यणादेशः भवति । यथा - दृम्भ्वौ, करभ्वौ, पुनर्भ्वौ ।\n" }, "64085": { "sa": "भूशब्दस्य तथा सुधी-शब्दस्य अजादि-सुप्-प्रत्यये परे यणादेशः न भवति । ", "sd": "'भू' शब्दस्य तथा 'सुधी' शब्दस्य अजादि-सुप्-प्रत्यये परे <<ओः सुपि>> [[6.4.83]] इत्यनेन यणादेशे प्राप्ते वर्तमानसूत्रेण तस्य निषेधः भवति । अतः <<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> [[6.4.77]] इत्यनेन इयङ्-आदेशे / उवङ् आदेशं कृत्वा अन्तिमं रूपं सिद्ध्यति ।\nयथा - भू + औ → भुवौ । सुधी + औ → सुधीयौ ।\n<ऽपदाङ्गाधिकारे तस्य च तदन्तस्य चऽ> अनया परिभाषया भूशब्दः सुधीशब्दः च यस्य अन्ते आगच्छति, तस्य शब्दस्यापि अनेन सूत्रेण यणादेशः निषिध्यते । यथा - प्रतिभू + औ = प्रतिभुवौ । परमसुधी + औ = परमसुधियौ ।\nज्ञातव्यम् - 'वर्षाभू' शब्दस्य विषये अनेन सूत्रेण निर्दिष्टः यण्-निषेधः <<वर्षाभ्वश्च>> [[6.4.84]] इत्यनेन निषिध्यते, अतः 'वर्षाभू' शब्दस्य विषये यणादेशः एव भवति । यथा - वर्षाभू + औ = वर्षाभ्वौ । " }, "64086": { "sa": "वेदेषु - भूशब्दस्य तथा सुधी-शब्दस्य अजादि-सुप्-प्रत्यये परे यणादेशः कृतः अपि दृश्यते, न कृतः अपि दृश्यते ।", "sd": " भूशब्दस्य तथा सुधीशब्दस्य अजादि सुप्-प्रत्यये परे <<ओः सुपि>> [[6.4.83]] इत्यनेन प्राप्तः यणादेशः <<न भूसुधियोः>> [[6.4.85]] इत्यनेन निषिध्यते । परन्तु वेदेषु एतयोः शब्दयोः यणादेशं कृत्वा / यणादेशं विना - उभयथा रूपाणि दृश्यन्ते । यथा\n1. 'चित्रं विभ्वं विशेविशे' - ऋग्वेदः (4.7.1) - अत्र 'विभू' शब्दस्य द्वितीयैकवचनस्य रूपम् कर्तुम् यणादेशः कृतः दृश्यते ।\n2. 'चित्रं विभुवं विशेविशे' - तैत्तिरीयसंहिता (1.5.5) - अत्र 'विभू' शब्दस्य द्वितीयैकवचनस्य रूपम् कर्तुम् यणादेशं निषिध्य उवङ्-आदेशः कृतः दृश्यते ।\n3. 'यदी वाजाय सुध्यो वहन्ति' - ऋग्वेदः (4.21.8) - अत्र 'सुधी' शब्दस्य प्रथमाबहुवचनस्य रूपम् कर्तुम् यणादेशः कृतः दृश्यते ।\n" }, "64087": { "sa": "अनेकाच्-अङ्गस्य 'हु' तथा 'श्नु' एतयोः असंयोगपूर्वस्य उवर्णस्य अजादि-सार्वधातुके प्रत्यये परे यणादेशः भवति । ", "sd": "'हु' (दानादनयोः) इति जुहोत्यादिगणस्य धातुः । 'श्नु' इति स्वादिगणस्य विकरणम् । एतयोः द्वयोः उवर्णयोः अनेन सूत्रेण अजादि-सार्वधातुके प्रत्यये परे यणादेशः विधीयते । कदा? यदा अयमुवर्णः असंयोगपूर्वः अस्ति, अनेकाच्-अङ्गस्य च अन्ते अस्ति, तदा । कानिचन उदाहरणानि पश्यामः -\n1. 'हु' धातोः लट्-लकारस्य प्रथमपुरुषबहुवचनस्य रूपम् एतादृशं सिद्ध्यति -\nहु + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ हु + झि [<<तिप्तस्..>> [[3.4.78]] इति प्रथमपुरुषबहुवचनस्य प्रत्ययः 'झि']\n→ हु + शप् + झि [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ हु + हु + झि [<<जुहोत्यादिभ्यः श्लुः>> [[2.4.75]] इति श्लुः । 'श्लौ' [[6.1.10]] इति द्वित्वम्]\n→ झु + हु + झि [<<कुहोश्चुः>> [[7.4.62]] इति अभ्यासस्य हकारस्य जवर्गादेशः । संवार-नाद-घोष-महाप्राण-हकारस्य तादृशः एव झकारः]\n→ झु + हु + अति [<<अदभ्यस्तात्>> [[7.1.4]] इति झकारस्य अत्-आदेशः]\n→ झु + ह्वति [<<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इत्यनेन गुणे प्राप्ते <<सार्वधातुकमपित्>> [[1.2.4]] इत्यनेन 'अति' इत्यस्य अपित्-गुणधर्मे प्राप्ते <<क्ङिति च>> [[1.1.5]] इति गुणनिषेधः । तदा <<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> [[6.4.77]] इत्यनेन उवङ्-आदेशे प्राप्ते <<हुश्नुवोः सार्वधातुके>> [[6.4.87]] इत्यनेन तस्य निषेधं कृत्वा यणादेशः विधीयते ]\n→ जुह्वति [<<अभ्यासे चर्च्च>> [[8.4.54]] इति झकारस्य जश्त्वे जकारः]\n2. 'चिञ्' (चयने) इति स्वादिगणस्य धातुः । अस्य धातोः लट्-लकारस्य प्रथमपुरुषबहुवचनस्य रूपम् एतादृशं सिद्ध्यति -\nचि + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ चि + झि [<<तिप्तस्..>> [[3.4.78]] इति प्रथमपुरुषबहुवचनस्य प्रत्ययः 'झि']\n→ चि + श्नु + झि [<<स्वादिभ्यः श्नुः>> [[3.1.73]] इति श्नु ]\n→ चि + नु + अन्ति [<<झोऽन्तः>> [[7.1.3]] इति अन्तादेशः]\n→ चिन्वन्ति [<<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इत्यनेन गुणे प्राप्ते <<सार्वधातुकमपित्>> [[1.2.4]] इत्यनेन 'अन्ति' इत्यस्य अपित्-गुणधर्मे प्राप्ते <<क्ङिति च>> [[1.1.5]] इति गुणनिषेधः । तदा <<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> [[6.4.77]] इत्यनेन उवङ्-आदेशे प्राप्ते <<हुश्नुवोः सार्वधातुके>> [[6.4.87]] इत्यनेन तस्य निषेधं कृत्वा यणादेशः विधीयते ]\n3. यदि अङ्गस्य अन्ते विद्यमानः उकारः संयोगपूर्वः अस्ति, तर्हि अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, स्वादिगणस्य 'आप्ऌ' (व्याप्तौ) अस्य धातोः लट्-लकारस्य प्रथमपुरुषबहुवचनस्य रूपम् एतादृशं सिद्ध्यति -\nआप् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ आप्+ झि [<<तिप्तस्..>> [[3.4.78]] इति प्रथमपुरुषबहुवचनस्य प्रत्ययः 'झि']\n→ आप् + श्नु + झि [<<स्वादिभ्यः श्नुः>> [[3.1.73]] इति श्नु ]\n→ आप् + नु + अन्ति [<<झोऽन्तः>> [[7.1.3]] इति अन्तादेशः]\n→ आप्नुवन्ति [<<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इत्यनेन गुणे प्राप्ते <<सार्वधातुकमपित्>> [[1.2.4]] इत्यनेन 'अन्ति' इत्यस्य ङित्-गुणधर्मे प्राप्ते <<क्ङिति च>> [[1.1.5]] इति गुणनिषेधः । तदा <<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> [[6.4.77]] इत्यनेन उवङ्-आदेशः भवति । अत्र उकारः संयोगपूर्वः अस्ति (प् + न् + उ), अतः अत्र <<हुश्नुवोः सार्वधातुके>> [[6.4.87]] इत्यस्य प्रसक्तिः एव नास्ति । ]\n4. यदि अङ्गात् परः अजादि-आर्धधातुकप्रत्ययः अस्ति, तर्हि अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, हु-धातोः लिट्-लकारस्य प्रथमपुरुष-द्विवचनस्य रूपम् एतादृशं सिद्ध्यति -\nहु + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट्]\n→ हु + हु + ल् [<<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति अङ्गस्य द्वित्वम्]\n→ झु + हु + ल् [<<कुहोश्चुः>> [[7.4.62]] इति संवार-नाद-घोष-महाप्राण-हकारस्य तादृशः एव चवर्गीयः झकारः]\n→ झु + हु + तस् [<<तिप्तस्..>> [[3.4.78]] इति तस्]\n→ झु + हु + अतुस् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इति तस्-इत्यस्य अतुस्-आदेशः]\n→ झु + ह् + उवङ् + अतुस् [<<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इत्यनेन गुणे प्राप्ते <<असंयोगाल्लिट् कित्>> [[1.2.5]] इत्यनेन असंयोगात् परस्य अतुस्-प्रत्ययस्य कित्-गुणधर्मे प्राप्ते <<क्ङिति च>> [[1.1.5]] इति गुणनिषेधः । तदा <<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> [[6.4.77]] इत्यनेन उवङ्-आदेशः भवति । अत्र आर्धधातुकः प्रत्यय अस्ति, अतः अत्र <<हुश्नुवोः सार्वधातुके>> [[6.4.87]] इत्यस्य प्रसक्तिः एव नास्ति ।]\n" }, "64088": { "sa": "भू-धातोः लुङ्लकारस्य लिट्लकारस्य च अजादि-प्रत्यये परे 'वुक्' आगमः भवति । ", "sd": "'भू' सत्तायाम् इति भ्वादिगणस्य धातुः । अस्य धातोः लुङ्लकारस्य लिट्लकारस्य च प्रक्रियासु अजादि-प्रत्यये परे अनेन सूत्रेण 'वुक्' इति आगमः भवति । 'वुक्' इत्यत्र ककारः इत्संज्ञकः अस्ति, उकारश्च उच्चारणार्थः अस्ति । कित्वात् अयमागमः <<आद्यन्तौ टकितौ>> [[1.1.46]] इति स्थानिनः अनन्तरमागच्छति । यथा -\n1) भू-धातोः लुङ्लकारस्य प्रथमपुरुषबहुवचनस्य रूपम् -\nभू + लुङ् [<<लुङ्>> [[3.2.110]]]\n→ भू + च्लि + ल् [<<च्लि लुङि>> [[3.1.43]] इति विकरणप्रत्ययः 'च्लि']\n→ भू + सिच् + ल् [<<च्लेः सिच्>> [[3.1.44]] इति च्लि-इत्यस्य 'सिच्' आदेशः]\n→ भू + ल् [<<गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु>> [[2.4.77]] इति सिच्-प्रत्ययस्य लुक्]\n→ अट् भू + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ भू + झि [<<तिप्तस्..>> [[3.4.78]] इति प्रथमपुरुषबहुवचनस्य प्रत्ययः 'झि']\n→ अ भू + अन्ति [<<झोऽन्तः>> [[7.1.3]] इति झकारस्य अन्तादेशः]\n→ अ भू वुक् + अन्ति [<<भुवो वुग्लुङ्लिटोः>> [[6.4.88]] इति वुक्-आगमः]\n→ अ भू व् + अन्त् [<<इतश्च>> इति इकारलोपः]\n→ अभूवन् [<<संयोगान्तस्य लोपः>> [[8.2.7]] इति तकारलोपः]\n2) भू-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् -\nभू + लिट् [<<परोक्षे लिट्>> [[3.2.115]] ]\n--> भू + तिप् [<<तिप्तस्..>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य प्रत्ययः तिप्]\n→ भू णल् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इति तिप्-इत्यस्य णल्-आदेशः]\n→ भू अ [इत्संज्ञालोपः]\n→ भूव् अ [<<भुवो वुग्लुङ्लिटोः>> [[6.4.88]] इति वुक्-आगमः । परत्वात् अयम् द्वित्वात् पूर्वमागच्छति ।]\n→ भूव् भूव् अ [<<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम्]\n→ भू भूव् अ [<<हलादिः शेषः>> [[7.4.60]] इति वकारस्य लोपः]\n→ भुभूव् अ [<<ह्रस्वः>> [[7.4.59]] इति ऊकारस्य उकारः]\n→ भभूव् अ [<<भवतेरः>> [[7.4.73]] इति उकारस्य अकारः]\n→ बभूव [<<अभ्यासे चर्च्च>> [[8.4.54]] इति अभ्यासस्य जश्त्वम्]\n" }, "64089": { "sa": "गुह्-धातोः अजादिप्रत्यये परे 'गोह्' इति रूपस्य प्रसक्तिः अस्ति चेत् तं बाधयितुमुपधायाः ऊकारादेशः भवति । ", "sd": "'गुहूँ' (संवरणे) इति भ्वादिगणस्य धातुः । अस्य धातोः अजादिप्रत्यये परे यदि उपधावर्णस्य (उकारस्य) गुणादेशं कृत्वा ओकारस्य प्रसक्तिः जायते, तर्हि तस्य गुणादेशस्य निषेधं कर्तुमस्य सूत्रस्य प्रयोगः भवति । अनेन सूत्रेण उकारस्य स्थाने दीर्घ-ऊकारस्य विधानं कृत्वा गुणादेशः निषिध्यते । यथा, गुह्-धातोः लट्-लकारस्य प्रथमपुरुषबहुवचनस्य प्रक्रिया इयम् -\nगुह् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ गुह् + झि [<<तिप्तस्..>> [[3.4.78]] इति प्रथमपुरुषबहुवचनस्य प्रत्ययः 'झि']\n→ गुह् + शप् + झि [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ गूह् + अ + झि [अजादिप्रत्यये परे <<पुगन्तलघूपधस्य च>> [[7.3.86]] इत्यनेन गुह्-इत्यस्य उकारस्य गुणे प्राप्ते <<ऊदुपधाया गोहः>> [[6.4.89]] इत्यनेन तस्य अपवादत्वेन उकारस्य ऊकारादेशः भवति]\n→ गूह् + अ + अन्ति [<<झोऽन्तः>> [[7.1.3]] इति अन्तादेशः]\n→ गूहन्ति [<<अतो गुणे>> [[6.1.97]] इति पररूपः अकारः]\nअस्मिन् सूत्रे 'गोहः' अस्य ग्रहणम् एतत् ज्ञापयति यत् अस्य सूत्रस्य प्रयोगः तदा एव भवेत् अदा अजादिप्रत्ययः गुणं कारयितुम् समर्थः अस्ति । एवमस्ति चेदेव तस्य गुणादेशस्य बाधकरूपेण अनेन सूत्रेण ऊकारादेशः विधीयते । यदि गुह्-इत्यस्य उकारस्य गुणादेशः एव न प्रसज्यते, तर्हि अस्य सूत्रस्यापि प्रयोगः न भवतीति ज्ञातव्यम् । यथा, गु्ह्-धातोः लिट्-लकारस्य प्रथमपुरुषद्विवचनस्य प्रक्रिया इयम् -\nगुह् + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट्]\n→ गुह् गुह् + ल् [<<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम्]\n→ गु गुह् + ल् [<<हलादि शेषः>> [[7.4.60]] इति हकारलोपः]\n→ जु गुह् + ल् [<<कुहोश्चुः>> [[7.4.62]] इति गकारस्य चवर्गादेशः जकारः]\n→ जु गुह् + तस् [<<तिप्तस्..>> [[3.4.78]] इति तस् ]\n→ जु गुह् + अतुस् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इति तस्-इत्यस्य अतुस्-आदेशः]\n→ जुगुहतुः [अत्र 'अतुस्'-प्रत्ययस्य अकारः <<सार्वधातुकमपित्>> [[1.2.4]] इत्यनेन ङित्-अस्ति, अतः <<क्ङिति च>> [[1.2.5]] इत्यनेन सः गुणस्य निषेधं कारयति । अतः अत्र <<पुगन्तलघूपधस्य च>> [[7.3.86]] इत्यनेन गुणस्य प्रसक्तिः नास्ति । अतः अत्र <<ऊदुपधाया गोहः>> [[6.4.89]] इत्यनेन दीर्घादेशः अपि न भवति ।]\nज्ञातव्यम् - 'ऊत्' इत्यत्र तकारः उच्चारणार्थः अस्ति । " }, "64090": { "sa": "दुष्-धातोः उपधावर्णस्य णिच्-प्रत्यये परे ऊकारादेशः भवति ।", "sd": "'दुष्' (वैकृत्ये) अयम् दिवादिगणस्य धातुः । अस्य धातोः णिच्-प्रत्यये परे उपधावर्णस्य दीर्घ-ऊकारादेशः भवति । यथा, दुष्-धातोः णिच्-प्रत्यये परे -\nदुष् + णिच् [<<हेतुमति च>> [[3.1.26]] इति णिच्]\n→ दूष् + इ [<<पुगन्तलघूपधस्य च>> [[7.3.86]] इत्यनेन उकारस्य गुणे प्राप्ते अपवादत्वेन <<दोषो णौ>> [[6.4.90]] इति उपधायाः ऊकारः]\n→ दूषि [<<सनाद्यन्ताः धातवः>> [[3.1.32]] इति धातुसंज्ञा ]\nअस्यैव अग्रे दूषयति, दूषयतः - आदीनि रूपाणि भवन्ति ।\nज्ञातव्यम् -\n1. अस्मिन् सूत्रे 'दोषः' इति दुष्-इत्यस्य षष्ठी-एकवचनमस्ति । वस्तुतः अत्र 'दुषः' इति भवेत्, परन्तु अत्र 'दोषः' इति निर्दिष्टमस्ति । अस्य किमपि प्रयोजनम् न विद्यते । अतएव कौमुद्याम् दीक्षितः वदति - 'दुषः इति सुवचम् ।\n2. 'ऊत्' इत्यत्र तकारः उच्चारणार्थः अस्ति ।\n" }, "64091": { "sa": "'चित्तस्य' विकारम् दर्शयितुम् प्रयुज्यमानस्य दुष्-धातोः उपधायाः णिच्-प्रत्यये परे विकल्पेन ऊकारादेशः भवति । ", "sd": "'दुष्' (वैकृत्ये) अयम् दिवादिगणस्य धातुः । अस्य धातोः <<दोषो णौ>> [[6.4.90]] इत्यनेन णिच्-प्रत्यये परे उपधावर्णस्य दीर्घ-ऊकारादेशः विधीयते । परन्तु अयम् दुष्-धातुः यदि चित्तस्य विकारम् (दोषम्) दर्शयति, तर्हि अयम् ऊकारादेशः विकल्पेन भवति । ऊकारादेशस्य अभावे <<पुगन्तलघूपधस्य च>> [[7.3.86]] इत्यनेन गुणादेशः विधीयते ।\nयथा -\n1) कामः चित्तं दूषयति, कामः चित्तं दोषयति।\n2) आलसः प्रज्ञां दूषयति, आलसः प्रज्ञां दोषयति ।\nअन्यत्र तु नित्यमेव दीर्घादेशः भवति । यथा - जनाः सरः दूषयन्ति ।" }, "64092": { "sa": "मित्संज्ञकस्य अङ्गस्य उपधावर्णस्य णिच्-प्रत्यये परे ह्रस्वादेशः भवति । ", "sd": "यः धातुः मित्संज्ञकः अस्ति, तस्य धातोः उपधायाः णिच्-प्रत्यये परे ह्रस्वादेशः भवति । किम् नाम मित्संज्ञकः? वस्तुतः 'मकारः यस्मिन् धातौ इत्संज्ञकः, सः धातुः मित्संज्ञकः' - इति अर्थः भवेत्, परन्तु कस्मिन्नपि धातौ मकारः इत्संज्ञकः नास्ति । तर्हि कस्य धातोः मित्संज्ञा भवति? धातुपाठे विद्यमानैः भिन्नैः गणसूत्रैः अनेके धातवः 'मित्'संज्ञकाः उच्यन्ते । यथा, चुरादिगणे विद्यमानम् गणसूत्रम् <ऽज्ञपादयो मितःऽ> इत्यनेन ज्ञपँ, यमँ, चहँ, रहँ, बलँ, चिञ् - एते षट्-धातवः मित्संज्ञकाः भवन्ति । तथैव, <ऽघटादयो मितःऽ> इत्यनेन घटाद्यन्तर्गणे विद्यमानाः धातवः मित्संज्ञकाः भवन्ति । एतादृशाः मित्-संज्ञकाः ये धातवः, तेषामुपधावर्णस्य णिच्-प्रत्यये परे अनेन सूत्रेण ह्रस्वादेशः भवति । यथा -\n1. चुरादिगणे विद्यमानः ज्ञप् धातुः -\nज्ञप् + णिच् [<<सत्यापपाश..>> [[3.1.25]] इति णिच्]\n→ ज्ञप् + इ [इत्संज्ञालोपः]\n→ ज्ञाप् + इ [<<अतः उपधायाः>> [[7.2.116]] इति वृद्धिः]\n→ ज्ञप् + इ [<<मितां ह्रस्वः>> [[6.4.92]] इति ह्रस्वादेशः]\n→ ज्ञपि [<<सनाद्यन्ताः धातवः>> [[3.1.32]] इति धातुसंज्ञा]\nअस्य रूपाणि अग्रे 'ज्ञपयति', 'ज्ञपयतः' आदीनि भवन्ति ।\n2. भ्वादिगणस्य घटाद्यन्तर्गणे विद्यमानः हेड्-धातुः-\nहेड् + णिच् [<<हेतुमति च>> [[3.1.26]] इति णिच्]\n→ हेड् + इ [इत्संज्ञालोपः]\n→ हिड् + इ [<<मितां ह्रस्वः>> [[6.4.92]] इति ह्रस्वादेशः । <<एच इग्घ्रस्वादेशे>> [[1.1.48]] इति एकारस्य ह्रस्वादेशः इकारः]\n→ हिडि[<<सनाद्यन्ताः धातवः>> [[3.1.32]] इति धातुसंज्ञा]\nअस्य रूपाणि अग्रे 'हिडयति', 'हिडयतः' आदीनि भवन्ति ।\n3. चुरादिगणे विद्यमानः चिञ्-धातुः\nचि + णिच् [<<सत्यापपाश..>> [[3.1.25]] इति णिच्]\n→ चि + इ [इत्संज्ञालोपः]\n→ चै + इ [<<अचो ञ्णिति>> [[7.2.115]] इति वृद्धिः]\n→ चाय् + इ [<<एचोऽयवायावः>> [[6.1.78]] इति आय्-आदेशः]\n→ चय् + इ [<<मितां ह्रस्वः>> [[6.4.92]] इति ह्रस्वादेशः]\n→ चयि [<<सनाद्यन्ताः धातवः>> [[3.1.32]] इति धातुसंज्ञा]\nअस्य रूपाणि अग्रे 'चययति', 'चययतः' आदीनि भवन्ति ।\nज्ञातव्यम् - एतत् सूत्रम् <<अतः उपधायाः>> [[7.2.116]] इत्यस्य अपवादः नास्ति, यतः अनेन सूत्रेण सर्वेषामुपधावर्णानाम् ह्रस्वादेशः उच्यते, केवलमकारस्य न । एतयोर्मध्ये विप्रतिषेधः अपि नास्ति, यतः उपधायामकारः अस्ति चेत् अस्य सूत्रस्य किमपि प्रयोजनमेव नास्ति । अतः णिच्-प्रत्यये परे आवश्यकं चेत् <<अतः उपधायाः>> [[7.2.116]] इत्यस्यापि प्रयोगः भवितुमर्हति, <<मितां ह्रस्वः>> [[6.4.92]] इत्यस्यापि च । एवमस्ति चेत् च णिच्-प्रत्ययविशिष्टानि कार्याणि ( यथा - गुणवृद्धी तथा तस्मात् जायमानाः अय्/अव्/आय्/आव् एते आदेशाः - एतानि सर्वाणि) आदौ कृत्वा तदनन्तरमेव च अनेन सूत्रेण ह्रस्वादेशः विधीयते । किमर्थम्? यतः आदौ एव अनेन सूत्रेण ह्रस्वादेशं कृत्वा अनन्तरम् णिच्-प्रत्ययविशिष्टानि कार्याणि कुर्मश्चेत् ह्रस्वादेशस्य प्रयोजनमेव विनश्येत् । " }, "64093": { "sa": "", "sd": "" }, "64094": { "sa": "", "sd": "" }, "64095": { "sa": "", "sd": "" }, "64096": { "sa": "", "sd": "" }, "64097": { "sa": "", "sd": "" }, "64098": { "sa": "गम्, हन्, जन्, खन्, घस् - एतेषां धातूनामुपधावर्णस्य अजादौ कित्/ङित् प्रत्यये परे लोपः भवति । परन्तु 'अङ्' प्रत्यये परे न भवति । ", "sd": "गमऌ (गमने, भ्वादिगणः), हनँ (हिंसागत्योः, अदादिगणः), जनँ (जनने , जुहोत्यादिगणः) / जनीँ (प्रादुर्भावे, दिवादिगणः), खनुँ (अवदारणे, भ्वादिगणः) तथा घस्ऌ (अदने, भ्वादिगणः) एतेषाम् धातूनामुपधावर्णस्य अजादौ कित्/ङित्-प्रत्यये परे लोपः भवति । अद्-धातोः आर्धधातुके प्रत्यये परे यः वैकल्पिकः घस्ऌ-आदेशः भवति तस्य अपि अनेन सूत्रेण ग्रहणं भवति, अतः तस्यापि उपधावर्णस्य अजादौ कित्/ङित्-प्रत्यये परे लोपः भवति । परन्तु लिङ्-लकारस्य 'च्लि' इत्यस्य आदेशरूपेण उक्तः यः अङ्-प्रत्ययः, तस्य विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । उदाहरणानि एतानि -\n[अ] अजादि-कित्-प्रत्ययस्य उदाहरणानि -\n1. गम्-धातोः लिट्-लकारस्य प्रथमपुरुषद्विवचनस्य रूपम् -\nगम् + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट्]\n→ गम् गम् + ल् [<<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम्]\n→ ग गम् + ल् [<<हलादि शेषः>> [[7.4.60]] इति मकारलोपः]\n→ ज गम् + ल् [<<कुहोश्चुः>> [[7.4.62]] इति गकारस्य जकारः]\n→ ज गम् + तस् [<<तिप्तस्...>> [[3.4.78]] इति तस् । <<असंयोगात् लिट् कित्>> [[1.2.5]] इत्यनेन असंयोगात् परस्य लि्-लकारस्य अपित्-प्रत्ययस्य कित्-अतिदेशः]\n→ ज गम् + अतुस् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इति अतुस्-आदेशः]\n→ ज ग् म् + अतुस् [<<गमहनजनखनघसां लोपः क्ङित्यनङि>> [[6.4.98]] इत्यनेन अजादि-कित्-प्रत्यये परे उपधा-अकारस्य लोपः]\n→ जग्मतुः [<<ससजुषोः रुँः>> [[8.2.66]] इति रुँत्वम्, <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n2. हन्-धातोः लिट्-लकारस्य प्रथमपुरुषबहुवचनस्य रूपम् -\nहन् + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट्]\n→ हन् हन् + ल् [<<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम्]\n→ ह हन् + ल् [<<हलादि शेषः>> [[7.4.60]] इति नकारलोपः]\n→ झ हन् + ल् [<<कुहोश्चुः>> [[7.4.62]] इति संवार-नाद-घोष-महाप्राण-हकारस्य तादृशः एव चवर्गीयः झकारः]\n→ झ घन् + ल् [<<अभ्यासाच्च>> [[7.3.55]] इति संवार-नाद-घोष-महाप्राण-हकारस्य तादृशः एव कवर्गीयः घकारः]\n→ झ घन् + झि [<<तिप्तस्...>> [[3.4.78]] इति झि । <<असंयोगात् लिट् कित्>> [[1.2.5]] इत्यनेन असंयोगात् परस्य लि्-लकारस्य अपित्-प्रत्ययस्य कित्-अतिदेशः]\n→ झ घन् + उस् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इति झि-इत्यस्य उस्-आदेशः]\n→ झ घ् न् + उस् [<<गमहनजनखनघसां लोपः क्ङित्यनङि>> [[6.4.98]] इत्यनेन उपधा-अकारस्य लोपः]\n→ झघ्नुः [<<ससजुषोः रुँः>> [[8.2.66]] इति रुँत्वम्, <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n→ जघ्नुः [<<अभ्यासे चर्च्च>> [[8.4.54]] इति जश्त्वम्]\n3. जन्-धातोः लिट्-लकारस्य प्रथमपुरुषबहुवचनस्य रूपम् -\nजन् + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट्]\n→ जन् जन् + लिट् [<<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम्]\n→ ज जन् + लिट् [ <<हलादि शेषः>> [[7.4.60]] इति नकारलोपः]\n→ ज जन् + झ [<<तिप्तस्...>> [[3.4.78]] इति आत्मनेपदस्य प्रथमपुरुषबहुवचनस्य प्रत्ययः झ । <<असंयोगात् लिट् कित्>> [[1.2.5]] इत्यनेन असंयोगात् परस्य लि्-लकारस्य अपित्-प्रत्ययस्य कित्-अतिदेशः]\n→ ज जन् + इरेच् [<<लिटस्तझयोरेशिरेच्>> [[3.4.81]] इति झ-इत्यस्य इरेच्-आदेशः]\n→ ज ज् न् + इरे [<<गमहनजनखनघसां लोपः क्ङित्यनङि>> [[6.4.98]] इत्यनेन उपधा-अकारस्य लोपः]\n→ ज ज् ञ् + इरे [<<स्तोः श्चुना श्चुः>> [[8.4.40]] इति श्चुत्वम्]\n→ जज्ञिरे\n4. खन्-धातोः लिट्-लकारस्य मध्यमपुरुषद्विवचनस्य रूपम् -\nखन् + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट्]\n→ खन् खन् + ल् [<<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम्]\n→ ख खन् + ल् [<<हलादि शेषः>> [[7.4.60]] इति मकारलोपः]\n→ छ खन् + ल् [<<कुहोश्चुः>> [[7.4.62]] इति संवार-नाद-घोष-महाप्राण-हकारस्य तादृशः एव चवर्गीयः झकारः]\n→ छ खन् + थस् [<<तिप्तस्...>> [[3.4.78]] इति थस् । <<असंयोगात् लिट् कित्>> [[1.2.5]] इत्यनेन असंयोगात् परस्य लि्-लकारस्य अपित्-प्रत्ययस्य कित्-अतिदेशः]\n→ छ खन् + अथुस् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इति थस्-इत्यस्य अथुस्-आदेशः]\n→ छ ख् न् + अथुस् [<<गमहनजनखनघसां लोपः क्ङित्यनङि>> [[6.4.98]] इत्यनेन उपधा-अकारस्य लोपः]\n→ छख्नथुः [<<ससजुषोः रुँः>> [[8.2.66]] इति रुँत्वम्, <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n→ चख्नथुः [<<अभ्यासे चर्च्च>> [[8.4.54]] इति चर्त्वम्]\n5. घस्-धातोः लिट्-लकारस्य मध्यमपुरुषबहुवचनस्य रूपम् -\nघस् + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट्]\n→ घस् घस् + ल् [<<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम्]\n→ घ घस् + ल् [<<हलादि शेषः>> [[7.4.60]] इति सकारलोपः]\n→ झ घस् + ल् [<<कुहोश्चुः>> [[7.4.62]] इति अभ्यासस्य घकारस्य चवर्गीयः झकारः]\n→ झ घस् + थ [<<तिप्तस्..>> [[3.4.78]] इति मध्यमपुरुषबहुवचनस्य प्रत्ययः 'थ' । <<असंयोगात् लिट् कित्>> [[1.2.5]] इत्यनेन असंयोगात् परस्य लि्-लकारस्य अपित्-प्रत्ययस्य कित्-अतिदेशः]\n→ झ घस् + अ [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इति थ-इत्यस्य अ-आदेशः]\n→ झ घ् स् + अ [<<गमहनजनखनघसां लोपः क्ङित्यनङि>> [[6.4.98]] इत्यनेन उपधा-अकारस्य लोपः]\n→ झ घ् ष् + अ [<<शासिवसिघसीनां च>> [[8.3.60]] इति घस्-धातोः सकारस्य षकारः]\n→ ज घ् ष् + अ [<<अभ्यासे चर्च्च>> [[8.4.54]] इति अभ्यासस्य जश्त्वम्]\n→ ज क् ष् + अ [<<खरि च>> [[8.4.55]] इति चर्त्वम् ]\n→ जक्ष\n[आ] अजादि-'ङित्' प्रत्ययस्य उदाहरणे एते -\n6) हन्-धातोः लट्-लकारस्य प्रथमपुरुषबहुवचनस्य रूपम् -\nहन् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ हन् + झि [<<तिप्तस्..>> [[3.4.78]] इति झि-प्रत्ययः]\n→ हन् + शप् + झि [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ हन् + झि [<<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शप्-विकरणस्य लुक्]\n→ हन् + अन्ति [<<झोऽन्तः>> [[7.1.3]] इति झकारस्य अन्तादेशः । <<सार्वधातुकमपित्>> [[1.2.4]] इति प्रत्ययस्य ङित्-अतिदेशः]\n→ ह् न् + अन्ति [<<गमहनजनखनघसां लोपः क्ङित्यनङि>> [[6.4.98]] इत्यनेन अजादि-ङित्-प्रत्यये परे उपधा-अकारस्य लोपः]\n→ घ् न् + अन्ति [<<हो हन्तेर्ञ्णिन्नेषु>> [[7.3.54]] इति संवार-नाद-घोष-महाप्राण-हकारस्य तादृशः एव घकारः]\n→ घ्नन्ति\n7) जन् (जनने) अस्य जुहोत्यादिगणस्य धातोः लट्-लकारस्य प्रथमपुरुषनबहुवचनस्य रूपम् -\nजन् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ जन् + झि [<<तिप्तस्..>> [[3.4.78]] इति झि-प्रत्ययः]\n→ जन् + शप् + झि [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ जन् + झि [<<जुहोत्यादिभ्यः श्लुः>> [[2.4.75]] इति विकरणस्य श्लुः (लोपः)]\n→ जन् जन् + झि [<<श्लौ>> [[6.1.10]] इति द्वित्वम्]\n→ ज जन् + झि [<<हलादि शेषः>> [[7.4.60]] इति नकारलोपः]\n→ ज जन् + अति [<<अदभ्यस्तात्>> [[7.1.4]] इति झकारस्य अत्-आदेशः । <<सार्वधातुकमपित्>> [[1.2.4]] इति प्रत्ययस्य ङित्-अतिदेशः]\n→ ज ज् न् + अति [<<गमहनजनखनघसां लोपः क्ङित्यनङि>> [[6.4.98]] इत्यनेन अजादि-ङित्-प्रत्यये परे उपधा-अकारस्य लोपः]\n→ ज ज् ञ् + अति [<<स्तोः श्चुना श्चुः>> [[8.4.40]] इति श्चुत्वम्]\n→ जज्ञति\n(इ) लुङ्लकारस्य 'च्लि' विकरणप्रत्ययस्य केषुचन स्थलेषु 'चङ्' आदेशः भवति । अस्मिन् प्रत्यये चकारङकारयोः इत्संज्ञा लोपश्च भवतः, अतः 'अङ्' इत्यवशिष्यते । अतः अयमजादि-ङित्-प्रत्ययः अस्ति । अस्मिन् प्रत्यये परे एतेभ्यः धातुभ्यः उपधालोपः न भवति एतत् निर्देष्टुमस्मिन् सूत्रे 'अनङि' इति उक्तमस्ति । यथा, गम्-धातोः लुङ्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् एतादृशम् सिद्ध्यति -\nगम् + लुङ् [<<लुङ्>> [[3.2.110]]]\n→ अट् गम् + ल् [ [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ गम् + च्लि + ल् [<<च्लि लुङि>> [[3.1.43]] इति लुङ्]\n→ अ गम् + चङ् + ल् [<<पुषादिद्युताद्यॢदितः परस्मैपदेषु>> [[3.1.55]] इति ऌदित्-धातोः परस्य च्लि-इत्यस्य चङ्-आदेशः]\n→ अ गम् + अ + ल् [इत्संज्ञालोपः]\n→ अ गम् + अ + ति [<<तिप्तस्..>> [[3।4]78]] इति तिप्]\n→ अ गम् + अ + त् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ अगमत्\n" }, "64099": { "sa": "", "sd": "" }, "64100": { "sa": "", "sd": "" }, "64101": { "sa": "हु-धातोः परस्य तथा झलन्तात् परस्य 'हि' प्रत्ययस्य 'धि' आदेशः भवति । ", "sd": "हु (दानादानयोः) इत्यस्मात् परस्य, तथा झलन्तात् अङ्गात् परस्य लोट्लकारस्य मध्यमपुरुषैकवचनस्य 'हि'-प्रत्ययस्य 'धि'-आदेशः भवति । यथा -\n1) हु + लोट् [<<लोट् च>> [[3.3.162]] इति लोट्]\n→ हु + सिप् [<<तिप्तस्..>> [[3.4.78]] इति मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः]\n→ हु + शप् + सि [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ हु + सि [<<जुहोत्यादिभ्यः श्लुः>> [[2.4.75]] इति विकरणस्य श्लुः (लोपः)]\n→ हु हु + सि [<<श्लौ>> [[6.1.10]] इति द्वित्वम्]\n→ झु हु + सि [<<कुहोश्चुः>> [[7.4.62]] इति संवार-नाद-घोष-महाप्राण-हकारस्य तादृश एव झकारः]\n→ झु + हु + हि [<<सेह्यर्पिच्च>> [[3.4.87]] इति सिप्-प्रत्ययस्य अपित् हि-आदेशः]\n→ झु + हु + धि [<<हुझल्भ्यो हेर्धिः>> [[6.4.101]] इति हि-इत्यस्य धि-आदेशः]\n→ जुहुधि [<<अभ्यासे चर्च्च>> [[8.4.54]] इति जश्त्वम्]\n2) भिद् + लोट् [<<लोट् च>> [[3.3.162]] इति लोट्]\n→ भिद् + सिप् [<<तिप्तस्..>> [[3.4.78]] इति मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः]\n→ भि श्नम् द् + सि [<<रुधादिभ्यः श्नम्>> [[3.1.78]] इति श्नम् । एतत् विकरणम् मित्वात् <<मिदचोऽन्त्यात्परः>> [[1.1.47]] इति अन्त्यात् अचः परः आगच्छति ]\n→ भि न द् + सि [इत्संज्ञालोपः]\n→ भि न द् + हि [<<सेह्यर्पिच्च>> [[3.4.87]] इति सिप्-प्रत्ययस्य अपित् हि-आदेशः । <<सार्वधातुकमपित्>> [[1.2.4]] इति ङिद्वद्भावः । ]\n→ भि न् द् + हि [<<श्नसोरल्लोपः>> [[6.4.111]] इति श्नम्-इत्यस्य अकारस्य सार्वधातुके क्ङिति परतः लोपः]\n→ भि न् द् + धि [<<हुझल्भ्यो हेर्धिः>> [[6.4.101]] इति हि-इत्यस्य धि-आदेशः]\n→ भिं द् + धि [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति नकारस्य अनुस्वारः]\n→ भि न् द् + धि [<<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति अनुस्वारस्य परसवर्णः नकारः]\n→ भिन्द्धि, भिन्धि [<<झरो झरि सवर्णे>> [[8.4.65]] इति वैकल्पिकः दकारलोपः]\n3) अस् + लोट् [<<लोट् च>> [[3.3.162]] इति लोट्]\n→ अस् + सिप् [<<तिप्तस्..>> [[3.4.78]] इति मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः]\n→ अस् + शप् + सि [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ अस् + सि [<<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शपः लुक्]\n→ अस् + हि [<<सेह्यर्पिच्च>> [[3.4.87]] इति सिप्-प्रत्ययस्य अपित् हि-आदेशः । <<सार्वधातुकमपित्>> [[1.2.4]] इति ङित्वद्भावः]\n→ अ ए + हि [<<घ्वसोरेद्धावभ्यासलोपश्च>> [[6.4.119]] इति अस्-धातोः सकारस्य एकारः]\n→ ए + हि [<<श्नसोरल्लोपः>> [[6.4.111]] इति सार्वधातुके ङित्-प्रत्यये परे अकारलोपः]\n→ ए + धि [<<असिद्धवदत्राभात्>> [[6.4.22]] इत्यस्मिन् अधिकारे <<घ्वसोरेद्धावभ्यासलोपश्च>> [[6.4.119]] इत्यनेन कृतः एकारादेशः <<हुझल्भ्यो हेर्धिः>> [[6.4.101]] इत्यनेन न दृश्यते । अतः <<हुझल्भ्यो हेर्धिः>> [[6.4.101]] इत्यस्य कृते 'स् + हि' इत्येव स्थितिः अस्ति । अस्याम् स्थितौ झल्-वर्णात् परस्य हि-इत्यस्य अनेन सूत्रेण धि-आदेशः भवति ।]\n→ एधि\n" }, "64102": { "sa": "", "sd": "" }, "64103": { "sa": "", "sd": "" }, "64104": { "sa": "चिण्-विकरणात् उत्तरस्य (तिङ्-प्रत्ययस्य) लुक् भवति । ", "sd": "'चिण्' इति कश्चन विकरणप्रत्ययः । लुङ्-लकारस्य विषये <<च्लि लुङि>> [[3.1.43]] इत्यनेन च्लि-विकरणप्रत्यये प्राप्ते तस्य केषाञ्चन धातूनां विषये 'चिण्' आदेशः भवति । अस्मात् आदेशात् परस्य तिङ्-प्रत्ययस्य अनेन सूत्रेण लुक् विधीयते ।\nयथा -\n1. जन्-धातोः लुङ्-लकारस्य प्रथमपुरुषैकवचनस्य रूपसिद्धिः इयम् -\nजन् + लुङ् [<<लुङ्>> [[3.2.110]] इति लुङ्]\n→ जन् + ल् [इत्संज्ञालोपः]\n→ अट् + जन् + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ + जन् + च्लि + ल् [<<च्लि लुङि>> [[3.1.43]] इति लुङ्लकारस्य विकरणप्रत्ययः 'च्लि']\n→ अ+ जन् + चिण् + ल् [<<दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम्>> [[3.1.61]] इति जन्-धातोः परस्य च्लि-प्रत्ययस्य वैकल्पिकः चिण्-आदेशः]\n→ अ+ जन् + इ + ल् [<<अत उपधायाः>> [[7.2.116]] इत्यनेन उपधावृद्धौ प्राप्ते; <<जनिवध्योश्च>> [[7.3.35]] इत्यनेन चिण्-प्रत्यये परे उपधावृद्धिनिषेधः]\n→ अ + जन् + इ + तिप् [<<तिप्तस्...>> [[3.4.78]] इति तिप्-प्रत्ययः]\n→ अ + जन् + इ [<<चिणो लुक्>> [[6.4.104]] इत्यनेन चिण्-प्रत्ययात् उत्तरस्य तिङ्-प्रत्ययस्य लुक् भवति]\n→ अजनि\n2. गद् -धातोः कर्मणि-प्रयोगे लुङ्-लकारस्य प्रथमपुरुषैकवचनस्य रूपसिद्धिः इयम् -\nगद् + लुङ् [<<लुङ्>> [[3.2.110]] इति लुङ् ]\n→ अ + गद् + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ + गद् + च्लि + ल् [<<च्लि लुङि>> [[3.1.43]] इति लुङ्लकारस्य विकरणप्रत्ययः 'च्लि']\n→ अ + गद् + च्लि + त [<<तिप्तस्...>> [[3.4.78]] इति भावकर्मविवक्षायामात्मनेपदस्य प्रथमपुरुषैकवचनस्य 'त' प्रत्ययः]\n→ अ + गद् + चिण् + त [<<चिण्भावकर्मणोः>> [[3.1.66]] इति कर्मणिप्रयोगे च्लि-इत्यस्य तकारादौ प्रत्यये परे चिण्-आदेशः]\n→ अ + गाद् + इ + त [<<अत उपधायाः>> [[7.2.116]] इति उपधावृद्धिः]\n→ अगादि [<<चिणो लुक्>> [[6.4.104]] इति प्रत्ययस्य लुक्]\nज्ञातव्यम् - अस्मिन् सूत्रे 'तिङ्-प्रत्ययस्य' लुक् भवतीति स्पष्टरूपेण नोच्यते । परन्तु इदम् सूत्रमङ्गाधिकारे आगच्छति, अतः अङ्गात् परस्य 'प्रत्ययस्यैव' लुक् भवितुमर्हति । अस्मिन् विषये काशिकान्यासे उच्यते - 'अथ प्रत्ययस्य एतत् कुतः लभ्यते? <<अङ्गस्य>> [[6.4.1]] इत्यनेन प्रत्ययस्य सन्निधापितत्त्वात् ।'\n" }, "64105": { "sa": "अदन्तात् अङ्गात् परस्य 'हि' प्रत्ययस्य लुक् भवति । ", "sd": "लोट्लकारस्य परस्मैपदस्य मध्यमपुरुषैकवचनस्य 'सि' प्रत्ययस्य <<सेह्यर्पिच्च>> [[3.4.87]] इत्यनेन 'हि' आदेशः भवति । अयमादेशः यदि अदन्तात् अङ्गात् परः आगच्छति, तर्हि अस्य आदेशस्य लोपः भवति । यथा, पठ्-धातोः लोट्-लकारस्य मध्यमपुरुषैकवचनस्य प्रक्रिया इयम् -\nपठ् + लोट् [<<लोट् च>> [[3.3.162]] इति लोट्]\n→ पठ् + सिप् [<<तिप्तस्..>> [[3.4.78]] इति सिप्]\n→ पठ् + शप् + सि [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ पठ् + अ + हि [<<सेर्ह्यपिच्च>> [[3.4.87]] इत्यनेन सि-इत्यस्य हि-आदेशः]\n→ पठ् + अ [<<अतो हेः>> [[6.4.105]] इति अदन्तात् अङ्गात् परस्य हि-इत्यस्य लुक्]\n→ पठ\nज्ञातव्यम् -\n1. अस्मिन् सूत्रे 'अतः' इति तपरकरणम् कृतमस्ति, अतः केवलं ह्रस्व-अकारान्त-अङ्गात् एव अस्य सूत्रस्य प्रसक्तिः अस्ति । अतः अदादिगणस्य 'या', 'स्ना', 'दा' आदीनाम् विषये अनेन सू्त्रेण 'हि' इत्यस्य लुक् न भवति । यथा - याहि, स्नाहि, दाहि ।\n2. <<तुह्योस्तातङाशिष्यन्यतरस्याम्>> [[7.1.35]] अनेन सूत्रेण आशीषि विषये लोट्-लकारस्य हि प्रत्ययस्य विकल्पेन तातङ्-आदेशः भवति । अयमादेशः परत्वात् वर्तमानसूत्रम् बाध्यते, अतः हि-इत्यस्य तातङ्-आदेशः करणीयः अस्ति चेत् वर्तमानसूत्रस्य प्रसक्तिः नास्ति । यथा - भवतात् ।\n3. अस्मिन् सूत्रे 'हि' इत्यस्य 'लुक्' उच्यते, लोपः न । अस्य कारणमेतत् - <<प्रत्ययस्य लुक्श्लुलुपः>> [[1.1.61]] इत्यनेन 'लुक्' सर्वदा सम्पूर्ण-प्रत्ययस्यैव भवति, प्रत्ययस्य अवयवस्य न । अत्र 'हि' इत्यस्य सम्पूर्ण-प्रत्ययस्य लोपः इष्यते, अतः अत्र 'लुक्' कार्यमेव करणीयम् । यदि अत्र 'लोपः' इति अभविष्यत्, तर्हि <<आदेः परस्य>> [[1.1.54]] इत्यनेन 'हि' इत्यस्य केवलं हकारस्यैव लोपः अभविष्यत् ।\n" }, "64106": { "sa": "असंयोगपूर्वः यः उकारः, तदन्तात् प्रत्ययात् परस्य हि-प्रत्ययस्य लुक् भवति । ", "sd": "यदि प्रत्ययस्य अन्तथः उकारः असंयोगपूर्वः अस्ति, तर्हि तस्मात् परस्य हि-प्रत्ययस्य लुक् भवति ।\nअत्र 'हि' इति तिङ्-प्रत्ययस्य ग्रहणम् क्रियते । अयम् तिङ्-प्रत्ययः केवलं विकरणप्रत्ययात् अनन्तरम् एव आगच्छति, अन्यस्मात् प्रत्ययात् न । अतः अस्मिन् सूत्रे निर्दिष्टः 'प्रत्ययान्तः उकारः' इत्युक्ते विकरणप्रत्ययस्य अन्ते विद्यमानः उकारः । अतः अस्य सूत्रस्य प्रसक्तिः तनादिगणस्य 'उ' विकरणप्रत्ययस्य विषये तथा स्वादिगणस्य 'श्नु' विकरणप्रत्ययस्य विषये एव वर्तते । एतयोः प्रत्यययोः उकारः यदि असंयोगपूर्वः अस्ति (इत्युक्ते, तस्मात् पूर्वम् संयोगः नास्ति), तर्हि तस्मात् उकारात् परस्य हि-इत्यस्य लुक्-भवति । उदाहरणानि एतानि -\n1. स्वादिगणस्य चिञ् (चयने) अस्य लोट्लकारस्य मध्यमपुरुषैकवचनस्य रूपम् एतादृशम् सिद्ध्यति -\nचि + लोट् [<<लोट् च>> [[3.3.162]] इति लोट्]\n→ चि + सिप् [<<तिप्तस्..>> [[3.4.78]] इति मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः]\n→ चि + श्नु + सिप् [<<स्वादिभ्यः श्नुः>> [[3.1.73]] इति श्नुः]\n→ चि + नु + हि [<<सेह्यर्पिच्च>> [[3.4.87]] इति सि-प्रत्ययस्य अपित्-हि-आदेशः]\n→ चिनु [<<उतश्च प्रत्ययादसंयोगपूर्वात्>> [[6.4.106]] इत्यनेन प्रत्ययान्ते विद्यमानात् असंयोगपूर्व-उकारात् परस्य हि-प्रत्ययस्य लोपः]\n2. तनादिगणस्य डुकृञ् (करणे) अस्य लोट्लकारस्य मध्यमपुरुषैकवचनस्य रूपम् एतादृशम् सिद्ध्यति -\nकृ + लोट् [<<लोट् च>> [[3.3.162]] इति लोट्]\n→ कृ + सिप् [<<तिप्तस्..>> [[3.4.78]] इति मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः]\n→ कृ + उ + सिप् [<<तनादिकृञ्भ्यः उः>> [[3.1.73]] इति उ-प्रत्ययः]\n→ कर् + उ + सिप् [<<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति अङ्गस्य गुणः]\n→ कर् + उ + हि [<<सेह्यर्पिच्च>> [[3.4.87]] इति सि-प्रत्ययस्य अपित्-हि-आदेशः]\n→ कुर् + उ + हि [<<अत उत् सार्वधातुके>> [[6.4.110]] इत्यनेन अकारस्य उकारादेशः]\n→ कुरु [<<उतश्च प्रत्ययादसंयोगपूर्वात्>> [[6.4.106]] इत्यनेन प्रत्ययान्ते विद्यमानात् असंयोगपूर्व-उकारात् परस्य हि-प्रत्ययस्य लोपः]\n3. यदि अयमुकारः संयोगपूर्वः अस्ति तर्हि अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा -\nआप् + लोट् [<<लोट् च>> [[3.3.162]] इति लोट्]\n→ आप् + सिप् [<<तिप्तस्..>> [[3.4.78]] इति मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः]\n→ आप् + श्नु + सिप् [<<स्वादिभ्यः श्नुः>> [[3.1.73]] इति श्नुः]\n→ आप् + नु + हि [<<सेह्यर्पिच्च>> [[3.4.87]] इति सि-प्रत्ययस्य अपित्-हि-आदेशः]\n→ आप्नुहि\nअत्र उकारात् पूर्वः 'प् + न्' इति संयोगः अस्ति अतः अत्र <<उतश्च प्रत्ययादसंयोगपूर्वात्>> [[6.4.106]] इत्यस्य प्रसक्तिः नास्ति, अतः 'हि' इत्यस्य लोपः न भवति ।\nज्ञातव्यम् - अस्मिन् सूत्रे 'हि' इत्यस्य 'लुक्' उच्यते, लोपः न । अस्य कारणमेतत् - <<प्रत्ययस्य लुक्श्लुलुपः>> [[1.1.61]] इत्यनेन 'लुक्' सर्वदा सम्पूर्ण-प्रत्ययस्यैव भवति, प्रत्ययस्य अवयवस्य न । अत्र 'हि' इत्यस्य सम्पूर्ण-प्रत्ययस्य लोपः इष्यते, अतः अत्र 'लुक्' कार्यमेव करणीयम् । यदि अत्र 'लोपः' इति अभविष्यत्, तर्हि <<आदेः परस्य>> [[1.1.54]] इत्यनेन 'हि' इत्यस्य केवलं हकारस्यैव लोपः अभविष्यत् ।\n" }, "64107": { "sa": "असंयोगपूर्वः यः प्रत्ययान्तः उकारः तस्य मकारे वकारे च परे विकल्पेन लोपः भवति । ", "sd": "यदि प्रत्ययस्य अन्तथः उकारः असंयोगपूर्वः अस्ति, तर्हि तस्य मकारे वकारे च परे विकल्पेन लोपः भवति ।\nअस्मिन् सूत्रे 'अस्य' इति प्रयुक्तमस्ति । 'अस्य' इत्युक्ते <<उतश्च प्रत्ययादसंयोगपूर्वात्>> [[6.4.106]] अस्मिन् पूर्वसूत्रे निर्दिष्टस्य उकारस्य । अतः <<उतश्च प्रत्ययादसंयोगपूर्वात्>> [[6.4.106]] इत्यनेन यस्य उकारस्य निर्देशः क्रियते, तस्यैव उकारस्य ग्रहणमस्मिन् सूत्रेऽपि भवति, अन्यस्य कस्यापि उकारस्य न । <<उतश्च प्रत्ययादसंयोगपूर्वात्>> [[6.4.106]] इत्यनेन तु 'श्नु' इत्यस्य विकरणप्रत्ययस्य, 'उ' इत्यस्य विकरणप्रत्ययस्य च उकारस्यैव ग्रहणं भवति । अतः अस्य सूत्रस्य व्याप्तिः अपि तयोः एव विषये अस्ति । अस्मात् मकारादि-वकारादि-प्रत्यये च परे अस्य उकारस्य वैकल्पिकः लोपः भवति । यथा -\n1. स्वादिगणस्य चिञ् (चयने) अस्य लोट्लकारस्य उत्तमपुरुषद्विवचनस्य रूपम् एतादृशम् सिद्ध्यति -\nचि + लोट् [<<लोट् च>> [[3.3.162]] इति लोट्]\n→ चि + वस् [<<तिप्तस्..>> [[3.4.78]] इति उत्तमपुरुषद्विवचनस्य वस्-प्रत्ययः]\n→ चि + श्नु + वस् [<<स्वादिभ्यः श्नुः>> [[3.1.73]] इति श्नुः]\n→ चि + नु + व [<<लोटो लङ्वत्>> [[3.4.85]] इत्यनेन लोट्-लकारस्य ङित्-लकारवत् कार्याणि भवन्ति । अतः <<नित्यं ङितः>> [[3.4.99]] इत्यनेन सकारलोपः]\n→ चिनुव / चिन्व [<<लोपश्चास्यान्यतरस्यां म्वोः>> [[6.4.107]] इति उकारस्य वैकल्पिकः लोपः]\n2. तनादिगणस्य तनुँ (विस्तारे) अस्य लट्लकारस्य उत्तमपुरुषबहुवचनस्य रूपम् एतादृशम् सिद्ध्यति -\nतन् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ तन् + मस् [<<तिप्तस्..>> [[3.4.78]] इति उत्तमपुरुषबहुवचनस्य मस्-प्रत्ययः]\n→ तन् + उ + मस् [<<तनादिकृञ्भ्यः उः>> [[3.1.73]] इति उ-प्रत्ययः]\n→ तनुमः, तन्मः [<<लोपश्चास्यान्यतरस्यां म्वोः>> [[6.4.107]] इति उकारस्य वैकल्पिकः लोपः]\n3. यदि अयमुकारः संयोगपूर्वः अस्ति तर्हि अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, आप्-धातोः लट्-लकारस्य उत्तमपुरुषबहुवचनस्य रूपसिद्धौ -\nआप् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ आप् + मस् [<<तिप्तस्..>> [[3.4.78]] इति उत्तमपुरुषबहुवचनस्य मस्-प्रत्ययः]\n→ आप् + श्नु + मस् [<<स्वादिभ्यः श्नुः>> [[3.1.73]] इति श्नुः]\n→ आप्नुमः [<<ससजुषो रुँः>> [[8.2.66]] इति रुँत्वम् । <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\nअत्र उकारात् पूर्वः 'प् + न्' इति संयोगः अस्ति अतः अत्र <<लोपश्चास्यान्यतरस्यां म्वोः>> [[6.4.107]] इत्यस्य प्रसक्तिः नास्ति, अतः उकारस्य लोपः न भवति ।\nज्ञातव्यम् - वस्तुतः अत्र 'लुक्' इत्यस्य अनुवृत्तिम् कर्तुं शक्यते । तथाप्यत्र 'लोपः' इति उक्तमस्ति । तस्य कारणमेतत् - <<प्रत्ययस्य लुक्श्लुलुपः>> [[1.1.61]] इत्यनेन 'लुक्' सर्वदा सम्पूर्ण-प्रत्ययस्यैव भवति, प्रत्ययस्य अवयवस्य न । परन्तु अत्र 'श्नु' इत्यस्य केवलं उकारस्य लोपः इष्यते, नकारस्य न । अतः अत्र 'लोपः' इति उक्तमस्ति । एवं क्रियते चेत् <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यनेन अन्तिम-उकारस्य लोपः भवितुमर्हति ।\n" }, "64108": { "sa": "कृ-धातोः विहितः यः प्रत्ययान्तः उकारः तस्य मकारे वकारे च परे नित्यम् लोपः भवति ।", "sd": "डुकृञ् (करणे) इति तनादिगणस्य धातुः । अस्मात् परस्य 'उ' इति विकरणप्रत्ययस्य मकारे वकारे च परे <<लोपश्चास्यान्यतरस्यां म्वोः>> [[6.4.107]] इत्यनेन विकल्पेन लोपे प्राप्ते वर्तमानसूत्रेण सः लोपः नित्यं भवति, विकल्पेन न । यथा, कृ-धातोः लट्-लकारस्य उत्तमपुरुषबहुवचनस्य प्रक्रिया इयम् -\nकृ + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ कृ + मस् [<<तिप्तस्..>> [[3.4.78]] इति उत्तमपुरुषबहुवचनस्य मस्-प्रत्ययः]\n→ कृ + उ + मस् [<<तनादिकृञ्भ्यः उः>> [[3.1.73]] इति उ-प्रत्ययः]\n→ कर् + उ + मस् [<<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणः]\n→ कुर् + उ + मस् [<<अत उत् सार्वधातुके>> [[6.4.110]] इत्यनेन अकारस्य उकारादेशः]\n→ कुर् + मस् [<<लोपश्चास्यान्यतरस्यां म्वोः>> [[6.4.107]] इति उकारस्य वैकल्पिके लोपे प्राप्ते <<नित्यं करोतेः>> [[6.4.108]] इति नित्यं लोपः]\n→ कुर् + मस् [लुप्त-उकारस्य <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इत्यनेन स्थानिवद्भावात् <<हलि च>> [[8.2.77]] इति उकारस्य दीर्घे प्राप्ते <<न भर्कुछुराम्>> [[8.2.79]] इति निषेधः । अतः उकारस्य दीर्घः न भवति]\n→ कुर्मः [विसर्गनिर्माणम्]\nकृ-धातोः लट्-लकारस्य उत्तमपुरुषद्विवचनस्य प्रक्रिया अपि समाना एव वर्तते, येन 'कुर्वः' इति रूपं सिद्ध्यति ।\n" }, "64109": { "sa": "कृ-धातोः विहितः यः प्रत्ययान्तः उकारः तस्य यकारे परे नित्यम् लोपः भवति ।", "sd": "डुकृञ् (करणे) इति तनादिगणस्य धातुः । अस्मात् परस्य 'उ' इति विकरणप्रत्ययस्य यकारे परे अनेन सूत्रेण नित्यं लोपः विधीयते । यथा, कृ-धातोः विधिलिङ्-लकारस्य प्रथमपुरुषैकवचनस्य रूपस्य प्रक्रिया इयम् -\nकृ + लट् [<<विधिनिमन्त्रणा...>> [[3.3.161]] इति लिङ्]\n→ कृ + तिप् [<<तिप्तस्..>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]\n→ कृ + उ + ति [<<तनादिकृञ्भ्यः उः>> [[3.1.73]] इति उ-प्रत्ययः]\n→ कृ + उ + त् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]]\n→ कृ + उ + यासुट् + त् [<<यासुट् परस्मैपदेषूदात्तो ङिच्च>> [[3.4.103]] इति यासुट्-आगमः]\n→ कृ + उ + यास् + सुट् + त् [<<सुट् तिथोः>> [[3.4.107]] इति सुट्-आगमः]\n--> कर् + उ + यास् + स् + त् [<<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणः]\n→ कुर् + उ + यास् + स् + त् [<<अत उत् सार्वधातुके>> [[6.4.110]] इत्यनेन अकारस्य उकारादेशः]\n→ कुर् + उ + या त् [<<लिङः सलोपोऽनन्त्यस्य>> [[7.2.79]] इति उभयसकारयोः लोपः । अत्र अग्रे <<हलि च>> [[8.2.77]] इति दीर्घादेशः प्राप्नोति, परन्तु सः <<न भकुर्छुराम्>> [[8.2.79]] इति निषिध्यते ।]\n→ कुर् यात् [<<ये च>> [[6.4.109]] इति उकारलोपः]\n→ कुर्यात् ।\nस्मर्तव्यम् - उकारस्य लोपे कृते <<हलि च>> [[8.2.77]] इति दीर्घादेशस्य विषये <<अचः परस्मिन् पूर्वविधौ>> [[1.1.57]] इत्यनेन लुप्तः उकारः स्थानिवत्त्वं न प्राप्नोति, यतः <<न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु>> [[1.1.58]] इत्यनेन दीर्घविध्यर्थम् स्थानिवद्भावः विशेषरूपेण निषिद्ध्यते । " }, "64110": { "sa": "उकारान्त-प्रत्ययः यस्य अन्ते अस्ति तादृशस्य कृ-धातोः अङ्गस्य अकारस्य कित् / ङित् प्रत्यये परे उकारादेशः भवति ।", "sd": "डुकृञ् (करणे) इति तनादिगणस्य धातुः । अस्मात् परः यदा 'उ' इति विकरणप्रत्ययः आगच्छति, तदा <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इत्यनेन कृ-इत्यस्य रपरे गुणे प्राप्ते 'करु' इति सिद्ध्यति । अस्य अङ्गस्य अकारस्य वर्तमानसूत्रेण उकारादेशः भवति । यथा -\n1. कृ-धातोः लट्-लकारस्य प्रथमपुरुषद्विवचनस्य रूपम् एतादृशम् सिद्ध्यति -\nकृ + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ कृ + तस् [<<तिप्तस्..>> [[3.4.78]] इति तस्-प्रत्ययः]\n→ कृ + उ + तस् [<<तनादिकृञ्भ्यः उः>> [[3.1.73]] इति विकरणप्रत्ययः 'उ']\n→ कर् + उ + तस् [<<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इत्यनेन कृ-इत्यस्य रपरः गुणः]\n→ कुर् + उ + तस् [<<अत उत् सार्वधातुके>> [[6.4.110]] इति अकारस्य उकारः]\n→ कुरुतः [विसर्गनिर्माणम्]\n2. कृ-धातोः लोट्लकारस्य मध्यमपुरुषैकवचनस्य रूपम् एतादृशम् सिद्ध्यति -\nकृ + लोट् [<<लोट् च>> [[3.3.162]] इति लोट्]\n→ कृ + सिप् [<<तिप्तस्..>> [[3.4.78]] इति मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः]\n→ कृ + उ + सिप् [<<तनादिकृञ्भ्यः उः>> [[3.1.73]] इति उ-प्रत्ययः]\n→ कर् + उ + सिप् [<<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति अङ्गस्य गुणः]\n→ कर् + उ + हि [<<सेह्यर्पिच्च>> [[3.4.87]] इति सि-प्रत्ययस्य अपित्-हि-आदेशः । 'अपित्'-त्वात् <<सार्वधातुकमपित्>> [[1.2.4]] इति ङित्-भावः]\n→ कुर् + उ + हि [<<अत उत् सार्वधातुके>> [[6.4.110]] इत्यनेन ङित्-प्रत्यये परे अकारस्य उकारादेशः]\n→ कुरु [<<उतश्च प्रत्ययादसंयोगपूर्वात्>> [[6.4.106]] इत्यनेन प्रत्ययान्ते विद्यमानात् असंयोगपूर्व-उकारात् परस्य हि-प्रत्ययस्य लुक्]\nज्ञातव्यम् -\n1. पित्-प्रत्ययः <ऽपिच्च ङिन्न ङिच्च पिन्नऽ> अनया परिभाषया ङित् नास्ति । अयं प्रत्ययः कित् अपि नास्ति । अतः अस्मिन् प्रत्यये परे वर्तमानसूत्रस्य प्रसक्तिः नास्ति । यथा, कृ-धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् 'करोति' इति सिद्ध्यति । अत्र 'तिप्' इति पित्-सार्वधातुकप्रत्ययः अस्ति, अतः वर्तमानसूत्रेण अकारस्य उकारादेशः न भवति ।\n2. 'उ' इति विकरणप्रत्ययः तदा एव आगच्छति यदा अग्रे सार्वधातुकप्रत्ययः अस्ति । अतः 'उत्' इति ब्रूमश्चेत् पुनः 'सार्वधातुके' इति ग्रहणम् वस्तुतः अत्र न आवश्यकम् । परन्तु अग्रिमसूत्रेषु तस्य प्रयोजनम् दृश्यते ।\n3. अस्मिन् सूत्रे 'उ' इति विधीयमानः अंशः । <ऽभाव्यमानः अपि उकारः सवर्णान् गृह्णातिऽ> (परिभाषा २०) अनया परिभाषया विधीयमानः उकारः सवर्णानाम् ग्रहणम् अवश्यं करोति । परन्तु अत्र सवर्णानां ग्रहणं क्रियते चेदपि ह्रस्व-अकारस्य स्थाने उच्चारणकालसाधर्म्यात् ह्रस्व-उकारः एव भवितुम् अर्हति । अतः अत्र तपरकरणं कृत्वा सवर्णहग्रहणस्य निवारणं नैव आवश्यकम् । इत्युक्ते, अत्र 'उ' इति तपरकरणं विना उच्यते चेदपि नैव दोषाय । अस्यां स्थितौ अपि अस्मिन् सूत्रे 'उत्' इत्यत्र तपरकरणम् कृतम् अस्ति । एतत् तपरकरणम् 'नित्यम् ह्रस्वस्यैव श्रवणम् भवेत्' इति ज्ञापयितुम् कृतम् अस्ति । अनेन 'कुर् + उ + तस्' इति स्थिते <<पुगन्तलघूपधस्य च>> [[7.3.86]] इति उकारस्य गुणादेशः न भवति ।" }, "64111": { "sa": "श्नम्-विकरणस्य, 'अस्' धातोः च अङ्गस्य अकारस्य सार्वधातुके कित् / ङित् प्रत्यये परे लोपः भवति । ", "sd": "रुधादिगणस्य विकरणप्रत्ययः 'श्नम्', तथा अदादिगणस्य धातुः 'अस्' (भुवि) इत्येययोः अवर्णस्य सार्वधातुके कित्/ङित्-प्रत्यये परे लोपः भवति । यथा -\n1. रुध्-धातोः लट्लकारस्य प्रथमपुरुष-द्विवचनस्य प्रक्रिया इयम् -\nरुध् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ रुध् + तस् [<<तिप्तस्..>> [[3.4.78]] इति तस्-प्रत्ययः । <<सार्वधातुकमपित्>> [[1.2.4]] इति तस्-प्रत्ययस्य ङित्-भावः]\n→ रु श्नम् ध् + तस् [<<रुधादिभ्यः श्नम्>> [[3.1.78]] इति श्नम्]\n→ रु न ध् + तस् [इत्संज्ञालोपः]\n→ रु न् ध् + तस् [<<श्नसोरल्लोपः>> [[6.4.111]] इति नकारात् परस्य अकारस्य लोपः]\n→ रु न् ध् + धस् [<<झषस्तथोर्धोऽधः>> [[8.2.40]] इति तकारस्य धकारः]\n→ रु न् ध् + धरुँ [<<ससजुषोः रुँः>> [[8.2.66]] इति रुँत्वम्]\n→ रु न् ध् + धः [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n→ रुं ध् + धः [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति अनुस्वारः]\n→ रुं द् + धः [<<झलां जश् झशि>> [[8.4.53]] इति धकारस्य दकारः]\n→ रुन् द् + धः [<<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति अनुस्वारस्य परसवर्णः नकारः ]\n→ रुन्द्धः, रुन्धः [<<झरो झरि सवर्णे>> [[8.4.65]] इति वैकल्पिकः दकारलोपः]\n2. अस्-धातोः लट्-लकारस्य प्रथमपुरुष-बहुवचनस्य प्रक्रिया इयम् -\nअस् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ अस् + झि [<<तिप्तस्..>> [[3.4.78]] इति झि-प्रत्ययः । <<सार्वधातुकमपित्>> [[1.2.4]] इति झि-प्रत्ययस्य ङित्-भावः]\n→ अस् + शप् + झि [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ अस् + झि [<<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शपः लुक्]\n→ स् + झि [<<श्नसोरल्लोपः>> [[6.4.111]] इति अस्-इत्यस्य अकारस्य सार्वधातुके क्ङिति परे लोपः]\n→ स् + अन्ति [<<झोऽन्तः>> [[7.1.3]] इति अन्तादेशः]\n→ सन्ति\n ज्ञातव्यम् -\n1. अस्मिन् सूत्रे प्रयुक्तः 'श्नस्' अयम् शब्दः 'श्न + अस्' एवं निर्मितः अस्ति । अत्र <<अकः सवर्णे दीर्घः>> [[6.1.101]] इत्यनेन वस्तुतः सवर्णदीर्घः विधीयते, परन्तु आचार्येण अत्र पररूपम् कृतमस्ति । अस्य स्पष्टीकरणार्थम् काशिकाकारः वदति - 'श्नसोः इति आकारस्य पररूपत्वं शकन्ध्वादिषु द्रष्टव्यम्' । इत्युक्ते, 'शकन्वाधिगणे अस्य शब्दस्य समावेशः करणीयः, येन इत्यनेन अ + अ = अ इति पररूपम् भवेत् । ( एतत् वार्तिकम् <<एङि पररूपम्>> [[6.1.94]] अस्मिन् सूत्रे पाठितमस्ति ।)\n2. यद्यपि अस्मिन् सूत्रे 'सार्वधातुके' इति अनुवृत्तिः क्रियते, तथापि तस्य आवश्यकता न, यतः आर्धधातुके प्रत्यये परे श्नम्-विकरणमेव न आगच्छति । तथा च, अस्-धातोः आर्धधातुके प्रत्यये परे <<अस्तेर्भूः>> [[2.4.52]] इत्यनेन भू-आदेशः भवति । अतः आर्धधातुकस्य विषये अस्य सूत्रस्य प्रयोगस्य अवकाशः एव न विद्यते ।\n3. अत्र 'अत्' इत्यत्र तकारः उच्चारणार्थः अस्ति ।\n" }, "64112": { "sa": "श्ना-विकरणस्य तथा अभ्यस्तस्य आकारस्य सार्वधातुके कित्-प्रत्यये ङित्-प्रत्यये च परे लोपः भवति । ", "sd": "किम् नाम अभ्यस्तम् ? यदा द्वित्वं क्रियते तदा उभयोः शब्दयोः <<उभे अभ्यस्तम्>> [[6.1.5]] इत्यनेन अभ्यस्तसंज्ञा भवति । अस्य अभ्यस्तसंज्ञकस्य आकारस्य , तथा क्र्यादिगणस्य 'श्ना' विकरणप्रत्ययस्य आकारस्य सार्वधातुके कित्-प्रत्यये परे ङित्-प्रत्यये परे च लोपः भवति । यथा -\n1. क्र्यादिगणस्य डुक्रीञ् (द्रव्यविनिमये) अस्य धातोः लट्लकारस्य प्रथमपुरुषबहुवचनस्य इयम् प्रक्रिया भवति -\nक्री + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ क्री + झि [<<तिप्तस्...>> [[3.4.78]] इति झि-प्रत्ययः । <<सार्वधातुकमपित्>> [[1.2.4]] इति झि-प्रत्ययस्य ङित्-भावः]\n→ क्री + श्ना + झि [<<क्र्यादिभ्यः श्ना>> [[3.1.81]] इति विकरणम् श्ना]\n→ क्री + ना + अन्ति [<<झोऽन्तः>> [[7.1.3]] इति अन्तादेशः]\n→ क्री + न् + अन्ति [<<श्नाऽभ्यस्तयोरातः>> [[6.4.112]] इति श्ना-इत्यस्य आकारस्य लोपः]\n→ क्रीणन्ति [<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इति णत्वम्]\n2. डुदाञ् (दाने) इत्यस्य लट्लकारस्य प्रथमपुरुषबहुवचनस्य इयम् प्रक्रिया भवति -\nदा + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ दा + झि [<<तिप्तस्...>> [[3.4.78]] इति झि-प्रत्ययः । <<सार्वधातुकमपित्>> [[1.2.4]] इति झि-प्रत्ययस्य ङित्-भावः]\n→ दा + शप् + झि [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ दा + झि [<<जुहित्यादिभ्यः श्लुः>> [[2.4.75]] इति विकरणस्य श्लुः (लोपः)]\n→ दा दा + झि [<<श्लौ>> [[6.1.10]] इति द्वित्वम्]\n→ द दा + झि [<<ह्रस्वः>> [[7.4.59]] इति अभ्यासस्य ह्रस्वः]\n→ द दा + अति [<<अदभ्यस्तात्>> [[7.1.4]] इति अत्-आदेशः]\n→ दद् + अति [<<श्नाऽभ्यस्तयोरातः>> [[6.4.112]] इति आकारस्य लोपः]\n→ ददति ।\nज्ञातव्यम् - <<जक्षित्यादयः षट्>> [[6.1.6]] इत्यनेन अदादिगणस्य सप्त-धातूनामपि अभ्यस्तसंज्ञा भवति -जक्षँ, जागृ, दरिद्रा, चकासृ, शासु, दीधीङ्, वेवीङ् । अतः एतेषां विषये अपि अस्य सूत्रस्य प्रसक्तिः अस्ति । यथा, 'दरिद्रा' शब्दस्य लोट्-लकारस्य प्रथमपुरुषबहुवचनस्य प्रक्रिया इयम् -\nदरिद्रा + लोट् [<<लोट् च>> [[3.3.162]] इति लोट्]\n→ दरिद्रा + झि [<<तिप्तस्झि..>> [[3.4.78]] इति परस्मैपदस्य प्रथमपुरुषबहुवचनस्य विवक्षायाम् 'झि' प्रत्यय']\n→ दरिद्रा + शप् +झि [<<कर्तरि शप्>> [[3.1.68]] इति औत्सर्गिकं विकरणम् शप्]\n→ दरिद्रा + झि [<<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शपः लुक्]\n→ दरिद्रा + अति [<<जक्षित्यादयः षट्>> [[6.1.6]] इत्यनेन दरिद्रा-धातोः अभ्यस्तसंज्ञा । अभ्यस्तात् परस्य झ्-प्रत्ययस्य <<अदभ्यस्तात्>> [[7.1.4]] इति 'अत्' आदेशः]\n→ दरिद्रा + अतु [<<एरुः>> [[3.4.86]] इति इकारस्य उकारः]\n→ दरिद्र् + अतु [<<श्नाऽभ्यस्तयोरातः>> [[6.4.112]] इति सार्वधातुके ङित्-प्रत्यये परे अभ्यस्तस्य आकारस्य लोपः]\n→ दरिद्रतु\n" }, "64113": { "sa": "श्ना-विकरणस्य तथा अभ्यस्तस्य आकारस्य हलादि-सार्वधातुके कित्-प्रत्यये ङित्-प्रत्यये च परे ईकारादेशः भवति । परन्तु घु-संज्ञकस्य न भवति । ", "sd": "किम् नाम अभ्यस्तम् ? यदा द्वित्वं क्रियते तदा उभयोः शब्दयोः <<उभे अभ्यस्तम्>> [[6.1.5]] इत्यनेन अभ्यस्तसंज्ञा भवति । अस्य अभ्यस्तसंज्ञकस्य आकारस्य , तथा क्र्यादिगणस्य 'श्ना' विकरणप्रत्ययस्य आकारस्य हलादि-सार्वधातुके कित्-प्रत्यये परे ङित्-प्रत्यये परे <<श्नाऽभ्यस्तयोरातः>> [[6.4.112]] इत्यनेन लोपे प्राप्ते वर्तमानसूत्रेण अपवादत्वेन ईकारादेशः भवति । यथा -\n1. क्र्यादिगणस्य डुक्रीञ् (द्रव्यविनिमये) अस्य धातोः लट्लकारस्य प्रथमपुरुषद्विवचनस्य इयम् प्रक्रिया भवति -\nक्री + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ क्री + तस् [<<तिप्तस्...>> [[3.4.78]] इति तस्-प्रत्ययः । <<सार्वधातुकमपित्>> [[1.2.4]] इति तस्-प्रत्ययस्य ङित्-भावः]\n→ क्री + श्ना + तस् [<<क्र्यादिभ्यः श्ना>> [[3.1.81]] इति विकरणम् श्ना]\n→ क्री + नी + तस् [<<ई हल्यघोः>> [[6.4.113]] इति श्ना-इत्यस्य आकारस्य ईकारः]\n→ क्रीणीतः [विसर्गनिर्माणम्, <<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इति णत्वम्]\n2. माङ् (माने शब्दे च) इत्यस्य लट्लकारस्य प्रथमपुरुषैकवचनस्य इयम् प्रक्रिया भवति -\nमा + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ मा + त [<<तिप्तस्...>> [[3.4.78]] इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य त-प्रत्ययः । <<सार्वधातुकमपित्>> [[1.2.4]] इति त-प्रत्ययस्य ङित्-भावः]\n→ मा + शप् + त [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ मा + त [<<जुहित्यादिभ्यः श्लुः>> [[2.4.75]] इति विकरणस्य श्लुः (लोपः)]\n→ मा मा + त [<<श्लौ>> [[6.1.10]] इति द्वित्वम्]\n→ मि मा + त [<<भृञामित्>> [[7.4.76]] इति अभ्यासस्य इकारादेशः]\n→ मि मी + त [<<ई हल्यघोः>> [[6.4.113]] इति अभ्यस्तस्य आकारस्य हलि परे ईकारादेशः]\n→ मिमीते [<<टित आत्मनेपदानां टेरे>> [[7.4.79]] इति एकारः]\nपरन्तु अस्य सूत्रस्य प्रसक्तिः 'घु'संज्ञकस्य विषये नास्ति, एतत् स्पष्टीकर्तुमस्मिन् सूत्रे 'अघोः' इति उक्तमस्ति ।\nकिम् नाम 'घु'? <<दाधा घ्वदाप्>> [[1.1.20]] इत्यनेन डुदाञ् (दाने), दाण् (दाने), दो (अवखण्डने), देङ् (रक्षणे), डुधाञ् (धारणपोषणयोः), तथा धेट् (पाने) एतेषाम् षण्णाम् 'घु'संज्ञा भवति । एतेषु डुदाञ् (दाने), दाण् (दाने), तथा डुधाञ् (धारणपोषणयोः) एतेषु एव आकारः अस्ति, अतः एतेषाम् त्रयाणाम् विषये अस्य सूत्रस्य प्रसक्तिः अस्ति । तेषां विषये अस्य प्रयोगः न करणीयः - एतत् स्पष्टीकर्तुमस्मिन् सूत्रे 'अघोः' इति उक्तमस्ति । यथा, दा-धातोः लट्लकारस्य प्रथमपुरुषद्विवचनस्य इयम् प्रक्रिया भवति -\nदा + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ दा + तस् [<<तिप्तस्...>> [[3.4.78]] इति तस्-प्रत्ययः । <<सार्वधातुकमपित्>> [[1.2.4]] इति झि-प्रत्ययस्य ङित्-भावः]\n→ दा + शप् + तस् [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ दा + तस् [<<जुहित्यादिभ्यः श्लुः>> [[2.4.75]] इति विकरणस्य श्लुः (लोपः)]\n→ दा दा + तस् [<<श्लौ>> [[6.1.10]] इति द्वित्वम्]\n→ द दा + तस् [<<ह्रस्वः>> [[7.4.59]] इति अभ्यासस्य ह्रस्वः]\n→ दद् + तस् [<<श्नाऽभ्यस्तयोरातः>> [[6.4.112]] इति आकारस्य लोपः]\n→ दद् + तः [विसर्गनिर्माणम्]\n→ दत्तः [<<खरि च>> [[8.4.55]] इति चर्त्वम्]\nअस्याम् प्रक्रियायाम् 'द दा + तस्' इत्यस्य आकारस्य ईकारादेशः न भवति, यतः <<ई हल्यघोः>> [[6.4.113]] इत्यस्य अत्र प्रसक्तिः एव नास्ति ।\nतथैव, धा-धातोः लट्लकारस्य प्रथमपुरुषद्विवचनस्य रूपम् 'धत्तः' इति जायते ।\n " }, "64114": { "sa": "दरिद्रा-धातोः आकारस्य हलादि-सार्वधातुके कित्/ङित्-प्रत्यये परे ह्रस्व-इकारादेशः भवति । ", "sd": "एतत् सूत्रम् दरिद्रा (दुर्गतौ) इति अदादिगणस्य धातोः विषये अस्ति । अस्य धातोः <<जक्षित्यादयः षट्>> [[6.1.6]] इत्यनेन अभ्यस्तसंज्ञा भवति, अतः हलादि-सार्वधातुके कित्/ङित्-प्रत्यये परे अस्य आकारस्य <<ई हल्यघोः>> [[6.4.113]] इत्यनेन ईकारादेशः विधीयते । तं बाधित्वा वर्तमानसूत्रेण अस्य ह्रस्व-इकारादेशः उच्यते । यथा, दरिद्रा-धातोः लट्-लकारस्य प्रथमपुरुष-द्विवचनस्य रूपस्य प्रक्रिया इयम् -\nदरिद्रा + लोट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट् ]\n→ दरिद्रा + तस् [<<तिप्तस्झि..>> [[3.4.78]] इति परस्मैपदस्य प्रथमपुरुषद्विवचनस्य विवक्षायाम् 'तस्' प्रत्ययः । <<सार्वधातुकमपित्>> [[1.2.4]] इति अस्य ङित्-वत् भावः]\n→ दरिद्रा + शप् +तस् [<<कर्तरि शप्>> [[3.1.68]] इति औत्सर्गिकं विकरणम् शप्]\n→ दरिद्रा + तस् [<<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शपः लुक्]\n→ दरिद्रि + तस् [<<इद्दरिद्रस्य>> [[6.4.114]] इत्यनेन दरिद्रा-धातोः आकारस्य हलादि-सार्वधातुके ङिति प्रत्यये परे इकारः]\n→ दरिद्रितः [विसर्गनिर्माणम्]\nतथैव दरिद्रिथः, दरिद्रिवः, दरिद्रिमः - आदीनि रूपाणि सिद्ध्यन्ति ।\nअस्य सूत्रस्य विषये वार्तिकद्वयम् ज्ञातव्यम् -\n1. / । इत्युक्ते, दरिद्रा-धातोः आर्धधातुके प्रत्यये विवक्षिते आकारलोपः भवति । यथा -\nदरिद्रा → (आर्धधातुकप्रत्ययविवक्षायामाकारलोपः) दरिद्र् + अच् [ <<नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः>> [[3.1.134]] इत्यनेन पचादिगणे विद्यमानस्य दरिद्रा-धातोः अच्-प्रत्ययः] → दरिद्र ।\nअत्र प्रत्ययविवक्षायामेव लोपं कृत्वा ततः एव यथायोग्यं प्रत्ययः विधीयते । एवं न क्रियते चेत् प्रारम्भे अच्-प्रत्ययस्य प्रसक्तिरेव न स्यात् ; अपितु <<श्याद्व्यधास्रुसंस्र्वतीणवसाऽवहृलिहश्लिषश्वसश्च>> [[3.1.141]] इत्यनेन ण-प्रत्ययं कृत्वा अनिष्टं रूपं सिद्ध्येत ।\nएवमेव 'तव्य' प्रत्ययविवक्षायामाकारलोपं कृत्वा दरिद्रितव्य - इति सिद्ध्यति । 'अनीयर्' प्रत्ययविवक्षायामाकारलोपं कृत्वा 'दरिद्रनीय' इति सिद्ध्यति । भावकर्मणोः 'यक्' प्रत्ययविवक्षायामाकारलोपं कृत्वा 'दरिद्र् + यक् + ते → दरिद्र्यते' इति सिद्ध्यति ।\nभाष्ये अस्मिन् विषये उक्तमस्ति - 'न दरिद्रायके लोपो दरिद्राणे च नेष्यते' । इत्युक्ते, 'ण्वुल्' प्रत्ययस्य विषये, तथा च 'ल्युट्' प्रत्ययस्य विषये च अयं लोपः न भवति । यथा -\nअ) दरिद्रा + ण्वुल् → दरिद्रायक । अत्र <<आतो युक् चिण्कृतोः>> [[7.3.33]] इत्यनेन युक्-आगमः भवति ।\nआ) दरिद्रा + ल्युट् → दरिद्राण ।\n2. । 'अद्यतनी' इति प्राचीन-वैयाकरणैः लुङ्लकारस्य दत्तम् एकमभिधानम् । अतः अनेन वार्तिकेन एतत् उच्यते यत् लुङ्लकारस्य विषये पूर्ववार्तिकेन दत्तः आकारलोपः विकल्पेन भवति । लोपाभावे अभावे <<ई हल्यघोः>> [[6.4.113]] इत्यनेन ईकारादेशः अपि विधीयते । यथा, दरिद्रा-धातोः लुङ्-लकारस्य रूपद्वयं सिद्ध्यति - (लोपपक्षे) अदरिद्रासीत्, तथा (ईकारादेशस्य पक्षे) अदरिद्रीत् ।\nज्ञातव्यम् - अस्मिन् सूत्रे 'दरिद्रा' शब्दस्य षष्ठी-एकवचनम् 'दरिद्रस्य' इति कृतमस्ति । अत्र 'दरिद्र' इति ह्रस्वकरणम् कृत्वा ततः षष्ठी-एकवचनस्य प्रत्ययः युज्यते । अस्य ह्रस्वकरणस्य किमपि सूत्रम् नास्ति, अतः अयं छान्दसः (आर्षः) प्रयोगः मन्तव्यः ।\n" }, "64115": { "sa": "भी-धातोः हलादि-सार्वधातुके कित्/ङित्-प्रत्यये परे विकल्पेन ह्रस्व-इकारादेशः भवति ।", "sd": "एतत् सूत्रम् जुहोत्यादिगणस्य 'ञिभी' (भये) धातोः विषये अस्ति । अस्य धातोः हलादि-सार्वधातुके कित्/ङित्-प्रत्यये परे विकल्पेन ह्रस्व-इकारादेशः भवति । यथा, अस्य धातोः लट्-लकारस्य प्रथमपुरुषद्विवचनस्य प्रक्रिया इयम् -\nभी + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ भी + तस् [<<तिप्तस्..>> [[3.4.78]] इति तस्]\n→ भी + शप् + तस् [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ भी + तस् [<<जुहोत्यादिभ्यः श्लुः>> [[2.4.75]] इति श्लुः]\n→ भी भी + तस् [<<श्लौ>> [[6.4.10]] इति द्वित्वम्]\n→ भि भी + तस् [<<ह्रस्वः>> [[7.4.59]] इति ह्रस्वः]\n→ भि भि + तस् / भि भी तस् [<<भियोऽन्यतरस्याम्>> [[6.4.115]] इति ईकारस्य वैकल्पिकः ह्रस्वः]\n→ भिभितः / भिभीतः [विसर्गनिर्माणम्]\n→ बिभितः / बिभीतः [<<अभ्यासे चर्च>> [[8.4.55]] इति जश्त्वम्]\n " }, "64116": { "sa": "हा-धातोः हलादि-सार्वधातुके कित्/ङित्-प्रत्यये परे विकल्पेन ह्रस्व-इकारादेशः भवति ।", "sd": "ओहाक् (त्यागे) इति जुहोत्यादिगणस्य धातुः । अस्य धातोः हलादि-सार्वधातुके कित्/ङित्-प्रत्यये परे <<ई हल्यघोः>> [[6.4.113]] इत्यनेन ईकारादेशः विधीयते । तं विकल्पेन बाधित्वा वर्तमानसूत्रेण ह्रस्व-इकारादेशः अपि भवति ।\nयथा, अस्य लट्-लकारस्य प्रथमपुरुषद्विवचनस्य प्रक्रिया इयम् -\nहा + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ हा + तस् [<<तिप्तस्..>> [[3.4.78]] इति तस् । <<सार्वधातुकमपित्>> [[1.2.4]] इति ङित्-वत् भावः]\n→ हा + शप् + तस् [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ हा + तस् [<<जुहोत्यादिभ्यः श्लुः>> [[2.4.75]] इति श्लुः]\n→ हा हअ + तस् [<<श्लौ>> [[6.4.10]] इति द्वित्वम्]\n→ ह हा + तस् [<<ह्रस्वः>> [[7.4.59]] इति ह्रस्वः]\n→ झ हा + तस् [<<कुहोश्चुः>> [[7.4.62]] इत्यनेन संवार-नाद-घोष-महाप्राण-हकारस्य तादृशः एव चवर्गीयः झकारः]\n→ झ हि + तस् / झ ही तस् [<<जहातेश्च>> [[6.4.116]] इति वैकल्पिकः ह्रस्व-इकारादेशः । तदभावात् <<ई हल्यघोः>> [[6.4.113]] इत्यनेन ईकारादेशः]\n→ झहितः / झहीतः [विसर्गनिर्माणम्]\n→ जहितः / जहीतः [<<अभ्यासे चर्च्च>> [[8.4.54]] इति जश्त्वम्]\nआर्धधातुके प्रत्यये परे अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, 'हा' धातोः कर्मणि लट्लकारस्य प्रथमपुरुषैकवचनम् 'हीयते' इति भवति । अत्र 'यक्' इति कित्-आर्धधातुकप्रत्ययः अस्ति, अतः अत्र ह्रस्व-इकारादेशः न भवति । केवलं <<घुमास्थागापाजहातिसां हलि>> [[6.4.66]] इत्यनेन दीर्घादेशे कृते रूपं सिद्ध्यति । " }, "64117": { "sa": "हा-धातोः 'हि'प्रत्यये परे विकल्पेन इकारः / आकारः च आदेशरूपेण आगच्छतः ।", "sd": "ओहाक् (त्यागे) इति जुहोत्यादिगणस्य धातुः । अस्य धातोः लोट्-लकारस्य मध्यमपुरुषैकवचनस्य 'हि' प्रत्यये परे <<ई हल्यघोः>> [[6.4.113]] इत्यनेन ईकारादेशः विधीयते । तं विकल्पेन बाधित्वा वर्तमानसूत्रेण ह्रस्व-इकारादेशः अपि भवति, आकारादेशः अपि व भवति । प्रक्रिया इयम् -\nहा + लोट् [<<लोट् च>> [[3.3.162]] इति लोट्]\n→ हा + सिप् [<<तिप्तस्..>> [[3.4.78]] इति मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः]\n→ हा + शप् + सिप् [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ हा + सिप् [<<जुहित्यादिभ्यः श्लुः>> [[2.4.75]] इति श्लुः]\n→ हा हा + सिप् [<<श्लौ>> [[6.1.10]] इति द्वित्वम्]\n→ ह हा + सिप् [<<ह्रस्वः>> [[7.4.59]] इति ह्रस्वः]\n→ झ हा + सिप् [<<कुहोश्चुः>> [[7.4.62]] इति संवार-नाद-घोष-महाप्राण-हकारस्य तादृशः एव चवर्गीयः झकारः]\n→ झ हा + हि [<<सेह्यर्पिच्च>> [[3.4.87]] इति सि-इत्यस्य अपित् हि-आदेशः ।\n→ झहाहि / झहिहि, झहीहि [<<आ च हौ>> [[6.4.117]] इति वैकल्पिकः आकारः, इकारः । उभयोः अभावे <<ई हल्यघोः>> [[6.4.113]] इत्यनेन ईकारादेशः]\n→ जहाहि / जहिहि, जहीहि [<<अभ्यासे चर्च्च>> [[8.4.54]] इति जश्त्वम्]\n" }, "64118": { "sa": "हा-धातोः अन्तिमवर्णस्य सार्वधातुके क्ङिति यकारादिप्रत्यये परे लोपः भवति । ", "sd": "ओहाक् (त्यागे) इति जुहोत्यादिगणस्य धातुः । अस्य धातोः अङ्गस्य अन्तिमवर्णस्य यकारादि-सार्वधातुक-कित्/ङित्-प्रत्यये परे लोपः भवति । यथा, अस्य धातोः विधिलिङ्लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -\nहा + लिङ् [<<विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्>> [[3.3.161]] इति लिङ्]\n→ हा + तिप् [<<तिप्तस्...>> [[3.4.78]] इति तिप्]\n→ हा + शप् + ति [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ हा + ति [<<जुहित्यादिभ्यः श्लुः>> [[2.4.75]] इति श्लुः]\n→ हा हा + ति [<<श्लौ>> [[6.1.10]] इति द्वित्वम्]\n→ ह हा + ति [<<ह्रस्वः>> [[7.4.59]] इति ह्रस्वः]\n→ झ हा + ति [<<कुहोश्चुः>> [[7.4.62]] इति संवार-नाद-घोष-महाप्राण-हकारस्य तादृशः एव चवर्गीयः झकारः]\n→ झ हा + त् [<<इतश्च>> [[3.4.100]] इति तकारलोपः]\n→ झ हा + यासुट् त् [<<यासुट् परस्मैपदेषूदात्तो ङिच्च>> [[3.4.103]] इति यासुट्-आगमः]\n→ झ हा + यास् सुट् त् [<<सुट् तिथोः>> [[3.4.107]] इति सुट्-आगमः]\n→ झ हा + या त् [<<लिङः सलोपोऽनन्त्यस्य>> [[7.2.79]] इति उभयोः सकारयोः लोपः]\n→ झ ह् + या त् [<<लोपो यि>> [[6.4.118]] इति यकारलोपः]\n→ जह्यात् [<<अभ्यासे चर्च्च>> [[8.4.54]] इति जश्त्वम्]\nज्ञातव्यम् -\n1. <ऽयस्मिन् विधिः तदादौ अल्ग्रहणेऽ> इत्यनेन 'यि' इत्युक्ते 'यकारादि प्रत्यये परे' इति अर्थः सिद्ध्यति ।\n2. <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यनेन 'अङ्गस्य लोपः' इत्युक्ते 'अङ्गस्य अन्तिमवर्णस्य लोपः' इति अर्थः जायते ।\n3. यदि यकारादिप्रत्ययः कित् / ङित् अस्ति, सार्वधातुकः च अस्ति, तर्ह्येव अस्य सूत्रस्य प्रसक्तिः वर्तते ।\n" }, "64119": { "sa": "'हि' प्रत्यये परे घु-संज्ञकधातूनामङ्गस्य तथा अस्-धातोः एकारादेशः भवति, तथा अभ्यासस्य लोपः भवति ।", "sd": "किम् नाम घु? <<दाधा घ्वदाप्>> [[1.1.20]] इत्यनेन डुदाञ् (दाने), दाण् (दाने), दो (अवखण्डने), देङ् (रक्षणे), डुधाञ् (धारणपोषणयोः), तथा धेट् (पाने) एतेषाम् षण्णाम् 'घु'संज्ञा भवति । एतेषाम् तथा अदादिगणस्य अस्-धातोः लोट्लकारस्य हि-प्रत्यये परे एकारादेशः भवति । तथा च, डुदाञ् (दाने) तथा डुधाञ् (धारणपोषणयोः) एतौ जुहोत्यादिगणस्य धातू स्तः, अतः एतेषां विषये प्राप्तस्य अभ्यासस्य अपि अनेन सूत्रेण लोपः भवति । यथा -\n1. दा-धातोः लोट्-लकारस्य मध्यमपुरुषैकवचनस्य प्रक्रिया -\nदा + लोट् [<<लोट् च>> [[3.3.162]] इति लोट्]\n→ दा + सिप् [<<तिप्तस्..>> [[3.4.78]] इति मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः]\n→ दा + शप् + सिप् [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ दा + सिप् [<<जुहित्यादिभ्यः श्लुः>> [[2.4.75]] इति श्लुः]\n→ दा दा + सिप् [<<श्लौ>> [[6.1.10]] इति द्वित्वम्]\n→ द दा + सिप् [<<ह्रस्वः>> [[7.4.59]] इति ह्रस्वः]\n→ द दा + हि [<<सेह्यर्पिच्च>> [[3.4.87]] इति सि-इत्यस्य अपित् हि-आदेशः ]\n→ देहि [<<घ्वसोरेद्धावभ्यासलोपश्च>> [[6.4.119]] इत्यनेन आकारस्य एकारादेशः, तथा अभ्यासस्य लोपः]\n2. अस्-धातोः लोट्-लकारस्य मध्यमपुरुषैकवचनस्य प्रक्रिया -\nअस् + लोट् [<<लोट् च>> [[3.3.162]] इति लोट्]\n→ अस् + सिप् [<<तिप्तस्..>> [[3.4.78]] इति मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः]\n→ अस् + शप् + सि [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ अस् + सि [<<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शपः लुक्]\n→ अस् + हि [<<सेह्यर्पिच्च>> [[3.4.87]] इति सिप्-प्रत्ययस्य अपित् हि-आदेशः । <<सार्वधातुकमपित्>> [[1.2.4]] इति ङित्वद्भावः]\n→ अ ए + हि [<<घ्वसोरेद्धावभ्यासलोपश्च>> [[6.4.119]] इति अस्-धातोः सकारस्य एकारः]\n→ ए + हि [<<श्नसोरल्लोपः>> [[6.4.111]] इति सार्वधातुके ङित्-प्रत्यये परे अकारलोपः]\n→ ए + धि [<<असिद्धवदत्राभात्>> [[6.4.22]] इत्यस्मिन् अधिकारे <<घ्वसोरेद्धावभ्यासलोपश्च>> [[6.4.119]] इत्यनेन कृतः एकारादेशः <<हुझल्भ्यो हेर्धिः>> [[6.4.101]] इत्यनेन न दृश्यते । अतः <<हुझल्भ्यो हेर्धिः>> [[6.4.101]] इत्यस्य कृते 'स् + हि' इत्येव स्थितिः अस्ति । अस्याम् स्थितौ झल्-वर्णात् परस्य हि-इत्यस्य अनेन सूत्रेण धि-आदेशः भवति ।]\n→ एधि\n" }, "64120": { "sa": "अनादेशादेः अङ्गस्य एकहल्मध्ये स्थितस्य अकारस्य लिट्-लकारस्य कित्-प्रत्यये परे एकारादेशः भवति, तथा अभ्यासस्य लोपः भवति । ", "sd": "एतत् सूत्रम् किञ्चित् क्लिष्टमस्ति, अतः क्रमेण पश्यामः ।\n1. अस्य सूत्रस्य प्रसक्तिः केवलं लिट्-लकारस्य विषये अस्ति, अतः 'लिटि' इति निर्दिष्टमस्ति ।\n2. लिट्-लकारस्यापि केवलं कित्-प्रत्यये परे एव अस्य सूत्रस्य प्रसक्तिः अस्ति, अतः 'किति लिटि' इत्युक्तमस्ति ।\n3. लिट्-लकारस्य के के प्रत्ययाः कित्-संज्ञकाः सन्ति? वस्तुतः लिट्-लकारस्य एकस्मिन् अपि प्रत्यये ककारः इत्संज्ञकः नास्ति । परन्तु <<असंयोगाल्लिट् कित्>> [[1.2.5]] इत्यनेन यः लिट्-लकारस्य अपित्- प्रत्ययः संयोगात् परः नास्ति, तस्य कित्-अतिदेशः भवति । एतादृशानां प्रत्ययानां विषये अस्य सूत्रस्य प्रसक्तिः अस्ति ।\n4. अनेन सूत्रेण कार्यद्वयमुक्तमस्ति - अङ्गस्य अकारस्य एकारादेशः, तथा अभ्यासस्य लोपः ।\n5. एतत् कार्यम् कदा भवति? यदा स्थानिभूतः अयमकारः 'एकहल्-मध्ये' स्थितः अस्ति । किम् नाम 'एकहल्-मध्ये' ? यदि अकारात् परम् केवलं एकः एव हल्-वर्णः अस्ति (संयोगः नास्ति), तथा अकारात् पूर्वमपि एकः एव हल्-वर्णः अस्ति (संयोगः नास्ति) तर्हि सः अकारः 'एकहल्मध्ये' स्थितः अस्ति इत्युच्यते । एतादृशस्य अकारस्यैव अनेन सूत्रेण एकारादेशः भवति । यदि अकारात् परः पूर्वः वा संयोगः अस्ति, तर्हि तादृशस्य अकारस्य अनेन सूत्रेण एकारादेशः न भवति ।\n6. अस्मिन् सूत्रे 'अङ्गस्य' इत्यस्यापि एकम् विशेषणम् प्रयुक्तमस्ति - अनादेशादिः । इत्युक्ते, अङ्गस्य आदिवर्णस्य कोऽपि आदेशः न क्रियते चेदेव अस्य सूत्रस्य प्रयोगः करणीयः, अन्यथा न ।\nअतः सारांशरूपेण अस्य सूत्रस्य अर्थः अयम् भवति - लिट्-लकारस्य कित्-प्रत्यये परे अङ्गस्य अकारस्य एकारादेशः तथा अभ्यासस्य लोपः भवति, यदि सः अकारः संयोगात् पूर्वम्, संयोगात् परम् च नास्ति, तथा यदि तस्य अङ्गस्य प्रथमवर्णस्य कोऽपि आदेशः न भवति ।\nकानिचन उदाहरणानि पश्यामः -\n1. पच्-धातोः लिट्-लकारस्य आत्मनेपदस्य प्रथमपुरुषएकवचनस्य रूपसिद्धिः इयम् -\nपच् + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट्]\n→ पच् पच् + लिट् [<<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम्]\n→ प पच् + लिट् [<<हलादि शेषः>> [[7.4.60]] इति चकारस्य लोपः]\n→ प पच् + त [<<तिप्तस्झि..>> [[3.4.78]] इत्यनेन आत्मनेपदस्य प्रथमपुरुषैकवचनस्य विवक्षायाम् 'त' प्रत्ययः]\n→ प पच् + एश् [<<लिटस्तझयोरेशिरेच्>> [[3.4.81]] इत्यनेन त-प्रत्ययस्य एश्-आदेशः ।'एश्' प्रत्ययात् पूर्वम् संयोगः नास्ति, अतः <<असंयोगाल्लिट् कित्>> [[1.2.5]] इत्यनेन 'एश्' अयमपित्-प्रत्ययः कित्-वत् भवति ]\nअत्र अङ्गे विद्यमानः पच्-इत्यस्य अकारः संयोगात् पूर्वमपि नास्ति, अनन्तरमपि नास्ति । तथा च, अभ्यासस्य प्रथमवर्णस्य अत्र कोऽपि आदेशः अपि अग्रे न विधीयते । अतः अत्र <<अत एकहल्मध्येऽनादेशादेर्लिटि>> [[6.4.120]] इति अभ्यासस्य लोपः भवति, तथा च धातोः अकारस्य च एकारः जायते -\n→ पेचे [<<अत एकहल्मध्येऽनादेशादेर्लिटि>> [[6.4.120]]]\n2. ये प्रत्ययाः कित्-प्रत्ययाः न सन्ति, तेषां विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा,\nअ) पच्-धातोः लिट्-लकारस्य परस्मैपदस्य उत्तमपुरुषैकवचनस्य रूपसिद्धिः इयम् -\nपच् + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट्]\n→ पच् पच् + लिट् [<<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम्]\n→ प पच् + लिट् [<<हलादि शेषः>> [[7.4.60]] इति चकारलोपः]\n→ प पच् + मिप् [<<तिप्तस्झि...>> [[3.4.78]] इति मिप्-प्रत्ययः]\n→ प पच् णल् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इति मिप्-इत्यस्य णल्-आदेशः]\nअत्र यद्यपि अङ्गस्य अकारः 'एकहल्मध्ये' अस्ति, तथा च अङ्गमपि 'अनादेशादिः' अस्ति, तथापि प्रत्ययः (मिप्) पित्-अस्ति, अतः अत्र प्रत्ययस्य <<असंयोगाल्लिट् कित्>> [[1.2.5]] इत्यनेन कित्-वत् भावः न भवति । अतः अत्र <<अत एकहल्मध्येऽनादेशादेर्लिटि>> [[6.4.120]]] इत्यस्य प्रसक्तिः नास्ति ।\n→ प पाच्/पच् + अ [<<णलुत्तमो वा>> [[7.1.91]] इति वैकल्पिकम् णित्वम् । णित्वे <<अतः उपधायाः>> [[7.2.116]] इति अङ्गस्य उपधा-अकारस्य वृद्धिः आकारः]\n→ पपाच / पपच\nआ) वन्द्-धातोः लिट्-लकारस्य प्रथमपुरुषबहुवचनस्य रूपसिद्धिः इयम् -\nवन्द् + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट्]\n→ वन्द् वन्द् + लिट् [<<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम्]\n→ व वन्द् + लिट् [<<हलादि शेषः>> [[7.4.60]] इति चकारस्य लोपः]\n→ व वन्द् + झ [<<तिप्तस्झि..>> [[3.4.78]] इत्यनेन आत्मनेपदस्य प्रथमपुरुषबहुवचनस्य विवक्षायाम् 'झ' प्रत्ययः]\n→ व वन्द् + इरेच् [<<लिटस्तझयोरेशिरेच्>> [[3.4.81]] इत्यनेन झ-प्रत्ययस्य इरेच्-आदेशः ।]\nअत्र प्रत्ययात् पूर्वम् संयोगः अस्ति (न् + द्), अतः अत्र प्रत्ययस्य <<असंयोगाल्लिट् कित्>> [[1.2.5]] इत्यनेन कित्-वत् भावः न भवति । अतः अत्र <<अत एकहल्मध्येऽनादेशादेर्लिटि>> [[6.4.120]]] इत्यस्य प्रसक्तिः नास्ति ।\n→ ववन्दिरे\n3. यदि अकारात् पूर्वम् / परम् संयोगः अस्ति, तर्हि अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, श्रमुँ (तपसि खेदे च) अस्य धातोः लिट्-लकारस्य प्रथमपुरुष-द्विवचनस्य प्रक्रिया इयम् -\nश्रम् + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट्]\n→ श्रम् + श्रम् + लिट् [<<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम्]\n→ श + श्रम् + लिट् [<<हलादि शेषः>> [[7.4.60]] इति रेफमकारयोः लोपः]\n→ श श्रम् + तस् [<<तिप्तस्झि..>> [[3.4.78]] इत्यनेन प्रथमपुरुषद्विवचनस्य विवक्षायाम् 'तस्' प्रत्ययः]\n→ श श्रम् + अतुस् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इति तस्-इत्यस्य अतुस्-आदेशः]\nअत्र अङ्गस्य अकारः 'एकहल्मध्ये' नास्ति (यतः अकारात् पूर्वम् 'श् + र्' अयं संयोगः अस्ति) अतः अत्र अस्य सूत्रस्य प्रसक्तिः नास्ति ।\n→ शश्रमतुः [विसर्गनिर्माणम्]\n4. यदि अभ्यासस्य प्रथमवर्णस्य आदेशः विधीयते, तर्हि अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, गम्-धातोः लिट्-लकारस्य प्रथमपुरुष-द्विवचनस्य प्रक्रिया इयम् -\nगम् + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट्]\n→ गम् गम् + ल् [<<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम्]\n→ ग गम् + ल् [<<हलादि शेषः>> [[7.4.60]] इति मकारलोपः]\n→ ज गम् + ल् [<<कुहोश्चुः>> [[7.4.62]] इति गकारस्य जकारः]\n→ ज गम् + तस् [<<तिप्तस्...>> [[3.4.78]] इति तस् । <<असंयोगात् लिट् कित्>> [[1.2.5]] इत्यनेन असंयोगात् परस्य लिट्-लकारस्य अपित्-प्रत्ययस्य कित्-अतिदेशः]\n→ ज गम् + अतुस् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इति अतुस्-आदेशः]\nअत्र यद्यपि अकारात् पूर्वम् परम् च संयोगः नास्ति, अग्रे लिट्-लकारस्य कित्-प्रत्ययः च अस्ति, तथाप्यत्र अभ्यासस्य प्रथमवर्णस्य आदेशः कृतः अस्ति, अतः अत्र वर्तमानसूत्रस्य प्रसक्तिः नास्ति ।\n→ ज ग् म् + अतुस् [<<गमहनजनखनघसां लोपः क्ङित्यनङि>> [[6.4.98]] इत्यनेन अजादि-कित्-प्रत्यये परे उपधा-अकारस्य लोपः]\n→ जग्मतुः [<<ससजुषोः रुँः>> [[8.2.66]] इति रुँत्वम्, <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\nज्ञातव्यम् - अनेन सूत्रेण उक्तः एकारादेशः मूलधातोः अकारस्यैव भवति, अभ्यासस्य अकारस्य न, यतः प्रत्ययविधानम् धातोः कृतमस्ति, अतः मूलधातुः एव अङ्गसंज्ञां प्राप्नोति, अभ्यासः न ।\n " }, "64121": { "sa": "", "sd": "" }, "64122": { "sa": "", "sd": "" }, "64123": { "sa": "", "sd": "" }, "64124": { "sa": "", "sd": "" }, "64125": { "sa": "", "sd": "" }, "64126": { "sa": "", "sd": "" }, "64127": { "sa": "", "sd": "" }, "64128": { "sa": "", "sd": "" }, "64129": { "sa": "अधिकारसूत्रमिदम् । इतः आरभ्य आ-षष्ठाध्याय-परिसमाप्तेः यत्किमपि उच्यते तत् 'भ'संज्ञकस्य भवति । ", "sd": "'भ' इति व्याकरणविशिष्टा संज्ञा अस्ति । <<यचि भम्>> [[1.4.18]], <<तसौ मत्वर्थे>> [[1.4.19]] तथा <<अयस्मयादीनि च्छन्दसि>> [[1.4.20]] एतैः सूत्रैः अङ्गस्य भसंज्ञा विधीयते । एतादृशस्य भसंज्ञकस्य अङ्गस्य कार्यमस्मिन् अधिकारे उक्तमस्ति । अस्य अधिकारस्य व्याप्तिः षष्ठाध्यायस्य समाप्तिपर्यन्तमस्ति । इत्युक्ते, षष्ठाध्यायस्य अन्तिमसूत्रं यावत् उक्तानि कार्याणि 'भ'संज्ञकस्य अङ्गस्य विषये एव विधीयन्ते । " }, "64130": { "sa": "भसंज्ञकस्य पाद्-शब्दस्य अङ्गस्य पद्-इत्यादेशः भवति । ", "sd": "भसंज्ञकस्य 'पाद्' इत्यस्य पद् इति आदेशः भवति ।\nयथा - 'सुपाद्' शब्दस्य तृतीयैकवचनस्य रूपम् = सुपाद् + टा → सुपद् + टा → सुपदा ।\nअत्र केचन विशेषाः ज्ञेयाः -\n1. काशिकाकारः अस्य सूत्रस्य व्याख्याने वदति - 'अत्र पादशब्दः लुप्त-अकारः गृह्यते' । इत्युक्ते, वस्तुतः 'पाद्' इति शब्दः संस्कृतभाषायाम् नैव विद्यते । 'पाद' उत 'पद्' एतौ एव साधुशब्दौ । परन्तु कुत्रचित् 'पाद' इति अदन्तशब्दस्य अकारस्य लोपं कृत्वा 'पाद्' इति शब्दः सिद्ध्यति । तादृशस्य 'पाद्' शब्दस्य अत्र ग्रहणम् इष्यते - इति । यथा, 'शौभनौ पादौ यस्य सः' इत्यस्मिन् अर्थे बहुव्रीहिसमासे कृते 'सु + पाद' इति स्थिते अग्रे <<पादस्य लोपोऽहस्त्यादिभ्यः>> [[5.4.138]] इत्यनेन अकारलोपं कृत्वा 'सुपाद्' इति शब्दः सिद्ध्यति । अस्य भसंज्ञायां सत्याम् 'पाद्' इत्यस्य 'पद्' आदेशः भवेत् इति वर्तमानसूत्रेण स्पष्टीक्रियते ।\nएवमेव, 'द्वौ द्वौ पादौ' इत्यत्रापि <<पादशतस्य संख्यादेर्वीप्सायां वुन् लोपश्च>> [[5.4.1]] इत्यनेन तत्पुरुषसमासं अकारलोपं च कृत्वा 'द्विपाद्' इति प्राप्ते 'वुन्' प्रत्यये परे तस्य भसंज्ञा भवति, अतः वर्तमानसूत्रेण 'पाद् ' शब्दस्य 'पद्' आदेशं कृत्वा 'द्विपदिका' इति शब्दः सिद्ध्यति । अस्य सम्पूर्णा प्रकिया <<पादशतस्य संख्यादेर्वीप्सायां वुन् लोपश्च>> [[5.4.1]] इत्यत्र निर्दिष्टा अस्ति ।\n2. 'सुपाद् + टा' इति स्थिते वस्तुतः <<येन विधिस्तदन्तस्य>> [[1.1.72]] इत्यनेन सुपाद्-शब्दस्य सम्पूर्णस्य 'पद्' आदेशः भवेत् । परन्तु अस्मिन् विषये एका परिभाषा पाठ्यते - <ऽनिर्दिश्यमानस्य आदेशाः भवन्तिऽ> । अनया परिभाषया यत्र कस्यचन पदार्थस्य विशिष्टरूपेण निर्देशं कृत्वा आदेशविधानं कृतमस्ति, तत्र तस्मात् शब्दादेव प्रत्ययः विधीयते, तदन्तात् न । अतः 'सुपाद् + टा' इत्यत्र केवलम् 'पाद्' शब्दस्यैव 'पद्' आदेशः भवति, न हि 'सुपाद्' शब्दस्य ।\n3. सूत्रेऽस्मिन् यद्यपि 'पत्' इत्युच्यते तथापि आदेशः 'पद्' अयमेव विधीयते ति । पद्-इत्यस्य दकारस्य <<वाऽवसाने>>[[8.4.56]] इत्यनेन चर्त्वम् कृत्वा सूत्रे 'पत्' इति निर्देशः कृतः अस्ति ।\n" }, "64131": { "sa": "वस्वन्तस्य भसंज्ञकस्य अङ्गस्य सम्प्रसारणम् भवति । ", "sd": "'वस्वन्त' इत्युक्ते यस्य अन्ते 'वस्' प्रत्ययः अस्ति सः । यद्यपि अस्मिन् सूत्रे 'वसोः' इति उक्तमस्ति, तथापि तदन्तविधिना वस्वन्तस्यापि ग्रहणं भवति ।\nसूत्रपाठे द्वयोः स्थलयोः वस्-प्रत्ययः विधीयते ।\n1. <<विदेः शतुर्वसुः>> [[7.1.36]] इत्यनेन विद्-धातोः परस्य शतृ-प्रत्ययस्य वस्-आदेशः भवति ।\n2. <<क्वसुश्च>> [[3.2.107]] अनेन लिट्-लकारस्य छन्दसि विषये 'क्वसु' आदेशः विधीयते । अत्र ककार-उकारयोः इत्संज्ञा भवति, अतः दृश्यरूपेण वस्-प्रत्ययः एव जायते ।\nएतादृशः वस्-प्रत्ययान्तम् यत् भसंज्ञकमङ्गम्, तस्य वकारस्य सम्प्रसारणम् भवति । <<इग्यणः सम्प्रसारणम्>> [[1.1.45]] इत्यनेन वकारस्य सम्प्रसारणरूपेण उकारः जायते । यथा -\n1) 'विद्वस्' अयं वस्-प्रत्ययान्तशब्दः । तस्य तृतीयैकवचनस्य रूपसिद्धिः इयम् -\nविद्वस् + टा [तृतीयैकवचनस्य प्रत्ययः । <<यचि भम्>> [[1.4.18]] इति अजादिप्रत्यये परे अङ्गस्य भसंज्ञा ।]\n→ विद् उ अ स् + आ [<<वसोः सम्प्रसारणम्>> [[6.4.131]] इत्यनेन भसंज्ञकस्य विद्वस्-शब्दस्य वकारस्य सम्प्रसारणमुकारः]\n→ विद् उ स् + आ [<<सम्प्रसारणाच्च>> [[6.1.108]] इति उकार-अकारयोः एकः पूर्वरूपः उकारः]\n→ विदुषा [<<आदेशप्रत्यययोः>> [[8.3.59]] इति सकारस्य षकारः]\n2) 'सेदिवस्' अयं क्वसु-प्रत्ययान्तशब्दः । 'सद्' धातोः क्वसु-प्रत्यये कृते अयं प्रातिपदिकं सिद्ध्यति । अस्य तृतीयैकवचनस्य प्रक्रिया इयम् -\nसेदिवस् टा [तृतीयैकवचनस्य प्रत्ययः । <<यचि भम्>> [[1.4.18]] इति अजादिप्रत्यये परे अङ्गस्य भसंज्ञा ।]\n→ सेद् उ अ स् आ [<<वसोः सम्प्रसारणम्>> [[6.4.131]] इत्यनेन भसंज्ञकस्य विद्वस्-शब्दस्य वकारस्य सम्प्रसारणमुकारः । सम्प्रसारणकारणं दृष्ट्वा इडागमः <ऽअकृतव्यूहाः पाणिनीयाःऽ> अनया परिभाषया विनश्यति । ]\n→ सेद् उ स् आ [<<सम्प्रसारणाच्च>> [[6.1.108]] इति उकार-अकारयोः एकः पूर्वरूपः उकारः]\n→ सेदुषा [<<आदेशप्रत्यययोः>> [[8.3.59]] इति सकारस्य षकारः]\n" }, "64132": { "sa": "वाह्-इति भसंज्ञकस्य 'ऊठ्' इति सम्प्रसारणम् भवति । ", "sd": "'वाह्', 'वारिवाह्' , 'विश्ववाह्' एतेषु शब्देषु यः वाह्-शब्दः अस्ति, तस्य भसंज्ञा भवति चेत् तस्य वकारस्य सम्प्रसारेण 'ऊठ्' इति आदेशः भवति । यथा -\n1. वाह् + टा [तृतीयैकवचनस्य टा-प्रत्ययः । अङ्गस्य <<यचि भम्>> [[1.4.18]] इति भसंज्ञा । ]\n→ ऊठ् आ ह् + आ [भसंज्ञकस्य वाह्-इत्यस्य वकारस्य <<वाह ऊठ्>> [[6.4.132]] इति ऊठ्-आदेशः]\n→ ऊ आ ह् + आ [ठकारस्य इत्संज्ञा, लोपः]\n→ ऊह् + आ [<<सम्प्रसारणाच्च>> [[6.1.108]] इति पूर्वरूपम्]\n→ ऊहा\n2. विश्ववाह् + ङे [चतुर्थ्येकवचनस्य ङे-प्रत्ययः । अङ्गस्य <<यचि भम्>> [[1.4.18]] इति भसंज्ञा ।]\n→ विश्व ऊठ् आ ह् + ङे [भसंज्ञकस्य वाह्-इत्यस्य वकारस्य <<वाह ऊठ्>> [[6.4.132]] इति ऊठ्-आदेशः]\n→ विश्व ऊ आ ह् + ए [ठकारस्य इत्संज्ञा, लोपः]\n→ विश्व ऊह् + ए [<<सम्प्रसारणाच्च>> [[6.1.108]] इति पूर्वरूपम्]\n→ विश्वौहे <<एत्येधत्यूठ्सु>> [[6.1.89]] इति अकार-ऊकारयोः वृद्धि-एकादेशः औकारः]\n3. वारिवाह् + ङि [सप्तम्येकवचनस्य ङि-प्रत्ययः । अङ्गस्य <<यचि भम्>> [[1.4.18]] इति भसंज्ञा ]\n→ वारि ऊठ् आ ह् + ङि [भसंज्ञकस्य वाह्-इत्यस्य वकारस्य <<वाह ऊठ्>> [[6.4.132]] इति ऊठ्-आदेशः]\n→ वारि ऊ आ ह् ङि [ठकारस्य इत्संज्ञा, लोपः]\n→ वारि ऊ ह् ङि [<<सम्प्रसारणाच्च>> [[6.1.108]] इति पूर्वरूपम्]\n→ वार्यूहि [<<इको यणचि>> [[6.1.77]] इति यणादेशः]\nज्ञातव्यम् -\n1. अस्मिन् सूत्रे ऊठ् इति एकाल्-आदेशः अस्ति, अतः वस्तुतः <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यनेन सः अन्तिमवर्णस्य भवेत् । परन्तु अस्मिन् सूत्रे 'सम्प्रसारणम्' इत्यपि अनुवर्तते, अतः सम्प्रसारणयोग्यः यः वर्णः तस्यैव अयमादेशः भवति ।\n2. किम् नाम सम्प्रसारणम्? <<इग्यणः सम्प्रसारणम्>> [[1.1.45]] इत्यनेन सम्प्रसारणसंज्ञा दीयते । यण्-वर्णस्य स्थाने इक्-वर्णस्य विधानम् सम्प्रसारणम् इत्युच्यते ।\n3. 'वाह्' इति शब्दः 'वह्' धातोः ण्वि-प्रत्ययं कृत्वा जायते । यथा, विश्ववाह्-शब्दस्य सिद्धिः इयम् -\nविश्वं वह् ण्विँ [<<वहश्च>> [[3.2.64]] इति ण्विप्रत्ययः]\n→ विश्वं वाह् व् [<<अतः उपधायाः>> [[7.2.116]] इति णिति परे उपधा-अकारस्य वृद्धिः आकारः]\n→ विश्वं वाह् [<<वेरपृक्तस्य>> [[6.1.67]] इत्यनेन अपृक्तवकारस्य लोपः]\n→ विश्व अम् वाह् [<<उपपदमतिङ्>> [[2.2.19]] इति उपपदसमासः]\n→ विश्ववाह् [<<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुब्लोपः । <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा]\n" }, "64133": { "sa": "श्वन् , युवन्, मघवन् -एतेषाम् भसंज्ञकस्य अङ्गस्य तद्धितभिन्ने प्रत्यये परे सम्प्रसारणम् भवति । ", "sd": "किं नाम भसंज्ञकः? <<यचि भम्>> [[1.4.18]] इत्यनेन अजादि यकारादि वा प्रत्यये परे अङ्गस्य भसंज्ञा भवति । वर्तमानसूत्रेण श्वन् (=श्वानः), युवन् (= युवक), मघवन् (= इन्द्रः) एतेषाम् भसंज्ञकस्य अङ्गस्य सम्प्रसारणम् भवति । परन्तु अग्रे तद्धित-प्रत्ययः अस्ति चेत् न भवति ।\nकिम् नाम सम्प्रसारणम्? <<इग्यणः सम्प्रसारणम्>> [[1.1.45]] इत्यनेन उच्यते - यण्-वर्णस्य स्थाने इक्-वर्णस्य आदेशः सम्प्रसारणम् नाम्ना ज्ञायते । अतः एतेषां शब्दानाम् यण्-वर्णस्य स्थाने अनेन सूत्रेण सम्प्रसारणम् भवति । यथा -\n1) श्वन् शब्दस्य तृतीया-एकवचनस्य रूपसिद्धौ -\nश्वन् + टा [तृतीयैकवचनस्य प्रत्ययः]\n→ श् व् अ न् + टा [अत्र वकारः इति यण् वर्णः अस्ति । अतः - ]\n→ श्उअन् + आ [<<श्वयुवमघोनामतद्धिते>> [[6.4.133]] इति श्वन्-इत्यस्य सम्प्रसारणम् । वकारस्य सम्प्रसारणमुकारः। ]\n→ श्उन + आ [<<सम्प्रसारणाच्च>> [[6.1.108]] इति उकार-अकारयोः एकः पूर्वरूपः उकारः]\n→ शुना ।\n2) युवन् शब्दस्य चतुर्थी-एकवचनस्य रूपसिद्धौ -\nयुवन् + ङे [चतुर्थ्येकवचनस्य प्रत्ययः]\n→ य् उ व् अ न् + ए [अत्र यकारः तथा वकारः द्वौ यण्-वर्णौ स्तः । एतयोः वकारः प्रत्ययस्य निकटतरः, अतः अग्रिमसूत्रेण तस्य सम्प्रसारणम् भवति ।]\n→ य् उ उ अ न् + ए [<<श्वयुवमघोनामतद्धिते>> [[6.4.133]] इति सम्प्रसारणम् । वकारस्य सम्प्रसारणमुकारः। अग्रे पुनः यकारस्य सम्प्रसारणम् <<न सम्प्रसारणे सम्प्रसारणम्>> [[6.1.37]] इत्यनेन निषिध्यते ।]\n→ य् उ उ न् ए [<<सम्प्रसारणाच्च>> [[6.1.108]] इति उकार-अकारयोः एकः पूर्वरूपः उकारः ]\n→ यूने [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः]\n3) मघवन्-शब्दस्य षष्ठी-एकवचनस्य रूपसिद्धौ-\n→ मघवन् + ङस् [षष्ठी-एकवचनस्य प्रत्ययः]\n→ मघउअन् + अस् [<<श्वयुवमघोनामतद्धिते>> [[6.4.133]] इति सम्प्रसारणम् । वकारस्य सम्प्रसारणमुकारः। ]\n→ मघउन् + अस् [<<सम्प्रसारणाच्च>> [[6.1.108]] इति उकार-अकारयोः एकः पूर्वरूपः उकारः ]\n→ मघोनः [<<आद्गुणः>> [[6.1.87]] इति गुण-एकादेशः]\nइदम् सम्प्रसारणम् तद्धितप्रत्यये परे न भवतीति स्मर्तव्यम् । यथा -\n1. 'अतिक्रान्तः श्वानम्' (surpasses a dog in certain quality, e.g. speed of running) अस्मिन् अर्थे इत्यनेन प्रादिसमासे कृते <<अतेः शुनः>> [[5.4.96]] इत्यनेन 'टच्' इति समासान्तप्रत्ययः भवति । अग्रे 'अति + श्वन् + टच्' इति स्थिते <<नस्तद्धिते>> [[6.4.144]] इत्यनेन टिलोपं कृत्वा 'अतिश्व' इति शब्दः सिद्ध्यति । अत्र 'टच्' इति प्रत्ययः तद्धितप्रत्ययः अस्ति, अतः अत्र वर्तमानसूत्रेण सम्प्रसारणं न भवति ।\n2. 'यूनः भावः' इत्यस्मिन् अर्थे <<हायनान्तयुवादिभ्योऽण्>> [[5.1.130]] इत्यनेन युवन्-शब्दस्य अण् प्रत्ययः भवति । युवन् + अण् इति स्थिते <<तद्धितेष्वचामादेः>> [[7.2.117]] इत्यनेन आदिवृद्धिं कृत्वा 'यौवन' इति रूपं सिद्ध्यति । अत्र सम्प्रसारणम् न भवति, यतः अण्-इति तद्धितप्रत्ययः अस्ति ।\n3. <<साऽस्य देवता>> [[4.2.24]] अस्मिन् अर्थे मघवन् शब्दस्य अण प्रत्ययः भवति । मघवन् + अण् इति स्थिते <<तद्धितेष्वचामादेः>> [[7.2.117]] इत्यनेन आदिवृद्धिं कृत्वा 'माघवन' इति रूपं सिद्ध्यति । अत्र सम्प्रसारणम् न भवति, यतः अण्-इति तद्धितप्रत्ययः अस्ति ।\nज्ञातव्यम् - अस्मिन् सूत्रे <<अल्लोपोऽनः>> [[6.4.134]] इति-अग्रिमसूत्रात् 'अनः' इत्यस्य अपकर्षः अपि क्रियते । 'अन्-येषामन्ते, तादृशानाम् श्वन् , युवन्, मधवन् एतेषाम् शब्दानाम् एव सम्प्रसारणम् भवति' इति तस्य अर्थः भवति । एतादृशम् सम्प्रसारणम् 'युवती, मघवती' एतादृशानाम् शब्दानाम् विषये मा भूत्, एतत् स्पष्टीकर्तुमयमपकर्षः स्थाप्यते ।\n" }, "64134": { "sa": "'अन्' यस्य अन्ते तादृशस्य भसंज्ञकस्य उपधा-अकारस्य लोपः भवति । ", "sd": "यस्य भसंज्ञकस्य अङ्गस्य अन्ते 'अन्' इति विद्यते, तस्य अङ्गस्य उपधा-अकारस्य लोपः भवति । यथा -\n1. राजन्-शब्दस्य तृतीयैकवचनम्\nराजन् + टा\n→ राजन् आ [टकारस्य <<चुटू>> [[1.3.7]] इति इत्संज्ञा, लोपः । अङ्गस्य <<यचि भम्>> [[1.4.18]] इति भसंज्ञा]\n→ राज् न् आ [<<अल्लोपोऽनः>> [[6.4.134]] इति जकारोत्तरस्य अकारस्य लोपः]\n→ राज् ञ् आ [<<स्तोः श्चुना श्चुः>> [[8.4.40]] इत्यनेन श्चुत्वम्]\n→ राज्ञा\n2. अह्ना निर्वृत्तम्\n= अहन् + ठक् [<<तेन निर्वृत्तम्>> [[5.1.79]]\n→ अहन् + इक [<<ठस्येकः>> [[7.3.50]] इति 'इक्' आदेशः]\n→ आहन् + इक [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ आह् न् + इक [<<नस्तद्धिते>> [[6.4.144]] इत्यनेन टिलोपे प्राप्ते <<अह्नष्टखोरेव>> [[6.4.145]] इति ठक्-प्रत्यये परे टिलोपनिषेधः । अतः <<अल्लोपोऽनः>> [[6.4.134]] इति उपधा-अकारस्य लोपः]\n→ आह्निक\nस्मर्तव्यम् - वस्तुतः अस्मिन् सूत्रे 'उपधा' इत्यस्य अनुवृत्तिः नास्ति । केवलम् 'अन्नन्तस्य अकारस्य लोपः भवति' इत्येव सूत्रे उच्यते । कुत्र अयमकारः विद्येत, इत्यस्य विषये अत्र अनियमः अस्ति, अतः अत्र <<अलोऽन्त्यस्य>> [[1.1.52]] अनया परिभाषया 'सर्वेषु अकारेषु अन्तिमः यः अकारः तस्य लोपः करणीयः' इति निर्णयः क्रियते । " }, "64135": { "sa": "(1) षन्-यस्य अन्ते तादृशस्य, (2) हन्-शब्दस्य, तथा (3) धृतराजन् शब्दस्य - भसंज्ञकस्य उपधा-अकारस्य अण्-प्रत्यये परे लोपः भवति । ", "sd": "अण्-इति कश्चन तद्धितप्रत्ययः । अण्-प्रत्यये परे <<यचि भम्>> [[1.4.18]] इत्यनेन अङ्गस्य भसंज्ञा भवति । एवं भसंज्ञायां प्राप्तायाम् <<अल्लोपोऽनः>> [[6.4.134]] इत्यनेन भसंज्ञकस्य उपधा-अकारस्य लोपः सम्भवते । परन्तु <<अन्>> [[6.4.167]] इत्यनेन अण्-प्रत्यये परे अयं लोपः निषिध्यते । अतः सामान्यरूपेण अन्नन्तस्य भसंज्ञकस्य अङ्गस्य उपधा-अकारस्य अण्-प्रत्यये परे लोपः न भवति । परन्तु, वर्तमानसूत्रेण अस्य निषेधस्यापि केषुचन स्थितिषु निषेधं कृत्वा उपधा-अकारस्य लोपः पुनः विधीयते । ताः स्थित्यः एतादृशाः -\n1) षन्-यस्य अन्ते, तादृशस्य भसंज्ञकस्य उपधा-अकारस्य अण्-प्रत्यये परे लोपः भवति । यथा - 'पूषन्' (= सूर्यः) इत्यस्मात् प्रातिपदिकात् <<तस्यापत्यम्>> [[4.1.92]] इत्यनेन अण्-प्रत्ययः विधीयते । पूष्णः अपत्यम् = 'पूषन् + अण्' इत्यत्र वर्तमानसूत्रेण षकारात् परस्य अकारस्य लोपः भवति । अग्रे अन्यां प्रक्रियां कृत्वा पौष्णः इति रूपं सिद्ध्यति -\nपूषन् + अण्\n→ पौषन् + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ पौष् न् + अ [<<षपूर्वहन्धृतराज्ञामणि>> [[6.4.135]] इत्यनेन भस्य उपधा-अकारस्य लोपः]\n→ पौष्ण [<<रषाभ्यां नो णः समानपदे>> [[8.4.1]] इति णत्वम्]\n2) हन्-यस्य अन्ते, तादृशस्य भसंज्ञकस्य उपधा-अकारस्य अण्-प्रत्यये परे लोपः भवति । यथा - 'वृत्रहन्' (=इन्द्रः) इत्यस्मात् प्रातिपदिकात् अण्-प्रत्यये कृते अनेन सूत्रेण हकारात्-परस्य अकारस्य लोप भवति । अग्रे 'वृत्रह् न् + अण्' इत्यस्य अन्यां प्रक्रियां कृत्वा अन्ते 'वार्त्रघ्नः' इति रूपं सिद्ध्यति -\nवृत्रहन् + अण्\n→ वार्त्रहन् + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः । <<उरण् रपरः>> [[1.1.51]] इति रेफः]\n→ वार्त्रह् न् + अण् [<<षपूर्वहन्धृतराज्ञामणि>> [[6.4.135]] इत्यनेन भस्य उपधा-अकारस्य लोपः]\n→ वार्त्रघ् न् + अस् [<<हो हन्तेर्ञ्णिन्नेषु>> [[7.3.54]] इत्यनेन णित्-प्रत्यये परे हन्-इत्यस्य हकारस्य घकारादेशः ]\n→ वृत्रघ्नः\n3) 'धृतराजन्' इत्यस्य भसंज्ञकस्य उपधा-अकारस्य अण्-प्रत्यये परे लोपः भवति । धृतराजन् + अण् → धार्तराज्ञः ।\nएतान् त्रीन् शब्दस्वरूपान् विहाय अन्येषाम् भसंज्ञकानाम् उपधा-अकारस्य अण्-प्रत्यये परे लोपः न भवति । यथा - 'राजन्' शब्दात् <<तस्येदम्>> [[4.3.120]] अनेन सूत्रेण 'राज्ञः इदम्' अस्मिन् अर्थे अण्-प्रत्ययः भवति । राज्ञः इदम् = राजन् + अण् = राजनः । अत्र उपधा-अकारस्य लोपः न दृश्यते, यतः <<अन्>> [[6.4.147]] इत्यनेन अयं लोपः निषिध्यते, वर्तमानसूत्रेण च तस्य निषेधस्य प्रतिषेधः अपि न भवति ।\n" }, "64136": { "sa": "'अन्' यस्य अन्ते, तादृशस्य भसंज्ञकस्य अङ्गस्य उपधा-अकारस्य ङि-प्रत्यये शी-प्रत्यये वा परे विकल्पेन लोपः भवति ।", "sd": "<<अल्लोपोऽनः>> [[6.4.134]] इत्यनेन सूत्रेण 'अन्' यस्य अन्ते तादृशस्य भसंज्ञकस्य उपधा-अकारस्य नित्यं लोपः भवति । परन्तु अयं लोपः ङि-प्रत्यये परे , शी-प्रत्यये च परे केवलं विकल्पेनैव भवति ।\nयथा -\n1. नामन्-शब्दस्य प्रथमा-द्विवचनस्य रूपसिद्धौ 'नामन् + औ' इत्यत्र <<नपुंसकाच्च>> [[7.1.19]] इत्यनेन औ-प्रत्ययस्य शी-आदेशे कृते 'नामन् + शी' इत्यत्र <<यचि भम्>> [[1.4.18]] इत्यनेन नामन्-शब्दः भसंज्ञां प्राप्नोति । ततः अन्तिम-नकारात् पूर्वः यः अकारः तस्य विकल्पेन लोपः भवति । अतः 'नामनी / नाम्नी' एतादृशं रूपद्वयं सिद्ध्यति ।\n2. राजन्-शब्दस्य सप्तम्येकवचनस्य ङि-प्रत्यये परे 'राजन् + ङि' इति स्थिते वर्तमानसूत्रेण जकारोत्तरस्य अकारस्य वैकल्पिकं लोपं कृत्वा 'राजनि / राज्ञि' एते द्वे रूपे भवतः ।\n<<अल्लोपोऽनः>> [[6.4.134]] इत्यनेन निर्दिष्टः अकारलोपः अनेन सूत्रेण विकल्प्यते । अतः एतत् नियमसूत्रम् । " }, "64137": { "sa": "यस्य संयोगस्य अन्तिमवर्णः वकारः मकारः वा अस्ति, तादृशात् संयोगात् परस्य विद्यमानस्य 'अन्' इत्यस्य भसंज्ञकस्य अकारस्य लोपः न भवति।", "sd": "<<अल्लोपोऽनः>> [[6.4.134]] इत्यनेन अन्-अन्तस्य भसंज्ञकस्य अकारस्य लोपः विधीयते । परन्तु यदि 'अन्' इत्यस्मात् पूर्वम् मकारान्तसंयोगः वकारान्तसंयोगः वा विद्यते तर्हि अस्य लोपस्य प्रतिषेधः भवति ।\nयथा - 'आत्मन्' अस्मिन् शब्दे 'अन्' इत्यस्मात् पूर्वम् 'त्म्' अयं मकारान्तसंयोगः अस्ति । अतः 'आत्मन् + टा' इत्यत्र आत्मन्-शब्दस्य भसंज्ञायां सत्यामपि मकारात् उत्तरस्य अकारस्य लोपः न भवति । अतः 'आत्मना' इति रूपं सिद्ध्यति । तथैव यज्वन् + शस् → यज्वनः, ब्रह्मन् + टा → ब्रह्मणा, कर्मन् + ङि = कर्मणि - एतानि रूपाणि अपि सिद्ध्यन्ति ।\nयत्र संयोगः नास्ति, वा संयोगः अस्ति परन्तु मकारान्त/वकारान्तसंयोगः नास्ति, तत्र अयं प्रतिषेधः न भवति, अतः अकारस्य लोपे कृते एव रूपं सिद्ध्यति । यथा -\n(संयोगस्य अभावः) - राजन् + टा → राज् न् + टा → राज्ञा ।\n(मकारान्त/वकारान्तसंयोगस्य अभावः) - मूर्धन् + टा → मूर् ध् न् + टा → मूर्ध्ना ।\n" }, "64138": { "sa": "लुप्तनकारस्य अञ्च्-शब्दान्तस्य भसंज्ञकस्य अकारस्य लोपः भवति ।", "sd": "अन्च् (गतौ) धातोः यदा क्विन्-प्रत्ययः भवति तदा <<अनिदितां हलः उपधायाः क्ङिति>> [[6.4.24]] इत्यनेन चकारात् पूर्वः यः नकारः तस्य लोपः जायते । अतः 'अन्च् + क्विन्' इत्यनेन 'अच्' इति प्रातिपदिकं सिद्ध्यति । एतादृशः लुप्तनकारः यः अन्च्-धातुनिर्मितः अच्-शब्दः, तदन्तम् यत् भसंज्ञकमङ्गम्, तस्य चकारात्-पूर्वस्य अकारस्य लोपः भवति ।\nयथा - प्रति + अन्च् (गतौ) अस्मात् धातोः क्विन्-प्रत्यये कृते अग्रे <<अनिदितां हलः उपधायाः क्ङिति>> [[6.4.24]] अनेन नकारलोपे कृते 'प्रति + अच्' इति प्रातिपदिकं सिद्ध्यति । अस्मात् प्रातिपदिकात् तृतीयैकवचनस्य 'टा' प्रत्यये परे 'प्रति + अच् + टा' इत्यत्र <<यचि भम्>> [[1.4.18]] इत्यनेन अङ्गस्य भसंज्ञा भवति । तदा वर्तमानसूत्रेण अच्-इत्यस्य अकारस्य लोपः जायते । अग्रे 'प्रति + च् + टा' इत्यत्र <<चौ>> [[6.3.138]] इत्यनेन इकारस्य दीर्घादेशं कृत्वा 'प्रतीचा' इति रूपं सिदध्यति ।\n" }, "64139": { "sa": "उद्-शब्दात् परस्य लुप्तनकारस्य अञ्च्-शब्दान्तस्य भसंज्ञकस्य ईकारादेशः भवति । ", "sd": "अन्च् (गतौ) धातोः यदा क्विन्-प्रत्ययः भवति तदा <<अनिदितां हलः उपधायाः क्ङिति>> [[6.4.24]] इत्यनेन चकारात् पूर्वः यः नकारः तस्य लोपः जायते । अतः 'अन्च् + क्विन्' इत्यनेन 'अच्' इति प्रातिपदिकं सिद्ध्यति । एतादृशः लुप्तनकारः यः अन्च्-धातुनिर्मितः अच्-शब्दः, तस्य भसंज्ञा भवति चेत् 'उद्' शब्दे परे ईकारादेशः अपि भवति । <<आदेः परस्य>> [[1.1.54]] इत्यनेन अयमादेशः 'अच्' इत्यस्य आदिवर्णस्य भवति । यथा -\nउद् + अन्च् + क्विन् ['उद् + अञ्च्' इत्यस्मात् <<ऋत्विक्दधृग्...>> इत्यनेन क्विन्-प्रत्ययः]\n→ उद् + अच् [<<अनिदितां हलः उपधायाः क्ङिति>> [[6.4.24]] अनेन नकारलोपः]\nअस्मात् प्रातिपदिकात् द्वितीयाबहुवचनस्य शस्-प्रत्यये कृते अङ्गस्य <<यचि भम्>> [[1.4.18]] इति भसंज्ञा भवति । अतः वर्तमानसूत्रेण 'अच्' इत्यस्य अकारस्य ईकारादेशः अपि विधीयते ।\nउद् + अच् + शस्\n→ उद् + ईच् + अस् [<<उद ईत्>> [[6.4.139]] इति अकारस्य ईकारः]\n→ उदीचः\nएवमेव उदीचा, उदीचे, उदीचः, उदीचोः एतानि रूपाणि अपि सिद्ध्यन्ति ।\n" }, "64140": { "sa": "आकारान्त-धातोः भसंज्ञकस्य अङ्गस्य अन्तिम-आकारस्य लोपः भवति । ", "sd": "आकारान्त-धातुनिर्मितम् यत् प्रातिपदिकम्, तस्य भसंज्ञायां सत्याम् तस्य अङ्गस्य अन्तिमवर्णस्य (=आकारस्य) लोपः भवति । यथा, 'विश्वपा' इति प्रातिपदिकम् 'विश्वं पाति सः' अस्मिन् अर्थे 'विश्व' उपपदेन सह पा (रक्षणे) धातोः <<अन्येऽभ्योपि दृश्यन्ते>> [[3.2.75]] इति विच्-प्रत्ययं कृत्वा सिद्ध्यति । <ऽक्विबन्ताः विजन्ताश्च प्रातिपदिकत्वं न. जहति, धातुत्वमपि न मुञ्चन्तिऽ> अनेन सिद्धान्तेन अस्य शब्दस्य धातुसंज्ञा अपि भवति । अतः, अस्य शब्दस्य अजादिषु प्रत्ययेषु परेषु <<यचि भम्>> [[1.4.18]] इत्यनेन भसंज्ञायां प्राप्तायाम् वर्तमानसूत्रेण अङ्गस्य अन्तिमवर्णस्य लोपः भवति । प्रक्रिया इयम् -\nविश्वपा + टा [तृतीयैकवचनस्य टा-प्रत्ययः । अस्मिन् प्रत्यये परे <<यचि भम्>> [[1.4.18]] इति अङ्गस्य भसंज्ञा]\n→ विश्वप् + आ [<<आतो धातोः>> [[6.4.140]] इति अङ्गस्य अन्तिमवर्णस्य लोपः]\n→ विश्वपा\nतथैव विश्वपा + ङे → विश्वपे, कीलालपा + ङसिँ → कीलालपः, शङ्खध्मा + शस् → शङ्खध्मः आदीनि रूपाणि अपि सिद्ध्यन्ति ।\n" }, "64141": { "sa": "", "sd": "" }, "64142": { "sa": "भसंज्ञकस्य 'विंशति' शब्दस्य 'ति' इत्यस्य डित्-प्रत्यये परे लोपः भवति । ", "sd": "'विंशति'-शब्दस्य कस्मिंश्चित् डित्-प्रत्यये परे भसंज्ञा भवति चेत् अस्य शब्दस्य अन्तिमवर्णद्वयम् 'ति' एतयोः लोपः भवति । यथा -\n1) विंशति + डट् ['विंशतेः पूरणम्' अस्मिन् अर्थे विंशति-शब्दात् <<तस्य पूरणे डट्>> [[5.2.48]] अनेन सूत्रेण 'डट्' प्रत्ययः ।]\n→विंशति + अ [डकारस्य <<चुटू>> [[1.3.7]] इति इत्संज्ञा, टकारस्य <<हलन्त्यम्>> [[1.3.3]] इत्यनेन इत्संज्ञा, द्वयोः <<तस्य लोपः>> [[1.3.9]] अनेन लोपः । अस्मिन् प्रत्यये परे 'विंशति' इत्यस्य <<यचि भम्>> [[1.4.18]] इत्यनेन भ-संज्ञा भवति।]\n→ विंश + अ [<<ति विंशतेर्डिति>> [[6.4.142]] इति भसंज्ञकस्य विंशति-शब्दस्य 'ति'-इत्यस्य लोपः]\n→ विंश [<<अतो गुणे>> [[6.1.97]] इति पररूप-एकादेशः]\nअतः विंशतेः पूरणम् = विंशः । तथैव, एकविंशः, द्वाविंशः आदयः शब्दाः अपि सिद्ध्यन्ति ।\n2) विंशति + ड्वुन् ['विंशत्या क्रीतः' अस्मिन् अर्थे विंशति-शब्दात् <<विंशतित्रिंशद्भ्यां ड्वुनसंज्ञायाम्>> [[5.1.24]] इति ड्वुन्-प्रत्ययः]\n→ विंशति + वु [डकारस्य <<चुटू>> [[1.3.7]] इति इत्संज्ञा, नकारस्य <<हलन्त्यम्>> [[1.3.3]] इत्यनेन इत्संज्ञा, द्वयोः <<तस्य लोपः>> [[1.3.9]] अनेन लोपः ]\n→ विंशति + अक [<<युवोरनाकौ>> [[7.1.2]] इति वु-इत्यस्य अक-इत्यादेशः । अस्मिन् आदेशे परे 'विंशति' इत्यस्य <<यचि भम्>> [[1.4.18]] इत्यनेन भ-संज्ञा भवति]\n→ विंश + अक [<<ति विंशतेर्डिति>> [[6.4.142]] इति भसंज्ञकस्य विंशति-शब्दस्य 'ति'-इत्यस्य लोपः]\n→ विंशक [<<अतो गुणे>> [[6.1.97]] इति पररूप-एकादेशः]\n3) विंशति + ड ['विंशत्यधिकाः अस्मिन् शते' इत्यस्मिन् अर्थे <<शदन्तविंशतेश्च>> [[5.2.46]] इत्यनेन विंशति-शब्दात् ड-प्रत्ययः भवति ।]\n→ विंशति + अ [डकारस्य <<चुटू>> [[1.3.7]] इति इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] अनेन लोपः । अकारे परे <<यचि भम्>> [[1.4.18]] इत्यनेन अङ्गस्य भ-संज्ञा भवति ।]\n→ विंश + अ [<<ति विंशतेर्डिति>> [[6.4.142]] इति भसंज्ञकस्य विंशति-शब्दस्य 'ति'-इत्यस्य लोपः]\n→ विंश [<<अतो गुणे>> [[6.1.97]] इति पररूप-एकादेशः]\nज्ञातव्यम् -\n1. अस्मिन् सूत्रे 'ति-इत्यस्य लोपः भवति' इति स्पष्टरूपेण निर्दिष्टमस्ति, अतः अत्र <<अलोऽन्त्यस्य>> [[1.1.52]] अस्याः परिभाषायाः प्रयोगः न कर्तव्यः ।\n2. एतत् सूत्रम् <<टेः>> [[6.4.143]] इत्यस्य अपवादरूपेण आगच्छति । 'विंशति'-इति भसंज्ञकस्य डित्-प्रत्यये परे <<टेः>> [[6.4.143]] इत्यनेन टिसंज्ञकस्य लोपे प्राप्ते वर्तमानसूत्रेण अपवादत्वेन 'ति' इत्यस्य लोपः विधीयते ।\n" }, "64143": { "sa": "भसंज्ञकस्य अङ्गस्य टि-संज्ञकस्य डित्-प्रत्यये परे लोपः भवति । ", "sd": "यदि भसंज्ञकात् परः डित्-प्रत्ययः आगच्छति, तर्हि तस्य भसंज्ञकस्य टि-संज्ञकस्य लोपः जायते ।\nयथा, 'अन्य' इत्यस्य सर्वनामशब्दस्य नपुंसकलिङ्गस्य प्रथमैकवचनस्य रूपसिद्धौ -\nअन्य + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः]\n→ अन्य + अद् [<<स्वमोर्नपुंसकात्>> [[7.1.23]] इत्यनेन सुँ/अम् प्रत्यययोः लुक्-प्राप्ते, अपवादत्वेन <<अतोऽम्>> [[7.1.24]] इत्यनेन तयोः अम्-आदेशे प्राप्ते, अपवादत्वेन <<अद्ड् डतरादिभ्यः पञ्चभ्यः>> [[7.1.25]] इति अद्ड्-आदेशः । डकारस्य इत्संज्ञा, लोपः ।]\n→ अन्य् + अद् [अकारादि-प्रत्यये परे अङ्गस्य <<यचि भम्>> [[1.4.18]] इति भसंज्ञा । <<टेः>> [[6.4.143]] इत्यनेन डित्-प्रत्यये परे भस्य अङ्गस्य अन्तिमस्य टि-संज्ञकस्य लोपः भवति ।]\n→ अन्यद् / अन्यत् [<<वाऽवसाने>> [[8.4.56]] इति विकल्पेन चर्त्वम्]\nअस्य सूत्रस्य विषये काशिका वदति - 'डिति अ-भस्य अपि अनुबन्धकरणसामर्थ्यात् टिलोपो भवति' । इत्युक्ते, यदि कस्मिंश्चित् प्रत्यये डकारः इत्संज्ञकः अस्ति, तस्य किमपि अन्यत् प्रयोजनम् च नास्ति, तर्हि तस्मिन् प्रत्यये परे अङ्गस्य भसंज्ञायाम् न सत्यामपि टिलोपः भवति - डित्वस्य निर्देशसामर्थ्यात् ।\nयथा, 'कुमुद' शब्दात् <<कुमुदनडवेतसेभ्यो ड्मतुप्>> [[4.2.87]] इत्यनेन ड्मतुप्-प्रत्ययः भवति । अस्मिन् प्रत्यये परे इयम् प्रक्रिया जायते -\n→ 'कुमुद' + ड्मतुप् [<<कुमुदनडवेतसेभ्यो ड्मतुप्>> [[4.2.87]] इति मतुप्-प्रत्ययः]\n→ 'कुमुद' + मत् [डकारस्य <<चुटू>> [[1.3.7]] इति इत्संज्ञा, उकारस्य <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इति इत्संज्ञा । पकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा । द्वयोः <<तस्य लोपः>> [[1.3.9]] इति लोपः । ]\n→ कुमुद् मत् [<<टेः>> [[6.4.143]] इति टिसंज्ञकस्य अकारस्य लोपः]\n→ कुमुद्वत् [ <<झयः>> [[8.2.10]] इति मकारस्य वकारादेशः]\nअस्याम् प्रक्रियायाम् यद्यपि 'कुमुद्' शब्दस्य भसंज्ञा न भवति, तथापि डित्करणस्य सामर्थ्यात् अत्र <<टेः>> [[6.4.143]] इत्यस्य प्रसक्तिः अस्ति । " }, "64144": { "sa": "तद्धितप्रत्यये परे नकारान्तस्य भसंज्ञकस्य टिसंज्ञकस्य लोपः भवति । ", "sd": "यदि नकारान्त-भसंज्ञक-अङ्गात् परः तद्धितप्रत्ययः आगच्छति, तर्हि तस्य नकारान्तस्य भस्य यः टिसंज्ञकः, तस्य लोपः जायते । उदाहरणानि एतानि -\n1. 'उडुलोमन्' शब्दात् अपत्यार्थे <<बाह्वादिभ्यश्च>> [[4.1.96]] इत्यनेन इञ्-प्रत्ययः भवति । तस्य प्रक्रिया इयम् -\nउडुलोमन् + इञ् [अजादिप्रत्यये परे अङ्गस्य <<यचि भम्>> [[1.4.18]] इति भसंज्ञा]\n→ औडुलोमन् + इ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ औडुलोम् + इ [<<नस्तद्धिते>> [[6.4.144]] इत्यनेन तद्धितप्रत्यये परे नकारान्तस्य अङ्गस्य टिसंज्ञकस्य लोपः भवति]\n→ औडुलोमि\n2. 'मद्रराजन्' इत्यस्य <<राजाहस्सखिभ्यष्टच्>> [[5.4.91]] इत्यनेन समासान्ते टच्-प्रत्यये कृते -\nमद्रराजन् + टच्\n→ मद्रराजन् + अ [<<नस्तद्धिते>> [[6.4.144]] इत्यनेन तद्धितप्रत्यये परे नकारान्तस्य अङ्गस्य टिसंज्ञकस्य लोपः भवति]\n→ मद्रराज\n3. 'श्वनाम् समूहः' इत्यत्र 'श्वन्' शब्दात् <<खण्डिकादिभ्यश्च>> [[4.2.45]] इत्यनेन अञ्-प्रत्ययं कृत्वा इयम् प्रक्रिया जायते -\nश्वन् + अञ्\n→ शौवन् + अ [<<द्वारादीनां च>> [[7.3.4]] इत्यनेन द्वारादिगणे विद्यमानस्य श्वन्-शब्दस्य वकारात् पूर्वम् औकारागमः भवति ]\n→ शौव् + अ [<<नस्तद्धिते>> [[6.4.144]] इत्यनेन टिलोपः]\n→ शौव\nअत्र कानिचन वार्त्तिकानि ज्ञातव्यानि -\n1. । इत्युक्ते, निम्निलिखियानाम् शब्दानाम् विषये अपि टिलोपः कर्तव्यः इति -\nसब्रह्मचारिन्, पीठसर्पिन्, कलापिन्, कुथुमिन्, तैतिलिन् जाजलिन्, लाङ्गलिन्, शिलालिन्, शिखण्डिन्, सुकरसद्मन्, सुपर्वन् ।\n(अ) एतेषु ये शब्दाः इन्नन्ताः सन्ति, तेषाम् विषये <<नस्तद्धिते>> [[6.4.144]] इत्यनेन टिलोपे प्राप्ते <<इन्यणपत्ये>> [[6.4.164]] इत्यनेन अण्-प्रत्यये परे सः निषिध्यते । तस्य निषेधस्यापि निषेधं कृत्वा टिलोपस्य पुनर्विधानम् कर्तुम् एतेषां शब्दानामत्र निर्देशः कृतः अस्ति । उदाहरणानि एतानि -\n- सब्रह्मचारिन् + अण् → साब्रह्मचार ।\n- पीठसर्पिन् + अण् → पैठसर्प ।\n- कलापिन् + अण् → कालाप ।\n- कुथुमिन् + अण् → कौथुम ।\n- तैतिलिन् + अण् → तैतिल ।\n→ जाजलिन् + अण् → जाजल ।\n- लाङ्गलिन् + अण् → लाङ्गल ।\n- शिलालिन् + अण् → शैलाल ।\n- शिखण्डिन् + अण् → शैखण्ड ।\n(आ) 'सुकरसद्मन्' तथा 'सुपर्वन्' एतयोः विषये <<नस्तद्धिते>> [[6.4.144]] इत्यनेन टिलोपे प्राप्ते <<अन्>> [[6.4.167]] इत्यनेन अण्-प्रत्यये परे सः निषिध्यते । अस्य निषेधस्य निषेधं कृत्वा टिलोपस्य पुनर्विधानम् कर्तुम् एतेषां शब्दानामत्र निर्देशः कृतः अस्ति । यथा - सुकरसद्मन् + अण् → सौकरसद्म । सुपर्वन् + अण् → सौपर्वण ।\n2. । इत्युक्ते, <<तस्य विकारः>> [[4.3.134]] अस्मिन् अर्थे अश्मन्-शब्दात् अण्-प्रत्ययविधानं क्रियते चेत् अत्रापि टिलोपः कर्तव्यः । यथा -\nअश्मन् + अण्\n→ आश्मन् + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ आश्म् + अ [<<नस्तद्धिते>> [[6.4.144]] इत्यनेन टिलोपे प्राप्ते ; <<अन्>> [[6.4.167]] इत्यनेन अण्-प्रत्यये परे तस्य निषेधे प्राप्ते अनेन वार्त्तिकेन टिलोपस्य पुनर्विधानम् क्रियते । ]\n→ आश्म\nअन्येषु अर्थेषु तु <<अन्>> [[6.4.167]] इत्यनेन अण्-प्रत्यये परे टिलोपस्य निषेधः भवति, अतः 'आश्मन' इति प्रातिपदिकं सिद्ध्यति ।\n3. । इत्युक्ते, <<तस्य इदम्>> [[4.3.120]] अस्मिन् अर्थे चर्मन् शब्दात् कोशं दर्शयितुमण्-प्रत्यये कृते टिलोपः कर्तव्यः । यथा -\nचर्मन् + अण्\n→ चार्मन् + अण् [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ चार्म् + अण् [<<नस्तद्धिते>> [[6.4.144]] इत्यनेन टिलोपे प्राप्ते ; <<अन्>> [[6.4.167]] इत्यनेन अण्-प्रत्यये परे तस्य निषेधे प्राप्ते अनेन वार्त्तिकेन टिलोपस्य पुनर्विधानम् क्रियते । ]\n→ चार्मः कोषः ।\nअन्येषु अर्थेषु तु <<अन्>> [[6.4.167]] इत्यनेन अण्-प्रत्यये परे टिलोपस्य निषेधः भवति, अतः 'चार्मण' इति प्रातिपदिकं सिद्ध्यति ।\n4. । इत्युक्ते, <<तस्य विकारः>> [[4.3.134]] अस्मिन् अर्थे 'श्वन्' शब्दात् अवयवानाम् सङ्कोचनम् दर्शयितुमण्-प्रत्यये कृते टिलोपः कर्तव्यः । यथा -\nश्वन् + अण्\n→ शौवन् + अ [<<द्वारादीनां च>> [[7.3.4]] इति ऐच्-आगमः]\n→ शौव् + अ [<<नस्तद्धिते>> [[6.4.144]] इत्यनेन टिलोपे प्राप्ते ; <<अन्>> [[6.4.167]] इत्यनेन अण्-प्रत्यये परे तस्य निषेधे प्राप्ते अनेन वार्त्तिकेन टिलोपस्य पुनर्विधानम् क्रियते । ]\n→ शौव ।\nअन्येषु अर्थेषु तु <<अन्>> [[6.4.167]] इत्यनेन अण्-प्रत्यये परे टिलोपस्य निषेधः भवति, अतः 'शौवन' इति प्रातिपदिकं सिद्ध्यति ।\n5. । इत्युक्ते, केषाञ्चन अव्ययानां विषये यद्यपि टिलोपस्य प्रसक्तिः नास्ति, तथापि प्रयोगे टिलोपं कृत्वैव रूपं प्रयुक्तं दृश्यते । एतादृशेषु शब्देषु प्रयोगमनुसृत्य यथायोग्यं टिलोपः कर्तव्यः । (एतेषाम् सर्वेषामावली 'सायंप्रातिकादयः' नाम्ना ज्ञायते, अतः अस्मिन् सूत्रे 'सायंप्रातिकाद्यर्थम्' इति उच्यते । यथा -\n- सायंप्रातर् + ठञ् → सायंप्रातिक । अत्र टिलोपः केनापि सूत्रेण न विधीयते, परन्तु कृतः दृश्यते ।\n- पुनःपुनर् + ठञ् → पौनपुनिक ।\n- बहिस् + य → बाह्य ।\n- कुतस्कुतस् + अण् → कौतस्कुत ।\nज्ञातव्यम् -\n1. यदि नकारान्तमङ्गम् पदसंज्ञकमस्ति तर्हि वर्तमानसूत्रस्य प्रसक्तिः न वर्तते । यथा, 'पञ्चन् + कृत्वसुँच्' इत्यत्र अङ्गस्य पदसंज्ञा भवति, अतः <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इत्यनेन नकारलोपं कृत्वा 'पञ्चकृत्वः' इति शब्दः सिद्ध्यति ।\n2. अस्य सूत्रस्य प्रसक्तिः तद्धितप्रत्यये परे एव अस्ति, अन्येषु प्रत्ययेषु परेषु न । यथा, 'राजन् + टा' इत्यत्र वर्तमानसूत्रस्य प्रसक्तिः नास्ति, यतः 'टा' अयम् तद्धितप्रत्ययः नास्ति । " }, "64145": { "sa": "", "sd": "" }, "64146": { "sa": "उवर्णान्तस्य भसंज्ञकस्य तद्धितप्रत्यये परे गुणादेशः भवति । ", "sd": "अस्मिन् सूत्रे प्रयुक्तः 'ओः' इति शब्दः 'उ' इत्यस्य षष्ठ्येकवचनमस्ति । अनेन सूत्रेण उवर्णान्त-भसंज्ञकस्य तद्धितप्रत्यये परे गुणादेशः भवति । यथा -\n1. बभ्रु + यञ् [<<मधुबभ्र्वोर्ब्राह्मणकौशिकयोः>> [[4.1.106]] इति यञ्-प्रत्ययः । यकारादौ प्रत्यये परे अङ्गस्य <<यचि भम्>> [[1.4.18]] इति भसंज्ञा]\n→ बाभ्रु + यञ् [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः ]\n→ बाभ्रो + यञ् [<<ओर्गुणः>> [[6.4.146]] इत्यनेन उकारस्य गुणः ओकारः]\n→ बाभ्रव् + य [<<वान्तो यि प्रत्यये>> [[6.1.79]] इति ओकारस्य अव्-आदेशः]\n→ बाभ्रव्य\n2. उपगु + अण् [<<तस्यापत्यम्>> [[4.1.92]] इति अण्-प्रत्ययः । अकारादौ प्रत्यये परे अङ्गस्य <<यचि भम्>> [[1.4.18]] इति भसंज्ञा]\n→ औपगु अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ औपगो अ [<<ओर्गुणः>> [[6.4.146]] इत्यनेन उकारस्य गुणः ओकारः]\n→ औपगव [<<एचोऽयवायावः>> [[6.1.78]] इति अव्-आदेशः]\nज्ञातव्यम् -\n1. <ऽसंज्ञापूर्वकः विधिः अनित्यःऽ> इति काचन परिभाषा अस्ति । अस्याः परिभाषायाः अर्थः अयम् - यदि कस्मिंश्चित् सूत्रे संज्ञानिर्देशं कृत्वा कश्चन विधिः उक्तः अस्ति, तर्हि केषुचन स्थलेषु तस्य सूत्रस्य अवकाशे प्राप्ते अपि तस्य सूत्रस्य प्रयोगं विना एव रूपाणि सिद्ध्यन्ति । एतादृशाः विधयः, येषामवकाशे प्राप्ते अपि प्रयोगः कुत्रचित् न क्रियते, ते 'अनित्याः' सन्ति इत्युच्यते । वर्तमानसूत्रे 'गुण' संज्ञायाः निर्देशं कृत्वा विधिः उक्तः अस्ति, अतः वर्तमानसूत्रेण उक्तः विधिः अपि अनित्यः अस्ति । 'स्वायम्भुव' शब्दस्य प्रक्रियायाम् एतत् स्पष्टम् भवति -\n→ स्वयम्भू + अण् [<<तस्यापत्यम्>> [[4.1.92]] इति अण्-प्रत्ययः । अकारादौ प्रत्यये परे अङ्गस्य <<यचि भम्>> [[1.4.18]] इति भसंज्ञा]\n→ स्वायम्भू + अण् [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ स्वायम्भुवङ् + अ [अत्र <<ओर्गुणः>> [[6.4.146]] इत्यस्य प्रसक्तिः अस्ति । तथापि <ऽसंज्ञापूर्वकः विधिः अनित्यःऽ> अनया परिभाषया अत्र अयं गुणादेशः न प्रवर्तते । तस्य अभावे <<अचिश्नुधातुभ्रुवाम्...>> [[6.4.77]] इत्यनेन उवङ्-आदेशः विधीयते]\n→ स्वायम्भुव\n2. ढकारादि-प्रत्यये परे वर्तमानसूत्रेण गुणे प्राप्ते अपवादत्वेन <<ढे लोपोऽकद्र्वाः>> [[6.4.147]] इत्यनेन अङ्गस्य अन्तिमवर्णस्य लोपः भवति ।\n" }, "64147": { "sa": "'कद्रू' शब्दं विहाय अन्येषामुवर्णान्त-भसंज्ञकानाम् ढकारादौ तद्धितप्रत्यये परे लोपः भवति ।", "sd": "उवर्णान्तस्य भसंज्ञकस्य तद्धितप्रत्यये परे <<ओर्गुणः>> [[6.4.146]] इत्यनेन गुणः विधीयते । तस्य अपवादरूपेण ढकारादि-प्रत्यये परे भस्य अङ्गस्य अन्तिमवर्णस्य लोपः भवति । परन्तु 'कद्रू' शब्दस्य विषये अयं लोपः न भवति ।\nअत्र एकः विशेषः स्मर्तव्यः - ढकारे परे अङ्गस्य भसंज्ञा नैव भवति, परन्तु ढकारस्य <<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इत्यनेन 'एय्' आदेशः यः विधीयते, तस्मिन् परे <<यचि भम्>> [[1.4.18]] इत्यनेन अङ्गस्य भसंज्ञा भवति ।\nउदाहरणानि एतानि -\n1. शीतबाहु + ढञ् [<<चतुष्पाद्भ्यो ढञ्>> [[4.1.135]] इति अपत्यार्थे ढञ्-प्रत्ययः । ञकारस्य इत्संज्ञा, लोपः]\n→ शीतबाहु + एय [ढ= ढ् + अ । ढ् इत्यस्य <<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति एय्-आदेशः । एय् + अ = एय । एकारादौ प्रत्यये परे <<यचि भम्>> [[1.4.18]] इति अङ्गस्य भसंज्ञा]\n→ शैतबाहु एय [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ शैतबाह् + एय [<<ओर्गुणः>> [[6.4.146]] इत्यनेन भस्य अङ्गस्य अन्तिमवर्णस्य गुणे प्राप्ते, अपवादत्वेन <<ढे लोपोऽकद्र्वाः>> [[6.4.147]] इति अङ्गस्य अन्तिमवर्णस्य लोपः]\n→ शैतबाहेय\n2. मद्रबाहु + ऊङ् [स्त्रीत्वं द्योतयितुम् मद्रबाहु-शब्दात् <<बाह्वन्तात् संज्ञायाम्>> [[4.1.67]] इत्यनेन ऊङ्-प्रत्ययः]\n→ मद्रबाहू + ढक् [<<स्त्रीभ्यो ढक्>> [[4.1.120]] इति अपत्यार्थे ढक्-प्रत्ययः । ककारस्य इत्संज्ञा, लोपः]\n→ मद्रबाहू + एय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ढकारस्य एय्-आदेशः । <<यचि भम्>> [[1.4.18]] इति अङ्गस्य भसंज्ञा]\n→ माद्रबाहू + एय [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ माद्रबाहू + एय [<<ओर्गुणः>> [[6.4.146]] इत्यनेन भस्य अङ्गस्य अन्तिमवर्णस्य गुणे प्राप्ते, अपवादत्वेन <<ढे लोपोऽकद्र्वाः>> [[6.4.147]] इति अङ्गस्य अन्तिमवर्णस्य लोपः]\n→ माद्रबाहेय\n3. मृकण्डु + ढक् [<<शुभ्रादिभ्यश्च>> [[4.1.123]] इति सूत्रेण शुभ्रादिगणे उपस्थितानां शब्दानां ढक् प्रत्ययः भवति । आकृतिगणोऽयम् । अतः 'मृकण्डु' शब्दस्य अस्मिन् गणे न स्थितेऽपि ढक् प्रत्ययः अनेन सूत्रेण विधीयते ।]\n→ मृकण्डु + एय [<<आयनेयीनीयियः फढखछघां प्रत्ययादीनाम्>> [[7.1.2]] इति ढ् वर्णस्य एय् आदेशः । <<यचि भम्>> [[1.4.18]] इति अङ्गस्य भसंज्ञा]\n→ मार्कण्डु + एय [<<किति च>> [[7.2.118]] इति आदिवृद्धिः , <<उरण् रपरः>> [[1.1.51]] इति रपरः आकारः]\n→ मार्कण्ड् + एय [<<ओर्गुणः>> [[6.4.146]] इत्यनेन भस्य अङ्गस्य अन्तिमवर्णस्य गुणे प्राप्ते, अपवादत्वेन <<ढे लोपोऽकद्र्वाः>> [[6.4.147]] इति अङ्गस्य अन्तिमवर्णस्य लोपः]\n→ मार्कण्डेय\n'कद्रू' इति दीर्घ-ऊकारान्त-स्त्रीलिङ्ग-शब्दस्य विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा -\nकद्रू + ढक् [<<स्त्रीभ्यो ढक्>> [[4.1.120]] इति अपत्यार्थे ढक्-प्रत्ययः । ककारस्य इत्संज्ञा, लोपः]\n→ कद्रू + एय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ढकारस्य एय्-आदेशः । <<यचि भम्>> [[1.4.18]] इति अङ्गस्य भसंज्ञा]\n→ काद्रू + एय [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ काद्रो+ एय [<<ओर्गुणः>> [[6.4.146]] इत्यनेन भस्य अङ्गस्य अन्तिमवर्णस्य गुणः]\n→ काद्रवेय [<<एचोऽयवायवावः>> [[6.1.78]] इति अवादेशः]\n " }, "64148": { "sa": "भसंज्ञकस्य अङ्गस्य 'अ'वर्णस्य 'इ'वर्णस्य च तद्धितप्रत्यये परे ईकारे परे च लोपः भवति । ", "sd": "अस्मिन् सूत्रे प्रयुक्तः 'यस्य' अयम् शब्दः 'इ + अ' इत्यनेन निर्मितः अस्ति । इश्च अश्च = यः । 'यस्य' इत्युक्ते इवर्णान्तस्य + अवर्णान्तस्य । अतः अस्य सूत्रस्य अर्थः - भसंज्ञकस्य अङ्गस्य अन्तिमस्य अ-वर्णस्य / इ-वर्णस्य तद्धितप्रत्यये परे ईकारे च परे लोपः भवति ।\nअस्मिन् सूत्रे तपरकरणम् कृतम् नास्ति, अतः अत्र अवर्णेन आकारस्यापि ग्रहणं भवति, इवर्णेन च ईकारस्यापि ग्रहणं भवति ।\nआदौ तद्धितप्रत्यये परे उदाहरणानि पश्यामः -\n1. अकारान्तस्य अङ्गस्य तद्धितप्रत्यये परे लोपः -\nदक्ष + इञ् [<<तस्यापत्यम्>> [[4.1.92]] अस्मिन् अर्थे <<अत इञ्>> [[4.1.95]] इति इञ्-प्रत्ययः]\n→ दाक्ष इञ् [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ दाक्ष् + इञ् [इञ्-प्रत्यये परे <<यचि भम्>> [[1.4.18]] इत्यनेन अङ्गस्य भसंज्ञा । अतः <<यस्येति च>> [[6.4.148]] इति अङ्गस्य अकारस्य लोपः]\n→ दाक्षि\n2. आकारान्तस्य अङ्गस्य तद्धितप्रत्यये परे लोपः -\nविनता + ढक् [<<तस्यापत्यम्>> [[4.1.92]] अस्मिन् अर्थे <<स्त्रीभ्यो ढक्>> [[4.1.120]] इति ढक्-प्रत्ययः]\n→ विनता + एय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ढकारस्य एय्-आदेशः]\n→ वैनता + एय [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ वैनत् + एय [एकारे परे <<यचि भम्>> [[1.4.18]] इत्यनेन अङ्गस्य भसंज्ञा । अतः <<यस्येति च>> [[6.4.148]] इति अङ्गस्य आकारस्य लोपः]\n→ वैनतेय\n3. इकारान्तस्य अङ्गस्य तद्धितप्रत्यये परे लोपः -\nअत्रि + ढक् [<<तस्यापत्यम्>> [[4.1.92]] अस्मिन् अर्थे <<इतश्चानिञः>> [[4.1.122]] इत्यनेन ढक्-प्रत्ययः]\n→ अत्रि + एय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ढकारस्य एय्-आदेशः]\n→ आत्रि + एय [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ आत् र् + एय [एकारे परे <<यचि भम्>> [[1.4.18]] इत्यनेन अङ्गस्य भसंज्ञा । अतः <<यस्येति च>> [[6.4.148]] इति अङ्गस्य इकारस्य लोपः]\n→ आत्रेय\n4. ईकारान्तस्य अङ्गस्य तद्धितप्रत्यये परे लोपः -\n'इदम्' अस्य शब्दस्य वतुप्-प्रत्यये कृते इयम् प्रक्रिया जायते -\nइदम् + घत् [<<किमिदम्भ्याम् वो घः>> [[5.2.40]] इत्यनेन इदम्-शब्दस्य वतुप्-प्रत्ययः , तस्य वकारस्य अननैव सूत्रेण घकारादेशः]\n→ इदम् + इयत् [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.2.2]] इत्यनेन घकारस्य इय्-आदेशः]\n→ ई + इयत् [<<इदम्किमोः ईश्की>> [[6.3.90]] इत्यनेन इदम्-शब्दस्य ई-आदेशः । <<अनेकाल् शित् सर्वस्य>> [[1.1.55]] इति शित्वात् सर्वादेशः]\n→ इयत् [ईकारे परे <<यचि भम्>> [[1.4.18]] इत्यनेन अङ्गस्य भसंज्ञा । अतः <<यस्येति च>> [[6.4.148]] इति ईकारस्य लोपः]\nइदानीम् ईकारे परे किम् भवति तत् पश्यामः । अस्मिन् सूत्रे प्रयुक्तम् 'ईकार' इति निमित्तम् तद्धितभिन्नप्रत्ययस्य ईकारस्य निदर्शनम् करोति, यतः ईकारादौ तद्धितप्रत्यये परे तु तद्धितग्रहणनैव लोपः भवितुमर्हति - तदर्थम् ईकारग्रहणस्य आवश्यकता न । अतः अत्र केवलं तद्धितभिन्नानाम् प्रत्ययानाम् एव उदाहरणानि देयानि ।\nतद्धितभिन्नः ईकारः भसंज्ञकात् अनन्तरम् केवलं द्वयोः स्थलयोः एव आगच्छति -\n1. ङीप्/ङीष्/ङीन् - एतेषाम् स्त्रीप्रत्ययानाम् ईकारः तद्धितभिन्नः ईकारः अस्ति ।\n2. नपुंसकस्य औ/औट्-प्रत्यययोः <<नपुंसकाच्च>> [[7.1.19]] इत्यनेन यः 'शी' आदेशः भवति, अस्मिन् आदेशे तद्धितभिन्नः ईकारः अस्ति ।\nअन्येषु प्रत्ययेषु परेषु (यथा - लकाराः / कृत् / सन् -आदयः) अङ्गस्य भसंज्ञा एव न भवति, अतः तेषामत्र चिन्तनम् न करणीयम् ।\nएताभ्याम् द्वाभ्याम् स्थलाभ्याम् शी-आदेशस्य विषये अस्य सूत्रस्य अनेन वार्तिकेन निषेधः कृतः अस्ति । (एतत् वार्तिकमधः स्पष्टीकृतमस्ति ।) अतः ई-प्रत्ययस्य उदाहरणानि केवलं ङीप्/ङीष्/ङीन्-एतेषु स्त्री-प्रत्ययेषु परेषु एव उपलभ्यन्ते ।\n1. अकारान्तस्य अङ्गस्य ईकारे परे लोपः -\nकुमार + ङीप् [<<वयसि प्रथमे>> [[4.1.20]] इत्यनेन कुमार-शब्दस्य ङीप्-प्रत्ययः ]\n→ कुमार + ई [इत्संज्ञालोपः ]\n→ कुमार् + ई [ईकारे परे <<यचि भम्>> [[1.4.18]] इत्यनेन अङ्गस्य भसंज्ञा । अतः <<यस्येति च>> [[6.4.148]] इति अङ्गस्य अकारस्य लोपः]\n→ कुमारी\n2. इकारान्तस्य अङ्गस्य ईकारे परे लोपः -\nदाक्षि + ङीष् [इतो मनुष्यजातेः [[4.1.65]] इत्यनेन स्त्रीत्वस्य विवक्षायाम् 'ङीष्' प्रत्ययः]\n→ दाक्षि + ई [इत्संज्ञालोपः ]\n→ दाक्ष् + ई [एकारे परे <<यचि भम्>> [[1.4.18]] इत्यनेन अङ्गस्य भसंज्ञा । अतः <<यस्येति च>> [[6.4.148]] इति अङ्गस्य अकारस्य लोपः]\n→ दाक्षी\nअत्र वार्त्तिकद्वयम् ज्ञातव्यम् -\n1. । इत्युक्ते, औ/औट्-प्रत्यययोः <<नपुंसकाच्च>> [[7.1.19]] इत्यनेन शी-आदेशे कृते अस्य सूत्रस्य प्रयोगः न भवति - इति । यथा, फल-शब्दस्य प्रथमा-द्वितीया-द्विवचनस्य प्रक्रिया इयम् -\nफल + औ / औट्\n→ फल + शी [<<नपुंसकाच्च>> [[7.1.19]] इति शी-आदेशः]\n→ फल + ई [इत्संज्ञालोपः । ईकारे परे <<यचि भम्>> [[1.4.18]] इत्यनेन अङ्गस्य भसंज्ञा । अतः <<यस्येति च>> [[6.4.148]] अनेन सूत्रेण अङ्गस्य अकारलोपे प्राप्ते अनेन वार्त्तिकेन सः निषिध्यते]\n→ फले [<<आद्गुणः>> [[6.1.87]] इति गुण-एकादेशः]\n2. । यदि कस्मिंश्चित् स्थले <<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> [[6.4.77]] इत्यनेन इयङ्/उवङ्-आदेशः विधीयते, तथा च <<यस्येति च>> [[6.4.148]] इत्यनेन लोपः अपि विधीयते; तर्हि विप्रतिषेधेन (परत्वात्) लोपः एव करणीयः । यथा - वत्सान् प्रीणाति सः 'वत्सप्रीः' । अयम् ईकारान्त-पुंलिङ्गशब्दः अस्ति । अस्य शब्दस्य ढञ्-प्रत्यये परे इयम् प्रक्रिया जायते -\nवत्सप्री + ढञ् [<<तस्यापत्यम्>> [[4.1.92]] अस्मिन् अर्थे <<चतुष्पाद्भ्यो ढञ्>> [[4.1.135]] इति ढञ्-प्रत्ययः]।\n→ वत्सप्री + एय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.2.2]] इत्यनेन ढकारस्य एय्-आदेशः]\n→ वात्सप्री + एय [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति उपधा-अकारस्य वृद्धिः आकारः]\n→ वात्सप् र् + एय [ <<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> [[6.4.77]] इत्यनेन इयङ्/उवङ्-आदेशे च प्राप्ते ; तं परत्वात् बाधित्वा <<यस्येति च>> [[6.4.148]] इत्यनेन लोपः एव भवति ।]\n→ वात्सप्रेय\nज्ञातव्यम् -\n1. <<येन विधिस्तदन्तस्य>> [[1.1.72]] इत्यनेन 'यस्य भस्य' इत्युक्ते इकारान्तस्य / अकारान्तस्य भसंज्ञकस्य अङ्गस्य - इति अर्थः जायते ।\n2. अनेन सूत्रेण विहितः लोपः <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यनेन अन्तिम-वर्णस्य स्थाने भवति । अतः भसंज्ञकस्य अङ्गस्य अन्ते विद्यमानस्य इकारस्य / अकारस्य अयं लोपः भवतीति ज्ञायते ।\n3. अस्य सूत्रस्य अर्थज्ञाने <<यथासङ्ख्यमुदेशः समानाम्>> [[1.1.10]] अस्य प्रयोगः न करणीयः, यतः अत्र विधिः तु एकः एव अस्ति । अतः द्वाभ्याम् कस्यापि स्थानिनः कस्मिन्नपि निमित्ते परे अयं लोपः विधीयते ।\n4. <ऽयस्मिन् विधिः तदादौ अल्ग्रहणेऽ> अनया परिभाषया 'ईति' इत्युक्ते 'ईकारादि-प्रत्यये परे' इति अर्थः सिद्ध्यति ।\n5. अस्मिन् सूत्रे 'ईति' इत्यत्र तकारः केवलं उच्चारणार्थः अस्ति । दीर्घवर्णेन सवर्णग्रहणम् न भवति, अतः अत्र तपरकरणस्य किमपि प्रयोजनम् न । अस्मिन् विषये <<अणुदित्सवर्णस्य चाप्रत्ययः>> [[1.1.69]] इत्यत्र अधिकम् द्रष्टव्यम् ।" }, "64149": { "sa": "", "sd": "" }, "64150": { "sa": "", "sd": "" }, "64151": { "sa": "", "sd": "" }, "64152": { "sa": "", "sd": "" }, "64153": { "sa": "", "sd": "" }, "64154": { "sa": "", "sd": "" }, "64155": { "sa": "", "sd": "" }, "64156": { "sa": "", "sd": "" }, "64157": { "sa": "", "sd": "" }, "64158": { "sa": "", "sd": "" }, "64159": { "sa": "", "sd": "" }, "64160": { "sa": "", "sd": "" }, "64161": { "sa": "", "sd": "" }, "64162": { "sa": "", "sd": "" }, "64163": { "sa": "", "sd": "" }, "64164": { "sa": "", "sd": "" }, "64165": { "sa": "", "sd": "" }, "64166": { "sa": "", "sd": "" }, "64167": { "sa": "", "sd": "" }, "64168": { "sa": "", "sd": "" }, "64169": { "sa": "", "sd": "" }, "64170": { "sa": "", "sd": "" }, "64171": { "sa": "", "sd": "" }, "64172": { "sa": "", "sd": "" }, "64173": { "sa": "", "sd": "" }, "64174": { "sa": "", "sd": "" }, "64175": { "sa": "", "sd": "" }, "71001": { "sa": "अनुनासिक-यु इत्यस्य अन-आदेशः, अनुनासिक-वु-इत्यस्य च अक-आदेशः भवति । यथा, ल्युट् → अन । ण्वुल् → अक । ", "sd": "अनेन सूत्रेण अनुनासिक-यु तथा अनुनासिक-वु इत्येतयोः यथासंख्यम् अन तथा अक इति आदेशौ विधीयेते । क्रमेण उदाहरणानि एतादृशानि -\n
    \n(I) \"अनुनासिक-यु\" इत्यस्य \"अन\" आदेशः ।\nल्यु, ल्युट्, ट्यु, ट्युल्, ख्युन् इत्यादिषु प्रत्ययेषु विद्यमानस्य अनुनासिक-यु-इत्यस्य प्रकृतसूत्रेण अन-आदेशः भवति । यथा -\n\n1. नन्द् + ल्यु [<<नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः>> [[3.1.134]] इति ल्यु-प्रत्ययः ]\n→ नन्द् + यु [लकारस्य इत्संज्ञा, लोपः]\n→ नन्द् + अन [<<युवोरनाकौ>> [[7.1.1]] इति यु-इत्यस्य अन-आदेशः]\n→ नन्दन\n\n\n2. सायम् + ट्यु [<<सायंचिरम्प्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च>> [[4.3.23]] इति ट्यु-प्रत्ययः]\n--> सायम् + यु [टकारस्य इत्संज्ञा, लोपः]\n--> सायम् + तुट् + यु [<<सायंचिरम्प्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च>> [[4.3.23]] इति प्रत्यययोः तुट्-आगमः]\n--> सायम् + त् + अन [<<युवोरनाकौ>> [[7.1.1]] इति यु-इत्यस्य अन-आदेशः]\n--> सायन्तन [अनुस्वारपरसवर्णौ]\n\n(II) \"अनुनासिक-वु\" इत्यस्य \"अक\" आदेशः ।\nण्वुल्, ष्वुन्, वुञ् इत्यादिषु प्रत्ययेषु विद्यमानस्य अनुनासिक-वु-इत्यस्य प्रकृतसूत्रेण अक-आदेशः भवति । यथा -\n\n1. कृ + ण्वुँल् [<<ण्वुँल्तृचौ>> [[3.1.133]] इति ण्वुल्]\n→ कृ + वु [लकारणकारयोः इत्संज्ञा, लोपः]\n→ कार् + वु [<<अचो ञ्णिति>> [[7.2.115]] इति ऋकारस्य वृद्धिः आकारः , <<उरण् रपरः>> [[1.1.51]] इत्यनेन सः रपरः]\n→ कार् + अक [<<युवोरनाकौ>> [[7.1.1]] इति वु-इत्यस्य अक-आदेशः]\n→ कारक\n\n\n2. वासुदेव + वुन् [\"वासुदेवः अस्य भक्तिः\" अस्मिन् अर्थे वासुदेवशब्दात् <<वासुदेवार्जुनाभ्यां वुन्>> [[4.3.98]] इति वुन्-प्रत्ययः]\n--> वासुदेव + वु [नकारस्य इत्संज्ञा, लोपः]\n--> वासुदेव + अक [[<<युवोरनाकौ>> [[7.1.1]] इति वु-इत्यस्य अक-आदेशः]\n--> वासुदेव् + अक [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n--> वासुदेवक\n\n\n3. ग्लुचुकायनी + वुञ् [\"ग्लुचुकायनीनां समूहः\" अस्मिन् अर्थे \"ग्लुचुकायनी\" इति गोत्रवाचिनः शब्दात् <<गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ् >> [[4.2.39]] इत्यनेन सूत्रेण वुञ्-प्रत्ययः]\n--> ग्लुचुकायनी + वु [ञकारस्य इत्संज्ञा, लोपः]\n--> ग्लौचुकायनी + वु [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n--> ग्लौचुकायनी + अक [<<युवोरनाकौ>> [[7.2.1]] इति वु-इत्यस्य अक-आदेशः]\n--> ग्लौचुुकायन् + अक [<<यस्येति च>> [[6.4.148]] इति ईकारलोपः]\n--> ग्लौचुकायनक\n\nज्ञातव्यविषयाः\n1. यद्यपि इदम् सूत्रं अङ्गाधिकारे वर्तते, तथापि अत्र अङ्गस्य इति शब्दः पञ्चम्या विपरिणम्यते; इत्युक्ते अस्य शब्दस्य अङ्गात् इति परिवर्तनं भवति । अङ्गात् परः तु प्रत्ययः एव वर्तते, अतः अत्र अङ्गात् परस्य प्रत्ययस्य इति अन्वयः जायते । किञ्च, <<आदेः परस्य>> [[1.1.54]] इत्यनेन प्रत्ययस्य आदौ विद्यमानस्य यु/वु-इत्येतयोः एव अत्र ग्रहणं भवति । अपि च, अन तथा अक एतौ अनेकालौ आदेशौ स्तः, अतः <<अनेकाल्शित्सर्वस्य>> [[1.1.55]] इत्यनेन एतौ सर्वादेशरूपेण विधीयेते । अतश्च, यु इति सम्पूर्णस्य स्थाने अन तथा च वु इति सम्पूर्णस्य स्थाने अक इति आदेशः विधीयते । \n2.अस्मिन् सूत्रे निर्दिष्टयोः यु/वु इत्येतयोः यकारः/वकारः अनुनासिकः अस्ति । अतः यत्र प्रत्ययस्य आदौ अनुनासिकः यकारः / वकारः वर्तते, तत्रैव अस्य सूत्रस्य प्रयोगः भवति । एतादृशाः यकारवकाराः कुत्र कुत्र वर्तन्ते इदं तु व्याख्यानात् एव स्पष्टी भवति यतः अनुनासिकस्वराः प्रतिज्ञया एव स्पष्टीभवन्ति इति इति वचनात् ज्ञायते । यत्र एतादृशः अनुनासिकः यकारः वकारः वा न वर्तते, तत्र प्रकृतसूत्रस्य प्रयोगः अपि न भवति । यथा, <<ऊर्णाया युस्>> [[5.2.123]] इत्यनेन सूत्रेण विहितस्य युस्-प्रत्ययस्य यकारः अनुनासिकः यकारः नास्ति, अतः तस्य विषये प्रकृतसूत्रस्य प्रयोगः नैव सम्भवति । इत्युक्ते, अत्र युस्-प्रत्ययस्य यु-इत्यस्य अन-आदेशः अपि न सम्भवति । \n3. प्रकृतसूत्रेण \"यु\" तथा \"वु\" इत्येतयोः शब्दसमूहयोः एव आदेशः विधीयते । केवल-यकारस्य अथवा केवल-वकारस्य अनेन सूत्रेण आदेशः न भवति । एवमेव, प्रकृतसूत्रेण \"अन\" तथा \"अक\" इति अदन्तौ आदेशौ विधीयेते, अन् / अक् इति हलन्तौ आदेशौ न ।\n4. अस्मिन् सूत्रे द्वौ स्थानिनौ, द्वौ आदेशौ च पाठ्येते । अतः, <<यथासङ्ख्यमनुदेशः समानाम्>> [[1.1.10]] इत्यनेन अत्र यथासङख्यत्वात् यु-इत्यस्य अन-आदेशः तथा च वु-इत्यस्य अक-आदेशः विधीयते ।\n<pv>सूत्रे विद्यमानस्य \"युवोः\" इति शब्दस्य साधुत्वम्\nसूत्रे विद्यमानस्य \"युवोः\" इति शब्दस्य विषये काशिकायां, भाष्ये च विस्तरेण चर्चा कृता दृश्यते । तत्र मुख्यरूपेण - (1) युवोः इत्यत्र मूलरूपेण विद्यमानम् \"युवु\" इति प्रातिपदिकम् केन समासेन सिद्ध्यति, तथा च (2) तस्मात् प्रातिपदिकात् युवोः इति पदस्य सिद्धिः कथम् सम्भवति - इति प्रश्नौ स्वीकृत्य चिन्तनं कृतम् अस्ति । अस्मिन् चिन्तने द्वौ पक्षौ स्वीकृत्य प्रत्येकस्मिन् पक्षे कः लाभः का च हानिः इति ऊहः कृतः दृश्यते । एतौ द्वौ पक्षौ एतादृशौ - \n\n1. युवु इति प्रातिपदिकम् समाहारद्वन्द्वसमासेन निर्मितम् अस्ति, तथा च \"युवोः\" इति अस्य षष्ठ्येकवचनम् - इति प्रथमः पक्षः । समाहारद्वन्द्वसमासेन सिद्धाः शब्दाः नित्यम् एकवचने एव प्रयुज्यन्ते, अतश्च युवोः इत्यपि षष्ठ्याः एकवचने एव प्रयोगः अस्ति इति अस्य पक्षस्य मुख्यः आशयः । परन्तु समाहारद्वन्द्वसमासेन निर्मिताः शब्दाः <<स नपुंसकम्>> [[2.4.17]] इत्यनेन सूत्रेण नपुंसकलिङ्गे भवन्ति, अतश्च \"युवु\" इति शब्दः अपि नपुंसकलिङ्गः स्यात्, तथा च तस्य षष्ठ्येकवचने <<इकोऽचि विभक्तौ>> [[7.1.73]] इत्यनेन नुमागमं कृत्वा \"युवुनः\" इति रूपं सिद्ध्येत् - इति अत्र दोषः विधीयते । अस्य निराकरणार्थम् काशिकाकारः वदति - अनित्यम् आगमशासनम् इति नुम् न क्रियते, नपुंसकलिङ्गता वा लिङ्गमशिष्यं लोकाश्रयत्वाद् लिङ्गस्य इति न भवति । अत्र काशिकाकारस्य आशयः अयम् - अत्र युवु-शब्दस्य लिङ्गं लोकव्यवहारम् अनुसृत्य पुंलिङ्गं स्वीक्रियते चेत् तस्य षष्ठ्येकवचनं \"युवोः\" इति अवश्यं सम्भवति । नो चेत्, <ऽआगमशास्त्रम् अनित्यम्ऽ> इत्यस्याः परिभाषायाः प्रयोगेण नपुंसकलिङ्गस्य अपि युवु-शब्दस्य षष्ठ्येकवचने नुमागमः न भवति इति स्वीक्रियते । \n2. युवु इति प्रातिपदिकम् इतरेतरद्वन्द्वसमासेन निर्मितम् अस्ति, तथा च \"युवोः\" इति अस्य षष्ठीद्विवचनम् - इति द्वितीयः पक्षः । इतरेतरद्वन्द्वसमासेन निर्मितः \"युवु\" इति शब्दः द्विपदार्थघटितत्वात् द्विवचने प्रयोक्तुम् शक्यः - इति अस्य पक्षस्य आशयः अस्ति । परन्तु तत्र कश्चन दोषः अपि जायते - \"युवु\" इत्यस्य पुंलिङ्गे षष्ठीद्विवचनम् \"युव्वोः\" इति भवेत्, न हि \"युवोः\" इति । परन्तु अत्र एकस्य वकारस्य लोपः कृतः दृश्यते । अयं लोपः छान्दसत्वात् साधु मन्तव्यः इति अस्य पक्षस्य समर्थकाः मन्यन्ते ।\n
    \nएतौ द्वौ अपि पक्षौ काशिकाकारेण कारिकाद्वयस्य रूपेण अपि दत्तौ स्तः । तज्जिज्ञासवः प्रकृतसूत्रस्य काशिकाव्याख्यानम् अवश्यम् पश्येयुः ।\n
    \nसिद्धान्तकौमुद्यां प्रकृतसूत्रे पाठितानि वार्त्तिकानि\nप्रकृतसूत्रम् सिद्धान्तकौमुद्याम् तद्धितप्रकरणे <<गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ् >> [[4.2.39]] इत्यस्मात् अनन्तरं पाठितम् अस्ति । अत्र प्रकृतसूत्रे प्रसङ्गवशात् सिद्धान्तकौमुदीकारः <<गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ् >> [[4.2.39]] अस्य सूत्रस्य सन्दर्भेण द्वे वार्त्तिके अपि पाठयति । एते वार्त्तिके एतादृशे -\n\n1. - राजन्य, मनुष्य तथा च युवन् - एते शब्दाः अक-प्रत्यये परे प्रकृत्या तिष्ठन्ति । यथा, राजन्य + वुञ् इत्यत्र <<गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ् >> [[4.2.39]] इत्यनेन प्राप्तस्य वुञ्-प्रत्ययस्य अक-आदेशे कृते राजन्य + अक इति स्थिते <<आपत्यस्य च तद्धितेऽनाति>> [[6.4.151]] इति सूत्रेण राजन्य-शब्दस्य यकारस्य लोपः प्राप्नोति । परन्तु अनेन वार्तिकेन तस्य बाधं कृत्वा \"राजन्यक\" इति अन्तिमं रूपं सिद्ध्यति । एवमेव मनुष्य + वुञ् इत्यत्रापि <<गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ् >> [[4.2.39]] इत्यनेनैव प्राप्तस्य वुञ्-प्रत्ययस्य अक-आदेशे कृते मनुष्य + अक इति स्थिते <<आपत्यस्य च तद्धितेऽनाति>> [[6.4.151]] इति सूत्रेण मनुष्य-शब्दस्य यकारस्य प्राप्तः लोपः अनेन वार्तिकेन बाध्यते, येन \"मनुष्यक\" इति अन्तिमं रूपं सिद्ध्यति । युवन्-शब्दस्य विषये तु युवन् + वुञ् इत्यत्र <<द्वन्द्वमनोज्ञादिभ्यश्च>> [[5.1.133]] इत्यनेन प्राप्तस्य वुञ्-प्रत्ययस्य अक-आदेशे कृते, युवन् + अक इति स्थिते <<नस्तद्धिते>> [[6.4.144]] इत्यनेन टिलोपे प्राप्ते, तद्बाधित्वा अनेन वार्त्तिकेन प्रकृतिभावः विधीयते । अग्रे आदिवृद्धिं कृत्वा \"यौवनक\" इति अन्तिमं रूपं सिद्ध्यति ।\n2. - <<गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ् >> [[4.2.39]] इत्यनेन समूहार्थे पाठितः वुञ्-प्रत्ययः\"वृद्ध\" इति शब्दात् अपि भवति । यथा, वृद्धानां समूहः = वृद्ध + वुञ् --> वृद्ध + अक --> वार्धक । प्रक्रियायां <<तद्धितेष्वचामादेः>> [[7.2.117]] इत्यनेन आदिवृद्धिं, तथा च <<यस्येति च>> [[6.4.148]] इत्यनेन अकारलोपं कृत्वा अन्तिमं रूपं सिद्ध्यति । \n\n\n" }, "71002": { "sa": "प्रत्ययस्य आदिस्थितस्य फ्-ढ्-ख्-छ्-घ्- इत्येतेषाम् क्रमेण आयन्-एय्-ईन्-ईय्-इय्- आदेशाः भवन्ति । ", "sd": "अस्मिन् सूत्रे पञ्च-स्थानिनः पञ्च-आदेशाश्च प्रोक्ताः सन्ति । <<यथासङ्ख्यमनुदेशः समानाम्>> [[1.3.10]] इत्यनेन एते आदेशाः यथासङ्ख्यम् भवन्ति -\nफ् → आयन् ।\nढ् → एय् ।\nख् → ईन् ।\nछ् → ईय् ।\nघ् → इय् ।\nएते आदेशाः प्रत्ययस्य आदिवर्णस्य भवन्तीति स्मर्तव्यम् । उदाहरणानि एतानि -\n1) फकारस्य आयन्-आदेशः\nनड + फक् [<<तस्यापत्यम्>> [[4.1.92]] अस्मिन् अर्थे <<नडादिभ्यः फक्>> [[4.1.99]] इति फक्-प्रत्ययः]\n→ नड + आयन [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति फ्-इत्यस्य आयन्-आदेशः]\n→ नाड + आयन [<<किति च>> [[7.2.117]] इति आदिवृद्धिः]\n→ नाड् + आयन [आकारे परे <<यचि भम्>> [[1.4.18]] इत्यनेन अङ्गस्य भसंज्ञा । अतः <<यस्येति च>> [[6.4.148]] इति अङ्गस्य अकारस्य लोपः]\n→ नाडायन\n2) ढकारस्य एय्-आदेशः\nविनता + ढक् [<<तस्यापत्यम्>> [[4.1.92]] अस्मिन् अर्थे <<स्त्रीभ्यो ढक्>> [[4.1.120]] इति ढक्-प्रत्ययः]\n→ विनता + एय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ढकारस्य एय्-आदेशः]\n→ वैनता एय [<<किति च>> [[7.2.117]] इति आदिवृद्धिः]\n→ वैनत् + एय [एकारे परे <<यचि भम्>> [[1.4.18]] इत्यनेन अङ्गस्य भसंज्ञा । अतः <<यस्येति च>> [[6.4.148]] इति अङ्गस्य आकारस्य लोपः]\n→ वैनतेय\n3) खकारस्य ईन्-आदेशः\nकुल + ख [<<तस्यापत्यम्>> [[4.1.92]] अस्मिन् अर्थे कुल-शब्दात् <<कुलात्खः>> [[4.1.139]] इति ख-प्रत्ययः]\n→ कुल + ईन [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति खकारस्य ईन्-आदेशः]\n→ कुल् + ईन [ईकारे परे <<यचि भम्>> [[1.4.18]] इत्यनेन अङ्गस्य भसंज्ञा । अतः <<यस्येति च>> [[6.4.148]] इति अङ्गस्य अकारस्य लोपः]\n→ कुलीन\n4) छकारस्य ईय्-आदेशः\nशाला + छ <<वृद्धात् छः>> [[4.2.114]] इत्यनेन वृद्ध-संज्ञकात् भिन्नेषु अर्थेषु छ-प्रत्ययः ।]\n→ शाला + ईय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति छकारस्य ईय्-आदेशः]\n→ शाल् + ईय [ईकारे परे <<यचि भम्>> [[1.4.18]] इत्यनेन अङ्गस्य भसंज्ञा । अतः <<यस्येति च>> [[6.4.148]] इति अङ्गस्य आकारस्य लोपः]\n→ शालीय\n5) घकारस्य इय्-आदेशः\nक्षत्र + घ <<क्षत्राद् घः>> [[4.1.138]] इत्यनेन <<तस्यापत्यम्>> [[4.1.92]] अस्मिन् अर्थे क्षत्र-शब्दात् घ-प्रत्ययः।]\n→ क्षत्र + इय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति घकारस्य इय्-आदेशः]\n→ क्षत् र् इय [इकारे परे <<यचि भम्>> [[1.4.18]] इत्यनेन अङ्गस्य भसंज्ञा । अतः <<यस्येति च>> [[6.4.148]] इति अङ्गस्य अकारस्य लोपः]\n→ क्षत्रिय\nज्ञातव्यम् -\n1. प्रत्यययोः विद्यमानयोः ढकार/छकारयोः <<चुटू>> [[1.3.7]] इत्यनेन एतयोः इत्संज्ञा न भवति, अपितु वर्तमानसूत्रेण तयोः आदेशः विधीयते ।\n2. खकारघकारयोः अस्य सूत्रस्य विषये प्राप्तानि उदाहरणानि तद्धितप्रकरणे एव दृश्यन्ते । तत्र <<लशक्वतद्धिते>> [[1.3.8]] इत्यस्य प्रसक्तिः नैव विद्यते, अतः एतयोः इत्संज्ञा नैव भवितुमर्हति। कृत्-प्रत्ययेषु विद्यमानौ खकारघकारौ तु <<लशक्वतद्धिते>> [[1.3.8]] इत्यनेन इत्संज्ञकौ स्तः, अतः तत्र अस्य सूत्रस्य प्रसक्तिः न विद्यते । यथा - ख, खश्, घिनुण् एतेषु प्रत्ययेषु वर्तमानसूत्रेण आदेशः न क्रियते ।\n" }, "71003": { "sa": "प्रत्ययस्य झ्-इत्यस्य 'अन्त्' इति आदेशः भवति । ", "sd": "झ्-इति वर्णः तिङ्प्रत्ययेषु दृश्यते - परस्मैपदस्य प्रथमपुरुषवहुवचनस्य 'झि' प्रत्ययः तथा आत्मनेपदस्य प्रथमपुरुषबहुवचनस्य 'झ' प्रत्ययः । एतयोः उपस्थितस्य झकारस्य अन्त्-आदेशः भवति । उदाहरणे एते -\n1) पठ्-धातोः लट्-लकारस्य प्रथमपुरुषबहुवचनस्य रूपम् -\nपठ् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ पठ् + झि [<<तिप्तस्झि..>> [[3.4.78]] इति परस्मैपदस्य प्रथमपुरुष-बहुवचनस्य झि-प्रत्ययः]\n→ पठ् + शप् + झि [<<कर्तरि शप>> [[3.1.68]] इति विकरणप्रत्ययः शप्]\n→ पठ् + अ + अन्ति [<<झोऽन्तः>> [[7.1.3]] इति झ्-इत्यस्य 'अन्त्' आदेशः]\n→ पठन्ति [<<अतो गुणे>> [[6.1.97]] इति गुण-एकादेशः अकारः]\n2) वन्द्-धातोः लट्-लकारस्य प्रथमपुरुषबहुवचनस्य रूपम् -\nवन्द् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ वन्द् + झ [<<तिप्तस्झि..>> [[3.4.78]] इति आत्मनेपदस्य प्रथमपुरुष-बहुवचनस्य झ-प्रत्ययः]\n→ वन्द् + शप् + झ [<<कर्तरि शप>> [[3.1.68]] इति विकरणप्रत्ययः शप्]\n→ वन्द् + अ + अन्त [<<झोऽन्तः>> [[7.1.3]] इति झ्-इत्यस्य 'अन्त्' आदेशः]\n→ वन्द् + अ + अन्ते [<<टित आत्मनेपदानां टेरे>> [[3.4.79]] इति टि-संज्ञकस्य अकारस्य एकारादेशः]\n→ वन्दन्ते [<<अतो गुणे>> [[6.1.97]] इति गुण-एकादेशः अकारः]\nज्ञातव्यम् -\n1. अस्मिन् सूत्रे पूर्वस्मात् सूत्रात् 'प्रत्ययादीनाम्' इत्यस्मात् केवलं 'प्रत्यय' इति अनुवर्तते, 'आदि' इति न ।\n2. झकारस्य प्रयोजनाभावात् <<चुटू>> [[1.3.7]] इत्यनेन इत्संज्ञा न भवति ।\n3. <<झेर्जुस्>> [[3.4.108]] इत्यनेन झि-प्रत्ययस्य लिङ्लकारस्य विषये विहितः जुस्-आदेश, तथा च <<सिजभ्यस्तविदिभ्यश्च>> [[3.4.109]] इत्यनेन अभ्यस्तात् परस्य लिङ्-लकारस्य विषये झि-प्रत्ययस्य विहितः जुस्-आदेशः - उभौ अपि वर्तमानसूत्रस्य अपवादत्वेन आगच्छतः ।" }, "71004": { "sa": "अभ्यस्तात् परस्य प्रत्ययस्य झकारस्य अत्-आदेशः भवति । ", "sd": "किम् नाम अभ्यस्तम्? सूत्रपाठे द्वयोः सूत्रयोः अभ्यस्तसंज्ञा दीयते -\n1. यत्र अङ्गस्य द्वित्वम् भवति तत्र उभयोः शब्दयोः (इत्युक्ते, यस्य द्वित्वं कृतमस्ति सः शब्दः तथा द्वित्वेन निर्मितः शब्दः - एतयोः द्वयोः अपि) <<उभे अभ्यस्तम्>> [[6.1.5]] इत्यनेन अभ्यस्त-संज्ञा भवति ।\n2. <<जक्षित्यादयः षट्>> [[6.1.6]] इत्यनेन अदादिगणस्य सप्त-धातूनामपि अभ्यस्तसंज्ञा भवति -जक्षँ, जागृ, दरिद्रा, चकासृ, शासु, दीधीङ्, वेवीङ् ।\nअस्मात् अभ्यस्तसंज्ञकात् परस्य प्रत्ययस्य झकारस्य <<झोऽन्तः>> [[7.1.3]] इत्यनेन 'अन्त्' आदेशे प्राप्ते वर्तमानसूत्रेण अपवादत्वेन अत्-आदेशः भवति । उदाहरणाानि एतानि -\n1) जुहोत्यादिगणस्य डुदाञ् (दाने) इत्यस्य लट्-लकारस्य प्रथमपुरुषबहुवचनस्य रूपम्\nदा + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ दा + झि [<<तिप्तस्झि..>> [[3.4.78]] इति परस्मैपदस्य प्रथमपुरुषबहुवचनस्य विवक्षायाम् 'झि' प्रत्यय']\n→ दा + शप् + झि [<<कर्तरि शप्>> [[3.1.68]] इति औत्सर्गिकं विकरणम् शप्]\n→ दा दा + झि [<<जुहोत्यादिभ्यः श्लुः>> [[2.4.75]] इत्यनेन शप्-इत्यस्य 'श्लुः' (इत्युक्ते लोपः) । <<श्लौ>> [[6.1.10]] इति द्वित्वम्]\n→ द दा + झि [<<ह्रस्वः>> [[7.4.59]] इति अभ्यासस्य ह्रस्वः]\n→ द दा + अति [<<अदभ्यस्तात्>> [[7.1.4]] इति अभ्यस्तात् परस्य झ्-प्रत्ययस्य 'अत्' आदेशः]\n→ दद् अति [<<श्नाऽभ्यस्तयोरातः>> [[6.4.112]] इति सार्वधातुके ङित्-प्रत्यये परे अभ्यस्तस्य आकारस्य लोपः]\n→ ददति ।\n2) जुहोत्यादिगणस्य माङ् (माने) इत्यस्य आत्मनेपदस्य लोट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् -\nमा + लोट् [<<लोट् च>> [[3.3.162]] इति लोट्]\n→ मा + झ [<<तिप्तस्झि..>> [[3.4.78]] इति आत्मनेपदस्य प्रथमपुरुषबहुवचनस्य विवक्षायाम् 'झ' प्रत्यय']\n→ मा + शप् + झ [<<कर्तरि शप्>> [[3.1.68]] इति औत्सर्गिकं विकरणम् शप्]\n→ मा मा + झ [<<जुहोत्यादिभ्यः श्लुः>> [[2.4.75]] इत्यनेन शप्-इत्यस्य 'श्लुः' (इत्युक्ते लोपः) । <<श्लौ>> [[6.1.10]] इति द्वित्वम्]\n→ म मा झ [<<भृञामित्>> [[7.4.76]] इति श्लु-परे अभ्यासस्य इकारादेशः]\n→ मि मा अत [<<अदभ्यस्तात्>> [[7.1.4]] इति अभ्यस्तात् परस्य झ्-प्रत्ययस्य 'अत्' आदेशः]\n→ मि मा अते [<<टित आत्मनेपदानां टेरे>> [[3.4.79]] इति टित्-संज्ञक-अकारस्य एकारः]\n→ मि मा अताम् [<<आमेतः>> [[3.4.90]] इति एकारस्य आम्-आदेशः]\n→ मिमताम् [<<श्नाऽभ्यस्तयोरातः>> [[6.4.112]] इति सार्वधातुके ङित्-प्रत्यये परे अभ्यस्तस्य आकारस्य लोपः]\n→ मिमताम्\n3) अदादिगणस्य 'दरिद्रा' धातोः लोट्-लकारस्य प्रथमपुरुषबहुवचनस्य रूपम् -\nदरिद्रा + लोट् [<<लोट् च>> [[3.3.162]] इति लोट्]\n→ दरिद्रा + झि [<<तिप्तस्झि..>> [[3.4.78]] इति परस्मैपदस्य प्रथमपुरुषबहुवचनस्य विवक्षायाम् 'झि' प्रत्यय']\n→ दरिद्रा + शप् +झि [<<कर्तरि शप्>> [[3.1.68]] इति औत्सर्गिकं विकरणम् शप्]\n→ दरिद्रा + झि [<<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शपः लुक्]\n→ दरिद्रा + अति [<<जक्षित्यादयः षट्>> [[6.1.6]] इत्यनेन दरिद्रा-धातोः अभ्यस्तसंज्ञा । अभ्यस्तात् परस्य झ्-प्रत्ययस्य <<अदभ्यस्तात्>> [[7.1.4]] इति 'अत्' आदेशः]\n→ दरिद्रा + अतु [<<एरुः>> [[3.4.86]] इति इकारस्य उकारः]\n→ दरिद्र् + अतु [<<श्नाऽभ्यस्तयोरातः>> [[6.4.112]] इति सार्वधातुके ङित्-प्रत्यये परे अभ्यस्तस्य आकारस्य लोपः]\n→ दरिद्रतु\n " }, "71005": { "sa": "आत्मनेपदस्य विषये अनदन्तात् अङ्गात् परस्य प्रत्ययस्य झकारस्य 'अत्' आदेशः भवति । ", "sd": "'अनदन्तम्' अङ्गम् इत्युक्ते 'न अदन्तम्' । यत्र अङ्गम् ह्रस्व-अकारान्तम् नास्ति, तत्र तस्मात् परस्य आत्मनेपदस्य 'झ' प्रत्ययस्य अत्-आदेशः भवति । उदाहरणानि एतानि -\n1. स्वादिगणस्य 'सु' धातोः आत्मनेपदस्य लट्-लकारस्य प्रथमपुरुष-बहुवचनम् इदम् -\nसु + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्-लकारः]\n→ सु झ [<<तिप्तस्झि..>> [[3.4.78]] इति आत्मनेपदस्य प्रथमपुरुष-बहुवचनस्य प्रत्ययः 'झ']\n→ सु श्नु झ [<<स्वादिभ्यः श्नुः>> [[3.1.73]] इति विकरणप्रत्ययः 'श्नु']\n→ सु नु अत [<<आत्मनेपदेष्वनतः>> [[7.1.5]] इति झकारस्य 'अत्' आदेशः]\n→ सु नु अते [<<टित आत्मनेपदानां टेरे>> [[3.4.79]] इति एकारः]\n→ सुन्वते [<<हुश्नुवोः सार्वधातुके>> [[6.4.87]] इति यणादेशः]\n2. रुधादिगणस्य 'रुध्' धातोः आत्मनेपदस्य लङ्-लकारस्य प्रथमपुरुष-बहुवचनम् इदम् -\nरुध् + लङ् [<<अनद्यतने लङ्>> [[3.2.111]] इति लङ्]\n→ अट् + रुध् + लङ् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ + रुध् + झ [<<तिप्तस्झि..>> [[3.4.78]] इति आत्मनेपदस्य प्रथमपुरुष-बहुवचनस्य प्रत्ययः 'झ'\n→ अ + रु श्नम् ध् + झ [<<रुधादिभ्यः श्नम्>> [[3.1.78]] इति विकरणप्रत्ययः श्नम्]\n→ अ + रु न् ध् + अत [<<आत्मनेपदेष्वनतः>> [[7.1.5]] इति झकारस्य 'अत्' आदेशः]\n→ अरुंधत [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति अनुस्वारः]\n→ अरुन्धत\n3. तनादिगणस्य 'तन्' धातोः आत्मनेपदस्य लोट्-लकारस्य प्रथमपुरुष-बहुवचनम् इदम् -\nतन् + लोट् [<<लोट् च>> [[3.3.162]] इति लोट्]\n→ तन् + झ [<<तिप्तस्झि..>> [[3.4.78]] इति आत्मनेपदस्य प्रथमपुरुष-बहुवचनस्य प्रत्ययः 'झ']\n→ तन् + उ + झ [<<तनादिकृञ्भ्यः उः>> [[3.1.79]] इत्यनेन विकरणप्रत्ययः 'उ']\n→ तन् + उ + अत [<<आत्मनेपदेष्वनतः>> [[7.1.5]] इति झकारस्य 'अत्' आदेशः]\n→ तन् + उ + अते [<<टित आत्मनेपदानां टेरे>> [[3.4.79]] इति एकारः]\n→ तन् + उ + अताम् [<<आमेतः>> [[3.4.90]] इति एकारस्य आम्-आदेशः]\n→ तन्वताम् " }, "71006": { "sa": "शीङ्-धातोः परस्य झ-प्रत्ययस्य यः अत्-आदेशः भवति तस्य रुट्-आगमः भवति । ", "sd": "शीङ् (स्वप्ने) इति अदादिगणस्य आत्मनेपदी धातुः । अस्मात् परस्य झ-प्रत्ययस्य <<आत्मनेपदेष्वनतः>> [[7.1.5]] इत्यनेन अत्-आदेशे कृते तस्य 'रुट्' आगमः भवति । रुट्-इत्यत्र उकारः उच्चारणार्थः अस्ति, टकारः च इत्संज्ञकः अस्ति । टित्वात् <<आद्यन्तौ टकितौ>> [[1.1.46]] इति अयमाद्यवयवः भवति । यथा, शी-धातोः लट्-लकारस्य प्रथमपुरुष-बहुवचनस्य प्रक्रिया इयम् -\nशी + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ शी + झ [<<तिप्तस्झि..>> [[3.4.78]] इति आत्मनेपदस्य प्रथमपुरुष-बहुवचनस्य प्रत्ययः 'झ']\n→ शी + शप् + झ [<<कर्तरि शप्>> [[3.1.68]] इति ओत्सर्गिकं विकरणम् शप्]\n→ शी + झ [<<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शपः लुक्]\n→ शे झ [<<शीङः सार्वधातुके गुणः>> [[7.4.21]] इति अङ्गस्य गुणः]\n→ शे + अत [<<आत्मनेपदेश्वनतः>> [[7.1.5]] इति झकारस्य अत्-आदेशः]\n→ शे + रुट् अत [<<शीङो रुट्>> [[7.1.6]] इति रुट्-आदेशः]\n→ शे + र् अते [<<टित आत्मनेपदानां टेरे>> [[3.4.79]] इति एकारः]\n→ शेरते\nज्ञातव्यम् - यत्र झकारस्य 'अत्' आदेशः न भवति, तत्र अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, शी-धातोः लृट्लकारस्य प्रथमपुरुषबहुवचनस्य प्रक्रिया इयम् -\nशी + लृट् [<<लृट् शेषे च>> [[3.3.13]] इति लृट्]\n→ शी + स्य + लृट् [<<स्यतासी लृलुटोः>> [[3.1.33]] इति विकरणप्रत्ययः 'स्य']\n→ शी + स्य + झ [<<तिप्तस्झि..>> [[3.4.78]] इति आत्मनेपदस्य प्रथमपुरुष-बहुवचनस्य प्रत्ययः 'झ']\n→ शी + इट् + स्य + झ [<<आर्धधातुकस्य इड्वलादेः>> [[7.2.35]] इति इडागमः]\n→ शे + इ + स्य + झ [<<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणः]\n→ शे + इ + स्य + अन्त [<<झोऽन्तः>> [[7.1.3]] इति झकारस्य अन्त् -आदेशः]\n→ शे + इ + स्य + अन्ते [<<टित आत्मनेपदानां टेरे>> [[3.4.79]] इति एकारः]\n→ शयिस्यन्ते [<<एचोऽयवायावः>> [[6.1.78]] इति अयादेशः]\n→ शयिष्यन्ते [<<आदेशप्रत्यययोः>> [[8.3.59]] इति षत्वम् ]\nअत्र झ-प्रत्ययः अदन्तात् अङ्गात् परः आगच्छति, अतः अत्र <<आत्मनेपदेश्वनतः>> [[7.1.5]] इत्यस्य प्रसक्तिः नास्ति । अतः अत्र वर्तमानसूत्रेण रुट्-आदेशः अपि न भवति ।\n" }, "71007": { "sa": "", "sd": "" }, "71008": { "sa": "", "sd": "" }, "71009": { "sa": "अदन्तात् अङ्गात् परस्य भिस्-प्रत्ययस्य ऐस्-आदेशः भवति । ", "sd": "अकारान्तशब्दात् तृतीया-बहुवचनस्य भिस्-प्रत्यये परे तस्य भिस्-प्रत्ययस्य ऐस्-आदेशः भवति । अयमादेशः अनेकाल् अस्ति, अतः <<अनेकाल्शित्सर्वस्य>> [[1.1.55]] इत्यनेन सम्पूर्णस्य भिस्-प्रत्ययस्य स्थाने भवति । यथा -\nराम + भिस्\n→ राम + ऐस् [<<अतो भिस ऐस्>> [[7.1.9]] इति भिस्-प्रत्ययस्य ऐस्-आदेशः]\n→ रामैस् [<<वृद्धिरेचि>> [[6.1.88]] इति वृद्धि-एकादेशः]\n→ रामैरुँ [<<ससजुषोः रुँ>> [[8.2.66]] इति रुँत्वम्]\n→ रामैः <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\nज्ञातव्यम् - अस्मिन् सूत्रे 'अतः' इत्यत्र तपरकरणम् कृतमस्ति, अतः आकारान्तशब्दानाम् विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा - माला + भिस् → मालाभिः ।" }, "71010": { "sa": "", "sd": "" }, "71011": { "sa": "", "sd": "" }, "71012": { "sa": "अदन्तात् अङ्गात् परस्य टा, ङसिँ, ङस् प्रत्ययानाम् क्रमेण इन, आत्, स्य - एते आदेशाः भवन्ति ।", "sd": "अनेन सूत्रेण अदन्तात् अङ्गात् परस्य त्रयाणाम् प्रत्ययानाम् त्रयः आदेशाः प्रोक्ताः सन्ति । <<यथासङ्ख्यमनुदेशः समानाम्>> [[1.3.10]] इत्यनेन एते आदेशाः क्रमेण भवन्ति । इत्युक्ते - टा-प्रत्ययस्य इन-आदेशः, ङसिँ-प्रत्ययस्य आत्-आदेशः, ङस्-प्रत्ययस्य स्य-आदेशः । एते सर्वे आदेशाः अनेकाल् सन्ति, अतः <<अनेकाल्शित्सर्वस्य>> [[1.1.55]] इत्यनेन एते सर्वादेशरूपेण विधीयन्ते । यथा -\n1. राम + टा\n→ राम + इन [<<टाङसिङसामिनात्स्याः>> [[7.1.12]] इति टा-प्रत्ययस्य इन-आदेशः]\n→ रामेन [<<आद्गुणः>> [[6.1.87]] इति गुण-एकादेशः]\n→ रामेण [<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इति णत्वम्]\n2. राम + ङसिँ\n→ राम + आत् [<<टाङसिङसामिनात्स्याः>> [[7.1.12]] इति ङसिँ-प्रत्ययस्य आत्-आदेशः]\n→ रामात् [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः]\n→ रामाद् [<<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वम्]\n→ रामात्, रामाद् [<<वाऽवसाने>> [[8.4.56]] इति वैकल्पिकं चर्त्वम्]\n3. राम + ङस्\n→ राम + स्य [<<टाङसिङसामिनात्स्याः>> [[7.1.12]] इति ङस्-प्रत्ययस्य स्य-आदेशः]\n→ रामस्य\nज्ञातव्यम् - अस्मिन् सूत्रे 'अतः' इत्यत्र तपरकरणम् कृतमस्ति, अतः आकारान्तशब्दानाम् विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा - माला + टा → मालया ।" }, "71013": { "sa": "अदन्तात् अङ्गात् परस्य ङे-प्रत्ययस्य यकारादेशः भवति । ", "sd": "अकारान्तात् शब्दात् चतुर्थ्येकवचनस्य ङे-प्रत्ययः आगच्छति चेत् तस्य 'य' इति आदेशः भवति । अत्र 'य = य् + अ' इति अनेकाल् आदेशः अस्तीति स्मर्तव्यम् । अस्मिन् आदेशे कृते <<स्थानिवदादेशोऽनल्विधौ>> [[1.1.56]] इति स्थानिवद्भावेन 'य' आदेशस्य अपि सुप्-संज्ञा भवति । तदा अदन्तात् अङ्गात् यकारादि सुप्-प्रत्यये परे <<सुपि च>> [[7.3.102]] इत्यनेन अङ्गस्य दीर्घः अपि विधीयते । यथा -\nराम + ङे\n→ राम + य [<<ङेर्यः>> [[7.1.13]] इत्यनेन ङे-प्रत्ययस्य यकारादेशः]\n→ रामा + य [स्थानिवद्भावेन य-इत्यस्य सुप्-संज्ञायाम् सत्याम् <<सुपि च>> [[7.3.102]] इत्यनेन अङ्गस्य दीर्घः]\n→ रामाय\nअत्र <ऽ सन्निपातलक्षणविधिः अनिमित्तकः तद्विघातस्य ऽ> अस्याः परिभाषायाः प्रयोगः न भवति । अस्मिन् विषये अत्र विस्तारेण स्पष्टीकृतमस्ति ।\nज्ञातव्यम् - 'अतः' इत्यत्र तपरकरणम् कृतमस्ति, अतः आकारान्त-स्त्रीलिङ्गशब्दानाम् विषये अयमादेशः न भवति । यथा - माला + ङे = मालायै ।\n" }, "71014": { "sa": "सर्वनामशब्दस्य अदन्तात् अङ्गात् परस्य ङे-प्रत्ययस्य स्मै-आदेशः भवति । ", "sd": "<<ङेर्यः>> [[7.1.13]] इत्यनेन अदन्तात् अङ्गात् परस्य ङे-प्रत्ययस्य यकारादेशे प्राप्ते सर्वनामशब्दानां विषये अनेन सूत्रेण अपवादत्वेन 'स्मै' आदेशः विधीयते । यथा -\n1. सर्व + ङे [चतुर्थ्येकवचनस्य प्रत्ययः]\n→ सर्व + स्मै [<<सर्वनाम्नः स्मै>> [[7.1.14]] इति ङे-इत्यस्य स्मै-आदेशः]\n→ सर्वस्मै ।\n2. तत् + ङे [चतुर्थ्येकवचनस्य प्रत्ययः]\n→ त अ ए [<<त्यदादीनामः>> [[7.2.102]] इत्यनेन तकारस्य अकारादेशः]\n→ त ए [<<अतो गुणे>> [[6.1.97]] इति पररूप-एकादेशः]\n→ त स्मै [<<सर्वनाम्नः स्मै>> [[7.1.14]] इति ङे-इत्यस्य स्मै-आदेशः]\n→ तस्मै\nज्ञातव्यम् - 'अतः' इत्यत्र तपरकरणम् कृतमस्ति, अतः आकारान्त-स्त्रीलिङ्गशब्दानाम् विषये अयमादेशः न भवति । यथा - सर्वा + ङे = सर्वस्यै ।\n" }, "71015": { "sa": "सर्वनामशब्दस्य अदन्तात् अङ्गात् परस्य ङसिँ-प्रत्ययस्य स्मात्-आदेशः तथा ङि-प्रत्ययस्य 'स्मिन्' आदेशः भवति ।", "sd": "सर्वनामशब्दस्य अदन्तात् अङ्गात् परस्य ङसिँ/ङि-प्रत्यययोः स्मात् तथा स्मिन् आदेशौ भवतः । <<यथासङ्ख्यमनुदेशः समानाम्>> [[1.3.10]] इत्यनेन ङसिँ-प्रत्ययस्य स्मात्-आदेशः, ङि-प्रत्ययस्य च स्मिन्-आदेशः भवति । यथा -\n1. सर्व + ङसिँ [पञ्चम्येकवचनस्य प्रत्ययः]\n→ सर्व + स्मात् [<<ङसिङ्योः स्मात्स्मिनौ>> [[7.1.15]] इति ङसिँ-प्रत्ययस्य स्मात्-आदेशः]\n→ सर्वस्मात् ।\n2. सर्व + ङि [सप्तम्येकवचनस्य प्रत्ययः]\n→ सर्व + स्मिन् [<<ङसिङ्योः स्मात्स्मिनौ>> [[7.1.15]] इति ङि-प्रत्ययस्य स्मिन्-आदेशः]\n→ सर्वस्मिन्\n3. यत् +ङसिँ [पञ्चम्येकवचनस्य प्रत्ययः]\n→ यत् अ अस् [<<त्यदादीनामः>> [[7.2.102]] इत्यनेन तकारस्य अकारादेशः]\n→ य अस् [<<अतो गुणे>> [[6.1.97]] इति पररूप-एकादेशः]\n→ य स्मात् [<<ङसिङ्योः स्मात्स्मिनौ>> [[7.1.15]] इति ङसिँ-प्रत्ययस्य स्मात्-आदेशः]\n→ यस्मात्\n4. तत् + ङि [सप्तम्येकवचनस्य प्रत्ययः]\n→ त अ ए [<<त्यदादीनामः>> [[7.2.102]] इत्यनेन तकारस्य अकारादेशः]\n→ त ए [<<अतो गुणे>> [[6.1.97]] इति पररूप-एकादेशः]\n→ त स्मिन् [<<ङसिङ्योः स्मात्स्मिनौ>> [[7.1.15]] इति ङि-प्रत्ययस्य स्मिन्-आदेशः]\n→ तस्मिन्\nज्ञातव्यम् - 'अतः' इत्यत्र तपरकरणम् कृतमस्ति, अतः आकारान्त-स्त्रीलिङ्गशब्दानाम् विषये एतौ आदेशौ न भवतः । यथा - सर्वा + ङसिँ → सर्वस्याः । सर्वा + ङिँ → सर्वस्याम् ।\n" }, "71016": { "sa": "पूर्वादिभ्यः नवभ्यः सर्वनामशब्देभ्यः परस्य ङसिँ/ङि-प्रत्यययोः क्रमेण स्मात्/स्मिन् आदेशौ विकल्पेन भवतः । ", "sd": " (गणसूत्रम् 1), (गणसूत्रम् 2) तथा (गणसूत्रम् 3) एतैः सूत्रैः - पूर्व, पर, अवर, दक्षिण, उत्तर, अपर, अधर, स्व, अन्तर - एतेषां नवशब्दानाम् विशिष्टेषु अर्थेषु सर्वनामसंज्ञा क्रियते । एतेषां शब्दानाम् एवम् सर्वनामसंज्ञायाम् सत्याम् <<ङसिङ्योः स्मात्स्मिनौ>> [[7.1.15]] इत्यनेन तेभ्यः परस्य ङसिँ-प्रत्ययस्य ङि-प्रत्ययस्य च क्रमेण स्मात् / स्मिन् एतौ आदेशौ प्राप्तयोः सत्योः वर्तमानसूत्रेण तौ आदेशौ केवलं विकल्पेन भवतः नित्यम् न ।\nयथा -\n1. पूर्व-शब्दस्य सर्वनामसंज्ञा क्रियते चेत् -\n1) पूर्व + ङसिँ [पञ्चम्येवकचनस्य ङसिँ-प्रत्ययः]\n→ पूर्व + स्मात् / आत् [<<ङसिङ्योः स्मात्स्मिनौ>> [[7.1.15]] इत्यनेन ङसिँ-प्रत्ययस्य स्मात्-आदेशे प्राप्ते <<पूर्वादिभ्यो नवभ्यो वा>> [[7.1.16]] इति सः विकल्पेन भवति । विकल्पाभावे <<टाङसिङसामिनात्स्याः>> [[7.1.12]] इति आत्-आदेशः]\n→ पूर्वात् / पूर्वस्मात्\n2) पूर्व + ङि [सप्तम्येकवचनस्य प्रत्ययः]\n→ पूर्व + स्मिन् / इ [<<ङसिङ्योः स्मात्स्मिनौ>> [[7.1.15]] इत्यनेन ङसिँ-प्रत्ययस्य स्मात्-आदेशे प्राप्ते <<पूर्वादिभ्यो नवभ्यो वा>> [[7.1.16]] इति सः विकल्पेन भवति । विकल्पाभावे ङि-प्रत्ययस्यैव प्रयोगः भवति ]\n→ पूर्वस्मिन् / पूर्वे\nतथैव अन्येषां शब्दानां विषये अपि एतानि रूपाणि भवन्ति -\n2. पर - परात्, परस्मात् । परे , परस्मिन् ।\n3. अवर - अवरात् , अवरस्मात् । अवरे , अवरस्मिन् ।\n4. दक्षिण - दक्षिणात्, दक्षिणस्मात् । दक्षिणे, दक्षिणस्मिन् ।\n5. उत्तर - उत्तरात्, उत्तरस्मात् । उत्तरे , उत्तरस्मिन् ।\n6. अपर - अपरात् , अपरस्मात् । अपरे , अपरस्मिन् ।\n7. अधर - अधरात्, अधरस्मात् । अधरे , अधरस्मिन् ।\n8. स्व - स्वात् स्वस्मात् । स्वे , स्वस्मिन् ।\n9. अन्तर - अन्तरात्, अन्तरस्मात् । अन्तरे, अन्तरस्मिन् ।\nज्ञातव्यम् -\n1. पूर्वसूत्रेण नित्यं प्राप्ते वर्तमानसूत्रेण विकल्पः विधीयते, अतः इयम् प्राप्तविभाषा । <<न वेति विभाषा>> [[1.1.44]] इत्यत्र अस्मिन् विषये अधिकम् दृश्यताम् ।\n2. एतेषाम् नव शब्दानाम् सर्वनामसंज्ञा भवति चेदेव वर्तमानसूत्रस्य प्रसक्तिः अस्ति । यस्मिन् अर्थे एतेषाम् सर्वनामसंज्ञा न भवति तस्मिन् अर्थे <<ङसिङ्योः स्मात्स्मिनौ>> [[7.1.15]] इत्यस्यापि प्रसक्तिः नास्ति, अतः अयम् विकल्पः अपि न भवति । यथा, 'उत्तर' नाम कश्चन बालकस्य विवक्षा अस्ति चेत् 'उत्तरात् / उत्तरे' इत्येव रूपे करणीये ।" }, "71017": { "sa": "सर्वनामशब्दस्य अदन्तात् अङ्गात् परस्य जस्-प्रत्ययस्य शी-आदेशः भवति । ", "sd": "सर्वनामसंज्ञकः यः अदन्तः शब्दः, तस्मात् परस्य जस्-प्रत्ययस्य 'शी' आदेशः भवति ।\n1) सर्व + जस् [प्रथमाबहुवचनस्य प्रत्ययः]\n→ सर्व + शी [<<जसः शी>> [[7.1.17]] इति जस्-प्रत्ययस्य शी-आदेशः]\n→ सर्व + ई [<<लशक्वतद्धिते>> [[1.3.8]] इति शकारस्य इत्संज्ञा]\n→ सर्वे [<<आद्गुणः>> [[6.1.87]] इति गुण-एकादेशः]\n2) तत् + जस् [प्रथमाबहुवचनस्य प्रत्ययः]\n→ त अ अस् [<<त्यदादीनामः>> [[7.2.102]] इत्यनेन तकारस्य अकारादेशः]\n→ त अस् [<<अतो गुणे>> [[6.1.97]] इति पररूप-एकादेशः]\n→ त शी [<<जसः शी>> [[7.1.17]] इति जस्-प्रत्ययस्य शी-आदेशः]\n→ त ई [<<लशक्वतद्धिते>> [[1.3.8]] इति शकारस्य इत्संज्ञा]\n→ ते [<<आद्गुणः>> [[6.1.87]] इति गुण-एकादेशः]\nप्रश्नः 1 - जस्-प्रत्ययस्य 'शी' इति सर्वादेशः कथं भवति ?\nउत्तरम् - 'शी' इति अनेकाल् आदेशः अस्ति अतः अनेकाल्त्वात् <<अनेकाल्शित्सर्वस्य>> [[1.1.55]] इत्यनेन जस्-प्रत्ययस्य 'शी' इति सर्वादेशः भवति ।\nप्रतिप्रश्नः - परन्तु 'शी' इत्यत्र शकारः <<लशक्वतद्धिते>> [[1.3.8]] इत्यनेन इत्संज्ञकः भवति किल? अतः अत्र सर्वादेशः 'शित्त्वात्' भवेत्, न हि 'अनेकाल्त्वात्' ।\nउत्तरम् - 'शी' इत्यत्र <<लशक्वतद्धिते>> [[1.3.8]] इत्यनेन शकारस्य इत्संज्ञा तदा एव भवितुमर्हति यदा 'शी' आदेशः 'प्रत्ययत्वं' प्राप्नोति (यतः <<लशक्वतद्धिते>> [[1.3.8]] इत्यनेन प्रत्ययस्यैव आदिस्थस्य शकारस्य लोपः भवति, अन्येषाम् शकारस्य न) । परन्तु शी-आदेशः यावत् जस्-इत्यस्य स्थाने न विधीयते, तावत् तस्य 'प्रत्यय'संज्ञा अपि न भवितुमर्हति । इत्युक्ते, प्रारम्भे 'शी' इति यत्र विधानं क्रियते तत्र शकारस्य इत्संज्ञा नैव भवति । अतः अस्यामवस्थायाम् 'शी' इति अनेकाल् एव मन्तव्यः । अयमनेकाल्-आदेशः जस्-इत्यस्य स्थाने यदा सर्वादेशरूपेण विधीयते, तदा स्थानिवद्भावेन शी-इत्यत्र 'प्रत्यय' इति संज्ञा भवति । तदनन्तरमेव शकारस्य <<लशक्वतद्धिते>> [[1.3.8]] इत्यनेन इत्संज्ञा भवितुमर्हति । अतः प्रारम्भे सर्वादेशविधानम् तु अनेकाल्त्वात् एव भवति, शित्त्वात् न ।\nप्रश्नः 2 - अस्मिन् सूत्रे 'शी' इति दीर्घः आदेशः किमर्थम् कृतः अस्ति? ह्रस्वादेशं कुर्मश्चेदपि अयमेव रूपम् सिद्ध्येत् किम्?\nउत्तरम् - अत्र कृतः दीर्घादेशः अग्रिमसूत्रार्थमस्ति । <<नपुंसकाच्च>> [[7.1.19]] अस्मिन् सूत्रे वर्तमानसूत्रात् 'शी' इति अनुवर्तते, तत्र 'वारिणी', 'मधुनी' एतानि रूपाणि कर्तुम् दीर्घादेशः आवश्यकः अस्ति । अतः अत्र दीर्घादेशविधानं क्रियते ।\nप्रश्नः 3 - स्त्रीलिङ्गवाचिनां शब्दानां विषये अस्य सूत्रस्य प्रसक्तिः किमर्थं न स्यात्?\nउत्तरम् - अत्र 'अतः' इत्यत्र तपरकरणम् कृतमस्ति, अतः आकारान्त-स्त्रीलिङ्गशब्दानाम् विषये अयमादेशः न भवति । यथा - सर्वा + जस् = सर्वाः ।\n" }, "71018": { "sa": "आबन्तात् अङ्गात् परस्य औ/औट्-प्रत्यययोः शी-आदेशः भवति । ", "sd": "प्रारम्भे अस्मिन् सूत्रे प्रयुक्तानाम् पदानामर्थम् जानीमः -\n1. 'आबन्तः' इत्युक्ते 'आप्' यस्य अन्ते अस्ति सः । आप्-इति स्वयम् कश्चन प्रत्ययः नास्ति, अपितु आप्-इत्यनेन टाप, डाप्, चाप्' एतेषाम् त्रयाणाम् प्रत्ययाणाम् ग्रहणं क्रियते । एते त्रयः स्त्री-प्रत्ययाः सन्ति । अतः आबन्तशब्दः इत्युक्ते सः शब्दः यस्य अन्ते टाप् / चाप् / डाप् प्रत्ययः अस्ति सः । सर्वे आकारान्तस्त्रीलिङ्गशब्दाः अनेन गृह्यन्ते ।\n2. 'औङ्' इत्युक्ते औ / औट् । प्रथमाद्विवचनस्य द्वितीयाद्विवचनस्य प्रत्ययस्य च अनेन ग्रहणं भवति । अयमपि स्वयंरूपेण प्रत्ययः नास्ति, केवलं द्वयोः प्रत्ययोः निर्देशार्थमस्य निर्देशः कृतः अस्ति ।\n3. शी - अयमादेशरूपेण प्रोक्तः अस्ति । अनेकाल्त्वात् अत्र <<अनेकाल् शित्सर्वस्य>> [[1.1.55]] इत्यनेन सर्वादेशः भवति । ('शी' इत्यत्र शकारः प्रारम्भे इत्संज्ञकः नास्ति यतः <<लशक्वतद्धिते>> [[1.3.8]] इत्यनेन केवलं प्रत्ययादिस्थस्यैव शकारस्य इत्संज्ञा भवति, न हि आदेशस्य । अतः औ/औट्-इत्येतयोः स्थाने प्रारम्भे 'शी' इति आदेशः भवति, ततः स्थानिवद्भावात् 'शी' इत्यस्य प्रत्ययसंज्ञा भवति, ततश्च शकारस्य <<लशक्वतद्धिते>> [[1.3.8]] इत्यनेन इत्संज्ञा लोपश्च विधीयते ) ।\nइदानीमस्य सूत्रस्य अर्थः स्पष्टः स्यात् - 'आकारान्तस्त्रीलिङ्गशब्दात् परस्य प्रथमा-द्वितीया-द्विवचनस्य प्रत्यययोः शी-आदेशः भवति' इति । यथा -\nमाला + औ / औट्\n→ माला + शी [<<औङः आपः>> [[7.1.18]] इति शी-आदेशः]\n→ माला + ई [<<लशक्वतद्धिते>> [[1.3.8]] इति शकारस्य इत्संज्ञा]\n→ माले [<<आद्गुणः>> [[6.1.87]] इति गुण-एकादेशः]\n" }, "71019": { "sa": "नपुंसकात् परस्य औ/औट्-प्रत्यययोः शी-आदेशः भवति ।", "sd": "अस्मिन् सूत्रे प्रयुक्तः 'औङ्' शब्दः स्वयं कश्चन प्रत्ययः नास्ति, परन्तु प्रथमाद्विवचनस्य 'औ' प्रत्ययस्य तथा द्वितीयाद्विवचनस्य 'औट्' प्रत्ययस्य च निर्देशं करोति । नपुंसकात् शब्दात् परस्य एतयोः प्रत्यययोः 'शी' आदेशः भवति । अनेकाल्त्वात् <<अनेकाल् शित्सर्वस्य>> [[1.1.55]] इत्यनेन अयम् सर्वादेशः भवति । ('शी' इत्यत्र शकारः प्रारम्भे इत्संज्ञकः नास्ति यतः <<लशक्वतद्धिते>> [[1.3.8]] इत्यनेन केवलं प्रत्ययादिस्थस्यैव शकारस्य इत्संज्ञा भवति, न हि आदेशस्य । अतः औ-इत्यस्य स्थाने प्रारम्भे 'शी' इति आदेशः भवति, ततः स्थानिवद्भावात् 'शी' इत्यस्य प्रत्ययसंज्ञा भवति, ततश्च शकारस्य <<लशक्वतद्धिते>> [[1.3.8]] इत्यनेन इत्संज्ञा लोपश्च विधीयते) ।\nउदाहरणानि एतानि -\n1. फल + औ / औट्\n→ फल + शी [<<नपुंसकाच्च>> [[7.1.19]] इति शी-आदेशः]\n→ फल + ई [इत्संज्ञालोपः । <<यस्येति च>> [[6.4.148]] अनेन सूत्रेण अङ्गस्य अकारलोपे प्राप्ते अनेन वार्त्तिकेन सः निषिध्यते]\n→ फले [<<आद्गुणः>> [[6.1.87]] इति गुण-एकादेशः]\n2. वारि + औ / औट्\n→ वारि + शी [<<नपुंसकाच्च>> [[7.1.19]] इति शी-आदेशः]\n→ वारि + ई [इत्संज्ञालोपः । <<यस्येति च>> [[6.4.148]] अनेन सूत्रेण अङ्गस्य इकारलोपे प्राप्ते अनेन वार्त्तिकेन सः निषिध्यते]\n→ वारि नुम् + ई [<<इकोऽचि विभक्तौ>> [[7.1.73]] इति अङ्गस्य नुमागमः]\n→ वारिणी [<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इति णत्वम्]\n3. पयस् + औ / औट्\n→ पयस् + शी [<<नपुंसकाच्च>> [[7.1.19]] इति शी-आदेशः]\n→ पयस् + ई [इत्संज्ञालोपः]\n→ पयसी\n4. नामन् + औ / औट्\n→ नामन् + शी [<<नपुंसकाच्च>> [[7.1.19]] इति शी-आदेशः]\n→ नाम न् + ई [इत्संज्ञालोपः]\n→ नाम्नी, नामनी [<<अल्लोपोऽनः>> [[6.4.134]] इत्यनेन उपधा-अकारस्य लोपे प्राप्ते <<विभाषा ङिश्योः>> [[6.4.136]] इति विकल्पेन लोपः]" }, "71020": { "sa": "नपुंसकात् परस्य जस्/शस्-प्रत्यययोः शि-आदेशः भवति ।", "sd": "नपुंसकलिङ्गवाची यः शब्दः, तस्मात् परयोः प्रथमाद्वितीयाबहुवचनस्य 'जस् / शस्' प्रत्यययोः 'शि' इति आदेशः भवति । अनेकाल्त्वात् <<अनेकाल्शित्सर्वस्य>> [[1.1.55]] इत्यनेन अयम् सर्वादेशः भवति । ('शि' इत्यत्र शकारः प्रारम्भे इत्संज्ञकः नास्ति यतः <<लशक्वतद्धिते>> [[1.3.8]] इत्यनेन केवलं प्रत्ययादिस्थस्यैव शकारस्य इत्संज्ञा भवति, न हि आदेशस्य । अतः जस्/शस्-इत्येतयोः स्थाने प्रारम्भे 'शि' इति आदेशः भवति, ततः स्थानिवद्भावात् 'शि' इत्यस्य प्रत्ययसंज्ञा भवति, ततश्च शकारस्य <<लशक्वतद्धिते>> [[1.3.8]] इत्यनेन इत्संज्ञा लोपश्च विधीयते) ।\nअस्मिन सूत्रे प्रोक्तः 'शि' अयमादेशः <<शि सर्वनामस्थानम्>> [[1.1.42]] इति 'सर्वनामस्थान' संज्ञकः भवति, अतः नपुंसकलिङ्गशब्दात् जस्-शस्-प्रत्यययोः परयोः सर्वनामस्थानविशिष्टं कार्यं दृश्यते ।उदाहरणानि एतानि -\n1. फल + जस् [प्रथमाबहुवचनस्य जस्-प्रत्ययः]\n→ फल + शि [<<जश्शसोः शिः>> [[7.1.20]] इति शि-आदेशः । <<शि सर्वनामस्थानम्>> [[1.1.42]] इति प्रत्ययस्य सर्वनामस्थानसंज्ञा ]\n→ फल + इ [शकारस्य इत्संज्ञा, लोपः ]\n→ फल नुम्+ इ [<<नपुंसकस्य झलचः>> [[7.1.72]] इति अजन्तस्य अङ्गस्य सर्वनामस्थाने परे नुमागमः]\n→ फल न् + इ [इत्संज्ञालोपः]\n→ फलानि [<<सर्वनामस्थाने चासम्बुद्धौ>> [[6.4.8]] इत्यनेन नकारान्तस्य अङ्गस्य उपधायाः सर्वनामस्थाने परे दीर्घः]\n2. पयस् + शस् [द्वितीयाबहुवचनस्य जस्-प्रत्ययः]\n→ पयस् + शि [<<जश्शसोः शि>> [[7.1.20]] इति शि-आदेशः । <<शि सर्वनामस्थानम्>> [[1.1.42]] इति सर्वनामस्थानसंज्ञा ।]\n→ पयन्स् + इ [शकारस्य इत्संज्ञा, लोपः । <<नपुंसकस्य झलचः>> [[7.1.72]] इति अङ्गस्य नुमागमः]\n→ पयान्स् + इ [<<सान्तमहतः संयोगस्य>> [[6.4.10]] इत्यनेन नकारस्य उपधावर्णस्य दीर्घादेशः]\n→ पयांसि [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति नकारस्य अनुस्वारः]\n3. जगत् + शस् [द्वितीयाबहुवचनस्य जस्-प्रत्ययः]\n→ जगत् + शि [<<जश्शसोः शि>> [[7.1.20]] इति शि-आदेशः । <<शि सर्वनामस्थानम्>> [[1.1.42]] इति सर्वनामस्थानसंज्ञा ।]\n→ जगन् त् + इ [शकारस्य इत्संज्ञा, लोपः । <<नपुंसकस्य झलचः>> [[7.1.72]] इति अङ्गस्य नुमागमः]\n→ जगन्ति\n4. वारि + जस् [प्रथमाबहुवचनस्य प्रत्ययः]\n→ वारि + शि [<<जश्शसोः शि>> [[7.1.20]] इति शि-आदेशः । <<शि सर्वनामस्थानम्>> [[1.1.42]] इति सर्वनामस्थानसंज्ञा ।]\n→ वारि + इ [शकारस्य इत्संज्ञा, लोपः । ]\n→ वारि न् + इ [<<नपुंसकस्य झलचः>> [[7.3.72]] इत्यनेन नुमागमे प्राप्ते विप्रतिषेधेन <<इकोऽचि विभक्तौ>> [[7.1.73]] इति नुमागमः]\n→ वारी + नि [<<सर्वनामस्थाने चासम्बुद्धौ>> [[6.4.8]] इत्यनेन नकारान्तस्य अङ्गस्य उपधायाः सर्वनामस्थाने परे दीर्घः]\n→ वारीणि [<<अट्कुप्वाङ्नुम्वयवायेऽपि>> [[8.4.2]] इति णत्वम्]\n" }, "71021": { "sa": "अष्टन्-शब्दस्य 'अष्टा' इत्येतस्मात् परस्य जस्/शस् प्रत्यययोः औश्-इति आदेशः भवति । ", "sd": "'अष्टन्' इति संख्यावाची शब्दः । अस्य शब्दस्य 'अष्टा' इति आदेशे कृते अस्मात् परयोः जस्/शस्-प्रत्यययोः <<षड्भ्योः लुक्>> [[7.1.22]] इत्यनेन लुक्-प्राप्ते अपवादत्वेन औश्-इति आदेशः भवति । <<अनेकाल्शित्सर्वस्य>> [[1.1.55]] इत्यनेन अयम् सर्वादेशः जायते ।\nपरन्तु अष्टन्-शब्दस्य अष्टा इति आदेशः कुत्र भवति? अजादौ विभक्तौ परे अष्टन्-शब्दस्य आकारादेशं कर्तुम् वस्तुतः भिन्नम् सूत्रम् नास्ति, अतः एतत् सूत्रमेव इत्यस्य ज्ञापकं स्वीक्रियते यत् अष्टन्-शब्दस्य जस्/शस्-प्रत्यये परे आकारादेशः भवति । तथा च, अयमादेशः केवलं विकल्पेन स्वीक्रियते, यतः आचार्येण स्वयम् <<अष्टनो दीर्घात्>> [[6.1.172]] अस्मिन् सूत्रे 'दीर्घ-आदेशकृत-अष्टन-शब्दात् परा असर्वनामस्थाना विभक्तिः उदात्ता भवति' इति उक्तमस्ति । एतत् अस्यैव ज्ञापकम् यत् दीर्घग्रहणम् वैकल्पिकम् स्यात्, न हि नित्यम् ।\nअतः अस्य सूत्रस्य सम्पूर्णः अर्थः अयम् - जस्/शस् प्रत्यये परे अष्टन् शब्दस्य वैकल्पिकः आकारादेशः भवति, तथा अस्मिन् आकारादेशे कृते प्रत्ययस्यापि औश्-आदेशः भवति ।\nअष्टन् + जस् / शस्\n→ अष्टा + जस् / शस्\n→ अष्टा + औ [<<षड्भ्यो लुक्>> [[7.1.22]] इति जस्/शस्-प्रत्यययोः लुक्-प्राप्ते अपवादत्वेन <<अष्टाभ्य औश्>> [[7.1.21]] इति अङ्गस्य आकारादेशः तथा प्रत्ययस्य औश्-आदेशः]\n→ अष्टौ [<<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इत्यनेन पूर्वसवर्ण-दीर्घे प्राप्ते, <<नादिचि>> [[6.1.104]] इत्यनेन तस्य निषेधः भवति । अतः <<वृद्धिरेचि>> [[6.1.88]] इति वृद्धि-एकादेशः औकारः]\nयदि अष्टन्-शब्दस्य आकारादेशः न भवति, तर्हि अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा -\nअष्टन् + जस् / शस्\n→ अष्टन् [<<षड्भ्यो लुक्>> [[7.1.22]] इति जस्/शस्-प्रत्यययोः लुक्]\n→ अष्ट [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः]\nयस्य समस्तपदस्य उत्तरपदम् 'अष्टन् ' शब्दः अस्ति तस्यापि विषये अस्य प्रसक्तिः अस्ति । यथा - परमाश्च अष्टौ च = परमाष्टौ, परमाष्ट ।\n" }, "71022": { "sa": "षट्-संज्ञकात् अङ्गात् परस्य जस्/शस्-प्रत्यययोः लुक् भवति । ", "sd": "षट्-इयम् संज्ञा द्वाभ्याम् सूत्राभ्याम् दीयते -\n1. <<ष्णान्ता षट्>> [[1.1.24]] इत्यनेन षकारान्ताः नकारान्ताः च संख्यावाचिनः शब्दाः षट्-संज्ञकाः भवन्ति । यथा - पञ्चन्, षष् सप्तन्, अष्टन्, नवन्, दशन्, एकादशन् - आदयः ।\n2. <<डति च>> [[1.1.25]] इत्यनेन डति-प्रत्ययान्तशब्दाः षट्-संज्ञकाः भवन्ति । यथा - कति ।\nएतेभ्यः परस्य जस्-शस्-प्रत्यययोः वर्तमानसूत्रेण 'लुक्' भवति । लुक्-इत्युक्ते प्रत्ययस्य लोपः । यथा\n1. पञ्चन् + जस् / शस्\n→ पञ्चन् [<<षड्भ्यो लुक्>> [[7.1.22]] इति लुक्]\n→ पञ्च [<<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यनेन पञ्च-शब्दस्य <<सुप्तिङन्तं पदम्>> [[1.4.14]] इति पदसंज्ञा । <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इत्यनेन प्रातिपदिकान्तस्य पदस्य अन्तिमनकारस्य लोपः ।]\nएवमेव सप्तन्, नवन्, दशम् एतेषामपि प्रक्रिया भवति ।\n2. षष् + जस् / शस्\n→ षष् [<<षड्भ्यो लुक्>> [[7.1.22]] इति लुक्]\n→ षड् [<<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वम्]\n→ षड्, षट् [<<खरि च>> [[8.4.55]] इति वैकल्पिकं चर्त्वम्]\n3. अष्टन् + जस् / शस्\n→ अष्ट + जस् / शस् [<<अष्टनः आ विभक्तौ>> [[7.2.84]] इत्यनेन अष्ट-शब्दस्य वैकल्पिकः आकारादेशः न भवति ।]\n→ अष्टन् [<<षड्भ्यो लुक्>> [[7.1.22]] इति जस्/शस्-प्रत्यययोः लुक्]\n→ अष्ट [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः]\nयदि अष्टन्-शब्दस्य जस्/शस्-प्रत्यये परे आकारादेशः भवति, तर्हि <<षड्भ्यो लुक्>> [[7.1.22]] इति जस्/शस्-प्रत्यययोः लुक्-प्राप्ते अपवादत्वेन <<अष्टाभ्य औश्>> [[7.1.21]] इति औश्-आदेशः भवति । अग्रे वृद्धि-एकादेशं कृत्वा 'अष्टौ' इति रूपं सिद्ध्यति ।\nज्ञातव्यम् - अस्मिन् सूत्रे जस्/शस्-प्रत्यययोः लोपः 'लुक्' नाम्ना कृतः अस्ति । 'लुक्' इत्यस्य प्रयोगस्य प्रयोजनमस्ति लुप्तप्रत्ययेन निर्दिष्टस्य अङ्गकार्यस्य <<न लुमताङ्गस्य>> [[1.1.63]] इति प्रतिषेधः । यथा, नपुंसकलिङ्गस्य विषये <<सर्वनामस्थाने चासम्बुद्धौ>> [[6.4.8]] इत्यनेन सामान्यरूपेण नकारान्तस्य अङ्गस्य यः उपधादीर्घः विधीयते, तादृशं अङ्गकार्यमत्र न भवति ।\n" }, "71023": { "sa": "नपुंसकात् परस्य प्रथमा-द्वितीया-एकवचनस्य सुँ/अम्-प्रत्यययोः लुक् भवति ।", "sd": "यथा, मधु-शब्दस्य प्रथमैकवचनस्य / द्वितीयैकवचनस्य रूपसिद्धौ 'मधु + सुँ / अम्' इत्यत्र अनेन सूत्रेण एतयोः प्रत्यययोः लुक् (लोपः) भवति, अतः 'मधु' इत्येव रूपं सिद्ध्यति ।\nतथैव, वारि + सुँ → वारि । धातृ + सुँ → धातृ ।" }, "71024": { "sa": "अकारान्त-नपुंसकलिङ्गशब्दात् परस्य प्रथमा-द्वितीया-एकवचनस्य सुँ/अम्-प्रत्यययोः अम्-आदेशः भवति । ", "sd": "अकारान्तनपुंसकात् अङ्गात् परस्य सु-अम्-प्रत्यययोः <<स्वमोर्नपुंसकात्>> [[7.1.23]] इत्यनेन लुक्-प्राप्ते अपवादत्वेन वर्तमानसूत्रेण तयोः अम्-आदेशः भवति । यथा -\nफल + सुँ / अम् इति स्थिते -\n→ फल + अम् [ <<स्वमोर्नपुंसकात्>> [[7.1.23]] इति लुक्-प्राप्ते अपवादत्वेन <<अतोऽम्>> [[7.1.24]] इति अम्-आदेशः]\n→ फलम् [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इत्यनेन सवर्णदीर्घे प्राप्ते ; विप्रतिषेधेन <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] अनेन पूर्वसवर्णदीर्घे प्राप्ते ; विप्रतिषेधेन <<अमि पूर्वः>> [[6.1.107]] इति पूर्वसवर्ण-एकादेशः]\nज्ञातव्यम् -\n1) अम्-इति अनेकाल्-आदेशः अस्ति, अतः <<अनेकाल् शित् सर्वस्य>> [[1.1.55]] इत्यनेन सर्वादेशः भवति ।\n2) अस्मिन् सूत्रे 'अतः' इति तकारः केवलं उच्चारार्थः अस्ति । एतत् तपरकरणम् नास्ति, यतः <<ह्रस्वो नपुंसके प्रातिपदिकस्य>> [[1.2.47]] इत्यनेन दीर्घ-आकारान्त नपुंसकलिङ्गशब्दाः भवितुम् न अर्हन्ति ।\nप्रश्नः - अनेन सूत्रेण द्वितीया-एकवचनस्य अम्-प्रत्ययस्य पुनः अम्-इत्येव आदेशः दीयते । किमर्थम्?\nउत्तरम् - यदि अनेन सूत्रेण अम्-प्रत्ययस्य अम्-आदेशः न अभविष्यत्, तर्हि औत्सर्गिकरूपेण <<स्वमोर्नपुंसकात्>> [[7.1.23]] अनेन सूत्रेण नपुंसकात् परस्य अम्-प्रत्ययस्य लुक् अभविष्यत् । एवं सति फल + अम् = फल इति अशुद्धं रूपं अजनिष्यत । तत् तथा मा भूत्, अतः अत्र अम्-प्रत्ययस्य पुनः अम्-आदेशः आवश्यकः ।\nउपप्रश्नः - तर्हि अम्-इत्यस्य 'म्' इति एकाल्-आदेशः किमर्थम् न कृतः?\nउत्तरम् - यदि अम्-इत्यस्य 'म्' अयम् एकालः आदेशः अभविष्यत्, तर्हि <<आदेः परस्य>> [[1.1.54]] इत्यनेन एषः आदेशः अम्-प्रत्ययस्य अकारस्य स्थाने अभविष्यत् । तदा 'फल + अम् → फल + म् म्' अस्यामवस्थायाम् <<सुपि च>> [[7.3.102]] इत्यनेन अङ्गस्य दीर्घः अभविष्यत् । ततः च <<संयोगान्तस्य लोपः>> [[8.2.23]] इत्यनेन मकारलोपं कृत्वा 'फलाम्' इति रूपमभविष्यत् । तत् तथा मा भूत्, अतः अम्-इति अनेकाल् आदेशः आवश्यकः ।\n" }, "71025": { "sa": "नपुंसकलिङ्गवाचिभ्यः डतरप्रत्ययान्तशब्देभ्यः परस्य, डतमप्रत्ययान्तशब्देभ्यः परस्य, तथा - 'अन्य', 'अन्यतर', 'इतर' एतेभ्यः परस्य सुँ/अम्-प्रत्यययोः अद्ड्-आदेशः भवति । ", "sd": "सर्वादिगणे पाठिताः 'डतर-डतम-अन्य-अन्यतर-इतर' एतेषाम् पञ्चानामुल्लेखः अस्मिन् सूत्रे 'डतरादिभ्यः पञ्चभ्यः' इत्यनेन कृतः अस्ति । एतेषु 'डतर' तथा 'डतम' एतौ प्रत्ययौ, अतः सर्वे डतरप्रत्ययान्तशब्दाः डतमप्रत्ययान्तशब्दाः च अनयोः शब्दयोः गृह्यन्ते । एते शब्दाः तथा 'अन्य', 'अन्यतर', 'इतर' - एते त्रयः शब्दाः त्रिषु लिङ्गेषु भवन्ति । नपुंसकलिङ्गे एतेषां परस्य सुँ-प्रत्ययस्य तथा च अम्-प्रत्ययस्य 'अद्ड्' अयमादेशः भवति । अस्मिन् आदेशे डकारः इत्संज्ञकः अस्ति, अतः केवलंम् 'अत्' इत्येव अवशिष्यते । यथा -\nअन्य + सुँ / अम्\n→ अन्य + अद् [<<स्वमोर्नपुंसकात्>> [[7.1.23]] इत्यनेन सुँ/अम् प्रत्यययोः लुक्-प्राप्ते, अपवादत्वेन <<अतोऽम्>> [[7.1.24]] इत्यनेन तयोः अम्-आदेशे प्राप्ते, अपवादत्वेन <<अद्ड् डतरादिभ्यः पञ्चभ्यः>> [[7.1.25]] इति अद्ड्-आदेशः । डकारस्य इत्संज्ञा, लोपः ।]\n→ अन्य् + अद् [<<टेः>> [[6.4.143]] इत्यनेन डित्-प्रत्यये परे भस्य अङ्गस्य अन्तिमस्य टि-संज्ञकस्य लोपः भवति ।]\n → अन्यद् / अन्यत् [<<वाऽवसाने>> [[8.4.56]] इति विकल्पेन चर्त्वम्]\nएवमेव कतरत्, कतमत्, स्वल्पतमत्, अन्यतरत्, इतरत् - एतानि रूपाणि अपि सिद्ध्यन्ति ।\nप्रश्नः - अद्ड् इत्यत्र अन्ते इत्संज्ञकः डकारः किमर्थम् स्थापितः अस्ति?\nउत्तरम् - यदि अस्मिन् प्रत्यये डकारः न अभविष्यत्, तर्हि <<टेः>> [[6.4.143]] इत्यनेन अङ्गस्य अन्तिम-अकारस्य लोपः अपि न अभविष्यत् । अस्यां स्थितौ 'अन्य + अद्' इत्यत्र <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इत्यनेन पूर्वसवर्णदीर्घे कृते 'अन्याद्'\nइति रूपं अभविष्यत् । तत् तथा मा भूत्, तथा च डित्वात् भस्य टिसंज्ञकस्य अन्तिमवर्णस्य अपि लोपः भवेत्, एतत् साधयितुम् डकारः स्थापितः अस्ति । " }, "71026": { "sa": "नपुंसकलिङ्गवाचिनः इतर-शब्दात् परस्य सुँ/अम्-प्रत्यययोः वेदानां विषये अद्ड्-आदेशः न भवति ।", "sd": "<<अद्ड् डतरादिभ्यः पञ्चभ्यः>> [[7.1.25]] इत्यनेन इतर-शब्दात् परस्य सुँ / अम् -प्रत्यययोः अद्ड् आदेशः उच्यते । वेदानां विषये अयमादेशः न भवति । यथा - 'वार्त्रघ्नम् इतरम्' अयम् छान्दसः प्रयोगः। अत्र 'इतर + अम्' इत्यत्र <<अतोऽम्>> [[7.1.24]] इत्यनेन अम्-आदेशं कृत्वा रूपं सिद्ध्यति ।\n" }, "71027": { "sa": "", "sd": "" }, "71028": { "sa": "", "sd": "" }, "71029": { "sa": "", "sd": "" }, "71030": { "sa": "", "sd": "" }, "71031": { "sa": "", "sd": "" }, "71032": { "sa": "", "sd": "" }, "71033": { "sa": "", "sd": "" }, "71034": { "sa": "", "sd": "" }, "71035": { "sa": "आशीषि विषये लोट्-लकारस्य तु/हि प्रत्यययोः विकल्पेन तातङ्-आदेशः भवति ।", "sd": "'आशीः' इत्युक्ते 'अप्राप्तस्य इच्छा'. <<आशिषि लिङ्लोटौ>> [[3.3.173]] अनेन सूत्रेण लिङ्-लकारस्य लोट्-लकारस्य च 'आशिषि' अर्थे अपि प्रयोगः भवति । अस्मिन् अर्थे लोट्-लकारस्य परस्मैपदस्य प्रथमपुरुषैकवचनस्य 'तु' प्रत्ययस्य तथा च मध्यमपुरुषैकवचनस्य 'हि' प्रत्ययस्य विकल्पेन 'तातङ्' आदेशः भवति । अस्मिन् आदेशे ङकारः इत्संज्ञकः अस्ति, अकारश्च उच्चारणार्थः अस्ति । उदाहरणानि एतानि -\n1) भ्वादिगणस्य पठ्-धातोः लोट्लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया -\nपठ् + लोट् [<<आशिषि लिङ्लोटौ>> [[3.3.173]] इति लोट्]\n→ पठ् + तिप् [<<तिप्तस्..>> [[3.4.78]] इत्यनेन परस्मैपदस्य प्रथमपुरुषैकवचनस्य विवक्षायाम् तिप्-प्रत्ययः]\n→ पठ् + शप् + ति [<<कर्तरि शप्>> [[3.1.68]] इति शप् ]\n→ पठ् + अ + तु [<<एरुः>> [[3.4.86]] इति इकारस्य एकारः]\n→ पठ् + अ + तातङ् [<<तुह्योस्तातङाशिष्यन्यतरस्याम्>> इत्यनेन तु-इत्यस्य वैकल्पिकः 'तातङ्' आदेशः ।]\n→ पठतात् ।\nतातङ्-आदेशस्य अभावे 'तु' इत्यस्मिन् परे 'पठतु' इति रूपं अपि जायते ।\n2. स्वादिगणस्य आप्-धातोः लोट्लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया -\nआप् + लोट् [<<आशिषि लिङ्लोटौ>> [[3.3.173]] इति लोट्]\n→ आप् + तिप् [<<तिप्तस्..>> [[3.4.78]] इत्यनेन परस्मैपदस्य प्रथमपुरुषैकवचनस्य विवक्षायाम् तिप्-प्रत्ययः]\n→ आप् + श्नु + ति [<<स्वादिभ्यः श्नुः>> [[3.1.73]] इति शप् ]\n→ आप् + नु + तु [<<एरुः>> [[3.4.86]] इति इकारस्य एकारः]\n→ आप् + नु + तातङ् [<<तुह्योस्तातङाशिष्यन्यतरस्याम्>> इत्यनेन तु-इत्यस्य वैकल्पिकः 'तातङ्' आदेशः ।]\n→ आप्नुतात् ।\nतातङ्-आदेशस्य अभावे 'तु' इत्यस्मिन् प्रत्यये परे अङ्गस्य <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इत्यनेन गुणं कृत्वा 'आप्नोतु' इति रूपमपि सिद्ध्यति ।\n3) अदादिगणस्य ब्रू-धातोः लोट्-लकारस्य मध्यमपुरुषैकवचनस्य प्रक्रिया -\nब्रू + लोट् [<<आशिषि लिङ्लोटौ>> [[3.3.173]] इति लोट्]\n→ ब्रू + सिप् [<<तिप्तस्..>> [[3.4.78]] इत्यनेन परस्मैपदस्य मध्यमपुरुषैकवचनस्य विवक्षायाम् सिप्-प्रत्ययः]\n→ ब्रू + शप् + सि [<<कर्तरि शप्>> [[3.1.68]] इति शप् ]\n→ ब्रू + सि [<<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शपः लुक्]\n→ ब्रू + हि [<<सेर्ह्यपिच्च>> [[3.4.87]] इति सिप्-प्रत्ययस्य हि-आदेशः]\n→ ब्रू + तातङ् [<<तुह्योस्तातङाशिष्यन्यतरस्याम्>> इत्यनेन तु-इत्यस्य वैकल्पिकः 'तातङ्' आदेशः ।]\n→ ब्रूतात्\nतातङ्-आदेशस्य अभावे 'तु' इत्यस्मिन् परे 'ब्रूहि' इति रूपं अपि जायते ।\nज्ञातव्यम् -\n1. 'तातङ्' अस्मिन् आदेशे ङकारः इत्संज्ञकः अस्ति, अतः अयमादेशः 'ङित्' अस्ति । अत्र ङकारस्य प्रयोजनमस्ति पित्वनिवृत्तिः । इत्युक्ते, मूलः तिप्-प्रत्ययः पित्-अस्ति, अतः सः अङ्गस्य गुणवृद्धिं तथा अन्यानि अपि पित्-विशिष्टानि कार्याणि कारयति । 'तात्' प्रत्यये अपि स्थानिवद्भावेन पित्वे प्राप्ते एतानि कार्याणि प्रसजन्ति । एतानि सर्वाणि तात्-प्रत्ययस्य विषये मा भूत्, एतत् स्पष्टीकर्तुमत्र ङकारस्य नियोजनं क्रियते । <ऽ ङिच्च पित् न, पिच्च ङित् न ऽ> अनया उक्त्या ङकारस्य उपस्थितिः स्थानिवद्भावेन प्राप्तस्य पित्वस्य निवृत्तिम् करोति । अतः तातङ्-प्रत्यये परे कान्यपि पित्-विशिष्टानि कार्याणि न भवन्ति (यथा - <<सार्वधातुकमपित्>> [[1.2.4]] इत्यनेन गुणवृद्धीः, <<ब्रुवः ईट्>> [[7.3.94]] इत्यनेन ब्रू-इत्यस्य ईट्-आदेशः - आदयः) ।\n2. अस्मिन् आदेशे ङित्वकरणमन्त्यादेशार्थम् नास्ति, केवलं पित्-निवृत्यर्थम् एव अस्ति । अतः अयमादेशः <<अनेकाल्शित्सर्वस्य>> [[1.1.55]] इत्यनेन सर्वादेशरूपेणैव आगच्छति ।\n3. एतत् सूत्रम् <<अतो हेः>> [[6.4.105]] इत्यस्य अपवादरूपेण आगच्छति । अदन्तात् अङ्गात् परस्य हि-प्रत्ययस्य <<अतो हेः>> [[6.4.105]] इत्यनेन लुक्-प्राप्ते अपवादत्वेन वर्तमानसूत्रेण तातङ्-आदेशः विधीयते ।\n4. अस्य सूत्रस्य प्रयोगः केवलं 'आशीः' (= अप्राप्तस्य इच्छा) अस्मिन् अर्थे एव भवति, विधिनिमन्त्रणादिषु अन्येषु अर्थेषु न ।\nविशेषः - अस्मिन् सूत्रे 'तातङ् + आशिषि' इत्यत्र <<ङमो ह्रस्वादचि ङमुण् नित्यम्>> [[8.3.32]] इत्यनेन आकारस्य ङुट्-आगमं कृत्वा 'तातङ्ङाशिषि' इति सिद्ध्यति, अतः सूत्रे ङकारः द्विवारः प्रयुक्तः दृश्यते । " }, "71036": { "sa": "विद्-धातोः परस्य शतृ-प्रत्ययस्य विकल्पेन 'वसुँ' आदेशः भवति । ", "sd": "विद् (ज्ञाने) इति अदादिगणस्य धातुः । <<लटः शतृशानचावप्रथमासमानाधिकरणे>> [[3.2.124]] इत्यनेन अस्मात् धातोः शतृ-प्रत्ययः विधीयते । अस्य शतृ-प्रत्ययस्य वर्तमानसूत्रेण वैकल्पिकः 'वसुँ' आदेशः भवति । अस्मिन् आदेशे कृते 'विद्वस्' इति प्रातिपदिकं सिद्ध्यति । प्रक्रिया इयम् -\nविद् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ विद् + शतृ [<<लटः शतृशानचावप्रथमासमानाधिकरणे>> [[3.2.124]] इति लट्-इत्यस्य शतृ-आदेशः]\n→ विद् + शप् + शतृ [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ विद् + शतृ [<<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति विकरणस्य लुक्]\n→ विद् + वसुँ [<<विदेः शतुर्वसुः>> [[7.1.36]] इति वसुँ-आदेशः]\n→ विद् + वस् [<<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इति उँकारस्य इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ विद्वस् [<<कृत्-तद्धित-समासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा]\nअनेन सूत्रेण निर्दिष्टः आदेशः विकल्पेनैव भवति, नित्यम् न । अतः अस्य आदेशस्य अनुपस्थितौ विद्-धातोः शतृप्रत्ययान्तरूपम् 'विदत्' इति भवति -\nविद् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ विद् + शतृ [<<लटः शतृशानचावप्रथमासमानाधिकरणे>> [[3.2.124]] इति लट्-इत्यस्य शतृ-आदेशः]\n→ विद् + शप् + शतृ [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ विद् + शतृ [<<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति विकरणस्य लुक्]\n→ विदत् [ शकार-ऋकारयोः इत्संज्ञा, लोपः । वर्णमेलनम् ।]\nअस्य रूपाणि अग्रे 'पठत्' शब्दवत् भवन्ति ।\nज्ञातव्यम् -\n1. विद्वस्-शब्दः 'वसुँ' प्रत्ययान्तशब्दः अस्ति, अतः अयम् 'उगित्' अस्ति । अतः अस्य शब्दस्य प्रक्रियायाम् <<उगिदचां सर्वनामस्थानेऽधातोः>> [[7.1.70]] इत्यनेन नुमागमः विधीयते । यथा -\nविद्वस् + औ [प्रथमाद्विवचनस्य प्रत्ययः]\nविद्वन् स् + औ [<<उगिदचां सर्वनामस्थाने अधातोः>> [[7.1.70]] इति नुमागमः]\n→ विद्वा न् स् औ [<<सान्तमहतः संयोगस्य>> [[6.4.10]] इति नकारस्य उपधावर्णस्य दीर्घः]\n→ विद्वांसौ [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति अपदान्तनकारस्य अनुस्वारः]\n2. धातुपाठे वस्तुतः 'विद्' इति पञ्च धातवः सन्ति । एतेषु केवलं अदादिगणस्य विद् (ज्ञाने) अस्य विषये एव वर्तमानसूत्रस्य प्रसक्तिः अस्ति । " }, "71037": { "sa": "", "sd": "" }, "71038": { "sa": "", "sd": "" }, "71039": { "sa": "", "sd": "" }, "71040": { "sa": "", "sd": "" }, "71041": { "sa": "", "sd": "" }, "71042": { "sa": "", "sd": "" }, "71043": { "sa": "", "sd": "" }, "71044": { "sa": "", "sd": "" }, "71045": { "sa": "", "sd": "" }, "71046": { "sa": "", "sd": "" }, "71047": { "sa": "", "sd": "" }, "71048": { "sa": "", "sd": "" }, "71049": { "sa": "", "sd": "" }, "71050": { "sa": "", "sd": "" }, "71051": { "sa": "", "sd": "" }, "71052": { "sa": "अकारान्तात् सर्वनामशब्दात् परस्य षष्ठीबहुवचनस्य आम्-प्रत्ययस्य सुट्-आगमः भवति । ", "sd": "अस्मिन् सूत्रे षष्ठ्यन्तं पदम् नास्ति, अतः इत्यनेन सप्तम्या निर्दिष्टम् पदम् स्थानिनम् दर्शयति । अतः षष्ठीबहुवचनस्य आम्-प्रत्ययः अत्र स्थानी । यदि अयम् प्रत्ययः अकारान्तात् / आकारान्तात् शब्दात् परः आगच्छति, तर्हि अस्य प्रत्ययस्य सुट्-आगमः भवति । <<आद्यन्तौ टकितौ>> [[1.1.46]] इति अयमाद्यावयवरूपेण आगच्छति । यथा -\n1. सर्व + आम् [<<सर्वादीनि सर्वनामानि>> [[1.1.27]] इत्यनेन सर्व-शब्दस्य सर्वनामसंज्ञा । <<स्वौजस्...>> [[4.1.2]] इत्यनेन षष्ठीबहुवचनस्य विवक्षायाम् आम्-प्रत्ययः]\n→ सर्व + सुट् आम् [<<आमि सर्वनाम्नः सुट्>> [[7.1.52]] इति आम्-प्रत्ययस्य सुट्-आगमः]\n→ सर्व + स् आम् [इत्संज्ञालोपः]\n→ सर्वे साम् [<<बहुवचने झल्येत्>> [[7.3.103]] इति अङ्गस्य एकारादेशः]\n→ सर्वेषाम् [<<आदेशप्रत्यययोः>> [[8.3.59]] इति प्रत्ययावयवस्य षत्वम् ]\n2. यद् + साम् [<<सर्वादीनि सर्वनामानि>> [[1.1.27]] इत्यनेन सर्व-शब्दस्य सर्वनामसंज्ञा । <<स्वौजस्...>> [[4.1.2]] इत्यनेन षष्ठीबहुवचनस्य विवक्षायाम् आम्-प्रत्ययः]\n→ य अ + आम् [<<त्यदादीनामः>> [[7.2.102]] इत्यनेन दकारसस्य विभक्तिप्रत्यये परे अकारादेशः]\n→ य + आम् [<<अतो गुणे>> [[6.1.97]] इति द्वयोः अकारयोः पररूपः अकारः]\n→ य + सुट् + आम् [<<आमि सर्वनाम्नः सुट्>> [[7.1.52]] इति आम्-प्रत्ययस्य सुट्-आगमः]\n→ य स् आम् [इत्संज्ञालोपः]\n→ ये स् आम् [<<बहुवचने झल्येत्>> [[7.3.103]] इति अङ्गस्य एकारादेशः]\n→ येषाम् [<<आदेशप्रत्यययोः>> [[8.3.59]] इति प्रत्ययावयवस्य षत्वम् ]\n3. सर्वा + आम् [<<सर्वादीनि सर्वनामानि>> [[1.1.27]] इत्यनेन सर्व-शब्दस्य सर्वनामसंज्ञा । <<अजाद्यतष्टाप्>> [[4.1.4]] इत्यनेन तस्य टाप्-प्रत्यये कृते 'सर्वा' इति प्रातिपदिकम् । <<स्वौजस्...>> [[4.1.2]] इत्यनेन षष्ठीबहुवचनस्य विवक्षायाम् आम्-प्रत्ययः]\n→ सर्वा + सुट् आम् [<<आमि सर्वनाम्नः सुट्>> [[7.1.52]] इति आम्-प्रत्ययस्य सुट्-आगमः]\n→ सर्वा स् आम् [इत्संज्ञालोपः]\n→ सर्वासाम्\n4. तत् + आम् [<<सर्वादीनि सर्वनामानि>> [[1.1.27]] इत्यनेन तत्-शब्दस्य सर्वनामसंज्ञा । <<स्वौजस्...>> [[4.1.2]] इत्यनेन षष्ठीबहुवचनस्य विवक्षायाम् आम्-प्रत्ययः]\n→ त अ + आम् [<<त्यदादीनामः>> [[7.2.102]] इत्यनेन दकारसस्य विभक्तिप्रत्यये परे अकारादेशः]\n→ त + आम् [<<अतो गुणे>> [[6.1.97]] इति द्वयोः अकारयोः पररूपः अकारः]\n→ ता + आम् [<<अजाद्यतष्टाप्>> [[4.1.4]] इत्यनेन अकारान्तस्य प्रातिपदिकस्य टाप्-प्रत्ययः]\n→ ता + सुट् आम् [<<आमि सर्वनाम्नः सुट्>> [[7.1.52]] इति आम्-प्रत्ययस्य सुट्-आगमः]\n→ ता स् आम् [इत्संज्ञालोपः]\n→ तासाम्\nज्ञातव्यम् - वर्तमानसूत्रम् <<ह्रस्वनद्यापो नुट्>> [[7.1.54]] इत्यस्य अपवादरूपेण आगच्छति । " }, "71053": { "sa": "त्रि-शब्दस्य अङ्गस्य आम्-प्रत्यये परे 'त्रय' आदेशः भवति । ", "sd": "'त्रि' इत्यस्य षष्ठीबहुवचनस्य आम्-प्रत्यये परे 'त्रय' इति आदेशः भवति । <<अनेकाल्-शित्-सर्वस्य>> [[1.1.55]] इत्यनेन अयमादेशः सर्वादेशः विद्यते । यथा -\nत्रि + आम् [<<स्वौजस्..>> [[4.1.2]] इत्यनेन षष्ठी-बहुवचनस्य आम्-आदेशः]\n→ त्रय + आम् [<<त्रेस्त्रयः>> [[7.1.53]] इति त्रि-शब्दस्य त्रय-आदेशः]\n→ त्रय + नुट् आम् [<<ह्रस्वनद्यापो नुट्>> [[7.3.54]] इति आम्-प्रत्ययस्य नुट्-आगमः]\n→ त्रया + नाम् [<<नामि>> [[6.4.3]] इति अङ्गस्य दीर्घः]\n→ त्रयाणाम् [<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इति णत्वम्]\nज्ञातव्यम् - बहुव्रीहिसमासे यद्यपि त्रि-शब्दः गौणः (अप्रधानः) अस्ति, तथापि वर्तमानसूत्रेण तस्यापि त्रय-आदेशः जायते । यथा, 'प्रियत्रि' शब्दस्य षष्ठीबहुवचनम् 'प्रियत्रयाणाम्' इति भवति ।" }, "71054": { "sa": "ह्रस्वन्तात्, नदीसंज्ञकात्, आबन्तात् परस्य आम्-प्रत्ययस्य नुट्-आगमः भवति । ", "sd": "अनेन सूत्रेण त्रिविधानाम् शब्दानाम् विषये षष्ठीबहुवचनस्य 'आम्'-प्रत्ययस्य नुट्-आगमः विधीयते । ते एतादृशाः -\n1. ह्रस्व-स्वरान्तशब्दाः - यथा - बाल, फल, मुनि, मति, वारि, साधु, धेनु, मधु, मातृ, पितृ, धातृ ।\n2. नदीसंज्ञकशब्दाः - एते द्वयोः सूत्रयोः विधीयन्ते -\nअ) <<यू स्त्र्याख्यो नदी>> [[1.4.3]] इत्यनेन इत्यतः दीर्घ-ईकारान्त/ऊकारान्तानाम् नित्यस्त्रीलिङ्गशब्दानाम् नदीसंज्ञा भवति । यथा - नदी, गौरी, चञ्चू, वधू ।\nआ) <<वाऽमि>> [[1.4.5]] इत्यनेन स्त्री-शब्दं वर्जयित्वा अन्येषाम् इयङ्-स्थानिनाम् / उवङ्स्थानिनाम् नित्यस्त्रीलिङ्गशब्दानामाम्-प्रत्यये परे विकल्पेन नदीसंज्ञा भवति । यथा - श्री, धी, भ्रू आदयः ।\n3. आबन्तशब्दाः - आप्-येषामन्ते ते आबन्ताः । अत्र 'आप्' इत्यनेन 'टाप्', 'चाप्' तथा 'डाप्' - एते त्रयः प्रत्ययाः गृह्यन्ते । अतः एते प्रत्ययान्ताः येषामन्ते, ते शब्दाः आबन्ताः नाम्ना ज्ञायन्ते । यथा, शाला, लता, अजा, सूर्या - आदयः । सर्वे आकारान्त-स्त्रीलिङ्गशब्दाः अनेन गृह्यन्ते ।\nएतेषाम् सर्वेषाम् परस्य षष्ठीबहुवचनस्य 'आम्'-प्रत्ययस्य नुट्-आगमः भवति । अयम् टित्-आगमः, अतः <<आद्यन्तौ टकितौ>> [[1.1.46]] इत्यनेन प्रत्ययस्य आद्यवयवरूपेण आगच्छति । उदाहरणानि एतानि -\n1. बाल + आम् [<<स्वौजस्..>> [[4.1.2]] इत्यनेन षष्ठीबहुवचनस्य आम्-प्रत्ययः]\n→ बाल + नुट् + आम् [<<ह्रस्वनद्यापो नुट्>> [[7.1.54]] इत्यनेन ह्रस्वात् परस्य आम्-प्रत्ययस्य नुट्-आगमः ]\n→ बाल + न् + आम् [इत्संज्ञालोपः]\n→ बाला नाम् [<<नामि>> [[6.4.3]] इत्यनेन नाम्-प्रत्यये परे अङ्गस्य दीर्घः]\n→ बालानाम्\n2. गौरी + आम् [<<स्वौजस्..>> [[4.1.2]] इत्यनेन षष्ठीबहुवचनस्य आम्-प्रत्ययः]\n→ गौरी + नुट् + आम् [<<ह्रस्वनद्यापो नुट्>> [[7.1.54]] इत्यनेन नद्यन्तात् परस्य आम्-प्रत्ययस्य नुट्-आगमः ]\n→ गौरी + न् + आम् [इत्संज्ञालोपः]\n→ गौरी नाम् [<<नामि>> [[6.4.3]] इत्यनेन नाम्-प्रत्यये परे अङ्गस्य दीर्घः]\n→ गौरीणाम् [<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इत्यनेन णत्वम्]\n3. भ्रू + आम् [<<स्वौजस्..>> [[4.1.2]] इत्यनेन षष्ठीबहुवचनस्य आम्-प्रत्ययः]\n→ भ्रू + नुट् + आम् [<<वाऽमि>> [[1.4.5]] इत्यनेन आम्-प्रत्यये परे भ्रू-शब्दस्य विकल्पेन नदीसंज्ञा । नदीसंज्ञायाम् सत्याम् <<ह्रस्वनद्यापो नुट्>> [[7.1.54]] इत्यनेन नद्यन्तात् परस्य आम्-प्रत्ययस्य नुट्-आगमः ]\n→ भ्रू + न् + आम् [इत्संज्ञालोपः]\n→ भ्रू नाम् [<<नामि>> [[6.4.3]] इत्यनेन नाम्-प्रत्यये परे अङ्गस्य दीर्घः]\n→ भ्रूणाम् [<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इत्यनेन णत्वम्]\n4. माला + आम् [<<स्वौजस्..>> [[4.1.2]] इत्यनेन षष्ठीबहुवचनस्य आम्-प्रत्ययः]\n→ माला + नुट् + आम् [ <<ह्रस्वनद्यापो नुट्>> [[7.1.54]] इत्यनेन आबन्तात् परस्य आम्-प्रत्ययस्य नुट्-आगमः ]\n→ माला + न् + आम् [इत्संज्ञालोपः]\n→ माला + नाम् [<<नामि>> [[6.4.3]] इत्यनेन नाम्-प्रत्यये परे अङ्गस्य दीर्घः]\n→ मालानाम्\n5. बहुश्रेयसी + आम् [<<स्वौजस्..>> [[4.1.2]] इत्यनेन षष्ठीबहुवचनस्य आम्-प्रत्ययः]\n→ बहुश्रेयसी + नुट् + आम् [ अनेन वात्तिकेन नदीसंज्ञायाम् प्राप्तायाम् <<ह्रस्वनद्यापो नुट्>> [[7.1.54]] इत्यनेन नुट्-आगमः]\n→ बहुश्रेयसी + न् + आम् [इत्संज्ञालोपः]\n→ बहुश्रेयसी + नाम् [<<नामि>> [[6.4.3]] इत्यनेन नाम्-प्रत्यये परे अङ्गस्य दीर्घः]\n→ बहुश्रेयसीनाम्\nज्ञातव्यम् -\n1. अस्मिन् सूत्रे षष्ठ्यन्तं पदम् नास्ति, अतः <ऽउभयनिर्देशे पञ्चमीनिर्देशः बलीयान्ऽ> अनया परिभाषया सप्तम्या निर्दिष्टम् पदम् स्थानिनम् दर्शयति ।\n2. अस्मिन् सूत्रे निर्दिष्टः 'आम्' शब्दः षष्ठीबहुवचनस्य प्रत्ययः अस्ति, सप्तमी-एकवचनस्य <<ङेराम्नद्याम्नीभ्यः>> [[7.3.116]] इत्यनेन निर्दिष्टः आम्-आगमः नास्तीति भाष्ये स्पष्टीकृतमस्ति ।\n3. अयम् नुट्-आगमः आकारान्त/ईकारान्त/ऊकारान्त-पुँल्लिङशब्दानाम् विषये न भवति । यथा - हाहा + आम् → हाहाम् । सेनानी + आम् → सेनान्याम् । खलपू + आम् → खलप्वाम् ।" }, "71055": { "sa": "षट्-संज्ञकात् परस्य चतुर्-शब्दात् परस्य च आम्-प्रत्ययस्य नुट्-आगमः भवति । ", "sd": "किम् नाम षट्-संज्ञकः ? अष्टाध्याय्यां षट्-संज्ञा द्वयोः सूत्रयोः दीयते -\n<<ष्णान्ताः षट्>> [[1.1.24]] - षकारान्ताः नकारान्ताश्च सङ्ख्यावाचिनः शब्दाः षट्-संज्ञकाः सन्ति । यथा - पञ्चन्, षष्, सप्तन्, अष्टन्, नवन्, दशन् आदयः ।\n<<डति च>> [[1.1.25]] - डति-प्रत्ययान्तशब्दाः अपि षट्-संज्ञकाः भवन्ति । यथा - कति ।\nएतेभ्यः परस्य षष्ठीबहुवचनस्य आम्-प्रत्ययस्य नुट्-आगमः भवति । यथा -\n1. पञ्चन् + आम् [<<स्वौजस्..>> [[4.1.2]] इत्यनेन षष्ठीबहुवचनस्य आम्-प्रत्ययः]\n→ पञ्चन् + नुट् आम् [<<षट्चतुर्भ्यश्च>> [[7.1.55]] इत्यनेन षट्-संज्ञकस्य पञ्चन्-शब्दस्य नुट्-आगमः]\n→ पञ्चन् + न् आम् [इत्संज्ञालोपः]\n→ पञ्चान् + नाम् [<<नोपधायाः>> [[6.4.7]] इत्यनेन नाम्-प्रत्यये परे नकारान्तस्य अङ्गस्य उपधादीर्घः]\n→ पञ्चानाम् [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इत्यनेन पदान्तनकारस्य लोपः]\n2. षष् + आम् [<<स्वौजस्..>> [[4.1.2]] इत्यनेन षष्ठीबहुवचनस्य आम्-प्रत्ययः]\n→ षष् + नुट् आम् [<<षट्चतुर्भ्यश्च>> [[7.1.55]] इत्यनेन षट्-संज्ञकस्य षष्-शब्दस्य नुट्-आगमः]\n→ षष् + न् आम् [इत्संज्ञालोपः]\n→ षड् + नाम् [नाम्-प्रत्यये परे अङ्गस्य <<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इति पदसंज्ञा । पदसंज्ञायाम् सत्याम् <<झलां जशोऽन्ते>> [[8.2.39]] इति पदान्तषकारस्य डकारः]\n→ षड् + णाम् [<<ष्टुना ष्टुः>> [[8.4.41]] इत्यनेन ष्टुत्वे णकारः]\n→ षण्णाम् [<<यरोऽनुनासिकोऽनुनासिके वा>> [[8.4.45]] इत्यनेन षकारस्य णकारः । अनेन वार्त्तिकेन णत्वम् नित्यम् भवति, विकल्पेन न ।\n3. कति + आम् [<<स्वौजस्..>> [[4.1.2]] इत्यनेन षष्ठीबहुवचनस्य आम्-प्रत्ययः]\n→ कति + नुट् आम् [<<षट्चतुर्भ्यश्च>> [[7.1.55]] इत्यनेन षट्-संज्ञकस्य कति-शब्दस्य नुट्-आगमः]\n→ कति + न् आम् [इत्संज्ञालोपः]\n→ कती + नाम् [<<नामि>> [[6.4.3]] इति अङ्गस्य दीर्घः]\n→ कतीनाम्\n4. चतुर् + आम् [<<स्वौजस्..>> [[4.1.2]] इत्यनेन षष्ठीबहुवचनस्य आम्-प्रत्ययः]\n→ चतुर्नुट् आम् [<<षट्चतुर्भ्यश्च>> [[7.1.55]] इत्यनेन षट्-संज्ञकस्य कति-शब्दस्य नुट्-आगमः]\n→ चतुर्न् आम् [इत्संज्ञालोपः]\n→ चतुर् णाम् [<<रषाभ्यां नो णः समानपदे>> [[8.4.1]] इति णत्वम्]\n→ चतुर्णाम् , चतुर्ण्णाम् , चतुर्णाम्म् , चतुर्ण्णाम्म् [<<अचो रहाभ्यां द्वे>> [[8.4.46]] इति णकारस्य वैकल्पिकम् द्वित्वम् । <<अनचि च>> [[8.4.47]] इति मकारस्यापि वैकल्पिकं द्वित्वम् । णकारस्य द्वित्वपक्षे <<हलो यमां यमि लोपः>> [[8.4.64]] इत्यनेन एक-णकारस्य वैकल्पिकः लोपः]\nज्ञातव्यम् -\n1. अस्मिन् सूत्रे षष्ठ्यन्तं पदम् नास्ति, अतः <ऽउभयनिर्देशे पञ्चमीनिर्देशः बलीयान्ऽ> अनया परिभाषया सप्तम्या निर्दिष्टम् पदम् स्थानिनम् दर्शयति ।\n2. अस्मिन् सूत्रे निर्दिष्टः 'आम्' शब्दः षष्ठीबहुवचनस्य प्रत्ययः अस्ति, सप्तमी-एकवचनस्य <<ङेराम्नद्याम्नीभ्यः>> [[7.3.116]] इत्यनेन निर्दिष्टः आम्-आगमः नास्तीति भाष्ये स्पष्टीकृतमस्ति ।\n3. चतुर्-शब्दः समस्तपदे प्रधानत्वेन अस्ति चेदेव अयम् नुडागमः भवति । यथा - प्रियाश्च ते चत्वारश्च = प्रियचत्वारः । इत्यत्र 'प्रितचतुर्' अस्मिन् समस्तपदे चतुर्-शब्दः प्राधान्यत्वेन अस्ति, अतः अस्य नुडागमं कृत्वा 'प्रियचतुर्णाम्' इति रूपं जायते । परन्तु यदि चतुर्-शब्दः गौणत्वेन आगच्छति - यथा - 'प्रियाः चत्वारः यस्य सः = प्रियचतुर्' - तर्हि अनेन सूत्रेण निर्दिष्टः नुडागमः न भवति । यथा - प्रियचतुर् + आम् → प्रियचतुराम् ।\n" }, "71056": { "sa": "", "sd": "" }, "71057": { "sa": "", "sd": "" }, "71058": { "sa": "इदित्-धातोः नुमागमः भवति । ", "sd": "यस्मिन् धातौ औपदेशिक-अवस्थायाम् इकारः इत्संज्ञकः अस्ति, तस्य धातोः नुम्-आगमः भवति । अयमागमः मित्-आगमः अस्ति, अतः <<मिदचोऽन्त्यात्परः>> [[1.1.47]] इत्यनेन अन्त्यात् अचः परः आगच्छति । एतत् नुमागमस्य कार्यम् धातोः प्रकृतेः एव भवति, अत्र किमपि निमित्तम् नापेक्षते ।\nउदाहरणम् - वदिँ (अभिवादनस्तुत्योः) अस्मिन् धातौ इकारः इत्संज्ञकः अस्ति । अतः अस्मिन् धातोः एतादृशम् परिवर्तनम् भवति -\nवदिँ\n→ वन् द् [इँकारस्य <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इति इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति तस्य लोपः । <<इदितो नुम् धातोः>> [[7.1.58]] इति नुमागमः ।]\n→ वं द् [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति नकारस्य अनुस्वारः]\n→ व न् द् [<<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति अनुस्वारस्य परसवर्णः नकारः]\n→ वन्द् ।\nअनेनैव प्रकारेण एते धातवः अपि परिवर्तन्ते -\n1. अकिँ (लक्षणे) → अन् क् → अंक् → अङ्क् ।\n2. भजिँ (भाषायाम्) → भन् ज् → भंज् → भञ्ज् ।\n3. कुठिँ (प्रतिघाते) → कुन् ठ् → कुंठ् → कुण्ठ् ।\n4. चितिँ (स्मृत्याम्) → चि न् त् → चिंत् → चिन्त् ।\n5. जभिँ (नाशने) → जन् भ् → जंभ् → जम्भ् ।\n6. त्रसिँ (भाषायाम्) → त्रन् स् → त्रंस् । अत्र परसवर्णः न भवति, यतः अत्र अग्रे यय्-वर्णः नास्ति ।\n7. बृहिँ (भाषायाम्) → बृन् ह् → बृंह् । अत्रापि परसवर्णः न भवति, यतः अत्र अग्रे यय्-वर्णः नास्ति ।\n8. इवि (व्याप्तौ → इन्व् । अत्र नुमागमस्य अनुस्वारः एव न भवति, यतः वकारः झल्-वर्णः नास्ति ।\nअत्र एतत् स्मर्तव्यम् यत् - (1) नकारस्य अनुस्वारनिर्माणम्, (2) अनुस्वारस्य च परसवर्णः - एतत् कार्यद्वयम् त्रिपाद्या क्रियते, अतः तिङ्गन्तकृदन्तप्रक्रियासु प्रायः सर्वत्र अस्य असिद्धत्वमस्ति । यथा, कपिँ धातोः लट्लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -\nकपिँ + लट् [<<वर्त्तमाने लट्>> [[3.2.123]]\n→ कन् प् + लट् [<<इदितो नुम् धातोः>> [[7.1.58]] इति नुमागमः]\n→ कन् प् + त [<<तिप्तस्..>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य विवक्षायामात्मनेपदस्य 'त' प्रत्ययः]\n→ कन् प् + शप् + त [<<कर्त्तरि शप्>> [[3.1.68]] इति औत्सर्गिकम् विकरणम् शप्]\n→ कन् प् अ ते [<<टित आत्मनेपदानां टेरे>> [[3.4.79]] इति एकारादेशः]\n→ कं प् अ ते [<<नश्चापदान्तस्य झलि>> [[8.3.54]] इति नकारस्य अनुस्वारः]\n→ कम्पते [<<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति अनुस्वारस्य परसवर्णः मकारः]\nअत्र अनुस्वार-परसवर्णौ अन्ते कृतौ स्तः ।\nज्ञातव्यम् -\n1. येषु धातुषु इकारः इत्संज्ञकः नास्ति, तेषां विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, जिरि (हिंसायाम्) अस्मिन् धातौ रेफात् परः इकारः / जकारात् परः इकारः च इत्संज्ञकौ न स्तः । अतः अस्य धातोः नुमागमः न भवति ।\n2. येषु धातुषु अनेन वार्त्तिकेन 'इँर्'-इत्यस्य इत्संज्ञा भवति, तेषु धातुषु यद्यपि इकारः अनुनासिकः अस्ति, तथापि प्रयोजनाभावात् तस्य इत्संज्ञा न भवति । अतः एतेषां धातूनामपि नुमागमः न भवति । यथा - दृशिँर् (प्रेक्षणे) अत्र 'इर्' इत्यस्य समुदायस्य इत्संज्ञा भवति, अत्र केवल-इँकारः इत्संज्ञकः नास्ति, अतः अस्य नुमागमः न भवति ।\n3. येषु धातुषु प्रयोगे उपान्त्यस्थाने अनुनासिकः दृश्यते ते सर्वे इदिताः सन्तीति न । केषुचन धातुषु औपदेशिक-स्थितौ एव अनुनासिकम् दत्तमस्ति । यथा - मन्थँ (विलोडने), भञ्जोँ (आमर्दने) आदयः ।" }, "71059": { "sa": "मुचादि-अन्तर्गणस्य धातूनाम् श-प्रत्यये परे नुम्-आगमः भवति । ", "sd": "'मुचादिगणः' नाम तुदादिगणस्य कश्चन अन्तर्गणः । अस्मिन् गणे अष्ट धातवः पाठिताः सन्ति, ये एकया कारिकया दीयन्ते -\nमुञ्चतिर्लुम्पतिश्चैव विन्दतिर्लिम्पतिस्तथा । सिञ्चतिः कृञ्चतिश्चैव खिदिः पिशिर्मुचादयः ।\nअस्याम् कारिकायामुक्ताः अष्ट धातवः (धातुपाठस्य क्रमाङ्कसहिताः) एते -\n1430. मुच्ऌँ मोक्षणे\n1431. लुप्ऌँ छेदने\n1432. विद्ऌँ लाभे\n1433. लिपँ उपदेेहे\n1434. षिचँ क्षरणे\n1435. कृतीँ छेदने\n1436. खिदँ परिघाते\n1437. पिशँ अवयवे\nएतेषाम् सर्वेषाम् श-विकरणप्रत्यये परे नुमागमः भवति । . 'नुम्' अयमागमः मित्-आगमः अस्ति, अतः <<मिदचोऽन्त्यात्परः>> [[1.1.47]] इत्यनेन अन्त्यात् अचः परः आगच्छति ।\nयथा, मुच्-धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -\nमुच् + लट् [<<वर्त्तमाने लट्>> [[3.2.123]] इति लट्]\n→ मुच् + तिप् [<<तिप्तस्..>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]\n→ मुच् + श + तिप् [<<तुदादिभ्यः शः>> [[3.1.77]] इति श-विकरणप्रत्ययः]\n→ मुन् च् + अ + तिप् [<<शे मुचादीनाम्>> [[7.1.59]] इति नुमागमः]\n→ मुं च् अ ति [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति अनुस्वारः]\n→ मुञ्चति [<<अनुस्वारस्य ययि परसवर्णः>> [[8.4.48]] इति परसवर्णः ञकारः]\nएवमेव अन्येषाम् धातूनाम् लट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपाणि एतानि भवन्ति -\n1. लुप् → लुम्पति / लुम्पते\n2. विद् → विन्दति / विन्दते\n3. लिप् → लिम्पति / लिम्पते\n4. सिच् → सिञ्चति / सिञ्चते\n5. कृत् → कृन्तति\n6. खिद् → खिन्दति\n7. पिश् → पिंशति । अत्र अनुस्वारस्य परसवर्णः न भवति यतः अत्र अग्रे यय्-वर्णः नास्ति ।\nअत्र एकम् वार्तिकम् ज्ञातव्यम् - ।\n'तृम्फादिगणः' इति तुदादिगणस्य कश्चन अन्यः अन्तर्गणः अस्ति । अस्मिन् गणे तुदादिगणस्य सर्वे अनिदितः धातवः समाविश्यन्ते । एतेषां सर्वेषाम् <<अनिदितां हलः उपधायाः क्ङिति>>[[6.4.24]] इत्यनेन कित्/ङित् प्रत्यये परे नकारलोपे कृते अनेन वात्तिकेन श-विकरणे परे पुनः नुमागमः भवति । यथा, तृम्फ्-धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -\nतृन्फ् + लट् [<<वर्त्तमाने लट्>> [[3.2.123]] इति लट्]\n→ तृन्फ् + तिप् [<<तिप्तस्..>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]\n→ तृन्फ् + श + तिप् [<<तुदादिभ्यः शः>> [[3.1.77]] इति श-विकरणप्रत्ययः]\n→ तृफ् + श + तिप् [शकारस्य <<सार्वधातुकमपित्>> [[1.2.4]] इत्यनेन ङित्वद्भावे कृते <<अनिदितां हलः उपधायाः क्ङिति>>[[6.4.24]] इति नकारलोपः]\n→ तृन् फ् + श + तिप् [ अनेन वार्तिकेन पुनः नुमागमः]\n→ तृं फ् अ ति [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति अनुस्वारः]\n→ तृम्फति [<<अनुस्वारस्य ययि परसवर्णः>> [[8.4.48]] इति परसवर्णः मकारः]\nतृम्फादिगणे समाविष्टाः धातवः तथा तेषाम् लट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपाणि एतानि -\n1308. तृम्फ् (तृप्तौ) - तृम्फति\n1310. तुम्प् (हिंसायाम्) - तुम्पति\n1312. तुम्फ् (हिंसायाम्) - तुम्फति\n1314. दृम्फ् (हिंसायाम्) - दृम्फति\n1316. ऋम्फ् (हिंसायाम्) - ऋम्फति\n1318. गुम्फ् (ग्रन्थे) - गुम्फति\n1320. उम्भ् (पूरणे) - उम्भति\n1322. शुम्भ् (शोभायाम्) - शुम्भति\n1350. तृन्ह् (हिंसायाम्) - तृंहति ।\nज्ञातव्यम् -\n1. वर्तमानसूत्रेण निर्दिष्टः नुमागमः केवलं श-प्रत्यये परे एव भवति, अन्यत्र न । यथा, मुच्-धातोः क्त-प्रत्ययान्तरूपम् 'मुक्तम्' इत्यत्र श-विकरणप्रत्ययः न आगच्छति, अतः अत्र नुमागमः न भवति ।\n2. यद्यपि एते सर्वे धातवः अनिदितः सन्ति, तथापि अनेन सूत्रेण प्रोक्तस्य नुमागमस्य <<अनिदितां हलः उपधायाः क्ङिति>>[[6.4.24]] इत्यनेन लोपः न जायते, यतः तादृशं कुर्मश्चेत् वर्तमानसूत्रस्य प्रयोजनमेव विनश्यति । अतः वर्त्तमानसूत्रस्य विधानसामर्थ्यात् एतेषाम् नुमागमस्य लोपः न करणीयः ।" }, "71060": { "sa": "मस्ज्-धातोः नश्-धातोः च झलादि-प्रत्यये परे नुमागमः भवति । ", "sd": "टुमस्जोँ (शुद्धौ, तुदादिः, <{6.151}>) तथा च णशँ (अदर्शने, दिवादिः, <{4.91}>) एतयोः धात्वोः झलादि-प्रत्यये परे नुमागमः भवति । उदाहरणानि एतानि —\n1. मस्ज्-धातोः क्त-प्रत्ययान्तरूपम् -\n\nटुमस्जोँ (शुद्धौ, तुदादिः, ओदित्)\n→ मस्ज् + क्त [<<निष्ठा>> [[3.2.102]] इति क्त-प्रत्ययः]\n→ मस न् ज् त [<<मस्जिनशोर्झलि>> [[7.1.60]] इति तकारे परे नुमागमः । यद्यपि अयम् मित्-आगमः अस्ति, तथापि इष्टरूपसिद्ध्यर्थम् अयम् अन्त्यात् पूर्वः (इत्युक्ते, जकारात् पूर्वः) विधीयते । यदि अत्र <<मिदचोऽन्त्यात्परः>> [[1.1.47]] इत्यनेन मकारोत्तर-अकारात् अनन्तरम् नुमागमः भवेत्, तर्हि <<अनिदितां हलः उपधायाः क्ङिति>> [[6.4.24]] इत्यनेन तस्य लोपः नैव सम्भवति, येन इष्टरूपसिद्धिः अपि न भवेत् । अतएव अत्र जकारात् पूर्वः नुम् विधीयते ।]\n→ म स् ज् त [<<अनिदितां हलः उपधायाः क्ङिति>> [[6.4.24]] इति कित्-प्रत्यये परे अनिदित्-धातोः नकारलोपः]\n→ म ज् त [<<स्कोः संयोगाद्योरन्ते च>> [[8.2.29]] इति सकारलोपः]\n→ मग् त [<<चोः कुः>> [[8.2.30]] इति कुत्वम्]\n→ मग्न [<<ओदितश्च>> [[8.2.45]] इति निष्ठातकारस्य नकारः]\n\n2. मस्ज्-धातोः तृच्-प्रत्ययान्तरूपम् -\n\nटुमस्जोँ (शुद्धौ, तुदादिः, ओदित्)\n→ मस्ज् + तृच् [<<ण्वुल्तृचौ>> [[3.1.133]] इति तृच्-प्रत्ययः]\n→ मन् स्ज् + तृ [<<मस्जिनशोर्झलि>> [[7.1.60]] इति तकारे परे नुमागमः । <<मिदचोऽन्त्यात्परः>> [[1.1.47]] इति अयम् अन्तिम-अच्-वर्णात् परः भवति चेदपि न कश्चन दोषः, अतः तथैव प्रक्रिया अत्र निर्दिष्टा अस्ति । परन्तु पूर्वप्रक्रियासदृशः अयम् अन्तिम-जकारात् पूर्वः स्थाप्यते चेदपि सम्यक् एव । ]\n→ मन् ज् तृ [<<स्कोः संयोगाद्योरन्ते च>> [[8.2.29]] इति सकारलोपः]\n→ मन् ग् तृ [<<चोः कुः>> [[8.2.30]] इति कुत्वम्]\n→ मं ग् तृ [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति अनुस्वारः]\n→ मं क् तृ [<<खरि च>> [[8.4.55]] इति चर्त्वम्]\n→ मङ्क्तृ [<<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति परसवर्णः ङकारः]\n\n3. नश्-धातोः तव्यत्-प्रत्ययान्तरूपम् -\n\nणशँ (अदर्शने, दिवादिः)\n→ नश् [<<णो नः>> [[6.1.65]] इति नत्वम्]\n→ नश् + तव्यत् [<<तव्यत्तव्यानीयरः>> [[3.1.96]] इति तव्यत्-प्रत्ययः]\n→ नन् श् + तव्य [<<मस्जिनशोर्झलि>> [[7.1.60]] इति तकारे परे नुमागमः । <<मिदचोऽन्त्यात्परः>> [[1.1.47]] इति अयम् अन्तिम-अच्-वर्णात् परः भवति ।]\n→ नन् ष् + तव्य [<<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> [[8.2.36]] इति झलि परे शकारस्य षकारः]\n→ नं ष् तव्य [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति अनुस्वारः]\n→ नं ष् टव्य [<<ष्टुना ष्टुः>> [[8.4.41]] इति तकारस्य ष्टुत्वम् टकारः]\n→ नंष्टव्य\n\n4. नश्-धातोः क्त्वा-प्रत्ययान्तरूपम् -\n\nणशँ (अदर्शने, दिवादिः)\n→ नश् [<<णो नः>> [[6.1.65]] इति नत्वम्]\n→ नश् + क्त्वा [<<समानकर्तृकयोः पूर्वकाले>> [[3.2.21]] इति क्त्वा-प्रत्ययः]\n→ नन् श् + त्वा [<<मस्जिनशोर्झलि>> [[7.1.60]] इति तकारे परे नुमागमः । <<मिदचोऽन्त्यात्परः>> [[1.1.47]] इति अयम् अन्तिम-अच्-वर्णात् परः भवति ।]\n→ नश् +त्वा / नन्श् + त्वा [<<जान्तनशां विभाषा>> [[6.4.32]] इति कित्-प्रत्यये परे नश्-धातोः उपधानकारस्य वैकल्पिकः लोपः नकारलोपः]\n→ न ष् + त्वा / नन्ष् + त्वा [<<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> [[8.2.36]] इति झलि परे शकारस्य षकारः]\n→ न ष् त्वा / नंष् + त्वा [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति अनुस्वारः]\n→ न ष् ट्वा / नंष् ट्वा [<<ष्टुना ष्टुः>> [[8.4.41]] इति तकारस्य ष्टुत्वम् टकारः]\n→ नष्ट्वा / नंष्ट्वा\n\nमस्ज्-धातोः नुमागमस्य विषये विशेषविधानम्\n'नुम्' अयम् आगमः मित्-आगमः अस्ति, अतः <<मिदचोऽन्त्यात्परः>> [[1.1.47]] इत्यनेन अयम् अन्त्यात् अचः परः भवेत् । नश्-धातोः विषये एतादृशः आगमः क्रियते चेत् न कोऽपि दोषः । परन्तु मस्ज्-धातोः विषये कित्-प्रत्यये परे एतादृशः नुमागमः विधीयते चेत् इष्टरूपम् नैव साधयितुम् शक्यते । अतः, मस्ज्-धातोः विषये (आवश्यकं चेत्) अयं नुमागमः अन्तिम-वर्णात् पूर्वम् (इत्युक्ते, जकारात् पूर्वम्) विधीयते । <<हलोऽनन्तराः संयोगः>> [[1.1.7]] इत्यत्र भाष्ये विद्यमानात् <ऽमस्जेरन्त्यात् पूर्वः मित् अनुषङ्गसंयोगादिलोपार्थम् ऽ> इति वचनात् अस्य प्रामाण्यम् स्पष्टी भवति । इदमेव भाष्यवाक्यम् वर्तमानसूत्रस्य काशिकाव्याख्याने अपि निर्दिष्टम् अस्ति ।\nसूत्ररचनाविशेषाः\n1. अस्मिन् सूत्रे 'मस्जिनशोः' इत्यत्र 'मस्जि' तथा 'नशि' इति धातुनिर्देशः इति वार्त्तिकम् अनुसृत्य इक्-प्रत्ययेन सह कृतः अस्ति ।\n2. <ऽयस्मिन् विधिः तदादौ अल्ग्रहणेऽ> इत्यनया परिभाषया 'झलि' इत्यस्य अर्थः 'झलादौ' इति स्वीक्रियते ।" }, "71061": { "sa": "रध्-धातोः जभ्-धातोः च अजादिप्रत्यये परे नुमागमः भवति । ", "sd": "रधँ (हिंसासंराध्योः, दिवादिः, <{4.90}>), तथा च जभीँ (गात्रविनामे, भ्वादिः, <{1.453}>) एतयोः धात्वोः अजादि-प्रत्यये परे नुमागमः भवति । उदाहरणानि एतानि -\n1. रध् धातोः अनीयर्-प्रत्ययान्तरूपम् -\n\nरधँ (हिंसासंराध्योः)\n→ रध् + अनीयर् [<<तव्यत्तव्यानीयरः>> [[3.1.96]] इति तव्यत्-प्रत्ययः]\n→ रन् ध् + अनीय [<<रधिजभोरचि>> [[7.1.61]] इति नुमागमः । <<मिदचोऽन्त्यात्परः>> [[1.1.47]] इति अयम् अन्त्यात् अचः परः विधीयते ।]\n→ रं ध् + अनीय [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति अनुस्वारः]\n→ रन्धनीय [<<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति परसवर्णः मकारः]\n\n2. रध्-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -\n\nरध् + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट्]\n→ रध् + रध् + लिट् [<<लिटिधातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम्]\n→ र रध् + लिट् [<<हलादि शेषः>> [[7.4.60]] इति अभ्यासस्य धकारलोपः]\n→ र रध् + तिप् [<<तिप्तस्झि...>> [[3.4.78]] इति मध्यमपुरुषैकवचनस्य तिप्-प्रत्ययः]\n→ र रध् + णल् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इति तिप्-प्रत्ययस्य णल्-आदेशः]\n→ र र नुम् ध् + अ [<<रधिजभोरचि>> [[7.1.61]] इत्यनेन नुमागमः]\n→ ररंध [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति अनुस्वारः]\n→ ररन्ध [<<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इतो परसवर्णः नकारः]\nज्ञातव्यम् - रध्-धातोः सार्वधातुक-लकाराणाम् रुपेषु 'श्यन्' इति हलादिविकरणप्रत्ययः विधीयते, अतः तेषु रूपेषु अस्य सूत्रस्य प्रसक्तिः नास्ति । अतएव अत्र लिट्लकारस्य उदाहरणम् प्रदर्शितम् अस्ति ।\n\n2. जभ्-धातोः तव्यत्-प्रत्यये परे रूपम् -\n\nजभ् + तव्यत् [<<तव्यत्तव्यानीयरः>> [[3.1.96]] इति तव्यत्-प्रत्ययः]\n→ जभ् + इट् + तव्य [<<आर्धधातुकस्य इड्वलादेः>> [[7.2.35]] इति इडागमः]\n→ जन् भ् + इ + तव्य [<ऽयदागमास्तद्गुणीभूताः तद्ग्रहणेन गृह्यन्तेऽ> अनया परिभाषया इट्-आगमः प्रत्ययस्यैव अवयवरूपेण कार्यम् करोति । अतः अत्र 'इतव्य' इति अजादिप्रत्ययः अस्ति । अतः <<रधिजभोरचि>> [[7.1.61]] इति नुमागमः भवति ।]\n→ जंभितव्य [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति अनुस्वारः]\n→ जम्भितव्य [<<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति परसवर्णः मकारः]\n\n3. जभ् धातोः लट्-लकारस्य प्रथमपुरुषैकवचनम् -\n\nजभ् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ जभ् + त [<<तिप्तस्..>> [[3.4.78]] इत्यनेन आत्मनेपदस्य प्रथमपुरुषैकवचनस्य विवक्षायाम् 'त' प्रत्ययः]\n→ जभ् + शप् + त [<<कर्तरि शप्>> [[3.1.68]] इति औत्सर्गिकम् विकरणम् शप्]\n→ जन् भ् + अ + त [<<रधिजभोरचि>> [[7.1.61]] इति नुमागमः]\n→ जन् भ् + अ + ते [<<टित आत्मनेपदानां टेरे>> [[3.4.79]] इति एकारः]\n→ जं भ ते [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति अनुस्वारः]\n→ जम्भते [<<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति परसवर्णः मकारः]\n\nसूत्रविशेषाः\n1. अत्र 'रधिजभोः' इत्यत्र 'रधि' तथा 'जभि' इति निर्देशौ इति वार्त्तिकमनुसृत्य इक्-प्रत्ययेन सह कृतौ स्तः ।\n2. अत्र 'रधि' इत्यनेन रधिँ (भाषायाम्, चुरादिः <{10.326}>) तथा च 'जभि' इत्यनेन जभिँ (नाशने, चुरादिः, <{10.241}>) एतयोः ग्रहणं नैव क्रियते, यतः तयोः विषये <<इदितो नुम् धातोः>> [[7.1.58]] इत्यनेन नित्यमेव नुम् विधीयते ।\n3. <ऽयस्मिन् विधिः तदादौ अल्ग्रहणेऽ> अनया परिभाषया 'झलि' इत्यस्य अर्थः 'झलादौ' इति क्रियते ।\nबाध्यबाधकभावः\n1. रध्-धातुः <<रधादिभ्यश्च>> [[7.2.45]] इत्यनेन वेट् अस्ति । अतः अस्मात् धातोः विहितस्य वलादि-आर्धधातुकप्रत्ययस्य विकल्पेन इडागमः भवति । इडागमस्य उपस्थितौ अपि वर्तमानसूत्रेण नुमागमे प्राप्ते <<नेट्यलिटि रधेः>> [[7.1.62]] इत्यनेन लिट्-लकारम् विहाय अन्यत्र सर्वत्र सः निषिध्यते ।\n2. रध्-धातोः अजादौ णिति ञिति प्रत्यये परे वस्तुतः परत्वात् <<अत उपधायाः>> [[7.2.116]] इति उपधावृद्धिः सम्भवति । परन्तु वर्तमानसूत्रे निर्दिष्टः नुमागमः वृद्धेः अपेक्षया नित्यकार्यम् अस्ति, अतः <ऽपरान्नित्यं बलवत्ऽ> इत्यनया परिभाषया अयं नुमागमः वृद्धिकार्यं बाधते -\n\nरध् + ण्वुल् [<<ण्वुल्तृचौ>> [[3.1.133]] ]\n--> रध् + अक [<<युवोरनाकौ>> [[7.1.1]] ]\n--> र न् ध् + अक [<<अत उपधायाः>> [[7.2.116]] इत्यनेन प्राप्तं वृद्धिकार्यं नित्यत्वात् बाधित्वा <<रधिजभोरचि>> [[7.1.61]] इति नुमागमः भवति]\n--> रंधक [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति अनुस्वारः]\n--> रन्धक [<<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति परसवर्णः मकारः]\n\n" }, "71062": { "sa": "रध्- धातोः इडागमे कृते नुमागमः न भवति । परन्तु लिट्-लकारस्य विषये तु इडागमे कृते अपि नुमागमः भवति । ", "sd": "<<रधिजभोरचि>> [[7.1.62]] इत्यनेन रधँ (हिंसासंराध्योः, दिवादिः <{4.90}>) इति धातोः अजादिप्रत्यये परे नुमागमः विधीयते । यत्र प्रक्रियायाम् प्रत्ययः स्वयं अजादिः नास्ति, परन्तु प्रत्ययस्य इडागमः भवति, तत्रापि एतादृशः नुमागमः अवश्यं सम्भवति, यतः <<यदागमास्तद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते>> अनया परिभाषया प्रत्ययग्रहणेन इडागमस्य अपि ग्रहणं भवति । अस्यां स्थितौ वर्तमानसूत्रेण (लिट्-लकारं विहाय अन्यत्र सर्वत्र) अयं नुमागमः निषिध्यते । उदाहरणानि एतानि -\n1. रध्-धातोः तव्यत्-प्रत्ययान्तरूपम् -\n\nरधँ (हिंसासंराध्योः, <{4.90}>)\n→ रध् + तव्यत् [<<तव्यत्तव्यानीयरः>> [[3.1.96]] इति तव्यत्-प्रत्ययः]\n→ रध् + इट् + तव्य [<<रधादिभ्यश्च>> [[7.2.45]] इति वैकल्पिकः इडागमः]\n→ रध् + इ + तव्य [<<रधिजभोरचि>> [[7.1.61]] इत्यनेन नुमागमे प्राप्ते <<नेट्यलिटि रधेः>> [[7.1.62]] इति निषेधः ।]\n→ रधितव्य\nइडागमाभावे 'रद्धव्यम्' इति अपि रूपं सिद्ध्यति । अस्मिन् रूपे तु अजादिप्रत्ययस्य अभावात् नुमागमस्य प्रसक्तिः एव न विद्यते ।\n\n2. रध्-धातोः लृट्-लकारस्य प्रथमैकवचनम् -\n\nरधँ (हिंसासंराध्योः, <{4.90}>)\n→ रध् + लृट् [<<लृट् शेषे च>> [[3.3.13]] इति लृट्-लकारः]\n→ रध् + स्य + लृट् [<<स्यतासी लृलुटोः>> [[3.1.33]] इति विकरणप्रत्ययः 'स्य']\n→ रध् + इट् + स्य + लृट् [<<आर्धधातुकस्य इड्वलादेः>> [[7.2.35]] इति इडागमः]\n→ रध् + इ + स्य + लृट् [<<रधादिभ्यश्च>> [[7.2.45]] इति वैकल्पिकः इडागमः । इडागमस्य पक्षे <<रधिजभोरचि>> [[7.1.61]] इत्यनेन नुमागमे प्राप्ते <<नेट्यलिटि रधेः>> [[7.1.62]] इति निषेधः ।]\n→ रध् + इ + स्य + तिप् [<<तिप्तस्..>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य प्रत्ययः तिप्]\n→ रधिष्यति [<<आदेशप्रत्यययोः>> [[8.3.59]] इति षत्वम्]\nइडागमाभावे 'रत्स्यति' इति अपि रूपं सिद्ध्यति । अस्मिन् रूपेे नुमागमस्य प्रसक्तिः एव न विद्यते ।\n\n3. लिट्-लकारस्य विषये तु इडागमे कृतेऽपि वर्तमानसूत्रेण नुमागमः नैव निषिध्यते, अतः अत्र नुमागमः अवश्यं करणीयः -\n\nरधँ (हिंसासंराध्योः, <{4.90}>)\nरध् + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट्]\n→ रध् + रध् + लिट् [<<लिटिधातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम्]\n→ र रध् + लिट् [<<हलादि शेषः>> [[7.4.60]] इति अभ्यासस्य धकारलोपः]\n→ र रध् + सिप् [<<तिप्तस्झि...>> [[3.4.78]] इति मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः]\n→ र रध् + थल् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इति सिप्-प्रत्ययस्य थल्-आदेशः]\n→ र रध् + इट् + थल् [<<रधादिभ्यश्च>> [[7.2.45]] इति वैकल्पिकः इडागमः । अत्र <<नेट्यलिटि रधेः>> [[7.1.62]] इति निषेधः नैव प्राप्नोति, सूत्रे 'अलिटि' इति निषेधात् ।]\n→ र र नुम् ध् इ + थल् [<<रधिजभोरचि>> [[7.1.61]] इत्यनेन नुमागमः]\n→ ररंधिथ [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति अनुस्वारः]\n→ ररन्धिथ [<<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति परसवर्णः नकारः]\nइडागमाभावे 'ररद्ध' इत्यत्र तु नुमागमस्य प्रसक्तिः एव नास्ति, यतः प्रत्ययस्थः थकारः अच् नास्ति ।\n\nसूत्ररचनाविशेषाः\n1. अत्र सूत्रे 'इटि अलिटि' इत्यत्र <ऽयस्मिन् विधिः तदादौ अल्ग्रहणेऽ> अनया परिभाषया तदादिविधिः कृतः अस्ति । अतः 'इडागमः यस्य आदौ विद्यते तादृशः लिट्-भिन्नः प्रत्ययः' इति अर्थः अत्र सिद्ध्यति ।\n2. 'अलिटि' इत्यत्र प्रसज्यप्रतिषेधपक्षः स्वीकरणीयः । यदि अत्र पर्युदासपक्षः स्वीक्रियते, तर्हि 'लिट्भिन्ने परन्तु तत्सदृशे (लकारप्रत्यये) परे इडागमे कृते नुमागमः न भवति' इति अर्थः जायेत , येन 'तृच्', 'तव्यत्' आदीनां विषये इडागमे कृते अपि अनिष्टः नुमागमः सम्भवेत् । प्रसज्यप्रतिषेधपक्षे तु 'लिटि इडागमे कृते नुमागमनिषेधः न भवति' इत्येव अर्थः सिद्ध्यति, येन अन्यत्र सर्वत्र इडागमे कृते नुमागमनिषेधः अवश्यं ज्ञाप्यते ।\nशास्त्रविशेषाः\nलिट्-लकारस्य आदेशरूपेण विहितस्य क्वसुँ-प्रत्ययस्य विषये प्रक्रिया एतादृशी अस्ति -\n\nरधँ (हिंसासंराध्योः, <{4.90}>)\n→ रध् + लिट् [<<छन्दसि लिट्>> [[3.2.105]] इति लिट्]\n→ रध् + क्वसुँ [<<क्वसुश्च>> [[3.2.107]] इति क्वसुँ-आदेशः]\n→ रध् रध् + वस् [<<लिटिधातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम्]\n--> र रध् + वस् [<<हलादि शेषः>> [[7.4.60]] इति अभ्यासस्य धकारलोपः]\n--> रेध् + वस् [<<अत एकहल्मध्येऽनादेशादेर्लिटि>> [[6.4.120]] इति एत्व-अभ्यासलोपौ । अत्र अजादिः प्रत्ययः नास्ति अतः अत्र नुमागमस्य प्रसक्तिरेव नास्ति ।]\n--> रेध् + इट् + वस् [<<वस्वेकाजाद्घसाम्>> [[7.2.67]] इति एकाच्-अङ्गात् विहितस्य वसुँ-प्रत्ययस्य इडागमः]\n--> रे न् ध् + इ + वस् [<<रधिजभोरचि>> [[7.1.61]] इति अजादिप्रत्यये परे नुमागमः । अत्र यद्यपि इडागमः अस्ति, तथापि अयं लिट्-लकारस्य विषयः, अतः <<नेट्यलिटि रधेः>> [[7.1.62]] इति निषेधः अत्र न प्रवर्तते ]\n--> रे ध् + इ + वस् [क्वसुँ-प्रत्ययस्य औपदेशिक-कित्त्वात् <<अनिदितां हल उपधायाः क्ङिति>> [[6.4.24]] इति उपधानकारलोपः]\n--> रेधिवस्\n\nशास्त्रसंवादः\nछात्रः - 'न इटि अलिटि रधेः' इति इदम् सूत्रम् । अत्र सूत्रे 'न' इत्यनेन एकः निषेधः उच्यते, 'अलिटि' इत्यनेन अपरः निषेधः उच्यते । एतादृशस्य द्विवारं कृतस्य निषेधस्य स्थाने 'इटि लिटि रधेः' इत्येव सरलं सूत्रम् स्थापनीयम् इति मे प्रतिभाति ।\nआचार्यः - 'इटि लिटि रधेः' इत्यस्य कः अर्थः भवेत्?\nछात्रः - रध्-धातोः विषये इडागमे कृते <<रधिजभोरचि>> [[7.1.61]] इत्यनेनैव नुमागमे सिद्धे, 'इटि लिटि रधेः' इति वचनम् नियमार्थम् । रध्-धातोः इडागमे परे नुमागमः भवति चेत् लिट्-लकारस्य विषये एव, नान्यत्र इत्यर्थः ।\nआचार्यः - परन्तु 'इटि लिटि रधेः' इत्यस्य कश्चन अन्यः अर्थः अपि सम्भवति ।\nछात्रः - कः सः ?\nआचार्यः - 'इडागमे कृते एव लिट्-लकारस्य विषये नुमागमः, अन्यत्र तु इडागमे कृते अकृते अपि नुमागमः' इति । अयं तु अनुचितः अर्थः । नुमागमः केवलम् अजादिप्रत्यये परे एव इष्यते, अन्यत्र न ।\nछात्रः - तर्हि तद्वारणाय 'एव' इति पदं स्थापयामः - 'इटि लिटि एव रधेः' इति । सन्धिं कृत्वा 'लिट्येवेटि रधेः' इति सूत्रम् ।\nआचार्यः - तर्हि 'नेट्यलिटि रधेः' इति मूलसूत्रमेव स्यात्, यतः 'लिट्येवेटि रधेः' इत्यनेन न हि अल्पाक्षरत्वं किञ्चन लभ्यते ।\nछात्रः - आम् । सत्यम् ।\n" }, "71063": { "sa": "रभ्-धातोः शप्-प्रत्ययं लिट्-लकारं च विहाय अन्येषु अजादिप्रत्ययेषु परेषु नुमागमः भवति । ", "sd": "रभँ (राभस्ये, भ्वादिः, आत्मनेपदी, प्रायेण आङ्-पूर्वः, <{1.1129}>) इति धातोः अजादिप्रत्यये परे नुमागमः भवति । परन्तु शप्-विकरणप्रत्यये परे, लिट्-लकारस्य विषये च अयं नुमागमः न क्रियते । उदाहरणानि एतानि -\n1) रभ्-धातोः घञ्-प्रत्यये परे प्रक्रिया -\n\nरभँ (राभत्स्ये)\n→ आ + रभ् + घञ् [<<भावे>> [[3.3.18]] इति घञ्]\n→ आ + रभ् + अ [इत्संज्ञालोपः]\n→ आ + र नुम् भ् + अ [<<रभेरशब्लिटोः>> [[7.1.63]] इत्यनेन अचि परे रभ्-धातोः नुमागमः। <<मिदचोऽन्त्यात्परः>> [[1.1.47]] इति सः अन्त्यात् अचः परः ।]\n→ आ र न् भ् अ [इत्संज्ञालोपः]\n→ आरंभ [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति अनुस्वारः]\n→ आरम्भ [<<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति परसवर्णः]\n\n2) रभ्-धातोः णिच्-प्रत्यये परे प्रक्रिया -\n\nरभँ (राभत्स्ये)\n→ आ + रभ् + णिच् [<<हेतुमति च>> [[3.1.26]] इति णिच्]\n→ आ + रभ् + इ [इत्संज्ञालोपः]\n→ आ + र नुम् भ् + इ [<<रभेरशब्लिटोः>> [[7.1.63]] इत्यनेन अचि परे रभ्-धातोः नुमागमः। <<मिदचोऽन्त्यात्परः>> [[1.1.47]] इति सः अन्त्यात् अचः परः । अत्र <<अतः उपधायाः>> [[7.2.116]] इत्यनेन परत्वात् प्राप्तम् उपधावृद्धिकार्यम् वर्तमानसूत्रेण नित्यत्वात् बाधते । अतः अत्र नुमागमः एव भवति ।]\n→ आ र न् भ् इ [इत्संज्ञालोपः]\n→ आरंभि [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति अनुस्वारः]\n→ आरम्भि [<<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति परसवर्णः । <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञा ।]\n\n3) रभ्-धातोः लट्-लकारस्य प्रथमपुरुषैकवचनम् -\n\nरभँ (राभत्स्ये)\n→ आ + रभ् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ आ + रभ् + त [<<तिप्तस्..>> [[3.4.78]] इत्यनेन आत्मनेपदस्य प्रथमपुरुषैकवचनस्य विवक्षायाम् 'त' प्रत्ययः]\n→ आ + रभ् + शप् + त [<<कर्तरि शप्>> [[3.1.68]] इति औत्सर्गिकम् विकरणम् शप् । शप्-प्रत्ययस्य उपस्थितौ <<रभेरशब्लिटोः>> [[7.1.63]] इत्यस्य प्रसक्तिः नास्ति, अतः नुमागमः न भवति ।]\n→ आ + रभ् + अ + ते [<<टित आत्मनेपदानां टेरे>> [[3.4.79]] इति एकारः]\n→ आरभते\n\n4) रभ्-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनम् -\n\nरभँ (राभत्स्ये)\n→ आ + रभ् + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट्]\n→ आ + रभ् + रभ् + लिट् [<<लिटिधातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम्]\n→ आ + र + रभ् + लिट् [<<हलादि शेषः>> [[7.4.60]] इति अभ्यासस्य भकारलोपः]\n→ आ + र रभ् + त [<<तिप्तस्झि...>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य त-प्रत्ययः]\n→ आ रेभ् + त [<<अत एकहल्मध्येऽनादेशादेर्लिटि>> [[6.4.120]] इति अभ्यासस्य लोपः, धातोः अकारस्य च एकारः]\n→ आ + रेभ् + एश् [<<लिटस्तझयोरेशिरेच्>> [[3.4.81]] इत्यनेन त-प्रत्ययस्य एश्-आदेशः । यद्यपि अयम् अजादिः आदेशः, तथापि अयं लिट्-लकारस्य स्थाने विधीयते, अतः अत्र <<रभेरशब्लिटोः>> [[7.1.63]] इति नुमागमः न भवति ।]\n→ आरेभे [शकारस्य इत्संज्ञालोपः]\n\nसूत्ररचनाविशेषाः\n1. <ऽयस्मिन् विधिः तदादौ अल्ग्रहणेऽ> अनया परिभाषया अत्र 'अचि' इत्यस्य अर्थः 'अजादौ' इति क्रियते ।\n3. 'अशब्लिटोः' इति अत्र प्रसज्यप्रतिषेधः अस्ति । यदि अत्र पर्युदासः स्वीक्रियते, 'तर्हि शप्-लिट्-भिन्ने परन्तु तत्सदृशे (= विकरणसंज्ञके लकारसंज्ञके वा) अजादिप्रत्यये परे नुमागमः भवेत्' इति अनुचितः अर्थः सम्भवति, येन घञ्/अनीयर्-आदीनां विषये अनिष्टरूपाणि सिद्ध्येयुः । प्रसज्यप्रतिषेधे तु 'अजादिप्रत्यये परे नुमागमः भवति, शपि लटि च न भवति' इति इष्टः अर्थः सिद्ध्यति ।\n" }, "71064": { "sa": "लभ्-धातोः शप्-प्रत्ययं लिट्-लकारं च विहाय अन्येषु अजादिप्रत्ययेषु परेषु नुमागमः भवति ।", "sd": "डुलभष् (प्राप्तौ, भ्वादिः <{1.1130}>) इति भ्वादिगणस्य धातुः । अस्य धातोः विषये अजादिप्रत्यये परे वर्तमानसूत्रेण नुमागमः भवति । परन्तु शप्-विकरणप्रत्यये परे, लिट्-लकारस्य विषये च अयं नुमागमः न क्रियते । उदाहरणानि एतानि -\n1) लभ् धातोः अनीयर्-प्रत्यये परे प्रक्रिया -\n\nडुलभष् (प्राप्तौ)\n→ लभ् + अनीयर् [<<तव्यत्तव्यानीयरः>> [[3.1.96]] इति अनीयर्-प्रत्ययः]\n→ लभ् + अनीय [इत्संज्ञालोपः]\n→ ल नुम् भ् + अनीय [<<लभेश्च>> [[7.1.64]] इत्यनेन अचि परे लभ्-धातोः नुमागमः]\n→ ल न् भ् अनीय [इत्संज्ञालोपः]\n→ लंभनीय [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति अनुस्वारः]\n→ लम्भनीय [<<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति परसवर्णः]\n\n2) लभ्-धातोः णिच्-प्रत्यये परे प्रक्रिया -\n\nडुलभष् (प्राप्तौ)\n→ लभ् + णिच् [<<हेतुमति च>> [[3.1.26]] इति णिच्]\n→ लभ् + इ [इत्संज्ञालोपः]\n→ ल नुम् भ् + इ [<<लभेश्च>> [[7.1.64]] इत्यनेन अचि परे लभ्-धातोः नुमागमः। <<मिदचोऽन्त्यात्परः>> [[1.1.47]] इति सः अन्त्यात् अचः परः । अत्र <<अतः उपधायाः>> [[7.2.116]] इत्यनेन परत्वात् प्राप्तम् उपधावृद्धिकार्यम् वर्तमानसूत्रेण नित्यत्वात् बाधते । अतः अत्र नुमागमः एव भवति ।]\n→ ल न् भ् इ [इत्संज्ञालोपः]\n→ लंभि [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति अनुस्वारः]\n→ लम्भि [<<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति परसवर्णः । <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञा ।]\nअग्रे लटि तिप्प्रत्यये कृते 'लम्भयति' इति रूपं सिद्ध्यति ।\n\n3) लभ्-धातोः लट्-लकारस्य प्रथमपुरुषैकवचनम् -\n\nलभ् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ लभ्+ त [<<तिप्तस्..>> [[3.4.78]] इत्यनेन आत्मनेपदस्य प्रथमपुरुषैकवचनस्य विवक्षायाम् 'त' प्रत्ययः]\n→ लभ् + शप् + त [<<कर्तरि शप्>> [[3.1.68]] इति औत्सर्गिकम् विकरणम् शप् । शप्-प्रत्ययस्य उपस्थितौ <<लभेश्च>> [[7.1.64]] इत्यस्य प्रसक्तिः नास्ति, अतः नुमागमः न भवति ।]\n→ लभ्+ अ + ते [<<टित आत्मनेपदानां टेरे>> [[3.4.79]] इति एकारः]\n→ लभते\n\n4) लभ्-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनम् -\n\nलभ् + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट्]\n→ लभ् + लभ् + लिट् [<<लिटिधातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम्]\n→ ल + लभ् + लिट् [<<हलादि शेषः>> [[7.4.60]] इति अभ्यासस्य भकारलोपः]\n→ ल लभ् + त [<<तिप्तस्झि...>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य त-प्रत्ययः]\n→ लेभ् + त [<<अत एकहल्मध्येऽनादेशादेर्लिटि>> [[6.4.120]] इति अभ्यासस्य लोपः, धातोः अकारस्य च एकारः]\n→ लेभ् + एश् [<<लिटस्तझयोरेशिरेच्>> [[3.4.81]] इत्यनेन त-प्रत्ययस्य एश्-आदेशः । यद्यपि अयम् अजादिः आदेशः, तथापि अयं लिट्-लकारस्य स्थाने विधीयते, अतः अत्र <<लभेश्च>> [[7.1.64]] इति नुमागमः न भवति ।]\n→ लेभे [इत्संज्ञालोपः]\n\nसूत्ररचनाविशेषाः\n1. <ऽयस्मिन् विधिः तदादौ अल्ग्रहणेऽ> अनया परिभाषया अत्र 'अचि' इत्यस्य अर्थः 'अजादौ' इति क्रियते ।\nशास्त्रसंवादः\nछात्रः - अत्र पूर्वसूत्रम् <<रभेरशब्लिटोः>> [[7.1.63]] इति रभ्-धातोः विषये नुमागमविधानं करोति । वर्तमानसूत्रेण लभ्-धातोः विषयेऽपि स एव विधिः उच्यते । अतः सूत्रद्वयं एकत्ररूपेण स्थाप्यते चेत् वरमेव । यथा 'रभिलभ्योः अशब्लिटोः' इति ।\nआचार्यः - एतादृशं क्रियते चेत् अत्र 'यथासङ्ख्यम्' भवति वा (इत्युक्ते, रभ्-धातोः विषये अशपि तथा लभ्-धातोः विषये अलिटि - इति सन्दर्भः स्वीकरणीयः वा) इति सन्देहः जायते । अपि च, अग्रिमसूत्रे <<आङो यि>> [[7.1.65]] इत्यत्र केवलं 'लभ्' इत्यस्यैव अनुवृत्तिः इष्यते, न हि 'रभ्' इत्यस्य । अतः आचार्यैः अत्र पृथक् सूत्रम् रचितम् ।\n" }, "71065": { "sa": "आङ्-उपसर्गपूर्वकस्य लभ्-धातोः यकारादि प्रत्ययस्य विषये नुमागमः भवति । ", "sd": "डुलभष् (प्राप्तौ, भ्वादिः <{1.1130}>) इति धातुः आङ्-उपसर्गेण सह प्रयुज्यते चेत् यकारादि-प्रत्ययस्य विषये अस्य नुमागमः भवति । अत्र सूत्रे 'यि' इति विषयसप्तमी अस्ति, अतः यकारादि-प्रत्ययस्य केवलविवक्षायाम्, यकारादि-प्रत्ययस्य स्थापनात् पूर्वमेव अयम् नुमागमः भवति । नुमागमे कृते 'लन्भ्' इति यत् रूपम् जायते, तस्मादेव यथोचितं यकारादिप्रत्ययः विधीयते । उदाहरणानि एतानि -\n1. आङ् + डुलभष् (प्राप्तौ, भ्वादिः) अत्र यकारादि-कृत्य-प्रत्ययस्य विवक्षायाम् -\n\nआ + लभ्\n--> आ + ल नुम् भ् [यकारादिप्रत्ययस्य विवक्षायाम् नुमागमः]\n--> आ + लन्भ् [इत्संज्ञालोपः]\n--> आ + लन्भ् + ण्यत् [हलन्तधातोः <<ऋहलोर्ण्यत्>> [[3.1.124]] इति ण्यत् प्रत्ययः ।]\n--> आ + लन्भ् + य [इत्संज्ञालोपः]\n--> आलंभ्य [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति अनुस्वारः]\n--> आलम्भ्य [<<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति परसवर्णः मकारः]\n\n2. आङ् + डुलभष् (प्राप्तौ, भ्वादिः) अत्र 'ल्यप्' प्रत्ययस्य विवक्षायाम् ततः नुमागमस्य लोपः अपि भवति -\n\nआ + लभ्\n--> आ + ल नुम् भ् [यकारादिप्रत्ययस्य विवक्षायाम् नुमागमः]\n--> आ + लन्भ् [इत्संज्ञालोपः]\n--> आ + लन्भ् + क्त्वा [<<समानकर्तृकयोः पूर्वकाले>> [[3.4.21]] इति क्त्वाप्रत्ययः]\n--> आ + लन्भ् + ल्यप् [<<समासेऽनञ्पूर्वे क्त्वो ल्यप्>> [[7.1.37]] इति क्त्वाप्रत्ययस्य ल्यबादेशः]\n--> आ + लभ् + य [<<अनिदितां हल उपधायाः क्ङिति>> [[6.4.24]] इति उपधानकारलोपः]\n--> आलभ्य\n\n3. आङ् + डुलभष् (प्राप्तौ, भ्वादिः) अत्र 'यक्' प्रत्ययस्य विवक्षायाम् ततः नुमागमस्य लोपः अपि भवति -\n\nआ + लभ्\n--> आ + ल नुम् भ् [यकारादिप्रत्ययस्य विवक्षायाम् नुमागमः]\n--> आ + लन्भ् [इत्संज्ञालोपः]\n--> आ + लन्भ् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n--> आ + लन्भ् + त [<<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> [[3.4.78]] इति भावकर्मणोः आत्मनेपदस्य प्रथमपुरुषैकवचनस्य त-प्रत्ययः]\n--> आ + लन्भ् + ते [<<टित आत्मनेपदानां टेरे>> [[3.4.79]] इति एकारादेशः]\n--> आ + लन्भ् + यक् + ते [<<सार्वधातुके यक्>> [[3.1.67]] इति यक्-विकरणप्रत्ययः]\n--> आ + लभ् + य + ते [<<अनिदितां हल उपधायाः क्ङिति>> [[6.4.24]] इति उपधानकारलोपः]\n--> आलभ्यते\n\n'ल्युट्' इति प्रत्ययः यकारादिः नैव स्वीक्रियते अपितु अकारादिः स्वीक्रियते, यतः प्रक्रियायाः प्रारम्भे एव तस्य 'अन' इति आदेशः भवति । अतः 'ल्युट्'प्रत्ययस्य विषये इदं सूत्रं नैव प्रवर्तते, अपि तु 'लभ् + ल्युट्' इत्यत्र <<लभेश्च>> [[7.1.64]] इत्यनेनैव नुमागमः सिद्ध्यति ।\nशास्त्रसंवादः\nछात्रः - अत्र विषयसप्तमी किमर्थं स्वीक्रियते ? यदि अत्र परसप्तमीपक्षे 'यकारादि-प्रत्यये परे' इति सूत्रार्थः स्वीक्रियते, तथाऽपि आङ्-उपसर्गपूर्वकात् लभ्-धातोः आदौ <<पोरदुपधात्>> [[3.1.98]] इत्यनेन अच्-प्रत्ययं कृत्वा, ततः नुमागमे कृते 'आलम्भ्य' इति समानमेव रूपं सिद्ध्यति ।\nआचार्यः - यदि अत्र ण्यत्-प्रत्ययस्य स्थाने <<पोरदुपधात्>> [[3.1.98]] इत्यनेन अच्-प्रत्ययः क्रियते, तर्हि प्रत्ययस्य अकारः <<यतोऽनावः>> [[6.1.213]] इत्यनेन उदात्तः भवति । परन्तु अन्तिमरूपे यकारोत्तरः अकारः स्वरितः इष्यते । अतः अत्र आदौ यकारादि-प्रत्ययस्य विवक्षायाम् नुमागमे कृते लन्भ् इति रूपम् कृत्वा, ततः 'ण्यत्' प्रत्ययः विधीयते, येन <<गतिकारकोपपदात् कृत्>> [[6.2.139]] इत्यनेन पदस्य अन्त्यस्वरितत्वम् सम्यक् सिद्ध्यति ।" }, "71066": { "sa": "उप-उपसर्गपूर्वकस्य लभ्-धातोः यकारादि प्रत्ययस्य विषये 'प्रशंसा' इति अर्थे अभिधेये नुमागमः भवति । ", "sd": "डुलभष् (प्राप्तौ, भ्वादिः <{1.1130}>) इति धातुः उप-उपसर्गेण सह प्रयुज्यते चेत् प्रशंसा (= स्तुतिः) अस्मिन् अर्थे यकारादि-प्रत्ययस्य विषये अस्य नुमागमः भवति । अत्र सूत्रे 'यि' इति विषयसप्तमी अस्ति, अतः यकारादि-प्रत्ययस्य केवलविवक्षायाम्, यकारादि-प्रत्ययस्य स्थापनात् पूर्वमेव अयम् नुमागमः भवति । नुमागमे कृते 'लन्भ्' इति यत् रूपम् जायते, तस्मादेव यथोचितं यकारादिप्रत्ययः विधीयते । उदाहरणानि एतानि --\n1. उप + डुलभष् (प्राप्तौ, भ्वादिः) अत्र यकारादि-कृत्य-प्रत्ययस्य विवक्षायाम् -\n\nउप + लभ्\n--> उप + ल नुम् भ् [यकारादिप्रत्ययस्य विवक्षायाम् नुमागमः]\n--> उप + लन्भ् [इत्संज्ञालोपः]\n--> उप + लन्भ् + ण्यत् [हलन्तधातोः <<ऋहलोर्ण्यत्>> [[3.1.124]] इति ण्यत् प्रत्ययः ।]\n--> उप + लन्भ् + य [इत्संज्ञालोपः]\n--> उपलंभ्य [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति अनुस्वारः]\n--> उपलम्भ्य [<<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति परसवर्णः मकारः]\nवाक्ये प्रयोगः - हे पुत्र , त्वया विद्या उपलम्भ्या । अत्र पुत्रम् उद्दिश्य 'त्वया विद्यायाः प्रशंसा करणीया' इति उक्तमस्ति । अतः अत्र नुमागमसहितं रूपं प्रयुज्यते । यदि प्रशंसाभिन्नः अर्थः इष्यते, तर्हि नुमागमस्य अनुपस्थितौ <<पोरदुपधात्>> [[3.1.98]] इत्यनेन यत्-प्रत्यये कृते जायमानम् 'उपलभ्य' इत्येव रूपं प्रयोक्तव्यम् । यथा, 'मया गृहात् किञ्चित् उपलभ्यम्' (प्राप्तव्यम् इत्याशयः)।\n\n2. उप + डुलभष् (प्राप्तौ, भ्वादिः) अत्र 'ल्यप्' प्रत्ययस्य विवक्षायाम् नुमागमे कृते ततः नुमागमस्य लोपः अपि भवति -\n\nउप + लभ्\n--> उप + ल नुम् भ् [यकारादिप्रत्ययस्य विवक्षायाम् नुमागमः]\n--> उप + लन्भ् [इत्संज्ञालोपः]\n--> उप + लन्भ् + क्त्वा [<<समानकर्तृकयोः पूर्वकाले>> [[3.4.21]] इति क्त्वाप्रत्ययः]\n--> उप + लन्भ् + ल्यप् [<<समासेऽनञ्पूर्वे क्त्वो ल्यप्>> [[7.1.37]] इति क्त्वाप्रत्ययस्य ल्यबादेशः]\n--> उप + लभ् + य [<<अनिदितां हल उपधायाः क्ङिति>> [[6.4.24]] इति उपधानकारलोपः]\n--> आलभ्य\n\n'ल्युट्' इति प्रत्ययः यकारादिः नैव स्वीक्रियते अपितु अकारादिः स्वीक्रियते, यतः प्रक्रियायाः प्रारम्भे एव तस्य 'अन' इति आदेशः भवति । अतः 'ल्युट्'प्रत्ययस्य विषये इदं सूत्रं नैव प्रवर्तते, अपि तु 'लभ् + ल्युट्' इत्यत्र <<लभेश्च>> [[7.1.64]] इत्यनेनैव नुमागमः सिद्ध्यति ।\nशास्त्रसंवादः\nछात्रः - अत्र विषयसप्तमी किमर्थं स्वीक्रियते ? यदि अत्र परसप्तमीपक्षे 'यकारादि-प्रत्यये परे' इति सूत्रार्थः स्वीक्रियते, तथाऽपि उप-उपसर्गपूर्वकात् लभ्-धातोः आदौ <<पोरदुपधात्>> [[3.1.98]] इत्यनेन अच्-प्रत्ययं कृत्वा, ततः नुमागमे कृते 'उपलम्भ्य' इति समानमेव रूपं सिद्ध्यति ।\nआचार्यः - यदि अत्र ण्यत्-प्रत्ययस्य स्थाने <<पोरदुपधात्>> [[3.1.98]] इत्यनेन अच्-प्रत्ययः क्रियते, तर्हि प्रत्ययस्य अकारः <<यतोऽनावः>> [[6.1.213]] इत्यनेन उदात्तः भवति । परन्तु अन्तिमरूपे यकारोत्तरः अकारः स्वरितः इष्यते । अतः अत्र आदौ यकारादि-प्रत्ययस्य विवक्षायाम् नुमागमे कृते लन्भ् इति रूपम् कृत्वा, ततः 'ण्यत्' प्रत्ययः विधीयते, येन <<गतिकारकोपपदात् कृत्>> [[6.2.139]] इत्यनेन पदस्य अन्त्यस्वरितत्वम् सम्यक् सिद्ध्यति ।\n" }, "71067": { "sa": "उपसर्गात् परस्य (एव) लभ्-धातोः खल्-प्रत्यये परे घञ्-प्रत्यये च परे नुमागमः भवति । ", "sd": "डुलभष् (प्राप्तौ, भ्वादिः <{1.1130}>) इति धातुः उपसर्गेण सह प्रयुज्यते चेत् खल्-प्रत्यये परे, घञ्-प्रत्यये च परे अस्य नुमागमः भवति । <<मिदचोऽन्त्यात्परः>> [[1.1.47]] इत्यनेन अयम् अन्त्यात् अचः परः विधीयते ।\nवस्तुतस्तु, लभ् धातोः <<लभेश्च>> [[7.1.64]] इत्यनेन अजादि-प्रत्यये परे नुमागमः पूर्वमेव उक्तः अस्ति । इत्युक्ते, उपसर्गात् परस्य लभ्-धातोः खल्-प्रत्यये परे / घञ्-प्रत्यये परे अपि नुमागमः पूर्वमेव सिद्धः, यतः द्वावपि एतौ अजादी प्रत्ययौ । तथापि अत्र अनेन सूत्रेण पुनः नुमागमः उच्यते । पूर्वेणैव सिद्धे अत्र इदं पुनर्विधानम् नियमार्थम् - लभ्-धातोः खल्-प्रत्यये परे घञ्-प्रत्यये च परे नुमागमः भवति चेत् उपसर्गस्य उपस्थितौ एव भवति, केवलस्य लभ्-धातोः न ।\nउदाहरणानि एतानि -\n1. सोपसर्गस्य लभ्-धातोः खल्-प्रत्यये परे नुमागमः भवति -\n\nडुलभष् (प्राप्तौ)\n→ ईषत् + प्र + लभ् + खल् [<<ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्>> [[3.3.126]] इत्यनेन ईषद्-उपपदे परे लभ्-धातोः खल्-प्रत्ययः]\n→ ईषत् + प्र + लभ् + अ [<<लशक्वतद्धिते>> [[1.3.7]] इति खकारस्य इत्संज्ञा, <<हलन्त्यम्>> [[1.3.3]] इति लकारस्य इत्संज्ञा । तयोः <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ ईषत् + प्र + लन् भ् + अ [<<उपसर्गात् खल्घञोः>> [[7.1.67]] इति खल्-प्रत्यये परे नुमागमः । <<मिदचोऽन्त्यात्परः>> [[1.1.47]] इत्यनेन अयम् अन्त्यात् अचः परः भवति ।]\n--> ईषद् + प्र + लन् भ् + अ [<<झलां जशोऽन्ते>> [[8.2.39]] इति तकारस्य जश्त्वे दकारः]\n--> ईषद् + प्रलंभ [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति अनुस्वारः]\n--> ईषत् + प्रलंभ [<<खरि च>> [[8.4.55]] इति दकारस्य चर्त्वे तकारः]\n→ ईषत्प्रलम्भ [<<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति परसवर्णः मकारः]\n\n2. अनुपसर्गस्य लभ्-धातोः खल्-प्रत्यये परे नुमागमः न भवति -\n\nडुलभष् (प्राप्तौ)\n→ ईषत् + लभ् + खल् [<<ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्>> [[3.3.126]] इत्यनेन ईषद्-उपपदे परे लभ्-धातोः खल्-प्रत्ययः]\n→ ईषत् + लभ् + अ [<<लशक्वतद्धिते>> [[1.3.7]] इति खकारस्य इत्संज्ञा, <<हलन्त्यम्>> [[1.3.3]] इति लकारस्य इत्संज्ञा । तयोः <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ ईषत् + लभ् + अ [<<लभेश्च>> [[7.1.64]] इति अजादि-प्रत्यये परे नुमागमे प्राप्ते; <<उपसर्गात् खल्घञोः>> [[7.1.67]] इति नियमात् खल्-प्रत्यये परे सोपसर्गस्यैव लभ्-धातोः नुमागमः भवति, अनुपसर्गस्य न । अतः अत्र नुमागमः नैव विधीयते ।]\n--> ईषद् + लभ [<<झलां जशोऽन्ते>> [[8.2.39]] इति तकारस्य जश्त्वे दकारः]\n--> ईषल्लभ [<<तोर्लि>> [[8.4.60]] इति लत्वम्]\n\n3. सोपसर्गस्य लभ्-धातोः घञ्-प्रत्यये परे नुमागमः भवति -\n\nडुलभष् (प्राप्तौ)\n→ प्र + लभ् + घञ् [<<भावे>> [[3.3.18]] इति घञ्-प्रत्ययः]\n→ प्रल न् भ् [<<उपसर्गात् खल्घञोः>> [[7.1.67]] इति घञ्-प्रत्यये परे नुमागमः । <<मिदचोऽन्त्यात्परः>> [[1.1.47]] इत्यनेन अयम् अन्त्यात् अचः परः भवति ।]\n→ प्रलंभ [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति अनुस्वारः]\n--> प्रलम्भ [<<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति परसवर्णः मकारः]\n\n4. अनुपसर्गस्य लभ्-धातोः घञ्-प्रत्यये परे नुमागमः न भवति -\n\nडुलभष् (प्राप्तौ)\n→ लभ् + घञ् [<<भावे>> [[3.3.18]] इति घञ्-प्रत्ययः]\n→ लभ् + अ [इत्संज्ञालोपः]\n→ लाभ [ <<लभेश्च>> [[7.1.64]] इति अजादि-प्रत्यये परे नुमागमे प्राप्ते; <<उपसर्गात् खल्घञोः>> [[7.1.67]] इति नियमात् घञ्-प्रत्यये परे सोपसर्गस्यैव लभ्-धातोः नुमागमः भवति, अनुपसर्गस्य न । अतः अत्र नुमागमः नैव विधीयते । नुमागमस्य अनुपस्थितौ <<अत उपधायाः>> [[7.2.116]] इति उपधावृद्धिः भवति ]\n\nशास्त्रसंवादः \nछात्रः - उपसर्गपूर्वकात् लभ्-धातोः विषये अजादिप्रत्यये परे <<लभेश्च>> [[7.1.64]] इत्यनेनैव नुमागमे सिद्धे <<उपसर्गात् खल्घञोः>> [[7.1.67]] इति सूत्रम् नियमार्थम् किल ?\nआचार्यः - आम् । सत्यम् ।\nछात्रः - तर्हि अत्र वस्तुतः द्वौ नियमौ सम्भवतः -\n(1) उपसर्गात् परस्य लभ्-धातोः केवलं खल् / घञ् प्रत्यये परे एव नुमागमः भवति, न अन्यथा - इति प्रथमः नियमः । तथा च,\n(2) उपसर्गात् परस्य एव लभ्-धातोः खल् / घञ् प्रत्यये परे नुमागमः भवति, केवल-लभ्-धातोः न - इति द्वितीयः नियमः ।\nएताभ्याम् नियमाभ्याम् अत्र सूत्रे केवलं द्वितीयः एव नियमः स्वीकृतः अस्ति । किमर्थम् ?\nआचार्यः - सत्यम् । अत्र वस्तुतः द्वावपि नियमौ सम्भवतः । परन्तु पाणिनिमहर्षिणा <<गृधिवञ्च्योः प्रलम्भने>> [[1.3.69]] अस्मिन् सूत्रे 'प्र + लभ् + ल्युट्' इत्यत्रापि नुमागमं कृत्वा 'प्रलम्भ' इति रूपं प्रयुक्तम् अस्ति । इत्युक्ते, उपसर्गात् परस्य लभ्-धातोः खल्/घञ्-प्रत्ययं विना अपि <<लभेश्च>> [[7.1.64]] इत्यनेन नुमागमः आचार्यैः अवश्यम् इष्यते । अस्यां स्थितौ अत्र निर्दिष्टः प्रथमः नियमः अनुचितः इति स्पष्टी भवति । अतश्च अत्र केवलं द्वितीयः एव नियमः स्वीक्रियते - उपसर्गात् परस्यैव लभ्-धातोः खल् / घञ् प्रत्यये परे नुमागमः भवति, केवल-लभ्-धातोः न, इति ।\n" }, "71068": { "sa": "यत्र लभ्-धातुः 'सु' अथवा 'दुर्' इत्येतेन उपसर्गेण सह, अन्यम् (सु-दुर्-भिन्नम्) उपसर्गं विना यत्र प्रयुज्यते, तत्र खल्-प्रत्यये परे घञ्-प्रत्यये च परे तस्य नुमागमः न भवति ।", "sd": "डुलभष् (प्राप्तौ, भ्वादिः <{1.1130}>) इति धातुः उपसर्गेण सह प्रयुज्यते चेत् खल्-प्रत्यये परे, घञ्-प्रत्यये च परे <<उपसर्गात् खल्घञोः>> [[7.1.67]] इत्यनेन तस्य नुमागमः प्राप्नोति । परन्तु अयम् उपसर्गः 'सु' तथा 'दुर्' इति अस्ति चेत्, अन्यम् उपसर्गं विना एतादृशः नुमागमः वर्तमानसूत्रेण निषिध्यते । उदाहरणानि एतानि -\n1. केवलम् 'सु'-उपसर्गपूर्वकस्य लभ्-धातोः खल्-प्रत्यये परे नुमागमः निषिध्यते -\n\nडुलभष् (प्राप्तौ)\n→ सु + लभ् + खल् [<<ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्>> [[3.3.126]] इत्यनेन सु-उपपदे परे लभ्-धातोः खल्-प्रत्ययः]\n→ सु + लभ् + अ [<<लशक्वतद्धिते>> [[1.3.7]] इति खकारस्य इत्संज्ञा, <<हलन्त्यम्>> [[1.3.3]] इति लकारस्य इत्संज्ञा । तयोः <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ सु + लभ् + अ [<<उपसर्गात् खल्घञोः>> [[7.1.67]] इत्यनेन खल्-प्रत्यये परे नुमागमे प्राप्ते, <<न सुदुर्भ्यां केवलाभ्याम्>> [[7.1.68]] इत्यनेन केवलम् सु-उपसर्गः अस्ति चेत् सः निषिध्यते । अतः अत्र नुमागमः न भवति ।]\n→ सुलभ\nएवमेव 'दुर्लभ' इत्यपि शब्दः सिद्ध्यति ।\n\n2. सु-उपसर्गेण सह अन्यः उपसर्गः अस्ति चेत् खल्-प्रत्यये परे नुमागमः अवश्यं भवति -\n\nडुलभष् (प्राप्तौ)\n→ सु + प्र + लभ् + खल् [<<ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्>> [[3.3.126]] इत्यनेन सु-उपपदे परे प्र-उपसर्गपूर्वकात् लभ्-धातोः खल्-प्रत्ययः]\n→ सु + प्र + लभ् + अ [<<लशक्वतद्धिते>> [[1.3.7]] इति खकारस्य इत्संज्ञा, <<हलन्त्यम्>> [[1.3.3]] इति लकारस्य इत्संज्ञा । तयोः <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ सु + प्र + लन् भ् + अ [<<उपसर्गात् खल्घञोः>> [[7.1.67]] इत्यनेन खल्-प्रत्यये परे नुमागमः । अत्र यद्यपि 'सु' इति उपसर्गः अस्ति, तथापि तेन सह 'प्र' इति अन्यः उपसर्गः अपि अत्र विद्यते, अतः अत्र <<न सुदुर्भ्यां केवलाभ्याम्>> [[7.1.68]] इत्यनेन निषेधः न जायते । अपि च अयं नुमागमः नित्यत्वात् <<अत उपधायाः>> [[7.2.116]] इति उपधावृद्धिम् अपि बाधते ।]\n→ सुप्रलंभ [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति अनुस्वारः]\n→ सुप्रलम्भ [<<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति परसवर्णः मकारः]\nएवमेव 'दुष्प्रलम्भ' शब्दस्य प्रक्रिया अपि भवति । तत्र उपसर्गस्य विषये षत्वम् इत्थं सिद्ध्यति -\nदुर् + प्रलम्भ [पूर्ववत् प्रक्रिया]\n--> दुः + प्रलम्भ [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n--> दुष्प्रलम्भ [<<इदुदुपधस्य चाप्रत्ययस्य>> [[8.3.41]] इति षत्वम्]\n\n3. केवलम् 'सु'-उपसर्गपूर्वकस्य लभ्-धातोः घञ्-प्रत्यये परे नुमागमः निषिध्यते -\n\nडुलभष् (प्राप्तौ)\n→ सु + लभ् + घञ् [<<भावे>> [[3.3.18]] इति घञ्-प्रत्ययः]\n→ सु + लभ् + अ [इत्संज्ञालोपः]\n→ सु + लाभ [<<उपसर्गात् खल्घञोः>> [[7.1.67]] इत्यनेन खल्-प्रत्यये परे नुमागमे प्राप्ते, <<न सुदुर्भ्यां केवलाभ्याम्>> [[7.1.68]] इत्यनेन केवलम् सु-उपसर्गः अस्ति चेत् सः निषिध्यते । अतः अत्र नुमागमः न भवति । नुमागमस्य अनुपस्थितौ <<अत उपधायाः>> [[7.2.116]] इति उपधावृद्धिः भवति ]\n--> सुलाभ\nएवमेव 'दुर्लाभ' इत्यपि शब्दः सिद्ध्यति ।\n\n4. सु-उपसर्गेण सह अन्यः उपसर्गः अस्ति चेत् घञ्-प्रत्यये परे नुमागमः अवश्यं भवति -\n\nडुलभष् (प्राप्तौ)\n→ सु + प्र + लभ् + घञ् [<<भावे>> [[3.3.18]] इति घञ्-प्रत्ययः]\n→ सु + प्रल न् भ् [<<उपसर्गात् खल्घञोः>> [[7.1.67]] इति घञ्-प्रत्यये परे नुमागमः । अत्र यद्यपि 'सु' इति उपसर्गः अस्ति, तथापि तेन सह 'प्र' इति अन्यः उपसर्गः अपि अत्र विद्यते, अतः अत्र <<न सुदुर्भ्यां केवलाभ्याम्>> [[7.1.68]] इत्यनेन निषेधः न जायते । अपि च अयं नुमागमः नित्यत्वात् <<अत उपधायाः>> [[7.2.116]] इति उपधावृद्धिम् अपि बाधते ।]\n→ सुप्रलंभ [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति अनुस्वारः]\n--> सुप्रलम्भ [<<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति परसवर्णः मकारः]\nएवमेव 'दुष्प्रलम्भ' शब्दस्य प्रक्रिया अपि भवति । तत्र उपसर्गस्य विषये षत्वम् इत्थं सिद्ध्यति -\nदुर् + प्रलम्भ [पूर्ववत् प्रक्रिया]\n--> दुः + प्रलम्भ [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n--> दुष्प्रलम्भ [<<इदुदुपधस्य चाप्रत्ययस्य>> [[8.3.41]] इति षत्वम्]\n\nअस्य सूत्रस्य प्रसक्तिः 'खल्' तथा 'घञ्' प्रत्ययस्य विषये एव अस्ति । अन्येषु प्रत्ययेषु परेषु <<लभेश्च>> [[7.1.64]] इत्यनेन नित्यमेव नुमागमः भवति । यथा, 'सु + लभ् + ल्युट् --> सुलम्भन' अत्र नुमागमे कृते एव रूपं सिद्ध्यति । \nसूत्ररचना\nकैश्चन वैयाकरणैः अत्र 'सुर्दुर्भ्याम्' इति तृतीयाद्विवचनं स्वीक्रियते । एवं क्रियते चेत् अत्र 'सु-दुर्-उपसर्गयोः योगे' इति अर्थः सिद्ध्यति । अस्यां स्थितौ सु/दुर्-उपसर्गौ लभ्-धातोः अव्यवहितपूर्वौ न भवतः चेदपि न कश्चन दोषः उत्पद्यते । वस्तुतः पञ्चमीपक्षे अपि 'केवल'ग्रहणेन अयमेव अर्थः स्पष्टी भवति, अतः तृतीयाग्रहणमेव करणीयम् इति नावश्यकम् ।\nशास्त्रसंवादः\nछात्रः - सु-उपसर्गः अन्येन उपसर्गेण सह आगच्छति तर्हि घञ्-प्रत्यये परे लभ्-धातोः नुमागमः अवश्यं भवेत्, किल ?\nआचार्यः - आम् । सत्यम् ।\nछात्रः - तर्हि 'अतिसुलभः', 'अतिदुर्लभः' एतौ शब्दौ अशुद्धौ एव भवेताम् ।\nआचार्यः - 'अतिसुलभ' इत्यत्र वस्तुतः शब्दद्वयम् ज्ञेयम् - 'अति सुलभ' इति । अत्र आदौ 'सुलभ' इति शब्दः सिद्ध्यति, तत्र च <<न सुदुर्भ्यां केवलाभ्याम्>> [[7.1.68]] इति नुमागमः अवश्यमेव निषिध्यते । ततः <<अतिरतिक्रमणे च>> [[1.4.95]] इत्यनेन अतिक्रमणार्थे 'अति' इति कर्मप्रवचनीयसंज्ञकः शब्दः प्रयुज्यते । 'सुलभात् अधिकम् तत् अति सुलभम्' अनेन प्रकारेण अत्र अस्य सिद्धिः दीयते । एवमेव 'अति दुर्लभ' इत्यस्य विषये अपि अवधेयम् ।\nछात्रः - परन्तु यदि केनचित् 'अति' इति उपसर्गेण सह 'सु' इति उपसर्गं प्रयुज्य रूपम् इष्यते चेत्?\nआचार्यः - तस्यां स्थितौ तु द्वयोः उपसर्गयोः उपस्थितौ <<उपसर्गात् खल्घञोः>> [[7.1.67]] इति नुमागमः अवश्यमेव स्यात्, येन 'अतिसुलम्भ', 'अतिदुर्लम्भ' एतौ शब्दौ सिद्ध्येताम् ।\n" }, "71069": { "sa": "(अनुपसर्गस्य) लभ्-धातोः चिण्-प्रत्यये परे णमुल्-प्रत्यये च परे विकल्पेन नुमागमः भवति । ", "sd": "डुलभष् (प्राप्तौ, भ्वादिः <{1.1130}>) इति भ्वादिगणस्य धातुः । अस्य धातोः विषये अजादिप्रत्यये परे <<लभेश्च>> [[7.1.64]] इत्यनेन नित्यं नुमागमे प्राप्ते, चिण्-प्रत्यये परे णमुल्-प्रत्यये च परे सः वर्तमानसूत्रेण विकल्प्यते ।\nअत्र प्रयुक्ता विभाषा व्यवस्थितविभाषा अस्ति । इत्युक्ते, अत्र सूत्रेण निर्दिष्टः विकल्पः विशिष्टस्थलेषु एव भवति, न हि सर्वत्र । अयं विकल्पः कस्मिन् स्थले प्रवर्तते इति तु व्याख्यानादेव ज्ञायते । तत्र अस्मिन् सन्दर्भे काशिकायां उच्यते - व्यवस्थितविभाषा चेयम्, तेन अनुपसृष्टस्य विकल्पः, उपसृष्टस्य नित्यं नुम् भवति - इति । इत्युक्ते, लभ्-धातोः विषये अनेन सूत्रेण उक्तः विकल्पः उपसर्गस्य अनुपस्थितौ एव स्वीक्रियते, उपसर्गस्य उपस्थितौ तु <<लभेश्च>> [[7.1.64]] इत्यनेन नित्यमेव नुमागमः भवति - इति अत्र आशयः । उदाहरणानि एतानि -\n1. अनुपसर्गस्य लभ्-धातोः चिण्-प्रत्यये परे विकल्पेन नुमागमः भवति ।\n\nडुलभष् (प्राप्तौ, भ्वादिः)\n--> लभ् + लुङ् [<<लुङ्>> [[3.2.110]] इति भावकर्मणोः लुङ्लकारः]\n--> अट् + लभ् + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n--> अ + लभ् + च्लि + ल् [<<च्लि लुङि>> [[3.1.43]] इति च्लि-विकरणप्रत्ययः]\n--> अ + लभ् + च्लि + त [<<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> [[3.4.78]] इति आत्मनेपदैकवचनस्य विवक्षायाम् त-प्रत्ययः]\n--> अ + लभ् + चिण् + त [<<चिण् भावकर्मणोः>> [[3.1.66]] इति भावकर्मणोः 'त'शब्दे परे चिण्-आदेशः]\n--> अ + लभ् + इ + त [चकारस्य <<चुटू>> [[1.3.7]] इति इत्संज्ञा । णकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा । द्वयोः <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n--> अ + (ल न् भ् / लभ्) + इ + त [<<विभाषा चिण्णमुलोः>> [[7.1.69]] इति पाक्षिकः नुमागमः]\n--> अ + (लन्भ् / लभ्) + इ [<<चिणो लुक्>> [[6.4.104]] इति तिङ्-प्रत्ययस्य लुक्]\n--> अलम्भि / अलभि [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति अनुस्वारः, <<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति परसवर्णः]\n\n2. सोपसर्गस्य लभ्-धातोः चिण्-प्रत्यये परे नित्यम् नुमागमः भवति ।\n\nडुलभष् (प्राप्तौ, भ्वादिः)\n--> प्र + लभ् + लुङ् [<<लुङ्>> [[3.2.110]] इति भावकर्मणोः लुङ्लकारः]\n--> प्र + अट् + लभ् + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n--> प्र + अ + लभ् + च्लि + ल् [<<च्लि लुङि>> [[3.1.43]] इति च्लि-विकरणप्रत्ययः]\n--> प्र + अ + लभ् + च्लि + त [<<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> [[3.4.78]] इति आत्मनेपदैकवचनस्य विवक्षायाम् त-प्रत्ययः]\n--> प्र + अ + लभ् + चिण् + त [<<चिण् भावकर्मणोः>> [[3.1.66]] इति भावकर्मणोः 'त'शब्दे परे चिण्-आदेशः]\n--> प्र + अ + लभ् + इ + त [चकारस्य <<चुटू>> [[1.3.7]] इति इत्संज्ञा । णकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा । द्वयोः <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n--> प्र + अ + ल न् भ् + इ + त [<<लभेश्च>> [[7.1.64]] इति अत्र नित्यं नुमागमः । अत्र <<विभाषा चिण्णमुलोः>> [[7.1.69]] इति पाक्षिकः नुमागमः न प्रवर्तते, तत्र सूत्रे व्यवस्थितविभाषाग्रहणात् ।]\n--> प्र + अलम्भि [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति अनुस्वारः, <<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति परसवर्णः]\n--> प्रालम्भि [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः । बहिरङ्गत्वात् अयम् तिङन्तरूपसिद्धेः अनन्तरं भवति]\n\n3. अनुपसर्गस्य लभ्-धातोः णमुल्-प्रत्यये परे विकल्पेन नुमागमः भवति ।\n\nडुलभँष् (प्राप्तौ)\n--> लभ् + णमुल् [<<आभीक्ष्ण्ये णमुल् च>> [[3.4.22]] इति णमुल्-प्रत्ययः]\n--> लभ् + अम् [णकारस्य <<चुटू>> [[1.3.7]] इति इत्संज्ञा । लकारस्य <<लशक्वतद्धिते>> [[1.3.8]] इति इत्संज्ञा । द्वयोः अपि <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n--> (ल न् भ् / लभ्) + अम् [<<विभाषा चिण्णमुलोः>> [[7.1.69]] इति पाक्षिकः नुमागमः]\n--> लम्भम् / लभम् [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति अनुस्वारः, <<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति परसवर्णः । <<कृन्मेजन्तः>> [[1.1.39]] इति अव्ययसंज्ञा ।]\n--> लम्भम् लम्भम् / लभम् लभम् [<<नित्यवीप्सयोः>> [[8.1.4]] इति द्वित्वम् । ]\n\n4. सोपसर्गस्य लभ्-धातोः णमुल्-प्रत्यये परे नित्यम् नुमागमः भवति ।\n\nडुलभँष् (प्राप्तौ)\n--> लभ् + णमुल् [<<आभीक्ष्ण्ये णमुल् च>> [[3.4.22]] इति णमुल्-प्रत्ययः]\n--> लभ् + अम् [णकारस्य <<चुटू>> [[1.3.7]] इति इत्संज्ञा । लकारस्य <<लशक्वतद्धिते>> [[1.3.8]] इति इत्संज्ञा । द्वयोः अपि <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n--> ल न् भ् + अम् [<<लभेश्च>> [[7.1.64]] इति अत्र नित्यं नुमागमः । अत्र <<विभाषा चिण्णमुलोः>> [[7.1.69]] इति पाक्षिकः नुमागमः न प्रवर्तते, तत्र सूत्रे व्यवस्थितविभाषाग्रहणात् ।]\n--> लम्भम् [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति अनुस्वारः, <<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति परसवर्णः । <<कृन्मेजन्तः>> [[1.1.39]] इति अव्ययसंज्ञा ।]\n--> लम्भम् लम्भम् [<<नित्यवीप्सयोः>> [[8.1.4]] इति द्वित्वम्]\n\nभाष्यविस्तरः\nअत्र सूत्रे निर्दिष्टा विभाषा 'केवलम् अनुपसर्गस्य विषये' एव कथं प्रवर्तते - इति स्पष्टीकर्तुम् भाष्यकारः अत्र पूर्वसूत्राभ्याम् 'न' तथा 'उपसर्गात्' इति शब्दद्वयम् अनुवर्तयति । अस्याः साहाय्येन अत्र सम्पूर्णं सूत्रं 'चिण्णमुलोः विभाषा लभेः नुम्, उपसर्गात् न' इति जायते । इत्युक्ते, लभ्-धातोः विषये अनेन सूत्रेण उक्तः विकल्पः उपसर्गस्य अनुपस्थितौ एव स्वीक्रियते, उपसर्गस्य उपस्थितौ तु <<लभेश्च>> [[7.1.64]] इत्यनेन नित्यमेव नुमागमः भवति - इति अत्र आशयः । अयमेव बिन्दुः काशिकायां कौमुद्यां च 'व्यवस्थितविभाषा' इत्यनेन निर्दिष्टः अस्ति ।\n" }, "71070": { "sa": "धातुभिन्नस्य उगित्-शब्दस्य तथा अञ्च् धातोः अङ्गस्य सर्वनामस्थाने परे नुमागमः भवति ।", "sd": "'उगित्' इत्युक्ते 'उक्' वर्णः यस्मिन् इत्संज्ञकः अस्ति सः । 'उक्' इति प्रत्याहारः । उ, ऋ, ऌ एतेषां ग्रहणमनेन प्रत्याहारेण भवति । यत् प्रातिपदिकमुगित् अस्ति परन्तु धातुसंज्ञकं नास्ति, तस्य अङ्गस्य सर्वनामस्थाने परे अनेन सूत्रेण नुमागमः भवति ।\n'अञ्च् गतौ' इति कश्चन धातुः । <<ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च>> [[3.2.59]] अनेन सूत्रेण अस्मात् धातोः (उपपदस्य उपस्थितौ) क्विन्-प्रत्ययः भवति, येन 'प्राच्' , 'उदच्' एतादृशानि प्रातिपदिकानि सिद्ध्यन्ति । एतेषामपि अनेन सूत्रेण सर्वनामस्थानपरे नुमागमः भवति ।\nउदाहरणानि पश्यामः -\n1. 'भवतुँ' अस्मिन् शब्दे उकारः इत्संज्ञकः अस्ति । अस्य पुंलिङ्गस्य प्रथमा-द्विवचनस्य रूपसिद्धेः प्रक्रिया इयम् -\nभवतुँ + औ [प्रथमाद्विवचनस्य प्रत्ययः]\n→ भवत् + औ [इत्संज्ञालोपः]\n→ भवन् त् औ [<<उगिदचां सर्वनामस्थानेऽधातोः>> [[7.1.70]] इति नुमागमः]\n→ भवं त् औ [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति अनुस्वारः]\n→ भवन्त् औ [<<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति परसवर्णः]\n→ भवन्तौ [वर्णमेलनम् ]\n2. पठ् धातोः शतृँ-प्रत्ययान्तरूपम् 'पठतृँ' अस्मिन् शब्दे ऋकारः इत्संज्ञकः अस्ति । अस्य पुंलिङ्गस्य प्रथमाबहुवचनस्य रूपसिद्धौ -\nपठतृँ + जस् [प्रथमाबहुवचनस्य प्रत्ययः]'भवन्तौ', 'पठन्तः', 'अङ्', 'यावान्' - एतेषु शब्देषु <<उगिदचां सर्वनामस्थाने अधातोः>> [[7.1.70]] इत्यस्य प्रसक्तिः अस्ति परन्तु <<नपुंसकस्य झलचः>> [[7.1.72]] इत्यस्य प्रसक्तिः न विद्यते । 'फलानि', 'जगन्ति', 'पयांसि' - एतेषु शब्देषु <<नपुंसकस्य झलचः>> [[7.1.72]] इत्यस्य प्रसक्तिः विद्यते, परन्तु <<उगिदचां सर्वनामस्थाने अधातोः>> [[7.1.70]] इत्यस्य प्रसक्तिः न विद्यते । 'यावन्ति' (= यावत् शब्दस्य नपुंसकलिङ्गस्य प्रथमाबहुवचनम्), 'पठन्ति' (= 'पठत्' शब्दस्य नपुंसकलिङ्गस्य प्रथमाबहुवचनम्) इत्यत्र द्वयोः अपि सूत्रयोः प्रसक्तिः अस्ति । अनेन प्रकारेण अत्र विप्रतिषेधः सिद्ध्यति । (यत्र द्वौ प्रसङ्गौ अन्यार्थौव एकस्मिन् युगपत् प्राप्नुतः, स तुल्यबलविरोधो विप्रतिषेधः - इति काशिका) । अतश्च अत्र <<विप्रतिषेधे परं कार्यम्>> [[1.4.2]] इत्यनेन <<नपुंसकस्य झलचः>> [[7.1.72]] इत्यस्य प्रयोगः भवति ।\n→ पठत् + अस् [इत्संज्ञालोपः]\n→ पठन् त् + अस् [<<उगिदचां सर्वनामस्थानेऽधातोः>> [[7.1.70]] इति नुमागमः]\n→ पठं त् + अस् [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति अनुस्वारः]\n→ पठन् त् + अस् [<<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति परसवर्णः]\n→ पठन्तः [विसर्गनिर्माणम्]\n3. 'प्र + अञ्च् (गतौ) + क्विन्' इत्यस्मात् निर्मितस्य 'प्राच्' अस्य प्रातिपदिकस्य प्रथमैकवचनस्य सुँ-प्रत्यये परे प्रक्रिया इयम् -\nप्राच् + सुँ [प्रथमैकवचनस्य प्रत्ययः]\n→ प्रान् च् + स् [<<उगिदचां सर्वनामस्थानेऽधातोः>> [[7.1.70]] इति नुमागमः]\n→ प्रान् च् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति सुँलोपः]\n→ प्रान् [<<संयोगान्तस्य लोपः>> [[8.2.23]] इति चकारलोपः]\n→ प्राङ् [<<क्विन्प्रत्ययस्य कुः>> [[8.2.62]] इति कुत्वम् ।\n4. 'यावत्' इति 'वतुँप्' प्रत्ययान्तशब्दः । अस्य पुंलिङ्गस्य एकवचनस्य प्रक्रिया इयम् -\nयावत् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः]\n→ यावात् + सुँ [<<अत्वसन्तस्य चाधातोः>> [[6.4.14]] इति उपधादीर्घः]\n→ यावान् त् + सुँ [<<उगिदचां सर्वनामस्थाने अधातोः>> [[7.1.70]] इति नुमागमः]\n→ यावान् त् [<<हल्ङ्याभ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति सुँ-प्रत्ययस्य लोपः]\n→ यावान् [<<संयोगान्तस्य लोपः>> [[8.2.23]] इति तकारलोपः]\n5. ईयसुँन्-प्रत्ययान्तः 'गरीयस्' शब्दः -\nगरीयस् + सुँ\n→ गरीय न् स् + स् [<<उगिदचां सर्वनामस्थानेऽधातोः>> [[7.1.70]] इति नुमागमः ]\n→ गरीयान्स् + स् [<<सान्तमहतः संयोगस्य>> [[6.4.10]] इति उपधादीर्घः ।]\n→ गरीयान्स् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति सुँ-प्रत्ययस्य लोपः]\n→ गरीयान् [<<संयोगान्तस्य लोपः>> [[8.2.23]] इति सकारलोपः]\nज्ञातव्यम् -\n1. अस्मिन् सूत्रे प्रयुक्तः अच्-शब्दः 'अञ्च् (गतौ)' इत्यस्य क्विन्प्रत्ययान्तरूपम् । अत्र अच्-इति प्रत्याहारः नास्ति ।\n2. अञ्च्-धातोः 'पूजायाम्' इति अपि कश्चन अर्थः अस्ति । परन्तु अस्मिन् अर्थे अञ्च्-धातोः क्विन्-प्रत्यये कृते 'अच्' इति प्रातिपदिकं न सिद्ध्यति, 'अञ्च्' इत्येव प्रातिपदिकं सिद्ध्यति । अस्य अनेन सूत्रेण ग्रहणम् न करणीयम् । केवलं 'अञ्च् गतौ' इत्यस्य 'अच्' इति रूपं यद् जायते, तस्यैव अत्र ग्रहणं करणीयम् ।\n3. वस्तुतः अस्मिन् सूत्रे 'अधातुः' अस्य शब्दस्य प्रयोजनम् नास्तीति भासते, यतः 'अचाम्' इत्यनेन केवलं 'अञ्च्' धातोः नुमागमः विधीय (नियमेन) 'अन्येषां धातूनां विषये नुमागमः मा भूत्' इति स्पष्टीकृतमस्ति । (अस्मिन् विषये काशिकाकारः वदति - 'अञ्चतिग्रहणं नियमार्थम्, अञ्चतेः एव धातोः, अन्यस्य मा भूत् ।') । परन्तु तथाप्यत्र 'अधातुः' शब्दस्य पाणिनिना ग्रहणं कृतमस्ति । अस्मिन् विषये भाष्ये उक्तमस्ति - 'अधातुभूतपूर्वस्य अपि यथा स्यात्' । इत्युक्ते, यः शब्दः पूर्व-अवस्थायाम् धातुः नासीत्, परन्तु कस्याश्चन प्रक्रियायाः अनन्तरम् धातुत्वं प्राप्नोति, तस्य शब्दस्य विषये अपि अनेन सूत्रेण नुमागमः भवेत् - इति स्पष्टीकर्तुमत्र 'अधातोः' इति उक्तमस्ति । यथा, 'गोमत्' इत्युक्ते 'यस्य समीपे गावः सन्ति, सः' । अयम् मतुँप्-प्रत्ययान्तशब्दः अस्ति । अस्मात् शब्दात् 'गोमन्तमात्मानम् इच्छति' अस्मिन् अर्थे <<सुपः आत्मनः क्यच्>> [[3.1.8]] इत्यनेन क्यच्-प्रत्ययं कृत्वा 'गोमत्य' इति आतिदेशिकः धातुः सिद्ध्यति । अस्मात् 'गोमत्य' धातोः कर्त्रर्थे क्विप्-प्रत्ययं कृत्वा पुनः 'गोमत्' इत्येव प्रातिपदिकं सिद्ध्यति, परन्तु तस्य अर्थः - 'यः गोमन्तमात्मानम् इच्छति सः' इति जायते । अयम् क्विप्-प्रत्ययान्तः गोमत्-शब्दः <ऽक्विबन्ताः धातुत्वं न जहतिऽ> अनेन सिद्धान्तेन धातुसंज्ञकः अपि अस्ति, तथा च, (मतुप्-प्रत्ययान्तः अस्तीति कारणात्) उगित् अपि अस्ति । 'अस्य गोमत्-शब्दस्य सर्वनामस्थाने परे नुमागमः भवेत् वा?' इति पृष्टे 'अधातुभूतपूर्वस्य अपि यथा स्यात्' अनेन सिद्धान्तेन अस्यापि नुमागमः भवतीति ज्ञायते, यतः अयम् गोमत्-शब्दः यद्यपि धातुसंज्ञकः अस्ति, तथापि भूतपूर्व-अवस्थायाम् (इत्युक्ते, क्यच्-प्रत्ययस्य प्रयोगात् पूर्वम्) एषः 'अधातुः' आसीत् । एतादृशानाम् शब्दानामपि नुमागमः भवेत् इति स्पष्टीकर्तुमत्र 'अधातोः' इति ग्रहणं कृतमस्ति । अतः अस्य गोमत्-शब्दस्य प्रथमैकवचनस्य रूपम् 'गोमान्' इति सिद्ध्यति ।\n4. अत्र अधातोः इत्यनेन केवलं धातुसंज्ञकस्य अङ्गस्य निषेधः भवति । धातुनिर्मितस्य अङ्गस्य न । यथा, 'पठ् + शतृ' इदं प्रातिपदिकम् यद्यपि धातुनिर्मितं अस्ति, तथापि एतत् धातुसंज्ञकं नास्ति । अतः 'अधातुः' इत्यनेन अस्य नुमागमस्य निषेधः न कर्तव्यः ।\n5. 'उगित्' इत्यस्य विषये अस्य सूत्रस्य प्रसक्तिः पुंलिङ्गशब्दानाम् विषये एव भवति । उगित्-नपुंसकलिङ्गशब्दस्य विषये वर्तमानसूत्रेण नुम्-प्राप्ते विप्रतिषेधेन <<नपुंसकस्य झलचः>> [[7.1.72]] इत्यनेन पुनः नुम्-एव विधीयते ।\nप्रश्नः - <<उगिदचां सर्वनामस्थाने अधातोः>> [[7.1.70]] तथा <<नपुंसकस्य झलचः>> [[7.1.72]] एतयोर्मध्ये विप्रतिषेधः कथं सिद्ध्यति ?\nउत्तरम् - 'भवन्तौ', 'पठन्तः', 'अङ्', 'यावान्' - एतेषु शब्देषु <<उगिदचां सर्वनामस्थाने अधातोः>> [[7.1.70]] इत्यस्य प्रसक्तिः अस्ति परन्तु <<नपुंसकस्य झलचः>> [[7.1.72]] इत्यस्य प्रसक्तिः न विद्यते । 'फलानि', 'जगन्ति', 'पयांसि' - एतेषु शब्देषु <<नपुंसकस्य झलचः>> [[7.1.72]] इत्यस्य प्रसक्तिः विद्यते, परन्तु <<उगिदचां सर्वनामस्थाने अधातोः>> [[7.1.70]] इत्यस्य प्रसक्तिः न विद्यते । 'यावन्ति' (= यावत् शब्दस्य नपुंसकलिङ्गस्य प्रथमाबहुवचनम्), 'पठन्ति' (= 'पठत्' शब्दस्य नपुंसकलिङ्गस्य प्रथमाबहुवचनम्) इत्यत्र द्वयोः अपि सूत्रयोः प्रसक्तिः अस्ति । अनेन प्रकारेण अत्र विप्रतिषेधः सिद्ध्यति । (यत्र द्वौ प्रसङ्गौ अन्यार्थौव एकस्मिन् युगपत् प्राप्नुतः, स तुल्यबलविरोधो विप्रतिषेधः - इति काशिका) । अतश्च अत्र <<विप्रतिषेधे परं कार्यम्>> [[1.4.2]] इत्यनेन <<नपुंसकस्य झलचः>> [[7.1.72]] इत्यस्य प्रयोगः भवति । यथा -\nगो + अञ्च् (गतौ) + क्विन् + जस् [गो-उपपदपूर्वकात् अञ्च् (गतौ) धातोः <<ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च>> [[3.2.59]] इत्यनेन क्विन्-प्रत्ययः, तथा च प्रथमैकवचनस्य जस्-प्रत्ययः]\n→ गवाच् + जस् [<<अनिदितां हलः उपधायाः क्ङिति>> [[6.4.24]] इत्यनेन क्विन्-प्रत्यये परे 'अञ्चुँ' धातोः नकारस्य लोपः]\n→ गवाच् + शि [<<जश्शसोः शिः>> [[7.1.20]] इति शि-आदेशः]\n→ गवान् च् + इ [<<उगिदचां सर्वनामस्थाने अधातोः>> [[7.1.70]] इत्यनेन नुमागमे प्राप्ते विप्रतिषेधेन <<नपुंसकस्य झलचः>> [[7.1.72]] इति नुमागमः]\n→ गवांचि [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति अनुस्वारः]\n→ गवाञ्चि [<<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति परसवर्णः]\nस्मर्तव्यम् - 'अञ्च् (पूजायाम्)' अस्य धातोः विषये वर्तमानसूत्रस्य प्रसक्तिरेव नास्ति, केवलमञ्च् (गतौ) इत्यस्य विषये अस्य प्रयोगः भवति । अतः 'गो + अञ्च् (गतौ) + क्विन् + जस्' इत्यत्र तु 'गवाञ्च्' इत्येव प्रातिपदिकं सिद्ध्यति, तस्य अग्रे <<नपुंसकस्य झलचः>> [[7.1.72]] इति नुमागमे कृते 'गवाञ्ञ्चि' इति द्विनकारयुक्तं रूपं श्रूयते । अस्मिन् विषये <<नपुंसकस्य झलचः>> [[7.1.72]] इत्यत्र भाष्ये विस्तारेण पठितव्यम् ।\n" }, "71071": { "sa": "युज्-शब्दस्य अङ्गस्य सर्वनामस्थाने परे नुमागमः भवति । परन्तु समस्तपदमस्ति चेत् न भवति ।", "sd": "'युज्' इति जकारान्तशब्दः । तस्य प्रथमा-द्विवचनस्य रूपसिद्धौ 'युज् + औ' इत्यत्र अनेन सूत्रेण नुमागमे कृते, 'युन्ज्' इति प्राप्यते । अग्रे अनुस्वार-परसवर्णे 'युञ्जौ' इति रूपं सिद्ध्यति ।\nपरन्तु यदि युज्-शब्दः समस्तपदे अस्ति तर्हि नुमागमः न भवति । यथा - अश्वयुज् + औ = अश्वयुजौ ।" }, "71072": { "sa": "झलन्तस्य अजन्तस्य च नपुंसकस्य सर्वनामस्थाने परे नुमागमः भवति । ", "sd": "झल्-प्रत्याहारे सर्वे वर्गचतुर्थाः, वर्गतृतीयाः , वर्गद्वितीयाः वर्गप्रथमाः तथा ऊष्माणः समाविश्यन्ते । अच्-प्रत्याहारे सर्वे स्वराः सन्ति । एतेषु सर्वेषु कश्चन वर्णः यदि नपुंसकलिङ्गशब्दस्य अन्तिमस्थाने आगच्छति, तर्हि तस्य शब्दस्य सर्वनामस्थाने परे (इत्युक्ते जस् / शस्-प्रत्यययोः परयोः) नुमागमः विधीयते । 'नुम्' इति आगमः मित्-आगमः अस्ति, अतः <<मिदचोऽन्त्यात्परः>> [[1.1.47]] इत्यनेन अन्त्यात् अचः परः आगच्छति ।\nउदाहरणानि एतानि -\n1. फल + जस् [प्रथमाबहुवचनस्य जस्-प्रत्ययः]\n→ फल + शि [<<जश्शसोः शिः>> [[7.1.20]] इति जस्/शस्-प्रत्यययोः शि-आदेशः । <<शि सर्वनामस्थानम्>> [[1.1.42]] इति शि-प्रत्ययस्य सर्वनामस्थानसंज्ञा । <<अनेकाल् शित्सर्वस्य>> [[1.1.55]] इति सर्वादेशः । ]\n→ फल + इ [शकारस्य इत्संज्ञा, लोपः ]\n→ फल नुम्+ इ [<<नपुंसकस्य झलचः>> [[7.1.72]] इति अजन्तस्य अङ्गस्य सर्वनामस्थाने परे नुमागमः]\n→ फल न् + इ [इत्संज्ञालोपः]\n→ फलानि [<<सर्वनामस्थाने चासम्बुद्धौ>> [[6.4.8]] इत्यनेन नकारान्तस्य अङ्गस्य उपधायाः सर्वनामस्थाने परे दीर्घः\n2. जगत् + शस् [द्वितीयाबहुवचनस्य जस्-प्रत्ययः]\n→ जगत् + शि [<<जश्शसोः शि>> [[7.1.20]] इति शि-आदेशः । <<शि सर्वनामस्थानम्>> [[1.1.42]] इति सर्वनामस्थानसंज्ञा ।]\n→ जगन् त् + इ [शकारस्य इत्संज्ञा, लोपः । <<नपुंसकस्य झलचः>> [[7.1.72]] इति अङ्गस्य नुमागमः]\n→ जगंति [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति अनुस्वारः]\n→ जगन्ति [<<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति परसवर्णः]\n3. पयस् + शस् [द्वितीयाबहुवचनस्य जस्-प्रत्ययः]\n→ पयस् + शि [<<जश्शसोः शि>> [[7.1.20]] इति शि-आदेशः । <<शि सर्वनामस्थानम्>> [[1.1.42]] इति सर्वनामस्थानसंज्ञा ।]\n→ पयन्स् + इ [शकारस्य इत्संज्ञा, लोपः । <<नपुंसकस्य झलचः>> [[7.1.72]] इति अङ्गस्य नुमागमः]\n→ पयान्स् + इ [<<सान्तमहतः संयोगस्य>> [[6.4.10]] इत्यनेन नकारस्य उपधावर्णस्य दीर्घादेशः]\n→ पयांसि [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति नकारस्य अनुस्वारः]\n4. पठ् धातोः शतृँ-प्रत्ययान्तरूपम् 'पठतृँ' अस्मिन् शब्दे ऋकारः इत्संज्ञकः अस्ति । अस्य नपुंसकलिङ्गस्य प्रथमाबहुवचनस्य रूपसिद्धौ -\nपठतृँ + जस् [प्रथमाबहुवचनस्य प्रत्ययः]\n→ पठत् + शि [<<जश्शसोः शि>> [[7.1.20]] इति शि-आदेशः । <<शि सर्वनामस्थानम्>> [[1.1.42]] इति सर्वनामस्थानसंज्ञा ।]\n→ पठन् त् + इ [<<उगिदचां सर्वनामस्थानेऽधातोः>> [[7.1.70]] इत्यनेन नुमागमे प्राप्ते विप्रतिषेधेन <<नपुंसकस्य झलचः>> [[7.1.72]] इत्यनेन पुनः नुमागमः]\n→ पठं त् + इ [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति अनुस्वारः]\n→ पठन् त् + इ [<<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति परसवर्णः]\n→ पठन्ति\nज्ञातव्यम् -\n1. यदि नपुंसकलिङ्गशब्दः झलन्तः अजन्तः वा नास्ति, तर्हि अनेन सूत्रेण तस्य नुमागमः न भवति । यथा, 'वार्' इति रेफान्तशब्दस्य प्रथमाद्वितीयाबहुवनचम् 'वारि' इत्यत्र नुमागमः न क्रियते ।\n2. इक्-वर्णान्त-नपुंसकलिङ्गशब्दानां विषये अयमेव नुमागमः विप्रतिषेधेन <<इकोऽचि विभक्तौ>> [[7.1.73]] इत्यनेन भवति, वर्तमानसूत्रेण न ।\n3. उगित्-शब्दानां विषये <<उगिदचां सर्वनामस्थानेऽधातोः>> [[7.1.70]] इत्यनेन नुमागमे प्राप्ते विप्रतिषेधेन वर्तमानसूत्रेणैव नुमागमः क्रियते ।\nप्रश्नः - <<उगिदचां सर्वनामस्थाने अधातोः>> [[7.1.70]] तथा <<नपुंसकस्य झलचः>> [[7.1.72]] एतयोर्मध्ये विप्रतिषेधः कथं सिद्ध्यति ?\nउत्तरम् - 'भवन्तौ', 'पठन्तः', 'अङ्', 'यावान्' - एतेषु शब्देषु <<उगिदचां सर्वनामस्थाने अधातोः>> [[7.1.70]] इत्यस्य प्रसक्तिः अस्ति परन्तु <<नपुंसकस्य झलचः>> [[7.1.72]] इत्यस्य प्रसक्तिः न विद्यते । 'फलानि', 'जगन्ति', 'पयांसि' - एतेषु शब्देषु <<नपुंसकस्य झलचः>> [[7.1.72]] इत्यस्य प्रसक्तिः विद्यते, परन्तु <<उगिदचां सर्वनामस्थाने अधातोः>> [[7.1.70]] इत्यस्य प्रसक्तिः न विद्यते । 'यावन्ति' (= यावत् शब्दस्य नपुंसकलिङ्गस्य प्रथमाबहुवचनम्), 'पठन्ति' (= 'पठत्' शब्दस्य नपुंसकलिङ्गस्य प्रथमाबहुवचनम्) इत्यत्र द्वयोः अपि सूत्रयोः प्रसक्तिः अस्ति । अनेन प्रकारेण अत्र विप्रतिषेधः सिद्ध्यति । (यत्र द्वौ प्रसङ्गौ अन्यार्थौव एकस्मिन् युगपत् प्राप्नुतः, स तुल्यबलविरोधो विप्रतिषेधः - इति काशिका) । अतश्च अत्र <<विप्रतिषेधे परं कार्यम्>> [[1.4.2]] इत्यनेन <<नपुंसकस्य झलचः>> [[7.1.72]] इत्यस्य प्रयोगः भवति ।\nशास्त्रविशेषः - 'गो' उपपदपूर्वकः यः अञ्च् (पूजायाम्) धातुः, तस्मात् <<ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च>> [[3.2.59]] इत्यनेन क्विन्-प्रत्ययं कृत्वा 'गवाञ्च्' इति चकारान्तं नपुंसकलिङ्गं प्रातिपदिकम् सिद्ध्यति । तस्य प्रथमैकवचनस्य द्वितीयैकवचनस्य च रूपम् 'गवाञ्ञ्चि' इति भवति, न हि 'गवाञ्चि' इति । प्रक्रिया एतादृशी -\nगवाञ्च् + जस् / शस्\n→ गवाञ्च् + शि [<<जश्शसोः शि>> [[7.1.20]] इति शि-आदेशः । <<शि सर्वनामस्थानम्>> [[1.1.42]] इति सर्वनामस्थानसंज्ञा ।]\n→ गवाञ्च् + इ [इत्संज्ञालोपः]\n→ गवान् ञ्च् + इ [<<नपुंसकस्य झलचः>> [[7.1.72]] इत्यनेन नुमागमः]\n→ गवाञ्ञ्चि [<<स्तोः श्चुना श्चुः>> [[8.4.40]] इति श्चुत्वम्]\nपरन्तु केचन वैयाकरणाः अत्र 'गवाञ्चि' इति एक-ञकारयुक्तं रूपमेव साधु मन्यन्ते । अस्मिन् विषये भाष्यकारः ब्रूते - 'न व्यञ्जनपरस्य एकस्य वा अनेकस्य वा श्रवणं प्रति विशेषः अस्ति' । इत्युक्ते, एक-ञकारेण यथा उच्चारणं भवति तथैव अनेक-ञकारैः सह भवति, अतः 'गवाञ्ञ्चि' इत्यस्य उच्चारणमपि 'गवाञ्चि' इत्यनेन समानमेव स्यात् । परन्तु केचन पण्डिताः एतं पक्षं नैव स्वीकुर्वन्ति । तेषां कृते भाष्यकारः अग्रे वदति - 'अचः इत्येषा पञ्चमी, अचः उत्तरः यः झल्, तदन्तस्य नपुंसकस्य नुमा भवितव्यम्' । इत्युक्ते, यदि 'गवाञ्चि' इत्येव रूपं साधनीयमस्ति, तर्हि अस्मिन् सूत्रे 'अचः' इति पञ्चमी स्वीकर्तव्या, येन 'यस्मिन् नपुंसकलिङ्गशब्दे अन्तिमः झल्-वर्णः अच्-वर्णात् परः विद्यते, तस्यैव नुमागमः भवेत्' इति अर्थः जायते । अस्यां स्थितौ 'गवाञ्च्' इत्यत्र नुमागमः नैव भवेत्, यतः अन्तिमः चकारः अच्-वर्णात् परः नास्ति अपितु ञकारात् परः अस्ति । अनेन चिन्तनेन 'गवाञ्चि' इति साधु रूपं तु अवश्यं सिद्ध्यति, परन्तु अग्रे केचन अन्ये अधिकाः दोषाः जायन्ते । अतः अस्य पक्षस्य समर्थनमन्यैः व्याख्यानैः अपि न क्रियते । अस्मिन् विषये अधिकं पिपठिषवः अस्य सूत्रस्य भाष्यमेव पश्यन्तु ।\nस्मर्तव्यम् - 'गो' उपपदपूर्वकः यः अञ्च् (गतौ) धातुः, तस्मात् क्विन्-प्रत्ययं कृत्वा तु गवाच् ' इति चकारान्तं नपुंसकलिङ्गं प्रातिपदिकम् सिद्ध्यति, अतः तस्य विषये वर्तमानसूत्रेण नुमागमः अवश्यं भवति । उपरि निर्दिष्टं चिन्तनम् केवलम् 'अञ्च् पूजायाम्' इत्यस्य विषये अस्ति, न हि 'अञ्च् गतौ' इत्यस्य विषये ।\n" }, "71073": { "sa": "इगन्तस्य नपुंसकशब्दस्य अजादि-विभक्ति-प्रत्यये परे नुमागमः भवति । ", "sd": "इक्-प्रत्याहारे इ, उ, ऋ, ऌ एते वर्णाः आगच्छन्ति । नपुंसकलिङ्गशब्दानामन्ते स्थितानाम् एतेषामजादिविभक्तौ नुमागमः विधीयते ।\nउदाहरणानि अधः दत्तानि सन्ति । परन्तु तस्मात् पूर्वम् द्वे वार्तिके ज्ञातव्ये, येषां प्रक्रियायाम् प्रयोगः भवति -\n1. । इत्युक्ते, 'वृद्धिः, 'औत्वम्', 'तृज्वद्भावः', 'गुणादेशः' - एतेभ्यः कस्यापि विधेः यदि नुमागमेन सह विप्रतिषेधः जायते, तर्हि नुमागमस्यैव प्रयोगः करणीयः ।\n2. । इत्युक्ते, यदि 'नुमागमः', '<<अचि र ऋतः>> [[7.2.100]] इत्यनेन उक्तः रेफादेशः', तथा 'तृज्वद्भावः' - एतेभ्यः कस्यापि विधेः यदि नुडागमेन सह विप्रतिषेधः जायते, तर्हि नित्यम् नुडागमस्यैव प्रयोगः करणीयः ।\nअधः उदाहरणानि दत्तानि सन्ति -\n(अ) इकारान्त/उकारान्तशब्दानामुदाहरणानि 'वारि'शब्दमधिकृत्य दत्तानि सन्ति । मधुशब्दस्य विषये अपि एतादृशाः प्रक्रियाः एव ज्ञातव्याः) -\n1. जस्/शस्-प्रत्यययोः परयोः <<नपुंसकस्य झलचः>> [[7.1.72]] इत्यनेन नुमागमे प्राप्ते विप्रतिषेधेन <<इकोऽचि विभक्तौ>> [[7.1.73]] इति नुमागमः करणीयः । यथा -\nवारि + जस् [प्रथमाबहुवचनस्य प्रत्ययः]\n→ वारि + शि [<<जश्शसोः शि>> [[7.1.20]] इति शि-आदेशः । <<शि सर्वनामस्थानम्>> [[1.1.42]] इति सर्वनामस्थानसंज्ञा ।]\n→ वारि + इ [शकारस्य इत्संज्ञा, लोपः । ]\n→ वारि न् + इ [<<नपुंसकस्य झलचः>> [[7.3.72]] इत्यनेन नुमागमे प्राप्ते विप्रतिषेधेन <<इकोऽचि विभक्तौ>> [[7.1.73]] इति नुमागमः]\n→ वारी + नि [<<सर्वनामस्थाने चासम्बुद्धौ>> [[6.4.8]] इत्यनेन नकारान्तस्य अङ्गस्य उपधायाः सर्वनामस्थाने परे दीर्घः]\n→ वारीणि [<<अट्कुप्वाङ्नुम्वयवायेऽपि>> [[8.4.2]] इति णत्वम्]\n2. टा-प्रत्यये परे वर्तमानसूत्रेण <<इकोऽचि विभक्तौ>> [[7.1.73]] इत्यनेन नुमागमे प्राप्ते विप्रतिषेधेन <<आङो नाऽस्त्रियाम्>> [[7.3.120]] इत्यनेन टा-प्रत्ययस्य 'ना' आदेशः करणीयः । यथा -\nवारि + टा\n→ वारि + ना [अत्र 'वारि' इति <<शेषो घ्यसखि>> [[1.4.7]] घिसंज्ञकमङ्गमस्ति । अतः <<इकोऽचि विभक्तौ>> [[7.1.73]] इत्यनेन नुमागमे प्राप्ते विप्रतिषेधेन <<आङो नाऽस्त्रियाम्>> [[7.3.120]] इत्यनेन टा-प्रत्ययस्य 'ना' आदेशः विधीयते ।]\n→ वारिणा [<<अट्कुप्वाङ्नुम्वयवायेऽपि>> [[8.4.2]] इति णत्वम्]\n3. ङे / ङसिँ / ङस् प्रत्ययेषु परेषु वर्तमानसूत्रेण नुमागमे प्राप्ते, विप्रतिषेधेन <<घेर्ङिति>> [[7.3.111]] इति घिसंज्ञकस्य अङ्गस्य गुणः अपि विधीयते । अस्याम् स्थितौ अनेन वार्तिकेन नुमागमः एव करणीयः । यथा -\nवारि + ङसिँ [पञ्चम्येकवचनस्य प्रत्ययः]\n→ वारि न् अस् [अत्र 'वारि' इति <<शेषो घ्यसखि>> [[1.4.7]] घिसंज्ञकमङ्गमस्ति । अत्र <<इकोऽचि विभक्तौ>> [[7.1.73]] इत्यनेन नुमागमे प्राप्ते, विप्रतिषेधेन <<घेर्ङिति>> [[7.3.111]] इति घिसंज्ञकस्य अङ्गस्य गुणे प्राप्ते ; अनेन वार्तिकेन <<इकोऽचि विभक्तौ>> [[7.3.73]] इति नुमागमः]\n→ वारिणः [अट्कुप्वाङ्नुम्व्यवायेऽपि इति नकारस्य णकारः]\n4. षष्ठीबहुवचनस्य आम्-प्रत्यये परे वर्तमानसूत्रेण अङ्गस्य नुमागमे प्राप्ते ; विप्रतिषेधेन <<ह्रस्वनद्यापो नुट्>> [[7.1.54]] इति नुडागमः अपि प्राप्यते । अस्यां स्थितौ अनेन वार्तिकेन नुडागमः करणीयः । यथा -\nवारि + आम्\n→ वारि + नुट् + आम् [<<ह्रस्वनद्यापो नुट्>> [[7.1.54]] इत्यनेन प्रत्ययस्य नुडागमे प्राप्ते, विप्रतिषेधेन <<इकोऽचि विभक्तौ>> [[7.1.73]] इत्यनेन अङ्गस्य नुमागमे प्राप्ते अनेन वार्त्तिकेन विप्रतिषेधेन <<ह्रस्वनद्यापो नुट्>> [[7.1.54]] इति नुडागमः भवति । ]\n→ वारीनाम् [<<नामि>> [[6.4.3]] इत्यनेन अङ्गस्य दीर्घः]\n→ वारीणाम् [<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इति नकारस्य णकारः]\n5. षष्ठी-सप्तमी-द्विवचनस्य ओस्-प्रत्यये परे <<इको यणचि>> [[6.1.77]] एतं वर्णकार्यम् बाधित्वा अङ्गकार्यस्य प्रधानत्वात् परत्वात् च <<इकोऽचि विभक्तौ>> [[7.1.73]] इति नुमागमः भवति ।\nवारि + ओस् इति स्थिते\n→ वारिन् ओस् [<<इकोऽचि विभक्तौ>> [[7.1.73]] इत्यनेन नुमागमः]\n→ वारिणः [<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इति नकारस्य णकारः]\n6. सप्तमी-एकवचनस्य ङि-प्रत्यये परे अनेन सूत्रेण नुमागमे प्राप्ते , <<अच्च घेः>> [[7.3.119]] इत्यनेन ङि-प्रत्ययस्य औ-आदेशः विधीयते । अत्र अनेन वार्तिकेन 'औ' आदेशस्य अपेक्षया <<इकोऽचि विभक्तौ>> इति नुमागमः करणीयः । यथा -\nवारि + ङि\n→ वारिन् + ङि [<<इकोऽचि विभक्तौ>> [[7.1.73]] इत्यनेन नुमागमे प्राप्ते, विप्रतिषेधेन <<अच्च घेः>> [[7.3.119]] इत्यनेन ङि-प्रत्ययस्य औ-आदेशे प्राप्ते अनेन वार्तिकेन <<इकोऽचि विभक्तौ>> [[7.1.73]] इति नुमागमः]\n→ वारिणि [<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इति नकारस्य णकारः]\n(आ) ऋकारान्तशब्दानामुदाहरणानि धातृ-शब्दमधिकृत्य दत्तानि सन्ति ।\n1. धातृ + जस् / शस् [प्रथमा/द्वितीययोः बहुवचनस्य प्रत्ययः]\n→ धातृ + शि [<<जश्शसोः शि>> [[7.1.20]] इति शि-आदेशः । <<शि सर्वनामस्थानम्>> [[1.1.42]] इति सर्वनामस्थानसंज्ञा ।]\n→ धातृ + इ [शकारस्य इत्संज्ञा, लोपः । <<नपुंसकस्य झलचः>> [[7.1.72]] इति अङ्गस्य नुमागमः]\n→ धातृ न् + इ [<<नपुंसकस्य झलचः>> [[7.3.72]] इत्यनेन नुमागमे प्राप्ते विप्रतिषेधेन <<इकोऽचि विभक्तौ>> [[7.1.73]] इति नुमागमः]\n→ धातॄ + नि [<<सर्वनामस्थाने चासम्बुद्धौ>> [[6.4.8]] इत्यनेन नकारान्तस्य अङ्गस्य उपधायाः सर्वनामस्थाने परे दीर्घः]\n→ धातॄणि [ इति णत्वम्]\n2. धातृ + टा [तृतीयैकवचनस्य प्रत्ययः]\n→ धातृना [<<इको यणचि>> [[6.1.77]] एतं बाधित्वा <<इकोऽचि विभक्तौ>> [[7.1.73]] इति नुमागमः]\n→ धातृणा [ इति णत्वम्]\nएवमेव धातृणे, धातृणः, धातृणोः आदीनि रूपाणि सिद्ध्यन्ति ।\n3. धातृ + ङि [सप्तम्येकवचनस्य प्रत्ययः]\n→ धातृनि [ <<इकोऽचि विभक्तौ>> [[7.1.73]] इत्यनेन नुमागमे प्राप्ते विप्रतिषेधेन <<ऋतो ङिसर्वनामस्थानयोः>> [[7.3.110]] इत्यनेन अङ्गस्य गुणे प्राप्ते, अनेन वार्तिकेन <<इकोऽचि विभक्तौ>> [[7.3.73]] इति नुमागमः]\n→ धातृणि [ इति णत्वम्] " }, "71074": { "sa": "गालवाचार्यस्य मतेन - भाषितपुँस्कः इगन्तः नपुंसकलिङ्गशब्दः तृतीयातः अग्रेषु अजादि-विभक्तिप्रत्ययेषु परेषु पुंलिङ्गशब्दवत् भवति ।", "sd": "किम् नाम भाषितपुँस्कः ? ये शब्दाः पुँल्लिगनपुंसकलिङ्गयोः समाने अर्थे प्रयुज्यन्ते, तेषां 'भाषितपुँस्कः' इति संज्ञा अस्ति । यथा - कर्तृ, धातृ आदयः सर्वे तृच्-तृन्-प्रत्ययान्तशब्दाः उभयोः लिङ्गयोः प्रयुज्यन्ते, अतः एते सर्वे शब्दाः भाषितपुंस्काः सन्ति । गालवाचार्यस्य मतेन भाषितपुँस्कानां नपुंसकलिङ्गे अजादौ विभक्तौ परे तृतीयातः सप्तमीयावत् रूपाणि विकल्पेन पुँल्लिगवत् अपि भवन्ति । एतत् चिन्तनम् गालवाचार्यस्य अस्ति, अतः 'विकल्पेन भवति' इति तस्य अर्थः ।\nयथा, 'धातृ' (यः धारयति सः / यत् धारयति तत्) अयं शब्दः पुंलिङ्ग-नपुंसकलिङ्गयोः समानार्थे प्रयुज्यते । अतः अस्य 'भाषितपुँस्कः' इति संज्ञा भवति । अतः अस्य तॄतीयातः अग्रे अजादिप्रत्ययेषु परेेषु रूपाणि पुंलिङ्ग-धातृ-शब्दवत् अपि भवन्ति -\nतृतीयैकवचनम् - धातृ + टा → धात्रा, धातृणा ।\nचतुर्थ्येकवचनम् - धातृ + ङे → धात्रे, धातृणे ।\nपञ्चम्येकवचनम् / षष्ठ्येकवचनम् - धातृ + ङसिँ/ङस् → धातुः / धातृणः ।\nषष्ठीद्विवचनम् / सप्तमीद्विवचनम् - धातृ + ओस् → धात्रोः / धातृणोः ।\nसप्तम्येकवचनम् - धातृ + ङि → धातरि, धातृणि ।\n" }, "71075": { "sa": "अस्थि, दधि, सक्थि, अक्षि - एतेषां शब्दानाम् तृतीयादिषु अजादौ विभक्तौ परे उदात्तः अनङ्-आदेशः भवति ।", "sd": "अस्थि , दधि, सक्थि, अक्षि - एते चत्वारः इकारान्त-नपुंसकलिङ्गशब्दाः । एतेषामङ्गस्य तृतीयादिषु विभक्तिषु अग्रे अजादिविभक्तौ परे अनङ्-आदेशः भवति । अयमादेशः उदात्तः भवति, तथा च <<ङिच्च>> [[1.1.53]] इत्यनेन अयमन्त्यादेशः भवति । यथा -\n1. अस्थि + टा\n→ अस्थ् + अनङ् + आ [<<अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः>> [[7.1.75]] इति अनङ्-आदेशः।\n→ अस्थ् + अन् + आ [इत्संज्ञालोपः]\n→ अस्थ् न् + आ [<<अल्लोपोऽनः>> [[6.4.134]] इति अकारलोपः]\n→ अस्थ्ना\n2. दधि + ङे\n→ दध् + अनङ् + ए [<<अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः>> [[7.1.75]] इति अनङ्-आदेशः।\n→ दध् + अन् + ए [इत्संज्ञालोपः]\n→ दध् न् + ए [<<अल्लोपोऽनः>> [[6.4.134]] इति अकारलोपः]\n→ दध्ने\n3. सक्थि + ङसिँ / ङस्\n→ सक्थ् + अनङ् + अस् [<<अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः>> [[7.1.75]] इति अनङ्-आदेशः।\n→ सक्थ् + अन् + अस् [इत्संज्ञालोपः]\n→ सक्थ् न् + अस् [<<अल्लोपोऽनः>> [[6.4.134]] इति अकारलोपः]\n→ सक्थ्नः\n4. अक्षि + आम्\n→ अक्ष् + अनङ् + आम् [<<अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः>> [[7.1.75]] इति अनङ्-आदेशः।\n→ अक्ष् + अन् + आम् [इत्संज्ञालोपः]\n→ अक्ष् न् + आम् [<<अल्लोपोऽनः>> [[6.4.134]] इति अकारलोपः]\n→ अक्ष्णाम् [<<रषाभ्यां नो णः समानपदे>> [[8.4.1]] इति णत्वम्] " }, "71076": { "sa": "", "sd": "" }, "71077": { "sa": "", "sd": "" }, "71078": { "sa": "", "sd": "" }, "71079": { "sa": "", "sd": "" }, "71080": { "sa": "", "sd": "" }, "71081": { "sa": "", "sd": "" }, "71082": { "sa": "सुँ-प्रत्यये परे अनडुह्-इत्यस्य अङ्गस्य अवर्णात् परः नुमागमः भवति ।", "sd": "'अनडुह्' (= वृषभः) इति कश्चन हकारान्तशब्दः । अस्य शब्दस्य प्रथमैकवचनस्य सुँ-प्रत्यये परे सर्वप्रथमम् <<चतुरनडुहोरामुदात्तः>> [[7.1.98]] इत्यनेन आम्-आगमः भवति । तदनन्तरमस्मात् अवर्णात् परः नुमागमः अनेन सूत्रेण विधीयते । प्रक्रिया इयम् -\nअनडुह् + सुँ [प्रथमैकवचनस्य प्रत्ययः]\n→ अनडु आम् ह् + स् [<<चतुरनडुहोरामुदात्तः>> [[7.1.98]] इत्यनेन अनडुह्-शब्दस्य आम्-आगमः ।]\n→ अनडु आ नुम् ह् + स् [<<सावनडुहः>> [[7.1.82]] इत्यनेन नुम्-आगमः]\n→ अनड्वान् ह् स् [<<इको यणचि>> [[6.1.77]] इत्यनेन यणादेशः]\n→ अनड्वान् ह् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इत्यनेन सुँ-प्रत्ययस्य लोपः]\n→ अनड्वान् [<<संयोगान्तस्य लोपः>> [[8.2.23]] इत्यनेन हकारस्य लोपः]\nअनडुह्-शब्दस्य सम्बोधनैकवचने अपि अस्य सूत्रस्य प्रसक्तिः अस्ति । यथा -\nअनडुह् + सुँ [सम्बुद्धिः]\n→ अनडु अम् ह् + स् [<<अम् सम्बुद्धौ>> [[7.1.99]] इत्यनेन अनडुह्-शब्दस्य अम् -आगमः ।]\n→ अनडु अ नुम् ह् + स् [<<सावनडुहः>> [[7.1.82]] इत्यनेन नुम्-आगमः]\n→ अनड्वन् ह् स् [<<इको यणचि>> [[6.1.77]] इत्यनेन यणादेशः]\n→ अनड्वन् ह् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इत्यनेन सुँ-प्रत्ययस्य लोपः]\n→ अनड्वन् [<<संयोगान्तस्य लोपः>> [[8.2.23]] इत्यनेन हकारस्य लोपः]\nज्ञातव्यम् -\n1) अस्मिन् सूत्रे 'आत्' इति 'अ' इत्यस्य पञ्चमी-एकवचनमस्ति । अतः 'अवर्णात्' इति तस्य अर्थः जायते । अत्र तपरकरणम् नास्ति, यतः आकारस्य तपरकरणं न भवितुं शक्यते ।\n2) प्रथमैकवचनस्य प्रक्रियायाम् 'अनडुह् + सुँ' इत्यत्र वस्तुतः द्वयोः सूत्रयोः समानकाले प्रसक्तिः अस्ति -\n(अ) <<चतुरनडुहोरामुदात्तः>> [[7.1.98]] इत्यनेन आम्-आगमः । अयम् सर्वनामस्थाने परे भवति ।\n(आ) <<सावनडुहः>> [[7.1.82]] इत्यनेन नुम्-आगमः । अयं सुँ-प्रत्यये परे भवति ।\nवस्तुतः अत्र <<सावनडुहः>> [[7.1.82]] एतत् <<चतुरनडुहोरामुदात्तः>> [[7.1.98]] इत्यस्य अपवादः । अतः अत्र नुम्-आगमः एव भवेत्, आम्-आगमः न भवेत् । परन्तु एतादृशं कुर्मश्चेत् 'अनडुन्' इति दोषपूर्णमन्तिमरूपं जायते । साधु रूपम् तु 'अनड्वान्' इति अस्ति, तथा तस्य सिद्धौ नुम् तथा आम् - द्वयोः अपि आगमयोः उपस्थितिः आवश्यकी अस्ति । अतः <<सावनडुहः>> [[7.1.82]] इत्यस्मिन् सूत्रे 'आत्' इत्यस्य अनुवृत्तिः स्वीक्रियते । अनेन अयं उत्सर्ग-अपवाद-सम्बन्धः अपि विनश्यति, यतः अनडुह् + सुँ इत्यत्र केवलं <<चतुरनडुहोरामुदात्तः>> [[7.1.98]] इत्यस्यैव अवसरः जायते । (नुम्-आगमः मित्-अस्ति, अतः अन्यात् अचः परः भवति । परन्तु अनडुह्-इत्यत्र अन्तिमः अच्-वर्णः 'अ'वर्णः नास्ति । अतः अत्र अस्य सूत्रस्य प्रसक्तिः नास्ति ।) अतः अनेन सूत्रेण प्रथमसोपाने आम्-इत्यस्य आगमः क्रियते । अनेन आगमेन 'आ'कारस्य 'अनडुह्' इत्यत्र समावेशः भवति । ततः <<सावनडुहः>> [[7.1.82]] इत्यनेन नुम्-आगममपि कर्तुं शक्यते ।\n3) तथैव, सम्बोधनैकवचनस्य प्रक्रियायामपि 'अनडुह् + सुँ' इत्यत्र वस्तुतः द्वयोः सूत्रयोः समानकाले प्रसक्तिः अस्ति -\n(अ) <<अम् सम्बुद्धौ>> [[7.1.99]] इत्यनेन अम्-आगमः । अयम् सम्बुद्धेः सुँ-प्रत्यये परे एव भवति ।\n(आ) <<सावनडुहः>> [[7.1.82]] इत्यनेन नुम्-आगमः । अयं सम्बुद्धेः सुँ-प्रत्यये परे तथा च प्रथमैकवचनस्य सुँ-प्रत्यये परे भवति ।\nअत्र तु <<अम् सम्बुद्धौ>> [[7.1.99]] एतत् <<सावनडुहः>> [[7.1.82]] इत्यस्य अपवादः । अतः अत्र अम्-आगमः एव भवेत्, नुम्-आगमः न भवेत् । परन्तु एतादृशं कुर्मश्चेत् 'अनड्वट्' इति दोषपूर्णमन्तिमरूपं जायते । साधु रूपम् तु 'अनड्वन्' इति अस्ति, तथा तस्य सिद्धौ नुम् तथा अम् - द्वयोः अपि आगमयोः उपस्थितिः आवश्यकी अस्ति । अतः अत्रापि <<सावनडुहः>> [[7.1.82]] इत्यस्मिन् सूत्रे 'आत्' इत्यस्य अनुवृत्तिः स्वीकृत्य उत्सर्ग-अपवाद-सम्बन्धः विनश्यते । ततः प्रथमम् केवलं <<अम् सम्बुद्धौ>> [[7.1.99]] इत्यस्यैव अवसरः जायते , ततः च <<सावनडुहः>> [[7.1.82]] इत्यनेन नुम्-आगममपि कर्तुं शक्यते ।\nअतः अत्र एतत् स्मर्तव्यम्, यत् (1) प्रथमैकवचनस्य रूपसिद्धौ नुम्-आगमेन आम्-आगमः न बाध्यते, (2) सम्बोधनैकवचनस्य रूपसिद्धौ अम्-आगमेन नुम्-आगमः न बाध्यते, यतः अस्मिन् सूत्रे 'आत्' इत्यस्य अनुवृत्तिः स्वीकृता अस्ति ।\n " }, "71083": { "sa": "", "sd": "" }, "71084": { "sa": "दिव्-शब्दस्य सुँ-प्रत्यये परे 'औ' आदेशः भवति । ", "sd": "'औत्' इत्यत्र तकारः उच्चारणार्थः । अतः अयम् एकाल् आदेशः अस्ति, अतः दिव्-शब्दस्य अन्तिमवर्णस्य स्थाने आगच्छति । प्रक्रियाः इयम् -\nदिव् + सुँ\n→ दि औ + सुँ [<<दिव औत्>> [[7.1.84]] इति औ-आदेशः]\n→ द्यौ + सुँ [<<इको यणचि>> [[6.1.77]] इति यणादेशः]\n→ द्यौः [<<ससजुषोः रुः>> इति रूत्वम् , [[8.2.66]], <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गनिर्माणम्] ।\nज्ञातव्यम् -\n1. 'दिव् +सुँ' इत्यत्र <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इत्यनेन सुँप्रत्ययस्य लोपे प्राप्ते नित्यत्वात् परत्वात् च <<दिव औत्>> [[7.1.84]] इति औ-आदेशः भवति । अत्र <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] तथा <<दिव औत्>> [[7.1.84]] एतयोर्मध्ये उत्सर्ग-अपवादसम्बन्धः नास्तीति ज्ञातव्यम्, यतः औत्वम् 'अङ्गस्य' विधीयते, सुँलोपः 'प्रत्ययस्य' विधीयते । स्थानिनौ भिन्नौ स्तः । अतः किमपि सूत्रम् प्रथममागन्तुम् शक्नुयात् । परन्तु नित्यत्वात् औत्-आदेशः प्रथमं भवति । सुँलोपे कृते अकृते च औत्वम् भवत्येव, परन्तु औत्वे कृते सुँलोपः न भवितुमर्हति । अतः औत्वम् नित्यमस्ति, सुँलोपः अनित्यः अस्ति । अतः नित्यत्वात् औत्-आदेशः प्रथमं भवति ।\n2. 'द्यौ + सुँ' इत्यत्र अल्विधिः अस्ति, अतः स्थानिवद्भावः न भवति । अतः <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इत्यनने सुँ-प्रत्ययस्य लोपः भवितुं न अर्हति ।\n3. अनया परिभाषया पदाधिकारे अङ्गाधिकारे च ये आदेशाः विधीयन्ते, ते 'तदन्तस्य' अपि भवन्ति । अतः दिव्-इत्यस्य विहितः अयमादेशः 'सुदिव्', इत्यस्य कृते अपि भवति ।\n" }, "71085": { "sa": "पथिन्, मथिन्, ऋभुक्षिन् - एतेषामङ्गस्य सुँ-प्रत्यये परे 'आ' आदेशः भवति । ", "sd": "पथिन् (मार्गः), मथिन् (मथने प्रयुक्तः दण्डः), ऋभुक्षिन् (इन्द्रः) इतेषामङ्गस्य सुँ-प्रत्यये परे आत्-आदेशः भवति । आत्-इत्यत्र तकारः उच्चारणार्थः । अतः अनेन सूत्रेण 'आ' इति एकाल्-आदेशः विधीयते । <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यनेन अङ्गस्य अन्तिमवर्णस्य अयमादेशः भवति । यथा -\n1. पथिन् + सुँ\n→ पथि आ + स् [<<पथिमथ्यृभुक्षामात्>> [[7.1.85]] इत्यनेन नकारस्य आकारादेशः]\n→ पथ आ + स् [<<इतोऽत् सर्वनामस्थाने>> [[7.1.86]] इत्यनेन इकारस्य अकारादेशः]\n→ पन्थ् अ आ + स् [<<थो न्थः>> [[7.1.87]] इति थकारस्य 'न्थ्' आदेशः]\n→ पन्थाः [सवर्णदीर्घः, विसर्गनिर्माणम्]\nएवमेव मन्थाः इति रूपं सिद्ध्यति ।\n2. ऋभुक्षिन् + सुँ\n→ ऋभुक्षि आ + स् [<<पथिमथ्यृभुक्षामात्>> [[7.1.85]] इत्यनेन नकारस्य आकारादेशः]\n→ ऋभुक्ष आ + स् [<<इतोऽत् सर्वनामस्थाने>> [[7.1.86]] इत्यनेन इकारस्य अकारादेशः]\n→ ऋभुक्षाः [सवर्णदीर्घः, विसर्गनिर्माणम्]\nज्ञातव्यम् -\n1. यद्यपि 'न्थ्' अयमनेकाल् आदेशः, तथाप्यत्र स्थानी स्पष्टरूपेण निर्दिष्टः अस्ति । अतः 'कः स्थानी' एतादृशः अनियमः नास्ति, अतः अत्र <<अनेकाल् शित् सर्वस्य>> [[1.1.55]] अस्य न किमपि प्रयोजनम् । ] अनया परिभाषया थकारस्यैव आदेशः अत्र विधीयते ।\n2. अयमात्वम् नपुंसकस्य विषये न विधीयते । यथा, सुपथिन् इति नकारान्त-नपुंसकलिङ्गवाची शब्दः । 'सुपथिन् + सुँ' इत्यत्र <<स्वमोर्नपुंसकात्>> [[7.1.23]] इत्यनेन सुँ-प्रत्ययस्य लुकि कृते <<न लुमताङ्गस्य>> [[1.1.63]] इत्यनेन <<पथिमथ्यृभुक्षामात्>> [[7.1.85]] इति अङ्गकार्यम् निषिध्यते । अतः केवलं नकारलोपं कृत्वा 'सुपथि' इति रूपं सिद्ध्यति ।\n " }, "71086": { "sa": "पथिन्, मथिन् ऋभुक्षिन् - एतेषामङ्गस्य इकारस्य सर्वनामस्थाने परे अकारादेशः भवति । ", "sd": "पथिन् (मार्गः), मथिन् (मथने प्रयुक्तः दण्डः), ऋभुक्षिन् (इन्द्रः) इतेषामङ्गस्य ह्रस्व-इकारस्य सर्वनामस्थानप्रत्यये परे अत्-आदेशः भवति । अत्-इत्यत्र तकारः उच्चारणार्थः (अकारः विधीयमानः अस्ति, अतः तपरकरणस्य न किञ्चित् प्रयोजनम् ।) अतः अनेन सूत्रेण 'अ' इति एकाल्-आदेशः विधीयते । यथा -\n1) पथिन् + सुँ\n→ पथि आ + स् [<<पथिमथ्यृभुक्षामात्>> [[7.1.85]] इत्यनेन नकारस्य आकारादेशः]\n→ पथ आ + स् [<<इतोऽत् सर्वनामस्थाने>> [[7.1.86]] इत्यनेन इकारस्य अकारादेशः]\n→ पन्थ् अ आ + स् [<<थो न्थः>> [[7.1.87]] इति थकारस्य 'न्थ्' आदेशः]\n→ पन्थाः [सवर्णदीर्घः, विसर्गनिर्माणम्]\n2) मथिन् + औ [प्रथमाद्विवचनस्य प्रत्ययः]\n→ मथ् अ न् + औ [<<इतोऽत् सर्वनामस्थाने>> [[7.1.86]] इत्यनेन इकारस्य अकारादेशः]\n→ मन्थ् अ न् + औ [<<थो न्थः>> [[7.1.87]] इति थकारस्य 'न्थ्' आदेशः]\n→ मन्थान् + औ [<<सर्वनामस्थाने चासम्बुद्धौ>> [[6.4.8]] इति नकारान्तस्य अङ्गस्य उपधादीर्घः]\n→ मन्थानौ ।\n3) ऋभुक्षिन् + अम् [द्वितीयैकवचनस्य प्रत्ययः]\n→ ऋभुक्ष् अ न् + अम् [<<इतोऽत् सर्वनामस्थाने>> [[7.1.86]] इत्यनेन इकारस्य अकारादेशः]\n→ ऋभुक्षा न् + अम् [<<सर्वनामस्थाने चासम्बुद्धौ>> [[6.4.8]] इति नकारान्तस्य अङ्गस्य उपधादीर्घः]\n→ ऋभुक्षाणम् [ <<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इति णत्वम्]\n4) सुपथिन् (नपुंसकशब्दः) + जस् [प्रथमाबहुवचनस्य प्रत्ययः]\n→ सुपथिन् + शि [<<जश्शसोः शिः>> [[7.1.20]] इति शि-आदेशः]\n→ सुपथन् + इ [<<इतोऽत् सर्वनामस्थाने>> [[7.1.86]] इत्यनेन इकारस्य अकारः]\n→ सुपन्थन् + इ [<<थो न्थः>> [[7.1.87]] इति थकारस्य न्थ्-आदेशः]\n→ सुपन्थानि [<<इन्-हन्-पूषर्यम्णां शौ>> [[6.4.13]] इति उपधादीर्घः ]\nप्रश्नः - अस्मिन् सूत्रे 'अत्' इति किमर्थमुक्तमस्ति? पूर्वसूत्रात् 'आत्' इत्यस्य अनुवृत्तिं स्वीकुर्मश्चेदपि सुँ-प्रत्यये परे सवर्णदीर्घेन, तथा अन्येषु सर्वनामस्थानपरेषु उपधादीर्घेण तदेव अन्तिमरूपम् सिद्ध्यति किल?\nउत्तरम् - आम् । परन्तु वेदानाम् विषये ऋभुक्षिन्-शब्दस्य सर्वनामस्थाने परे विकल्पेन 'ऋभुक्षणम्' एतद् अपि रूपम् सिद्ध्यति । अयम् विकल्पः <<वा षपूर्वस्य निगमे>> [[6.4.9]] अनेन सूत्रेण दीयते । अस्य रूपसिद्धौ इकारस्य स्थाने अकारस्यैव आदेशः करणीयः । प्रक्रिया इयम् -\nऋभुक्षिन् + अम् [द्वितीयैकवचनस्य प्रत्ययः]\n→ ऋभुक्ष् अन् + अम् [<<इतोऽत् सर्वनामस्थाने>> [[7.1.86]] इत्यनेन इकारस्य अकारादेशः]\n→ ऋभुक्षन् + अम् [<<सर्वनामस्थाने चासम्बुद्धौ>> [[6.4.8]] इत्यनेन नकारान्तस्य अङ्गस्य उपधादीर्घे प्राप्ते <<वा षपूर्वस्य निगमे>> [[6.4.9]] इति विकल्पेन उपधादीर्घनिषेधः]\n→ ऋभुक्षणम् [<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इति णत्वम्]\nअत्र <<इतोऽत् सर्वनामस्थाने>> [[7.1.86]] अस्मिन् सूत्रे यदि अत्-इत्यस्य स्थाने आत्-इत्यस्य अनुवृत्तिं स्वीकुर्मश्चेत् उपधादीर्घस्य अभावे अपि ऋभुक्षाणम् इत्येव रूपसिद्धिः अभविष्यत् । अतः अत्र अत्-इति निर्देशः आवश्यकः अस्ति ।\n" }, "71087": { "sa": "पथिन् तथा मथिन् - एतयोः अङ्गस्य थकारस्य सर्वनामस्थाने परे 'न्थ्' आदेशः भवति । ", "sd": "यद्यपि अस्मिन् सूत्रे 'पथिमथ्यृभुक्षाम्' शब्दस्य अनुवृत्तिः अस्ति, तथापि 'ऋभुक्षिन्' इत्यस्य अत्र न किमपि प्रयोजनम्, यतः अस्मिन् शब्दे थकारः नास्ति । अतः केवलं 'पथिन्' तथा 'मथिन्' एतौ शब्दौ एव अत्र अनुवर्तेते । एतयोः थकारस्य सर्वनामस्थाने परे न्थ-आदेशः भवति । यथा -\n1) पथिन् + सुँ\n→ पथि आ + स् [<<पथिमथ्यृभुक्षामात्>> [[7.1.85]] इत्यनेन नकारस्य आकारादेशः]\n→ पथ आ + स् [<<इतोऽत् सर्वनामस्थाने>> [[7.1.86]] इत्यनेन इकारस्य अकारादेशः]\n→ पन्थ् अ आ + स् [<<थो न्थः>> [[7.1.87]] इति थकारस्य 'न्थ्' आदेशः]\n→ पन्थाः [सवर्णदीर्घः, विसर्गनिर्माणम्]\n2) मथिन् + अम् [द्वितीयैकवचनस्य प्रत्ययः]\n→ मथ् अ न् + अम् [<<इतोऽत् सर्वनामस्थाने>> [[7.1.86]] इत्यनेन इकारस्य अकारादेशः]\n→ मन्थ् अ न् + अम् [<<थो न्थः>> [[7.1.87]] इति थकारस्य 'न्थ्' आदेशः]\n→ मन्थान् + अम् [<<सर्वनामस्थाने चासम्बुद्धौ>> [[6.4.8]] इति नकारान्तस्य अङ्गस्य उपधादीर्घः]\n→ मन्थानम् ।\n3) सुपथिन् (नपुंसकशब्दः) + जस् [प्रथमाबहुवचनस्य प्रत्ययः]\n→ सुपथिन् + शि [<<जश्शसोः शिः>> [[7.1.20]] इति शि-आदेशः]\n→ सुपथन् + इ [<<इतोऽत् सर्वनामस्थाने>> [[7.1.86]] इत्यनेन इकारस्य अकारः]\n→ सुपन्थन् + इ [<<थो न्थः>> [[7.1.87]] इति थकारस्य न्थ्-आदेशः]\n→ सुपन्थानि [<<इन्-हन्-पूषर्यम्णां शौ>> [[6.4.13]] इति उपधादीर्घः ]" }, "71088": { "sa": "पथिन्, मथिन्, ऋभुक्षिन् - एतेषाम् भसंज्ञकस्य अङ्गस्य 'टि' संज्ञकस्य लोपः भवति ।", "sd": "किम् नाम भसंज्ञकम् ? <<यचि भम्>> [[1.4.18]] इत्यनेन असर्वनामसंज्ञके अजादि/यकारादि-प्रत्यये परे अङ्गस्य भसंज्ञा भवति ।\nकिम् नाम टिसंज्ञकम्? <<अचोऽन्त्यादि टि>> [[1.1.64]] इत्यनेन शब्दे यः अन्तिमः स्वरः, तस्मात् आरभ्य शब्दस्य अन्तपर्यन्तम् यत् विद्यमानः अंशः टिसंज्ञां प्राप्नोति ।\nपथिन् (मार्गः), मथिन् (मथने प्रयुक्तः दण्डः), ऋभुक्षिन् (इन्द्रः) इतेषाम् भसंज्ञकस्य अङ्गस्य टि-संज्ञकस्य लोपः भवति । यथा -\n1) पथिन् + टा [तृतीयैकवचनस्य प्रत्ययः । अस्मिन् प्रत्यये परे पथिन्-इत्यस्य भसंज्ञा भवति ।]\n→ पथ् आ [पथिन्-इत्यस्य टिसंज्ञकः 'इन्' इत्यस्य <<भस्य टेर्लोपः>> [[7.1.88]] इत्यनेन लोपः]\n→ पथा ।\n2) मथिन् + आम् [षष्ठ्येकवचनस्य प्रत्ययः । अस्मिन् प्रत्यये परे मथिन्-इत्यस्य भसंज्ञा भवति ।]\n→ मथ् आम् [मथिन्-इत्यस्य टिसंज्ञकः 'इन्' इत्यस्य <<भस्य टेर्लोपः>> [[7.1.88]] इत्यनेन लोपः]\n→ मथाम् ।\n3) ऋभुक्षिन् + शस् [द्वितीयैकवचनस्य प्रत्ययः । अस्मिन् प्रत्यये परे ऋभुक्षिन्-इत्यस्य भसंज्ञा भवति ।]\n→ ऋभुक्ष् + अस् [ऋभुक्षिन्-इत्यस्य टिसंज्ञकः 'इन्' इत्यस्य <<भस्य टेर्लोपः>> [[7.1.88]] इत्यनेन लोपः]\n→ ऋभुक्षः [विसर्गनिर्माणम्]\n4) सुपथिन् + औट् [द्वितीयाद्विवचनस्य प्रत्ययः । अस्मिन् प्रत्यये परे ऋभुक्षिन्-इत्यस्य भसंज्ञा भवति ।]\n→ सुपथिन् + शी [<<नपुंसकाच्च>> [[7.1.19]] इति औट्-इत्यस्य शी-आदेशः]\n→ सुपथ् +ई [सुपथिन्-इत्यस्य टिसंज्ञकः 'इन्' इत्यस्य <<भस्य टेर्लोपः>> [[7.1.88]] इत्यनेन लोपः]\n→ सुपथी\n" }, "71089": { "sa": "सर्वनामस्थाने विवक्षिते पुम्स्-इत्यस्य अङ्गस्य असुङ् आदेशः भवति । ", "sd": "पुम्स्-इत्यस्य अङ्गस्य सर्वनामस्थाने विवक्षिते असुङ् आदेशः भवति । असुङ् इत्यत्र ङकारः इत्संज्ञकः अस्ति, उकारः उच्चारणार्थः अस्ति । ङित्वात् अयमादेशः <<ङिच्च>> [[1.1.53]] इत्यनेन स्थानिनः अन्तिमवर्णस्य स्थाने विधीयते । यथा -\nपुम्स् + औ [प्रथमाद्विवचनस्य प्रत्ययः]\n→ पु मस् + औ [<<पुंसोऽसुङ्>> [[7.1.89]] इति अस्-आदेशः]\n→ पु म न् स् + औ [<<उगिदचां सर्वनामस्थानेऽधातोः>> [[7.1.70]] इत्यनेन नुमागमः]\n→ पुमा न् स् औ [<<सान्तमहतः संयोगस्य>> [[6.4.10]] इत्यनेन नकारात् पूर्वस्य अकारस्य दीर्घादेशः भवति ।]\n→ पुमान्सौ\nज्ञातव्यम् - अस्मिन् सूत्रे 'सर्वनामस्थाने' इति परसप्तमी नास्ति, विषयसप्तमी अस्ति । इत्युक्ते, 'सर्वनामस्थाने' इत्यस्य अर्थः 'सर्वनामस्थाने परे' इति अत्र न करणीयः, अपितु 'सर्वनामस्थाने विवक्षिते' इति करणीयः । सर्वनामस्थानस्य विवक्षायाम्, परन्तु सर्वनामस्थानस्य प्राप्तेः पूर्वमेव अयमादेशः भवतीति अस्य अर्थः ।\nअस्य किम् कारणम्? 'परमपुमान्' अस्य शब्दस्य प्रक्रियां पश्यामश्चेत् स्पष्टं भवेत् । 'परमः च असौ पुमान्' अस्मिन् अर्थे <<सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः>> [[2.1.61]] अनेन सूत्रेण तत्पुरुषः समासः विधीयते । तदा 'परमपुम्स्' अस्य सामासिकशब्दस्य अन्तिमः स्वरः, इत्युक्ते पकारोत्तरः उकारः <<समासस्य>> [[6.1.223]] इत्यनेन उदात्तत्वं प्राप्नोति, यत् न इष्यते । वस्तुतः असुङ्-आदेशात् अनन्तरम् यत् 'परमपुम स्' इति रूपं सिद्ध्यति, तस्य यः अन्तिमस्वरः (अकारः) सः उदात्तः अस्ति । एतत् साधयितुम् समस्तपदस्य निर्माणप्रक्रियायाम् एव सर्वनामस्थानस्य विवक्षां कृत्वा असुङ्-आदेशः करणीयः, येन 'परमपुम स्' इत्यस्यैव समस्तपदत्वं जायते, न हि केवलं 'परमपुम्स्' इत्यस्य । एवं भवति चेत् <<समासस्य>> [[6.1.123]] इत्यनेन समस्तपदस्य अन्तिमस्वरः (अकारः) उदात्तत्वं प्राप्नोति ।" }, "71090": { "sa": "गो-शब्दात् परस्य सर्वनामस्थानम् 'णित्' भवति ।", "sd": "'गो' इति ओकारान्तशब्दः । अस्मात् शब्दात् विहितः सर्वनामस्थानप्रत्ययः 'णित्' भवति (इत्युक्ते, सः णित्-वत् कार्यम् करोति) ।\nकिम् कार्यम् णित्-वत् भावस्य? <<अचो ञ्णिति>> [[7.2.115]] इत्यनेन अजन्त-शब्दस्य णित्-प्रत्यये परे वृद्धि-आदेशः भवति । यथा -\n1. गो + सुँ [प्रथमैकवचनस्य प्रत्ययः]\n→ गौ + सुँ [<<गोतो णित्>> [[7.1.90]] इति सुँ-प्रत्ययस्य णिद्वद्भावः । अतः <<अचो ञ्णिति>> [[7.2.115]] इति णित्-प्रत्यये परे अजन्तस्य अङ्गस्य वृद्धिः । ओकारस्य वृद्धिः औकारः]\n→ गौः [<<ससजुषोः रुँः>> [[8.2.66]] इति रुँत्वम् । <<खरवसानर्योविसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n2. गो + औ/औट् [प्रथमा/द्वितीयाद्विवचनस्य प्रत्ययः]\n→ गौ + औ / औट् [<<गोतो णित्>> [[7.1.90]] इति औ-प्रत्ययस्य णिद्वद्भावः । अतः <<अचो ञ्णिति>> [[7.2.115]] इति णित्-प्रत्यये परे अजन्तस्य अङ्गस्य वृद्धिः । ओकारस्य वृद्धिः औकारः]\n→ गावौ [<<एचोऽयवायावः>> [[6.1.78]] इति आव्-आदेशः]\n3. गो + जस् [प्रथमाबहुवचनस्य प्रत्ययः]\n→ गौ + अस् [<<गोतो णित्>> [[7.1.90]] इति जस्-प्रत्ययस्य णिद्वद्भावः । अतः <<अचो ञ्णिति>> [[7.2.115]] इति णित्-प्रत्यये परे अजन्तस्य अङ्गस्य वृद्धिः । ओकारस्य वृद्धिः औकारः]\n→ गावस् [<<एचोऽयवायावः>> [[6.1.78]] इति आव्-आदेशः]\n→ गावः [<<ससजुषोः रुँः>> [[8.2.66]] इति रुँत्वम् । <<खरवसानर्योविसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n<<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] अस्य सूत्रस्य एतासु प्रक्रियासु प्रसक्तिः नास्ति, यतः <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इत्यस्मिन् सूत्रे 'अकः' इति अनुवर्तते । ओकारः तु अक्-प्रत्याहारे नास्ति ।\nअत्र एकं वार्त्तिकं ज्ञातव्यम् - । इत्युक्ते, केवलं गोशब्दादेव न, अपितु सर्वेषाम् ओकारान्तशब्देभ्यः परस्य सर्वनामस्थानसंज्ञकस्य णित्-अतिदेशः भवति, इति । यथा, 'सुद्यो' अस्य ओकारान्तपुंलिङ्गशब्दस्य रूपाणि अपि गो-शब्दवदेव भवन्ति - सुद्धौः सुद्यावौ, सुद्यावः ।\nज्ञातव्यम् -\n1. अनेन सूत्रेण गो-शब्दात् परस्य सर्वनामस्थानसंज्ञकप्रत्यये 'णित्' गुणस्य आरोपणम् भवति, अतः एतत् सूत्रम् 'अतिदेशसूत्रम्' नाम्ना ज्ञायते । <ऽ अन्यतुल्यत्वविधानमतिदेशः ऽ> इति अतिदेशस्य व्याख्या ।\n2. अस्मिन् सूत्रे षष्ठ्यन्तं पदम् नास्ति, अतः <ऽ उभयनिर्देशे पञ्चमीनिर्देशः बलीयान् ऽ> अनया परिभाषया अत्र सप्तमीनिर्दिष्टः शब्दः स्थानिनः कार्यं करोति । अतएव णित्-गुणः सर्वनामस्थानस्य भवति, 'गो' शब्दस्य न ।\n3. द्वितीया-एकवचनस्य अम्-प्रत्यये परे वर्तमानसूत्रेण वृद्धि-आदेशे प्राप्ते अपवादत्वेन <<औतोम्शसोः>> [[6.1.93]] इत्यनेन पूर्वपरयोः आकारः एकादेशः भवति, अतः 'गाम्' इति रूपम् सिद्ध्यति ।\n" }, "71091": { "sa": "लिट्-लकारस्य परस्मैपदस्य उत्तमपुरुषैकवचनस्य णल्-प्रत्ययः केवलं विकल्पेन णित् भवति । ", "sd": "लिट्-लकारस्य विषये परस्मैपदस्य प्रत्ययानाम् <<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इत्यनेन भिन्नाः आदेशाः विधीयन्ते । अनेनैव सूत्रेण उत्तमपुरुष-एकवचनस्य मिप्-प्रत्ययस्य णल्-आदेशः भवति । अस्मिन् आदेशः णकारः इत्संज्ञकः अस्ति, अतः अयं आदेशः वस्तुतः 'णित्' अस्ति, परन्तु वर्तमानसूत्रेण अस्य णित्वम् केवलं विकल्पेन भवति । णित्वाभावात् <<अचो ञ्णिति>> [[7.2.115]] इत्यनेन अजन्तस्य अङ्गस्य वृद्धि-एकादेशः, तथा <<अतः उपधायाः>> [[7.2.116]] इत्यनेन अङ्गस्य उपधा-अकारस्य वृद्धि-एकादेशः - द्वावपि न विधीयेते । उदाहरणानि एतानि -\n1. पच्-धातोः लिट्-लकारस्य परस्मैपदस्य उत्तमपुरुषैकवचनस्य प्रक्रिया -\nपच् + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट्]\n→ पच् पच् + लिट् [<<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम्]\n→ प पच् + लिट् [<<हलादि शेषः>> [[7.4.60]] इति चकारलोपः]\n→ प पच् + मिप् [<<तिप्तस्झि...>> [[3.4.78]] इति मिप्-प्रत्ययः]\n→ प पच् णल् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इति मिप्-इत्यस्य णल्-आदेशः]\n→ प पाच्/पच् + अ [<<णलुत्तमो वा>> [[7.1.91]] इति वैकल्पिकम् णित्वम् । णित्वे <<अतः उपधायाः>> [[7.2.116]] इति अङ्गस्य उपधा-अकारस्य वृद्धिः आकारः]\n→ पपाच / पपच\n2. नी-धातोः लिट्-लकारस्य परस्मैपदस्य उत्तमपुरुषैकवचनस्य प्रक्रिया -\nनी + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट्]\n→ नी नी + लिट् [<<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम्]\n→ नि नी + लिट् [<<ह्रस्वः>> [[7.4.59]] इति अभ्यासस्य ह्रस्वः]\n→ नि नी + मिप् [<<तिप्तस्झि...>> [[3.4.78]] इति मिप्-प्रत्ययः]\n→ नि नी णल् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इति मिप्-इत्यस्य णल्-आदेशः]\n→ नि नै अ / नि ने अ [<<णलुत्तमो वा>> [[7.1.91]] इति वैकल्पिकम् णित्वम् । णित्वे <<अचो ञ्णिति>> [[7.2.116]] इति इकारस्य वृद्धिः ऐकारः । णित्वाभावे <<सार्वधातुकार्धधातुकयोः>> [[7.3.85]] इति इकारस्य गुणः एकारः]\n→ निनाय / निनय [<<एचोऽयवायावः>> [[6.1.78]] इति आय्/अय्-आदेशः]\n3. पू-धातोः लिट्-लकारस्य परस्मैपदस्य उत्तमपुरुषैकवचनस्य प्रक्रिया -\nपू + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट्]\n→ पू पू + लिट् [<<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम्]\n→ पु पू + लिट् [<<ह्रस्वः>> [[7.4.59]] इति अभ्यासस्य ह्रस्वः]\n→ पु पू + मिप् [<<तिप्तस्झि...>> [[3.4.78]] इति मिप्-प्रत्ययः]\n→ पु पू णल् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इति मिप्-इत्यस्य णल्-आदेशः]\n→ पु पौ अ / पु पो अ [<<णलुत्तमो वा>> [[7.1.91]] इति वैकल्पिकम् णित्वम् । णित्वे <<अचो ञ्णिति>> [[7.2.116]] इति उकारस्य वृद्धिः औकारः । णित्वाभावे <<सार्वधातुकार्धधातुकयोः>> [[7.3.85]] इति उकारस्य गुणः ओकारः]\n→ पुपाव / पुपव [<<एचोऽयवायावः>> [[6.1.78]] इति आव्/अव्-आदेशः]\n4. कृ-धातोः लिट्-लकारस्य परस्मैपदस्य उत्तमपुरुषैकवचनस्य प्रक्रिया -\nकृ + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट्]\n→ कृ कृ + लिट् [<<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम्]\n→ कर् कृ + लिट् [<<उरत्>> [[7.4.66]] इति ऋकारान्त-अभ्यासस्य ऋकारस्य अकारः । <<उरण् रपरः>> [[1.1.51]] इति सः रपरः]\n→ क कृ + लिट् [<<हलादि शेषः>> [[7.4.60]] इति ककारलोपः]\n→ च कृ + लिट् [<<कुहोश्चुः>> [[7.4.62]] इति ककारस्य चकारः]\n→ च कृ + मिप् [<<तिप्तस्झि...>> [[3.4.78]] इति मिप्-प्रत्ययः]\n→ च कृ णल् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इति मिप्-इत्यस्य णल्-आदेशः]\n→ च कार् अ / च कर् अ [<<णलुत्तमो वा>> [[7.1.91]] इति वैकल्पिकम् णित्वम् । णित्वे <<अचो ञ्णिति>> [[7.2.116]] इति ऋकारस्य वृद्धिः कारः । णित्वाभावे <<सार्वधातुकार्धधातुकयोः>> [[7.3.85]] इति ऋकारस्य गुणः अकारः । उभयत्र <<उरण् रपरः>> [[1.1.51]] इति रेफः]\nज्ञातव्यम् - अनेन सूत्रेण केवलं लिट्लकारस्य परस्मैपदस्य उत्तमपुरुषैकवचनस्य णल्-प्रत्ययस्य वैकल्पिकं णित्वम् भवति, प्रथमपुरुषैकवचनस्य णल्-प्रत्ययस्य न ।\n" }, "71092": { "sa": "सखि-शब्दात् विहितः असम्बुद्धिवाचकः सर्वनामस्थानप्रत्ययः णित्वत् भवति ।", "sd": "'सखि' अयम् कश्चन इकारान्तशब्दः । अस्मात् शब्दात् परस्य सर्वनामस्थानसंज्ञक-प्रत्ययस्य णित्वत् कार्यं भवति । परन्तु सम्बोधन-एकवचनस्य सुँ-प्रत्ययस्य णित्वत्भावः न भवति । यथा -\n1. सखि + औ / औट् [प्रथमा/द्वितीया-द्विवचनस्य प्रत्ययः]\n→ सखै + औ / औट् [<<सख्युरसम्बुद्धौ>> [[7.1.92]] इति औ/औट्-प्रत्यययोः णित्-अतिदेशः । अतः <<अचो ञ्णिति>> [[7.2.115]] इति अङ्गस्य अन्तिमवर्णस्य वृद्धिः । इकारस्य वृद्धिः ऐकारः]\n→ सखाय् + औ / औट् [<<एचोऽयवायावः>> [[6.1.78]] इति आय्-आदेशः]\n→ सखायौ\n2. सखि + जस् [प्रथमा-बहुवचनस्य प्रत्ययः]\n→ सखै + अस् [<<सख्युरसम्बुद्धौ>> [[7.1.92]] इति जस्-प्रत्ययस्य णित्-अतिदेशः । अतः <<अचो ञ्णिति>> [[7.2.115]] इति अङ्गस्य अन्तिमवर्णस्य वृद्धिः । इकारस्य वृद्धिः ऐकारः]\n→ सखाय् अस् [<<एचोऽयवायावः>> [[6.1.78]] इति आय्-आदेशः]\n→ सखायः [<<ससजुषोः रुँः>> [[8.2.66]] इति रुँत्वम् । <<खरवसानर्योविसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n3. सखि + अम् [द्वितीयैकवचनस्य प्रत्ययः]\n→ सखै + अम् [<<सख्युरसम्बुद्धौ>> [[7.1.92]] इति अम्-प्रत्ययस्य णित्-अतिदेशः । अतः <<अचो ञ्णिति>> [[7.2.115]] इति अङ्गस्य अन्तिमवर्णस्य वृद्धिः । इकारस्य वृद्धिः ऐकारः]\n→ सखाय् अम् [<<एचोऽयवायावः>> [[6.1.78]] इति आय्-आदेशः]\n→ सखायम्\n4. सखि-शब्दस्य प्रथमैकवचनस्य प्रत्यये परे अस्य सूत्रस्य अवकाशे प्राप्तेऽपि <<सर्वनामस्थाने च असम्बुद्धौ>> [[6.4.8]] इत्यस्य नित्यत्वात् तस्यैव प्रयोगः भवति -\nसखि + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः]\n→ सख् अनङ् + स् [<<अनङ् सौ>> [[7.1.93]] इति सखि-शब्दस्य अनङ्-आदेशः]\n→ सखन् + स् [इत्संज्ञालोपः]\nअस्यामवस्थायाम् -\nअ) <<सर्वनामस्थाने च असम्बुद्धौ>> [[6.4.8]] इत्यनेन असम्बुद्धौ-सर्वनामस्थाने परे नकारान्तस्य अङ्गस्य उपधादीर्घः (=आकारः) प्राप्नोति , तथा\nआ) <<सख्युरसम्बुद्धौ>> [[7.1.92]] इति सुँ-प्रत्ययस्य णित्-अतिदेशे कृते <<अतः उपधायाः>> [[7.2.116]] इति अङ्गस्य उपधावर्णस्य वृद्धिः (=आकारः) अपि प्राप्नोति ।\nअत्र एताभ्यां सूत्राभ्याम् <<अतः उपधायाः>> [[7.2.116]] इत्यस्य अपेक्षया <<सर्वनामस्थाने च असम्बुद्धौ>> [[6.4.8]] इति सूत्रम् नित्यमस्ति यतः अस्य सूत्रस्य प्रयोगः <<अतः उपधायाः>> [[7.2.116]] इत्यस्मात् अनन्तरमपि भवितुमर्हति, परन्तु <<सर्वनामस्थाने च असम्बुद्धौ>> [[6.4.8]] इत्यस्य प्रयोगं कुर्मश्चेत् <<अतः उपधायाः>> [[7.2.116]] इत्यस्य अवकाशः (= उपधा-अकारः) एव विनश्यति । अतः अत्र 'सखान् स्' इति स्थिते <ऽपूर्वपरनित्यन्तरङ्गापवादानामुत्तरोत्तरं बलीयःऽ> अनया परिभाषया नित्यसूत्रस्यैव प्रयोगः क्रियते -\n→ सखान् स् [<<सर्वनामस्थाने च असम्बुद्धौ>> [[6.4.8]] इति उपधादीर्घः]\n→ सखान् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति सुँ-प्रत्ययस्य लोपः]\n→ सखा [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति प्रातिपदिकसंज्ञकस्य पदस्य अन्तिमनकारस्य लोपः । अत्र यद्यपि प्रातिपदिकम् 'सखि' इति अस्ति, तथापि <ऽएकदेशविकृतमनन्यवत्ऽ> अनया परिभाषया 'सखा' शब्दस्य अपि प्रातिपदिकत्वं जायते ।]\n5. सम्बोधनैकवचनस्य सुँ-प्रत्यये परे अस्य सूत्रस्य प्रसक्तिः एव नास्ति, यतः अस्मिन् सूत्रे 'असम्बुद्धौ' इति उक्तमस्ति । अस्य 'मुनि' शब्दवदेव <<एङ्ह्रस्वात्सम्बुद्धेः>> [[6.1.69]] इत्यनेन अङ्गस्य गुणादेशे कृते 'हे सखे' इति रूपम् सिद्ध्यति ।\nज्ञातव्यम् -\n1. अनेन सूत्रेण सखि-शब्दात् परस्य सर्वनामस्थानसंज्ञकप्रत्यये 'णित्' गुणस्य आरोपणम् भवति, अतः एतत् सूत्रम् 'अतिदेशसूत्रम्' नाम्ना ज्ञायते । <ऽअन्यतुल्यत्वविधानमतिदेशःऽ> इति अतिदेशस्य व्याख्या ।\n2. अस्मिन् सूत्रे षष्ठ्यन्तं पदम् नास्ति, अतः <ऽउभयनिर्देशे पञ्चमीनिर्देशः बलीयान्ऽ> अनया परिभाषया अत्र सप्तमीनिर्दिष्टः शब्दः स्थानिनः कार्यं करोति । अतएव णित्-गुणः सर्वनामस्थानस्य भवति, 'सखि'शब्दस्य न ।\n3. वर्तमानसूत्रेण सखि-इत्यस्य अङ्गस्य वृद्धिं कृत्वा 'ऐ' इति अन्तिमवर्णनिर्माणम् भवति, यस्मात् परः <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] , <<जसि च>> [[7.3.109]], <<अमि पूर्वः>> [[6.1.107]] एतेषु कस्यापि प्रसक्तिः एव नास्ति ।\n" }, "71093": { "sa": "सखि-शब्दस्य असम्बुद्धिवाचके सुँ-प्रत्यये परे अनङ्-आदेशः भवति । ", "sd": "'सखि' इति कश्चन इकारान्तशब्दः । अस्य शब्दस्य प्रथमैकवचनस्य सुँ-प्रत्यये परे अनङ्-आदेशः भवति । ङित्वात् <<ङिच्च>> [[1.1.53]] इति अयमन्त्यादेशः भवति । यथा -\nसखि + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः]\n→ सख् अनङ् + स् [<<अनङ् सौ>> [[7.1.93]] इति सखि-शब्दस्य अनङ्-आदेशः]\n→ सखन् + स् [इत्संज्ञालोपः]\n→ सखान् + स् [<<सर्वनामस्थाने च असम्बुद्धौ>> [[6.4.8]] इति उपधादीर्घः]\n→ सखान् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति सुँ-प्रत्ययस्य लोपः]\n→ सखा [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति प्रातिपदिकसंज्ञकस्य पदस्य अन्तिमनकारस्य लोपः । अत्र यद्यपि प्रातिपदिकम् 'सखि' इति अस्ति, तथापि एकदेशविकृतमनन्यवत् अनया परिभाषया 'सखा' शब्दस्य अपि प्रातिपदिकत्वं जायते ।]\nअस्याम् प्रक्रियायाम् <<सख्युरसम्बुद्धौ>> [[7.1.92]] इत्यनेन सुँ-प्रत्ययस्य णिद्वद्भावे सत्यपि नित्यत्वात् <<सर्वनामस्थाने च असम्बुद्धौ>> [[6.4.8]] इत्यनेनैव उपधादीर्घः भवति, <<अतः उपधायाः>> [[7.2.116]] इत्यनेन न ।\nसम्बोधनैकवचनस्य सुँ-प्रत्यये परे अस्य सूत्रस्य प्रसक्तिः एव नास्ति, यतः अस्मिन् सूत्रे 'असम्बुद्धौ' इति अनुवर्तते । अतः अस्य 'मुनि' शब्दवदेव <<एङ्ह्रस्वात्सम्बुद्धेः>> [[6.1.69]] इत्यनेन अङ्गस्य गुणादेशे कृते 'हे सखे' इति रूपम् सिद्ध्यति ।" }, "71094": { "sa": "ऋदन्तशब्दानाम्, तथा उशनस्/पुरुदंसस्/अनेहस्-एतेषां शब्दानां असम्बुद्धौ सुँ-प्रत्यये परे अनङ् आदेशः भवति ।", "sd": "अनेन सूत्रेण चतुर्ण्णाम् शब्दानाम् विषये प्रथमैकवचनस्य सुँ-प्रत्यये परे अनङ्-आदेशः विधीयते -\n1. ऋकारान्तशब्दाः - यथा पितृ, मातृ, कर्तृ आदयः\n2. 'उशनस्' शब्दः (= शुक्राचार्यः)\n3. 'पुरुदंसस्' शब्दः (= मार्जारः)\n4. 'अनेहस्' शब्दः (= समयः)\nअनङ्-आदेशे ङकारः इत्संज्ञकः अस्ति, नकारोत्तरः अकारः च उच्चारणार्थः अस्ति, अतः द्वयोः लोपः भवति , 'अन्' इत्येव अवशिष्यते । तथा च, ङित्वात् <<ङिच्च>> [[1.1.53]] इत्यनेन अयं अन्त्यादेशः भवति । प्रक्रियाः एताः -\n1. पितृ + सुँ\n→ पित् अनङ् + स् [<<ऋतो ङिसर्वनामस्थानयोः>> [[7.3.110]] इत्यनेन अङ्गस्य गुणे प्राप्ते अपवादत्वेन <<ऋदुशनस्पुरुदंसोऽनेहसाम् च>> [[7.1.94]] इति अनङ्-आदेशः]\n→ पित् अन् + स् [इत्संज्ञालोपः]\n→ पितान् + स् [<<सर्वनामस्थाने चासम्बुद्धौ>> [[6.4.8]] इति नकारान्तस्य अङ्गस्य उपधादीर्घः]\n→ पितान् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति सुँलोपः]\n→ पिता [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः । यद्यपि मूल-प्रातिपदिकम् 'पितृ' इति अस्ति, तथापि <ऽएकदेशविकृतमनन्यवत्ऽ> अनया परिभाषया 'पिता' इत्यस्य अपि प्रातिपदिकसंज्ञा भवति ।]\n2. कर्तृ + सुँ\n→ कर्त् + अनङ् + स् [<<ऋतो ङिसर्वनामस्थानयोः>> [[7.3.110]] इत्यनेन अङ्गस्य गुणे प्राप्ते अपवादत्वेन <<ऋदुशनस्पुरुदंसोऽनेहसां च>> [[7.1.94]] इति अनङ्-आदेशः]\n→ कर्तान् स् [<<अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्>> [[6.4.11]] इत्यनेन ऋकारान्तस्य अङ्गस्य सर्वनामस्थाने परे उपधादीर्घः ।]\n→ कर्तान् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इत्यनेन सुँ-प्रत्ययस्य लोपः]\n→ कर्ता [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इत्यनेन नकारस्य लोपः]\n3. उशनस् + सुँ\n→ उशन अनङ् + सुँ <<ऋदुशनस्पुरुदंसऽनेहसाम् च>> [[7.1.94]] इति अङ्गस्य अनङ्-आदेशः]\n→ उशन अन् + स् [इत्संज्ञालोपः]\n→ उशनन् + स् [<<अतो गुणे>> [[6.1.97]] इति पररूप-एकादेशः]\n→ उशनान् स् [<<सर्वनामस्थाने चासम्बुद्धौ>> [[6.4.8]] इति उपधादीर्घः]\n→ उशनान् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इत्यनेन सुँ-प्रत्ययस्य लोपः]\n→ उशना [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इत्यनेन नकारस्य लोपः]\nतथैव 'पुरुदंसस्' इत्यस्य पुरुदंसा, तथा 'अनेहस्' इत्यस्य 'अनेहा' एते रूपे भवतः ।\nअनेन सूत्रेण निर्दिष्टः 'अनङ्' आदेशः सम्बोधनैकवचनस्य सुँ-प्रत्यये परे न भवति । यथा -\n1. कर्तृ + सुँ [सम्बोधनैकवचनस्य प्रत्ययः]\n→ कर्तर् स् [<<ऋतो ङिसर्वनामस्थानयोः>> [[7.3.110]] इत्यनेन ऋकारस्य गुणः रपरः अकारः]\n→ कर्तर् [<<रात्सस्य>> [[8.2.24]] इत्यनेन रेफात् परस्य सकारस्य लोपः]\n→ कर्तः [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इत्यनेन रेफस्य अवसाने खरि वा विसर्गः ]\nपितृ-शब्दस्य सम्बोधनैकवचनमपि अनयैव प्रक्रियया 'पितः' इति सिद्ध्यति ।\n2. उशनस् + सुँ [सम्बोधनैकवचनस्य प्रत्ययः]\n→ उशनस् [ <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इत्यनेन सुँ-प्रत्ययस्य लोपः]\n→ उशनः [<<ससजुषो रुँ>> [[8.2.66]] इति रुँत्वम् । <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\nएवमेव पुरुदंसस्-शब्दस्य 'पुरुदंसः' तथा 'अनेहस्' शब्दस्य 'अनेहः' इति रूपं सिद्ध्यति ।\nउशनस् शब्दस्य विषये एकम् वार्त्तिकम् ज्ञातव्यम् - । इत्युक्ते, उशनस्-शब्दस्य विषये सम्बोधनस्य एकवचनस्य सुँ-प्रत्यये परे वैकल्पिकः अनङ्-आदेशः , तथा (अनङ्-आदेशे कृते) वैकल्पिकः नकारलोपः भवति । अतः उशनस्-शब्दस्य सम्बोधनस्य एकवचनस्य रूपत्रयं सिद्ध्यति - उशन, उशनन्, उशनः । प्रक्रिया इयम् -\n[अ] अनङ्-आदेशः न भवति -\nउशनस् + सुँ [सम्बोधनैकवचनस्य प्रत्ययः]\n→ उशनस् [ <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इत्यनेन सुँ-प्रत्ययस्य लोपः]\n→ उशनः [<<ससजुषो रुँः>> [[8.2.66]] इति रुँत्वम् । <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n[आ] अनङ्-आदेशः भवति -\nउशनस् + सुँ [सम्बोधनैकवचनस्य प्रत्ययः]\n→ उशनस् अनङ् सुँ [<<ऋदुशनस्पुरुदंसऽनेहसाम् च>> [[7.1.94]] इति अनङ्-आदेशः]\n→ उशन अन् स् [इत्संज्ञालोपः]\n→ उशनन् स् [<<अतो गुणे>> [[6.1.97]] इति पररूपएकादेशः]\n→ उशनन् [ <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इत्यनेन सुँ-प्रत्ययस्य लोपः]\n→ उशनन् [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इत्यनेन नकारस्य लोपे प्राप्ते <<न ङि सम्बुद्ध्योः>> [[8.2.8]] इति निषेधः । परन्तु अनेन वार्तिकेन वैकल्पिकः नकारलोपः]\n→ उशन, उशनन्\nअतः उशनस्-शब्दस्य सम्बोधनैकवचनस्य उशन, उशनन्, उशनः - एतानि त्रीणि रूपाणि भवन्ति ।\n" }, "71095": { "sa": "असम्बुद्धिवाचके सर्वनामस्थाने परे क्रोष्टु-शब्दः तृच्-वत् भवति । ", "sd": "'क्रोष्टु' इति उकारान्तपुँल्लिगः शब्दः । अयं शब्दः सम्बोधनस्य सुँ-प्रत्ययं विहाय अन्येषु सर्वनामस्थानसंज्ञकप्रत्ययेषु परेषु 'तृच्-वत्' भवति । इत्युक्ते, अस्य शब्दस्य 'क्रोष्टृ' इति शब्दवत् रूपाणि भवन्ति । यथा -\n1) क्रोष्टु + सुँ [प्रथमैकवचनस्य प्रत्ययः]\n→ क्रोष्टृ + सुँ [ <<तृज्वत् क्रोष्टुः>> [[7.1.95]] इति अङ्गस्य तृज्-वत् भावः]\n→ क्रोष्ट् + अनङ् + स् [<<ऋतो ङिसर्वनामस्थानयोः>> [[7.3.110]] इत्यनेन अङ्गस्य गुणे प्राप्ते अपवादत्वेन <<ऋदुशनस्पुरुदंसोऽनेहसाम् च>> [[7.1.94]] इति अनङ्-आदेशः]\n→ क्रोष्टान् स् [<<अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्>> [[6.4.11]] इत्यनेन ऋकारान्तस्य अङ्गस्य सर्वनामस्थाने परे उपधादीर्घः ।]\n→ क्रोष्टान् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इत्यनेन सुँ-प्रत्ययस्य लोपः]\n→ क्रोष्टा [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इत्यनेन नकारस्य लोपः]\n2) क्रोष्टु + औ [प्रथमा/द्वितीया-द्विवचनस्य प्रत्ययः]\n→ क्रोष्टृ + औ [ <<तृज्वत् क्रोष्टुः>> [[7.1.95]] इति अङ्गस्य तृज्-वत् भावः]\n→ क्रोष्टर् + औ [<<ऋतो ङिसर्वनामस्थानयोः>> [[7.3.110]] इत्यनेन सर्वनामस्थाने परे अङ्गस्य गुणः । <<उरण् रपरः>> [[1.1.51]] इति सः रपरः]\n→ क्रोष्टार् + औ [<<अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्>> [[6.4.11]] अनेन अङ्गस्य उपधायाः दीर्घः]\n→ क्रोष्टारौ\n3) क्रोष्टु + जस् [प्रथमाबहुवचनस्य प्रत्ययः]\n→ क्रोष्टृ + जस् [ <<तृज्वत् क्रोष्टुः>> [[7.1.95]] इति अङ्गस्य तृज्-वत् भावः]\n→ क्रोष्टर् + अस् [<<ऋतो ङिसर्वनामस्थानयोः>> [[7.3.110]] इत्यनेन सर्वनामस्थाने परे अङ्गस्य गुणः । <<उरण् रपरः>> [[1.1.51]] इति सः रपरः]\n→ क्रोष्टारस् [<<अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्>> [[6.4.11]] अनेन अङ्गस्य उपधायाः दीर्घः]\n→ क्रोष्टारः [<<ससजुषोः रुँः>> [[8.2.66]] इति रुँत्वम् । <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n4) <<ऋतो ङिसर्वनामस्थानयोः>> [[7.3.110]] इत्यनेन सर्वनामस्थाने परे ऋकारान्तस्य अङ्गस्य गुणः । <<उरण् रपरः>> [[1.1.51]] इति सः रपरः]\nक्रोष्टु + अम् [द्वितीयैकवचनस्य प्रत्ययः]\n→ क्रोष्टृ + अम् [<<तृज्वत् क्रोष्टुः>> [[7.1.95]] इति अङ्गस्य तृज्-वत् भावः ]\n→ क्रोष्टर् + अम् [<<ऋतो ङिसर्वनामस्थानयोः>> [[7.3.110]] इत्यनेन सर्वनामस्थाने परे अङ्गस्य गुणः । <<उरण् रपरः>> [[1.1.51]] इति सः रपरः]\n→ क्रोष्टारम् [<<अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्>> [[6.4.11]] अनेन अङ्गस्य उपधायाः दीर्घः]\nसम्बोधनैकवचनस्य सुँ-प्रत्यये परे अस्य सूत्रस्य प्रसक्तिः नास्ति -\nक्रोष्टु + सुँ [सम्बोधनैकवचनम्]\n→ क्रोष्टो सुँ [<<ह्रस्वस्य गुणः>> [[7.3.108]] इति उकारस्य गुणः ओकारः]\n→ क्रोष्टो [<<एङ्ह्रस्वात् सम्बुद्धेः>> [[6.1.69]] इति सुँ-प्रत्ययस्य लोपः ]\nज्ञातव्यम् - अनेन सूत्रेण तृच्-प्रत्ययान्तशब्दानां रूपाणि क्रोष्टु-शब्दे आरोपितानि सन्ति, अतः इदम् 'अतिदेशसूत्रम्' अस्ति । अतिदेशः सप्त-प्रकारस्य वर्तते - कार्यातिदेशः, रूपातिदेशः, निमित्तातिदेशः, अर्थातिदेशः, शास्त्रातिदेशः, तादात्म्यादिदेशः तथा व्यपदेशातिदेशः । एतेषु अयम् 'रूपातिदेशः' अस्ति ।\n" }, "71096": { "sa": "स्त्रीलिङ्गे क्रोष्टु-शब्दः तृज्-वत् भवति । ", "sd": "'क्रोष्टु' इति उकारान्तपुँल्लिगः शब्दः । परन्तु स्त्रीलिङ्गस्य विषये अयं शब्दः 'तृच्-वत्' भवति । इत्युक्ते, 'क्रोष्टृ' शब्दवत् अस्य कार्यं भवति -\nक्रोष्टु\n→ क्रोष्टृ [स्त्रीलिङ्गस्य विवक्षायाम् <<स्त्रियां च>> [[7.1.96]] इति तृज्वद्भावः]\n→ क्रोष्टृ + ङीप् [स्त्रीत्वं द्योतयितुम् <<ऋन्नेभ्यो ङीप्>> [[4.1.5]] इत्यनेन 'ङीप्' प्रत्ययः]\n→ क्रोष्ट्री [<<इको यणचि>> [[6.1.77]] इति यणादेशः]\nअस्य रूपाणि 'कर्त्री' शब्दवत् भवन्ति । यथा - क्रोष्ट्री, क्रोष्ट्र्यौ क्रोष्ट्र्यः ।\n" }, "71097": { "sa": "तृतीयाविभक्तितः अग्रे अजादिषु प्रत्ययेषु परेषु क्रोष्टु-शब्दः विकल्पेन तृज्वत् भवति । ", "sd": "'क्रोष्टु' इति उकारान्तपुँल्लिगः शब्दः । अयं शब्दः तृतीया-विभक्तितः अग्रे अजादि-प्रत्ययेषु परेषु विकल्पेन 'तृच्-वत्' भवति । इत्युक्ते, अस्य शब्दस्य विकल्पेन 'क्रोष्टृ' इति शब्दवत् रूपाणि भवन्ति । तृज्वत्-भावस्य अभावे तु अस्य रुपाणि मुनि-शब्दवत् एव भवन्ति । यथा -\nक्रोष्टु + टा [तृतीयैकवचनस्य प्रत्ययः]\n→ क्रोष्टृ + आ [<<विभाषा तृतीयाऽऽदिष्वचि>> [[7.1.97]] इति वैकल्पिकः तृज्वत्-भावः]\n→ क्रोष्ट्रा [<<इको यणचि>> [[6.1.77]] इति यणादेशः]\nतृज्वत्-भावस्य अभावे -\nक्रोष्टु + टा [तृतीयैकवचनस्य प्रत्ययः]\n→ क्रोष्टु + ना [<<आङो नाऽस्त्रियाम्>> [[7.3.120]] इति टा-प्रत्ययस्य 'ना'-आदेशः]\n→ क्रोष्टुना\nएवमेव ङे / ङसिँ / ङस् / ओस् / ङि प्रत्ययेषु परेषु अपि रूपद्वयम् जायते ।\nषष्ठी-बहुवचनस्य आम्-प्रत्यये परे <<विभाषा तृतीयाऽऽदिष्वचि>> [[7.1.97]] इति वैकल्पिकः तृज्वत्-भावे प्राप्ते इति वार्तिकस्य प्रयोगः क्रियते । अनेन वार्तिकेन एतत् उच्यते, यत् तृज्वत्-भावः तथा नुडागमः - उभयोः प्रसक्तिः अस्ति चेत् नुडागमस्यैव प्रयोगः भवति, तृज्वद्भावस्य न । अतः 'क्रोष्टु + आम्' इत्यत्र <<विभाषा तृतीयाऽऽदिष्वचि>> [[7.1.97]] इत्यनेन तृज्वद्भावे प्राप्ते, तथा <<ह्रस्वनद्यापो नुट्>> [[7.1.54]] इत्यनेन नुडागमे अपि प्राप्ते अनेन वार्त्तिकेन केवलं नुडागमः एव जायते, तृज्वद्भावः न । अतः 'क्रोष्टूनाम्' इत्येव रूपं सिद्ध्यति ।\n" }, "71098": { "sa": "चतुर्-शब्दस्य, अनडुह्-शब्दस्य च सर्वनामस्थाने परे उदात्तः आम्-आगमः भवति । ", "sd": "'चतुर्' इति रेफान्तशब्दः । 'अनडुह्' इति हकारान्तशब्दः । एतयोः विषये सर्वनामस्थानसंज्ञकप्रत्यये परे 'आम्' आगमः भवति, स च उदात्तसंज्ञकः भवति । मित्वात् अयमागमः <<मिदचोऽन्त्यात्परः>> [[1.1.47]] इत्यनेन अन्त्यात् अचः परः आगच्छति । उदाहरणानि एतानि -\n1) चतुर्-शब्दः नित्यबहुवचनान्तः अस्ति, अतः अस्य शब्दस्य केवलं 'जस्' इति सर्वनामस्थानसंज्ञकः प्रत्ययः भवति -\nचतुर् + जस्\n→ चतु आम् र् + अस् [<<चतुरनडुहोरामुदात्तः>> [[7.1.98]] इति आम्-आगमः]\n→ चतु आ र् + अस् [मकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति तस्य लोपः]\n→ चत्वारस् [<<इको यणचि>> [[6.1.77]] इति यणादेशः]\n→ चत्वारः [<<ससजुषोः रुँः>> [[8.2.66]] इति रुँत्वम् । <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गनिर्माणम् ।]\n2) चतुर्-शब्दः यदि समस्तपदस्य अन्ते आगच्छति, तर्हि तस्य समस्तपदस्य अपि अयमागमः विधीयते । एतादृशस्य समस्तपदस्य रूपाणि तु सर्वासु विभक्तिषु दृश्यन्ते । यथा - 'प्रियाः चत्वारः यस्य सः' अस्मिन् अर्थे 'प्रियचतुर्' शब्दः सिद्ध्यति । अस्य प्रथमैकवचनस्य प्रक्रियायाम् -\nप्रियचतुर् + सुँ\n→ प्रियचतु आम् र् + स् [<<चतुरनडुहोरामुदात्तः>> [[7.1.98]] इति आम्-आगमः]\n→ प्रियचत्वार् स् [<<इको यणचि>> [[6.1.77]] इति यणादेशः]\n→ प्रियचत्वार् [<<रात्सस्य>> [[8.2.24]] इति रेफात् परस्य सकारस्य लोपः]\n→ प्रियचत्वाः [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n3) प्रियचतुर् + औ / औट्\n→ प्रियचतु आम् र् + औ / औट् [<<चतुरनडुहोरामुदात्तः>> [[7.1.98]] इति आम्-आगमः]\n→ प्रियचत्वारौ [ [<<इको यणचि>> [[6.1.77]] इति यणादेशः]\nएवमेव प्रियचत्वारः, प्रियचत्वारम् - एते रूपे अपि सिद्ध्यतः ।\n4) अनडुह् (= वृषभः) अस्य शब्दस्य प्रथमैकवचनस्य सुँ-प्रत्यये परे इयम् प्रक्रिया जायते -\nअनडुह् + सुँ\n→ अनडु आम् ह् स् [<<चतुरनडुहोरामुदात्तः>> [[7.1.98]] इति आम्-आगमः]\n→ अनडु आ न् ह् स् [<<सावनडुहः>> [[7.1.82]] इति नुम्-आगमः]\n→ अनड्वान् ह् स् [<<इको यणचि>> [[6.1.77]] इत्यनेन यणादेशः]\n→ → अनड्वान् ह् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इत्यनेन सुँ-प्रत्ययस्य लोपः]\n→ अनड्वान् [<<संयोगान्तस्य लोपः>> [[8.2.23]] इत्यनेन हकारस्य लोपः]\n3) अनडुह् शब्दस्य सम्बोधनैकवचनस्य प्रक्रियायामस्य सूत्रस्य प्रसक्तिः नास्ति, यतः <<अम् सम्बुद्धौ>> [[7.1.99]] इत्यनेन अपवादत्वेन अम्-आगमः विधीयते -\nअनडुह् + सुँ [सम्बुद्धिः]\n→ अनडु अम् ह् + स् [<<चतुरनडुहोरामुदात्तः>> [[7.1.98]] इति आम्-आगमे प्राप्ते अपवादत्वेन <<अम् सम्बुद्धौ>> [[7.1.99]] इत्यनेन अनडुह्-शब्दस्य अम्-आगमः ।]\n→ अनडु अ नुम् ह् + स् [<<सावनडुहः>> [[7.1.82]] इत्यनेन नुम्-आगमः]\n→ अनड्वान् ह् स् [<<इको यणचि>> [[6.1.77]] इत्यनेन यणादेशः]\n→ अनड्वान् ह् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इत्यनेन सुँ-प्रत्ययस्य लोपः]\n→ अनड्वन् [<<संयोगान्तस्य लोपः>> [[8.2.23]] इत्यनेन हकारस्य लोपः]\n4) अनडुह् + औ / औट् [प्रथमा/द्वितीया-द्विवचनम्]\n→ अनडु आम् ह् + औ / औट् [<<चतुरनडुहोरामुदात्तः>> [[7.1.98]] इति आम्-आगमः]\n→ अनड्वाहौ [<<इको यणचि>> [[6.1.77]] इत्यनेन यणादेशः]\nएवमेव अनडुह्-शब्दस्य जस्-प्रत्यये परे 'अनड्वाहः' तथा अम्-प्रत्यये परे 'अनड्वाहम्' एते रूपे सिद्ध्यतः ।\nज्ञातव्यम् - <ऽआगमाः अनुदात्ताः भवन्तिऽ> इयम् काचन परिभाषा अस्ति । अनया परिभाषया सर्वे आगमाः अनुदात्ताः विधीयन्ते । परन्तु अस्मिन् सूत्रे 'उदात्तः' इति स्पष्टरूपेण निर्दिष्टमस्ति, अतः अयमागमः उदात्तः एव ज्ञातव्यः ।\n" }, "71099": { "sa": "चतुर्-शब्दस्य, अनडुह्-शब्दस्य च सम्बोधनैकवचनस्य सुँ-प्रत्यये परे अम्-आगमः भवति ।", "sd": "'चतुर्' इति रेफान्तशब्दः । 'अनडुह्' इति हकारान्तशब्दः । एतयोः विषये सर्वनामस्थानसंज्ञकप्रत्यये परे <<चतुरनडुहोरामुदात्तः>> [[7.1.98]] इत्यनेन उदात्तसंज्ञकः 'आम्' आगमः भवति । सम्बोधनैकवचनस्य सुँ-प्रत्यये परे तं बाधित्वा वर्तमानसूत्रेण अम्-आगमः विधीयते । यत्र चतुर्-शब्दः समस्तपदस्य अन्ते अस्ति, तत्रापि अनेन सूत्रेण अम्-आगमः भवति । मित्वात् अयमागमः <<मिदचोऽन्त्यात्परः>> [[1.1.47]] इत्यनेन अन्त्यात् अचः परः आगच्छति । उदाहरणे एते -\n1. 'प्रियाः चत्वारः यस्य सः' अस्मिन् अर्थे 'प्रियचतुर्' शब्दः सिद्ध्यति । अस्य सम्बोधनैकवचनस्य प्रक्रियायाम् -\nप्रियचतुर् + सुँ [सम्बोधनैकवचनस्य प्रत्ययः]\n→ प्रियचतु अम् र् + सुँ [<<चतुरनडुहोरामुदात्तः>> [[7.1.98]] इत्यनेन उदात्तसंज्ञकः 'आम्' आगमे प्राप्ते, अपवादत्वेन <<अम् सम्बुद्धौ>> [[7.1.99]] इति अम्-आगमः]\n→ प्रियचत्व र् स् [<<इको यणचि>> [[6.1.77]] इति यणादेशः]\n→ प्रियचत्वर् [<<रात्सस्य>> [[8.2.24]] इति सकारलोपः]\n→ प्रियचत्वः [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n2. अनडुह् + सुँ [सम्बुद्धिः]\n→ अनडु अम् ह् + स् [<<चतुरनडुहोरामुदात्तः>> [[7.1.98]] इति आम्-आगमे प्राप्ते अपवादत्वेन <<अम् सम्बुद्धौ>> [[7.1.99]] इत्यनेन अनडुह्-शब्दस्य अम्-आगमः ।]\n→ अनडु अ नुम् ह् + स् [<<सावनडुहः>> [[7.1.82]] इत्यनेन नुम्-आगमः]\n→ अनड्वन् ह् स् [<<इको यणचि>> [[6.1.77]] इत्यनेन यणादेशः]\n→ अनड्वन् ह् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इत्यनेन सुँ-प्रत्ययस्य लोपः]\n→ अनड्वन् [<<संयोगान्तस्य लोपः>> [[8.2.23]] इत्यनेन हकारस्य लोपः]" }, "71100": { "sa": "दीर्घ-ॠकारान्त-धातोः अङ्गस्य अन्तिमवर्णस्य इकारादेशः भवति । ", "sd": "येषां धातूनामन्तिमवर्णः दीर्घ-ॠकारः अस्ति, तस्य अनेन सूत्रेण 'इ'-आदेशः भवति । अत्र किमपि निमित्तम् नापेक्ष्यते ।\nअनेन सूत्रेण निर्दिष्टः इ-आदेशः <<उरण् रपरः>> [[1.1.51]] इत्यनेन रपरः वर्तते । इत्युक्ते, अस्मात् इकारात् परः रेफः आगच्छति । यथा -\n1. तुदादिगणस्य 'कॄ' (विक्षेपे) अस्य धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् -\n→ कॄ + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ कॄ + तिप् [<<तिप्तस्झि..>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य विवक्षायाम् 'तिप्' प्रत्ययः]\n→ कॄ + श + ति [<<तुदादिभ्यः शः>> [[3.1.77]] इति श-विकरणप्रत्ययः]\n→ क् इर् + अ + ति [<<ॠत इद्धातोः>> [[7.1.100]] इति ॠकारस्य इकारः । <<उरण् रपरः>> [[1.1.51]] इति सः रपरः]\n→ किरति\n2. तुदादिगणस्य 'गॄ' (निगरणे) अस्य धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् -\n→ गॄ + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ गॄ + तिप् [<<तिप्तस्झि..>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य विवक्षायाम् 'तिप्' प्रत्ययः]\n→ गॄ + श + ति [<<तुदादिभ्यः शः>> [[3.1.77]] इति श-विकरणप्रत्ययः]\n→ ग् इर् + अ + ति [<<ॠत इद्धातोः>> [[7.1.100]] इति ॠकारस्य इकारः । <<उरण् रपरः>> [[1.1.51]] इति सः रपरः]\n→ गिरति / गिलति [<<अचि विभाषा>> [[8.2.21]] इति वैकल्पिकम् लत्वम् ]\n4. क्र्यादिगणे 14 धातव; दीर्घ-ऋकारान्ताः सन्ति । एतेषां सर्वेषां विषये श्ना-विकरणप्रत्यये परे <<प्वादीनां ह्रस्वः>> [[7.3.80]] इत्यनेन ह्रस्वादेशः भवति, अतः तत्र अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, शॄ (हिंसायाम्) इत्यस्य लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -\nशॄ + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ शॄ + तिप् [<<तिप्तस्झि..>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य विवक्षायाम् 'तिप्' प्रत्ययः]\n→ शॄ + श्ना + तिप् [<<क्र्यादिभ्यः श्ना>> [[3.1.81]] इति विकरणप्रत्ययः श्ना]\n→ शृ + ना + ति [शित्-प्रत्यये परे <<प्वादीनां ह्रस्वः>> [[7.3.80]] इति ह्रस्वादेशः]\n→ शृणाति [ इति णत्वम्]\nपरन्तु अन्यत्र (शित्-प्रत्ययः नास्ति चेत्) यथायोग्यं अस्य सूत्रस्य प्रयोगः दृश्यते एव -\nशॄ + क्त [<<निष्ठा>> [[3.2.102]] इति क्त-प्रत्ययः]\n→ शिर् त [<<ॠत इद्धातोः>> [[7.1.100]] इति ॠकारस्य इकारः । <<उरण् रपरः>> [[1.1.51]] इति सः रपरः]\n→ शीर् त [<<हलि च>> [[8.2.77]] इति उपधादीर्घः]\n→ शीर्न [<<रदाभ्यां निष्ठातो नः पूर्वस्य च दः>> [[8.2.42]] इति तकारस्य नकारः]\n→ शीर्ण [<<रषाभ्यां नो णः समानपदे>> [[8.4.1]] इति णत्वम्]\nअत्र एकम् वार्तिकम् ज्ञातव्यम् - । इत्युक्ते, गुणः / वृद्धिः इत्यस्य तथा इत् / उत् इत्यस्य - उभयोः कार्ययोः समानस्थले प्रसक्तिः अस्ति चेत् गुण/वृद्धिः एव भवति । यथा, तॄ (भ्वादिगणः) अस्य धातोः लट-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् -\nतॄ + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ तॄ + तिप् [<<तिप्तस्झि..>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य विवक्षायाम् 'तिप्' प्रत्ययः]\n→ तॄ + शप् + ति [<<कर्तरि शप्>> [[3.1.68]] इति शप् -विकरणप्रत्ययः]\nअत्र <<ॠत्-इद्धातोः>> [[7.1.100]] इत्यनेन ॠकारस्य इर्-आदेशः विधीयते । तथा च, <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इत्यनेन अङ्गस्य गुणादेशः अपि विधीयते । एतयोः द्वयोः कार्ययोः <<ॠत्-इद्धातोः>> [[7.1.100]] इत्यनेन निर्दिष्टः इर्-आदेशः 'अन्तरङ्गः' अस्ति, अतः <ऽपूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयःऽ> अनया परिभाषया तस्यैव प्रसक्तिः स्यात् । परन्तु अनेन वार्तिकेन एतत् निर्दिश्यते यत् इत्-आदेशस्य गुणादेशस्य च समानस्थले प्रयोगः सम्भवति चेत् गुणादेशः एव भवति । अतः अत्र ॠकारस्य गुणादेशे अकारः विधीयते, स च <<उरण् रपरः>> [[1.1.51]] इति रपरः भवति ।\n→ तर् + अ + ति [ <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणादेशः]\n→ तरति\nज्ञातव्यम् - अस्मिन् सूत्रे 'ॠत्' तथा 'इत्' उभयत्र तकारः उच्चारणार्थः अस्ति, तपरकरणार्थं न । ॠत्-इत्यत्र दीर्घस्वरेण सवर्णग्रहणम् न भवति, अतः तस्य निषेधार्थम् तरपकरणस्य प्रयोजनम् नास्ति । 'इत्' इत्यत्र इकारः विधीयमानः अस्ति, अतः <<अणुदित्सवर्णस्य चाप्रत्ययः>>[[1.1.69]] इत्यनेन सः अपि सवर्णग्रहणं न करोति, अतः तस्य विषये अपि तपरकरणस्य किमपि प्रयोजनम् नास्ति ।\n" }, "71101": { "sa": "धातौ विद्यमानस्य उपधा-ॠकारस्य इकारादेशः भवति ।", "sd": "येषां धातूनामुपधावर्णः दीर्घ-ॠकारः अस्ति, तस्य अनेन सूत्रेण 'इ'-आदेशः भवति । अत्र किमपि निमित्तम् नापेक्ष्यते । अनेन सूत्रेण निर्दिष्टः इ-आदेशः <<उरण् रपरः>> [[1.1.51]] इत्यनेन रपरः वर्तते । इत्युक्ते, अस्मात् इकारात् परः रेफः आगच्छति । यथा , कॄत् (संशब्दने) इति चुरादिगणस्य धातुः । अस्य लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -\nकॄत् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ कॄत् + णिच् + लट् [<<सत्यापपाश...>> [[3.1.25]] इति णिच्]\n→ कॄत् + इ + तिप् [<<तिप्तस्..>> [[3.4.78]] इति लट्-लकारस्य प्रथमपुरुषैकवचनस्य विवक्षायाम् तिप्-प्रत्ययः]\n→ कॄत् + इ + शप् + तिप् [<<कर्तरि शप्>> [[3.1.68]] इति औत्सर्गिकं गणविकरणम् शप्]\n→ क् इर् त् + इ + अ + ति [<<उपधायाश्च>> [[7.1.101]] इति उपधा-ॠकारस्य इकारः । <<उरण् रपरः>> [[1.1.51]] इति सः रपरः]\n→ किर्ति अ ति [वर्णमेलनम्]\n→ किर्ते अ ति [<<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणः]\n→ किर्तयति [<<एचोऽयवायावः>> [[6.1.78]] इति अय्-आदेशः]\n→ कीर्तयति [<<उपधायां च>> [[8.2.78]] इति उपधादीर्घः]\n" }, "71102": { "sa": "यस्मिन् धातौ अन्ते दीर्घः ॠकारः अस्ति, तस्मात् पूर्वः च ओष्ठ्यवर्णः अस्ति, तस्य धातोः ॠकारस्य उकारादेशः भवति । ", "sd": "'ओष्ठ्यवर्णः' इत्युक्ते सः वर्णः यस्य उच्चारणार्थम् ओष्ठयोः प्रयोगः क्रियते । <ऽउपूपध्मानीयानाम् ओष्ठौऽ> अनेन वचनेने पवर्गः, उकारः तथा उपध्मानीयः ओष्ठ्यवर्णाः सन्ति । एतेषु कश्चन एकः ऋकारान्त-धातोः उपधायामस्ति चेत् तस्य धातोः ऋकारस्य <<ऋत इद्धातोः>> [[7.1.100]] इत्यनेन प्राप्तम् इकारादेशं बाधित्वा वर्तमानसूत्रेण 'उकारादेशः' विधीयते । यथा, 'पॄ' (पालनपोषणयोः) इति जुहोत्यादिगणस्य धातुः । अस्य क्त-प्रत्यये परे इयम् प्रक्रिया जायते -\nपॄ + क्त [<<निष्ठा>> [[3.2.102]] इति क्त-प्रत्ययः]\n→ पुर् त [<<ॠत इद्धातोः>> [[7.1.100]] इति ॠकारस्य इकारे प्राप्ते अपवादत्वेन <<उदोष्ठ्यपूर्वस्य>> [[7.1.102]] इति ऋकारस्य उकारः । <<उरण् रपरः>> [[1.1.51]] इति सः रपरः]\n→ पूर् त [<<हलि च>> [[8.2.77]] इति उपधादीर्घः]\n→ पूर्त [<<रदाभ्यां निष्ठातो नः पूर्वस्य च दः>> [[8.2.42]] इति तकारस्य नकारे प्राप्ते <<न ध्याख्यापॄमूर्च्छिमदाम्>> [[8.2.57]] इति तस्य निषेधः]\nअत्र एकं वार्तिकं ज्ञातव्यम् - । इत्युक्ते, गुणः / वृद्धिः इत्यस्य तथा इत् / उत् इत्यस्य - उभयोः कार्ययोः समानस्थले प्रसक्तिः अस्ति चेत् गुण/वृद्धिः एव भवति । यथा, पॄ अस्य धातोः ण्वुल्-प्रत्ययान्तरूपस्य प्रक्रिया इयम् -\nपॄ + ण्वुल् [<<ण्वुलृतृचौ>> [[3.1.133]] इति ण्वुल्-प्रत्ययः]\n→ पॄ + अक [<<युवोरनाकौ>> [[7.1.1]] इति वु-इत्यस्य अक-आदेशः]\nअत्र <<उदोष्ठ्यपूर्वस्य>> [[7.1.102]] इत्यनेन ॠकारस्य उर्-आदेशः विधीयते । तथा च, <<अचो ञ्णिति>> [[7.2.115]] इत्यनेन अङ्गस्य वृद्धि-आदेशः अपि विधीयते । एतयोः द्वयोः कार्ययोः<<उदोष्ठ्यपूर्वस्य>> [[7.1.102]]इत्यनेन निर्दिष्टः उर्-आदेशः 'अन्तरङ्गः' अस्ति, अतः <ऽपूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयःऽ> अनया परिभाषया तस्यैव प्रसक्तिः स्यात् । परन्तु अनेन वार्तिकेन एतत् निर्दिश्यते यत् उत्-आदेशस्य तथा च गुणादेशस्य (नो चेत् वृद्ध्यादेशस्य) च समानस्थले प्रयोगः सम्भवति चेत् गुणादेशः (वृद्ध्यादेशः वा) एव भवति । अतः अत्र ऋकारस्य वृद्ध्यादेशे आकारः विधीयते, स च <<उरण् रपरः>> [[1.1.51]] इति रपरः भवति ।\n→ पार् + अक [ <<अचो ञ्णिति>> [[7.2.115]] इति वृद्धि-एकादेशः, सः च <<उरण् रपरः>> [[1.1.51]] इति रपरः]\n→ पारक" }, "71103": { "sa": "", "sd": "" }, "72001": { "sa": "परस्मैपदस्य प्रत्यये परे सिच्-प्रत्ययान्तस्य अङ्गस्य वृद्धि-आदेशः भवति ।", "sd": "किम् नाम सिच्-प्रत्ययः? <<च्लेः सिच्>> [[3.1.44]] इत्यनेन लुङ्लकारस्य प्रत्यये परे 'च्लि' इत्यस्य विकरणप्रत्ययस्य 'सिच्' आदेशः भवति । यत्र एतादृशः आदेशः भवति, तत्र परस्मैपदस्य प्रत्यये परे इगन्तस्य अङ्गस्य वृद्धिः भवति । <<इको गुणवृद्धी>> [[1.1.3]] इत्यनेन अयं वृद्धिः अङ्गस्य अन्तिम-इक्-वर्णस्य भवति ।\nयथा, कृ-धातोः लुङ्-लकारस्य प्रथमपुरुषैकवचनस्य रूपसिद्धौ -\nकृ + लुङ् [<<लुङ्>> [[3.2.110]] इति लुङ्]\nकृ + च्लि + ल् [<<च्लि लुङि>> [[3.1.43]] इति लुङ्लकारस्य प्रत्यये परे लकारविकरणम् 'च्लि']\n→ कृ + सिच् + ल् [<<च्लेः सिच्>> [[3.1.44]] इति च्ले-इत्यस्य सिच्-आदेशः ।\n→ कृ + स् + ल् [चकारस्य इत्संज्ञा, लोपः । इकारः उच्चारणार्थः ।]\n→ अट् + कृ + स् + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ + कृ + स् + तिप् [<<तिप्तस्झि...>> [[3.4.78]] इति प्रथमपुरुष-एकवचनस्य विवक्षायाम् परस्मैपदिभ्यः धातुभ्यः तिप्-प्रत्ययः]\n→ अ + कृ + स् + त् [ <<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ अ + कृ + स् + ई + त् [<<अस्तिसिचोऽपृक्ते>> [[7.3.96]] इत्यनेन अपृक्त-त्-प्रत्ययस्य ईट्-आगमः ]\n→ अ + कार् + स् + ई + त् [<<सिचि वृद्धिः परस्मैपदेषु>> [[7.2.1]] इत्यनेन सिच्-प्रत्यये परे इगन्तस्य अङ्गस्य वृद्धिः । ऋकारस्य वृद्धिः रपरः आकारः ।]\n→ अ + कार् + ष् + ई + त् [<<आदेशप्रत्यययोः>> [[8.3.59]] इत्यनेन इण्-वर्णात् परस्य सकारस्य मूर्धन्यादेशः षकारः । (रेफः इण्-प्रत्याहारे अस्ति ।)]\n→ अकार्षीत् ।\nअनेनैव प्रकारेण नी-धातोः रूपम् 'अनैषीत्' (इकारस्य वृद्धिः ऐकारः), श्रु-धातोः रूपम् 'अश्रौषीत्' (उकारस्य वृद्धिः औकारः), हृ-धातोः रूपम् 'अहार्षीत्' (ऋकारस्य वृद्धिः रपरः आकारः) - एतानि रूपाणि अपि सिद्ध्यन्ति ।\nज्ञातव्यम् - <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इत्यनेन आर्धधातुके प्रत्यये परे अङ्गस्य अन्तिमवर्णस्य यः गुणादेशः विधीयते तस्य इदम् सूत्रमपवादः अस्ति । अतः परस्मैपदस्य अङ्गस्य सिचि परे गुणस्य अपवादरूपेण वृद्धिः विधीयते ।\n" }, "72002": { "sa": "", "sd": "" }, "72003": { "sa": "", "sd": "" }, "72004": { "sa": "", "sd": "" }, "72005": { "sa": "", "sd": "" }, "72006": { "sa": "", "sd": "" }, "72007": { "sa": "", "sd": "" }, "72008": { "sa": "", "sd": "" }, "72009": { "sa": "", "sd": "" }, "72010": { "sa": "यः धातु औपदेशिक-अवस्थायामनुदात्त-एकाच्-अस्ति, तस्मात् परः इडागमः न भवति । ", "sd": "अनेन सूत्रेण 'अनिट्' धातोः व्याख्या दीयते । यस्मिन् धातौ औपदेशिक-अवस्थायाम् (इत्-संज्ञकं स्वरं विहाय) केवलं एकः एव स्वरः अस्ति, स च अनुदात्तः अस्ति, तादृशात् धातोः परः इडागमः न भवति । अतः एतादृशः धातुः 'अनिट्' अस्ति इत्युच्यते ।\nयथा -\n1. डुकृञ् (करणे) इत्यत्र ककारात् परः ऋकारः अनुदात्तः अस्ति । अतः अस्मात् परः इडागमः न भवति । यथा - कृ + तृच् → कर्तृ ।\n2. वहँ (प्रापणे) इत्यत्र वकारात् परः अकारः अनुदात्तः अस्ति । अतः अस्मात् परः इडागमः न भवति । यथा - वह् + क्त → वोढ ।\n" }, "72011": { "sa": "", "sd": "" }, "72012": { "sa": "", "sd": "" }, "72013": { "sa": "", "sd": "" }, "72014": { "sa": "", "sd": "" }, "72015": { "sa": "", "sd": "" }, "72016": { "sa": "", "sd": "" }, "72017": { "sa": "", "sd": "" }, "72018": { "sa": "", "sd": "" }, "72019": { "sa": "", "sd": "" }, "72020": { "sa": "", "sd": "" }, "72021": { "sa": "", "sd": "" }, "72022": { "sa": "", "sd": "" }, "72023": { "sa": "", "sd": "" }, "72024": { "sa": "", "sd": "" }, "72025": { "sa": "", "sd": "" }, "72026": { "sa": "", "sd": "" }, "72027": { "sa": "", "sd": "" }, "72028": { "sa": "", "sd": "" }, "72029": { "sa": "", "sd": "" }, "72030": { "sa": "", "sd": "" }, "72031": { "sa": "", "sd": "" }, "72032": { "sa": "", "sd": "" }, "72033": { "sa": "", "sd": "" }, "72034": { "sa": "", "sd": "" }, "72035": { "sa": "वलादि-आर्धधातुक-प्रत्ययस्य इट्-आगमः भवति । ", "sd": "यस्य आर्धधातुकप्रत्ययस्य प्रथमवर्णः यकारम् विहाय अन्यत् व्यञ्जनमस्ति, तस्य आर्धधातुकप्रत्ययस्य इट्-आगमः भवति ।\nयथा -\n1. [तकारादिप्रत्ययः] अर्च् + तृच् → अर्चिता ।\n2. [सकारादिप्रत्ययः] लिख् + स्य + तिप् → लेखिष्यति ।\n3. [थकारादिप्रत्ययः] चल्-धातोः लिट्-लकारस्य मध्यमपुरुषैकवचनम् - चल् + थल् → चेलिथ ।\n4. [वकारादिप्रत्ययः] पच्-धातोः लिट्-लकारस्य उत्तमपुरुषद्विवचनम् - पच् + व → पेचिव ।\n5. [मकारादिप्रत्ययः] हस्-धातोः लिट्-लकारस्य उत्तमपुरुषबहुवचनम् - हस् + म = जहसिम ।\n6. [धकारादिप्रत्ययः] स्पर्ध्-धातोः लिट्-लकारस्य मध्यमपुरुषबहुवचनम् - स्पर्ध् + ध्वे - पस्पर्धिध्वे ।\nज्ञातव्यम् -\n1. <<आर्धधातुकं शेषः>> [[3.4.114]] इत्यनेन धातुभ्यः विहिताः तिङ्भिन्नाः शित्-भिन्नाः च प्रत्ययाः 'आर्धधातुक'संज्ञकाः भवन्ति ।\n2. आर्धधातुकप्रत्यये इत्-वर्णाः सन्ति चेत् तेषां लोपं कृत्वा अनन्तरमेव 'प्रथमः वर्णः कः' इति निश्चेतव्यम् । यथा, 'ण्यत्' अस्य प्रथमः वर्णः यकारः अस्ति, यतः णकारस्य <<चुटू>> [[1.3.7]] इत्यनेन इत्संज्ञा लोपश्च भवति ।\n3. यदि प्रत्ययस्य कश्चन आदेशः उक्तः अस्ति, तर्हि प्रथमं तमादेशं कृत्वा अनन्तरमेव तस्य आदेशस्य आदिवर्णः द्रष्टव्यः । यथा, यद्यपि 'ण्वुल्' प्रत्ययः वकारादिः अस्ति, तथापि अस्य प्रत्ययस्य <<युवोरनाकौ>> [[7.1.1]] इत्यनेन अक-आदेशः भवति, यः अजादिः अस्ति । अतः ण्वुल्-प्रत्ययः अजादिः एव ज्ञातव्यः ।\n4. ये धातवः औपदेशिक-अवस्थायाम् एकाचः सन्ति, येषां स्वरः च अनुदात्तसंज्ञकः अस्ति, तेषां विषये अनेन सूत्रेण इडागमे प्राप्ते <<एकाच उपदेशेऽनुदात्तात्>> [[7.2.10]] इत्यनेन सः निषिध्यते । अतः एतेषां विषये वलादि-आर्धधातुके प्रत्यये परे अपि इडागमः न भवति । एते धातवः एव सामान्यभाषायाम् 'अनिट्' धातवः नाम्ना ज्ञायन्ते ।\n5. अस्य सूत्रस्य प्रसक्तिः आर्धधातुकप्रत्यये परे एव अस्ति, सार्वधातुके प्रत्यये परे न ।\n" }, "72036": { "sa": "", "sd": "" }, "72037": { "sa": "", "sd": "" }, "72038": { "sa": "", "sd": "" }, "72039": { "sa": "", "sd": "" }, "72040": { "sa": "", "sd": "" }, "72041": { "sa": "", "sd": "" }, "72042": { "sa": "", "sd": "" }, "72043": { "sa": "", "sd": "" }, "72044": { "sa": "", "sd": "" }, "72045": { "sa": "", "sd": "" }, "72046": { "sa": "", "sd": "" }, "72047": { "sa": "", "sd": "" }, "72048": { "sa": "", "sd": "" }, "72049": { "sa": "", "sd": "" }, "72050": { "sa": "", "sd": "" }, "72051": { "sa": "", "sd": "" }, "72052": { "sa": "", "sd": "" }, "72053": { "sa": "", "sd": "" }, "72054": { "sa": "", "sd": "" }, "72055": { "sa": "", "sd": "" }, "72056": { "sa": "", "sd": "" }, "72057": { "sa": "", "sd": "" }, "72058": { "sa": "", "sd": "" }, "72059": { "sa": "", "sd": "" }, "72060": { "sa": "", "sd": "" }, "72061": { "sa": "", "sd": "" }, "72062": { "sa": "", "sd": "" }, "72063": { "sa": "", "sd": "" }, "72064": { "sa": "", "sd": "" }, "72065": { "sa": "", "sd": "" }, "72066": { "sa": "", "sd": "" }, "72067": { "sa": "", "sd": "" }, "72068": { "sa": "", "sd": "" }, "72069": { "sa": "", "sd": "" }, "72070": { "sa": "", "sd": "" }, "72071": { "sa": "", "sd": "" }, "72072": { "sa": "", "sd": "" }, "72073": { "sa": "", "sd": "" }, "72074": { "sa": "", "sd": "" }, "72075": { "sa": "", "sd": "" }, "72076": { "sa": "", "sd": "" }, "72077": { "sa": "", "sd": "" }, "72078": { "sa": "", "sd": "" }, "72079": { "sa": "सार्वधातुक-लिङ्लकारस्य प्रत्यये यः सकारः अन्ते विद्यमानः नास्ति, तस्य लोपः भवति । ", "sd": "लिङ्लकारस्य भेदद्वयम् स्तः - <<विधिनिमन्त्रणा..>> [[3.3.161]] इत्यनेन निर्दिष्टः विधिलिङ्लकारः सार्वधातुकः अस्ति, यतः अस्य तिङ्-प्रत्ययाः <<तिङ्शित्सार्वधातुकम्>> [[3.4.113]] इत्यनेन सार्वधातुकसंज्ञकाः सन्ति । <<आशिषि लिङ्लोटौ>> [[3.3.173]] इत्यनेन निर्दिष्टः लिङ्लकारः आर्धधातुकः अस्ति, यतः अस्य तिङ्-प्रत्ययाः <<लिङाशिषि>> [[3.4.116]] इत्यनेन आर्धधातुकसंज्ञकाः सन्ति । वर्तमानसूत्रस्य प्रसक्तिः केवलं सार्वधातुकलिङ्लकारस्य विषये एव अस्ति । सार्वधातुक-लिङ्लकारस्य प्रत्यये विद्यमानः सकारः यदि अन्ते नास्ति, तर्हि वर्तमानसूत्रेण तस्य लोपः भवति ।\nवस्तुतः सार्वधातुकलिङ्लकारस्य प्रत्ययेषु कुत्रापि अनन्त्यः सकारः न दृश्यते । परन्तु भिन्नैः सूत्रैः एतेषां प्रत्ययानाम् सीयुट्, यासुट्, सुट् एते आगमाः विधीयन्ते, येषु सकारः अस्ति । <ऽआगमाः तद्गुणीभूताः तद्ग्रहणेन गृह्यन्तेऽ> इत्यनेन प्रत्यये आगमानामपि ग्रहणं भवति, अतः अनेन सूत्रेण निर्दिष्टः सकारलोपः एतेषामागमानाम् सकारस्य भवति । उदाहरणानि एतानि -\n1. लभ्-धातोः विधिलिङ्लकारस्य प्रथमपुरुषैकवचनम् -\nलभ् + लिङ् [<<विधिनिमन्त्रणा..>> [[3.3.161]] इति लिङ्लकारः]\n→ लभ् + त [ <<तिप्तस्..>> [[3.4.78]] इत्यनेन आत्मनेपदस्य प्रथमपुरुषैकवचनस्य त-प्रत्ययः]\n→ लभ् + शप् + त [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ लभ् + अ + सीयुट् + त [<<लिङस्सीयुट्>> [[3.4.102]] इति सीयुट् आगमः]\n→ लभ् + अ + सीय् + सुट् + त [<<सुट् तिथोः>> [[3.4.107]] इति सुट्-आगमः]\n→ लभ् + अ + ईय् + त [<<लिङःसलोपोऽनन्त्यस्य>> [[7.2.79]] इति द्वयोः सकारयोः लोपः]\n→ लभ् + अ + ई + त [<<लोपो व्योर्वलि>> [[6.1.66]] इति यकारलोपः]\n→ लभेत [<<आद्गुणः>> [[6.1.87]] इति गुणः]\n2. पठ्-धातोः विधिलिङ्लकारस्य प्रथमपुरुष-बहुवचनस्य रूपम् -\nपठ् + लिङ् [<<विधिनिमन्त्रणा..>> [[3.3.161]] इति लिङ्]\n→ पठ् + शप् + लिङ् [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ पठ् + अ + झि [<<तिप्तस्..>> [[3.4.78]] इति परस्मैपदस्य प्रथमपुरुष-बहुवचनस्य विवक्षायाम् 'झि' प्रत्ययः ]\n→ पठ् + अ + यासुट् + झि [<<यासुट्परस्मैपदेषूदात्तो ङिच्च>> [[3.4.103]] इति यासुट्-आगमः]\n→ पठ् + अ + या + झ [<<लिङःसलोपोऽनन्त्यस्य>> [[7.2.79]] इति यासुट्-इत्यस्य सकारस्य लोपः]\n→ पठ् + अ + इय् + झ [<<अतो येयः>> [[7.2.80]] इति या-इत्यस्य इय्-आदेशः]\n→ पठ् + अ + इय् + जुस् [<<झेर्जुस्>> [[3.4.108]] इति झि-प्रत्ययस्य जुस्-आदेशः\n→ पठ् + अ + इय् + उस् [<<चुटु>> [[1.3.7]] इति जकारस्य इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः । अत्र यद्यपि प्रत्यये सकारः अस्ति, तथापि अयं सकारः प्रत्ययस्य 'अन्ते' अस्ति, अतः वर्तमानसूत्रेण तस्य लोपः भवितुम् न अर्हति ]\n→ पठेयुस् [<<आद्गुणः>> [[6.1.87]]]\n→ पठेयुः [विसर्गनिर्माणम्]\n" }, "72080": { "sa": "अवर्णात् परस्य सार्वधातुक-लिङ्लकारस्य प्रत्ययस्य 'या' इत्यस्य इय्-आदेशः भवति । ", "sd": "सार्वधातुक-लिङ्लकारस्य प्रत्यये <<यासुट् परस्मैपदेषूदात्तो ङिच्च>> [[3.4.103]] इत्यनेन यासुट्-आगमः भवति । अस्य आगमस्य 'या' इत्यस्य अनेन सूत्रेण इय्-आदेशः विधीयते । अयमादेशः तदा एव भवति यदा अयम् 'या' इति अवर्णात् परः आगच्छति । यथा, पठ्-धातोः विधिलिङ्लकारस्य प्रथमपुरुष-एकवचनस्य रूपसिद्धिः इयम् -\nपठ् + लिङ् [<<विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्>> [[3.3.161]] इति लिङ्लकारः]\n→ पठ् + तिप् [<<तिप्तस्..>> [[3.4.78]] इत्यनेन तिप्-प्रत्ययः]\n→ पठ् + शप् + ति [<<कर्तरि शप्>> [[3.1.68]] इति औत्सर्गिकम् विकरणम् शप्]\n→ पठ् + अ + यासुट् + ति [<<यासुट् परस्मैपदेषु उदात्तः ङिच्च>> [[3.4.103]] इति यासुट्-आगमः]\n→ पठ् + अ + यास् + सुट् + ति [<<सुट् तिथोः>> [[3.4.107]] इति सुट्-आगमः]\n→ पठ् + अ + या + ति [<<लिङःसलोपोऽनन्त्यस्य>> [[7.2.79]] इति द्वयोः सकारयोः लोपः]\n→ पठ् + अ + इय् + ति [<<अतो येयः>> [[7.2.80]] इति अकारात् परस्य 'या'-इत्यस्य इय्-आदेशः]\n→ पठ् + अ + इय् + त् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ पठ् + अ + इ + त् [<<लोपो व्योर्वलि>> [[6.1.66]] इति यकारलोपः]\n→ पठ् + ए + त् [<<आद्गुणः>> [[6.1.87]] इति गुणः]\n→ पठेत्\nज्ञातव्यम् -\n1. अस्मिन् सूत्रे 'इयः' इति उक्तमस्ति, परन्तु अत्र यकारात् परः विद्यमानः अकारः केवलमुच्चारणार्थः एव अस्ति, अतः 'इय्' इत्येव आदेशरूपेण आगच्छति ।\n2. 'पठ् + अ + या + ति' अस्यामवस्थायाम् <<अतो दीर्घो यञि>> [[7.3.101]] इत्यस्य अपि प्रसक्तिः अस्ति । परन्तु वर्तमानसूत्रमपवादत्वात् या-इत्यस्य इय्-आदेशं कारयति । (अत्र नित्यं<<अतो दीर्घो यञि>> [[7.3.101]] इत्यस्यैव प्रयोगं कुर्मश्चेत् वर्तमानसूत्रस्य अवकाशः एव विनश्येत् । अतः अत्र वर्तमानसूत्रम् <<अतो दीर्घो यञि>> [[7.3.101]] इत्यस्य अपवादरूपेण कार्यं करोति ।)" }, "72081": { "sa": "", "sd": "" }, "72082": { "sa": "", "sd": "" }, "72083": { "sa": "", "sd": "" }, "72084": { "sa": "अष्टन्-शब्दस्य हलादौ विभक्तिप्रत्यये परे विकल्पेन आकारादेशः भवति । ", "sd": "'अष्टन्' इति नकारान्तः सङ्ख्यावाची शब्दः । अस्य शब्दस्य हलादि-विभक्तिप्रत्यये परे विकल्पेन आकारादेशः भवति ।\nयथा - अष्टन् + भिस् → अष्टाभिः [<<अष्टन आ विभक्तौ>> इत्यनेन नकारस्य वैकल्पिकः आकारादेशः ]\nआकारादेशस्य अभावे नकारस्य <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इत्यनेन लोपं कृत्वा 'अष्टभिः' एतत् रूपमपि सिद्ध्यति ।\nयस्मिन् समस्तपदे अष्टन्-शब्दः आगच्छति, तस्य शब्दस्यापि अनेन सूत्रेण वैकल्पिकः अकारादेशः भवति । यथा, 'अष्ट प्रियाः यस्य सः' अस्मिन् अर्थे प्रियाष्टन्' इति प्रातिपदिकम् सिद्ध्यति । अस्यापि तृतीयाबहुवचनस्य रूपद्वयं भवति - प्रियाष्टाभिः, प्रियाष्टभिः ।\nज्ञातव्यम् -\n1. अस्मिन् सूत्रे 'हलि' इति पदम् <<रायो हलि>> [[7.2.85]] इति अग्रिमसूत्रात् 'अपकर्षते' ।\n2. यद्यपि अस्मिन् सूत्रे 'वा' इत्यस्य अनुवृत्तिः नास्ति, तथापि आचार्येण स्वयम् <<अष्टनो दीर्घात्>> [[6.1.172]] अस्मिन् सूत्रे 'दीर्घ-आदेशकृत-अष्टन-शब्दात् परा असर्वनामस्थाना विभक्तिः उदात्ता भवति' इति उक्तमस्ति । एतत् अस्यैव ज्ञापकम् यत् दीर्घग्रहणम् वैकल्पिकम् स्यात्, न हि नित्यम् । अतः अनेन सूत्रेण निर्दिष्टः दीर्घादेशः विकल्पेन भवति ।\n3. अस्मिन् सूत्रे 'आ' इति निरनुनासिक-आकारस्य निर्देशः कृतः अस्ति । अत्र सवर्णग्रहणं न भवति, अतः यद्यपि अयमादेशः नकारस्य स्थाने भवति, तथापि अननुनासिक-आकारः एव विसर्गरूपेण आगच्छति ।\n4. अष्टन् + आम् इत्यत्र आदौ <<षट्चतुर्भ्यश्च>> [[7.1.55]] इत्यनेन आम्-प्रत्ययस्य नुडागमं कृत्वा ततः <<नोपधायाः>> [[6.4.7]] इत्यनेन अङ्गस्य उपधा-आकारस्य दीर्घे प्राप्ते विप्रतिषेधात् तं बाधित्वा प्रकृतसूत्रेण उपधादीर्घं कृत्वा अष्टानाम् इति रूपं सिद्ध्यति । पक्षे <<नोपधायाः>> [[6.4.7]] इत्यनेन अङ्गस्य उपधा-आकारस्य दीर्घे कृते ततः <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इत्यनेन नकारलोपं कृत्वा पुनः अष्टानाम् इत्येव रूपं सिद्ध्यति । " }, "72085": { "sa": "'रै' शब्दस्य हलादि-विभक्तिप्रत्यये परे आकारादेशः भवति । ", "sd": "'रै' (ऐकारान्तपुंलिङ्गशब्दः, 'धनम्' इत्यर्थः) अस्य अङ्गस्य हलादौ विभक्तौ परे 'आ' इति आदेशः भवति । यथा- रै + सुँ → राः । रै + भ्याम् → राभ्याम् । रै + सुप् → रासु ।\nज्ञातव्यम् -\n1. <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यनेन अयम् अन्त्यादेशः भवति ।\n2. 'हलि विभक्तौ' इत्यत्र <ऽयस्मिन् विधिः तदादौ अल्ग्रहणेऽ> इत्यनेन 'हलादिविभक्तौ परे' इत्यर्थः सिद्ध्यति ।\n" }, "72086": { "sa": "", "sd": "" }, "72087": { "sa": "", "sd": "" }, "72088": { "sa": "", "sd": "" }, "72089": { "sa": "", "sd": "" }, "72090": { "sa": "", "sd": "" }, "72091": { "sa": "", "sd": "" }, "72092": { "sa": "", "sd": "" }, "72093": { "sa": "", "sd": "" }, "72094": { "sa": "", "sd": "" }, "72095": { "sa": "", "sd": "" }, "72096": { "sa": "", "sd": "" }, "72097": { "sa": "", "sd": "" }, "72098": { "sa": "", "sd": "" }, "72099": { "sa": "विभक्तिप्रत्यये परे त्रि-शब्दस्य चतुर्-शब्दस्य च स्त्रीत्वं द्योतयितुम् तिसृ तथा चतसृ - एतौ आदेशौ भवतः । ", "sd": "'त्रि' तथा 'चतुर्' एतौ सङ्ख्यावाचिनौ शब्दौ । स्त्रीत्वस्य विवक्षायाम् विभक्तिप्रत्यये परे एतयोः (क्रमेण) 'तिसृ' तथा 'चतसृ' एतौ आदेशौ भवतः । अग्रे एतयोः रूपाणि ऋकारान्तशब्दवदेव भवन्ति । यथा -\n1. त्रि + जस् [प्रथमाबहुवचनस्य प्रत्ययः । <<सुपः>> [[1.4.103]] इति जस्-प्रत्ययस्य विभक्तिसंज्ञा]\n→ तिसृ + जस् [स्त्रीत्वस्य विवक्षायाम् <<त्रिचतुरोः स्त्रियां तिसृचतसृ>> [[7.2.99]] इति त्रि-शब्दस्य तिसृ-आदेशः]\n→ तिसृ + अस् [इत्संज्ञालोपः]\n→ तिस्रः [<<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इत्यनेन पूर्वसवर्णदीर्घे प्राप्ते अपवादत्वेन <<अचि र ऋतः>> [[7.2.100]] इति ऋकारस्य रेफादेशः]\n2. चतुर् + शस् [द्वितीयाबहुवचनस्य प्रत्ययः । <<सुपः>> [[1.4.103]] इति जस्-प्रत्ययस्य विभक्तिसंज्ञा]\n→ चतसृ + जस् [स्त्रीत्वस्य विवक्षायाम् <<त्रिचतुरोः स्त्रियां तिसृचतसृ>> [[7.2.99]] इति चतुर्-शब्दस्य चतसृ-आदेशः]\n→ चतसृ + अस् [इत्संज्ञालोपः]\n→ चतस्रः [<<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इत्यनेन पूर्वसवर्णदीर्घे प्राप्ते अपवादत्वेन <<अचि र ऋतः>> [[7.2.100]] इति ऋकारस्य रेफादेशः]\n3. त्रि + भिस् [तृतीयाबहुवचनस्य प्रत्ययः । <<सुपः>> [[1.4.103]] इति भिस्-प्रत्ययस्य विभक्तिसंज्ञा]\n→ तिसृ + भिस् [स्त्रीत्वस्य विवक्षायाम् <<त्रिचतुरोः स्त्रियां तिसृचतसृ>> [[7.2.99]] इति त्रि-शब्दस्य तिसृ-आदेशः]\n→ तिसृभिः [विसर्गनिर्माणम्]\nएतवेम तिसृभ्यः, चतसृभिः, चतसृभ्यः, तिसृषु, चतसृषु - एतानि रूपाणि अपि सिद्ध्यन्ति ।\n3. त्रि + आम् [षष्ठीबहुवचनस्य आम्-प्रत्ययः । <<सुपः>> [[1.4.103]] इति आम् -प्रत्ययस्य विभक्तिसंज्ञा]\n→ तिसृ + आम् [स्त्रीत्वस्य विवक्षायाम् <<त्रिचतुरोः स्त्रियां तिसृचतसृ>> [[7.2.99]] इति त्रि-शब्दस्य तिसृ-आदेशः]\n→ तिसृ + नुट् + आम् [ <<अचि र ऋतः>> [[7.2.100]] इति ऋकारस्य रेफादेशे प्राप्ते ; तस्मिन्नेव समये <<ह्रस्वनद्यापो नुट्>> [[7.1.54]] इत्यनेन प्रत्ययस्य नुडागमे अपि प्राप्ते इति वार्तिकस्य प्रयोगः क्रियते । अनेन वार्तिकेन नुडागमः एव भवति, <<अचि र ऋतः>> [[7.2.100]] इति रेफादेशः न ।]\n→ तिसृनाम् [<<नामि>> [[6.4.3]] इत्यनेन नाम्-प्रत्यये परे अङ्गस्य दीर्घे प्राप्ते <<न तिसृचतसृ>> [[6.4.4]] इति निषेधः]\n→ तिसृणाम् [ अनेन वार्तिकेन णत्वम् भवति ]\nएवमेव चतसृणाम् इत्यपि रूपं सिद्ध्यति ।\nअस्मिन् सूत्रे निर्दिष्टम् 'स्त्रीत्वम्' त्रि-शब्दस्य चतुर्-शब्दस्य अस्ति, अङ्गस्य न । इत्युक्ते, समस्तपदस्य विषये अनेन सूत्रेण निर्दिष्टः आदेशः तदैव भवति यदा त्रि-शब्दस्य चतुर्-शब्दस्य वा स्त्रीत्वम् विवक्षते । यथा -\n1. 'प्रियाः तिस्रः ललनाः यस्य सः' इत्यत्र यद्यपि समस्तपदम् पुंलिङ्गे अस्ति, तथापि 'त्रि' शब्दस्य तु स्त्रीत्वमेव विवक्षते । अतः अत्र त्रि-शब्दस्य 'तिसृ' आदेशः भवति । यथा -\nप्रियत्रि + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः । <<सुपः>> [[1.4.103]] इति आम्-प्रत्ययस्य विभक्तिसंज्ञा]\n→ प्रियतिसृ + स् [स्त्रीत्वस्य विवक्षायाम् <<त्रिचतुरोः स्त्रियां तिसृचतसृ>> [[7.2.99]] इति त्रि-शब्दस्य तिसृ-आदेशः]\n→ प्रियतिसन् + स् [<<ऋदुशनस्पुरुदंसोऽनेहसां च>> [[7.1.94]] इति अनङ्-आदेशः]\n→ प्रियतिसान् स् [<<सर्वनामस्थाने चासम्बुद्धौ>> [[6.4.8]] इति नकारान्तस्य अङ्गस्य उपधादीर्घः]\n→ प्रियतिसान् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति सुँलोपः]\n→ प्रियतिसा [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः]\nतथैव प्रियतिसारौ, प्रियतिसारः आदीनि रूपाणि अपि भवन्ति ।\n2. 'प्रियाः त्रयः यस्याः सा' इत्यत्र यद्यपि समस्तपदम् स्त्रीलिङ्गे अस्ति, तथापि 'त्रि' शब्दस्य तु पुंस्त्वमेव विवक्षते । अतः अत्र त्रि-शब्दस्य 'तिसृ' आदेशः न भवति । यथा -\nप्रियत्रि + सुँ [प्रथमैजवचनस्य सुँ-प्रत्ययः]\n→ प्रियत्रिः [विसर्गनिर्माणम्]\nएवमेव प्रथमाद्विवचनस्य 'प्रियत्री', प्रथमाबहुवचनस्य 'प्रियत्रयः' आदीनि रूपाणि अपि सिद्ध्यन्ति ।\nअत्र एकम् वार्तिकम् ज्ञातव्यम् - । इत्युक्ते, <<संज्ञायां कन्>> [[8.3.87]] अनेन कन्-प्रत्यये कृते त्रि-शब्दस्य स्त्रीत्वस्य विवक्षायाम् तिसृ-आदेशः भवति । यथा -\nत्रि + कन् [<<संज्ञायां कन्>> [[8.3.87]] इति कन्-प्रत्ययः]\n→ तिसृ + कन् + टाप् [स्त्रीत्वस्य विवक्षायाम् <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्-प्रत्ययः, त्रि-शब्दस्य इति तिसृ-आदेशः]\n→ तिसृका\nकन्-प्रत्ययस्य चतुर्-शब्दस्य विषये प्रसक्तिः नास्ति ।\n" }, "72100": { "sa": "तिसृ-शब्दस्य चतसृ-शब्दस्य ऋकारस्य अजादि-विभक्तौ परे रेफादेशः भवति । ", "sd": "त्रि-शब्दस्य चतुर्-शब्दस्य स्त्रीत्वस्य विवक्षायाम् विभक्तिप्रत्यये परे <<त्रिचतुरोः स्त्रियां तिसृचतसृ>> [[7.2.99]] इत्यनेन तिसृ/चतसृ आदेशौ भवतः । अजादौ विभक्तिप्रत्यये परे एतयोः ऋकारस्य रेफादेशः भवति । यथा -\n1) तिसृ + जस् [प्रथमैकवचनस्य प्रत्ययः] इत्यत्र -\n<<इको यणचि>> [[6.1.77]] इत्यनेन यणादेशे (= रेफे) प्राप्ते -\nपरत्वात् <<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इत्यनेन पूर्वसवर्णदीर्घे प्राप्ते -\n<ऽवार्णादाङ्गं बलीयःऽ> अनया परिभाषया , अपवादत्वेन च <<अचि र ऋतः>> [[7.2.100]] इति ऋकारस्य रेफादेशः विधीयते ।\n→ तिस्रः [विसर्गनिर्माणम्]\nतथैव 'चतस्रः' इत्यपि सिद्ध्यति ।\n2) प्रियतिसृ + ङसिँ [पञ्चम्येकवचनस्य प्रत्ययः] इत्यत्र -\n<<इको यणचि>> [[6.1.77]] इत्यनेन यणादेशे (= रेफे) प्राप्ते -\nपरत्वात् <<ऋत उत्>> [[6.1.102]] इत्यनेन पूर्वपरयोः एकत्वेन उत्वे प्राप्ते -\n<ऽवार्णादङ्गं बलीयःऽ> अनया परिभाषया , अपवादत्वेन च <<अचि र ऋतः>> [[7.2.100]] इति ऋकारस्य रेफादेशः विधीयते ।\n→ प्रियतिस्रः [विसर्गनिर्माणम्]\nतथैव प्रितचतसृ-शब्दस्यापि पञ्चमी-षष्ठ्येकवचनस्य रूपम् 'प्रियचतस्रः' इति जायते ।\n3) प्रियतिसृ + ङि [सप्तम्येकवचनस्य प्रत्ययः] इत्यत्र -\n<<इको यणचि>> [[6.1.77]] इत्यनेन यणादेशे (= रेफे) प्राप्ते -\n<ऽवार्णादङ्गं बलीयःऽ> अनया परिभाषया <<ऋतो ङि सर्वनामस्थानयोः>> [[7.3.110]] इति अङ्गस्य गुणे प्राप्ते -\nअपवादत्वेन <<अचि र ऋतः>> [[7.2.100]] इति ऋकारस्य रेफादेशः विधीयते ।\n→ प्रियतिस्रि\nतथैव प्रियचतसृ-शब्दस्य 'प्रियचतस्रि' इति रूपं सिद्ध्यति ।\n4) तिसृ + आम् अस्य विषये वर्तमानसूत्रस्य प्रतिषेधं कृत्वा नुडागमः विधीयते । यथा -\nतिसृ + आम् [षष्ठीबहुवचनस्य प्रत्ययः]\n→ तिसृ + नुट् + आम् [ <<अचि र ऋतः>> [[7.2.100]] इति ऋकारस्य रेफादेशे प्राप्ते ; तस्मिन्नेव समये <<ह्रस्वनद्यापो नुट्>> [[7.1.54]] इत्यनेन प्रत्ययस्य नुडागमे अपि प्राप्ते इति वार्तिकस्य प्रयोगः क्रियते । अनेन वार्तिकेन नुडागमः एव भवति, <<अचि र ऋतः>> [[7.2.100]] इति रेफादेशः न ।]\n→ तिसृनाम् [<<नामि>> [[6.4.3]] इत्यनेन नाम्-प्रत्यये परे अङ्गस्य दीर्घे प्राप्ते <<न तिसृचतसृ>> [[6.4.4]] इति निषेधः]\n→ तिसृणाम् [ अनेन वार्तिकेन णत्वम् भवति ]\nअनेन प्रकारेण वर्तमानसूत्रम् 'पूर्वसवर्णदीर्घः', 'उत्वम्' तथा 'गुणादेशः' - एतेषामपवादरूपेण आगच्छति, तथा नुडागमः वर्तमानसूत्रस्य प्रतिषेधं कृत्वा प्रवर्तते । " }, "72101": { "sa": "जरा-शब्दस्य अजादिषु विभक्तिषु परेषु विकल्पेन 'जरस्' आदेशः भवति । ", "sd": "जरा (=वृद्धत्वम्) अयमाकारान्त-स्त्रीलिङ्गः शब्दः । अस्य शब्दस्य अजादिषु विभक्तिप्रत्ययेषु परेषु विकल्पेन जरस्-इति आदेशः भवति । <<अनेकाल् शित् सर्वस्य>> [[1.1.55]] इत्यनेन अनेकाल्-आदेशः सम्पूर्ण-स्थानिनः स्थाने आगच्छति, अतः 'जरस्' आदेशः 'जरा' शब्दस्य स्थाने सर्वादेशरूपेण आगच्छति ।\nयथा -\n1. जरा + औ → जरस् + औ [<<जराया जरसन्यतरस्याम्>> [[7.2.101]] इति जरस्-आदेशः] → जरसौ\n2. जरा + टा → जरस् + टा [<<जराया जरसन्यतरस्याम्>> [[7.2.101]] इति जरस्-आदेशः] → जरसा\nजरस्-आदेशस्य अभावे माला-शब्दवदेव रूपाणि भवन्ति - जरा, जरे जराः - आदयः\nअस्य सूत्रस्य विषये तिस्रः परिभाषाः ज्ञातव्याः -\n1. <ऽपदाङ्गाधिकारे तस्य च तदन्तस्य चऽ> । अस्याः परिभाषायाः अर्थः अयम् - पदाधिकारे अङ्गाधिकारे च यत् किमपि कार्यम् प्रोक्तं अस्ति, तत् निर्दिष्टस्य शब्दस्य तु भवत्येव, परन्तु सः निर्दिष्टः शब्दः यस्य अन्ते अस्ति, तस्य 'समस्तपदस्य' अपि भवति । वर्तमानसूत्रमङ्गाधिकारे अस्ति, अतः 'जरा' शब्दस्य अनेन सूत्रेण निर्दिष्टः आदेशः 'निर्जरा' शब्दस्यापि भवेत् । इयमेव 'तदन्त' परिभाषा ।\n2. <ऽनिर्दिश्यमानस्य आदेशाः भवन्तिऽ> । अस्याः परिभाषायाः अर्थः अयम् - तदन्तपरिभाषया यद्यपि किञ्चन कार्यम् 'तदन्त'स्य भवति, तथापि आदेशः तु केवलं सूत्रेण निर्दिश्यमान्यैव भवति, सम्पूर्णस्य समस्तपदस्य न । यथा, 'जरा' शब्दस्य अनेन सूत्रेण निर्दिष्टः आदेशः यद्यपि 'निर्जरा' शब्दस्यापि भवति, तथापि 'जरा' इत्यस्यैव स्थाने 'जरस्' आदेशः विधीयते, 'निर्जरा' शब्दस्य स्थाने न ।\nयथा - निर्जरा + टा → निर्जरसा, निर्जरया । अजरा + ङे → अजरसे, अजरस्यै ।\n2. <ऽएकदेशविकृतमनन्यवत्ऽ> । अस्याः परिभाषायाः अर्थः अयम् - कश्चन शब्दः एकस्मिन् भागे यद्यपि विकृतः / परिवर्तितः अस्ति, तथापि सः 'अन्यवत्' न भवति, मूलशब्दवत् एव भवति । यथा, 'जरा यस्या अस्ति सः' अस्मिन् अर्थे 'जर' इति अकारान्तपुंलिङ्गः शब्दः सिद्ध्यति । अत्र <<गोस्त्रियोरुपसर्जनस्य>> [[1.2.48]] इत्यनेन ह्रस्वादेशे कृते 'जर' इति सिद्ध्यति । अनया प्रक्रियया निर्मितः जर-शब्दः 'जरा'शब्दस्य केवलमाकारे परिवर्तनम् कृत्वैव जायते, अतः वर्तमानसूत्रे जरा-शब्दस्य अस्मिन् सूत्रे यत् कार्यमुक्तमस्ति, तत् 'जर' इति अकारान्त-शब्दस्य अपि भवति । अतः 'जर' शब्दस्यापि अजादिषु विभक्तिषु परेषु वैकल्पिकः जरस्-आदेशः भवति । यथा - जरसौ, जरसः, जरसा - आदयः ।\nएतासाम् तिसृणाम् परिभाषानाम् प्रयोगेण 'निर्जर' इति अकारान्त-पुंलिङ्गशब्दस्यापि अनेन सूत्रेण अजादिविभक्तौ परे वैकल्पिकः जरस्-आदेशः विधीयते । यथा -\n1. निर्जर + टा [तृतीयैकवचनस्य प्रत्ययः]\n→ निर्जरस् + टा [<<जराया जरसन्यतरस्याम्>> [[7.2.101]] इति जर-शब्दस्य जरस्-आदेशः। <<टाङसिङसामिनात्स्याः>> [[7.1.12]] एतम् परत्वात् नित्यत्वात् च बाधित्वा अयमादेशः प्रथमः करणीयः]\n→ निर्जरसा\nएवमेव निर्जरसौ, निर्जरसः, निर्जरसे आदीनि रूपाणि सिद्ध्यन्ति ।\nजरस्-आदेशस्य अभावे तु राम-शब्दवदेव रूपाणि भवन्ति - निर्जरौ, निर्जराः, निर्जरेण ।\nअयमादेशः अजादिविभक्तेः विषये एव भवति, हलादिविभक्तेः विषये न । यथा - निर्जर + सुँ → निर्जरः ।\n'अतिजर' शब्दस्य नपुंसकलिङ्गस्य रूपेषु अपि अनेन सूत्रेण अजादिषु विभक्तिषु परेषु वैकल्पिकः जरस्-आदेशः भवति । अत्र प्रक्रिया इयम् जायते -\n1. अतिजर + औ / औट्\n→ अतिजरस् + औ / औट् [<<जराया जरसन्यतरस्याम्>> [[7.2.101]] इति जरा-शब्दस्य जरस्-आदेशः]\n→ अतिजरस् + शी [<<नपुंसकाच्च>> [[7.1.19]] इति शी-आदेशः]\n→ अतिजरसी\nजरस्-आदेशस्य अभावे 'अजरे' इति फल-शब्दवत् रूपं भवति ।\n2. अतिजर + जस् / शस्\n→ अतिजरस् + जस् / शस् [<<जराया जरसन्यतरस्याम्>> [[7.2.101]] इति जरा-शब्दस्य जरस्-आदेशः]\n→ अतिजरस् + शि [<<जश्शसोः शिः>> [[7.1.20]] इति प्रत्ययस्य शि-आदेशः]\n→ अतिजर न् स् + इ [<<नपुंसकस्य झलचः>> [[7.1.72]] इति नुमागमः]\n→ अतिजरान् सि [<<सान्तमहतः संयोगस्य>> [[6.4.10]] इति नकारस्य उपधादीर्घः]\n→ अतिजरांसि [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति अपदान्त-नकारस्य अनुस्वारः]\n जरस्-आदेशस्य अभावे 'अतिजराणि' इति फल-शब्दवत् रूपं भवति ।\n3. अतिजर + अम्\n→ अतिजरस् + अम् [<<जराया जरसन्यतरस्याम्>> [[7.2.101]] इति जरा-शब्दस्य जरस्-आदेशः । अस्मिन् आदेशे प्राप्ते अग्रे <<स्वमोर्नपुंसकात्>> [[7.1.22]] इत्यनेन अम्-प्रत्ययस्य 'लुक्' न क्रियते, यतः तथा कुर्मश्चेत् जरस्-आदेश-निमित्तका अजादि-विभक्तिः एव विनश्येत् , यत् <ऽसन्निपातलक्षणविधिः अनिमित्तकः तद्विघातस्यऽ> अनया परिभाषया न अनुमन्यते ।\nप्रश्नः - अतिजर + सुँ' इत्यत्र अजादिविभक्तिप्रत्ययः नास्ति, अतः वर्तमानसूत्रस्य सूत्रस्य प्रसक्तिः न भवति । परन्तु <<अतोऽम्>> [[7.1.23]] इत्यनेन सुँ-प्रत्ययस्य अम्-आदेशः क्रियते चेत् अजादित्वं लभ्यते । अस्यामवस्थायाम् 'अतिजर' शब्दस्य 'अतिजरस्' आदेशः भवति वा?\nउत्तरम् - अत्र सुँ-प्रत्ययस्य अम्-आदेशः अङ्गस्य अजन्तत्वात् क्रियते, अतः <ऽसन्निपातलक्षणविधिः अनिमित्तकः तद्विघातस्यऽ> अनया परिभाषया अम्-आदेशेन अङ्गस्य अजन्तत्वस्य नाशः न क्रियते । अतः अत्र जरा-शब्दस्य जरस्-आदेशः न भवति ।\n" }, "72102": { "sa": "त्यदादिगणस्य शब्दानाम् विभक्तिप्रत्यये परे अकारादेशः भवति । ", "sd": "'त्यदादिगणः' नाम कश्चन गणः अस्ति । अस्मिन् गणे अष्ट शब्दाः समाविश्यन्ते - त्यद्, तद्, यद्, एतद्, इदम्, अदस्, एक, द्वि । एतेषाम् सर्वेषाम् शब्दानाम् विभक्तिप्रत्यये परे अङ्गस्य अकारादेशः भवति । <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यनेन अयम् अन्त्यादेशः भवति । कानिचन उदाहरणानि एतानि -\n1. त्यद् + टा [तृतीया-एकवचनस्य प्रत्ययः]\n→ त्यद् + इन [<<टाङसिङसामिनात्स्याः>> [[7.2.102]] इत्यनेन टा-इत्यस्य इन-आदेशः]\n→ त्य अ + इन [ <<त्यदादीनामः>> [[7.1.12]] इत्यनेन त्यद्-इत्यस्य दकारस्य अकारादेशः]\n→ त्य + इन [<<अतो गुणे>> [[6.1.97]] इति अकार-अकारयोः पररूपः अकारः]\n→ त्येन [<<आद्गुणः>> [[6.1.87]] इति गुण-एकादेशः]\n2. तद् + ङे [चतुर्थी-एकवचनस्य प्रत्ययः]\n→ तअ + ङे [<<त्यदादीनामः>> [[7.2.102]] इत्यनेन तद्-इत्यस्य दकारस्य अकारादेशः]\n→ त अ स्मै [<<सर्वनाम्नः स्मै>> [[7.1.14]] इति ङे-प्रत्ययस्य स्मै-आदेशः]\n→ तस्मै [<<अतो गुणे>> [[6.1.97]] इति अकार-अकारयोः पररूपः अकारः]\n3. यद् + जस् [प्रथमा/बहुवचनस्य प्रत्ययः]\n→ य अ +जस्[<<त्यदादीनामः>> [[7.2.102]] इत्यनेन यद्-इत्यस्य दकारस्य अकारादेशः]\n→ य + जस् [<<अतो गुणे>> [[6.1.97]] इति अकार-अकारयोः पररूपः अकारः]\n→ य + शी [<<जसः शी>> [[7.1.17]] इति शी-आदेशः]\n→ य + ई [<<लशक्वतद्धिते>> [[1.3.8]] इति शकारस्य इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ ये [<<आद्गुणः>> [[6.1.87]] इति गुण-एकादेशः]\n4. एतद् + भ्याम् [तृतीया-चतुर्थी-पञ्चमी-द्विवचनस्य प्रत्ययः]\n→ एत अ भ्याम् [<<त्यदादीनामः>> [[7.2.102]] इत्यनेन एतद्-इत्यस्य दकारस्य अकारादेशः]\n→ एत भ्याम् [<<अतो गुणे>> [[6.1.97]] इति अकार-अकारयोः पररूपः अकारः]\n→ एताभ्याम् [<<सुपि च>> इति अकारस्य आकारः]\n5. इदम् + भ्यस् [चतुर्थी-पञ्चमीबहुवचनस्य प्रत्ययः]\n→ अम् + भ्यस् [<<हलि लोपः>> [[7.2.113]] इति 'इद्' इत्यस्य लोपः]\n→ अ अ भ्यस् [<<त्यदादीनामः>> [[7.2.102]] इत्यनेन इदम्-इत्यस्य मकारस्य अकारादेशः]\n→ अ भ्यस् [<<अतो गुणे>> [[6.1.97]] इति अकार-अकारयोः पररूपः अकारः]\n→ ए भ्यस् [<<बहुवचने झल्येत्>> [[7.3.103]] इति अकारस्य एकारः]\n→ एभ्यः [विसर्गनिर्माणम्]\n6. अदस् + औ / औट् [प्रथमा/द्वितीया-द्विवचनस्य प्रत्ययः]\n→ अद अ + औ / औट् [<<त्यदादीनामः>> [[7.2.102]] इत्यनेन अदस्-इत्यस्य सकारस्य अकारादेशः]\n→ अद + औ / औट् [<<अतो गुणे>> [[6.1.97]] इति अकार-अकारयोः पररूपः अकारः]\n→ अदौ [<<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इति पूर्वसवर्णदीर्घे प्राप्ते <<नादिचि>> [[6.1.103]] इति तस्य निषेधः । अतः <<वृद्धिरेचि>> [[6.1.88]] इति वृद्धि-एकादेशः]\n→ अमू [<<अदसोऽसेर्दादु दो मः>> [[8.2.80]] इति औकारस्य ऊकारः, दकारस्य च मकारः]\n7. एक-शब्दस्य विषये अनेन सूत्रेण अकारस्य अकारादेशः एव विधीयते, अतः अस्य सूत्रस्य एक-शब्दस्य विषये किमपि प्रयोजनम् नास्ति ।\n8. द्वि + ओस् [षष्ठी-सप्तमी-द्विवचनस्य प्रत्ययः]\n→ द्व् अ + ओस् [<<त्यदादीनामः>> [[7.2.102]] इत्यनेन द्वि-इत्यस्य इकारस्य अकारादेशः]\n→ द्वे +ओस् [<<ओसि च>> [[7.3.104]] इति ओकारादेशः]\n→ द्वयोस् [<<एचोऽयवायावः>> [[6.1.78]] इति अय्-आदेशः]\n→ द्वयोः [विसर्गनिर्माणम्]\nज्ञातव्यम् -\n1. त्यदादिगणः वस्तुतः सर्वादिगणस्य एकः उपगणः अस्ति । अतः एतेषाम् शब्दानाम् सर्वनामसंज्ञा भवति चेदेव अस्य सूत्रस्य प्रयोगः भवति, न अन्यथा । यथा, कस्यचन व्यक्तेः नाम 'त्यद्' इति अस्ति चेत् तस्य रूपाणि 'त्यद् त्यदौ त्यदः' एतादृशानि एव भवन्ति ।\n2. समस्तपदे त्यदादिगणस्य शब्दः प्रधानः अस्ति चेदेव अस्य सूत्रस्य प्रयोगः भवति, उपसर्जनः (=अप्रधानः) अस्ति चेत् न भवति । यथा -\nअ) परमश्च तत् = 'परमतद्' अस्मिन् समस्तपदे 'तद्' इति प्रधानपदमस्ति, अतः अस्य रूपेषु वर्तमानसूत्रस्य प्रयोगं कृत्वा तद्-शब्दवदेव प्रक्रिया जायते - परमसः, परमतौ, परमते ।\nआ) द्वौ अतिक्रान्तः = अतिद्वि । अत्र द्वि-शब्दः अप्रधानः अस्ति, अतः अत्र वर्तमानसूत्रस्य प्रयोगः न भवति, मुनि-शब्दवदेव रूपाणि जायन्ते । यथा - अतिद्विः, अतिद्वी, अतिद्वयः ।\n3. <<प्राग्दिशो विभक्तिः>> [[5.3.1]] अनेन सूत्रेण केषाञ्चन तद्धित-प्रत्ययानामपि विभक्तिसंज्ञा भवति । तेषां विषये अपि अस्य सूत्रस्य प्रसक्तिः अस्ति । यथा -\nयद् + त्रल् [<<सप्तम्यास्त्रल्>> [[5.3.10]] इति त्रल-प्रत्ययः । <<प्राग्दिशो विभक्तिः>> [[5.3.1]] इति अस्य विभक्तिसंज्ञा]\n→ य अ त्रल् [<<त्यदादीनामः>> [[7.2.102]] इत्यनेन यद्-इत्यस्य दकारस्य अकारादेशः]\n→ यत्र [<<अतो गुणे>> [[6.1.97]] इति अकार-अकारयोः पररूपः अकारः]\n4. सर्वनामशब्दानाम् <<अव्ययसर्वनाम्नामकच् प्राक्टेः>> [[5.3.71]] अनेन सूत्रेण स्वार्थे 'अकच्' प्रत्ययः विधीयते । अयं प्रत्ययः सर्वनामशब्दस्य 'टि'-संज्ञकात् पूर्वमागच्छति । अस्मिन् प्रत्यये परे यत् प्रातिपदिकम् जायते, तस्यापि अनेन सूत्रेण अकारादेशः भवति । यथा, इदम्-शब्दात् 'अकच्' प्रत्यये परे 'इदकम्' इति प्रातिपदिकं सिद्ध्यति । तस्य तृतीयैकवचनस्य प्रक्रिया इयम् -\nइदकम् + टा [तृतीयैकवचनस्य प्रत्ययः]\n→ इदक अ + आ [<<त्यदादीनामः>> [[7.1.102]] इति मकारस्य अकारः]\n→ इदक + आ [<<अतो गुणे>> [[6.1.97]] इति गुण-एकादेशः]\n→ इमक + आ [<<दश्च>> [[7.2.109]] इति दकारस्य मकारादेशः]\n→ इमक + इन [<<टाङसिङसामिनात्स्याः>> [[7.1.12]] इति टा-इत्यस्य इन-आदेशः]\n→ इमकेन [<<आद्गुणः>> [[6.1.87]] इति गुण-एकादेशः]\n" }, "72103": { "sa": "किम्-शब्दस्य विभक्ति-प्रत्यये परे 'क' आदेशः भवति । ", "sd": "'किम्' अस्य सर्वनामशब्दस्य विभक्तिसंज्ञके परे 'क' इति आदेशः भवति । <<अनेकाल् शित् सर्वस्य>> [[1.1.55]] इति अयं सर्वादेशः । यथा -\n1) किम् + सुँ [प्रथमैकवचनस्य प्रत्ययः । सुँ-प्रत्ययस्य <<सुपः>> [[1.4.103]] इति विभक्तिसंज्ञा ।]\n→ क + सुँ [<<किमः कः>> [[7.2.103]] इति 'क' आदेशः]\n→ कः [विसर्गनिर्माणम्]\n2) किम् + दा [<<सर्वैकान्यकिंयत्तदः काले दा>> [[5.3.15]] इति दा-प्रत्ययः । <<प्राग्दिशो विभक्तिः>> [[5.3.1]] इति विभक्तिसंज्ञा]\n→ क + दा [<<किमः कः>> [[7.2.103]] इति 'क' आदेशः]\n→ कदा\nस्मर्तव्यम् - किम्-सर्वनाम्नः <<अव्ययसर्वनाम्नामकच्प्राक्टेः>> [[5.3.71]] इत्यनेन अकच्-प्रत्यये कृते 'ककिम्' इति प्रातिपदिकस्य विषये अपि वर्तमानसूत्रस्य प्रसक्तिः अस्ति । यथा -\nकिम् + अकच् + सुँ [<<अव्ययसर्वनाम्नामकच्प्राक्टेः>> [[5.3.71]] इत्यनेन अकच्-प्रत्ययः, प्रथमैकवचनस्य 'सुँ' प्रत्ययः]\n→ ककिम् + सुँ\n→ क + सुँ [<<किमः कः>> [[7.2.103]] इति 'क' आदेशः]\n→ कः " }, "72104": { "sa": "किम्-शब्दस्य तकारादौ हकारादौ च विभक्तिप्रत्यये परे 'कु' आदेशः भवति । ", "sd": "'किम्' शब्दस्य विभक्तिप्रत्यये परे <<किमः कः>> [[7.2.103]] इत्यनेन ककारादेशे प्राप्ते अनेन सूत्रेण तकारादौ हकारादौ च विभक्तौ परे 'कु' इति आदेशः भवति । <<अनेकाल् शित्सर्वस्य>> [[1.1.55]] इति सर्वादेशः । यथा -\n1. किम् + तसिल् [<<पञ्चम्यास्तसिल्>> [[5.3.7]] इति तसिल्-प्रत्ययः । <<प्राग्दिशो विभक्तिः>> [[5.3.1]] इति प्रत्ययस्य विभक्तिसंज्ञा]\n→ कु तस् [<<कु तिहोः>> [[7.2.104]] इति किम्-शब्दस्य कु-आदेशः]\n→ कुतः [विसर्गनिर्माणम्]\n2. किम् + ह [<<वा ह च च्छन्दसि>> [[5.3.13]] इत्यनेन किम्-इत्यस्य ह-आदेशः। <<प्राग्दिशो विभक्तिः>> [[5.3.1]] इति प्रत्ययस्य विभक्तिसंज्ञा]\n→ कुह [<<कु तिहोः>> [[7.2.104]] इति किम्-शब्दस्य कु-आदेशः]\nज्ञातव्यम् - अस्मिन् सूत्रे 'ति' इत्यत्र इकारः उच्चारणार्थः अस्ति । " }, "72105": { "sa": "'अत्' विभक्तिप्रत्यये परे किम्-शब्दस्य 'क्व' आदेशः भवति । ", "sd": "<<किमोऽत्>> [[5.3.12]] अनेन सूत्रेण किम्-शब्दात् 'अत्' इति तद्धितप्रत्ययः भवति । अस्य प्रत्ययस्य <<प्राग्दिशौ विभक्तिः>> [[5.3.1]] इत्यनेन विभक्तिसंज्ञा अपि भवति । अस्मिन् प्रत्यये परे किम्-शब्दस्य वर्तमानसूत्रेण क्व-आदेशः भवति । <<अनेकाल्शित्सर्वस्य>> [[1.1.55]] इति अयम् सर्वादेशः जायते ।]\nकिम् + अत् [<<किमोऽत्>> [[5.3.12]] इति किम्-शब्दात् 'अत्' इति तद्धितप्रत्ययः]\n→ क्व + अ [<<क्वाति>> [[7.2.105]] इति किम्-इत्यस्य क्व-आदेशः]\n→ क्व् + अ [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ क्व " }, "72106": { "sa": "त्यदादिगणस्य शब्देषु विद्यमानः यः तकारः दकारः च अन्ते नास्ति, तस्य सुँ-प्रत्यये परे सकारादेशः भवति । ", "sd": "'त्यदादिगणः' नाम कश्चन गणः अस्ति । अस्मिन् गणे अष्ट शब्दाः समाविश्यन्ते - त्यद्, तद्, यद्, एतद्, इदम्, अदस्, एक, द्वि । एतेषाम् सर्वेषाम् 'अनत्यस्य ' (इत्युक्ते, यः अन्ते नास्ति, तस्य) तकार-दकारस्य सुँ-प्रत्यये परे सकारादेशः भवति ।\nअस्य सूत्रस्य प्रसक्तिः केवलं पुंलिङ्ग-स्त्रीलिङ्गरूपेषु एव दृश्यते, यतः नपुंसकलिङ्गात् परस्य सुँ-प्रत्ययस्य <<स्वमोर्नपुंसकात्>> [[7.1.23]] इति लुक्-कृते <<न लुमताङ्गस्य>> [[1.1.63]] इति अङ्गकार्यम् निषिध्यते । अतः अनेन सूत्रेण निर्दिष्टः सकारादेशः नपुंसकलिङ्गशब्दस्य विषये न भवति ।\n1) त्यद् + सुँ\n→ स्यद् + स् [<<तदोः सः सावनन्त्ययोः>> [[7.2.106]] इति तकारस्य सकारादेशः । अत्र 'त्य' इत्यस्य तकारः शब्दस्य अन्ते नास्ति अतः अनेन सूत्रेण तस्य सकारादेशः भवति ।]\n→ स्य अ + स् [<<त्यदादीनामः>> [[7.2.102]] इति दकारस्य अकारः । ]\n→ स्य + स् [<<अतो गुणे>> [[6.1.97]] इति पररूप-एकादेशः]\n→ स्यः [विसर्गनिर्माणम्]\nस्त्रीलिङ्गे 'त्यद्' इत्यस्य तु कोऽपि स्त्रीप्रत्ययः न विधीयते, परन्तु दकारस्य अकारः भवति चेत् <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्-प्रत्ययः आगच्छति, अतः 'स्या' इति प्रथमैकवचनस्य रूपं जायते ।\n2) तद् + सुँ\n→ सद् + स् [<<तदोः सः सावनन्त्ययोः>> [[7.2.106]] इति तकारस्य सकारादेशः । अत्र 'त' इत्यस्य तकारः शब्दस्य अन्ते नास्ति अतः अनेन सूत्रेण तस्य सकारादेशः भवति ।]\n→ स अ + स् [<<त्यदादीनामः>> [[7.2.102]] इति दकारस्य अकारः]\n→ स + स् [<<अतो गुणे>> [[6.1.97]] इति पररूप-एकादेशः]\n→ सः [विसर्गनिर्माणम्]\nस्त्रीलिङ्गे 'तद्' इत्यस्य तु कोऽपि स्त्रीप्रत्ययः न विधीयते, परन्तु दकारस्य अकारः भवति चेत् <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्-प्रत्ययः आगच्छति, अतः 'सा' इति प्रथमैकवचनस्य रूपं जायते ।\n3) यद् + सुँ इत्यत्र अस्य सूत्रस्य प्रसक्तिः नास्ति यतः अस्मिन् सूत्रे विद्यमानः दकारः अन्ते अस्ति ।\n4) एतद् + सुँ\n→ एसद् + स् [<<तदोः सः सावनन्त्ययोः>> [[7.2.106]] इति तकारस्य सकारादेशः । अत्र 'त' इत्यस्य तकारः शब्दस्य अन्ते नास्ति अतः अनेन सूत्रेण तस्य सकारादेशः भवति ।]\n→ एस अ + स् [<<त्यदादीनामः>> [[7.2.102]] इति दकारस्य अकारः]\n→ एस + स् [<<अतो गुणे>> [[6.1.97]] इति पररूप-एकादेशः]\n→ एसः [विसर्गनिर्माणम्]\n→ एषः [<<आदेशप्रत्यययोः>> इति आदेशः यः सकारः, तस्य षत्वम्]\nस्त्रीलिङ्गे 'एतद्' इत्यस्य तु कोऽपि स्त्रीप्रत्ययः न विधीयते, परन्तु दकारस्य अकारः भवति चेत् <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्-प्रत्ययः आगच्छति, अतः 'एषा' इति प्रथमैकवचनस्य रूपं जायते ।\n5) 'इदम्' शब्दे यदि दकारः अस्ति, तथापि अस्य सूत्रस्य प्रसक्तिः नास्ति, यतः पुंलिङ्गे <<इदोऽयं पुँसि>> [[7.2.111]] इत्यनेन पुंलिङ्गे इदम्-शब्दस्य 'इद्' इत्यस्य 'अय्' आदेशः विधीयते, स्त्रीलिङ्गे च <<यः सौ>> [[7.2.110]] इत्यनेन दकारस्य यकारः भवति ।\n6) अदस् + सुँ\n→ अद औ [<<अदसः औ सुँलोपश्च>> [[7.2.107]] इति सकारस्य औ-आदेशः, सुँ-प्रत्ययस्य लोपः]\n→ अदौ [<<वृद्धिरेचि>> [[6.1.88]] इति वृद्धि-एकादेशः]\n→ असौ [<<तदोः सः सावनन्त्ययोः>> [[7.2.106]] इति दकारस्य सकारादेशः । अत्र 'अदस्' इत्यस्य दकारः शब्दस्य अन्ते नास्ति अतः अनेन सूत्रेण तस्य सकारादेशः भवति । <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इति सुँ-प्रत्ययस्य लोपे अपि तस्य लक्षणकार्यम् विधीयते । ]\n " }, "72107": { "sa": "अदस्-शब्दस्य सुँ-प्रत्यये परे 'औ' आदेशः भवति, अदस्-शब्दात् परस्य 'सुँ' प्रत्ययस्य च लोपः भवति ।", "sd": "प्रथमैकवचनस्य सुँ-प्रत्ययस्य उपस्थितौ अदस्-सर्वनामशब्दस्य अन्तिमसकारस्य 'औ' आदेशः भवति, तथा, सुँ-प्रत्ययस्य लोपः अपि भवति । यथा -\nअदस् + सुँ\n→ अद औ [<<अदस औ सुलोपश्च>> [[7.2.107]] इति सकारस्य औकारः, सुलोपश्च]\n→ अदौ [<<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इत्यनेन पूर्वसवर्णदीर्घे प्राप्ते; <<नादिचि>> [[6.1.103]] इति निषेधः । अतः <<वृद्धिरेचि>> [[6.1.88]] इति वृद्धि-एकादेशः]\n→ असौ [यद्यपि सुँ-प्रत्ययस्य लोपः कृतः अस्ति, तथापि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यनेन सुँ-प्रत्ययविशिष्टमङ्गकार्यम् भवति एव । अतः <<तदोः सः सावनन्त्ययोः>> [[7.2.106]] इति दकारस्य सकारः]\nअत्र एकं वार्तिकं ज्ञातव्यम् - ।\nअस्य वार्तिकस्य अर्थः अयम् - <<अव्ययसर्वनाम्नामकच् प्राक् टेः>> [[5.3.71]] अनेन सूत्रेण सर्वनामशब्दानां विषये अकच्-प्रत्ययः स्वार्थे प्रयुज्यते । अयमकच्-प्रत्ययः अङ्गस्य 'टि'संज्ञकात् पूर्वमागच्छति, अतः अदस्-शब्दात् अकच्-प्रत्यये कृते 'अदकस्' इति प्रातिपदिकं सिद्ध्यति । अस्य प्रातिपदिकस्य प्रथमैकवचनस्य सुँ-प्रत्यये परे अनेन सूत्रेण निर्दिष्टः औ-आदेशः विकल्पेन भवति । तथा च, यत्र अयमादेशः न भवति, तत्र सकारात् परस्य वर्णस्य उत्वमपि भवति । यथा -\n1) औ-आदेशस्य उपस्थितौ -\nअदकस् + सुँ\n→ अदक औ [<<अदस औ सुलोपश्च>> [[7.2.107]] इति सकारस्य औकारः, सुलोपश्च]\n→ अदकौ [<<वृद्धिरेचि>> [[6.1.88]] इति वृद्धि-एकादेशः]\n→ असकौ [ <<तदोः सः सावनन्त्ययोः>> [[7.2.106]] इति दकारस्य सकारः]\n2) औ-आदेशस्य अभावे -\nअदकस् + स्\nअदक अ + स् [<<त्यदादीनामः>> [[7.2.102]] इति सकारस्य अकारः]\n→ अदक + स् [<<अतो गुणे>> [[6.1.97]] इति पररूपः अकारः]\n→ असक + स् [<<तदोः सः सावनन्त्ययोः>> [[7.2.106]] इति दकारस्य सकारः]\n→ असुक + स् [ अनेन वार्तिकेन औ-आदेशस्य अभावे सकारात् परस्य अकारस्य उकारः]\n→ असुकः [विसर्गनिर्माणम्]\n" }, "72108": { "sa": "इदम्-शब्दस्य सुँ-प्रत्यये परे मकारादेशः भवति । ", "sd": "इदम्-शब्दस्य प्रथमैकवचनस्य सुँ-प्रत्यये परे <<त्यदादीनामः>> [[7.2.102]] इत्यनेन अकारत्वे प्राप्ते तं बाधित्वा वर्तमानसूत्रेण मकारस्य पुनः मकारादेशः एव विधीयते -\n1. इदम् + सुँ [पुंलिङ्गे प्रथमैकवचनस्य प्रत्ययः]\n→ इदम् + सुँ [<<त्यदादीनामः>> [[7.2.102]] इत्यनेन अकारत्वे प्राप्ते अपवादत्वेन <<इदमो मः>> [[7.2.108]] इति मकारस्य मकारः]\n→ अयम् + सुँ [<<इदोऽयं पुँसि>> [[7.2.111]] इति 'इद्' इत्यस्य 'अय्' आदेशः]\n→ अयम् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति सुँलोपः]\n2. इदम् + सुँ [स्त्रीलिङ्गे प्रथमैकवचनस्य प्रत्ययः]\n→ इदम् + सुँ [<<त्यदादीनामः>> [[7.2.102]] इत्यनेन अकारत्वे प्राप्ते अपवादत्वेन <<इदमो मः>> [[7.2.108]] इति मकारस्य मकारः]\n→ इयम् + सुँ [<<यः सौ>> [[7.2.110]] इत्यनेन दकारस्य यकारः]\n→ इयम् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति सुँलोपः]\n3. इदम्-शब्दस्य नपुंसकलिङ्गवाचिनः अङ्गात् सुँ-प्रत्यये परे <<स्वमोर्नपुंसकात्>> [[7.1.23]] इत्यनेन सुँ-प्रत्ययस्य लुक्-भवति, ततः <<न लुमताङ्गस्य>> [[1.1.63]] इत्यनेन अङ्गकार्यं निषिध्यते । अतः वर्तमानसूत्रस्य तत्र प्रसक्तिः नास्ति -\nइदम् + सुँ [नपुंसकलिङ्गे प्रथमैकवचनस्य प्रत्ययः ]\n→ इदम् [<<स्वमोर्नपुंसकात्>> [[7.1.23]] इत्यनेन सुँ-प्रत्ययस्य लुक्]\n" }, "72109": { "sa": "इदम्-शब्दस्य दकारस्य विभक्तिप्रत्यये परे मकारादेशः भवति । ", "sd": "इदम्-सर्वनामशब्दस्य दकारस्य विभक्तिप्रत्यये परे मकारादेशः भवति । यथा -\n1) इदम् + अम् [द्वितीयैकवचनस्य प्रत्ययः]\n→ इद अ + अम् [<<त्यदादीनामः>> [[7.2.102]] इति मकारस्य अकारादेशः]\n→ इद + अम् [<<अतो गुणे>> [[6.1.97]] इति पररूपः अकारः]\n→ इम + अम् [<<दश्च>> [[7.2.109]] इति दकारस्य मकारः]\n→ इमम् [<<अमि पूर्वः>> [[6.1.107]] इति अम्-प्रत्यये परे पूर्वरूपम्]\n2) इदम् + औ / औट् [प्रथमा/द्वितीया-द्विवचनस्य प्रत्ययः]\n→ इद अ + औ / औट् [<<त्यदादीनामः>> [[7.2.102]] इति मकारस्य अकारादेशः]\n→ इद + औ / औट् [<<अतो गुणे>> [[6.1.97]] इति पररूपः अकारः]\n→ इम + औ / औट् [<<दश्च>> [[7.2.109]] इति दकारस्य मकारः]\n→ इमौ [<<वृद्धिरेचि>> [[6.1.88]] इति वृद्धि-एकादेशः]\n3) इदम् + औ / औट् [प्रथमा/द्वितीया-द्विवचनस्य प्रत्ययः]\n→ इद अ + औ / औट् [<<त्यदादीनामः>> [[7.2.102]] इति मकारस्य अकारादेशः]\n→ इद + औ / औट् [<<अतो गुणे>> [[6.1.97]] इति पररूपः अकारः]\n→ इद + टाप् + औ / औट् [स्त्रीत्वं द्योतयितुम् <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्-प्रत्ययः]\n→ इदा + शी [<<औङः आपः>> [[7.1.18]] इति आबन्तात् परस्य औ/औट्-प्रत्यययोः शी-आदेशः]\n→ इमा + ई [<<दश्च>> [[7.2.109]] इति दकारस्य मकारः]\n→ इमे [<<आद्गुणः>> [[6.1.87]] इति गुणादेशः]\nज्ञातव्यम् - <<अव्ययसर्वनाम्नामकच् प्राक्टेः>> [[5.3.71]] अनेन सूत्रेण इदम्-शब्दस्य स्वार्थे 'अकच्' प्रत्ययः विधीयते । एवं क्रियते चेत् 'इदकम्' इति प्रातिपदिकं सिद्ध्यति । अस्य प्रातिपदिकस्य दकारस्यापि अनेन सूत्रेण मकारादेशः भवति । यथा -\nइदकम् + टा [तृतीयैकवचनस्य प्रत्ययः]\n→ इदक अ + आ [<<त्यदादीनामः>> [[7.1.102]] इति मकारस्य अकारः]\n→ इदक + आ [<<त्यदादीनामः>> [[7.1.102]] इति मकारस्य अकारः]\n→ इमक + आ [<<दश्च>> [[7.2.109]] इति दकारस्य मकारादेशः]\n→ इमक + इन [<<टाङसिङसामिनात्स्याः>> [[7.1.12]] इति टा-इत्यस्य इन-आदेशः]\n→ इमकेन [<<आद्गुणः>> [[6.1.87]] इति गुण-एकादेशः]" }, "72110": { "sa": "इदम्-शब्दस्य दकारस्य सुँ-प्रत्यये परे यकारादेशः भवति । ", "sd": "प्रथमैकवचनस्य सुँ-प्रत्यये परे इदम्-शब्दस्य दकारस्य यकारादेशः जायते । यथा -\n इदम् + सुँ [स्त्रीलिङ्गे प्रथमैकवचनस्य प्रत्ययः]\n→ इदम् + सुँ [<<त्यदादीनामः>> [[7.2.102]] इत्यनेन अकारत्वे प्राप्ते अपवादत्वेन <<इदमो मः>> [[7.2.108]] इति मकारस्य मकारः]\n→ इयम् + सुँ [<<यः सौ>> [[7.2.110]] इत्यनेन दकारस्य यकारः]\n→ इयम् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति सुँलोपः]\nस्मर्तव्यम् - वर्तमानसूत्रस्य प्रसक्तिः वस्तुतः केवलं स्त्रीलिङ्गस्य एकवचने एव दृश्यते । पुंलिङ्गनपुंसकलिङ्गयोः प्रक्रिये दृश्येते चेदिदं स्पष्टं स्यात् -\n1. इदम् + सुँ [पुंलिङ्गे प्रथमैकवचनस्य प्रत्ययः]\n→ इदम् + सुँ [<<त्यदादीनामः>> [[7.2.102]] इत्यनेन अकारत्वे प्राप्ते अपवादत्वेन <<इदमो मः>> [[7.2.108]] इति मकारस्य मकारः]\n→ अयम् + सुँ [<<यः सौ>> [[7.2.110]] इत्यनेन दकारस्य यकारे प्राप्ते <<इदोऽयं पुँसि>> [[7.2.111]] इति 'इद्' इत्यस्य 'अय्' आदेशः ]\n→ अयम् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति सुँलोपः]\n2. इदम्-शब्दस्य नपुंसकलिङ्गवाचिनः अङ्गात् सुँ-प्रत्यये परे <<स्वमोर्नपुंसकात्>> [[7.1.23]] इत्यनेन सुँ-प्रत्ययस्य लुक्-भवति, ततः <<न लुमताङ्गस्य>> [[1.1.63]] इत्यनेन अङ्गकार्यं निषिध्यते । अतः वर्तमानसूत्रस्य तत्र प्रसक्तिः नास्ति -\nइदम् + सुँ [नपुंसकलिङ्गे प्रथमैकवचनस्य प्रत्ययः ]\n→ इदम् [<<स्वमोर्नपुंसकात्>> [[7.1.23]] इत्यनेन सुँ-प्रत्ययस्य लुक्]\n" }, "72111": { "sa": "पुंलिङ्गे इदम्-शब्दस्य 'इद्' इत्यस्य सुँ-प्रत्यये परे 'अय्' आदेशः भवति ।", "sd": "'इदम्' सर्वनाम्नः 'इद्' इत्यस्य पुंलिङ्गे 'अय्' इति आदेशः भवति प्रथमैकवचनस्य सुँ-प्रत्यये परे । अत्र स्थानी स्पष्टरूपेण निर्दिष्टः अस्ति, अतः अत्र स्थाननिर्णयपरिभाषाः प्रयोगः न क्रियते । प्रक्रिया इयम् -\n1. इदम् + सुँ [पुंलिङ्गे प्रथमैकवचनस्य प्रत्ययः]\n→ इदम् + सुँ [<<त्यदादीनामः>> [[7.2.102]] इत्यनेन अकारत्वे प्राप्ते अपवादत्वेन <<इदमो मः>> [[7.2.108]] इति मकारस्य मकारः]\n→ अयम् + सुँ [<<इदोऽयं पुँसि>> [[7.2.111]] इति 'इद्' इत्यस्य 'अय्' आदेशः]\n→ अयम् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति सुँलोपः]\n" }, "72112": { "sa": "अककारस्य इदम्-शब्दस्य 'इद्' इत्यस्य तृतीयातः सप्तमी-यावत्सु विभक्तिप्रत्ययेषु परेषु 'अन्' आदेशः भवति । ", "sd": "सूत्रार्थज्ञानात् पूर्वमादौ अस्मिन् सूत्रे प्रयुक्तानां शब्दानामर्थम् पश्यामः -\n1. 'अकः इदमः' इत्युक्ते सः इदम्-शब्दः यस्मिन् ककारः नास्ति । <<अव्ययसर्वनाम्नाम् अकच् प्राक्टेः>> [[5.3.71]] अनेन सूत्रेण इदम्-शब्दस्य स्वार्थे 'अकच्' प्रत्ययः विधीयते । एवं क्रियते चेत् 'इदकम्' इति प्रातिपदिकं सिद्ध्यति, यस्मिन् ककारः श्रूयते । अस्य प्रातिपदिकस्य विषये वर्तमानसूत्रस्य प्रसक्तिः नास्ति, अतः अस्मिन् सूत्रे 'अकः' इति निर्दिष्टमस्ति ।\n2. अस्मिन् सूत्रे प्रयुक्तः 'आप्' अयम् प्रत्याहारः अस्ति । तृतीया-एकवचनस्य 'आङ्' (टाप्-प्रत्ययस्य पूर्वाचार्यैः दत्ता संज्ञा) इत्यस्मात् सप्तमी-बहुवचनस्य 'सुप्' इति यावत् पञ्चदश-प्रत्ययानाम् निर्देशः 'आप्' इत्यनेन क्रियते ।\nअतः अस्य सूत्रस्य अर्थः अयम् - इदम्-शब्दस्य 'इद्' इत्यस्य तृतीयातः सप्तमीपर्यन्तं 'अन्' इति आदेशः भवति । परन्तु अकच्-प्रत्ययान्त 'इदकम्' शब्दस्य न भवति । यथा -\n1) इदम् + टा [तृतीयैकवचनस्य प्रत्ययः]\n→ इद अ + आ [<<त्यदादीनामः>> [[7.1.102]] इति मकारस्य अकारः]\n→ इद + आ [<<अतो गुणे>> [[6.1.97]] इति पररूपः अकारः]\n→ अन + आ [<<अनाप्यकः>> [[7.2.112]] इति इद्-इत्यस्य अन्-आदेशः]\n→ अन + इन [<<टाङसिङसामिनात्स्याः>> [[7.1.12]] इति टा-प्रत्ययस्य इन-आदेशः]\n→ अनेन [<<आद्गुणः>> [[6.1.87]] इति गुण-एकादेशः]\n2) इदम् + ओस् [स्त्रीलिङ्गे षष्ठीद्विवचनस्य प्रत्ययः]\n→ इद अ + ओस् [<<त्यदादीनामः>> [[7.1.102]] इति मकारस्य अकारः]\n→ इद + ओस् [<<अतो गुणे>> [[6.1.97]] इति पररूपः अकारः]\n→ इद + टाप् + ओस् [<<अजाद्यतष्टाप्>> [[4.1.4]] इति स्त्रीत्वं द्योतयितुम् टाप्-प्रत्ययः]\n→ अना + ओस् [<<अनाप्यकः>> [[7.2.112]] इति इद्-इत्यस्य अन्-आदेशः]\n→ अने + ओस् [<<आङि चापः>> [[7.3.105]] इत्यनेन आबन्तस्य अङ्गस्य एकारादेशः भवति ]\n→ अनयोस् [<<एचोऽयवायावः>> [[6.1.78]] इति अयादेशः]\n→ अनयोः [विसर्गनिर्माणम्]\n'इदकम्' शब्दस्य विषये तु अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा -\nइदकम् + टा [तृतीयैकवचनस्य प्रत्ययः]\n→ इदक अ + आ [<<त्यदादीनामः>> [[7.1.102]] इति मकारस्य अकारः]\n→ इदक + आ [<<अतो गुणे>> [[6.1.97]] इति पररूपः अकारः]\n→ इमक + आ [<<दश्च>> [[7.2.109]] इति दकारस्य मकारादेशः]\n→ इमक + इन [<<टाङसिङसामिनात्स्याः>> [[7.1.12]] इति टा-इत्यस्य इन-आदेशः]\n→ इमकेन [<<आद्गुणः>> [[6.1.87]] इति गुण-एकादेशः]\n" }, "72113": { "sa": "अककारान्त-इदम्-शब्दस्य 'इद्' इत्यस्य तृतीयातः सप्तमी-यावत्सु हलादिप्रत्ययेषु परेषु लोपः भवति ।", "sd": "सूत्रार्थज्ञानात् पूर्वमादौ अस्मिन् सूत्रे प्रयुक्तानां शब्दानामर्थम् पश्यामः -\n1. 'अकः इदमः' इत्युक्ते सः इदम्-शब्दः यस्मिन् ककारः नास्ति । <<अव्ययसर्वनाम्नामकच् प्राक्टेः>> [[5.3.71]] अनेन सूत्रेण इदम्-शब्दस्य स्वार्थे 'अकच्' प्रत्ययः विधीयते । एवं क्रियते चेत् 'इदकम्' इति प्रातिपदिकं सिद्ध्यति, यस्मिन् ककारः श्रूयते । अस्य प्रातिपदिकस्य विषये वर्तमानसूत्रस्य प्रसक्तिः नास्ति, अतः अस्मिन् सूत्रे 'अकः' इति निर्दिष्टमस्ति ।\n2. अस्मिन् सूत्रे प्रयुक्तः 'आप्' अयम् प्रत्याहारः अस्ति । तृतीया-एकवचनस्य 'आङ्' (टाप्-प्रत्ययस्य पूर्वाचार्यैः दत्ता संज्ञा) इत्यस्मात् सप्तमी-बहुवचनस्य 'सुप्' इति यावत् पञ्चदश-प्रत्ययानाम् निर्देशः 'आप्' इत्यनेन क्रियते ।\nअतः अस्य सूत्रस्य अर्थः अयम् - इदम्-शब्दस्य 'इद्' इत्यस्य तृतीयातः सप्तमीपर्यन्तं हलादौ विभक्तौ परे लोपः भवति । <<अनाप्यकः>> [[7.2.112]] इत्यनेन निर्दिष्टस्य 'अन्' आदेशस्य अयमपवादः । उदाहरणानि एतानि -\n1) इदम् + भ्याम्\n→ इद अ + भ्याम् [<<त्यदादीनामः>> [[7.1.102]] इति मकारस्य अकारः]\n→ इद + भ्याम् [<<अतो गुणे>> [[6.1.97]] इति पररूपः अकारः]\n→ अ + भ्याम् [<<अनाप्यकः>> [[7.2.112]] इत्यनेन इद्-इत्यस्य अन्-आदेशे प्राप्ते अपवादत्वेन <<हलि लोपः>> [[7.2.113]] इत्यनेन इद्-इत्यस्य लोपः भवति ]\n→ आभ्याम् [<<सुपि च>> [[7.3.102]] इति अङ्गस्य दीर्घः]\n2) इदम् + ङे [स्त्रीलिङ्गस्य चतुर्थ्येकवचनम्]\n→ इद अ + ए [<<त्यदादीनामः>> [[7.1.102]] इति मकारस्य अकारः]\n→ इद + ए [<<अतो गुणे>> [[6.1.97]] इति पररूपः अकारः]\n→ इद् + टाप् + ए [<<अजाद्यतष्टाप्>> [[4.1.4]] इति स्त्रीत्वं द्योतयितुम् टाप्-प्रत्ययः]\n→ इद् अ स्याट् ए [<<सर्वनाम्नः स्याड्ढ्रस्वश्च>> [[7.3.114]] इति स्याट्-आगमः, अङ्गस्य ह्रस्वादेशः]\n→ अ स्या ए [<<अनाप्यकः>> [[7.2.112]] इत्यनेन इद्-इत्यस्य अन्-आदेशे प्राप्ते अपवादत्वेन <<हलि लोपः>> [[7.2.113]] इत्यनेन इद्-इत्यस्य लोपः भवति ]\n→ अ स्यै [<<वृद्धिरेचि>> [[6.1.88]] इति वृद्धि-एकादेशः]\n→ अस्यै\n3) इदम् + ङसिँ [पञ्चमी-एकवचनस्य प्रत्ययः]\n→ इद अ + अस् [<<त्यदादीनामः>> [[7.1.102]] इति मकारस्य अकारः]\n→ इद + अस् [<<अतो गुणे>> [[6.1.97]] इति पररूपः अकारः]\n→ इद + स्मात् [<<ङसिङ्योः स्मात्स्मिनौ>> [[7.1.15]] इति ङसिँ-प्रत्ययस्य स्मात्-आदेशः]\n→ अ + स्मात् [<<अनाप्यकः>> [[7.2.112]] इत्यनेन इद्-इत्यस्य अन्-आदेशे प्राप्ते अपवादत्वेन <<हलि लोपः>> [[7.2.113]] इत्यनेन इद्-इत्यस्य लोपः भवति ]\n→ अस्मात्\n4) इदम् + भ्यस् [स्त्रीलिङ्गस्य पञ्चम्यीबहुवचनम्]\n→ इद अ + भ्यस् [<<त्यदादीनामः>> [[7.1.102]] इति मकारस्य अकारः]\n→ इद + भ्यस् [<<अतो गुणे>> [[6.1.97]] इति पररूपः अकारः]\n→ इद + टाप् + भ्यस् [<<अजाद्यतष्टाप्>> [[4.1.4]] इति स्त्रीत्वं द्योतयितुम् टाप्-प्रत्ययः]\n→ अ + आ + भ्यस् [<<अनाप्यकः>> [[7.2.112]] इत्यनेन इद्-इत्यस्य अन्-आदेशे प्राप्ते अपवादत्वेन <<हलि लोपः>> [[7.2.113]] इत्यनेन इद्-इत्यस्य लोपः भवति ]\n→ आ + भ्यस् [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः]\n→ आभ्यः [विसर्गनिर्माणम्]\nज्ञातव्यम् -\n1. <ऽनानर्थके अलोऽन्त्यविधिः अनभ्यासविकारे अनभ्यासविकारेऽ> इति काचन परिभाषा अस्ति । अस्याः सामान्यः अर्थः अयम् - यत्र स्थानीः षष्ठ्यन्तमनर्थकम् पदमस्ति, तत्र <<अलोऽन्त्यस्य>> [[1.1.52]] अस्य प्रयोगः न भवति । अतः अत्र 'इद्' इत्यत्र सम्पूर्णशब्दस्य लोपः भवति, न हि केवलस्य अन्तिम-दकारस्य ।\n2. 'इदकम्' शब्दस्य विषये तु अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा -\nइदकम् + भ्याम् [तृतीयैकवचनस्य प्रत्ययः]\n→ इदक अ + भ्याम् [<<त्यदादीनामः>> [[7.1.102]] इति मकारस्य अकारः]\n→ इदक + भ्याम् [<<अतो गुणे>> [[6.1.97]] इति पररूपः अकारः]\n→ इमक + भ्याम् [<<दश्च>> [[7.2.109]] इति दकारस्य मकारादेशः]\n→ इमकाभ्याम् [<<सुपि च>> [[7.3.102]] इति गुण-एकादेशः]\n" }, "72114": { "sa": "मृज्-धातोः अङ्गस्य इक्-वर्णस्य वृद्धिः भवति । ", "sd": "'मृज्' (शुद्धौ) इति अदादिगणस्य धातुः । अस्य धातोः अङ्गस्य अनेन सूत्रेण वृद्धि-आदेशः भवति । <<इको गुणवृद्धी>> [[1.1.3]] इत्यनेन अस्मिन् सूत्रे 'इकः' इति पदमुपतिष्ठते, अतः 'मृज्-धातोः अङ्गस्य इकः वृद्धिः भवति' इति ज्ञायते । मृज्-इत्यत्र ऋकारमात्रः इक्-वर्णः अस्ति, अतः अस्य वृद्धि-आदेशं कृत्वा आकारः भवति, <<उरण् रपरः>> [[1.1.51]] इत्यनेन च सः रपरः भवति । अतः मृज्-इत्यस्य स्थाने 'मार्ज्' इति जायते ।\nअयं आदेशः आर्द्धधातुके प्रत्यये परे अपि भवति, सार्वधातुके प्रत्यये परे अपि भवति । परन्तु कित् / गित् / ङित् प्रत्यये परे तु अनेन सूत्रेण वृद्ध्यौ प्राप्ते <<ग्क्ङिति च>> [[1.1.5]] इत्यनेन वृद्धेः निषेधः भवति । उदाहरणानि एतानि -\n1. मृज्-धातोः लट्लकारस्य प्रथमैकवचनस्य रूपम् -\nमृज् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ मृज् + तिप् [<<तिप्तस्..>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]\n→ मृज् + शप् + ति [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ मृज् + ति [<<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शपः लुक्]\n→ मार्ज् + ति [<<पुगन्तलघूपधस्य च>> [[7.3.86]] इत्यनेन ऋकारस्य गुणे प्राप्ते अपवादत्वेन <<मृजेर्वृद्धिः>> [[7.2.114]] इति अङ्गस्य वृद्धिः]\n→ मार्ष् + ति [<<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> [[8.2.36]] इति जकारस्य षकारः]\n→ मार्ष् टि [<<ष्टुना ष्टुः>> [[8.4.41]] इति ष्टुत्वम्]\n→ मार्ष्टि\n2. मृज्-धातोः तृच्-प्रत्यये परे वैकल्पिकः इडागमः भवति अतः रूपद्वयं जायते -\nअ) इडागमस्य उपस्थितौ प्रक्रिया इयम् -\nमृज् + तृच् [<<ण्वुल्तृचौ>> [[3.1.133]] इति तृच् -प्रत्ययः]\n→ मृज् + इट् + तृ [<<स्वरतिसूतिसूयतिधूञूदितो वा>> [[7.2.44]] इति वैकल्पिकः इडागमः ]\n→ मार्ज् + इट् + तृ [<<मृजेर्वृद्धिः>> [[7.2.114]] इति अङ्गस्य वृद्धिः]\n→ मार्जितृ\nआ) इडागमस्य अभावे प्रक्रिया इयम् -\nमृज् + तृच् [<<ण्वुल्तृचौ>> [[3.1.133]] इति तृच् -प्रत्ययः]\n→ मार्ज् + तृ [<<मृजेर्वृद्धिः>> [[7.2.114]] इति अङ्गस्य वृद्धिः]\n→ मार्ष् + तृ [<<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> [[8.2.36]] इति जकारस्य षकारः]\n→ मार्ष् + टृ [<<ष्टुना ष्टुः>> [[8.4.41]] इति ष्टुत्वम्]\n→ मार्ष्टृ\n3. मृज्-धातोः क्त-प्रत्ययान्तरूपे <<यस्य विभाषा>> [[7.2.15]] इत्यनेन इडागमनिषेधः भवति, अतः प्रक्रिया इयम् जायते -\nमृज् + क्त [<<निष्ठा>> [[3.2.102]] इति क्त-प्रत्ययः]\n→ मृज् + त [<<मृजेर्वृद्धिः>> [[7.2.114]] इत्यनेन मृज्-धातोः वृद्ध्यौ प्राप्ते <<ग्क्ङिति च>> [[1.1.5]] इत्यनेन तस्य निषेधः । <<यस्य विभाषा>> इत्यनेन इडागम-निषेधः]\n→ मृष् + त [<<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> [[8.2.36]] इति जकारस्य षकारः]\n→ मृष् + ट [<<ष्टुना ष्टुः>> [[8.4.41]] इति ष्टुत्वम्]\n→ मृष्ट\n" }, "72115": { "sa": "अजन्तस्य अङ्गस्य णित् ञित् प्रत्यये परे च वृद्धिः भवति । ", "sd": "यदि अजन्तात् अङ्गात् परः णित् / ञित् प्रत्ययः आगच्छति, तर्हि तस्य अजन्तस्य अङ्गस्य (अन्तिमस्वरस्य) वृद्धि-आदेशः जायते ।\n उदाहरणानि एतानि -\n1. नी + ण्वुल् [<<ण्वुल्तृचौ>> [[3.1.133]] इति ण्वुल्-प्रत्ययः]\n→ नै + वु [<<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इत्यनेन अङ्गस्य गुणादेशे प्राप्ते अपवादत्वेन <<अचो ञ्णिति>> इति वृद्धि-आदेशः । ईकारस्य वृद्धिः ऐकारः]\n→ नै + अक [<<युवोरनाकौ>> [[7.1.1]] इति वु-इत्यस्य अक-आदेशः]\n→ नायक [<<एचोऽयवायावः>> [[6.1.78]] इति आय्-आदेशः]\n2. भू + घञ् [<<भावे>> [[3.3.18]] इति घञ्-प्रत्ययः]\n→ भौ + अ [<<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इत्यनेन अङ्गस्य गुणादेशे प्राप्ते अपवादत्वेन <<अचो ञ्णिति>> इति वृद्धि-आदेशः । ऊकारस्य वृद्धिः औकारः]\n→ भाव [<<एचोऽयवायावः>> [[6.1.78]] इति आव्-आदेशः]\n3. कृ-धातोः णिच्-प्रत्ययं कृत्वा 'कारि' इति आतिदेशिकः धातुः जायते -\nकृ + णिच् [<<हेतुमति च>> [[3.1.26]] इति णिच्]\n→ कार् + इ [<<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इत्यनेन अङ्गस्य गुणादेशे प्राप्ते अपवादत्वेन <<अचो ञ्णिति>> इति वृद्धि-आदेशः । ऋकारस्य वृद्धिः आकारः, <<उरण् रपरः>> [[1.1.51]] इति सः रपरः]\n→ कारि [<<सनाद्यन्ताः धातवः>> [[3.1.32]] इति धातुसंज्ञा]\nविशेषः - <<इको गुणवृद्धी>> [[1.1.3]] इत्यनेन वस्तुतः इक्-वर्णस्यैव गुणः वृद्धिः वा भवेत्, परन्तु अस्मिन् सूत्रे 'अचः' इति निर्देशसामर्थ्यात् अत्र इक्-भिन्नस्य अच्-वर्णस्य वृद्धिः आदेशः भवितुमर्हति । यथा, 'गो'शब्दस्य प्रथमैकवचनस्य रूपम् -\nगो + सुँ [प्रथमैकवचनस्य प्रत्ययः]\n→ गो + स् [<<गोतो णित्>> [[7.1.90]] इत्यनेन ओकारान्तप्रातिपदिकात् परस्य सर्वनामस्थानप्रत्ययस्य णिद्वद्भावः]\n→ गौ + स् [णिति प्रत्यये परे अजन्तस्य अङ्गस्य <<अचो ञ्णिति>> [[7.2.115]] इति वृद्धिः]\n→ गौः [<<ससजुषोः रुँः>> [[8.2.66]] इति रुँत्वम्, <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n" }, "72116": { "sa": "अङ्गस्य उपधा-अकारस्य णित् ञित् प्रत्यये परे च वृद्धिः भवति । ", "sd": "यदि कस्मिंश्चित् अङ्गे अकारः उपधास्थाने अस्ति, तर्हि तस्य अकारस्य णित्-प्रत्यये परे / ञित्-प्रत्यये परे च वृद्धि-आदेशः (= आकारः) भवति । यथा -\n1. पठ् + घञ् [<<भावे>> [[3.3.18]] इत घञ्-प्रत्ययः]\n→ पाठ [<<अत उपधायाः>> [[7.2.116]] इति ञित्-प्रत्यये परे उपधा-अकारस्य वृद्धिः आकारः]\n2. पठ् + ण्वुल् [<<ण्वुल्तृचौ>> [[3.1.133]] इति ण्वुल्-प्रत्ययः]\n→ पाठ् + वु [<<अत उपधायाः>> [[7.2.116]] इति णित्-प्रत्यये परे उपधा-अकारस्य वृद्धिः आकारः]\n→ पाठ् + अक [<<युवोरनाकौ>> [[7.1.1]] इति वु-इत्यस्य अक-आदेशः]\n→ पाठक\n3. क्षल्-धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -\nक्षल् + णिच् [<<सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्>> [[3.1.25]] इति स्वार्थे णिच्]\n→ क्षल् + इ [इत्संज्ञालोपः । <<सनाद्यन्ताः धातवः>> [[3.1.32]] इति धातुसंज्ञा]\n→ क्षालि [<<अत उपधायाः>> [[7.2.116]] इति णित्-प्रत्यये परे उपधा-अकारस्य वृद्धिः आकारः]\n→ क्षालि+ लट् [<<वर्तमाने लट्>> इति लट्]\n→ क्षालि + तिप् [<<तिप्तस्..>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]\n→ क्षालि+ शप् + तिप् [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ क्षाले + अ + ति [<<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणः]\n→ क्षालय् + अ + ति [<<एचोऽयवायावः>> [[6.1.78]] इति अयादेशः]\n→ क्षालयति\nज्ञातव्यम् - अस्मिन् सूत्रे 'अतः' इत्यनेन 'अकारस्य वृद्धिः भवति' इति निर्दिष्टमस्ति, अतः <<इको गुणवृद्धी>> [[1.1.3]] इत्यस्य प्रयोगः अत्र न भवति ।\n" }, "72117": { "sa": "णित् / ञित्-तद्धित-प्रत्यये परे अङ्गस्य आदि-स्वरस्य वृद्धिः भवति । ", "sd": "यदि कस्मिंश्चित् तद्धित-प्रत्यये णकारः ञकारः वा इत्संज्ञकः अस्ति, तर्हि तस्मिन् प्रत्यये परे अङ्गस्य प्रथमः यः अच्-वर्णः, तस्य वृद्धिः भवति । उदाहरणानि एतानि -\n1. दक्ष + इञ् [<<तस्यापत्यम्>> [[4.1.92]] अस्मिन् अर्थे <<अत इञ्>> [[4.1.95]] इति इञ्-प्रत्ययः]\n→ दाक्ष इञ् [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति ञित्-प्रत्यये परे आदिवृद्धिः । इत्युक्ते, अङ्गस्य आदिवर्णः यः अकारः, तस्य वृद्धिः आकारः]\n→ दक्ष् + इञ् [<<यस्येति च>> [[6.4.148]] इति अङ्गस्य अकारस्य लोपः]\n→ दाक्षि\n2. शीत + ष्यञ् [<<वर्णदृढादिभ्यः ष्यञ् च>> [[5.1.123]] इति ष्यञ्-प्रत्ययः]\n→ शैत + य [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति ञित्-प्रत्यये परे आदिवृद्धिः । ईकारस्य वृद्धिः ऐकारः]\n→ शैत् + य [<<यस्येति च>> इति अकारलोपः]\n→ शैत्य\n3. उपगु + अण् [<<तस्यापत्यम्>> [[4.1.92]] इति अण्-प्रत्ययः]\n→ औपगु अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः । उकारस्य वृद्धिः औकारः]\n→ औपगो अ [<<ओर्गुणः>> [[6.4.146]] इत्यनेन उकारस्य गुणः ओकारः]\n→ औपगव [<<एचोऽयवायावः>> [[6.1.78]] इति अव्-आदेशः]\n4. सोम + ट्यण् [<<सास्य देवता>> [[4.2.24]] अस्मिन् अर्थे <<सोमाट् ट्यण्>> [[4.2.30]] इति ट्यण्-प्रत्ययः]\n→ सौम + य [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति ञित्-प्रत्यये परे आदिवृद्धिः । ओकारस्य वृद्धिः औकारः]\n→ सौम् + य [<<यस्येति च>> इति अकारलोपः]\n→ सौम्य\nज्ञातव्यम् - अस्मिन् सूत्रे 'अङ्गस्य आदिस्वरस्य वृद्धिः भवति' इति निर्दिष्टमस्ति, तथा च 'अचः' इत्यपि अनुवर्तते, अतः <<इको गुणवृद्धी>> [[1.1.3]] इत्यस्य प्रयोगः अत्र न भवति ।" }, "72118": { "sa": "कित्-तद्धित-प्रत्यये परे अङ्गस्य आदि-स्वरस्य वृद्धिः भवति ।", "sd": "यदि कस्मिंश्चित् तद्धित-प्रत्यये ककारः इत्संज्ञकः अस्ति, तर्हि तस्मिन् प्रत्यये परे अङ्गस्य प्रथमः यः अच्-वर्णः, तस्य वृद्धिः भवति । उदाहरणानि एतानि -\n1. विनता + ढक् [<<तस्यापत्यम्>> [[4.1.92]] अस्मिन् अर्थे <<स्त्रीभ्यो ढक्>> [[4.1.120]] इति ढक्-प्रत्ययः]\n→ विनता + एय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ढकारस्य एय्-आदेशः]\n→ वैनता + एय [<<किति च>> [[7.2.118]] इति आदिवृद्धिः । इकारस्य वृद्धिः ऐकारः]\n→ वैनत् + एय [<<यस्येति च>> [[6.4.148]] इति अङ्गस्य अकारस्य लोपः]\n→ वैनतेय\n2. रेवती + ठक् [<<रेवत्यादिभ्यष्ठक्>> [[4.1.146]] इति ठक्-प्रत्ययः]\n→ रैवती + ठ [<<किति च>> [[7.2.118]] इति आदिवृद्धिः । एकारस्य वृद्धिः ऐकारः]\n→ रैवती + इक [<<ठस्येकः>> [[7.3.50]] इति ठकारस्य इक-आदेशः]\n→ रैवत् + इक [<<यस्येति च>> [[6.4.148]] इति अङ्गस्य इकारस्य लोपः]\n→ रैवतिक\n3. कलि + ढक् [<<कलेर्ढक्>> [[4.2.8]] इत्यनेन कलि-शब्दात् ढक्-प्रत्ययः]\n→ कलि + एय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति ढकारस्य एय्-आदेशः]\n→ कालि + एय [<<किति च>> [[7.2.118]] इति आदिवृद्धिः । अकारस्य वृद्धिः आकारः]\n→ काल् + एय [<<यस्येति च>> [[6.4.148]] इति अङ्गस्य अकारस्य लोपः]\n→ कालेय\n4. नड + फक् [<<तस्यापत्यम्>> [[4.1.92]] अस्मिन् अर्थे <<नडादिभ्यः फक्>> [[4.1.99]] इति फक्-प्रत्ययः]\n→ नड + अायन [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> [[7.1.2]] इति फ्-इत्यस्य आयन्-आदेशः]\n→ नाड + अायन [<<किति च>> [[7.2.117]] इति आदिवृद्धिः]\n→ नाड् + आयन [<<यस्येति च>> [[6.4.148]] इति अङ्गस्य अकारस्य लोपः]\n→ नाडायन\nज्ञातव्यम् - अस्मिन् सूत्रे 'अङ्गस्य आदिस्वरस्य वृद्धिः भवति' इति निर्दिष्टमस्ति, तथा च 'अचः' इत्यपि अनुवर्तते, अतः <<इको गुणवृद्धी>> [[1.1.3]] इत्यस्य प्रयोगः अत्र न भवति ।\n" }, "73001": { "sa": "", "sd": "" }, "73002": { "sa": "", "sd": "" }, "73003": { "sa": "", "sd": "" }, "73004": { "sa": "", "sd": "" }, "73005": { "sa": "", "sd": "" }, "73006": { "sa": "", "sd": "" }, "73007": { "sa": "", "sd": "" }, "73008": { "sa": "", "sd": "" }, "73009": { "sa": "", "sd": "" }, "73010": { "sa": "अधिकारोऽयम् । इतः परम् 'यथातथयथापुरयोः पर्यायेण' [[7.3.31]] इति यावत् यत् किमपि उक्तमस्ति तत् उत्तरपदस्यैव भवति ।", "sd": "सप्तमाध्यायस्य तृतीयपादस्य प्रारम्भिकानि 31 सूत्राणि 'तद्धितेषु आदिवृद्धिः कुत्र भवति' अस्मिन् विषये सिद्धान्तानि वदन्ति । अस्मिन्नेव प्रकरणे 'उत्तरपदाधिकारः' इति अयमधिकारः विद्यते । अस्मात् सूत्रात् आरभ्य प्रकरणस्य अन्तपर्यन्तम् (इत्युक्ते <<यथातथयथापुरयोः पर्यायेण>> [[7.3.31]] इति यावत्) यत् किमपि उच्यते, तत् समस्तपदस्य उत्तरपदस्यैव भवति, न अन्यत्र - इति अस्य अधिकारस्य अर्थः । " }, "73011": { "sa": "", "sd": "" }, "73012": { "sa": "", "sd": "" }, "73013": { "sa": "", "sd": "" }, "73014": { "sa": "", "sd": "" }, "73015": { "sa": "", "sd": "" }, "73016": { "sa": "", "sd": "" }, "73017": { "sa": "", "sd": "" }, "73018": { "sa": "", "sd": "" }, "73019": { "sa": "", "sd": "" }, "73020": { "sa": "", "sd": "" }, "73021": { "sa": "", "sd": "" }, "73022": { "sa": "", "sd": "" }, "73023": { "sa": "", "sd": "" }, "73024": { "sa": "", "sd": "" }, "73025": { "sa": "", "sd": "" }, "73026": { "sa": "", "sd": "" }, "73027": { "sa": "", "sd": "" }, "73028": { "sa": "", "sd": "" }, "73029": { "sa": "", "sd": "" }, "73030": { "sa": "", "sd": "" }, "73031": { "sa": "", "sd": "" }, "73032": { "sa": "", "sd": "" }, "73033": { "sa": "", "sd": "" }, "73034": { "sa": "", "sd": "" }, "73035": { "sa": "", "sd": "" }, "73036": { "sa": "", "sd": "" }, "73037": { "sa": "", "sd": "" }, "73038": { "sa": "", "sd": "" }, "73039": { "sa": "", "sd": "" }, "73040": { "sa": "", "sd": "" }, "73041": { "sa": "", "sd": "" }, "73042": { "sa": "", "sd": "" }, "73043": { "sa": "", "sd": "" }, "73044": { "sa": "", "sd": "" }, "73045": { "sa": "", "sd": "" }, "73046": { "sa": "", "sd": "" }, "73047": { "sa": "", "sd": "" }, "73048": { "sa": "", "sd": "" }, "73049": { "sa": "", "sd": "" }, "73050": { "sa": "अङ्गात् परस्य प्रत्ययस्य आदौ विद्यमानस्य ठकारस्य 'इक्' आदेशः भवति । ", "sd": "प्रत्ययस्य आदौ विद्यमानः यः ठकारः, तस्य अनेन सूत्रेण 'इक्' इति आदेशः भवति ।\nज्ञातव्यम् -\n1. यद्यपि इदं सूत्रमङ्गाधिकारे अस्ति, तथाप्यत्र 'अङ्गस्य' अयम् शब्दः 'अङ्गात्' इति विपरिणम्यते । अतः अङ्गात् परस्य (प्रत्ययस्य) यः प्रत्ययः तस्मिन् विद्यमानस्य ठकारस्य अनेन सूत्रेण 'इक्' आदेशः भवति ।\n2. <<आदेः परस्य>> [[1.1.54]] अनेन सूत्रेण प्रत्ययस्य आदौ स्थितस्यैव ठकारस्य अनेन सूत्रेण आदेशः भवति । अतः 'अठच्', 'इष्ठन्' - एतादृशेषु प्रत्ययेषु विद्यमानस्य ठकारस्य अनेन सूत्रेण इक्-आदेशः न विधीयते ।\nउदाहरणद्वयम् एतत् -\n1. <<रेवत्यादिभ्यः ठक्>> [[4.1.146]] अनेन सूत्रेण रेवत्यादिगणस्य शब्देभ्यः <<तस्य अपत्यम्>> [[4.1.92]] अस्मिन् अर्थे 'ठक्' प्रत्ययः भवति । अस्य ठकारस्य वर्तमानसूत्रेण इक्-आदेशः भवति ।\nरेवती + ठक्\n→ रेवती + ठ [ककारस्य <<हलन्त्यम्>> [[1.3.3]] इत्यनेन इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ रेवती + इक [<<ठस्येकः>> [[7.3.50]] इति ठ्-इत्यस्य इक्-आदेशः]\n→ रैवती + इक [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ रैवत् + इक [<<यस्येति च>> [[6.4.148]] इति ईकारलोपः]\n→ रैवतिक\n2. <<लवणात् ठञ्>> [[4.4.52]] अनेन सूत्रेण 'लवण'शब्दात् <<तदस्य पण्यम्>> [[4.4.51]] अस्मिन् अर्थे 'ठञ्' प्रत्ययः भवति । अस्य ठकारस्य वर्तमानसूत्रेण इक्-आदेशः भवति ।\nलवण + ठञ्\n→ लवण + ठ [ञकारस्य <<हलन्त्यम्>> [[1.3.3]] इत्यनेन इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ लवण + इक [<<ठस्येकः>> [[7.3.50]] इति ठ्-इत्यस्य इक्-आदेशः]\n→ लावण + इक [<<तद्धितेष्वचामादेः>> [[6.4.147]] इति आदिवृद्धिः]\n→ लावण् + इक [<<यस्येति च>> [[6.4.148]] इति ईकारलोपः]\n→ लावणिक\nज्ञातव्यम् -\n1. प्रत्ययस्य आदौ स्थितस्य ठकारस्य <<चुटू>> [[1.3.7]] इत्यनेन इत्संज्ञा न भवति - प्रयोजनस्य अभावात् ।\n2. <<इसुसुक्तान्तात् कः>> [[7.3.51]] एतत् सूत्रम् वर्तमानसूत्रस्य अपवादरूपेण आगच्छति । " }, "73051": { "sa": "इस्/उस्-प्रत्ययान्त-अङ्गात् , तकारान्त-अङ्गात्, तथा च उक्-प्रत्याहारस्य वर्णः यस्य अन्ते अन्ति तादृशात् अङ्गात् परस्य प्रत्ययस्य आदौ विद्यमानस्य ठकारस्य ककारादेशः भवति । ", "sd": "<<ठस्येकः>> [[7.3.50]] अनेन सूत्रेण प्रत्ययस्य आदौ विद्यमानस्य ठकारस्य 'इक्'-आदेशे प्राप्ते तस्य अपवादत्वेन केभ्यश्चन अङ्गेभ्यः परस्य ठकारस्य वर्तमानसूत्रेण 'क्' इति आदेशः विधीयते । तानि अङ्गानि एतानि -\n1. इस्-प्रत्ययान्त-अङ्गम् -\n'इस्' इति कश्चन उणादिप्रत्ययः अस्ति । <ऽअर्चिशुचिहुसृपिछादिछर्दिभ्य इसिः ऽ> अनेन उणादिसूत्रेण अस्य प्रत्ययस्य विधानम् भवति । अर्चिस्, शुचिस्, सर्पिस् - एते शब्दाः इस्-प्रत्ययान्तशब्दाः सन्ति । एतेषाम् परस्य प्रत्ययादिठकारस्य ककारादेशः भवति । प्रक्रियायाः उदाहरणम् इदम् -\nसर्पिस् + ठक्\n→ सर्पिस् + क [<<इसुसुक्तान्तात् कः>> [[7.3.51]] इति ठकारस्य ककारादेशः]\n→ सार्पिस् + क [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ सार्पिः + क [<<ससजुषोः रुँः>> [[8.2.66]] इति रुँत्वम्, <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n→ सार्पिष् + क [<<इणः षः>> [[8.3.39]] इति विसर्गस्य षत्वम् ]\n→ सार्पिष्क ।\n2. उस्-प्रत्ययान्त-अङ्गम् -\n'उस्' इति अपि कश्चन तद्धितप्रत्ययः । <ऽ अर्तिपॄवपियजितनिधनितपिभ्यो नित्ः ऽ> अनेन उणादिसूत्रेण (तथा अन्यैः कैश्चन उणादिसूत्रैः) अस्य विधानम् क्रियते । वपुस्, धनुस्, यजुस्, तनुस् - आदयः शब्दाः उस्-प्रत्ययान्ताः सन्ति । एतेषाम् परस्य प्रत्ययादिठकारस्य ककारादेशः भवति । प्रक्रियायाः उदाहरणम् इदम् -\nधनुस् + ठक् [<<प्रहरणम्>> [[4.4.57]] इति ठक्]\n→ धनुस् + क [<<इसुसुक्तान्तात् कः>> [[7.3.51]] इति ठकारस्य ककारादेशः]\n→ धानुस् + क [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ धानुः + क [<<ससजुषोः रुँः>> [[8.2.66]] इति रुँत्वम्, <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n→ धानुष् + क [<<इणः षः>> [[8.3.39]] इति विसर्गस्य षत्वम् ]\n→ धानुष्क\n3. उक्-प्रत्याहारस्य वर्णः यस्य अन्ते अस्ति तादृशमङ्गम् -\nउक्-प्रत्याहारे उ, ऋ, ऌ - एते वर्णाः वर्तन्ते । अतः यत् अङ्गमुकारान्तम् / ऋकारान्तम् / ऌकारान्तमस्ति, तस्मात् परस्य प्रत्ययादि-ठकारस्य वर्तमानसूत्रेण ककारादेशः भवति । उदाहरणे एते -\n(अ) उवर्णान्तमङ्गम् -\nधेनु + ठक् [<<तस्य समूहः>> [[4.2.37]] अस्मिन् अर्थे <<अचित्तहस्तिधेनोष्ठक्>> [[4.2.47]] इत्यनेन धेनु-शब्दात् ठक्-प्रत्ययः]\n→ धेनु + क [<<इसुसुक्तान्तात् कः>> [[7.3.51]] इति ठकारस्य ककारादेशः]\n→ धैनु + क [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ धैनुक\n(आ) ऋवर्णान्तमङ्गम्\nपितृ + ठञ् [<<ततः आगतः>> [[4.3.74]] अस्मिन् अर्थे <<ऋतष्ठञ्>> [[4.3.78]] इति ठञ्-प्रत्ययः]\n→ पितृ + क [<<इसुसुक्तान्तात् कः>> [[7.3.51]] इति ठकारस्य ककारादेशः]\n→ पैतृ + क [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ पैतृक\n4. तकारान्तमङ्गम् -\nयदि तकारान्त-अङ्गात् परः ठकारादिप्रत्ययः आगच्छति, तर्हि तस्य ठकारस्य ककारादेशः भवति । यथा -\nयकृत् + ठक् [<<संसृष्टे>> [[4.4.22]] इति ठक्]\n→ यकृत् + क [<<इसुसुक्तान्तात् कः>> [[7.3.51]] इति ठकारस्य ककारादेशः]\n→ याकृत् + क [<<किति च>> [[7.2.118]] इति आदिवृद्धिः]\n→ याकृत्क ।\nअत्र एकम् वार्त्तिकमपि ज्ञातव्यम् - । इत्युक्ते, 'दोष्' इत्यस्मात् शब्दात् यदि ठकारादिप्रत्ययः विधीयते, तर्हि तस्य ठकारस्य अपि ककारादेशः एव कर्तव्यः । यथा - दोष् + ठक् → दौष्क ।\nस्मर्तव्यम् - सर्वे 'इस्' समुदायान्तशब्दाः इस्-प्रत्ययान्ताः न सन्ति । यथा, 'आशिस्' अयं शब्दः इस्-प्रत्ययान्तः नास्ति, अपितु 'आङ् + शास्' धातोः क्विप् प्रत्ययं कृत्वा सिद्ध्यति । अतः अस्य शब्दस्य विषये वर्तमानसूत्रस्य प्रसक्तिः नास्ति । यथा, आशिस् + ठक् → आशिषिक । अत्र <<ठस्येकः>> [[7.3.50]] इत्यनेन ठकारस्य इक्-आदेशः एव जायते । " }, "73052": { "sa": "", "sd": "" }, "73053": { "sa": "", "sd": "" }, "73054": { "sa": "हन्-धातोः अङ्गस्य हकारस्य कुत्वम् भवति ञित्-प्रत्यये परे, णित्-प्रत्यये परे, नकारे परे । ", "sd": "हन्-धातोः यः हकारः, तस्य (1) ञित्-प्रत्यये परे, (2) णित्-प्रत्यये परे, (3) नकारे परे कुत्वम् भवति । हकारस्य बाह्यप्रयत्नः संवार-नाद-घोष-महाप्राणः, अतः तादृशः कवर्गीयः घकारः हकारस्य स्थाने आगच्छति ।\nक्रमेण उदाहरणानि पश्यामः -\n1) ञिति परे -\nहन्-धातोः घञ्-प्रत्ययान्तरूपस्य सिद्धिः एषा -\nहन् + घञ् [<<भावे>> [[3.3.18]] इति घञ्]\n→ घन् + अ [<<हो हन्तेर्ञ्णिन्नेषु>> [[7.3.54]] इत्यनेन ञित्-प्रत्यये परे हन्-इत्यस्य हकारस्य घकारादेशः ]\n→ घत् + अ [<<हनस्तोऽचिण्णलोः>> [[7.3.32]] इति नकारस्य तकारः]\n→ घात् + अ [<<अतः उपधायाः>> [[7.2.116]] इति उपधा-अकारस्य दीर्घः]\n→ घात\n2) णिति परे -\nहन्-धातोः ण्वुल्-प्रत्ययान्तरूपस्य सिद्धिः एषा -\nहन् + ण्वुल् [<<ण्वुल्तृचौ>> [[3.1.133]] इति ण्वुल् ]\n→ हन् + अक [ <<युवोरनाकौ>> [[7.1.1]] इति अक-आदेशः]\n→ घन् + अक [<<हो हन्तेर्ञ्णिन्नेषु>> [[7.3.54]] इत्यनेन णित्-प्रत्यये परे हन्-इत्यस्य हकारस्य घकारादेशः ]\n→ घत् + अक [<<हनस्तोऽचिण्णलोः>> [[7.3.32]] इति नकारस्य तकारः]\n→ घात् अक [<<अतः उपधायाः>> [[7.2.116]] इति उपधा-अकारस्य दीर्घः]\n→ घातक\n3) नकारे परे -\n'वृत्रहन्' इति नकारान्तम् प्रातिपदिकमस्ति । तस्य द्वितीया-बहुवचनस्य प्रक्रिया इयम् -\nवृत्रहन् + शस्\n→ वृत्रह् न् + अस् [<<अल्लोपोऽनः>> [[6.4.134]] इत्यनेन भस्य उपधा-अकारस्य लोपः]\n→ वृत्रघ् न् + अस् [<<हो हन्तेर्ञ्णिन्नेषु>> [[7.3.54]] इत्यनेन नकारे परे हन्-इत्यस्य हकारस्य घकारादेशः ]\n→ वृत्रघ्नः" }, "73055": { "sa": "", "sd": "" }, "73056": { "sa": "", "sd": "" }, "73057": { "sa": "", "sd": "" }, "73058": { "sa": "", "sd": "" }, "73059": { "sa": "", "sd": "" }, "73060": { "sa": "", "sd": "" }, "73061": { "sa": "", "sd": "" }, "73062": { "sa": "", "sd": "" }, "73063": { "sa": "", "sd": "" }, "73064": { "sa": "", "sd": "" }, "73065": { "sa": "", "sd": "" }, "73066": { "sa": "", "sd": "" }, "73067": { "sa": "", "sd": "" }, "73068": { "sa": "", "sd": "" }, "73069": { "sa": "", "sd": "" }, "73070": { "sa": "", "sd": "" }, "73071": { "sa": "", "sd": "" }, "73072": { "sa": "", "sd": "" }, "73073": { "sa": "", "sd": "" }, "73074": { "sa": "", "sd": "" }, "73075": { "sa": "", "sd": "" }, "73076": { "sa": "", "sd": "" }, "73077": { "sa": "", "sd": "" }, "73078": { "sa": "", "sd": "" }, "73079": { "sa": "", "sd": "" }, "73080": { "sa": "", "sd": "" }, "73081": { "sa": "", "sd": "" }, "73082": { "sa": "", "sd": "" }, "73083": { "sa": "", "sd": "" }, "73084": { "sa": "सार्वधातुके आर्धधातुके च प्रत्यये परे इगन्तस्य अङ्गस्य गुणादेशः भवति ।", "sd": "धातोः विहिताः प्रत्ययाः 'सार्वधातुक' तथा 'आर्धधातुक' अनेन प्रकारेण विभाजिताः सन्ति । एतेषां सर्वेषाम् विषये अनेन सूत्रेण इगन्तस्य अङ्गस्य गुणादेशः भवति ।\nगुणादेशः इत्युक्ते 'गुण'संज्ञकस्य वर्णस्य आदेशः । <<अदेङ् गुणः>> [[1.1.2]] इत्यनेन अकार-एकार-ओकाराणाम् 'गुण'संज्ञा भवति । अतः एतेषु स्थानिनः यः अन्तरतमः स एव आदेशरूपेण आगच्छति ।\n<<इको गुणवृद्धी>> [[1.1.3]] इत्यनेन अङ्गस्य अन्तिम-इक्-वर्णस्यैव अयम् गुणादेशः भवति । अतः अकारान्तानाम् एजन्तानाम् च अङ्गानाम् विषये अस्य सूत्रस्य प्रसक्तिः नास्ति ।\nउदाहरणे एते -\n1. नी + तृच् [<<ण्वुलतृचौ>> [[3.1.133]] इत्यनेन तृच्-प्रत्ययः । <<आर्धधातुकं शेषः>> [[3.4.114]] इति अयमार्धधातुकसंज्ञां प्राप्नोति ]\n→ ने + तृ [आर्धधातुके प्रत्यये परे <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इत्यनेन अङ्गस्य गुणादेशः भवति । स्थानसाधर्म्यात् इकारस्य गुणादेशरूपेण एकारः विधीयते ]\n2. भू-धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -\nभू + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ भू + तिप् [<<तिप्तस्..>> [[3.4.78]] इति तिप्]\n→ भू + शप् + ति [<<कर्तरि शप्>> इति सार्वधातुके प्रत्यये परे औत्सर्गिकः विकरणप्रत्ययः शप्]\n→ भो + अ + ति [शप् इत्यस्मिन् सार्वधातुके प्रत्यये परे <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति अङ्गस्य गुणादेशः । ऊकारस्य गुणः तादृशः एव ओष्ठ्यः ओकारः]\n→ भवति [<<एचोऽयवायावः>> [[6.1.78]] इति ओकारस्य अव्-आदेशः]\nज्ञातव्यम् - यदि कश्चन प्रत्ययः ङित् / गित् / कित् अस्ति, तर्हि अस्मिन प्रत्यये परे <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इत्यनेन निर्दिष्टः गुणादेशः <<क्ङिति च>> [[1.1.5]] इत्यनेन निषिध्यते । यथा, भू + क्त = भूत । अत्र यद्यपि क्त-प्रत्ययः आर्धधातुकः अस्ति, तथापि अयम् कित्-प्रत्ययः अस्ति, अतः अत्र उकारस्य गुणः न विधीयते ।" }, "73085": { "sa": "", "sd": "" }, "73086": { "sa": "सार्वधातुके आर्धधातुके च प्रत्यये परे पुगन्तस्य तथा लघूपधस्य अङ्गस्य गुणादेशः भवति । ", "sd": "यस्य अन्ते पुक्-आगमः कृतः अस्ति, तथा च यस्य उपधायाम् लघु-वर्णः अस्ति, तादृशस्य अङ्गस्य गुणः भवति । <<इको गुणवृद्धी>> [[1.1.3]] अनया परिभाषया अयम् गुणादेशः इक्-वर्णस्य भवति । उदाहरणानि पश्यामः -\n1) <<अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ>> [[7.3.36]] अनेन सूत्रेण अर्ति, ह्री, व्ली, री, क्नूयी, क्ष्मायी - इत्येतेषामङ्गानाम् तथा आकारान्त-अङ्गानाम् णिच्-प्रत्यये परे पुक्-आगमः भवति । यथा, व्ली-धातोः णिच्-प्रत्यये परे आतिदेशिकः धातुः एतादृशम् सिद्ध्यति -\nव्ली + णिच् [<<हेतुमति च>> [[3.1.26]] इति णिच् ]\n→ व्ली पुक् इ [ <<अर्त्तिह्रीब्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ>> [[7.3.86]] इति व्ली-धातोः पुक्-आगमः । <<आद्यन्तौ टकितौ>> [[1.1.46]] इति अन्त्यागमः ।\n→ व्ली प् इ [ककारस्य इत्संज्ञा, लोपः । उकारः उच्चारणार्थः अस्ति, अतः तस्यापि लोपः भवति ।]\n→ व्लेपि [णिच्-इति आर्धधातुकप्रत्ययः । अतः अस्मिन् प्रत्यये परे पुगन्तस्य अङ्गस्य इक्-वर्णस्य <<पुगन्तलघूपधस्य च>> [[7.3.86]] इति गुणः भवति]\n2) लिख्-धातोः तुमुन्-प्रत्ययान्तरूपम् -\nलिख् + तुम् [<<तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्>> [[3.3.10]] इति तुमुन्]\n→ लिख् + इट् + तुम् [<<आर्धधातुकस्य इड्वलादेः>> [[7.2.35]] इति इडागमः]\n→ लेख् + इट् + तुम् [<<पुगन्तलघूपधस्य च>> [[7.3.86]] इत्यनेन 'इट्' इति आर्धधातुके प्रत्यये परे लघूपध-अङ्गस्य इक्-वर्णस्य गुणः]\n→ लेखितुम्\n3) गृज्-धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् -\nगृज् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ गृज् + तिप् [<<तिप्तस्..>> [[3.4.78]] इति तिप्]\n→ गृज् + शप् + तिप् [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ गर्ज् + अ + ति [शप्-इत्यस्मिन् सार्वधातुके प्रत्यये परे 'गृज्' इति लघूपध-अङ्गस्य इक्-वर्णस्य गुणः । ऋकारस्य गुणः <<उरण् रपरः>> [[1.1.51]] इति रपरः अकारः ।\nज्ञातव्यम् -\n1. अस्मिन् सूत्रे 'अङ्गस्य गुणः' इति उक्तमस्ति । अतः वस्तुतः <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यनेन अङ्गस्य अन्तिमवर्णस्यैव गुणादेशः भवेत् । परन्तु पुगन्त-अङ्गस्य अन्तिमवर्णः पकारः एव भवेत्, तथा लघु-उपधस्य अङ्गस्य अन्तिमवर्णः अपि हल्-एव भवेत् - वचनसामर्थ्यात् । अतः एतयोः विषये उपधा-इक्-वर्णस्यैव गुणः भवति ।\n2. उपधा-वर्णः गुरुसंज्ञकः अस्ति चेत् अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा - 'कूज्' धातोः उपधावर्णः <<दीर्घं च>> [[1.4.12]] इत्यनेन गुरुसंज्ञकः अस्ति, अतः अस्य धातोः गुणादेशः न प्रवर्तते। यथा - कूज् + तुम् → कूजितुम् ।\n3. यदि उपधायाम् इक्-वर्णः नास्ति चेत् अस्य सूत्रस्य प्रयोगः न भवति । यथा - 'पठ्' इत्यत्रापि उपधावर्णः लघुसंज्ञकः अस्ति । परन्तु अत्र उपधायाम् इक्-वर्णः नास्ति, अतः अत्र <<पुगन्तलघूपधस्य च>> [[7.3.86]] इत्यस्य प्रसक्तिः नास्ति ।\n4. अङ्गस्य उपधाभूतस्य इडागमस्य अनेन सूत्रेण गुणे प्राप्ते <<दीधीवेवीटाम्>> [[1.1.6]] इत्यनेन निषिध्यते, अतः इडागमस्य विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । " }, "73087": { "sa": "", "sd": "" }, "73088": { "sa": "भू-धातोः तथा सु-धातोः अङ्गस्य सार्वधातुके तिङ्-प्रत्यये परे गुणः न भवति । ", "sd": "भू (सत्तायाम्) तथा षूङ् (प्राणिगर्भविमोचने) एतयोः धात्वोः अङ्गस्य सार्वधातुके तिङ्-प्रत्यये परे गुणः न भवति ।\n1) भू-धातुः वस्तुतः भ्वादिगणस्य धातुः अस्ति, अतः सार्वधातुके तिङ्-प्रत्यये परे अस्मात् शप्-विकरणप्रत्ययः विधीयते । परन्तु लुङ्लकारस्य विषये 'च्लि' इतस्य विकरणप्रत्ययस्य 'सिच्' आदेशे कृते <<गातिस्था...>> [[2.4.77]] इत्यनेन सिच्-इत्यस्य लोपः भवति, अतः भू-धातोः साक्षात् परः सार्वधातुकः तिङ्-प्रत्ययः आगच्छति । अस्यामवस्थायाम् <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इत्यनेन उकारस्य गुणादेशे प्राप्ते अनेन सूत्रेण सः निषिध्यते । प्रक्रिया इयम् -\nभू + लुङ् [<<लुङ्>> [[3.2.110]] इति लुङ्]\n→ भू + च्लि + ल् [<<च्लि लुङि>> [[3.1.43]] इति च्लि]\n→ भू + सिच् + ल् [<<च्लेः सिच्>> [[3.1.44]] इति सिच्]\n→ भू + ल् [<<गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु>> [[2.4.77]] इति लोपः]\n→ अट् + भू + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ + भू + तिप् [<<तिप्तस्..>> [[3.4.78]] इति तिप्]\n→ अ + भू + ति [<<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इत्यनेन उकारस्य गुणादेशे प्राप्ते <<भूसुवोस्तिङि>> [[7.3.88]] इति निषेधः]\n→ अभूत् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n2) षूङ्-इति अदादिगणस्य धातुः अस्ति, अतः अस्मात् परस्य शप्-विकरणस्य <<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इत्यनेन लोपः भवति । अस्याम् स्थितौ सार्वधातुके तिङ्प्रत्यये परे अस्य उकारस्य यः लोपः विधीयते सः <<भूसुवोस्तिङि>> [[7.3.88]] इत्यनेन निषिध्यते । यथा, अस्य धातोः लोट्लकारस्य उत्तमपुरुषैकवचनस्य रूपम् -\nषूङ्\n→ सू [<<धात्वादे षः सः>> [[6.1.64]] इति सत्वम्]\n→ सू + लट् [<<लोट् च>> [[3.3.162]] इति लोट्]\n→ सू + इट् [<<तिप्तस्..>> [[3.4.78]] इति आत्मनेपदस्य उत्तमपुरुषैकवचनस्य इट्-प्रत्ययः]\n→ सू + शप् + इट् [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ सू + इ [<<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शपः लुक्]\n→ सू + ए [<<टित आत्मनेपदानां टेरे>> [[3.4.79]] इति इकारस्य एकारादेशः]\n→ सू + ऐ [<<एत ऐ>> [[3.4.93]] इति ऐ-आदेशः]\n→ सू + आ + ऐ [<<आडुत्तमस्य पिच्च>> [[3.4.92]] इति पित् आडागमः]\n→ सू + ऐ [<<आटश्च>> [[6.1.90]] इति वृद्धिः]\n→ स् उवङ् + तिप् [ पित्संज्ञके सार्वधातुके तिङ्-प्रत्यये परे <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इत्यनेन अङ्गस्य ऊकारस्य गुणे प्राप्ते <<भूसुवोस्तिङि>> [[7.3.88]] इत्यनेन निषिध्यते । अतः <<अचिश्नु..>> [[6.4.77]] इति उवङ्-आदेशः भवति]\n→ सुव् ऐ\n→ सुवै\n" }, "73089": { "sa": "", "sd": "" }, "73090": { "sa": "", "sd": "" }, "73091": { "sa": "", "sd": "" }, "73092": { "sa": "", "sd": "" }, "73093": { "sa": "ब्रू-धातोः अङ्गात् परस्य सार्वधातुक-हलादि-पित्-प्रत्ययस्य ईट्-आगमः भवति । ", "sd": "1. किम् नाम सार्वधातुकप्रत्ययः ? <<तिङ्शित्सार्वधातुकम्>> [[3.4.113]] - तिङ्-प्रत्ययाः तथा शित्-प्रत्ययाः सार्वधातुकसंज्ञां प्राप्नुवन्ति ।\n2. किम् नाम पित्-प्रत्ययः? सः प्रत्ययः यस्मिन् पकारः इत्संज्ञकः अस्ति । यथा - तिप्, सिप्, मिप् ।\n3. किम् नाम ईट् ? ईट् इति कश्चन टित्-आगमः । टित्त्वात् अयं आगमः <<आद्यन्तौ टकितौ>> [[1.1.46]] इत्यनेन स्थानिनः पूर्वमागच्छति । परन्तु अस्मिन् सूत्रे स्थानीवाचकं षष्ठ्यन्तं पदमेव नास्ति । अस्यामवस्थायाम् <ऽउभयनिर्देशे पञ्चमीनिर्देशः बलीयान् ऽ> इत्यनेन सप्तम्यन्तं पदम् स्थानीरूपेण कार्यं करोति । अतः अयं ईट्-आगमः अपृक्त-हल्-सार्वधातुक-प्रत्ययस्य आदौ आगच्छति ।\n4. 'हलि' इति सार्वधातुके इत्यस्य विशेषणमस्ति । <ऽयस्मिन् विधिः तदादौ अल्ग्रहणेऽ> अनेन वार्तिकेन 'हलि सार्वधातुके' इत्यस्य अर्थः 'हलादि सार्वधातुके' इति भवति ।\nअतः अस्य सूत्रस्य अर्थः जायते - हलादि-सार्वधातुकः-पित्-प्रत्ययः यदि ब्रू-धातोः अङ्गात् परमागच्छति, तर्हि तस्मात् प्रत्ययात् पूर्वम् 'ईट्' आगमः भवति ।\nयथा - 'तिप्' इति हलादि-पित्-सार्वधातुकप्रत्ययः अस्ति । अस्मिन् प्रत्यये परे ब्रू-धातोः लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् 'ब्रवीति' एवं सिद्ध्यति -\nब्रू + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट् ।]\n→ ब्रू + तिप् [<<तिप्तस्झि...>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य विवक्षायाम् तिप्-प्रत्ययः]\n→ ब्रू + शप् + तिप् [<<कर्तरि शप्>> [[3.1.68]] इति औत्सर्गिकम् गणविकरणम् शप् ]\n→ ब्रू + तिप् [<<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शपः लुक् ]\n→ ब्रू + ईट् + तिप् [<<ब्रुव ईट्>> [[7.3.93]] इति ईट्-आगमः]\n→ ब्रो + ई + तिप् [<ऽयदागमास्तद्गुणीभूताः तद्ग्रहणेन गृह्यन्तेऽ> अनया परिभाषया आगमाः स्थानिनः एव अवयवाः सन्ति । अतः अत्र ब्रू-इत्यस्मात् परः 'ईति' अयम् पित्-सार्वधातुकप्रत्ययः अस्ति । अस्य उपस्थितौ <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति अङ्गस्य गुणः विधीयते ।]\n→ ब्रव् + ई + ति [<<एचोऽयवायावः>> [[6.1.78]] इति अवादेशः]\n→ ब्रवीति\nअनेनैव प्रकारेण मध्यमपुरुषैकवचनस्य रूपम् - ब्रवीषि, तथा उत्तमपुरुषैकवचनस्य रूपम् - ब्रवीमि - एते अपि सिद्ध्यतः । तथैव, लोट्लकारस्य 'ब्रवीतु', लङ्लकारस्य 'अब्रवीत्, अब्रवीः' - इत्यत्रापि अस्य सूत्रस्य प्रयोगः क्रियते ।\nज्ञातव्यम् - अनेन सूत्रेण ईडागमः हलादि पित्-प्रत्यये परे एव भवति -\n - अजादि-पित्-प्रत्यये परे अयमागमः न भवति । यथा - लोट्लकारस्य एकवचनस्य प्रत्ययः 'आनि' इत्यस्मिन् परे 'ब्रवाणि' इति रूपं सिद्ध्यति ।\n- हलादि-अपित्-प्रत्यये परे अपि अयमागमः न भवति । यथा - लट्लकारस्य प्रथमपुरुष-द्विवचनस्य प्रत्ययः 'तस्' इत्यस्मिन् परे 'ब्रूतः' इति रूपं सिद्ध्यति ।\n " }, "73094": { "sa": "यङ्-प्रत्ययान्त-अङ्गात् परस्य हलादि-पित्-सार्वधातुकप्रत्ययस्य विकल्पेन ईडागमः भवति । ", "sd": "1. किम् नाम सार्वधातुकप्रत्ययः ? <<तिङ्शित्सार्वधातुकम्>> [[3.4.113]] - तिङ्-प्रत्ययाः तथा शित्-प्रत्ययाः सार्वधातुकसंज्ञां प्राप्नुवन्ति ।\n2. किम् नाम पित्-प्रत्ययः? सः प्रत्ययः यस्मिन् पकारः इत्संज्ञकः अस्ति । यथा - तिप्, सिप्, मिप् ।\n3. किम् नाम ईट् ? ईट् इति कश्चन टित्-आगमः । टित्त्वात् अयं आगमः <<आद्यन्तौ टकितौ>> [[1.1.46]] इत्यनेन स्थानिनः पूर्वमागच्छति । परन्तु अस्मिन् सूत्रे स्थानीवाचकं षष्ठ्यन्तं पदमेव नास्ति । अस्यामवस्थायाम् <ऽउभयनिर्देशे पञ्चमीनिर्देशः बलीयान्ऽ> इत्यनेन सप्तम्यन्तं पदम् स्थानीरूपेण कार्यं करोति । अतः अयं ईट्-आगमः अपृक्त-हल्-सार्वधातुक-प्रत्ययस्य आदौ आगच्छति ।\n4. 'हलि' इति सार्वधातुके इत्यस्य विशेषणमस्ति । <ऽयस्मिन् विधिः तदादौ अल्ग्रहणेऽ> अनेन वार्तिकेन 'हलि सार्वधातुके' इत्यस्य अर्थः 'हलादि सार्वधातुके' इति भवति ।\n5. किम् नाम यङ्? <<धातोरेकाचो हलादे क्रियासमभिहारे यङ्>> [[3.1.22]] इत्यनेन 'पुनः पुनः क्रियां करोति' अस्मिन् अर्थे एकाचः हलादिः यः धातुः, तस्य यङ्-प्रत्ययः भवति । यङ्-प्रत्ययान्तशब्दः <<सनाद्यन्ताः धातवः>> [[3.1.32]] इत्यनेन धातुसंज्ञां प्राप्नोति । तस्य अग्र तिप्-तस्-झि-आदयः प्रत्ययः भवन्ति । यथा - पुनः पुनः पचते = पापच्यते ।\nअतः अस्य सूत्रस्य अर्थः जायते - हलादि-सार्वधातुकः-पित्-प्रत्ययः यदि यङन्तात् अङ्गात् परमागच्छति, तर्हि तस्मात् प्रत्ययात् पूर्वम् विकल्पेन 'ईट्' आगमः भवति ।\nयथा, भू-धातोः यङ्-प्रत्ययान्त-रूपम् 'बोभवीति' इत्यस्य रूपसिद्धिः इयम् -\nभू + यङ् [<<धातोरेकाचो हलादे क्रियासमभिहारे यङ्>> [[3.1.22]] इत्यनेन 'पुनः पुनः भवति' अस्मिन् अर्थे यङ्-प्रत्ययः]\n→ भू + भू + यङ् [<<सन्यङोः>> [[6.1.9]] इत्यनेन यङ्-प्रत्यये परे अङ्गस्य यः एकाच्-अवयवः तस्य द्वित्वम् भवति । द्वित्वात् अनन्तरम् यः प्रथमः 'भू' तस्य <<पूर्वोभ्यासः>> [[6.1.4]] इत्यनेन 'अभ्यास' इति संज्ञा भवति ।]\n→ भो + भू + यङ् [<<गुणो यङ्लुकोः>> [[7.4.82]] इत्यनेन यङ्-प्रत्यये परे इगन्तस्य अभ्यासस्य गुणः भवति । उकारस्य गुणः स्थानसाधर्म्येण ओकारः ।]\n→ भो + भू [<<यङोऽचि च>> [[2.4.74]] इत्यनेन यङ्-प्रत्ययस्य लुक्-भवति । यद्यप्यत्र 'अच्' इति परनिमित्तम् नास्ति, तथापि अस्य सूत्रस्य प्रयोगः कर्तुं शक्यते, यतः अस्मिन् सूत्रे चकारः प्रयुक्तः अस्ति । ]\nअत्र 'भोभू' इत्यस्य <<सनाद्यन्ताः धातवः>> [[3.1.32]] इत्यनेन धातुसंज्ञा भवति । अग्रे, लट्-लकारस्य विवक्षायाम् -\nभोभू + लट्\n→ भोभू + तिप् [<<तिप्तस्झि...>> [[3.4.78]] इति प्रथमपुरुष-एकवचनस्य विवक्षायाम् परस्मैपदिभ्यः धातुभ्यः तिप्-प्रत्ययः]\n→ भोभू + शप् + ति [<<कर्तरि शप्>> [[3.1.68]] इति औत्सर्गिकम् विकरणम् शप्]\n→ भोभू + ति [<<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शप्-प्रत्ययस्य लुक् ।]\n→ भोभू + ईट् + ति / भोभू + ति [यङ्-प्रत्ययस्य लुकि अपि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इति यङ्-प्रत्ययस्य यत् लक्षणम् - <<यङो वा>> [[7.3.94]] इति विकल्पेन ईडागमः - सः भवति । एतत् 'अङ्गस्य' कार्यम् नास्ति, अतः <<न लुमताङ्गस्य>> [[1.1.63]] इति निषेधः न भवति ।]\n→ भोभो ईति / भोभोति [<<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति अङ्गस्य गुणः]\n→ भोभवीति / भोभोति [<<एचोऽयवायावः>> [[6.1.78]] इति अवादेशः]\n→ बोभवीति / बोभोति [<<अभ्यासे चर्च्च>> [[8.4.54]] इति चर्त्वम् ]\nअनेन प्रकारेण विकल्पेन ईडागमे प्राप्ते बोभवीति, बोभोति एते द्वे रूपे सिद्ध्यतः ।\nतथैव लप्-धातोः लालपीति, रू-धातोः रोरवीति, वद्-धातोः वावदीति - आदीनि रूपाणि अपि सिद्ध्यन्ति ।\nज्ञातव्यम् - <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इत्यनेन निर्दिष्टः गुणादेशः भू-धातोः सार्वधातुके तिङ्-प्रत्यये परे <<भूस्तुवोस्तिङि>> [[7.3.88]] इत्यनेन वस्तुतः निषिध्यते । परन्तु अयं निषेधः यङ्लुक्-विधौ लौकिकसंस्कृते न भवति एतत् स्मर्तव्यम् ।" }, "73095": { "sa": "तु, रु, स्तु, शम्, अम् - एतेभ्यः परस्य हलादि-सार्वधातुक-तिङ्-प्रत्ययस्य विकल्पेन ईट्-आगमः भवति । ", "sd": "तु, रु, स्तु, शम्, अम् - एते पञ्च धातवः सन्ति । एतेभ्यः विहितस्य हलादि-सार्वधातुक-तिङ्-प्रत्ययस्य विकल्पेन 'ईट्' इति कश्चन आगमः भवति । ('ईट्' इति 'इट्' इत्यस्मात् भिन्नः, अयम् इडागमस्य विषयः न - इति स्मर्तव्यम् ।) ।\nकिम् नाम सार्वधातुकप्रत्ययः ? <<तिङ्शित्सार्वधातुकम्>> [[3.4.113]] इत्यनेन तिङ्-प्रत्ययाः तथा शित्-प्रत्ययाः सार्वधातुकसंज्ञां प्राप्नुवन्ति । एतयोः केवलम् 'तिङ्'-प्रत्ययस्य विषये एव अस्य सूत्रस्य प्रसक्तिः अस्ति, शित्-प्रत्ययस्य विषये न ।\nकिम् नाम ईट् ? ईट् इति कश्चन टित्-आगमः । सामान्यतः टित्- आगमः <<आद्यन्तौ टकितौ>> [[1.1.46]] इत्यनेन स्थानिनः पूर्वमागच्छति । परन्तु अस्मिन् सूत्रे स्थानीवाचकं षष्ठ्यन्तं पदमेव नास्ति । अस्यामवस्थायाम् <ऽउभयनिर्देशे पञ्चमीनिर्देशः बलीयान्ऽ> इत्यनेन सप्तम्यन्तं पदम् स्थानीरूपेण कार्यं करोति । अस्मिन् सूत्रे 'सार्वधातुके' इति सप्तम्यन्तं पदं विद्यते, अतः अयं ईट्-आगमः सार्वधातुक-प्रत्ययस्य आदौ आगच्छति ।\n'हलि' इति 'सार्वधातुके' इत्यस्य विशेषणमस्ति । <ऽयस्मिन् विधिः तदादौ अल्ग्रहणेऽ> अनेन वार्तिकेन 'हलि सार्वधातुके' इत्यस्य अर्थः 'हलादि सार्वधातुके' इति भवति ।\nअस्मिन् सूत्रे प्रोक्ताः पञ्च धातवः एतादृशाः - तु गतिवृद्धिहिंसासु, रु शब्दे, ष्टुञ् स्तुतौ, शमुँ उपशमे, अमँ गत्यादिषु । एतेषु 'तु' अयं धातुः सौत्रः अस्ति - इत्युक्ते अस्य उल्लेखः धातुपाठे न विद्यते, केवलं सूत्रेषु एव दृश्यते । रु / ष्टुञ् - एतौ अदादिगणस्य धातू स्तः, शमुँ उपशमे अयम् दिवादिगणस्य धातुः अस्ति, अमँ इति भ्वादिगणस्य धातुः अस्ति । एतेभ्यः धातुभ्यः परस्य हलादि-सार्वधातुक-तिङ्-प्रत्ययस्य विकल्पेन ईट्-आगमः भवति ।\nप्रत्येकम् धातोः प्रक्रियाम् क्रमेण पश्यामः -\n1) 'तु वृद्धिहिंसयोः' अयम् सौत्रः धातुः अस्ति । अयम् धातुः 'लुग्विकरणः अस्ति' इति अपि उच्यते । इत्युक्ते, अस्मात् परस्य विकरणप्रत्ययस्य लुक्-भवति । एवं स्थिते 'तु + तिप्' इत्यत्र अनेन सूत्रेण विकल्पेन ईडागमे कृते, अग्रे ईडादेशस्य पक्षे <<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणादेशे, <<एचोऽयवायावः>> [[6.1.78]] इति अवादेशे कृते 'तवीति' इति रूपं सिद्ध्यति । ईडादेशाभावे <<उतो वृद्धिर्लुकि हलि>> [[7.3.89]] इत्यनेन अङ्गस्य वृद्धिं कृत्वा 'तौति' इति रूपम् सिद्ध्यति ।\n2) 'रु शब्दे' अयमदादिगणस्य धातुः । अस्मात् परस्य शप्-प्रत्ययस्य <<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इत्यनेन लोपः भवति । अग्रे तु-धातुवदेव उपरिनिर्दिष्टां प्रक्रियां कृत्वा रवीति / रौति एते रूपे सिद्ध्यतः ।\n3) ष्टुञ् स्तुतौ अयमपि अदादिगणस्य धातुः । अत्र आरम्भे <<धात्वादेः षः सः>> [[6.1.64]] इत्यनेन षकारस्य सकारः, तथा ष्टुत्वनिवृत्त्या टकारस्य तकारे कृते 'स्तु' इति धातुः सिद्ध्यति । अस्यापि प्रक्रिया तु-धातुवदेव भवति, अतः 'स्तवीति / स्तौति' एते द्वे रूपे सिद्ध्यतः ।\nज्ञातव्यम् - एतेषु त्रिषु धातुषु ईडागमस्य अभावे केवलं पित्-सार्वधातुके प्रत्यये परे एव <<उतो वृद्धिर्लुकि हलि>> [[7.3.89]] इति अङ्गस्य वृद्धिः भवति । अतः तस्-थस्-आदिषु हलादि-अपित्-सार्वधातुक-प्रत्ययेषु परेषु अयं वृद्धिः न दृश्यते । यथा - स्तु-धातोः लट्-लकारस्य प्रथमपुरुष-द्विवचनस्य रूपे - स्तुतः / स्तुवीतः एते भवतः ।\n4) शमुँ उपशमे अयम् दिवादिगणस्य धातुः अस्ति, अतः अयम् <<दिवादिभ्यः श्यन्>> [[3.1.69]] इति श्यन्-विकरणम् प्राप्नोति । यद्यपि श्यन्-इति हलादि-सार्वधातुकप्रत्ययः अस्ति, तथापि अयं तिङ्-प्रत्ययः नास्ति, अतः अत्र अस्य सूत्रस्य प्रसक्तिः नास्ति । परन्तु छन्दसि विषये <<बहुलं छन्दसि>> [[2.4.73]] इति श्यन्-प्रत्ययस्य लोपः भवितुमर्हति । अनेन प्रकारेण शम् + ध्वम् → शमीध्वम् एतादृशम् छान्दसरूपम् साधयितुम् शक्यते । (लोके तु 'शाम्यध्वम्' इत्येव रूपम् करणीयम् ।)\n5) अमँ गतौ अयम् भ्वादिगणस्य धातुः । अस्मात् परः <<कर्तरि शप्>> [[3.1.68]] इति शप्-गणविकरणम् विधीयते । यद्यपि शप्-इति सार्वधातुकप्रत्ययः अस्ति, तथापि अयं तिङ्-अपि नास्ति, हलादि-अपि नास्ति । अतः अत्र अस्य सूत्रस्य प्रसक्तिः नास्ति । परन्तु छन्दसि विषये <<बहुलं छन्दसि>> [[2.4.73]] इति शप्-प्रत्ययस्य लोपः भवितुमर्हति । अनेन प्रकारेण अम् + तिप् → अमीति एतादृशम् छान्दसरूपम् साधयितुम् शक्यते । (लोके तु 'अमति' इत्येव रूपम् करणीयम् ।)\n" }, "73096": { "sa": "अस्-धातोः अङ्गात् परस्य तथा सिच्-प्रत्ययान्त-अङ्गात् परस्य सार्वधातुकस्य अपृक्त-हल्-प्रत्ययस्य ईट्-आगमः भवति । ", "sd": "प्रथमम् सूत्रे प्रयुक्तानां सर्वेषां शब्दानाम् संक्षेपेण परिचयं प्राप्नुमः -\n1. किम् नाम अपृक्तम्? <<अपृक्त एकाल्प्रत्ययः>> [[1.2.41]] - सः प्रत्ययः यस्मिन् केवलं एकः एव वर्णः अस्ति, अपृक्तः नाम्ना ज्ञायते ।\n2. किम् नाम सार्वधातुकप्रत्ययः ? <<तिङ्शित्सार्वधातुकम्>> [[3.4.113]] - तिङ्-प्रत्ययाः तथा शित्-प्रत्ययाः सार्वधातुकसंज्ञां प्राप्नुवन्ति ।\n3. किम् नाम ईट् ? ईट् इति कश्चन टित्-आगमः । टित्त्वात् अयं आगमः <<आद्यन्तौ टकितौ>> [[1.1.46]] इत्यनेन स्थानिनः पूर्वमागच्छति । परन्तु अस्मिन् सूत्रे स्थानीवाचकं षष्ठ्यन्तं पदमेव नास्ति । अस्यामवस्थायाम् <ऽउभयनिर्देशे पञ्चमीनिर्देशः बलीयान् ऽ> इत्यनेन सप्तम्यन्तं पदम् स्थानीरूपेण कार्यं करोति । अतः अयं ईट्-आगमः अपृक्त-हल्-सार्वधातुक-प्रत्ययस्य आदौ आगच्छति ।\n4. किम् नाम सिच्? <<च्लेः सिच्>> [[3.1.44]] इत्यनेन लुङ्लकारस्य प्रत्यये परे 'च्लि' इत्यस्य विकरणप्रत्ययस्य 'सिच्' आदेशः भवति ।\nअतः अनेन सूत्रेण किमुच्यते?\nअस्-धातोः अङ्गात् परम् , तथा सिच्-प्रत्ययान्त-अङ्गात् परम् यदि कश्चन एकव्यञ्जननिर्मितः सार्वधातुकप्रत्ययः अस्ति, तर्हि तस्य प्रत्ययस्य ईट्-आगमः भवति ।\nयथा -\n1) अस्-धातोः लङ्लकारस्य प्रथमपुरुष-एकवचनस्य 'आसीत्' इत्यस्य रूपसिद्धिम् पश्यामः -\nअस् + लङ् [<<अनद्यतने लङ्>> [[3.2.111]] इति लङ्]\n→ आट् + अस् + ल् [<<आडजादीनाम्>> [[6.4.72]] इति लङ्लकारे परे अजादि-अङ्गस्य आडागमः]\n→ आ + अस् + तिप् [<<तिप्तस्झि...>> [[3.4.78]] इति प्रथमपुरुष-एकवचनस्य विवक्षायाम् परस्मैपदिभ्यः धातुभ्यः तिप्-प्रत्ययः]\n→ आ + अस् + शप् + ति [<<कर्तरि शप्>> [[3.1.68]] इति औत्सर्गिकम् विकरणम् शप्]\n→ आ + अस् + ति [<<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शप्-प्रत्ययस्य लुक् ।]\n→ आस् + ति [ <<आटश्च>> [[6.1.90]] इति वृद्धि-एकादेशः]\n→ आस् + त् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ आस् + ईट् + त् [<<अस्तिसिचोऽपृक्ते>> [[7.3.96]] इत्यनेन अपृक्त-त्-प्रत्ययस्य ईट्-आगमः ।]\n→ आसीत् [<<हलन्त्यम्>> [[1.3.3]] इति टकारस्य इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति तस्य लोपः। वर्णमेलनम् ।]\nअनेनैव प्रकारेण अस्-धातोः मध्यमपुरुषैकवचनस्य 'आसीः' इति रूपमपि सिद्ध्यति ।\n2) कृ-धातोः लुङ्लकारस्य प्रथमपुरुषैकवचनस्य 'अकार्षीत्' इत्यस्य रूपसिद्धिं पश्यामः -\nकृ + लुङ् [<<लुङ्>> [[3.2.110]] इति लुङ्]\nकृ + च्लि + ल् [<<च्लि लुङि>> [[3.1.43]] इति लुङ्लकारस्य प्रत्यये परे लकारविकरणम् 'च्लि']\n→ कृ + सिच् + ल् [<<च्लेः सिच्>> [[3.1.44]] इति च्ले-इत्यस्य सिच्-आदेशः ।\n→ कृ + स् + ल् [चकारस्य इत्संज्ञा, लोपः । इकारः उच्चारणार्थः ।]\n→ अट् + कृ + स् + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ + कृ + स् + तिप् [<<तिप्तस्झि...>> [[3.4.78]] इति प्रथमपुरुष-एकवचनस्य विवक्षायाम् परस्मैपदिभ्यः धातुभ्यः तिप्-प्रत्ययः]\n→ अ + कृ + स् + त् [ <<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ अ + कृ + स् + ई + त् [<<अस्तिसिचोऽपृक्ते>> [[7.3.96]] इत्यनेन अपृक्त-त्-प्रत्ययस्य ईट्-आगमः ]\n→ अ + कार् + स् + ई + त् [<<सिचि वृद्धिः परस्मैपदेषु>> [[7.2.1]] इत्यनेन सिच्-प्रत्यये परे इगन्तस्य अङ्गस्य वृद्धिः । ऋकारस्य वृद्धिः रपरः आकारः ।]\n→ अ + कार् + ष् + ई + त् [<<आदेशप्रत्यययोः>> [[8.3.59]] इत्यनेन इण्-वर्णात् परस्य सकारस्य मूर्धन्यादेशः षकारः । (रेफः इण्-प्रत्याहारे अस्ति ।)]\n→ अकार्षीत् ।\nअनेनैव प्रकारेण कृ-धातोः मध्यमपुरुषैकवचनस्य 'अकार्षीः' इति रूपमपि सिद्ध्यति ।\n" }, "73097": { "sa": "अस्-धातोः अङ्गात् परस्य तथा सिच्-प्रत्ययान्त-अङ्गात् परस्य सार्वधातुकस्य अपृक्त-हल्-प्रत्ययस्य वेदेषु ईट्-आगमः बहुलं दृश्यते ।", "sd": "वेदानां विषये <<अस्तिसिचोऽपृक्ते>> [[7.3.96]] इत्यनेन उक्तः नियमः वेदेषु प्रयुक्तः अपि दृश्यते, अप्रयुक्तः अपि दृश्यते ।\nयथा - 'आप एव इदं सलिलं सर्वमाः' अस्मिन् वाक्ये अस्-धातोः लङ्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् प्रयुक्तमस्ति 'आः' इति । अस्य प्रक्रिया एतादृशी -\nअस् + लङ् [<<अनद्यतने लङ्>> [[3.2.111]] इति लङ्]\n→ आट् + अस् + ल् [<<आडजादीनाम्>> [[6.4.72]] इति लङ्लकारे परे अजादि-अङ्गस्य आडागमः]\n→ आ + अस् + तिप् [<<तिप्तस्झि...>> [[3.4.78]] इति प्रथमपुरुष-एकवचनस्य विवक्षायाम् परस्मैपदिभ्यः धातुभ्यः तिप्-प्रत्ययः]\n→ आ + अस् + शप् + ति [<<कर्तरि शप्>> [[3.1.68]] इति औत्सर्गिकम् विकरणम् शप्]\n→ आ + अस् + ति [<<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शप्-प्रत्ययस्य लुक् ।]\n→ आस् + ति [ <<आटश्च>> [[6.1.90]] इति वृद्धि-एकादेशः]\n→ आस् + त् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ आस् + त् [<<अस्तिसिचोऽपृक्ते>> [[7.3.96]] इत्यनेन अपृक्त-त्-प्रत्ययस्य ईट्-आगमे प्राप्ते <<बहुलं छन्दसि>> [[7.3.97]] इति अयमागमः न भवति ।]\n→ आस् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति अपृक्त-तकारस्य लोपः]\n→ आः [<<ससजुषो रुँः>> [[8.2.66]] इति रुँत्वम् । <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गनिर्माणम् ।]\nएवंप्रकारेण ईडागमं विना अपि रूपसिद्धिः कृता दृश्यते ।\nतथा च, केषुचन स्थलेषु ईट्-आगमः कृतः अपि दृश्यते । यथा - 'अहः वा अव तर्हि आसीत् न रात्रिः' । इत्यत्र लौकिकसंस्कृतवत् एव रूपसिद्धिः भवति ।\nसिच्-प्रत्ययस्य उपस्थितौ अपि उभयोः प्रकारयोः रूपाणि दृश्यन्ते । यथा - 'गोभिः अक्षाः' अस्मिन् वाक्ये 'अक्षाः' इति 'क्षर् सञ्चलने' अस्य धातोः लुङ्-लकारस्य रूपमस्ति । तस्य प्रक्रिया इयम् -\nक्षर् + लुङ् [<<लुङ्>> [[3.2.110]] इति लुङ्]\n→ क्षर् + च्लि + ल् [<<च्लि लुङि>> [[3.1.43]] इति लुङ्लकारस्य प्रत्यये परे लकारविकरणम् 'च्लि']\n→ क्षर् + सिच् + ल् [<<च्लेः सिच्>> [[3.1.44]] इति च्ले-इत्यस्य सिच्-आदेशः । ]\n→ क्षर् + स् + ल् [चकारस्य इत्संज्ञा, लोपः । इकारः उच्चारणार्थः ।]\n→ अट् + क्षर् + स् + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ + क्षर् + स् + तिप् [<<तिप्तस्झि...>> [[3.4.78]] इति प्रथमपुरुष-एकवचनस्य विवक्षायाम् परस्मैपदिभ्यः धातुभ्यः तिप्-प्रत्ययः]\n→ अ + क्षर् + स् + त् [<<इतश्च>> [[3.4.100]] इति इकारलोप]\n→ अ + क्षर् + स् + त् [<<अस्तिसिचोऽपृक्ते>> [[7.3.96]] इत्यनेन अपृक्त-त्-प्रत्ययस्य ईट्-आगमे प्राप्ते <<बहुलं छन्दसि>> [[7.3.97]] इति अयमागमः न भवति ।]\n→ अ + क्षर् + स् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति अपृक्त-तकारस्य लोपः]\n→ अ + क्षार् + स् [<<अतो ल्रान्तस्य>> [[7.2.2]] इति अकारस्य वृद्धिः आकारः]\n→ अक्षार् [<<रात्सस्य>> [[8.2.24]] इति रेफात् परस्य सकारस्य लोपः]\n→ अक्षाः [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गनिर्माणम् ।]\nवेदेषु 'अभैषीः मा पुत्रक' एतादृशाः प्रयोगाः अपि दृश्यन्ते यत्र सिचि परे ईडागमः कृतः अस्ति ।\nज्ञातव्यम् - 'बहुलम्' शब्दस्य विषये अस्मिन् लेखे विस्तारेण उक्तमस्ति, तदपि पठ्येत ।\n" }, "73098": { "sa": "रुद्, स्वप् , श्वस्, प्रण्, जक्ष् - एतेभ्यः अङ्गात् परस्य सार्वधातुक-पित्-अपृक्त-हल्-प्रत्ययस्य ईट्-आगमः भवति । ", "sd": "प्रथमम् सूत्रे प्रयुक्तानां सर्वेषां शब्दानाम् संक्षेपेण परिचयं प्राप्नुमः -\n1. किम् नाम अपृक्तम्? <<अपृक्त एकाल्प्रत्ययः>> [[1.2.41]] - सः प्रत्ययः यस्मिन् केवलं एकः एव वर्णः अस्ति, अपृक्तः नाम्ना ज्ञायते ।\n2. किम् नाम सार्वधातुकप्रत्ययः ? <<तिङ्शित्सार्वधातुकम्>> [[3.4.113]] - तिङ्-प्रत्ययाः तथा शित्-प्रत्ययाः सार्वधातुकसंज्ञां प्राप्नुवन्ति ।\n3. किम् नाम पित्? पकारः यस्मिन् प्रत्यये इत्संज्ञकः अस्ति सः पित् । यथा - तिप्, सिप्, मिप् ।\n4. किम् नाम ईट् ? ईट् इति कश्चन टित्-आगमः । टित्त्वात् अयं आगमः <<आद्यन्तौ टकितौ>> [[1.1.46]] इत्यनेन स्थानिनः पूर्वमागच्छति । परन्तु अस्मिन् सूत्रे स्थानीवाचकं षष्ठ्यन्तं पदमेव नास्ति । अस्यामवस्थायाम् <ऽउभयनिर्देशे पञ्चमीनिर्देशः बलीयान् ऽ> इत्यनेन सप्तम्यन्तं पदम् स्थानीरूपेण कार्यं करोति । अतः अयं ईट्-आगमः अपृक्त-हल्-सार्वधातुक-प्रत्ययस्य आदौ आगच्छति ।\nरुदिर् अश्रुविमोचने, ञिष्वप् शये, श्वसँ प्राणने, प्र + अनँ (प्राणने), जक्षँ भक्षहसनयोः - एते पञ्च धातवः अदादिगणस्य धातवः । एतेभ्यः अङ्गात् परः सार्वधातुकः पित्-प्रत्ययः यदि अपृक्तहल्-वर्णरूपेण आगच्छति, तर्हि तस्य ईट्-आगमः भवति । यथा -\n1) रुद् इत्यस्य लङ्लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया -\nरुद् + लङ् [<<अनद्यतने लङ्>> [[3.2.111]] इति लङ्]\n→ अट् + रुद् + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ + रुद् + तिप् [<<तिप्तस्झि...>> [[3.4.78]] इति प्रथमपुरुष-एकवचनस्य विवक्षायाम् परस्मैपदिभ्यः धातुभ्यः तिप्-प्रत्ययः]\n→ अ + रुद् + शप् + ति [ <<कर्तरि शप्>> [[3.1.68]] इति औत्सर्गिकम् विकरणम् शप्]\n→ अ + रुद् + ति [<<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शप्-प्रत्ययस्य लुक् ।]\n→ अ + रोद् + ति [<<पुगन्तलघूपधस्य च>> [[7.3.86]] इति उपधागुणः]\n→ अ + रोद् + त् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ अ + रोद + ईट् + त् [<<रुदश्च पञ्चभ्यः>> [[7.3.98]] इति ईडागमः]\n→ अरोदीत् [वर्णमेलनम्]\nएवमेव अस्वपीत्, अश्वसीत्, अप्राणीत्, अजक्षीत् एतेषां रूपसिद्धौ अपि अस्य सूत्रस्य प्रयोगः भवति । तथैव, मध्यमपुरुषैकवचनस्य अस्वपीः, अश्वसीः आदीनि रूपाणि अपि एवमेव सिद्ध्यन्ति ।\nज्ञातव्यम् - सार्वधातुके प्रत्यये परे <<रुदादिभ्यः सार्वधातुके>> [[7.2.76]] इत्यनेन इडागमे प्राप्ते अनेन सूत्रेण परत्वात् अपवादत्वात् च ईट्-आगमः भवति ।\n" }, "73099": { "sa": "रुद्, स्वप् , श्वस्, प्रण्, जक्ष् - एतेभ्यः अङ्गात् परस्य सार्वधातुक-पित्-अपृक्त-हल्-प्रत्ययस्य गार्ग्य-गालवयोः मतेन अट्-आगमः भवति ।", "sd": "गार्ग्यः तथा गालवः एतौ द्वौ पाणिनेः प्राचीनौ वैयाकरणौ । एतयोः मतेन रुद्, स्वप् , श्वस्, प्रण्, जक्ष् - एतेभ्यः अङ्गात् परस्य सार्वधातुक-पित्-अपृक्त-हल्-प्रत्ययस्य अट्-आगमः भवति ।\n<<रुदश्च पञ्चभ्यः>> [[7.3.98]] इत्यनेन एतेभ्यः धातुभ्यः परस्य सार्वधातुक-पित्-अपृक्त-हल्-प्रत्ययस्य वस्तुतः ईट्-आगमः विधीयते । परन्तु गार्ग्यमुनेः मतेन गालवमुनेश्च मतेन अत्र ईट्-आगमः न भवति, अट्-आगमः भवति । अस्य अर्थः 'विकल्पेन' ईडागमस्य स्थाने अडागमः भवति ।\nयथा - रुद् इत्यस्य लङ्लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया -\nरुद् + लङ् [<<अनद्यतने लङ्>> [[3.2.111]] इति लङ्]\n→ अट् + रुद् + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ + रुद् + तिप् [<<तिप्तस्झि...>> [[3.4.78]] इति प्रथमपुरुष-एकवचनस्य विवक्षायाम् परस्मैपदिभ्यः धातुभ्यः तिप्-प्रत्ययः]\n→ अ + रुद् + शप् + ति [ <<कर्तरि शप्>> [[3.1.68]] इति औत्सर्गिकम् विकरणम् शप्]\n→ अ + रुद् + ति [<<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शप्-प्रत्ययस्य लुक् ।]\n→ अ + रोद् + ति [<<पुगन्तलघूपधस्य च>> [[7.3.86]] इति उपधागुणः]\n→ अ + रोद् + त् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ अ + रोद् + अट् + त् [<<अड्गार्ग्यगालवयोः>> [[7.3.99]] इति विकल्पेन अडागमः]\n→ अरोदत् [वर्णमेलनम्]\nएवमेव अस्वपत्, अश्वसत्, प्राणत्, अजक्षत् एतानि रूपाणि भवन्ति । अडागमस्य अभावे <<रुदश्च पञ्चभ्यः>> [[7.3.98]] इत्यनेन ईडागमे कृते अस्वपीत्, अश्वसीत् आदीनि रूपाणि सिद्ध्यन्ति ।\nज्ञातव्यम् - अस्मिन् सूत्रे गार्ग्यमुनेः गालवमुनेः च नाम पूजार्थम् स्वीकृतमस्ति । 'केवलं गार्ग्यगालवमतेन अडागमः भवति, पाणिनेः मतेन न' - इति अस्य अर्थः न । पाणिनेः मतेन अप्यत्र विकल्पेन अडागमः भवति ।\n" }, "73100": { "sa": "अद्-धातोः अङ्गात् परस्य सार्वधातुक-अपृक्त-प्रत्ययस्य सर्वेषामाचार्याणाम् मतेन अट्-आगमः भवति ।", "sd": "अदँ भक्षणे इति अदादिगणस्य प्रथमः धातुः । अस्मात् परस्य सार्वधातुक-अपृक्त-प्रत्ययस्य नित्यं अट्-आगमः भवति ।\nयथा - अद्-धातोः लङ्लकारस्य प्रथमपुरुषैकवचनस्य 'आदत्' इत्यस्य रूपसिद्धिः इयम् -\nअद् + लङ् [<<अनद्यतने लङ्>> [[3.2.111]] इति लङ्]\n→ आट् + अद् + ल् [<<आडजादीनाम्>> [[6.4.72]] इति लङ्लकारे परे अजादि-अङ्गस्य आडागमः]\n→ आ + अद् + तिप् [<<तिप्तस्झि...>> [[3.4.78]] इति प्रथमपुरुष-एकवचनस्य विवक्षायाम् परस्मैपदिभ्यः धातुभ्यः तिप्-प्रत्ययः]\n→ आ + अद् + शप् + ति [<<कर्तरि शप्>> [[3.1.68]] इति औत्सर्गिकम् विकरणम् शप्]\n→ आ + अद् + ति [<<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शप्-प्रत्ययस्य लुक् ।]\n→ आद् + ति [ <<आटश्च>> [[6.1.90]] इति वृद्धि-एकादेशः]\n→ आद् + त् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ आद् + अट् + त् [<<अदः सर्वेषाम्>> [[7.3.100]] इत्यनेन अपृक्त-त्-प्रत्ययस्य अट्-आगमः ।]\n→ आदत् [<<हलन्त्यम्>> [[1.3.3]] इति टकारस्य इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति तस्य लोपः। वर्णमेलनम् ।]\nएवमेव अद्-धातोः लङ्लकारस्य मध्यमपुरूषस्य 'आदः' अस्य रूपसिद्धौ अपि अस्य सूत्रस्य प्रयोगः क्रियते ।\nज्ञातव्यम् - पूर्वस्मिन् सूत्रे अडागमः केवलं गार्ग्य-गालवयोः मतेन उक्तः अस्ति । अत्र सः नित्यं भवति (विकल्पेन न) इति स्पष्टीकर्तुम् 'सर्वेषाम्' इति अस्मिन् सूत्रे उक्तमस्ति ।" }, "73101": { "sa": "यञादि-सार्वधातुके प्रत्यये परे अदन्तस्य अङ्गस्य अन्तिमवर्णस्य दीर्घादेशः भवति ।", "sd": "<<तिङ्शित् सार्वधातुकम्>> [[3.4.113]] इत्यनेन तिङ्-प्रत्ययाः तथा शित्-प्रत्ययाः सार्वधातुकसंज्ञां प्राप्नुवन्ति । एतादृशस्य सार्वधातुकप्रत्ययस्य प्रथमवर्णः यदि य् / व् / र् / ल् / ञ् / म् / ङ् / ण् / न् / झ् / भ् अस्ति, तर्हि अदन्तस्य अङ्गस्य अन्तिमवर्णस्य दीर्घादेशः भवति ।\nयथा - पठ् धातोः लट्-लकारस्य उत्तमपुरुषैकवचनस्य रूपसिद्धौ 'पठ् + शप् + मिप्' इत्यत्र 'मिप्' अयम् मकारादि सार्वधातुकप्रत्ययः अस्ति । अतः अस्य उपस्थितौ अस्य प्रत्ययस्य यद् अङगम् - 'पठ् + शप्' ( = पठ् + अ) तस्य अन्तिमवर्णस्य दीर्घादेशः भवति । अतः 'पठामि' इति अन्तिमरूपम् जायते । तथैव पठावः, पठामः, अपठाव, अपठाम, पठिष्यामि आदिषु रूपेषु अपि दीर्घः अनेन सूत्रेण विधीयते ।\n" }, "73102": { "sa": "यञादि सुप्-प्रत्यये परे अदन्तस्य अङ्गस्य दीर्घादेशः भवति । ", "sd": "सुप्-प्रत्ययाः इत्युक्ते <<स्वौजसमौट्..>> [[4.1.2]] सूत्रेण उक्ताः एकविंशतिः प्रत्ययाः । एते प्रत्ययाः प्रातिपदिकेभ्यः आगच्छन्ति । एतेषु यञादि सुप्-प्रत्ययाः एते - भ्याम्, भिस्, भ्यस्, तथा (ङे-प्रत्ययस्य आदेशभूतः) य । एतेषु परेषु अदन्तस्य अङ्गस्य अन्तिमवर्णस्य दीर्घादेशः भवति ।\nयथा -\n1) राम + भ्याम् → रामाभ्याम् ।\n2) राम + ङे → [<<ङेर्यः>> [[7.1.13]] इति यकारादेशः] राम + य → रामाय ।\nस्मर्तव्यम् - यद्यपि एतत् सूत्रम् बहु सुलभम् भासते, तथाप्यत्र सप्त-परिभाषाणाम् प्रयोगं कृत्वा एव सम्पूर्णा अर्थनिष्पत्तिः भवति -\n1) <<तपरस्तत्कालस्य>> [[1.1.70]] इत्यनेन 'अतः' इत्यनेन केवलं अदन्तस्य अङ्गस्य इदं कार्यं भवति, आकारान्तस्य अङ्गस्य न ।\n2) <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यनेन अङ्गस्य अन्तिमवर्णस्य दीर्घादेशः भवति ।\n3) <<अचश्च>> [[1.2.28]] इत्यनेन स्वरस्य दीर्घादेशः भवति ।\n4) <<तस्मिन्निति निर्दिष्टे पूर्वस्य>> [[1.1.66]] इत्यनेन 'सुपि' इत्यस्य अर्थः सुप्-प्रत्यये परे इति क्रियते ।\n5) <<षष्ठी स्थानेयोगा>> [[1.1.49]] इत्यनेन 'अतः' इत्यस्य अर्थः 'अदन्तस्य अङ्गस्य स्थाने' इति भवति ।\n6) <<येन विधिस्तदन्तस्य>> [[1.1.72]] इत्यनेन 'अतः अङ्गस्य' इत्युक्ते 'अदन्तस्य अङ्गस्य' इति अर्थनिष्पत्तिः भवति ।\n7) <ऽयस्मिन् विधिः तदादौ अल्ग्रहणेऽ> अनया परिभाषया 'यञि सुपि' इत्युक्ते 'यञादि-सुप्-प्रत्यये परे' इत्यर्थः जायते ।" }, "73103": { "sa": "'बहुवचनस्य झलादि सुप्-प्रत्यये परे' अदन्तस्य अङ्गस्य एकारादेशः भवति ।", "sd": "सुप्-प्रत्ययाः इत्युक्ते <<स्वौजसमौट्..>> [[4.1.2]] सूत्रेण उक्ताः एकविंशतिः प्रत्ययाः । एते प्रत्ययाः प्रातिपदिकेभ्यः आगच्छन्ति । एतेषु बहुवचनस्य झलादि-सुप्-प्रत्ययाः एते - भिस्, भ्यस्, सुप् । एतेषु परेषु अदन्तस्य अङ्गस्य अन्तिमवर्णस्य एकारादेशः भवति ।\nयथा -\n1) राम + भ्यस् → रामेभ्यः ।\n2) राम + सुप् → रामेसु → [<<आदेशप्रत्यययोः>> [[8.3.59]] इति षत्वम् ] → रामेषु ।\n" }, "73104": { "sa": "अदन्तस्य अङ्गस्य ओस्-प्रत्यये परे एकारादेशः भवति ।", "sd": "ओस्-इति षष्ठी-सप्तमीद्विवचनस्य प्रत्ययः । अस्मिन् प्रत्यये परे अकारान्तस्य अङ्गस्य अन्तिमवर्णस्य एकारादेशः भवति ।\nयथा - राम + ओस् → रामे + ओस् → [<<एचोऽयवायावः>> [[6.1.78]] इति अयादेशः । विसर्गनिर्माणम् ।] → रामयोः " }, "73105": { "sa": "षष्ठीसप्तमीद्विवचनस्य ओस्-प्रत्यये परे, तथा च तृतीयैकवचनस्य टा-प्रत्यये परे आबन्तस्य अङ्गस्य एकारादेशः भवति ।", "sd": "आकारान्तस्त्रीलिङ्गशब्दाः सर्वे टाप्/चाप्/डाप् प्रत्ययान्ताः सन्ति । 'आबन्त' इत्यनेन एतेषाम् एव ग्रहणम् क्रियते । एतेषाम् सर्वेषामङ्गस्य (1) षष्ठीसप्तमीद्विवचनस्य ओस्-प्रत्यये परे, तथा (2) तृतीयैकवचनस्य टा-प्रत्यये परे - एकारादेशः भवति ।\nयथा -\n1) माला + ओस् → माले + ओस् → [<<एचोऽयवायावः>> [[6.1.78]] इति अयादेशः । विसर्गनिर्माणम् ।] → मालयोः\n2) माला + टा → माले + आ → [<<एचोऽयवायावः>> [[6.1.78]] इति अयादेशः ] → मालया\nज्ञातव्यम् - अस्मिन् सूत्रे प्रयुक्तम् 'आङ्' इति 'टा' प्रत्ययस्यैव अन्यत् नाम । पूर्वाचार्यैः टा-प्रत्ययस्य आङ्-इति उल्लेखः कृतः अस्ति, अतः पाणिनिः अपि केषुचन स्थलेषु 'टा' इत्यस्य स्थाने आङ्-इति वदति । परन्तु अयं प्रत्ययः टित्-अस्ति, ङित्-नास्तीति स्मर्तव्यम् ।\n" }, "73106": { "sa": "आबन्तस्य अङ्गस्य सम्बुद्धि-एकवचनस्य प्रत्यये परे एकारादेशः भवति । ", "sd": "आकारान्तस्त्रीलिङ्गशब्दाः सर्वे टाप्/चाप्/डाप् प्रत्ययान्ताः सन्ति । 'आबन्त' इत्यनेन एतेषाम् एव ग्रहणम् क्रियते । एतेषाम् सर्वेषामङ्गस्य सम्बोधन-एकवचनस्य सुँ-प्रत्यये परे एकारादेशः भवति ।\nयथा - माला + सुँ [सम्बुद्धिः]\n→ माले + सुँ [<<सम्बुद्धौ च>> [[7.3.106]] इति एकारादेशः]\n→ माले [<<एङ्ह्रस्वात् सम्बुद्धेः>> [[6.1.69]] इति सुँ-प्रत्ययस्य लोपः]\nज्ञातव्यम् - <<एकवचनं सम्बुद्धिः>> [[2.3.49]] इत्यनेन सम्बोधन-एकवचनस्य सुँ-प्रत्ययस्य सम्बुद्धिः संज्ञा भवति ।\n" }, "73107": { "sa": "'अम्बा' अस्मिन् अर्थे प्रयुज्यमानानां शब्दानां, तथा नदीसंज्ञकशब्दानां सम्बुद्धि-एकवचनस्य प्रत्यये परे अङ्गस्य ह्रस्वादेशः भवति ।", "sd": "ये शब्दाः - (अ) 'अम्बा' - अस्मिन् अर्थे प्रयुज्यन्ते अथवा (ब) 'नदी' संज्ञां स्वीकुर्वन्ति - तेषामङ्गस्य सम्बोधन-एकवचनस्य सुँ-प्रत्यये परे ह्रस्वादेशः भवति । यथा -\n1) अम्बार्थशब्दाः - अम्बा, अक्का, अल्ला एते आकारान्तशब्दाः अम्बा ( = माता) अस्मिन् अर्थे प्रयुज्यन्ते । एतेषां सर्वेषामङ्गस्य सम्बोधन-एकवचनस्य सुँ-प्रत्यये परे <<सम्बुद्धौ च>> [[7.3.106]] इत्यनेन एकारादेशे प्राप्ते अनेन सूत्रेण अपवादत्वेन ह्रस्वादेशः भवति । यथा -\nअम्बा + सुँ [सम्बुद्धिः]\n→ अम्ब + सुँ [<<अम्बाऽर्थनद्योर्ह्रस्वः>> [[7.3.107]] इति आकारस्य ह्रस्वः अकारः]\n→ अम्ब [<<एङ्ह्रस्वात् सम्बुद्धेः>> [[6.1.69]] इति सुँ-प्रत्ययस्य लोपः ।]\nतथैव अक्क, अल्ल आदीनि रूपाणि सिद्ध्यन्ति ।\n2) नदीसंज्ञकाः - <<यू स्त्र्याख्यौ नदी>> [[1.4.3]] अनेन सूत्रेण दीर्घ-ईकारान्त-ऊकारान्त-स्त्रीलिङ्गशब्दानां नदीसंज्ञा भवति - यथा - नदी, घटी, वधू, चञ्चू - आदयः । एतेषां सर्वेषामङ्गस्य सम्बोधनैकवचनस्य सुँ-प्रत्यये परे ह्रस्वादेशः भवति । यथा -\nनदी + सुँ [सम्बुद्धिः]\n→ नदि + सुँ [<<अम्बाऽर्थनद्योर्ह्रस्वः>> [[7.3.107]] इति ईकारस्य ह्रस्वः इकारः]\n→ नदि [<<एङ्ह्रस्वात् सम्बुद्धेः>> [[6.1.69]] इति सुँ-प्रत्ययस्य लोपः ।]\nतथैव घटि, सरस्वति, वधु, चञ्चु - आदीनि रूपाणि सिद्ध्यन्ति ।\nअस्मिन् सन्दर्भे कानिचन वार्तिकानि अपि ज्ञातव्यानि -\n1) - येषामन्ते ड, ल, क वर्णाः सन्ति, तेषां अनेन सूत्रेण ह्रस्वः न भवति । यथा - हे अम्बिके, हे अम्बाले, हे अम्बाडे ।\n2) - येषामन्ते ड, ल, क वर्णाः सन्ति, तेषां वेदेषु ह्रस्वादेशः विकल्पेन भवति । यथा - हे अम्बिक, हे अम्बिके ।\n3) - तल्-प्रत्ययान्तशब्दानां विषये (यथा - देवता, जनता आदीनां विषये) सप्तमी-एकवचनस्य ङि-प्रत्यये परे, तथा च सम्बोधन-एकवचनस्य सुँ-प्रत्यये परे वेदेषु विकल्पेन ह्रस्वादेशः भवति । ह्रस्वादेशे कृते बाल-शब्दवत् रूपाणि भवन्ति । यथा - देवतायां भक्तिः / देवते भक्तिः । हे देवते, हे देवत । " }, "73108": { "sa": "ह्रस्वान्तस्य अङ्गस्य सम्बोधन-एकवचनस्य सुँ-प्रत्यये परे गुणादेशः भवति ।", "sd": "हस्वान्तस्य अङ्गस्य अन्तिमवर्णस्य सम्बोधनैकवचनस्य सुँ-प्रत्यये परे गुणादेशः भवति । इत्युक्ते, इकारस्य एकारः तथा उकारस्य ओकारः आदेशः भवति । यथा -\n1) मुनि + सुँ [सम्बुद्धिः]\n→ मुने + सुँ [<<ह्रस्वस्य गुणः>> [[7.3.108]] इति इकारस्य गुणः एकारः]\n→ मुने [<<एङ्ह्रस्वात् सम्बुद्धेः>> [[6.1.69]] इति सुँ-प्रत्ययस्य लोपः ]\n2) साधु + सुँ [सम्बुद्धिः]\n→ साधो + सुँ [<<ह्रस्वस्य गुणः>> [[7.3.108]] इति उकारस्य गुणः ओकारः]\n→ साधो [<<एङ्ह्रस्वात् सम्बुद्धेः>> [[6.1.69]] इति सुँ-प्रत्ययस्य लोपः ]\nज्ञातव्यम् - <<अम्बाऽर्थनद्योर्ह्रस्वः>> [[7.3.107]] इत्यनेन नदीसंज्ञकस्य ह्रस्वादेशे कृते अनेन सूत्रेण पुनः तस्य गुणादेशः न भवति, यतः एवं कुर्मश्चेत् <<अम्बाऽर्थनद्योर्ह्रस्वः>> [[7.3.107]] अस्मिन् सूत्रे 'नदी' शब्दस्य किमपि प्रयोजनं न अवशिष्यते । यदि पाणिनिः नदीसंज्ञकस्यापि गुणम् एव एषिष्यत्, तर्हि सः पूर्वसूत्रम् 'अम्बार्थस्य ह्रस्वः' इति लिखित्वा एतत् सूत्रम् 'नदीह्रस्वयोर्गुणः' इति अलेखिष्यत् । अतः 'पूर्वसूत्रे नदीशब्दस्य ह्रस्वविधानसामर्थ्यात् अत्र तस्य गुणः न भवति' इति उच्यते ।\n" }, "73109": { "sa": "ह्रस्वान्तस्य अङ्गस्य जस्-प्रत्यये परे गुणादेशः भवति ।", "sd": "ह्रस्वान्तस्य अङ्गस्य अन्तिमवर्णस्य प्रथमाबहुवचनस्य जस्-प्रत्यये परे गुणादेशः भवति । इत्युक्ते, इकारस्य एकारः तथा उकारस्य ओकारः आदेशः भवति । यथा -\nमुनि + जस्\n→ मुने + अस् [<<जसि च>> [[7.3.109]] इति गुणादेशः]\n→ मुनयः [<<एचोऽयवायावः>> [[6.1.78]] इति अयादेशः । विसर्गनिर्माणम् ।]\n" }, "73110": { "sa": "ऋदन्तस्य अङ्गस्य ङि-प्रत्यये परे सर्वनामस्थानप्रत्यये च परे गुणादेशः भवति । ", "sd": "ऋदन्तस्य अङ्गस्य (1) सप्तमी-एकवचनस्य ङि-प्रत्यये परे, (2) सर्वनामस्थानप्रत्यये च परे - गुणादेशः - इत्युक्ते 'अर्' आदेशः भवति ।\nयथा -\n1) पितृ + औ [प्रथमाद्विवचनस्य प्रत्ययः]\n→ पितर् + औ [<<ऋतो ङिसर्वनामस्थानयोः>> [[7.3.110]] इति गुणः]\n→ पितरौ\n2) दातृ + ङि [सप्तम्येकवचनस्य प्रत्ययः]\n→ दातर् + इ [<<ऋतो ङिसर्वनामस्थानयोः>> [[7.3.110]] इति गुणः]\n→ दातरि\nज्ञातव्यम् - <<अदेङ्-गुणः>> [[1.1.2]] इत्यनेन अ-ए-ओ-वर्णानाम् गुणसंज्ञा विधीयते । वस्तुतः तु एतेषु कोऽपि वर्णः स्थानसाधर्म्येण ऋकारवत् नास्ति, परन्तु <<उरण् रपरः>> [[1.1.51]] अनया परिभाषया ऋकारस्य आदेशभूतः अकारः नित्यम् रेफेण सह (इत्युक्ते, 'अर्' इति) एव आगच्छति । अयं 'अर्' आदेशः स्थानसाधर्म्येण ऋकारवत् अस्ति - उभयोः उच्चारणार्थम् मूर्ध्नः प्रयोगः क्रियते । अतः ऋकारस्य गुणादेशरूपेण अर्-आदेशः भवति ।\n" }, "73111": { "sa": "घि-संज्ञकस्य अङ्गस्य ङित्-प्रत्यये परे गुणादेशः भवति । ", "sd": "ये ह्रस्व-इकारान्त-उकारान्तशब्दाः नदीसंज्ञां न प्राप्नुवन्ति, तेषां <<शेषो घ्यसखि>> [[1.4.7]] अनेन सूत्रेण घिसंज्ञा भवति । यथा - मुनि, साधु आदयः । ह्रस्व-इकारान्तस्त्रीलिङ्गशब्दानाम् (यथा - मति), तथा ह्रस्व-उकारान्तस्त्रीलिङ्गशब्दानाम् (यथा धेनु) अनेनैव सूत्रेण विकल्पेन घि-संज्ञा भवति ।\nघिसंज्ञकस्य अङ्गस्य ङित्-प्रत्यये परे (इत्युक्ते ङे / ङसिँ / ङस् प्रत्यये परे) गुणादेशः भवति । इत्युक्ते, इकारस्य एकारः तथा उकारस्य ओकारः आदेशः भवति । यथा -\n1) मुनि + ङे\n→ मुने + ए [<<घेर्ङिति>> [[7.3.111]] इति गुणः]\n→ मुनये [<<एचोऽयवायावः [[6.1.78]]>> इति अयादेशः]\n2) साधु + ङसिँ\n→ साधो + अस् [<<घेर्ङिति>> [[7.3.111]] इति गुणः]\n→ साधोः [<<ङसिँङसोश्च>> [[6.1.110]] इति पूर्वरूप-एकादेशः । विसर्गनिर्माणम् ।]\nज्ञातव्यम् -\n1) यद्यपि सप्तम्येकवचनस्य प्रत्ययः ङित्-अस्ति, तथापि तस्मिन् परे अस्य सूत्रस्य अपवादरूपेण <<अच्च घेः>> [[7.3.119]] इत्यस्य प्रसक्तिः भवति । अत्र इदम् सूत्रम् केवलं ङे / ङसिँ / ङस् -प्रत्ययानामुपस्थितौ एव प्रयुज्यते ।\n2) ह्रस्व-इकारान्तस्त्रीलिङ्गशब्दाः ह्रस्व-इकारान्तस्त्रीलिङ्गशब्दाः ह्रस्व-उकारान्तस्त्रीलिङ्गशब्दाश्च <<ङिति ह्रस्वश्च>> [[1.4.6]] इत्यनेन ङित्-प्रत्यये परे विकल्पेन नदीसंज्ञां प्राप्नुवन्ति । अतः -\n(अ) नदीसंज्ञापक्षे तेभ्यः परस्य ङित्-प्रत्ययस्य <<आण्नद्याः>> [[7.3.112]] इत्यनेन आट्-आगमः भवति । अतः मति + ङे = मत्यै इति रूपं सिद्ध्यति । एवमेव पञ्चमी-षष्ठी-एकवचनस्य 'मत्याः' रूपमपि सिद्ध्यति ।\n(आ) नदीसंज्ञायाः अभावपक्षे तेषाम् <<शेषो घ्यसखि>> [[1.4.7]] इत्यनेन घि-संज्ञा भवति, अतः तेषामङ्गस्य ङित्-प्रत्यये परे <<घेर्ङिति>> [[7.3.111]] इत्यनेन गुणादेश भवति । अतः मति + ङे = मयते इति अपि रूपं सिद्ध्यति । एवमेव पञ्चमी-षष्ठी-एकवचनस्य 'मतेः' रूपमपि सिद्ध्यति ।\n" }, "73112": { "sa": "नदीसंज्ञकात् अङ्गात् परस्य ङित्-प्रत्ययस्य आट्-आगमः भवति ।", "sd": "नदीसंज्ञकात् शब्दात् परस्य ङे / ङसिँ / ङस् / ङि एतेषां प्रत्ययानाम् 'आट्' आगमः भवति । यथा -\nनदी + ङे [चतुर्थी-एकवचनस्य प्रत्ययः]\n→ नदी + आट् + ए [ <<आण्नद्याः>> [[7.3.112]] इति आट्-आगमः]\n→ नदी + आ + ए [<<हलन्त्यम्>> [[1.3.3]] इति टकारस्य इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः ]\n→ नदी + ऐ [<<आटश्च>> [[6.1.90]] इति आकार-एकारयोः वृद्धि-एकादेशः ऐकारः]\n→ नद्यै [<<इको यणचि>> [[6.1.77]] इति यणादेशः]\nअनेनैव प्रकारैण मत्यै, वध्वै , धेन्वे, मत्याः, नद्याः, वध्वाः, धेन्वाः, मत्याम्, नद्याम्, वध्वाम्, धेन्वाम् - आदिषु सर्वत्र अस्य सूत्रस्य प्रयोगः भवति ।\nज्ञातव्यम् -\n1) नदीसंज्ञा - <<यू स्त्र्याख्यौ नदी>> [[1.4.3]] इत्यनेन दीर्घ-ईकारान्त-ऊकारान्तशब्दानां नदीसंज्ञा भवति - यथा नदी, घटी, वधू, चञ्चू आदयः] । <<ङिति ह्रस्वश्च>> [[1.4.6]] इत्यनेन ह्रस्व-इकारान्त-उकारान्तशब्दानाम् ङित्-प्रत्यये परे विकल्पेन नदीसंज्ञा भवति - यथा मति, बुद्धि, धेनु, आदयः ।\n2) अस्मिन् सूत्रे स्थानीनिर्देशकम् षष्ठ्यन्तम् पदम् नास्ति । अस्यामवस्थायाम् अनया परिभाषया पञ्चमी-विभक्त्यन्तशब्दस्य अर्थे परिवर्तनं न भवति, अपितु सप्तमी-विभक्तन्तशब्दस्य अर्थे परिवर्तनं भूत्वा षष्ठीविभक्तिवत् तस्य अर्थः सिद्ध्यति । अतः अस्मिन् सूत्रे 'ङिति' इति सप्तम्यन्तपदस्य अर्थः 'ङित्-प्रत्यये परे' इति न स्वीकृत्य 'ङित्-प्रत्ययस्य' इति स्वीकरणीयः ।\n3) यद्यपि केषुचन स्थलेषु तृतीया-एकवचनस्य प्रत्ययः 'आङ्' इति निर्दिष्टः अस्ति, तथापि अयं प्रत्ययः 'ङित्' नास्ति । तृतीयैकवचनस्य प्रत्ययः 'टा' इत्येव अस्ति, आङ्-इति तस्य केवलं अन्यत् नाम ।\n4) उपरि-निर्दिष्टायां प्रक्रियायाम् 'नदी + आ + ए' इत्यत्र प्रथमम् 'आ + ए' अयं कार्यम् करणीयम्, न तु 'नदी + आ' अयम् । <ऽयदागमास्तद्गुणीभूतास्तद्ग्रहणेन गृह्यन्तेऽ> अनया परिभाषया आट्-आगमः प्रत्ययस्य गुणिभूतः अस्ति, अतः प्रत्ययेन सह एव सः ग्रहीतव्यः । अतः आट्-इत्यस्य सन्धिः ए-इत्यनेन सह एव करणीया ।\n5) <<आद्यन्तौ टकितौ>> [[1.1.46]] इत्यनेन टित्-आगमः स्थानिनः आद्यवयवरूपेण आगच्छति । अतः याट्-आगमः प्रत्ययात् पूर्वमागच्छति । " }, "73113": { "sa": "आबन्तात् अङ्गात् परस्य ङित्-प्रत्ययस्य याट्-आगमः भवति । ", "sd": "आबन्तात् अङ्गात् परस्य ङे / ङसिँ / ङस् / ङि प्रत्ययानाम् याट्-आगमः भवति । यथा -\nमाला + ङे\n→ माला + याट् + ए [<<याडापः>> [[7.3.113]] इति याट्-आगमः]\n→ माला + या + ए [<<हलन्त्यम्>> [[1.3.3]] इति टकारस्य इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः ।]\n→ मालायै [<<वृद्धिरेचि>> [[6.1.88]] इति वृद्धि-एकादेशः]\nतथैव मालायाः तथा मालायाम् रूपे सिद्ध्यतः ।\nज्ञातव्यम् -\n1) 'आबन्तशब्दाः' इत्यते ते शब्दाः येषामन्ते चाप् / टाप/ डाप् एतेषु कश्चन स्त्रीलिङ्गवाची प्रत्ययः अस्ति । अनेन सर्वे आकारान्तस्त्रीलिङ्गशब्दाः गृह्यन्ते ।\n2) अस्मिन् सूत्रे स्थानीनिर्देशकम् षष्ठ्यन्तम् पदम् नास्ति । अस्यामवस्थायाम् अनया परिभाषया पञ्चमी-विभक्त्यन्तशब्दस्य अर्थे परिवर्तनं न भवति, अपितु सप्तमी-विभक्तन्तशब्दस्य अर्थे परिवर्तनं भूत्वा षष्ठीविभक्तिवत् तस्य अर्थः सिद्ध्यति । अतः अस्मिन् सूत्रे 'ङिति' इति सप्तम्यन्तपदस्य अर्थः 'ङित्-प्रत्यये परे' इति न स्वीकृत्य 'ङित्-प्रत्ययस्य' इति स्वीकरणीयः ।\n3) <<आद्यन्तौ टकितौ>> [[1.1.46]] इत्यनेन टित्-आगमः स्थानिनः आद्यवयवरूपेण आगच्छति । अतः याट्-आगमः प्रत्ययात् पूर्वमागच्छति ।\n" }, "73114": { "sa": "सर्वनामसंज्ञकात् आबन्तात् परस्य ङित्-प्रत्ययस्य स्याट्-आगमः भवति, तथा च अङ्गस्य ह्रस्वः भवति । ", "sd": "ये आबन्ताः शब्दाः सर्वनामसंज्ञकाः सन्ति तेषां परस्य ङित्-प्रत्ययस्य स्याट्-आगमः, तथा अङ्गस्य ह्रस्वादेशः भवति । यथा, किम्-सर्वनामस्य आबन्तरूपं 'का' इति प्रतिपदिकम्, तस्य चतुर्थी-एकवचनस्य प्रक्रियायाम् -\nका + ङे [चतुर्थ्येकवचनस्य प्रत्ययः]\n→ क + स्याट् + ए [<<सर्वनाम्नः स्याड्ढ्रस्वश्च>> [[7.3.114]] इत्यनेन प्रत्ययस्य स्याट्-आगमः, अङ्गस्य च ह्रस्वः]\n→ कस्यै [<<वृद्धिरेचि>> [[6.1.88]] इति वृद्धि-एकादेशः]\nतथैव तस्यै, अस्याः, एतस्याम् एतानि रूपाणि सिद्ध्यन्ति ।\nज्ञातव्यम् -\n1) सर्वनामसंज्ञा - <<सर्वादीनि सर्वनामानि>> [[1.1.27]] इत्यनेन सर्वादिगणस्य शब्दाः सर्वनामसंज्ञकाः सन्ति । यथा - सर्व, विश्व, उभ, उभय .. आदयः ।\n2) 'आबन्तशब्दाः' इत्यते ते शब्दाः येषामन्ते चाप् / टाप/ डाप् एतेषु कश्चन स्त्रीलिङ्गवाची प्रत्ययः अस्ति । अनेन सर्वे आकारान्तस्त्रीलिङ्गशब्दाः गृह्यन्ते ।\n3) अस्मिन् सूत्रे स्थानीनिर्देशकम् षष्ठ्यन्तम् पदम् नास्ति । अस्यामवस्थायाम् <ऽ उभयनिर्देशे पञ्चमीनिर्देशो बलीयान् ऽ> अनया परिभाषया पञ्चमी-विभक्त्यन्तशब्दस्य अर्थे परिवर्तनं न भवति, अपितु सप्तमी-विभक्तन्तशब्दस्य अर्थे परिवर्तनं भूत्वा षष्ठीविभक्तिवत् तस्य अर्थः सिद्ध्यति । अतः अस्मिन् सूत्रे 'ङिति' इति सप्तम्यन्तपदस्य अर्थः 'ङित्-प्रत्यये परे' इति न स्वीकृत्य 'ङित्-प्रत्ययस्य' इति स्वीकरणीयः ।\n3) <<आद्यन्तौ टकितौ>> [[1.1.46]] इत्यनेन टित्-आगमः स्थानिनः आद्यवयवरूपेण आगच्छति । अतः याट्-आगमः प्रत्ययात् पूर्वमागच्छति ।\n" }, "73115": { "sa": "'द्वितीया'शब्दस्य विषये 'तृतीया'शब्दस्य विषये ङित्-प्रत्ययस्य स्याट्-आगमः तथा अङ्गस्य ह्रस्वः विकल्पेन भवति ।", "sd": "'द्वितीया' तथा 'तृतीया' एताभ्याम् शब्दाभ्याम् परस्य परस्य ङित्-प्रत्ययस्य स्याट्-आगमः, तथा अङ्गस्य ह्रस्वादेशः विकल्पेन भवति । विकल्पाभावे <<याडापः>> [[7.3.113]] इत्यनेन याट्-आगमः भवति ।\nस्याट्-आगमे ह्रस्वादेशे च कृते रूपम् सर्वनामशब्दवत् भवति - द्वितीयस्यै -\nद्वितीया + ङे [चतुर्थ्येकवचनस्य प्रत्ययः] → द्वितीय + स्याट् + ए → द्वितीयस्यै ।\nस्याट्-आगमस्य अभावे रूपम् सामान्य-आबन्तशब्दवत् भवति - द्वितीयायै -\nद्वितीया + ङे [चतुर्थ्येकवचनस्य प्रत्ययः] → द्वितीया + याट् + ए → द्वितीयायै ।\nज्ञातव्यम् -\n1) 'द्वितीया' तथा 'तृतीया' एतौ शब्दौ सर्वनामसंज्ञकौ न स्तः । अतः पूर्वसूत्रेण उक्तः विधिः तेषां विषये तत्रैव न विधीयते । अपितु, पूर्वसूत्रे उक्तः परन्तु तत्र 'अप्राप्तः' विधिः अनेन सूत्रेण विकल्प्यते । इयमेव 'अप्राप्त-विभाषा' ।\n2) 'स्याट्' आगमः तथा 'अङ्गस्य ह्रस्वः' उभावपि यद्यपि विकल्पेन भवतः तथापि ते पृथक्-रुपेण न विकल्पेते । यदि स्याट्-आगमः भवति तर्हि ह्रस्वादेशः अपि नित्यं भवति । तथा च, यदि स्याट्-आगमः न भवति तर्हि ह्रस्वादेशः अपि न भवति । " }, "73116": { "sa": "नदीसंज्ञकात् परस्य, आबन्तात् परस्य, नीशब्दात् परस्य सप्तमीएकवचनस्य 'ङि'-प्रत्ययस्य आम्-आदेशः भवति । ", "sd": "उदाहरणानि -\n1) नदीसंज्ञकात् परस्य -\nनदी + ङि [सप्तम्येकवचनस्य प्रत्ययः]\n→ नदी + आम् [<<ङेराम्नद्याम्नीभ्यः>> [[7.3.116]] इति आम्-आदेशः ।]\n→ नदी + आट् + आम् [<<आण्-नद्याः>> [[7.3.112]] इति आडागमः ।]\n→ नदी + आम् [<<आटश्च>> [[6.1.90]] इति वृद्धि-एकादेशः ।]\n→ नद्याम् [<<इको यणचि>> [[6.1.77]] इति यणादेशः ।]\n2) आबन्तात् परस्य -\nमाला + ङि [सप्तम्येकवचनस्य प्रत्ययः]\n→ माला + आम् [<<ङेराम्नद्याम्नीभ्यः>> [[7.3.116]] इति आम्-आदेशः ।]\n→ माला + याट् + आम् [<<याडापः>> [[7.3.113]] इति याडागमः ।]\n→ मालायाम् [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः ।]\n3) नीशब्दात् परस्य -\nराजनी + आम् [सप्तम्येकवचनस्य प्रत्ययः]\n→ राजनी + आम् [<<ङेराम्नद्याम्नीभ्यः>> [[7.3.116]] इति आम्-आदेशः ।]\n→ राजन्याम् [<<इको यणचि>> [[6.1.77]] इति यणादेशः।]\nज्ञातव्यम् -\n1) नदीसंज्ञा - <<यू स्त्र्याख्यौ नदी>> [[1.4.3]] इत्यनेन दीर्घ-ईकारान्त-ऊकारान्तशब्दानां नदीसंज्ञा भवति - यथा नदी, घटी, वधू, चञ्चू आदयः ।\n2) 'आबन्तशब्दाः' इत्यते ते शब्दाः येषामन्ते चाप् / टाप/ डाप् एतेषु कश्चन स्त्रीलिङ्गवाची प्रत्ययः अस्ति । अनेन सर्वे आकारान्तस्त्रीलिङ्गशब्दाः गृह्यन्ते ।\n3) अनया परिभाषया 'नीभ्यः' इत्युक्ते नी-शब्दात् परस्य तथा नीशब्दान्तात् परस्य - उभौ अपि स्वीक्रियेते । अतः सेनानी, राजनी, ग्रामणी - एतादृशानां ईकारान्तपुंलिङ्गशब्दानाम् सप्तमी-एकवचनस्य रूपसिद्धौ अपि अस्य सूत्रस्य प्रयोगः भवति ।\n4) यद्यपि 'आम्' इति 'मित्' अस्ति, तथाप्यत्र अयमादेशः एव अस्ति, आगमः न ।\n5) यद्यपि ह्रस्व-इकारान्तस्त्रीलिङ्गशब्दाः ह्रस्व-उकारान्तस्त्रीलिङ्गशब्दाश्च <<ङिति ह्रस्वश्च>> [[1.4.6]] इत्यनेन ङित्-प्रत्यये परे विकल्पेन नदीसंज्ञां प्राप्नुवन्ति, तथापि तेषां विषये अयमादेशः वर्तमानसूत्रेण न भवति, अपितु <<अच्च घेः>> [[7.3.118]] इति सूत्रेण भवति ।\n" }, "73117": { "sa": "ह्रस्व-इकारान्त-ह्रस्व-उकारान्त-नदीसंज्ञकात् शब्दात् परस्य सप्तम्येकवचनस्य ङि-प्रत्ययस्य आम्-आदेशः भवति । ", "sd": "<<ङिति ह्रस्वश्च>> [[1.4.6]] इत्यनेन ह्रस्व-इकारान्तस्त्रीलिङ्गशब्दाः ह्रस्व-उकारान्तस्त्रीलिङ्गशब्दाश्च ङित्-प्रत्यये परे विकल्पेन नदीसंज्ञां प्राप्नुवन्ति । एतेषां परस्य ङि-प्रत्ययस्य आम्-आदेशः भवति ।\nयथा -\nमति + ङि [सप्तम्येकवचनस्य प्रत्ययः]\n→ मति + आम् [<<इदुद्भ्याम्>> [[7.3.117]] इति आम्-आदेशः ।]\n→ मति + आट् + आम् [<<आण्-नद्याः>> [[7.3.112]] इति आडागमः ।]\n→ मति + आम् [<<आटश्च>> [[6.1.90]] इति वृद्धि-एकादेशः ।]\n→ मत्याम् [<<इको यणचि>> [[6.1.77]] इति यणादेशः ।]\nज्ञातव्यम् -\nप्रश्नः - <<ङेराम्नद्याम्नीभ्यः>> [[7.3.116]] इत्यनेन सूत्रेण एषः नियमः पूर्वमेव उक्तः अस्ति । अतः अस्य सूत्रस्य का आवश्यकता ?\nउत्तरम् - अग्रिमसूत्रेण (<<औत्>> [[7.3.118]] इत्यनेन) ह्रस्व-इकारान्तशब्देभ्यः ह्रस्व-उकारान्तशब्देभ्यः च परस्य ङि-प्रत्ययस्य 'औत्' आदेशः विधीयते । अतः एतत् सूत्रम् न अभविष्यत् चेत् अग्रिमसूत्रेण ह्रस्व-इकारान्त-ह्रस्व-उकारान्त-नदीसंज्ञकात् परस्य ङि-प्रत्ययस्यापि (विप्रतिषेधेन) औत्-एव आदेशः अभविष्यत् । परन्तु तत् तथा मा भूत् इति स्पष्टीकर्तुम् एतत् सूत्रम् निर्मितमस्ति । अ\nउपप्रश्नः - परन्तु अस्य सूत्रस्य उपस्थितौ अपि विप्रतिषेधेन अग्रिमसूत्रेण औत्-एव आदेशः विधीयते खलु?\nउत्तरम् - न तथा । एतत् सूत्रमग्रिमसूत्रस्य अपवादः भवति । अनेन सूत्रेण 'नदीसंज्ञकेभ्यः इदुद्भ्यः परस्य ङि प्रत्ययस्य' आदेशः उच्यते, तथा अग्रिमसूत्रेण 'सर्वेभ्यः इदुद्भ्यः परस्य ङि प्रत्ययस्य' आदेशः विधीयते । अतः एतत् सूत्रमग्रिमसूत्रस्य अपवादरूपेण आगच्छति ।" }, "73118": { "sa": "इकारान्त-उकारान्त-शब्दात् परस्य ङि-प्रत्ययस्य औत्-आदेशः भवति । ", "sd": "सर्वेभ्यः इकारान्त-उकारान्त-शब्देभ्यः परस्य ङि-प्रत्ययस्य औत्-आदेशः भवति । 'औत्' इत्यत्र तकारः केवलं उच्चारणार्थः अस्ति , अतः आदेशरूपेण केवलं 'औ' वर्णः आगच्छति ।\nयथा -\nसखि + ङि [सप्तम्येकवचनस्य प्रत्ययः]\n→ सखि + औ [<<औत्>> [[7.3.118]] इत्यनेन ङि-प्रत्ययस्य औ-आदेशः]\n→ सख्यौ + औ [<<इको यणचि>> [[6.1.77]] इति यणादेशः ।]\nज्ञातव्यम् -\n1) यद्यपि अस्मिन् सूत्रे 'इकारान्त/उकारान्तशब्देभ्यः परस्य ङि-प्रत्ययस्य औत्-आदेशः दत्तः अस्ति, तथापि\n(अ) घिसंज्ञकात् परस्य ङि-प्रत्ययस्य <<अच्च घेः>> [[7.3.119]] इति अग्रिमसूत्रेण आदेशः भवति ।\n(आ) नदीसंज्ञकात् इ/उकारान्तात् परस्य ङि-प्रत्ययस्य <<इदुद्भ्याम्>> [[7.3.117]] इत्यनेन आदेशः भवति ।\nअतः वर्तमानसूत्रस्य प्रयोजनम् केवलं तेषां इकारान्त-उकारान्तशब्दानां कृते अस्ति, येषाम् नदीसंज्ञा अपि न भवति, घिसंज्ञा अपि न भवति । यथा - सखि, पति ।\n2) अस्मिन् सूत्रे उकारग्रहणस्य किमपि प्रयोजनम् नास्ति, यतः सर्वे उकारान्तशब्दाः घिसंज्ञकाः नदीसंज्ञकाः वा सन्ति ।\n" }, "73119": { "sa": "घिसंज्ञकात् इकारान्त-उकारान्तशब्दात् परस्य ङि-प्रत्ययस्य औत्-आदेशः भवति, तथा घिसंज्ञकस्य अङ्गस्य अन्तिमवर्णस्य अकारादेशः भवति । ", "sd": "ये हस्व-इकारान्त-उकारान्तशब्दाः नदीसंज्ञां न प्राप्नुवन्ति, तेषां <<शेषो घ्यसखि>> [[1.4.7]] अनेन सूत्रेण घिसंज्ञा भवति । यथा - मुनि, साधु आदयः । हस्व-इकारान्तस्त्रीलिङ्गशब्दानाम् (यथा - मति), तथा हस्व-उकारान्तस्त्रीलिङ्गशब्दानाम् (यथा धेनु) अपि ङि-प्रत्यये परे अनेनैव सूत्रेण विकल्पेन घि-संज्ञा भवति । एतेषाम् सर्वेषाम् परस्य ङि-प्रत्ययस्य अनेन सूत्रेण 'औ' आदेशः भवति, तथा च एतेषामङ्गस्य अन्तिमवर्णस्य अकारादेशः भवति । यथा -\nमुनि + ङि [सप्तम्येकवचनस्य प्रत्ययः]\n→ मुन + औ [<<अच्च घेः>> [[7.3.119]] इति ङि-प्रत्ययस्य औत्-आदेशः तथा अङ्गस्य अकारादेशः]\n→ मुनौ [<<वृद्धिरेचि>> [[6.1.88]] इति वृद्धि-एकादेशः]\nअनेनैव प्रकारेण मतौ, धेनौ, साधौ एतानि रूपाणि सिद्ध्यन्ति ।\nस्मर्तव्यम् - ह्रस्व-इकारान्तस्त्रीलिङ्गशब्दाः ह्रस्व-उकारान्तस्त्रीलिङ्गशब्दाश्च <<ङिति ह्रस्वश्च>> [[1.4.6]] इत्यनेन ङित्-प्रत्यये परे विकल्पेन नदीसंज्ञां प्राप्नुवन्ति । अतः -\n(अ) नदीसंज्ञापक्षे तेभ्यः परस्य 'ङि'-प्रत्ययस्य <<इदुद्भ्याम्>>[[7.3.118]] इत्यनेन आम्-आदेश भवति । अतः मति + ङि = मत्याम् इति रूपं सिद्ध्यति ।\n(आ) नदीसंज्ञायाः अभावपक्षे तेषाम् <<शेषो घ्यसखि>> [[1.4.7]] इत्यनेन घि-संज्ञा भवति । अतः तेभ्यः परस्य 'ङि'-प्रत्ययस्य <<औत्>>[[7.3.119]] इत्यनेन औ-आदेश भवति । अतः मति + ङि = मतौ इति अपि रूपं सिद्ध्यति ।\n" }, "73120": { "sa": "पुंलिङ्ग-नपुंसकलिङ्ग-घिसंज्ञकात् परस्य तृतीयैकवचनस्य टा-प्रत्ययस्य 'ना' आदेशः भवति ।", "sd": "यः घिसंज्ञकः शब्दः पुँल्लिङवाची नपुंसकलिङ्गवाची वा अस्ति, तस्मात् परस्य तृतीयैकवचनस्य टा-प्रत्ययस्य 'ना' इति आदेशः भवति । यथा - साधु + टा → साधुना ।\nअत्र 'अस्त्रियाम्' इति किमर्थमुक्तम्? इकारान्त-उकारान्त-स्त्रीलिङ्गशब्दाः अपि नित्यं घिसंज्ञकाः भवन्ति । अतः 'मति + टा' इत्यत्र अनेन सूत्रेण 'ना'-आदेशः मा भूत् इति स्पष्टीकर्तुमत्र 'अस्त्रियाम्' इति उक्तमस्ति । अतः 'मति + टा' इत्यत्र केवलं यणादेशे कृते 'मत्या' इति रूपं सिद्ध्यति ।\nज्ञातव्यम् - अस्मिन् सूत्रे प्रयुक्तम् 'आङ्' इति 'टा' प्रत्ययस्यैव अन्यत् नाम । पूर्वाचार्यैः टा-प्रत्ययस्य आङ्-इति उल्लेखः कृतः अस्ति, अतः पाणिनिः अपि केषुचन स्थलेषु 'टा' इत्यस्य स्थाने आङ्-इति वदति । परन्तु अयं प्रत्ययः टित्-अस्ति, ङित्-नास्तीति स्मर्तव्यम् ।\n" }, "74001": { "sa": "", "sd": "" }, "74002": { "sa": "", "sd": "" }, "74003": { "sa": "", "sd": "" }, "74004": { "sa": "", "sd": "" }, "74005": { "sa": "", "sd": "" }, "74006": { "sa": "", "sd": "" }, "74007": { "sa": "", "sd": "" }, "74008": { "sa": "", "sd": "" }, "74009": { "sa": "", "sd": "" }, "74010": { "sa": "", "sd": "" }, "74011": { "sa": "", "sd": "" }, "74012": { "sa": "", "sd": "" }, "74013": { "sa": "", "sd": "" }, "74014": { "sa": "", "sd": "" }, "74015": { "sa": "", "sd": "" }, "74016": { "sa": "", "sd": "" }, "74017": { "sa": "", "sd": "" }, "74018": { "sa": "", "sd": "" }, "74019": { "sa": "", "sd": "" }, "74020": { "sa": "", "sd": "" }, "74021": { "sa": "", "sd": "" }, "74022": { "sa": "", "sd": "" }, "74023": { "sa": "", "sd": "" }, "74024": { "sa": "", "sd": "" }, "74025": { "sa": "", "sd": "" }, "74026": { "sa": "", "sd": "" }, "74027": { "sa": "", "sd": "" }, "74028": { "sa": "'श' प्रत्यये परे, 'यक्' प्रत्यये परे, असार्वधातुके लिङ्-लकारे परे च ऋकारान्त-धातोः रिङ्-आदेशः भवति । ", "sd": "अनेन सूत्रेण ऋकारान्त-धातोः तिसृषु स्थितिषु 'रि' इति आदेशः दीयते । यद्यपि अयमनेकाल् आदेशः, तथापि अयम् ङित्-आदेशः अस्ति, अतः <<ङिच्च>> [[1.1.53]] इत्यनेन अयं स्थानिनः अन्तिम-वर्णस्य स्थाने एव भवति ।\nअनेन सूत्रेण अयमादेशः कासु स्थितिषु विधीयते? क्रमेण पश्यामः ।\n1) षष्ठगणस्य 'श' इति विकरणप्रत्यये परे ।\nयथा - आ + दृङ (आदरे) इति तुदादिगणस्य धातुः । अस्य लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -\nआ + दृ + लट्\n→ आ + दृ + त [<<तिप्तस्झि...>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य विवक्षायामात्मनेपदस्य 'त' प्रत्ययः]\n→ आ + दृ + श + त [<<तुदादिभ्यः शः>> [[3.1.77]] इति विकरणप्रत्ययः 'श']\n→ आ + द्रि + अ + त [<<रिङ् शयग्लिङ्क्षु>> [[7.4.28]] इति ऋकारान्तस्य अङ्गस्य रिङ्-आदेशः । ङकारस्य इत्संज्ञा, लोपः ।]\n→ आ + द्र् इयङ् + अ + त [<<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> [[6.4.77]] इति इयङ्-आदेशः]\n→ आ + द्रिय् + अ + ते [<<टित आत्मनेपदानां टेरे>> [[3.4.79]] इति एकारादेशः]\n→ आद्रियते ।\n2) भावकर्मवाच्ययोः यक्-प्रत्यये परे ।\nयथा - डुकृञ् (करणे) अस्य कर्मणि लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -\nकृ + लट्\n→ कृ + त [<<भावकर्मणोः>> [[1.3.13]] इति कर्मणिप्रयोगस्य विवक्षायामात्मनेपदम् । <<तिप्तस्झि...>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य विवक्षायामात्मनेपदस्य 'त' प्रत्ययः ।]\n→ कृ + य + त [<<सार्वधातुके यक्>> [[3.1.67]] इति यक्-प्रत्ययः]\n→ क्रि य त [<<रिङ् शयग्लिङ्क्षु>> [[7.4.28]] इति ऋकारान्तस्य अङ्गस्य रिङ्-आदेशः । ङकारस्य इत्संज्ञा, लोपः ।]\n→ क्रियते [<<टित आत्मनेपदानां टेरे>> [[3.4.79]] इति एकारादेशः]\n3) आशीर्लिङ्-लकारस्य प्रत्यये परे ।\nयथा - डुकृञ् (करणे) अस्य आशीर्लिङ्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -\nकृ + लिङ्\n→ कृ + तिप् [<<तिप्तस्झि...>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य विवक्षायाम् 'तिप्' प्रत्ययः ।]\n→ कृ + यासुट् + ति [<<किदाशिषि>> [[3.4.104]] इत्यनेन यासुट्-आगमः।]\n→ कृ +यास् + ति [इत्संज्ञालोपः]\n→ क्रि यास् ति [<<रिङ् शयग्लिङ्क्षु>> [[7.4.28]] इति ऋकारान्तस्य अङ्गस्य रिङ्-आदेशः । ङकारस्य इत्संज्ञा, लोपः ।]\n→ क्रियास् त् [<<इतश्च>> [[3.4.100]] इत्यनेन ङित्-लकारे परे प्रत्ययस्य इकारस्य लोपः।]\n→ क्रियात् [<<स्कोः संयोगाद्योरन्ते च>> [[8.2.29]] इति सकारलोपः]\nज्ञातव्यम् - अस्मिन् सूत्रे अनुवर्तितः 'असार्वधातुके' अयं शब्दः केवलं लिङ्-इत्यस्यैव विशेषणरूपेण आगच्छति, यतः शप्रत्ययः यक्-प्रत्ययः च केवलं सार्वधातुकप्रक्रियायाम् एव आगच्छतः । अतः 'असार्वधातुके' इति वदामश्चेत् तयोः प्रयोजनम् एव विनश्येत् । लिङ्-लकारः तु उभयथा दृश्यते - सार्वधातुकः विधिलिङ्लकारः, तथा आर्द्धधातुकः आशीर्लिङ्लकारः । एतयोः वर्तमानसूत्रेण केवलं आशीर्लिङ्लकारः एव गृह्यः, यतः 'असार्वधातुके' इति निर्दिष्टमस्ति ।\n " }, "74029": { "sa": "", "sd": "" }, "74030": { "sa": "", "sd": "" }, "74031": { "sa": "", "sd": "" }, "74032": { "sa": "", "sd": "" }, "74033": { "sa": "", "sd": "" }, "74034": { "sa": "", "sd": "" }, "74035": { "sa": "", "sd": "" }, "74036": { "sa": "", "sd": "" }, "74037": { "sa": "", "sd": "" }, "74038": { "sa": "", "sd": "" }, "74039": { "sa": "", "sd": "" }, "74040": { "sa": "", "sd": "" }, "74041": { "sa": "", "sd": "" }, "74042": { "sa": "", "sd": "" }, "74043": { "sa": "", "sd": "" }, "74044": { "sa": "", "sd": "" }, "74045": { "sa": "", "sd": "" }, "74046": { "sa": "", "sd": "" }, "74047": { "sa": "", "sd": "" }, "74048": { "sa": "", "sd": "" }, "74049": { "sa": "सकारान्तस्य अङ्गस्य सकारादि-आर्धधातुके प्रत्यये परे तकारादेशः भवति । ", "sd": "किम् नाम आर्धधातुकम्? <<आर्धधातुकम् शेषः>> [[3.4.114]] इत्यनेन धातुविहिता तिङ्भिन्नाः शिद्भिन्नाः च सर्वे प्रत्ययाः आर्धधातुकप्रत्ययाः सन्ति । यदि सकारादि-आर्धधातुकप्रत्ययः (यथा - स्य, सन्) सकारान्तात् अङ्गात् परः विधीयते, तर्हि तस्य सकारस्य तकारादेशः भवति । यथा -\n1) वस्-धातोः लृट्-लकारस्य प्रथमपुरुषैकवचनम् -\nवस् + लृट् [<<लृट् शेषे च>> [[3.3.13]]]\n→ वस् + स्य + लृट् [<<स्यतासी लृलुटोः>> [[3.1.33]] इति स्य-विकरणप्रत्ययः]\n→ वस् + स्य + तिप् [<<तिप्तस्झि..>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य विवक्षायाम् तिप्-प्रत्ययः]\n→ वत् + स्य + ति [<<सः स्यार्द्धधातुके>> [[7.4.49]] इति सकारस्य तकारः]\n→ वत्स्यति ।\n2) वस्-धातोः सन्-प्रत्ययान्तरूपम् -\nवस् + सन् [<<धातोः कर्मणः समानकर्तृकादिच्छायां वा>> [[3.1.17]] इति सन्-प्रत्ययः]\n→ वस् वस् + स [<<सन्यङोः>> [[6.1.9]] इति अङ्गस्य एकाच्-अवयवस्य द्वित्वम् ]\n→ व वस् + स [<<हलादिः शेषः>> [[7.4.60]] इति सकारलोपः]\n→ वि वस् + स [<<सन्यतः>> [[7.4.79]] इति अकारान्तस्य अभ्यासस्य सन्-प्रत्यये परे इकारादेशः]\n→ वि वत् स [<<सः स्यार्द्धधातुके>> [[7.4.49]] इति सकारस्य तकार]\n→ विवत्स [<<सनाद्यन्ताः धातवः>> [[3.1.32]] इति इत्संज्ञा]\nज्ञातव्यम् -\n1. अस्मिन् सूत्रे 'सः' इति षष्ठ्येकवचनमस्ति । 'सः अङ्गस्य' इत्युक्ते 'सकारान्तस्य अङ्गस्य' । <<येन विधिस्तदन्तस्य>> [[1.1.72]] इत्यनेन अत्र तदन्तविधिः क्रियते ।\n2. <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यनेन अङ्गस्य अन्तिमवर्णस्य स्थाने आदेशः क्रियते ।\n3. अत्र 'सि' इति सप्तम्येकवचनमस्ति । <ऽयस्मिन् विधिः तदादौ अल्ग्रहणेऽ> अनया परिभाषया 'सकारादौ प्रत्यये परे' इति अस्य अर्थः जायते ।\n" }, "74050": { "sa": "तास्-प्रत्ययस्य तथा अस्-धातोः सकारे परे लोपः भवति । ", "sd": "लुट्-लकारस्य विकरणप्रत्ययः 'तास्' - इत्यस्य, तथा अस्-धातोः अन्तिम-सकारस्य सकारे परे लोपः भवति । यथा -\n1. पठ्-धातोः लुट्-लकारस्य मध्यमपुरुषैकवचनस्य रूपम् -\nपठ् + लुट् [<<अनद्यतने लुट्>> [[3.3.15]]\n→ पठ् + तास् + लुट् [<<स्यतासी लृलुटोः>> [[3.1.33]] इति विकरणप्रत्ययः तास्]\n→ पठ् + इट् + तास् + लुट् [<<आर्धधातुकस्येड्वलादेः>> [[7.2.35]] इति इडागमः]\n→ पठ् + इ + तास् + सिप् [<<तिप्तस्..>> [[3.4.78]] इति सिप्-प्रत्ययः]\n→ पठ् इ + ता + सि [सकारे परे तास्-प्रत्ययस्य <<तासस्त्योर्लोपः>> [[7.4.50]] इति लोपः]\n→ पठितासि\n2. अस्-धातोः लट्-लकारस्य मध्यमपुरुषैकवचनस्य रूपम् -\nअस् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ अस् + सिप् [<<तिप्तस्..>> [[3.4.78]] इति सिप्]\n→ अस् + शप् + सिप् [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ अस् + सिप् [<<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शप्-प्रत्ययस्य लुक्]\n→ असि [सकारे परे अस्-इत्यस्य सकारस्य <<तासस्त्योर्लोपः>> [[7.4.50]] इति लोपः]\nज्ञातव्यम् - अत्र <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यनेन अन्तिमवर्णस्य (इत्युक्ते 'तास्' तथा 'अस्' एतयोः सकारस्य) लोपः भवति ।\n" }, "74051": { "sa": "तास्-प्रत्ययस्य अन्तिमवर्णस्य रेफे परे लोपः भवति ।", "sd": "लुट्-लकारस्य विकरणप्रत्ययः 'तास्' - इत्यस्य रेफे परे लोपः जायते । <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यनेन अयं लोपः अन्तिम-वर्णस्यैव भवति ।\nयथा, पठ्-धातोः लुट्-लकारस्य प्रथमपुरुष-द्विवचनस्य रूपम् -\nपठ् + लुट् [<<अनद्यतने लुट्>> [[3.3.15]] इति लुट्]\n→ पठ् + तास् + ल् [<<स्यतासी लृलुटोः>> [[3.1.33]] इति विकरणप्रत्ययः तास्]\n→ पठ् + इट् + तास् + ल् [<<आर्धधातुकस्येड्वलादेः>> [[7.2.35]] इति इडागमः]\n→ पठ् + इ + तास् + तस् [<<तिप्तस्..>> [[3.4.78]] इति तस् ]\n→ पठ् + इ + तास् + रौ [ <<लुटः प्रथमस्य डारौरसः>> [[2.4.85]] इति तस्-प्रत्ययस्य रौ-आदेशः]\n→ पठ् + इ + ता+ रौ [<<रि च>> [[7.4.51]] इति रेफे परे तास्-इत्यस्य सकारस्य लोपः]\n→ पठितारौ\nज्ञातव्यम् - अस्मिन् सूत्रे 'तास्त्योः' इत्यस्मात् केवलं 'तास्' इति अनुवर्तते, 'अस्' इति न - यतः अस्-इत्यस्मात् परे रेफादिप्रत्ययः न भवितुम् सम्भवति ।\n" }, "74052": { "sa": "", "sd": "" }, "74053": { "sa": "", "sd": "" }, "74054": { "sa": "", "sd": "" }, "74055": { "sa": "", "sd": "" }, "74056": { "sa": "", "sd": "" }, "74057": { "sa": "", "sd": "" }, "74058": { "sa": "", "sd": "" }, "74059": { "sa": "अभ्यासस्य ह्रस्वः भवति ।", "sd": "द्वित्वप्रकरणे यथायोग्यं द्वित्वे कृते, द्वयोः यः प्रथमः तस्य <<पूर्वोभ्यासः>> [[6.1.4]] इत्यनेन 'अभ्यास' संज्ञा भवति । अस्य अभ्यासस्य वर्तमानसूत्रेण ह्रस्वादेशः भवति । <<अचश्च>> [[1.2.28]] इत्यनेन अच्-वर्णस्य अयमादेशः विधीयते ।\nयथा, भू-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनम् एतादृशम् सिद्ध्यति -\nभू + लिट् [<<परोक्षे लिट्>> [[3.2.115]] ]\n→ भूव् ल् [<<भुवो वुग्लुङ्लिटोः>> [[6.4.88]] इति वुक्-आगमः । परत्वात् अयम् द्वित्वात् पूर्वमागच्छति ।]\n→ भूव् भूव् ल् [<<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम्]\n→ भू भूव् ल् [<<हलादि शेषः>> [[7.4.60]] इति वकारस्य लोपः]\n→ भुभूव् ल् [<<ह्रस्वः>> [[7.4.59]] इति अभ्यासे विद्यमानः यः अच्-वर्णः, तस्य ऊकारस्य ह्रस्वादेशः उकारः]\n→ भभूव् ल् [<<भवतेरः>> [[7.4.73]] इति उकारस्य अकारः]\n→ भभूव् तिप् [<<तिप्तस्..>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य प्रत्ययः तिप्]\n→ भभूव् णल् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इति तिप्-इत्यस्य णल्-आदेशः]\n→ भभूव् अ [इत्संज्ञालोपः]\n→ बभूव [<<अभ्यासे चर्च्च>> [[8.4.54]] इति अभ्यासस्य जश्त्वम्]\nअन्यानि कानिचन उदाहरणानि -\n1. 'दा' इत्यस्य द्वित्वे 'दा दा' इति स्थिते <<ह्रस्वः>> [[7.4.59]] इत्यनेन 'द दा' इति जायते ।\n2. 'नी' इत्यस्य द्वित्वे 'नी नी' इति स्थिते <<ह्रस्वः>> [[7.4.59]] इत्यनेन 'नि नी' इति जायते ।\n3. 'तॄ' इत्यस्य द्वित्वे 'तॄ तॄ' इति स्थिते <<ह्रस्वः>> [[7.4.59]] इत्यनेन 'तृ तॄ' इति जायते ।\n4. 'ग्लेप्' इत्यस्य द्वित्वे कृते 'ग्लेप् ग्लेप्' इति स्थिते, आदौ <<हलादिः शेषः>> [[7.4.60]] इति 'गे ग्लेप्' इति सिद्धे <<ह्रस्वः>> [[7.4.59]] इति ह्रस्वादेशः विधीयते । <<एच इग्घ्रस्वादेशे>> [[1.1.48]] इत्यनेन एच्-वर्णस्य ह्रस्वादेशे इक्-आदेशे कृते अत्र 'गि ग्लेप्' इति जायते ।\n5. 'श्लोक्' इत्यस्य द्वित्वे कृते 'शो श्लोक्' इति स्थिते, आदौ <<हलादिः शेषः>> [[7.4.60]] इति 'शो श्लोक्' इति सिद्धे <<ह्रस्वः>> [[7.4.59]] इति ह्रस्वादेशः विधीयते । <<एच इग्घ्रस्वादेशे>> [[1.1.48]] इत्यनेन एच्-वर्णस्य ह्रस्वादेशे इक्-आदेशे कृते अत्र 'शु श्लोक्' इति जायते ।\n" }, "74060": { "sa": "अभ्यासस्य केवलं प्रथमस्थाने विद्यमानः हल्-वर्णः अवशिष्यते, अन्यानि हल्-वर्णानि लुप्यन्ते । ", "sd": "द्वित्वप्रकरणे द्वित्वे कृते द्वयोः यः प्रथमः तस्य <<पूर्वोभ्यासः>> [[6.1.4]] इत्यनेन 'अभ्यास' संज्ञा भवति । अस्य अभ्यासस्य केवलं प्रथम-स्थाने विद्यमानम् व्यञ्जनम् अवशिष्यते, अन्यानि सर्वाणि व्यञ्जनानि लुप्यन्ते - इति अनेन सूत्रेण स्पष्टीभवति ।\nअनेन सूत्रेण अच्-वर्णस्य लोपः न भवतीति स्मर्तव्यम् । केवलं हल्-वर्णस्यैव लोपः भवति । तत्रापि प्रथमस्थाने स्थितस्य हल्-वर्णस्य लोपः न भवति । (यदि अभ्यासस्य प्रथमस्थाने अच्-वर्णः अस्ति तर्हि अभ्यासस्य सर्वेषाम् हल्-वर्णानाम् लोपः भवति )।\nयथा, पच्-धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रियायाम् -\nपच् + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट्]\n→ पच् पच् + लिट् [<<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम् । द्वित्वे कृते प्रथमः यः 'पच्' शब्दः, तस्य अभ्याससंज्ञा भवति ।]\n→ प पच् + लिट् [<<हलादि शेषः>> [[7.4.60]] इत्यनेन केवलं पकारः अवशिष्यते । चकारस्य लोपः भवति ।]\n→ प पच् + तिप् [<<तिप्तस्झि...>> [[3.4.78]] इति तिप्-प्रत्ययः]\n→ प पच् णल् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इति तिप्-इत्यस्य णल्-आदेशः]\n→ प पाच् + अ [<<अत उपधायाः>> [[7.2.116]] इति अङ्गस्य उपधा-अकारस्य वृद्धिः आकारः]\n→ पपाच\nएतत् स्मर्तव्यम् यत् यदि धातोः प्रथमवर्णः व्यञ्जनम् नास्ति, तर्हि तस्यापि लोपः भवति । यथा, 'अद्' धातोः द्वित्वे कृते 'अद् अद्' इति स्थिते वर्तमानसूत्रेण 'अ अद्' इत्येव अवशिष्यते । अत्र दकारस्य लोपः भवति, यतः दकारः प्रथमस्थाने विद्यमानः नास्ति ।\nअन्यानि कानिचन उदाहरणानि -\n1. 'वन्द्' इत्यस्य द्वित्वे कृते 'वन्द् वन्द्' इति प्राप्ते <<हलादि शेषः>> [[7.4.60]] इत्यनेन अभ्यासस्य केवलं प्रथमः हल्-वर्णः अवशिष्यते, अतः 'व वन्द्' इति जायते । अच्-वर्णाः तु सर्वे अवशिष्यन्ते इति स्मर्तव्यम् ।\n2. 'ध्यै' धातोः <<आदेच उपदेशेऽशिति>> [[6.4.145]] इति आकारादेशं कृत्वा 'ध्या' इति प्राप्ते, तस्य द्वित्वे कृते, 'ध्या ध्या' इति जाते, वर्तमानसूत्रेण अभ्यासस्य केवलं प्रथमम् व्यञ्जनम् (धकारः) अवशिष्यते, अतः 'धा ध्या' इति जायते ।\n3. 'क्षाल्' इत्यस्य द्वित्वे 'क्षाल् क्षाल्' इत्यत्र वर्तमानसूत्रेण अभ्यासस्य केवलं प्रथमम् व्यञ्जनम् (ककारः) अवशिष्यते, अतः 'का क्षाल्' इति जायते ।\n" }, "74061": { "sa": "अभ्यासे यदि शर्-वर्णात् परः खय्-वर्णाः सन्ति तर्हि ते सर्वे अवशिष्यन्ते, अन्ये हल्-वर्णाः लुप्यन्ते । ", "sd": "<<हलादि शेषः>> [[7.4.60]] इत्यनेन अभ्यासे विद्यमानेभ्यः हल्-वर्णेभ्यः केवलं प्रथमस्थाने विद्यमानः हल्-वर्णः अवशिष्यते, अन्ये हल्-वर्णाः लुप्यन्ते । परन्तु यदि अभ्यासे शर्-वर्णस्य खय्-वर्णेन सह संयोगः अस्ति, तर्हि संयोगे विद्यमानः खय्-वर्णः एव अवशिष्यते, अन्ये हल्-वर्णाः लुप्यन्ते - अयमस्य सूत्रस्य अर्थः । यथा -\n1. 'स्पर्ध्' अस्मिन् धातौ सकारात् परः पकारः अस्ति । अतः अस्य धातोः द्वित्वे कृते 'स्पध् स्पर्ध्' इति स्थिते <<हलादि शेषः>> [[7.4.60]] इत्यनेन पकारलोपे प्राप्ते अपवादत्वात् <<शर्पूर्वाः खयः>> [[7.4.61]] इत्यनेन पकारः अवशिष्यते, अन्ये हल्-वर्णाः लुप्यन्ते । अतः अत्र सकारलोपः धकारलोपः च भवति, पकारः अवशिष्यते । अतएव स्पर्ध्-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनम् 'पस्पर्ध' इति भवति ।\n2. 'स्था' इत्यस्य द्वित्वे 'स्था स्था' इति स्थिते अनेन सूत्रेण थकारः अवशिष्यते, अतः 'था स्था' इति स्थितिः भवति । अग्रे अन्यां प्रक्रियां कृत्वा 'तस्थौ' इति रूपम् जायते ।\n3. 'श्च्युत्' धातोः द्वित्वे 'श्च्युत् श्च्युत्' इति स्थिते अभ्यासे 'श् + च् + य् =' अयम् संयोगः अस्ति । अतः अनेन सूत्रेण अत्र चकारः अवशिष्यते, शकार-यकार-तकाराणाम् लोपः भवति । अत' 'चु श्चुत्' इति स्थितिः जायते । अग्रे प्रक्रियां कृत्वा 'चुश्च्योत' इति रूपं सिद्ध्यति ।\nज्ञातव्यम् -\n1. शर् प्रत्याहारे श्, ष्, स् एते वर्णाः आगच्छन्ति । खय्-प्रत्याहारे वर्गप्रथमाः वर्गद्वितीयाः च आगच्छन्ति ।\n2. अस्मिन् सूत्रे 'शर्पूर्वाः खयः' इति बहुवचनमस्ति । अतः यदि अभ्यासे द्वौ अधिकाः वा शर्-पूर्वाः खय्-वर्णाः सन्ति तर्हि ते सर्वे अवशिष्यन्ते । परन्तु अस्य उदाहरणानि न लभन्ते ।\n" }, "74062": { "sa": "अभ्यासस्य कवर्गीयवर्णस्य हकारस्य च चवर्गीयवर्णादेशः भवति । ", "sd": "अभ्यासे यदि कवर्गीयः वर्णः अस्ति, उत हकारः अस्ति, तर्हि तस्य आन्तरतम्यः चवर्गीयवर्णादेशः भवति । कवर्गीयवर्णस्य विषये तु यथासङ्ख्यमादेशाः भवन्ति - ककारस्य चकारः, खकारस्य छकारः, गकारस्य जकारः, घकारस्य झकारः, ङकारस्य ञकारः । हकारस्य तु तादृशः ए संवार-नाद-घोष-महाप्राणः झकारः भवति । यथा -\n1. कृ-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -\nकृ-धातोः लिट्-लकारस्य परस्मैपदस्य उत्तमपुरुषैकवचनस्य प्रक्रिया -\nकृ + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट्]\n→ कृ कृ + लिट् [<<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम्]\n→ कर् कृ + लिट् [<<उरत्>> [[7.4.66]] इति ऋकारान्त-अभ्यासस्य ऋकारस्य अकारः । <<उरण् रपरः>> [[1.1.51]] इति सः रपरः]\n→ क कृ + लिट् [<<हलादि शेषः>> [[7.4.60]] इति रेफलोपः]\n→ च कृ + लिट् [<<कुहोश्चुः>> [[7.4.62]] इति ककारस्य चकारः]\n→ च कृ + मिप् [<<तिप्तस्झि...>> [[3.4.78]] इति मिप्-प्रत्ययः]\n→ च कृ णल् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इति मिप्-इत्यस्य णल्-आदेशः]\n→ च कार् अ / च कर् अ [<<णलुत्तमो वा>> [[7.1.91]] इति वैकल्पिकम् णित्वम् । णित्वे <<अचो ञ्णिति>> [[7.2.116]] इति ऋकारस्य वृद्धिः कारः । णित्वाभावे <<सार्वधातुकार्धधातुकयोः>> [[7.3.85]] इति ऋकारस्य गुणः अकारः । उभयत्र <<उरण् रपरः>> [[1.1.51]] इति रेफः]\n→ चकार\n2. जुहोत्यादिगणस्य 'हा' धातोः लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम्\nहा + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ हा + तिप् [<<तिप्तस्..>> [[3.4.78]] इति तिप्]\n→ हा + शप् + ति [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ हा + ति [<<जुहोत्यादिभ्यः श्लुः>> [[2.4.75]] इति श्लुः]\n→ हा हा + ति [<<श्लौ>> [[6.4.10]] इति द्वित्वम्]\n→ ह हा + ति [<<ह्रस्वः>> [[7.4.59]] इति ह्रस्वः]\n→ झ हा + ति [<<कुहोश्चुः>> [[7.4.62]] इत्यनेन संवार-नाद-घोष-महाप्राण-हकारस्य तादृशः एव चवर्गीयः झकारः]\n→ जहाति [<<अभ्यासे चर्च्च>> [[8.4.54]] इति जश्त्वम्]\n" }, "74063": { "sa": "", "sd": "" }, "74064": { "sa": "", "sd": "" }, "74065": { "sa": "", "sd": "" }, "74066": { "sa": "अभ्यासे विद्यमानस्य ऋवर्णस्य अकारादेशः भवति । ", "sd": "द्वित्वप्रकरणे द्वित्वे कृते द्वयोः यः प्रथमः तस्य <<पूर्वोभ्यासः>> [[6.1.4]] इत्यनेन 'अभ्यास' संज्ञा भवति । अस्मिन् अभ्यासे विद्यमानः यः ऋ-वर्णः, तस्य अनेन सूत्रेण अकारादेशः भवति । ('उः' इति 'ऋ' इत्यस्य षष्ठी-एकवचनम्) । अयमकारः <<उरण् रपरः>> [[1.1.51]] इत्यनेन नित्यं रपरः एव भवति । यथा -\n1. कृ-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -\nकृ + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट्]\n→ कृ कृ + लिट् [<<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम्]\n→ कर् कृ + लिट् [<<उरत्>> [[7.4.66]] इति ऋवर्णान्त-अभ्यासस्य ऋकारस्य अकारः । <<उरण् रपरः>> [[1.1.51]] इति सः रपरः]\n→ क कृ + लिट् [<<हलादि शेषः>> [[7.4.60]] इति रेफस्य लोपः]\n→ च कृ + लिट् [<<कुहोश्चुः>> [[7.4.62]] इति ककारस्य चकारः]\n→ च कृ + तिप् [<<तिप्तस्झि...>> [[3.4.78]] इति तिप्-प्रत्ययः]\n→ च कृ णल् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इति तिप्-इत्यस्य णल्-आदेशः]\n→ च कार् अ [<<अचो ञ्णिति>> [[7.2.115]] इति ऋकारस्य वृद्धिः आकारः । <<उरण् रपरः>> [[1.1.51]] इति रेफः]\n→ चकार\n2. तॄ-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -\nतॄ + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट्]\n→ तॄ तॄ + ल् [<<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम्]\n→ तृ तॄ + ल् [<<ह्रस्वः>> [[6.4.59]] इति अभ्यासस्य ह्रस्वादेशः]\n→ तर् तॄ + ल् [<<उरत्>> [[7.4.66]] इति ऋवर्णान्त-अभ्यासस्य ऋकारस्य अकारः । <<उरण् रपरः>> [[1.1.51]] इति सः रपरः]\n→ त तॄ + ल् [<<हलादि शेषः>> [[7.4.60]] इति रेफस्य लोपः]\n→ त तॄ कृ + तिप् [<<तिप्तस्झि...>> [[3.4.78]] इति तिप्-प्रत्ययः]\n→ त तॄ णल् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इति तिप्-इत्यस्य णल्-आदेशः]\n→ त तार् अ [<<अचो ञ्णिति>> [[7.2.115]] इति ऋकारस्य गुणः अकारः । <<उरण् रपरः>> [[1.1.51]] इति रेफः]\n→ ततार\n" }, "74067": { "sa": "", "sd": "" }, "74068": { "sa": "", "sd": "" }, "74069": { "sa": "", "sd": "" }, "74070": { "sa": "", "sd": "" }, "74071": { "sa": "", "sd": "" }, "74072": { "sa": "", "sd": "" }, "74073": { "sa": "लिट्-लकारे परे भू-धातोः अभ्यासस्य अकारादेशः भवति । ", "sd": "लिट्लकारे परे भू-धातोः <<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इत्यनेन द्वित्वे प्राप्ते द्वयोः यः पूर्वः तस्य <<पूर्वोऽभ्यासः>> [[6.1.4]] इत्यनेन अभ्याससंज्ञा भवति । अस्य अभ्यासस्य वर्तमानसूत्रेण अकारादेशः भवति । <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यनेन अयमन्त्यादेशः भवति । यथा, भू-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -\nभू + लिट् [<<परोक्षे लिट्>> [[3.2.115]] ]\n→ भूव् ल् [<<भुवो वुग्लुङ्लिटोः>> [[6.4.88]] इति वुक्-आगमः।]\n→ भूव् भूव् ल् [<<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम्]\n→ भू भूव् ल् [<<हलादि शेषः>> [[7.4.60]] इति वकारस्य लोपः]\n→ भुभूव् ल् [<<ह्रस्वः>> [[7.4.59]] इति अभ्यासे विद्यमानस्य ऊकारस्य ह्रस्वादेशः ]\n→ भभूव् ल् [<<भवतेरः>> [[7.4.73]] इति अभ्यासस्य अन्तिमवर्णस्य अकारः]\n→ भभूव् तिप् [<<तिप्तस्..>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य प्रत्ययः तिप्]\n→ भभूव् णल् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इति तिप्-इत्यस्य णल्-आदेशः]\n→ भभूव् अ [इत्संज्ञालोपः]\n→ बभूव [<<अभ्यासे चर्च्च>> [[8.4.54]] इति अभ्यासस्य जश्त्वम्]\n" }, "74074": { "sa": "", "sd": "" }, "74075": { "sa": "", "sd": "" }, "74076": { "sa": "", "sd": "" }, "74077": { "sa": "", "sd": "" }, "74078": { "sa": "", "sd": "" }, "74079": { "sa": "", "sd": "" }, "74080": { "sa": "", "sd": "" }, "74081": { "sa": "", "sd": "" }, "74082": { "sa": "", "sd": "" }, "74083": { "sa": "", "sd": "" }, "74084": { "sa": "", "sd": "" }, "74085": { "sa": "", "sd": "" }, "74086": { "sa": "", "sd": "" }, "74087": { "sa": "", "sd": "" }, "74088": { "sa": "", "sd": "" }, "74089": { "sa": "", "sd": "" }, "74090": { "sa": "", "sd": "" }, "74091": { "sa": "", "sd": "" }, "74092": { "sa": "", "sd": "" }, "74093": { "sa": "", "sd": "" }, "74094": { "sa": "", "sd": "" }, "74095": { "sa": "", "sd": "" }, "74096": { "sa": "", "sd": "" }, "74097": { "sa": "", "sd": "" }, "81001": { "sa": "इतः परम् <<पदस्य>> [[8.1.16]] अस्मात् प्राक् यद् किमपि वक्ष्यते, तत् सर्वम् द्विरुक्तम् भवति ।", "sd": "इदम् अधिकारसूत्रम् अस्ति । अस्य अधिकारस्य व्याप्तिः <<पदस्य>> [[8.1.16]] इति सूत्रम् यावत् प्रचलति । अस्मिन् अधिकारे निर्दिष्टेषु सन्दर्भेषु शब्दस्य द्वित्वं (द्विवारम् उच्चारणम्) भवति — इति अस्य अधिकारस्य आशयः । कानिचन उदाहरणानि एतानि —\n\n1. <<नित्यवीप्सयोः>> [[8.1.4]] इति सूत्रेण नित्यतायाः (regularity), पौनःपुन्यस्य (repetition) च सन्दर्भः उच्यते । इदम् सूत्रम् <<सर्वस्य द्वे>> [[8.1.1]] इत्यस्मिन् अधिकारे वर्तते, अतः पौनःपुन्यस्य निर्देशार्थम् प्रयुक्तस्य शब्दस्य द्वित्वं भवति — इति अर्थः अत्र विधीयते । यथा - नित्यं पचति अथवा पुनः पुनः पचति इत्येतयोः अर्थयोः निर्देशार्थम् पचति पचति इति प्रयोगः अपि सम्भवति ।\n2. <<परेर्वर्जने>> [[8.1.5]] इति सूत्रेण वर्जनम् इति सन्दर्भे प्रयुक्तस्य परिशब्दस्य द्वित्वम् उच्यते । अतः वङ्गं वर्जयित्वा अन्यत्र वृष्टिः जाता इति अर्थं दर्शयितुम् परि परि वङ्गेभ्यः वृष्टिर्जाता इति प्रयोगः क्रियते ।\n3. <<उपर्यध्यधसः सामीप्ये >> [[8.1.7]] इति सूत्रेण उपरि शब्दस्य सामीप्ये गम्यमाने द्वित्वं विधीयते । अतः ग्रामस्य उपरि भागे परन्तु समीपे इत्यस्मिन् अर्थे उपरि उपरि ग्रामम् इति प्रयोगः भवितुम् अर्हति । \n\nअष्टाध्याय्यां विद्यमानानि द्वित्वप्रकरणानि\nअष्टाध्याय्याम् आहत्य त्रीणि द्वित्वप्रकरणानि विद्यन्ते —\n\n1. <<एकाचो द्वे प्रथमस्य>> [[6.1.1]] इत्यतः <<दाश्वान् साह्वान् मीढ्वांश्च>> [[6.1.12]] इत्येतेषु सूत्रेषु पाठितम् द्वित्वम् षाष्ठं द्वित्वम् नाम्ना ज्ञायते । अस्मिन् द्वित्वप्रकरणे सन्/यङ्/लिट्/लुङ्/तिङ्/अच्-इत्येतेषां प्रत्ययानां योजनसमये धातूनाम् जायमानम् द्वित्वम् निर्दिष्टम् अस्ति ।\n2. <<सर्वस्य द्वे>> [[8.1.1]] इति प्रकृतसूत्रेण निर्दिष्टः अधिकारः अष्टाध्याय्याः द्वितीयम् द्वित्वप्रकरणम् अस्ति । अस्मिन् द्वित्वप्रकरणे शब्दानां द्वित्वस्य विषये सूत्राणि विद्यन्ते ।\n3. <<अचो रहाभ्यां द्वे>> [[8.4.46]] इत्यतः आरभ्य <<दीर्घादाचार्याणाम्>> [[8.4.52]] इति यावद्भिः सूत्रैः वर्णानां द्वित्वम् विधीयते । एतत् द्वित्वप्रकरणम् अष्टाध्याय्यां विद्यमानम् तृतीयम् द्वित्वप्रकरणम् अस्ति । \n" }, "81002": { "sa": "<<सर्वस्य द्वे>> [[8.1.1]] अस्मिन् अधिकारे द्वित्वे कृते, द्विरुक्तस्य यत् द्वितीयम् तस्य आम्रेडितम् इति संज्ञा भवति ।", "sd": "<<सर्वस्य द्वे>> [[8.1.1]] इत्यस्मिन् अधिकारे विद्यमानेषु सन्दर्भेषु यदा शब्दानां द्वित्वं भवति, तदा द्वित्वे कृते द्वयोः आवृत्त्योः यः द्वितीयः शब्दः, तस्य आम्रेडितम् इति संज्ञा भवति । यथा, नित्यं भुक्त्वा व्रजति इत्यर्थस्य निर्देशार्थम् <<नित्यवीप्सयोः>> [[8.1.4]] इत्यनेन भुक्त्वा इति शब्दस्य द्वित्वे कृते, भुक्त्वा भुक्त्वा व्रजति इति यः प्रयोगः सिद्ध्यति, तत्र विद्यमानस्य द्वितीयस्य भुक्त्वा-शब्दस्य प्रकृतसूत्रेण आम्रेडितम् इति संज्ञा भवति ।\nद्वित्वम् इत्युक्ते एकस्य शब्दस्य स्थाने तस्यैव द्विवारम् उच्चारणम् । एतादृशे द्वित्वे कृते तत्र मूलशब्दः कः / नूतनशब्दः कः — एतादृशम् नैव प्रष्टुं शक्यते । द्वित्व is a process where one word is replaced by its two copies. Both the occurrences are considered identical in all respects, and it is not possible to treat one of these two as 'original' and other as a 'copy'. परन्तु तत्र द्वयोः उच्चारणयोः मध्ये प्रारम्भे उच्चारितः कः तथा च तदनन्तरम् उच्चारितः कः इति अवश्यम् प्रष्टुम् शक्यते । एतादृशे एव प्रश्ने कृते, अनन्तरम् उच्चारितस्य प्रकृतसूत्रेण आम्रेडितम् इति संज्ञा भवति । \n आम्रेडितसंज्ञायाः प्रयोगः\nआम्रेडितसंज्ञायाः प्रयोगः अष्टाध्याय्याम् आहत्य सप्तसु सूत्रेषु कृतः अस्ति —\n\n1. <<नाम्रेडितस्यान्त्यस्य तु वा>> [[6.1.99]]\n2. <<नित्यमाम्रेडिते डाचि>> [[6.1.100]]\n3. <<चनचिदिवगोत्रादितद्धिताम्रेडितेष्वगतेः>> [[8.1.57]]\n4. <<आम्रेडितं भर्त्सने>> [[8.2.95]]\n5. <<स्वरितमाम्रेडितेऽसूयासम्मतिकोपकुत्सनेषु>> [[8.2.103]]\n6. <<कानाम्रेडिते>> [[8.3.12]]\n7. <<छन्दसि वाऽप्राम्रेडितयोः>> [[8.3.49]]\n\nअष्टाध्याय्याम् आहत्य त्रीणि द्वित्वप्रकरणानि विद्यन्ते । तत्र केवलम् <<सर्वस्य द्वे>> [[8.1.1]] अस्य द्वित्वप्रकरणस्य सन्दर्भे एव आम्रेडितम् इति संज्ञा भवति । अन्ययोः द्वयोः द्वित्वप्रकरणयोः सन्दर्भे इयं संज्ञा नैव प्रवर्तते । " }, "81003": { "sa": "", "sd": "" }, "81004": { "sa": "", "sd": "" }, "81005": { "sa": "", "sd": "" }, "81006": { "sa": "", "sd": "" }, "81007": { "sa": "", "sd": "" }, "81008": { "sa": "", "sd": "" }, "81009": { "sa": "", "sd": "" }, "81010": { "sa": "", "sd": "" }, "81011": { "sa": "", "sd": "" }, "81012": { "sa": "", "sd": "" }, "81013": { "sa": "", "sd": "" }, "81014": { "sa": "", "sd": "" }, "81015": { "sa": "", "sd": "" }, "81016": { "sa": "", "sd": "" }, "81017": { "sa": "", "sd": "" }, "81018": { "sa": "", "sd": "" }, "81019": { "sa": "", "sd": "" }, "81020": { "sa": "", "sd": "" }, "81021": { "sa": "", "sd": "" }, "81022": { "sa": "", "sd": "" }, "81023": { "sa": "", "sd": "" }, "81024": { "sa": "", "sd": "" }, "81025": { "sa": "", "sd": "" }, "81026": { "sa": "", "sd": "" }, "81027": { "sa": "", "sd": "" }, "81028": { "sa": "", "sd": "" }, "81029": { "sa": "", "sd": "" }, "81030": { "sa": "", "sd": "" }, "81031": { "sa": "", "sd": "" }, "81032": { "sa": "", "sd": "" }, "81033": { "sa": "", "sd": "" }, "81034": { "sa": "", "sd": "" }, "81035": { "sa": "", "sd": "" }, "81036": { "sa": "", "sd": "" }, "81037": { "sa": "", "sd": "" }, "81038": { "sa": "", "sd": "" }, "81039": { "sa": "", "sd": "" }, "81040": { "sa": "", "sd": "" }, "81041": { "sa": "", "sd": "" }, "81042": { "sa": "", "sd": "" }, "81043": { "sa": "", "sd": "" }, "81044": { "sa": "", "sd": "" }, "81045": { "sa": "", "sd": "" }, "81046": { "sa": "", "sd": "" }, "81047": { "sa": "", "sd": "" }, "81048": { "sa": "", "sd": "" }, "81049": { "sa": "", "sd": "" }, "81050": { "sa": "", "sd": "" }, "81051": { "sa": "", "sd": "" }, "81052": { "sa": "", "sd": "" }, "81053": { "sa": "", "sd": "" }, "81054": { "sa": "", "sd": "" }, "81055": { "sa": "", "sd": "" }, "81056": { "sa": "", "sd": "" }, "81057": { "sa": "", "sd": "" }, "81058": { "sa": "", "sd": "" }, "81059": { "sa": "", "sd": "" }, "81060": { "sa": "", "sd": "" }, "81061": { "sa": "", "sd": "" }, "81062": { "sa": "", "sd": "" }, "81063": { "sa": "", "sd": "" }, "81064": { "sa": "", "sd": "" }, "81065": { "sa": "", "sd": "" }, "81066": { "sa": "", "sd": "" }, "81067": { "sa": "", "sd": "" }, "81068": { "sa": "", "sd": "" }, "81069": { "sa": "", "sd": "" }, "81070": { "sa": "", "sd": "" }, "81071": { "sa": "", "sd": "" }, "81072": { "sa": "", "sd": "" }, "81073": { "sa": "", "sd": "" }, "81074": { "sa": "", "sd": "" }, "82001": { "sa": "सपादसप्ताध्यायीम् प्रति त्रिपादी असिद्धा वर्तते । त्रिपाद्याम् अपि पूर्वम् शास्त्रम् प्रति परम् शास्त्रम् असिद्धम् वर्तते । ", "sd": "अष्टाध्याय्याः इदम् अधिकारसूत्रम् । अयम् अधिकारः अस्मात् सूत्रात् आरभ्य अष्टाध्याय्याः अन्तिमं सूत्रम् यावत् प्रचलति । अस्मिन् अधिकारे विद्यमानानि सर्वाणि सूत्राणि पूर्वसूत्राणां कृते असिद्धानि (अमान्यानि / अविद्यमानानि) सन्ति — इति अस्य सूत्रस्य आशयः । This adhikaar dictates that every rule in this adhikaar is considered to be non-existent by the rules which precede that rule. \nएतादृशं विधानं कृत्वा इदम् अधिकारसूत्रम् अष्टाध्यायीं द्वयोः भागयोः विभाजयति —\n\n1. प्रकृतसूत्रात् सूत्रात् पूर्वम् विद्यमानानि यानि सूत्राणि, तेषाम् प्रथमः भागः । अस्मिन् भागे आदिस्थाः सप्त अध्यायाः, तथा च अष्टमाध्यायस्य प्रथमपादस्य सर्वाणि सूत्राणि वर्तन्ते । अयं भागः सपादसप्ताध्यायी नाम्ना ज्ञायते । सप्तानाम् अध्यायानां समाहारः सप्ताध्यायी; पादेन सह सप्ताध्यायी = सपादसप्ताध्यायी । अस्याः सपादसप्ताध्याय्याः कृते तस्याः अनन्तरम् (इत्युक्ते, अष्टमाध्यायस्य प्रथमपादात् अनन्तरम्) अष्टाध्याय्याम् किमपि न विद्यते । इत्युक्ते, सपादसप्ताध्याय्याः सूत्राणां कृते अष्टाध्याय्याः अन्तिमानाम् त्रयाणाम् पादानाम् अस्तित्वम् एव न वर्तते । \n2. प्रकृतसूत्रात् अनन्तरम् विद्यमानानि यानि सूत्राणि, तेषाम् द्वितीयः भागः । अस्मिन् भागे अष्टमाध्यायस्य अन्तिमानाम् त्रयाणाम् पादानाम् सर्वाणि सूत्राणि वर्तन्ते । अयं भागः त्रिपादी नाम्ना ज्ञायते । त्रयाणां पादानां समाहारः = त्रिपादी । अस्याः त्रिपाद्याः प्रत्येकं सूत्रस्य कृते तस्मात् अनन्तरम् अष्टाध्याय्याम् किमपि न विद्यते । इत्युक्ते, त्रिपाद्याः प्रत्येकं सूत्रस्य कृते 'अहमेव अष्टाध्याय्याः अन्तिमम् सूत्रम्' — इति भावः वर्तते ।\n\nअसिद्धाधिकारस्य प्रयोजनम्\nप्रकृतसूत्रेण उक्तस्य असिद्धत्त्वस्य अष्टाध्याय्याम् आहत्य चत्वारि प्रयोजनानि सन्ति —\n\n1. त्रिपाद्याः अपेक्षया सपादसप्ताध्याय्याः सूत्राणाम् बलीयस्त्वम् \n2. त्रिपाद्याम् परसूत्राणाम् अपेक्षया पूर्वसूत्राणाम् बलीयस्त्वम्\n3. सपादसप्ताध्याय्याः सूत्रैः त्रिपाद्याः सूत्राणाम् अदर्शनम् \n4. त्रिपाद्याः पूर्वसूत्रैः त्रिपाद्याः परसूत्राणाम् अदर्शनम् \n\nएतानि सर्वाणि प्रयोजनानि सिद्धान्तकौमुद्याम् तु एकवाक्येन वर्णितानि सन्ति - सपादसप्ताध्यायीं प्रति त्रिपादी असिद्धा, त्रिपाद्याम् अपि पूर्वं प्रति परं शास्त्रम् असिद्धम् — इति । एतेषाम् सर्वेषाम् क्रमेण विवेचनम् सोदाहरणम् अधः दीयते ।\n 1. त्रिपाद्याः अपेक्षया सपादसप्ताध्याय्याः सूत्राणाम् बलीयस्त्वम् —\nयत्र अष्टाध्याय्याम् द्वयोः सूत्रयोः युगपत् प्राप्तिः विद्यते, तत्र सामान्यतः <<विप्रतिषेधे परं कार्यम्>> [[1.4.2]] इति न्यायेन परसूत्रम् बलीयः भवति । परन्तु, यत्र सपादसप्ताध्याय्याः सूत्रस्य त्रिपादीसूत्रेण सह युगपत् प्राप्तिः भवति, तत्र सपादसप्ताध्याय्याः दृष्ट्या त्रिपादीसूत्रस्य असिद्धत्वात् प्रकियायाम् नित्यम् सपादसप्ताध्याय्याः सूत्रम् एव प्रवर्तते । इत्युक्ते, युगपत् प्राप्तौ सत्याम्, त्रिपादीसूत्राणाम् अपेक्षया सपादसप्ताध्याय्याः सूत्राणि एव बलीयांसि भवन्ति । त्रिपाद्याः सन्दर्भे <<विप्रतिषेधे परं कार्यम्>> [[1.4.2]] इति परिभाषा नैव प्रवर्तते, इति आशयः । अस्य द्वे उदाहरणे एतादृशे —\n(i) अदस्-सर्वनाम्नः पुंलिङ्गे चतुर्थी-एकवचनस्य प्रक्रियायाम् <<सर्वनाम्नः स्मै>> [[7.1.14]] तथा च <<अदसोऽसेर्दादु दो मः>> [[8.2.80]] इति द्वयोः सूत्रयोः यदा युगपत् प्राप्तिः भवति, तदा <<सर्वनाम्नः स्मै>> [[7.1.14]] इति सूत्रम् यद्यपि पूर्वसूत्रम् अस्ति, तथापि तत् सपादसप्ताध्याय्याः सूत्रम् अस्ति इति कारणात् <<अदसोऽसेर्दादु दो मः>> [[8.2.80]] इत्यस्य त्रिपादीसूत्रस्य अपेक्षया प्राधान्येन प्रयुज्यते । प्रक्रिया इयम् —\n\nअदस् + ङे [पुंलिङ्गे चतुर्थ्येकवचनस्य विवक्षायाम् <<स्वौजस्..>> [[4.1.2]] इति ङे-प्रत्ययः]\n→ अदअ + ए [<<त्यदादीनामः>> [[7.2.102]] इत्यनेन सकारस्य अकारादेशः]\n→ अद + ए [<<अतो गुणे>> [[6.1.97]] इति पररूप-एकादेशः]\n→ अद + स्मै [अत्र <<सर्वनाम्नः स्मै>> [[7.1.14]] इत्यनेन ङे-प्रत्ययस्य स्मै-आदेशः भवितुम् अर्हति । तस्मिन्नेव समये <<अदसोऽसेर्दादु दो मः>> [[8.2.80]] इत्यनेन 'अद' इत्यस्य 'अमु' इति आदेशः अपि सम्भवति । वस्तुतः <<अदसोऽसेर्दादु दो मः>> [[8.2.80]] इति अत्र परसूत्रम् अस्ति (नित्यसूत्रम् अपि अस्ति), अतः तस्यैव प्रयोगः प्राधान्येन भवेत् । परन्तु <<अदसोऽसेर्दादु दो मः>> [[8.2.80]] इति त्रिपादीसूत्रम् अस्ति, तत् <<सर्वनाम्नः स्मै>> [[7.1.14]] इत्यस्य कृते असिद्धम् वर्तते । अतः अस्यां स्थितौ अन्य-सूत्रस्य-अभावात् <<सर्वनाम्नः स्मै>> [[7.1.14]] इत्येव सूत्रम् अत्र प्रवर्तते । The sutra <<सर्वनाम्नः स्मै>> [[7.1.14]] does not recognize any competition and thus proceeds to show its effect.]\n→ अमु + स्मै [इदानीम् <<अदसोऽसेर्दादु दो मः>> [[8.2.80]] इत्यनेन 'अद' इत्यस्य 'अमु'आदेशः भवति । यदि अयम् आदेशः पूर्वस्मिन् एव सोपाने अभविष्यत्, तर्हि अनदन्तम् अङ्गम् दृष्ट्वा <<सर्वनाम्नः स्मै>> [[7.1.14]] इत्यनेन स्मै-आदेशः न अभविष्यत् । ]\n→ अमुष्मै [<<आदेशप्रत्यययोः>> [[8.3.59]] इति षत्वम्]\n\n(ii) यस्मिन् धातौ अन्ते वकारः अस्ति तथा च उपधायाम् रेफः वर्तते, तस्य धातोः क्विप्-प्रत्यये परे <<राल्लोपः>> [[6.4.21]] इत्यनेन रेफात् परस्य वकारस्य लोपः, तथा च <<उपधायां च>> [[8.2.77]] इत्यनेन रेफात् पूर्वम् विद्यमानस्य स्वरस्य दीर्घः — इति द्वे कार्ये युगपत् प्रवर्तेते । अस्यां स्थितौ <<राल्लोपः>> [[6.4.21]] इति सूत्रम् यद्यपि पूर्वसूत्रम् अस्ति, तथापि तत् सपादसप्ताध्याय्याः सूत्रम् अस्ति इति कारणात् <<उपधायां च>> [[8.2.77]] इत्यस्य त्रिपादीसूत्रस्य अपेक्षया बलवत्त्वेन प्रयुज्यते । प्रक्रिया इयम् —\n\nधुर्वीँ (हिंसायाम्, भ्वादिः, <{1.654}>)\n→ धुर्व् [<<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इति ईँकारस्य इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ धुर्व् + क्विप् + औ [<<क्विप् च>> [[3.2.76]] इति क्विप्-प्रत्ययः । क्विप्-प्रत्ययः कृत्संज्ञकः अस्ति, अतः अस्य योजनेन <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकस्य निर्माणं भवति । अस्मात् पदनिर्माणार्थम् प्रथमाद्विवचनस्य औ-प्रत्ययः स्थाप्यते ।]\n→ धुर्व् + ० + औ [क्विप्-प्रत्यये ककारपकारयोः इत्संज्ञा, लोपः । वकारोत्तरः इकारः उच्चारणार्थः, अतः सोऽपि लुप्यते । अवशिष्टस्य वकारस्य <<वेरपृक्तस्य>> [[6.1.67]] इत्यनेन लोपः भवति ।]\n→ धुर् + औ [<<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यनेन लुप्त-प्रत्ययस्यनिमित्तकम् कार्यम् अवश्यम् भवितुम् अर्हति । अतः अत्र <<राल्लोपः>> [[6.4.21]] इत्यनेन रेफात् परस्य वकारस्य लोपः सम्भवति । अस्मिन् एव स्थले <<उपधायां च>> [[8.2.77]] इति रेफात् पूर्वम् विद्यमानस्य उकारस्य दीर्घः सम्भवति । अस्यां स्थितौ <<पूर्वत्रासिद्धम्>> [[8.2.1]] इत्यनेन सपादसप्ताध्यायीं प्रति त्रिपादी असिद्धा विद्यते, अतः अत्र त्रिपादीसूत्रस्य अपेक्षया सपादसप्ताध्यायीसूत्रस्यैव प्रयोगः भवति । इत्युक्ते, अत्र <<राल्लोपः>> [[6.4.21]] इत्यनेन रेफात् परस्य वकारस्य लोपः क्रियते । ]\n→ धुरौ \n\n2. त्रिपाद्याम् परसूत्राणाम् अपेक्षया पूर्वसूत्राणाम् बलीयस्त्वम् —\nयदि प्रक्रियायां कुत्रचित् द्वयोः त्रिपादीसूत्रयोः युगपत् प्राप्तिः सम्भवति, तर्हि तत्र पूर्वसूत्रस्य अपेक्षया परसूत्रम् असिद्धम् वर्तते, अतः त्रिपाद्याः पूर्वसूत्रस्यैव प्रयोगः करणीयः । इत्युक्ते, युगपत् प्राप्तौ सत्याम्, परत्रिपादीसूत्रस्य अपेक्षया पूर्वत्रिपादीसूत्रम् बलीयः भवति । अस्य त्रीणि उदाहरणानि एतादृशानि —\n(i) भिद्-धातोः क्त-प्रत्ययस्य रूपसिद्धौ <<रदाभ्यां निष्ठातो नः पूर्वस्य च दः>> [[8.2.42]] इत्यनेन दकारस्य नकारादेशः, तथा च तस्मिन्नेव समये <<खरि च>> [[8.4.55]] इत्यनेन दकारस्य तकारादेशः - इत्येतयोः युगपत् प्राप्तिः अस्ति । अत्र नकारादेशस्य कृते तकारादेशः परत्वात् असिद्धः अस्ति, अतः अत्र नकारादेशः एव भवति । प्रक्रिया इयम् —\n\nभिदिँर् (विदारणे, रुधादिः, <{7.002}>)\n→ भिद् [ इति वार्त्तिकेन 'इँर्' इत्यस्य इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ भिद् + क्त [<<क्तक्तवतू निष्ठा>> [[1.1.26]] इति क्त-प्रत्ययः]\n→‌ भिद् + त [<<लशक्वतद्धिते>> [[1.3.8]] इति ककारस्य इत्संज्ञा ।<<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ भिन् + न [<<रदाभ्यां निष्ठातो नः पूर्वस्य च दः>> [[8.2.42]] इत्यनेन दकारस्य (तकारस्य च) नकारादेशः, तथा च <<खरि च>> [[8.4.55]] इत्यनेन दकारस्य तकारादेशः - इत्येतयोः युगपत् प्राप्तौ सत्याम्, <<पूर्वत्रासिद्धम्>> [[8.2.1]] इत्यनेन <<रदाभ्यां निष्ठातो नः पूर्वस्य च दः>> [[8.2.42]] इत्यस्य कृते <<खरि च>> [[8.4.55]] इति असिद्धं वर्तते, अतः अत्र <<रदाभ्यां निष्ठातो नः पूर्वस्य च दः>> [[8.2.42]] इत्यनेन नकारादेशः एव भवति ।]\n→ भिन्न \n\n(ii) 'विश्' इति प्रातिपदिकस्य अन्ते विद्यमानस्य शकारस्य तृतीयाद्विवचनस्य भ्याम्-प्रत्यये परे <<झलां जशोऽन्ते>> [[8.2.39]] इत्यनेन जश्त्वे जकारः सम्भवति । तस्मिन्नेव समये <<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> [[8.2.36]] इत्यनेन शकारस्य षकारादेशः अपि भवितुम् अर्हति । अत्र षकारादेशस्य कृते जश्त्वम् परत्वात् असिद्धम् अस्ति, अतः अत्र अस्मिन् सोपाने षत्वम् एव प्रवर्तते । प्रक्रिया इयम् —\n\nविश् + भ्याम् [तृतीयाद्विवचनस्य भ्याम्-प्रत्ययः । अस्मिन् प्रत्यये परे प्रकृतेः <<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इत्यनेन पदसंज्ञा भवति ]\n→ विष् + भ्याम् [अत्र <<झलां जशोऽन्ते>> [[8.2.39]] तथा <<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> [[8.2.36]] इत्येतयोः युगपत् प्राप्तौ सत्याम् <<पूर्वत्रासिद्धम्>> [[8.2.1]] इत्यनेन षत्वस्य कृते जश्त्वस्य असिद्धत्वात् षत्वमेव प्रवर्तते ।]\n→ विड् + भ्याम् [इदानीम् <<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वे षकारस्य डकारादेशः भवति । ]\n→ विड्भ्याम्\n\n(iii) पच्-धातोः क्त-प्रत्ययस्य रूपसिद्धौ <<पचो वः>> [[8.2.52]] इत्यनेन तकारस्य वकारादेशः; तथा च तस्मिन्नेव समये <<चोः कुः>> [[8.2.30]] इति चकारस्य ककारादेशः - इत्येतयोः युगपत् प्राप्तिः अस्ति । अत्र ककारादेशस्य कृते वकारादेशः परत्वात् असिद्धः अस्ति, अतः अत्र आदौ ककारादेशः एव भवति । प्रक्रिया इयम् —\n\nडुपचँष् (पाके, भ्वादिः, <{1.1151}>)\n→ पच् [<<आदिर्ञिटुडवः>> [[1.3.5]] इति डु-इत्यस्य इत्संज्ञा । <<हलन्त्यम्>> [[1.3.3]] इति अन्तिमषकारस्य इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः ।]\n→ पच् + क्त [<<निष्ठा>> [[3.2.102]] इति क्त-प्रत्ययः]\n→ पक् + त [<<चोः कुः>> [[8.2.30]] इति कुत्वम् । ] \n→ पक् + व [<<पचो वः>> [[8.2.52]] इति तकारस्य वकारादेशः]\n→ पक्व \n\n3. सपादसप्ताध्याय्याः सूत्रैः त्रिपाद्याः सूत्राणाम् अदर्शनम् — \nसपादसप्ताध्याय्याः कृते असिद्धत्वात् त्रिपादीसूत्राणि नैव दृश्यन्ते, अतः तैः कृतम् कार्यम् अपि स्वभावतः असिद्धम् एव भवति । अतः, त्रिपादीसूत्रैः यः आदेशः / आगमः / लोपः जायते, तस्य अदर्शनात्, तस्य आधारेण अग्रे सपादसप्ताध्याय्याः किमपि सूत्रं नैव प्रवर्तते । अस्य द्वे उदाहरणे एतादृशे —\n(i) 'अर्जुन उवाच' इत्यत्र नकारोत्तरस्य सुँ-प्रत्ययस्य त्रिपादीसूत्रेण कृतः लोपः सपादसप्ताध्याय्याः कृते असिद्धः अस्ति, अतः लोपे कृते ततः <<आद्गुणः>> [[6.1.87]] इति गुण-एकादेशः न प्रवर्तते । प्रक्रिया इयम् —\n\nअर्जुन सुँ उवाच [अर्जुन-शब्दात् प्रथमैकवचनस्य सुँ-प्रत्ययः । 'उवाच' इति शब्दस्य सिद्धेः अत्र न किञ्चन प्रयोजनम् अतः अयं शब्दः सिद्धः एव स्वीकृतः अस्ति ।]\n→ अर्जुन रुँ उवाच [<<ससजुषो रुः>> [[8.2.66]] इति रुँत्वम् ।]\n→ अर्जुन य् उवाच [<<भोभगोअघोअपूर्वस्य योऽशि>> [[8.3.17]] इति रुँ-इत्यस्य यकारः]\n→ अर्जुन उवाच [<<लोपः शाकल्यस्य>> [[8.3.19]] इति यकारलोपः । अयं यकारलोपः, तथा च पूर्वयोः सोपानयोः सिद्धौ रेफयकारौ - एतानि सर्वाणि कार्याणि त्रिपाद्याः सूत्रैः कृतानि सन्ति, अतः <<आद्गुणः>> [[6.1.87]] इति सपादसप्ताध्याय्याः सूत्रस्य दृष्ट्या तानि असिद्धानि (अवर्तमानानि) एव सन्ति । इत्युक्ते, <<आद्गुणः>> [[6.1.87]] इति सूत्रस्य दृष्ट्या अत्र 'अर्जुन स् उवाच' इत्येव स्थितिः वर्तते । अस्यां स्थितौ अत्र गुणैकादेशः अपि न सम्भवति । ]\n\n(ii) 'शुष्का शाखा यस्य सः' इत्यत्र बहुव्रीहिसमासे कृते 'शुष्कशाखः' इति शब्दः सिद्ध्यति । अत्र समस्तपदे शुष्का-शब्दस्य 'शुष्क' इति पुंवद्भावः <<स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु>> [[6.3.34]] इति सूत्रेण भवति । वस्तुतः, 'शुष्का' इति शब्दः ककारोपधः अस्ति, अतः तस्य विषये <<न कोपधायाः>> [[6.3.37]] इत्यनेन पुंवद्भावस्य निषेधः भवितुम् अर्हति । परन्तु 'शुष्का' शब्दे विद्यमानः ककारः <<शुषः कः>> [[8.2.51]] इति त्रिपाद्याः सूत्रेण निर्मितः अस्ति, अतः अयं सपादसप्ताध्याय्याः सूत्राणाम् कृते असिद्धः अस्ति । इत्युक्ते, अत्र <<न कोपधायाः>> [[6.3.37]] इत्यनेन ककारः नैव दृश्यते, अतश्च पुंवद्भावस्य निषेधः अपि न सम्भवति । प्रक्रिया इयम् —\n\nशुष्का शाखा यस्य सः [<<अनेकमन्यपदार्थे>> [[2.2.24]] इति बहुव्रीहिः]\n→ शुष् + क्त + टाप् + सुँ + शाखा + सुँ [समासस्य अलौकिकविग्रहः । पूर्वपदस्य प्रकृतिप्रत्ययविभागः पृथक् निर्दिष्टः अस्ति । तत्र शुष्-धातोः <<निष्ठा>> [[3.2.102]] इति क्त-प्रत्ययः, ततः स्त्रीत्वे विवक्षिते <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्, ततः प्रथमैकवचनस्य प्रक्रियायाम् सुँ-प्रत्ययः ]\n→ शुष् + त + आ + शाखा [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्यययोः लोपः]\n→ शुष् + त + आ + शाख [<<एकविभक्ति चापूर्वनिपाते>> [[1.2.44]] इति शाखाशब्दस्य उपसर्जनसंज्ञा । <<गोस्त्रियोरुपसर्जनस्य>> [[1.2.48]] इति ह्रस्वादेशः]\n→ शुष् + त + शाख [<<स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु>> [[6.3.34]] इति पूर्वपदस्य पुंवद्भावः]\n→ शुष् + क + शाख [<<शुषो कः>> [[8.2.51]] इति निष्ठातकारस्य ककारः । अयं ककारः त्रिपादीसूत्रेण निर्मितः अस्ति अतः सपादसप्ताध्याय्याः सूत्रैः अयं न दृश्यते । अतएव अत्र <<न कोपधायाः>> [[6.3.37]] इत्यनेन पुंवद्भावनिषेधः न सम्भवति । ]\n→ शुष्कशाख\n\n4. त्रिपाद्याः पूर्वसूत्रैः त्रिपाद्याः परसूत्राणाम् अदर्शनम् —\n<<पूर्वत्रासिद्धम्>> [[8.2.1]] इत्यनेन त्रिपाद्याम् अपि पूर्वसूत्राणां कृते परसूत्राणि असिद्धानि वर्तन्ते, अतः तैः कृतम् कार्यम् अपि स्वभावतः असिद्धम् एव भवति । अतः परत्रिपादीसूत्रैः यः आदेशः / आगमः / लोपः जायते, तस्य अदर्शनात्, तस्य आधारेण अग्रे त्रिपाद्याः पूर्वं सूत्रं नैव प्रवर्तते । ।अस्य द्वे उदाहरणे एतादृशे —\n(i). 'चर्' धातोः लट्लकारस्य प्रथमपुरुषबहुवचनस्य प्रक्रियायाम् <<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इत्यनेन यः नकारः जायते सः <<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इत्यस्य कृते असिद्धः अस्ति, अतः अस्य नकारस्य णत्वं न भवति । प्रक्रिया इयम् —\n\nचरँ (गतौ भक्षणे च, भ्वादिः, <{1.640}>)\n→ चर् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्लकारः]\n→ चर् + झि [प्रथमपुरुषबहुवचनस्य विवक्षायाम् <<तिप्तस्झि..>> [[3.4.78]] इत्यनेन झि-प्रत्ययः]\n→ चर् + शप् + झि [<<कर्तरि शप्>> [[3.1.68]] इति शप्-विकरणप्रत्ययः]\n→ चर् + अ + अन्ति [<<झोऽन्तः>> [[7.1.3]] इति प्रत्ययझकारस्य अन्त्-आदेशः]\n→ चर् + अ + अंति [ <<नश्चापदान्तस्य झलि>> [[8.3.24]] इत्यनेन नकारस्य अनुस्वारादेशः]\n→ चर् + अ + अन्ति [अनुस्वारस्य <<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इत्यनेन परसवर्णः नकारः । अस्मिन् नकारे कृते अत्र <<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इति इत्यनेन णत्वम् नैव सम्भवति, यतः <<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इत्यस्य कृते <<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति सूत्रमेव असिद्धम् अस्ति ।<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इत्यनेन 'चरंति' इत्येव (अनुस्वारसहितं रूपं) दृश्यते, तत्र च णत्वस्य प्रसङ्गः अपि नास्ति । अतः अन्तिमरूपे नकारः एव श्रूयते ।]\n→ चरन्ति \n\n(ii) 'प्रशाम्' इति प्रातिपदिकस्य प्रथमैकवचनस्य रूपसिद्धौ <<मो नो धातोः>> [[8.2.64]] इत्यनेन मकारस्य नकारादेशः भवति । अयं नकारादेशः परत्वात् <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इत्यस्य कृते असिद्धः वर्तते, अतः अस्य नकारस्य <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इत्यनेन लोपः न भवति । प्रक्रिया इयम् —\n\nप्रशाम् [प्र-उपसर्गपूर्वकात् शम्-धातोः क्विप्-प्रत्यये कृते 'प्रशाम्' इति प्रातिपदिकं सिद्ध्यति । \nप्रशाम् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः]\n→ प्रशाम् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति सुँप्रत्ययस्य लोपः । लोपे कृते अपि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इति प्रत्ययनिमित्तकं पदसंज्ञाविधानम् अवश्यं भवति ।]\n→ प्रशान् [<ऽक्विबन्ताः धातुत्वं न जहतिऽ> इति परिभाषया अत्र शाम्-इत्यस्य धातुत्वे सति, मकारान्तस्य धातोः पदान्ते <<मो नो धातोः>> [[8.2.64]] इति नकारादेशः भवति । अयं नकारादेशः <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति पूर्वत्रिपादीसूत्रस्य कृते असिद्धः अस्ति, अतः अत्र नकारलोपः न प्रवर्तते ]\n\nअनेन प्रकारेण प्रकृतसूत्रेण उक्तस्य असिद्धत्वस्य चत्वारि प्रयोजनानि विद्यन्ते ।\nअसिद्धाधिकारस्य प्रयोगं कृत्वा प्रक्रियायाः कानिचन उदाहरणानि\nकासुचित् प्रक्रियासु प्रायेण प्रत्येकं सोपाने असिद्धाधिकारस्य प्रयोगः कृतः दृश्यते । एतासु प्रक्रियासु असिद्धत्वं कुत्र कुत्र उपयुज्यते तत् कानिचन उदाहरणानि स्वीकृत्य अधः निर्दिष्टम् अस्ति —\n1. 'सत् + चित्' इत्यस्य सन्धिकार्यम् कृत्वा 'सच्चित्' इति सिद्ध्यति । अत्र प्रक्रिया इयम् —\n\nसत् + चित्\n→ सद् + चित् [अत्र <<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वम्, तथा च <<स्तोः श्चुना श्चुः>> [[8.4.40]] इति श्चुत्वम् — एतयोः युगपत्-प्राप्तिः अस्ति । अत्र जश्त्वं प्रति श्चुत्वम् असिद्धम्, अतः अत्र जश्त्वम् एव प्रवर्तते ।]\n→ सज् + चित् [अत्र <<स्तोः श्चुना श्चुः>> [[8.4.40]] इति श्चुत्वम्, तथा च <<खरि च>> [[8.4.55]] इति चर्त्वम् — एतयोः युगपत्-प्राप्तिः अस्ति । अत्र श्चुत्वं प्रति चर्त्वम् असिद्धम्, अतः अत्र श्चुत्वम् एव प्रवर्तते ।]\n→ सच् + चित् [<<खरि च>> [[8.4.55]] इति चर्त्वम् ]\n→ सच्चित्\n\n2. 'स्पृश्' इति क्विन्-प्रत्ययान्तप्रातिपदिकस्य प्रथमपुरुषैकवचनस्य रूपम् 'स्पृक्' इत्यस्य सिद्धिः —\n\nस्पृश् + सुँ [<<स्वौजस्..>> [[4.1.2]] इति प्रथमैकवचनस्य सुँप्रत्ययः]\n→ स्पृश् + स् [<<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इति उँकारस्य इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः । ]\n→ स्पृश् [अत्र <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इत्यनेन अपृक्तसकारस्य लोपः, तथा च <<संयोगान्तस्य लोपः>> [[8.2.23]] इत्यनेन संयोगान्तेविद्यमानस्य सकारस्य लोपः - इति द्वयोः युगपत् प्राप्तिः भवति । अत्र <<संयोगान्तस्य लोपः>> [[8.2.23]] इति त्रिपादीसूत्रम् <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इत्यस्य कृते असिद्धम् अस्ति अतः अत्र <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इत्यनेन एव सुँलोपः क्रियते ।]\n→ स्पृष् [अत्र <<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वम्, <<क्विन्प्रत्ययस्य कुः>> [[8.2.62]] इति कुत्वम्, तथा च <<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> [[8.2.36]] इति षत्वम् — एतेषाम् युगपत् प्राप्तिः अस्ति । तत्र <<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> [[8.2.36]] इत्यस्य कृते अन्ये द्वे सूत्रे असिद्धे स्तः, अतः अत्र <<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> [[8.2.36]] इत्यनेन षत्वम् एव प्रवर्तते ।]\n→ स्पृड् [अत्र <<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वम् तथा च <<क्विन्प्रत्ययस्य कुः>> [[8.2.62]] इति कुत्वम् — एतयोः युगपत् प्राप्तिः अस्ति । तत्र <<झलां जशोऽन्ते>> [[8.2.39]] इत्यस्य कृते <<क्विन्प्रत्ययस्य कुः>> [[8.2.62]] इति असिद्धम्, अतः अत्र <<झलां जशोऽन्ते>> [[8.2.39]] इत्यनेन जश्त्वम् एव भवति ।]\n→ स्पृग् [अत्र <<क्विन्प्रत्ययस्य कुः>> [[8.2.62]] इति कुत्वम् तथा <<वाऽवसाने>> [[8.4.56]] इति चर्त्वम् — एतौ युगपत् प्राप्नुतः ।तत्र <<क्विन्प्रत्ययस्य कुः>> [[8.2.62]] इत्यस्य कृते <<झलां जशोऽन्ते>> [[8.2.39]] इति असिद्धम् अस्ति, अतः अत्र <<क्विन्प्रत्ययस्य कुः>> [[8.2.62]] इति कुत्वमेव प्रवर्तते ।]\n→ स्पृग्, स्पृक् [<<वाऽवसाने>> [[8.4.56]] इति वैकल्पिकं चर्त्वम्]\n\n3. मस्ज्-धातोः क्त्-प्रत्यये कृते 'मग्न' इति रूपम् एतादृशं सिद्ध्यति —\n\nटुमस्जोँ (शुद्धौ, तुदादिः, <{6.151}>)\n→ मस्ज् [<<आदिर्ञिटुडवः>> [[1.3.5]] इति 'टु' इत्यस्य इत्संज्ञा । <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इति ओँ-इत्यस्य इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति द्वयोः लोपः]\n→ मस्ज् + क्त [<<निष्ठा>> [[3.2.102]] इति क्त-प्रत्ययः]\n→ म स् न् ज् + त [<<मस्जिनशोर्झलि>> [[7.1.60]] इति नुमागमः । इति वार्त्तिकेन अयम् जकारात् पूर्वम् भवति ।]\n→ म स् ज् त [अत्र बहूनाम् सूत्राणाम् युगपत् प्राप्तिः वर्तते — <<चोः कुः>> [[8.2.30]] इत्यनेन कुत्वम् ; <<खरि च>> [[8.4.55]] इत्यनेन चर्त्वम् ; <<स्कोः संयोगाद्योरन्ते च>> [[8.2.29]] इति सकारलोपः; <<ओदितश्च>> [[8.2.45]] इत्यनेन निष्ठातकारस्य नकारः; तथा च <<अनिदितां हल उपधायाः क्ङिति>> [[6.4.24]] इत्यनेन उपधानकारलोपः । एतेभ्यः <<अनिदितां हल उपधायाः क्ङिति>> [[6.4.24]] इति सपादसप्ताध्याय्याः सूत्रं प्रति अन्यानि सर्वाणि अपि सूत्राणि असिद्धानि सन्ति, अतः अत्र <<अनिदितां हल उपधायाः क्ङिति>> [[6.4.24]] इत्येव सूत्रं प्रवर्तते, येन नकारस्य लोपः विधीयते ।]\n→ म ज् त [अत्रापि बहूनि सूत्राणि युगपत् प्राप्नुवन्ति — <<चोः कुः>> [[8.2.30]] इत्यनेन कुत्वम् ; <<खरि च>> [[8.4.55]] इत्यनेन चर्त्वम् ; <<स्कोः संयोगाद्योरन्ते च>> [[8.2.29]] इति सकारलोपः; तथा च <<ओदितश्च>> [[8.2.45]] इत्यनेन निष्ठातकारस्य नकारः । एतेभ्यः <<स्कोः संयोगाद्योरन्ते च>> [[8.2.29]] इत्यस्य कृते अन्यानि त्रिपादीसूत्राणि परत्वात् असिद्धानि सन्ति, अतः अत्र <<स्कोः संयोगाद्योरन्ते च>> [[8.2.29]] इत्यनेन सकारलोपः भवति ।]\n→ म ग् त [अत्र <<चोः कुः>> [[8.2.30]] इत्यनेन कुत्वम् ; <<खरि च>> [[8.4.55]] इत्यनेन चर्त्वम् ; तथा च <<ओदितश्च>> [[8.2.45]] इत्यनेन निष्ठातकारस्य नकारः — एतानि युगपत् प्राप्नुवन्ति । एतेभ्यः <<चोः कुः>> [[8.2.30]] इत्यस्य कृते अन्ये द्वे सूत्रे असिद्धे, अतः अत्र <<चोः कुः>> [[8.2.30]] इत्यनेन कुत्वम् एव भवति ।]\n→ म ग् न [अत्र <<खरि च>> [[8.4.55]] इत्यनेन चर्त्वम् तथा च <<ओदितश्च>> [[8.2.45]] इत्यनेन निष्ठातकारस्य नकारः — एते युगपत् प्राप्नुतः । तत्र <<ओदितश्च>> [[8.2.45]] इत्यस्य कृते <<खरि च>> [[8.4.55]] इति असिद्धम्, अतः अत्र <<ओदितश्च>> [[8.2.45]] इत्येव सूत्रं प्रवर्तते, येन निष्ठातकारस्य नकारादेशः भवति ।]\n→ मग्न\n\nत्रिपाद्याम् विद्यमानानाम् एकप्रकरणस्थसूत्राणाम् परस्परान् प्रति सिद्धत्वम्\nअष्टाध्याय्यां सूत्राणि प्रकरणशः निबद्धानि सन्ति । एतेभ्यः कानिचन प्रकरणानि त्रिपाद्याम् अपि विद्यन्ते । एतेषु प्रकरणेषु विद्यमानानि सर्वाणि सूत्राणि प्रक्रियायाः एकस्य एव अंशस्य विषये भिन्नान् विषयान् प्रतिपादयन्ति, अतः तानि परस्पराणां विषये सिद्धानि एव ज्ञेयानि । The sutras from tripadi that are related to the same topic (like णत्व / षत्व / चर्त्व etc) are always सिद्ध towards each other. यथा —\n1) <<रदाभ्यां निष्ठातो नः पूर्वस्य च दः>> [[8.2.42]] इत्यस्मात् सूत्रात् <<नसत्तनिषत्तानुत्तप्रतूर्तसूर्तगूर्तानि छन्दसि>> [[8.2.61]] इति यावन्ति सूत्राणि निष्ठातकारस्य आदेशः इति प्रकरणं निबध्नन्ति । एतानि सर्वाणि सूत्राणि एकप्रकरणस्थानि सन्ति, अतः एतानि परस्पराणां विषये सिद्धानि एव ज्ञेयानि । अतएव पॄ-धातोः विषये <<रदाभ्यां निष्ठातो नः पूर्वस्य च दः>> [[8.2.42]] इत्यनेन प्राप्तं निष्ठानत्वम् <<न ध्याख्यापॄमूर्छिमदाम्>> [[8.2.57]] इत्यनेन निषिध्यते । अत्र यद्यपि <<न ध्याख्यापॄमूर्छिमदाम्>> [[8.2.57]] इति सूत्रम् <<रदाभ्यां निष्ठातो नः पूर्वस्य च दः>> [[8.2.42]] इत्यस्य अपेक्षया अनन्तरम् पाठितम् अस्ति, तथापि द्वे अपि एते सूत्रे एकप्रकरणस्थे एव स्तः, अतः <<रदाभ्यां निष्ठातो नः पूर्वस्य च दः>> [[8.2.42]] इत्यस्य कृते <<न ध्याख्यापॄमूर्छिमदाम्>> [[8.2.57]] इति सूत्रम् सिद्धम् एव ज्ञेयम् । अतएव पॄ-धातोः विहितस्य निष्ठातकारस्य नकारादेशः न भवति । प्रक्रिया इयम् —\n\nपॄ (पालनपूरणयोः, जुहोत्यादिः, <{3.4}>\n→ पॄ + क्त [<<निष्ठा>> [[3.2.102]] इति क्तप्रत्ययः]\n→ पुर् + त [<<उदोष्ठ्यपूर्वस्य>> [[7.1.102]] इति उत्वम् । <<उरण् रपरः>> [[1.1.51]] इति रेफः]\n→ पूर्त [<<रदाभ्यां निष्ठातो नः पूर्वस्य च दः>> [[8.2.42]] इत्यनेन रेफात् परस्य निष्ठातकारस्य नत्वे प्राप्ते, <<न ध्याख्यापॄमूर्छिमदाम्>> [[8.2.57]] इत्यनेन तत् निषिध्यते । अत्र एते द्वे सूत्रे समानप्रकरणे ('निष्ठातकारादेशः' इति प्रकरणे) स्तः, अतः अत्र पूर्वसूत्रं प्रति परसूत्रम् सिद्धमेव ज्ञेयम् । अतः अत्र नत्वं न भवति । अग्रे <<उपधायां च>> [[8.2.78]] इत्यनेन उकारस्य दीर्घे कृते रूपं सिद्ध्यति ।]\n\n2) <<अपदान्तस्य मूर्धन्यः>> [[8.3.55]] इत्यस्मात् सूत्रात् <<निव्यभिभ्योऽड्व्यवाये वा छन्दसि>> [[8.3.119]] इति यावत्सु सूत्रेषु अपदान्तसकारस्य षकारादेशः, तथा च कुत्रचित् अपदान्तधकारस्य ढकारादेशः उक्तः अस्ति । एतानि सर्वाणि सूत्राणि <<अपदान्तस्य मूर्धन्यः>> [[8.3.55]] तथा <<इण्कोः>> [[8.3.57]] इत्येतयोः अधिकारयोः विद्यन्ते । एतानि सर्वाणि एकप्रकरणस्थानि सूत्राणि, अतः अत्रापि पूर्वसूत्राणां प्रति परसूत्राणि सिद्धानि एव सन्ति । अतएव <<उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम्>> [[8.3.65]] इत्यनेन सेध्-धातोः सकारस्य विहितः षकारादेशः <<सेधतेर्गतौ>> [[8.3.113]] इत्यनेन गत्यर्थक-सेध्-धातोः विषये निषिध्यते (इत्युक्ते, केवलम् शास्त्रार्थक-सेध्-धातोः विषये एव प्रसज्यते) । अतएव 'षिधूँ (गतौ, <{1.49}>)' इत्यस्य धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् 'विसेधति' इति सकारघटितं भवति, परन्तु 'षिधूँ (शास्त्रे माङ्गल्ये च, <{1.50}>)' इत्यस्य धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् 'विषेधति' इति षकारघटितं भवति । \n3) <<रषाभ्यां नो णः समानपदे>> [[8.4.1]] इत्यस्मात् आरभ्य <<क्षुभ्नादिषु च>> [[8.4.39]] इति यावत्सु सूत्रेषु रेफात् परस्य नकारस्य णकारादेशः विधीयते । एतानि सर्वाणि णत्वप्रकरणस्य सूत्राणि परस्पराणां विषये सिद्धानि एव भवन्ति । अतएव <<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इत्यनेन उक्तस्य णत्वस्य <<पदान्तस्य>> [[8.4.37]] इति सूत्रेण पदान्तनकारस्य विषये निषेधः भवितुम् अर्हति । इदं निषेधसूत्रम् यद्यपि विधिसूत्रात् अनन्तरं विद्यते, तथापि समानप्रकरणस्थत्वात् विधिसूत्रस्य कृते सिद्धम् एव ज्ञेयम् । अतएव रामशब्दस्य द्वितीया बहुवचने 'रामान्' इत्यत्र नकारस्य णत्वं न भवति । प्रक्रिया इयम् —\n\nराम + शस् [द्वितीयाबहुवचनस्य विवक्षायाम् शस्-प्रत्ययः]\n→ रामास् [<<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इति पूर्वसवर्णः]\n→ रामान् [<<तस्माच्छसो नः पुंसि>> [[6.1.103]] इति सकारस्य नकारः । अत्र यद्यपि अत्र <<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इत्यनेन णत्वस्य प्राप्तिः अस्ति, तथापि अयम् पदान्तनकारः अस्ति अतः <<पदान्तस्य>> [[8.4.37]] इत्यनेन निषेधसूत्रेण णत्वं निषिध्यते ।]\n\nएवमेव — लत्वम्, श्चुत्वम्, ष्टुत्वम्, ढत्वम्, संयोगान्तलोपः — इत्येतेषाम् सर्वेषाम् प्रकरणानाम् विषये अपि बोध्यम् ।\nत्रिपाद्याम् उत्सर्गापवादः\nअष्टाध्याय्याः संरचना प्रामुख्येण उत्सर्गापवादस्वरूपेण कृता अस्ति । उत्सर्गसूत्रेण सामान्यविधिः उच्यते, तदपवादत्वेन च अपवादसूत्रैः विशेषविधयः निर्दिश्यन्ते । यत्र प्रयोगे अपवादसूत्रस्य प्रसक्तिः भवितुम् अर्हति, तत्र अपवादसूत्रेण उत्सर्गसूत्रस्य नित्यं बाधः क्रियते । एतादृशम् उत्सर्गापवादत्वम् त्रिपाद्याम् अपि प्रयुक्तं दृश्यते । अतः त्रिपाद्याम् विद्यमानम् अपवादसूत्रम् उत्सर्गसूत्रस्य कृते सिद्धमेव भवति । यत्र अपवादसूत्रस्य प्रयोगः भवितुम् अर्हति, तत्र उत्सर्गं बाधित्वा अपवादसूत्रम् एव प्रवर्तते । । अस्य स्पष्टीकरणार्थम् अधः द्वे उदाहरणे दीयेते —\n1. <<संयोगान्तस्य लोपः>> [[8.2.23]] इति सूत्रेण पदान्ते विद्यमानस्य संयोगस्य अन्तिमवर्णस्य लोपः भवति । तदपवादत्वेन <<स्कोः संयोगाद्योरन्ते च>> [[8.2.29]] इत्यनेन सकारादि/ककारादिसंयोगस्य विषये आदिवर्णस्य लोपः क्रियते । अत्र यद्यपि <<स्कोः संयोगाद्योरन्ते च>> [[8.2.29]] इति सूत्रम् <<संयोगान्तस्य लोपः>> [[8.2.23]] इत्यस्य अपेक्षया परसूत्रम् अस्ति, तथापि तत् <<संयोगान्तस्य लोपः>> [[8.2.23]] इत्यस्य अपवादरूपेण पाठितम् अस्ति अतः <<संयोगान्तस्य लोपः>> [[8.2.23]] इत्यस्य कृते सिद्धमेव ज्ञेयम् । अतः, यत्र द्वयोः सूत्रयोः युगपत् प्राप्तिः अस्ति, तत्र अपवादत्वात् <<स्कोः संयोगाद्योरन्ते च>> [[8.2.29]] इत्यस्यैव प्रयोगः भवति । यथा, 'तक्ष्' इति षकारान्तशब्दस्य प्रथमैकवचनस्य रूपसिद्धौ 'क् + ष्' इति संयोगस्य आदिवर्णस्य (ककारस्य) एव लोपः भवति । प्रक्रिया इयम् —\n\nतक्ष् + सुँ [प्रथमैकवचस्य सुँ-प्रत्ययः]\n→ तक्ष् [उकारस्य <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इति इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः । <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति अपृक्त-सुँ-प्रत्ययस्य लोपः]\n→ तष् [<<संयोगान्तस्य लोपः>> [[8.2.23]] इत्यनेन षकारस्य लोपे प्राप्ते, तदपवादत्वेन <<स्कोः संयोगाद्योरन्ते च>> [[8.2.29]] इत्यनेन संयोगस्य आदिस्थस्य ककारस्य एव लोपः भवति ।]\n→ तड् [<<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वम्]\n→ तड् / तट् [<<खरि च>> [[8.4.55]] इति चर्त्वम् ]\n\n2. <<झलां जशोऽन्ते>> [[8.2.39]] इत्यनेन पदान्त-झल्-वर्णस्य स्थाने जश्-वर्णः आदेशरूपेण विधीयते । परन्तु यदि अयम् झल्-वर्णः सकारः अस्ति, तर्हि जश्त्वस्य अपवादत्वेन <<ससजुषो रुः>> [[8.2.66]] इति रुत्वं प्रवर्तते । यथा, 'पयस्' इति शब्दस्य प्रथमैकवचने जश्त्वं बाधित्वा रुत्वे कृते रूपं सिद्ध्यति —\n\nपयस् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः]\n→ पयस् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति सुँलोपः]\n→ पयरुँ [<<झलां जशोऽन्ते>> [[8.2.39]] इत्यनेन प्राप्तं जश्त्वम् अपवादत्वेन बाधित्वा <<ससजुषो रुः>> [[8.2.66]] इति रुत्वम् ]\n→ पयः [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गादेशः]\n\nसंज्ञासूत्राणाम् परिभाषासूत्राणाम् च त्रिपाद्यां प्रसक्तिः\nअष्टाध्याय्याम् विद्यमानाः सर्वाः संज्ञाः परिभाषाः च सपादसप्ताध्याय्याम् एव पाठिताः सन्ति । एताः संज्ञाः परिभाषाः च सम्पूर्णस्य सूत्रपाठस्य कृते एव आवश्यक्यः, न हि केवलम् सपादसप्ताध्याय्याः कृते । अतः संज्ञासूत्राणाम्, परिभाषासूत्राणाम् च विषये त्रिपादीविशिष्टम् असिद्धत्त्वम् न हि प्रवर्तते । अतएव, <<ससजुषो रुः>> [[8.2.66]], <<संयोगान्तस्य लोपः>> [[8.2.23]], <<अभ्यासे चर्च>> [[8.4.54]] , <<अणोऽप्रगृह्यस्यानुनासिकः>> [[8.4.57]] एतादृशेषु सूत्रेषु विद्यमानानाम् 'इत्/लोपः/अभ्यासः/प्रगृह्यम्' एतादृशानाम् संज्ञानाम्, तथा च <<झलां जश् झशि>> [[8.4.53]], <<चोः कुः>> [[8.2.30]] आदिषु सूत्रेषु विद्यमानानाम् षष्ठी-सप्तमी-पञ्चमीविभक्तीनाम् अर्थबोधः सम्भवति । एतेषाम् संज्ञासूत्राणां परिभाषासूत्राणाम् च त्रिपाद्यां कथं सञ्चारः भवति, तेषाम् विषये त्रिपाद्यां विप्रतिषेधः कथं प्रवर्तते, त्रिपादीसूत्राणाम् अर्थनिर्णयसमये संज्ञासूत्राणाम् परिभाषासूत्राणां च कथं एकवाक्यता कर्तव्या — इत्यादीनाम् प्रश्नानाम् विषये परिभाषेन्दुशेखरे <ऽयथोद्देशं संज्ञापरिभाषम्ऽ>, <ऽकार्यकालं संज्ञापरिभाषम्ऽ> एतयोः द्वयोः परिभाषयोः विस्तरेण ऊहः कृतः वर्तते । जिज्ञासुभिः एते अपि परिभाषे अवश्यं द्रष्टव्ये ।\nत्रिपाद्याः सूत्राणाम् आश्रयात् सिद्धत्वम्\nयद्यपि — 'सपादसप्ताध्यायीं प्रति त्रिपादी असिद्धा, त्रिपाद्यां च पूर्वं प्रति परं शास्त्रम् असिद्धम्' — इति असिद्धाधिकारस्य सिद्धान्तः, तथापि केषाञ्चन विशिष्टानां सूत्राणां कृते असिद्धत्वस्य नियमस्य प्रयोजनपूर्वकम् उल्लङ्घनं कृतं दृश्यते । इत्युक्ते, सपादसप्ताध्याय्याः केषाञ्चन सूत्राणां प्रयोगः त्रिपाद्याः सूत्राणाम् अनन्तरम् एव सम्भवति, तेभ्यः पूर्वम् (तैः विना वा) न सम्भवति । एवमेव, त्रिपाद्याम् अपि केषाञ्चन पूर्वसूत्राणां प्रयोगः परसूत्राणाम् अनन्तरम् एव सम्भवति, तेभ्यः पूर्वम् (तैः विना वा) न सम्भवति । एतादृशेषु स्थलेषु, तानि परसूत्राणि पूर्वसूत्राणां कृते आश्रयात् सिद्धानि सन्ति इति उच्यते । एतादृशम् आश्रयसिद्धत्वम् (तस्य प्रयोजनम्, उपयोजनं च) तत्तत्स्थले व्याख्यानात् एव ज्ञातव्यम् । अस्य केवलम् कानिचन उदाहरणानि अधः प्रदर्शितानि सन्ति । \n1) <<हशि च>> [[6.1.114]] इति सूत्रम् सपादसप्ताध्याय्यां स्थापितम् अस्ति । अनेन सूत्रेण 'रुँ' इत्यस्य उकारादेशः विधीयते । यद्यपि इदं सूत्रम् सपादसप्ताध्याय्याम् वर्तते, तथापि अस्य सूत्रस्य कृते आवश्यकः 'रुँ' इति स्थानी त्रिपाद्याः सूत्रैः एव सिद्ध्यति, तस्य कृते सपादसप्ताध्याय्यां सूत्रमेव न विद्यते । अतः <<हशि च>> [[6.1.114]] सूत्रस्य विषये यदि असिद्धत्त्वम् उपयुज्य त्रिपाद्याः सर्वाणि अपि सूत्राणि असिद्धानि एव मन्येरन्, तर्हि <<हशि च>> [[6.1.114]] इति सूत्रमेव व्यर्थं स्यात् । अतएव, <<हशि च>> [[6.1.114]] इति सूत्रविधानमेव एतत् ज्ञापयति, यत् तस्य कृते त्रिपाद्याः रुँ-विधायकानि सूत्राणि सिद्धानि ज्ञेयानि —‌इति । अतएव, 'मनोरथ'शब्दस्य सिद्धौ <<ससजुषो रुः>> [[8.2.66]] इत्यनेन रुँत्वे कृते, ततः <<हशि च>> [[6.1.114]] इत्यनेन उत्वं सम्भवति । प्रक्रिया इयम् —\n\nमनसः रथः [<<षष्ठी>> [[2.2.8]] इति षष्ठीतत्पुरुषसमासः]\n→ मनस् + रथ [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्यययोः लोपः]\n→ मनरुँ + रथ [<<ससजुषो रुँ>> [[8.2.66]] इति रुँत्वम्]\n→ मनउ + रथ [<<हशि च>> [[6.1.114]] इत्यनेन रेफस्य उत्वम् । <<हशि च>> [[6.1.114]] इति सूत्रस्य कृते <<ससजुषो रुँ>> [[8.2.66]] इति सूत्रम् आश्रयात् सिद्धं वर्तते ।]\n→ मनोरथ [<<आद्गुणः>> [[6.1.87]] इत्यनेन गुणैकादेशः भवति । पूर्वस्मिन् सोपाने जातः उकारादेशः <<हशि च>> [[6.1.114]] इति सपादसप्ताध्याय्याः सूत्रेण निर्मितः अस्ति, अतः सः <<आद्गुणः>> [[6.1.87]] इत्यस्य कृते सिद्धः एव ।]\n\n2. <<ढो ढे लोपः>> [[8.3.13]] इति सूत्रेण ढकारे परे पूर्वढकारस्य लोपः क्रियते । अस्य सूत्रस्य प्रयोगार्थम् आवश्यकः परढकारः केवलम् ष्टुत्वेन एव सिद्ध्यति । ष्टुत्वं तु <<ष्टुना ष्टुः>> [[8.4.41]] इति परसूत्रेण विधीयते । अतः अत्रापि विधानसामर्थ्यात् <<ढो ढे लोपः>> [[8.3.13]] इत्यस्य कृते <<ष्टुना ष्टुः>> [[8.4.41]] इति सूत्रम् आश्रयात् सिद्धम् भवति । एवमेव, <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] इत्यस्य कृते आवश्यकः ढकारलोपः केवलम् <<ढो ढे लोपः>> [[8.3.13]] इत्यनेनैव सिद्ध्यति, अतः <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] इत्यस्य कृते अपि <<ढो ढे लोपः>> [[8.3.13]] इति सूत्रम् आश्रयात् सिद्धं भवति । एतयोः द्वयोः अपि आश्रयसिद्धत्वयोः प्रयोगः 'लिह्'-धातोः क्त-प्रत्ययान्तरूपस्य प्रक्रियायाम् कृतः दृश्यते । इयं प्रक्रिया एतादृशी —\n\nलिहँ (आस्वादने, अदादिः, <{2.6}>)\n→ लिह् + क्त [<<निष्ठा>> [[3.2.102]] इति क्त-प्रत्ययः]\n→ लिढ् + त [<<हो ढः>> [[8.2.31]] इति ढत्वम्]\n→ लिढ् + ध [<<झषस्तथोर्धोऽधः>> [[8.2.40]] इति धत्वम्]\n→ लिढ् + ढ [<<ष्टुना ष्टुः>> [[8.4.41]] इति ष्टुत्वम् ]\n→ लि + ढ [<<ढो ढे लोपः>> [[8.3.13]] इति ढकारलोपः । अस्य कृते <<ष्टुना ष्टुः>> [[8.4.41]] एतत् सूत्रम् आश्रयात् सिद्धम् ज्ञेयम् ।]\n→ ली + ढ [<<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] इत्यनेन दीर्घादेशः । अस्य कृते <<ढो ढे लोपः>> [[8.3.13]] एतत् सूत्रम् आश्रयात् सिद्धम् ज्ञेयम् ।]\n→‌ लीढ\n\n3) प्लुतस्वरस्य निर्माणम् <<वाक्यस्य टेः प्लुत उदात्तः>> [[8.2.82]] इत्यस्मिन् अधिकारे विद्यमानैः सूत्रैः भवति । एतादृशानां प्लुतस्वराणाम् अच्-वर्णे परे <<प्लुतप्रगृह्या अचि नित्यम्>> [[6.1.125]] इत्यनेन प्रकृतिभावः भवति । एतत् सूत्रम् सपादसप्ताध्याय्यां विद्यते, तथापि एतस्य कृते प्लुत-विधायकानि त्रिपादीसूत्राणि आश्रयात् सिद्धानि एव भवन्ति । अतएव <<दूराद्धूते च >> [[8.2.84]] इत्यनेन प्लुतसंज्ञायाम् कृतायाम्, तस्याः सिद्धत्वात् 'कृष्ण3 एहि' इत्यत्र <<प्लुतप्रगृह्या अचि नित्यम्>> [[6.1.125]] इत्यनेन प्रकृतिभावः एव भवति । यदि अत्र <<प्लुतप्रगृह्या अचि नित्यम्>> [[6.1.125]] इत्यनेन प्रकृतिभावः न स्यात्, तर्हि प्लुतस्य असिद्धत्वात् 'कृष्ण एहि' इति स्थिते अकार-एकारयोः <<वृद्धिरेचि>> [[6.1.88]] इत्यनेन अनिष्टा वृद्धिः अभविष्यत् । तस्याः निवारणार्थम् <<प्लुतप्रगृह्या अचि नित्यम्>> [[6.1.125]] इत्यस्य कृते प्लुतविधायकानि सूत्राणि सिद्धानि एव स्वीक्रियन्ते ।\nआश्रयसिद्धत्वस्य मुख्यानाम् सूत्रयुगलानाम् सङ्कलनम् अधः दीयते । एतेषाम् विवरणम् तु तत्तत्स्थले एव द्रष्टव्यम् । \n\n1. <<ससजुषो रुः>> [[8.2.66]] इत्यनेन कृतम् रुत्वम्, तथा च <<वाक्यस्य टेः प्लुत उदात्तः>> [[8.2.82]] इत्यस्मिन् अधिकारे विद्यमानैः सूत्रैः कृता प्लुतसंज्ञा — एते <<अतो रोरप्लुतादप्लुते>> [[6.1.113]] तथा च <<हशि च>> [[6.1.114]] इत्येतयोः कृते आश्रयात् सिद्धे वर्तेते । प्लुतसंज्ञा तु <<प्लुतप्रगृह्या अचि नित्यम्>> [[6.1.125]] इत्यस्य कृते अपि आश्रयात् सिद्धा भवति । \n2. <<ष्टुना ष्टुः>> [[8.4.41]] इत्यनेन कृतम् ष्टुत्वम् <<ढो ढे लोपः>> [[8.3.13]] इत्यस्य कृते आश्रयात् सिद्धम् भवति । एवमेव, <<ढो ढे लोपः>> [[8.3.13]] इत्यनेन कृतः ढकारलोपः <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] तथा च <<सहिवहोरोदवर्णस्य>> [[6.3.112]] एतयोः कृते आश्रयात् सिद्धः ज्ञेयः । अपि च, <<रो रि>> [[6.1.114]] इत्यनेन कृतः रेफलोपः अपि <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] इत्यस्य कृते आश्रयात् सिद्धः ज्ञेयः ।\n3. <<मादुपधायाश्च मतोर्वोऽयवादिभ्यः>> [[8.2.9]] इति सूत्रम् <<अन्तोऽवत्याः>> [[6.1.220]] इत्यस्य कृते आश्रयात् सिद्धं भवति । \n\nशास्त्रासिद्धत्वम् उत कार्यासिद्धत्वम् ?\nसिद्धान्तकौमुद्याम् प्रकृतसूत्रस्य व्याख्याने दीक्षितः वदति — त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रम्  असिद्धम् । अस्य वाक्यस्य स्पष्टीकरणार्थम् बालमनोरमाकारः वदति — परम् शास्त्रम्  इत्यनेन प्रक्रियाकौमुद्यादिग्रन्थोक्तम् कार्यासिद्धत्वम् अप्रामाणिकम्  इति ध्वनितम् । इत्युक्ते, <<पूर्वत्रासिद्धम्>> [[8.2.1]] इत्यनेन केवलम् 'परकार्याणि पूर्वकार्याणाम् अपेक्षया असिद्धानि भवन्ति' — इति सिद्धान्तः न दीयते, अपितु परसूत्राणि एव पूर्वसूत्राणाम् अपेक्षया असिद्धानि प्रतिपाद्यन्ते । यदि केवलम् कार्याणि एव असिद्धानि भवेयुः (सूत्राणि सिद्धानि एव भवेयुः) तर्हि 'मनोरथ' इति शब्दस्य प्रक्रियायाम् दोषः उत्पद्येत — इति दीक्षितः प्रौढमनोरमायाम् विवृणोति । \nतदित्थम् — 'मनस् + रथ' इत्यत्र <<ससजुषो रुँः>> [[8.2.66]] इत्यनेन रुत्वे कृते 'मनर् + रथ' इति स्थिते अत्र (आश्रयसिद्धत्वात्) <<हशि च>> [[6.1.114]] तथा च (परत्वात्) <<रो रि>> [[8.3.14]] एतयोः द्वयोः अपि सूत्रयोः युगपत् प्राप्तिः भवति । अस्यां स्थितौ 'कार्यासिद्धत्त्व'पक्षे <<हशि च>> [[6.1.114]] इत्यस्य कृते <<रो रि>> [[8.3.14]] इति सूत्रम् तु सिद्धम् एव भवेत्, केवलम् <<रो रि>> [[8.3.14]] इत्येनन कृतम् कार्यम् एव असिद्धं भवेत् । तथा भवति चेत्, <<हशि च>> [[6.1.114]] तथा च <<रो रि>> [[8.3.14]] एतयोः युगपत् प्राप्तौ सत्याम्, परत्वात् <<रो रि>> [[8.3.14]] इत्यनेन आदौ रेफस्य लोपः प्रसज्येत । अस्मिन् लोपे कृते, यद्यपि तस्य असिद्धत्वात् <<हशि च>> [[6.1.114]] इत्यनेन 'मनर् + रथ' इत्येव दृश्यते; तथापि वस्तुतः प्रक्रियायां लोपः जातः एव अस्ति, अतः तत्र अविद्यमानस्य रेफस्य स्थाने उकारप्राप्तिः नैव सम्भवति । यथा, देवदत्तस्य हन्तरि हते देवदत्तः न पुनः जीवति, तथैव, एकवारं रेफस्य लोपे कृते, तत् कार्यम् असिद्धम् मन्यते चेदपि लुप्तः रेफः (कस्मिन्नपि स्वरूपे) न पुनः उपस्थातुम् शक्नोति । Just like how Devadatta cannot come back to life even when the killer of Devadatta gets killed, in the same way once elided र् cannot come back to life just because that karya has been voided by <<हशि च>> [[6.1.114]] । अतः प्रक्रियायाम् अग्रे <<हशि च>> [[6.1.114]] इत्यस्य प्रसक्तिः नैव सम्भवेत् । न हि केवलं तत्, अपितु रेफस्य लोपात् अनन्तरम् 'मन रथ' इति स्थिते अग्रे <<ढ्रलोपे पूर्वस्य दीर्घोणः>> [[6.3.111]] इत्यनेन दीर्घादेशः अपि भवेत्, येन 'मनारथ' इति अनिष्टं रूपं प्रसज्येत । एतादृशम् मा भूत्, इति हेतुना दीक्षितः अत्र 'शास्त्रस्य' असिद्धत्त्वं प्रतिपादयति । \nअस्मिन् विषये अधिकं पिपठिषवः प्रौढमनोरमायां शब्देन्दुशेखरे च विस्तरं पश्येयुः ।\n" }, "82002": { "sa": "नकारलोपः केवलं सुप्-विधौ, स्वरविधौ, संज्ञाविधौ, तथा कृति-तुक्-विधौ एव असिद्धः अस्ति, न अन्यत्र । ", "sd": "<<पूर्वत्रासिद्धम्>> [[8.2.1]] अनेन सूत्रेण सपादसप्ताध्यायीं प्रति त्रिपाद्याः असिद्धत्वम् उच्यते । इदम् असिद्धत्वम् <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इत्यस्य त्रिपादीसूत्रस्य विषये प्रकृतसूत्रेण नियम्यते । <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इत्यनेन निर्दिष्टः नकारलोपः सम्पूर्णां सपादसप्ताध्यायीं प्रति असिद्धः नास्ति, अपितु सपादसप्ताध्याय्याः केवलम् सुप्-विधिं प्रति, स्वर-विधिं प्रति, संज्ञा-विधिं प्रति तथा च कृृन्निमितक-तुग्विधिं प्रति एव असिद्धः अस्ति । ‌— इति अस्य सूत्रस्य आशयः । क्रमेण उदाहरणानि एतादृशानि —\n1) नकारलोपस्य सुप्-विधिं प्रति असिद्धत्वम् — \nसुप्-विधिः = सुप्-प्रत्ययस्य स्थाने उत सुप्-प्रत्यये परे जायमानः विधिः । एतादृशस्य विधेः कृते <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इत्यनेन कृतः नकारलोपः असिद्धः भवति । यथा, राजन्-शब्दस्य तृतीयाद्विवचनस्य रूपे <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इत्यनेन नकारलोपे कृते, तस्य असिद्धत्वात् <<सुपि च>> [[7.3.102]] इति अङ्गस्य दीर्घः न प्रवर्तते —\n\nराजन् + भ्याम् [तृतीयाद्विवचनस्य प्रत्ययः]\n→ राज + भ्याम् [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः]\n→ राजभ्याम् [नलोपस्य असिद्धत्वात् <<सुपि च>> [[7.3.102]] इति दीर्घः न भवति ।]\n\nएवमेव, राजन्-शब्दस्य तृतीयाबहुवचनस्य रूपे <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इत्यनेन नकारलोपे कृते, तस्य असिद्धत्वात् <<अतो भिस ऐस्>> [[7.1.9]] इति प्रत्ययस्य आदेशः न भवति —\n\nराजन् + भिस् [तृतीयाबहुवचनस्य प्रत्ययः]\n→ राज + भिस् [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः]\n→ राजभिः [नलोपस्य असिद्धत्वात् <<अतो भिस ऐस्>> [[7.1.9]] इति ऐस्-आदेशः न भवति । केवलम् रुत्वे विसर्गे च कृते अन्तिमं रूपं सिद्ध्यति । \n\n2) नकारलोपस्य स्वरविधिं प्रति असिद्धत्वम् — \nस्वर-विधिः = येन विधिना स्वरस्य उदात्तत्वम् / अनुदात्तत्वम् / स्वरितत्वम् निर्णीयते, सः विधिः । एतादृशस्य विधेः कृते <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इत्यनेन कृतः नकारलोपः असिद्धः भवति । अस्य द्वे उदाहरणे एतादृशे —\n(i) यस्य शब्दस्य अन्ते अवती इति अस्ति (यथा, हंसवती, अजिरवती - एतादृशाः शब्दाः) तेषाम् अन्तिमः ईकारः <<अन्तोऽवत्याः>> [[6.1.220]] इति सूत्रेण उदात्तः भवति । परन्तु अस्य सूत्रस्य कृते <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति सूत्रम् असिद्धम् वर्तते, अतः राजन् + वती इत्यत्र नकारलोपात् अनन्तरम् सिद्धे राजवती इति शब्दे विद्यमानः अवती इति अंशः <<अन्तोऽवत्याः>> [[6.1.220]] इत्यस्य कृते असिद्धः अस्ति । <<अन्तोऽवत्याः>> [[6.1.220]] इत्यनेन राजन्वती इत्येव दृश्यते । अतः अत्र <<अन्तोऽवत्याः>> [[6.1.220]] इति सूत्रेण उदात्तत्वं नैव विधीयते । प्रक्रिया इयम् —\n\nराजन् + मतुँप् + ङीप् [<<तदस्यास्त्यस्मिन्निति मतुप्>> [[5.2.94]] इति मतुप्-प्रत्ययः । स्त्रीत्वं द्योतयितुम् <<उगितश्च>> [[4.1.6]] इति ङीप्-प्रत्ययः]\n→ राजन् + वत् + ई [<<मादुपधायाश्च मतोर्वोऽयवादिभ्यः>> [[8.2.9]] इत्यनेन मकारस्य वकारादेशः । \n→ राजवती [<<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इति राजन्-इत्यस्य पदसंज्ञा । <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः । अत्र <<अन्तोऽवत्याः>> [[6.1.220]] इत्यस्य कृते नकारलोपः असिद्धः अस्ति, अतः 'अवती' इति अंशः <<अन्तोऽवत्याः>> [[6.1.220]] इत्यनेन न दृश्यते, अतः अत्र अन्तोदात्तत्वम् अपि नैव सम्भवति ।]\n\n(ii) यस्य समस्तपदस्य पूर्वपदम् अवर्णान्तम् अस्ति, उत्तरपदम् च अर्म इति शब्दः विद्यते, तस्य शब्दस्य आदिस्वरः <<अर्मे चावर्णं द्व्यच्त्र्यच्>> [[6.2.90]] इति सूत्रेण उदात्तः भवति । अयं स्वरविधिः अस्ति, अतः अस्य कृते <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति सूत्रम् असिद्धं वर्तते । अतएव दशन् + अर्म इत्यवस्थायाम् <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इत्यनेन नकारलोपे कृते दशार्म इत्यत्र यद्यपि पूर्वपदम् अकारान्तम् अस्ति, तथापि तत् अकारान्तत्वम् <<अर्मे चावर्णं द्व्यच्त्र्यच्>> [[6.2.90]] इत्यस्य कृते असिद्धम् एव विद्यते, अतः <<अर्मे चावर्णं द्व्यच्त्र्यच्>> [[6.2.90]] अनेन सूत्रेण दशार्म इत्यत्र आद्युदात्तत्वं नैव सम्भवति । प्रक्रिया इयम् —\n\nदश अर्माणि [<<दिक्संख्ये संज्ञायाम्>> [[2.1.50]] इति तत्पुरुषसमासः]\n→ दशन् + अर्म [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्यययोः लोपः]\n→ दश + अर्म [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः\n→ दशार्म [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः । नकारलोपः सवर्णदीर्घं प्रति असिद्धः नास्ति, अतः अत्र सवर्णदीर्घः अवश्यं सम्भवति । परन्तु, नकारलोपः स्वरविधिं प्रति तु असिद्धः एव वर्तते, अतः अत्र <<अर्मे चावर्णं द्व्यच्त्र्यच्>> [[6.2.90]] इत्यनेन 'पूर्वपदस्य अवर्णत्वम्' नैव दृश्यते । अतः अत्र अनेन सूत्रेण उदात्तत्वं अपि न सम्भवति ।]\n\n3) नकारलोपस्य संज्ञाविधिं प्रति असिद्धत्वम् — \nसंज्ञाविधिः = संज्ञासूत्राणि इत्यर्थः । संज्ञासूत्राणां कृते <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इत्यनेन कृतः नकारलोपः असिद्धः भवति । अस्य प्रयोजनम् इत्थम् — दत्तश्च दण्डी च इत्यत्र द्वन्द्वसमासं कृत्वा, दत्तदण्डिनौ तथा दण्डिदत्तौ इति द्वौ अपि शब्दौ सिद्ध्यतः । अस्मिन् द्वन्द्वसमासे कः शब्दः पूर्वपदरूपेण आगच्छेत् अस्मिन् विषये (इत्युक्ते, पूर्वनिपातस्य विषये) किमपि विशिष्टं सूत्रं नास्ति, अतः अत्र उभयोः अपि शब्दयोः पूर्वनिपातः भवितुम् अर्हति । अत्र समासप्रक्रियायाम् वस्तुतः दण्डिन् शब्दस्य नकारलोपे कृते, तस्य इकारान्तत्वात् <<शेषो घ्यसखि>> [[1.4.7]] इति संज्ञासूत्रेण तस्य घिसंज्ञा सम्भवति । परन्तु तथा क्रियते चेत् <<द्वन्द्वे घि>> [[2.2.32]] इति सूत्रेण द्वन्द्वसमासे घिसंज्ञकस्यैव पूर्वनिपातं कृत्वा दण्डिदत्तौ इति एकमेव रूपम् साधुत्वं प्राप्नुयात् । एतादृशं मा भूत् अतः प्रकृतसूत्रे 'संज्ञा'शब्दस्य ग्रहणं कृतम् अस्ति । दण्डिन्-शब्दस्य कृतः नकारलोपः <<शेषो घ्यसखि>> [[1.4.7]] इति संज्ञासूत्रस्य कृते असिद्धः अस्ति, अतः दण्डि इति शब्दस्य घिसंज्ञा एव न भवति । अस्यां स्थितौ दण्डि तथा दत्त इत्येताभ्याम् कस्यापि शब्दस्य पूर्वनिपातः न प्रवर्तते, अतः दत्तदण्डिनौ तथा दण्डिदत्तौ इति द्वे अपि रूपे अत्र सम्भवतः । \n3) नकारलोपस्य कृन्निमित्तक-तुग्विधिं प्रति असिद्धत्वम् — \nकृन्निमित्तकः तुग्विधिः = <<ह्रस्वस्य पिति कृति तुक्>> [[6.1.71]] इति सूत्रेण उक्तः तुगागमः इत्यर्थः । अस्य तुगागमस्य कृते <<नलोपः प्रातिपदिकान्तस्य>> इत्यनेन कृतः नकारलोपः असिद्धः भवति । यथा, वृत्रहन् इति क्विप्-प्रत्ययान्तस्य शब्दस्य तृतीयाद्विवचनस्य रूपे <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इत्यनेन कृतः नकारलोपः <<ह्रस्वस्य पिति कृति तुक्>> [[6.1.71]] इत्यस्य कृते असिद्धः अस्ति, अतः नकारलोपात् अनन्तरम् जायमानस्य ह्रस्व-अकारस्य अनेन सूत्रेन तुगागमः न सम्भवति । प्रक्रिया इयम् —\n\nवृत्रहन् + भ्याम् [वृत्रहन्-शब्दः वृत्र-उपपदपूर्वकात् हन्-धातोः क्विप्-प्रत्ययं कृत्वा सिद्ध्यति । अस्मात् अग्रे तृतीयाद्विवचनस्य भ्याम्-प्रत्ययः विधीयते ।]\n→ वृत्रह + भ्याम् [भ्याम्-प्रत्यये परे प्रकृतेः <<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इति पदसंज्ञा भवति । पदसंज्ञायां सत्याम् <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारस्य लोपः भवति ।]\n→ वृत्रहभ्याम् । [नकारलोपे कृते 'वृत्रह [क्विप्]' इत्यवस्थायाम् ह्रस्वस्वरात् अनन्तरम् लुप्त-क्विप्-प्रत्ययः अस्ति अतः <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यनेन लुप्त-क्विप्-प्रत्ययनिमित्तकः <<ह्रस्वस्य पिति कृति तुक्>> [[6.1.71]] इति अकारस्य तुगागमः अत्र अवश्यं सम्भवति । परन्तु अत्र नकारलोपः तुगागमार्थम् असिद्धः अस्ति, अतः <<ह्रस्वस्य पिति कृति तुक्>> [[6.1.71]] इत्यनेन अत्र नकारः एव दृश्यते । अस्यां स्थितौ तुगागमः अपि नैव सम्भवति ।\n\nअत्र केवलम् <<ह्रस्वस्य पिति कृति तुक्>> [[6.1.71]] इत्यनेन उक्तस्य तुगागमस्य कृते एव नकारलोपः असिद्धः अस्ति । एतत् ज्ञापयितुम् एव सूत्रे 'कृति' इति शब्दः प्रयुज्यते । अतः अन्येषाम् तुगागमानां विषये तु नकारलोपः सिद्धः एव । यथा, <<छे च>> [[6.1.73]] इत्यनेन ह्रस्वस्वरस्य उक्तः तुगागमः नकारलोपात् अनन्तरम् अपि अवश्यं प्रवर्तते । उदाहरणम् इत्थम् —\n\nवृत्रघ्नः छाया [<<षष्ठी>> [[2.2.8]] इति षष्ठीतत्तपुरुषः]\n→ वृत्रहन् + छाया [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुँलोपः]\n→ वृत्रह + छाया [समस्तपदे पूर्वपदस्य पदत्वम् अवशिष्यते, अतः <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारस्य लोपः भवति ।]\n→ वृत्रह तुक् + छाया [छकारे परे ह्रस्वस्वरस्य <<छे च>> [[6.1.73]] इति तुगागमः भवति । अयं तुगागमः छकारनिमित्तकः अस्ति, कृत्-प्रत्ययनिमित्तकः न, अतः अस्य कृते नकारलोपः सिद्धः एव ज्ञेयः]\n→ वृत्रह त् + छाया [ककारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः । ककारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।]\n→ वृत्रह च् + छाया [<<झलां जशोऽन्ते>> [[8.2.39]] इति तकारस्य दकारः, ततः <<स्तोः श्चुना श्चुः>> [[8.4.40]] इति श्चुत्वे दकारस्य जकारः, ततः <<खरि च>> [[8.4.55]] इति जकारस्य चकारः ।]\n→ वृत्रहच्छाया\n\nअन्येषाम् कार्याणाम् कृते नकारलोपस्य सिद्धत्वम्\n<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] अनेन उक्तः नकारलोपः केवलम् — सुब्विधिः, स्वरविधिः, संज्ञाविधिः तथा च कृन्निमित्तकः तुग्विधिः — एतेषाम् चतुर्णाम् कृते एव असिद्धः अस्ति । अन्येषाम् विधीनाम् कृते अयं नकारलोपः सिद्धः एव ज्ञेयः । अस्य त्रीणि उदाहरणानि एतादृशानि —\n1. राजा + उवाच इत्यत्र संहितायाम् सत्याम् <<आद्गुणः>> इति गुणैकादेशे राजोवाच इति सिद्ध्यति । अत्र राजन् + सुँ इत्यत्र <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इत्यनेन सुँलोपे कृते, ततः <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इत्यनेन नकारलोपे कृते राजा शब्दः सिद्ध्यति । यदि अयं नकारलोपः गुणैकादेशार्थम् असिद्धः अभविष्यत्, तर्हि राजा + उवाच इत्यत्र आकारस्य अदृष्टत्वात् (राजन् + उवाच इत्येव दृष्ट्वा) गुण-एकादेशः अपि नैव समभविष्यत् । परन्तु नकारलोपः गुणैकादेशार्थम् सिद्धः एव अस्ति, अतः राजा + उवाच इत्यत्र नकारलोपात् अनन्तरम् अपि <<आद्गुणः>> [[6.1.87]] इत्यनेन गुणैकादेशः अवश्यं सम्भवति ।\n2. आत्मनः राजानम् इच्छति अस्मिन् अर्थे राजन् शब्दात् <<सुप आत्मनः क्यच्>> [[3.1.8]] इति सूत्रेण क्यच्-प्रत्यये कृते राजीय इति आतिदेशिकधातुः सिद्ध्यति । अत्र नकारलोपात् अनन्तरम्, तस्य <<क्यचि च>> [[7.4.33]] इत्येतं सूत्रं प्रति सिद्धत्वात् अकारस्य ईकारादेशं कृत्वा रूपं सिद्ध्यति । प्रक्रिया इयम् —\n\nआत्मनः राजानम् इच्छति\n→ राजन् + क्यच् [<<सुप आत्मनः क्यच्>> [[3.1.8]] इति क्यच्-प्रत्ययः]\n→ राजन् + य [<<लशक्वतद्धिते>> [[1.3.8]], <<हलन्त्यम्>> [[1.3.3]], <<तस्य लोपः>> [[1.3.9]]\n→ राज + य [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः]\n→‌ राजी + य [नलोपस्य सिद्धत्वात्, <<क्यचि च>> [[7.4.33]] इत्यनेन अवर्णान्तस्य ईकारादेशः भवति ]\n→ राजीय [<<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञा]\n\n3. राजा इव आचरति अस्मिन् अर्थे राजन् शब्दात् <<कर्तुः क्यङ् सलोपश्च>> [[3.1.11]] इति सूत्रेण क्यङ्-प्रत्यये कृते राजाय इति आतिदेशिकधातुः सिद्ध्यति । अत्र नकारलोपात् अनन्तरम्, तस्य <<अकृत्सार्वधातुकयोर्दीर्घः>> [[7.4.25]] इत्येतं सूत्रं प्रति सिद्धत्वात् अकारस्य दीर्घं कृत्वा रूपं सिद्ध्यति । प्रक्रिया इयम् —\n\nराजा इव आचरति\n→ राजन् + क्यङ् <<कर्तुः क्यङ् सलोपश्च>> [[3.1.11]] इति क्यङ्-प्रत्ययः]\n→ राजन् + य [<<लशक्वतद्धिते>> [[1.3.8]], <<हलन्त्यम्>> [[1.3.3]], <<तस्य लोपः>> [[1.3.9]]\n→ राज + य [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारलोपः]\n→‌ राजा + य [नलोपस्य सिद्धत्वात्, <<अकृत्सार्वधातुकयोर्दीर्घः>> [[7.4.25]] इत्यनेन दीर्घादेशः]\n→ राजाय [<<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञा]\n" }, "82003": { "sa": "'मु' इति आदेशः 'ना' इति आदेशे कर्तव्ये, तस्मिन् आदेशे कृते च असिद्धः नास्ति ।", "sd": "<<पूर्वत्रासिद्धम्>> [[8.2.1]] अनेन सूत्रेण सपादसप्ताध्यायीं प्रति त्रिपाद्याः असिद्धत्वम् उच्यते । इदम् असिद्धत्वम् <<अदसोऽसेर्दादु दो मः>> [[8.2.80]] इत्यस्य त्रिपादीसूत्रस्य विषये प्रकृतसूत्रेण नियम्यते । <<अदसोऽसेर्दादु दो मः>> [[8.2.80]] इत्यनेन सूत्रेण अदस्-शब्दस्य दकारस्य मकारादेशः, तथा च दकारात् परस्य वर्णस्य उकारादेशः उच्यते । इत्युक्ते, अनेन सूत्रेण एकत्ररूपेण मु इति आदेशविधानम् क्रियते । अयं मु आदेशः यद्यपि त्रिपादीसूत्रेण कृतः अस्ति, तथापि <<आङो नाऽस्त्रियाम्>> [[7.3.120]] इत्यनेन ना-आदेशस्य विधानसमये, तथा च तस्य विधानात् अनन्तरम् अपि अयम् सिद्धः एव ज्ञेयः — इति प्रकृतसूत्रस्य आशयः । 'अदस्' शब्दस्य पुंलिङ्गस्य तृतीयैकवचनस्य 'अमुना' इति रूपस्य सम्यक् सिद्ध्यर्थम् अयं प्रपञ्चः अत्र कृतः अस्ति । प्रक्रिया इयम्‌ —\n\nअदस् + टा [तृतीयैकवचनस्य प्रत्ययः]\n→ अद अ + टा [<<त्यदादीनामः>> [[7.2.102]] इत्यनेन अदस्-शब्दस्य अन्तिमसकारस्य विभक्तिप्रत्यये परे अकारादेशः]\n→ अद + टा [<<अतो गुणे>> [[6.1.97]] इत्यनेन दकारात् परस्य उभयोः अकारयोः पररूप-एकादेशः अकारः]\n→ अमु + टा [<<अदसोऽसेर्दादु दो मः>> [[8.2.80]] इति दकारस्य मकारः, सकारस्य च उकारः । अयमेव मुभावः ।]\n→ अमु + ना [अत्र 'ना' इति आदेशस्य विधानं करणीयम् अस्ति चेत् 'अमु' इत्यत्र विद्यमानः 'मु' इति अंशः सिद्धः ज्ञेयः — इति प्रकृतसूत्रस्य आशयः । 'मु' इति अंशे सिद्धे सति, 'अमु' इति उकारान्तस्य अङ्गस्य <<शेषो घ्यसखि>> [[1.4.7]] इत्यनेन घिसंज्ञां कृत्वा <<आङो नाऽस्त्रियाम्>> [[7.3.120]] इत्यनेन 'ना' आदेशःअत्र भवितुम् अर्हति । ना-आदेशे कृते इष्टरूपम् अपि सिद्ध्यति ।\n→ अमुना [अत्र ना-आदेशः कृते अपि मु-भावः सिद्धः एव अस्ति । यदि तादृशं न स्यात्, तर्हि ना-आदेशात् अनन्तरम् मु-भावस्य असिद्धत्वात् 'अद ना' इत्येव दृष्ट्वा <<सुपि च>> [[7.3.102]] इति सूत्रेण अङ्गस्य अनिष्टः दीर्घादेशः विधीयेत, येन 'अमूना' इति अनुचितं (दीर्घघटितं) रूपं सिद्ध्येत् । तादृशं मा भूत् अतः अत्र नाभावे कृते अपि मु-भावः सिद्धः एव वर्तते, अतश्च अत्र <<सुपि च>> [[7.3.102]] इत्यनेन अनिष्टः दीर्घः न सम्भवति । ]\n\nसूत्रे 'ने' इति विषयसप्तमी\nप्रकृतसूत्रे विद्यमानः 'ने' इति शब्दः 'ना' इत्यस्य सप्तमी-एकवचनस्य रूपम् अस्ति । अत्र विद्यमाना सप्तमीविभक्तिः विषयसप्तमी स्वीक्रियते । ना-आदेशात् पूर्वम्, परन्तु ना-आदेशस्य विषये (ना-आदेशस्य विवक्षायाम्) मु-विधानम् सिद्धं ज्ञेयम्, इति अत्र विषयसप्तमीग्रहणस्य प्रयोजनम् । \n\nसूत्रविधानसामर्थ्यात् इन-आदेशस्य निषेधः\nअदस्-शब्दस्य तृतीयैकवचनस्य प्रक्रियायाम् वस्तुतः अद + टा अस्याम् अवस्थायाम् अदन्तम् अङ्गं दृष्ट्वा <<टाङसिङसामिनात्स्याः>> [[7.1.12]] इत्यनेन टा-प्रत्ययस्य इन-आदेशः सम्भवति, तस्मिन् आदेशे च कृते अद + इन इत्यत्र <<आद्गुणः>> [[6.1.87]] इत्यनेन गुण-एकादेशे कृते अदेन इति अनिष्टं रूपं भवति । परन्तु एतादृशम् क्रियते चेत् <<न मु ने>> [[8.2.3]] इति सूत्रस्य प्रयोजनम् एव विनश्येत् । <<न मु ने>> [[8.2.3]] इति सूत्रेण 'नाभावे कर्तव्ये मुभावः सिद्धः' इति यः सिद्धान्तः उच्यते, अनेन सिद्धान्तेन एव 'नाभावः अवश्यं भवति, तदर्थम् मुभावः अपि अवश्यमेव भवति' इति अर्थः निष्पद्यते । अयमेव विषयः भाष्यकारेण इत्थम् उक्तः अस्ति —\n\nइह इङ्गितेन चेष्टितेन निमिषितेन महता वा सूत्रनिबन्धेन आचार्याणाम् अभिप्रायः लक्ष्यते । एतदेव ज्ञापयति भवति अत्र नाभाव इति, यदयं ने परतः असिद्धत्वप्रतिषेधं शास्ति । \nIt is not uncommon of Panini to hint at a rule by simply pointing to it, or by doing some kind of hand-waving, or by trying to close eyes (i.e. by ignoring something) or by creating an unnecessarily long sutra. For instance, the very existence of the current sutra, which makes 'मु' as siddha towards 'ना' indicates that the 'ना' आदेश must happen in the first place, and hence the 'मु' automatically becomes siddha to the other sutras that could potentially block the 'ना' आदेश. \n\n<<न मु ने>> [[8.2.3]] इति प्रकृतसूत्रेण ना आदेशस्य कृते मु भावः सिद्धः उच्यते । अनेनैव 'इङ्गितेन' आचार्यः पाणिनिः अत्र स्पष्टीकरोति यत् 'अमुना' शब्दस्य सिद्धौ ना आदेशः अवश्यम् करणीयः, तस्मात् पूर्वम् च मु भावः अपि करणीयः । अतएव, 'मु' भावस्य ये केऽपि अवरोधाः स्युः, तेषां सर्वेषां बाधं कृत्वा मु-भावः एव भवेत् इति अर्थः अत्र प्रतिपद्यते । अतएव अमुना शब्दस्य प्रक्रियायाम् <<अदसोऽसेर्दादु दो मः>> [[8.2.80]] इति सूत्रम् <<टाङसिङसामिनात्स्याः>> [[7.1.12]] इत्यस्य कृते अवश्यम् एव सिद्धम् वर्तते, परत्वात् च <<टाङसिङसामिनात्स्याः>> [[7.1.12]] इत्येतं बाधित्वा <<अदसोऽसेर्दादु दो मः>> [[8.2.80]] इति सूत्रम् एव प्रवर्तते ।\nसन्निपातपरिभाषया दीर्घादेशस्य अप्राप्तिः\nसिद्धान्तकौमुद्याम् प्रकृतसूत्रस्य अर्थः 'नाभावे कर्तव्ये कृते च मुभावः न असिद्धः स्यात्' — इति दत्तः अस्ति । अस्मिन् वाक्ये विद्यमानस्य 'कृते च' इति अंशस्य प्रयोजनम् <<सुपि च>> [[7.3.102]] इत्यनेन प्राप्तस्य दीर्घादेशस्य निवारणम् — इति वर्तते । यदि 'नाभावे कृते' इति न उच्यते, तर्हि ना-भावात् अनन्तरम् मुत्वस्य असिद्धत्वात् अद + ना इत्येव दृष्ट्वा <<सुपि च>> [[7.3.102]] इत्यनेन अनिष्टः दीर्घादेशः सम्भवेत् — इति अत्र आशयः । परन्तु वस्तुतः एतादृशस्य दीर्घादेशस्य निवारणम् <ऽसन्निपातविधिरनिमित्तको तद्विघातस्यऽ> (परिभाषा-86) इत्यनेन एव सम्भवति । तदित्थम् — ना-भावं कर्तुम् आदौ मु-भावे कृते, ततः <<सुपि च>> [[7.3.102]] इत्यनेन दीर्घादेशः क्रियते चेत् अमू इति सिद्ध्येत् । परन्तु तादृशं भवति चेत् अमू इत्यस्य दीर्घ-ऊकारान्तत्वात्, तस्य घिसंज्ञायाः अभावात् नाभावः अपि विहन्येत । <ऽसन्निपातविधिरनिमित्तको तद्विघातस्यऽ> (परिभाषा-86) इत्यनया परिभाषया एतादृशस्य विघातस्य निषेधः उक्तः एव अस्ति, अतः अत्र अनयैव परिभाषया <<सुपि च>> [[7.3.102]] इत्यस्य निषेधः सम्भवति, तदर्थम् 'कृते' इति शब्दः सूत्रार्थे न आवश्यकः — इति अत्र आशयः । प्रौढमनोरमायाम् अपि भट्टोजीदीक्षितेन सन्निपातपरिभाषया वा समाधेयम् इति उक्त्वा अस्य पक्षस्य समर्थनम् एव कृतम् अस्ति । \nअसिद्धाधिकारस्य अपवादविधायकानि वार्त्तिकानि\nप्रकृतसूत्रस्य व्याख्याने काशिकाकारेण असिद्धाधिकारस्य अपवादस्वरूपेण अनेकानि वार्त्तिकानि पाठितानि सन्ति । एतानि प्रायेण सर्वाणि वार्त्तिकानि केवलं विशिष्टानां द्वित्राणां प्रयोगाणां सिद्ध्यर्थम् एव दत्तानि सन्ति । वस्तुतः एतानि वार्त्तिकानि महाभाष्ये <<स्वरितो वाऽनुदात्ते पदादौ>> [[8.2.6]] इत्यस्य भाष्ये पाठितानि दृश्यन्ते । परन्तु काशिकाकारः एतान् अत्रैव उवाच, अतः अस्माभिः अपि एतानि अत्रैव सोदाहरणम् विव्रियन्ते । \n \nलुङ्लकारस्य प्रक्रियायाम् 'च्लि' इति विकरणप्रत्ययस्य <<च्लेः सिच्>> [[3.1.44]] इत्यनेन सिच्-आदेशे कृते <<इट ईटि>> [[8.2.28]] इति त्रिपादीसूत्रेण अस्य सिच्-प्रत्ययस्य लोपः सम्भवति । अयं लोपः <<एकः पूर्वपरयोः>> [[6.1.84]] इत्यस्मिन् अधिकारे विद्यमानानानां सूत्राणां कृते सिद्धः एव ज्ञेयः — इति अस्य वार्त्तिकस्य आशयः । अतएव 'अलावीत्' इति शब्दस्य रूपसिद्धौ सिज्लोपात् अनन्तरम् <<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घैकादेशः सम्भवति । प्रक्रिया इयम् —\n\nलूञ् (छेदने, क्र्यादिः, <{9.16}>)\n→ लू + लुङ् [<<लुङ्>> [[3.2.110]] इति लुङ्]\n→ अट् + लू + लुङ् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अट् + लू + तिप् [<<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> [[3.4.78]] इत्यनेन प्रथमपुरुषैकवचनस्य विवक्षायाम् तिप्-प्रत्ययः]\n→ अ + लू + च्लि + ति [<<च्लि लुङि>> [[3.1.43]] इति च्लि-विकरणप्रत्ययः]\n→ अ + लू + सिच् + ति [<<च्लेः सिच्>> [[3.1.44]] इति सिच्-आदेशः]\n→ अ + लू + स् + त् [<<इतश्च>> [[3.4.100]] इति प्रत्ययस्य इकारस्य लोपः]\n→ अ + लू + स् + ईट् + त् [<<अस्तिसिचोऽपृक्ते>> [[7.3.96]] इति अपृक्त-हल्-प्रत्ययस्य इट्-आगमः]\n→ अ + लौ + स् + ई + त् [<<सिचि वृद्धिः परस्मैपदेषु>> [[7.2.1]] इति सिच्-प्रत्ययस्य अङ्गस्य वृद्धिः]\n→ अ + लौ + ई + स् + ई + त् [<<आर्धधातुकस्येड् वलादेः>> [[7.2.35]] इति इडागमः]\n→ अ + लाव् + ई + स् + ई + त् [<<एचोऽयवायावः>> [[6.1.78]] इति आव्-आदेशः]\n→ अ + लाव् + ई + ० + ई + त् [<<इट ईटि>> [[8.2.28]] इत्यनेन सिच्-प्रत्ययस्य लोपः]\n→‌ अ + लाव् + ई + त् [सिच्-प्रत्ययस्य लोपः त्रिपादीसूत्रेण कृतः अस्ति । परन्तु अयं सिज्लोपः इति वार्त्तिकेन एकादेशस्य कृते सिद्धः ज्ञेयः । अतः अत्र द्वयोः ईकारयोः <<अकः सवर्णे दीर्घः>> [[6.1.101]] इति दीर्घैकादेशः सम्भवति ।\n→ अलावीत् । \n\n \nनिष्ठा-आदेशः षत्व-स्वर-प्रत्ययविधि-इड्विधिषु सिद्धः वाच्यः ।\nअस्मिन् वार्त्तिके द्वौ अंशौ युगपत् स्थापितौ स्तः । एतयोः पृथक् प्रयोजने एतादृशे —\n(i) निष्ठादेशस्य षत्वं प्रति सिद्धत्वम् — <<ओदितश्च>> [[8.2.45]] अनेन सूत्रेण ओदित्-धातुभ्यः विहितस्य निष्ठातकारस्य नकारादेशः विधीयते । अयम् नकारादेशः <<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> [[8.2.36]] इत्यनेन उक्तस्य षत्वस्य कृते सिद्धः ज्ञेयः — इति अस्य वार्त्तिकस्य प्रथमांशस्य आशयः । इत्युक्ते, यत्र प्रक्रियायां <<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> [[8.2.36]] इत्यनेन षत्वम्, तथा च <<ओदितश्च>> [[8.2.45]] इत्यनेन निष्ठानत्वम् एतयोः युगपत् प्राप्तिः भवति, तत्र <<ओदितश्च>> [[8.2.45]] इति सूत्रेण <<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> [[8.2.36]] इत्यस्य परत्वात् बाधः क्रियते । ओव्रस्चूँ-धातोः क्त-प्रत्ययान्तरूपस्य प्रक्रियायाम् अयम् बाध्यबाधकभावम् उपयुज्य अन्तिमं रूपं सिद्ध्यति । तदित्थम् —\n\nओँव्रस्चूँ (छेदने, तुदादिः, <{6.12}> । धातोः औपदेशिकस्वरूपे चकारात् पूर्वः सकारः अस्ति इति ज्ञेयम् ।)\n→ व्रस्च् + क्त [<<निष्ठा>> [[3.2.102]] इति क्तप्रत्ययः]\n→ वृअस्च् + त [<<ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च>> [[6.1.16]] इति रेफस्य सम्प्रसारणम् ऋकारः]\n→ वृस्च् + त [<<सम्प्रसारणाच्च>> [[6.1.108]] इति पूर्वरूपः ऋकारः]\n→ वृच् + त [<<स्कोः संयोगाद्योरन्ते च>> [[8.2.29]] इति सकारलोपः]\n→ वृक् + त [<<चोः कुः>> [[8.2.30]] इति कुत्वम्]\n→ वृक् + न [अत्र वस्तुतः <<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> [[8.2.36]] इत्यनेन षत्वम् सम्भवति । परन्तु अस्य षत्वस्य कृते <<ओदितश्च>> [[8.2.45]] इत्यनेन कृतम् निष्ठानत्वम् सिद्धम् अस्ति, अतः परत्वात् अत्र षत्वं बाधित्वा निष्ठानत्वम् भवति । निष्ठानत्वे कृते झलादि-प्रत्ययस्य अभावात् पुनः षत्वम् न सम्भवति ।]\n→ वृक्ण [, <<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]]]\n\n(ii) निष्ठादेशस्य स्वरविधिं, प्रत्ययविधिं, इड्विधिं प्रति सिद्धत्वम् — क्षीबृ (मदे) इत्यस्मात् धातोः क्त-प्रत्यये कृते <<अनुपसर्गात् फुल्लक्षीबकृशोल्लाघाः>> [[8.2.55]] इति सूत्रेण 'क्षीब' इति रूपं निपात्यते । अस्य रूपस्य द्वाभ्याम् प्रकाराभ्याम् सिद्धिः सम्भवति । तत्र एकस्मिन् प्रकारे आदौ इडागमं कृत्वा ततः <<अनुपसर्गात् फुल्लक्षीबकृशोल्लाघाः>> [[8.2.55]] इति सूत्रेण 'इत्' इत्यस्य लोपः निपात्यते । अयं लोपः <<निष्ठा च द्व्यजनात्>> [[6.1.205]], तथा च <<नौद्व्यचष्ठन्>> [[4.4.7]] इत्येतयोः कृते सिद्धः भवति, अतः <<निष्ठा च द्व्यजनात्>> [[6.1.205]] इत्यनेन 'क्षीब' इत्यस्य आद्युदात्तत्वं सिद्ध्यति, ततश्च अग्रे 'क्षीबे तरति' इत्यत्र <<नौद्व्यचष्ठन्>> [[4.4.7]] इत्यनेन ठन्-प्रत्ययः विधीयते । प्रक्रिया इयम् —\n\nक्षीबृ (मदे, भ्वादिः, <{1.442}>)\n→ क्षीब् + क्त [<<निष्ठा>> [[3.2.102]]\n→ क्षीब् + इ + त [<<आर्धधातुकस्येड् वलादेः>> [[7.2.35]] इत्यनेन इडागमः ]\n→ क्षीब् + अ [<<अनुपसर्गात् फुल्लक्षीबकृशोल्लाघाः>> [[8.2.55]] इति सूत्रेण 'इत्' इत्यंशस्य लोपः निपात्यते । ] \n→ क्षीब ['इत्' इत्यस्य लोपः यद्यपि त्रिपादीसूत्रेण कृतः अस्ति, तथापि अयम् <<निष्ठा च द्व्यजनात्>> [[6.1.205]] इत्यस्य कृते सिद्धः वर्तते, अतः <<निष्ठा च द्व्यजनात्>> [[6.1.205]] इत्यनेन आहत्य द्वौ एव स्वरौ दृश्येते (न हि त्रयः स्वराः) । अस्यां स्थितौ <<निष्ठा च द्व्यजनात्>> [[6.1.205]] इत्यनेन आद्युदात्तत्वं अवश्यं विधीयते ।]\nअग्रे —\nक्षीबे तरति [तद्धितवृत्तिः]\n→ क्षीब + ष्ठन् [<<तरति>> [[4.4.5]] इति सूत्रेण औत्सर्गिकरूपेण ठक्-प्रत्यये प्राप्ते, तद्बाधित्वा द्व्यच्-शब्देभ्यः <<नौद्व्यचष्ठन्>> [[4.4.7]] इत्यनेन ठन्-प्रत्ययः विधीयते । अत्र 'क्षीब'शब्दस्य सिद्धौ 'इत्' इति अंशस्य इत्यस्य त्रिपादीसूत्रैः कृतः लोपः <<नौद्व्यचष्ठन्>> [[4.4.7]] इत्यस्य कृते सिद्धः अस्ति, अतएव <<नौद्व्यचष्ठन्>> [[4.4.7]] इत्यस्य प्रसक्तिः अत्र सम्भवति । यदि <<नौद्व्यचष्ठन्>> [[4.4.7]] इत्यस्य कृते 'इत्' इत्यस्य लोपः असिद्धः स्यात्, तर्हि <<नौद्व्यचष्ठन्>> [[4.4.7]] इति सूत्रम् 'क्षीब् इत' इत्येव दृष्ट्वा, तत्र आहत्य त्रीन् स्वरान् परिगणय्य, ठन्-प्रत्ययं न व्यधास्यत् । परन्तु 'इत्' इत्यस्य लोपस्य सिद्धत्वात् अत्र इष्टः 'ठन्' प्रत्ययः अवश्यं भवितुम् अर्हति ।]\n→ क्षीबिक [<<ठस्येकः>> [[7.3.50]] इति इक्-आदेशः, <<यस्येति च>> [[6.4.148]] इति इकारलोपः]\n\n'क्षीब'शब्दस्य अन्यप्रकारेण अपि सिद्धिः सम्भवति । <<अनुपसर्गात् फुल्लक्षीबकृशोल्लाघाः>> [[8.2.55]] इति सूत्रेण केवलं तकारस्य लोपः क्रियते, तं लोपं सिद्धं मत्वा, वलादि-प्रत्ययस्य अभावात् इडागमः मूलतः एव नैव विधीयते । प्रक्रिया इयम् —\n\nक्षीबृ (मदे, भ्वादिः, <{1.442}>)\n→ क्षीब् + क्त [<<निष्ठा>> [[3.2.102]]\n→ क्षीब् + अ [अत्र वस्तुतः <<आर्धधातुकस्येड् वलादेः>> [[7.2.35]] इत्यनेन इडागमः भवितुम् अर्हति । अस्य इडागमस्य कृते वलादिप्रत्ययः आवश्यकः । परन्तु क्त-प्रत्ययस्य आदिस्थः तकारः (वल्-वर्णः) अग्रे <<अनुपसर्गात् फुल्लक्षीबकृशोल्लाघाः>> [[8.2.55]] इत्यत्र दत्तेन निपातनेन लुप्यते । इदं निपातनम् इडागमस्य कृते प्रकृतवार्त्तिकेन सिद्धं भवति, अतः निपातनात् तकारलोपेन इडागमः बाध्यते । ]\n→ क्षीब\n\n \n<<स्तोः श्चुना श्चुः>> [[8.4.40]] इत्यनेन जायमानम् श्चुत्वम् <<डः सि धुट्>> [[8.3.29]] इति पूर्वत्रिपादीसूत्रस्य कृते सिद्धम् ज्ञेयम् — इति अस्य वार्त्तिकस्य आशयः । अस्य प्रयोजनम् अस्ति — 'अड् श्च्योतति' एतादृशेषु प्रयोगेषु धुडागमनिषेधः — इति ।तत्र इदम् अवधेयम् —\ni) 'श्च्योतति' इति रूपम् 'श्च्युतिँर् (क्षरणे)' इत्यस्मात् धातोः जायते । अत्र वस्तुतः 'स्च्युतिँर्' इति सकारादिः धातुः पाठ्यते । प्रक्रियायाम् <<स्तोः श्चुना श्चुः>> [[8.4.40]] इत्यनेन श्चुत्वे कृते शकारः जायते । \nii) 'अटँ सातत्यगमने' इति धातोः क्विप्-प्रत्यये कृते 'अट्' इत्येव प्रातिपदिकं सिद्ध्यति । तस्य प्रथमैकवचनस्य रूपम् 'अड्' इति भवति । यः अटति सः अड् (wanderer) इत्याशयः । \niii) इदानीम् 'अड् श्च्योतति' अस्मिन् वाक्ये संहितायाः विवक्षायाम् यदा सन्धिकार्यम् उत्पद्यते, तदा <<डः सि धुट्>> [[8.3.29]] इति सूत्रस्य कृते <<स्तोः श्चुना श्चुः>> [[8.4.40]] इति सूत्रम् असिद्धम् अस्ति इति कारणात् <<डः सि धुट्>> [[8.3.29]] इति सूत्रेण 'श्च्योतति' इत्यस्य स्थाने 'स्च्योतति' इति सकारादिं रूपम् एव दृश्यते । अस्यां स्थितौ सकारस्य <<डः सि धुट्>> [[8.3.29]] इति सूत्रेण अनिष्टः धुडागमः सम्भवति । एतादृशः धुडागमः मा भूत्, अतः <<स्तोः श्चुना श्चुः>> [[8.4.40]] इति सूत्रम् <<डः सि धुट्>> [[8.3.29]] इत्यस्य कृते सिद्धं स्वीक्रियते, येन <<डः सि धुट्>> [[8.3.29]] इति सूत्रेण सकारस्य स्थाने शकारः एव दृश्यते । शकारस्य विषये तु धुडागमः नैव सम्भवति । एतादृशम् अत्र अनिष्टः धुडागमः निवार्यते ।]\nवस्तुतः अत्र 'श्च्युतिँर्' इति यदि शकारादिः एव धातुः पाठ्येत, तर्हि अस्य वार्त्तिकस्य आवश्यकता एव न स्यात् । परन्तु 'श्च्युतिँर्' इति शकारादिधातुः पाठ्यते चेत् कस्मिंश्चित् दुर्गमप्रयोगे एकः दोषः आगच्छति इति काशिकायाम् उच्यते —\n\nकिमर्थम् पुनः अयं सकारादिः पठ्यते ? इह मधु श्च्योतति इति — मधुश्च्युत्, क्विबन्तः । मधुश्च्युतम् आचष्टे इति णिच् — मधुश्च्ययति । मधुश्च्ययतेः पुनः क्विपि कृते संयोगादित्वात् सलोपः, संयोगान्तत्वात् यलोपः, चकारस्य कुत्वम् —‌मधुग् इति सिद्धम् । शकारादौ पुनः एतस्मिन् संयोगान्तलोपेन यकारचकारयोः लुप्तयोः शकारस्य षत्वे सति, मधुड् इति स्यात् ।— काशिका, 8.2.3\n\nस्च्युतिँर्-धातोः सकारादित्वम् 'मधुग्' इति कस्यचन शब्दस्य सिद्धौ आवश्यकम्, इति अत्र काशिकाकारः प्रतिपादयति । तदित्थम् —\n\n
  • 'मधु श्च्योतति' अस्मिन् अर्थे मधु-उपपदपूर्वकात् श्च्युत्-धातोः <<क्विप् च>> [[3.2.76]] इति सूत्रेण क्विप्-प्रत्ययं कृत्वा 'मधुश्च्युत्' ('trickling honey') इति प्रातिपदिकं सिद्ध्यति । \n
  • 'मधुश्च्युतम् आचष्टे' अस्मिन् अर्थे 'मधुश्च्युत्' इति प्रातिपदिकात् इति वार्त्तिकेन 'णिच्' प्रत्ययः भवति । अस्मिन् प्रत्यये परे इति वार्त्तिकेन 'इष्ठन्' प्रत्ययसदृशं कार्यम् भवति । इत्युक्ते, 'मधुश्च्युत् + इष्ठन्' इत्यत्र <<टेः>> [[6.4.155]] इति यथा टिलोपः सम्भवति, तथैव टिलोपः अत्रापि क्रियते, येन 'मधुश्च्यि' इति आतिदेशिकधातुः सिद्ध्यति । \n
  • 'मधुश्च्यि'-धातोः पुनः <<क्विप् च>> [[3.2.76]] इति सूत्रेण यदा क्विप्-प्रत्ययः भवति, तदा आदौ <<वेरपृक्तस्य>> [[6.1.67]] इत्यनेन क्विप्-प्रत्ययस्य लोपः क्रियते । प्रत्ययस्य लोपे कृते अपि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यनेन बहूनि प्रत्ययविशिष्टानि कार्याणि सम्भवन्ति । तत्र आदौ 'मधुश्च्यि' इत्यत्र विद्यमानस्य णिच्-प्रत्ययस्य <<णेरनिटि>> [[6.4.51]] इत्यनेन लोपः भवति । ततः 'मधुश्च्य्' इति स्थिते, श्चुत्वस्य असिद्धत्वात्, तत्र सकारम् एव दृष्ट्वा, <<स्कोः संयोगाद्योरन्ते च>> इत्यनेन सकारलोपः सम्भवति । ततः 'मधुच्य्' इति स्थिते, यकारस्य <<संयोगान्तस्य लोपः>> [[8.2.23]] इत्यनेन लोपे कृते, 'मधुच्' इति स्थिते, <<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वे जकारादेशे कृते, <<चोः कुः>> [[8.2.30]] इत्यनेन कुत्वं कृते 'मधुग् इति शब्दः सिद्ध्यति । अस्याः प्रक्रियायाः कृते श्च्युत्-धातोः सकारादित्वम् आवश्यकम् वर्तते । यदि अत्र श्च्युत्-धातोः शकारादित्वम् एव स्वीक्रियेत, तर्हि 'मधुश्च्य्' इत्यत्र णिलोपात् अनन्तरम् <<स्कोः संयोगाद्योरन्ते च>> इत्यनेन सकारलोपः न सम्भवेत्, अपि तु <<संयोगान्तस्य लोपः>> [[8.2.23]] इत्यनेन चकारयकारयोः लोपे कृते 'मधुश्' इति स्थिते <<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> [[8.2.36]] इत्यनेन षत्वे, ततः <<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वेन 'मधुड्' इति अनिष्टः शब्दः सिद्ध्येत् । तथा मा भूत्, अतः श्च्युतिँर्-धातुः सकारादिः स्वीक्रियते, न हि शकारादिः ।\n\n— इति अत्र काशिकाकारस्य आशयः अस्ति ।\n \nTODO\n \nTODO\n\nपदाधिकारः चेत् लत्व-घत्व-ढत्व-नत्व-रुत्व-षत्व-णत्व-अनुनासिक-छत्वानि सिद्धानि वक्तव्यानि ।\nTODO\n \nTODO\n \nTODO\n \nTODO" }, "82004": { "sa": "", "sd": "" }, "82005": { "sa": "", "sd": "" }, "82006": { "sa": "", "sd": "" }, "82007": { "sa": "प्रातिपदिकसंज्ञकम् यत् पदम् तदन्तस्य नकारस्य लोपः स्यात् । ", "sd": "यदि कस्यचन प्रातिपदिकस्य पदसंज्ञा अपि भवति, तर्हि तदन्तस्य नकारस्य अनेन सूत्रेण लोपः क्रियते ।\nयथा - 'राजन् + भ्याम्' इत्यत्र 'राजन्' एतत् प्रातिपदिकम् तु अस्त्येव, तथा च <<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इत्यनेन तस्य पदसंज्ञा अपि विधीयते । अस्यामवस्थायाम् वर्तमानसूत्रेण राजन्-इत्यस्य नकारस्य लोपः भवति, अतः राजभ्याम् इति रूपम् सिद्ध्यति ।\nज्ञातव्यम् - यद्यपि <<पूर्वत्राऽसिद्धम्>> [[8.2.1]] इत्यनेन सपादसप्ताध्यायीं प्रति त्रिपादी असिद्धा अस्ति, तथापि <<नलोप सुप्स्वरसंज्ञातुग्विधिषु कृति>> [[8.2.2]] इत्यनेन नकारलोपः केवलं 'सुप्विधिः/स्वरविधिः/संज्ञाविधिः/कृत्-प्रत्यये परे तुग्विधिः' एतेषु विधिषु एव सपादसप्ताध्यायीं प्रति असिद्धः अस्ति एतत् स्मर्तव्यम् ।\n" }, "82008": { "sa": "प्रातिपदिकान्तम् यत् पदम्, तदन्तस्य नकारस्य ङि-प्रत्यये परे सम्बुद्धि-प्रत्यये च परे लोपः न भवति । ", "sd": "<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.16]] अनेन सूत्रेण प्रातिपदिकान्तस्य पदस्य अन्तिमनकारस्य लोपः विधीयते । अयं लोपः 'ङि'-प्रत्यये परे सम्बोधन-एकवचनस्य सुँ-प्रत्यये च परे न भवति । यथा - राजन् + सुँ [सम्बुद्धिः] → राजन् इत्येव रूपं सिद्ध्यति ।\nअस्मिन् सूत्रे 'ङि' इत्यस्य ग्रहणम् किमर्थम् कृतम्? वस्तुतः लोके तु ङि-प्रत्यये परे नकारान्तशब्दस्य पदसंज्ञा एव न विधीयते, अतः <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.16]] इत्यनेन तस्य लोपः अपि न सम्भवति । अतः लौकिक-संस्कृतार्थम् ङि-ग्रहणम् न आवश्यकम् । परन्तु वेदेषु केषुचन स्थलेषु सप्तम्येकवचनस्य ङि-प्रत्ययस्य लोपः कृतः दृश्यते । यथा - तैत्तिरीयोपनिषदि इदम् सूक्तम् दृश्यते -\nसत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन् ॥ [तैत्तिरीयोपनिषत् 2-1-1]\nअत्र वस्तुतः व्योमन् इति सप्तम्येकवचनमस्ति । <<सुपां सुलुक्....>> [[7.1.39]] इत्यनेन 'व्योमन् + ङि' अत्र ङि-प्रत्ययस्य लोपः जायते । एवं लोपे कृते <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यनेन 'व्योमन्' इत्यस्य पदसंज्ञा भवति । अत्र <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.16]] इत्यनेन नकारलोपः मा भूत्, एवं स्पष्टीकर्तुमस्मिन् सूत्रे ङि-ग्रहणम् कृतमस्ति । अस्य प्रयोगः केवलं वैदिकरूपाणां सिद्ध्यर्थं भवति ।\nअत्र वार्त्तिकमेकं ज्ञातव्यम् - । इत्युक्ते, <<न ङिसम्बुद्ध्योः>> [[8.2.8]] इत्यनेन निर्दिष्टः नकारलोपनिषेधः नपुंसकस्य विषये सम्बुद्धिप्रत्यये परे विकल्पेन भवति । यथा - नामन् + सुँ → नामन्, नाम ।\n" }, "82009": { "sa": "", "sd": "" }, "82010": { "sa": "", "sd": "" }, "82011": { "sa": "", "sd": "" }, "82012": { "sa": "", "sd": "" }, "82013": { "sa": "", "sd": "" }, "82014": { "sa": "", "sd": "" }, "82015": { "sa": "", "sd": "" }, "82016": { "sa": "", "sd": "" }, "82017": { "sa": "", "sd": "" }, "82018": { "sa": "", "sd": "" }, "82019": { "sa": "", "sd": "" }, "82020": { "sa": "", "sd": "" }, "82021": { "sa": "", "sd": "" }, "82022": { "sa": "", "sd": "" }, "82023": { "sa": "यस्य पदस्य अन्ते संयोगः विद्यते तस्य पदस्य अन्तिमवर्णस्य लोपः भवति ।", "sd": "द्वयोः व्यञ्जनयोः स्वरस्य (विरामस्य च) व्यवधानं विना कृतम् उच्चारणम् संयोगः नाम्ना ज्ञायते । एतादृशः संयोगः यस्य पदस्य अन्ते विद्यते, तस्य पदस्य अन्तिमवर्णस्य (इत्युक्ते, संयोगस्य अन्तिमवर्णस्य) प्रकृतसूत्रेण लोपः भवति । उदाहरणानि एतानि —\n\n1) विद्वस्-शब्दस्य पुंलिङ्गस्य प्रथमैकवचनस्य रूपे पदान्तसकारस्य लोपः —\n\nविद्वस् + सुँ [प्रथमैकवचनस्य प्रत्ययः । अस्मिन् प्रत्यये परे <<सुप्तिङन्तं पदम्>> [[1.4.14]] इति पदसंज्ञा अपि भवति ।]\n→ विद्व् न् स् + स् [<<उगिदचां सर्वनामस्थाने अधातोः>> [[7.1.70]] इति नुमागमः]\n→ विद्वान् स् स् [<<सान्तमहतः संयोगस्य>> [[6.4.10]] इति नकारस्य उपधायाः दीर्घः]\n→ विद्वान् स् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इत्यनेन सुँ-प्रत्ययस्य अपृक्तसकारस्य लोपःभवति । सुँप्रत्ययस्य लोपे कृते अपि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यनेन प्रत्ययविशिष्टम् कार्यम् अवश्यम् प्रवर्तते, अतः <<सुप्तिङन्तं पदम्>> [[1.4.14]] इति सुप्-प्रत्ययविशिष्टा पदसंज्ञा अवशिष्टस्य अंशस्य विषये अपि भवति ।]\n→ विद्वान् [पदस्य अन्ते विद्यमानस्य संयोगस्य अन्तिमवर्णस्य <<संयोगान्तस्य लोपः>> [[8.2.23]] इत्यनेन लोपः भवति । अतः अत्र सकारस्य लोपः क्रियते ।]\n\n2) पठ्-धातोः लङ्लकारस्य प्रथमपुरुषबहुवचनस्य रूपे पदान्ततकारस्य लोपः —\n\nपठ् + लङ् [<<अनद्यतने लङ्>> [[3.2.111]] इति लङ् । <<सुप्तिङन्तं पदम्>> [[1.4.14]] इति पदसंज्ञा ।]\n→ पठ् + झि [<<तिप्तस्झि...>> [[3.4.78]] इति प्रथमपुरुषबहुवचनस्य विवक्षायाम् झि-प्रत्ययः]\n→ पठ् + अन्ति [<<झोऽन्तः>> [[7.1.3]] इति झकारस्य अन्त्-आदेशः]\n→ पठ् + अन्त् [<<इतश्च>> [[3.4.100]] इति इकारस्य लोपः]\n→ पठ् + शप् + अन्त् [<<कर्तरि शप्>> [[3.1.68]] इति औत्सर्गिकं गणविकरणम् शप् ]\n→ अट् + पठ् + अ + अन्त् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.78]] इति अडागमः ]\n→ अपठन्त् [<<अतो गुणे>> [[6.1.97]] इति गुणैकादेशः ।\n→ अपठन् [<<संयोगान्तस्य लोपः>> [[8.2.23]] इत्यनेन पदान्ततकारस्य लोपः]\n\nसूत्रे 'अन्त'ग्रहणस्य प्रयोजनम्\nअस्मिन् सूत्रे विद्यमानः संयोगान्तस्य इति शब्दः पदस्य इत्यस्य विशेषणरूपेण प्रयुज्यते । यस्य पदस्य अन्ते संयोगः विद्यते, तादृशस्य पदस्य निर्देशं कर्तुम् संयोगान्तस्य इति शब्दे अन्त इति शब्दः स्थापितः वर्तते । एतादृशस्य पदस्य लोपः भवति — इति प्रकृतसूत्रस्य आशयः । अनेन प्रकारेण सम्पूर्णस्य पदस्य लोपे प्राप्ते <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यनया परिभाषया 'पदस्य अन्तिमवर्णस्यैव लोपः भवति' इति अर्थः स्पष्टी भवति । अतः अस्य सूत्रस्य सम्यक् अर्थज्ञापनार्थम् <<येन विधिस्तदन्तस्य>> [[1.1.72]] इत्यस्य, तथा च <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यस्यापि सूत्रस्य साहाय्यम् आवश्यकम् अस्ति ।\nबाध्यबाधकभावः\nप्रकृतसूत्रेण संयोगान्तस्य पदस्य अन्तिमवर्णस्य लोपे प्राप्ते; <<रात्सस्य>> [[8.2.24]] इति अग्रिमसूत्रेण सः नियम्यते । यत्र यत्र संयोगस्य प्रथमः वर्णः रेफः अस्ति, तत्र तत्र केवलम् सकारस्यैव लोपः भवति इति <<रात्सस्य>> [[8.2.24]] इति सूत्रस्य आशयः ।\nअपि च, पदान्ते विद्यमानस्य संयोगस्य प्रथमवर्णः सकारः उत ककारः अस्ति चेत् प्रकृतसूत्रस्य अपवादरूपेण <<स्कोः संयोगाद्योरन्ते च>> [[8.2.29]] इति सूत्रम् प्रवर्तते, येन संयोगान्तलोपस्य अपेक्षया संयोगादौ विद्यमानस्य सकारस्य ककारस्य च लोपः भवति ।\nवार्त्तिकम् - <!यणः प्रतिषेधो वाच्यः!>\nदध्यत्र, मध्वत्र एतादृशानां शब्दानां सिद्धौ इक्-वर्णस्य यणादेशे कृते यण्-वर्णः नित्यम् पदान्ते एव विधीयते, अतः प्रकृतसूत्रेण तस्य अनिष्टः लोपः प्राप्नोति । एतादृशस्य लोपस्य निवारणार्थम् सिद्धान्तकौमुद्याम् इति वार्त्तिकं पाठ्यते । पदान्ते विद्यमानस्य यण्-वर्णस्य प्रकृतसूत्रेण लोपः न भवति — इति अस्य वार्त्तिकस्य आशयः । प्रक्रिया इयम् —\n\nदधि + अत्र\n→ दध्य् + अत्र [<<इको यणचि>> [[6.1.77]] इति इकारस्य यणादेशः यकारः । अत्र 'दधि' इति शब्दस्य पदसंज्ञा अस्ति, अतः स्थानिवद्भावेन 'दध्य्' इति शब्दस्य अपि पदसंज्ञा अवश्यं भवति । अस्यां स्थितौ <<संयोगान्तस्य लोपः>> [[8.2.23]] इति सूत्रेण यकारस्य लोपः प्राप्नोति । अस्य लोपस्य निवारणार्थं इति वार्त्तिकं दीयते । अनेन वार्त्तिकेन पदान्त-यकारस्य लोपः निवार्यते ।]\n→ दध्यत्र\n\nभाष्यकारेण अत्र अन्यः अपि एकः उपायः उक्तः अस्ति । अत्र प्रक्रियायाम् विद्यमानस्य यणादेशस्य निमित्तम् अग्रे विद्यमानः भिन्नपदस्थः अकारः स्वीक्रियते, परन्तु संयोगान्तलोपस्य निमित्तम् 'दध्य्' इति एकस्मिन् एव पदे विद्यमानः संयोगः अस्ति । अतः, <<बह्वपेक्षम् बहिरङ्गम्, अल्पापेक्षम् अन्तरङ्गम्>> इति सिद्धान्तम् अनुसृत्य अत्र यणादेशस्य अपेक्षया संयोगान्तलोपः अन्तरङ्गः अस्ति । अतश्च <ऽअसिद्धं बहिरङ्गमन्तरङ्गेऽ> इत्यनया परिभाषया यणादेशः संयोगान्तलोपस्य कृते असिद्धः एव ज्ञेयः । इत्युक्ते, यणादेशे कृते तत्पश्चात् संयोगान्तलोपः न हि प्रवर्तते । अयमेव सिद्धान्तः काशिकायाम् अपि उक्तः दृश्यते ।\n'सुध्युपास्यः' इति शब्दस्य चत्वारि रूपाणि\nअस्मिन् सूत्रे सिद्धान्तकौमुद्याम् प्रसङ्गवशात् सुध्युपास्य शब्दस्य — सुध्युपास्य, सुद्ध्युपास्य, सुद्ध्य्युपास्य, सुद्ध्ध्य्युपास्य — इति चत्वारि रूपाणि पाठितानि सन्ति । एतेषाम् प्रक्रिया एतादृशी वर्तते —\n\nसुधीभिः उपास्यः [<<कर्तृकरणे कृता बहुलम्>> [[2.1.32]] इति तृतीयातत्पुरुषः]\nसुधी उपास्य [<<कृत्तद्धितसमासाश्छ>> [[1.2.46]] इति प्रातिपदिकसंज्ञा ।<<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्यययोः लुक्]\n→ सुध्य् उपास्य [<<इको यणचि>> [[6.1.77]] इति यणादेशः]\n→ सुध्युपास्य \n→ सुध्युपास्य, सुध्ध्युपास्य, सुध्य्युपास्य, सुध्ध्युपास्य [<<अनचि च>> [[8.4.47]] इति धकारस्य पाक्षिकं द्वित्वम् । इत्यत्र 'मयः इति पञ्चमी, यणः इति षष्ठी' इति पक्षे यकारस्य अपि पाक्षिकं द्वित्वम् ]\n→ सुध्युपास्य, सुद्ध्युपास्य, सुद्ध्य्युपास्य, सुद्ध्ध्य्युपास्य [<<झलां जश् झशि>> [[8.4.53]] इति प्रथमधकारस्य जश्त्वे दकारः]\n\n\n" }, "82024": { "sa": "पदान्ते विद्यमाने संयोगे रेफः विद्यते चेत् रेफात् परस्य केवलम् पदान्तसकारस्य एव लोपः भवति, अन्यवर्णस्य न ।", "sd": "<<संयोगान्तस्य लोपः>> [[8.2.23]] इति सूत्रेण संयोगान्तस्य पदस्य अन्तिमवर्णस्य लोपः विधीयते । परन्तु अस्मिन् संयोगे प्रथमवर्णः रेफः अस्ति चेत् तस्मात् परस्य केवलं सकारस्य एव लोपः भवति, अन्यवर्णस्य न । उभयथा उदाहरणानि एतानि —\n1. पदान्तसंयोगे विद्यमानात् रेफात् परस्य सकारस्य लोपः — \nपितृ-शब्दस्य पञ्चम्येकवचनस्य रूपसिद्धौ प्रकृतसूत्रेण रेफात् परस्य सकारस्य लोपः भवति —\n\nपितृ + ङस् [पञ्चम्येकवचनस्य प्रत्ययः]\n→ पितुर् + स् [<<ऋत उत्>> [[6.1.111]] इत्यनेन पितृ-इत्यस्य ऋकारस्य तथा ङस्-इत्यस्य अकारस्य पूर्वपरयोः एकः उकारादेशः भवति । सः च <<उरण् रपरः>> [[1.1.51]] इति रपरः भवति । ]\n→ पितुर् [<<रात्सस्य>> [[8.2.24]] इत्यनेन रेफात् परस्य सकारस्य लोपः]\n→ पितुः[ <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n\n2. पदान्तसंयोगे विद्यमानात् रेफात् परस्य अन्यवर्णस्य लोपनिषेधः — \nऊर्ज् इति प्रातिपदिकस्य प्रथमैकवचनस्य रूपसिद्धौ <<संयोगान्तस्य लोपः>> [[8.2.23]] इत्यनेन रेफात् परस्य पदान्तजकारस्य लोपे प्राप्ते <<रात्सस्य>> [[8.2.24]] इति नियमेन सः न प्रवर्तते —\n\nऊर्ज् + सुँ\n→ ऊर्ज् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति सुँ-प्रत्ययस्य लोपः ]\n→ ऊर्ग् [<<संयोगान्तस्य लोपः>> [[8.2.23]] इत्यनेन रेफात् परस्य जकारस्य लोपे प्राप्ते <<रात्सस्य>> [[8.2.24]] इति नियमेन सः न प्रवर्तते; अतः अग्रे <<चोः कुः>> [[8.2.30]] इत्यनेन जकारस्य गकारः भवति ।\n→ ऊर्क् / ऊर्ग् [<<वाऽवसाने>> [[8.4.56]] इति विकल्पेन चर्त्वम्]\n" }, "82025": { "sa": "", "sd": "" }, "82026": { "sa": "", "sd": "" }, "82027": { "sa": "", "sd": "" }, "82028": { "sa": "", "sd": "" }, "82029": { "sa": "यः संयोगः पदस्य अन्ते उत झल्-वर्णात् अव्यवहितरूपेण पूर्वं विद्यते, तस्य आदिस्थस्य सकारस्य ककारस्य च लोपः भवति ।", "sd": "\nझल् = वर्गप्रथमाः + वर्गद्वितीयाः + वर्गतृतीयाः + वर्गचतुर्थाः + ऊष्माणः । आहत्य 24 व्यञ्जनानि\n\n<<संयोगान्तस्य लोपः>> [[8.2.23]] इति सूत्रेण पदान्ते विद्यमानस्य संयोगस्य अन्तिमवर्णस्य लोपे प्राप्ते; तदपवादत्वेन प्रकृतसूत्रं प्रवर्तते । पदान्ते विद्यमानस्य संयोगस्य, तथा च यस्मात् संयोगात् अनन्तरम् अव्यवहितरूपेण झल्-प्रत्याहारस्य वर्णः अस्ति तादृशस्य संयोगस्य प्रथमः वर्णः सकारः उत ककारः अस्ति चेत् तस्य सकारस्य / ककारस्य एव लोपः भवति‌ —‌ इति अस्य सूत्रस्य आशयः । क्रमेण उदाहरणानि एतानि —\n1. पदान्तसंयोगस्य आदिस्थसकारस्य लोपः \nभृस्ज् इति जकारान्तशब्दस्य तृतीयाद्विवचनस्य रूपसिद्धौ प्रकृतसूत्रेण सकारस्य लोपः भवति —\n\nभृस्ज् + भ्याम् [तृतीयाद्विवचनस्य प्रत्ययः । अस्मिन् प्रत्यये परे <<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इत्यनेन प्रकृतेः पदसंज्ञा भवति ।]\n→ भृज् + भ्याम् [<<स्कोः संयोगाद्योरन्ते च>> [[8.2.29]] इति सकारलोपः]\n→ भृष् + भ्याम् [<<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> [[8.2.36]] इति जकारस्य षकारः]\n→ भृड् + भ्याम् [<<झलां जशोऽन्ते>> [[8.2.39]] इति षकारस्य जश्त्वे डकारः]\n→ भृड्भ्याम्\n\n2. अपदान्तसंयोगात् झल्-वर्णे परे आदिस्थसकारस्य लोपः \nमस्ज्-धातोः क्त-प्रत्ययान्तरूपस्य स्थितौ झल्-वर्णे परे प्रकृतसूत्रेण संयोगादिसकारस्य लोपः भवति —\n\nटुमस्जोँ (शुद्धौ, तुदादिः, <{6.151}>)\n→ मस्ज् [<<आदिर्ञिटुडवः>> [[1.3.5]] इति टु-समुदायस्य इत्संज्ञा । <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इति ओकारस्य इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ मस्ज् + क्त [<<निष्ठा>> [[3.2.102]] इति क्तप्रत्ययः]\n→ मस्ज् + त [<<लशक्वतद्धिते>> [[1.3.8]] इति ककारस्य इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ मज् + त [<<स्कोः संयोगाद्योरन्ते च>> [[8.2.29]] इति सकारलोपः]\n→ मग् + त [<<चोः कुः>> [[8.2.30]] इति झलि परे जकारस्य कुत्वे गकारः]\n→ मग् + न [<<ओदितश्च>> [[8.2.45]] इति निष्ठानत्वम्]\n→ मग्न\n\n3. पदान्तसंयोगस्य आदिस्थककारस्य लोपः \nतक्ष् इति षकारान्तशब्दस्य तृतीयाद्विवचनस्य रूपसिद्धौ प्रकृतसूत्रेण ककारस्य लोपः भवति —\n\nतक्ष् + भ्याम् [तृतीयाद्विवचनस्य प्रत्ययः । अस्मिन् प्रत्यये परे <<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इत्यनेन प्रकृतेः पदसंज्ञा भवति ।]\n→ तष् + भ्याम् [<<स्कोः संयोगाद्योरन्ते च>> [[8.2.29]] इति सकारलोपः]\n→ तड् + भ्याम् [<<झलां जशोऽन्ते>> [[8.2.39]] इति षकारस्य जश्त्वे डकारः]\n→ तड्भ्याम्\n\n4. अपदान्तसंयोगात् झल्-वर्णे परे आदिस्थककारस्य लोपः \nअदादिगणस्य चक्ष्-धातोः लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपे तकारादिप्रत्यये परे प्रकृतसूत्रेण संयोागादिककारस्य लोपः भवति —\n\nचक्षिङ् (व्यक्तायां वाचि, अदादिः, <{2.7}>)\n→ चक्ष् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ चक्ष् + त [<<तिप्तस्झि...>> [[3.4.78]] इत्यनेन आत्मनेपदस्य प्रथमपुरुषैकवचनस्य त-प्रत्ययः]\n→ चक्ष् + ते [<<टित आत्मनेपदानां टेरे>> [[3.4.79]] इति एत्वम्]\n→ चक्ष् + शप् + ते [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ चक्ष् + ते [<<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शब्लुक्]\n→ चष् + ते [<<स्कोः संयोगाद्योरन्ते च>> [[8.2.29]] इति ककारलोपः]\n→ चष्टे [<<ष्टुना ष्टुः>> [[8.4.41]] इति ष्टुत्वम्]\n\nदलकृत्यम्\n1. पदान्ते उत झलि परे किमर्थम् ? — यत्र संयोगात् परः स्वरः / अन्तःस्थवर्णः / वर्गपञ्चमः विद्यते, तत्र प्रकृतसूत्रेण संयोगादिसकारस्य संयोगादिककारस्य च लोपः न भवति । यथा, अक्षि इति शब्दस्य पञ्चम्येकवचने अक्ष्णः इत्यत्र नकारे परे संयोगादिककारस्य लोपः न भवति । \n2. स्कोः इति किम्? — प्रकृतसूत्रेण केवलम् सकारस्य ककारस्य च एव लोपः भवति, अन्यवर्णानां न । यथा, भिद्-धातोः लट्लकारस्य प्रथमपुरुषद्विवचनस्य भिन्त्तः इत्यस्मिन् रूपे तकारे परे संयोागादि-नकारस्य लोपः न भवति ।\nबहिरङ्गयणादेशस्य कृते अन्तरङ्गः लोपः असिद्धः भवति \nअसि + अत्र → अस्यत्र, काकु + अत्र → काक्वत्र एतादृशानां शब्दानां सिद्धौ इक्-वर्णस्य यणादेशे कृते पदान्तसंयोगस्य आदौ सकारः ककारः वा जायते, अतः प्रकृतसूत्रेण तस्य अनिष्टः लोपः प्राप्नोति । तस्य निवारणार्थम् <ऽअसिद्धं बहिरङ्गमन्तरङ्गेऽ> इति परिभाषायाः साहाय्यं स्वीक्रियते । अत्र प्रक्रियायाम् विद्यमानस्य यणादेशस्य निमित्तम् अग्रे विद्यमानः भिन्नपदस्थः अकारः अस्ति, परन्तु सकारलोपस्य निमित्तम् अस्य् इति एकस्मिन् एव पदे विद्यमानः संयोगः अस्ति । अतः, <<बह्वपेक्षम् बहिरङ्गम्, अल्पापेक्षम् अन्तरङ्गम्>> इति सिद्धान्तम् अनुसृत्य अत्र यणादेशस्य अपेक्षया सकारलोपः अन्तरङ्गः अस्ति । अतश्च <ऽअसिद्धं बहिरङ्गमन्तरङ्गेऽ> इत्यनया परिभाषया यणादेशः संयोगान्तलोपस्य कृते असिद्धः एव ज्ञेयः । इत्युक्ते, यणादेशे कृते तत्पश्चात् सकारलोपः न हि प्रवर्तते । अयमेव सिद्धान्तः काशिकायाम् अपि उक्तः अस्ति । प्रक्रिया इयम् —\n\nअसि + अत्र\n→ अस्य + अत्र [<<इको यणचि>> [[6.1.77]] इति इकारस्य यणादेशः यकारः । अत्र 'असि' इति शब्दस्य पदसंज्ञा अस्ति, अतः स्थानिवद्भावेन 'अस्य्' इति शब्दस्य अपि पदसंज्ञा अवश्यं भवति । अस्यां स्थितौ <<स्कोः संयोगाद्योरन्ते च>> [[8.2.23]] इति सूत्रेण सकारस्य अनिष्टः लोपः प्राप्नोति । परन्तु <ऽ असिद्धं बहिरङ्गमन्तरङ्गेऽ> इत्यनया परिभाषया यणादेशस्य बहिरङ्गत्वात्, असिद्धत्वात् च अयं लोपः नैव विधीयते ।]\n→ अस्यत्र\n\n" }, "82030": { "sa": "चवर्गीयवर्णस्य पदान्ते उत झल्-वर्णे परे कवर्गादेशः भवति । ", "sd": "\nझल् = वर्गप्रथमाः + वर्गद्वितीयाः + वर्गतृतीयाः + वर्गचतुर्थाः + ऊष्माणः । आहत्य 24 व्यञ्जनानि\n\nपदान्ते विद्यमानस्य चवर्गीयवर्णस्य कवर्गादेशः भवति । एवमेव, यस्मात् चवर्गीयवर्णात् अनन्तरम् अव्यवहितरूपेण झल्-प्रत्याहारस्य वर्णः अस्ति, तस्य चवर्गीयवर्णस्य अपि क-वर्गादेशः भवति । क्रमेण उदाहरणानि एतानि —\n1. पदान्तचवर्गीयवर्णस्य कवर्गादेशः —\n1. वाच् इति चकारान्तशब्दस्य तृतीयाद्विवचने प्रकृतसूत्रेण कवर्गादेशः भवति —\n\nवाच् + भ्याम् [तृतीयाद्विवचनस्य प्रत्ययः । अस्मिन् प्रत्यये परे <<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इत्यनेन प्रकृतेः पदसंज्ञा भवति ।]\n→ वाक् + भ्याम् [<<चोः कुः>> [[8.2.30]] इति पदान्तचकारस्य कुत्वे ककारः]\n→ वाग् + भ्याम् [<<झलां जशोऽन्ते>> [[8.2.39]] इति पदान्तककारस्य जश्त्वे गकारः]\n→ वाग्भ्याम्\n\n2. सुयुज् इति क्विप्-प्रत्ययान्तस्य जकारान्तशब्दस्य सप्तमीबहुवचने प्रकृतसूत्रेण जकारादेशः भवति ।\n\nसुयुज् + सु [सप्तमीबहुवचस्य प्रत्ययः । अस्मिन् प्रत्यये परे <<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इत्यनेन प्रकृतेः पदसंज्ञा भवति ।]\n→ सुयुग् + सु [<<चोः कुः>> [[8.2.30]] इति पदान्तजकारस्य कुत्वे गकारादेशः]\n→ सुयुग् + षु [<<आदेशप्रत्यययोः>> [[8.3.59]] इति षत्वम्]\n→ सुयुक् + षु [<<खरि च>> [[8.4.55]] इति चर्त्वम्]\n→ सुयुक्षु\n\n2. झलि परे चवर्गीयवर्णस्य कवर्गादेशः —\n1. पच्-धातोः चकारस्य क्त-प्रत्यये परे प्रकृतसूत्रेण कुत्वं भवति —\n\nडुपचँष् (पाके, भ्वादिः, <{1.1151}>)\n→ पच् + क्त [<<निष्ठा>> [[3.2.102]]]\n→ पक् + त [<<चोः कुः>> [[8.2.30]] इति झलि परे चकारस्य कुत्वे ककारः]\n→ पक् + व [<<पचो वः>> [[8.2.52]] इति तकारस्य वकारादेशः]\n→ पक्व\n\n2. वृजीँ इति अदादिगणस्य धातोः लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपसिद्धौ प्रकृतसूत्रेण जकारस्य कुत्वं भवति —\n\nवृजीँ (वर्जने, अदादिः, <{2.22}>)\n→ वृज् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ वृज् + त [<<तिप्तस्झि...>> [[3.4.78]] इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य त-प्रत्ययः]\n→ वृज् + ते [<<टित आत्मनेपदानां टेरे>> [[3.4.79]] इति एत्वम्]\n→ वृज् + शप् + ते [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ वृज् + ते [<<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शब्लुक्]\n→ वृग् + ते [<<चोः कुः>> [[8.2.30]] इति कुत्वे गकारः]\n→ वृक् + ते [<<खरि च>> [[8.4.55]] इति चर्त्वम्]\n→ वृक्ते\n\nअञ्च्, क्रुञ्च् आदिषु धातुषु औपदेशिक-अवस्थायाम् उपधायां नकारः विद्यते, न हि ञकारः । अस्य नकारस्य अग्रे अनुस्वार-परसवर्णेन ञकारादेशः भवति, यः प्रकृतसूत्रस्य कृते असिद्धः अस्ति । अतः एतेषां विषये चवर्गीय-ञकारस्य झल्-वर्णे परे (चकारे परे) प्रकृतसूत्रेण कुत्वं न भवति ।\nबाध्यबाधकभाबः\n<<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> [[8.2.36]] इति सूत्रेण निर्दिष्टम् षत्वम् प्रकृतसूत्रस्य अपवादरूपेण प्रवर्तते । अतः राज् + भ्याम् इत्यादिषु स्थलेषु प्रकृसूत्रेण जकारस्य प्राप्तं गकारादेशं बाधित्वा <<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> [[8.2.36]] इति सूत्रेण जकारस्य षत्वं विधीयते । \n" }, "82031": { "sa": "हकारस्य पदान्ते झलि परे वा ढकारादेशः भवति ।", "sd": "पदान्ते विद्यमानस्य हकारस्य नित्यम् ढकारादेशः भवति । अपदान्ते विद्यमानस्य हकारस्य झलि परे ढकारादेशः भवति ।\nयथा -\n1) 'मधुलिह्' इत्यस्य हकारान्तपुंलिङ्गशब्दस्य तृतीयैकवचनस्य रूपम् -\nमधुलिह् + भ्याम् [तृतीयैकवचनस्य प्रत्ययः]\n→ मधुलिढ् + भ्याम् [<<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इति 'लिह्' इत्यस्य पदसंज्ञा । अतः हकारस्य <<हो ढः>> [[8.2.31]] इति ढकारः ।]\n→ मधुलिड् भ्याम् [<<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वम् ।]\n→ मधुलिड्भ्याम् ।\n2) गुहुँ (संवरणे) अस्य धातोः क्त-प्रत्यये प्रक्रिया इयम् -\nगुह् + क्त [<<निष्ठा>> [[3.2.102]] इति क्त-प्रत्ययः]\n→ गुढ् + त [अपदान्तहकारस्य <<हो ढः>> [[8.2.31]] इति झलि परे ढकारः]\n→ गुढ् + ध [<<झषस्तथोर्धोऽधः>> [[8.2.40]] इत्यनेन तकारस्य धकारः]\n→ गुढ् + ढ [<<ष्टुना ष्टुः>> [[8.4.41]] इति ष्टुत्वे धकारस्य ढकारः]\n→ गुढ [<<ढो ढे लोपः>> [[8.3.13]] इति ढकारे परे ढकारस्य लोपः । ष्टुत्वमस्य कृते सिद्धमस्ति ।]\n→ गूढ [<<ढ्रलोपे पूर्वस्य दीर्घोणः>> [[6.3.111]] इति उकारस्य दीर्घः । ढकारलोपः अस्य कृते सिद्धः अस्ति ।]\n" }, "82032": { "sa": "दकारादि-धातोः अन्तिमहकारस्य पदान्ते झल्-वर्णे वा परे घकारादेशः भवति । ", "sd": "<<हो ढः>> [[8.2.31]] इत्यनेन हकारस्य पदान्ते / झलि परे ढकारः विधीयते । परन्तु यदि सः हकारः दकारादि-धातोः अवयवः अस्ति तर्हि तस्य पदान्ते झलि परे च ढकारस्य अपवादत्वेन वर्तमानसूत्रेण घकारादेशः भवति । यथा -\n1. दुह्-धातोः क्विप्-प्रत्यये कृते उत्पन्नस्य प्रातिपदिकस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -\nदुह् + क्विप् [<<क्विप् च>> [[3.2.76]] इति क्विप्]\n→ दुह् + व् [इत्संज्ञालोपः। इकारः केवलमुच्चारणार्थः अस्ति अतः तस्यापि लोपः भवति ।]\n→ दुह् [<<वेरपृक्तस्य>> [[6.1.67]] इति वकारलोपः । 'दुह्' इत्यस्य <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <ऽक्विबन्ताः विजन्ताश्च प्रातिपदिकत्वं न जहति, धातुत्वमपि न मुञ्चन्तिऽ> इत्यनेन सिद्धान्तेन अस्य धातुसंज्ञा अपि अस्त्येव ।]\n→ दुह् + सुँ [<<स्वौजस्...>> [[4.1.2]] इति प्रथमैकवचनस्य विवक्षायाम् सुप्-प्रत्ययः]\n→ दुह् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति सुँ-प्रत्ययस्य लोपः । लोपेऽपि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इति दुह्-इत्यस्य <<सुप्तिङन्तं पदम्>> [[1.4.14]] इति पदसंज्ञा]\n→ दुघ् [<<दादेर्धातोर्घः>> [[8.2.32]] इति पदान्तहकारस्य घत्वम्]\n→ धुघ् [<<एकाचो बशो भष् झषन्तस्य स्ध्वोः>> [[8.2.37]] इति भष्ट्वे धकारः]\n→ धुग् [<<झलां जशोऽन्ते>> [[8.2.39]] इति पदान्तघकारस्य गकारः]\n→ धुग्, धुक् [<<वाऽवसाने>> [[8.4.56]] इति वैकल्पिकः ककारः]\n2. दह्-धातोः क्त-प्रत्ययान्तरूपस्य प्रक्रिया इयम् -\nदह् + क्त [<<निष्ठा>> [[3.2.102]] इति क्त-प्रत्ययः]\n→ दह् + त [इत्संज्ञालोपः]\n→ दघ् + त [<<हो ढः>> [[8.2.31]] इत्यनेन हकारस्य ढकारे प्राप्ते अपवादत्वेन <<दादेर्धातोर्घः>> [[8.2.32]] इत्यनेन झलि परे दह्-इत्यस्य हकारस्य घकारः]\n→ दघ् + ध [<<झषस्तथोर्धोऽधः>> [[8.2.40]] इत्यनेन झष्-वर्णात् परस्य तकारस्य धकारः]\n→ दग् + ध [<<झलां जश् झशि>> [[8.4.53]] इत्यनेन घकारस्य गकारः]\n→ दग्ध\nज्ञातव्यम् - अत्र 'हः धातोः' इति तदन्तविधिः अस्ति, अतः अस्य अर्थः 'हकारान्त-धातोः' इति भवति । " }, "82033": { "sa": "द्रुहँ, मुहँ, ष्णुहँ तथा ष्णिहँ - एतेषांं धातूनाम् हकारस्य पदान्ते झलि परे वा विकल्पेन घकारादेशः भवति, घकारादेशाभावे औत्सर्गिकः ढकारादेशः भवति । ", "sd": "एतत् सूत्रम् द्रुहँ (जिघांसायाम्), मुहँ (वैचित्ये), ष्णुहँ (उद्गिरणे) तथा ष्णिहँ (प्रीतौ) - एतेषां चतुर्ण्णाम् धातूनाम् विषये अस्ति । एतेभ्यः द्रुह्-धातोः हकारस्य <<दादेर्धातोर्घः>> [[8.2.32]] इत्यनेन नित्यम् घकारादेशे प्राप्ते, तथा च अन्येषां त्रयाणाम् घकारादेशे अप्राप्ते; प्रकृतसूत्रेण एतेषां चतुर्ण्णाम् विषये हकारस्य विकल्पेन घकारादेशः विधीयते । घकारादेशस्य अभावे <<हो ढः>> [[8.2.31]] इत्यनेन औत्सर्गिकः ढकारादेशः अपि भवति । उदाहरणानि एतानि -\n1. द्रुह्-धातोः क्त-प्रत्ययान्तरूपम् -\nद्रुह् + क्त [<<निष्ठा>> [[3.2.102]]\n→ द्रुह् + त [इत्संज्ञालोपः]\n→ द्रुघ् + त [<<वा द्रुहमुहष्णुहष्णिहाम्>> [[8.2.33]] इत्यनेन विकल्पेन हकारस्य घकारः]\n→ द्रुघ् + ध [<<झषस्तथोर्धोऽधः>> [[8.2.40]] इत्यनेन झष्-वर्णात् परस्य तकारस्य धकारः]\n→ द्रुग् + ध [<<झलां जश् झशि>> [[8.4.53]] इत्यनेन जश्त्वम्]\n→ द्रुग्ध\nघकारादेशस्य अभावे प्रक्रिया इयम् भवति -\nद्रुह् + क्त [<<निष्ठा>> [[3.2.102]]\n→ द्रुह् + त [इत्संज्ञालोपः]\n→ द्रुढ् + त [<<वा द्रुहमुहष्णुहष्णिहाम्>> [[8.2.33]] इत्यनेन विकल्पेन हकारस्य घकारे न कृते <<हो ढः>> [[8.2.31]] इति औत्सर्गिकः ढकारः]\n→ द्रुढ् + ध [<<झषस्तथोर्धोऽधः>> [[8.2.40]] इत्यनेन झष्-वर्णात् परस्य तकारस्य धकारः]\n→ द्रुढ् + ढ [<<ष्टुना ष्टुः>> [[8.4.41]] इति ष्टुत्वम् ]\n→ द्रु + ढ [<<ढो ढे लोपः>> [[8.3.13]] इति ढकारस्य ढकारे परे लोपः । एतस्य कृते ष्टुत्वम् सिद्धमस्ति ।]\n→ द्रूढ [<<ढ्रलोपे पूर्वस्य दीर्घोणः>> [[6.3.111]] इति अण्-वर्णस्य दीर्घादेशः । एतस्य कृते ढकारलोपः सिद्धः अस्ति]\nअत्र निर्दिष्टः धातुः 'द्रुह्' (= द् + र् + उ + ह्) इति अस्ति, दृह् (द् + ऋ + ह्) इति नास्ति एतत् स्मर्तव्यम् ।\n2. मुह्-धातोः तृच-प्रत्ययान्तस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -\nमुह् + तृच् + सुँ [<<ण्वुल्तृचौ>> [[3.1.133]] इति तृच्-प्रत्ययः । <<स्वौजस्..>> [[4.1.2]] इति प्रथमैकवचनस्य सुँ-प्रत्ययः]\n→ मोह् तृ सुँ [<<पुगन्तलघूपधस्य च>> [[7.3.86]] इति गुणः]\n→ मोह् त् अन् स् [<<ऋदुशनस्पुरुदंसोऽनेहसां च>> [[7.1.94]] इत्यनेन अङ्गस्य 'अनङ्' आदेशः ]\n→ मोह् तान् स् [<<अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्>> [[6.4.11]] इति अङ्गस्य उपधादीर्घः]\n→ मोह् तान् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इत्यनेन सुँ-प्रत्ययस्य लोपः]\n→ मोह् ता [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारस्य लोप]\n→ मोघ् ता [<<वा द्रुहमुहष्णुहष्णिहाम्>> [[8.2.33]] इत्यनेन विकल्पेन हकारस्य घकारः]\n→ मोघ् धा [<<झषस्तथोर्धोऽधः>> [[8.2.40]] इति तकारस्य धकारः]\n→ मोग् धा [<<झलां जश् झशि>> [[8.4.53]] इति घकारस्य गकारः]\n→ मोग्धा\nघकारादेशस्य अभावे प्रक्रिया इयम् भवति -\nमुह् + तृच् + सुँ [<<ण्वुल्तृचौ>> [[3.1.133]] इति तृच्-प्रत्ययः । <<स्वौजस्..>> [[4.1.2]] इति प्रथमैकवचनस्य सुँ-प्रत्ययः]\n→ मोह् तृ सुँ [<<पुगन्तलघूपधस्य च>> [[7.3.86]] इति गुणः]\n→ मोह् त् अन् स् [<<ऋदुशनस्पुरुदंसोऽनेहसां च>> [[7.1.94]] इत्यनेन अङ्गस्य 'अनङ्' आदेशः ]\n→ मोह् तान् स् [<<अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्>> [[6.4.11]] इति अङ्गस्य उपधादीर्घः]\n→ मोह् तान् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इत्यनेन सुँ-प्रत्ययस्य लोपः]\n→ मोह् ता [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इति नकारस्य लोप]\n→ मोढ् ता [<<वा द्रुहमुहष्णुहष्णिहाम्>> [[8.2.33]] इत्यनेन विकल्पेन हकारस्य घकारे न कृते <<हो ढः>> [[8.2.31]] इति औत्सर्गिकः ढकारः]\n→ मोढ् धा [<<झषस्तथोर्धोऽधः>> [[8.2.40]] इति तकारस्य धकारः]\n→ मोढ् ढा [<<ष्टुना ष्टुः>> [[8.4.41]] इति ष्टुत्वम् ]\n→ मोढा [<<ढो ढे लोपः>> [[8.3.13]] इति ढकारस्य ढकारे परे लोपः । एतस्य कृते ष्टुत्वम् सिद्धमस्ति ।]\nष्णुहँ तथा ष्णिहँ धातोः <<धात्वादे षः सः>> [[6.1.64]] इत्यनेन षकारस्य सकारे कृते, ष्टुत्वनिवृत्या णकारस्यापि नकारं कृत्वा 'स्नुह्' / 'स्निह्' एते सिद्ध्यतः । एतयोः प्रक्रिया अपि मुह्-धातुवद् एव अस्ति । यथा, स्नुह् + क्त = स्नुग्ध, स्नूढ । स्निह् + क्त = स्निग्ध, स्नीढ ।\n" }, "82034": { "sa": "नह्-धातोः अन्तिमहकारस्य पदान्ते झल्-वर्णे वा परे धकारादेशः भवति ।", "sd": "णहँ (बन्धने) अस्य धातोः हकारस्य झलि परे पदान्ते च <<हो ढः>> [[8.2.31]] इत्यनेन ढत्वे प्राप्ते वर्तमानसूत्रेण अपवादत्वेन धत्वम् विधीयते । यथा -\n1) 'उप+नह्' इत्यस्य क्विप्-प्रत्यये कृते 'उपानह्' अयं हकारान्तः शब्दः सिद्ध्यति । अस्य प्रथमैकवचने -\nउपानह् + सुँ\n→ उपानह् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति सुँलोपः । लोपेऽपि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इति नह्-इत्यस्य <<सुप्तिङन्तं पदम्>> [[1.4.14]] इति पदसंज्ञा]\n→ उपानध् [<<नहो धः>> [[8.2.34]] इति पदान्ते हकारस्य धकारः]\n→ उपानद् [<<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वम्]\n→ उपानद् / उपानत् [<<वा पदान्तस्य>> [[8.4.56]] इति वैकल्पिकं चर्त्वम्]\n2) नह्-धातोः क्त-प्रत्ययान्तरूपम् -\nनह् + क्त [<<निष्ठा>> [[3.2.102]] इति क्त-प्रत्ययः]\n→ नध् + त [हकारस्य <<नहो धः>> [[8.2.34]] इति झलि परे धकारः]\n→ नध् + ध [<<झषस्तथोर्धोऽधः>> [[8.2.40]] इत्यनेन तकारस्य धकारः]\n→ नद् + ध [<<झलां जश् झशि>> [[8.4.55]] इति धकारस्य दकारः]\n→ नद्ध\n" }, "82035": { "sa": "'आह्' इत्यस्य हकारस्य झलि परे थकारादेशः भवति ।", "sd": "<<ब्रुवः पञ्चानामादित आहो ब्रुवः>> [[3.4.84]] अनेन सूत्रेण ब्रू-धातोः लट्-लकारस्य विषये परस्मैपदस्य तिप्/तस्/झि/सिप्/थस्-एतेषाम् पञ्च प्रत्ययानाम् विकल्पेन णल्-अतुस्-उस्-थल्-अथुस् एते आदेशाः भवन्ति, तथा च ब्रू-धातोः आह्-आदेशः भवति । अयमेव 'आह्' आदेशः अस्मिन् सूत्रे निर्दिष्टः अस्ति । अस्य 'आह्' इत्यस्य झल्-वर्णे परे थकारादेशः भवति । यथा, ब्रू-धातोः लट्-लकारस्य प्रथमपुरुष-द्विवचनस्य प्रक्रिया इयम् -\nब्रू + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ ब्रू + सिप् [<<तिप्तस्..>> [[3.4.78]] इति मध्यमपुरुष-एकवचनस्य सिप्-प्रत्ययः]\n→ ब्रू + शप् + सिप् [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ ब्रू + सिप् [<<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शप्-प्रत्ययस्य लुक]\n→ आह् + थल् [<<ब्रुवः पञ्चानामादित आहो ब्रुवः>> [[3.4.84]] इति ब्रू-धातोः परस्य मध्यमपुरुषैकवचनस्य सिप्-इत्यस्य थल्-आदेशः, तथा 'ब्रू' इत्यस्य 'आह्' आदेशः\n→ आथ् थ [<<आहस्थः>> [[8.2.35]] इति हकारस्य थकारः]\n→ आत्थ [<<खरि च>> [[8.4.55]] इति चर्त्वम् ]\n" }, "82036": { "sa": "व्रश्च्, भ्रस्ज्, सृज्, मृज्, यज्, राज्, भ्राज् - एतेषां शब्दानाम् , शकारान्तशब्दानाम् छकारान्तशब्दानाम् च झलि परे तथा च पदान्ते षकारादेशः भवति ।", "sd": "अनेन सूत्रेण निर्दिष्टः षकारादेशः <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यनेन स्थानिनः अन्तिमवर्णस्य स्थाने विधीयते ।\nउदाहरणानि -\n1) व्रश्च् + तुमुन् → व्रष्टुम् । षकारादेशात् परमत्र <<ष्टुना ष्टुः>> [[8.4.41]] इति ष्टुत्वमपि भवति ।\n2) भ्रस्ज् + तृच् → भ्रष्टा । अत्र <<स्कोः संयोगाद्योरन्ते च>> [[8.2.29]] इत्यनेन सकारलोपे कृते, वर्तमानसूत्रेण षकारादेशः भवति । ततश्च <<ष्टुना ष्टुः>> [[8.4.41]] इति ष्टुत्वमपि भवति ।\n3) सृज् + क्त → स्रष्ट । अत्र आदौ वर्तमानसूत्रेण षकारादेशः भवति, ततश्च <<ष्टुना ष्टुः>> इति ष्टुत्वमपि भवति ।\n4) मृज् + तिप् → मार्ष्टि । प्रक्रिया इयम् -\nमृज् + तिप् लट्-लकारस्य प्रथमपुरुषैकवचनस्य विवक्षायाम् 'ति' प्रत्ययः\n→ मृज् + शप् + ति [<<कर्तरि शप्>> [[3.1.68]] इति औत्सर्गिकं विकरणम् शप् ]\n→ मृज् + ति [<<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इत्यनेन शप्-इत्यस्य लुक्]\n→ मार्ज् + ति [<<मृजेर्वृद्धिः>> [[7.2.114]] इति ऋकारस्य वृद्धि-आदेशः । सः च <<उरण् रपरः>> [[1.1.51]] इति रपरः]\n→ मार्ष् + ति [<<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> [[8.2.36]] इति षकारादेशः]\n→ मार्ष् टि [<<ष्टुना ष्टुः>> [[8.4.41]] इति ष्टुत्वम्]\n→ मार्ष्टि\n5) यज् + तृच् → यष्टा । षकारादेशात् परमत्र <<ष्टुना ष्टुः>> [[8.4.41]] इत्यनेन ष्टुत्वम् विधीयते ।\n6) सम्राज् + भ्याम् → सम्राड्भ्याम् । अत्र वर्तमानसूत्रेण पदान्ते जकारस्य षत्वम्, ततः च <<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वे डकारः भवति ।\n7) भ्राज् + भ्याम् → भ्राड्भ्याम् ।\n8) च्छकारान्तशब्दाः - यथा - प्रच्छ् + तुमुन् → प्रष्टुम् । वर्तमानसूत्रेण 'च्छ्' इति समुदायस्य षत्वं भवति, यतः सूत्रे 'च्छ्' इत्यस्य निर्देशः कृतः अस्ति ।\n9) शकारान्तशब्दाः - यथा - विश् + भ्याम् → विड्भ्याम् । अत्र वर्तमानसूत्रेण पदान्ते शकारस्य षत्वम्, ततः च <<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वे डकारः भवति ।\n" }, "82037": { "sa": "धातोः यः एकाच् झषन्तः अवयवः, तस्य बश्-वर्णस्य, पदान्ते, सकारे, ध्व-शब्दे वा परे भष्-स्यात् ।", "sd": "अस्य सूत्रस्य अर्थः किञ्चित् क्लिष्टः अस्ति । अतः क्रमेण पश्यामः -\n1. सर्वप्रथमं सूत्रेऽस्मिन् ये चत्वारः प्रत्याहाराः प्रयुक्ताः ते ज्ञातव्याः -\nबश् = ब्, ग्, ड्, द् = जकारं विहाय अन्ये वर्गतृतीयाः ।\nभष् = भ्, घ्, ढ्, ध् = झकारं विहाय अन्ये वर्गचतुर्थाः ।\nझष् = झ्, भ्, घ्, ढ्, ध् = सर्वे वर्गचतुर्थाः ।\nअच् = सर्वे स्वराः\n2. तदनन्तरम् 'एकाच्' इति किं तत् ज्ञातव्यम् । 'एकाच्' अयं बहुव्रीहिसमासः अस्ति - एकः अच् यस्मिन् अस्ति सः एकाच् । इत्युक्ते, सः शब्दः वर्णसमूहः वा, यस्मिन् केवलम् एकः स्वरः अस्ति । यथा - वद्, जि, अट्, श्वन्, लिह् - एतेषु शब्देषु केवलं एकः एव स्वरः अस्ति, अतः एते सर्वे शब्दाः एकाच्-शब्दाः सन्ति । ज्ञातव्यम् - एकाच्-शब्दे व्यञ्जनानि अनेकानि भवितुं शक्यन्ते । परन्तु स्वरः केवलं एकः एव भवेत् ।\n3. इदानीं 'झषन्तः' इत्युक्ते किं तत् पश्यामः । 'झषन्त-एकाच् शब्दः' इत्युक्ते सः एकाच् शब्दः, यस्य अन्ते झष्-वर्णः अस्ति । यथा - लभ्, मघ्, क्षुध्, उज्झ् - आदयः सर्वे झषन्ताः एकाचः धातवः सन्ति ।\n4. अग्रे 'बश्' इति किं तत् पश्यामः । 'झषन्तस्य-एकाचः बश्' इत्युक्ते यः एकाच् शब्दः झषन्तः अस्ति, तस्मिन् उपस्थितः बश् वर्णः । यथा - गृध्-धातुः एकाच् अस्ति, झषन्तः च अस्ति । एतस्मिन् उपस्थितः बश्-वर्णः इत्युक्ते 'ग'कारः । ज्ञातव्यम् - अयं बश्-वर्णः अस्मिन् एकाच्-झषन्त-शब्दे कुत्रापि भवितुमर्हति ।\n5. अस्मिन् सूत्रे 'धातोः' इति अनुवृत्तिः अस्ति । परन्तु भाष्यकारेण अत्र 'धातोः' इत्युक्ते 'धातोः अवयवस्य' इति अर्थः स्वीकरणीयः इति लिखितमस्ति । धातोः अवयवः इत्युक्ते धातोः कश्चन विभागः ।\n6. अतः एतत् सर्वम् एकत्रीकृत्य सूत्रेऽस्मिन् स्थानी कः भवति? - 'धातोः एकाच्-झषन्त-अवयवस्य बश्-वर्णः' अत्र स्थानी भवति ।\n7. अत्र आदेशः कः ? भष्-इति आदेशः । अतः उपरिनिर्दिष्टः यः बश् वर्णः स्थानी, तस्य भष्-आदेशः स्यात् । <<यथासङ्ख्यमनुदेशः समानाम्>> [[1.3.10]] इत्यनेन बकारस्य भकारः, गकारस्य घकारः, डकारस्य ढकारः, दकारस्य धकारः आदेशः स्यात्।\n8. निमित्तं किम्? स्ध्वोः इति सप्तमी-द्विवचनम् । सकारे परे, ध्व-प्रत्यये च परे इत्यर्थः । अस्मिन् सूत्रे 'पदान्ते' इत्यपि अनुवृत्तिः अस्ति, अतः पदान्तम् इत्यपि निमित्तम् ।\nइदानीं सम्पूर्णसूत्रस्य अर्थः सरलतया ज्ञातुं शक्यते - धातोः यः एकाच् झषन्तः अवयवः, सः यदि पदान्तः अस्ति, नोचेत् तस्मात् परः यदि सकारः ध्व-प्रत्ययः वा अस्ति, तर्हि तस्य बश्-वर्णस्य भष्-स्यात् ।\nप्रत्येकम् एकं एकं उदाहरणं पश्यामः ।\n1) पदान्ते - दुह् (प्रपूरणे, इत्युक्ते, धेनोः दुग्धनिष्कासनम्) अस्य धातोः क्विप्-प्रत्यये परे 'दुह्' इति प्रातिपदिकं सिद्ध्यति । (क्विप् इत्यस्य सर्वस्य लोपः भवति, अतः अङ्गस्य किमपि परिवर्तनं न भवति ।) । दुह् इत्युक्ते दोग्धा (यः धेनोः दुग्धं निष्कासयति सः) । अस्य शब्दस्य प्रथमैकवचनस्य प्रक्रियां पश्यामः -\nदुह् + सुँ\n→ दुह् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इत्यनेन सुँ-प्रत्ययस्य लोपः]\n→ दुघ् [<<दादेर्धातोर्घः>> [[8.2.32]] इत्यनेन दकारादेः धातोः अन्तिम-हकारस्य पदान्ते घकारादेशः स्यात्]\n→ धुघ् [अत्र सुँ-प्रत्ययस्य लोपेऽपि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यनेन 'दुघ्' इति पदसंज्ञाम् स्वीकरोति । तथा च, अयं शब्दः एकाच्-झषन्त-धात्ववयवः अस्ति । एतादृशस्य पदान्ते विद्यमानस्य एकाचः भषन्तः धात्वयवस्य बश्-वर्णस्य (इत्युक्ते, दकारस्य) <<एकाचो बशो भष् झषन्तस्य स्ध्वोः>> [[8.2.37]] इत्यनेन भष् वर्णः इत्युक्ते धकारः भवति ।)\n→ धुग् [<<झलां जशोऽन्ते>> [[8.2.39]] इत्यनेन घकारस्य गकारः]\n→ धुक् [<<वाऽवसाने>> [[8.4.56]] इत्यनेन विकल्पेन ककारः]\nअनेन प्रकारेण दुह्-शब्दस्य प्रथमैकवचनस्य धुग् / धुक् एते द्वे रूपे भवतः ।\n2) सकारे परे - बुध् (अवगमने) धातोः लृट्लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया -\nबुध् + लृट् [<<लृट् शेषे च>> [[3.1.13]]]\n→ बुध् + त [<<तिप्तस्झि...>> [[3.4.78]] इति तिबादयः । आत्मनेपदस्य प्रथमपुरुषैकवचनस्य विवक्षायाम् 'त' प्रत्ययः]\n→ बुध् + स्य + त [<<स्यतासी लृलुटोः>> [[3.1.33]] इति विकरणप्रत्ययः]\n→ बुध् + स्य + ते [<<टित आत्मनेपदानां टेरे>> [[3.4.79]] इति एकारः]\n→ बोध् + स्य + ते [<<पुगन्तलघूपधस्य च>> [[7.3.85]] इति गुणः]\n→ भोध् + स्य + ते [<<एकाचो बशो भष् झषन्तस्य स्ध्वोः>> [[8.2.37]] इति सकारे परे बुध्-इत्यस्य बकारस्य भकारः]\n→ भोत् + स्य + ते [<<खरि च>> [[8.4.55]] इति चर्त्वम् ]\n→ भोत्स्यते ।\n3) ध्वशब्दे परे - बुध् (अवगमने) धातोः लुङ्लकारस्य मध्यमपुरुषबहुवचनस्य प्रक्रिया -\nबुध् + लुङ् [<<लुङ्>> [[3.2.110]] ]\n→ बुध् + च्लि + ल् [<<च्लि लुङि>> [[3.1.43]] इति च्लि-विकरणप्रत्ययः]\n→ बुध् + सिच् + ल् [<<च्लेः सिच्>> [[3.1.44]] इति च्लि-इत्यस्य सिच्-आदेशः । <<लिङ्सिचावात्मनेपदेषु>> [[1.2.11]] इत्यनेन सिच्-प्रत्ययस्य किद्वद्भावः । अतः <<क्ङिति च>> [[1.1.5]] इत्यनेन उपधागुणनिषेधः]\n→ अट् + बुध् + स् + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ + बुध् + स् + ध्वम् <<तिप्तस्झि...>> [[3.4.78]] इति तिबादयः । आत्मनेपदस्य मध्यमपुरुषैकवचनस्य विवक्षायाम् 'ध्वम् ' प्रत्ययः]\n→ अट् + बुध् + ध्वम् [<<धि च>> [[8.2.25]] इति सकारलोपः]\n→ अ + भुध् + ध्वम् [<<एकाचो बशो भष् झषन्तस्य स्ध्वोः>> [[8.2.37]] इति ध्वशब्दे परे बुध्-इत्यस्य बकारस्य भकारः]\n→ अ + भुद् + ध्वम् [<<झलां जश् झशि>> [[8.4.53]] इति जश्त्वम् ]\n→ अभुद्ध्वम्" }, "82038": { "sa": "धा-धातोः 'दध्' इत्यस्य रूपस्य झषन्तस्य एकाच्-अवयवस्य बश्-वर्णस्य तकारे, थकारे, सकारे, ध्वप्रत्यये च परे भष् भवति ।", "sd": "एतत् सूत्रम् 'डुधाञ् (धारणपोषणयोः) अस्य धातोः विषये अस्ति । केषुचन लकारेषु अस्य धातोः द्वित्वं भवति (यथा, लट्लकारे 'दधाति' इति रूपं भवति।) केवलं एतेषु स्थलेषु एव अनेन सूत्रेण धातोः एकाच्-झषन्तस्य यः बश्-वर्णः तस्य तकारे, थकारे, सकारे, ध्वशब्दे च परे भष्-आदेशः भवति । एतत् निर्देष्टुम् एव अस्मिन् सूत्रे 'दधः' इति उक्तमस्ति ।\nअत्र अन्यः एकः विशेषः ज्ञातव्यः । धा-धातोः द्वित्वे कृते धकारस्य दकारः <<अभ्यासे चर्च्च>> [[8.4.54]] अनेन सूत्रेण विधीयते । एतत् सूत्रमष्टमाध्यायस्य चतुर्थपादे अस्ति, अतः वस्तुतः <<दधस्तथोश्च>> [[8.2.38]] इत्यस्य कृते एतत् जश्त्वमसिद्धम् स्यात् । परन्तु अस्मिन् सूत्रे 'दधः' इत्येव उक्तमस्ति, अतः 'वचनसामर्थ्यात्' <<अभ्यासे चर्च्च>> [[8.4.54]] एतत् सूत्रम् <<दधस्तथोश्च>> [[8.2.38]] अस्य कृते असिद्धम् नास्ति ।\nउदाहरणानि एतानि -\n1. धा-धातोः परस्मैपदस्य लट्-लकारस्य प्रथमपुरुष-द्विवचनस्य रुपसिद्धौ -\nधा + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ धा + तस् [<<तिप्तस्...>> [[3.4.78]] इति प्रथमपुरुषद्विवचनस्य तस्-प्रत्ययः]\n→ धा + शप् + तस् [<<कर्तरि शप्>> [[3.1.68]] इति औत्सर्गिकं विकरणम् शप् ]\n→ धा धा + तस् [<<जुहोत्यादिभ्यः श्लुः>> [[2.4.75]] इति विकरणस्य श्लुः (इत्युक्ते लोपः) । <<श्लौ>> [[6.1.10]] इति धातोः एकाचः अङ्गस्य द्वित्वम्]\n→ ध धा तस् [<<ह्रस्वः>> [[7.4.59]] इति अभ्यासस्य ह्रस्वः]\n→ ध ध् तस् [<<श्नाभ्यस्तयोरातः>> [[6.4.112]] इति आकारलोपः]\n→ द ध् तस् [<<अभ्यासे चर्च्च>> [[8.4.54]] इति अभ्यासस्य जश्त्वम्]\n→ धध् तस् [धा-धातोः एकाच्-झषन्त-अवयवः 'दध्', तस्य बश्-वर्णः दकारः । अस्य दकारस्य 'तस्' प्रत्ययस्य तकारे परे <<दधस्तथोश्च>> [[8.2.38]] इत्यनेन धकारः भवति ।]\n→ ध त् तः [विसर्गनिर्माणम् ; <<खरि च>> [[8.4.55]] इत्यनेन धकारस्य तकारः]\n2. धा-धातोः परस्मैपदस्य लङ्-लकारस्य मध्यमपुरुष-एकवचनस्य रुपसिद्धौ -\nधा + लङ् [<<अनद्यतने लङ्>> [[3.2.111]] इति लङ् ]\n→ अट् धा लङ् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ + धा थास् [<<तिप्तस्...>> [[3.4.78]] इति आत्मनेपदस्य मध्यमपुरुषैकवचनस्य थास्-प्रत्ययः]\n→ अ धा शप् थास् [<<कर्तरि शप्>> [[3.1.68]] इति औत्सर्गिकं विकरणम् शप् ]\n→ अ धा धा थास् [<<जुहोत्यादिभ्यः श्लुः>> [[2.4.75]] इति विकरणस्य श्लुः (इत्युक्ते लोपः) । <<श्लौ>> [[6.1.10]] इति धातोः एकाचः अङ्गस्य द्वित्वम्]\n→ अ ध धा थास् [<<ह्रस्वः>> [[7.4.59]] इति अभ्यासस्य ह्रस्वः]\n→ अ ध ध् थास् [<<श्नाभ्यस्तयोरातः>> [[6.4.112]] इति आकारलोपः]\n→ अ द ध् थास् [<<अभ्यासे चर्च्च>> [[8.4.54]] इति अभ्यासस्य जश्त्वम्]\n→ अ ध ध् थास् [धा-धातोः एकाच्-झषन्त-अवयवः 'दध्', तस्य बश्-वर्णः दकारः । अस्य दकारस्य 'थस्' प्रत्ययस्य थकारे परे <<दधस्तथोश्च>> [[8.2.38]] इत्यनेन धकारः भवति ।]\n→ अ ध त् थाः [विसर्गनिर्माणम् ; <<खरि च>> [[8.4.55]] इत्यनेन धकारस्य तकारः]\n3. धा-धातोः आत्मनेपदस्य लोट्-लकारस्य मध्यमपुरुष-एकवचनस्य रूपसिद्धौ -\nधा + लोट् [<<लोट् च>> [[3.3.162]] इति लोट्]\n→ धा + थास् [<<तिप्तस्...>> [[3.4.78]] इति आत्मनेपदस्य मध्यमपुरुषैकवचनस्य थास्-प्रत्ययः]\n→ धा + शप् + थास् [<<कर्तरि शप्>> [[3.1.68]] इति औत्सर्गिकं विकरणम् शप् ]\n→ धा धा + थास् [<<जुहोत्यादिभ्यः श्लुः>> [[2.4.75]] इति विकरणस्य श्लुः (इत्युक्ते लोपः) । <<श्लौ>> [[6.1.10]] इति धातोः एकाचः अङ्गस्य द्वित्वम्]\n→ ध धा थास् [<<ह्रस्वः>> [[7.4.59]] इति अभ्यासस्य ह्रस्वः]\n→ ध ध् थास् [<<श्नाभ्यस्तयोरातः>> [[6.4.112]] इति आकारलोपः]\n→ ध ध् से [<<थासस्से>> [[3.4.80]] इति थास्-इत्यस्य से-आदेशः]\n→ ध ध् स्व [<<सवाभ्यां वामौ>> [[3.4.91]] इति सकारात् परस्य एकारस्य व्-आदेशः]\n→ द ध् स्व [<<अभ्यासे चर्च्च>> [[8.4.54]] इति अभ्यासस्य जश्त्वम्]\n→ धध् स्व [धा-धातोः एकाच्-झषन्त-अवयवः 'दध्', तस्य बश्-वर्णः दकारः । अस्य दकारस्य 'सिप्' प्रत्ययस्य सकारे परे <<दधस्तथोश्च>> [[8.2.38]] इत्यनेन धकारः भवति ।]\n→ ध त् स्व [<<खरि च>> [[8.4.55]] इत्यनेन धकारस्य तकारः]\n→ धत्स्व\n4. धा-धातोः आत्मनेपदस्य लट्-लकारस्य मध्यमपुरुष-बहुवचनस्य रूपसिद्धौ -\nधा + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ धा + ध्वम् [<<तिप्तस्...>> [[3.4.78]] इति मध्यमपुरुषबहुवचनस्य ध्वम्-प्रत्ययः]\n→ धा + शप् + ध्वम् [<<कर्तरि शप्>> [[3.1.68]] इति औत्सर्गिकं विकरणम् शप् ]\n→ धा धा + ध्वम् [<<जुहोत्यादिभ्यः श्लुः>> [[2.4.75]] इति विकरणस्य श्लुः (इत्युक्ते लोपः) । <<श्लौ>> [[6.1.10]] इति धातोः एकाचः अङ्गस्य द्वित्वम्]\n→ ध धा ध्वम् [<<ह्रस्वः>> [[7.4.59]] इति अभ्यासस्य ह्रस्वः]\n→ ध ध् ध्वम् [<<श्नाभ्यस्तयोरातः>> [[6.4.112]] इति आकारलोपः]\n→ ध ध् ध्वे [<<टित आत्मनेपदानां टेरे>> [[3.4.79]] इति टि-संज्ञकस्य एकारादेशः]\n→ द ध् ध्वे [<<अभ्यासे चर्च्च>> [[8.4.54]] इति अभ्यासस्य जश्त्वम्]\n→ धध् ध्वे [धा-धातोः एकाच्-झषन्त-अवयवः 'दध्', तस्य बश्-वर्णः दकारः । अस्य दकारस्य 'सिप्' प्रत्ययस्य सकारे परे <<दधस्तथोश्च>> [[8.2.38]] इत्यनेन धकारः भवति ।]\n→ ध द् ध्वे [<<झलां जशोऽन्ते>> [[8.2.39]] इत्यनेन धकारस्य दकारः]\n→ धद्ध्वे\n" }, "82039": { "sa": "पदान्ते विद्यमानस्य झल्-वर्णस्य जश्-आदेशः भवति । ", "sd": "झल् = वर्गचतुर्थाः + वर्गतृतीयाः + वर्गद्वितीयाः + वर्गप्रथमाः + ऊष्माणः ।\nजश् = वर्गतृतीयाः ।\nपदान्ते विद्यमानस्य झल्-वर्णस्य स्थाने अनेन सूत्रेण अन्तरतमः जश्-वर्णः आदेशरूपेण आगच्छति । यथा - वाक् → वाग् । षष् → षड् ।\nअन्तरतमः इत्युक्ते यस्य उच्चारणस्थानमाभ्यन्तरप्रयत्नश्च स्थानिनः समानः अस्ति तादृशः वर्णः । अतः अनेन सूत्रेण -\n1) कवर्गीयवर्णस्य स्थाने गकारः विधीयते । यथा - वाक् → वाग् ।\n2) चवर्गीयवर्णस्य स्थाने जकारः विधीयते । परन्तु एतादृशम् जश्त्वम् न सम्भवति, यतः <<चोः कुः>> [[8.2.30]] इत्यनेन पदान्तचवर्गस्य स्थाने कुत्वम् भवति ।\n3) टवर्गीयवर्णस्य स्थाने डकारः विधीयते । यथा - लिढ् → लिड् ।\n4) तवर्गीयवर्णस्य स्थाने दकारः विधीयते । यथा - तत् → तद् ।\n5) पवर्गीयवर्णस्य स्थाने बकारः विधीयते । यथा - त्रिष्टुप् → त्रिष्टुब् ।\n6) शकारस्य स्थाने जकारः विधीयते । परन्तु एतादृशम् जश्त्वम् न सम्भवति, यतः पदान्तशकारस्य <<व्रश्चभ्रस्ज...>> [[8.2.36]] इत्यनेन षकारादेशः भवति ।\n7) षकारस्य स्थाने डकारः विधीयते । यथा - षष् → षड् ।\n8) सकारस्य स्थाने दकारः विधीयते । परन्तु एतादृशम् जश्त्वम् न सम्भवति, यतः पदान्तसकारस्य <<ससजुषो रुँः>> [[8.2.66]] इत्यनेन रुँत्वम् भवति । (ज्ञातव्यम् - परत्वादप्यत्र <<ससजुषो रुँः>> [[8.2.66]] एतत् सूत्रम् <<झलां जशोऽन्ते>> [[8.2.39]] अस्य कृते असिद्धम् नास्ति ।)\n9) हकारस्य स्थाने गकारः विधीयते । परन्तु एतादृशम् जश्त्वम् न सम्भवति, यतः पदान्तहकारस्य <<हो ढः>> [[8.2.31]] इत्यनेन ढकारादेशः भवति ।\nज्ञातव्यम् -\n1) अनेन सूत्रेण पदान्ते विद्यमानस्य झल्-वर्णस्य (यथासम्भवम्) जश्-वर्णादेशः नित्यम् भवति, विकल्पेन न ।\n2) अनेन सूत्रेण पदान्ते विद्यमानस्य झल्-वर्णस्य (यथासम्भवम्) जश्-वर्णादेशः अग्रे विरामः अस्ति चेदपि भवति, कश्चन अन्यः वर्णः अस्ति चेदपि भवति ।\n3) झल्-वर्णस्य जश्-वर्णादेशः एव 'जश्त्वम्' नाम्ना ज्ञायते । अष्टाध्याय्यां जश्त्वविधायके द्वे सूत्रे स्तः - <<झलां जशोऽन्ते>> [[8.2.39]] तथा <<झलां जश् झशि>> [[8.4.53]] । एतयोः प्रथमम् सूत्रम् पदान्ते जश्त्वं विधीयते, द्वितीयं सूत्रम् च अपदान्तस्य झल्-वर्णस्य जश्त्वम् कारयति ।" }, "82040": { "sa": "धा-धातुं विहाय अन्येषाम् धातूनाम् विषये झष्-वर्णात् परस्य तकारस्य थकारस्य च धकारः भवति । ", "sd": "झष्-प्रत्याहारे सर्वे वर्गचतुर्थाः आगच्छन्ति । एतेषाम् परस्य तकारस्य थकारस्य च अनेन सूत्रेण धकारः भवति । परन्तु धा-धातोः विषये अयमादेशः न विधीयते । उदाहरणानि एतानि -\n1. लभ्-धातोः क्त-प्रत्ययान्तरूपम् एतादृशम् सिद्ध्यति -\nलभ् + क्त [<<निष्ठा>> [[3.2.102]] इति क्त-प्रत्ययः]\n→ लभ् + ध [<<झषस्तथोर्धोऽधः>> [[8.2.40]] इति भकारात् परस्य तकारस्य धकारः]\n→ लब्ध [<<झलां जश् झशि>> [[8.4.53]] इति भकारस्य बकारः]\n2. 'लिहँ' (आस्वादने) इति अदादिगणस्य धातुः । अस्य धातोः आत्मनेपदस्य लङ्लकारस्य मध्यमपुरुषैकवचनस्य प्रक्रिया इयम् -\nलिह् + लङ् [<<अनद्यतने लङ्>> [[3.2.111]] इति लङ् ]\n→ अट् लिह् लङ् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ + लिह् थास् [<<तिप्तस्...>> [[3.4.78]] इति आत्मनेपदस्य मध्यमपुरुषैकवचनस्य थास्-प्रत्ययः]\n→ अ लिह् शप् थास् [<<कर्तरि शप्>> [[3.1.68]] इति औत्सर्गिकं विकरणम् शप् ]\n→ अ लिह् थास् [<<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शप्-विकरणस्य लुक्]\n→ अ लिढ् थास् [<<हो ढः>> [[8.2.31]] इति हकारस्य झलि परे ढकारः]\n→ अ लिढ् धास् [<<झषस्तथोर्धोऽधः>> [[8.2.40]] इति ढकारात् परस्य थकारस्य धकारः]\n→ अ लिढ् धारुँ [<<ससजुषो रुँः>> [[8.2.66]] इति सकारस्य रुँत्वम्]\n→ अ लिढ् धाः [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n→ अ लिढ् ढाः [<<ष्टुना ष्टुः>> [[8.4.41]] इति ष्टुत्वम्]\n→ अ लिढाः [<<ढो ढे लोपः>> [[8.3.13]] इति ढकारस्य ढकारे परे लोपः । एतस्य कृत्वे ष्टुत्वम् सिद्धमस्ति ।]\n→ अ लीढाः [<<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] इति ढकारलोपे पूर्वस्य इकारस्य दीर्घः । एतस्य कृते ढलोपः सिद्धः अस्ति ।]\n→ अलीढाः\n3. धा-धातोः विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, धा-धातोः लट्-लकारस्य प्रथमपुरुषद्विवचनस्य प्रक्रियायाम् -\nधा + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ धा + तस् [<<तिप्तस्...>> [[3.4.78]] इति प्रथमपुरुषद्विवचनस्य तस्-प्रत्ययः]\n→ धा + शप् + तस् [<<कर्तरि शप्>> [[3.1.68]] इति औत्सर्गिकं विकरणम् शप् ]\n→ धा धा + तस् [<<जुहोत्यादिभ्यः श्लुः>> [[2.4.75]] इति विकरणस्य श्लुः (इत्युक्ते लोपः) । <<श्लौ>> [[6.1.10]] इति धातोः एकाचः अङ्गस्य द्वित्वम्]\n→ ध धा तस् [<<ह्रस्वः>> [[7.4.59]] इति अभ्यासस्य ह्रस्वः]\n→ ध ध् तस् [<<श्नाभ्यस्तयोरातः>> [[6.4.112]] इति आकारलोपः]\n→ द ध् तस् [<<अभ्यासे चर्च्च>> [[8.4.54]] इति अभ्यासस्य जश्त्वम्]\n→ धध् तस् [<<दधस्तथोश्च>> [[8.2.38]] इति दकारस्य धकारः]\n→ ध त् तः [अत्र 'धध्' इत्यत्र धकारः झष्-वर्णः अस्ति, परन्तु तस्मात् परस्य तकारस्य <<झषस्तथोर्धोऽधः>> [[8.2.40]] इति धकारादेशः न भवति, यतः तस्मिन् सूत्रे 'अधः' इति निर्दिष्टः अस्ति । अतः विसर्गं कृत्वा अग्रे <<खरि च>> [[8.4.55]] इत्यनेन धकारस्य तकारः भवति]\n→ धत्तः\n" }, "82041": { "sa": "षकारस्य ढकारस्य च सकारे परे ककारादेशः भवति ।", "sd": "षकारात् परः यदि सकारः आगच्छति, तर्हि षकारस्य अनेन सूत्रेण ककारादेशः भवति ।\nतथैव, ढकारात् परः यदि सकारः आगच्छति, तर्हि ढकारस्य अनेन सूत्रेण ककारादेशः भवति ।\nउदाहरणे एतादृशे -\n 1) अदादिगणस्य द्विष् धातोः मध्यमपुरुषैकवचनस्य सि-प्रत्यये परे द्वेक्षि एतत् रूपमनेन प्रकारेण सिद्ध्यति -\nद्विष् + सि\n→ द्वेष् + सि [<<पुगन्तलघूपधस्य च>> [[7.3.86]] इत्यनेन इकारस्य गुणः एकारः]\n→ द्वेक् सि [<<षढोः कः सि>> [[8.2.41]] इत्यनेन षकारस्य ककारः]\n→ द्वेक् षि [<<आदेशप्रत्यययोः>> [[8.3.59]] इत्यनेन सकारस्य षकारः]\n→ द्वेक्षि [क् + ष् = क्ष् ]\n2) अदादिगणस्य लिह् धातोः मध्यमपुरुषैकवचनस्य सि-प्रत्यये परे लेक्षि इति रूपं अनेन प्रकारेण सिद्ध्यति -\nलिह् + सि\n→ लेह् + सि [<<पुगन्तलघूपधस्य च>> [[7.3.86]] इत्यनेन इकारस्य गुणः एकारः]\n→ लेढ् सि [<<हो ढः>> [[8.2.31]] इत्यनेन झलि परे हकारस्य ढकारः]\n→ लेक् + सि [<<षढोः कः सि>> [[8.2.41]] इत्यनेन ढकारस्य ककारः]\n→ लेक् षि [<<आदेशप्रत्यययोः>> [[8.3.59]] इत्यनेन सकारस्य षकारः]\n→ लेक्षि [क् + ष् = क्ष् ]\nज्ञातव्यम् - यद्यपि इदम् सूत्रम् 'पदस्य' अधिकारे आगच्छति, तथापि अयं ककारादेशः अपदान्तषकारढकारयोः एव भवति, यतः पदान्तषकारढकारयोः <<झलां जशोऽन्ते>> [[8.2.39]] इत्यनेन जश्त्वं विधीयते ।\n" }, "82042": { "sa": "", "sd": "" }, "82043": { "sa": "", "sd": "" }, "82044": { "sa": "", "sd": "" }, "82045": { "sa": "", "sd": "" }, "82046": { "sa": "", "sd": "" }, "82047": { "sa": "", "sd": "" }, "82048": { "sa": "", "sd": "" }, "82049": { "sa": "", "sd": "" }, "82050": { "sa": "", "sd": "" }, "82051": { "sa": "", "sd": "" }, "82052": { "sa": "", "sd": "" }, "82053": { "sa": "", "sd": "" }, "82054": { "sa": "", "sd": "" }, "82055": { "sa": "", "sd": "" }, "82056": { "sa": "", "sd": "" }, "82057": { "sa": "", "sd": "" }, "82058": { "sa": "", "sd": "" }, "82059": { "sa": "", "sd": "" }, "82060": { "sa": "", "sd": "" }, "82061": { "sa": "", "sd": "" }, "82062": { "sa": "क्विन्प्रत्ययान्तशब्दस्य पदान्ते कवर्गादेशः भवति । ", "sd": "ये शब्दाः क्विन्-प्रत्ययान्ताः सन्ति, तेषामन्तिमवर्णस्य पदान्ते कवर्गादेशः भवति ।\nयथा - 'स्पृश्' अयं धातुः सुबन्ते उपपदे <<स्पृशोऽनुदके क्विन्>> [[3.2.58]] इत्यनेन क्विन्-प्रत्ययं प्राप्नोति । क्विन्-अयं सर्वापहारी प्रत्ययः, अतः घृतस्पृश् + क्विन् → घृतस्पृश् इत्येव प्रातिपदिकं सिद्ध्यति । अत्र तृतीयाद्विवचनस्य भ्याम्-प्रत्यये परे 'घृतस्पृश् + भ्याम्' इत्यत्र अङ्गस्य पदसंज्ञायां सत्याम् <<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> [[8.2.36]] इत्यनेन षत्वं भवति । अग्रे षकारस्य <<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वे डकारे कृते तस्य वर्तमानसूत्रेण कवर्गादेशः गकारः विधीयते, अतः 'घृतस्पृग्भ्याम्' इति रूपं सिद्ध्यति ।\n\nशास्त्रविषयः - अस्मिन् सूत्रे प्रयुक्तः 'क्विन्प्रत्यय' इति शब्दः बहुव्रीहिसमासघटितः अस्ति, अतः — क्विन्-प्रत्ययः यस्मात् सम्भवति तस्य शब्दस्य (अन्यस्मिन् प्रत्यये परे अपि) पदान्ते कवर्गादेशः भवति — इति अर्थः अत्र सिद्ध्यति इति अत्र व्याख्यानेषु स्पष्टीक्रियते । अतः केवलात् (अनुपपदात्) स्पृश्-धातोः क्विप्-प्रत्यये कृते अपि प्रकृतसूत्रस्य प्रयोगः अवश्यमेव भवति । यथा, स्पृश् + क्विप् + भ्याम् → स्पृग्भ्याम् । " }, "82063": { "sa": " नश् (=नश्वरः) शब्दस्य पदान्ते विकल्पेन कुवर्गादेशः (गकारः) भवति ।", "sd": "यद्यपि नश्-शब्दः चकारान्तः क्विन्-प्रत्ययान्तः वा नास्ति, तथापि अनेन सूत्रेण पदान्ते अस्य शकारस्य कवर्गादेशः भवति । प्रक्रिया इयम् -\nनश् + सुँ [प्रथमैकवचनस्य प्रत्ययः]\n→ नश् [<<हल्ङ्याब्भो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.58]] इत्यनेन सुँ-प्रत्ययस्य लोपः]\n→ नष् [शकारस्य <<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> [[8.2.36]] इत्यनेन षकारादेशः]\n→ नड् [<<झलां जशोऽन्ते>> [[8.2.39]] इत्यनेन षकारस्य जश्त्वे कृते डकारः]\n→ नग्, नड् [<<नशेर्वा>> [[8.2.63]] इत्यनेन डकारस्य विकल्पेन कुवर्गः गकारः]\n→ नग्, नक्, नट्, नड् [उभयोः पक्षयोः <<वाऽवसाने>> [[8.4.56]] इत्यनेन विकल्पेन वर्गप्रथमः आदेशः]\n " }, "82064": { "sa": "धातोः पदान्ते विद्यमानस्य मकारस्य नकारादेशः भवति । ", "sd": "अस्य सूत्रस्य अर्थम् ज्ञातुमस्मिन् शब्दे उपस्थितानां शब्दानाम् परस्परसम्बन्धः कथम् कर्तव्यः तत् आदौ पश्यामः -\nअ) 'मः धातोः' इत्यत्र <<येन विधिस्तदन्तस्य>> इत्यनेन [[1.1.72]] इत्यनेन 'मकारान्तधातोः' इति अर्थः जायते ।\nआ) 'धातोः पदस्य' इत्यत्र <ऽपदाङ्गाधिकारे तस्य च तदन्तस्य चऽ> इत्यनेन 'धात्वन्तस्य पदस्य' इति अर्थः जायते ।\nइ) 'पदस्य नः' इत्यत्र <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यनेन 'पदस्य अन्तिमवर्णस्य नकारादेशः' इति अर्थः जायते ।\nअतः अस्य सूत्रस्य सम्पूर्णः अर्थः अयम् - यस्य पदस्य अन्ते धातोः मकारः अस्ति, तस्य मकारस्य नकारादेशः भवति ।\nयथा, 'प्र+शम्' अस्मात् धातोः क्विप्-प्रत्यये परे <<अनुनासिकस्य क्विझलोः क्ङिति>> [[6.4.15]] इत्यनेन अङ्गस्य उपधादीर्घे कृते 'प्रशाम्' इति प्रातिपदिकं सिद्ध्यति । अत्र 'शाम्' इत्यस्य <ऽक्विबन्ताः धातुत्वं न जहतिऽ> इत्यनेन धातुसंज्ञा अपि अस्ति । अस्य शब्दस्य प्रथमैकवचनस्य प्रक्रियायाम् 'प्रशाम् + सुँ' इत्यत्र <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इत्यनेन सुँलोपे कृते, <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यनुसृत्य <<सुप्तिङन्तं पदम्>> [[1.4.14]] इत्यनेन 'प्रशाम्' इत्यस्य पदसंज्ञा भवति । अस्यामवस्थायाम् वर्तमानसूत्रेण अस्य अन्ते विद्यमानस्य मकारस्य नकारादेशः भवति, अतः 'प्रशान्' इति प्रथमैकवचनस्य रूपं सिद्ध्यति ।\nतथैव प्र+दम्+क्विप् → प्रदाम् इत्यस्य प्रथमैकवचनम् प्रदान्, तथा प्र + तन् + क्विप् → प्रताम् इत्यस्य प्रथमैकवचनम् प्रतान् - एते अपि सिद्ध्यतः ।\nअन्यानि उदाहरणानि -\n1. प्रशाम् + भ्याम् → प्रशान् + भ्याम् → प्रशान्भ्याम्\n2. प्रशाम् + सुप्\n→ प्रशान् सु [<<मो नो धातोः>> [[8.2.64]]\n→ प्रशान् सु / प्रशान् ध् सु [<<नश्च>> [[8.3.30]] इति वैकल्पिकः धुडागमः]\n→ प्रशान्सु / प्रशान्त्सु [<<खरि च>> [[8.4.55]] इति चर्त्वम्]\nज्ञातव्यम् - प्रशान्, प्रदान्, प्रतान् इत्यत्र <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इत्यस्य असिद्धत्वात् नकारलोपः न भवति ।" }, "82065": { "sa": "", "sd": "" }, "82066": { "sa": "पदान्तसकारस्य सजुष्-शब्दस्य च रुँत्वं भवति । ", "sd": "पदान्ते विद्यमानस्य सकारस्य, तथा च सजुष्-शब्दस्य (इत्युक्ते, <<अलोऽन्त्यस्य>> [[1.1.52]] इत्यनेन तदन्तस्य षकारस्य) प्रकृतसूत्रेण 'रुँ' इति आदेशः भवति । उदाहरणानि एतानि —\n1. पदान्तसकारस्य रुँत्वम् —\n1. राम-शब्दस्य प्रथमैकवचनस्य रूपे प्रकृतसूत्रेण रुँत्वं भवति —\n\nराम + सुँ [प्रथमैकवचनस्य प्रत्ययः]\n→ राम + स् [उकारस्य <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इति इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति लोपः। अग्रे <<सुप्तिङन्तम् पदम्>> [[1.4.14]] इत्यनेन 'राम+स्' इत्यस्य पदसंज्ञा भवति ।]\n→ राम + रुँ [पदान्तसकारस्य <<ससजुषो रुँ>> [[8.2.66]] इति रुँत्वम् ]\n→ राम + र् [उकारस्य <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इति इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ रामः [अवसाने परे रेफस्य <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n\n2. पयस्-शब्दस्य प्रथमा-द्वितीया-एकवचनस्य रूपे प्रकृसूत्रेण रुत्वं विधीयते —\n\nपयस् + सुँ / अम् [प्रथमा-द्वितीया-एकवचनस्य प्रत्ययः]\n→ पयस् + ० [<<स्वमोर्नपुंसकात्>> [[7.1.23]] इति सुँ-प्रत्ययस्य लुक् । प्रत्ययलोपे अपि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इति प्रत्ययविशिष्टं कार्यम् अवश्यम् प्रवर्तते, अतः पयस् शब्दस्य <<सुप्तिङन्तं पदम्>> [[1.4.14]] इत्यनेन पदसंज्ञा भवति ।]\n→ पयरुँ [पदान्ते विद्यमानस्य सकारस्य <<ससजुषो रुः>> [[8.2.66]] इति रुँत्वम्]\n→ पयर् [उकारस्य <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इति इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ पयः [अवसाने परे रेफस्य <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n\n3. पठ्-धातोः लङ्लकारस्य मध्यमपुरुषैकवचनस्य रूपे प्रकृतसूत्रेण रुँत्वे कृते विसर्गः विधीयते —\n\nपठँ (व्यक्तायां वाचि, भ्वादिः, <{1.381}>)\n→ पठ् + लङ् [<<अनद्यतने लङ्>> [[3.2.111]] इति लङ्]\n→ अट् + पठ् + लङ् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ + पठ् + सिप् [<<तिप्तस्झि..>> [[3.4.78]] इति मध्यमपुरुषैकवचनस्य विवक्षायाम् सिप्-प्रत्ययः]\n→ अ + पठ् + स् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ अ + पठ् + शप् + स् [<<कर्तरि शप्>> [[3.1.68]] इति शप् विकरणप्रत्ययः]\n→‌ अ + पठ् + अ + स् [इत्संज्ञालोपः]\n→ अ + पठ् + अ + रुँ [तिङन्तस्य <<सुप्तिङन्तं पदम्>> [[1.4.14]] इति पदसंज्ञायां जातायाम्, पदान्ते विद्यमानस्य सकारस्य <<ससजुषो रुः>> [[8.2.66]] इति रुँत्वम् विधीयते ।]\n→ अ + पठ् + अ + र् [उकारस्य <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इति इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ अपठः [अवसाने परे रेफस्य <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n\n2. सजुष्-शब्दस्य षकारस्य रुँत्वम् —\nसजुष् ( = सहयोगी / companion) इति षकारान्तशब्दः । <<जुषीँ>> (प्रीतिसेवनयोः, तुदादिः, <{6.8}>) अस्मात् धातोः सहइति उपपदस्य उपस्थितौ <<क्विप् च>> [[3.2.76]] इत्यनेन क्विप्-प्रत्यये कृते, प्रक्रियायाम् <<सहस्य सः संज्ञायाम्>> [[6.3.78]] अनेन सूत्रेण सह-इत्यस्य सकारादेशे कृते सजुष् शब्दः सिद्ध्यति । सह जुषते (the one who accompanies along) इति सजूः — इति अस्य शब्दस्य अर्थः । अस्यैव सजुष् इति प्रथमैकवचनस्य रूपस्य सिद्धौ जुष्-धातोः षकारस्य प्रकृतसूत्रेण रुँत्वम् विधीयते —\n\nसजुष् + सुँ [प्रथमैकवचनस्य प्रत्ययः]\n→ सजुष् + स् [उकारस्य <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इति इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति लोपः। ]\n→ सजुष् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति सकारस्य लोपः । लोपे सत्यपि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यनेन प्रत्ययविशिष्टं कार्यम् अवश्यं क्रियते, अतः <<सुप्तिङन्तं पदम्>> [[1.4.14]] इत्यनेन सजुष्-शब्दस्य पदसंज्ञा भवति ।]\n→ सजुरुँ [<<ससजुषो रुँ>> [[8.2.66]] इति षकारस्य रुँत्वम् ]\n→ सजुर् [उकारस्य <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इति इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ सजूर् [<<र्वोरुपधाया दीर्घ इकः>> [[8.2.76]] इति उकारस्य दीर्घः]\n→ सजूः [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n\nषत्वस्य असिद्धत्वम्\n<<आदेशप्रत्यययोः>> [[8.3.59]] इत्यस्मिन् अधिकारे विहितम् षत्वम् प्रकृतसूत्रस्य कृते असिद्धम् अस्ति । अतएव, आशीष्, धनुष् इत्यादिषु शब्देषु अन्ते षकारस्य स्थाने मूलरूपेण सकारम् दृष्ट्वा प्रकृतसूत्रेण तस्य विसर्गादेशः सम्भवति । यथा, धनुष् शब्दस्य प्रथमैकवचनस्य रूपम् एतादृशम् सिद्ध्यति —\n\nधनँ (धान्ये, जुहोत्यादिः, <{3.24}>)\n→ धन् + उस् (<<अर्तिपॄवपियजितनिधनितपिभ्यो नित्>> (2.117) इति उणादिसूत्रेण उस्-प्रत्ययः]\n→ धनुस् [व्युत्पत्तिपक्षे उणादिप्रत्ययानाम् कृदन्तेषु ग्रहणं कृत्वा <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा भवति । अव्युप्तत्तिपक्षे तु <<अर्थवदधातुरप्रत्ययः प्रातिपदिकम्>> [[1.2.45]] इति प्रातिपदिकसंज्ञा विधीयते ।]\n→ धनुस् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः]\n→ धनुस् + ० [<<स्वमोर्नपुंसकात्>> [[7.1.23]] इति सुँ-प्रत्ययस्य लुक् । प्रत्ययलोपे अपि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इति प्रत्ययविशिष्टं कार्यम् अवश्यम् प्रवर्तते, अतः धनुस् शब्दस्य <<सुप्तिङन्तं पदम्>> [[1.4.14]] इत्यनेन पदसंज्ञा भवति ।]\n→ धनुरुँ [<<ससजुषो रुः>> [[8.2.66]] इति रुँत्वम् ]\n→ धनुर् [उकारस्य <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इति इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ धनुः [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n\nएवमेव, आशिष्-शब्दस्य प्रथमैकवचने सकारस्य प्रकृतसूत्रेण रुँत्वम् भवति —\n\nशासुँ (इच्छायाम्)\n→ आङ् + शास् + क्विप् [<<क्विप् च>> [[3.2.76]] इति क्विप्-प्रत्ययः]\n→ आ + शास् + ० [ङकारस्य, ककारपकारयोः च इत्संज्ञा, लोपः । वकारोत्तरः इकारः उच्चारणार्थः, अतः सोऽपि लुप्यते । अवशिष्टस्य अपृक्त-वकारस्य <<वेरपृक्तस्य>> [[6.1.67]] इति लोपः भवति ।]\n→ आ + शिस् + ० [<<शास इदङ्हलोः>> [[6.4.34]] इति इत्वम्]\n→ आ + शिस् + सुँ [क्विबन्तस्य <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञायां सत्याम् प्रथमैकवचनस्य विवक्षायाम् सुँ-प्रत्ययः विधीयते ।]\n→ आ + शिस् + स् [उकारस्य <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इति इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ आ + शिस् + ० [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति अपृक्त-सकारस्य लोपः । लोपे कृते अपि <<सुप्तिङन्तं पदम्>> [[1.4.14]] इति पदसंज्ञा ]\n→ आ + शि रुँ [<<ससजुषो रुः>> [[8.2.66]] इति रुँत्वम्]\n→ आशिर् [उकारस्य <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इति इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ आशीर् [<<र्वोरुपधाया दीर्घ इकः>> [[8.2.76]] इति उपधा-इकारस्य दीर्घः]\n→ आशीः [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति रेफस्य विसर्गः]\n\nएवमेव अन्यान् अपि सर्वान् षकारान्तशब्दान् मूलरूपेण सकारान्तरूपेण एव गृहीत्वा तेषाम् प्रक्रियायाम् प्रकृतसूत्रेण रुत्वे कृते अग्रे विसर्गादेशः सम्भवति ।\nबाध्यबाधकभावः\nप्रकृतसूत्रम् <<झलां जशोऽन्ते>> [[8.2.39]] इत्यस्य अपवादरूपेण प्रवर्तते । <<झलां जशोऽन्ते>> [[8.2.39]] इत्यनेन पदान्त सकारषकारयोः जश्त्वे (यथासङ्ख्यम्) दकारडकारौ आदेशौ प्राप्नुतः । तौ बाधित्वा प्रकृतसूत्रेण सकारान्तस्य सजुष्-शब्दस्य च विषये रुँ-आदेशः विधीयते ।\nआश्रयात् सिद्धत्वम् \nप्रकृतसूत्रम् यद्यपि त्रिपाद्यां विद्यते, तथापि इदं सूत्रम् <<अतो रोरप्लुतादप्लुते>> [[6.1.113]] तथा च <<हशि >> [[6.1.114]] इत्येतयोः कृते आश्रयात् सिद्धम् अस्ति । इत्युक्ते, प्रकृतसूत्रेण सिद्धस्य रुँत्वस्य एतयोः द्वयोः सूत्रयोः उकारादेशः अवश्यम् सम्भवति —\n\n[1] प्रकृतसूत्रस्य प्रयोगात् अनन्तरम् <<अतो रोरप्लुतादप्लुते>> [[6.1.113]] इत्यस्य प्रयोगः —\nराम सुँ अस्ति\n→ राम रुँ अस्ति [<<ससजुषोः रुः>> [[8.2.66]] इति रुत्वम् ]\n→ राम उ अस्ति [<<अतो रोरप्लुतादप्लुते>> [[6.1.113]] इति रुँ-इत्यस्य उत्वम्]\n→ रामो अस्ति [<<आद्गुणः>> [[6.1.87]] इति गुण-एकादेशः]\n→ रामोस्ति [<<एङः पदान्तादति>> [[6.1.109]] इति पूर्वपरयोः एकः ओकारादेशः]\n
    \n[2] प्रकृतसूत्रस्य प्रयोगात् अनन्तरम् <<हशि च>> [[6.1.114]] इत्यस्य प्रयोगः —\nराम सुँ गच्छति\n→ राम रुँ गच्छति [<<ससजुषोः रुः>> [[8.2.66]] इति रुत्वम् ]\n→ राम उ गच्छति [<<हशि च>> [[6.1.114]] इति रुँ-इत्यस्य उत्वम्]\n→ रामो गच्छति [<<आद्गुणः>> [[6.1.87]] इति गुण-एकादेशः]\n
    " }, "82067": { "sa": "अवयाः, श्वेतवाः, पुरोडाः - एते शब्दाः निपात्यन्ते ।", "sd": "प्रकृतसूत्रेण अवयाः, श्वेतवाः, पुरोडाः एते त्रयः शब्दाः निपात्यन्ते । एतेषां क्रमेण विवरणम् एतादृशम् —\n1. अवयाः —\nअव-उपसर्गपूर्वकात् यज्-धातोः छन्दसि <<अवे यजः>> [[3.2.72]] इति सूत्रेण ण्विन्-प्रत्यये प्राप्ते; सम्बोधनैकवचनस्य रूपसिद्धौ तद्बाधित्वा इत्यनेन डस्-प्रत्यये कृते प्रकृतसूत्रेण अवयाः इति रूपं निपात्यते —\n\nअवयजति इति\n= यजँ (देवपूजासङ्गतिकरणदानेषु, भ्वादिः, <{1.1157}>)\n→ अव + यज् + डस् [ इति डस्-प्रत्ययः । <<कुगतिप्रादयः>> [[2.2.18]] इति गतिसमासः]\n→ अव + य् + अस् [प्रत्ययस्य डित्त्वात् <<टेः>> [[6.4.143]] इति टिलोपः]\n→ अवयस् [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा]\n→ अवयस् + सुँ [सम्बोधनैकवचनस्य सुँ-प्रत्ययः]\n→ अवयस् + स् [उकारस्य इत्संज्ञा, लोपः]\n→ अवयस् + ० [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति अपृक्तसकारस्य लोपः]\n→ अवयरुँ [पदान्तसकारस्य <<ससजुषो रुः>> [[8.2.66]] इति रुँत्वम्]\n→ अवयार् [रुत्वे कृते प्रकृतसूत्रेण दीर्घत्वं निपात्यते]\n→ अवयाः [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n\n2. श्वेतवाः —\nश्वेत-उपपदपूर्वकात् वह्-धातोः छन्दसि <<मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन्>> [[3.2.71]] इति सूत्रेण ण्विन्-प्रत्यये प्राप्ते; सम्बोधनैकवचनस्य रूपसिद्धौ तद्बाधित्वा इत्यनेन डस्-प्रत्यये कृते प्रकृतसूत्रेण श्वेतवाः इति रूपं निपात्यते —\n\nश्वेतम् वहति इति\n= वहँ (प्रापणे, भ्वादिः, <{1.1159}>)\n→ श्वेत + वह् + डस् [ इति डस्-प्रत्ययः । <<उपपदमतिङ्>> [[2.2.19]] इति उपपदसमासः । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्ययस्य लोपः]\n→ श्वेत + व् + अस् [प्रत्ययस्य डित्त्वात् <<टेः>> [[6.4.143]] इति टिलोपः]\n→ श्वेतवस् [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा]\n→ श्वेतवस् + सुँ [सम्बोधनैकवचनस्य सुँ-प्रत्ययः]\n→ श्वेतवस् + स् [उकारस्य इत्संज्ञा, लोपः]\n→ श्वेतवस् + ० [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति अपृक्तसकारस्य लोपः]\n→ श्वेतवरुँ [पदान्तसकारस्य <<ससजुषो रुः>> [[8.2.66]] इति रुँत्वम्]\n→ श्वेतवार् [रुत्वे कृते प्रकृतसूत्रेण दीर्घत्वं निपात्यते]\n→ श्वेतवाः [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n\n3. पुरोडाः —\nपुरस्-उपपदपूर्वकात् दाश्-धातोः छन्दसि <<मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन्>> [[3.2.71]] इति सूत्रेण ण्विन्-प्रत्यये प्राप्ते; सम्बोधनैकवचनस्य रूपसिद्धौ तद्बाधित्वा इत्यनेन डस्-प्रत्यये कृते प्रकृतसूत्रेण पुरोडाः इति रूपं निपात्यते —\n\nपुरः एनं दाशन्ते इति\n= दाशृ (दाने, भ्वादिः, <{1.1025}>)\n→ पुरस् + डाश् + डस् [ इति डस्-प्रत्ययः, तदनुषङ्गेन च दकारस्य डत्वम् अपि निपात्यते । <<उपपदमतिङ्>> [[2.2.19]] इति उपपदसमासः । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्ययस्य लोपः]\n→ पुरस् + ड् + अस् [प्रत्ययस्य डित्त्वात् <<टेः>> [[6.4.143]] इति टिलोपः]\n→ पुरस् + डस् <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा]\n→ पुरस् + डस् + सुँ [सम्बोधनैकवचनस्य सुँ-प्रत्ययः]\n→ पुरस् + डस् + स् [उकारस्य इत्संज्ञा, लोपः]\n→ पुरस् + डस् + ० [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति अपृक्तसकारस्य लोपः]\n→ पुररुँ + डरुँ [उभयोः पदान्तसकारयोः <<ससजुषो रुः>> [[8.2.66]] इति रुँत्वम्]\n→ पुरउ + डरुँ [उपपदस्य रुँ-इत्यस्य <<हशि च>>> [[6.1.114]] इति उकारादेशः]\n→ पुरो + डरुँ [<<आद्गुणः>> [[6.1.87]] इति गुणैकादेशः]\n→ पुरो डारुँ [रुत्वे कृते अकारस्य दीर्घः निपात्यते ।]\n→ पुरोडाः [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n\nएतेषाम् शब्दानाम् प्रथमैकवचनस्य रूपम् अपि सम्बोधनैकवचनसदृशम् एव अस्ति, परन्तु तस्य सिद्धौ प्रकृतसूत्रेण उक्तम् निपातनम् नैव आवश्यकम् वर्तते, यतः <<अत्वसन्तस्य चाधातोः>> [[6.4.14]] इत्यनेन उपधादीर्घे कृते इष्टरूपम् अवश्यम् सिद्ध्यति । यथा, अव + यज् + डस् इत्यस्य प्रथमैकवचनस्य रूपम् एतादृशं सिद्ध्यति —\n\nअवयजति इति\n= यजँ (देवपूजासङ्गतिकरणदानेषु, भ्वादिः, <{1.1157}>)\n→ अव + यज् + डस् [ इति डस्-प्रत्ययः । <<कुगतिप्रादयः>> [[2.2.18]] इति गतिसमासः]\n→ अव + य् + अस् [प्रत्ययस्य डित्त्वात् <<टेः>> [[6.4.143]] इति टिलोपः]\n→ अवयस् [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा]\n→ अवयस् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः]\n→ अवयस् + स् [उकारस्य इत्संज्ञा, लोपः]\n→ अवयस् + ० [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति अपृक्तसकारस्य लोपः]\n→ अवयास् [<<अत्वसन्तस्य चाधातोः>> [[6.4.14]] इति उपधादीर्घः]\n→ अवयारुँ [पदान्तसकारस्य <<ससजुषो रुः>> [[8.2.66]] इति रुँत्वम्]\n→ अवयाः [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n\nअतः प्रकृतसूत्रम् केवलम् सम्बोधनैकवचनस्य रूपसिद्धौ एव प्रयुज्यते ।\nचकारग्रहणम् अनुक्तसमुच्चयार्थम्\nप्रकृतसूत्रे इति ग्रहणेन उक्थशाः इति शब्दः अपि अस्मिन्नेव सूत्रे स्व्रीक्रियते । अस्य सिद्धिः इयम् —\n\nउक्थानि शंसति इति\n= शन्सुँ (स्तुतौ, भ्वादिः, <{1.829}>)\n→ उक्थ + शन्स् + डस् [ इति डस्-प्रत्ययः । <<उपपदमतिङ्>> [[2.2.19]] इति उपपदसमासः । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्ययस्य लोपः]\n→ उक्थ + श् + अस् [प्रत्ययस्य डित्त्वात् <<टेः>> [[6.4.143]] इति टिलोपः]\n→ उक्थशस् [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा]\n→ उक्थशस् + सुँ [सम्बोधनैकवचनस्य सुँ-प्रत्ययः]\n→ उक्थशस् + स् [उकारस्य इत्संज्ञा, लोपः]\n→ उक्थशस् + ० [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति अपृक्तसकारस्य लोपः]\n→ उक्थशरुँ [पदान्तसकारस्य <<ससजुषो रुः>> [[8.2.66]] इति रुँत्वम्]\n→ उक्थशारुँ [रुँत्वे कृते प्रकृतसूत्रेण उपधादीर्घः]\n→ उक्थशाः [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n\n" }, "82068": { "sa": "अहन्-इत्यस्य पदान्ते रुँत्वं भवति । ", "sd": "अहन् (= दिवसः) इति नकारान्त-नपुंसकलिङ्गशब्दस्य यत्र पदसंज्ञा भवति, तत्र अस्य शब्दस्य अन्ते विद्यमानस्य नकारस्य प्रकृतसूत्रेण रुँ इति आदेशः विधीयते । सुप्-प्रत्यये परे <<सुप्तिङन्तं पदम्>> [[1.4.14]] इत्यनेन पदसंज्ञायां जातायाम् अस्य सूत्रस्य प्रयोगः कृतः दृश्यते । कानिचन उदाहरणानि एतादृशानि —\n1. अहन्-शब्दस्य तृतीयाद्विवचनस्य अहोभ्याम् इति रूपम् इत्थं सिद्ध्यति —\n\nअहन् + भ्याम् [तृतीयाद्विवचनस्य भ्याम्-प्रत्ययः]\n→ अहरुँ + भ्याम् [भ्याम्-प्रत्यये परे <<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इति अहन्-शब्दस्य पदसंज्ञा भवति, अतः तस्य पदान्तनकारस्य <<अहन्>> [[8.2.68]] इति रुँत्वम् जायते ]\n→ अहउ + भ्याम् [<<हशि च>> [[6.1.114]] इति उत्वम्]\n→ अहोभ्याम् [<<आद्गुणः>> [[6.1.87]] इति गुणैकादेशः]\n\n2. अहन्-शब्दस्य तृतीयाबहुवचनस्य भिस्-प्रत्यये परे अहोभिः इति रूपम् इत्थं सिद्ध्यति —\n\nअहन् + भिस् [तृतीयाबहुवचनस्य भिस्-प्रत्ययः]\n→ अहरुँ + भिस् [भिस्-प्रत्यये परे <<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इति अहन्-शब्दस्य पदसंज्ञा भवति, अतः तस्य पदान्तनकारस्य <<अहन्>> [[8.2.68]] इति रुँत्वम् जायते ]\n→ अहउ + भ्याभिस्म् [<<हशि च>> [[6.1.114]] इति उत्वम्]\n→ अहोभिस् [<<आद्गुणः>> [[6.1.87]] इति गुणैकादेशः]\n→ अहोभिः [<<ससजुषो रुँः>> [[8.2.66]] इति प्रत्ययसकारस्य रुँत्वम्, ततः <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः । ]\n\n3. अहन्-शब्दस्य सप्तमीबहुवचनस्य अहस्सु इति रूपम् इत्थं सिद्ध्यति —\n\nअहन् + सु [सप्तमीबहुवचनस्य प्रत्ययः]\n→ अहरुँ + सु [<<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इति अहन्-इत्यस्य पदसंज्ञा । <<अहन्>> [[8.2.68]] इत्यनेन नकारस्य रुत्वम् ।]\n→ अहर् + सु [उकारस्य <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इति इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ अहः + सु [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n→ अहस्सु [<<वा शरि>> [[8.3.36]] इति विसर्गस्य विकल्पेन सत्वम्]\n\nसुप्-प्रत्ययस्य यत्र लुक् भवति, तत्र प्रकृतसूत्रेण उक्तम् रुँत्वं अपवादत्वेन बाधित्वा <<रोऽसुपि>> [[8.2.69]] इत्यनेन रेफादेशः विधीयते । अतः अहन्-शब्दस्य प्रथमैकवचनस्य प्रक्रियायाम् सुँ-प्रत्ययस्य <<स्वमोर्नपुंसकात्>> [[7.1.23]] इत्यनेन लुकि कृते इदं सूत्रं नैव प्रवर्तते । एवमेव, समासेषु यत्र अहन्-शब्दः पूर्वपदरूपेण प्रवर्तते, तत्र <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इत्यनेन सुप्-प्रत्ययस्य लुकि कृते अपि प्रकृतसूत्रं न प्रवर्तते । \nतदन्तविधिः\n इत्यनया परिभाषया अत्र तदन्तविधिः अवश्यं प्रवर्तते, अतः यस्य अन्ते 'अहन्' शब्दः अस्ति तादृशस्य शब्दस्य विषये अपि अस्य सूत्रस्य प्रयोगः भवितुम् अर्हति । यथा - दीर्घम् अहः यस्मिन् सः (मासः / ऋतुः) इति बहुव्रीहिसमासे कृते दीर्घाहन् इति यत् प्रातिपदिकं सिद्ध्यति, तस्य सुबन्तप्रक्रियायाम् अपि प्रकृतसूत्रस्य प्रयोगः दृश्यते । यथा, दीर्घहन्-शब्दस्य प्रथमैकवचनम् एतादृशं सिद्ध्यति —\n\nदीर्घाहन् + सुँ + मासः [प्रथमैकवचनस्य प्रत्ययः]\n→ दीर्घाहन् + स् + मासः [<<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इति उकारस्य इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ दीर्घाहन् मासः [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति अपृक्त-सुँ-प्रत्ययस्य लोपः । प्रत्ययस्य लोपे अपि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यनेन प्रत्ययविशिष्टं कार्यम् अवश्यं प्रवर्तते, अतः दीर्घाह न इत्यस्य <<सुप्तिङन्तं पदम्>> [[1.4.14]] इति पदसंज्ञा भवति ।]\n→ दीर्घाहान् मासः[<<सर्वनामस्थाने चासम्बुद्धौ>>[[6.4.8]] इति नकारान्तस्य अङ्गस्य उपधादीर्घः।]\n→ दीर्घाहारुँ मासः [<<अहन्>> [[8.2.68]] इत्यनेन पदान्तनकारस्य रुत्वम् भवति । यद्यपि प्रकृतसूत्रेण उक्तम् रुँत्वम् अङ्गकार्यसदृशम् स्वीक्रियते, तथापि अत्र अत्र <<न लुमताङ्गस्य>> [[1.1.63]] इति निषेधः न प्रवर्तते, यतः अत्र सुँ-प्रत्ययस्य लोपः कृतः अस्ति, न हि लुक् । अतः अत्र नकारस्य रुत्वम् अवश्यं विधीयते ।]\n→ दीर्घाहाय् मासः[<<भोभगोअघोअपूर्वस्य योऽशि>> [[8.3.17]] इति पदान्त-रुँ-इत्यस्य यकारादेशः]\n→ दीर्घाहा मासः [<<हलि सर्वेषाम्>> [[8.3.22]] इति यकारलोपः]\n\nवार्त्तिकम् - <!रूपरात्रिरथन्तरेषु रुत्वं वाच्यम् !>\nसुप्-प्रत्ययस्य यत्र लुक् भवति तत्र <<अहन्>> [[8.2.68]] इति सूत्रेण प्राप्तं रुँत्वं बाधित्वा <<रोऽसुपि>> [[8.2.69]] इति सूत्रेण रेफादेशः विधीयते । परन्तु केषुचन स्थलेषु सुब्लुकि कृते अपि रुत्वम् एव इष्यते । तादृशानां स्थलानां परिगणनार्थम् वार्त्तिककारः इति वार्त्तिकं निर्माति । रुप, रात्रि, रथ — एतेभ्यः कश्चन शब्दः उत्तरपदरूपेण विद्यते चेत् पूर्वपदरूपेण स्थितस्य अहन्-शब्दस्य रेफस्य <<रोऽसुपि>> [[8.2.69]] इत्यनेन प्राप्तं रेफादेशं बाधित्वा रुत्वम् एव भवति — इति अस्य वार्त्तिकस्य अर्थः । उदाहरणानि एतानि —\n\n1. रूप-शब्दे परे —\n\nअह्नः रूपम् [<<षष्ठी>> [[2.2.8]] इति षष्ठीतत्पुरुषः]\n→ अहन् + रूप [<<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्यययोः लुक्]\n→ अह रुँ + रुप [सुब्लुकि <<रोऽसुपि>> [[8.2.69]] इत्यनेन प्राप्तं रेफादेशं बाधित्वा पदान्तनकारस्य इति वार्त्तिकेन रुँत्वम्]\n→ अहउ + रुप [<<हशि च>> [[6.1.114]] इति उकारः]\n→ अहोरुप [<<आद्गुणः>> [[6.1.87]] इति गुणैकादेशः]\n\n2. रात्रि-शब्दे परे — \nगतम् अहः, रात्रिः एषा (The day has passed, this is the night) इत्यस्य निर्माणे संहितायाम् सत्याम् अहन्-शब्दस्य नकारस्य रात्रि-शब्दे परे रुँत्वं भवति । प्रक्रिया इयम् —\n\nगतम् (अहन् + सुँ), रात्रिः एषा \n→ गतम् (अहन् + ०), रात्रिः एषा [<<स्वमोर्नपुंसकात्>> [[7.1.23]] इति सुँ-प्रत्ययस्य लुक् भवति ।]\n→ गतम् अह रुँ + रात्रिः एषा [सुब्लुकि <<रोऽसुपि>> [[8.2.69]] इत्यनेन प्राप्तं रेफादेशं बाधित्वा पदान्तनकारस्य इति वार्त्तिकेन रुँत्वम् ।]\n→ गतम् अह उ + रात्रिः एषा [<<हशि च>> [[6.1.114]] इति उत्वम्]\n→ गतम् अहोरात्रिः एषा [<<आद्गुणः>> [[6.1.87]] इति गुणैकादेशः]\n\nअहोरात्रम् इति शब्दस्य सिद्धौ अपि अनेनैव वार्त्तिकेन रुँत्वं भवति —\n\nअहः च रात्रिः च एतयोः समाहारः [<<चार्थे द्वन्द्वः>> [[2.2.8]] इति द्वन्द्वसमासः]\n→ अहन् + रात्रि + अच् [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्यययोः लुक् । <<अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः>> [[5.4.87]] इति समासान्तः अच्-प्रत्ययः]\n→ अहन् + रात् र् + अ [<<यस्येति च>> [[6.4.148]] इति इकारलोपः]\n→ अहरुँ + रात्र [सुब्लुकि <<रोऽसुपि>> [[8.2.69]] इत्यनेन प्राप्तं रेफादेशं बाधित्वा पदान्तनकारस्य इति वार्त्तिकेन रुँत्वम् । अत्र <ऽएकदेशविकृतमनन्यवत्ऽ> इति परिभाषाम् आश्रित्य रात्र-शब्दम् रात्रि-शब्दसदृशम् एव स्वीकृत्य प्रकृतवार्त्तिकस्य प्रयोगः भवति । ]\n→ अहउ + रात्र [<<हशि च>> [[6.1.114]] इति उकारः]\n→ अहो + रात्र [<<आद्गुणः>> [[6.1.87]] इति गुणैकादेशः]\n→ अहोरात्र\n\n3. रथन्तर-शब्दे परे —\n\nअह्नः रथन्तरम् [<<षष्ठी>> [[2.2.8]] इति षष्ठीतत्पुरुषः]\n→ अहन् + रथन्तर [<<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्यययोः लुक्]\n→ अह रुँ + रथन्तर [सुब्लुकि <<रोऽसुपि>> [[8.2.69]] इत्यनेन प्राप्तं रेफादेशं बाधित्वा पदान्तनकारस्य इति वार्त्तिकेन रुँत्वम्]\n→ अहउ + रथन्तर [<<हशि च>> [[6.1.114]] इति उकारः]\n→ अहोरथन्तर [<<आद्गुणः>> [[6.1.87]] इति गुणैकादेशः]\n\n\nकेचन वैयाकरणाः अत्र सर्वेषु अपि रेफादौ शब्देषु परेषु रुँत्वम् भवति — इति मन्यन्ते । इत्युक्ते, तेषाम् मतेन केवलम् रूप, रात्रि, रथन्तर इत्येव न अपि तु रम्य, रत्न, राजन्, रमते इत्येतेषु अन्येषु रेफादिशब्देषु परेषु अपि अहन्-शब्दस्य नकारस्य <<रोऽसुपि>> [[8.2.69]] इत्यनेन प्राप्तं रेफादेशं बाधित्वा रुँत्वम् एव भवति, येन अहोरम्यम्, अहोरत्नानि, अहोराजः, अहो रमते इत्येतानि रूपाणि सिद्ध्यन्ति । ये वैयाकरणाः अमुं पक्षं न स्वीकुर्वन्ति, तेषां मतेन तु एतेषु उदाहरणेषु <<रोऽसुपि>> [[8.2.69]] इत्यनेन रेफादेशे कृते, ततः <<रो रि>> [[8.3.14]] इति रेफलोपे, ततः च <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] इति दीर्घादेशे कृते अहारम्यम्, अहारत्नानि, अहाराजः, अहा रमते इत्येतानि रूपाणि एव उचितानि ज्ञेयानि ।\nआश्रयात् सिद्धत्वम् \nप्रकृतसूत्रम् यद्यपि त्रिपाद्यां विद्यते, तथापि इदं सूत्रम् <<हशि च>> [[6.1.114]] इत्यस्य कृते आश्रयात् सिद्धम् अस्ति । इत्युक्ते, प्रकृतसूत्रेण सिद्धस्य रुँत्वस्य एतयोः द्वयोः सूत्रयोः उकारादेशः अवश्यम् सम्भवति । अतएव उपरि अहोभ्याम्, अहोभिः, दीर्घाहा दिवसः इत्येतेषाम् प्रक्रियासु प्रकृतसूत्रस्य प्रयोगात् अनन्तरम् <<हशि >> [[6.1.114]] इति सूत्रं प्रयुक्तं दृश्यते । \nनिर्देशसामर्थ्यात् नकारलोपः न भवति \nअहन्-शब्दस्य पदसंज्ञायां जातायाम् वस्तुतस्तु <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इत्यनेन नकारस्य लोपः भवेत् । परन्तु तादृशः नकारलोपः क्रियते चेत् प्रकृतसूत्रस्य प्रयोगस्य अवकाशः एव विनश्येत् । अतः प्रकृतसूत्रस्य विधानसामर्थ्यात् एव इदं सूत्रम् <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इत्यस्य अपवादरूपेण प्रयुज्यते । इत्युक्ते, पदसंज्ञकस्य अहन्-शब्दस्य नकारस्य <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इत्यनेन नकारलोपः न भवति, अपि तु प्रकृतसूत्रेण रुँत्वम् एव प्रवर्तते । अतएव, <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इत्यत्र इति वार्त्तिकम् अपि भाष्यकारेण पाठितम् दृश्यते ।\nबाध्यबाधकभावः\n<<रोऽसुपि>> [[8.2.69]] इति सूत्रम् प्रकृतसूत्रस्य अपवादरूपेण प्रवर्तते । सुप्-भिन्ने प्रत्यये शब्दे वा परे अहन्-शब्दस्य नकारस्य प्रकृतसूत्रेण प्राप्तं रुँत्वं बाधित्वा <<रोऽसुपि>> [[8.2.69]] इत्यनेन रेफादेशः भवति । यत्र सुप्-प्रत्ययस्य लुक् भवति, तत्रापि <<रोऽसुपि>> [[8.2.69]] इत्यस्यैव प्रयोगः क्रियते, न हि प्रकृतसूत्रस्य ।" }, "82069": { "sa": "अहन्-इत्यस्य नकारस्य पदान्ते रेफादेशः भवति, परन्तु सुप्-प्रत्यये परे न भवति । ", "sd": "अहन् (= दिवसः) इति नकारान्त-नपुंसकलिङ्गशब्दस्य यत्र पदसंज्ञा विधीयते, तत्र अस्य शब्दस्य अन्ते विद्यमानस्य नकारस्य प्रकृतसूत्रेण र् इति आदेशः विधीयते । परन्तु, यत्र अहन्-शब्दात् अनन्तरम् सुप्-प्रत्ययः विद्यते, तत्र अयम् रेफादेशः नैव प्रवर्तते, अतः तत्र <<अहन्>> [[8.2.68]] इत्यनेन नकारस्य रुँत्वं भवति —‌ इति अस्य सूत्रस्य आशयः । \nयद्यपि अस्मिन् सूत्रे असुपि इति उक्तम् अस्ति, तथापि अस्य सूत्रस्य प्रयोगः सुप्-प्रत्ययस्य लुकि कृते एव कृतः दृश्यते । कानिचन उदाहरणानि एतानि —\n1. अहन्-शब्दस्य प्रथमैकवचनस्य अहः इति रूपम् इत्थं सिद्ध्यति —\n\nअहन् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः]\n→ अहन् [<<स्वमोर्नपुंसकात्>> [[7.1.23]] इति सुँ-प्रत्ययस्य लुक् । प्रत्ययस्य लोपे अपि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यनेन प्रत्ययविशिष्टं कार्यम् अवश्यं प्रवर्तते, अतः अहन् इत्यस्य <<सुप्तिङन्तं पदम्>> [[1.4.14]] इति पदसंज्ञा भवति ।]\n→ अहर् [अहन्-शब्दस्य पदान्तनकारस्य <<रोऽसुपि>> [[8.2.68]] इति रुँत्वम् । अत्र सुप्-प्रत्ययस्य लुकि कृते <<अहन्>> [[8.2.68]] इति सूत्रेण प्राप्तं रुँत्वम् बाधित्वा <<रोऽसुपि>> [[8.2.69]] इत्यनेन रेफादेशः प्रवर्तते ।]\n→ अहः [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n\n2. अहर्निशम् इति शब्दस्य सिद्धौ अहन्-शब्दस्य नकारस्य प्रकृतसूत्रेण रेफादेशः भवति —\n\nअहश्च निशा च एतयोः समाहारः [<<चार्थे द्वन्द्वः>> [[2.2.29]] इति द्वन्द्वसमासः]\n→ अहन् + सुँ + निशा + सुँ [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा]\n→ अहन् + निशा [<<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति उभयोः सुप्-प्रत्यययोः लुक् । ]\n→ अहन् निश [समाहारद्वन्द्वस्य नपुंसकत्वात् <<ह्रस्वो नपुंसके प्रातिपदिकस्य>> [[1.2.47]] इति ह्रस्वादेशः]\n→ अहर् + निश [अहन्-शब्दस्य पदान्तनकारस्य <<रोऽसुपि>> [[8.2.68]] इति रुँत्वम् । अत्र सुप्-प्रत्ययस्य लुकि कृते <<अहन्>> [[8.2.68]] इति सूत्रेण प्राप्तं रुँत्वम् बाधित्वा <<रोऽसुपि>> [[8.2.69]] इत्यनेन रेफादेशः प्रवर्तते ।]\n→ अहर्निश\n\n3. अहः ददाति इत्यत्र संहितायाम् सत्याम् अहन् सुँ ददाति इत्यस्याम् स्थितौ सुँ-प्रत्ययस्य लुकि कृते प्रकृतसूत्रेण रेफादेशः भवति —\n\nअहन् + सुँ + ददाति [प्रथमैकवचनस्य सुँ-प्रत्ययः]\n→ अहन् ददाति [<<स्वमोर्नपुंसकात्>> [[7.1.23]] इति सुँ-प्रत्ययस्य लुक् । प्रत्ययस्य लोपे अपि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यनेन प्रत्ययविशिष्टं कार्यम् अवश्यं प्रवर्तते, अतः अहन् इत्यस्य <<सुप्तिङन्तं पदम्>> [[1.4.14]] इति पदसंज्ञा भवति ।]\n→ अहर् [अहन्-शब्दस्य पदान्तनकारस्य <<रोऽसुपि>> [[8.2.68]] इति रुँत्वम् । अत्र सुप्-प्रत्ययस्य लुकि कृते <<अहन्>> [[8.2.68]] इति सूत्रेण प्राप्तं रुँत्वम् बाधित्वा <<रोऽसुपि>> [[8.2.69]] इत्यनेन रेफादेशः प्रवर्तते ।]\n→ अहर्ददाति \n
    \nअत्र यदि <<अहन्>> [[8.2.68]] इति सूत्रेण रुँत्वम् अभविष्यत्, तर्हि तदनन्तरम् <<हशि च>> [[6.1.114]] इत्यनेन अनिष्टम् उत्वम् अभविष्यत् ।\n
    \nप्रकृतसूत्रस्य सुप्-प्रत्ययस्य लुकि कृते प्रयोगः\nयद्यपि अस्मिन् सूत्रे असुपि इति निर्दिश्यते, तथापि अस्य सूत्रस्य सुबन्तप्रक्रियां विहाय अन्यानि उदाहरणानि नैव विद्यन्ते ! अतः, अस्य सूत्रस्य विधानसामर्थ्यात् सुबन्तप्रक्रियायाम् एव यत्र सुप्-प्रत्ययस्य लुक् भवति, तत्र इदम् सूत्रम् उपयुज्यते । अस्य स्पष्टीकरणार्थम् अस्मिन् सूत्रे भाष्यकारः ब्रूते —अह्नः रविधौ लुमता लुप्ते प्रत्ययलक्षणं न भवति । अहन्-शब्दात् विहितस्य सुप्-प्रत्ययस्य यदा लुक् भवति, तदा <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इति सूत्रं तत्र नैव प्रवर्तते, अतः लुप्त-प्रत्ययः तत्र नैव उपतिष्ठते — इति अस्य वाक्यस्य अर्थः । एतादृशं क्रियते चेदेव असुपि इति शब्दस्य अर्थः सङ्गच्छते, इति अत्र भाष्यकारस्य आशयः अस्ति । अतः, यत्र यत्र सुप्-प्रत्ययस्य लुक् भवति, तत्र तत्र प्रत्ययलक्षणं बाधित्वा, सुप्-प्रत्ययस्य अनुपस्थितिम् एव स्वीकृत्य असुपि इत्येव स्थितिं मत्वा प्रकृतसूत्रस्य प्रयोगः भवति । \nबाध्यबाधकभावः\nप्रकृतसूत्रम् <<अहन्>> [[8.2.68]] इत्यस्य अपवादरूपेण प्रवर्तते । सुप्-प्रत्ययस्य लुकि कृते, <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यनेन प्रत्ययविशिष्टं कार्यम् अवश्यं प्रवर्तते, अतः तत्र अहन्-शब्दस्य पदसंज्ञा निःसंशयं भवति । अस्यां स्थितौ पदान्तनकारस्य <<अहन्>> [[8.2.68]] इति सूत्रेण रुँत्वं प्राप्नोति । परन्तु एतादृशं रुँत्वं क्रियते चेत् <<रोऽसुपि>> [[8.2.69]] इति सूत्रम् अनवकाशं भवेत्, यतः <<रोऽसुपि>> [[8.2.69]] इति सूत्रस्य प्रयोगः केवलम् सुब्लुकि कृते एव दृश्यते । अतः <<रोऽसुपि>> [[8.2.69]] इति सूत्रस्य विधानसामर्थ्यात् इदं सूत्रम् <<अहन्>> [[8.2.68]] इत्यस्य अपवादरूपेण प्रवर्तते ।\nयत्र प्रत्ययस्य लोपः कृतः अस्ति, तत्र तु <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यनेन सुप्-प्रत्ययः तत्र उपस्थितः एव स्वीक्रियते, अतः तत्र असुपि इति नैव सङ्गच्छते । अस्यां स्थितौ <<रोऽसुपि>> [[8.2.69]] इत्यस्यापि प्रयोगः न भवति, अतः अहन् शब्दस्य पदान्तनकारस्य तत्र <<अहन्>> [[8.2.68]] इत्यनेन रुँत्वम् एव विधीयते ।\nअसुपि इति प्रसज्यप्रतिषेधः\nअस्मिन् सूत्रे प्रयुक्तः असुपि इति निषेधः प्रसज्यप्रतिषेधः अस्ति । यदि अत्र असुपि इति पर्युदासः स्यात्, तर्हि अग्रे सुप्-भिन्न-प्रत्ययम् अपेक्ष्यमाणम् इदं सूत्रम् अहर्निशम्, अहर्ददाति इत्यादिषु स्थलेषु नैव प्रसज्येत ।\nवार्त्तिकम् - <!रूपरात्रिरथन्तरेषु रुत्वं वाच्यम् !>\nअहन्-शब्दस्य पदान्तनकारस्य सुब्लुकि <<रोऽसुपि>> [[8.2.69]] इति सूत्रेण रेफादेशे प्राप्ते केषुचन स्थलेषु तद्बाधित्वा पुनः <<अहन>> [[8.2.68]] इत्यनेन रुँत्वं विधातुम् इदम् वार्त्तिकम् निर्मितम् अस्ति । रुप, रात्रि, रथ — एतेभ्यः कश्चन शब्दः उत्तरपदरूपेण विद्यते चेत् पूर्वपदरूपेण स्थितस्य अहन्-शब्दस्य रेफस्य <<रोऽसुपि>> [[8.2.69]] इत्यनेन प्राप्तं रेफादेशं बाधित्वा रुत्वम् एव भवति — इति अस्य वार्त्तिकस्य अर्थः । उदाहरणानि एतानि —\n\n1. रूप-शब्दे परे —\n\nअह्नः रूपम् [<<षष्ठी>> [[2.2.8]] इति षष्ठीतत्पुरुषः]\n→ अहन् + रूप [<<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्यययोः लुक्]\n→ अह रुँ + रुप [सुब्लुकि <<रोऽसुपि>> [[8.2.69]] इत्यनेन प्राप्तं रेफादेशं बाधित्वा पदान्तनकारस्य इति वार्त्तिकेन रुँत्वम्]\n→ अहउ + रुप [<<हशि च>> [[6.1.114]] इति उकारः]\n→ अहोरुप [<<आद्गुणः>> [[6.1.87]] इति गुणैकादेशः]\n\n2. रात्रि-शब्दे परे — \nगतम् अहः, रात्रिः एषा (The day has passed, this is the night) इत्यस्य निर्माणे संहितायाम् सत्याम् अहन्-शब्दस्य नकारस्य रात्रि-शब्दे परे रुँत्वं भवति । प्रक्रिया इयम् —\n\nगतम् (अहन् + सुँ), रात्रिः एषा \n→ गतम् (अहन् + ०), रात्रिः एषा [<<स्वमोर्नपुंसकात्>> [[7.1.23]] इति सुँ-प्रत्ययस्य लुक् भवति ।]\n→ गतम् अह रुँ + रात्रिः एषा [सुब्लुकि <<रोऽसुपि>> [[8.2.69]] इत्यनेन प्राप्तं रेफादेशं बाधित्वा पदान्तनकारस्य इति वार्त्तिकेन रुँत्वम् ।]\n→ गतम् अह उ + रात्रिः एषा [<<हशि च>> [[6.1.114]] इति उत्वम्]\n→ गतम् अहोरात्रिः एषा [<<आद्गुणः>> [[6.1.87]] इति गुणैकादेशः]\n\nअहोरात्रम् इति शब्दस्य सिद्धौ अपि अनेनैव वार्त्तिकेन रुँत्वं भवति —\n\nअहः च रात्रिः च एतयोः समाहारः [<<चार्थे द्वन्द्वः>> [[2.2.8]] इति द्वन्द्वसमासः]\n→ अहन् + रात्रि + अच् [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्यययोः लुक् । <<अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः>> [[5.4.87]] इति समासान्तः अच्-प्रत्ययः]\n→ अहन् + रात् र् + अ [<<यस्येति च>> [[6.4.148]] इति इकारलोपः]\n→ अहरुँ + रात्र [सुब्लुकि <<रोऽसुपि>> [[8.2.69]] इत्यनेन प्राप्तं रेफादेशं बाधित्वा पदान्तनकारस्य इति वार्त्तिकेन रुँत्वम् । अत्र <ऽएकदेशविकृतमनन्यवत्ऽ> इति परिभाषाम् आश्रित्य रात्र-शब्दम् रात्रि-शब्दसदृशम् एव स्वीकृत्य प्रकृतवार्त्तिकस्य प्रयोगः भवति । ]\n→ अहउ + रात्र [<<हशि च>> [[6.1.114]] इति उकारः]\n→ अहो + रात्र [<<आद्गुणः>> [[6.1.87]] इति गुणैकादेशः]\n→ अहोरात्र\n\n3. रथन्तर-शब्दे परे —\n\nअह्नः रथन्तरम् [<<षष्ठी>> [[2.2.8]] इति षष्ठीतत्पुरुषः]\n→ अहन् + रथन्तर [<<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्यययोः लुक्]\n→ अह रुँ + रथन्तर [सुब्लुकि <<रोऽसुपि>> [[8.2.69]] इत्यनेन प्राप्तं रेफादेशं बाधित्वा पदान्तनकारस्य इति वार्त्तिकेन रुँत्वम्]\n→ अहउ + रथन्तर [<<हशि च>> [[6.1.114]] इति उकारः]\n→ अहोरथन्तर [<<आद्गुणः>> [[6.1.87]] इति गुणैकादेशः]\n\n\nकेचन वैयाकरणाः अत्र सर्वेषु अपि रेफादौ शब्देषु परेषु रुँत्वम् भवति — इति मन्यन्ते । इत्युक्ते, तेषाम् मतेन केवलम् रूप, रात्रि, रथन्तर इत्येव न अपि तु रम्य, रत्न, राजन् इत्येतेषु अन्येषु रेफादिशब्देषु परेषु अपि अहन्-शब्दस्य नकारस्य <<रोऽसुपि>> [[8.2.69]] इत्यनेन प्राप्तं रेफादेशं बाधित्वा रुँत्वम् एव भवति, येन अहोरम्यम्, अहोरत्नानि, अहोराजः इत्येतानि रूपाणि सिद्ध्यन्ति । \nये वैयाकरणाः अमुं पक्षं न स्वीकुर्वन्ति, तेषां मतेन तु एतेषु उदाहरणेषु <<रोऽसुपि>> [[8.2.69]] इत्यनेन रेफादेशे कृते, ततः <<रो रि>> [[8.3.14]] इति रेफलोपे, ततः च <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] इति दीर्घादेशे कृते अहारम्यम्, अहारत्नानि, अहाराजः इत्येतानि रूपाणि एव उचितानि ज्ञेयानि । यथा —\n\nअह्नः रत्नम् [<<षष्ठी>> [[2.2.8]] इति षष्ठीतत्पुरुषः]\n→ अहन् + रत्न [<<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्यययोः लुक्]\n→ अहर् + रत्न [अहन्-शब्दस्य पदान्तनकारस्य <<रोऽसुपि>> [[8.2.68]] इति रुँत्वम् । अत्र सुप्-प्रत्ययस्य लुकि कृते <<अहन्>> [[8.2.68]] इति सूत्रेण प्राप्तं रुँत्वम् बाधित्वा <<रोऽसुपि>> [[8.2.69]] इत्यनेन रेफादेशः प्रवर्तते ।]\n→ अह + रत्न [<<रो रि>> [[8.3.14]] इति रेफे परे रेफस्य लोपः]\n→ अहारत्न [<<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] इति रेफलोपः]\n\nवार्त्तिकम् - <!अहरादीनां पत्यादिषु वा रेफः !> \nसिद्धान्तकौमुद्याः प्रकृतसूत्रस्य व्याख्याने इति अन्यत् वार्तिकम् अपि पाठितं दृश्यते । वस्तुतस्तु इदं वार्त्तिकं <<खरवसानयोर्विसर्जनीयः>> [[8.3.37]] इति सूत्रस्य विषये अस्ति, परन्तु अस्मिन् वार्त्तिके अहरादिगणः निर्दिष्टः अस्ति अतः कौमुद्याम् इदं वार्त्तिकम् अत्रैव पाठितं वर्तते । काशिकाकारेण इदमेव वार्त्तिकम् <<अम्नरूधरवरित्युभयथा छन्दसि>> [[8.2.70]] इति अग्रिमे सूत्रे पाठितम् अस्ति । अहरादिगणस्य शब्दानां पत्यादिगणस्य शब्दैः सह समासे कृते प्रक्रियायाम् रेफस्य <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इत्यनेन विसर्गादेशे प्राप्ते तद्बाधित्वा रेफस्य विकल्पेन रेफादेशः एव भवति — इति अस्य वार्त्तिकस्य अर्थः ।\nअहरादिगणः अयम् — अहर्, गिर्, धुर्\nपत्यादिगणः अयम् — पति, पुत्र \nरुपाणि एतादृशानि‌ —\n\n1. अह्नः पतिः तथा च अह्नः पुत्रः इति उभयत्र षष्ठीसमासे कृते, प्रक्रियायाम् <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुब्लुकि, अहन्-शब्दस्य नकारस्य <<रोऽसुपि>> इत्यनेन रेफे, ततः <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गादेशे प्राप्ते तद्बाधित्वा इति वार्त्तिकेन विकल्पेन रेफादेशः एव भवति, येन अहर्पतिः, अहर्पुत्रः इति रूपद्वयं सिद्ध्यति । पक्षे रेफस्य <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गादेशे कृते, ततः <<कुप्वोः ≍क≍पौ च>> [[8.3.37]] इति विकल्पेन उपध्मानीये कृते अहःपतिः, अह≍पतिः, अहःपुत्रः, अह≍पुत्रः इति रूपाणि अपि सिद्ध्यन्ति ।\n2. गिर् +पतिः, गिर् +पुत्रः, धुर् +पतिः, धुर् +पुत्रः इति चतुर्षु उदाहरणेषु तु रेफस्य <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गादेशे प्राप्ते तद्बाधित्वा इति वार्त्तिकेन विकल्पेन रेफादेशः एव भवति, ततः <<र्वोरुपधाया दीर्घ इकः>> [[8.2.76]] इत्यनेन इक्-वर्णस्य दीर्घे कृते गीर्पतिः, गीर्पुत्रः, धूर्पतिः, धूर्पुत्रः इति रूपाणि सिद्ध्यन्ति । रेफस्य <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गादेशे कृते, ततः <<कुप्वोः ≍क≍पौ च>> [[8.3.37]] इति विकल्पेन उपध्मानीये कृते गीःपतिः, गी≍पतिः, गीःपुत्रः, गी≍पुत्रः, तथा च धूःपतिः, धू≍पतिः, धूःपुत्रः, धू≍पुत्रः इति रूपाणि अपि सिद्ध्यन्ति । \n\nगीःपतिः, गीःपुत्रः , धूःपतिः , धूःपुत्रः एतेषु स्थलेषु <<इदुदुपधस्य चाप्रत्ययस्य>> [[8.3.41]] इति सूत्रं नैव प्रवर्तते, यतः तस्मिन् सूत्रे तपरकरणेन केवलं ह्रस्वस्वरस्यैव ग्रहणं भवति, दीर्घस्वरस्य न । \n<pv>भोजव्याकरणे, चान्द्रव्याकरणे अस्य सूत्रस्य भिन्नरूपेण उपस्थापनम्\nभोजस्य सरस्वतिकण्ठाभरणम् इत्याख्ये व्याकरणे इदम् सूत्रम् <<लुक्यरेफे रः>> (सरस्वतिकण्ठाभरणम्, 7.3.119) इति भिन्नरूपेण प्रतिपादितम् अस्ति । एवमेव चन्द्रगोमिनः चान्द्रव्याकरणे अपि इदं सूत्रम् <<लुक्यरि रः>> (चान्द्रव्याकरणम् 6.3.100) इति स्वरूपे वर्तते । उभयत्रापि असुपि इति शब्दस्य स्थाने लुकि इति स्पष्टः निर्देशः कृतः वर्तते । प्रकृतसूत्रम् सुब्लुकि एव भवति, अतः अस्मिन् सूत्रे असुपि इत्यस्य स्थाने लुकि इत्येव सुवचं स्यात् — इति अत्र आशयः । अपि च, एतयोः स्थलयोः अ-रेफे / अ-रि इति ग्रहणेन एतद अपि स्पष्टी भवति यत् एतयोः वैयाकरणयोः मतेन सर्वेषु अपि रेफादौ शब्देषु प्रकृतसूत्रेण प्राप्तं रेफादेशं बाधित्वा <<अहन्>> [[8.2.68]] इत्यनेन रुत्वम् एव प्रवर्तते । वार्त्तिककारेण तु एतादृशम् रुत्वम् केवलम् रुप, रात्रि, रथन्तर इत्येतेषु परेषु एव विज्ञापितम् अस्ति । \n" }, "82070": { "sa": "", "sd": "" }, "82071": { "sa": "", "sd": "" }, "82072": { "sa": "वसुँ-प्रत्ययान्तस्य सकारान्तशब्दस्य, स्रंसु-शब्दस्य, ध्वंसु-शब्दस्य तथा अनडुह्-शब्दस्य पदान्ते दकारादेशः भवति । ", "sd": "अनेन सूत्रेण -\n1. वसुँ-प्रत्ययान्ताः शब्दः यथा विद्वस्,\n2. स्रंसुँ (अवस्रंसने ) धातुनिर्मितः स्रस् शब्दः। अत्र <<अनिदितां हलः उपधायाः क्ङिति>> [[6.4.24]] इत्यनेन नकारस्य लोपः भवति ।\n3. ध्वंसुँ (अवस्रंसने गतौ च) धातुनिर्मितः ध्वस् शब्दः । अत्रापि <<अनिदितां हलः उपधायाः क्ङिति>> [[6.4.24]] इत्यनेन नकारस्य लोपः भवति ।\n4. अनडुह्-शब्दः (= वृषभः )\nएतेषां पदान्ते अन्तिमवर्णस्य दकारादेशः भवति । वसुँ-प्रत्ययान्तशब्दस्य विषये अयमादेशः केवलं सकारस्यैव भवति । अन्येषां विषये तु अन्तिमवर्णस्य भवति । यथा -\n1. विद्वस् + भ्याम् → विद्वद्भ्याम् ।\n2. स्रस् + भ्याम् → स्रद्भ्याम् ।\n3. ध्वस् + भ्याम् → ध्वद्भ्याम् ।\n4. अनडुह् + भ्याम् → अनडुद्भ्याम् ।\nज्ञातव्यम् -\n1. अस्मिन् सूत्रे <<ससजुषोः रुँः>> [[8.2.66]] इत्यतः सकारस्य अनुवृत्तिः केवलं वसुँ-प्रत्ययार्थं क्रियते, यतः स्रसुँ/ध्वंसुँ धातुनिर्मितौ शब्दौ नित्यम् सकारान्तौ एव स्तः, तथा अनडुह्-शब्दः कदापि सकारान्तः न भवति । परन्तु वसुँ-प्रत्ययान्तशब्दस्य रूपाणि केषुचन स्थलेषु सकारान्तानि न सन्ति - यथा - विद्वान् , विद्वन् आदयः । अत्र अनेन सूत्रेण नकारस्य दकारादेशः मा भूत् एतत् स्पष्टीकर्तुम् इयमनुवृत्तिः आवश्यकी ।\n2. एतत् सूत्रम् <<ससजुषोः रुँः>> [[8.2.66]] इत्यस्य अपवादरूपेण उक्तमस्ति । " }, "82073": { "sa": "", "sd": "" }, "82074": { "sa": "", "sd": "" }, "82075": { "sa": "", "sd": "" }, "82076": { "sa": "रेफान्तस्य वकारान्तस्य धातोः पदस्य उपधाभूतस्य इक्-वर्णस्य दीर्घादेशः भवति । ", "sd": "यस्य अन्ते रेफः वकारः वा अस्ति, यस्य च धातुसंज्ञा अपि अस्ति, तादृशस्य पदस्य उपधायाम् विद्यमानस्य इ/उ/ऋ/ऌवर्णस्य दीर्घादेशः भवति । यथा -\n1) 'गॄ' (निगरणे) धातोः क्विप्-प्रत्यये कृते 'गिर्' इति रेफान्तशब्दः सिद्ध्यति । <ऽक्विबन्ताः विजन्ताश्च प्रातिपदिकत्वं न जहति, धातुत्वमपि न मुञ्चन्तिऽ> अनेन सिद्धान्तेन गिर्-शब्दस्य धातुसंज्ञा अपि अस्ति । अस्य तृतीयाद्विवचनस्य प्रक्रिया इयम् -\nगिर् + भ्याम् [तृतीयाद्विवचनस्य प्रत्ययः । अस्मिन् प्रत्यये परे <<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इत्यनेन अङ्गस्य पदसंज्ञा भवति ।]\n→ गीर् + भ्याम् [<<र्वोरुपधाया दीर्घ इकः>> [[8.2.76]] इति रेफान्तस्य धातुसंज्ञकस्य पदस्य उपधा-ईकारस्य दीर्घः]\n→ गीर्भ्याम्\n2) 'आशिस्' अयम् शब्दः आङ्-उपसर्गपूर्वक-शास्-धातोः क्विप्-प्रत्ययं कृत्वा जायते । <ऽक्विबन्ताः विजन्ताश्च प्रातिपदिकत्वं न जहति, धातुत्वमपि न मुञ्चन्तिऽ> अनेन सिद्धान्तेन अस्य शब्दस्य धातुसंज्ञा अपि अस्ति । अस्य प्रथमैकवचनस्य प्रक्रिया इयम् जायते -\nआशिस् + सुँ [प्रथमैकवचनस्य प्रत्ययः]\n→ आशिस् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति सुँलोपः]\n→ आशिर् [<<ससजुषोः रुँ>> [[8.2.66]] इति रुँत्वम्]\n→ आशीर् [<<र्वोरुपधायाः दीर्घः इकः>> [[8.2.76]] इति उपधादीर्घः]\n→ आशीः [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\nज्ञातव्यम् - अस्मिन् सूत्रे यद्यपि 'वकार'ग्रहणम् कृतमस्ति, तर्हि वकारान्त-धातुसंज्ञकस्य-पदस्य विषये (यथा - दिव्, सुदिव्) अस्य सूत्रस्य प्रसक्तिः नास्ति । अतः अस्मिन् सूत्रे वस्तुतः वकारग्रहणम् न आवश्यकम् । परन्तु अग्रिमसूत्रे तस्य प्रयोजनं विद्यते अतः अत्र तस्य ग्रहणं कृतमस्ति ।\n" }, "82077": { "sa": "रेफ-वकारान्त-धातोः उपधाभूतस्य इक्-वर्णस्य हल्-वर्णे परे दीर्घादेशः भवति । ", "sd": "यस्य धातोः अन्ते रेफः वकारः वा अस्ति तस्य उपधायाम् विद्यमानस्य इ/उ/ऋ/ऌवर्णस्य हल्-वर्णे परे दीर्घादेशः भवति । उदाहरणानि एतानि -\n1. 'तॄ' धातोः कर्मणि-प्रयोगे लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -\nतॄ + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ तॄ + त [<<भावकर्मणोः>> [[1.3.13]] इति कर्मणि-प्रयोगस्य विवक्षायामात्मनेपदम् । <<तिप्तस्..>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य विवक्षायाम् 'त' प्रत्ययः]\n→ तॄ + यक् + त [<<सार्वधातुके यक्>> [[3.1.67]] इति विकरणप्रत्यय यक्]\n→ तिर् + यक् + त [<<ऋत इद्धातोः>> [[7.1.100]] इति ॠकारस्य इकारः । <<उरण् रपरः>> [[1.1.51]] इति सः रपरः]\n→ तिर् + य + ते [<<टित आत्मनेपदानां टेरे>> [[3.4.79]] इति एकारादेशः]\n→ तीर् य ते [<<हलि च>> इति रेफान्तधातोः उपधायाः इक्-वर्णस्य दीर्घादेशः]\n→ तीर्यते ।\n2. 'दिव्' धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -\nदिव् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ दिव् + तिप् [<<तिप्तस्..>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य विवक्षायाम् 'तिप्' प्रत्ययः]\n→ दिव् + श्यन् + तिप् [<<दिवादिभ्यः श्यन्>> [[3.1.69]] इति विकरणप्रत्ययः श्यन्]\n→ दिव् + य + ति [इत्संज्ञालोपः]\n→ दीव्यति [<<हलि च>> इति वकारान्तधातोः उपधायाः इक्-वर्णस्य दीर्घादेशः]\nज्ञातव्यम् -\n1. अस्य सूत्रस्य प्रयोगः 'अपदान्त'धातोः विषये एव भवति, यतः यदि धातुः पदसंज्ञकः अस्ति तर्हि <<र्वोरुपधायाः दीर्घः इकः>> [[8.2.76]] अनेन पूर्वसूत्रेणैव दीर्घादेशः विधीयते । अतः अस्मिन् विषये काशिकाकारः वदति - 'अपदान्तार्थः ऽयमारम्भः' । अतः यद्यपि एतत् सूत्रम् पदाधिकारे अस्ति, तथापि अनेन सूत्रेण उक्तः विधिः अपदान्तविधिः अस्तीति स्मर्तव्यम् ।\n2. अस्मिन् सूत्रे 'र्वोः' इति 'धातोः' इत्यस्य विशेषणरूपेण प्रयुज्यते । 'र्वोः धातोः' इत्यत्र <<येन विधिस्तदन्तस्य>> [[1.1.72]] इत्यनेन 'रेफ-वकारान्त-धातोः' इति अर्थः जायते ।\n" }, "82078": { "sa": "धातोः उपधाभूतौ हल्परौ यौ रेफवकारौ, ताभ्याम् पूर्वस्य इक्-वर्णस्य दीर्घादेशः भवति । ", "sd": "यदि धातोः -\n1) अन्तिमवर्णः हल्-वर्णः अस्ति\n2) उपधावर्णः रेफः / वकारः वा अस्ति\n3) तस्मात् रेफ/वकारात् पूर्वम् यदि इक्-वर्णः अस्ति,\nतर्हि तस्य इक्-वर्णस्य दीर्घादेशः भवति । अत्र किमपि अन्यत् निमित्तं नापेक्षते ।\nयथा -\n1. कुर्द् (क्रीडायामेव) इति भ्वादिगणस्य धातुः । अस्य धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् एतादृशं सिद्ध्यति -\nकुर्द् + लट् [<<वर्त्तमाने लट्>> [[3.2.123]] इति लट्]\n→ कुर्द् + त [<<तिप्तस्..>> [[3.4.78]] इति आत्मनेपद-प्रथमपुरुषैकवचनस्य त-प्रत्ययः]\n→ कुर्द् + शप् + त [<<कर्त्तरि शप्>> [[3.1.68]] इति शप्]\n→ कुर्द् + अ + ते [<<टित आत्मनेपदानां टेरे>> [[3.4.79]] इति एत्त्वम्]\n→ कूर्द् + अ + ते [अत्र धातोः उपधायाम् रेफः अस्ति, तस्मात् परः हल्-वर्णः च अस्ति । अतः अस्य रेफस्य उपधायां विद्यमानस्य उकारस्य <<उपधायां च>> [[8.2.78]] इति दीर्घादेशः भवति।]\n→ कूर्दते ।\n2. उर्व् (हिंसायाम्) इति भ्वादिगणस्य धातुः । अस्य धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् एतादृशं सिद्ध्यति -\nउर्व् + लट् [<<वर्त्तमाने लट्>> [[3.2.123]] इति लट्]\n→ उर्व् + तिप् [<<तिप्तस्..>> [[3.4.78]] इति तिप्]\n→ उर्व् + शप् + तिप् [<<कर्त्तरि शप्>> [[3.1.68]] इति शप्]\n→ उर्व् + अ + ति [इत्संज्ञालोपः]\n→ ऊर्व् + अ + ति [अत्र धातोः उपधायाम् रेफः अस्ति, तस्मात् परः हल्-वर्णः च अस्ति । अतः अस्य रेफस्य उपधायां विद्यमानस्य उकारस्य <<उपधायां च>> [[8.2.78]] इति दीर्घादेशः भवति।]\n→ ऊर्वति ।\nज्ञातव्यम् -\n1. अस्मिन् सूत्रे प्रयुक्तः 'उपधायाम्' अयम् शब्दः वस्तुतः षष्ठीद्विवचनस्य निर्देशं करोतीति काशिकायाः न्यासे उक्तमस्ति ( 'उपधायामिति सुब्व्यत्ययेन षष्ठीद्विवचनस्य स्थाने सप्तम्येकवचनम्' इति न्यासः) । बालमनोरमाकारः अपि एतदेव वदति - 'उपधयोः इत्यर्थे उपधायाम् इति आर्षम्' । अतः अत्र 'उपधयोः' इति परिवर्तनं कृतमस्ति । 'उपधाभूतौ' इति तस्य अर्थः ।\n2. यद्यपि अस्मिन् सूत्रे 'रेफवकारौ' इति उक्तमस्ति, तथापि केवलं रेफस्यैव उदाहरणानि दृश्यन्ते, उपधा-वकारस्य उदाहरणानि न लभन्ते, यतः <<लोपो व्योर्वलि>> [[6.1.66]] इत्यनेन वकारस्य वल्-वर्णे परे लोपः जायते ।\n3. री (गतिरेषणयोः) अयम् क्र्यादिगणस्य धातुः । अस्य धातोः लिट्-लकारस्य प्रथमपुरुषद्विवचनस्य रूपसिद्धौ अस्य सूत्रस्य प्रसक्तिः अस्तीति भासते, परन्तु तादृशं नास्ति । एतत् विस्तारेण ज्ञातुमस्य रूपस्य सिद्धिं पश्यामः -\nरी + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट्]\n→ री री लिट् [<<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम्]\n→ रि री लिट् [<<ह्रस्वः>> [[7.4.59]] इति अभ्यासस्य ह्रस्वः]\n→ रि री + तस् [<<तिप्तस्..>> [[3.4.78]] इति प्रथमपुरुष-द्विवचनस्य प्रत्ययः तस्]\n→ रि री + अतुस् [<<परस्मैपदानां...>> [[3.4.82]] इति तस्-प्रत्ययस्य अतुस्-आदेशः]\n→ रिर् य् + अतुस् [<<एरनेकाचोऽसंयोगपूर्वस्य>> [[6.4.82]] इति इकारस्य यणादेशः यकारः]\nअत्र अङ्गस्य उपधाभूतः रेफः अस्ति, तस्मात् परः यकारः (हल्-वर्णः) अस्ति, तथा रेफात् पूर्वः इक्-वर्णः (इकारः) अस्ति । अस्याम् स्थितौ वर्तमानसूत्रस्य प्रसक्तिः भवेत् इति भासते, परन्तु अत्र वर्तमानसूत्रम् न विधीयते । तस्य कारणमेतत् - अत्र इकारात् निर्मितः यकारः दीर्घस्य अपेक्षया 'बहिरङ्गम्' कार्यमस्ति, यतः तत् 'अतुस्' इति प्रत्ययनिर्मितमस्ति । <ऽअसिद्धं बहिरङ्गमन्तरङ्गेऽ> अनया परिभाषया अयं यकारादेशः दीर्घादेशार्थमसिद्धः अस्ति । अतः अत्र दीर्घादेशे कर्तव्ये इकारः एव दृश्यते, अतः दीर्घादेशस्यापि प्रसक्तिः नास्ति । अतः केवलं वर्णमेलनं कृत्वा 'रिर्यतुः' इति रूपं सिद्ध्यति ।\n विशेषः - अस्मिन् सूत्रे 'हलि' इति अनुवर्त्तते । परन्तु सर्वासु व्याख्यासु अस्य 'हल्पर' इति परिवर्तनं कृत्वा 'र्वोः' इत्यस्य विशेषणरूपेण अस्य प्रयोगः कृतः दृश्यते । अतः अत्र 'सम्पूर्णसूत्रे' अपि 'हलि' इत्यस्य स्थाने 'हल्परयोः' इति प्रयोगः स्थापितः अस्ति ।\n" }, "82079": { "sa": "", "sd": "" }, "82080": { "sa": "", "sd": "" }, "82081": { "sa": "", "sd": "" }, "82082": { "sa": "इतः परम् अस्य पादस्य अन्तिमं सूत्रपर्यन्तं निर्दिष्टेषु सन्दर्भेषु वाक्यस्य टि-संज्ञकः प्लुतः तथा उदात्तः भवति ।", "sd": "इदम् अधिकारसूत्रम् अस्ति । अस्य व्याप्तिः <<एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्यार्धस्यादुत्तरस्येदुतौ>> [[8.2.107]] इति यावत् वर्तते । अस्मिन् अधिकारे विद्यमानैः सूत्रैः निर्दिष्टेषु सन्दर्भेषु वाक्यस्य टि-संज्ञकस्य स्वरः प्लुतः उदात्तः च भवति — इति अस्य अधिकारस्य अर्थः ।\nशब्दस्य अन्तिम-अच्-वर्णात् आरभ्य शब्दस्य अन्तपर्यन्तम् यः वर्णसमूहः, तस्य <<अचोऽन्त्यादि टिः>> [[1.1.64]] इत्यनेन टि संज्ञा भवति । अतः वाक्यस्य टेः इत्यनेन वाक्यस्य अन्तिमशब्दस्य टिसंज्ञकः अंशः इति अर्थः अत्र गृह्यते ।\nयथा, <<दूराद्धूते च>> [[8.2.84]] इति सूत्रेण 'दूरात् क्रियमाणम् सम्बोधनम्' इति सन्दर्भः उच्यते । अस्मिन् सन्दर्भे वाक्यस्य टि-संज्ञकः प्लुतः उदात्तः च भवति । इत्युक्ते, यद् वाक्यम् दूरे विद्यमानस्य सम्बोधनार्थं प्रयुज्यते, तस्य वाक्यस्य टिसंज्ञकस्य स्वरः प्लुतः उदात्तः च भवति इति अस्य अर्थः । अतएव, सक्तून् पिब इन्द्रवर्म३न् इत्यस्मिन् वाक्ये मकारोत्तरः अकारः प्लुतः, उदात्तः च भवति ।\n\n" }, "82083": { "sa": "शूद्रं विहाय अन्यान् प्रति अभिवादनस्य प्रत्युत्तरम् येन वाक्येन दीयते, तस्य टिसंज्ञकः प्लुतः उदात्तः च भवति ।", "sd": "शिष्येण कृतस्य अभिवादनस्य प्रत्युत्तरार्थम् आचार्यः यद् वाक्यम् उच्चार्य आशीः प्रददाति, तस्य वाक्यस्य टिसंज्ञकः अनेन सूत्रेण प्लुतः उदात्तः च भवति ।\nप्रत्यभिवादः = प्रति + अभिवादः = प्रति + प्रणामः । अभिवादनस्य उत्तरार्थम् उच्चारिता आशीः प्रत्यभिवादः नाम्ना ज्ञायते ।\nयथा —\n\n1. देवदत्तः (इति कश्चन ब्राह्मणः) आचार्यम् ब्रूते — 'अभिवादये आचार्य; देवदत्तोऽहम् ।' तदा आचार्यः प्रत्यभिवदति — आयुष्मान् भव देवदत्त3 । अस्मिन् वाक्ये आचार्येण उक्तस्य प्रत्यभिवादस्य टिसंज्ञकस्य प्रथमः स्वरः (इत्युक्ते, 'देवदत्त' इति शब्दस्य अन्तिमः अकारः) प्रकृतसूत्रेण प्लुतः उदात्तः च भवति ।\n2. विष्णुशर्मा (इति कश्चन ब्राह्मणः) आचार्यम् ब्रूते — 'अभिवादये आचार्य; विष्णुशर्माऽहम् ।' तदा आचार्यः प्रत्यभिवदति — आयुष्मान् भव विष्णुशर्म3न् । अस्मिन् वाक्ये आचार्येण उक्तस्य प्रत्यभिवादस्य टिसंज्ञकस्य प्रथमः स्वरः (इत्युक्ते, 'विष्णुशर्मन्' इति शब्दस्य अन्तिमः मकारोत्तरः अकारः) प्रकृतसूत्रेण प्लुतः उदात्तः च भवति ।\n\nपरन्तु यदि एतादृशं वाक्यं शूद्रं प्रति उच्चार्यते, तर्हि टिसंज्ञकः प्लुतः उदात्तः च नैव भवति । यथा —\n\nतुषजकः (इति नामा कश्चन शूद्रः) ब्रूते — 'अभिवादये आचार्य, तुषजकोऽहम् ।' तदा आचार्यः प्रत्यभिवदति — आयुष्मान् भव तुषजक । अत्र ककारोत्तरः अकारः प्लुतः उदात्तः च न भवति ।\n\nविशेषः — अस्य सूत्रस्य सन्दर्भे कौमुदीकारः वदति —\n\nनाम गोत्रं वा यत्र प्रत्यभिवादवाक्यान्ते प्रयुज्यते, तत्रैव प्लुत इष्यते । नेह । आयुष्मानेधि ।\n\nइत्युक्ते, वाक्यस्य अन्तिमः शब्दः गोत्रम् मनुष्यस्य नाम वा निर्दिशति, चेदेव अस्य सूत्रस्य प्रयोगः भवति, न हि अन्येषु स्थलेषु । यथा —\n\n1. देवदत्तः (इति कश्चन ब्राह्मणः) ब्रूते — 'अभिवादये आचार्य, देवदत्तोऽहम् ।' तदा आचार्यः प्रत्यभिवदति — आयुष्मान् भव देवदत्त3। अत्र देवदत्तशब्देन नाम्नः निर्देशः क्रियते, अतः अत्र तकारोत्तरः अकारः प्लुतः उदात्तः च भवति ।\n2. वत्सगोत्रोत्पनः (कश्चन ब्राह्मणः) ब्रूते — 'अभिवादये आचार्य, वात्स्योऽहम् ।' तदा आचार्यः प्रत्यभिवदति — आयुष्मान् भव वात्स्य3 । अत्र वात्स्य-शब्देन गोत्रस्य निर्देशः क्रियते, अतः अत्र यकारोत्तरः अकारः प्लुतः उदात्तः च भवति ।\n3. देवदत्तः (इति कश्चन ब्राह्मणः) ब्रूते — 'अभिवादये आचार्य, देवदत्तोऽहम् ।' तदा आचार्यः प्रत्यभिवदति — आयुष्मान् भव । अत्र वकारोत्तरः अकारः प्लुतः उदात्तः च न भवति, यतः अत्र वाक्यस्य अन्ते नाम्नः गोत्रस्य वा निर्देशः नास्ति ।\n\nवार्त्तिकानि\n \nस्त्रिया अभिवादनं क्रियते चेत् तस्य प्रत्यभिवादनस्य वाक्यस्य टिसंज्ञकः प्लुतः उदात्तः च न भवति । यथा —\n गार्गी ब्रूते — 'अभिवादये, गार्ग्यहम्' । तदा आचार्यः प्रत्यभिवदति — आयुष्मती भव गार्गि । अत्र गार्गि-शब्दस्य अन्तिमः इकारः टिसंज्ञकः न भवति ।\n\n2. (भो-राजन्य-विशां वा इति वाच्यम्) \nयदि प्रत्यभिवादस्य वाक्यस्य अन्ते भोः इति शब्दः विद्यते उत कस्यचन क्षत्रियस्य नाम विद्यते, उत कस्यचन वैश्यस्य नाम विद्यते, तर्हि प्रकृतसूत्रेण उक्तः आदेशः विकल्पेन भवति । यथा —\n\n1. आयुष्मान् एधि भोः3 ! अथ वा, आयुष्मानेधि भोः । अत्र भकारोत्तस्य ओकारस्य वैकल्पिकम् प्लुतत्वम् विधीयते । \n2. आयुष्मानेधीन्द्रवर्म3न् ! अथ वा, आयुष्मानेधीन्द्रवर्मन् । 'इन्द्रवर्मन्' इति क्षत्रियस्य कृते प्रयुक्तम् सम्बोधनम् अस्ति ; अयं च वाक्यस्य अन्ते विद्यते, अतः अस्य टिसंज्ञकस्य स्वरः प्लुतः उदात्तः च भवति । \n3. आयुष्मानेधीन्द्रपालित3 ! अथ वा, आयुष्मानेधीन्द्रपालित । 'इन्द्रपालित' इति वैश्यस्य कृते प्रयुक्तम् सम्बोधनम् अस्ति ; अयं च वाक्यस्य अन्ते विद्यते, अतः अस्य टिसंज्ञकस्य स्वरः प्लुतः उदात्तः च भवति । \n\nअनेन वार्त्तिकेन उक्ता विभाषा उभयविभाषा अस्ति । भोः इति शब्दः गोत्रवाची, नामपदम् वा नास्ति, अतः तस्य विषये पूर्वेण अप्राप्ते अत्र विकल्पः विधीयते । क्षत्रियाणाम् वैश्यानाम् च नाम्नां विषये पूर्वेण नित्यं प्लुतत्वे / उदात्तत्वे प्राप्ते प्रकृतसूत्रेण विकल्पः उच्यते । अतः इदम् उभयविभाषायाः उदाहरणम् । \n" }, "82084": { "sa": "दूरात् सम्बोधनं कर्तुं यत् वाक्यम् उच्चार्यते, तस्य टिसंज्ञकः प्लुतः उदात्तः च भवति ।", "sd": "दूरे विद्यमानं कञ्चन आह्वातुम् (शब्देन सम्बोधयितुम्) यस्य वाक्यस्य प्रयोगः क्रियते, तस्य वाक्यस्य टिसंंज्ञकः स्वरः प्लुतः उदात्तः च भवति । यथा —\n\n1. दूरे विद्यमानम् देवदत्तम् सम्बोधयितुम् उच्चारिते सक्तून् पिब देवदत्त3 इत्यस्मिन् वाक्ये विद्यमानः तकारोत्तवर्ती अकारः प्रकृतसूत्रेण प्लुतः, उदात्तः च भवति । \n2. दूरे विद्यमानम् इन्द्रवर्माणं सम्बोधयितुम् उच्चारिते सक्तून् पिब इन्द्रवर्म3न् इत्यस्मिन् वाक्ये विद्यमानः मकारोत्तवर्ती अकारः प्रकृतसूत्रेण प्लुतः, उदात्तः च भवति । \n\nसम्बोधनवाची शब्दः वाक्यस्य अन्ते विद्यते चेदेव अस्य सूत्रस्य प्रयोगः भवति । अतएव, देवदत्त, सक्तून् पिब इत्यस्मिन् वाक्ये बकारोत्तरः अकारः प्रकृतसूत्रेण प्लुतः उदात्तः वा न जायते । " }, "82085": { "sa": "'है'/ 'हे' इति शब्दस्य प्रयोगं कृत्वा दूरात् सम्बोधनं कर्तुं यत् वाक्यम् उच्चार्यते, तस्मिन् वाक्ये 'है' / 'हे' शब्दस्य एव स्वरस्य प्लुतसंज्ञा, उदात्तसंज्ञा च भवति, न अन्यस्य ।", "sd": "स्वरादिगणे विद्यमाने है तथा हे एते द्वे अव्यये सामान्यरूपेण सम्बोधनार्थं प्रयुज्येते । यस्मिन् वाक्ये दूरात् सम्बोधनं कर्तुम् एतयोः किञ्चन अव्ययम् प्रयुज्यते, तत्र <<दूराद्धूते च>> [[8.2.84]] इति सूत्रं बाधित्वा अस्य अव्ययस्य एव टिसंज्ञकः उदात्तः भवति । यथा — \n\n1. सक्तून् पिब हे3 देवदत्त !\n2. हे3 देवदत्त, सक्तून पिब !\n3. सक्तून् पिब, हे3 !\n4. सक्तून् पिब है3 देवदत्त !\n5. है3 देवदत्त, सक्तून पिब !\n6.सक्तून् पिब, है3 !\n\nवाक्ये हे उत है इति शब्दः कुत्रापि विद्यते चेत् तस्य एव स्वरः प्लुतः भवति, अन्यस्य शब्दस्य स्वरः प्लुतः न भवति, इति अस्य सूत्रस्य आशयः वर्तते । तदर्थमेव 'हैहयोः' इति शब्दस्य विशेषरूपेण सूत्रे ग्रहणं कृतम् अस्ति । \n" }, "82086": { "sa": "यस्य शब्दस्य टिसंज्ञकस्य पूर्वसूत्रैः प्लुतत्वम् उदात्तत्वं च उच्यते, तस्मिन् शब्दे विद्यमानाः अन्ये ऋकारभिन्नाः गुरुसंज्ञकाः स्वराः प्राचां मतेन एकैकम् प्लुताः उदात्ताः भवन्ति । ", "sd": "<<प्रत्यभिवादेऽशूद्रे>> [[8.2.83]] तथा च <<दूराद्धूते च>> [[8.2.84]] इत्येताभ्याम् सूत्राभ्याम् यस्य शब्दस्य टिसंज्ञकः प्लुतः उदात्तः वा उक्तः अस्ति, तस्य शब्दस्य अन्ये ऋकारभिन्नाः गुरुसंज्ञकाः स्वराः अपि एकैकम् (one-by-one) विकल्पेन प्लुताः उदात्ताः भवन्ति — इति अस्य सूत्रस्य आशयः । यथा —\n\n1. सक्तून् पिब देवदत्त! — अस्मिन् वाक्ये विद्यमानस्य देवदत्त-शब्दस्य तकारोत्तरः अकारः <<दूराद्धूते च>> [[8.2.84]] इति सूत्रेण प्लुतः उदात्तः च भवति । अतः अस्यैव शब्दस्य अन्ये गुरुसंज्ञकाः स्वराः प्रकृतसूत्रेण क्रमेण प्लुतसंज्ञकाः, उदात्तसंज्ञकाः च भवन्ति —\n\ni. एकारस्य दीर्घत्वात् <<दीर्घं च>> [[1.4.12]] इति गुरुसंज्ञा विधीयते, अतः तस्य प्रकृतसूत्रेण प्लुतसंज्ञा, उदात्तसंज्ञा च अपि सम्भवति — सक्तून् पिब दे3वदत्त! \nii. पक्षे दकारोत्तरस्य अकारस्य <<संयोगे गुरु>> [[1.4.11]] इत्यनेन गुरुसंज्ञा भवति, अत तस्य प्रकृतसूत्रेण प्लुतसंज्ञा, उदात्तसंज्ञा च अपि सम्भवति — सक्तून् पिब देवद3त्त! \niii. पक्षे <<दूराद्धूते च>> [[8.2.84]] इति सूत्रेण तकारोत्तरस्य अकारस्य एव प्लुतसंज्ञा, उदात्तसंज्ञायां च भवति — सक्तून् पिब देवदत्त3! \niv. वकारोत्तरः अकारः गुरुसंज्ञकः नास्ति, अतः तस्य विषये इदं सूत्रं न प्रवर्तते ।\n\n2. आयुष्मान् भव महाकृष्णवर्मन्! — अस्मिन् वाक्ये विद्यमानस्य महाकृष्णवर्मन्-शब्दस्य मकारोत्तरः अकारः <<प्रत्यभिवादेऽशूद्रे>> [[8.2.83]] इति सूत्रेण प्लुतः उदात्तः च भवति । अतः अस्यैव शब्दस्य अन्ये ऋकारभिन्नाः गुरुसंज्ञकाः स्वराः प्रकृतसूत्रेण क्रमेण प्लुतसंज्ञकाः, उदात्तसंज्ञकाः च भवन्ति —\n\ni. हकारोत्तरः अकारः दीर्घत्वात् <<दीर्घं च>> [[1.4.12]] इति गुरुसंज्ञकः भवति, अतः तस्य प्रकृतसूत्रेण प्लुतसंज्ञा, उदात्तसंज्ञा च अपि सम्भवति — आयुष्मान् भव महा3कृष्णवर्मन्! \nii. पक्षे वकारोत्तरस्य अकारस्य <<संयोगे गुरु>> [[1.4.11]] इत्यनेन गुरुसंज्ञा भवति, अत तस्य प्रकृतसूत्रेण प्लुतसंज्ञा, उदात्तसंज्ञा च अपि सम्भवति — आयुष्मान् भव महाकृष्णव3र्मन्! \niii. पक्षे <<प्रत्यभिवादेऽशूद्रे>> [[8.2.83]] इति सूत्रेण मकारोत्तरस्य अकारस्य एव प्लुतसंज्ञा, उदात्तसंज्ञा च भवति — आयुष्मान् भव महाकृष्णवर्म3न्! \niv. ककारोत्तरः ऋकारः यद्यपि गुरुसंज्ञकः अस्ति, तथापि अस्मिन् सूत्रे अनृतः इति निर्देशात् तस्य विषये प्रकृतसूत्रं नैव प्रवर्तते । \nv. णकारोत्तरः अकारः तु गुरुसंज्ञकः एव नास्ति, अतः तस्य विषये अपि इदं सूत्रं न प्रवर्तते । \n\n\nप्राचाम् इति योगविभागः, तेन सर्वः प्लुतः विकल्प्यते ।\nअस्मिन् सूत्रे कौमुदीकारः वदति —\n\nइह प्राचाम् इति योगो विभज्यते । तेन सर्वः प्लुतो विकल्प्यते ॥\n\nअस्मिन् सूत्रे विद्यमानः प्राचाम् इति शब्दः पृथक् (भिन्नसूत्ररूपेण) स्थापनीयः, तस्य च अन्वयः 'प्लुतः' इति शब्देन सह कर्तव्यः — इति अत्र कौमुदीकारस्य आशयः अस्ति । एतादृशं क्रियते चेत्, अस्मिन् प्रकरणे विद्यमानैः सूत्रैः उपदिष्टः प्लुतः केवलम् विकल्पेन एव भवति — इति अर्थः सम्भवति । इत्युक्ते, प्लुतविधानम् केवलम् विकल्पेन एव भवति, न हि नित्यम् — इति अत्र निर्णयः कृतः अस्ति ।\n\n" }, "82087": { "sa": "", "sd": "" }, "82088": { "sa": "", "sd": "" }, "82089": { "sa": "", "sd": "" }, "82090": { "sa": "", "sd": "" }, "82091": { "sa": "", "sd": "" }, "82092": { "sa": "", "sd": "" }, "82093": { "sa": "", "sd": "" }, "82094": { "sa": "", "sd": "" }, "82095": { "sa": "", "sd": "" }, "82096": { "sa": "", "sd": "" }, "82097": { "sa": "", "sd": "" }, "82098": { "sa": "", "sd": "" }, "82099": { "sa": "", "sd": "" }, "82100": { "sa": "", "sd": "" }, "82101": { "sa": "", "sd": "" }, "82102": { "sa": "", "sd": "" }, "82103": { "sa": "", "sd": "" }, "82104": { "sa": "", "sd": "" }, "82105": { "sa": "", "sd": "" }, "82106": { "sa": "", "sd": "" }, "82107": { "sa": "", "sd": "" }, "82108": { "sa": "", "sd": "" }, "83001": { "sa": "वैदिकप्रयोगेषु मतुँप्-प्रत्ययान्तपदस्य क्वसुँ-प्रत्ययान्तपदस्य संहितायाम् सत्याम् सम्बोधन-एकवचनस्य प्रक्रियायाम् रुँ-आदेशः भवति । ", "sd": "सूत्रपाठे <<मतुवसो रु सम्बुद्धौ छन्दसि>> [[8.3.1]] इत्यस्मात् सूत्रात् आरभ्य <<कानाम्रेडिते>> [[8.3.12]] इति सूत्रम् यावत् द्वादशेषु सूत्रेषु 'रुँ' इति आदेशविधानम् क्रियते । अस्य रुत्वप्रकरणस्य इदम् प्रथमम् सूत्रम् । वैदिकप्रयोगे मतुँप्/क्वसुँ-प्रत्ययान्तपदयोः सम्बोधनैकवचनस्य प्रक्रियायाम् रुँ-आदेशः भवति इति अस्य सूत्रस्य आशयः । \nमतुँप्-प्रत्ययः — \nमतुप्-इति कश्चन तद्धितप्रत्ययः । <<तदस्यास्त्यस्मिन्निति मतुप्>> [[5.3.94]] इति सूत्रेण 'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः अयम् प्रत्ययः विधीयते । अयम् प्रत्ययः यस्य अन्ते अस्ति, तादृशस्य प्रातिपदिकस्य सम्बोधनैकवचनस्य प्रक्रियायाम्, पदसंज्ञायां सत्याम् प्रकृतसूत्रेण रुँत्वम् भवति । यथा —\n1. इन्द्र मरुत्व इह पाहि सोमम् (ऋग्वेदः 3.51.7) अस्मिन् वाक्ये 'मरुत्वः' शब्दः एतादृशं सिद्ध्यति —\n\nमरुत् + मतुप् + सुँ [ <<तदस्यास्त्यस्मिन्निति मतुप्>> [[5.3.94]] इत्यनेन मतुप् । सम्बुद्धिवाचकः सुँ-प्रत्ययः]\n→ मरुत्मत् + स् [इत्संज्ञालोपः । अत्र मरुत्-शब्दस्य <<तसौ मत्वर्थे>> [[1.4.19]] इत्यनेन भसंज्ञा भवति, अतः मकारे परे तकारस्य जश्त्वं न प्रवर्तते ।]\n→ मरुत्मन् त् + स् [<<उगिदचाम् सर्वनामस्थाने अधातोः>> [[7.1.70]] इत्यनेन उगित्-प्रत्ययान्तस्य सर्वनामस्थाने परे नुमागमः]\n→ मरुत्मन् त् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति सुँलोपः ।]\n→ मरुत्वन् त् [<<झयः>> [[8.2.10]] इति मकारस्य वकारादेशः] \n→ मरुत्वन् [<<संयोगान्तस्य लोपः>> [[8.2.23]] इति तकारलोपः]\n→ मरुत्वरुँ [सुँलोपे कृते अपि, <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इति प्रत्ययविशिष्टम् कार्यम् अवश्यं प्रवर्तते । अतः अत्र मरुत्वन् इत्यस्य <<सुप्तिङन्तं पदम्>> [[1.4.14]] इति पदसंज्ञा भवति, ततश्च पदान्तवर्णस्य <<मतुवसो रु सम्बुद्धौ छन्दसि>> [[8.3.1]] इति रुँत्वम् जायते ।]\n→ मरुत्वः [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः ।]\n
    \nउपरिनिर्दिष्टे वाक्ये 'इह' इति शब्दे परे रुँ इत्यस्य <<भोभगोअघोअपूर्वस्य योऽशि>> [[8.3.17]] इत्यनेन यकारादेशः, ततश्च <<लोपः शाकल्यस्य>> [[8.3.19]] इत्यनेन लोपं कृत्वा 'मरुत्व इह' इति सिद्ध्यति । \n
    \n2. जुषस्वास्य कुर्मो हरिवो मेदिनं त्वा (कृष्णयजुर्वेदः 4.7.15) — अत्र 'हरिवः' शब्दस्य प्रक्रिया एतादृशौ वर्तते -\n\nहरि + मतुप् + सुँ [ <<तदस्यास्त्यस्मिन्निति मतुप्>> [[5.3.94]] इत्यनेन मतुप् । सम्बुद्धिवाचकः सुँ-प्रत्ययः ]\n→ हरिमत् + सुँ [इत्संज्ञालोपः]\n→ हरिवत् + सुँ [<<छन्दसीरः>> [[8.2.15]] इति मकारस्य वकारादेशः]\n→ हरि + वन् त् + सुँ [<<उगिदचाम् सर्वनामस्थानेऽधातोः>> [[7.1.70]] इत्यनेन उगित्-प्रत्ययान्तस्य सर्वनामस्थाने परे नुमागमः]\n→ हरि + वन् त् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति सुँलोपः]\n→ हरिवन् [<<संयोगान्तस्य लोपः>> [[8.2.23]] इति तकारलोपः]\n→ हरि वरुँ [पदान्तनकारस्य <<मतुवसो रु सम्बुद्धौ छन्दसि>> [[8.3.1]] इति रुँत्वम् ]\n→ हरिवः [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः ।]\n
    \nउपरिनिर्दिष्टे वाक्ये 'मेदिनम्' इति शब्दे परे रुँ इत्यस्य <<हशि च>> [[6.1.114]] इत्यनेन उत्वम्, ततश्च <<<आद्गुणः>> [[6.1.87]] इत्यनेन गुणैकादेशे कृते 'हरिवो मेदिनम्' इति सिद्ध्यति । \n
    \nक्वसुँ-प्रत्ययः — \nक्वसुँ इति कश्चन कृत् प्रत्ययः । वेदेषु लिट्-लकारस्य स्थाने <<क्वसुश्च>> [[3.2.107]] इति सूत्रेण क्वसु-आदेशः भवति । अयम् प्रत्ययः यस्य अन्ते अस्ति, तादृशस्य प्रातिपदिकस्य सम्बोधनैकवचनस्य प्रक्रियायाम्, पदसंज्ञायां सत्याम् प्रकृतसूत्रेण रुँत्वम् भवति । यथा —\n1. मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय मृडय (रूद्रम् - नमकम्) — अत्र 'मीढ्वः' इत्यस्य प्रक्रिया इयम् -\n\nमिहँ (सेचने, भ्वादिः, <{1.1147}>) \n→ मिह् + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट् । ]\n→ मिह् + क्वसुँ + सुँ [<<क्वसुश्च>> [[3.2.107]] इति क्वसुँ-प्रत्ययः । <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । ततः सम्बोधनैकवचनस्य सुँ-प्रत्ययः]\n→ मीढ्वत् + स् [<<दाश्वान् साह्वान् मीढ्वांश्च>> [[6.1.12]] इति मीढ्वत्-शब्दस्य क्वसुँ-प्रत्यये परे निपातनम् ।]\n→ मीढ्वत् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति सुँलोपः]\n→ मीढ्वरुँ [<<मतुवसो रु सम्बुद्धौ छन्दसि>> [[8.3.1]] इति रुँत्वम् ]\n→ मीढ्वः [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n\nसूत्ररचना\nइदं सूत्रम् 'पदस्य' इत्यस्मिन् अधिकारे विद्यते । अतः अनेन सूत्रेण उक्तम् रुत्वम् पदान्तवर्णस्य विषये एव भवति । अस्यां स्थितौ अस्मिन् सूत्रे विद्यमानः 'सम्बुद्धौ' इति शब्दः परनिमित्तरूपेण स्वीकर्तुम् नैव शक्यः, यतः सम्बुद्धि-प्रत्यये परे मतुँप्/क्वसुँ-प्रत्ययान्तशब्दस्य पदसंज्ञा नैव सम्भवति । अतश्च 'सम्बुद्धौ' इत्यस्य अर्थः अत्र 'सम्बोधन-एकवचनस्य प्रक्रियायाम्' इति कृतः अस्ति । सम्बुद्धिप्रत्यये कृते, तस्य च <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इत्यनेन लोपे जाते, यः मतुँप्/क्वसुँ-प्रत्ययः पदान्तत्वं प्राप्नोति, तस्य विषये इदं रुत्वं प्रवर्तते —‌ इति अस्य सूत्रस्य आशयः ।\nशतृ-प्रत्ययस्य वसुँ-आदेशः\nअस्मिन् सूत्रे प्रयुक्तेन 'वसुँ' शब्देन वस्तुतः <<विदेः शतुर्वसुः>> [[7.1.36]] इत्यत्र पाठितः वसुँ-आदेशः एव ग्राह्यः, न हि द्व्यनुबन्धकः क्वसुँ-प्रत्ययः । परन्तु वसुँ-प्रत्ययस्य प्रयोगेण सिद्धस्य 'विद्वस्' इति शब्दस्य सम्बोधनैकवचस्य रूपाणि वेदेषु नैव दृश्यन्ते, अतश्च तस्य ग्रहणम् अत्र नैव कर्तव्यम् — इति अस्यैव सूत्रस्य न्यासव्याख्याने प्रतिपादितं लभ्यते —\n\nशत्रादेशस्य वसोः सम्बुद्धौ छन्दसि विषये प्रयोगो नास्ति, इति तस्य अनुदाहरणम् । अतएव <ऽएकानुबन्धकग्रहणे न द्व्यनुबन्धकस्यऽ> इत्येषा परिभाषा नोपतिष्ठते; एकानुबन्धकस्य सम्बुद्धिपरस्य च्छन्दसि वसोः प्रयोगादर्शनात् । — 8.3.1 इत्यत्र न्यासः \n\nवसुँ-प्रत्ययस्य उदाहरणाभावात् अस्मिन् सूत्रे विद्यमानेन 'वसुँ' इत्यनेन 'क्वसुँ' प्रत्ययः एव गृह्यते इति अत्र आशयः ।\nवार्त्तिकद्वयम्\n\n'क्वनिप्' तथा 'वनिप्' एताभ्याम् कृत्प्रत्ययान्ताभ्याम् निर्मितानां शब्दानां विषये अपि सम्बोधनैकवचनस्य प्रक्रियायाम् रुत्वं भवति इति अस्य वार्त्तिकस्य आशयः । यथा, यस्त्वायन्तं वसुना प्रातरित्वः (ऋग्वेदे 1.115.2) इत्यत्र विद्यमानः 'इत्वः' इति शब्दः 'इण्' धातोः क्वनिप्-प्रत्ययान्तरूपस्य सम्बोधनस्य एकवचनम् अस्ति । अयं शब्दः इत्थं सिद्ध्यति —\n\nइण् (गतौ, अदादिः, <{2.40}>)\n→ इ + क्वनिप् + सुँ [<<अन्येभ्योऽपि दृश्यन्ते>> [[3.2.75]] इति क्वनिप्-प्रत्ययः । ततः सम्बोधनैकवचनस्य सुँ-प्रत्ययः ।]\n→ इ + वन् + स् [इत्संज्ञालोपः]\n→ इ + तुक् + वन् + स् [<<ह्रस्वस्य पिति कृति तुक्>> [[6.1.71]] इति तुगागमः]\n→ इत्वन् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति सुँलोपः]\n→ इत्वरुँ [पदान्तनकारस्य इति वार्त्तिकेन रुत्वम् ।]\n→ इत्वः [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n\n\nभवत्, भगवत् तथा च अघवत् — एतेषाम् शब्दानाम् सम्बोधनैकवचनस्य प्रक्रियायाम् छन्दसि, भाषायां च विकल्पेन रुत्वं भवति, तथा च रुत्वे कृते 'अव' इत्यस्य ओकारादेशः अपि भवति । अनेन वार्त्तिकेन भोः, भगोः, अघोः - एते त्रयः शब्दाः सिद्ध्यन्ति । । प्रक्रिया इयम् —\n\nभवत् / भगवत् / अघवत् + सुँ [सम्बोधनैकवचनस्य सुँ-प्रत्ययः]\n→ भवत् / भगवत् / अघवत् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति सुँ-प्रत्ययस्य लोपः]\n→ भव न्त् / भगवन्त् / अघवन्त् [<<उगिदचां सर्वनामस्थानेऽधातोः>> [[7.1.70]] इति नुमागमः]\n→ भवन् / भगवन् / अघवन् [<<संयोगान्तस्य लोपः>> [[8.2.23]] इति तकारलोपः]\n→ भवरुँ / भगवरुँ / अघवरुँ [वैकल्पिकं रुँत्वम् ।]\n→ भ् ओरुँ / भग् ओरुँ / अघ् ओरुँ [रुत्वपक्षे ओकारादेशः]\n→ भोः / भगोः / अघोः [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गादेशः]\n
    \nरुत्वाभावे ओकारादेशः अपि न भवति, अतः 'भवन्', 'भगवन्', 'अघवन्' इत्येतानि रूपाणि अपि सिद्ध्यन्ति ।\n
    \nअत्र सिद्धानाम् भोः, भगोः तथा च अघोः एतेषाम् शब्दानाम् भाषायाम् प्राचुर्येण प्रयोगः वर्तते । <<भोभगोअघोअपूर्वस्य योऽशि>> [[8.3.17]] इत्यस्मिन् सूत्रे अपि एते त्रयः शब्दाः उपयुक्ताः सन्ति । परन्तु तथापि एतेषाम् शब्दानाम् अत्र दत्ता सिद्धिः शङ्क्या एव इति अत्र काशिकायाम् निर्दिष्टं वर्तते । तत्र काशिकाकारः वदति —\n\nअथ वा, भो इत्येवम् आदयः निपाताः द्रष्टव्याः । असम्बुद्धौ अपि द्विवचनबहुवचनयोरपि दृश्यन्ते । भो देवदत्तयज्ञदत्तौ, भो देवदत्तयज्ञदत्तविष्णुमित्राः । तथा च, स्त्रियाम् अपि च दृश्यन्ते - भो ब्राह्मणि इत्यादि । — काशिका 8.2.1\n\nयद्यपि एते शब्दाः अनेन वार्त्तिकेन सम्बोधनैकवचनस्य रूपेण व्युत्पादयितुम् शक्याः, तथापि बहुत्र एते शब्दाः द्विवचने, बहुवचने, एवमेव स्त्रीलिङ्गे अपि प्रयुक्ताः दृश्यन्ते । अतः एते शब्दाः निपातरूपेण एव स्वीकरणीयाः इति अत्र काशिकाकारस्य मतम् । अतएव च एतेषाम् <<चादयोऽसत्त्वे>> [[1.4.57]] इत्यत्र निर्दिष्टे चादिगणे अपि समावेशः भवति । " }, "83002": { "sa": "अधिकारोऽयम् । अस्मिन् रुत्वप्रकरणे रुँ-इत्यस्मात् पूर्वस्य वर्णस्य विकल्पेन अनुनासिकादेशः भवति । ", "sd": "सूत्रपाठे <<मतुवसो रु सम्बुद्धौ छन्दसि>> [[8.3.1]] इत्यस्मात् सूत्रात् आरभ्य <<कानाम्रेडिते>> [[8.3.12]] इति सूत्रम् यावत् द्वादशेषु सूत्रेषु 'रुँ' इति आदेशविधानम् क्रियते । अस्य रुत्वप्रकरणस्य इदम् द्वितीयम् सूत्रम् । इदम् अधिकारसूत्रम् अस्ति । अस्य अधिकारः <<कानाम्रेडिते>> [[8.3.12]] इति सूत्रं यावत् प्रचलति । अस्मिन् अधिकारे पाठितैः सूत्रैः यत्र यत्र रुँत्वम् विधीयते, तत्र तत्र रुँ-इत्यस्मात् पूर्वम् विद्यमानस्य वर्णस्य विकल्पेन अनुनासिकादेशः भवति —‌ इति अस्य अधिकारस्य आशयः । यथा, <<समः सुटि>> [[8.3.5]] इति सूत्रेण सम् + सुट् + कर्तृ इत्यस्याम् अवस्थायाम् मकारस्य रुँत्वम् विधीयते; अस्मिन् रुँत्वे कृते मकारात् पूर्वम् विद्यमानस्य अकारस्य प्रकृत-अधिकारसूत्रेण विकल्पेन अनुनासिकादेशः अपि भवति —\n\nसम् + सुट् + कर्तृ [<<सम्परिभ्यां करोतौ भूषणे>> [[6.1.137]] इति सुट्-आगमः]\n→ सम् + स् + कर्तृ [इत्संज्ञालोपः । सकारोत्तरः उकारः उच्चारणार्थः, सोऽपि लुप्यते ।]\n→ सरुँ + सुट् + कर्तृ [<<समः सुटि>> [[8.3.5]] इत्यनेन मकारस्य रुँत्वम् ]\n→ सँरुँ / संरुँ + स् + कर्तृ [<<अत्रानुनासिकः पूर्वस्य तु वा>> [[8.3.2]] इति वैकल्पिकम् अनुनासिकत्वम् । अनुनासिकाभावे <<अनुनासिकात् परोऽनुस्वारः>> [[8.3.4]] इति अनुस्वारागमः ।]\n→ सँःस्कर्तृ / संःस्कर्तृ [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गादेशः]\n→ सँस्स्कर्तृ / संस्स्कर्तृ [<<वा शरि>> [[8.3.36]] इत्यनेन विसर्गस्य विकल्पेन सकारादेशे प्राप्ते; इति वार्त्तिकेन नित्यम् सकारादेशः भवति ।]\n\nअस्मिन् सूत्रे 'अत्र' इति शब्दः रुत्वप्रकरणस्य निर्देशं करोति । प्रकृतसूत्रेण उक्तः अनुनासिकादेशः रुँत्वप्रकरणस्य सन्दर्भे (इत्युक्ते <<कानाम्रेडिते>> [[8.3.12]] इति सूत्रं यावत् ) एव स्वीकर्तव्यः इति अस्य अर्थः ।" }, "83003": { "sa": "अस्य रुँत्वप्रकरणस्य सूत्रैः सिद्धः यः पदान्त रुँ-शब्दः, तस्मात् परः अट्-प्रत्याहारस्य वर्णः विद्यते चेत्, रुँ-इत्यस्मात् पूर्वम् विद्यमानस्य आकारस्य नित्यम् अनुनासिकादेशः भवति । ", "sd": "सूत्रपाठे <<मतुवसो रु सम्बुद्धौ छन्दसि>> [[8.3.1]] इत्यस्मात् सूत्रात् आरभ्य <<कानाम्रेडिते>> [[8.3.12]] इति सूत्रम् यावत् द्वादशेषु सूत्रेषु 'रुँ' इति आदेशविधानम् क्रियते । अस्य रुत्वप्रकरणस्य इदम् तृतीयम् सूत्रम् । पदान्ते विद्यमानात् रुँत्वात् अनन्तरम् अट्-प्रत्याहारस्य वर्णः अस्ति चेत् तस्मात् रुँत्वात् पूर्वम् विद्यमानस्य आकारस्य <<अत्रानुनासिकः पूर्वस्य तु वा>> [[8.3.2]] इति सूत्रेण विकल्पेन अनुनासिकादेशे प्राप्ते प्रकृतसूत्रेण तस्य नित्यम् विधानम् क्रियते । \nअट् = सर्वे स्वराः, य्, व्, र्, ह् । अट्-प्रत्याहारे लकारः नास्ति ।\nयथा — \n\nमहान् असि (ऋग्वेदे 3.46.2)\n→ महारुँ असि [<<दीर्घादटि समानपादे>> [[8.3.9]] इत्यनेन सूत्रेण रुँत्वम्]\n→ महाँरुँ असि [रुँत्वात् अनन्तरम् अट्-वर्णः (अकारः) अस्ति, रुँत्वम् पदान्ते विद्यते, तथा च रुँत्वात् पूर्वम् आकारः अपि अस्ति । अतः आकारस्य <<आतोऽटि नित्यम्>> [[8.3.3]] इति अनुनासिकादेशः भवति ]\n→‌महाँय् असि [<<भोभगोअघोअपूर्वस्य योऽशि>> [[8.3.17]] इति यकारादेशः]\n→ महाँ असि [<<लोपः शाकल्यस्य>> [[8.3.19]] इति लोपः]\n\nअस्मिन् अधिकारे विद्यमानेन सूत्रेण प्राप्तस्य रुँत्वस्य विषये एव इदं सूत्रम् प्रयुज्यते । अतः 'विश्वपा सुँ अत्र' ईत्यादिषु स्थलेषु रुत्वे जाते प्रकृतसूत्रस्य प्रसक्तिः न विद्यते ।वस्तुतस्तु अस्मिन् रुत्वप्रकरणे अटि परे केवलम् <<दीर्घादटि समानपादे>> [[8.3.9]] इत्यनेनैव सूत्रेण रुँत्वम् सम्भवति, अतः प्रकृतसूत्रस्य प्रयोगः अपि <<दीर्घादटि समानपादे>> [[8.3.9]] इत्यस्मात् अनन्तरम् एव सम्भवति । <<दीर्घादटि समानपादे>> [[8.3.9]] इति सूत्रम् तु केवलं वैदिकप्रयोगानां विषये एव प्रवर्तते, अतः प्रकृतसूत्रस्य प्रयोगः अपि केवलम् वैदिकरूपाणाम् सिद्ध्यर्थम् एव भवति ।\nसूत्रस्य फलम् चिन्त्यम्\nयद्यपि अनेन सूत्रेण आकारस्य अनुनासिकादेशः नित्यम् (compulsory) विधीयते, तथापि वेदेषु अनुनासिकादेशस्य स्थाने अनुस्वारस्य प्रयोगं कृत्वा प्रयोगाः कृताः दृश्यन्ते । यथा, देवां ऋतुभिः कल्पयाति (कृष्णयजुर्वेदः 1.1.14) इत्यत्र देवारुँ ऋतुभिः इति स्थिते आकारस्य प्रकृतसूत्रेण अनुनासिकादेशः नैव क्रियते, अपितु <<अनुनासिकात् परोऽनुस्वारः>> [[8.3.4]] इति अग्रिमसूत्रेण अनुस्वारागमः कृतः दृश्यते । इत्युक्ते, प्रकृतसूत्रस्य प्रयोगः विकल्पेनैव भवति इति आशयः । परन्तु विकल्पविधानं तु <<अत्रानुनासिकः पूर्वस्य तु वा>> [[8.3.2]] इति पूर्वसूत्रेणैव क्रियते । अतः यदि वैकल्पिकम् एव विधानम् इष्यते, तर्हि प्रकृतसूत्रम् नैव आवश्यकम् इति निष्कर्षः सिद्ध्यति । अतः एव सिद्धान्तकौमुद्याम् सूत्रस्य फलं चिन्त्यम् इति निर्देशः कृतः वर्तते । काशिकाकारः तु अत्र छान्दसः व्यत्ययः (वैदिकवाङ्मये विद्यमानः कश्चन अपवादः) इति निर्देशेन एतान् प्रयोगान्, सूत्रम् अपि च समर्थयति ।\n" }, "83004": { "sa": "अस्य रुँत्वप्रकरणस्य सूत्रैः सिद्धः यः पदान्त रुँ-शब्दः, तस्मात् पूर्वं विद्यमानात् निरनुनासिकवर्णात् परः अनुस्वारस्य आगमः भवति ।", "sd": "सूत्रपाठे <<मतुवसो रु सम्बुद्धौ छन्दसि>> [[8.3.1]] इत्यस्मात् सूत्रात् आरभ्य <<कानाम्रेडिते>> [[8.3.12]] इति सूत्रम् यावत् द्वादशेषु सूत्रेषु 'रुँ' इति आदेशविधानम् क्रियते । अस्य रुत्वप्रकरणस्य इदम् चतुर्थम् सूत्रम् । पदान्ते विद्यमानात् रुँत्वात् पूर्वम् विद्यमानः वर्ण अनुनासिकवर्णः नास्ति चेत् तस्मात् अनन्तरम् अनुस्वारागमः भवति — इति प्रकृतसूत्रस्य आशयः । <<अत्रानुनासिकः पूर्वस्य तु वा>> [[8.3.2]] इत्यनेन पदान्तरुँत्वात् पूर्वम् विद्यमानस्य वर्णस्य पाक्षिके अनुनासिकादेशे प्राप्ते, तदभावे तत्र अनुस्वारस्य आगमः भवति इति अनेन सूत्रेण स्पष्टी भवति । इत्युक्ते, अस्मिन् रूत्वप्रकरणे सर्वत्र — रुँत्वात् पूर्वम् विद्यमानस्य वर्णस्य विकल्पेन अनुनासिकः भवति, अथ वा, तस्मात् अनन्तरम् अनुस्वारः विधीयते — इति अर्थः अत्र विधीयते ।\nयथा, सम् + सुट् + कर्तृ इत्यस्याम् अवस्थायाम् <<समः सुटि>> [[8.3.5]] इति सूत्रेण मकारस्य रुँत्वम् विधीयते । अस्मिन् रुँत्वे कृते मकारात् पूर्वम् विद्यमानस्य अकारस्य <<अत्रानुनासिकः पूर्वस्य तु वा>> [[8.3.2]] इत्यनेन पाक्षिकः अनुनासिकादेशः, तदभावे च प्रकृतसूत्रेण अनुस्वारागमः भवति । प्रक्रिया इयम् —\n\nसम् + सुट् + कर्तृ [<<सम्परिभ्यां करोतौ भूषणे>> [[6.1.137]] इति सुट्-आगमः]\n→ सम् + स् + कर्तृ [इत्संज्ञालोपः । सकारोत्तरः उकारः उच्चारणार्थः, सोऽपि लुप्यते ।]\n→ सरुँ + सुट् + कर्तृ [<<समः सुटि>> [[8.3.5]] इत्यनेन मकारस्य रुँत्वम् ]\n→ सँरुँ / संरुँ + स् + कर्तृ [<<अत्रानुनासिकः पूर्वस्य तु वा>> [[8.3.2]] इति वैकल्पिकम् अनुनासिकत्वम् । अनुनासिकाभावे <<अनुनासिकात् परोऽनुस्वारः>> [[8.3.4]] इति अनुस्वारागमः ।]\n→ सँःस्कर्तृ / संःस्कर्तृ [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गादेशः]\n→ सँस्स्कर्तृ / संस्स्कर्तृ [<<वा शरि>> [[8.3.36]] इत्यनेन विसर्गस्य विकल्पेन सकारादेशे प्राप्ते; इति वार्त्तिकेन नित्यम् सकारादेशः भवति ।]\n\nसूत्ररचना\nअस्य सूत्रस्य सम्यक् अर्थज्ञानार्थम् अत्र अन्यः इति शब्दस्य अध्याहारः करणीयः — इति अस्य सूत्रस्य व्याख्याने काशिकाकारः स्पष्टी करोति । एवमेव अत्र रोः तथा पूर्वः इत्येतयोः अनुवृत्तिः, पदस्य इति च अधिकारः स्वीक्रियते चेत् अनुनासिकात् अन्यः (वर्णः) पदस्य रोः पूर्वः (अस्ति चेत्, तस्मात् वर्णात् परः) अनुस्वारः (आगमरूपेण विधीयते) इति सूत्रार्थः स्पष्टी भवति । \nअनुस्वारः इति आगमः, न हि आदेशः\nप्रकृतसूत्रेण निर्दिष्टः अनुस्वारः आदेशरूपेण न विधीयते, अपितु आगमरूपेण विधीयते । यदि अयम् अनुस्वारः आदेशरूपेण विधीयेत, तर्हि सः रुँ-वर्णात् पूर्वम् विद्यमानम् वर्णम् निष्कास्य तस्य स्थानं स्वीकुर्यात् । परन्तु अत्र तादृशं नैव इष्यते । रुँ-वर्णात् पूर्वम् विद्यमानेन वर्णेन सह एव अनुस्वारस्य विधानम् इष्यते, अतः अत्र अनुस्वारः आगमरूपेण विहितः अस्ति । यथा, उपरिनिर्दिष्टे उदाहरणे सकारोत्तरात् अकारात् अनन्तरम् अनुस्वारस्य विधानं भवति, अतः अयम् अनुस्वारः आगमरूपेण एव स्वीक्रियते ।\nअनुस्वारः तथा अनुनासिक: एतयोर्मध्ये भेदः\nअनुनासिक: इति केवलम् एकः उच्चारणविशेषः अस्ति, न हि कश्चन पृथक् वर्णः । यत्र वर्णस्य उच्चारणम् नासिकया सह क्रियते, तत्र तस्य वर्णस्य <<मुखनासिकावचनोऽनुनासिकः>> [[1.1.8]] इति सूत्रेण अनुनासिकसंज्ञा भवति । सर्वेषाम् स्वराणाम्, यवलानां च अनुनासिकभेदाः विद्यन्ते । वर्गपञ्चमाः तु नित्यमेव अनुनासिकाः सन्ति, यतः तेषाम् उच्चारणार्थम् नासिकायाः नियतम् प्रयोगः क्रियते । \nअनुस्वारः इति तु कश्चन पृथग् वर्णः अस्ति । यद्यपि अस्य गणनम् शिवसूत्रेषु साक्षात् नैव क्रियते, तथापि अट्-प्रत्याहारे अनुस्वारस्य गणनं भवति इति <<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इत्यत्र सिद्धान्तकौमुद्यां स्पष्टीकृतम् अस्ति । अनुस्वारः, विसर्गः, जिह्वामूलीयः, उपध्मानीयः - एतेषाम् परिगणनम् अयोगवाहाः इत्यस्मिन् गणे पृथक् रूपेण कृत्वा, सर्वे अयोगवाहाः अट्-प्रत्याहारस्थाः सन्ति इति तत्र दीक्षितः विवृणोति ।\nअतश्च, अँ इत्यत्र एकः वर्णः अस्ति; अं तु इत्यत्र द्वौ भिन्नौ वर्णौ विद्यते — इति निर्णयः ।\nअनुनासिक-अनुस्वारयोर्मध्ये उच्चारणस्य अपि भेदः वर्तते । अनुनासिकसंज्ञकस्य उच्चारणे नासिकया सह मुखस्य अपि साहाय्यम् आवश्यकम् भवति । यथा, 'अँ' इत्यस्य अनुनासिक-अकारस्य उच्चारणम् कण्ठेन सह नासिकया क्रियते । अनुस्वारस्य उच्चारणम् तु केवलम् नासिकया एव भवति, तदर्थम् मुखस्य प्रयोगः न भवति । \n" }, "83005": { "sa": "सम्-उपसर्गस्य मकारस्य सुट्-आगमे परे रुँ-आदेशः भवति । ", "sd": "सूत्रपाठे <<मतुवसो रु सम्बुद्धौ छन्दसि>> [[8.3.1]] इत्यस्मात् सूत्रात् आरभ्य <<कानाम्रेडिते>> [[8.3.12]] इति सूत्रम् यावत् द्वादशेषु सूत्रेषु 'रुँ' इति आदेशविधानम् क्रियते । अस्य रुत्वप्रकरणस्य इदम् पञ्चमम् सूत्रम् । <<सुट् कात् पूर्वः>> [[6.1.135]] अस्मिन् अधिकारे पाठितैः सूत्रैः विहितः सुट् इति आगमः सम्-उपसर्गात् अनन्तरम् विधीयते चेत् सम्-उपसर्गस्य मकारस्य रुँत्वम् भवति — इति अस्य सूत्रस्य अर्थः । \nअस्य रुत्वप्रकरणस्य सूत्रैः विहितात् रुत्वात् पूर्वम् विद्यमानः यः वर्णः, तस्य विकल्पेन <<अत्रानुनासिकः पूर्वस्य तु वा>> [[8.3.2]] इति अनुनासिकादेशः भवति, तदभावे च <<अनुनासिकात् परोऽनुस्वारः>> [[8.3.4]] इत्यनेन अनुस्वारः विधीयते । अतः अत्र प्रक्रियायाम् सर्वत्र द्वे रूपे भवतः ।\nयथा, सम्-उपसर्गात् परस्य कृ-धातोः <<ण्वल्तृचौ>> [[3.1.133]] इति सूत्रेण तृच्-प्रत्यये कृते <<सम्परिभ्यां करोतौ भूषणे>> [[6.1.137]] इति सम्-उपसर्गस्य सुट्-आगमः भवति, ततश्च प्रकृतसूत्रेण मकारस्य रुँत्वं विधीयते । सम्पूर्णा प्रकिया इयम् —\n\nसम् + सुट् + कर्तृ [<<सम्परिभ्यां करोतौ भूषणे>> [[6.1.137]] इति सुट्-आगमः]\n→ सम् + स् + कर्तृ [इत्संज्ञालोपः । सकारोत्तरः उकारः उच्चारणार्थः, सोऽपि लुप्यते ।]\n→ सरुँ + सुट् + कर्तृ [<<समः सुटि>> [[8.3.5]] इत्यनेन मकारस्य रुँत्वम् ]\n→ सँरुँ / संरुँ + स् + कर्तृ [<<अत्रानुनासिकः पूर्वस्य तु वा>> [[8.3.2]] इति वैकल्पिकम् अनुनासिकत्वम् । अनुनासिकाभावे <<अनुनासिकात् परोऽनुस्वारः>> [[8.3.4]] इति अनुस्वारागमः ।]\n→ सँःस्कर्तृ / संःस्कर्तृ [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गादेशः]\n→ सँस्स्कर्तृ / संस्स्कर्तृ [<<वा शरि>> [[8.3.36]] इत्यनेन विसर्गस्य विकल्पेन सकारादेशे प्राप्ते; इति वार्त्तिकेन नित्यम् सकारादेशः भवति ।]\n\nविसर्गस्य नित्यम् सकारादेशः\nउपरिनिर्दिष्टायाम् प्रक्रियायाम् सँःस्कर्तृ / संःस्कर्तृ इत्यस्याम् अवस्थायाम् <<वा शरि>> [[8.3.36]] इत्यनेन विसर्गस्य विकल्पेन सकारादेशे प्राप्ते तद्बाधित्वा नित्यम् एव सकारादेशः इष्यते । तदर्थम् काशिकायाम् तिस्रः पद्धतयः उक्ताः सन्ति —\n1. इति वार्त्तिकेन विसर्गस्य नित्यम् सकारादेशः —\nसम्, पुम्, कान् एतेषाम् शब्दानां विषये यत्र रुँत्व भवति, तत्र रेफस्य विसर्गादेशे कृते, तस्य विसर्गस्य नित्यमेव सकारादेशः भवति, इति अस्य वार्त्तिकस्य आशयः । यथा —\n\ni) सम् + सुट् + कर्तृ इत्यत्र सम्-इत्यस्य मकारस्य <<समः सुटि>> [[8.3.5]] इत्यनेन रुत्वे, ततश्च <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इत्यनेन विसर्गादेशे कृते, सँःस्कर्तृ / संःस्कर्तृ इति सिद्धे अग्रे विसर्गस्य <<वा शरि>> [[8.3.36]] इत्यनेन विकल्पेन सकारादेशः प्राप्नोति, तद् बाधित्वा वार्त्तिकेन नित्यम् एव सकारादेशः भवति, येन सँस्स्कर्तृ / संस्स्कर्तृ इति प्रयोगौ सिद्ध्यतः ।\nii) पुम् + काम इत्यत्र पुम्-इत्यस्य मकारस्य <<पुमः खय्यम्परे>> [[8.3.6]] इत्यनेन रुत्वे, ततश्च <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इत्यनेन विसर्गादेशे कृते, पुँःकाम / पुंःकाम इति सिद्धे अग्रे विसर्गस्य <<इदुदुपधस्य चाप्रत्ययस्य>> [[8.3.41]] इत्यनेन नित्यम् षकारादेशे प्राप्ते, तद्बाधित्वा अनेन वार्त्तिकेन विसर्गस्य सकारादेशः भवति, येन पुँस्काम / पुंस्काम इति प्रयोगौ सिद्ध्यतः । \niii) कान् + कान् इत्यत्र कान्-इत्यस्य नकारस्य <<कानाम्रेडिते>> [[8.3.12]] इत्यनेन रुत्वे, ततश्च <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इत्यनेन विसर्गादेशे कृते, काँःकान् / कांःकान् इति सिद्धे अग्रे विसर्गस्य <<कुप्वोः ≍क≍पौ च>> [[8.3.37]] इत्यनेन विकल्पेन जिह्वामूलीये प्राप्ते, तद्बाधित्वा अनेन वार्त्तिकेन विसर्गस्य सकारादेशः भवति, येन काँस्कान् / कांस्कान् इति प्रयोगौ सिद्ध्यतः । \n\nइदं वार्त्तिकम् <<वा शरि>> [[8.3.36]] इत्यत्र अपि निर्दिष्टम् वर्तते ।\n2. सूत्रे सकारप्रश्लेषं कृत्वा <<समः स्सुटि>> इति सूत्रविधानम् —\nसँःस्कर्तृ / संःस्कर्तृ इत्यस्याम् अवस्थायाम् विसर्गस्य <<वा शरि>> [[8.3.36]] इत्यनेन प्राप्तं वैकल्पिकं सकारादेशं बाधितुम् प्रकृतसूत्रे सकारप्रश्लेषः अपि कर्तुं शक्यते इति निर्देशः अस्य सूत्रस्य भाष्ये अपि विद्यते । इत्युक्ते, प्रकृतसूत्रे सुटि इत्यस्य स्थाने सकारस्य प्रश्लेषं कृत्वा स्सुटि इति सकारसहितम् शब्दं प्रपठ्य, सम्-इत्यस्य सुट्-आगमे परे सकारादेशः भवति इति सूत्रार्थः करणीयः, इति अत्र आशयः अस्ति । एतादृशे आदेशे कृते अत्र यद्यपि रुँ इति नास्ति, तथापि <<अत्रानुनासिकः पूर्वस्य तु वा>> [[8.3.2]] इति अधिकारसामर्थ्यात् अत्र विकल्पेन अनुनासिकादेशम्, पक्षे च अनुस्वारागमम् कृत्वा सँस्स्कर्तृ / संस्स्कर्तृ इति द्वे रूपे अवश्यं सम्भवतः । \n3. <<वा शरि>> [[8.3.36]] इत्यत्र व्यवस्थितविभाषा —\n<<वा शरि>> [[8.3.36]] इत्यनेन सूत्रेण निर्दिष्टा विभाषा व्यवस्थितविभाषा अस्ति इति स्वीकृत्य — सँःस्कर्तृ / संःस्कर्तृ एतादृशेषु स्थलेषु नित्यम् सकारादेशः, अन्यत्र वैकल्पिकः सकारादेशः — इति अस्य सूत्रस्य अर्थविधानं क्रियते चेद् अपि अत्र सकारादेशः नित्यं भवितुम् अर्हति ।\nभाष्योक्तिः —‌ <!समो वा लोपमित्येके !>\nप्रकृतसूत्रे भाष्यकारेण इति किञ्चन वचनम् निर्दिष्टम् अस्ति । सम् + सुट् + कर्तृ इत्यस्याम् अवस्थायाम् मकारस्य प्रकृतसूत्रेण प्राप्तं रुँत्वं बाधित्वा केषाञ्चन मतेन मकारस्य लोपः अपि सम्भवति — इति अस्य भाष्यवाक्यस्य आशयः । अस्मिन् पक्षे प्रक्रिया इत्थं जायते —\n\nसम् + सुट् + कर्तृ [<<सम्परिभ्यां करोतौ भूषणे>> [[6.1.137]] इति सुट्-आगमः]\n→ सम् + स् + कर्तृ [इत्संज्ञालोपः]\n→ स + स् + कर्तृ [ इति मकारलोपः]\n→ सँ स् कर्तृ / सं स् कर्तृ [यद्यपि अत्र रुँत्वम् न प्रवर्तते, तथापि अस्य भाष्यवाक्यस्य अस्यैव प्रकरणे उपस्थितिः वर्तते, अतः <<अत्रानुनासिकः पूर्वस्य तु वा>> [[8.3.2]] इति अधिकारसामर्थ्यात् अत्र विकल्पेन अनुनासिकादेशः, पक्षे च अनुस्वारागमः अपि भवति ।]\n→ सँस्कर्तृ / संस्कर्तृ \n\nअनेन प्रकारेण अत्र द्वे भिन्ने रूपे सम्भवतः ।\nसंस्कर्ता-शब्दस्य 108 रूपाणि\nसम् + सुट् + कर्ता इत्यस्य प्रक्रियायाम् मकारस्य <<समः सुटि>> [[8.3.5]] इत्यनेन रुँत्वे कृते सँस्स्कर्ता / संस्स्कर्ता इति द्वे रूपे, तथा च मकारस्य इत्यनेन लोपे कृते सँस्कर्ता / संस्कर्ता इति अपरे द्वे रूपे — इति आहत्य चत्वारि रूपाणि आदौ सिद्ध्यन्ति । एतेभ्यः चतुर्भ्यः रूपेभ्यः भिन्नानि वैकल्पिकसूत्राणि उपयुज्य, आहत्य अष्टोत्तरशतं रूपाणि भवितुम् अर्हन्ति । एतानि अधः संक्षेपेण विवरितानि सन्ति । \n\n1. सम् + सुट् + कर्ता इत्यत्र <<समः सुटि>> [[8.3.5]] इत्यनेन रुँत्वे कृते सँस्स्कर्ता / संस्स्कर्ता इति द्वे रूपे । पक्षे इत्यनेन मकारलोपे कृते सँस्कर्ता / संस्कर्ता इति अपरे द्वे रूपे । आहत्य चत्वारि प्रारम्भिकरूपाणि ।\n2. अनुस्वारः अच्-प्रत्याहारे स्वीक्रियते, अतः सँस्स्कर्ता / संस्स्कर्ता इत्यत्र <<अनचि च>> इति प्रथमसकारस्य द्वित्वे कृते सँस्स्स्कर्ता / संस्स्स्कर्ता इति त्रिसकारात्मके द्वे रूपे भवतः ।आहत्य 4 (पूर्वम् उक्तानि) + 2 (नूतनानि) = 6 रूपाणि । एतेषु त्रीणि रूपाणि अनुस्वारयुक्तानि, अवशिष्टानि त्रीणि च अनुनासिकस्वरयुक्तानि - इति भेदः । \n'सँस्कर्ता / संस्कर्ता' इत्यत्रापि 'अनचि च' इत्यनेन द्वित्वम् अवश्यम् सम्भवति, परन्तु तेन 'सँस्स्कर्ता / संस्स्कर्ता' इत्येव रूपे सिद्ध्यतः येषाम् परिगणनम् पूर्वमेव कृतम् अस्ति, अतः तेषाम् पुनः परिगणनम् नैव क्रियते ।\n3. अनुस्वारः यथा अच्-प्रत्याहारे अस्ति, तथैव शर्-प्रत्याहारे अपि अस्ति इति <<विसर्जनीयस्य सः>> [[8.3.34]] अस्मिन् सूत्रे सिद्धान्तकौमुद्यां दीक्षितः स्पष्टी करोति । अतः अनुस्वारः 'यर्' प्रत्याहारे अस्ति इत्यपि वक्तुं शक्यते, यतः शर्-प्रत्याहारः यर्-प्रत्याहारे सम्मिलितः अस्ति । अस्यां स्थितौ, अस्मात् यर्-वर्णात् (अनुस्वारात्) पूर्वम् अच्-वर्णः (स्वरः), ततश्च अस्मात् अनुस्वारात् अनन्तरम् हल्-वर्णः (सकारः) यत्र विद्यते तत्र अनुस्वारस्य अपि <<अनचि च>> [[8.4.47]] इत्यनेन वैकल्पिकं द्वित्वं सम्भवति । एतादृशी स्थितिः अनुस्वारयुक्तेषु त्रिषु रूपेषु — संस्कर्ता / संस्स्कर्ता / संस्स्स्कर्ता — एतेषु विद्यते, अतः एतेषु विद्यमानस्य अनुस्वारस्य <<अनचि च>> [[8.4.47]] इत्यनेन वैकल्पिकं द्वित्वं कृत्वा सं[ं]स्कर्ता / सं[ं]स्स्कर्ता / सं[ं]स्स्स्कर्ता इति त्रीणि नूतनानि रूपाणि सिद्ध्यन्ति । आहत्य 6 (पूर्वम् उक्तानि) + 3 (नूतनानि) = 9 रूपाणि । एतेषु त्रीणि रूपाणि अनुस्वारद्वययुक्तानि, त्रीणि रूपाणि अनुस्वारयुक्तानि, अवशिष्टानि त्रीणि च अनुनासिकस्वरयुक्तानि - इति भेदः । Note that the newly generated forms on this step have two anuswar each. They cannot be properly typed in Devanagari, hence the additional anuswar is shown in square-brackets.\n4. <<अनचि च>> [[8.4.47]] इत्यत्र इति वार्त्तिकम् पाठितम् अस्ति । शर्-वर्णात् (सकारात्) परस्य खय्-वर्णस्य (ककारस्य) अनेन वार्त्तिकेन वैकल्पिकं द्वित्वं भवति । अतः अत्र प्राप्तेषु नवसु अपि रूपेषु एतादृशम् ककारस्य वैकल्पिके द्वित्वे कृते सँस्क्कर्ता / सँस्स्क्कर्ता / सँस्स्स्क्कर्ता / संस्क्कर्ता / संस्स्क्कर्ता / संस्स्स्क्कर्ता / सं[ं]स्क्कर्ता / सं[ं]स्स्क्कर्ता / सं[ं]स्स्स्क्कर्ता एतानि नव नूतनानि रूपाणि सिद्ध्यन्ति । आहत्य 9 (पूर्वम् उक्तानि) + 9 (नूतनानि) = 18 रूपाणि । \n5. एतेषु अष्टादशसु अपि रूपेषु कर्ता इति अंशः अन्ते विद्यते । अस्मिन् शब्दे अच्-वर्णात् परः रेफः, तस्मात् परः तकारः विद्यते । अस्यां स्थितौ <<अचो रहाभ्यां द्वे>> [[8.4.46]] इति तकारस्य वैकल्पिकं द्वित्वं सम्भवति, येन कर्त्ता इति द्वितकारात्मकम् रूपम् सिद्ध्यति । सर्वेषु अपि अष्टादशसु रूपेषु एतादृशम् तकारस्य वैकल्पिकं द्वित्वं कृत्वा अष्टादश नूतनानि रूपाणि सिद्ध्यन्ति । आहत्य 18 (पूर्वम् उक्तानि) + 18 (नूतनानि) = 36 रूपाणि । \n6. एतेभ्यः 36 रूपेभ्यः अष्टादशसु रूपेषु कर्त्ता इति द्वितकारात्मकम् रूपं विद्यते । अस्मिन् रूपे यण्-वर्णात् (इत्युक्ते, रेफात्) परः मय्-वर्णः (तकारः) विद्यते । अस्यां स्थितौ <<अनचि च>> [[8.4.47]] इत्यनेन पाठितेन इति वार्त्तिकेन रेफात् परस्य तकारस्य विकल्पेन द्वित्वम् सम्भवति । एतादृशम् द्वित्वम् कर्ता इति एकतकारात्मके रूपे न कर्तुं शक्यते यतः तत्र त्रिपादीक्रमम् अनुसृत्य आदौ <<अचो रहाभ्यां द्वे>> [[8.4.46]] इत्येव सूत्रम् प्रसज्यते । परन्तु <<अचो रहाभ्यां द्वे>> [[8.4.46]] इत्यनेन द्वित्वे कृते तत्र सिद्धेषु अष्टादशसु रूपेषु कर्त्ता इति द्वितकारात्मकानाम् रूपानाम् विषये अस्य वार्त्तिकस्य प्रयोगः अवश्यम् सम्भवति, येन कर्त्त्ता इति आहत्य अष्टादश नूतनानि त्रितकारात्मकाणि रूपाणि अपि सिद्ध्यति । आहत्य 36 (पूर्वम् उक्तानि) + 18 (नूतनानि) = 54 रूपाणि ।\n7. अन्ते, <<अणोऽप्रगृह्यस्यानुनासिकः>> [[8.4.57]] इति सूत्रेण 'कर्ता' शब्दस्य अन्तिमः आकारः विकल्पेन अनुनासिकत्वं प्राप्नोति । अत्र सर्वेष्वपि 54 रूपेषु अन्ते आकारः विद्यते, अतः सर्वत्र विकल्पेन अनुनासिके कृते ताँ इत्यन्तानि इतोऽपि 54 रूपाणि सिद्ध्यन्ति ।आहत्य 54 (पूर्वम् उक्तानि) + 54 (नूतनानि) = 108 रूपाणि ।\n\n अनेन प्रकारेण संस्कर्ता शब्दस्य आहत्य 108 वैकल्पिकरूपाणि सिद्ध्यन्ति । एतानि सर्वाणि अधः सङ्कलितानि सन्ति ।\n\n\nEnumeration:\nसँस्कर्ता । सँस्स्कर्ता । सँस्स्स्कर्ता । संस्कर्ता । संस्स्कर्ता । संस्स्स्कर्ता । सं[ं]स्कर्ता । सं[ं]स्स्कर्ता । सं[ं]स्स्स्कर्ता । सँस्क्कर्ता । सँस्स्क्कर्ता । सँस्स्स्क्कर्ता । संस्क्कर्ता । संस्स्क्कर्ता । संस्स्स्क्कर्ता । सं[ं]स्क्कर्ता । सं[ं]स्स्क्कर्ता । सं[ं]स्स्स्क्कर्ता । सँस्कर्त्ता । सँस्स्कर्त्ता । सँस्स्स्कर्त्ता । संस्कर्त्ता । संस्स्कर्त्ता । संस्स्स्कर्त्ता । सं[ं]स्कर्त्ता । सं[ं]स्स्कर्त्ता । सं[ं]स्स्स्कर्त्ता । सँस्क्कर्त्ता । सँस्स्क्कर्त्ता । सँस्स्स्क्कर्त्ता । संस्क्कर्त्ता । संस्स्क्कर्त्ता । संस्स्स्क्कर्त्ता । सं[ं]स्क्कर्त्ता । सं[ं]स्स्क्कर्त्ता । सं[ं]स्स्स्क्कर्त्ता । सँस्कर्त्त्ता । सँस्स्कर्त्त्ता । सँस्स्स्कर्त्त्ता । संस्कर्त्त्ता । संस्स्कर्त्त्ता । संस्स्स्कर्त्त्ता । सं[ं]स्कर्त्त्ता । सं[ं]स्स्कर्त्त्ता । सं[ं]स्स्स्कर्त्त्ता । सँस्क्कर्त्त्ता । सँस्स्क्कर्त्त्ता । सँस्स्स्क्कर्त्त्ता । संस्क्कर्त्त्ता । संस्स्क्कर्त्त्ता । संस्स्स्क्कर्त्त्ता । सं[ं]स्क्कर्त्त्ता । सं[ं]स्स्क्कर्त्त्ता । सं[ं]स्स्स्क्कर्त्त्ता । सँस्कर्ताँ । सँस्स्कर्ताँ । सँस्स्स्कर्ताँ । संस्कर्ताँ । संस्स्कर्ताँ । संस्स्स्कर्ताँ । सं[ं]स्कर्ताँ । सं[ं]स्स्कर्ताँ । सं[ं]स्स्स्कर्ताँ । सँस्क्कर्ताँ । सँस्स्क्कर्ताँ । सँस्स्स्क्कर्ताँ । संस्क्कर्ताँ । संस्स्क्कर्ताँ । संस्स्स्क्कर्ताँ । सं[ं]स्क्कर्ताँ । सं[ं]स्स्क्कर्ताँ । सं[ं]स्स्स्क्कर्ताँ । सँस्कर्त्ताँ । सँस्स्कर्त्ताँ । सँस्स्स्कर्त्ताँ । संस्कर्त्ताँ । संस्स्कर्त्ताँ । संस्स्स्कर्त्ताँ । सं[ं]स्कर्त्ताँ । सं[ं]स्स्कर्त्ताँ । सं[ं]स्स्स्कर्त्ताँ । सँस्क्कर्त्ताँ । सँस्स्क्कर्त्ताँ । सँस्स्स्क्कर्त्ताँ । संस्क्कर्त्ताँ । संस्स्क्कर्त्ताँ । संस्स्स्क्कर्त्ताँ । सं[ं]स्क्कर्त्ताँ । सं[ं]स्स्क्कर्त्ताँ । सं[ं]स्स्स्क्कर्त्ताँ । सँस्कर्त्त्ताँ । सँस्स्कर्त्त्ताँ । सँस्स्स्कर्त्त्ताँ । संस्कर्त्त्ताँ । संस्स्कर्त्त्ताँ । संस्स्स्कर्त्त्ताँ । सं[ं]स्कर्त्त्ताँ । सं[ं]स्स्कर्त्त्ताँ । सं[ं]स्स्स्कर्त्त्ताँ । सँस्क्कर्त्त्ताँ । सँस्स्क्कर्त्त्ताँ । सँस्स्स्क्कर्त्त्ताँ । संस्क्कर्त्त्ताँ । संस्स्क्कर्त्त्ताँ । संस्स्स्क्कर्त्त्ताँ । सं[ं]स्क्कर्त्त्ताँ । सं[ं]स्स्क्कर्त्त्ताँ । सं[ं]स्स्स्क्कर्त्त्ताँ ।\n\n\nThe regular expression  (सँ|सं|सं ं)स्{1-3}क्{1-2}अर् त्{1-3}(आँ|आ) captures all these forms. This is to be read as — सँ or सं or सं ं followed by one/two/three स् followed by one/two क् followed by अर् followed by one/two/three त् followed by आँ or आ. It clearly exhibits a total of 3 X 3 X 2 X 3 X 2 = 108 choices. Needless to say, except for a couple of these forms, all others are purely theoretical in nature, with no practical applications. Most of them can't even be pronounced properly !\n\n" }, "83006": { "sa": "'पुम्' शब्दात् परः संहितायाम् खय्-वर्णः, तस्मात् परः च अम्-वर्णः विद्यते चेत् पुम्-शब्दस्य मकारस्य रुँ आदेशः भवति । ", "sd": "सूत्रपाठे <<मतुवसो रु सम्बुद्धौ छन्दसि>> [[8.3.1]] इत्यस्मात् सूत्रात् आरभ्य <<कानाम्रेडिते>> [[8.3.12]] इति सूत्रम् यावत् द्वादशेषु सूत्रेषु 'रुँ' इति आदेशविधानम् क्रियते । अस्य रुत्वप्रकरणस्य इदम् षष्ठं सूत्रम् । 'पुम्' शब्दात् अनन्तरम् संहितायाम् खय्-वर्णः, तस्मात् च अनन्तरम् संहितायाम् अम्-वर्णः वर्तते चेत् पुम्-शब्दस्य मकारस्य अनेन सूत्रेण रुँ आदेशः भवति ।\n\nखय् = वर्गप्रथमाः, वर्गद्वितीयाः = ख्, फ्, छ्, ठ्, थ्, च्, ट्, त्, क्, प् । आहत्य दश व्यञ्जनानि ।\nअम् = स्वराः, अन्तःस्थाः, वर्गपञ्चमाः, हकारः । सर्वे स्वराः + आहत्य दश व्यञ्जनानि ।\n \nसंस्कृते 'पुम्' इति कश्चन पृथक् शब्दः नास्ति, अपितु 'पुम्' इत्यनेन 'पुम्स्' इति शब्दस्य आदिस्थस्य अंशं निर्देशः क्रियते । पुम्स्-शब्दस्य अन्तिमसकारस्य यदा लोपः क्रियते, तदा अवशिष्टस्य 'पुम्' शब्दस्य विषये इदं सूत्रं प्रवर्तते, इति अत्र आशयः । यथा, 'पुमान् कोकिलः' इत्यत्र कर्मधारयसमासे अस्य सूत्रस्य प्रयोगं कृत्वा 'पुँस्कोकिलः / पुंस्कोकिलः' इति द्वे रूपे भवतः । प्रक्रिया इत्थम् —\n\nपुमान् च असौ कोकिलः च [<<विशेषणं विशेष्येण बहुलम्>> [[2.1.57]] इति कर्मधारयसमासः]\n→‌ पुम्स् + कोकिल [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुँलोपः]\n→ पुम् + कोकिल [समस्तपदस्य पूर्वपदम् तस्य पदत्वं नैव जहाति, अतः पदसंज्ञायां सत्यां <<संयोगान्तस्य लोपः>> [[8.2.23]] इति पदान्ते विद्यमानस्य सकारस्य लोपः क्रियते ।]\n→ पुरुँ + कोकिल ['क्' इति खय्-वर्णः, तस्मात् अनन्तरम् 'अ' इति अम्-वर्णः विद्यते । अतः <<पुमः खय्यम्परे>> [[8.3.6]] इति मकारस्य रुँत्वम् भवति ।]\n→ पुँरुँ कोकिल / पुंरुँ कोकिल [<<अत्रानुनासिकः पूर्वस्य तु वा>> [[8.3.2]] इति विकल्पेन अनुनासिकत्वम् । तदभावे <<अनुनासिकात् परोऽनुस्वारः>> [[8.3.4]] इति अनुस्वारः]\n→ पुँःकोकिल / पुंःकोकिल [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गादेशः]\n→ पुँस्कोकिल / पुंस्कोकिल [विसर्गस्य <<इदुदुपधस्य चाप्रत्ययस्य>> [[8.3.41]] इत्यनेन षत्वे प्राप्ते तद्बाधित्वा इति वार्त्तिकेन सत्वम् भवति ।]\n\nअनेनैव प्रकारेण अन्यानि अपि बहूनि उदारहणानि दातुम् शक्यन्ते । यथा —\n\n1. पुमान् च असौ खरः → पुम्स् + खरः → पुम् + खरः → पुँस्खरः, पुंस्खरः ।\n2. पुमान् च असौ पुत्रः → पुम्स् पुत्रः → पुम् + पुत्रः → पुँस्पुत्रः, पुंस्पुत्रः ।\n3. पुमान् च असौ क्नूतश्च (wet) → पुम्स् + क्नूत → पुम् + क्नूत → पुँस्क्नूत, पुंस्क्नूत । \n4. पुमान् त्वम् → पुम्स् + त्वम् → पुम् + त्वम् → पुँस्त्वम्, पुंस्त्वम् । अत्र प्रक्रियायाम् <<विसर्जनीयस्य सः>> [[8.3.34]] इत्यनेनैव सत्वं भवितुम् अर्हति । \n5. पुमान् चालकः → पुम्स् + चालक → पुम् + चालक → पुँस्चालक, पुंस्चालक → पुँश्चालक, पुंश्चालक । अत्र प्रक्रियायाम् <<विसर्जनीयस्य सः>> [[8.3.34]] इत्यनेनैव सत्वं कृत्वा ततः <<स्तोः श्चुना श्चुः>> [[8.4.40]] इति श्चुत्वे कृते रूपं सिद्ध्यति । \n6. पुमान् टङ्कपतिः → पुम्स् + टङ्कपति → पुम् + टङ्कपति → पुँस्टङ्कपति, पुंस्टङ्कपति → पुँष्टङ्कपति, पुंष्टङ्कपति । अत्र प्रक्रियायाम् <<विसर्जनीयस्य सः>> [[8.3.34]] इत्यनेनैव सत्वं कृत्वा ततः <<ष्टुना ष्टुः>> [[8.4.41]] इति ष्टुत्वे कृते रूपं सिद्ध्यति । \n\nअस्य रुत्वप्रकरणस्य सूत्रैः विहितात् रुत्वात् पूर्वम् विद्यमानः यः वर्णः, तस्य विकल्पेन <<अत्रानुनासिकः पूर्वस्य तु वा>> [[8.3.2]] इति अनुनासिकादेशः भवति, तदभावे च <<अनुनासिकात् परोऽनुस्वारः>> [[8.3.4]] इत्यनेन अनुस्वारः विधीयते । अतः अत्र प्रक्रियायाम् सर्वत्र द्वे रूपे भवतः ।\nपुम्स्-शब्दस्य व्युत्पत्तिः ; विसर्गस्य नित्यम् सकारादेशविधानम्\nपुम्स् इति शब्दः <<पातेर्डुम्सुन्>> इति उणादिसूत्रेण (४.१७७) पा-धातोः डुम्सुन् इति उणादिप्रत्ययं कृत्वा सिद्ध्यति । उणादिप्रत्ययान्तशब्दानां विषये वस्तुतः भाष्ये पक्षद्वयम् विद्यते — उणादयः व्युत्पन्नानि प्रातिपदिकानि इति एकः पक्षः, उणादयः अव्युत्पन्नानि प्रातिपदिकानि इति अपरः पक्षः । तत्र आदिमे पक्षे 'पुम्स्' इति शब्दम् 'डुम्सुन्' प्रत्ययान्तम् स्वीकृत्य, तत्र विद्यमानः मकारः प्रत्ययस्य अवयवरूपेण स्वीक्रियते । अस्यां स्थितौ पुँःकोकिल / पुंःकोकिल इत्यत्र <<इदुदुपधस्य चाप्रत्ययस्य>> [[8.3.41]] इत्यस्य प्राप्तिः नास्ति अपितु विसर्गस्य विकल्पेन <<कुप्वोः ≍क≍पौ च>> [[8.3.37]] इति जिह्वामूलीयः भवति । द्वितीये पक्षे तु 'पुम्स्' शब्दम् अव्युत्पन्नं मत्वा मकारः प्रत्ययस्य अवयवरूपेण स्वीक्रियते, येन पुँःकोकिल / पुंःकोकिल इत्यत्र <<इदुदुपधस्य चाप्रत्ययस्य>> [[8.3.41]] इत्यनेन षत्वं प्राप्नोति ।अनेन प्रकारेण उभयत्र सकारभिन्नः कश्चन आदेशः सम्भवति । तद्बाधित्वा प्रक्रियायाम् नित्यम् सकारादेशं कर्तुम् भाष्ये द्वे पद्धती दत्ते स्तः —\n1. इति वार्त्तिकेन विसर्गस्य नित्यम् सकारादेशः —\nसम्, पुम्, कान् एतेषाम् शब्दानां विषये यत्र रुँत्व भवति, तत्र रेफस्य विसर्गादेशे कृते, तस्य विसर्गस्य नित्यमेव सकारादेशः भवति — इति अस्य वार्त्तिकस्य आशयः । अस्य उदाहरणानि क्रमेण एतानि —\n\ni) सम् + सुट् + कर्तृ इत्यत्र सम्-इत्यस्य मकारस्य <<समः सुटि>> [[8.3.5]] इत्यनेन रुत्वे, ततश्च <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इत्यनेन विसर्गादेशे कृते, सँःस्कर्तृ / संःस्कर्तृ इति सिद्धे अग्रे विसर्गस्य <<वा शरि>> [[8.3.36]] इत्यनेन विकल्पेन सकारादेशः प्राप्नोति, तद् बाधित्वा वार्त्तिकेन नित्यम् एव सकारादेशः भवति, येन सँस्स्कर्तृ / संस्स्कर्तृ इति प्रयोगौ सिद्ध्यतः ।\nii) पुम् + काम इत्यत्र पुम्-इत्यस्य मकारस्य <<पुमः खय्यम्परे>> [[8.3.6]] इत्यनेन रुत्वे, ततश्च <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इत्यनेन विसर्गादेशे कृते, पुँःकाम / पुंःकाम इति सिद्धे अग्रे विसर्गस्य <<इदुदुपधस्य चाप्रत्ययस्य>> [[8.3.41]] इत्यनेन नित्यम् षकारादेशे प्राप्ते, तद्बाधित्वा अनेन वार्त्तिकेन विसर्गस्य सकारादेशः भवति, येन पुँस्काम / पुंस्काम इति प्रयोगौ सिद्ध्यतः । \niii) कान् + कान् इत्यत्र कान्-इत्यस्य नकारस्य <<कानाम्रेडिते>> [[8.3.12]] इत्यनेन रुत्वे, ततश्च <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इत्यनेन विसर्गादेशे कृते, काँःकान् / कांःकान् इति सिद्धे अग्रे विसर्गस्य <<कुप्वोः ≍क≍पौ च>> [[8.3.37]] इत्यनेन विकल्पेन जिह्वामूलीये प्राप्ते, तद्बाधित्वा अनेन वार्त्तिकेन विसर्गस्य सकारादेशः भवति, येन काँस्कान् / कांस्कान् इति प्रयोगौ सिद्ध्यतः । \n\n2. पूर्वस्मिन् सूत्रे सकारप्रश्लेषं कृत्वा <<समः स्सुटि>> इति सूत्रविधानम् —\n<<समः सुटि>> [[8.3.5]] इति पूर्वस्मिन् सूत्रे भाष्यकारेण सकारप्रश्लेषं कृत्वा <<समः स्सुटि>> इति द्विसकारकः निर्देशः करणीयः - इति उक्तम् अस्ति । अत्र प्रश्लिष्टः सकारः प्रकृतसूत्रे अपि अनुवर्त्यते चेत् <<पुमः स् खय्यम्परे>> इति सूत्रम् अत्र सिद्ध्यति । पुम्-इत्यस्य मकारस्य सकारादेशः भवति इति सूत्रार्थः करणीयः, इति अत्र आशयः अस्ति । एतादृशे आदेशे कृते अत्र यद्यपि रुँ इति नास्ति, तथापि <<अत्रानुनासिकः पूर्वस्य तु वा>> [[8.3.2]] इति अधिकारसामर्थ्यात् अत्र विकल्पेन अनुनासिकादेशम्, पक्षे च अनुस्वारागमम् कृत्वा पुँस्कोकिलः / पुंस्कोकिलः इति द्वे रूपे अवश्यं सम्भवतः । \nदलकृत्यम्\n1. खयि इति किमर्थम् ? पुमान् च असौ देवश्च अत्र रुँत्वम् न भवति, अतः पुंदेव / पुन्देव इत्येव रूपे भवतः । \n2. अम्परे इति किमर्थम् ?पुमान् च असौ क्षत्रियश्च अत्र रुँत्वम् न भवति, अतः पुंक्षत्रियः / पुङ्क्षत्रियः इत्येव रूपे भवतः । \nवार्त्तिकम् - <!ख्याञादेशे न!>\nअदादिगणस्य चक्षिङ्-धातोः आर्धधातुके प्रत्ययस्य विषये <<चक्षिङ् ख्याञ्>> [[2.4.54]] इति यः ख्याञ्-आदेशः भवति, तस्मिन् परे पुम्-इत्यस्य मकारस्य रुँत्वम् न भवति — इति अस्य वार्त्तिकस्य आशयः । यथा - चक्षिङ्-धातोः क्तिन्-प्रत्यये कृते ख्यातिः इति यः शब्दः सिद्ध्यति तस्य विषये इदं सूत्रं न प्रवर्तते —\n\nपुंसः ख्यातिः [<<षष्ठी>> [[2.2.8]] इति तत्पुरुषसमासः]\n→ पुम्स् + ख्याति [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुँलोपः]\n→ पुम् + ख्याति [समस्तपदस्य पूर्वपदम् तस्य पदत्वं नैव जहाति, अतः पदसंज्ञायां सत्यां <<संयोगान्तस्य लोपः>> [[8.2.23]] इति पदान्ते विद्यमानस्य सकारस्य लोपः क्रियते ।]\n→ पुंख्याति / पुङ्ख्याति [<<पुमः खय्यम्परे>> [[8.3.6]] इत्यनेन रुँत्वे प्राप्ते इति वार्त्तिकेन तत् निषिध्यते । अतः <<मोऽनुस्वारः>> [[8.2.23]] इति अनुस्वारः, <<वा पदान्तस्य>> [[8.4.59]] इति वैकल्पिकः परसवर्णः च भवति । ]\n" }, "83007": { "sa": "'प्रशान्' इति शब्दं वर्जयित्वा, अन्यत्र पदान्तनकारात् परः संहितायाम् छव्-वर्णः, तस्मात् परः च अम्-वर्णः विद्यते चेत् नकारस्य रुँ आदेशः भवति । ", "sd": "सूत्रपाठे <<मतुवसो रु सम्बुद्धौ छन्दसि>> [[8.3.1]] इत्यस्मात् सूत्रात् आरभ्य <<कानाम्रेडिते>> [[8.3.12]] इति सूत्रम् यावत् द्वादशेषु सूत्रेषु 'रुँ' इति आदेशविधानम् क्रियते । अस्य रुत्वप्रकरणस्य इदम् सप्तमम् सूत्रम् । पदान्तनकारात् अनन्तरम् संहितायाम् छव्-वर्णः, तस्मात् च अनन्तरम् संहितायाम् अम्-वर्णः वर्तते चेत् नकारस्य अनेन सूत्रेण रुँ आदेशः भवति (परन्तु प्रशान्-शब्दस्य विषये न भवति) इति अस्य सूत्रस्य आशयः । \n\nछव् = चवर्ग/टवर्ग/तवर्गस्य प्रथमद्वितीयव्यञ्जनम् = छ्, ठ्, थ्, च्, ट्, त् । । आहत्य षट् व्यञ्जनानि ।\nअम् = स्वराः, अन्तःस्थाः, वर्गपञ्चमाः, हकारः । सर्वे स्वराः + आहत्य दश व्यञ्जनानि ।\n \nयथा, 'भवान् तिष्ठति' इत्यत्र अस्य सूत्रस्य प्रयोगं कृत्वा 'भवाँस्तिष्ठति / भवांस्तिष्ठति' इति द्वे रूपे भवतः । प्रक्रिया इत्थम् —\n\nयथा - भवान् + तिष्ठति \n→ भवारुँ + तिष्ठति [<<नश्छव्यप्रशान्>> [[8.3.7]] इति पदान्तनकारस्य रुँत्वम् ]\n→ भवाँरुँ + तिष्ठति / भवांरुँ + तिष्ठति [<<अत्रानुनासिकः पूर्वस्य तु वा>> [[8.3.2]] इति विकल्पेन अनुनासिकः । अनुनासिकाभावे <<अनुनासिकात् परोऽनुस्वारः>> [[8.3.4]] इति अनुस्वारः]\n→ भवाँः तिष्ठति / भवांः तिष्ठति [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n→ भवाँस् तिष्ठति / भवांस् तिष्ठति [<<विसर्जनीयस्य सः>> [[8.3.34]] इति सकारादेशः]\n→ भवाँस्तिष्ठति / भवांस्तिष्ठति । \n\nअनेनैव प्रकारेण अन्यानि अपि बहूनि उदारहणानि दातुम् शक्यन्ते । यथा —\n\n1) राजन् + चिनुहि → राजँश्चिनु, राजंश्चिनु । अत्र प्रक्रियायाम् सकारस्य <<स्तोः श्चुना श्चुः>> [[8.4.40]] इति श्चुत्वे शकारः भवति ।\n2) शार्ङ्गिन् + छिन्धि → शार्ङ्गिँश्छिन्धि, शार्ङ्गिंश्छिन्धि । अत्र प्रक्रियायाम् सकारस्य <<स्तोः श्चुना श्चुः>> [[8.4.40]] इति श्चुत्वे शकारः भवति ।\n3) काव्यान् + टङ्कयति = काव्याँष्टङ्कयति, काव्यांष्टङ्कयति । अत्र प्रक्रियायाम् सकारस्य <<ष्टुना ष्टुः>> [[8.4.41]] इति ष्टुत्वे षकारः भवति ।\n4) गतवान् + ठक्कुरः = गतवाँष्ठक्कुरः, गतवांष्ठक्कुरः । अत्र प्रक्रियायाम् सकारस्य <<ष्टुना ष्टुः>> [[8.4.41]] इति ष्टुत्वे षकारः भवति ।\n5) विद्वान् + तत्र → विद्वाँस्तत्र, विद्वांस्तत्र । \n6) चक्रिन् + त्रायस्व → चक्रिँस्त्रायस्व, चक्रिंस्त्रायस्व ।\n7) दोषान् + त्यक्त्वा → दोषाँस्त्यक्त्वा, दोषांस्त्यक्त्वा ।\n8) भवान् + थूत्करोति → भवांस्थूत्करोति, भवाँस्थूत्करोति ।\n\nअस्य रुत्वप्रकरणस्य सूत्रैः विहितात् रुत्वात् पूर्वम् विद्यमानः यः वर्णः, तस्य विकल्पेन <<अत्रानुनासिकः पूर्वस्य तु वा>> [[8.3.2]] इति अनुनासिकादेशः भवति, तदभावे च <<अनुनासिकात् परोऽनुस्वारः>> [[8.3.4]] इत्यनेन अनुस्वारः विधीयते । अतः अत्र प्रक्रियायाम् सर्वत्र द्वे रूपे भवतः ।\nप्रशान् इति पदस्य विषये तु इदं सूत्रम् नैव प्रवर्तते । प्र-उपसर्गपूर्वकात् शम्-धातोः क्विप्-प्रत्यये कृते 'प्रशाम्' इति प्रातिपदिकं सिद्ध्यति, तस्य प्रथमैकवचनम् 'प्रशान्' इति नकारान्तं जायते । अस्य शब्दस्य विषये अस्य सूत्रस्य प्रयोगः न भवति, अतः अस्मिन् सूत्रे अप्रशान् इति निषेधः कृतः वर्तते । अतः अस्य शब्दस्य विषये प्रशान् + तनोति‌ → प्रशान्तनोति इत्येव जायते । \n\nदलकृत्यम्\n1. पदान्तनकारस्य इति किमर्थम् ? अपदान्तनकारस्य विषये इदं सूत्रं न प्रवर्तते । यथा, तुदादिगणस्य कृतीँ (छेदने) धातोः लट्लकारस्य प्रथमपुरुषस्य एकवचनस्य रूपम् कृन्तति इति भवति । अत्र नकारः पदान्ते न विद्यते, अतः अम्-परके तकारे परे अस्य रुँत्वम् न भवति ।\n2. छवि इति किमर्थम् ? भवान् + करोति अत्र प्रकृतसूत्रेण रुत्वँ न भवति । \n3. अम्परे इति किमर्थम् ? यत्र छव्-वर्णात् अनन्तरम् अम्-वर्णः नास्ति, तत्र प्रकृतसूत्रम् नैव प्रवर्तते । यथा, सन् + त्सरुः (handle of a sword) अत्र प्रकृतसूत्रेण रुत्वँ न भवति । \n" }, "83008": { "sa": "वैदिकप्रयोगेषु, पदान्तनकारात् परः संहितायाम् छव्-वर्णः, तस्मात् परः च अम्-वर्णः विद्यते चेत् नकारस्य विकल्पेन रुँ आदेशः भवति । ", "sd": "सूत्रपाठे <<मतुवसो रु सम्बुद्धौ छन्दसि>> [[8.3.1]] इत्यस्मात् सूत्रात् आरभ्य <<कानाम्रेडिते>> [[8.3.12]] इति सूत्रम् यावत् द्वादशेषु सूत्रेषु 'रुँ' इति आदेशविधानम् क्रियते । अस्य रुत्वप्रकरणस्य इदम् अष्टमम् सूत्रम् । <<नश्छव्यप्रशान्>> [[8.3.7]] इति सूत्रेण पदान्तनकारस्य उक्तम् ऋत्वम् वैदिकप्रक्रियायाम् विकल्प्यते — इति अस्य सूत्रस्य आशयः । \nअस्मिन् सूत्रे 'उभयथा' तथा 'ऋक्षु' इति द्वे शब्दे प्रयुक्ते स्तः । अत्र 'उभयथा' इति शब्दस्य अर्थः 'विकल्पेन' इति अस्ति । रुत्वं भवति न वा भवति; उभयथा प्रयोगाः दृश्यन्ते — इति आशयः । 'ऋक्षु' इति शब्दः तु 'ऋक्' (छन्दसः पङ्क्तिः) इत्यस्य सप्तम्येकवचनम् अस्ति । वेदेषु पूर्वसूत्रेण उक्तं रुँत्वं विकल्प्यते इति अत्र आशयः ।\nकानिचन उदाहरणानि एतानि —\n1 आपस्तम्बीयश्रौत्रसूत्रेषु तस्मिंस्त्वा देवयजन आ क्षिणोमीति इति वाक्यम् विद्यते । अत्र तस्मिन् + त्वा इत्यत्र नकारस्य रुँत्वे कृते तस्मिंस्त्वा इति रूपम् सिद्ध्यति —\n\nतस्मिन् + त्वा\n→ तस्मिरुँ + त्वा [<<उभयथर्क्षु>> [[8.3.8]] इत्यनेन रुँत्वम् ]\n→ तस्मिंरुँ + त्वा [<<अनुनासिकात् परोऽनुस्वारः>> [[8.3.4]] इति अनुस्वारः]\n→ तस्मिंः + त्वा [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n→ तस्मिंस् त्वा [<<विसर्जनीयस्य सः>> [[8.3.34]] इति सकारादेशः ]\n→ तस्मिंस्त्वा\n\n2. पुरुषसूक्ते पशूंँस्ताँश्चक्रे इति उल्लेखः अस्ति । अत्र पशून् + तान् इत्यत्र तथा तान् + चक्रे इत्यत्र वर्तमानसूत्रेण रुँत्वं विधीयते । यथा -\n\nपशून् + तान्\n→ पशूरुँ + तान् [<<उभयथर्क्षु>> [[8.3.8]] इत्यनेन रुँत्वम् ]\n→ पशूँरुँ + तान् [<<अत्रानुनासिकः पूर्वस्य तु वा>> [[8.3.2]] इति अनुनासिकम्]\n→ पशूँः + तान् [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n→ पशूँस् तान् [<<विसर्जनीयस्य सः>> [[8.3.34]] इति सकारादेशः ]\n→ पशूँस्तान्\n\n3. तस्मिन्तं धेहि मा पणौ (ऋग्वेदे 8.97.2) अस्यां पङ्क्तौ तस्मिन् तम् इत्यत्र पदान्त-नकारात् परः खय्-वर्णः, तस्मात् परः च अम्-वर्णः अस्ति । तथापि अत्र रुँत्वम् न भवति । रुँत्वस्य इयम् अनुपस्थितिः <<उभयथर्क्षु>> [[8.3.8]] इत्यनेन प्रतिपाद्यते ।" }, "83009": { "sa": "वैदिकप्रक्रियायां दीर्घस्वरात् अनन्तरम् पदान्तनकारः, तदनन्तरं च समानपादे एव अट्-वर्णः अस्ति चेत् नकारस्य विकल्पेन रुँत्वम् भवति ।", "sd": "सूत्रपाठे <<मतुवसो रु सम्बुद्धौ छन्दसि>> [[8.3.1]] इत्यस्मात् सूत्रात् आरभ्य <<कानाम्रेडिते>> [[8.3.12]] इति सूत्रम् यावत् द्वादशेषु सूत्रेषु 'रुँ' इति आदेशविधानम् क्रियते । अस्य रुत्वप्रकरणस्य इदम् नवमं सूत्रम् । आकारात् परस्य पदान्तनकारस्य समानपादे विद्यमाने अट्-वर्णे परे वैदिकप्रक्रियायां विकल्पेन रुँत्वम् भवति — इति अस्य सूत्रस्य अर्थः ।\nअस्मिन् सूत्रे विद्यमानः 'समानपादे' इति शब्दः वैदिक-ऋचाम् पादस्य निर्देशं करोति । इत्युक्ते, यदि वेदमन्त्रस्य कस्मिंश्चित् पादे दीर्घस्वरात् अनन्तरम् पदान्तनकारः विद्यते, तस्मात् अनन्तरम् संहितायाम् तस्मिन्नेव पादे अट्-वर्णः अपि च विद्यते, तर्हि तस्य नकारस्य विकल्पेन ऋत्वम् भवति (इत्युक्ते, केषुचन स्थलेषु रुँत्वम् कृत्वा रूपं सिद्ध्यति, केषुचन अन्येषु स्थलेषु रुँत्वं विना रूपं सिद्ध्यति — इति अत्र आशयः अस्ति । यथा —\n1. देवाँ अच्छा सुमती (ऋग्वेदः 4.1.2) — इत्यत्र देवाँ अच्छा इति प्रयोगः इत्थं सिद्ध्यति —\n\nदेवान् + अच्छा \n→ देवारुँ + अच्छा [<<दीर्घादटि समानपादे>> [[8.3.9]] इति वैकल्पिकं रुँत्वम् ]\n→ देवाँरुँ + अच्छा [<<आतोऽटि नित्यम्>> [[8.3.3]] इति नित्यम् अनुनासिकत्वम् । अत्र अनुनासिकाभावः न विद्यते अतः अत्र <<अत्रानुनासिकः पूर्वस्य तु वा>> [[8.3.2]] इत्यनेन अनुस्वारः अपि न सम्भवति । \n→ देवाँय् + अच्छा [<<भोभगोअघोअपूर्वस्य योऽशि>> [[8.3.17]] इति यकारादेशः]\n→ देवाँ अच्छा [<<लोपः शाकल्यस्य>> [[8.3.19]] इति यकारलोपः]\n\n2. आदित्यान् याचिषामहे (ऋग्वेदः 8.67.1) - अत्र आदित्यान् + याचिषामहे इत्यत्र यद्यपि पदान्तकारात् परः अट्-वर्णः समानपादे विद्यते, तथापि अत्र नकारस्य रुँत्वम् कृतम् नास्ति । अयम् रुँत्वाभावः अपि <<दीर्घादटि समानपादे>> [[8.3.9]] इत्यनेनैव विकल्पेन सिद्ध्यति । \nप्रकृतसूत्रेण रुँत्वे कृते <<आतोऽटि नित्यम्>> [[8.3.3]] इति नित्यम् अनुनासिकत्वम् एव सम्भवति । एवमेव, <<आतोऽटि नित्यम्>> [[8.3.3]] इति सूत्रस्य प्रसक्तिः प्रकृतसूत्रस्य प्रयोगात् अनन्तरम् एव सम्भवति । The रुँ created by the current sutra must always be converted to अनुनासिक using the <<आतोऽटि नित्यम्>> [[8.3.3]] sutra ; and the only use of <<आतोऽटि नित्यम्>> [[8.3.3]] sutra is to convert the रुँ of the current sutra to अनुनासिक. " }, "83010": { "sa": "नॄन्-शब्दस्य अन्तिम-नकारस्य पकारे परे संहितायाम् विकल्पेन रुत्वं भवति । ", "sd": "सूत्रपाठे <<मतुवसो रु सम्बुद्धौ छन्दसि>> [[8.3.1]] इत्यस्मात् सूत्रात् आरभ्य <<कानाम्रेडिते>> [[8.3.12]] इति सूत्रम् यावत् द्वादशेषु सूत्रेषु 'रुँ' इति आदेशविधानम् क्रियते । अस्य रुत्वप्रकरणस्य इदम् दशमं सूत्रम् । नृ-शब्दस्य द्वितीयाबहुवचनस्य नॄन् इति रूपस्य पकारे परे विकल्पेन रुँत्वम् भवति इति अस्य सूत्रस्य अर्थः । यथा —\n\nनॄन् पाहि\n→ नॄरुँ पाहि [<<नॄन् पे>> [[8.3.10]] इति नृ-शब्दस्य पकारे परे पाक्षिकं रुँत्वम्]\n→ नॄँरुँ पाहि / नॄंरुँ पाहि [<<अत्रानुनासिकः पूर्वस्य तु वा>> [[8.3.2]] इत्यनेन रुँ-इत्यस्मात् पूर्वस्य वर्णस्य विकल्पेन अनुनासिकः । अनुनासिकाभावे <<अनुनासिकात् परोऽनुस्वारः>> [[8.3.4]] इति अनुस्वारः]\n→ नॄँः पाहि / नॄंः पाहि [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गनिर्माणम्]\n→ नॄँःपाहि / नॄंःपाहि / नॄँः≍पाहि / नॄंः≍पाहि [<<कुप्वोः ≍क ≍पौ च>> [[8.3.37]] इति विकल्पेन उपध्मानीयः]\n
    \nपक्षे <<नॄन् पे>> [[8.3.10]] इति नृ-शब्दस्य पकारे परे पाक्षिके रुँत्वाभावे 'नॄन्पाहि' इत्यपि रूपम् सिद्ध्यति ।\n
    \nअन्यानि कानिचन उदाहरणानि —\n\n1. नॄन् पृच्छ → नॄँःपृच्छ / नॄंःपृच्छ / नॄँः≍पृच्छ / नॄंः≍पृच्छ । \n2. नॄन् प्रार्थये → नॄँःप्रार्थये / नॄंःप्रार्थये / नॄँः≍प्रार्थये / नॄंः≍प्रार्थये ।\n3. नॄन् प्लोषति → नॄँःप्लोषति / नॄंःप्लोषति / नॄँः≍प्लोषति / नॄंः≍प्लोषति ।\n\nअस्य रुत्वप्रकरणस्य सूत्रैः विहितात् रुत्वात् पूर्वम् विद्यमानः यः वर्णः, तस्य विकल्पेन <<अत्रानुनासिकः पूर्वस्य तु वा>> [[8.3.2]] इति अनुनासिकादेशः भवति, तदभावे च <<अनुनासिकात् परोऽनुस्वारः>> [[8.3.4]] इत्यनेन अनुस्वारः विधीयते । अतः अत्र प्रक्रियायाम् सर्वत्र द्वे रूपे भवतः ।\nरुँत्वम् नित्यम् भवति (न हि विकल्पेन) इति काशिका\nप्रकृतसूत्रस्य काशिकाव्याख्याने नॄन् शब्दस्य नकारस्य नित्यम् (compulsory) एव रुँत्वम् उच्यते , न हि विकल्पेन । परन्तु <<उभयथर्क्षु>> [[8.3.8]] इत्यस्मात् सूत्रात् 'उभयथा' इति अपि केचन अनुवर्तयन्ति, येन रुँत्वस्य विकल्पः सम्भवति — इत्यपि निर्देशः तत्र कृतः दृश्यते । सिद्धान्तकौमुद्याम् तु 'रुः वा स्यात्' इत्येव अर्थः निर्दिष्टः अस्ति । " }, "83011": { "sa": "'स्वतवान्' इत्यस्य 'पायु' शब्दे परे संहितायाम् विकल्पेन रुँत्वम् भवति । ", "sd": "सूत्रपाठे <<मतुवसो रु सम्बुद्धौ छन्दसि>> [[8.3.1]] इत्यस्मात् सूत्रात् आरभ्य <<कानाम्रेडिते>> [[8.3.12]] इति सूत्रम् यावत् द्वादशेषु सूत्रेषु 'रुँ' इति आदेशविधानम् क्रियते । अस्य रुत्वप्रकरणस्य इदम् एकादशं सूत्रम् । स्वतवान् (strong, powerful) इत्यस्य पदान्तनकारस्य पायु (protector) इति शब्दे परे विकल्पेन रुँत्वम् भवति इति अस्य सूत्रस्य अर्थः । \nस्वतवान् इति शब्द: स्वतवस् इति शब्दस्य प्रथमैकवचनम् अस्ति । अस्य शब्दस्य नकारस्य पायु-शब्दे परे वेदेषु कुत्रचित् रुत्वं कृतं दृश्यते, तादृशानां प्रयोगाणाम् साधुत्वार्थम् प्रकृतसूत्रम् निर्मितम् अस्ति । यथा भुवस्तस्य स्वतवाँः पायुरग्ने (ऋग्वेदः 4.2.6) इत्यत्र 'स्वतवाँः' इति शब्दः इत्थं सिद्ध्यति —\n\nस्वतवान् + पायुः\n→ स्वतवारुँ + पायुः [<<स्वतवान् पायौ>> [[8.3.11]] इति वैकल्पिकं रुँत्वम्]\n→ स्वतवाँरुँ + पायुः/ स्वतवांरुँ + पायुः [<<अत्रानुनासिकः पूर्वस्य तु वा>> [[8.3.2]] इति विकल्पेन अनुनासिकः । अनुनासिकाभावे <<अनुनासिकात् परोऽनुस्वारः>> [[8.3.4]] इति अनुस्वारः]\n→ स्वतवाँः पायुः / स्वतवांः पायुः [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n
    \n<<स्वतवान् पायौ>> [[8.3.11]] इति सूत्रेण विकल्पेनैव रुँत्वं भवति, अतः पक्षे स्वतवान् पायुः इत्यपि प्रयोगः सिद्ध्यति ।\n
    \nस्वतवान् शब्दस्य सिद्धिः\nतु (वृद्धिहिंसयोः) इत्यस्मात् सौत्र-धातोः <<सर्वधातुभ्योऽसुन्>> इति उणादिसूत्रेण असुन् इति कृत्प्रत्ययं कृत्वा, स्वतवस् इति प्रातिपदिकं सिद्ध्यति । अस्मात् शब्दात् प्रथमैकवचनस्य सुँ-प्रत्यये कृते स्वतवान् इति शब्दः सिद्ध्यति । प्रक्रिया एतादृशी —\n\nतु (वृद्धिहिंसयोः, सौत्रः धातुः)\n→ तु + असुन् [<<सर्वधातुभ्योऽसुन्>> - उणादिः 4.188 इति असुन्-प्रत्ययः]\n→ तु + अस् [इत्संज्ञालोपः । सकारोत्तरः उकारः उच्चारणार्थः, सोऽपि लुप्यते ।\n→ तो + अस् [<<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणः]\n→ तव् + अस् [<<एचोऽयवायावः>> [[6.1.78]] इति अवादेशः]\n→ तवस् [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा ।]\n→ स्व + तवस् + सुँ ['स्वम् तवः अस्य' (One whose power is one himself) इत्यस्मिन् अर्थे <<अनेकमन्यपदार्थे>> [[2.2.24]] इति बहुव्रीहिसमासः । ततः प्रातिपदिकसंज्ञा, सुबुत्पत्तिः]\n→ स्वतवस् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति सुँलोपः]\n→ स्वतवास् [<<अत्वसन्तस्य चाधातोः>> [[6.4.14]] इति उपधादीर्घः]\n→ स्वतवान् [ <<दृक्स्ववस्स्वतवसां छन्दसि >> [[7.1.83]] इति नुमागमः]\n\n अत्र प्रकियायाम् <<दृक्स्ववस्स्वतवसां छन्दसि >> [[7.1.83]] इति वैदिकप्रक्रियाविशिष्टं सूत्रम् उपयुज्य नुमागमः कृतः अस्ति । अतः स्वतवान् इति शब्दः अपि केवलम् वेदेषु एव साधु भवति । \nरुँत्वम् नित्यम् भवति (न हि विकल्पेन) इति काशिका\nप्रकृतसूत्रस्य काशिकाव्याख्याने स्वतवान् शब्दस्य नकारस्य नित्यम् (compulsory) एव रुँत्वम् उच्यते , न हि विकल्पेन । सिद्धान्तकौमुद्याम् तु 'रुः वा' इत्युक्त्वा विकल्पेन एव रुत्वम् विधीयते ।" }, "83012": { "sa": "'कान्' इत्यस्य नकारस्य आम्रेडिते (कान्-शब्दे) परे रुँत्वम् भवति । ", "sd": "सूत्रपाठे <<मतुवसो रु सम्बुद्धौ छन्दसि>> [[8.3.1]] इत्यस्मात् सूत्रात् आरभ्य <<कानाम्रेडिते>> [[8.3.12]] इति सूत्रम् यावत् द्वादशेषु सूत्रेषु 'रुँ' इति आदेशविधानम् क्रियते । अस्य रुत्वप्रकरणस्य इदम् द्वादशम् (अन्तिमम्) सूत्रम् । किम्-शब्दस्य द्वितीयाबहुवचनस्य कान् इति रूपस्य नकारस्य आम्रेडिते परे (इत्युक्ते, अन्यस्मिन् कान्-शब्दे परे) रुँत्वम् भवति इति अस्य सूत्रस्य अर्थः । \nकान् इति शब्दः यत्र पौनःपुन्यम् दर्शयितुम् प्रयुज्यते, तत्र <<नित्यवीप्सयोः>> [[8.1.4]] इति सूत्रेण तस्य द्वित्वे कृते कान् कान् (whom all इति अर्थः, हिन्दीभाषायाम् 'किसकिसको' इति) इति जायते । अत्र विद्यमानस्य द्वितीय-कान्-शब्दस्य <<तस्य परमाम्रेडितम्>> [[8.1.2]] इति सूत्रेण आम्रेडितसंज्ञा भवति । अस्मिन् आम्रेडितसंज्ञके परे प्रथम-कान्-शब्दस्य नकारस्य प्रकृतसूत्रेण रुत्वम् भवति । प्रक्रिया इयम् —\n\nकान् कान् [<<नित्यवीप्सयोः>> [[8.1.4]] इति द्वित्वम् । अत्र विद्यमानस्य द्वितीय-कान्-शब्दस्य आम्रेडितसंज्ञा भवति । \n→ कारुँ + कान् [<<कानाम्रेडिते>> [[8.3.12]] इति आम्रेडिते परे कान्-शब्दस्य नकारस्य रुँत्वम् ]\n→ काँरुँ कान् / कांरुँ कान् [<<अत्रानुनासिकः पूर्वस्य तु वा>> [[8.3.2]] इत्यनेन रुँ-इत्यस्मात् पूर्वस्य विकल्पेन अनुनासिकः । अनुनासिकाभावे <<अनुनासिकात् परोऽनुस्वारः>> [[8.3.4]] इति अनुस्वारः]\n→ काँः कान् / कांः कान् [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n→ काँस् कान् / कांस् कान् [<<कुप्वोः ≍क ≍पौ च>> [[8.3.37]] इति जिह्वामूलीये प्राप्ते तद्बाधित्वा अनेन वार्त्तिकेन विसर्गस्य सकारादेशः]\n→ काँस्कान्, कांस्कान्\n\nयथा, देवदत्तः कांस्कान् भोजयति (Whom all does Devadatta feed?), देवदत्तः कांस्कान् आमन्त्रयत् (Whom all did Devadatta invite?) इत्यादिषु वाक्येषु अस्य शब्दस्य प्रयोगः कृतः दृश्यते । \nजिह्वामूलीयं बाधित्वा विसर्गस्य नित्यम् सकारादेशः\nउपरिनिर्दिष्टायाम् प्रक्रियायाम् काँःकान् / कांःकान् इत्यस्याम् अवस्थायाम् <<कुप्वोः ≍क ≍पौ च>> [[8.3.37]] इत्यनेन विसर्गस्य विकल्पेन जिह्वामूलीये प्राप्ते तद्बाधित्वा तस्य सकारादेशः इष्यते । तदर्थम् काशिकायाम् तिस्रः पद्धतयः उक्ताः सन्ति —\n1. इति वार्त्तिकेन विसर्गस्य नित्यम् सकारादेशः —\nसम्, पुम्, कान् एतेषाम् शब्दानां विषये यत्र रुँत्व भवति, तत्र रेफस्य विसर्गादेशे कृते, तस्य विसर्गस्य नित्यमेव सकारादेशः भवति, इति अस्य वार्त्तिकस्य आशयः । यथा —\n\ni) सम् + सुट् + कर्तृ इत्यत्र सम्-इत्यस्य मकारस्य <<समः सुटि>> [[8.3.5]] इत्यनेन रुत्वे, ततश्च <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इत्यनेन विसर्गादेशे कृते, सँःस्कर्तृ / संःस्कर्तृ इति सिद्धे अग्रे विसर्गस्य <<वा शरि>> [[8.3.36]] इत्यनेन विकल्पेन सकारादेशः प्राप्नोति, तद् बाधित्वा वार्त्तिकेन नित्यम् एव सकारादेशः भवति, येन सँस्स्कर्तृ / संस्स्कर्तृ इति प्रयोगौ सिद्ध्यतः ।\nii) पुम् + काम इत्यत्र पुम्-इत्यस्य मकारस्य <<पुमः खय्यम्परे>> [[8.3.6]] इत्यनेन रुत्वे, ततश्च <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इत्यनेन विसर्गादेशे कृते, पुँःकाम / पुंःकाम इति सिद्धे अग्रे विसर्गस्य <<इदुदुपधस्य चाप्रत्ययस्य>> [[8.3.41]] इत्यनेन नित्यम् षकारादेशे प्राप्ते, तद्बाधित्वा अनेन वार्त्तिकेन विसर्गस्य सकारादेशः भवति, येन पुँस्काम / पुंस्काम इति प्रयोगौ सिद्ध्यतः । \niii) कान् + कान् इत्यत्र कान्-इत्यस्य नकारस्य <<कानाम्रेडिते>> [[8.3.12]] इत्यनेन रुत्वे, ततश्च <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इत्यनेन विसर्गादेशे कृते, काँःकान् / कांःकान् इति सिद्धे अग्रे विसर्गस्य <<कुप्वोः ≍क≍पौ च>> [[8.3.37]] इत्यनेन विकल्पेन जिह्वामूलीये प्राप्ते, तद्बाधित्वा अनेन वार्त्तिकेन विसर्गस्य सकारादेशः भवति, येन काँस्कान् / कांस्कान् इति प्रयोगौ सिद्ध्यतः । \n\n2. <<समः सुटि>> [[8.3.5]] इत्यत्र सकारप्रश्लेषं कृत्वा तस्य अत्र अनुवृत्तिः —\n<<समः सुटि>> [[8.3.5]] इति सूत्रे भाष्यकारेण सकारप्रश्लेषं कृत्वा <<समः स्सुटि>> इति द्विसकारकः निर्देशः करणीयः - इति उक्तम् अस्ति । अत्र प्रश्लिष्टः सकारः प्रकृतसूत्रे अपि अनुवर्त्यते चेत् <<कानाम्रेडिते स्>> इति सूत्रम् अत्र सिद्ध्यति । आम्रेडिते परे कान्-शब्दस्य नकारस्य सकारादेशः भवति इति सूत्रार्थः करणीयः इति अत्र आशयः अस्ति । एतादृशे आदेशे कृते अत्र यद्यपि रुँ इति नास्ति, तथापि <<अत्रानुनासिकः पूर्वस्य तु वा>> [[8.3.2]] इति अधिकारसामर्थ्यात् अत्र विकल्पेन अनुनासिकादेशम्, पक्षे च अनुस्वारागमम् कृत्वा कांस्कान् / काँस्कान् इति द्वे रूपे अवश्यं सम्भवतः । \n3. कस्कादिगणे निर्देशात् निपातनम् —\n<<कस्कादिषु च>> [[8.3.48]] इत्यस्मिन् सूत्रे निर्दिष्टे कस्कादिगणे ते सर्वे शब्दाः विद्यन्ते, येषाम् विषये विसर्गस्य अन्यविधीन् बाधित्वा सकारादेशः एव भवति । कांस्कान् इति शब्दः अपि अस्मिन्नेव गणे विद्यते । अस्य गणस्य आकृतिगणत्वात् काँस्कान् शब्दस्य ग्रहणम् अपि तत्र शक्यम् । अनेन प्रकारेण एतयोः शब्दयोः विद्यमानम् सत्वम् समर्थयितुम् शक्यते ।\n" }, "83013": { "sa": "ढकारस्य संहितायाम् ढकारे परे लोपः भवति । ", "sd": "संहितायाम् ढकारात् परः पुनः ढकारः विद्यते चेत् प्रथमढकारस्य लोपः भवति इति अस्य सूत्रस्य अर्थः । इदं सूत्रम् नित्यम् <<ष्टुना ष्टुः>> [[8.4.41]] इत्यस्मात् अनन्तरम् एव प्रयुज्यते । अपि च, अस्य सूत्रस्य प्रयोगः केवलम् तकारादि-प्रत्ययस्य विषये एव भवति । \nकानिचन उदाहरणानि एतादृशानि —\n1. गुह्-धातोः निष्ठाप्रत्ययस्य प्रक्रियायाम् ढकारे परे ढकारलोपः —\n\nगुहूँ (संवरणे, भ्वादिः, <{1.1043}>)\n→ गुह् + क्त [<<निष्ठा>> [[3.2.102]] इति क्त-प्रत्ययः]\n→ गुढ् + त [हकारस्य <<हो ढः>> [[8.2.31]] इति झलि परे ढकारः]\n→ गुढ् + ध [<<झषस्तथोर्धोऽधः>> [[8.2.40]] इत्यनेन तकारस्य धकारः]\n→ गुढ् + ढ [<<ष्टुना ष्टुः>> [[8.4.41]] इति ष्टुत्वे धकारस्य ढकारः]\n→ गुढ [<<ढो ढे लोपः>> [[8.3.13]] इति ढकारे परे ढकारस्य लोपः ।]\n→ गूढ [<<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] इति उकारस्य दीर्घः ।]\n\nअत्र प्रक्रियायाम् <<ढो ढे लोपः>> [[8.3.13]] इत्यस्मात् अनन्तरम् <<सहिवहोरोदवर्णस्य>> [[6.3.112]] इति सूत्रम् प्रवर्तते ।\nअनया एव प्रक्रियया लिह् + क्त → लीढ, मुह् + क्त → मूढ, मिह् + क्त → मीढ इत्येतानि अनेकानि रूपाणि सिद्ध्यन्ति । \n2. गुह्-धातोः लुट्लकारस्य प्रक्रियायाम् ढकारे परे ढकारलोपः —\n\nगुहूँ (संवरणे, भ्वादिः, <{1.1043}>)\n→ गुह् + लुट् [<<अनद्यतने लुट्>> [[3.3.15]] इति लुट्-लकारः]\n→ गुह् + तिप् [<<तिप्तस्झि...>> [[3.4.78]] इत्यनेन प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]\n→ गुह् + डा [<<लुटः प्रथमस्य डारौरसः>> [[2.4.85]] इति डा-आदेशः । अत्र <<अनेकाल्शित्सर्वस्य>> [[1.1.55]] इति सर्वादेशः भवति यतः आदेशसमये डा-इत्यस्य प्रत्ययसंज्ञा नास्ति अतः <<चुटू>> [[1.3.7]] इति डकारस्य इत्संज्ञा न भवति, अतश्च तस्य लोपः अपि न सम्भवति ।]\n→ गुह् + आ [स्थानिवद्भावेन डा-आदेशस्य प्रत्ययसंज्ञायाम् जातायाम् <<चुटू>> [[1.3.7]] इति डकारस्य इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ गुह् + तास् + आ [<<स्यतासी लृलुटोः>> [[3.1.33]] इति तास्-विकरणप्रत्ययः]\n→ गुह् + त् + आ [डित्-प्रत्यये परे <<टेः>> [[6.4.143]] इति अङ्गस्य टिसंज्ञकस्य लोपः]\n→ गुढ् + ध् + आ [<<झषस्तथोर्धोऽधः>> [[8.2.40]] इत्यनेन तकारस्य धकारः]\n→ गुढ् + ढ् + आ [<<ष्टुना ष्टुः>> [[8.4.41]] इति ष्टुत्वे धकारस्य ढकारः]\n→ गु + ढ् + आ [<<ढो ढे लोपः>> [[8.3.13]] इति ढकारे परे ढकारस्य लोपः ।]\n→ गूढा [<<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] इति उकारस्य दीर्घः ।]\n\nअत्र प्रकृतसूत्रस्य प्रयोगः तिङन्तप्रक्रियायाम् दर्शितः अस्ति । अत्रापि प्रक्रियायाम् <<ढो ढे लोपः>> [[8.3.13]] इत्यस्मात् अनन्तरम् <<सहिवहोरोदवर्णस्य>> [[6.3.112]] इति सूत्रम् प्रवर्तते ।\n3. वह्-धातोः तृच्-प्रत्ययान्तप्रक्रियायाम् ढकारे परे ढकारलोपः —\n\nवह (प्रापणे, भ्वादिः <{1.1159}>)\n→ वह् + तृच् [<<ण्वुल्तृचौ>> [[3.1.133]] इति तृच्-प्रत्ययः]\n→ वढ् + तृ [हकारस्य <<हो ढः>> [[8.2.31]] इति झलि परे ढकारः]\n→ वढ् + धृ [<<झषस्तथोर्धोऽधः>> [[8.2.40]] इत्यनेन तकारस्य धकारः]\n→ वढ् + ढृ [<<ष्टुना ष्टुः>> [[8.4.41]] इति ष्टुत्वे धकारस्य ढकारः]\n→ व ढृ [<<ढो ढे लोपः>> [[8.3.13]] इति ढकारे परे ढकारस्य लोपः ।]\n→ वोढृ [<<सहिवहोरोदवर्णस्य>> [[6.3.112]] इति ओकारः]\n\nअत्र प्रक्रियायाम् <<ढो ढे लोपः>> [[8.3.13]] इत्यस्मात् अनन्तरम् <<सहिवहोरोदवर्णस्य>> [[6.3.112]] इति सूत्रम् प्रवर्तते ।\n4. तृह्-धातोः निष्ठाप्रत्ययस्य प्रक्रियायाम् ढकारे परे ढकारलोपः —\n\nतृहूँ (हिंसायाम्, तुदादिः, <{6.0075}>)\n→ तृह् + क्त [<<निष्ठा>> [[3.2.102]] इति क्त-प्रत्ययः]\n→ तृढ् + त [हकारस्य <<हो ढः>> [[8.2.31]] इति झलि परे ढकारः]\n→ तृढ् + ध [<<झषस्तथोर्धोऽधः>> [[8.2.40]] इत्यनेन तकारस्य धकारः]\n→ तृढ् + ढ [<<ष्टुना ष्टुः>> [[8.4.41]] इति ष्टुत्वे धकारस्य ढकारः]\n→ तृढ [<<ढो ढे लोपः>> [[8.3.13]] इति ढकारे परे ढकारस्य लोपः ।]\n\nअत्र प्रक्रियायाम् <<ढो ढे लोपः>> [[8.3.13]] इत्यस्मात् अनन्तरम् न किञ्चन अन्यत् सूत्रम् प्रवर्तते ।\nआश्रयात् सिद्धत्वम् ; तस्य प्रयोजनम् चिन्त्यम्\nप्रकृतसूत्रस्य प्रयोगः नित्यम् <<ष्टुना ष्टुः>> [[8.4.41]] इत्यस्मात् अनन्तरम् एव भवितुम् अर्हति । अतः प्रकृतसूत्रस्य कृते <<ष्टुना ष्टुः>> [[8.4.41]] इति सूत्रम् आश्रयात् सिद्धम् स्वीक्रियते । अपि च, प्रकृतसूत्रस्य प्रयोगात् अनन्तरम् यदि प्रक्रिया अग्रे सम्भवति, तर्हि नित्यम् <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] अथ वा <<सहिवहोरोदवर्णस्य>> [[6.3.112]] इत्येव सूत्रम् प्रयोक्तुं शक्यते । अतः प्रकृतसूत्रम् <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] तथा च <<सहिवहोरोदवर्णस्य>> [[6.3.112]] एतयोः कृते आश्रयात् सिद्धम् ज्ञेयम् । \nवस्तुतस्तु, <<ढो ढे लोपः>> [[8.3.13]] इति सूत्रम् <<ष्टुना ष्टुः>> [[8.4.41]] इत्यस्मात् अनन्तरम् संस्थाप्यते चेदपि कुत्रापि कोऽपि दोषः न जायते । तथापि इदं सूत्रम् पाणिनिना अष्टमाध्यायस्य तृतीयपादे स्थापितम् अस्ति । एतादृश्याः सूत्ररचनायाः प्रयोजनम् चिन्त्यम् एव । " }, "83014": { "sa": "रेफस्य संहितायाम् रेफे परे लोपः भवति । ", "sd": "संहितायाम् रेफात् परः पुनः रेफः विद्यते चेत् प्रथमरेफस्य लोपः भवति इति अस्य सूत्रस्य अर्थः । इदम् सूत्रम् <<पदस्य>> [[8.1.16]] अस्मिन् अधिकारे विद्यते, अतः पदान्तरेफस्य रेफे परे अनेन सूत्रेण लोपः सम्भवति । कासुचित् (क्लिष्टासु) प्रक्रियासु तु अपदान्तरेफस्य अपि रेफे परे अनेन सूत्रेण लोपः कृतः दृश्यते । कानिचन उदाहरणानि एतानि —\nपदान्तरेफस्य रेफे परे लोपः —\n1)पुनर् इत्यस्य अव्ययस्य पदान्तरेफस्य 'रमते' इति शब्दे परे प्रकृतसूत्रेण लोपः भवति —\n\nपुनर् + रमते\n→ पुन रमते [<<रो रि>> [[8.3.14]] इति रेफस्य लोपः]\n→ पुना रमते [<<ढ्रलोपे पूर्वस्य दीर्घोणः>> [[6.3.111]] इति अकारस्य दीर्घः]\n\n2) सुँ-प्रत्ययात् निर्मितस्य पदान्तरेफस्य रेफे परे प्रकृतसूत्रेण लोपः भवति —\n\nशम्भु + सुँ + राजते\n→ शम्भु रुँ + राजते [<<ससजुषोः रुँः>> [[8.2.66]] इति रुँत्वम्]\n→ शम्भु र् + राजते [इत्संज्ञालोपः]\n→ शम्भु राजते [<<रो रि>> [[8.3.14]] इति रेफस्य लोपः]\n→ शम्भू राजते [<<ढ्रलोपे पूर्वस्य दीर्घोणः>> [[6.3.111]] इति अकारस्य दीर्घः]\n\n3) ङसिँ-प्रत्ययस्य अन्ते विद्यमानस्य पदान्तरेफस्य रेफे परे प्रकृतसूत्रेण लोपः भवति —\n\nमातृ + ङस् + रक्षा\n→ मातृ + अस् + रक्षा [इत्संज्ञालोपः]\nमातुर् स् + रक्षा [<<ऋत उत्>> [[6.1.111]] इति ऋकार-अकारयोः एकः उकारादेशः, सः च <<उरण् रपरः>> [[1.1.51]] इति रपरः]\n→ मातुर् रक्षा [<<रात्सस्य>> [[8.2.24]] इति रेफात् परस्य सकारस्य लोपः । अवशिष्टस्य 'मातुर्' इत्यस्य <<सुप्तिङन्तं पदम्>> [[1.4.14]] इति पदसंज्ञा भवति ।]\n→ मातु रक्षा [<<रो रि>> [[8.3.14]] इति रेफस्य लोपः]\n→ मातू रक्षा [<<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] इति दीर्घः]\n\n4) 'निर्' इति प्रादिसंज्ञकस्य अन्ते विद्यमानस्य पदान्तरेफस्य रेफे परे प्रकृतसूत्रेण लोपः भवति —\n\nनिर्गतः रसः यस्य सः [<<अनेकमन्यपदार्थे>> [[2.2.24]] इति बहुव्रीहिसमासः]\n→ निर् + रस [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुँलोपः]\n→ नि रस [<<रो रि>> [[8.3.14]] इति रेफस्य रेफे परे लोपः]\n→‌ नीरस [<<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] इति दीर्घः]\n\nअपदान्तरेफस्य रेफे परे लोपः — \nस्पर्धँ (सङ्घर्षे) इति भ्वादिगणस्य धातुः । अस्य धातोः यङ्लुगन्तस्य लङ्लकारस्य मध्यमपुरुषएकवचनस्य रूपम् अपास्पाः इत्यस्य प्रक्रियायाम् इदं सूत्रम् अपदान्तरेफस्य लोपार्थम् प्रयुज्यते । प्रक्रिया इयम् —\n\nस्पर्धँ (सङ्घर्षे,भ्वादिः <{1.3}>)\n→ स्पर्ध् + यङ् [<<धातोरेकाचो हलादे क्रियासमभिहारे यङ्>> [[3.1.22]] इति पौनःपुन्यार्थं यङ्-प्रत्ययः]\n→ स्पर्ध् + स्पर्ध् + यङ् [<<सन्यङोः>> [[6.1.9]] इत्यनेन यङ्-प्रत्यये परे अङ्गस्य एकाच्-अवयवस्य द्वित्वम् भवति ।]\n→ प + स्पर्ध् + यङ् [<<शर्पूर्वाः खयः>> [[7.4.61]] इति अभ्यासस्य खय्-वर्णः अवशिष्यते ]\n→ पा + स्पर्ध् + यङ् [<<दीर्घोऽकितः>> [[7.4.83]] इति अभ्यासस्य दीर्घः]\n→ पा + स्पर्ध् [<<यङोचि च>> [[2.4.74]] इति यङ्-प्रत्ययस्य बहुलम् लुक् । चकारग्रहणसामर्थ्यात् अच्-प्रत्ययस्य अनुपस्थितौ अपि अयं लुक् भवति ।]\n→ पा + स्पर्ध् [<<सनाद्यन्ताः धातवः>> [[3.1.32]] इति धातुसंज्ञा]\n→ पा + स्पर्ध् + लङ् [<<अनद्यतने लङ्>> [[3.2.111]] इति लङ्]\n→ अट् + पा + स्पर्ध् + लङ् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ + पा + स्पर्ध् + सिप् [<<तिप्तस्झि...>> [[3.4.78]] इति मध्यमपुरुषैकवचनस्य विवक्षायाम् सिप्-प्रत्ययः]\n→ अ + पा + स्पर्ध् + शप् + सि [<<कर्तरि शप्>> [[3.1.68]] इति शप्-प्रत्ययः]\n→ अ + पा + स्पर्ध् + सि [<<चर्करीतं च>> <{2.76}> इति धातुपाठस्थ-गणसूत्रेण यङ्-लुगन्ताः अदादिगणे स्वीक्रियन्ते; अतः तेभ्यः विहितस्य शप्-प्रत्ययस्य <<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति लुक् भवति ।]\n→ अ + पा + स्पर्ध् + स् [<<इतश्च>> [[3.4.100]] इति प्रत्ययस्य इकारस्य लोपः]\n→ अ + पा + स्पर्ध् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति सिप्-प्रत्ययस्य अपृक्तसकारस्य लोपः । अत्र सकारलोपे कृते अपि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यनेन प्रत्ययविशिष्टम् कार्यम् अवश्यम् प्रवर्तते, अतः अत्र अवशिष्टस्य अंशस्य <<सुप्तिङन्तं पदम्>> [[1.4.14]] इत्यनेन पदसंज्ञा विधीयते ।]\n→ अ + पा + स्पर्द् [<<झलां जशोऽन्ते>> [[8.2.39]] इति पदान्ते झल्-वर्णस्य जश्त्वम् । अत्र <<संयोगान्तस्य लोपः>> [[8.2.23]] इति संयोगान्तलोपः नैव प्रवर्तते, <<रात्सस्य>> [[8.2.24]] इति नियमात् ।]\n→ अ + पा + स्पर् रुँ [<<दश्च>> [[8.2.75]] इति दकारस्य रुँत्वम्]\n→ अ + पा + स्प र् [<<रो रि>> [[8.3.14]] इति रेफे परे अपदान्तस्य रेफस्य लोपः]\n→ अ + पा + स्पा र् [<<ढ्रलोपे पूर्वस्य दीर्घोणः>> [[6.3.111]] इति अकारस्य दीर्घः]\n→ अ + पा + स्पाः [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति रेफस्य विसर्गः]\n→ अपास्पाः\n\nआश्रयात् सिद्धत्वम् ; तस्य प्रयोजनम् चिन्त्यम्\nप्रकृतसूत्रेण रेफस्य लोपे कृते, तस्मात् रेफात् पूर्वम् अण्-वर्णः विद्यते चेत् <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] इत्यनेन तस्य दीर्घादेशः क्रियते । अतः प्रकृतसूत्रम् <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> एतस्य कृते आश्रयात् सिद्धम् ज्ञेयम् । \nवस्तुतस्तु, <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> इति सूत्रस्य सपादसप्ताध्याय्याम् स्थापनस्य प्रयोजनम् चिन्त्यम् एव । <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> इत्यस्मात् अनन्तरम् केवलम् <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इत्यस्यैव प्रयोगः भवितुम् अर्हति, अतः <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] इति सूत्रम् <<रो रि>> [[8.3.14]] तथा च <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इत्येतयोः मध्ये संस्थाप्यते चेदपि नैव दोषाय । एतादृशं क्रियते चेत् <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> अस्मिन् सूत्रे विद्यमानस्य 'पूर्वस्य' इति शब्दस्य आवश्यकता अपि न वर्तते इति अन्यः लाभः अपि जायते । अस्मिन् विषये <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> [[6.3.111]] इत्यत्रापि विवरीतम् अस्ति ।\n\n\n " }, "83015": { "sa": "पदान्ते विद्यमानस्य रेफस्य संहितायाम् खर्-वर्णे परे अथवा अवसाने परे विसर्गादेशः भवति । ", "sd": "अष्टाध्याय्यां विद्यमानम् इदम् विसर्ग-निर्माणस्य (एकम् एव) सूत्रम् । पदान्तरेफस्य अनेन सूत्रेण अवसाने परे, तथा च संहितायाम् खर्-वर्णे परे विसर्गादेशः भवति ।\n\nखर् = कर्कशव्यञ्जनानि = वर्गप्रथमाः, वर्गद्वितीयाः, शषसाः = ख्, फ्, छ्, ठ्, थ्, च, ट्, त्, क्, प्, श्, ष्, स् । खर्-प्रत्याहारे हकारः न अन्तर्भवति । \n\nअवसानम् इति संज्ञा <<विरामोऽवसानम्>> [[1.4.110]] इति सूत्रेण दीयते ।\nकानिचन उदाहरणानि एतादृशानि —\n1. राम-शब्दात् विहितस्य सुँ-प्रत्ययस्य रेफादेशे कृते तस्य अवसाने परे विसर्गः — \n\nराम + सुँ [प्रथमैकवचनस्य प्रत्ययः]\n→ राम + स् [उकारस्य <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इति इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति लोपः। ]\n→ राम + रुँ [पदान्तसकारस्य <<ससजुषो रुँ>> [[8.2.66]] इति रुँत्वम् ]\n→ राम + र् [उकारस्य <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इति इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति लोपः। ]\n→ रामः [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति अवसाने परे रेफस्य विसर्गः]\n\n2. पुनर् इति अव्ययस्य अन्ते विद्यमानस्य रेफस्य खर्-वर्णे परे विसर्गादेशः\n\nपुनर् + करोति\n→ पुनः + करोति [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति खर्-वर्णे परे रेफस्य विसर्गः ]\n\n3.विद्वान् तपति इत्यत्र संहितायाम् पदान्तनकारस्य <<नश्छव्यप्रशान्>> [[8.3.7]] इति रुत्वे, प्रकृतसूत्रेण खर्-वर्णे परे तस्य विसर्गादेशः सम्भवति । प्रक्रिया इयम् —\n\nविद्वान् + तपति\n→ विद्वारुँ + तपति [<<नश्छव्यप्रशान्>> [[8.3.7]] इति पदान्तनकारस्य रुँत्वम् ]\n→ विद्वाँरुँ + तपति / विद्वांरुँ + तिष्ठति [<<अत्रानुनासिकः पूर्वस्य तु वा>> [[8.3.2]] इति विकल्पेन अनुनासिकः । अनुनासिकाभावे <<अनुनासिकात् परोऽनुस्वारः>> [[8.3.4]] इति अनुस्वारः]\n→ विद्वाँर् + तपति / विद्वांर् + तपति [उकारस्य <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इति इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति लोपः। ]\n→ विद्वाँः + तपति / विद्वांः + तपति [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n→ विद्वाँस् + तपति / विद्वांस् + तपति [<<विसर्जनीयस्य सः>> [[8.3.34]] इति सकारादेशः]\n→ विद्वाँस्तपति / विद्वाँतस्तपति ।\n\n4. गॄ-धातोः क्विप्-प्रत्यये कृते 'गिर्' इति प्रातिपदिकम् सिद्ध्यति, तस्य प्रथमैकवचनस्य रूपे रेफस्य प्रकृतसूत्रेण विसर्गः भवति । प्रक्रिया इयम् — \n\nगॄ + क्विप् + सुँ [<<क्विप् च>> [[3.2.76]] इति क्विप्-प्रत्ययः । ततः प्रथमैकवचनस्य सुँ-प्रत्ययः]\n→ गिर् + स् [क्विप्-प्रत्ययस्य ककारपकारयोः इत्संज्ञा, लोपः । वकारोत्तरः इकारः उच्चारणार्थः, अतः सोऽपि लुप्यते । अपृक्तवकारस्य <<वेरपृक्तस्य>> [[6.1.67]] इति लोपः भवति ।]\n→ गिर् + स् [<<ॠत इद्धातोः>> [[7.1.100]] इति ॠकारस्य इकारादेशः भवति, स च<<उरण् रपरः>> [[1.1.51]] इति रपरः विधीयते ।]\n→ गिर् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति सुँ-प्रत्ययस्य लोपः । अस्मिन् लोपे कृते अपि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]]\nइत्यनेन 'गिर्' इत्यस्य <<सुप्तिङन्तं पदम्>> [[1.4.14]] इति पदसंज्ञा भवति । ]\n→ गीर् [<<र्वोरुपधाया दीर्घ इकः>> [[8.2.76]] इति दीर्घः]\n→ गीः [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति अवसाने परे पदान्तरेफस्य विसर्गः ।\n\n5. दकारान्तस्य धातोः सिप्-प्रत्यये परे <<दश्च>> [[8.2.75]] इत्यनेन रुत्वम् भवति, ततः प्रकृतसूत्रेण रेफस्य विसर्गादेशः सम्भवति । प्रक्रिया इयम् —\n\nभिदिँर् (विदारणे, रुधादिः, <{7.2}>) \n→ भिद् [ इति वार्त्तिकेन 'इँर्' इत्यस्य इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ भिद् + लङ् [<<अनद्यतने लङ्>> [[3.2.111]] इति लङ्लकारः]\n→ अट् + भिद् + लङ् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> [[6.4.71]] इति अडागमः]\n→ अ + भिद् + सिप् [मध्यमपुरुषैकवचनस्य विवक्षायाम् <<तिप्तस्झि...>> [[3.4.78]] इत्यनेन सिप्-प्रत्ययः]\n→ अ + भि श्नम् द् + सि [<<रुधादिभ्यः श्नम्>> [[3.1.78]] इति श्नम्-प्रत्ययः]\n→ अ + भि न द् + स् [<<इतश्च>> [[3.4.100]] इति इकारलोपः]\n→ अ + भि न द् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति अपृक्तसकारस्य लोपः]\n→ अ + भि न रुँ [<<दश्च>> [[8.2.75]] इति पदान्तदकारस्य वैकल्पिकं रुँत्वम्]\n→ अ + भि न र् [उकारस्य <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इति इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति लोपः। ]\n→ अभिनः [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति अवसाने परे रेफस्य विसर्गः]\n\nदलकृत्यम्\n1. खरवसानयोः इति किमर्थम्? खर्-भिन्ने वर्णे परे रेफस्य विसर्गादेशः न भवति । यथा - पुनर् + गच्छति →‌ पुनर्गच्छति ।\n2. पदान्तरेफस्य इति किमर्थम्? अपदान्तरेफस्य खर्-वर्णे परे विसर्गः न भवति । यथा, पार्थ, अर्क, सर्प, वर्ष एतेषु शब्देषु रेफस्य विसर्गः न भवति ।\nअष्टाध्याय्यां पर्यायवाचिशब्दानां प्रयोगे गौरवलाघवचर्चा नाद्रीयते । The discussion of अल्पाक्षरत्वम् is typically not done while comparing synonyms, even inside Ashtadhyayi. अतः अस्मिन् सूत्रे विसर्गः इति लघुशब्दस्य स्थाने विसर्जनीयः इति बृहच्छब्दः प्रयुक्तः दृश्यते चेदपि अयम् न कश्चन गौरवदोषः । \nबहिरङ्गलक्षणस्य रेफस्य अन्तरङ्गलक्षणः विसर्गः न भवति \nयत्र प्रक्रियायाम् बहिरङ्गनिमित्तकः रेफः जायते, तत्र तस्य रेफस्य अन्तरङ्गम् निमित्तम् आश्रित्य रेफस्य विसर्गादेशः नैव सम्भवति, यतः <ऽअसिद्धं बहिरङ्गमन्तरङ्गेऽ> इत्यनया परिभाषया बहिरङ्गं कार्यम् अन्तरङ्गकार्यं प्रति असिद्धम् भवति । अत्र द्वे उदाहरणे अधः दत्ते स्तः —\n1. नृपतेः अपत्यम् अस्मिन् अर्थे नृपति-शब्दात् तद्धितसंज्ञकः अण्-प्रत्ययः भवति । नृपति + अण् इति स्थिते प्रक्रियायाम् <<तद्धितेष्वचामादेः>> [[7.2.117]] इत्यनेन आदिवृद्धिं तथा च <<यस्येति च>> [[6.4.148]] इत्यनेन अन्तिम-इवर्णस्य लोपं कृत्वा नार्-पत्य इति सिद्ध्यति । अत्र 'नार्' इति पृथक् पदम् अस्ति, अपि च तस्य अन्ते विद्यमानात् रेफात् परः संहितायाम् खर्-वर्णः (पकारः) अवश्यं विद्यते । अतः अत्र <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इत्यनेन रेफस्य अनिष्टः विसर्गादेशः प्राप्नोति । तस्य निवारणार्थम् <ऽअसिद्धं बहिरङ्गमन्तरङ्गेऽ> इति परिभाषा प्रयुज्यते । अत्र रेफस्य निमित्तम् (तद्धितसंज्ञकः अण् वर्णः) विसर्गस्य निमित्तस्य (पकारस्य) अपेक्षया बहिरङ्गः अस्ति (इत्युक्ते — दूरे विद्यते, प्रक्रियायाम् अनन्तरं च विधीयते) अतः रेफविधानम् विसर्गादेशस्य अपेक्षया बहिरङ्गम् कार्यम् अस्ति । <ऽअसिद्धं बहिरङ्गमन्तरङ्गेऽ> इति परिभाषया इदं बहिरङ्गकार्यम् अन्तरङ्गकार्यं प्रति असिद्धम् भवति, अतः अत्र रेफविधानम् विसर्गनिर्माणार्थम् नैव दृश्यते । अतः एव नार्-पत्य अस्मिन् उदाहरणे रेफस्य विसर्गादेशः नैव सम्भवति, अपि तु केवलं वर्णमेलनं कृत्वा नार्पत्य इत्येव शब्दः सिद्ध्यति ।\n2. देवानाम् ऋषिः इत्यस्मिन् अर्थे देव-शब्दस्य अकारस्य ऋषि-शब्दस्य ऋकारेण सह <<आद्गुणः>> [[6.1.87]] इति एकादेशं कृत्वा देव्-अर्-षि इति जायते । अत्र <<अन्तादिवच्च>> [[6.1.85]] इति सूत्रेण अन्तवद्भावं प्रयुज्य 'देवर्' इति शब्दः पूर्वपदत्वं प्राप्नोति, अतश्च पदान्ते विद्यमानस्य रेफस्य खर्-वर्णे परे (षकारे परे) अनिष्टः विसर्गादेशः प्राप्नोति । अत्रापि <ऽअसिद्धं बहिरङ्गमन्तरङ्गेऽ> इत्येव परिभाषां स्वीकृत्य अस्य निवारणं कर्तुं शक्यते । अत्र रेफस्य निर्माणार्थम् 'देव' तथा 'ऋषि' इति द्वे पदे आवश्यके, अतः रेफः पदद्वयाश्रितः अस्ति । विसर्गादेशार्थम् तु केवलम् षकारः निमित्तरूपेण आवश्यकम्, अतः विसर्गः एकपदाश्रितः अस्ति । इत्युक्ते, रेफनिर्माणविधिः विसर्गादेशस्य अपेक्षया बहिरङ्गः वर्तते । अस्यां स्थितौ <ऽअसिद्धं बहिरङ्गमन्तरङ्गेऽ> इत्यनया परिभाषया अयं रेफादेशः विसर्गनिर्माणार्थम् असिद्धः भवति, अतश्च अस्मात् रेफात् विसर्गनिर्माणम् नैव सम्भवति । एवमेव, सुखेन ऋर्तः इत्यस्मिन् अर्थे <<एत्येधत्यूठ्सु>> [[6.1.89]] इत्यत्र पाठितेन इति वार्त्तिकेन सुख-शब्दस्य ऋत-शब्देन सह वृद्ध्येकादेशे कृते सुख्-आर्-त इत्यवस्थायाम् सुखार् इत्यत्र पदान्ते विद्यमानस्य रेफस्य तकारे परे <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति अनिष्टे विसर्गादेशे प्राप्ते एकपदाश्रितस्य विसर्गस्य कृते द्विपदाश्रितस्य वृद्ध्यादेशस्य असिद्धत्वं स्वीकृत्य अयम् अनिष्टः विसर्गादेशः निवार्यते । प्रार्च्छति इत्यस्मिन् उदाहरणे अपि अनेनैव कारणेन विसर्गादेशः न भवति । पाणिनिना स्वयमपि <<उभयथर्क्षु>> [[8.3.8]] (= उभयथा + ऋक्षुः), <<कर्तरि चर्षिदेवतयोः>> [[3.2.186]] (= च + ऋषिदेवतयोः) इत्यादिसूत्रेषु एकादेशे कृते तस्य असिद्धत्वं स्वीकृत्य विसर्गादेशः नैव क्रियते ।\nअस्मिन् सन्दर्भे प्रौढमनोरमायाम् शब्दरत्ने च केचन अन्ये परिहाराः अपि उक्ताः सन्ति, जिज्ञासुभिः ते तत्तत्स्थले एव द्रष्टव्याः । " }, "83016": { "sa": "सप्तमीबहुवचनस्य सुप्-प्रत्यये परे पदान्तरेफस्य तदा एव विसर्गः भवति यदा सः रेफः 'रुँ' इत्यस्मात् निर्मितः अस्ति । ", "sd": "<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति सूत्रेण पदान्तरेफस्य संहितायाम् खर्-वर्णे परे विसर्गादेशे प्राप्ते, प्रकृतसूत्रेण सप्तमीबहुवचनस्य सुप्-प्रत्यये परे सः नियम्यते । सप्तमीबहुवचनस्य सुप्-प्रत्यये परे केवलम् रुँ-इत्यस्मात् प्राप्तस्य रेफस्य एव विसर्गादेशः भवति, अन्यरूपेण सिद्धानाम् रेफाणाम् न — इति प्रकृतसूत्रस्य आशयः । उदाहरणे एते —\n1. गिर् शब्दस्य सप्तमीबहुवचस्य प्रक्रियायाम् रेफस्य सुप्-प्रत्यये परे विसर्गादेशः न भवति, यतः गिर् शब्दे विद्यमानः रेफः रुँ-इत्यस्मात् निर्मितः नास्ति अपितु 'ॠ' इत्यस्मात् निर्मितः वर्तते । प्रक्रिया इयम् —\n\nगॄ + क्विप् + सुप् [गॄ-धातोः <<क्विप् च>> [[3.2.76]] इति क्विप्-प्रत्ययः । क्विबन्तस्य <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञायां जातायाम् सप्तमीबहुवचनस्य सुप्-प्रत्ययः]\n→ गिर् + स् [क्विप्-प्रत्ययस्य ककारपकारयोः इत्संज्ञा, लोपः । वकारोत्तरः इकारः उच्चारणार्थः, अतः सोऽपि लुप्यते । अपृक्तवकारस्य <<वेरपृक्तस्य>> [[6.1.67]] इति लोपः भवति ।]\n→ गिर् + सु [<<ॠत इद्धातोः>> [[7.1.100]] इति ॠकारस्य इकारादेशः भवति, स च<<उरण् रपरः>> [[1.1.51]] इति रपरः विधीयते । अनेन प्रकारेण अत्र विद्यमानः रेफः ॠकारस्य आदेशरूपेण विहितः वर्तते, न हि रुँ-इत्यस्मात् निर्मितः ]।\n→ गिर् सु [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति सुँ-प्रत्ययस्य लोपः । अस्मिन् लोपे कृते अपि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]]\nइत्यनेन 'गिर्' इत्यस्य <<सुप्तिङन्तं पदम्>> [[1.4.14]] इति पदसंज्ञा भवति । ]\n→ गीर् सु [<<हलि च>> [[8.2.77]] इति दीर्घः]\n→ गीर्षु [<<आदेशप्रत्यययोः>> [[8.3.59]] इति षत्वम् । अत्र [<<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इत्यनेन गीर्-शब्दस्य पदसंज्ञायां सत्याम् <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इत्यनेन प्राप्तः विसर्गादेशः <<रोः सुपि>> [[8.3.16]] इत्यनेन नियम्यते, अतः अत्र ॠवर्णात् निर्मितस्य रेफस्य विसर्गादेशः न भवति ।]\n\n2. पयस् शब्दस्य सप्तमीबहुवचस्य प्रक्रियायाम् रुँ-इत्यस्मात् इत्संज्ञालोपं कृत्वा निर्मितस्य रेफस्य सुप्-प्रत्यये परे विसर्गादेशः भवति ।\n\nपयस् +सुप् [सप्तमीबहुवचनस्य प्रत्ययः]\n→ पयरुँ + सु [<<स्वादिष्वसर्वनामस्थाने>> [[1.4.17]] इत्यनेन पयस्-शब्दस्य पदसंज्ञा भवति । अतः <<ससजुषो रुँः>> [[8.2.66]] इत्यनेन पदान्तसकारस्य रुत्वं भवति ।]\n→ पयर् + सु [उकारस्य <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इति इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ पयः + सु [रुँ-इत्यस्य सुप्-प्रत्यये परे <<रोः सुपि>> [[8.3.16]] इति विसर्गः]\n→ पयःसु, पयस्सु [<<वा शरि>> [[8.3.36]] इति विकल्पेन सकारादेशः]\n" }, "83017": { "sa": "भोस्, भगोस्, अघोस् - एतेषाम् अन्ते विद्यमानस्य पदान्त-रुँ-वर्णस्य, तथा च अवर्णात् अनन्तरम् विद्यमानस्य पदान्त-रुँ-वर्णस्य संहितायाम् अश्-वर्णे परे यकारादेशः भवति ।", "sd": "\nअश् = सर्वे स्वराः + मृदुव्यञ्जनानि (वर्गतृतीयचतुर्थपञ्चमाः, अन्तःस्थाः, हकारः) । खर्-प्रत्याहास्थान् वर्णान् विहाय अन्ये सर्वे वर्णाः सर्वे अश्-प्रत्याहारे विद्यन्ते ।\n\nपदान्ते विद्यमानस्य रुँवर्णस्य प्रकृतसूत्रेण द्वयोः स्थलयोः यकारादेशः विधीयते । क्रमेण विवरणम् एतादृशम् —\n1. भोस्, भगोस्, अघोस् एतेषाम् अन्ते विद्यमानस्य रुँ-इत्यस्य यकारादेशः \nभोस्, भगोस् तथा च अघोस् —एते त्रयः शब्दाः निपाताः (अतश्च, अव्ययसंज्ञकाः, अतश्च पदसंज्ञकाः) सन्ति । <<चादयोऽसत्वे>> [[1.4.57]] इत्यत्र निर्दिष्टस्य चादिगणस्य आकृतिगणत्वात् एते शब्दाः पण्डितैः तत्रैव समाविश्यन्ते । एते त्रयः अपि शब्दाः सम्बोधनवाचकाः सन्ति । सामान्यरूपेण भोस् इति अव्ययम् हे अस्मिन् अर्थेे मनुष्याणाम् सम्बोधनार्थम्; भगोस् इति अव्ययम् भगवन् अस्मिन् अर्थे देवानाम् सम्बोधनार्थम्, तथा च अघोस् इति अव्ययम् पापिन् अस्मिन् अर्थे राक्षसानाम् सम्बोधनार्थम् उपयुज्यते । एतेषाम् सर्वेषाम् अन्ते विद्यमानस्य सकारस्य <<ससजुषो रुः>> [[8.2.66]] इत्यनेन रुँत्वे कृते, अश्-वर्णे परे प्रकृतसूत्रेण तस्य यकारादेशः भवति । उदाहरणानि एतानि —\n1. भोस् जनाः इत्यत्र यकारनिर्माणम् —\n\nभोस् जनाः\n→ भोरुँ जनाः [<<ससजुषोः रुँः>> [[8.2.66]] इति पदान्तसकारस्य रुँत्वम् ।\n→ भोय् जनाः [<<भोभगोअघोअपूर्वस्य योऽशि>> [[8.3.17]] इति रुँ-इत्यस्य अश्-वर्णे परे यकारादेशः]\n→ भो जनाः [<<हलि सर्वेषाम्>> [[8.3.22]] इति यकारलोपः]\n\n2. भगोस् अच्युत इत्यत्र यकारनिर्माणम् —\n\nभगोस् अच्युत\n→ भगोरुँ अच्युत [<<ससजुषोः रुँः>> [[8.2.66]] इति पदान्तसकारस्य रुँत्वम् ]\n→ भगोय् अच्युत [<<भोभगोअघोअपूर्वस्य योऽशि>> [[8.3.17]] इति रुँ-इत्यस्य अश्-वर्णे परे यकारादेशः]\n→ भगो अच्युत [<<ओतो गार्ग्यस्य>> [[8.3.20]] इति यकारलोपः]\n\n3. अघोस् रावण इत्यत्र यकारनिर्माणम् —\n\nअघोस् रावण\n→ अघोरुँ रावण [<<ससजुषोः रुँः>> [[8.2.66]] इति पदान्तसकारस्य रुँत्वम् ]\n→ अघोय् रावण [<<भोभगोअघोअपूर्वस्य योऽशि>> [[8.3.17]] इति रुँ-इत्यस्य अश्-वर्णे परे यकारादेशः]\n→ अघो रावण [<<ओतो गार्ग्यस्य>> [[8.3.20]] इति यकारलोपः]\n\nअव्ययवाचिशब्देभ्यः सुप्-प्रत्यये कृते <<अव्ययादाप्सुपः>> [[2.4.82]] इत्यनेन तस्य लोपः भवति, ततश्च <<सुप्तिङन्तं पदम्>> [[1.4.14]] इति एतेषाम् पदसंज्ञा अपि भवति । अतः अव्यययानां नित्यम् पदत्वम् स्वीक्रियते । उपरि दत्तेषु उदाहरणेषु भोस्, भगोस्, अघोस् एते त्रयः अपि पदसंज्ञकाः सन्ति, अतः एतेषाम् अन्ते विद्यमानस्य सकारस्य रुँत्वम्, ततश्च यकारादेशः अपि सम्भवति ।\n2. अवर्णात् (अकारात् /आकारात्) अनन्तरम् विद्यमानस्य पदान्त-रुँ-इत्यस्य यकारादेशः \nअकारात् उत आकारात् अनन्तरम् पदान्ते रुँ-वर्णः विधीयते चेत् तस्य अश्-वर्णे परे यकारादेशः भवति । उदाहरणानि एतानि —\n1. देवा + जस् + गच्छन्ति इत्यत्र पदान्तसकारस्य रुँत्वे कृते तस्य प्रकृतसूत्रेण यकारादेशः भवति —\n\nदेवा जस् गच्छन्ति\n→ देवास् गच्छन्ति [<<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इति पूर्वसवर्णदीर्घः आकारः]\n→ देवारुँ गच्छन्ति [<<ससजुषोः रुँः>> [[8.2.66]] इति पदान्तसकारस्य रुँत्वम् ]\n→ देवाय् गच्छन्ति [<<भोभगोअघोअपूर्वस्य योऽशि>> [[8.3.17]] इति रुँ-इत्यस्य अश्-वर्णे परे यकारादेशः]\n→ देवा गच्छन्ति [<<हलि सर्वेषाम्>> [[8.3.22]] इति यकारलोपः]\n\n2. राम + सुँ + आसीत् इत्यत्र पदान्तसकारस्य रुँत्वे कृते तस्य प्रकृतसूत्रेण यकारादेशः भवति —\n\nराम सुँ आसीत्\n→ राम रुँ आसीत् [<<ससजुषोः रुँः>> [[8.2.66]] इति पदान्तसकारस्य रुँत्वम् ]\n→ रामय् आसीत् [<<भोभगोअघोअपूर्वस्य योऽशि>> [[8.3.17]] इति अश्-वर्णे परे यकारादेशः]\n→ राम आसीत् [<<लोपः शाकल्यस्य>> [[8.3.19]] इति यकारलोपः]\n\n3. देवाँ अच्छा सुमती (ऋग्वेदः ४.१.२) — इत्यत्र देवान्-शब्दस्य नकारस्य रुँत्वे कृते तस्य प्रकृतसूत्रेण यकारादेशः भवति —\n\nदेवान् + अच्छा\n→ देवारुँ + अच्छा [<<दीर्घादटि समानपादे>> [[8.3.9]] इति वैकल्पिकं रुँत्वम् ]\n→ देवाँरुँ + अच्छा [<<आतोऽटि नित्यम्>> [[8.3.3]] इति अनुनासिकत्वम]\n→ देवाँय् + अच्छा [<<भोभगोअघोअपूर्वस्य योऽशि>> [[8.3.17]] इति यकारादेशः]\n→ देवाँ अच्छा [<<लोपः शाकल्यस्य>> [[8.3.19]] इति यकारलोपः]\n\nदलकृत्यम्\n1. रुँ-वर्णस्य इति किमर्थम् ? पदान्ते विद्यमानस्य रेफस्य अनेन सूत्रेण यकारादेशः न भवति । यथा, पुनर् गच्छति इत्यत्र पदान्ते केवलं रेफः विद्यते, न हि रुँ-वर्णः, अतः संहितायाम् सत्याम् अपि अस्य रेफस्य अश्-वर्णे परे (गकारे परे) प्रकृतसूत्रेण यकारादेशः न भवति, अपि तु केवलम् वर्णमेलनम् कृत्वा पुनर्गच्छति इति रूपं सिद्ध्यति । \n2. अकारात् / आकारात् परस्य रुँ-वर्णस्य इति किमर्थम् ? यत्र रुँ-वर्णात् पूर्वम् अन्यः वर्णः विद्यते, तत्र प्रकृतसूत्रेण यकारादेशः न भवति । यथा, 'मुनि + सुँ + इति' इत्यत्र सुँ-प्रत्ययस्य रुँत्वे कृते तस्य यकारादेशः न भवति । प्रक्रिया इयम् —\n\nमुनि + सुँ + इति [प्रथमैकवचनस्य सुँ-प्रत्ययः]\n→ मुनि + रुँ + इति [<ससजुषो रुँः>> [[8.2.66]] इति रुँत्वम्]\n→ मुनि + र् + इति [<<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इति उकारस्य इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ मुनिरिति [अत्र पदान्त-रुँ-वर्णस्य अश्-वर्णे परे प्रकृतसूत्रेण यकारादेशः न भवति, यतः रेफात् पूर्वम् अवर्णः न विद्यते । अतः अत्र केवलम् वर्णमेलनं कृत्वा रूपं सिद्ध्यति ।]\n\n3. अश्-वर्णे परे इति किमर्थम् ? यदि पदान्त-रुँवर्णात् परः अश् वर्णः नास्ति, तर्हि तत्र प्रकृतसूत्रम् नैव प्रवर्तते । यथा, राम + सुँ + तरति इत्यत्र पदान्तसकारस्य रुँत्वे कृते अग्रे अश्-वर्णस्य अभावात् रुँ-इत्यस्य यकारादेशः न भवति —\n\nराम सुँ तरति\n→ राम रुँ तरति [<<ससजुषोः रुँः>> [[8.2.66]] इति पदान्तसकारस्य रुँत्वम् ]\n→ रामः तरति [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गादेशः । अत्र रुँ-वर्णात् परः अश्-वर्णः नास्ति अतः अत्र प्रकृतसूत्रं नैव प्रवर्तते ।]\n\nबाध्यबाधकभावः\nप्रकृतसूत्रेण अवर्णात् (अकारात् / आकारात्) परस्य रुँ-वर्णस्य अश्-वर्णे परे यकारादेशः विधीयते । परन्तु यत्र रुँ-वर्णात् पूर्वम् ह्रस्वः अकारः अस्ति, तत्र द्वयोः स्थलयोः प्रकृतसूत्रस्य सपादसप्ताध्याय्याः सूत्राभ्याम् बाधः भवति । एते स्थले एतादृशे —\n1. ह्रस्व-अकारात् परस्य पदान्त-रुँ-वर्णस्य ह्रस्व-अकारे परे <<अतो रोरप्लुतादप्लुते>> [[6.1.113]] इति उकारादेशः भवति । यथा —\n\nराम + सुँ + अस्ति\n→ राम + रुँ + अस्ति [<<ससजुषो रुः>> [[8.2.66]] इति रुँत्वम्]\n→ राम + उ + अस्ति [<<भोभगोअघोअपूर्वस्य योऽशि>> [[8.3.17]] इत्यनेन अश्-वर्णे परे पदान्त-रुँ-वर्णस्य यकारादेशे प्राप्ते; तस्य असिद्धत्वात् <<अतो रोरप्लुतादप्लुते>> [[6.1.113]] इति सपादसप्ताध्यायीसूत्रेण अत्र उकारादेशः भवति । <<अतो रोरप्लुतादप्लुते>> [[6.1.113]] इत्यस्य कृते <<ससजुषो रुः>> [[8.2.66]] इति सूत्रम् तु आश्रयात् सिद्धम् एव ज्ञेयम् ।]\n→ रामो अस्ति [<<आद्गुणः>> [[6.1.87]] इति गुणैकादेशः]\n→ रामोऽस्ति [<<एङः पदान्तादति>> [[6.1.109]] इति पूर्वरूपैकादेशः]\n\n2. ह्रस्व-अकारात् परस्य पदान्त-रुँ-वर्णस्य हश्-वर्णे परे (मृदुव्यञ्जने परे) <<हशि च>> [[6.1.114]] इति उकारादेशः भवति । यथा —\n\nराम + सुँ + गच्छति\n→ राम + रुँ + गच्छति [<<ससजुषो रुः>> [[8.2.66]] इति रुँत्वम्]\n→ राम + उ + गच्छति [<<भोभगोअघोअपूर्वस्य योऽशि>> [[8.3.17]] इत्यनेन अश्-वर्णे परे पदान्त-रुँ-वर्णस्य यकारादेशे प्राप्ते; तस्य असिद्धत्वात् <<हशि च>> [[6.1.114]] ] इति सपादसप्ताध्यायीसूत्रेण अत्र उकारादेशः भवति । <<हशि च>> [[6.1.114]] इत्यस्य कृते <<ससजुषो रुः>> [[8.2.66]] इति सूत्रम् तु आश्रयात् सिद्धम् एव ज्ञेयम् ।]\n→ रामो गच्छति [<<आद्गुणः>> [[6.1.87]] इति गुणैकादेशः]\n\nएतौ द्वौ अपवादौ / बाधकौ विहाय अन्यत्र सर्वत्र अवर्णात् परस्य पदान्त-रुँ-वर्णस्य अश्-वर्णे परे यकारादेशः एव भवति ।\nसूत्रे 'अशि' शब्दग्रहणम् व्यर्थम्\nअस्मिन् सूत्रे 'अशि' इति शब्दः वस्तुतः अनावश्यकः अस्ति । <<भोभगोअघोअपूर्वस्य यः>> इत्येव सूत्रम् क्रियते चेदपि खर्-वर्ण परे <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति पूर्वसूत्रेण रुँ-इत्यस्य विसर्गादेश: एव भवेत्, अतः तद्भिन्नस्थलेषु (इत्युक्ते, अश्-वर्णे परे एव) <<भोभगोअघोअपूर्वस्य यः>> इत्यनेन यकारादेशः सम्भवति । तथापि अस्मिन् सूत्रे 'अशि' इति विशिष्टनिर्देशः कृतः अस्ति । एतद् ग्रहणम् उत्तरसूत्रार्थम् अस्ति इति अस्य सूत्रस्य भाष्ये स्पष्टीक्रियते । \nसिद्धान्तकौमुद्यां दीक्षितेन तु — अशि इति ग्रहणम् विसर्गस्य यकारादेशनिषेधार्थम् क्रियते —‌ इति कश्चन पक्षः उपस्थापितः अस्ति । इत्युक्ते, राम सुँ तरति एतादृशेषु स्थलेषु सुँ-प्रत्ययस्य रुँत्वे कृते, ततः <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इत्यनेन रेफस्य विसर्गादेशे कृते, <<स्थानिवदादेशोऽनल्विधौ>> [[1.1.56]] इति स्थानिवद्भावेन विसर्गस्य स्थाने रुँ इति (अनेकाल्-स्थानिनम्) गृहीत्वा पदान्तरुँवर्णस्य <ऽपुनः प्रसङ्गविज्ञानात् सिद्धम्ऽ> इति परिभाषया <<भोभगोअघोअपूर्वस्य यः>> इत्यनेन यः यकारादेशः सम्भवति, तस्य निवारणार्थम् अस्मिन् सूत्रे 'अशि' इति स्पष्टः निर्देशः क्रियते — इति अत्र दीक्षितमतम् । अस्मिन् सन्दर्भे कौमुद्याम्, बालमनोरमायां च एतादृशं विवरणं लभ्यते —\n\nदेवाः सन्ति । यद्यपि इति यत्वस्य असिद्धत्वात् विसर्गः लभ्यते, तथापि विसर्गस्य स्थानिवद्भावेन रुत्वात् यत्वं स्यात् । न हि अयम् अल्विधिः । रोः इति समुदायरूपाश्रयणात् । — सिद्धान्तकौमुदी\nननु इह अश्-ग्रहणं व्यर्थम् । न च 'देवार्-सन्ति' इति स्थिते रेफस्य यत्वव्यावृत्त्यर्थं तद् इति वाच्यम् ; यत्वस्य असिद्धतया विसर्गे सति सत्वे 'देवास्सन्ति' इति सिद्धेः ।... अस्तु यत्वस्य असिद्धत्वात् रेफस्य विसर्गः, तथापि तस्य स्थानिवद्भावेन रुत्वात् यत्वं दुर्वारम् । अतः अश्-ग्रहणम् आवश्यकम् इति भावः । ननु यत्वविधौ विसर्गस्य स्थानिवद्भावेन कथं रुत्वम्, अनल्विधौ इति निषेधात् ? ... यद्यपि यत्वविधिः विसर्गस्थानिभूतं रेफम् आश्रयति, तथापि न अल्विधिः । ह्रस्वत्वादिरूपवर्णमात्रवृत्तिधर्मपुरस्कारेण स्थान्यलाश्रयत्वस्य तत्र विवक्षितत्वात् । प्रकृते च यत्वविधिः रुत्वेनैव रेफम् आश्रयति न तु रेफत्वेन, तथा सति प्रातरत्र इत्यादौ अतिव्याप्तेः । रुत्वं च रेफ-उकारसमुदायधर्मः, न तु रेफमात्रवृत्तिः । अतः यत्वे कर्तव्ये विसर्गस्य स्थानिवद्भावेन रुत्वात् यत्वं स्यात् । अतः अशि इति परनिमित्तम् आश्रितम् इति भावः ।— बालमनोरमा\n\nपरन्तु लघुशब्देन्दुशेखरे नागेशेन अस्य पक्षस्य खण्डनं कृतम् अस्ति । अस्मिन् विषये अधिकम् ज्ञातुम् मूलग्रन्थः एव द्रष्टव्यः ।\n'असन्धिः सौत्रः' इति दीक्षितमतम् चिन्त्यम्\nअस्मिन् सूत्रे प्रयुक्ताः भो, भगो, अघो एते शब्दाः सिद्धान्तकौमुद्याम् दीक्षितेन ओकारान्ताः स्वीकृताः सन्ति । अस्यां स्थितौ सूत्रनिर्माणसमये वस्तुतः <<एङः पदान्तादति>> [[6.1.109]] इत्यनेन पूर्वरूपैकादेशं कृत्वा भोभगोऽघोऽपूर्वस्य इति निर्देशः भवेत् । परन्तु पाणिनिना तादृशः सन्धिः अत्र न कृतः दृश्यते । अयम् असन्धिः सौत्रः (सूत्रविशिष्टः, भाषायाम् उपयोक्तुम् अनुचितः) — इति अत्र दीक्षितस्य अभिप्रायः वर्तते । अयं पक्षः वस्तुतस्तु चिन्त्यः एव । अत्र विद्यमानाः भो, भगो, अघो एते शब्दाः मूलरूपेण भोस्, भगोस्, अघोस् इति सकारान्ताः सन्ति, तेषु विद्यमानस्य सकारस्य रुत्वे यकारः, तस्य च लोपे कृते भोभगोअघोअपूर्वस्य इति शब्दः सिद्ध्यति, तत्र लोपस्य असिद्धत्वात् <<एङः पदान्तादति>> [[6.1.109]] इत्यस्य नैव प्रसक्तिः भवति, अतः अत्र भोभगोअघोअपूर्वस्य इत्येव शब्दः उचितः अस्ति । दीक्षितेन प्रौढमनोरमायां स्वयम् अपि अयमेव पक्षः अङ्गीकृतः दृश्यते ।\nभगोस्, अघोस् एतयोः पुंलिङ्गस्य एकवचनस्य रूपैः सह एव प्रयोगः\nभगोस् तथा अघोस् एतयोः निपातयोः केवलम् पुंलिङ्गे-एकवचनस्य रूपैः सह एव प्रयोगः साहित्ये उपलभ्यते — इति दीक्षितः प्रौढमनोरमायां वदति । अन्यैः रूपैः सह एतेषां प्रयोगः क्रियते चेत् न कश्चन व्याकरणदोषः, परन्तु तादृशाः प्रयोगाः नैव दृष्टाः — इति तस्य अत्र आशयः वर्तते । " }, "83018": { "sa": "शाकटायनस्य मतेन (इत्युक्ते विकल्पेन) पदान्त-वकार-यकारयोः स्थाने संहितायाम् अशि-परे लघूच्चारणौ वकार-यकारौ भवतः । ", "sd": "\nअश् = सर्वे स्वराः + मृदुव्यञ्जनानि (वर्गतृतीयचतुर्थपञ्चमाः, अन्तःस्थाः, हकारः) । खर्-प्रत्याहास्थान् वर्णान् विहाय अन्ये सर्वे वर्णाः सर्वे अश्-प्रत्याहारे विद्यन्ते ।\n\nअश्-वर्णे परे शाकटायनस्य मतेन पदान्तयकारस्य लघु-उच्चारण-यकारः तथा च पदान्तवकारस्य लघु-उच्चारण-वकारः भवति इति अस्य सूत्रस्य आशयः ।\nलघुप्रयन्ततरः / लघूच्चारणः वर्णः — यस्य वर्णस्य स्पष्टरूपेण उच्चारणम् न भवति, तथा च यस्य वर्णस्य उच्चारणे स्थानस्य (तालुनः/कण्ठस्य/मूर्ध्नः/दन्तानाम्/ओष्ठयोः) तथा च करणस्य (जिह्वामूलस्य / जिह्वामध्यस्य / जिह्वाग्रस्य) शैथिल्यम् (मन्द-प्रयत्नः) जायते, तादृशः वर्णः लघु-उच्चारणवर्णः नाम्ना ज्ञायते । A letter that is pronounced indistinctly and has a shorter duration is called लघु-उच्चारण वर्ण) । एतादृशः लघूच्चारणवर्णः पदान्तयकारस्य पदान्तवकारस्य च स्थाने प्रकृतसूत्रेण विधीयते । स्थानसाधर्म्यात् यकारस्य स्थाने लघूच्चारणयकारः ( य्॔ ), वकारस्य च स्थाने लघूच्चारणवकारः ( व्॔ ) विधीयते इत्याशयः । \nThe लघूच्चारणयकारः is shown as य्॔  and the लघूच्चारणवकारः is shown as व्॔  purely as a writing convention to show them separate from the normal यकार and वकार. It should be noted that this is not a standard convention. The script does not have separate marker for writing the लघूच्चारण versions, because these are mostly theoretical concepts these days.\nउदाहरणानि एतानि —\n1. भगोस् ईश्वराः इत्यत्र सकारस्य रुत्वे, यकारादेशे च तस्य स्थाने विकल्पेन लघूच्चारणः यकारः विधीयते । \n\nभोस् ईश्वराः \n→ भगोरुँ ईश्वराः [<<ससजुषो रुँः>> [[8.2.66]] इति पदान्तसकारस्य रुँत्वम् ]\n→ भगोय् ईश्वराः [<<भोभगोअघोअपूर्वस्य योऽशि>> [[8.3.17]] इति रुँ-इत्यस्य य्-आदेशः]\n→ भगोय्॔ ईश्वराः [<<व्योर्लघुप्रयत्नतरः शाकटायनस्य>> [[8.3.18]] इत्यनेन विकल्पेन यकारस्य अश्-वर्णे परे लघु-प्रयत्नतरः यकारः]\n→ भगोयी॔श्वराः [वर्णमेलनम्]\n\nअत्र भगोय् ईश्वराः अस्यां स्थितौ लघूच्चारणयकारः केवलम् विकल्पेन एव भवति । यत्र लघूच्चारणः यकारः न विधीयते, तत्र तु <<ओतो गार्ग्यस्य>> [[8.3.20]] इत्यनेन नित्यम् एव यकारलोपं कृत्वा भगो ईश्वराः इति अपि सिद्ध्यति ।\n2. देव + जस् + आयान्ति इत्यत्र सकारस्य रुत्वे, यकारादेशे च तस्य स्थाने विकल्पेन लघूच्चारणः यकारः विधीयते —\n\nदेव + जस् + आगच्छन्ति\n→ देवास् आगच्छन्ति [<<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इति पूर्वसवर्णदीर्घः आकारः]\n→ देवारुँ आगच्छन्ति [<<ससजुषो रुँः>> [[8.2.66]] इति पदान्तसकारस्य रुँत्वम् ]\n→ देवाय् आगच्छन्ति [<<भोभगोअघोअपूर्वस्य योऽशि>> [[8.3.17]] इति रुँ-इत्यस्य य्-आदेशः]\n→ देवाय्॔ आगच्छन्ति [<<व्योर्लघुप्रयत्नतरः शाकटायनस्य>> [[8.3.18]] इत्यनेन विकल्पेन यकारस्य अश्-वर्णे परे लघु-प्रयत्नतरः यकारः]\n→ देवाया॔गच्छन्ति ।\nयत्र लघूच्चारणः यकारः न विधीयते, तत्र देवाय् आगच्छन्ति अस्यां स्थितौ <<लोपः शाकल्यस्य>> [[8.3.19]] इत्यनेन विकल्पेन यकारलोपं कृत्वा देवा आगच्छन्ति इति सिद्ध्यति । तस्य अपि अभावे केवलं वर्णमेलनं कृत्वा देवायागच्छन्ति इत्यपि सिद्ध्यति । \n\n3. देव + जस् + यान्ति इत्यत्र सकारस्य रुत्वे, यकारादेशे च तस्य स्थाने विकल्पेन लघूच्चारणः यकारः विधीयते , तस्य च अग्रे नित्यम् लोपः अपि भवति —\n\nदेव + जस् + यान्ति\n→ देवास् यान्ति [<<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इति पूर्वसवर्णदीर्घः आकारः]\n→ देवारुँ यान्ति [<<ससजुषो रुँः>> [[8.2.66]] इति पदान्तसकारस्य रुँत्वम् ]\n→ देवाय् यान्ति [<<भोभगोअघोअपूर्वस्य योऽशि>> [[8.3.17]] इति रुँ-इत्यस्य य्-आदेशः]\n→ देवाय्॔ यान्ति [<<व्योर्लघुप्रयत्नतरः शाकटायनस्य>> [[8.3.18]] इत्यनेन विकल्पेन यकारस्य अश्-वर्णे परे लघु-प्रयत्नतरः यकारः]\n→ देवा यान्ति [<<हलि सर्वेषाम्>> [[8.3.22]] इति पदान्ते विद्यमानस्य लघूच्चारणयकारस्य लोपः]\nपक्षे देवाय् आगाच्छन्ति अस्यां स्थितौ अपि <<हलि सर्वेषाम्>> [[8.3.22]] इत्यनेन यकारलोपं कृत्वा देवा यान्ति इत्येव सिद्ध्यति ।\n\n4. द्वौ + एतौ अत्र आवादेशे कृते वकारस्य प्रकृतसूत्रेण विकल्पेन लघूच्चारणः वकारः भवति —\n\nद्वौ एतौ\n→ द्वाव् एतौ [<<एचोऽयवायावः>> [[6.1.78]] इति आवादेशः]\n→ द्वाव्॔ एतौ [<<व्योर्लघुप्रयत्नतरः शाकटायनस्य>> [[8.3.18]] इत्यनेन विकल्पेन वकारस्य अश्-वर्णे परे लघु-प्रयत्नतरः वकारः]\n→ द्वावे॔तौ\nलघूच्चारणवर्णस्य अभावे द्वाव् एतौ अस्यां स्थितौ <<लोपः शाकल्यस्य>> [[8.3.19]] इत्यनेन वकारलोपं कृत्वा द्वा एतौ इति सिद्ध्यति । तदभावे केवलं वर्णमेलनं कृत्वा द्वावेतौ इत्यपि सिद्ध्यति । \n" }, "83019": { "sa": "अवर्णात् (अकारात् / आकारात्) परस्य पदान्तवकारस्य पदान्तयकारस्य च संहितायाम् अश्-वर्णे परे शाकल्यस्य मतेन (इत्युक्ते विकल्पेन) लोपः भवति । ", "sd": "\nअश् = सर्वे स्वराः + मृदुव्यञ्जनानि (वर्गतृतीयचतुर्थपञ्चमाः, अन्तःस्थाः, हकारः) । खर्-प्रत्याहास्थान् वर्णान् विहाय अन्ये सर्वे वर्णाः सर्वे अश्-प्रत्याहारे विद्यन्ते ।\n\nअकारात्/आकारात् परस्य पदान्तयकारस्य/पदान्तवकारस्य अश्-वर्णे परे शाकल्यस्य मतेन (इत्युक्ते, विकल्पेन) लोपः भवति इति अस्य सूत्रस्य आशयः । कानिचन उदाहरणानि एतानि —\n1) वने + इति इति स्थिते एकारस्य अयादेशे कृते तस्य प्रकृतसूत्रेण विकल्पेन लोपः भवति ।\n\nवने इति\n→ वनय् इति [<<एचोऽयवायावः>> [[6.1.78]] इति अय्-आदेशः]\n→ वन इति [<<लोपः शाकल्यस्य>> [[8.3.19]] इति यकारस्य विकल्पेन लोपः]\nअत्र अग्रे <<आद् गुणः>> [[6.1.87]] इति सवर्णदीर्घः न भवति, यतः <<लोपः शाकल्यस्य>> [[8.3.19]] एतत् सूत्रम् <<आद् गुणः>> [[6.1.87]] इत्यस्य कृते असिद्धम् अस्ति । अतः <<लोपः शाकल्यस्य>> [[8.3.19]] इत्यनेन कृतः यकारलोपः <<आद् गुणः>> [[6.1.87]] इत्यनेन नैव दृश्यते ।]\n\n<<लोपः शाकल्यस्य>> [[8.3.19]] इत्यनेन उक्तः लोपः वैकल्पिकः अस्ति, अतः वनय् इति अस्यां स्थितौ पक्षे <<व्योर्लघुप्रयत्नतरः शाकटायनस्य>> [[8.3.18]] इति वैकल्पिकः लघूच्चारणः यकारः अपि सम्भवति, येन वनयि॔ति इति जायते । पक्षे च केवलम् वर्णमेलनं कृत्वा वनयिति इत्यपि सिद्ध्यति । \n2) अर्जुन + सुँ + उवाच इत्यत्र सुँ-प्रत्ययस्य रुत्वे, ततश्च यकारादेशे कृते प्रकृतसूत्रेण यकारस्य विकल्पेन लोपः भवति । \n\nअर्जुन + सुँ + उवाच\n→ अर्जुन रुँ उवाच [<<ससजुषो रुँः>> [[8.2.66]] इति पदान्तसकारस्य रुँत्वम् ]\n→ अर्जुन य् उवाच [<<भोभगोअघोअपूर्वस्य योऽशि>> [[8.3.17]] इति रुँ-इत्यस्य य्-आदेशः]\n→ अर्जुन य् उवाच [<<लोपः शाकल्यस्य>> [[8.3.19]] इति विकल्पेन यकारलोपः]\n\n<<व्योर्लघुप्रयत्नतरः शाकटायनस्य>> [[8.3.18]] इति वैकल्पिके लघूच्चारणयकारे कृते अर्जुनयु॔वाच इति सिद्ध्यति, तदभावे च केवलम् वर्णमेलनं कृत्वा अर्जुनयुवाच इत्यपि सिद्ध्यति । \n3. द्वौ + एतौ अत्र आवादेशे कृते वकारस्य प्रकृतसूत्रेण विकल्पेन लोपः भवति —\n\nद्वौ एतौ\n→ द्वाव् एतौ [<<एचोऽयवायावः>> [[6.1.78]] इति आवादेशः]\n→ द्वा एतौ [<<लोपः शाकल्यस्य>> [[8.3.19]] इति वैकल्पिकः लोपः]\nपक्षे <<व्योर्लघुप्रयत्नतरः शाकटायनस्य>> [[8.3.18]] इत्यनेन विकल्पेन लघूच्चारणे वकारे कृते द्वावे॔तौ, तथा च तदभावे केवलं वर्णमेलनं कृत्वा द्वावेतौ इत्यपि सिद्ध्यति । \n\nदलकृत्यम्\nपदान्तयकारवकारयोः इति किमर्थम् ? अपदान्तयकारवकारयोः अनेन सूत्रेण लोपः न भवति । यथा —\n\nहरि / साधु + ङे [चतुर्थ्येकवचनस्य प्रत्ययः]\n→ हरे / साधो + ए [<<घेर्ङिति>> [[7.3.111]] इति गुणः]\n→ हरय् / साधव् + ए [<<एचोऽयवायावः>> [[6.1.78]] इति अय्-आदेशः]\n→ हरये / साधवे [अत्र हरय्-इत्यस्य यकारः तथा च साधव्-इत्यस्य वकारः पदान्ते नास्ति, अतः अत्र <<लोपः शाकल्यस्य>> [[8.3.19]] इति सूत्रं न प्रवर्तते ।]\n\nसूत्रे 'अश्' इति अनुवृत्तेः प्रयोजनम् , सूत्रस्य व्याप्तिः\nअस्मिन् सूत्रे अश् इत्यस्य अनुवृत्तिः वस्तुतः अच्-वर्णे परे यकारवकारयोः लोपं कर्तुम् कृता अस्ति । इत्युक्ते, यद्यपि अस्मिन् सूत्रे अश् इति पदम् अनुवर्तते, तथापि अस्य सूत्रस्य प्रयोगः केवलम् अच्-वर्णे परे (स्वरे परे) एव भवति । मृदृव्यञ्जने परे प्रकृतसूत्रेण प्राप्तं वैकल्पिकम् यकारलोपं बाधित्वा <<हलि सर्वेषाम्>> [[8.3.22]] इत्यनेन नित्यम् यकारलोपः भवति । अस्मिन् सन्दर्भे लघुशब्देन्दुशेखरे नागेशेन 'विकल्पस्य विच्छिन्नत्वेन नित्यत्वसिद्धेः' इति निर्देशः कृतः दृश्यते । यदि द्वाभ्याम् सूत्राभ्याम् समानम् कार्यम् सम्भवति, परन्तु एकेन सूत्रेण तत् कार्यम् नित्यम् भवति, अपरेण च विकल्पेन भवति, तर्हि वैकल्पिकसूत्रं बाधित्वा नित्यसूत्रम् एव तत्र प्रवर्तते — इति अस्य वाक्यस्य आशयः । अतः हल्-वर्णे परे <<हलि सर्वेषाम्>> [[8.3.22]] इत्यनेन प्राप्तः नित्यलोपः प्रकृतसूत्रेण प्राप्तं वैकल्पिकलोपं बाधते । अस्मिन् विषये अधिकं पिपठिषवः लघुशब्देन्दुशेखरे <<हलि सर्वेषाम्>> [[8.3.22]] सूत्रस्य व्याख्यां वीक्षेरन् । \n" }, "83020": { "sa": "ओकारात् परस्य अलघूच्चारण-यकारस्य संहितायाम् अश्-वर्णे परे नित्यम् लोपः भवति । ", "sd": "\nअश् = सर्वे स्वराः + मृदुव्यञ्जनानि (वर्गतृतीयचतुर्थपञ्चमाः, अन्तःस्थाः, हकारः) । खर्-प्रत्याहास्थान् वर्णान् विहाय अन्ये सर्वे वर्णाः सर्वे अश्-प्रत्याहारे विद्यन्ते ।\n\nओकारात् परस्य पदान्तयकारस्य अश्-वर्णे परे लघुप्रयत्नतरः यकारादेशः न भवति चेत् नित्यम् लोपः भवति इति अस्य सूत्रस्य आशयः । सूत्रे गार्ग्यग्रहणम् केवलम् पूजार्थम् एव कृतम् अस्ति । \nअस्य सूत्रस्य प्रयोगः केवलम् भोस्, भगोस्, तथा अघोस् एतेषाम् त्रयाणाम् शब्दानाम् विषये एव भवति, यतः अन्यत्र कुत्रापि ओकारात् परः पदान्तयकारः न हि विद्यते । एतेषाम् त्रयाणाम् अपि उदाहरणानि एतादृशानि —\n1. भोस्-अत्र इत्यत्र यकारलोपः —\n\nभोस् अत्र\n→ भोरुँ अत्र [<<ससजुषोः रुँः>> [[8.2.66]] इति पदान्तसकारस्य रुँत्वम् ।\n→ भोय् अत्र [<<भोभगोअघोअपूर्वस्य योऽशि>> [[8.3.17]] इति रुँ-इत्यस्य अश्-वर्णे परे यकारादेशः]\n→ भो अत्र [<<ओतो गार्ग्यस्य>> [[8.3.20]] इति यकारलोपः]\n\nप्रक्रियायाम् भोय् अत्र अस्यां स्थितौ आदौ <<व्योर्लघुप्रयत्नतरः शाकटायनस्य>> [[8.3.18]] इति सूत्रेण विकल्पेन लघूच्चारणे यकारे कृते भोय॔त्र इत्यपि सिद्ध्यति । तदभावे <<ओतो गार्ग्यस्य>> [[8.3.20]] इति नित्यम् यकारलोपःविधीयते ।\n2. भगोस् ईश्वराः इत्यत्र यकारनिर्माणम् —\n\n→ भगोरुँ ईश्वराः [<<ससजुषोः रुँः>> [[8.2.66]] इति पदान्तसकारस्य रुँत्वम् ]\n→ भगोय् ईश्वराः [<<भोभगोअघोअपूर्वस्य योऽशि>> [[8.3.17]] इति रुँ-इत्यस्य अश्-वर्णे परे यकारादेशः]\n→ भगो ईश्वराः [<<ओतो गार्ग्यस्य>> [[8.3.20]] इति यकारलोपः]\n\nअत्रापि भगोय् ईश्वराः अस्यां स्थितौ आदौ <<व्योर्लघुप्रयत्नतरः शाकटायनस्य>> [[8.3.18]] इति सूत्रेण विकल्पेन लघूच्चारणे यकारे कृते भगोयि॔श्वराः इत्यपि सिद्ध्यति । तदभावे <<ओतो गार्ग्यस्य>> [[8.3.20]] इति नित्यम् यकारलोपःविधीयते ।\n3. अघोस् असुराः इत्यत्र यकारनिर्माणम् —\n\nअघोस् असुराः\n→ अघोरुँ असुराः [<<ससजुषोः रुँः>> [[8.2.66]] इति पदान्तसकारस्य रुँत्वम् ]\n→ अघोय् असुराः [<<भोभगोअघोअपूर्वस्य योऽशि>> [[8.3.17]] इति रुँ-इत्यस्य अश्-वर्णे परे यकारादेशः]\n→ अघो असुराः [<<ओतो गार्ग्यस्य>> [[8.3.20]] इति यकारलोपः]\n\nप्रक्रियायाम् अघोय् असुराः अस्यां स्थितौ आदौ <<व्योर्लघुप्रयत्नतरः शाकटायनस्य>> [[8.3.18]] इति सूत्रेण विकल्पेन लघूच्चारणे यकारे कृते अघोय॔सुराः इत्यपि सिद्ध्यति । तदभावे <<ओतो गार्ग्यस्य>> [[8.3.20]] इति नित्यम् यकारलोपःविधीयते ।\nसूत्रे 'अश्' इति अनुवृत्तेः प्रयोजनम् , सूत्रस्य व्याप्तिः\nअस्मिन् सूत्रे अश् इत्यस्य अनुवृत्तिः वस्तुतः अच्-वर्णे परे यकारस्य लोपं कर्तुम् कृता अस्ति । इत्युक्ते, यद्यपि अस्मिन् सूत्रे अश् इति पदम् अनुवर्तते, तथापि अस्य सूत्रस्य प्रयोगः केवलम् अच्-वर्णे परे (स्वरे परे) एव भवति । मृदृव्यञ्जने परे प्रकृतसूत्रेण प्राप्तं वैकल्पिकम् यकारलोपं बाधित्वा <<हलि सर्वेषाम्>> [[8.3.22]] इत्यनेन नित्यम् यकारलोपः भवति । अस्मिन् सन्दर्भे लघुशब्देन्दुशेखरे नागेशेन 'विकल्पस्य विच्छिन्नत्वेन नित्यत्वसिद्धेः' इति निर्देशः कृतः दृश्यते । यदि द्वाभ्याम् सूत्राभ्याम् समानम् कार्यम् सम्भवति, परन्तु एकेन सूत्रेण तत् कार्यम् नित्यम् भवति, अपरेण च विकल्पेन भवति, तर्हि वैकल्पिकसूत्रं बाधित्वा नित्यसूत्रम् एव तत्र प्रवर्तते — इति अस्य वाक्यस्य आशयः । अतः हल्-वर्णे परे <<हलि सर्वेषाम्>> [[8.3.22]] इत्यनेन प्राप्तः नित्यलोपः प्रकृतसूत्रेण प्राप्तं वैकल्पिकलोपं बाधते । अस्मिन् विषये अधिकं पिपठिषवः लघुशब्देन्दुशेखरे <<हलि सर्वेषाम्>> [[8.3.22]] सूत्रस्य व्याख्यां वीक्षेरन् । \nसूत्रे गार्ग्यग्रहणम् पूजार्थम्\nप्रकृतसूत्रेण निर्दिष्टः लोपः नित्यम् भवति, न हि विकल्पेन । अतः अत्र गार्ग्यग्रहणम् केवलम् पूजार्थम् (to give respect / to mention credits) स्थापितम् अस्ति, न हि विकल्पविधानार्थम् ।\nसूत्रे भोस्, भगोस् अघोस् इत्येतेषाम् अनुवृत्तिविषये पक्षद्वयम्\nप्रकृतसूत्रम् केवलम् भोस्, भगोस्, अघोस् इत्येतेषां विषये एव प्रवर्तते यतः केवलम् एतेषु एव ओकारात् परः पदान्तयकारः भवितुम् अर्हति । परन्तु तथापि अत्र सूत्रे भोस्, भगोस्, अघोस् इत्येतेषाम् पदानाम् स्पष्टरूपेण अनुवृत्तिः विद्यते वा — अस्मिन् विषये वैयाकरणमतानि भिद्यन्ते । अस्य सूत्रस्य न्यासव्याख्याने भोभगोअघोअपूर्वस्य इत्यनुवर्तते इति निर्देशः कृतः अस्ति । परन्तु सिद्धान्तकौमुद्याम् तु पदान्तस्य किम् ? तोयम् इत्युक्त्वा तोयम् इति शब्दस्य विषये इदं सूत्रं अपदान्त-यकारत्वात् न प्रवर्तते इति निर्देशः कृतः अस्ति, तदनुषङ्गेन बालमनोरमायाम् अनेनाऽत्र 'भोभगो' इति नानुवर्तते इति सूचितम् इति स्पष्टीक्रियते ।\nलघूच्चारणयकारस्यापि लोपः इति गौणः पक्षः\nप्रकृतसूत्रेण विहितः यकारलोपः लघूच्चारणयकारस्य अपि भवति इति कश्चन गौणः पक्षः काशिकाकारेण उपस्थापितः अस्ति । अस्मिन् पक्षे <<व्योर्लघुप्रयत्नतरः शाकटायनस्य>> [[8.3.18]] इति सूत्रम् केवलम् लघुप्रयत्नतरस्य वकारस्य कृते आवश्यकम् भवति, यतः अनेन सूत्रेण निर्मितः लघुप्रयत्नतरः यकारः अपि प्रकृतसूत्रेण नित्यमेव लुप्यते । \nसूत्रे केवलम् यकारस्यैव अनुवृत्तिः\nअस्मिन् सूत्रे 'व्योः' इत्यस्मात् केवलम् यकारः एव अनुवर्तते, यतः ओकारात् परः पदान्तवकारः नैव कुत्रचित् भवितुम् अर्हति । " }, "83021": { "sa": "अकारात् परस्य पदान्तयकारवकारयोः संहितायाम् उञ्-पदे परे लोपः भवति । ", "sd": "<<चादयोऽसत्वे>> [[1.4.57]] अस्मिन् सूत्रे निर्दिष्टे चादिगणे उञ् इति कश्चन निपातः विद्यते ।अस्य शब्दस्य कोऽपि विशिष्टः अर्थः नास्ति, अयं शब्दः सामान्यरूपेण सम्बोधनस्य अर्थे कोपं / वैमत्यं दर्शयितुम् प्रयुज्यते । उञ् is just a filler word in the language, typically used like 'oh no', when one wants to except some kind of anger or disagreement. अस्मिन् शब्दे परे अकारात् परस्य पदान्तयकारस्य पदान्तवकारस्य च संहितायाम् <<लोपः शाकल्यस्य>> [[8.3.19]] इत्यनेन प्राप्तं वैकल्पिकं लोपं बाधित्वा प्रकृतसूत्रेण नित्यं लोपः भवति । यथा —\n1. तद्-शब्दस्य प्रथमा-एकवचनस्य रूपे परे 'उञ्' इति शब्दः विद्यते चेत् प्रकृतसूत्रस्य प्रयोगेण रूपसिद्धिः भवति —\n\nतद् + सुँ + उञ् + एकाग्नि\n→ तद् स् उ एकाग्नि [इत्संज्ञालोपः]\n→ सद् स् उ एकाग्नि [<<तदो सः सावनन्त्ययोः>> [[7.2.106]] इति तकारस्य सकारः]\n→ स अ स् उ एकाग्नि [<<त्यदादीनामः>> [[7.2.102]] इति दकारस्य अकारः]\n→ स स् उ एकाग्नि [<<अतो गुणे>> [[6.1.97]] इति पररूपः अकारः]\n→ स रुँ उ एकाग्नि [<<ससजुषोः रुः>> [[8.2.66]] इति रुँत्वम्]\n→ स य् उ एकाग्नि [<<भोभगोअघोअपूर्वस्य योऽशि>> [[8.3.17]] इति यकारः]\n→ स उ एकाग्नि [<<लोपः शाकल्यस्य>> [[8.3.19]] इत्यनेन विकल्पेन यकारलोपे प्राप्ते <<उञि च पदे>> [[8.3.21]] इति नित्यम् यकारलोपः]\n\n2. वने उ अस्मिन् इत्यत्र प्रकृतसूत्रस्य प्रयोगेण नित्यम् यकारलोपः क्रियते —\n\nवने उ अस्मिन्\n→ वनय् उ अस्मिन् [<<एचोऽयवायावः>> [[6.1.78]] इति अवादेशः]\n→ वन उ अस्मिन् [<<लोपः शाकल्यस्य>> [[8.3.19]] इत्यनेन विकल्पेन यकारलोपे प्राप्ते <<उञि च पदे>> [[8.3.21]] इति नित्यम् यकारलोपः]\n\n3. साधो उ अहम् इत्यत्र प्रकृतसूत्रस्य प्रयोगेण नित्यम् वकारलोपः क्रियते —\n\nसाधो उ अहम्\n→ साधव् उ अहम् [<<एचोऽयवायावः>> [[6.1.78]] इति अवादेशः]\n→ साध उ अहम् [<<लोपः शाकल्यस्य>> [[8.3.19]] इत्यनेन विकल्पेन वकारलोपे प्राप्ते <<उञि च पदे>> [[8.3.21]] इति नित्यम् वकारलोपः]\n\nलक्षणसिद्धस्य उञ्-शब्दस्य विषये सूत्रस्य अप्राप्तिः\n<ऽलक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्ऽ> अनया परिभाषया प्रकृतसूत्रेण केवलम् प्रतिपदोक्त-उञ्-शब्दस्यैव ग्रहणं क्रियते, न हि सूत्रप्रयोगेण सिद्धस्य उञ्-शब्दस्य । अतएव, वेञ्-धातोः वकारस्य क्त-प्रत्यये परे <<वचिस्वपियजादीनां किति>> [[6.1.15]] इत्यनेन सम्प्रसारणे कृते सिद्धः उकारः यद्यपि लुप्त-ञकारेण सह 'उञ्' इति शब्दरूपम् स्वीकरोति, तथापि तस्य प्रकृतसूत्रेण ग्रहणं नैव भवति; अतश्च तन्त्र + सुँ + उतम् इत्यत्र <<ससजुषोः रुः>> [[8.2.66]] इति रुँत्वे कृते, <<भोभगोअघोअपूर्वस्य योऽशि>> [[8.3.17]] इति यत्वे कृते <<लोपः शाकल्यस्य>> [[8.3.19]] इत्यनेन केवलम् विकल्पेन यकारलोपः भवति, प्रकृतसूत्रेण नित्यम् लोपः न विधीयते । अतः तन्त्रयुतम् तथा च तन्त्र उतम् एते द्वे अपि रूपे सिद्ध्यतः ।\nसूत्रे विद्यमानः 'पदे' इति शब्दः व्यर्थः\nअस्मिन् सूत्रे निर्दिष्टः निपातसंज्ञकः 'उञ्' शब्दः पदसंज्ञकः एव अस्ति, अतः तस्य निर्देशार्थम् पुनः 'पदे' इति शब्दः अस्मिन् सूत्रे न आवश्यकः । अपि च, इदं सूत्रम् स्वयमेव पदाधिकारे विद्यते, अतः अत्र पुनः 'पदे' इति ग्रहणम् अनावश्यकम् एव अस्ति । अयमेव विषयः तत्त्वबोधिन्याम् 'वस्तुतस्तु उत्तरत्र अपि न उपयुज्यते, पदस्य इत्यनुवृत्त्या एव निर्वाहात्' इति निर्देशेन स्पष्टीकृतः अस्ति । \nअस्य सूत्रस्य भाष्ये तु उत्तरार्थं तर्हि पदग्रहणं कर्तव्यम् इति निर्देशः कृतः अस्ति । प्रकृतसूत्रे विद्यमानः पदे इति शब्दः अग्रे <<ङमो ह्रस्वादचि ङमुण्नित्यम्>> [[8.3.32]] इत्यस्मिन् सूत्रे उपयुज्यते, यतः तत्र हस्व-अकारात् परेभ्यः ङकारणकारनकारेभ्यः परस्य पदादि-अच्-वर्णस्य एव ङमुडागमः इष्यते । अतएव दण्डिन् इत्यत्र 'दण्डिन्'शब्दस्य ह्रस्व-इकारात् अनन्तरम् विद्यमानः यः नकारः, तस्मात् परस्य आकारस्य (अपदादित्वात्) नकारागमः न भवति । यद्यपि अयं दोषः <<ङमो ह्रस्वादचि ङमुण्नित्यम्>> [[8.3.32]] इत्यस्मिन् सूत्रे पदस्य इत्यधिकारग्रहणेन, तथा च पदान्तङकारणकारनकारेभ्यः परस्य अच्-वर्णस्य आगमः भवति इति उक्त्वा निवारयितुम् शक्यते; तथापि तदर्थम् पदस्य इति शब्दस्य पदात् इति विभक्तिपरिवर्तनं आवश्यकं वर्तते, तादृशम् च न करणीयम् — इति नागेशेन प्रदीपोद्द्योते निर्दिष्टम् अस्ति । जिज्ञासवः अस्मिन् विषये अधिकं ज्ञातुम् <<ङमो ह्रस्वादचि ङमुण्नित्यम्>> [[8.3.32]] इति सूत्रस्य सूत्रार्थः द्रष्टव्यः ।\nवस्तुतस्तु, <<भुवश्च महाव्याहृतेः>> [[8.2.71]] अस्मिन् सूत्रे महाव्याहृतेः इति शब्दस्य ग्रहणेन <ऽलक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्ऽ> इति परिभाषा पाणिनिस्वीकृता अस्ति वा इति प्रश्नः जायते । अतः अस्याः परिभाषायाः अनुपस्थितौ, अप्रयोगे वा अपि वेञ् धातोः सम्प्रसारणे कृते प्राप्तस्य उञ् शब्दस्य विषये इदं सूत्रम् नैव प्रवर्तेत इति स्पष्टीकर्तुम् पाणिनिना अस्मिन् सूत्रे पदे इति शब्दः स्थापितः स्यात् इति युक्ततरम् प्रतिभाति । \n" }, "83022": { "sa": "भोस्, भगोस्, अघोस् एतेभ्यः परस्य तथा च अवर्णात् परस्य पदान्ते विद्यमानस्य सामान्ययकारस्य लघूच्चारणयकारस्य च संहितायाम् हल्-वर्णे परे लोपः भवति । ", "sd": "भोस्, भगोस् तथा अघोस् एतेषाम् अन्ते विद्यमानस्य सकारस्य, तथा च अवर्णात् (अकारात् / आकारात्) अन्तन्तरम् पदान्ते विद्यमानस्य सकारस्य <<ससजुषो रुः>> [[8.2.66]] इत्यनेन रुँत्वे कृते, तस्य हश्-वर्णे परे <<भोभगोअघोअपूर्वस्य योऽशि>> [[8.3.18]] इत्यनेन यकारादेशः भवति । अस्य यकारस्य <<व्योर्लघुप्रयत्नतरः शाकटायनस्य>> [[8.3.18]] इत्यनेन विकल्पेन लघूच्चारणः यकारः विधीयते । एतयोः द्वयोः अपि यकारयोः (इत्युक्ते, सामान्ययकारस्य, लघूच्चारणस्य यकारस्य च) प्रकृतसूत्रेण हल्-वर्णे परे लोपः भवति । उदाहरणानि एतानि —\n1. भोस्, भगोस्, अघोस् एतेषाम् अन्ते विद्यमानस्य यकारस्य हलि परे लोपः \nभोस्, भगोस् तथा च अघोस् —एते त्रयः शब्दाः निपाताः (अतश्च, अव्ययसंज्ञकाः, अतश्च पदसंज्ञकाः) सन्ति । <<चादयोऽसत्वे>> [[1.4.57]] इत्यत्र निर्दिष्टस्य चादिगणस्य आकृतिगणत्वात् एते शब्दाः पण्डितैः तत्रैव समाविश्यन्ते । एते त्रयः अपि शब्दाः सम्बोधनवाचकाः सन्ति । सामान्यरूपेण 'भोस्' इति अव्ययम् मनुष्याणाम् सम्बोधनार्थम्; 'भगोस्' इति अव्ययम् देवानाम् सम्बोधनार्थम्, 'अघोस्' इति अव्ययं च राक्षसानाम् सम्बोधनार्थम् उपयुज्यते । एतेषाम् सर्वेषाम् अन्ते विद्यमानस्य सकारस्य <<ससजुषो रुः>> [[8.2.66]] इत्यनेन रुँत्वे कृते, अश्-वर्णे परे तस्य <<भोभगोअघोअपूर्वस्य योऽशि>> [[8.3.17]] इत्यनेन यकारादेशे कृते, प्रकृतसूत्रेण हल्-वर्णे परे अयम् यकारः लुप्यते । \n1. भोस्-जनाः इत्यत्र यकारलोपः —\n\nभोस् जनाः\n→ भोरुँ जनाः [<<ससजुषोः रुँः>> [[8.2.66]] इति पदान्तसकारस्य रुँत्वम् ।\n→ भोय् जनाः [<<भोभगोअघोअपूर्वस्य योऽशि>> [[8.3.17]] इति रुँ-इत्यस्य अश्-वर्णे परे यकारादेशः]\n→ भोय् / भोय्॔ जनाः [<<व्योर्लघुप्रयत्नतरः शाकटायनस्य>> [[8.3.18]] इति पदान्तयकारस्य अश्-वर्णे परे वैकल्पिकः लघूच्चारणः यकारः]\n→ भो जनाः [<<हलि सर्वेषाम्>> [[8.3.20]] इति उभयप्रकारयोः यकारयोः लोपः]\n\n2. भगोस् देवाः इत्यत्र यकारलोपः —\n\nभगोस् देवाः\n→ भगोरुँ देवाः [<<ससजुषोः रुँः>> [[8.2.66]] इति पदान्तसकारस्य रुँत्वम् ]\n→ भगोय् देवाः [<<भोभगोअघोअपूर्वस्य योऽशि>> [[8.3.17]] इति रुँ-इत्यस्य अश्-वर्णे परे यकारादेशः]\n→ भगोय् / भगोय्॔ देवाः [<<व्योर्लघुप्रयत्नतरः शाकटायनस्य>> [[8.3.18]] इति पदान्तयकारस्य अश्-वर्णे परे वैकल्पिकः लघूच्चारणः यकारः]\n→ भगो देवाः [<<हलि सर्वेषाम्>> [[8.3.20]] इति उभयप्रकारयोः यकारयोः लोपः]\n\n3. अघोस् राक्षसाः इत्यत्र यकारलोपः —\n\nअघोस् राक्षसाः\n→ अघोरुँ राक्षसाः [<<ससजुषोः रुँः>> [[8.2.66]] इति पदान्तसकारस्य रुँत्वम् ]\n→ अघोय् राक्षसाः [<<भोभगोअघोअपूर्वस्य योऽशि>> [[8.3.17]] इति रुँ-इत्यस्य अश्-वर्णे परे यकारादेशः]\n→ अघोय् / अघोय्॔ राक्षसाः [<<व्योर्लघुप्रयत्नतरः शाकटायनस्य>> [[8.3.18]] इति पदान्तयकारस्य अश्-वर्णे परे वैकल्पिकः लघूच्चारणः यकारः]\n→ अघो राक्षसाः [<<हलि सर्वेषाम्>> [[8.3.20]] इति उभयप्रकारयोः यकारयोः लोपः]\n\n2. अवर्णात् (अकारात् /आकारात्) अनन्तरम् विद्यमानस्य पदान्त-यकारस्य हलि परे लोपः \nअकारात् उत आकारात् अनन्तरम् पदान्ते यकारः विधीयते चेत् हल्-वर्णे परे प्रकृतसूत्रेण तस्य लोपः भवति । द्वे उदाहरणे एतादृशे —\n1. देवा + जस् + गच्छन्ति इत्यत्र यकारलोपः —\n\nदेवा जस् गच्छन्ति\n→ देवास् गच्छन्ति [<<प्रथमयोः पूर्वसवर्णः>> [[6.1.102]] इति पूर्वसवर्णदीर्घः आकारः]\n→ देवारुँ गच्छन्ति [<<ससजुषोः रुँः>> [[8.2.66]] इति पदान्तसकारस्य रुँत्वम् ]\n→ देवाय् गच्छन्ति [<<भोभगोअघोअपूर्वस्य योऽशि>> [[8.3.17]] इति रुँ-इत्यस्य अश्-वर्णे परे यकारादेशः]\n→ देवाय् / देवाय्॔ गच्छन्ति [<<व्योर्लघुप्रयत्नतरः शाकटायनस्य>> [[8.3.18]] इति वैकल्पिकः लघूच्चारणः यकारः]\n→ देवा गच्छन्ति [<<हलि सर्वेषाम्>> [[8.3.20]] इति उभयप्रकारयोः यकारयोः लोपः]\n\n2. विश्वपा + सुँ + हसति इत्यत्र यकारलोपः —\n\nविश्वपा सुँ हसति\n→ विश्वपा रुँ हसति [<<ससजुषोः रुँः>> [[8.2.66]] इति पदान्तसकारस्य रुँत्वम् ]\n→ विश्वपाय् हसति [<<भोभगोअघोअपूर्वस्य योऽशि>> [[8.3.17]] इति अश्-वर्णे परे यकारादेशः]\n→ विश्वपाय् / विश्वपाय्॔ हसति [<<व्योर्लघुप्रयत्नतरः शाकटायनस्य>> [[8.3.18]] इति वैकल्पिकः लघूच्चारणः यकारः]\n→ विश्वपाय हसति [<<हलि सर्वेषाम्>> [[8.3.20]] इति उभयप्रकारयोः यकारयोः लोपः]\n\n 'हलि' इत्यस्य 'हशि' इत्येव अर्थः\nयद्यपि अस्मिन् सूत्रे 'हलि' इति निर्देशः कृतः अस्ति, तथापि पदान्तयकारस्य निर्माणम् अच्-वर्णे परे, हश्-वर्णे च परे एव सम्भवति । तत्र अच्-वर्णे परे तु पदान्तयकारस्य <<लोपः शाकल्यस्य>> [[8.3.19]] इत्यनेन विकल्पेन लोपः भवति । हश्-वर्णे परे पदान्तयकारस्य नित्यम् एव लोपः इष्यते, तदर्थम् प्रकृतसूत्रस्य निर्माणं कृतम् अस्ति । अतएव अस्मिन् सूत्रे अशि इति शब्दस्य अनुवृत्तिं कृत्वा तस्य हलि शब्देन सह अन्वयः क्रियते, येन अशि हलि लोपः भवति इति अर्थः सिद्ध्यति ।\nवस्तुतस्तु, अत्र अशि इति शब्दस्य अनुवृत्तेः अन्यद् अपि एकम् प्रयोजनम् वर्तते; तदित्थम् ‌— प्रकृतसूत्रे व्योः इत्यस्मात् केवलम् यकारस्यैव अनुवृत्तिः इष्यते; यतः यदि अत्र वकारस्यापि अनुवृत्तिः क्रियते तर्हि वृक्षव् करोति एतादृशेषु क्लिष्टस्थलेषु प्रकृतसूत्रेण अनिष्टः वकारलोपः सम्भवति, यः न इष्यते । परन्तु अत्र केवलम् यकारस्य अनुवृत्तिं कर्तुम् कश्चन बाधः अस्ति । यकारः पूर्वस्मिन् सूत्रे स्वतन्त्रपदरूपेण न हि विद्यते, अपि तु व्योः इति पदस्य अंशरूपेण विद्यते ।अतः अनुवृत्तिः करणीया चेत् व्योः इत्यस्यैव भवेत्, न हि तस्य केवलम् एकस्य अंशस्य, इति <ऽएकयोगविशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिःऽ> अनया परिभाषया स्पष्टीक्रियते । अतः अस्मिन् सूत्रे व्योः इत्येव पदम् अनुवृत्तिरूपेण स्वीकृत्य, अशि इति पदम् अपि अनुवृत्तिरूपेण स्वीक्रियते, येन अशि हलि परे इति अर्थः सिद्ध्यति । एतादृशेन अर्थेन वृक्षव् करोति इत्यत्र अनिष्टः वकारलोपः निवार्यते, यतः अस्मिन् वाक्ये पदान्तवकारात् अनन्तरम् ककारः अस्ति, यः यद्यपि हल्-वर्णः अस्ति तथापि अश्-वर्णः नास्ति । अनेन प्रकारेण प्रकृतसूत्रे अशि इति शब्दं अनुवर्त्य अनिष्टः वकारलोपः निवार्यते ।\nवृक्षव् इति क्लिष्टप्रयोगः कथं सिद्ध्यति इति जिज्ञासूनाम् लाभाय अधः दर्शितम् अस्ति ।\n\nवृक्षं वाति [इति कृद्वृत्तिः । The one who moves the tree. E.g. wind.]\n→ वृक्ष + वा + विच् [<<अन्येभ्योऽपि दृश्यते>> [[3.2.75]] इति विच्-प्रत्ययः]\n→ वृक्ष + वा + ० [चकारस्य इत्संज्ञा, लोपः । वकारोत्तरः इकारः उच्चारणार्थः, सोऽपि लुप्यते । अपृक्तवकारस्य <<वेरपृक्तस्य>> [[6.1.67]] इति लोपः । कृदन्तस्य <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा]\n→ वृक्ष + वा + णिच् [ इति वार्त्तिकेन 'वृक्षवाम् आचष्टे' (to speak about the वृक्षवा) अस्मिन् अर्थे णिच्-प्रत्ययः । णिजन्तस्य <<सनाद्यन्ता धातवः>> [[3.1.32]] इति धातुसंज्ञा विधीयते ।]\n→ वृक्ष + व् + इ [ इति वार्त्तिकेन णिच्-प्रत्ययः इष्ठन्-प्रत्ययवत् कार्यम् करोति, अतः <<टेः>> [[6.4.155]] इत्यनेन अत्र टिलोपः भवति । ]\n→ वृक्षवि + क्विप् [कर्त्रर्थे <<क्विप् च>> [[3.2.76]] इति क्विप्-प्रत्ययः। The one who speaks about वृक्षवा — इत्यर्थः]\n→ वृक्ष + व् + ० [<<णेरनिटि>> [[6.4.51]] इति णिच्-प्रत्ययस्य लोपः । <<आतो लोप इटि च>> [[6.4.64]] इति आकारलोपः । क्विप्-प्रत्यये ककारपकारयोः इत्संज्ञा, लोपः । वकारोत्तरः इकारः उच्चारणार्थः, सोऽपि लुप्यते । अपृक्तवकारस्य <<वेरपृक्तस्य>> [[6.1.67]] इति लोपः भवति । कृदन्तस्य <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा भवति ।]\n→ वृक्षव् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः]\n→ वृक्षव् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति सुँलोपः । <<सुप्तिङन्तं पदम्>> [[1.4.14]] इति पदसंज्ञा ।]\n\nअनेन प्रकारेण वृक्षव् इति शब्दः सिद्ध्यति । अस्मात् शब्दात् अनन्तरम् करोति इति शब्दं संस्थाप्य वृक्षव् करोति इति प्रयोगः भाष्यकारेण लण्-सूत्रस्य भाष्ये कृतः अस्ति, तस्यैव अत्र सन्दर्भः व्याख्यानेषु दत्तः दृश्यते, ततश्च करोति इत्यत्र विद्यमानस्य ककारस्य अश्-प्रत्याहारेण अग्रहणात् प्रकृतसूत्रस्य अत्र प्रयोगः न भवति इति समाधानम् कृतम् लभ्यते । यद्यपि एतत् स्पष्टीकरणम् वृक्षव् करोति इत्यत्र वकारलोपं निवारयति, तथापि वृक्षव् हसति इत्यादिषु प्रयोगेषु तादृशं स्पष्टीकरणम् नैव दातुं शक्यम्, यतः हकारः अश्-प्रत्याहारे अवश्यम् अन्तर्भवति । अतः वृक्षव् हसति इत्यत्र प्रकृतसूत्रेण वकारलोपः अवश्यम् सम्भवति । परन्तु एतादृशानि उदाहरणानि न हि कुत्रचित् दृश्यन्ते । तदेव न, अपितु वृक्षव् शब्दस्य साधुत्वम् अपि शङ्क्यम् एव, यतः लण्-सूत्रस्य भाष्ये एव भाष्यकारेण 'हकार-यकार-वकार-रेफ-लकारान्ताः शब्दाः न विद्यन्ते' इति निर्देशः कृतः अस्ति ।\nबाध्यबाधकभावः\n<<लोपः शाकल्यस्य>> [[8.3.19]] तथा च <<ओतो गार्ग्यस्य>> [[8.3.20]] इति उभाभ्याम् सूत्राभ्याम् अश्-वर्णे परे पदान्तयकारस्य लोपः विधीयते । तत्र <<लोपः शाकल्यस्य>> [[8.3.19]] इत्यनेन वैकल्पिकः लोपः भवति, <<ओतो गार्ग्यस्य>> [[8.3.20]] इत्यनेन च नित्यः लोपः भवति । एतयोः द्वयोः अपि सूत्रयोः यद्यपि अशि इति निर्दिष्टम् अस्ति, तथापि एतयोः प्रयोगः अच्-वर्णे परे एव भवति । हश्-वर्णे परे तु प्रकृतसूत्रेण एते द्वे अपि सूत्रे बाध्येते । इत्युक्ते <<हलि सर्वेषाम्>> [[8.3.22]] इति सूत्रम् <<लोपः शाकल्यस्य>> [[8.3.19]] तथा च <<ओतो गार्ग्यस्य>> [[8.3.20]] एतयोः द्वयोः अपि बाधकरूपेण प्रवर्तते ।\n" }, "83023": { "sa": "पदान्तमकारस्य संहितायाम् व्यञ्जने परे अनुस्वारादेशः भवति ।", "sd": "अष्टाध्याय्याम् द्वाभ्याम् सूत्राभ्याम् आदेशरूपेण अनुस्वारस्य विधानं क्रियते । एतयोः इदम् प्रथमम् सूत्रम् । पदस्य अन्ते विद्यमानस्य मकारस्य हल्-वर्णे परे संहितायाम् अनुस्वारादेशः भवति इति अस्य सूत्रस्य अर्थः । \nयथा —\n1. हरिम् वन्दे इत्यत्र पदान्तमकारस्य संहितायाम् प्रकृतसूत्रेण अनुस्वारादेशे कृते अनुस्वारादेशे कृते हरिं वन्दे इति सिद्ध्यति । \n2. सम् + हरति इत्यत्र उपसर्गस्य पदसंज्ञा वर्तते, अतः पदान्तमकारस्य प्रकृतसूत्रेण अनुस्वारादेशे कृते अनुस्वारादेशे कृते संहरति इति सिद्ध्यति । \n3. अलम् + कृत्य इत्यस्मिन् समासे अलम् इति उपपदस्य पदसंज्ञा वर्तते, अतः पदान्तमकारस्य प्रकृतसूत्रेण अनुस्वारादेशे कृते अलंकृत्य इति सिद्ध्यति ।\nअनुस्वारः\nअनुस्वारः इति पृथक् वर्णः अस्ति । अस्य उच्चारणम् केवलम् नासिकया सह भवति, तदर्थम् मुखस्य साहाय्यम् नैव आवश्यकम् । अपि च, अस्य वर्णस्य माहेश्वरसूत्रेषु गणनं नैव भवति, अतः अयम् 'अयोगवाहः' अस्ति इत्यपि उच्यते । वस्तुतस्तु अनुस्वारस्य अट्-प्रत्याहारे ग्रहणं भवति इति सिद्धान्तकौमुद्याम् <<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इत्यस्मिन् सूत्रे निर्दिष्टं वर्तते । एवमेव अनुस्वारस्य शर्-प्रत्याहारे अपि ग्रहणं भवति इति सिद्धान्तकौमुद्याम् <<विसर्जनीयस्य सः>> [[8.3.34]] इत्यस्मिन् सूत्रे निर्दिष्टं दृश्यते ।\nअपवादाः\nपदान्तमकारस्य प्रकृतसूत्रेण प्राप्तः अनुस्वारादेशः <<मो राजि समः क्वौ>> [[8.3.25]], <<हे मपरे वा>> [[8.3.26]] तथा च <<नपरे नः>> [[8.3.27]] इत्येतैः त्रिभिः सूत्रैः बाध्यते । तत्र <<मो राजि समः क्वौ>> [[8.3.25]] इत्यनेन अनुस्वारस्य नित्यं बाधः भवति, <<हे मपरे वा>> [[8.3.26]] तथा च <<नपरे नः>> [[8.3.27]] इत्येतयोः तु विकल्पेन बाधः भवति । " }, "83024": { "sa": "अपदान्तमकारस्य अपदान्तनकारस्य च झल्-वर्णे परे संहितायाम् अनुस्वारादेशः भवति । ", "sd": "अष्टाध्याय्याम् द्वाभ्याम् सूत्राभ्याम् आदेशरूपेण अनुस्वारस्य विधानं क्रियते । एतयोः इदम् द्वितीयम् सूत्रम् । यः मकारः/ नकारः पदस्य अन्ते न विद्यते, तस्य झल्-वर्णे परे संहितायाम् अनुस्वारादेशः भवति — इति अस्य सूत्रस्य आशयः ।\n\nझल् = वर्गप्रथमाः, वर्गद्वितीयाः, वर्गतृतीयाः, वर्गचतुर्थाः, ऊष्माणः । वर्गपञ्चमाः तथा अन्तःस्थाः झल्-प्रत्याहारे न विद्यन्ते ।\n\nउदाहरणानि एतादशानि —\n1. अपदान्तमकारस्य झलि अनुस्वारादेशः —\ni) नम्-धातोः अन्ते विद्यमानस्य मकारस्य लृट्लकारस्य प्रक्रियायाम् प्रकृतसूत्रेण अनुस्वारादेशः भवति । प्रक्रिया एतादृशी —\n\nनम् + लृट् [<<लृट् शेषे च>> [[3.3.13]] इति लृट्-लकारः]\n→ नम् + स्य + लृट् [<<स्यतासी लृलुटोः>> [[3.1.33]] इति 'स्य' विकरणप्रत्ययः]\n→ नम् + स्य + तिप् [<<तिप्तस्झि...>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य विवक्षायाम् तिप्-प्रत्ययः]\n→ नंस्यति [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति अपदान्तमकारस्य झल्-वर्णे परे अनुस्वारः]\n\nii) गम्-धातोः अन्ते विद्यमानस्य मकारस्य तुमुन्-प्रत्ययस्य तकारे परे प्रकृतसूत्रेण अनुस्वारादेशः भवति । प्रक्रिया एतादृशी —\n\nगमॢँ (गतौ, भ्वादिः, <{1.1137}>)\n→ गम् + तुमुन् [<<तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्>> [[3.3.10]] इति तुमुन्-प्रत्ययः]\n→ गं + तुम् [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति अपदान्तमकारस्य झल्-वर्णे परे अनुस्वारः]\n→ गन्तुम् [<<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति मकारस्य परसवर्णे नकारादेशः]\n\n2. अपदान्तनकारस्य झलि अनुस्वारादेशः —\ni) पयस्-शब्दस्य प्रथमाबहुवचनस्य प्रक्रियायाम् नुमागमे कृते तस्य झल्-वर्णे परे अनुस्वारादेशः भवति ।\n\nपयस् + जस्\n→ पयस् + शि [<<जश्शसोः शिः>> [[7.1.20]] इति शि-आदेशः]\n→ पयन् स् + इ [<<नपुंसकस्य झलचः>> [[6.1.72]] इति नुमागमः]\n→ पयान् स् + इ [<<सान्तमहतः संयोगस्य>> [[6.4.10]] इति नकारात् पूर्वस्वरस्य दीर्घः]\n→ पयांसि [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति अपदान्त-नकारस्य झल्-वर्णे परे अनुस्वारः]\n\nii) कम्प्-धातोः औपदेशिकरूपम् 'कपिँ' इति इदित् अस्ति । प्रक्रियायाः प्रारम्भे अत्र नुमागमः भवति, ततश्च नुमागमस्य प्रकृतसूत्रेण अनुस्वारादेशः भवति —\n\nकपिँ (चलने, भ्वादिः, <{1.435}>)\n→ क नुम् प् [<<इदितो नुम् धातोः>> [[7.1.58]] इति नुमागमः]\n→ क न् प् [मकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति लोपः । उकारः उच्चारणार्थः, सोऽपि लुप्यते ।]\n→ कन्प् + अनीयर् [<<तव्यत्तव्यानीयरः>> [[3.1.96]] इति अनीयर्-प्रत्ययः]\n→ कंप् + अनीय [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति अनुस्वारः]\n→ कम्पनीय [<<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति परसवर्णः मकारः]\n\niii) प्रथमपुरुषबहुवचनस्य 'झि' प्रत्ययस्य 'अन्ति' इति आदेशे कृते प्रक्रियायाम् अस्य नकारस्य प्रकृतसूत्रैण अनुस्वारादेशः भवति । यथा —\n\nचरँ (गतौ भक्षणे च, भ्वादिः, <{1.640}>)\n→ चर् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्लकारः]\n→ चर् + झि [प्रथमपुरुषबहुवचनस्य विवक्षायाम् <<तिप्तस्झि..>> [[3.4.78]] इत्यनेन झि-प्रत्ययः]\n→ चर् + शप् + झि [<<कर्तरि शप्>> [[3.1.68]] इति शप्-विकरणप्रत्ययः]\n→ चर् + अ + अन्ति [<<झोऽन्तः>> [[7.1.3]] इति प्रत्ययझकारस्य अन्त्-आदेशः]\n→ चर् + अ + अंति [ <<नश्चापदान्तस्य झलि>> [[8.3.24]] इत्यनेन नकारस्य अनुस्वारादेशः]\n→ चर् + अ + अन्ति [अनुस्वारस्य <<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इत्यनेन परसवर्णः नकारः । अस्मिन् नकारे कृते अत्र <<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इति इत्यनेन णत्वम् नैव सम्भवति, यतः <<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इत्यस्य कृते <<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति सूत्रमेव असिद्धम् अस्ति ।<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इत्यनेन 'चरंति' इत्येव (अनुस्वारसहितं रूपं) दृश्यते, तत्र च णत्वस्य प्रसङ्गः अपि नास्ति । अतः अन्तिमरूपे नकारः एव श्रूयते ।]\n→ चरन्ति \n\nदलकृत्यम्\n1. अपदान्तस्य इति किमर्थम् ? पदान्तमकारस्य <<मोऽनुस्वारः>> [[8.3.23]] इत्यनेनैव अनुस्वारादेशः भवति । पदान्तनकारस्य तु अनुस्वारादेशः नैव इष्यते, अतः अस्मिन् सूत्रे अपदान्तस्य इति शब्दः स्थापितः अस्ति । अतएव बालान् पश्यति इत्यत्र नकारस्य अनुस्वारादेशः न भवति । \n2. झलि इति किमर्थम् ? अग्रे झल्-वर्णः नास्ति चेत् प्रकृतसूत्रेण अनुस्वारादेशः न भवति । यथा —\n\ni) गम् धातोः यत्-प्रत्यये परे गम्य इति रूपम् सिद्ध्यति, तत्र मकारस्य अनुस्वारादेशः न भवति । \nii) इविँ इति धातोः <<इदितो नुम् धातोः>> [[7.1.58]] इत्यनेन नुमागमे कृते, अस्य अपदान्तनकारस्य अनुस्वारादेशः न भवति, अतः इन्वति इत्येव रूपं सिद्ध्यति ।\n\n\n\n" }, "83025": { "sa": "सम्-उपसर्गपूर्वक-राज्-धातोः क्विप्-प्रत्ययः विधीयते चेत् सम्-उपसर्गस्य मकारस्य (अनुस्वारं बाधित्वा) मकारादेशः एव भवति ।", "sd": "सम् उपसर्गात् परस्य राजृ (दीप्तौ, भ्वादिः, <{1.956}>) धातोः क्विप्-प्रत्यये कृते प्रक्रियायाम् सम् उपसर्गस्य मकारस्य <<मोऽनुस्वारः>> [[8.3.23]] इत्यनेन प्राप्तम् अनुस्वारम् बाधित्वा प्रकृतसूत्रेण तस्य स्थाने मकारादेशः एव भवति । अनेन सम्राज् इति मकारघटितं प्रातिपदिकं सिद्ध्यति । प्रक्रिया एतादृशी —\n\nसम् + राज् + क्विप् + सुँ [<<सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्>> [[3.2.61]] इति क्विप्-प्रत्ययः । कृदन्तस्य <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । ततः प्रथमैकवचनस्य विवक्षायाम् सुँ-प्रत्ययः]\n→ सम् + राज् + ० + स् [ककारपकारयोः इत्संज्ञा, लोपः । वकारोत्तरः इकारः उच्चारणार्थः, तस्यापि लोपः भवति । अपृक्तवकारस्य <<वेरपृक्तस्य>> [[6.1.67]] इति लोपः]\n→ सम् + राज् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति सुँ-प्रत्ययस्य लोपः]\n→ सम् + राष् [<<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> [[8.2.36]] इति जकारस्य षकारः]\n→ सम् + राड् [<<झलां जशोऽन्ते>> [[8.2.39]] इति षकारस्य जश्त्वे डकारः]\n→ सम्राड् [<<मोऽनुस्वारः>> [[8.3.23]] इत्यनेन मकारस्य अनुस्वारादेशे प्राप्ते; तद्बाधित्वा <<मो राजि समः क्वौ>> [[8.3.25]] इत्यनेन मकारस्य मकारादेशः]\n→ सम्राट्, सम्राड् [<<वाऽवसाने>> [[8.4.56]] इति विकल्पेन चर्त्वम् ]\n\nअनेन प्रकारेण प्रकृतसूत्रेण सम्राट् इति पदं सिद्ध्यति ।\nप्रतिषेधेनैव इष्टार्थे सिद्धे मकारनिर्देशः अधिकविधानार्थः\nप्रकृतसूत्रेण मकारस्य मकारादेशः एव उच्यते । तस्य स्थाने केवलम् 'अनुस्वारादेशः न भवति' इति निषेधः उच्यते चेदपि नैव दोषाय ।वस्तुतस्तु, अस्मिन् पक्षे <<न राजि सम क्वौ>> इति सूत्रं भवति, येन किञ्चित् मात्रालाघवम् अपि जायते । तथापि पाणिनिना अत्र मकारस्य मकारादेशः एव उक्तः अस्ति । अस्य प्रयोजनम् न्यासकारेण इत्थं निर्दिष्टम् अस्ति —\n\nयदि एवम्, 'न' इति प्रतिषेधः कर्तव्यः, एवं हि लघु सूत्रं भवति; विभक्त्यनुच्चारणात् ? एवं तर्हि निर्देशाधिक्येन तु मकारविधानेन एतत् सूचयति - अत्र प्रकरणे अधिको हि विधिः भवति, इति। यवलपरे यवला वा भवन्ति, इति उपपन्नं भवति ।\n\nइत्युक्ते, मकारस्य मकारादेशम् एव उक्त्वा अत्र पाणिनिः मकारस्य अन्ये आदेशाः अपि कुत्रचित् सम्भवन्ति — इति ज्ञापयितुम् इच्छति । वस्तुतस्तु अग्रिमसूत्रे निर्दिष्टेन इति वार्त्तिकेन पदान्तमकारस्य विशिष्टासु स्थितिषु य्ँ, व्ँ, ल्ँ एते आदेशाः उक्ताः सन्ति । यद्यपि एते पाणिनिना साक्षात् नोक्ताः, तथापि प्रकृतसूत्रे निषेधस्य स्थाने मकारादेशस्य ग्रहणेन एते अधिकाः आदेशाः अपि पाणिनिसम्मताः एव इति निर्णयं कर्तुम् शक्यते — एषः अत्र न्यासकारस्य आशयः अस्ति । \n" }, "83026": { "sa": "पदान्तमकारात् अनन्तरम् संहितायाम् 'ह् + म्' इति वर्णसमुदायः वर्तते चेत् पदान्तमकारस्य <<मोऽनुस्वारः>> [[8.3.23]] इत्यनेन प्राप्तं नित्यम् अनुस्वारादेशं बाधित्वा विकल्पेन मकारादेशः एव भवति । ", "sd": "पदान्त म् + (ह् + म्) अस्याम् स्थितौ पदान्तमकारस्य <<मोऽनुस्वारः>> [[8.3.23]] इत्यनेन प्राप्तं अनुस्वारादेशं विकल्पेन बाधित्वा मकारस्य मकारादेशः एव भवति । यथा — किम् + ह्मलयति → किम्ह्मलयति, किं ह्मलयति । अत्र विकल्पेन मकारस्य मकारादेशः एव भवति, पक्षे <<मोऽनुस्वारः>> [[8.3.23]] इति अनुस्वारादेशः भवति ।\nअस्मिन् सूत्रे मपरे इति शब्दे एकः मकारः विद्यते । इतोऽपि द्वयोः मकारयोः अत्र अनुवृत्तिः क्रियते । <<मोऽनुस्वारः>> [[8.3.23]] इत्यस्मात् षष्ठ्यन्तम् मः इति पदम् अत्र अनुवर्तते, एवमेव <<मो राजि समः क्वौ>> [[8.3.25]] इत्यस्मात् प्रथमान्तम् मः इति पदम् अपि अत्र अनुवर्तते । अनेन प्रकारेण मः मपरे हे मः वा इति अनुवृत्तिसहितं सूत्रम् जायते । मकारस्य मपरके-हकारे परे विकल्पेन मकारादेशः भवति इति अस्य सूत्रस्य अर्थः इत्थं सिद्ध्यति ।\nवार्त्तिकम् — <!यवलपरे यवला वेति वक्तव्यम् !>\nपदान्तमकारस्य ह् + य्, ह् + व्, ह् + ल् इत्येतेषु परेषु विकल्पेन यथासङ्ख्यम् य्ँ, व्ँ, ल्ँ एते आदेशाः भवन्ति इति अस्य वार्त्तिकस्य अर्थः । उदाहरणानि एतानि —\n\n1) किम् ह्यः → किय्ँ ह्यः, किं ह्यः ।\n2) किम् ह्लादयति → किल्ँ ह्लादयति, किं ह्लादयति ।\n3) किम् ह्वलयति → किव्ँ ह्वलयति, किं ह्वलयति ।\n\nसर्वेषु उदाहरणेषु मकारस्य पक्षे <<मोऽनुस्वारः>> [[8.3.23]] इति अनुस्वारः अपि विधीयते ।\n" }, "83027": { "sa": "पदान्तमकारात् अनन्तरम् संहितायाम् 'ह् + न्' इति वर्णसमुदायः वर्तते चेत् पदान्तमकारस्य <<मोऽनुस्वारः>> [[8.3.23]] इत्यनेन प्राप्तं नित्यम् अनुस्वारादेशं बाधित्वा विकल्पेन नकारादेशः भवति । ", "sd": "पदान्त म् + (ह् + न्) अस्याम् स्थितौ पदान्तमकारस्य <<मोऽनुस्वारः>> [[8.3.23]] इत्यनेन प्राप्तं अनुस्वारादेशं विकल्पेन बाधित्वा मकारस्य नकारादेशः भवति । यथा — किम् + ह्नुते → किन्ह्नुते, किं ह्नुते । अत्र विकल्पेन मकारस्य नकारादेशः भवति, पक्षे <<मोऽनुस्वारः>> [[8.3.23]] इति अनुस्वारादेशः भवति ।\n" }, "83028": { "sa": "पदान्ते विद्यमानस्य ङकारस्य णकारस्य च संहितायाम् शर्-वर्णे परे यथासङ्ख्यम् विकल्पेन कुक् तथा टुक् आगमः भवति । ", "sd": "\nशर् = श् , ष् , स्\n\nपदान्तङकारस्य संहितायाम् श्/ष्/स्-वर्णे परे विकल्पेन कुक्-आगमः भवति, पदान्तणकारस्य च संहितायाम् श्/ष्/स्-वर्णे परे विकल्पेन टुक्-आगमः भवति । द्वौ अपि एतौ आगमौ कितौ स्तः, अतः <<आद्यन्तौ टकितौ>> [[1.1.46]] इत्यनेन एतौ स्थानिनः अनन्तरम् विधीयेते । उदाहरणानि क्रमेण एतानि —\n1. शकारे परे आगमविधानम् \ni) प्राङ् (east) इत्यस्मात् शब्दात् शेते शब्दे परे पदान्तङकारस्य कुक्-आगमः भवति ।\n\nप्राङ् + शेते [प्राङ् इति प्राञ्च्-शब्दस्य प्रथमैकवचनस्य रूपम् । अतः अस्य पदसंज्ञा विद्यते ।]\n→ प्राङ् + कुक् + शेते [<<ङ्णोः कुक्टुक् शरि>> [[8.3.28]] इति सूत्रेण पदान्तङकारस्य विकल्पेन कुक्-आगमः । <<आद्यन्तौ टकितौ>> [[1.1.46]] इति अन्त्यावयवः]\n→ प्राङ् + क् + शेते [अन्तिमककारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः । उकारः उच्चारणार्थः, सः अपि लुप्यते ।]\n→ प्राङ् + क् / ख् + शेते [ अनेन वार्त्तिकेन अत्र ककारस्य विकल्पेन खकारादेशः अपि सम्भवति ।]\n→ प्राङ्क्शेते / प्राङ्ख्शेते [वर्णमेलनम् । अत्र खकारस्य विधानसामर्थ्यात् <<खरि च>> [[8.4.55]] इति चर्त्वम् न विधीयते ।]\n
    \nपक्षे कुगागमं विना प्राङ्शेते इत्यपि रूपं सिद्ध्यति ।\n
    \nii) सुगण् (the one who counts well) इत्यस्मात् शब्दात् शेते शब्दे परे पदान्तणकारस्य टुक्-आगमः भवति ।\n\nसुगण् + शेते [सु-उपसर्गपूर्वकात् गण्-धातोः क्विप्-प्रत्यये कृते 'सुगण्' इति प्रातिपदिकं सिद्ध्यति, तस्य प्रथमैकवचनम् 'सुगण् ' इत्यस्य पदसंज्ञा विद्यते ।\n→ सुगण् + टुक् + शेते [<<ङ्णोः कुक्टुक् शरि>> [[8.3.28]] इति सूत्रेण पदान्तणकारस्य विकल्पेन टुक्-आगमः । <<आद्यन्तौ टकितौ>> [[1.1.46]] इति अन्त्यावयवः । अस्मिन् आगमे विद्यमानः टकारः इत्संज्ञकः नास्ति, केवलम् ककारः एव इत्संज्ञकः अस्ति । अतः अयम् आगमः कित्-आगमः अस्ति, न हि टित्-आगमः ।]\n→ सुगण् + ट् + शेते [ककारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः । उकारः उच्चारणार्थः, सः अपि लुप्यते ।]\n→ सुगण् + ट् / ठ् + शेते [ अनेन वार्त्तिकेन अत्र टकारस्य विकल्पेन ठकारादेशः अपि सम्भवति ।]\n→ सुगणट्शेते / सुगणठ्शेते [वर्णमेलनम् । अत्र ठकारस्य विधानसामर्थ्यात् <<खरि च>> [[8.4.55]] इति चर्त्वम् न विधीयते ।]\n
    \nपक्षे टुगागमं विना सुगण्शेते इत्यपि रूपं सिद्ध्यति ।\n
    \n2. षकारे परे आगमविधानम् \ni) प्राङ् (east) इत्यस्मात् शब्दात् षष्ठ शब्दे परे पदान्तङकारस्य कुक्-आगमः भवति ।\n\nप्राङ् + षष्ठः [प्राङ् इति प्राञ्च्-शब्दस्य प्रथमैकवचनस्य रूपम् । अतः अस्य पदसंज्ञा विद्यते ।]\n→ प्राङ् + कुक् + षष्ठः [<<ङ्णोः कुक्टुक् शरि>> [[8.3.28]] इति सूत्रेण पदान्तङकारस्य विकल्पेन कुक्-आगमः । <<आद्यन्तौ टकितौ>> [[1.1.46]] इति अन्त्यावयवः]\n→ प्राङ् + क् + षष्ठः [अन्तिमककारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः । उकारः उच्चारणार्थः, सः अपि लुप्यते ।]\n→ प्राङ् + क् / ख् + षष्ठः [ अनेन वार्त्तिकेन अत्र ककारस्य विकल्पेन खकारादेशः अपि सम्भवति ।]\n→ प्राङ्क्षष्ठः / प्राङ्ख्षष्ठः [वर्णमेलनम् । अत्र खकारस्य विधानसामर्थ्यात् <<खरि च>> [[8.4.55]] इति चर्त्वम् न विधीयते ।]\n
    \nपक्षे कुगागमं विना प्राङ्षष्ठः इत्यपि रूपं सिद्ध्यति ।\n
    \nii) सुगण् (the one who counts well) इत्यस्मात् शब्दात् षष्ठ शब्दे परे पदान्तणकारस्य टुक्-आगमः भवति ।\n\nसुगण् + षष्ठः [सु-उपसर्गपूर्वकात् गण्-धातोः क्विप्-प्रत्यये कृते 'सुगण्' इति प्रातिपदिकं सिद्ध्यति, तस्य प्रथमैकवचनम् 'सुगण् ' इत्यस्य पदसंज्ञा विद्यते ।\n→ सुगण् + टुक् + षष्ठः [<<ङ्णोः कुक्टुक् शरि>> [[8.3.28]] इति सूत्रेण पदान्तणकारस्य विकल्पेन टुक्-आगमः । <<आद्यन्तौ टकितौ>> [[1.1.46]] इति अन्त्यावयवः ।]\n→ सुगण् + ट् + षष्ठः [ककारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः । उकारः उच्चारणार्थः, सः अपि लुप्यते ।]\n→ सुगण् + ट् / ठ् + षष्ठः [ अनेन वार्त्तिकेन अत्र टकारस्य विकल्पेन ठकारादेशः अपि सम्भवति ।]\n→ सुगणट्षष्ठः / सुगणठ्षष्ठः [वर्णमेलनम् । अत्र ठकारस्य विधानसामर्थ्यात् <<खरि च>> [[8.4.55]] इति चर्त्वम् न विधीयते ।]\n
    \nपक्षे टुगागमं विना सुगण्षष्ठः इत्यपि रूपं सिद्ध्यति ।\n
    \n3. सकारे परे आगमविधानम् \ni) प्राङ् (east) इत्यस्मात् शब्दात् सप्तमः शब्दे परे पदान्तङकारस्य कुक्-आगमः भवति ।\n\nप्राङ् + सप्तमः [प्राङ् इति प्राञ्च्-शब्दस्य प्रथमैकवचनस्य रूपम् । अतः अस्य पदसंज्ञा विद्यते ।]\n→ प्राङ् + कुक् + सप्तमः [<<ङ्णोः कुक्टुक् शरि>> [[8.3.28]] इति सूत्रेण पदान्तङकारस्य विकल्पेन कुक्-आगमः । <<आद्यन्तौ टकितौ>> [[1.1.46]] इति अन्त्यावयवः]\n→ प्राङ् + क् + सप्तमः [अन्तिमककारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः । उकारः उच्चारणार्थः, सः अपि लुप्यते ।]\n→ प्राङ् + क् / ख् + सप्तमः [ अनेन वार्त्तिकेन अत्र ककारस्य विकल्पेन खकारादेशः अपि सम्भवति ।]\n→ प्राङ्क्सप्तमः / प्राङ्ख्सप्तमः [वर्णमेलनम् । अत्र खकारस्य विधानसामर्थ्यात् <<खरि च>> [[8.4.55]] इति चर्त्वम् न विधीयते ।]\n
    \nपक्षे कुगागमं विना प्राङ्सप्तमः इत्यपि रूपं सिद्ध्यति । \n
    \nii) सुगण् (the one who counts well) इत्यस्मात् शब्दात् सप्तमः शब्दे परे पदान्तणकारस्य टुक्-आगमः भवति ।\n\nसुगण् + सप्तमः [सु-उपसर्गपूर्वकात् गण्-धातोः क्विप्-प्रत्यये कृते 'सुगण्' इति प्रातिपदिकं सिद्ध्यति, तस्य प्रथमैकवचनम् 'सुगण् ' इत्यस्य पदसंज्ञा विद्यते ।\n→ सुगण् + टुक् + सप्तमः [<<ङ्णोः कुक्टुक् शरि>> [[8.3.28]] इति सूत्रेण पदान्तणकारस्य विकल्पेन टुक्-आगमः । <<आद्यन्तौ टकितौ>> [[1.1.46]] इति अन्त्यावयवः ।]\n→ सुगण् + ट् + सप्तमः [ककारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः । उकारः उच्चारणार्थः, सः अपि लुप्यते ।]\n→ सुगण् + ट / ठ् + सप्तमः [ अनेन वार्त्तिकेन अत्र ककारस्य विकल्पेन खकारादेशः अपि सम्भवति ।]\n→ सुगणट्सप्तमः / सुगणठ्सप्तमः [वर्णमेलनम् । अत्र पदान्तटकारात् / पदान्तठकारात् परस्य सकारस्य ष्टुत्वम् <<न पदान्ताट्टोरनाम्>> [[8.4.42]] इति निषिध्यते, अतः अत्र ष्टुत्वं नैव सम्भवति । एवमेव, अत्र ठकारस्य विधानसामर्थ्यात् <<खरि च>> [[8.4.55]] इति तस्य चर्त्वम् न विधीयते ।]\n
    \nपक्षे टुगागमं विना सुगण्सप्तमः इत्यपि रूपं सिद्ध्यति ।\n
    \nवार्त्तिकम् — <!चयो द्वितीयाः शरि पौष्करसादेरिति वाच्यम् !>\nचय्-वर्णात् (इत्युक्ते, वर्गप्रथमवर्णात्) अनन्तरम् संहितायाम् यदि शर्-वर्णः विद्यते, तर्हि 'पौष्करसादिः' इति नाम्नः आचार्यस्य मतेन (इत्युक्ते, विकल्पेन) चय्-वर्णस्य स्थाने वर्गद्वितीयः वर्णः आदेशरूपेण विधीयते —‌ इति अस्य वार्त्तिकस्य आशयः । विधानसामर्थ्यात् अस्य वर्गद्वितीयवर्णस्य अग्रे <<खरि च>> [[8.4.55]] इति चर्त्वम् न भवति ।\nउपरि निर्दिष्टेषु सर्वेषु अपि उदाहरणेषु इति वार्त्तिकेन ककारस्य विकल्पेन खकारादेशः, एवमेव टकारस्य विकल्पेन ठकारादेशः कृतः अस्ति । \nअस्मिन् वार्त्तिके चय् इति प्रत्याहारः प्रयुक्तः अस्ति । अयम् प्रत्याहारः पाणिनिना न हि कुत्रचित् प्रयुक्तः दृश्यते । केवलम् अस्मिन् वार्त्तिके एव अस्य प्रत्याहारस्य निर्देशः लभ्यते । वस्तुतस्तु, अस्य प्रत्याहारस्य सिद्ध्यर्थम् एव खकारस्य फकारस्य च <<खफछठथचटतव्>> अस्मिन् शिवसूत्रे आवश्यकता विद्यते । यदि चय्-प्रत्याहारः नैव स्यात्, तर्हि <<कपय्>> सूत्रे खकारफकारयोः ग्रहणेन अपि न कश्चन दोषः उत्पद्येत । अस्मिन् विषये अधिकम् ज्ञातुम् अत्र दृश्यताम् ।\nकाशिकायाम् इति वार्त्तिकम् <<नादिन्याक्रोशे पुत्रस्य>> [[8.4.48]] अस्मिन् सूत्रे पाठितम् अस्ति । कौमुद्यां तु प्रसङ्गवशात् इदम् वार्त्तिकम् अस्मिन् एव सूत्रे निर्दिष्टम् वर्तते ।" }, "83029": { "sa": "पदान्तडकारात् परस्य सकारस्य संहितायाम् विकल्पेन धुडागमः भवति । ", "sd": "पदान्त-डकारात् परस्य सकारस्य संहितायाम् विकल्पेन 'धुट्' इति आगमः भवति । अयम् टित्-आगमः, अतः <<आद्यन्तौ टकितौ>> [[1.1.46]] इत्यनेन अयम् सकारात् पूर्वम् विधीयते ।\nद्वे उदाहरणे एतादृशे —\n1. षड् + सन्तः इत्यत्र प्रकृतसूत्रेण धुडागमः —\n\nषड् सन्तः\n→ षड् धुट् सन्तः [<<डः सि धुट्>> [[8.3.29]] इत्यनेन सकारस्य पाक्षिकः धुडागमः । <<आद्यन्तौ टकितौ>> [[1.1.46]] इति अयम् आद्यवयवरूपेण विधीयते ।]\n→ षड् ध् सन्तः [टकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः । धकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ]\n→ षड् त् सन्तः [डकारात् परस्य धकारस्य ष्टुत्वे प्राप्ते <<न पदान्ताट्टोरनाम्>> [[8.4.42]] इति तत् निषिध्यते । अतः धकारस्य <<खरि च>> [[8.4.55]] इति चर्त्वे तकारः सिद्ध्यति । अस्य चर्त्वस्य असिद्धत्वात् अग्रे इत्यनेन पाक्षिकः थकारादेशः न भवति ।]\n→ षट् त् सन्तः [डकारस्य <<खरि च>> [[8.4.55]] इति चर्त्वे टकारः ।]\n→ षट्त्सन्तः \n
    \n<<डः सि धुट्>> [[8.3.29]] इत्यनेन उक्तः धुडागमः विकल्पेनैव भवति, अतः पक्षे धुडागमं विना षड् + सन्तः इत्यवस्थायां <<खरि च>> [[8.4.55]] इति चर्त्वे कृते षट्सन्तः इत्यपि सिद्ध्यति । अत्रापि चर्त्वस्य असिद्धत्वात् अग्रे इत्यनेन पाक्षिकः ठकारादेशः न भवति ।\n
    \n2. लिह्-शब्दस्य सप्तमीबहुवचस्य प्रत्यये परे प्रकृतसूत्रेण धुडागमः भवति ।\n\nलिह् + सुप् [सप्तमीबहुवचनस्य प्रत्ययः]\n→ लिढ् + सु [<<हो ढः>> [[8.2.31]] इति झलि परे हकारस्य ढकारादेशः]\n→ लिड् + सु [<<झलां जशोऽन्ते>> [[8.2.39]] इति पदान्तढकारस्य जश्त्वे डकारः]\n→ लिड् + धुट् + सु [<<डः सि धुट्>> [[8.3.29]] इति धुडागमः । <<आद्यन्तौ टकितौ>> [[1.1.46]] इति अयम् आद्यवयवरूपेण विधीयते ।]\n→ लिड् + ध् + सु [टकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः । धकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ]\n→ लिड् + त् + सु [<<खरि च>> [[8.4.55]] इति धकारस्य चर्त्वम् तकारः । अस्य चर्त्वस्य असिद्धत्वात् अग्रे इत्यनेन पाक्षिकः थकारादेशः न भवति ।]\n→ लिट् + त् + सु [<<खरि च>> [[8.4.55]] इति डकारस्य चर्त्वम् टकारः ।]\n→ लिट्त्सु ।\n
    \nपक्षे धुडागमस्य अभावे लिट्सु इत्यपि रूपं सिद्ध्यति । अत्रापि चर्त्वस्य असिद्धत्वात् अग्रे इत्यनेन पाक्षिकः ठकारादेशः न भवति ।\n
    \nसूत्रे स्थानिनिर्णयः\nप्रकृतसूत्रे डः इति पदम् पञ्चमीविभक्तौ विद्यते, सि इति पदम् च सप्तमीविभक्तौ विद्यते । इत्युक्ते, अत्र षष्ठ्यन्तम् पदम् नास्ति । अस्यां स्थितौ, पञ्चमीविभक्तिनिमित्तकम् कार्यम् कर्तव्यम् उत सप्तमीविभक्तिनिमित्तकम् कार्यम् कर्तव्यम् इति सन्देहे जाते (इत्युक्ते,डः इति पूर्वनिमित्तम् स्वीकृत्य सकारः स्थानिरूपेण ग्रहीतव्यः, उत सि इति परनिमित्तम् स्वीकृत्य डकारः स्थानिरूपेण ग्रहीतव्यः इति प्रश्ने जाते) <<विप्रतिषेधे परं कार्यम्>> [[1.4.2]] इत्यस्याः परिभाषायाः साहाय्यं स्वीक्रियते । अष्टाध्याय्याम् <<तस्मादित्युत्तरस्य>> [[1.1.67]] इति पञ्चमीनिमित्तकम् कार्यम् <<तस्मिन्निति निर्दिष्टे पूर्वस्य>> [[1.1.66]] इति सप्तमीनिमित्तकात् कार्यात् अनन्तरम् पाठितम् अस्ति, अतः विप्रतिषेधेन अत्र पञ्चमीनिमित्तकम् कार्यं बलवत् स्वीकृत्य डः इति पूर्वनिमित्तरूपेण स्वीक्रियते, अतश्च सि इत्यनेन निर्दिष्टः सकारः स्थानित्वं गृह्णाति । अतएव अयम् धुडागमः सि इति स्थानिनः पूर्वम् भवति ।अयमेव विषयः <ऽउभयनिर्देशे पञ्चमीनिर्देशो बलीयान् ऽ> इति परिभाषायाः स्वरूपेण परिभाषेन्दुशेखरे पाठितः अस्ति । तत्र नागेशेन उच्यते —\n\nयत्र तु डः सि धुट् इत्यादौ उभयोः अपि अचारितार्थ्यम् तत्र 'तस्मिन्' इति सूत्रापेक्षया 'तस्मादित्युत्तरस्य' इत्यस्य परत्त्वात् तेन एव व्यवस्था । — परिभाषेन्दुशेखरे 'उभयनिर्देशे पञ्चमीनिर्देशो बलीयान्' इत्यत्र नागेशः । \n\nप्रकृतसूत्रे डः इत्यस्य पञ्चमीविभक्तिः तथा च सि इत्यस्य सप्तमीविभक्तिः — एते द्वे अपि अन्यत्र चारितार्थ्यं नैव प्राप्नुतः । इत्युक्ते, अग्रिमसूत्रेषु न हि डः इत्यस्य पञ्चमीनिर्देशः उपयुज्यते, न च सि इत्यस्य सप्तमीनिर्देशः । डः इत्यस्य अनुवृत्तिः अग्रिमसूत्रे नैव भवति, सि इत्यस्य यद्यपि अनुवृत्तिः तथापि तत्र तस्य सप्तमीविभक्तिः न उपयुज्यते इति अत्र आशयः । अतः एतयोः द्वयोः अपि पदयोः विभक्ती अनुपयोगिन्यौ एव स्तः । अतश्च अस्मिन् स्थले <ऽउभयनिर्देशे पञ्चमीनिर्देशो बलीयान् ऽ> इति परिभाषाम् उपयुज्य स्थानिनिर्णयः क्रियते । अस्याः मूलम् तु <<तस्मिन्निति निर्दिष्टे पूर्वस्य>> [[1.1.66]] तथा च <<तस्मादित्युत्तरस्य>> [[1.1.67]] इत्येतयोः मध्ये विद्यमानः विप्रतिषेधः —‌ इति अस्ति ।\n\nटित्-आगमस्य प्रयोजनम्\nअस्मिन् सूत्रे डकारम् निमित्तरूपेण स्वीकृत्य सकारस्य धुट् इति टित् आगमः विधीयते । यदि अत्र सकारम् निमित्तरूपेण स्वीकृत्य डकारस्य धुक् इति कित् आगमः पाणिनिना उच्येत, तर्हि सः डकारात् अनन्तरम् विधीय ड् + ध् + स् इति डकारसकारयोः मध्ये एव उपतिष्ठेत । परन्तु एतादृशं क्रियते चेत् <ऽयदागमास्तद्गुणीभूतास्तद्ग्रहणेन गृह्यन्तेऽ> इत्यनया परिभाषया आगमरूपेण विहितः धकारः पदान्तत्वं स्वीकुर्यात् (अत्र 'पदस्य' इति अधिकारः विद्यते, अतः पदान्तडकारस्य विहितः आगमः डकारस्य पदान्तत्वम् अपि गृह्णाति इत्याशयः), येन अपदान्तडकारात् परस्य धकारस्य अनिष्टम् ष्टुत्वम् आपद्येत, येन धकारस्य अनिष्टम् ढत्वं प्रसज्येत । तत् तथा मा भूत् इति हेतुना अत्र धकारः परस्य (सकारस्य) अवयवरूपेण स्थाप्यते, येन सः सकारस्य आद्यवयवरूपेण कार्यं करोति, न हि डकारस्य अन्त्यावयवरूपेण । \n\n" }, "83030": { "sa": "पदान्तनकारात् परस्य सकारस्य संहितायाम् विकल्पेन धुडागमः भवति । ", "sd": "पदान्त-नकारात् परस्य सकारस्य संहितायाम् विकल्पेन 'धुट्' इति आगमः भवति । अयम् टित्-आगमः, अतः <<आद्यन्तौ टकितौ>> [[1.1.46]] इत्यनेन अयम् सकारात् पूर्वम् विधीयते ।\nद्वे उदाहरणे एतादृशे —\n1. भवान् सुन्दरः इत्यत्र प्रकृतसूत्रेण धुडागमः —\n\nभवान् सुन्दरः\n→ भवान् धुट् सुन्दरः [<<नश्च>> [[8.3.30]] इत्यनेन सकारस्य पाक्षिकः धुडागमः । <<आद्यन्तौ टकितौ>> [[1.1.46]] इति अयम् आद्यवयवरूपेण विधीयते ।]\n→ भवान् ध् सुन्दरः [टकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः । धकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ]\n→ भवान् त् सुन्दरः [धकारस्य <<खरि च>> [[8.4.55]] इति चर्त्वे तकारः । अत्र चर्त्वे कृते तस्य असिद्धत्वात् <<नश्छव्यप्रशान्>> [[8.3.7]] इति पदान्तनकारस्य रुँत्व नैव सम्भवति ।]\n→ भवान्त्सुन्दरः\n
    \n<<नश्च>> [[8.3.30]] इत्यनेन उक्तः धुडागमः विकल्पेनैव भवति, अतः पक्षे धुडागमं विना केवलं वर्णमेलनं कृत्वा भवान्सुन्दरः इत्यपि सिद्ध्यति । \n
    \n2. महान् सः इत्यत्र प्रकृतसूत्रेण धुडागमः —\n\nमहान् सः\n→ महान् धुट् सः [<<नश्च>> [[8.3.30]] इत्यनेन सकारस्य पाक्षिकः धुडागमः । <<आद्यन्तौ टकितौ>> [[1.1.46]] इति अयम् आद्यवयवरूपेण विधीयते ।]\n→ महान् ध् सः [टकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः । धकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ]\n→ महान् त् सः [धकारस्य <<खरि च>> [[8.4.55]] इति चर्त्वे तकारः । अत्र चर्त्वे कृते तस्य असिद्धत्वात् <<नश्छव्यप्रशान्>> [[8.3.7]] इति पदान्तनकारस्य रुँत्व नैव सम्भवति ।]\n→ महान्त्सः\n
    \n<<नश्च>> [[8.3.30]] इत्यनेन उक्तः धुडागमः विकल्पेनैव भवति, अतः पक्षे धुडागमं विना केवलं वर्णमेलनं कृत्वा महान्सः इत्यपि सिद्ध्यति । \n
    \nसूत्रे स्थानिनिर्णयः\nप्रकृतसूत्रे नः इति पदम् पञ्चमीविभक्तौ विद्यते, तथा चसि इति सप्तम्यन्तम् पदम् अनुवर्तते । इत्युक्ते, अत्र षष्ठ्यन्तम् पदम् नास्ति । अस्यां स्थितौ, पञ्चमीविभक्तिनिमित्तकम् कार्यम् कर्तव्यम् उत सप्तमीविभक्तिनिमित्तकम् कार्यम् कर्तव्यम् इति सन्देहे जाते (इत्युक्ते,नः इति पूर्वनिमित्तम् स्वीकृत्य सकारः स्थानिरूपेण ग्रहीतव्यः, उत सि इति परनिमित्तम् स्वीकृत्य नकारः स्थानिरूपेण ग्रहीतव्यः इति प्रश्ने जाते) <<विप्रतिषेधे परं कार्यम्>> [[1.4.2]] इत्यस्याः परिभाषायाः साहाय्यं स्वीक्रियते । अष्टाध्याय्याम् <<तस्मादित्युत्तरस्य>> [[1.1.67]] इति पञ्चमीनिमित्तकम् कार्यम् <<तस्मिन्निति निर्दिष्टे पूर्वस्य>> [[1.1.66]] इति सप्तमीनिमित्तकात् कार्यात् अनन्तरम् पाठितम् अस्ति, अतः विप्रतिषेधेन अत्र पञ्चमीनिमित्तकम् कार्यं बलवत् स्वीकृत्य नः इति पूर्वनिमित्तरूपेण स्वीक्रियते, अतश्च सि इत्यनेन निर्दिष्टः सकारः स्थानित्वं गृह्णाति । अतएव अयम् धुडागमः सि इति स्थानिनः पूर्वम् भवति । अयमेव विषयः <ऽउभयनिर्देशे पञ्चमीनिर्देशो बलीयान् ऽ> इति परिभाषायाः रूपेण नागेशेन प्रतिपादितः अस्ति —\n\nयत्र तु डः सि धुट् इत्यादौ उभयोः अपि अचारितार्थ्यम् तत्र 'तस्मिन्' इति सूत्रापेक्षया 'तस्मादित्युत्तरस्य' इत्यस्य परत्त्वात् तेनैव व्यवस्था । — परिभाषेन्दुशेखरे 'उभयनिर्देशे पञ्चमीनिर्देशो बलीयान्' इत्यत्र नागेशः । \n\nअस्मिन् व्याख्याने विद्यमाने 'इत्यादौ' इति शब्देन प्रकृतसूत्रम् अपि गृह्यते । प्रकृतसूत्रे नः इत्यस्य पञ्चमीविभक्तिः तथा च सि इत्यस्य सप्तमीविभक्तिः — एते द्वे अपि अन्यत्र चारितार्थ्यं नैव प्राप्नुतः । इत्युक्ते, एतयोः द्वयोः अपि पदयोः विभक्ती अनुपयोगिन्यौ एव स्तः, यतः यद्यपि एतयोः उभयोः शब्दयोः प्रयोगः अन्यसूत्रेषु कृतः अस्ति तथापि एतयोः पञ्चमीनिर्देशः सप्तमीनिर्देशः वा तेषु स्थलेषु न हि उपयुज्यते । अतश्च अस्मिन् स्थले <ऽउभयनिर्देशे पञ्चमीनिर्देशो बलीयान् ऽ> इति परिभाषया पञ्चमीनिर्देशस्य बलीयस्त्वम् स्वीकृत्य सप्तमीविभक्तिः षष्ठ्या विपरिणम्यते ।\n" }, "83031": { "sa": "पदान्ते विद्यमानस्य नकारस्य शकारे परे संहितायाम् विकल्पेन तुगागमः भवति ।", "sd": "पदान्त-नकारस्य शकारे परे संहितायाम् विकल्पेन 'तुक्' इति आगमः भवति । अयम् कित्-आगमः, अतः <<आद्यन्तौ टकितौ>> [[1.1.46]] इत्यनेन अयम् नकारात् अनन्तरम् विधीयते ।\nयथा, भवान् शेते इत्यत्र सन्धिकार्ये कृते भवाञ्च्शेते / भवाञ्च्छेते / भवाञ्छेते/भवाञ्शेते इति चत्वारि रूपाणि सिद्ध्यन्ति । एतेभ्यः आदिस्थानि त्रीणि रूपाणि साधयितुम् प्रकृतसूत्रेण कृतः तुगागमः आवश्यकः वर्तते । तदित्थम् — \n\nभवान् शेते\n→ भवान् तुक् शेते [<<शि तुक्>> [[8.3.30]] इत्यनेन पदान्तनकारस्य पाक्षिकः तुगागमः । <<आद्यन्तौ टकितौ>> [[1.1.46]] इति अयम् अन्त्यावयवरूपेण विधीयते ।]\n→ भवान् त् शेते [ककारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः । तकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ]\n→ भवान् च् शेते [<<स्तोः श्चुना श्चुः>> [[8.4.40]] इति तकारस्य शकारे परे श्चुत्वे चकारः]\n→ भवाञ् च् शेते [<<स्तोः श्चुना श्चुः>> [[8.4.40]] इति नकारस्य चकारे परे श्चुत्वे ञकारः]\n→ भवाञ् च् शेते / भवाञ् च् छेते [<<शश्छोऽटि>> [[8.4.63]] इति शकारस्य विकल्पेन छकारः]\n→ भवाञ्च्शेते / भवाञ्च्छेते / भवाञ्छेते [छत्वपक्षे <<झरो झरि सवर्णे>> [[8.4.65]] इति चकारस्य लोपः]\n
    \n<<शि तुक्>> [[8.3.30]] इत्यनेन उक्तः तुगागमः विकल्पेनैव भवति, अतः पक्षे तुगागमं विना भवान् शेते अस्यां स्थितौ <<स्तोः श्चुना श्चुः>> [[8.4.40]] इति श्चुत्वे भवाञ्शेते इति अपि रूपं सम्भवति । \n
    \nचत्वारि रूपाणि\nप्रकृतसूत्रस्य प्रयोगेण नित्यम् चत्वारि रूपाणि सम्भवन्ति । एतानि एव सिद्धान्तकौमुद्याम् एकया कारिकया निर्दिष्टानि सन्ति —\n\nञछौ ञचछा ञचशा ञशाविति चतुष्टयम् ।\nरूपाणामिह तुक्छत्वचलोपानां विकल्पनात् ॥\n\nप्रकृतसूत्रस्य प्रक्रियायाम् यदा प्रयोगः भवति, तदा — (अ) पाक्षिकः तुगागमः, (आ) तुगागमे कृते पाक्षिकम् छत्वम्, (इ) छत्वे कृते पाक्षिकः चकारलोपः — इति त्रिषु स्थलेषु नूतनरूपस्य सम्भवः विद्यते, अतः मूलरूपेण सह त्रीणि नूतनानि रूपाणि गृहीत्वा आहत्य चत्वारि रूपाणि सम्भवन्ति, तानि एव अस्यां कारिकायां निर्दिष्टानि सन्ति । एतानि एतादृशानि —\n\n1. प्रकृतसूत्रेण उक्तः वैकल्पिकः तुगागमः नैव क्रियते चेत् केवलं श्चुत्वे कृते ञ् + श् इति ञकारशकारसंयोगघटितं रूपं सिद्ध्यति ।\n2. प्रकृतसूत्रेण उक्तं तुगागमं कृत्वा, ततः श्चुत्वे कृते अग्रे वैकल्पिकं छत्वम् नैव क्रियते चेत् ञ् + च् + श् इति ञकारचकारशकारसंयोगघटितं रूपं सिद्ध्यति ।\n3. प्रकृतसूत्रेण उक्तं तुगागमं कृत्वा, ततः श्चुत्वे कृते अग्रे वैकल्पिकं छत्वम् कृत्वा, ततः वैकल्पिकः चकारलोपः न क्रियते चेत् ञ् + च् + छ् इति ञकारचकारछकारसंयोगघटितं रूपं सिद्ध्यति ।\n4. प्रकृतसूत्रेण उक्तं तुगागमं कृत्वा, ततः श्चुत्वे कृते अग्रे वैकल्पिकं छत्वम् कृत्वा, ततः वैकल्पिकः चकारलोपः अपि क्रियते चेत् ञ् + छ् इति ञकारछकारसंयोगघटितं रूपं सिद्ध्यति ।\n\nयथा — सन् + शम्भुः = सञ्शम्भुः, सञ्च्शम्भुः, सञ्च्छम्भुः, सञ्छम्भुः ।\nसूत्रे स्थानिनिर्णयः\nप्रकृतसूत्रे नः इति पञ्चम्यन्तं पदम् अनुवर्तते, तथा च सूत्रे शि इति पदम् सप्तमीविभक्तौ विद्यते । इत्युक्ते, अत्र षष्ठ्यन्तम् पदम् नास्ति । अस्यां स्थितौ, पञ्चमीविभक्तिनिमित्तकम् कार्यम् कर्तव्यम् उत सप्तमीविभक्तिनिमित्तकम् कार्यम् कर्तव्यम् इति सन्देहे जाते (इत्युक्ते, नः इति पूर्वनिमित्तम् स्वीकृत्य शकारः स्थानिरूपेण ग्रहीतव्यः, उत शि इति परनिमित्तम् स्वीकृत्य नकारः स्थानिरूपेण ग्रहीतव्यः इति प्रश्ने जाते), शि इत्यत्र विद्यमानायाः सप्तमीविभक्तेः अन्यत्र कुत्रापि चारितार्थ्यम् न विद्यते अतः अत्र विद्यमाना सप्तमीविभक्तिः स्वस्य अर्थं न त्यजति — इति निर्णयः अत्र क्रियते । नः इत्यत्र विद्यमानायाः पञ्चमीविभक्तेः तु <<नश्च>> [[8.3.30]] इत्यस्मिन् पूर्वस्मिन् सूत्रे चारितार्थ्यम् वर्तते, अतः एकस्मिन् स्थले चारितार्थ्यम् प्राप्य सन्तुष्टा जाता इयम् पञ्चमीविभक्तिः प्रकृतसूत्रस्य कृते षष्ठ्या विपरिणमति, अतश्च प्रकृतसूत्रे नः इत्यस्य अर्थः 'नकारस्य स्थाने' इति भवति । \nकित्-आगमस्य प्रयोजनम्\nअस्मिन् सूत्रे शकारम् निमित्तरूपेण स्वीकृत्य नकारस्य तुक् इति कित् आगमः विधीयते । यदि अत्र नकारम् निमित्तरूपेण स्वीकृत्य शकारस्य तुट् इति टित् आगमः पाणिनिना उच्येत, तर्हि अपि सः नकारात् अनन्तरम् विधाय न् + त् + श् इति नकारशकारयोः मध्ये एव उपतिष्ठेत । परन्तु एतादृशं क्रियते चेत् शकारस्य अवयवरूपेण विहितस्य तकारस्य ग्रहणम् नकारग्रहणेन न सम्भवति ।अस्यां स्थितौ तकारः पदान्तत्वं न हि प्राप्नुयात्, अतश्च प्रक्रियायाम् <<शश्छोऽटि>> [[8.4.63]] इत्यनेन शकारस्य छत्वम् अपि नैव सम्भवेत्, यतः <<शश्छोऽटि>> [[8.4.63]] इति सूत्रस्य कृते पदान्तः झय्-वर्णः निमित्तरूपेण आवश्यकः वर्तते, यः अत्र नैव विद्यते । इत्युक्ते, प्रक्रियायां इष्टं छत्वम् टित्-आगमविधानेन नैव सम्भवति । अतएव अत्र कित्-आगमः विधीयते, येन तकारः पूर्वस्य (नकारस्य) अन्त्यावयवरूपेण स्वीकृत्य, तस्य पदान्तत्वम् निमित्तरूपेण गृहीत्वा, प्रक्रियायाम् वैकल्पिकः छकारादेशः अपि सम्भवति । \nकुर्वन् + शेते इत्यत्र अनिष्टस्य णत्वस्य निवारणम्\nप्रकृतसूत्रेण कुर्वन् + शेते इत्यत्र नकारस्य तुगागमे कृते, कुर्वन् त् शेते अस्यां स्थितौ तकारम् नकारस्यैव अवयवरूपेण स्वीक्रियते, अतः कुर्वन्त् इति सम्पूर्णः शब्दः पदसंज्ञकः भवति । इत्युक्ते, अत्र विद्यमानः नकारः पदान्ते नास्ति, अतः तस्य <<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इत्यनेन अनिष्टं णत्वम् प्राप्नोति, यस्य <<पदान्तस्य>> [[8.4.37]] इत्यनेन निषेधः अपि न सम्भवति । एतादृशम् अनिष्टं णत्वम् निवारयितुम् प्रौढमनोरमायाम् द्वौ उपायौ उक्तौ स्तः —\n1. कुर्वन् + शेते इत्यत्र प्रकृतसूत्रेण प्राप्तः तुगागमः पदद्वयाश्रितः अस्ति । णत्वम् तु केवलम् एकपदाश्रितम् एव । अतः तुगागमस्य अपेक्षया णत्वम् अन्तरङ्गकार्यम् । अस्यां स्थितौ <ऽअसिद्धं बहिरङ्गमन्तरङ्गेऽ> इत्यनया परिभाषया बहिरङ्गकार्यम् (तुगागमः) णत्वस्य कृते असिद्धः भवति, अतश्च अत्र तुगागमे कृते अपि णत्वं नैव सम्भवति ।\n2. <<स्तोः श्चुना श्चुः>> [[8.4.40]] इत्यस्य सूत्रस्य योगविभागं कृत्वा <<स्तोः श्चुना>> इति भिन्नं सूत्रं रचय्य तत्र <<क्षुभ्नादिषु च>> [[8.4.39]] इति पूर्वसूत्रात्'न' तथा 'णः' इति पदद्वयम् अनुवर्त्येते, येन <<स्तोः श्चुना णः न>> इति पृथक् सूत्रं सिद्ध्यति । इदं सूत्रम् णत्वप्रकरणस्यैव सूत्रम् मत्वा अस्य अर्थः — श्चुत्वे कर्तव्ये णत्वं न कर्तव्यम् — इति भवितुम् अर्हति । इत्युक्ते, प्रक्रियायाः कस्मिंश्चित् सोपाने यदि णत्वम् तथा च श्चुत्वम् - एतौ युगपद् प्राप्नुतः, तर्हि तत्र णत्वस्य अपेक्षया श्चुत्वमेव प्राधान्येन करणीयम् इति अत्र आशयः । अस्य योगविभागस्य साहाय्येन कुर्वन् त् शेते इत्यत्र आदौ तकारस्य श्चुत्वे कृते, ततश्च पुनः नकारस्यापि श्चुत्वे कृते इष्टरूपाणि सिद्ध्यन्ति, नकारस्य च अनिष्टं णत्वम् अपि निवार्यते ।\n" }, "83032": { "sa": "ह्रस्वस्वरात् परः पदान्ते विद्यमानः यः ङ्/ण्/न् वर्णः, तस्मात् परस्य अच्-वर्णस्य संहितायाम् यथासङ्ख्यम् ङुट् / णुट् / नुट् आगमः भवति ।", "sd": " ङम् = ङ्, ण्, न् । अच् = सर्वे स्वराः । \nह्रस्वस्वरात् अनन्तरम् विद्यमानः यः पदान्तः ङकारः/णकारः/नकारः, तस्मात् परस्य अच्-वर्णस्य प्रकृतसूत्रेण यथासङ्ख्यम् ङुट् / णुट् / नुट् आगमः भवति । एते सर्वे टित्-आगमाः सन्ति, अतः <<आद्यन्तौ टकितौ>> [[1.1.46]] इत्यनेन एते आगमाः स्थानिनः आद्यवयवरूपेण विधीयन्ते । \nक्रमेण उदाहरणानि एतानि —\n1. 'ह्रस्वस्वरः + पदान्त-ङ् + अच्' इत्यत्र अच्-वर्णस्य ङुट्-आगमः \nप्रत्यञ्च्-शब्दस्य प्रथमैकवचनस्य रूपम् 'प्रत्यङ्' इति भवति । अस्मिन् पदे ह्रस्वस्वरात् अनन्तरम् ङकारः विद्यते । अस्मात् पदान्तङकारात् अनन्तरम् संहितायाम् स्वरः विद्यते चेत् तस्य स्वरस्य ङुट्-आगमः भवति —\n\nप्रत्यङ् + आत्मा \n→ प्रत्यङ् ङुट् आत्मा [<<ङमो ह्रस्वादचि ङमुण्नित्यम्>> [[8.3.32]] इति पदान्तङकारात् परस्य स्वरस्य ङुट्-आगमः]\n→ प्रत्यङ् ङ् आत्मा [टकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति लोपः । डकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।]\n→ प्रत्यङ्ङात्मा\n\nअन्यानि कानिचन उदाहरणानि —\n\n1. तिर्यङ् + एषः → तिर्यङ्ङेषः\n2. उदङ् + उदङ् → उदङ्ङुदङ् ।\n3. युङ् + इयम् → युङ्ङियम्\n4. क्रुङ् + अस्ति → क्रुङ्ङस्ति । \n\n2. 'ह्रस्वस्वरः + पदान्त-ण् + अच्' इत्यत्र अच्-वर्णस्य णुट्-आगमः \nसुष्ठु गणयति सः अस्मिन् अर्थे सु-उपसर्गपूर्वात् गण्-धातोः क्विप्-प्रत्यये कृते सुगण् इति प्रातिपदिकं सिद्ध्यति । अस्य प्रथमैकवचनस्य रूपम् अपि 'सुगण्' इत्येव अस्ति । अस्मिन् पदे ह्रस्वस्वरात् अनन्तरम् णकारः विद्यते । अस्मात् पदान्तणकारात् अनन्तरम् संहितायाम् स्वरः विद्यते चेत् तस्य स्वरस्य णुट्-आगमः भवति —\n\nसुगण् + ईशः \n→ सुगण् णुट् ईशः [<<ङमो ह्रस्वादचि ङमुण्नित्यम्>> [[8.3.32]] इति पदान्तङकारात् परस्य स्वरस्य णुट्-आगमः]\n→ सुगण् ण् ईशः [टकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति लोपः । णकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।]\n→ सुगण्णीशः\n\nअन्यानि कानिचन उदाहरणानि —\n\n1. वण् + आस्ते → वण्णास्ते ।\n2. रण् + अवोचत् → रण्णवोचत् ।\n3. घुण् + ओदनः → घुण्णोदनः । \n\n3. 'ह्रस्वस्वरः + पदान्त-न् + अच्' इत्यत्र अच्-वर्णस्य नुट्-आगमः \nसत्-शब्दस्य प्रथमैकवचनस्य रूपम् 'सन्' इति भवति । अस्मिन् पदे ह्रस्वस्वरात् अनन्तरम् नकारः विद्यते । अस्मात् पदान्तनकारात् अनन्तरम् संहितायाम् स्वरः विद्यते चेत् तस्य स्वरस्य नुट्-आगमः भवति —\n\nसन् + अच्युत \n→ सन् नुट् अच्युत [<<ङमो ह्रस्वादचि ङमुण्नित्यम्>> [[8.3.32]] इति पदान्तङकारात् परस्य स्वरस्य नुट्-आगमः]\n→ सन् न् अच्युत [टकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति लोपः । नकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।]\n→ सन्नच्युत\n\nअन्यानि कानिचन उदाहरणानि —\n\n1. कुर्वन् + आस्ते → कुर्वन्नास्ते ।\n2. राजन् + एहि → राजन्नेहि ।\n3. अपठन् + अमूः →‌ अपठन्नमूः । \n4. जिघ्रन् + अश्नन् → जिघ्रन्नश्नन् ।\n\nदलकृत्यम्\n1. ङमः इति किमर्थम् ? पदान्तञकारस्य पदान्तमकारस्य वा विषये अस्य सूत्रस्य प्रसक्तिः न विद्यते । यथा, त्वम् + असि इत्यत्र केवलं वर्णमेलनं कृत्वा त्वमसि इति जायते ।\n2. पदान्तात् ङमः इति किमर्थम् ? अपदान्त-ङकार-णकार-नकाराणां विषये अस्य सूत्रस्य प्रसक्तिः न विद्यते । यथा, शशिन् + औ इत्यत्र केवलं वर्णमेलनं कृत्वा शशिनौ इति जायते । अत्र शशिन्-शब्दस्य पदसंज्ञा न भवति, अतः अत्र प्रकृतसूत्रं नैव प्रवर्तते ।\n3. ह्रस्वात् इति किमर्थम् ? दीर्घस्वरात् अनन्तरम् विद्यमानानाम् ङकार-णकार-नकाराणां विषये अस्य सूत्रस्य प्रसक्तिः न वर्तते । यथा, प्राङ् + आस्ते इत्यत्र केवलं वर्णमेलनं कृत्वा प्राङास्ते इति जायते । अत्र आकारस्य ङुट्-आगमः न भवति । \n4. अचि इति किमर्थम् ? हल्-वर्णस्य आगमः प्रकृतसूत्रेण न विधीयते । यथा, अयम् + सः अत्र सकारस्य मुट्-आगमः न भवति ।\n5. नित्यम् इति किमर्थम् ? अस्मात् सूत्रात् पूर्वम् विद्यमानैः सर्वैः आगमविधायकैः सूत्रैः विकल्पेन एव आगमः विधीयते । तादृशः विकल्पः अस्मिन् सूत्रे न हि इष्यते, इति ज्ञापयितुम् अस्मिन् सूत्रे 'नित्यम्' इति शब्दः निर्दिष्टः अस्ति । प्रकृतसूत्रेण उक्तः आगमः नित्यम् (compulsory) भवति — इति अस्य आशयः ।\nसूत्रे स्थानिनिर्णयः\nप्रकृतसूत्रे ङमः इति पदम् पञ्चमीविभक्तौ विद्यते, अचि इति पदम् च सप्तमीविभक्तौ विद्यते । इत्युक्ते, अत्र षष्ठ्यन्तम् पदम् नास्ति । अस्यां स्थितौ, पञ्चमीविभक्तिनिमित्तकम् कार्यम् कर्तव्यम् उत सप्तमीविभक्तिनिमित्तकम् कार्यम् कर्तव्यम् इति सन्देहे जाते (इत्युक्ते,ङमः इति पूर्वनिमित्तम् स्वीकृत्य अच्-वर्णः स्थानिरूपेण ग्रहीतव्यः, उत अचि इति परनिमित्तम् स्वीकृत्य ङम्-वर्णः स्थानिरूपेण ग्रहीतव्यः इति प्रश्ने जाते) , ङमः इत्यत्र विद्यमानायाः पञ्चमीविभक्तेः अन्यत्र कुत्रापि चारितार्थ्यम् न विद्यते अतः अत्र विद्यमाना पञ्चमीविभक्तिः स्वस्य अर्थं न त्यजति — इति निर्णयः अत्र क्रियते । अचि इत्यत्र विद्यमानायाः सप्तमीविभक्तेः तु <<मय उञो वो वा>> [[8.3.33]] इत्यस्मिन् सूत्रे चारितार्थ्यम् वर्तते, अतः एकस्मिन् स्थले चारितार्थ्यम् प्राप्य सन्तुष्टा जाता इयम् सप्तमीविभक्तिः प्रकृतसूत्रस्य कृते षष्ठ्या विपरिणमति, अतश्च प्रकृतसूत्रे अचि इत्यस्य अर्थः 'अच्-वर्णस्य स्थाने' इति भवति ।अयमेव विषयः <ऽउभयनिर्देशे पञ्चमीनिर्देशो बलीयान् ऽ> इति परिभाषायाः अवतरणरूपेण परिभाषेन्दुशेखरे पाठितः अस्ति । तत्र नागेशेन उच्यते —\n\nननु 'ङमो ह्रस्वात्' इत्यादौ ङमः परस्य अचः, अचि परतः ङम इति वा, इति सन्देहः स्यात्, अत आह — उभयनिर्देशे पञ्चमीनिर्देशो बलीयान् । अचि इति सप्तमीनिर्देशस्य 'मय उञः' इति उत्तरत्र चारितार्थ्यात् पञ्चमीनिर्देशः अनवकाशः, इति 'तस्मादित्युत्तरस्य' इत्यस्य एव प्रवृत्तिः । \n\nअष्टाध्याय्यायां बहुषु सूत्रेषु प्रकृतसूत्रस्य विस्मरणम् !\nयद्यपि इदं सूत्रम् नित्यमेव कार्यं करोति (न हि विकल्पेन), तथापि अष्टाध्याय्याम् पाणिनिः अस्य सूत्रस्य प्रयोगं विना एव अनेकानि सूत्राणि व्यरचयत् । यथा —\n\n1. <<इको यणचि>> [[6.1.77]] इत्यत्र यण् + अचि अत्र णकारात् परस्य अकारस्य अनेन सूत्रेण णुट्-आगमः विधीयेत, अतः इको यण्णचि इत्येव सूत्रम् साधु स्यात् । \n2. <<उणादयो बहुलम्>> [[3.3.1]] इत्यत्र अपि णकारात् परस्य आकारस्य णुट्-आगमे कृते उण्णादयो बहुलम् इति सूत्रम् एव साधु स्यात् ।\n3. <<सनाद्यन्ताः धातवः>> [[3.1.32]] इत्यत्र नकारात् परस्य आकारस्य नुडागमे कृते सन्नाद्यन्ता धातवः इति सूत्रम् एव साधु भवेत् ।\n4. <<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> [[6.4.77]] इत्यत्र 'इयङ्' इत्यस्मात् उत्तरस्य उकारस्य ङुट्-आगमे कृते अचि श्नुधातुभ्रुवां य्वोरियङ्ङुवङौ इति सूत्रम् एव साधु स्यात् ।\n\nएतादृशम् नित्यसूत्रस्य प्रयोगं विना कृता सूत्ररचना 'छन्दोवत् सूत्राणि भवन्ति ; सर्वे विधयः छन्दसि विकल्प्यन्ते' एताभ्याम् वचनाभ्याम् समर्थयितुम् शक्या । परन्तु लौकिकसंस्कृते एतादृशाः प्रयोगाः नैव अनुमन्यन्ते । लौकिकसंस्कृते तु अस्य सूत्रस्य प्रयोगः नित्यरूपेण एव भवति, न हि विकल्पेन । \nकेषुचन सूत्रेषु तु प्रकृतसूत्रस्य प्रयोगः अवश्यं कृतः दृश्यते । यथा - <<तस्मिन्निति निर्दिष्टे पूर्वस्य>> [[1.1.66]] , <<तस्मिन्नणि च युष्माकास्माकौ>> [[4.3.2]], <<तदस्मिन्नधिकमिति दशान्ताड्डः>> [[5.2.45]] इत्यादिषु केषुचन अन्येषु अपि सूत्रेषु नकारात् परस्य अकारस्य नुडागमं कृत्वा एव सूत्ररचना कृता दृश्यते । एवमेव, <<तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्>> [[7.1.35]] तथा <<तिङ्ङतिङः>> [[8.1.28]] इत्यत्र ङुडागमः अपि कृतः दृश्यते । \n<pv>भाष्यस्य एकदेश्युक्तिः — पदान्त-ङम्-वर्णस्य अपेक्षया पदादि-अच्-वर्णस्य ग्रहणम्\nअस्य सूत्रस्य उपरिनिर्दिष्टे अर्थे, पदस्य इति अधिकारस्य पञ्चम्या विपरिणामं कृत्वा, तस्य स्थाने पदात् इति स्वीकृत्य, अस्य शब्दस्य ङमः इत्यनेन सह अन्वयं कृत्वा ङकार/णकार/नकारस्य पदान्तत्वम् निमित्तरूपेण स्वीक्रियते । परन्तु स्थानिवाचकः अच्-वर्णः पदादिः भवेत् इति तु न कुत्रचित् निर्दिष्टम् अस्ति । परन्तु <<उञि च पदे>> [[8.3.21]] इत्यस्मिन् सूत्रे तु प्रकृतसूत्रस्य अर्थविधानम् भाष्यकारेण किञ्चित् भिन्नरूपेण कृतम् अस्ति । तत्र भाष्यकारस्य आशयं स्पष्टीकुर्वन् नागेशः इत्थं प्रतिपादयति — \n\nउत्तरार्थम् तर्हि पदग्रहणम् कर्तव्यम् । ङमो ह्रस्वादचि ङमुण्नित्यम् इति अपदे मा भूत् - दण्डिना, शकटिना । — उञि च पदे इत्यत्र भाष्यम् ।\nभाष्ये 'दण्डिना' इति । न च — पदस्य इत्यधिकारेण, विभक्तिविपरिणामेन च ह्रस्वात् परः यः ङम् तदन्तं यत् पदम्, तस्मात् परस्य अचः विधीयमानः ङमुट् कथम् अत्र प्राप्नोति, ङमन्तस्य पदत्वाभावात् — इति वाच्यम् ; वैयधिकरण्येन अनुवृत्तस्य अन्वयोपपत्तौ विभक्तिविपरिणामे मानाभावात्, इत्याशयः । — उञि च पदे इत्यत्र उद्द्योते नागेशः ।\n\n<<ङमो ह्रस्वादचि ङमुण्नित्यम्>> [[8.3.32]] इत्यस्मिन् सूत्रे पदस्य इति शब्दः पञ्चम्या न हि विपरिणम्यते, अतश्च ङकार/णकार/नकारस्य पदान्तत्वम् न हि आवश्यकम्, अपि तु <<उञि च पदे>> [[8.3.21]] इत्यस्मात् सूत्रात् पदे इति शब्दस्य <<ङमो ह्रस्वादचि ङमुण्नित्यम्>> [[8.3.32]] इत्यत्र अनुवृत्तिं कृत्वा, तस्य च अचि इत्यनेन सह अन्वयं संस्थाप्य अच्-वर्णस्य पदादित्वम् आवश्यकम् भवति — इति अत्र भाष्यस्य आशयः अस्ति इति नागेशेन स्पष्टी क्रियते । एतादृशम् भिन्नरूपेण अर्थविधानं किमर्थं क्रियते इति चेत् ; प्रकृतसूत्रे पदस्य इति शब्दस्य विभक्तिविपरिणामः कर्तुम् शक्यते इत्यस्य न किञ्चन प्रमाणं विद्यते, अतः एतादृशः विपरिणामः न हि कर्तव्यः — इति उत्तरम् । अपि च, <<उञि च पदे>> [[8.3.21]] इत्यत्र विद्यमानस्य पदे इति शब्दस्य तस्मिन् सूत्रे अनावश्यकतां दर्शयन् भाष्यकारः तस्य शब्दस्य अन्वयम् प्रकृतसूत्रे विद्यमानेन अचि इति शब्देन कर्तुम् इच्छति, इत्यपि अपरम् कारणम् । अतएव दण्डिना अस्मिन् शब्दे नकारात् अनन्तरम् विद्यमानस्य आकारस्य, तस्य पदादित्व-अभावात् नुडागमः न भवति, इति कारणम् अपि भाष्ये तत्र दत्तम् अस्ति । \nवस्तुतस्तु, सर्वैः अपि व्याख्यानैः पदस्य इति शब्दस्य पदात् इति विपरिणामं कृत्वा एव अर्थविधानम् कृतम् अस्ति । अस्मिन् पक्षे अपि दण्डिना इत्यत्र विद्यमानस्य आकारस्य नुडागमनिषेधः अवश्यं सम्भवति, यतः दण्डिन् इति शब्दः अत्र पदसंज्ञकः नास्ति । अतः अस्मिन् सन्दर्भे <<उञि च पदे>> [[8.3.21]] इत्यत्र विद्यमानम् भाष्यम् एकदेश्युक्तिवद् एव भाति ।\n<pv><<ङमो ह्रस्वादचि द्वे>> — इत्येव सुवचम् \nवस्तुतस्तु, प्रकृतसूत्रेण उक्तस्य ङमुडागमस्य स्थाने केवलं 'द्वे भवतः' इत्येव उच्यते चेदपि सूत्रस्य उचितः एव अर्थः सिद्ध्यति । यथा —\n\nकुर्वन् + इति\n→ कुर्वन् न् इति [<<ङमो ह्रस्वादचि द्वे>> इति नूतनसूत्रेण नकारस्य द्वित्वम्]\n→ कुर्वन्निति।\n\nअत्र प्रक्रियायाम् प्रथमनकारस्य <<अट्कुप्वाङ्नुम्व्यवायेऽपि>> [[8.4.2]] इत्यनेन यद् अनिष्टं णत्वं प्राप्नोति, तद्बाधनार्थम् <<ङमो ह्रस्वादचि द्वे>> इति सूत्रम् <<अचो रहाभ्यां द्वे>> [[8.4.46]] इत्यस्मात् अनन्तरम् संस्थापयितुम् शक्यते । एतादृशम् स्थलपरिवर्तननेन न कश्चन दोषः उत्पद्यते, यतः <<ङमो ह्रस्वादचि ङमुण्नित्यम्>> [[8.3.32]] इत्यनेन निर्मितस्य आगमस्य विषये अग्रे <<अचो रहाभ्यां द्वे>> [[8.4.46]] इति सूत्रपर्यन्तम् कस्यापि सूत्रस्य प्रसक्तिः नैव सम्भवति । अपि च, एतादृशम् सूत्रस्थलपरिवर्तनं क्रियते चेत् 'द्वे' इति शब्दः अपि अनुवृत्तिरूपेण तत्र प्रवर्तेत, अतश्च <<ङमो ह्रस्वादचि>> इत्येव सूत्रम् पर्याप्तं स्यात् । अपि च, तत्र आवश्यकम् पदान्तत्वम् <<न पदान्ताट्टोरनाम्>> [[8.4.42]] इत्यस्मात् 'पदान्तात्' इति शब्दस्य मण्डूकप्लुत्या विधातुम् शक्यते । \nयद्यपि अयं विषयः व्याख्यानेषु कुत्रापि चर्चितः नास्ति, तथापि भोजस्य सरस्वतीकण्ठाभरणे <<ङमो ह्रस्वादचि ङमुण्नित्यम्>> [[8.3.32]] इत्यस्य स्थाने <<ङमो ह्रस्वाद् द्वे>> (7.4.18 — सरस्वतीकण्ठाभरणम्) इत्येव सूत्रम् स्थापितम् अस्ति । अतः अत्रापि ङमुडागमस्य स्थाने द्वित्वविधानम् क्रियते चेदपि नैव दोषाय । " }, "83033": { "sa": "संहियाताम् पदान्ते विद्यमानात् मय्-वर्णात् परस्य उञ्-शब्दस्य स्वरे परे विकल्पेन वकारादेशः भवति ।", "sd": " \nमय् = ञकारम् विहाय सर्वाणि वर्गीयव्यञ्जनानि । आहत्य चतुर्विंशतिः वर्णाः ।\n\n<<चादयोऽसत्वे>> [[1.4.57]] अस्मिन् सूत्रे निर्दिष्टे चादिगणे उञ् इति कश्चन निपातः विद्यते ।अस्य शब्दस्य कोऽपि विशिष्टः अर्थः नास्ति, अयं शब्दः सामान्यरूपेण सम्बोधनस्य अर्थे कोपं / वैमत्यं दर्शयितुम् प्रयुज्यते । अस्मिन् उञ्-शब्दे ञकारः इत्संज्ञकः अस्ति, तस्य लोपे कृते इति अवशिष्यते, तस्य <<निपात एकाजनाङ्>> [[1.1.14]] इत्यनेन प्रगृह्यसंज्ञा भवति, अतः <<प्लुतप्रगृह्या अचि नित्यम्>> [[6.1.125]] इत्यनेन अच्-वर्णे परे प्रकृतिभावः (सन्धेः अभावः) अपि जायते । अस्याम् स्थितौ, यदि अस्मात् उञ्-शब्दात् पूर्वम् पदान्त-मञ्-वर्णः विद्यते, तथा च उञ्-शब्दस्य अनन्तरम् स्वरः वर्तते, तर्हि उञ्-शब्दस्य उकारस्य प्रकृतिभावं बाधित्वा विकल्पेन उकारादेशः भवति — इति प्रकृतसूत्रस्य अर्थः । कानिचन उदाहरणानि एतादृशानि —\n\n1. किम् उ उक्तम् इत्यत्र मकारात् परः उञ्-शब्दः, तस्मात् परः च स्वरः विद्यते, अतः उकारस्य प्रकृतसूत्रेण विकल्पेन वकारादेशे कृते किम् व् उक्तम् → किम्वुक्तम् इति सिद्ध्यति । पक्षे किमु उक्तम् इति अपि जायते । उञ्-शब्दस्य प्रगृह्यत्वात् अग्रे सन्धिः न भवति । \nकिम्वुक्तम् इत्यत्र प्रकृतसूत्रेण सिद्धः वकारः <<मोऽनुस्वारः>> [[8.3.23]] इत्यस्य कृते असिद्धः अस्ति, अतः अत्र मकारस्य अनुस्वारादेशः न भवति ।\n2. तद् उ अस्तु इति स्थिते प्रकृतसूत्रेण उ-इत्यस्य विकल्पेन वकारादेशे कृते तद्वस्तु इति सिद्ध्यति । पक्षे तदु अस्तु इति जायते । उञ्-शब्दस्य प्रगृह्यत्वात् अग्रे सन्धिः न भवति । \n3. वाग् उ एषा इति स्थिते प्रकृतसूत्रेण उ-इत्यस्य विकल्पेन वकारादेशे कृते वाग्वेषा इति सिद्ध्यति । पक्षे वागु एषा इति जायते । उञ्-शब्दस्य प्रगृह्यत्वात् अग्रे सन्धिः न भवति । \n\n<<उञि च पदे>> [[8.3.21]] सूत्रस्य बलीयस्त्वम् \nअवर्णात् परः विद्यमानात् पदान्तयकारात् / पदान्तवकारात् परे यदि उञ् इति शब्दः विद्यते, तर्हि <<उञि च पदे>> [[8.3.21]] इत्यनेन पदान्तयकारस्य / पदान्तवकारस्य नित्यम् लोपः भवति । एतादृशे लोपे कृते प्रकृतसूत्रस्य प्राप्तिरेव न सम्भवति । । यथा, वने उ अयम् इति स्थिते <<एचोऽयवायावः>> [[6.1.78]] इत्यनेन एकारस्य अयादेशे कृते, वनय् उ अयम् इत्यवस्थायाम् <<उञि च पदे>> [[8.3.21]] इत्यनेन पदान्तयकारस्य लोपः भवति, येन वन उ अयम् इति जायते । अस्यां स्थितौ प्रकृतसूत्रस्य सम्भवः एव नास्ति । एवमेव, साधो उ अयम् इति स्थिते <<एचोऽयवायावः>> [[6.1.78]] इत्यनेन ओकारस्य अवादेशे कृते, साधव् उ अयम् इत्यवस्थायाम् <<उञि च पदे>> [[8.3.21]] इत्यनेन पदान्तयकारस्य लोपः भवति, येन साध उ अयम् इति जायते । अस्यां स्थितौ अपि प्रकृतसूत्रस्य सम्भवः एव नास्ति । \n'किम् + उञ् + इति' इत्यत्र रूपगणना \nपदान्त-मय्-वर्णात् विद्यमानः यः उञ्-शब्दः, तस्मात् परः यदि इति अयम् शब्दः अवैदिकसन्दर्भे (इत्युक्ते, लौकिकसंस्कृतस्य वाक्येषु) विद्यते, तर्हि <<उञः>> [[1.1.17]] इति सूत्रेण उञ्-शब्दस्य विकल्पेन एव प्रगृह्यसंज्ञा भवति, तथा च प्रगृह्यसंज्ञकस्य उञ्-इत्यस्य स्थाने <<ऊँ>> [[1.1.18]] इति सूत्रेण विकल्पेन ऊँ-आदेशः अपि विधीयते । अस्यां स्थितौ अन्ते अनेकानि रूपाणि सम्भवन्ति । यथा, किम् उ इति इत्यत्र आहत्य विंशतिः रूपाणि भवितुम् अर्हन्ति, यानि अधः क्रमेण प्रदर्शितानि सन्ति —\n1. उञ्-इत्यस्य उकारस्य प्रगृह्यसंज्ञा, तस्य च ऊँ-आदेशः क्रियते चेत् द्वे रूपे सम्भवतः —\n\nकिम् उ इति [<<उञः>> [[1.1.17]] इति प्रगृह्यसंज्ञा ।]\n→ किम् ऊँ इति [<<ऊँ>> [[1.1.18]] ]\n→ किमूँ इति\n→ किमूँ इति / किमूँ इतिँ [<<अणोऽप्रगृह्यस्यानुनासिकः>> [[8.4.57]] इति इकारस्य वैकल्पिकः अनुनासिकादेशः]\n — आहत्य 2 रूपे \n\n2. उञ्-इत्यस्य उकारस्य प्रगृह्यसंज्ञा क्रियते परन्तु ऊँ-आदेशः न क्रियते चेत् अग्रे <<मय उञो वो वा>> [[8.3.33]] इति सूत्रेण उञ्-इत्यस्य विकल्पेन वकारादेशं कृत्वा आहत्य अष्टौ रूपाणि भवन्ति — \n\nकिम् उ इति\n→ किम् व् इति [<<उञः>> [[1.1.17]] इति प्रगृह्यसंज्ञा, अतः उकारस्य यणादेशः न भवति । परन्तु <<मय उञो वो वा>> [[8.3.33]] इति सूत्रेण मञ्-वर्णात् परस्य उञ्-इति निपातस्य वकारादेशः विधीयते । वकारादेशे कृते तस्य असिद्धत्त्वात् <<मोऽनुस्वारः>> [[8.3.23]] इति अनुस्वारादेशः न भवति ।\n→ किम् व् इति / किम् म् व् इति [<<अनचि च>> [[8.4.47]] इत्यनेन मकारस्य वैकल्पिकं द्वित्वम् । ]\n→ किम् व् इति / किम् व् व् इति / किम् म् व् इति / किम् म् व् व् इति [ इति वार्त्तिकेन प्रत्येकम् रूपे विद्यमानस्य यण्-वर्णस्य (वकारस्य) वैकल्पिकं द्वित्वम् ।]\n→ किम्विति / किम्वितिँ / किम्व्विति / किम्व्वितिँ / किम्म्विति / किम्म्वितिँ / किम्म्व्विति / किम्म्व्वितिँ [<<अणोऽप्रगृह्यस्यानुनासिकः>> [[8.4.57]] इति इकारस्य वैकल्पिकः अनुनासिकादेशः]\n — आहत्य 8 रूपाणि \n\n3. उञ्-इत्यस्य उकारस्य प्रगृह्यसंज्ञा क्रियते परन्तु ऊँ-आदेशः न क्रियते, तथा च <<मय उञो वो वा>> [[8.3.33]] इति वकारादेशः अपि न क्रियते चेत् द्वे रूपे सम्भवतः —\n\nकिम् उ इति\n→ किमु इति [<<उञः>> [[1.1.17]] इति प्रगृह्यसंज्ञा, अतः यणादेशः न भवति । अग्रे <<मय उञो वो वा>> [[8.3.33]] इत्यपि सूत्रं न प्रवर्तते ।\n→‌ किमु इति / किमु इतिँ [<<अणोऽप्रगृह्यस्यानुनासिकः>> [[8.4.57]] इति इकारस्य वैकल्पिकः अनुनासिकादेशः]\n — आहत्य 2 रूपे \n\n4. उञ्-इत्यस्य उकारस्य प्रगृह्यसंज्ञा न क्रियते चेत् उकारस्य यणादेशे वकारः, ततः च मकारस्य अनुस्वारादेशः भवति; येन आहत्य अष्टौ रूपाणि जायन्ते —\n\nकिम् उ इति\n→ किम् व् इति [<<इको यणचि>> [[6.1.77]] इति उकारस्य यणादेशे वकारः भवति ।]\n→ किं विति [<<मोऽनुस्वारः>> [[8.3.23]] इति अनुस्वारादेशः] \n→ किंविति / किं[ं]विति [अनुस्वारः शर्-प्रत्याहारे (अतश्च यर्-प्रत्याहारे) स्वीक्रियते, अतः <<अनचि च>> [[8.4.47]] इत्यनेन अनुस्वारस्य वैकल्पिकं द्वित्वं भवति । अत्र द्वितीयम् अनुस्वारं दर्शयितुम् [ं] इति चिह्नं प्रयुक्तम् अस्ति ।]\n→ किंविति / किव्ँविति / किं[ं]विति / किंव्ँविति [द्वयोः अपि रूपयोः <<वा पदान्तस्य>> [[8.4.59]] इति अनुस्वारस्य यय्-वर्णे परे (वकारे परे) वैकल्पिकः परसवर्णः]\n→ किंविति / किंवितिँ / किव्ँविति / किव्ँवितिँ / किं[ं]विति / किं[ं]वितिँ / किंव्ँविति / किंव्ँवितिँ [<<अणोऽप्रगृह्यस्यानुनासिकः>> [[8.4.57]] इति इकारस्य वैकल्पिकः अनुनासिकादेशः]\n — आहत्य 8 रूपाणि \n\nअनेन प्रकारेण अत्र आहत्य विंशतिः रूपाणि सिद्ध्यन्ति ।\nप्रौढमनोरमायां तु इतोऽपि अष्टौ रूपाणि दत्तानि सन्ति । तत्र किम् ऊँ इति अस्यां स्थितौ, ऊँ इत्यत्र <<स्थानिवदादेशोऽनल्विधौ>> [[1.1.56]] इति स्थानिवद्भावेन उञ् इत्यस्य आरोपणं कृत्वा, तस्य स्थाने <<मय उञो वो वा>> [[8.3.33]] इति सूत्रेण वैकल्पिकः अनुनासिकः वकारः क्रियते । ततः किम् व्ँ इति अस्यां स्थितौ <<अनचि च>> [[8.4.47]] इत्यनेन मकारस्य वैकल्पिकं द्वित्वम् तथा च इत्यनेन वँकारस्य वैकल्पिकं द्वित्वम् कृत्वा आहत्य चत्वारि रूपाणि, ततश्च <<अणोऽप्रगृह्यस्यानुनासिकः>> [[8.4.57]] इत्यनेन इकारस्य वैकल्पिके अनुनासिकादेशे कृते आहत्य अष्टौ रूपाणि भवन्ति । यद्यपि प्रौढमनोरमायाम् एतानि परिगणितानि सन्ति, तथापि अयं पक्षः नैव उचितः इति शब्दरत्ने स्पष्टीकृतम् अस्ति । <<मय उञो वो वा>> [[8.3.33]] इत्यत्र विद्यमानः वकारः विधीयमानः अस्ति, अतः सः अनुनासिक-सवर्णस्य ग्रहणं नैव करोति, अतश्च अत्र ऊँ इत्यत्र स्थाने अनुनासिकवकारादेशः नैव सम्भवति इति अत्र कारणम् वर्तते । वस्तुतस्तु, अत्र स्थानिवद्भावः कथं सम्भवति इत्यपि अपरः प्रश्नः अस्ति एव ! अतः अत्र प्रौढमनोरमायाम् उक्तानि अष्टौ अधिकानि रूपाणि अनुचितानि एव ग्राह्याणि ।" }, "83034": { "sa": "पदान्ते विद्यमानस्य विसर्गस्य संहितायाम् खर्-वर्णे परे सकारादेशः भवति । ", "sd": "\nखर् = सर्वाणि कर्कशव्यञ्जनानि = वर्गप्रथमाः, वर्गद्वितीयाः, शकारः, षकारः, सकारः । आहत्य 13 वर्णाः ।\n\nअष्टाध्याय्याम् <<विसर्जनीयस्य सः>> [[8.3.34]] इत्यतः <<कस्कादिषु च>> [[8.3.48]] इति यावद्भिः पञ्चदशभिः सूत्रैः विसर्गस्य भिन्नाः आदेशाः प्रोक्ताः सन्ति । अस्य विसर्गादेशप्रकरणस्य इदम् प्रथमम् सूत्रम् । खर्-प्रत्याहारस्य वर्णे परे विसर्गस्य सकारादेशः भवति — इति अस्य सूत्रस्य अर्थः । यथा —\n\nराम सुँ चिनोति / छदति / टीकते / ठकारीयते / तरति / थूर्वति \n→ राम रुँ चिनोति / छदति / टीकते / ठकारीयते / तरति / थूर्वति [<<ससजुषो रुः>> [[8.2.66]] इति पदान्तसकारस्य रुत्वम्]\n→ राम र् चिनोति / छदति / टीकते / ठकारीयते / तरति / थूर्वति [<<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इति उकारस्य इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ रामः चिनोति / छदति / टीकते / ठकारीयते / तरति / थूर्वति [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n→ रामस् चिनोति / छदति / टीकते / ठकारीयते / तरति / थूर्वति [<<विसर्जनीयस्य सः>> [[8.3.34]] इति सत्वम्]\n→ रामश्चिनोति / रामश्छदति / रामष्टीकते / रामष्ठकारीयते / रामस्तरति / रामस्थूर्वति [चकारे/छकारे परे सकारस्य <<स्तोः श्चुना श्चुः>> [[8.4.40]] इति श्चुत्वम् । टकारे/ठकारे परे सकारस्य <<ष्टुना ष्टुः>> [[8.4.41]] इति ष्टुत्वम् ] \n\nबाध्यबाधकभावः\n1. च्/छ्/ट्/ठ्/त्/थ्-वर्णान् विहाय अन्येषु खर्-वर्णेषु परेषु प्रकृतसूत्रस्य प्रयोगः न भवति । तदित्थम् —\n\n1. ककारे / खकारे परे विसर्गस्य प्रकृतसूत्रेण सकारादेशे प्राप्ते; तद्बाधित्वा <<कुप्वोः ≍क≍पौ च>> [[8.3.37]] इत्यनेन विकल्पेन जिह्वामूलीयः विधीयते ; पक्षे विसर्गस्य विसर्गादेशः एव भवति । यथा, रामः करोति → रामःकरोति, राम≍करोति । \n2. पकारे / फकारे परे विसर्गस्य प्रकृतसूत्रेण सकारादेशे प्राप्ते; तद्बाधित्वा <<कुप्वोः ≍क≍पौ च>> [[8.3.37]] इत्यनेन विकल्पेन उपध्मानीयः विधीयते । पक्षे विसर्गस्य विसर्गादेशः एव भवति । यथा, रामः पश्यति → रामःपश्यति, राम≍पश्यति । \n3. सकारे / शकारे / षकारे परे विसर्गस्य प्रकृतसूत्रेण नित्यं सकारादेशे प्राप्ते, <<वा शरि>> [[8.3.36]] इति सः विकल्प्यते । यथा, रामः सहते → रामःसहते, रामस्सहते ।\n\n2. खर्-वर्णात् अनन्तरम् यत्र शकारः / षकारः / सकारः अव्यवहितरूपेण विद्यते, तत्र अपि प्रकृतसूत्रेण प्राप्तं सकारादेशं बाधित्वा <<शर्परे विसर्जनीयः>> [[8.3.35]] इत्यनेन विसर्गस्य पुनः विसर्गादेशः एव भवति । यथा - कः त्सरुः → कःत्सरुः । अत्र तकारात् परः सकारः वर्तते, अतः विसर्गस्य तकारे परे अपि सकारादेशः न भवति । (खड्गस्य मुष्टिः त्सरुः नाम्ना ज्ञायते । The handle of a sword is called त्सरु.)\n" }, "83035": { "sa": "पदान्ते विद्यमानात् विसर्गात् अनन्तरम् खर्-वर्णः, तस्मात् अनन्तरम् च शर्-वर्णः विद्यते चेत् विसर्गस्य विसर्गादेशः भवति । ", "sd": "\nखर् = सर्वाणि कर्कशव्यञ्जनानि = वर्गप्रथमाः, वर्गद्वितीयाः, शकारः, षकारः, सकारः । आहत्य 13 वर्णाः ।\nशर् = शकारः, षकारः, सकारः । आहत्य 3 वर्णाः ।\n\nअष्टाध्याय्याम् <<विसर्जनीयस्य सः>> [[8.3.34]] इत्यतः <<कस्कादिषु च>> [[8.3.48]] इति यावद्भिः पञ्चदशभिः सूत्रैः विसर्गस्य भिन्नाः आदेशाः प्रोक्ताः सन्ति । अस्य विसर्गादेशप्रकरणस्य इदम् द्वितीयम् सूत्रम् । विसर्गात् अनन्तरम् खर्-वर्णः, तस्माद् अनन्तरम् च शर्-वर्णः विद्यते चेत् विसर्गस्य अन्यान् आदेशान् बाधित्वा पुनः विसर्गादेशः एव भवति — इति अस्य सूत्रस्य आशयः । कानिचन उदाहरणानि एतानि —\n\n1. कः त्सरुः → कः त्सरुः । अत्र तकारात् परः अव्यवहितरूपेण सकारः वर्तते, अतः तकारात् पूर्वस्य विसर्गस्य <<विसर्जनीयस्य सः>> [[8.3.34]] इत्यनेन सकारादेशे प्राप्ते तं बाधित्वा प्रकृतसूत्रेण विसर्गस्य विसर्गादेशः एव भवति ।\n2. रामः क्षत्रियः → रामः क्षत्रियः । अत्र ककारात् परः अव्यवहितरूपेण षकारः विद्यते, अतः ककारात् पूर्वस्य विसर्गस्य <<कुप्वोः ≍क≍पौ च>> [[8.3.37]] इत्यनेन पाक्षिके जिह्वामूलीये प्राप्ते तद्बाधित्वा प्रकृतसूत्रेण विसर्गस्य विसर्गादेशः एव भवति ।\n3. अद्भिः प्सातम् → अद्भिः प्सातम् । अत्र पकारात् परः अव्यवहितरूपेण सकारः विद्यते, अतः पकारात् पूर्वस्य विसर्गस्य <<कुप्वोः ≍क≍पौ च>> [[8.3.37]] इत्यनेन पाक्षिके उपध्मानीये प्राप्ते तद्बाधित्वा प्रकृतसूत्रेण विसर्गस्य विसर्गादेशः एव भवति ।\n\nबाध्यबाधकभावः\n<<शर्परे विसर्जनीयः>> [[8.3.35]] इति प्रकृतसूत्रम् <<विसर्जनीयस्य सः>> [[8.3.34]] तथा च <<कुप्वोः ≍क≍पौ च>> [[8.3.37]] इत्यनयोः बाधकरूपेण प्रवर्तते । <<विसर्जनीयस्य सः>> [[8.3.34]] इत्यनेन प्राप्तं सकारादेशम्, तथा च <<कुप्वोः ≍क≍पौ च>> [[8.3.37]] इत्यनेन प्राप्तौ जिह्वामूलीय-उपध्मानीयौ बाधित्वा अनेन सूत्रेण विसर्गस्य विसर्गादेशः एव भवति ।\nसूत्रे <qt>न</qt> इत्यस्य स्थाने <qt>विसर्जनीयः</qt> इत्यस्य ग्रहणम्\nयदि अस्मिन् सूत्रे <<शर्परे विसर्जनीयः>> इत्यस्य स्थाने <<शर्परे न>> इति उच्यते, तर्हि पूर्वसूत्रस्य सन्दर्भेण अस्य अर्थः विसर्जनीयस्य सः ; शर्परे न इति भवेत् । अस्यां स्थितौ केवलं सकारादेशस्य एव अत्र बाधः अभविष्यत्, अन्येषाम् आदेशानां (इत्युक्ते, जिह्वामूलीय-उपध्मानीयययोः) न । तादृशं मा भूत् अतः अस्मिन् सूत्रे विसर्गस्य पुनः विसर्गादेशः एव उक्तः अस्ति । शर्परे खरि विसर्गस्य अन्यः कोऽपि आदेशः न भवेत् अपितु विसर्गः एव तत्र तिष्ठेत् — इति ज्ञापयितुम् एव विसर्गस्य पुनः विसर्गादेशः उक्तः अस्ति — इति अस्य आशयः ।\n" }, "83036": { "sa": "शर्-वर्णे परे विसर्गस्य विकल्पेन विसर्गादेशः एव भवति ।", "sd": "\nशर् = शकारः, षकारः, सकारः । आहत्य 3 वर्णाः ।\n\nअष्टाध्याय्याम् <<विसर्जनीयस्य सः>> [[8.3.34]] इत्यतः <<कस्कादिषु च>> [[8.3.48]] इति यावद्भिः पञ्चदशभिः सूत्रैः विसर्गस्य भिन्नाः आदेशाः प्रोक्ताः सन्ति । अस्य विसर्गादेशप्रकरणस्य इदम् तृतीयम् सूत्रम् । विसर्गात् अनन्तरम् शर्-वर्णः विद्यते चेत् विसर्गस्य विकल्पेन विसर्गादेशः एव भवति — इति प्रकृतसूत्रस्य आशयः । विकल्पाभावे विसर्गस्य सकारादेशः अपि भवति । उदाहरणानि एतानि —\n\n1. हरिः सेवते → हरिःसेवते, हरिस्सेवते । अत्र विसर्गस्य <<विसर्जनीयस्य सः>> [[8.3.34]] इत्यनेन सकारादेशे प्राप्ते; तद्बाधित्वा <<वा शरि>> [[8.3.36]] इत्यनेन विकल्पेन विसर्गस्य विसर्गादेशः एव विधीयते । पक्षे <<विसर्जनीयस्य सः>> [[8.3.34]] इत्यनेन अवश्यं सकारः भवति, अतः अत्र रूपद्वयं सिद्ध्यति ।\n2. हरिः शेते → हरिःशेते, हरिश्शेते । अत्र विसर्गस्य <<विसर्जनीयस्य सः>> [[8.3.34]] इत्यनेन सकारादेशे प्राप्ते; तद्बाधित्वा <<वा शरि>> [[8.3.36]] इत्यनेन विकल्पेन विसर्गस्य विसर्गादेशः एव विधीयते । पक्षे <<विसर्जनीयस्य सः>> [[8.3.34]] इत्यनेन अवश्यं सकारः, ततश्च तस्य <<स्तोः श्चुना श्चुः>> [[8.4.40]] इति श्चुत्वे शकारः विधीयते । एतादृशम् अत्र रूपद्वयं सिद्ध्यति ।\n3. हरिः षष्ठः → हरिःषष्ठः, हरिष्षष्ठः । अत्र विसर्गस्य <<विसर्जनीयस्य सः>> [[8.3.34]] इत्यनेन सकारादेशे प्राप्ते; तद्बाधित्वा <<वा शरि>> [[8.3.36]] इत्यनेन विकल्पेन विसर्गस्य विसर्गादेशः एव विधीयते । पक्षे <<विसर्जनीयस्य सः>> [[8.3.34]] इत्यनेन अवश्यं सकारः, ततश्च तस्य <<ष्टुना ष्टुः>> [[8.4.41]] इति ष्टुत्वे षकारः विधीयते । एतादृशम् अत्र रूपद्वयं सिद्ध्यति ।\n\nवार्त्तिकद्वयम्\n — यदि शर्-वर्णात् अनन्तरम् अव्यवहितरूपेण खर्-वर्णः (वर्गप्रथमः / वर्गद्वितीयः / शकारः / षकारः / सकारः) वर्तते, तर्हि प्रक्रियायाम् विकल्पेन विसर्गलोपः अपि भवति । यथा —\n\n1. कः स्थास्यति → कस्स्थास्यति, क स्थास्यति, कःस्थास्यति । अत्र <<वा शरि>> [[8.3.36]] इति विकल्पेन विसर्गः भवति । पक्षे इति विकल्पेन विसर्गलोपः जायते । पक्षे <<विसर्जनीयस्य सः>> [[8.3.34]] इति सत्वम् अपि भवति । अनेन प्रकारेण अत्र त्रीणि रूपाणि सिद्ध्यन्ति ।\n2. कः श्च्योतति → कश्श्च्योतति, क श्च्योतति, कःश्च्योतति । अत्र <<वा शरि>> [[8.3.36]] इति विकल्पेन विसर्गः भवति । पक्षे इति विकल्पेन विसर्गलोपः जायते । पक्षे <<विसर्जनीयस्य सः>> [[8.3.34]] इति सत्वे कृते ततः <<स्तोः श्चुना श्चुः>> [[8.4.40]] इति श्चुत्वे शकारः जायते । अनेन प्रकारेण अत्र त्रीणि रूपाणि सिद्ध्यन्ति ।\n3. कः ष्ठीवति → कष्ष्ठीवति, क ष्ठीवति, कःष्ठीवति । अत्र <<वा शरि>> [[8.3.36]] इति विकल्पेन विसर्गः भवति । पक्षे इति विकल्पेन विसर्गलोपः जायते । पक्षे <<विसर्जनीयस्य सः>> [[8.3.34]] इति सत्वे कृते ततः <<ष्टुना ष्टुः>> [[8.4.41]] इति ष्टुत्वे षकारः जायते । अनेन प्रकारेण अत्र त्रीणि रूपाणि सिद्ध्यन्ति ।\n\nसम्, पुम् , कान् — एतेषाम् शब्दानां अन्तिमवर्णस्य विसर्गादेशे कृते, अग्रे विसर्गस्य नित्यमेव सकारादेशः भवति । क्रमेण उदाहरणानि एतानि —\n\n1. सम्-उपसर्गस्य मकारस्य विसर्गादेशे कृते ततः तस्य नित्यम् सकारादेशः —\n\nसम् + कर्तृ [सङ्करोति इति इत्यस्मिन् अर्थे सम्-उपसर्गस्य कर्तृ-शब्देन सह योजनम् ।]\n→ सम् सुट् कर्तृ [<<सम्परिभ्यां करोतौ भूषणे>> [[6.1.137]] इत्यनेन सम्-उपसर्गपूर्वकस्य कर्तृ-शब्दस्य सुट्-आगमः भवति ।]\n→ सरुँ स् कर्तृ [<<समः सुटि>> [[8.3.5]] इत्यनेन सम्-शब्दस्य मकारस्य सुट्-आगमे परे रुँत्वम् भवति ।]\n→ सँ रुँ स् कर्तृ / सं रुँ स् कर्तृ [<<अत्रानुनासिकः पूर्वस्य तु वा>> [[8.3.2]] इत्यनेन रुँ-इत्यस्मात् पूर्वस्य वर्णस्य विकल्पेन अनुनासिकः । अनुनासिकाभावे <<अनुनासिकात् परोऽनुस्वारः>> [[8.3.4]] इति अनुस्वारादेशः]\n→ सँः स्कर्तृ / संःस्कर्तृ [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति रेफस्य विसर्गः]\n→ सँस्स्कर्तृ / संस्स्कर्तृ [<<वा शरि>> [[8.3.36]] इति विसर्गस्य विकल्पेन सकारे प्राप्ते इति वार्त्तिकेन नित्यम् सकारादेशः भवति।]\n\n2. पुम्स्-शब्दस्य सकारलोपे कृते, मकारस्य विसर्गादेशे कृते ततः तस्य नित्यम् सकारादेशः —\n\nपुमान् च असौ कोकिलः च [<<विशेषणं विशेष्येण बहुलम्>> [[2.1.57]] इति कर्मधारयसमासः]\n→ पुम्स् कोकिल [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुँ-प्रत्यययोः लोपः]\n→ पुम् कोकिल [पूर्वपदस्य पदसंज्ञायां जातायाम् <<संयोगान्तस्य लोपः>> [[8.2.23]] इति पदान्ते विद्यमानस्य संयोगस्य अन्तिमवर्णस्य लोपः]\n→ पुरुँ + कोकिलः [<<पुमः खय्यम्परे>> [[8.3.6]] इति मकारस्य रुँत्वम् भवति ।]\n→ पुँरुँ + कोकिलः / पुंरुँ + कोकिलः [<<अत्रानुनासिकः पूर्वस्य तु वा>> [[8.3.2]] इति विकल्पेन अनुनासिकः । अनुनासिकाभावे <<अनुनासिकात् परोऽनुस्वारः>> [[8.3.4]] इति अनुस्वारः]\n→ पुँः + कोकिलः / पुंः + कोकिलः [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति रेफस्य विसर्गः]\n→ पुँस् + कोकिलः / पुंस् + कोकिलः [विसर्गस्य <<कुप्वोः ≍क ≍पौ च>> [[8.3.37]] इति विकल्पेन जिह्वामूलीये प्राप्ते इति वार्त्तिकेन नित्यम् सकारादेशः भवति ।]\n→ पुँस्कोकिलः / पुंस्कोकिलः\n\n3. कान्-शब्दस्य मकारस्य विसर्गादेशे कृते ततः तस्य नित्यम् सकारादेशः —\n\nकान्\n→ कान् कान् [पौनःपुन्ये गम्यमाने <<नित्यवीप्सयोः>> [[8.1.4]] इति द्वित्वम्]\n→ कारुँ + कान् [<<कानाम्रेडिते>> [[8.3.12]] इति रुँत्वम् ]\n→ काँरुँ कान् / कांरुँ कान् [<<अत्रानुनासिकः पूर्वस्य तु वा>> [[8.3.2]] इत्यनेन रुँ-इत्यस्मात् पूर्वस्य विकल्पेन अनुनासिकः । अनुनासिकाभावे <<अनुनासिकात् परोऽनुस्वारः>> [[8.3.4]] इति अनुस्वारः]\n→ काँः कान् / कांः कान् [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति सकारस्य विसर्गः ।]\n→ काँस् कान् / कांस् कान् [<<कुप्वोः ≍क ≍पौ च>> [[8.3.37]] इति जिह्वामूलीये प्राप्ते अनेन वार्त्तिकेन विसर्गस्य नित्यम् सकारादेशः भवति ।]\n→ काँस्कान्, कांस्कान्\n \n" }, "83037": { "sa": "विसर्गस्य ककारे/खकारे परे जिह्वामूलीयः विसर्गः वा भवतः । विसर्गस्य पकारे/फकारे परे उपध्मानीयः विसर्गः वा भवतः । ", "sd": "<<विसर्जनीयस्य सः>> [[8.3.34]] इत्यनेन विसर्गस्य खरि परे सकारे प्राप्ते वर्तमानसूत्रेण तस्य अपवादत्वेन कवर्गे पवर्गे च परे (क्रमेण) जिह्वामूलीय-उपध्मानीयौ उच्येते । एतौ आदेशौ विकल्पेनैव भवतः, अतः विकल्पाभावे विसर्गः एव तिष्ठति ।\nउदाहरणानि\n1) विसर्गात् परः ककारः -\nरामः कः → रामःकः, राम≍कः [<<कुप्वोः ≍क≍पौ च>> [[8.3.37]] इति विसर्गस्य विकल्पेन जिह्वामूलीयः]\n2) विसर्गात् परः खकारः -\nरामः खनति → रामःखनति, राम≍खनति [<<कुप्वोः ≍क≍पौ च>> [[8.3.37]] इति विसर्गस्य विकल्पेन जिह्वामूलीयः]\n3) विसर्गात् परः पकारः -\nरामः पातुः → रामःपातुः, राम≍पातु [<<कुप्वोः ≍क≍पौ च>> [[8.3.37]] इति विसर्गस्य विकल्पेन उपध्मानीयः]\n4) विसर्गात् परः फकारः -\nवृक्षः फलतु → वृक्षः फलतु, वृक्ष≍फलतु [<<कुप्वोः ≍क≍पौ च>> [[8.3.37]] इति विसर्गस्य विकल्पेन उपध्मानीयः]\nज्ञातव्यम् -\n1. 'जिह्वामूलीयः' इति कश्चन अयोगवाहः वर्णः अस्ति । वर्तमानसूत्रेण विसर्गात् परः ककारः खकारः वा आगच्छति चेदेव अस्य निर्माणम् भवति । अस्य उच्चारणमर्धविसर्गसदृशम् भवति । अस्य उच्चारणस्थानम् जिह्वायाः मूलमस्ति । लेखने जिह्वामूलीयस्य निर्देशः '≍' अनेन चिह्नेन क्रियते ।\n2. 'उपध्मानीयः' इति कश्चन अयोगवाहः वर्णः अस्ति । वर्तमानसूत्रेण विसर्गात् परः पकारः फकारः वा आगच्छति चेदेव अस्य निर्माणम् भवति अस्य उच्चारणमपि अर्धविसर्गसदृशम् भवति । अस्य उच्चारणस्थानम् औष्ठौ स्तः । लेखने उपध्मानीयस्य निर्देशः अपि '≍' अनेन चिह्नेन क्रियते ।\n3. यद्यपि अस्मिन् सूत्रे 'कु' / 'पु' इत्यनेन कवर्ग-पवर्गयोः उल्लेखः कृतः अस्ति, तथापि विसर्गस्य निर्माणम् खर्-वर्णे परे एव भवति, अतः अस्य सूत्रस्य प्रसक्तिः अपि ककारे परे / खकारे परे / पकारे परे / फकारे परे एव विद्यते ।\n4. वर्तमानसूत्रम् <<विसर्जनीयस्य सः>> [[8.3.34]] इत्यस्य अपवादरूपेण आगच्छति । तथा च, <<शर्परे विसर्जनीयः>> [[8.3.35]] एतत् सूत्रम् वर्तमानसूत्रस्य अपवादः अस्ति ।\n5. 'पुम्स् + कोकिल', 'कान् + कान्' एतादृशानाम् शब्दानाम् विषये <<वा शरि>> [[8.3.36]] अस्मिन् सूत्रे पाठितम् एतत् वार्त्तिकम् वर्तमानसूत्रस्य अपवादरूपेण विधीयते, अतः एतेषाम् विषये जिह्वामूलीयः न भवति । यथा -\nपुम् + कोकिलः [इति स्थिते -]\n→ पुरुँ + कोकिलः [<<पुमः खय्यम्परे>> [[8.3.6]] इति मकारस्य रुँत्वम् भवति ।]\n→ पुँरुँ + कोकिलः / पुंरुँ + कोकिलः [<<अत्रानुनासिकः पूर्वस्य तु वा>> [[8.3.2]] इति विकल्पेन अनुनासिकः । अनुनासिकाभावे <<अनुनासिकात् परोऽनुस्वारः>> [[8.3.4]] इति अनुस्वारः]\n→ पुँः + कोकिलः / पुंः + कोकिलः [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n→ पुँस् + कोकिलः / पुंस् + कोकिलः [<<कुप्वोः ≍क ≍पौ च>> [[8.3.37]] इति जिह्वामूलीये प्राप्ते अनेन वार्त्तिकेन नित्यम् सकारादेशः भवति ।]\n→ पुँस्कोकिलः / पुंस्कोकिलः\n \nअत्र एकम् वार्त्तिकम् ज्ञातव्यम् - । अहरादिगणस्य शब्दानाम् पत्यादिगणस्य शब्देषु परेषु विकल्पेन रेफः भवति ।\nयथा - अहन् + पतिः = अहर् + पतिः = अहर्पतिः ।\nरेफाभावे -\nअहन् + पतिः\n→ अहरुँ + पतिः [अहन् ८.२.६८ इत्यनेन रूत्वम्]\n→ अहः + पतिः [खरवसानयोर्विसर्जनीयः ८.३.१५ इत्यनेन विसर्गः]\n→ अहः पतिः, अह≍पतिः । [कुप्वोः ≍क ≍पौ च ८.३.३७ इति विकल्पेन उपध्मानीयः]\nअस्मिन् वार्तिके 'अहरादिगण' तथा 'पत्यादिगण' एतेषाम् विषये उक्तमस्ति । एते गणाः एतादृशाः -\nअहरादिगणः = {अहर् , गिर्, धुर् }(अहर्-इत्यनेन अहन्-शब्दः स्वीक्रियते) ।\nपत्यादिगणः = { पति, गण, पुत्र }\nअतः अनेन वार्तिकेन एतानि पदानि सिद्ध्यन्ति - अहर्पतिः, गीर्पतिः, धूर्पतिः , अहर्गणः, गीर्गणः, धूर्गणः, अहर्पुत्रः, गीर्पुत्रः, धूर्पुत्रः ।" }, "83038": { "sa": "पदान्ते विद्यमानस्य विसर्गस्य 'पाश-कल्प-क-काम्य' एतेषु प्रत्ययेषु परेषु सकारादेशः भवति । ", "sd": "विसर्गात् परः ककारः / खकारः / पकारः / फकारः अस्ति चेत् <<कुप्वोः ≍क≍पौ च>> [[8.3.37]] इत्यनेन विसर्गस्य विकल्पेन जिह्वामूलीय-उपध्मानीयौ भवतः, विकल्पाभावे च विसर्गः तादृशः एव तिष्ठति । वर्तमानसूत्रेण अस्य अपवादः उच्यते - यदि विसर्गात् परः पाश-कल्प-क-काम्य एते शब्दाः आगच्छति, तर्हि विसर्गस्य सकारादेशः एव भवति ।\nअस्मिन् सूत्रे 'अपदादौ' इति उक्तमस्ति । अपदादौ = अपदस्य आदौ । अतः 'अपदादौ कुप्वोः' अस्य अर्थः - सः कवर्गीयः/पवर्गीयः वर्णः यः अपदस्य आदौ अस्ति । इत्युक्ते, पदस्य आदौ नास्ति, कस्यचित् अन्यशब्दस्य आदौ अस्ति । कः अयमन्यशब्दः? अस्य उत्तरम् वार्त्तिकेन दीयते - । इत्युक्ते, यदि सः 'अन्यः शब्दः' पाश-कल्प-क-काम्य एतेषु कश्चन प्रत्ययः अस्ति, तर्हि अयम् सकारादेशः भवति । (एते चत्वारः प्रत्ययाः सन्ति - पदानि न - इति स्मर्तव्यम्) ।\nक्रमेण पश्यामः -\n1) 'पाश' अयम् प्रत्ययः <<याप्ये पाशप्>> [[5.3.47]] इत्यनेन दीयते । 'याप्य' इत्युक्ते कुत्सितम् । यथा - पयः + पाशम् → पयस्पाशम् । (दुर्गतम् / अपेयम् दुग्धम् इत्यर्थः) ।\n2) 'कल्प' अयम् प्रत्ययः <<ईषदसमाप्तौ कल्पब्देश्यदेशीयरः>> [[5.3.67]] इत्यनेन दीयते । यथा - यशः + कल्पम् → यशस्कल्पम् । (सम्पूर्णरूपेण यशः न प्राप्तम्, ईषद्रूपेण प्राप्तम्, इत्यर्थः) ।\n3) 'क' अयम् प्रत्ययः <<प्रागिवात्कः>> [[5.3.70]] अस्मिन् अधिकारे उक्तः अस्ति । यथा, <<अज्ञाते>> [[5.3.73]] अनेन सूत्रेण अयम् प्रत्ययः 'अज्ञातम्' अस्मिन् अर्थे विधीयते । यशः + क = यशस्क । (अज्ञातम् यशः इत्यर्थः)। <<उरःप्रभृतिभ्यः कप्>> [[5.4.151]] इत्यनेन निर्दिष्टः कप्-प्रत्ययः अप्यत्र स्वीक्रियते । व्यूढमुरः यस्य सः = व्यूढोरः + क → व्यूढोरस्कः ।\n4) 'काम्य' अयम् प्रत्ययः <<काम्यच्च>> [[3.1.9]] इत्यनेन दीयते । 'यशः आत्मानम् इच्छति' अस्मिन् अर्थे 'यशः' शब्दस्य काम्यच्-प्रत्ययं कृत्वा 'यशस्काम्य' इति धातुः सिद्ध्यति । यथा - सः यशं आत्मानम् इच्छति = सः यशस्काम्यति ।\nअत्र वार्त्तिकद्वयम् ज्ञातव्यम् -\n1. - यदि विसर्गः अव्ययस्य अन्ते अस्ति चेत् अस्य सूत्रस्य प्रयोगः न भवति इत्यर्थः ।\nयथा - प्रातः + कल्पम् → प्रातःकल्पम्, प्रात≍कल्पम् । अत्र 'प्रातः' इति अव्ययमस्ति, अतः वर्तमानसूत्रेण सकारादेशः न भवति, अपितु <<कुप्वोः ≍क ≍पौ च>> [[8.3.37]] इत्यनेन जिह्वामूलीय-विसर्गौ भवतः ।\n2. - यदि विसर्गः रुँ-इत्यस्मात् निर्मितः नास्ति, तर्हि काम्य-शब्दे परे अस्य सूत्रस्य प्रयोगः न भवति ।\nयथा - 'गिर्' इति रेफान्तशब्दः ('वाणी' इति अर्थः) । अस्य प्रथमैकवचनम् 'गीः' इति भवति । अस्मिन् शब्दे विसर्गः रेफात् निर्मितः अस्ति, रुँ-इत्यस्मात् न । अतः 'काम्यच्' प्रत्यये परे अस्य विसर्गस्य सकारादेशः न भवति । गीः + काम्यति = गीःकाम्यति, गी≍काम्यति ।\n" }, "83039": { "sa": "इण्-वर्णात् परस्य विसर्गस्य पाश-कल्प-क-काम्येषु परेषु षकारः भवति ।", "sd": "विसर्गात् परः ककारः / खकारः / पकारः / फकारः अस्ति चेत् <<कुप्वोः ≍क≍पौ च>> [[8.3.37]] इत्यनेन विसर्गस्य विकल्पेन जिह्वामूलीय-उपध्मानीयौ भवतः, विकल्पाभावे च विसर्गः तादृशः एव तिष्ठति । परन्तु यदि तस्मात् विसर्गात् परः पाश्य-कल्प-क-काम्य एतेषु कश्चन शब्दः आगच्छति, तर्हि <<सोऽपदादौ>> [[8.3.38]] इत्यनेन विसर्गस्य सकारादेशः विधीयते । यदि एतादृशः विसर्गः इण्-वर्णात् अनन्तरमागच्छति, तर्हि वर्तमानसूत्रेण सकारस्यापि अपवादरूपेण विसर्गस्य षकारादेशः क्रियते ।\nअस्मिन् सूत्रे 'अपदादौ' इति उक्तमस्ति । अपदादौ = अपदस्य आदौ । अतः 'अपदादौ कुप्वोः' अस्य अर्थः - सः कवर्गीयः/पवर्गीयः वर्णः यः अपदस्य आदौ अस्ति । इत्युक्ते, पदस्य आदौ नास्ति, कस्यचित् अन्यशब्दस्य आदौ अस्ति । कः अयमन्यशब्दः? अस्य उत्तरम् <<सोऽपदादौ>> [[8.3.38]] अस्मिन् सूत्रे स्थितेन वार्त्तिकेन दीयते - । इत्युक्ते, यदि सः 'अन्यः शब्दः' पाश-कल्प-क-काम्य एतेषु कश्चन प्रत्ययः अस्ति, तर्हि अयम् षकारादेशः भवति । (एते चत्वारः प्रत्ययाः सन्ति - पदानि न - इति स्मर्तव्यम्) ।\nक्रमेण पश्यामः -\n1) 'पाश' अयम् प्रत्ययः <<याप्ये पाशप्>> [[5.3.47]] इत्यनेन दीयते । 'याप्य' इत्युक्ते कुत्सितम् । यथा - सर्पिः + पाशम् → सर्पिष्पाषम् । (दुर्गतम् / अपेयम् घृतम् इत्यर्थः) ।\n2) 'कल्प' अयम् प्रत्ययः <<ईषदसमाप्तौ कल्पब्देश्यदेशीयरः>> [[5.3.67]] इत्यनेन दीयते । यथा - सर्पिः + कल्पम् → सर्पिष्कल्पम् । (सम्पूर्णरूपेण घृतम् न प्राप्तम्, ईषद्रूपेण प्राप्तम्, इत्यर्थः) ।\n3) 'क' अयम् प्रत्ययः <<प्रागिवात्कः>> [[5.3.70]] अस्मिन् अधिकारे उक्तः अस्ति । यथा, <<अज्ञाते>> [[5.3.73]] अनेन सूत्रेण अयम् प्रत्ययः 'अज्ञातम्' अस्मिन् अर्थे विधीयते । धनुः + क = धनुष्क । (अज्ञातम् धनुः इत्यर्थः)। <<इसुसुक्तान्तात् कः>> [[7.3.51]] इत्यनेन सूत्रेण ठक्-प्रत्ययस्य 'क' इति आदेशः दीयते, तस्यापि अत्र ग्रहणं भवति । यथा, धनुः प्रहरणम् अस्य = धनुस् + क --> धानुः + क --> धानुष्क ।\n4) 'काम्य' अयम् प्रत्ययः <<काम्यच्च>> [[3.1.9]] इत्यनेन दीयते । 'धनुः आत्मानम् इच्छति' अस्मिन् अर्थे 'धनुः' शब्दस्य काम्यच्-प्रत्ययं कृत्वा 'धनुष्काम्य' इति धातुः सिद्ध्यति । यथा - सः धनुः आत्मानम् इच्छति = सः धनुष्काम्यति ।\n<<सोऽपदादौ>> [[8.3.38]] सूत्रे निर्दिष्टेद्वे अपि वार्त्तिके अत्रापि विधियेते -\n1. - यदि विसर्गः अव्ययस्य अन्ते अस्ति चेत् अस्य सूत्रस्य प्रयोगः न भवति इत्यर्थः ।\nयथा - उच्चैः + कल्पम् → उच्चैःकल्पम्, उच्चै≍कल्पम् । अत्र 'उच्चैः' इति अव्ययमस्ति, अतः वर्तमानसूत्रेण षकारादेशः न भवति, अपितु <<कुप्वोः ≍क ≍पौ च>> [[8.3.37]] इत्यनेन जिह्वामूलीय-विसर्गौ भवतः ।\n2. - यदि विसर्गः रुँ-इत्यस्मात् निर्मितः नास्ति, तर्हि काम्य-शब्दे परे अस्य सूत्रस्य प्रयोगः न भवति ।\nयथा - 'गिर्' इति रेफान्तशब्दः ('वाणी' इति अर्थः) । अस्य प्रथमैकवचनम् 'गीः' इति भवति । अस्मिन् शब्दे विसर्गः रेफात् निर्मितः अस्ति, रुँ-इत्यस्मात् न । अतः 'काम्यच्' प्रत्यये परे अस्य विसर्गस्य षकारादेशः न भवति । गीः + काम्यति = गीःकाम्यति, गी≍काम्यति ।\nज्ञातव्यम् - अस्मिन् सूत्रे प्रयुक्तः इण्-प्रत्याहारः 'लण्'-इत्यस्य णकारेण गृह्यते । अतः इण् प्रत्याहारे एते वर्णाः समाविशन्ति - इ, उ, ऋ, ऌ, ए, ऐ, ओ, औ, ह् , य्, व्, र्, ल् ।\n" }, "83040": { "sa": "गतिसंज्ञकस्य नमस्-शब्दस्य पुरस्-शब्दस्य च विसर्गस्य कवर्गे पवर्गे वा परे सकारादेशः भवति । ", "sd": "किम् नाम गति? <<गतिश्च>> [[1.4.60]] अनेन सूत्रेण 'गति'संज्ञा विधीयते ।\nनमस् , तथा पुरस् - एतौ द्वौ अव्ययो । नमस्-शब्दः 'साक्षात्' नाम्नि गणे समाविश्यते, अतः कृ-धातोः रूपेषु परेषु अस्य शब्दस्य <<साक्षात्प्रभृतीनि च>> [[1.4.74]] इत्यनेन विकल्पेन गतिसंज्ञा भवति । 'पुरस्' अव्ययस्य <<पुरोऽव्ययम्>> [[1.4.67]] इत्यनेन तु नित्यम् गतिसंज्ञा भवति । एतयोः द्वयोः गतिसंज्ञकयोः शब्दयोः सकारस्य विसर्गे कृते तस्मात् विसर्गात् परः यदि कवर्गस्य पवर्गस्य वा वर्णः आगच्छति, तर्हि तस्य <<कुप्वोः ≍क ≍पौ च>> [[8.3.37]] इत्यस्य अपवादरूपेण अस्य विसर्गस्य सकारादेशः भवति । यथा -\n1) 'नमस् + करोति' इति स्थिते\n→ नमरुँ करोति [<<ससजुषो रुँः>> [[8.2.66]] इति रुँत्वम्]\n→ नमः करोति [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n→ नमस्करोति [<<साक्षात्प्रभृतीनि च>> [[1.4.74]] इत्यनेन 'नमस्' इत्यस्य विकल्पेन गतिसंज्ञायां सत्याम् <<नमस्पुरसोर्गत्योः>> [[8.3.40]] इति विसर्गस्य सकारः।]\nयदि नमस्-इत्यस्य गतिसंज्ञा न भवति, तर्हि <<कुप्वोः ≍क ≍पौ च>> [[8.3.37]] इत्यनेन जिह्वामूलीय-विसर्गौ कृत्वा नमःकरोति, नम≍करोतीति रूपद्वयं सिद्ध्यति ।\n2) 'पुरस् + करोति' इति स्थिते -\n → पुरुँ करोति [<<ससजुषो रुँः>> [[8.2.66]] इति रुँत्वम्]\n→ पुरः करोति [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n→ पुरस्करोति [<<पुरोऽव्ययम्>> [[1.4.67]] इत्यनेन पुरस्-इत्यस्य नित्यम् गतिसंज्ञायाम् प्राप्तायाम् <<नमस्पुरसोर्गत्योः>> [[8.3.40]] इति विसर्गस्य सकारः।]\nज्ञातव्यम् -\n1. वर्तमानसूत्रम् <<कुप्वोः ≍क ≍पौ च>> [[8.3.37]] इत्यस्य अपवादरूपेण आगच्छति ।\n2. <<साक्षात्प्रभृतीनि च>> [[1.4.74]] इत्यनेन 'नमस्' इत्यस्य गतिसंज्ञा विकल्पेन भवति । परन्तु गतिसंज्ञा भवति चेत् वर्तमानसूत्रेण सकारादेशः भवत्येव । तत्र विकल्पः नास्ति ।\n3. 'पुर्' (= नगरी) इत्यस्य रेफान्तशब्दस्य प्रथमाबहुवचनमपि 'पुरः' इत्येव भवति । परन्तु एतत् अव्ययम् न, अतः अस्य गतिसंज्ञा न भवति । अतः वर्तमानसूत्रेण अस्य शब्दस्य विसर्गस्य ग्रहणं न क्रियते । यथा - पुरः प्रवेष्टव्याः → पुरःप्रवेष्टव्याः, पुर≍प्रवेष्टव्याः । अत्र <<कुप्वोः ≍क ≍पौ च>> [[8.3.37]] इत्यनेन उपध्मानीय-विसर्गौ भवतः ।\n" }, "83041": { "sa": "इकारोपधस्य उकारोपधस्य प्रत्ययावयवभिन्नस्य विसर्गस्य स्थाने ककारे / खकारे / पकारे / फकारे परे षकारादेशः भवति । ", "sd": "ह्रस्व-इकारात् / ह्रस्व-उकारात् परः विद्यमानः विसर्गः यदि प्रत्यय-निर्मितः नास्ति, तर्हि तस्य स्थाने ककारे / खकारे / पकारे / फकारे परे षकारादेशः भवति - इति अस्य सूत्रस्य आशयः ।\nसामान्यरूपेण ह्रस्व-इकारात् ह्रस्व-उकारात् परः यः विसर्गः दृश्यते, सः प्रत्ययस्यैव वर्तते । यथा - मुनिः (सुँ-प्रत्ययस्य विसर्गः), मतिभिः (भिस्-प्रत्ययस्य विसर्गः), सर्पिः ('इस्' इति उणादिप्रत्ययस्य विसर्गः), धनुः (उस्-इति उणादिप्रत्ययस्य विसर्गः), आदयः । केषुचन एव शब्देषु प्रत्ययभिन्नः विसर्गः दृश्यते । काशिकायाम् एतेषाम् शब्दानामावली दत्ता अस्ति - निस्-निर्-दुस्-दुर्-बहिस्-आविस् -चतुर्-प्रादुस् । एतेषामन्तिमवर्णस्य यदि विसर्गादेशः भवति, तर्हि तस्य वर्तमानसूत्रेण षकारादेशः विधीयते ।\nएतेषाम् सर्वेषामन्तिमवर्णस्य विसर्गः कथं भवति? -\n1. निस् तथा दुस् - एतयोः <<प्रादयः>> [[1.4.58]] इत्यनेन निपातसंज्ञा भवति । 'बहिस्' तथा 'आविस्' - एतयोः <<ऊर्यादिच्विडाचश्च>> [[1.4.61]] इत्यनेन निपातसंज्ञा भवति । 'प्रादुस्' - इत्यस्य <<साक्षात्प्रभृतीनि च>> [[1.4.74]] इत्यनेन निपातसंज्ञा भवति । एतादृशम् एतेषां सर्वेषाम् निपातसंज्ञायाम् सत्याम् <<स्वरादिनिपातमव्ययम्>> [[1.1.37]] इत्यनेन अव्ययसंज्ञा अपि भवति । अव्ययात् परस्य सुप्-प्रत्ययस्य <<अव्ययादाप्सुपः>> [[2.4.82]] इत्यनेन लोपः भवति, परन्तु <<प्रत्ययलोपे प्रत्ययलक्षणम्>> [[1.1.62]] इत्यनेन अव्ययस्य पदत्वमपि जायते । अतः एतेषां सकारः पदान्ते विद्यमानः वर्तते । अस्यामवस्थायाम् <<ससजुषोः रुः>> [[8.2.66]] इत्यनेन सकारस्य रुँत्वम् भवति । अग्रे खर्-वर्णे परे रेफस्य <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इत्यनेन विसर्गः भवति ।\n2. निर् , दुर्, चतुर् एतेषु शब्देषु तु मूलरूपेणैव रेफः अस्ति । तस्यापि <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इत्यनेन खर्-वर्णे परे विसर्गः भवति ।\nअनेन प्रकारेण एतेषाम् सर्वेषाम् खर्-वर्णे परे विसर्गः जायते । अस्य विसर्गस्य ककारे / खकारे / पकारे / फकारे परे षत्वम् भवति । उदाहरणानि एतानि -\n1. निस् + कृतम् = निष्कृतम्\n2. दुस् + पातकम् = दुष्पातकम् ।\n3. बहिस् + कृतम् = बहिष्कृतम् ।\n4. आविस् + पतितम् = आविष्पतितम् ।\n5. प्रादुस् + पीतम् = प्रादुष्पीतम्\n6. निर् + पीतम् = निष्पीतम् ।\n7. दुर् + कृत्यम् = दुष्कृत्यम् ।\n8. चतुर् + कपालम् = चतुष्कपालम् ।\nअत्र एकम् वार्त्तिकम् ज्ञातव्यम् - । इत्युक्ते, पुम्-शब्दस्य विषये, मुहुस्-शब्दस्य विषये च अस्य सूत्रस्य प्रसक्तिः नास्ति । अत्र वस्तुतः पुम्-शब्दस्य विषये अस्य वार्त्तिकस्य आवश्यकता नास्ति, यतः पुम्-शब्दस्य मकारः 'डुम्सुन्' अस्य उणादिप्रत्ययस्य अस्ति, अतः तस्य विसर्गः भवति चेदपि वर्तमानसूत्रेण तस्य षत्वम् न विधीयते । मुहुस्-शब्दः तु स्वरादिगणे अस्ति, अतः तस्य सकारः प्रत्ययनिर्मितः नास्ति । अतः तस्य विषये अनेन वार्त्तिकेन षत्वम् निषिध्यते । यथा -\nमुहुस् + कामा\n→ मुहुर् कामा [<<स्वरादिनिपातमव्ययम्>> [[1.1.37]] इति अव्ययसंज्ञा । अतः पदत्वात् <<ससजुषोः रुँः>> [[8.2.66]] इति पदत्वम् ]\n→ मुहुः कामा [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n→ मुहु≍कामा, मुहुःकामा [<<कुप्वोः ≍क≍पौ च>> [[8.3.37]] इति विकल्पेन उपध्मानीयः ]\nज्ञातव्यम् -\n1. अस्मिन् सूत्रे 'इत्' तथा 'उत्' अत्र तपरकरणम् कृतमस्ति । अतः ह्रस्व-इकारात् / ह्रस्व-उकारात् परस्यैव विसर्गस्य अत्र ग्रहणं भवति, दीर्घात् परस्य न । यथा - गीः + कृतम् = गी≍कृतम्, गीःकृतम् ।\n2. अनेन सूत्रेण कृतः षकारादेशः नित्यम् भवति, विकल्पेन न ।\n3. अत्र निर्दिष्टः चतुर्-शब्दः सङ्ख्यावाची अस्ति । यथा - चत्वारः बालकाः, चत्वारि फलानि - आदयः । अन्यः अपि एकः चतुर्-शब्दः कृत्वर्थे प्रयुज्यते (यथा - सः चतुः पठति = सः चतुर्वारम् पठति), तस्य चतुर्-शब्दस्य विसर्गस्य <<द्विस्त्रिश्चतुरिति कृत्वोऽर्थे>> [[8.3.43]] इत्यनेन विकल्पेन एव षत्वं विधीयते ।\n4. ऋकारान्तशब्दानाम् पञ्चमी-षष्ठी-विभक्तेः रूपस्य विषये किञ्चित् अधिकम् ज्ञातव्यमस्ति । यथा, 'पितुः' इत्यत्र विहितः विसर्गः प्रत्ययस्य अस्ति वा? प्रक्रियां पश्यामश्चेत् स्पष्ट् भवेत् -\nपितृ + ङसिँ [पञ्चम्येकवचनस्य प्रत्ययः]\n→ पितृ + अस् [इत्संज्ञालोपः]\n→ पित् ऋ अ स् [स्पष्टतायै 'तृ = त् + ऋ' इति लिखितमस्ति ।]\n→ पित् उर् स् [<<ऋत उत्>> [[6.1.111]] इत्यनेन ऋकार-अकारयोः एकः उकारादेशः, सः च रपरः]\n→ पितुर् [<<रात्सस्य>> [[8.2.24]] इति सकारलोपः]\n→ पितुः [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इत्यनेन विसर्गः]\nअत्र निर्मितः विसर्गः पूर्वपरयोः 'एकादेशः' अस्ति । <<आद्यन्तवदेकस्मिन्>> [[1.1.21]] इत्यनेन अयम् एकादेशः पूर्वशब्दस्य अवयवः अपि अस्ति, परशब्दस्य अवयवः अपि अस्ति । इत्युक्ते, अयम् विसर्गः 'पितृ' इति प्रत्ययभिन्नस्य शब्दस्य अपि अवयवः अस्ति, तथा 'अस्' प्रत्ययस्यापि अवयवः अस्ति । अस्याम् स्थितौ किम् भवति?\nअस्य प्रश्नस्य उत्तरम् ज्ञातुम् एकस्य वार्तिकस्य साहाय्यम् स्वीक्रियते - ।\nकः अर्थः? 'कस्कादिगणः' नाम कश्चन गणः गणपाठे पाठितः अस्ति । अस्मिन् गणे आचार्यः तेषाम् शब्दानाम् निपातनम् करोति येषु विसर्गस्य सकारः / षकारः कर्तव्यः, परन्तु तदर्थमष्टाध्याय्याम् किमपि सूत्रम् नास्ति । अस्मिन्नेव गणे आचार्येन 'भ्रातुष्पुत्र' नाम शब्दः निर्दिष्टः अस्ति । इत्युक्ते, भ्रातु-शब्दस्य विसर्गस्य पुत्र-शब्दे परे केनापि सूत्रेण षत्वम् यद्यपि न भवति, तथापि षत्वम् करणीयमेव, इत्यर्थः । अस्य शब्दस्य कस्कादिगणे निर्देशात् एतत् स्पष्टम् भवति यत् भ्रातुः / मातुः / पितुः एतादृशानाम् शब्दानाम् विसर्गस्य कवर्गे / पवर्गे परे षत्वम् वर्तमानसूत्रेण न भवेत् - इति - अन्यथा अस्य शब्दस्य कस्कादिगणे समावेशस्य प्रयोजनमेव विनश्येत् । अतः अस्मिन् वार्त्तिके उक्तमस्ति - । 'एकदेशेन' निर्मितः यः विसर्गः, तस्य षत्वम् न करणीयम् इति ।\n" }, "83042": { "sa": "तिरस्-शब्दात् परस्य विसर्गस्य कवर्गे पवर्गे वा परे विकल्पेन सकारादेशः भवति । ", "sd": "'तिरस्' इति शब्दः स्वरादिगणे निर्दिष्टः अस्ति । अतः <<स्वरादिनिपातमव्ययम्>> [[1.1.37]] इत्यनेन अव्ययत्वे, ततश्च पदत्वे प्राप्ते अस्य सकारस्य खरि परे रुँत्वविसर्गः भवति । अस्य विसर्गस्य <<कुप्वोः ≍क ≍पौ च>> [[8.3.37]] इत्यनेन कवर्गे पवर्गे परे विकल्पेन जिह्वामूलीय-उपध्मानीयौ प्राप्ते तिरस्-शब्दस्य विषये विकल्पेन सकारादेशः अपि विधीयते । यथा -\n1. तिरस् + करोति → तिरः करोति → तिर≍करोति, तिरःकरोति, तिरस्करोति ।\n2. तिरस् + पतति → तिरः पतति → तिर≍पतति, तिरःपतति, तिरस्पतति ।\n" }, "83043": { "sa": "'कृत्व' इत्यस्मिन् अर्थे प्रयुज्यमानानाम् द्विस्/त्रिस्/चतुर्-शब्दानाम् इण्-वर्णात् परस्य विसर्गस्य कवर्गे पवर्गे वा परे विकल्पेन षकारादेशः भवति । ", "sd": "अस्य सूत्रस्य अर्थम् ज्ञातुम् सर्वप्रथमम् 'कृत्व' इत्युक्ते किम् तत् पश्यामः । 'कतिवारम्' अस्य प्रश्नस्य उत्तरार्थम् येषाम् शब्दानाम् प्रयोगः भवति, ते कृत्वर्थाः । यथा, सामान्यभाषायाम् यत् 'द्विवारम्' / 'त्रिवारम्' / 'पञ्चवारम्' एतादृशाः शब्दाः प्रयुज्यन्ते, ते सर्वे कृत्वर्थे सन्ति । तद्धितप्रकरणे 'कृत्वसुँच्' , 'सकृत्' तथा 'सुँच्' एते त्रयः प्रत्ययाः अस्मिन्नेव अर्थे उक्ताः सन्ति । एतेभ्यः 'सुँच्' प्रत्ययस्य विषये एव वर्तमानसूत्रस्य प्रसक्तिः अस्ति, अतः अत्र 'सुँच्' प्रत्ययं एव पश्यामः ।\n'सुँच्' अयं प्रत्ययः <<द्वित्रिचतुर्भ्यः सुच्>> [[5.4.18]] अनेन सूत्रेण द्वि, त्रि, तथा चतुर् - एतेभ्यः प्रातिपदिकेभ्यः कृत्वर्थे विधयते । अस्मिन् प्रत्यये उकार-चकारयोः इत्संज्ञा लोपश्च भवति, अतः केवलं 'स्' इत्यवशिष्यते । अग्रे -\n- द्वि + सुच् → द्विस् → [सकारस्य रुत्वे, रेफस्य अवसाने खरि परे वा विसर्गे] → द्विः ।\n- त्रि + सुच् → त्रिस् → [सकारस्य रुत्वे, रेफस्य अवसाने खरि परे वा विसर्गे] → त्रिः ।\n- चतुर् + सुच् → चतुर् स् → [<<रात्सस्य>> [[8.2.24]] इत्यनेन सकारस्य लोपे कृते] चतुर् -→ [रेफस्य अवसाने खरि परे वा विसर्गे] → चतुः ।\nएतादृशम् 'द्विस् ', 'त्रिस् ' तथा चतुर् एतानि प्रातिपदिकानि सिद्ध्यन्ति ।\nइदानीमस्य सूत्रस्य अर्थज्ञानम् सरलरूपेण भवेत् । एतत् सूत्रम् द्विस्, त्रिस्, चतुर् - एतेषाम् शब्दानाम् विषये उक्तमस्ति । एतेषामन्तिमवर्णस्य यः विसर्गः भवति, तस्य कवर्गे पवर्गे परे <<कुप्वोः ≍क ≍पौ च>> [[8.3.37]] इत्यनेन विकल्पेन जिह्वामूलीये/उपध्मानीये प्राप्ते वर्तमानसूत्रेण विकल्पेन षकारादेशः अपि भवति । यथा -\nद्विः + करोति → द्विष्करोति, द्विःकरोति, द्वि≍करोति ।\nत्रिः + करोति → त्रिष्करोति, त्रिःकरोति, त्रि≍करोति ।\nचतुः + करोति → चतुष्करोति, चतुःकरोति, चतु≍करोति ।\nचतुर्-शब्दस्य विषये किञ्चित् अधिकम् ज्ञेयम् - अत्र प्रयुक्तः 'चतुर्' शब्दः कृत्वर्थे अस्ति - सङ्ख्यार्थे न इति स्मर्तव्यम् । सङ्ख्यार्थे प्रयुज्यमानः चतुर्-शब्दः (यथा - चत्वारि फलानि - आदयः) भिन्नः, अत्र कृत्वर्थे प्रयुक्तः चतुर्-शब्दः (यथा - सः चतुः पठति) भिन्नः । सङ्ख्यार्थे यः चतुर्-शब्दः प्रयुज्यते, तस्य विसर्गस्य <<इदुदुपधस्य चाप्रत्ययस्य>>[[8.3.41]] इत्यनेन नित्यमेव षत्वं विधीयते । परन्तु कृत्वर्थे प्रयुज्यमानस्य चतुर्-शब्दस्य वर्तमानसूत्रेण विकल्पेन षत्वं विधीयते ।\n" }, "83044": { "sa": "इस्/उस्-प्रत्यययोः विसर्गस्य कवर्गे पवर्गे च परे सामर्थ्ये विकल्पेन षकारादेशः भवति । ", "sd": "अस्य सूत्रस्य अर्थं ज्ञातुम् 'सामर्थ्यम्' तथा इस्/उस्-प्रत्ययानां विषये किञ्चित् अधिकम् पश्यामः ।\n1) सामर्थ्यम् - 'एकस्य पदस्य अन्येन पदेन सह अन्वयस्य शक्तिः' सामर्थ्यम् नाम्ना ज्ञायते । यथा - 'गच्छति राज्ञः पुत्र', अस्मिन् वाक्ये 'राज्ञः' पदस्य सम्बन्धः 'पुत्रः' अनेन सह अस्ति, अतः 'राज्ञः' तथा 'पुत्रः' एतयोर्शब्दयोर्मध्ये 'सामर्थ्यम्' अस्तीति उच्यते । परन्तु - 'भवति दर्शनं राज्ञः, पुत्रः चोरस्य धावति' अस्मिन् वाक्ये 'राज्ञः' शब्दस्य अन्वयः 'दर्शनम्' अनेन सह अस्ति, 'पुत्र' अनेन सह न । अतः अत्र 'राज्ञः' तथा 'पुत्रः' एतयोः शब्दयोर्मध्ये सामर्थ्यम् नास्तीति उच्यते । सामान्यरूपेण सन्धिं कर्तुम् केवलं संहिता आवश्यकी अस्ति , सामर्थ्यम् न । यथा, 'भवति दर्शनं राज्ञः, पुत्रः चोरस्य धावति' अस्मिन् वाक्ये यद्यपि 'राज्ञः' तथा 'पुत्रः' एतयोर्मध्ये सामर्थ्यम् नास्ति, तथापि विसर्गस्य <<कुप्वोः ≍क≍पौ च>> [[8.3.37]] इत्यनेन उपध्मानीयं कृत्वा 'भवति दर्शनं राज्ञः≍पुत्रः चोरस्य धावति' इति अपि वाक्यनिर्माणं भवति । परन्तु अस्मिन् सूत्रे उक्तः विधिः संहिता तथा सामर्थम् - उभावपि स्तः चेदेव भवति । एतत् स्पष्टीकर्तुमस्मिन् सूत्रे 'सामर्थ्ये' इति लिखितमस्ति ।\n2) इस्/उस्-प्रत्ययः - एतौ द्वौ उणादि-प्रत्ययौ स्तः । भिन्नैः उणादिसूत्रैः अनयोः प्रत्यययोः विधानं भवति । अर्चिस्, सर्पिस्, शोचिस्, छदिस्, हविस् - एते शब्दाः इस्-प्रत्ययान्तशब्दाः सन्ति, तथा धनुस्, चक्षुस्, जनुस्, वपुस्, तनुस्, आयुस् - एतादृशाः शब्दाः उस्-प्रत्ययान्तशब्दाः सन्ति ।\nइदानीमस्य सूत्रस्य अर्थः स्पष्टः स्यात् - यदि इस्/उस् -प्रत्ययस्य विसर्गात् परः कवर्गस्य / पवर्गस्य वर्णः आगच्छति, तर्हि तस्य विसर्गस्य सामर्थ्ये सति विकल्पेन षकारः भवति । यथा -\n1. 'त्वम् सर्पिः पिब' अस्मिन् वाक्ये सर्पिस्-शब्दस्य सकारस्य रुँत्वविसर्गे 'सर्पिः' इति जायते । अस्य विसर्गस्य पकारे परे वर्तमानसूत्रेण वैकल्पिकः षकारः विधीयते - 'त्वम् सर्पिष्पिब' । अत्र सर्पि-शब्दस्य पिब-शब्देन सह अन्वयः अस्ति, अतः अत्र सन्धिः भवति । अयम् षत्वम् वैकल्पिकमस्ति, अतः षत्वाभावे <<कुप्वोः ≍क≍पौ च>> [[8.3.37]] इत्यनेन विकल्पेन उपध्मानीयं कृत्वा 'त्वम् सर्पि≍पिब' / त्वम् सर्पिःपिब' एते द्वे वाक्ये अपि सिद्ध्यतः ।\n2. 'तिष्ठतु सर्पिः, पिब त्वमुदकम्' - अस्मिन् वाक्येऽपि सर्पिस्-शब्दस्य सकारस्य रुँत्वविसर्गे 'सर्पिः' इति जायते । अत्रापि विसर्गात् परः पकारः अस्ति । परन्तु अत्र 'सर्पिः' सब्दस्य सामर्थ्यम् 'तिष्ठतु' इत्यनेन सह अस्ति, पिब-इत्यनेन सह न । अतः अत्र वर्तमानसूत्रेण षत्वं न भवति । अतः <<कुप्वोः ≍क≍पौ च>> [[8.3.37]] इत्यनेन विकल्पेन उपध्मानीयं कृत्वा 'तिष्ठतु सर्पि≍पिब त्वमुदकम्' / 'तिष्ठतु सर्पिः पिब त्वमुदकम्' एते द्वे वाक्ये एव सिद्ध्यतः ।\n3. सः यजुः करोति → सः यजुष्करोति, सः यजुः≍करोति, सः यजुःकरोति । अत्रापि 'यजुः'-शब्दस्य 'करोति'-शब्देन सह अन्वयः अस्ति, अतः अत्र वर्तमानसूत्रेण विकल्पेन विसर्गस्य षकारादेशः भवति । विकल्पाभावे <<कुप्वोः ≍क≍पौ च>> [[8.3.37]] इत्यनेन वैकल्पिकमुपध्मानीयं अपि भवति ।\n4. रामः करोति यजुः, कृष्णः गच्छति → रामः करोति यजु≍कृष्णः गच्छति , रामः करोति यजुःकृष्णः गच्छति । अत्र यजुः-शब्दस्य कृष्ण-शब्देन सह अन्वयः नास्ति, अतः अत्र यजुः-शब्दस्य विसर्गस्य षकारादेशः न भवति । <<कुप्वोः ≍क≍पौ च>> [[8.3.37]] इत्यनेन विकल्पेन उपध्मानीयं कृत्वा वाक्यद्वयं तु सिद्ध्यतः एव ।\nज्ञातव्यम् - वस्तुतः सामर्थ्यस्य प्रकारद्वयमस्ति - 'व्यपेक्षा', तथा 'एकार्थीभाव' । एकार्थीभावसामर्थ्यम् तत्र उच्यते यत्र द्वयोः शब्दयोः मेलनेन तृतीयस्य भिन्न-अर्थवाचिनः शब्दस्य निर्माण भवति । व्यपेक्षासामर्थ्यम् तत्र उच्यते यत्र द्वयोः शब्दयोर्मध्ये वाक्ये कश्चन सम्बन्धः अस्ति । उदाहरणानि एतानि -\n1) राज्ञः पुत्रः गच्छति - अस्मिन् वाक्ये 'राज्ञः' तथा 'पुत्रः' एतयोर्मध्ये व्यपेक्षा-सामर्थ्यमपि अस्ति, एकार्थीभाव-सामर्थ्यमपि अस्ति । अतः अत्र 'राजपुत्रः गच्छति' इत्यपि वक्तुं शक्यते ।\n2) उद्यानमुपगृहमस्ति - अस्मिन् वाक्ये 'उप' तथा 'गृहम्' एतयोर्मध्ये एकार्थीभाव-सामर्थ्यमस्ति, परन्तु व्यपेक्षा-सामर्थ्यम् नास्ति, यतः उप-शब्दस्य गृह-शब्देन सह कोऽपि सम्बन्धः नास्ति । केवलं समासं कर्तुमुप-शब्दस्य योजनम् कृतमस्ति ।\n3) सः मम गृहम् गच्छति - अत्र 'गृहम्' तथा 'गच्छति' एतयोर्मध्ये व्यपेक्षासामर्थ्यमस्ति, परन्तु एकार्थीभाव-सामर्थ्यम् नास्ति, यतः अत्र एतयोः द्वयोः शब्दयोः मेलनेन तृतीयस्य शब्दस्य निर्माणम् भवितुम् न अर्हति ।\nअस्मिन् सूत्रे प्रयुक्तः 'सामर्थ्ये' अयं शब्दः व्यपेक्षा-सामर्थ्यार्थमस्ति ।\n4) भवति दर्शनं राज्ञः, पुत्रः चोरस्य धावति - अत्र 'राज्ञः' तथा 'पुत्रः' एतयोर्मध्ये कीदृशमपि सामर्थ्यम् नास्ति ।\nअस्मिन् सूत्रे प्रयुक्तः 'सामर्थ्य' अयम् शब्दः व्यपेक्षासामर्थ्यस्य निर्देशं करोति । इत्युक्ते, वर्तमानसूत्रस्य प्रयोगार्थम् व्यपेक्षासामर्थ्यमावश्यकमस्ति । काशिकाकारः अस्मिन् विषये वदति - ' सामर्थ्यम् इह व्यपेक्षा, न पुनः एकार्थीभावः, उभयं वा' । " }, "83045": { "sa": "समासस्य विषये - इस्/उस्-प्रत्यययोः विसर्गस्य कवर्गे पवर्गे च परे सामर्थ्ये नित्यम् षकारादेशः भवति । परन्तु पूर्वपदम् स्वयम् कश्चन समासः अस्ति चेत् षकारादेशः निषिध्यते । ", "sd": "<<इसुसोः सामर्थ्ये>> [[8.3.45]] अनेन सूत्रेण इस्/उस्-प्रत्ययस्य विसर्गात् अनन्तरम् कवर्गस्य/पवर्गस्य वर्णे स्थिते ; सामर्थ्ये सति; सन्धिं कर्तुम् इच्छामश्चेत् ; विसर्गस्य विकल्पेन षत्वं विधीयते । अस्यैव अपवादद्वयम् वर्तमानसूत्रेण विधीयते -\n1) समस्तपदस्य निर्माणम् भवति, तर्हि तत् षत्वम् नित्यम् भवति ।\n2) यदि समस्तपदस्य निर्माणे पूर्वपदमपि स्वयं कश्चन समासः अस्ति चेत नित्यम् निषिध्यते ।\nउदाहरणानि -\n1) 'धनुषः काण्डम्' अत्र षष्ठी-तत्पुरुषसमासे कृते 'धनुः + काण्डम्' इति स्थिते <<इसुसोः सामर्थ्ये>> [[8.3.44]] इत्यनेन केवलं विकल्पेन षत्वे प्राप्ते वर्तमानसूत्रेण नित्यं षत्वादेशः भवति । यथा - धनुष्काण्डम् ।\n2) 'शिवधनुषः काण्डम्' अत्र षष्ठी-तत्पुरुषसमासे कृते 'शिवधनुः + काण्डम्' इति स्थिते <<इसुसोः सामर्थ्ये>> [[8.3.44]] इत्यनेन केवलं विकल्पेन षत्वे प्राप्ते वर्तमानसूत्रेण अत्र षत्वम् नित्यम् निषिध्यते, यतः अस्मिन् समासे प्रयुक्तम् पूर्वपदम् स्वयमेव समस्तपदमस्ति । अतः अत्र केवलम् <<कुप्वोः≍क≍पौ च>> [[8.3.37]] इत्यनेन वैकल्पिकः जिह्वामूलीयः भवति । यथा - शिवधनुःकाण्डम्, शिवधनु≍काण्डम् ।\n3) 'धनुः काण्डम् छिन्नति' अस्मिन् वाक्ये 'धनुः' तथा 'काण्डम्' एतयोः योजनेन समस्तपदम् न जायते, परन्तु अत्र द्वयोः शब्दयोः मध्ये अन्वयः अस्ति एव । अतः अत्र <<इसुसोः सामर्थ्ये>> [[8.3.44]] अनेन सूत्रेण विकल्पेनैव षत्वादेशः भवति । अत्र वर्तमासूत्रस्य प्रसक्तिः नास्ति । यथा - धनुष्काण्डम्, धनु≍काण्डम्, धनुःकाण्डम् ।\nज्ञातव्यम् - 'कस्कादिगण' नाम कश्चन गणः गणपाठे दत्तः अस्ति । अस्मिन् गणे आचार्यः तेषाम् शब्दानाम् निपातनम् करोति येषु विसर्गस्य सकारः / षकारः कर्तव्यः, परन्तु तदर्थमष्टाध्याय्याम् किमपि सूत्रम् नास्ति । 'सर्पिष्कुण्डिका' , 'धनुष्कपालम्', यजुष्पात्रम्' एते शब्दाः अस्मिन् गणे निर्दिष्टाः सन्ति । वस्तुतः वर्तमानसूत्रेण समासे कृते एतेषु षत्वम् विधीयते एव । परन्तु एते शब्दाः कस्कादिगणे सन्ति, अतः एतेषाम् शब्दानाम् विषये 'सर्वदा' षत्वम् भवतीति ज्ञातव्यम् । इत्युक्ते - समासः भवेत् वा न भवेत् ; सामर्थ्यम् भवेत् वा न भवेत् ; पूर्वपदम् स्वयं समस्तपदम् स्यात् वा न स्यात् - सर्वासु स्थितिषु एतेषाम् विषये षत्वम् भवति इत्यर्थः । यथा - 'तिष्ठतु सर्पिः, कुण्डिकामानय' अस्मिन् वाक्ये यद्यपि सामर्थ्यम् नास्ति तथापि संहितायाम् सत्याम् विसर्गस्य षत्वं कृत्वा 'तिष्ठतु सर्पिष्कुण्डिकामानय' इत्येव सिद्ध्यति । तथैव, 'धनुः कपालम् छिन्नति' इत्यत्रापि षत्वे कृते 'धनुष्कपालं छिनत्ति' इति जायते ।\n" }, "83046": { "sa": "समासस्य विषये - अकारात् परस्य अव्ययभिन्नस्य विसर्गस्य कृ/कमि/कंस/कुम्भ/पात्र/कुशा/कर्णी - एतेषु परेषु नित्यम् सकारादेशः भवति । परन्तु पूर्वपदम् स्वयम् कश्चन समासः अस्ति चेत् अयम् सकारादेशः निषिध्यते ।", "sd": "यदि कस्मिंश्चित् अव्यवभिन्ने शब्दे अकारात् परः पदान्ते विसर्गः अस्ति, तर्हि - कृ/कमि/कंस/कुम्भ/पात्र/कुशा/कर्णी एतेषु परेषु समासे कृते अस्य विसर्गस्य सकारादेशः भवति । परन्तु यदि सः विसर्गान्तः शब्दः स्वयम् समस्तपदमस्ति, तर्हि अयम् सकारादेशः न भवति ।\nउदाहरणानि अधः दत्तानि सन्ति । एतेषु उदाहरणेषु 'अयस्' इति अव्ययभिन्नम् पूर्वपदम् स्वीकृत्य उपरिनिर्दिष्टैः शब्दैः समासः कृतः अस्ति । अयस् इत्युक्ते 'लोह' ।\n1. 'कृ' इत्यनेन कृ-धातोः किमपि कृदन्तरूपम् स्वीक्रियते । यथा - अयः + कारः = अयस्कारः (लोहनिर्माता इत्यर्थः)\n2. 'कमिँ' इत्यनेन कम्-धातोः किमपि कृदन्तरूपम् स्वीक्रियते । यथा - अयः + कामः = अयस्कामः (लोहचुम्बकम्) ।\n3. 'कंस' शब्दः = अयः + कंसः = अयस्कंसः (लोहपात्रम्) ।\n4. 'कुम्भ' शब्दः = अयः + कुम्भः = अयस्कुम्भः (लोहपात्रम्) ।\n5. 'कुशा' शब्दः = अयः + कुशा = अयस्कुशा (लोहदण्डिका ) ।\n6. 'कर्णी' शब्दः = अयः + कर्णी = अयस्कर्णी (लोहदण्डिका) ।\nअनेनैव प्रकारेण पयस्कारः, तमस्कान्तः यशस्करमादीनि रूपाणि अपि सिद्ध्यन्ति ।\nपरन्तु यदि पूर्वपदम् स्वयम् समस्तपदमस्ति तर्हि अनेन सूत्रेण सत्वम् निषिध्यते । यथा - परमयशः + कारः = परमयशःकारः, परमयश≍कारः ।\nज्ञातव्यम् -\n1. 'कृ' तथा 'कमिँ' एतयोः निर्देशेन तेषाम् कृदन्तरूपस्यैव ग्रहणं भवति, यतः <<सह सुपा>> [[2.1.4]] इत्यनेन केवलं सुबन्तानामेव समासे प्रयोगः भवति, तिङन्तानाम् न ।\n2. अस्मिन् सूत्रे 'अतः' इति तपरकरणम् कृतमस्ति । अतः आकारान्तात् परस्य विसर्गस्य अनेन सूत्रेण षत्वम् न भवति । यथा - भाः + करणम् = भाःकरणम्, भा≍करणम् । अत्र <<कुप्वोः≍क≍पौ च>> [[8.3.37]] इत्यनेन वैकल्पिकः जिह्वामूलीयः भवति ।\n3. यदि पूर्वपदमव्ययमस्ति चेत् अनेन सूत्रेण सकारादेशः न भवति । यथा - श्वः + कारः = श्वःकारः, श्व≍कारः ।\n4. यदि समासः नास्ति चेत् अनेन सूत्रेण सकारादेशः न भवति । यथा - पयः करोति = पयःकरोति, पय≍करोति ।\n5. 'कस्कादिगण' नाम कश्चन गणः गणपाठे दत्तः अस्ति । अस्मिन् गणे आचार्यः तेषाम् शब्दानाम् निपातनम् करोति येषु विसर्गस्य सकारः / षकारः कर्तव्यः, परन्तु तदर्थमष्टाध्याय्याम् किमपि सूत्रम् नास्ति । 'अयस्कान्तः' अयम् शब्दः अस्मिन् गणे निर्दिष्टः अस्ति । वस्तुतः वर्तमानसूत्रेण अयः + कान्त' इत्यत्र समासे कृते सत्वम् विधीयते एव । परन्तु अयं शब्दः कस्कादिगणे अस्ति, अतः अस्य शब्दस्य विषये 'सर्वदा' सत्वम् भवतीति ज्ञातव्यम् । इत्युक्ते - समासः भवेत् वा न भवेत् ; पूर्वपदम् स्वयं समस्तपदम् स्यात् वा न स्यात् - सर्वासु स्थितिषु अस्य शब्दस्य विषये षत्वम् भवति इत्यर्थः ।\n" }, "83047": { "sa": "समासस्य विषये - अधः तथा शिरः एतयोः विसर्गस्य 'पद' शब्दे परे नित्यम् सकारादेशः भवति । परन्तु पूर्वपदम् स्वयम् कश्चन समासः अस्ति चेत् अयम् सकारादेशः निषिध्यते । ", "sd": "'अधः + पद' इत्यत्र, तथा 'शिरः + पद' इत्यत्र यदि समस्तपदस्य निर्माणम् भवति तर्हि विसर्गस्य नित्यम् सत्वम् भवति, इति अस्य सूत्रस्य अर्थः । यथा - अधः + पदम् = अधस्पदम् । शिरः + पदम् = शिरस्पदम् ।\nअत्र समासः नास्ति चेत् विसर्गस्य सत्वम् न भवति, अतः <<कुप्वोः≍क≍पौ च>> [[8.3.37]] इत्यनेन वैकल्पिकः उपध्मानीयः भवति - अधःपदम्, अध≍पदम् । शिरःपदम्, शिर≍पदम् ।\nतथा च, 'अध' शब्दः / 'शिरः' शब्दः यदि स्वयम् समस्तपदे अस्ति, तर्हि समास्यस्य निर्माणे जाते अपि विसर्गस्य सत्वम् न भवति । यथा - परमशिरः + पदम् = परमशिरःपदम्, परमशिर≍पदम् ।\nज्ञातव्यम् - अस्मिन् सूत्रे प्रयुक्तः 'पद' शब्दः व्याकरणस्य संज्ञा नास्ति, साक्षात् 'पद' शब्दः अस्ति । अस्मिन् विषये काशिकान्यासः वदति - 'पदशब्दे परतः' इत्येतेन 'पद' इति स्वरूपस्य ग्रहणम्; न पारिभाषिकस्य ।\n" }, "83048": { "sa": "कस्कादिगणे निर्दिष्टानां शब्दानां विषये विसर्गस्य सकारादेशः भवति । इण्-वर्णात् परः तु षकारादेशः भवति ।", "sd": "'कस्कादिगणः' अयम् गणपाठस्य 144-तमः गणः । अस्मिन् गणे आचार्यः तेषाम् शब्दानाम् निपातनम् करोति येषु विसर्गस्य सकारः / षकारः कर्तव्यः, परन्तु तदर्थमष्टाध्याय्याम् किमपि सूत्रम् नास्ति । अस्मिन् गणे निर्दिष्टाः शब्दाः 'यथानिर्दिष्टाः' प्रयोक्तव्याः, तेषाम् विषये विसर्गस्य सकारः / षकारः कथमभवत् अस्मिन् विषये चर्चा मास्तु - इति अस्य आशयः ।\nअस्मिन् गणे उपस्थितेषु शब्देषु इण्-वर्णात् परस्य विसर्गस्य षकारादेशः कृतः दृश्यते, अकार-आकारात् परस्य विसर्गस्य सकारादेशः कृतः दृश्यते ।\nअस्मिन् गणे आहत्य 18 शब्दाः सन्ति । तेषामावली इयम् -\nकस्कः , कौतस्कुतः , भ्रातुष्पुत्रः , शुनस्कर्णः , सद्यस्कालः , सद्यस्कीः , साद्यस्कः , कांस्कान् , सर्पिष्कुण्डिका , धनुष्कपालम् , बहिष्पलम् , यजुष्पात्रम् , अयस्कान्तः , तमस्काण्डः , अयस्काण्डः , मेदस्पिण्डः , भास्करः , अहस्करः ।\nकस्कादिगणः आकृतिगणः अस्ति । इत्युक्ते, कस्मिंश्चित् शब्दे यदि शिष्टप्रयोगेण विसर्गस्य सकारादेशः / षकारादेशः कृतः अस्ति परन्तु तदर्थम् किमपि सूत्रम् न अवगम्यते, तर्हि तस्य शब्दस्य अस्मिन् गणे समावेशः भवितुमर्हति ।\n" }, "83049": { "sa": "", "sd": "" }, "83050": { "sa": "", "sd": "" }, "83051": { "sa": "", "sd": "" }, "83052": { "sa": "", "sd": "" }, "83053": { "sa": "", "sd": "" }, "83054": { "sa": "", "sd": "" }, "83055": { "sa": "अधिकारोऽयम् । इतः परमस्य पादस्य परिसमाप्तिपर्यन्तम् पदान्ते अविद्यमानस्य निर्दिष्टस्य वर्णस्य मूर्धन्यादेशः भवति । ", "sd": "एतत् अधिकारसूत्रमस्ति । अस्य अधिकारः अष्टमाध्यायस्य तृतीयपादस्य समाप्तिपर्यन्तम् गच्छति । अस्मिन् अधिकारे यदि कश्चन वर्णस्य आदेशः उक्तः अस्ति, सः वर्णः च पदान्ते नास्ति, तर्हि तस्य वर्णस्य 'मूर्धन्य'आदेशः भवति ।\nकिम् नाम मूर्धन्य-आदेशः? येषाम् वर्णानामुच्चारणस्थानम् मूर्धा अस्ति, तेषु अन्तरतमः वर्णः आदेशरूपेण विधीयते, इत्यर्थः ।\nअस्मिन् अधिकारे प्रायः सर्वेषु सूत्रेषु सकारस्य स्थाने मूर्धन्यः षकारः विधीयते । केषुचन स्थलेषु धकारस्य स्थाने ढकारः अपि विधीयते । अतः अत्र 'मूर्धन्यः' आदेशः इति उक्तमस्ति ।\n" }, "83056": { "sa": "सह्-धातोः 'साड्' अस्य रूपस्य अपदान्तसकारस्य मूर्धन्यः षकारः भवति । ", "sd": "'सह्' इति भ्वादिगणस्य कश्चन धातुः । यदि अस्य धातोः 'साड्' इति रूपान्तरम् प्रक्रियायाम् दृश्यते, तर्हि अस्य सकारस्य षकारादेशः भवति ।\nयथा, 'तुरम् (=वेगम्) सहते' अस्मिन् अर्थे सह्-धातोः 'तुरासाह्' इति हकारान्तः शब्दः सिद्ध्यति । अस्य प्रथमैकवचनस्य प्रक्रियायाम् -\nतुरासाह् + सुँ [प्रथमैकवचनस्य प्रत्ययः]\n→ तुरासाह् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति सुँ-प्रत्ययस्य लोपः]\n→ तुरासाढ् [<<हो ढः>> [[8.2.31]] इति पदान्तहकारस्य ढकारः]\n→ तुरासाड् [<<झलां जशोऽन्ते>> [[8.2.39]] इति ढकारस्य डकारः]\n→ तुराषाड् [<<सहे साडः सः>> [[8.3.56]] इत्यनेन सह्-धातुनिर्मितः यः साड्-शब्दः, तस्य अपदान्तस्य सकारस्य मूर्धन्यः षकारादेशः भवति ।]\n→ तुराषाड्, तुराषाट् [<<वाऽवसाने>> [[8.4.56]] इति वैकल्पिकं चर्त्वम् ]" }, "83057": { "sa": "अधिकारोऽयम् । इतः परमस्य पादस्य समाप्तिपर्यन्तम् यत् किमपि कार्यमुच्यते तत् इण्-वर्णात् परस्य कवर्गीयवर्णात् परस्य च भवति । ", "sd": "एतत् अधिकारसूत्रमस्ति । <<अपदान्तस्य मूर्धन्यः>> [[8.3.55]] अस्मिन् अधिकारे यः मूर्धन्यः आदेशः विधीयते, सः इतः परम् इण्-वर्णात् परस्य, कवर्गीवर्णात् परस्य वर्णस्य स्थानिनः एव भवति, अन्येषाम् न, इति आशयः ।\n'इण्' इत्यत्र परस्य णकारस्य (इत्युक्ते, लण्-प्रत्याहारस्य णकारस्य) ग्रहणं भवति । अतः इण् प्रत्याहारे अ/आ-एतौ विहाय सर्वे स्वराः, अन्तस्थाः तथा हकारः समाविश्यन्ते । " }, "83058": { "sa": "'इण्कोः' अस्मिन् अधिकारे निर्दिष्टः सकारस्य षकारादेशः अनुस्वार/विसर्ग/शर्-वर्णः - एतेषु कस्यचन एकस्य व्यवधाने सति अपि भवति ।", "sd": "<<अपदान्तस्य मूर्धन्यः>> [[8.3.55]] अस्मिन् अधिकारे सकारस्य यः मूर्धन्यः षकारादेशः विधीयते, सः सकारात् परः अनुस्वारः / विसर्गः / शकारः / षकारः / सकारः अस्ति चेदपि भवति । परन्तु एतेषाम् द्वयोः अधिकानाम् व्यवधानमस्ति चेत् न भवति । उदाहरणानि एतादृशानि -\n1. अनुस्वारस्य व्यवधानेऽपि सकारस्य षकारः भवति । यथा, धनुस् इत्यस्य प्रथमाबहुवचनस्य रूपसिद्धौ -\nधनुस् + जस्\n→ धनुस् + शि [<<जस्शसोः शिः>> [[7.1.20]] इत्यनेन जस्-प्रत्ययस्य शी-आदेशः]\n→ धनु न् स् ई [<<नपुंसकस्य झलचः>> [[7.1.72]] इत्यनेन झलन्तस्य नपुंसकस्य अङ्गस्य सर्वनामस्थाने परे नुमागमः ]\n→ धनू न् स् ई [<<सान्तमहतः संयोगस्य>> [[6.4.10]] इत्यनेन सकारान्तस्य संयोगस्य यः नकारः, तस्य उपधायाः दीर्घः]\n→ धनूंसि [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इत्यनेन अपदान्तनकारस्य झलि परे अनुस्वारः ]\n→ धनूंषि [<<आदेशप्रत्यययोः>> [[8.3.59]] इत्यनेन इण्कोः परस्य सकारस्य षकारः । <<नुम्विसर्जनीयशर्व्यवायेऽपि>> [[8.3.58]] इत्यनेन अयं षकारः अनुस्वारस्य व्यवधाने अपि भवति ]\n2. विसर्गस्य व्यवधानेऽपि सकारस्य षकारः भवति । यथा, धनुस्-इत्यस्य सप्तमीबहुवचनस्य रूपसिद्धौ -\nधनुस् + सुप्\n→ धनुरुँ + सु [<<स्वादिष्वसर्वनास्थाने>> [[1.4.17]] इत्यनेन अङ्गस्य पदसंज्ञा । <<ससजुषोः रुः>> [[8.2.66]] इति पदान्तसकारस्य रुत्वम्]\n→ धनुः + सु [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति रेफस्य खरि परे विसर्गः]\n→ धनुःषु [<<आदेशप्रत्यययोः>> [[8.3.59]] इत्यनेन इण्कोः परस्य सकारस्य षकारः । <<नुम्विसर्जनीयशर्व्यवायेऽपि>> [[8.3.58]] इत्यनेन अयं षकारः विसर्गस्य व्यवधाने अपि भवति ।]\n3. शर्-वर्णस्य व्यवधानेऽपि सकारस्य षकारः भवति । यथा, धनुस्-इत्यस्य सप्तमीबहुवचनस्य रूपसिद्धौ\nधनुस् + सुप्\n→ धनुरुँ + सु [<<स्वादिष्वसर्वनास्थाने>> [[1.4.17]] इत्यनेन अङ्गस्य पदसंज्ञा । <<ससजुषोः रुः>> [[8.2.66]] इति पदान्तसकारस्य रुत्वम्]\n→ धनुः + सु [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति रेफस्य खरि परे विसर्गः]\n→ धनुस् + सु [<<वा शरि>> [[8.3.36]] इति शर्-वर्णे परे विसर्गस्य वैकल्पिकः सकारः]\n→ धनुस् + षु [<<आदेशप्रत्यययोः>> [[8.3.59]] इत्यनेन इण्कोः परस्य 'सु' इत्यस्य सकारस्य षकारः । <<नुम्विसर्जनीयशर्व्यवायेऽपि>> [[8.3.58]] इत्यनेन अयं षकारः सकारस्य व्यवधाने अपि भवति ।]\n→ धनुष् + षु [<<ष्टुना ष्टुः>> [[8.4.41]] इति ष्टुत्वम्]\n→ धनुष्षु\nअत्र 'धनुस् + सु' इत्यत्र धनुस्-शब्दस्य सकारः यद्यपि विसर्गादेशस्य सकारः अस्ति, तथापि सः 'पदान्ते' अस्ति, अतः <<आदेशप्रत्यययोः>> [[8.3.59]] इत्यनेन तस्य षत्वं न भवति । केवलं प्रत्ययसकारस्य षत्वं कर्तुम् <<आदेशप्रत्यययोः>> [[8.3.59]] इत्यस्य प्रयोगः क्रियते ।\n4. अनुस्वारः / विसर्गः / शर्- एतेभ्यः द्वयोः अधिकानाम् वा व्यवधानमस्ति चेत् सकारस्य षत्वम् न भवति । यथा, 'णिसिँ (चुम्बने) इति अदादिगणस्य आत्मेनपदी धातुः । अस्य लट्-लकारस्य मध्यमपुरुषैकवचनस्य प्रक्रिया इयम् -\nणिसिँ\n→ निन्स् [<<णो नः>> [[6.1.65]] इत्यनेन णकारस्य नकारः । <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इत्यनेन इँकारस्य इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति लोपः । <<इदितो नुम् धातोः>> [[7.1.58]] इति नुमागमः]\n→ निन्स् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्।\n→ निन्स् + थास् [<<तिप्तस्..>> इति आत्मनेपदस्य मध्यमपुरुषैकवचनस्य विवक्षायाम् थास्-प्रत्ययः]\n→ निन्स् + शप् + थास् [<<कर्तरि शप्>> [[3.1.68]] इति औत्सर्गिकं विकरणम् शप्]\n→ निन्स् + थास् [<<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शप्-विकरणस्य लुक्]\n→ निन्स् + से [<<थासस्से>> [[3.4.80]] इत्यनेन थास्-प्रत्ययस्य से-आदेशः]\n→ निंस्से [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति अपदान्त-नकारस्य अनुस्वारः]\nअत्र प्रक्रियायाम् इण्-वर्णात् परः 'से' प्रत्ययस्य सकारः अस्ति । परन्तु एतयोर्मध्ये अनुस्वारस्य तथा च शर्-वर्णस्य एतयोः उभयोः व्यवधानमस्ति । अतः अत्र <<नुम्विसर्जनीयशर्व्यवायेऽपि>> [[8.3.58]] इत्यस्य प्रसक्तिः नास्ति, अतः अत्र षत्वं न भवति ।\n " }, "83059": { "sa": "इण्कोः परस्य अपदान्तस्य आदेशरूपस्य प्रत्ययावयवरूपस्य वा सकारस्य मूर्धन्यः आदेशः भवति । ", "sd": "यदि कश्चन सकारः (1) स्वयम् आदेशरूपेण विहितः अस्ति, अथवा (2) कस्यचन प्रत्ययस्य अवयवः अस्ति, तर्हि तादृशस्य इण्कोः परस्य सकारस्य (अनुस्वार/विसर्ग/शर्-वर्णस्य व्यवाये अपि) षकारादेशः भवति ।\nस्मर्तव्यम् - 'इण्' इत्यत्र परस्य णकारस्य (इत्युक्ते, लण्-प्रत्याहारस्य णकारस्य) ग्रहणं भवति । अतः इण् प्रत्याहारे अ/आ-एतौ विहाय सर्वे स्वराः, अन्तस्थाः तथा हकारः समाविश्यन्ते) । एवमेव 'कु' इत्यनेन सर्वेषां कवर्गीयवर्णानां ग्रहणं भवति ।\nउदाहरणानि एतानि -\n1) 'वाक्' शब्दस्य सप्तमीबहुवचनस्य रूपसिद्धौ -\n→ वाक् + सुप् [सप्तमीबहुवचनस्य प्रत्ययः]\n→ वाक् + षु [अत्र सुप्-इत्यस्य सकारः प्रत्ययस्य अवयवः अस्ति, अपदान्तः अस्ति, ककारात् च परः अस्ति । अतः <<आदेशप्रत्यययोः>> [[8.3.59]] इत्यनेन तस्य मूर्धन्यः षकारः भवति ।]\n→ वाक्षु\n2) पठ्-धातोः लृट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -\nपठ् + लृट् [<<लृट् शेषे च>> [[3.3.13]] इति लृट्-लकारः]\n→ पठ् + स्य + लृट् [<<स्यतासी लृलुटोः>> [[3.1.33]] इति विकरणप्रत्ययः 'स्य']\n→ पठ् + इट् + स्य + लृट् [<<आर्द्धधातुकस्येड्वलादेः>> [[7.2.35]] इति इडागमः]\n→ पठ् + इ + स्य + तिप् [<<तिप्तस्..>> [[3.4.78]] इति लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रत्ययः तिप्]\n→ पठिष्यति ['स्य'-प्रत्ययस्य सकारः प्रत्ययावयवरूपेण विहितः अस्ति, अपदान्तस्य अस्ति, इकारात् परः अस्ति । अतः <<आदेशप्रत्यययोः>> [[8.3.59]] इत्यनेन तस्य षत्वम् भवति ।]\n3) षिचँ (क्षरणे) अस्य लिट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -\nसिच् + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट्]\n→ सिच् + सिच् + लिट् [<<लिटिधातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम्]\n→ सि सिच् + लिट् [<<हलादि शेषः>> [[7.4.60]] इति अभ्यासस्य चकारलोपः]\n→ सि सिच् + तिप् [<<तिप्तस्..>> [[3.4.78]] इत्यनेन प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]\n→ सि सिच् + णल् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इति तिप्-प्रत्ययस्य णल्-आदेशः।]\n→ सि सेच् अ [<<पुगन्तलघूपधस्य च>> [[7.3.86]] इति गुणः]\n→ सिषेच ['सेच्' इत्यस्य सकारः षकारस्य आदेशरूपेण प्राप्तः अस्ति, अपदान्तस्य अस्ति, इकारात् परः अस्ति । अतः <<आदेशप्रत्यययोः>> [[8.3.59]] इत्यनेन तस्य षत्वम् भवति ।]\nज्ञातव्यम् -\n1. इण्कोः परः अपदान्ते विद्यमानः सकारः यदि 'आदेशस्य अवयवः' अस्ति तर्हि अनेन सूत्रेण तस्य षत्वम् न भवति । यथा, 'मुसलम्' अस्य शब्दस्य <<नित्यवीप्सयोः>> [[8.1.4]] इत्यनेन द्वित्वे कृते 'मुसलम् मुसलम्' इति जायते । अत्र द्वितीयः 'मुसलम्' शब्दः आदेशरूपेण विहितः अस्ति । अस्मिन् आदेशे एकः वर्णः 'सकारः ' अपि अस्ति । अतः अत्र आदेशस्य 'अवयवरूपेण' सकारः विहितः अस्ति । अस्यामवस्थायाम् वर्तमानसूत्रेण सकारस्य षत्वम् न विधीयते ।\n2. आदेशस्वरूपः प्रत्ययावयवस्वरूपः वा सकारः पदान्ते अस्ति चेत् तस्य षत्वम् न भवति, यतः एतत् सूत्रम् <<अपदान्तस्य मूर्धन्यः>> [[8.3.55]] अस्मिन् अधिकारे आगच्छति । यथा, धनुष्-शब्दस्य सप्तमीबहुवचनस्य रूपस्य प्रक्रिया इयम् -\nधनुस् + सुप्\n→ धनुरुँ + सु [<<स्वादिष्वसर्वनास्थाने>> [[1.4.17]] इत्यनेन अङ्गस्य पदसंज्ञा । <<ससजुषोः रुः>> [[8.2.66]] इति पदान्तसकारस्य रुत्वम्]\n→ धनुः + सु [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति रेफस्य खरि परे विसर्गः]\n→ धनुस् + सु [<<वा शरि>> [[8.3.36]] इति शर्-वर्णे परे विसर्गस्य वैकल्पिकः सकारः]\n→ धनुस् + षु [<<आदेशप्रत्यययोः>> [[8.3.59]] इत्यनेन इण्कोः परस्य 'सु' इत्यस्य प्रत्ययावयवस्य सकारस्य षकारः । <<नुम्विसर्जनीयशर्व्यवायेऽपि>> [[8.3.58]] इत्यनेन अयं षकारः सकारस्य व्यवधाने अपि भवति ।]\n→ धनुष् + षु [<<ष्टुना ष्टुः>> [[8.4.41]] इति ष्टुत्वम्]\n→ धनुष्षु\nअत्र 'धनुस् + सु' इत्यत्र धनुस्-शब्दस्य सकारः यद्यपि विसर्गादेशस्य सकारः अस्ति, तथापि सः 'पदान्ते' अस्ति, अतः <<आदेशप्रत्यययोः>> [[8.3.59]] इत्यनेन तस्य षत्वं न भवति । केवलं प्रत्ययसकारस्य षत्वं कर्तुम् <<आदेशप्रत्यययोः>> [[8.3.59]] इत्यस्य प्रयोगः क्रियते ।" }, "83060": { "sa": "इण्कोः परस्य शास्/वस्/घस्-धातूनामपदान्तसकारस्य षकारादेशः भवति । ", "sd": "शासुँ (अनुशिष्टौ) इति अदादिगणस्य धातुः । वसँ (निवासे) तथा घस्ऌ (अदने) एतौ भ्वादिगणस्य धातू । एतयोः इण्कोः उत्तरस्य सकारस्य षकारादेशः भवति । अद्-धातोः आर्धधातुके प्रत्यये परे <<लिट्यन्यतरस्याम्>> [[2.4.40]] इत्यनेन यः वैकल्पिकः घस्ऌ-आदेशः भवति तस्य अपि अनेन सूत्रेण ग्रहणं भवति, अतः तस्यापि इण्कोः उत्तरस्य सकारस्य षकारादेशः भवति । उदाहरणानि एतादृशानि -\n1. शास्-धातोः क्त-प्रत्ययान्तरूपम् -\nशास् + क्त [<<निष्ठा>> [[3.2.102]] इति क्त-प्रत्ययः]\n→ शिस् त [<<शास इदङ्हलोः>> [[6.4.34]] इति उपधायाः इकारादेशः]\n→ शिष् त [<<शासिवसिघसीनां च>> [[8.3.60]] इति शास्-धातोः इण्कोः परस्य सकारस्य षत्वम् ]\n→ शिष्ट [<<ष्टुना ष्टुः>> [[8.4.41]] इति ष्टुत्वम्]\n2. वस्-धातोः कर्मणि प्रयोगे लट्-लकारस्य प्रथमैकवचनस्य रूपसिद्धेः प्रक्रिया -\nवस् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट् ]\n→ वस् + त [<<भावकर्मणोः>> [[1.3.13]] इति कर्मणि-प्रयोगस्य विवक्षायामात्मनेपदम् । <<तिप्तस्..>> [[3.4.78]] इत्यनेन आत्मनेपदस्य प्रथमपुरुषैकवचनस्य त-प्रत्ययः]\n→ वस् + यक् + त [<<सार्वधातुके यक्>> [[3.1.67]] इति विकरणप्रत्ययः 'यक्']\n→ उस् + यक् + त [<<वचिस्वपियजादीनां किति>> [[6.1.15]] इति वकारस्य सम्प्रसारणमुकारः]\n→ उस् + य + ते [<<टित आत्मनेपदानां टेरे>> [[3.4.79]] इति प्रत्ययस्य टि-संज्ञकस्य एकारः]\n→ उष्यते [<<शासिवसिघसीनां च>> [[8.3.60]] इति वस्-धातोः इण्कोः परस्य सकारस्य षत्वम्]\n3. 'घस्' धातोः लिट्लकारस्य प्रथमपुरुषबहुवचनस्य प्रक्रिया इयम् -\nघस् + लिट् [<<परोक्षे लिट्>> [[3.2.115]] इति लिट्]\n→ घस् घस् + ल् [<<लिटि धातोरनभ्यासस्य>> [[6.1.8]] इति द्वित्वम्]\n→ घ घस् + ल् [<<हलादि शेषः>> [[7.4.60]] इति सकारलोपः]\n→ झ घस् + ल् [<<कुहोश्चुः>> [[7.4.62]] इति संवार-नाद-घोष-महाप्राण- घकारस्य तादृशः एव चवर्गीयः झकारः]\n→ झ घस् + झि [<<तिप्तस्..>> [[3.4.78]] इति प्रथमपुरुषबहुवचनस्य प्रत्ययः ]\n→ झ घस् + उस् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> [[3.4.82]] इति झि-इत्यस्य उस्-आदेशः]\n→ झ घ् स् + उस् [<<गमहनजनखनघसां लोपः क्ङित्यनङि>> [[6.4.98]] इत्यनेन उपधा-अकारस्य लोपः]\n→ झ घ् स् + उरुँ [<<ससजुषोः रुँः>> [[8.3.66]] इति पदान्तसकारस्य रुँत्वम् ]\n→ झ घ् स् + उः [<<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति रेफस्य विसर्गः]\n→ झ घ् ष् + उः [<<शासिवसिघसीनां च>> [[8.3.60]] इति घस्-धातोः सकारस्य षकारः]\n→ ज घ् ष् + उः [<<अभ्यासे चर्च्च>>[[8.4.54]] इति अभ्यासस्य जश्त्वम्]\n→ ज क् ष् + उः [<<खरि च>> [[8.4.55]] इति चर्त्वम् ]\n→ जक्षुः " }, "83061": { "sa": "", "sd": "" }, "83062": { "sa": "", "sd": "" }, "83063": { "sa": "", "sd": "" }, "83064": { "sa": "", "sd": "" }, "83065": { "sa": "", "sd": "" }, "83066": { "sa": "", "sd": "" }, "83067": { "sa": "", "sd": "" }, "83068": { "sa": "", "sd": "" }, "83069": { "sa": "", "sd": "" }, "83070": { "sa": "", "sd": "" }, "83071": { "sa": "", "sd": "" }, "83072": { "sa": "", "sd": "" }, "83073": { "sa": "", "sd": "" }, "83074": { "sa": "", "sd": "" }, "83075": { "sa": "", "sd": "" }, "83076": { "sa": "", "sd": "" }, "83077": { "sa": "", "sd": "" }, "83078": { "sa": "इण्-वर्णान्त-अङ्गात् परस्य 'षीध्वम्' इत्यस्य धकारस्य, लुङ्-लकारस्य तथा लिट्लकारस्य अपदान्त-धकारस्य मूर्धन्यादेशः (ढकारः) भवति । ", "sd": "इण् वर्णात् परस्य (1) आशीर्लिङ्गलकारस्य षीध्वम् प्रत्ययस्य, (2) लुङ्लकारस्य लिट्लकारस्य च प्रत्यये विद्यामानस्य धकारस्य अनेन सूत्रेण मूर्धन्यादेशः भवति । अतः धकारस्य स्थाने सवर्णः ढकारः आदेशरूपेण आगच्छति ।\nज्ञातव्यम् -\n1. अस्मिन् सूत्रे 'इणः' इति स्पष्टमुक्तमस्ति, अतः अत्र 'इण्कोः' इत्यस्य अनुवृत्तिः न भवति ।\n2. 'इण्' इति प्रत्याहारः अस्ति । लण्-सूत्रस्य णकारेण सह अस्य ग्रहणं भवति ।" }, "83079": { "sa": "", "sd": "" }, "83080": { "sa": "", "sd": "" }, "83081": { "sa": "", "sd": "" }, "83082": { "sa": "", "sd": "" }, "83083": { "sa": "", "sd": "" }, "83084": { "sa": "", "sd": "" }, "83085": { "sa": "", "sd": "" }, "83086": { "sa": "", "sd": "" }, "83087": { "sa": "", "sd": "" }, "83088": { "sa": "", "sd": "" }, "83089": { "sa": "", "sd": "" }, "83090": { "sa": "", "sd": "" }, "83091": { "sa": "", "sd": "" }, "83092": { "sa": "", "sd": "" }, "83093": { "sa": "", "sd": "" }, "83094": { "sa": "", "sd": "" }, "83095": { "sa": "", "sd": "" }, "83096": { "sa": "", "sd": "" }, "83097": { "sa": "", "sd": "" }, "83098": { "sa": "", "sd": "" }, "83099": { "sa": "", "sd": "" }, "83100": { "sa": "", "sd": "" }, "83101": { "sa": "", "sd": "" }, "83102": { "sa": "", "sd": "" }, "83103": { "sa": "", "sd": "" }, "83104": { "sa": "", "sd": "" }, "83105": { "sa": "", "sd": "" }, "83106": { "sa": "", "sd": "" }, "83107": { "sa": "", "sd": "" }, "83108": { "sa": "", "sd": "" }, "83109": { "sa": "", "sd": "" }, "83110": { "sa": "", "sd": "" }, "83111": { "sa": "", "sd": "" }, "83112": { "sa": "", "sd": "" }, "83113": { "sa": "", "sd": "" }, "83114": { "sa": "", "sd": "" }, "83115": { "sa": "", "sd": "" }, "83116": { "sa": "", "sd": "" }, "83117": { "sa": "", "sd": "" }, "83118": { "sa": "", "sd": "" }, "83119": { "sa": "", "sd": "" }, "84001": { "sa": "समानपदे रेफात् षकारात् वा परस्य नकारस्य संहितायाम् णत्वं भवति ।", "sd": "रेफः / षकारः यस्मिन् पदे अस्ति, तस्मिन्नेव पदे रेफात् षकारात् वा परः नकारः वर्तते चेत् तस्य णकारादेशः भवति ।\nयथा - पुष् + ना + ति = पुष्णाति । चतुर् + नाम् → चतुर्ण्णाम् ।\nअस्मिन् सूत्रे समानपदे इति किमर्थमुक्तमस्ति? यदि रेफः / षकारः यस्मिन् पदे अस्ति तस्मिन् पदे नकारः नास्ति, तर्हि नकारस्य णत्वं न भवति । यथा -\nअग्नि सुँ + नयति\n→ अग्निर् + नयति [<<ससजुषो रुँः>> [[8.2.66]] इति विसर्गस्य रुत्वम् । ]\n→ अग्निर्नयति [समानपदं नास्ति, अतः नकारस्य णत्वं न भवति ।]\nअत्र एकं वार्तिकमपि ज्ञातव्यम् - । इत्युक्ते, ऋकारात् परस्य अपि नकारस्य णकारादेशः भवति । यथा - तिसृ + नाम् → तिसृणाम् । पितृ + नाम् → पितॄणाम् ।\n" }, "84002": { "sa": "रेफात् षकारात् परस्य नकारस्य णकारादेशः अट्-वर्णस्य, कवर्गीयवर्णस्य, पवर्गीयवर्णस्य, आङ्-अस्य उपसर्गस्य, अनुस्वारस्य च व्यवधाने अपि भवति ।", "sd": "<<रषाभ्यां नो णः समानपदे>> [[8.4.1]] अनेन सूत्रेण रेफषकाराभ्याम् परस्य अव्यवहितस्य नकारस्य णकारादेशः विधीयते । वर्तमानसूत्रेण अयं णकारादेशः अट्-वर्णस्य / कवर्गीयवर्णस्य / पवर्गीयवर्णस्य / आङ्-अस्य उपसर्गस्य / अनुस्वारस्य व्यवधाने अपि भवति ।\nउदाहरणानि -\n1) स्वरस्य व्यवधानम् - वारि + औट् → वारिणी ।\n2) हकारस्य स्वरस्य च व्यवधानम् - द्रोह + टा → द्रोहेण ।\n3) हकारस्य पवर्गस्य स्वरस्य च व्यवधानम् - ब्रह्म + जस् → ब्रह्माणि ।\n4) पवर्गस्य स्वरस्य च व्यवधानम् - पुष्प + शस् → पुष्पाणि ।\n5) कवर्गस्य स्वरस्य च व्यवधानम् - मूर्ख + टा → मूर्खेण ।\n6) आङ्-इत्यस्य व्यवधानम् - निर् + आ + नह् + क्त → निराणद्ध ।\n7) अनुस्वारस्य व्यवधानम् - तृंह् + अनीयर् → तृंहणीय ।\nज्ञातव्यम् -\n1. अट्-प्रत्याहारे सर्वे स्वराः, तथा हकार-यकार-वकाराः समाविष्टाः सन्ति ।\n2. 'अट्-कु-पु-आङ्-नुम्' एतेषु एकस्य अनेकस्य वा व्यवधानमस्ति चेदपि णत्वं भवति ।\n3. 'आङ्' इति कश्चन उपसर्गः अस्ति । <<प्राग्रीश्वरान्निपाताः>> [[1.4.56]] इत्यनेन सर्वे उपसर्गाः निपाताः सन्ति । <<स्वरादिनिपातमव्ययम्>> [[1.1.37]] इत्यनेन सर्वे निपाताः अव्ययानि, इत्युक्ते पदानि सन्ति । अस्य कः अर्थः ? 'निर् + आङ् + नद्धम्' इति शब्दं स्वीकुर्मश्चेत् अत्र वस्तुतः पदत्रयमस्ति - निर्, आङ् तथा नद्धम् । अस्याम् स्थितौ <<पदव्यवायेऽपि>> [[8.4.38]] इत्यनेन प्रथमपदे उपस्थितः रेफः तृतीयपदस्थस्य नकारस्य णत्वं न कारयितुम् शक्नोति - द्वितीयपदस्य व्यवधानात् । परन्तु अत्र आङ्-ग्रहणेन अस्य अपवादः उक्तः अस्ति । यदि मध्यस्थं पदम् 'आङ्' इति अस्ति, तर्हि प्रथमपदस्थ-रेफषकारेण तृतीयपदस्थस्य नकारस्य णत्वं भवति - इत्यर्थः । अतः 'निर् + आ + नद्धम्' इत्यत्र णत्वं दृश्यते ।\n4. अस्मिन् सूत्रे निर्दिष्टः नुम्-शब्दः 'अनुस्वारः' इत्यर्थे युक्तः अस्ति, नुम्-इत्यर्थे न । अनुस्वारः अयोगवाहः अस्ति, अतः शिवसूत्रेषु तस्य ग्रहणमकारात् अनन्तरम् भवति । अतः अट्-प्रत्याहारे अनुस्वारस्य समावेशः अस्ति एव । अतः अस्मिन् सूत्रे नुम्-इत्यस्य ग्रहणम् व्यर्थमस्ति ।\n5. ऋवर्णात् परस्य नकारस्य अपि एतेषु व्यवधानेषु परेषु णकारादेशः भवति । यथा - कृप + टा → कृपेण ।\n6. अस्य सूत्रस्य अस्मिन् णत्वप्रकरणे (इत्युक्ते, <<क्षुभ्नादिषु च>> [[8.4.39]] इति यावत्) सर्वेषु सूत्रेषु अनुवृत्तिः दृश्यते । इत्युक्ते, अस्मिन् णत्वप्रकरणे यत्र यत्र णत्वं विधीयते, तत्र तत्र अट्-कु-पु-आङ्-नुम् एतेषां व्यवधाने अपि भवति इत्यर्थः ।\n" }, "84003": { "sa": " समस्तपदस्य पूर्वपदे स्थिताभ्याम् रेफषकाराभ्यामुत्तरपदस्थस्य नकारस्य 'संज्ञायाः विषये' णकारादेशः भवति । परन्तु उभयोः पदयोः मध्ये गकारस्य व्यवधानमस्ति तत्र णत्वं न दृश्यते ।", "sd": "'संज्ञा' इत्युक्ते नामकरणम् । येन शब्देन कस्यचित् व्यक्तेः पदार्थस्य वा नामकरणं भवति सः शब्दः संज्ञा उच्यते । यथा - राम, नारिकेल आदयः । यः शब्दः संज्ञावाची अस्ति, तस्य विषये अनेन सूत्रेण णत्वं विधीयते । यदि अयं संज्ञावाची शब्दः समस्तपदमस्ति, तर्हि तस्य समस्तपदस्य पूर्वपदे स्थितः रेफः षकारः वा उत्तरपदस्थस्य नकारस्यापि (अट्-कु-पु-आङ्-नुम्-एतेषां व्यवधाने अपि) णत्वं कारयति इत्यर्थः । परन्तु, रेफात् / षकारात् परः गकारः अस्ति चेत् एतत् णत्वं निषिध्यते ।\nयथा - शूर्पाणि इव नखानि यस्या सा = शूर्पणखा । अयं बहुव्रीहिसमासः । अत्र पूर्वपदम् = शूर्पम् (किञ्चन परिमाणम्) । उत्तरपदम् = नखम् । अस्मिन् समासे पूर्वपदे रेफः अस्ति, उत्तरपदे नकारः अस्ति । उभयोः मध्ये स्वरस्य पकारस्य च व्यवधानमस्ति (येन णत्वनिषेधः न भवति) । तथा च, समस्तपदम् संज्ञानिर्माणं करोति - शूर्पणखा इयम् रावणस्य भगिन्याः नाम । अतः अनेन सूत्रेण नकारस्य णकारं भवति ।\nतथैव - राम + अयन = रामायण । अयं ग्रन्थस्य नाम, अतः अत्रापि सूत्रेणानेन णत्वं भवति ।\nपरन्तु यदि नकारात् पूर्वम् गकारः आगच्छति, तर्हि अयं णत्वं मा भूत् इति स्पष्टीकर्तुमस्मिन् सूत्रे 'अगः' इति उक्तमस्ति । यथा - 'ऋगयनम्' इति कस्यचन ग्रन्थस्य नाम । ऋक् + अयनम् = ऋगयनम् इत्यत्र जश्त्वेन ककारस्य गकारे कृते गकारस्य उपस्थितौ नकारस्य णकारः न भवति ।\n" }, "84004": { "sa": "", "sd": "" }, "84005": { "sa": "", "sd": "" }, "84006": { "sa": "", "sd": "" }, "84007": { "sa": "", "sd": "" }, "84008": { "sa": "", "sd": "" }, "84009": { "sa": "", "sd": "" }, "84010": { "sa": "", "sd": "" }, "84011": { "sa": "", "sd": "" }, "84012": { "sa": "पूर्वपदस्थेन णत्वनिमित्तकवर्णेन प्रातिपदिकान्तस्य/नुमागमस्य/विभक्तेः एकाच्-उत्तरपदस्य नकारस्य णत्वं भवति, स च अट्-कु-पु-आङ्-नुम्-एतेषां व्यवधानेऽपि भवति ।", "sd": "अनेन सूत्रेण समस्तपदस्य पूर्वपदे स्थितेन रेफषकारेण उत्तरपदस्य नकारस्य णत्वं कदा भवति तस्य विषये सिद्धान्तः प्रोक्तः अस्ति । यदि समस्तपदस्य पूर्वपदे षकारः रेफः वा अस्ति, तथा समस्तपदस्य उत्तरपदे एकः एव अच्-वर्णः अस्ति, तर्हि -\n(1) समस्तपदस्य उत्तरपदे स्थितस्य प्रातिपदिकस्य अन्तिमनकारस्य णत्वं भवितुमर्हति ।\n(2) समस्तपदस्य उत्तरपदस्य यः नुमागमः भवति, तस्य अपि णत्वं भवितुमर्हति ।\n(3) समस्तपदस्य विभक्तिरूपे नकारः आगच्छति चेत् तस्य अपि णत्वं भवितुमर्हति ।\nक्रमेण उदाहरणानि पश्यामः ।\n(1) 'वृत्रहन्' इति नकारान्तप्रातिपदिकम् । अयम् सामासिकशब्दः अस्ति - वृत्रम् हतवान् सः वृत्रहन् । अत्र पूर्वपदम् 'वृत्र' इति, उत्तरपदम् च 'हन्' इति । पूर्वपदे णत्वनिमित्तकः रेफः अस्ति, उत्तरपदे एकः एव अच्-वर्णः अस्ति । अतः वर्तमानसूत्रेण अस्य प्रातिपदिकस्य अन्तिमनकारस्य णत्वं भवितुमर्हति । यथा - वृत्रहन् + औ → वृत्रहणौ ।\n(2) क्षीरं पिबति तत् क्षीरप । अयमकारान्त-नपुंसकशब्दः । अस्य प्रथमाबहुवचनस्य प्रक्रिया इयम् -\nक्षीरप + जस् [प्रथमाबहुवचनस्य प्रत्ययः]\n→ क्षीरप + शि [<<जश्शसोः शिः>> [[7.1.20]] इति जस्-इत्यस्य शि-आदेशः]\n→ क्षीरप + नुम् + इ [<<नपुंसकस्य झलचः>> [[7.1.72]] इति नुमागमः]\n→ क्षीरपा + नि [<<सर्वनामस्थाने चासम्बुद्धौ>> [[6.4.8]] इति नकारान्तस्य अङ्गस्य उपधादीर्घः]\n→ क्षीरपाणि [<<एकाजुत्तरपदे णः>> [[8.4.12]] इति णत्वम्]\nअत्र अन्तिमसोपाने 'क्षीरप' इति समस्तपदमस्ति, तस्य पूर्वपदे रेफः अस्ति, उत्तरपदम् एकाच् अस्ति, तथा उत्तरपदे नुमागमः क्रियते । अतः <<एकाजुत्तरपदे णः>> [[8.4.12]] इत्यनेन नुमागमस्य यः नकारः तस्य णत्वं विधीयते ।\n(3) 'क्षीरप' इत्यस्यैव तृतीया-एकवचनम् 'क्षीरपेण' इति भवति । अत्र नकारः विभक्तिरूपे आगच्छति । अतः अत्रापि अनेन सूत्रेण णत्वं भवति ।\nज्ञातव्यम् - यद्यपि <<रषाभ्यां नो णः समानपदे>> [[8.4.1]] इत्यस्मात् णकारस्य अनुवृत्तिः अस्ति, तथापि अस्मिन् सूत्रे पुनः णकारः प्रयुक्तः अस्ति । एतत् केवलं स्पष्टतायै कृतमस्ति ।\n" }, "84013": { "sa": "समस्तपदस्य अनेकाच्-उत्तरपदे कवर्गीयवर्णः अस्ति चेत् पूर्वपदस्थेन णत्वनिमित्तकवर्णेन उत्तरपदस्य प्रातिपदिकान्तस्य/नुमागमस्य/विभक्तेः नकारस्य णत्वं भवति, स च अट्-कु-पु-आङ्-नुम्-एतेषां व्यवधानेऽपि भवति ।", "sd": "अनेन सूत्रेण समस्तपदस्य पूर्वपदे स्थितेन रेफषकारेण उत्तरपदस्य नकारस्य णत्वं कदा भवति तस्मिन् विषये सिद्धान्तः प्रोक्तः अस्ति । यदि उत्तरपदम् एकाच् विद्यते, तर्हि पूर्वसूत्रेण <<एकाजुत्तरपदे णः>> [[8.4.12]] इत्यनेनैव णत्वं भवितुमर्हति । परन्तु यदि उत्तरपदमनेकाच् विद्यते, तर्हि वर्तमानसूत्रस्य प्रयोगः भवितुमर्हति । अस्मिन् अनेकाच्-उत्तरपदे यदि क-वर्गीयः वर्णः (क् / ख् / ग् / घ्/ ङ् एतेषु कश्चन) अस्ति, तर्हि -\n(1) समस्तपदस्य उत्तरपदे स्थितस्य प्रातिपदिकस्य अन्तिमनकारस्य णत्वं भवितुमर्हति ।\n(2) समस्तपदस्य उत्तरपदस्य यः नुमागमः भवति, तस्य अपि णत्वं भवितुमर्हति ।\n(3) समस्तपदस्य विभक्तिरूपे नकारः आगच्छति चेत् तस्य अपि णत्वं भवितुमर्हति ।\nइति वर्तमानसूत्रस्य आशयः ।\nक्रमेण उदाहरणानि एतानि -\n1. हरिकामिन् (one who wishes the god) इति नकारान्तप्रातिपदिकम् । अयम् सामासिकशब्दः अस्ति - हरेः कामी सः हरिकामी । अत्र पूर्वपदम् 'हरि' इति, उत्तरपदम् 'कामी' इति । पूर्वपदे णत्वनिमित्तकः रेफः अस्ति, उत्तरपदे द्वौ अच्-वर्णौ तथा ककारः विद्यते । अतः वर्तमानसूत्रेण अस्य प्रातिपदिकस्य अन्तिमनकारस्य मकारस्य स्वरस्य च व्यवधाने अपि णत्वं भवितुमर्हति । यथा - हरिकामिन् + औ → हरिकामिणौ ।\nएवमेव - वस्त्रयुगिणौ, स्वर्गगामिणौ - एतौ शब्दौ अपि सिद्ध्यतः ।\n2. 'खरयुग' इति अकारान्तनपुंसकलिङ्गशब्दः । तस्य प्रथमाबहुवचनस्य प्रक्रिया इयम् -\nखरयुग + जस् [प्रथमाबहुवचनस्य प्रत्ययः]\n→ खरयुग + शि [<<जश्शसोः शिः>> [[7.1.20]] इति शि-आदेशः]\n→ खरयुग + नुम् + इ [<<नपुंसकस्य झलचः>> [[7.1.72]] इति नुमागमः]\n→ खरयुगा + न् + इ [<<सर्वनामस्थाने चासम्बुद्धौ>> [[6.4.8]] इति नकारान्तस्य अङ्गस्य उपधादीर्घः]\n→ खरयुगाणि [<<कुमति च>> [[8.4.13]] इति णत्वम्]\nएवमेव - सर्वयुगाणि, सर्वकामाणि, सर्वकाकाणाम्, परखगाणाम् - एतादृशाः शब्दाः सिद्ध्यति ।\n3. 'खरयुग' शब्दस्य तृतीयैकवचने 'टा' प्रत्ययस्य 'इन' आदेशे कृते अस्य विभक्तिसंज्ञकस्य नकारस्यापि अनेनैव सूत्रेण णत्वं भवति । खरयुग + टा → खरयुगेण । एवमवे - सर्वकामेण, परखगेण, सर्वयुगेण - आदयः ।\nज्ञातव्यम् -\n1. अस्मिन् सूत्रे 'कुमति' इति शब्दः प्रयुज्यते । 'कु' इत्यमात् <<तदस्यास्त्यस्मिन्निति मतुप्>> [[5.2.94]] इत्यनेन मतुप्-प्रत्यये कृते कुमत् इति शब्दः सिद्ध्यति, तस्य इदं सप्तम्येकवचनम् । 'कु' (इत्युक्ते, कवर्गीयवर्णः) विद्यते यस्मिन्, सः कुमान् - इति अस्य अर्थः । अतः 'कुमति' इत्यस्य अर्थः 'तादृशे शब्दे परे यस्मिन् कवर्गीयवर्णः विद्यते' - इति अस्ति । अतः अत्र उत्तरपदे कवर्गीयव्यञ्जनम् स्यात् इति आवश्यकम् ।\n2. उत्तरपदे कवर्गं विहाय अन्ये वर्णाः सन्ति चेत् ते अट्-पु-आङ्-नुम्-एतेषु केचन एव भवेयुः । अन्यः कश्चन वर्णः भवति चेत् णत्वं नैव सम्भवति । यथा - 'चन्द्रकलानाम्' अत्र पूर्वपदे यद्यपि रेफः विद्यते, तथा च उत्तरपदे यद्यपि ककारः विद्यते तथापि लकारः अपि अस्ति, यस्य व्यवधानम् णत्वं बाधते । अतः अत्र णत्वं न भवति ।\n3. प्रश्नः - अस्मिन् सूत्रे 'कुमति च' इत्यस्य स्थाने 'कौ च' इत्युच्यते चेत् कः दोषः ?\nउत्तरम् - यदि 'कौ च' इति स्यात्, तर्हि अनया परिभाषया केवलम् 'यस्य उत्तरपदस्य कवर्गीयवर्णेन प्रारम्भः भवति, तस्य विषये एव णत्वं स्यात्' इति अर्थः सिद्ध्येत् । अस्यां स्थितौ 'खरयुगिणौ, सर्वयोग्येण' - एतादृशेषु शब्देषु णत्वं न जायेत । अतः अत्र 'कुमति' इति मतुप्-प्रत्ययान्तप्रयोगः क्रियते । अनेन प्रयोगेण यस्मिन् उत्तरपदे कवर्गीय-वर्णः (कुत्रापि) विद्यते, तस्य विषये अस्य सूत्रस्य प्रयोगावसरः निश्चयेन विद्यते ।\nविशेषः - कालिदासकृते मेघदूते प्रथमश्लोके 'वर्षभोग्येण' इति शब्दः विद्यते । अत्र विभक्तिस्थस्य नकारस्य णत्वमनेनैव सूत्रेण भवति । अत्र पूर्वपदे णत्वनिमित्तकः षकारः (रेफश्च) विद्यते, उत्तरपदे च गकारः, तथा च 'भ् , ओ, य् , ए' एतेषां व्यवधानं वर्तते । अतः अत्र वर्तमानसूत्रेण णत्वं भवति ।\n" }, "84014": { "sa": "यस्मिन् धातौ औपदेशिकावस्थायां णकारः अस्ति, तस्य नकारस्य णत्वनिमित्तकात् उपसर्गात् परः णकारः भवति ।", "sd": "उपसर्गस्थ-रेफ/षकार/ऋकारेण धातौ स्थितस्य नकारस्य णत्वं कदा भवति तस्मिन् विषये अनेन सूत्रेण सिद्धान्तः प्रोक्तः अस्ति । उपसर्गाः स्वयं पदसंज्ञां स्वीकुर्वन्ति । अतः 'उपसर्ग + धातु' इत्यत्र पदद्वयमस्तु । इत्युक्ते, <<रषाभ्यां नो णः समानपदे>> [[8.4.1]] इत्यनेन उपसर्गस्य योगे धातोः णत्वं भवितुं न शक्यते । अतः उपसर्गस्य योगे धातौ कदा णत्वं विधीयते एतत् स्पष्टीकर्तुम् अस्य सूत्रस्य निर्माणं कृतमस्ति ।\nकिमुच्यते अनेन सूत्रेण? धातौ स्थितस्य नकारस्य तदैव णत्वं भवति यदा सः नकारः धातोः औपदेशिक-अवस्थायाम् णकाररूपेण उक्तः अस्ति ।\nकिम् नाम 'औपदेशिक-अवस्था' ? सर्वे धातवः, यथा धातुपाठे दत्ताः, तस्मिन् रूपे 'उपदेशाः' नाम्ना ज्ञायन्ते । इयमेव तेषाम् औपदेशिक-अवस्था । कः अर्थः? वन्द्-धातुः 'वदि अभिवादनस्तुत्योः' अस्मिन् रूपे दत्तः अस्ति । अतः वन्द्-धातोः 'वदि' इयम् औपदेशिक-अवस्था । । 'वन्द्' इति औपदेशिक-अवस्था न । तथैव, कृ-धातुः 'डुकृञ् करणे' अनेन प्रकारेण दत्तः अस्ति, अतः 'डुकृञ्' इति कृ-धातोः औपदेशिक-अवस्था । 'कृ' इति औपदेशिक-अवस्था न ।\nऔपदेशिक-अवस्थायाम् यदि धातोः आदौ णकारः अस्ति, तर्हि तस्य <<णो नः>> [[6.1.65]] इत्यनेन नकारादेशः भवति । एतादृशः यः नकारः, तस्यैव वर्तमानसूत्रेण णत्वं भवति, अन्यस्य नकारस्य न - इत्यर्थः ।\nयथा -\n1. 'नी' धातोः औपदेशिकं रूपमस्ति 'णीञ् प्रापणे' । अत्र औपदेशिकावस्थायां धातौ णकारः अस्ति अतः 'परा + नी' इत्यत्र वर्तमानसूत्रेण नकारस्य णत्वं कृत्वा 'पराणयति' इति रूपं सिद्ध्यति ।\n2. 'नम्' धातोः औपदेशिकं रूपम् 'णमँ' इति अस्ति । अत्रापि औपदेशिकावस्थायां धातौ णकारः अस्ति । अतः प्र + नम् इत्यत्र नकारस्य णकारं कृत्वा प्रणमतीति रूपं सिद्ध्यति ।\nयदि धातौ औपदेशिक-अवस्थायाम् णकारः नास्ति, तर्हि वर्तमानसूत्रेण णत्वं न विधीयते । यथा - 'नर्द्' धातोः औपदेशिकं रूपम् 'नर्दँ' इति अस्ति । अत्र औपदेशिकावस्थायां धातौ णकारः नास्ति । अतः प्र + नर्द् इत्यत्र नकारस्य णकारं न भवति । अतः प्रनर्दतीति रूपं सिद्ध्यति ।\nसूत्रेऽस्मिन् 'असमासेऽपि' इति किमर्थमुक्तम्? अस्मिन् सूत्रे आचार्येण 'पूर्वपदात्' इत्यस्य अनुवृत्तिः कृता अस्ति । सामान्यरूपेण 'पूर्वपद' अयं शब्दः समासस्य विषये प्रयुज्यते । परन्तु अत्र अस्य शब्दस्य प्रयोगः केवलं उपसर्गं निर्देशितुम् कृतः अस्ति, समस्तपदम् न । एतत् स्पष्टीकर्तुमत्र 'असमासेऽपि' इति प्रयुक्तमस्ति ।\nज्ञातव्यम् - यत्र प्रादिगणस्य शब्दाः उपसर्गसंज्ञाम् स्वीकुर्वन्ति, तत्रैव अनेन सूत्रेण णत्वं विधीयते, अन्यत्र न । यथा - 'प्रनायक' इत्यत्र 'प्र' इत्यस्य उपसर्गसंज्ञा न भवति, अतः वर्तमानसूत्रेण अत्र णत्वं न विधीयते ।\n" }, "84015": { "sa": "णत्वनिमित्तकात् उपसर्गात् परस्य हि-धातोः मी-धातोः च नकारस्य णत्वं भवति । ", "sd": "'हि गतौ वृद्धौ च' अयं स्वादिगणस्य धातुः । तथा 'मीञ् हिंसायाम्' अयं क्र्यादिगणस्य धातुः । एतयोः परयोः गणविकरणनिमित्तकः यः नकारः आगच्छति, तस्य रेफयुक्तस्य उपसर्गस्य उपस्थितौ णत्वं भवति ।\nयथा -\n1. 'प्र + हि' इत्यस्य लट्-लकारस्य रूपाणि - प्रहिणोति, प्रहिणुतः, प्रहिण्वन्ति ... ।\n2. 'प्र + मी'इत्यस्य परस्मैपदस्य लट्-लकारस्य रूपाणि - प्रमीणाति , प्रमीणीतः, प्रमीणन्ति ... ।\nज्ञातव्यम् - सूत्रे प्रयुक्तौ 'हिनु' तथा 'मीना' एतौ शब्दौ धात्वोः गणविकरणाभ्यां सह कृतौ निर्देशौ स्तः ।\n" }, "84016": { "sa": "लोट्-लकारस्य 'आनि' इत्यस्य नकारस्य उपसर्गस्थ-रेफ/षकार-ऋवर्णेन णत्वं भवति । ", "sd": "रेफ/षकार/ऋवर्णेन युक्तस्य उपसर्गस्य उपस्थितौ धातोः विहितस्य लोट्-लकारस्य उत्तमपुरुषैकवचनस्य 'आनि' प्रत्ययस्य नकारस्य णत्वं विधीयते । यथा -\n1. 'प्र + वप्' धातोः लोट्लकारस्य उत्तमपुरुषैकवचनम् 'प्रवपाणि' इति ।\n2. 'प्र + या' इत्यस्य रूपम् 'प्रयाणि' इति ।\n3. 'प्र + भू' इत्यस्य रूपम् प्रभवाणि ।\nज्ञातव्यम् -\n1. 'प्रवप' इति कश्चन नपुंसकलिङ्गशब्दः अपि अस्ति । एतस्य प्रथमाद्वितीयाबहुवचनं तु 'प्रवपानि' इत्येव भवति । अत्र 'प्र' तथा 'वप' एते द्वे पदे स्तः, अतः पूर्वपदस्थ-नकारेण नुमागमस्य णत्वं न जायते ।\n2. कौमुद्यामत्र वार्त्तिकद्वयम् पाठ्यते -\n(अ) । इत्युक्ते, षत्वे णत्वे च कर्तव्ये दुस्-इत्यस्य, दुर्-इत्यस्य च उपसर्गसंज्ञायाः प्रतिषेधः भवति । यथा -\n- 'दुर् + भू' इत्यस्य लोट्लकारस्य प्रथमपुरुषैकवचनम् 'दुर्भवानि' इति भवति । अत्र दुर्-इत्यस्य यदि उपसर्गसंज्ञा अभविष्यत्, तर्हि <<आनि लोट्>> [[8.4.16]] इत्यनेन नकारस्य णत्वमभविष्यत् । परन्तु णत्वे कर्तव्ये दुर्-इत्यस्य उपसर्गसंज्ञायाः प्रतिषेधः भवति, अतः अत्र णत्वं न भवति ।\n- 'दुस् + स्था' इत्यस्य लृट्लकारस्य प्रथमपुरुषैकवचनम् 'दुःस्थास्यति' इति भवति । अत्र दुस्-इत्यस्य यदि उपसर्गसंज्ञा अभविष्यत्, तर्हि <<उपसर्गात् सुनोतिसुवति...>> [[8.3.65]] इत्यनेन स्था-इत्यस्य सकारस्य षत्वमभविष्यत् । परन्तु षत्वे कर्तव्ये दुस्-इत्यस्य उपसर्गसंज्ञायाः प्रतिषेधः भवति, अतः अत्र षत्वं न भवति ।\n(आ) । इत्युक्ते, 'अन्तर्' शब्दस्य अङ्विधिकर्तव्ये, 'कि'विधिकर्तव्ये, तथा णत्वे कर्तव्ये उपसर्गसंज्ञा भवति । यथा -\n- अन्तर् + धा (= अन्तर्धा) इत्यत्र <<आतश्चोपसर्गे>> [[3.3.106]] इत्यनेन अङ्-प्रत्ययः भवितुमर्हति, यतः अङ्विधिकर्तव्ये अन्तर्-शब्दस्य उपसर्गसंज्ञा भवति ।\n- अन्तर् + धिः (= अन्तर्धिः) इत्यत्र <<उपसर्गे घोः किः>> [[3.3.92]] इत्यनेन कि (=इ) प्रत्ययः भवति ।\n- 'अन्तर् + भू' अस्य लोट्लकारस्य प्रथमपुरुषैकवचनस्य रूपसिद्धौ <<आनि लोट्>> [[8.4.16]] इत्यनेन णत्वम् भवितुमर्हति ।\nएते द्वे अपि वार्त्तिके <<उपसर्गाः क्रियायोगे>> [[1.4.59]] इत्यत्रापि दत्ते स्तः ।" }, "84017": { "sa": "गद्, नद्, पत्, पद्, मा, सो, हन्, या, वा, द्रा, प्सा, वप्, वह्, शप्, चि, दिह् धातूनां योगे, तथा घुसंज्ञकधातूनां योगे णत्वनिमित्तकात् उपसर्गात् परस्य 'नि' उपसर्गस्य णत्वं भवति ", "sd": "यदि णत्वनिमित्तकात् उपसर्गात् परः 'नि' उपसर्गः आगच्छति, तर्हि तस्य नकारस्य अस्मिन् सूत्रे निर्दिष्टानां धातूनां विषये णत्वं भवति । क्रमेण पश्यामः -\n(1) भ्वादिगणस्य धातवः -\nअ) गद् (व्यक्तायां वाचि) - प्रणिगदति, परिणिगदति ।\nआ) णद् (अव्यक्ते शब्दे) - प्रणिनदति, परिणिनदति ।\nइ) वप् (बीजसन्ताने) - प्रणिवपति, परिणिवपति ।\nई) वह् (प्रापणे) - प्रणिवहति, परिणिवहति ।\nउ) शप् (आक्रोशे) - प्रणिशपति, परिणिशपति ।\n(2) अदादिगणस्य धातवः -\nअ) हन् (हिंसागत्योः) - प्रणिहन्ति, परिणिहन्ति ।\nआ) या (प्रापणे) - प्रणियाति, परिणियाति\nइ) वा (गतिगन्धनयोः) - प्रणिवाति, परिणिवाति ।\nई) द्रा (कुत्सायां गतौ) - प्रणिद्राति, परिणिद्राति ।\nउ) प्सा (भक्षणे) - प्रणिप्साति, परिणिप्साति ।\nऊ) दिह् (उपचये) - प्रणिदेग्धि, परिणिदेग्धि ।\n(3) दिवादिगणस्य धातूः -\nअ) पद् (गतौ) - प्रणिपद्यते, परिणिपद्यते ।\nआ) सो (अन्तकर्मणि) - प्रणिष्यति, परिणिष्यति ।\n(4) स्वादिगणस्य धातुः\nअ) चिञ् (चयने) - प्रणिचिनोति, परिणिचिनोति ।\n(5)चुरादिगणस्य धातुः -\nअ) पत् (गतौ) - प्रणिपतति, परिणिपतति ।\n(6) मा - इत्यनेन त्रयः धातवः गृह्यन्ते -\n(अ) भ्वादिगणस्य मेङ् (प्रणिदाने) - प्रणिमयते, परिणिमयते ।\n(आ) जुहोत्यादिगणस्य माङ् (माने शब्दे च) - प्रणिमिमीते, परिणिमिमीते ।\n(इ) दिवादिगणस्य माङ् (माने) - प्रणिमायते, परिणिमायते ।\nअत्र 'मा माने' इत्यस्य अदादिगणस्थस्य ग्रहणं न भवति ।\n(7) घुसंज्ञकः धातवः (<<दाधा घ्वदाप्>> [[1.1.20]] इत्यनेन घुसंज्ञकधातवः पाठ्यन्ते) । यथा -\n(अ) दा (दाने)- प्रणिददाति, परिणिददाति ।\n(आ) धा (धारणपोषणयो) - प्रणिदधाति, परिणिदधाति ।\n" }, "84018": { "sa": "उपदेश-अवस्थायाम् यः धातुः अककारादिः /अखकारादिः/ अषकारान्तः तथा <<नेर्गदनद..>> [[8.4.16]] इत्यत्र च न निर्दिष्टः अस्ति, तेन सह प्रयुक्तस्य 'नि' उपसर्गस्य णत्वनिमित्तक-उपसर्गस्य उपस्थितौ वैकल्पिकं णत्वं भवति । ", "sd": "औपदेशिक-अवस्थायाम् यः धातुः (1) ककारादिः नास्ति, (2) खकारादिः नास्ति, (3) षकारान्तः नास्ति, तथा च (4) <<नेर्गदनद...>> [[8.4.17]] अस्मिन् सूत्रे निर्दिष्टः नास्ति, सः धातुः यदि रेफ/षकार/ऋकारयुक्तात् उपसर्गात् परः आगच्छति, तर्हि तस्मात् पूर्वस्य 'नि' उपसर्गस्य वैकल्पिकं णत्वं भवति ।\nयथा - 'प्र + नि + भवति' - इत्यत्र भू धातुः ककारादिः खकारादिः, षकारान्तः च नास्ति, <<नेर्गदनद...>> [[8.4.17]] अस्मिन् सूत्रे अपि निर्दिष्टः नास्ति । अतः अत्र 'नि' उपसर्गस्य नकारस्य 'प्र' इत्यस्थेन रेफेण वैकल्पिकं णत्वं विधीयते । अतः अत्र 'प्रणिभवति' , 'प्रनिभवति' इति रूपद्वयं जायते ।\nअन्यानि कानिचन उदाहरणानि - प्रणिपचति/प्रनिपचति , परिणिपचति/परिनिपचति, प्रणिभिनत्ति/प्रनिभिनत्ति, परिणिभिनत्ति/परिनिभिनत्ति, प्रणिजहाति/परिनिजहाति, परिणिजहाति,परिनिजहाति ।\nज्ञातव्यम् -\n1. ककारादेः / खकारादेः / षकारान्तस्य धातोः विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा - प्रनिकरोति, प्रनिखादति, ('प्र + नि + पिष्' इत्यस्य प्रथमपुरुषैकवचनम् -) प्रनिपिनष्टि ।\n2. अस्मिन् सूत्रे 'उपदेशे' इति उक्तमस्ति । अतः अत्र धातोः औपदेशिकरूपस्य (मूलरूपस्य) ग्रहणं भवति । औपदेशिक-अवस्थायाम् यदि धातौ इत्संज्ञकवर्णः अस्ति तर्हि तस्य लोपं कृत्वा एव आदिवर्णस्य / अन्त्यवर्णस्य निश्चयः करणीयः । यथा, डुकृञ् (करणे) इत्यस्य आदिवर्णः ककारः अस्ति, अन्तिमवर्णः ऋकारः अस्ति ।\n3. अस्य सूत्रस्य प्रयोगे एतत् आवश्यकम् यत् औपदेशिक-अवस्थायाम् धातुः ककारादिः / खकारादिः / षकारान्तः भवेत् । 'धातुरूप'स्य आदिवर्णः / अन्त्यवर्णः कः अस्ति तस्य चिन्तनमत्र न आवश्यकम् । यथा -\n(अ) प्रनिचकार । अत्र धातुः 'कृ' इति ककारान्तः अस्ति, अतः यद्यपि धातुरूपम् (चकार) इति ककारान्तम् नास्ति, तथाप्यत्र णत्वं न दृश्यते ।\n(आ) प्रणिवेष्टा। अत्र यद्यपि धातुरूपम् (वेष्) षकारान्तं दृश्यते, तथाप्यत्र मूलधातुः 'विश्' इति शकारान्तः अस्ति, अतः अत्रापि णत्वं भवति ।\n4. अस्मिन् सूत्रे 'शेषे' इति निर्दिष्टमस्ति । अत्र 'शेष' इत्यनेन तेषां धातूनाम् ग्रहणं भवति येषां <<नेर्गदनद...>> [[8.4.17]] इत्यत्र ग्रहणम् न क्रियते ।\nविशेषः - <<नेर्गदनद...>> [[8.4.17]] इति पूर्वसूत्रेण तथा <<शेषे विभाषा...>> [[8.4.18]] इति वर्तमानसूत्रेण मिलित्वा अयमर्थः जायते - णत्वनिमित्तकात् उपसर्गात् परः 'नि' इति उपसर्गः अस्ति, तस्मात् परः च धातुः अस्ति, तर्हि -\n1) यदि सः धातुः <<नेर्गदनद...>> [[8.4.17]] अस्मिन् सूत्रे निर्दिष्टः अस्ति तर्हि 'नि' उपसर्गस्य नित्यं णकारादेशः भवति ।\n यथा - प्रणिगदति ।\n2) अन्यथा, यदि सः धातुः औपदेशिक-अवस्थायाम् ककारादिः अस्ति / खकारादिः अस्ति / षकारान्तः अस्ति, तर्हि 'नि' उपसर्गस्य णकारादेशः न भवति । यथा - प्रनिखादति ।\n3) अन्यथा, 'नि' उपसर्गस्य विकल्पेन णकारादेशः भवति । यथा - प्रनिभवति, प्रणिभवति । " }, "84019": { "sa": "रेफयुक्तात् उपसर्गात् परस्य 'अन् (प्राणने)' धातोः नकारस्य णकारादेशः भवति । ", "sd": "'अन् प्राणने' इति अदादिगणस्य धातुः । अयम् धातुः यदि रेफयुक्तेन उपसर्गेण सह प्रयुज्यते (यथा - प्र + अन्, परा + अन् आदयः) तर्हि अस्य धातोः नकारस्य वर्तमानसूत्रेण णकारादेशः भवति ।\nयथा, 'प्र + अन्' धातोः लट्लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -\nप्र + अन् + तिप् [प्रथमपुरुषैकवचनस्य प्रत्ययः ]\n→ प्र + अन् + शप् + तिप् [<<कर्तरि शप्>> [[3.1.68]] इति विकरणप्रत्ययः]\n→ प्र + अन् + तिप् [<<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति विकरणलोपः]\n→ प्र + अन् + इट् + तिप् [<<रुदादिभ्यः सार्वधातुके>> [[7.2.76]] इति इडागमः]\n→ प्रानिति [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः]\n→ प्राणिति [<<अनितेः>> [[8.4.19]] इति णत्वम्]\nएवमेव - परा + अन् इत्यस्य पराणिति इत्यस्मिन् रूपे अपि वर्तमानसूत्रेण णत्वं भवति । " }, "84020": { "sa": "रेफयुक्तात् उपसर्गात् परस्य 'अन् (प्राणने)' धातोः पदान्तनकारस्य णकारादेशः भवति ।", "sd": "'अन्' प्राणने इति अदादिगणस्य धातुः । यदि एतं धातु रेफयुक्तेन उपसर्गेण सह प्रयुज्य (यथा - प्र + अन्, परा + अन्) तस्मात् प्रातिपदिकस्य निर्माणं क्रियते, तर्हि तस्मात् निर्मितस्य पदस्य अन्ते विद्यमानस्य 'अन्' इत्यस्य नकारस्य <<पदान्तस्य>> [[8.4.37]] इत्यनेन णत्वनिषेधे प्राप्ते वर्तमानसूत्रेण अपवादस्वरूपेण णत्वं भवति ।\nयथा - 'प्र + अन्' धातोः क्विप् प्रत्ययः क्रियते चेत् 'प्रान्' इति प्रातिपदिकं सिद्ध्यति -\nप्र + अन् + क्विप् [<<क्विप् च>> [[3.2.76]] इति क्विप् प्रत्ययः]\n→ प्र + अन् + व् [ककारपकारयोः इत्संज्ञा, लोपः । इकारः उच्चारणार्थः अस्ति, अतः तस्यापि लोपः भवति । ]\n→ प्र + अन् [<<वेरपृक्तस्य>> [[6.1.67]] इति वकारलोपः]\n→ प्रान् [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः]\nअस्य शब्दस्य सम्बोधनैकवचनस् रूपम् 'प्राण्' इति भवति । प्रकिया इत्थम् -\nप्रान् + सुँ\n→ प्रान् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति सुँलोपः]\n→ प्रान् [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इत्यनेन अन्तिमनकारस्य लोपे प्राप्ते <<न ङिसम्बुद्ध्योः>> [[8.2.8]] इति निषेधः]\n→ प्राण् [<<अनितेः>> [[8.4.19]] इत्यनेन नकारस्य णत्वे प्राप्ते ; तद्बाधित्वा <<पदान्तस्य>> [[8.4.37]] इत्यनेन तस्य निषेधे प्राप्ते ; तद्बाधित्वा <<अन्तः>> [[8.4.20]] इति णत्वम् ]\nएवमेव परा + अन् + क्विप् + सुँ (सम्बोधनैकवचनम्) → पराण् इत्यपि रूपं सिद्ध्यति ।\nस्मर्तव्यम् -\n1. अस्य सूत्रस्य प्रसक्तिः पदान्तनकारस्य विषये एव अस्ति । अतएव अस्मिन् सूत्रे 'अन्तः' इति उच्यते । यद्यप्यत्र 'पदस्य' इति नैव अनुवर्तते न च अधिक्रियते, तथापि 'अन्तः' इत्यनेन 'पदस्य अन्तः' इत्येव अर्थः स्वीक्रियते ।\n2. अस्य सूत्रस्य प्रसक्तिः सम्बोधनैकवचनस्य रूपार्थमेव विद्यते । प्रथमैकवचनस्य रूपे तु <<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इत्यनेन अन्तिमनकारस्य लोपः भवति, ततश्च <<सर्वनामस्थाने चासम्बुद्धौ>> [[6.4.8]] इत्यनेन उपधादीर्घं कृत्वा 'प्रा', 'परा' इति रूपे सिद्ध्यतः ।\n" }, "84021": { "sa": "रेफयुक्तात् उपसर्गात् परस्य 'अन् (प्राणने)' धातोः द्वित्वं कृतमस्ति चेत् उभयोः नकारयोः णकारादेशः भवति । ", "sd": "रेफयुक्तात् उपसर्गात् परस्य 'अन् (प्राणने)' धातोः नकारस्य <<अनितेः>> [[8.4.19]] इत्यनेन णकारादेशः उच्यते । यदि अस्य धातोः द्वित्वं कृतमस्ति, तर्हि उभयोः नकारयोः णकारादेशः भवेत् इति वर्तमानसूत्रस्य आशयः ।\nउदाहरणद्वयं पश्यामः -\n(1) 'प्राणितुम् इच्छति' (wants to breathe / live) अस्मिन् अर्थे <<धातोः कर्मणः समानकर्तृकादिच्छायां वा>> [[3.1.7]] इत्यनेन सन्-प्रत्यये कृते एतादृशी प्रक्रिया जायते -\nप्र + अन् + सन् [<<धातोः कर्मणः समानकर्तृकादिच्छायां वा>> [[3.1.7]] इति सन्]\n→ प्र + अन् + इट् + स [<<आर्धधातुकस्येड् वलादेः>> [[7.2.35]] इति इडागमः । <ऽवार्णादङ्गं बलीयःऽ> इति न्यायेन अङ्गकार्यम् द्वित्वकार्यात् पूर्वं भवति ।]\n→ प्र + अनि + स [टकारस्य इत्संज्ञा , लोपः]\n→ प्र + अनि + नि + स [<<सन्यङोः>> [[6.1.9]] इति द्वित्वम् । <<अजादेर्द्वितीयस्य>> [[6.1.2]] इति द्वितीय-एकाच्-अंशस्य (इत्युक्ते 'नि' इत्यस्य) द्वित्वम् भवति । ]\n→ प्रानिनिस [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः]\n→ प्रानिनिष [<<आदेशप्रत्यययोः>> [[8.3.59]] इति षत्वम् । ]\n→ प्राणिणिष [<<उभौ साभ्यासस्य>> [[8.4.21]] इति द्वयोः नकारयोः णकारादेशः । <<सनाद्यन्ताः धातवः>> [[3.1.32]] इति धातुसंज्ञा ।]\nअस्य अग्रे प्राणिणिषति / प्राणिणिषतु / प्राणिणिषत् - एतादृशाणि रूपाणि भवन्ति ।\nएवमेव परा + अन् + सन् = पराणिणिष इत्यपि आतिदेशिकधातुः सिद्ध्यति ।\n(2) 'प्र + अन्' धातोः णिच्-प्रत्ययं कृत्वा ततः लुङ्लकारस्य प्रथमैकवचनम् एतादृशं सिद्ध्यति -\nप्र + अन् + णिच् + लुङ्\n→ प्र + आट् + अन् + णिच् + लुङ् [<<आडजादीनाम्>> [[6.4.72]] इति आडागमः]\n→ प्र + आ + अन् + णिच् + तिप् [<<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]\n→ प्र + आ + अन् + इ + च्लि + ति [<<च्लि लुङि>> [[3.1.43]] इति 'च्लि' विकरणप्रत्ययः]\n→ प्र + आ + अनि + चङ् + ति ['च्लि' इत्यस्य <<च्लेः सिच्>> [[3.1.44]] इति सिच्-आदेशे प्राप्ते अपवादस्वरूपेण <<णिश्रिद्रुस्रुभ्यः कर्तरि चङ्>> [[3.1.48]] इति चङ्-आदेशः ]\n→ प्र + आ + अनि + अ + ति [चकारङकारयोः इत्संज्ञा, लोपः]\n→ प्र + आ + अनि + नि + अ + ति [<<चङि>> [[6.1.11]] इति द्वित्वविधानम् । <<अजादेर्द्वितीयस्य>> [[6.1.2]] इति द्वितीय-एकाच्-अंशस्य (इत्युक्ते 'नि' इत्यस्य) द्वित्वम् भवति । ]\n→ प्र + आ + अनि + न् + अ + ति ['अ' इति आर्धधातुकः प्रत्ययः अस्ति अतः <<णेरनिटि>> [[6.4.51]] इति णिच्-प्रत्ययस्य (इत्युक्ते इकारस्य) लोपः]\n→ प्र + आ + अनि + न् + अ + त् [<<इतश्च>> [[3.4.100]] इति प्रत्ययस्थस्य इकारस्य लोपः]\n→ प्रानिनत् [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः]\n→ प्राणिणत् [<<उभौ साभ्यासस्य>> [[8.4.21]] इति द्वयोः नकारयोः णकारादेशः]\nएवमेव 'परा + अन् + णिच् + लुङ् (तिप्)' इत्यस्य 'पराणिणत्' इत्यपि रूपम् एतादृशमेव सिद्ध्यति ।\nस्मर्तव्यम् - अस्य सूत्रस्य अनुपस्थितौ <<अनितेः>> [[8.4.21]] इत्यनेन केवलं प्रथमस्यैव नकारस्य णत्वं स्यात् । यद्यपि द्वितीयः नकारः अपि 'अन्' इत्यस्यैव अस्ति, तथापि प्रथमनकारस्य णत्वे कृत्वे तस्य व्यवधानेन द्वितीयनकारस्य णत्वं नैव सम्भवेत् । उभयोः नकारयोः णत्वं स्यात् इति प्रतिपादयितुमस्य सूत्रस्य निर्माणं कृतमस्ति ।\nशास्त्रविशेषः - वस्तुतः परिभाषेन्दुशेखरे <ऽपूर्वत्रासिद्धीयमद्वित्वेऽ> (परिभाषा 126) इति काचन परिभाषा विद्यते । अस्याः परिभाषायाः अर्थः अयम् - 'यत्र द्वित्वकार्यम् कर्तव्यमस्ति तत्र <<पूर्वत्रासिद्धम्>> [[8.2.1]] इत्यनेन उक्तमसिद्धत्वम् न ग्रहीतव्यम्' । इत्युक्ते - द्वित्वकार्यात् पूर्वमेव (सूत्रपाठे विद्यमानात् परत्वात्) त्रिपादीकार्यम् भवितुमर्हति, ततश्च त्रिपादीकार्यात् अनन्तरम् द्वित्वविधानम् सिद्धमस्ति - इति आशयः । इदानीम् , एतां परिभाषामनुसृत्य अत्र निर्दिष्टायां प्रक्रियायाम् द्वित्वकार्यात् पूर्वमेव <<अनितेः>> [[8.4.21]] इत्यनेन सूत्रेण 'अनि' इत्यस्य नकारस्य णत्वं कृत्वा ततः 'णि' इत्यस्यैव द्वित्वं क्रियते चेत् णकारस्य द्वित्वे णकारः एव जायेत, अतः वर्तमानसूत्रं विना अपि द्वौ णकारौ सिद्ध्यतः । अस्यां स्थितौ वर्तमानसूत्रस्य प्रयोजनमेव विनश्यति । परन्तु तथापि वर्तमानसूत्रमाचार्येण पाठितमस्ति । एतत् अस्यैव ज्ञापकम् यत् <ऽपूर्वत्रासिद्धीयमद्वित्वेऽ> इति परिभाषा अनित्या अस्ति । अस्य विशेषः विस्तारः तु परिभाषेन्दुशेखरे द्रष्टव्यः ।\n" }, "84022": { "sa": "रेफयुक्त-उपसर्गात् परस्य हन्-धातोः नकारस्य णत्वं तदैव भवति यदा नकारात् पूर्वमकारः आगच्छति ।", "sd": "अनेन सूत्रेण हन्-इत्यस्य नकारस्य णत्वं कदा भवितुमर्हति तस्य विषये नियमः प्रोक्तः अस्ति । यस्मिन् उपसर्गे रेफः अस्ति, तादृशात् उपसर्गात् परस्य हन्-धातोः नकारस्य णत्वम् तदा एव भवति, यदा नकारात् पूर्वम् ह्रस्वः अकारः वर्तते - इति अस्य सूत्रस्य आशयः । यथा -\n1) 'प्र + हन्' इत्यस्य कर्मणि प्रयोगे लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् 'प्रहण्यते' इति भवति । अत्र हन्-धातोः नकारात् पूर्वम् ह्रस्वः अकारः विद्यते, अतः अत्र वर्तमानसूत्रेण णत्वं भवति । एवमेव 'परिहण्यते', 'प्रहणम्' (प्र + हन् + ल्युट्) , 'परिहणम्' - एतेषु सर्वेषु शब्देषु वर्तमानसूत्रेण णत्वं नियम्यते ।\n2) परन्तु, 'प्र + हन्' इत्यस्यैव कर्तरि प्रयोगे लट्लकारस्य प्रथमपुरुषबहुवचनस्य रूपम् 'प्रघ्नन्ति' इति जायते । अत्र 'हन्' धातोः नकारस्य णत्वं न भवति, यतः नकारात् पूर्वः यः अकारः, तस्य <<अल्लोपोऽनः>> [[6.4.134]] इत्यनेन लोपः विधीयते ।\nविशेषः - 'प्र + हन्' धातोः कर्तरि प्रयोगे लट् लकारस्य प्रथमपुरुषैकवचनस्य रूपम् 'प्रहन्ति' इति भवति । अत्र प्रक्रियायां 'प्र + हन् + ति' इति स्थिते आदौ नकारस्य <<नश्चापदान्तस्य झलि>> [[8.3.24]] इत्यनेन अनुस्वारादेशः भवति । अतः वर्तमानसूत्रेण नकारः नैव दृश्यते । अग्रे <<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इत्यनेन अनुस्वारस्य पुनः नकारादेशः भवति । अयं पुनः प्राप्तः नकारः तु वर्तमानसूत्रार्थं असिद्धः अस्ति । अतः अत्र णत्वं न कृतं दृश्यते ।\nज्ञातव्यम् - अस्मिन् सूत्रे 'अत्पूर्वस्य' इति तपरकरणम् कृतमस्ति । अतः ह्रस्व-अकारस्य विषये एव णत्वम् भवितुमर्हति । यदि नकारात् पूर्वः दीर्घः आकारः आगच्छति, तर्हि णत्वनिषेधः एव कर्तव्यः । यथा - 'प्र + हन्' धातोः लुङ्लकारस्य कर्मणि प्रयोेग प्रथमपुरुषैकवचस्य रूपम् 'प्राघानि' इति भवति । अत्र नकारात् पूर्वमाकारः अस्ति, अतः अत्र णत्वस्य प्रसक्तिः नास्ति । " }, "84023": { "sa": "रेफयुक्त-उपसर्गात् परस्य हन्-धातोः नकारस्य वकारादौ मकारादौ प्रत्यये परे विकल्पेन णत्वं भवति ।", "sd": "रेफयुक्त-उपसर्गात् परस्य हन्-धातोः नकारस्य कदा णत्वं भवति अस्मिन् विषये <<हन्तेरत्पूर्वस्य>> [[8.4.22]] इत्यत्र नियमः उक्तः अस्ति, तस्य नियमस्य विकल्पः वर्तमानसूत्रेण दीयते ।\nयदि रेफयुक्तात् उपसर्गात् परः हन्-धातुः प्रयुज्यते (यथा - प्र + हन्, परा + हन् आदयः), तर्हि तस्य नकारस्य तदा एव णत्वं भवति यदा नकारात् पूर्वम् ह्रस्वः अकारः विद्यते - इति <<हन्तेरत्पूर्वस्य>> [[8.4.22]] इत्यनेन एतत् स्पष्टीक्रियते । परन्तु यदि अग्रे वकारादिः उत मकारादिः प्रत्ययः विधीयते , तर्हि एतादृशं णत्वम् विकल्पेनैव भवति - इति अस्य सूत्रस्य आशयः ।\nयथा, 'प्र + हन्' धातोः लट्लकारस्य उत्तमपुरुषद्विवचनस्य रूपसिद्धौ 'प्र + हन् + वः' इति स्थिते <<हन्तेरत्पूर्वस्य>> [[8.4.22]] इत्यनेन विहितं णत्वम् वर्तमानसूत्रसामर्थ्यात् विकल्पेन भवति, यतः अग्रे वकारादिः प्रत्ययः अस्ति । अतः, अत्र णत्वं कृत्वा 'प्रहण्वः', तथा च विना णत्वं 'प्रहन्वः' - उभयथा रूपाणि सिद्ध्यन्ति । एवमेव 'प्रहन्मः / प्रहण्मः', 'परिहन्वः / परिहण्वः' / 'परिहन्मः / परिहण्मः' - एतेषु रूपेषु अपि विकल्पः विधीयते ।\nस्मर्तव्यम् - पूर्वसूत्रेण प्राप्तः विधिः वर्तमानसूत्रेण विकल्प्यते, अयः इयम् 'प्राप्तविभाषा' अस्ति । (प्राप्तविभाषायाः विषये <<न वेति विभाषा>> [[1.1.44]] इत्यत्र पाठितमस्ति ।)\n" }, "84024": { "sa": "'अन्तर्' इत्यस्मात् उत्तरस्य 'हन्' धातोः नकारस्य तदैव णत्वं भवति यदा नकारात् पूर्वं ह्रस्वः अकारः विद्यते । परन्तु निर्मितेन शब्देन देशस्य निर्देशः कर्तव्यः अस्ति चेत् णत्वं न विधीयते । ", "sd": "'अन्तर्' इति शब्दः <<अन्तरपरिग्रहे>> [[1.4.65]] इत्यनेन सूत्रेण गतिसंज्ञकः भवति । अयं शब्दः 'हन्' धातोः योगे प्रयुज्यते चेत् 'अन्तर् + हन्' इति स्थिते हन्-धातोः नकारस्य णत्वं कदा भवति इत्यस्मिन् विषये अस्मिन् सूत्रे नियमः प्रोक्तः अस्ति । हन्-धातोः नकारस्य णत्वम् तदा एव भवति, यदा नकारात् पूर्वम् ह्रस्वः अकारः वर्तते , परन्तु निर्मितेन शब्देन देशस्य निर्देशः मा भूत् - इति अस्य सूत्रस्य आशयः । यथा -\n1) 'अन्तर् + हन्' इत्यस्य कर्मणि प्रयोगे लट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् 'अन्तर्हण्यते' (to get destroyed) इति भवति । अत्र 'हन्' इत्यत्र नकारात् पूर्वम् ह्रस्वः अकारः विद्यते, अतः अत्र नकारस्य णत्वं कृतमस्ति ।\n2) एवमेव, 'अन्तर + हन्' इत्यस्मात् ल्युट्-प्रत्यये कृते 'अन्तर्हणन' (abolishing, destroying) इति प्रातिपदिकं जायते । अत्रापि वर्तमानसूत्रेण णत्वं विधीयते ।\n3) परन्तु, यदि निर्मितः शब्दः देशस्य निर्देशं करोति, तर्हि वर्तमानसूत्रस्य प्रसक्तिः नास्ति, अतः नकारस्य णत्वं न भवति । यथा - अन्तर्हननः देशः । 'अन्तः हन्यते अस्मिन् देशे' इत्यस्मिन् अर्थे <<करणाधिकरणयोश्च>> [[3.3.117]] इति ल्युट्-प्रत्ययं कृत्वा अयं शब्दः सिद्ध्यति । अत्र देशस्य निर्देशः कृतः अस्ति अतः अत्र णत्वं न भवति ।\nज्ञातव्यम् -\n1. अस्मि्न सूत्रे 'अत्पूर्वस्य' इति अनुवर्तते । अत्र 'अत्' इति तपरकरणम् कृतमस्ति । इत्युक्ते, यदि नकारात् पूर्वम् ह्रस्वः अकारः न विद्यते, तर्हि णत्वस्य प्रसक्तिः नास्ति । यथा, 'अन्तर् + हन्' इत्यस्य कर्मणि प्रयोगे लुङ्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् 'अन्तरघानि' इति भवति । अत्र नकारात् पूर्वमाकारः विद्यते अतः अत्र णत्वं न विधीयते । एवमेव, 'अन्तर् + हन्' इत्यस्य लट्लकारस्य प्रथमपुरुषबहुवचनस्य रूपम् 'अन्तर्घ्नन्ति' इत्यत्रापि नकारात् पूर्वम् ह्रस्वः अकारः नास्ति अतः अत्रापि णत्वं न क्रियते ।\n2. वस्तुतः <<अन्तरपरिग्रहे>> [[1.4.65]] इत्यत्र वार्त्तिककारः इति वार्त्तिकं पाठयति । अस्य वार्त्तिकस्य (वर्तमानसन्दर्भे) आशयः अयम् - यत्र णत्वविधिः कर्तव्यः अस्ति, तत्र अन्तर्-शब्दस्य उपसर्गसंज्ञा भवति । अस्यां स्थितौ 'अन्तर् + हन्' इत्यत्र 'अन्तर्' शब्दस्य उपसर्गसंज्ञां कृत्वा <<हन्तेरत्पूर्वस्य>> [[8.4.22]] इत्यनेन णत्वं भवितुमर्हत्येव । परन्तु तथा क्रियते चेत् देशस्य विषये अपि तादृशं णत्वम् भवेत् - यत् न इष्यते । एतदेव विशिष्टरूपेण स्पष्टीकर्तुम् वर्तमानसूत्रस्य पृथक् रूपेण रचना कृता अस्ति । " }, "84025": { "sa": "'अन्तर्' शब्दात् परः विद्यमानस्य 'अयन' शब्दस्य नकारस्य णकारादेशः विधीयते । परन्तु निर्मितेन शब्देन देशस्य नाम्नः निर्देशः कर्तव्यः अस्ति चेत् एतादृशम् णत्वं न भवति । ", "sd": "'अन्तर्' इति शब्दः <<अन्तरपरिग्रहे>> [[1.4.65]] इत्यनेन सूत्रेण गतिसंज्ञकः भवति । अस्य शब्दस्य उत्तरपदरूपेण 'अयन' इति शब्दः विद्यते चेत् वर्तमानसूत्रेण तस्य नकारस्य णकारादेशः भवति । परन्तु यदि निर्मितेन शब्देन देशस्य निर्देशः कर्तव्यः अस्ति, तर्हि एतादृशः णकारादेशः न विधीयते ।\nयथा -\n1. अन्तः अयनम् = अन्तरयणम् । The act of going inside. अत्र <<कुगतिप्रादयः>> [[2.2.18]] इति तत्पुरुषसमासः भवति ।\n2. अन्तः ईयते अस्मिन् देशे = अन्तरयनः देशः । अत्र देशस्य निर्देशः कृतः अस्ति अतः अत्र णत्वं न विधीयते । अत्र इण् धातोः <<करणाधिकरणयोश्च>> [[3.3.117]] इत्यनेन ल्युट्-प्रत्ययं कृत्वा अग्रे बहुव्रीहिसमासं कृत्वा 'अन्तरयन' शब्दः सिद्ध्यति ।\nस्मर्तव्यम् -\n1. 'अयन' इति शब्दः 'इण् गतौ' (अथवा 'अय्' गतौ) धातोः ल्युट्-प्रत्ययं कृत्वा सिद्ध्यति ।\n2. वस्तुतः <<अन्तरपरिग्रहे>> [[1.4.65]] इत्यत्र वार्त्तिककारः इति वार्त्तिकं पाठयति । अस्य वार्त्तिकस्य (वर्तमानसन्दर्भे) आशयः अयम् - यत्र णत्वविधिः कर्तव्यः अस्ति, तत्र अन्तर्-शब्दस्य उपसर्गसंज्ञा भवति । अस्यां स्थितौ 'अन्तर् + अयन' इत्यत्र वस्तुतः <<कृत्यचः>> [[8.4.29]] इत्यनेनैव णत्वं भवितुमर्हति । परन्तु तादृशं क्रियते चेत् देशस्य सन्दर्भे अपि णत्वं प्रसज्येत - यत् न इष्यते । अतएव वर्तमानसूत्रमाचार्येण पृथक् रूपेण निर्मितमस्ति । अतः 'अन्तरयनो देशः' इत्यत्र णत्वं न भवति ।\n" }, "84026": { "sa": "", "sd": "" }, "84027": { "sa": "", "sd": "" }, "84028": { "sa": "", "sd": "" }, "84029": { "sa": "रेफयुक्तेन उपसर्गेण सह प्रयुज्यमानात् धातोः विहितस्य कृत्-प्रत्ययस्य अच्-वर्णात् परस्य नकारस्य णत्वं भवति । ", "sd": "यदि -\n1) कश्चन धातुः रेफयुक्त-उपसर्गेण सह प्रयुज्यते\n2) तथा च, तस्मात् धातोः कश्चन कृत्-प्रत्ययः विधीयते\n3) तस्मिन् कृत्-प्रत्यये विद्यमानः नकारः अच्-वर्णात् परः अस्ति\n- तर्हि प्रत्ययस्थ-नकारस्य वर्तमानसूत्रेण णकारादेशः भवति ।\nकेषु केषु कृत्-प्रत्ययेषु नकारः विद्यते ? सर्वप्रकाराणामुदाहरणानि एतानि -\n[1] ल्युट् प्रत्ययः - \nप्र + या + ल्युट्\n→ प्र + या + अन [<<युवोरनाकौ>> [[7.1.1]] इति अन-आदेशः]\n→ प्रयान [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः आकारः ]\n→ प्रयाण [<<कृत्यचः>> [[8.4.29]] इति णत्वम् । अत्र नकारः आकारोत्तरः अस्ति ।]\nएवमेव - परि + मा + ल्युट् → परि + मा + अन → परिमाण ।\n[2] शानच् प्रत्ययः\nप्र + या + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्लकारः]\n→ प्र + या + शानच् [कर्मणिप्रयोगविवक्षायाम् <<भावकर्मणोः>> [[1.3.13]] इति आत्मनेपदविवक्षा । <<लटः शतृशानचावप्रथमासमानाधिकरणे>> [[3.2.124]] इति शानच्-प्रत्ययः]\n→ प्र + या + यक् + आन [<<सार्वधातुके यक्>> [[3.1.67]] इति यक् प्रत्ययः]\n→ प्र + या + य + मुक् + आन [ <<आने मुक्>> [[7.2.82]] इति मुगागमः]\n→ प्रयायमान [इत्संज्ञालोपः, वर्णमेलनम्]\n→ प्रयायमाण [<<कृत्यचः>> [[8.4.29]] इति णत्वम्]\nएवमेव परि + मा + शानच् → परिमायमाण ।\n[3] कानच् प्रत्ययः [अयं केवलं वेदेषु दृश्यते ।]\nप्र + या + लिट् [<<छन्दसि लिट्>> [[3.2.105]] इति लिट्]\n→ प्र + या + कानच् [<<लिटः कानच् वा>> [[3.2.106]] इति 'लिट्' इत्यस्य 'कानच्' इति आदेशः]\n→ प्र + या + आन [इत्संज्ञालोपः]\n→ प्रययाण [द्वित्वकार्यम्, ततः <<कृत्यचः>> [[8.4.29]] इति णत्वम्]\n[4] चानश् प्रत्ययः \nप्र + या + चानश् [<<ताच्छील्यवयोवचनशक्तिषु चानश्>> [[3.2.129]] इति चानश्]\n→ प्र + या + शप् + आन [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ प्र + या + मुक् +आन [ <<आने मुक्>> [[7.2.82]] इति मुगागमः]\n→ प्र + या + मान [<<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शपः लुक्]\n→ प्रयामान [इत्संज्ञालोपः, वर्णमेलनम्]\n→ प्रयामाण [<<कृत्यचः>> [[8.4.29]] इति णत्वम्]\nएवमेव परि + मा + चानश् → परिमामाण ।\n[5] अनीयर् प्रत्ययः \nप्र + या + अनीयर् [<<तव्यत्तव्यानीयरः>> [[3.1.96]] इति अनीयर् प्रत्ययः]\n→ प्रयानीय [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः आकारः ]\n→ प्रयाणीय [<<कृत्यचः>> [[8.4.29]] इति णत्वम्]\nएवमेव - परि + मा + अनीयर् → परिमाणीय ।\n[6] अनि प्रत्ययः \nप्र + या + अनि [<<आक्रोशे नञ्यनिः>> [[3.3.112]] इति अनि-प्रत्ययः ।]\n→ प्रयानि [<<अकः सवर्णे दीर्घः>> [[6.1.101]] इति सवर्णदीर्घः आकारः ]\n→ प्रयाणि [<<कृत्यचः>> [[8.4.29]] इति णत्वम्]\nविशेषः - 'अनि' प्रत्ययः नित्यम् 'नञ्' उपपदेन सह एव प्रयुज्यते, अतः प्रयोगसमये 'न प्रयाणि = अप्रयाणि' इत्येव प्रयोक्तव्यम् । केवलम् 'प्रयाणि' इत्यस्य प्रयोगः न साधु ।\nएवमेव परि + या + अनि → परियाणि । (प्रयोगे - अपरियाणि) ।\n[7] णिनि प्रत्ययः \nप्र + या + णिनि [<<आवश्यकाधमर्ण्ययोर्णिनिः>>[[3.3.170]] इति णिनि-प्रत्ययः / <<सुप्यजातौ णिनिस्ताच्छील्ये>> [[3.2.78]] इति णिनि-प्रत्ययः]\n→ प्र + या + इन् [इत्संज्ञालोपः]\n→ प्र + या + युक् + इन् [<<आतो युक् चिण्कृतोः>>[[7.3.33]] इति युगागमः]\n→ प्रयायिन् [वर्णमेलनम् । <<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा]\n→ प्रयायिन् + औ [प्रथमाद्विवचनस्य विवक्षायाम् 'औ' प्रत्ययः]\n→ प्रयायिनौ\n→ प्रयायिणौ [<<कृत्यचः>> [[8.2.29]] इति णत्वम् । अत्र नकारः इकारात् परः आगच्छति ।]\nविशेषः - प्रयायिणौ इत्यत्र <<प्रातिपदिकान्तनुम्विभक्तिषु च>> [[8.4.11]] इत्यनेन केवलं विकल्पेन णत्वं भवेत्, परन्तु वर्तमानसूत्रेण नित्यं विधीयते ।\nएवमेव - परि + या + णिनि + जस् → परियायिणः इत्यपि सिद्ध्यति ।\n[8] निष्ठाप्रत्ययौ (क्त , क्तवतु) \nप्र + हा + क्त [<<निष्ठा>> [[3.2.102]] इति क्त-प्रत्ययः]\n→ प्र + ही + त [<<घुमास्थागापाजहातिसां हलि>> [[6.4.66]] इति ईकारादेशः ]\n→ प्र + ही + न ['हा' धातोः औपदेशिकरूपे ओकारः इत्संज्ञकः विद्यते (ओँहाक् त्यागे) अतः <<ओदितश्च>> [[8.2.45]] इत्यनेन निष्ठातकारस्य नकारादेशः भवति ।]\n→ प्रहीण [<<कृत्यचः>> [[8.2.29]] इति णत्वम् । अत्र नकारः ईकारात् परः आगच्छति ।]\nएवमेव - परि + हा + क्तवतु → परिहीणवत् ।\nस्मर्तव्यम् - यदि धातौ णत्वनिषेधकस्य वर्णस्य (इत्युक्ते - अट्, कु, पु, आङ्, नुम् - एतान् विहाय अन्यवर्णस्य) व्यवधानं अस्ति, तर्हि वर्तमानसूत्रेण णत्वं न भवति । यथा - प्र + स्था + ल्युट् → प्रस्थान । अत्र यद्यपि रेफयुक्तः उपसर्गः प्रयुज्यते, अपि च धातुः अपि अजन्तः अस्ति, तथापि रेफनकारयोर्मध्ये थकारस्य व्यवधानेन णत्वं न जायते ।\nसूत्रम् दलकृत्य प्रत्येकं पदस्य प्रयोजनम् एतादृशम् -\n1) उपसर्गात् इति किम् ? या + ल्युट् → यान इत्यत्र न भवति ।\n2) अच्-वर्णात् परस्य इति किम् ? प्र + मस्ज् + क्त → प्रमग्न - इत्यत्र न भवति, यतः अत्र नकारात् पूर्वमच् वर्णः न विद्यते ।\n3) कृत्प्रत्ययस्य इति किम् ? परि + मी + श्ना + ति → परिमीनाति इत्यत्र न भवति ।\nअत्र एकं वार्त्तिकं ज्ञातव्यम् - । इत्युक्ते, 'निर्विण्ण' शब्दस्य सिद्धौ प्रत्ययस्थः नकारः यद्यपि अच्-वर्णात् परः नास्ति, तथापि तस्य णत्वं भवति ।\n'निर्विण्ण' शब्दस्य प्रक्रिया इयम् -\nनिर् + विद् (सत्तायाम्) + क्त [<<निष्ठा>> [[3.2.102]] इति क्त-प्रत्ययः]\n→ निर् + विन् न [<<रदाभ्यां निष्ठातो नः पूर्वस्य च दः>> [[8.2.42]] इति दकारतकारयोः उभयोः नकारः]\n→ निर्विन् ण [ इति वार्त्तिकेन प्रत्ययस्थस्य नकारस्य णत्वम् ]\n→ निर्विण् ण [<<ष्टुना ष्टुः>> [[8.4.41]] इति धातोः अन्ते विद्यमानस्य नकारस्य ष्टुत्वे णकारः]\n→ निर्विण्ण ।\n अत्र द्वौ नकारौ विद्येते । एताभ्यां प्रथमनकारः प्रत्ययस्य नकारः नास्ति, अतः तस्य विषये वर्तमानसूत्रस्य प्रसक्तिः नास्ति । द्वितीयः नकारः यद्यपि प्रत्ययस्य नकारः अस्ति, तथापि सः अच्-वर्णात् परः नास्ति, अतः अत्रापि णत्वस्य प्रसक्तिः नास्ति । परन्तु अस्य द्वितीयनकारस्य णत्वमत्र वार्त्तिकेन दीयते । एतादृशं प्रत्ययनकारस्य णत्वे कृते ततः ष्टुत्वेन पूर्वनकारस्यापि णत्वं भवति । अरः अन्ते उभयोः नकारयोः णत्वं श्रूयते । यथा, देवीसप्तशत्यां 'निर्विण्णोऽतिममत्वेन राज्यापहरणेन च' इति प्रयोगः दृश्यते । अस्य साधुत्वं अनेनैव वार्त्तिकेण सिद्ध्यति ।\nस्मर्तव्यम् - अस्मिन् सूत्रे षष्ठ्यन्तं पदं नास्ति, केवलं पञ्चम्यन्तं पदम् (अचः) तथा सप्तम्यन्तं पदम् (कृति) इति विद्यते । अस्यां स्थितौ <ऽउभयनिर्देशे पञ्चमीनिर्देशो बलीयान्ऽ> अनया परिभाषया सप्तम्यन्तं पदम् स्थानिनं निर्देशयति । अतः 'कृत्-प्रत्ययस्य नकारस्य णत्वं भवति' इति अर्थः निष्पद्यते ।\n" }, "84030": { "sa": "रेफयुक्तेन उपसर्गेण प्रयुज्यमानात् णिजन्तधातोः विहितस्य कृत्-प्रत्ययस्य अच्-वर्णात् परस्य नकारस्य विकल्पेन णत्वं भवति । ", "sd": "सूत्रस्य क्रमशः अर्थः अयम् -\n- यदि कश्चन धातुः रेफयुक्तेन उपसर्गेण सह प्रयुज्यते (यथा - प्र + या)\n- तथा च, तस्मात् णिच्-प्रत्ययं कृत्वा आतिदेशिकधातुः निर्मितः अस्ति (यथा - प्र + या + णिच्)\n- तथा च, तस्मात् आतिदेशिकधातोः कश्चन कृत्-प्रत्ययः आगच्छति,\n- तथा च, तस्मिन् कृत्-प्रत्यये विद्यमानः नकारः अच्-वर्णात् परः अस्ति,\n- तर्हि तस्य नकारस्य <<कृत्यचः>> [[8.4.29]] इत्यनेन प्राप्तं णत्वं वर्तमानसूत्रेण विकल्प्यते ।\nसर्वप्रकाराणामुदाहरणानि एतानि -\n[1] ल्युट् प्रत्ययः - \nप्र + या + णिच् + ल्युट्\n→ प्र + या + पुक् + णिच् + ल्युट् [<<अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ>> [[7.3.36]] इति पुगागमः ।]\n→ प्र + यापि + अन [<<युवोरनाकौ>> [[7.1.1]] इति अन-आदेशः]\n→ प्र + याप् + अन [<<णेरनिटि>> [[6.4.51]] इति णिच्-प्रत्ययस्य लोपः]\n→ प्रयापन / प्रयापण [<<णेर्विभाषा>> [[8.4.30]] इति वैकल्पिकं णत्वम्]\nएवमेव - परि + या + णिच् + ल्युट् → परियापन, परियापण ।\n[2] शानच् प्रत्ययः\nप्र + या + णिच् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्लकारः]\n→ प्र + या + पुक् + णिच् + लट् [<<अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ>> [[7.3.36]] इति पुगागमः ।]\n→ प्र + यापि + लट् [इत्संज्ञालोपः]\n→ प्र + यापि + शानच् [कर्मणिप्रयोगविवक्षायाम् <<भावकर्मणोः>> [[1.3.13]] इति आत्मनेपदविवक्षा । <<लटः शतृशानचावप्रथमासमानाधिकरणे>> [[3.2.124]] इति शानच्-प्रत्ययः]\n→ प्र + यापि + यक् + आन [<<सार्वधातुके यक्>> [[3.1.67]] इति यक् प्रत्ययः]\n→ प्र + यापि + य + मुक् + आन [ <<आने मुक्>> [[7.2.82]] इति मुगागमः]\n→ प्र + याप् + य + म् + आन [<<णेरनिटि>> [[6.4.51]] इति णिच्-प्रत्ययस्य लोपः]\n→ प्रयाप्यमान, प्रयाप्यमाण [<<णेर्विभाषा>> [[8.4.30]] इति वैकल्पिकं णत्वम्]\nएवमेव परि + मा + णिच् + शानच् → परिमाप्यमाण, परिमाप्यमान ।\n[3] कानच् प्रत्ययः [अयं केवलं वेदेषु दृश्यते ।]\nप्र + या + णिच् + लिट् [<<छन्दसि लिट्>> [[3.2.105]] इति लिट्]\n→ प्र + या + पुक् + णिच् + लिट् [<<अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ>> [[7.3.36]] इति पुगागमः ।]\n→ प्र + यापि + लिट् [इत्संज्ञालोपः]\n→ प्र + यापि + कानच् [<<लिटः कानच् वा>> [[3.2.106]] इति 'लिट्' इत्यस्य 'कानच्' इति आदेशः]\n→ प्र + यापि + आन [इत्संज्ञालोपः]\n→ प्र + याप् + आन [<<णेरनिटि>> [[6.4.51]] इति णिच्-प्रत्ययस्य लोपः]\n→ प्रययापान, प्रययापाण [द्वित्वकार्यम्, ततः <<णेर्विभाषा>> [[8.4.30]] इति वैकल्पिकं णत्वम्]\n[4] चानश् प्रत्ययः \nप्र + या +णिच् + चानश् [<<ताच्छील्यवयोवचनशक्तिषु चानश्>> [[3.2.129]] ]\n→ प्र + या+ पुक् + णिच् + शानच् [<<अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ>> [[7.3.36]] इति पुगागमः ।]\n→ प्र + या + प् + इ + शप् + आन [<<कर्तरि शप्>> [[3.1.68]] इति शप्]\n→ प्र + या + पि + अ + मुक् +आन [ <<आने मुक्>> [[7.2.82]] इति मुगागमः]\n→ प्र + या + पे + अ + मान [<<सार्वधातुकार्धधातुकयोः>> [[7.3.84]] इति गुणः]\n→ प्रयापयमान [<<एचोऽयवायावः>> [[6.1.78]] इति अयादेशः]\n→ प्रयापयमान, प्रयापयमाण [<<णेर्विभाषा>> [[8.4.30]] इति वैकल्पिकं णत्वम्]\nएवमेव परि + मा + णिच् + चानश् → परिमायमाण, परिमायमान ।\n[5] अनीयर् प्रत्ययः \nप्र + या + णिच् + अनीयर् [<<तव्यत्तव्यानीयरः>> [[3.1.96]] इति अनीयर् प्रत्ययः]\n→ प्र + या +पुक् + णिच् + अनीयर् [<<अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ>> [[7.3.36]] इति पुगागमः ।]\n→ प्र + या + प् + अनीय [<<णेरनिटि>> [[6.4.51]] इति णिच्-प्रत्ययस्य लोपः]\n→ प्रयापनीय, प्रयापणीय [<<णेर्विभाषा>> [[8.4.30]] इति वैकल्पिकं णत्वम्]\nएवमेव - परि + मा + णिच् + अनीयर् → परिमापणीय, परिमापनीय ।\n[6] अनि प्रत्ययः \nप्र + या + णिच् + अनि [<<आक्रोशे नञ्यनिः>> [[3.3.112]] इति अनि-प्रत्ययः]\n→ प्र + या + पुक् + णिच् + अनि [<<अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ>> [[7.3.36]] इति पुगागमः ।]\n→ प्र + या + प् + अनि [<<णेरनिटि>> [[6.4.51]] इति णिच्-प्रत्ययस्य लोपः]\n→ प्रयापनि, प्रयापणि [<<णेर्विभाषा>> [[8.4.30]] इति वैकल्पिकं णत्वम्]\nविशेषः - 'अनि' प्रत्ययः नित्यम् 'नञ्' उपपदेन सह एव प्रयुज्यते, अतः प्रयोगसमये 'न प्रयापणि = अप्रयापणि' इत्येव प्रयोक्तव्यम् । केवलम् 'प्रयापणि' इत्यस्य प्रयोगः न साधु ।\nएवमेव परि + या + णिच् + अनि → परियापणि । (प्रयोगे - अपरियापणि) ।\n[7] णिनि प्रत्ययः \nप्र + या + णिच् + णिनि [<<आवश्यकाधमर्ण्ययोर्णिनिः>>[[3.3.170]] इति णिनि-प्रत्ययः / <<सुप्यजातौ णिनिस्ताच्छील्ये>> [[3.2.78]] इति णिनि-प्रत्ययः]\n→ प्र + या + पुक् + इ + इन् [<<अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ>> [[7.3.36]] इति पुगागमः ।]\n→ प्र + या + प् + इन् [<<णेरनिटि>> [[6.4.51]] इति णिच्-प्रत्ययस्य लोपः]\n→ प्रयापिनौ, प्रयापिणौ [<<णेर्विभाषा>> [[8.4.30]] इति वैकल्पिकं णत्वम्]\nविशेषः - प्रयापिनौ / प्रयापिणौ इत्यत्र <<प्रातिपदिकान्तनुम्विभक्तिषु च>> [[8.4.11]] इत्यनेन अपि रूपद्वयम् सिद्ध्यति ।\nएवमेव - परि + या + णिच् + णिनि + जस् → परियापिणः इत्यपि सिद्ध्यति ।\nस्मर्तव्यम् - यदि रेफनकारयोर्मध्ये णत्वनिषेधकस्य वर्णस्य (इत्युक्ते - अट्, कु, पु, आङ्, नुम् - एतान् विहाय अन्यवर्णस्य) व्यवधानं अस्ति, तर्हि वर्तमानसूत्रेण णत्वं न भवति । यथा - प्र + स्था + णिच् + ल्युट् → प्रस्थापन । अत्र यद्यपि रेफयुक्तः उपसर्गः प्रयुज्यते, अपि च धातुः अपि अजन्तः अस्ति, तथापि रेफनकारयोर्मध्ये थकारस्य व्यवधानेन णत्वं न जायते ।\n " }, "84031": { "sa": "", "sd": "" }, "84032": { "sa": "", "sd": "" }, "84033": { "sa": "", "sd": "" }, "84034": { "sa": "", "sd": "" }, "84035": { "sa": "", "sd": "" }, "84036": { "sa": "", "sd": "" }, "84037": { "sa": "रेफषकारात् परस्य पदान्तनकारस्य णत्वं न भवति । ", "sd": "यद्यपि पदे णत्वनिमित्तकः रेफः षकारः वा अस्ति, तथापि तस्य उपस्थितौ पदान्ते विद्यमानस्य नकारस्य णत्वम् न भवति ।\nयथा - पूषन् , वृक्षान् , अकुर्वन्, चरन् - एतेषु पदेषु विद्यमानस्य नकारस्य णत्वं न भवति ।" }, "84038": { "sa": "", "sd": "" }, "84039": { "sa": "", "sd": "" }, "84040": { "sa": "सकारतवर्गयोः शकारचवर्गाभ्यां योगे संहितायाम् शकारचवर्गौ स्तः । ", "sd": "हल्-सन्धिषु अन्यतमः श्चुत्वम् इत्याख्यः सन्धिः प्रकृतसूत्रेण पाठ्यते । शकारस्य चवर्गीयवर्णस्य वा योगे (इत्युक्ते तस्मात् अव्यवहितरूपेण पूर्वः परः वा) सकारः उत तवर्गीयवर्णः विद्यते चेत्, सकारस्य शकारादेशः, तवर्गीयवर्णस्य च (यथासङ्ख्यम्) चवर्गीयवर्णादेशः भवति — इति अस्य सूत्रस्य आशयः । क्रमेण उदाहरणानि एतानि —\n1. सकार-शकारयोगे सकारस्य शकारादेशः\n\n1. [ स् + श् ] ⇒ राम + सुँ + शेते → रामस् शेते → रामश्शेते ।\n2. [ श्+ स् ] ⇒ अस्य उदाहरणानि न सन्ति, यतः झलि परे शकारस्य <<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> [[8.2.36]] इति षकारादेशः भवति, अतः अत्र श्चुत्वस्य प्रसक्तिः न वर्तते ।\n\n2. सकार-चवर्गयोगे सकारस्य शकारादेशः\n\n1. [ स् + च् ] ⇒ राम + सुँ चिनोति → रामस् चिनोति → रामश्चिनोति ।\n2. [ स् + छ् ] ⇒ राम + सुँ छात्रः → रामस् छात्रः → रामश्छात्रः ।\n3. [ स् + ज् ] ⇒ मस्ज् + अनीयर् → मश्ज् + अनीय → (<<झलां जश् झशि>> [[8.4.53]] इति जश्त्वे कृते) मज्जनीय । \n4. [ स् + झ् ] ⇒ अस्य उदाहरणानि न सन्ति, यतः पदान्तसकारस्य झकारे परे <<ससजुषो रुः>> [[8.2.66]] इति रुत्वं विधीयते । अपदान्तसकारात् अनन्तरम् झकारः न कुत्रचित् दृश्यते ।\n5. [ स् + ञ् ] ⇒ अस्य उदाहरणानि न सन्ति, यतः पदान्तसकारस्य झकारे परे <<ससजुषो रुः>> [[8.2.66]] इति रुत्वं विधीयते । अपदान्तसकारात् अनन्तरम् ञकारः न कुत्रचित् दृश्यते ।\n6. [ च्/छ्/ज्/झ्/ञ् + स् ] ⇒ अस्य उदाहरणानि न सन्ति, यतः झलि परे चवर्गीयवर्णस्य <<चो कुः>> [[8.2.30]] इति कुत्वं प्रवर्तते । \n\n3. तवर्ग-शकारयोगे तवर्गस्य चवर्गादेशः\n\n1. [ त् + श् ] ⇒ पदान्तनकारस्य शकारे परे <<शि तुक्>> [[8.3.31]] इति तुगागमे कृते प्राप्तस्य तकारस्य प्रकृतसूत्रेण चकारः भवति —\n\nभवान् शेते\n→ भवान् त् शेते [<<शि तुक्>> [[8.3.31]] इति नकारस्य विकल्पेन तुगागमः]\n→ भवान् च् शेते [<<स्तोः श्चुना श्चुः>> [[8.4.40]] इति तकारस्य चकारः]\n→ भवाञ् च् शेते [<<स्तोः श्चुना श्चुः>> [[8.4.40]] इति नकारस्य ञकारः]\n→ भवाञ्च्शेते \n
    \nअग्रे <<शश्छोऽटि>> [[8.4.63]] इत्यनेन शकारस्य विकल्पेन छकारः भवति, ततश्च <<झरो झरि सवर्णे>> [[8.4.65]] इति चकारस्य विकल्पेन लोपः अपि सम्भवति, अतः भवाञ्च्शेते / भवाञ्च्छेते / भवाञ्छेते इति आहत्य त्रीणि रूपाणि सम्भवन्ति । \n
    \n2. [ थ् + श् ] ⇒ अस्य उदाहरणानि न सन्ति, यतः पदान्त-थकारस्य आदौ जश्त्वे दकारः भवति । अपि च, अपदान्तथकारात् अनन्तरम् शकारः न हि कुत्रचित् दृश्यते ।\n3. [ द् + श् ] ⇒ सुहृद् शेते → सुहृज् शेते → (<<खरि च>> [[8.4.55]] इति चर्त्वे) सुहृच् शेते → (<<शश्छोऽटि>> [[8.4.63]] इति वैकल्पिके छत्वे) सुहृच्छेते ।\n4. [ध् + श् ] ⇒ अस्य उदाहरणानि न सन्ति, यतः पदान्त-धकारस्य आदौ जश्त्वे दकारः भवति । अपि च, अपदान्तधकारात् अनन्तरम् शकारः न हि कुत्रचित् दृश्यते ।\n5. [न् + श् ] ⇒ भवान् शेते → भवाञ्शेते । \n6. [ श् + त् / थ् / द् / ध् / न् ] ⇒ इत्यस्य उदाहरणानि न सन्ति, यतः शकारात् परस्य तवर्गस्य श्चुत्वम् <<शात्>> [[8.4.44]] इत्यनेन निषिद्ध्यते ।\n
    \n4. तवर्ग-चवर्गयोगे तवर्गस्य चवर्गादेशः\nअत्र आहत्य 5 ✕ 5 ✕ 2 = 50 योगाः (combinations) सन्ति, परन्तु तेषु केवलम् केषाञ्चन विषये एव श्चुत्वस्य उदाहरणानि दृश्यन्ते —\n\n1. [ त् / थ् / ध् + चवर्ग ] (इति 15 योगाः) अत्र पदान्ततकारथकारधकाराणाम् जश्त्वे कृते दकारः भवति, अतः तत्र श्चुत्वं नैव स्मभवति । अपदान्तवर्णेषु केवलम् तकार-छकारयोः योगस्य एव उदाहरणानि दृश्यते । यथा — \n\nम्लेछँ (अव्यक्ते शब्दे)\n→ म्लेछ् [<<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इति अकारस्य इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ म्लेछ् + अनीयर् [<<तव्यत्तव्यानीयरः>> [[3.1.96]] इति अनीयर्-प्रत्ययः]\n→ म्लेत् छ् + अनीय [<<दीर्घात्>> [[6.1.93]] इति संहितायाम् छकारे परे दीर्घस्वरस्य तुगागमः ]\n→ म्लेच् छ् + अनीय [<<स्तोः श्चुना श्चुः>> [[8.4.40]] इति श्चुत्वम्]\n→ म्लेच्छनीय\n\n2. [ द् + च् / छ् ] (इति 2 योगौ) सुहृद् + (चलति / छलति) → सुहृज् + (चलति / छलति) → (<<खरि च>> [[8.4.55]] इति चर्त्वे) सुहृच्चलति / सुहृच्छलति ।\n3. [ द् + ज् / झ् ] (इति 2 योगौ) सुहृद् + (जलति / झर्झति) → सुहृज्जलति, सुहृज्झर्झति ।\n4. [ द् + ञ् ] (इति 1 योगः) सुहृद् + ञकारीयति → सुहृज् + ञकारीयति → (<<यरोऽनुनासिकेऽनुनासिको वा>> [[8.4.45]] इति पाक्षिके ञकारादेशे) सुहृज्ञकारीयति / सुहृञ्ञकारीयति । \n5. [न् + च् / छ् ] (इति 2 योगौ) अस्य उदाहरणानि न सन्ति, यतः पदान्तनकारस्य चकारे छकारे वा परे <<नश्छव्यप्रशान्>> [[8.3.7]] इति रुँत्वम् भवति । अपदान्त-नकारात् तु चकारछकारौ नैव सम्भवतः ।\n6. [ न् + ज् / झ् / ञ् ] (इति 3 योगाः) राजन् + जलसि / झर्झसि / ञकारीयसि → राजञ्जलसि / राजञ्झर्झसि / राजञ्ञकारीयसि ।\n7. [ चवर्ग + त् / थ् / द् / ध् ] (इति 20 योगाः) अत्र <<चोः कुः>> [[8.2.30]] इति झलि परे चवर्गस्य कुत्वं भवति, अतः अत्र श्चुत्वस्य उदाहरणानि न विद्यन्ते ।\n8. [ च् + न् ] (इति 1 योगः) \n\nयाच् + नङ् + टाप् [<<यजयाचयतविच्छप्रच्छरक्षो नङ्>> [[3.3.90]] इति नङ्-प्रत्ययः । स्त्रीत्वे <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्]\n→ याच् + ञ + आ\n→ याच्ञा\nअयं शब्दः अनवधानेन याञ्चा इति न लेखनीयः । याञ्चा इति शब्दः संस्कृते न विद्यते । \n\n9. [ ज् + न् ] (इति 1 योगः) \n\nयज् + नङ् [<<यजयाचयतविच्छप्रच्छरक्षो नङ्>> [[3.3.90]] इति नङ्-प्रत्ययः । स्त्रीत्वे <<अजाद्यतष्टाप्>> [[4.1.4]] इति टाप्]\n→ यज् + ञ\n→ यज्ञ\n\n10. [ छ् / झ् / ञ् + न् ] (इति 3 योगाः) अत्र पदान्तछकारझकारञकाराणाम् <<चोः कुः>> [[8.2.30]] इति कुत्वं प्रवर्तते, अतः तेषाम् विषये श्चुत्वस्य उदाहरणानि न सन्ति । अपदान्तछकारझकारञकारेभ्यः परस्य नकारस्य उदाहरणानि नैव दृश्यन्ते ।\n\nश्चुत्वनिषेधः\n<<शात्>> [[8.4.44]] इति सूत्रेण शकारात् परस्य तवर्गीयवर्णस्य श्चुत्वं निषिध्यते । अतएव प्रश् + न → प्रश्न इत्यत्र श्चुत्वं न भवति । \nपदान्तजश्त्वं प्रति श्चुत्वम् असिद्धम् \n<<झलां जशोऽन्ते>> [[8.2.39]] इत्यनेन उक्तस्य पदान्तजश्त्वस्य दृष्ट्या <<स्तोः श्चुना श्चुः>> [[8.4.40]] इति श्चुत्वम् असिद्धम् अस्ति । अतः पदान्तजश्त्वस्य सम्भवः अस्ति चेत् श्चुत्वं न करणीयम् । यथा - सत् + चित् → सच्चित् इत्यत्र प्रक्रिया इत्थं भवति —\n\nसत् + चित् \n→ सद् + चित् [पदान्ततकारस्य <<झलां जशोऽन्ते>> [[8.2.39]] इति दकारः । अत्र जश्त्वे कर्तव्ये श्चुत्वम् असिद्धम् अस्ति, अतः अत्र तकारस्य चकारः न भवति ।]\n→ सज् + चित् [<<स्तोः श्चुना श्चुः>> [[8.4.40]] इति दकारस्य श्चुत्वे जकारः]\n→ सच् + चित् [<<खरि च>> [[8.4.55]] इति जकारस्य चर्त्वे चकारः]\n\nपदान्तचुत्वं प्रति श्चुत्वम् असिद्धम् \n<<चोः कुः>> [[8.2.30]] इत्यनेन पदान्तचवर्गस्य कुत्वं भवति । एतस्य कुत्वस्य कृते श्चुत्वम् असिद्धं विद्यते । अतः कुत्वे कर्तव्ये श्चुत्वम् नैव करणीयम् —\n\nवाचः देवता [<<षष्ठी>> [[2.2.8]] इति षष्ठीतत्पुरुषः]\n→ वाच् + देवता [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुब्लुक् ]\n→ वाक् + देवता [<<चोः कुः>> [8.2.30]] इति कुत्वम्]\n\nश्चुत्वं धुटि सिद्धम् वक्तव्यम्\nप्रकृतसूत्रेण जायमान् श्चुत्वम् <<डः सि धुट्>> [[8.3.29]] इत्यस्य कृते सिद्धम् अस्ति । अड् श्च्योतति एतादृशेषु उदाहरणेषु अनिष्ट-धुडागमं निवारयितुम् इदम् आवश्यकम् वर्तते । अस्मिन् विषये <<न मु ने>> [[8.2.3]] इत्यस्य सूत्रार्थे तृतीये वार्त्तिके विस्तरेण निर्दिष्टम् अस्ति, तत् तत्रैव द्रष्टव्यम् ।" }, "84041": { "sa": "सकारतवर्गयोः षकारटवर्गाभ्यां योगे संहितायाम् षकारटवर्गौ स्तः ।", "sd": "हल्-सन्धिषु अन्यतमः ष्टुत्वम् इत्याख्यः सन्धिः प्रकृतसूत्रेण पाठ्यते । षकारस्य टवर्गीयवर्णस्य वा योगे (इत्युक्ते तस्मात् अव्यवहितरूपेण पूर्वः परः वा) सकारः उत तवर्गीयवर्णः विद्यते चेत्, सकारस्य षकारादेशः, तवर्गीयवर्णस्य च (यथासङ्ख्यम्) टवर्गीयवर्णादेशः भवति — इति अस्य सूत्रस्य आशयः । क्रमेण उदाहरणानि एतानि —\n1. सकार-षकारयोगे सकारस्य षकारादेशः\n\n1. [ स् + ष् ] ⇒ राम + सुँ + षष्ठः → रामस् षष्ठः → रामष्षष्ठः ।\n2. [ ष् + स् ] ⇒ अस्य उदाहरणानि न सन्ति, यतः पदान्तषकारस्य <<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वे डकारः विधीयते; तथा च अपदान्तषकारस्य <<षढोः कः सि>> [[8.2.41]] इत्यनेन सकारे परे ककारादेशः भवति । \n\n2. सकार-टवर्गयोगे सकारस्य षकारादेशः\n\n1. [ स् + ट् ] ⇒ राम + सुँ टीकते → रामस् टीकते → रामष्टीकते ।\n2. [ स् + ठ् ] ⇒ राम + सुँ ठकारीयति → रामस् ठकारीयति → रामष्ठकारीयति ।\n3. [ स् + ड् / ढ् / ण्] ⇒ अस्य उदाहरणानि न सन्ति, यतः डकारे/ढकारे/णकारे परे <<ससजुषो रुः>> [[8.2.66]] इति रुत्वं विधीयते । अपदान्तसकारात् अनन्तरम् डकारः/ढकारः/णकारः न कुत्रचित् दृश्यते ।\n6. [ टवर्ग + स् ] ⇒ पदान्तटवर्गीयवर्णात् परस्य सकारस्य <<न पदान्ताट्टोरनाम्>> [[8.4.42]] इत्यनेन ष्टुत्वनिषेधः क्रियते । अपदान्तटवर्गीयवर्णात् परस्य सकारस्य उदाहरणानि न सन्ति । \n\n3. तवर्ग-षकारयोगे तवर्गस्य टवर्गादेशः\n\n1. [ तवर्ग + ष् ] ⇒ अस्य उदाहरणानि न सन्ति, यतः पदान्ततवर्गस्य अपदान्ततवर्गस्य च षकारे परे <<तोः षिः>> [[8.4.43]] इत्यनेन ष्टुत्वं निषिध्यते । \n2. [ ष् + त् ] ⇒ रुधादिगणस्य पिषॢँ-धातोः तकारादौ प्रत्यये परे प्रकृतसूत्रेण ष्टुत्वं भवति । यथा, पिष् + क्त → पिष्ट । \n3. [ ष् + थ् ] ⇒ अदादिगणस्य द्विष्-धातोः लट्लकारस्य मध्यमपुरुषबहुवचनस्य थ-प्रत्यये परे प्रकृतसूत्रेण ष्टुत्वं भवति । द्विष् + थ → द्विष्ठ । \n4. [ ष् + द् ] ⇒ अस्य उदाहरणानि न सन्ति, यतः पदान्त-षकारस्य <<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वे डकारः भवति । अपदान्तषकारात् परः दकारः नैव कुत्रचित् दृश्यते । \n5. [ ष् + ध् ] ⇒ अदादिगणस्य द्विष्-धातोः लोट्लकारस्य मध्यमपुरुषबहुवचनस्य ध्वम्-प्रत्यये परे प्रकृतसूत्रेण ष्टुत्वं भवति । द्विष् + ध्वम् → द्विष्ढ्वम् → (<<झलां जश् झशि>> [[8.4.53]] इति जश्त्वे) द्विड्ढ्वम् । \n6. [ ष् + न् ] ⇒ अस्य उदाहरणानि न सन्ति, यतः षकारे परे नकारस्य <<रषाभ्यां नो णः समानपदे>> [[8.4.1]] इति णत्वं विधीयते । \n\n4. तवर्ग-टवर्गयोगे तवर्गस्य टवर्गादेशः\nअत्र आहत्य 5 ✕ 5 ✕ 2 = 50 योगाः (combinations) सन्ति, परन्तु तेषु केवलम् केषाञ्चन विषये एव ष्टुत्वस्य उदाहरणानि दृश्यन्ते —\n\n1. [ त् / थ् / ध् + टवर्ग ] (इति 15 योगाः) अत्र पदान्ततकारथकारधकाराणाम् जश्त्वे कृते दकारः भवति, अतः तत्र ष्टुत्वं नैव सम्भवति । अपदान्ततकारथकारधकाराणाम् उदाहरणानि न दृश्यते । \n2. [ द् + ट् / ठ् ] (इति 2 योगौ) सुहृद् + (टीकते / ठकारीयति) → सुहृड् + (टीकते / ठकारीयति) → (<<खरि च>> [[8.4.55]] इति चर्त्वे) सुहृट्टीकते / सुहृट्ठकारीयति ।\n3. [ द् + ड् / ढ् ] (इति 2 योगौ) सुहृद् + (डयसे / ढौकसे) → सुृहृड्डयसे, सुहृड्ढौकसे । \n4. [ द् + ण् ] (इति 1 योगः) सुहृद् + णकारीयति → सुहृड् + णकारीयति → (<<यरोऽनुनासिकेऽनुनासिको वा>> [[8.4.45]] इति पाक्षिके ञकारादेशे) सुहृड्णकारीयति / सुहृण्णकारीयति । \n5. [ न् + ट् / ठ् ] (इति 2 योगौ) अस्य उदाहरणानि न सन्ति, यतः पदान्तनकारस्य टकारे ठकारे वा परे <<नश्छव्यप्रशान्>> [[8.3.7]] इति रुँत्वम् भवति । अपदान्त-नकारात् तु अस्य टकारठकारौ नैव सम्भवतः ।\n6. [ न् + ड् / ढ् / ण् ] (इति 3 योगाः) राजन् + डयसे / ढौकसे / णकारीयसि → राजण्डयसे / राजण्ढौकसे / राजण्णकारीयसि ।\n7. [ ट / ठ् / ढ् / ण् + त् / थ् / द् / ध् / न् ] (इति 20 योगाः) अत्र पदान्तटकारठकारढकारणकारे परे <<न पदान्ताट्टोरनाम्>> [[8.4.42]] इति ष्टुत्वम् निषिध्यते । अपदान्तटकारठकारढकारणकारेभ्यः परस्य तवर्गस्य ष्टुत्वस्य उदाहरणानि न सन्ति ।\n8. [ ड् + त् ] (इति 1 योगः) अदादिगणस्य ईड्-धातोः लट्लकारस्य प्रथमपुरुषैकवचनस्य ते-प्रत्यये परे प्रकृतसूत्रेण ष्टुत्वं भवति । ईड् + ते → ईड् + टे → (<<खरि च>> [[8.4.55]] इति चर्त्वे) ईट्टे ।\n9. [ ड् + थ् ] (इति 1 योगः) अत्र पदान्तडकारे परे <<न पदान्ताट्टोरनाम्>> [[8.4.42]] इति ष्टुत्वम् निषिध्यते । अपदान्तडकारात् परस्य थकारस्य ष्टुत्वस्य उदाहरणानि न सन्ति ।\n10. [ ड् + द् ] (इति 1 योगः) अत्र पदान्तडकारे परे <<न पदान्ताट्टोरनाम्>> [[8.4.42]] इति ष्टुत्वम् निषिध्यते । अपदान्तडकारात् परस्य दकारस्य ष्टुत्वस्य उदाहरणानि न सन्ति ।\n11. [ ड् + ध् ] (इति 1 योगः) अदादिगणस्य ईड्-धातोः लङ्लकारस्य मध्यमपुरुषबहुवचनस्य प्रक्रियायाम् प्रकृतसूत्रेण ष्टुत्वं कृत्वा रुपसिद्धिः भवति —\n\nईडँ (स्तुतौ, अदादिः, <{2.9}>)\n→ ईड् + लङ् [<<अनद्यतने लङ्>> [[3.2.111]]\n→ आट् + ईड् + लङ् [<<आडजादीनाम्>> [[6.4.72]] इति आडागमः]\n→ आ + ईड् + ध्वम् [<<तिप्तस्झि...>> [[3.4.78]] इति आत्मेनपदस्य मध्यमपुरुषबहुवचनस्य ध्वम्-प्रत्ययः]\n→ ऐड् + ध्वम् [<<आटश्च>> [[6.1.90]] इति वृद्ध्येकादेशः]\n→ ऐड्ढ्वम् [<<ष्टुना ष्टुः>> [[8.4.41]] इति ष्टुत्वम्]\n\n12. [ ड् + न् ] (इति 1 योगः) षण्णवति इति शब्दस्य सिद्धौ प्रकृतसूत्रस्य प्रयोगः भवति —\n\n षष् + नवतिः\n→ षड् + नवतिः [<<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वम्]\n→ षड् + णवतिः [<<ष्टुना ष्टुः>> [[8.4.41]] इति ष्टुत्वे प्राप्ते; <<न पदान्ताट्टोरनाम्>> [[8.4.42]] इति तस्य निषेधे प्राप्ते; इति वार्त्तिकेन निषेधः एव निषिध्यते, अतः <<ष्टुना ष्टुः>> [[8.4.41]] इति ष्टुत्वं भवति ।]\n→ षड्णवतिः, षण्णवतिः [<<यरोऽनुनासिकेऽनुनासिको वा>> [[8.4.45]] इति विकल्पेन अनुनासिकादेशः]\n\n\nष्टुत्वनिषेधः\nष्टुत्वप्रकरणे विद्यमाने द्वे सूत्रे विशिष्टासु स्थितिषु ष्टुत्वस्य निषेधं कुरुतः —\n\n1. <<न पदान्ताट्टोरनाम्>> [[8.4.42]] — पदान्तटवर्गीयवर्णात् परस्य तवर्गीयवर्णस्य षकारस्य च ष्टुत्वं न भवति । \n2. <<तोः षिः>> [[8.4.43]] — तकारस्य षकारे परे ष्टुत्वं न भवति ।\n\nएतयोः उदाहरणानि तत्तत्स्थले एव द्रष्टव्यानि । " }, "84042": { "sa": "पदान्तटवर्गात् परस्य सकारतवर्गयोः ष्टुत्वं न भवति ; परन्तु षष्ठीबहुवचनस्य 'नाम्' प्रत्यये परे ष्टुत्वम् अवश्यं भवति ।", "sd": "<<ष्टुना ष्टुः>> [[8.4.40]] इत्यनेन सूत्रेण निर्दिष्टम् ष्टुत्वम् प्रकृतसूत्रेण विशिष्टासु स्थितिषु निषिध्यते । पदान्तटवर्गीयवर्णात् परस्य सकारस्य, तवर्गीयवर्णस्य च ष्टुत्वं न भवति— इति अस्य सूत्रस्य आशयः । वस्तुतस्तु पदान्तटकारठकारढकाराणाम् आदौ जश्त्वे डकारः एव भवति, अतः अत्र केवलम् पदान्तडकारस्य, पदान्तणकारस्य च उदाहरणानि विद्यन्ते । यथा —\n1. पदान्तडकारात् परस्य सकारस्य / तवर्गस्य ष्टुत्वनिषेधः —\n\nषष् + सन्ति / तरन्ति / थकारीयन्ति / ददति / धावन्ति / नयन्ति\n→ षड् + सन्ति / तरन्ति / थकारीयन्ति / ददति / धावन्ति / नयन्ति [<<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वम् । अत्र जश्त्वे कृते <<ष्टुना ष्टुः>> [[8.4.41]] इति ष्टुत्वे प्राप्ते <<न पदान्ताट्टोरनाम्>> [[8.4.42]] इति तत् निषिध्यते ।]\n→ षट्सन्ति / षट्तरन्ति / षट्थकारीयन्ति / षड्ददति / षड्धावन्ति / षण्णयन्ति [आदिस्थेषु त्रिषु उदाहरणेषु <<खरि च>> [[8.4.55]] इति चर्त्वम् भवति । अन्तिमे उदाहरणे <<रषाभ्यां नो णः समानपदे>> [[8.4.1]] इति नकारस्य णत्वम्, ततः <<यरोऽनुनासिकेऽनुनासिको वा>> [[8.4.45]] इति डकारस्य पाक्षिकं णत्वम्]\n\n2. पदान्तणकारात् परस्य सकारस्य / तवर्गस्य ष्टुत्वनिषेधः —\n\nसुगण् + सहते / तरति / थकारीयति / ददाति / धावति / नयति\n→ सुगण्सहते, सुगण्तरति, सुगण्थकारीयति, सुगण्ददाति, सुगण्धावति, सुगण्नयति । \n\nपरन्तु षष्ठीबहुवचनस्य नाम्-प्रत्यये परे ष्टुत्वम् अवश्यं भवति । अतएव प्रकृतसूत्रे अनाम् इति निर्देशः क्रियते ।\n\nषष् + आम् [षष्ठीबहुवचनस्य प्रत्ययः]\n→ षष् + नुट् + आम् [<<षट्चतुर्भ्यश्च>> [[7.1.55]] इत्यनेन नुडागमः]\n→ षड् + नाम् [<<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वम् ]\n→ षड् + णाम् [<<ष्टुना ष्टुः>> [[8.4.41]] इति ष्टुत्वम् ।]\n→ षण् + णाम् [<<यरोऽनुनासिकेऽनुनासिको वा>> [[8.4.45]] इति डकारस्य विकल्पेन अनुनासिके णकारे प्राप्ते अनेन वार्त्तिकेन नित्यम् णकारादेशः]\n→ षण्णाम्\n\nवार्त्तिकम् - <!अनाम्-नवति-नगरीणाम् इति वाच्यम् !> \nप्रकृतसूत्रे विद्यमानः 'अनाम्' इति निर्देशः नगरी-नवति-शब्दयोः विषये अपि ज्ञेयः — इति अस्य वार्त्तिकस्य आशयः । इत्युक्ते, पदान्तटवर्गात् परस्य नवतिशब्दस्य नगरीशब्दस्य च नकारस्य ष्टुत्वम् अवश्यम् एव भवति । यथा —\n\nषड् + नगर्यः / नवतिः \n→ षड् + णगर्यः / नवतिः [<<ष्टुना ष्टुः>> [[8.4.40]]] इति ष्टुत्वम् । <<न पदान्ताट्टोरनाम्>> [[8.4.42]] इत्यनेन उक्तः निषेधः इति वार्तिकेन न प्रवर्तते । ]\n→ षण्णगर्यः, षड्णगर्यः / षण्णवतिः, षड्णवतिः [<<यरोऽनुनासिकेऽनुनासिको वा>> [[8.4.45]] इति डकारस्य वैकल्पिकः णकारः]\n" }, "84043": { "sa": "तवर्गस्य षकारे परे ष्टुत्वं न भवति । ", "sd": "तवर्गीयवर्णात् परः संहितायाम् षकारः विधीयते चेत् <<ष्टुना ष्टुः>> [[8.4.41]] इत्यनेन प्राप्तम् षत्वम् निषिध्यते ।\nअपदान्ततवर्गीयवर्णात् परस्य षकारस्य उदाहरणानि नैव सन्ति । पदान्त-तकारथकारधकाराणाम् तु आदौ जश्त्वे दकारादेशः भवति । अतः अत्र केवलम् पदान्तदकारस्य पदान्तनकारस्य च उदाहरणानि सन्ति । यथा —\n\n1. पदान्तदकारस्य षकारे परे ष्टुत्वनिषेधः — सुहृद् + षष्ठः → (<<खरि च>> [[8.4.55]] इति चर्त्वे) सुहृत्षष्ठः ।\n2. पदान्तनकारस्य षकारे परे ष्टुत्वनिषेधः — सन् + षष्ठः → सन्षष्ठः\n" }, "84044": { "sa": "शकारात् परस्य तवर्गीयवर्णस्य श्चुत्वम् न भवति । ", "sd": "शकारात् परः विद्यमानस्य तवर्गीयवर्णस्य <<स्तोः श्चुना श्चुः>> [[8.4.41]] इत्यनेन प्राप्तम् श्चुत्वम् न भवति — इति प्रकृतसूत्रस्य आशयः । \nवस्तुतस्तु पदान्तशकारस्य <<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> [[8.2.36]] इति षत्वं भवति । अपदान्तशकारस्य अपि झलि परे (अतः तकारथकारदकारधकारेषु परेषु) <<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> [[8.2.36]] इत्यनेनैव षत्वम् एव विधीयते । अतः अत्र केवलम् अपदान्तशकारस्य नकारे परे ष्टुत्वनिषेधस्य उदाहरणानि विद्यन्ते । यथा —\n1. (प्रछँ (ज्ञीप्सायाम्) धातोः प्रश्न इति रूपस्य सिद्धौ प्रकृतसूत्रेण श्चुत्वस्य निषेधः भवति —\n\nप्रछँ (ज्ञीप्सायाम्, तुदादिः <{6.0149}>)\n→ प्रछ् + नङ् [<<यजयाचयतविच्छप्रच्छरक्षो नङ्>> [[3.3.90]] इति नङ्-प्रत्ययः]\n→ प्र तुक् छ् + नङ् [<<छे च>> [[6.1.73]] इति तुगागमः]\n→ प्र श् + न [<<च्छ्वोः शूडनुनासिके च>> [[6.4.19]] इति त्छ्-इत्यस्य नकारादेशः]\n→ प्रश्न [<<श्चुना श्चुः>> [[8.4.40]] इति श्चुत्वे प्राप्ते <<शात्>> [[8.4.44]] इति निषेधः ]\nएवमेव 'विच्छ् + नङ् = विश्न' इत्यपि रूपं सिद्ध्यति ।\n\n2. अश् (भोजने) धातोः श्ना-विकरणप्रत्यये परे प्रकृतसूत्रेण श्चुत्वस्य निषेधः भवति —\n\nअश् (भोजने, क्र्यादिः, <{9.59}>)\n→ अश् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ अश् + तिप् [<<तिप्तस्झि..>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]\n→ अश् + श्ना + ति [<<क्र्यादिभ्यः श्ना>> [[3.1.81]] इति श्नाप्रत्ययः]\n→ अश्नाति [<<स्तोः श्चुना श्चुः>> [[8.4.40]] इत्यनेेन शकारात् परस्य नकारस्य श्चुत्वे प्राप्ते <<शात्>> [[8.4.44]] इति तत् निषिध्यते ।]\n\n" }, "84045": { "sa": "पदान्ते विद्यमानस्य यर्-वर्णस्य अनुनासिके परे विकल्पेन अनुनासिकादेशः भवति । ", "sd": "यर् = हकारं विहाय सर्वाणि व्यञ्जनानि ।\nपदान्ते विद्यमानस्य यर्-वर्णस्य अनुनासिके परे विकल्पेन अनुनासिकादेशः विधीयते । तत्र वर्गीयव्यञ्जनानाम् तत्तद्वर्गस्य पञ्चमम् व्यञ्जनम्, तथा च यकार-वकार-लकाराणाम् यथासङ्ख्यम् यँकार-वँकार-लँकाराः आदेशरूपेण जायन्ते । \nयद्यपि अस्मिन् सूत्रे यरः इति निर्देशः विद्यते, तथापि अस्य सूत्रस्य प्रयोगः केवलम् वर्गतृतीयवर्णानां विषये एव भवति । सर्वाणि उदाहरणानि क्रमेण एतादृशानि —\n1. पदान्त-कवर्गीयवर्णस्य (गकारस्य) अनुनासिके ङकारादेशः — ।\n\nवाचः मुखम् [<<षष्ठी>> [[2.2.8]] इति षष्ठीतत्पुरुषः]\n→ वाच् मुख [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुँलोपः]\n→ वाक् मुख [<<चोः कुः>> [[8.2.30]] इति कुत्वम्]\n→ वाग् मुख [<<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वे गकारः]\n→ वाङ् मुख [<<यरोऽनुनासिकेऽनुनासिको वा>> [[8.4.45]] इति विकल्पेन अनुनासिकादेशः । गकारस्य सवर्णः ङकारः आदेशरूपेण विधीयते ।।\n→ वाङ्मुख ।\n
    \nपक्षे अनुनासिकादेशं विना वाग्मुख इत्यपि सम्भवति ।\n
    \n2. पदान्त-चवर्गीयवर्णस्य (जकारस्य) अनुनासिके परे ञकारादेशः — \n\nमरुत् ञकारीयति \n→ मरुद् ञकारीयति [<<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वम्]\n→ मरुज् ञकारीयति [<<स्तोः श्चुना श्चुः>> [[8.4.40]] इति श्चुत्वम्]\n→ मरुञ् ञकारीयति [<<यरोऽनुनासिकेऽनुनासिको वा>> [[8.4.45]] इति विकल्पेन अनुनासिकादेशः ।जकारस्य सवर्णः ञकारः आदेशरूपेण विधीयते ।।\n→‌ मरुञ्ञकारीयति\n\n3. पदान्त-टवर्गीयवर्णस्य (डकारस्य) अनुनासिके परे णकारादेशः —\n\nषट् मुखानि अस्य सः [<<अनेकमन्यपदार्थे>> [[2.2.24]] इति बहुव्रीहिः]\nषष् + मुख [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुँलोपः]\n→ षड् + मुख [<<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वे डकारः]\n→ षण् + मुख [<<यरोऽनुनासिकेऽनुनासिको वा>> [[8.4.45]] इति विकल्पेन अनुनासिकादेशः । डकारस्य सवर्णः णकारः आदेशरूपेण विधीयते ।।\n→ षण्मुख\n\n4. पदान्त-तवर्गीयवर्णस्य (दकारस्य) अनुनासिके परे नकारादेशः —\n\n→ सुहृद् मम [<<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वे दकारः]\n→ सुहृन्मम [<<यरोऽनुनासिकेऽनुनासिको वा>> [[8.4.45]] इति विकल्पेन अनुनासिकादेशः । दकारस्य सवर्णः नकारः आदेशरूपेण विधीयते ।]\n\n5. पदान्त-पवर्गीयवर्णस्य (बकारस्य) अनुनासिके परे मकारादेशः —\n\nत्रिष्टुब् नमति\n→ त्रिष्टुम्नमति [<<यरोऽनुनासिकेऽनुनासिको वा>> [[8.4.45]] इति विकल्पेन अनुनासिकादेशः । बकारस्य सवर्णः मकारः आदेशरूपेण विधीयते ।]\n\n6. पदान्ते विद्यमानानाम् यकार-वकार-लकाराणाम् अनुनासिके परे यँ-वँ-लँकारादेशाः\nवस्तुतस्तु प्रयोगेषु पदान्ते यकारवकारलकाराः नैव दृश्यन्ते । तादृशाः भवन्ति चेदपि <<लोपो व्योर्वलि>> [[6.1.66]] इत्यनेन यकारस्य, वकारस्य च लोपः भवति, अतः प्रकृतसूत्रेण तस्य अनुनासिकादेशः नैव सम्भवति । पदान्तलकारस्य विषये यद्यपि प्रयोगस्थानि उदाहरणानि न वर्तन्ते, तथापि धातुभ्यः क्विप्-प्रत्यये कृते उदाहरणम् अवश्यं सम्भवति —\n\nचलति सः \n= चल् + क्विप् [<<अन्येभ्योऽपि दृश्यते>> [[3.2.178]] इति क्विप्]\n→ चल् + ० [पकारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा, ककारस्य <<लशक्वतद्धिते>> [[1.3.8]] इति इत्संज्ञा, उभयोः <<तस्य लोपः>> [[1.3.9]] इति लोपः । इकारः उच्चारणार्थः, सोऽपि लुप्यते । अवशिष्टवकारस्य <<वेरपृक्तस्य>> [[6.1.67]] इतो लोपः । ]\n→ चल्\n→ चल् नमति \n→ चल्ँनमति, चल्नमति [<<यरोऽनुनासिकेऽनुनासिको वा>> [[8.4.45]] इति लकारस्य विकल्पेन अनुनासिकादेशः]\n\nसूत्रस्य प्रयोगस्य अवकाशः\nयद्यपि अस्मिन् सूत्रे यरः इति निर्देशः विद्यते, तथापि अस्य सूत्रस्य प्रयोगः केवलम् वर्गतृतीयवर्णानां विषये, लकालस्य च विषये एव भवति । तदित्थम् — \n\n1. पदान्ते विद्यमानानाम् वर्गप्रथम-द्वितीय-तृतीय-चतुर्थवर्णानाम् <<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वे वर्गतृतीयवर्णादेशः भवति । अतः वर्गप्रथम-द्वितीय-चतुर्थाः पदान्ते नैव सम्भवति । \n2. पदान्ते विद्यमानस्य शकारस्य <<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> [[8.2.36]] इति षत्वे ततः <<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वे डकारः विधीयते । अतः पदान्ते शकारः न सम्भवति । \n3. पदान्ते विद्यमानस्य षकारस्य <<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वे डकारः विधीयते । अतः पदान्ते षकारः न सम्भवति ।\n4. पदान्ते विद्यमानस्य सकारस्य <<ससजुषो रुः>> [[8.2.66]] इति रुत्वं भवति । अतः पदान्ते सकारः नैव सम्भवति ।\n5. पदान्ते विद्यमानस्य रेफस्य सवर्ण-अनुनासिकाभावात् अनुनासिकादेशः नैव सम्भवति ।\n6. पदान्ते विद्यमानयोः यकारवकारयोः अनुनासिके वर्णे परे <<लोपो व्योर्वलि>> [[6.1.66]] इति लोपः भवति ।\n\nअतः अस्य सूत्रस्य प्रयोगः पदान्ते विद्यमानानां वर्गतृतीयवर्णानाम् विषये, लकारस्य च विषये एव सम्भवति ।\nवार्त्तिकम् — <!यरोऽनुनासिके प्रत्यये भाषायां नित्यवचनं कर्तव्यम्!>\nलौकिकसंस्कृते यर्-वर्णात् अनुनासिकादौ प्रत्यये परे यर्-वर्णस्य नित्यम् एव अनुनासिकादेशः भवति (न हि विकल्पेन) - इति अस्य वार्त्तिकस्य आशयः । कानिचन उदाहरणानि एतानि —\n\n1. तत् प्रमाणं यस्य अस्मिन् अर्थे <<प्रमाणे द्वयसज्दघ्नञ्मात्रचः>> [[5.2.37]] अनेन सूत्रेण तद्-शब्दात् मात्रच्-प्रत्ययः विधीयते । अस्मिन् प्रत्यये परे अनेन वार्तिकेन अनुनासिकादेशः नित्यम् भवति । यथा - तद् + मात्रच् → तन्मात्र ।\n2. <<नित्यं वृद्धशरादिभ्यः>> [[4.3.144]] इति सूत्रेण विहिते मयट्-प्रत्यये परे पदान्त-यर्-वर्णस्य अनुनासिकादेशः नित्यं भवति । यथा - चिद् + मय = चिन्मय । वाग् + मय = वाङ्मय ।\n3. षष्-शब्दस्य षष्ठीबहुवचनस्य नाम्-प्रत्यये परे प्रकृतसूत्रेण नित्यम् अनुनासिकादेशः भवति । प्रक्रिया इयम् —\n\nषष् + आम् [<<स्वौजस्..>> [[4.1.2]] इति षष्ठीबहुवचनस्य आम्-प्रत्ययः]\n→ षष् + नुड् आम् [<<षट्चतुर्भ्यश्च>> [[7.1.55]] इति नुडागमः]\n→ षष् नाम् [डकारस्य इत्संज्ञा, लोपः । नकारोत्तरः उकारः उच्चारणार्थः । सोऽपि लुप्यते ।]\n→ षड् नाम् [<<झलां जशोऽन्ते>> [[8.2.39]] इति पदान्तजश्त्वे षकारस्य डकारः]\n→ षड् णाम् [<<ष्टुन ष्टुः>> [[8.4.41]] इति ष्टुत्वे णकारः]\n→ षण्णाम् [ इति वार्त्तिकेन नित्यम् अनुनासिकादेशः]\n\n\nदलकृत्यम्\n1. पदान्तस्य इति किमर्थम् ? अपदान्तस्य यर्-वर्णस्य अनुनासिके परे प्रकृतसूत्रेण अनुनासिकादेशः न भवति । यथा, विद्-धातोः मिप्-प्रत्यये परे वेद्मि इति रूपम् सिद्ध्यति । अत्र अपदान्त-दकारस्य मकारे परे अनुनासिकादेशः न भवति । एवमेव, मरुत् + मत् इत्यत्र मरुत्-शब्दस्य पदसंज्ञां बाधित्वा <<तसौ मत्वर्थे>> [[1.4.19]] इत्यनेन भसंज्ञा भवति, अतः अत्रापि प्रकृतसूत्रेण अनुनासिकादेशः अनुनासिकादेशः न विधीयते । \n2. यरः इति किमर्थम्? स्वराणां विषये प्रकृतसूत्रं नैव प्रवर्तते । यथा, पश्य माम् इत्यत्र यकारोत्तस्य अकारस्य अनुनासिके परे अनुनासिकादेशः न भवति । पदान्तहकारस्य तु <<हो ढः>> [[8.2.31]] इत्यनेन ढत्वं भवति, अतः पदान्ते हकारः नैव सम्भवति ।\nयवादिगणस्य शब्देभ्यः मतुप्-प्रत्यये कृते इदं सूत्रं न प्रवर्तते\nयवादिगणः नाम कश्चन गणः <<मादुपधायाश्च मतोर्वोऽयवादिभ्यः>> [[8.2.9]] अस्मिन् सूत्रे निर्दिष्टः अस्ति । अस्मिन् गणे विद्यमानेभ्यः यर्-वर्णान्तशब्देभ्यः यदा मतुप्-प्रत्ययः विधीयते, तदा तत्र प्रकृतसूत्रेण (वार्त्तिकेन) वा अनुनासिकादेशः न भवति — \n\n1. हरित् + मतुप् → हरित्मत् । मरुत् + मतुप् → मरुत्मत् । गरुत् + मतुप् → गरुत्मत् । अत्र हरित्/मरुत्/गरुत्-शब्दानाम् <<तसौ मत्वर्थै>> [[1.4.19]] इत्यनेन भसंज्ञा भवति । पदसंज्ञायाः अभावात् अत्र प्रकृतसूत्रस्य प्रसक्तिः एव नास्ति । \n2. ककुद् + मतुप् → ककुद्मत् । अत्र यवादिगणे 'ककुद्' शब्दस्य विधानसामर्थ्यात् दकारस्य प्रकृतसूत्रेण अनुनासिकादेशः न भवति इति कौमुद्याम् दीक्षितः स्पष्टीकरोति । प्रौढमनोरमायाम् तु <<तसौ मत्वर्थे>> [[1.4.19]] इति दकारप्रश्लेषं कृत्वा (इत्युक्ते, <<द्तसौ मत्वर्थे>> इति सूत्रं कृत्वा) ककुद् + मतुप् इत्यत्र ककुद्-शब्दस्य भसंज्ञां कृत्वा अपि अनुनासिकत्वं निवारितम् अस्ति ।\n\n" }, "84046": { "sa": "अचः परस्य यौ रेफहकारौ, ताभ्याम् परस्य यरः द्वे वा स्तः । ", "sd": "यर् = हकारं विहाय सर्वाणि व्यञ्जनानि ।\nअच्-वर्णात् परः यः रेफः / हकारः, तस्मात् परस्य यर्-वर्णस्य विकल्पेन द्वित्वं भवति । यथा —\n\n1. ब्रह्मा → ब्रह्म्मा, ब्रह्मा । अकारात् परः यः हकारः, तस्मात् परस्य मकारस्य विकल्पेन द्वित्वम् ।\n2. ईर्ष्या → ईर्ष्ष्या, ईर्ष्या । ईकारात् परः रेफः, तस्मात् परस्य षकारस्य विकल्पेन द्वित्वम् ।\n\nयद्यपि यर्-प्रत्याहारे रेफः अपि समाविष्टः अस्ति, तथापि प्रकृतसूत्रे रेफस्य निमित्तरूपेण पृथक्-ग्रहणे कृते, यर्-प्रत्याहास्थस्य रेफस्य विषये इदं सूत्रं न हि प्रवर्तते । । इत्युक्ते, रेफात् हकारात् वा परस्य रेफस्य प्रकृतसूत्रेण द्वित्वं नैव सम्भवति । यथा, पुनर् रमते इत्यत्र रेफात् परस्य रेफस्य द्वित्वं न विधीयते ।\nद्वित्वम् इत्युक्ते एकस्य वर्णस्य स्थाने तस्यैव द्विवारम् उच्चारणम् । एतादृशे द्वित्वे कृते तत्र मूलवर्णः कः / नूतनवर्णः कः — एतादृशम् नैव प्रष्टुं शक्यते । द्वित्व is a process where one letter is replaced by its two copies. Both the occurrences are considered identical in all respects, and it is not possible to treat one of these two as 'original' and other as a 'copy'.\nबाध्यबाधकभावः\nयदि शर्-वर्णात् अनन्तरम् स्वरः विद्यते, तर्हि प्रकृतसूत्रेण शर्-वर्णस्य प्राप्तं द्वित्वं <<शरोऽचि च>> [[8.4.49]] इत्यनेन निषिध्यते । यथा, चतुर्षु इत्यत्र रेफात् परस्य षकारस्य <<अचो रहाभ्यां द्वे>> [[8.4.46]] इत्यनेन द्वित्वं नैव भवति, यतः अत्र षकारात् परः स्वरः वर्तते । एवमेव दर्शनम् इत्यत्रापि रेफात् परस्य शकारस्य द्वित्वं नैव भवति ।\nदलकृत्यम्\n1. यरः इति किमर्थम् ? हकारस्य अनेन सूत्रेण द्वित्वं न भवति । यथा, अर्हति इत्यत्र विद्यमानस्य हकारस्य द्वित्वं न सम्भवति ।\n2. अचः इति किमर्थम् ?हल्-वर्णात् परौ यौ रेफहकारौ, ताभ्याम् परस्य यर्-वर्णस्य अनेन सूत्रेण द्वित्वं न सम्भवति । यथा, त्र्यम्बक-इति शब्दे तकारात् परः यः रेफः, तस्मात् परस्य यकारस्य द्वित्वं न भवति । \n3. रहाभ्याम् इति किमर्थम् ? अन्येभ्यः वर्णेभ्यः परस्य यर्-वर्णस्य प्रकृतसूत्रेण द्वित्वं न भवति । यथा, संस्कृतम् इति शब्दे सकारात् परस्य ककारस्य द्वित्वं न भवति । \nलक्ष्ये लक्षणम् सकृदेव प्रवर्तते \nब्रह्मा-इति शब्दे प्रकृतसूत्रेण द्वित्वे कृते ब्रह्म्मा इति सिद्धे, ततः पुनः हकारात् परस्य मकारस्य प्रकृतसूत्रेण द्वित्वं क्रियते चेत्, पुनः पुनः द्वित्वम् एव भवेत् इति दोषः उद्भवति । अस्य परिहारार्थम् <ऽलक्ष्ये लक्षणम् सकृदेव प्रवर्ततेऽ> अस्याः परिभाषायाः प्रयोगः क्रियते । लक्ष्यम् इत्युक्ते सूत्रप्रयोगस्य स्थानम् । लक्षणम् इत्युक्ते सूत्रम् । सकृतम् इत्युक्ते एकवारम् । अतः अनया परिभाषया एतत् ज्ञायते, यत् एकस्मिन् स्थले कस्यचन सूत्रस्य एकवारमेव प्रयोगः भवितुम् अर्हति । अतः <<अचो रहाभ्यां द्वे>> [[8.4.46]] इत्यनेन एकवारं द्वित्वं क्रियते चेत् तस्मिन् एव स्थाने अनेन सूत्रेण पुनः द्वित्वं न भवति । अपरस्मिन् स्थाने तु अवश्यं भवितुम् अर्हति । अतएव ब्रह्मार्पणम् इति शब्दे हकारात् परस्य मकारस्य प्रकृतसूत्रेण द्वित्वे कृते, पुनः रेफात् परस्य पकारस्य द्वित्वार्थम् प्रकृतसूत्रस्य प्रयोगः अवश्यम् सम्भवति ।" }, "84047": { "sa": "अच्-वर्णात् परः यः यर्-वर्णः, तस्मात् अनन्तरम् अच्-वर्णः नास्ति चेत् तस्य यर्-वर्णस्य विकल्पेन द्वित्वं भवति । ", "sd": "यर् = हकारं विहाय सर्वाणि व्यञ्जनानि ।\nस्वरात् परस्य यर्-वर्णस्य विकल्पेन द्वित्वं भवति, परन्तु अग्रे पुनः स्वरः अस्ति चेत् न भवति — इति प्रकृतसूत्रस्य आशयः । यथा —\n\n1) कृष्णः → कृष्ष्णः, कृष्णः । इत्यत्र ऋकारात् परः यर्-वर्णः षकारः अस्ति । तस्मात् परः स्वरः नास्ति, अतः षकारस्य प्रकृतसूत्रेण वैकल्पिकं द्वित्वं विधीयते ।\n2) मत्यत्र → मत्त्यत्र, मत्यत्र । अकारात् परः तकारः, तस्मात् परः च अच्-वर्णः नास्ति । अतः तकारस्य प्रकृतसूत्रेण वैकल्पिकं द्वित्वं विधीयते ।\n3) कृष्णस्य → कृष्ष्णस्स्य, कृष्ष्णस्य, कृष्णस्स्य, कृष्णस्य । अत्र षकारस्य तथा सकारस्य - उभयोः विकल्पेन द्वित्वं सम्भवति, अतः आहत्य चत्वारि रूपाणि सिद्ध्यन्ति ।\n3) रामात् → रामात्त्, रामात् । आकारात् परः तकारः, तस्मात् परः अच्-वर्णः नास्ति । अतः तकारस्य प्रकृतसूत्रेण वैकल्पिकं द्वित्वं विधीयते ।\n\nयद्यपि यर्-प्रत्याहारे रेफः अपि समाविष्टः अस्ति, तथापि <<अचो रहाभ्यां द्वे>> [[8.4.46]] इति सूत्रेण रेफात् परस्य यर्-वर्णस्य द्वित्वं भवति, अतः प्रकृतसूत्रेण रेफस्य द्वित्वं नैव सम्भवति । यथा, सूर्य इत्यत्र अच्-वर्णात् परः रेफः विद्यते, तस्मात् परः अच्-वर्णः अपि नास्ति, तथापि अत्र प्रकृतसूत्रस्य प्रयोगः न भवति, अपि तु <<अचो रहाभ्यां द्वे>> [[8.4.46]] इत्यनेन यकारस्यैव द्वित्वं कृत्वा सूर्य्य इति जायते । \nद्वित्वम् इत्युक्ते एकस्य वर्णस्य स्थाने तस्यैव द्विवारम् उच्चारणम् । एतादृशे द्वित्वे कृते तत्र मूलवर्णः कः / नूतनवर्णः कः — एतादृशम् नैव प्रष्टुं शक्यते । द्वित्व is a process where one letter is replaced by its two copies. Both the occurrences are considered identical in all respects, and it is not possible to treat one of these two as 'original' and other as a 'copy'.\nदलकृत्यम्\n1. यरः इति किमर्थम् ? हकारस्य अनेन सूत्रेण द्वित्वं न भवति । यथा, ब्रह्मा इत्यत्र विद्यमानस्य हकारस्य प्रकृतसूत्रेण द्वित्वं न सम्भवति ।\n2. अचः इति किमर्थम् ?यः यर्-वर्णः अच्-वर्णात् परः नास्ति, तस्य अनेन सूत्रेण द्वित्वं न सम्भवति । यथा, स्मितम् इत्यत्र सकारः अच्-वर्णात् परः नास्ति, अतः प्रकृतसूत्रेण तस्य द्वित्वं न भवति । एवमेव वाग्ग्म्यत्रअस्मिन् शब्दे मकारस्य द्वित्वं न भवति ।\n3. अनचि इति किमर्थम् ? अच्-वर्णे परे यर्-वर्णस्य प्रकृतसूत्रेण द्वित्वं न भवति । यथा, देव इति शब्दे एकारात् परस्य वकारस्य द्वित्वं न भवति यतः अत्रे अकारः (अच्-वर्णः) विद्यते ।\n'अनचि' इति प्रसज्यप्रतिषेधः\nप्रकृतसूत्रे प्रयुक्ते अनचि इति शब्दे विद्यमानः निषेधः प्रसज्यप्रतिषेधः अस्ति, न हि पर्युदासः । इत्युक्ते, अत्र नकारस्य अन्वयः क्रियया सह भवति, न हि अचि शब्देन सह । इत्युक्ते, अचः परस्य यरः द्वे स्तः, अचि न स्तः इति अत्र अर्थविधानं क्रियते । इत्यक्ते, यर्-वर्णात् परः कोऽपि वर्णः नास्ति चेदपि प्रकृतसूत्रेण द्वित्वम् अवश्यम् सम्भवति । अतएव रामात् इत्यत्र तकारात् परस्य अच्-वर्णस्य अभावात् प्रकृतसूत्रेण अत्र अवश्यं द्वित्वं विधीयते, येन रामात्त् इति अपि रूपं सिद्ध्यति । \nवार्त्तिकानि\nद्वित्वस्य सन्दर्भे काशिकायाम् अत्र त्रीणि वार्त्तिकानि पाठितानि सन्ति । तेषाम् विवरणम् एतादृशम् —\n1) । \nयण् = य्, व्, र्, ल् । मय् = ञकारं विहाय सर्वाणि वर्गीयव्यञ्जनानि । आहत्य 24 वर्णाः । \nअस्य वार्त्तिकस्य द्वयोः प्रकारयोः अर्थविधानं क्रियते —\n\nअ) यणः इति पञ्चमी, मयः इति षष्ठी इति स्वीकृत्य - यण्-वर्णात् परस्य मय्-वर्णस्य विकल्पेन द्वित्वं भवति । यथा, वाल्मीकि → वाल्म्मीकि, वाल्मीकि । अत्र यकारात् (यण्-वर्णात्) परस्य ककारस्य (मय्-वर्णस्य) विकल्पेन द्वित्वम् भवति ।\nआ) यणः इति षष्ठी , मयः इति पञ्चमी इति स्वीकृत्य - मय्-वर्णात् परस्य यण्-वर्णस्य विकल्पेन द्वित्वं भवति । यथा - दध्यत्र → दध्य्यत्र, दध्यत्र । अत्र धकारात् (मय्-वर्णात्) परस्य यकारस्य (यण्-वर्णस्य) विकल्पेन द्वित्वम् भवति ।\n\n2) । \nशर् = श् ष् स् । खय् = वर्गप्रथमाः + वर्गद्वितीयाः । आहत्य 10 वर्णाः । \nअस्य वार्त्तिकस्य अपि द्वयोः प्रकारयोः अर्थविधानं क्रियते —\n\nअ) शरः इति पञ्चमी, खयः इति षष्ठी इति स्वीकृत्य - शर्-वर्णात् परस्य खय्-वर्णस्य विकल्पेन द्वित्वं भवति । यथा - स्थाता → स्थ्थाता, स्थाता । अत्र सकारात् (शर्-वर्णात्) परस्य थकारस्य (खय्-वर्णस्य) विकल्पेन द्वित्वम् भवति ।\nआ) शरः इति षष्ठी , खयः इति पञ्चमी इति स्वीकृत्य - खय्-वर्णात् परस्य शर्-वर्णस्य विकल्पेन द्वित्वं भवति । यथा - अप्सरा → अप्स्सरा, अप्सरा । अत्र पकारात् (खय्-वर्णात्) परस्य सकारस्य (शर्-वर्णस्य) विकल्पेन द्वित्वम् भवति ।\n\n3) - अवसाने परे हल्-वर्णस्य विकल्पेन द्वित्वम् भवति । यथा - रामात्, रामात्त् । वस्तुतस्तु इदं वार्त्तिकम् नैव आवश्यकम्, यतः प्रकृतसूत्रे अनचि इत्यत्र विद्यमानः निषेधः प्रसज्यप्रतिषेधरूपेण स्वीक्रियते । \nलक्ष्ये लक्षणम् सकृदेव प्रवर्तते \nकृष्णः-इति शब्दे प्रकृतसूत्रेण द्वित्वे कृते कृष्ष्णः इति सिद्धे, ततः पुनः षकारस्य प्रकृतसूत्रेण द्वित्वं क्रियते चेत्, पुनः पुनः द्वित्वम् एव भवेत् इति दोषः उद्भवति । अस्य परिहारार्थम् <ऽलक्ष्ये लक्षणम् सकृदेव प्रवर्ततेऽ> अस्याः परिभाषायाः प्रयोगः क्रियते । लक्ष्यम् इत्युक्ते सूत्रप्रयोगस्य स्थानम् । लक्षणम् इत्युक्ते सूत्रम् । सकृतम् इत्युक्ते एकवारम् । अतः अनया परिभाषया एतत् ज्ञायते, यत् एकस्मिन् स्थले कस्यचन सूत्रस्य एकवारमेव प्रयोगः भवितुम् अर्हति । अतः <<अनचि च>> [[8.4.46]] इत्यनेन एकवारं द्वित्वं क्रियते चेत् तस्मिन् एव स्थाने अनेन सूत्रेण पुनः द्वित्वं न भवति । अतः कृष्ष्णः-इत्यत्र पुनः षकारस्य द्वित्वं नैव करणीयम् । परन्तु प्रकृतसूत्रेण अपरस्मिन् स्थाने तु अवश्यं द्वित्वम् भवितुम् अर्हति । अतएव कृष्णस्य इति शब्दे षकारस्य द्वित्वे कृते, पुनः सकारस्य अपि द्वित्वम् अवश्यम् सम्भवति ।" }, "84048": { "sa": "'पुत्रादिनी' शब्दस्य तकारस्य आक्रोशे गम्यमाने द्वित्वम् न भवति । ", "sd": "<<अचो रहाभ्यां द्वे>> [[8.4.46]] तथा च <<अनचि च>> [[8.4.47]] इत्यनयोः द्वयोः सूत्रयोः यर्-वर्णस्य पाठितं द्वित्वम् <<नादिन्याक्रोशे पुत्रस्य>> [[8.4.48]] इत्यतः <<दीर्घादाचार्याणाम्>> [[8.4.52]] इत्येतैः पञ्चभिः सूत्रैः विशिष्टासु अवस्थासु निषिध्यते । अस्मिन् द्वित्वनिषेधे प्रकरणे विद्यमानम् इदं प्रथमं सूत्रम् । आक्रोशे गम्यमाने पुत्रादिनी इति शब्दस्य तकारस्य द्वित्वं न भवति इति अस्य सूत्रस्य आशयः ।\nपुत्रादिनी = पुत्रान् अत्ति सा । The one who kills small kids. Typically used to indicate a tigress or a serpent. \nपुत्र इत्यस्मिन् शब्दे 'त् + र्' इति संयोगः अस्ति । अस्याम् स्थितौ <<अनचि च>> [[8.4.47]] इत्यनेन तकारस्य वैकल्पिकं द्वित्वम् विधीयते, येन पुत्त्रः इत्यपि शब्दः सिद्ध्यति । परन्तु, पुत्रादिनी अस्य शब्दस्य प्रयोगः यदि आक्रोशे (इत्युक्ते क्रोधं दर्शयुतुम्) क्रियते, तर्हि अस्य शब्दस्य तकारस्य द्वित्वम् न भवति । यथा, पुत्रादिनी त्वमसि पापे! अस्मिन् वाक्ये आक्रोशस्य सन्दर्भे पुत्रादिनी शब्दः प्रयुक्तः अस्ति, अतः अत्र तकारस्य विकल्पेन अपि द्वित्वं न भवति । इत्युक्ते, 'पुत्त्रादिनी त्वमसि पापे' इति द्वितकारयुक्तः प्रयोगः अनुचितः ज्ञेयः । ।\nपुत्रादिनी इति शब्दः यत्र आक्रोशस्य सन्दर्भे (इत्युक्ते, क्रोधेन / उच्चैः) न प्रयुज्यते, तत्र तु प्रकृतसूत्रस्य प्रसक्तिः नास्ति, अतः तत्र, वैकल्पिकं द्वित्वम् अवश्यम् सम्भवति । यथा - पुत्रान् अत्ति सा पुत्त्रादीनि, पुत्त्रादिनी गच्छति, भयङ्करा सा पुत्त्रादिनी इत्यादिषु वाक्येषु 'पुत्रादीनी' शब्देन आक्रोशः न निर्दिश्यते, अतः अत्र विकल्पेन द्वित्वम् अवश्यम् सम्भवति । द्वित्वाभावे भयङ्करा सा पुत्रादिनी इत्यादयः प्रयोगाः अपि सम्भवन्ति ।\nवार्त्तिकानि\nअस्मिन् सूत्रे भाष्यकारेण त्रीणि वार्त्तिकानि पाठितानि सन्ति —\n 1. \nयत्र पुत्र शब्दात् अनन्तरम् पुत्रादिनी शब्दः विद्यते, तत्र आक्रोशे गम्यमाने पुत्र शब्दस्य तकारस्यापि द्वित्वं न भवति । यथा, पुत्रपुत्रादिनी त्वमसि पापे ! अस्मिन् वाक्ये प्रथम-पुत्र-शब्दस्य तकारस्य अपि द्वित्वं नैव सम्भवति ।\nपुत्त्रपुत्त्रादिनी = पुत्रस्य पुत्रम् अत्ति सा । \n2. \nपुत्र-शब्दात् अनन्तरम् हत-शब्दस्य, जग्ध शब्दस्य रूपं विद्यते चेत् पुत्र-शब्दस्य विकल्पेन द्वित्वम् भवति । यथा — पुत्त्रहती, पुत्रहती । एवमेव — पुत्त्रजग्धी, पुत्रजग्धी । \nपुत्त्रहती = पुत्रम् अहन् सा । पुत्त्रजग्धी = पुत्रम् आदत् (अखादत्) सा । \nवस्तुतस्तु, <<अनचि च>> [[8.4.47]] इत्यनेनैव द्वित्वविकल्पे जाते इदं वार्त्तिकम् अनावश्यकम् । तथापि भाष्यकारेण अत्र इदं वार्त्तिकम् स्थापितम् अस्ति । अस्य किम् कारणम्, अस्मिन् विषये मतान्तराणि विद्यन्ते । अस्मिन् सन्दर्भे तत्त्वबोधिन्याम् उच्यते —\n\nद्वित्वस्य वैकल्पिकत्वे वार्त्तिकम् इदम् न आरम्भणीयम् इत्येके । अन्ये तु — हतजग्धशब्दयोः परतः पुत्रशब्दस्यैव 'अनचि च' इति द्वित्वम्, न अन्येषाम् इत्यादिनियमसम्भवात् तदर्थम् आरम्भणीयम् एव इदम् — इत्याहुः ।\n\nहत-शब्दे परे, जग्ध-शब्दे वा परे केवलम् पुत्रशब्दस्यैव द्वित्वं सम्भवति, न अन्येषाम्, इति ज्ञापयितुम् इदं वार्त्तिकम् निर्मितम् अस्ति इति केचन वैयाकरणाः मन्यन्ते; परन्तु अन्येषां मतेन तु इदं वार्त्तिकम् अनावश्यकमेव — इति अस्य वार्त्तिकस्य आशयः ।\n3. \nचय् = वर्गप्रथमाः । शर् = श्, ष्, स् ।\nचय्-वर्णात् अनन्तरम् संहितायाम् यदि शर्-वर्णः विद्यते, तर्हि 'पौष्करसादिः' इति नाम्नः आचार्यस्य मतेन (इत्युक्ते, विकल्पेन) चय्-वर्णस्य स्थाने वर्गद्वितीयः वर्णः आदेशरूपेण विधीयते —‌ इति अस्य वार्त्तिकस्य आशयः । यथा - तत् + सह → तथ् + सह । वेदेषु बहुत्र एतादृशः वर्गद्वितीयादेशः कृतः दृश्यते, तेषाम् साधुत्वार्थम् इदं वार्त्तिकम् रचितम् अस्ति।अस्य वार्त्तिकस्य निर्देशसामर्थ्यात् वर्गद्वितीयवर्णस्य अग्रे <<खरि च>> [[8.4.5]] इति पुनः चर्त्वम् न भवति । अन्यानि कानिचन उदाहरणानिः अप्सरा → अफ्सरा । क्षीरम् → ख्षीरम् । वत्सः → वथ्सः । त्सरुः → थ्सरुः । \nअस्मिन् वार्त्तिके 'चय्' इति प्रत्याहारः प्रयुक्तः अस्ति । अयम् प्रत्याहारः पाणिनिना न हि कुत्रचित् प्रयुक्तः दृश्यते । केवलम् अस्मिन् वार्त्तिके एव अस्य प्रत्याहारस्य निर्देशः लभ्यते । " }, "84049": { "sa": "शर्-वर्णस्य अच्-वर्णे परे द्वित्वम् न भवति । ", "sd": "शर् = श्, ष्, स् । अच् = सर्वे स्वराः \n<<अचो रहाभ्यां द्वे>> [[8.4.46]] तथा च <<अनचि च>> [[8.4.47]] इत्यनयोः द्वयोः सूत्रयोः यर्-वर्णस्य पाठितं द्वित्वम् <<नादिन्याक्रोशे पुत्रस्य>> [[8.4.48]] इत्यतः <<दीर्घादाचार्याणाम्>> [[8.4.52]] इत्येतैः पञ्चभिः सूत्रैः विशिष्टासु अवस्थासु निषिध्यते । अस्मिन् द्वित्वनिषेधे प्रकरणे विद्यमानम् इदं द्वितीयम् सूत्रम् । शर्-वर्णात् अनन्तरम् यदि स्वरः विद्यते, तर्हि <<अचो रहाभ्यां द्वे>> [[8.4.46]] इत्यनेन शर्-वर्णस्य प्राप्तं द्वित्वम् नैव विधीयते — इति अस्य सूत्रस्य आशयः । उदाहरणानि एतानि —\n1. चतुर्षु, वर्षति, हर्षः इत्यादिषु शब्देषु रेफात् परस्य षकारस्य <<अचो रहाभ्याम् द्वे>> [[8.4.46]] इत्यनेन विकल्पेन द्वित्वे प्राप्ते <<शरोऽचि>> [[8.4.49]] इत्यनेन तत् निषिध्यते ।\n2. दर्शनम्, विमर्शः, स्पर्शः इत्यादिषु शब्देषु रेफात् परस्य शकारस्य <<अचो रहाभ्याम् द्वे>> [[8.4.46]] इत्यनेन विकल्पेन द्वित्वे प्राप्ते <<शरोऽचि>> [[8.4.49]] इत्यनेन तत् निषिध्यते ।\n3. रेफात् परस्य सकारस्य उदाहरणानि नैव विद्यन्ते । \nदलकृत्यम्\n1. अचि इति किमर्थम् ? शर्-वर्णात् अनन्तरम् अच्-वर्णः नास्ति चेत् <<अचो रहाभ्यां द्वे>> [[8.4.46]] इति अवश्यम् वैकल्पिकं द्वित्वं सम्भवति । यथा, दर्श्श्यते, दर्श्यते — अत्र शकारात् परः यकारः वर्तते, अतः अत्र शकारस्य अवश्यं द्वित्वम् कर्तुं शक्यते । \n1. शरः इति किमर्थम् ? शर्-भिन्नात् वर्णात् अनन्तरम् अच्-वर्णः अस्ति चेदपि <<अचो रहाभ्यां द्वे>> [[8.4.46]] इति अवश्यम् वैकल्पिकं द्वित्वं सम्भवति । यथा, अर्क्कम्, अर्कम् अत्र ककारस्य द्वित्वे कृते अपि साधुरूपम् एव सिद्ध्यति ।" }, "84050": { "sa": "शाकटायनस्य मतेन त्रयाणाम् उत अधिकानाम् वर्णानाम् संयोगे यर्-वर्णस्य द्वित्वम् न भवति । ", "sd": "<<अचो रहाभ्यां द्वे>> [[8.4.46]] तथा च <<अनचि च>> [[8.4.47]] इत्यनयोः द्वयोः सूत्रयोः यर्-वर्णस्य पाठितं द्वित्वम् <<नादिन्याक्रोशे पुत्रस्य>> [[8.4.48]] इत्यतः <<दीर्घादाचार्याणाम्>> [[8.4.52]] इत्येतैः पञ्चभिः सूत्रैः विशिष्टासु अवस्थासु निषिध्यते । अस्मिन् द्वित्वनिषेधे प्रकरणे विद्यमानम् इदं तृतीयम् सूत्रम् । यत्र त्रयाणाम् उत अधिकानाम् वर्णानाम् संयोगः वर्तते, तत्र शाकटायनाचार्यस्य मतेन द्वित्वं नैव सम्भवति — इति अस्य सूत्रस्य आशयः । \nयथा —\n1. इन्द्रः अस्मिन् शब्दे न् + द् + र् इति त्रयाणाम् संयोगः अस्ति, अतः अत्र <<अनचि च>> [[8.4.47]] इत्यनेन नकारस्य विकल्पेन प्राप्तं द्वित्वं प्रकृतसूत्रेण निषिध्यते । \n2. साधर्म्यम् अस्मिन् शब्दे र् + म् + य् इति त्रयाणाम् संयोगः अस्ति, अतः अत्र <<अचो रहाभ्यां द्वे>> [[8.4.46]] इत्यनेन मकारस्य विकल्पेन प्राप्तं द्वित्वं प्रकृतसूत्रेण निषिध्यते । \n2. कार्त्स्न्यम् अस्मिन् शब्दे र् + त् + स् + न् + य् इति त्र्यधिकानां संयोगः अस्ति, अतः अत्र <<अचो रहाभ्यां द्वे>> [[8.4.46]] इत्यनेन तकारस्य विकल्पेन प्राप्तं द्वित्वं प्रकृतसूत्रेण निषिध्यते ।\nसूत्रे शाकटायनग्रहणस्य प्रयोजनम्\nअस्मिन् सूत्रे शाकटायन-शब्दः किमर्थम् प्रयुक्तः अस्ति अस्मिन् विषये वैयाकरणेषु मतैक्यम् नास्ति । बालमनोरमाकारस्य मतेन अत्र शाकटायनग्रहणम् विकल्पनिर्देशार्थम् अस्ति । परन्तु <<अनचि च>> [[8.4.47]] तथा <<अचो रहाभ्यां द्वे>> [[8.4.46]] इत्येताभ्याम् द्वाभ्याम् अपि सूत्राभ्याम् पूर्वमेव विकल्पः उक्तः अस्ति, अतः पुनः शाकटायनग्रहणेन कीदृशः विकल्पः उच्यते इति अस्मिन् पक्षे नैव स्पष्टी क्रियते । न्यासकारेण तु शाकटायनग्रहणं पूजार्थम्, नित्यः एव अयं विधिः — इति निर्देशः कृतः अस्ति । इत्युक्ते, न्यासकारस्य मतेन — त्रयाणाम् उत अधिकानाम् यत्र संयोगः विद्यते तत्र <<अनचि च>> [[8.4.47]] तथा <<अचो रहाभ्यां द्वे>> [[8.4.46]] इत्येताभ्याम् द्वाभ्याम् प्राप्तम् वैकल्पिकं द्वित्वम् सम्पूर्णरूपेण निषिध्यते — इति अर्थः ग्रहीतव्यः ।" }, "84051": { "sa": "शाकल्यमुनेः मतेन यरः कुत्रापि द्वित्वम् न भवति । ", "sd": "<<अचो रहाभ्यां द्वे>> [[8.4.46]] तथा च <<अनचि च>> [[8.4.47]] इत्यनयोः द्वयोः सूत्रयोः यर्-वर्णस्य पाठितं द्वित्वम् <<नादिन्याक्रोशे पुत्रस्य>> [[8.4.48]] इत्यतः <<दीर्घादाचार्याणाम्>> [[8.4.52]] इत्येतैः पञ्चभिः सूत्रैः विशिष्टासु अवस्थासु निषिध्यते । अस्मिन् द्वित्वनिषेधे प्रकरणे विद्यमानम् इदं चतुर्थं सूत्रम् । यर्-वर्णस्य कुत्रापि द्वित्वं न भवति — इति अस्य सूत्रस्य आशयः । \nयथा —\n1. 'ब्रह्म' इत्यत्र <<अचो रहाभ्यां द्वे>> [[8.4.46]] इत्यनेन विहितम् मकारस्य द्वित्वम् वस्तुतः न भवति इति शाकल्यः प्रतिपादयति । \n2. 'पत्र' इत्यत्र <<अनचि च>> [[8.4.47]] इत्यनेन तकारस्य विहितम् द्वित्वम् वस्तुतः न भवति इति शाकल्यः प्रतिपादयति । \nमतप्रतिपादनार्थम् इदं सूत्रम्\nयदि पाणिनेः मतेन यर्-वर्णस्य द्वित्वम् नैव उचितम् स्यात्, तर्हि पाणिनिः स्वयम् <<अचो रहाभ्यां द्वे>> [[8.4.46]] तथा च <<अनचि च>> [[8.4.47]] इत्येतयोः सूत्रयोः विधानम् एव नैव अकरिष्यत् । अपि च, पाणिनिना स्वयमेव एतयोः सूत्रयोः विक्लपः प्रतिपादितः अस्ति, अतः प्रकृतसूत्रे विद्यमानम् शाकल्यग्रहणम् विकल्पार्थम् वर्तते इति नैव वक्तुं शक्यते । अतश्च, अत्र शाकल्यग्रहणम् पूजार्थम् (to give credit, to show respect) तथा च भिन्नमतप्रतिपादनार्थम् (to explicitly state the difference of opinion) कृतम् अस्ति इति वैयाकरणाः अत्र मन्यन्ते ।\n" }, "84052": { "sa": "भिन्नानाम् आचार्याणाम् मतेन दीर्घवर्णात् परस्य यर्-वर्णस्य द्वित्वं न भवति । ", "sd": "<<अचो रहाभ्यां द्वे>> [[8.4.46]] तथा च <<अनचि च>> [[8.4.47]] इत्यनयोः द्वयोः सूत्रयोः यर्-वर्णस्य पाठितं द्वित्वम् <<नादिन्याक्रोशे पुत्रस्य>> [[8.4.48]] इत्यतः <<दीर्घादाचार्याणाम्>> [[8.4.52]] इत्येतैः पञ्चभिः सूत्रैः विशिष्टासु अवस्थासु निषिध्यते । अस्मिन् द्वित्वनिषेधे प्रकरणे विद्यमानम् इदं पञ्चमम् (अन्तिमम्) सूत्रम् । दीर्घवर्णात् परस्य यर्-वर्णस्य द्वित्वं न भवति — इति अस्य सूत्रस्य आशयः । \nयथा —\n1. 'कार्यम्' इत्यत्र आकारात् (दीर्घस्वरात्) अनन्तरम् विद्यमानस्य यकारस्य <<अचो रहाभ्यां द्वे>> [[8.4.46]] इत्यनेन विहितम् यकारस्य द्वित्वम् न भवति । \n2. 'पात्रम्' इत्यत्र आकारात् (दीर्घस्वरात्) अनन्तरम् विद्यमानस्य तकारस्य <<अनचि च>> [[8.4.47]] इत्यनेन विहितम् द्वित्वम् न भवति । \nमतप्रतिपादनार्थम् इदं सूत्रम्\nअस्मिन् सूत्रे 'आचार्याणाम्' इति शब्देन पाणिनिः केषाम् आचार्याणाम् निर्देशं करोति इति अत्र स्पष्टं नास्ति । परन्तु यर्-वर्णस्य द्वित्वस्य विषये पाणिनेः यत् मतम्, तस्मात् भिन्नम् मतम् केषाञ्चन आचार्याणाम् वर्तते इति ज्ञापयितुम् (to acknowledge the difference of opinions) पाणिनिना इदं सूत्रं स्थापितम् अस्ति । न्यासकारः तु अत्र 'नित्यार्थः अयम् आरम्भः' इति ब्रूते । इत्युक्ते, न्यासकारस्य मतेन दीर्घात् अनन्तरम् विद्यमानस्य वर्णस्य नैव कुत्रचित् द्वित्वं सम्भवति । परन्तु, वार्त्तिक, आर्त्त इत्यादयः कृतद्वित्वाः शब्दाः अवश्यम् भाषायाम् दृश्यन्ते, अतः न्यासकारस्य इदं मतम् चिन्त्यम् एव । \n" }, "84053": { "sa": "झल्-वर्णस्य झश्-वर्णे परे जश्-वर्णादेशः भवति ।", "sd": "\nझल् = वर्गचतुर्थाः + वर्गतृतीयाः + वर्गद्वितीयाः + वर्गप्रथमाः + ऊष्माणः । आहत्य 24 वर्णाः । \n जश् = वर्गतृतीयाः ।\n झश् = वर्गतृतीयाः + वर्गचतुर्थाः ।\n\nप्रकृतसूत्रेण झल्-वर्णस्य झश्-वर्णे परे अन्तरतमः जश्-वर्णादेशः भवति । इदमेव परिवर्तनम् जश्त्वम् नाम्ना ज्ञायते । अस्य सूत्रस्य प्रसक्तिः अपदान्त-झल्-वर्णस्य विषये एव वर्तते, यतः पदान्त-झल्-वर्णस्य तु <<झलां जशोऽन्ते>> [[8.2.39]] इत्यनेन एव जश्त्वम् विधीयते (तत्र 'झश्' इति निमित्तम् नैव आवश्यकम्) ।\nक्रमेण उदाहरणानि एतादृशानि —\n\n1. क्/ख्/ग्/घ् एतेषां जश्त्वे कृते तेषां स्थाने आन्तरतम्येन गकारः विधीयते । यथा, दुह्-धातोः तुमुन्-प्रत्यये परे प्रकृतसूत्रेण जश्त्वं भवति —\n\nदुहँ (प्रपूरणे, अदादिः, <{2.4}> )\n→ दुह् + तुमुन् [<<तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्>> [[3.3.10]] इति तुमुन्]\n→ दोह् + तुम् [<<पुगन्तलघूपधस्य च>> [[7.3.86]] इति उपधायाः गुणः]\n→ दोघ् + तुम् [<<हो ढः>> [[8.2.31]] इति हकारस्य ढकारे प्राप्ते अपवादत्वेन <<दादेर्धातोर्घः>> [[8.2.32]] इति घत्वम्]\n→ दोघ् + धुम् [<<झषस्तथोर्धोऽधः>> [[8.2.40]] इति तकारस्य धकारः]\n→ दोग् + धुम् [<<झलां जश् झशि>> [[8.4.53]] इति घकारस्य गकारः]\n→ दोग्धुम्\n\n2. च्/छ्/ज्/झ् एतेषाम् प्रकृतसूत्रेण जश्त्वम् नैव सम्भवति, यतः <<चोः कुः>> [[8.2.30]] इत्यनेन अपदान्त-चवर्गस्य झलि परे कुत्वम् भवति ।\n3. ट्/ठ्/ड्/ढ् एतेषां जश्त्वे कृते तेषां स्थाने आन्तरतम्येन डकारः विधीयते । परन्तु अस्य उदाहरणानि नैव सन्ति ।\n4. त्/थ्/द्/ध् एतेषां जश्त्वे कृते तेषां स्थाने आन्तरतम्येन दकारः विधीयते । यथा, बुध्-धातोः तृच्-प्रत्यये परे प्रकृतसूत्रेण जश्त्वं भवति — \n\nबुधँ (अवगमने, भ्वादिः, <{1.994}>)\n→ बुध् + तृच् [<<ण्वुल्तृचौ>> [[3.1.133]] इति तृच्-प्रत्ययः]\n→ बोध् + तृ [<<पुगन्तलघूपधस्य च>> [[7.3.86]] इति गुणः]\n→ बोध् + धृ [<<झषस्तथोर्धोऽधः>> [[8.2.40]] इति तकारस्य धकारः]\n→ बोद्धृ [<<झलां जश् झशि>> [[8.4.53]] इति धकारस्य दकारः]\n\n5. प्/फ/ब्/भ् एतेषां जश्त्वे कृते तेषां स्थाने आन्तरतम्येन बकारः विधीयते । यथा - लभ्-धातोः क्त-प्रत्यये परे प्रकृतसूत्रेण जश्त्वं भवति — \n\nडुलभँष् (प्राप्तौ, भ्वादिः, <{1.1130}>)\n→ लभ् + क्त [<<निष्ठा>> [[3.2.102]] इति क्त-प्रत्ययः]\n→ लभ् + ध [<<झषस्तथोर्धोऽधः>> [[8.2.40]] इति तकारस्य धकारः]\n→ लब्ध [<<झलां जश् झशि>> [[8.4.53]] इति भकारस्य बकारः]\n\n6. शकारस्य जश्त्वे कृते तस्य स्थाने उच्चारणस्थानसाधर्म्यम् अनुसृत्य आन्तरतम्येन जकारः विधीयते । उदाहरणम् एतादृशम् —\n\nभ्रस्जँ (पाके, तुदादिः, <{6.4}>)\n→ भ्रस्ज् + अनीयर् [<<तव्यत्तव्यानीयरः>> [[3.1.96]] इति अनीयर्-प्रत्ययः]\n→ भ्रश्ज् + अनीय [जकारे परे <<स्तोः श्चुना श्चुः>> [[8.4.40]] इति सकारस्य शकारः । अस्य असिद्धत्त्वात् <<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> [[8.2.36]] इति षत्वं न भवति ।]\n→ भ्रज्ज् + अनीय [जकारे परे <<झलां जश् झशि>> [[8.4.53]] इति शकारस्य जकारः]\n→ भ्रज्जनीय\n\nएवमेव मस्ज्-धातोः विषये अपि अनेन सूत्रेण जश्त्वे कृते मज्जनीय इति रूपं सम्भवति ।\n7. षकारस्य जश्त्वे कृते तस्य स्थाने उच्चारणस्थानसाधर्म्यम् अनुसृत्य आन्तरतम्येन डकारः विधीयते । यथा, द्विष्-धातोः आत्मनेपदस्य लोट्लकारस्य मध्यमपुरुष-बहुवचनस्य रूपसिद्धौ प्रकृतसूत्रेण षकारस्य जश्त्वम् विधीयते —\n\nद्विषँ (अप्रीतौ, अदादिः, उभयपदी, <{2.3}>)\n→ द्विष् + लोट् [<<लोट् च>> [[3.3.162]] इति लोट्]\n→ द्विष् + ध्वम् [<<तिप्तस्झि..>> [[3.4.78]] इति आत्मनेपदस्य मध्यमपुरुषबहुवचनस्य विवक्षायाम् ध्वम्-प्रत्ययः]\n→ द्विष् + शप् + ध्वम् [<<कर्तरि शप्>> [[3.1.68]] इति विकरणप्रत्ययः शप्]\n→ द्विष् + ध्वम् [<<अदिप्रभृतिभ्यः शपः>> [[2.4.72]] इति शप्-प्रत्ययस्य लुक्]\n→ द्विष् + ढ्वम् [<<ष्टुना ष्टुः>> [[8.4.41]] इति धकारस्य ष्टुत्वे ढकारः]\n→ द्विड् + ढ्वम् [<<झलां जश् झशि>> [[8.4.53]] इति झलि परे षकारस्य जश्त्वे डकारः]\n→ द्विड्ढ्वम्\n\n8. सकारस्य जश्त्वे कृते तस्य स्थाने उच्चारणस्थानसाधर्म्यम् अनुसृत्य आन्तरतम्येन दकारः विधीयते । । यथा, भ्रस्ज्-धातोः ण्यत्-प्रत्यये परे इयं प्रक्रिया भवति —\n\nभ्रस्जँ (पाके, तुदादिः, <{6.4}>)\n→ भ्रस्ज् + ण्यत् [<<ऋहलोर्ण्यत्>> [[3.1.124]] इति ण्यत्-प्रत्ययः]\n→ भ्रस्ग् + य [<<चजोः कु घिण्ण्यतोः>> [[7.3.52]] इति जकारस्य कुत्वे तत्सदृशः वर्गतृतीयः गकारः]\n→ भ्रद् ग् + य [गकारे परे सकारस्य <<झलां जश् झशि>> [[8.4.53]] इति जश्त्वे दकारः]\n→ भ्रद्ग्य\n\n9.हकारस्य प्रकृतसूत्रेण जश्त्वम् नैव सम्भवति, यतः <<हो ढः>> [[8.2.31]] इत्यनेन हकारस्य झलि परे ढकारादेशः भवति ।" }, "84054": { "sa": "अभ्यासे विद्यमानस्य झल्-वर्णस्य यथायोग्यम् जश्/चर्-आदेशः भवति । ", "sd": "\nझल् = वर्गचतुर्थाः + वर्गतृतीयाः + वर्गद्वितीयाः + वर्गप्रथमाः + ऊष्माणः । आहत्य 24 वर्णाः । \n जश् = वर्गतृतीयाः ।\n चर् = वर्गप्रथमाः + श् + ष् + स् ।\n\nषष्ठाध्यायस्य <<एकाचो द्वे प्रथमस्य>> [[6.1.1]] इति द्वित्वप्रकरणस्य सूत्रैः द्वित्वे कृते, तत्र यः प्रथमः तस्य <<पूर्वोभ्यासः>> [[6.1.4]] इति सूत्रेण अभ्यासः इति संज्ञा भवति । अस्मिन् अभ्यासे विद्यमानस्य यः झल्-वर्णः तस्य यथायोग्यम् जश्-वर्णादेशः उत चर्-वर्णादेशः भवति — इति प्रकृतसूत्रस्य अर्थः । संवार-नाद-घोष-वर्णानाम् तादृशः एव संवार-नाद-घोष-आदेशः जश्-वर्णादेशःभवति, तथा च विवार-श्वास-अघोष-वर्णानाम् तादृशः एव विवार-श्वास-अघोषः चर्-वर्णादेशः भवति इति अत्र आशयः । क्रमेण लिट्-लकारस्य प्रथमपुरुषैकवचनस्य उदाहरणानि एतानि —\n1. वर्गप्रथमानां स्थाने चर्त्वे कृते सः एव वर्णः आदेशरूपेण विधीयते — \n\n1. कूज् → चुकूज । अत्र <<कुहोश्चुः>> [[7.4.62]] इति अभ्यासककारस्य चकारे कृते प्रकृतसूत्रेण तस्य चर्त्वे चकारः एव विधीयते ।\n2. चल् → चचाल । चकारस्य स्थाने चर्त्वे चकारः एव विधीयते ।\n3. टीक् → टिटीक । टकारस्य स्थाने चर्त्वे टकारः एव विधीयते ।\n4. तॄ → ततार । तकारस्य स्थाने चर्त्वे तकारः एव विधीयते ।\n5. पठ् → पपाठ । पकारस्य स्थाने चर्त्वे पकारः एव विधीयते ।\n\n2. वर्गद्वितीयानां स्थाने चर्त्वे कृते वर्गप्रथमः वर्णः आदेशरूपेण विधीयते — \n\n1. खाद् → चखाद । अत्र <<कुहोश्चुः>> [[7.4.62]] इति अभ्यासखकारस्य छकारे कृते प्रकृतसूत्रेण तस्य चर्त्वे चकारः भवति ।\n2. छिद् → चिच्छेद । छकारस्य स्थाने चर्त्वे चकारः विधीयते । 'च्छ्' इत्यत्र विद्यमानः चकारः तु तुगागमे, श्चुत्वे च कृते सिद्ध्यति ।\n3. धातुपाठे ठकारादिधातवः न विद्यन्ते अतः अत्र लिट्-लकारस्य उदाहरणं न सम्भवति । परन्तु ठकारम् आचष्टे इत्यस्मिन् अर्थे उत इति वार्त्तिकेन ठकार-शब्दात् णिच्-प्रत्यये कृते, प्रक्रियायाम् इष्ठन्-प्रत्ययस्य प्रक्रियाम् अनुसृत्य <<टेः>> [[6.4.155]] इति टिलोपे कृते ठकारि इति यः आतिदेशिकधातुः सिद्ध्यति, तस्य सन्नन्तस्य प्रथमैकवचने द्वित्वे कृते प्रकृतसूत्रेण ठकारस्य चर्त्वे टकारादेशः सम्भवति, येन टिठकारिषति इति प्रथमपुरुषैकवचनस्य रूपं लभ्यते ।\n4. थूर्व्→ तुथूर्विथ । थकारस्य स्थाने चर्त्वे तकारः विधीयते ।\n5. फल् → पफाल । फकारस्य स्थाने चर्त्वे पकारः विधीयते ।\n\n3. वर्गतृतीयानां स्थाने जश्त्वे कृते सः एव वर्णः आदेशरूपेण विधीयते — \n\n1. गम् → जगाम । अत्र <<कुहोश्चुः>> [[7.4.62]] इति अभ्यासगकारस्य जकारे कृते प्रकृतसूत्रेण तस्य जश्त्वे जकारः एव विधीयते ।\n2. जप् → जजाप । जकारस्य स्थाने जश्त्वे जकारः एव विधीयते ।\n3. डी → डिड्ये । डकारस्य स्थाने जश्त्वे डकारः एव विधीयते ।\n4. दिव् → दिदेव । दकारस्य स्थाने जश्त्वे दकारः एव विधीयते ।\n5. बाध् → बबाध । बकारस्य स्थाने जश्त्वे बकारः एव विधीयते ।\n\n4. वर्गचतुर्थानां स्थाने जश्त्वे कृते वर्गतृतीयः वर्णः आदेशरूपेण विधीयते — \n\n1. घघ् → जघाघ । अत्र <<कुहोश्चुः>> [[7.4.62]] इति अभ्यासघकारस्य झकारे कृते प्रकृतसूत्रेण तस्य जश्त्वे जकारः भवति ।\n2. झर्झ् → जझर्झ । झकारस्य स्थाने जश्त्वे जकारः विधीयते । \n3. ढौक् → डुढौके । ढकारस्य स्थाने जश्त्वे डकारः विधीयते । \n4. धाव्→ दधाव । धकारस्य स्थाने जश्त्वे दकारः विधीयते ।\n5. भूष् → बुभूष । भकारस्य स्थाने जश्त्वे बकारः विधीयते ।\n\n4. शकार-षकार-सकाराणां चर्त्वे कृते सः एवः वर्णः आदेशरूपेण विधीयते — \n\n1. शास् → शशास । शकारस्य स्थाने चर्त्वे शकारः एव विधीयते ।\n2. ष्वष्क् → षष्वस्के । षकारस्य स्थाने चर्त्वे षकारः एव विधीयते ।\n3. स्मृ → सस्मार । सकारस्य स्थाने चर्त्वे सकारः एव विधीयते ।\n\n5. अभ्यासहकारस्य विषये इदं सूत्रं नैव प्रवर्तते, यतः अभ्यासहकारस्य <<कुहोश्चुः>> [[7.4.62]] इत्यनेन चुत्वे अन्तरतमः झकारादेशः भवति, यस्य च अग्रे प्रकृतसूत्रेण जश्त्वे कृते जकारादेशः विधीयते — हस् → जहास । " }, "84055": { "sa": "झल्-वर्णस्य खर्-वर्णे परे चर्-वर्णादेशः भवति । ", "sd": "\nझल् = वर्गचतुर्थाः + वर्गतृतीयाः + वर्गद्वितीयाः + वर्गप्रथमाः + ऊष्माणः । आहत्य 24 वर्णाः । \nखर् = वर्गद्वितीयाः + वर्गप्रथमाः + श् + ष् + स् । आहत्य 13 वर्णाः । \nचर् = वर्गप्रथमाः + श् + ष् + स् । आहत्य 8 वर्णाः । \n\nप्रकृतसूत्रेण झल्-वर्णस्य खर्-वर्णे परे अन्तरतमः चर्-वर्णादेशः भवति । इदमेव परिवर्तनम् चर्त्वम् नाम्ना ज्ञायते । क्रमेण उदाहरणानि एतादृशानि —\n1. क्/ख्/ग्/घ् — एतेषां चर्त्वे कृते तेषां स्थाने आन्तरतम्येन ककारः विधीयते । यथा, भज्-धातोः क्त-प्रत्ययान्तरूपे प्रकृतसूत्रेण चर्त्वम् भवति —\n\nभजँ (सेवायाम्, भ्वादिः, अनिट्, <{1.1153}>)\n→ भज् + क्त [<<निष्ठा>> [[3.2.102]] इति क्तप्रत्ययः]\n→ भग् + त [<<चोः कुः>> [[8.2.30]] इति कुत्वम्]\n→ भक् + त [<<खरि च>> [[8.4.55]] इति चर्त्वे ककारः]\n→ भक्त \n\n2. च्/छ्/ज्/झ् — एतेषां प्रकृतसूत्रेण चर्त्वम् नैव सम्भवति, यतः <<चोः कुः>> [[8.2.30]] इत्यनेन चवर्गस्य झलि परे (अतः खरि परे अपि) कुत्वम् भवति ।\n3. ट्/ठ्/ड्/ढ् — एतेषां चर्त्वे कृते तेषां स्थाने आन्तरतम्येन टकारः विधीयते । परन्तु अस्य उदाहरणानि नैव सन्ति ।\n4. त्/थ्/द्/ध् — एतेषां चर्त्वे कृते तेषां स्थाने आन्तरतम्येन तकारः विधीयते । यथा, दा-धातोः क्त-प्रत्ययान्तरूपे थकारस्य चर्त्वे तकारः भवति —\n\nडुदाञ् (दाने, जुहोत्यादिः, <{3.10}>)\n→ दा + क्त [<<निष्ठा>> [[3.2.102]] इति क्तप्रत्ययः]\n→ दथ् + त [<<दो दद् घोः>> [[7.4.46]] इति दथ्-आदेशः]\n→ दत् + त [<<खरि च>> [[8.4.55]] इति थकारस्य चर्त्वे तकारः]\n→ दत्त\n\n5. प्/फ/ब्/भ् — एतेषां चर्त्वे कृते तेषां स्थाने आन्तरतम्येन पकारः विधीयते । यथा - लभ्-धातोः लृट्लकारस्य रूपेषु भकारस्य चर्त्वे पकारः भवति —\n\nडुलभँष् (पाके, भ्वादिः, <{1.1130}>)\nलभ् + लृट् [<<लृट् शेषे च>> [[3.3.13]] इति लृट्]\n→ लभ् + स्य + लृट् [<<स्यतासी लृलुटोः>> [[3.1.33]] इति 'स्य' विकरणम्]\n→ लभ् + स्य + तिप् [<<तिप्तस्झि...>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य सि-प्रत्ययः]\n→ लप् + स्य + ति [<<खरि च>> [[8.4.5]] इति भकारस्य चर्त्वे पकारः]\n→ लप्स्यति\n\n6. शकार-षकार-सकाराणां चर्त्वे कृते तत्स्थाने सः एव वर्णः विधीयते । उदाहरणम् एतादृशम् —\n\nओँव्रस्चूँ (छेदने, तुदादिः, <{6.12}>)\n→ व्रस्च् + अनीयर् [<<तव्यत्तव्यानीयरः>> [[3.1.96]] इति अनीयर्-प्रत्ययः]\n→ व्रश्च्+ अनीय [जकारे परे <<स्तोः श्चुना श्चुः>> [[8.4.40]] इति सकारस्य शकारः । अस्य असिद्धत्त्वात् <<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> [[8.2.36]] इति षत्वं न भवति ।]\n→ व्रश्चनीय [चकारे परे <<खरि च>> [[8.4.53]] इति शकारस्य चर्त्वे शकारः एव भवति ।]\n\n7.हकारस्य प्रकृतसूत्रेण चर्त्वम् नैव सम्भवति, यतः <<हो ढः>> [[8.2.31]] इत्यनेन हकारस्य झलि परे (अतः खरि परे अपि) ढकारादेशः भवति ।" }, "84056": { "sa": "अवसाने परे झल्-वर्णस्य विकल्पेन चर्-वर्णादेशः भवति । ", "sd": "\nझल् = वर्गचतुर्थाः + वर्गतृतीयाः + वर्गद्वितीयाः + वर्गप्रथमाः + ऊष्माणः । आहत्य 24 वर्णाः । \nचर् = वर्गप्रथमाः + श् + ष् + स् । आहत्य 8 वर्णाः । \n\nयदि झल्-वर्णात् परः अवसानम् (= विरामः / वर्णानाम् अभावः) विद्यते, तर्हि प्रकृतसूत्रेण झल्-वर्णस्य विकल्पेन अन्तरतमः चर्-वर्णादेशः भवति । \nवस्तुतस्तु पदान्त-झल्-वर्णस्य <<झलां जशोऽन्ते>> [[8.2.39]] इत्यनेन आदौ जश्त्वम् भवति । अतः प्रकृतसूत्रेण केवलम् जश्-वर्णस्य एव चर्त्वम् सम्भवति ।क्रमेण उदाहरणानि एतानि —\n1. पदान्तगकारस्य अवसाने परे वैकल्पिकः ककारः —\n\nवाच् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः]\n→ वाच् + स् [इत्संज्ञालोप;]\n→ वाच् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति सुँलोपः]\n→ वाक् [<<चोः कुः>> [[8.2.30]] इति पदान्तचकारस्य कुत्वे ककारः]\n→ वाग् [<<झलां जशोऽन्ते>> [[8.2.39]] इति पदान्तककारस्य जश्त्वे गकारः]\n→ वाक्, वाग् [<<वाऽवसाने>> [[8.4.56]] इति पदान्तगकारस्य पाक्षिके चर्त्वे ककारः]\n\n2. पदान्तजकारस्य विषये इदं सूत्रं नैव प्रवर्तते, यतः <<चोः कुः>> [[8.2.30]] इत्यनेन पदान्तजकारस्य गकारादेशः एव विधीयते ।\n3. पदान्तडकारस्य अवसाने परे वैकल्पिकः टकारः —\n\nसम्राज् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः]\n→ सम्राज् + स् [इत्संज्ञालोप;]\n→ सम्राज् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति सुँलोपः]\n→ सम्राष् [<<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> [[8.2.36]] इति जकारस्य षकारादेशः]\n→ सम्राड् [<<झलां जशोऽन्ते>> [[8.2.39]] इति पदान्तषकारस्य जश्त्वे डकारः]\n→ सम्राट् , सम्राड् <<वाऽवसाने>> [[8.4.56]] इति पदान्तडकारस्य पाक्षिके चर्त्वे टकारः]\n\n4. पदान्तदकारस्य अवसाने परे वैकल्पिकः तकारः —\n\nमरुत् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः]\n→ मरुत् + स् [इत्संज्ञालोप;]\n→ मरुत् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति सुँलोपः]\n→ मरुद् [<<झलां जशोऽन्ते>> [[8.2.39]] इति पदान्ततकारस्य जश्त्वे दकारः]\n→ मरुत्, मरुद् [<<वाऽवसाने>> [[8.4.56]] इति पदान्तदकारस्य पाक्षिके चर्त्वे तकारः]\n\n5. पदान्तबकारस्य अवसाने परे वैकल्पिकः पकारः —\n\nककुभ् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः]\n→ ककुभ् + स् [इत्संज्ञालोप;]\n→ ककुभ् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति सुँलोपः]\n→ ककुब् [<<झलां जशोऽन्ते>> [[8.2.39]] इति पदान्तभकारस्य जश्त्वे बकारः]\n→ ककुप्, ककुब् [<<वाऽवसाने>> [[8.4.56]] इति पदान्तबकारस्य पाक्षिके चर्त्वे पकारः]\n\n" }, "84057": { "sa": "प्रगृह्यसंज्ञकं विहाय अन्यशब्दस्य अण्-वर्णस्य अवसाने परे विकल्पेन अनुनासिकादेशः भवति । ", "sd": "प्रगृह्यम् इति संज्ञा <<ईदूदेद्द्विवचनं प्रगृह्यम्>> [[1.1.11]] इत्यस्मात् आरभ्य <<ईदूतौ च सप्तम्यर्थे>> [[1.1.19]] इत्येतैः नवभिः सूत्रैः दीयते । एतैः सूत्रेः केवलम् स्वराणाम् एव प्रगृह्यसंज्ञा भवति । एतेभ्यः केनचित् अपि सूत्रेण यस्य प्रगृह्यसंज्ञा न भवति, तादृशस्य अवर्णस्य/इवर्णस्य/उवर्णस्य अवसाने परे अनुनासिकादेशः भवति इति प्रकृतसूत्रस्य आशयः । क्रमेण उदाहरणानि एतानि —\n\n1. बाल-शब्दस्य सम्बोधनैकवचनस्य रूपम् बाल-इति भवति । अस्मिन् शब्दे लकारोत्तरस्य अकारस्य प्रगृह्यसंज्ञा न भवति । अस्यां स्थितौ यदि अस्मात् अकारात् अनन्तरम् अवसानम् (वर्णानाम् अभावः) विद्यते, तर्हि लकारोत्तरस्य अकारस्य विकल्पेन अनुनासिकादेशे कृते बालँ इत्यपि रूपं सिद्ध्यति ।\n2. तथा-शब्दस्य अन्तिम-आकारस्य प्रगृह्यसंज्ञायाः अभावात् प्रकृतसूत्रेण विकल्पेन अनुनासिकादेशे कृते तथाँ इत्यपि साधुरूपं सिद्ध्यति ।\n3. दधि-शब्दस्य अन्तिम-इकारस्य विकल्पेन अनुनासिकादेशे कृते दधिँ इत्यपि साधुरूपं सिद्ध्यति ।\n4. नदी-शब्दस्य अन्तिम-ईकारस्य विकल्पेन अनुनासिकादेशे कृते नदीँ इत्यपि साधुरूपं सिद्ध्यति ।\n5. मधु-शब्दस्य अन्तिम-उकारस्य विकल्पेन अनुनासिकादेशे कृते मधुँ इत्यपि साधुरूपं सिद्ध्यति ।\n6. अप्रगृह्यसंज्ञक-दीर्घ-ऊकारान्तपदानाम् उदाहरणानि न सन्ति अतः तेषां विषये इदं सूत्रं न प्रवर्तते ।\n\nदलकृत्यम्\n1. अप्रगृह्यस्य इति किमर्थम् ? प्रगृह्यसंज्ञकवर्णस्य प्रकृतसूत्रेण अनुनासिकादेशः न भवति । यथा - मती, धेनू एतयोः शब्दयोः <<ईदूदेद्द्विवचनं प्रगृह्यम्>> [[1.1.11]] इति सूत्रेण प्रगृह्यसंज्ञा भवति अतः तयोः विषये प्रकृतसूत्रम् नैव प्रवर्तते ।\n2. अणः इति किमर्थम् ? पचते, साधौ एतादृशेषु शब्देषु विद्यमानस्य स्वरस्य अनुनासिकादेशः न भवति ।\nअण्-प्रत्याहारः पूर्वेण णकारेण गृह्यते\nप्रकृतसूत्रे प्रयुक्तः अण्-प्रत्याहारः अइउण्-सूत्रस्य णकारेण निर्मितः अस्ति, न हि लण्-सूत्रस्य णकारेण । यदि अयम् णकारः लण्-प्रत्याहारस्य णकारेण निर्मितः स्यात्, तर्हि पाणिनिः तस्य स्थाने अच्-प्रत्याहारस्यैव प्रयोगम् अकरिष्यत्, यतः प्रगृह्यसंज्ञा केवलम् अच्-वर्णानाम् एव भवति । किञ्च, अस्यां स्थितौ अच्-प्रत्याहारस्य निर्देशः अपि व्यर्थः एव, यतः प्रगृह्यसंज्ञायाः निर्देशसामर्थ्याद् एव तत्र स्थानिनः अच्त्वम् सिद्ध्येत् । इत्युक्ते, यदि पाणिनिः सर्वेषाम् अच्-वर्णानां कृते इदं सूत्रम् ऐच्छत्, तर्हि 'अप्रगृह्यस्यानुनासिकः' इति लघुतरं सूत्रमेव सः निर्मायात् । परन्तु तथा न कृत्वा आचार्यः अण्-प्रत्याहारस्य अस्मिन् सूत्रे साक्षात् ग्रहणं करोति । एतदेव अस्य ज्ञापकम् यत् प्रकृतसूत्रे विद्यमानः अण्-प्रत्याहारः पूर्वणकारेण एव गृह्यते ।" }, "84058": { "sa": "अनुस्वारस्य यय्-वर्णे परे परसवर्णादेशः भवति ।", "sd": "\nयय् = वर्गीयव्यञ्जनानि + अन्तःस्थाः । आहत्य 29 वर्णाः\n\nयय्-वर्णे परे अनुस्वारस्य स्थाने परसवर्णादेशः भवति । अस्य सूत्रस्य प्रयोगः केवलम् अपदान्त-अनुस्वारस्य विषये एव सम्भवति, यतः पदान्ते विद्यमानस्य अनुस्वारस्य यय्-वर्णे परे <<वा पदान्तस्य>> [[8.4.59]] इति अग्रिमसूत्रेण केवलम् विकल्पेन एव अनुनासिकादेशः विधीयते । अपदान्त-अनुस्वारः तु <<नश्चापदान्तस्य झलि>> [[8.3.24]] इति एकेन एव सूत्रेण सिद्ध्यति । अतः प्रकृतसूत्रस्य प्रयोगः नित्यम् <<नश्चापदान्तस्य झलि>> [[8.3.24]] इत्यस्मात् अनन्तरम् सम्भवति । क्रमेण उदाहरणानि एतानि —\n1. कवर्गीयवर्णे परे अनुस्वारस्य ङकारादेशः विधीयते —\n\nअकिँ (लक्षणे, भ्वादिः, <{1.92}>)\n→ अन्क् [<<इदितो नुम् धातोः>> [[7.1.58]] इति नुमागमः]\n→ अन्क् + अनीयर् [<<तव्यत्तव्यानीयरः>> [[3.1.96]] इति अनीयर्-प्रत्ययः]\n→ अंकनीय [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति अनुस्वारः]\n→ अङ्कनीय [<<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति परसवर्णः ङकारः]\n\n2. चवर्गीयवर्णे परे अनुस्वारस्य ञकारादेशः विधीयते —\n\nमुचॢँ (मोक्षणे, तुदादिः, <{6.166}>)\n→ मुच् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ मुच् + तिप् [<<तिप्तस्झि..>> [[3.4.78]] इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]\n→ मुच् + श + ति [<<तुदादिभ्यः शः>> [[3.1.77]] इति 'श' इति विकरणप्रत्ययः]\n→ मु नुम् च् + अ + ति [<<शे मुचादीनाम्>> [[7.1.59]] इति नुमागमः]\n→ मुंच् + अ + ति [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति अनुस्वारः]\n→ मुञ्चति [<<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति नकारस्य परसवर्णे ञकारः]\n\n3. टवर्गीयवर्णे परे अनुस्वारस्य णकारादेशः विधीयते —\n\nकुठिँ (प्रतिघाते, भ्वादिः, <{1.0397}>\n→ कुन्ठ् [<<इदितो नुम् धातोः>> [[7.1.58]] इति नुमागमः]\n→ कुन्ठ् + अनीयर् [<<तव्यत्तव्यानीयरः>> [[3.1.96]] इति अनीयर्-प्रत्ययः]\n→ कुंठनीय [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति अनुस्वारः]\n→ कुण्ठनीय [<<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति परसवर्णः ङकारः]\n\n4. तवर्गीयवर्णे परे अनुस्वारस्य नकारादेशः विधीयते —\n\nचर् (गतौ भक्षणे च, भ्वादिः, <{1.640}>)\n→ चर् + लट् [<<वर्तमाने लट्>> [[3.2.123]] इति लट्]\n→ चर् + झि [<<तिप्तस्झि..>> इति प्रथमपुरुषबहुवचनस्य झि-प्रत्ययः]\n→ चर् + अन्ति [<<झोऽन्तः>> [[7.1.3]] इति अन्ति-आदेशः]\n→ चर् + शप् + अन्ति [<<कर्तरि शप्>> [[3.1.68]] इति शप्-प्रत्ययः]\n→ चर् + अ + अन्ति [इत्संज्ञालोपः]\n→ चरन्ति [<<अतो गुणे>> [[6.1.97]] इति पररूपम्]\n→ चरंति [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति अपदान्तनकारस्य अनुस्वारः]\n→ चरन्ति [<<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति परसवर्णः नकारः । अस्य असिद्धत्वात् <<रषाभ्यां नो णः समानपदे>> [[8.4.1]] इति षत्वं न विधीयते ।]\n\n5. पवर्गीयवर्णे परे अनुस्वारस्य मकारादेशः विधीयते —\n\nदन्भुँ (दम्भने, स्वादिः, <{5.26}>\n→ दन्भ् + अनीयर् [<<तव्यत्तव्यानीयरः>> [[3.1.96]] इति अनीयर्-प्रत्ययः]\n→ दंभनीय [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति अनुस्वारः]\n→ दम्भनीय [<<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति परसवर्णः मकारः]\n\nअपदान्त-अनुस्वारात् अनन्तरम् अन्तःस्थाः नैव सम्भवन्ति, यतः अपदान्त-अनुस्वारस्य निर्माणम् केवलम् <<नश्चापदान्तस्य झलि>> [[8.3.24]] इत्यनेनैव क्रियते; झल्-प्रत्याहारेण च अन्तःस्थानाम् ग्रहणमेव न भवति । अन्तःस्थवर्णे परे अपदान्त-अनुस्वारस्य निर्माणमेव न शक्यम् इति आशयः । पदान्त-अनुस्वारस्य विषये तु <<वा पदान्तस्य>> [[8.4.59]] इत्यनेन विकल्पेन परसवर्णादेशः भवति, अतः तस्य उदाहरणानि अत्र न दीयन्ते । \n\n\n" }, "84059": { "sa": "पदान्ते विद्यमानस्य अनुस्वारस्य यय्-वर्णे परे विकल्पेन परसवर्णादेशः भवति । ", "sd": "\nयय् = वर्गीयव्यञ्जनानि + अन्तःस्थाः । आहत्य 29 वर्णाः\n\n<<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इत्यनेन अनुस्वारस्य यय्-वर्णे परे नित्यम् परसवर्णे प्राप्ते; पदान्ते विद्यमानस्य अनुस्वारस्य विषये अयं परसवर्णः प्रकृतसूत्रेण विकल्प्यते । पदान्त-अनुस्वारस्य यय्-वर्णे परे विकल्पेनैव अनुनासिकादेशः भवति इति आशयः । क्रमेण उदाहरणानि एतानि —\n1. कवर्गीयवर्णे परे पदान्त-अनुस्वारस्य विकल्पेन ङकारादेशः विधीयते —\n\n1. सर्वं कृष्णम् → सर्वङ्कृष्णम्, सर्वं कृष्णम् ।\n2. अहं खलु → अहङ्खलु, अहं खलु ।\n3. किं गीतम् → किङ्गीतम्, किं गीतम् ।\n4. संघटना → सङ्घटना, संघटना । उपसर्गस्य पदसंज्ञा भवति, अतः उपसर्गस्य अन्ते विद्यमानः अनुस्वारः पदान्त-अनुस्वारः एव स्वीक्रियते ।\n5. त्वं ङकारः → त्वङ्ङकारः, त्वं ङकारः ।\n\n2. चवर्गीयवर्णे परे पदान्त-अनुस्वारस्य विकल्पेन ञकारादेशः विधीयते —\n\n1. इदं चित्रम् → इदञ्चित्रम्, इदं चित्रम् ।\n2. कं छात्रम् → कञ्छात्रम्, कं छात्रम् ।\n3. किं जितम् → किञ्जितम्, किं जितम् ।\n4. तं झटिति → तञ्झटिति, तं झटिति ।\n5. त्वं ञकारः → त्वञ्ञकारः, त्वं ञकारः ।\n\n3. टवर्गीयवर्णे परे पदान्त-अनुस्वारस्य विकल्पेन णकारादेशः विधीयते —\n\n1. इदं टङ्कणम् → इदण्टङ्कणम् इदं टङ्कणम् ।\n2. कं ठकारम् → कण्ठकारम्, कं ठकारम् ।\n3. किं डयते → किण्डयते, किं डयते ।\n4. तां ढक्काम् → ताण्ढक्काम्, तां ढक्काम्\n5. त्वं णकारः → त्वण्णकारः, त्वं णकारः ।\n\n4. तवर्गीयवर्णे परे पदान्त-अनुस्वारस्य विकल्पेन नकारादेशः विधीयते —\n\n1. इदं तत्र → इदन्तत्र, इदं तत्र ।\n2. त्वं थकारः → त्वन्थकारः, त्वं थकारः ।\n3. किं दत्तम् → किन्दत्तम्, किं दत्तम् ।\n4. तं धृतम् → तन्धृतम्, तं धृतम् ।\n5. अहं नमामि → अहन्नमामि, अहं नमामि ।\n\n5. पवर्गीयवर्णे परे पदान्त-अनुस्वारस्य विकल्पेन मकारादेशः विधीयते —\n\n1. फलं पतितम् → फलम्पतितम्, फलं पतितम् ।\n2. त्वं फुल्लः → त्वम्फुल्लः, त्वं फुल्लः ।\n3. एतं बन्धम् → एतम्बन्धम्, एतं बन्धम् ।\n4. अहं भीतः → अहम्भीतः, अहं भीतः ।\n5. किं मया → किम्मया, किं मया ।\n\n6. यकारे/वकारे/लकारे परे पदान्त-अनुस्वारस्य विकल्पेन यथासङ्ख्यम् यँकारादेशः / वँकारादेशः / लँकारादेशः भवति‌ —\n\n1. त्वं यासि → त्वय्ँयासि, त्वं यासि । अनुस्वारस्य परसवर्णः अनुनासिकः यँकारः ।\n2. अहं वन्दे → अहव्ँवन्दे, अहं वन्दे । अनुस्वारस्य परसवर्णः अनुनासिकः वँकारः ।\n3. किं लब्धम् → किल्ँलब्धम् , किं लब्धम् । अनुस्वारस्य परसवर्णः अनुनासिकः लकारः ।\n4. रेफस्य अनुनासिकः सवर्णः न विद्यते, अतः पदान्त-अनुस्वारात् रेफे परे अनुस्वारस्य परसवर्णादेशः न भवति ।\n" }, "84060": { "sa": "तवर्गीयवर्णस्य लकारे परे संहितायाम् परसवर्णः भवति । ", "sd": "तवर्गीयवर्णात् अनन्तरम् संहितायाम् लकारः विद्यते चेत् तवर्गीयवर्णस्य यथोचितम् परसवर्णः (लकारस्य सवर्णः) विधीयते । लकारस्य द्वौ सवर्णौ स्तः — अननुनासिकः लकारः तथा च अनुनासिकः लँकारः । अतः प्रकृतसूत्रेण तकार-थकार-दकार-धकाराणाम् लकारादेशः, नकारस्य च लँकारादेशः भवति । वस्तुतस्तु अस्य सूत्रस्य प्रयोगः केवलं पदान्ते एव भवति, यतः अपदान्त-तवर्गीयवर्णात् अनन्तरम् अव्यवहितरूपेण लकारः नैव सम्भवति । पदान्ते विद्यमानानाम् तकार-थकार-धकाराणाम् तु <<झलां जशोऽन्ते>> [[8.2.39]] इत्यनेन आदौ जश्त्वे दकारः क्रियते, तदनन्तरम् एव प्रकृतसूत्रेण लकारादेशः सम्भवति । अतः अस्य सूत्रस्य प्रयोगः केवलम् पदान्त-दकारस्य, नकारस्य च विषये दृश्यते । क्रमेण उदाहरणे एते —\n1. पदान्तदकारस्य लकारे परे लकारादेशः —\n\nमरुत् लुनाति \n→ मरुद् लुनाति [<<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वे दकारः]\n→ मरुल्लुनाति [<<तोर्लि>> [[8.4.60]] इति लकारः]\n\nसंहितायाः अविवक्षायाम् तु प्रकृतसूत्रेण लकारादेशः नैव विधीयते, अपि तु<<वाऽवसाने>> [[8.4.56]] इत्यनेन विकल्पेन चर्त्वे कृते मरुद् लुनाति, मरुत् लुनाति इति द्वे प्रयोगे भवतः । \n2. पदान्तनकारस्य लकारे परे लँकारादेशः —\n\nभवान् लिखति \n→ भवाल्ँलिखति [<<तोर्लि>> [[8.4.60]] इति नकारस्य परसवर्णे अनुनासिकः लँकारः]\n\nसंहितायाः अविवक्षायाम् भवान् लिखति इत्यपि साधुत्वं प्राप्नोति । \nभवाल्ँलिखति इत्यस्मिन् शब्दे लकारः अनुनासिकः अस्ति, न हि आकारः इकारः वा । अतः अयं शब्दः भवाँल्लिखति उत भवाल्लिँखति इति नैव लेखनीयः ।" }, "84061": { "sa": "उद्-उपसर्गात् परस्य स्था-धातोः स्तम्भ-धातोः पूर्वसवर्णादेशः भवति । ", "sd": "उत् + स्था इत्यत्र स्था-धातोः, तथा च उत् + स्तम्भ् इत्यत्र स्तम्भ्-धातोः पूर्वसवर्णः (दकारस्य सवर्णः) आदेशरूपेण विधीयते । दकारस्य आहत्य पञ्च सवर्णाः सन्ति — त्, थ्, द्, ध्, न् । एतेभ्यः विवार-श्वास-अघोष-महाप्राण-सकारस्य तादृशः एव थकारः आदेशरूपेण विधीयते । अपि च, <<आदेः परस्य>> [[1.1.54]] इत्यनेन अयम् आदेशः स्था/स्तम्भ्-इत्येतयोः आदिवर्णस्य (सकारस्य) स्थाने भवति । इत्युक्ते, उद् + स्था तथा च उद् + स्तम्भ् इत्यत्र विद्यमानस्य सकारस्य थकारादेशः भवति — इति प्रकृतसूत्रस्य आशयः । यथा —\n1) स्था-धातोः सकारस्य थकारादेशः\n\nउद् + स्थानम्\n→ उत् + स्थानम् [<<खरि च>> [[8.4.55]] इति चर्त्वम्]\n→ उत् + थ्थानम् [<<उदः स्थास्तम्भोः पूर्वस्य>> [[8.4.61]] इति सकारस्य थकारः]\n→ उत्थ्थानम्\n→ उत्थानम् [<<झरो झरि सवर्णे>> [[8.4.65]] इत्यनेन थकारस्य विकल्पेन लोपः]\n\n2) स्तम्भ्-धातोः सकारस्य थकारादेशः\n\nउद् + स्तम्भनम्\n→ उत् + स्तम्भनम् [<<खरि च>> [[8.4.55]] इति चर्त्वम्]\n→ उत् + थ्तम्भनम् [<<उदः स्थास्तम्भोः पूर्वस्य>> [[8.4.61]] इति सकारस्य थकारः]\n→ उत्थ्तम्भनम्\n→ उत्तम्भनम् [<<झरो झरि सवर्णे>> [[8.4.65]] इत्यनेन थकारस्य विकल्पेन लोपः]\n\nवार्त्तिकद्वयम्\n1. \nवेदेषु उद् + स्कन्द् इत्यत्रापि सकारस्य पूर्वसवर्णः कृतः दृश्यते । यथा, अग्ने दूरम् उत्कन्दः इत्यत्र सकारस्य थकारादेशे कृते, तस्य च अग्रे <<झरो झरि सवर्णे>> [[8.4.65]] इति लोपे कृते उत्कन्द इति रूपं सिद्ध्यति ।\n2. \nउत्कन्दक इति रोगवाचकः शब्दः (name of a disease) उद् + स्कन्द् इत्यस्मात् <<रोगाख्यायां ण्वुल् बहुलम्>> [[3.3.108]] इत्यनेन सूत्रेण ण्वुल्-प्रत्यये कृते सिद्ध्यति । तत्र प्रक्रियायां प्रकृतसूत्रेण सकारस्य परसवर्णः थकारः भवति —‌ इति अस्य वार्त्तिकस्य आशयः । ततश्च <<झरो झरि सवर्णे>> [[8.4.65]] इति लोपः अपि विधीयते, येन उत्कन्दक इति शब्दः सिद्ध्यति ।\n" }, "84062": { "sa": "झय्-वर्णात् परस्य हकारस्य विकल्पेन पूर्वसवर्णः (वर्गचतुर्थः) आदेशः भवति । ", "sd": "\nझय् = वर्गप्रथमाः, वर्गद्वितीयाः, वर्गतृतीयाः, वर्गचतुर्थाः\n\nझय्-वर्णात् परस्य हकारस्य विकल्पेन पूर्वसवर्णादेशः भवति — इति अस्य सूत्रस्य आशयः । संवार-नाद-घोष-महाप्राण-हकारस्य तादृशः एव पूर्वसवर्णः वर्गचतुर्थः वर्णः आदेशरूपेण विधीयते । \nअस्मिन् सूत्रे पूर्वसवर्णः इति शब्दः साक्षात् नैव अनुवर्तते । परन्तु <<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इत्यस्मात् सवर्णः इति, तथा च <<उदः स्थास्तम्भोः पूर्वस्य>> [[8.4.61]] इत्यस्मात् पूर्वस्य इति स्वीकृत्य पूर्वस्य सवर्णः इति अत्र अर्थविधानार्थम् क्रियते ।\nवस्तुतस्तु, अपदान्त-झय्-वर्णात् परः हकारः नैव सम्भवति । अपि च, पदान्त-झय्-वर्णस्य तु प्रक्रियायाम् आदौ <<झलां जशोऽन्ते>> [[8.2.39]] इत्यनेन जश्त्वम् अवश्यमेव भवति । इत्युक्ते, केवलम् वर्गतृतीयवर्णात् अनन्तरम् विद्यमानस्य हकारस्य विषये एव अस्य सूत्रस्य प्रसक्तिः वर्तते । तानि एतादृशानि —\n1. गकारात् परस्य हकारस्य विकल्पेन वर्गचतुर्थः (घकारादेशः)\n\nवाचः हरिः [<<षष्ठी>> [[2.2.8]] इति षष्ठीतत्पुरुषः]\n→ वाच् + हरि [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्यययोः लोपः]\n→ वाक् + हरि [<<चोः कुः>> [[8.2.30]] इति कुत्वम्]\n→ वाग् + हरि [<<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वम्]\n→ वाग् + घरि [<<झयो होऽन्यतरस्याम्>> [[8.4.62]] इति हकारस्य वैकल्पिकः पूर्वसवर्णः घकारः]\n→ वाग्घरि ।\n
    \nपक्षे प्रकृतसूत्रस्य प्रयोगं विना वाग्हरि इत्यपि रूपं सिद्ध्यति ।\n
    \n2. जकारात् परस्य हकारस्य विकल्पेन वर्गचतुर्थः (झकारादेशः)\nवस्तुतस्तु पदान्तजकारस्य प्रायेण सर्वत्र <<चोः कुः>> [[8.2.30]] इति कुत्वे गकारः विधीयते । परन्तु अच्इति प्रत्याहारस्य चकारस्य कुत्वं कुत्रचित् स्पष्टताप्रतिपत्यर्थम् कुत्वं विना एव प्रयोगः क्रियते । तत्र जकारात् परस्य हकारस्य पूर्वसवर्णः झकारः सम्भवति —\n\nअच् च हल् च [<<चार्थे द्वन्द्वः>> [[2.2.29]]\n→ अच् + हल् + औ [द्विवचनस्य निर्देशार्थम् <<स्वौजस्..>> [[4.1.2]] इति औ-प्रत्ययः]\n→ अज् + हल् + औ [<<झलां जशोऽन्ते>> [[8.2.39]] इति चकारस्य जश्त्वे जकारः। अत्र <<चोः कुः>> [[8.2.30]] इति सूत्रम् नैव प्रवर्तते, यतः तस्य प्रयोगसमये अच्-शब्दस्य भसंज्ञा भवति इति <<वृद्धिरादैच्>> [[1.1.1]] सूत्रे भाष्यकारः स्पष्टी करोति ।]\n→ अज् + झल् + औ [<<झयो होऽन्यतरस्याम्>> [[8.4.62]] इति हकारस्य वैकल्पिकः पूर्वसवर्णः झकारः]\n→ अज्झलौ\n
    \nपक्षे प्रकृतसूत्रस्य प्रयोगं विना अज्हलौ इत्यपि रूपं सिद्ध्यति ।\n
    \n3. डकारात् परस्य हकारस्य विकल्पेन वर्गचतुर्थः (ढकारादेशः)\n\nमधुलिड् हसति \n→ मधुलिड् ढसति [<<झयो होऽन्यतरस्याम्>> [[8.4.62]] इति हकारस्य वैकल्पिकः पूर्वसवर्णः ढकारः]\n→ मधुलिड्ढसति \n
    \nपक्षे प्रकृतसूत्रस्य प्रयोगं विना मधुलिड्हसति इत्यपि रूपं सिद्ध्यति ।\n
    \n4. दकारात् परस्य हकारस्य विकल्पेन वर्गचतुर्थः (धकारादेशः)\n\nतस्मै हितम् [<<चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः>> [[2.1.36]] इति चतुर्थीतत्पुरुषः]\n→ तद् हितम् [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्यययोः लोपः]\n→ तद् धितम् [<<झयो होऽन्यतरस्याम्>> [[8.4.62]] इति हकारस्य वैकल्पिकः पूर्वसवर्णः धकारः]\n→ तद्धितम्\n
    \nपक्षे प्रकृतसूत्रस्य प्रयोगं विना तद्हितम् इत्यपि रूपं सिद्ध्यति ।\n
    \n5. बकारात् परस्य हकारस्य विकल्पेन वर्गचतुर्थः (भकारादेशः)\n\nत्रिष्टुब् हि\n→ त्रिष्टुब्भि [<<झयो होऽन्यतरस्याम्>> [[8.4.62]] इति हकारस्य वैकल्पिकः पूर्वसवर्णः भकारः]\n
    \nपक्षे प्रकृतसूत्रस्य प्रयोगं विना त्रिष्टुब्हि इत्यपि रूपं सिद्ध्यति ।\n
    \n" }, "84063": { "sa": "झय्-वर्णात् परस्य शकारस्य अट्-वर्णे परे विकल्पेन छकारादेशः भवति ।", "sd": "\nझय् = वर्गप्रथमाः, वर्गद्वितीयाः, वर्गतृतीयाः, वर्गचतुर्थाः ।\n अट् = सर्वे स्वराः, हकारः, यकारः, वकारः, रेफः ।\n\nझय्-वर्णात् परस्य शकारस्य अट्-वर्णे परे विकल्पेन छकारादेशः भवति — इति अस्य सूत्रस्य आशयः। वस्तुतस्तु, भाषायाम् अपदान्त-झय्-वर्णात् परः शकारः नैव सम्भवति । अपि च, पदान्तात् झय्-वर्णात् अग्रे शकारः विद्यते चेत् पदान्त-झय्-वर्णस्य आदौ <<खरि च>> [[8.4.55]] इत्यनेन चर्त्वं भवति । इत्युक्ते, प्रकृतसूत्रस्य प्रयोगः केवलम् पदान्त-चर्-वर्णात् परस्य शकारस्य विषये एव सम्भवति । क्रमेण उदाहरणानि एतानि —\n1. पदान्त-ककारात् परस्य शकारस्य अट्-वर्णे परे विकल्पेन छकारादेशः\n\nवाचः शुद्धिः [<<षष्ठी>> [[2.2.8]] इति षष्ठीतत्पुरुषः]\n→ वाच् + शुद्धि [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्यययोः लुक्]\n→ वाक् + शुद्धि [<<चोः कुः>> [[8.2.30]] इति कुत्वम्]\n→ वाग् + शुद्धि [<<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वम् ]\n→ वाक् + शुद्धि [<<खरि च>> [[8.4.55]] इति चर्त्वम्]\n→ वाक्छुद्धि [<<शश्छोऽटि>> [[8.4.63]] इति ककारात् परस्य शकारस्य अट्-वर्णे परे (उकारे परे) छकारादेशः]\n
    \nपक्षे छकारादेशं विना वाक्शुद्धि इत्यपि रूपं सिद्ध्यति । \n
    \n2. पदान्त-चकारात् परस्य शकारस्य अट्-वर्णे परे विकल्पेन छकारादेशः\n\nसुहृद् + शेते \n→ सुहृज् + शेते [<<स्तोः श्चुना श्चुः>> [[8.4.40]] इति श्चुत्वम्]\n→ सुहृच् + शेते [<<खरि च>> [[8.4.55]] इति चर्त्वम्]\n→ सुहृच्छेते [<<शश्छोऽटि>> [[8.4.63]] इति चकारात् परस्य शकारस्य अट्-वर्णे परे (एकारे परे) छकारादेशः]\n
    \nपक्षे छकारादेशं विना सुहृच्शेते इत्यपि रूपं सिद्ध्यति । \n
    \n\n3. पदान्त-टकारात् परस्य शकारस्य अट्-वर्णे परे विकल्पेन विकल्पेन छकारादेशः\n\nमधुलिह् + सुँ + शेते \n→ मधुलिह् + स् + शेते [उकारस्य <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इति इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ मधुलिह् + शेते [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति अपृक्त-सुँ-प्रत्ययस्य लोपः]\n→ मधुलिढ् + शेते [<<हो ढः>> [[8.2.31]] इति हकारस्य ढकारः]\n→ मधुलिड् + शेते [<<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वे डकारः]\n→ मधुलिट् + शेते [<<खरि च>> [[8.4.55]] इति चर्त्वे टकारः]\n→ मधुलिट्छेते [<<शश्छोऽटि>> [[8.4.63]] इति टकारात् परस्य शकारस्य अट्-वर्णे परे (एकारे परे) विकल्पेन छकारादेशः]\n
    \nपक्षे छकारादेशं विना मधुलिट्शेते इत्यपि रूपं सिद्ध्यति । \n
    \n4. पदान्त-तकारात् परस्य शकारस्य अट्-वर्णे परे विकल्पेन छकारादेशः\nपदान्त-तकारस्य शकारे परे नित्यम् <<स्तोः श्चुना श्चुः>> [[8.4.40]] इति श्चुत्वम् भवति । इत्युक्ते, पदान्तचकारात् अव्यवहितः परः शकारः अस्य सूत्रस्य प्रयोगसमये नैव सम्भवति । अतः अस्य सूत्रस्य पदान्ततकारस्य उदाहरणानि न सन्ति ।\n5. पदान्त-पकारात् परस्य शकारस्य अट्-वर्णे परे विकल्पेन छकारादेशः\nअनु-उपसर्गपूर्वकात् सृप्-धातोः क्विप्-प्रत्यये कृते अनुसृप् (glider) इति शब्दः सिद्ध्यति । अस्मात अनन्तरम् श्येन-शब्दः विद्यते चेत् शकारस्य प्रकृतसूत्रेण विकल्पेन छकारादेशः विधीयते —\n\nअनुसृप् + सुँ + श्येनः \n→ अनुसृप् + स् + श्येनः [उकारस्य <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इति इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ अनुसृप् + श्येनः [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति अपृक्त-सुँ-प्रत्ययस्य लोपः]\n→ अनुसृब् + श्येनः [<<झलां जशोऽन्ते>> [[8.2.39]] इति जश्त्वम्]\n→ अनुसृप् + श्येनः [<<खरि च>> [[8.4.55]] इति चर्त्वम् ]\n→ अनुसृप्छ्येनः [<<शश्छोऽटि>> [[8.4.63]] इति तकारात् परस्य शकारस्य अट्-वर्णे परे (यकारे परे) विकल्पेन छकारादेशः]\n
    \nपक्षे छकारादेशं विना अनुसृप्श्येनः इत्यपि रूपं सिद्ध्यति । \n
    \nवार्त्तिकम् — <!छत्वम् अमीति वाच्यम्!> \nप्रकृतसूत्रेण उक्तः छकारादेशः केवलम् अट्-वर्णे परे एव भवति इति न, अपि तु अम्-वर्णे परे अपि भवति इति अस्य वार्त्तिकस्य आशयः ।\n\n अम् = सर्वे स्वराः, हकारः, यकारः, वकारः, रेफः, लकारः, वर्गपञ्चमाः । \n\nइत्युक्ते, यत्र शकारात् परः लकारः, वर्गपञ्चमः वर्णः वा विद्यते, तत्र अपि प्रकृतसूत्रेण शकारस्य विकल्पेन छकारादेशः भवति । द्वे उदाहरणे एतादृशे —\n1. शकारात् लकारे परे शकारस्य विकल्पेन छकारादेशः — \n\nअनुष्टुभ् + सुँ + श्लोकः \n→ अनुष्टुभ् + स् + श्लोकः [उकारस्य <<उपदेशेऽजनुनासिक इत्>> [[1.3.2]] इति इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ अनुष्टुभ् + श्लोकः [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इति अपृक्त-सुँ-प्रत्ययस्य लोपः]\n→ अनुष्टुब् + श्लोकः [<<झलां जशोऽन्ते>> [[8.2.39]] इति भकारस्य जश्त्वे बकारः]\n→ अनुष्टुप् + श्लोकः [<<खरि च>> [[8.4.55]] इति चर्त्वे पकारः]\n→ अनुष्टुप्छ्लोकः [ इति वार्त्तिकेन पकारात् परस्य शकारस्य अम्-वर्णे परे (लकारे परे) विकल्पेन छकारादेशः]\n
    \nपक्षे छकारादेशं विना अनुष्टुप्श्लोकः इत्यपि रूपं सिद्ध्यति । \n
    \n2. शकारात् मकारे परे शकारस्य विकल्पेन छकारादेशः — \n\nसुहृदः श्मश्रुः [<<षष्ठी>> [[2.2.8]] इति षष्ठीतत्पुरुषः]\n→ सुहृद् श्मश्रुः [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुप्-प्रत्यययोः लुक्]\n→ सुहृत् श्मश्रुः [<<खरि च>> [[8.4.55]] इति चर्त्वम् ]\n→ सुहृत्छ्मश्रुः [ इति वार्त्तिकेन पकारात् परस्य शकारस्य अम्-वर्णे परे (मकारे परे) विकल्पेन छकारादेशः]\n
    \nपक्षे छकारादेशं विना सुहृत्श्मश्रुः इत्यपि रूपं सिद्ध्यति । \n
    \n<<शि तुक्>> [[8.3.31]] सूत्रात् अनन्तरम् प्रकृतसूत्रस्य प्रयोगः\n<<शि तुक्>> [[8.3.31]] इति सूत्रेण पदान्तनकारस्य शकारे परे तुगागमः विधीयते । अयम् तुगागमः पदान्तनकारस्यैव अवयवरूपेण स्वीक्रियते, अतश्च स्वयम् अपि पदान्तत्वं प्राप्नोति । अस्मात् पदान्त-तकारस्य परस्य शकारस्य अग्रे प्रकृतसूत्रेण छत्वम् अवश्यम् सम्भवति —\n\nभवान् शेते\n→ भवान् तुक् शेते [<<शि तुक्>> [[8.3.30]] इत्यनेन पदान्तनकारस्य पाक्षिकः तुगागमः । <<आद्यन्तौ टकितौ>> [[1.1.46]] इति अयम् अन्त्यावयवरूपेण विधीयते ।]\n→ भवान् त् शेते [ककारस्य <<हलन्त्यम्>> [[1.3.3]] इति इत्संज्ञा । <<तस्य लोपः>> [[1.3.9]] इति लोपः । तकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ]\n→ भवान् च् शेते [<<स्तोः श्चुना श्चुः>> [[8.4.40]] इति तकारस्य शकारे परे श्चुत्वे चकारः]\n→ भवाञ् च् शेते [<<स्तोः श्चुना श्चुः>> [[8.4.40]] इति नकारस्य चकारे परे श्चुत्वे ञकारः]\n→ भवाञ् च् शेते / भवाञ् च् छेते [<<शश्छोऽटि>> [[8.4.63]] इति शकारस्य विकल्पेन छकारः]\n→ भवाञ्च्शेते / भवाञ्च्छेते / भवाञ्छेते [छत्वपक्षे <<झरो झरि सवर्णे>> [[8.4.65]] इति चकारस्य लोपः]\n
    \n<<शि तुक्>> [[8.3.30]] इत्यनेन उक्तः तुगागमः विकल्पेनैव भवति, अतः पक्षे तुगागमं विना भवान् शेते अस्यां स्थितौ <<स्तोः श्चुना श्चुः>> [[8.4.40]] इति श्चुत्वे भवाञ्शेते इति अपि रूपं सम्भवति । \n
    \nपदान्त-झय्-वर्णस्य विषये एव प्रकृतसूत्रं प्रवर्तते — इति कौमुदी \nप्रकृतसूत्रस्य व्याख्याने कौमुदीकारः पदान्तात् इति पदम् विशिष्टरूपेण अनुवर्तयति । इत्युक्ते, अपदान्त-झय्-वर्णात् परस्य शकारस्य प्रकृतसूत्रेण छत्वं न भवति — इति अत्र कौमुदीकारस्य आशयः अस्ति । वस्तुतस्तु, लौकिकसंस्कृते अपदान्त-झय्-वर्णात् परः शकारः नैव दृश्यते । परन्तु वेदेषु कुत्रचित् अपदान्त-झय्-वर्णात् परः शकारः अवश्यं प्रयुक्तः वर्तते; तत्र प्रकृतसूत्रस्य प्रयोगः न स्यात् — इति हेतुना कौमुदीकारेण अत्र पदान्तात् इति शब्दः विशेषरूपेण स्वीकृतः वर्तते । यथा, ऋग्वेदे 4.50.3 इत्यत्र मध्व॑: श्चोतन्त्य॒भितो॑ विर॒प्शम् इति कश्चन प्रयोगः विद्यते । एवमेव यजुर्वेदे 1.28 इत्यत्र पुरा क्रुरस्य विसृपो विरप्शिन् इति अन्यः प्रयोगः विद्यते । अत्र विद्यमानौ विरप्श तथा विरप्शिन् इति शब्दौ वि + रेप् + श इति उणादिसंज्ञकं श-प्रत्ययं कृत्वा एकारस्य अकारादेशे कृते सिद्ध्यतः । अस्या प्रक्रियायाम् पकारात् परस्य शकारस्य विकल्पेन छकारादेशः मा भूत् — इति स्पष्टीकर्तुम् कौमुदीकारेण अस्मिन् सूत्रे पदान्तग्रहणं कृतम् अस्ति । \nअपि च, <<शि तुक्>> [[8.3.31]] इत्यस्मिन् सूत्रे तुक् इति कित्-आगमविधानम् अपि अस्य ज्ञापकम् अस्ति । यदि <<शि तुक्>> [[8.3.31]] इत्यत्र स्थाने <<शि तुट्>> इति टित्-आगमः विधीयेत, तर्हि अपि न् + त् + श् इत्येव स्थितिः सम्भवेत् । परन्तु तत्र तकारः शकारस्य अवयवरूपेण विधीयेत, न हि नकारस्य अवयवरूपेण । अस्यां स्थितौ तकारः पदान्तत्वं न हि प्राप्नुयात् । एतादृशं भवेत् चेत् <<शश्छोऽटि>> [[8.4.63]] इति सूत्रेण पदान्त-झय्-वर्णस्य अनुपस्थितौ शकारस्य इष्टः छकारादेशः अपि नैव सम्भवेत् — इति दृष्ट्वा पाणिनिना <<शि तुक्>> [[8.3.31]] इत्यत्र कित्-आगमः पाठितः अस्ति । अतश्च <<शि तुक्>> [[8.3.31]] इत्यत्र विद्यमानम् कित्-आगमविधानम् एव अत्र प्रकृतसूत्रे पदान्तग्रहणस्य ज्ञापकरूपेण स्वीक्रियते ।\nवस्तुतस्तु, विशिष्टेषु वैदिकप्रयोगेषु शकारस्य छत्वादेशस्य अप्राप्तिः प्रकृतसूत्रे अनुवृत्तिरूपेण विद्यमाने अन्यतरस्याम् इति शब्देन अपि सम्भवति, अतः अत्र पदान्तग्रहणस्य नैव किञ्चन विशिष्टम् प्रयोजनम् वर्तते इति अपि वक्तुम् शक्यमेव ।\n" }, "84064": { "sa": "हल्-वर्णात् परस्य यम्-वर्णस्य यम्-वर्णे परे विकल्पेन लोपः भवति । ", "sd": "\nहल् = सर्वाणि व्यञ्जनानि ।\nयम् = अन्त:स्थाः + वर्गपञ्चमाः ।\n\nहल्-वर्णात् अनन्तरम्, यम्-वर्णात् पूर्वम् विद्यमानस्य यम्-वर्णस्य प्रकृतसूत्रेण वैकल्पिकः लोपः भवति । अस्य सूत्रस्य द्वे उदाहरणे एतादृशे —\n1. आदित्यः देवता यस्य अस्मिन् अर्थे <<दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः>> [[4.1.85]] अनेन सूत्रेण आदित्य शब्दात् ण्य-प्रत्यये कृते प्रकृतसूत्रेण यकारस्य लोपः विधीयते —\n\nआदित्यः देवता अस्य [तद्धितवृत्तिः]\n= आदित्य + ण्य [<<दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः>> [[4.1.85]] इति ण्य-प्रत्ययः]\n→ आदित्य + य [णकारस्य <<चुटू>> [[1.3.7]] इति इत्संज्ञा, <<तस्य लोपः>> [[1.3.9]] इति लोपः]\n→ आदित्य् य [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ आदित् य [<<हलो यमां यमि लोपः>> [[8.4.64]] इति तकारात् (हल्-वर्णात्) परस्य यकारस्य (यम्-वर्णस्य) यकारे परे (यम्-वर्णे परे) विकल्पेन लोपः भवति ।]\n→ आदित्य\n\n2. आस्ये भवः अस्मिन् अर्थे आस्य-शब्दात् <<शरीरावयवाच्च>> [[4.3.55]] इति सूत्रेण यत्-प्रत्यये कृते पुनः आस्य इत्येव शब्दः सिद्ध्यति । अस्य प्रक्रियायां यकारस्य प्रकृतसूत्रेण लोपः कृतः दृश्यते —\n\nआस्ये भवः [तद्धितवृत्तिः]\n→ आस्य + यत् [<<शरीरावयवाच्च>> [[4.3.55]] इति यत्]\n→ आस्य् + य [<<यस्येति च>> [[6.4.148]] इति अकारलोपः]\n→ आस् + य [<<हलो यमां यमि लोपः>> [[8.4.64]] इति सकारात् (हल्-वर्णात्) परस्य यकारस्य (यम्-वर्णस्य) यकारे परे (यम्-वर्णे परे) विकल्पेन लोपः भवति ।]\n→ आस्य\n\n<<अनचि च>> [[8.4.47]] तथा च <<अचो रहाभ्यां द्वे>> [[8.4.46]] इत्यादिभिः सूत्रैः (वार्त्तिकैः च) द्वित्वे कृते अपि अस्य सूत्रस्य प्रयोगः सम्भवति, परन्तु कोऽपि नूतनः शब्दः न सिद्ध्यति, अपितु कृतद्वित्वस्य वर्णस्य एव अनेन सूत्रेण लोपं कृत्वा मूलशब्दस्य पुनः विधानं क्रियते । कानिचन उदाहरणानि एतानि —\n1. <<अनचि च>> [[8.4.47]] इत्यस्मात् अनन्तरम् प्रकृतसूत्रस्य प्रयोगः —‌\n\nशय्या\n→ शय्य्या [<<अनचि च>> [[8.4.47]] इति यकारस्य वैकल्पिकं द्वित्वम्]\n→ शय्या [द्वितीयस्य यकारस्य <<हलो यमां यमि लोपः>> [[8.4.64]] इति विकल्पेन लोपः]\n\n2. <<अचो रहाभ्यां द्वे>> [[8.4.46]] इत्यस्मात् अनन्तरम् प्रकृतसूत्रस्य प्रयोगः —‌\n\nदुर्लभ\n→ दुर्ल्लभ [<<अचो रहाभ्यां द्वे>> [[8.4.46]] इति लकारस्य वैकल्पिकम् द्वित्वम् ]\n→ दुर्लभ [प्रथम-लकारस्य <<हलो यमां यमि लोपः>> [[8.4.64]] इति विकल्पेन लोपः]\n\n3. इत्यस्मात् अनन्तरम् प्रकृतसूत्रस्य प्रयोगः —\n\nवाल्मीकि\n→ वाल्म्मीकि [ (वार्त्तिकम् [[8.4.47]]) इति इति मकारस्य वैकल्पिकम् द्वित्वम् ]\n→ वाल्मीकि [प्रथम-मकारस्य <<हलो यमां यमि लोपः>> [[8.4.64]] इति विकल्पेन लोपः]\n\nयम्-वर्णस्य सवर्णे यम्-वर्णे परे एव लोपः\nयद्यपि प्रकृतसूत्रे यम्-वर्णस्य यम्-वर्णे परे लोपः उक्तः अस्ति, तथापि अत्र केवलम् यम्-वर्णस्य तस्मिन् यम्-वर्णे परे एव लोपः विधीयते । इत्युक्ते, यकारस्य यकारे परे, लकारस्य लकारे परे — इत्यनेन प्रकारेणैव लोपः विधीयते । अतएव अस्य सूत्रस्य कौमुदीव्याख्याने यथासङ्ख्यविज्ञानात् इति शब्दः प्रयुक्तः अस्ति । अतएव माहात्म्यम् इत्यस्मिन् शब्दे विद्यमानस्य मकारस्य यकारे परे प्रकृतसूत्रेण लोपः नैव विधीयते । \n<pv> <<हलो यमां यमि लोपः>> [[8.4.64]] तथा च <<झरो झरि सवर्णे>> [[8.4.65]] इति द्वयोः सूत्रयोः पृथक् विधानस्य प्रयोजनम्\n<<हलो यमां यमि लोपः>> [[8.4.64]] तथा च <<झरो झरि सवर्णे>> [[8.4.65]] इति द्वाभ्याम् अपि सूत्राभ्याम् लोपकार्यम् एव उक्तम् अस्ति । अतः एते द्वे सूत्रे एकत्रीकृत्य (इत्युक्ते, यम् + झर् = यर् इति यर्-प्रत्याहारस्य प्रयोगं कृत्वा) <<हलो यरां यरि सवर्णे लोपः>> इति एकम् सूत्रम् अपि कर्तुम् शक्यते । परन्तु तादृशं क्रियते चेत् मूर्ध्नः, शार्ङ्गम्, आर्त्नी इत्यादिषु शब्देषु हल्-वर्णात् परस्य (रेफात् परस्य) यर्-वर्णस्य (धकारस्य) सवर्णे यर्-वर्णे परे (नकारे परे) अनिष्टः लोपः सम्भवेत् । तादृशं मा भूत् इति ज्ञापयितुम् पाणिनिना यर्-प्रत्याहारस्य स्थाने यम् तथा झर् इति द्वौ प्रत्याहारौ पृथक् पृथक् प्रयुज्य द्वयोः भिन्नसूत्रयोः निर्माणम् कृतम् अस्ति । मूर्ध्नः, शार्ङ्गम्, आर्त्नी इत्यादिषु उदाहरणेषु झर्-वर्णात् परः झर्-वर्णः न हि विद्यते, अतः एतादृशेन भिन्नसूत्रस्य निर्माणेन एतेषु उदाहरणेषु अनिष्टः लोपः अपि न भवति । " }, "84065": { "sa": "हलः परस्य झर्-वर्णस्य सवर्णे झर्-वर्णे परे विकल्पेन लोपः भवति । ", "sd": "\nहल् = सर्वाणि व्यञ्जनानि ।\nझर् = वर्गप्रथमाः, वर्गद्वितीयाः, वर्गतृतीयाः, वर्गचतुर्थाः, शकारः, षकारः, सकारः ।\n\nहल्-वर्णात् परस्य झर्-वर्णस्य सवर्णे झर्-वर्णे परे प्रकृतसूत्रेण विकल्पेन लोपः भवति । कानिचन उदाहरणानि एतानि —\n1. प्र-उपसर्गपूर्वकस्य दा-धातोः क्त-प्रत्यये कृते प्रत्त इति रूपम् इत्थं सिद्ध्यति —\n\nडुदाञ् (दाने, जुहोत्यादिः, <{3.10}>) \n→ प्र + दा + क्त [प्र-उपसर्गपूर्वकात् दा-धातोः <<निष्ठा>> [[3.2.102]] इति सूत्रेण क्त-प्रत्ययः]\n→ प्र + द् त् + त [<<अच उपसर्गात्तः>> [[7.4.47]] इत्यनेन दा-धातोः आकारस्य तकारः]\n→ प्र + त् त् + त [<<खरि च>> [[8.4.55]] इति दकारस्य चर्त्वे तकारः]\n→ प्र + त् + त [हल्-वर्णात् (तकारात्) परस्य झर्-वर्णस्य (तकारस्य) सवर्णे झर्-वर्णे परे (तकारे परे) <<झरो झरि सवर्णे>> [[8.4.65]] विकल्पेन लोपः भवति ]\n→ प्रत्त \n\n2. पिष्-धातोः लोट्लकारस्य मध्यमपुरुषैकवचनस्य पिण्ढि इति रूपस्य सिद्धौ प्रकृतसूत्रेण डकारस्य लोपः भवति —\n\nपिषॢँ (सञ्चूर्णने, हिंसायां च, रुधादिः, <{7.15}>)\n→ पिष् + लोट् [<<लोट् च>> [[3.3.162]] इति लोट्-लकारः]\n→ पिष् + सिप् [मध्यमपुरुषैकवचनस्य विवक्षायाम् <<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> [[3.4.78]] इत्यनेन सिप्-प्रत्ययः]\n→ पिष् + हि [<<सेर्ह्यपिच्च>> [[3.4.87]] इति अपित् हि-आदेशः। अपित्त्वात् <<सार्वधातुकमपित्>> [[1.2.4]] इत्यनेन अयं ङिद्वद् भवति ।]\n→ पिष् + धि [<<हुझल्भ्यो हेर्धिः>> [[6.4.101]] इति हि-प्रत्ययस्य धि-आदेशः]\n→ पि श्नम् ष् + धि [<<रुधादिभ्यः श्नम्>> [[3.1.78]] इति श्नम्-विकरणम् \n→ पि न ष् + धि [शकारमकारयोः इत्संज्ञा, लोपः]\n→ पि न् ष् + धि [<<श्नसोरल्लोपः>> [[6.4.111]] इत्यनेन सार्वधातुके ङित्-प्रत्यये परे नकारोत्तरस्य अकारस्य लोपः]\n→ पिं ष् + धि [<<नश्चापदान्तस्य झलि>> [[8.3.24]] इति नकारस्य अनुस्वारः]\n→ पिं ष् + ढि [<<ष्टुना ष्टुः>> [[8.4.41]] इति धकारस्य ष्टुत्वे ढकारः]\n→ पिं ड् + ढि [<<झलां जश् झशि>> [[8.4.53]] इति षकारस्य डकारः]\n→ पिण्ड् + ढि [<<अनुस्वारस्य ययि परसवर्णः>> [[8.4.58]] इति अनुस्वारस्य परसवर्णः णकारः]\n→ पिण्ढि [<<झरो झरि सवर्णे>> [[8.4.65]] इति डकारस्य सवर्णे ढकारे परे विकल्पेन लोपः]\n\n3. कृत्तिका-शब्दात् अण्-प्रत्यये कृते कार्तिक इति रूपस्य सिद्धौ प्रकृतसूत्रेण तकारस्य लोपः भवति —\n\nकृत्तिकया युक्तः कालः [तद्धितवृत्तिः]\n→ कृत्तिका + अण् [<<नक्षत्रेण युक्तः कालः>> [[4.2.3]] इत्यस्मिन् अर्थे <<प्राग्दीव्यतोऽण्>> [[4.1.83]] इति अण्-प्रत्ययः]\n→ कृत्तिका + अ [णकारस्य इत्संज्ञा, लोपः]\n→ कार्त्तिका + अ [<<तद्धितेष्वचामादेः>> [[7.2.117]] इति आदिवृद्धिः]\n→ कार्त्तिक् + अ [<<यस्येति च>> [[6.4.148]] इति आकारलोपः]\n→ कार्तिक् + अ [<<झरो झरि सवर्णे>> [[8.4.65]] इति प्रथमतकारस्य विकल्पेन लोपः]\n→ कार्तिक \n\n4. कृष्ण + ऋद्धि → कृष्णर्धि इत्यत्र दकारस्य लोपः प्रकृतसूत्रेण भवति —\n\nकृष्णस्य ऋद्धिः [<<षष्ठी>> [[2.2.8]] इति षष्ठीतत्पुरुषः]\n→ कृष्ण ऋद्धि [<<कृत्तद्धितसमासाश्च>> [[1.2.46]] इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> [[2.4.71]] इति सुँलोपः]\n→ कृष्णर्द्धि [<<आद्गुणः>> [[6.1.87]] इति अकार-ऋकारयोः गुणैकादेशः अकारः, सः च <<उरण् रपरः>> [[1.1.51]] इति रपरः ]\n→ कृष्णर्धि [रेफात् परस्य दकारस्य धकारे परे <<झरो झरि सवर्णे>> [[8.4.65]] इति विकल्पेन लोपः]\n\n5. उद् + स्तम्भनम् → उत्तम्भनम् इत्यत्र थकारस्य प्रकृतसूत्रेण लोपः भवति —\n\nउद् + स्तम्भनम्\n→ उत् + स्तम्भनम् [<<खरि च>> [[8.4.55]] इति चर्त्वम्]\n→ उत् + थ्तम्भनम् [<<उदः स्थास्तम्भोः पूर्वस्य>> [[8.4.61]] इति सकारस्य थकारः]\n→ उत्तम्भनम् [<<झरो झरि सवर्णे>> [[8.4.65]] इत्यनेन थकारस्य विकल्पेन लोपः]\n\n" }, "84066": { "sa": "", "sd": "" }, "84067": { "sa": "", "sd": "" }, "84068": { "sa": "प्रक्रियादशायां विवृत: ज्ञापितः ह्रस्वः अकारः इतः परम् संवृतः ज्ञातव्यः ।", "sd": "व्याकरणशास्त्रे प्रक्रियालेखनसमये विवृतरूपेण उपदिष्टः ह्रस्वः अकारः प्रक्रियायाः अनन्तरम् सिद्धशब्दस्य प्रयोगसमये संवृतः भवति — इति अस्य सूत्रस्य आशयः ।\nशिक्षाशास्त्रे सर्वेषाम् वर्णानाम् आभ्यन्तरप्रयत्नाः पृथग् रूपेण उक्ताः सन्ति । तत्र — अकारस्य आभ्यन्तरप्रयत्नः संवृतः, अन्येषाम् स्वराणाम् आभ्यन्तरप्रयत्नः विवृतः — इति निर्दिष्टम् अस्ति । परन्तु एतादृशः भेदः व्याकरणशास्त्रे प्रक्रियानिर्माणसमये स्वीक्रियते चेत् अकार-आकारयोः आभ्यन्तरप्रयत्नस्य भिन्नत्वात् तयोः सवर्णसंज्ञा नैव भवेत्, येन <<अकः सवर्णे दीर्घः>> [[6.1.101]] इत्यादिभिः सूत्रैः अकार-आकारयोः सवर्णदीर्घः आकारः नैव सिद्ध्येत् । अतः व्याकरणशास्त्रे, प्रक्रियालेखनसमये अकारः विवृतः एव उपदिश्यते । परन्तु एतादृशः उपदेशः उच्चारणशास्त्रविरुद्धः अस्ति, अतः प्रक्रियायाः अन्ते अस्य विवृत-अकारस्य संवृतादेशः आवश्यकः भवति । तदर्थम् एव प्रकृतसूत्रम् पाणिनिना निर्मितम् अस्ति । अस्मिन् सूत्रे विद्यमानाभ्याम् द्वाभ्याम् अकाराभ्याम् प्रथमम् अकारं विवृतम् उच्चार्य, द्वितीयम् अकारं च संवृतम् उच्चार्य विवृतः अकारः संवृतः भवति इति विधानम् पाणिनिना अस्मिन् सूत्रे क्रियते — इति अत्र आशयः । इदं सूत्रम् त्रिपाद्याः अन्तिमं सूत्रम् अस्ति, अतः एतत् सम्पूर्णाम् अष्टाध्यायीं प्रति असिद्धम् अस्ति । अतश्च अनेन सूत्रेण उपदिष्टः संवृतः अकारः अन्यैः सूत्रैः न हि दृश्यते । इत्युक्ते, प्रक्रियायाम् सर्वत्र ह्रस्वम् अकारं विवृतरूपेण एव स्वीकृत्य, प्रक्रियायाः अन्तिमसोपाने प्रकृतसूत्रस्य उपयोगं कृत्वा अकारस्य संवृतविधानं कृत्वा, ततः एव प्रक्रिया सम्पूर्णा भवति । अनेन प्रकारेण प्रक्रियया सिद्धे शब्दे विद्यमानस्य अकारस्य यथोचितम् संवृतरूपेण उच्चारणम् अपि सम्भवति । \nकुत्रचित् वैयाकरणैः प्रकृतसूत्रस्य अन्ते इति शब्दः माङ्गल्यार्थः अपि संस्थाप्यते । मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि शास्त्राणि प्रथन्ते इति भाष्यवचनम् अनुसृत्य अन्ते इति-शब्दस्य ग्रहणेन मङ्गलवचनेन अष्टाध्याय्याः समापनम् करणीयम् इति तेषाम् आशयः ।\n\n" } }