{ "11001": "<<वृद्धिरादैच्>> - वृद्धिरादैच् । आच्च ऐच्चेति इतरेतरयोगद्वन्द्वः,सुपां सुलु॑ गिति औङः सुर्लुग्वा । यद्वा समाहारद्वन्द्वः । नचैवंद्वन्द्वाच्चुदषहान्तात्समाहारे॑ इति टच्स्यादिति वाच्यम्, समासान्तविधेरनित्यत्वात् । तत्र च प्रमाणं समासेषु वक्ष्यामः । अथवाआ॑दित्यसमस्तमेवास्तु, वृद्धिशब्दस्तन्त्रेणावृत्त्यां वा योजनीयः । यस्मयादित्वेन भत्वाच्चोः कुर्न ।ऐ॑जिह द्विमात्र एव, तात्परत्वात्, तेनकृष्णैकत्व॑मित्यत्र त्रिमात्रो न । वृद्धिप्रदेशाः-वृद्धिरेचि॑त्यादयः ।", "11002": "<<अदेङ् गुणः>> - अदेङ्गुणः । तपरकरणमिह सर्वार्थम् । तेनगङ्गोदक॑मित्यत्र त्रिमात्रो न ।तरती॑त्यत्र त्वकार एव, नतु कदाचिदाकारः । नच प्रमाणत आन्तर्येण नियमसिद्धिः, रपरत्वे कृते एकस्याध्यर्धमात्रत्वादपरस्यार्धतृतीयमात्रत्वात् । गुणप्रदेशास्तु-॒आद्गुणः॑अतो गुणे॑ इत्यादयः ।", "11003": "<<इको गुणवृद्धी>> - इको गुणवृद्धी । यत्र साक्षात्स्थानी न निर्दिष्टःसार्वधातुकाद्र्धधातुकयोः॑सिचि वृद्धि॑ रित्यादौ, तत्रैवेयं परिभाषा प्रवर्तते नतुअचो ञ्णिती॑त्यादौ, स्थानिनिर्देशात् । गुणवृद्धिशब्दाभ्यामिति । एतच्च पूर्वसूत्राभ्यां गुणवृद्धिपदे अनुवर्त्त्यगुणो वृद्धिरिति ये गुणवृद्धी॑ इति योजनया लभ्यते । तेनेह नत्यदादीनामः॑ इमम् ।दिव औत्द्यौः । विधीयेते इति । यत्र । त्वनुवादोवृद्धिर्यस्याचामादि॑रित्यादौ तत्रेक इति षष्टन्तं नोपतिष्ठते, अनुवादे परिभाषाणामनुपस्थितेरिति भावः ।अनुवादे परिभाषाणा॑मित्यस्यानूद्यमानविशेषणेष्वित्यर्थः । अनुपस्थितौ लिङ्गं फलं च-॒उदीचामातः स्थाने॑ इत्यत्र स्फुटीकरिष्यते । षष्ठन्तमिति । सूत्रे षष्ठन्तस्यानुकरणाच्छब्दस्वरूपपरतया नपुंसकत्वात्सोर्लुकिअत्वसन्तस्ये॑ति दीर्धो नेति भावः । पदमिति । तच्च संभवति सामानाधिकरण्येइगन्तस्याङ्गस्ये॑त्यादिक्रमेण संबध्यते ।मिदेर्गुणः॑ मृजेर्बृद्धिः॑ इत्यादौ तु सामानाधिकरण्याऽसंभवान्मिदिमृज्योरवयवस्येक इति संबध्यते ।", "11004": "<<न धातुलोप आर्धधातुके>> - ज्वर रोगे । ञित्वरा संभ्रमे । अत्र वृत्तौझलादौ क्ङिती॑त्युक्तं तत्र क्ङितीत्येतद्रभयसकृतमेवेत्याह — क्ङितीति नानुवर्तत इति । अवतेस्तुनीति ।ज्वरत्वरे॑त्युपधावकारयोरूठि गुणे च कृते मन्प्रत्ययस्य टिलोपे चोमिति सिध्यतीत्यर्थः । ज्वरादेरुदाहरणं क्विपि जूः । जुरौ । जुरः । झलादौ तु — जूर्तिः । जूर्णः । जूर्णवान् । त्वर — तूः । तुरौ । तुरः । तूर्तिः । तूर्णः । तूर्णवान् । रिउआवि- स्रूः । रुआउवौ । रुआउवः । रुआऊतिः । अवि — ऊः । उवौ । उवः ।ऊतिः । मव — मूः । मुवौ । मूतः । मूतिः । मामोषीत्यादि । ईट्पक्षे मामवीषि । मामवीमि । मामवीतु । अमामवीत् । अमामवीरिति बोध्यम् । राल्लोपः ।च्छ्वोः शू॑डित्तश्च्छ्वोरित्यनुवर्तते । क्वावुदाहरणं — तूः । तुरौ तुरः । धुर्वी — धूः । धुरौ । धुरः । मुच्र्छा — मूः । मुरौ । मुरः ।", "11005": "<<क्क्ङिति च>> - ङिन्निमित्ते इति ।कितिगितिङिति परे इको गुणवृद्धी न स्त॑ इति न व्याख्यातम्, छिन्नं भिन्नमित्यत्र लघूपधगुणस्याऽनिषेधप्रसङ्गात् । नचाऽऽरम्भसामर्थ्यं शङ्क्यं, चितं स्तुतमित्यादाव्वयवहिते किति चरितार्थत्वादिति भावः । अन्ये तु — क्ङितीति प्रत्ययग्रहणात्प्रत्ययेन संनिधापितस्याऽह्गस्य क्ङिति पर इति व्याख्यानेन तु छिन्नं भिन्नमित्यादि सिध्यत्येव । नचैवं भवावः भवाम प्रश्लिष्यत इत्याशयेनगित्किन्ङिन्निमित्ते॑ इत्युक्तम् । गिति किम् ।ग्लाजिस्थश्च ग्स्नु॑ जिष्णुः । किति त्वस्मिन्स्थास्नुरित्यत्रघुमास्थे॑तीत्त्वं प्रसज्येत । न ग्स्नोर्गित्त्वे भूष्णुरित्यत्रेण्निषेधो न स्यात्,ग्लाजिस्थश्चे॑ति चकाराद्भुवश्च ग्स्नुर्भवतीति स्वीकारादिति वाच्यम्,श्र्युकः किती॑त्यत्रापि चर्त्वेन गकारं प्रश्लिष्य गित्कितोरिण्न स्यादिति व्याख्यानात् । न चैवं चर्त्वस्याऽसिद्धतयाश्र्युकः॑ इत्यत्र विसर्जनीयो न लभ्यत इतिहशि चे॑त्युत्वमेव स्यादिति वाच्यं, सौत्रत्वात् ।न मु ने॑त्यत्यत्र नेति योगविभागेनाऽसिद्धत्वाऽभावाद्वेष्टसिद्धेः । वामनस्तु — ॒ग्लाजिस्थश्चे॑ति सूत्रे स्था- आ इति प्रश्लेषात्स्थास्नुरित्यत्रघुमास्थे॑तीत्वं न भविष्यतीति गकारप्रश्लेषाऽभावान्नश्र्युकः किती॑त्यत्र चर्त्वस्याऽसद्धत्वाऽभावसमर्थनक्लेश इत्याह । इग्लक्षण इति ।इक॑ इत्येवं विहिते इत्यर्थः । इग्लक्षणे किम् । लैगवायनः । लिगोर्नडादित्वात्फक् । इहादिवृद्धेरोर्गुणस्य च वस्तुगत्या इक्स्थानिकत्वेऽपि न निषेधः । न चेक इत्युक्तेऽपिकिति चे॑त्यारम्भसामर्थ्यादत्र निषेधो न भवेदिति शङ्क्यम्, नाडायनादौ तस्य चरितार्थत्वात् । भूयादिति । इहस्को॑रिति लोपस्याऽसिद्धत्वात्तकारस्य संयोगान्तलोपः प्राप्तः पदान्तसंयोगादिलोपेनाऽनवकाशेन बाध्यते । नन्वेवमपि संयोगादिलोपस्यपूर्वत्रासिद्ध॑मित्यसिद्धत्वाद्धल्ङ्यादिलोपः स्यात्, पदान्ते संयोगादिलोपस्य भृट् भृडित्यादौ सावकाशत्वादितिचेत्, अत्राहुः - सुडआसुटोः सतोस्ताभ्यां विशिष्टस्यैव प्रत्ययत्वेनाऽपृक्तत्वाऽभावात्, हलन्तायाः प्रकृतेः परत्वाऽभावाच्चोक्तदोषशङ्कैव नास्तीति ।", "11006": "", "11007": "<<हलोऽनन्तराः संयोगः>> - हलोऽनन्तराः संयोगः । तध्वर्थमेकाक्षरायां संज्ञायां कर्तव्यायांसंयोग॑ इति महासंज्ञाकरणमन्वर्थसंज्ञाज्ञापनार्थं-संयुज्यन्तेऽस्मिन्समुदाये वर्णा इति । तेनात्र समुदाये वाक्यपरिसमाप्तिर्न तु गुणवृध्द्या दिसंज्ञावत्प्रत्येकम् । तथाहि सतिदृषद्विभर्ती॑त्यत्र बकारसंनिधौ दकारस्य संयोगत्वात्संयोगान्तलोपः स्यात् ।निर्याया॑दित्यत्र यकारः संयोग इतिवान्यस्य संयोगादे॑रित्येत्त्वं स्यात् । सिद्धान्ते तुअचो रहाभ्या॑मिति द्वित्वे सत्यपि तस्याऽसिद्धत्वादेत्त्वमत्र न भवति ।हल॑ इति जातौ बहुवचनम्,जात्याख्यायामेकस्मिन्बहुवचन॑मिति वचनात् । तेन द्वयोरपि संयोगसंज्ञा भवतीतिशिक्षे॑त्यादौगुरोश्च हलः॑ इत्यप्रत्ययः सिध्यति । यत्र बहवो हलः संश्लिष्टास्तत्र द्वयोर्बहूनां चाऽविशेषेण संज्ञेति स्थितमाकरे । यदि तु बहूनामेव स्यात्तर्हिगोमान्तकरोती॑त्यत्र मतुपस्तकारस्य संयोगान्तलोपो न स्यादिति दिक् । हलः किम् , तितौभ्याम् । अत्रतनोतेर्डौः सन्वच्चे॑तिडौ॑प्रत्ययः । सन्वद्भावाद्द्रित्वं,सन्यतः॑ इति इत्वं च । व्यस्तोच्चारणसामर्थाद्गुणाऽबावः । यदि ह्रचोरप्यनन्तरयोः संयोहसंज्ञा स्यात्तर्हि इहसंयोगान्तस्ये॑त्युकारलोपः स्यात् । अनन्तरा इति किम् पनसम् । यदीह सकारमकारयोः संयोगसंज्ञा स्यात्तर्हिस्को॑रिति सलोपः स्यात्॥॥ इति तत्त्वबोधिन्यां संज्ञाप्रकरणम्॥ — — — — — — — — — — — — -अथ सन्नन्तप्रक्रिया ।", "11008": "<<मुखनासिकावचनोऽनुनासिकः>> - मुखनासिका । मुखं च नासिका चेति विग्रहे प्राण्यङ्गत्वादेकवद्भावे मुखनासिकमिति स्यादत आह-मुखसहितेति । नासिकयोच्चार्येति । फलितार्थकथनमिदम् । उच्यतेऽनेनेति वचनं, मुखनासिका वचनमस्यास्तीति विग्रहः॥", "11009": "<<तुल्यास्यप्रयत्नं सवर्णम्>> - तुल्यास्य । आस्ये भवमास्यंशरीरावयवाद्यत् इत्यभिप्रेत्याह-ताल्वादीति॥ आभ्यन्तरेति । एतच्च प्रशब्दबलाल्लभ्यते । ओष्ठात्प्रभृति प्राककाकलकादास्यम् । तुल्यास्यं किम् , तर्प्ता । अत्र पकारस्य तकारे परेझरो झरि॑ इति लोपो मा भूत् । प्रयत्नग्रहणं किम्, वाक्श्चोतति । अत्र शस्य लोपो न॥ ञमङणनानामिति । नासिका चेति । चकारेण स्ववर्गानुकूलं ताल्वादि समुच्चीयते॥ एदैतोरित्यादौ तपरत्वमसंदेहार्थं, न तत्कालग्रहणार्थम् । तेन प्लुतस्यापि संग्रहः॥ चतुर्धेति । निष्कर्षपक्षे तु पञ्चधा, ऊष्माणामीषद्विवृतप्रयत्नाभ्युपगमात्॥ स्पृष्टेषत्स्पृष्टेति । एतेषामाभ्यन्तरत्वं, वर्णोत्पत्तिप्राग्भावित्वात् । तथाहि-नाभिप्रदेशात्प्रयत्नप्रेरितो वायुः प्राणो नाम ऊध्र्वमाक्रामन्नुरःप्रभृतीनि स्थानान्याहन्ति, ततो वर्णस्य तदभिव्यञ्जकध्वनेर्षा उत्पत्तिः । तत्रोत्पत्ते प्राग्यदा जिह्वाग्रोपाग्रमध्यमूलानि तत्तद्वर्णोत्पत्तिस्थानं ताल्वादि सम्यक् स्पृशन्ति तदा स्पृष्टता, ईषद्यदा स्पृशन्ति तदा ईषत्स्पृष्टता, समीपावस्थानमात्रे संवृतता, दूरत्वे विवृतता । अत एव इचुयशानां तालव्यत्वाऽविशेषेऽपि तालुस्थानेन सह जिह्वाग्रादीनां चवर्गोच्चारणे कर्तव्ये सम्यक् स्पर्शः, यकारे ईषत्सपर्शः , शकारेकारयोस्तु दूराऽवस्थितिरित्याद्यनुभवं, शिक्षाकारोकिंत चानुसृत्य विवेचनीयम् । विवारसंवारादयस्तु वर्णोत्पत्तेः पश्चान्मूध्न प्रतिहते निवृत्ते प्राणाख्ये वायावुत्पद्यन्त इति बाह्रा इत्युच्यन्ते । गलबलिस्य संकोचात्संवारः, तस्यैव विकासाद्विवारः । एतौ च संवृतविवृतरूपाभ्यामाभ्यन्तराभ्यां भिन्नावेव । तयोः समीपदूरावस्थानात्मकत्वादित्यवधेयम् ।", "11010": "", "11011": "<<ईदूदेद्द्विवचनं प्रगृह्यम्>> - ईदूदेदन्तमिति । अत्र विशेणेन तदन्तविध्याश्रयणं किम् ।पचेते इमा॑-विति यथा स्यात् ।हरी॑विष्णू॑ इत्यादिष्वेकादेशस्य परादिवद्भावाश्रयेण ईकारादीनां द्विवचनत्वादीदूदेद्रूपं द्विवचनमित्युक्तेऽपि प्रगृह्रत्वं सिध्यतीति बोध्यम् । द्विवचनमिति ।संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति॑,सुप्तिङन्त॑-मित्यन्तग्रहणाज्ज्ञापकात् । तेन कुमार्योर्वध्वोश्चागारं कुमार्यगारं वध्वगारमिति सिद्धम् ।द्विवचनान्तं प्रगृह्रं स्या॑दिति व्याकुर्वतः प्राचस्तु नेदं सिध्येत् । हरी एताविति । इह ह्रस्वसमुच्चितप्रकृतिभावो न,प्लुतप्रगृह्राः॑ इत्यत्र नित्यग्रहणादित्युक्तम् । अत्र वृत्तिकारेण — ॒मणीवादीनां प्रतिषेधो वक्तव्यः॑ इति पठित्वामणीव॑रोदसीव॑जंपतीवे॑त्युदाहृतम् । तच्च मुनित्रयानुक्तत्वादप्रमाणमिति कैयटादयः । एवं स्थितेमणीवोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ ममे॑ति भारतप्रयोगं समर्थयते — इवार्थे इति । वशब्द इत्यादि ।वं प्रचेतसि जानीयादिवार्थे च तदव्यय॑मिति मेदिनी ।व वा यथा तथैवैवं साम्ये॑ इत्यमरः । कादम्बखण्डितदलानि व पङ्कजानी॑त्यादिप्रयोगदर्शनाच्चेति भावः ।", "11012": "<<अदसो मात्>> - अदसो मात् । इह एकारो नानुवर्तते, असंभवादित्यभिप्रेत्याह-ईदूताविति । अदसः किम् । शम्यत्र, वाम्यत्र । ननूकारानुवृत्तिव्र्यर्था,स्त्रियौ फले वा अमू आसाते॑ इत्यत्र पूर्वेणैव सिद्धेः । मुत्वस्यासिद्धत्वेऽप्येकारान्तत्वादत आह — रामकृष्णाविति । पुंसि पूर्वेण न सिध्द्यति, औकारान्तत्वादिति भावः ।अदसो मा॑दिति सूत्रं प्रति मूत्वमीत्वं च नाऽसिद्धम्, आरम्भसामर्थ्यात् । अमुकेऽत्रेति । स्त्रीलिङ्गद्विवचनस्य तु पूर्वसूत्रेण प्रगृह्रत्वे प्रकृतिभाव एव । अमुकेऽत्र । एकारोऽप्यनुवर्तेतेति । तथाच एकाराननुवृत्तितात्पर्यग्रहफलकं माद्ध्रहणमिति भावः ।", "11013": "शे इति। छान्दसमपीदं सन्दर्भशुध्द्यर्थमुक्तामित्याहुः। अस्मे इति। अस्मभ्यमित्यर्थः। `सुपां सुलु`गिति भ्यसः शेआदेशः। `शेषे लोपः`।", "11014": "<<निपात एकाजनाङ्>> - निपात एकाच् । निपातः किम् । अततेर्डः । अः ।हे अ आगच्छ॑ । अत्र प्रगृह्रसंज्ञा मा भूत् । एकग्रहणाऽभावेयेन विधि॑रिति सूत्रात्तदन्तलाभेप्रेद॑मित्यत्र स्यादत उक्तम् — एक इति ।एका॑जिति तु न बहुव्रीहिः, उक्तातिप्रसङ्गतादवस्थ्यात् । अतःपूर्वकालैके॑ति कर्मधारय एव । ननुनिपातोऽना॑तित्युक्ते हलन्तस्य सत्यपि प्रगृह्रत्वे प्रयोजनाऽभावादजन्ते प्राप्ते अज्ग्रहणसामर्थ्यादज्रूपस्यैव निपातस्य प्रगृह्रत्वे सिद्धे किमेकग्रहणेन । न चपुरोऽस्ती॑त्यादौ हलन्तस्य संज्ञायां सत्यां प्रकृतिभावादतो रोरितिरोरुत्वं न स्यादतोऽज्ग्रहणसामर्थ्यमुपक्षीणमित्येकग्रहणमावश्यकमिति वाच्यम्; प्रगृह्रसंज्ञां प्रति रुत्वस्याऽसिद्धतया रेफान्त[स्यैत]स्य प्रगृह्रसंज्ञाऽभावेन दोषाऽप्रसक्तेः । न च सान्तस्य कृता प्रगृह्रसंज्ञा एकदेशविकृतन्यायेन रेफान्तस्यापि स्यादेवेति प्रकृतिभावादुत्वाऽभावप्रसङ्गस्तदवस्थ इति वाच्यम्; प्रगृह्रसंज्ञां प्रतीव प्रकृतिभावं प्रत्यपि रुत्वस्याऽसिद्धत्वात्प्रकृतिभावाऽप्रवृत्तेः । सकारान्तस्य तु न किंचिदपि सिद्धकाण्डस्थं प्रयोजनं प्राप्नोति यत्प्रकृतिभावेन व्यावर्त्त्येत । न चाज्ग्रहणसामर्थ्यादजन्तस्यैव प्र परा अपेत्यादिनिपातस्य प्रगृह्रसंज्ञा स्यान्न त्वज्रूपनिपातस्यैति वैपरीत्यशङ्कानिवारणार्थमेकग्रहणमिति वाच्यम्; अनाङ्ग्रहणवैयथ्र्यापत्तेः ,व्याहरति मृग॑ इत्यादिनिर्देशविरोधाच्चोक्तशङ्काया अप्रवृत्तेः । किंचनिपातोऽजना॑ङित्युक्तेऽप्यनाङिति प्रतिषेधसामर्थ्यान्निपातस्य विशेषणत्वाभ्युपगमे तदन्तविध्यप्रवृत्त्या निपातरूपो योऽच्स प्रगृह्र इत्यर्थलाभादज्रूपस्यैव निपातस्य प्रगृह्रत्वं सिद्धमिति नास्त्येव प्रयोजनमेकग्रहणस्य । नन्वेवमपि समुदायनिवृत्त्यर्थमेकग्रहणमावश्यकमेव । अन्यथाऐउ अपेही॑त्यत्रैकाज्द्विर्वचनन्यायेन समुदायस्यैव संज्ञा स्यान्नाऽवयवानामिति चरमस्यैव प्रकृतिभावः स्यान्न तु पूर्वयोरिति चेन्न;अ॑जित्येकत्वस्य विवक्षयैव समुदायनिराससंभवात्समुदायसंज्ञयाऽवयवानामननुग्रहेणैकाज्द्विर्वचनन्यायस्याऽप्यप्रवृत्तेः । एकस्मिन्निपाते संज्ञाविधानसंभवेन निपातसमुदायस्य निपातग्रहणेनाऽग्रहणाच्च । अत्राहुर्भाष्यकाराः-॒अच्समुदायग्रहणशङ्कनिरासार्थमेकग्रहणं कुर्वन् ज्ञापयति वर्णग्रहणेषु व्यक्तिसङ्ख्या न विवक्ष्यते किंतु जातिरेव निर्दिश्यते॑ इति । तेनहलन्ताच्चे॑ति सनः कित्त्वात्दम्भ इच्चे॑तीत्त्वेधिप्सती॑त्यादि सिद्धम् । हल्ग्रहणस्य व्यक्तिपरत्वे तु योऽत्रेकः समीपो हल् नकारो, न ततः परः सन्, यस्माच्च परः सन् भकारान्नासाविकः समीप इति कित्त्वं न स्यात्, ततश्च नलोपो न स्यात् । वस्तुतस्तु अपृक्तसंज्ञायामेकग्रहणमुक्तार्थज्ञापकमित्याश्रित्य प्रकृतसूत्रे एकाज्ग्रहणं त्यक्तुं शक्यम् । त #एव मनोरमायामनाङिति पर्युदासादेवाऽज्रूषनिपाते लब्धे निपातग्रहणमुत्तरार्थं सत्स्पष्टप्रतिपत्त्यर्थमिहैव कृतमिति निपातग्रहणस्यैव प्रयोजनमुक्तं न त्वेकाज्ग्रहणस्य । अत्र नव्याः — यदुक्तं मनोरमायाम्-॒अनाङिति पर्युदासा॑दित्यादि, तच्चिन्त्यम्,ओत्सूत्रे भाष्यकारैः प्सज्यप्रतिषेधस्यैवाङ्गीकृतत्वात् । नच लभ्यभेदाऽभावात्प्रौढिवादमात्रं भाष्यमिति वाच्यम्;-अस्मादेव भाष्यवचनाल्लक्ष्यभेदोऽप्सतीति सुवचत्वात् । तथाहि-अततेर्डः-अः ।अकारो वासुदेवः स्या॑दिति वचनाद्रूढिशब्दो वा । अनेनअ॑ शब्देन सहअङ्भर्यादाभिविध्योः॑ इति आङोऽव्ययीभावे सवर्णदीर्घेअव्ययीभावश्चे॑ति नपुंसकत्वाद्ध्रस्वत्वे सोरम्यमि पूर्वे च कृतेअ॑मिति रूपं भाष्यकृत्संमतम् । तथा इणो निष्ठायामितः, वेञस्तु निष्ठायां संप्रसारणे उतः । अम् इतः-एतः, अमुतः-ओतः॑ इत्यासमुद्रक्षिति-वत्समासे रूपं च तत्संमतम् । तत्र पर्युदासपक्षे अमि पूर्वो गुणश्च न सिध्यति । अशब्दस्याङ्भिन्नत्वात्स्थानिवद्भावेन निपातत्वाच्च प्रगृह्रत्वात् । प्रसज्यप्रतिषेधाश्रये तु सिध्यति, तस्याङ्त्वेन प्रगृह्रत्वनिषेधात् । न चैतादृशप्रयोगोऽप्रामाणिक इति वक्तुं युक्तम्, प्रकृतभाष्यस्यैव प्रमाणत्वात् । अन्यथा हि भाष्यकारेङ्गितमात्रावलम्बनेन तत्र प्राचां ग्रन्थानामधिक्षेपाय भवतां प्रवृत्तयो व्याहन्योरन्नित्याद्याहुः । आङ्वर्ज इति । प्रतिषेधपक्षे तु प्रगृह्रः स्यादित्येतदुत्तरमिदं द्रष्टम् । वज्र्यत इति वर्जः । वृजेण्र्यन्तात्कर्मणि घञ् । वर्जनीय इत्यर्थः । आङो न भवतीति यावत् । आ एवमिति । पूर्वप्रक्रान्तवाक्यार्थस्य अन्यथात्वद्योतकोऽयमाकारः । पूर्वमित्थं नामंस्था इदानीं त्वेवं मन्यसे इत्यर्थः । आ एवं किलेति । स्मरणद्योतकोऽयमाकारः । वाक्यस्मरणयोरित्यादि । अत्रायमाशयः-॒ईषदर्थे क्रियायोगेमर्यादाभिविधौ च यः । एतमातं ङितं विद्याद्वाक्यस्मरणयोरङित् ।॑ इति भाष्यस्याऽङिल्लक्षण एव तात्पर्यं, लाघवात् । अन्यस्य ङित्त्वं त्वर्थसिद्धम् ।ईषदर्थ#ए-॑इत्यादिस्त्वेकदेशानुवादः । एवंचअभ्र आँ अप॑इत्यत्र सप्तम्यर्थवृत्तेरप्याकारस्य ङित्त्वात्आङोऽनुनासिकश्छन्दसी॑ति प्रवर्तत इति ।", "11015": "ओत्। निपात इति किम् ?। देवोऽसि, वायवायाहि।", "11016": "<<सम्बुद्धौ शाकल्यस्येतावनार्षे>> - संबुद्धौ । ऋषिर्वेदःतदुक्तमृषिणा॑ इत्यादौ तथा दर्शनादित्याभिप्रेत्याह-अवैदिक इति । संबुद्धौ किम् । अहो इति । अत्र परत्वाद्विकल्पो मा भूत् । न चओ॑दिति सूत्रस्य निरवकाशत्वं शङ्क्यम् ,अहो ईशा॑ इत्यादौ तस्य सावकाशत्वात् । इताविति किम् । पटोऽत्र ।", "11017": "<<उञ ऊँ>> - ऊँ । अनुनासिक इति । तेनास्मिन् परेयरोऽनुनासिके-॑ इति विकल्पःयदेतनूँ इति पठसि॑यदेतदूँ॑ इति वा । एतदर्थमेवात्रानुनासिकग्रहणम् । अन्यथायरोञम्यनुनासिको वे॑त्येवावक्ष्यत् ।यरो ञमि ञम्वे॑त्येवावक्ष्यदित्युक्तौ तु यथासङ्क्यप्रवृत्त्याअम्मयं॑तन्ने॑त्यादिसिद्धावपिचिन्मयं॑एतन्मुरारि॑रिति न सिध्येत् ।कृन्मेजन्तः॑ङमुण्नित्य॑मित्यादिनिर्देशाश्रयणे तु प्रतिपत्तिगौरवम् । वस्तुस्तुयरोऽनुनासिके ञम्वे॑त्येव सूत्रयितुं युक्तमित्याहुः ।", "11018": "ऊँ। अनुनासिक इति। तेनास्मिन् परे `यरोऽनुनासिके-` इति विकल्पः `यदेतनूँ इति पठसि` `यदेतदूँ` इति वा। एतदर्थमेवात्रानुनासिकग्रहणम्। अन्यथा `यरोञम्यनुनासिको वे`त्येवावक्ष्यत्। `यरो ञमि ञम्वे`त्येवावक्ष्यदित्युक्तौ तु यथासङ्क्यप्रवृत्त्या `अम्मयं` `तन्ने`त्यादिसिद्धावपि `चिन्मयं` `एतन्मुरारि`रिति न सिध्येत्। `कृन्मेजन्तः` `ङमुण्नित्य`मित्यादिनिर्देशाश्रयणे तु प्रतिपत्तिगौरवम्। वस्तुस्तु `यरोऽनुनासिके ञम्वे`त्येव सूत्रयितुं युक्तमित्याहुः।", "11019": "<<ईदूतौ च सप्तम्यर्थे>> - ईदूतौ च । ईदूताविति किम् ।प्रियः सूर्ये प्रियो अग्ना भवाति॑ । ग्निशब्दात्परस्याः सप्तम्याःसुपां सुलु॑गित्यादिनाडा॑देशः । पदकारैः प्रगृह्रेषु इतिशब्दुप्रयोगस्य नियमितत्वेन इहापि पदकाले इतिशब्दप्रयोगप्रसङ्गः, स चाऽनिष्ट इति बोध्यम् । सप्तमीग्रहणं किम् , धीती, मती, सुष्टुती । धीत्या, मत्या, सुष्टुत्या इति प्राप्ते तृतीयैकवचनस्य पूर्वसवर्ण ईकारः । ततःअकः सवर्णे दीर्घः॑ इत्येकादेशः । न त्विहसुपां सुलु॑गिति लुक्, ह्रस्वश्रवणापत्तेः । सोमो गौरी इति ।वातप्रमी अत्र॑ययी आसक्त॑ इत्याद्युदाहरणे सत्यप्यूकारान्तस्य लौकिकोदाहरणाभावादुभयोरपि वेद एवोदाहरणमुक्तम् । मामकी तनू इति । यद्यप्यत्र संहितायां प्रगृह्रप्रयोजनं नास्ति, तथापिमामकी इति॑तनू इति॑ पदकाले तदस्त्येव,स्वायां तनू ॠत्व्येनाधमाना॑-मित्यत्र तु संहिताकालेऽप्यस्ति, तथापिऋत्यकः॑ इति पाक्षिकप्रकृतिभावेनाप्येतत्सिद्धं, छन्दसि रूपान्तरस्यापादयितुमशक्यत्वादिति बोध्यम् । सप्तम्या लुगिति । यदि धीत्यादाविव विभक्तेः पूर्वसवर्णे कृते सवर्णदीर्घ एकादेश इति व्याख्यायेत तदा एकादेशं बाधित्वा परत्वादाङ्गत्वात्वाच्चआण्नद्याः॑इत्याट् ङेराम् च स्यादिति भावः । अर्थग्रहणं किमिति ।वाप्यआ॑ इत्यत्र यो वापीशब्दः सतु वाप्यधिकरणकद्रव्ये उपसङ्कान्तः ।सोमो गौरी॑ इत्यत्र गौरीशब्दस्तु सप्तम्यर्थमात्रे पर्यवसन्नः, न तु तदधिकरणकद्रव्ये उपसङ्कान्तः, वृत्त्याभावादिति भेदः ।", "11020": "<<दाधा घ्वदाप्>> - दाधा घ्वदाप् । इह दारूपाश्चत्वारः — डुदाञ् दाने । दाण् दाने । दो अवखण्डने । देङ् रक्षणे । धारुपौ तु द्वौ - डुधाञ् धारणपोषणयोः । धेट् पाने । अनुबन्धानामनेकान्तत्वात्आदेच उपदेशे॑ इत्यात्वेदोदेङ्धेटामनुकरणे दादारूपत्वमस्ति । एवं च दाश्च दाश्च दाश्च दाः । धाश्च धाश्च धौ । दाश्च धौ च दाधा इति विग्रहः । दाप्दैपौ विनेति । दाप् लवने । दैप् शोधने — एतद्भिन्ना इत्यर्थः । दैपः पित्त्वमिह प्रतिषेधार्थं, न त्वनुदात्तार्थम्,अनुदात्तौ सुप्पितौ॑ इति प्रत्ययस्यैव पितोऽनुदात्तत्वात् । न च दैपो लाक्षणिकत्वान्नाऽस्य प्रतिषेध इति शङ्क्यं, पित्करणस्यानर्थक्यप्रसङ्गात् । इदमेव च दैपः पित्त्वंगामादाग्रहणेष्वविशेषः॑ इति परिभाषाया ज्ञापकमित्याहुः । अदाबिति किम् । दातं बर्हिः । लूनमित्यर्थः । इहदो दद्धो॑रिति दद्भावो न । अवदातं मुखम् । शुद्धमित्यर्थः । इह तुअच उपसर्गा॑ दिति तादेशो न ।", "11021": "<<आद्यन्तवदेकस्मिन्>> - आद्यन्तवत् ।सत्यन्यस्मिन् यस्य पूर्वो नास्ति स आदिः॑,सत्यन्यस्मिन्यस्य परो नास्ति सोऽन्तः॑इति लोके प्रसिद्धं, तदुभयमेकस्मिन्नसहाये न संभवतीति तत्राद्यन्तव्यपदिष्टानि कार्याणि नस्युरतोऽयमतिदेश आरभ्यते । नच परत्वात्,सुपिचे॑ति दीर्घे पश्चाद्धिलि लोपे सति आभ्यामित्यादि सिध्यतीति किमत्राद्यन्तवत्सूत्रोपन्यासेनेति शङ्क्यम्, नित्यत्वाद्धलि लोर इत्यस्य दीर्घात्पूर्वमेव प्रवृत्तेः । ॑एकस्मि॒न्नित्युपमेये सप्तमीदर्शनात्सप्तम्यर्थ एव वतिरित्यभिप्रेत्याह — आदाविवान्त इवेति । आदिवत्किम् । औपगवः । अत्राऽण आद्युदात्तत्वं यथा स्यात् । भाष्ये त्वादियविदित्यपनीयव्यपदेशिवदेकस्मि॑न्निति सूत्रमूहितम् । विशिष्टोऽपदेशो व्यपदेशः -मुख्यो व्यवहारः । सोऽस्यातीति व्यपदेशी, मुख्य इति यावत् । तेन तुल्यमेकस्मिन्नसगायेऽपि कार्यं स्यादित्यर्थः । तेनइयाय॒॑आरे॑त्यादौ॒एकाचः॑इति द्वित्वं सिध्यति । अन्यथा आद्यन्तापदिष्टत्वाद्धित्वं न स्यादिति दिक् ।", "11022": "<<तरप्तमपौ घः>> - तरप्तमपौ घः । अस्मिन्नेवाऽऽतिशायनिकप्रकरणेतादौ घः॑पितौ घः॑इति वा वक्तव्ये प्रकरणान्तरेण गुरुसूत्रकरणमत्यन्तस्वार्थिकमपि तरपं ज्ञायपति । तेनअल्पाच्तरं॑, लोपश्च बलवत्तरः॑ इत्यादि सिद्धम् । अल्पाजेव ह्रल्पाचतरम् । न त्वत्र द्वयोरेकस्यातिशयविवक्षायां तरप् । अन्यथाशिवकेशवौ॑इथ्यादिसिद्धावपिशङ्खदुन्दुभिवीणाः॑इत्यादि न सिध्येदित्याहुः ।", "11023": "<<बहुगणवतुडति संख्या>> - बहुगणवतु । बहुगणौ प्रतिपादके सङ्ख्यावाचके गृह्रते न तु सङ्घवैपुल्यवाचके अपि, सङ्ख्यायते अन्येत्यान्वर्थसंज्ञाविज्ञानात् । अत एव डतिरपिकिमः सङ्ख्यापरिमाणे डति चे॑ति विहितस्तद्धित एव गृह्रते,वतु॑साहचर्याच्च । न तुपातेर्डतिः॑ । यद्यपि संज्ञाविधौ प्रत्यग्रहणे तदन्तग्रहणं नास्ति तथापीह वतुडत्योः केवलयोः संज्ञाविधौ फलाऽभावादन्वर्थताबलाच्च तदन्तयोरेव संज्ञा प्रवर्तते । सानुवन्धनिर्देशस्तुव्राहृणबद्वसति॑रित्यदावतिप्रसङ्गशङ्कां निराकर्तुमित्याहुः । न चैवं सङ्ख्याकार्येषु कृत्वसुजादिषु कृत्रिमसङ्ख्याया एव ग्रहणं स्यान्न त्वकृत्रिमाया इतिपञ्चकृत्व॑इत्यादि न सिध्येत्, कृत्रिमाऽकत्रिमयोः कृत्रिमे कार्यसंप्रत्ययादिति वाच्यम्;सङ्ख्याया अतिशदन्तायाः क॑न्नित्यत्रातिशदन्तपर्युदासबलेन सङ्ख्याकार्येषु कृत्रिमाऽकृत्रिमन्यायाऽप्रवृत्तेः । नन्वेवं भूरिशब्दात्कृत्वसुच्प्रत्ययप्रसङ्ग इति चेदत्राहुः-॒अनियतसङ्ख्यावाचिनां चेत्सङ्ख्याकार्यं स्यात्तर्हि वहुगणयोरेवे॑त्येवंभूतनियमफलसङ्ख्याविज्ञानान्नास्त्यतिपर्सङ्ग इति ।", "11024": "<<ष्णान्ता षट्>> - ष्णान्ता षट् । स्त्रीलिङ्गनिर्देशः सङ्ख्यां विश्षयितुम्, तत्सामाथ्र्याच्च पूर्वत्र संज्ञापरमपि सङ्ख्याग्रहणमिह संज्ञिपरं संपद्यत इत्यदाशयेनाह — सङ्ख्येति । प्राचा तूपदेशकाले षान्ता नान्ता चेत्युक्तम्, तत्पञ्चेत्यत्र नलोपे कृतेऽपी॑त्यादिवक्ष्यमाणस्वग्रन्थविरुद्धम् । संप्रत्यनान्तत्वेऽप्युपदेशे नान्तत्वमासीदिति किमसिद्धत्वेनेति दिक् । संनिपातेति । तथा चोपदेशकाले इति व्याख्यानं निष्पलमपीति भावः । यत्त्वहुः — परिभाषाया अनित्यत्वाल्लक् स्यादिति, तत्साहसमात्रम् । इष्टस्थलेऽप्यप्रवृत्तौ परिभाषाया अकिञ्चित्करत्वापत्तेः । यदप्याहुः — ॒उपदेशग्रहणमिह कुतः समागत॑मित्याशङ्क्यष्णान्ते॑त्यन्तग्रहणसामर्थ्यादौपदेशिकत्वं लभ्यत इति । तदपि न ।सङ्क्ये॑त्यस्याकर्षणेन संज्ञपरत्वसंपादनेन च सामर्थ्यो पक्षयात् ।", "11025": "<<डति च>> - डति च ।ष्णान्ता ष॑डित्यतःष॑डित्यनुवर्तते ।सङ्ख्ये॑ति पर्कृतं,डती॑त्यनेन विशेष्यते तदाह — डत्यन्ता सङ्ख्येति । सङ्ख्येति किम् पतयः ।", "11026": "", "11027": "<<सर्वादीनि सर्वनामानि>> - सर्वादीनीति । तद्गुणसंविज्ञानो बहुव्रीहिरयम् ।अदः सर्वेषा॑मिति लिङ्गम् । आदिशब्दोऽत्रावयववाची । सर्व आदिराद्यावययो येषां तानीति विग्रहः । उद्भूतावयवभेदः समुदायः समासार्थं इति बहुवचनम् । तस्य समुदायस्य युगपल्लक्ष्ये प्रयोगाभावात्आनर्थक्यात्तदङ्गेषु॑ इति न्यायेन तदवयवेषु प्रवर्तमाना सर्वनामसंज्ञाऽविशेषात्सर्वशब्देऽपि प्रवर्तत इति युक्तं तद्गुणसंविज्ञानत्वम् । तस्यान्यपदार्थस्य गुणा वर्तिपदार्थरूपाणि विशेषणानि तेषा कार्यान्वयितया संविज्ञानं यत्र स तद्गुणसंविज्ञान इत्यक्षरार्थः । लोकवेदयोरपि संयोगसमवायान्यतरसम्बन्धेलोहितोष्णीषाऋत्विजश्चरन्ति,॒॑लम्बकर्णमानये॑त्यादौ तद्गुणसंविज्ञानत्वमेव । स्वस्वामिभावसंबन्धे त्वतद्गुणसंविज्ञानत्वंचित्रगुमानये॑त्यादौ । ननुसर्वनामानी॑त्यत्रपूर्वपदात्संज्ञाया॑मिति णत्वं कस्मान्न भवति । सौत्रत्वान्नेति चेत्,लोके सर्वनामशब्दस्याऽसाधुत्वापत्त्यासर्वनामसंज्ञानि स्यु॑रित्युत्तरग्रन्थस्याऽसाधुत्वापत्तेरिति चेन्मैवम् ।निपातनाण्णत्वं ने॑ति भाष्योक्तव्याख्याश्रयणादिष्टसिद्धेः । अत्र भाष्यानुसाराद्बाधकान्येव निपातनानि भवन्तीति पक्ष आश्रितः ।अब#आधकान्यपि निपातनानि भवन्ती॑त् पक्षस्तुविभाषा फाल्गुनी॑ति सूत्रे श्रवणाशब्दे निपातितेऽपिश्रावणी॑ति प्रयोगोऽपि साधुरित्येवमर्थमाश्रयिष्यते । विशेषणानुगुणं विशेष्यमध्याहरति-शब्दस्वरूपाणीति । द्वन्द्वे चेति । स हि निषेधः समुदायस्यैव न त्ववयवानामिति वक्ष्यति, न च तदन्तविधिं विना समुदाये संज्ञाप्रसक्तिरस्तीति भावः । नन्वङ्गाधिरकारे तदन्तविधिं विनैवपरमसर्वस्मै॑ इत्यादौ स्मायादिसिद्धेस्तदन्तसंज्ञायाः किं फलमित्यत आह — तेनेति । न चेहापिप्रातिपदिका॑दित्यनुवृत्ते सर्वनाम्नस्तद्विशेषणत्वे तदन्तविधिर्भविष्यतीति वाच्यं,समासप्रत्ययविधौ प्रतिषेधः॑ इत्युक्तत्वादिति भावः । अकच्चेति चकारात्परमसर्वत इत्यत्र तसिल् ।", "11028": "<<विभाषा दिक्समासे बहुव्रीहौ>> - वभाषा दिक्समासे । गौणत्वादप्राप्ते विभाषेयं, न तुन बहुव्रीहा॑विति निषेधे प्राप्ते इति भ्रमितव्यम् । तंस्याऽलौकिकप्रक्रियावाक्यान्तर्गतसर्वादिविषयत्वादस्य च समासविषयत्वात् । स्पष्टार्थमिति । प्रतिपदोक्समासविधायकेदिङामानी॑ति सूत्रेशेषो बहुव्रीहि॑रित्यतोबहुव्रीहि॑रित्यधिकारादिति भावः ।", "11029": "<<न बहुव्रीहौ>> - न बहुव्रीहौ । कृते बहुव्रीहौ निषेधो व्यर्थः,उपसर्जनीभूतास्तु न सर्वादयः॑ इति वक्ष्यमाणत्वात् । अत आहचिकीर्षित इति ।बहुव्रीहा॑वित्यत्र विषयसप्तम्याश्रयणादयमर्थो लभ्यते । त्वकमिति । अज्ञाते कुत्सिते वाअव्ययसर्वनाम्ना॑मित्यकच् । एवमहकमित्यत्रापि । प्रक्रियावाक्ये इति । अलोकिकविग्रहवाक्ये इत्यर्थः । तच्चयुष्मद् सु पितृ सु॑ इत्याद्याकारकम् । ननु तत्राऽकच् प्रवर्ततां को दोष इत्यत आह — स चेति । न च निमित्तस्यानुपसर्जनत्वस्य विनाशोन्मुखत्वादकृतव्यूहपरिभाषया समासात्प्रागपि सर्वनामता न भविष्यतीति वाच्यं, तस्या अनित्यत्वात् । तत्र चूतत्सूत्रस्यैव ज्ञापकत्वात् । अतिभवकानिति । इदमेव ज्ञापनफलमिति भावः ।अत्यादयः क्रान्ताद्यर्थे द्वितीयये॑ति प्रादिसमासः । प्रत्याचख्याविति ।छ्वोः शू॑डिति सतुग्ग्रहणं, प्रकृतिप्रत्यापत्तिवचनं वा अनित्यत्वे ज्ञापकं, लक्ष्यानुरोधाच्च व्यवस्थेति भावः । यथोत्तरमिति । तथाच सम्प्रति भाष्यकारोतयैव व्यवस्थेति भावः । गणेसंनिवेशादिति । एतेनपूर्वपरावरे॑ति गणसूत्रेअसंज्ञाया॑मिति ग्रहणं मन्दप्रयोजनमिति ध्वनितम् । संज्ञायां यानि पूर्वादीनि तेषां गणे संनिवेशाऽभावात् । एवमष्टाध्यायीस्थेपूर्वपरावरे॑ति सूत्रेऽपिअसंज्ञाया॑मित्येतत्त्युक्तुं शक्यम् । न च तदभावे जसि परतः संज्ञायाम्उत्तराः कुरव॑ इत्यत्राऽप्राप्तविकल्पः स्यांदिति वाच्यं, सर्वनामसंज्ञाया अन्वर्थत्वेन संज्ञायामप्राप्तविधेरसंभवादसंज्ञायामेव पूर्वेण प्राप्ता संज्ञा जसि वा स्यादिति वक्तुमुचितत्वात् । संज्ञाकार्यमिति । सर्वनामसंज्ञाप्रयुक्तं स्मायादिकमित्यर्थः । अन्तर्गणकार्यमिति ।अद्ड्डतरादिभ्यः,॒॑त्यादादीनामः॑,तदोः सः सौ॑ इत्यादिकमित्यर्थः । अतिकतरमिति । अत्राऽद्डादेशो न ।अतित॑दित्यत्र तु त्यदाद्यत्वं,तदो सः सौ॑ इति सत्वं च नेति भावः ।", "11030": "<<तृतीयासमासे>> - तृतीयासमासे । अत्रविभाषा दिक्समासे॑ इत्यतः समास इत्यनुवर्तमाने पुनः समासग्रहणं गौणार्थस्यापि सङ्ग्रहार्थमित्यभिप्रेत्याह — तृतीयासमासार्थेति । इहपूर्वसदृशे॑ति विहितः समासो गृह्रते, प्रतिपदोक्तत्वात् । न तुकर्तृकरणे॑ इति समासः, तेन त्वयका कृत॑मित्यत्र निषेधो न भवति ।ओकारसकारभकारादौ सुपी॑ति व्यवस्थापयिष्यमाणत्वादिह सुपष्टेः प्रागकच् ।", "11031": "<<द्वन्द्वे च>> - द्वन्द्वे च । समुदायस्येति । तत्रैव द्वन्द्वशब्दस्य मुख्यत्वात् । न चद्वन्द्वे यानि सर्वादीनी॑ति संबन्धः, कारकाणां क्रिययैवान्वयात् । न चद्वन्द्वे विद्यमानानि यानी॑ति संबन्धः, विद्यतिक्रियाध्याहारे गौरवात्, निषेध्याया भवतिक्रियाया एव प्राधान्येन तदन्वयस्यैव न्याय्यत्वाच्चेति भावः । सुट्प्रसङ्ग इति । न चद्वन्द्वे चे॑ति निषेधसामर्थ्यात्वर्णाश्रमेतराणा॑मित्यादौ सुण्न प्रसज्यत इति वाच्यम्, अनङ्गस्य त्रतसिलादेव्र्यावृत्त्या तत्सामर्थ्यस्योपक्षीणत्वात् ।", "11032": "<<विभाषा जसि>> - जसाधारमिति । शीभावेन जस्यपह्मतेऽप्यौपचारिकमाधारत्वमत्र बोध्यम् । यद्वा जस इर्जसिः,तस्मिन् । सौत्रः सप्तम्या लुगित्यर्थतो व्याचष्टे-जसाधारमिति । अन्यथा सत्यकचिजसः शी॑ त्यस्य प्रवृत्तौवर्णाश्रमेतरके॑ इत्यपि रूपं स्यादिति भावः । यदा अज्ञातः कुत्सितो वा इतरः इतरक इत्यकचं कृत्वा वर्णाश्च आश्रमाश्च इतरकश्चेति द्वन्द्वः क्रियते तदा रूपद्वयं स्यादेव । परं तु इतरशब्देन द्वन्द्वं कृत्वा अज्ञाता वर्णाश्रमेतरा इत्यज्ञाताद्यर्थयोगो यदा क्रियते तदावर्णाश्रमेतरका॑ इत्येकमेव रूपं साध्विति बोध्यम् । ननु द्वन्द्वावयवस्येतरशब्दस्याप्यकच् दुर्वारः, अवयवस्य सर्वनामताऽनपायात् ।द्वन्द्वे चे॑त्यनेन हि समुदायस्य निषेधो न त्ववयवानामिति चेत् ; अत्राहुः — सिद्धान्ते हिजहत्स्वार्था वृत्ति॑रिति पक्षो मुख्यस्तस्मस्तु पक्षेऽवयवानां निरर्थकत्वादज्ञाताद्यर्थयोगाऽभावेनाऽकचः प्राप्तिरेव नास्ति । यैस्तुद्वन्द्वे चे॑ति चकारेणावयवेष्वपि संज्ञा निषिध्यत इत्युच्यते, तेषामजहत्स्वार्थावृत्तिपक्षाभ्युपगमेऽपि न दोष इति ।", "11033": "<<प्रथमचरमतयाल्पार्धकतिपयनेमाश्च>> - प्रथमचरम । नेमशब्दस्य नित्यं प्राप्तेऽन्येषामप्राप्ते चायमारम्भः । तयः प्रत्यय इति ।सङ्ख्याया अवयवे तय॑बिति विहितः । तीयस्येति ।द्वेस्तीयः॑,त्रेः सम्प्रसारणं चेतिविहितस्य ।", "11034": "<<पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्>> - पूर्वपरावरेत्यादिना । स्वाभिधेयेति । स्वस्य पूर्वादिशब्दस्याऽभिधेयेनापेक्ष्यमाणस्यावधेर्नियम इत्यर्थः । अपेक्ष्यते इत्यपेक्षः । कर्मणि घञ् । कथं तर्हिदिशः सपत्नी भव दक्षिणस्या॑ इति । अत्राहुः-अस्त्येवात्रापि व्यवस्था, प्रसिद्धत्वान्नावधिवाची शब्दः प्रयुज्यते । न च संज्ञात्वान्निषेधः । आधुनिकसङ्केतो हि संज्ञा, न च दिक्षु साऽस्तीति ।दिक्षु चिरन्तनः, कुरुष त्वाधुनिकः सङ्केत॑ इत्यत्र तु व्यख्यातृवचनमेव प्रमाणम् । एतेनविओषां देवाना॑मिति व्याख्यातम्, वेदे प्रसिद्धत्वाद्देवगणविशेषे विआशब्दस्याधुनिकसङ्केताऽभावात् । दक्षिणा गाथका इति ।गस्थक॑निति शिल्पिनि थकन् । इहामुकस्मात्कुशला इत्यवध्यन्वयसंभवेऽपि तन्नियमो नास्तीति भावः । एवम॒धरे ताम्बूलरागः,उत्तरे प्रत्यत्तरे च शक्तः॑ इत्यपि प्रत्युदाहर्तव्यम् । उत्तराः कुरव इति । सुमेरुमवधिमपेक्ष्य कुरुषु उत्तरशब्दो वर्तते इत्यस्तीह व्यवस्था, किं त्वाधुनिकसङ्केतोऽयमित्याहुः ।", "11035": "", "11036": "<<अन्तरं बहिर्योगोपसंव्यानयोः>> - अन्तरं बहिर्योगोपसंव्यानयोः ।बहि॑रित्यनावृतो देशो, बाह्रं चोच्यते । तत्राद्यमर्थं गृहीत्वाह — बाह्रा इत्यर्थ इति । द्वितीये त्वाभ्यन्तरा इत्यर्थो बोध्यः । बाह्रेन ह्रभ्यन्तरस्य योगोऽस्ति । अर्थद्वयमप्याकरे स्थितम् । इदमेवार्थद्वयं मनसि निधायअन्तरायां पुरी॑त्यत्र प्राकाराद्बाह्रायां तदन्तर्वर्तिन्यां वेति व्याख्यातम् ।उपसंव्यान॑ शब्दोऽपि करणव्युत्पत्त्या उत्तरीयपरः, कर्मव्युत्पत्त्यात्वन्तरीयपरः ।", "11037": "<<स्वरादिनिपातमव्ययम्>> - स्वरादिनिपातमव्ययम् । स्वरादयश्च निपाताश्चेतिसमाहारद्वन्द्वः । ननु चादिष्वेव स्वरादीन्पठित्वाप्रकृतसूत्रं परित्यज्यतद्धितश्चासर्वे॑त्यादि सूत्रचतुष्टयमपिचादयोऽसत्त्वे॑इत्यास्मादूध्र्वं कृत्वाऽव्ययप्रदेशेषु निपातशब्देनैव व्यवह्यियतामिति चेन्न,स्वस्ति वाचयति॒॑स्वः पश्यति॒॑स्वः पतती॑त्यादौ कर्मादिकारकयोगेन सत्त्ववाचकत्वात्तेषां निपातसंज्ञाऽनापत्तेः । चादीनां ह्रसत्त्ववाचिनामेव निपातसंज्ञा, न तु सत्त्ववाचिनाम् । स्वरादीनां तु सत्त्ववाचिनामसत्तववाचिनां चाऽव्ययसंज्ञेष्यत इति व्यवस्थाऽनापत्तेश्च । अथप्राग्रीश्वरान्निपाताः॒॑स्वरादीनि॒॑चादयोऽसत्त्वे॑इति सूत्र्यतां, तथा हि सति स्वरादीनां सत्त्ववचनानामपि निपातसंज्ञा सेत्स्यतीति चेन्नः, एवं हि सतिनिपात एकाजना॑ङिति प्रगृह्रसंज्ञा स्वरादीनामप्येकाचां प्रसज्येत । स्तो हि स्वरादिषुकिमोऽत्॒दक्षिणदाच्इत्यादावेकाचौ तद्धितौ । केन्प्रभृतय एकाचः कृत्प्रत्ययाश्च सन्ति ।तसिलादिस्तद्धित एधाच्पर्यन्तः॑इति सूत्रस्य,कृन्मकारसन्ध्यक्षरान्तः॑इति सूत्रस्य च स्वरादिगणपपठित्वात् । यद्यप्यत्र मूले स्वरादिषु गणसूत्रद्वयमिदं न पठितं, तथापि प्राचां पाठ#ए त्वस्तीत्यनुपदमेव स्फुटीकरिष्यते । स्वरादीनुदाहरति -स्वरित्यादिना । स्वरिति स्वर्गे परलोके च । अन्तरिति मध्ये । प्रातरिति प्रत्यृषे । पुनरित्यपर्थमे विशेषे च । सनुतरित्यन्तर्धाने ।स्वराद्याः पञ्चः रेफान्ताः । तेन स्वर्याति प्रातरत्रेत्यादावुत्वं न भवति । सान्तत्वे हि स्यादेव हि स्यादे दोषः । उच्चैस् — महतिः । नीचैस् -अल्पे । शनैस् — क्रियामान्द्ये । ऋधक् — सत्येऽपि । वियोगशीध्रसामीप्यलाघवेष्वित्यन्ये । ऋते — वर्जने । युगपदित्येककाले । आराद्दूरसमीपयोः । पृथक् — भिन्ने । ह्रस्य — अतीतेऽह्नि । आस् — अनागतेऽह्नि । दिवा दिवसे । रात्राविति निशि । सायमिति निशामिखे । चिरमिति बहुकाले । मनाक्, ईषत् — इमावल्पे । जोषं — सुखे मौने ।तूष्णीमिति मौने । बहिस् अवस् इमौ बाह्रे । समयेति समीपे मध्ये च । निकषेत्यन्तिके । स्वयमिति आत्मनेत्यर्थे । वृथेति व्यर्थे । नक्तमिति रात्रौ । नञिति निषेधे । हेताविति निमित्ते । इद्धेति प्रकाश्ये । अद्धेति स्फुटावधारणयोः । तत्त्वातिशयोरित्यन्ये । सामीत्यर्धजुगुप्सितयोः । वत् ।तेन तुल्य॑ मित्यादिभिर्विहतो यो वतिप्रत्ययः स इह गृह्रते । तदाह — ब्राआहृआणवत् । क्षत्रियवदिति । प्रत्ययमात्रस्य संज्ञाप्रयोजनाऽभावाप्रत्ययान्तमुदाहृतम् । यस्तु॑उपसर्गाच्छन्दसि धात्वर्थे॑ इति विहितः, स इह न गृह्रते । यदुद्वतो निवतो यासी॒त्यत्र सत्त्वधर्मस्य लिङ्गसङ्ख्यान्वयस्य दर्शनात् । अत्र वदन्ति — ॒तद्धितश्चासर्वविभक्ति॑रित्यत्रतसिवती॑इति वतिप्रत्ययोऽपि परिगण्यते, तच्च न कर्तव्यं, स्वरादिपाठेनैव गतार्थत्वात् । स्वरादिषु वा वदिति न पठनीयमितिष सना, सनत्, सनात्, — एते नित्ये । उपधेति भेदे । तिरस् — अन्तर्धौ तिर्यगर्थे परिभावे च । अन्तरेति मध्ये विनार्थे च । अन्तरेणेति वर्जने । ज्योगिति कालभूयस्त्वे प्रश्ने शीघ्रार्थे संप्रत्यर्थे च । कमिति वारिमूर्धनिन्दासुखेषु । शमिति सुखेष सहसेत्याकस्मिकाऽविमर्शयोः । विनेति वर्जने । नानेत्यनेकविनार्थयोः । स्वस्तीति मङ्गले । स्वधा पितृदाने । अलं — भूषणपर्याप्तिशक्तिवारणनिषेधेषु । वषट्, श्रौषट्, वौषट्, — एते हविर्दाने । अन्यदित्यन्यार्थे । अस्तीति सत्तायाम् । उपांशु — इत्यप्रकाशोच्चारणरहस्ययोः । क्षणेति क्षान्तौ । बिहायसेतचि वियदर्थे । दोषेति रात्रौष मृषा, मिथ्येत्येतौ वितथे । मुधेति व्यर्थे । इत ऊध्र्वंक्त्वातोसुन्कसुनः॒॑कृन्मकारसन्ध्यक्षरान्तः॑अव्ययीभावश्च॑इति गणसूत्रत्रयमष्टाध्यायीस्थत्रिसूत्र्या समानार्थकमिह न पठितं चेदपि प्राचीनगणपाठे तदस्तीति बोध्यम् । वैयथ्र्यं तु परिहरिष्यते । पुरेत्यविरते चिरातीते भविष्यदासन्ने च । मिथो, मिथस् — एतौ रहः सहार्थयोःष प्रायसिति बाहुल्ये । मुहुसिति पुनरर्थे । प्रबाहुकमिति समानकाले ऊध्र्वार्थे च । प्रवाहिकेति पाठान्तरम् । आर्यहलमिति बलात्कारे । शाकटायनस्तु — आर्येति प्रतिबन्धे । हलमिति प्रतिषेधविवादयोरित्याह । अभीक्ष्णमिति पौनः पुन्ये । साकं, सार्धमेतौ साहार्थे । नमस् — नतौ । हिरुग्वर्जने । धिक् — निन्दाभत्र्सनयोः । इत उध्र्वंतसिलादयस्तद्धिता एधाच्पर्यन्ताः॒॑शस्तसी॒॑कृत्वसुच्॒सुच्॒आस्थालौ॒॑च्व्यर्थाश्चे॑ति प्राचीनगणपाठेऽस्तीति बोध्यम् । तसिलादीत्यादेरयमर्थः, — ॒पञ्चम्यास्त सिः॒॑तेनैकदिक्॒तसिश्चे॑त्ययमपि तसिः ।क्रियाभ्यावृत्तिगणने कृत्वसुच् ।द्वित्रिचतुभ्र्यः सुच् ।इण आसिः॑इत्युणादिसूत्रेण विहितआसिः॑ ।प्रत्नपूर्वविओमात्थल्छन्दसि॑ ।संपद्यकर्तरि च्विः॑ ।विभाषा साति कार्त्स्न्ये॒॑देये त्रा च॑इत्येतदन्ता अपि ग्राह्रा इति । अम् — शैध्येऽल्पे च । आम् — अङ्गीकारे ।अमु च छन्दसि॒॑किमेत्तिङव्यय — ॑इतिकास्प्रत्ययात् — ॑इत्यादिभिश्च विहितावपि अमामौ गृह्रते इत्येके । प्रतं नय प्रतरं । ययाचतरां । कारयामास । प्रताम् -ग्लानौ । प्रशान् — समानार्थे । प्रतान् — विस्तारे । मा, माङ् एतौ निषेधाशङ्कयोः । आकृतिगण इति । तेनान्येऽपि ज्ञेयाः । तथा हि — कामम् — स्वाच्छन्द्ये । प्रकाममित्यतिशये । भूय इति पुनरर्थे । साम्प्रतमिति न्याय्ये । परमिति किन्त्वर्थे । साक्षात् — प्रत्यक्षे । साचीति तिर्यगर्थे । सत्यमित्यर्धाङ्गीकारे । मङ्क्षु, आशु — एतौ शैध्ये । संबत् वर्षे । अवश्यं निश्चये । उषेति रात्रौ । ओमित्यङ्गीकारे ब्राहृणि च । भूरिति पृथिव्याम् । भुवरित्यन्तरिक्षे । झटिति, झगिति, तरसा — एते शैन्ध्ये । सुष्ठु प्रशंसायाम् । दुष्ठु निकृष्टे । सु पूजायाम् । कु इति कुत्सितेषदर्थयोः । अञ्जसेति तत्त्वशीघ्रार्थयोः । मिथु इति द्वावित्यर्थे । अस्तमिति विनाशे । स्थाने इति युक्ते । वरमिति ईषदुत्कर्षे । सुदि शुक्लपक्षे । वदि कृष्णपक्षे इत्यादि । चादीनुदाहरति — चेत्यादिना । चेति समुच्चयान्वाचयेतरेतयोगसमाहारेषु ।वा स्याद्विकल्पोपमयोरिवार्थेऽपि समुच्चये॑ । हेति प्रसिद्धौ । अहेति पूजायाम् । एवेत्यवधारणेऽनवकॢप्तौ च । एवमित्युक्तपरामर्शे । नूनमिति निश्चये तर्के च । शआदति पौनः पुन्ये सहार्थे च । युगपदित्येककाले । भूयसे — पुनरर्थे आधिक्ये च । कूपदिति प्रश्ने प्रशंसायां च । कुविदिति भूर्यर्थे प्रशंसायां च । नेदिति शङ्कायां प्रतिषेधविचारसमुच्चयेषु च । चेदिति यद्यर्थे । चण् — अयं चेदर्थे । णानुबन्धस्तुनिपातैर्यद्यदिहन्तकुविच्चेच्चण् — ॑इति विशेषणार्थः । समुच्चयादौ त्वननुबन्धकः । कच्चिदितीष्टप्रश्ने । यत्रेति अनवकॢप्त्यमर्षगर्हाश्चर्येषु ।॒नावकल्पयामि न मर्षये, गर्हा आश्चर्यं वा यत्र भवान् वृषलं याजयेत् । नहेति प्रत्यारम्भे । हन्तेति हर्षे विषादेऽनुकम्पायां वाक्यारम्भे च । माकिः, माकिं, नकिरिति त्रयोऽपि वर्जने । माङ्नञौ स्वरादिषूक्तौ । इह पाठस्तु निपातत्वार्थः, तेनाद्युदात्तत्वं फलं सिध्यतीति केचित् । तदसत् । फिट्स्वरेणाऽपीष्टसिद्धेः । अन्ये त्वाहुः — सत्त्ववचनानामप्यव्ययसंज्ञार्थं स्वरादिपाठ इति । तदप्यसत् । लक्ष्मीवाचकस्यापि माशब्दस्याऽव्ययत्वापत्तेः । तस्मादुभयत्र पाठश्चिन्त्यप्रयोजनः । यावत्तावदेतौ साकल्याऽवधिमानावधारणेषु । साकल्ये — यावत्कार्यं तावत्कृतम् । अवधौ — यावद्गन्तव्यं तावत्तिष्ठ । माने -यावद्दत्तं तावद्भुक्तम् । अवधारणे — यावदमत्रं तावद्ब्राआहृणानामन्त्रयस्व । त्वै — विशेषवितर्कयोः । द्वै — वितर्के । न्वै — इति । पाठान्तरम् । रै दाने अनादरे च । रै करोति । ददातीत्यर्थः । त्वं रै किं करिष्यसि । श्रौषट्, वोषट् — एतौ हविर्दाने । स्वाहा देवताभ्यो दाने । स्वधेति पितृभ्यः । श्रौषडादीनामनेकाचामुभयत्र पाठः स्वरभेदार्थः । तुमिति तुङ्कारे ।गुरु तुङ्कृत्य हुङ्कृत्य॑ । तथाहीति निदर्शने । खलु इति निषेधवाक्यालङ्कारनिश्चयेषु । किलेति वार्तायामलीके च । अथो अथेति मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्याधिकारप्रतिज्ञासमुच्चयेषु । अयं स्वरादावपि । तेन मङ्गलवाचकस्य सत्त्वार्थत्वेऽप्यव्ययत्वं सिध्यति । अतएव श्रीहर्षः — उदस्य कुम्भरथ शातकुम्भजाश्चतुष्कचारुत्विषि वेदिकोदरि । यथाकुलाचारमथाऽवनीन्द्रजां पुरन्ध्रविर्गः स्नपयाम्बभूव ताम्इति । अत्र हिअथ स्नपयांबभूवे॑त्यस्य मङ्गलस्नपनं चकारेत्यर्थः । निपातस्तु स्वरूपेणैवः मङ्गलं मृदङ्गध्वनिवत् । सुष्ठु — स्वरभेदार्थपाठः । स्मेत्यतीते पाजपूरणे च । आदहेत्युपक्रमहिंसाकुत्सनेषु ।आदह स्वधामन्नि॑त्यत्र तु पदकाराआ॑दिति पृथक् पदं पठन्ति । अवदत्तमिति । इह अवस्यानुपसर्गत्वात्अच उपसर्गात्तः॑इति न भवति । अहमिति सुबन्तप्रतिरूपकमहङ्कारे । एवंगेये केन विनीतौ वा॑मिति । युवामित्यर्थः । सुबन्तप्रतिरूपकमव्ययम् । अस्तीति तु तिङन्तप्रतिरूपकम् । एवंत्वामस्मि वाच्मी॑त्यत्राऽस्मीत्यहमर्थे तिङन्तप्रतिरूपकम् । आहेत्युवाचेत्यर्थे । आसेति बभूवएत्यर्थे । -इत्यादि बोध्यम् । अहंयुरिति ।अहंशुभमोर्युस् । यदि तुत्वाहौ सौ॑इति मपर्यन्तस्याऽहादेशे शेषलोपे च कृते निष्पन्नो योऽहंशब्दस्तस्माद्यस्प्रत्ययः क्रियते तर्हि सुपो लुकि अस्मद्युसिति स्थिते मदीय इत्यत्रेव मपर्यन्तस्य मादेशे सतिमद्यु॑रिति स्यादिति भावः । अस्तिक्षीरेति । तिङन्तत्वे तु बहुव्रीहिसमासो[ऽयं]नोपपद्यत इत् भावः । अ इति संबोधनेऽधिक्षेपे निषेधे च । आ इति वाक्यस्मरणयोः ।इ॑संबोधनजुगुप्साविस्मयेषु । ई उ ऊ ए ऐ ओ औ संबोधने । पशु सम्यगर्थे ।पशु मन्यमानाः॑ । शुकं -शैध्ये । यथाकथाचेत्यानादरे । पाट्प्रभृतयः सप्त संबोधने । द्येति हिंसाप्रतिलोभ्यपादपुरणेषु । विषु — नानार्थे । एकपदे -इत्यकस्मादित्यर्थे । युत् — कुत्सायाम् । आत इति -इतोऽपीत्यर्थे । आकृतिगण इति । तद्यथा — यत्तदिति हेतौ । आहोस्विद्विकल्पे । सीम -सर्वतोभावे । शुकम् — अतिशये । अनुकं वितर्के । शम्बट् — अन्तःकरणे आभिमुख्ये च । व पादपूरणे इवार्थे च । दिष्टएत्यानन्दे । चटु चाटु प्रियवाक्ये । हुमिति भत्र्सने । इवेति सादृश्ये । अद्यत्वे इति इदानीमित्यर्थे इत्यादि । अत्र स्वरादिचाद्योराकृतिगणत्वाऽविशेषेऽपि येषां निपातस्वर इष्टस्ते चादिषु, अन्ये तु स्वरादिषु, स्वरद्वयभाजस्तूङयत्रबोध्यः ।", "11038": "<<तद्धितश्चासर्वविभक्तिः>> - तद्धितश्चासर्वविभक्तिः । सर्वेति । वचनत्रयात्मिकेत्यर्थः । नोत्पद्यत इति । किं त्वेकवचनमेवोत्पद्यत इति भावः । तद्धितः किम्, एकः । द्वौ । त्रयः । असर्वेत्यादि किम् । औपगवः । ननु पञ्चालाः गदौ वरणा इत्यादावतिप्रसङ्गः । न चलुब्योगाप्रख्याना॑दितचि वदता नैषां तद्धितान्तत्वमङ्गीकृतमिति [नातिप्रसङ्ग इति] वाच्यम्, एवमपिपचतिकल्पं॒॑पचतिरूप॑मित्यादावतिव्याप्तेर्दुर्वारत्वादित्याशङ्क्याह — परिगणनं कर्तव्यमिति । तसिलादय इति ।पञ्चम्यास्तसि॑लिति विहितो यस्तसिल् तदादयोयाप्ये पाश॑बिति विहितपाशप्प्रत्ययपर्यन्ताइत्यर्थः । शस्प्रभृतय इति.॒बह्वल्पार्थात् — ॑इति विहितो यः शस्, तदादयःसमासान्ताः॑इति सूत्रपर्यन्ताः । कृत्वोर्था इति ।सङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसु॑जिति विहिताः कृत्वसुजादयस्त्रयः । तसिवती इति । न च तसेः परिगणनं व्यर्थं, शस्प्रभृतित्वादेवप्रतियोगे पञ्चम्यास्तसिः॑इत्यस्य लाभादिति वाच्यम्, तेनैकदिक्तसिश्चे॑त्येतदर्थतया तस्यावश्यकत्वात् ।तेन तुल्य॑मिति वतिः । नानाञाविति ।विनञ्भ्यां नानाञौ न सहे॑ति विहितौ । पचतिकल्पमिति । अव्ययसंज्ञायां हि सत्यां सुपो लुक् स्यादिति भावः ।", "11039": "<<कृन्मेजन्तः>> - कृन्मेजन्तः । अत्रमेजन्त॑इत्येतच्छतत्वात्कृत एव विशेषणं नतु कृदन्तस्याऽश्रुतस्य । अन्यथाप्रतामौ॑प्रतामः॑ । लवमाचष्टे णौ क्विपि णिलोपे वस्योठि वद्धौ चलौः॑ -अत्रापि प्रसज्यतेति भावः । भवति ह्रेतत्प्रत्ययलक्षणेन कृदन्तम्, एजन्तं च श्रूयते इति, तदाह — कृद्यो मान्त एजन्त इति । स्मारं स्मारमिति । स्मरतेः॒आभीक्ष्ण्ये णमुल् । वृद्धिः । रपरत्वम् ।नित्यवूप्सयोः॑इति द्वित्वम् । जीवसे इति ।तुमर्थे सेसेन्इत्यसेप्रत्ययः । पिबध्यै इति ।तुमर्थे॑ इत्यनेनैवशध्यै॑प्रत्ययः ।पाघ्रे॑ति पिबादेशः ।येन विधिस्तदन्तस्ये॑त्यनेनैव सिद्धे सूत्रेऽन्तग्रहणमौपदेशिकप्रतिपत्त्यर्थं, तेनेह न -आधये । चिकीर्षवे । लक्षणप्रतिपदोक्त — संनिपातपरिभाषाभ्यां सिद्धे तयोरनित्यत्वज्ञापनायेदमिति मनोरमायां स्थितम् । एतच्च अव्ययादाप्सुप॑इत्यत्राव्ययात्परस्य सुपो लु॑गिति यथाश्रुतव्याख्यानमभिप्रेत्योक्तम् ।अव्ययाद्विहिकस्ये॑ति व्याख्याने त्वाधये इत्यादौ अव्ययसंज्ञामनिष्टान्तरमूह्रम् ।", "11040": "<<अव्ययीभावश्च>> - अव्ययीभावश्च । अव्ययसंज्ञः स्यात् । इहलुकि मुखस्वरोपचारयोर्निवृत्तौचे॑ति परिगणनं कर्तव्यम् । लुक्युदाहरमम् -उपग्नि ।अव्यया॑दिति सुपो लिक् । मुखस्वरनिवृत्तौ उदाहरणम् -उपग्निमुखः । प्रत्यग्निमुखः ।मुखं स्वाङ्ग॑मित्युत्तरपदान्तोदात्तत्वे प्राप्तेनाव्ययदिक्शब्दे॑त्यदिना प्रतिषेधः । तथाचबहुव्रीहौ प्रकृत्ये॑ति पूर्वशब्दप्रकृतिस्वर एव भवति, पूर्वपदं च समासस्वरेणाऽन्तोदात्तम् । विसर्गस्थानिकस्य सकारस्यउपचार॑इति प्राचां संज्ञा, तन्निवृत्तावुदाहरणम् -उपपयःकारः ।उपपयःकामः । इहअतः कृकमी॑ति प्राप्तं सत्वम्अनव्ययस्ये॑ति पर्युदस्यते । परिगणनं किम् । उपागन्धीयान । इहसुबामन्त्रिते॑इति पराङ्गवद्भावेन याने॑त्यादौ मा भूदिति । तथाउपाग्निक॑मित्यादौ अव्ययसर्वनाम्ना॒मित्यकच्[च]न । उपकुम्भंमन्यः ।खित्यनव्ययस्ये॑ति वर्तमानेअरुर्द्विषदजन्तस्येति विहितो यो मुस्तस्येह प्रतिषेधो न । उपकुम्भीभूतः । इहअस्य च्वौ॑ इतीत्त्वस्य॒प्रतिषेधो न । ईस्वविधौ हि ॑अव्ययस्य च्वावितीत्वं ने॒ति प्रतिषे उच्यते, दोषाभूतमाहः दिवाभूता रात्रिरित्यत्र मा भूदिति । स्यादेतत् — स्वारादित्वेनैव सिद्धत्वात् ।तद्धितश्चे॑त्यादि चतुःसूत्री व्यर्था । तत्र हितसिलादिस्तद्धित एदाच्पर्यन्तः॑इत्यादिनाच्व्यर्थाश्चे॑त्यन्तेनाऽऽसिप्रत्ययमौणादिकं वर्जयित्वातद्धितश्चासर्वविभक्तिः॑ इत्यस्याऽर्थः सङ्गृह्रते ।कृन्मकारसन्ध्यक्षरान्तः॑इत्यनेनकृन्मेजन्तः॑इत्यस्यार्थः सङ्गृह्रते ।त्त्कातोसुन्कसुनः॒॑अव्ययीभावश्चे॑ति सूत्रद्वयं तु स्वरूपेणैव पटत इति । अत्राहुः — पुनर्वचनमनित्यत्वज्ञापनार्थम् । तेन प्रागुक्तंलुङ्मुखस्वरोपचाराः॑इति परिगणनं लभ्यते ।पुरा सूर्यस्योदेतोराधेयः॑ ।पुरा क्रूरस्य विसृपो विरप्श॑न्नित्यासिद्धयेन लोकाव्यये॑त्यत्रअव्ययप्रतिषेधे तोसुन्कसुनोरप्रितषेधः॑इति वक्ष्यते तदप्यनेनैव लभ्यत इति ।", "11041": "अव्ययीभावश्च। अव्ययसंज्ञः स्यात्। इह `लुकि मुखस्वरोपचारयोर्निवृत्तौचे`ति परिगणनं कर्तव्यम्। लुक्युदाहरमम् - उपग्नि। `अव्यया`दिति सुपो लिक्। मुखस्वरनिवृत्तौ उदाहरणम् - उपग्निमुखः। प्रत्यग्निमुखः। `मुखं स्वाङ्ग`मित्युत्तरपदान्तोदात्तत्वे प्राप्ते `नाव्ययदिक्शब्दे`त्यदिना प्रतिषेधः। तथाच `बहुव्रीहौ प्रकृत्ये`ति पूर्वशब्दप्रकृतिस्वर एव भवति, पूर्वपदं च समासस्वरेणाऽन्तोदात्तम्। विसर्गस्थानिकस्य सकारस्य `उपचार`इति प्राचां संज्ञा, तन्निवृत्तावुदाहरणम् - उपपयःकारः।उपपयःकामः। इह `अतः कृकमी`ति प्राप्तं सत्वम् `अनव्ययस्ये`ति पर्युदस्यते। परिगणनं किम्?। उपागन्धीयान। इह `सुबामन्त्रिते`इति पराङ्गवद्भावेन याने`त्यादौ मा भूदिति। तथा `उपाग्निक`मित्यादौ अव्ययसर्वनाम्ना`मित्यकच्[च]न। उपकुम्भंमन्यः। `खित्यनव्ययस्ये`ति वर्तमाने `अरुर्द्विषदजन्तस्येति विहितो यो मुस्तस्येह प्रतिषेधो न। उपकुम्भीभूतः। इह `अस्य च्वौ` इतीत्त्वस्य`प्रतिषेधो न। ईस्वविधौ हि `अव्ययस्य च्वावितीत्वं ने`ति प्रतिषे उच्यते, दोषाभूतमाहः दिवाभूता रात्रिरित्यत्र मा भूदिति। स्यादेतत् - स्वारादित्वेनैव सिद्धत्वात्। `तद्धितश्चे`त्यादि चतुःसूत्री व्यर्था। तत्र हि `तसिलादिस्तद्धित एदाच्पर्यन्तः`इत्यादिना `च्व्यर्थाश्चे`त्यन्तेनाऽऽसिप्रत्ययमौणादिकं वर्जयित्वा `तद्धितश्चासर्वविभक्तिः` इत्यस्याऽर्थः सङ्गृह्यते। `कृन्मकारसन्ध्यक्षरान्तः`इत्यनेन `कृन्मेजन्तः`इत्यस्यार्थः सङ्गृह्यते। `त्त्कातोसुन्कसुनः``अव्ययीभावश्चे`ति सूत्रद्वयं तु स्वरूपेणैव पट�त इति। अत्राहुः - पुनर्वचनमनित्यत्वज्ञापनार्थम्। तेन प्रागुक्तं `लुङ्मुखस्वरोपचाराः`इति परिगणनं लभ्यते। `पुरा सूर्यस्?योदेतोराधेयः`। `पुरा क्रूरस्य विसृपो विरप्श`न्नित्यासिद्धये `न लोकाव्यये`त्यत्र `अव्ययप्रतिषेधे तोसुन्कसुनोरप्रितषेधः`इति वक्ष्यते तदप्यनेनैव लभ्यत इति।", "11042": "<<शि सर्वनामस्थानम्>> - शि सर्वनामस्थानम् । महासंज्ञाकरणं पूर्वाचार्यानुरोधेन ।", "11043": "<<सुडनपुंसकस्य>> - सुडनपुंसकस्य ।सुट् स्त्रीपुंसयो॑रिति वक्तव्येऽनपुंसकस्येति वचनं ज्ञापकंप्रसज्यप्रतिषेधेऽपि नञ्समासोऽस्ती॑ति कैयटः । तेनअसूर्यंपश्यानि मुखानी॑त्यादि सिद्धम् ।", "11044": "<<न वेति विभाषा>> - न वेति विभाषा ।ने॑ति प्रतिषेधोवे॑ति विकल्पस्तदाह-निषेधविकल्पयोरिति ।विभाषाश्वेः॑ इत्यादिषु प्रतिषेधविकल्पावुपतिष्ठेते, तत्र प्रतिषेधेन समीकृते विषये पश्चाद्विकल्पः प्रवर्तते । शुशाव शिआआयेत्यत्राऽप्राप्तौ विकल्पः, शुशुवतुः शिइआयतुरित्यादौ तुवचिस्वपी॑ति नित्यप्राप्ताविति विवेकः । अत्रेदं बोध्यम्-॒इति॑ शब्दः काकाक्षिन्यायेनेभाभ्यां सम्बध्यते । स च पदार्थविपर्यासकृत् । तेन निषेधो विकल्पश्च नवाशब्दार्थः संज्ञी । विभाषाशब्दार्थो विकल्पः संज्ञा । उभयत्रविभाषार्थं चेदं सूत्रम् । प्राप्तविभाषायामप्राप्तविभाषायां च नास्योपयोगः । प्राप्तविभाषायां भावांऽशस्य सिद्धत्वेन विभाषाश्रुत्यापक्षे भवती॑ति भावांषमनूद्यपक्षे न भवती॑त्यभावांशमनूद्यपक्षे भवती॑ति भावांशमात्रकरणात् ।विभाषा श्वेः॑ इत्युभयत्रविभाषायां तु यदि विधिमुखेन प्रवृत्तिस्तर्हि पित्स्वेव सम्प्रसारणविकल्पः स्यात् , कित्सु तु यजादित्वात्वचिस्वपि-॑ इति नित्यमेव स्यात् । अथ प्रतिषेधमुखेन प्रवृत्तिस्तर्हि कित्स्वेव प्रवृत्तिः-स्यान्न तु पित्सु । नच पित्सु विधिमुखेन कित्सु तु निषेधमुखेनेत्युभयथापि प्रवृत्तिरस्त्विति वाच्यम्, वैरूप्यलक्षणवाक्यबेदप्रसङ्गात् । संज्ञाकरणे तु श्रुतक्रमानुरोधेनने॑ति प्रतिषेधः प्रथमं कित्सु प्रवर्तते, ततः किदकिद्रूप सर्वस्मिल्लिटि एकरूपं प्रापिते सतिपक्षे भवती॑त्यकरूपेण विधिमुखेनैव प्रवर्तते । इतीति किम् घुसंज्ञावत्स्वं रूप॑मिति वचनाच्छब्दस्य संज्ञा मा भूत् । तथाहि सतिविभाषा श्वेः॑ इत्यस्य नवाशब्दः आयतेरादेश इत्यर्थः स्यात् । इतिशब्दे तु सति अर्थः संज्ञीति लभ्यते । तथाहि-लोके ह्रर्थप्रधानः शब्दः ।गौरित्ययमाहे॑त्यादौ तु शब्दस्वरूपपरः संपद्यते । व्याकरणे तुस्वं रूप॑मिति परिभाषाणात्स्वरूपपरत्वमौत्सर्गिकम् । इतिशब्दसमभिव्याहारे त्वर्थपरतेति विशेषः । इदमेवोतिशब्दस्य पदार्थविपर्यासकत्वं नाम । संज्ञात्वमर्थस्यैव नतु विभाषाशब्दस्येति व्याख्यानस्यह्मक्रोरन्यतरस्या॑-मित्यादौ वैरूप्योद्धारः फलम् । उभयत्रविभांषा हि तत्सूत्रम्, अभ्यवपूर्वस्य हरतेर्भक्षणार्थत्वाद्विकारार्थस्य करोतेरकर्मकत्वाच्चगतिबुद्धी॑त्यादिना अणौ कर्तुर्णौ कर्मत्वे प्राप्ते अर्थान्तरे चाऽप्राप्ते तदारम्भात् । उदाहृतं च भाष्ये-॒प्राप्ते तावत्-अभ्यवहारयति सैन्धवान्, अभ्यवहारयति सैन्धवैः । विकारयत#इ सैन्धवान्, विकारयति सैन्धवैः । अप्राप्ते तु-हरति भारं देवदत्तः, हारयति भारं देवदत्तम्, हारयति भारं देवदत्तेन । करोति कटं देवदत्तः, कारयति कटं देवदत्तम् , कारयति कटं देवदत्तेने॑ति दिक् ।", "11045": "<<इग्यणः सम्प्रसारणम्>> - इग्यणः । यणः स्थाने इति । विधिप्रदेशेषु सूत्रसाटकवद्भाविसंज्ञाश्रयणान्नान्योन्याश्रयः । ननु यण्स्थानिकस्येकः संप्रसारणत्वेअदुहितचरा॑मित्यत्र लङो लकारस्य स्थाने उत्तमपुरुषैकवचनमिट्, तस्य यण्स्थानिकत्वेन संप्रसारणसंज्ञायां सत्यांहलः॑इति दीर्घः स्यात्, तरपं प्रति लङ्न्तस्याऽङ्गत्वादिति चेत् । अत्र कैयटः -यथासङ्ख्यसम्बन्धात्सम्प्रसारणसञ्ज्ञाऽत्र न भवतीति । नन्वनुवादे परिभाषाणामनुपस्थानात्कथमिह यथासङ्ख्यत्वलाभः । नचैवं स्थानेयोगोऽपि न लभ्येतेति वाच्यम्,षष्ठी स्थानेयोगे॑त्यत्रैतत्सूत्रमनुवर्तय व्याख्यायां तल्लभात् । अत्राहुः — तन्त्रावृत्त्याद्याश्रयणेनसम्प्रसारणस्ये॑ति सूत्रे तद्भावितग्रहणाददुहिकरामित्यत्रहलः॑इति लङः स्थामिकस्येटः संप्रसारणस्य दीर्घो न भवति, लङ्स्थानिकस्येटः संप्रसारणशब्देनाऽभावितत्वात्ष । नन्वेवमप्यक्षद्युवौ अक्षद्युव इत्यादावूठः संप्रसारणसंज्ञायांसंप्रसारणाच्चे॑ति पूर्वरूपं स्यादिति चेन्न,संप्रसारणपूर्वत्वे समानाङ्गग्रहणं कर्तव्य॑मिति वार्तिककृतोक्तत्वाद्वार्णादाङ्गस्य बलीयस्त्वाद्वा उवङेव स्यात् । अत्र नव्याः — ॒ष्यङः संप्रसारण॑मित्यादिविधिप्रदेशेष्वेवयण् इ॑गिति पठित्वा संप्रसारणसंज्ञासूत्रं त्युक्तं शक्यमित्याहुः ।", "11046": "<<आद्यन्तौ टकितौ>> - आद्यन्तौ टकिता । भविता,-॒आर्धधातुकस्येट् । पाययाति-॒शाच्छासाह्वे॑त्यादिनात्युक् । पुरस्तादपवादन्यायेन स्थानेयोगत्वस्यायमपवादः ।प्रत्ययः॑परश्चेट॑त्यनेन तु परत्वादयं बाध्यते । तेनचरेष्टः॑गापोष्टा॑ गित्यादयः परा एव भवन्ति ।", "11047": "<<मिदचोऽन्त्यात्परः>> - मिदचोऽन्त्यात्परः । स्थानेयोगत्वस्यप्रत्ययः॑-परश्चे॑ति परत्वस्य चायमपवादः । यशांसि वनानि ।नपुंसकस्यझलचः॑ इति नुम् । रुणद्धि ।रुधादिभ्यः श्नम् । ननु पूर्वयोगवदयमपि पुरस्तादपवादन्यायेन स्थानेयोगमात्रस्यापवादोऽस्त्विति चेन्नः, बाध्यसामान्यचिन्तामाश्रित्य स्वविषये प्राप्तं सर्वं बाध्यते इतीहाभ्युपगमात्, अन्यथा श्नमो मित्करणं व्यर्थं स्यात् । नच श्रवणार्थ एव मकारः स्यादिति वाच्यम्,तृणह इ॑मिति निर्देशात् । अचां मध्य इति । सूत्रे जात्यभिप्रायेणअचः॑ इत्येकवचनमिति भावः । अचां मध्य इति किम् , मुञ्चति लुम्पति ।अन्त्यादचः परो मित्स्या॑दिति प्राचो व्याख्यायां नैतत्सिध्येत् ।शे मुचादीना॑मित्यत्रान्त्यस्याचोऽसंभवेन मित्परिभाषाया अपनुस्थितिप्रसङ्गात् । अन्ये त्वचोऽन्त्यात्परो मित्स्यादिति व्यत्यासेन योजयित्वा प्राचो व्याख्यानमपि कथंचित्समर्थयन्ते । पूर्वसूत्रादन्त इत्यनुवर्तते, एकदेशे स्वरितत्वप्रतिज्ञानात् । अतो व्याचष्टे-अन्तावयव इति । तेनवारीणी॑त्यादावङ्गस्य नान्तत्वेन दीर्घः सिद्धः । परादित्वे स न सिध्येत् । अभक्तत्वे तुवहंलिह॑ इत्यत्रवहाभ्रे लिहः॑ इति खशिअरुर्द्विष॑दिति मुमि मोऽनुस्वारो न स्यात्, अपदान्तत्वादिति भावः । यत्तु कैश्चिदुक्तमभक्तत्वेवारिणी॑ति दीर्घो न स्यादिति, तत्तदादिग्रहणं स्यादिनुमर्थ॑मित्यङ्गसंज्ञासूत्रस्थवार्तिकेनैव दूषितप्रायम् ।", "11048": "<<एच इग्घ्रस्वादेशे>> - एचः । आदिश्यत इत्यादेशः, ह्रस्वाश्चसावादेशश्च ह्रस्वादेशः । निर्धरणे सप्तमी, जातबेकवचनमतो व्यचष्टे — -आदिश्यमानेषु ह्रस्वेष्विति । एचां पूर्वभागोऽकारसदृशः, उत्तरस्तु इवर्णोवर्णसदृशः, तत्रोभयान्तरतमस्य ह्रस्वस्याऽभावात्पर्यायेण अकारः स्यादिकारोकारौ च स्याताम्, तथाच मा कदाप्यकारो भूदिति नियमार्थेयं परिभाषेत्यभिप्रेत्याह -इगेव स्यादिति । आन्तरतम्यादेकारोकारयोरिकारः । ओकारौकारयोस्तूकारः । एकान्तस्योदाहरणं तु हः स्मृतो येन स स्मृतेः । शोभनः स्मृतेर्यस्य तत्सुस्मृती॑त्यादि । एतच्च परिभाषासूत्रमपार्थकम् । तथाच वार्तिककृतोक्तं — ॒सिद्धमेडः सस्थानत्वात्, ऐचोश्चोत्तरभूयस्त्वा॑दिति । अस्यार्थः — शब्दपरविप्रतिषेधेन एङौत्तरभादान्तरतमौ इउवर्णावेवेति सिद्धम् ।एचोश्चे॑ति चकारो भिन्नक्रमःउत्तरभूयस्त्वाच्चे॑ति हेतोरन्तरं बोध्यः । अर्धमात्रा, अवर्णस्य, अध्यर्धमात्रा इवर्णोवर्णयोरित्युत्तरभागाधिक्यान्मल्लग्रामातदिवद्भूयसा व्यपदेशेनाऽपि इकारोकारौ भविष्यत इति । प्रद्युनेति । ननु प्रकृष्टस्वर्गवत्त्वादिकं यत्प्रवृत्तिनिमित्तं तत्पुंनपुंसकयोः समानमिति भाषितपुंस्कत्वात्पक्षे पुंवद्भावोऽत्र स्यादेवेत्याशङ्कायाम#आह — — यदिगन्तमिति । एतच्चरा दाने॑इति धातौअत्र्ब्राआहृआणकुल॑मिति प्रकम्यमाधवेन स्पष्टीकृतम् । कथं तर्हि प्राचाप्रद्यवा॒॑प्रराया॒॑सुनावे॑त्युदाहृतमिति चेदत्राहुः — प्रकृष्टम्वर्गवत्त्वादिप्रवृत्तिनिमित्तैक्यात्सुद्योशब्दो भाषितपुंस्कः, स एवेदानीमिगन्तः । तथाच प्रद्युशब्दोऽपि भाषितपुंस्क एव, एकदेशविकृतस्यानन्यन्यत्वात्, अतः पुंवद्भावो भवतीति । इत्थं च पुंवद्भाव एजन्तेषु क्लीबेषु माधवमते नास्ति, मतान्तरे त्वस्तीति बोध्यम् । प्ररीति । प्रकृष्टो रा यस्य तत्प्ररि॑इति । शोभमा नौर्यस्य तत् — ॒सुनु॑ । इति तत्त्वबोधिन्यामजन्ता नपुंसकलिङ्गाः ।", "11049": "<<षष्ठी स्थानेयोगा>> - षष्ठी स्थानेयोगा । स्थानेन योगोऽस्या इति विग्रहः । निपातनादेत्वम् । षष्टआः संबन्धमात्रवाचित्वेऽपीह शास्त्रे या षष्ठी सा स्थानेयोगा बोध्या । किमविशेषेण , नेत्याह-अनिर्धारितसंबन्धविशेषेति । अनिर्धारितेति किम् ,ऊदुपधाया गोहः॑,शास इदङ्ह्मलो॑रित्यादावुपधासंनिधानेनावयवषष्ठीत्वे निर्णीतेगोहः॑शास॑ इत्यादौ मा भूत् । सति हि तत्रापि स्थानेयोगत्वे गोहिशासिस्थाने धातुमात्रस्योपधायाश्च स्थाने ऊदितौ स्यातामिति दिक् । स्थानं च प्रसङ्ग इति । न चास्य प्रसङ्गार्थकत्वे विवदितव्यम्,दर्भाणां स्थाने शरैः प्रस्तरितव्य॑मित्युक्ते दर्भाणां प्रसङ्ग इति प्रतीतेः । एवं चइको यणची॑-त्यादाविगुच्चारणप्रसक्तौ यगुच्चारणीय इत्याद्यर्थः संपद्यते ।", "11050": "<<स्थानेऽन्तरतमः>> - स्थाने । सदृशतम इति । अर्थात्प्राप्यमाणानां मध्ये एव । अत एवगङ्गोदक॑मित्यत्र त्रिमात्र ओकारो न । इहस्थाने॑ इत्यनुवर्तमाने पुनःस्थाने ग्रहणादन्योऽपि वाक्यार्थः संमतः,ताल्वादिरूपे स्थाने योऽन्तरतमः, तत्प्रयुक्तान्तर्यवानिति यावत् । स तु प्राप्यमाणानां मध्ये स्या॑दिति । तदेतदाह-यत्रानेकविधमिति । स्थानार्थगुणप्रमाणतश्चतुर्विधमित्यर्थः । स्थानतो यथा-दध्यत्र । तालुस्थानस्येकारस्य तालुस्थानो यकारः । अर्थतो यथा-वातण्डयुवतिः । वतण्डशब्दात्वतण्डाच्चे॑ति गोत्रापत्ये यञ् । तस्यलुक् स्त्रिया॑मिति लुक् । शाङ्र्गरवादित्वान्ङीन् । वतण्डी चासौ युवतिश्चेति विग्रहेपोटायुवती॑त्यादिना समासः ।पुंवत्कर्मधारयेत्यतिदिश्यमानःपुंशब्दो वतण्डापत्यवाचिनो वतण्डीशब्दस्य तदपत्यवाचीवातण्डशब्दो भवति, न तु वतण्डादिः । गुणतो यथा वाग्घरिः । घोषवतो नादवतो महाप्राणस्य तादृश एव घकारः । प्रमाणतो यथा-अमुममू अमून् ।अदसोऽसे॑-रित्यनेन ह्रस्वस्य ह्रस्वो दीर्घस्य दीर्घ उकारः । तमब्ग्रहणं किम् वाग्घरि॑रित्यत्रझयो होऽन्यतरस्या॑मिति पूर्वसवर्णे क्रियमाणे महाप्राणत्वसाम्येन द्वितीयो, नादवत्त्वसाम्येन तृतीयश्च मा भूत् । किंतु महाप्राणाश्चतुर्थो घ एव यथा स्यादिति । बलीय इति । तेनचेता॑स्तोते॑त्यत्र प्रमाणत आन्तर्यवानकारो नेति भावः ।", "11051": "<<उरण् रपरः>> - उरण् रपरः । अनुवादेषष्ठी स्थानेयोगे॑ति परिभाषया अनुपस्थितावपि स्थानेग्रहणं ततोऽनुवर्तत इत्याशयेनाह-तत्स्थानेयोऽणिति ।स्थानेऽन्तरतमः॑ इत्यतोऽपिस्थाने॑ग्रहणमिहानुवर्तते । तेन प्रसङ्गावस्तायामेवाऽण् रपरो भवति । तदेतद्व्याचष्टे-रपरः सन्ने प्रवर्तत इति । उः किम् ,ईद्यति॑-गेयम्, देयम् । अण् किम् , रीङादीनां रपरत्वं मा भूत् ।रीङृतः॑-मात्रीयति । रिङ्-॒क्रियते॑ । आन्तरतम्यादिति । रेफशिरस्कस्यअ॑रित्यस्य रेफद्वारेण ॠकारेण स्थानसाम्यादित्यर्थः । पक्षे द्वित्वमिति । ॠधेर्धस्येति भावः ।", "11052": "<<अलोऽन्त्यस्य>> - अलोऽन्त्यस्य । स्थानषष्ठीनिर्दिष्टस्य य उच्यते सोऽन्त्यस्यालः स्थाने स्यादित्यर्थः ।त्यदादीनामः॑ । सः, यः । स्थानषष्ठीति किम् ,आर्धधातुकस्यैट् तृच् ऋकारात्पूर्वो मा भूत् । इदं चषष्ठी स्थाने॑ इत्यनुवृत्त्या लभ्यते । अल इति किम् ,पदस्ये॑त्यधिकृत्य विधीयमानंवसुरुआंसु॑ इति दत्वं परमानडुद्भयामित्यादावन्त्यस्य पदस्य मा भूत् ।", "11053": "<<ङिच्च>> - ङिच्च । अयमपीति ।अवङ् स्फोटायनस्य॑-गवाग्रम् ।अनङ् सौ॑-सखा । परस्य यदिति ।तस्मादित्युत्तरस्यादे॑रिति न सूत्रितम्,आदे॑रित्यंशस्य सर्वादेशबाधकत्वापत्तेः । सिद्धान्ते तु परत्वात्सर्वादेशत्वं बाधकमित्नुपदमेव वक्ष्यति । आदेर्बोध्यमिति । आदेरलो बोध्यमित्यर्थः ।अल॑ इति ह्रनुवर्तते ।", "11054": "", "11055": "<<अनेकाल्शित्सर्वस्य>> - अनेकाल् ।अस्तेर्भूः॑ । बभूव । ननुनिर्दिश्यमानस्यादेशा भवन्ती॑त्यनेकालादेशस्य सर्वादेशत्वं सिध्यति, तत्किमनेनाऽल्ग्रहणेन । न चअलोऽन्त्यस्येट॑त्यन्त्यस्य स्यादिति शङ्कयम्,ङिच्चे॑त्यस्य नियमार्थत्वाभ्युपगमात् । उच्यते-अनेकाल्ग्रहणाऽभावेरामै॑रित्यादावैसादेशःआदेः परस्ये॑ति भकारस्यैव स्थाने स्यान्नतु सर्वस्य स्थाने इति दिक् । शित उदाहरणम्-॒इदम इश्-इतः । इत्यादाविति । आदिशब्देनअतो भिस ऐ॑सित्यादि गृह्रते । परत्वादिति । अत एवआदेः परस्ये॑ति पृथक्रियत इत्युक्तम् । ननुअनेकाल्शित्सर्वस्ये॑त्यतः प्रागेवतस्मादित्युत्तरस्यादे॑रिति पठतां किमनेन पृथक्सूत्रकरणेन । न चैवंतस्मिन्निति निर्दिष्टे-॑ इत्यतो निदष्टग्रहणं नात्रानुवर्तेतेति वाच्यम्, तस्यापि सूत्रस्य प्राक् पठने बाधकाभावेन निर्दिष्टग्रहणाऽनुवृत्तिसिद्धेः । मैवम्ब्राआहृणा अष्टौ॑ इत्यत्र अष्टाभ्यः पूर्वयोरपि जश्शसोरौश्प्रसङ्गात् । यथाश्रुतसूत्राभ्युपगमे तुउत्तरस्ये॑त्यंशः प्रवर्तत एवेति नायं दोषः प्रसज्यत इति । अत्र केचिन्निष्कर्षमाहुः-अनेकाल्शित्सूत्रात्प्रागेव वर्णलाघवायतस्मादित्युत्तरस्यादे॑रिति सूत्रिते परत्वात्सर्वादेशेन आदेरित्यंशवदविशेषादुत्तरस्येत्यंशस्यापि बाधितत्वाद्वाक्यसंस्कारपक्षे ब्राआहृण अस् अष्टन् अस् इति स्थितेअष्टाभ्य[औश्] इत्यस्य दिग्योगे पञ्चमीत्वाव्द्याप्तिन्यायेनाऽष्टनोऽङ्गात्पूर्वयोरपि जश्शसोरौश्स्यात् । व्याप्तिन्यायस्तुप्राग्वीआरान्निपाता॑ इति पठितेऽपि प्रत्यासत्तिन्यायेनअधिरीश्वरे॑ इति सूत्रावधिकत्वसिद्धौईआरे तोसुन्कसुनौ॑ इति सूत्रावधिकत्वनिराकरणाय रेफविशिष्टग्रहणं कुर्वता सूत्रकृतैव ज्ञापितः । ततश्च सर्वादेशेनउत्तरस्ये॑त्यंशस्याऽबाधनार्थं, निर्दिष्टग्रहणानुवृत्त्यर्थं चतस्मिन्निति-॑ इति सूत्रात्परस्य कृते तुआदे॑रित्यस्य सर्वादेशबाधकत्वं स्यात् । तथा चअतो भिस ऐस् इत्याद्यादेश आदेरेव स्यात्, अनेकाल्सूत्रस्यअस्तेर्भू॑रित्यादौ चरितार्थत्वात् । यथान्यासे तुउत्तरस्ये॑त्यंशः प्रवर्तत एवेत्यष्टाभ्यः परयोरेव जश्शसोरौश्स्यात्, न तु पूर्वयोः । तथातस्मादित्युत्तरस्यादे॑रिति न सूत्रितमित्यादिमनोरमाग्रन्थस्याप्ययमेवाशय इति । अन्ये तु यथाश्रुतसूत्रनिराकरणपरतयैव मनोरमां योजयन्ति । तद्यथा-॒न सूतिंरत॑मित्यस्यअनेकाल्शित्सूत्रात्प्राङ् सूत्रित॑मित#इ नार्थः ।आदे॑रित्यंशस्य सर्वादेशबाधकत्वापत्तेरित्याद्यग्रिमग्रन्थविरोधात्, किंतु तद्ग्रन्थानुकूल्यायस्वं रूप॑मिति सूत्रात्प्राङ् सूत्रितमित्यर्थोऽभ्युपेयः । एवं च अनेकाल्सूत्रात्प्राक्सूत्रिते तु नास्त्येव दोष इति मनोरमाग्रन्थाशयः । एवं स्थिते निर्दिष्टग्रहणानुवृत्तिलाभायतस्मिन्निति निर्दिष्टे॑ इति सूत्रंतस्मादित्युत्तकस्यादेः परस्ये॑त्यस्मात्प्रागेव पठनीयम् ।अष्टनोऽङ्गात्पूर्वयोरप्यौश् स्या॑दित्युक्तदोषस्तु इत्थं परिहरणीयः,तस्मादित्युत्तरस्यादेः परस्ये॑त्यत्र आदे॑रिति पृथग्वाक्यम् । तत्रउत्तरस्ये॑त्यनुवर्तते । सा च स्थानषष्टी,षष्ठी स्थाने॑ इत्यस्य प्राप्तेः । तत्र चायमर्थः-॒पञ्चमीनिर्देशेन यत्कार्यं तदुत्तरसम्बन्धि॑उत्तरस्य स्थाने यद्विधीयते तदादेर्भवती॑ति । इत्थं वाक्यभेदेन व्याख्यानाश्रयणादनन्तरस्येति न्यायेनआदे॑रित्यंश एव सर्वादेशेन बाध्यते, न तूत्तरस्येत्यंशोऽपीति नास्त्येव पूर्वोक्तदोषः । वाक्यभेदेन व्याख्यानं तुउत्तरस्यादे॑रित्यसमस्तन्यासकरणेन ज्ञाप्यते । अन्यथाउत्तरादे॑रिति न सूत्रित॑मिति वदेत् । किंचअष्#आभ्य औ॑शित्यस्य दिग्योगे पञ्मीत्वेन पूर्वपरसाधारणतया अष्टनोऽङ्गाज्जश्शसोरित्युक्तेऽप्यनोऽङ्गसंज्ञानिमित्तभूतौ यौ जश्शसौ तावेव शीघ्रपस्थितिकावित्यष्टञ्शब्दादुत्तरयोरेव औश् स्यात्, न तु पूर्वयोरिति दिक्॥", "11056": "<<स्थानिवदादेशोऽनल्विधौ>> - स्थानिवदादेशो । आदेशे कृते स्वरूपभेदात्स्थानिप्रयुक्तकार्याणप्रवृत्तावतिदेश आरभ्यते ।अस्तेर्भूः॑ । आर्धधातुके विवक्षिते धात्वादेशो धातुवत् । तेनअचो य॑-दित्यादिधातुप्रत्ययः-भव्यं बभूव ।किमः कः॑ । अङ्गादेशोऽङ्गवत् । तेन इनादेशदीर्घैस्वभावाः । केन काभ्यां कैः । आदेशग्रहणं किमर्थम् ,स्थानिव॑दित्येतावतैव संबन्धिशब्दमहिम्ना तल्लाभात्, यथापितृवदधीते॑ इत्युक्तेपुत्र॑ इति गम्यते इति चेदत्रादुः, — द्विविध आदेशः,-प्रत्यक्ष आनुमानिकश्चेति ।अस्तेर्भूः॑ इत्यादिः प्रत्यक्षः ।तेस्तुः॑ इत्यादिस्त्वानुमानिकः ।एरुः॑ इत्यत्र हि इकारेणेकारान्तः स्थानी अनुमीयते, उकारेण चोकारान्त आदेशः । तथाचतेस्तु॑रिति फलितोऽर्थः, तत्रासत्यादेशग्रहणे प्रत्यक्षस्यैव ग्रहणं स्यान्नत्वानुमानिकस्य । आदेशग्रहणसामर्थ्यात्तूभयपरिग्रहः, तेन पचत्वित्यादेस्तिङ्न्तत्वात्पदसंज्ञा सिध्यतीति । ननुएरु॑-रित्यादि यथाश्रुतमेवास्तु, एकदेशविकृतस्याऽनन्यत्वात्पदत्वं भविष्यतीति चेन्नः, अर्थवत्येव स्थानादेशभावविश्रान्तेर्वाच्यत्वात्तस्यैवाऽत्र प्रसङ्गाऽसंभवात् । तथाहि-॒षष्ठी स्थानेयोगे॑त्युक्तम् । स्थानं च प्रसङ्गः । स चार्थवतः , अर्थप्रत्ययार्थं शब्दप्रयोगात् । यद्यपि च्लेः सिजादावसंभवीदं, तथापि सति संभवे अर्थप्रयुक्त एव प्रसङ्गो ग्राह्र इत्यनेनैवादेशग्रहणेन ज्ञाप्यते । उक्तं च — सर्वे सर्वपदादेशा दाक्षीपुत्रस्य पाणिने । एकदेशाविकारे हि नित्यत्वं नोपपद्यते॑॥ इति पदमिहार्थवत्, पद्यतेऽनेनेति व्युत्पत्तेः । यद्यपि सर्वविकारे सुतरां नित्यत्वानुपपत्ति स्तथापीह विकार एव नास्तीति तात्पर्यम् । एतच्च शब्दकौस्तुभे स्पष्टम्॥ अनल्विधाविति किम् । यश्चाला विधिः, यश्चालः परस्य विधिः, यश्चालो विधिः, यश्चालि विधिस्तत्र मा भूत् । तत्राऽला विधौ यथा — व्यूढोरस्केन । अत्र सकारस्य स्थानिवत्त्वेन विसर्गवदट्त्वमाश्रित्यअड्व्यवाये॑ इति णत्वं प्राप्तम् । अलः परस्य यथा — द्यौः, पन्थाः । इह हल्ङ्यादिलोपो न । अलो विधौ यथा — द्युकामः । लोपो व्योर्वली॑ति लोपो न । न चोत्त्वविधिसामर्थ्याल्लोपोन भवेदिति शङ्क्यम् ;द्युयान॑मित्यादौ तस्य सावकाशत्वात् । अलि विधौ — यजेः क्तः । क इष्टः ।हशि चे॑त्युत्वं न । न चेह स्थानिबद्भावेन जातेप्युत्वे आद्गुणेऽवादेशे च कृतेहलि सर्वेषा॑मिति नित्यं लोपेनक इष्ट॑ इति रूपं सिध्यत्येवेति वाच्यम् ;कयिष्ट॑ इति रूपान्तराऽसिद्धिप्रसङ्गात् । सिद्धान्ते तुभोभगोअघोअपूर्वस्ये॑ति यस्य लोपविकल्पेक इष्टः॑कयिष्ट॑ इति रूपद्वयमभ्युपगम्यते । अलं चेह स्थान्यवयव एव गृह्रते, तेनरामाये॑त्यादौसुपि चे॑ति दीर्घः सिध्द्यति, तद्विधौ हि यञादित्वमाश्रितम् । यञ् चादेशावयवो न तु स्थान्यवयवः । तथाअरुदिता॑मित्यादौरुदादिभ्यः-॑ इति वलादिलक्षण इट् च सिध्यति । तदेतदाह्मन तु स्थान्यलाश्रय #इति । आश्रयणं चेह यथाकथञ्चिन्न तु प्राधान्येनैवेत्याग्रहः । तेनप्रपठए॑त्यत्र वलादिलक्षण इण्न॥", "11057": "<<अचः परस्मिन् पूर्वविधौ>> - अचः परस्मिन्पूर्वविधौ । अचः किम् । आगत्य ।वा ल्यपी॑त्यनुनासिकलोपस्तुकि कर्तव्ये न स्थानिवत् । परस्मिन् किम् । आदीध्ये । नित्यत्वादिट्, एत्वम्, तच्च न परनिमित्तम्, तेनयीवर्णयो॑रिति लोपे कर्त्तंव्ये तन्न स्थानिवत् । पूर्वविधौ इति किम् , नैधेयः । निपूर्वाद्धाञःउपसर्गे घोः किः॑आतो लोपः॑,द्व्यचः॑इतश्चानिञः॑ इति ढक् । आकारस्य स्थानिवत्त्वे तु त्र्यच्त्वव्यपदेशेन द्व्यच्त्वं विरुद्धत्वाद्वाध्येत । नहि त्रिपुत्रो द्विपुत्रव्यपदेशं लभते । नन्वेवमपि विधिग्रहणं व्यर्थम्, पूर्वस्येति षष्टआ कार्ये कर्तव्ये इत्यर्थस्याक्षेप्तुं शक्यत्वादिति चेन्नः, पूर्वस्य विधिः, पूर्वस्माद्विधिरिति समासद्वयलाभार्थं विधिग्रहणात् । यद्यप्यत्र पञ्चमीसमासपक्षो मूले नोक्तः, तथापिपूर्वस्मादपि विधौ स्थानिवद्भाव॑ इति पक्षे तुअड्व्यवाये॑ इत्येवात्र णत्वमितिपद्द॑न्नादिप्रघट्टके स्वीकृतः सः । अल्विध्यर्थमिदमिति । तेनवव्रश्चे॑त्यत्र वस्य सम्प्रसारणं न, उरदत्त्वस्य स्थानिवत्त्वेन सम्प्रसारणतयान सम्प्रसारणे॑ इति निषेधात् । न चोरदत्त्वं परनिमित्तं नेति वाच्यम्, अङ्गाक्षिप्ते प्रत्यये परे तद्विधानात् । पूर्वस्माद्विधिः पूर्वविधिरिति पञ्चमीसमासपक्षस्य तु प्रयोजनम्-तन्वन्ति, तन्वते । इह यणादेशस्य स्थानिवद्भावान्नेट् । अत्र हितनित्यङ्ग॑नेमित्तम्, तच्च स्थानिभूतादुकारात्पूर्वमिति । नन्विदं न प्रयोजनम्, बहिरङ्गस्य यणोऽसिद्धत्वादिडागमस्यात्राऽप्रसक्तेः । न च नाजानन्तर्ये॑ इति निषेधः ।यत्रान्तरङ्गे बहिरङ्गे वाऽचोरानन्तर्य॑मिति हरदत्तादिमते निषेधप्रवत्तावपिउत्तरकार्ये यत्राच आनन्तर्यमाश्रितं तत्र बहिष्ट्वप्रकॢप्तिर्ने॑ति कैयटमते तदभावात् । न चैवमपीपचन्निति प्रयोजनं भवत्येव, इह हि अन्तेरकारस्य चङकारस्य चअतो गुणे॑ इति पररूपे तस्य च परादिवद्भावाज्झिग्रहणेन ग्रहणे सतिसिजभ्यस्ते॑ति जुस् प्राप्नोति, णिलोपस्य एकादेशस्य वा स्थानिवद्भावान्न भवतीति वाच्यम्, वेत्तेर्हि लडयेवानन्तरो झिः सम्भवतीति तत्साहचर्यादभ्यस्तादपि लङ एव झेर्जुस्विधानात् । न च सिचा साहचर्याल्लुङ एव ग्रहणमस्त्विति शङ्क्यम् ,विप्रतिषेधे पर॑मिति परसाहचर्यस्य वलीयस्त्वात् । न चैवमपिअदभ्यस्ता॑दित्यदादेशस्य निवारणाय पञ्चमीसमासपक्ष आवश्यक इति वाच्यम्, चङकारस्य अन्तेरकारेण चअतो गुणे॑ इति पररूपे कृते झस्याभावददादेशाप्रसक्तेः । अत्र त्वेकादेशस्य परादिवद्भावाज्झग्रहणेन ग्रहणं न भवति; अल्विधौ अन्तादिवद्भावाऽप्रवृत्तेः । अन्यथाअयजे इन्द्र॑मित्यादौ सवर्णदीर्घो दुर्वार एव स्यात् । अस्तु वा परादिवद्भावस्तथापि झकारस्य अत्स्यादित्यदादेशे कर्तव्येऽन्तादेशो न स्थानिवत्, अल्विधित्वात् । तस्मात्पञ्चमीसमासपक्षो निरर्थक एवेति चेदत्राहुः-पञ्चमीसमासप्रयोजनतया अरीतचन्नित्युदाहरतो भगवतस्तु नेह साहचर्यं नियामकतया संमतम् ।द्वित्रिश्चतुर्-॑ इति सूत्रे कृत्वोर्थग्रहणाज्ज्ञापकात्साहचर्यं न सर्वत्राश्रीयते । एवं च भवतेर्यङ्लुकि अब्यस्ताश्रयस्य जुसः प्रवृत्त्याअबोभूवु॑रिति रूपं सिध्यति,आत॑ इति नियमस्य सिचः परत्वमाश्रित्य यो जुस्प्राप्तस्तन्मात्रपरतया माधवादिभिव्र्याख्यातत्वात् । अत एवअभ्यस्ताश्रयो जुस्, नित्यत्वाद्वुक्, अबोभूवुः॑, इति मूले यङ्लुङन्तेषूक्तम् । तथा चाऽपीपचन्नित्येतत्सिद्धये पञ्चमीसमास पक्ष आश्रयणीय इति । अन्येत्वाहुः-पञ्चमीसमासपक्षप्रयोजनतया भाष्येबेभिदिता॑माथितिकः॑ इत्यस्याप्युदाहृतत्वान्न तस्य वैयथ्र्यशङ्का कार्या । यद्यपि यङोऽकारलोपस्य स्थानिवद्भावं विनापिएकाच उपदेशेऽनुदात्ता॑दित्यत्र विहितविशेषणाश्रयणादेव इण्निषेधाप्रवृत्तौ भिदेर्यङन्तातृचि॒बेभिदिते॑ति रूपं सुसाधम्, तथापिमाथितिक॑ इत्यादिसिध्द्यर्थं स पक्षोऽभ्युपगन्तव्यः । न च मथितं पण्यमस्य माथितिक इत्यत्रापितदस्य पण्य॑मिति ठकि इकादेशे च कृतेयस्येति चे॑ति लोपात्इसुसुक्तान्तात् इति इकः स्थाने प्रसज्यमानो यः कादेशः सोऽप्यल्लोपस्य स्थानिवद्भावं विनैव सुपरिहरः,,ठस्येकः॑ इत्यत्रस्थान्यादेशयोरकार उच्चारणार्थः॑ इत्यभ्युपगमे अल्विधित्वेन स्थानिवद्भावाऽप्रवृत्त्या ठस्थानिक इकादेशष्ठो न भवतीति कादेशाऽप्रसक्तेर्माथितिक इति रूपसिद्धौ किमनेन पञ्चमीसमासपक्षाश्रयणेनेति वाच्यम्, मथितयते क्विपि टिलोपाणिलोपयोर्वेरपृक्तलोपे च-मथित्, तेन चरति माथितिक इत्यत्रचरति॑ इति ठकि तस्येकादेशसिद्धये तत्पक्षस्यावश्यकत्वात् । न ह्यत्र स्थानिवद्भावं विनापि इकादेशापवादः कादेशः सुपरिहारः, नाप्येतादृशकल्पनायां मानाऽभावः शङ्कयः,माथितिक॑ इति भाष्योदाहरणस्यैव मानत्वादिति । स्यादेतत्,-पूर्वत्वस्य सावधित्वेन संनिहतस्यैवावधित्वमुचितं, संनिहितं चेह त्रयं, — स्थानी आदेशो निमित्तं च, तत्र तावत्स्थानी नाऽवधिः । तस्यादेशेनापहारात् । नाप्यादेशनिमित्ते,वैयाकरण॑ इत्यत्रैकारस्यायादेशापत्तेरित्याशङ्कायाह-अचः पूर्वत्वेन दृष्टस्येति । पूर्वत्वमुपलक्षणं न तु विशेषणमिति भावः॥", "11058": "<<न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घ- जश्चर्विधिषु>> - न पदान्त । पदान्तादीनां चरन्तानां द्वन्द्वः, ततोविधि॑ शब्देन कर्मषष्ठन्तस्य समासः । विधिशब्दश्च भावसाधनो-विधानं विधिरिति । स च द्वन्द्वान्ते श्रूयमाणत्वांत्प्रत्येकं संबध्यते । पदस्य चरमावयव इति । वृक्षं वेतीति वृक्षवीः, वृक्षं वातीति वृक्षवाः । तमाचष्टे वृक्षवयति । ततो विच् । वृक्षव् । इहलोपो व्योर्वली॑ति वलोपो न, टिलोपस्य णिलोपस्य वा स्थानिवत्त्वात् । न चसुबन्ताण्णि॑जिति हरदत्तादिमते अन्तर्वर्तिसुपा पदत्वात्न पदान्ते॑ति निषेधः शङ्क्यः, विधेयस्य लोपस्य पदानवयवत्वात् ।पदान्तस्य स्थाने विधौ ने॑ति व्याख्याने तुन पदान्ते॑ति स्थानिवत्त्वनिषेधाद्वलोपः स्यादेवेत्यादि मनोरमायां स्थितम् । द्विर्वचनादौ चेति । यलोपादय आदिशब्दार्थः ।वरे॑ इति तु वरे योऽजादेशः स न स्थानिवदिति व्याख्येयम् । सहविवक्षाभावेऽपि निपातनाद्द्वन्द्वः सप्तम्यलुक्व ।अथोदाहरणानि-पदान्ते-कानि सन्ति, कौ स्तः । इह यणावादेशयोः कर्तव्ययोः श्नसोरल्लोपो न स्थानिवत् । न चेकारौकारयोः स्थानिभूतादचः पूर्वत्वविरहादेवाऽल्लोपो न स्थानिवदिति वाच्यम्,वाक्यादपोद्धृत्य पदानि संस्किल्लोपो न स्थानिवदिति उदाहार्यम् । अत्र हि वोपस्थान्यकारात्पूर्वत्वेन दृष्टत्वादोकारस्य । द्विर्वचने-सुद्धयुपास्यः ।नाजानन्तर्ये॑ इति निषेधाद्बहिरङ्गपरिभाषाऽत्र न प्रवर्तते, स्थानिवद्भावनिषेधसामर्थ्याच्च । एवं क्वचिदन्यत्राप्यूह्रम् । वरे-यायावरः । यातेर्यङन्ताद्यश्च यङ इति वरच् ।अतो लोपः॑ । स चआतो लोप इटि चे॑त्यालोपे कर्तव्ये न स्थानिवत् । यलोपे-यातिः । यातेर्यङन्तात् क्तिच् । अतो लोपः । यलोपः । अल्लोपस्य स्थानिवत्त्वादातो लोपः । यलोपः । न च पुनरालोपः शङ्कयः । चिणो लुङ्न्यायेन आलोपस्यासिद्धत्वात्स्थानिवद्भावाच्च । ननु यदि यलोपविधिं प्रति स्थानिवत्त्वनिषेधस्तर्हि कथं-वाय्वोरिति । उच्यते-॒असिद्धं बहिरङ्ग॑मिति यणोऽसिद्धत्वान्न यलोपः । न चनाजानन्तर्ये॑ इति निषेधः, अन्तरङ्गकार्ये अच आनन्तर्यं यत्र तत्रैव तदभ्युपगमात् । किं चात्रस्वरदिर्घयलोपेषु लोपाजादेश एव न स्थानिव॑दिति वार्तिकमस्ति । तेनाऽन्यः स्तानिवदेव भवतीति न दोषः । स्वरे-चिकीर्षकः । ईकारस्यलिती॑त्युदात्तत्वे कर्तव्ये सनोऽतो लोपो न स्थानिवत् । न चलिती॑त्यारम्भसामर्थ्य,कारक॑ इत्यादौ सावकाशत्वात् । सवर्णानुस्वारयोः-शिण्ड्ढि । श्नसोरल्लोपो न स्थानिवत् । यद्यप्यनुस्वारो न स्थानिभूतादचः पूर्व इति तस्य परसवर्णे कर्तव्येऽल्लोपस्य स्थानिवत्त्वप्रसङ्ग एव नास्ति, तथापि स्थानिवद्वारानुस्वारोऽपि दृष्ट इत्यस्त्येव तत्प्रसङ्ग इत्याहुः । ननु सवर्णग्रहणमात्रेणानुस्वारोऽप्याक्षेप्तुं शक्यत इति किमनेन पृथगनुस्वारग्रहणेन । सत्यम् । पृथग्ग्रहणाभावे यत्र परसवर्णस्तत्रैवेति संभाव्येत । तथा च यत्र न परसवर्णप्रसङ्गःशिषन्ती॑त्यादौ तत्र स्थानिवद्भावं निषेद्धुमनुस्वारग्रहणम् । एवं यत्र वरे अजादेशस्य प्रसङ्गो नास्ति यातिरित्यादौ तत्र यलोपे स्थानिवद्भावं निषेद्धुं वरेग्रहणात्पृथग्यलोपग्रहणं कृतमिति ज्ञेयम् । दीर्घे-प्रतिदीव्ना, प्रतिदीव्ने ।हलि चे॑ति दीर्घे कर्तव्येऽल्लोपो न स्थानिवत् । यणादेशस्तु स्थानिवद्भवत्येव ।लोपाजादेश एव न स्थानिव॑दित्युक्तत्वात् । तेनहलि च॑उपधायां चे॑ति दीर्घाप्रवृत्त्या किर्योः गिर्योः विव्यतुरित्यादि सिद्धम् । जशि-सग्धिश्च मे । अदनं ग्धिः । तत्र अदेः क्तिनिबहुलं छन्दसि॑ इति घस्लादेशः,घसिभसोर्हलि चे॑त्युपधालोपः ।झलो झलि॑ इति सलोपः ।झषस्तथोः॑ इति धत्वम् । धस्यझलां जश्झशी॑ति जश्त्वे कर्तव्ये उपधालोपो न स्थानिवत् ।समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु॑ इति सः । समाना ग्धिः-सग्धिः । न चात्र सलोपे धत्वे च कर्तव्ये पूर्वस्मादपीति स्थानिवद्भावात्सग्धिरिति रूपं न स्यादिति शङ्क्यम्; पञ्चमीसमासपक्षस्याऽनित्यत्वात् । तत्रनिष्ठायां सेटी॑ति लिङ्गात् । तथाहि-तत्रसेटी॑ति पदं न तावदनिड्वायवृत्त्यर्थम्, णिजन्तात्तदसंभवात् । ननुसंज्ञापितः पशु॑रित्यत्रयस्य विभाषे॑ति इण्निषेधे संभवत्येवानिट्त्वं,सनीवन्ते॑ति विकल्पितेट्त्वादिति चेन्न;यस्य विभाषे॑ त्यत्रएकाचः॑ इत्यनुवृत्तेः । अन्यथादरिद्रिति ॑ इति इण्न स्यात् , तत्रतनिपतिदरिद्रातिभ्यः॑ इति वार्तिकेन सनो विकल्पितेट्त्वात् । तस्मात्कालावधारणार्तं सेङ्ग्रहणम् । इटि कृते णिलोपो न तु ततः प्रागिति । अन्यथाकारित॑मित्यादौ णिलोपे कृतेएकाच उपदेशे॑इति इण्निषेधः स्यादिति । यदि तु पूर्वस्माद्विधौ स्तानिवत्त्वं तर्हि णिचा व्यवधानान्निषेधस्तर्हिपटयती॑त्यत्रान्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वाज्जश्त्वं स्यात् । मैवम् ।इष्ठव॑दित्यतिष्टया भसंज्ञया पदसंज्ञाया बाधाज्जश्तावऽप्रवृत्तेः । चरि-जक्षतुः, जक्षुः । घसेर्लिटि अतुस् उस् च ।गमहनेट॑त्युपधालोपः ।खरि चे॑ति चर्त्त्वं प्रति न स्थानिवत् । भाष्ये तुपूर्वत्रासिद्धे न स्थानिव॑दित्यवष्टभ्य द्विर्वचनसवर्णानुस्वारदीर्घश्चरः । प्रत्याख्याताः । तद्रीत्या तु सलोपे धत्वे च कर्तव्ये स्थानिवद्भावशङ्कैव नास्तीति बोध्यम् ।", "11059": "<<द्विर्वचनेऽचि>> - अचा सामानाधिकरण्यलाभाय द्विर्वचनशब्दस्य तन्निमित्ते लक्षणा स्वीक्रियते । यद्वा — उच्यत इति वचनं, द्विः — वचनं यस्मिन्नचि तद्द्विर्वचनम् । अथवा द्विर्वचनमस्मिन्नस्तीत्यर्शाअद्यच् । तदेतदाह — द्वित्वनिमित्तेऽचीति । इहअचः परस्मि॑न्नित्यतोऽचेति,स्थानिवदादेशः॑ इत्यस्मादादेश इति,न पदान्ते॑त्यतो नेति चानुवर्तते । तदाह — अच आदेशो न स्यादिति । यद्यपीहि वृत्त्यादौ — अजादेशः स्थानिवत्स्या॑दिति रूपातिदेशपक्षः स्वीकृतः फलं चोभयत्र तुल्यं, तथाप्यादेशनिषेधपक्षोऽपि भाष्यारूढ इति स एवात्र स्वीकृतः । किं च आदेशमङ्गीकृत्य पुनः स्थानिरूपाश्रयणापेक्षया निषेधपरतया व्याख्यानमेव लघु ।प्रक्षालनाद्धिपङ्कस्य दूरादस्पर्शनं वर॑मिति न्यायात् ।न पदान्ते॑ति निषेधानन्तरं पाठोऽप्येवं सत्यनुगृहीत इति श्रेयानयं पक्षः ।इष्टानुरोदेन द्विर्वचन इत्यावर्त्त्य कालावधारणपरतयापि व्याचष्टे — द्वित्वे कर्तव्ये इति । कृते तु द्वित्वे यथायथमादेशः स्यादेवेति भावः । द्वित्वनिमित्ते किम् । दुद्यूषतीत्यत्र द्वित्वात्परत्वादूठि कृते यदि यणः पूर्वमेव द्वित्वं स्यात्तदा दिद्यूषतीत्यनिष्टं रूपं स्यात्तन्माभूदिति द्वित्वनिमित्त इत्युक्तम् । नह्रूठ् द्वित्वनिमित्तम् । अचीति किम् । जेघ्रीयते । देध्मीयते । शाशय्यते । इहई घ्राघ्मो॑रिति ईकारः,अयङ् यि क्ङिती॑त्ययहादेशस्च निषिध्येत, स माभूदिति प्राञ्चः । अन्ये त्वाहुः — अचीति व्यर्थं, घ्रीय्-ध्मीय्-शय्य् इति द्वितीयाऽजवधिकस्यैकाचः कार्यितया यङो द्वित्वनिमितत्वाऽभावादिति । अचः किम् । असूषुपत् । इहस्वापेश्चङी॑ति यत्संप्रसारणं तस्मिन्निषिद्धेऽभ्यासे उवर्णो न श्रूयेत् । न च द्वित्वे कृतेयून॑ इत्यत्रेवन संप्रसारणे॑ इति पूर्वस्य यणः संप्रसारणनिषेधात् । स्यादेतत् - चक्रतुरित्यत्र अच आदेशस्य निषेधाऽप्रवृत्त्या यण् स्यादेव । अतुसो द्वित्वनिमित्तत्वेऽप्यकारस्याऽतथात्वात् । न चद्विर्वचनेऽची॑त्यस्य वैयथ्र्यं, चक्रे इत्यादौ सावकाशत्वात् । तथा चैकाच्त्वाऽभावात्लिटि धातो॑रितीह द्वित्वं न स्यादिति चेत् । मैवम् । इह द्वित्वनिमित्तशब्देनसाक्षाद्वा, समुदायघटकतया वा यद्द्वित्वप्रयोजकं, लक्ष्यानुरोधेन तस्य सर्वस्य ग्रहणात् । एतच्चठस्येकः॑ इति सूत्रे कैयटे स्पष्टम् । तथा च ऊर्णोतेः सनिसनीवन्ते॑तीट् पक्षेविभाषोर्णो॑रिति ङित्त्वविरहे ऊर्णुनविषतीति सिद्धम् । सन्नन्तस्य द्वित्वविधानेऽपि सनो द्वित्वप्रयोजकत्वेन तस्मिन्परे प्राप्तयोर्गुणाऽवादेशयोर्द्वित्वे कर्तव्ये निषेधात् । अत एवाहुः -तद्भावबावितामात्रेणेह निमित्तत्व॑मिति । एवं च द्वित्वनिमित्तघटकतया सन इडागमोऽतुस अकारश्च द्वित्वनिमित्तमिति स्थितम् । नन्वेवम्, ऋदातोः सनिस्मिपूङ्रञ्ज्वशां सनी॑तीटि कृते इस्शब्दनिमित्तकस्य गुणस्यद्विर्वचनेऽची॑ति निषेधेअजादेर्द्वितीयस्ये॑ति द्वित्वप्रसङ्गादरिरिषतीति न सिध्येत् । रिस्शब्दनिमित्तकस्य दित्वे तु यद्यपि सिध्यति तथापि गुणनिषेधे रिस्शब्द एव दुर्लभ इति चेत् । अत्राहुः — गुणे रपरे कृते निमित्ततयाऽऽश्रीयते,स्थण्डिलाच्छयितरिव्रते॑ इति ज्ञापकात् । अन्यथा शीङो ङित्वेनक्ङिति चे॑ति गुणनिषेधाच्छयितरीति रूपस्याऽसिद्ध्यापत्तेः । न चकिति ङिति परे गुणवृद्धी ने॑ति व्याख्यायमुक्तेऽर्थे शयितरीति न ज्ञापकमिति वाच्यं, तद्व्याख्यायां छिन्नं भिन्नमित्यत्र गुणनिषेधो न स्यादित्यादिदोषस्यक्ङिति चे॑ति सूत्र एवोपपादितत्वात् । न चैवं कार्यिणो निमित्तत्वाऽनाश्रयणे सन्नन्तस्य कार्यित्वातत्सनि परतः प्राप्तयोर्गुणावादेशयोरनिषेधादूर्णुनविषतीत्यपि न स्यादिति वाच्यं, मत्वर्थीयेनेनिना कार्यमनुभवत एवं कार्यित्वाऽलाभात् । ऊर्णोतेर्हि नुशब्द एव द्वित्वरूपं कार्यमनुभवति, न तु सन् । अरिरिषतीत्यत्र तु रिस्शब्दः कार्यभागिति वैषम्यादिति ।", "11060": "<<अदर्शनं लोपः>> - अदर्शनं लोपः । अत्र दृशिज्र्ञानसामान्यवचनः । दर्शनं ज्ञानं । तदिह शब्दानुशासनप्रस्तावाच्छब्दविषयकं सच्छ्रवणं संपद्यते । तच् श्रोतृव्यापारः, तन्निषेधोऽश्रवणम् । नन्वेवंलोपो व्योर्वली॑त्यादौ वकारयकारौ न श्रोतव्याविति श्रोतृव्यापार एव निषिध्येत, प्रयोक्तृव्यापार उच्चारणमनिषिद्धं स्यात् । अत्राहुः-असति च श्रवणे उच्चारणमनर्थकमवेति सामर्थ्याच्छ्रवणनिषेधे तद्धेतुभूतमुच्चारणमपि निषिद्धं भवतीति । प्रसक्तस्येति । इहस्थाने॑ इत्यनुवर्तनादेताल्लभ्यते । प्रसक्तस्येति किम् दधि मध्वित्यादौ तुगागमो मा भूत् । अस्ति हि तत्र क्विपोऽदर्शनम्, तच्च लोप इति प्रसक्तविशेषणाभावे प्रत्ययलक्षणेन तुक् स्यादेवेति दिक् ।", "11061": "<<प्रत्ययस्य लुक्श्लुलुपः>> - पत्ययस्य लुक्श्लुलुपः ।अदर्शनं लोपः॑इत्यतोऽनुवृत्तस्याऽदर्शनस्यानेकसंज्ञाकरणसामर्थ्यात्तन्त्त्राद्यश्रित्य तद्भावितसंज्ञा इह विज्ञायन्ते, तेन संज्ञासङ्करोऽत्र न भवति, तदेतदाह — लुक्श्लुलुप्शब्दैरित्यादि । सति तु संज्ञासङ्करेहन्ती॑त्यत्र शब्लुकिश्लौ॑इति द्वित्वं स्याति ।जुहेती॑त्यत्र श्लौ सतिउतोवृद्धिर्लुकि हली॑ति वृद्धिः स्यात् । न च तत्रअभ्यस्तस्य ने॑त्यनुवृत्तेर्योयोति नोनोतीत्यादाविव वृद्धिर्न भविष्यतीति वाच्यं, संज्ञासङ्करपक्षे तदनुवृत्त्यसंभवात्, अन्यथा सूत्रस्य निर्विषयत्वापत्तेः । न चयौती॑त्यादिरवकाशः, संज्ञसङ्करे तत्रापि द्वित्वस्य दुर्वारत्वादिति भावः ।फले लुक्जुहोत्यादिभ्याः श्लुः॒॑जनपदे लु॑बित्यादिविधिप्रदेशेषु सूत्रशाटक वद्भाविसंज्ञाविज्ञानान्नान्योन्याश्रयः ।", "11062": "<<प्रत्ययलोपे प्रत्ययलक्षणम्>> - प्रत्ययलोपे प्रत्यय। विशेषविहिता अपि लुगादिसंज्ञा लोपसंज्ञां न बाधन्ते, एकसंज्ञाधिकारद् अन्यत्र संज्ञायां बाध्यबाधकभावानङ्गीकाराद् इति भावः। स्थानिवत्सूत्रेण सिद्धे नियमार्थम् इदं सूत्रं, प्रत्ययस्याऽसाधरणं रूपं यत्र प्रयोजकं तद् एव कार्यं प्रत्ययलोपे सति भवति, न तु प्रत्ययाऽप्रत्ययसाधरणम् इति। तेन शोभना दृषदो यस्य सुदृषत् प्रासाद इत्यत्र ‘नञ्सुभ्याम्’ इत्यन्तोदात्ततां बाधित्वा ‘सोर्मनसी अलोमोषसी’ इत्युत्तरपदाद्युदात्तत्वम्, ‘अत्वसन्तस्ये’ति दीर्घश्च न भवति। यद्वा, ‘यत्र प्रत्ययः प्राधान्येनाश्रीयते तत्राऽल्विधावपि विध्यर्थम् इदम्। तेन ‘अतृणेड्’ इत्यत्र हलादौ पिति सार्वधातुके विहित इम् लुप्तेऽपि तस्मिन् भवति। ‘वर्णाश्रये नास्ति प्रत्ययलक्षणम्’ इति तु वर्णप्राधान्यविषयकम्। तेन गवे हितं गोहितम् इत्यत्राऽवादेशो न। यद्यपीदं पक्षद्वयम् आकरारूढं, तथापि नियमपक्ष एव प्रबल इति यड्लुगन्ते मनोरमायां स्थितम्। स्याद् एतत्, सूत्रस्याऽस्याऽवश्यकत्वेऽपि ‘प्रत्ययलोपे तल्लक्षणम्’ इत्येव सूत्र्यतां, किम् अनेन द्वितीयप्रत्ययग्रहणेन? अत्राहुः, ‘प्रत्ययस्याऽसाधारणं रूपं यत्रे’त्यादिलाभाय द्वितीयप्रत्ययग्रहणम् इति।", "11063": "<<न लुमताऽङ्गस्य>> - न लुमताङ्गस्य । लुमतेति किम् कार्यते हार्यते । अत्रणेपनिटि॑इति णिलोपेऽपि णिजपक्षे वृद्धिर्भवत्येव । अङ्गस्येति किम् ।पञ्च॒॑सप्त॒॑कती॑त्यादौ प्रत्ययान्तकार्यंसुप्तिङन्ताम् -॑इति पदसंज्ञा यथा स्यात् । अस्मदिति । प्राचा त्वव्ययास्मदिति पठितं,तत्र अव्ययेत्युपेक्षितम्,सदृशं त्रिषु लिङ्गेषु॑इति श्रुतोर्लिङ्गत्रयाद्यभावपरत्वेन अव्ययानामलिङ्गत्वात् । अव्ययीभावस्य तु वचनात्क्लीबत्वेऽपि लिङ्गान्तराऽभावाच्च । त्रिशब्द इति ।तरतेङ्ग्रिः॑ । डित्त्वाट्टिलोपः ।", "11064": "", "11065": "<<अलोऽन्त्यात् पूर्व उपधा>> - अलोऽन्त्यात्पूर्व ।अल॑इति पञ्चमीअन्त्या॑ दित्यनेन विशेष्यात इत्याह-अन्त्यादल इति । अलः किम् ।शिष्टाः॑शिष्टवा॑ नित्यादावन्त्यात्सङ्घातात्पूर्वस्य शकारस्य मा भूत् । सत्यां हि संज्ञायांशास इदङ्हलोः॑ इति शस्येत्त्वं स्यात् । नन्वेवमप्यन्त्यादलः पूर्वस्य सङ्घातेस्योपधासंज्ञायांशिष्ट॑इत्यादौ शकारविशिष्टस्याकारस्य इत्त्वं स्यादित्यतिप्रसङ्गदोषस्तदवस्थ एवेति चेदुच्यते — यथा हि लोकेअमीषां ब्राआहृआणानामन्त्यात्पूर्व आनीयिता॑मित्यक्ते यथाजातीयकोऽन्त्यस्तथाजातीयकोऽन्त्यात्पूर्व आनीयते, तथाऽत्राप्यन्त्योऽलात्मक इति तत्पूर्वोऽप्यलेव गृह्रते । तदेतदाह — पूर्वो वर्ण इति । अत्र॒अचोऽन्त्यादि टी॑ त्यत्रेवअल॑ इति निर्धारणे षष्ठीत्यपि सुवचमिति केचिदाहुः,अलां मध्ये योऽन्त्यस्तस्मात्पूर्वो वर्ण उपधासंज्ञः स्या॑दिति व्याख्याया अपि संभवदुक्तिकत्वात् ।", "11066": "<<तस्मिन्निति निर्दिष्टे पूर्वस्य>> - तस्मिन्निति । सप्तम्यन्तानुकरणमिदम् ।निःशब्दो नैरन्तर्यपरः । दिशिरुच्चारणक्रियः ।अचि य॑णित्युक्ते व्यवहितेऽव्यवहिते च सति प्राप्तमव्यवहिते एवेति, पूर्वस्य परस्य च प्राप्तं पूर्वस्यैवेति त नियम्यते । अव्यवहितस्येति तु फलितार्थकथनम् । पूर्वस्यैवेति किं , दध्युदकम् । अत्रोकारस्य मा भूत् । अव्यवहितस्यैवेति किम् , अग्निचिदत्र सोमसुदत्र । व्यवधानं चात्र वर्णकृतमेव निषिध्यते, नतु कालकृतम् । संहिताधिकाराज्ज्ञापकात् । अन्यथा निर्दिष्टग्रहणादेवाऽसंहितायां यणाद्यप्रसङ्गात्क तेन संहिताधिकारेण । अतो व्याचष्टे-वर्णान्तरेणेति । एवं च संहिताधिकारबहिर्भूतविधयः कालव्यवायेपि संभवन्ति । तेनाग्नाविष्णू इत्यादाववग्रहेऽपिअनाङृतो द्वन्द्वे॑देवताद्वन्द्वे चे॑त्यादिना उत्तरपदे परतो विहिता आनङादयो भवन्तीति दिक् ।", "11067": "<<तस्मादित्युत्तरस्य>> - तस्मादिति । उत्तरस्येति किम् , तिङ्ङतिङः॑ इति निघात उत्तरस्यैव यथा स्यात् । अग्निमीले । नेह-ईले अग्निम् । अव्यवहितस्येति । एतच्च निर्दिष्टग्रहणानुवृत्त्या लभ्यते । तेन उत्संस्थानं उत्संस्तम्भनमित्यादौउदस्थे॑ति पूर्वसवर्णो न प्रवर्तते ।", "11068": "<<स्वं रूपं शब्दस्याशब्दसंज्ञा>> - स्वं रूपं शब्दस्य ।अग्नेर्ढक् । आग्नेयम् ।आङो यमहनः॑ । आयच्छते, आहते । इह-अग्नि, आङ्, यम्, हन्, -एते एव संज्ञिनः । नन्वग्न्यादिवाच्यादङ्गारादेर्ढगादिप्रत्ययो न संभवतीति स्वरूपादेव स्यात्,प्रातिपदिका॑दित्याद्यधिकाराच्च किमनेन सूत्रेणेति चेत् , सत्यम् । अग्न्यादिशब्दपर्यायेभ्योवह्वयादिभ्यो मा भूदिति सूत्रस्याऽस्यारम्भः । नन्वत्र रूपग्रहणं विनापि स्वशब्देन रूपमेव ग्रहीष्यते, प्रतीतावुपदेशानपेक्षत्वादसाधारणत्वादन्तरङ्गत्वान्नियतोपस्थितिकत्वाच्च । अर्थो हि प्रतीतौ संबन्धग्रहणमपेक्षते, पर्यायैरपि प्रत्यायनात्साधारणः , पदज्ञानजन्यवोधविषयत्वाद्बहिरङ्गः, अनुकरणदशायामप्रतीतेरनियतोपस्थितिकश्चेति किमनेन रूपग्रहणेन ।उच्यते-॒इह शास्त्रे अर्थोऽपि विवक्षितो रूपव॑दिति ज्ञापनार्थं रूपग्रहणम् । तेनअर्थवद्ग्रहणे नानर्थकस्ये॑त्युपपन्नं भवति । तत्रोक्ताज्ञापकादर्थो ग्राह्रः,स्व॑मिति वचनात्स्वं रूपं चेति सामर्थ्यादर्थवतो रूपस्य ग्रहणम् । तेनकाशे॑कुशे॑ इत्यत्रशे॑ इत्ययं प्रगृह्रसंज्ञो न भवति ।प्रादूहोढेइत्यत्र तुऊढग्रहणेन क्तान्तमेव गृह्रते नतु क्तवत्वन्तस्यैकदेशः॑ इत्यन्यत्र विस्तरः । अशब्दसंज्ञेति किम् उपसर्गे घोः किः॑-दाधाभ्यो यथा स्यात्, घुधातोः शब्दार्थकान्मा भूत् । नचदाधा घु॑ इति घुसंज्ञाकरणसामर्थ्यादेव दाधाभ्यः किः स्यादिति वाच्यम्,घुमास्थे॑त्यादिना आत ईत्त्वविधौ संज्ञाकरणस्यावश्यकतया सामर्थ्योपक्षयात् । इह (अ) शब्दस्य संज्ञा (अ) शब्दसंज्ञेति न षष्ठीसमासः,कर्म॑करण॑मित्यादिष्वर्थसंज्ञासु स्वरूपग्रहणापत्तेः, किंतु शब्दः-शब्दशास्त्रं, तत्र संज्ञा शब्दसंज्ञेति सप्तमीसमासस्तदाह — शब्दशास्त्रे या संज्ञेति ।", "11069": "<<अणुदित् सवर्णस्य चाप्रत्ययः>> - अविधीयमानोऽणिति । तेन इत इत्यत्रइदम इश् इति त्रिमात्र ईकारो न भवति । उदिच्चेति । इहअविधीयमान॑ इति न संबध्यते, उदित्करणसामर्थ्यात् । तेन विधीयमानोऽप्युदित्सवर्णान्गृह्णात्येव,-॒कुहोश्चुः॑ जगाद जघटे । परेण णकारेणेति । व्याख्यानतो विशेषप्रतिपत्तेः,उपसर्गादृति॑ऋत उत् इत्यादौ तपरकरणाल्लिङ्गाच्च । यदि पूर्वेण स्यात्तर्हि तपरत्वमिहानर्थकं स्यात्, ऋकारस्याऽनण्त्वेन सवर्णाऽग्राहकत्वात् । एवं चतपरत्वाद्दीर्थे न, उप ऋकारीयति॑ इत्यादिवक्ष्यमाणग्रन्थोऽपि सङ्गच्छते । एवम्ऌकारोऽपीति ।तिंरशतः संज्ञे॑त्यनुषज्यते । एतच्च न्यायसाम्यादुक्तम् । वस्तुत ऌकारस्य ऋकारग्राहकत्वं न कुत्राप्युपलभ्यते । सूत्रारम्भसामर्थ्यादिति । सति तु सावण्र्ये एकारेण ऐकारग्रहणादोकारेण चौकारग्रहणात्ऐऔच् इति सूत्रारम्भो वृथा स्यादिति भावः । नापादनीयमिति । तेन ग्लावं ग्लाव इत्यत्रऔतोम्शसोः॑ इति न प्रवर्तत इति मूल एव स्फुटीभविष्यति । यद्यपीति । ग्रहणकशास्त्रस्याद्याप्यनिष्पत्तेरिति भावः । एतच्च अकः सवर्णे दीर्घः॑ इत्यत्र व्युत्पादयिष्यामः । आक्षरेति । अक्षराणां समाम्नायः=उपदेशसूत्राणि । तत्र भवा आक्षरसमाम्नायिकाः ।बह्वचोऽन्तोदात्ताट्ठञ् इति ठञ् । हो ढ इति ढत्वं न भवतीति । यद्यप्याकारप्रश्लेषाभावे संयोगान्तलोप एव प्राप्नोति नतु ढत्वं, तस्यासिद्धत्वात्, अतोऽत्र संयोगान्तलोपो न भवतीति वक्तुमुचितम्, तथापिकार्यकालं संज्ञापरिभाषम् इति पक्षे त्रैपादिकेऽन्तरङ्गे बहिरङ्गपरिभाषायाः प्रवृत्तेरन्तरङ्गे ढत्वे कर्तव्ये बहिरङ्गः संयोगान्तलोपोऽसिद्ध इति मत्वेदमुक्तमित्येके । अन्ये तुसंज्ञापूर्वको विधिरनित्यः॑ इति लोपस्य वारणं कथंचित्कर्तुं शक्यमित्याशयेन ढत्वं नेत्युक्तमित्याहुः । विआपाभिरित्यत्रेत्युपलक्षणम् । विआपाः विआपाभ्यामित्यादावपि न भवति ।हो ढः॑ इत्युपलक्षणम् ।पृथगायु॑रित्यादौझयो हः॑ इत्याकारस्य घकारो नेति दिक् । यदि तुविवृतमूष्मणाम् इत्यत्रईषत्स्पृष्टम् इत्यतईष॑दित्यनुवर्त्त्यस्वराणां चे॑त्यत्र निवर्त्त्यईषद्विवृतमूष्मणां, विवृतं स्वराणा॑मिति प्रयत्नभेदो व्याख्यायते, तदानाज्झलौ॑ इति सूत्रं त्यक्तुं शक्यमित्याकरे स्थितम् । अनुनासिकास्ते इति । ये त्वाक्षरसमाम्नायिका अणस्त एव सवर्णानां संज्ञा भवन्तीति भावः । एवंच रेफो हकारश्च अण्प्रत्यागारान्तर्गतोऽपि न क्सयचित्संज्ञा, तत्सवर्णस्यान्यस्याऽभावादित्यवगन्तव्यम् ।", "11070": "<<तपरस्तत्कालस्य>> - स च तापरश्चेति । तव्रादिना उभयं विवक्षितमिति भावः ।", "11071": "", "11072": "<<येन विधिस्तदन्तस्य>> - येन विधिः ।विधि॑रित्यत्रउपसर्गे॑ घोः किः॑ इति कर्मणि किः प्रत्ययः ।येने॑ति करणे तृतीया, न तु कर्तरि । तस्याः कृद्योगषष्टआ बाधात् । नचउभयप्राप्तौ कर्मणी॑ति नियमेन निर्वाहः, कर्मण उक्तत्वेनोभयप्राप्त्यभावात् । तथा चात्र करणे तृतीयैव । करणं च परतन्त्रं, कत्र्रधिष्ठितस्यैव करणत्वात् । एवं चेह तृतीयया पारतन्त्र्यं लक्ष्यते । नचएर॑जित्यादाविकारादीनां पारतन्त्र्यं धात्वादीनां च स्वातन्त्र्यं वास्यादीनामिव तक्षादीनामिव संभवति, किंतु वैवक्षिकम् । तेन विशेषणमप्रधानम् । तच्चात्मान्तरस्य संज्ञेति फलितं, तदेतदाह — विशेषणं तदन्तस्यैति । स्वस्य चेति ।स्व रूप॑-मित्यनुवृत्तेरेतल्लभ्यते ।एरच् । इकारान्तादिकाररूपाच्च धातोरच् । चयः, जयः, अयः । समासप्रत्ययविधावाते । कृष्णं श्रितः कृष्णश्रितः । [॒द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः॑ । द्वितीयान्तं श्रितादिप्रकृतिकैः सुबन्तैः सह समस्यते वा तत्पुरुषः ] । नेह-कृष्णमुपश्रितः ।नडादिभ्यः फक् । नडस्य गोत्रापत्यं नाडायनः । नेह-[सूत्रनडस्यापत्यं] सौत्रनाडिः । अनुशतिकादित्वादुभयमदवृद्धिः । उगिद्वर्णेति । उगिद्वर्णग्रहणं वर्जयित्वा,-उगिद्वर्णग्रहणवर्जं ।द्वितीयायां चे॑ति णमुल् । महान्तमतिक्रान्ता अतिमहती । महच्छब्दस्य गौरादित्वेऽप्युपसर्जनेषिद्गौरे॑ति ङीषोऽप्रवृत्तेःउगितश्चे॑त्युगिदन्तान्ङीप् ।अत इञ् । दाक्षिः । न चेह सामर्थ्यात्तदन्तविधिः , अस्यापत्यमिः काम इत्यत्र चरितार्थत्वात् । न चैवमिञो ञित्त्वं व्यर्थमिति वाच्यम्,बाह्वादिभ्यश्चे॑त्यत्र यथायथं वृध्द्याद्युदात्ताभ्यां चपितार्थत्वात् । नन्वेवमपि औपगविरित्यादावेव अत इञ्स्यान्नतु दाक्षिरित्यादौ, अकारस्येहानर्थकत्वादिति चेन्नः, वर्णग्रहणे अर्थवद्ग्रहणपरिभाषाया अप्रवृत्तेः ।", "11073": "", "11074": "", "11075": "", "12001": "<<गाङ्कुटादिभ्योऽञ्णिन्ङित्>> - गाङ्कुटादिभ्यो । इह गाङ्गतावित्यस्य न ग्रहणम्, तङर्थतया ङकारानुबन्धस्य तत्र चरितार्थत्वात् । आदेशङकारस्तु अचरितार्थः । स्थानिवद्भावेनैव तङः सिद्धत्वादत आह — — गाङादेशादिति । कुटादिस्तुदाद्यन्तर्गणः । केचित्तु कुट आदिर्येषां ते कुटादयः । कुटस्य आदिः कुटादिः, कुटादिश्च कुटादयश्च कुटादय इति समासद्वयमाश्रित्य कुटपूर्वस्य लिखधातोरपि ग्रहमाल्लिखनमिति प्रयोगः सिद्ध इत्याहुः । तच्चरलो व्युपधा॑दिति सूत्रस्थेनलिखित्वा, लखित्वा लिलिखिषति लिलेखिषती॑ति वृत्तिग्रन्थेन,शकुनिष्वालेखने॑ इति सौत्र प्रयोगेण च विरुध्यते । अञ्णिदिति किम् । घञि — कोटः । पोटः । णलि चुकोट । पुपोट ।", "12002": "<<विज इट्>> - विज इट् । इहवृद्धिर्यस्ये॑ति सूत्रान्मण्डूकप्लुत्या यस्यादिरिति अनुवर्तते, तेन इडादिप्रत्ययो लभ्यत इति मनोरमायां स्थितम् । नव्यास्तु इह इडित्यनेनोत्तमैकवचनं न गृह्रते, तथाच सति विजिषीयेत्यत्रैव स्यान्न तूद्विजितेत्यादौ । ततश्चेष्टसिद्ध्यर्थमिडागमो गृह्रते ।तस्य तु ङित्त्वं व्यर्थम्, तन्निमित्तगुणस्याऽप्राप्तेः, अतो लक्षणया इड्वान् गृह्रते । इट् प्रत्ययस्यादिरिति । फलितार्थकथनम् — इडादिप्रत्ययो ङिद्वदिति । एंच इडादिरिति लाभाय यस्यादिरित्यनुवर्तनक्लेशो व्यर्थ एवेत्याहुः । इह ओविजीति तुदादी रुधादिश्च गृह्रते न तुविजिर्पृथग्भावे॑ इति जुहोत्यादिः, व्याख्यानात् । यस्त्वत्र हरदत्तेन जुहोत्यादेरग्रहणे हेतुरुक्तःतस्यानिट्कत्वा॑दिति , तदयुक्तम् । क्रादिनियमनेन लिटि इट्संभवात् । न च तत्र कित्त्वेन गतार्थत्वादिटो ङित्त्वं व्यर्थमिति वाच्यम्, अपिल्लिटः कित्त्वेऽपि विवेजिथेत्यत्र पित्त्वेन ङित्त्वाऽभावात् । वव्रश्चेति । अत्र नव्याः — वव्रश्चे॑त्यादौलिटभ्यासस्ये॑ त्यभ्यासावयवयोद्र्वयोरपि यणोः संप्रसारणप्रसक्तौ पूर्वस्य यणो निषेधायन संप्रसारणे॑इति सूत्रं स्वीक्रियते । ततश्चअत एव ज्ञापकात्परस्य प्रथमं संप्रसारण॑मिति परिकल्प्यआ पादपरिसमाप्तेरङ्गाधिकार॑ इति पक्षमभ्युपगम्य उरदत्वस्याङ्गाक्षिप्तप्रत्ययनिमित्तकत्वस्वीकारात्अचः परस्मि॑न्निति स्थानिवद्भावप्रवृत्या संप्रसारणपरत्वामाश्रित्य वकारस्य संप्रसारणनिषेधः कथंचिदुपपद्यते ।परस्य संप्रसारणं॑,परस्य यणः संप्रसारण॑ मिति वा सूत्रिते तु परस्यैव संप्रसारणं न तु पूर्वस्य यण इत्यर्थलाभादुक्तक्लेशं विनैव वव्रञ्च यून इत्यादि सर्वं सिध्यति । नचैवंलिटि वयो यः॑वेञः॑ इत्यत्र संप्रसारणनिषेधाय नञोऽनुवृत्तिर्न लभ्येतेति वाच्यं,न लिटि वयो यः॑ इति सूत्रकरणे बाधकाऽभावात्,न संप्रसारणे॑इति यथाश्रुतसूत्रप्रणयने त्वन्ततो मात्राद्वयस्याधिक्याच्च । एवं च लघूपायेनेष्टसिद्धौन संप्रसारणे॑ इति सूत्रारम्भो ज्ञापयतिनिमित्तभेदाऽभावेऽपि स्थानिभेदे पुनरपि कार्यं प्रवर्तते॑ इति । तथा चसुद्ध्युपास्य॑ इत्यादौ धकारस्य द्वित्वे कृते पुनरुकारात्परस्य दकारस्यापि द्वित्वमिति प्रक्रियाकारादिव्याख्यानं सूत्रकाराभिप्रेतमेव । यदि स्थानिभेदेऽपि निमित्तैक्ये कार्याऽप्रवृत्तिः क्वचिद्दृश्यते तत्र तुज्ञापकसिद्धं न सर्वत्रे॑ति स दोषः परिह्यियतामित्याहुः । अव्रश्चीदिति । ऊदित्त्वात्पक्षे इट् ।वदव्रजे॑ति वृद्धेःनेटी॑ति निषेधः । अब्राआक्षीदिति ।स्को॑ रिति सलोपः ।व्रश्चे॑ति षः ।षढो॑रिति कः । ततः सस्य षत्वम् । न चाऽत्र सकारस्य कथं लोप इति वाच्यं , धातुपाठे सकारस्य पाठात् । तदाहुः — नकारजावनुस्वारपञ्चौ झलि धातुषु । सकारजः शकारश्चे, र्षाट्टवर्गस्तवर्गजः॑ । इति । व्यच । व्याजीकरणं छद्मकरणम् । पर्युदासेनेति । प्रसज्यप्रतिषेधे हि वाक्यभेदोऽसमर्थसमासश्च प्रसज्येतेति भावः । कृन्मात्रविषयत्वादिति । तेन उद्विचिता उद्विचितुमित्यत्र संप्रसारणं भवति । व्यचिता व्यचिष्यतीत्यादौ तु तिङ्विषये न भवति । विव्याचेत्यत्र कुटादित्वे जातेऽपि न क्षतिः, गाङ्कुटादिभ्यः॑ इति सूत्रेअञ्णितः प्रत्यया ङितः स्यु॑ रित्युक्तत्वात् । उत्तमे णलि तु णित्त्वाऽभावपक्षे ङित्त्वात्संप्रसारणेविव्यचे॑ति न सिध्येदिति — अनसी॑ति पर्युदास आवश्यक इति बोद्ध्यम् ।उझछी उञ्छे उछी विवासे॑ । इमौ भ्वादिगणे व्याख्यातौ ।इह पाठस्तु उञ्छनती, [उञ्छती,उच्छन्ती, उच्छती इ]त्यत्रआच्छीनद्यो॑रिति नुम्विकल्पार्थः । पूर्वं पाठस्तु स्वरार्थः । तथाहि उञ्छति उच्छतीत्यादौ पिद्वचने शप्तिबादीनां पित्त्वादनुदात्तत्व#ए धातुस्वरेणाद्युदात्तं पदम् । शे तु प्रत्ययस्वरेण मध्योदात्तमिति । न चसति शिष्टस्वरेबलीयस्त्वमन्यत्र विकरणेभ्यः॑ इति वक्ष्यमाण्वात्कथमिह मध्योदात्ततेति वाच्यं, कुरुत इत्यादौ तसादेर्विकरणात्परत्वेन तत्स्वरस्योदात्तस्य विकरणस्वरापेक्षया प्रबलत्वेऽपि शस्य धातोः परत्वेन धातुस्वरापेक्षया शस्वरस्योदात्तस्य प्रबलत्वात् । उपलक्षणत्वादिति । अत एवअदुपधस्य चेदश्नोतेरेवे॑ति नियममाश्रित्य द्विहल्ग्रहणं भाष्यकारैः प्रत्याख्यातम् । अन्यथा तन्न सङ्गच्छेतेति भावः । आनच्र्छेति ।अनृच्छ॑ इति पर्युदासान्नाऽऽम् । नव्यास्तुऋच्छत्यृता॑मिति लिटिपरे गुणविधानसामर्थ्यादामभावः सिद्ध इति सर्वैरेव व्याख्यातत्वाद्गणान्तरेऽपि ऋच्छिरस्तीत्यनुमीयते । तद्धातोस्तु लिटआम्निवारणायअनृच्छ॑ इत्येतदावश्यकमित्याहुः । मिच्छ । उत्कटः क्लेश उत्क्लेशः । ऋच स्तुतौ । ऋच्यते स्तूयते देवतादिकमनयेति ऋक् । बाहुलकादिह करणे क्विप् । लोभिता । लोब्धा ।तीषसहे॑ति वेट् । शिशुं न विप्रा इति । न शब्द इवार्थे । विप्राः = ब्राआहृणाः शिशुमिव मतिभी रिहन्ति = हिंसन्ति । न्यूनीकुर्वनतीत्यर्थः । वृती हिंसाग्रन्थनयोः । ईदित्करणंश्वीदितो निष्ठाया॑मितीण्निष#एधार्थम् । यद्यप्यस्य वेट्कत्वान्निष्टायामिण्निषेधः सिध्यति, तथापियस्य विभाषे॑त्यस्याऽनित्यतां ज्ञापयितुमीदित्करणम् । तेनधावितमिभराजधिये॑त्यादि सिद्धमित्याहुः । *शे तृम्फादीनां नुम्वाच्यः । कुर शब्दे । करोतेरेवेति । सुप्रसिद्धत्वात् ।कुर्यादित्युक्तं हि लोकानां कृञ एवोपस्थितिर्भवति न त्वस्येति भावः । मुर संवेष्टने । इगुपधलक्षणः कः । मुरो दैत्यः । मुरारिर्विष्णुः । क्षुर विलेखने । विलेखनं — छेदनम् ।केशान् क्षुरति॑ ।इगुपधे॑ति कः । क्षुरः शस्त्रम् । तिल स्नेहने । तिलति ।इगुपधे॑ति कप्रत्यये तिलः ।तिल गतौ॑ तेलतीति शपि [गतम्] लिख अक्षरविन्यासे ।लिखितुंलिखिष्यती॑ति प्रयोगः प्रामादिकः । यत्तु कैश्चित् -कुटस्यादिः कुटादिः, कुट आदिर्येषां ते कुटादयः, कुटादिश्च कुटादयश्च कुटादय इत्येकशेषं स्वीकृत्यलिखितु॑मित्यादि समर्थितम् । तदसत् ।लेखिता॑लेखिष्यती॑त्यादौ गुणनिषेधापत्तेः । न चेष्टापत्तिः, वृत्तिकारहरदत्तादिग्रन्थविरोधात् ।गाङ्लिखादिभ्यः॑ इत्येव सूत्रितव्येकुटादिभ्य॑इति पठनस्य स्वारस्यभङ्गापत्तेश्च । किं चशकुनिष्वालेखने॑ इतिसौत्रप्रयोगोऽपि विरुध्यत इति प्रागेवोक्तमित्यास्तां तावत् ।लिखापयती॑ति प्रयोगस्तु मनोरमायामित्थं समर्थितः — , आपनमापः = प्राप्तिः, लिखस्यापो लिखापः,तं करोतीति । स्फुट विकसने । स्फुट विकसने । स्फुटत्यर्थोऽस्मादिति स्फोटः । स च पदस्फोटवाक्यस्फोटादिभेदेनानेकविधः । कड मदे । कुटादिकार्याऽभावेऽपि डान्तानुरोधेनाऽयं कुटादौ पठितः । भ्वादौ पठितस्य पुनरत्र पाठः शतरि नुम्विकल्पार्थः । पूर्वंपाठस्तु उच्छतीत्यादाविव कडतीत्यादौ आद्युदात्तार्थः ।", "12003": "", "12004": "", "12005": "<<असंयोगाल्लिट् कित्>> - असंयोगादिति किम् । ममन्थे । अत्र नलोपो न ।", "12006": "", "12007": "<<मृडमृदगुधकुषक्लिशवदवसः क्त्वा>> - मृडमृद । मृड सुखने, मृद क्षोदे, गुध परिवेष्टने, गुध रोषे च, कुष निष्कर्षे, क्लिश हिंसायां — दिवादिः, क्लिशू विबाधने - क्र्यादिः, वद व्यक्तायां वाचि, वस निवासे । किदिति ।असंयोगाल्लिट् कि॑दित्यतः किदित्यनुवर्तत इति भावः । उदित्वेति । यजादित्वात्संप्रसारणम् । उषित्वेति ।वसतिक्षुधो॑रितीट् । यजादित्वात्संप्रसारणम् ।शासिवसी॑ति षः । गृहीत्वेति ।ग्रहिज्ये॑ति संप्रसारणम्,ग्रहोऽलिटी॑ति इटो दीर्घः ।", "12008": "<<रुदविदमुषग्रहिस्वपिप्रच्छः सँश्च>> - रुदसाहचर्याद्वेत्तेरेव ग्रहणम् । इह रुदविदमुषाणां ग्रहणंरलो व्युपधा॑दिति विकल्पे प्राप्ते, ग्रहेःन क्त्वा से॑डिति निषेधाक्त्वाया अप्राप्ते, स्वपिप्रच्छयोस्तु क्त्वः कित्त्वेऽपि सनः कित्त्वस्याऽप्राप्तौ वचनम् । रुदित्वा । विदित्वा । मुषित्वा.सुप्त्वा । पृष्ट्वा । एतेषु संप्रसारणमपि फलम् ।", "12009": "<<इको झल्>> - इको झल् ।रुदविदे॑त्यतः सननुवर्तते, सनाक्षिप्तो धातुरिका विशेष्यते,वशेष्यणेन च तदन्तविधिरित्याह - इगन्तादिति । इगन्तात्किम् । पिपासति । तिष्ठासति । झलीति किम् । शिशयिषते । कित्स्यादिति ।असंयागाल्लिट्कि॑दित्तः किदनुवर्तत इति भावः । एज्विषयत्वाऽभावादिति । कित्त्वेन गुणाऽप्राप्तेरित्यर्थः । अत एवेति । यद्येज्विषयादन्यत्राप्यात्वं भवेत्तदा मीग्रहणं तत्र न कुर्यात, गामादाग्रहणेष्वविशेषादिति भावः ।", "12010": "<<हलन्ताच्च>> - हलन्ताच्च । इगित्यनुर्तते । तदवयवत्वं हलो न संभवतीति समीपवाच्यत्राऽन्तशब्द इत्याशयेन व्याचष्टे - इक्समीपादिति । सौत्रत्वाद्विशेषणस्याऽन्तशब्दस्य परनिपातः । तितृक्षतीति । कित्त्वे सतिअनिदिता॑ मिति नलोपः ।", "12011": "<<लिङ्सिचावात्मनेपदेषु>> - ॒इको झल्,हलन्ताच्च॑ इति वर्तते ।असंयेगाल्लिट् कित् इत्यतः किदिति च । तदाह — इक्समीपादित्यादि । इकः किम् । यक्षीष्ट । सतिकित्त्वे संप्रसारणं स्यात् । आत्मनेपदेति किम् । अद्राक्षीत् । कित्त्वे सतिसृजिदृशोर्झल्यमकिति॑ इत्यम्न स्यात् । आत्मनेपदपरत्वं सिच एव विशेषणं न तु लिङ्स्थानिकस्यात्मनेपदस्य । लिङः परत्वाऽसंभवात् । तेपृ कम्पनेच । चकारात्क्षरणार्थस्य लाभादस्य पूर्वत्र पाठस्त्यक्तुं शक्यः । केचित्तुतिपृ देपृ॑ इति पठन्ति । टुवेपृ । वेपथुः । केपृ गेपृ ग्लेपृ च । योगविभागात्पूर्वोत्तरार्थौ चकारेणानुकृष्येते । तदाह — चात्कम्पने गतौ चेति । योगविभागसामर्थ्यादेवार्थद्वयलाबे चकारो व्यर्थ इत्यन्ये । पुनः पाठ इति । दैन्ये पठितस्य कम्पनाद्यर्थलाभार्थमिति भावः । तृफल । तरतेरकारस्य गुणशब्देन भावितत्वात्फलभजोर्वैरूप्यसंपादकादेशादित्वात्तरपतेस्त्वेकहल्मध्यस्थत्वाऽभावादप्राप्ते विधिरयम् । तेरतुः । तेरुः । फेलतुः । फेलुः । भेजतुः । भेजुः । अबि शब्दे । अस्मात्गुरोश्च हलः॑ इति अप्रत्यये अम्बाशब्दः । तिरुआः — अम्बाः= अकारोकारमकारात्मकाः शब्दा यस्य इति बहुव्रीहौशेषाद्विभाषे॑ति कप्रत्यये त्र्यम्बक इत्येके । केचित्तु त्र#ईणि अम्बकानि नेत्राणि यस्येतिविगृह्णन्ति । अभिरभी इति ।सर्वधातुभ्योऽसु॑ न्नित्यधिकारेउदके नुम्-भौ चे॑ति वक्ष्यमाणत्वाद्धात्वन्तरेणापि अम्भः — शब्दः सिध्यतीति बोध्यम् । अम्भः — तोयम् । तस्यापत्यमाम्भिः — भीष्मः ।अम्भसो लोपश्चे॑ति बाह्वादिपाठादिञि सलोपः । तद्वीजं त्विति । पूर्वसवर्णप्रवृत्तेः, षत्वाऽप्रवृत्तेश्च बीजमित्यर्थः ।", "12012": "<<उश्च>> - उश्च ।इको झ॑लित्यतो झल्ग्रहणं ,लिङ्सिचौ॑ इति पूर्वसूत्रं चानुवर्तते । तदाह — ऋवर्णादित्यादि । अभार्षीदिति ।सिचि वृद्धि॑रिति वृद्धिः ।", "12013": "<<वा गमः>> - ॒असंयोगाल्लिट्कि॑त्यतः किदनुवर्तते ,इको झ॑लित्यतो झल्ग्रहणं,लिङ्सिचौ॑ इत्यतो लिङ्सिचाविति चानुवर्तते । कित्त्वपक्षेअनुदात्तोपदेशे॑ ति मलोपः ।समृच्छिष्यते॑ इति लृटः प्रयोगस्तु तौदादिकऋच्छेरत्र ग्रहणं न तु ऋच्छादेशस्येति ध्वननार्थम् । ग्रामं सङ्गच्छतीति ।तच्चैक्यं समगच्छते॑त्यत्र तु एकं जातमित्यर्थाद्गमेरकर्मकत्वमेवेति तङ् । एकमेवेक्यम् । स्वार्थे ष्यञ् । * विदिप्रच्छि । परस्मैपदसाहचर्यादाह - वेत्तेरेवेति ।", "12014": "", "12015": "", "12016": "", "12017": "<<स्थाघ्वोरिच्च>> - स्थाध्वोरिच्च । इहलिङ्सिचौ॑इति सूत्रादात्मनेपदेष्विति नानुवर्तितम्, परस्मैपदेषुगातिस्थे॑ तिलुकः प्रवृत्तेव्र्यावर्त्त्याऽलाभात् । अस्थित । अस्थिषाताम् ।भाव्यमानोऽण् क्वचित्सवर्णान् गृह्णाती॑त्यत्रेदमपि तपरकरणं लिङ्गमित्याहुः । अत्र वदन्ति — विधीयमानस्य सवर्णग्राहकत्वेऽपि तपरकरणमिह व्यर्थम् । न चात्र दीर्घः स्यादिति वाच्यं,घुमास्थे॑ त्यनेनैव तत्सिद्धा विधिवैयथ्र्यापत्तेः । न चैवमपि प्लुतः स्यादिति वाच्यं,प्लुताऽप्लुतप्रसङ्गेप्लुतश्च विषये स्मृतः॑ इति सिद्धान्तादिति । डीङ् । विहायसा — आकाशेन ।विहायसा॑ मिति पाठस्त्वनाकर इत्याहुः ।", "12018": "", "12019": "<<निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः>> - शेश्यित इति ।एरनेकाचः॑ इति यण् ।", "12020": "<<मृषस्तितिक्षायाम्>> - अविस्पष्टमिति । मृषधातोस्तितिक्षायामेव वृत्तिसत्त्वेऽपि सूत्रस्थतितिक्षाग्रहणमेव ज्ञापयत्यनेकार्था धातव इति ।", "12021": "<<उदुपधाद्भावादिकर्मणोरन्यतरस्याम्>> - रुचितमिति । रुच दीप्तौ ।गत्यर्थाऽकर्मके॑ति कर्तरि क्तः । क्रुष्टमिति । क्रुश आह्वाने रोदने च । व्रश्चादिना षत्वे ष्टुत्वम् । * शब्विकरणेभ्य एवेष्यते । गुधितमिति । गुध परिविष्टने दिवादिः ।", "12022": "<<पूङः क्त्वा च>> - पूङः क्त्वा च ।न क्त्वा से॑डित्यनेनैव सिद्धे क्त्वाग्रहणमिह व्यर्थमित्यत आह — उत्तरार्थमिति । क्त्वैवेति । नतु निष्ठा, चानुकृष्टत्वादिति भावः ।", "12023": "<<नोपधात्थफान्ताद्वा>> - नोपधात्थ । अन्तग्रहणं स्पष्टार्थम् ।थफा॑ दित्युक्तेऽपि धातोरेव क्तवाप्रत्ययविधानाद्विशेष्यसंनिधानेन तदन्तविधिना थफान्तादिति लाभात् । कोथित्वा । रेफित्वेति । कुथ पूतीभावे, रिफ कत्थनयुद्धनिन्दाहिंसादानेषु । इहरलो व्युपधा॑ दिति विकल्पोऽपि न भवति, नोपधग्रहसामर्थ्यात् ।", "12024": "<<वञ्चिलुञ्च्यृतश्च>> - वचित्वेति । वञ्चु प्रलम्भने । लुचित्वेति । लुञ्च अपनयने । ऋतित्वेति । ऋतिः सौत्रो दातुर्घृणार्थकः, तस्याद्र्धधातुकविषयेऋतेरीय॑ङित्यस्य वैकल्पिकत्वात्तदभाव कित्तवमनेन विकल्प्यते ।", "12025": "<<तृषिमृषिकृशेः काश्यपस्य>> - तृषिमृषि । ञितृषा पिपासायां, मृष तितिक्षायां, कृश तनूकरणे ।नोपधा॑दित्यतो वेत्यनुवर्तनात्काश्यपग्रहणं पूजार्थम् । अञ्चेरिति ।उदितो वे॑ति विकल्पप्राप्तावयमारम्भः । अञ्चित्वेति ।न क्त्वा से॑डिति कित्त्वाऽभावान्नलोपो न । एवं चेहनाञ्चेः पूजाया॑मिति नलोपो नेति प्रसादकारोक्तिर्वृथेत्याहुः ।", "12026": "<<रलो व्युपधाद्धलादेः संश्च>> - रलो व्युपधा ।न क्त्वा से॑डित्यतः सेडिति वर्तते । चकारेण क्त्वायाः सङ्ग्रहः ।असंयोगा॑दित्यतः किदिति,नोपधा॑दित्यतो वेति चानुवर्तते । तदाह- क्त्वासनावित्यादि । सेट् किम् । भित्त्वा । छित्त्वा । बुभुक्षते ।", "12027": "<<ऊकालोऽज्झ्रस्वदीर्घप्लुतः>> - ऊकालोऽज्झ्रस्वदीर्घप्लुत इति । समाहारद्वन्द्वे सौत्रं पुंस्त्वम् ।ऊ॑ इति त्रयाणां प्रश्लेषेण निर्देश इत्याह-उश्च ऊश्च ऊश्चेति । वः । वामिति । त्रयाणां सवर्णदीर्घे कृते जसि परतो यणि-वः । आमि तु वाम् । वां काल इव कालो यस्येति । फलितार्थकथनमिदम् । विग्रहस्तु वः कालो यस्येति बोध्यः ।ऊ॑ शब्देन स्वोच्चारणकालो लक्ष्यते । अच् किम् । संयोगस्य माभूत्, प्रतक्ष्य, प्ररक्ष्य । कषयोरेकमात्रत्वेन ह्रस्वसंज्ञायांह्रस्वस्य पिति कृति-॑ इति तुक् स्यात् । आ ये इति ।निपाता आद्युदात्ताः॑ इत्याकार उदात्तः । यच्छब्दस्तुफिष॑ इत्यन्तोदात्तः । ततः परस्य जसः सुप्त्वादनुदात्तत्वम्, त्यदाद्यत्वे शीभावे आद्गुणे च सतिएकादेश उदात्तेन॑ इत्येकार उदात्तः ।", "12028": "<<अचश्च>> - अतश्च । ह्रस्वदीर्घेत्यादि । एतच्चऊकालोऽज्झ्रस्वदीर्घप्लुतः॑ इति सूत्रादझ्यस्वदीर्घप्लुत इत्यनुवर्त्त्यह्रस्वो दीर्घः प्लुत इति योऽ॑जिति योजनया लभ्यते । ह्रस्वेत्यादि किम् ,दिव उत् द्युभ्याम् ।अष्टन आ विभक्तौ॑ अष्टौ ।अष्टाभ्य औ॑शित्यत्र कृतात्त्वनिर्देशाज्ज्ञापकाज्जश्शसोर्विषये प्रवर्तमानस्यअष्टन॑ इत्यात्त्वस्याऽच्स्थानिकत्वे सति नैतत्सिद्धयेदिति दिक् । षष्ठन्तं पदमिति । तच्च सति संभवे सामानाधिकरण्येनैव संबध्यते न वैयधिकरण्येन । तेनह्रस्वो नपुंसके॑ इत्यजन्तप्रातिपदिकस्यैव ह्रस्वः । श्रीपम् । नेह सुवाग्रब्राआहृणकुलम् ।शमामष्टानां दीर्घः-॑ इत्यत्र तु सामानाधिकरण्याऽसंभवत्-शमादीनामच॑ इति संबध्यते , तेनशाम्यती॑त्यादि सिद्धम् ।वाक्यस्य टेः प्लुतः-॑ इत्यत्र सामानाधिकरण्यसंभवेऽपि टेग्र्रहणसामर्थ्याट्टरेवयवस्याचः प्लुत इति व्याख्यायते । अन्यथाअलोऽन्त्यस्य॑अतश्चे॑ति परिभाषाभ्यामेहि कृष्णेत्यादिवाक्यान्त्यस्याऽचः प्लुतसिद्धौ किमनेन टेग्र्रहणेन । तेनआयुष्मानेधीन्द्रवर्मन् इत्यादि सिध्यतीति दिक् ।", "12029": "", "12030": "<<नीचैरनुदात्तः>> - अर्वाङिति । अर्वन्तमञ्चतीति अर्वाङ् ।ऋत्विक्-॑ आदिना अञ्चतेः सुप्युपपदे क्विन् ।ऋ गतौ॑ इत्यस्मात्स्नामद्रिपद्यर्ति॑ इत्यादिना वनिपि गुणे च निष्पन्नोऽर्वञ्छब्दो धातुस्वरेणाद्युदात्तः । वनिपः पित्त्वेनाऽनुदात्तत्वातच् । अञ्चतेरकारोऽपि धातुस्वरेण नित्स्वरेण वा उदात्तः ।उपपदमतिङ् इति समासे कृतेसमासस्य॑ इति स्वरेण तदपवादभूतेनगतिकारकोपपदात्कृत् इति कृदुत्तरपदप्रकृतिस्वरेण वा अञ्चतेरकार उदात्तः । वनो नलोपे सवर्णदीर्घे च कृतेएकादेश उदात्तेन॑ इत्याकार उदात्त इतिअनुदात्तं पदमेकवर्जम् इति शेषनिघातादाद्योऽकारोऽत्रानुदात्तः । एतच्च संभवाभिप्रायेणोक्तम् । वेदभाष्ये तुअर्वाङ्-अभिमुखः॑ इति स्थितम् ।", "12031": "", "12032": "<<तस्यादित उदात्तमर्धह्रस्वम्>> - अतन्त्रमिति । अविवक्षितमित्यर्थः । तस्य चोदात्तस्वरितपरत्व इति । उदात्तस्वरितौ परौ यस्मात्तदुदात्तस्वरितपरं, तस्य भावस्तत्त्वं, तस्मिन् सति=उदात्तो वा स्वरितो वा परश्चेत्पूर्वस्य स्वरितस्य यदुत्तराद्र्धमनुदात्तं तस्य श्रवणं स्पष्टमित्यर्थः । अन्यत्रेति । उदात्तस्वरितपरत्वाऽभावे । क्वेति ।किमोऽत् ।तित्स्वरितम् । व इति । अनुदात्तं सर्वमपादादौ॑ इत्यधिकारादनुदात्तः । अआआ इति । अशे क्वनि नित्स्लकेणाद्युदात्तम् । संहितायां तुएकादेश उदात्तेनोदात्तः॑ इत्योकार उदात्तः । उदात्तपरत्वे ह्रस्वस्वरितस्योदाहरणमुक्त्वा दीर्घस्वरितस्योदाहरणमाह-रथानां न ययिति ।ये॑अरा॑ इति पदद्वयमपि फिट्स्वरेणान्तोदात्तम् । एकादेशस्तु पक्षे स्वरितः,स्वरितो वानुदात्ते पदादौ॑ इत्युक्तेः । स्वरितपरत्वे उदाहरणमाह-शतचक्रमिति । य इति — फिट्स्वरेणान्तोदात्तः, ततः परस्य सकारस्य रुत्वे उत्वे कृत आद्गुणे च उदात्तेनैकादेशादोकार उदात्तः॥ अह्र इति । स्वरितान्तत्वादकारस्य शेषनिघातत्वे, ओकारेण सह एकादेशे च कृतेस्वरितो वानुदात्ते पदादौ॑ इत्योकारः स्वरितः॥ कथमह्रस्य स्वरितान्तत्वमिति चेदत्राहुः-॒अह व्याप्तै॑ इत्यस्मात्कर्मणि ण्यत् ।तित्स्वरितम् । वृद्धाभावस्तु संज्ञापूर्वकविधेरनित्यत्वादिति ।नोदात्तस्वरित-॑ इति निषेधस्त्वनन्तरस्येति न्यायात्उदात्तात्-॑ इति प्राप्तस्य । यदाऽहेरित्यर्थेऽह्रः वृत्रस्येत्यर्थः , तदाछन्दसि वा वचनम् इति गुणाऽभावः ।उदात्तस्वरितयोः॑ इति स्वरितः ।उदात्तयण॑ इति तु न, छान्दसत्वात् । अग्निमील इति । ईकारः स्वरितः, ले इति तु प्रचयापरपर्याया एकश्रुतिरिति च स्वरप्रक्रियायां मूल एव स्फुटीभविष्यति ।", "12033": "", "12034": "", "12035": "", "12036": "", "12037": "", "12038": "", "12039": "<<स्वरितात् संहितायामनुदात्तानाम्>> - नपुंसकमन । अन्यतरस्याङ्ग्रहणम्एकवच्चे॑त्यनेनैवानन्तर्यात्संबन्ध्यते, न त्वेकशेषेणेत्याशयेनाह — क्लीबं शिष्यते तच्च वा एकवदिति । अनपुंसकेनेति किम् । शुक्लं च शुक्लं च शुक्ले । अत्रएकवच्चे॑ति न भवति ।अस्य॑ग्रहणम्अस्यैवैकशेषस्य एकवद्भावो यथा विज्ञायेते॑त्येवमर्थम् । अन्यथा उत्तरत्राप्येकवदित्यस्यानुवृत्तिः शङ्क्येत । शुक्लः पट इत्यादि ।शुक्लः शुक्ला शुक्ल॑मित्येव विग्रहः,पटः पटी॑त्यादिप्रदर्शनं तु शुक्ल शब्दस्य गुणुलिङ्गत्वस्फोरणाय ।", "12040": "", "12041": "<<अपृक्त एकाल् प्रत्ययः>> - अपृक्त एकाल् । असहायावाच्यत्रैकशब्दः सङ्ख्यावाची वा । न च सङ्ख्यावाचित्वेअभैत्सी॑दित्यत्र हलन्तात्परस्य सिचोऽपृक्तत्वाल्लोपः स्यादिति वाच्यं, विभक्तिसाहचर्याद्विभक्तेरेव लोप इति व्याख्यानात् । एकालिति किम् जागृविः ।वरेपृक्तस्ये॑ति लोपो न ।अ॑लित्यनेनैकत्वे लब्धे इदमेकग्रहण वर्णग्रहणं ज्ञापयतीति । फलं दम्भितुमिच्छति धिप्सतीत्यत्र सनोहलन्ताच्चे॑ति कित्त्वम् । तत्र हल्ग्रहणस्य व्यक्तिपरत्वे योऽत्रैकः समीपबर्ती हल्नकारस्ततः परः सन् न, यस्माच्च परः सन् भकारान्नासाविकः समीप इति कित्त्वं न स्यात् । ततश्च नलोपो न स्यादित्यभ्युपगम्यनिपात एकाजना॑ ङित्यत्र एकाज्ग्रहणं त्युक्तुं शक्यमित्यवोचान ।", "12042": "<<तत्पुरुषः समानाधिकरणः कर्मधारयः>> - तत्पुरुषः । समानाधिकरणशब्दोऽर्साअद्यजन्तः । समानाधिकरणपाक इत्यर्थः ।", "12043": "<<प्रथमानिर्दिष्टं समास उपसर्जनम्>> - प्रथमानिर्दिष्टम् । अत्र समासपदं तद्विधायके लाक्षणिकम् । अन्यथाचिकीर्षिते समासे यत्प्रथमान्त॑मिति व्याख्यानप्रसक्त्या कृष्णश्रित इत्यादौ श्रितादिष्वतिप्रसङ्ग इत्याशयेनाह समासशास्त्र इथि । विग्रह इति । अनुवर्तमानेन समासग्रहणेन विग्रहे लक्ष्यत इति भावः । नतु तस्येति ।अनन्तरस्य — ॑इति न्यायात्पूर्वसूत्रेण विहितस्य पूर्वनिपातत्वं न निषिध्यते । तेन कुमारीश्रित इत्यादौ न दोषः ।", "12044": "", "12045": "<<अर्थवदधातुरप्रत्ययः प्रातिपदिकम्>> - अथाजन्तपुंलिङ्गप्रकरणम् । अर्थवदधातु । प्रत्ययं प्रत्ययान्तं चेति । सूत्रे तन्त्रादिनोभयं विवक्षितमिति भावः । अर्थव॑दिति नपुंसकनिर्देशस्याऽनुगुणं विशेष्यमध्याहरति — शब्दस्वरूपमिति ।अधातुरप्रत्यय॑ इति पुंलिङ्गनिर्देशस्तुपरवल्लिङ्गं द्वन्द्वतत्पुरुषयोः॑ इत्युत्तरपदलिङ्गवत्त्वाद्बोध्य इत्याहुः । यदि तु धातुभिन्नमित्यर्थं परित्यज्यारोपितो धातुरधातुरिति व्याख्यायते, तदा नपुंसकत्वप्राप्तेराशङ्कैव नास्तीति ज्ञेयम् । अर्थवदिति किम् ।धनं॑वन॑मित्यादौ प्रतिवर्णं संज्ञा मा भूत् । तस्यां च सत्यां स्वादयः स्युः । ननु सङ्ख्याकर्मादेरभावान्न भविष्यतीति चेन्न;एकवचनमुत्सर्गतः करिष्यते॑ इति सिद्धान्ताद्धुंफडादिभ्य इव सोर्दुर्वारत्वात् । न चार्थवद्ग्रहणपरिभाषया अनर्थके न स्यादिति वाच्यं, तस्या विशिष्टरूपोपादानविषयत्वात् ।प्रादूहोढ॑इत्यत्र तुऊढ॑ इति विशिष्टरूपमुपात्तमितिक्तवत्वन्तैकदेशस्यानर्थकस्योढशब्दस्य ग्रहणं नेत्युक्तम् । न ह्यत्र तथा विशेषरूपस्योपादानमस्ति । यद्यप्यधातुरित्यादिपर्युदासेनार्थवत्त्वं लभ्यते, तथाप्युत्तरार्थमर्थवह्ग्रहणं स्पष्टप्रतिपत्तये इहैव कृतम् । न चैकाज्द्विर्वचनन्यायेन समुदायस्यैव संज्ञा स्यान्नावयवानामित्यर्थवद्ग्रहणमिह व्यर्थमिति शङ्क्यं ; समुदाये द्विरुक्ते अवयवा अपि द्विरुक्ता भवन्ति ।वृक्षः प्रचलन्सहावयवैः प्रचलती॑ति न्यायात् । इह तु समुदाये प्रवृत्तया प्रातिपदिकसंज्ञया नावयवानां तत्कार्यसिद्धिरिति वैषम्यात् । अतएवयत्र बहवो हलः संश्लिष्टास्तत्र द्वयोर्बाहूनां चाऽविशेषेण संयोगसंज्ञे॑ति सिद्धान्तः सङ्गच्छते । अन्यथा त्वदुपन्यस्तन्यायेन समुदाय एव संयोगसंज्ञा प्रवर्तेत । अत्र केचित्-॒धनं॑वन॑मित्यादौ प्रतिवर्णं सत्यामपि संज्ञायां सत्स्वपि स्वादिषु न क्षतिः ।हल्ङ्या॑बित्यादिना सुलोपात् । न च नलोपो धस्य जश्त्वं च स्यादिति शङ्क्यम्, धातुपाठेधन॑वने॑त्युच्चारणसामर्थ्यात्तदप्रवृत्तेरित्याहुः । तदसत् । कारात्सोरुत्पत्तौ रुत्वप्रवृत्तेः । यद्यपि समुदितप्रातिपदिकस्यावयवत्वेन सुपो लुकि रुत्वं न भवेत्तथापिचिकीर्षति॑विद्म॑ इत्यादौ रेफदकारयोः पदान्तत्वे सतिखरवसानयो॑रिति विसर्गस्ययरोऽनुनासिके॑ इत्यनुनासिकस्य च प्रसङ्गादिति दिक् । अधातुः किम् , अहन् । धातोः प्रातिपदिकसंज्ञायां सत्यां तिङां स्वाद्यपवादत्वादहन्नित्यत्र हन्तेस्तिपि सिप#इ वा कृतेइतश्चे॑तीकारलोपे हल्ङ्यादिलोपे च प्राक्कृता प्रातिपदिकसंज्ञा नापगतेतिनलोपः प्रातिपदिकान्तस्ये॑ति नलोपः स्यात्तन्मा भूत् ।अहन् इति रुत्वंरोऽसुपी॑ति रत्वं चेह नाशङ्क्यम्, लाक्षणिकत्वात् । न च कार्यकालपक्षे प्रत्ययान्तत्वेन पर्युदासात्प्रातिपदिकसंज्ञाऽभावेन नलोपो न भवेदिति वाच्यं, प्रत्ययलक्षणेन उक्तपर्युदासाऽप्रवृत्तेःन ङिसंबुध्द्यो॑रिति निषेधेन ज्ञापितत्वात् । कथमन्यथाराज॑त्यादौ नलोपः स्यात् । यद्यपि व्युत्पत्तिपक्षे राजञ्शब्दस्य कनिन्प्रत्ययान्ततयाकृत्तद्धिते॑ति प्रातिपदिकसंज्ञायां राजेत्यादौ नलोपःस्यात् , तथा चन ङिसबनध्द्यो॑रिति निषेधो न ज्ञापक इति कार्यकालपक्षेऽधातुग्रहणं व्यर्थं, तथाप्यव्युत्पत्तिपक्षे ज्ञापक एवेति कार्यकालेऽपि तत्स्वीकर्तव्यम्, न चसुपो धा॑त्विति सूत्रे प्रातिपदिकात्पृथग्धातुग्रहणाद्धातोर्नेयं संज्ञेति वाच्यम्,पुत्रीयती॑त्यादौ प्रत्ययान्ते धातुग्रहणस्य चरितार्थत्वात् । अप्रत्ययः किम् , हरिषु, करोषि । अत्र सुप्सिपोर्मा भूत् । अप्रत्ययान्तः किम् । तत्रैव विभक्तिविशिष्टयोर्मा भूत् । न चान्तवद्भावेनकाण्डे॑कुडए॑इत्यादौ प्रातिपद#इकत्वं स्यादेव । तथा चह्रस्वो नपुंसके-॑ इति ह्रस्वः सोरुत्पत्तिश्च स्यादिति वाच्यम्,सप्तम्यधिकरणे चे॑त्यादिनिर्देशेन विभक्तयेकादेशस्यान्तवद्भावानभ्युपगमादिति दिक् । ननु प्रत्ययपर्युदासो न कर्तव्यः, प्रत्ययान्तपर्युदासेनैव गतार्थत्वात् । व्यपदेशिवद्भावेन तस्यापि प्रत्ययान्तत्वादिति चेन्मैवं, प्रत्ययग्रहणे यस्मात्स विहितस्तदादेग्र्रहणात्, केवलस्य चाऽतथात्वात् । अन्यथा सुप्तिङोरपि तदन्तत्वात्पदत्वं स्यात् । तथा चहरिषु॑करोषी॑-त्यादौ षत्वं न स्यात्,साप्तपदाद्यो॑रिति निषेधात् । न च षत्वविधेर्निरवकाशाता,सर्पिषे॑एष॑ इत्यादौ चरितार्थत्वात् । अन्ये तु व्याचक्षते-॒कृत्तद्धिते॑त्यत्र हि तदन्तविधिर्वक्ष्यते । तथा चतद्धितग्रहणस्य तद्धितान्तानामेव नत्वन्यप्रत्ययान्तानां संज्ञे॑ति नियमार्थतामाश्रित्य प्रत्ययान्तपर्युदासोऽत्र न कर्तव्यः । अथवासात्पदाद्यो॑रिति सूत्रे सातिग्रहणात्प्रत्ययो न प्रातिपदिकमिति सिद्धे प्रत्ययग्रहणं सामर्थ्यात्तदन्तपरम् । उत्तरसूत्रे तद्धितग्रहणं तु विध्यर्थमेवाऽस्तु । यद्वा सातिग्रहणात्प्रत्ययस्य प्रातिपदिकत्वाऽभावे तद्धितग्रहणस्योक्तरीत्या नियमार्थत्वे चअर्थवदधातुः प्रातिपदिक॑मित्येव सुवचमिति, तेषाम्इको यणची॑ति सूत्रं व्यर्थं स्यात् ।तस्मादित्युत्तरस्य॑वाय्वृतुपित्रुषसः॑-इत्यादिनिर्देशाज्ज्ञापकादिष्टसिद्धेः ।नाज्झलौ॑ इत्यत्राकारसहितोऽच् आजित्ययं मूलग्रन्थोऽपि विरुध्येत,कालसमयवेलासु॑-इत्यादिज्ञापकादेव ढत्वाऽभावसिद्धे । यदि ज्ञापकेन प्रत्याख्यानमयुक्तमिति, यदि चाऽऽकारप्रश्लेषे एव तल्लिङ्गमित्यभ्युपगमे सूत्राक्षरैरेवेष्टं सिध्यतीत्युच्येत, तर्हिअप्रत्यय॑ इत्येतदभ्युपगम्य प्रत्ययपर्युदासेसाति॑ग्रहणं लिङ्गं, प्रत्ययान्तपर्युदासे तु तद्धितग्रहणमित्यप्रत्ययग्रहणमेवावर्त्त्य व्याख्यायतां, किमनया कुसृष्टयेति दिक् ।अधातुप्रत्यया॑विति सिद्धे नञ्द्वयोपादानमप्रत्यय इत्यस्यावृत्तिसोकर्यार्थम् । महासंज्ञाकरणं श्रुत्यनुरोधात् । तथा चाथर्वणे पटते — ॒को धातुः, किं प्रातिपदिकं, कः प्रत्ययः॑ इति । डित्थादीन्यव्युत्पन्नानीहोदाहरणम् । अव्युत्पत्तिपक्षस्य चेदमेव ज्ञापकमिति प्राञ्चः । वस्तुतस्तु व्युत्पत्तिपक्षेबहुपटव॑ इत्याद्यर्थं सूत्रमिति नव्याः । न चैवंबहुच्पूर्वः प्रातिपदिक॑मित्येव सूत्र्यतामिति वाच्यम्,मूलकेनोपदंश॑मित्यादौ कृदन्तत्वेनातिप्रसङ्गात्, गतिकारकपूर्वस्यापि कृदन्तत्वात् । न च समासग्रहणं नियमार्थमिति निस्तारः, अर्थवत्सूत्रारम्भं विना समासग्रहणस्य नियमार्थत्वाऽयोगात् ।", "12046": "<<कृत्तद्धितसमासाश्च>> - कृत्तद्धितसमासाश्च ।अर्थव॑दित्यनुवर्तते, तत्सामर्थ्यात्तदन्तविधिः । ननु यद्यर्थवत्ता पारमार्थिकीं विवक्ष्यते, सा पदस्य वाक्यस्य वाऽस्ति, न तु कृत्तद्धितान्तस्य, यदि तु प्रक्रियादशायां या कल्पिता सा विवक्ष्यते, तर्हि कृत्तद्धितयोरपि साऽस्तीति कथमर्थवद्ग्रहणानुवृत्त्या तदन्तग्रहणमिति चेदत्राहुः,-अतएवार्थवद्ग्रहणसामर्थ्यमुक्तम् । प्रत्ययान्तेन ह्रोकार्थीभूतेन प्रतीयमानोऽर्थ इह गृह्रते । तस्य लोकिकार्थं प्रति प्रत्यासन्नतरत्वान्मतुपः प्राशस्त्यपरतया तस्यैव ग्रहणात् । अतएव च तदुपादानं सार्थकं, पूर्वसूत्रेअधातु॑रितिकर्ता ॑औपगव॑ इत्यादौअप्रत्ययान्त॑ इति च पर्युदासे प्राप्तेकृत्तद्धिते॑त्यारम्भः । नियमार्थमिति । न च प्रत्ययान्तत्वेन पर्युदासे प्राप्ते विध्यर्थमस्त्विति शङ्क्यम् ; वाक्यस्याऽप्रत्ययान्तत्वात् । प्रत्ययग्रहणे यस्मात्स विहितस्तदादेरेव ग्रहणात् । न चैवमप्यनुपसर्जनस्त्रीप्रत्यये तदादिनियमाऽभावाद्राजकुमारीत्यादौ ङीबन्ते विध्यर्थमस्त्विति वाच्यम्,अन्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधते॑ इति लुग्विषये हल्ङ्यादिलोपाऽप्रवृत्त्या श्रूयमाण एव सुपि समासप्रवृत्तेः । तत्र च कुमारीशब्दस्य सुबन्तत्वेऽपि राजशब्दसहित[कुमारी]शब्दस्याऽतथात्वादप्रत्ययान्तत्वेन प्रवृत्तायाः संज्ञाया एकदेशविकृतन्यायेन विभक्तिलुक्यपि सुलभत्वात् । अतएवगोमत्प्रिय॑इत्यादौ नुमादयो न, लुकः प्रागन्तरङ्गस्य हस्ङ्यादिलोपस्य प्रवृत्तौ तु स्युरेवेति दिक् । नियमशरीरमाह-यत्र सङ्घात इति । नियमश्चात्र सजातीयापेक्ष इत्याह-पूर्वो भागः पदमिति । षड्विधेऽपि समासे पूर्वभागस्य पदत्वाऽव्यभिचाराद्भवत्ययं सजातीयः ।पूर्वो भाग॑ इत्युपलक्षणम्,उत्तरस्तु प्रत्ययो ने॑त्यपि बोध्यम् । अन्यथाजन्मवा॑नित्यादौ संज्ञा न स्यात्,स्वादिष्वि॑त्यनेन पूर्वभागस्य पदत्वात् । न च तद्धितग्रहणसामर्थ्यात्तत्र स्यादेवेति वाच्यं, तद्धितग्रहणस्यभानव॑ इत्यादौ कृतार्थत्वात् । तत्र हि पूर्वभागस्य भत्वं, न तु पदत्वम् । न चैवमयमियानित्यादिसमुदायस्य प्रातिपदिकत्वं स्यादेव, पूर्वभागस्य पदत्वेऽप्युत्तरस्य प्रत्ययत्वादनेन नियमेन वारयितुमशक्यत्वादिति वाच्यम् ;उत्तरस्तु प्रत्ययो ने॑त्यत्रतद्विहितप्रत्ययो ने॑ति व्याख्यानात् । पूर्वो भागः पदमिति किम् , बहुज्विशिष्टस्य प्रातिपदिकसंज्ञा यथा स्यात् । तेनबहुपटव॑ इत्यत्र उपोत्तमोदात्तत्वं सिध्यति । प्रथमजसो लुकिचितः सप्रकृतेर्बह्वकजर्थ॑मिति चित्स्वरे कृते पुनर्जस उत्पत्तेः । प्रातिपदिकसंज्ञायामसत्यां तु जसेवोदात्तः स्यात् । यद्वाप्रकृतिप्रत्ययभावानापन्नसङ्घातस्य चेद्भवति तर्हि समासस्यैवे॑ति नियमार्थंसमास॑ग्रहणम् । तेन गवित्ययमाहे॑त्यादौ नातिप्रसङ्ग इति दिक् । नियमफलमाह-तेन वाक्यस्य नेति ।गांमभ्याज शुक्ला॑मित्यादिवाक्यस्य न भवतीत्यर्थः । सत्यां हि संज्ञायां सुब्लुक्स्यात् । नन्वेवमपिमूलकेनोपदंशं भुङ्क्ते॑ इत्यादिवाक्यस्य संज्ञा दुर्वारा,कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणा॑दिति चेन्मैवम् । समासग्रहणरृतनियमेन परत्वाद्बाधात् । एवंचकृत्तद्धिते॑ति सूत्रे कृद्ग्रहणपरिभाषा निष्फलत्वान्नोपतिष्ठते । तस्याश्च परिभाषायाःव्यावक्रोशी॑व्यावहासी॑त्यत्रावकाशः । तत्र हिकर्मव्यतिहारे णच्स्त्रिया॑मिति धातोर्णचि कृते गतिपूर्वस्य णजन्तत्वात्णचः स्त्रिया॑मित्यञिसत्युपसर्गाकारस्यादिवृद्धिस्वरौ भवतः । कृद्ग्रहणे कारकपूर्वस्याप्युदाहरणम्-अवतप्ते नकुलस्थितमित्यादि स्फुटीभविष्यति । चकारोऽनुक्तसमुच्चयार्थः । तेननिपातस्यानर्थकस्य प्रातिपदिकसंज्ञा वक्तव्ये॑ति वार्तिकं गतार्थम् । येषां द्योत्योऽप्यर्थो नास्ति तदर्थमिदम्,-अवद्यति । अनुकरणेषु तु अनुकार्येण सहाऽभेदविवक्षायामर्थवत्त्वाऽभावादेव न प्रातिपदिकत्वम् ।भू सत्ताया॑मिति यथा । भेदविवक्षायां तु संज्ञा स्यादेव-॒भुवो वु॑गिति यथा ।", "12047": "<<ह्रस्वो नपुंसके प्रातिपदिकस्य>> - ह्रस्वो नपुंसके । इह ह्रस्वश्रुत्योपस्थितेनाऽच इत्यनेन प्रातिपदिकविशेषमात्तदन्तविधिरित्यह — अजन्तस्येति । प्रातिपदिकस्याचेति वैयधिकरण्येन व्याख्यायां तुसुवाग्ब्राआहृआणकुल॑मित्यत्रातिप्रसङ्गः स्यात् । एतच्च अचश्चे॑ति सूत्र एवास्माभिः स्पष्टीकृतम् । प्रातिपदिकस्येति किम् । काण्डे । कुडए । ज्ञानवादिति । श्रीपाणी॑त्यादौएकाजुत्तरपदे॑इति णत्वं तु विशेषः । श्रीपेणे॑ त्यत्रापीनादेशेन सहाद्गुणे कृते एकादेशस्य पूर्वान्तत्वेन ग्रहणात्अचः परस्मि॑न्निति सूत्रे पूर्वस्माद्विधिः पूर्वविधिरिति पञ्चमीसमासपक्षाश्रयेण स्थानिवत्त्वाद्वा एकाजुत्तरपदमस्तीति स्यादेव णत्वम् । संनिपातेति । अवर्णमाश्रित्य कृतो यादेशः कथमवर्णलोपे निमित्तं स्यात् । न चसुपि चे॑ति दीर्घार्थं संनिपातपरिभाषाया अनित्यात्वाभ्युपगम आवश्यक एवेति वाच्यम्,कष्टाये॑ति निर्देशेन दीर्घविधौ अनित्यात्वाभ्युपगमेऽप्यवर्णलोपे कार्ये तदनभ्युपगमात् । कृतेऽपि दीर्घे ह्रस्वव्यक्त्यपायेऽप्यत्वजातेरनपायादिति दिक् । एतेनश्रीपशब्दान्ङयि श्रीत्ये॑ति केषाञ्चिद्व्याख्यानं परास्तम् ।", "12048": "<<गोस्त्रियोरुपसर्जनस्य>> - गोस्त्रियोः । उपसर्जनस्येति गोस्त्रियोर्विशेषणम् । एकवचनं तु प्रत्येकाभिप्रायेण । गोस्त्रीभ्यां तु प्रातिपदिकं विशेष्यते । विशेषणेन तदन्तविधिरित्याशयेनाह — उपसर्जनंय इति । उपसर्जनमिह शास्त्रियं गृह्रते, न त्वप्रधानलक्षणम् । तेन कुमारीवाऽऽचरन्ब्राआहृणः कुमारीत्यत्र न दोष इत्युक्तम् । स्त्रीप्रत्ययान्तमिति । रुयधिकारोक्तटाबाद्यन्तमित्यर्थः । तेनातिलक्ष्मीरित्यादौ नातिप्रसङ्गः । नन्वेवमपिराजकुमारीपुत्र॑इत्यादावतिप्रसङ्ग इति चेत् । अत्राहुः — उपसर्जनस्य ससंबन्धिकतया यस्य प्रातिपदिकस्य ह्रस्वो विधीयते तदर्थं प्रति यद्युत्तरपदभूतयोर्गोस्त्रियोर्गुणीभावस्तदैव ह्रस्वत्वमिति भाष्यादावुक्तत्वान्न दोषः । भाष्यदावपि उत्तरपदभूतयोरित्यर्थलाभस्तुकृत्तद्धिते॑त्यतः समासपदानुवर्तनादिति बोध्यमिति ।", "12049": "<<लुक् तद्धितलुकि>> - लुक्त । उपसर्जनेति । अप्रधानमिहोपसर्जनं गृह्रते , न शास्त्रीयम्, असंभवात् । ननुगोस्त्रियो॑रिति सूत्रेऽप्यप्रधानलक्षणमेवोपसर्जनं गृह्रताम्एकविभक्ति चे॑ति शास्त्रीयं न गृह्रताम् । मैवम् । हरीतक्याः फलानि हरीतक्य इत्यत्र ह्रस्वप्रसङ्गात् । उपसर्जनस्य किम् । अवन्ती, कुन्ती, कुरूः ।श्रविष्ठाऽषाढाभ्यां छण्वक्तव्यः । श्रविष्ठास्विति । श्रविष्ठा=धनिष्ठाः । इत्यादीति । आदिशब्दादनूराधः । स्वातिः । तिष्यः । पुनर्वसुः । हस्तः । विशाखः । अषाढः । बहुलः । कृत्तिकावाची बहुलाशब्दष्टाबन्तः, तस्य समाहारद्वन्द्वेन ह्रस्वनिर्देशः सूत्रे । उपशङ्ख्यानमिति ।लुक॑इति शेषः । चित्रेति ।लुक्तद्धिते॑ति लुकि पुनष्टाप् । टाऽनाविति । विधानसामर्थ्यादनयोर्न लुक् ।", "12050": "<<इद्गोण्याः>> - लुकोऽपवाद इति ।लुक्ताद्धितलुकी॑ति प्राप्तस्य स्त्रीप्रत्ययस्य लुकोऽपवाद इत्यर्थः ।", "12051": "<<लुपि युक्तवद्व्यक्तिवचने>> - लुपि युक्तवदिति । व्यक्तिवचने किम् । शिरीषाणामदूरभवो ग्रामः शिरीषाः ।वारणादिभ्यश्चे॑ति लुप् । तस्य वनं शिरीषवनम् । इह वनस्पतित्वमतिदिश्येत । ततश्चविभाषौषधिवनस्पतिभ्यः॑इति णत्वं स्यात् । नन्वत्र शिरीषाणामिति षष्ठीबहुवचनं कृतो नातीदिश्यत इति चेत् । अत्राहुः — वचनमिह सङ्क्या, न त्वेकवचनाद्विवचनादि । न चैवमपि सह्ख्याबोधकत्वेन श्रुतैव षष्ठी परिगृह्रतामिति वाच्यं, षष्ठर्थस्य तद्धितवृत्त्यन्तर्गतत्वादुक्तार्थे प्रथमाया एव युक्तत्वादिति । पञ्चला इत्यादि । यद्यप्यत्राभिधेयलिङ्गवत्त्वेऽपीष्टसिद्धिस्तथापि कटुबदर्या अदूरभवो ग्रामः कटुबदरीत्यादिसिद्धये प्रकृतिलिङ्गातिदेश इति भावः । पूर्वाचार्यानुरोधेन कृतं सूत्रं संप्रति प्रतायचष्टे ।", "12052": "<<विशेषणानां चाजातेः>> - विशेषणानां । यद्यपि सूत्रपाठेलुपि युक्तल॑दिति सत्रादनन्तरमेतत्सूत्रं पठित्वातदशिष्य॑मित्याशब्धात्वात्तत्रैवेदं व्याख्यातुमुचितम्, तथापि जातेः प्रतिषेधमात्रपरमिदं, न तु युक्तवद्भावपरिमित्याशयेन तत्र नोक्तमित्याहुः । पञ्चाला रमणीया इति । कथं तर्हिपञ्चाला जनपदः सुभिक्षः सम्पन्नपानीयः॑इति प्रयोग इति चेत्, जनपदविशेषणत्वादित्येवेहि । पञ्चालविशेषणत्वाभ्युपगमे तु तद्वलिङ्गवचने स्त एव -पञ्चाला जनपदाः सुभिक्षः सम्पन्नपानीया इति ।हरीतक्यादिषु व्यक्तिः । हरीतक्य इति ।हरीतक्यादिभ्यश्चे॑त्यणो लुप् । तत्र हिलुप् चे॑त्यतो लुबनुवर्तते ।खलतिकादिषु वचनम् । खलतिकमिति ।वरणादिभ्येश्चे॑ति लुप् ।मनुष्यलुपि प्रतिषेधः । चञ्चेति ।सञ्ज्ञाया॑मिति कनोलुम्मनुष्ये॑इति लुप् ।चञ्चा तृणमयः पुमान् ।", "12053": "<<तदशिष्यं संज्ञाप्रमाणत्वात्>> - तदशिष्यमिति । पञ्चालाः, अङ्गाः, वङ्गाः, कलिङ्गाः -इत्यादयो जनपदस्य यथायथं बहुवचनाद्यन्ता एव संज्ञा, न त्वत्र यत्नेन लिङ्गसङ्ख्ये प्रतिपादनीये ।आपः॑दारा॑ इत्यादिषु यथा । न हि तत्र शास्त्रेण लिङ्गसङ्ख्ये प्रतिपाद्येते इति भावः । उपजीवकं प्रत्याख्यायोपजीव्यं प्रत्याचष्टे — ।", "12054": "<<लुब्योगाप्रख्यानात्>> - लुब्योगेति ।जनपदे लुप्,वरणादिभ्यश्चे॑ति द्विसूत्रीलुप्अशब्देन विवक्षिता ।अशिष्य॑मिति सम्बध्यत एव । तदाह — लुबपीति । प्रकृतिप्रत्ययार्थयोः सम्बन्धोयोग इत्याशयेन फलितमाह -अवयवार्थस्येति । अप्रख्यानाद्विति व्याचष्टे -अप्रतीतेरिति । पञ्चालादयः शब्दाः क्षत्रियेषु यथा रूढास्तथा जनपदेऽपीतितस्य निवासः॑अदूरभवश्च॑ इति तद्धितो नैवोत्पद्यते किमनेन लुपो विधानेनेत्यर्थः । न दृश्येतेति । विनापि क्षत्रियसम्बन्धं पञ्चालादिशब्दोजनपदेषु प्रयुज्यते इति नार्थः सूत्रेणेत्यर्थः । प्रसङ्गात्पूर्वाचार्यपरिभाषितकमन्यदपि प्रत्याचष्टे — प्रधानेत्यादिना ।", "12055": "", "12056": "<<प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात्>> - गन्धनाङ्गे इति । पूर्वविप्रतिषेधश्चनवेति विभाषा॑ सूत्रे भाष्ये उक्तः । नित्यं कित्त्वमिति ।यमो गन्धने॑ इति पूर्वसूत्रेणेत्यर्थः ।", "12057": "", "12058": "<<जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम्>> - एकोऽप्यर्थो वा बहुबदिति । एवंच विशेषणादपि सिद्धमिति ध्वनयन्नुदाहरति -ब्राआहृणाः पूज्या इति । जात्याख्यायां किम् । दोवदत्तो यज्ञदत्तः । एकस्मिन्किम् । व्रीहियवौ । अस्मदो द्वयोश्च । चात्एकस्मिन् बहुवचनमन्यतरस्या॑मिति च वर्तते । तदेतदाह -एकत्वे द्वित्वे च विवक्षित इत्यादि ।", "12059": "", "12060": "<<फल्गुनीप्रोष्ठपदानां च नक्षत्रे>> - फल्गुनीप्रोष्ठपदानां च । चकारेण द्वयोरनुकर्षणादाह — द्वित्व इति । फल्गुन्यौ माणविके इति । फल्गुनीशब्दात्नक्षत्रेण युक्तः कालः ॑ इत्यण् । तस्यलुबविशेषे॑इति लुप् । ततो जातार्थेफल्गुन्यषाढाभ्यां टाऽनौ॑इति टः । टित्त्वन्ङीप् । न चायं गौणः, यौगिकत्वात् । तथा च गौणमुख्यन्यायऽप्रवृत्त्यानक्षत्रग्रहणमावश्यकमिति भावः ।", "12061": "", "12062": "", "12063": "<<तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम्>> - तिष्यपुनर्वस्वोः । विशाखानुराधा इति । विशाखे चानुराधाश्चेति विग्रहः । तिष्यपुनर्वसव इति । तिष्यपुनर्वसुशब्दाभ्यां पूर्ववत्नक्षत्रेण युक्तः कालः॑इत्यण्,लुबविशेषे॑इति च लुप् । ततो जातार्थे सन्धिवेलादिसूत्रेण अण्, तस्य तुश्रविष्ठाफल्गुन्यनुराधे॑त्यादिना लुक् । नक्षत्र इत्यनुवर्तमाने पुनर्नक्षत्रग्रहणं पर्यायाणामपि यथा स्यादित्येतदर्थमित्याकारः । एवं चसिध्यपुनर्वसू॑इत्यपि सिध्यतीति दिक् । बहुवचनस्य किम् ।, इदं तिष्यपुनर्वसु ।चार्थे द्वन्द्व॑इति समाहारद्वन्द्वोयम् ।", "12064": "<<सरूपाणामेकशेष एकविभक्तौ>> - सरूपाण्येवेति । एतच्च उत्तरसूत्रस्थस्यैवकारस्येहानुकर्षणाल्लभ्यते । अत्र चएकस्यापि विभक्तौ परतो विरूपाणि न दृष्टानी॑ति पर्यवसन्नोऽर्थः, तेन मातृशब्दयोर्जननीवाचिपरिच्छेत्तृवाचनिनोर्नैकशेषः,मातृभ्यां॑मातृभि॑रित्यादौ सारूप्येऽपि औजसादिषु वैरूप्यात् । नन्वेवंपयः पयो नयति॑देवदेवे॑त्यादावतिप्रतिप्रसङ्ग स्यादेवेति चेत् ; उच्यते-सहविविक्षायामेवैकशेषः प्रवर्तते । इतरेतरयोगद्वन्द्वस्य विषय इति यावत् । यत्र ह्रनेकस्यार्थस्य मिलितस्येतरान्वयः स तथाभूतो विषयः । इदं चइदितो नुम्धातो॑रिति लिङ्गाल्लभ्यते, न्यायाच्च । तथाहे-॒यः शिष्यते स लुप्यमानार्थाभिधायी॑ति स्थिते श्रूयमाणैकशब्दोपस्थितं सर्वमविशेषादैकरूप्येणैवान्वयितुमर्हति । यद्वातिष्यपुनर्वस्वो॑रिति सूत्राद्द्वन्द्वे इत्यनुवर्त्त्यद्वन्द्वे प्रसक्ते सती॑ति व्याख्येयं, न तु द्वन्द्वे कृते सती॑ति ।पन्थानौ॑पन्थान॑ इत्यादौऋक्पूरब्धू॑रित्यादिना समासान्तापत्तेः,करौ॒॑करा॑ इत्यादौद्वन्द्वश्च प्राणितूर्ये॑त्यादिना एकवद्भावापत्तेश्चेति दिक् । सूत्रेशेष॑ शभ्दः कर्मसाधन इत्याह-एक एव शिष्यत इति । असत्येकग्रहणे द्विबह्वोरपि शेष#ः स्यादित्येकग्रहणम् । न चैवमप्येकविभक्तावित्यत्र एकग्रहणं व्यर्थमिति शङ्क्यम्,एकस्यामपि विभक्तौ परतो विरूपाणि न दृष्टानी॑व्यर्थलाभाय तस्यावश्यकत्वात् । किंचस्वसा च स्वसारौ चे॑त्यादौ विभक्तौ परतः पूर्वभागयोर्वैरूप्यदर्शनात्स्वसार इत्येकशेषस्तत्र न स्यात् । तथास्वसरि च स्वस्त्रोश्चे॑त्यत्र वैरूप्यदर्शनात्स्वसृष्विति न स्यात् । किं तुकमलौ॑कमल॑ इत्यादिष्वेव स्यात् । कृते त्वेकग्रहणे नायं दोषः प्रसज्यते । एकविभक्तौ परतः पूर्वत्र वैरूप्याऽदर्शनात् । यदा तु विभक्तावित्यत्रैकत्वस्य विवक्षितत्वान्मास्त्वत्र एकग्रहणमित्युच्यते, तर्हि स्पष्टप्रतित्त्यर्थमेवास्त्विति केचित् । अन्ये त्वाहुः-एकग्रहणमेकैकविभक्तावित्यर्थलाभार्थम् । तथा च सकलविभक्तावित्यर्थलाभादेवकारापकर्षणं विनैव सिद्धमिष्टमिति दिक् ।एकश्च एकश्च द्वौ च द्वौ चेत्यादावेकशेषो न भवत्यनभिधानात् । द्वन्द्वोऽप्यत्रानभिधानेनैव वारणीयः । उत्सर्गतः सङ्ख्याशब्देओवमेव । विंशत्यादौ त्वेकशेष इष्ट एवेति बोध्यम् ।", "12065": "<<वृद्धो यूना तल्लक्षणश्चेदेव विशेषः>> - वृद्धो यूना ।अपत्य मन्तर्हितं वृद्ध॑मिति पूर्वाचार्यैः परिभाषितस्य पाणिन्युक्तगोत्राऽपरपर्यायस्येह ग्रहणं, कृत्रिमेण यूना साहचर्यात् । तदाह -गोत्रं शिष्यत इति ।गोत्रं यूना॑इत्येव तु न सूत्रितम्,अपत्याधिकारादन्यत्र लौकिकं गोत्रग्रहण॑मिति सिद्धान्तात् । तेन आपगवश्चानन्तरः, औपगविश्च युवेत्यत्र नैकशेषः । भागवित्तीति । भगवित्तस्य गोत्रापत्यं भागवित्तिरित्यस्माद्यूनिवृद्धाठ्ठक्सौवीरेषु बहुल॑मिति कुत्सायां ठक् । इह कुत्सा सौवीरत्वं चाधिकमपेक्ष्यते नतु युवत्वमात्रकृतं वैरुप्यम् । गाग्र्यवात्स्यायनाविति । इह प्रकृत्यंशे वैरूप्यं, न गोत्रादिकृतम् ।", "12066": "<<स्त्री पुंवच्च>> - स्त्री पुंवच्च । वृद्धा स्त्रीति । गोत्रप्रत्ययान्तं स्त्रीवाचकमित्यर्थः । पुंवद्भावकृतवैलक्षण्यं स्फुटिकर्तुं द्विवचनान्तेन विग्रहमाह गाग्र्यायणाविति । अनुवर्तमान इति ।तद्राजस्य बहुषु -॑इत्यतःपुंव॑दित्यर्थातिदेशस्य फलमनेन दर्शितम् । अन्यथा स्त्रीत्वस्याऽनिवर्तनाल्लुङ् न स्यात् ।गर्गान्पश्ये॑त्यत्र नत्वं च सिद्धम् । रूपातिदेशे तु नैतत्सिद्ध्येत्, सामान्यातिदेशे विशेषानतिदेशादित्याहुः ।वृद्धो यूना॑ इत्याद्यनुवर्तनान्नेह -गार्गी च वात्स्यायनौ च ।", "12067": "<<पुमान् स्त्रिया>> - पुमान्स्त्रिया ।वृद्धो यूने॑ति निवृत्तम्,सरूपाणा॑मिति त्वनुवर्तते,भ्रातृपुत्रौ॑इत्युत्तरसूत्रारम्भात् । तेनहंसश्च वरटा चे॑त्यत्र न भवति । अन्यथा स्यादेवाऽतिप्रसङ्गः । हंसत्वजातिसाम्येन शब्दवैलक्षण्यस्य स्त्रीत्रपुंस्त्वमात्रप्रयुक्तत्वात् । स्यादेतत् -गौरियं, गौश्चायं, तयोः सहोक्तौएतौ गावौ॑इति नियमतो न स्यात्, तल्लक्षणविशेषाऽभावात् । किं तु स्त्रीवाचकस्य पुंवाचकस्य वासरूपाणा॑मित्येकशेषोऽनियमेन स्यात् । अत्राहुः -तदितरकृतविशेषाऽभावे तात्पर्यान्न दोष इति ।इन्द्रेन्द्राण्यौ॑इत्यादौ त्वेकशेषो न भवति, स्त्रीत्वपुंस्त्वेतरपुंयोगकृतविशेषस्य सद्भावात् । स्यादेतत् — — ॒एतौ गावौ॑इति नियमतो न स्या॑दिति मनोरमादौ यदुक्तं, तत्कथं सङ्गच्छताम् ।त्यदादितः शेषे पुंनपुंसकतः॑इति नियमप्रवृत्त्या स्त्रीवाचिनो गोशब्दस्य शेषेऽपिएतौ गावौ॑इति नियमतः प्रयोगः ध्यत्वेवेति चेत् । अत्र केचित् — — दिक्प्रदर्शनमात्रमिदम् ।नीलौ गावौ॑इतिसुन्दरौ गावौ॑इति नियमतो न स्यादित्युदाहर्तव्यम् । अथवा एतशब्दोऽत्राऽदन्तः कर्बुरवाची । एतश्च एता च एतौ गावौ, कर्बुरौ गावौ ।सरुपाणा -॑मित्यनेन स्त्रीलिङ्गशेषे तुएत#ए गावौ॑इत्यपि स्यादिति यथाश्रुतमेव समर्थनीयमित्याहुः । तदपरे न क्षमन्ते ।त्यदादितः शेषे॑इति नियमाऽऽप्रवृत्तावपिपुमान्स्त्रिया॑इति नियमप्रवृत्त्यानीलौ गावौ॑एतौ गावौ॑इति नियमतः सिद्ध्यत्येवेति । अत्र वदन्ति -॒अद्वन्द्वतत्पुरुषविशेषणाना॑मित्येतन्न्यायसिद्धमेव वचनम् ।विशेष्ये यल्लिङ्गं तदेव विशेषणेष्वपी॑ति सर्वसंमतत्वात्, एवं च द्वन्द्वतत्पुरुषविशेषणेष्विव एकशेषविशेषणेऽपिएतौ॑इत्यत्रत्यदादितः शेषे॑इत्यादिनियमाऽप्रवृत्त्या विशेष्यगतमेव लिङ्गं भवतीति स्त्रीवाचिगोशब्दस्य शेषेएते॑इति स्यादेवेतिएतौ गावौ॑इति नियमतो न स्यादित्यक्षेपः सङ्गच्छत एवेति दिक् ।", "12068": "", "12069": "", "12070": "<<पिता मात्रा>> - पितामात्रा ।", "12071": "<<श्वशुरः श्वश्र्वा>> - अन्त्येनेति किम् ।सु॑डिति प्रत्याहारस्तृतीयैकवचनावयवेन भूदिति काशिकाकृत् । यद्यपि टकारान्तसङ्घस्य टाटकारोऽप्यन्त्यो भवति, तथाप्यन्त्येनेति ग्रहणसामर्थ्यादन्त्यत्वप्रयुक्ता यस्येत्संज्ञा तेनैव प्रत्याहारः, न हि टाटकारेहलन्त्यम् इतीसंज्ञा प्रवर्तते । नचैवंर॑प्रत्याहाराऽसिद्धिः । लण्सूत्रस्थाऽवर्णस्यानुनासिकत्वप्रतिज्ञासामर्थ्यादनन्त्येनापि इता प्रत्याहारात्तत्सिध्यतीति काशिकाकाशशयः । निष्कर्षस्त्विह-॒स्वौजसमौट्-॑ इति सूत्रे दर्शयिष्यते । विस्तरस्तु शब्दकौस्तुभेऽनुसन्धेयः । इतेति किम् । रप्रत्याहारो यथा स्यात् । स ह्रनुनासिकत्वप्रतिज्ञासामर्थ्यादनन्त्येनापि गृह्रत इत्युक्तम्, न चैतदितेत्यस्य विरहे लभ्यत इति शब्दकौस्तुभे स्थितम् । अत्राद्यन्ताभ्यामवयबाभ्यामवयवी समुदाय आक्षिप्यते । तस्य च युगपल्लक्ष्ये प्रयोगाऽभावात्तदवयवेष्वलवतरन्ती संज्ञा मध्यगेषु विश्राम्यति, नत्वाद्यन्तयोः, संज्ञास्वरूपान्तर्भावेण तयोः पाराथ्र्यनिर्णयादित्याशयेनाह-मध्यगानामिति । स्वस्य चेति ।स्वं रूपम् इत्यनुवर्तत इति भावः । स्वं रूपां चादेरेव गृह्रते नान्त्यस्य,अन्त्येन॑ इत्यप्रधानतृतीयानिर्देशात् । सर्वनाम्नामुत्सर्गतः प्रधानपरामर्शित्वात् । ननुस्व॑मित्यस्यानुवृत्तौकः संज्ञी॑ इत्याकाङ्क्षायाः शान्तत्वादवयव्याक्षेपो न स्यात् । तथा चइकोयणचि॑ इत्यादाविकारस्य स्थाने यकारः स्यादकारे परे इत्येवमर्थः स्यात् । मैवम् । आदेरेव संज्ञित्वे तुआदिरन्त्येन॑ इति संज्ञाकरणस्यैव वैयथ्र्यापत्तैः । किंच अण्-अक्-अच्-अट्-अम्-अशादीनां पृथङ्निर्देशोऽपि व्यर्थः स्यात्, सर्वत्राऽकारस्यैव संज्ञित्वादिति दिक् । शब्दकोस्तुभे तु-आद्यन्तावयवद्वारा समुदायानुकरणेन सिद्धेऽन्त्यव्यावृत्त्यर्थमिदं सूत्रमिति स्थितम्॥", "12072": "<<त्यदादीनि सर्वैर्नित्यम्>> - त्यदादीनि सर्वैः । सर्वैः किम् । त्यदादिभिन्नैरपि सहोक्तौ यथा स्यात्, प्रत्यासत्त्यात्यदादिभिरेव सहोक्तौ॑इत्यर्थो मा भूत् । यत्परमिति । शब्दपरविप्रतिषेधादिति भावः ।त्यदादीनां मिथः सहोक्तौ यत्परं तच्छिष्यते । त्यदादित इति । आद्यादित्वात्तसिः ।त्यदादीनां [स्त्री]शेषे सह विवक्षितेषु यः पुमान्, यच्च नपुंसकं, तद्वशेन लिङ्गप्रतिपादकानि भवन्तीति वाच्य॑मित्यर्थः । कानीयत्याकाङ्क्षायामर्थात्त्यदादीन्येव । अस्यापवादमाह - ।अद्वन्द्वतत्पुरुषविशेषणानामिति वक्तव्यम् । अद्वन्द्वेति । द्वन्द्वादिविशेषणानां पूर्वोक्तं न, किं तु विशेष्यनिघ्नतैवेत्यर्थः । नन्वेवंकुक्कुटमयूर्यौ॑इत्यत्र उभयपदार्थप्रधानत्वेन उभयोरपि विशेष्यत्वाद्विशेष्यनिघ्नतायामपिकुक्कुटमयूर्याविमे॑इति नियमतो न स्यादिति चेदत्र नव्याः -॒परवल्लिङ्ग॑मित्यनेन द्वन्द्वतत्पुरुषयोरुत्तरपदलिङ्गवत्त्वादुत्तरपदलिङ्गस्यैव द्वन्द्वतत्पुरुषप्रतिपाद्यत्वेन तल्लिङ्गाधीनतैवाऽनुप्रयोगस्येति न काचिदनुपपत्तिरिति । मयूरीकुक्कुटाविमाविति । प्रकृतानुपयुकतमप्येतत्प्रसङ्गादुक्तम् । तच्चेति । पिप्पल्यद्र्धम् । सा चेति अर्धपिप्पली । तत्पुरुषविशेषणमुदाहरति -अर्धपिप्पल्यौ ते इथि । यद्यपि स्त्रीनपुंसकसाधारणःते॑ इति प्रयोगस्तथापितच्च तच्च सा च अर्धपिप्पल्यस्ताः॑इत्याद्युदाहरणमूह्रम् ।", "12073": "<<ग्राम्यपशुसङ्घेष्वतरुणेषु स्त्री>> - ग्राम्य । ग्रामे भवा गान्याः ।ग्रामाद्यखञौ॑इति यः । लिङ्गद्वयेऽपिगावः॑इति रूपस्य समानत्वात्स्त्रीलिङ्गशेषस्य फलमाह -इमा इति । एवं चइमे च इमाश्च इमाः॑इति स्त्रीलिङ्गशेष एव भवति, न त्वत्रत्यदादितः शेषे पुंनपुंसकतो लिङ्गवचनानी॑ति पुंलिङ्गशेषः,गाव इमाः॑इति भाष्योदाहरणादित्येके । अन्ये तु ग्राम्यपशुसङ्घविषयत्वाऽविशेषात्गावः॑इतिवत्इमाः॑इति च स्त्रीलिङ्गशेष एव स्यादिति नास्ति शङ्कावकाश इत्याहुः । एतौ गावाविति । एकशेथस्याऽनेकविषयत्वादेवाऽनेकपरिग्रहे सिद्धे सङ्गग्रहणसामर्थ्याद्बहूनां समुदायोऽत्र गृह्रत इति भावः ।अनेकशफेष्विति वाच्यम् । एकशेषे कृते इति । विभक्त्युत्पत्त्यनपेक्षत्वेनान्तरङ्गत्वादिति भावः । नन्वेवं विषयभेदात्द्वन्द्वापवाद एकशेषः॑इत्युद्धोषः कथं प्रवर्तत इति चेत् । अत्राहु — यद्येकशेषो न स्यात्तर्हि विभक्तावुत्पद्यमानायां द्वन्द्वः स्यात्, कृते त्वेकशेष स न भवतीति कार्किर्की प्राप्तिमादायापवादोद्धोष इति । द्वन्द्वो नेति । एतेनकृतद्वन्द्वानामेकशेषः॑इति भ्रमो निरस्तः । न च तथैवास्तु, फले विशेषाऽभावादिति वाच्यमित्याह -तेनेति । पन्थानाविति । न चात्र॒इतोऽत्सर्वनामस्थाने॑इति लिङ्गात्समासान्तः सुपरिहरः,इतोऽ॑दित्युक्तेऽपिसौ॑ इत्यनुवृत्त्यापन्थाः॑इति सिद्धेरिति वाच्यं,पथो विभाषा॑इति समासान्ताऽभावेअपन्थानौ॑इत्यादौइतोऽ॑दिति सूत्रस्य सावकाशत्वात् । इत्येकशेषः ।", "13001": "<<भूवादयो धातवः>> - भूवादय इति । भूश्च वाश्च भूवाविति द्वन्द्वः , आदिशब्दयोव्र्यवस्थाप्रकारवाचिनोरेकशेषः । आदिश्च आदिश्च आदी, भूवौ आदी येषामिति विग्रहः । भूप्रभृतयो वासदृशाः । सादृश्यं च क्रियावाचित्वेनेत्यभिप्रेत्याह-क्रियावाचिन इति । क्रियावाचिन इति किम् ,॒याः पश्यसी॑त्यादौ धातुत्वं मा भूत् । सति हि तस्मिन्अतो धातो॑रित्याकारलोपः स्यादिति स्थितं मनोरमायाम् । भ्वादयः किम् ॑हिरुक्पृथग् इत्याद्यव्ययानांशिश्ये॑ इति भावार्थतिङन्तस्य च मा भूत् । स्तन्भ्वादीनामुदित्करणेन सौत्राणां धातुत्वं ज्ञाप्यते । चुलुम्पादीनांबहुलमेतन्निदर्शन॑मिति गणसूत्रेण सङ्ग्रहः ।", "13002": "<<उपदेशेऽजनुनासिक इत्>> - उपदेशेऽजनु । उपदेशनमुपदेशः । भावे घञ् । उपदेशे किंम् । अभ्र आँ अपः । सप्तम्यर्थद्योतकोऽत्राङ् ।आङोऽनुनासिकश्छन्दसि॑ इत्याकारोऽनुनासिकः । यद्यपीहउञ् ॐ॑ इत्यत्रेवानुनासिकविधानसामर्थ्यान्नेत्त्वमिति सुवचम्, तथाप्युत्तरार्थमवश्यं कर्तव्यमुपदेशग्रहणं स्पष्टप्रतिपत्तये इहैव कृतम् । अच् किम् । मनिनो मकारस्य मा भूत् । नचहलन्त्यम् इत्यन्त्यग्रहणसामर्थ्यादनन्त्यस्य मकारस्य न भवेदिति वाच्यम्, आलच्-त्राप्रत्ययादावतिप्रसङ्गवारणेन तस्य चरितार्थत्वात् । अनुनासिक इति किम् ।ईक्ष दर्शने॑ । ईक्षितः । सत्यां हीत्संज्ञायांआआदितो निष्ठायाम् इतीण् न स्यात् । यद्यप्यत्रोपजीव्यत्वादनुनासिकसंज्ञा प्रथमं वक्तुमुचिता, तथापि नासिकामनुगत इति योगाश्रयणेनैव गतार्थत्वादनुनासिकसंज्ञासूत्रं मन्दप्रयोजनमिति ध्वनयितुं नेहोपन्यस्तम् । नचैवंयरोऽनुनासिके-॑ इत्यत्र यरः पदान्तस्यानुनासिकशब्दे परेऽनुनासिकशब्दः स्यादित्यर्थः प्रसज्येत,स्वं रूपम्-॑ इति परिभाषाया अनुपस्थितिकल्पबनात्सूत्रमतेऽपि दोषाऽभावात् । ननूक्तनिर्देशाश्रयमे प्रतिपत्तिगौरवमिति चेत्, अतएवनिष्प्रयोजन॑ मित्यनुक्त्वामन्दप्रयोजन॑मित्युक्तम् । प्रतिज्ञेति । प्रतिज्ञायत इति प्रतिज्ञा ।आतश्चोपसर्गे॑ इति कर्मण्यङ् । अनुनासिकस्य भाव आनुनासिक्यम् ।गुणवचनब्राआहृणादिभ्यः-॑ इति ष्यञ् । प्रतिज्ञा आनुनासिक्यं येषामिति विग्रहः । केचित्तु-प्रतिज्ञानं प्रतिज्ञा, सा अस्यास्तीति प्रतिज्ञम् । अर्शाअद्यच् । प्रतिज्ञमानुनासिक्यमेषामिति विगृह्णन्ति । यद्यपि सूत्रकारकृतोऽनुनासिकपाठ इदानीं परिभ्रष्टः, तथापि वृत्तिकारादिव्यवहारबलेन यथाकार्यं प्राक्स्थित इत्यनुमीयत इति भावः ।पाणिनीया इति । पाणिनीया प्रोक्तं पाणिनीयम् ।वृद्धाच्छः॑ । तदधीयते विदन्ति वा पाणिनीयाः ।तदधीते-॑ इत्यणःप्रोक्ताल्लुक् इति लुक् ।ननु रलयोरिति न्यूनं, टकारस्यापि मध्यगत्वादत आह-प्रत्याहारेष्विति । अनुनासिक इत्यादीति । आदिशब्देनपापाणके कुत्सितैः॑,एङः पदान्तादति॑ इत्यादि ग्राह्रम् । प्रत्याहारशब्देनेति । प्रत्याह्यियन्ते सङ्क्षिप्यन्ते वर्णा यत्रेति प्रत्याहारः ।करणाधिकरणयोश्च॑ इति ल्युटि प्राप्तेकुत्यल्युटो बहुल॑मिति बहुलग्रहणादधिकरणे घञ् । यद्युपि योगमात्रमकारादिसंज्ञास्वतिप्रसक्तन्तथापि योगरूढिरिति भावः ।", "13003": "<<हलन्त्यम्>> - अन्तेऽवसाने भवमन्त्यम् । दिगादित्वाद्यत् ।उपदेशेऽजनुनासिक इत् इत्यतउपदेशे॑ इति,इ॑दिति चाऽत्रानुवर्तते ।आदिरन्त्येन-॑ इति सूत्रेण सहाऽन्योन्याश्रयमाशङ्क्य आवृत्त्या तं परिहरति-हलिति सूत्रेऽन्त्यमिति । हलि अन्त्यमिति विग्रहेसप्तमी॑ इति योगविभागात् सुप्सुपा॑ इति वा समास इति भावः । यद्वा षष्ठीतत्पुरुषोऽयं,हलिति सूत्रस्यान्त्यमित्स्यात् ॑ इति व्याख्यानसम्भवात् ।", "13004": "<<न विभक्तौ तुस्माः>> - न विभक्तौ ।हलन्त्य॑मितीत्संज्ञाप्राप्तौ निषेधारम्भः ।तु॑ इत्यस्योदाहरणं रामात्, पचेरन् । मकारस्य तु — रामम्, अद्राक्षम् । विभक्तौ किम् ।अचो यत् ऊर्णायां युस्,रुधादिभ्यः श्नम् । एतेष्वन्त्यस्येत्संज्ञा यथा स्यात् ।इदमस्थमु॑रित्यत्र मकारपरित्राणार्थमुकारानुबन्धासञ्जनादनित्योऽयमिति ज्ञायते । अन्यथाप्राग्दिशो विभक्ति॑-रिति थमो विभक्तित्वाद्दानीमो मकारस्येवानेनैव सूत्रेणेत्त्वनिषेधसिद्धेः किं तेनेति । तेनकिमोऽत् क्वेति सिद्धम् ।", "13005": "<<आदिर्ञिटुडवः>> - ॒उपदेशेऽजनुनासिक॑ इत्यतोऽनवर्तनादाह — उपदेशे इति । उपदेशे किम् । ञिकारीयति । ञिष्वप् ।ञीतः क्तः॑। सुप्तः ।ट्वितोऽथुच् । नन्दथुः ।ड्वितः क्रिः॑ । कृत्रिमम् । क्लिदि परिवेदने । अनुदात्तेत्सु पठितस्येह पाठः परस्मैपदार्थः । क्रियाफलस्य कर्तृगामित्वेऽपि परस्मैपदार्थं स्वरितेत्स्वयं न पठितः । शुन्ध शुद्धौ । अयं शौचकर्मणि युजादौ । माङ्गलिक एधतिरुक्तस्तवर्गीयान्तस्तदनुरोधेन कतिचित्तवर्गीयान्ताः पठिताः । इदानीं लोकप्रसिद्धकादिपाठक्रमेणाह — अथेत्यादि । चुकुके इति । परमपि गुणं बाधित्वा नित्यत्वात्असंयोगा॑दिति कित्त्वम् । सुब्धातुष्ठिवुष्वष्कतीनां सत्वप्रतिषेधो वक्तव्यः । सुब्धात्वित्यादि । सुब्दातोरुदाहरणानि — षट् दन्ता अस्य षोडन् । तमाचष्टे । णिचि टिलोपः । षोडयति । एवं षण्डं करोत्याचष्टे वा षण्डयति । षण्डीयतीत्यत्र तु षण्डशब्दात्क्यचि ईत्वं बोध्यम् । एतच्च वार्तिकं भाष्ये प्रत्याख्यातम् । तथाहिधात्वादे॑रिति उपदेश इति वर्तते । न च सुब्धातूनामुपदेशोऽस्ति । ष्ठिवुष्वष्कती तु यकारादी ।लोपो व्यो॑रिति यलोपः । प्रनिकखतीति ।शेषे विभाषे॑त्यत्र अकखादाविति पर्युदासान्नेर्णत्वं नेति भावः ।", "13006": "<<षः प्रत्ययस्य>> - षः प्रत्ययस्य ।आदिर्ञिटुडवः॑इत्यतआदि॑रित्यनुवर्तत इत्यभिप्रकेत्याह -प्रत्ययस्यादिरिति । प्रत्ययस्य किम् षोडश.॒षष उत्व॑मित्यत्र उपदेशस्थोऽयं षकारस्येत्संज्ञा न भविष्यति, टित्वादेवाऽविषी महिषीति रूपसिद्धेः । न च पक्षे ङीष्यन्तोदात्तः प्रयोजनमिति वाच्यम्,अनुदात्तस्य च यत्रोदात्तलोपः॑इत्युदात्तनिवृत्तिस्वरेण टितः परस्य ङीपोऽप्युदात्तत्वात् । अत्राहुः -विनिगमनाऽभावेव पक्षे टकारस्याऽपि श्रवणं स्यात् । तथा च षित्त्वान्ङीषिअविषी॑त्यादिरुपसिद्धिः स्यात् । अतः षकारस्यैव श्रवणं भवतु मा कदाचिट्टकारस्य श्रवणं भूदित्येतदर्थमादिग्रहणानुवृत्तिरिति ।", "13007": "<<चुटू>> - युटू ।आदिर्ञिटुडवः॑ इत्यतआदिः,॑षः प्रत्ययस्य॑ इत्यतःप्रत्ययस्ये॑ति चानुवर्तते, तदाह-प्रत्ययाद्याविति । प्रत्ययाद्यविति किम् । वाचाटः ।तेन वित्तश्चुञ्चुप्चणपौ॑ इत्यत्र प्रत्ययादौ यकारो लुप्तनिर्दिष्टस्तेन चस्य नेत्संज्ञेति वक्ष्यति ।", "13008": "<<लशक्वतद्धिते>> - लशक्व ।आदिर्ञिटुडवः॑ इत्यतआदि॑-रित्यनुवर्ततेषः प्रत्ययस्ये॑त्यतः प्रत्ययस्येति ।अतद्धिते॑ इति पर्युदासाद्वा लभ्यत इत्याह — प्रत्ययाद्या इति । लश्त शश्च कुश्चेति समाहारद्वन्द्वेलशक्वि॑ति नपुंसकम् । तदितरेतरयोगद्वन्द्वेन विवृणोति-लशकवर्गा इति । अतद्धित इति कम् ,प्राणिस्थादातः-॑इति लच् । चूडालः ।लोमादिभ्यः[शः॑] । लोमशः । अत्र प्रयोजनाऽभावादेव नेत्संज्ञेति नेदं प्रत्युदाहरणमिति नव्याः ।कर्णललाटा॑दिति भवार्थे कन् । कर्णिका । सत्यां हीत्संज्ञायांकिति चे॑ति वृद्धिः स्यात् । प्रत्ययाद्या इति किम् ।जल्पभिक्षे॑ति वृडः षाकन् । वराकः । अत्रक्ङिति चे॑ति गुणो न स्यात् ।", "13009": "", "13010": "<<यथासङ्ख्यमनुदेशः समानाम्>> - यथासङ्ख्यमनुदेशः । अनुदिश्यत इति अनुदेशः । पश्चादुच्चार्यत इत्यर्थः ।समाना॑मिति संबन्धे षष्ठी, तदाह — समसम्बन्धी विधिरिति ।समकर्मकं विधान॑मिति तु नोक्तम्, तथाहि सति यत्रोद्देशिषु समेषु समानां विधानं पाघ्रदिषु पिबादीनां प्रियस्थिरादिषु च प्रस्थादीनां॑ तत्रैव यथाक्रमं प्रवृत्तिः स्यात् । इष्यते तु अनुवाद्ययोरपि यथासङ्ख्यत्वम् ।समूलाकृतजीवेषु हन्कृञ्ग्रहः॑ इत्यत्र यथा । समानामिति किम् ,लक्षणेत्थंभूते॑त्यत्र लक्षणादयश्चत्वारोऽर्थाः, प्रत्यादयस्तु त्रयः, तत्र सर्वेषां सर्वत्र कर्मप्रवचनीयसंज्ञा यथा स्यात् ।", "13011": "<<स्वरितेनाधिकारः>> - स्वरितेनाधिकारः । अत्रेत्थंभूतलक्षणे तृतीया । अधिकारो विनियोगः । कियद्दूरमधिकार इत्यत्रतु व्याख्यानमेव शरणम् । यथा — आ सप्तमाध्यायपरिसमाप्तेरङ्गाधिकारः, न तु प्रागभ्यासविकारेभ्य एवेत्यादि । यद्वा स्वरिता इति सप्तम्यन्तम्, स्वरिते दृष्टे अधिकारो निवर्तत इत्यर्थः । कः स्वरितोऽधिकारार्थः, कश्च तन्निवृत्त्यर्थ इत्यत्र तु व्याख्यानमेव शरणम् । नन्वेवं व्याख्यानादेवानुवृत्त्यननुवृत्ती स्तः किमनेन सूत्रेणेति चेत्, अत्राहुः-अर्थान्तरसङ्ग्रहायेदं सूत्रं कृतम् । तथाहि-अधि-अधिकः कारोऽधिकारः । अधिकं कार्यं गौणेपि शास्त्रप्रवृत्तिरित्यर्थः । तथा च गौणमुख्यन्यायो यत्र नेष्यते अपादानाधिकरणादौ, तत्र स्वरितः पाठ्यः । किंच अधिकः कारः कृतिरियं-यत्पूर्वः सन् परं बाधते । तथा चनुमचिरतृज्वद्भावेभ्यो नु॑डित्यादिवक्ष्यमाणपूर्वविप्रतिषेधाः सर्वे सङ्गृहीता भवन्ति, तत्र स्वरितपाठेनैव गतार्थत्वादिति॥परनित्येति । परान्नित्यं यथा-॒तुदादिभ्यः शः॑ । तुदति ।रुधादिभ्यः श्नम् । रुणद्धि । परमपि लघूपधगुणं बाधित्वा नित्यत्वात् शश्नमौ । तथा धिनवाव, धिनवाम । परमपिलोपस्चास्यान्यतरस्यां म्वो॑रित्युकारलोपं बाधित्वा नित्यत्वादाडुत्तमस्येत्याट् । परादन्तरङ्गं यथापरमपिअनेका॑लिति सर्वादेशं बाधित्वाडिच्चे॑त्यन्तादेशः । दध्ना, दध्ने ।अस्थिदधी॑त्यनङ् । नित्यादन्तरङ्गं यथा-॒ग्रामणिनी कुले॑ । नित्यमपीकोऽचीति नुमं बाधित्वाह्रस्वो नपुंसके॑ इति ह्रस्वः । कृते तु नुमि अनजन्तत्वाद्ध्रस्वो न स्यात् । अन्तरङ्गादपवादो यथा-॒दैत्यारि॑,श्रीशः॑ । परमपि सवर्णदीर्घं बाधित्वाऽन्तरङ्गत्वादाद्गुणे यणि च प्राप्तेऽपवादत्वात्सवर्णदीर्घः । तथाउन्न्यः॑ सुल्वौसुल्वः॑ इत्यत्रान्तरङ्गत्वादियङि उवङि च प्राप्तेऽपवादत्वादेरनेकाचेति,ओः सुपी॑ति च यण् । यद्यपवादोऽन्यत्र चरितार्थस्तर्हि परान्तरङ्गाभ्यां उवङि च प्राप्तेऽपवादत्वादेरनेकाचेति,ओः सुपी॑ति च यण् । यद्यपवादेऽन्यत्र चरितार्थत्वात्ताताङि न प्रवर्तते, किंतु परेणअनेकाल्शि॑दित्यनेन बाध्यते,-जीवतात् । भवतात् । अयजे इन्द्रम्, ग्रामे इह, सर्वे इत्थम् ।-अत्र अयज इ इन्द्रम्, ग्राम इह, सर्व ई इत्थमिति स्थितेऽन्तरङ्गेण गुणेन सवर्णदीर्घो बाध्यते । तस्य असमानाश्रयेदैत्यारिः॑श्रीश॑ इत्यादौ चरितार्थत्वात्॥असिद्धमिति । तेनपचावेद॑मित्यादौएत ऐ॑ इत्यैत्वं न । अकृतव्यूहा इति । अकृतकार्या इत्यर्थः । एवं तर्हि सर्वस्य शास्त्रस्य वैयथ्र्यं स्यादत आह — निमित्तं विनाशोन्मुखं दृष्ट्वेति । लोकसिद्धार्थकथनमेतत् । यद्वा । अक्षरार्थेनाप्येतत्कथनम् । ऊह्रते तर्क्यत इत्यूहः-कार्यम् , विशिष्टो य ऊहो व्यूहो=विनाशोन्मुखनिमित्तकं कार्यम् । अकृतो व्यूहो यैस्ते अकृतव्यूहा इति । यद्यपिकृतमपि शास्त्रं निवर्तयन्ती॑ति परिभाषान्तरं पठते, फलं च तुल्यं, तथापिअकृतव्यूहा॑ इत्येव लघु,प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वर॑मिति न्यायादिति भावः । न कुर्वन्तीति । यथा निषेदुषी॑मित्यादौ क्वसोरिटमन्तरङ्गत्वात्प्राप्तमपिभाविना संप्रसारणेन वलादित्वं नङ्क्षयती॑त्यालोच्य न कुर्वन्तीत्यर्थः॥इति तत्त्वबोधिन्यां परिभाषाप्रकरणम् । — — — — — — — — — — — -", "13012": "<<अनुदात्तङित आत्मनेपदम्>> - अनुदात्तश्च ङश्च अनुदात्तङौ, तौ इतौ यस्य सोऽनुदात्तङित् । द्वन्द्वान्ते श्रूयमाण इच्छब्दः प्रत्येकं संबध्यते । तत्रानुदात्तांशे तदन्तविधेः फलाऽभावादंशान्तर एव तदन्तग्रहममित्याशयेनाह — अनुदात्तेत इत्यादि ।उपदेशेऽजनुनासिक॑ इत्यतोऽनुवृत्तमुपदेशग्रहममपि ङिदंश एव संबध्यते, नान्यत्र, अव्यभिचारात्तदाह — उपदेशे यो ङिदिति । विशेष्यमन्तरेण तदन्तविधिरिह दुर्लभ इत्यत आह - धातोरिति । लस्येति । नन्विहाऽनुवृत्तेरभावादुभयमपि दुर्लभं,भूवादयः॑ इति सूत्रान्मण्डूकप्लुत्यानुवृत्तस्यधातव॑ इत्यस्य विभक्तिविपरिणामात्कथंचिद्धातोरितिपदे लब्धेऽपि लस्येत्येतन्न लभ्यत इति चेत् । अत्राहुः — इको झ॑लित्यत्र सना धातोरिवेहात्मनेपदेन लकारधात्वोरापेक्षो बोध्यः, तिङां लादेशत्वाल्लस्य च धातोर्विधानादिति । उपदेश इति किम् । चुकुटिषति ।गाङ्कुटादिभ्यः॑ इति सन आतिदेशिकं ङित्त्वम् । धातोः किम् । चङ्ङ्भ्यां माभूत् । अदुद्रुवत् । अवोचत् । ननु लावस्थायामेव वृतादिभ्यःस्यतासी॑ इत्यादिना स्यप्रत्यये कृते व्यवधानादात्मनेपदपरस्मैपदरूपनियमाऽप्रवृत्तावपि लकारसामान्याश्रयत्वेनान्तरङ्गत्वात्स्यप्रत्ययात्पूर्वमेव लस्य तिबादिषु सत्सु पक्षे परस्मैपदं पक्षे चात्मनेपदं सिध्यत्येवेतिवृद्भ्यः स्यसनो॑रिति सूत्रे स्यग्रहणं व्यर्थं [स] त्तेनैव स्यग्रहणेनविकरणेभ्यो नियमो बलीया॑निति ज्ञापितम् । तेनानुदात्तेत्त्वाद्वर्तिष्यत इत्येवं नित्यमात्मनेपदे प्राप्तेवृद्भ्यः स्यसनो॑रिति परस्मैपदमपि पक्षे भवति । तथा च विकरणेभ्यो नियमस्य बलीयस्त्वाच्चङ्ङोर्दोषः स्यादेव । अयं च पक्षःशदेः शितः॑ इति सूत्रे भाष्यकैयटयोः स्पष्टः । किं च तदन्तविधिलाभार्थमपि धातुग्रहणमावस्यकं ।धातोरेकाच॑ इत्यादिना यङ् । बोभूयते ।ऋतेरीयङ् । ऋतीयते । शेते ह्नुते इत्यत्र तु व्यपदेशिवद्भावेन ङिदन्तत्वम् ।नमोवरिवश्चित्रङ॑ इति क्यचि चित्रीयते इत्येतत्कथमिति चेत् । अत्राहुः - अवयवेऽचरितार्थो ङकार क्यजन्तस्य विशेषणं भवति । तथा च समुदायानुबन्धो ङकार इति व्यपदेशिवद्भावेनैव ङिदन्तत्वं बोध्यमिति ।", "13013": "<<भावकर्मणोः>> - भावकर्मणोः । भावे कर्मणि चयो लकारस्तस्याऽऽत्मनेपदमित्यर्थः ।", "13014": "<<कर्त्तरि कर्मव्यतिहारे>> - कर्तरि कर्म । अन्यस्येति । शूद्रस्य योग्यं सस्यादिलवनं ब्राआहृणः करोतीत्यर्थः । परस्परकरणमपि कर्मव्यतिहारः । संप्रहरन्ते राजानः । पृथक्सूत्रारम्भादेव सिद्धे कर्तृग्रहणमुत्तरार्थम् । व्यतिस्ते इति । यच्परत्वाऽभावान्न षः । व्यतिसे इति ।उपसर्गप्रादुभ्र्या॑मिति नेह षत्वम्, सकारस्याऽस्त्यवयवत्वाऽभावात् ।आदेशप्रत्यययो॑ रिति षत्वं तुसात्पदाद्यो॑रिति निषिद्धम्, एकदेशविकृतन्यायेन प्रत्ययमात्रस्य पदत्वात् ।", "13015": "<<न गतिहिंसार्थेभ्यः>> - न गतिहिंसार्थेभ्यः । अर्थशब्दः प्रत्येकभिसंबध्यते । कर्मव्यतिहारे यदात्मनेपदं तस्य निषेधः । अर्थग्रहणसामर्थ्याद्येशब्दान्तरमनपेक्ष्य गतिहिंसयोर्वर्तन्ते त एवेह गृह्यन्ते । हरतिस्तूपसर्गवशादिंधसायां प्रवर्तते इतिहरतेरप्रतिषेधः॑ इति वार्तिकमर्थग्रहणलभ्यमेवेत्याहुः ।", "13016": "<<इतरेतरान्योन्योपपदाच्च>> - इतरेतरा । नन्वितरेतरादिशब्दैरेव कर्मव्यतिहारस्य द्योतितत्वात्तद्द्योतकमात्मनेपदं न प्राप्नोतीतित किमर्थो निषेधः । अत्राहुः लौकिके व्यवहारे लाघवाऽनादरादात्मनेपदं प्रसज्येतेति निषेधोऽयमारभ्यते । अत एव व्यतिलुनीते इत्यादौ कर्मव्यतिहारद्योतनायव्यती॑ त्युपसर्गावात्मनेपदं च समुञ्चित्य प्रयुज्यत इति ।", "13017": "<<नेर्विशः>> - नेर्विशः । नेः किम् । प्रविशति । अर्थवद्ग्रहणलक्षणप्रतिपदोक्तपरिभाषाभ्यां नेरुपसर्गस्य ग्रहणम् । तेनेह न — मधूनि विशन्ति भ्रमराः॑ ।इत्युक्त्वा मैथिली भर्तुरङ्के निविशी भया॑ दित्यत्र तुअङ्गानि विशती॑ति पाठम् । न च पदसंस्कारपक्षे त्वङ्के नि विशतीति पाठेऽप्यदोष इति वाच्यं, त्वं करोति भवान् करोषीत्यादिप्रयोगस्यापि त्वदुक्तरीत्या साधुत्वापत्तेः,वा लिप्साया॑मित्यदेर्वैयथ्र्यापत्तेश्च । स्यादेतत् — नवाऽम्बुदश्यामतनुन्र्यविक्षते॑ त्यत्रात्मनेपदं न स्यात्, अटा व्यवधानात् । न च स्वाङ्गमव्यवधायकमिति वाच्यम्ङ्गभक्तस्याऽटो विकरणविशिष्टस्याऽवयवत्वेऽपि धातोरनवयवत्वादिति चेत् । अत्राहुः — लावस्थायामडागम॑इति भाष्यमते न कश्चिद्दोषः । मतान्तरे तु उपसर्गनियमेअड्व्यवाये उपसङ्ख्यान॑मिति वार्तिकमस्तीति [दिक्] ।", "13018": "", "13019": "", "13020": "<<आङो दोऽनास्यविहरणे>> - आङो दो । अकत्र्रभिप्रयार्थमिदम् । तेनव्यादत्ते विहगपतिर्मुखं स्वकीय॑मिति प्रयोग आस्यविहरणेऽपि सिद्धः, क्रियाफलस्य कर्तृमित्वविवक्षणात् ।", "13021": "<<क्रीडोऽनुसम्परिभ्यश्च>> - *शिक्षेर्जिज्ञासायामिति ।शिक्ष विद्योपादाने॑ इत्यस्य नेह ग्रहणमनुदात्तेत्त्वादेवात्मनेपदसिद्धेः, किं तु शकेः सन्नन्तस्येति ध्वनयति — धनुर्विषय इत्यादिना । नियमार्थमिति । नाथतेरनुदात्तेत्त्वं तुअनुदात्तेतश्च हलादे॑रिति युचि नाथन इति रूपसिद्ध्यर्थमिति भावः । मातुरनुहरतीति । सादृश्यमात्रमत्र विवक्षितं , न तु प्रकारताच्छील्यम् ।", "13022": "", "13023": "<<प्रकाशनस्थेयाख्ययोश्च>> - प्रकाशन । प्रकाशनं — ज्ञापनम् । स्थेयो — विवादपदनिर्णेता, तिष्ठन्तेऽस्मिन् विवादपदनिर्मयार्थमिति व्युत्पत्तेः । बाहुलकादधिकरणेअचो यत्स्थेयो विवादस्थानस्य निर्णेतरि पुरोहिते॑ इति मेदिनी । कर्णादिष्विति अधिकरणे सप्तमी । तेषां स्थेयत्वंतिष्ठते॑इत्यात्मनेपदेन द्योत्यते । तमेवाऽर्थमाह — कर्णादानिति । प्रकाशनेत्यादि । चैत्रे तिष्ठति ।", "13024": "<<उदोऽनूर्द्ध्वकर्मणि>> - उदोऽनुर्द्ध्वकर्मणि ।स्थ॑ इत्यनुवर्तते । ऊर्द्ध्वदेशसंयोगानुकूलं यत्कर्म तदूर्द्ध्वकर्म ।उदोऽनूर्ध्वे॑ इत्युक्तेऽप्यनूध्र्वक्रियायां वर्तमानादुत्पूर्वात्तिष्ठतेर्लस्यात्मनेपदमित्यर्थो लभ्यत एव, तथापि परिस्पन्दार्थलाभाय कर्मपदमित्यभिप्रेत्याह — ईहायामेवेति । इच्छापूर्विका चेष्टा — ईहा । सा चग्रामाच्छत॑मित्यत्र नास्ति ।", "13025": "<<उपान्मन्त्रकरणे>> - उपान्मन्त्रकरणे । मन्त्रः करणं यत्र मन्त्रकरणं — स्तुतिः, तत्र वर्तमानादुपपूर्वात्तिष्ठतेरात्मनेपदं स्यात् । आग्नेय्येति । अग्निदेवताकया ऋचा आग्नीध्रम् = अग्निविशेषं स्तौतीत्यर्थः । अत्रकेचित् — श्लोकै राजानं स्तौतीत्यर्थे स्लौकैरुपतिष्ठत इति प्रयोगो नेष्यते । ऐन्द्य्रा गार्हपत्यमुपतिष्ठते, आग्नेय्या आग्नीध्रमिति वैदिकविषय एव सर्वैरुदाहृतत्वात् । तथा च तिष्ठतेरर्थे यदा मन्त्रः करणं तदा तङिति व्याख्येयम् । उपतिष्ठत इत्यस्य तु समीपवस्थानमेवार्थः । न च तत्र यष्टायदिवन्मत्रस्य करणत्वं न संभवतीति वाच्यम्, उपस्थानस्वरूपे तस्योपयोगाऽभावेऽपि तत्कार्ये स्तुतावुपयोगादुपस्थानकरणत्वं मन्त्रस्य न विहन्यते ।आग्नीध्र॑मिति द्वितीया तु करमत्वान्यथानुपपत्तिलभ्येन स्तोतुमित्यनेनान्वेति । एवं चाऽऽग्नेय्या आग्नीध्रं स्तोतु तत्समीपे तिष्ठतीत्येव वाक्यार्थः । आदित्यमुपतिष्ठते इत्यत्र तु तत्समीपावस्थानस्याऽसंभवदादित्यं स्तोतुं तदभिमुखतया तिष्ठतीत्यर्थः इत्याहुः । गङ्गा यमुनामिति । एतेन यमुनैव प्राचीना, गङ्गा तु पश्चाद्यमुनया सह मिलितेति प्रतीयते ।", "13026": "", "13027": "<<उद्विभ्यां तपः>> - * स्वाङ्गकर्मकाच्चेति । चकारेणाऽकर्मकस्य सङ्ग्रहः । न त्वद्रवमिति । अन्यथा चैत्रो मैत्रस्येत्यादि वक्ष्यमाणं न सङ्गच्छेतेति भावः ।", "13028": "<<आङो यमहनः>> - आङो यमहनः । प्राप्येति । तथा च हन्तेरकर्मकतया आजघ्ने आहध्वमित्यात्मनेपदं युक्तमित्यर्थः । भेत्तुमित्यादीति । एवं च ल्यब्लोपपञ्चम्याः प्रसक्तिरेव नास्तीति भावः । समीपमेत्येति । विषमविलोचनस्य समीपमेत्य वक्ष आजन्वे । स्वकीयमेव वक्षो मल्ल इव सन्तोषातिशयादास्फालयांचक्रे इत्यर्थात्स्वाङ्गकर्मकत्वमस्त्येवेति भावः ।", "13029": "<<समो गम्यृच्छिभ्याम् (॰प्रच्छिस्वरत्यर्तिश्रुविदिभ्यः)>> - सङ्गतं भवतीत्यर्थः ।", "13030": "", "13031": "", "13032": "<<गन्धनावक्षेपणसेवनसाहसिक्य- प्रतियत्नप्रकथनोपयोगेषु कृञः>> - गन्धनं हिंसेति । गन्ध अर्दने, अर्द हिंसायामित्यनयोश्चुरादौ पाठादिति भावः । सहसा वर्तते साहसिकः ।ओजः सहोम्भसे॑ति ठक् तस्य कर्म साहसिक्यम् । ब्राआहृणादित्वत्ष्यञ् । परदारानित्यादि । तान्वशीकरोतीत्यर्थः । साहसिक्यं न धात्वर्थः, तथाहि सति परदारानिति कर्मणोऽनन्वयः स्यात्, किं तु प्रयोगोपाधिरित्यभिप्रेत्याह - तेषु सहसेति । एधो दकस्येति । एधशब्दोऽकारान्तः — अवोदैधौद्मे॑ति निपातितः । एधाश्च उदकं च एषां समाहारः । यद्वा एधः शब्दः सकारान्तः । तथा च एधांसि च दकं चेति विग्रहः । दकशब्दोऽप्युदकवाच्येवेत्यर्थोऽत्र न भिद्यते । उक्तं च हलायुदे — प्रोक्तं प्राज्ञैर्भुवनममृतं जीवनीयं दकं चे॑ति ।", "13033": "", "13034": "", "13035": "", "13036": "<<सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः>> - संमाननो । उपनयनपूर्वकेणेति । उपनयनं — वटुसंस्कारः ।तस्य परगामित्वात्परस्मैपदं प्राप्ते अनेनात्मनेपदं विधीयते । नह्रुपनयनमात्रेण आचार्यत्वं भवति किं तु तत्पूर्वकाध्यापनेनेत्याचार्यकरणस्य प्रयोगोपाधित्वं परपरया ज्ञेयम् ।उपनीय ददद्वेदमाचार्यः स उदाहृतःर॑ इति स्मृतिः ।", "13037": "<<कर्तृस्थे चाशरीरे कर्मणि>> - कर्तृस्थे । कर्मणीति । आत्मगामिनि क्रियाफले इत्यर्थः ।", "13038": "<<वृत्तिसर्गतायनेषु क्रमः>> - वृत्तिसर्ग । तायृ सन्तानपालनयोः । तायनं स्फीतता.तदाह — स्फीतानीति । प्रवृद्धानीत्यर्थः ।", "13039": "", "13040": "", "13041": "<<वेः पादविहरणे>> - वेः पाद । यद्यपि क्रमेः पादविक्षेप एवार्थस्तथापि धातूनामनेकार्थत्वादेवमुक्तम् ।", "13042": "<<प्रोपाभ्यां समर्थाभ्याम्>> - प्रोपाभ्याम् ।प्रोपाभ्यां प्रारम्भे॑ इत्येव सुवचम् । उपक्रामतीति । वृत्त्याद्यर्थेष्ववोपपराभ्यामिति प्रवृत्तेर्नाऽत्रात्मनेपदं शङ्क्यमिति भावः ।", "13043": "<<अनुपसर्गाद्वा>> - वृत्त्यादौ त्विति । न च वृत्त्यादिसूत्रं सोपसर्गे चरितार्थमित्यनुपसर्गात्क्रमेर्वृत्त्याद्यर्थेऽपि विभाषैवाऽस्त्विति वाच्यम्,उपपराभ्या॑मिति नियमस्योक्तत्वात् ।", "13044": "", "13045": "<<अकर्मकाच्च>> - अकर्मकाच्च ।अनुपसर्गाज्ज्ञः॑ इत्यनेनैव सिद्धेसर्पिषोऽनुजानीते॑ इत्यादिसोपसर्गार्थमिदं सूत्रम् ।", "13046": "", "13047": "<<भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः>> - भसनोपसंभाषा । एषु किम् । यत्कचिद्वदति ।", "13048": "", "13049": "<<अनोरकर्मकात्>> - अनुवदते कठ इति । अनुः सादृश्ये । तेन कलापस्येति तुल्यार्थयोगे शेषलक्षणा षष्ठी ।", "13050": "<<विभाषा विप्रलापे>> - विभाषा विप्रलापे । अप्राप्तविभाषा ।", "13051": "", "13052": "", "13053": "", "13054": "", "13055": "", "13056": "<<उपाद्यमः स्वकरणे>> - स्वकरणं स्वीकार इति । स्वकरणमित्यत्र च्विर्न भवति,समर्थानां प्रथमाद्वे॑ति विकल्पात् । स्वकरणशब्देन भार्यास्वीकारो गृह्रते इति वृत्तिकृत् । भट्टिस्तु स्वीकारमात्रेऽपि प्रायुङ्क्तउपायंस्त महाऽस्त्राणी॑ति ।", "13057": "<<ज्ञाश्रुस्मृदृशां सनः>> - ज्ञाश्रुस्मृ ।अपह्नवे ज्ञः॑ इत्यादिना ज्ञादातोः,अर्तिश्रुदृशिभ्यश्चे॑ति श्रुदृ शिभ्यां चात्मनेपदे कृते तस्मिन्विषयेपूर्ववत्सनः॑ इत्यनेन सिद्धेऽपि विषयान्तरे सन्नन्तादनेन विधीयत इति ज्ञेयम् ।", "13058": "", "13059": "", "13060": "<<शदेः शितः>> - कुच संपर्चनादौ ।कुच शब्दे तारे॑ इति रचवर्गीयान्तेषु पठितस्य पुनरिह पाठः संपर्चनादावेव ज्वलादित्वप्रयुक्तो णप्रत्ययो यथा स्यादिति मनोरमादौ स्थितम् । अत्र नव्याः — अनेनैव ग्रन्थेन पाणिनिनापि क्वचित्क्वचिदर्थनिर्देशः कृत इत्यनुमीयते, अन्यथाऽत्रत्यग्रन्थस्वारस्यभङ्गापत्तेरित्याहुः॥ बोधितेति । बुध्यतेरेवाऽनिट्कारिकासु पाठितत्वादयं सेडिति भावः । अकासीदिति । हलन्तलक्षणाया वृद्धेःनेटी॑ति निषेधेऽपिअतो हलादे॑रिति वैकल्पिकी वृद्धिः । वृदिति । अत्र नव्याः — ज्वलितिकसन्तेभ्यः॑ इति निर्देशाद्वृत्करणमिहाऽनार्षमित्यनुमीयते । अन्यथाज्वलादीभ्यो णः॑ इत्येव सूत्रयेदित्याहुः । अञ्चु गतौ ।अनिदिता॑मिति नलोपः । अच्यात् ।अची॑त्येकीयमते तु इदित्त्वात् — अञ्च्यात् । मेधृ सङ्गमे च । चात्पूर्वोक्तेऽर्थ ।प्रजायै गृहमेथिना॑ मित्यत्र गृहैर्दारैर्मेधन्ते = सङ्गच्छन्ते इति विग्रहः ।सुप्यजातौ॑ इति णिनिः । शृधु मृधु । क्लेदनमिति । आद्र्रीभाव इत्यर्थः । उदित्त्वाक्त्वायां वेट् । शर्धित्वा शृद्ध्वा । उबुन्दिर् । बुन्दित्वा । बुत्त्वा । निष्ठायां — बुन्नम् । निशामनं -चाक्षुषं ज्ञानम् । वेणृ । गत्यादयः पञ्चार्थाः । वाद्यभाण्डस्य वादनार्थं ग्रहणं वादित्रग्रहणम् । वेणिः वेणी वेणुरित्यादिरूपाण्यस्यैव धातोः । नान्तोऽपीति ।उत माता महिषमन्ववेन॑ दित्यत्र नान्तदर्शनादिति भावः । खनु । खनित्वा । खात्वा । निष्ठायां — खातः ।", "13061": "<<म्रियतेर्लुङ्लिङोश्च>> - म्रियतेर्लुङ्लिङोश्च । चात्शित॑ इति अनुकृष्यते । तदाह — शितश्च प्रकृतिभूतादिति.तङिति । आत्मनेपदमित्यर्थः । तेनम्रियमाण॑ इति सिद्धम् । स्वरार्थमिति । मा हि मृते॑ त्यत्रतास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्त॑मित्यनेन ङितः परस्य लादेशसार्वधातुकस्यानुदात्तत्वे कृते धातुरुदात्तः । ङित्त्वाऽभावे तु प्रत्ययस्योदात्तत्वे धातुरनुदात्तः स्यात् । न च सिज्लोपस्याऽसिद्धत्वान्ङितः परत्वं लसार्वधातुकस्य दुरुपपादमिति तस्य कथमनुदात्तता स्यादिति शङ्क्यम्, ङित्त्वसामर्थ्यात्सिज्लोस्याऽसिद्धत्वं नेति सुवचत्वात् ।अमृते॑त्यत्राडागमस्यैवोदात्तत्वान्मृङो ङित्त्वस्य न किंचित्प्रयोजनमिति अण्निवारणायमा हि मृते॑ ति माङः प्रयोगः ।तिङ्ङतिङः॑ इति तिङन्तनिघातेऽपि ङित्त्वं व्यर्थमेव स्यादितिहि॑ शब्दप्रयोगः । हि प्रयोगे तुहि चे॑त्यनेन तिङन्तनिघातनिषेधादिष्टस्वरः सिध्यतीति बोध्यम् । रि पि गतौ । परत्वाल्लघूपधगुणः स्यादित्याशङ्कायामाह — अन्तरङ्गत्वादिति ।", "13062": "<<पूर्ववत् सनः>> - निविविक्षत इति ।नेर्विशः॑ इत्यात्मनेपदविधानात्सन्नन्तादपि आत्मनेपदम् । सनो नेत्यनुवर्त्त्येति ।नानोर्ज्ञः॑,पूर्ववत्सनः॑ इति सूत्राभ्या॑मिति शेषः ।", "13063": "<<आम्प्रत्ययवत् कृञोऽनुप्रयोगस्य>> - आम्प्रत्ययवत् । आम्प्रत्ययान्तस्यात्मनेपदाऽभावादाह — अतद्गुण इति । आम्प्रकृत्या तुल्यमनुप्रयुज्यमानादिति । तृतीयान्ताद्वतिः । अनुप्रयोगस्येत्यत्र कर्मणि घञिति भावः ।अनुदात्तङित॑ इत्यतोऽनुवर्तनादाह — आत्मनेपदं स्यादिति । एवमप्राप्तस्य विधानेऽपि प्राप्तस्य निवारणमनेनैव सूत्रेण न संभवतीत्यत आह — वाक्यभेदेनेति । अत्र च प्रमाणमाम्प्रत्ययवदिति वचनमेव । अन्यता पूर्ववदित्यनुवृत्त्यैवानुप्रयोगस्य कृञ आमः पूर्वेण तुल्यमित्यर्थलभादिष्टसिद्धेः किं तेनआम्प्रत्ययव॑दित्यनेन ।", "13064": "", "13065": "<<समः क्ष्णुवः>> - समः क्ष्णुवः ।समो गम्यृच्छिक्ष्णुभ्यः॑ इति पठनीये पृथगस्य पाठः सकर्मकादपि विधानार्तं इति ध्वनयन्नुदाहरति — संक्ष्णुतेशस्त्रमिति ।", "13066": "<<भुजोऽनवने>> - अवनं — पालनम् ।अदने॑ इति वक्तव्ये अनवन इति पर्युदासस्य प्रयोजनद्वयम् । संयोगवद्विप्रयोगस्यापि विशेषावधारणहेतुत्वाद्रौधादिकस्यैव भुजेग्र्रहममित्येकम्, अदनादर्थान्तरेऽप्युपभोगादौ आत्मनेपदं भवतीति द्वितीयम्, तदाह — बुभुजेपृथिवीपाल इति । इहेति । उपभोग इत्युपलक्षममात्मसात्करणस्यापि.पृथिवीं बुभुजे । स्वाधीनां चकारेत्यर्थः । भुज पालनाभ्यवहारयोरित्यस्य रूधादेस्वे ग्रहणमिति भुजो कौटिल्य इत्यस्मात्तुदादेः परस्मैपदमेव । पाणिं विभुजति । मूलानि विभुजति ।", "13067": "<<णेरणौ यत् कर्म णौ चेत् स कर्ताऽनाध्याने>> - णेरणौ यत्कर्म । आत्मनेपदमित्यधिक्रियते । इहावान्तरवाक्यानि चत्वारि प्रतीयन्ते ।णेरात्मनेपद॑मित्येकं वाक्यम् । तच्च स्यादित्यन्तेन व्याख्यातम् ।अणौ यत्कर्म णौ चे॑दिति द्वितीयम् । कर्मशब्दः क्रियापरःकर्तरि कर्मव्यतिहारे॑ इति वत् । तथा च अणौ या क्रिया सैव ण्यन्ते चेदित्यर्थः । एवं स्थिते फलितमाह — सैव चेण्ण्यन्तेनोच्येतेति । स कर्ते॑ति तृतीयं वाक्यम् । अणावित्यादि चेच्छब्दान्तमिहानुर्तते । कर्मशब्दश्चात्र कारकविशेषपरः, शब्दाधिकाराश्रयणात्, तदेतद्व्याचष्टे — अणौ यदित्यादिना, स्यादित्यन्तेन ।अनाध्याने॑ इति वाक्यान्तरं व्याचष्टे — न त्विति । आध्यानमुत्कण्ठापूर्वकं स्मरणम् । वस्तुतस्तु पर्युदास एव लाघवादाश्रयणीयः । अस्मिन्पक्षे आध्यानभिन्ने इत्यर्थे सति फलितो-न त्वाध्याने॑ नेयः । तथा च अत्र वाक्यत्रयमेवेति बोध्यम् । विकल्प इति ।परत्वात्प्राप्ते॑ इत्युत्तरेणान्वयः । पूर्वविप्रतिषेधेनेति ।विभाषोपपदेने॑त्यस्यावकाशः — स्वं यज्ञं यजति । स्वं यज्ञं यजते इत्यादि ।णेरणा॑ वित्यस्य तु — दर्शयते राजेत्यादि । तथाअणावकर्मका॑ दित्यस्य — शेते कृष्णस्तं गोपी शाययतीत्यवकाशः ।णेरणौ॑ इत्यस्य तु — लावयते केदारः स्वयमेवेति । तत्र हि लूयते केदार इति द्वितीयकक्षायामणावकर्मकत्वादिति भावः । न चपश्यति भव॑ इतिवद्द्वितीयकक्षायांलुनाति केदार॑ इत्येव प्रयोग इति भ्रमितव्यम् । लवनस्य कर्मस्थक्रियात्वेनकर्मवत्कर्मणे॑ति यगात्मनेपदप्रवृत्तेः । नव्यास्तुअणावकर्मका॑ दित्यस्य बाधेदर्शयते राजे॑ति भाष्यप्रयोगो मानम् । तत्र हि निवृत्तप्रेषमपक्षे दृशेरणावकर्मकत्वाच्चित्तवत्कर्त्तृकत्वाच्च परस्मैपदप्राप्तेः ।विभाषोपपदेने॑ति विकल्पबाधेतु न किंचिन्मानम् । किं चअणावकर्मका॑दित्यस्य बाधेऽपि नास्त्येव प्रमाणम्, पूर्वोक्तभाष्यस्य परगामिनि क्रियाफले चरितार्थत्वात् । तथा च कर्तृगामिनि क्रियाफले परत्वात्अणावकर्मका॑ दित्यस्य प्रवृत्तौ न किंचिद्बाधकमस्तीतिपूर्वविप्रतिषेधेनेदमेवेष्यते॑ इत्येतच्चिन्त्यमित्याहुः । वस्तुतस्तुणेरणौ॑ इति सूत्रस्याऽचित्त्वत्कर्तृकेऽपि लावयते केदार इत्यादौ चरितार्थत्वात्अणावकर्मका॑ दित्यनेन परगामिनि क्रियफलेऽपि परत्वात्परस्मैपदे प्राप्ते दर्शयते राजेति भाष्यप्रयोगबलात्पूर्वविप्रतिषेधाभ्युपगमेनणेरणौ॑ इत्यात्मनेपदप्रवृत्तावपिआत्मार्थं दर्शयते॑स्वार्थं दर्शयते॑ इत्यादौ परत्वात्विभाषोपपदेने॑त्यस्य प्रवृत्तौ न किंचिद्बाधकमस्ति । ततोऽपि परत्वात्अणावकर्मका॑ दिति परस्मैपदमेव स्यादिति तद्बाधेन पूर्वविप्रतिषेधे स्वीकृतेविभाषोपपदेने॑त्यस्याप्यर्थात्पूर्वविप्रतिषेधेन बाधो जात एवेति चेत्, एवं तर्हिदर्शयते राजे॑ति भाष्यप्रयोगस्य केवले चरितार्थत्वात्सोपपदप्रयोगेअणावकर्मका॑ दिति गतार्थत्वशङ्कां निरस्यति — कर्तस्थभावका इति । अपरिस्पन्दनसाधनसाध्यो धात्वर्थो भावः ।ष सपरिस्पन्दनसाधनसाध्या तु क्रिया । साधनं = कारकं, तत्साध्यत्वाद्धात्वर्थस्य । ननुनृत्यन्तं भवं पश्यती॑त्यत्र दृशेः कर्तृस्थभावकता न स्यात्, किं तु कर्तृस्थक्रियाकतैव स्यात् । न च साधनशब्देन लकारवाच्यं कारकं विवक्षितमिति वाच्यं, नृत्यन्भवः पश्यतीत्यत्र तद्दोषतादवस्थ्यादिति चेत् । अत्राहुः — आरोहणादौ सपरिन्पन्द एव देवदत्तादिर्यथा साधनतथा दर्शनश्रवणादौ न भवति किंतु स्पन्दनरहितोऽपि नोक्तदोष इति । कर्तृस्थभावकमुदाहरति — पश्यन्तीति । प्रेरणांशेति । सौकर्यविवक्षयेति भाव- । तत इति । त्यक्तप्रेरणांशकाद्धातोरित्यर्थः । पुनण्र्यर्थस्येत्यादि । न चैवं णिजपि गच्छतीतिदर्शयते भव॑ इति न सिध्येदिति वाच्यम्, उपायनिवृत्तावप्युपेयाऽनिवर्तनादिति कैयटोक्तेः । तत्र तृतीयायेति । प्रथमाद्वितीययोस्तु ण्यन्तत्वाऽभावात्तङः प्रसक्तिरेव नास्तीति बावः । क्रियासाम्येऽपीति । प्रथमकक्षया सहेत्यर्थः । द्वितीयामादायेति ।अणौ या क्रिया सैव चेण्ण्यन्ते॑ इत्यस्य न्यूनाधिकभावव्यवच्छेदपरत्वमभ्युपेत्येदमुक्तम् । यदा त्वधिकव्यवच्छेदमात्रपरत्वमभ्युपगम्यते तदा प्रथमामादाय तत्संभवति । इदानीं कर्तृस्थक्रियाकमुदाहरति — एवमित्यादिना । आरोहति हस्तीति । प्रेषणांशत्यागे उदाहरणमिदम् । ततो णिजैति । निवृत्तप्रेषणाद्धातोः प्रेषणांऽशविवक्षायां णिजित्यर्थः । पुनण्र्यर्थस्याऽविवक्षायामुदाहरणमाह — आरोहयते इति । एवं निवृत्तप्रेषणपक्षमुपपाद्येदानीमध्यारोपितप्रेषणपक्षमाह — यद्वेति । हेतुत्वारोपादिति । प्रयोजककर्तृत्वारोपादित्यर्थः । अत्रापि सौकर्यविवक्षैव बीजम् । पश्यत इति । पश्यतो भक्तान्, आरोहतो हस्तिपकानिति क्रमेणाऽर्थः । आधिक्यादिति ।अस्मिन्पक्षे णौ चेत्सा क्रियेत्यनेन आधिक्यमात्रं व्यवच्छिद्यते न तु न्यूनत्वमपि । अन्यथा तृतीयक्षायामपि तङ् न स्यात्, प्रकृत्युपात्तप्रेषणाशंस्य त्यागेन न्यूनतायाः सत्त्वादिति भावः । णेरिति किम् । पश्यत्यारोहतीत्यादिनिवृत्तप्रेषमान्म#आभूत् । न चणौ चे॑दिति श्रुतत्वाण्ण्यन्तादेव स्यादिति वाच्यम्, अणावित्यस्यापि श्रुतत्वात् । तस्याऽग्रिमयोगार्थमवश्यं कर्तव्यस्य स्पष्टार्थमिहैव कर्तृमौचित्याच्च । अणौ या क्रिया सैव चेण्ण्यन्ते किम् । दर्शयति भवः, आरोहयति हस्तीत्यध्यारोपितप्रेषमपक्षे द्वितीयकक्षायां माभूत् । कथं तर्हिकरेणुरारोहयते निषादिन॑मिति माघप्रयोगः,स सन्ततं दर्शयते गतस्मयः कृताधिपत्यामिव सादु बन्धुता॑ मिति भारविप्रयोगश्च सङ्गच्छत इति चेत् । अत्राहुः — णिचश्चे॑ त्यनेन क्रियाफले कर्तृगामिनि तङ्, न तु प्रकृतसूत्रेणेति । अणौ यत्कर्म कारकं णौ चेत्स कर्तेति किम् । दर्शयन्ति भवमिति निवृत्तप्रेषणपक्षे चतुर्थकक्षेयम् । आध्यारोपितपक्षे तु तृतीयकक्षेति ज्ञेयम् । केचित्तु एतत्सूत्रस्थे भाष्ये दर्शयते भृत्यान्राजेत्युदाहरणं, स्मरयत्येनं वनगुल्मैति प्रत्युदाहरणं च दृश्यते । ततश्च अध्यारोपितप्रेषणपक्षे द्वितीयकक्षायामेवाऽनेनात्मनेपदं भवति, न तु तृतीयकक्षायामिति प्रतीयते । तथा च कर्मपदमावर्त्त्य तस्य क्रियावाचित्वं स्वीकृत्याऽणौ या क्रियासैव चेण्ण्यन्तेनोच्येतेति वाक्यान्तराभ्युपगमेऽप्येवकारेणाऽधिक्यं न व्यवच्छिद्यते, किं तु न्यूनतैवेत्यस्मादेव भाष्यादवगम्यते । एवं चदर्शयते भवः॑आरोहयते हस्ती॑ति कर्मप्रयोगरहितं मूलग्रन्थस्योदाहरणं,॒स्मरयति वनगुल्म॑ इति प्रत्युदाहरणं च भाष्यविरुद्धमेवेत्याहुः । अन्यैस्त्वविविक्षितमिह क्रमेत्युक्त्वाऽत्र मूलग्रन्थाऽविरोधेनैव भाष्यग्रन्थः समर्थितः ।तेषामयमाशयः — गभीरायां नद्यां घोष॑ इत्यत्र गभीराऽभिन्ननद्यामिति गभीरनदीपदार्थयोरभेदबोधानन्तरं तीरलक्षणायां तीरस्य गभीरत्वाऽभावात्, नद्यास्तु गभीरत्वेऽप्येकदेशान्वयाऽसंभवाच्च अनर्थकमपि गभीरायामिति पदं प्राथमिकबोधमादाय यथा सार्थकं, तद्वदिहापि अध्यारोपितप्रेषणपक्षे द्वितीयकक्षायां कर्मण्यन्वितं, ततो णिजर्थस्येव कर्मणोऽपि त्यागे णिचः कर्मपदस्य च प्राथमिकबोधमादाय सार्थक्यम् । स्वबोध्यसंबन्धो लक्षणेत्यभ्युपगमात् । विशिष्टवाक्यार्थस्य चेह बोध्यत्वेन तत्संबन्धस्य बोधतृकतारूपस्य वाक्ये सत्त्वात् । एषैवार्थवादैः प्राशस्त्यलक्षणायां गतिः । अन्यथावायव्यं ओतमालबेत बूतिकामः॑ इत्यादिविधिवाक्यस्य योऽर्थवादःवायुर्वैक्षेपिष्ठा देवता, वायुमेव स्वेन भागधेयेनोपधावति॑स एवैनं भूति गमयति॑ इत्यादिस्तत्रवायुमेव स्वेन भागधेयेन॑स एवैन॑ मित्य#आदिरूपस्य विभक्तिभेदेन प्रयोगस्य वैयथ्र्यं स्यादिति । नन्वेतत्सूत्रस्योदाहरमं प्रत्युदाहरणं च यताश्रुतभाष्यानुसारेण सकर्मकमेवास्तु किमनेन विद्यमानकर्मणोऽविवक्षितत्वोपपादनक्लेशेनेति चेत् । मैवम् । निवृत्तप्रेषमपक्षे दर्शयते भव इत्याद्युदाहरणस्य प्रत्युदाहरणस्य च कर्मरहितस्य स्वीकर्तव्यतया तदैकरूप्यस्याऽस्मिन्नपि पक्षे अकर्मकोदाहरमप्रत्युदाहरणयोः सिद्ध्ये कर्मणोऽविवक्षितत्वाव्याख्याया उचितत्वात् । किंचकर्मवत्कर्मणे॑ त्यनेनैव सिद्धे कर्तृस्थभावक्रियार्थं सूत्रमिति भाष्यग्रन्थस्वारस्यादप्यकर्मकमेवोदाहरणं प्रत्युदाहरणं चायाति । न चकर्मवत्कर्मणे॑ति सूत्रे तुल्यशब्देनापि कर्मस्थक्रियातो न्यूनतैव व्यवच्छिद्यते न त्वाधिक्यमिति स्वीकृते नास्ति भाष्यग्रन्थस्वारस्यभङ्ग इति वाच्यं, तथा हि सतिकर्मवत्कर्मस्थक्रिय॑ इत्युक्तेऽपि कर्मस्था क्रिया यस्य कर्तुः स कर्ता कर्मवदित्यर्थलाभात्तत्समीहितसिद्धौकर्मणा तुल्यक्रिय॑ इत्यस्य वैयथ्र्यापत्तेः । द्वितीयकक्षायां भवे हस्तिनि च विषयत्वापादनविषयकप्रेरणायाश्च न्यग्भवनविषयप्रेरणायाश्च सत्त्वेऽपि विषयत्वापत्तिरूपाया न्यग्भवनरूपायाश्च कर्मस्थक्रियायाः सत्त्वात् । यदि तुकर्मणा तुल्यक्रियः॑ इत्येतत्सार्थक्याय तुल्यशब्देनात्र न्यूनाधिकव्यवच्चेदः क्रियत इत्युच्यते, तदाकर्मवत्कर्मणे॑ति सूत्रस्य द्वितयीकक्षायामप्रवृत्तेःकर्मवत्कर्मणेत्यनेनैव सिद्धे॑ इत्यादिभाष्यग्रन्थस्वारस्यभङ्गो भवत्येव । ततश्च अध्यारोपितप्रेषणपक्षे तृतीयकक्षायामेवोदाहरणं, न तु द्वितयीकक्षायामित्यभ्युपगन्तव्यम् । एतेनाध्यारोपितप्रेषणपक्षे णौ चेत्सा क्रियेत्यनेनाधिक्यमात्रं व्यवच्छिद्यते न्यूनत्वं नेत्यत्र विनिगमनाऽभावान्न्यूनत्वव्यवच्छेद एव स्वीकृते, द्वितयीकक्षायां तङ् दुर्वार इति न्यूनाधिकव्यवच्छेद एव ग्राह्रस्तेन कक्षाचतुष्टयपक्ष एव साधीयानिति वदन्तः परास्ताः । दर्शयते भृत्यान् राजेति भाष्योदाहरबलेन अध्यारोपितपक्षस्यैव प्रबलत्वादिति दिक् । गृधिवञ्च्योः प्रलभने । अकत्र्रभिप्रायार्थ आरम्भः ।", "13068": "<<भीस्म्योर्हेतुभये>> - भीस्म्योः । व्यत्ययेन षष्ठीत्याह - आभ्यामिति ।णेरणौ॑ इत्यतो णेरित्यनुवृत्तेण्र्यन्ताभ्यामेव विधिरकत्र्रभिप्रायार्थः ।", "13069": "", "13070": "<<लियः सम्माननशालीनीकरणयोश्च>> - लियः संमानन । चात्प्रलम्भने ।", "13071": "<<मिथ्योपपदात् कृञोऽभ्यासे>> - मिथ्योपपदात्कृञोऽभ्यासे । इह करोतिरुच्चारणार्थत्वादकर्मकः । उच्चारण - निःसरणम् । ण्यन्तस्तूच्चारणवृत्तिः सकर्मकः । उच्चारयतीति । निःसारयतीत्यर्थः । असकृदुच्चारणे तु धातोर्लक्षणा, आत्मनेपदं तु द्योतकं, तेनैव द्योतितत्वात्नित्यवीप्सयो॑रिति न द्विर्वचनम् । ऋत्विजो यजन्तीति । दक्षिणादिकं तु न यागफलम्,स्वर्गकामो यजेते॑त्यादिना स्वर्गाद्युद्देशेन यागादिविधानात्स्वर्गादिरेव फलमिति भावः ।", "13072": "<<स्वरितञितः कर्त्रभिप्राये क्रियाफले>> - पूर्ववदिच्छब्दः प्रत्येकं संबध्यते । कर्तारमभिप्रैति गच्छतीति कत्र्रभिप्रायम् ।कर्मण्यण् । धातोरिति । धातोर्लस्येत्यर्थः । लकारधात्वोराक्षेपः पूर्ववद्बोध्यः ।", "13073": "", "13074": "<<णिचश्च>> - अचूचुरदिति । अत्र प्राचा व्याख्यात्रासन्वल्लघुनी॑ति सन्वद्भाव इत्युक्तं , तद्रभसात् । सन्वद्भावविषये हि जायमानो दीर्घः सन्वद्भावं नापेक्षत इति.सामान्यापेक्षमिति । सर्वेऽपि चुरादयो विकल्पेन णिचं लभन्त इत्येतदर्थकमित्यर्थः । न चैवम्आर्धषाद्वे॑ति व्यर्थमिति वाच्यं, ज्ञापकसिद्धस्याऽसार्वत्रिकत्वात् । एवं चाऽस्मिन्पक्षे आधृषीयाणामेवैच्छिको विकल्पः, अन्येषां तु शिष्टप्रोगाद्व्यवस्थित इत्यर्थः । जगाण जगणतुरिति । वृत्तौचकाण चकणतु॑रिति प्रचुरः पाठस्तस्मस्तु पाठे नास्त्येव प्रकृतार्थसिद्धिः । केचित्तु णिजभावे गणयामासेत्यादिरूपाऽभावेपि गणधातोरदन्तत्वाद्गणामासेत्यामा भवितव्यमिति जगाणेत्यादिपाठश्चिन्त्य इत्याहुः । न वैयथ्र्यमिति । वैयथ्र्यशङ्क्यपि नेत्ययमेव पक्षो युक्त इति भावः । तत्र पूर्वोक्तपक्षस्य शिथलत्वे जगाण जगणतुरिति वृत्तिप्रयोगः कथं सङ्गच्छतामिति न शङ्क्यम्, भ्वादेराकृतिगणत्वातत्रत्यधातोस्तद्रूपसिद्धेः । तच्चिन्त्यमिति । यत्रितत्रिमत्र्यादिषु इकारो व्यर्थ एव न तु ज्ञापनार्थः, तेषां संयोगान्तत्वात्, यन्त्रतन्त्रमन्त्रेति नकारे पठितेऽपिअनिदिता॑ मिति लोपो न लभ्यते, नकारस्याऽनुपधात्वात् । चिन्त्यादित्यत्र तुचिन्त स्मृत्या॑मिति नाकरोपधपाठे नलोपः स्यादेवेति तद्वारणाय क्रियमाण इकारस्तु ज्ञापक इति भावः । लड । स्नेहपूर्विका सेवा उपसेवा । लाडयति पुत्रम् । लडयोरभेदाल्लालयति । ओकार इदित्येके इति । ओदित्करणम्ओदितश्चे॑ति धातोरव्यवहितस्य निष्ठातकारस्य नत्वार्थमिति तद्बलान्नेडित्येके । लण्डणः । ओदिद्बलादिड्व्यवदानेऽपि नत्वमित्यन्ये । लण्डिनः । पीट अवगाहने ।भ्राजभासे॑ति ह्रस्वपक्षे सन्वद्भावविषयत्वात्दीर्घो लघो॑रित्यभ्यासस्य दीर्घः । ह्रस्वाऽभावपक्षे तु न दीर्घ इत्याह — अपीपिडदित्यादि ।", "13075": "<<समुदाङ्भ्यो यमोऽग्रन्थे>> - समुदाङ्भ्यो ।आङो यमहनः॑ इत्येव सिद्धे आङ्पूर्वकस्य वचनं सकर्मकार्थमिति ध्वनयन्नुदाहरति — वस्त्रमायच्छत इति ।", "13076": "<<अनुपसर्गाज्ज्ञः>> - अनुपसर्गाज्ज्ञः । अकर्मकाच्चेत्येव सिद्धे सकर्मकार्थ आरम्भः ।", "13077": "<<विभाषोपपदेन प्रतीयमाने>> - विभाषोपपदेन । उपपदेन फलस्य कर्तृगामित्वे द्योतिते तङोऽप्राप्तवप्राप्तविभाषेयम् । कर्तृगामिनि क्रियाफले नित्ये प्राप्ते प्राप्तविभाषेत्यन्ये । स्वं यज्ञमिति । स्वमित्युपलक्षणम् ।स्वार्थं यज्ञं यजति । आत्मार्थं यज्ञं यजती॑ त्याद्यपि बोध्यम् । इति तत्त्वबोधिन्यामात्मनेपदप्रक्रिया ।", "13078": "", "13079": "<<अनुपराभ्यां कृञः>> - अस्य बाधादिति ।अनुपराभ्या॑मित्यस्येत्यर्थः । अत एवकर्मवत्कर्मणे॑ति सूत्रे कार्यातिदेशोऽयमिति वक्ष्यति । शास्त्रातिदेशपक्षेकर्मवत्कर्मणे॑ त्यनेनात्मनेपदं न विधीयते, किं तु तद्विधायकंभावकर्मणो॑रिति शास्त्रमतिदिश्यते, तस्य च पूर्वत्वात्परेणअनुपराभ्या॑मित्यनेन बाधमाशङ्क्याह — शास्त्रातिदेश इत्यादि । स्वरितेदिति । तथा च कर्तृगामिनि क्रियाफलेऽपि परस्मैपदार्थः सूत्रारम्भ इति भावः ।", "13080": "", "13081": "", "13082": "<<परेर्मृषः>> - स्वरित्वात्पदद्वये प्राप्तेऽयमारम्भः । परिमर्षतीति ।आ धृषाद्वे॑ति ति वैकल्पिकत्वाण्णिजभावः ।", "13083": "", "13084": "<<उपाच्च>> - उपाच्च ।व्याङपर्युपेभ्यः॑ इति नोक्तम्, उत्तरसूत्रे उपेत्यस्यैवानुवृत्तिर्यथा स्यादिति ।", "13085": "", "13086": "", "13087": "<<निगरणचलनार्थेभ्यश्च>> - निगरणचलनार्थेभ्यश्च । निगरणं — भक्षणम् । प्रुद्रुरुआऊणां चलनार्थानामेनात्मनेपदे सिद्धेऽप्यचलनार्थानां तत्सिद्धये पूर्वसूत्रे ग्रहणम् । अतएव तत्र विवृतंप्रापयतीत्यर्थ॑ इत्यादिना । कतं तर्हिइमां किमाचामयसे न चक्षुषी॑ इति श्रीहर्षः । आङ्पूर्वाच्चमेरनेन परस्मैपदौचित्यादिति चेत् । अत्राहुः — आचामयेति पथृक्पदम् । #ई लक्ष्मीस्तया सहिता सेस्तस्याः संबोधनेहे से॑ इति । केचित्तु सा त्वम् इमे चक्षुषो इनचक्षुषी = श्रेष्ठचक्षुषी आचामय किमिति व्याचक्षते ।", "13088": "<<अणावकर्मकाच्चित्तवत्कर्तृकात्>> - अणावकर्मकात् । क्रियाफलस्य कर्तृगमित्वविवक्षायामात्मनेपदे प्राप्ते परस्मैपदार्थमिदम् । अणाविति किम् । हेतुमण्यन्तादकर्मकात्परस्मैपद[मिति] नियमो मा भूत् । आरोह्रमाणं प्रयुङ्क्ते आरोहयते । न्यग्भवन्तं प्रेरयतीत्यर्थः ।णेरणौ॑ इतिसूत्रे उदाहरणत्वेन य आरोहयतिकर्मको निर्णीस्तस्माद्द्वितीये णिचि प्रत्युदाहरणमिदम् । केचित्तु अणाविति किम् । चुरादिण्यन्तात्परस्मैपदनियमो माभूत् । तद्यथा पुट्ट प्वुट्ट अल्पीभावे । पुट्टयति । चुट्टयति । अल्पीभवतीत्यर्थः । अकर्मकाविमौ । ततो हेतुमण्णिचि — पुट्टयते चुट्टयते । इति प्रत्युदाहरणन्ति, तद्भाष्यादिविरुद्धम् । तथाहि बुधादिसूत्रादिह णेरिति वर्तते, बुधादिभ्यश्च हेतुमण्णिरेव संभवतीति तदन्तादेवायं विधिः । अणाविति प्रतिषेधोऽपि प्रत्यास्त्तेस्तस्यैव न्याय्यः । तेन चुरादिण्यन्ताद्धेतुमण्णौ परस्मपैदं भवत्येवेति भाष्यादौ स्थितम् । तथा च हेतुमण्णेः प्राग्योऽकर्मको हेतुमण्ण्यन्तभिन्नस्तस्माद्धेतुमण्णावात्मनेपदं नेति फलितोऽर्थः । अकर्मकात्किम् । कटं यः करोति तं प्रयुङ्क्ते कटं कारयति । चित्तवत्कर्तृकादिति किम् । शुष्यन्ति व्रीहयस्ताञ्शोषयते ।", "13089": "<<न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः>> - न पाद । चित्तवत्कर्तृका अकर्मका इति । दिवादौ दमिः सकर्मक इत्युक्तम्, इह त्वकर्मक इति पूर्वोत्तरविरोधो यद्यप्यस्ति तथापि कर्मणः कर्तृत्वविवक्षायां दमिरत्राऽकर्मक इत्याहुः । पाययत इति ।शाच्छसे॑ति युक् । आयामयत इति ।यमोऽपरिवेषमे॑ इति मित्त्वनिषेधः । वासयत इति । वस निवास इत्यस्य ग्रहणं । वस आच्छादने इत्यस्य तु न निषेधः, सकर्मकत्वेन तस्य प्राप्त्यभावात् । कर्मकर्तृत्वविवक्षायामकर्मकत्वेऽपि लुग्विकरमपरिभाषया नाऽत्र ग्रहणमित्याहुः । * धेट उपसङ्ख्यानम् । समीची इति । प्रथमाद्विवचनम् ।वा छन्दसी॑ति पूर्वसवर्णदीर्घः । परस्मैपदं स्यादेवेति ।अनन्तरस्य॑ इति योगद्वयेन प्राप्तस्यैव परसमैपदस्य प्रतिषेध इति भावः । [इति तत्त्वबोधिन्याम् परस्मैपदप्रक्रिया] इति पदव्यवस्था ।अथ परिभाषाप्रकरणम् । — — — — — — — —", "13090": "<<वा क्यषः>> - तस्येति । आदिशब्दस्येत्यर्थः । * लोहितडाज्भ्यः क्यष्वचनं, भृशादिष्वितराणि । तस्यापीति । क्यषः ककारस्येत्यर्थः । एतेननः क्ये॑ क्यस्य विभाषे॑ति सूत्रद्वये क्यषोऽपि ग्रहणं वदन्तः परास्ताः । लोहनीयतीति । क्यङि सति तङेव स्यात्,क्यङ्मानिनोश्चे॑ति पुंवद्भावश्चेति भावः ।", "13091": "<<द्युद्भ्यो लुङि>> - द्युद्भ्यो लुङि । बहुवचननिर्देशाच्छौण्डैरित्यत्रेव तदादिग्रहणम् । तदाह — द्युतादिभ्य इति । द्युतादयोघट चेष्टाया॑मित्यवधिकाः ।डः सी॑त्यत्रेव लुङीति सप्तम्याः षष्ठर्थतेत्यभिप्रेत्याह - लुङः परस्मपैदमिति । ञिमिदा ।", "13092": "<<वृद्भ्यः स्यसनोः>> - वृतादयः पञ्च ।", "13093": "", "14001": "<<आ कडारादेका संज्ञा>> - आ कडारा । इहप्राक्कडारात्मसमासः॑ इत्यस्य नावधित्वं, व्याप्तिन्यायात् ।तत्पुरुषो द्विगुश्चे॑ति लिङ्गाच्च । संज्ञाद्वयसमावेशार्थं हि तत्र चकारः । तदाह-कडाराः कर्मधारय इत्यत इति । एकस्यैकैव संज्ञेति । उभयोः सावकाशत्वेविप्रतिषेधे पर॑मिति परैव गृह्रते, निरवकाशत्वे तु सैव । तत्र परस्या उदाहरणं — ॒धनुषा विध्यती॑ति । अत्र शराणामपायं प्रत्यवधिभूतस्यैव धनुषो व्यधनं प्रति साधकत्वमित्युभयप्रसङ्गे परत्वात्करणसंज्ञा अपादानसंज्ञां बाधते । निरवकाशायाः पूर्वस्यास्तदाहरणंभवतष्ठक्छसौ॑ भवदीय इति । अत्र हिसिति चे॑ति पदसंज्ञा परामपि भसंज्ञां बाधते, निरवकाशत्वात् । तेन तकारस्य जश्त्वं भवति । प्रकृते तु पराऽनवकाशा भसंज्ञा पदसंज्ञां बाधते इति शसादावचि सैव ग्रहीतुमुचितेत्याशयेनाह — या परेत्यादि । यलोप इति ।हलि सर्वेषा॑मित्यनेन ।लोपो व्योर्वली॑ति तु न प्रवर्तते, यत्वास्याऽसिद्धत्वात् ।", "14002": "<<विप्रतिषेधे परं कार्यम्>> - विप्रतिषेधे । विप्रतिपूर्वात्षिधू शास्त्रे माङ्गल्ये च॑षिधं गत्या॑मित्यस्माद्वा धातोर्घञ् ।उपसर्गात्सुनोती॑ति षत्वम् । उपसर्गवशाच्च विरोधार्थकत्वम् । कार्यमिति ।अर्हे कृत्यतृचश्चे॑त्यर्हार्थे कृत्यप्रत्ययः । तेन तुल्यबलविरोध इति पर्यवसानादतुल्यबलेषूत्सर्गापवादनित्यानित्यान्तरङ्गबहिरङ्गविधिषु नेदं प्रवर्तते । नह्रपवादादीनां संनिधावुत्सर्गादीनां कृत्यर्हत्वं, तैर्बाधितत्वात् । तत्र नित्यमावश्यकत्वाद्बाधकम्, अन्तरङ्गं तु लाघवात्, अपवादस्तु वचनप्रामाण्यात् । तद्भिन्नस्तु प्रकृतसूत्रस्य विषयः । अतएवपरनित्यान्तरङ्गपवादानामुत्तरोत्तरं बलीयः॑ इत्युक्तम् । यद्यतुल्यबलेप्वपि परमेव स्यात्तन्नोपपद्येताऽतो व्याचष्टे-तुल्यबलविरोध इति । जातौ पदार्थे विध्यर्थमिदं सूत्रम् ।वृक्षेषु॑वृक्षाभ्यां॑ मित्यत्र हि लब्धावकासयोरेत्वदीर्घत्वशास्त्रयोर्वृक्षेभ्य इत्यत्र युगपत्प्रसङ्गे विनिगमकाऽभावादप्रतिपत्तिरेव स्यात् । तदुक्तम्-॒अप्रतिपत्तिर्वा उभयोस्तुल्यबलत्वा॑दिति । तत्रास्माद्वचनात्परस्मिन् कृते यदि पूर्वस्यापि निमित्तमस्ति तर्हि तदपि भवति, यथाभिन्धकी॑त्यत्र परत्वाद्धिभावे कृतेऽ[प्य]कच् । तदुच्यते-॒पुनः प्रसङ्गविज्ञानात्सिद्ध॑मिति । ब्यक्तौ तु पदार्थे तत्तव्द्यक्तिविषययोर्लक्षणयोरन्यत्र चरितार्थत्वाऽसम्भवात्तव्यानीयरामिव पर्यायेण प्रवृत्तौ नियमार्थमिदं सूत्रंविप्रतिषेधे परमेव स्यान्न तु पूर्व॑मिति । एतल्लक्षणारम्भाच्च तत्र तत्र पूर्वस्यानारम्भोऽनुमीयते । तथाचजुहुतात्त्व॑मित्यत्र परत्वात्तातङि कृते स्थानिवद्भावेनहुझल्भ्यः॑-इति धित्वं न भवति । तदुच्यते-॒सकृद्गतौ विप्रतिषेधे यद्वाधितं तद्बाधितमेवे ॑ति । लक्ष्यानुरोधाव्द्यवस्थाप्यमेतद्दूयमपि । तत्र विधिपक्षे तूत्त्वे रेफलोपे वा प्राप्ते इति पाठम् । नियमार्थमिति पक्षेपरमेव कार्यं स्या॑दित्येवकारोऽध्याहर्तव्यो वृत्तौ । उत्वमेवेति । सिद्धासिद्धयोरतुल्यबलत्वेनविप्रतिषेधे पर॑मित्यस्याऽप्रवृत्तौ निष्प्रतिपक्षत्वादुत्वमेव भवतीत्यर्थः । तदुक्तम् — ॒पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्ये॑ति । एतेन विभक्तिकार्यं प्राक् पश्चादुत्वमत्वे॑ इति वक्ष्यमाणग्रन्थो व्याख्यात ।", "14003": "<<यू स्त्र्याख्यौ नदी>> - यू स्त्र्याख्यौ । ईआ ऊश्च यू । व्याख्यानाद्दीर्घयोरेव ग्रहणम् । अविभक्तिकोऽयं निर्देश इत्येके ।दीर्घाज्जसि चे॑ति निषेधस्यवा छन्दासी॑ति पाक्षिकत्वात्पर्थमयोः पूर्वसवर्णः॑इति दीर्घ इत्यन्ये इह॒प्रत्ययस्यैव ग्रहण॑मिति परिभाषा नोपतिष्ठते । नेयङुवङ्स्थानावस्त्री॑ ति निषेधाल्लिङ्गात् । तेनप्रध्यै॒॑प्रध्य॑इत्यादौ नदीकार्यं स्यादेव । स्त्रियमाचक्षाते स्त्र्याख्यौ । मूलविभुजादित्वात्काः ।चक्षिडः ख्याञ् ।आतो लोप इटि चे॑त्यालोपः । ईदुदन्तविति । इहवर्णयोरेव संज्ञे॑त्यपि पक्षोऽस्ति ।आच्छीनद्योः — ॑इति सूत्रस्वरसात् । तयोः स्त्र्याख्यत्वं तु ङ्यादिषु स्वतः, तन्त्रीर्लक्ष्मिरित्यादौ तु स्त्रीवाचकवर्णसमुदाये घटकत्वेन प्रवेशात् । तेन नद्यन्तादिव्यवहारो न विरुध्यते । एवंशेषो ध्यसखी॑त्यत्रापिइवर्णोवर्णयोरेव घिसंज्ञे॑ति पक्षोऽप्यस्तीति बोध्यम् । तेनध्यन्ताजाद्यन्तयोघ्र्यन्तं पर॑मिति व्यवहारः सङ्गच्छेते । वर्णसंज्ञापक्षेअसखी॑त्यस्य सखिभिन्नस्ययव इत्यर्थो न तुसकिशब्दावयवं वर्जयित्वे॑ति । तेन समुदायस्य सखिशब्दभिन्नत्वादितिसखिनोत्यादि निर्बाधमित्यवधेयम् ।॒स्त्रिया॑मित्येव वक्तव्ये आख्याग्रहणं नित्यस्त्रीत्वलाभार्थमित्याशयनाह-नित्यस्त्रीलिङ्गाविति । यू किम् ।, मात्रे । स्त्र्याख्याविति किम्, ग्रामण्येष पूर्वमिति । वृत्तेः प्रागित्यर्थः । संज्ञायां यथोद्देशपर्वृत्तौ न्यायसिद्धमिदं, कार्यकालपक्षे तु वाचमिकमित्याहुः ।", "14004": "<<नेयङुवङ्स्थानावस्त्री>> - नेयङ्वङ्स्तानावस्त्री । तिष्ठतो ययोरितिस्थानौ॑ । अधिकरणे ल्युट् । इयङुवङोः स्थानाविति षष्ठीसमासः । तथाच फलितार्थमाह -इयङुवङोः स्थितिर्ययोरिति । स्थानग्रहणं किम् प्रकृष्टा धीः — प्रधीः । हे प्रधि! । अत्रएरनेकाच॑ इति यणा इयङो बादानान्नेयङुवङ्स्थानाविति निषेधो न प्रवर्तते ।यत्रेयडुवङौ निष्पद्येते तत्रैव नदीसंज्ञाया निषेधः । यत्र त्वपवादेन बाध्यते तत्र न निषेध॑इत्येतदर्थं हिस्थान॑ग्रहणं कृतम् । अन्यथानेयङुवङा॑रित्येव ब्राऊयात् ।इवङुवङोनिमित्तभूतौ यू नदीसंज्ञकौ ने ॑त्यर्थलाभात् । अस्त्रीति किम् हे स्त्री ।", "14005": "<<वाऽऽमि>> - वामि ।यू स्त्र्याख्यौ नदी॑नेयहुवङ्स्थानावस्त्री॑त्यनुवर्तनादाह -इयङुवङ्स्थानावित्यादिना । यद्यपिने ति प्रकृतो निषेधोऽनेन विकल्प्यते तथापि निषेधविकल्पे विधिविकल्प एव फलतीति स एव सूत्रार्थ उचित इत्याशयेनाह -वा नदीसंज्ञौ स्त इति ।ङिति ह्रस्वश्चे॑ति सूत्रेऽप्येवमेव । प्रधीशब्दस्य त्विति ।एरनेकाच॑इचि यणा इयङो बाधनात्नेयङुवङ्स्थाना॑विति निषेधोऽत्र न प्रवर्तते । यत्र त्वपवादेनेयङुवङौ बाध्यते तत्र न निषेध इत्याशयेन व्याचष्टे -लक्ष्मीवद्रूपमिति ।अमि शसि च विशेषं ॑इत्यनुपदमेव वक्ष्यति । पुंवद्रूपमिति । अयं च मतभेदःप्रकृष्टा धीर्यस्याः॒॑प्रकर्षेण ध्यायती॑ति वा विग्रहे बोध्यः । लक्ष्मीवदिति ।मतद्वयेऽपी॑ति शेषः । सुष्ठु धीर्यस्या इति । नन्वस्मिन्विग्रहे कैयटमते सुधीशब्दस्य नित्यस्त्रीत्वाऽभावेऽपि धीशब्दस्य नित्यस्त्रीत्वात्प्रथमलिङ्गग्रहणं चे॑ति सुधीशब्दः श्रीवदेव भवति, नतु पुंवदिति चेदत्राहुः — — ॒नेयङुवङ्स्थानावस्त्री॑ति धीशब्दे नदीसंज्ञानिषेधात्सुधीशब्देप्रथमलिङ्गग्रहणं चे॑त्यस्याऽप्रवृत्तिः, तथावृत्तिमते॑इति ग्रन्थः स्वरसत सङ्गच्छते इति । मतान्तर इति ।लिङ्गान्तरानभिधायकत्वं त॑दिति कैयटमते इत्यर्थः । श्रीवदेवेति । बुद्धिवाचकधीशब्दस्य नित्यस्त्रीत्वान्मतद्वयेऽपि श्रीवदेवेत्यर्थः । (२६४) स्त्रियां च ।७.१.९६ ।स्त्रियां च । असर्वमानस्थानार्थमयमारम्भः ।तृज्वत्क्रोष्टु॑रिति वर्तते । तद्वदेवात्रापि रूपाऽतिदेशः ।स्त्रिया॑मित्यर्थग्रहणं, तदाह -स्त्रीवाची क्रोष्टुशब्द इत्यादि । एवं च पञ्चमिः क्रोष्ट्रीबिः क्रीतै रथैः पञ्चक्रो,टृभी रथैरित्यत्रापि तृज्वद्भावः सिध्यति । ये तु॒स्त्रिया॑मिति स्त्रीप्रत्यये इति व्याचक्षते, ङीषर्थं च क्रोष्टुशब्दं गौरादुषु पठन्ति तेषामिह तृजद्भावे न सिध्येत् ।तेन क्रीत॑मिति ठको॒ऽध्यर्धपूर्वे॑ति लुका लुप्तत्वाल्लुक्तद्धितलुकीति ङीषो लुकि स्त्रीप्रत्ययपरत्वाषभावात् ।", "14006": "<<ङिति ह्रस्वश्च>> - ङिति ह्रस्वश्च ।वामी॑ति सूत्राद्वेत्यनुवर्तते । अप्राप्तविभेषेयं । ह्रस्वयोरप्राप्तावितरयोस्तुनेयङुवाङ्स्थाना॑विति निषेधप्राप्तावारम्भात् । इहे॒इयङुवङ्स्थानौ॒॑स्त्रीशब्दभिन्नौ॒॑नित्यस्त्रीलिङ्गा॑विति त्रीणि ईदुतोर्विशेषणानि, ह्रस्वयोस्तुस्त्रिया॑मित्येव विशेषणं, नत्तु नित्यस्त्रीत्वपर्यन्तम्, अन्यथा इष्वशनिप्रभ-तीनामुभयलिङ्गानां पटुमृदुप्रभृतीनां सर्वलिङ्गानां च स्त्रीत्वेऽपि नदीत्वं न स्यात् । कैयटमते हि तेषां नित्यस्त्रीत्वाऽभावात्, ह्रस्वांशे नित्यग्रहमव्यावर्त्त्याऽलाभाच्च । अतएवाऽऽख्याग्रहणं विहाय स्त्रीशब्दमात्रं निष्कृष्य संबध्यते, तदेतदाह — — ह्रस्वौ च इउवर्णो स्त्रियामिति ।", "14007": "<<शेषो घ्यसखि>> - सूत्रे शेषपदस्य प्रयोजनमाह — अनदी — संज्ञाविति ।यूस्त्र्याख्यौ॑ इत्यतःयू॑ इति,ङिति ह्रस्वश्चे॑त्यतोह्रस्व॑ इति चानुवर्तते, तदाह-ह्रस्वौ यावित्यादि । मत्यै इति । नदीसंज्ञापक्षेऽपि घिसंज्ञायां सत्याम्आण्नद्या॑ इत्याडागमेघेर्ङिती॑ति गुणे कृतेऽयादेशे चमतयै॑ इति स्यादिति भावः ।", "14008": "<<पतिः समास एव>> - पतिः समास एव । एवकार इष्टतोऽवधारणार्थः । अन्यथा हिसमासे पतिरेवे॑ति नियमः संभाव्येत्, ततश्चमहाकविने॑त्यादिप्रयोगो न सिध्यते ।अनल्विधौ॑,धात्वादे॑रित्यादिज्ञापकानुसरणे तु प्रतिपत्तिगौरवं स्यादिति भावः । पत्येत्यादि । नन्वेवंशेषो ध्यसखिपती॑इत्येवोच्यतां, किमनेनपतिः समास एवे॑ति सूत्रेणेति चेन्न; समुदायस्य पतिरूपत्वाऽभावने बहुच्पूर्वकपतिशब्दस्यापि घिसंज्ञा स्यात् । ततश्चसुसखिने॑त्यादिवद्बहुपतिनेत्यादिवब्दहुपतिनेत्यादि प्रसज्येत, इष्यते तुवहुपत्ये॑त्यादि । नापिसखिपती समास एवे॑ त्येवसूत्र्यतामिति शङ्क्यम्,बहुपत्ये॑त्यादिवद्बहुसख्येत्याद्यापत्तेः, इष्यते तुबहुसखिने॑त्यादि । अथ कथंसीतायाःपतये नमः॑इति,नष्टे मृते प्रव्रजिते क्लीबे इः॑ इत्यौणादिक इप्रत्ययेणेरनिटी॑ति णिलोपे च निष्पन्नोऽयं पतिशब्दःपतिः समास एव॑ इत्यत्र न गृह्रते, लाक्षणिकत्वादिति । एतेनकृष्णस्य सखिर्जुनः॑इति भारतम्,सखिना वानरेन्द्रेणे॑ति रामायणं च व्याख्यातम् । कति शब्द इति । का सङ्ख्या येषां ते कति ।किमः सङ्ख्यापरिमाणे डति च॑ इति डतौ डित्त्वाट्टिलोपः ।", "14009": "", "14010": "", "14011": "", "14012": "", "14013": "<<यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्>> - यस्मात् । तदादीति । तत्प्रकृतिरूपमादिर्यस्य शब्दस्वरूपस्येति बहुव्रीहिः ।ननुयस्मात्प्रत्ययविधिस्तदङ्ग॑मित्येवास्तु किमादिग्रहणेनेत्यत आह-भवामीत्यादि । प्रकृतिमात्रस्य तु व्यपदेशिवद्भवेन तदादित्वादङ्गत्वम्, तेनकर्ता॑कारक॑ इत्याद्यपि सिध्यतीति भावः । अङ्गसंज्ञार्थमिति । अन्यथाअतो दीर्घो यञी॑ति दीर्घो न स्यादिति भावः । नचारम्भसामर्थ्यादेव दीर्घः स्यादिति वाच्यम् ।पय गतौ॑वय गतौ॑ आभ्यां यङ्लुकि पापामि पापावः, वावामि वावाव इत्यादौ चरितार्थत्वात् । स्त्रीइयतीति । इदमः परिमाणे वतुप् ।किमिदभ्यां वो घ॑ इति घः । तस्य इयादेशः ।इदंकिमो॑रिति ईश् ।यस्येति च॑ इति ईशो लोपः ।उगितश्च॑ इति ङीप् । सत्यां संज्ञायां स्त्रीशब्दस्ययस्येति च॑ इति लोपः स्यात् । न चेशो लोपस्यअसिद्धवदत्राभा॑दित्यसिद्धत्वान्नातिप्रसङ्ग इति वाच्यम्,प्राग्भादसिद्धत्व॑मिति पक्षाभ्युपगमादनित्यत्वाद्वेति व्याख्यातारः । नव्यास्तु-॒स्त्री अंपश्यती॑त्यत्र स्त्रीशब्दस्यस्त्रियाः॑ इति इयङ् स्यात् । अकारादमि कृतेअमि पूर्वः॑ इत्येकादेशस्य परादिवद्भावेन प्रत्ययत्वात् । अततेर्डप्रत्यये टिलोपे च सत्यकारस्य स्वत एव प्रत्ययत्वाच्च । विधिग्रहणे कृते तु नायं दोषः प्रसज्यते । अम्प्रत्ययस्य अकाराड्डप्रत्ययस्य चाततेर्विहितत्वेऽपि स्त्रीशब्दादविधानात् । स्यादेतत् । वतुपोऽम्प्रत्ययस्य च स्त्रीशब्दादविधानेऽपि सोर्विधिरस्त्येवेति तद्दोषतावदवस्थ्यमिति चेन्मैवम्, संनिधानबलेनयस्माद्यः प्रत्ययो विहितस्तस्मिस्तदङ्ग॑-मिति व्याख्यानात् । प्रत्यये किमिति ।तदादिरूपं किय॑दित्यपेक्षयां यस्मात्प्रत्यय इति प्रत्ययस्य श्रुतत्वात्प्रत्ययपर्यन्तमेवाङ्गं भविष्यतीति मत्वा प्रश्नः । प्रत्ययस्य श्रुतत्वेऽपि प्रत्ययविशिष्टं, ततोऽप्याधिकं वा निरवधिकमङ्गं स्यात्, तदादीत्यस्यार्थनिर्णये प्रत्ययश्रवणस्योपक्षयादित्याशयेन व्याचष्टे — प्रत्ययविशिष्टस्येत्यादिना । प्रत्ययविशिष्टस्येति किम् । वव्रश्च । अत्र विशिष्टस्याङ्गसंज्ञायाम्उरत् इत्यादेशस्य परनिमित्तत्वाऽलाभात्अचः परस्मिन्नि॑ति स्थानिवत्त्वाऽप्रवृत्त्यान संप्रसारणे — ॑ इति निषेधाऽभावादभ्यासस्य पुनरपि संप्रसारणं प्रवर्तेत । तथाश्यर्थं॑ भ्र्वर्थमित्यत्रअचि श्नुधातुभ्रुवाम्-,॑इति इयुङुवङौ स्याताम्, उक्तरीत्या अचीप्यनेनाजादौ प्रत्यये इत्यलाभात् । ततोऽधिकस्याङ्गसञ्ज्ञायान्तुदेवदत्त ओदनमपाक्षी॑दित्यत्र देवदत्तशब्दात्प्रागडागमः स्यात्, देवदत्तशब्दासुत्प्रत्ययस्य विहितत्वेन लुडः प्राग्वर्तिसमुदायस्याऽङ्गत्वात् । द्वितीयप्रत्ययग्रहणे कृते तु न कोऽपि दोषः प्रसज्यते । अन्ये तु यस्माल्लुङादिविधिः प्रत्यासत्त्या तस्यैवाङ्गस्याडागमः स्यादिति ततोऽप्यधिकस्येत्येतदनास्थयोक्तं, किंतु एतस्यापि प्रत्ययविशिष्टस्याङ्गत्वे यद्दूषणं तदेवेत्यहुः ।", "14014": "<<सुप्तिङन्तं पदम्>> - सुप्तिङ्न्तं पदम् । अत्राऽन्तग्रहणंअन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ती॑ति ज्ञापनार्थम् । तेनईदूदेद्द्विवचनं प्रगृह्र॑मिति न द्विवचनान्तस्य प्रगृह्रत्वम् । अन्यथा कुमार्गोरगारं कुमार्यगारमित्यत्र प्रकृतिभावः स्यात् । कथं तर्हि प्रातिपदिकसंज्ञायां कृतद्धिताभ्यां तदन्तग्रहणमिति चेत् ; अत्राहुः -॒कुत्तद्धिते॑ति सूत्रेर्ञर्थवह्यहणमनुवर्तते तत्सामर्थ्यात्तदन्तग्रहणमिति ।", "14015": "<<नः क्ये>> - नः क्ये ।लोहितडाज्भ्यः क्यष्वचनं भृशादिष्वितराणी॑ति वक्ष्यमाणतया हलन्तात्क्यष् दुर्लभ इत्यभिप्रेत्याह — क्यचि क्यङीति । एवं चेहक्यषी॑ त्यपि कैश्चिदुक्तं तदुपेक्ष्यम् ।यस्य हलः॑ इति लोपमाशङ्क्याह — सन्निपातपरिभाषयेति । यकारे परे वान्तादेशविधानाद्वकारो यलोपस्य निमित्तं न भवतीति भावः । [गव्यीति । अत्रान्तर्वर्तिविभक्त्या पदत्वाल्लोपो दुवारः, स्यादित्याशङ्क्याह — अपदान्तत्वादिति । इदं चसमाधानस्य समाधानान्तराऽदूषकत्वा॑दिति न्यायेन समाधिसौकर्यादुक्तम् । वस्तुतस्तु उक्तरीत्या शङ्कैव नेति बोध्यम् । अन्ये तु वार्तिक एव प्रश्लेष इति द्वितीयपक्षमाश्रित्येदं,सूत्रे वकारप्रश्लेषे लोपाऽसंभवात्,न हि कार्यी॑ति न्यायात् । न च वलीति निमित्तत्वेनाऽऽश्रयणात्तत्रापि लोपो भवत्येव, अन्यथा वलीत्येव कुर्यादिति वाच्यम्, वकारे परतोय कारलोपे तस्य निमित्तत्वेनाऽऽश्रयणावश्यकत्वादिति द्वितीयकल्प एव युक्त इत्याहुः । राजीयतीति ।क्यचि चे॑त्यवर्णस्य ईत्वे कर्तव्येपूर्वत्रासिद्ध॑मिति नलोपोऽसिद्धो न भवति,नलोपः सुप्स्वरे॑ ति नियमात् । यद्यपि नियमसूत्राणां निषेधमुखेन प्रवृत्तिरितिनलोपः सुप्स्वरे॑ति सूत्रं राज#ईयतीत्यादिषु पठनीयम्,राजभ्या॑मित्यादौ तुपूर्वत्रासिद्ध॑मिति नलसोपस्याऽसिद्धत्वेन दीर्घाद्यभावसिद्धेस्तथापिविधिमुखेन प्रवृत्ति॑रिति पक्षाभ्युपगमेन हलन्तेषु राजभ्यां राजभिरित्यत्रैव पठितमिति ज्ञेयम् । नच विधिमुखप्रवृत्तिपक्षो निरालम्ब एवेति वाच्यम्,अनुपराभ्यां कृञः॑ इति सूत्रस्थभाष्यग्रन्थपर्यालोपचनया तत्पक्षावगमात् । यत्तुनलोपः सुप्स्वरे॑ति सूत्रे मनोरमायामुक्तं — ॒नियमसूत्राणां विधिमुखेन प्रवृत्तिः, सामान्यशास्त्रतात्पर्यसङ्कोचकता चे॑ति पक्षस्यद्युद्भ्यो लुङी॑ति सूत्रे भाष्यकृता ध्वनितत्वा॑दिति । तच्चिन्त्यम् । तत्सूत्रस्य भाष्यकारैरस्पृष्टत्वात् । केचित्तुद्युद्द्भ्योलुङीतिसूत्रम् । परस्मैपदप्रकरणमित्यर्थः । तत्र हिअनुपराभ्या॑मिति सूत्रं वर्तत इति तत्सूत्रे यद्ध्वनितं तत्तु परस्मैपदप्रकरणे ध्वनितमिति भवति । यद्वाअनुपराभ्यां कृञः॑ इत्यत्र हि भाष्यकृताद्युद्भ्यो लुङी॑ति परामृष्टम् । तथा चद्युद्भ्यो लुङी॑ति सूत्रं यस्मस्तत् द्युद्भ्योलुङीतिसूत्रम् =अनुपराभ्यां कृञः॑ इति सूत्रमित्यर्थ इत्येवं कुकविकृतिवत्कथंचित्स्थितस्य गतिः समर्थनीयेत्याहुः । पूर्गिरोः साम्यादिति । गृ शब्दे, पृ पालनपूरणयोरित्येताभ्यां क्विपिऋत इद्धातोः॑,उदोष्ठपूर्वस्ये॑ति प्रवृत्तेरिति भावः । प्रामादिक एवेति । दिवु धातोः क्विपि तुद्यू॑रिति स्यात् । ततः क्यचि तु द्यूयतीति भवति । क्विपं विहाय विचि कृते तूपधागुणो वलोपश्च स्यात् । ततः क्यचि तु देयतीति भवति । तथा चहलि चे॑ ति सूत्रे वृत्तावपिदातोरित्येव, नेह दिवमिच्छति दिव्यती॑त्येवोक्तमिति भावः । आपत्ययकारस्य लोपं स्मारयति — क्यच्व्योश्चेति ।नः क्ये॑ इति नियमेन पदत्वाऽभावात्कुत्वं नेत्याह — वाच्यतीति । एवंसमिध्यती॑ त्यत्र जश्त्वं नेति बोध्यम् ।मान्ताव्ययेभ्यः प्रतिषेधः॑ इति वार्तिकस्य यथा श्रुतव्याख्याने पुत्रमिच्छतीत्यत्रापि न स्यात् । पुत्रौ पुत्रान् वा इच्छतीत्यादावेव स्यात्, अतो व्याचष्टे — मान्तप्रकृतिकादिति ।", "14016": "", "14017": "<<स्वादिष्वसर्वनामस्थाने>> - स्वादिष्वसर्वनाम ।सु॑रत्र सप्तमीबहुवचनमिति न शङ्क्यम् , किंतुअसर्वनामस्थाने॑ इति पर्युदासात्प्रथमैकवचनमेव ।सुपी॑त्येव सिद्धे आदिग्रहणमधिकपरिग्रहार्थमित्याशयेनाह -कप्प्रत्ययावधिष्विति । नन्वेवं-राजे॑त्यत्र नलोपो न स्यात्प्रत्ययलक्षणेन सर्वनामस्थानपरतया पदत्वाऽभावात् । नैष दोषः । सौ परतःस्वादिषु॑ इत्यनेन पदत्वाऽसंभवेऽपि सुब्विशिष्टस्यसुप्तिङ्न्त॑मितित पदसंज्ञायां हल्ङ्यादिना सुलोपे एकदेशविकृतन्यायेन नकारान्तस्य पदत्वात् । यदि तुस्वादिषु॑ इतियोगेन स्वादिषु परेषु पूर्वं पदं भवतीति पूर्वस्य पदसंज्ञां विधाययचि भ॑मित्यत्रयची॑ति च्छित्त्वायजादौ सर्वनामस्थाने परतः पूर्वं पदं नेति निषिध्यते, तदा औजसादिषुपदसंज्ञाऽभावेऽपि सौ परतः पदत्वसंभवात्राजे॑त्यादौ नलोपे कार्ये न काप्यनुपपत्तिः ।", "14018": "<<यचि भम्>> - यचि भम् ।यची॑त्यल्ग्रहणेन सप्तमीनिर्देशात्तदादिविधिरित्याह-यकारादिष्वित्यादि । यकारादिषु किम् ।गार्ग्यः । वात्स्यः । गर्गादिभ्यो यञियस्येति चेत्यकारलोपो यथा स्यात् । असर्वनामस्थानेषु किम् । सुपादौ, सुपादः । विद्वांसौ, विद्वांसः । दित्यवाहौ , दित्यवाह इत्यादौपादः पत्वसोः संप्रसारणम्वाह ऊ॑डित्यादयो मा भूवन्निति ।", "14019": "", "14020": "", "14021": "<<बहुषु बहुवचनम्>> - बहुषु । अयमपि सङ्ख्यापर एवेत्याह — बहुत्व इति । बहुवचनं त्वाश्रयद्रव्यगतबहुत्वं धर्मे आरोप्य कृतम् । तत्फलं तुबहुः परव्त॑ इति वैपुल्यवाचिनो नेह ग्रहणमिति सूचनमेव । वस्तुतो व्यर्थं तत्, परत्वादेकवचनसंभवादिति शब्दकौस्तुभादौ स्थितम् । रुत्वविसर्गाविति । ननु रुत्वस्यासिद्धत्वादुकारस्येत्संज्ञालोपयोरभावात्स्थानिवदादेशः॑ इत्यस्यापि त्रिपाद्यामप्रवृत्त्या रेफान्तस्यसुप्तिङ्न्त॑मिति पदसंज्ञाऽभावेन विसर्गोऽत्र दुर्लभः । विसर्गविधेस्तुपुन॑रित्यादौ चरितार्थत्वादिति चेन्मैवम्,न मु ने॑ इति सूत्रेने॑ति योगं विभज्यअसिद्धं ने॑ति व्याख्यायामिष्टसिद्धिरित्युक्तत्वात् । राम इति । संज्ञाशब्दोऽयमव्युत्पन्न इति पक्षेऽर्थवत्सूत्रेण प्रातिपदिकसंज्ञा,करणाधिकरणयोश्चे॑त्याधिकारे घापवादेनहलश्चे॑ति घञा रमन्तेऽस्मिन्निति व्युत्पादने तुकृत्तद्धिते॑ति सूत्रेणेति विवेकः । अत्र केचित्परिश्कुर्वन्ति — ॒गन्धर्वः शरभो रामः सृमरो गवयः शशः । इत्यादयो मृगेन्द्राद्या गवाद्याः पशुजातयः इत्यमरोक्तया यदि पशुविशेषे प्रयुज्यते तदा रूढोऽयं रामशब्द इत्यर्थवत्सूत्रेण संज्ञा । यदा तु रामचन्द्रे भगवति प्रयुज्यते तदा रमन्ते योगिनोऽस्मिन्निति व्युत्पत्त्याश्रयणात्कृद्धितेति सूत्रेण संज्ञेति । सरूपाणामेकशेषः । इतरनिवृत्तिपूर्वकमवस्थानं शेषशब्दार्थः । न च विरूपेष्वेकशेषाऽप्रवृत्त्याघटकलशा॑विति द्वन्द्वापत्तिरिति शङ्क्यम्,वुरूपाणा॑मिति वार्तिकस्य वक्ष्यमाणत्वात् । वस्तुतस्तु सूत्राक्षरैरेव वार्तिकार्थो लभ्यते । रूप्यते बोध्यते । इति रूपमर्थः, समानं रूपं येषामिति सरूपाः । ज्योतिर्जनपदेत्यादिना समानस्य सभावः । तथा समानं रूपं स्वरूपं येषां ते सरूपाः । सरूपाश्च सरूपाश्च सरूपाः, तेषामित्येकशेषेण व्याख्यानात् । न च स्वाङ्गे स्वव्यापाराऽयोगो वाक्यापरिसमाप्तिन्यायादिति वाच्यम् ; उद्देश्यतावच्छेदकरूपाक्रान्ततया स्वस्मिन्नपि प्रवृत्तेः । अन्यथातुल्यास्यप्रयत्न॑मित्यादौ सवर्णदीर्घो न स्यात् । तथाऽर्थवत्सूत्रान्तर्गतानां प्रातिपदिकत्वं,प्रत्ययः॑परश्चे॑त्यत्र सुप्प्रत्ययः,ससजुषो॑रित्यत्र रुः,खरवसानयो॑रिति सूत्रे विसर्गश्च न स्यादिति सर्वोपप्लवः स्यात् ।स्वाध्यायोऽध्येतव्यः॑ इत्यस्यनेह नाने॑त्यादिश्रुतेश्च स्वस्मिन्नपि यथा प्रवृत्तिस्तथा दीर्घादीनामपीति चेत्तुल्यमेकशेषेऽपि । एतेनऐउ॑णित्यादौआद्गुणः॑ इत्यादिसन्धिकार्यं कुतो नेत्याशङ्कायाम् — ॒वर्णोपदेशकालेऽजादिसंज्ञानामनिष्पादात्सन्धिर्ने॑ति केषाञ्चित्समाधानं परास्तम् । वर्णोपदेशे इत्संज्ञायामत्प्रत्याहारे च निष्पन्ने प्रवर्तमानानां गुणादीनामुपेन्द्र इत्यादौ तटस्थ इव उद्देश्यतावच्छेदकरूपाक्रान्ते वर्णोपदेशादावपि प्रवृत्तेरावश्यकत्वात् । स्यादेतत् — ॒सरूपाणामेक एकविभक्तौ॑ इत्येव सूत्रमस्तु, किमनेनशेष॑ग्रहणेन । अत्राहुः — तथाहि सति सरूपाणां स्थाने एकोऽन्तरतम आदेशो भवतीत्यर्थः स्यात् । तथा चाआश्चाआश्चेत्यत्रोदात्तद्वयवतः स्थाने उदात्तद्वयवानादेशस्तथाऽनुदात्तद्वयवतः स्थानेऽनुदात्तद्वयवानादेशः प्रसज्येतेति । एकविभक्तौ यानीति । विभक्तिः सारूप्ये उपलक्षणं न त्वेकशैषे निमित्तम् । एवं चाऽनैमित्तिकत्वेनान्तरङ्गोऽयमेकशेषः सुबुत्पत्तेः प्रागेव प्रवर्तते । यद्योतन्नारभ्येत तर्हि प्रत्येकं विभक्तिः स्याद्द्वन्द्वश्च प्रवर्तते । आरब्धे त्वेकशेषेऽनेकसुबन्तविरहाद्द्वन्द्वस्य प्राप्तिरेव नास्तीति भावः । ननु सुबुत्पत्तेः प्रागेकशेषप्रवृत्तौ शिष्यमाणं यत्प्रातिपदिकं तदेकमेवार्थं बोधयतीति द्विवचनाद्यनुत्पत्तौरामौ॑र#आमा॑ इत्यादि न सिध्येत् । नैष दोषः, शिष्यमाणस्य लुप्यमानार्थाभिधीयित्वात् । अतएवकृत्तद्धितसमासैकशेषे॑त्येकशेषो वृत्तषु गण्यते । परार्थाभिधानं हि वृत्तिः । अतएव च लुप्तेऽपि प्रत्यये॒लिङ्॒धु॑गित्यादौ कर्ता प्रतीयत इति दिक् ।", "14022": "<<द्व्येकयोर्द्विवचनैकवचने>> - द्वयेकयोः । इहद्वयेक॑शब्दौ सङ्ख्यापरावित्यभिप्रेत्याह — द्वित्वैकत्वयोरिति । सङ्ख्येयपरत्वे तु बहुवचनं स्यादिति भावः ।", "14023": "", "14024": "<<ध्रुवमपायेऽपादानम्>> - ध्रुवमपाये ।ध्रु गतिस्थैर्ययोः॑ अस्मात्पचाद्यचि कुटादित्वान्ङित्त्वे उवङ् ।ध्रुव स्थेर्ये॑ इति केचित् । तत्रइगुपध — ॑इति कः । ध्रुवं स्थिरम् । अपायशब्देन विवक्षितमाह — विश्लेष इति । एवं च प्रकृतधात्वर्थाऽनाश्रयत्वे सति तज्जन्यविभागाश्रयो ध्रुवमिति फलितम् । तच्चाऽर्थादवधिरेवेत्याह — अवधिभूतमिति । धावत इति । इह धावनक्रियाविशिष्टस्याऽप्यआस्य प्रकृतपतनधातूपात्तक्रियां प्रत्यवधित्वं न विरुध्यते,परस्परस्मान्मेषावपसरतः॑ इत्यत्र तु सृधातुना गतिद्वयस्याप्युपादानादेकनिष्ठां गतिं प्रति इतरस्याप्यपादानत्वं न विरुध्यते । उक्तं च हरिणा — ॒अपाये यदुदासीनां चलं वा यदि वाऽचलम् । ध्रुवमेवाऽतदावेशात्तदपादानमुच्यते । पततो ध्रुव एवास्वो यस्मादआआत्पतत्यसौ । तस्याप्यआस्य पतेन कुडआदि ध्रुवमिष्यते । मेषान्तरक्रियापेक्षमवधित्वं पृथकं पृथक् । मेषयोः स्वक्रियापेक्षं कर्तृत्वं च पृथक् पृथक्॥ इति ।पर्वतात्पततोऽआआत्पतती॑त्यत्र तु पर्वतावधिकपतनाश्रयो योऽआस्तदवधिकं देवदत्तादिनिष्ठं पतनमर्थः, पञ्चम्यर्थाऽवधौ अभेदेन संसर्गे प्रकृत्यर्थः परवतादिर्विशेषणम्, प्रत्ययार्थस्तु पतनक्रियायाम्, स चाऽवधिरूपो धर्मी, न तु धर्ममात्रम्,उद्धृतौदन स्थाली॑ त्यात्रौदनकर्मकोद्धरणावधिभूता स्थालीति सामानाधिकरण्यदर्शमात् । एतच्च मनोरमायां स्थितम् । नन्विह ध्रुवग्रहणं किमर्थम् । न चग्रामादागच्छति शकटेने॑त्यत्र शकटेऽतिव्याप्तिवारणाय तदिति वाच्यम्, परत्वात्तत्र करणसंज्ञाप्रवृत्तेः । न च संज्ञिनिर्देशार्थं ध्रुवग्रहणम्, कारकाऽधिकारात् कारकमिति लभ्यत इति ध्रुवग्रहणं चिन्त्यप्रयोजनमिति चेत् । अत्र वदन्ति — कारकत्वरूपव्यापकधर्ममात्रविवक्षायां साधकतमत्वेन विवक्षाऽभावदशायां करणसंज्ञाप्रसङ्गेन शकटस्याऽपादानत्वं स्यात्तन्मा भूदित्येतदर्थं ध्रुवग्रहणमिति ।जुगुप्साविरामप्रमादार्थानासुपसंख्यानम् । जुगुप्सेति । जुगुप्सा-निन्दा, विरमो विरतिः, प्रमादोऽनवधानता, एतदर्थकानां धातूनां कारकमपादानसंज्ञं स्यादित्यर्थः । संयोगपूर्वको विश्लेषो विभागः, स चेह नास्ति, बुद्धिकृतस्तु गौणत्वान्नेह गृह्रत इति सूत्रेणाऽप्राप्तौ वार्तिकारम्भः । भाष्याकारस्तु — कारकप्रकरणे गौणमुक्यन्यायो नाश्रीयत इति तमब्ग्रहणेन ज्ञापितत्वाज्जुगुप्सादीनां तत्पूर्वकनिवृत्तिवाचित्वामाश्रित्येदं वार्तिकं,भीत्रार्थानाम् -॑इत्यादि सूत्राणि च प्रत्याचख्यौ । पूर्वं हि बुद्द्याऽपायं संप्राप्य ततो दोषदर्शनान्निवर्तत इत्यस्त्येवाऽत्र बुद्धिकृतोऽपायः ।", "14025": "<<भीत्रार्थानां भयहेतुः>> - भीत्रा ।कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे॑ इति रामायणे तुकस्ये॑ त्यस्य संयुगेनान्वयान्नास्ति भयहेतुत्वमिति षष्ठीप्रयोगः सङ्गच्छत एव । न चैवं संयुगस्याऽपादानत्वापत्तिरिति वाच्यम् । परया अधिकरणसंज्ञया अपादानसंज्ञा[या]बाधात् । अधिकरणत्वाऽविवक्षायां तु इष्टापत्तेः । भीत्रार्थेति किम् । व्याघ्रं पश्यति । न च कर्मत्वेन बाधः शङ्क्यः, कर्मत्वाऽविवक्षायां शेषषष्ठीं बाधित्वा पञ्चमी प्रसङ्गादित्याहुः । भयतहेतुग्रहणं चिन्त्यप्रयोजनम्, अरण्ये बिभेतीत्यत्र परत्वादधिकरणसंज्ञाप्रवृत्तेरिति चेत्, अत्र वदन्ति — भयहेतुग्रहणाऽभावे कारकशेषत्वविवक्षायामतिप्रसङ्गः स्यात् । तथा च अरण्यस्य चोराद्बिभेतीति प्रयोगो न स्यादिति ।", "14026": "<<पराजेरसोढः>> - पराजेः । अध्ययनादिति । अध्ययनसंबन्धिनी ग्लानिरित्यर्थः । कारकशेषत्वेन षष्ठ्ंया प्राप्तायामिदम् । पराजयत इति । विपराभ्यां जेः इति तङ् । असोढ इति क्तार्थो भूतकालो न विवक्षितः । तेनाऽध्ययनात् पराजेष्यत इत्यादि सिद्धम् । नन्वसोढग्रहणं व्यर्थं, शत्रून् पराजयत इत्यत्र परत्वात् कर्मसंज्ञासिद्धेः । अत्रापि वदन्ति - कर्मत्वाऽविवक्षायां शेषषष्ठीं बाधित्वा पञ्चमी स्यात्, सा मा भूदिति कर्तव्यमेवाऽसोढग्रहणमिति ।", "14027": "<<वारणार्थानां ईप्सितः>> - वारणार्था । यवेभ्य इति । यवसंयोगात्प्रागेव गां निवारयतीतिध्रुवमपाये -॑इत्यनेनाऽसिद्धावयमारम्भः । बुद्धिपरिकल्पिताऽपायमङ्गीकुर्वातो भाष्यकारस्य मते तु वैयथ्र्यमेतस्य स्फुटमेव । गां वारयतीति ।वृञ् वरणे॑ चुरादिः ।गा॑मित्यत्र ईप्सितत्वप्रयुक्ताऽपादानसंज्ञा न भवति.ईप्सिततमत्वविवक्षायां परत्वात्कर्मसंज्ञाप्रवृत्तेः । नन्वेवमीप्सितग्रहणमेव व्यर्थं, क्षेत्रे वारयतीत्यत्र परत्वादधिकरणसंज्ञाप्रवृत्तेः । सत्यम । अधिकरणस्य शेषत्वविवक्षायामिदं प्रत्युदाहरणमिति पूर्वोक्तरीत्या पदप्रयोजनस्येहापि कल्पयितुं शक्यत्वात् ।", "14028": "<<अन्तर्द्धौ येनादर्शनमिच्छति>> - अन्तर्धौ । येनेति कर्तरि तृतीया । न च कृद्योगषष्ठीप्रसङ्गः,उभयप्राप्तौ कर्मण्येवे ति नियमात् । अत्र ह्रात्मन इति गम्यमानत्वादस्त्युभयोः प्राप्तिः । निलीयत इति ।लिङ् श्लेषणे॑ दैवादिकः । नन्वन्तद्र्धाविति व्यर्थं,न दिदृक्षते चोरो नित्यत्र परत्वात्कर्मसंज्ञासिद्धेः । अत्राहुः — चोराः आत्मानं मा द्राक्षुरिति बुद्द्या चोरन्न दिदृक्षत इत्ययमर्थोऽत्र विवक्षितस्तत्र कर्मणः शेषत्वविवक्षायामिदं पूर्ववत्प्रत्युदाहरणमिति । शब्दकौस्तुभे तुअन्तर्धौ॑ इत्येतच्चिन्त्यप्रयोजनमिति स्थितम् ।", "14029": "<<आख्यातोपयोगे>> - आख्यातोप । नयमपूर्वकेति । तत्रैवोपयोगशब्दो रूढ इति भावः । आख्यातेत्येतत्तृजन्तमित्याह -वक्तेति । उपाध्यायादिति । उपेत्य अस्मादधीयत इति उपाध्यायः,इङश्च॑इति घञ् । अध्ययनं तु गुरुच्चारणोत्तरोच्चरणं नियमपूर्वकम् । नटस्येति । गाथाकर्मकं नटसंबन्धि श्रवणमित्यर्थः । नटस्य गाथाऽन्वये तु कारकत्वाऽभावादेवाऽप्राप्तेरुपयोगग्रहणम् समर्थितं स्यात् ।", "14030": "<<जनिकर्त्तुः प्रकृतिः>> - जनिकर्तुः । जननं जनिः — उत्पत्तिः ।इञजादिभ्यः॑इति जनेर्भावे इञ् ।जनिवध्योश्च॑इति वृद्धिप्रतिषेधः । तस्याः कर्तेति शेषषष्ठआ समासो, न तु कारकषष्ठआ,॒तृताभ्याम् -॑इति यथा । तदेतदाह — जायमानस्येति । एतेनइक्श्तिपौ धातुनिर्देशे॑इति इका निर्देशोऽयं जनिरित्याश्रित्यगमहन -॑ इत्युपधालोपमर्थाऽसङ्गतिं समासानुपपतिंत चोद्भाव्य व्याकरणाधिकरणे जरन्तो मीमांसकाः समाहिता इति भावः । इह प्रकृतिग्रहणं हेतुमात्रपरमिति वृत्तिकृन्मतम्,पुत्रात् प्रमोदो जायते॑ इत्युदाहरणात् । उपादानमात्रपरमिति तु भाष्यकैयटमतं, तदुभयसाधारणमुदाहरणमाह — ब्राहृण इति । ब्राहृआ=हिरण्यगर्भ- । स च हेतुरेव न तूपादानम् । किंच मायोपहितं चैतन्यं ब्राहृ, तद्धि सर्वकार्योपादानमिति वेदान्तसिद्धान्तः ।", "14031": "<<भुवः प्रभवः>> - भुवः । भुवनं भूरिति । संपदादित्वाद्भावे क्विप् । पूर्वसूत्रे समासनिर्द्दिष्टमपि कर्तृग्रहणमनुवर्तते, स्वरितत्वादित्याह -भूकर्तुरिति । प्रभवत्यस्मादिति प्रभवः,अकर्तारि च कारके॑ इत्यधिकारादपादानार्थेॠदोरप् । जनिकर्तुरित्येव सिद्धे निरर्थकमिदमित्याशङ्कां परिहरन्नाह — तत्र प्रकाशत इति । प्रथमं दृश्यत इत्यर्थः । एष चाऽर्थो धातूनामनेकार्थत्वाल्लभ्यते । तथा चाऽभूतप्रादुर्भावो जनिः । अन्यतः सिद्धस्य प्रथममुपलम्भः प्रभव इत्यर्थभेदोऽस्तीति भावः ।भीत्रार्थानाम् -॑ इत्यारभ्येयं सप्तसूत्री भाष्ये प्रत्याख्याता । तत्रेत्थमुपपत्तिसंभवः -चौरेभ्यो बिभेति, भयान्निवर्तत इत्यर्थः । त्रायते=रक्षणेन चौरेभ्यो निवर्तयतीत्यर्थः । पराजयते=ग्लान्या निवर्तत इत्यर्थः । वारयति । प्रवृतिंत प्रतिबन्धन्निवर्तयतीत्यर्थः । निलीयते=निलयनेन निवर्तत इत्यर्थः । अधीते=उपध्यायान्निः सरन्तं शब्दं गृङ्णातीत्यर्थः । ब्राहृणः प्रपञ्चो जायत इत्यत्रापि ततोऽपकामति । निर्गच्छतीत्यर्थः । प्रभवतीत्यत्रापि भवनपूर्वकं निःसरणमर्थः । तथा चध्रुवमपाये -॑ इत्येनेनैवेष्टेरूपसिद्धिरिति । वस्तुतस्तु निवृत्तिनिस्सरणादिधात्वन्तरार्थविशिष्टे स्व#आर्थे वृत्तिमाश्रित्य यथाकथंचुदिक्तप्रयागाणां समर्थनेऽपि मुख्यार्थपुरस्कारेण षष्ठीप्रयोगो दुर्वारः, — नटस्य शृणोतीतिवत् । न ह्रुपध्यायनटयोः क्रियानुकूलव्यापाराशे विशेषो वक्तुं शक्यः । अनभिधानब्राहृआस्त्रमाश्रित्य प्रत्याख्यानं तु नाऽतीव मनोरमम् । एवंजुगुप्साविरामे॑त्यादिवार्तिकमप्यारम्भणीयम् । तथा च सूत्रवार्त्तिकमतमेवेह प्रबलम् । तथाध्रुवं॑भयहेतुः॑असोढः॑ इत्यादिसंज्ञिनिर्देशोऽपि सार्थकः । परत्वात्तत्तत्संज्ञाप्राप्तावपि शेषत्वविवक्षायांन भाषाणामश्रीयात् इत्यादाविव षष्ठआ इष्टतया तत्रापादानसंज्ञाया वारणीयत्वात् । एतच्च शब्दकौस्तुभे स्पष्टम् ।ल्यब्लोपे कर्मण्यधिकरणे च । ल्यब्लोप इति । ल्यबन्तस्य गम्यमानार्थत्वलादप्रयोग इत्यर्थः । ल्यब्ग्रहणमिह ल्यबर्थपरम् । तेन क्त्वोऽपि लोपे सिध्यति । आसने स्थित्वा प्रेक्षते, — — आसनात्प्रेक्षते, -आसनात्प्रेक्षते इति ।यतश्चाऽध्वकालनिर्माणं तत्र पञ्चमी॥ यतश्चेति । यदवधित्वेनाश्रित्याद्वनः कालस्य वा निर्माणं=परिच्छेदः प्रतिपाद्यते ततः पञ्चमीत्यर्थः । तेन पञ्चम्यन्तार्थेनार्थद्वारा युक्तान्निर्मीयमाणाध्ववाचिनः प्रथमासप्तम्यौ स्तः ।कालात्सप्तमी च वक्तव्या । कालादिति । इहापि तद्युक्तादित्यपेक्ष्यते । आग्रहायणीति । अग्रे हायनमस्याः सा । प्रज्ञादेराकृतिगणत्वात्स्वार्थिकोऽण् ।पूर्वपदात्संज्ञायाम् इति णत्वम् । अन्यारा । अर्थग्रहणमिति । व्याख्यानादिति भावः । प्रपञ्चार्थमिति । न चइतरस्त्वन्यनीचयोः॑ इत्यमरोक्तेर्नीचार्थस्येदं ग्रहणमस्तीति वाच्यम्,अस्मात्तारो मन्द्रो वा॑ इतिवत्पञ्चमी विभक्ते॑ इत्यनेनैव सिद्धत्वात् ।", "14032": "<<कर्मणा यमभिप्रैति स सम्प्रदानम्>> - कर्मणा । महासंज्ञाकरणमन्वर्थसंज्ञाविधानार्थम् । सम्यक् प्रदीयतेऽस्मै तत्संप्रदानमिति । अत एवाह -दानस्येति । दानक्रियाकर्मणा कर्ता यमभिप्रैति सम्बन्ध्नाति, सम्बन्द्धुमीप्सति वा तस्कारकं सम्प्रदानसंज्ञकमित्यर्थः । तेनअजां नयति ग्रामं॑हस्तं निदधाति वृक्षे॑ इत्यादौ नाऽतिप्रसङ्गः । दानं चाऽनुपुनग्र्रहणाय स्वस्वत्विनिवृत्तिपूर्वकं परस्वत्वोत्पादनम् । अतएवरजकस्य वस्त्रं ददाती॑त्यादौ न भवति । तत्र हि ददातिर्भाक्तः । एतच्च वृत्तिमतम् । भाष्यमते तु नाऽन्वर्थतायामाग्रहःखण्डिकोपाध्यायः शिष्याय चपेटां ददाति॑ इत्यादिप्रयोगात् ।राजकस्य ददाती॑ति प्रयोगस्तु शेषत्वविवक्षायां भविष्यति । न चैवमजां नयति ग्राममित्यादावतिप्रसङ्गः शङ्क्यः, अजां प्रति ग्रामस्य शेषित्वाऽभावात् ।यमभिप्रैती॑त्युक्त्या हि यमिति निर्दिष्टस्य शेषित्वं, कर्मणश्च शेषत्वं लभ्यते, गां प्रति तु विप्रस्य शेषित्वमस्तीति भवति तस्य संप्रदामसंज्ञा । अत्र अभि प्र एतीत्येतत्पदत्रयं, न तु समासः ।॑ उदात्तवता गातिमता च तिङा गतेः समासो वक्तव्यः॑ इति वार्तिकस्य छन्दोविषयत्वादिति हरदत्तः । भाषाविषयत्वे तुयत्प्रकुरुते॑ इत्यादौ समासत्वात्सोर#उत्पत्तिः स्यात् । लिङ्गसर्वनाम नपुंसकतामभ्युपेत्यस्वमोर्नपुंसकात् इति लुकि कृतेऽपिह्रस्वो नपुंसके -॑ इति ह्रस्वः स्यात्,यत्प्रकुर्वीर॑न्नित्यत्र तु नलोपः स्यात्, तस्मादुक्तवार्तिकस्य छन्दोविषयत्वंयुक्तमेव । दानीय इति । बाहुलकात्संप्रदाने अनीयरि । क्रिययेति । क्रियायाः कृत्रिमाकर्मत्वाऽभावात्तया अभिप्रेयमाणस्य सूत्रेण संज्ञा न प्राप्नोतीति वचनम् । एतच्चक्रियार्थोपपदस्य च कर्मणि स्थानिनः॑ इत्यनेन सिद्धम् ।पत्ये शेते॑ इत्यादौ पतिमनुकूलयितुं शेते इत्याद्यर्थाभ्युपगमे वाधकाऽभावात् । भाष्यकारमते तुकर्मणा यमभिप्रैति॑ इति सूत्रेणैव सिद्धम्,संदर्शनप्रार्थनाऽध्यवसायैराप्यमाणत्वात्क्रियापि कृतिंरमं कर्म॑ इति तैरुक्तत्वात् । नचैवमपि ददातिकर्मत्वाऽभावात्क्रियया यमभिप्रैति॑ इत्येतद्वचनं कर्तव्यमेवेति वाच्यम्, भाष्येऽन्वर्थसंज्ञात्बस्वोकारात् । नन्वेनं कटं करोति, ओदनं पचतीत्यादावपि संप्रदानत्वप्रसङ्गस्तथा च वचनद्वयबलात्कर्मसंप्रदानयोः पर्यायत्वेकटाय करोती॑त्याद्यनिष्टप्रयोगोऽपि स्यादिति चेत् । अत्राहुः — ॒पत्ये शेते॑ इत्यकर्मकस्थले सावकाशायाः संप्रदानसंज्ञायाः निरवकाशया कर्मसंज्ञया बाधितत्वान्नैवाऽनिष्टप्रसक्तिः । न चैवंगत्यर्थकर्मणि द्वितीयाचतुथ्र्यौ -॑ इति सूत्रमावश्यकमेवेति तत्प्रत्याख्यानं भाष्यस्थं न सङ्गच्छत इति वाच्यम् । भाष्ये तत्प्रत्याख्यानस्य प्रौढिवादमात्रत्वादिति दिक् । स्यादेतत् -दानस्य तदर्थत्वात्तादर्थ्ये चतुर्थी सिद्धैव किमनया संप्रदानसंज्ञया । मैवम् । दानक्रियार्थं हि संप्रदानं न तु दानक्रिया तदर्था । कारकाणां क्रियार्थत्वात् ।कर्मणः करणसंज्ञा संप्रदानस्य च कर्मसंज्ञा । कर्मणः करणसंज्ञेत्यादि । छन्दसमेतत् । अत एवेदं सुब्व्यत्यत्येन सिद्धत्वादिति प्रत्याख्यायते ।", "14033": "<<रुच्यर्थानां प्रीयमाणः>> - रुच्यर्थानाम् । रुचिरर्थो येषां ते रुच्यर्थास्तेषाम् । प्रीयमाणा इति ।प्रीञ् तर्पणे अस्मात्कर्मणि लिट् । हरये रोचत इति । हरिं प्रीणयतीत्यर्थः । कर्मसंज्ञायां प्राप्तायां वचनम् । यद्यपि रुचिर्दीप्तावपि पठ्यते, तथापीह दीप्तिर्न विवक्षितेत्याह -अन्यकर्तृकोऽभिलाष इति । अत एव आदित्यो रोचते दिक्षु इत्यत्र दीप्त्यर्थे संज्ञा न भवति । हरिनिष्ठप्रीतेरिति । एतेन अन्यकर्तृकत्वमिह प्रीत्याश्रयाऽन्यकर्तृकत्वमित्युक्तं भवति । मोदकः पथीति । देवदत्तस्यैव प्रीयमाणत्वं न तु पथ इति न तस्य संप्रदानत्वम् । प्रीयमाणपदाऽभावे तु पथोऽपि स्यादिति भावः ।", "14034": "<<श्लाघह्नुङ्स्थाशपां ज्ञीप्स्यमानः>> - श्लाघह्नुङ् ।श्लाघृकत्थने,॑ह्नुङ् अपनयने॑ष्ठा गतिनिवृत्तौ,॒॑शप उपलम्भे॑ । कृष्णाय श्लाघत इति । अस्मस्तु पक्षे शेष षष्ठआं प्राप्तायां वचनम् । ह्नुतीति । सपत्नीभ्यः कृष्णं ह्नुवाना तमेवाऽर्थं कृष्णं बोधयतीत्यर्थः । यस्य कस्यचिथ्नुति बोधयतीति वा । तिष्ठत इथि । स्थित्या स्वाभिप्रायं कृष्णं बोधयतीत्यर्थः ।प्रकाशनस्थेयाख्ययोश्चे ॑ति तङ् । शपत इति । उपालम्भेन स्वाभिप्रायं कृष्णं बोधयतीत्यर्थः ।शप उपालम्भे॑ इति तङ् ।", "14035": "<<धारेरुत्तमर्णः>> - धारेरुत्तमर्णः ।धृङ् अवस्थाने॑ । हेतुमण्ण्यन्तः । उत्तमर्णो=धनस्वामी । अर्तेः क्तः । ऋणम् । ऋणमाधमण्र्ये इथ्यत्र व्यवहारविशेषोपलक्षणार्थमाधमण्र्यग्रहणमिति व्याख्यानादुत्तमर्णेऽपि निष्ठानत्वं भति । अस्मादेव निपातनादत्र बहुव्रीहौ निष्ठान्तस्य परनिपातो बोध्यः । भक्तायेत्यादि । इह भक्त उत्तमर्णो, हरिरधमर्णः । धृङोऽकर्मकत्वादणौ कर्तुर्मोक्षस्य णौ कर्मत्बम् । शतं धारयति ग्राम इति । परत्वादिहाऽधिकरणसंज्ञा भविष्यतीति चेदुत्तमर्णेऽपि तर्हि हेतुसंज्ञा स्यादिति हरदत्तः ।ततश्चोत्तमर्णग्रहणाऽभावे हेतुसंज्ञाया इवाधिकरणसंज्ञाया अप्ययमपवादः स्यात्तद्वारणयोत्तमर्णग्रहणमिति भावः । एवं च कृतेऽप्युत्तमर्णग्रहणेतत्प्रयोजको हेतुश्च॑ इति हेतुसंज्ञायां प्राप्तायां तद्बाधनार्थमिदं संप्रदानसंज्ञावचनमिति निष्कर्षमाहुः । मनोरमायां तु षष्ठआं प्राप्तायामिदं वचनमिति स्थितम् ।", "14036": "<<स्पृहेरीप्सितः>> - स्पृहेरीप्सितः ।स्पृह ईप्सायां॑ चुरादावदन्तः, तेन स्पृहयतीत्यत्र लघूपधगुणो न । परत्वादिति । तेन॒परस्परेण स्पृहणीयशोभम्, स्पृहणीयगुणैर्महात्मभिः॑ इत्यादौ कर्मण्यनीयर् सिध्यति । शेषत्वविवक्षायां तुकुमार्य इव कान्तस्य त्रस्यान्ति स्पृहयन्ति च ॑ इत्यत्र षष्ठपि सिध्यतीति हरदत्तादयः । वाक्यपदीयहेलाराजीयग्रन्थयोस्तु स्पृहयतियोगे कर्मसंज्ञायाः शेषषष्ठआश्च बाधिकेयं संप्रदानसंज्ञेति स्थितम् । युक्तम चेतत् -॒क्रियया यमभिप्रैति -॑ इत्यनेनैवेष्टसिद्धेस्पृहेरीप्सितः॑इत्येत्सूत्रस्य हरदत्तादिमते वैयथ्र्यप्रसङ्गात् । तस्माद्वाक्यपदीयादिग्रन्थानुरोधेनपरस्परेण स्पृहणीयशोभम् इत्यादौदानीयो विप्रः॑ इतिवद्बाहुलकात्संप्रदानेऽनीयरिति व्याख्येयम् ।कुमार्य इव कान्तस्य॑ इथ्यत्र तु त्रस्यन्तीत्येतदर्थतया कृतार्थस्य कान्तस्येति षष्ठन्तस्य विभक्तिविपरिणामेनकान्ताय स्पृहयन्ती॑ति व्याख्येयमिति केचित् ।", "14037": "<<क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः>> - क्रुधे क्रोधे, द्रुह जिघांसायाम्, ईर्ष्य ईर्ष्यायाम्, असूयतिः कण्ड्वादियगन्तः, एषामर्थ इवार्थे येषां धातूनामित्यर्थः । द्रोहोऽपकार इति । द्रुह द्रोहे इति पाठाभिप्रायेणोक्तं, जिघांसाद्रोह एवेत्यर्थतोऽनुभाषणं वा । अक्षमेति । परसंपत्त्यसहनमित्यर्थः । क्रुधद्रुहोरकर्मकत्वात्तद्योगे षष्ठी प्राप्ता, अन्ययोस्तु सकर्मकत्वाद्द्वितीया प्राप्ता । ननु चित्तदोषार्थानामित्येवास्तु, किं क्रोधादीनां विशिष्योपादानेनेति चेदत्राहुः — द्विषादावतिप्रसङ्गवारणाय विशिष्योपादानम् । तेन योऽस्मान्द्वेष्टि यं च वयं द्विष्मः इत्यत्र चतुर्थी न भवति । तत्र ह्यनभिनन्दनं द्विषेरर्थः । अत एवाऽचेतनेषु न प्रयुज्यते — औषधं द्वेष्टि देवदत्त इति । कोपप्रभवा एवेति । कथं तर्हि कुप्यसि कस्मैचिदिति । न हि कोपः कोपप्रभवः । अत्र व्याचख्युः — कुपिरत्र द्रोहार्थ इति । पत्ये शेते इतिवत् 'क्रियया यम्' इत्येव सिद्धे क्रुधद्रुहोर्ग्रहणं चिन्त्यप्रयोजनमित्याहुः ।", "14038": "", "14039": "<<राधीक्ष्योर्यस्य विप्रश्नः>> - राधीक्ष्योः । राध संसिद्धौ,ईक्ष दर्शने । अनयोस्त्विह शुभाऽशुभपर्यालोचनमर्थस्तञ्च प्रश्नपूर्वकमित्याशयेन विवृणोति — पृष्टो गर्ग इति । शुभाऽशुभरूपयोः कर्मणोर्धात्वर्थेनोपसंग्रहादकर्मकावेतौ । अतएव राध्यतीति श्यन्, राधोऽकर्मकाद्वृद्धावेव इति दिवादिषु वक्ष्यमाणेन गणसूत्रेण अकर्मकादेव तद्विधानात्, कृष्णसम्बन्धि शुभाऽशुभमित्यर्थाभ्युपगमात् षष्ठ्यां प्राप्तायां वचनमिदम् ।", "14040": "", "14041": "<<अनुप्रतिगृणश्च>> - अनुप्रति ।गुण॑ इति श्रान्तस्यानुकरणशब्दात्षष्ठी । प्रत्याङ्भ्याम् -॑इति पूर्वसूत्रे द्विवचननिर्देशात्प्रत्येकमेव धातुसम्बन्ध इथि निर्धारिते तत्साहचर्यादिहापि प्रत्येकमेव धातुसम्बन्ध इति सूचयन्नाह -आभ्यां गृणातेरिति । होत्रे इति । कर्मत्वे प्राप्ते वचनम् ।", "14042": "<<साधकतमं करणम्>> - साधकतमं करणम् । प्रकृष्टेति । यद्द्यापारानन्तरं फलनिष्पत्तिस्तत्पर्रकृष्टम् । उक्तञ्च — — ॒क्रियायाः फलनिष्पत्तिर्यद्द्यापारादनन्तरम् । विवक्ष्यते यदा यत्र करणं तत्तदा स्मृतम्इति ।विवक्ष्यते॑इत्यनेन स्थाल्यादीनामपि करणत्वमस्तीति सूचितम् । आह च — ॒वस्तुतस्तदनिर्देश्यं न हि वस्तु व्यवस्थितम् । स्थाल्या पच्यत इत्येषा विवक्षा दृश्यते यतः॑इति । अयं भावः — कारकत्वं तद्द्यप्यकर्तृत्वादिषट्कं च वस्तुविशेषे विशेषणविशेष्यभाववन्न नियतं, किन्तु वैवक्षिकम् । न हिगौः सर्वं प्रति गौरवे, न तु कञ्चित्प्रत्यगौः॑ इति वद्विशेषणं सर्वं प्रति विशेषणमेवेति वक्तुं शक्यम् । तथाच कया धातुव्यक्त्या उपस्थापितेऽर्थे किं कत्र्रादिकमिति प्रश्नेप्रकृतधातुव्यक्त्युपात्तव्यापाराश्रयतया विवक्षितः कर्ता, व्यापारव्यधिकरणफलाश्रयः कर्म, कर्तृकर्मद्वारकसम्बन्धेन व्यापारस्य फलस्य वा आश्रयोऽधिकरण॑मिति स्थितम् । पच्यर्थो व्यापार श्चाऽनेकधा । एवञ्च पचेरधिश्रयणतण्डुलावपनैधोपकर्षणादितात्पर्यकत्वे तदाश्रयो देवदत्तः कर्ता, ज्वलनातात्पर्यकत्वे एधाः कर्तारः, तण्डुलधारणादिपरत्वे स्थाली कत्रीं, अवयवविभागादिपरत्वे तण्डुलाः कर्तारः ।स्थाल्या पचती॑त्यत्र तृतीयोपात्तव्यापाराश्रयाऽपि स्थाली करणमेव, नतु कत्र्री, देवदत्तादिव्यापारास्यैव तद्धातीपात्तत्वात्, तथा आदिखादिभ्यामुपात्तेऽर्थे प्रयोज्यः कर्ता, तस्मिन्नेवार्थे भक्षयतिनोपात्ते प्रयोज्यः कर्म । अधिपूर्वैः शीहादिभिरुपात्तेऽर्थे आधारः कर्म, केवलैरुपात्ते अधिकरणामित्यादि ज्ञेयम् । एतेन ज्ञानस्य स्वप्रकाशत्वे कर्तृकर्मविरोध इति केषाञ्चिदुक्तिः परास्ता । यद्धातूपात्तक्रियायां यदा यस्त स्वातन्त्र्यं विवक्ष्यते तदा तत्क्रियायां स कर्ता, यदुपात्तया कर्तुऋ क्रियाया यदा आप्तुमिष्टतमत्वेन यद्विवक्ष्यते तदा तत्कारकं तत्क्रियायां कर्मेत्येव शब्दविशेषपाधिकस्य कर्तृत्वादेः प्रत्यक्षे उक्तिसम्भवाऽभावात् । यत्तुत केचित्परसमवेतक्रियाजन्यफलशालित्वं कर्मत्वं चेत्वृक्षात्पर्णं पतती॑त्यादौ स्वसमवेतक्रियाजन्यविभागादिफलशालिनि कर्तर्यतिव्याप्त्यभावेऽप्यापादानेऽतिव्याप्तिः स्यादेव । अतश्च धात्वर्थताव्च्छेदकफलशालित्वं कर्मत्वमित्येवाभ्युपगन्तव्यम् । एवञ्च सतिग्रामं गच्छती॑त्यादिसकर्मकेषु गमनजन्यसंयोगादाविष्टाऽनुरोधेने धात्वर्थतावच्छदकत्वेऽभ्युपगतेऽपि,वृक्षात्पतती॑त्याद्यकर्मकेषु पतनाद#इजन्यविभागादौ तदवच्छेदकत्वाऽकल्पनान्नापादानेऽतिव्याप्तिः, नवा॒ ग्रामं गच्छती॑त्यादौ कर्तर्यतिव्याप्तिः,संयोगादिफलजनकीभूतधात्वर्थस्य परसमवेतत्वविशेषणात्कर्मत्वेनाभिमतं यत्तद्भिन्नस्य परशब्देनाऽत्र विवक्षितत्वादित्याहुः । तदप्येतेन प्रत्युक्तम् ।ग्रामं गमयति देवदत्त॑मित्यादौ गन्तर्यव्याप्तेः । णिजर्थप्रेरणाजन्यप्रयोज्यव्यापारे गमनादौ धात्वर्थतावच्छेदकत्वाऽभावात् । तत्त्वाभ्युपगमे तुदेवदत्तेन पाचयती॑त्यादौ प्रयोज्यकर्तर्यतिव्याप्तेः ।गतिबुद्धी॑त्यादिशास्त्राभ्युपगमं विना क्वचित्प्रयोज्यकर्तरि क्रमत्वं, क्वचित्तु कर्तृत्वमिति निर्धारयितुमशक्यत्वात् ।ह्मक्रोरन्यतरस्या॑मिति शास्त्रमन्तरेणहारयति कारयति वा कटं भृत्येन भृत्य॑मित्यत्र वैकल्पिककर्मत्वस्य दुरुपपादत्वाच्च । एतादृशेषि वैयाकरणोक्त्यैव निर्वाह इति चेत्, तर्हिआकडारादेका सञ्ज्ञा, या पराऽनवकाशा चे॑त्यक्त्वान्निरवकाशया अपादानसंज्ञया सावकाशायाः कर्मसञ्ज्ञाया बाधान्नोक्तातिव्याप्तिरिति किमनेनधात्वर्थतावच्छेदके॑त्यादि परिश्रमेण । स्यादेतत् — ॒आत्मानमात्मना वेत्सि सृजस्यात्मानमात्मने॑त्यादिप्रयोगः कथं सङ्गच्छते, एकस्यैव वस्तुनो युगपदेकक्रियानिरूपितकर्तृत्वकर्मत्वादेरसम्भवात्, परया कर्तृसञ्ज्ञया कर्मकरणादिसञ्ज्ञाया बाधात् । नैष दोषः । अहङ्काराद्युपधिभेदेनात्मनोऽपि बेदमाश्रित्यआत्मानमात्मना हन्ति॑इत्यादिप्रयोगस्याकरे समर्थितत्वात् । ननुसाधकं करण॑मित्येवास्तु, कारकाधिकारादिह कारकमिति वर्तते, साधकं कारकं हि पर्यायः, तथा चोभयोपादानेन प्रकर्षो लभ्यत इत्याशयेन पृच्छति -तमब्ग्रहणं किमिति । इतरस्तु कारकप्रकरणे गौणमुक्यन्याय एतत्सूत्रादन्यत्र न प्रवर्तत इति ज्ञापनाय तमब्ग्रहणमित्याशयेन ज्ञापनफलमुदाहरति -गङ्गायां घोष इति । उक्तज्ञापनाऽनङ्गीकारे त्विहाधिकरणसञ्ज्ञा न स्यात् । तिलेषु तैलं, दधनि सर्पिरित्यादौ मुख्याधारे तस्याश्चरितार्थत्वादिति भावः । अत्र व्याचख्युः — यदा च तीरधर्म आधारत्वं सामीप्यात्प्रवाहे उपचर्यते तदेदं प्रयोजनम्, यदा तु गङ्गाशब्द एव तीरे वर्तते तदा तु न प्रयोजनम्, तीरस्य मुख्याधारत्वात् । तत्रा द्यपक्षे विभक्तिर्लाक्षणिकी,द्वितीये तु प्रकृतिर्लाक्षणिकीत्यादि ।", "14043": "<<दिवः कर्म च>> - द्विद्रोणेनेति । द्वयोद्र्रोणयोः समाहारो द्विद्रेणम् । पात्रादित्वात्स्त्रित्वाऽभावः । द्रोणद्वयसम्बन्धि धान्यमित्यर्थः । इह षष्ठी प्राप्ता । द्विद्रोणपरिमितधान्यार्थे मूल्ये द्विद्रोणशब्दः, तस्य च क्रयं प्रति करणत्वमितीहापि तृतीया सिद्धेति दिक् । चादिति । करणशब्दानुवृत्त्या,परिक्रयणे संप्रदानमन्यतरस्या॑मित्युत्तरसूत्रस्थाऽन्यतरस्याङ्ग्रहणापकर्षणेन वा संज्ञयोः पर्यायत्वे लब्धे चग्रहणं समुच्चयार्थम् । तेनमनसा दीव्यती॑तिमनसदिव॑इत्यत्र कर्मण्यण्, करणे तृतीया चोभयं युगपत्सिध्यति ।मनसः संज्ञायाम्इत्यलुक् । किञ्चअक्षैर्देवयते देवदत्तो यज्ञदत्तेने॑त्यत्र सकर्मकत्वादणि कर्तुर्णौगतिबुद्धी॑त्यनेन कर्मत्वं न,अणावकर्मका॑दिति परस्मैपदमपि न भवति । ननु कर्मकरणसंज्ञासमावेशस्यमानसादेव॑इत्यत्र क-तार्थत्वादक्षान्दीव्यतीत्यत्र परत्वातृतीयैव स्यान्न तु द्वितीयेति चेत्, अत्राहुः — कार्यकालपक्षेकर्मणि द्वितीये॑त्यत्र यदस्योपस्थानं तस्यानवकाशत्वाद्द्वितीयेति । स्यादेतत् — ॒दीव्यन्तेऽक्षा॑इत्यत्राभिहितेऽपि कर्मणि करणत्वस्याऽनभिधानातृतीयं स्यात् । तथादेवना अक्षा॑इत्यत्र ल्युटा करणत्वस्याभिधानेऽप#इ कर्मणोऽनभिधानद्द्वितीया स्यात् । मैवम् । एकाव ह्यत्र शक्तिः संज्ञाद्वययोगिनी, तथा चैकस्यां शक्तावभिहितायामन्यस्या अप्यभिधानादुभयत्राप्यभिधानमेव, न त्वन भिहितत्वम् ।", "14044": "<<परिक्रयणे सम्प्रदानमन्यतरस्याम्>> - तादर्थ्ये चतुर्थी वाच्या॥ तादथ्र्य इथि तस्मै कार्यायेदं तदर्थं=कारणं, तस्य भावस्तादथ्र्यम् । ब्राआहृणादित्वात्ष्यञ् ।कृत्तद्धितसमासेभ्यः संबन्धाभिधानं भावप्रत्ययेन॑ इति सिद्धान्तात्ष्यञा संबन्धोऽभिधीयते । स च संबन्धोऽनेकविधो, न तु कार्यकारणभाव एव; तेनब्राआहृणाय दधी॑ त्याद्यपि सिद्धम् । ब्राआहृणस्य दध्यजन्यत्वेऽपि तत्संस्कार्यत्वात् । न चैवं दधिशब्दादपि चतुर्थी स्यादिति शङ्क्यं, संबन्धस्य द्विष्ठेत्वेऽपि षष्ठीवद्विशेषणादेव भवतीत्याकरे ऽभ्युपगमात् । एवंयूपाय दारु॑ इत्यत्र दारुशब्दादपि न भवति ।हेतौ॑ इति तृतीयापि षष्ठीविषय एव भवतीति सापीह न भवति, किंतु प्रातिपदिकार्थे प्रथमैव । न चैवद्वार्तिकस्यावश्यकत्वेचतुर्थी संप्रदाने॑ इति सूत्रे व्यर्थमिति भ्रमितव्यम्,हरये रोचते॑ इत्याद्यर्थ तस्याप्यावश्यकत्वात् ।विप्राय गा॑ मित्यत्रापि तादथ्र्य चतुर्थ्याः प्राप्तिर्नास्तीति प्रागेवोक्तत्वाच्चेति दिक् ।कॢपि संपद्यमाने च॥ कॢपीति । संपदादित्वाद्भावे क्विपि तदन्तात्सप्तमी । संपत्तिरिहाऽभूतप्रादुर्भावः, कॢप्कत्यर्थकधातुप्रयोगे यः संपद्यते तत्र चतुर्थी, विकारवाचकाच्चतुर्थीत्यर्थः । स हि संपद्यते=प्रादुर्भवति । तदुदाहरति -भक्तिज्र्ञानायेति । ज्ञानात्मना परिणमत इत्यर्थः । प्रकृतिविकृत्योर्भेदबिवक्षायां विकृतिवाचकाच्चतुर्थी । अभेदविवक्षायां तु परत्वात्प्रथमैव,भक्तिज्र्ञानं कल्पते॑ । यदा तुजनिकर्तुः -॑ इति भक्तेरपादनत्वं विवक्ष्यते, तदापि ज्ञानस्याभिहितकर्तृक्वनात्प्रथमैव,भक्तज्र्ञानं कल्पते॑ । कॢपीत्यर्थग्रहणमित्याशयेनाह -संपद्यते इत्यादि । यद्यपि तादर्थ्ये चतुर्थ्यैव भक्तिज्र्ञानायेत्यादिप्रयोगाः सिध्यन्ति, तथापि परिणमात्वप्रकारकबोधार्थमिदं वचनमित्याहुः ।उत्पातेन ज्ञापिते च । उत्पातेनेति । प्राणिनां शुभाऽशुभसूचको भूतविकार उत्पातः, तेन ज्ञापितेऽथे वर्तमानच्चतुर्थी वाच्येत्यर्थः । वातायेति । वातस्य ज्ञापिकेत्यर्थः ।हितेयोगे च । हितेति । चतुर्थीसमासविधानाज्ज्ञापकादेतल्लब्धमिति भावः । एवं सुखयोगेऽपिल चतुर्थी बोध्या । क्रियार्थोपपद । क्रिया अर्थः प्रयोजनं यस्याः सा क्रियार्था, सा क्रियार्था क्रिया उपपदं यस्य । यद्यपि क्रियाया उपपदत्वं न संभवति, तथापीह स्ववाचकशब्दद्वारा तद्बोध्यम् । क्रियाफलकक्रियावाचकमित्यर्थः । क्रियावाचकस्यापि धातोरुपोच्चारितपदरूपोपपदत्वं यद्यपि न संभवति, सुप्तिङन्तस्यैव पदत्वात्, तथापीह क्रियावाचकप्रकृतिकमित्यर्थो विवक्षितः, तादृशमुपपदं यस्य तुमुन्नन्तस्य तस्य कर्मणि चतुर्थी भवतीति निष्कृष्टोऽर्थः ।तुमुन्ण्वुलौ क्रियायाम् -॑ इति सूत्रमहिन्मा क्रियार्थकमुपपदं क्रियावाच्येव फलतीत्याशयेनाह — ।", "14045": "<<आधारोऽधिकरणम्>> - आधारः । आध्रियतेऽस्मिन्नित्याधारः ।अध्यायन्याय -॑इति सूत्रेअवहाराधारे॑ त्युपसङ्ख्यानादधिकरणे घञ् । स चाधारः कस्येत्याकङ्क्षायां कारकाधिकारात्क्रियाया इति लभ्यते । इयं च संज्ञा साक्षात्क्रियाधारयोर्न सम्भवति, पराभ्यां कर्तृकर्मसंज्ञाभ्यां बाधितत्वात् । अतो व्याचष्टे — कतृकमद्वारेति । एवं चभूतले घट॑इत्यादौ अस्तीति क्रियाध्याहारो बोध्यः । त्रिधेति । एतच्चसंहितायाम् इति सूत्रे भाष्ये स्पष्टम् । नद्यमास्त इत्याद्यर्थं सामीपिकमधिकरणं चतुर्थमपि केचिदिच्छन्ति । कटे आस्ते इति । कर्तृद्वारा क्रियाधारस्योदाहरणमिदम् । कर्मद्वारा क्रियाधारस्य तु -स्थाल्यां पचतीति । वैषयिकाधारमुदाहरति -मोक्षे इच्छाऽस्तीति । अभिव्यापकस्य तु -सर्वस्मिन्निति । तिलेषु तैलमित्याद्यप्यभिव्यापकस्योदाहरणमाहुः । चतरुआ इति । प्रातिपदिकार्थमात्र इत्यर्थः । दूरान्तिकार्थेभ्य इत्यस्येहाऽनुवर्तनादधिकरणेऽप्येते बोध्याः । क्तस्येन्विषस्य कर्मण्युपसङ्ख्यानम् । क्तस्येन्विषयस्येति । इन्िन्नन्तः शब्दो, विषयो=वर्तभूतमिर्यस्य क्तान्तस्य तस्येत्यर्थः । अन्ये त्वाहुः — इनो विषय इति षष्ठीसमासः । विषयशब्देनेह प्रकृतिरुच्यते । क्तान्तस्येनः प्रकृतित्वादिति । अधीति व्याकरणे इति । भावे क्तप्रतक्यये ततइष्टादिभ्यश्च॑ इति कर्तरीनौ कृते पश्चाद्गुणभूतक्रियया सम्बध्यमानं व्याकरणमनभिहितं कर्मेति कृतपूर्वी कटमितिवव्द्दितीयाऽत्र प्राप्ता ।मासमधीति व्याकरणे॑ इत्यादौ त्वकर्मकैर्धातुभिरियोगनिमित्तस्य कालकर्मणो बहिरङ्गत्वादिहाऽग्रहणमिति सप्यम्यभावः । न चैवं तत्र द्वितीयापि न स्यादिति वाच्यम् । लक्ष्यानुरोधेन द्वितीयाविधाने व्यक्तिपक्षाश्रयणात् । एतच्च कोस्तुभे स्थितम् ।साध्वसाधुप्रयोगे च । साध्वसाधुप्रयोगे च । यत्राऽर्चा न विवक्षिता, किं तु तत्त्वकथनमात्रं, तत्रापि सप्तम्यर्तं वार्तिकेऽस्मिन् साधुग्रहणं, साधुर्भृत्यो राज्ञीत्यादि यथा ।साधुनिपुणाभ्याम्इति सूत्रे साधुग्रहणं त्वर्चायां ववक्षितायां प्रतियोगे सप्तमीनिवृत्त्यर्थमिति विवेकः ।निमित्तात्कर्मयोगे । निमित्तमिह फलमिति । यदि तुकारणमित्युच्येत तर्हिजाङ्येन बद्ध॑ इत्यादावतिप्रसङ्गः स्यादिति भावः । चर्मणीति । चर्मणीति । चर्मद्वीप्यादीनां समवायः सम्बन्धः । हेतुतृतीयेति । तादर्भ्ये चतुर्थीत्यपि बोध्यम् । सीमाऽन्ण्डकोश इति । तथा च मेदिनीकारः — ॒सीमा घाटस्थितिक्षेत्रेष्वण्डकोशु च स्त्रियाम् इति ।अथ पुष्कलको गन्धमृगे क्षपणकीलयोः॑ इति च । हरदत्तस्तु -॒पुष्कलकः शङ्कुः, सीम्नि=सीमज्ञानार्थं हतो=निहतः निखात॑ इत्याह । अस्मस्तु पक्षे सीमपुष्कलयोः संयोगसम्बन्धः ।", "14046": "", "14047": "<<अभिनिविशश्च>> - अभिनिवि । नेरल्पाच्तरत्वेन पूर्वनिपाते कर्तव्ये विपरीतोच्चारणमीदृशशसङ्घातविवक्षार्थमित्याह — सङ्घातपूर्वस्येति । तेनेह — ॒निविशते यदि शूकशिखा पदे॑इति । क्विचिन्नेति ।एष्वर्थेष्वभिनिविष्टाना॑मिति समर्थसूत्रस्थभाष्यप्रयोगोऽत्र मानमिति भावः ।", "14048": "<<उपान्वध्याङ्वसः>> - उपान्व ।लुग्विकरणादलुग्विकरणं बलीय॑इतिवस निवासे॑इति भौवादिक एव गृह्रते, न तुवस आच्छादने॑इत्यादादिक इत्यभिप्रेत्य शपा निर्देशमाह -उपादिपूर्वस्य वसतेरिति ।वसेरशश्यर्थस्य प्रतिषेधः॑इति वार्तिकमर्थतो व्याचष्टे -अभुक्त्यर्थस्य न । अभुक्त्यर्थस्य नेति । वार्तिके अर्थशब्दो निवृत्तिवचनः । भोजननिवृत्तिवाचकस्य वसेराधारः कर्म नेत्यर्थः । वने उपवसतीति । कथं तर्हिगत्र्थाऽकर्मके॑ति सूत्रेहरिदिनमुपोषितः॑इत्युदाहरणं सङ्गच्छत इति चेत् । अत्राहुः — वसेरत्र स्थितिरर्थः, भोजननिवृत्तिस्त्वार्थिकीति न दोष इति । उपपदविभक्तिमाह — उभसर्वतसोरित्यादिना । उभसर्वयोस्तसौ उभसर्वतसो, तदन्तयोर्योगे द्वितीय कार्येत्यर्थः । प्रकृतिद्वित्वेन तसोरिति द्वित्वनिर्देशः । अत्र उभशब्दादयत् न कृतः, अनुकरणशब्दत्वेनाऽसङ्ख्यावाचित्वात् । तथाच उभशब्देन उभयशब्दो लक्ष्यते, केवलात्परत्र तसिलोऽसम्भवादित्येके । वस्तुतस्तु वृत्तिविषये अयच्प्रवृत्तावपि उभशब्दाद्विहितो यस्तस् तदन्तमस्त्येवेति यथाश्रुतं साधु इति तु मनोरमायां स्थितम् । धिगिति । धिक्शब्दयोगेऽपि द्वितीया कार्येत्यर्थः । अत्र प्राञ्चः — ॒धि॑गित्यविभक्तिको निर्देशो गवित्ययमाहेतिवदित्याहुः । तन्न । तथा सत्यपदान्ततया दृष्टन्तेलोपः शाकल्यस्य॑इत्यस्येव दार्ष्टान्तिके जश्त्वस्याप्यप्रवृत्तिसङ्गात् । न चायं गकारान्त एवास्त्विति शङ्क्यम् ।कस्य च दः॑इति सूत्रेधकि॑दित्युदाहरणस्याऽसङ्गतिप्रसङ्ग#आत् ।कस्य च दः॑इत्यनेन हि कान्ताव्ययस्याऽकच्सन्नियोगेन दत्वं विधीयते, तस्माद्धिगिति विभक्त्यन्तमेव । परन्तुप्रकृतिवदनुकरण॑मित्यतिदेशेनाऽव्ययत्वात्सुपो लुक् । यदि तु धिगित्यविभक्तितो निर्देश इत्येतावानेव प्राचां ग्रन्थस्तदा सम्यगेव । अव्ययत्वात्सुपो लुक्यविभक्तिको निर्देश इति वक्तुं शक्यत्वात् । उभयतः कृष्णमिति । कृष्णस्य पार्ाद्वयेऽपूत्यर्थः । आद्यादित्वात्तसिः । षष्ठर्थे द्वितीया । एवमुपपदविभक्तौ सर्वत्र बोध्यम् । अत्र — व्याचक्षते — ॒उभसर्वतसो॑रित्यत्र उभसर्वयोर्गणे परस्परसाहचर्यात्तसिलेव गृह्रते, न त्वाद्यादिभ्य इति तसिः । तथा चोभयत इत्यादौतसेश्चे॑त्यनेन तसिलादेशोऽवगन्तव्यस्तेन यत्र सञ्ज्ञायां तसेस्त सिलादेशाऽभावस्तत्र न द्वितीया, किन्तु षष्ठएव । तसिलभावस्तुतसेश्चे॑त्यत्रकिंसर्वनामबहुभ्यः॑इत्यनुवर्तनादिति । धिक् कृष्णाभक्तमिति । तस्य निन्द्यतेत्यर्थः । षष्ठर्थे द्वितीया । स निन्द्य इत्यर्थः । प्रथमार्थे द्वितीयेत्येके । कथं धिह् सूर्खेति । सम्बोधनपदस्य क्रियमन्वय इति प्रागेवोक्ततया धिक्शब्दयोगाऽभावाद्द्वितीया न प्रवर्तत इतिसम्बोधने चे॑ति प्रथमैव भव[ती]ति । क्रियापदं च क्वचिच्छ्रुतं क्वचिदाक्षिप्तम् । तथा च धिङ् मूर्क निषिद्धाचरणमिदमित्येतदिह कल्प्यम् । मूर्खसम्बोध्यकनिषिद्धाचरणस्य निन्द्यतेति तु वाक्यार्थः ।प्रथमार्थे धिग्योदे द्वितीये॑ति वादिनां तु मूर्खसम्बोध्यकं निषिद्धाचरमं निन्द्यमिति वाक्यार्थः । यत्तुउपपदविभक्तेः कारकविभक्तिर्बलीयसी॑ति सम्बोधने प्रथमैव भवति, सम्बोधनपदस्य कर्तृकारकवाचित्वादित्याहुः । तच्चिन्त्यम् । सम्बोधनस्य कर्तृकारकत्वे उक्तिसम्भवाऽभावात् । न चदेव प्रसीदे॑त्यादौ वस्तुगत्या देव एव कर्तेत्यस्त्येवोक्तिसम्भव इति वाच्यम्, वास्तवकर्तृत्वेऽपि कारकविभक्तित्वस्याऽलाभात् । किञ्चदेव त्वां भजे, त्वां भजन्ति भक्ता॑इत्यादौ सम्बोध्यदेवस्य वास्तवमपि कर्तृत्वं नास्तीति आस्तां तावत् । उपर्युपरीति । कथं तर्हिउपर्युपरिबुद्धीनां चरन्तीस्वरबुद्ध्यः॑इति । अत्राहुः — उपरिबुद्धीनाम्ुत्तानबुद्धीनामुपरि चरन्तीत्यर्थः । तेनाऽऽत्राम्रेडितत्वाऽभावान्न द्वितीया । यद्वा — प्रतिपदोक्तस्यउपर्यध्यधसः सामीप्ये॑इति कृतद्वित्वस्य वार्तिके ग्रहणादिह च वीप्साद्विर्वचनत्वान्नास्ति द्वितीयाप्रसक्तिरिति ।अभितः परितः समयानिकषाहाप्रतियोगेऽपि । अभितः परितैति । एतच्च अन्यत्रापि दृश्यत॑ इति पूर्वोक्तस्यैव प्रपञ्चभूंतमिति व्याचख्युः । लङ्कां निकषा हनिष्यती॑ति माघः ।ह॑ति खेदे, तदेतदाह — तस्य शोच्यतेति । बुभुक्षितमिति । बुभुक्षितस्येत्यर्थः । एष प्रतिशब्दः क्रियाविशेषकत्वादुपसर्गः, न तु कर्मप्रवचनीयः । तेनाऽत्रकर्मप्रवचनीययुक्ते -॑ इत्यनेन गतार्थता न शङ्क्या ।", "14049": "<<कर्तुरीप्सिततमं कर्म>> - कर्तुरीप्सिततं कर्म । कर्तुरितिक्तस्य च वर्तमाने॑इति कर्तरि षष्ठी । आप्नोतेः सन् । द्वित्वम् । आप्ज्ञप्यृधामीत्,अत्र लोपोऽभ्यासस्ये॑त्यभ्यासलोपः ।मतिबुद्धिपूजार्थेभ्यश्च॑इति वर्तमाने क्तः । मतिरिहेच्छा, नतु बुद्धिः, पुनर्बुद्धिग्रहणात् । ततःअतिशायने॒॑तमबिष्ठनौ॑इत्यतिशये तमप् । एवं च कत्र्रा आप्तुमिष्यमाणतमं कर्मेत्यर्थः । कर्ता च धातीपात्तव्यापाराश्रयः । स च केनाऽऽप्तुमिच्छतीति विशेषणीभूतेन व्यापारेणेत्येर्थाल्लभ्यते, तदाह -क्रिययेति । क्तप्रत्ययेनोपस्थितं वर्तमानत्वं चेह न विवक्षितम् । तेन कटं कृतवान्करिष्यतीत्यादि सिद्धम् । कारकमिति । एतच्चकारके॑ इत्यधिकारल्लभ्यते । तत्र हि व्यत्ययेन प्रथमार्थे सप्तमी । प्रतिसूत्रं वाक्यं भित्त्वा कारकसञ्ज्ञाऽनेन विधीयते । तद्यथा अपाये ध्रुवं कारकसञ्ज्ञं स्यात् । ततोऽपादानम् । उक्तं कारकमपादानं स्यात् । पुनः कारकशब्दानुवृत्तिसामर्थ्याद्विशेषसञ्ज्ञाभिः सह समावेशसिद्धिः । तेनस्तम्बेरम॑इत्यत्राधिकरणत्वात्सप्तमी । कारकक्वाद्गतिकोपपदात्कृदिति कृदुत्तरपदप्रकृतिस्वरश्च सिध्यति । अन्यथातत्पुरुषे तुल्यार्थे॑त्यादिना पूर्वपदप्रकृतिस्वरः स्यात् । नचाऽत्रोपपदस्वरेणान्यथासिद्धिः शङ्क्या,स्तम्बकर्णयोः॑इति निर्देशात् प्रातिपदिकस्योपपदत्वेऽपि सप्तम्यन्तस्याऽतथात्वात् । यद्यपीह थाथादिस्वरेणैवाऽन्तोदात्तत्वं सिध्यति, तथापियप्प्रत्ययसाहचर्येण एरच एव तत्रोपादानान्नास्ति थाथादिस्वरेण तत्सिद्धिरित्याहुः । अन्वर्था चेयं सञ्ज्ञा — करोतीति कारकमिति । तेनब्राआहृणस्य पुत्रं पन्थानं पृच्छती॑त्यत्र क्रियाऽनन्वयिनो न भवति । ब्राआहृणो ह्यत्र पुत्रविशेषणं, न तु क्रियान्वयीति । पयसेति । भुजिक्रियां प्रति पयसः प्रकृष्टोपकारकत्वेऽपि ओदन एवाऽत्रैइप्सिततमः, पयस्तु संस्कारत्वात्करणम् । नह्रसौ केवलपयसः पानेन सन्तुष्यति , किं तु तत्संस्कृतेनौदनेन । यदा तु पय एव ईप्सिततममस्य भवति, तदा कर्मत्वं भवत्येव — पयः पिबतीति । कर्मेत्यनुवृत्ताविति ।अधिशीङ्स्थासां कर्मे॑ति सूत्रात् ।", "14050": "<<तथायुक्तं चानिप्सीतम्>> - क्रीतात् । इह प्रकरणेअतः॑इत्यनुवर्तते,प्रातिपदिका॑दिति च, तदाह — अदन्तादिति ।प्रातिपदिका॑दिति शेषः । वस्त्रक्रीतीति ।वस्त्र भिस्क्रीते॑ति स्थिते प्राक्तुबुत्पत्तेःकर्तृकरणे॑इति समासेऽदन्तत्वान्ङीष् । क्वचिन्नेति ।कर्तृकरणे कृता बहुल॑मिति बहुलग्रहणात्गतिकारकोपपदे॑ति वक्ष्यमाणस्य क्वचिदप्रवृत्तौ सुबन्तेन समासः । तत्र सुपः प्रागेवान्तरङ्गत्वाट्टाप्, ततोऽदन्तत्वाऽभावान्न ङीषिति भावः । करणपूर्वादिति किम् । गवा क्रीताअओन क्रीतेत्यादिविग्रहे मा भूत् । पूर्वशब्दो ह्रवयववचनः, समासप्रातिपदिकं चान्यपदार्थः । करणं पूर्वं यस्मिन् प्रातिपदिके तदिदं करणपूर्वं, तस्मादित्यर्थः ।", "14051": "<<अकथितं च>> - अकथितञ्च । केनाऽकथितमित्याकाङ्क्षायामाह -अपादानादिविशेषैरिति । अपादानं सम्प्रदानमधिकरणं कर्म करणं कर्ता हेतुरित्येतैर्विशेषैरित्यर्थः । अविवक्षितमिति । अपादानादिविशेषविवक्षायां तु — गोर्दोग्धि पयः । बलेर्याचते वसुधाम् । व्रजेऽवरुणद्धि गाम् — इत्येवं पञ्चम्यादय एव भवन्तीति भावः । एतेनपाणिना कांस्यापात्र्यां दोग्धी॑त्यत्र करणाधिकरणयोरतिप्रसङ्गः । तयोस्तु दण्डेन करोति, कटे तिष्ठतीत्यादिरवाकाशो दुहादिपरिगणना॒दित्याक्षेपो निरस्तः । करणाधिकरणसञ्ज्ञयोरिह विवक्षितत्वात् । यदि तु सूत्रेऽकथितशब्दोऽप्रधानपर्यया न त्वनुक्तपर्यय इत्यभ्युपगम्येत, तदा स्यादेवाऽयमाक्षेपो न त्वन्यथा । कारकमिति । ततश्चब्राआहृणस्य पुत्रपृच्छती॑त्यत्र नातिप्रसङ्गः । दुह्राजिति ।दण्ड दण्जनिपातने॑चुरादिः । इह तु दण्डिग्र्रहणार्थो न तु निग्रहार्थः । प्रच्छीत्यागन्तुकेनेकारेण निर्देशो न त्विका,ग्रहिज्ये॑ति सम्प्रसारणप्रसङ्गात् । कर्मुयुगिति । कर्मणा युज्यते कर्मयुक् ।सत्सूद्विषे॑त्यादिना क्विपे । कर्मणा यद्युज्यत इति । मुख्यकर्मणा सह क्रियया सम्बध्यमानं कारकमेवाऽपादानादिविसेषैरकथितं सत्कर्मसञ्ज्ञक भवतीत्यर्थः । एतेन दुहादीनां द्विकर्मकत्वं स्फोरितम् । अन्ये त्वाहुः -॒कर्मयु॑गित्यत्र कर्मशब्देन क्रियोच्यत इति । तेन क्रियान्वयीत्यर्थः । परिगणनमिति । तेननटस्य श्रणोति गाथा॑मित्यादौ नातिप्रसङ्ग इति भावः । इह हि गाथाकर्मकं नटसम्बन्धि श्रवणं वाक्यार्थः । तेन क्रियान्वयित्वान्नटस्य कारकत्वमस्त्येव । गां दोग्धीति । पयःकर्मकं गोसम्बन्धि दोहनमर्थः । पयोऽत्र मुख्यं कर्म, कर्तुरूप्सिततमत्वात् । गौस्तु पयसो निमित्ततामात्रेणोपात्ता, न तु वस्तुसताऽप्यवधिभावेनेत्यपादानसञ्ज्ञाया अप्रवृत्तेरनेन कर्मसञ्ज्ञिका भवति । तदुक्तं हरदत्तेन -॒यद्यपि गोरवधिभावो विद्यते, तथाप्यविवक्षिते तस्मिन्निमित्त मात्रविवक्षायामुदाहरणोपपत्ति॑रिति । एतेनाऽवधित्वविवक्षायां गोरिति पञ्चम्येवेति स्पष्टम् । यदा तु गौरित्येतत्पयसा सम्बध्यते तदा गोशब्दात्षष्ठएव भवतीत्यपि बोध्यम । यत्तु प्राचा — दुह्राच्यर्थरुधिप्रच्छिचिब्राऊशासुजिकर्मयुक् । नीह्मकृष्मन्थवह्दण्डग्रहमुष्पचिकर्मभाक्इति पठितं, तत्र ग्रहेः पाठोऽप्रामाणिकः । इतरेषां तु द्विकर्मकत्वं यद्यपि प्रामाणिकं, तथापि सन्दर्भाऽशुद्धिः । तथाहि दुह्रादीन्न्यादीश्च द्वैराश्येन पठित्वा भावकर्मप्रकियाशेषेलकृत्यक्तखलर्थाः किं द्विकर्मकेभ्यो मुख्ये कर्मणि स्युर्गौणे वा॑इत्याशङ्कायां स्वयमेव पठितं -॒ न्यादयो ण्यन्तनिष्कर्मगत्यर्था मुख्यकर्मणि । प्रत्ययं यान्ति दुह्रादिर्गौणेऽन्ये तु यथारुचि॑इति । एवञ्च दण्डिमन्थिभ्यामपि मुख्ये स्यात् । न चेष्टापत्तिः ।गर्गाः शतं दण्डन्ता॑मिति भाष्यविरोधात् । शतं ह्यत्र प्रधानां न तु गर्गाः,अर्थिनश्च राजानो हिरण्येन भवन्ति॑इति वाक्यशेषात् । दण्डिरत्र ग्रहणार्थो न तु निग्रहार्थ इत्युक्तम् । अतएवाऽत्र समुदाये वाक्यपरिसमाप्तिः, गुणानुरोधेन प्रधानवृत्तेरसम्भवात् । तथा मन्थेरपि प्रधाने स्यात्, इष्यते तु गौणे । तथा च भारविः -॒येनापविद्धिसलिलस्फुटनागसद्मा देवासुरैरमृतमम्बुनिधर्ममन्थे॑इति । अत्राऽमृतं मुख्यम् — उद्देश्यत्वात्, अम्बुनिधिस्तु गौणः । बलिं याचत इति । अत्र प्रार्थनार्थस्य याचेर्वसुधा मुख्यं कर्म, तेन युक्तो बलिर्वस्तुतोऽवधिरपि तदविवक्षायामनेन कर्म भवति । अविनीतमिति । अनुनयार्थस्य याचेरविनीतो मुख्यं कर्म, अविनीतं विनयायाऽनुनयतीत्यर्थः । विनयस्य तादथ्र्याविवक्षायाम्अकथितञ्चे॑ति कर्मसञ्ज्ञा । तण्डुलानिति । निर्वर्तनार्थस्य पचेरोदनो मुख्यं कर्म, ओदनं निर्वर्तयतीत्यर्थः । तण्डुलास्तु करणत्वाऽविवक्षायामकथितं कर्म । अन्ये त्वाहुः -॒द्यर्थः पचिः॑इति भाष्यापर्यालोचनयातण्डुनोदनं पचती॑त्यस्य तण्डुलान्विक्लेदयन्नोदनं निर्वर्तयतीत्यर्थः । दुह्रादिषु पचेः परिगणनमप्रामाणिकं, भाष्यकैयटयोरनुक्तत्वादिति । गर्गानिति । ग्रहणार्थस्य दण्डेः शतं कर्म, गर्गास्त्वपादानत्वाऽविवक्षायामकथितं कर्म । व्रजमिति । अत्र गौर्मुख्यं कर्म, व्रजं त्वधिकरणत्वाऽविवक्षायाम्अकथितञ्च॑इति कर्म भवति । एवमग्रेऽप्यूह्रम् । अर्थनिबन्धनेति । न तु स्वरूपाश्रया,अहमपीदमचोद्यं चोद्ये॑इतितद्राज॑सूत्रभाष्ये पृच्छिपर्यायस्य चुदेरपि द्विकर्मकत्वदर्शमादिति भावः । अएतएवस्थातुं रणे स्मेरमुखो जगाद मारीचमुच्चैर्वचनं महार्थ॑मिति भट्टिः प्रायुङ्क्ता । एवच्च नाथत्यादयो बहवो द्विकर्मका ज्ञेयाः । स्यादेतत् — — यद्यर्थनिबन्धनेयं सञ्ज्ञा तर्हि नीवहियोरन्यतरो न पठनीयः, उभयोरप्येकार्थत्वादिति चेत्सत्यम् । भारं वहति, भारं नयतीत्यत्र यदि विलक्षणोऽर्थोऽनुभूयते, तदा द्वयमपि पठनीयमेव, यदि तु नानुभूयते तह्र्रन्यतरो न पठनीयः, उभयथापि लक्ष्यस्य निर्बाधत्वात् । अत्र वदन्ति -॒जग्राह द्युतरु शक्रम्इत्युदाहरणमप्ययुक्तमिति मनोरमोक्तं चिन्त्यमेव । सञ्ज्ञाया अर्थनिबन्धनत्वाद्दण्डेग्र्रहणार्थत्वाच्चेति । बलिं भिक्षत इति ।भिक्ष मिक्षायामलाभे लाभे च॑ । भिक्षते याचत इत्यर्थः ।अकर्मकधातुभिर्योगे देशः कालो भावो गन्तव्योऽध्बा च कर्मसञ्ज्ञक इति वाच्यम् । देश इति । कुरुपञ्चालादिरेवेह गृह्रते, तेनअधिसीङ्स्थासां क्रम॑इत्यस्य न वैयर्थ्यम्, अधिपूर्वाणामेवाषामाधारः कर्मेति नियमार्थत्वाभ्युपगमेऽपि वैकुण्ठे वर्तते इत्यादिष्वतिप्रसङ्गः स्यादेवेत्याशयेन तथैवोदाहरति — कुरूनिति । गोदोहमिति । न चेह कालत्वात्सिद्धिः, लोके कालत्वेन प्रसिद्धस्य मासादेरेव कालशब्देन ग्रहणात् । तेनघटमास्ते॑ इत्यादि न भवति, जन्यमात्रं कालोपाधिरिति घटादेरपि कालत्वात् । यत्तु प्राचाअकर्मकधातु भिर्योगे देशकालाध्वभावेभ्यो द्वितीयेति केचि॑दित्युक्त्वानदीमास्त॑ इत्युदाहृतम् । तदसङ्गतम् ।ग्रामसमूहः कुर्वादिरेव देशो गृह्रते, न तु प्रदेश मात्रम्, तेन ग्रामं स्वपितीति न भवति॑त्याकरात् । अध्वेति च न्यनम्, अध्वानं स्वपिती॑त्यस्यापि प्रसङ्गात् । अतएव आकरेऽध्वा गन्तव्यत्वेन विशेषितः । गन्तव्यत्वेन प्रसिद्धो नियतपरिमाणः क्रोशादिरिति च व्याख्यातम् । द्वितीयेत्यप्यसङ्गतम्, कर्मसञ्ज्ञाया अव्ह्तत्वात्कर्मणि लादयो न स्युरित्यास्यते मास इत्यीदिप्रयोगाऽभावप्रसङ्गात् ।केचि॑दित्युक्तिस्तन्मतदौर्बल्यसूचनायेति कथञ्च#इद्व्याख्याय पूर्वोक्तदोषपरिहारेऽपि नदीमास्त इत्युदाहरणस्याऽसाङ्गत्यदोषस्तदवस्थ एवेति ध्ययम् ।", "14052": "<<गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्त्ता स णौ>> - गतिबुद्धि । प्रत्यवसानं-भक्षणम् । शब्दकर्मणामिति । शब्दः कर्म कारकं येषां तेषामित्यर्थः । कर्मशब्दो ह्यत्र कारकपरः, न तुकर्तरि कर्मव्यतिहारे॑इत्यत्रेव क्रियापरः, कृत्रिमे कार्यसम्प्रत्ययात्, कर्मग्रहणसामर्थ्याच्च । अन्यथा हिगतिवुद्धिप्रत्यवसानशब्दार्थाऽकर्मकाणाम्इत्येव ब्राऊयात् । अणौ यः कर्तेति । अनुपत्पन्ने णिचि — शुद्ध धातुवाच्यां क्रियां प्रतिः यः कर्ता स ण्यन्तधातुवाच्यां क्रियां प्रति कर्मसञ्ज्ञः स्यादित्यर्थः । नियमार्थमेतत्सूत्रमिति प्राञ्चः ।णिजर्थेनाऽऽप्यमानस्य यदि भवति तर्हि गत्यर्थादीनामेव कर्तु॑रिति । तेन पाचयति देवदत्तो यज्ञदत्तेनेत्यत्र प्रयोज्ये कर्तरि प्रकृत्यर्थं प्रति कर्तृत्वस्यैव निरपवादत्वेनाऽवस्तानात्तृतीय सिध्यति । उक्तं च — ॒गुणिक्रियायां स्वातन्त्र्यात्प्रेषणे कर्मतां गतः । नियमात्कर्मसञ्ज्ञायाः स्वधर्मेणाभिधीयते॑ इति । कर्तुः स्वधर्मेण — तृतीययेत्यर्थः । ननु णिजर्थं प्रति कर्तृत्वं बाधित्वा प्रकृत्यर्थं प्रति कर्तृत्वं परत्वादेव सिद्धम्, अन्तरङ्गत्वाच्च । स्वकारकविशिष्टा हि क्रिया णिजर्थेन सम्बध्यते, हेतुमति णिज्विधानात् । कर्तृप्रयोजकस्य हेतुत्वात् । अतएव उपजीव्याऽपि कर्तृसञ्ज्ञा । एवञ्च -॒परत्वादन्तरङ्गत्वादुपजीव्यतयाऽपि च । प्रयोज्यस्यास्तु कर्तृत्वं गत्यादेर्विधितोचिता॑ । यद्यपि विधिपक्षेऽपि लक्ष्यं निर्बाधमेव, तथापि नियमसूत्रमिदमिति प्राचां ग्रन्थो विरुध्यत इति चेत् । अत्राहुः — णिजर्थस्य शाब्दं प्राधान्यं पुरस्कृत्य प्रधानानुरोधिन्याः कर्मसञ्ज्ञायाः प्राबल्याद्विप्रतिषेध एव नास्तीति परत्वात्कर्तृत्वसिद्धिरित्येतन्न सङ्गच्छते । अन्तरङ्गत्वेपजीव्यत्वे अपि प्रधानं प्रति प्राबल्यं न प्रयोजयतः, ततश्च नियमार्थत्वेक्तिः प्राचां निर्बाधैवेति । गत्यादिण्यन्तान्क्रमेणोदाहरति — शत्रूनिति । शत्रवः स्वर्गमगच्छन्, तान् श्रीहरिः स्वर्गमगमयदिति — गमेरण्यन्तावस्थायां शत्रवः कर्तारस्ते ण्यन्तावस्थायां कर्म अभवन् । स्वकर्मकं शत्रुनिष्ठं यद्गमनं तदनुकूलो यन्निष्टो व्यापारः स श्रीहरिर्मे गतिरिति वाक्यार्थः । एवमग्रेऽप्यूह्रम् । वेदार्थमिति । स्वे=स्वकीया वेदार्थमविदुः, तान् श्रीहरिवेदार्थमवेदयत् । तथा देवा अमृतमाश्रन्, तानाशयत् । विधिः वेदमध्यैत, तं ब्राहृआणं वेदमध्यापयत् — अपाठयत् । सलिले पृथ्वी आस्त, तां यो हरिरासयत्स्थापयतिस्म स हरिर्मे गतिरित्यन्वयः । ननु शत्रूण#आमनेन कर्मत्वे कृते कर्मण ईप्सिततमः स्वार्गो, न तु कर्तुरिति कर्तुरीप्सिततमत्वाऽभावात्स्बर्गस्य कर्मत्वं न स्यात् । अत्र केचित् -॒गतिबुद्धि -॑इति कर्मत्वस्य बहिरङ्गत्वेन ततः पूर्वमेव धात्वर्थव्यापारप्रयुक्तं कर्मत्वं स्वर्गस्य निर्वाधमित्यदोष इति । अन्येतु -॒कर्तुरीप्सिततमम् -॑इत्यत्र कर्तृग्रहणं स्वतन्त्रस्योपलक्षणम् । स्वातन्त्रे सङ्केतितस्य कर्तृ पदस्य तत्रैव लक्षणा न सङ्गच्छते, एकस्यैकस्मिन्नेवार्थे शक्तिलक्षणोभयाभ्युपगस्य शास्त्रकाराऽसम्मतत्वादिति वाच्यम्, सञ्ज्ञान्तरानुपहितस्वतन्त्रे सङ्केतितस्य सञ्ज्ञान्तरोपहितानुपहितसाधारणे स्वतन्त्रे लक्षणाभ्युपगमे बाधकाऽभावात् । अतएव जिधातोर्जये शक्तिः, प्रकृष्यजये लक्षणा ।शक्यादन्येन रूपेण ज्ञाते भवति लक्षणा॑इति । तेन प्रजयतीत्यत्र प्रशब्दो द्योतकः, प्रकृष्टजयस्तु जिधातोरेवार्थ इति नैयायिकोक्तिः सङ्गच्छते । नापि कर्तृपदस्य स्वतन्त्रलक्षणायां प्रमाणाऽभावः शङ्क्यः ।प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम् । अप्रधाने दुहादीनाम् इत्युक्त्वाण्यन्ते कर्तुश्च कर्मणः॑इतिवदतो भाष्यकारस्यैव प्रमाणत्वात् । न हि लक्षणां विना णिजन्तानां द्विकर्मकता लभ्यते, येनण्यन्ते क्रतुः॑इति वचनं सावकाशं स्यादित्याहुः ।नीवह्रोर्न । नीवह्रोरिति । यद्यप्यनयोः प्रपणमर्थो न गतिः, तथापि गतिरपि विशेषणीभूय प्रापणममध्ये प्रविष्टेत्येतावन्मात्रेण प्राप्त मत्वा प्रतिषेध उक्तः ।नियन्तृकर्तृकस्य वहेरनिषेधः । नियन्त्रिति । नियन्ता पशिप्रेरकः, न तु सारथिरेवेति । तेनवाहयति बलीवर्दान्यवा॑निति सिध्यति । अस्मादेव भाष्योदाहरणात्रूढिर्योगमपहरति॑इति न्यायोऽत्र न स्वीक्रियते । अनिषेध इति ।प्रयोज्यः कर्मे॑ति वक्तव्यमिति फलितोऽर्थः । यैस्तु प्रापणं गतिशब्देन गृह्रते यौर्वा न गृह्रते उभयेषामपीदं वचनमावस्यकम् ।नीवह्रोर्ने॑ति वचनं तु यैः प्रापणं गतिशब्देन गृह्रते तेषामनावश्यकमिति बोध्यम् । सूत इति ।नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः॑ इत्यमरः । प्रत्यवसानार्थत्वात्कर्मत्वे प्राप्ते निषेधमाह - ।अदिखाद्योर्न । अदिखाद्योरिति ।अद भक्षणे॑खादृ भक्षणे॑ । प्राचा तु आदीति पटते, तत्तु ण्यन्तावस्थानुकरणमिति बोध्यम् । आदयतीति ।इह निगरणचलनार्थेब्यश्च॑इति परस्मैपदनियमो न प्रवर्तते,अदेः प्रतिषेधः॑ इथि तस्य निषिद्धत्वात् । तेनाऽक्रत्र्रभिप्राये क्रियाफलेशेषात्कर्तरि॑ — इति परस्मैपदम्, कत्र्रभिप्राये तुणिचश्च॑इत्यात्मनेपदं भवत्येवेति बोध्यम् ।भक्षेरहिंसार्थस्य । ननुगतिबुद्धि — ॑इति सूत्रेणाऽणौ कर्तृर्णौ कर्मत्वं विधीयते न तु णौ कर्तुरिति प्राप्तेरेवाऽभावान्निषेधोऽयं व्यर्थ इति चेत् । अत्राहुः — हेतुमण्णिजन्ते विधिरिति निषेधोऽप्यणावित्ययं सन्निधानाद्धेतुमण्णिज्विषय एव, तेन चुरादिणिजन्तेऽपि भक्षयतौ प्राप्तिसत्त्वात्तन्निषेध उपसङ्ख्यात इति । भक्षयतीति । बलीवर्दाः सस्यं भक्षयन्ति । तान् भक्षयतीत्यर्थः । क्षेत्रस्थानां यवानां भक्ष्यमाणानां हिंसा ज्ञेया, तस्यामवस्थायां तेषां चेतनत्वात् ।जल्पति प्रभृति नामुपसङ्ख्यानम् । जल्पपतिपर्भृतीनाममिति ।जप जल्प व्यक्तायां वाचि॑ । पुत्रो धर्मं जल्पति, तं देवदत्तो जल्पयतीति अण्यन्तावस्थायां पुत्रः कर्ता, ण्यन्तावस्थयां कर्म अभवत् । तथा पुत्रो धर्म भाषते, तंत भाषयति देवदत्तः । नच जल्पतिभाषत्योः शब्दक्रियत्वेनगतिबुद्धि — ॑इति सूत्रेणैव सिद्धे उपसङ्ख्यानामिदं व्यर्थमिति भ्रमितव्यम् ।शब्दकर्मणा॑मित्यस्य शब्दः कर्मकारकं येषामित्यर्थात् । अन्यथावेदमध्यापयद्विधिम्इत्यादेरसिद्धिप्रसङ्गात् । एवं पुत्रो यत्किञ्चिद्विलपति, तं विलापयतीत्याद्यप्यूह्रम् ।दृशेश्च । स्मारयतीति । आध्यानार्थकस्यैव स्मरतेःघटादयो मितः॑इति मित्त्वं, न चिन्तार्थकस्येति भावः ।शब्दायतेर्न । देवदत्तेनेति ।स्मारयत्येनं वनगुल्म॑इत्यत्र तुणेरणौ -॑इति सूत्रे भाष्ये प्रयोगादेब कर्मत्वं बोध्यम् । शब्दाययतीति । शब्दं करोतीत्यर्थेशब्दवैर -॑इत्यादीना क्यङ् । ततो हेतुमण्णिच् । धात्वर्थ संगृहीतेति । एतेनशब्दाययति सैनिकै रिपू॑निति कर्म प्रयुञ्जानाः परास्ताः । न त्वविवक्षितकर्माणोऽपीति । यथालः कर्मणि च॑इति सूत्रे अविवक्षितकर्माणोऽप्यकर्मका इति गृह्यन्ते, तथैवेहापि यदि गृह्रेरन् तदा ओदनादिकर्मणोऽविवक्षायांपाचयति देवदत्त॑मिति स्यात्, न तु देवदत्तेन पाचयतीति । एवंगत्यार्थाकर्मक -॑इति सूत्रेऽप्यविवक्षितकर्माणोऽकर्मका इति न गृह्यन्ते । दत्तवान् पक्ववान् इत्यर्थे दत्तः पक्व इत्यापत्तेः । यत्तु प्राचा — ॒अयक्रन्दशब्दायह्वेञां न॑इत्युक्तं, तदयुक्तम् । अयतेर्निषेधस् निर्मूलत्वेन अणौ कर्तुर्णौ कर्मत्वस्य तत्रेष्टत्वात् । क्रन्दह्वेञोस्तु शब्दक्रियत्वेऽपि शब्दः कर्म कारकं नेति प्राप्तेरेवाऽभावाच्चेतिस्थितं मनोरमायाम् । यद्यपिश्रुग्रहदृशाम्इति कर्मत्वमुक्तं, तत्र दृशिग्रहणं प्रामाणिकमेव । शृणोतेस्तु शब्दकर्मकत्वात्सिद्धम् । ग्राहेर्द्विकर्मकत्वं यद्यपिअञि ग्रहत्तं जनक#ओ धनुस्तत्इति भट्टिप्रयोगस्य,अयाचितारं न हि देवदेवमद्रिः सुतां ग्रहयितुं शशाके॑ति कालिदासप्रयोगस्य चाऽनुगुणं, तथापि बहूनामसम्मतमेव । अतएवतं बोधितवान्, सुतां ग्राहयितुमुद्वाह्रत्वेन बोधयितुम्इत्येवमुक्तप्रयोगं समर्थयाञ्चक्रिरे । न च बुद्द्यर्थत्वं विनापि यथाश्रुतार्थेस एव ग्राहोर्द्विकर्मकत्वमस्त्विति वाच्यम्, तथा हि सतिजायाप्रतिग्राहितगन्धमाल्या॑मित्यत्र क्तप्रत्ययेनाऽभिधानं प्रयोज्यकर्मीभूतधेनोः स्यान्न तु गन्दमाल्यकर्मणः,ण्यन्ते कर्तुश्च कर्मणः॑इत्युक्तेः । जायाप्रेरिता हि धेनुर्गन्धमाल्ये प्रतिगृह्णातीति भवत्येव धेनुः प्रयोज्यकर्म । ततश्चजयया गन्धमाल्ये प्रतिग्राहिता॑मिति स्यात्, क्तप्रत्ययानभिहितत्वेन गन्धमाल्यकर्मणि द्वितीयायाः प्रवृत्तेः । सिद्धान्तेः । सिद्धान्ते तु जायया प्रतिग्राहिते गन्धमाल्ये ययेति विग्रहः, द्विकर्मकत्वाऽभावेन गन्धमाल्यस्यैव क्तप्रत्ययेनाऽभिहितत्वात् ।यये॑ति तृतीया तु णिजर्थं प्रति जायायाः कर्तृत्वेऽपि णिच्प्रकृत्यर्थं प्रतिग्रहं प्रति धेनोः कर्तृत्वादुपपद्यते । एवञ्चेह जायानिष्ठप्रेरणविषयीभूतं गन्धमाल्यकर्मकं यत्प्रतिग्रहणं तत्तत्र्रीमिति वृत्त्यर्थः । यद्यपि धेनुकर्तृकं जायानिष्ठप्रेरणाविषयीभूतं गन्धमाल्यकर्मकं यत्प्रतिग्रहणं तत्कर्मीभूते गन्धमाल्ये इथि विग्रहार्थः, तथाप्यन्यपदार्थान्तरभावेणैव विशेषणविशेषष्यभाववैपरीत्येनैकार्थीभावः कल्प्यत इति नास्त्यत्राऽनुपपत्तिरिति दिक् ।", "14053": "<<हृक्रोरन्यतरस्याम्>> - ह्यकोः । हा च कता च ह्मकारौ, तयोरिति विग्रहः । हुश्च कुश्च ह्मक्रोरिति वा । प्रथमान्तेन, परिनिष्ठितचविभक्त्या वा विग्रहो इति सिद्धान्तात् ।गतिबुद्धी॑त्यादीह नानुवर्तते । तेन उभयत्रविभाषेयम् । अभ्यवपूर्वस्य हरतेर्भक्षणार्थकत्वाद्विकारार्थस्य करोतेश्चाऽकर्मकत्वात्गतिबुद्धि॑इत्यादिना अणौ कर्तुर्णौ कर्मत्वे प्राप्ते, अर्थान्तरे चाऽनयोः सकर्मकत्वादप्राप्तेऽस्यारम्भात् । अप्राप्तावुदाहरणमाह -हारयतीति । हरति करोति वा कटं भृत्य इत्यण्यन्तावस्थायां भृत्यः कर्ता, स एव ण्यन्तावस्थायां कर्माऽभूत् । प्राप्ते तूदाहरणम् — तृणमभ्यवहारयति सैन्धवान्, तृणमभ्यवहारयति सैन्धवैः । विकारयति सैन्धवान्, विकारयति सैन्धवैरिति बोध्यम् । ननु यदिगतिबुद्धी॑त्यादिरिह नानुवर्तेत तदैतदेवं स्यात्, तत्रैव मानं न पश्याम इति चेन्मैवं,न वेति विभाषा॑इति सूत्रे उभयत्रविभाषासु भाष्यकृताऽस्यापि सूत्रस्य गणितत्वेनोक्तशङ्काया अनवतारात् ।अभिवादिदृशोरात्मनेपदे वेति वाच्यम् । अभिवादीति ।वद सन्देशवचने॑ चुरादिराधृषीयः । अभिपूर्वकत्वान्नमस्कारार्थता । अभिवादयतेरप्राप्तौ, दृशेस्तु प्राप्तावयं विकल्पः । अभिवदति देवं भक्तस्तं प्रेरयत्यन्यः — अभिवादयते ।णिचश्चे॑त्यात्मनेपदम् । परस्मैपदे तु अभिवादयति देवं भक्तेनेत्येव । तथा पश्यति देवं भक्तः, दर्शयते देवं भक्तमित्यादि ।", "14054": "<<स्वतन्त्रः कर्त्ता>> - स्वतन्त्रः कर्ता । प्रधानभूतधात्वर्थाश्रयत्वं स्वातन्त्र्यम् । आह च — ॒धातुनोक्तक्रिये नित्यं कारके कर्तृतेष्यते॑इति । स्थाल्यादीनां वस्तुतः स्वातन्त्र्याऽभावेऽपिस्थाली पचति काष्ठानि पचन्ती॑त्यादिप्रयोगोऽपि साधुरेवेति ध्वनयति -विवक्षितोऽर्थ इति ।", "14055": "<<तत्प्रयोजको हेतुश्च>> - तत्प्रयोजको हेतुश्च । तच्छब्देनस्वतन्त्रः कर्ते॑ति पूर्वसूत्रोपात्तः कर्ता कपरामृश्यते ।तस्य = कर्तुः प्रयोजकः = प्रेरकः, तद्व्यापारानुकूलव्यापारवानित्यर्थः । चकार एकसंज्ञाधिकारबाधनार्थस्तदाह — हेतुसंज्ञः कर्तृसंज्ञश्चेति । हेतुसंज्ञायाः प्रयोजनंभीस्म्योर्हेतुभये॑,भियो हेतुभये षु॑ गित्यादौ प्रयोजकस्य हेतुत्वेन व्यवहारः । कर्तृसंज्ञायास्तुलः कर्मणि च भावे चे॑ति सूत्रेण प्रयोजके वाच्ये लकारादयः ।", "14056": "<<प्राग्रीश्वरान्निपाताः>> - प्राग्रीश्वरात् । रेफविशिष्टग्रहणं किम् ? ईश्वरे तोसुन्कसुनौ॑ इत्यस्य व्याप्तिन्यायेनावधित्वं मा भूत् । यदि तु प्रत्यासत्त्यैवअधिरीश्वरे॑ इत्यस्यावधित्वसिद्धिरित्युच्यते तर्हि स्पष्टप्रतिपत्त्यर्थमेवास्तु ।", "14057": "<<चादयोऽसत्त्वे>> - चादयः । अद्रव्यार्थाः किम् , पशुः । लिङ्गसङ्ख्यान्वितं द्रव्यम् । इह तु स्यादेव-॒लोधं नयन्ति पशु मन्यमानाः॑ ।पशु॑ इति सम्यगर्थे ।", "14058": "", "14059": "", "14060": "<<गतिश्च>> - गतिश्च । उपसर्गसंज्ञायाः समावेशार्थश्चकारः । अन्यथाआ कडारा॑दिति पर्यायः स्यात् । तत्फलं तुप्रणेय॑-मित्यादौउपसर्गादसमासेऽपी॑ति णत्वम्,गतिकारके॑ति कृदुत्तरपदप्रकृतिस्वरसिद्धिश्चेति दिक् । निस्निर्दुस्दुरिति ।उपसर्गस्यायतौ॑ इति निर्दुरोर्लत्वं । निलयते, दुलयते । निसो दुसश्च रुत्वस्याऽसिद्धित्वाल्लत्वाऽभावः,-निरयते, दुरयते॥", "14061": "<<ऊर्यादिच्विडाचश्च>> - ऊर्यादिच्विडाचश्च ।उपसर्गाः क्रियायोगो॑इत्यतोऽनुवर्तनादाह — क्रियायोग इति । च्विडाचौ कृभ्वस्तियोगे विहितौ, तत्साहचर्यादूर्यादीनामपि तत्रैव गतिसंज्ञा । तेनेह न -ऊरी पक्त्वा । माधवादिग्रन्थे तु आविःप्रादुः शब्दौ मुक्त्वा अन्येषां कतोतिनैव योगे गतिसंज्ञे॑ति स्थितम् । तथैवोदाहरति — ऊराकृत्येति । एतच्च मनोरमानुसारेणोक्तम् । वस्तुतस्तु ऊरीभूयेति भाष्योदाहरणाद्दिङ्भात्रमुदाहरति, ऊरीकृत्येत्यवतरितुं युक्तम् । संज्ञाफलं समासः, तत्फलं च ल्बिति बोध्यम् । ऊरी उररी — एतावङ्गीकारे । आविः शब्दस्य तु साक्षात्प्रभृतिषु पाठात्कृञो योगे गतिसंज्ञाविकल्पः, कृम्भस्तियोगे त्वनेन नित्यमिति बोध्यम् । कथं तर्हिवारुणीमदविशङ्कमथाविश्चक्षुषो भवदसाविव रागः॑इति माघ इति चेत् । अत्राहुः — ॒ते प्राग्धातोः॑इति सूत्रस्य प्रयोगनियमार्थत्वपक्षे प्रकृतेऽनुपपत्तवपि संज्ञानियमार्थत्वपक्षे दोषलेशोऽपि नास्तीति.शुक्लीति ।कुम्भस्तियोगे संपद्यकर्तरि च्विः॑ ।अस्य च्वौ॑इतीकारः । पटपटाकृत्येति ।डाचि बहुलं द्वे भवतः॑इति पटच्छब्दस्य द्वित्वम् ।अव्यक्तानुकरणाद् व्द्यजवराद्र्धादि॑ति तकारपकारयोः पकार एकादेशः । निपातसंज्ञायाः समावेशार्थः [सूत्रे]चकारः । तेन ऊरीकृतमित्यत्रगतिरनन्तरः॑इति पूर्वपदप्रकृतिस्वरे क्रियमाणे निपातप्रयुक्तमाद्युदात्तत्वं भवति ।कारिकाशब्दस्योपसंख्यानम् । कारिकेति । भावेपर्यायार्हणे॑ति ण्वुच् । तदाह — क्रियेति ।क्रियायोगे॑इत्यनेन कारिकाशब्दस्य विशेषणाच्छ्लोकवाचौ कारिकाशब्दोऽत्र न गृह्रत इति भावः । क्रियशब्दस्याऽत्र मर्यादास्थितिरर्थः । यत्न इत्यन्ये ।", "14062": "<<अनुकरणं चानितिपरम्>> - अनुकरणं चा ।ते प्राग्धातोः॑इत्यस्य संज्ञानियमपक्षेऽनितीति व्यर्थमिति मत्वा पृतच्छति अनितिपरं किमिति । इतरस्तु प्रयोगनियमपक्षे खाडित्यनुकरणस्येतिशब्दे परे गतिसंज्ञानिवारणायाऽनितिपरमित्यावश्यकमिति प्रत्युदाहरति खाडिति कृत्वेति । सत्यां संज्ञायामेष प्रयोगो नैव स्यात्कतुइति खाटकृत्ये॑त्येव स्यादिति भावः । न चइति खाटकृत्ये॑ति न भवति, इतेः परस्यानुकरणस्य गतिसंज्ञानिषेधादिति वाच्यम्,अनितिपर॑मित्यत्र इतिः परोयस्मात्तदितिपरं, न इतिपरमनितिपरमिति बहुव्रीहिघटितनञ्तत्परुषाश्रयणात् । स्यादेतत् — अनुकरणस्येतिशब्दपरत्वे क्रियायोगाऽभावाद्गतिसंज्ञा नास्तचीति खाडिति कृत्वेति रूपं निर्बाधं, किमनेनाऽनिकिपरग्रहणेनेति चेत्, अत्राहुः — इतिकृत्वेति समुपदाये एवंकृत्वेत्यर्थे वर्तते । तथा चेतिशब्दः क्रियाविशेषक इति तद्धटितसमुदायस्य क्रियावाच कत्वादस्त्येव क्रियायोग इति ।", "14063": "", "14064": "", "14065": "<<अन्तरपरिग्रहे>> - हतं परिगृह्रति । हत्वा गमनं द्विधा, हतं त्यच्त्वा परिगृह्र चेति । आद्यमुदाहरणं, द्वितीयं तु प्रत्युदाहरणम् ।॒अपरिग्रहे॑इति च प्रयोगोपाधिः, नतु वाच्यकोटिनिविष्टमिति भावः ।", "14066": "<<कणेमनसी श्रद्धाप्रतीघाते>> - कणेहेत्येति । अत्यन्तमभिलष्य तन्निवृत्तिपर्यन्तं पिबतीत्यर्थः । तथा च श्रद्धाया अपगमात्तत्प्रतीघातो गम्यते । प्रत्युदाहरणं तु कणे हत्वा गतः । सूक्ष्मस्तण्डुलावयवः कणः । तस्मिन् हत्वेत्यर्थः ।", "14067": "<<पुरोऽव्ययम्>> - पुरस्कृत्येति ।पूर्वधरावराणा॑मित्यसिप्रत्ययान्तोऽयमव्ययम् ।नमस्पुरसो॑रिति विसर्गस्य सः ।अमुं परः पश्यसी॑त्यत्र तु॒ स्थित॑मित्यध्याहारेण दृशि प्रत्ययतित्वात्सत्वाऽभावः । अव्ययं किम् । पुरं पुरौ पुरः कृत्वा गतः । अस्तं च । अवययमिति किम् । अस्तं कृत्वा काण्डं गतः । क्षिप्तमित्यर्थः ।", "14068": "", "14069": "<<अच्छ गत्यर्थवदेषु>> - अच्छमिति । सत्यां हि गतिसंज्ञायां निपातसंज्ञावत्त्वेनाव्ययत्वात्सुब्लुक् स्यादिति भावः । अदःस कृत्येति । यदा स्वयमेव पर्यालोचयति तदेदमुदाहरणम् ।", "14070": "<<अदोऽनुपदेशे>> - अदःकृतमिति ।गतिरनन्तरः॑इति पूर्वपदप्रकृतिस्वरेणाद्युदात्तत्वम् । प्रत्युदाहरणमिति । अदः कृत्वा अदः कुर्वित्यादीत्यर्थः ।", "14071": "<<विभाषा कृञि>> - विभाषा कृञि । तिरः कृत्वेति । गतित्वाऽभावपक्षेतिरसोऽन्यतरस्या॑मिति सत्वमपि न भवति, तद्विधौ गतिग्रहणानुवृत्तेः । माधवस्तु — पराभवेतिरस्कार॑इति प्रयोगदर्शनात्सत्वविधौ गतिग्रहणानुवृतिंत केचिन्नेच्छन्तीत्याह । (६७३) उपाजेऽन्वाजे ।१.४.७३ ।उपाजेऽन्वाजे । एतौ विभक्तिप्रतिरूपकौ निपातौ दुर्बलस्य सामर्थ्यधाने वर्तेते । तदाह — दुर्बसल्येति । साक्षात्प्भृतीनि । साक्षात् । मिथ्या । आम् । अद्धा । लवणम् । उष्णम् । शीतम् । उदकम् । आद्र्रम् । गतिसंज्ञासंनियोगेन लवणादीनां पञ्चानां मकारान्तत्वं निपात्यते । प्रादुस् । नमस् । आविस् इत्यादि । आकृतिगणोऽयम् ।", "14072": "विभाषा कृञि। तिरः कृत्वेति। गतित्वाऽभावपक्षे `तिरसोऽन्यतरस्या`मिति सत्वमपि न भवति, तद्विधौ गतिग्रहणानुवृत्तेः। माधवस्तु - पराभवे `तिरस्कार`इति प्रयोगदर्शनात्सत्वविधौ गतिग्रहणानुवृतिं?त केचिन्नेच्छन्तीत्याह। (673) उपाजेऽन्वाजे।1.4.73।", "14073": "", "14074": "<<साक्षात्प्रभृतीनि च>> - साक्षात्कृत्येति । असाक्षाद्भूतं यथा साक्षाद्भवति तथा कृत्वेत्यर्थः । च्व्यन्तेषु तु पूर्वविप्रतिषेधात्ऊर्यादिच्विडाचश्चे॑ति नित्यैव गतिसंज्ञा । तेन लवणीकृत्येत्यत्र मान्तत्वं न भवति । तद्धि पाक्षिकं । गतिसंज्ञासंनियोगेनेह गणे निपातनात् । भाष्यकृतालवणशब्दस्य लवणीशब्दस्य वा विकल्पेन लवणशब्द आदिश्यते तस्य च संज्ञाविकल्प॑इत्युक्तम् । उभयथापि त्रैरूप्यं निर्बाधम् ।", "14075": "<<अनत्याधान उरसिमनसी>> - अनत्या । उरसिमनसी विभक्तिप्रतिरूपकौ ।", "14076": "<<मध्येपदेनिवचने च>> - मध्ये पदे ।विभाषाकृञी॑ति वर्तते, चकारादनत्याधाने॑इति च । एषामनत्याधानरूपार्थविशेषे एदन्तत्वमविशेषएण निपात्यते, न तु गतिसंज्ञासंनियोगेन । अनत्याधाने किम् । पदे कृत्वा शिरो नमति । वाचं नियम्येति । निवचनं हि वचनाऽभावः । अर्थाऽभावेऽव्ययीभावः ।", "14077": "<<नित्यं हस्ते पाणावुपयमने>> - नित्यं हस्ते । उपयमनरूपार्थ एवैतयोरेदन्तत्वमौदन्तत्वं च निपात्यते । हस्तेकृत्येति । परिणीयेत्यर्थः । उपयमने किम् । हस्ते कृत्वा कार्षापणं गतः । स्वीकारमात्रमिति पक्षे तु नाऽलमिति बुद्द्य परावृत्त्य दानार्थं गतीति योज्यम् । एवं तावद्गतिसमासानुदाहृत्य प्रादिसमासान्वक्तुमारभते — प्रादिग्रहणमिति ।", "14078": "", "14079": "<<जीविकोपनिषदावौपम्ये>> - सुपुरुष इति । क्रियायोगाऽभावाद्गतित्वाऽभावः । अव्यवस्थया समासप्रसक्तौ व्यवस्थार्थं वचनानि पठन्ते — प्रादय इति । आदिशब्द उभयत्र प्रकारे । तेन दुराचारः पुरुषो दुष्पुरुष इत्यादि सिद्धम् । प्रगत आचार्य इति । अनेन गतार्थे वृत्तिमस्वपदविग्रहेण नित्यसमासतां च दर्शयति । एवं प्रगतः पितामहः प्रपितामहः । प्रमातामह इत्यादि । अत्यादयः क्रान्ताद्यर्थे द्वितीयया । अत्यादय इति । आदिपदादभिगता मुखमभिमुखः । उद्गतो वेलामुद्वेलः । प्रतिगतोऽक्षं प्रत्यक्ष इत्यादि सिद्धम् । अतिमाल इति ।गोस्त्रियो॑रिति ह्रस्वः ।अवादयः क्रुष्टाद्यर्थे तृतीयया । अवादय इति । आदिपदात्परिणद्धो वीरुधा परि वीरुत् । संनद्धो वर्मणा संवर्मेति । पर्यादयो ग्लानाद्यर्थे चतुथ्र्या । पर्यादय इति । आदिपदादुद्युक्तः सङ्ग्रामाय — उत्सङ्ग्रामः । अध्ययनायेति । तादर्थ्ये चतुर्थी । गुरुकुलवासादिना परिग्लानोऽध्ययनार्थमित्यर्थः ।निरादयः क्रान्तद्यर्थे पञ्चम्या । निरादय इति । आदिपदादुत्क्रान्तः कुलादुत्कुलः । निर्गतमङ्गुलिभ्यो निरङ्गुलम् । प्रतिषेध इति ।कुगतिप्रादयः॑इति प्रसक्तसमासस्य वक्तव्यः प्रतिषेधः, स चसुराजा, अतिसखे॑ति भाष्यादिप्रयागात्स्वतिभिन्ननामेव कर्मप्रवचनीयानामित्यर्थः ।कर्मुप्रवचनीयानां प्रतिषेधः । वृक्षं प्रितीति ।लक्षणेत्थ भूते॑ति कर्मप्रवचनीयत्वविधिसामर्थ्यादिह समासो नेति चेत्, तर्हि अपि स्तुततमित्युदाहार्यम् ।अपि स्तुयाद्विष्णु॑मित्यादौअपिः पदार्थसंभावने त्यस्य साबकाशत्वात्स्वरे विशेषसत्त्वाच्चत्याहुः ।", "14080": "<<ते प्राग्धातोः>> - न परतः, नापि व्यवहिता इत्यर्थः । अत एवछन्दसि परेऽपि॑,व्यवहिताश्चे॑ति सूत्रितम् ।", "14081": "", "14082": "", "14083": "<<कर्मप्रवचनीयाः>> - कर्मप्रवचनीयाः । इत्यधिकृत्येति । रूआरात्प्रागिति बोध्यम् । गुरुसंज्ञाकरणमन्वर्थत्वाय । कर्म क्रियां प्रोक्तवन्तः कर्मप्रवचनीयाः । बाहुलकाद्भूते कर्तर्यनीयर् । तेन संप्रति क्रियां न द्योतयन्तीति लभ्यते । तथा च हरिः — ॒क्रियाया द्योतको नाऽयं सम्बन्खस्य न वाचकः । नापि क्रियापदाक्षेपी, सम्बन्धस्य तु भेदकः॑इति । तथाहिजपमनु प्रावर्ष॑दित्यत्र अनुना न क्रियाविशेषो द्योत्यते,अनुभूयते सुख॑मित्यदौ यथा । नापि षष्ठएव सम्बन्ध उच्यते, द्वितीययैवो तस्योक्तत्वात् । नापिप्रादेशं विपरिलिखति॑विमाय परिलिखतीत्यत्र विशब्देन मानक्रियेव क्रियान्तरमाक्षिप्यते, कारकविभक्तिप्रसङ्गात् । किं तु जपसम्बन्धि वर्षणमिति द्वितीययावगतः सम्बन्धो लक्ष्यलक्षणभाव एवेत्यवगमात्सम्बन्ध एवानुना विशेषेऽवस्थाप्यते । क्विचित्तु क्रियागतविशेषद्योतकेऽपि इयं संज्ञा वचनात्प्रवर्तते ।सुःपूजायाम्॒अतिरतिक्रमणे च ॑इति यथा । उक्तसंज्ञ इति । कर्मप्रवचनीयसंज्ञ इत्यर्थः ।", "14084": "<<अनुर्लक्षणे>> - गत्युपसर्गसंज्ञापवाद इति । ननुजपमनु प्रावर्ष॑दित्यत्र वृष्ट प्रत्यनोर्योगाऽभावेन क्रियायोगाऽभावादेतयोः संज्ञयोः प्राप्त्यभावात्कथं तदपवादत्वमस्याः सञ्ज्ञाया इति चेत् । अत्राहुः — गम्यमाननिशमनक्रियामपेक्ष्य तयोः प्राप्तिरस्तीति संभावनामात्रेण मूलस्य निर्बाधत्वात् । न चैवं कर्मंत्वादेव द्वितीयासिद्धौ किमनया संज्ञयेति वाच्यम्, जपस्य निशमनप्रयुक्तहेतुत्वाख्यसंबन्धविवक्षायां कर्मत्वाऽभावेन तृतीयायां प्राप्तायां तदारम्भात् । न चैवमपिजपमनु निशम्य देवः प्रावर्षत्इत्यर्थावगमाल्ल्य[बन्त]लोपे पञ्चम्यपवादार्थैवेयं संज्ञाऽस्त्विति वाच्यम् । ल्य[बन्त]लोपे हि कर्मँणि अधिकरणे च पञ्चमी, जपस्य तु कर्मत्वादिना विवक्षाऽभावादिति । परापि हेतौतृतीयेत्यादि । अयं भावः — लक्षणे कर्मप्रवचनीयसंज्ञाया अवकाशो यो न हेतुः — ॒वृक्षमनु विद्योतते विद्यु॑दिति, हेतुतृतीयाया अवकाशोधनेन कुल॑मित्यादि ।जपमनु प्रावर्ष॑दित्यत्र तु देतुभूते लक्षणे परत्वात्तृतीया स्यात्तां बाधित्वाअनुर्लक्षणे॑इति पुनः संज्ञाविधानसामर्थ्याद्द्वितीयैव भवतीति । न चतृतीयार्थे॑इति सूत्रेणेह गतार्थता शङ्क्या, तस्य पुरस्तादपवादन्यायेनसहयुक्तेऽप्रधाने॑इत्येतावन्मात्रबाधकत्वात् । समाथ्र्यादिति । अत एव हेतुत्वपर्यन्तमपि शाब्दबोधे विषय इति स्वीक्रियते इति भावः । नदीमन्विति । द्वितीयायाः संम्बन्धोऽर्थः, षष्ठपवादत्वादेतद्द्वितीयायाः । स चेह संबन्धः साहित्यरूप एवेत्यनुना द्योत्यते ।", "14085": "", "14086": "<<हीने>> - हीने । उत्कृष्टादेव द्वितीया न त्वपकृष्टात्, शक्तिस्वभावदित्याशयेनोदाहरति — अनु हरिमिति । उपोऽधिके च । चकारेण हीने इत्यनुकृष्यते, तदाह — अधिके हीने चेति । अधिके संज्ञाविधानं न द्वितीयार्थमित्याह — सप्तमी वक्ष्यत इति ।यस्मादधिक॑मित्यनेनेति भावः । तस्मिन्नपि सूत्रेकर्मप्रवचनीययुक्ते॑इत्यनुवृत्तेरधिके संज्ञाविधान मावश्यकमेवेति ज्ञेयम् ।", "14087": "<<उपोऽधिके च>> - उपहरिमिति । पूर्ववदुत्कष्टादेव द्वितीया ।", "14088": "<<अपपरी वर्जने>> - अपपरी । वर्जने किम् । परिषिञ्चति । सर्वत इत्यर्थः । अत्रोपसर्गत्वात्षत्वम् । वचनग्रहणादिति । विना तेनेति मर्याद, सह तेनेत्यभिविधिरित्यत्र य उपात्तो विशेषो विशेषणांशरूपः सोऽत्र न गृह्रते, वचनग्रहणसामर्थ्यात्, किंत अवधिमात्रं विवक्ष्यते इत्यर्थद्वयसङ्ग्रहः । यद्वा मर्यादाशब्दो यस्मिन्नुच्यते तन्मर्यादा वचनं, तद्धिआङ्भार्यादाभिविध्योः॑ इति सूत्रं, तत्र य आङ् दृष्टः स उक्तसंज्ञ इत्यर्थः ।", "14089": "", "14090": "<<लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः>> - लक्षणेत्थं । वृक्षं प्रतीति । वृक्षसंबन्धि द्योतनमर्थः । संबन्धश्च लक्ष्यलक्षणभाव इति प्रत्यादयो द्योतयन्ति । भक्तो विष्णुं प्रतीति । विष्णोर्भक्तेश्च विषयविषयिभावः प्रत्यादिद्योत्यः । भक्तः किंचित् प्रकारं प्राप्त इत्यर्थः । लक्ष्मीर्हरिं प्रतीति । लक्ष्मीरूपस्य भागस्य हरिणा सह स्वस्वामिभावः [संबन्धः] । वृक्षं वृक्षमिति । इह वूप्सा द्विर्वचनेनैव द्योत्यते । प्रत्यादिशब्दस्तु क्रियया संबध्यते । कर्मण्येव द्वितीय । क्रमप्रवचनीयसंज्ञया उपसर्गसंज्ञाया बाधात् षत्वं न, एतदर्थमेवलक्षणादयो विषयट तयोपात्ता॑इति व्याख्यातमाकरे ।पञ्चम्यपाङ्परिभिः॑इति तु न भवति, वर्जनार्थेनाऽपेत्यनेन साहचर्यात् । परिषिञ्चतीति । सर्वतः सिञ्चतीत्तर्थः ।उपसर्गात्सुनोती॑ति षत्वम् ।", "14091": "<<अभिरभागे>> - ममाऽभिष्यादिति । मम भागः स्यादित्यर्थः । प्राञ्चस्तु -मामभिष्यादिति प्रत्युदाहरन्ति, तत्र प्राप्नुयादित्यर्थः । उपसर्गवशेनाऽस्तेः सकर्मकत्वान्मामिति द्वितीया । अत्र च मम भाग इत्यर्थतः पर्यवसानात्अभागे॑इति कर्मप्रवचनीयत्वे निषिद्धेउपसर्ग प्रादुभ्र्या॑मिति षत्वम् ।", "14092": "", "14093": "<<अधिपरी अनर्थकौ>> - कृतोऽध्यागच्छतीति । इह — प्रयती, पराभवति, वृक्षं प्रति विद्योतते इत्यत्र प्रादेर्विशेषद्योतकत्ववदधिपर्योरिह विशेषद्योतकत्वाऽभावादानार्थक्यं, धात्वर्थमात्रद्योतकत्वेन त्वर्थताऽस्त्येवेति बोध्यम् ।॒गतिर्गतौ॑इत्यत्र पदादित्यधिक्रियत इति पदात्परत्वसंपत्तयेकुत॑इत्युक्तम् ।", "14094": "", "14095": "<<अतिरतिक्रमणे च>> - अतिरतिक्रमेण च । चकारेणपूजाया॑मित्यनुकृष्यत इत्याह -पूजायां चेति । अतिक्रमणम् — उचितादधिकस्यानुष्ठानम् । अर्थद्वयेऽप्येकमेवोदाहरिति -अति देवान् कृष्ण इति । अन्ये तूदाहरन्ति अतिसिक्तम्, अतिस्तुतमिति । बहुतरं समीचीनं वा सिक्तं स्तुतं चेत्यर्थः । बहुतरार्थे अतिक्रमाणं, समीचीने पूजेति विवेकः ।", "14096": "<<अपिः पदार्थसम्भावनान्ववसर्गगर्हासमुच्चयेषु>> - अपिः पदार्थ । सर्पिषोऽपि स्यादिति । सर्पिर्बिन्दुः स्यादित्यर्थः । अपेः कर्मप्रवचनीयत्वे फलमाह — अनुपसर्गत्वान्न ष इति । उपसर्गसंज्ञाऽभावात्उपसर्गप्रदुभ्र्यामस्ति॑रितीह न प्रवर्तत इति भावः । संभावनायामिति । संभावनाया एवेत्यर्थः । कर्तृदौर्लभ्येत्यादि । कर्तृदौर्लभ्याद्भवनक्रियाया दौर्लभ्यं द्योतयन्नपिशब्दो भवनक्रियावाचिनास्या॑दित्यनेन सम्बध्यत इत्यर्थः । अवयवावयविभावेति । सर्पिरवयवी । बिन्दुरवयवः । इयमेवेति । बिन्दुदौभ्र्यप्रयुक्तदौर्लभ्यद्योतकतैवेत्यर्थः । द्वितीयेति ।कर्मप्रवचनीययुक्ते -॑इत्यनेन विहिता । नत्वपिनेति । न च बिन्दुना योगे तद्दयोतकाऽपिशब्देनाऽपि योगो जात एव, अर्थद्वारा शब्दानां योगस्याब्युपगमादिति शङ्क्यम् । अपिशब्दस्य बिन्दुद्योतकत्वाऽभावात् । कथं तर्हि बिन्दुप्रतीतिरिति चेत् । शृणु -अपिना द्योत्यं भवनदौर्लभ्यमेव कर्तृदौर्लभ्यमाक्षिपति । कर्ता त्विह विन्दुरेवेति स प्रतीयते । अत एवअपिशब्दबलेन गम्यमानस्ये॑त्यक्तुं, न त्वपिना गम्यमानस्येति । उक्तत्वादिति । उक्तप्रयात्वादित्यर्थः ।अपिशब्दः स्यादित्यनेन संबध्यत॑इत्युक्तेस्यादित्यस्याऽपिना योगो न तु सर्पिषा इत्यर्थपर्यवसानात् । अप#इ स्तुयादिति । अवाङ्भनसगोचरं विष्णुमपि स्तुयादित्यधिकोक्तिः । एतादृशस्याऽन्यदीयस्तवने सामर्थ्यमस्तीत्यत्र किं वक्तव्यमिति भावः । इह संभावनाद्योतकोऽपिशब्दः, पूर्वत्र तु संभावनाविषयेदौर्लभ्यद्योतक इति महान्भेदः ।उपसर्गात्सुमनोति॑ इत्यादिना षत्वं न भवति, कर्मप्रवचनीयसंज्ञया उपसर्गसंज्ञाया बाधात् । एवमुत्तरत्रापि बोध्यम् । अपि सिञ्च । अपि स्तुहीति । सिञ्च च स्तुहि चेत्यर्थः ।", "14097": "", "14098": "<<विभाषा कृञि>> - यदत्रेति । यो मामधि करिष्यति=विनियोक्ष्यते तस्य मद्विनियोक्तुरीश्ररत्वं गम्यते इथ्यर्थः । तिङि चोदात्तेति । उदात्तविति तिङि परे गतिर्मिहन्यत इति सूत्रार्थः । अत्र करिष्यतीति तिङन्त उदात्तवान्,तिङ्ङतिङः॑ इथि निघातस्यनिपातैर्यद्यदि॑ इत्यादिना निषेधात् । निघातो नेति । मामिति द्वितीया तुकर्मणि द्वितीया॑ इत्यनेनैव सिध्यतीति भावः । इति सप्तमी । इति विभक्त्यर्थाः ।* इति ज्ञानेन्द्र भिक्षुविरचितायां तत्त्वबोधिन्यां कारकप्रकरणम् *अथ तिङन्ते कर्मकर्तृप्रक्रिया ।कर्मणस्त्विति । सौकर्यातिशयं द्योतयितुमित्यनुषह्गः । प्रायेणेति । ये भिदिच्छिदिप्रभृतय एककर्मकान्ते अकर्मका ये तु द्विकर्मकास्ते सकर्मका इति भावः । अकर्मकत्वस्य फलमाह — भावे कर्तरि चेति ।भावे चाऽकर्मकेभ्य॑ इत्युक्तत्वादिति भावः । द्विकर्मकेषु कर्मणः कर्तृत्वविवक्षायामुदाहरणम् — मथ्नाति सागरोऽमृतं॑स्वयं प्रदुग्धेऽस्य गुणैरुपरुआउता वसूपमानस्य वसूनि मेदिनी॑ति ।प्रदुग्धे॑ इत्यत्रकर्मवत्कर्मणे॑ ति प्राप्तस्यसकर्मकाणा॑मिति निषेधे दुहिपच्योरिति प्रतिप्रसूतस्य यकोन दुहस्नुनमा॑मिति निषेधः । उक्तप्रयोगानुरोधाद्द्वकर्मकेषु गौणस्यैव कर्मणः कर्तृत्वविवक्षा न मुख्यस्येत्याहुः । तच्चिन्त्यम् ।अजां ग्रामं नयती॑त्यत्र मुख्यकर्म णः कर्तृत्वविवक्षादर्शनात् । अत्रेदमवध्यम् — अदिकरणत्वाऽविवक्षायां व्रजो गौणकर्मेतिरुणिद्धि व्रजो गां स्वयमेवे॑ति भवति । यदा तु व्रजस्य न कर्मत्वं तदा मुख्यकर्मणोऽपि कर्तृत्वविवक्षा भवति । रुध्यते व्रजे गौः स्वयमेवेति । तथा गोरपादानत्वविवक्षायां गौर्दुह्रते पयः स्वयमेवेत्यादि ।", "14099": "", "14100": "<<तङानावात्मनेपदम्>> - लस्येत्यस्यानुवृत्तेर्लादेश एवाऽऽनो गृह्रते इत्याशयेनाह — शानच्कानचौ चेति । तेन परस्मैपदिभ्योऽपिताच्छील्यवयोवचने॑इति चानश्भवत्येव ।कतीह निघ्नानाः॑॥", "14101": "<<तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः>> - तिङ षट् त्रिकाः, संज्ञास्तु तिरुआ इति यथासङ्ख्याऽसम्भवादेकैकस्य त्रिकस्य तिसृषु संज्ञासु उभयोरिति । परस्मैपदमात्मनेपदमिति चानुवर्तते । तेन पदद्वये प्रत्येकं त्रयस्त्रिका इतियथासंङ्ख्यं संज्ञाः प्रवर्तन्त इति भावः । ननु प्रथमश्च् प्रथमश्च प्रथमौ, मध्यमश्च मध्यमश्च मध्यमावित्येवं कृतैकशेषाणां प्रथमादीनां, प्रथमौ च मध्यमौ च उत्तमौ च प्रथममध्यमोत्तमा इति द्वन्द्वेऽभ्युपगते त्रिकद्वयस्य त्रकद्वयस्य यथासङ्ख्यं प्रथममद्यमोत्तमसंज्ञाः स्युर्न त्वेकैकस्येतिणलुत्तमो वे॑ति सूत्रं विरध्येत, णल उत्तमसंज्ञकत्वाऽलाभात्, ततश्चप्रथममद्यमोत्तमा॑ इत्यत्र कृतद्वन्द्वानां प्रथममध्योमोत्तमाश्च प्रथममद्यमोत्तमाश्चेत्येकशेष आश्रीयताम्, तथाहि सति सञ्ज्ञा अपि षडिति परस्मैपदात्मनेपदग्रहणानुवृत्तिक्लेशं विनैवेष्टसिद्धिरिति चेत् । मैवम् । एकदेशाश्रयणे गौरवाद्वैयथ्र्याच्च त्वयापि परस्मैपदात्मनेपदग्रहणमनुवर्त्त्यमेव । अन्यथा शतृक्वस्वोः सावकाशा परस्मैपदसंज्ञा प्रथमादिसंज्ञया बाध्येत । ततश्च क्राम्यति पदानामिति विहितस्य णलोणलुत्तमो वे॑ति णित्त्वविकल्पविधानाज्ज्ञापकात्परस्मैपदसंज्ञा प्रथमादिसंज्ञया न बाध्यत इति ब्रूषे, तर्हि सुतरां प्रतिपत्तिगौरवम्॥", "14102": "<<तान्येकवचनद्विवचनबहुवचनान्येकशः>> - ॒तानी॑त्यस्य व्याख्यानं — लब्धेत्यादि । अन्यथैकसंज्ञाधिकारात्प्रथमादिसंज्ञानामेकवचनादिसंज्ञानां च पर्यायः स्यात् । इष्टापत्तौ तु अत्तेर्लोटोमेर्नि॑ रिति कृते एकत्वविवक्षायामुत्तमसंज्ञाऽभावात्आडुत्तमस्ये॑त्यस्याऽप्रवृत्त्या अन्नीत्यादिप्रयोगोऽपि साधुः स्यादिति भावः । प्रत्येकमिति । यत्तु प्राचाएकैकश॑ इत्युक्तं,तदयुक्तम् । शसैव वीप्साया उक्तत्वेन द्विर्वचनाऽयोगात्,येन नाप्राप्तिन्यायेन द्विर्वचनापवादः श॑ सिति सिद्धान्तात् । तथासुपःर॑ इति सूत्रेऽप्येककैकश इति प्राचोक्तमयुक्तमेव । एतच्च मनोरमाग्रन्थानुरोधेनोक्तम्॥ अन्ये तु एकैकमेवैकैकशः, स्वार्थे शस्, न त्वत्र वीप्सायाम् । न च स्वार्थे यः शस् स आकरग्रन्थान्नावगम्यत इति वाच्यम्,एकां कपिलामेकैकशः सहरुआकृत्वो दत्त्वे॑ति भाष्यात्, शसन्तस्य प्रत्येकमित्यर्थकत्वेन कैयटेन व्याख्यानाच्च स्वार्थिकस्यापि शसोऽवगम्यमानत्वात् । ततश्चैकैकश इति प्राचोक्तमयुक्तमिति यदुक्तं तदेवाऽयुक्तमित्याहुः ।", "14103": "<<सुपः>> - सुपः । अत्रतिङस्त्रीणि त्रीणि॑ — इति सूत्रात्त्रीणि त्रीणी॑ति पदं,तान्येकवचने॑ति सूत्रं चतानी॑ति पदं विहायानुवर्तत इति व्याचष्टे — सुपस्त्रीणि त्रीणित्यादिना । एकश इति । एकैकमित्यर्थः । सङ्ख्यैकवचनाच्चे॑ति वीप्सायां प्रथमान्ताच्छस् ।", "14104": "<<विभक्तिश्च>> - विभक्तिश्च ।तिङ्स्त्रीणि त्रीणि — ॑ इत्यतस्तिङ्ग्रहणं व्यवहितमपि स्वरितत्वबलादनुवर्तते ।सुपः॑ इति च संनिहितमित्यभिप्रेत्याहु — सुप्तिङाविति । तिङां विभक्तिसंज्ञायाः प्रयोजनंन विभक्तौ तुस्माः॑ इति । सुपां तु त्यदाद्यत्वादिकमपि । चकारः पुरुषवचनसंज्ञाभ्यां संमावेशार्थः । अन्यथा एकसंज्ञाधिकारादेकवचनादिसंज्ञाभिः सह वचनद्वयप्रामाण्यात्पर्यायः स्यात् । ततश्चरामेभ्यो॑नमाम॑ इत्यादौ बहुवचनसंज्ञापक्षे विभक्तित्वाऽभावात्सस्येत्संज्ञा स्यात् । इहापीति । अस्मिन्नपि तन्त्रेप्रातिपदिकार्थलिङ्गपरिमाणे॑त्यादावित्यर्थः ।", "14105": "<<युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः>> - युष्मदि । समानाधिकरणे इत्यस्य व्याख्यानं — तिङ्वाच्यकारकवाचिनीति । भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिः — सामानाधिकरणम् । स्थानिनीत्यस्य व्याख्यानम्- अप्रयुज्यमान इति । समानाधिकरणे किम् । त्वं पश्यति, त्वया क्रियते, तुभ्यं ददाति॥", "14106": "<<प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च>> - वाक्यद्वयमिदं सूत्रम् ।प्रहासे च मन्योपपदे॑ इति प्रथमं वाक्यम् । मध्यम इत्यनुवर्तते । मनधातुः श्यन्विकरण उपपदं यस्येति बहुव्रीहिः । मन्यपदश्रवणबलाद्धाताविति विशेष्यं लभ्यते । तदाह — मन्यधातुरित्यादिना । तस्मिन्प्रकृतिभूते सतीति । तस्माद्धातोर्लस्य स्थाने इत्यर्थः । मध्यमः स्यादिति ।अस्मद्युपपदे॑ इति शेषः । अस्मद्युत्तमं इत्युत्तरसूत्रात्तदनुवृत्तेः । एवं च उत्तमपुरुषापवादोऽयं मध्यमविधिः ।मन्यतेरुत्तम एकवच्चे॑ति द्वितीयं वाक्यम् । तद्व्याचष्टे - मन्यतेस्तूत्तमः स्यादिति ।युष्मद्युपपदे॑ इति शेषः । पूर्वसूत्रात्तदनुवृत्तेः । स चेति । सः = मन्यतेरुत्तमपुरुषः, द्वित्वबहुत्वयोरपि एकवचनं लभत इत्यर्थः । मद्यमोत्तमयोव्र्यत्यासार्थमिदम् । एतत्सर्वमनुवपदमेवोदाहरणे स्पष्टीभविष्यति ।", "14107": "<<अस्मद्युत्तमः>> - तथाभूते इति । तिङ्वाच्यकारकवाचिनि प्रयुज्यमानेऽप्रयुज्यमाने चेत्यर्थः॥", "14108": "", "14109": "<<परः सन्निकर्षः संहिता>> - लुक् स्त्रियाम् । विहितस्येति ।परिशेषितस्य वे॑ति बोध्यम् । एतच्चआङ्गिरसे॑इत्यनुवृत्त्या लभ्यते । यद्यपिवतण्डाल्लुक् स्त्रिया॑मित्येकसूत्रकरणेऽपिआङ्गिरसे॑इत्यनिवृत्त्या अनाङ्गिरसे यञणोर्लुगभावात् स्त्रियामिष्टं सिद्द्यति, तथापि पुंस्याङ्गिरसे यञणोरुभयोः प्राप्तिरनिष्टेति तद्वारणाय पृथक् सूत्रं कृतम् । ऋषित्वादिति । न चैवंऋष्यन्धके॑त्यणि सिद्धे शिवादिगणे वतण्डपाठो व्यर्थं इति शङ्क्यम् । गर्गादिपाठेन यञा बाधात्तन्निवृत्तये तत्पाठस्यावश्यरकत्वात । ष्यङ्नेति ।अणिञोरनार्षयो॑रिति सूत्रेणेति भावः ।", "14110": "<<विरामोऽवसानम्>> - विरामोऽवसानम् । विरमणं विरामः । भांवेघञ् । शब्दानुसासनप्रस्तावादाह-वर्णानामिति । संज्ञाप्रदेशाः-वावसाने॑ इत्यादयः । अभावस्यापि बुद्धिकृतं पौर्वापर्यमस्त्येव, यथोच्चरितप्रध्वंसिनां नित्यविभूनां वा वर्णानाम् । यद्वा विरम्यतेऽनेनेति विरामः, बाहुलकात्करणे घञ् । यदुच्चारणोत्तरं वर्णान्तरं नोच्चार्यते सोऽन्त्यवर्णोऽवसानसंज्ञ इत्यर्थः । अस्मस्तु पक्षेखरवसानयोः॑ इत्येकापि सप्तमी विषयभेदाद्भिद्यते-खरि परे रेफस्य विसर्गः, अवसाने च रेफे स्थानिनीति ।", "21001": "<<समर्थः पदविधिः>> - समर्थः पदविधिः । सामर्थ्यं च द्विविधं — व्यपेक्षालक्षणमेकार्थीभावलक्षणं चेति । तत्र स्वार्थपर्यवसायिना पदानामाकाङ्क्षादिवशाद्यः परस्परसंबन्धः सा व्यपेक्षा । सैव वाक्ये राज्ञः पुरुष इत्यादौ । तत्प व्यपेक्षायां सत्यां यो यः संनिहितो योग्यश्च तेन तेन संबन्धोऽभ्युपेयते । यथा राज्ञः पुरुषोऽआश्च । राज्ञो देवदत्तस्य च पुरुष इति । एकर्थीभावस्तु राजपुरुष इत्यादिवृत्तावेव । स च प्राक्रियादशायां पृथगर्थत्वेन प्रथमगृहीतस्य विशिष्टैकार्थत्वरूपः । अतएव राजपुरुष इत्यत्र राज्ञि ऋद्धस्येति विशेषणं नान्वेति, पदार्थैकदेशत्वात् । न चैवं देवदत्तस्य गुरुकुलमित्यादावनन्वयापत्तिः, तत्रापि देवदत्तोत्तरषष्ठर्थस्य गुरुणाऽन्वयादिति वाच्यम् । देवदत्तस्य प्रधानीभूतकुलैनैवान्वयात् । संबन्धस्तूपस्थितगुरुद्वारक एव षष्ठर्थो, न तु तदितरः । उक्तं च -॒समुदायेन सम्बन्धो येषां गुरुकुलादिना । संस्पृश्यवयवांस्ते तु युज्यन्ते तद्वता सह॑ । इति । यद्वा -ससंबन्धिकपदार्थस्यैकदेशत्वेऽपि भवत्येव विशेषणान्वयः । उक्तं च -॒संबन्धिशब्दः सापेक्षो नित्यं सर्वः समस्यते । वाक्यवत्सा व्यपेक्षा हि वृत्तावपि न हीयते॑ इति । नन्वेवं राज्ञोऽपि नित्यसापेक्षत्वादेशत्वेऽपि ऋद्धस्येति विशेषणेनान्वयोऽस्तचु । मैवम् । राज्ञ ईशितुरीशितव्यं प्रति साकाङ्क्षत्वेऽपि ऋद्धं प्रत्यनाकाङ्क्षत्वात् । ननु वाक्ये कॢप्तयैवाऽवयवशक्त्योपपत्तौ विशिष्टर्थविषयं शक्त्यन्तरमेव मास्तु । सत्यम् -॒बहूनां वृत्तिधर्माणां वचनैरेव साधने । स्यान्मदद्गौरवं तस्मादेकार्थीभाव आस्थितः । चकारादिनिषेधोऽथ बहुव्युत्पत्तिभञ्जनम् । कर्तव्यं ते, न्यायसिद्धं त्वस्माकं तदिति स्थितम् । तथाहि -धवखदिराविति वृत्त्यैव क्रीडीकृतार्थत्वाच्चकारो न प्रयुज्यते, तथा चित्रग्वादौ यत्पदम् । त्वया तु वचनं कर्तव्यम् । निरूढलक्षणा तु शक्तितो नातीव भिद्यते । किंच प्राप्तमुदकं यमिति व्यस्ते समीचीनमुदकमिति विशेषणत्समस्तेऽपि उदकविशेषणप्रयोगः[समासघटव पदार्थानां]प्राप्तः, स चवृत्तस्य विशेषणयोगो न॑ इति वचनेनैव वारणीयः,नामार्थयोरभेदान्वयः॑,प्रत्ययार्थः प्रधानम्इति व्युत्पत्तित्यागश्च ।प्राप्तोदक॑ इत्यादौ उदकर्तृकप्राप्तिकर्मेत्यचाद्यर्थाभ्युपगमात् । एकार्थीभावे तु लाघवमिति दिक् । पदग्रहणं किम् । वर्णविधौ समर्थपरिभाषा मा भूत् । तिष्ठतु दध्यानय तक्रम् । इह स्यादेव यण् । विधिग्रङणं तु पदस्य विधिः पदयोर्विधिः पदानां विधिरित्यनेकविभक्तयन्तसमासलाभार्थम् । पदस्येत्युक्तौ तुउपपदमतिङ् इत्यादावेवास्योपस्थितिः स्यादित्याहुः । सूत्रे समर्थशब्दो लाक्षणिक इति ध्वनयन्नाह — समर्थाश्रित इति । समर्थेति किम् । पश्यति कृष्णं, श्रितो देवदत्तमित्यादौ कृष्णश्रित इत्यादि समासो मा भूत् । यथा वस्त्रमुपगोरपत्यं चैत्रस्येत्यत्रतस्यापत्यम् इत्युपगुशब्दादण्मा भूदिति । क्वचित्तु सापेक्षत्वेऽपि भाष्यप्रामाण्याद्वृत्तिरङ्गीक्रियते । तद्यथा -॒किमोदनः शालीनाम् । केषां शालीनामोदन इत्यर्थः । सक्त्वाढकमापणीयानाम् । आपणीयानां सक्तूनामाढकमित्यर्थः ।कृतो भवान्पाटलिपुत्रकः॑ । द्वे पाटलिपुत्रे, तत्र कस्मात्पाटलिपुत्राद्भवानागत इत्यर्थः ।रोपधेतोः प्राचाम् इति वुञ् ।", "21002": "", "21003": "<<प्राक् कडारात् समासः>> - प्राक्कडारात्समासः । प्राग्ग्रहणमावर्तते, तेन पूर्वं समाससंज्ञा, ततः संज्ञान्तरमपीति लभ्यते । अतोऽव्ययीभावादिभिः समावेशः सिद्ध्यति । अन्यथा पर्यायः स्यात् । समसनं समासः । भावे घञ् । अनेकस्य पदस्य एकपदीभवनमित्यर्थ इत्येके । वस्तुतस्तु — ॒अकर्तरि च कारके -॑ इति कर्मणि घञ् । अन्यथा सुबन्तं समस्यत इत्युत्तरग्रन्थो न सङ्गच्छेत । नन्वन्वर्थत्वात्समाससंज्ञायाः प्रत्येतमप्रसङ्गात्सहग्रहणं व्यर्थमित्याशङ्क्याह - ।", "21004": "<<सह सुपा>> - योगो विभज्यत इति ।सुबामन्त्रितो -॑ इत्यतः सुबित्यनुवर्तते, तदाह -सुबन्तमिति । समस्यत इति । सपूर्वादस्यतेः कर्णि तङ् । आचार्येणेति शेषः । समर्थेनेति तु सहयोगे तृतीया । समसनक्रियां प्रति सुबन्तं कर्म, न तु कर्तृ । यद्यपि सुबन्तस्य कर्तृत्वाभ्युपगमेऽपिउपसर्गादस्यत्यूह्योः॑ इति वार्तिकेन समस्यत इत्यत्रात्मनेपदं लभ्यते, तथापि समास इति व्याख्येयग्रन्थे कर्तरि घञ् दुर्लभः । बाहुलकं तु अगतिकगतिरिति कर्मत्वाभ्युपगम एव ज्यायान् । स चेति । एतदपि योगविभागस्येष्टसिद्ध्यर्थत्वादेव लभ्ते । छन्दस्येवेति । यदि लोकेऽपि स्यात्तर्हि यत्प्रकुरुते इत्यादौ स्वाद्युत्पत्तिः स्यात् । लिङ्गसर्वनामनपुंसकतामभ्युपेत्यस्वमोर्नपुंसकात् इति लुकि कृतेऽपिह्रस्वो नपुंसके -॑इति ह्रस्वः स्यादित्यादि दूषणंकर्मणा यमभिप्रैती॑ति सूत्रेऽस्माभिरुद्भावितम् । अनुव्यचलदिति । सुबित्येकत्वस्य विवक्षितत्वात्पर्यायेण समासो बोध्यः । समासान्तोदात्तत्वे शेषनिघात इतिकुगति -॑ इति सूत्रे कैयटः ।", "21005": "", "21006": "<<अव्ययं विभक्तिसमीपसमृद्धि- व्यृद्ध्यर्थाभावात्ययासम्प्रति- शब्दप्रादुर्भावपश्चाद्यथाऽऽनुपूर्व्ययौगपद्यसादृश्य- सम्पत्तिसाकल्यान्तवचनेषु>> - अव्ययं विभक्ति । विभक्तिरिह कारकशक्तिः । विभज्यते अनया प्रातिपदिकार्थ इथि व्युत्पत्तेः । अतएव वक्ष्यतिविभक्त्यर्थादिषु विद्यमानमव्यय॑मिति ।", "21007": "<<यथाऽसादृश्ये>> - यथाऽसा । निःसंदेहायसादृश्ये यथे॑त्येव वक्तव्ये विपरीतोच्चारणं नञः प्रश्लेषलाभार्थमिति वायचष्ठे असादृश्य इति । यावन्त इति । यत्परिमाणमेषां ते ।यत्तदेतेभ्यः -॑ इति वतुप् ।", "21008": "<<यावदवधारणे>> - यावच्छ्लोकमिति.॒याव॑दित्यव्ययं समस्यते, विग्रहस्तु तद्धितान्तेनेत्यस्वपदविग्रहत्वमस्त्येव । अवधारणे किम् । यावद्दत्तं तावद्भुक्तम् । [कियद्दत्त] कियद्भुक्तं वा नावधारयतीत्यर्थः ।", "21009": "<<सुप्प्रतिना मात्राऽर्थे>> - सुप्प्रतिना । सुबित्यनुवर्तमाने पुनः सुब्ग्रहणमव्ययनिवृत्त्यर्थमिति ध्वनयन्नुदाहरति — शाकप्रतीति.नन्वारम्भसामर्थ्यादव्ययभिन्नमेव सुप्समस्यत इति चेत् । अत्राहुः — पुनः सुब्ग्रहणाऽभावे दोषामन्यमहर्दिवामन्या रात्रिरिति वृत्तिविषये सत्त्वप्रधानतादर्शनात्तादृशाव्ययान्येव मात्रार्थे प्रतिना समस्येरन्, तथा च दिवसस्य लेशो दिवाप्रति दोषाप्रतीत्यादीनाहरणत्वं संभाव्येतेति । वृक्षं प्रतीति । ननु लक्षणादौ प्रतेः कर्मप्रवचनीयसंज्ञाविधानसामर्थ्याद्ध्वितीयागर्भं वाक्यमेव स्यात्, न तु समासः, तस्य लेशार्थे सावकाशत्वादिति चेत् । मैवम् ।वृक्षं प्रति सिञ्चन्ती॑त्यादौ षत्वनिवारकत्वेन कर्मप्रवचनीयसंज्ञाविधानस्य चरुतार्थत्वान्मात्रार्थग्रहणाऽभावे लक्षणादाबप्यनेन समासप्रसङ्गात् । वीप्सायामव्ययीभावे तु प्रत्यादेः पूर्वनिपातत्वेप्रत्यर्थं सिञ्चन्ती॑त्यादौ षत्वाऽप्रसक्त्या कर्मप्रवचनीयविधानस्याऽचरितार्थतया तत्सामर्थ्याद्द्वितीयागर्भं वाक्यमपीत्युक्तं मूलकृताअव्ययं विभक्ती॑ति सूत्रे । अत्र नव्याः — प्रत्यर्थमित्यव्ययीभावे वीप्सायां द्योतकत्वेन विद्यमानमव्ययं समस्यते । वीप्साद्योतकस्य यदि कर्म प्रवचनीयसंज्ञाविधिः स्वीक्रियते, तदापि प्रतिस्तवनं प्रतिस्थानमित्यादौ षत्वनिवारणाय प्रतीत्यस्य कर्मप्रवचनीयसंज्ञा चरितार्थैव । वस्तुतस्तु वीप्सायां विषयभूतायां प्रत्यादेः कर्मप्रवचनीयसंज्ञा, न तु वीप्साद्योतकस्यैव । अन्यथावृक्षं वृक्षं प्रति सिञ्चती॑त्यत्र द्विर्वचनेनैव वीप्सा द्योत्यते । प्रतिशब्दस्तु क्रियाया संबध्यते । कर्मणि द्वितीया । कर्मप्रवचनीयसंज्ञया उपसर्गसंज्ञाया बाधात् षत्वं ने॑त्यादिमनोरमाग्रन्थस्यलक्षणेत्थंभूते॑ति सूत्रस्थस्य दत्तजलाञ्जलिः स्यात्, ततश्च संज्ञाविधानसामर्थ्यास्योपक्षीणत्वात्, अर्थमर्थं प्रतीत्यादिभाष्यप्रयोगादेव द्वितीयागर्भं वाक्यमपि भवतीत्येवं व्याख्येयमित्याहुः । पराजयं द्योतयितुमाह -विपरीतं वृत्तमिति । पूर्वं जये यथा वृत्तं तथा न वृत्तमित्यर्थः । एकपरीति । एकंन विपरीतं वृत्तमित्यर्थः । एवं द्विपरीत्यादि ।विभाषाऽपपरिबहि॑रिति योगं विभज्य व्याचष्टे ।", "21010": "", "21011": "<<विभाषाऽपपरिबहिरञ्चवः पञ्चम्या>> - अपपरिबहिः । अपपरियोगेपञ्चम्यपाङ्परिभि॑रिति पञ्चमीविहिता, अञ्चूत्तरपदयोगेऽपिअन्यारा॑ दित्यादिना विहितैव । तेनाऽत्रपञ्चम्या॑इति ग्रहणंबहिर्योगे पञ्चमी भवति॑ इति ज्ञापनार्थम् ।ज्ञापकसिद्धं न सर्वत्रे॑तिकरस्य करभो बहि॑रित्यपि सिद्धम् ।", "21012": "अपपरिबहिः। अपपरियोगे `पञ्चम्यपाङ्परिभि`रिति पञ्चमीविहिता, अञ्चूत्तरपदयोगेऽपि `अन्यारा` दित्यादिना विहितैव। तेनाऽत्र `पञ्चम्या`इति ग्रहणं `बहिर्योगे पञ्चमी भवति` इति ज्ञापनार्थम्। `ज्ञापकसिद्धं न सर्वत्रे`ति `करस्य करभो बहि`रित्यपि सिद्धम्।", "21013": "<<आङ् मर्यादाभिविध्योः>> - आबालमिति ।आ परमणोरा च भूगोलक॑ मिति किरणावलीप्रयोगस्तु प्रामादिकः, समासमध्ये च शब्द प्रयोगाऽसंभवात् ।आ च भूगोलकात्इति पास्तूचितः ।", "21014": "<<लक्षणेनाभिप्रती आभिमुख्ये>> - लक्षणेन ।चिह्नं लक्ष्म च लक्षण॑मित्यमरस्तदाह — चिह्नवाचिनेति । इहाऽभिप्रती लक्ष्यलक्षणभावम्, आभिमुख्यं चेत्युभयं द्योतयत इति फलितम् । अग्निमभि । अग्न प्रतीति ।अभिरभागे॑लक्षणेत्थंभूते॑त्यनेन च अभिप्रत्योः कर्मप्रवचनीयत्वाद्द्रितीया । लक्षणेनेति किम् । रुआउग्ध्नं प्रतिगतः । रुआउग्ध्नादागतस्तमेव प्रतिनिवृत्त इत्यर्थः । अत्र हि रुआउग्ध्नः कर्म, न तु लक्षणम् । अभिप्रतीति किम् । येनाग्निस्तेन गतः । येन पथा अग्निर्गतस्तेन गत इति प्रतीतेर्भवति गमनस्याग्निर्लक्षणम्, आभिमुख्यमप्यस्तीति येनतेन शब्दयोरग्निशब्देन समासः स्यात् । आभिमुख्ये किम् । अभ्यङ्का गावः । प्रत्यङ्काः । अभिनवः प्रतिनवश्चाङ्क आसामिति बहुव्रीहिः । अङ्को ह्यत्र भवति गवां लक्षणम् । आभिमुख्यं तु नास्ति । ननूत्सर्गतोऽव्ययार्थप्राधान्येऽव्ययीभावस्वीकारात्कथमिह प्रसङ्गः । अत्राहुः — इह प्रकरणे बहुव्रीहिविषयेऽव्ययीभावो भवतीति ज्ञापनार्थमिदं । तेनसङ्ख्या वंश्येन॒॑द्विमुनि व्याकरण॑मित्यादि सिद्धमिति ।", "21015": "<<अनुर्यत्समया>> - अनुर्यत्, । यदिसि समयायोगे द्वितीयेति ध्वनयति-यं पदार्थमिति । यस्य पदार्थस्य समीपमित्यर्थः । लक्षणेनेत्यनुवर्तत इत्याह — लक्षणभूतेनेति । चिह्नवाचिनेत्यर्थः ।अव्यय विभक्ती॑ त्यनेन सिद्धे विभाषार्थं सूत्रम् । तेन पक्षेवनस्यानु॑इत्युदाहार्यमिति मनोरमायां स्थितम् । अत्र वदन्ति — वनस्येति षष्ठीह दुर्लभा, कर्मप्रवचनीययुक्ते द्वितीयाया दुर्वारत्वात्, तत्सामर्थ्यात्समया लङ्कामितिवत्समासबाधे प्रसक्ते अस्य विध्यर्थत्वात् । न चायमनुः सामीप्यमात्रद्योतको, न लक्ष्यलक्षमभावस्येति वाच्यम् । लक्षणेनेत्यवृत्तिवैयथ्र्यात् । न चैवमपि लक्षणमात्रद्योतकत्वं नास्तीति वाच्यम् ।लक्षणेत्थ॑मित्यत्र मात्रपदाऽभावात् । अग्निमभि, अग्न प्रतीति पूर्वसूत्रस्थोदाहरणा[प्रत्युदाहरण]वाक्यविरोधाच्च । अतोऽत्र पक्षेवनमनु॑इत्युदाहार्यम् ।वनस्य समीपं गत॑ इति मूलस्थं विवरणवाक्यं तुलक्षण भूतस्य वनस्य समीपं गत॑ इति व्याख्येयमिति । अन्विति किम् । ग्रामं समया । यत्समयेति किम् । वृक्षमनुविद्योतते विद्युत् । लक्षणेन किम् । अनुव[च]नम् । उपकृष्णमितिवदत्र नित्यमव्ययीभावः ।", "21016": "<<यस्य चायामः>> - यस्य चा । इहानुरित्यनुवर्त्त्य आवर्त्त्यैकं तृतीयान्तत्वेन विपरिणमय्य व्याचष्टे — अनुनेति । लक्षणभूतेनेति । लक्षणेनेत्यनुवर्तत इति भावः । अनुगङ्गमिति । इहाऽऽयामोपलक्षणत्वं चानुना द्योत्यते, लक्ष्यं तु समासार्थः । अतएव वाराणस्याः सामानाधिकरण्यम् । एवं स्थिते फलितमाह — गङ्गादैध्र्येति । वाराणसीति । वरं च तदनश्च वरानः=श्रेष्ठोदकम् ।अनः क्लीबं जले शोके मातृस्यन्दनयोद्र्वयोः॑ इति रुद्ररभसौ । तस्याऽदूरे भवा ।अदूरभवश्च॑ इत्यण् । आदिवृद्धिः ।पूर्वपदात्संज्ञायाम्इति णत्वम् । गङ्गाया अन्विति । समासाऽभावपक्षे प्रागुक्तरीत्या गङ्गामन्वित्युदाहार्यमित्याहुः । (५८६) तिष्ठद्गुप्रभृतीनि च ।२.१.१७ ।तिष्ठद्गुप्रभृतीनि च । चकार एवकारार्थेष । तेनैषां वृत्त्यन्तरं न भवति । परमतिष्ठद्गु इत्यादि न भवतीत्यर्थः । तिष्ठद्गु इति ।गोस्त्रियो॑रिति ह्रस्वः । प्रथमासमानाधिकरणे शत्रादेशस्याऽसंभवादाह — इह शत्रादेश इति । इत्यादीति । आदिशब्देन — खलेयवम् । खलेबुसम् । सप्तम्या अलुक् । लूनयवम् । लूयमानयवमित्यादि ग्राह्रम् ।", "21017": "", "21018": "<<पारे मध्ये षष्ठ्या वा>> - पारे मध्ये । निपात्यत इति । यत्र सप्तम्यर्थो न संभवति तदर्थमेकारान्तत्वनिपातनम् । सप्तम्यर्थसंभवे तुतत्पुरुषे कृति बहुल॑मिति बहुलग्रहणादलुकाऽपि सिद्धेः, अतोऽत्र सप्तम्यर्थाऽभावसूचनाय पञ्चम्यन्तमुदाहरति — पारेगङ्गादित्यादि । महाविभाषयेति । नन्वपवादेऽव्ययीभावे महाविभाषया विकल्पिते पक्षे तदुत्सर्गः षष्ठीतत्पुरुषः प्रवर्तते, तस्यापि विभाषाधिकारस्थत्वेन वैकल्पिकत्वात्पक्षे वाक्यमपि सिध्यतीति सूत्रे वाग्रहणं व्यर्थमेवेति चेत् । अत्राहुः — महाविभाषया एकार्थीभावस्य पाक्षिकत्वे विवक्षिते यदा एकार्थीभावस्तदा षष्ठीसमासं बाधित्वा नित्यमव्ययीभावे प्राप्ते पक्षे षष्ठीसमाससमावेशार्थमिह वाग्रहणम् ।व्यपेक्षासामर्थ्यमेके॑ इति पक्षे तु वृत्तावपि व्यपेक्षालक्षणमेव सामर्थ्यामिति वाक्यस्य नित्यं बाधे प्रसक्ते तया वृत्तिर्विकल्प्यते । तथा चाऽव्ययीभावे विकल्पिते पूर्वोक्तरीत्या पक्षे तत्पुरुषस्तस्यापि वैकल्पिकत्वाद्वाक्यमपि सिद्धत्येव, तथापियत्रोत्सर्गापवादौ महाविभाषया विकल्प्येते तत्रापवादेन मुक्ते पुनरुत्सर्गो न प्रवर्तते॑ इति ज्ञापनायेदम् । तेन पूर्वं कायस्येत्येकदेशिसमासेन मुक्ते षष्ठीसमासो न भवति, दक्षस्यापत्यं दाक्षिरित्यत्र अत इञा मुक्ते अण् न भवति, किंतूभयत्र वाक्यमेवेति ।", "21019": "<<संख्या वंश्येन>> - संख्या वंश्येन । वंशः संताननस्तत्र भवो वंश्यः । दिगादित्वाद्यत् । द्विमुनीति । पाणिनिकात्यायनौ । त्रिमुनीति । तौ द्वौ, पातञ्जलिश्चेति त्रयो वंश्याः । व्याकरणस्येति संबन्धे षष्ठी । स्वपदार्थप्राधान्य एवायं समासः । यदा त्वन्यपदार्थप्राधान्यविवक्षा-त्रयो मुनयो वंश्या यस्येति, तदा बहुव्रीहिरेवेत्याहुः । त्रिमुनि व्याकरणमिति । यद्यप्येतद्बहुव्रीहिणाऽप्युपपन्नं, तथापि विभक्त्यन्तरेषु रुपेऽपि विशेषोऽस्त्येवेति भावः । वस्तुतस्तुलक्षणेनाभिप्रती — ॑इति सूत्रे आभिमुख्यग्रहणाद्बहुव्रीहिविषयेऽप्यठयीभावो भवतीतिद्विमुनि व्याकरणमित्यादि सिद्धमित्यवोचाम । जन्मनोदाहरति -एकविंशति भारद्वाजमिति । एकविंशतिर्भरद्वाजा वंश्या इति विग्रहः । ननु भरद्वाजाद्विदाद्यञोयञञोश्चे॑ति लुक् प्राप्नोति । न च वर्तिपदानां स्वार्थेपसर्जनैकत्वविशिष्टार्थान्तरोपसङ्कमाल्लुगभाव इति कैयटोक्तमादर्तव्यम् । वृत्तिप्रवेशात्प्रागेव प्राप्नुवतोऽन्तरङ्गस्य लुको दुर्वारत्वात् । अन्यथा गर्गाणां कुलं गर्गकुलमित्यपि न स्यात् । अत्राहुः — भाष्यकारप्रयोगादेव लुगभावोऽत्र बोध्य इति । एतच्चतृतीयासप्तम्यो॑रिति सूत्रे शब्दकौस्तुभे स्पष्टम् ।", "21020": "<<नदीभिश्च>> - नदीभिश्च । स्वरूपस्य संज्ञायाश्च नेह ग्रहणं, बहुवचननिर्देशात्, किं त्वर्थस्य । नच तस्य समासः संभवति, अतस्तद्वाचिनामयं समासः, ते च न केवलं विशेषशब्दा एव किंतु सामान्यशब्दोऽपि । तेन पञ्चनदं सप्तगोदावरमिति सिद्धम् ।गोदावर्याश्च नद्याश्चे॑ति वक्ष्यमाणेन समासान्तोऽच् । चकारेण सङ्ख्येत्यनुकृष्यत इत्याह -संख्येति । स्यादेतत् — पुरस्तादपवादन्यायेनपूर्वकालैके॑त्यस्यैवेदं बाधकं स्यात्, ततश्चैवनदीत्यत्राव्ययोभावे तन्निबन्धनस्यनदीपौर्णमास्ये॑ति टचः प्रसङ्गः, समाहारे तु परत्वाद्द्विगुरेव स्यादित्यत आह — ।समाहारे चायमिष्यते । समाहारे चायमिति । एवकारार्थश्चाकारः । एवं च द्विगोरपवादोऽमव्ययीभाव इति फलितम् ।", "21021": "", "21022": "", "21023": "<<द्विगुश्च>> - चकारबलेन संज्ञाद्वयसमावेशस्येति । न चैवं द्विगुतत्पुरुषयोः पर्यायता स्यादिति शङ्क्यम् । योगं विभज्य संख्यापूर्स्य तत्पुरुषसंज्ञां विधाय पश्चद्द्विगुसंज्ञाविधाने चकारपठनमन्तरेणापि पर्यायत्वसिद्धेः । नापि द्वौ अन्यौ यस्यद्य्वन्य॑ इत्यत्रातिप्रसङ्गः शङ्क्यः,तद्धितार्थोत्तरपदे॑ति सूत्रमनुवर्त्त्यतद्धितार्थेत्यत्रोक्तस्त्रिविधः सङ्ख्यापूर्व॑ इति व्याख्यानात् । द्विगोस्तत्पुरुषत्वे फलमाह -समासान्त इति । टजचावित्यर्थः । अचि तूदाहरणं — ॒तत्पुरुषत]स्याङ्गुले॑रित्यचि व्द्यङ्गुलमिति बोध्यम् । पञ्चराजमिति । समाहारद्विगौराजहःसखिभ्यः॑इति टच् । समास स्यैवायमन्तावयव इति उत्तरपदस्याऽनकारान्तत्वात् स्त्रीत्वाऽभावः ।समासार्थोत्त्रपदान्ताः समासान्ता॑ इति पक्षे तु अकारान्तोत्तरपदत्वेऽपि पात्रादित्वान्नेति बोध्यम् । काशिकायां तु पञ्चराजीत्युदाहृतम् । स क्वाचित्कोऽपपाठ इति हरद्त्तः । अत्र केचित् — पात्रादित्वकल्पने मानाऽभावात्पञ्चराजीति काशिकोक्तोदाहरणमपि सम्यगेवेत्याहुः ।", "21024": "<<द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः>> - द्वितीया श्रितातीत । श्रितादीनां गतिवशेषवाचित्वात्गत्यर्थकर्मके॑ति कर्तरि क्तः ।प्रत्ययग्रहणे तदन्तग्रहण॑मित्याशयेनाह — द्वितीयान्तमिति । श्रितादिप्रकृतिकैरिति । यद्यपि संबोधने सुबन्तत्वं संभवति तथाप्यन्यत्रापि समासस्येष्टत्वात् श्रितादयस्तद्धटितसमुदाये लाक्षणिक इह गृ-ह्रन्त इति भावः । एवंखट्वा क्षेपे॑गर्गादिभ्योय॑ ञित्यादावप्यूह्रम् । न हि खट्वेत्यस्य द्वितीयान्तत्वं, गर्गादीनां षष्ठन्तत्वं वा संभवति । स्यादेतत् -द्वितीयान्तस्य श्रितप्रकृतिकसुबन्तेन समासे काष्टश्रितेयो न सिध्येत् । श्रितशब्दाट्टपि ततः सुपि कष्टं श्रिता कषष्टश्रितेति समासे श्रिताशब्दस्यैव टाबन्तत्वात्, ततःस्त्रीभ्यो ढ॑गिति ढकि काष्टश्रैतेय इति स्यात् ।गतिकारकोपपदाना॑मिति सुबत्पत्तेः प्राक्कृदन्तेन समासे तु श्रितान्तस्य टाबन्तत्वादिष्टं सिध्यतीति चेत् । मैवम् । प्रधानस्त्रीप्रत्यये तदादिनियमाऽभावेन काष्टश्रितेयस्य निर्बाधत्वात् । न च कदाचित् श्रिताशब्दादपि ढकस्यादिति वाच्यम् । जहत्स्वार्थायां वृत्तौ श्रिताशब्दस्यानर्थकत्वेनाऽपत्ययोगाऽसंभवात् । अजहत्स्वार्थायामपि न दोषः, समुदायावयवसंनिधौ समुदायस्यैव कार्यप्रयोजकत्व#आत् । अन्यथा सुन्दरदुहितुरपत्यं सौन्दरदौहित्र इत्यापत्तेरिति दिक् । कृष्णं श्रित इति ।न लोके॑ति षष्ठीनिषेधः । कृष्णश्रित इति ।प्रथमनिर्दिष्ट॑मिति द्वितीयान्तस् ।य पूर्वनिपातः । यद्यपीह श्रितशब्दोऽपि प्रथमानिर्दिष्टस्तथापिसमासविधायके प्रथमानिर्दिष्टमुपसर्जन॑मित्युक्तमिति नास्त्यतिप्रसङ्गः । नन्वेवमव्ययादीनामुपसर्जनसंज्ञार्थमव्ययं विभक्तीत्यादिना समासविधानस्यावश्यकत्वात्सुप्सुपे॑ति समास्याऽनित्यत्वे प्रागुक्ज्ञापकं न संभवत्येव, तथा चाऽव्ययीभावतत्पुरुषादिसमासाऽभावपक्षेसुप्सुपे॑ति समासप्रवृत्त्याअप विष्णोः॒॑परि विष्णोः॑कृष्णं श्रितः॑राज्ञः पुरुष॑इत्यादिविग्रहवाक्यानि न सिध्द्येरन्निचि चेत् । अत्राहुः — पुनः समासविधानं न केवलमुपसर्जनसंज्ञार्थं, तस्याः प्रकारान्तरेणापि सिद्धेः । तथा हि — ॒प्राक्कडारात्समासः॑इत्यनन्तरंप्रथमानिर्दिष्टमुपसर्जनम्,एकविभक्ति चापूर्वनिपाते॑इति पठित्वा समासाधिकारे प्रथमानिर्दिष्टमिति व्याख्यायामुपसर्जनसंज्ञा सिध्द्यत्येव,विभक्त्यर्थादिषुत] विद्यमानमव्ययं सुबन्तेन चेत्समस्यते स समासोऽव्ययीभावः स्यात्, द्वितीयान्तं चेत्स समासस्तत्पुरुष॑इत्येवं व्याख्यानादव्ययीभावतत्पुरुषादिसंज्ञापि सिध्यतीति पुनः समासविधानं व्यर्थं सज्ज्ञापयतीति । ननुअव्ययं विभक्ति — ॑ इत्यादीनां समासविधयकत्वे सिद्धे भवदुक्तमेतत्स्यात्, तत्रैव मानं न पश्याम इति चेत्-अत्र केचित्-उक्तरीत्यैवोपसर्जनसंज्ञायां सिद्धायांप्रथमानिर्दिष्ट॑मिति सूत्रे समासग्रहणं व्यर्थं सत्समासविधायके प्रथमानिर्दिष्टमित्यर्थलाभार्थं । तेनामीषां समासविधायकत्वं सिध्यतीति । अथवासुप्सुपे॑ति समासस्याऽनित्यत्वे आकरग्रन्थ एव प्रमाणम्, अन्यथासिन्नित्यसमासयोः॑इति वार्तिकेनित्यग्रहणेम नार्थः, इदमपि सिद्धं भवति वाप्यमआओ वाप्यआ॑ इत्यादिप्रागुक्तभाष्यकैयटग्रन्थस्याऽसामञ्जस्यापत्तेरिति दिक् । ननु कृष्णश्रित इत्यस्य कृष्णकर्मकश्रयणकर्तेति ह्रर्थः, स च कृष्णः श्रितो येनेति कर्मणि क्तान्तेन बहुव्रीहिणापि सुलभ इति किमनेन समासारम्भेण । मैवम् । बहुव्रीहौ श्रितकृष्म इति निष्ठान्तस्यपूर्वनिपातप्रसङ्गात् ।शेषाद्विभाषे॑ति समासान्तः कप्प्रसज्येतेति दिक् । दुःखातीतीति । अतिपूर्वकादिणः कर्तरि क्तः । अवशिष्टान्यप्युदाहरणान्यूह्रानि । कूपपतितः । यद्यपितनिपतिदरिद्रतिभ्यः॑इति विकल्पितेट्कत्वात्यस्य विभाषे॑तीण्निषेधेन भाव्यं, तथाप्यतएव निपातनादिडित्याहुः । वस्तुतस्तु चुरादावदन्तेषु पठितस्यपत गतौ वा॑ इत्यस्याश्रयणेन पतितः सिध्यति,यस्य विभाषे॑त्यत्रैकाच इत्यनुवृत्तेः सर्वसंमतत्वात् । ग्रामगतः । तुहिनात्यस्तः ।अत्यसो — व्यतिक्रमः । सोऽपि गतिविशेष एवेति कर्तरि क्तः । आदिकर्मणि क्तो वाऽत्राभ्युपेयः । सुखप्राप्तः । दुःखापन्नः ।गम्यादीनामुपसङ्ख्यानम् । गम्यादीनामिति । गम्यादयश्च प्रयोगतो ज्ञेयाः । ग्रामगमीति ।गमेरिनिः॑इत्यौणादिक इनिः । स चभविष्यति गम्यादयः॑इति भविष्यत्काले ।अकेनो॑रिति षष्ठीनिषेधात्कर्मणि द्वितीया । अयोग्यत्वादिति ।स्वय॑ मित्यस्यात्मनेत्यर्थकस्य कत्र्रर्थतया द्वितीयान्तत्वानुपपत्तिरिति भावः ।", "21025": "<<स्वयं क्तेन>> - स्वायंकृतिरिति । असति समासे कार्तिरिति स्यादिति भावः ।", "21026": "<<खट्वा क्षेपे>> - खट्वारूढ इति ।जाल्मोऽसमीक्ष्यकारी स्यात् इत्यमरः । वेदं व्रतानि च समाप्य समावृत्तेन हि खट्वारोढव्या । ब्राहृचर्य एव भूमिशयमार्होऽपि यः खट्वामारोहति स जाल्मः । रूढश्चायम् । तेन खट्वामारोहतु मा त ।]वा, निषिद्धानुष्ठानपरः सर्वोऽपि खट्वारूढ इत्युच्यते । अत एवाह — नित्येति ।", "21027": "<<सामि>> - सामि । सामीत्येतदव्ययमर्धशब्दपर्यायः ।", "21028": "<<कालाः>> - कालाः । बहुवचननिर्देशः स्वरूपनिरासार्थः ।कालवाचिनो द्वितीयान्ताः क्तान्तेन सह वा समस्यन्त॑ इति सूत्रार्थः । ननुकाला अत्यन्तसंयोगे॑इत्येवास्तु क्तेनेति निवृत्तम्, नार्थो योगविभागेनेत्यत आह — अनत्यन्तेति । मासप्रमतीति ।माङ्माने॑ । आदिकर्मणि क्तः कर्तरि । इह प्रतिपञ्चन्द्रेण नास्त्यत्यन्तसंयोगः ।", "21029": "<<अत्यन्तसंयोगे च>> - मुहूर्तमिति । मुहूर्तव्यापीत्यर्थः ।कालाध्वनोरत्यन्तसंयोगे॑इति द्वितीया ।", "21030": "<<तृतीया तत्कृतार्थेन गुणवचनेन>> - तृतीया तत्कृत । लुप्तेति । सौत्रत्वादिति भावः । तच्छब्देन तृतीयान्तपरामर्शिना तदर्थो लक्ष्यते । तदर्थकृतत्वं च गुणवाचकस्यार्थद्वारा विशेषणं — तृतीयान्तार्थकृतो यो गुणस्तद्वचनेनेति । तदेतव्द्याचष्टे — तृतीयान्तार्थेत्यादिनाष । अर्थशब्देन चेति । सोऽपि स्वतन्त्रं निमित्तमिति भावः । नन्वर्थेन समासाऽसंभवात्तद्वाची शब्दो ग्रहीष्यते किमत्र वचनग्रहणेन । अत्राहुः — गुणमुत्तवान्गुणवचनः ।कृत्यल्युटो बहुल॑ मिति भूते कर्तरि ल्युट् । गुणमुक्त्वा यो द्रव्यमुक्तवान्स गुणवचनस्तेन घृतेन पाटवमिति गुणमात्रनिष्टेन शब्देन समासो न भवति । गुणश्चात्रसत्त्वे निविशतेऽपैति॑ इत्यादिलक्षतो गृह्रते न तु प्रवृत्तिनिमित्तं घटत्वादिः, त ।]तस्य तत्त्वाऽसंभवादिति । शङ्कुलया खण्ड इति । करणेऽत्र तृतीया ।खडि भेदने॑ इत्यस्माद्भावे घञि व्युत्पादितः खण्डश्बधः क्रियारुपापन्ने गुणे वतित्वा पश्चान्मत्वर्थलक्षणया तद्वति द्रव्ये वर्तत इति गुणवचनो भवति । धान्येनेति । करणे तृतीया । अथ्र्यते इत्यर्थः — प्रयोजनम् । कर्मणि घञ् । अर्थनमर्थः — अभिलाषो वा । भावे घञ् । अर्थशब्दस्य रूढत्वे तु धान्येनेति हेतौ तृतीया ।कर्तृकरणे कृता -॑इति सिद्धमिति प्रश्नः । इतरोगुणवचनेन चेत्तत्कृतेनैवे॑ति नियमार्थमिदमित्याशयेन प्रत्युदाहरति — अक्ष्णेति । न ह्रक्ष्णा काणत्वं कृतं किंतु कर्मादिनैवेति भावः । तृतीया त्विहयेनाङ्गविकारः॑ इत्यनेन । काण इति ।कण निमीलने॑इत्यस्माद्धञ् । गुमवचनत्वं कृक्तरीत्मा खण्डशब्दस्येवास्यापि बोध्यम् । गुणवचनेनेति किम् । गोभिर्वपावान् । गोसंबन्धिदध्यादिभोजनेन देवदत्तस्य वपावत्त्वमित्यस्ति तत्कृतत्वं, न त्वसौ गुणवचनः ।", "21031": "<<पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः>> - पूर्वसदृश । इह समसदृशाभ्यां योगेतुल्यार्थैः॑इति तृतीया । अन्यैर्योगे त्वतएव वचनात्,हेतौ॑इति वा तृतीया । इह सदृशग्रहणं व्यर्थं, षष्ठीसमासेन गतार्थत्वात् । न चतत्पुरुषे तुल्यार्थतृतीया -॑ इति पूर्वपदप्रकृतिस्वरार्थमिदमिति वाच्यम् ।सदृशप्रतिरूपयोः सादृश्ये॑इति सूत्रेण तत्सिद्धेरिति मनोरमायां स्थितम् । विद्यया सदृशो विद्यासदृश इत्यादौ हेतुत्वप्रकारकबोधार्थं तृतीयासमासोऽप्यावश्यक इति त्वन्ये । पूर्वसूत्रेणैव तत्कृतत्वात्तृतीयासमासोऽपि सिद्द्यतीत्यपरे । ऊनार्थेति । पूर्वसूत्रेऽर्थशब्देन समासस्योक्तत्वादिहार्तग्रहणमभिधेयपरम् । त ।] तच्चोनशब्दोनैव संबध्यते, न तु पूर्वादिभिः, समसदृशयोः पृथग्ग्रहणादिति भावः ।अवरस्योपसङ्क्यानम् । अवरस्येति । अत्र व्याचक्षते — ऊनार्थेत्येव सिद्धत्वादिदं सुत्यजमेव । न चावरशब्दस्योनार्थकत्वमप्रसिद्धमिति वाच्यम् । सप्तदशावराः सत्रमासीरम्इति श्रुतौअव्यक्तानुकरणाद् द्द्यजवरार्धात्इति सूत्रे च तत्प्रसिद्धेरिति ।", "21032": "<<कर्तृकरणे कृता बहुलम्>> - कर्तृकरणे । समाहारद्वन्द्वात्सप्तमीत्याशयेनाह-कर्तरि करणे चेति । अत्र केचित् — कर्तृकरणे इति प्रथमाद्विवचनं तृतीयया विशेष्यते, विशेषणेन च तदन्तविधिस्तेन तृतीयान्ते कर्तृकरणे कृदन्तेन समस्येते इति व्याख्यान्तरमित्याहुः । सर्वोपाधीति । कर्तरि करणे च या तृतीया तदन्तमपि बहुलग्रहणात् क्वचिन्न समस्यते । क्वचित्तु विभक्त्यन्तरमपि समस्यते, बहुलग्रहणादेवेत्यर्थः । समासाऽभावं प्रदर्शयति — दात्रेण लूनवानित्यादाविति । आदिशब्देन दात्रेण छिन्नवान्, हस्तेन कुर्वन्नित्यादि ग्राह्रम् । विभक्त्यत्यन्तरमपि समस्यत इत्यस्योदाहरणं तु — पादहारकः गलेचोपकः । ह्यियत इति हारकः । बाहुलकात्कर्मणि ण्वुल् । पादाभ्यामित्यपादानपञ्चम्यन्तस्य समासः ।चुप मन्दायां गतौ॑ । हेतुमण्णिजन्तात्कर्मणि ण्वुल् ।अमूर्धमस्तका॑दित्यलुक् । कर्तृ[त्व]करणत्वयोः क्रियानिरूपितत्वेन क्रियासमर्पककृदन्तेनैव भवेत्समासः,सुपा॑इत्यधिकारात्तिङन्तेन तु नातिप्रसङ्ग इत्याशयेन पृच्छति-कृता किमिति । इतरस्तु तिङन्तप्रकृतिकतद्धितान्तप्रकृतिकसुबन्तेनाऽसमासस्तत्फलिमित्याशयेन प्रत्युदाहरति — काष्ठैरिति ।", "21033": "<<कृत्यैरधिकार्थवचने>> - कृत्यैरधिकार्थ । पूर्वसूत्रस्यैव प्रपञ्चोऽयं न तु नियमार्थमित्याहुः । वातच्छेद्येमिति । पूर्वत्कृत्यः । कोमलत्वाद्वातेनापि छेत्तु शक्यत इति स्तुतिः, वातेनापि छेत्तुं शक्यते निर्बलत्वादिति निन्दा वा । काकपेयेति ।शकि लिङ् चे॑ति शक्यार्थे कृत्यः । पूर्णतोयत्वात्तटस्थैः काकैरपि पातुं शक्येति स्तुतिः, अल्पतोयत्वेन निन्दा वा ।", "21034": "<<अन्नेन व्यञ्जनम्>> - अन्नेन ।भिस्सा स्त्री भक्तमन्धोऽन्नमोदनोऽस्त्री॑ इत्यमरः । व्याख्यानान्नेह स्वरूपग्रहणं, तदाह — संस्कारकेत्यादि ।", "21035": "<<भक्ष्येण मिश्रीकरणम्>> - भक्ष्येण । खरं विशदमभ्यवहार्यं भक्ष्यम् । खरं =कठिनं विशदं=विविक्तावयवं खाद्यं भक्ष्यमित्यर्थः । यत्प्रत्ययान्तस्य एरन्तस्य च भक्षयतेस्तत्रैव प्रयोगात् ।अब्भक्ष॑ इत्यादिप्रयोगस्तु भक्ताः । गुडधाना इति । ननु धानानां प्रत्येकं विविभक्तावयवत्वाऽभावात्कथमेतदुदाहरणं सङ्गच्छत इति चेत् । मैवम् । भृष्टयवसमुदायस्य धानात्वात्समुदायं प्रति समुदायिनामवयवत्वाच्च तदुपपत्तेः ।", "21036": "<<चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः>> - चतुर्थी तदथार्थ । तच्छब्देन प्रकृता चतुर्थी परामृश्यते, प्रत्ययग्रहमम्, चतुथ्र्यन्तेन सामर्थ्यात्तदर्थो लक्ष्यते इत्याशयेनाह — चतुथ्र्यन्तार्थय यदिति । चतुथ्र्यन्तवाच्याय यूपाय यद्दार्वादि, तद्वाचिना चतुथ्र्यन्तं समस्यत इत्यर्थः । बलिरक्षितग्रहणादिति । हितसुखग्रहणं तु न ज्ञापकं, तग्योगे चतुर्थी चाशिषीत्यतादर्थ्येऽपि चतुर्थीसमभवादिति भावः । ननुचतुर्थी चाशिषी॑ति वहिता या चतुर्थी तदन्तस्य समासो न भवति, समासादाशिषोऽनवगमादिति केचिदाहुरिति कैयटेनोक्तम् ।ततश्च तत्पक्षे हितसुखग्रहणमपि बलुरक्षितग्रहणवज्ज्ञापकमेवेति चेत्, अत्र नव्याः — ॒ब्राआहृणहितम् । गोहितम् । गोसुखमित्यतादथ्र्यचतुथ्र्यन्तेनापि समा४सः स्वीक्रियते । सा चाऽतादथ्र्यचतुर्थीहितयोगे चे॑ति वार्तिकाचतुर्थी तदर्थे॑ त्यादिना हितसुओखशब्दाभ्यां समासविधानज्ज्ञापकाद्वा सम्भवतीति हितसुखग्रहणं न ज्ञापकमिति सम्यगेवेत्याहुः । यूपायेति । तादर्थ्ये चतुर्थी । एवमग्रेऽपि यथासंभवमूह्रम् । अआघासादय इति । एतच्च भाष्यकृतोक्तम् । नन्वेवंरन्धनाय स्थाली॑ त्यत्रापि षष्ठीसमासः स्यादेवेति प्रकृति विकृतिभाव एवेति नियमो निष्पल एव । न च स्वरे विशेषः,चतुर्थी तदर्थे॑इति पूर्वपदकृतिस्वरस्यापि प्रकृति विकृतभाव एवेष्यमाणत्वात् । अत्राहुः — ॒संबन्धत्वातादथ्र्यकृतवैलक्षण्येनोक्तनियमसाफल्यान्न दोषः । अत्र च मानमेतदेव भाष्यम् ।न माषाणामश्रीयात्,दाशरथाय मैथिली॑त्यादिप्रयोगा अपीत्थमेव विवक्षाभेदेन निर्वाह्राः । एवंचपूर्वसदृशे॑ति सूत्रे सदृशग्रहणं व्यर्थमिति कैयटहरदत्तादीनामुक्तिः प्रामादिकीत्यवधेयम् । शाब्दबोधकृतवैलक्षण्यस्य तत्रापि सत्त्वादिति ।अर्थे नित्यसमासो विश्षेयलिङ्गता चेति वक्तव्यम् । अर्थेन नित्येति । अन्यथा विभाषाधिकारात्पक्षेद्विजायार्थ॑इति प्रयोगः स्यादिति भावः । विशेष्यलिङ्गता चेति । वचनाऽभावे त्वर्थशब्दस्य नित्यपुंस्त्वात्परवल्लिङ्ग॑मिति सर्वत्र पुंलिङ्गप्रयोग एव स्यादिति भावः ।", "21037": "<<पञ्चमी भयेन>> - पञ्चमी भयेन । भयेनेति स्वरूपग्रहणं, नार्थस्य, प्रमाणाऽभावात्,भयभीते॑ति वार्तिकारम्भच्च । तेनवृकात्त्रास॑इत्यादौ समासो न । कथं तर्हिभोगोपरतो॑ग्रामनिर्गतः॑, इत्यादिप्रयोगः । अत्राहुः — बहुलग्रहणात्क्वचिद्विभक्त्यन्तरमपि कृता समस्यतैति प्रागेवोक्तत्वात्,सुप्सुपे॑त्यनेन वा तदुपपत्तिरिति ।", "21038": "<<अपेतापोढमुक्तपतितापत्रस्तैरल्पशः>> - अपेतापोढ ।पञ्चमी॑ति वर्तते, प्रत्ययग्रहणात्तदन्तग्रहणम् ।अल्पश॑इत्यत्रबह्वल्पार्थाच्छस्कारका॑दिति शस् । यद्यपिबह्वल्पार्थन्मङ्गलाऽमङ्गलवचन॑मिति वक्ष्यति, तथाप्यत एव निपातनाच्छसिति बोध्यम् । कारकत्वं तु समसनक्रियां प्रतित पञ्चम्यन्तस्य कर्मत्वात्तदभिधायित्वाच्चाल्पशब्दस्य । तदेतदाह — अल्पं पञ्चम्यन्तमिति ।", "21039": "<<स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन>> - स्तोकान्मुक्त इत्यादि ।करणे च स्तोकाल्पे॑ति पञ्चमी ।दूरादागत॑ इत्यादौ तुदूरान्तिकार्थेभ्यः॑इत्यनेन ।", "21040": "<<सप्तमी शौण्डैः>> - सप्तमी शौण्डैः । बहुवचननिर्देशाद्गणपाठसामर्थ्याच्च आद्यर्थावगतिरित्यभिप्रेत्याह — शौण्डादिभिरिति । अक्षशौण्ड इति । शौण्डः=प्रवीणः । इह आसक्ति रूपा क्रिया वृत्तावन्तर्भवतीति, तद्द्वारकं च सामर्थ्यम् । यथा दध्योदनगुडधानादौ उपसेचनमिश्रीकरणादिद्वारा सामर्थ्यम् । तेनकारकाणां क्रिययैव संबन्ध॑ इति नियमस्य न व्यभिचारः । आधिशब्द इति ।आधेयप्रधान॑इति शेषः । अधिकरणप्रधानस्य त्वव्ययीभाव एव । अधिहरीति यथा । ख इति ।नित्य॑मिति शेषः ।विभाषाञ्चेः॑ इति विभाषाग्रहणसामर्थ्यादिति वक्ष्यमाणत्वात् । अन्तः शब्दोऽत्र पठते, स चाधिकरणप्रधानः । मध्ये इत्यर्थात् । तद्योगेऽवयविन आधारत्वविवक्षायां सप्तमी, यथा वृक्षे शाखे॑ति । वने अन्तर्वनान्तर्वसति । यस्त्वधिकरणकत्वमात्रवृत्तिरन्तः शब्दस्तस्य तुविभक्त्यर्थे॑इति नित्यमव्ययीभावः ।प्रनिरन्तः शरे॑ इथि णत्वम् । वने इति अन्तर्वणम् । यत्तु तत्पुरुषस्य वैकल्पिकत्वात्पक्षे अवययीभाव इति हरदत्तेनोक्तम् । तच्चिन्त्यम् । तत्पुरुषस्य वैकल्पिकत्वेऽप्यव्ययीभावस्य नित्यत्वाद्वने अन्तरिति तदुक्तस्वपदविग्रहस्याऽयोगात् । किं च विभक्त्यर्थमात्रवृत्तेरव्ययीभावः, वचनग्रहणसामर्थ्यात् । अन्यथा वृक्षस्योपरीत्यादावतिप्रसङ्गः स्यात् । ततश्च मध्यवाचिनः प्रसङ्गः एव नास्तीति दिक् । शौण्ड । धूर्त । कितव । व्याड । प्रवीण । संवीत । अन्तर् । अधि । पटु । पण्डित । कुशल । चपल । निपुण । वृत् ।", "21041": "", "21042": "", "21043": "<<कृत्यैरृणे>> - कुत्सितानि ।कुत्स अवक्षेपणे॑ कर्मणिक्तः । स चमतिबुद्धी॑ति सूत्रे चकारस्याऽनुक्तसमुच्चयार्थत्वाद्वर्तमाने विहित इत्याशयेनाह — कुत्स्यमानानीति । तत्प्रतिपादकानित्यर्थः । उभयत्र बहुवचननिर्देशः स्वरूपविधिनिरासार्थः । वैयकरणखसूचिरिति । सूचयतेःअच इः॑ । यः पृष्टः सन् प्रश्नं विस्मारयितुं खं सूचयत्यभ्यासवैधुर्यात्स एवमुच्यते, न तु वस्तुतो व्याकरणं, तदध्ययनं वा कुत्सितम्, वेदाङ्गत्वेन तस्य प्रशस्तत्वात् । तथापि तस्य प्रतिभानाऽभावेन निष्फलत्वात्कुत्स्यते । दुर्दुरूढ इति ।दुल उत्क्षेपे॑दुर्पूर्वः । औणादिक कूटप्रत्ययः ।बहुलमन्यत्रापी॑ति णेर्लुक् । रलयोरेकत्वस्मरणाल्लस्य रः । विशेषस्यस्य पूर्वनिपातनियमार्थं सूत्रम् । शब्दप्रवृत्तिनिमित्तकुत्सायामेवाऽयं, संनिधानात् । तेनेह न — नैयायिको दुराचारः ।", "21044": "", "21045": "", "21046": "<<क्षेपे>> - अवतप्ते इति । नकुलेन स्थितं नकुलस्थितम् ।कर्तृकरणे कृते॑ति समासः । कृद्ग्रहणपरिभाषया नकुलस्थितशब्दोऽपि क्तान्त इथि तेन सह सप्तम्यन्तस्य समासः ।तत्पुरुषे कृती॑ति सप्तम्या अलुक् । अव्यवस्थितत्वप्रतिपत्त्याऽत्र निन्दावगम्यते ।", "21047": "अवतप्ते इति। नकुलेन स्थितं नकुलस्थितम्। `कर्तृकरणे कृते`ति समासः। कृद्ग्रहणपरिभाषया नकुलस्थितशब्दोऽपि क्तान्त इथि तेन सह सप्तम्यन्तस्य समासः। `तत्पुरुषे कृती`ति सप्तम्या अलुक्। अव्यवस्थितत्वप्रतिपत्त्याऽत्र निन्दावगम्यते।", "21048": "<<पात्रेसंमितादयश्च>> - पात्रेसमितादयश्च । संपूर्वादिणः क्तः । गेहेनर्दीति ।नर्द शब्देq॑इत्यस्मात्सुप्यजातौ -॑इति णिनिः । घटकतया प्रवेशो नेति ।परमाः पात्रेसमिताः॑इति वाक्यमेव भवति, न तुसन्मह॑दित्यादिना समासान्तरमिति भावः । एतच्च शब्दकौस्तुभे स्थितम् । अन्ये तुकवलाः पात्रेसमिताः॑इति वाक्यमेव, न तुपूर्वकालैके॑त्यादिना समासान्तरमित्याहुः ।", "21049": "<<पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन>> - पूर्वकालै ।पूर्वकैले॑त्यर्थनिर्देशः । इतरेषां तु षण्णां स्वरूपग्रहणम् । पूर्वत्वस्य ससंबन्धिकत्वात्पूर्वकालोऽपरकालेन समस्यते । तथैवोदाहरति — स्नतानुलिस इति । अत्र क्रियाशब्दत्वात्पाचकपाठकवत्पर्यायः । याज्ञिका इत्यादि । यज्ञमधीयते विदन्ति वा याज्ञिकाः ।क्रतूक्थादी॑ति ठक् । एवं नैयायिकाः ।जीर्यतेरतृन् इति भूतेर्थेऽतृन् । जरन्तश्च ते नैयायिकाश्च । जीर्णनैयायिकाश्च । जीर्णनैयायिका इत्यर्थः । मीमांसामधीयते विदन्ति वा मीमांसकाः ।क्रमादिभ्यो वुन् । नवपाठका इति । पठन्तीति पाठकाः ।ण्वुल्तृचौ॑इति ण्वुल् । संख्यावाची नवशब्दोऽत्र न गृह्रते,दिक्सङ्ख्यते संज्ञाया॑मिति नियमात् । समानाधिकरणेनेति किम् । एकस्याः शौक्ल्यम् । षष्ठीसमासोऽपि इह न भवति,पुरणगुमे॑ति निषेधात् ।", "21050": "<<दिक्सङ्ख्ये संज्ञायाम्>> - दिक्सङ्ख्ये संज्ञायाम् । नियमार्थमिति ।तत्पुरुषे संज्ञायामेव दिक्सङ्ख्ये समस्येते॑इति नियमशरीरम् । तेन पञ्चगुरित्यादि सिद्ध्यति । कथं तर्हित्रिलोकनाथः पितृसद्मगोचरः॑इति कालिदासः । त्रिलोकशब्दस्याऽसंज्ञात्वात् । न च समाहारे द्विगु),द्विगोः॑इति ङीप्प्रसङ्गात् । न च पात्रादित्वं कल्प्यं,यदि त्रिलोकी गणना परा स्या॑दित्यादिप्रयोगाणामसङ्गत्यापत्तेः । न चउत्तरपदे॑इति समासः, त्रिपदतत्परुषस्येह दुर्लभत्वात् । अत्राहुः — लोकशब्दोऽत्र लोकसमुदायपरः । त्र्यवयवो लोकस्त्रिलोकः । शाकपार्थिवादित्वादुत्तरपदलोप॑इति । पञ्च ब्राआहृणा इति । यद्यप्यत्र कृतेऽपि समासे रूपे विशेषो नास्ति, तथापि विभक्त्यन्वये पञ्चभिब्र्राआहृणौरित्यादौ विशेषो बोध्यः । तद्धितार्थो । असंज्ञार्थं वचनम् । एकापि सप्तमी विषयेभेदाद्भिद्यत इत्याशयेनाह ।", "21051": "<<तद्धितार्थोत्तरपदसमाहारे च>> - तद्धितार्थे विषये इत्यादि । यदि तुतद्धितार्थे वाच्ये॑इति व्याख्यायेत, तर्हिपौर्वशाल॑इत्यादौ तद्धितो न स्यात्, तदर्थस्य समासेनैवलोक्तत्वात् ।द्विगोर्लुगनपत्ये॑इति ज्ञापकादुक्तेऽपि तद्धितार्थे तद्धितो भवतीति कल्पनायां प्रतिपत्तिगौरवमिति भावः ।तद्धिते परे॑इति तु न व्यख्यायमेव, तद्धिते परतः समासः, समासे कृतेदिक्पूर्वपदा॑दित्यादिना तद्धित इत्यन्योन्याश्रयप्रसङ्गात् । समाहारे च वाच्ये इति । तेनपञ्चगव॑मित्यादौ समासेनैव समाहारस्योक्तत्वात्समूहार्थप्रत्ययो नोत्पद्यते । अन्यथा अत्रगोरतद्धितलुकी॑ति टज्न स्यात्, समूहिकप्रत्ययस्यद्विगोर्लुगनपत्ये॑इति लुक्प्रवृत्तेरिति भावः । सर्वनाम्नो वृत्तिमात्रे पुंवद्भावे पुंव्द्भावः । सर्वनाम्ना इति । एतच्च पूर्वापरोदाहरणान्वयि । यद्यपिस्त्रियाः पुंव॑दित्येनेनापि प्रकृतरूपसिद्धिः, तथाप्युत्तर पूर्वेत्याद्यर्थंसर्वनाम्न॑इति वचनमावश्यकं, प्रतिपदोक्तत्वादिहापि तदुपन्यासो न्याय्य इति भावः । वृत्तिमात्रे इति । तद्धितवृत्तौ समासवृत्तौ चेति कैयटः । आकार उदात्त इति । असति त्ववान्तरे तत्पुरुषे पूर्वपदप्रकृतिस्वरेण पूर्वशब्दस्याद्युदात्तत्वमेव स्यादिति भावः । षाण्मातुर इति ।मातुरुत्सङ्ख्यासंभद्रपूर्वायाः॑इत्युदादेशः ।अनपत्ये॑इत्युक्तेःद्विगोर्लु॑गिति लुग् न । विकल्पे प्राप्त इति.॒महाविभाषये॑ति शेषः । ततश्च तत्पुरुषप्रयुक्तटजभावेपञ्चगोधन॑इत्यपि स्यादिति भावः । मनोरमायां तु — विकल्पे प्राप्ते नित्यसमासार्थं द्वन्द्वतत्पुरुषयोरित्येतद्वचन॑मिति प्राचां ग्रन्थमनुसृत्योक्तम् । वस्तुतस्तु त्रयाणां समासे कृतेऽन्यपदार्थोपसङ्क्रमेण परस्पर संबन्धाऽभावाद्द्वन्द्वतत्पुरुषयोरप्राप्तौ सत्यां त्रिपदे बहुव्रीहौकृते पूर्वयोर्नित्यं द्वन्द्वः, तेनद्वन्द्वाच्चुदषहान्ता॑दिति समासान्तष्टजपि नित्य एव ।", "21052": "<<संख्यापूर्वो द्विगुः>> - सङ्ख्यापूर्वो द्विगुः । अत्रोक्त इति । अयं भावः — पूर्वसूत्रविषय एवेयं संज्ञा,॒अनन्तरस्यैवे॑ति न्यायात् । एतदर्थमेव हि सूत्रद्वयं कृतम्, अन्यथादिक्संख्यं संज्ञायां तद्धितार्थोत्तरपदसमाहारेष्वि॑त्येव ब्राऊयात् । तेनसप्तर्षय॑इत्यत्रइगन्तकालकपाले॑त्यादिना पूर्वपदप्रकृतिस्वरो न भवति, किन्तु समासान्तोदात्त एव । तथा च लक्ष्यं,सप्त ऋषयस्तपसे ये निषेदुः॑ ।सप्तऋषीणां सुकृतां यत्र लोकः॑इत्यादि । त्रिविधः संख्यापूर्व इति । तद्धितार्थे विषये, उत्तरपदे चपरतः, समाहारे च वाचच्ये संख्यापूर्वो यः समासः स इत्यर्थः । तद्धितार्थे यथा — पञ्चकपालः ।संस्कृतं भक्षाः॑ इत्यणोद्विगोर्लुगनपत्ये॑इति लुक् । उत्तरपदे यथा — पञ्चनावप्रियः ।नावो द्विगोः॑इति समासान्तष्टच् । समाहारे — पञ्चपूली ।द्विगोः॑इति ङीप् ।", "21053": "", "21054": "<<पापाणके कुत्सितैः>> - पापाणके । एतौ कुत्सनाभिधिनौ ।कुपूयकुत्सितावद्यखेटगह्र्राऽणकाः समाः॑इत्यमरः । ततश्चानयोः पूर्वसूत्रेण समासे परनिपातः स्यात्, तस्मात्पूर्वनिपातनियमार्थमिदं सूत्रमित्याशयेनाह — पूर्वसूत्रापवाद इति ।", "21055": "<<उपमानानि सामान्यवचनैः>> - उपमानानि । उपमीयते येन तदुपमानम् । उपपूर्वान्माङः कतरणे ल्युट् । प्रादिसमासः उपपूर्वको माङ् सादृश्यहेतुके परिच्छेदे रूढः । येन वस्त्वन्तरं सादृश्येन परिच्छिद्यते तदुपमानमित्यर्थः । यथागौरिव गवयः॑ । इह हि गौः करणं, सादृश्यं हेतुः, पुरुषः परिच्छेत्ता । स हि गोसादृश्येन गवयं परिच्छिनत्ति । सामान्यवचनैरिति । समानो धर्मः — सामान्यम् । चातुर्वण्र्यादित्वात्स्वार्थे ष्यञ् । उपमानोपमेयसाधारणो यो धर्मस्तद्विशिष्टवचनैरित्यर्थः, न तु साधारणधर्ममात्रवचनैरिति । एतच्च वचनग्रहणाल्लभ्यते । सामान्यमुक्तवन्तः — सामान्यवचनाः । बाहुलकात्कर्तरि भूते ल्युट् । ये पूर्वं सामान्यमुक्त्वा तद्वति द्रव्ये पर्यवस्यन्ति ते तथोक्ताः । तच्च सामान्यविशिष्टमुपमानशब्दस्य संबन्धिशब्दत्वादाक्षिप्तमुपमेयमेव विज्ञायते । लाक्षणिकमिति । अतएव सामानाधिकरण्यान्मृगीव चपला मृगचपलेत्यादौ पुंवद्भावः । उत्तरपदोपस्थितश्यामत्वचरलत्वादिद्वारकमेवेह सादृश्यं गृह्रते, संनिधानात् । कथं तर्हि उपमानपरतेति चेत् । भूतपूर्वगत्या शक्यार्थमादाय तत्परतेत्यवेहि । पूर्वनिपातेति । अन्यथाऽनियमः स्यात्, खञ्ज कुब्जवदिति भावः । किंचतत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानव्यय#ए॑ति सूत्रे प्रतिपदोक्तस्यास्यैवोपमानग्रहणेन ग्रहणार्थमपीदं सूत्रम् । अतएव मयूरव्यंसकादित्वात्समासे न प्रवर्तत इति सिद्धान्तः ।", "21056": "<<उपमितं व्याघ्रादिभिः सामान्याप्रयोगे>> - उपमितम् । उपमेयमुपमितम् । भूतकालोऽत्र न विवक्षितः । तच्च संबन्धिशब्दादुपमानमाक्षिपति । तथा चोपमानभूतैव्र्याघ्रादिभिरित्यर्थः । पुरुषो व्याघ्रा इव शूर इति । तत्र हि शूरसापेक्षस्यापि पुरुषस्य प्रधानत्वात्राजपुरषः सुन्दरः॑इतिवदत्रापि समासः स्यात्स मा भूदितिसामान्याऽप्रयोगे॑इत्युक्तमिति भावः । कथं तर्हिभाष्याब्धिः क्वातिगम्भीरः॑ इति कैयटः, सामान्यप्रयोदसत्त्वेनाऽस्याऽप्राप्तेः । अत्र केचित् — प्रमाद एवायमित्याहुः । इह गम्भीर्येण सादृश्यं न विवक्षितं, किंतु विततदुरवगाहत्वादिना । तस्य हि विततत्वादेरप्रयोगोऽस्त्येवेति निर्बाधः समास इति मनोरमायां स्थितम् ।", "21057": "<<विशेषणं विशेष्येण बहुलम्>> - विशेषणम् । विशिष्यते येन तद्विशेषणं । कर्तुः करणत्वविवक्षायां ल्युट् । तदाह — भेदकमिति । व्यावर्तकमित्यर्थः । विशेषणविशेष्ययोः स संबन्धिकतयाऽन्यतरोपादानमात्रेणेतराक्षेपसंभवे उभयोरुपादानां स्पष्टर्थमिति कैयटः । एतच्चकुत्सितानि कुत्सनै॑रित्यत्रापि तुल्यम् । हरदत्तस्त्वाह — ॒समस्यमानपदद्वयजन्यबोधप्रकारकयोविशेषणविशेष्यधर्मयोर्यत्र परस्परव्यभिचारस्तत्रैव समासो भवति, न तुतक्षकः सर्पः॑ इत्यादौ । न हि तक्षकत्वं सर्पत्वं व्यभिचरती॑ति । तन्मदम् ।कैलासाद्रिः,मन्दराद्रिः॑,॒भावपदार्थः॒॑तर्कविद्या,॒॑व्याकरणशास्त्रं॑,॒भोजराजः॑, इत्यादिप्रयोगाणामसाङ्गत्यापत्तेः । ननु विशेषणविशेष्यभावे कामचारात्पाचकपाठकादाविव नीलोत्पलादावप्यव्ययस्थितः पूर्वनिपातः स्यादिति चेदत्राहुः — जातिशब्दस्य गुणक्रियाशब्दयोर्गुणक्रियाशब्दयोश्चाऽनियम एव । तेन॒नीलोत्पलं॑पाचकब्राआहृण॑ इति व्यवस्थित एव प्रयोगः । गुणशब्दयोः क्रियाशब्दयोर्गुणक्रियाशब्दयोश्चाऽनियम एव । खञ्जकुब्जः, कुब्जखञ्जः । पाचकपाठकः, पाठकपाचकाः । खञ्जपाचकः, पाचकखञ्ज इति । अत्र मूलमुपसर्जनमिति महासंज्ञा । अप्रधानां ह्रुपसर्जनम् । गुणक्रिययोश्च द्रव्यं प्रत्यप्राधान्यं स्पष्टमेवेति ।अपरस्यार्ध इति । एतच्चपश्चा॑दिति सूत्रे भाष्ये स्थितम् । बहुलग्रहणादिति । एकेषु मुख्येषु वीरयते पराक्रमते इति वा बोध्यम् ।", "21058": "", "21059": "<<श्रेण्यादयः कृतादिभिः>> - श्रेण्यादयः । आद्य आदिशब्दो व्यवस्थावाची । द्वितीयस्तु प्रकारवाची ।श्रेण्यादयः पठन्ते, कृतादिराकृतिगणः॑इति भाष्यात् । श्रेणी, एक, पूग, कुन्द, शशि, विशिख, निचय, निधनादिः — श्रेण्यादिः । कृत, मित, भूतादिः ।कृतादिः । यदा तु सिद्धा एव श्रेणयः सम्यक्कृतास्तदा समासो नेष्यत इत्याशयेनाह — अश्रेणयः श्रेणय इथि । एकेन शिल्पेन पण्येन वा ये जीवन्ति तेषां समूहः — श्रेणिः । च्व्यन्तानां तुकुगती॑ति नित्यसमासः,परत्वात् । श्रेणीकृतम् । इह तुच्वौ चे॑ति दीर्घः । (६४६) क्तेन नञ्विशिष्टेनाऽनञ् ।२.१.६० ।क्तेन विशिष्टशब्दोऽवधारणार्थः । नञ्मात्राधिकेन नञ्रहितं समस्यत इति सूत्रार्थः । तेनेह न -सिद्धं चाऽभिक्तं च ।नुडिडधिकेनापी॑ति वाच्यम् । अशितं चानशितं च अशितानशितम् । क्लिष्टाऽक्लिशितम् ।क्लिशः क्त्वानिष्ठयोः॑ इति वेट् । कृताकृतमिति । एकदेशान्तरस्याऽकरणात्तदेवाऽकृतम् ।शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसङ्ख्यानम् । शाकपार्थिव इति । पृथिव्या ईआरः पार्थिवः ।तस्येआरः॑इत्यण् ।शाकप्रिय॑इति बहुव्रीहिः, तस्य पार्थिवशब्देन समासे कृते पूर्व समासे यदुत्तरपदं प्रिय इथि, तस्य लोपः । तथादवेब्राआहृण॑ इत्यत्र देवस्य पूजको देवपूजक इति पूर्वस्मिन् षष्ठी समासे यदुत्तरपदं पूजक इति, तस्य लोपो ज्ञेयः ।", "21060": "", "21061": "<<सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः>> - सन्महत् । गुणक्रियाशब्दैः सह समासे सदादीनां पूर्वनिपातनियमार्थं सूत्रम् । कतरकतमौ । जातिपरिप्रश्ने किम् । कतरो देवदत्तः ।वा बहूनां जातिपरिप्रश्ने डतम॑जिति व्युत्पादितकतमशब्दसाहचर्यातादृशास्यैव कतरशब्दस्यापि ग्रहणे सिद्धे जातिपरिप्रश्नग्रहणं ज्ञापयतिकतमश दोऽर्थान्तरेऽपिसाधुः॑इति । तथा च प्रत्युदाहृतं प्राचीनवृत्तिषुकतरो भवतोर्देवदत्तः, कतमो भवतां देवदत्तः॑इति ।", "21062": "", "21063": "", "21064": "<<किं क्षेपे>> - किं क्षेपे । किंराजेति ।किमः क्षेपे॑इति समासान्तनिषेधः । क्षेपे किम् । को राजा पाटलिपुत्रे । एवंकिंसखा यो दहति॑किंगौर्यो न वहति॑ इत्यप्युदाहरणं बोध्यम् ।", "21065": "", "21066": "<<प्रशंसावचनैश्च>> - प्रशंसावचनैस्च । वचनग्रहणं रूढि शब्दपरिग्रहार्थम् । तेन ये यौगिकाः प्रशस्तशोभनरमणीयादयो, ये च विशेषवचनाः शुचिमृद्वादयो, ये तु गौण्यावृत्त्या प्रसंसां गमयन्ति — ॒सिंहो माणवकः॑इत्यादयस्ते सर्वे व्युदस्यन्ते । गवोद्ध इति ।अवङ् स्फोटायनस्ये॑त्यवङिआद्गुणः॑ ।मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ । प्रशस्तवाचकान्यमूनि॑ इत्यमरः ।प्रशंसावचनपोटायुवती॑ त्येकयोगसंभवे पृथग्योगकरणं चिन्त्यफलम् ।", "21067": "<<युवा खलतिपलितवलिनजरतीभिः>> - युवखलतीति ।कृदिकारादक्तिनः॑इति ङीष् ।पुंवत्कर्मधारये॑ति युवतिशब्दस्य पुंवद्भावः । जरतीति ।जीर्यतीति ।जीर्यतेरतृन्॒उगितश्चे॑ति ङीष् । एवं युवपलितः युववलिन इत्युदाहार्यम् । वलिनशब्दः पामादिः ।", "21068": "<<कृत्यतुल्याख्या अजात्या>> - कृत्यतुल्याख्या ।तुल्यमहान्॒सदृशमहा॑नित्यादौ तु परत्वादनेनसन्मह॑दिति बाध्यते ।तस्य सत्कृत्यशालिनः॑इति भट्टिप्रयोगे तुसतां कृत्यं सत्कृत्य॑मिति षष्ठीसमासो बोध्यः । एवंपरमपूज्यः॑इत्यादिष्वपि ।", "21069": "<<वर्णो वर्णेन>> - वर्णो । समानाधिकरणेन वर्णवाचिना वर्णवाचि समस्यत इत्यर्थः ।विशेषणं विशेष्येणे॑त्यनेनैव सिद्धे पृथग्विधानंवर्णो वर्णेष्वनेते॑इति पूर्वपदप्रकृतिस्वरो विधीयमानः प्रतिपदोक्तत्वादेतत्समासपूर्वपदस्यैव भवतु नान्यस्येत्येतदर्थम् । कृष्णसारङ्ग इति । सारङ्गश्चित्रपर्यायः । स च गुणोपसर्जनद्रव्यपरः । कृष्णशब्दोऽपि कृष्णावयवके भाक्तः । एवं च गौणे सामानादिकरण्येविशेषणं विसेष्येणे॑त्यप्रवुत्तौ समासार्थमपीदमारब्धव्यमित्याहुः । ननुतृतीये॑त्यनेनैवायं समासः सिध्यति, सारङ्गत्वस्य कृष्णादिकृतत्वात् । नापि स्वरे भेदः ।तत्पुरुषे तुल्यार्थ तृतीये॑त्यनेनैव पूर्वपदप्रकृतिस्वरसिद्धेरिति चेदत्राहुः — ॒कृष्णशुक्लो हरितशुक्ल इत्याद्यर्थं समासोऽनेनाऽवश्यं विधेयः । नहीह तत्कृतत्वमस्ति । यद्यपीहविशेषणं विशेष्येणे॑त्यनेन समासः सिध्यति, तथापीष्टः स्वरो न सिध्यति । न चप्रतिपदोक्तसमासोऽकिञ्चित्करः, व्यावर्त्त्याऽलाबादिति वाच्यं, कृष्णशुक्लौ इत्यादेव्र्यावर्त्त्यस्य संभवा॑दिति ।", "21070": "<<कुमारः श्रमणाऽऽदिभिः>> - एतदेवेत् । एलकारः स्फुटसिद्धतच्वद्योतनार्थो, न त्ववधारणार्थः,युवा खलती॑ति सूत्रे जरतीग्रहणस्यापि ज्ञापकत्वसंभवात् । न हि युवन्शब्दस्य पुंस्त्वं जरतीसामानाधिकरण्यं सङ्गच्छते ।", "21071": "<<चतुष्पादो गर्भिण्या>> - चतुष्पादो । मण्डूकप्लुत्याऽत्रजाति॑रित्यनुवर्तत इत्याह -जातिवाचीति । जातिः किम् ।कालाक्षी गभिणी॑ । चतुष्पात्किम् । ब्राआहृणी गर्भिणी । प्रत्युदाहरणेविशेषण्मिति समासः स्यादेव । गर्भिणीकालाक्षीत्यादिपूर्वनिपाते विशेषः ।", "21072": "<<मयूरव्यंसकादयश्च>> - मयूर । चकारोऽत्रावधारणार्थः । तेनपरमयूरव्यंसकः॑इत्यादि समासान्तरं न भवति । धूर्त इति । एवं च गुणवचनत्वात्पूर्व निपाते प्राप्ते इदं वचनमारब्धमिति भावः । अन्ये तुमयूर इव व्यंसको मयूरव्यसक॑इत्यादौउपमनानि सामान्यवचनै॑रिति समासस्यापवादोऽयम् । तेनसमासस्ये त्यन्तोदात्तत्वमिह सिध्यिति,तत्पुरुषे तुल्यार्थे॑त्युपमानपूर्वपदप्रकृतिस्वरस्योपमानसंशब्दनेन विहिते प्रतिपदोक्तसमासे चरितार्थत्वादित्याहुः । अश्रीतपिवतेति । इह क्रिया रूपस्यान्यपदार्थस्य प्राधान्यात्स्त्रीत्वाट्टाप् । एवमग्रेऽपि । राजन्तरामिति । अन्तरशब्दोऽत्र भिन्नवाची । चिन्मात्रमिति ।मात्रं कार्त्स्न्येऽवधारणे॑इत्यमरः । अन्तर — मात्रशब्दाभ्यां सह नित्यसमास इत्युभयत्राऽस्वपदविग्रहोदर्शितः । नित्यसमासत्वं त्ववधारणार्तकचकारेण लब्धमित्याहुः । उद्धर कोष्ठादित्यादि । उद्धर उत्सृजेत्येतावानेव विग्रहः । उत्सृजेत्यस्य विवरणं — देहीति । कोष्ठादिति तूद्धरेत्यस्याकाङ्क्षापूरणार्थमुक्तम् । समासेन चेत्कर्तेति ।जहि जोड॑मित्याभीक्ष्ण्येन य आह स जहिजोडः । एवं जहि स्तम्बमिति य आह स जहिस्तम्बः ।", "22001": "<<पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे>> - पूर्वापर ।एकदेश॑शब्दोऽवयवे रूढः । अतएव तस्य कर्मधारायत्वेऽपि ततो मत्वर्थीयः ।कृष्णसर्पवा॑नित्यत्रेवन कर्मधारयान्मत्वर्थीयः॑इति निषेधस्य रूढेष्वप्रवृत्तेः । यद्यपीहएकगोपूर्वादि॑ति ठञ् प्राप्तः, तथाप्यत एव निर्देशादिनिः । तदेतदाह — अवयविनेति । नन्विदं सूत्रं व्यर्थं,पूर्वकाय॑इत्यादिप्रयोगाणां कर्मधारयेणैव सिद्धेः,ऊध्र्वकाय॑इतिवत्,समुदाये हि वृत्ताः शब्दा अवयवेष्वपि प्रवर्तन्ते॑इति न्यायादत आह — षषाठछीसमासापवाद इति । तथा चकायपूर्वं॑इत्याद्यनिष्टप्रयोगनिवृत्तये सूत्रमिति भावः । पूर्वं कायस्येति । यद्यपिअन्यारा॑दिति सूत्रेदिशि दृष्टः शब्दो दिक्शब्द॑इति व्याख्यानेन संप्रत्यदिग्वृत्तिनापि योगे पञ्चमी स्वीकृतेति षष्ठीह दुर्लभा, तथापितस्य परमाम्रेडित॑मिति लिङ्गात्अवयववाचिदिक्शब्दयोगे पञ्चमी ने॑त्युक्तत्वात्षष्ठएव भवतीति भावः । पूर्व नाभेरिति । नाभेर्यः पूर्वो भागः स कायस्यावयव इत्यर्थः ।नामे॑रिति दिग्योगलक्षणा पञ्चमी । तेनाऽत्र पूर्वस्य भागस्य नाभिरवधिः, न त्वेकदेशिनीति नाभ्या सह समासो नेत्यर्थः । कायेन तु स्यादेवपूर्वकायो नाभेः॑इति । पूर्वशब्दस्य नित्यसापेक्षत्वात्प्रधानत्वाच्च । पूर्वश्छात्राणामिति । नासौ निर्धारणे षष्ठी, किं तु समुदायसमुदायिसंबन्धे । बहुवचनं तद्भूतावयवभेदसमुदायविवक्षया । ततश्छात्राणामेकदेशित्वे सत्यप्येकत्ववैशिष्टआऽभावान्न समासः । सर्वोऽपीति । पूर्वादिभिन्नोऽपीत्यर्थः । ज्ञापकादिति । अन्यथा अह्नस्य सायपूर्वत्वं न स्यादिति भावः । मध्याह्न इति ।राजाहःसखिभ्याः॑इति टच् ।अह्नोह्न॑इत्यह्ना देशःष । अयं चादेशो मध्याह्नसायाह्नशब्दयोरूध्र्वकायवत्कर्मधारयेण न निर्वहति, तस्यैकदेशिसमासप्रयुक्तत्वात्, अतोऽत्र ज्ञापकाश्रयणं युक्तमेवेति बोध्यम् । इत्याहुरुतु । न चैवंदिनमध्यो॑रात्रिमध्य॑इत्यादि न सिध्येदिति वाच्यम् । ज्ञापकसिद्धस्याऽसार्वत्रिकत्वात् ।", "22002": "<<अर्धं नपुंसकम्>> - अर्ध नपुंसतम् । खण्डावाच्यद्र्धशब्दो न नित्यनपुंसकः, ग्रामार्द्धो नगराद्र्ध इति यथा । समांशवाची तु नित्यनपुंसकः । स एवेह गृह्रते,पूर्वसूत्रे एवाद्र्धशब्दे पठनीयेअर्ध॑मितचि योगविभागेन निर्देशान्नपुंसकत्वे लब्धे, पुनर्नपुंसकगिरहणादित्याशयेन व्याचष्टे — नित्यं क्लीबे स इति । यो नित्यनपुंसकलिङिगः स इत्यर्थः । प्राग्वदिति । एकत्वविशिष्टेनावयविना समस्यत इत्यर्थः । अन्ये तु व्याचख्युः — ॒अर्ध॑मिति निर्देशादेव नपुंसकत्वे सिद्धे नपुंसकग्रहणंसूत्रेषु लिङ्गनिर्देशो न विवक्षितः॑इति ज्ञापयितुम् ।तेन तस्येद॑मित्यादि लिङ्गत्रयेऽपि भवतीति ।अर्धपिप्पली॑त्यत्रएकविभक्ति चापूर्वनिपाते॑इत्युपसर्जनसंज्ञायांगोस्त्रीयो॑रिति ह्रस्वः स्यादित्याशङ्क्य समाधत्ते — अषठन्तवचनमिति । तेन पिप्पलीशब्दस्याऽनुपसर्जनत्वातन्न दोष इति भावः । नन्वेवं पञ्चानां खट्वानां समाहारः पञ्चखट्वीति न सिध्द्येत्, उपसर्जनसंज्ञानिषेधेन खट्वेत्याकारे ह्रस्वाप्रवृत्तेरदन्तत्वाभावेनद्विगोः॑इति ङीपोऽप्रवृत्तेरत आह — ।एकविभक्तावषष्ठन्तवचनम् । एकदेशिसमासविषयकोऽमिति ।पञ्चखठ्वी॑ति भाष्योदाहरणमेवअषठन्तो॑त्यस्य संकोचे लिङ्गमितिओओ भावः । अर्धपिप्पलीति । परवल्लिङ्गत्वात्लस्त्रीत्वम् । अर्ध पिप्पलीनामिति । सति समासेअर्धपिप्पली॑त्येव स्यात्, विशेष्यैक्यात् ।परवल्लिङ्ग॑मिति लिङ्गातिदेशेऽपि वचनातिदेशाऽभावाच्चेति भावः ।अर्धपिपल्यः॑इति प्रयोगस्तुअर्धानि पिप्पलीना॑मिति विग्रहे असाधुश्चेदपि खण्डसमुच्चये साधुरेव, अर्धं पिप्पल्या अर्धपिप्पली, अर्धपिप्पली च अर्धपिप्पली चेत्यादिविग्रहात् । एकदेशिना किम् । अर्धं पशोर्देवदत्तस्य । अत्र देवदत्तः स्वामी, न त्ववयवीति न तेन समासः । इदं सूत्रंपरवल्लिङ्ग॑मित्यत्र भाष्ये प्रत्याख्यातम् । तद्यथा — अर्धंपिप्पलीति हि कर्मधारयेण सिद्धम् ।समुदाये दृष्टाः शब्दा अवयवेष्वपि वर्तन्ते॑इति न्यायात् । समप्रविभागादन्यत्र तवाप्येषैव गतिः,अर्धाहारः॑अर्धोक्तम्अर्धविलोकितम् इत्यादिप्रयोगदर्शमात् । न च समप्रविभागे षष्ठीसमासं बाधितुमिदं सूत्रमिति वाच्यम्, षष्ठीसमासस्यापूष्टत्वात् । अतएव कालिदासः प्रायुङ्क्त — ॒प्रेम्णा शरीरार्धहरां हरस्ये॑ति ।", "22003": "<<द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम्>> - द्वितीयतृतीया । षष्ठीसमासा पवादोऽयं योग इति वृत्तिकृतोक्तमयुक्तमति ध्वनयन्नाह — निषेधं बाधित्वेति ।", "22004": "<<प्राप्तापन्ने च द्वितीयया>> - प्राप्तजीविक इति ।गोस्त्रियो॑रित्युपसर्जनह्रस्वः ।द्विगुप्राप्तापन्ने॑ति वक्ष्यमाणेन परवल्लिङ्गनिषेधः । न चेदं बहुव्रीहिणा गतार्थमिति शङ्क्यम्, स्वरे विशेषात् ।प्राप्तसुखं॑इत्यादौ निष्टान्तस्यजातिकालसुखादिभ्य-॑इति परनिपातापत्तेश्च ।प्राप्तापन्ने चे॑ति चकारेण विधेयसमुच्चयार्थेनाकारप्रश्लेषानुमानात्, प्राप्तापन्ने समस्येते, अ च, अत्वं च तयोः स्यादिति भाष्ये स्थितम् । तत्र चकारात्पूर्वमेवाऽकारं छित्त्वा सौत्रत्वात्प्रकृतिभावो नेति प्राञ्चः । इमं क्लेशं परिहरन्नाह — द्वितीयया अ इति । प्राप्ता स्त्रीति । एकादेश्य पूर्वान्तत्वेन ग्रहणाल्लिङ्गविशिष्टपरिभाशषया वा टाबन्तयोरपि प्राप्तापन्नयोः समासः ।", "22005": "<<कालाः परिमाणिना>> - कालाः परिमाणिना । परिमीयते परिच्छिद्यते येन तत्परिमाणं=परिच्छेदकं, तद्वान्परिमाणी, तदाह — परिच्छेद्यवाचिनेति । काला इति । कालविशेषवाचका इत्यर्थः । सूत्रे बहुवचननिर्देशात्कालसामान्यस्याऽपरिच्छेदकत्वाच्च । मासो जातस्येति । षष्ठीसमासे प्राप्ते वचनम् । ननु जातः पुरुषस्तस्य तु हस्तवतस्त्यादिकं परिच्छेदकं, न तु कालः, तस्य क्रियामात्रपरिच्छदकत्वादिति चेत् । अत्राहुः — साक्षात्क्रियां परिच्छिन्दन्नपि कालस्तद्द्वारा देवदत्तं परिच्छिनति । यस्य हि जननादूध्र्वं मासो गतः समासजात॑ इति व्यवह्ययते । तत्र व्यवहारकालजननक्षणयोरन्तलभावी मासो जननद्वारा जातमपि परिच्छिनत्त्येवेति । इह विग्रहे षष्ठीनिर्दिष्टस्यापि वृत्तौ प्राधान्यं द्योतयितुंयस्य [सः॑]इत्युक्तम् । अलौकिके तु प्रक्रियावाक्ये नास्य प्रवेशः । एवं बहुव्रीहावपीति बोध्यम् । ननुजातस्य मासः॑ इति विग्रहे वृत्तौ मासशब्दस्य पूर्वपातार्थमेतत्सूत्रारम्भस्यावश्यकत्वेऽपि मासविशेष्यकबोध एवत्रोचित इति किमनेनजातस्य यस्य सः॑इति कथनेनेति चेत् । अत्राहुः — ॒मासजातो मृतः॑इत्यादिप्रयोगानुरोधेन विग्रहेयस्य सः॑ इति स्वीक्रियत इति । मासजात इति । यद्यपि मासो जातो यस्येति बह#उव्रीहिणापीदं सिध्यति,जातिकालसुखादिभ्यः परा निष्ठा वाच्ये॑ति वचनात् । न च स्वरे विशेषः । वा जाते॑इत्यन्तोदात्तत्वस्यापि सिद्धेः, तथापि षष्ठीसमासापवादार्थमिदमारम्भणीयमेव । किं च मासो जातवतो यस्य सामासजातवानित्येतदर्थमपीदमवश्यारम्भणीयमिति ।उत्तरपदेन परिमाणिना द्विगोः सिद्धये बहूनां तत्पुरुषस्योपसङ्ख्यानम् । उत्तरपदेनेति । परिमाण्युत्तरपदहेतुकद्विगुसिद्धये त्रिपदतत्पुरुषो वक्तव्य इत्यर्थः ।सुप्सुपे॑त्येकत्वस्य विवक्षितत्वादप्राप्ते वचनम् । अस्मादेव वार्तिकारम्भात्सुप्सुपे॑ त्येकत्वं विवक्षितमिति ज्ञायते । अह्नादेश इति । त्रपदतत्पुरुषे सत्युत्तरपदे परतःतद्धितार्थ॑इत्यवान्तरद्विगौ सतीति भावः । पूर्वत्रेति । व्द्यहजात इत्यत्रेत्यर्थः ।", "22006": "<<नञ्>> - नञ् । इहनलोपो नञः॑इत्यत्र विशेषणार्थो ञकारः । तत्फलं च नैकदेत्यत्राऽलोपः ।अव्यये नञ्कुनिपाताना॑मित्यव्ययपूर्वपदप्रकृति स्वरार्थं ञकतारोच्चारणमित्यन्ये । सुपा सह समस्यत इति । उतरपदार्थप्रधानोऽयं समासः । तथाहि आरोपितत्वं नञा द्योत्यते । तथा च अब्राआहृणशब्दादारोपितो ब्राआहृण इति बोधे अर्थाद्द्ब्राहृणभिन्न इति पर्यवस्यति । अतएवाऽनुसर्जनत्वादतस्मिन्नस इत्यादौ सर्वनामकार्यं सिध्यति । तत्पुरुषस्यौत्सर्गिकमुत्तरपदार्थप्राधान्यमप्येवं सति निर्बाधम् ।एतत्तदो॑रिति सूत्रेऽनञ्समासग्रहणं चेह लिङ्गमित्यादि मनोरमायानुसन्धेयम् ।", "22007": "", "22008": "<<षष्ठी>> - राजपुरुष इति । राजन् अस् — पुरुष सु इत्यलौकिकविग्रहे समासे कृते सुपो लुक्यन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वान्न लोपः ।", "22009": "<<याजकादिभिश्च>> - याजकादिभिश्च । याजक । पूजक । परिचारक । परिवेषक । स्नातक । अध्यापक । उत्पादक । होतृष । पोतृ । भर्तृ । रथगणक । पत्तिगणक । वृत् ।गुणात्तरेण तरलोपश्चेति वक्तव्यम् । गुणात्तरेणेति । एतच्च वार्तिकंसर्वं गुणकार्त्स्न्ये॑इत्यत्र पठितम् ।कृद्योगा[च] षष्ठी समस्यत इथि वाच्यम् ।कृद्योगा षष्ठीति ।कर्तृकर्मणोः कृती॑ति कृत्सनियोगेन कृतेत्यर्थः । यदा तुप्रतिपदविधाने॑त्यादिनिषेधवचनमारभ्यते, तदेदं तद्बाधनायारब्धव्यम् । तस्यैवाऽनारभ्यत्वमनुपदं वक्ष्यामः । इध्मव्रश्चन इति । वृक्ष्यते छिद्यतेऽनेनेति व्रश्चनः=कुठारादिति । करणे ल्युट् । इध्मानामिति कर्मषष्ठन्तस्यानेन समासः ।", "22010": "<<न निर्धारणे>> - नृणामिति ।यतश्च निर्धारण॑मिति षष्ठी । द्विजशब्देनात्र समासप्रसङ्गस्तदपेक्षा हि षष्ठी । श्रेष्टत्वं द्विजेतरमनुष्येभ्यः, तेषां समान्यशब्देनोपस्थिततया । तान्विहायानुपस्थितकल्पनाया अन्याय्यत्वात् । अथं कथं पुरषोत्तम इति । यस्मान्निर्धार्यते, यश्चैकदेशो निर्धार्यते, यश्च निर्धारणहेतुः — एतत्त्रितयसंनिधाने सत्येवायं निषेध इतिद्विवचनविभज्योपे॑ति सूत्रे कैयटः । अन्ये तु — पुरुषेषूत्तम इति निर्धारणसप्तम्याःसंज्ञाया॑मिति समासः । न चैवंन निर्धारणे॑इति व्यर्थम् । स्वरे भेदात् । सप्तमीसमासे हि तत्पुरुषे तुल्यार्थे॑त्यादिना पूर्वपदप्रकृतिस्वरः, षष्ठीसमासे तुसमासस्ये॑त्यन्तोतात्तत्वं स्यात्तच्चाऽनिष्टमित्याहुओः । तन्मन्दम् ।संज्ञाया॑मिति समासस्य नित्यत्वेन स्वपदविग्रहाऽसंङ्गतिप्रसङ्गात् । तस्मात्कैयटोक्तसमाधानमेव समीचीनमिति नव्याः ।प्रतिपदविधाना षष्ठी न समस्यत इति वाच्यम् । प्रतिपदविधानेति । पदं पदं प्रति विहिता प्रतिपदविधान ।षष्ठी शेषे॑ इथि विहायाऽन्येनज्ञोऽविदर्थस्ये॑त्यादिना विहिता सर्वैव षष्ठीत्यर्थः । धातुकारकविशेषं गृहित्वैवज्ञोऽविदर्थस्य॑इत्यादिना षष्ठी विधीयत इति भवति तस्याः प्रतिपदविधानत्वम् । नन्वनेनैव गतार्थत्वा॒न्न निर्धारणे॑ इति व्यर्थमिति चेत् । अत्राहुः — ॒यतश्च निर्धारण॑मिति सूत्रं न षष्ठीं विधत्ते, किं तु सप्तमीमेव । षष्ठी तु तया मा बाधीति प्रतिप्रसूयत इत्यन्यदेतत् । एवंस्वमीआराधिपती॑त्यादिष्वपि । तेनगृहस्वामी॒॑सर्वेआरः॑निषादाधिपति॑रित्यादि सिद्धमिति । वस्तुतस्तुपज्ञोऽविदर्थस्ये॑त्यादिचतुर्दशसूत्रीमध्येदिवस्तदर्थस्ये॑त्यादिषट्सूत्रीं विहायाविशिष्टायाममष्टसूत्र्यांशेषे॑इति वर्तते, तथा च न माषाणामाश्नीया॑दित्यादाविवषष्ठी शेषे॑ इत्येवसिद्धे नियमार्थं प्रकरणम् — इह षष्ठएव न तु तल्लुगिति । तथा च लुकः प्रयोजकीभूतः समास एव नेति फलितोऽर्थः । ततश्चप्रतिपदविधाने॑ति वचनं न कर्तव्यम् । एवं स्थितेकृद्योगा षष्ठी॑ति वचनमपि मास्तु ।कर्तृकर्मणोः कृती॑त्यत्र हिशेषे॑ इति निवृत्तम् । तथा चाऽप्राप्तषष्ठीविधानार्थमेव तदिति समासनिवृत्तिप्रसङ्गाऽभावात्षष्ठी॑इत्यनेनैव समाससिद्धेः । सर्पिषो ज्ञानमिति । वस्तुतः करणस्य संबन्धमात्रविवक्षयाज्ञोऽविदर्थस्य॑इति षष्ठी । सर्पिःसंबन्धि प्रवर्तनमित्यर्थः । पूरणगुण । अर्थशब्दस्य त्रिषु संबन्धादाह ।", "22011": "<<पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन>> - पूरणाद्यर्थेरिति । अत्र प्राचोक्तम्एतदर्थैः षष्ठी न समस्यते॑ इति तन्न्यूनम् । तथा हि सति सुहितान्तानामेव ग्रहणं स्यात्, तावतामेवाऽर्थशब्देन समस्तत्वादिति ध्वनयन्नाह — सदादिभिश्चेति । षष्ठ इति । षण्णां पूरणः षष्ठः ।तस्य पूरणे डट्,षट्कतिकतिपयचतुरां थुक् । कथं तर्हितान्युञ्छषष्ठाङ्कितसैकतानी॑ति । प्रमाद एवायमित्येके । उञ्छेषु षष्ठः, उञ्छात्मकऋः षष्ठ इति वा व्याख्येयमिति मनोरमायां स्थितम् । गुणे इति ।सत्त्वे निविशतेऽपैती॑त्यादिलक्षणलक्षैतो गुणोऽत्र गृह्रते, न त्वदेङ्लक्षणः, अर्थग्रहणात् । नापि सङ्ख्या,क्रोशशतयोजनशतयो॑रिति वार्तिके निर्देशात् । काकस्य काष्ण्र्य । ब्राआहृणस्य शुक्ला इति । व्याप्तिन्यायात्केबवगुणवाची गुणोपसर्जनद्रव्यवाची च गुणशब्देन गृह्रत इति भावः । ननुब्राआहृणस्य शुक्ला॑इत्यत्र समासप्रसङ्ग एव नास्ति, ब्राआह्मणशब्दस्य दन्तैरेवान्वयाद्द्राहृणस्य ये दन्तास्ते शुक्ला इत्यर्थादत आह — यदेति । शुक्लशब्द एवेह विशेष्यसमर्पक इति भावः ।चन्दनगन्धः॑घटरूप॑मित्यादावनेन निषेधे प्राप्तेतत्स्थैश्च गुणैः समासो वक्तव्यः॑इति वार्तिकेन समासः प्रतिप्रसूयते । गन्धगत्वेन प्रतीयमानो गन्धो न कदापि गुणिसमानाधिकरणः, किंतु स्वप्रधानः । इदमेव हि तात्स्थ्यं नाम । ननुपिनष्टि गन्धा॑निति प्रयोगदर्शनाच्छुक्लशब्दादितुल्य एव गन्धशब्दो न तत्स्थगुणवचन इति चेत् । न ।पिनष्टी॑ति प्रयोगे हिगन्धा॑मिति न गुणशब्दः, मालतीकुसुमादिषु गन्धशब्दप्रयोगदर्शनात् । किंतु चन्दनत्वादिजातिनिमित्तकोऽन्य एव सः । तरमाच्चन्दनगन्ध इत्यादौ तत्स्थत्वं सुस्थमेव । एवंघटरूप॑मित्यादावपि । नन्वेवमपिबलाकायाः शौक्ल्यं॑,केशस्य नैल्य॑मित्यादावतिप्रसङ्ग इति चेत् । अत्राहुः — ॒गुणिवचनादुत्पन्नस्य शुक्लादिगुणस्यैवाभिधानात्तद्वाचतपदानां गुणिसामानाधिकरण्यसत्त्वान्न दोषः । तथा च प्राधान्येनाऽप्रधान्येन वा द्रव्याऽप्रति पादकत्वे सति गुणप्रतिपादकत्वंम तत्स्थगुणमित्यर्थ इति । फलानामिति । करणस्य शेषत्वविवक्षायां षष्ठी । स्वरे विशेष इति ।तत्पुरुषे तुल्यार्थे॑ति पूर्वपदप्रकृतिस्वरं बाधित्वाथाथा॑दिसूत्रेणान्तोदात्तत्वे प्राप्ते तदपवादेनतृतीया कर्मणी॑त्यनेन पूर्वपदप्रकृतिस्वरे सत्याद्युदात्त इष्टः, षष्ठीसमासे त्वन्तोदात्तत्वं स्यात्तच्च नेष्यत इचि भावः । तृपिश्च सकर्मकोऽप्यस्ति॑पितृनतार्प्सीत्सममंस्त बन्धू॑निति भट्टिप्रयोगातो । तेनाऽस्मात्कर्मणि क्तोस नास्तीति न शङ्कनीयम् । द्विजस्य कुर्वन्कुर्वाण इति । नेयं घटाद्यपेक्षया षष्ठी,द्विजस्य घटं कुर्व॑न्निति । तथा हि सत्यसामर्थ्यादेव समासाऽप्रसक्ती निषेधोऽयं व्यर्थः स्यादतो व्य्राचष्टे — किङ्कर इत्यर्थ इति । ब्राआहृणस्य कृत्वेति । तादथ्र्यरूपसंबन्धस्य सामान्यरूपेण विवक्षायां षष्ठी । भाहृणसंबन्धिनी या क्रिया तदनन्तरमित्यर्थः । कृदव्ययमेवेति ।अनेकमन्यपदार्थे॑इति सूत्रेसर्वपश्चा॑दिति भाष्यप्रयोगादिति भावः । इत्यादिति । तथा च भट्टिः प्रायुङ्क्त — ॒यत्कृतेऽरीन्निगृह्णीमः॑ ।आदेयाः किङ्कृते भोगाः कुम्भकर्ण । त्वया विना॑इति । रक्षित इति । कैयटहरदत्तौ त्वव्ययप्रतिषेधेवृक्षस्योपरी॑त्युदाहरन्तावकृदव्ययेनापि निषेधं मन्येते, तौ च प्रागुक्तभाष्यप्रयोगविरोधादुपेक्ष्याविति भावः । तव्यता तु भवत्येवेति । सूत्रे निरनुबन्धग्रहणादिति भावः । स्वकर्तव्यमिति । कर्तृषष्ठआ समासः । स्वरे भेद इति । कृदत्तरपदप्रकृतिस्वरेण तित्स्वरस्यावस्थानादन्तस्वरित इष्टः । तव्येन तु समासे मध्योदात्तत्वं स्यात्तच्च नेष्यत इति भावः । सोऽप्यनेनेति । षष्ठीसमासेनपोटायुवती॑ति समासो वारितः, सोऽपि षष्ठीसमासःप#ऊरणगुणे॑त्यनेन वार्यत इत्यर्थः ।", "22012": "<<क्तेन च पूजायाम्>> - क्तेन पूजायाम् । सूत्रे उपलक्षणं पूजाग्रहणं, व्याख्यानादित्याह — मतिबुद्धीति । राज्ञामिति ।क्तस्य च वर्तमाने॑इति कर्तरि षष्ठी । भूत इति । न च तक्रकौण्डिन्यायेन मत्यादिब्यः क्तस्य वर्तमानकालो भूतकालतां बाधत इति वाच्यं,तेनैकदि॑दित्यतःतेन॑ इत्याधिकारेउपज्ञाते॑इति निर्देशेन भूतकालस्याऽबाधज्ञापनात् ।उपज्ञाते॑इत्यत्र हि भूते क्तो, न तु वर्तमाने । अन्यथाक्तस्य च वर्तमाने॑इति षष्ठीविधानादुपज्ञतशब्दस्य तेनेति । तृतीयायोगो न स्यात् । न चैवमपि ज्ञानार्थेष्वेव ज्ञापकत्वमस्त्विति वाच्यं,पूजितोः यः सुरासुरैः॑इति प्रयोगानुरोधेन सामान्यविषयज्ञापकत्वस्यैव न्याय्यत्वात् । अन्ये तु कारकषष्ठआ एव समासनिषेधोऽयम्, शेषषष्ठआ तु समासः स्यादेवेत्याहुः । एतेनकलहं स राममहितः कृतवा॑निति सभट्टिप्रयोगो व्याख्यातः ।राममहितः स, कलहं कृतवा॑नित्यन्वयः ।", "22013": "<<अधिकरणवाचिना च>> - अधिकरणवाचिना च ।॒वाचि॑द्रहणं चन्त्यप्रयोजनमिति हरदत्तादयः । इदमेषामिति ।क्तोऽधिकरणे चे॑त् क्तः ।अधिकरणवाचिनश्चे॑ति कर्तरि षष्ठी ।अधिकरणे चे॑त्येव सिद्धे सूत्रद्वयेऽपिवाचि॑ग्रहणं स्पष्टार्थमित्याहुः । ननुकिवृत्तंयद्वृत्त॑मित्यत्र न कर्मणि क्तः, वृतेरकर्मकत्वात् । तथा चाधिकरणक्तान्तेन कथमिह समास इतिचेत् । मैवम् । नायमधिकरणे क्तः, किं तुगत्यर्थाकर्मके॑ति कर्तरि । किमा वृत्तं निष्पन्नमित्यर्थः ।", "22014": "<<कर्मणि च>> - कर्मणि च । क्तेनेति नानुवर्तते,क्तेन च पूजाया॑मति निषेधवैयथ्र्यप्रसङ्गात् । षष्ठी त्वनुवर्तते, किंतु सापि या काचित्कर्मणि षष्ठी न गृह्रते ।अपां रुआष्टे॑त्यादावनेनैव सिद्धौतृजकाभ्यां कर्तरी॑ति निषेधवैयथ्र्यापत्तेः । किं चइध्मव्रश्चनः॑इत्यादौ समाससिद्धये वचनं कर्तव्यं स्यात् । न चकृद्योगलक्षमा षष्ठी समस्यते॑इति वार्तिकमस्त्येवेति वाच्यं, तस्य सिद्धान्ते प्रत्याख्यानात् । ततश्च निपातानामनेकार्थत्वादितीत्यर्थे चशब्दोऽयं, तदाह कर्मणीति या षष्ठीति । सप्तम्येकवचनान्तं पदमुच्चार्य या षष्ठी विहिता परिषेषिता वेत्यर्थः । मियमसूत्राणां विधिरूपेण निषेधरूपेण वेति द्वेधा प्रवृत्तेः स्वीकृतत्वात् । गवां दोह इति ।अगोपेने॑त्युपन्यासस्त्विह उभयप्राप्तिप्रदर्शनार्थः । अथ कथंशब्दानुशासन॑मिति । अत्र व्याचख्युः — शब्दानामितीयं षष्ठीकर्तृकर्मणो॑रिति विहिता, न तुउभयप्राप्तौ॑इत्यनेन, आचार्यस्य कर्तुः वस्तुतः सत्त्वेऽपीहानुपादानात् ।कृत्वोर्थप्रयोगे -॑इत्यतःप्रयोगे॑ इत्यनुवर्तनात्कर्तृकर्मणोरूपादान एवायं नियम इति स्वीकारात् ।आश्चार्यो गवां दोहोऽगोपेने॑त्यत्र हि आश्चर्यं प्रतिपाद्यं तच्च यद्यशिक्षितो दोग्धा दुर्दोहा गावश्च दोग्धव्यास्तदैव निर्वहति न त्वन्यथा । अतः कर्तृकर्मणोर्विशिष्योपादानादस्तूभयप्राप्तिः, इह तुशब्दानामिदमनुशासनं, न त्वर्थाना॑मित्यर्थनिवृत्तिपरं वाक्यं, न तु कर्तृविशेषणिवृत्तिपरमतो नास्त्युभयप्राप्तिः । अस्तु यथाकथंचिदुभयप्राप्तिः, तथापि न क्षतिः,उभयप्राप्तौ॑इति सूत्रेअविशेषेणविभाषे॑ति पक्षस्यापि विद्यमानतया नियमाऽप्रवृत्तिपक्षे॒आचार्यस्य शब्दानुसासनमि॑ति प्रयोगसम्भवात् । यदि वा शेष लक्षणा षष्ठीति व्याख्यायते, तदा तु समासनिषेधशङ्कैवात्र नास्तीति ।", "22015": "<<तृजकाभ्यां कर्तरि>> - तृजकाभ्यामिहकर्तृषष्ठआ तृजकाभ्या॑मिति वृत्तिकारव्याख्यानमयुक्तमिति ध्वयन्नाह — कत्र्रपर्थतृजकाभ्यामिति ।कर्तृ॑ग्रहणं तृजकयोरेव विशेषणमिति युक्तं, तयोः श्रुतत्वात्, न तु षष्ठआ इति भावः । यद्यपिकर्तरी॑ति तृचो न विशेषणमव्यभिचारात्, तथाप्यकस्य विशेषणत्वेन तदावश्यकमित्याह — इक्षुभक्षिकेति ।पर्यायार्हणे॑ति भावे ण्वुच् । कर्मणि षष्ठआ समासः । ननुवज्रस्य भर्ते॑ त्युदाहरणयुक्तम्, भर्तृशब्दस्य याजकादित्वेन समासाऽवश्यम्भावादित्याशङ्क्याह — पत्यर्थभर्तृशब्दस्येति । यद्यपि याजकादिष्वर्थविशेषविशिष्टतया भर्तृशब्दो न पठितः, तथापि रूढेर्बलीयस्त्वात्पतिपर्यायस्यैव तत्र ग्रहणम्, न तु यौगिकस्येति भावः । शेषषष्ठएति । न्यासकारस्तु तृन्नन्तमेतत्न लोके॑ति निषेधस्त्वनित्यः,त्रकाभ्या॑मिति वक्तव्ये तृचः सानुबन्धग्रहणाज्ज्ञापकादित्याह । केचुत्तु — ॒जनिकर्तुः॑,तत्प्रयोजको हेतुश्चे॑ति निर्देशादनित्योऽयं समासनिषेधैत्याहुः । तन्मन्दम् । शेषषष्ठीसमासेनोक्तनिर्देशोपपत्तेः ।", "22016": "<<कर्तरि च>> - नेह तृजिति । न चोत्तरार्थत्वं शङ्क्यम् । तृच्क्रीडाजीविकयोर्नास्तीति जयादित्येनोक्तत्वादिति भावः । व्वामनस्तु — ॒अके जीविकार्थे॑ इत्यत्रअतके॑ इति किम् ।रमणीयकते॑ति प्रत्युदाहरञ्जीविकायां तृचमिच्छति ।", "22017": "<<नित्यं क्रीडाजीविकयोः>> - नित्यंक्री । भावे ण्वुलिति । भञ्जनं भञ्जिता ।पुष्पाणा॑मिति कर्मणि षष्ठी ।भावे॑इत्युपलक्षणम्, अधिकरणे ण्वुल्यपि बाधकाभावादिति मत्वासंज्ञाया॑मिति सूत्रे कृदन्ते मनोरमायामुक्तम्उद्दालकः श्लेष्माकतसत्स्य पुष्पाणि भज्यनते यस्यां क्रीडायां सा उद्दालकपुष्पभञ्जिके॑ति ।", "22018": "<<कुगतिप्रादयः>> - कुगति ।कु॑शब्दोऽत्राव्ययं गृह्रते, न तु पृथिवीवाचको, गत्यादिसाहचर्यात् ।", "22019": "<<उपपदमतिङ्>> - समर्थेनेति । तेनमहान्तं कुम्भं करोती त्यादी नातिप्रसङ्गः । अतिङन्तश्चेति । सुबिति तु अनुवर्तत एवेति अतिङन्तमिति नोक्तमिति भावः । कुम्भ असिति । अमिति तु नोक्तं, कृद्योगे षष्ठीविधानात् । अतिङ् किमिति । सुपेत्यधिकारात्किमनेनेति प्रश्नः ।इतरो वक्ष्यमाणं ज्ञापकं मनसि निधाय प्रत्युदाहरति -मा भवानिति । समासाऽभावसूचनायभवा॑निति मध्ये प्रयुक्तम् । पूर्वसूत्र इति ।कुप्रादयः॑गतिः॑इति योगं विभज्यकुप्रादयऋ सुबन्ताः सुबन्तेन समस्यन्ते, गतिस्तु सुबन्तोऽतिङन्तेन समस्यते॑इति व्याख्येयमित्यर्थः । तथाचेति । यद्यप्युक्तरीत्या गत्युपपदयोरेव लाभः, तथापि त्रितयविषयिणी प्राचां परिभाषा एकदेशानुमतिद्वारा इहापि ज्ञाप्यत इति भावः । कारकांशे तुकर्तृकरणे कृते॑ति सूत्रस्थबहुलग्रहणमुक्तार्थे साधकमित्यपि मनोरथायां स्थितम् । प्रागिति । कृदन्ताच्चरमपदात्सुबुत्पत्तेः पूर्वं समास इत्यर्थः । प्रथमान्तसुब्ग्रहणं त्विहानुवर्तत एव, तेनराजदर्शी॑ त्यादौ पूर्वपदे नलोपादि कार्य सिद्द्यति । परिभाषाफलं दर्शयन् गतिमुदाहरति — व्याघ्रीति । व्याजिघ्रतीति व्याघ्री ।आतश्चोपसर्गे॑इतीति कः ।पाघ्राध्माधे॑डिति शस्तु संज्ञायां न भवति, व्याघ्रादिभिरिति निर्देशादिति वक्ष्यते । व्याङोघ्र॑शब्देन गतिसमासः । स यदि घ्रशब्दस्य सुबन्ततामापेक्षेत, तर्हि सुबुत्पत्तये सङ्ख्याद्यपेक्ष्यं, ततः प्रागेव लिङ्गयोग इति लिङ्गनिमित्तप्रत्ययेन टापा भाव्यं न तु ङूषा । घ्र शब्दमात्रस्य जातिवाचित्वाऽभावात्, ततो घ्राशब्देन समास इत्यदन्तत्वाऽभाबाज्जातिलक्षणो ङीष् न स्यादिति भावः । यद्यप्युपपदत्वेनाप्येतत्सिद्धं तथापि गतिग्रहणमाङो घ्रशब्देन समासे पश्चादाघ्रशब्देन विशब्दस्य समासार्थमावश्यकमेव । आङ्पूर्वाद्धातोः कप्रत्ययविधानादाङयुपपदसंज्ञाभ्युपगमेऽपि विशब्दे तदनभ्युपगमादिति बोध्यम् । कारकमुदाहरति — अआक्रीतीति । अओन क्रीति ।कर्तृकरणे कृते॑ति समासः ।क्रीतात्करणपूर्वा॑दिति ङीष् । सुबन्तेन समासे तु टापा भाव्यमित्यदन्तत्वाऽभावात्क्रीतात्करण -॑ इत्यये ङीष् न स्यादिति ज्ञेयम् । उपपदमुदाहरति — कच्छपीति । कच्छेन पिबतीति कच्छमी ।सुपि॑इति योगविभागात्कः । इहापि समासस्य सुबन्ततापेक्षायां टाबेव स्यान्न ङीषित्यादि व्याघ्रात्यत्रेव बोध्यम् । प्राचातु॒उपपदमतिङन्तं समस्यते॑इत्युक्तं, तदसत्, तथा सति प्रथमान्तसुब्ग्रहणनिवृत्त्यापत्त्याराजदर्शी॒॑चर्मकार॑इत्यादौ नलोपो न स्यात्, पदान्तत्वात् । प्राटितेत्यादौअतो गुणे॑ इति पररूपं च स्यात् । स्यादेतत् — कच्छेन साधनेन पिबतीतियर्थाभ्युपगमे कच्छस्य कारकत्वेन कच्छपीति रूपसिद्धौ नेदमुपपदस्याऽसाधारणोदाहरणमिति चेत्, एवं तर्हिभाषवापिणी॑त्युदाहर्तव्यम् ।सुप्यजातौ॑इति णिनौ कृते माषोपपदस्य कृदन्तेन समासेप्रातिपदिकान्ते॑त्यादिनापूर्वपदस्थान्निमित्तात्परस्या समासप्रतिपदिकान्तनकारस्य णत्वं सिद्द्यति । सुबन्तेन समासे त्वन्तरङ्गत्वान्नान्तलक्षणे ङीपि पश्चाद्वापिनीशब्देन समासे गर्गभगिनीत्यत्रेव णत्वं न स्यादित्येके । अन्ये तु कच्छेन हेतुना पिबतीत्यर्थविवक्षायां कच्छस्याऽकारकत्वात्कच्छपूत्युपपदस्योदाहरणं सम्यगेवेत्याहुः ।", "22020": "<<अमैवाव्ययेन>> - अमैवाव्ययेन । पूर्वेण सिद्धे नियमार्थमिदम् । तुल्यविधनमिति । एतच्चाध्याहारे लभ्यम् । तदेवेति । यस्मिन्नुपपदेयेन वाक्येन अमेव विहितस्तदेवोपपदमव्ययेन समस्यते नान्यदित्यर्थः । नियमबललभ्योऽयमेवकारो न तु सूत्रस्थः । स्वादुङ्कारमिति ।स्वादुमि णमुल् । अव्ययेनेति किम् । कुम्भकारः । असति ह्रव्ययग्रहणे अमैव यत्तुल्यविधानं तदेव केनचित्समर्थेन समस्येत । तथा सतिस्वादुङ्कारः॑इत्यत्रैव समासः स्यान्न तुकुम्भकार॑इत्यत्र अथ पूर्वसूत्रवैयथ्र्यभीत्याऽब्ययविषयकनियम एव इति चेतर्हि अम्न्तविषयक एव किं न स्यात्अमन्तेन यः समासः सोऽमैव तुल्यविधानस्ये॑ति । तथा चाग्रेभोजमित्यत्र समासो मा भूत्, अग्रे भुक्त्वा कालो भोक्तुमित्यत्र तु स्यादेवेति भावः । तदेवेति किम् । कालो भोक्तुम् समयोभोक्तुम् ।अमैवे॑त्येवकारेणाऽमा चान्येन च तुल्यविधानस्योपपदस्य समासनिवारणेऽपि तुमुना तुल्यविधानस्य स्यादेवातस्तन्निवरणाय तदेवेत्युक्तम् ।", "22021": "<<तृतीयाप्रभृतीन्यन्यतरस्याम्>> - तृतीयाप्रभृतीन्यन्यतरस्याम् । उभयत्रविभाषेयम् । अमैव तुल्यविधानस्य प्राप्तेऽमा चान्येन च तुल्यविधानस्याऽप्राप्ते चारम्भात् । प्राप्ते यथा -॒उपदशस्तृतीयायाम् । मूलककेनोपदंशं । मूलकोपदंशम् । अप्राप्ते यथा — ॒अव्ययेऽयथाभिप्रेताख्याने॑ति क्त्वाणमुलौ । उच्चैःकारम् । इह समासपक्षे कृदृत्तरपदप्रकृतिस्वरः — ॒आदिर्ण मुल्यन्यतरस्या॑मित्याद्युदात्तत्वम् । असमासे तु उच्चैरित्यन्तोदात्तत्वम् ।उदि चेर्डै सिः॑इति व्युत्पत्तिपक्षे प्रत्ययस्वरस्य, अव्युत्पत्तिपक्षे तुफिषः॑इत्यस्य च प्रवृत्तेरित्याहुः । मनोरमायां तूच्चैरित्यन्तोदात्तः, स्वरादिषु तथा पाठादिति स्थितम् ।अमे॑त्यनुवर्तत इत्याह — अमन्तेनेति । तेनेह न — पर्याप्तो भोक्तुम् ।पर्याप्तिवचनेष्वि॑ति तुमुन् ।", "22022": "<<क्त्वा च>> - क्त्वा च । क्त्वेति तृतीयान्तम् ।आतः॑इति योगविभागादालोपः,क्त्वि स्कन्दिस्यन्दोः॑ इतिवदिति हरदत्तः । तन्न । सवर्णदीर्घोणापि तृतीयान्तत्वोपपत्तेः । अलं कृत्वेति ।अलङ्ख्ल्वोः प्रतिषेधयो॑रिति सूत्रस्यउपदंशस्तृतीयाया॑मित्यस्मात्पूर्वत्वान्नेह समासः । तत्पुरुषेऽसाधारणान्समासान्तानाह ।", "22023": "<<शेषो बहुव्रीहिः>> - शेषो बहुव्रीहिः ।शिष् असर्वोपयोगे॑ कर्मणि घञ् । अत्र वृत्तिकृत् -,यत्रान्यः समासो नोक्तः स शेष॑ इत्याह ।येषां पदानां यस्मिन्नर्थेऽव्ययीभावादिसंज्ञकः समासो न विहितः स शेष इत्यर्थ॑इति हरदत्तो व्याख्यात् । एतच्चप्राक्कडारात्परं कार्य॑मिति पाठाभिप्रायेण बोध्यम् । अस्मिस्तु पक्षे शेषग्रहणाऽभावे उन्मत्तगङ्गमित्यत्र परत्वाद्बहुव्राहिः स्यात्, निरवकाशत्वाच्चाऽव्ययीभाव इत्युन्मत्तगङ्ग इत्याद्यनिष्टं पक्षे प्रसज्यते ।आ कडारादेके॑ति पाठाभ्युपगमपक्षे त्वेकसंज्ञाऽधिकारेणावेन्मत्तगङ्गमित्यादिसिद्धेः शेषग्रहणं व्यर्थम् । निरवकाशतयाऽव्ययीभावसंज्ञया बहुव्रीहिसंज्ञाया बाधात् । अतस्तत्रापि प्रयोजनमाह — द्वितीया श्रितेत्यादिनेति । सेषधिकारस्थबहुव्रीहेरेवशेषाद्विभाषे॑ति कप्प्रत्ययो नान्यस्माद्बहुव्रीहोरित्येतल्लाभार्थमपि शेषग्रहणमावश्यकमिति बोध्यम् । यस्य त्रिकस्येति । यद्यपिप्रादयो गताद्यर्थे प्रथमये॑त्युक्तम्, तथापिद्वितीया श्रितादिभिः॑इतिवत्प्रथमा केनचित्सह समस्यते॑इति नोक्तमित्यर्थः । वार्तिककृता प्रथमयेत्युक्तावपि सूत्रकृता नोक्तमिति वा । प्रथमान्तमिति ।कण्ठेकाल॑इत्यादिबहुव्रीहिस्तु ज्ञापकसाध्य इति भावः । अन्यस्य पदस्यार्थ इति । समस्यमानपदातिरिक्तस्य पदस्याऽर्थ इत्यर्थः । पदेन हि प्रकृत्यर्थोपसर्जनकः प्रत्ययार्थः कर्मकत्र्रादिरभिधीयते । प्रथमान्तेन तु प्रातिपदिकार्थमात्रम् । यद्यपि त्रिकपक्षे सङ्ख्या प्रत्ययार्थस्तथापि तस्याः प्रकृत्यर्थं प्रति विशेषणत्वान्न प्रकृत्यर्थोपसर्जनकः प्रत्ययार्थः प्रथमान्तस्यास्ति । एवं चद्वितीयान्ताद्यर्थे॑इति फलितम् ।", "22024": "<<अनेकमन्यपदार्थे>> - अप्रथमाविभक्त्यर्थ इति । समानेति । एतच्च शेषग्रहणाल्लब्धम् । अनेकं किं । बहूनामपि यथा स्यात् । एतच्च मूल एव स्फुटिभविष्यति । अनिज्विधौ केवलग्रहणं ज्ञापकीकृत्याऽनेकग्रहणमिह सुत्यजमित्याहुः । अन्यग्रहणं किम् । बहुव्रीहितत्पुरुषयोर्विषयविभागो यथा विज्ञायेत, स्वपदार्थे हि सावकाशं तत्पुरुषं परत्वादन्यपदार्थे बहुव्रीहिर्बाधते । असति त्वन्यग्रहणेकण्ठेकाल॑ इत्यादौ व्यधिकरणपदे, बहूनां समुदाये च सावकाशं बहुव्राहि स्वपदार्थ इवान्यपदार्थेऽपिलनीलोत्पलं सर ॑ इत्यादौ समानाधिकरणे तत्पुरुषो बाधेत । पदग्रहणं किम् । वाक्यार्थे मा भूत् । ग्राह वती नदी । इह मा स नासीरिति वाक्यार्थो गम्यते । अर्थग्रहणं किम् ।, यावता पदेन पदान्तरस्य वृत्त्यसम्भवादेव पदार्थे भविष्यति । अत्राहुः — प्रकृत्यर्थविशिष्टप्रत्ययार्थाभिधानं यथा स्यात् । अन्यथा प्राधान्यात्प्रत्ययार्थमात्रं गृह्रेत । इष्टापत्तौ तु चित्रगुरित्येतत्षष्ठर्थसम्बन्धमात्रपरं स्यात् । तथा च देवदत्तादिभिः सामानाधिकरण्यं न स्यादिति । अत्रेदमवधेयम् -॒सुपा॑इत्यतन्नानुवर्तते । तेनाऽत्रानेकं प्रथमान्तं मिथः समस्यते इथि पर्यवसन्नोऽर्थः । एवं च द्विपदबहुव्रीहिरबाध एव । य#ए तुसुप्सुपा॑इत्यनुवत्र्यअनेकं सुबन्तं सुपा सहे॑ति व्याचक्षते, तेषां तु द्विपदबहुव्रीहिर्दुर्लभ एवेति.द्वितियादिविभक्त्यर्थक्रमेणोदाहरति — — प्राप्तमित्यादि । ग्रामकर्मकप्राप्तिकर्तृ उदकं विग्रहार्थः । उदककर्तृकप्राप्तिकर्मेति समासार्थः । विग्रहवाक्ये स इति प्रयोगे तु तस्याप्ययमेवार्थः । अनडुत्कर्तृकोद्वहनकमीभूतोरथः । रथकर्मकोद्वहनकर्ता तु समासार्थः । रुद्रसंप्रादनकोपहरणकर्मीभूतः पशुः । पशुकर्मककोपहरणसंप्रदानं तु समासार्थः । स्थाल्यधिकोद्धरणकर्म ओदनः । ओदनकर्मकोद्धकरणावधिः स्थाली समासार्थ इत्यादि । इह कर्मादीनां समाससेनाभिहितत्वात्प्रथमा । ननु वाक्ये धात्वर्थं प्रति क्तप्रत्ययार्थस्य कर्त्तुः कर्मणो वा विशेष्यत्वाद्वृत्तावपि तथैवोचितेति प्राप्तोदकोढरथादौ उदककर्तृकप्राप्तीत्यादिवर्णनं [तु] न युज्यते इति चेत् । उच्यते -एकार्थीभावादिभिर्वृत्तौ विशिष्टार्थविषयकं शक्त्यान्तरमेव स्वीक्रियते, न त्ववयवशक्तिरिति नानुपपत्तिः । व्यपेक्षावादिभिस्त्वगत्या भिन्नैव व्युत्पत्तिः स्वीकार्या । किञ्च कर्तृविशिष्टप्राप्तेः पदार्थत्वे तस्यैव नामार्थत्वादुदकस्य तदभेदो वाच्यः, स च बाधितः, न हि कर्तृविशिष्टा प्राप्तिरुदकमिति सम्भवति । अतएव बहूनां वृत्तिधर्माणां वचनैरेव साधने । स्यान्महन्दौरवमि॑त्यादिना समर्थसूत्रे एकार्थीभावपक्ष एवप्रबल इत्यवोचाम । प्रथमार्थे तु नेति । शेषपदेन वा, अन्यपदार्थ इत्यनेन वा अति प्रसङ्गवारणात्अप्रथमाविभक्त्यर्थे॑इति वचनं न कर्तव्यमिति भावः । व्यधिकरणानामित्यादि । इह शेषपदेनैव वारिकोऽतिप्रसङ्ग इतिसमानाधिकरणानां बहुव्रीहि॑रित्यपि न कर्तव्यमिति भावः ।यत्रान्यसमासो नोक्तः स शेषः॑ इति वृत्तिकारादीनां मते तुप्रथमान्तानामेव बहुव्रीहिः॑ इत्यलाभात्कर्तव्यमेवेदं वचनमिति बोध्यम् ।प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः । प्रादिभ्य इति । प्रादिभ्य इति । प्रादिभ्यः परं यद्धातुजं तदन्तस्य पदान्तरेण बहुव्रीहिव्र्याख्येय इति सूत्रसिद्धान्तनुवादः । वा चेति । इदं तु वाचनिकम् । पूर्वपदान्तर्गतस्योत्तरपदस्य धातुजस्य लोपो वाच्य इत्यर्थः । एतच्च प्रादीनामेव वृत्तौ विशिष्टार्थवृत्तितामाश्रित्य सुत्यजम् ।नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः । नञोऽस्त्यर्थानामिति । नञः परेषामस्त्यर्थवाचिनां पदान्तरेण बहुव्रीहिव्र्याख्येयः, अस्त्यर्थवाचिनां तु लोप इत्यर्थः । अस्त्यर्थानां किम् । अनुपनीतपुत्रः । नञः किम् । निर्विद्यमानपुत्रः । नन्विहसुपा॑इत्यनुवृत्तावपि सुबित्येतदनुवर्तते, तथा चाऽस्तिक्षीरेति प्रयोगो दुर्लभ इत्याशङ्क्यं साधयति -विभक्तिप्रतिरूपकमिति ।", "22025": "<<संख्ययाऽव्ययासन्नादूराधिकसङ्ख्याः सङ्ख्येये>> - यः स्त्रीप्रत्यय इति । टाबादिः । प्राचा तु ङीषेवोपत्तस्तदयुक्तमिति ध्वनयन्नुदाहपरति — शूद्राभार्य इति । ब्राआहृणीति । शाङ्र्गरवादितवीन्ङीन् । प्राचा तुङीष् न पुंव॑दिति व्याख्यायब्राआहृणीभार्य॑इत्युदाहृतं, तद्रभसात् । सौत्रस्यैवेति । व्याख्यानादिति भावः ।न कोपधायाः॑इति निषेधस्तुभस्याढे॑इति प्राप्तस्यापि भवत्येव । तेन विलेपिकाया धम्र्यं वैलेपिकमिति सिद्धम् । यदिअण्पहिष्यादिभ्यः॑इत्यणि पुंवद्भावः स्यात्तर्हीकारोऽत्र न श्रूयेत । एतच्चन कोपधायाः॑इति सूत्रे भाष्ये स्पष्टम् । प्रासङ्गिकं समाप्य प्रकृतमनुसरति — सङ्ख्ययेति । सामानाधिकरण्यास्यान्यपदार्थवृत्तेश्च विरहात्पूर्वोणाऽप्राप्तौ वचनम् । दशानामिति । उपगता दश येषामिति न विगृहितं, पूर्वेणैव सिद्धेः । उपदशा इति । उपशब्दः समीपे समीपिनि च वरितते । आद्येऽव्ययीभावः, द्वितीये तु बहुव्रीहिरिति विवेकः । नव एकादश वेत्यर्थ इति । सङ्ख्याद्वारकसम्बन्धस्याऽन्तरङ्गत्वादिति भावः । तेन दशानां वृक्षादीनां समीपे ये सन्ति गवादयस्तेउपदशा॑ इति न प्रयुज्यन्ते । सूत्रे तीति लुप्तषष्ठीकमित्याशयेनाह — ।", "22026": "", "22027": "<<तत्र तेनेदमिति सरूपे>> - तत्र तेनेदं । ग्रहण विषय इति । गृह्रते अनेनेति ग्रहणं=केशादि । तद्विषयो=वाच्यो ययोस्ते सरूपे । प्राह्यियते अनेनेति प्रहरणं=दण्डादि, तद्विषयो=वाच्यो ययोरिति प्राग्वत् । कर्मव्यतिहारः=परस्परग्रहणं, परस्परप्रहरणं च । ननुग्रहणविषये सप्तम्यन्ते समस्येते, प्रहरणविषये तृतीयान्ते चे॑त्यादिविषयविशेषः सूत्राक्षरैः कथं लभ्यत इत्यत आह -इति शब्दादिति । स हि लौकिकीं विवक्षां दर्शयति । लोके केशाकेशीत्यादिप्रयोगे यावानर्थः प्रतीयते तावत्यर्थे बहुव्रीहिर्भवतीत्यर्थः ।", "22028": "<<तेन सहेति तुल्ययोगे>> - तेन सहेति । तुल्ययोगे किम् ।सहैव दशभिः पुत्रैर्भारं वहति गर्दभी॑ । इह सहशब्दो न तुल्ययोगवचनः, भारकर्मकवहनक्रियायं पुत्राणामननन्वयात् । किं तु विद्यमानवचनः, दशसु पुत्रेषु विद्यमानोष्वित्यर्थः, एतच्च सहशब्दस्य विद्यमानर्थत्वमप्यस्तीति वक्तुमुक्तम् । प्रत्युदाहरणशरीरं तुसह पुत्रै॑रित्येवेति बोध्यम् । तृतीया तुसहयुक्ते॑इत्यनेनैव ।", "22029": "<<चार्थे द्वन्द्वः>> - चार्थे द्वन्द्वः ।अनेकमन्यपदार्थे॑इत्यतोऽनेकमित्यनुवर्तते,सुबामन्त्रिते -॑इत्यस्मात्सुबपि.॒समासः॑इति ,विभाषा॑इति चाऽधिकियत एव । तदाह -अनेकं सुबन्तमित्यादि । चार्था इति । चशब्दद्योत्या इत्यर्थः । एकस्मिन्निति । भजनादावित्यर्थः । ईआरं गुरुंत भजस्वेति । क्रियायां द्रव्ययोः समुच्चयोऽयम् । तथा राज्ञो गजश्चाआश्चेति द्रव्ये द्रव्ययोः समुच्चयः । पटः शुक्लो रक्तश्चेति द्रव्ये गुणयोः । रक्तः पटः कुण्डलं चेति गुणे द्रव्ययोरित्यूह्रम् । भिक्षामट गां चानयेति । अत्र हृदर्शनाद्गामनानयन्नपि भिक्षामटत्येव । अनटंस्तु भिक्षां न गामानयति । तथा अटन्नपि नाऽन्विष्य गामानयति । अतो भिक्षाऽटनस्यैब प्राधान्यं, ग्वानयनस्य त्वानुषङ्गिकता । असामर्थ्यादिति । एकार्थीभावाऽभावादित्यर्थः । तथाहि बहुव्रीहिघटकपदानां कर्माद्यन्तर्भावेणेव द्वन्द्वघटकपादानां चार्थान्तर्भावेण एकार्थीभाव आवश्यकः,समर्थः पदविधिः॑इति परिभाषितत्वात्,चार्थे द्वन्द्वः॑ इत्युक्तेश्च । न चेतरेतरान्वये परस्परनिरपेक्षाणामेकार्थीभावः संभवति येन समुच्चयान्वाचयावेकार्थीभावान्तर्भूतौ स्याताम् । ततश्चेतरयोगे समाहारे च परस्परसाहित्यसत्त्वात्समासो भवति, न तु समुच्चयान्वाचययोः । परं त्वितरेतरयोगे साहित्यं विशेषणं, द्रव्यं तु विशेष्यं, समाहारे तु साहित्यं प्रधानं, द्रव्यं विशेषणमिति विवेक्तव्यम् । ननुनीलोत्पल॑मित्यादौ चशब्दान्तर्भावेण विग्रहदर्शनादेकार्थीभावसत्त्वाच्च द्वन्द्वो दुर्वारः स्यात् । मैवम् ।विशेषणं विशेष्येणे॑ति सामानाधिकरण्ये विहिरतया तत्पुरुषसंज्ञया द्वन्द्वसंज्ञाया बाधात् । तस्यास्त्वसामानाधिकरण्ये सावकाशत्वात् । सामानाधिकरण्याऽभावविवक्षायां तुप्रमाणप्रमेये॑त्यदाविव नीलोत्पलादावपि द्वन्द्वे इष्टापत्तिरेव । होतृपोत्रिति । उत्तरपदपरत्वाऽभावादनयोरानङ् न ।", "22030": "", "22031": "<<राजदन्तादिषु परम्>> - राजदन्तादिषु । इह द्वन्द्वतत्पुरुषयोः पाठेऽपिअर्थ धर्मौ॑इत्याद्यभिप्रायेणाऽस्य द्वन्द्वेषूपन्यासः ।", "22032": "<<द्वन्द्वे घि>> - द्वन्द्वे घि ।अनेक॑मिति सर्वेषामेव प्रथमानिर्दिष्टत्वेनोपसर्जनत्वाऽविशेषादनियमप्रापतावयमारम्भः । यत्र त्वनेकं ध्यन्तं तत्र द्वयोरपि पूर्वनिपातनियमः स्यादत आह — — ।अनेकप्राप्तावेकत्र नियमोऽनियमः शेषे । अनेकप्राप्तावेकत्रेति । अत्र व्याचख्युः — आकृतौ पदार्थे समुदाये सकृल्लक्षणं प्रवर्तते, न प्रतिव्यक्त्यावृत्त्या । तत्रैकस्य पूर्वनिपाते सति जातौ लक्षणं प्रवृत्तमेवेति न पुनः प्रवर्तते । व्यक्तिपक्षस्त्विह नाश्रीयते, लक्ष्यानुरोधादिति । हरिहर गुरव इति । हरगुरुशब्दयोर्नं नियमः प्रवर्तत इति भावः ।", "22033": "<<अजाद्यदन्तम्>> - अजाद्यदन्तं ।समुद्राभ्राद्दः॑लक्षणहेत्वोः क्रियायाः॑ इत्यादिनिर्देशादनित्यमिदं प्रकरणम् । तेनस सौष्ठवौदार्यविशेषशालिनी॑मिति भारविप्रयोगः सङ्गच्छते ।", "22034": "<<अल्पाच्तरम्>> - अल्पाच्तरम् । अतएव निपातनात्स्वार्थे तरप्, कुत्वचुत्वयोरभावश्च । यदि तु प्रकर्षे तरप् स्यात्तदाद्वयेरेव नियमः स्यात्, द्विवचनान्तोपपदत्वविषय एव तरपो विधानात् ।ततश्चधरवदिरपलाशा॑इत्यादौ बहुषु नियमो न स्यात् । ऋतुक्षत्राणामिति । ऋतूनामानुपूर्व्यं प्रादुर्भावकृतं, नक्षत्राणां तूदयकृतम् ।अभ्यर्हितं च । अभ्यर्हितं च ।वासुदेवार्जुनाभ्यां वुनि॑ति निर्देशेनेदं ज्ञाप्यत इति चतुर्थे भाष्यम् ।अल्पाच्तरम्अजाद्यदन्त॑मिति सूत्राभ्यामर्जुनस्य पूर्वनिपाते प्राप्ते तमकुर्वन् ज्ञापयतिसर्वतोऽभ्यहितं पूर्व॑मिति तत्रैव सूत्रे वक्ष्यते ।भ्रातुज्र्यायसः । युधिष्ठिरार्जुनाविति । इन्द्रपुत्रत्वाद्विष्णोरंशत्वाच्छूरत्वाद्वाऽभ्यर्हितत्वमर्जुनेऽप्यस्तीति न तेन नियमः सिध्यतीति भावः ।", "22035": "<<सप्तमीविशेषणे बहुव्रीहौ>> - सप्तमीविशेषणे । यदा कण्ठे किंचिदस्तीति ज्ञायते, तस्य विशेषणं काल इथि, तदेदं सप्तमीग्रहणम् । अन्यदा तु तेन विनापि विशेषणत्वादेव सिद्धम् । चुत्रगुरिति । न चउपसर्जनं पूर्व॑मित्येवेदं सिध्यतीति वाच्यं,बहुव्रीहौ सप्तमी॑त्युक्ते तक्र कोण्ढिन्यन्यायेनोपसर्जनपूर्वत्वस्य बाधापत्तेरतो विशेषणग्रहणं कृतम् ।सर्वनामसङ्ख्योरुपसङ्ख्यानम् । सर्वनामेति । कथं तर्हितः परो यस्मात्सतपरः॑इति , कथं चजहत्स्वार्थे वृत्तिः॑इति । इह हि जहस्त्वं पदं यं स जहत्स्वः, सोऽर्थधो यस्यामिति बहुव्रीहिगर्भो बहुव्रीहिः । तथा च स्पपरशब्दयोः सर्वनामत्वात्पूर्वनिपातेन भाव्यमिति चेत् । अत्राहुः — सूत्र भाष्यप्रयोगात्स्वपरशब्दयोर्न पूर्वनिपातः । राजदन्तादित्वाद्वा सिद्धिमिति । द्विशुक्ल इति । यद्यपि सर्वनामत्वेनैव द्विशब्दस्य पूर्वनिपातत्वं सिध्यति, तथापित्रिशुक्ल॑इत्यादिसिद्धये वार्तिके सङ्ख्याग्रहणं कृतम् । ननु सङ्ख्याया अल्पाच्तरत्वेनसङ्ख्यासर्वनाम्नो॑रिति वाच्ये विपरीतोच्चारणमयुक्तमित्याशङ्क्याह — ।मिथोऽनयोः समासे सङ्ख्या पूर्वम् । मिथोऽनयोरिति । विपरीतोच्चारणमेवात्र लिङ्गमिति भावः ।सङ्ख्याया अल्पीयस्याः । अल्पीयस्या इति । अल्पार्थवाचिकाया इत्यर्थः । गड्वादेः परा सप्तमी । गड्वादेरिति । आदिशब्दः प्रकारवाची । तेन पद्मं नाभौ यस्य पद्मनाभः । ऊर्णा नाभौ यस्य ।ङ्यापोः — ॑इति ह्रस्वः । ऊरेंनाभ इति सिद्द्यतीत्याहुः ।जातिकालसुखादिभ्यः परा निष्ठा वाच्या । जातिकालेति । एतच्चजातिकालसुखादिभ्योऽनाच्छादना॑दित्यनेन ज्ञापितमिति भावः । सारङ्गजग्धीति । सारङ्गो जग्धो यया सा ।अस्वाङ्गपूर्वपदाद्वे॑ति ङीष्॥ कथं तर्हिचारुस्मितश्चारुहसितः॑इत्यादि । अत्राहुः — ॒नपुंसके भावे क्तः॑इति क्तस्य न पूर्वनिपातः, निष्ठाशब्देन विहितस्यैवेह ग्रहणागदिति ।प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ । क्विचिन्नेति । आहिताग्न्यीदित्वकल्पनादनभिधानद्वेति भावः । इति तत्त्वबोधिनीव्याख्यायां बहुव्रीहिप्रकरणम् ।अथ भावकर्मप्रक्रिया ।", "22036": "", "22037": "", "22038": "", "23001": "<<अनभिहिते>> - अनभिहिते इतचि । ननुबहुपटु॑रित्यादौ बहुच्प्त्र्ययेनोक्तार्थत्वात्कल्पबादयो यथा न प्रवर्तन्ते तथाक्रियते कट॑इत्यादावपि तिङादिभिरुक्तार्थत्वाद्द्धितीया न भविष्यति । किञ्चकटं करोती॑त्यादौ सावकाशा द्वितीयाकृतः कट॑इत्यादौ निरवकाशया प्रथमाया बाधिष्यते । न च वृक्षः प्लक्ष इत्यादौ प्रथमाया अवकाशः, तत्रापि प्रतीयमानामस्तिक्रियां प्रति कर्तृत्वेन तृतीयाप्रसङ्गात् । अथोच्यते -॒नीलमिदं न तु रक्त॑मित्यादौ विशेषणान्तरनिवृत्तितात्पर्यके अस्ति क्रियाया अनावश्याकत्वात्प्रथमाया अस्त्येवाऽवकाश इति, तर्हि उभयोः सावकशत्वे परत्वात्प्रथमैव स्यात् ।तथा चाऽनभिहिताधिकारो वृथैवेति चेत् । अत्राहुः — ॒सङ्ख्या विभक्त्यार्थः॑इति पक्षे सूत्रारम्भ आवश्यकः । तथाहि सूत्रारम्भेकर्मणि द्वितीये॑त्यस्याऽनभिहिते कर्मणि यदेकत्वं तत्र द्वितीयैकवचनमित्यर्थः । सूत्राऽनारम्भे च कर्मणि यदेकत्वं तत्र द्वितीयैकवचनमिति हि वाक्यार्थः । तथा च सति कृतः कट इत्यादौ क्तेन कर्ममात्रोक्तावपि तदेकत्वस्याऽनुक्ततया अम् दुर्वारः स्यचात् । न च परत्वात्प्रथमैव स्यादित वाच्यम् ।कर्यव्यः कट॑इत्यादौ ततोऽपि परत्वेन कृद्योगलक्षणषष्ठीप्रसङ्गात् ।कारकं विभक्त्य्रथः॑इति पक्षे तु कारकस्य क्तप्रत्यया दिनैवोक्तत्वात्प्रातिपदिकार्थे प्रवृत्तायाः प्रथमाया एकत्वादिबोधनसम्भवाच्चाऽमादिविभक्तेरप्रवृत्तौअनभिहिते॑इति सूत्रं प्रत्याख्यातमाकरे इति.पक्षे तु कारकस्य क्तप्रत्ययादिनैवोक्तत्वात्प्रातिपदिकार्थे प्रवृत्तायाः प्रथमाया एकत्वादिबोधनसम्भवाच्चाऽमादिविभक्तेरप्रवृत्तौअद्योत्ये ॑इत्यर्थः । तथा च क्तप्रत्ययादिभिरद्योत्ये कर्मणि द्वितीयत्येदिवाक्यार्थः । तत्राप्येकेन द्योतिते द्योतकान्तरं न प्रवर्तत इत्यभ्युपगमेत्वनभिहिताऽधिकारो नातीवोपयुज्यत इति दिक् ।", "23002": "<<कर्मणि द्वितीया>> - हरिं भजतीति । भजनक्रियया हरौ प्रीतेरुत्पादात्प्रीतिविशिष्टतया कियाव्याप्यत्वेन हरिः कर्म, तद्विशिष्टं भजनं वाक्यार्थः । हरिनिष्ठप्रीत्यनुकूल एकद्वदत्तादिनिष्ठो वर्तमानो व्यापार इति निष्ष्टोऽर्थः ।हरिः सेव्यत॑इत्यत्राप्येवमेव,क्रियाप्रधानमाख्यातम्इति सिद्धान्तात् । धातूपस्थिता क्रिया तिङ्र्थं प्रति विशेष्या, न तु कृदर्थं प्रतीव विशेषणमिति हि तस्यार्थः । अतएवपाचको व्रजती॑तिवत्पचति व्रजतीति नैकं वाक्यम् । पाककर्तृकर्तृकं गमनं हिपाचको व्रजतो॑त्यस्यापर्थः । एककर्तृका पचिक्रिया, एक कर्तृका गमिक्रियेति पचतिव्रजत्योः पृथगेवाऽर्थः । एवं च प्रथमान्तविशेष्यको बोध इति नैयायिकोद्धोषो भाष्याद्यनुसारिभिर्नादर्तव्यः । तन्मते हि पाककर्ता व्रजनानुकूलकृतिमानितिपाचको व्रजती॑त्यस्यार्थः । पचतिव्रजत्योस्तु पाकानुकूला कृतिव्र्रजतीत्यर्थ इत्येवं रूपेण वाक्यार्थपर्यवसानात्, तस्य च भाष्यादिग्रन्थविरोधात् । किञ्च हरिं भजति देवदत्तः, हरि सेव्यते देवदत्तेनेत्यत्र चैकरूप एव शाब्दबोध इत्युक्तम् । नैयायिकानां मते तु भिद्यत एव,हरिनिष्ठप्रीत्यनुकूलकृत्याश्रयो देवदत्तः॑देवदत्तनिष्ठकृतिजन्यप्रीत्याश्रयो हरि॑रित्युभयत्र भेदेन वाक्यार्थपर्यवसानात् । तस्मात्प्रथमान्तविशेष्यकबोधोभाष्याद्यनुसारिभिर्नादर्तव्य एव । यास्कोऽप्याह — — ॒भावप्रधानमाख्यातं सत्त्वप्रधानानि नामानि॑इति ।पश्य मृगो धावती॑त्यादौ तु भृगकर्तृकं गमनं दृशिक्रियैव । उक्तं च -॒सुबन्तं हि यथाऽनेकं, तिङ्न्तस्य विशेषणम् । तथा तिङन्तमप्याहुस्तिङन्तस्य विशेषणम्इति । न च लौकिकप्रयोगेषु तिङन्तस्य कतिङन्तविशेषणत्वं दुर्लभमिति मन्तव्यम् ।पुरीमवस्कन्द लुनीहि नन्दनम्इति माघश्लोकस्य पुर्यवस्कन्दननन्दनलवनादिरूपा अस्वास्थ्यक्रियेत्यर्थ इतिसमुच्चयेऽन्यतरस्याम्इति सूत्रे मूले स्फुटीभविष्यमाणत्वात् । एवं चपचति — भवती॑त्यस्य पचिक्रिया भवतीत्यर्थो भाष्यमते बोध्य इति दिक । अभिहिते त्विति । नन्वेवंपक्वमोदनं भुङ्क्ते॑इत्यत्रापि द्वितीया न स्यादिति चेत् । मैवम् । इह हि पाचेभुजिनिरूपिते द्वे कर्मत्वशक्ती, तत्र प्रधानभूतभुजिक्रियानिरूपितामनभिहितां शक्तिमादाय द्वितीयत्पत्तेः । अतएवआसने आस्ते॑इत्यत्र सप्तमी सङ्गच्छते । ल्युटाऽधिकरणत्वस्योक्तत्वेऽपि तिङन्तोपस्थाप्यक्रियानिरूपिताधिकरणत्वस्यानुक्तत्वात् । शत्य इति ।शताच्च ठन्यताशते॑इति यत् । प्राप्तानन्द इति । इहगत्यर्थाकर्मके॑ति कर्तरि क्तः । आनन्दकर्तृकप्राप्तिकर्मीभूतैत्यर्थः । यदुक्तंप्रायेण॑ति तस्य फलमाह — क्वचिन्निपातेनेति । विषवृक्ष इति ।संवध्र्ये॑त्यत्रछेत्तुमित्यत्र चार्थद्विषवृक्षमिति गम्यत इत् ध्येयम् । युज्यत इत्यर्थ इति । एतेन निपातानां द्योतकत्वमेवेति नियमो नास्तीति ध्वनितम् । तथा युक्तम् । तथेत्युक्ते कथं युक्तमिति जिज्ञासायामाह — ।", "23003": "", "23004": "<<अन्तराऽन्तरेणयुक्ते>> - अन्तरान्तरेण । प्रतिपदोक्तत्वान्निपातयोरेव ग्रहणं न तु टाबन्ततृतीयान्तयोः, परस्परसाहचर्याच्च । तद्यथा गुरुभार्गवावित्युक्ते ग्रहयोरेव प्रतीतिर्न त्वाचर्यपरशुरामयोः । तेन किमनयोरन्तरेणावगतेनेति सिद्धम् । किमनयोर्विशेषण ज्ञातेनेत्यर्थः । अन्तरा त्वां मामिति । तव मम च मध्ये इत्यर्थः । हरिशब्दात्तु द्वितीया न भवति, अन्तरङ्गतया प्रथमाया एवोत्पत्तेः । अन्तरेण हरिमिति । हरिं विनेत्यर्थः ।मध्ये॑इत्यर्थेऽप्यन्तरेणशब्दो वर्तते,मृणालसूत्रामलमन्तरेण स्थितश्चलच्चामरयोद्र्वयं सः॑ इति । चलच्चामरयोद्र्वयं यस्य मध्ये इत्यर्थः । युक्ताग्रहणान्नेह, — ॒अन्तरा त्वां मां कृष्णस्य मूर्तिः॑ । इह कृष्णान्न द्वितीया, अन्तराशब्दप्रयोगेऽपि अन्तरेत्यनेनाऽनन्वयात् ।", "23005": "<<कालाध्वनोरत्यन्तसंयोगे>> - तालाध्वनोः । अन्तं विराममतिक्रान्तोऽत्यन्तः, स चासौ संयोगश्चाऽत्यन्तसंयोगः । निरन्तरसंन्निकर्ष इत्यर्थः । केनेत्याकाङ्क्षायां गुणक्रियाद्रव्यैरित्यौचित्याद्बोध्यम् । द्वितीया स्यादिति । श्रुतत्वात्कालाध्ववृत्तिभ्यामेव । स्वरूपग्रहणं त्विह न भवति,कालाः,॑अत्यन्तसंयोगे च ॑इति समासविधायकेकालाः॑इति बहुवचननिर्देशेन द्वितायाविधौ स्वरूपविधिर्नेति ज्ञापनात् । अतएवमासप्रमितः,॑मुहूर्तसुख॑मिति द्वितीयासमासविधावुदाहरिष्यति । मासं कल्याणीत्यादी । अकर्मकधातुभिर्योग एव देसकालादीनां कर्मसञ्ज्ञाविधानान्नेहकर्मणि द्वितीय॑इति द्वितीया प्राप्नोतीति भावः । मासस्य द्विरिति ।कृत्वोर्थप्रयोगे कालेऽधिकरणे॑इत्यनेन षष्ठीति प्राञ्चः । तन्न । तत्र शेषग्रहणाऽनुवृत्त्याद्विरह्नो भोजन॑मिति कृदन्तेन सह समासनिवृत्तेरेव फलत्वात् । तस्मादिहषष्ठी शेषे॑इति सूत्रेणैव षष्ठी भवत्यन्तरङ्गत्वादित्याहुः । अन्यर्थमारब्धस्याऽपिकृत्वोर्थप्रयोगे॑इति सूत्रस्य द्विरह्नो भुङ्क्त इत्यत्र विशेषविहितत्वात्प्रवृत्तौ बाधकं नास्तीति केचित् । इति द्वितीया ।", "23006": "", "23007": "<<सप्तमीपञ्चम्यौ कारकमध्ये>> - सप्तमीपञ्चम्यौ ।कालाध्वनो रत्यन्तसंयोगे ॑ इत्यतः कावाध्वनोरित्यनुवर्तते, तच्च पञ्चम्या विपरिणम्यते, तदाह -यौ कावाध्वानौ ताभ्यामिति । इह कालाध्वभ्यां विभक्त्योर्यथासंख्यं न भवत्यस्वरितत्वात् । अद्य भुक्त्वाऽयमिति । नन्वत्र कर्ता एक एव, तत्कथं कारकयोर्मध्ये कालः । सत्यम् । नात्र शक्त्याश्रयं द्रव्यं कारकमिति व्यवह्यियते, किंतु शक्तिरेव । सा च कालबेदाद्भिद्यत एव । एका हि अद्य भुजेः साधनम्, अपरा व्द्यहेऽतीते भुजेः । तदेतव्द्याचष्टे — — कर्तृशक्त्योर्मध्येऽयं काल इति । (५६४) यस्मादधिकं यस्य चेआरवचनं तत्र सप्तमी ।२.३.९ ।यस्मादधिकम् । उप परार्ध इति ।उपोऽधिके चे॑ त्यनेनउपे॑त्यस्य कर्मप्रवचनीयसंज्ञा ।यस्य चेआरवचन॑मित्यस्य तन्त्रादिना अर्थद्वयं विवक्षितम् । तथा हि यस्येत्यनेन स्वं निर्दिश्यते, यस्य स्वस्य संबन्धी ईआर उच्यते ततः सप्तमीति व्याख्याने स्वावा चकात्सप्तमीत्येकोऽर्थः ।ईआर॑ शब्दो भावप्रधानः । यन्निष्ठमीआरत्वमुच्यते ततः सप्तमीति व्याख्याने स्वाभिवाचकात्सप्तमीत्यपरः । एवं स्थिते फलितमाह — स्वस्वामिभ्यां पर्यायेणोति । अन्यतरस्मादुत्पन्नयैव सप्तम्या इतरनिष्ठसंबन्थस्याप्युक्तत्याद्युगपदुभाभ्यां न सप्तम स्यादिति भावः । रामाधीनेति । विभक्त्यर्थेऽव्ययभावे त्वधिरामम् ।", "23008": "", "23009": "", "23010": "<<पञ्चमी अपाङ्परिभिः>> - परिहरेरिति । हरिं वर्जयित्वेत्यर्थः ।परेर्वर्जने वा वचनम् इति वार्तिकात्पक्षे द्विर्वचनाऽभावः । परिरत्रेति । अत्र=पञ्चमीविधौ । वर्जनार्थेनाऽपेन साहचर्यादिति भावः । आ मुक्तेरिति । मुकिंत मर्यादीकृत्येत्यर्थः । आ सकलादिति । सकलमभिव्याप्येत्यर्थः ।", "23011": "<<प्रतिनिधिप्रतिदाने च यस्मात्>> - प्रतिनिधिप्रतिदाने । अस्मादेव निर्देशाल्लिङ्गादाभ्यां योगे पञ्चमी ।ज्ञापकासिद्धं न सर्वत्र॑ इतिकृष्णस्य प्रतिनिधि॑रित्यपि सिद्धमित्याहुः । मुख्यस्याऽभावे सति तत्सदृश उपादीयते स प्रतिनिधिः । देयस्य प्रतिनिर्यातनं प्रतिदानम् । #एअकर्तरि । हेतुभूतमिति ।हेतौ॑इत्यनुवर्तते इथि भावः ।", "23012": "<<गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि>> - गत्यर्थकर्मणि । गत्यर्थेति किम् । ओदनं पचति । कर्मणीति किम् । अओन व्रजति ।अनध्वनि॑ इत्यत्राध्वनीति न स्वरूपग्रहणम् । तथा हि सतिअनध्वनः॑ इत्येवाऽवक्ष्यत् । किं त्वर्थग्रहणं, सप्तमीनिर्देशात्, कर्मणीत्यनेन सामानाधिकरण्यात् । अर्थेस्यैव हि कर्मत्वं संभवति न शब्दस्वरूपस्य, तेनाऽध्ववचिनां सर्वेषामेव निषेधः । तथा च वार्तिकम् -अध्वन्यर्थग्रहणमिति । गन्त्राधिष्ठित एवेति ।आस्थितप्रतिषेधो वक्तव्यः॑ इति वार्तिकादिति भावः । आस्थितः — संप्राप्तः । पन्थानां गच्छतीत्यत्र हि पन्थाः प्राप्त एवेति न पक्षे चतुर्थी । यदा त्वप्राप्तत्वेन विवक्षा तदा पक्षे भवत्येव सा । इह अनध्वनीत्यपनीयअसंप्राप्ते॑ इति पूर्यते । तेनस्त्रियं गच्छती॑त्यत्र स्त्री प्राप्तैवेति न चतुर्थी । अत्र व्याचक्षते — ॒अजां नयति ग्राम॑मित्यत्र तु न भवत्येव चतुर्थी, अगत्यर्थत्वात् । आक्षेपादिना ह्यत्र प्रतीयते गतिर्न त्वसौ नयतेरर्थः, प्रापणवाचित्वादिति ।गत्यर्थकर्मणि [चतुर्थी] वा॑ इति वक्तव्ये द्वितीयाग्रहणमपवादविषयेऽपि द्वितीया यथा स्यादित्येतदर्थं, तेनग्रामं गन्ते॑ त्यत्र कृद्योगलक्षणा षष्ठी न भवतीति वृत्तिकृतोक्तम् । इति चतुर्थी ।", "23013": "", "23014": "<<क्रियार्थोपपदस्य च कर्मणि स्थानिनः>> - क्रियार्था क्रियते । स्थानिन इत्यस्यैवार्थकथनम् — अप्रयुज्यमानस्येति । तुमुन इति । ण्वुलोऽप्युपलक्षणम्, फलभ्यो यातीत्यस्य फलान्याहारक इति विवरणे बाधकाऽभावात् । कर्मणीति । तथा च द्वितीयापवादेऽयमिति भावः । यत्तु प्रसादकृता व्याख्यातम्अप्रयुज्यमानस्यैव कर्मणि यथा स्यात्, प्रयुज्यमानस्य कर्मणि मा भूदिति नियमार्थं सूत्र॑मिति, तदसत्, अप्राप्तस्य नियमाऽयोगात् । न चेहतादथ्र्य॑ इति प्राप्तिः शङ्क्या, यानक्रियायाः फलार्थत्वाऽभावात् । आहरणार्था हि यानक्रिया । आहरणं तु फलकर्मकमिन्त्यन्यदेतत् । क्रियार्थोपपदस्य किम् । प्रविश पिण्डिम् । गृहप्रवेशनं यद्यपि भक्षणार्थं तथापि भकिंष प्रति कृत्रिमोपपदत्वं नास्ति । न च तुमुनः कर्मणीत् ।युक्तत्वाद्भक्षिकर्मणि चतुर्थ्याः प्रसक्तिरेव नास्तीति प्रत्युदाहरणमिदं न सङ्गच्छत इति वाच्यम्, सति तुक्रियार्थोपपदस्य॑ इति पदेतुमुन्ण्वुलौ क्रियायाम् इत्येतद्विषयकमेवेदं सूत्रमितितुमुनः॑ इति लभ्यते नान्यथेति प्रत्युदाहरणस्याऽसङ्गतत्वाऽभावात् ।", "23015": "<<तुमर्थाच्च भाववचनात्>> - तुमर्थात् ।अव्ययकृतो भावे॑ इति तुमुनो भावे एव विधानात्तदर्थस्य भाववचनत्वे सिद्धे पुनर्भाववचनग्रहणं सूत्रविशेषपरिग्रहार्थमित्याह -भाववचनाश्चेतीति । न चतादर्थ्ये॑ इत्येव गतार्थता शङ्क्या । क्रियार्थक्रियोपपदकेनभाववचनादेव यथा स्यात्, पाचको व्रजतीति ण्वुलन्तान्मा भूदिति नियमार्थमिदं सूत्रमिति । तन्न, ण्वुलः कर्तृवाचकतया तुमर्थकत्वाऽभावेन नियमार्थत्वाऽयोगात् । ण्वुलन्तो कर्तुः प्राधान्यात्, कर्तारं प्रति च तादथ्र्याऽभावात्, गुणीभूत[तया]पातं प्रति तादथ्र्यसंभवेऽपि पातवाचकधातोश्चुतुथ्र्ययोगाच्च । तुमर्थात्किम् । पचनं वर्तते । भाववचनात्किम् । पाकः । त्यागः । अत्र वदन्ति — ॒क्रियार्थोपपदस्य -॑ इत्यनुवर्त्त्य पञ्चम्या विपरिणमय्य व्याख्याने बाधकाऽभावाद्भाववचनादिति त्युक्तं शक्यम् । न चैवंतुमर्थात् -॑ इत्येव वक्तव्यमिति वाच्यम् । वर्णलाघवसम्भवे गौरवाश्रयणाऽयोगादिति । उपपदविभक्तेः कारकविभक्तिर्बलियसी॥ वलीयसीति । हरये नम इत्यत्र तूद्देशनक्रियाद्वारा हरिमनस्कारयोः सम्बन्धः — हर्युद्देश्यको नमस्कार इति । एवं चोद्देशनक्रियावगतौ विलम्ब इति कारकविभक्तेर्बलीयस्त्वमित्येके । अन्ये तूपपदविङक्त्या संबन्धसामान्यमवगम्यते, तद्विशेषावगमस्त्वर्थप्रकरणादिपर्यालोचनाऽधीनः । कारकविभक्त्या तु कर्मत्वादिसंबन्धविशेषे झटित्येवाऽवगम्यत इति तस्या बलीयस्त्वमित्याहुः । षष्ठपीति । ननु प्रभ्वादियोगे षष्ठएवास्तु, अलंशब्दस्तु पर्याप्तीतरार्थक एव गृह्रतामित्याशङ्क्याह -तस्मै प्रभवतीति । न त्वां तृणमित्यादि । ननु तृणादिवद्युष्मच्छब्दादपि पक्षे चतुथ्र्या भाव्यम् । मैवम्,अनादरे॑ इत्यस्य कर्मविशेषणत्वेन अनादरद्योतकं यत्कर्म तत्र चतुर्थीति व्याख्यानात् । तृणं ह्यत्राऽनादरद्योकतं न तु युष्मदर्थः । स्यादेतत् -त्वां तृणं मन्ये तृणाय वेत्युदाह्यियतां, किमनेन नञः प्रयोगेण । अत्राहुः — ॒प्रकृष्य कुत्सित ग्रहणं कर्तव्यम् इति वार्तिकमस्ति, तेन यद्वाचिनश्चुतुर्थी विधीयते ततो निकृष्टत्वेन यदि कुत्सा प्रतिपाद्यते, तदा चतुर्थी भवति न तु साम्यविवक्षायाम् । तादृशी च कुत्साप्रतीतिर्नञः प्रयोग#ए झटित्येव भवतीतिन त्वा॑ मित्युक्तमिति ।", "23016": "", "23017": "<<मन्यकर्मण्यनादरे विभाषाऽप्राणिषु>> - श्यना निर्देशादिति । न च मन्य इति यका निर्देशः किं न स्यादिति वाच्यम्, अनभिहित इत्यधिकारात् । न हि यका योगे अनभिहितं कर्म संभवति । श्यन्नपि दैवादिकारधातूपलक्षणमात्रं, न तु स्वयं विवक्षितः । तेनतृणाय मत्वा रघुनन्दनोऽपि बाणेन रक्षः प्रधनान्निरास्थत् इति भट्टिप्रयोगः सङ्गच्छते ।नौकाकान्नशुकशृगालवज्र्येष्विति वाच्यम् । नौकाकान्नेति । व्यवस्थितविभाषा विज्ञातव्येति भावः ।", "23018": "<<कर्तृकरणयोस्तृतीया>> - रमेणेति । यद्यपि विभक्त्युपस्थितानां कारकाणां क्रियां प्रति विशेषणतैव, तथापि कृदुपस्थितानां विशेष्यतैव,सत्त्वप्रधानानि नामानी॑त्युक्तेः । धातूपस्थाप्ययोः फलव्यापारयोर्हन्यत इत्यादिकर्माख्यातसमभिव्याहारे विशेषणविशेष्यभावव्यत्यासाऽभावेऽपिहत॑ इत्यादिकर्मकृत्समभिव्याहारे व्यत्यासोऽस्त्येव । तथा च रामनिष्ठो यो व्यापारो धनुराकर्षणादिस्तद्विषयीभूतो यो बाणव्यापारः शरीरभेदनादिस्तत्साध्यप्राणवियोगाश्रायो वालीति वाक्यार्थः ।वालिनं हन्ति॑वाली हन्यते॑इत्यादौ तु वालिनिष्ठप्राणवियोगानुकूलो यः शरीरभेदनादिर्बाणव्यापारस्तद्विषयको रामनिष्ठधनुराकर्षणादिव्यापार इत्यर्थो बोध्यः । अत्रेदमवधेयं -॒फलव्यापारयोर्धातुराश्रये तु तिङः स्मृतः । फले प्रधानं व्यापारस्तिङर्थस्तु विशेषणम् । इहधातुः स्मृत॑इत्यन्वयः ।वाचकेत्वेने॑ति शेषः ।आश्रये तु तिङः॑इत्यत्र विभक्तिविपरिणामेनस्मृता॑इति सम्बन्धते । वाचकत्वेनेति पूर्ववत् । तिङ इत्युपलक्षणं, द्वितीयातृतीयादीनामपि केषाञ्चिदाश्रयमात्रार्थकत्वात् । नन्वेवमाधारार्थकत्वे द्वितीयातृतीयासप्तमीनां साङ्कर्यं स्यात् । मैवम् । निरूपपकभेदेनादारभेदात् । फलनिरूपित आधारो द्वितीय#आर्थः । व्यापारनिरूपितस्तु तृतीयार्थः । स्वाश्रयद्वारा व्यापारनिरूपितः फलनिरूपितः फलनिरूपितश्च सप्तम्यर्थ इति ह्रभ्युहगम्यते ।फले प्रधान॑मिति । एतच्च प्रायिकम् । कर्मकृत्समभिव्याहारे तु व्यत्यासोऽस्त्येवेत्युक्तत्वात् ।हरिं भजति देवदत्तः॑इत्यादौ तु व्यापारस्य प्राधान्यमस्त्येव । प्रकृतिप्रत्ययार्थयोर्हर्याधारयोर्देवदत्ततिङ्वाच्याधारयोश्चाऽभेद इहं संसर्गः । तथा च हर्याधारिका या प्रीतिस्तदनुकूल एकदेवदत्ताधारको वर्तमानो यो व्यापार इति वाक्यार्थः । न चाऽऽधारतैव वाच्येति मन्तव्यं, तन्निष्ठधर्मस्याधारत्वस्य वाच्यतावच्छेदकत्वापत्त्याऽतिगौरवात् ।कर्मणि द्वितीये॑त्यादिसूत्रस्वरसभङ्गापत्तेश्च । अतएव भाष्यकारोऽप्याह — ॒सुपां कर्मादयोऽप्यर्थाः सङ्ख्या चैव तथास तिङा॑मिति । अनभिहिते किम् हरिः करोति । पाचकः । कर्तरि ण्वुल् । शाब्दिकः ।शब्ददर्दुरं करोति॑इति ठक् । कृतं विआं येन कृतविआः, विआकर्मककृत्याश्रय इत्यर्थः । जीवन्त्येन जीवनः । करणे ल्युट् ।प्रकृत्यादिभ्य उपसङ्ख्यानम् । प्रकृत्यादिभ्य इति । आकृतिगणोऽयम् । तेननाम्ना सुतीक्ष्णश्चरितेन दान्तः॑इत्यादि सिद्धम् । चारिरिति । अभिरूप इत्यर्थः । क्रियाया अश्रवणात् कर्तृकरणयोरभावात् षष्ठीह प्राप्ता । एतच्च गम्यमानकरोतिक्रियाकरणत्वासिद्धं, करणान्तरव्युदासाय हि प्रकृतेरेव करणत्वं विवक्षितम् । स्वभावेनायमभिरूपः कृतो, न त्वलङ्कारादिनेत्यर्थात् । प्रायेण याज्ञिक इति । एतदपि गम्यमानज्ञानक्रियां प्रति करणत्वात्सिद्धिम्, आचारादिबाहुल्येन याज्ञिकोऽयमिति जनैज्र्ञायत इत्यर्थात् । गौत्रेण गाग्र्य इति । गार्ग्यौऽस्य गोत्रमित्यर्थः । प्रथमाऽत्र प्राप्ता । गोत्रेणाहं गग्र्यं इतिल ज्ञाये इत्यर्थादिहापि तृतीया सिद्धा । समेनैतीत्यादि । सममेतीत्याद्यर्थे समविषमाभ्यां कर्मणि द्वितीया प्राप्ता । इहापि तृतीया सिद्धा, पथोऽपि गमने करणत्वाब्युपगमात् ।", "23019": "<<सहयुक्तेऽप्रधाने>> - सहयुक्ते ।सहेनाऽप्रधाने॑इत्येव वाच्ये युक्तग्रहणार्थग्रहणमित्याह — सहार्थेनेति । सहार्थकशब्देनसह — साकं — सार्धमित्यादिनेत्यर्थः । पुत्रेणेति । पितुरेवागमनक्रियासम्बन्धः शाब्दः, पुत्रस्य त्वार्थ इत्येतावतौवाऽस्याऽप्राधान्यमुच्यते । अप्रधानग्रहणं त्युक्तं शक्यम् । न चैवं पितुरपि तृतीयापत्तिः, तत्र प्रातिपदिकार्थमात्रे अन्तरङ्गत्वात्प्रथमोपपत्तेः । न च यत्र प्रथमा न प्राप्नोतिपुत्रेण सह पितुरागमन॑मित्यादौ तत्र प्रधानात्पितुरपि तृतीया स्यादतस्तद्वारणायाऽप्रधानग्रहणमावश्यकमिति वाच्यम् । कारकव्भक्तेर्बलीयस्त्वात्कर्तृकर्मणोः कृति॑इति षष्ठआ एव तत्र प्रवृत्तेरिति दिक् ।", "23020": "<<येनाङ्गविकारः>> - येनाङ्गेति । येनेति सर्वनाम्ना प्रकृत्यर्थभूतोऽवयव एव गृह्रते, संनिधानात् । स चाऽर्थद्विकृत एव । न ह्रविकृतेनावयवेन शरीरस्य विकारः संभवति, तदेतदाह — येनाङ्गेन विकृतेनेति । अङ्गिन इति । सूत्रेऽङ्गशब्दोऽर्शाअद्यजन्त इति भावः ।", "23021": "<<इत्थंभूतलक्षणे>> - जटानामित्थंभूतलक्षणत्वमुपपदयति -जटाज्ञाप्येति । जटाभिज्र्ञाप्यं यत्तापसत्वं, तद्विशिष्ट इत्यर्थः ।", "23022": "<<संज्ञोऽन्यतरस्यां कर्मणि>> - संज्ञो ।ज्ञा अवबोधने॑इत्ययमेव गृह्रते न तुजनी प्रादुर्भावे॑इति, तस्याऽकर्मकत्वात् । ङसः प्राग्भागस्यज्ञ॑इत्यस्यअल्लोपोऽनः॑इत्यल्लोपेन निष्पन्नतया लाक्षणिकत्वाच्चेत्याशयेनाह — जानातेरिति । संजानीत इति ।संप्रतिभ्यामनाध्याने॑इति तङ् । कृद्योदे परत्वात्कर्तृकर्मणोः॑ इति षष्ठएव,पितुः संज्ञाता॑ । आध्याने तुपित्रा पितरं वा सञ्जानाति॑ । हरदत्तस्त्वाह — आध्याने तु परत्वादधीगर्थेति षष्ठी — मातुः संजानातीति, तन्न । तत्र शेषाधिकारादिति मनोरमायां स्थितम् ।", "23023": "<<हेतौ>> - हेतौ । हेतुरिह लौकिकः फलसाधनीभूतो गृह्रते, न तुतत्प्रत्ययोजको हेतुश्चे॑ति कृत्रिमः । तस्य चकारेण कर्तृसंज्ञाविधानात्कर्तृत्वादेव तृतीयासिद्धेरत आह — हेत्वर्थे इत्यादि । ननु लौकिकहेतोरपि करणत्वादेव तृतीयसिद्धौ किमनेनेत्याशङ्क्य हेतुत्वकरणत्वयोर्भेदमाह — द्रव्यादीति ।आदि॑शब्देन गुणक्रिये ग्राह्रे । द्रव्यगुणक्रियानिरूपितं निव्र्यापारसव्यापारवृत्ति च यत्तद्धेतुत्वमित्यर्थः । करणत्वं त्विति । क्रियामात्रनिरूपितं व्यापारवद्वृत्ति च यत्तत्करणत्भित्यर्थः । एवं च हेतुत्वकरणत्वयोर्भेदादन्यतरेणान्यस्यान्यथासिद्धिर्न शङ्क्येति भावः । उक्तं च — द्रव्यादिविषयो हेतुः कारकं नियतक्रियम् । अनाश्रिते तु व्यापारे निमित्तं हेतुरिष्यते॑इति । द्रव्यविषये हेतुत्वमुदाहरति — दण्डेन घट इति । दण्डहेतुको घट इत्यर्थः । अत्र हि व्यापारोऽस्तु वा, मा वा, साक्षात्क्रियान्वयित्वाऽभावात्करणत्वं नास्तीति भावः । क्रियाविषये उदाहरणमाह - पुण्येन दृष्ट इति । पुण्यशब्देनेह परमाऽपूर्वमुच्यतेत, तस्य च हरिदर्शनरूपक्रियान्वयित्वसंभवे ।ञपि व्यापारवत्त्वाऽभावन्न करणत्वमिति भावः । यदा तु यागादिकमेव पुण्यशब्देन विवक्ष्यते, तदा तस्य व्यापारवत्त्वमस्त्येवेतिकर्तृकरणयो॑रित्यनेनैव तृतीया सिद्धा । गुणविषये तुपुण्येन गौरवर्ण॑इत्याद्युदाहार्यम् ।जटाभिस्तापस॑इत्यादौ तु लक्ष्यलक्षणभावविवक्षायां हेतुत्वाऽविवक्षणादनेनाऽप्राप्ता तृतीयेतिइत्थम्भूतलक्षणे॑इत्यारब्धमित्याहुः । अत्र केचिदुत्प्रेक्षन्ते द्रव्यादिसाधारणत्वाद्धेतुत्वस्यहेतौ॑इत्यनेनैवबाणेन हत॑ इत्यादिप्रयोगसिद्धेःकर्तृकरणयो॑रिति सूत्रे करणग्रहणं त्यक्तुं शक्यम्, करणसंज्ञा तु आवश्यकीकरणाधिकरणयोश्चे॑त्याद्यर्थमिति । अन्ये तु क्रियासाधकतमं यत्तद्द्यापारवत्त्वेन विवक्षितं चेत् करमं, नो चेद्धेतुः । द्रव्यसाधकतमस्य दण्डादेस्तु व्यापारवत्त्वेऽपि हेतुत्वमेव । एवं चरामेण बाणेन हत॑इत्यादौ हनने बाणादिर्निमित्तमित्येतावदेव यदा विवक्ष्यते, तदाहेतौ॑ इत्यनेनैव तृतीया ।बाणव्यापारसाध्यप्राणवियोगाश्रयः॑इत्येवं व्यापाराविष्टत्वेन विवक्षायां तु हेतुत्वाऽविवक्षणात्कर्तृकरणयोः -॑इति करणे तृतीया आरब्धेत्याहुः । फलमपीति । एतच्चप्रत्ययः॑इत् सूत्रे कैयटे स्पष्टम् । अध्ययनेनेति । तादथ्र्यविवक्षायां चतुथ्र्यपि भवतीति चतुथ्र्या सहेयं तृतीया विकल्प्यते । अध्ययनाय वसति । अत्र केचित्परिष्कुर्वन्ति -॒अध्ययनेन वसती॑त्यत्रदण्डहेतु को घट॑इतिवदध्ययनहेतु को निवास इत्यर्थस्वीकारेऽप्ययं विशेषः, -अध्ययनस्या फसेन सहाऽभेदः संसर्गः, उपकारकत्वेन सह तु निरूपकता । ततश्च फलाभिन्नाऽध्ययननिरूपितोपकारकत्वाश्रयनिवसनानुकूलो व्यापारः॑इत्यर्थः ।दण्डेन घटः॑इत्यत्र तु दण्डनिष्ठोपकारकत्वनिरूपितोपकार्यत्वाश्रयो घट इत्यर्थः । उपकार्यं हि साध्यम् । फलमपि तदेवेति । गम्यमानापीति ।अपि॑शब्देन श्रूयमाणक्रिया समुच्चयते । नकेवलं श्रूयमाणैव क्रिया विभक्तौ प्रयोजिका, किंतु गम्यमानाऽपीति भावः । साधनेति ।साध्य.॑मित्यत्र प्रकृतिभूतो यो धातुस्तदर्थंत प्रतीति भावः । अशिष्टेति । एतच्चदाणश्च सा चेच्चतुथ्र्यर्थ॑इत्यनेन ज्ञाप्यते इति मनोरमायां स्थितम् । केचिदिह परिष्कुर्वन्ति — ॒अशिष्टव्यवहार॑इत्यंशो वाचनिक एव, अन्यांशस्तु ज्ञापकसिद्धः॑इति । दास्या संयच्छते इति ।दाणश्च सा चे॑दिति तङ् ।पाघ्रध्मे॑ति यच्छादेशः । कामुक इति ।लषपतपदे॑त्यादिना कमेरुकञ् । इति तृतीया ।", "23024": "<<अकर्तर्यृणे पञ्चमी>> - पञ्चमी स्यादिति । तृतीयापवादोऽयम् । शतेनेति । शतमिह उत्तमर्णाय धार्यमाणत्वादृणं,॒तत्प्रयोजको हेतुश्च॑ इति चकारात्कर्तृसंज्ञं च । बन्धित इति । ण्यन्ते प्रयोजककर्तुः शतस्य हेतुसंज्ञाप्यस्तीति पञ्चम्यत्र स्यादेवातोऽत्राऽकर्तरित्युक्तमिति भावः । योगविभागादिति । एतच्चहेतुमनुष्येभ्यः — ॑ इति सूत्रे पदमञ्जर्यां स्पष्टम् ।", "23025": "<<विभाषा गुणेऽस्त्रियाम्>> - स्त्रियां चेति ।बाहुलकं प्रकृतेस्तनुदृष्टेः॑ इति वार्तिकनिर्देशोऽपीह ज्ञापकः ।", "23026": "<<षष्ठी हेतुप्रयोगे>> - षष्ठी हेतु । अत्रहेतौ॑ इत्यनुवर्तते, तदाह -हेतौ द्योत्य इति । अन्नस्येति ।हेतौ॑ इति तृतीयायां प्राप्तायामनेन षष्ठी । हेतुप्रयोगे किम् । अन्ने वसति । हेतौ द्येत्ये किम् । अन्नशब्दात्षष्ठी यथा स्यादित्येके ।अन्नस्य हेतोस्तुभ्यं नम॑ इत्यत्र युष्मच्छब्दान्मा भूदित्यन्ये ।", "23027": "<<सर्वनाम्नस्तृतीया च>> - सर्वनाम्नस्तृतीया च । इह सर्वनाम्न इति प्रयोगापेक्षया षष्ठी, पञ्चाम्यां तु हेतुशब्दात्षष्ठीतृतीये न स्यातामित्याशयेनाह -सर्वनाम्नो हेतुशब्दस्य चेति । कस्माद्भवतीत्यपेक्षायामर्थात् सर्वनामहेतुभ्यामिति सम्बध्यते ।अत्र व्याचख्युः — यद्यपि सर्वनाम्न इति पदस्य पञ्चम्यन्तत्वेऽपि हेतुशब्दस्य विशेषणत्वे सामानाधिकरण्यादप्युपपद्यत इति न क्षतिः, तथापि विशेष्यत्वे त्वयं विधिर्न स्यादिति बोध्यमिति । निमित्तपर्यायप्रयोगे सर्वासां प्रायगर्शनम् । निमित्तपर्यायेति । पर्यायग्रहणस्य फलमाह -एवमित्यादिना । एतद्वार्तिकेनषष्ठी हेतुप्रयोगे॑,सर्वनाम्नस्तृतीया च॑ इति सूत्रद्वयं गतार्थमिति बोध्यम् ।", "23028": "", "23029": "<<अन्यारादितरर्त्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते>> - अन्यो भिन्न इतरो वेति । न चैवं॒घटः पटो ने॑त्यत्रातिप्रसङ्गः, नञोऽपि भेदे शक्तत्वादिति वाच्यम्, निपातानां द्योकत्वमेव न तु वाचकत्वमित्युभ्युपगमात्ा । आराद्वनादिति । इहदूरान्तिकार्थैः षष्ठन्यतरस्याम् इति प्राप्तम् । ऋते कृष्णादिति । कथं तर्हिफलति पुरुषाराधनमृते॑ इति प्रयोग इति चेत् । प्रमादोऽयमिति हरदत्तः । अन्ये तु — — ॒ततोऽन्यत्रापि दृश्यते॑ इतिं दृशिग्रहणाच्चैत्रं यावच्छीतमित्यादाविव ऋतेयोगे द्वितीयाऽपि साधुरित्याहुः । अस्मिन् व्याख्यानेऋते द्वितीया च॑ इति चान्द्रसूत्रमनुकूलम् । दिशि दृष्ट इति ।रुढये॑ ति शेषः । तेनैन्द्यादयो नात्र गृह्यन्ते । नन्वेवं ककुबादिग्रहणप्रसङ्ग इति चेत् । अत्राहुः -अन्यतरसाहचार्याव्द्याख्यानाद्वा दिग्भिन्नेर्थे यो न दृष्टः सोऽत्र गृह्रत इति । दिक्शब्दत्वेऽपीति । यद्यपि अदिक्शब्दोऽप्यञ्चूत्तरपदमस्ति सध्य्रङित्यादिः, तथापि दिक्शब्दसाहचर्यादञ्चूत्तरपदेन प्रागित्यादिदिक्शब्द एव गृह्रते । तेन सध्य्रङ् देवदत्तेनेत्यत्र नातिप्रसङ्ग इति भावः । दक्षिणा ग्रानादिति । दिक्शब्दत्वेनैव सिद्धे आजाहिग्रहणं चिन्त्यप्रयोजनमित्याहुः । प्रभृतियोग ति । प्रभृत्यर्थेर्योग इत्यर्थः । तथा चकार्तिक्या प्रभृति॑ इति भाष्यं विवृण्वता कैयटेनतत आरभ्य इत्यर्थ॑ इति प्रयुक्तम् । ग्रामाद्बहिरिति ।ज्ञापकसिद्धं न सर्वत्र॑ । तेनकरस्य करभो बहिः॑ इति सिद्धम् ।", "23030": "<<षष्ठ्यतसर्थप्रत्ययेन>> - षष्ठसर्थ ।दक्षिणोत्तराभ्यामतसुच् इत्यस्य योऽर्थे दिग्देशकालरूपः सोऽर्थे यस्य प्रत्ययस्य सोऽतसर्थप्रत्ययः, अस्तातिप्रभृतियञ्च, तदन्तेन योगे इत्यर्थः । अचसुचोऽस्तात्यनन्तरत्वेपि लाघवानुरोधेन अस्तात्यर्थेति नोक्तमित्याहुः । पञ्चाम्या अपवाद इति ।ततः पश्चात्स्त्रंस्यते ध्वंस्यते च॑ इति भाष्यप्रयोगात्पश्चाच्छब्दयोगे तु पञ्चम्यपि साधुः । अस्मादेव भाष्यप्रयोगात्पश्चाच्छब्देनाऽव्ययीभावो न भवतीति वक्ष्यते । प्रत्ययग्रहणं किम् । इह मा भूत्, प्राग्ग्रामात् । प्रत्यग्ग्रामात् । कृतेऽपि प्रत्ययग्रहणे कृतो नेति चेत् । अत्राहुः कैयटादयः — प्रत्ययग्रहणमधिकं क्रियमाणं श्रूयमाणप्रत्ययग्रहणार्थं विज्ञास्यत इति लुप्तेऽस्तातौ षष्ठभावः ।अन्यारात् -॑इत्यत्राञ्चूत्तरपदस्यापीदं प्रयोजनमुक्तम् । तत्रान्यतरच्छक्यमवक्तुम्, एक प्रयोजनत्वादिति । प्रत्ययग्रहणं चिनत्यप्रयोजनमिति तु मनोरमायां स्थितम् । पुर इति ।पीर्वाधरावराणाम् इत्यसिप्रत्यये पुरादेशः । पुरस्तादिति.॒दिक्शब्देभ्यः॑ इत्यादिनाऽस्तातिः,अस्ताति च॑ इति पूर्वस्य पुरादेशः ।", "23031": "<<एनपा द्वितीया>> - एवपा । कथं तर्हितत्रागारं धनपतिगृहादुत्तरेणास्मदीयम् इति । उत्तरेणेत्येतत्दूराल्लक्ष्यं सुरपतिधनुश्चारुणा तेरणेन॑ इति तोरणसमानाधिकरणं तृतीयान्त न त्वेनबन्तमित्याहुः ।धनपतिगृहानुत्तरेणास्मदीयम् इति कैश्चित्पटते, तदा तु सम्यगेव । दक्षिणेनेति । दक्षिणस्यामदूर इत्यर्थेएनबन्यतरस्याम् इत्यादिना एनप् । (५४०) दूरान्तिकार्थैः षष्ठन्यतरस्याम् ।२.३.३४ ।दूरान्तिकार्थैः । षष्ठआं प्राप्तायां पक्षे पञ्चम्यर्थं वचनम् । इहान्यतरस्यांग्रहणं समुच्चयार्थं, तेन विप्रकृष्टापि पञ्चमी समुच्चीयते व्याख्यानात्, न तु सन्निहिते अपि द्वितीयातृतीये, तदेतदाह — पञ्चमी चेति । सर्पिषो ज्ञानमिति । वस्तुतः करणीभूतं यत्सर्पिः तत्सम्बन्धिनी प्रवृत्तिरित्यर्थः । ज्ञानपूर्वीकायां प्रवृत्तौ जानातेर्लक्षणा ।", "23032": "<<पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम्>> - पृथग्विना । ननु तृतीयाऽभावपक्षेएनपा द्वितीया॑ इति प्रकृता द्वितीयैव स्यात् । यदि तु द्वितीया विकल्पेन भवेत्, तदा पञ्चम्यपि स्यात् । सा तु नित्यैव । तस्माद्विभक्तित्रयसमवेशो दुरुपपाद इत्यत आह -अन्यतरस्याङ्ग्रहणं समुच्चयार्थमिति । निपातानामनेकार्थत्वादिति भावः । पञ्चमिति । तत्र भण्डूकप्लुत्या पञ्चमी । द्वितीया तु संनिहितैव । इह पृथगर्थैरिति सूत्रयितव्ये पर्यायत्रयोपादानं पर्यायान्तरनिवृत्त्यर्थम्, तेन हिरुग्देवदत्तस्येत्यत्र नेत्याहुः ।पृथङ्नानाञ्भिस्तृतीयान्यतरस्याम् इति सुवचम् । नानाञिति प्रत्ययग्रहणे तदन्तयोर्विनानानाशब्दयोर्लाभात् । नानेति ।हिरुङ्नाना च वर्जने॑ इत्यमरः ।नानानारीं निष्फला लोकयात्रा॑ इति प्रयोगः ।", "23033": "<<करणे च स्तोकाल्पकृच्छ्रकतिपयस्यासत्त्ववचनस्य>> - करणे च । अन्यतरस्यामिति वर्तते, पञ्चमीति च, तेन करणे तृतीयायां प्राप्तायां पक्षे पञ्चमी विधीयते, तया मुक्ते करणत्वादेव तृतीया सिद्धेत्याशयेनाह -तृतीयापञ्चम्यौ स्त इति । स्तोकेनेति । अनायासेन मुक्त इत्यर्थः ।", "23034": "", "23035": "<<दूरान्तिकार्थेभ्यो द्वितीया च>> - दूरं दूराद् दूरेण वेति । इह सप्तम्यपि वक्ष्यते । किंचदूरान्तिकार्थेभ्यः॑ इति सूत्रस्यसप्तम्यधिकरणे च॑ इत्युत्तरसूत्रेऽप्यनुवर्तनादधिकरणेऽप्येभ्यो विभक्तिचतुष्टयं बोध्यम । तथा च प्रयुज्यतेदूरादावसथान्मूत्रं दूरात्पादावसेचनम् इति । आवसथस्य दूरे इत्यर्थः । असत्त्ववचनस्येति । सत्त्ववचनत्वमिह सत्त्वविशेषकत्वम् । एवं च सामानाधिकरण्येन प्रातिपदिकार्थविशेषकं व्युदस्यते । तदाह — दूरः पन्था इति । एतेनकरणे च स्तोके॑ति सूत्रे -॒करणे किम् क्रियाविशेषणे कर्मणि मा भूत् । स्तोकं पचति । क्रिया न द्रव्यम॑ इति प्राचां ग्रन्थोऽपि व्याख्यातः । न च क्रियाया विशेष्यत्वेन द्रव्यत्वाऽवश्यंभावान्नैतत्प्रत्युदाहरणं युक्तमिति वाच्यम्, धातुवाच्यायाः क्रियाया असत्त्वरूपत्वस्याकरे प्रसिद्धत्वात् । न च विशेष्यत्वे तदनुपपत्तिः । कर्तृकर्मेतरकारकलिङ्गानन्वयित्वमात्रेणाऽसत्त्लरूपत्वोपपत्तेः । उक्तं च -॒क्रिया न युज्यते लिङ्गक्रियानाधारकारकैः । असत्त्वरूपता तस्या इयमेवावधर्यताम् । इति । फलं व्यापारश्च क्रिया, फलाधारकारकं कर्म, व्यापाराधारकारकं कर्तेति विवेकओः । पञ्चमी ।", "23036": "", "23037": "<<यस्य च भावेन भावलक्षणम्>> - यस्य च । निज्र्ञातकाला हि क्रिया अनिज्र्ञातकालायाः क्रियायाः कालपरिच्छेदकत्वाल्लक्षणं, तत्र प्रसिद्धक्रियाश्रययोः कर्तृकर्मणोर्वाचकाद्ब्राआहृणादिशब्दाल्लक्ष्यलक्षणभावसम्बन्धे षष्ठआं प्राप्तांयामियं सप्तमी । लक्षणकत्वमिह क्रियायाः साक्षात्, आश्रयस्य तु ब्राआहृणादेः क्रियाद्वारेणेति बोध्यम् ।ब्राआहृणेष्वधीयानेषु गत॑ इति कर्तृर्युदाहरणम् । कर्मण्याह — गोष्विति ।अर्हाणां कर्तृत्वेऽनर्हाणामकर्तृत्वे तद्वैवरीत्ये च । अर्हाणामित्यादि । यस्यां क्रियायां ये उचितास्ते अर्हाः । तेषां कर्तृत्वे विवक्षिते सति तत्र सप्तमी वाच्या । तथा यस्यां क्रियायां येषां कर्तृत्वमनुचितं तेषामकर्तृत्वे विवक्षिते च सप्तमी वाच्या । तथा तद्वैपरीत्ये=येषां कर्तृत्वमुचितं तेषामकर्तृत्वे, येषां तु नोचितं तेषां कर्तृत्वे च सप्तमी वाच्येत्यर्थः । आद्यमुदाहरति -सत्सु तरत्स्विति । सन्तो हि तरणक्रियाऽर्हाः कर्तराश्चष द्वितीयमुदाहरति -असुत्सु तिष्ठत्स्विति । अत्र तरणक्रियायामसतामनर्हत्वमकर्तृत्वं च तिष्ठत्स्वित्यनेन द्योत्यते । तद्वैपरीत्ये प्रथममुदाहरति-सत्सु तिष्ठत्स्विति । सतां हि तरणमुचितं, तेषां चाऽर्तृत्वं तिष्ठत्स्वित्यनेन गम्यते । द्वितीयमुदाहरति — असत्सु तरत्स्वति । असतां हि तरणमनुचितं, तेषां च कर्तृत्वं तरत्सु इत्यनेन गम्यते । यद्यपीदं॒यस्य च भावेन -॑इत्येव सिद्धं, तथापि लक्ष्य लक्षणभावाऽविवक्षायां सप्तम्यर्थमिदमिति कैयटादयः । तत्त्वतस्तु व्यर्थमेवेदमित्यन्ये ।", "23038": "<<षष्ठी चानादरे>> - षष्ठी चानादरे । अनादर इति ।यस्य च भावेन॑ इत्यनेन सप्तमी । अनादरे सति यो भावं लक्षयतीति । तदेत्फलितमाह अनादराधिक्य इति । केवलभावलक्षणे सप्तम्येव, अनादराधिक्ये तु षष्ठीसप्तम्याविति निष्कर्षः ।", "23039": "<<स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च>> - स्वामीआर ।स्वाम्यर्थे॑ति वक्तव्ये स्वाम्यादित्रयग्रहणं पर्यायान्तरनिवृत्त्यर्थम् ।विरूपाणामपि समानार्थानाम् इत्येकशेषोऽत्र न भवति, स्वरूपपरत्वेन समानार्थकत्वाऽभावात् । दायाद इति । दायमादत्ते इति दायादः । सोपसर्गादप्यादन्तादत एव निपातनात्कः ।गवां गोषु वा दायाद॑ इत्यत्र यद्यपि गवाभित्येतत्समुदायस्य विशेषणं, तथापि दीयतेऽसौ दाय इति व्युत्पत्त्या अवयवार्थभूतमंशं स्पृशत्येव, तथा चात्र गवात्मकस्यांऽशस्य आदातेति फलितम् ।", "23040": "", "23041": "", "23042": "<<पञ्चमी विभक्ते>> - पञ्चमी विभक्ते । भेद एवेति । न तु शब्दान्तरोपात्तसामान्याक्रान्ततेति भावः । तत्र पञ्चमी स्यादिति । नन्वेवं माथुरा इत्यत्रापि पञ्चमी स्यात् । मैवम् । पूर्वसूत्रमिहानुवर्तते । तेन यतो निर्धार्यते तत एवेत्यर्थात् निर्धारणावधेरेव पञ्चमीप्रवृत्तेः । अनभिहिताधिकारान्माथुरा इत्यत्र नातिप्रसङ्ग इत्यन्ये । माथुरा इति । न ह्यत्र निर्धारणावधेर्निर्धार्यमाणस्य च गवां कृष्णेत्यादाविव सामान्यविशेषभावोऽस्ति, किन्तु शब्दोपात्तयोद्र्वयोर्विरोध एव । इदं च सूत्रं बुद्धि परिकल्पितापायमाश्रित्यापादानप्रकरणे भाष्ये प्रत्याख्यातम् ।", "23043": "<<साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः>> - साधुनिपुणाभ्यामर्चायां ।पुण कर्मणि शुभे॑ अस्मान्निपूर्वादिगुपधलक्षणः कः ।अर्च पूजायामस्मार्द्भौवीदिकात्गुरोश्च हलः॑ इत्यप्रत्यये टाप् । चौरादिकात्तुण्यासश्रन्थ -॑ इति युचि — अर्चनेति स्यात् । निपुणो राज्ञ इति । साधुशब्दप्रयोगे त्वर्चां विना सप्तमी भवत्येव,साध्वसाधुप्रयोगे च॑इति वार्तिकात् । अप्रत्यादिभिरिति वक्तव्यम्॥ अप्रत्यादिभिरिति ।लक्षणेत्थम् -॑ इति सूत्रोपात्ताः प्रत्यादयः ।", "23044": "<<प्रसितोत्सुकाभ्यां तृतीया च>> - प्रसितोत्सुकाभ्यां ।तत्परे प्रसिताऽऽसक्तौ॑ इत्यमरः । उत्सुकसाहचर्यात् प्रसितोऽपि तत्पर एवेह गृह्रते, रूढआ च । तेन प्राकर्षेण सितः=शुक्ल इत्यर्थे न भवति ।", "23045": "<<नक्षत्रे च लुपि>> - नक्षत्रे च लुपि । लुप्शब्दोऽत्रार्थविशेषे लाक्षणिक इत्याशयेनाह — यो लुप्संज्ञयेत्यादि । अधिकरण इति । एतच्चसप्तम्यधिकरणे च॑ इत्यतो मण्डूकप्लुत्यानुवर्तत इति भावः । अधिकरणे किम्, मूलं प्रतीक्षते, मूलाय स्पृहयति । मूलेनेति ।नक्षत्रेण युक्तः कालः॑ इत्यणोलुबविशेषे॑ इति लुप् । नक्षत्र इति किम् । पञ्चालेषु तिष्ठति । इहजनपदे लुप् इथि लुप् ।", "23046": "<<प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा>> - ॒स्वौजसमौट् -इत्यादिना तावत् स्वादयो ङ्याप्प्रातिपदिकाद्दर्शिताः । तेषामर्थविशेषे व्यवस्थां दर्शयितुमारभते — प्रातिपदिकार्थत्यादिना । प्रथमादयः सप्तम्यन्ताः प्राचां सञ्ज्ञास्तचाभिरिहापि व्यवहार इतिस्वौजसमौट् -इति सूत्रे मूलकृतोक्तम् । कौस्तुभे तु -इह प्रथमादयः शब्दाः सुपां त्रिकेषु वर्तन्ते,समं स्यादश्रुतत्वात्इति न्यायादित्युक्तम् । तथा च न्यायसिद्धत्वादस्मिञ्शास्त्रे प्रथमादिसञ्ज्ञानामकरणेऽपि न क्षतिरिति ज्ञेयम् । यदा हिपञ्चकं प्रातिपदिकार्थः॑इति गृह्रते ततो लिङ्गवचनग्रहणमनर्थकम्,प्रातिपदिकार्थे॑इत्येव सिद्धेः, मात्रग्रहणाच्च कर्मादिव्यवच्छेदो न स्यात्, प्रातिपदिकार्थादनतिरिक्तत्वात् । त्रिकपक्षेऽपि लिङ्गग्रहणमनर्थकमेवेत्याशङ्क्य विवितं दर्शयतिनियतोपस्थितिक इति । यस्मिन्प्रातिपदिके उच्चारिते यस्यार्थस्य नियमेनोपस्थितिः स प्रातिपदिकार्थ इत्यर्थः । शक्य इति यावत् । नन्वेवं सिंहो माणवक इत्यदौ पर्थमा न स्यात् ।अत्राहुः — शक्यार्थमादाय प्रथमाविभक्तेत्पत्तौ सत्यां पश्चात् पदान्तरसमभिव्याहारे लक्ष्यार्थबोधेऽपि क्षत्यभावादिति मात्रशब्दस्येति । तस्य चाऽत्राऽवधारणमात्रमित्येवकारेणाऽस्वपदविग्रहः । समासस्तु मयूरव्यंसकादित्वाद्बोध्यः । प्रत्येकमिति । द्वन्द्वान्ते श्रूयमाणत्वादिति भावः । ननु वूरः पुरुष इत्यादावभेदसंसगस्याऽधिकस्य भानात्प्रथमा न स्यात् । न चपूर्वाऽपरे त्यादिना वीरशब्दस्य समासविधानं प्रथमोत्पत्तौ लिङ्गमिति वाच्यं, द्वितायद्यन्तानामपि वीरं पुरुषमानयेत्यादौ तद्बिधानस्य चरितार्थत्वादिति चेन्न; संसर्गस्य,वाक्यार्थत्वेन बहिरङ्गत्वात्प्रथमप्रवृत्तसंस्कारबाधाऽनुपपत्तेः । पदसंस्कारपक्षस्यैवेहाभ्युपगमात् । मात्रपदेन कर्माद्याधिक्ये प्रथमा न भवेत्तथापि लिङ्गपरिमाणग्रहणाल्लिङ्गाधिक्ये परिमाणाधिक्ये च भवेदेवेत्याह — — लिङ्गमात्राद्याधिक्ये इति । यद्यपिलिङ्गमात्रे॒॑परिमाणमात्रे॑इत्येवाऽक्षरार्थस्तथापि प्रातिपदिकार्थं विना लिङ्गादिप्रतीतेरसम्भवादितितदाधिक्ये॑इत्युक्तम् । उच्चैरिति । पदत्वादिह रुत्वविसर्गौ भवतः । किञ्च अस्य पर्थमान्तत्वाद्नाम उच्चैस्तव स्वम्, ग्राम उच्चैस्ते स्वमितिसपूर्वायाः॑इति सूत्रेण तेमयादेशयोर्विकल्पसिद्धिरपि फलम्॥ कृष्ण इति । यद्यपि नीलद्रव्येऽयमियतलिङ्ग, तथापि वासुदेवे भगवति नियतपुंलिङ्ग इति भावः । ज्ञानमिति । भावे ल्युट् । तटः तटी तटमिति । द्विकपक्षे नियतलिङ्गं न प्रकृत्यर्थः, त्रिकपक्षे तु यद्यपि प्रकृत्यर्थः, तथापि तत्तल्लिङ्गस्य पाक्षिकोपस्थितिकत्वान्नप्रातिपदिकार्थे॑त्यनेन गतार्थता । द्रोण इति । न चेहप्रातिपदिकार्थमात्र॑इत्येव प्रथमाऽस्त्विति वाच्यं, तथा सति परिच्छेद्यपरिच्छेदकभावस्य संसर्गविधया भानाऽयोगात् । नामार्थयोरभेदसंसर्गस्य व्युत्पन्नत्वात् । व्रीहिरिति । जातावेकवचनम् । व्यक्तिविवक्षायां तुद्रोणो व्रीहयः॑इति भवत्येव॥अभेदेनेति । न च प्रकृतिप्रत्ययार्थयोरभेदान्वयो दुर्लभः,पचति॑पाचकः॒॑औपगव॑इत्यादौ सर्वत्र भेदान्वयस्यैव दृष्टत्वादिति वाच्यं, देवतार्थकतद्धितादावभेदान्वयस्य दृष्टत्वात् ।ऐन्द्र हवि॑रित्यत्र हि इन्द्रदेवताकं हविरिति बोधः सर्वैरेवाभ्युपगम्यत इथि नास्ति शङ्कावसर इति भावः । वचनं सङ्ख्येति । वाच्यवाचकयोरभेदाध्यवसायेन तथैव पूर्वाचार्याणां व्यवहारादिति भावः । अप्राप्तौ वचनमिति । सूत्रे वचनग्रहणमित्यर्थः । वस्तुतस्तु सूत्रे मात्रग्रहणं व्यर्थम् । विशेषविहितैःकर्मणि द्वितीये॑त्यादिभिर्बाधितत्वेन कर्मादौ प्रथमाया अप्रवृत्तेः ।कर्मणि द्वितीये॑त्यादिषुकर्मणि द्वितीयैव॒॑कर्तृकरणयोरेव तृतीय नान्यत्रे॑ति प्रत्ययनियमपक्षे प्रथमाया अपि कर्मादौ प्रवृत्तिसम्भवान्मात्रग्रहणमावश्यकमेवेति वाच्यं, प्रत्ययनियमपक्षे हिप्रातिपदिकार्थं एव प्रथमा, नान्यत्रे॑त्यर्थपयवसानात्कर्मादौ प्रथमाया अप्रवृत्तौ वचनग्रहणमपि व्यर्थं,न केवला प्रकृतिः पयोक्तव्ये॑ति निषेधादेव पर्थमोत्पत्तिसिद्धेः । न चैवंद्विशब्दाद्बहुशब्दाच्चैकवचनम्, एकशब्दाद्द्विवचनम् इत्येवमव्यवस्था स्यादिति वाच्यम्, अनन्वितार्थकविभक्तिप्रयोगाऽपक्षेया अनुवादकविभक्तिप्रयोगस्य न्याय्यत्वात् ।गौर्वाहीक॑इतिवद्द्रोणब्दस्य तत्परिमिते उपचाराद्द्रोणो व्रीहिरित्यभेदान्वयः, नामार्थयोरभेदान्वयात् ।परिमाणं प्रत्ययार्थः॑इति पक्षे तु द्रोणरूपं यत्परिमामं तत्परिच्छिन्नो व्रीहिरित्यभेदान्वयः, नामार्थयोरभेदान्वयस्तथा च फलभेदे कथं प्रत्ाख्यानमिति चेदत्राहुः — शाब्दबोधप्रयुक्तं वैलक्षण्यमिहाऽनादृत्य परिमाणग्रहणं प्त्याख्यातम् । अतएव औपगवादौतस्येदम्इत्यनेनैवाऽण्प्रत्ययसिद्धेःतस्यापत्य॑मिति सूत्रं किमर्थमित्याक्षेपः, मत्वर्थीयेनिनैव सिद्धेःपरिवृत्तो रथः॑इत्यधिकारेपाण्डुकम्बलादिनिः॑इतीनिप्रत्ययविधानं किमर्थमित्याक्षेपश्च वक्ष्यमाणः सङ्गच्छते । यदि तु सर्वत्रैव शाब्दबोधप्रयुक्तं वैलक्षण्यं स्वीक्रियते तर्हिबाधनार्तं कृतं भवे॑दिति समाधानस्याऽणो बाधनार्थमिनिप्रत्ययविधानमिति समाधानस्य च वैयथ्र्यापत्तेरिति । ननु क्वचित् पञ्चकं प्रातिपदिकार्थः, क्वचित्त्रिकं, क्वचिद्द्विकं प्रातिपदिकार्थ इत्यादि व्यवह्यियते । त एते पक्षाः केषाममिमताः, कथं वाऽमीषामुपपत्तिरिति चेत् । अत्र व्याचख्युः -स्वार्थद्रव्यलिङ्गसङ्ख्याकारकात्मकः पञ्चकं प्रातिपदिकार्थः, धि मध्वित्यादौ विनापि विभकिंत प्रातिपदिकादेव तावतामर्थानां प्रतीतेः । वृक्षौ वृक्षाः वक्षं वृक्षेणेत्यादौ यद्यपि विभक्त्यन्वयेऽपि प्रतीयन्ते नेयता पर्कृत्यर्थत्वहानिः, द्योतकत्वेनैवोपयोगादिति भाष्यकारो मन्यते । आदितश्चतुष्कमिति कैयटः ।तत्रोपपदं सप्तमीस्थं॑मित्यत्र चतुष्कपक्षे, पञ्चकपक्षे वा कारकं प्रातिपदिकार्थ इत्यभिधानात् । आदितस्त्रिकमिति वृत्तिकारः । अन्वयव्यतिरेकाभ्यां सङ्ख्याकारकादेर्विभक्त्यर्थत्वनिश्चयात् । यद्यपिदधि॒॑मधु॑इत्यादौ विनापि विभकिंत सङ्ख्याकारकं च प्रतीयते, नेयता वृक्षौ वृक्षा इत्यादावपि विभक्त्यर्थत्वं हीयते । न हिगर्गा॑इत्यादौ विनापि यञा अपत्यं गम्यत इथि तदपि प्रकृत्यर्थः । न चा ।विभरित्यादौ अन्तरेणाऽपि प्रत्ययं कर्ता प्रतीयत इति भेत्तेत्यादावपि कर्ता प्रकृत्यर्थ एवेति युज्यते वक्तुम् । अतस्त्रिकमेव प्रातिपदिकार्थः, सङ्ख्याकर्मादयस्तु विभक्त्यर्था इति । लिङ्गं टाबादिवाच्यमिति पक्षे आदितो द्विकमेवेत्यन्ये । तत्र स्वार्थो -विशेषणम् । द्रव्यं — विशेष्यम् । लिङ्गं — स्त्रीत्वादि । सङ्ख्य — एकात्वादिः । कारकं — कर्मादि ।", "23047": "<<सम्बोधने च>> - सम्बोधने च । मात्रग्रहणात्तत्प्रत्याख्यानपक्षेऽपि प्रातिपदिकार्थे एव प्रथमेति नियमाद्वा सम्बोधनाधिक्येऽप्राप्तावस्यारम्भः । इह सम्बोधनं प्रकृत्यर्थं प्रति विशेष्यं, क्रिया प्रति विशेषणम् । तथा चव्रजानि देवदत्त॑इत्यादौएकत्ङ् वाक्य॑मिति वाक्यत्वे सिद्धेआमन्त्रतस्य चे॑ति निघातो भवति, क्रियां प्रत्यविशेषणत्वे तु भिन्नवाक्यत्वान्नैतत्सिद्धेत्,समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः॑इति वार्तिकात् । तथा चोक्तं -॒संबोधनपद॑यच्च तत् क्रियाया विशेषणम् । व्रजानि देवदत्तेति निघातोऽत्र तथा सति॑ इति । एवं चराम मां पाही॑ति वाक्यस्य रामसम्बन्धिसम्वोधनविषयो मत्कर्तृकं रक्षणमर्थः ।व्रजानि देवदत्ते त्यत्र तु देवदत्तसम्बन्धिसंबोधनविषयो मत्कर्तृकं गमनमर्थः । इति प्रथमा ।", "23048": "<<साऽऽमन्त्रितम्>> - सामन्त्रितम् ।सम्बोधने चे॑त्यतःसम्बोधने॑इत्यनुवर्तते ।से॑त्यनेन प्रथमा निर्दिश्यते । महासंज्ञाकरणसामर्थ्यात्संज्ञाविधावपरि तदन्तग्रहणम् । आमन्त्रणमामन्त्रितम् । उपचारात्तत्साधने वृत्तिः । विभक्त्यन्तेन चामन्त्र्यते न केवलया विभक्त्येत्याशयेनाह -तदन्तमिकि ।", "23049": "<<एकवचनं संबुद्धिः>> - एकवचनम् ।सुः संबुद्धि॑रित्येव सुवचम् । न च सप्तमीबहुवचनेऽतिप्रसङ्गः ।संबोधने प्रथमे॑त्यधिकारादेव तदभावादिति नव्याः । अत्र व्याचख्युः — ॒सुः संबुद्धि॑रिति वाच्ये एकवचनग्रहणमेकोऽर्थ उच्यते येन तावन्मात्रस्य प्रत्ययस्य संज्ञार्थम् । अन्यथासामत्रित॑मिति पूर्वसूत्रे तदन्तस्यामत्रितसंज्ञा कृतेति प्रक्रमाऽभेदाय इयमपि संज्ञा तदन्तस्यैव स्यादिति । एङ्ह्रस्वात्संबुद्धेः । यद्यत्रहल्ङ्याब्भ्य॑ इत्यतो हलमननुवर्त्त्यएङन्ताद्ध्रस्वान्ताच्चाङ्गात्परस्याः संबुद्धेरलोप॑ इति व्याख्यायेत, हलनुवृत्तावप्यङ्गात्परा या संबुद्धिः तस्या यद्धलिति वा, उभयथापिहे ज्ञाने॑ति न सिध्येत् । लोपात्परत्वात्सोरतोऽभि कृते परत्वान्नित्यत्वाच्च अमि पूर्वत्वे च कृते एकादेशस्य परादिवद्भावे ह्रस्वान्तात्परत्वाभावात्, पूर्वान्तवद्भावे अम एवाभावादुभयत आश्रयणे नान्तादिवदिति निषेधादतो व्याचष्टे-एङन्तादित्वादिना चेदित्यन्तेन ।", "23050": "<<षष्ठी शेषे>> - षष्ठी शेषे । उक्तादन्यः शेषः । कर्मादयश्च प्रातिपदिकार्धपर्यन्ता उक्ताः, तत्र द्वितीयादीनां विधानात्, अतो प्रति प्राधान्यादप्रधानादेव षष्ठी । प्रत्ययार्थस्त्विह पुरुषविशेषणम् । राजनिरूपितसेवकत्वसम्बन्धवान् पुरुष इत्यर्थविवक्षायां प्रधानात्पुरुषशब्दान्न षष्ठी, उक्तन्यायविरोधात्, शेषत्वाऽभावाच्च ।राज्ञः पुरुषस्तिष्ठकती॑त्यादौ पुरुषशब्दो हि प्रातिपदिकार्थमात्रवृत्तिः ।राज्ञः पुरुषेण कृत॑मित्यादौ तु कारकार्थकः । यदा तु पुरुषनिरूपित सेव्यत्वसम्बन्धवान् राजेत्यर्थविवक्षा तदा पुरुषशब्दादपि षष्ठी भवत्येव पुरुषय राजेति । यत्तुअप्रधानं शेष॑इति कैश्चिदुक्तम् । तन्न । प्रातिपदिकार्थमात्रे शुक्लः पटः श्यामो घट इत्यादौ विशेषणे षष्ठीप्रसङ्गात् । न च प्रथमाया बाधः, तस्याः प्रधाने चरितार्थत्वात् । कर्मादीनामपीति । यथा विशेषाऽविवक्षायां रूपवानिति प्रयुज्यते, विशेषविवक्षायां तु नीलः पीत इत्यादि, तथेदमपि न्यायसिद्धमिति भावः । सतां गतमिति । सत्पुरुषसम्बन्धि गमनमित्यर्थः । सन्तो गच्छन्तीत्यत्र त्वाख्यातेन कर्तृत्वसम्बन्धस्योक्तत्वात्सम्बन्धमात्रविवक्षां कर्तुं न शक्यते इति षष्ठीह न भवति, किंन्तु प्रातिपदिकार्थम#आत्रे प्रथमैवेत्याहुः । सर्पिषो जानीते इति । वस्तुतः करणस्य सम्बन्धमात्रविवक्षायां षष्ठी । सर्पिः — सम्बन्धि प्रवर्तनमित्यर्थः ।अकर्मकाच्च॑अनुपसर्गाज्ज्ञः॑ इत्यनेन वा जानातेस्तङ् । अन्ये तु व्याचख्युः — कर्मणः शेषत्वविवक्षाया षष्ठी । सर्पिःसम्बन्धि ज्ञानमित्यर्थ इति । एधोदकस्येति । एधाश्च उदकं चैषां समाहार एधोदकम् ।॒जातिरप्राणिनाम् इत्येकवद्भावः । यद्वा च दकं चेति विग्रहे पूर्ववदेकवद्भावः । यद्वा एधांसि च दकं चेति वुग्रहे पूर्ववदेकवद्भावः । उदकपर्यायो दकशब्दोऽप्यस्ति । तथा च हलायुधः -॒भुवनममृतं जीवनीयं दकं चे॑ति । उपस्कुरुते इति । गन्धनादिसूत्रेणात्मनेपदम् ।उपात्प्रतियत्ने॑ति सुट् । नचैवंज्ञोऽविदर्थस्य करणे॑,अधीगर्थदयेशां कर्मणि॑,कृञः प्रतियत्ने॑,रुजार्थानां भाववचनानामज्वरेः॑,आशिषि नाथः॑,जासिमिप्रहणनाटक्राथपिषां हिंसायाम्,॒व्यवह्मपणोः समर्थयोः॑,कृत्वोर्थप्रयोगे कालेऽधिकरणे॑ इति शेषषष्ठीविधानार्थेयमष्टसूत्री निष्फला स्यादिति वाच्यम्,सर्पिषो ज्ञान॑मित्यादौ तस्याः समासनिवृत्तिफलकत्वात् । तथा हिज्ञोऽविदर्थस्य — ॑ इत्यादौशेषे॑ इत्यनुवर्तते, शेषत्वेन विवक्षते तु करणादौ षष्ठी सिद्ध#ऐव । तदमर्थः — इह षष्ठएव न तु तल्लुक् । तथा च लुकः प्रयोजकीभूतः समास एव न भवतीति । न चाष्टसूत्र्या लुङ्बात्रनिवृत्तिफलकत्वमेवास्तु, समासस्तु स्वीक्रियतामिति वाच्यम् । इष्टानुरोधेन समास एव न भवतीति व्याख्यानस्योचितत्वात् । तथा च वार्तिकं॒प्रतिपदविधाना षष्ठी न समस्यते॑ इति । हरिश्चाह -॒कारकैव्र्यपदिष्टे च श्रूयमाणक्रिये पुनः । प्रोक्ता प्रतिपदं षष्ठी समासस्य निवृत्तये॑ इति । एवं च शेषत्वविवक्षायां सर्पिषो ज्ञानं, मातुः स्मरणमित्यादीन्यसमस्तान्येव साधूनि ।हरिस्मरण॑मित्यादीनि तु शेषत्वाऽविवक्षायां कृद्योगषष्ठआ समासे बोध्यानि । तत्र च कारकपूर्वकत्वात्गतिकारक -॑ इत्यादिना कृदुत्तरपदप्रकृतिस्वरेण मध्योदात्तत्वं भवति । शेषषष्ठआ समासे तु अन्तोदात्तत्वं स्यात्तच्चाऽनिष्टम् । तथा च स्वरार्थेयमष्टसूत्रीति निष्कर्षः । किं चमातुः स्मृत॑ मित्यादौ समासाऽभावोऽपि फलम्, न हि तत्र कारकषष्ठी लभ्यते,न लोके॑ ति निषेधात् । आह च — ॑ निष्ठायां कर्मविषया षष्ठी च प्रतिषिध्यते । शेषलक्षणया षष्ठआ समासस्तत्र नेष्यते॑ इति । एतच्च मनोरमायां स्थितम् ।", "23051": "", "23052": "<<अधीगर्थदयेशां कर्मणि>> - अधीगर्थ । अधिशब्दोच्चारणम्इङिकावध्युपसर्गं न व्यभिचरतः॑इति ज्ञापनार्थम् । अन्यथास्मृत्यर्थदयेशाम् इत्येव ब्राऊयात्,इगर्थे॑ति वा । इङंशे नेदं ज्ञापकमिति चेत्तर्हि तदंशेणेरध्ययने वृत्तम् इत्यत्राऽधिशब्दोच्चारणं ज्ञापतमस्तु । अत्र व्याचख्युः — कर्मणि किम् । करणे शेषत्वविवक्षायां मा भूत् । मातुर्गणस्मरणम् । अत्र माता कर्म, गुणास्तु करणम्, उभयत्र शेषत्वविवक्षायमपि मातृशब्दादेवानेन सूत्रेण षष्ठी, गुणशब्दात्तुषष्ठी शेषे॑इत्यनेन । तेनगुणस्मरण॑मितित समासो भवतीति ।", "23053": "", "23054": "<<रुजार्थानां भाववचनानामज्वरेः>> - रुजार्थानाम् ।रुजो भङ्गे॑ । भिदादिपाठादत एव निपातनाद्वा अङि टाप् । रुजा व्याधिरर्थो येषां तेषां रुजार्थानां धातूनां भाववाचकत्वाऽव्यभिचाराद्भावशब्देनाऽत्र घञादिवाच्यः सिद्धरूपो भाव उच्यते । वक्तीति वचनः । बाहुलकात्कर्तरि ल्युट् । प्रकृत्यर्थस्तु न विवक्षितः, नहि भावो वक्ता सम्भवति । तस्मात्प्रत्ययस्य साधुत्वनिर्वाहायैव वचिरिति बोध्यम् । तथा चायमर्थः, -भावो वचनः=कर्ता येषां तेषां भाववचनानामिति, तदेतव्द्याचष्टे -भावकर्तृकाणामिति ।रुजार्थानां भावकर्तृकाणाम् इत्येव सूत्रयितुं युक्तम् । चौरस्येति । चुरा शीलमस्य चौरः । अत्र कर्मणि शेषत्वविवक्षायामनेन षष्ठी ।अज्वरिसंताप्योरिति वाच्यम् । रोगस्येति ।पदरुज — ॑ इति घञा रोगो भावोऽभिधीयते, स च रुजायां कर्ता ।कर्तृकर्मणोः — ॑ इति रोगशब्दात्षष्ठी । भावाकर्तृकाणां किम् । श्लोष्ममश्चौररुजा ।मायुः पित्तं कफः श्लेष्मा॑ इत्यमरः ।", "23055": "<<आशिषि नाथः>> - चौरज्वर इति । इह चौरशब्दात्रुजार्थानाम् — ॑ इति षष्ठआ अप्रवृत्तौषष्ठी शेषे॑ इत्यनेन षष्ठआं॑ षष्ठीति समासो भवत्येवेति भावः । सर्पिषो नाथनमिति । सर्पिर्मे भूयादित्याशासनमित्यर्थः । माणवकनाथनमिति । यद्यपि कर्मत्वविवक्षायांकर्तृकर्मणोः॑ इति यदा षष्ठी, तदा आशिष्यपि समासोऽस्त्येव, तथापि तत्रगतिकारकेपपदात्कृत् इति कृदुत्तरपदप्रकृतिस्वरः । समासान्तोदात्तत्वं तु याच्ञादावेव न त्वाशिषीति निष्कर्ष इति कौस्तुभे स्थितम् ।", "23056": "<<जासिनिप्रहणनाटक्राथपिषां हिंसायाम्>> - जासि ।जसु ताडने,॑जसु हिंसायाम् इति च चुरादिस्तस्येदं ग्रहणं न तु दैवादिकस्यजसु मोक्षणे॑ इत्यस्य, जासीति निर्देशात्,हिंसायाम् इति वचनाच्च । निप्रहणनमिति ।हन्तेरत्पूर्वस्य॑इति णत्वम् । प्रणीति ।नेर्गद — ॑इति णत्वम् । चुरादिरिति ।नट नृत्तौ॑ इति तु गृह्रते, दीर्घनिर्देशादिति भावः । क्राथनमिति ।क्रथ हिंसायाम्इति घटादौ पठते, तस्य मित्त्वेऽपि इह निपातनाद्वृद्धिः । मित्त्वफलं तु निपातनात्परत्वात्चिण्णमुलोः॑ इति दीर्घे चरितार्थमिति घटादौ वक्ष्यति । यत्तु हरदत्तेनोक्तम् -॒॒घटादिपाठोघटादयः षितः॑इत्यातिदेशिकषित्त्वे अङ्यथा स्यादित्येतदर्थइति । तन्मन्दम् ।घटादयः षितः॑ इति हि मध्ये सूत्रितम् । तेन पूर्वेषां त्वरत्यन्तानामेव षित्त्वं, न तु ज्वरा दीनां परेषामिति । अतएवत्वरत्यन्तास्त्रयोदशानुदात्तेतः षितश्च॑ इति घटादौ वक्ष्यति ।", "23057": "<<व्यवहृपणोः समर्थयोः>> - पणनमिति ।स्तुतावेव॑ इति वक्ष्यमाणत्वादायस्याऽभावः । ब्राआहृणपणनमिति ।आयादय आर्धधातुके वा॑ इत्यायस्य विकल्पः ।", "23058": "<<दिवस्तदर्थस्य>> - दिवस्तद । तच्छब्देन व्यवह्मपणौ परामृश्येते, तौ च द्यूते क्रयविक्रयव्यवहारे च तुल्यार्थौ पूर्वऽसूत्रे गृहीतावित्याशयेनाह -द्यूते इति । पूर्वसूत्रे एव दिवेः पाठे तदर्थस्येति न कर्तव्यमिति यद्यपि लाघवं, ततावि योगाविभाग उत्तरार्थः । कर्मणीति । इह शेष इति न सम्बध्यते, उत्तरसूत्रे विकल्पारम्भासामर्थ्यात् । अन्यथा षष्ठआ विकल्पितायां तया मुक्ते शेषे विभक्त्यन्तरस्याऽप्राप्त्या वृथैव विकल्पारम्भः स्यादिति भावः । अन्ये त्वाहुः — लाघवात्पूर्वसूत्रे एव दिवो ग्रहणे कर्तव्ये पृथग्योगकरणसामर्थ्यादत्र शेष इति न सम्बध्यते । न चोत्तरार्थत्वापृथग्योगस्य नोक्तार्थज्ञापकत्वमिति वाच्यम् । सङ्कोचे मानाऽभावेन फलद्वयस्यापि सुवचत्वादिति । शेष इत्यस्याऽसम्बन्धादिह त्रिसूत्र्यं तिङन्तमुदाहरति — शतस्य दीव्यतीति ।", "23059": "", "23060": "", "23061": "<<प्रेष्यब्रुवोर्हविषो देवतासम्प्रदाने>> - प्रेष्यब्राउवोः । इष्यतेक्दैवादिकस्य लोटो मध्यमपुरुषैकवचनं -प्रेष्यति । तत्साहचर्याद्द्र विरपि तथाभूत एव गृह्रते । अत एवेह शेषग्रहणं न सम्बध्यते । तिङन्तेन सह समासस्याऽप्रसक्तत्वात् । प्रेष्याब्राउवोः किम् । अग्नेय छागस्य हहविर्वपां मेदो जुहुधि । हविषः किम् । अग्नये गोमयानि प्रेष्य । देवता सम्प्रदाने किम् । माणवकाय पुरोडाशान्प्रेष्य ।हविषः प्रस्थितत्वेन विशेषणे प्रतिषेधो वक्तव्यः॑ । इन्द्राग्निभ्यां छागस्य हविर्वपां मेदः प्रेष्य ।", "23062": "", "23063": "", "23064": "<<कृत्वोऽर्थप्रयोगे कालेऽधिकरणे>> - कृत्वोर्थ । कृत्वसुचोऽर्थ इवार्थो येषांप्रत्ययानां ते कृत्वोर्थाः । शेषे इति । इहदिवस्तदर्थस्य॑इत्यादिसूत्रषट्के विच्छिन्नमपि शेषग्रहणमनुवर्तते, व्याख्यानात् । पञ्चकृत्व इति ।सङ्ख्यायाः क्रिया -॑ इत्यादिना कृत्वसुच् । द्विरिति ।द्वित्रिचतुभ्र्यः सुच् ।", "23065": "<<कर्तृकर्मणोः कृति>> - कर्तृकर्मणोः कृति । शेष इति निवृत्तं,कर्तरि च कृति॑ इति सूत्रे कृते चकारेणअधीगर्थ -॑इति सूत्रात्चतुथ्र्यर्थे बहुलं छन्दसि॑ इति पर्यन्तमनुवर्तमानस्य कर्मणीत्यस्यानुकर्षणसम्भवेऽपि पुनरत्र कर्मग्रहणात् । तस्माव्द्याख्यानमेवात्र शरणमित्यपरे । कर्तृकर्मणोः किम् । शस्त्रेण भेत्ता । कृतिरिति । करणं कृतिः ।स्त्रियां क्तिन् । कृष्णोऽत्र कर्ता । कर्मण्युदाहरति -जगत इति । कृष्णस्य तृचाऽभिहितत्वात्ततः षष्ठी न भवति । कृति किमिति । नन्विह कर्तृकर्मभ्यां क्रिया आक्षिप्यते, तद्वाची तु धातुरेव । धातोश्च द्वये प्रत्ययाः, कृतस्तिङश्च । तत्र तिङ्प्रयोगे कटं करोतीत्यादौन लोका -॑इति प्रतिषेधेन भाव्यम् । ततश्च परिशेषात्कृद्योगे एव षष्ठी भविष्यति, त[स्मा]त्क कृद्ग्रहणेनेति प्रश्नः । गुणकर्मणि वेष्यते । कृतपूर्वी कटमिति । अत्र करोतिक्रियापेक्षमनभिहितं कर्मत्वं कटस्याऽस्त्येवेति षष्ठी स्यात् । तद्धिताधिक्ये तु सा मा भूदित्येतदर्थं कृद्ग्रहणमिति भावः । ननु कृतः कटः पूर्वमनेनेत्यस्मिन् विग्रहे क्तस्य कर्मणि विधानात्तेनैवाऽभिहितं कर्मेति नैव द्वितीया प्राप्नोति, नापि तदपवादभूता षष्ठी, इहाप्यनभिहिताधिकारात् । किञ्च कृतशब्दस्य कटसापेक्षतया समासो दुर्लभ एव, एवं तद्धितोऽपीति चेत् । अत्राहुः — पूर्वं कृतमनेनेति विग्रहे अविवक्षितकर्मतया भावे क्तप्रत्यये कृते कृतशब्दस्य कटसापेक्षत्वाऽभावात्समासतद्धितौ भवत एव । तथाचकृपूर्वी॑त्ययं पूर्वं कृतवान् इत्यनेन समानार्थः सम्पद्यते, गुणभूतयापि क्रियया कारकाणां सम्बन्धस्य कटं कृतवानित्यादौ दर्शनादत्रापि करोति क्रियापेक्षं कर्मत्वं कटस्याभ्युपगम्यते । तच्च कर्मत्वें न केनाप्यभिहितम् ।भावे क्तस्य, कर्तरि इनिप्रत्ययस्य च विधानात् । अतोऽसति कृद्ग्रहणे षष्ठी स्यादेवेति । एवं चओदनस्य पाचकतम॑इत्यत्र षष्ठआ असाधुत्वे इष्टापत्तिरेव शरणम् ।कृतपूर्वी॑त्यत्र समासतद्धितौ भवत एवेत्युक्तम् ।तत्र समासःसुप्सुपा॑ इति बोध्यः । तद्धितस्तुपूर्वादिनिः॑सपूर्वाच्च॑ इति कर्तरि इनिः, तद्विधौश्राद्धमनेन॑इति सूत्रादनेनेत्यनुवृत्तेः । स्यादेतत्-भिदेण्र्यन्तात्पर्यायार्हणोत्पत्तिषु॑इति ण्वुचिभेदिका देवदत्तस्य यज्ञदत्तस्य काष्ठाना॑मित्युभाम्यामप्यनेन कृद्योगषष्ठी जायते, तत्र मुख्याऽमुख्यसन्निधौ मुख्ययस्यैव कार्ये सम्प्रत्ययात्प्रयोजककर्तृवाचकादेव स्यात् । अन्यथापाचयत्योदनं देवदत्तेन यज्ञदत्त॑ इत्यत्र प्रयोज्यप्रयोजकयोरुभयोरपि लकतारवाच्यत्वे उभाभ्यामपि कर्तृवाचकाङ्यां प्रथमा स्यात् । मैवं । प्रयोज्यप्रयोजकवाचकाभ्यां भेदेन षष्ठी जायते न त्वेकैवेति नेह मुख्याऽमुख्यान्यायप्रवृत्तिः । तत्र तु लकारस्यैकत्वात्कर्तुस्तद्वाच्यत्वकल्पनायामुक्तन्यायः प्रवर्तत इति वैषम्यात् । एवं चसओदनः पाच्यते देवदत्तेन यज्ञदत्तेने॑त्यादावुभाभ्यमपि तृतीया स्यादेवेति बोध्यम् । अत्र व्याचक्षते — ॒तदर्हमि॑ति निर्देशात्कर्तृकर्मणोः कृति॑ इत्येतदनित्यम् । तथाच॒धायैरामोदमुत्तमम् इति भट्टिप्रयोगः सङ्गच्छतीति ।", "23066": "<<उभयप्राप्तौ कर्मणि>> - उभयप्राप्तौ । कृतीत्यनुवर्तते । तेनान्यपदार्थत्वाद्बहुव्रीहिरित्याह — उभयोः प्राप्तिर्यस्मिन्निति । उभयशब्देन कर्तृकर्मणी परामृश्येते । तेनैकस्मिन् कृति कर्तृकर्मणोः प्राप्तिलाभादाश्चर्यमिदमोदनस्य पाको ब्राह्मणानां च प्रादुर्भाव इत्यत्र नायं नियमः प्रवर्तते । तत्पुरुषे तु स्यादेवाऽत्रातिप्रसङ्ग इति भावः । पूर्वसूत्रेणैव सिद्धे नियमार्थमिदमिति ध्वनयति -कर्मण्येवेति । एवं च कर्तरि षष्ठी प्रतिषेदोऽस्य सूत्रस्य फलं, न तु कर्मणि षष्ठीविधानमिति स्थितम् ।स्त्रीप्रत्यययोरकाऽकारयोर्नायं नियमः । स्त्रीप्रत्यययोरिति ।स्त्रियां क्तिन् इत्यधिकारे विहितयोरित्यर्थः । नायं नियम इति ।अकाऽकारयोः प्रयोगे कर्मण्येव षष्ठी न तु कर्तरी॑ति यो नियम उक्तः स न प्रवर्तते, किन्तु कर्तर्यपि षष्ठी प्रवर्तत इति । फलितोऽर्थः । कथं तर्हिसुट्तिथोः॑ इति सूत्रेसुटासीयुटो बाधोन॑ इति वृत्तिः । अत्राहुः — कर्तुः करणत्वविवक्षया तृतीया बोध्येति । भेदिकेति । भेदनं भेदिका ।पर्यायार्हणोत्पत्तिषु॑इति ण्वुच् ।धात्वर्थनिर्देशे ण्वुल् वक्तव्यः॑ इत्यनेन ण्वुलित्येके ।युवोरनाकौ॑ । स्त्रियां टापिप्रत्ययस्थात् -॑इति इत्वम् । बिभित्सेति । भेत्तुमिच्छा । भिदेः सनिहलन्ताच्चेति कित्त्वाद्गुणाऽभावः ।अ प्रत्ययात् इत्यकारप्रत्यये टाप् ।शेषे विभाषा । शेषे इति । अकाऽकाराभ्यामन्यस्मिन् क्तिनादावित्यर्थः । कर्तरि षष्ठीनिषेधफलकस्यउभयप्राप्तौ॑ इति सूत्रस्य, तत्रैव कर्तरि षष्ठीसम्पादनफलकस्यस्त्रीप्रत्यययोरकाऽकारयोः॑ इति वचनस्य च प्राक् स्थितत्वात्कर्तर्येव विभाषा अनेन शेषवचनेन क्रियते, न तु कर्मणीत्याशयेनोदाहरति — जगतः कृतिर्हरेर्हरिणा वेति । अविशेषेणेति । अकाऽकारभिन्ने कृन्मात्रे इत्यर्थः । अनुशासनमिति । अनुशासनमिति । अनुशिष्यन्ते असाधुशब्देभ्यः प्रविभज्य बोध्यन्ते येनेति करणे ल्युट् ।", "23067": "<<क्तस्य च वर्तमाने>> - अधिकरण । अयमपि निषेधापवादः । आसितमिति । आस्यते अस्मिन्नित्यासितं,क्तोऽधिकरणे च -॑ इत्यधिकरणे क्तः । इदमेषामिति । कर्तरि षष्ठीयम् । सकर्मकेभ्यस्त्वधिकरणे क्ते कृते कर्तृकर्मणोद्र्वयोरपि षष्ठी, अनभिहितत्वाऽविशेषात् । इदमेषां भुक्तमोदनस्य ।उभयप्राप्तौ कर्मणि॑ इत्ययं नियमस्तु नेह प्रवर्तते,कर्तृकर्मणोः कृति॑इत्यनन्तरस्या एव षष्ठआस्तन्निमाभ्युपगमात् । एतच्च कौस्तुभे स्पष्टम् ।", "23068": "", "23069": "<<न लोकाव्ययनिष्ठाखलर्थतृनाम्>> - न लोका । जिघृक्षितरूपविनाशप्रसङ्गात्तृनामित्यत्र णत्वं न कृतम् । उश्च उकश्च ऊकौ, लश्च ऊकौ चेति विग्रहः । ल इति लडादीनां सामान्यग्रहणं । तेषां च साक्षात्प्रयोगो न सम्भवतीति तदादेशा गृह्रन्त इत्याह — लादेशा इथि । उदाह्यियन्त इति शेषः । कटं कारयाञ्चकारेत्यत्र कृत्सञ्ज्ञकलिङन्तामन्तेन योगेऽपि कटस्यकर्तृकर्मणोऋ कृति॑ इति षष्ठी न भवति,आमः॑ इति लुकोऽपि लादेशत्वादित्याहुः । नन्वेवमपिबभ्रिर्वज्रं पपिः सोमं ददिर्गाः॑ इत्यत्रन लोका -॑ इति निषेधाऽप्रवृत्तेः षषाठी दुर्वारैव, न हि किकिनौ लकारौ, नापि तदादेशौ । नैष दोषः ।किकिनौ लिट् च॑ इत्यनेन लिट्कार्यातिदेशः क्रियते, न तु लिट्सञ्ज्ञा । तथा च विशेषातिदेशे च सामान्यमप्यतिदिश्यत इथि नानुपपत्तिः । दिदृक्षुरिति ।सनाशंतभिक्ष उः॑ । उकारेण कृतो विशेषणात्तदन्तमपि लभ्यत इत्याशयेनाह -अलङ्करिष्णुरिति ।अलङ्कृञ्निराकृञ -॑ इत्यादिना इष्णुच् । घातुका इति ।लषपते॑ त्यादिना उकञ् ।कमेरनिषेधः॥ ईषत्कर इति ।ईषद्दुस्सुषु — ॑इत्यादिना खल् । अर्थग्रहणादीषत्पानः सोमो भवतेत्यप्युदाहार्यम् । अव्याप्त परिहर्तुमाह -प्रत्याहार इति । पवमान इति ।पूङ्यजोः शानन् । मण्डयमान इति ।मडि भूषायाम् । इदित्त्वान्नुम् ।ताच्छील्यवयोवचन -॑ इति चानश् । अधीयन्निति ।इङ्धार्योः॑ इति शता । शाननादिषुलटः॑ इत्यननुवृत्त्या लादेश इत्यसिद्धेः प्रत्याहारग्रहणमाश्रीयत इति भावः । तृन्निति । तच्छीलादिषुतृन्इति विहितस्तृन् प्रत्ययः । तृन्निति प्रत्याहारग्रहणान्नित्यं निषेधे प्राप्ते विकल्पमाह - ।द्विषः शतुर्वा । द्विष इति ।द्विष अप्रीतौ॑ इत्यस्मात्द्विषोऽमित्रे॑इति विहितोः यः शतृप्रत्ययस्तत्प्रयोगे वा षष्ठीनिषेद इत्यर्थः । सर्वोऽयमिति ।अनन्तरस्य इति न्याया॑दिति शेषः । शेषः षष्ठी त्विति । शाब्दबोधे वैलक्षण्यमस्तीति भावः । एवं चाश्चर्यो गवां दोगोऽगोपेनेत्यत्र शेषत्वविवक्षायां कर्तर्यपि षष्ठी भवत्येवेति बोध्यम् ।", "23070": "<<अकेनोर्भविष्यदाधमर्ण्ययोः>> - अकेनोः । आधमण्र्ये अकस्याऽसम्भवाह -भविष्यत्यकस्येति । इनस्तु उभयोः सम्भवादाह — भविष्यदाधमण्र्यार्थेनश्च योग इति । यथासंख्यं तु न भवति, भाष्येअकस्य भविष्यति॑इन आमण्र्ये च ॑इति योगं विभज्य व्याख्यानात् ।इह भविष्यदिति स्वर्यते, तेनभविष्यति गम्यादयः॑इत्यधिकारे विहितःतुमुन्ण्वुलौ — ॑ इति ण्वुलेव गृह्रत इत्याशयेनोदाहरति -सतः पालक इतिष सत इति शत्रन्तम् । यस्तु कालसामान्येण्वुल्तृचौ — ॑इति ण्वुलुक्तस्त्तर न निषेधः,ओदनस्य पाचकः॑पुत्रपौत्राणां दर्शक॑इतीति भावः । व्रजं गामीति ।आवश्यकाधमण्र्ययोर्णिनिः॑ इत्यावश्यके णिनिः । यद्यप्ययं कालसामान्ये विहिकस्तथापिभविष्यति गम्यादयः॑ इत्युक्तेर्भविष्यदर्थकः । गम्यादयः केचिदुणादयः, केचिदष्टाध्यायीगता इति हरदत्तः । ननुगत्यर्थकर्मणि चतुर्थी च॑ इत्येव सिद्धे द्वितीय ग्रहणमपवादविषयेऽपि द्वितीयाप्रवृत्त्यर्थमिति व्रजङघ्गमिति सिध्यत्येवेति चेत्, अत्राहुः — इहैव सूत्रे ग्रामङ्गमीति भाष्योदाहरणात्तत्सूत्रं नाङ्गीक्रियते । तेन ग्रामस्य गन्तेति षष्ठएव साध्वी, न तु ग्रामं गन्तिति द्वितीयते । शतंदायीति ।आवश्यके॑त्याधर्मण्ये णिनिः ।भविष्यदाधर्मण्यार्थेनश्च योग॑ इत्युक्तत्वान्नेह निषेधः । अवश्यं करोत्य वश्यङ्कारी कटस्य । गम्यादित्वाऽभावाद्वर्तमानेऽप्ययम् ।", "23071": "<<कृत्यानां कर्तरि वा>> - कृत्यानाम् ।कर्तृकर्मणोः॑ इति नित्ये प्राप्ते विभाषेयम् । सेव्य इति ।षेवृ सेवायाम् , ऋहलोः — ॑ इति कर्मणि निषेधार्थमिदम् ।गुणकर्मणि वेष्यते ॑ इति तूभयप्राप्तिरहितस्थले नेताऽआरस्येत्यादौ चरितार्थमिति दिक् । तुल्यार्थेः । शेषषष्ठआं प्राप्तायां विकल्पेन तृतीया अनेन विधीयते, तया मुक्ते षष्ठएव भवेत्तदाह -पक्षे षष्ठीति । बहुवचननिर्देशादेव पर्यायग्रहणे सिद्धे॒तुल्यार्थैः॑ इत्यर्थग्रहणं पदान्तरनैरपेक्ष्येण ये तुल्यार्थास्तेषां ग्रहणार्थं, तेन गौरवि गवय इत्यादौ नेत्याहुः । कथं तर्हितुलां यदारोहति दन्तवाससा॑ इति कालिदासः,स्फुटोपमं भूतिसितेन शम्भुना॑ इति माघश्च । उच्यते — ॒सहयुक्तेऽप्रधाने॑ इति तृतीया । न चात्र सहशब्दयोगो नेति शङ्क्यम्, विनापि तद्योगं तृतीयेत्यभ्युपगमात् । वेति वर्तमानेऽन्यतरस्याङ्ग्रहणमुत्तरसूत्रे चकारेण स्वस्यानुकर्षणार्थम् । अन्यथा हि तृतीयैवानुकृष्येत, संनिहितत्वात् ।", "23072": "<<तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम्>> - तुल्य इति । तुलया संमितस्तुल्यः ।नौवयोधर्म — ॑इत्यादिना यत् । तुला उपमा वेति । तोलनं तुला । अस्मिन्नेव सूत्रे णिलुगङोर्निपातनात्साधुरिति माधवः । उपमितिरुपमा ।आतश्चोपसर्गे॑इत्यङ् ।", "23073": "<<चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः>> - हितमिति ।हितयोगे च॑ इत्यनाशिषि चरितार्थमित्याशिष्ययं विकल्प इथि भावः । व्याख्यानादिति । सूत्रेऽर्थशब्दोऽपि पृथङ् निमित्तं, तथा च द्वन्द्व एवाऽयं न त्वर्थशब्देन बहुव्रीहिरिति भावः । इति षष्ठी ।", "24001": "<<द्विगुरेकवचनम्>> - द्विगुरेकवचनम् । वक्तीति वचनम् । बाहुलकात्कर्तरि ल्युट् ।सामान्ये नपुंसकम् । द्विगुः समास एकर्थप्रतिपादको भवतीत्यर्थः । न च वस्तुतोऽनेकार्थस्यैकार्थत्वं कथंचिदुपपद्यत इति सामर्थ्यादतिदेशः संपद्यत इत्याह — एकवत्स्यादिति ।समाहारे॑इति तूपसङ्ख्यानाल्लभ्यते । समाहारे यो द्विगुस्तदर्थ एकवदित्यवयः । समाहारे किम् । तद्धितार्थे माभूत् । पञ्चसु कपालेषु संस्कृताः पञ्चकपालाः, पञ्चभिर्गोभिः क्रीताः पञ्चगवः पटाः । पञ्चगवे पञ्चगवानीत्यत्र तु प्रथम् द्विगर्थस्यैकवद्भावे कृते योऽयमेकशेषे कृते द्विगर्थसमुदायस्तस्याऽद्विगर्थत्वाद्बहिरङ्गत्वाच्चैतवद्भावो न भवतीति स्थितमाकरे । यदातद्धितार्थ॑इति सूत्रेसमाहारे॑इति कर्मसाधनस्तदा समाह्मतप्रधानो द्विगुरिति बहुत्वे प्राप्तेऽनेन एकवद्भावः क्रियते । यदा तु भावसाधन एव समाहारस्तदा समूहप्रधानत्वाद्द्विगोः, समूहस्य चैकत्वात्सिद्धमेकत्वमिति नास्य प्रयोजनम् । न चस नपुंसक॑मिति नपुंसकत्वार्थमेकत्वविधानमितिवाच्यं, समुदायवाचकेषुसामान्ये नपुंसक॑मित्यभ्युपगमे बाधकाऽभावादित्याहुः । वस्तुतस्तुतद्धितार्त॑इति सूत्रे समाहार इति भावे घञ्न तु कर्मणि ।पञ्चगव॑मित्यत्र पञ्च गव#ः समाह्मता इत्यर्थाभ्युपगमे समाह्यियमाणानां बहुत्वेन एकवचनानुपपत्तेः । न चद्विगुरेकवचन॑मिति सूत्रान्नैवमिति वाच्यम्, पञ्चखट्वीत्यसिद्धेः । तत्र हि पञ्च खट्वाः समाह्मताः, पञ्चसु खट्वासु समाह्मतास्वित्येवं विग्रहसंभवेन नियतविभक्तित्वाऽभावादेविभक्ति चापूर्वनिपाते इत्यप्रवृत्तेरनुपसर्जनत्वात्गोस्त्रियो॑रिति ह्रस्वो न स्यात् । ततश्चआबन्तो वे॑ति स्त्रीत्वपक्षेद्विगोः॑इत्यदन्तलक्षणो ङीब्न स्यात् । भावसाधनत्वे त्वेकविभक्तित्वादुपसर्जनत्वमव्याहतमेव । समाहारापेक्षया नियमेन वर्तिपदानां षष्ठन्तत्वात्, तथा च पञ्चखट्वीत्यादिरूपं निर्बाधमेवेति दिक् । स नपुंसकमिति । एतस्यार्थो मूल एव स्फुटीभविष्यति ।", "24002": "<<द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्>> - द्वन्द्वश्चप्राणि । प्राणितूर्यसेनानामङ्गानीति बहुवचनान्तेनाऽङ्गशब्देन षष्ठीसमासः । अङ्गशब्दश्च प्रत्येकमन्वेति । तेन प्राण्यङ्गानां प्राण्यह्गैरेव, तूर्याङ्गेरैव, सेनाङ्गैरेव यो द्वन्द्वः स एकवद्भवति न तु व्यतिरेकेण । तेनेह न — मार्दङ्गिकाआआरोहौ । अत्र प्राणिसेनयोरङ्गं नामाऽवयवः । तूर्यस्य त्वङ्गं नामोपकारकं बोध्यम् । एषां द्वन्द्व इति । प्राण्यङ्गानां द्वन्द्वः, तूर्याङ्गानां द्वन्द्वः, सेनाङ्गानां द्वन्द्व इत्यर्थधः ।द्विगुरेकवचन॑मित्यत एकवचनं वर्तते । तत्रैकं वक्तीति व्युत्पत्त्या एकत्वविशिष्टः समाहाररूपो योऽर्थस्तत्प्रतिपादकः स्यादित्यर्थं मन्वानः फलितमाह — एकवत्स्यादिति । पाणिपादमिति । यद्यप्यत्रजातिरप्राणिना॑मित्येव सिद्धं, तथापि द्रव्यप्राधान्येऽपि भवत्विति प्राणिग्रहणमित्येके । प्राणिपणवाविति व्यतिकरे मा भूदिति नियमार्थं वचनमित्यन्ये । मार्दङ्गिकेति । मृदङ्गवादनं शिल्पमस्येत्यर्थेतदस्य शिल्प॑मिति ठक् । एवंपाणविक॑इत्यपि । रथिकाआआरोहमिति । रथेन चरन्तीति रथिकाः ।पर्पादिभ्यः ष्ठ॑न्निति ष्ठ्न् । ते चाआरोहाश्चा तेषां समाहारः । ननुचार्थे द्वन्द्वः॑इत्यनेन समाहारद्वन्द्वः सिद्धः तस्य चैकत्वादेकवचनमपि सिद्धमिति किमनेनेत्याशङ्क्याह — नियमार्तमिति । समाहार एवेति ।समाहारे प्राण्यङ्गादीनामेवे॑ति विपरीतनियमोऽत्र न भवति,तिष्यपुनर्वस्वो॑रिति सूत्रे बहुवचनग्रहणात् । तद्धि समाहारे एकवचनस्य द्विवचनं मा भूदिति कृतम् । अन्यथातिष्यपुनर्वस्वि॑ति न स्यादिति । एवं चद्वन्द्वश्च प्राणिसूत्रेय॑ति प्रकरणबहुर्भूतानामपि लसमाहारद्वन्द्वो भवत्येव, तेनसर्वो द्वन्द्वो विभाषैकवद्भवती॑ति पठमानं नाऽपूर्वं वचनमिति ज्ञेयम् ।", "24003": "<<अनुवादे चरणानाम्>> - चरणानामिति । शाखाध्येतृवाचिनामित्यर्थः ।स्थेणोर्लुङीति वक्तव्यम् । स्थेणोरिति ।ष्ठा गतिनिवृत्तौ॑ ।इण् गतौ॑ । स्थाप्रकृतिकैण्प्रकृतिकलुङन्ते उपपदे सतीत्यर्थः । स्थेणोः किम् । अभूवन् कठकालापाः । लुङिकिम् । तिष्ठन्तु कठकालापाः । उदगादिति । इह यदा कठेषु कालापेषु च प्रतिष्ठितेषु उदितेषु चाऽऽवाभ्यां तत्र गन्तव्यमिति संकेतयित्वा तत्सङ्केतं विस्मृत्यासीनं प्रतिदमुच्यते । कठेन प्रोक्तमधीयते कठाः । वैशंपायनान्तेवासित्वाण्णिनिः । तस्यकठचरका॑दिति लुक् । अध्येत्रणस्तुप्रोक्ताल्लु॑गिति लुक् ।कलापिनोऽणं॑ ।सब्राहृचारी॑ त्याद्युपसङ्ख्यानाट्टिलोपः । यजुरिति । सूत्रे अध्वर्युशब्दो यजुर्वेदलक्षक इति भावः ।", "24004": "", "24005": "<<अध्ययनतोऽविप्रकृष्टाख्यानाम्>> - पदकेति । पदान्यधीते पदकः ।क्रमादिभ्यो वुन् । एवं क्रमकोऽपि । पदान्यधीत्यक्रमोऽद्येतव्य इति स्पष्टा प्रत्यासत्तिः । अध्यनतः किम् । पितापुत्रौ । अविप्रकृष्टेति किम् । याज्ञिकनैयायिकौ ।", "24006": "<<जातिरप्राणिनाम्>> - जातिर । जातिवाच्यवयवकद्वन्द्वोऽपि जातिरित्युपचर्यत इत्याशयेनाह — जातिवाचिनामिति । विट्शूद्रा इति । जातिप्राधान्येऽपि बहुवचनमुपपद्यते,जात्याख्यायामेकस्मि॑न्निति विधानात् । तेनात्र व्द्यङ्गविकलं नेति भावः । द्रव्यजातीयानामेवेति ।अप्राणिना॑मिति पर्युदासात्नञिवयुक्त न्यायेन द्रव्यजातीयानामेकवद्भावो, न तु गुणक्रियाजातीयानामिति भावः । जातिः किम् । नन्दकपाञ्चजन्यौ । संज्ञाशब्दावेतौ । जातिप्राधान्य एवेति । एतच्च जातिग्रहणाल्लब्धम् । अन्यथा पर्युदासेनैव जात्युपसर्जनद्रव्यवाचिनोऽपि ग्रहणोपपत्तौः किं तेनेति भावः । द्रव्यविशेषेति । नन्वेवंरञ्जिता नु विविधास्तरुशैलाः॑इति भारविप्रयोगः सङ्गच्छत एवेति किमिति तरुसहिताः शैला इति मनोरमायां समर्थितमिति चेत् । अत्राहुः — सकलतरुशैलरञ्जनं तत्र विवक्षितं, न तु केषांचित्तरुशैलविशेषणामिति जातिप्राधान्यादेकवद्भावमशङ्क्यो तथोक्तमिति । बदरामलकानिति ।फले लु॑गिति लुक् ।लुक्तद्धितलुकी॑ति स्त्रीप्रत्ययस्यापि लुकि फलत्वजात्युपसर्जनद्रव्यवचनावेतौ ।विभाषा वृक्षमृगे॑ति सूत्रे बदराणि चामलकानि च बदरामलकम् ।जातिरप्राणिना॑मित्येकवद्भाव॑इति वक्ष्यति, तत्तु नाऽनेन ग्रन्थेन व#इरुध्यते ।फलत्वजातिवाचिनां बहुवचनान्तानामेव द्वन्द्व एकवद्भवति, न त्वेकवचनान्तां द्वन्द्व॑ इतिफलसेनावनस्पती॑ति वार्तिकोक्तनियममुपेत्य तत्प्रवृत्तेः ।", "24007": "<<विशिष्टलिङ्गो नदी देशोऽग्रामाः>> - विशिष्टलिङ्गो । सूत्रे चत्वारोऽपि शब्दा अवयवधर्मेणाऽवयविद्वन्द्वे वर्तन्त इत्याशयेनाह -ग्रामेत्यादि । इहनदीवाचिनां द्वन्द्वः,देशवाचिनां द्वन्द्व॑ इति वाक्यभेदेन व्याख्येयम् । तेनगङ्गाकुरुक्षेत्रे॑इत्यत्र न भवति । देशशब्देनात्र प्रसिद्ध एव जनपदो गृह्रते, नद्याः पृथग्ग्रहणात् । तेन पर्वतानां न, कैलासश्च गन्धमादनं च कैलासगन्धमादने । नदीदेश इति किम् । कुक्कुट मयूर्यौ । विशिष्टपदस्यऽर्थमाह -भिन्नलिङ्गानामिति । विपूर्वो हि शिषिर्भेदार्थः । अतएवविशेषणं विश्ष्येणे॑ति सूत्रे भेदकं भेद्येनेति व्याख्यातम् । समाहारे द्वन्द्वः स्यादिति । निष्कर्षाभिप्रायेणेयमुक्तः । यथाश्रुताभिप्रायेण तुद्वन्द्व एकवत्स्या॑दिति केषु चित्सूत्रेषु व्याख्यायत इति ज्ञेयम् । उद्ध्येरावतीति । उव्द्यो नदः, सोऽपि नदीविशेषत्वान्नदीशब्देन गृहीतः । एवं शोणोऽपि ।अग्रामा इत्यत्र नगरप्रतिषेधो वक्तव्यः॑ । तेनमथुरापाटलिपुत्र॑मित्यत्र निषेधो न भवति, उभयोरपि नगरत्वात् ।", "24008": "<<क्षुद्रजन्तवः>> - क्षुद्र । अपचितपरिमाणत्वं क्षुद्रत्वम् । तच्चापेक्षिकत्वादनवस्थितम् । यच्च स्मर्यते -॒क्षुद्रजन्तुरनस्थिः स्यादथ वा क्षुद्र एव यः । शतं वा प्रसृतौ येषां, केचिदानकुलादपि॑इति । तत्र सर्वपक्षसाधारण्येनोदाहरति — यूकालिक्षमिति । आ नकुलादिति । नकुलपर्यन्ता इत्यर्थः ।", "24009": "<<येषां च विरोधः शाश्वतिकः>> - येषां च विरोधः । विरोधो वैरं, न तु सहानवस्थानम् । तेनेह न -छायातपौ ।शआ॑दित्यव्ययं त्रैकाल्ये वर्तते, तत्र भवः शाआतिकः ।कालाठ्ठञ् । अतएव निपातनात्इसुसुक्तान्ता॑दिति कादेशः,अव्ययानां भमात्रे॑इतीति टिलोपश्च न । शाआतिकः किम् । देवासुरैरमृतमम्बुनिधिर्ममन्थे॑ । तेषां ह्रमृतादिप्रयुक्तः कादाचित्को विरोधो न तु नित्यः, मन्थनप्रवृत्तिकाले तद्विरहात् । परत्वादिति । पशुशकुनिद्वन्द्वस्यावकाशो — गोमहिषं गोमहिषाः । हंसचक्रवाकं हंसचक्रवाकाः ।येषां चे॑त्यस्यावकाशः — मार्जारमूषकं श्रमणब्राआहृणमित्यादौ ज्ञेयः । चकारेण बाध्यत इति । चकारः पुनर्विधायक इति भावः ।", "24010": "<<शूद्राणामनिरवसितानाम्>> - शूद्राणां ।त्रैवर्णिकेतरमनुष्यपरः शूद्रशब्दो न तु शूद्रत्वजातिपरः,अनिरवसिताना॑मिति निषेधात् । पात्रादिति । यैर्भुक्ते॒भस्मना शुध्यते कांस्य॑मित्यादिस्मृत्युक्तसंस्कारेणापि पात्रं न शुध्यति तेषामित्यर्थः ।", "24011": "<<गवाश्वप्रभृतीनि च>> - गवाआ । यथोच्चारितानीति । गणपाठे पाणिनिना यथा पाठितानि तथैव साधूनीत्यर्थः । तेनाऽवङः पाक्षिकत्वाद्यदा नावङ् तदा उत्तरसूत्रेण विकल्पो न भवति । गोअआम् ।अपशवो वा अन्ये गोअओभ्यः, पशवो गोअआआः॑ । गवाआमिति । इह पशुद्वन्द्वे विभाषा प्राप्ता । दशीदासमिति । अत्रपुमान्स्त्रिये॑त्येकशेषो बाध्यते ।", "24012": "<<विभाषा वृक्षमृगतृणधान्यव्यञ्जन- पशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम्>> - बिभाषा । विशेषणामेवेति । अयं भावः — वृक्षादिशब्दैः प्रत्येकं द्वन्द्वो विशेष्यते, न चैको वृक्षशब्दो द्वन्द्वः , न च द्वयोः सह प्रयोगः,सरूपाणा॑मित्येकशेषात् । नापि पर्यायाणां,विरूपाणामपि समानार्थाना॑मित्येकशेषात् । नापि वृक्षश्च धवश्चेत्यादिसामान्यविशेषयोः, अनभिधानात्तत्र द्वन्द्वस्यैवाऽभावादिति सर्वप्रकरणशेषतया नियममाह ।फलेसेनावनस्पतिमृगशकुनिक्षुद्रजन्तुधान्यतृणानां बहुप्रकृतिरेव द्वन्द्व एकवदिति वाच्यम् । फलसेनेत्यादि । फलसेनादीनां द्वन्द्वोविभाषा वृक्षमृगे॑त्यनेन, लक्षणान्तरेण वा एकवद्भवन्बहुप्रकृतिरेव एकवद्भवतीत्यर्थः । बहवो वर्तिपदार्थाः, बहुवचनान्ता वा — प्रकृतिः=कारणं यस्य स बहुप्रकृतिः । बदराणि चामलकानि चेति ।जात्याख्यायामेकस्मि॑न्निति वैकल्पिकं बहुवचनम् । बदरामलके इति । जातिप्राधान्येऽप्येकवचनान्तर्योद्वन्द्व इति नास्त्येकवद्भाव इति भावः । पशुग्रहणमिति ।विकल्पार्थ॑मित्यनुषज्यते ।चार्थे द्वन्द्वः॑इत्यनेनैव सिद्धे मृगशकुनिग्रहणं व्यर्थमित्याशङ्ख्याह — मृगाणां मृगैरेवेत्यादि । नपुंसकत्वार्थमिति । अयं भावः — पशुत्वाद्विकल्पे सिद्धे अआवडवग्रहणं प्रतिपदविधानार्थम् । तेनाआवडवमित्येकवद्भावपक्षेपूर्ववदआवडवौ॑ इत्यतब्दाधित्वास नपुंसक॑मित्येतदेव भवति ।स॑ इति तच्छब्देन ह्रेकवद्भावभाजं परामृश्य विधीयमानं नपुंसकत्वमेकवद्भाववदेव प्रतिपदविहितं भवति । तथा च प्रतिपदेक्तस्य बलीयस्त्वान्नपुंसकत्वं सिध्यतीति ।", "24013": "<<विप्रतिषिद्धं चानधिकरणवाचि>> - विप्रतिषिद्धम् । अधिकरणमिह द्रव्यम् । चकारो विभाषानुकर्षणार्थः । तदेतव्द्याचष्टे विरुद्धार्थानामित्यादि । उदजाहरणं तु -शीताष्णं, शीतोष्णे, सुखदुःखं, सुखदुःखे इत्यादि । विरोधोऽत्र सहानवस्थानलक्षणः । भवत्येवेति । विप्रतिषिद्धग्रहण #आऽभावे तु स न स्यात्,अद्रव्यवाचिनामेवे॑ति नियमादिति भावः । अनधिकरणवाचीति किम् । शीतोष्णे उदके स्तः । इह पाक्षिकः समाहारद्वन्द्वोऽपि स्यादिति दिक् ।", "24014": "<<न दधिपयआदीनि>> - न दधिपय । दधिपयसी इति । व्याञ्जनत्वाद्विकल्पः प्राप्तः । एवंमधुसर्पिषी,सर्पिर्मधुनी॑इत्यत्रापि बोध्यम् । इहब्राआहृ प्रजापती॑शिववैश्रबणौ॑इत्यादौ समाहारद्वन्द्वनिषेधमुखेनेतरेतरयोगद्वन्द्वोऽनेन व्यावस्थाप्यते । तत्साहचर्याद्दधिपयसी इत्यादवपि ततैव । तेन तत्र व्यञ्जनत्वप्रयुक्तविकल्पे निषिद्धेऽपि जातिलक्षणो नित्यमेकवद्भावोऽस्त्विति न शङ्कनीयम् । किं च नेह लक्षणविशेषे आग्रहः,एतानि नैकत्स्युः॑इत्येकवद्भावमात्रस्य निषेधात्, यथान षट्स्वरुआआदिभ्यः॑इत्यत्र ङीप्टापोरुभयोरपि निषेधसिद्धयेस्त्रियां यदुक्तं तन्ने॑ति सामान्यतो निषिध्यते इति दिक् । ऋक्सामेवाङ्मनसे इति ।अचतुरे॑त्यादिनाऽत्र समासान्तोऽच्निपात्यते । अधिकरणै । समासार्थस्याश्रयोऽधिकरणं=वर्तिपदार्थः, तस्यैतावत्त्वं =परिगणननियमः, तस्मिन्गन्यमान इति व्याचष्टे — द्रव्यसङ्ख्यावगमे इति ।", "24015": "<<अधिकरणैतावत्त्वे च>> - नियमो न स्यादिति । न चेह प्राण्यङ्गत्वात्प्राप्तस्यएकवदेवे॑ति नियमस्य प्रतिषेधेऽपिचार्थे द्वन्द्वः॑इति समाहारेद्वन्द्वः स्यादिति वाच्यं,सविशेषणानां वृत्तिर्ने॑त्यभ्युपगमेन समाहारेद्वन्द्वस्य प्राप्तयभावात् । न चोक्तन्यायेनेतरयोगद्वन्द्वोऽपि न स्यादिति वाच्यं,सामान्याऽप्रयोगे॑इति लिङ्गत्प्राधानस्य सापेक्षत्वेऽपि तदभ्युपदमात् । उक्तं हि भाष्ये — भवति वै प्रधानस्य सावेक्षस्यापि वृत्तिः॑इति । स्यादेतत् — समाहारद्वन्द्वस्याऽत्र प्राप्त्यभावेद्वन्द्वश्च प्राणितूर्ये॑ति नियमाऽप्रवृत्त्या इतरेतरयोगद्वन्द्वो निर्बाध एवेति सूत्रमिदमकिंचित्करमिति चेदत्राहुः — ॒नियमसूत्राणां निषेधमुखेन प्रवृत्ति॑रिति पक्षेद्वन्द्वश्च प्राणितूर्ये॑ति सूत्रं केवलमितरेतरयोगद्वन्द्वनिषेधपरम् । तथा चेतरेतरयोगनषेधस्य निषेधद्वारा इतरेतरयोगद्वन्द्वप्रापणार्थमिदमिति । एवं च निषेधमुखप्रवृत्तिपक्षस्य ज्ञापनायेदमिति फलितमिति दिक् ।", "24016": "<<विभाषा समीपे>> - विभाषा समीपे । यद्यपीहसमाहारद्वन्द्व एवे॑ति व्याख्यानेऽपि न क्षतिस्तथापि पूर्वसूत्रे नियमनिषेधस्योक्तत्वात्तदनुरोधेनाह नियमो वा स्यादिति । उपदसं दन्तोष्ठमिति । एकवद्भावपक्षेऽव्ययीभावस्यैवानुप्रयोगः । यदि तु बहुव्रीहिस्तदाउपदशस्य दन्तोष्ठस्ये॑ति षष्ठी स्यात्,उपदशं दन्तोष्ठस्ये॑त्येवेष्यत इत्याकरः ।दन्तोष्ठस्य दश॑मित्यभिप्रायेण षष्ठआं कृतायामपि उपदशशब्देन षष्ठी नेष्यते । अतो बहुव्रीहेर्नानुप्रयोगः, किं त्वव्ययीभावस्यैवेति तदाशयः ।", "24017": "<<स नपुंसकम्>> - स नपुंसकम् ।अनन्तरस्ये॑ति न्यायोऽत्र नाश्रीयते, तथात्वे द्विहुसङ्ग्रहो न स्यादित्याशयेनाह -द्विगुद्र्वन्द्वश्चेति.अत्र व्याचक्षते — प्रकरणादेवानुवाद्यलाभेस॑ ग्रहणमेतत्प्रकरणानुपात्तस्यापि समाहारद्वन्द्वस्य सङ्ग्रहार्थम्, तेनसञ्ज्ञापरिभाष॑मित्यादि सिद्धमिति । पञ्चगवमिति ।तद्धितार्थ॑इत्यादिना समाहारे द्विगुः । दन्तोष्ठमिति ।द्वन्द्वश्च प्राणी॑त्यादिना समाहारे द्वन्द्वः । आबन्तो वा । पञ्चखट्वमिति नपुंसकह्रस्वः । पञ्चखट्वीति । उपसर्जनह्रस्वस्वत्वे सत्यदन्तत्वात्द्विगो॑रिति स्त्रीत्वपक्षे ङीप् ।अनो नलोपश्च वा द्विगुः स्त्रियाम् । अनो नलोपश्चेति ।उत्तरपदत्वे चापदादिविधौ॑इति प्रत्ययलक्षणप्रतिषेधादप्राप्ते नलोप इति भावः । इह वाशब्दः स्त्रियामित्यनेन संबध्यते, नतु पूर्वेण । तेन नित्यो नलोप इत्याह — पञ्चतक्षमित्यादि ।पात्राद्यन्तस्य न । पात्राद्यन्तस्येति ।स्त्रीत्व॑मिति शेषः । आकृतिगणोऽयम् ।पुण्यसुदिनाभ्यामह्नः क्लीबतेष्टा । सुदिनाहमिति । प्रशस्तपर्यायः सुदिशब्दः,सुदिनासु समासु कार्यमेतत्प्रविचिन्वीत विशेषतः स्वयं च॑इत्यादिप्रयोगात् ।पथः सङ्ख्याव्ययादेः । पथः सङ्ख्याव्ययेति । संख्याव्ययरूपो य आदिस्तस्मादित्यर्थः । त्रपथं विपथमिति, -॒ऋक्पूरब्धूः॑इत्यप्रत्ययः । सुपन्थाः अतिपन्था इति ।न पूजना॑दिति समासन्तनिषेधः । कथं तर्हिव्यध्वो दुरध्वा विपथः तदध्वा कापथः समाः॑इत्यमर इति चेत्, प्रमाद एवायमिति बहवः । मनोरमायां तुपथे गतौ॑इत्यस्मात्पचाद्यचि पथति व्याप्नोतीति व्युत्पादितः पथशब्दोऽस्ति । तथा च त्रिकाण्डशेषः -॒वाटः पथश्च मार्गः स्या॑दिति । तेन पथशब्देन समासे पुंस्त्वमुपपन्नम् । न चैवं विपथसिद्धावपि कापथो न स्यात्कादेशस्य दुर्लभत्वादिति वाच्यम्,ईषदर्थे चे॑ति तत्सम्भवात्, कुत्सायामर्थतः पर्यवसानादिति स्थितम् । केचित्तु -॒पथः संख्ये॑ति वार्तिके कृतसमासान्तस्यैव ग्रहणं न तु पचाद्यजन्तस्येत्यत्र बीजाऽभावाद्विपथः कापथ इति प्रयोगो दुरुपपाद एवेत्याहुः । अत्र माधवः — ॒परवल्लिङ्गापवादत्वात्तत्पुरुष एवेदं प्रवर्तते नान्यत्र । विपथा नगरी । बहुव्रीहिरयम् । पन्तानमतिक्रान्ता अतिपथा । इहापि न,द्विगुप्राप्ते॑त्यादिना परवल्लिङ्गतायाः प्रतिषेधादिति । सामान्ये नपुंसकम् । सामान्ये नपुंसकमिति । अनियतलिङ्गविषयकमिदम् । तेनादिं पचति, प्रातरादिरिति पुंस्त्वमेव । मृदु पचतीति । क्रियाविशेषणत्वाद्द्वितीयान्तम् । धातुपात्तभावनां प्रति हि फलांशः कर्मीभूतः । तथा च फलसामानाधिकरण्येद्वितीया । अतएव सकृल्ल्वावित्यादौ कारकपूर्वकत्वाद्यण् । यत्र तु भावनां प्रति करणतया धात्वर्थविशेषोऽन्वेति तत्र तद्विशेषणानां तृतीयान्ततैव,ज्योतिष्टोमेन यजेते॑त्यत्र यथा । एतच्चतरणे यजः॑ इति सूत्रे वृत्तिपदमञ्जर्योः स्पष्टम् ।", "24018": "<<अव्ययीभावश्च>> - नपुंसकं स्यादिति । एतच्च॒स नपुंसक॑मित्यतो लभ्यते । समीप इति.॒अव्ययीभाव॑ इत्यन्वर्थसंज्ञाश्रयणात्सप्तमीरूपाव्ययार्थप्राधान्य एवायं समासः । समीपवर्तिप्रधान्ये तुसंख्ययाव्ययासन्ने॑ति बहुव्रीहिर्वक्ष्यति -॒उपदशाः॑इति यथा । विधानसामर्थ्यादिति । ननुसमया ग्राम॑मित्यादौ द्वितीयाविधानसामर्थ्यान्मास्त्वव्ययीभावः,आराद्वनादित्यत्र तु भवेदेव ।अन्यारा॑दिति पञ्चमीविधानस्य दूरार्थकाराच्चब्दयोगे सावकाशत्वादिति चेत् । अत्र केचिदुत्प्रेक्षयन्ति — ॒दूरान्तिकार्थैः षष्ठन्यतरस्या॑मिति षष्ठीपञ्चम्योः प्राप्तयोस्तदपवादतया पञ्चम्येव तेन विधीयते । तथा चाऽन्तिकार्थकाऽऽराच्छब्दयोगे षष्ठपवादतया पञ्चमीविधानं निरवकाशमेवेति तत्समाथ्र्या द्वययीभावो नेत्युक्तिः सम्यगेवेति । तदपरे न क्षमन्ते । अन्तिकार्थाऽऽराच्छब्दयोगे विशिष्य पञ्चमीविधानाऽभावात्,अन्यारा॑दिति सूत्रस्य त्वन्यत्र कृतार्थत्वाच्च, सामीप्ये आराद्वनमित्यव्ययीभावो दुर्वार एव॑इति । एवं हि व्याकुर्वतां पदस्येत्यपकर्षाऽभावे भृशार्थे सावकाशोऽयं यङ् पौनःपुन्ये परेण द्विर्वचनेन बाध्येतेतिनित्यवीप्सयो॑रिति सूत्रस्थमनोरमाग्रन्थोऽनुकूल इति दिक् । सुमद्रमिति । उत्तरपदार्थप्राधान्ये तुकुगती॑ति तत्पुरुषः -समृद्धा मद्राः सुमद्राः । दुर्यवनमिति । न चार्थाऽभावेनेह सिद्धिः, येन समस्यते तदीयार्थभावे तत्र समासस्वीकारात् । न चेह यवनानामभावो, येनार्थाऽभावे समासः स्यात्, किंतु तदीयाया ऋद्धेरभाव इति । निर्मक्षिकमिति । संसर्गाऽभावेऽयं समासो, न त्वन्योन्याऽभावेऽपि । अर्थग्रहणसामर्थ्येन समस्यमानपदजन्यप्रतीतिविशेष्यविरोधिन एवाऽभावस्य ग्रहणात् । अन्योन्याऽभावस्य तु प्रतियोगितावच्छेदकेनैव विरोधात्, तस्य च प्रकारत्वेऽप्यविशेष्यत्वात् । ये तु वदन्तिघटः पटो नेत्यत्रापि पटत्वात्यन्ताऽभाव एवार्थः, आकृत्यधिकरणन्यायेन जातेः पदार्थत्वा॑दिति, तेषामपि मते अर्थग्रहणसामर्थ्यादेवाक्षिप्तधम्र्यभावेऽयं समासो न तु धर्माभाव इति न दोषः । अत्यय इथि । स्पष्टार्थमेतत् । अर्थाभावेन गतार्थत्वात् । अर्थाऽभावेन संसर्गाऽभावो विवक्षितो न त्वन्योन्याभावः । घटः पटो नेत्यत्रातिप्रसङ्गादिति निष्कर्षात् । संप्रति नेति ।संप्रतीत्य॑व्ययमिदानीमित्यर्थे ।एतर्हि संप्रतीदानी॑मित्यमरोक्तेः । तच्चाधिकरणशक्तिप्रधानत्वात्क्रियापदेनैवान्वयार्हम् । निषेषोऽपि क्रियाया एवोचितः । तदेतदाह — युज्यत इति । असंप्रतीति सौत्रप्रयोगे तु युजिक्रियान्तर्भावेण नञ्समास इति बोध्यम् । यत्तु प्रसादकृतोक्तम् — ॒असंप्रति । संप्रत्ययभाव इत्यर्थः । अनेन उपयोग्यवस्तुनो यो वर्तमानः कालः स निषिध्यत॑इति । तन्न । अधिकरणशक्तिप्रधानस्य क्रियायैवान्वयार्हस्य निषेधं प्रति प्रतियोगित्वेनान्वयस्याऽयुक्तत्वात् । न हिभूतले घटो नास्ती॑त्यनेन भूतलं निषिध्यत इति कश्चिदभ्युपैति, येनात्र वर्तमानकालनिषेधो युक्त्यर्हः स्यात् । इतिहरीति । स्वरूपपरेण षष्ठन्तेन हरिशब्देन सह प्रकाशार्थस्येतिशब्दस्य समासः । ततः पश्चादिति । सति चात्राव्ययीभावे पश्चाच्छब्दस्य पूर्वमिपातः स्यादिति भावः । भाष्यप्रयोगादिति ।अनेकमन्यपदार्थे॑इति सूत्रेसर्वपश्चा॑दिति भाष्यप्रयोगाच्चेत्यपि बोध्यम् । प्रत्यर्थमिति । वृत्तौ वीप्सान्तर्भावान्न द्विर्वचनम् । प्रतिशब्दस्येति । यत्त्वाहुः — ॒ग्रामस्य वृक्षं वृक्षं प्रतीत्यत्र सापेक्षत्वेन समासाऽभावे द्वितीयाविधानं सावकाश॑मिति । तन्न । नित्यसमासेषुसविशेषणानां वृत्तिर्ने॑त्यस्याऽप्रवृत्तेः । आनुपूर्व्येणेति । अनुपूर्वस्य भाव आनुपूर्व्यं । ब्राआहृणादित्वात् ष्यञ् ।", "24019": "<<तत्पुरुषोऽनञ् कर्मधारयः>> - तत्पुरुषोऽनञ् । नञ्समासकर्मधारयभिन्नस्तत्पुरुषो वक्ष्यमाणकार्यभाग्भवतीति सूत्रार्थः ।", "24020": "", "24021": "<<उपज्ञोपक्रमं तदाद्याचिख्यासायाम्>> - उपज्ञो । उपज्ञायत इत्युपज्ञा ।आतश्चोपसर्गे॑इति कर्मण्यङ् । उपक्रम्यत इत्युपकमः । कर्मणि घञ् ।नोदत्तोपदेशस्ये॑ति वृद्धिप्रतिषेधः । उपज्ञा च उपक्रमश्चेति समाहारद्वन्द्वः । स चानुवर्तमानस्य तत्पुरुषस्य विशेषणम् । तच्छब्देन उपज्ञोक्रमौ परामृश्यते । तदेतत्सकलमभिप्रेत्याह -उपज्ञान्त इत्यादि । आख्यातुमिच्छा आचिख्यासेतीच्छसना इह विवक्षैव शब्दप्रवृत्तौ नियामिका, न चु वस्तुस्थितिरिति ज्ञाप्यते । तेनत्वदुपक्रमं सौजन्य]मित्याद्यपि सिध्यति । पाणिनेरिति । कर्तरि पष्ठी । नन्दोपक्रममिति । नन्दस्योपक्रममिति विग्रहः ।", "24022": "<<छाया बाहुल्ये>> - छाया बाहुल्ये । बाहुल्ये सति या छाया तद्वाची यश्छायान्तस्तत्पुरुष इत्यर्थः । इह कस्य बाहुल्य इत्यपेक्षायामावरकद्रव्यनिमित्तत्वाच्छायायास्तद्बाहुल्यैति गम्यते । तच्चावरकं पूरीवपदार्थभूतमेवेत्याशयेनाह -पूर्वपदार्थबाहुल्ये इति । पूर्वपदार्थबाहल्ये किम् । कुडस्य छाया कुडछाया । प्रश्लेषो बोध्य इति । केचित्तु — ॒इक्षुच्छायनिषादिन्यः॑इत्येवं पठन्ति ।", "24023": "<<सभा राजाऽमनुष्यपूर्वा>> - सभा । इनसभमित्यादि । इनशब्दोऽत्र राजपर्यायः, ईआरशब्दश्च । ननुस्वं रूप॑मिति वचनाद्राजशब्दस्यैव ग्रहणं युक्तं, नपर्यायस्येत्यत आह — ।पर्ययस्यैवेष्यते । पर्यायस्यावेष्यत इति एवकारेण स्वरूपस्य विशेशणां च निरासः । कथं तर्हिनृपतिसभामगमन्न वेपमानः॑इति कीचकवधे । अत्र केचित् — ना पतिर्यस्यां सभायामिति बहुव्रीहौ कृते पश्चात्कर्मधारयः ।अनञ्कर्मधारयः॑इत्युक्तेर्न क्लीबत्वमित्याहुः । रक्षितस्त्वाह -गजपतिवन्नृपतिरपि राजविशेषस्तेनात्र नानुपपत्तिरिति ।", "24024": "<<अशाला च>> - अशाला च । शालावाची सङ्घातवाची च सभाशब्दस्तत्र राजमनुष्यपूर्वत्वे शालावाचिनः क्लीबत्वमुक्तम्, अनेन तु सङ्घातवाचिनो विधीयत इत्याह -सङ्घातार्थेति ।", "24025": "<<विभाषा सेनासुराछायाशालानिशानाम्>> - विभाषा सेना । प्राथमार्थे षष्ठीति सेनादिभिस्तत्पुरुषो विशेष्यते । विशेषणेन तदन्तविधिस्तदाह — एतदन्त इति । आनिशमिति । कृष्णचतुर्दशी । तस्यां किल केचिच्छ्वान उपवसन्ति । एतच्च शावरभाष्ये तिर्यगधिकरणे स्पष्टम् ।तत्पुरुष॑इत्याद्यधिकारसूत्रस्यात्रैव प्रयोजनं, न तुसंज्ञायां कन्थोशीनरेषु॑इत्यादिपञ्चसूत्र्याम् । अतत्पुरुषस्यच नञ्समासस्या कर्मधारयस्य च तत्राऽसम्भवादित्याकरे स्थितम् । तथैव प्रत्युदाहरति — — दृढसेन इत्यादि । ननु बहुव्रीहौ विशेष्यनिन्घता न्याय्यैवेति किमनेन तत्पुरुषग्रहणेन । मैवम् । न्यायापेक्षया वचनस्य बलीयस्त्वात् । किं चाऽसति तद्ग्रहणे द्वन्द्वे नपुंसकता स्यात्परवल्लिङ्गापवादत्वादस्य प्रकरणवादत्वादस्य प्रकरणस्येति दिक् । इति तत्पुरुषः॥", "24026": "<<परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः>> - परवल्लिङ्गम् । इतरेतरयोगे द्वन्द्वोऽत्र गृह्रते न समाहारे द्वन्द्वः,स नपुंसक॑मित्यपवादस्य वक्ष्यमाणत्वात् । सूत्रेद्वन्द्वतत्पूरुषयो॑रिति न सप्तमीद्विवचनम्, तथात्वे द्वन्द्वे तत्पुरुषे च यत्परपदं तद्वल्लिङ्गं पूर्वपदस्यातिदिश्येत, परपदस्य संबन्धिशब्दत्वेन पूर्वंपदाक्षेपकत्वात्, ततश्च मयूरी कुक्कुटावित्यत्र पूर्वपदे ईकारनिवृत्तिप्रसङ्गः । कुक्कुटमयूर्यौ, अद्र्धपिप्पलीत्यादौ तु पूर्वपदे स्त्रीप्रत्यय उत्पद्येत । किं तु षष्ठीद्विवचनमित्याशयेनाह — एतयोरिति । द्वन्द्वतत्पुरुषार्थयोरित्यर्थः । एवं चानुप्रयोगेऽपि तदेव लिङ्गं सिद्धम् । उपमेये षष्ठभ्युपगमाद्वतिरपि षष्ठन्तादेवेत्याशयेनाह — परपदस्येवेति । भाष्ये तुलिङ्गमशिष्यं, लोकाश्रयत्वाल्लिङ्गस्ये॑ति प्रत्याख्यातमिदं सूत्रम् । अस्मश्च प्रत्याख्याने तुल्यन्यायत्वाल्लिङ्गनुशासनं सर्वमेव प्रत्याख्यातं, तथापि तत्प्रौढिवादमात्रम् । अन्यथा व्याकरणस्यैव वैयथ्र्याप्रसङ्गात् ।द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधो वाच्यः । गतिसमासेष्विति । गतिग्रहणं प्रादीनामुपलक्षणं प्रादीनामुलक्षणं, मुख्यस्य गतेरसंभवादित्याशयेनोदाहरति -निष्कौशाम्बिरिति । अतन्त्रमिति । अत्र च लिङ्गंपूर्वव॑द्ग्रहणम् । अन्यथा निपातनादेव सिद्धे किं तेनेति भावः । इह समासार्थस्य वा पूर्ववल्लिङ्गातिदेशः, उत्तरपदार्थस्य वा, उभयथाप्यआवडवौ शोभनावित्यनुप्रयोगेऽपि पुंस्त्वं सिध्यति । ननु समासार्थस्य पुंस्त्वेऽपि स्वाश्रयस्त्रीत्वस्याऽनिवर्तनाट्टापः श्रवणप्रसङ्गः । न चातिदेशवैयथ्र्यं, शसि नत्वप्रवृत्त्या, अनुप्रयोगे पुंलिङ्गत्वलाभेन च तत्सार्थक्यादिति चेदत्राहुः — इहैव निपातनात्,अआवडवपूर्वापराधरोत्तराणा॑मित्यत्र निपातनाद्वा टापो निवृत्तिरिति ।", "24027": "", "24028": "", "24029": "<<रात्राह्नाहाः पुंसि>> - अहोरात्र इति । प्राचा तु अहोरात्रमित्युदाहृतं, तन्नेति प्रागेवोक्तम् । अत्र वदन्ति — ॒रात्राह्नाहा-॑इत्यनेन रात्रादीनामेव पुंस्त्वं विधीयते । तदन्तस्य तुपरवल्लिङ्ग॑मित्येव सिध्यति । अतएव भिन्नविषयत्वात्विप्रतिषेधे परं कार्य॑मिति न प्रवर्तते । एवं चरात्राह्नाहाः॑इति पुंस्त्वाऽप्रवृत्त्या समाहारेस नपुंसक॑मित्येव भवति, परवल्लिङ्गापवादत्वादिति । तन्न । उक्तरीत्या व्द्यहत्र्यहादावपि नपुंसकत्वप्रसङ्गात् । न चेष्टपत्तिः । द्व्यहस्त्र्यह इति प्राचाप्युदाहृतत्वेन स्वमूलग्रम्थेन सह विरोधापत्तेः ।ते तु तिंरशदहोरात्रः॑इत्यादिकोशविरोदाच्च । तस्माद्रात्र्याद्यन्तस्यैवायां पुंस्त्वविधिःद्वन्द्वतत्पुरुषयो॑रिति प्रकमणात्, तथा च भिन्नविषयात्वाऽभावात्रात्राह्नाहाः॑इति पुंस्त्व समाहारनपुंसकतां परत्वेन बाधत एव ।सङ्ख्यापूर्व रात्र क्लीबम् ।सङ्ख्यापूर्वमिति । अत्र चअपथपुण्याहौ नपुंसकौ॑सङ्ख्यापूर्वा रात्रिः॑इति लिङ्गानुशासनसूत्रं मूलम् । सङ्ख्याग्रहणेषु कृत्रिमाऽकृत्रिमन्यायो न प्रवर्ततेव्द्यष्टनः सङ्ख्याया॑मिति सूत्रेऽशीतिपर्युदासादित्याशयेनोदाहरति -द्विरात्रम् गणरात्रमिति । गणानां बहूनां रात्रीणां बहूनां रात्रीणां समाहार इति विग्रहः ।", "24030": "<<अपथं नपुंसकम्>> - अपथं नपुंसकम् । तत्पुरुष इत्येवेति । द्वन्द्व ग्रहणं तु नानुवर्तते, अयोग्यत्वादिति भावः । अपन्था इति ।पथो विभाषा॑ इति समासान्तविकल्पः । इदं सूत्रं शक्यमकर्तुम् ।पथः सङ्ख्याव्ययादेः॑इति वक्ष्यमाणवार्तिकेन गतार्थत्वात् । प्रसङ्गादाह — ।", "24031": "<<अर्धर्चाः पुंसि च>> - अद्र्धर्चा इति । इह केषांचिदर्थभेदेन व्यवस्थेष्यते । सा च व्यवस्था, -मद्यमकरन्दमाक्षिकाणां वाची मधुशब्दो द्विलिङ्गः, चैत्रादिवाची तु पुंलिङ्गः, भूतः पिशैचे द्विलिङ्गः, क्रियावचनस्तु विशेष्येलिङ्ग इत्येवं यथायथं ज्ञेया ।अद्र्धर्चाः पुंसि च ॑स नपुंसक॑मित्यनयोर्मध्येजात्याख्याया॑मिति चतुःसूत्र्याः सङ्गतिरिह चिन्त्या । बहूनां वचनं प्रतिपादनमिति व्याख्या नात्फलितोऽत्रातिदेश इत्याशयेनाह — ।", "24032": "<<इदमोऽन्वादेशेऽशनुदात्तस्तृतीयाऽऽदौ>> - इदमोऽन्वादेशे । नन्विदमोऽनुदात्तमात्पविधावपि हलि लोपेनआभ्या॑मित्यादि समीहितरूपं सिध्यति,एनयो॑रित्यत्र तु विशिष्यैनादेशो विहितः, किमनेनाऽआचनेनेत्यत आह — साकच्कार्थमिति । यद्यपीह शित्करणं व्यर्थम्, अकारस्याऽकारविधानसामर्थ्यादेव सर्वादेशासिद्धेः, तथाप्यनुदात्तत्वार्थंमेवाऽकारविधानमित्याशङ्का स्यात्तन्निवारणाय शित्करणमित्याहुओः ।अ — अ॑इति प्रश्लिष्य निर्देशे त्वनेकाल्वादेव सर्वादेशसिद्धेः सिद्ग्रहणं त्युक्तं शक्यमित्याकरः ।", "24033": "", "24034": "<<द्वितीयाटौस्स्वेनः>> - द्वितीयाटौस्सु ।इदमोऽन्वादेशे॑इत्यतःइदम॑इत्यनुवर्तते,अन्वादेश॑इति च ।एतदस्त्रतसो॑रित्यतएतद॑इत्यपि, तदाह — इदमेतदोरेनादेश इत्यादि ।अनुदात्त॑इत्यनुवर्तनादेनादेशोऽनुदात्त इति ज्ञेयः । कार्य विधातुमिति । अपूर्वं बोधयितुमित्यर्थः । ईषदर्थेक्रियायोगे मर्यादाङिविधौ च यः । एतमातंङितं विद्या॑दित्यत्र तु ईषदर्थादयो न विधीयन्ते किंत्वनूद्यते इति न तत्रैनादेशः । एतेननक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापये॑त्यपि व्याख्यातम् । भीरुत्वस्याऽनुवाद्यकत्वेन विवक्षितत्वात् ।इति मान्ताः । सुदाणिति । क्विप् । न चअनुनासिकस्य क्वी॑ति दीर्घे कर्तव्ये अल्लोपणिलोपयोः — स्थानिवद्भावः शङ्क्यः, दीर्घविधौ तन्निषेधात् । क्वौ विधिं प्रति निषेधाच्च । इति णान्ताः ।", "24035": "", "24036": "<<अदो जग्धिर्ल्यप्ति किति>> - उच्चारणार्थ इति । इदित्त्वे तु नुम् स्यादिति भावः । घत्वमिति ।झषस्तथो॑रित्यनेन । झरो झरीति । अनेन पाक्षिको धलोप इत्यर्थः । इदानीं क्तार्थान्प्रपञ्चयति — आदिकर्मणि । व्याख्यातम् । प्रकृतः कटमिति । कटं कर्तुमारब्धवानित्यर्थः ।प्र॑शब्द आदिकर्मद्योतनार्थः । क्तेनोक्तत्कर्तरि प्रथमा । कुशल इत्यर्थः ।", "24037": "<<लुङ्सनोर्घसॢ>> - जिघत्सति । प्रणिहन्तीति ।नेर्गदे॑ति णत्वम् ।", "24038": "<<घञपोश्च>> - व्यद्यते विशेषेण भक्ष्यते इति विघसः = वैआदेबशिष्टमन्नम् । घासश्चतुष्पदां भक्ष्यम् ।शष्पं बालतृणं घासः॑इत्यमरः ।", "24039": "", "24040": "", "24041": "", "24042": "<<हनो वध लिङि>> - संज्ञायाम् । अनधिकरणार्थ आरम्भः ।", "24043": "वधादेशोऽदन्त इति। तेन आदेशोपदेशेऽनेकाच्त्वादवधीदित्यत्र `एकाचः` इतीण्निषेधाऽप्रवृत्ताविडादौसिचि `अतो हलादे`रिति प्राप्ता वृद्धिरल्लोपस्य स्थानिवत्त्वान्नेति भावः।", "24044": "<<आत्मनेपदेष्वन्यतरस्याम्>> - आत्मनेपदेष्विति ।तङी॑त्येव सुवचम् ।समो गम्यृच्छिस्वरत्यर्तिविदिभ्यः॑ इति वृत्तिस्थं पाठमुपेक्ष्य भाष्यर्थं पाठमनुसरति — समोगम्यृच्छिभ्यामिति ।", "24045": "", "24046": "<<णौ गमिरबोधने>> - प्रत्याययतीति । प्रतिपूर्वस्येणो ज्ञानार्थता । लुङि — प्रत्यायियत् । इह इणो णिचि कृतेइणो य॑णिति यणं बाधित्वा परत्वाद्धृद्धिः । न चओः पुयण्जी॑ति ज्ञापकात्पूर्वं द्वित्वं, पश्चाद्वृद्धिरिति शङ्क्यम्,अजादेर्द्वितीयस्ये॑ति णिचो द्वित्वेऽब्यासोत्तरखण्डस्याऽवर्णपरत्वाऽभावात् । इति वाऽर्थ इति । व्याख्यानद्वयमप्याकरारूढमिति भावः । * ईष्र्यतेस्तृतीयस्येति वक्तव्यम् । षकारस्येति । रेफस्य तुन न्द्राः॑ इत्यनेन निषेधादिति भावः । द्वितीये त्विति ।तृतीयस्यैकाच ॑ इति पक्षे । सन्नन्ते प्रवर्तत इति । वचनसामर्थ्यादिति भावः । ऐर्ष्यियदिति ।तृतीयव्यञ्जनस्ये॑ति पक्षे इदमुदाहरणम् ।ऐर्षिष्य॑दिति रूपस्याऽसाधुत्वमाशङ्क्योपपादयति — द्वितीयव्याख्यायामित्यादिना । द्वितीयस्यैवेति ।एकाच॑ इति शेषः । अप्रवृत्तेरिति । किंतु सन्नन्त एव प्रवर्तते । तत्र ह्रनुपदमीर्ष्यियिषतीत्युदाहरिष्यति ।अर्थ उपयाच्ञाया॑मित्यस्य आगर्वीयत्वादात्मनेपदेन भाव्यमितिप्रार्थयन्ती॑ति माघकाव्यादिप्रयोगोऽसाधुरित्याशङ्क्य तत्समर्थनायाह — निवृत्तप्रेषणादिति । उक्तं च — निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजुच्यते॑ इति । तेनेत्यादि ।प्रार्थना कुर्वन्ती॑ ति विवक्षितार्थे प्रयोगः सिद्ध इति भावः । केचित्तु परस्मैपदसिद्ध्यर्थं — प्रार्थनं प्रार्थः, तं कुर्वन्ति प्रार्थयन्तीति वयाचक्षते, तदसत् । धातुसंज्ञाप्रयोजकप्रत्यये चिकीर्षिते उपसर्गाणां पृथक्करमस्य वक्ष्यमाणतयाअर्थवेदे॑ त्यापुगागमस्य दुर्वारत्वात् । इति ण्यन्तप्रक्रिया॥", "24047": "<<सनि च>> - सनि च ।णौ गमिरबोधने॑इत्यतोऽबोधन इत्यनुवर्तते । प्रतीषिषतीति । तक्रकौण्डिन्यन्यायस्याऽनित्यत्वात्सन्रूपस्याभ्यासस्येत्वम् । अनित्यत्वे लिङ्गं तुनित्यं कौटिल्ये गतौ॑इत्यत्र नित्यग्रहणमिति वक्ष्यते । संजिगंसते इति ।समो गम्यृच्छिभ्या॑मिति तङ्पूर्ववत्सनः॑ इति सन्नन्तादपि भवति ।", "24048": "", "24049": "गाङ् लिटि। लावस्थायामिति। वार्तिकमते तु एकादेशात्प्रागेव गाङ्गादेशे `द्विर्वचनेऽचि` इति सूत्रं न प्रवर्तते, द्वित्वनिमित्ताऽचोऽभावात्। विवक्षित इति। भाष्यमते तु सुतरां न प्रवर्तते, अनैमित्तिकत्वादिति भावः। निर्देशान्न भवतीति। `वार्णादाङ्गं बलीयः` इति समाधानं तु न प्रवर्तते, व्याश्रयत्वादिति भावः। अध्यैयतेति। `आत्मनेपदेष्वनतः` इति झस्य अत्। लड्मध्यमे तु - अध्यैथाः। अध्यैयाथाम्। अध्यैध्म्। अध्येषीष्टेति। लिङः सीयुट्। अध्यैषीयास्ताम्। अध्यैषीरन्।", "24050": "<<विभाषा लुङ्लृङोः>> - आगत्स्य । आगस्त्यशब्दादृष्यण् । , कुण्डिनीशब्दात्तु गर्गाद्यञ । ननु कुण्डिनीशब्दस्य यञिभस्याढे॑इति पुंवद्भावेनस्तद्धिते॑इति टिलोपः प्राप्नोति । न चसंयोगादिश्चे॑ति प्रकृतिभावः शङ्क्यः,अणी॑ति तत्रानुवर्तनात् । मैवम् । अस्मादेव निपातनात्तम्याऽप्रवृत्तेः कौण्डिन्यः सिध्यति । चकारस्त्वन्तोदात्तार्थः । मध्योदात्तोहि कुण्डिनीशब्दः । कुण्डमस्त्यस्या इति मत्वर्थीयस्यनेरुदात्तत्वादादेशस्यापि कुण्डिनशब्दस्यान्तरतम्यान्मध्योदात्तत्वात् । अवशिष्टस्य प्रकृतिभागस्येति । न च प्रत्ययविशिष्टस्यादेशमात्रम विधीयतां किं लुग्विधानेनेति वाच्यम्, अगस्तीयाश्छात्रा इत्यनापत्तेः, लुकि हि सतिगोत्रेऽलुगची॑ति लुकि प्रतिषिद्धे वृद्धत्वाच्छः सिध्यति । प्रत्ययविशिष्टस्यादेशविधौ तु वृद्धत्वापगमे शौषिको ।ञणेन स्यात् । कौण्डिनाश्छात्रा इति तूभयथापि सिद्द्यत्येव । छापवादस्यकण्वादिभ्यो गोत्रे॑ इत्यण्प्रत्ययस्य प्रवृत्त्या तत्र विशेषाऽभावात् ।", "24051": "", "24052": "", "24053": "", "24054": "<<चक्षिङः ख्याञ्>> - ख्शादिरिति । तेनपुंख्यान॑मित्यत्रपुमः खय्यम्परे॑ इति रुत्वं नेत्यादि पूर्वार्धे एवोक्तम् ।", "24055": "<<वा लिटि>> - असिद्धकाण्डे इति ।णत्वप्रकरणानन्तर॑मिति शेषः । तेनपर्याख्यान॑मित्यत्र शकारेण व्यवधानात्कृत्यचः इति णत्वं न । तथा सुप्रख्येन निर्वृत्तं सौप्रख्यं,तत्र भवः सौप्रख्यीयः । यत्वस्याऽसिद्धत्वात्धन्वयोपधा॑दिति वुञ् न, किं तु छ एवेति बोध्यम् । अचष्टेति ।स्को॑रिति कलोपः । ष्टुत्वम् ।अस्यतिवक्तिख्याती॑त्यत्र विधिसामर्थ्याद्यत्त्वं नाऽसिद्धम् । स्वतन्त्रस्य ख्याधातोः सार्वधातुकमात्रविषयतया वक्ष्यमाणत्वात् । अस्यतेः पुषादिपाठादङि सिद्धं तङर्थं ग्रहणमित्यादि पुषादिषु वक्ष्यति ।", "24056": "<<अजेर्व्यघञपोः>> - अजेव्र्य । वी- इति च्छेदः । तेन संवीतः संवीतिरित्यादि सिध्यति । आर्धधातुकविषय इति । तेन वीभावोत्तरं यङि वेवीयते इत्यादि सिध्यति, परसप्तम्यां तु हलादित्वाऽभावाद्यह् न स्यादिति भावः । यङ्लुक् त्वस्मान्न भवति, लुका यङोऽपहारे आर्धधातुकविषयत्वाऽभावान्नाद्र्धधातुकाभिव्यक्तिरित वीभावस्यैवाऽप्रसक्तेः । एतच्चन लुमते॑ति सूत्रे कैयटे स्पष्टम् । अघञपोः किम् । समाजः ।समुदोरजः पशुषु॑ इत्यप् । समजः । उदजः । विव्यतुरिति ।एरनेकाचःर॑ इति यण् । लोपाजादेश एवेति । एतच्चन पदान्ते॑ ति सूत्रएवास्माभिरुपपादितम् । एकाच इतीति । अजेरुदात्तत्वेऽपि वीभावोऽनुदात्तः, ऊदृदन्तादिभिन्ना एकाचोऽजन्ताः सर्वेऽप्यनुदात्ता इत्यभ्युपगमात् ।", "24057": "", "24058": "<<ण्यक्षत्रियार्षञितो यूनि लुगणिञोः>> - ण्यक्षत्रियार्ष । कौरव्य इति ।कुर्वादिभ्यो ण्यः॑ । तत इञो लुक् । कौरव्यः पुत्रः । ननु तिकादिषु कौरव्यशब्दः पठते, तथा च कौरव्यायणिरिति फञा भाव्यं, नत्विञेति चेत्सत्यम् ।कुरुनादिभ्यो ण्यः॑ इति क्षत्रियगोत्रे विहितो यो ण्यस्तदन्तं तत्र पठते । प्रकृते तु ब्राआहृणगोत्रप्रत्ययान्तमित्यवधेयम् । आआफल्क इति ।ऋष्यन्धके॑त्यण् । तत इञो लुक्, आआफल्कः पुत्रः । वासिष्ठ इति । ऋष्यञ् । तत इञो लुक् । वासिष्ठः पुत्रः । तैकायनिरिति ।तिकादिभ्यः फिञ् । ततोऽणो लुक् । तैकायनिः पुत्रः । वामरथा इति । कुर्वादित्वाण्ण्यः । ततो वृद्धाच्छं बाधित्वाकण्वादिभ्यो गोत्रे॑ इति शैषिकोऽण् । इतीति ।ण्यक्षत्रियार्षे॑त्युदाहृतसूत्रेणेत्यर्थः । ऋष्यण एवेति । पाणिनशब्दे तु औत्सर्गिक एवाऽणिति भावः । नन्विदंवान्यस्मिन् सपिण्डे॑इति सूत्रस्थभाष्यकैयटाभ्यां विरुध्यते । अत्रेर्युवापत्यानि पुमांसोऽत्रयः । इनश्चानिञः ॑इति ढक् । तदन्ताद्यूनिअत इञ् । तस्यण्यक्षत्रिये॑ति लुक्,अत्रिमृगुकुत्से॑ति ढकोऽपि लुक् इत्युक्तत्वात्ष ।ऋष्यन्धके॑त्यण एव ग्रहणे तु ढकोऽग्रहणात्ततः परस्येञो लुङ्न स्यादित्याहुओः । वस्तुतस्तुदाक्षीपुत्रस्य पाणिने॑रिति भाष्यप्रयोगादस्य साधुत्वमिति ज्ञेयम् । इञश्चेतीति ।यूनि लु॑गिति लुक्यपि प्रत्ययलक्षणेन इञन्तमस्तीति भावः । गोत्रे य इञिति ।गोत्रमिह शास्त्रीयं, न तु लौकिक॑मिति तत्र वक्ष्यते इति भावः । स्वरे इति । लुगभावे प्रत्ययस्वरेणान्तोदात्तत्वं स्त्रियां च ङीप्स्यात् । लुकि सति त्वोकार उदात्तः, टाप् च सिध्यतीति भावः ।", "24059": "<<पैलादिभ्यश्च>> - युवप्रत्ययस्येति । वक्ष्माण इति ।प्राचामवृद्धात्फिन्बहुल॑मिति वक्ष्यमाणः । अजादौ किम् । ग्लौचुकायनरूप्यम् । प्राग्दीव्यटतीये किम्ष ग्लौचुकायनीयम् ।तस्मै हित॑मिति छः । इहद्विगोर्लुग नपत्येऽचि॑यूनि गोत्रे ने॑त्येव सूत्रयितव्यम् । तथा चलुगलुग्ग्रहणं शक्यमकर्तुं॑मिति मनोरमायां स्थितम् । तत्रफिक्फिञो॑रिति सूत्रेयूनी॑त्यस्य मण्डूकप्लुतिराश्रयणीयेति क्लेशोऽयं लाघवानुरोधेन सोढव्य इति भावः । पैलदिभ्यश्च ।ण्यक्षत्रियार्षे॑त्यतोयूनि लु॑गिति वर्तते । तदाह - ।", "24060": "", "24061": "<<न तौल्वलिभ्यः>> - युवप्रत्ययस्य लुगिति । पीलाया वेत्यादि । अपत्येऽणि विहिते गोत्रापत्येऽप्यणेव,एको गोत्रे॑इति वक्ष्यमाणत्वात् । ततोऽणन्तात्पैलशब्दादपत्येऽपि विधीयमानः फैञ् युवापत्ये पर्यवस्यति । तस्य च फिञोऽनेन लुगित्यर्थः । एवं च पीलाया अपत्ये गोत्रापत्ये युवापत्ये चाऽवैरूप्येण पैलशब्दः प्रयुज्यत इत्याह -पैलः पिता पुत्रश्चेति । पैलादिषु ये इञन्ता शालङ्किसात्यकिऔदमेयिपैङ्गलिप्रभृतयस्तेभ्यःइञः प्राचा॑मिति लुकि सिद्धे अप्राचामर्थः पाठ इति ज्ञेयम् । तद्राजाच्चाणः । गणसूत्रमिदम् । तद्राजसंज्ञाकात्परस्य युवप्रत्ययस्य लुगित्यर्थः ।तच्चेद्गोत्रं प्राचां भवतीति । इह प्राचाङ्ग्रहणं गोत्रविशेषणं, न तुप्राचामवृद्धा॑दित्यादिवग्विकल्पार्थमित्यर्थे व्याख्यानं शरणम् । दाक्षिः पितेत्यादि । दक्षस्यापत्यं गोत्रापत्यं च पुमान्दाक्षिः । युवापत्यं तु दाक्षयण तु दाक्षायण इति भावः । न तोल्वलिभ्यः । बहुवचननिर्देशाद्गणपाठसामर्थ्याच्चाद्यर्थावगतिरित्यभिप्रेत्याह -तोल्वल्यादिभ्य इति । देवमित्र । देवयज्ञि । आआफल्कि । आसुरि । नैमेषि । पौष्करसादि । वैकर्णीत्यादि तौल्वल्यादिः ।", "24062": "<<तद्राजस्य बहुषु तेनैवास्त्रियाम्>> - तद्राजस्य । तदर्थेति । तद्राजप्रत्ययार्थेन कृत इत्यर्थः । तेनैवेति किम् । प्रियपाञ्चालाः । साधव इतीति । तथाचतत्र साधु॑रिति यत्प्रत्ययस्य तद्राजत्वाऽभावल्लुङ् नेति भावः । रघुयदुशब्दयोक्जनपदवाचित्वाऽभावादाभ्यां परस्य तद्राजसंज्ञा नेति लुकोऽप्रवृत्त्या राघवाणां यादवैरित्येव भवतिव्यमित्याशङ्क्याह -रघुयदुशब्दयोरिति । लक्षणयेति । ततश्चोक्तार्थत्वादपत्यप्रत्ययो नाऽत्रोत्पन्न इति भावः ।", "24063": "<<यस्कादिभ्यो गोत्रे>> - यस्कादिभ्यो । अपत्याधिकारादन्यत्र लौकिकं गोत्रं गृह्रत इत्याशयेनाह — अपत्यप्रत्ययस्येति ।ण्यक्षत्रियार्षे॑त्यतो लुगित्यनुवर्तते,तद्राजस्ये॑ति सूत्रात्बहुषु तेनैवास्त्रिया॑मिति च, तदाह — — लुक् स्यादित्यादि । तत्कृते इति किम् । प्रिययास्काः । बहुत्वे किम् । यास्कः । शिवद्यण् । यस्क, लुह्र, द्रुह्र, कर्णाटक, वस्ति, कुद्रि, मित्रयु — इत्यादि ।", "24064": "<<यञञोश्च>> - यञञोश्च ।ण्यक्षत्रियार्षे॑त्यतो लुगिति, तद्राजस्ये॑ति सूत्राद्बहुषु तेनैवाऽस्त्रियामिति चानुवर्तते,यस्कादिभ्यो गोत्रे॑इत्यतो गोत्र इति च ।", "24065": "<<अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च>> - अत्रि । गोत्रप्रत्ययस्येति । अत्रि शब्दात्इतश्चाऽनिञः॑इति ढिक् ।इतरेभ्यस्तु ऋष्यणिति बोध्यम् । भारतगोत्रे उदाहरति ।", "24066": "<<बह्वचः इञः प्राच्यभरतेषु>> - युधिष्ठिरा इति । बहुष्वेव लुक् । नेह — यौधिष्ठिरिः । कुरुलक्षणं ण्यं बाधित्वा बाह्वादित्वादिञ् ।", "24067": "<<न गोपवनादिभ्यः>> - विदाद्यन्तर्गणोऽयमिति ।यञञोश्चे॑ति लुगत्र प्राप्नोतीति भावः ।", "24068": "<<तिककितवादिभ्यो द्वन्द्वे>> - तिककितवादिभ्यो । यद्यपि द्वन्द्वरूपाण्येव गणे पठन्ते तिकादीनि पूर्वपदानि कितवादिन्युत्तरपदानि, तथापितिकादिभ्यः॑इत्युक्ते पुर्वपदेष्वेव लुगाशङ्क्येत, इष्यन्ते तूत्तरपदेष्वपि, अतःतिककितवादिभ्यः॑इत्युक्तम् । तिककितवा इति । अन्येऽप्यत्रोदाहर्तव्याः -औपकायनाश्च लामकायनाश्च ।नडादिभ्यः फक्र् तस्य लुक् । उपकलमकाः । भ्राष्ट्रकयश्च कापिष्ठलयश्च ।अत इञ॑तस्य लुक् । भ्राष्ट्रककपिष्ठलाः । काष्र्णाजिनयश्च कार्ष्णसुन्दरयश्च ।अत इञ्तस्य लुक् । कृष्णाजिनकृष्णसुन्दरा इत्यादि ।", "24069": "<<उपकादिभ्योऽन्यतरस्यामद्वन्द्वे>> - उपकादिभ्यो । अद्वन्द्वग्रहणंद्वन्द्वे॑इत्येतन्नाधिक्रियत इति स्फुटिकरणार्थम् । [उपकादीनां मध्ये त्रयो द्वन्द्वास्तिककितवादिषु पठन्तेउपकलमकाः॑इत्यादयस्येषां पूर्वेण नित्यमेव लुक्, अद्वन्द्वे त्वनेन विकल्प इति ज्ञेयम्] । भाष्येभ्राष्ट्रकिकापिष्ठलयः॑इत्युदाहरणात्तिककितवादिष्वस्य पाठोऽनार्ष इति कैयटः । तेनात्र द्वन्द्वेऽपि विकल्प एवोचित इत्याशयेनोदाहरति — भ्राष्ट्रककपिष्ठला इत्यादि । तिककितवादिषु पठितानामनेनाऽद्वन्द्व एव विकल्प एवोचित इत्याशयेनोदाहरति -भ्रा,ट्रककपिष्ठला इत्यादि । तिककितवादिषु पठितानामनेनाऽद्वन्द्व एव विकल्प इत्याशयेनोदाहरति — — लमकाः । लामकायना इति । एवमन्येऽप्युदाहर्तव्याः । उपकाः औपकायनाः, भ्राष्ट्रकाः भ्राष्ट्रकायना इत्यादि ।", "24070": "", "24071": "<<सुपो धातुप्रातिपदिकयोः>> - सुपो धातु । सुप इति प्रत्याहारस्य ग्रहणं,पञ्चम्याः स्तोकादिभ्यः॑ इत्याद्यलुक्समासविधानाज्ज्ञापकात् । निर्देशादिति । अन्यथा हि प्रथमानिदिष्टत्वाऽविशेषेऽपि उपसर्जनसंज्ञाया अन्वर्थत्वेन पूर्वशब्दस्यैव पूर्वनिपातः स्यादिति भावः ।इवेन समासो विभक्त्यलोपश्च । इवेनेति । अयमपि समासः पूर्ववत्क्वाचित्क एव । तेन जीमूतस्येवेत्यादौ तैत्तिरीयाणां पृथक्पदत्वन पाठः ।उद्बाहुरिव वामनः॑ इत्यादौ व्यस्तप्रयोगश्च सङ्गच्छत इति मनोरमायां स्थितम् । विभक्त्यलोपश्चेति । समासावयस्य सुपोऽलोपविधानेऽपि समासादुत्पन्नस्य सोरव्ययादिति लुग्भवत्येव, अनुपसर्जने तदन्तस्याप्यव्ययत्वादिति बोध्यम् ।", "24072": "", "24073": "", "24074": "<<यङोऽचि च>> - यङोऽचि च । यङा साहचर्यादचीति प्रत्ययो गृह्रते न तु प्रत्याहारः ।ण्यक्षत्रियार्षे॑ त्यतोऽत्र लुगनुवर्तते । तदाह — अच्प्रत्यये लुक् स्यादिति । चकारेणबहुलं छन्दसी॑त्यतो बहुलमित्यनुकृष्यत इत्याह — बहुलं लुक स्यादिति । केचित्तुछन्दसी॑त्यनुकर्षन्ति,तेषामपि मते क्वचिद्भाषायां यङ्लुग्भवत्येव ।भूसुवो॑रिति गुणनिषेधे सिद्धे बोभूत्विति छन्दसि निपातनाज्ज्ञापकात् । एतच्च मूले एव स्फुटीभविष्यति । अनैमित्तिकोऽयमिति । अच्प्रत्यये विधीयमानो यङ्लुक्तु तन्निमित्त एव.तेन लोलुवः पोपुव इत्यादौन धातुलोपे॑ति निषेधः सिद्ध्यति । यङन्तत्वादिति ।सन्यङो॑रिति षष्ठी, न तु सप्तमी, अन्यथा यङो लुका लुप्तत्वेन प्रत्ययलक्षणाऽप्रवृत्तेद्र्वत्वं न स्यादिति भावः । न चाऽङ्गाधिकारविहितकार्यस्यैवन लुमते॑ति निषेधाद्द्वित्वमत्र स्यादेवेति सप्तमीपक्षोऽपि निर्दुष्ट इति वाच्यं,न लुमते॑त्यत्राऽङ्गाधिकारो न गृह्रते किं तु आङ्गमनाङ्गं वा प्रत्यये परतः पूर्वस्य विधीयमानं सर्वमिति सिद्धान्तात् । अन्यथाराजपुरुष॑ इत्यादौ नलोपो न स्यात्, त्वदुक्तरीत्या प्रत्ययलक्षणप्रवृत्तौ भत्वेन पदत्वबाधात् । यद्यपिएकाच॑ इति विधीयमानं द्व#इत्वंश्तिपा शपे॑ त्यादिना निषिध्यते तथापि तत्स्यादेव ।गुणो यङ्लुकोः॑,रुग्रिकौ च लुकी॑त्याद्यभ्यासकार्यविधिभिर्द्वित्वाऽनिषेधस्य ज्ञापनात् । प्रत्ययाप्रत्ययेति । प्रत्यये ङित्त्वं दृश्यतेऋतेरीय॑ङित्यादिषु, अप्रत्ययेऽपि दृश्यते — चित्रङादिषु । एवं च यङो लुकि प्रत्ययलक्षणेन यङाश्रितङित्त्वप्रयुक्तकार्यमात्मनेपदमत्र न शङ्क्यमिति बावः ।ङित इत्यनुबन्धनिर्देशा॑दिति परिहारस्त्वत्र नोक्कतः, शीङादीनामिव भू इत्यादिधातूनामनुबन्धेनाऽनिर्दिष्टत्वात् । यङो ङकारस्य प्रत्ययाऽनुबन्धत्वेन समुदायाऽननुबन्धत्वाद्यङन्तोऽपि धातुरनुबन्धेनाऽनिर्दिष्ट इति बोध्यम् । सुदृषदिति । शोभना दृषदोऽस्मिन्नतिति बहुव्रीहौ दृषच्छब्दो जसन्तः । दीर्घो नेति ।अ॑सिति प्रत्ययोऽप्रत्ययश्चास्तीति प्रत्ययस्याऽसाधारणरूपानाश्रयणात्प्रत्ययक्षणेनाऽसन्तत्वाऽभावादिति भावः । तेभ्योऽपीति । ये त्वनुदात्तेतः, प्रत्ययलक्षणं विनैव ङितश्च तेभ्योऽपीत्यर्थः । अदादौ पाठादिति । तथा चआदिप्रभृतिभ्यः शपः॑ इत्यनेन यङ्लुगन्तात्परस्य शपो लुगित्यर्थः ।", "24075": "", "24076": "", "24077": "<<गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु>> - इह व्यवहितोऽपि लुगनुवर्तते, न तु श्लुः व्याख्यानादित्याशयेनाह — लुगिति । गापाविति । गातीति श्तिपा विकरणशून्यस्य निर्देशाल्लुग्विकरण इणादेशो गृह्रते,लुग्विकरणाऽलुग्विकरणयोरलुग्विकरणस्य ग्रहण॑मिति परिभाषया पिबतिर्गृह्रते न तु पातिरित्यर्थः ।", "24078": "<<विभाषा घ्राधेट्शाच्छासः>> - विभाषा घ्रा । इहण्यक्षत्रियार्षे॑त्यतो लुगनुवर्तते,गातिस्थे॑त्यतः सिचः परस्मैपदेष्विति च । तदाह — सिचो लुग्वेत्यादि । अधुरिति ।आतः॑ इति झेर्जुस् । परस्मैपदे किम् । व्यत्यघ्रास्त ।", "24079": "<<तनादिभ्यस्तथासोः>> - अतनिष्ट अतानिष्टेति ।तस्थस्थमिपा॑मिति तादेशः ।अतो हलादे॑रिति वा वृद्धिः । अततेति ।तनादिभ्यस्तथासो॑रिति सिज्लुक्यनुनासिकलोपः । अतनिष्टेति । लुगभावपक्षे इट् । षणु दाने । नान्तोऽयम् । णकारस्तु लाक्षणिकः ।तेन यङ्लुकिसंसन्ति संसन्त॑ इत्यादावनुस्वारपरसवर्णौ । क्षणु हिंसायाम् । क्षिणु च । इमावपि लाक्षिकणकारौ । तेन चङ्क्षन्ति,चेक्षेति इत्यत्रानुस्वारपरसवर्णौ ।", "24080": "", "24081": "<<आमः>> - ॒लक्षणप्रतिपदोक्त॑परिभाषया,प्रत्ययग्रहण॑परिभाषया च नेह- आम । आमतुः । परसय् लुगिति ।मन्त्रे घसे॑ति सूत्राल्लेरित्यनुवर्त्त्यलेर्लु॑गिति काशिकादौ व्याख्यातं, तदत्रोपेक्षितं, व्यावर्त्त्याऽलाभात् । तिङाद्यपवादत्वाल्लावस्थायायमेवायं लुक् । तेन आमन्तस्याऽतिङ्न्तत्वाद्देवदत्तादिपदात्परत्वेऽपितिङ्ङतिङः॑ इति न निघातः । आमन्तात्परस्य निघातश्च तिङन्तस्येत्यर्थः । न चाऽतिङन्तत्वे पदत्वाऽभावादामन्तात्परस्य निघातो न सिध्यतीति शङ्क्यं, लिटः कित्त्वात्प्रत्ययलक्षणेन कृदन्ततया प्रातिपदिकत्वे सोरुत्पत्तावामन्तस्याऽव्ययत्वात्सुपो लुक्यपि प्रत्ययलक्षणेन सुबन्ततया पदत्वात् ।", "24082": "<<अव्ययादाप्सुपः>> - अव्ययादाप्सुपः ।ण्यक्षन्त्रियार्षे॑ति सूत्राल्लुगत्रानुवर्तत इत्याह — लुक्स्यादिति ।अव्यय॑मिति महासंज्ञाकरणमन्वर्थसंज्ञाविधानार्थम् । न व्येति — विविधं विकारं न गच्छति । सत्त्वधर्मान् लिङ्गसङ्ख्यादीन्न गृह्णातीति यावत् । तेनात्युच्चैसौ अत्युच्चैस इत्यादि सिद्धम् । अतिक्रान्तप्रधानत्वेन सत्त्वधर्मपरग्रहादव्ययसंज्ञाया अत्राऽभावात् । नन्वेमप्युच्चैः — शब्दस्याव्ययत्वानपायात्सुपो लुग्दुर्वार इत्यत आह — विहितविशेषणादिति । अत्युच्चैसाविति । ननु अत्यादयः क्रान्ताद्यर्थे द्विती ।यान्तेन समस्यन्ते, उच्चैःशब्दस्त्वधिकरणशक्तिमत्प्रधान इति कर्मत्वाऽयोगान्न तस्य द्वितीयान्तता । सत्यम् । शक्तिप्रधानान्यपि कानिचिदव्ययामि वृत्तिविषये शक्तिमत्प्रधानानि क्वचिद्भवन्ति । यथा दोषामन्यमहः । दिवामन्या रात्रिरिति । ततश्च प्रक्रियादशायमुच्चैःशब्दस्य द्वितीयान्तत्वं संभवतीति दिक् । ननु स्वरादिषु उच्चैःशब्दः पटते तत्र कथं तदन्तस्य प्रसङ्ग इति चेन्न, अन्वर्थसंज्ञयैव तदन्तविधेरपि ज्ञापनात् । अन्यथा उपसर्जने प्रसङ्गाऽभावेन तन्निवृत्त्यर्थाया अन्वर्थसंज्ञाया वैयथ्र्यापत्तेः । तेनपरमस्वः॒॑परमोच्चै॑रित्यादौ सत्त्वधर्मापरिग्रह#आदव्ययत्वं सिद्धम् । तदेतदाह — अव्ययसंज्ञायां यद्यपीत्यादि ।अव्ययादापो लुग्वचनानर्थक्यं लिङ्गाऽभावा॑दिति वार्तिकं मनसि निधायाह — अब्ग्रहणं व्यर्थमिति । सूत्रस्योक्तिसंभवस्तुस्त्रिया॑मिति सूत्रे स्त्रीसमानाधिकरणादिति पक्षं गृहीत्वेति बोध्यः । स च न स्थितः,भूतमियं ब्राआहृणी॑त्यादावतिव्याप्तेः । यदि तुआमः॑इति सूत्रानन्तरंसुपो धातुप्रातिपदिकयोपव्यया॑दिति सूत्र्यते तदा सुब्ग्रहममपि व्यर्थं,सुप् इत्यनुवृत्तिसंभवादिति नव्याः । अलिङ्गत्वे आथर्वणप्रणवविद्यागतश्रुतिविरोधमाशङ्क्याह — सदृशमिति । एतेषु यन्न व्येति किंतु सदृशम् एकप्रकारं तदव्ययमिति योजना । यद्वा — यस्मान्न व्येति तस्मात्तदव्ययम् । लिङ्गकारकेति । विभक्तिवचनशब्दौ कारकसङ्ख्यापराविति भावः । यद्यप्यव्ययीभावस्य लिङ्गसङ्ख्याकारकयोगोऽस्ति तथापि वचनादव्ययत्वेम् । अव्ययविशेषे कार्यान्तरमाह — वष्टीति । भादुरिः आचार्यः । आपं चैवेति ।वष्टी त्यनुषज्यते । यथा वाचेति । परिगणनमिदमित्येके । अन्ये तूदाहरणमात्रमित्याहुः । वगाह इति । अपिना साहचर्यादादिरेवाऽकारो लुप्यते नान्त्य इति भावः ।इति तत्त्वबोधिन्यामव्ययप्रकरणम्॥", "24083": "<<नाव्ययीभावादतोऽम्त्वपञ्चम्याः>> - नाव्ययी । अत्रअपञ्चम्याः॑ इथि प्रतिषेधोऽनन्तरत्वादम एव न तु व्यवहितस्याऽलुकोऽपि । अमुमेवार्थं द्योतयितुं सूत्रेतु॑ शब्दः । तस्य पञ्चमीं विनेति । एवं चाऽदन्तादव्ययीभावात्परस्य पञ्चमभिन्नस्य सुपो लुङ् न, पञ्चम्यास्तु लुगमादेशावुभावपि न भवत इति स्थितम् । अतः किम् । अधिहरि । दिशयोरिति । दिशोरिति हलन्तेन विग्रहेऽपि एतदेव रुपम् । दिश्शब्दस्य शरदादिषु पाठाट्टच् ।", "24084": "<<तृतीयासप्तम्योर्बहुलम्>> - अपदिशमिति । पञ्चमीव्यतिरिक्तविभक्तीनामुदाहरणमिदम् । पञ्चम्यास्तु अपदिशादित्युदाहार्यम् । विभक्तौ तावदिति । तावच्छब्दः क्रमार्थः । लौकिकं विग्रहवाक्यं प्रदर्शयति — हराविति । प्राचा तुहरौ अधिकृत्ये॑ति विगृहितं, तदसत् । अधिहरीत्यत्रअधिकृत्येत्यर्थस्याऽप्रतीतेः । हरि ङीति । अलौकिके ङिशब्दस्यैव प्रवेश उचितः,अन्तरङ्गानपि -॑इति न्यायात् । अन्यथा ङेरौत्त्वे कृते अधिहरीति समासे हरिशब्देकारो दुर्लभः स्यादिति भावः । इह॒हरावधी॑ति स्थिते॑इति प्राचोक्तमुपेक्षितं, नित्यसमासेषु अस्वपदविग्रहस्यैवोचितत्वात् । अभिहितेऽपीति । द्योतितेऽपीत्यर्थः । वचनसामर्थ्यादिति ।सुपे॑त्यनुवर्त्त्य सुबन्तेन समासविधानसामर्थ्यात्सप्तमी स्यादेवेति भावः । नन्वभिहितेऽधिकरणेप्रतिपदिकार्थमात्रे॑ति प्रथमैव स्यान्न तु सप्तमीति चेत् । अत्राहुः — अचीत्यस्य सुबन्तेन समासस्यावश्यकत्वेऽधिशब्दद्योत्यादिकरणार्थवाचकविभाक्तेरेवेह स्वीकर्तुमुचितत्वादिति । यत्तु प्रसादकृता व्याख्यातं — ॒तिङ्कृत्तद्धितसमासैरिति परिगणनादधिनाऽभिहितेऽपि सप्तमी स्यादेवे॑तिष । तन्न । परिगनस्याकरे प्रत्याख्यातत्वात् ।कर्मणि द्वितीया॑इति सूत्रे स्वयमपि तथैवोक्तत्वात् ।क्रमादमुं नारद इत्यबोधि सः॑ इति प्रयोगविरोधाच्च । अत्र व्याचक्षते -॒वचनग्रहणं विभक्त्यादिभिः प्रत्येकं संबध्यते॑,साकल्यान्तेषु॑इत्येव वक्तव्ये वचनग्रहणात् । एवं च तत्सामर्थ्याद्विङक्त्यर्थमात्र वृत्तेरव्ययस्येह ग्रहणम् । तेन वृक्षस्योपरि वृक्षस्य पुर इत्यत्र समासो न भवति । उपर्यादयो हि दिग्देशकालेष्वपि वर्तन्ते, न तु विभक्त्यर्थमात्रे । अतएवक्रमादमुं नारद इत्यूबोधि सः॑ इत्यादौ नातिप्रसङ्गः, इतिशब्दस्य सर्वनामवत्प्रकृतपरामर्शकत्वेन कर्मत्वमात्रनभिधायकत्वात् । एवं च विभक्तिशब्दं प्रायुङ्क्त॑ति । अन्ये तु -॒लाघवात्ङिसमीपसमृद्धी॑ति वक्तव्ये विभक्तिग्रहणाद्विभक्तिशब्दो न सप्तम्यां पर्यवस्यति । ततश्च कर्मत्वमात्रद्योतकतायाम्इतिनारद॑मिति समासो भवत्येव॑इत्याहुः ।", "24085": "", "31001": "<<प्रत्ययः>> - अधिकारोऽयमिति । प्रत्ययशब्दः संज्ञात्वेनाधिक्रियत इत्यर्थः ।", "31002": "", "31003": "", "31004": "", "31005": "", "31006": "<<मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य>> - मान्बध ।आभ्यासस्ये॑ ति च्छेदः । अभ्यासस्य विकार आभ्यासः । स चाऽत्रसन्यतः॑ इतीत्त्वमेव । यदि तु ह्रस्व इत्यव गृह्रेत तर्हि तद्धितनिर्देशो व्यर्थः स्यात् । तदेतदाह — अभ्यासेकारस्येति । वृत्तिकाराद्युपनिबद्धार्थान्दर्शयति-गुपेर्निन्दायामित्यादिना ।", "31007": "<<धातोः कर्मणः समानकर्तृकादिच्छायां वा>> - धातोः कर्मणः । इषिकर्मण इत्यादि । इच्छायामिति श्रुतत्वात्कर्मत्वं कर्तृत्वं च तदपेक्षमेव गृह्रत इति भावः । पठितुमिच्छतीति । एकनिष्ठा पाठगोचरा वर्तमानेच्छेत्यर्थः । यिसनोरिति ।तृतीयव्यञ्जनस्ये॑ति पक्षे यकारस्य द्वित्वं,तृतीयस्यैकाच॑ इति पक्षे तु सन इत्यर्थः ।", "31008": "<<सुप आत्मनः क्यच्>> - सुप आत्मनः क्यच् ।धातोः कर्मणः॑ इति पूर्वसूत्रात्कर्मण इच्छायां वेत्यनुवर्तते । ततश्च सन्निधानादिच्छाकर्मण एव भवतीत्याह — इषिकर्मण इति ।परस्य पुत्रमिच्छती॑त्यत्रातिप्रसङ्गवारणाय सूत्रे आत्मशब्द उपात्तः । स तु स्वशब्दपर्याय । स्वश्च क इत्याकाङ्क्षायामिच्छायाः सन्निधापितत्वादेषितैव गृह्रते । तदाह — एषितृसंबन्धिन इति । सुबन्तस्योक्तविशेषणद्वयमर्थद्वारकं बोध्यम् ।", "31009": "<<काम्यच्च>> - काम्यच्च । उच्चारणसामर्थ्यान्न कस्येत्संज्ञा ।मान्ताव्ययेभ्यः प्रतिषेधः॑ इत्यस्यानुवृत्त्यभां सूचयति — अयं स्यादेवेति । आचरतीति । व्यवहरतीत्यर्थः । *अधिकरणाच्चेति वक्तव्यम् । अधिकरणाच्चेति । सप्तम्यन्तरूपात्सुबन्तादित्यर्थः ।", "31010": "", "31011": "<<कर्तुः क्यङ् सलोपश्च>> - कर्तुः क्यङ् स लोपश्च ।धातोः कर्मणः॑ इतिसूत्राद्वेत्यनुवर्तत इत्याह — क्यङ्वा स्यादिति ।से॑ति लुप्तषष्ठीकं कर्तृविशेषणमित्याह — सान्तस्येति । चकारस्तु अन्वाचये बोध्यः । * ओजसोऽप्ससो नित्यमितरेषां विभाषया । तद्वतीति । तथा चओजायते॑ इत्यत्र ओजस्वीवाचरतीति विग्रहो बोध्यः । विद्वस्यत इति । नान्तस्यैव पदत्वात्सस्य रुत्वं न । पुंवद्भावं स्मारयति — क्यङ्मानिनोश्चेति । सपत्नीवेति — त्रितयसाधारणं विग्रहवाक्यम् । सपत्नायत इति । विवाहजन्यसंस्कारविसेषनिमित्तकेन पतिशब्देन समासे सति नित्यस्त्रीत्वान्न पुंवत् । युवायत इति । न च ङ्याप्सूत्रे भाष्ये युवतितरेत्युदाहरणाद्यौवननं जातिरितिजातेश्चे॑ति निषेधेयुवतीयते॑ इत्युदाहरणमिहोचितमिति वाच्यं,वयसोऽनित्यत्वेनाऽजातित्वात् । अन्यथायुवजानि॑ रितिअचः परस्मि॑न्निति सूत्रस्थभाष्यग्रन्थो विरुध्येत ।युवतितरेति भाष्यस्य तु का गतिररिति चेत् । अत्राहुः — तसिलादिषु॑ इति पुंवद्भावे प्राप्ते भाष्यनिर्देशादेव न पुंवदिति ।युवती॑शब्दस्य तु तरपिघरूपे॑ति ह्रस्वेयुवतितरे॑ ति भवत्येव । पट्वीमृदूयत इति । पूर्वशब्दस्य क्यङ्परत्वाऽभावान्न पुंवत् । पाचिकायत इति । पुंवद्भावे सति कात्पूर्वस्येत्वं न श्रूयेतेति भावः । एवं — पञ्चमीयते । स्नौग्ध्नीयते । सुकेशीयते । ब्राआहृणीयत इत्यादि । आचारेऽवगल्भ । गल्भ धार्ष्टए । क्लीबृ - अधार्ष्टए । होड्ट अनादर#ए । क्यङपीति । अपिशब्दाद्वाक्यम् । तत्तुसर्वप्रातिपदिकेभ्यः॑ इत्यत्र वाग्रहणाल्लभ्यते इत्याहुः । क्विप्सन्नियोगेनेत्यादि । तेन क्यङ्सन्नियोगेनाऽनुदात्तत्वानुनासिकत्वायोरभावदित्संज्ञालोपौ न स्तअकृत्सार्वे॑ति दीर्घे सति अवगल्भायते क्लीबायत इत्यादि भवति । तेन तङिति । आत्मनेपदमित्यर्थः । तथा च अवगल्भमानः क्लीबमान इत्यादि सिध्यति । माधवादय इति । केचित्तेषामाशयमाहुः — आचारेऽगल्भे॑ इत्यत्र सुप इत्यनुवर्तते । तथा च केवलादुपसर्गान्तरविशिष्टादवगल्भप्रगल्भादिसुबन्तात्क्यङेव, न तु क्विप् । तङ् नेति तूचितमिति । उत्तर वार्तिकेन प्रातिपदिकमात्रात्क्विब्विधीयत इति एतेभ्योऽपि त्रिभ्यः क्विपि सिद्धे तत्सन्नियोगेनानुदात्तत्वानुनासिकत्वमात्रमच्प्रत्ययस्यआचारेऽवगल्भे॑त्यवगल्भादिषु प्रतिज्ञायते । लाघवात् । अन्यत्र तु गल्भप्रगल्भादिप्रातिपदिकेषु क्विपि परस्मैपदमेव भवति न तु तङिति भावः । नन्वेवम्आचारेऽवगल्भे॑ त्यत्र वाग्रहणात्क्यङमनुवर्त्त्य अवगल्भादिप्रातिपदिकेभ्यः क्यङ्विधानेऽप्यन्यत्र सुबन्तादेव क्यङिति क्यङो विषय एव नास्ति, तथा च केवलादुपसर्गान्तरविशिष्टाच्च क्यङप्ययुक्त इति चेत् । अत्र वदन्ति — प्रातिपदिकेभ्यः क्विप्, सुबन्तेभ्यः क्यङिति विषयभेदनापि गल्भति गल्भायते प्रगल्भति प्रगल्भायते इत्यादि सिध्यत्येवेति । स्यादेतत् — गल्भ धार्ष्टए॑ इत्यादीनामनुदात्तत्वादवगल्भते इत्यादिप्रयोगसिद्धावपि अवगल्भादिषूत्तरवार्तिकेन क्विपि सत्यवगल्भतीत्याद्यनिष्टप्रयोगः स्यात्तद्वारणार्थम्आचारेऽवगल्भे॑ति वार्तिकारम्भस्यावश्यकतया सामर्थ्यस्योपक्षीणत्वात्भूतपूर्वादप्यनेकाच आ॑ मित्येतदप्युक्तमिति चेत् । सत्यम् । अत्र ह्रयमाशयः — सर्वप्रातिपदिकेभ्यः॑ इति वार्तिके वाग्रहणेन व्यवस्थिविभाषाश्रीयते ।तथा च अवगल्भक्लीबहोडेभ्यः क्विपोऽभावादनिष्टप्रयोगो न भविष्यतीति स्वीकृते सामर्थ्यं नोपक्षीणमिति दिक् । पदकार्यं नेति । सवर्णदीर्घो यद्यपि पदमात्रकार्यं न भवति तथापि पदस्य जायमानं कार्यं नेत्यत्र तात्पर्यं बोध्यम् । तनोतीति तत् । स इव आचरति ततति । अत्र जश्त्वं न । त्वगिव आचरति । त्वचरि । अत्र कुत्वं नेत्याद्यपि बोध्यम् । द्वित्वमिति । अ णल् इति स्थितेद्विर्वचनेऽची॑ति निषेधादतो लोपो न भवतीति भावः ।अतो गुणे॑ इति द्वित्वे कृतेऽप्यतो लोपो न भवति, अन्तरङ्गेणाऽनेन बाधितत्वादिति भावः । यद्यप्यत्र फले विशेषो नास्ति तथापि शास्त्रप्राप्तिकमनुरुध्योक्तम् । यद्यप्यत्रवार्णादाङ्गं बलीयः॑ इति परिभाषयाऽतो लोप एवोचित इति चेन्मैवम् । तस्याः समानाश्रये कारश्चकारेत्यादौ प्रवृत्तिस्वीकारान्न तु व्याश्रयेऽपि । नच परत्वान्नित्यत्वाच्च अत आदे॑रित्यनेनैव प्रथमं भाव्यमिति वाच्यं, तस्य बहिरङ्गत्वेनाऽसिद्धत्वात् । न चापवादत्वात्अत आदे॑रित्यनेन भाव्यमिति वाच्यम्, अपवादो यद्यन्यत्र चरितार्तस्तर्हि अन्तरङ्गेण बाध्यत इत्युक्तत्वात्, आनर्देत्यादौ तस्य चरितार्थत्वात् । तत्र हलादिः शेषात्प्रागेव परत्वात्अत आदे॑रित्यस्य प्रवृत्तेः । न च नित्यत्वादद्धलादिः शेष एव प्रथमं स्यादिति वाच्यं , नित्यत्वस्यअत आदे॑ रित्यस्य आनर्देत्यादौ चरितार्थत्वादन्तरङ्गमेव भवतीति मनोरमोक्कतं चिन्त्यम् । स्वविषयमध्ये एकत्रोदाहणे चरितार्थस्योदाहरणान्तरेऽपि प्रवृत्त्यभ्युपगमात् । न हिगोद॑ इत्यत्रआतोऽनुपसर्गे कः॑ इति चरितार्थमितिगोप॑ इत्यादौ न प्रवर्तते । तस्मादणं बाधित्वा कप्रत्ययो यथा स्वविषये सर्वत्र प्रवर्तते तथेहापि प्रवर्तत इति । तदपरेन क्षमन्ते । गोदगोपादौ सर्वत्राऽणः कस्य च प्राप्तिसंभवे विनिगमनाविरहादणं बाधित्वा कप्रत्यय एव भवति । प्रकृतेत्वानर्देत्यादौ हलादिः शेषात्प्राक्अतो गुणे॑ इत्यस्य प्राप्त्यभावाद्वैषम्यमस्तीति । ननुअत आदे॑रित्यस्य पररूपाऽपवादत्वमेधामासेत्यत्र यदुक्तं तत्कथं सङ्गच्छते, आनृधतुरित्यादौआद्गुणः॑ इति गुणस्याऽपि प्राप्तेः । न च यथा सवर्णदीर्घो यण्गुणयोरपवादस्तथाऽयमप्युभयोरवाद इति वाच्यम्, एवमप्यानर्देत्यत्रेव हलादिः शेषात्प्रागेवाऽऽसेत्यत्रापिअत आदे॑रित्यस्य प्रवृत्तौ किं तेन पररूपापवादत्वकथनेनेति चेत् । अत्र केचिदाहुः — द्वन्द्वापवाद एकशेष॑ इति केषांचित्प्रवादे यथाऽपवादशब्दो बाधकपरः,सरूपाणा॑मित्येकशेषानारम्भे हि स्वाद्युत्पत्तौ द्वन्द्वस्य प्रवृत्तेरेकशेषसूत्रारम्भे तु पदान्तराऽभावेन तदप्रवृत्तेस्तथाऽत्रत्याऽपवादशब्दोऽपि बाधकपरः ।अत आदे॑रित्यनाररम्भे हि हलादिः शेषे पररूपप्रवृत्तावेधामासेति न स्यात् । आरब्धे तु तत्सूत्रे तथा स्यादेव, परत्वाद्धलादिःशेषात्प्रागेव दीर्घप्रवृत्त्या पररूपस्याऽप्रसक्तेरिति । यद्यप्यासेत्यादौ प्रथमतःअत आदे॑ रिति दीर्घाऽकरणेऽपि हलादिःशेषे पररूपे च कृते तस्य पूर्वान्तवद्भावे सति अभ्यासग्रहणेन ग्रहणात्अत आदे॑रिति दीर्घप्रवृत्त्या समीहितरूपसिद्धिस्तथाप्य#आनर्देत्यादि न सिध्यत्येव । तत्र हितस्मान्नुड् द्विहलः॑ इति दीर्घीभूतादकारान्नुटि सिचि वृद्धिरित्यत्रेति । सिचा धातोराक्षेपात्,ऋत इद्धातो॑रित्यतो धातोरित्यनुवर्तनाच्च धातुरेव यो धातुरिति व्याख्या लभ्यत इति ज्ञेयम् । विरिवेति । विः — पक्षी ।", "31012": "<<भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः>> - भृशादिभ्यो ।भुवी॑त्येतद्व्याचष्टे — भवत्यर्थ इति । भृश, शीघ्र, मन्द, पण्डित, दुर्मनस्ष सुमनस्, उन्मनस्, इत्यादयो भृशादयः ।क्व दिवे॑त्यादि भाष्यकारीयं प्रत्युदाहरणं व्याचष्टे - ये रात्रावित्यादिना । प्रातिपदिकमिति । न त्वयं धातुः,ग्रसेरा च॑ इत्यौणादिकेन मन्प्रत्ययान्ततया निष्पादितत्वात् । एवं च वक्ष्यमाणज्ञापकं सङ्गच्छत इति भावः । अनुबन्ध इति । सङ्ग्रामेति मशब्दाकाराद्भिन्नोऽकारोऽनुबन्ध इत्यर्थः । तथा च अत्रअतो गुणे॑ इति पररूपं ज्ञेयम् । यदि तु मकारादकारोऽनुबन्धः स्यात्तर्हि असङ्ग्रमतेत्यत्रणौ चङी॑त्युपधाह्रस्वः स्यात् । णिच्सन्नयोगेनाऽनुबन्धकरणे तु अनुदात्तेत्वलक्षणस्यात्मनेपदस्याऽप्रवृत्तयाणिचश्चे॑ति कर्तृगामिनि क्रियाफल एवात्मनेपदं स्यान्न तु परगामिनीति विवेकः । सामर्थ्यादिति । केवलस्य ग्रामशब्दस्य युद्धे प्रयोगाऽभावादिति भावः । क्रियायोगाऽभावादुपसर्गो नेत्यभिप्रेत्याह — — समामाकारमिति । पूर्वपदमिति । तच्च समास एवं संभवति । तेन आन्दोलयित्वा प्रेङ्कोलयित्वेत्यादौ आ — प्रेत्यादीनां न पृथक्करणम् । अन्यथा तेषां क्त्वाप्रत्ययान्तेन समासे सति ल्यप् स्यादिति भावः । पृथक्करणस्य फलमाह — तेन#एति । सुमिमनायिषति उन्मिमनायिषतीत्यादौ मनश्शब्दस्य द्विर्वचनं पृथक्करणस्य फलमिति बोध्यम् । अवागल्भतेति ।आचारेऽवगल्भे॑ति क्विब्विधौ अवेत्यस्य पृथक्करणाद्गल्भशब्दात्प्रागट् । किं तत्साजात्यमित्यत आह — तेनेति । उरुआआमिति ।माहेयी सौरभेयी गौरुरुआआ माता च शृङ्गिणी॑त्यमरः । औरुआईयदिति । क्यज्नतादुरुआआशब्दाल्लङि अङ्गसयाऽऽटि च कृतेउस्यपदान्ता॑दिति पररूपं प्राप्तम् । न चानर्थकोऽमुस् न ग्रहीष्यत इति वाच्यं, छिन्द्युर्भिन्द्युरित्यादावप्सुसोऽनर्थकत्वादागमसहितस्यैवार्थवत्त्वात् । तथा चाऽयः, अपुरित्यादावेव स्यात् । एवं चाऽयमेवाऽऽडागमस्य उसि परे प्रतिषेधोऽर्थवद्ग्रहपरिभाषाया अत्राऽप्रवृत्तौ ज्ञापक इति स्थितम् । अतएवउस्यपदान्ता॑ दित्यत्राऽपदान्तात् किं, कोरुओति भाष्ये प्रत्युदाहृतम् ।*उस्योमाङ्क्ष्वाटः प्रतिषेधः । औङ्कारीयदिति ।ओमाङोश्चे॑ति पररूपं प्राप्तम् । आडागमस्याऽऽङि परे उदाहरणमाह — औढियदिति । यत्रादेशेनाऽपह्मतं तत्रापि यदि पृथक्कृतिस्तदा आङः परत्राऽऽटा भाव्यमित्याडागमस्याऽऽङि परे पररूपनिषेधो व्यर्थः स्यात् । तथा च ज्ञापकस्य विशेषविषयत्वे प्रमाणमयमेव निषेध इति भावः ।च॑शब्दं प्रयुञ्जानः सूत्रकारोऽपि ज्ञापकस्य विशेषविषयत्वेऽनुकूल इत्याह - चशब्देनेति । षाष्ठे स्थितमिति । भाष्यकारोऽप्युक्तार्थे प्रमामभूत इति भावः । स्यादेतत् -अवधीरयती॑ त्यादाववशब्दस्य पृथक्करणमस्ति वा, न वा । आद्ये बोपदेवेनाऽवशब्दात् प्रागाडागमं वकारद्वित्वं च कृत्वा चङि आववधीरदित्युदाहृतं, तन्न संङ्ग्छेत् । द्वितीये तु॒इतीव धारामवधीर्य मण्डलीक्रियाश्रियाऽभण्डि तुरङ्गमैर्मही॑ति श्रीहर्षप्रयोगो न सङ्गच्छेतेति चेत् । अवधीरेत्यस्यापि । प्रयोगद्वयप्रामाण्यान्मुनित्रयविरोधाऽभावाच्च । यदा त्ववधीरेति विशिष्टस्यैव धातुत्वं तदाऽवधीरयित्वेति साधुः । धीरेत्यस्यैव धातुत्वे तु अवधीर्येत्यस्य साधुत्वमिति । तस्येति", "31013": "", "31014": "<<कष्टाय क्रमणे>> - कष्टाय क्रमणे । क्यङेवानुवर्तते, स्वरितत्वात्, न तु क्यष् । कष्टायेति निर्देशादेव चतुथ्र्यनतं लभ्यते । क्रमणमुत्साहः ।वृत्तिसर्गतायनेषु॑ इति कर्मेरात्मनेपदविदायकसूत्रेसर्ग उत्साह॑ इति सर्वैव्र्याख्यातत्वात् ।* सत्रकक्षकष्टकृच्छ्रगहनेभ्यः कण्वचिकीर्षायामिति वक्तव्यम् । कण्वं । कष्टं - कृच्छ्रम् ।कृच्छ्रगहनेयोः कषः॑ इति इडभावः । न च दुःखं कर्तुमुत्साहः संभवतीति तत्साधनं पापमिह गृह्रत इत्याह — — पापं कर्तुमिति । द्वितीयान्तेभ्य इति । चिकीर्षायां द्वितीयान्तस्यैवान्वययोग्यत्वादेवमुक्तम् ।", "31015": "<<कर्मणः रोमन्थतपोभ्यां वर्तिचरोः>> - कर्मणो ।रोमन्थतपोभ्या॑मित्यनेन सामानाधिकरण्यात्कर्मण इति पञ्चमी । प्रत्येकं संबन्धादेकवचनमित्याह — कर्मभ्यामिति । वर्तनायां चरण इति । सूत्रेवर्ती॑ति ण्यन्ताद्वृतेःण्यासश्रन्थे॑ति युचं बाधित्वाऽस्मादेव निपातनात्क्तिन् । चर्तेस्तु संपदादित्वाद्भावे क्विबिति भावः । केचित्तु वर्तिशब्दो वर्तयतेःइक्श्तिपौ॑ इति इकि रूपम् । लक्षणया चाऽर्थलाभ इत्याहुः ।", "31016": "", "31017": "<<शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे>> - शब्दवैर । कर्मण इत्यनुवर्तत इत्याह — एभ्यः कर्मभ्य इति ।", "31018": "<<सुखादिभ्यः कर्तृवेदनायाम्>> - सुखादिभ्यः ।कर्तु॑ इति पृथक्पदं लुप्तषष्ठीकम् ।विद चेतनाख्याननिवासेष्वि॑ति चौरादिकाद्युचिवेदना॑शब्दो ज्ञानवाची, तदपेक्षमेव कर्तृत्वम् । कर्ता च सुखादिभिरन्वेति । तदेतदाह - वेदनाकर्तुरेवेति । परस्य सुखमिति । इह यन्निष्ठं सुकं तद्भिन्नो वेदनाकर्तेति वाक्यमेव । सुखादयः सुखदुःखतृप्रकृच्छ्रादयः ।", "31019": "<<नमोवरिवश्चित्रङः क्यच्>> - नमोवरिवः । चित्रङः क्य्जविधानामीत्वार्थं, ङित्करणं तु तङर्थम् । विस्मापयत इत्यन्य इति । तथा च भट्टिः — ततश्चित्रीयमाणोऽसौ॑ इति । असौ = मायामृगश्चित्रीयमाणो = विस्मयमुत्पादयन्नित्यर्थः ।", "31020": "<<पुच्छभाण्डचीवराण्णिङ्>> - पुच्छभाण्ड ।करणे॑ इत्यनुवृत्तेरत्रापि क्रियाविशेष एव णिङ् । तमेव विशेषं दर्शयति — पुच्चादित्यादिना । ङकारोऽत्रणेरनिटी॑ति णिङ्णिचोः सामान्यग्रहणार्थो, नित्यात्मनेपदार्थश्च । उदपुपुच्छत ।", "31021": "<<मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच्>> - त्रिलोकीतिष त्रयाणां लोकानां समाहारेतद्धितार्थ॑इति द्विगुः ।अकारान्तोत्तरपदो द्विगु॑रिति स्त्रित्वम् । त्रिफलेति । अत्रद्विगो॑रिति ङीप्प्राप्नोति नतुपाककर्णे॑ति ङीष्, तत्रजाते॑रित्यनुबृत्तेः । त्र्यनीकेति । अनीकम् — अग्रता । त्रयाणामनीकानां समाहारः ।अजादेराकृतिगणत्वाट्टा॑बिति त्र्यनीकाधिकरणे मीमांसकाः ।", "31022": "", "31023": "<<नित्यं कौटिल्ये गतौ>> - नित्यं कौटिल्ये ।नित्यं॑ शब्दोऽवधारणार्थक इत्याह — कौटिल्य एवति । तक्रकौण्डिन्यन्यायेनैवेष्टे सिद्धे नित्यग्रहणं तस्य न्यायस्याऽनित्यत्वज्ञापनार्थम् । तेनमतिबुद्धिपूजार्थेभ्यश्चे॑ति वर्तमाने क्तेनाऽबाधनात्पूजार्थेभ्यो भूते क्तः सिध्यति । ततश्चक्तस्य च वर्तमाने॑ इति षष्ठी न प्रवर्तत इतिपूजितो यः सुरासुरै॑रिति तृतीया साधुरेव । इत्यादीति । जंजभ्यते । दंदह्रते । दंदश्यते । बंभज्यते ।पस॑धातुर्दन्त्यान्तः सौत्रो गत्यर्थ इति स्पश बाधनस्पर्सनयोरित्यत्र माधवः । पंपस्यते । काशिकायां तु तालव्यान्तः क्वचिद्दृश्यते । एवं जञ्जभीति । दन्दहीतीत्यादि यङ्लुकि उदाहर्तव्यम् ।", "31024": "", "31025": "<<सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्ण- चूर्णचुरादिभ्यो णिच्>> - सत्यापपाश । एतस्योदाहरणानि अग्रे नामधातुषु स्फुटीभविष्यन्तीति नास्माभिरुपपाद्यन्ते । त्वचशब्दोऽकारान्तः । प्रपञ्चार्थमिति ।सत्याप॑ग्रहणं तु आपुगर्थमिति ज्ञेयम् । अन्ये त्वाहुः — सापेक्षेभ्योऽपि णिजर्थमेषामुपादानम् । अन्यथारमणीयं घटं करोती॑त्यादाविवरमणीयं रूपयती॑त्यादावपि णिज्न स्यादिति ।", "31026": "<<हेतुमति च>> - हेतुमति च । स्वनिष्ठाधारतानिरूपिताधेयतासंबन्धेन हेतुर्यत्रास्ति स हेतुमान् = व्यापारः, तस्मिन्वाच्ये णिजित्याह — प्रयोजकव्यापार इति । प्रयोजकश्चेतनाऽचेतनसाधारण्येन विवक्षितः । स च क्वचित्फलरूपः ।देवदत्तः गमयती॑ त्यादौ सिद्धः ।भिक्षा वासयति॑सङ्ग्रामो वासयती॑त्यादौ तु फलरूपः । प्रेषणादाविति । भृत्यादेर्निकृष्टस्य प्रवर्तना प्रेरणा । आज्ञेत्यर्थः । आदिशब्देनाऽध्येषणानुमत्यादीनमुपादानाम् । समानस्याऽधिकस्य वा ऋत्विगाचार्यादेः प्रवर्तना - अध्येषणम् । प्रार्थनेत्यर्थः । अनुमतिस्तु राजादेः संमतिः, तां विना यागादिक्रिया न निष्पद्यत इत्यनुमतिमात्रेण राजादिः प्रयोजकः ।अनुमत्यादी॑त्यादिशब्देनात्रोपदेशानुग्रहयोरुपादानम् ।ज्वरितः कषायं पिबे॑दित्युपदेशमात्रेण वैद्यादिः प्रयोजकः । यस्तु केनचिद्धन्तुमिष्टं पलायमानं निरुणद्धि सोऽपि हन्तुरनुग्राहकत्वेन प्रयोजकः । सर्वेऽप्येते विशेषाः कथं णिच्प्रत्ययगम्या इति चेत् । अत्राहुः — सर्वानुगतं प्रवर्तनासामान्यं णिचोऽर्थः, विशेषास्त्वर्थप्रकरणादिगम्या इति । नन्वेवं णिचो लोडादीनां च पर्यायता स्यात्ततश्चइदानीं पृच्छतु भवा॑निति वक्तवयेप्रच्छयती॑ति णिजप प्रयुज्येतेति चेत् । मैवम् । कर्तुः प्रयोजको हि हेतुः, प्रैषविषयो यः संबोध्यो दैवदत्तादिः स तु नाद्यादि प्रश्नकर्तृत्वेनावधारितः । तथा च प्रयोज्यप्रवृत्त्युपहिता या प्रयोजकनिष्ठप्रवृत्तिः सा णिजर्थः, तदनुपहिता प्रयोजकप्रवृत्तिस्तु लोडर्थ इत्युभयोर्भेदः । उक्तं च - द्रव्यमात्रस्य तु प्रैषे पृच्छादेर्लोड् विधीयते । सक्रियस्य प्रयोगस्तु यदा स विषयो णिचः॑ ।इति । अस्यार्थः - कर्तृत्वेनाऽनवधारितस्य देवदत्तदेस्तु प्रैषेप्रच्छ ज्ञीप्सायाटमित्यादेर्लोड्भवति । प्रयोज्यप्रवृत्त्युपहितप्रवृत्त्याश्रयस्य प्रयुक्तिस्तु यदा सा णिचो विषय इति । किं च प्रयोक्तृनिष्ठा प्रयुक्तिर्लोडर्थः, प्रयोक्रप्रयोक्तृकर्तका तु णिजर्थः ।पच देवदत्ते॑त्यत्र हि वक्तैव प्रेरकः ।पाचयती॑त्यादौ वक्तृभिन्नः,पाचयामी॑त्यादौ तु वक्तेति दिक् ।", "31027": "<<कण्ड्वादिभ्यो यक्>> - कण्ड्वादिभ्यो यक् ।धातोरेकाच॑ इत्यस्माद्धातोरिति वर्तते । वेति निवृत्तम् । अन्यथा कण्डवतीति स्यात्तदाह - धातोर्नित्यमिति । केचित्तुनित्यं कौटिल्ये गतौ॑ इत्यतो नित्यमित्यनुवर्तत इत्याहुः । तच्चिन्त्यम् । तत्र हि नित्यग्रहणमेवकारार्थे वर्तते तक्रकौण्डिन्यन्यायस्याऽनित्यतां ज्ञापयितुमिति प्राग्व्याख्यातत्वात् ।किं चनित्यं कौटिल्ये गतौ॑ इत्यत्रापि वेत्यनुर्तते । अन्यथा गत्यर्थेभ्यो नित्यं यह् स्यादिति । स्वार्थे इति । इति कण्ड्वादिभ्यो यक्स्यात्कृञर्थे इति प्राचोक्तमयुक्तमिति भावः । द्विधा हीति । यकः कित्त्वेन धातव इति ज्ञायते । कण्डूञिति दीर्घपाठेन प्रातिपदिकान्यपीति । यदि तु धातव एव स्युस्तर्हि ह्रस्वान्ते पठितेऽपि यकि परेअकृत्सार्वे॑ति दीर्घेण कण्डूयतीत्यादिसिद्धेः किं तेन दीर्घपाठेन । द्वैविध्ये तु धातुभ्यो यकि गुणनिषेधेन कित्त्वं सार्थकम् ।कण्डू॑रित्यादियग्रहितरूपसिद्ध्या दीर्घपाठोऽपि सार्थकः । अत एवोक्तं भाष्ये - धातुप्रकरणाद्धातुः कस्यचाऽसञ्जनादपि । आह चायमिममं दीर्घं मन्ये धातुर्विभाषितः॑ । इति.एतेन कण्डूं करोति कण्डूयतीति प्राचोक्तविग्रहोऽपि परास्तः । कण्ड्वादयः प्रातिपदिकान्येवेत्यनभ्युपगमात् । न च द्वैविध्याभ्युपगमेऽपि प्रातपदिकादेव यक् स्यादिति वाच्यं, तथाहि सति दातोर्लडादौ कण्डवतीत्याद्यनिष्टप्रसङ्गात् । सुखदुःखादिप्राप्तिपदिकेभ्यो यकि अल्लोपाऽसंभवन सुख्यतीत्याद्यसिद्धिप्रसङ्गाच्च । यत्तु कैश्चित्शब्दवैरकलहे॑ति सूत्रात्करणे इत्यनुर्तनात्कृञर्थे यगिति प्राचोक्तव्याख्यायां न किंचिद्बाधकमित्युक्तं,तच्चिन्त्यम्, अनुधृत्तौ मानाऽभावात् । अन्यथा णिजन्तेष्विव प्रकृतिप्रत्ययाभ्यां व्यापारद्वयापत्तेरिति दिक् । पूर्वभाव इति । पूर्वत्वमित्यर्थः । लेटितेति ।यस्य हलः॑ इति यलोपः । सुख्यतीति । चुरादौ तुसुख दुःख तत्क्रियायां । सुखयती॑त्याद्युदाहृतम् । सपर । यगन्तात्अ प्रत्ययात्गुरोश्च हलः॑ इत्यनेन वा अप्रत्यये टाप् । सपर्या । अरर । आरा = प्रतोदः । तत्करणकं कर्म आराकर्म । अदन्तोऽयमिति । लेख्यति । आदन्तपक्षे तु लेखायति । महीङ् ।प्रेत्य स्वर्गे महीयते॑ इति रामायणम् । प्रसृताविति । प्रसृतिः — परिमाणविशेषः । प्रभतूभावे इति । बाहुल्य इत्यर्थः ।प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु॑इत्यमरः । संभूयस्यति । असंभूयसीत् ।नेह संशब्दसय् पृथक्कृतिः, यत्र प्रातिपदिकाद्धातुसंज्ञाप्रयोजकप्रत्ययस्य विधानं तत्रैव पृथक्कृतिरित्याहुः । आकृतिगण इति । तेन दुवस् सन्दीपने इत्यादि सिद्धम् । प्रयुज्यते चसमिधाऽग्नि दुवस्यते॑त्यादि । इति तत्त्वबोधिन्याम् कण्ड्वादिप्रक्रिया ।", "31028": "", "31029": "<<ऋतेरीयङ्>> - ऋतेरीयङ् । तान्तोऽयं धातुरिका निर्दिष्टो न त्विकारान्तः,वञ्चिलुञ्च्यृतश्चे॑ति निर्देशात् । केचित्तु ईयङिति दीर्घोच्चारणात्तान्तोऽयमिति ज्ञायते । इदन्तत्वे हि सवर्णदीर्घेणैव सिद्धेरियङमेव कुर्यादित्याहुस्तञ्चन्त्यम् । इदन्तत्वे तुएरनेकाच॑ इति यणा सवर्णदीर्घस्य बाधात् । न च ऋतेर्यङ्विधावकृत्सार्वेति दीर्घोपपत्तेरीयङ्विधानं तान्तत्वेलिङ्गं भवत्येवेति वाच्यं, यङ्विधौसन्यङो॑रिति द्वित्वापत्तेः । कृपायां चेति ।अर्तनं च ऋतीया च ह्यिणीया च घृणार्थकाः॑ इति,जुगुप्सा करुणा घृणे॑ति चाऽमरः ।", "31030": "", "31031": "<<आयादय आर्धद्धातुके वा>> - आयादयः । आयेयङ्णिङ इत्यर्थः । विवक्षायामिति । परसप्तम्यां तु आर्धधातुकोपदेशकाले यददन्तमित्यनुपदं वक्ष्यमाणं न सङ्गच्छेतेति भावः । अन्ये तुगुपू रक्षणे॑ इत्यस्मात् क्तिनि पश्चादाय्प्रत्यये गोपायतिरित्यनिष्टप्रसज्येत । विवक्षायामित्युक्ते तु आय्प्रत्यये कृते क्तिनं बाधित्वाअप्रत्यया॑ दित्यकारप्रत्यये टापि चगोपाया॑धूपाये॑ति सिद्ध्यतीत्याहुः ।", "31032": "<<सनाद्यन्ता धातवः>> - सनाद्यन्ताः । सदनादय इति ।सन्क्यच्काम्यचज्क्यङ्क्यषोऽथाचारक्विप्णिज्यङौ तथा । यगाय णिङ् चेति द्वादशीमी सनादयः॑ । धातुत्वादिति । प्रत्ययविशिष्टस्य धातुत्वादित्यर्थः ।सुप्तिङन्त॑मित्यनेनसंज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ती॑तिज्ञापितत्वाद्विशिष्टस्य धातुसंज्ञालाभाय अस्मिन् सूत्रे अन्तग्रहणं कृतम् ।भूवादयो धातवः॑ इत्यस्यानन्तरंसनाद्यन्ताश्चे॑ति न सूत्रितं, सनादयो द्वादशेवेति निर्धारणाऽलाभापत्तेः । निर्धारणाऽलाभापत्तेः ।सनाद्यन्ता धातवः॑ इत्यस्यानन्तरं तुभूवादयंश्चे॑ति पठित्वाधातव॑ इत्येतत्तन्न त्यक्तुं शक्यम् ।", "31033": "", "31034": "", "31035": "<<कास्प्रत्ययादाममन्त्रे लिटि>> - कास्प्रत्यया । अमन्त्रेति किम् । कृष्णो नोनाव । अच्छन्दसीति तु नोक्तं, मन्त्रभिन्ने छन्दसि आम इष्टत्वात् । यथा — पुत्रमामन्त्रयामास॑ । प्रत्ययान्तत्वादाम् ।अथ ह शुनः शेप ईक्षांचक्रे॑ ।इजादेश्चे॑त्याम् । इह चुलुम्पचकासृदरिद्रादिब्य आमोऽप्राप्तौकास्यनेकाच॑ इति वार्तिकमारभ्यते ।कास्यनेकाज्ग्रहणं कर्तव्यम् । प्रत्ययग्रहणमपनीयेति । अन्यथा अ इवाचरति अति । अस्य लिटि औ अतुरित्यादि वक्ष्यमाणं न सिध्येदिति भावः । अन्ये तु भाष्यावार्तिकयोः प्रत्ययग्रहणमपनीयेत्यनुतया प्रत्ययान्तादेकाचोप्याम् भवत्येव । अ इवाचरति इत्याचारक्विपि लिटि आंचकार आंचक्रतुरित्यादीत्याहुः ।", "31036": "<<इजादेश्च गुरुमतोऽनृच्छः>> - ॒धातोरेकाचः॑ इत्यतो धातुग्रहणंकास्प्रत्यया॑दित्यत आम् लिटीति चानुवर्तत इत्याह - इजादिर्यो धातुरित्यादि । गुरुमान् किम् । इयेष । ऋच्छेस्त्वानच्र्छ॥", "31037": "", "31038": "<<उषविदजागृभ्योऽन्यतरस्याम्>> - उवोषेति ।पुगन्ते॑ति गुणः ।अब्यासस्याऽसवर्णे॑ इत्युवङ् । घृषु संघर्षे । ल्युटि — घर्षणम् । घस्लृ अदने । अयमिति । यद्ययं सार्वत्रिकः स्यात्तदा लिटपि प्रयुज्येत, ततश्चलिटन्यतरस्या॑मिति विकल्पेनादेशविधानं व्यर्थं भवेदिति भावः । अत्रैव पाठ इति । भ्वादौ परस्मैपदे पाठ इत्यर्थः । क्मरचीति ।सृघस्यदः क्मर॑ जिति सूत्रे ।", "31039": "<<भीह्रीभृहुवां श्लुवच्च>> - आटीति ।आडुत्तमस्ये॑त्यनेन । परत्वादिति ।हुश्नुवो॑रिति यणपेक्षया परत्वादित्यर्थः ।", "31040": "<<कृञ् चानुप्रयुज्यते लिटि>> - कथं तर्हितं पातयां प्रथममास पपात पश्चात् ।प्रभ्रंशयां यो नहुषं चकारे॑ति । प्रमाद एवायम् । न च विपरीतप्रयोगनिवृत्तिमात्रे सूत्रस्य तात्पर्यात्पश्चात्प्रयोगो व्यवहितोऽपि न दुष्यतीति वाच्यम्,विपर्यासनिवृत्त्यर्थं व्यवहितनिवृत्त्यर्थं चे॑ति वार्तिकविरोधात् । अन्यस्यापीति । यदीह कृञ्शब्देन एक एव धातुर्गृह्रेत तदा धात्वन्तरस्य प्राप्त्यभावात्आम्प्रत्ययव॑दिति सूत्रेऽनुप्रयुज्यमानस्य कृञ इति विशेषणं व्यर्थं स्यादिति भावः । न चात्रकृञ्चे॑ति चकारेणैवाऽनुप्रयोगोऽन्यस्यापीति ज्ञायत इति शङ्क्यं,धातोराम् स्यात्, अनुप्रयुज्यते च लिट्परः कृञित्यर्थसमर्पकतया तस्योपक्षीणत्वात् । अभेदान्वय इति । सामान्यविशेषयोरभेदान्वयो लोकसिद्ध इति भावः । एवं च एंधाचक्रे एधांबभूवे इत्यादौ एककर्तृका भूतानद्यतनपरोक्षा वृद्ध्यभिन्ना क्रियेति तुल्यो बोधः । ननु करोतिः सकर्मको भवतिस्त्वकर्मक इति कथमिह तुल्यतेति चेत् । अत्राहुः — यदा हि करोतिरुत्पादनार्थकः स्वातन्त्र्येण प्रयुज्यते — घटं चक्रे राज्यं चकारेति, तदा नियमेन सकर्मकत्वम् । यदा तु क्रियान्तरसमानाधिकरणः करोतिः प्रयुज्यते — जुहवांचकारेत्यादौ, तदा यत्समानाध#इकरणः करोतिस्तस्य सकर्मकत्वाऽकर्मकत्वाभ्यां स्वयमपि तथाबावं भजते । एवं भ्वस्त्योरप्याम्प्रकृतिसामानाधिकरण्येन क्वचित्सकर्मकत्वं बोध्यम् । अत एवाऽनुप्रयुज्यमानाद्भवतेः सकर्मकत्वात्कर्मणि लिट् । तथा च माघः — तस्यातपत्रं बिभरांबभूवे॑इति, श्री हर्षश्च ।तपर्त्तुपूर्तावपि मेदसां भरा विभावरीभिर्बिभरांबभूविरे॑ इति । अत्रेदमवधेयं — जुहाव जुहवां चकार जुहवांबभूवेत्यादौ केवलो होमो गम्यते, इतरत्र तु होमरूपा क्रियेति बोधः । फले तु न कश्चिद्विशेषः, घटमानय द्रव्यघटमानयेत्यत्र यथा । एवं चाऽऽम्प्रकृत्यर्थगतिकारकसङ्ख्यादिविशेषाभिव्यक्तिरनुप्रयोगस्य फलमिति । अनन्वितेति । संपद्यर्थस्याऽऽम्प्रकृत्यर्थस्य चाऽभेदान्वयो न संभवति, उभयोरपि विशेषरूपत्वादिति भावः ।", "31041": "<<विदाङ्कुर्वन्त्वित्यन्यतरस्याम्>> - लोटो लुगिति ।आमः॑ इति सूत्रेमन्त्रे घसे॑त्यतो लेरित्यनुवर्त्त्य आमः परस्य लेर्लुगितिव्याकुर्वतां मतेनेदमुक्तम् । निष्कर्षे तु तेनैव लुगिति बोध्यम् । पुरुषवचने इति । प्रथमपुरुषो, बहुवचनं चेत्यर्थः ।परस्मैपदमप्यविवक्षितमेवे॑ति केषांचिन्मते कर्मव्यतिहारे तङि — व्यतिविदाङ्कुरुताम् । व्यतिविदाङ्कुर्वातामित्यादि ज्ञेयम् ।", "31042": "", "31043": "<<च्लि लुङि>> - ॒इकार उच्चारणार्थ॑ इति मनोरमा । न चमन्त्रे घसे॑ति सूत्रे लेरिति स्थाने ल इत्युच्यमाने च्लिभिन्नस्यापि लकारस्य लुक् स्यादिति शङ्क्यं,,गातिस्थे॑ति सूत्रात्सिच् इत्यनुवत्र्य सिच्स्थानिनः = स्थान्यर्हसय् लस्य लुगिति व्याख्यायामतिप्रसङ्गाऽभावद्विभाषानुवृत्तेर्लुको वैकल्पिकतया छन्दसि रूपान्तरस्याऽनापाद्यतया च सिजनुवृतिंत विनापि नातिप्रसङ्ग इत्याहुः । शबाद्यपवाद इति । आदिशब्दात्तत्त्दगणप्रयुक्तानां श्यन्नादीनां ग्रहणम्॥", "31044": "<<च्लेः सिच्>> - इचाविताविति । तत्रेदित्त्वे प्रयोजनममंस्तेत्यत्रअनिदिता॑मित्युपधालोऽभावः॥", "31045": "<<शल इगुपधादनिटः क्सः>> - शल इगुपधा ।शल॑ इति धातोर्विशेषणात्तदन्तलाभः । शल इति किम् । अतिप्त । इगिति किम् । अगाढ । अनिटः किम् । औहिष्ट । क्सस्याचि । अजादाविति । अङ्गाक्षिप्तप्रत्ययोऽत्र विशेष्यः ।तङी॑ति तु केषांचित्प्रक्षेपस्तस्य काशिकादावनुक्तत्वादित्याहुः । अन्ये तुलुग्वा दुहे॑त्यत्र आत्मनेपदे इत्यपकर्षणात्तङीति लभ्यते । तेनदृशे क्सः॑ इति वार्तिकोक्तक्सप्रत्ययस्य लोपो न भवति, सदृक्षा अन्यादृक्षा इत्यत्रेत्याहुः ।", "31046": "<<श्लिष आलिङ्गने>> - सामर्थ्यादिति । यदि हिश्लिष॑ इति प्राप्त एव क्सो नियम्येत तर्हि योगविभागो व्यर्थः स्यादिति भावः । शल इगुपधादित्यस्यापीति । तेन कर्मण्यातांप्रभृतिष्वनालिङ्गने सिजेव भवति न तु क्सः ।समाश्लिक्षत जतूनि काष्ठै॑रिति क्सप्रत्यये सति तु समाश्लिक्षन्तेति स्यादिति भावः । प्रत्यासत्ताविति । आलिङ्गनं हि प्राणिकर्तृकं न तु काष्ठादिकर्तृकमिति भावः ।श्लिषश्च्लेरालिङ्गन एव क्स॑ इति व्याख्यानसय् फलं दर्शयति — कर्मणीत्यादिना । अश्लिक्षातामित्यादौ यद्यपि क्ससिचोर्विशेषो नास्तिक्सस्याची॑त्यकारलोपात्, तथापि थासादावस्त्येव विशेष इति ध्वनयन्नुदाहरति — अश्लिष्ठः । अश्लिड्ढ्वमिति । न्यासकारादय इति । तथा च तन्मतेञीतः क्तः॑ इति वर्तमाने क्तो भवति । आदित्त्वान्निष्ठायां नेट् । स्विन्नः ।विभाषा भावादिकर्मणोः॑ । स्विन्नम् । स्वेदितमित्यादि सिद्धम् । षिधु । संराद्धिर्निष्पत्तिः ।उदितो वे॑ति क्त्वायामिड्विकल्पः । इट्पक्षेरलो व्युपधा॑दिति वा कित्त्वम् । सिधित्वा । सेधित्वा । सिद्ध्वा । प्रामादिक इति । ऊदित्त्वेत्वनुदात्तेषु सिध्यतेः पाठो व्यर्थः स्यादिति भावः ।", "31047": "<<न दृशः>> - क्रष्टा । कर्ष्टेति ।अनुदात्तस्य चे॑त्यम् वा । *स्पृशमृशकृषतृपदृपां च्लेः सिज्वा वाच्यः । धक्ष्यतीति । घत्वषत्वभष्भावाः । अधाक्षीदिति ।अस्तिसिचः॑ इतीट् । वृद्धिः । घत्वादि प्राग्वत् । मिह सेचने । सेचनमिह मिश्रीकरणकं विवक्षितं, न तु सेचनमात्रम् ।मेढ्रं मेहनशेफसी॑ इत्यमरः । कित निवासे । कितेव्र्याधिप्रतीकारादावेव सन्नित्युक्तं । तदुदाहरति — चिकित्सतीति । रोगमपनयतीत्यर्थः । शत्रुं चिकित्सति । निगृह्णातीत्यर्थः । क्षेत्रे तृणं चिकित्सति । अपनयति, नाशयति वेत्यर्थः । अर्थान्तरे चुरादिरित्युक्तं । तदुदाहरति — केतयतीति । षच समवाये । समवायः — सम्बन्धः । भेंजतुरिति ।तृफलभजे॑त्येत्त्वम् । भक्ष्यतीति । कुत्वषत्वे । त्विष दीप्तौ । अत्विक्षदिति ।शलैगुपधादिति क्सः । कत्वषत्वे । अत्विक्षातामिति ।क्सस्याची॑ति लोपः । यज देवादेवपूजा त्विह देवतोद्देशेन विधिबोधितो द्रव्यत्यागः ।", "31048": "<<णिश्रिद्रुस्रुभ्यः कर्तरि चङ्>> - णिश्रिद्रु । च्लेः सिचोऽपवादः ।", "31049": "<<विभाषा धेट्श्व्योः>> - विभाषा धेट् ।च्लि लुङी॑त्यनुवर्तते,णिश्री॑त्यस्मात्कर्तरीति च । तदाह — च्लेश्चङ् वेत्यादि । अदधदिति । चङि आतो लोपः । आयतेरुदाहरणम् — अशिइआयत् ।", "31050": "", "31051": "", "31052": "<<अस्यतिवक्तिख्यातिभ्यः अङ्>> - वक्तीति ।ब्राउवो वचिः॑वच परिभाषणे॑ इति उभयोग्र्रहणम् । ईर । ईरिता । ईरिष्यते । लङि । एर्त । ऐराताम् । ऐरत । ऐरि । ऐर्वहि । ऐर्महि ।", "31053": "<<लिपिसिचिह्वश्च>> - लिपिसिचि । लिप उपदेहे । षिच क्षरणे ।अलिपत् । असिचत् ।", "31054": "<<आत्मनेपदेष्वन्यतरस्याम्>> - अच्छ वदतीति ।अच्छे॑त्यस्य वदयोगे गतित्वाद्धातोः प्राक् प्रयोगः ।", "31055": "<<पुषादिद्युताद्यॢदितः परस्मैपदेषु>> - पुषादिद्युता । पुष धातुर्भ्वादौ दिवादौ क्र्यादौ चुरादौ च पठते । यदि तुपुष पुष्टा॑ विति भौवादिकधातुमारभ्य पुषादिगणो गृह्रेत तदा द्युतादिग्रहणमनर्थकं भवेत्, पुषेरुत्तरत्र द्युतादीनां पाठात् । नापि क्राद्यन्तर्गणः, तत्र हि पुषधातोरग्रेमुष स्तेये॑,खच भूतप्रादुर्भावे॑हेठ च॑ग्रह उपादाने॑ इति चत्वार एव पठन्ते । यदि तु त एव जिघृक्षिताः स्युस्तर्हि लाघवाल्लृदित एव क्रियेरन् । ग्रहेः स्वरितेत्त्वेऽपि ऌकारेणैव तन्निर्वाहादनेकानुबन्धासङ्गगौरवशङ्काया अप्यभावात् । नापि चुरादिः, णिचा व्यवधानेन ततोऽन्यतरस्य च्लेरसंभवात् । अतः परिशेषाद्दिवादय एव गृह्रन्त इत्याह — श्यन्विकरणपुषादेरिति । केचित्तुदिवाद्यन्तर्गत एव पुषादिर्गृह्रते, व्याख्यानादित्याहुः । चुरादीनां सर्वेषां णिज्वकल्प इति पक्षे चौरादिकपुषादेरपि परः च्लिः संभवतीति तेषामाशयः ।नन्दिग्रहिपचादिभ्यः॑ इतवत्पुषद्युताद्यलृदितः॑ इति सूत्रयितुमुचितम् । ननु पुषादयो द्युतादयश्च लृदित एव कुतो न कसृता इति चेत् । अत्राहुः — निरनुबन्धेषु सानुबन्धेषु च प्रत्येकं ऌकारपाठे विपरीत गौरवं स्यात् । न च अनुबन्धान्तरस्य यत्प्रयोजनमात्मनेपदं तत्तु लृदित्करण#एऽपि सिध्यतीत्यनेकानुबन्धासङ्गगौरवदोषो नास्तीत्यपि शङ्क्यम् । आदितामीदितामूदितां च तेषु सत्त्वात्ऌकारेण तत्तत्कार्यामामनिर्वाहादनेकानुबन्धासङ्गगौरवस्य दुर्निवारत्वादिति । जर्ज चर्च झर्झ । एषां परिभाषणादिभिः सह यथासङ्ख्यं नास्ति, व्याख्यानादित्याहुः । परिभाषणं सनिन्दोपालम्भः । त्रयाणामपि चवर्गीयान्तेषु पाठ उचितो, न त्विहोष्मान्तेषु । णिश समाधौ । समाधिः — अन्तः करणनिरोधः । प्रणेशतीति ।उपसर्गादसमासेऽपीति णत्वम् । रोषकृते चेति । चकारात्समादौ । शश प्लुतगतौ ।नशसददे॑ति प्रतिषेधसूत्रे सान्तस्य ग्रहणमित्यभिप्रेत्य व्याचष्टे — शेशतुरिति । प्राचा तुशशशतु॑रित्युक्तं , तदयुक्तमिति भावः । अचहीदिति ।हयन्ते॑ति न वृद्धिः । रह त्यागे । अयं कथादावपि ।ज्ञप मिच्चे॑ ति मित्प्रकरणेऽप्ययमेकीयमतेन पठितः । नेच्छन्तीति । व्याख्यानमेवात्रावलम्बनम् । माभवानुहदिति ।न माङ्योगे॑ इत्याडभावः ।इरितो वे॑त्यङ्वा । अत द्युतादिः । द्युत दीप्तौ ।", "31056": "<<सर्त्तिशास्त्यर्तिभ्यश्च>> - सर्तिशास्त्यर्ति । परस्मैपदेष्विति न संबद्ध्यते, पुषादियोगादस्य पृथक्करणात् ।आङः शासु इच्छाया॑मित्यस्यात्र न ग्रहणं, कि तु सत्र्यर्तिभ्यां साहचर्यात्परस्मैपदिनः शासेरेवेत्याहुः । असरत् । अशिषत् । आरत् ।", "31057": "<<इरितो वा>> - चुश्र्योतेति ।शर्पूर्वाः खयःर॑ । यकाररहितोऽप्ययमिति । तथा च प्रयुज्यतेमधुश्चुतं घृतमिव सुपूत॑मिति । मन्थ । अयं त्रयादावपि ।षिध गत्याम् । अयमुदिदिति केचित् । तत्तु सिध्यतिबुध्यत्योः श्यना निर्देशात् सिधितं बुधितमिति वृत्तिग्रन्थविरुद्धम् । उदित्त्वे हिउदितो वे॑ति क्त्वायामिड्विकल्पान्निष्ठायामिण्न स्यात्,यस्य विभाषेति॑निषेधात् । सिषेधेति ।आदेशप्रत्यययो॑रिति षत्वम् ।", "31058": "<<जृस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च>> - जृस्तन्भु । स्तन्भुः सौत्रः । अजरत् । अजारीत् । अस्तभत् । अस्तम्भीत् । अआत् । अआताम् । अआन् । अआयीत् ।विभाषा धेट्श्व्यो॑रिति चङि — अशिइआयत् । अर्च पूजायाम् । अयं युजादौ स्वरितेत् । इह पाठस्तु कर्तृगेऽपि फले परस्मैपदार्थः । दीर्घाऽभावादिति । स्वाभाविकह्रस्वस्थानिकदीर्घाऽभावादित्यर्थः । मुखसुखार्थमिति.कृतह्रस्वस्थानिकदीर्घाकारात्परस्यापि नुड्भवत्येवेति भावः । युछ प्रमादे । युच्छतीति । अन्तरङ्गत्वात्छे चे॑ति तुकि लघूपधत्वाऽभावान्न गुणः । न च वार्णादाङ्ग बलीय इति वाच्यम्, आङ्गवार्णयोर्युगपत्प्रवृत्तावेव आङ्गस्य बलीयस्त्वात् । न च युच्छेति चकारछकारावुच्चार्येतां किमनेन तुग्विधिनेति शङ्क्यं, बहुषु धातुरूपेषु चकारछकारयोरुच्चारणे गौरवात्,छे चे॑ त्यस्य शिवच्छायेत्यादावावश्यकत्वाच्च ।", "31059": "", "31060": "<<चिण् ते पदः>> - चिण् ते पदः । तशब्द इति । सामर्थ्यादात्मनेपदप्रथमपुरुषैकवचनम् । तशब्दे किम् । अपत्थाः । प्रण्यपादीति ।चिणो लु॑गिति तशब्दस्य लुक् ।नेर्गदे॑ति णत्वम् । अबोधीति ।दीपजनबुधे॑ति चिण् । अनो रुध कामे । अनोः परो रुधधातुः कामे इच्छा । दिवादिषु पाठसामर्थ्यात्रुधादिभ्यः॑ इति श्नमं बाधित्वा श्यन् । नाप्यमिति ।सृजिदृशोर्झल्यमकिती॑त्यकित्येव विधानात् । लिश । आतपादिनाऽनल्पस्य अल्पभावोऽल्पीभावः । लिक्षीष्टेति ।लिङ्सिचावात्मनेपदेषु॑ इति कित्त्वान्न गुणः । अलिक्षतेति ।शल इगुपधे॑ति क्सः । राधोऽकर्मकात् । भिन्नक्रमं दर्शयति — अकर्मकादेवेति ।राधो वृद्धावेव श्य॑न्निति व्याख्यायामकर्मकादिति विशेषणं व्यर्थं स्यात्, वृद्धावस्याऽकर्मकत्वात् । अकर्मकात्किम् । शत्रुमपराध्नोति । हिनस्तीत्यर्थः । राध संसिद्धाविति स्वादौ ।राधो हिसाया॑मित्यनुवादार्द्धिसायामप्ययम् । उदाहरणमाहेति । अकर्मकत्वप्रयोजकस्य यस्य कस्यचिदर्थस्येति भावः । अकर्मके श्यन्नन्तस्य प्रयोगान्दर्शयति- यन्मह्रमित्यादिना । कृष्णायेति । राधीक्ष्यो॑रिति चतुर्थी । अपुषदिति । ङित्तवाद्गुणाऽभावः । शुष । शोष्टा । शोक्ष्यति ।श्लिष आलिङ्गने॑ इति सूत्रं योगविभागेन व्याचष्टे - श्लिष इति ।", "31061": "<<दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम्>> - दीपजन ।दीपी दीप्तौ॑,जनी प्रादुर्भावे॑,बुध अवगमने॑,पूरी आप्यायने॑ । एते दिवादयः ।", "31062": "<<अचः कर्मकर्तरि>> - अचः कर्म ।चिण् ते पदः॑ इत्यतश्चिण्तेशब्दावनुवर्तेते,॒दीपजने॑त्यतोऽन्यतरस्यामिति च । तदाह — अजन्तादित्यादि । अचः किम् । अभेदिकाष्ठम् । अत्र नित्यं चिण् । कर्मकर्तरि किम् । अकारि घटः कुलालेन । अत्रापि नित्यमेव । दुहश्च । कर्मकर्तरीत्येव । अदोहि गौर्गोपेनेत्यत्र तु नित्यम् । उदुम्बरः फलमिति ।कालः उदुम्बरं फलं पचती॑ति स्थिते गौणकर्मण उदुम्बरस्य कर्तृत्वविवक्षायामिह कर्मवद्भावः । ननु द्विकर्मकेषु पचेरप्रामाणिकः पाठ इति ये वदन्तितेषामयं ग्रन्थः कथं सङ्गच्छत इति चेत् । अत्राहुः — उदुम्बरः फलं पचती॑त्यत्रकर्मवत्कर्मणे॑त्यस्याऽप्राप्तौदुहिपच्यो॑रित्यनेन कर्मवद्भावो बहुलं विधीयते सृजियुज्योरिवेति न काप्यनुपपत्तरिति । *सृजियुज्योः श्यंस्तु । श्यनो नित्त्वमाद्युदात्तार्थम् । यकि तुतास्यनुदात्ते॑दित्यादिना लसार्वधातुकानुदात्तत्वे कृते यक उदात्तत्वं श्रूयेत । श्रद्धोपपन्न इति । अश्रद्धायुक्ते कर्तरि तु यगेव ।* भूषामकर्मेति । कर्मशब्दः क्रियावाचीत्याह — भूषावाचिनामिति । अन्यत्रेति । आत्मनेपदादन्यस्य निषेध आत्मनेपदमेव भवतीत्यर्थस्तदेतदाह — यक्चिणाविति । अवाकीर्ष्टेति ।लिङ्सिचौ॑ इति वेट् । आद्रियत इति । तुदादित्वाच्छेरिङ् शयग्लिङ्क्षु॑ इति रिङि इयङ् । आदृतेति ।उश्चे॑ति कित्त्वम् ।ह्रस्वादङ्गा॑दिति सिचो लोपः ।", "31063": "", "31064": "<<न रुधः>> - न रुधः ।चिण् ते पदः॑ इत्यतश्चिणनुवर्तते ।अचः कर्मकर्तरीत्येवेति ।", "31065": "<<तपोऽनुतापे च>> - तपोऽनु चकारेणअचः कर्मकर्तरी॑ त्यतः कर्मकर्तरीत्येतदनुकृष्यते । कर्मण्युदाहरणमिति ध्वनयति — अभ्याहत इत्यर्थ इति । भावेऽपीदमुदाहरणमित्याह — पापेन पुंसेति । अविचार्य कर्म कृत्वा पश्चादशोचीत्यर्थः । कर्मकर्तरि तु तत्प्रक्रियायामुदाहरिष्यति ।", "31066": "<<चिण् भावकर्मणोः>> - चिण्भावकर्मणोः ।च्लेः सि॑जित्यश्च्लेरिति,चिण्ते पदः॑ इत्यतस्ते इति चानुवर्तते । तत्रत्यं तु चिण्ग्रहणंन रुवः॑ इति निषेधेन तिरोहितमिति पुनरत्र चिण्ग्रहणं कृतम् । तशब्दे किम् । अभाविषाम् । चिण्वदिट इति । ण्यन्तस्य धातोरुपदेशाभावेऽप्युपदेशे योऽजिति व्याख्यानाच्चिण्वदिडिह प्रवर्तत एवेति भावः । परत्वादिति । चिण्विदिडपेक्षया । नित्यत्वादिति । न च कृते चिण्वदिटि वृद्धिप्रवृत्त्या गुणस्य नित्यत्वं नेति शङ्क्यम्,अचो ञ्णिती॑ ति वृदिंध बाधित्वा परत्वाद्गुणे रपरत्वे च पश्चात्अत उपधायाः॑ इति वृद्धिप्रवृत्त्या गुणस्य नित्यत्वाऽनपायात् । उपदेशग्रहणादिति । तत्सामर्थ्यादुपदेशे योऽच्, तदन्तत्वमृधातोव्र्यपदेशिवद्भावेन यत्स्थितं तदादाय ण्यन्तादप्यारितेत्यादौ चिण्वदिट् प्रवर्तत इति भावः । नन्वेवं स्मारितेत्यादिर्न सिध्येत्,स्म॑ इत्यस्य उपदेशे योऽच् तदन्तत्वाऽभावात् ।उपदेशेऽजन्ताना॑मिति व्याख्याने तु ण्यन्तस्य न स्यादित्युक्तत्वादिति चेत् । सत्यम् । अत एवाऽपरितोषामन्मनोरमायामुक्तम् — अस्तु वा उपदेशे यदजन्तं तस्ये॑ति व्याख्यानम् ।अङ्गस्ये॑ति व्यधिकरणषष्ठी ।अङ्गावयवस्याजन्तस्येत्यर्थ॑ इति । एवं च णिजन्तेऽपि शामितेत्यादौ चिण्वदिट् सिध्यति, व्यपेशिवद्भावेन णिजेव णिजन्तः, तदवयवकं शामीत्यङ्गमित्याश्रयणात् । आरिता स्मारितेत्याद्यपि सिध्यति । ऋधातुः स्मृधातुश्चोपदेशेऽजन्तस्तदवयवकं भवत्यार् स्मारित्यङ्गमिति दिक् । नित्यग्रहणानुवृत्तेरिति ।नित्यं छन्दसी॑ति सूत्रात् । काशिकायां तु — सुटो बहिरङ्गलक्षणस्याऽसिद्धत्वादभक्ताद्वा संयोगादिंत्वमङ्गस्य नास्तीति गुणोऽत्र न प्रवर्तत इत्युक्तम् ।सुट्कात्पूर्व॑ इति विधीयमानः कभक्तो, न त्वङ्गभक्तस्तेनाऽसंयोगाद्येव अङ्गमित्यभक्तत्वादित्यस्याशयः ।", "31067": "<<सार्वधातुके यक्>> - सार्वधातुके यक् ।धातोरेकाचः॑ इत्यतो धातोरिति,चिण् भावकर्मणो॑रित्यतो बावकर्मणोरिति चानुवर्तते । भावो भावनेति । उत्पत्त्यर्थद्भवतेर्णिजन्तादेरजिति भावः ।एरजण्यन्ताना॑मिति त्वनार्षमिति तस्मिन्नेव सूत्रे कैयटः । भवतेरुत्पत्त्यर्थत्वं, ण्यन्तस्य भवतेः शुद्धेन करोतिना तुल्यार्थत्वं च दर्शयति — उत्पादना क्रियेति । यथा करोति घटमित्यादावुत्पत्त्यनुकूलो व्यापारः कुलालनिष्ठः, तथा भावयति घटमित्यादावपि । भवति घट इत्यत्रापि घटनिष्ठ उत्पत्त्यनुकूलो व्यापारोऽस्त्येव, परंतु फलसमानाधिकरणः सः, कुलालनिष्ठस्तु फलव्यधिकरण इतीयान्भेदः । अत एव फलव्यापरयोः सामानाधिकरण्याद्भवत्यादिरकर्मकः, तयोस्तु वैयधिकरण्यात्करोत्यादिः सकर्मक इत्याहुः । एतेनभावो भावने॑ त्यादिग्रन्थेनभूवादयो धातवः॑ इत्यत्र क्रियावाचिनः किम् । विकल्पार्थकवाशब्दाद्भावे लिण् माभूत् । अन्यथा भ्वादिगणे वाशब्दमात्रपठनादक्रियावाचिनोऽपि वाशब्दस्य धातुत्वेधात्वर्थः केवलः शुद्धो भाव इत्यभिधीयते॑ इति विकल्पस्यापि बावत्वापत्त्या तद्वाचकवाशब्दाल्लिट् स्यादेवेति केषांचिद्व्याख्यानं परास्तम्, भावनावाचकादेव भावे लिटः स्वीकारात् । विकल्पस्य तु भावनाभिन्नत्वात् । अन्यथाक्रियावाचिन॑ इति विशेषणे दत्तेऽपि तद्दोषतादवस्थ्यात् । विकल्पवाचकाल्लिडभावेऽपि लडादयः स्युरिति तु न शङ्कनीयमेव, वर्तमानक्रियादिवृत्तेरेव लडादीनां विधानात् । किम्रथं तर्हि क्रियावाचिनो भ्वादय इति सर्वैरेव तत्र व्याख्यातम् ।याः पश्यसी॑त्यत्रापि लक्षणप्रतिपदोक्तपरिभाषया याशब्दस्य धातुत्वाऽसंभवात्आतो धातोः॑ इति तत्राऽऽल्लोपाप्रसक्तिरिति चेत् । अत्राहुः — कार्यकालं संज्ञापरिभाष॑मिति पक्षेआतो धातुत्वाऽसंभवात्आतो धातोः॑ इति तत्राऽल्लोपाप्रसक्तिरिति चेत् । अत्राहुः — कार्यकालं संज्ञापरिभाष॑मिति पक्षेआतो धातो॑रिति कार्यप्रदेशे भ्वादयो धातव इत्युपतिष्ठते भ्वादिषु याशब्दमातर्पठनाद्द्रव्यवाचकोऽपि याशब्दस्तत्रोपतिष्ठते । वर्णग्रहणे लक्षणप्रतिपदोक्तपरिभाषाया अप्रवृत्तेः,आतो धातो॑रित्यत्र त्वात् इति वर्णग्रहणात् । तस्माद्द्व्यवचाकस्य याशब्दस्य धातुसंज्ञा माभूदिति क्रियावाचिन इति विशेषणमवश्यं वक्तव्यमेवेति ।उत्पादना क्रिये॑ त्यनेन तु क्रियावाची धातुर्धात्वर्थः क्रियेत्यन्योन्याश्रयोऽत्र दुष्परिहर इति केषांचिदाक्षेपो निरस्तः । उत्पत्त्यनुकूलव्यापारस्य क्रियात्वात् । तद#उक्तम् — व्यापारो भावना सैवोत्पादना सैव च क्रिये॑ति । धातुत्वेनेति । सकलधातुषु धातुत्वं जातिरखण्डोपाधिर्वेत्यन्यदेतत् । तच्च वाचकतावच्छेदकम् । क्रियात्वं तु वाच्यतावच्छेदकमिति भावः । धातुवाच्येति । नन्वेवं पचतीत्यादावेककर्तृका वर्तमाना पचिक्रियेति क्रियाविशेष्यको बोधो न स्यात्, प्रत्ययार्थं प्रति प्रकृत्यर्थस्यविशेषणताया औपगवादौ कॢप्तत्वात् । तथा चभावना तिङ् प्रत्ययवाच्ये॑ति मीमांसकमतमेव रमणीयमिति चेत् । अत्राहुः — प्रत्ययार्थः प्रधान॑मिति उत्सर्गः, स चेह त्यज्यते,॒क्रियाप्रधानमाख्यात॑स्मरात् । टाबाद्यर्थत्वेन मीमांसकैरभ्युपगतस्य स्त्रीत्वस्य पाचिकादौ विशेषणत्वाब्युपगमात्प्रत्ययार्थः प्रधानमिति नियमस्य त्यक्तत्वाच्च । किं च भोक्तव्यमित्यादौ तिङं विनापि भावना प्रतीयते, कारकापेक्षा च दृश्यते । अस्ति च करोतिसामानाधिकरण्यम् । किं च भोक्तव्यमित्यादौ तिङं विनापि भावना प्रतीयते, कारकापेक्षा च दृश्यते । अस्ति च करोतिसामानाधिकरण्यम् । किं कर्तव्यं , भोक्तव्यम्, किं कृतवान् , भुक्तवानिति । नच कृतामपि तव्यदादीनां भावनावाचकत्वमस्त्विति शङ्क्यम्, नामार्थयोरभेदान्वयानुरोधेनकर्तरि कृ॑दिति तव्यदादयः कर्म#आदाविति परैरप्यभ्युपगमात् । अन्यथा पाचको देवदत्तः, पक्तव्य ओदन इत्यत्राऽभेदबोधो न स्यात् । तथा च धातुवाच्यत्वं भावनाया इत्येव मतं रमणीयतरमिति । लकारस्य सामानाधिकरण्यं कर्तृकर्माभिधायिन एव संभवति न भावाभिधायिन इत्याशयेन व्याचष्टे — सामानाधिकरणयाभावादिति । न चैवं युष्मदस्मद्भिन्नोपपदे समानाधिकरणे देवदत्तः पतीत्यादाविव प्रथमपुरुषेण भाव्यमिति प्रथमपुरुषोऽप्यत्र न स्यादिति वाच्यं,शेषे प्रथमः॑ इत्यत्रमध्यमोत्तमयोरविषये प्रथमः स्या॑दिति व्याख्यानात् । तिङ्वाच्येति । घञादितवाच्यायास्तु सत्त्वरूपत्वमिष्टमेवेति पाकं पाकेनेत्यादौ यथायथं द्वितीयादयः प्रवर्तन्ते । अत एव भाष्यकृतोक्तंकृदभिहितो भावो द्रव्यवत्प्रकाशते॑ इति । द्रव्यधर्मांल्लिङ्गसङ्ख्याकारकादीन् गृह्णातीत्यर्थः । एकवचनमेवेति । प्रायोवादोऽयम् । अन्यथाउष्ट्रासिका आस्यन्ते॑हतशायिकाः शय्यन्ते॑ इति भाष्ये धात्वर्थनिर्देशे ण्वुलि कृदभिहितो भावो द्रव्यवत्प्रकाशत इत्यासिकाः शायिका इत्यत्र बहुवचनसिद्धावपि आस्यन्ते शय्यन्ते इत्यत्र तन्न सिध्येत् । न च कर्मण्येवाऽत्र लकारोऽस्त्विति शङ्क्यम्, धातुद्वयस्याप्यकर्मकत्वेन तदसंभवात्, अर्थाऽसङ्गतेश्च । तत्र ह्रुष्ट्राणां यादृशान्यासनानि हतानां यादृशानि शयनानि तादृशानि देवदत्तादि कर्तृकान्यासनादीनीत्यर्थः । सादृश्यावगमादिह आख्यातवाच्यस्यापि भावस्य भेदाऽवभासाद्बहुवचनम् । न चैवं सङ्क्यान्वयित्वे असत्त्वरूपता न स्यादिति वाच्यम्, लिङ्गक्रियाऽनाधारकारकयोगाऽभावमात्रेणाऽसत्त्वरूपत्वमुपपद्यत इति कारकेषूक्तत्वात् । केचिदिह उष्ट्रासिका — हतशायिकाशब्दयोस्तत्सदृशे लक्षणां स्वीकृत्य आस्यन्त इत्यादिना अभेदान्वयमाहुः । मनोरमायां तु आसिकाः शायिका इति च द्वितीयाबहुवचनं, क्रियाविशेषणत्वेन कर्मत्वात् । न चैवं क्लीबत्वमेकवचनान्तत्वं च स्यादिति वाच्यम्,स्त्रियां क्त॑न्नित्यधिकारात्स्त्रीत्वाऽवधारणेनसामान्ये नपुंसक॑मित्यस्याऽप्रवृत्तेः । बहुवचनत्वावधारणेनैकवचनाप्रवृत्तेश्चेत्युक्तम् ।", "31068": "<<कर्तरि शप्>> - ॒सार्वधातुके य॑ गित्यतः सार्वधातुक इत्यनुवर्तते,धातोरेकाचःर॑ इति सूत्राद्धातोरिति च, तदाह — कत्र्रर्थ इत्यादि ।", "31069": "", "31070": "<<वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः>> - उभयत्रविभाषेयम् । अनवस्थानर्थो भ्रमिः, क्लमित्रसी च — दिवादयः, तेभ्यो नित्यं प्राप्ते । इतरेषामप्राप्ते चारम्भात् ।भ्राशृ भ्लाशृ दीप्तौ॑ । फणादावेतौ ।भ्रमु चलने॑ ब्वादिः, ज्वलादिः ।फणादि॑रित्यपि मनोरमायां पठते, तद्रभसादिति नव्याः ।भ्रमु अनवस्थाने॑ दिवादिः, पुषादिः, शमादिः । तत्र ब्वादेः — भ्रम्यति भ्रमति । शमादेस्तु श्यनि दीर्घे भ्राम्यीति त्रैरूप्यम् ।क्लमु ग्लानौ॑,त्रसी उद्वेगे॑,त्रुट छेदने॑,लष कान्तौ॑ ।", "31071": "<<यसोऽनुपसर्गात्>> - यसोऽनुप । अत्र वदन्ति — यस॑ इत्येवास्तु । ततःसमः॑ । नियमार्थमिदम्, — सोपसर्गाद्यसश्चेत्संपूर्वकादेवेति । एवं च पूर्वसूत्रेऽनुपसर्गादिति ग्रहणमुत्तरत्र च यसश्चेति ग्रहणं त्यक्तुं शक्यमिति । दाहे पठित इति । व्युष दाह इति — अस्मिन्नेव गणे पठित इत्यर्थः । अङर्थमिति । दाहे पठितस्य तु सिजेव । अव्योषीत् । इति तत्त्वबोधिन्याम् दिवादयः ।", "31072": "", "31073": "<<स्वादिभ्यः श्नुः>> - सुनवानीति ।आडुत्तमस्ये॑त्याटि कृतेहुश्नुवो॑ रिति यणं बाधित्वा परत्वाद्गुणः ।", "31074": "<<श्रुवः शृ च>> - श्रुवः शृ च । यद्ययं श्रुधातुः स्वादौ पठएत तर्हि चकारो न कर्तव्य इति लाघवमित्याहुः ।", "31075": "", "31076": "<<तनूकरणे तक्षः>> - अतक्षीदिति ।नेटि॑ इति वृद्धिनिषेधः । इडभावे तु — अताक्षीत् । प्रणिक्षतीति ।उपसर्गादसमासेऽपी॑ति नित्यं णत्वम् ।वा निंसनिक्षनिन्दा॑मिति तु कृद्विषयम् ।ण्वुलतृचौ॑ । प्रणिक्षिकः । प्रनिक्षकः । प्रणिक्षिता । प्रनिक्षिता । अवज्ञेत्यादि । सूक्र्षणमादरस्ततोऽन्यदसूक्र्षणित्यमरग्रन्तार्थः । यदि तु सूक्र्षणमनादर इत्युच्येत तर्हि असूक्र्षणमवज्ञापर्यायो न स्यादिति भावः । काक्षि । काङ्क्षा -इच्छा । द्राक्षि ध्राक्षि ध्वाक्षि । घोरवासितं — घोरशब्दः । वासृ शब्दे । ध्वाङ्क्षतीति । ध्वाङ्क्ष - काकः । द्राक्षि । धातोःगुरोश्च हलः॑ इतिअ॑ प्रत्यये द्राक्षा । यवादिगणे निपातनान्नलोपः । द्राक्षामान् । इह मतोर्वत्वं तु न भवति,अयवादिभ्य॑ इत्युक्तेः । तूष तुष्टौ । दिवादौ तु ह्रस्वोपधः । मूष स्तेये । संज्ञायां क्वुनिमूषकः॑ । क्र्यादौ तु ह्रस्वोपधोऽयम् । भूष अलङ्कारे । अयं चुरादावपि । ईष उच्छे ।गुरोश्च हलः॑ इत्यप्रत्ययेईषा लाङ्गलदण्डः॑ । कष खष । षान्तौ ।शिषे॑त्ययमप्यनिक्टो न तु रौधादिक एव, संकोचे मानाऽभावादित्यभिप्रेत्योदाहरति — शेष्टा । अशिक्षदित्यादि ।", "31077": "<<तुदादिभ्यः शः>> - तुदतीति । परमपि लघूपधगुणं बाधित्वा नित्यत्वाच्छ इत्येके । अकृतव्यूहपरिभाषया गुणो न प्रवर्तते इत्यन्ये । भ्रस्ज पाके । भर्जनरुपः पाकोऽत्र धात्वर्थो न त्वोदनादेः पाकः, तत्र प्रयोगाऽभावादित्याहुः ।भ्रस्जो॑ इति केषांचित्पाठे तुओदितश्चे॑ति निष्ठानत्वप्रसक्त्या भृष्टः भृष्टवानिति न सिध्येत् ।", "31078": "<<रुधादिभ्यः श्नम्>> - रुधादिभ्यः श्नम् । प्रत्ययत्वेऽपि मित्त्वादन्त्यादचः परः । प्रत्ययसंज्ञाफलं तु शस्येत्संज्ञा । शस्योच्चारमं तुश्नसोरल्लोपः॑,श्नान्नलोपः॑, इत्यत्र विशेषणार्थ न तु सार्वधातुकसंज्ञार्थं, फलाऽभावात् । न चाऽपित्सार्वधातुकस्य ङित्त्वे गुणनिषेधः फलमिति शङ्क्यम्िगन्तस्याङ्गत्वाऽभावात् । अरुण इति । सिपिदश्चे॑ति रुर्वा । एवमभिन इत्यत्रापि । उच्छृदिर् । उकारः क्त्वायामिड्विकल्पार्थः । छृत्वा । छर्दित्वा । इट्पक्षेन क्त्वा से॑ डिति कित्त्वनिषेधाद्गुणः ।", "31079": "<<तनादिकृञ्भ्य उः>> - तेनेतिविआसे॑दित्यत्र शपो लुगभावः सिद्ध इति भावः । एवमप्यविआस्तमित्यत्रेडभावः कथमिति चेदागमशास्त्रस्याऽनित्यत्वादिति गृहाण ।", "31080": "<<धिन्विकृण्व्योर च>> - धिन्विकृष्व्योर च ।अलोऽन्त्यस्ये॑ति वकारस्याऽकारादेशः । चकारेण तु उप्रत्ययोऽनुकृष्यते । बोपदेवेन त्वनयोस्तनादित्वं स्वीकृतम् । तन्मते तु चकारं विनाप्युप्रत्ययलाभः । अतो लोप इति । यद्यप्युपदेशेऽदन्तत्वं नास्ति तथाप्याद्र्धधातुकोपदेशे तदस्त्येव ।धिन्विकृण्व्योर चे॑ति श्रुतत्वादकारादेशे कृते चानुकृष्टस्य पश्चाज्जायमानत्वादिति भावः ।", "31081": "<<क्र्यादिभ्यः श्ना>> - एवं झस्याऽद्भाव इति ।आत्मनेपदेष्वनतः॑ इत्यनेन । सौत्रा इति । नकारोपदा इत्यपि ज्ञेयम् । विष्टभ्नोतीति ।अनिदितमिति नलोपः ।स्तन्भे॑रिति षत्वम् ।", "31082": "", "31083": "<<हलः श्नः शानज्झौ>> - हलः श्नः । स्तभानेति ।अतो हे॑ रित्यारम्भसामर्थ्यात्संनिपातपरिभाषाया अप्रवृत्तेर्लुक् । अत एवजही॑त्यत्र हिलोपवारणायेयं परिभाषा नोपन्यस्तेत्याहुः । यत्तु कैश्चिच्छानजादेशो धातुपाठपठितेभ्यः परस्य श्नो भवति न तु सोत्रेभ्य इति व्याख्या स्तभ्नीहीत्युदाहृतं तन्निष्प्रमाणं, माधवादिग्रन्थविरुद्धं च ।", "31084": "", "31085": "", "31086": "", "31087": "<<कर्मवत् कर्मणा तुल्यक्रियः>> - कर्मवत्कर्मणा । वत्करणं किमर्थम् । यथा अब्राहृदत्ते प्रयुज्यमानो ब्राहृदत्तशब्दः ब्राहृदत्तवदित्यर्थं वदति तथा कर्मेत्युच्यमानेऽपि कर्मवदित्यर्थलाभात् । सत्यम् । कर्मणा तुल्यक्रियः कर्ता कर्मेत्युच्यमने कर्मसंज्ञक इत्यर्थः स्यात् । तथा हि सति अकर्मकव्यपदेशाऽभावाद्भावे लकारो न स्यात् — किं तु कर्मणि स्यात् — पच्यते ओदनः भिद्यते काष्ठ॑मिति । यद्यप्ययं प्रयोगः सिद्धान्ते इष्ट एव तथापिपच्यते ओदनेन, भिद्यते काष्ठेने॑ति भावे न स्यादिति बोध्यम् । कर्मशब्देनाऽत्र कर्मस्थक्रिया लक्ष्यत इत्याह — कर्मस्थयेति । कर्मकारकस्थयेत्यर्थः ।कर्तरि श॑बित्यतः कर्तरीत्यनुवर्त्त्य प्रथमया विपरिणम्यते । सच विशेष्यस्तदाह — तुल्यक्रियः । कर्तेति । कार्यातिशेधोऽयमिति । यद्यपि शास्त्रातिदेशेऽपि लक्ष्यं सिध्यति तथापि शास्त्रस्यापि कार्यार्थतया मुख्यत्वात्कार्यातिदेश एवाश्रितः । भावे लकारे इति । तत्र कर्तुरनभिहितत्वादिति भावः । द्विलकारकादिति ।व्यत्ययो बहुललँ-ल्लिडआशिष्य॑ क्ङिति संहितया पाठेऽनुस्वारस्य परसवर्णेन जाते लकारे तस्योपरि लद्वयमित्यर्थः । तेनलकारवाच्यः कर्ता तत्रैव कर्मवत्त्वमिति व्युत्पादनस्य फलमाह — अत एवेति । न भवन्तीति । लकारेणैव कर्मकर्तुरुपस्थानात्कृत्यादीनां प्रसक्तिर्नास्ति, उक्तार्थानामप्रयोगात् । लविधेः पूर्वं तु सुतरां नास्ति, लकारोपस्थाप्यकर्तुरभावेन कर्मत्त्वाऽभावादिति भावः । अत्रेदं बोध्यं -कृत्यक्तखलर्था॑ इत्यत्र क्तग्रहणं त्युक्तमुचितं , तस्य कर्मकर्तरि इष्टत्वात् — भिन्नः कुसूलः स्वयमेवे॑ति । वक्ष्यति च स्वयमपि — ॒सिनोतेग्र्रासकर्मकर्तृकस्ये॑ति वार्तिके — सिनो ग्रासः स्वयमेवे॑ति । ननुगत्यर्थाऽकर्मके॑त्यत्राऽविवक्षितकर्माणोऽकर्मका इति न गृह्यन्ते, दत्तवान् पक्ववानित्यर्थे दत्तः पक्व इत्यापत्तेरिति चेत् । अत्राहुः — सिनोतेग्र्रासकर्कर्तृकस्ये॑ति निष्ठातकारस्य नकारविधानसामर्थ्यादविवक्षितकर्माणोऽपि क्वचिद्गृह्यन्ते । अन्यथा निष्ठातकारस्तत्र न लभ्येत, तेनसिनो ग्रासः स्वयमेव,भिन्नः कुसूलः स्वयमेवे॑त्यादि सङ्गच्छते इति । अत्र केचिद्वदन्तिलकारवाच्यस्यैव कर्तुः कर्मवत्त्वेकर्मवत्कर्मणे॑त्यत्र वद्ग्रहणं व्यर्थम् । न च कर्तुः कर्मसंज्ञायां भवे लकारो न स्यादित्युक्तमिति वाच्यं, कर्मणः कर्तृत्वविवक्षायां धातुरकर्मक इत्यकर्मकात्कर्तरीव भावे लकारस्य निर्बाधत्वात् । लकारवात्त्यस्य कर्मसंज्ञायामपि केवलकर्तुस्तदनभ्युपगमात् । न हि भावे लकारः कर्तारं वक्ति । न च वत्करणाऽभावे कर्तुः कर्मसंज्ञायां कर्तृव्यपदेशाऽभावान्नमते दण्ड इत्यत्रन दुहरुआउनमा॑मिति यको निषेधेऽपि शब्न स्यात्, वत्करणे कृते तु कर्तृकार्यमपि स्यादिति वाच्यम्, एकसंज्ञाधिकारादन्यत्र संज्ञाद्वयसमावेशादिष्टसिद्धेरिति । न तु तत्तुल्येति । तुल्यत्वं हि सादृश्यम् । तच्च भेदनिबन्धनम्, नच प्रकृते भेदोऽस्ति,कर्मणः कर्तृत्वविवक्षायां कर्मस्थफलरूपक्रियाया एव कर्तृस्थत्वात्, तथा च सूत्रमिदमसमञ्जसमिति भावः । वास्तविकभेदाभावेऽप्यौणपाधिकभेदोऽस्तीत्याह — कर्मत्वेति । कर्मत्वकर्तृत्वाऽवस्थयोर्भेदस्तद्भेदोपाधिकरमवस्थभेदसमानाधिकरणं क्रियाभेदमाश्रित्येत्यर्थः । एवं चावस्थाभेदेन क्रियाबेदात्कर्मस्थक्रियातुल्यक्रियत्वं कर्तुरस्तीति भावः । करणाधिकरणाभ्यामिति ।तुल्यक्रिय कर्ते॑त्येतावत्युच्यमानेअसिना छिनत्ति॑स्थाल्यां पचती॑त्यादौ करणाधिकरणयोर्यो व्यापारः स एवेदानामसिश्छिनत्ति स्थाली पचतीत्यादौ कर्तृस्थ इत्यतिप्रसङ्गः स्यात्, तन्माभूदित्यथः । नच कर्मत्वाऽवस्थायां विक्लित्यादिरिव करणत्वाद्यवस्थायामपि स्थाल्या व्यापारो वस्तुतः सन्नपि धातुना नोपात्त इति कथमतिप्रसङ्ग इति वाच्यं, सादृश्यप्रतियोगिक्रियाया धातूपात्तत्वेनाऽविशएषितत्वात् । न ह्रेतस्मिन्सूत्रे धातूपात्तक्रियया तुल्यक्रिय इत्युक्तमस्ति येनातिप्रसङ्गो न भवेत् । ननु तुल्यक्रियः कर्ता कर्मवद्भवतीत्युक्ते केनेत्याकाङ्क्षायामनेककारकोपस्थितावपि कर्मवदिति प्रत्यासत्त्या कर्मणेति लभ्यत एवेत्यत आह — किं चेति । अधिगच्छतीत्यादिश्लोकस्योत्तराद्र्धन्तुयत्कृपालेशतस्तस्मै नमोऽस्तु गुरवे सदा॑ । ननु फलं व्यापारश्च धात्वर्थः, स एव क्रियाशब्दवाच्यः । तत्र व्यापाराश्रयः कर्ता, फलाश्रयस्तु कर्म । एं च पचिभिदिप्रभृतीनां , गमिरुहिप्रभृतीनां च सकर्मकत्वे फलस्य कर्मनिष्ठत्वे च तुल्ये कर्तृस्थभावका गम्यादय इति कथं ज्ञातव्या इत्यत आह — यत्र र्मणीति । ग्रामेष्विति । आरूढाऽनारूढहस्तिषु अधिगतानधिगतशास्त्रार्थेष्वित्यादावपि वलक्षण्यं नोलभ्यत इति बोध्यम् । कारिष्यते इति ।स्यसिच्सीयु॑डिति वैकल्पकश्चिण्वदिट् । पक्षेऋद्धनोः स्ये॑ इतीट् । करिष्यते । एवं लृङि अकारिष्यत । सिचश्चिण्वदिटि — अकारिष्ट । पक्षे अकृत । सीयुटश्चिण्वदिटि — कारिषीष्ट । पक्षे — कृषीष्ट । तासि तु कारिता कर्ता । यक्चिणोस्तु क्रियते घटः स्वयमेव, अकारीत्यादि । नैतत्सिध्येदिति ।कर्मवत्कर्मणे॑ति कर्मवत्त्वं न सिध्येदित्यर्थः । एतेन पचति पाकं करोतीति विवकरणादाख्यातस्य यत्ने शक्तिरित नैयायिकोक्तिः पारस्ता । करोतेर्यत्नार्थत्वे तु यतते इति वत्सर्मकतापि न स्यादिति । एतेनेति । ज्ञानसय् कर्तृस्थत्वाभ्युपगमेनेत्यर्थः । यगभावादिति । सति तु यक्यनुव्यवसीयमान इति स्यादिति भावः । ओल्लोप इति ।ओतः श्यनी॑त्यनेन । ननु कर्मवत्त्वाऽभावे कथमिह शानजित्यत आह — ताच्छील्यादाविति । न त्विति । शानज्न भवतीत्यर्थः ।देवदत्तयज्ञदत्तावन्योन्यं स्पृशत॑ इत्यत्र तयोरेव कर्मत्वं कर्तृत्वं चास्तीति कर्मस्थक्रियायाः कर्तृस्थत्वात्कर्मवद्भावप्राप्तिमाशङ्क्याह — सकर्मकाणामिति । न चाऽत्रदेवदत्तो यज्ञदत्तं स्पृशति, यज्ञदत्तस्तुदेवदत्त॑मिति क्रियाभेदोऽवश्यमाश्रयितव्यः । तथा च स्वनिष्ठां क्रियां प्रति कर्त्तृत्वम्, इतरक्रिया प्रति तु कर्मत्वं भवति । अन्यथा द्वयोरपि कर्तृत्वमेव स्यात्इमौ गङ्गां स्पृशत॑ इत्यत्र यथा । एवं च कर्मस्थक्रियायाः कर्तृस्थत्वाऽभावात्कर्मवद्भावो न प्राप्नोति । न च संयोगस्य द्विष्ठत्वात्कर्मस्थफलस्य कर्तृस्थत्वाऽच्चास्त्येवेति शङ्क्यं, तत्तन्निरूपितसंयोगस्य भिन्नत्वात् । अन्यथा फलव्यापारयोरेकाश्रयत्वे सकर्मकत्वमेव न लभ्येत् । किंच रुहिगम्योः कर्तृस्थक्रियत्वादारोहते हस्ती, गच्छति ग्राम इत्यत्र कर्मवद्भावो नेति भाष्यकैयटादिसंमतम् । तथाच संयोगरूपफलस्य सर्वत्र तुलयतया रुहिगमिभ्यां स्पृशेर्वैषम्यं दुरुपपादमिति नाऽत्रकर्मवत्त्वप्रसक्तिरित्युदाहणान्तरमाह — अजा ग्रामं नयतीति । इह प्रतिषेधाऽभावे यक् स्यात्, क्रियाफलस्याऽकर्तगामित्वेऽप्यात्मनेपदं स्यादिति भावः । नन्विहापि कर्मणि क्रियाकृतो विशेषो नोपलभ्यत इति कर्मस्थक्रियत्वं दुरुपपादमिति चेत् । अत्राहुः — क्रियाकृतविशेषोपलम्भाऽनुपलम्भवदुद्देश्यताऽपि नियामिका । यत्र क्रमस्थांऽशस्योद्देशयता सा कर्मस्थक्रिया, यत्र तु व्यापारांऽशस्यसा कर्तृस्थेति । तथा हि — दर्शनारोहणाभ्यां विषये न्यग्भूतेच विशेषानुपलम्भात्कर्तृस्थता । उद्देशानुरोधाच्च अहं पश्येयमित्युद्देशो, न त्वयं विषयो भवत्विति । एवमहमुपरिगच्छेयमित्युद्देशो न तु हस्तनो न्यग्भावो भवत्विति । ऊध्र्वदेशसंयोगानुकूलव्यापारविशेष उपरिगमनं, तदेव रुहेरर्थो न तु न्यग्भावमात्रम् । वृक्षस्यशाखां हस्ताभ्यामवनमयत्यपि भूमिष्ठे पुर#उष आरोहतीत्यप्रयोगात् । अतएव हियद्धितुपरं छन्दसी॑त्यत्र भाष्यंरुहिर्गत्यर्थ॑ इति । अत एव चारोहन्ति हस्तिनं हस्तिपकास्तानारोहयति महामात् इत्यादिप्रोगेष्वणौ कर्तुर्णौ क्मत्वं सङ्गच्छते । पचिभिद्योस्तु विक्लित्तिर्द्विधाभवनरूपो विशेषः कर्मणि दृष्टस्तदुद्देशेनैव कारकव्यापार इति कर्मस्थक्रियत्वात्पच्यते ओदनः, भिद्यते काष्ठमित्यत्र कर्मवद्भावो भवत्येव । अजा ग्रामं नयतीत्यत्रापि कर्मस्थांऽशस्य संयोगस्योद्देश्यता, न तु व्यापारांशस्येति कर्मवद्भावे प्राप्ते प्रतिषेधोऽयमावश्यक इति दिक् ।", "31088": "<<तपस्तपःकर्मकस्यैव>> - अतप्तेति । तपस्तापस इत्यनुषज्यते । न दुहस्नु । ननु दोग्धिपर्थायत्वेन रुआऔतेरपि द्विकर्मकत्वाद्गोरूपकर्मणः कर्तृत्वविवक्षायामपि पयोरूपकर्मणो विद्यमानत्वात्सकर्मकाणां प्रतिषेधेन यक्चिणोः प्राप्तिरेव नास्तीति चेत् । अत्राहुः — वत्सादियोगेन क्षीरप्ररुआवणानुकूला उत्कण्ठा स्नुधातोरर्थः । सा च गोनिष्ठा । स्नु प्ररुआवणे इत्यत्रापि करणे ल्युट् । प्ररुआऊयतेऽनेनेति प्ररुआवणं । सा चोत्कण्ठा ।स्वयं प्दुग्धेऽस्य गुणैरुपस्नुता वसूपमानस्य वसूनि मेदिनीटति प्रयोगे उपस्नुता = उत्कण्ठितेत्यर्थः । वत्सो गां प्रस्नौति = उत्कण्ठयति । अन्तर्बावितण्यर्थोऽत्र स्नौतिः । गोः कर्तृत्वविक्षायां प्रस्नुते गौरिति । प्रारस्नाविष्टेति । चिण्वदिट् । न च चिणि निषिद्धे चिण्वदिडपि न स्यादिति शङ्क्यं,चिण्व॑दित्यनेन हि चणीव कार्यमतिदिश्यते । न च चिण्नेत्युक्त्या सोऽतिदेशो निषेद्धुं शक्यते येन चिण्वदिटो निषेधः स्यात् । प्रारुआओष्टेति ।स्नुकमोरनात्मनेपदनिमित्ते॑ इति नियमाद्वलादिलक्षण इण्न । नमते दण्ड इति । इह नमिताऽनमितयोर्विशेषदर्शनादुद्देशानुरोधाच्च कर्मस्थक्रियत्वमस्ति । कर्मस्थांशस्य उद्देश्यता न तु तदनुकूल व्यापारस्येति कर्मवद्भावस्य प्राप्तिरस्तीति भावः । अचीकरतेति । चिणि प्रतिषिद्धेणिश्री॑ति चङ् । * णिश्रन्थिग्रन्थिब्राऊञात्मनेपदाऽकर्मकाणामुपसङ्ख्यानम् । णिश्रन्थीति । णेः सामान्यग्रहणस्य फलमाह — पुच्छमुदस्यतीत्यादि ।पुच्छभाण्डे॑ति णिङ् । आत् मनेपदविधौ योऽकर्मकस्तमुदाहरति — विकुर्वते सैन्धवा इति । कुषिरञ्जोः ।न दुहस्नुनमा॑मित्यतो नेति वर्तते । तदाह — न यगिति । किन्तु श्यन्निति । तस्मिन्नेव विषय इति भावः ।न गिरा गिरेति ब्राऊयादेरं कृत्वोद्गेय॑मित्यत्र गिरापदं प्रतिषिद्येरापदं विधीयमानं गिरापदस्थान एव यथा भवत्येवमिहापि यकः प्रतिषेदं कृत्वा विधीयमानः श्यन् तदीयस्थान एव भवत्यतो व्याचष्टे - यगविषये तु नास्येति । श्यना सन्नियोगशिष्टं परस्मैपदंश्यनभावे न भवतीत्यात्मनेपदमेवोदाहरति — कोषिषीष्टेति । कोषिष्यते । चुकुषे । कोषिष्यते । अकोषि । अकोषिष्यत । ररञ्जोरङक्ष्यते । अरञ्जि । अरङ्क्ष्यत । इत्यादद्यपि ज्ञेयम् । श्यन्पक्षे कुष्यन्तीत्यत्र नित्यं नुम्, । यक्पक्षे तुआच्छीनद्यो॑रिति विकल्पः । स्वरे विशेषोऽप्यस्त्येव.इह प्रकरमेभिद्यते काष्ठं स्वयमेवे॑ति वृत्त्यादौ प्रयुज्यते तत्र स्वयंशब्दः करणार्थको ज्ञेयः । आत्मना करणेनेति । कत्र्रर्थत्वे तु कर्मणि लः स्यात् । स्पष्टं चेदं कैयटादौ ।इति तत्त्वबोधिन्याम् कर्मकर्तृप्रक्रिया ।अथ पूर्वकृदन्ते कृत्यप्रकरणम् । समस्तजगतामीशौ जगदानन्दकारकौ । जगतीजनकौ वन्दे पार्वतीपरमेआरौ॥१॥॒कृदिति॑ङिति तिङ्भिन्नप्रत्ययस्य कृत्संज्ञाकरणात् कृतां तिङ्ज्ञानाधीनज्ञानत्वात्तिङ्निरूपणानन्तरमेव कृतां निरूपणमुचितमिति तिङो निरूप्य कृतो निरूपयितुमाह —", "31089": "<<न दुहस्नुनमां यक्चिणौ>> - दुहिपच्योरिति । द्विकर्मकत्वादनयोरेकस्य कर्मणः कर्तृत्वविवक्षायाममि सकर्मकत्वान्निषेधे प्राप्तेऽयमारम्भः । गौः पयो दुग्धे इति । अत्र कर्मवद्भावेनात्मनेपदं नित्यं ।गौणे कर्मणि दुह्रादेः॑ इत्युक्तत्वान्मुख्यकर्मणः कर्तृत्वविवक्षायां पयो गां दुग्धे इति नोदाहृतमित्याहुः । एवं चप्रधाने नीहकृष्वहा॑मित्युक्तत्वात्तुल्यन्यायेन न्यादीनां मुख्यकर्मण एव कर्तृत्वविवक्षेति फलितम् ।", "31090": "", "31091": "<<धातोः>> - धातोः । ननु तिङ्निरूपणात्प्रागेवस्पृशोऽनुदके क्विन्ऋत्विद्गधृ॑गित्यादिना क्विन्नादिनिरूपणं कृतमिति कथमियं भवदुक्तसङ्गतिः सङ्गच्छत इतिचेत् । अत्राहुः — क्विन्नादिनिरूपणस्य तत्र प्रासङ्गिकत्वात्, प्राधान्येन च कृतामत्रैव निरूपणान्नोक्तशङ्कावकाशैति । यद्यपिधातोरेकाचो हलादे॑रिति सूत्राद्धातोरित्यनुवर्तत एव तथापि आर्धधातुकसंज्ञाया आश्रितशब्दव्यापारत्वलाभाय पुनर्धातोरिति ग्रहणं कृतम् । अन्यथाआर्धधातुकं शेषः॑ इत्यनेन तिङ्शिद्भिन्नस्य धातोर्विहितप्रत्ययमात्रस्याद्र्धधातुकसंज्ञायां लूभ्यां पूभ्यामित्यादाविड्गुणो स्यातां, धातोर्विहितत्वेन ब्यामादेराद्र्धधातुकत्वात्, पुनर्धातुग्रहणे कृते तु तव्यतव्यादय इव धातोरित्यवमविधानाद्भ्यामादेराद्र्धधातुकत्वं नेति दिक् ।प्राग्लादेशाद्धात्वधिकारः॑ इति पक्षोऽयुक्त इत्याशयेनाह — आतृतीयसमाप्तेरिति । तृतीयाध्यायसमाप्तिपर्यन्तमित्यर्थः ।प्राग्लादेशा॑दिति पक्षे तुतिह्शित्सार्वधातुक॑मित्यत्र धातोरित्यधिकाराऽभावात् शित्प्रत्ययमात्रस्य सार्वधातुकत्वेन शसोऽपि सार्वधातुकत्वेसार्वधातुकमपि॑दिति ङित्त्वे च हरीनित्यादौघेर्ङिती॑ ति गुणः स्यादिति ज्ञेयम् । स्यादेतत् - धातोर्लकारे सति तस्मिन् परतो नित्यत्वात्करिष्यतीत्यादौ प्रथमं स्यप्रत्ययप्रवृत्तौ तिबाद्यप्रसङ्गः, यत्र तु तिबाद्याश्रयो विकरणस्तत्रैव व्यवधानाऽभावाद्भवतित्यादौ तिबादयः स्युरिति चेत् । मैवम् ।विकरणेभ्यो नियमो बलीया॑ निति स्वीकारात् । अथवा विहितविशेषणाश्रयणेन धातोर्विहितस्य लस्येति व्याख्यानादिष्टसिद्धेः । नन्वेवं विहितविशेषणाश्रयणेविद्लृ लाभे॑ इत्यस्माद्धातोर्विहितस्य लटः शब्विकरणव्यवायेऽपिविदो लटो वा॑ इति णलादयः स्युरिति चेत् । अत्राह हरदत्तः — धातुनाऽत्र विहितं विशेष्यते, विदना त्वानन्तर्यमिति । तथा चायमर्थः संपद्यते — धातोर्विहितस्य विदोऽनन्तरस्य लटो णलादय इत्यब्युपगमाद्वेत्तेरेव विहितस्य लटो णलादयो भवन्ति न तु विदन्तेर्लडिति दिक् । विधेयाऽनिर्देशात्स्वरितत्वाच्चाधिकारसूत्रमिदमित्याह -अधिकारोऽयमिति । तत्रोपपदमित्यादि । एतेन कृत्संज्ञोपपदसंज्ञयोरिह विधानसौष्ठवाय द्वितीयो धात्वधिकार आवश्यक इति ध्वनितम् । अयं भावः — यदि द्वितीयधात्वधिकारो न स्यात्तदा पूर्वधात्वधिकारेऽपि कृदुपपदसंज्ञे स्याताम् । इष्टापत्तौ तु सप्तमीनिर्दिष्टमात्रस्योपपदत्वेनच्लि लुङी॑ त्यादौ लुङन्त#ए उपपदे च्लिरित्यवमनिष्टोऽर्थः प्रसज्येत । तिङ्बिन्नधात्वधिकारप्रत्ययस्य कृत्संज्ञायां करिष्यतीत्यादौ स्यप्रत्ययस्य कृत्त्वेनकृत्तद्धिते॑ तिप्रापतिपदिकत्वादौत्सर्गिकमेकवचनमिति सर्वसंमतत्वेन सुप्रत्ययप्रसङ्गाच्च, तस्मादधिकारविशेषे अनयोः संज्ञयोर्विधानार्थमयमधिकार इति ।", "31092": "<<तत्रोपपदं सप्तमीस्थम्>> - तत्रोपपदम् ।सप्तमीस्थ॑मित्येतव्द्याचष्टे — सप्तम्यन्त इत्यादिना । तद्वाचकं पदमिति । एतच्चोपपदमित्यन्वर्थसंज्ञाबलाल्लभ्यते । अतएव संज्ञाविधवपि सप्तमीग्रहणेन सप्तम्यन्तं गृह्रते ।धातोः॑इति पृथगधिकारबलात्संनिहिते धात्वधिकारे॑इति लभ्यते । तेनच्लि लुङी॑त्यस्य लुङन्तेऽभूदित्यादावुपपदे धातोश्चिलरित्यर्थो न भवतितत्र ग्रहणं व्याचष्टे -तस्मिन् सत्येवेति । उपपदे सत्येवेत्यर्थः । तत्रग्रहणाऽभावे तुधः कर्मणि ष्ट्र॑न्नित्यादाविवकर्मण्य॑णित्यादावपि कर्मण्यभिधेयेऽणित्याद्यर्थः स्यात् । किंच सप्तम्यन्तनिर्देशस्योपपदसंज्ञार्थतया चरितार्थत्वात्केवलादपि धातोः कर्तर्यण्प्रत्ययः संभाब्येत । कृते तुतत्र॑ग्रहणे कुम्बाद्युपपदस्य प्रत्ययोत्पत्तौ निमित्तत्व प्रतीत्या केवलादण्प्रत्ययशङ्कैव नास्ति । एवं स्थितेःधः कर्मणी॑त्यादौ क्वचिदर्थग्रहणं व्याख्यानादित्याहुः । अन्ये तुतत्रोपपद॑मित्यस्यकर्मण्य॑ णित्यादेश्चैकवाक्यतया प्रवृत्तावुपपदसंज्ञाया निपर्विषयत्वापत्तेस्तत्रग्रहणं विनापष्ट सिद्द्यत्येवेत्याहुः ।", "31093": "<<कृदतिङ्>> - संनिहित इति । प्राचा तुतृतीये धात्वधिकारे॑इत्युक्तं, तदसत्,धातोः कर्मणः॑इति सन्बिधौ धातुग्रहणस्योत्तरत्रानुवृत्तेरभावेनाधिकारत्रयाऽभावात् ।", "31094": "<<वाऽसरूपोऽस्त्रियाम्>> - वासरूपो [ऽस्त्रियाम्] । अपवादेन नित्यं बाधे प्राप्ते क्वचिदुपसर्गस्यापि प्रवृत्त्यर्थमिदं सूत्रम् । अतएवअचो यत् ,ऋहलोण्र्यत् इत्याद्यपवादविषयेतव्यदादयोऽपि प्रयुज्यन्ते — भव्यम्, भवितव्यम् । कार्यं, कर्तव्यं,करणीयम् । वाच्यम्, वक्तव्यमित्यादि । परिभाषेति । अधिकारसूत्रमिति । स्वीकृते तु स्त्र्यधिकारेण विच्छेदाद्वासरूपसूत्राऽप्रवृत्त्याआसित्वा भुङ्क्ते॑आस्यते भोक्तु॑मित्यादिरूपाणि न सिध्यन्ति । इह हि भोजनार्थत्वादासनस्य पूर्वकालता गम्यते, क्त्वाप्रत्ययश्च तुमर्थाधिकाराद्भावे भवति, लकारोऽपि तत्रैवेति समानविषयत्वादुभयोर्बाध्यबाधकभावः स्यात् । किंच वर्णात्कार इत्युत्सर्गः, सचरादिफः॑ इत्यनेन बाध्येत । न चेष्टापत्तिः ।रकारादीनि नामानि शृण्वतो मम पार्वति॑ इत्यादिप्रयोगविरोधात् । अमुमेवार्थं मनसि निधाय हरदत्तादिभिः परिभाषेयमित्युक्तम् । एतेनशकि लिह् चे॑ति ज्ञापकाद्वासरूपविधेरनित्यत्वेन स्त्र्यधिकारादुत्तरेषु क्तल्युट्तुमुन्खलर्थेषु वासरूपविधिर्नास्तीति सिद्धान्तः सङ्गच्छत इति दिक् ।वासरूपे॑ त्यत्राऽसरूप इति च्छेदः । अन्यथा लाघवेविशेषाऽभावेनाऽसंदेहायसरूपो वे॑ति ब्राऊयादित्याशयेनाह — असरूपैति । असरूप इति किम् ।कर्मण्यण् इत्युसर्गः ।आतोऽनुपसर्गे कः॑ इत्यपवादः । स तूत्सर्गस्य नित्यं बाधको यथा स्यात् । गोदः । कम्बलदः । न च कृतेऽप्यसरूपग्रहणे अण्कयोरप्यसरूपत्वान्नेष्टसिद्धिरिति वाच्यं,नाऽनुबन्धकृतमसारूप्य॑मिति सिद्धान्तात् ।अस्त्रिया॑मित्यत्र स्त्रीशब्दः स्वर्यते । स्वरितेन चाधिकारावगतिरित्याशयेनाह — स्त्र्यदिकारोक्तं विनेति । तेनस्त्रियां क्तिन् इत्युत्सर्गमप्रत्यया॑ दित्यपवादो नित्यं बाधते । चिकीर्षा । जिहीर्षा । नन्वस्त्रियामित्यत्र स्त्रीशब्दस्य स्वरितत्वं प्रतिज्ञाय स्वरितेनाऽधिकारावगतिरित्यादिव्याख्यां विहाय स्त्रियामभिधेयायां वासरूपविधिर्नेति, स्त्रियामित्येवं शब्दमुच्चार्य विहिते वासरूपविधिर्नेति वा व्याख्यायतामितिचेत् । अत्राहुः — स्त्रियां वाच्याया॑मिति पक्षे लव्या लवितव्येति यतो विषये तव्यो न स्यात्, द्वयोरपि इह स्त्रीवाचकत्वात् ।स्त्रिया॑मिति शब्दोच्चारणपक्षे तु व्यावक्रोशी व्यावक्रुष्टिरिति कर्मव्यतिहारे णचो विषये क्तिन् स्यात् । द्वयोरपि स्त्रियामित्युच्चार्य विधानात् । ततश्चस्त्र्यधिकारोक्तं विने॑ति व्याख्यैव ज्यासीति दिक् ।", "31095": "<<कृत्याः (प्राङ् ण्वुलः)>> - कृत्याः । अत्रप्रत्ययः॑ इत्यादिवत्कृत्य इत्यधिकारेणापीष्टसिद्देर्बहुवचनमनुक्तप्रत्ययसमुच्चायार्थं, तेन केलिमरादयो ज्ञापकसिद्धा इति नोपसह्ख्येया इत्याहुः । ण्वुलः प्रागिति ।ण्वुलतृचौ॑ इत्यतः प्रागित्यर्थः ।रोगाख्यायां ण्वुल् बहुल॑मिति नावधिः, प्रत्यासत्तिन्यायात् । अवदिविशेषे ज्ञापकं तुअर्हे कृत्यतृचश्चे॑त्यत्र कृत्यात्पृथक्तृचो ग्रहणमेव । न चैवं तृचोऽकृत्यत्वेऽपि ण्वुलः कृत्यत्वं दुर्वारं स्यात्, इष्टापत्तौ तुतयोरेवे॑ति भावकर्मणोरेव ण्वुल् प्रग्ण्वुल इतिप्रचिक्षेप ।", "31096": "<<तव्यत्तव्यानीयरः>> - स्वरार्थाविति । तकारःतित्स्वरित॑मिति स्वरितत्वार्थः । रेफस्तुउपोत्तमं रिती॑ति मध्योदात्तार्थः ।", "31097": "<<अचो यत्>> - अचो यत् । धातोरिति वर्तते । अज्ग्रहणं च धातोर्विशेषणं, विशेषणेन तदन्तविधिस्तदाह — अजन्तादिति । शक्यमकर्तुमिति । अत्र केचिदज्ग्रहणमजन्तभूतपूर्वादपि यथा स्यादित्येवमर्थपेक्षितम् । तेन दित्स्यं धित्स्यमित्त्र यति कृतेयतोऽनावः॑ इत्याद्युदात्तत्वं सिध्यति, ण्यति कृतेतुतित्स्वरितम् इति प्रसज्येत । न च दित्स्यं धित्स्यमित्यत्रऋहलोः॑ इति ण्यतः प्रसक्तिरेव नास्तीति वाच्यम्, आर्धधातुकविवक्षायामेव अतो लोपे कृते हलन्तत्वेन तत्संभवादित्याहुस्तदापाततः । आर्धधातुके विवक्षिते यद्यतो लोपः स्यात्तदा हीदं संभवेत् । लोपस्तु आर्धधातुके पर एवोचितः । अन्यथा परनिमित्तत्वाऽभावेन स्थानवत्त्वाऽभावे गणयतीत्यादावुपधावृद्धिप्रसङ्गादिति भावः । सुपठत्वादिति । द्वये धातवोऽजन्ता हलन्ताश्च । तत्र हलन्ताण्ण्यन्तं वक्ष्यतीति परिशेषादज्तादेव यद्भविष्यतीति भावः । तकिशसीति । तक हसने । शसु हिंसायाम् । चते याचने । यत्तु केचिच्छंसीति सानुस्वारं पठन्ति तदुपेक्ष्यम्,ईडवन्दवृशंसदुहां ण्यत॑ इति सूत्राऽविरोधेन शंसेण्र्यत एव स्वीकर्तव्यत्वात् ।", "31098": "<<पोरदुपधात्>> - पोः किम् । पाक्यम् । अदुपधात्किम् । कोप्यम् । तपरकरमं किम् । आप्लृ व्याप्तौ । आप्यम् । नानुबन्धेति । अनुबन्धानामनवयवत्वत्तत्कृतमसारूप्यं नाश्रीयते । एकान्तत्वपक्षेऽपिददातिदधात्योर्विभाषा॑ इति विभाषाग्रहणाल्लिङ्गन्नाश्रीयते । अन्यथा अनुबन्धकृतादसारूप्यादेव शविषये णो भविष्यतीति किं तेन विभाषाग्रहणेन । ततश्च पक्षद्वयेऽपि शप्यमित्यादौ ण्यन्न भवतीति भावः । एतच्च ददातीत्यादिसूत्रे विभाषाग्रहणमनुबन्धानामेकान्तत्वपक्षे शविषये णस्याऽप्राप्तौ विभाषा, एकान्तत्वपक्षे तु प्राप्तविभाषेति पक्षद्वयसाधारणं विभाषाग्रहणं लिङ्गं मनोरमायामेकान्तत्वपक्ष एवोपन्यस्तमिति तदनुसारेणेहाप्युक्तम् । अनेकान्तत्वपक्षे त्वसाधारणं लिङ्गम्उदीचां माङः॑ इति सूत्रे माङो ग्रहणम् । मेङ इत्यत्र हि सत्यपि ङकारानुबन्धे तस्यानवयवत्वदेजन्तत्वमविहतमितिआदेच उपदेशे॑ इत्यात्वस्वीकारादिति दिक् । ण्यदेवेति । तेनतित्स्वरित॑मिति स्वरिते सति आलम्भ्य इत्यत्र समासान्तोदात्तत्वं बाधित्वा कृदुत्तरपदप्रकृतिस्वरेण स्वरितान्तत्वमिष्टं सिध्यति, यति तुयतोऽनावः॑ इत्याद्युदात्तत्वेनोत्तरपदाद्युदात्तत्वं प्रसज्येत, तच्चाऽनिष्टमिति भावः ।", "31099": "", "31100": "<<गदमदचरयमश्चानुपसर्गे>> - गदमद । व्यत्ययेन पञ्चम्यर्थे सप्तमी । एभ्योऽनुपरुआगेभ्यो यत्स्यात् । ण्यतोऽपवादः । अनुपसर्गे किम् ।न नैषधे कार्यमिदं निगाद्य॑ मिति श्रीहर्षः । * चरेराङि चाऽगुरौ । यमेरिति ।पोरदुपधा॑दित्यनेनैव सिद्धेरिति भावः । नियमे साधुरिति ।यमः समुपनिविषु च॑ इति वैकल्पिकेऽप्प्रत्यये कृतेतत्र साधुः॑ इति तद्धितो यदित्यर्थः । यद्यप्यस्मिन्पक्षेकृत्यानां कर्तरि वा॑ इत्यस्याऽप्रवृत्तेः कर्तरि तृतीया दुर्लभा तथापि त्वयेति च तेनेति चकरणत्वविवक्षया तृतीयेति स्थितस्य गतिर्बोध्या । केवलाद्यतं कृत्वा निशब्देन समास इत्यपरे । यद्वायमोऽपरिवेषणे मि॑दिति मतमाश्रित्यपर्यवसितं नियमय॑न्नित्यादाविव मित्त्वं स्वीकृत्य ण्यन्ताद्यद्बोध्यः । अथ वा संज्ञापूर्वकविधेरनित्यत्वाण्ण्यत्येव वृद्धिर्न प्रवृत्तेति दिक् । एवं च वार्तिकप्रयोगोऽप्यन्यथासिद्ध इति तद्बलेननिपूर्वाद्यदिति न कल्पनीयमिति भावः ।", "31101": "<<अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु>> - अनुद्यमिति । अत्र वदेः क्यबेव भवति.यजादित्वात्संप्रसारणम् ।नलोपो नञः॑ ।तस्मान्नुडचि॑ । व्यवहर्तव्येति । यद्यपि पणितव्यशब्दोऽर्थद्वयसाधारणस्तथापि निपातनस्येह रूढर्थत्वद्व्यवहर्तव्य एवाऽयं निपात्ते । उक्तंच हरिणा — धातुसाधनकालानां प्राप्त्यर्थं नियमस्य च । अनुबन्धविकाराणां रूढर्थं च निपातन॑मिति । अनुबन्धविकाराणां नियमस् च प्राप्त्यर्थमिति पूर्वेणान्वयः । शतेनेति । शतशब्दोऽनियतपरः । कन्याय वरणे वरयितृणां नियमो नास्तीत्यर्थः । वर्येति । संभक्तव्येत्यर्थः । वृङ् संभक्तावित्स्येदं निपानम्, तत्रैवाऽनिरोधरूपस्याऽर्थस्य संभवादिति भावः । अनिरोदेष्वित्यस्याऽनुक्तौ वृञोऽपि स्यादिति ध्वनयति — वृत्येति ।एतिस्तुशास् इत्यादिना वृञः क्यप् । इह सूत्रेऽवद्यादीनि निर्विभक्तिकानि पृथक्पदानि,तत्र वर्याशब्दष्टाबन्तोऽनुक्रियते । न त्वयं द्वन्द्वेन जसन्तेन निर्देशः । तेन वर्येति स्त्रियामेव निपात्यते । अस्त्रियां तु वृङःऋहलोण्र्यत् । वार्या ऋत्विजः । ऋत्विजामपि यज्ञमात्रे वरणीयत्वादनिरोधोऽस्ति, स्त्रीत्वं तु नास्तीति ण्यदेव भवति । एतच्च वृत्तिकारमतम् । न चाऽत्र॒एतिस्तु॑ इतिक्यप् शङ्क्यः, तत्र वृञ एव ग्रहणं न तु वृङ इति सिद्धान्तात् । भट्टिस्तु द्वन्द्वाज्जसा निर्देश इति मत्वा पुंलिङ्गेऽपि यतं प्रायुङ्क्त — — ॒सुग्रीवो ममवर्योऽसौ॑ इति ।", "31102": "<<वह्यं करणम्>> - वाह्रमिति । वहनकर्मेत्यर्थः ।", "31103": "", "31104": "<<उपसर्या काल्या प्रजने>> - उपसर्या । उपपूर्वात्सरतेः सर्तेर्वा यन्निपात्यते । कालः प्राप्तोऽस्याः काल्या ।तदस्य प्राप्त॑मिति वर्तमानेकालाद्यत् इति यत् । प्रजननं प्रजनो = गर्भग्रहणम् । भावे घञ् ।जनिवध्योश्च॑ इति वृद्धिनिषेधः । उपसार्येति । कर्मणि ण्यत् । कर्तरि यदिति ।तयोरेव॑ इति भावे प्राप्ते कर्तरि यन्निपात्यत इति भावः ।", "31105": "<<अजर्यं संगतम्>> - संगतं चेदिति । नपुंसके भावे क्तः । विशेष्यमिति । इहाऽजर्यमिति समुदायस्य सङ्गतं वाच्यमित्यर्थो न ग्राह्रः, पर्यायाणां युगपत्प्रयोगाऽसंभवेनाऽजर्यंसतां सङ्गतमिति प्रयोगाऽनापत्तेः,तेन सङ्गत॑मिति भट्टिप्रयोगानुपपत्तेश्च ।", "31106": "<<वदः सुपि क्यप् च>> - वदः । सकर्मकत्वाद्भावे कृत्यप्रत्ययो दुर्लभः,लः कर्मणि॑ इति सूत्र इवतयोरेव॑ इत्यत्रापि सकर्मकेभ्यः कर्मणि, अकर्मकेभ्य एव भावे इति सिद्धान्तात् । अत आह — — भाव इत्याकृष्यत इति ।भुवो भावे॑ इत्यत्राऽनुपसर्ग इत्यनुवर्तनात्, निरुपसर्गस्य भवतेरकर्मकत्वात्तयोरेव कृत्ये॑ ति भावे कृत्यप्रत्ययसिद्धौ भावग्रहणस्य वैयथ्र्यशङ्कायां भावग्रहणमुत्तरार्थमिति भाष्ये स्थितम् । तद्भाष्यस्वारस्यग्रहिणां मतमाह - कर्मणीति । अनुपसर्ग इति । सुपि किम् ।हनस्तोऽचिण्णलोः॑घातः । अनुपसर्गे किम् । प्रघातः । भावे घञ् ।", "31107": "", "31108": "", "31109": "<<एतिस्तुशस्वृदृजुषः क्यप्>> - एतिस्तु । एभ्य इति, सुप्यनुपसर्गे भावे इति च निवृत्तमिति भावः । एतीतीण एव ग्रहणं, नेङिकोः, तयोरधिपूर्वयोरेव ग्रहणादेतीति निर्देशानुपपत्तेः । तथा चरक्षार्थं वेदानामध्येयं व्याकरण॑मिति भाष्ये यदेव प्रयुक्तः ।इण्वदिक इति वक्तव्यम् इति वचनादिकोऽपि भवतीत्यधीत्या मातेत्युदाहरन्ति । [ अधीत्या = स्मर्तव्या] ।", "31110": "<<ऋदुपधाच्चाकॢपिचृतेः>> - कॢपिचृत्योस्त्विति । कृपू सामर्थ्ये । चृती हिंसाग्रन्थनयोः । कल्प्यमिति । कृपेर्लत्वस्याऽसिद्धत्वात्, ऋऌवर्णयोः सावण्र्यविधानाच्च ऋदुपधत्वम् ।", "31111": "<<ई च खनः>> - ह्रस्वः सुपठ इति । दीर्घं पठतः सूत्रकृतस्त्वयमाशयः- दीर्घनिर्देशः इ-इ इति प्रश्लेषार्थस्तत्र द्वितीय इकारोये विभाषा॑ इत्यात्वबाधनार्थः । अन्यथाये विभाषा॑ इत्यस्यावकाशः — खायते खन्यते । इत्वस्यावकाशो यस्मिन्पक्षे आत्वंनास्ति । आत्वपक्षे तु उभयप्रसङ्गे परत्वादन्तरङ्गत्वाच्चात्वं स्यात् ।ये विभाषा॑ इत्यत्र हि ये इति विषयसप्तमी । तथा च यकारादौ बुद्धिस्थे एव प्राप्तमात्वमन्तरङ्गम् । इकारस्तु क्यपा सह विधानाद्बहिरङ्गः । तथा चान्तरङ्गस्यात्वस्य बाधनाय प्रश्लेषेण द्वितीय इकारविधिरावश्यक इति ई चेति दीर्घोच्चारणं कृतमिति । आत्वं तु बहिरङ्गं , ये इति परसप्तम्याश्रयात् । एवं च इत्वेनाऽऽत्वबाधो न्याय्य एवेति दीर्घो न पठनीयः । ह्रस्वपाठे मात्रालघवमस्तीति तदनुरोदेन ये इतिपरसप्तम्याश्रयणमपि युक्तमिति । स्यादेतत् — इ चेति ह्रस्वादेशाभ्युपगमे तस्यादेशस्य पूर्वेण सह आद्गुणे तस्याऽसिद्धतयाह्रस्वस्य पितीति तुक् स्यात्,षत्वतुकोरसिद्धः॑ इति षत्वे तुकि चकर्तव्ये एकादेशशास्त्रस्याऽसिद्धत्वस्वीकारात् । अतो दीर्घ एव विधेय इति चेत् । मैवम् ।पदान्तपदाद्योरादेशोऽसिद्धो न त्वन्योऽपी॑ति सिद्धान्तात् । अन्यथा व#ऋक्षे छत्रमित्यत्र ङावाद्गुणस्याऽसिद्धतया छे चेति ह्रस्वाश्रयो नित्यस्तुक् स्यात् । इष्यते तु दीर्घात्पदान्ताद्वेति वैकल्पिक इति दिक् ।भृञोऽसंज्ञाया॑मित्यसंज्ञाग्रहणसामथ्र्याद्भार्येत्यत्र सूत्रान्तरेणापि क्यब्न भविष्यतीत्यत आह - पुंसि चरितार्थ इति । भार्या नाम क्षत्रिया इत्यत्रेत्यर्थः । तदनुबन्धेति । डुभृञ् इत्यनेकानुबन्धत्वाद्बिभर्तेः क्यपोऽप्रसङ्ग इति भावः ।", "31112": "", "31113": "<<मृजेर्विभाषा>> - मृजेर्विभाषा । ऋदुपधत्वान्नित्यं क्यपि प्राप्तेऽयमारम्भः ।", "31114": "<<राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः>> - राजसूय । यद्वेति ।राजानं क्रीणन्ति॑ इत्यादौ तथा दर्शनादिति भावः । षुञ् अभिषव इत्यस्य ह्रस्वान्तत्वादाह — निपातनाद्दीर्घ इति । निपातनं च रूढर्थमपि.तेनाद्यपक्षे अआमेघादौ, द्वितीयपक्षे ज्योतिष्टोमादौ च नातिप्रसङ्गः । उत्वमिति । तस्य रपरत्वात्हलि च॑ इति दीर्घ इति भावः । नित्यं क्यबिति । तेनवदः सुपि क्यप्च॑ इति यत्प्रत्ययो नेति भावः ।", "31115": "<<भिद्योद्ध्यौ नदे>> - भिद्योद्भ्यौ । क्यबिति ।कर्तरी॑ति शेषः । उद्ध्य इति ।तोयदागम इवोद्ध्यभिद्ययोर्नामधेयसदृशं विचेष्टित॑मिति रघुः ।", "31116": "<<पुष्यसिद्ध्यौ नक्षत्रे>> - पुष्यसिद्ध्यौ । नक्षत्रे किम् । पोषणं, सेधनम् । अधिकरणे ल्युट् । पुष्यसिध्ययोः पर्यायत्वेऽपि स्वरूपपरत्वात्सूत्रे द्वन्द्वः ।पुष्ये तु सिध्यतीष्यौ॑ इत्यमरः ।", "31117": "<<विपूयविनीयजित्या मुञ्जकल्कहलिषु>> - पापमिति वेति ।तपो न कल्कोऽध्ययनं न कल्कः॑ इत्युपक्रम्यतान्येव बावोपहतानि कल्कः॑ इति भारते दर्शनात् ।कल्कः पापाशये पापे दम्बे विट्किट्टयोरपि॑ इति कोशाच्चेति भावः ।", "31118": "<<प्रत्यपिभ्यां ग्रहेश्छन्दसि>> - *छन्दसीति वक्तव्यम् । वक्तव्यमिति । वृत्तिकृता तु सूत्रे प्रक्षिप्तम् । क्यप उदाहरणं तुछन्दस्येव ।मत्तस्य न प्रतिगृह्रं तस्मान्नाऽपिगृह्रम् । लोके त्विति । ण्यदेवेति भावः ।", "31119": "<<पदास्वैरिबाह्यापक्ष्येषु च>> - पदास्वैरि । एष्वर्थेषु ग्रहेः क्यप् स्यात् । अवगृह्रमिति । यस् पदस्याऽवग्रहः क्रियते तत्पदम् । अवग्रहो = विच्छेदः । अवान्तरपदसंज्ञां सूचयितुं पाठकाले किंचित्कालमवसनाम् । प्रगृह्रमिति । यस्य प्रग्रहस्तत्पदम् । प्रग्रहस्तु प्रकृतिभावात् यणाद्यभावे परस्परमचोरसन्नकर्षः ।यस्य प्रगृह्रसंज्ञा विहिता तत्प्रगृह्र॑मिति वृत्तिः । यद्पि पदावयवस्य द्विवचनादेः प्रगृह्रसंज्ञा न तु पदस्य, तथाप्यवयवधर्मस्य समुदाये उपचारो बोध्यः । अवगृह्रप्रगृह्रशब्दौ प्रातिशाख्यादिषु पदविशेषपरतया निरूढौ । अस्वैरीति । स्वेन ईरितुं शीलमस्य स्वैरी = स्वतन्त्रः ।स्वादीरेरिणोः॑ इति वृद्धिः । नञ्पूर्वस्तु अस्वैरी । गृह्रका इति ।अनुकम्पाया॑मिति कन् । गृहासक्ताः पक्षमृगाश्छेकास्ते गृह्रकाश्च ते॑ इत्यभरः । विभाषा कृ । करोतेः क्यप्यप्राप्ते, वृषेस्तु ऋदुपधत्वान्नित्यं प्राप्तेऽयमारम्भः ।", "31120": "", "31121": "<<युग्यं च पत्त्रे>> - पत्रं वाहनमिति । पतन्त्यनेनेत्यर्थेदाम्नीशसे॑त्यादना करणे ष्ट्रन् । युग्यो गौरिति । यद्यपितद्वहति रथयुगप्रासङ्ग॑मिति तद्धितयताऽपि इदं सिध्यति तथापि ण्यतं व्यावर्तयितुमिदं सूत्रम् । अन्यथा हि योग्यो गौरिति स्यात् । अन्ये त्वाहुः — युग्यो हस्तीति हि वृत्तावुदाहृतं,तत्तु तद्धितेन न सिध्यति । न हि हस्तीयुगं वहति । कृता तु सिध्यति । युज्यते संबध्ते ह्रसौ कुथादिनेति । ततश्चात्र वैयथ्र्यशङ्कैव नास्तीति दिक् ।", "31122": "<<अमावस्यदन्यतरस्याम्>> - वृद्धौ सत्यामिति । तेनअमावास्याया वे॑ति विहितस्तद्धितो ह्रस्वपक्षेऽपि सिध्यति, एकदेशविकृतरयाऽनन्यत्वात् । यदि तु यत्प्रत्ययान्तस्येदं पाक्षिकं निपातनमित्याश्रीयेत तदा यता मुक्तेऽधिकरणे ण्यदेव तावद्दुर्लभः । अथापि बाहुलकाल्लभ्येत, एवमपि ण्यदन्तमनूद्य विहितस्तद्धितो यदन्तान्न स्यादिति दिक् । ऋहलोः । पञ्चम्यर्थे षष्ठी ।ऋ॑ इति ऋधातोर्न ग्रहमं किंतु ऋवर्णस्य, हला साहचर्यात्, परं कार्यमिति निर्देशात्,ईडवन्दे॑ इत्यादिलिङ्गाच्च ।ऋहलो॑रित्येतदनुवर्तमानस्य धातोर्विशेषणं । विशेषणेन तदन्तविधिस्तदेतदाह - ऋवर्णान्तादिति । अत्रेदमवधेयं — मूलपुस्तकेषु सर्वत्रविभाषा कृवृषो॑रित्यत्र पक्षे ण्यद्भवतीति वक्तुंऋहलोण्र्य॑दिति सूत्रं पठित्वा पश्चात्युग्यं च पत्रे॑,अमावस्यदन्यतस्या॑मिति पठितम् । मनोरमायां तु सूत्रपाठक्रमेणयुग्यं च पत्रे॑,अमावस्यदन्यतरस्या॑मिति व्याख्यायऋहलोण्र्य॑दितिसूत्रं व्याख्यातं तथैवात्रापि व्याख्यातमिति ।", "31123": "", "31124": "", "31125": "<<ओरावश्यके>> - लाव्यमिति ।आवश्यके उपपपदे॑ इति व्याख्याने तु नेदं सिध्यतीति भावः । क्वचित्तु लाघवं प्रत्यनादराद्व्यतिसे इत्यादौ व्यतिशब्दवद्द्योतितार्थस्याऽपि प्रयोगो दृश्यते । अवश्यलाव्यम् । अत्रोपपदसमासाऽसंभवेऽपि मयूरव्यंसकादेराकृतिगणत्वात्समासः ।", "31126": "", "31127": "<<आनाय्योऽनित्ये>> - वैश्यकुलादेरिति । दक्षिणाग्नेर्हि योनिर्विकल्प्यते, -वैश्यकुलाद्वित्तवतोभ्राष्ट्राद्वा गार्हपत्याद्वे॑ति ।", "31128": "<<प्रणाय्योऽसंमतौ>> - कर्मव्यापार इति.तथा चायमर्थः — लोकानां या प्रीतिस्तद्विषयीभवनं यस्मिन्नास्ति चोरादौ सोऽसंमतिरिति । वस्तुतस्तु प्रीतिविषयीभवनापेक्षया लाघवात्प्रीतिरेव संमतिः,सा यस्मिन् चोरादौ नास्ति लोकानं सोऽसंमतिः । यद्वा संमतिः प्रीतिविषयेषु यस्य नास्ति स विरक्कतोऽसंमति । तन्त्रेणाऽर्थद्वयमपि गृह्रते ।", "31129": "<<पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु>> - पाय्यसान्नाय्य । चतुर्षु अर्थेषु चत्वारो निपात्यन्ते । पीयतेऽनेनेति माङः करणे ण्यत् । पेयमन्यत् । हविर्विशेष इति ।ऐन्द्रं दध्यमावास्यायामैन्द्रं पयोऽमावास्याया॑मिति विहितो दधिपयोविशेषरूपः । धीयते अनयेति । अत्र सर्वा सामिधेनी न ग्राह्रा, किंतु समिध्यमानवतीं समिद्धवतीं चान्तरेण विकृतिषु प्रक्षिप्यमाणापृथृपाजा अमत्र्यः॑ इत्यादिकैव । अयं च विशेषो निपातनस्य रूढर्थत्वाल्लभ्यते । नन्वेवं निपातनात्सामिदेनीविसेषवाचकत्वे सामिधेनीग्रहणं व्यर्थमिति चेत् । अत्राहुः- सूत्रे सामिधेनीग्रहणं प्रयोगविशेषोपक्षणार्थम् । तथा चाऽसामिधेन्यामपि दृश्यते — धाय्या शंसती॑ति । न हि शस्त्रेण समित् प्रक्षिप्यते ।", "31130": "<<क्रतौ कुण्डपाय्यसंचाय्यौ>> - कुण्डपाय्य । कुण्डशब्दे तृतीयान्ते उपपदे पिबतेरधिकरणे यत्प्रत्ययो युगागमश्च निपात्यते । नन्वत्र ण्यदेव निपात्यतां प्रकृत्वात्, एवं चआतो युक् चिण्कृतो॑रितिसिद्धत्वद्युक् न निपातनीय इतिलाघवमस्तीति चेत् । मैवम् । तित्स्वरप्रसङ्गात् । इष्यते तुयतोऽनावः॑ इत्याद्युदात्तः कृदुत्तरपदप्रकृतिस्वरः ।तथा च प्रयुज्यतेप्रणाय्यात् कुण्डपाय्य॑ इति । संपूर्वाच्चिनोतेस्तु ण्यदायौ निपात्येते । क्रतौ किम् । कुण्डपानम् । संचेयम् ।", "31131": "<<अग्नौ परिचाय्योपचाय्यसमूह्याः>> - अग्नौ परि.अग्निरिह न ज्वलनः,किं तु तद्धारणार्थमिष्टकाचयनेन निर्मितं स्थलं, तदाह — स्थलविशेष इति । एते साधव इति । स्थलविशेषेऽभिधेये परिपूर्वाच्चिनोतेण्र्यदायादेशयोः, संपूर्वस्य वहेस्तु संप्रसारणदीर्घयोश्च निपातनादिति भावः ।", "31132": "<<चित्याग्निचित्ये च>> - चित्योऽग्निरिति । चिनोतेः कर्मणि क्यप् । यतोऽपवादः । इह सूत्रे अग्नावित्यनुवर्तते, तच्च चित्यशब्दस्यैव विशेषणं, न द्वितीयस्य । तस्य भावार्थकत्वेनाऽग्निवाचकत्वाऽसंभवात् । अग्नेरन्यत्र चेयमित्येव । शब्दकौस्तुभादौ तु अग्निचित्येत्यत्र भावे यकारप्रत्ययस्तुक् च निपात्यते न तु क्यप् । तेनान्तोदात्तत्वं भवति । क्यपि तुकृते क्यपः पित्त्वादनुदात्तत्वे धातुस्वरेण चित्य इवाद्युदात्तः स्यादिति स्थितम् । ननु वासरूपविधना कृत्या अपि भविष्यन्तीत्यत आह — स्त्र्यधिकारादूध्र्वमित्यादि । क्तल्युडिति । हसितं हसनं छात्रस्य ।नपुंसके भावे क्तः॑ल्युट् चे॑ त्यनयोर्विषये भावे इति घञ्न । इच्छति भोक्तुम् । अत्रइच्छार्थेषु लिङ्लोटौ॑ इति लोण्न । लिङ् तु भवत्येव,॒समानकर्तृकेषु तुमुन् लिङ् चे॑ति वचनात् । ईषत्पानः ।अतो यु॑जिति युच् । अत्रईषद्दुःसुषु॑इति खल् न । लिङा बाधेति । चकारेणलिङ् यदी॑त्यतो लङनुकृष्यत इति भावः ।", "31133": "<<ण्वुल्तृचौ>> - णकारो वृद्ध्यर्थः । लकारोलिती॑ति स्वरार्थः । तृचश्चकारस्तुतुरिष्ठेमेयस्सु॑,तुश्छन्दसि॑ इत्यादौ सामान्यग्रहणाऽविघातार्थः ।चितः॑ इत्यन्तोदात्तार्थस्तु न भवति,आद्युदात्तश्चे॑त्येनेनैव सिद्धेः । एवं चअप्तृन् इति सूत्रे तृन्तृचो पृथग्ग्रहणं विहायअप्तृस्वसृ॑ इत्येव सुवचमित्येके । अन्ये तुसामान्यग्रहणेऽपि क्वचिद्विशेषस्यैव ग्रहणं भवती॑ति ज्ञापनार्थम्अप्तृन्नि॑ति सूत्रे तृन्तृचोरुभयोग्र्रहणम् । तेनकोपधग्रहणे तद्धितवुग्रहण॑मित्येतत्सिद्धमित्याहुः । वोढेति ।अर्हे कृत्यतृचश्चे॑ति तृच्, ढत्वादयस्तु वोढव्य इत्यत्रेवात्राऽप्यूह्राः । रधितेति ।रधादिभ्यश्चे॑ति वेट् । रद्धेति । इहनेटलिटी॑ति निषेधाऽप्रवृत्तावपिरधी॑त्यनेन अच्परत्वाऽभावान्नुम्न । मङ्क्तेति ।टुमस्जो शुद्धौ॑ अस्मात्तृच् ।मस्जीट ति नुम्न्त्यात्पूर्वः ।स्को॑रिति सलोपः । जस्य कुत्वे चर्त्वम् । अनुस्वारपरसवर्णौ ।बहूनां समवाये द्वयोद्र्वयोः संयोगः॑ इति पक्षे तु नुमागमस्याऽच्परत्वेऽपिस्को॑रिति सलोपो भवत्येवेति ज्ञेयम् । नंष्टेति । रधादित्वादिडभावपक्षे नुम् ।लब्धेति ।झषस्तथो॑रिति धः भकारस्य जश्त्वम् ।लभेश्चे॑ति नुम् तु न भवति, अचीत्यनुवर्तनात् । ण्वुलि ल्युटि च ने॑ति वचनात् । योगविभागेनेति ।कृत्यकल्युटो बहुल॑मिति सूत्रेकृतो बहुल॑मित्येवाकरे स्थितम् । तथा च योगविभागं विनैव सर्वेष्टसिद्धिरित्याहुः । * क्रमेः कर्तर्यात्मनेपदविषयात्कृत इण्निषेधो वाच्चः । प्रक्रन्तेति ।प्रोपाभ्यां समर्थाभ्या॑मिति क्रमेरत्मनेपदविषयता । अनन्यभावे विषयशब्द इति । तदन्याऽविषयत्वे सति तद्विषयत्वमनन्यभावः । तथा च विकल्पार्हस्य क्रमेः परस्मैपदात्मनेपदोभयप्राप्तिविषयत्वान्निषेधो नेति भावः । संजिगमिषितेति । संपूर्वाद्गमेः सन् ।सन्यङो॑रिति द्वित्वे हलादिः शेषेसन्यतः॑ इत्यभ्यासस्येत्वम् ।आर्धधातुकस्ये॑ति सन इट्, षत्वं, सन्नन्तात्तृच् । पुनरिट् । अल्लोपस्येति । प्राचां तुन धातुलोपे॑ इति सूत्रेइक॑ इत्यनुवृत्तेर्वृद्धेरनिषेधः -पापाचक॑ इत्युक्तं, तन्न, यङन्ते अल्लोपस्य स्थानिवत्त्वेन वृद्धिः प्राप्त्यभावात् । ननु यङ्लुगन्तपापाचकरूपाभिप्रायेण तथोक्तम्, तत्र हि अकारविशिष्टस्यैव यङो लुगिति सर्वसंमतत्वेन स्थानिवत्त्वाऽभावादिति चेत् । मैवम् । एवंतर्हि आर्धधातुकस्य धात्ववयवलोपनिमित्तत्वाऽभावेन यङ्लुगन्तेन धातुलोपे॑ इति निषेधस्य प्रसक्तेरभावात् ।", "31134": "<<नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः>> - नन्दिग्रहि । द्वन्द्वान्ते श्रूयमाण आदिशब्दः प्रत्येकं संबध्यते । तदाह — नन्द्यादेर्ल्युरित्यादि । मधुसूदन इति । मधुं दैत्यं सूदयतीति विग्रहः । षूद क्षरणे । इह अर्दिसूदिभ्यां कर्मण्यणि प्राप्ते नन्द्यादिपाठाल्ल्युः । विभाषण इति ।भियो हेतुभये षुक् । ग्राहीति । णिनेर्णिदत्त्वादुपधावृद्धिः । स्थायीति । आतो युक् । मन्त्रीति ।मत्री॑ति चुरादाविदित्पाठान्नुम्,णेरनिटी॑ति णिलोपः । विषयीति । षिञ् बन्धने ।धात्वादे॑रिति षस्य सत्वेआदेशप्रत्यययो॑ रिति प्राप्तस्य षत्वस्यसात्पदाद्योरिति निषेधादाह — इह षत्वमपीति ।निपातना॑दित्यनुषज्यते ।परिनिविभ्यः॑ इति सूत्रेसितसये॑ति क्तान्ताऽजन्तसिनोतेग्र्रहणाण्णिन्यन्तसिनोतेर्निपातनं विना षत्वं दुर्लभमिति भावः । जारभरेत्यादि । जारं बिभर्ति, आआनं पचतीति विग्रहः । आपाकोऽपीति । कर्मण्यणपि पक्षे भवतीति भावः । चेक्रिय इति । संयोगपूर्वत्वात्एरनेकाचः॑ इति न यण् । लोलुव इति । इह सुबभवात्ओः सुपी॑ति यणनेतिअचि श्नुधातु॑ इत्युवङ् । मरीमृज इति ।रीगृदुपधस्ये चे॑ति रीगागमः । *चरिचलिपतिवदीनां वा द्वित्वमच्याक्चाभ्यासस्येति वक्तव्यम् । हलादिः शेषश्च नेति । सति तु हलादिःशेषे आगमस्य आदेशस्य वा विशेषो नास्तीत्या-चाऽभ्यासस्येत्येव ब्राऊयादिति भावः । * पाटेर्णिलुक्चोक्च दीर्घश्चाभ्यासस्य । पाटेर्णिलुगिति ।णेरनिटी॑ति लोपे हि प्रत्ययलक्षणन्यायेनपाटूपट॑ इत्यत्रोपधावृद्धिः स्यादिति भावः । इहापि पूर्ववद्ध्रस्वहलादिः शेषयोरभावः ।", "31135": "<<इगुपधज्ञाप्रीकिरः कः>> - इगुपध । इक् उपधा यस्य सः । ज्ञा अवबोधने, प्रीञ् तर्पणे, कृ विक्षेपे । एषामितरेतरयोगद्वन्द्वे व्यत्ययेन पञ्चम्येकवचने कशब्दस्य धात्वनुकरणत्वेनप्रकृतिवदनुकरण॑मित्यतिदेशात्ॠत इद्धातो॑रिति इत्वम् । समाहारद्वन्द्वे तु नपुंसकह्रस्वत्वे सति इत्वं न स्यात् । ज्ञ इति । जानातीति ज्ञः ।आतो लोप इटि चे॑त्यालोपः ।", "31136": "", "31137": "<<पाघ्राध्माधेट्दृशः शः>> - पाघ्राध्मा । पा पाने । पा रक्षणे इत्ययं तु न गृह्रते, लुग्विकरणत्वात् । इह सूत्रे उपसर्ग इति केचिदनुवर्तयन्ति, तद्बहूनामसंमतम् । तथा च श्रीहर्षः — फलानि धूमस्य धयानधोमुखा॑निति । श्रूयते च — यदा पश्यः पश्यते रुक्मवर्ण॑मिति", "31138": "<<अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेति- सातिसाहिभ्यश्च>> - अनुपसर्गाल्लिम्पविन्द । इह लिम्पविन्देति भाविना नुमा सनुम्कौ निर्दिष्टौ । तेन लाभार्थस्यैव विन्देग्र्रहणं, न तु सत्ताद्यर्थकानाम् । धारय इति । धृञ् धारणे, धृङ् अवस्थाने, ण्यनतयोद्र्वयोरपि ग्रहणम् । अथ कथंनमह्रमत्रोत्तरधारयस्य ते॑ इति श्रीहर्षः । परत्वाद्धि सूत्रधारादिष्विव कर्मण्यणा भाव्यम् । तथा च वार्तिकम् -अकारादनुपपदात्कर्मोपपदो विप्रतिषेधेने॑ति । सत्यम् । कर्मणः शेषत्वविवक्षायामणोऽप्राप्त्या शे कृते शेषषष्ठन्तेन समासो भविष्यति । एतेन गङ्गाधरभूधरजलधरादयो व्याख्याताः । पारय इति । पार कर्मसमाप्तौ चुरादिण्यन्तः । पृ पालनपूरणयोरिति वा हेतुमण्ण्यन्तः । वेदय इति । विद चेतनाख्यानादिषु चुरादिः, ज्ञानाद्यर्थानामन्यतमो वा हेतुमण्ण्न्तः । इहोदाहरणेषु लिपिविदिभ्यांतुदादिभ्यः शः॑ ।शे मुचादीना॑मिति नुम् । धार्यादिभ्यस्तु शप्, गुणायाऽदेशौ । * गवादिषु विन्देः संज्ञायाम् । अरविन्दमिति । चक्रस्य नाभिनेम्योरन्तराले स्थितानि काष्ठानि अराः, तदाकाराणि दलानि तत्सादृश्यादराः, तान् विदन्ति लभते इत्यर्थे कर्मण्यणो बाधनायेदम् ।", "31139": "<<ददातिदधात्योर्विभाषा>> - ददातिदधात्योर्विभाषा । ददः दध इति । शे परेजुहोत्यादिभ्य॑ इति श्ल,श्लौ॑ इति द्वित्वम् । अपित्सार्वदातुकस्य शस्य ङित्त्वात्आतो लोपः॑ इत्यालोपः । वक्ष्यमाणो ण इति ।श्याद्व्यधे॑ति णप्रत्यये आतो युकि — दायः धायः । प्रदः प्रध इति ।आतश्चोपसर्गे॑ इति कः । स्यादेतत् — दद दाने, दध धारणे, आभ्यामचि ददो दध इति सिद्धम्, दाधाभ्यामादन्तलक्षणे णप्रत्यये दायो धाय इत्यपि, ततश्चेदं सूत्रं व्यर्थमिति चेत् । सत्यम् । स्वरार्थमिदं सूत्रम् । अददः अदधः । इह हि अव्ययपूर्वपदप्रकृतिस्वर इष्यते । अजन्तत्वे तुअच्कावशक्ता॑ वित्यन्तोदात्तत्वं स्यात् ।", "31140": "<<ज्वलितिकसन्तेभ्यो णः>> - इतिशब्द आद्यर्थ इति । निपातानामनेकार्थत्वादिति भावः ।", "31141": "<<श्याऽऽद्व्यधास्रुसंस्र्वतीणवसाऽवहृलिह- श्लिषश्वसश्च>> - श्याद्व्यधा । अनुपसर्गादिति निवृत्तम्, उत्तरसूत्रे पुनरनुपसर्गग्रहणात् । एवं च तत्सम्बद्धं विभाषाग्रहणमपि निवृत्तं ।तदाह — नित्यमिति । इह सूत्रे श्यैङ् गतावित्यस् आत्वे शया आदिति प्रश्लेषो, न तु शीङो यणादेशेन, नाप्यततेः, अच्छब्दान्तानां वा यतिप्रभृतीनां, नाप्यकारान्तानां वा प्रश्लेषेण ग्रहणं, व्याख्यानादिति भावः । कं बाधितुमिति । अन्यथाआतश्चोपसर्गे॑ इति विशेषविहितः कः सामान्यविहितस्य णस्य बाधकः स्यादित्यर्थः । रुआउ गतौ । प्राचा तु सूत्रे आश्रु संश्रु इति तालव्यं पठित्वा शृणोतिरुदाहृतस्तदनाकरम् । तथाच प्रयुञ्जते — अनाश्रवा वः किमहं॑ कदापि वक्तुं विशेषः परमस्ति शेषः॑इति नैषधादौ । अमरोऽप्याह — ॒वचने स्थित आश्रवः॑ इति । यदि तु सूत्रे अस्मिन् शृणोतेग्र्रहणं स्यात्तर्हिऋदोर॑बिति सामान्यविहितमपं बाधित्वा आङ्पूरवकाच्छृणोतेर्विशेषविहितो ण एव स्यात्, [तथा चआश्रव॑ इति रूपं न स्यात्, किंत्वाश्राव इति स्यादिति दिक् । लेहः श्लेष इति ।इगुपधे॑ति कप्रत्यये गुणो न स्ादिति भावः ।", "31142": "<<दुन्योरनुपसर्गे>> - दुनोतेरिति । टुदु उपतापे इत्यस्मात् । दवतेरिति । दु गतावित्यस्मात् । दव इति ।दवदावौ वनारण्यवह्नी॑ इत्यमरः ।", "31143": "<<विभाषा ग्रहेः>> - काशिकेति । भाष्ये त्वेतद्वार्तिकं नास्तीति तन्मते भावशब्दोऽसाधुरित्यतत आह - भाष्यमते त्विति ।", "31144": "<<गेहे कः>> - गेहे कः । गेह इति प्त्ययार्थस्य कर्तुर्विशेषणं, नोपपदम्,गृहपतिना संयुक्ते ञ्यः॑ इति निर्देशादित्यभिप्रेत्याह - गेहे कर्तरीति । एतत्सूत्रं तु शक्यम कर्तुम् । गृहू ग्रहणे इति भ्वादेरिगुपधलक्षमे कप्रत्यये कृते गृहशब्दस्य सिद्धेः । तात्स्थ्यादिति । भवति हि तात्स्थ्यात्ताच्छब्द्यम् ।मञ्चाः क्रोशन्ती॑ त्यादौ मञ्चशब्देन पुरुषा अपि व्यपदिश्यन्ते । एवं च गृहशब्दो वेश्मनि मुख्यो, दारेषु त्वौपचारिक इत्यर्थः । अत्रेदमवधेयम् — गृहशब्दोऽयमद्र्धर्चादित्वादुभयलिङ्गः । तत्र नपुंसकलिङ्गोऽभिधेयवचनः पुंलिङ्गस्तु बहुवचनान्त एव ।गृहाः पुंसि च भूस्त्र्येवे॑त्यमरोक्तेरिति ।", "31145": "<<शिल्पिनि ष्वुन्>> - शिल्पिनि ष्वुन् । पूर्वेण साहचर्याच्छिल्पिनीत्यपि प्रत्ययार्थस्य विशेषणं न तूपपदमित्याह — तद्वति कर्तरीति । भाष्यमते त्विति । तथा च षष्ठेरजकरजनरजः सूपसङ्ख्यान॑मिति वार्तिकं प्रत्याख्यातुं भाष्यकृतोक्तकम् — ॒रजकरजनरजःसु कित्त्वात्सिद्धं । कित एवैते औणादिका॑ इति । तत्र कैयट आह — रजक इति ।क्वुन् शिल्पी॑ति क्वुन् । रजनमिति ।रञ्जेः क्यु॑न्निति क्युन् । रज इति ।भूरञ्जिभ्यां कि॑ दित्यसन् प्रत्यय॑ इत्ादि ।", "31146": "<<गस्थकन्>> - गस्थकन् । गामादागर्हणेष्वविशेषेऽपि गै शब्द इत्ययमेवेह गृह्रते न तु गाङ् गताविति, थकन् प्रत्ययो हि गायत्यर्थविषयमेव शिल्पिनमभिधातुं समर्थं इत्याशयेनाह — गायतेरिति ।", "31147": "<<ण्युट् च>> - ण्युट् च । योगविभाग उत्तरत्र अस्यैवाऽनुवृत्त्यर्थः । गायन इति ।आतो युक् ।", "31148": "<<हश्च व्रीहिकालयोः>> - जहात्युदकमिति । उदकाधिक[म्] वद्र्धनात् । भावानिति । भावाः पदार्थाः, तान् जिहीते इति । ओहाङ् गतौ ।भृञामि॑दित्यभ्यासस्येत्वम् ।", "31149": "<<प्रुसृल्वः समभिहारे वुन्>> - प्रुसृल्वः । पञ्चमीस्थाने व्यत्ययेन जस् ।ओः सुपी॑ति यण् । लक्ष्यत इति । भूयः सहचारात् । यो हि यां क्रियां पुनः पुनरनुभवति स तत्र प्रायेण कौशलं लभते, तेन सकृदपि यःसुष्टु करोति तत्र वुन्, यस्तु बहुशोऽपि दुष्टं करोति तत्र नेति भावः ।", "31150": "<<आशिषि च>> - आशिषि च । अप्राप्तप्रार्थनमाशीः । सा च प्रयोक्तृधर्मो न प्रत्ययार्थः,कर्तरि कृ॑दिति कत्र्रर्थे विधानादित्याशयेनाह — आशीर्विषयार्थेत्यादिना । जीवतादिति । जीवनं तव भूयादित्यर्थः । जीवक इति । स्त्रियां तु टापिआशिषि वुनश्च ने॑ति निषेधात्प्रत्ययस्था॑दिति इत्त्वाऽभावः । जीवका । कर्मण्यण् । उपपदसमास इति ।तत्रोपपदम॑मिति कर्मादिवाच्यकुम्भादिवाचकपदस्योपपदसंज्ञायाम्उपपद[मति॑ ङिति] समास इत्यर्थः । कुम्भकार इति । अणि कृतेकर्तृकर्मणोः कृतिर॑ इति षष्ठन्तस्य कुम्भशब्दस्य कारशब्देन समासः । *ईक्षिक्षमिभ्यां च । शेषत्वविवक्षायामिति । पदसंस्कारपक्षे तु धरतीति धरः, गङ्गाया धर इति कर्मणि या षष्ठी तदन्तेन समास इति सुवचम् । स्यादेतत् — धातोर्विधीयमानस्याऽणादेः पदविधित्वाऽभावेन समर्थपरिभाषाया अनुपस्थानात्पश्यति कुम्भं, करोति कटमित्यादावसमर्थादपि धातोरणादयः स्युरिति चेत् । अत्राहुः — कुम्भाद्युपपदे विधीयमानस्याऽणादेरपि पदाश्रितारविधित्वात्समर्थपरिभाषोपस्थानान्नोक्तदोषः । उपोच्चारितं पपदं ह्रुपपदं, पदं च सुप्तिङन्तमिति प्रागेवोक्तत्वादिति ।", "32001": "", "32002": "<<ह्वावामश्च>> - ह्वावामश्च । कापवाद इति ।आतोऽनुपसर्गे॑ इति प्राप्तिर्बोध्या । स्वर्गह्वाय इत्यादि । ह्वेञ्वेञोःआदेचः॑ इत्यात्वेआतो यु॑गिति युक् । माङ् माने, मेङ् प्रणिदाने अनयोरिह ग्रहणं, न तु मा माने इत्यस्य, अकर्मकत्वात् । कविधानस्य फलमाह -आतो लोप इति ।", "32003": "<<आतोऽनुपसर्गे कः>> - पाष्णत्रमिति । पार्ष्ण त्रायत इति । त्रैङ् पालने । गोसंदाय इति । अण् । युक् । * कविधौ सर्वत्र प्रसारणिभ्यो डः । प्रसारणिभ्य इति । प्रसारणमिति संप्रसारणपर्यायः । जिनातीति । ज्या वनोहानौ ।क्र्यादिभ्य॑ इति श्नाप्रत्ययेग्रहिज्ये॑ ति संप्रसारणे पूर्वरूपेहलः॑ इति दीर्घे च कृतेप्वादीना॑मिति ह्रस्वः । ब्राहृज्य इति । डित्त्वसामर्थ्यादभस्यापि टेर्लोपः । पूर्वेण के हि सति कित्त्वात्संप्रसारणादौ चब्राहृजिय॑ इति स्यात् । आह्वः प्रह्व इति । के हि सतिवचिस्वपी॑त्यादिना ह्वेञः संप्रसारणे सति आहुवः प्रहुव इति स्यादिति बोध्यम् ।", "32004": "<<सुपि स्थः>> - सुपि स्थः ।सु॑पिति प्रत्याहारो गृह्रते, न तु सप्तमीबहुवचम् । कृत्रिमाऽकृत्रिमयोः कृत्रिमस्यैव ग्रहणात् । आरम्भसाथ्र्यादिति । कर्तरि पूर्वेणैव सिद्धत्वादिहकर्तरि कृ॑दिति न संबध्यते, अनिर्दिष्टार्थश्चस्वार्थे, धातोः स्वार्थो भाव एव । नन्वेवंघञर्थे कविधान॑ मित्यनेन गतार्थतेति चेत् । न । वार्तिकं दृष्ट्वा सूत्रकृतोऽप्रवृत्तेः । किं चषष्ठी॑ति सूत्रेण पाक्षिकसमासे प्रसक्तेउपपदमति॑ङिति नित्यसमासार्थमिदम् । अतएव ल्युडन्तेनाऽस्वपदविग्रहमाह — आखूनामुत्थानमिति । नन्वेवंघञर्थे कविधाने स्थारुआआपाव्यधिहनियुध्यर्थ॑मिति वार्तिके स्थाग्रहणं व्यर्थमिति चेत् । अत्राहुः — अकर्तरि कारके विधानार्थं तत्र स्थाग्रहण॑मिति । आखूत्थ इति । स्था इत्यस्य के परेआतो लोपः॑ इत्यालोपः,उदः स्थास्तम्भो॑रिति उदः परस्य सस्य थः, उदो दस्य चर्त्वम् । अत्र प्राचा आखूत्थं वर्ततैति नपुंसकं पठितं, तदुपेक्ष्यमिति मनोरमायामुक्तम्, भाष्यादौ सर्वत्र पुंलिङ्गस्यैवोदाहृतत्वात् ।ल्युः कर्तरीमनिज् भावेको घोः किः प्रादितोऽन्यतः॑ इत्यमरकोशे बावे कस्य पुंस्त्वविधानात्,भावे नणकचिद्भोऽन्ये॑ इति नपुंसकविधाने कस्य पर्युदासाच्चेति ।नणकचिद्भ्य॑ इत्यत्र चकार इद्यस्य स चित्, नश्च णश्च कश्च चिच्च नणकचितस्तेभ्योऽन्य इति विग्रहः ।", "32005": "<<तुन्दशोकयोः परिमृजापनुदोः>> - तुन्दपरिमृज इति । अत्रमृजेरजादा॑विति वैकल्पिकी वृद्धिव्र्यवस्थितविभाषा नेत्येके । स्यादेवेत्यन्ये । * कप्रकरणे मूलविभुजादिभ्यः उपसङ्ख्यानम् । मूलविभुजादिभ्यु इति । तादर्थ्ये एषा चतुर्थी । मूलविभुजादिसिद्ध्यर्थमित्यर्थः ।", "32006": "<<प्रे दाज्ञः>> - प्रे दा । गामादाग्रहणेष्वविशेषादाह — दारूपादित । पथिप्रज्ञ इति । पन्थानं प्रकर्षेण जानातीत्यर्थः । प्रादन्यस्मिन्निति । प्रशब्दमात्रोपपदे अस्य सूत्रस्य चरितार्थत्वादुपसर्गान्तरे सतिआतोऽनुपसर्गे॑ इत्यनेनापि न भवतीति भावः ।", "32007": "<<समि ख्यः>> - गोसङ्ख्य इति । गाः संचष्टे इति विग्रहः ।चक्षिङः ख्याञ् । ख्या प्रकथन इत्यस्य तु संपूर्वस्य प्रोयगो नास्तीति न्यासकारः । सार्वधातुकमात्रविषयोऽसौ धातुरिति च मनोरमादौ स्थितम् ।", "32008": "<<गापोष्टक्>> - गापोष्टक् । इहगामादग्रहणेष्वविशेषेऽपि गायतेरेव ग्रहणं, न तु गाङ् गतौ, गा स्तुतौ इत्यनयोः, अनभिधानात् । सामगः समगीति । एतेन टकः कित्तवमालोपार्थं टित्त्वं नु ङीबर्थमिति ध्वनितम् । प्रत्ययाऽधिकाराट्टकः प्रत्ययत्वेनप्रत्ययः॑परश्चे॑ ति धातोः पर एव स्यादितिआद्यन्तौ टकितौ॑ इत्यस्याऽत्र आशङ्कैव नास्तीति बोध्यम् । सामसङ्गाय इति । कर्मण्यणि सतिआतो यु॑गिति युक् । *पिबतेः सुराशीध्वोरिति वाच्यम् । पिबतेरिति ।लुग्विकरणाऽलग्विकरणयोः॑ इति पिरभाषलभ्यार्थकथनम्, उपपदपरिगणनं तु वाचनिकमेव । क्षीरपेति । क्षीरं पिबतीत्यातोऽनुपसर्गे कः । * शक्तिलाङ्गलाङ्कुशतोमरयष्टिघटघटीधनुष्षु ग्रहेरुपसङ्ख्यानम् । शक्तीति । घटग्रहणेनैव सिद्धे घटीग्रहणं लिङ्गविशिष्टपरिभाषाया अनित्यत्वज्ञापनार्थं, तेन मद्रराज्ञीत्यत्र टज्न,द्विषतीताप॑ इत्यत्रद्विषत्परयो॑रिति खच् नेति दिक् ।", "32009": "", "32010": "<<वयसि च>> - कवचहर इति । कवचोद्यमनं क्रियमाणं, संभाव्यमानं वा वयो गमयति । तनाऽसत्यपि कवचग्रहणेकवचहर॑ इति भवत्येव ।", "32011": "", "32012": "", "32013": "<<स्तम्बकर्णयोः रमिजपोः>> - * हस्तिसूचकयोरिति वक्तव्यम् । हस्तसूचकयोरिति । अन्यत्र तु स्तम्बे रन्ता । कर्णे जपिता ।", "32014": "<<शमि धातोः संज्ञायाम्>> - शमि धातोः । शमि उपपदे धातुमात्रात्संज्ञायामच् स्यात् । पुनर्धातुग्रहणमिति । असति धातुग्रहणेशमि संज्ञाया॑मित्यस्यावकाशः, — संभवः । शंवदः ।कृञो हेतुताच्छील्ये॑त्यस्यावकाशः — ॒श्राद्धकरः॑ ।शङ्कर॑ इत्यत्रोभयप्रसङ्गे परत्वाट्ट एव स्यात् । धातुग्रहणे कृते तु तत्सामर्थ्यादजेव भवति । तदाह — शङ्करा नामेत्यादि । अनधिकरणार्थमुपसङ्ख्यानमिति दर्शयति —", "32015": "<<अधिकरणे शेतेः>> - * पार्ाआदिषूपसङ्ख्यानम् । पार्ाआभ्यामित्यादिना ।", "32016": "<<चरेष्टः>> - कुरुचर इति । कुरुषु देशेषु चरति । अटतीत्यर्थः ।", "32017": "<<भिक्षासेनाऽऽदायेषु च>> - भिक्षासेना । अनधिकरणार्थ आरम्भः । भिक्षां चरतीति । चरतिरत्र चरणपूर्वके अर्जने वर्तते । चरणेन भिक्षामर्जयतीत्यर्थः । सेनाचर इति । सेनां चरति = प्रविशतीत्यर्थः । पचादिष्विति । टविधानं तुउपपदमति॑ ङिति नित्यसमासार्थम् । सहचरः । सहचरीत्यत्र तु सुप्सुपेति वैकल्पिकः समासः ।", "32018": "", "32019": "", "32020": "<<कृञो हेतुताच्छील्यानुलोम्येषु>> - कृञो हेतु । हेतुरिह लोकिको न तु तत्प्रयोजको हेतुश्चे॑ति कृत्रिमः, केवले कृञि तदसंभवात् । द्योत्येष्विति । न तु वाच्येषु,कर्तरि कृ॑ दित्यस्य बाधानुपत्तेरिति भावः । हेत्वादिषु क्रमेणोदाहरति — यशस्करीत्यादि । एषु किम् । कुम्भकारः । इह प्रसिद्धतरत्वाद्द्व्यनुबन्धोऽपि करोतिरेव गृह्रते, न तु कृञ् हिंसायामिति । हेतुः — कारणम् । आनुलोम्यमाराध्यित्तानुवर्तनम् ।", "32021": "<<दिवाविभानिशाप्रभाभास्करान्तानन्तादिबहुनान्दी- किम्लिपि लिबिबलिभक्तिकर्तृचित्रक्षेत्र- संख्याजङ्घाबाह्वहर्यत्तत्धनुररुष्षु>> - दिवाविभा । ननु अन्तकरशब्देन नञ्समासे स्वीकृतेऽपीष्टसिद्धौ सूत्रे त्वन्तशब्दात्पृथगनन्तग्रहणं व्यर्थमिति चेत् । अत्राहुः — स्वरे तु विशेषोऽस्ति । नञ्समासे हि अव्ययपूर्वपदप्रकृतिस्वरेणाऽन्तोदात्त्वमिति । दिवाकर इति । दिवा = दिवसं करोतीति विग्रहः । दिवाभूता रात्रिरित्यादाविव दिवाशब्दस्य वृत्तिविषये शक्तिमत्परत्वात् । मूलेऽनुक्तान्यपि कानिचिदुदाहरणानि ऊह्रानि । कर एव कारः । प्रज्ञादित्वादण् । कारं करोतीति कारकरः,आदिकरः, नान्दीकरः, किंकरः, बलिकरः भक्तिकरः कर्तृकरः चित्रकरः, क्षेत्रकरः, जङ्घाकरः , बाहुकर इति । * किंयत्तद्बहुषु कृञोऽज्विधानम् । वार्तिकमिति — कैयटहरदत्तादिरीत्योक्तम् । माधवस्तु इष्टिरियमित्याह । पुंयोगे ङीषिति । यत्तु न्यासकृतोक्तं — हेत्वादिषु पूर्वसूत्रेण ट एव भवति, तेन किङ्करणशीला किङ्करीत्युपपन्नं भवतीत॑ति तन्नादर्तव्यम्, परत्वादचा टचो बाधितत्वात्, पूर्वविप्रतिषेधस्य निर्मूलत्वाच्चेति भावः । वृत्तौ तु पक्षान्तरमप्युक्तम् — अथवा पचादिषु पाठः करिष्यते॑ इति ।दिवाविभे॑त्यस्मिन् सूत्रे किमादिग्रहणमनीय पचादिष्वेवकिंयत्तद्बुहुषु कृञः॑ इति पठितव्यं, वार्तिकमपीत्थमेव नेयमिति तस्याशयः । अस्मिन्पक्षे कर्मण्यणं बाधित्वा चरितार्थमिदं वनं हेत्वादिविवक्षायां परत्वाट्टेन बाध्यते, तेन पुंयोगं विनापिकिङ्करी स्यादेव, पुंयोगविवक्षायां तु निर्विवादो ङीष्,किंयत्तद्बहुष्वज्वे॑ति प्रक्रियायां विकल्पोक्तिस्त्वाकरविरुद्धत्वात्कर्मण्यणोऽपि पक्षे प्रसङ्गाचाचऽयुक्तैव । न चाऽजभावेदिवाविभे॑ति टः स्यादिति वाच्यम्, सूत्रे किमादिग्रहणापनयनस्य हरदत्तादिभिरुक्तत्वात् । अथवा सूत्रे किमाद्यपनयनं मास्त्विति प्रौढिवादेन प्रक्रियाग्रन्थः प्रवृत्त इति स्वीक्रियते । तथा च हेत्वाद्यविवक्षायांकिंयत्त॑ दिति व#आर्तिकेनाऽच्, तद्विवक्षायां तु परत्वाट्ट इति विषयविशेषे व्याख्याभेदात् फलितं विकल्पमाश्रित्य प्रक्रियायामज्वेति प्राचोक्तमिति स्थितस्य गतिः समर्थनीया ।", "32022": "<<कर्मणि भृतौ>> - कर्मणि भृतौ । भृतिर्वेतनम् । कर्मानुवृत्तौ पुनः कर्मग्रहणात्स्वरूपपरतेत्याह — कर्मशब्द इति ।", "32023": "", "32024": "<<स्तम्बशकृतोरिन्>> - * व्रीहिवत्सयोरिति वक्तव्यम् । स्तम्बकरिरित्यादि । इनो नित्त्वात् कृदुतत्रपदप्रकृतिस्वरेणोत्तरपदमाद्युदात्तम् ।", "32025": "", "32026": "<<फलेग्रहिरात्मम्भरिश्च>> - कुक्षिम्भरिरिति । एवं चगिरिस्तु कनकाचलः, कति न सन्ति चाश्मव्रजाः, किटिस्तु धरणीधरः,कति न सन्ति भूदारकाः । मरुत्तु मलयानिलः, कति न सन्ति झञ्झानिलाः,प्रभुस्तु विबुधाश्रयः, कति न सन्ति कुक्षिम्भराः॑इति केषांचित्प्रयोगः प्रामादिक एव ।", "32027": "", "32028": "<<एजेः खश्>> - एजेः खश् । एजृ कम्पने । एजेरिति ण्यन्तस्य निर्देशो, न तु शुद्धस्येका निर्देशः, खशः शित्करणाल्लिङ्गात् । तद्धि सार्वधातुकत्वे सति शब्यथा स्यादिति । न चशुद्धस्य [शब्दस्य] शपि सत्यसति वा विशेषोऽस्ति । न चोत्तरार्थ शित्त्वमिति वाच्यम्, इहाऽर्थवत्त्वे संभवति केवलोत्तरार्थत्वस्याऽन्याय्यत्वात् । तदेतदाह - ण्यन्तादेजेरिति ।", "32029": "<<नासिकास्तनयोर्ध्माधेटोः>> - * स्तने धेटोनासिकायां ध्मश्चेति वाच्यम् । धेटष्टित्त्वादिति । अवयवे अचरितार्थत्वादिति भावः । खश्प्रत्यन्तादेव धेटो ङीबिष्टो नान्यत इति वद्र्धमानक्षीरस्वामिहरदत्तायः । तेनपाघ्राध्माधे॑ डिति शप्रत्ययेआतोऽनुपसर्गे कः॑ इति कप्रत्यये च टाबेव । धया — कन्या । गां धयतीति गोधा । अत्र च संप्रदाय एव शरणम् । नासिकंधम इति ।पाघ्राध्मे॑ति धमादेशः ।", "32030": "<<नाडीमुष्ट्योश्च>> - नाडीमुष्टओश्च । यथासङ्ख्यनेति । एतच्चेहैव सूत्रे भाष्ये, वृत्तौ च स्थितम् । यत्तुयथासङ्ख्य॑मिति सूत्रे नाडीमुष्टओरित्युदाहृतं भाष्ये तत्प्राप्तमात्राभिप्रायेणेत्येके । शब्दकौस्तुभे तु मतभेदेन तद्बोध्यमिति स्थितम् । * घटीखारीखरीषूपसङ्ख्यानम् । घटीखारीखरीष्वति.जयादित्यस्तु वातशब्दमप्युदाजहार — वातंधमः वातंधय इति, तत्तु भाष्यादौ न दृश्यत इति मूलेऽत्रोपेक्षितम् ।", "32031": "<<उदि कूले रुजिवहोः>> - उदि कूले । ननु कूलस्येवोच्छब्दस्यापि सप्तम्यन्त्वादुपपदत्वं सयात्ततश्च रुजिवहिभ्यां सह यथासङ्ख्यं स्यादिति चेत् । अत्राहुः- नाडीमुष्टओरितिवल्लाघवादुत्कूलयोरिति वक्तव्ये उदीति व्यस्तोच्चारणान्नोपपदम् । एवं चोदीति पञ्चम्याः स्थानेसप्तमी, रुजिवहोरिति तु पञ्चम्याःस्ताने षष्ठीति । एतच्च यथासङ्ख्यसूत्रे कैयटे स्पष्टम् । किंच रुजेः सकर्मकत्वात्कर्मणीत्युपतिष्ठते, तेन कूलं विशेष्यते, नोच्चब्दः, असत्त्ववाचित्वनाऽसंभवात् । तदेतदाह — उत्पूर्वाभ्यामित्यादिना ।", "32032": "", "32033": "", "32034": "", "32035": "<<विध्वरुषोः तुदः>> - विधुन्तुद इति ।अरुर्द्विषदजन्तस्य॑ इत्युकारात्परो मुम् ।तमस्तुराहुः स्वर्भानुः सैंहिकेयो विधुन्तुदः॑इत्यमरः । अरुन्तुद इति ।अरुन्तुदं तु मर्मस्पृक् इत्यमरः ।व्रणोऽस्त्रियामीर्ममरुः॑ इति च ।", "32036": "<<असूर्यललाटयोर्दृशितपोः>> - असूर्यंपश्या इति ।पाघ्राध्मे॑ति पश्यादेशः । गुप्तिपरं चेदम् । एवं नाम राजदारा गुप्ताः, यदपरिहार्यदर्शनं सूर्यमपि न पश्यन्ति, किं पुनः परपुरुषमिति । तेन सत्यपि सूर्यदर्शन प्रयोगो न विरुध्यते । यदा तु सूर्याऽभावदर्शनमात्रं, सूर्येतरचन्द्रादेर्दर्शनं वा विवक्षितं तदा खश् न भवत्यनभिधानादिति न्यासकारादयः ।", "32037": "", "32038": "<<प्रियवशे वदः खच्>> - प्रियवशे वदः खच् । खकारो मुमर्थः, चकारस्तुखचि ह्रस्वः॑ इति विशेषणार्थ इति वृत्तिः । खे ह्रस्व इत्युच्यमाने एजेः खश जनमेजय इत्यत्रापि स्यादिति तदाशयः ।एकानुबन्धग्ररणे द्व्यनुबन्धस्य न ग्रहण॑मिति खशि न भविष्यतीत्यादिना वृत्तिग्रन्थस्याऽयुक्तत्वमाहुः । खशि प्रकृते प्रत्ययान्तकरणमुत्तरार्थम्, द्विषन्तप इत्यत्र ह्रस्वणिलोपौ यथा स्यातां शप् च माभूदिति । नन्वेवमुत्तरत्रैव क्रियतामिति चेत् । सत्यम् । इह करणमन्यतोऽपि क्वचिद्भवतीति ज्ञापनार्थं तेनगमेः सुपी॑ति नाऽपूर्वं वार्तिकं, किंतु ज्ञापकसिद्धमेव ।* गमेः सुपि वाच्यः । असंज्ञार्थमिति । संज्ञायां तु वक्ष्यमाणेनगमश्चे॑ति सूत्रेणैव सिद्धमिति भावः । * खच्च डिद्वा वाच्यः । विहङ्गम् इति । विहायसा = आकाशेन गच्छतीति विग्रहः । पूर्ववार्तिकेनैवक्यमकृत्वाखच्च डिद्वे॑ ति पृथक्करणसामर्थ्यादन्यत्रापि क्वचिद्भवतीत्याशयेनोदाहरति — भुजङ्गमः । भुजङ्ग इति । इहगमेः सुपी॑ति खच् ।", "32039": "<<द्विषत्परयोस्तापेः>> - द्विषन्तप इति ।अरुर्द्विषदि॑ति मुमि कृते संयोगान्तलोपः ।", "32040": "<<वाचि यमो व्रते>> - वाचि यमो व्रते ।", "32041": "<<पूःसर्वयोर्दारिसहोः>> - पूः सर्वयोः । दृ विदारणे अयमव गृह्रते, न तु दृ भये दृङ् आदर इत्येताविति संप्रदायः । असंज्ञार्थमिति संज्ञायां तु संज्ञायां भृतृवृजि॑ इति वक्ष्यमाणेन सिध्यतीति भावः ।", "32042": "", "32043": "", "32044": "", "32045": "<<आशिते भुवः करणभावयोः>> - आशितंभव इति । यावता ओदनेन अतिथ्यादिर्भोजितो बवति स एवमुच्यते । इह वासरूपविधिना ल्युडपि । [आशित भवनः ।भावे]-आशितभवनम् । घञ् तु बाध्यत एव, सरूपत्वादित्याहुः । नचाऽत्र क्तल्युट्तुमुन्खलर्थेषु वासरूपविधिर्नेति ल्युटो निषेधः शङ्क्यः । यत्र हि घञादेर्बाधकत्वेन क्तल्युडादयः प्रसक्तास्तत्र नित्यं बोधो न तु विकल्पेनेति तस्यार्थः । इह तु ल्युटोऽप्यपवादः खच् । अत्र वासरूपन्यायो निर्बाध एव । एतच्च आशितभवनमित्युदाहरतो जयादित्यस्यापि संमतमेवेति दिक् ।", "32046": "<<संज्ञायां भृतॄवृजिधारिसहितपिदमः>> - संज्ञायां भृतृ ।विआम्भरः कैटभजित् ।रसा विआम्भरा स्थिरा॑ इत्यमरः । व्युत्पत्तिमात्रमिति । तत्फलं तु स्वरावग्रहौ ।रथन्तरमाजभारा वसिष्ठः॑ इत्यत्र हि रथमित्यवगृह्णन्ति । कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तत्वं चाधीयते । अखण्डत्वे त्ववग्रहो न स्यात्,नब्विषयस्ये॑त्याद्युदात्तश्च स्यात् । इत्युक्तमिति । माधवाद्यनुरोधेनेत्यर्थः । मतान्तरे त्विति । हरदत्तादिमत इत्यर्थः । चित्तव्यापारोपरमः शमः, इन्द्रियव्यापारोपरमस्तु दम॑ इत्यादि वेदान्तग्रन्थाश्चेहानुकूलाः । संज्ञायां किम् । कुटुम्बं बिभर्तीति कुटुम्बभारः ।", "32047": "<<गमश्च>> - गमश्च । पूर्वसूत्र एव गमिर्नोक्तः,उत्तरसूत्रे गमेरेवानुवृत्तिर्यथा स्यात्, भृतृप्रभृतीनां माभूदिति ।", "32048": "<<अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः>> - * सुदूरोरधिकरणे । कर्मणि तुईषद्दुःसुषु॑ इति खलेव । सुखेन गम्यत इति सुगमः पन्थाः । दुर्गमः । * दारावाहनोऽणन्तस्य च टः संज्ञायाम् । दाराविति शब्दापेक्षया पुंलिङ्गता । तदाह — दारुशब्दे इति ।कष्ठं दार्विन्धनं त्वेधः॑ इत्यमरः । टविधानार्थमिदम् । अण् तुकर्मण्य॑णित्येव सिद्धः ।अलोऽन्त्यस्ये॑त्येव सिद्धेरन्तग्रहणं स्पष्टार्थम् । अन्यथा हि टप्रत्ययः संभाव्येत । दार्वाहन्तीति दार्वाघाटः ।गोधाकालकादार्वाघाटस्ते वनस्पतीनाम्", "32049": "", "32050": "", "32051": "<<कुमारशीर्षयोर्णिनिः>> - कुमारशीर्षयोर्णिनि) । एतयोः कर्मणोरुपपदयोर्हन्तेर्णिनिः स्यात् ।सुप्यजातौ॑ इत्यादिभिः सिद्धे ताच्छील्यावश्यकाऽधमण्र्यविरहेऽपि णिन्यर्थं, शिरसः शीर्षभावार्थं च वचनम् ।", "32052": "<<लक्षणे जायापत्योष्टक्>> - लक्षणवतीति । सूत्रे लक्षणशब्दोऽर्शाअद्यजन्त इति भावः । जायाघ्न इति । जायामरणसूचकं पाणिरेखाविशेषादिकं यस्यास्ति स तां हन्तीति गौणो व्यवहारः । एवं पतिघ्नीत्यत्रापि बोध्यम् ।", "32053": "<<अमनुष्यकर्तृके च>> - अमनुष्यकर्तृके च । मनुष्यभिन्नकर्तृकेऽर्थे वर्तमानाद्धन्तेः कर्मणयुपपदे टक् स्यात् । यद्यप्यमनुष्यशब्दो रूढआ रक्षः पिशाचादीनाहेति प्रागुक्तं,तथापीह लक्ष्यानुरोधेन व्याख्यातव्यमित्याशयेनाह - तिलकालक इत्यादि ।तिलकालक इत्यादि ।नानुबन्धकृतमसारूप्य॑मिति टगणोः सारूप्याद्वासरूपविध्यप्रवृत्तेराह — बाहुलकादिति ।", "32054": "<<शक्तौ हस्तिकपाटयोः>> - शक्तौ हस्ति । शक्तौ किम् । विषेण हस्तिनं हन्तीति हस्तिघातः । यद्यपीह शक्तिरस्ति, अशक्तस्य कर्तृत्वानुपपत्तेस्तथापि शक्तिग्रहणसामर्थ्यात्प्रकर्षो विज्ञायते, तेन स्वबलेनैव हन्तुं या शक्तिः सा गृह्रते । कपाटघ्न इति । कं = शिरः पाटयति प्रविशत इति कपाटम् । पाठान्तरे तु अटतेः पचाद्यच् ।कवं चोष्णे॑ इत्यत्र योगविभागात्कोः कवादेश इति हरदत्तः ।", "32055": "", "32056": "<<आढ्यसुभगस्थूलपलितनग्नान्धप्रियेषु च्व्यर्थेष्वच्वौ कृञः करणे ख्युन्>> - आढङ्करणमिति.लिङ्गविशिष्टिपरिभाषया आढशब्देऽप्युपपदे यदा ख्युन् तदापिखित्यनव्ययस्ये॑ति ह्रस्वेन एतदेव रूपम् । आढ्यीकुर्वन्त्यनेनेति । नन्विह ख्युनोऽभावेऽपिकरणाधिकरणयोश्चे॑ति ल्युटा भवितव्यमित्यत आह - प्रतिषेधसामर्थ्यादिति । तथाहि आढ्यीकरणमिति रूपं ल्युट्ख्युनोस्तुल्यम् । न च ख्युनि मुम्ह्रस्वौ स्यातामिति वाच्यम्,अनव्ययस्ये॑ति पर्युदासात् ।ऊर्यादिच्विडाचश्चे॑ति निपातसंज्ञकत्वेन च्व्यन्तस्य अव्ययत्वात् । न च ख्युनि सतिउपपदमति॑ङिति नित्यसमासो लभ्यते, ल्युटि तु नेति वाच्यं, ल्युटपि गतिसमासस्य संभवात् । तस्यापि नित्यसमासत्वात् । न च स्त्रीप्रत्यये विशेषः, ल्युटिटिड्ढे॑ति सूत्रेण,ख्युनि तत्रत्येन ख्युन उपसङ्ख्यानेन च ङीपस्तुल्यत्वात् । नापि स्वरे विशेषः, ल्युटि लित्स्वरेण, ख्युनि नित्स्वरेण कृञ उदात्तत्वाऽविशेषात् । न चोत्तरार्थमच्वावित्युक्तमिति वाच्यं, केवलोत्तरार्थत्वे हि तत्रैव ब्राऊयात् । तदेतदुक्तम् ल्युडपि नेति । भाष्यमते त्विति । भाष्यवार्तिकस्वरसेन ल्यडिष्ट इति केवलोत्तरार्थत्वं लभ्यते । अतस्तद्विरोधाद्वृत्तिकृन्मतमयुक्तमिति कैयटः ।", "32057": "<<कर्तरि भुवः खिष्णुच्खुकञौ>> - कर्तरि भुवः । अच्व्यन्तेष्विति । अच्व्य्नतेष्विति । अच्वावित्यनुवर्तते । अन्यथा आढ्यीभविष्णुः आढ्यीभावुक इति स्यादिति भावः ।कर्तृग्रहणं करणाऽनुवृत्तिभ्रमनिरासार्थमुत्तरार्थ चे॑ति प्राञ्चः । वस्तुतस्तु व्यर्थमेव, अस्वरितत्वादेवाऽननुवृत्तिसिद्धेः, उत्तरत्राप्युपयोगो नेति स्पष्टीकरिष्यमाणत्वाच्च । खकारो मुमर्थः । चकारःचितः॑ अस्वरितत्वादेवाऽननुवृत्तिसिद्धेः, इकारादित्वसिद्धये इडागमे कृतेऽपिआगमा अनुदात्ताः॑ इति तस्याऽनुदात्तत्वात् । न चकृत्योकेष्णुच्चार्वादयश्चे॑ ति स्वरसूत्रे अस्य ग्रहणं न स्यात्, चकारानुबन्धाऽभावादिकारस्य लाक्षणिकत्वात्षत्वणत्वयोरसिद्धत्वेनेष्णु इतिरूपाऽभावाच्चेति वाच्यम्, कृतेऽपि इकारेतदनुबन्धकग्रहणे नाऽतदनुबन्धकस्ये॑ति परिभाषया अलङ्कृञादीष्णुच एव ग्रहणं स्यान्न त्वेतस्य । इकारोच्चारणसामर्थ्यादस्याऽपि ग्रहणमिति चेद्धन्तैवं खष्णुजयमस्तु, तत्रेटि कृते चकारानुबन्धसामर्थ्यादस्यापि ग्रहणमस्त्विति किमिकारेणेति चिन्त्यमेतत् । न चेह लाघवाऽभावादिकारोऽस्तु, चकार एव मास्त्विति शङ्क्यम्,एकमात्रो ह्रस्वो व्यञ्जनं त्वद्र्धमात्रक॑मिति सर्वसंमतत्वात् । यत्तु हरदत्तेनोक्तं — षत्वणत्वयोः सामर्थ्यादस्य ग्रहणमिति , तदापाततः, रुआउजपेक्षया ष्णुजुक्तौ प्रत्युत प्रक्रियालाघवेन षत्वणत्वयोः करणस्योचिततया सामर्थ्याऽयोगादिति दिक् । निवृत्तमिति । ननु स्पृशेः सकर्मकत्वात्कर्मण्युपद इत्येव प्राप्येतेति चेत् । अत्र प्राञ्चः — पूर्वसूत्रात्कर्तर इत्यनुवर्तते, सा चानुवृत्तिःकर्तरि कृ॑दित्यनेनैव कर्तरि क्विनः सिद्धत्वाद्व्यर्था सती कर्तृप्रचयार्था, कर्मण्युपपदे एकः कर्ता, करणादौ चाऽपर इत्येवं कर्तृप्रचयः, तथा चसुबन्ते उपपदे॑ इति फलितं भवतीति मन्त्रस्पृगित्यादेः क्विपाऽपि सिद्धेः । न च क्विपि कुत्वं न स्यादिति वाच्यं,क्विन्प्रत्ययो यस्मा॑दिति बहुव्रीहिबलादेवकुत्वसंभवादिति दिक् । सदृगिति । तमिवेमं पश्यन्ति जनाः, स इवायं पश्यति = ज्ञानविषयो भवतीति व्युत्पत्त्या कर्मकर्तर प्रत्ययः, रूढर्थानुगुणत्वात् ।", "32058": "<<स्पृशोऽनुदके क्विन्>> - स्पृशोऽनुदके क्विन् । ककारो गुणाऽभावार्थः । नकारस्तुक्विन्प्रत्ययस्य कुः॑इति विशेषणार्थः । वस्तुप्रयोजनं, क्विनः प्रकृतीनामेकाच्त्वाद्धातुस्वरेणाऽपि तत्सिद्धेः ।दधृ॑गित्यत्र त्वन्तोदात्तत्वनिपातनादद्यदात्तत्वं नापेक्षितमेवेति दिक् । अत्रसुपी॑त्यनुवर्तते,कर्मणी॑ति तु निवृत्तमित्याशयेनाह -अनुदके सुप्युपपदे इति । घृतस्पृगिति । घृतं घृतेन वा स्पृशतीति विग्रहः । अनुदके किम्, उदकं स्पृशतीति उदकस्पर्शः । निषेधसामर्थ्यादिह क्विबपि न भवति, तस्मिन्ह सति क्विन्प्रत्ययो यस्मादिति बहुव्रीह्राश्रयणेन कुत्वस्याऽवर्जनीयतयाअनुदके॑इति निषेधस्य फलाऽभावात् । केचित्तुउदाकस्पृ॑डिति प्रत्युदाहरन्ति, निषेधसामर्थ्यात्कुत्बं माऽस्तु, क्विप्स्यादेवेति तेषामाशयः । इति शान्ताः । गौणत्वे त्विति ।", "32059": "", "32060": "<<त्यदादिषु दृशोऽनालोचने कञ् च>> - त्यदादिषु । कञन्तस्य तूदाहरणंतादृशो॑यादृश॑इत्यादि, तच्चाऽत्र नोक्तं, हलन्तेष्वनुपयोगात् । अनालोचने किम् । तं पश्यतीति तद्दर्शः । कर्मण्यण् । तादृशादयस्तु रूढशब्दत्वादसताप्यवयवार्थेन व्युत्पाद्यान्ते । अतएवाऽज्ञानार्थाद्दृशेरिति सङ्गच्ते । भाष्ये तु कर्मकर्तरि व्युत्पत्तिर्दर्शिता — ॒तभिवेमं पश्यन्ति जनाः, स इवायं पश्यति॑ । ज्ञानविषयो भवतीत्यर्थात् । अज्ञानार्थादिति तु सङ्गच्छते, तत्र दृशेज्र्ञानविषयत्वापत्तिमात्रवृत्तित्वेऽपि विषयीकरणाऽवृत्तित्वात् ।", "32061": "<<सत्सूद्विषद्रुहदुहयुजविदभिदच्छिद-जिनीराजामुपसर्गेऽपि क्विप्>> - सत्सूद्विष । षद्लृ विशरणादौ ।सू॑ इति द्विषा साहचर्यात्सूतेरादादिकस्य ग्रहणं न तु सुवतिसूयत्योः । युजिर्योगे, युज समाधौ, द्वयोरपि ग्रहणम् । विद ज्ञाने, विद विचारणे, विद सत्तायां, — त्रयाणामपि ग्रहणम् । विद्लृ लाभे इत्यस्य तु न ग्रहणम्, विदेत्यकारस्य विवक्षितत्वात् । द्युसदितिपूर्वपदा॑दिति षत्वं तु न भवति, छन्दसीत्यनुवृत्तेः । तथा च माघः — ॒मनस्सु येन द्युसदां न्यधीयते॑ ति ।आदितेया द्विषदः॑ इत्यत्र तु सुषामादित्वात्षत्वमिति माधवादयः । उपनिषदित्यत्र तुसदिरप्रते॑ रिति षः । अग्रग्रामाभ्यामिति ।स एषां ग्रामणी॑रिति निर्देशेन ज्ञापितपपदादपि णत्वं, तेनाऽग्रणीरित्यपि सिद्धमित्याहुः ।", "32062": "", "32063": "", "32064": "", "32065": "", "32066": "", "32067": "", "32068": "<<अदोऽनन्ने>> - अदोऽनन्ने । विट् स्यादिति ।जनसनखनक्रमगमो विट्इति पूर्वसूत्रादनुवृत्तेः । पूर्वसूत्रं त्विह नोपन्यस्तम्, तत्र हिछन्दसि सहः॑ इत्यश्छन्दसीत्यनुवर्तनात् ।", "32069": "", "32070": "<<दुहः कब् घश्च>> - कामदुघेति ।धेनु॑रिति शेषः । कामं दोग्धीति विग्रहः ।", "32071": "", "32072": "", "32073": "", "32074": "", "32075": "<<अन्येभ्योऽपि दृश्यन्ते>> - अन्येभ्योऽपि दृश्यन्ते । इहविजुपे छन्दसि॑ इत्यतो विच्प्रत्ययः ।आतो मनि॑न्निति सूत्रान्मनिनादयश्चानुवर्तन्ते । तदाह — मनिन्क्वनिबित्यादि ।", "32076": "<<क्विप् च>> - वाहभ्रडिति । वाहादआआद्भ्रश्यतीति विग्रहः । वृत्तौ तु वहाभ्रडिति पाठः । वहः = स्कन्धः,अन्येषामपि दृश्यते॑ इति पूर्वपदान्तस्य दीर्घ इति हरदत्तः ।", "32077": "<<स्थः क च>> - स्थः क च । शंस्था इति । क्विपि लुप्तेघुमास्थे॑ ति ईत्वं न, स्थानिवद्भावस्य अनल्विधादिति निषेधात् । प्रत्ययलक्षणसूत्रं तु प्रत्ययस्याऽसाधारणं रूपं यत्राश्रीयते तत्रैवेति नियमार्थमिति निष्कर्षात् । यत्तु कैयटेनोक्तम् — ईत्वमवकरादावादविति वचनाद्भाष्यकारीयोदाहणप्रामाण्याद्वा प्रत्ययलक्षणेन ईत्वं ने॑ति, तत्अतृणेडित्यादिसिद्धये प्रत्ययप्राधान्ये अल्विध्यर्थं प्रत्ययलक्षणसूत्र॑मिति पक्षमभिप्रेत्य । तत्राप्यवकारादाविति वचनस्वीकारे सुधीवेति न सिध्येदित्यपरितोषेण पक्षान्तरस्वीकार इति बोद्ध्यम् । ननुनियमार्थ॑मिति निष्कर्ष पक्षे तु प्रागुक्तं मत्रशीरित्यत्र कथमित्त्वं भवेदिति चेत् । अत्राहुः — शास इदिति । ततः — अङि । नियमार्थमिदम् । अजादौ चेदित्त्वं स्यादडएव नान्यत्रेति हल्ग्रहणं मास्त्विति ज्ञेयमिति । नचैवमपि हलादौ पिति सार्वधातुके तृणह इमो विधानादतृणेडित्यादि तु नियमपक्षे न सिध्यतीत्यल्विध्यर्थमिति पक्षोऽपि स्वीकर्य इति वाच्यम्,उतो वृद्धि॑रिति सूत्राद्धल्ग्रहणमनुवर्त्त्य तृणहानीत्यत्राऽनिष्टवारणायनाभ्यस्तस्याची॑ति सूत्रादचि नेत्यनुवर्त्त्य व्याख्यानात् । एतच्च रुधादिगण एव व्याख्याताम् । स्यादेतत् — सुपि स्थः॑क्विप् चे॑ति सूत्राभ्यां कक्विपौ सिद्धौ । शमीत्यादि । धातुग्रहणसामर्थ्याद्धिधातुमात्राद्भवन्नच्प्रत्ययो हेत्वादिषु कृञष्टं यथा बाधते तथा तिष्ठतेः कक्विपावपि बाधेतेतिस्थः क चे॑त्यारम्भ इति भावः । नन्वेवंशमि धातो॑रित्यस्याऽनन्तरंस्थः क चे॑ति सूत्र्यतां, चकारेणाऽचि समुच्चिते सवर्णदीर्घे शंस्था इति भविष्यत, एवं चोत्सर्गापवादयोः समानदेशतया संदर्भशुद्धरपि लभ्यते, इत्त्वाऽभावार्थं चन यतनीयमिति महल्लाघवमिति चेत् । अत्राहुः — अशं स्था इत्यत्रअच्कावशक्तौ॑ इति सूत्रेणोत्तरपदमन्तोदात्तं स्यात् ।कृद्ग्रहणे गतिकारकपूर्वस्यापी॑ति शंस्थाशब्दस्याजन्तत्वात् । क्विबन्तेन नञ्समासे नञ्पूर्वपदप्रकृतिस्वरः सिध्यतीति ।", "32078": "<<सुप्यजातौ णिनिस्ताच्छिल्ये>> - उष्णभोजीति । उष्णं भोक्तुं शीलमस्य । आमन्त्रयितेति । मत्रि गुप्तपरिभाषणे, चुरादिराङ्पूर्वः । इदित्त्वान्नुम्, ताच्छील्यस्य विवक्षितत्वातृन् । अतएवन लोके॑ति निषेधात्ब्राआहृणा॑नित्यत्र कर्मणि षष्ठी न कृता । उपसर्गभिन्न एवेति ।सत्सूद्विषे॑ति सूत्रेउपसर्गेऽपी॑त्युक्तत्वादुपसर्गभिन्नस्यैव सुपो लाभायाऽस्मिन्सूत्रे पुनः सुब्ग्रहणं कृतमिति भावः । भाष्यविरोधादिति । उक्तं च भाष्ये — सुबिति वर्तमाने पुनः सुब्गर्हणं किमर्थमनुपसर्ग इत्यव तदभूत्, इदं तु सुब्मात्रे यथा स्यादुदासारिण्यः प्रत्यासारिण्य॑ इति । अस्यायमाशयः -सत्सूद्विषे॑ ति सूत्रेसुपि स्थः॑ इत्यतः सुपीत्यनुवर्तते, तच्चौपसर्गेतरपरम्, उपसर्गेऽपीति पृथगुक्तेः । तदिहानुवर्तमानमर्थाधिकारादुपसर्गेतरपरमेव स्यादिति । निष्कर्षे तु मा भूदिह सुब्वचनग्रहणम्, उपसर्गेऽपीत्यं शस्याप्यनुवृत्त्या निर्वाहात् । सर्वथापि सुब्मात्रे उपपदे णिनिर्नत्वनुपसर्ग एवेति सिद्धान्तः । एतच्च प्रायुङ्क्त — लिङ्गशेषविधिव्र्यापी विशेषैर्यद्यबाधितः॑ इ [ ती] ति दिक् । * साधुकारिण्युपसङ्ख्यानम् । साधुकारिणीति । एतच्च ज्ञापकसिद्धम् ।आ क्वे॑रिति सूत्रे हि तच्चीलात्पृथक् साधुकारी गृह्रते, तच्च ताच्छील्यं विनापि णिनौ सत्येव सङ्गच्छते । * ब्राहृणि वदः । ब्राहृणि वद इति । इदं तु वाचनिकमेव । अताच्छील्यार्थमिति । एतच्च कैयटहरदत्तादिग्रन्थे स्पष्टम् । यत्तु भट्टवार्तिके ब्राहृवादिशब्दस्य तच्छीलतद्धर्मतत्साधुकारिपरतया व्याख्यानं कृतम् ।आ क्वे॑रित्यधिकारे तु ब्राहृणि वदेर्णिनिविधायकं वचनं नास्त्येवेति कथमिदं सङ्गच्छेतेति चेत्, अत्राहुः — भट्टापादानामयमाशयः — सुप्यजातौ॑ इति सूत्रेण ताच्छील्ये णिनिः । उपसङ्ख्यानेन ज्ञापकेन वा साधुकारिणि णिनिः ।आवश्यकाधमण्र्ययोर्णिनि॑रित्यावश्यके णिनिस्तु तद्धर्मे पर्यवस्यति न त्विहआ क्वेट रिति सूत्रस्य व्यापारोऽस्तीति । ननु ब्राहृवादिनो वदन्ति इत्यत्र ब्राहृ वेद इति ब्राहृशब्दस्यापि जातिवाचकत्वात्कथमिह ताच्छील्ये णिनिरिति समर्थनमितिचेत् । अत्र नव्याः — सुप्यजातौ॑ इत्यत्र प्राणिजातिरेव पर्युदस्यते, ताच्छील्यसमभिव्याहारात्,ब्राआहृणानामन्त्रयिते॑प्रत्युदाहरणानुगुण्याच्चेति न काप्यनुपपत्तिरिति ।", "32079": "", "32080": "", "32081": "", "32082": "<<मनः>> - मनः । बहुलग्रहणानुवृत्तेरिह मन ज्ञान दैवादिकस्यैव ग्रहणं न तु मनु अवबोधन इति तानादिकस्य । तेन उत्तरसूत्रे खशि श्यनेव भवति न तूप्रत्ययः । तदाह — मन्यतेरिति ।", "32083": "<<आत्ममाने खश्च>> - आत्ममाने । मननं मानः, भावे घञ्, आत्मनो मान इति कर्मणि षष्ठआ समासः । स्वपर्याय आत्मशब्दः प्रत्ययार्थत्वेन सन्निहितः कर्ता स्वपदार्थस्तदाह — स्वकर्मक इत्यादि । चादिति । ननु वासरूपविधिना लभ्यत एव णिनिरिति किमर्थश्चकार इति चेत् । अत्राहुः — चकारेणाऽवच्छेदाय णिनिः समुच्चीयते । तेनकरणे यजः॑ इत्यादौ णिनिरेवाऽनुवर्तते न तु खश्ष एवं चोक्तप्रयोजनानुरोधेनचानुकृष्टं नोत्तरत्रे॑ तीह न प्रवर्तते इति । पण्डितमात्मानमिति । एकस्याप्यात्मनः स्वरूपेण कर्तृत्वं, पण्डितत्वविशिष्टरूपेण च कर्मत्वं बोध्यम् । आत्ममाने किम् । दर्शनीयमानी देवदत्तो यज्ञदत्तस्य । कालिंमन्येति ।स्त्रियाः पुंव॑दिति प्राप्तं पुंवद्भावं बाधित्वा पर्तवाद्ध्रस्वः । यत्त्वत्रक्यङ्मानिनो॑रिति प्राप्तः पुंवद्भाव इति प्रसादकृतोक्तं, तद्रभसोक्तमेव, मानिन्रूपाऽभावस्य स्पष्टत्वात् । दिवामन्येति । अधिकरणशक्तिप्रधानस्याप्यस्य वृत्तिस्वभावात्कर्मत्वम् ।", "32084": "<<भूते>> - भूते । धातोरित्यधिकाराद्धात्वर्थस्य विशेषणमिद् । भूतेऽर्थे विद्यमानाद्धातोरित्यर्थः ।", "32085": "<<करणे यजः>> - करणे । स्वरितत्वाण्णिनिरेवानुवर्तते, न तु खशित्याह — णिनिः स्यादिति । सोमेन लताविशेषेण यागं कृतवानित्यर्थः । अग्निष्टोमेति । अग्निष्टोमस्तोत्रेण समाप्यमानो यो यागः स लक्षणयाऽग्निष्टोमस्तेनाऽपूर्वं भावितवानित्यर्थः । उक्तं च काशिकायाम् — अग्निष्टोमः फलभावनायां करण॑मिति ।", "32086": "<<कर्मणि हनः>> - कर्मणि हनः । पितृव्यघातीति । अत्र काशिकाकुत्सितग्रहणं कर्तव्यम् । इह माभूत्, चोरं हतवा॑निति । यद्यपीदं भाष्ये नास्ति तथापि शब्दशक्तिस्वाभाव्यदिदं लभ्यत इत्याहुः ।", "32087": "<<ब्रह्मभ्रूणवृत्रेषु क्विप्>> - चतुर्विध इति । अयमाशयः — इह सूत्रे श्रुतत्वात्पूर्वं ब्राहृआदय उद्देश्यास्ततोऽनन्तरं प्रकृतित्वाद्धन्तिस्ततः परिशेषाद्भूत इति । क्विप् तु सर्वान्ते निर्देष्टव्यः, विधेयत्वात् । तदेवं वचनव्यक्तिः — ॒ब्राहृआदिषूपपदेषु हन्तेर्भूते क्वि॑ बिति । एवं स्थितेयत्रैवकरास्ततोऽन्यत्र नियम॑ इतिन्यायेन नियमोऽत्र भवन्ननन्तरे भवति । ततश्च ब्राहृआदिष्वेवेत्यवधारणे हन्तेस्तदनन्तरनिर्द्दिष्टत्वादुपपदान्तरनिवृत्तिफलः [प्रकृति] नियमो भवति ।ब्राहृआदिषु हन्तेरेव भूते॑ इत्यवधारणे त्वनन्तरत्वाऽविशेषेऽपि प्राथम्यादुपपदनियमो धात्वन्तरनिवृत्तिफलकः ।ब्राहृआदिषु हन्तेर्भूते एव क्वि॑ बित्यवधारणे तु क्विभन्त्योरानन्तर्येऽविशिष्टेऽपि प्राधान्यात्कालान्तर संबन्धानवृत्तिफलकः प्रत्ययनियमः ।ब्राहृआदिषु हन्तेर्भूते क्विबेवे॑ति वचनव्यक्तौ प्रत्ययान्तरसंबन्धनिवृत्तिफलकः कालनियमः । सोऽयं प्रकृत्युपपदप्रत्ययकालनियमानां विवेकः । अगृह्रमाणविशेषत्वात्तुचतुर्विधस्यापीह ग्रहणम् । तत्रब्राहृआदिष्वेव हन्ते॑रिति प्रकृतिनियमे भूतैत्याश्रयणाद्वर्तमानकाले भविष्यत्काले चोपपदान्तरेऽपि भवत्येव । पुरुषं हन्ति हनिष्यति वा पुरुषहा ।अरिहयोऽरहयोगविचक्षणः॑ । अरीन् हन्तीति अरिहा, स चासौ योगश्च अरिहयोगस्तत्र विचक्षण इत्यर्थः । प्रकृतिनियमफलं तु पुरुषं हतवान् पुरुषहा इति भूतार्थे प्रयोगाऽभावः ।ब्राहृआदिषु हन्तेरेव॑त्युपपदनियमेऽपि भूत इत्याश्रयणाद्वर्तमानभविख्यत्कालयोर्धात्वन्तरादपि भवत्येव, — वृत्रं जयति जेष्यति वा वृत्रजिदिति । उपपदनियमफलं तु वृत्रं जितवान् वृत्रजदिति प्रयोगाभावः ।भूत एव क्वि॑ बिति प्रत्ययनियमेऽपि ब्राहृआदिष्वित्युक्तेरुपपदान्तरे वर्तमानभविष्यत्कालयोर्हन्तेः क्विब्भवत्येव । पुरुषं हनति हनिष्यति वा पुरुषहा । अरिहेति प्राग्वत । प्रत्ययनियमफलं तु ब्राहृआणं हन्ति ब्राहृहेत्यादिप्रयोगाऽभावः ।भूते क्विबेवे॑ति कालनियमेऽपि ब्राहृआदिष्वित्युक्तेरुपपदान्तरे भूतेऽपि प्रत्ययान्तरं भवत्येव, — पितृव्यं हतवान् पितृव्यघाती । इहकर्मणि हनः॑ इति भूते णिनिः । कालनियमफलंतु ब्राहृआणं हतवान् ब्राहृघातीति प्रयोगाऽभावः । सोपपदश्च प्रत्ययो नियमेन व्यावर्त्त्यते, निष्ठा तु भवत्येव वृत्रं हतवानिति । भाष्यकारस्तु प्रकृतिकालनियमावेवाऽशिश्रियत् । तस्यायमाशयः — धातुकालौ हि नेह सूत्रे श्रुतौ, किं तु प्रकरणलक्षणजघन्यप्रमाणेनोपस्थितौ । अतस्तयोरेवोपरोधो न्याय्यो न तूपपदप्रत्ययोः, श्रुत्युपस्थापितत्वात् । एवं न्यायोपष्टब्धेन भाष्येण सह विरोधाद्वृत्तिमतमुपेक्ष्यमेवेति कैयटे स्थितम् । यत्त्विह हरदत्तेनोक्तं — धातूपपदविषयं नियमद्वयं भाष्ये प्रदर्शितमिति,तत्र धातुकालविषयमिति वक्तव्ये उपपदग्रहमं प्रामादिकमित्यवधेयम् ।", "32088": "", "32089": "<<सुकर्मपापमन्त्रपुण्येषु कृञः>> - सुकर्म । त्रिविध इति । धातुनियमस्त्विह नेष्ट इति भावः । क्विबेवेतीति ।भूते क्विबेवे॑ति प्रत्ययान्तरसंबन्धनिवृत्तिफलककालनियमादित्यर्थः । कृञ एवेतीति ।सुकर्मादिषु कृञ एवे॑ति धात्वन्तरसंबन्धनिवृत्तिफलकोपपदनियमादित्यर्थः । भूत एवतीति ।भूत एव क्वि॑बिति कालान्तरसंबन्धनिवृत्तिफलकप्रत्ययनियमादित्यर्थः । स्वादिष्वेवेतीति ।स्वादिष्वेव कृञ॑ इत्युपपदान्तरसंबन्धनिवृत्तिफलकधातुनियमाऽभावादित्यर्थः ।", "32090": "<<सोमे सुञः>> - सोमे सुञः । इहापि चतुर्विधो नियम इति वृत्तिः । एवमुत्तरसूत्रेऽपि । तत्र भूतकालस्य क्विपि नियतत्वात्सोमं सुतवान् सोमसावः, अग्न चितवान् अग्निचाय इत्यण्न भवति । सुनोतेः सोम एव उपपदे नियतत्वाच्चिनोतेस्त्वग्नावेवोपपदे नियत्वात् सुरां सुतवान् सुरासुत्, इष्टकाश्रितवानिष्टकाचिदिति न भवति, किं तु सुरासावः इष्टकाचाय इत्यणेव भवति । सोमस्य सुनोतावेव धातोर्नियतत्वात्, अग्नेस्तु चिनोतावेव नियतत्वात् — सोमं क्रीतवान् सोमकीः, अग्न भृतवान् अग्निभृदिति क्वब्नि भवति, किं तुसोमक्रायः अग्निभार इत्यणेव भवति । भूत एव क्विपो नियतत्वात्सोमं सुनोति सोष्यति वेत्यर्थे क्विब्न भवति । तथा अग्न चिनोति चेष्यति वेत्यर्थे क्विबभावः, किंत्वणेव । कर्मणीनि । कुत्सितग्रहणमिति । एतच्च वार्तिकं पुनः कर्मग्रहणसामर्थ्याल्लभ्यते, यत्कर्म क्रियया संबध्यमानं कर्तृकुत्सामावहति तत्रेत्यर्थः । सोमादयश्च विक्रीयमाणाः शास्त्रे प्रतिषेधात्कुत्सावहाः । कुत्सितग्रहणान्नेह, -धान्यविक्रायः ।", "32091": "", "32092": "", "32093": "", "32094": "<<दृशेः क्वनिप्>> - दृशेः क्वनिप् ।अन्येब्योऽपि दृश्यन्ते॑ इति सिद्धे नियमार्थमिदं — क्वनिबेव यथास्यात्तत्सहनिर्दिष्टौ मनिन्वनिपौ माभूतां, न वा अणादय॑ इति । सोपपदप्रत्ययस्यैव नियमेव निवर्तनान्निष्ठा तु भवत्येव — पारं दृष्टवानिति । एवं स्थितेविआदृआनयना वयमेवे॑त्यादौ विआं पश्यन्ति विआदृआआनि, तानि नयनानि येषां ते विआदृआनयना इत्येवं क्वनिबन्तस्य लटा विग्रहेऽपि न क्षतिः । प्रत्ययान्तरनिवृत्त्यर्थं सूत्रमित्येवं वृत्तिकारादिभिव्र्याख्यातत्वात्, कालान्तरनिवृत्त्यर्थमिदमिति कैरप्यभियुक्तैरनुक्तत्वादिति दिक् ।", "32095": "<<राजनि युधिकृञः>> - राजनि युधि कृञः ।", "32096": "<<सहे च>> - इदमपि सूत्रद्वयंदृशेः क्वनि॑ बितिवन्नियमार्थमिति न्याय्यम् । वस्तुतस्तु दृशिग्रहणेन निर्वाहस्याऽगतिकत्वादियं त्रिसूत्री विधात्रीत्यपि सुवचम् । प्राचां ग्रन्थास्त्विहोदासीना एवेति शब्दकौस्तुभे स्थितम् ।", "32097": "<<सप्तम्यां जनेर्डः>> - मन्दुरायामिति ।वाजिशाला तु मन्दुरा॑ इत्यमरः ।", "32098": "", "32099": "", "32100": "<<अनौ कर्मणि>> - पुमनुजेति । इह जनिः सकर्मकः, अनुरोधविशिष्टजननवृत्तित्वात् ।", "32101": "<<अन्येष्वपि दृश्यते>> - अन्येष्वपि दृश्यते ।सप्तम्यां जने॑रित्युक्तमसप्तम्यामपि दृश्यत इत्याह — अजः । द्विज इति । न जायत इत्यजः । द्विर्जातो द्विजः ।॒जन्मना जायते शूद्रः कर्मणा जायते द्विजः॑ इत्यभियुक्तोक्तेः ।पञ्चम्यामजातौ॑इत्युक्तं, जातावपि दृश्य त इत्याह ब्राआहृणज इति । अपिशब्द इति । यत्तुअन्तात्यन्ताध्वे॑ति प्रकरणेअन्यत्रापऽपि दृश्यते॑ इत्युपसङ्ख्यातं तद्भूतकालं विनापि यथा स्यादित्येवमर्तम् । वस्तुतस्तु प्रकृतसूत्रस्थस्याऽपिग्रहणस्य सर्वपादिव्यभिचारार्थत्वात्तद्वार्तिकमेनैव गतार्थम् । विभावितं चेदंइको गुणवृद्धी॑ इति सूत्रे जनेर्ड प्रक्रम्यगमेरप्ययं डो वक्तव्यः॑ इति वदता भाष्यकारेण । एवं च प्रकृतसूत्रस्थम् संज्ञासिद्धिः, सिद्धायां निष्ठासंज्ञायां क्तक्तवत्वोर्विधानमित्यन्योन्याश्रय इति चेत् । अत्राहुः — भाविनी संज्ञाऽत्र विज्ञायते, — स भूते भवति यस्योत्पन्नस्य निष्ठेति संज्ञा भवतीत॑त्याश्रयणे सामर्थ्यात् रक्तक्तवत्वोर्विधानमेतदिति नास्त्युक्तदोष इति ।", "32102": "", "32103": "<<सुयजोर्ङ्वनिप्>> - सुयजोर्ङ्वनिप् । सुनोतेरिति । षुञ् अभषवे । यद्यपीह सु गतौ , षु प्रसवैवैआर्ययोरिति निरनुबन्धकयोरेव ग्रहणं न्याय्यं, तथाप्यनभिधानादुभयपदिना साहचर्याद्वा तयोग्र्रहणं न भवतीति भावः । ङकारः सुनोतेर्गुणप्रतिषेधार्थः । पकारस्तु स्वरार्थस्तुगर्थश्च ।", "32104": "<<जीर्यतेरतृन्>> - जरन्निति । ऋकारस्य गुणे रपरोऽकारः ।उगितदचा॑मिति नुम् । संयोगान्तलोपस्याऽसिद्धत्वान्न दीर्घः ।", "32105": "<<छन्दसि लिट्>> - छन्दसि लिडिति सूत्रस्यार्थमाह — भूतसामान्ये इति । न चछन्दसि लुङ्लङ्लिटः॑ इत्यनेन गतार्थता शङक्या, धातुसंबन्धाधिकारे हि स विधिः, इदं तु धातुसंबन्धं विनापि भवतीति विशेषात् । अत्र व्याचख्युः — कानचः कित्करणं तिस्तिराण इत्यत्रऋच्छत्यृता॑मिति गुणस्य निषेधार्थं सति प्रतिषेधविषये आरभ्यते ।चक्राण॑ इत्यत्र तुअसंयोगाल्लिट्व॑दित्येव सिद्धं कित्त्वमिति । त्रिमुनिमतमिति । सूत्रकृता छन्दसीति प्रक्रान्तत्वादुत्तरसूत्रे भाषाग्रहणाच्च, भाष्यवार्तिकयोरपि क्वसुकानचोःछन्दस्युभयथे॑ति वचनात्सार्वधातुकत्वेनसार्वधातुकमपि॑ दिति ङित्त्वादेव आजिवानित्यादौ नलोपादीनां कित्कार्याणामन्यथासिद्धिमाशङ्क्य तितीर्वान् तिस्तिराण इत्यादौऋच्छत्यृता॑मिति प्राप्तस्य गुणस्य बाधानार्थं कित्करणमिति सिद्धान्तितत्वात् । अत एव कित्करणसामर्थ्याद्भाषायामपि क्वसुकानचौ स्त इति केषांचिदुत्प्रेक्षा नादर्तव्येति हरदत्तमाधवादिग्रन्थे स्पष्टमिति भावः । कवयरित्वति । गतानुगतिकतयेति भावः ।", "32106": "", "32107": "", "32108": "<<भाषायां सदवसश्रुवः>> - निषेदुपीमिति । षद्लृ विशरणादौ ।लिटि धतो॑रिति द्वित्वेअत एकहल्मध्ये॑ इत्येत्त्वाभ्यासलोपौ ।उगितश्चे॑ति ङीपिवसो॑रिति सम्प्रसारमए वलादित्वाऽभावान्नेट् ।सदिरप्रते॑रिति षत्वम् । पुंसि तु निषेदिवान् । अध्यूषुष इति । वस निवासे अधिपूर्वः ।वचिस्वपी॑ति संप्रसारणं । द्वित्वहलादिशेषसवर्णदीर्घाः । ङसि भत्वात्संप्रसारणम् । प्रथमैकवचने तु अध्यूषिवान् ।", "32109": "<<उपेयिवाननाश्वाननूचानश्च>> - उपेयिवानना । इडिति । वलादिलक्षण एवेट्नेड्वशि कृती॑ति निषिद्धः । क्र्यादिनियमात्पुनः प्राप्तःवस्वेकाजाद्धसा॑मिति सूत्रेण कृतद्वित्वानामेकाचामादन्तानां घसेश्च वसोरिट् स्यान्नान्येषामिति नियच्छता प्रतिषिद्धः, नित्यत्वाद्द्वित्वे कृतेऽनेकाच्त्वात् । न च सवर्णदीर्घेणैकाच्त्वम् ।दीर्घ इणः किती॑त्यभ्यासस्य दीर्घे कृते तत्सामर्थ्यात्सवर्णदीर्घाऽभाव इति पक्षाश्रयणात् । स एव वलादिलक्षण इडिह प्रतिप्रसूयते, नाऽपूर्वो विधीयते, तेन संप्रसारणविषये न भवति । अत एवोदाहरति — उपेयुष इति । सति त्विटि तस्य यणादेशे उपेय्युष इति स्यादिति भावः । अविवक्षितमिति । व्याख्यानमेवाऽत्र शरणम् । ईयिवानिति । इणो द्वित्वे सवर्णदीर्घं बाधित्वा आङ्गत्वात्इणो य॑णिति यण् भवति, वसोरिडागमे हि परत्राऽजादिप्रत्ययस्य सत्त्वात् । वचेरिति । वच परिभाषणे इत्यस्माद्ब्राउवो वचेर्वा कर्तरि, न तु भावकर्मणोः । एतच्च निपातनाल्लब्धम् ।", "32110": "", "32111": "", "32112": "<<अभिज्ञावचने लृट्>> - अभिज्ञा । भूते इत्यधिक्रियते ।अनद्यतने ल॑डित्यतोऽनद्यतन इति वर्तते । अभिज्ञा - स्मृतिः, सा उच्यते बोध्यतेऽनेनेति विग्रहः । तदाह — स्मृतिबोधिनीत्यादि । वत्स्याम इति । अवसामेत्यर्थः ।पश्य मृगो धावती॑त्यत्र वाक्यार्थरूपमृगकर्तृकधावनमिव स्मरसीत्यत्र गोकुलाधिकरणकाऽस्मत्कर्तृकभूतानद्यतनवासो वाक्यार्थः कर्म । कृष्णेति संबोधनं स्मरणक्रियायां विशेषणम् । तथाच पूर्वोक्तनिवासकर्कं कृष्णसंबोध्यकं स्मरणमिति फलितोऽर्थः ।", "32113": "<<न यदि>> - न यदि । लृटः प्रतिषेधे उत्सर्गो लङ् ।", "32114": "<<विभाषा साकाङ्क्षे>> - वासो लक्षणमिति । प्रसिद्धत्वाज्ज्ञापकमित्यर्थः ।चारणं लक्ष्यमिति । सहसा बुद्ध्यनारोहाज्रज्ञाप्यम् । पक्षे लङिति । वने अवसाम, गा अचारयाम । यच्छब्दयोगेऽपीति । अतएवन यदी॑ति योगात्पूर्वंविभाषा साकाङ्क्षे॑ इतिन कृतमिति भावः ।*अत्यन्तापह्नवे लिड्वक्तव्यः । अत्यन्तापह्नव इति । अपह्नवोऽपलापस्तत्र आत्यन्तिकत्वं नामैवं यदभियुक्तस्तद्धेतोरप्यपह्नुतिः । नाहमित्यादि । कलिङ्गो नाम निषिद्धो देशः,अङ्गवङ्गकलिङ्गेषु सौराष्ट्रमगधेषु च । तीर्थयात्रां विना गत्वा पुनः संस्कारमर्हति॑ इति स्मरणात्, तस्मिन्देशे त्वया गत्वा चिरं स्थितमिति केनचित्कश्चिदुक्तः सन्नाह — ॒नाहं कलिङ्गाञ्जगामे॑ति । नकेवलमवस्थानमेव निषिध्यते किं तर्हि तद्धेतुभूतं गमनमपीति भवत्यत्यन्ताऽपह्नवः । यदा तु कलिङगेष्वगम इत्युक्तः सन्गमनमेवापलपति न तदात्यन्तापह्न इति लङेव भवति,न कलिङ्गेष्वगच्छ॑ मिति ।", "32115": "<<परोक्षे लिट्>> - यद्यप्यधिश्रयणादिव्यापाररूपा क्रिया सर्वा परोक्षैव.उक्तं हि भाष्ये — क्रिया नामेयमत्यन्ताऽपरिदृष्टा पूर्वापरीभूतावयवा न शक्या पिण्डीभूता निदर्शयितु॑मिति, तथापि तदनुकूलशक्तिमतां व्यापाराऽविष्टानां साधनानां परोक्ष्यमिह विव७#इतम् । तेन क्रियाऽनाविष्टसाधनमात्रप्रत्यक्षेऽपि लिङ्भवत्येव । अयं पपाच । त्वं पेचिथ॥ ननु क्रियाशब्दवाच्यादिश्रयणा[धः श्रयणा]दिव्यापाराणां युगपत्प्रत्यक्षविषयत्वेऽपि क्रमशः प्रत्यक्षविषयत्वमस्ति, यत्र तु क्रमशोऽपि प्रत्यक्षविषयत्वं नास्ति तत्र हि पारोक्ष्यं क्रियायाः, ततश्च लिडुत्तमपुरुषो दुर्लभ इति चेत् । अत्राहु - स्वव्यापारस्यापि वर्तमानतादशायां व्यासह्गादिना स्वयमप्रतिसन्धाने ततः कार्येणानुमितौ भवत्येव,बहु जगद पुरस्तात्तस्य मत्ता किलाह॑मितिवदिति ।", "32116": "", "32117": "<<प्रश्ने चासन्नकाले>> - प्रश्ने चा । भूतानद्यतनपरोक्षे तु विप्रकृष्टकालमित्याहुः । पृच्छ्यमानैति । आसन्नकालिके भूतानद्यतनपरोक्षार्थवृत्तिधात्वर्थे प्रष्टव्ये सतीत्यर्थः । प्रश्ने किम् । भूतानद्यतनपरोक्षे लिडेव । जगाम चैत्रः ।", "32118": "<<लट् स्मे>> - लट् स्मे ।स्मे॑ इत्यव्ययं भूतकालद्योतकम् ।", "32119": "", "32120": "<<ननौ पृष्टप्रतिवचने>> - ननौ । पृष्टस्यप्रतिवचनमिति विग्रहः । समाहारद्वन्द्वे तूभयत्र स्यात्िष्यते च प्रतिवचने एव लट् । तदाह — ननु करोमीति । न च पृष्टग्रहणं व्यर्थं यावता प्रश्नपूर्वकमेव प्रतिवचनं भवतीति वाच्यम्, विरुद्धमपि वचनं प्रतिवचनं , चवनाभिमुख्यमपि प्रतिवचनमिति पृष्टग्रहणं कर्तव्यमिति कैयटे स्थितत्वात् ।", "32121": "<<नन्वोर्विभाषा>> - नन्वोः । भृत इत्येव । पक्षे लुङ् । अनद्यतने तु लङ् । पक्षे यथाप्राप्तमिति । लुङ्लटोरभावपक्षे लङ्, पारोक्ष्ये तु लिडित्यर्थः । भविष्यतीति ।भविष्यति गम्यादयः॑ इति सूत्रात् ।", "32122": "", "32123": "<<वर्त्तमाने लट्>> - वर्तमाने लट् । वर्तमान इत्येतत्प्रकृत्यर्थविशेषणमित्याह — वर्तमानक्रियावृत्तेर्धातोरिति । धातोरिति सूत्रमा तृतीयाध्यायान्तमदिक्रियत इति भावः । लट् स्यादिति । तस्य वाच्यत्वमनुपदमेव स्फुटीभविष्यति । वर्तमानकालस्तु न तद्वाच्यः, किंतु द्योत्य एव । लङादिष्वपि भूतादिकालो यथायथं द्योत्य एवेत्यवगन्तव्यम् । वस्तुतस्तु वाच्यत्वाभ्युपगमोऽपि सुगम इति विध्यादिसूत्रे वक्ष्यामः॥ अटाविताविति ।अकार उच्चारणार्थ॑ इति तु नोक्तं, लिडादिवैलक्ष्ण्यसंपादनाय तस्यावश्यवक्तव्यत्वात् ।", "32124": "<<लटः शतृशनचावप्रथमासमानाधिकरणे>> - लटः शतृ । सामनाधिकरण्ये सतीति । यद्यप्यादेशरहितस्य लटः प्रयोगाऽभावात्सामानाधिकरण्यं दुर्लभं तथापि शतृशानचोस्तद्दृष्ट्वा स्थानिन्यपि सामानाधिकरण्यं कल्प्यते । शबादीति । शित्त्वेन सार्वधातुकत्वादिति भावः । पचन्तमिति । शतुरुगित्त्वान्नुम् । विक्लित्त्यनुकूलवर्तमानव्यापाराश्रयमित्यर्थः ।", "32125": "", "32126": "<<लक्षणहेत्वोः क्रियायाः>> - लक्षणहेत्वोः । लक्ष्यतेऽनेनेति लक्षणं= परिचायकम् । शयाना इति । शीङ आत्मनेपदित्वात्परस्य लटः शानच् । अत्र शयनं लक्षणं = चिह्नं यवनकर्तृकभोजनस्य, न तु फलं,नापिकरणमिति हेत्वपेक्षया लक्षणस्य पृथङ्निर्देशः । अर्जयन्निति । अर्ज प्रतियत्ने चुरादिः । अर्जनार्थो वास इत्यर्थः । हरिमिति । हरिदर्शनं मुक्तौ कारणमित्यर्थः ।", "32127": "", "32128": "<<पूङ्यजोः शानन्>> - पूङ्यजोः । शाननः शकारः सार्वधातुकत्वार्थः । नकारः स्वरार्थः । ण्वुलादिवत्स्वतन्त्रोऽयं न तु शत्रादिवल्लादेशः, तथाहि सति वेति वाच्यं स्यात्, पवते यजते इति तिङोऽपि यथा स्युरिति । न च वाऽसरूपन्यायेन निर्वाहः,लादेशेषु वाऽसरूपविधिर्नास्तीत्याकरे स्थितत्वात् ।किंच लादेशत्वेलः कर्मणि चे॑ ति भावकर्मणोर्विहितस्य लस्यापि भावकर्मणोरपि प्रयुज्येत, इष्यते तु कर्तर्येव । एवं चानशःइङ्घार्यो॑ रिति शतुश्च स्वातन्त्र्यं बोध्यम् । अत्र केचित्- शाननो लादेशत्वे लसार्वधातुकानुदात्तत्वं स्यादित्याहुः । तच्चिन्त्यम् । परत्वान्नित्स्वरप्रवृत्त्या पवमान इत्यादेराद्युदात्तत्वे शाननोऽनुदात्तत्वस्येष्टत्वात् । नन्वेषां लादेशत्वाऽनङ्गीकारेसोमं पवमान॑ इत्यादौ कर्मणि षष्टी स्यादिति चेन्मैवम् ।न लोके॑ ति सूत्रे तृन्निति प्रत्याहारनिर्देश इत्युक्तत्वात् ।", "32129": "<<ताच्छील्यवयोवचनशक्तिषु चानश्>> - ताच्छील्य । वचनग्रहणं स्पष्टार्थम् ।चानशो लादेशत्वाऽभावेनाऽत्मनेपदत्वाऽभावात्परमैपदिभ्योऽपि विधानमिति ध्वनयन्नुदाहरति — निघ्नान इति ।गमहने॑त्युपधालोपः ।", "32130": "<<इङ्धार्योः शत्रकृच्छ्रिणि>> - इङ्घार्योः । इङ आत्मनेपदित्वात् शता न सिध्यति, धारयतेरपि कर्तृगामिनि क्रियाफले न सिध्यति, लसार्वधातुकानुदात्तत्वं च प्राप्नोतीत्ययमारम्भः ।", "32131": "", "32132": "<<सुञो यज्ञसंयोगे>> - सुञो यज्ञसंयोगे । सुनोतेः शतृप्रत्ययः स्याद्यज्ञेन संयुज्यमाने वृत्तिश्चेत् । नन्विहसुञो यज्ञे॑ इत्येवास्तु, यज्ञविषयकश्चेत्सुनोत्यर्थ इति व्याख्यायां सुरां सुनोतीत्यादेव्र्यावर्तयितुं शक्यत्वात् । अत्राहुः — संयोगग्रहणं प्रधानकर्तृसंप्रत्ययार्थं,तेन यजानादन्यत्र न भवतीति । एवं चाऽप्रधाने कर्तरिलटः शतृशानचौ॑ इत्यनेनाऽपि न भवति, संयोगग्रहणसामर्थ्यादिति हरदत्तः ।यः सुन्वन्तमवती॑त्यादीनामेकवचनान्तानां यजमानपरत्वसंभवेऽपि बहुवचनान्तानां तु न संभवति, एकस्मिन्यागे एकस्यैव यजमानत्वादित्याशङ्क्य यागविशेषे तु संभवतीति दर्शयितुमुदाहरति — सर्वे सुन्वन्त इत्यादि । सत्रयागे हि बहवो यजमानास्त एवं ऋत्विजां कर्म सोमाभिषवनं कुर्वन्तीतिसुन्वन्त॑ इत्यादिबहुवचनान्तस्यापि यजगानपरत्वं संभवतीति भावः ।", "32133": "<<अर्हः पूजायाम्>> - अर्हः । प्रशंसायां किम् । अर्हति चौरो वधम् ।", "32134": "<<आक्वेस्तच्छीलतद्धर्मतत्साधुकारिषु>> - आ क्वेः । शीलादीनां त्रयाणां विशेषणं समर्थयितुं निर्दिष्टैस्त्रिभिस्तच्छब्दैः प्रकृतिभूतधात्वर्थो निर्दिश्यते । क्विपमभिव्याप्तेति ।भ्राजभासधुर्विद्युतोर्जी॑ति वक्षमाण॑मिति शेषः । कर्ता कटानीति ।न लोकाव्यये॑ति षष्टीनिषेधः ।", "32135": "", "32136": "<<अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मद- रुच्यपत्रपवृतुवृधुसहचर इष्णुच्>> - अलङ्कृञ् । कृञिति डुकृञ् करण इत्यस्यैव ग्रहणं न तु कृञ् हिंसायामित्यस्य ,प्रसिद्धाऽप्रसिद्धयोः प्रसिद्धस्यैव ग्रहण॑मिति न्यायात् । निराङ्पूर्वोऽपि कृञ् स एव । प्रपूर्वो जनी प्रादुर्भावे । इह डुपचष् पाके, पत्लृ गतौ, मदी हर्षे, एते त्रयोऽपि उत्पूर्वाः पठन्ते । तत्रउदः पचपतमद॑ इत्येव वक्तव्ये प्रत्येकमुत्पूर्वसय् पाठ उपसर्गान्तरनिवृत्त्यर्थस्तेन समुत्पतिष्णुरित्यादि न भवतीत्याहुः । रुच दीप्तौ । अपपूर्वः त्रपूष् लज्जायाम्, वृतु वर्तने, वृधु वृद्धौ,षह मर्षणे,चर गतौ । इत्यादीति । आदिशब्दग्राह्रास्तु निराकरिष्णुः, प्रजनिष्णुः, उत्पचिष्णुः,उत्पत्तिष्णुः, उन्मदिष्णुरिति ।उत्पतिष्णूसहिष्णू च चेरतुः खरदूषणौ॑ इति भट्टिः । कालिदासोऽप्याह — फलानामुत्पत्तिष्णवः॑इति । केचित्तुः — पत इत स्थाने दान्तं सूत्रे पठित्वा पद गतावित्यस्मात्प्रत्ययमाहुः । उन्मदिष्णुः, रोचिष्णुः, अपत्रपिष्णुः, वर्तिष्णुः, चरिष्णुः ।", "32137": "<<णेश्छन्दसि>> - पारयिष्णव इति ।अयामन्ते॑ति णेरय् ।", "32138": "<<भुवश्च>> - नैतदिति । चकारस्याऽनुक्तसमुच्चयार्थत्वमित्यर्थः ।", "32139": "<<ग्लाजिस्थश्च क्स्नुः>> - ईत्त्वं नेति ।घुमास्थे॑त्यादिः । गित्त्वादिति ।क्ङिति चे॑त्यत्र गकारं प्रश्लिष्य गिति किति ङितीति व्याख्यानादिति भाव- । गकारप्रश्लेषादिति । नन्वेवं गकारे चर्त्वस्याऽसिद्धत्वात्हशिचे॑त्युत्वं स्यादित चेत् । सत्यम् । सौत्रोऽयं निर्देशः । तथा च वार्तिकं — ग्स्नोर्गित्त्वान्न स्थ ईकारः । क्ङितोरीत्त्वप्रशासनत् । गुणाऽभावस्त्रिषु स्मार्यः श्र्युकोऽनिट्त्वं कगोरितोः॑ इति । दङक्ष्णव इति । दंश दशने ।व्रश्चे॑त्यादिना षत्वेषढोः कः सी॑ति कत्वम् ।आदेशप्रत्ययो॑रिति षत्वम् ।अनिदिती॑मिति नलोपो न,ग्स्नोर्गित्त्वेन प्राप्त्यभावात् ।", "32140": "<<त्रसिगृधिधृषिक्षिपेः क्नुः>> - त्रस्नुरिति ।नेड्वशि॑ इति नेट् ।", "32141": "<<शमित्यष्टाभ्यो घिनुण्>> - शमित्यष्टाभ्यो । इतिशब्द आद्यर्थः । शमिनीतरेत्यत्रेति । अत्र नव्याः — विद्वत्तरेतिवत्तसिलादिष्विति पुंवद्भावेन शमितरेति भाव्यम् । न च उगित्त्वाभ्युपगमस्य फलाऽभावाद्ध्रस्विकल्प एव भवतीति वाच्यं, पाक्षिकह्रस्वेन उगित्करणस्य चरितार्थत्वात् । ह्रस्वाऽभावपक्षे तु पुंवद्भावस्य दुर्वारत्वादित्याहुः ।", "32142": "<<संपृचानुरुधाङ्यमाङ्यसपरिसृसंसृज- परिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुह- दुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरज- भजातिचरापचरामुषाभ्याहनश्च>> - संपृचा । संपर्कीति । पृची संपर्के ।चजो॑ कुत्वं । गुणः । परिदेवीति । देवृ देवने भ्वादिः । ण्यन्तस्य दीव्यतेस्तु नेह ग्रहणं, लाक्षणिकत्वात्, अण्यन्तैः साहचर्याच्च । अभ्याघातीति । अभ्याङ्पूर्वाद्धन्तेर्हस्य कुत्वेन घः ।हनस्तोऽचिण्णलोःर॑ इति नस्य तः ।अत उपधायाः॑ इति वृद्धिः ।", "32143": "<<वौ कषलसकत्थस्रम्भः>> - वौ कष । कष हिंसार्थः, लस श्लेषण क्रीडनयोः, कत्थ श्लाघायाम्, रुआम्भु विआआसे । अपे च लषः । लष कान्तौ ।", "32144": "", "32145": "<<प्रे लपसृद्रुमथवदवसः>> - प्रे लप । रप लप व्यक्तायां वाचि । प्रमाथीति । मथे विलोडने ।", "32146": "<<निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादि- व्याभाषासूयो वुञ्>> - निन्दहिंस । इह सूत्र विनाशेति विपूर्वस्य नशेण्र्यन्तस्य पाठो निर्विवाद एव । असूयतिः कण्ड्वादियगन्तः, निन्दादीनामसूयान्तानां समाहारद्वन्द्वे सौत्रं पुस्त्वम् । स्यादेतत् — असूयतेरेव वुञ् विधेयो नेतरेभ्यः निन्दादीनां निन्दादीनां ण्वुलैव सिद्धेः । न हि तत्र लित्स्वरनित्स्वरयोर्विशेषोऽस्ति, उभयथाप्याद्युदात्तत्वात् । असूयतेस्तु ण्वुलिलिती॑ति प्रत्ययात्पूर्वमुदात्तं, वुञि तुञ्नित्यादिर्नित्य॑मित्यादिरुदात्त इति विशेषः । तत्राह — ण्वुलेति । तृजादयो नेति । नेदं ण्वुल्विषयकमेव ज्ञापकं किंतु सामान्यतः प्रत्ययमात्रविषयकमित्यर्थः ।", "32147": "<<देविक्रुशोश्चोपसर्गे>> - देविक्रुशोः । दीव्यतेर्हेतुमण्ण्यन्तस्य, दिवु कूजने इति चुरादिण्यन्तस्य च ग्रहणम् ।", "32148": "<<चलनशब्दार्थादकर्मकाद्युच्>> - चलनशब्दार्था । चल कम्पने, चुप मन्दायां गतौ, कपि चलने,शब्द शब्दने चुरादिः, रु शब्दे । चलन इत्यादि ।युवो॑रित्यनादेशः ।", "32149": "<<अनुदात्तेतश्च हलादेः>> - अनुदात्तेश्च हलादेः । ननु सर्वोऽप्यनुदात्तेद्धलन्त एवेति तदन्तविधं बाधित्वा सामर्थ्याद्धलादरेव ग्रहीष्यते, तत्किमादिग्रहणेनेति चेत् । अत्राहुः — आदिग्रहणाऽभावे हलन्ताष्वचरितार्थस्याऽनुबन्धस्य समुदायविसेषकत्वादिति दिक् ।", "32150": "<<जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः>> - जुचङ्क्रम्य । क्रमिद्रमी यङन्तौ । क्रमु पादविक्षेपे, द्रम हम्म मीमृ गतौ । पूर्वेणेति ।अनुदात्तेतश्चे॑ त्यनेन । इहपदिग्रहणं सकर्मकार्थ॑ मिति वृत्तिकृतोक्तम् । भाष्ये तु अनभिधानादेव सकर्मकान्न भविष्यतीत्युक्तत्वात् । ज्ञापनार्थमेव तदित्याशयेनाह - बाधा माभूदित्यादि । परस्परमिति । निन्दादिसूत्रे हि तच्चीलादिषु वासरूपविधिना तृजादयो नेति ज्ञापितम्, इह तुताच्छीलिकेषु परस्परं ने॑ति ज्ञापितमिति विवेक इति भावः ।", "32151": "<<क्रुधमण्डार्थेभ्यश्च>> - क्रुध । क्रुध क्रोधे, रुष रोषे, मडि भूषायाम्,भूष् अलङ्कारे ।", "32152": "<<न यः>> - न यः । अय वय पय भय चय तय णय गताविति पठितस्य नयतेर्नाऽयं निर्देशः, अनुदात्तेत्त्वादेव युचः सिद्धत्वात्, किंतु नेति पृथक् पदमिति मत्वाऽऽह — यकारान्तादिति । क्नूयिता क्ष्मायितेति । क्नूयी शब्दे उन्दे च, क्ष्मायी विधूनने ।", "32153": "<<सूददीपदीक्षश्च>> - सूददीप । सूद क्षरणे, दीपी दीप्तौ, दीक्ष मौण्डएज्यादौ । ताच्छीलिकेष्विति ।परस्पर॑ मिति शेषः । प्रायिकमिति । न केवलं यथाश्रुत [ म् ] भाष्यमवलम्ब्य युज्रयोरेव समावेश इति मन्तव्यं,किंतु प्रायिकत्वं एव भाष्यस्य तात्पर्यम् । तेन गमेःलषपतपदे॑ त्युकञ्विषये तृन्नपि । गन्ता । गामुकः । तथावौ कषलसे॑ति घिनुण्विषये युजपि — विकत्थी विकत्थन इत्यादि सिध्यतीति भावः ।", "32154": "", "32155": "<<जल्पभिक्षकुट्टलुण्टवृङः षाकन्>> - पुवः । पूङ्पूञोरुभयोग्र्रहणमविशेषात् । करण इत्यनुवृत्तेराह — येनाज्यमिति ।", "32156": "<<प्रजोरिनिः>> - प्रजवीति ।जु॑ इति सौत्रो गत्यर्थः ।", "32157": "<<जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च>> - जिदृक्षि । जि जये, जि अभिभवे, दृङ् आदरे, क्षि क्षये,क्षि निवासगत्यो, श्रिञ् सेवायां विपूर्वः, व्यथ भयसंचलनयोर्नञ्पूर्वः । निपातनान्नञो धातुना समासे नलोपे ततः प्रत्ययः । अम गत्यादिषु अभिपूर्वः । प्रसवीति । षू प्रेरणे । अस्मादिनिः । षूङ् प्राणिगर्भविमोचने, षूङ् प्राणिप्रसवे, इमौ न गृह्रेते, सानुबन्धत्वात् ।जिदृक्षी॑त्यत्रैव प्रजुं पठित्वा पूर्वसूत्रं त्यक्तुमुचितम् । एवं हि पृथग्विभक्तिश्चकारश्च मास्त्विति सुवचम् ।", "32158": "<<स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच्>> - स्पृहि । स्पृह ईप्सायाम्, गृहू ग्रहणे, पत गतौ । त्रयश्चुरादाविति । तेन णेरयादेशेन रूपसिद्धिरिति भावः । तत्पूर्व इति । तच्छब्दस्य समासोऽपि निपातनादिति बोध्यम् । डुधाञ् श्रत्पूर्वः । श्रद्धालुः । धेटस्तु नेदं रूपम्, श्रत्पूर्वस्य तस्य प्रयोगाऽभावादिति व्याचख्युः । ननु कथं कृपालुः स्पर्धालु इति । कृपां स्पर्धां च लातीति विग्रहे मृगय्वादित्वात्कुः ।", "32159": "<<दाधेट्सिशदसदो रुः>> - दाधेट् । डुदाञ्दोडेङां त्रयाणामेव ग्रहणं,न तु दाण्दापोरित्याहुः ।", "32160": "", "32161": "<<भञ्जभासमिदो घुरच्>> - भङ्गुर इति ।चजो॑रिति कुत्वम् । अभिधानस्वभावाद्भञ्जेः कर्मकर्तर्येवेत्याहुः ।", "32162": "<<विदिभिदिच्छिदेः कुरच्>> - विदिभिदि । विदेज्र्ञानार्थस्यैव ग्रहणं न तु लाभार्थस्य, व्याख्यानात् । छिदुरमिति । कर्मकर्तरि प्रत्यय इति वृत्तिः । नैतद्भाष्ये दृष्टम् । तथा च माघो मुख्ये कर्तरि प्रायुङ्क्त — ॒प्रियतमाय वपुर्गुरुमत्सरच्छिदुरयाऽदुरयाचितमङ्गना॑ इति । इह अदुरिति च्छेदः ।", "32163": "<<इण्नश्जिसर्त्तिभ्यः क्वरप्>> - इत्वरः । इत्वरीति । इण् गतौह्रस्वस्य पिती॑ति तुक् । कित्त्वाद्गुणाऽभावः ।टिड्ढे॑त्यादिना स्त्रियां ङीप् ।", "32164": "", "32165": "<<जागुरूकः>> - जागरूकः ।जागु॑रिति पञ्चम्यन्तं । तद्व्याचष्टे — जागर्तेरिति । जागरूक इति सिद्धरूपमेव न तु निपातितम, उत्तरसूत्रे ऊकस्याऽननुवृत्तिप्रसङ्गात् ।", "32166": "<<यजजपदशां यङः>> - यजजप । यायजूक इति । यजेर्यङि द्वित्वादि ।दीर्घोऽकितः॑ इत्यभ्यासदीर्घः । अतो लोपेयस्य हलः॑ इति यलोपः । जञ्जपूक इत्यादि ।जपजभदहदशे॑ त्यादिना नुक् । वावदूकशब्दस्तुउलूकादयश्चे॑त्यत्र वक्ष्यते । माधवस्त्वाह — कुर्वादिगणे वावदूक इति पाठादेव यङन्ताद्वदेरूकप्रत्यय इति ।", "32167": "", "32168": "<<सनाशंसभिक्ष उः>> - सनाशंस ।स॑निति प्रत्ययग्रहणात्तदन्तग्रहणम् । षणु दाने, षण संभक्ताविति धात्वोस्तु नेह ग्रहणं, गर्गादिषु विजिगीषुशब्दस्य पाठात् । आशंसेत्याङः शसि इच्छायामित्ययं गृह्रते, न शंसु स्तुताविति, आङा सह निर्देशात् ।", "32169": "<<विन्दुरिच्छुः>> - विन्दुरिच्छुः ।विद ज्ञाने॑ इत्यस्यैव ग्रहणं नेतरेषाम् । एवमिषेरपि इच्छार्थकस्यैव ग्रहणं, नत्विष गतौ, इष आभीक्ष्ण्ये इत्यनयोः, अनभिधानान्निपातनाद्वेति भावः । बिन्दुशब्दस्तु पवर्गीयादिः — विदि अवयवेऽस्मान्मृगय्वादित्वात्कुप्रत्यये बोध्यः ।", "32170": "<<क्याच्छन्दसि>> - क्याच्छन्दसि ।क्य॑ इति क्यच्क्यष्क्यङां सामान्यग्रहमम् । क्यन्ताद्धातोश्छन्दसि विषये ताच्छीलादिषु उप्रत्ययो भवतीति काशिका । किद्यः क्य इति व्याख्यानात्कण्ड्वादियगपि गृह्रते । तेनतुरण्यवोऽङ्गिरसो नक्षन्त॑,सपर्येम सपर्यवः॑,यमस्य योनौ शकुनं भुरण्यु॑मित्यादि सिद्धम् । तुरण त्वरायां , सपर पूजयां, भुरण धारणपोषणयोरित्येते कण्ड्वादिषु पठिताः । अथ कथंसन्तः प्रणयिवाक्यानि गृह्णन्ति ह्रनसूयवः॑ इति भट्टपादाः । मृगय्वादिषु असूयशब्दो द्रष्टव्य इति हरदत्तः । सुम्नयुरिति । सुम्नशब्दात्क्यचि तदन्तादुः ।न छन्दस्यपुत्रस्ये॑ति निषेधात्क्यचि चे॑ति ईत्वम्,अकृत्सार्वे॑ति दीर्घश्च न भवति ।", "32171": "<<आदृगमहनजनः किकिनौ लिट् च>> - आदृग ।ऋदोर॑बितिवदादिति दकारो मुखसुखार्थो, न त्वयं तकारः । तेन तत्परत्वाऽभावादृ इत्येनेन दीर्घोऽपि गृह्रते ।ततुरिः । जगुरिः । तृ प्लवनतरणयोरित्यस्य, गृ निगरण इत्यस्य चबहुलं छन्दसी॑ त्युत्वे रूपमिति प्राञ्चः । वस्तुतस्तु आदित्यादि प्रकृतिविशेषणम् । उदाहरणं प्रपञ्चमात्रम् । किकिनौ लिट्चेत्येतावन्मात्रमेव विवक्षितम् । तथा च वार्तिकं — किकिनावुत्सर्गश्छन्दसि सदादिभ्यो दर्शना॑दिति । उदाहृतं च भाष्ये — सेहिर्नेमिरित्यादि । एवं स्थिते आदिति तपरकरणेऽपि न क्षतिरिति ध्वनयन्नाह — आदन्तादृदन्तादिति । बभ्रिर्वज्रमिति ।न लोके॑ ति षष्ठीनिषेधाद्द्वितीया । किकिनोः स्थाने तिबादयो न,लिड्व॑दित्यतिदेशेन स्वरूपाऽबाधेनैव कार्यातिदेशात् । छान्दससूत्रद्वयोपन्यसनं भाषायां धाञित्यादिवार्तिकविषयविवेचनार्थम् । इह च वार्तिके गमिर्यद्यपि न दृश्यते तथापि धातुवृत्तौ, क्वचिद्वृत्तिपुस्तके च दर्शनादुपन्यस्तः । जग्मिरिति ।गमहनजने॑त्युपधालोपः । जघ्निरिति ।अभ्यासाच्चे॑ति कुत्वम् । * भाषायां धाञ्कृसृगमिजनिनमिभ्यः । दधिरिति । आतो लोपः । नेमिरिति । एत्वाभ्यासलोपौ । * सासहिवावहिचाचलिपापतीनामुपसङ्ख्यानम् । सासहीत्यादि । यङोऽतोलोपेयलोपः । अभ्यासदीर्घः । नीगभावश्चेति ।नीग्वञ्चु॑ इत्यादिना प्राप्तस्य नीगागमस्याऽभाव इत्यर्थः । तृष्णगिति । डित्त्वान्न गुणः । नजिङ इकार उच्चारणार्थः ।", "32172": "", "32173": "<<शॄवन्द्योरारुः>> - * क्रुकन्नपीति । अत एवभीलुभीलुकभीरुकाः॑ इत्यमरः ।", "32174": "", "32175": "<<स्थेशभासपिसकसो वरच्>> - ईआर इति ।नेड्वशी॑तीडभावः । पेस्वर इति । पिसृ पेसृ गतौ । कस्वर इति । कस गतौ ।", "32176": "", "32177": "<<भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप्>> - भ्राज । आ क्वे॑ रित्युक्तत्वात्तच्छीलादिष्वयं क्विप् । भ्राजृ दीप्तौ, भासृ दीप्तौ, धुर्वी हिंसायां, द्युत दीप्तौ, ऊर्ज बलप्राणनयोः, पृ पालनपूरणयोः, जु गतौ सौत्रः । ग्रावपूर्वः — ष्टुञ् स्तुतौ । विभ्राडिति ।व्रश्चे॑ति षत्वम् । जश्त्वचर्त्वे । धूरिति ।राल्लोपः॑ इति वलोपः ।र्वोरुपधायाः॑ इति दीर्घः । ऊर्गिति ।चोः कुः॑ ।रात्सस्ये॑ति नियमान्न संयोगान्तलोपः । पूरिति ।उदोष्ठपूर्वस्ये॑त्युत्वम् ।र्वो॑रिति दीर्घः । * क्विब्वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घोऽसंप्रसारणं च । वाक् प्राडिति । इह दीर्घः, संप्रसारणाऽभावश्च । संप्रसारणप्राप्तिस्तुवचिस्वपि॑ग्रहिज्यावयी॑त्यादिना । श्रयति हरिं श्रीरिति । प्राचा तु श्रयन्त्येतामिति कर्मणि क्विबुदाहृतः । तत्रकर्तरि कृ॑दिति सूत्रविरोधः स्पष्ट एव । बाहुलकं तु अगतिकगतिः । * द्युतिगमिजुहोतीनां द्वे च । द्वे चेति । कृतेऽपि द्वित्वे अभ्याससंज्ञेह दुर्लभा, प्रत्यासत्त्या षाष्ठद्वित्व एव प्रवृत्तेः, अतएव आष्ठमिके सा नेत्याशङ्कायामाह — दृशिग्रहणादिति । दिद्युदिति ।द्युतिस्वाप्यो॑रित्यभ्यासस्य संप्रसारणम् । जगदिति.॒गमः क्वौ॑ इति मलोपे तुक् । अत्र द्वे चे॑ति चकारेण दीर्घः समुच्चीयमानो द्युतिगम्योर्न भवति, दीर्घश्रुत्याअचश्चे॑ति परिभाषोपस्थानात् । अजन्तस्य जुहोतेरेव संभवतीत्याशयेनाह — — जुहोतेर्दीर्घश्चेति । जुहोतीति जुहूः ।* जुहोतेर्दीर्घश्च । ह्रस्वश्चेति । चकारेण द्वित्वं समुच्चीयते । * ध्यायतेः संप्रसारणं च । धीरिति । ध्यायतीति धीः ।हलः॑ इति दीर्घः । ननु ध्यायति पुरुषो न तु धीः, एवं जुहोत्यनया पुरुष इति सर्वसंमतत्वात् कथं तर्हि भवदुक्तार्थः सङ्गच्छत इति चेत् । अत्राह हरदत्तः- करणस्य कर्तृत्वविवक्षायां क्विब् भवति ।", "32178": "", "32179": "<<भुवः संज्ञाऽन्तरयोः>> - भुवः संज्ञा । धनिकेत्यादि । तेन ग्रामयोरन्तरे यस्तिष्ठति तत्र नेति भावः । एतच्च दृशिग्रहमाऽनुवृत्त्या लभ्यते । नन्वेवं प्रतिभूशब्द संज्ञेति फलितं, तत्रसंज्ञाया॑मित्येव सिद्धं किमन्तरग्रहणेन । अत्राहुः- यावद्द्रव्यभाविन्यः संज्ञाः । प्रतिभूशब्दस्तु सत्येव तस्मिन् ऋणप्रदानेन निवर्तत इत्युभयोर्भेद इति । शं सुखं भावयतीति शम्भुरित्यर्थाभ्युपगमेनाह — अन्तर्भावितेति । शं भवति= सुखस्वरूपो भवतीति शम्भुरित्यन्ये । सं भवत्यस्मादिति व्युत्पत्तिस्तु अपादाने डुप्रत्ययाऽभावाच्चिन्त्येति माधवः ।", "32180": "", "32181": "<<धः कर्मणि ष्ट्रन्>> - धः कर्मणि । कर्मणीति नोपपदम्,ह्वावामश्चे॑त्यनन्तरमेवधः ष्ट्र॑न्निति वक्तव्ये पृथक्कर्मग्रहणाद्व्याख्यानाद्वेत्याशयेनाह — कर्मण्यर्थे इति । अत एव धीयते पीयत इति धात्री = स्तनदायिनीत्यादि व्याचक्षते ।", "32182": "", "32183": "<<हलसूकरयोः पुवः>> - तच्चेत्करणमित्यादि । एतेन हलसूकरयोरभिधेयत्वमुपपदत्वं च निरस्तम् । मुखमित्यर्थ इति । तत्रैव रूढेरिति भावः ।", "32184": "<<अर्तिलूधूसूखनसहचर इत्रः>> - अर्तिलूधूसू । धू विधूनने इति कुटादिरेव गृह्रते, निरनुबन्धकत्वात् । अत एवगाङ्कुटे॑ति ङित्त्वाद्गुणनिषेधे उवङ् । तदाह — धुवित्रमिति ।", "32185": "", "32186": "<<कर्तरि चर्षिदेवतयोः>> - कर्तरि चर्षि । इत्रः स्यादिति । करणे कर्तरि चेत्यर्थः । काशिकानुसारेण यतासङ्ख्यं व्याचष्टे — ऋषौ करणे इति ।कर्तरि कृ॑दिति सूत्रस्थभाष्यकैयटयोस्तु यथासङ्ख्यं नेति गम्यत इति शब्दकौस्तुभे स्थितम् । इति पूर्वकृदन्तम् ।अथ उणादिप्रकरणम् ।", "32187": "<<ञीतः क्तः>> - क्ष्विण्ण इति ।आदितश्चे॑ति नेट् । इद्ध इति ।श्वीदितः॑ इति नेट् । नलोपः ।", "32188": "<<मतिबुद्धिपूजार्थेभ्यश्च>> - राज्ञामिति ।क्तस्य च वर्तमाने॑ इति षष्ठी । इष्ट इति ।तीषसहे॑ ति वेट्कत्वात्यस्य विभाषे॑ति नेट् । शीलित इत्यादि । शील समाधौ, रक्ष पालने, क्षमूष् सहने, क्रुश आह्वाने, जुषी प्रीतिसेवनयोः ।", "33001": "", "33002": "<<भूतेऽपि दृश्यन्ते>> - भूतेऽपि दृश्यन्ते । नन्वेवं वर्तमानग्रहणं चउणादयो बहुल॑मित्यत्र नानुवर्त्त्यताम्, एतच्चोत्तरसूत्रं च त्यज्यताम् । अविशेषेण कालत्रयेऽपि प्रत्ययलाभादिति चेदत्राहुः — बाहुल्येन वर्तमाने भवन्ति, भूतभविष्यतोस्तु क्वचिदेवे॑ति विवेकप्रदर्शानयेदमिति ।", "33003": "<<भविष्यति गम्यादयः>> - भविष्यति गम्यादयः । गमिष्यतीति -गमी ग्रामम् । आगमिष्यतीति आगामी । गमेरिनिः ।आङि णित् इत्याङ्पूर्वस्य तु णित्त्वादुपधावृद्धिः ।", "33004": "<<यावत्पुरानिपातयोर्लट्>> - यावत्पुरा । लक्षमप्रतिपदोक्तपरिभाषाऽनित्येति निपातग्रहमेन ज्ञाप्यते । यावद्भुङ्क्त इति । निश्चितं भोक्ष्यते इत्यर्थः । यावद्दास्यत इति.अनद्यतनभविष्यति तुयावद्दाता तावद्भोक्ते॑ति प्रत्युदाहर्तव्यम् ।", "33005": "<<विभाषा कदाकर्ह्योः>> - विभाषा । ननुअनद्यतने र्हिलन्यतरस्या॑मित्यनद्यने किमो र्हिल्विहितस्ततश्च कर्हियोगे लुटैव भाव्यमिति कथमुदाह्यियते — कर्हि भोक्ष्यत इति । अत्राहुः — भविष्यत्सामान्ये भोक्ष्यते इति लृट् । कर्हियोगे तु अनद्यतनावगतिर्लक्षणयेति । भोक्ता वेति । ननु भविष्यत्सामान्येऽयं लड्विहितस्तस्य लुटा सह कथं विकल्पो, विषयभेदादिति चेत्, अत्राहुः — अनद्यतने लु॑डित्यत्रविभाषा कदे॑त्यादीनि कानिचित्सूत्राणीष्टानुरोधेनानुवर्तन्ते तेन, लुड्विषयेऽपि लड्भवति, न त्वनद्यने लुटा लड् बाध्यत इति ।", "33006": "<<किंवृत्ते लिप्सायाम्>> - किंवृत्ते । किमा वृत्तं किंवृत्तम् । केचित्तु यद्यपि कदाकुत्रेत्याद्यपि किंवृत्तं, तथापि तन्न गृह्रते, अनभिधानात् । तेनकदा भोजयिष्यसीत्यादौ भविष्यति लण्नेत्याहुः ।", "33007": "<<लिप्स्यमानसिद्धौ च>> - लिप्स्यमान । लिप्स्यमानसिद्धौ लिप्सायाः सत्त्वात्पूर्वेण सिद्धेऽप्यकिंवृत्तार्थमिदमिति ध्वनयन्नुदाहरति — योऽन्नमिति ।", "33008": "<<लोडर्थलक्षणे च>> - लोडर्थ । लोडर्थस्य लक्षणमिति षष्ठीतत्पुरुषः । कृष्णभोजनं लोडर्थस्य गोचारणप्रैषस्य लक्षणम् । भोजनकाले गोचारमं त्वया कर्तव्यमित्यर्थः । पक्षे लुडिति । कृष्णश्चेद्भोक्ता, कृष्णश्चेद्भोक्ष्यते, त्वं गाश्चारयेत्यर्थः ।", "33009": "<<लिङ् चोर्ध्वमौहूर्तिके>> - लिङ् चोध्र्व ।कालाट्ठञ् ।तद्धितार्थोत्तरपदे॑त्यत्रदिक्सङ्ख्ये॑ इत्यनुवर्तनादिह समासो दुर्लभ इत्याशङ्कायामाह — निपातनादिति ।", "33010": "<<तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्>> - तुमुन्ण्वुलौ । क्रिया अर्थः प्रयोजनं यस्याः सा क्रियार्था, तस्याम् । अत्रेदं बोध्यं — तुमुन्ण्वुलोः कृत्त्वाऽविशेषेऽपिअव्य्यकृतो भावे॑ इति वचनाद्भावे तुमुन् । ण्वुल्तु कर्तरि । क्रियायामिति सप्तमीनिर्दशात्तद्वाचकस्य यातीत्यादेःतत्रोपपदं सप्तमीस्थमित्युपपदत्वमिति । कृष्णं द्रष्टुमिति । कृष्णकर्मकं यद्भविष्यद्दर्शनं तत्प्रयोजकं यानमित्यर्थः । कृष्णं दर्शक इति । कृष्णकर्मकभविष्यद्दर्शनकर्तृकर्तृकं दर्शनप्रयोजनकं च यानमित्यर्थः । क्रियायां किम् । भिक्षिष्ये इत्यस्य जटाः । इह भिक्षार्था जटाः, ताश्च द्रव्यं, न तु क्रिया,भिक्षितुं जटा॑ इति प्रयोगस्तु धारयतीत्यध्याहारेण समर्थनीयः । क्रियार्थायां किम् ।धावतस्ते पतिष्यति दण्डः॑ । अस्त्यत्र धावत इति क्रिया, न त्वसौ दण्डपतनार्था । धावनं तु दण्डपतने हेतुर्भवति न तूद्देश्यमिति दिक् ।", "33011": "", "33012": "<<अण् कर्मणि च>> - ण्वुलोऽपवाद इति ।अव्ययकृतो भावे॑ इति भावे विहितत्वात्तुमुनः प्राप्तिरेव नास्तीति भावः ।", "33013": "<<लृट् शेषे च>> - ॒तुमुन्ण्वुलौ क्रियायां क्रियार्थाया॑मिति प्रागुक्तं, ततोऽन्यः शेष इत्याह — असत्यामिति । हरदत्तस्त्वाह - अस्वरितत्वादेव क्रियार्थायां क्रियायामिति नानुवर्तते । एवंचशेषेचे॑ति सुत्यजमिति । तच्चिन्त्यम् ।शयिष्यत इति स्थीयते॑इत्यादौ तुमुना लृटो बाधापत्तेः, क्तल्युट्तुमुन् खलर्थेषु वासरूपविधेरभावात् । अतर्च ज्ञापकंप्रैषातिसर्गप्राप्तकालेषु कृत्याश्चे॑त्यत्र लोटा बाधा माभूदिति पुनः कृत्त्यविधि॑रित्यादि कृदन्ते वक्ष्यति । इदमपि ज्ञापकमित्यन्यदेतत्॥ यत्तु प्राचा — भविष्यतीति व्रजती॑त्युदाहृतं, तदापाततः,तुमुन्विषयेऽपि लृड्भवति तुमुना लृण्न बाध्यतेट इत्येतत्प्रतिपादनाय तस्याऽनुपयोगात्, न हि भविष्यतीत्यत्र कर्तरि तुमुनः प्राप्तिरस्ति, भावे हि सः । समानकर्तृकेष्वेवेति च वक्ष्यते । लृरडित्येतावत्सूत्रकरणेऽपिभविष्यतीति व्रजती॑त्ययं सिध्यत्येवेत्यास्तां तावत् ।", "33014": "", "33015": "<<अनद्यतने लुट्>> - अतीताया रात्रेः पश्चार्द्धेन, आगामिन्याः पूर्वार्द्धेन सहितोदिवसोऽद्यतन इतिकालोपसर्जने च तुल्य॑मित्यत्र स्थितम्॥", "33016": "<<पदरुजविशस्पृशो घञ्>> - पदरुज । पद्यतेऽसाविति । करणस्य कर्तृविवक्षाऽत्र बोध्या । पद्यते गच्छति येनेति फलितोऽर्थः ।", "33017": "<<सृ स्थिरे>> - सृ स्थिरे । सतेरिति भ्वादेर्जुहोत्यादेश्च ग्रहणं, स्थिरग्रहणं प्रत्ययार्थस्य कर्तुर्विशेषणं न तूपपदमिति ध्वनयन्नाह — स्थिरे कर्तरीति । अद्र्धर्चादिषु सारशब्दपाठोऽत्र मानम् । व्याधीत्यादि । अस्थिरार्थमिदं वचनम् । तेनविसारो मत्स्य॑ इत्यत्र विविधं सरतीत्यर्थः सङ्गच्छते । अतीसार इति ।उपसर्गस्य घञी॑ति दीर्घः । सारो बलमिति । अत्रापि सृधातुरन्तर्भावितण्यर्थः, सारयति चेष्टयतीत्यर्थानुरोधात् । वलवानेव हि चेष्टते । सिद्धावस्थापन्न इति । पचतीत्यादौ तु साध्यावस्थापन्नो धात्वर्थ इति भावः ।", "33018": "", "33019": "", "33020": "<<परिमाणाख्यायां सर्वेभ्यः>> - परिमाणाख्यायाम् । सर्वेभ्यः — घातुभ्यः । परिमाणं — परिच्छित्तिः । आख्यानमाख्या उक्तिः । परिच्छित्तेरुक्तौ सत्यामित्यर्थः । कस्य पुनः परिच्छित्तिरिति चेत्प्रत्ययार्थस्येत्युच्यते । आख्याग्रहणं रूढिनिरासार्थं, तेन परिमाणग्रहणेन सङ्ख्याऽत्र गृह्रते । सर्वेभ्यः किम् । अन्यथा पुरस्तादपवादन्यायेनाऽचमेव घञ् बाधेत, न त्वपम् । तण्डुलनिचाय इति । निचीयते राशीक्रियते इति निचायः । अत्र राश्येकत्वेन समुदायिनां परिच्चित्तिरर्थाद्गम्यते ।एर॑जित्यचि प्राप्ते घञ् । निष्पूयते शोध्यते तुषाद्यपनयनेन यस्तण्डुलादिः स निष्पावः ।ऋदारो॑बित्यपि प्राप्ते घञ् । शूर्पेणेति करणे तृतीयान्तस्यकर्तृकरणे कृता बहुल॑मिति समासः । अत्र शूर्पसङ्खया तण्डुलादेरपि परिच्छित्तिः । शूर्पद्वित्वं तु आर्थिकं , न तु शाब्दं , निष्पावगतद्वित्वं तु शाब्दम् । यद्यप्यत्रनिरभ्योः पूल्वो॑रिति घञ् लभ्यते तथापि सर्वग्रहणबलादनेनापि भवितुमर्हतीति भावः । अप्रत्ययस्य मुख्योदाहरणमाह — द्वौ काराविति । कृ विक्षेपे । कर्मणि घञ् । शूर्पादिना विक्षिप्तो धान्यादिराशिः कारः । इह प्रकृत्याश्रय एवापवादो नत्वर्थाश्रयः, सर्वेभ्य इति पञ्चमीनिर्देशेन तथैवावगमात् । तेना ।यं प्रकृत्याश्रयो घञ् क्तिनोऽपवादो न भवति । एका तिलोच्छ्रितिः । उत्पूर्वकाच्छ्रयतेः कर्मणि भवे वा क्तिन् । ऊर्ध्वीकृतो राशीकृत इत्यर्थः । तदेतत्सूचयितुमुक्तम्अजपोरपवाद इति । तयोरपि प्रकृत्याश्रयत्वात्, अपवाद्यापवादयोः समानविषयत्वौचित्यात् । स्त्रियां क्तिन् त्वर्थाश्रय इति दिक् । दारजाराविति । अकर्तरि कारके इत्यधिकारात्ऋदोर॑बित्यस्य घञपवादत्वाच्च कर्तरि घञर्थमिदं वचनम् । णिलुक्चेति । चाद्घञ् । लोपे हि सति घञाश्रया वृद्धिर्न स्याण्णिलोपस्य स्थानिवद्भावेन व्यवधानात् । न च णिज्निमित्तैव वृद्धिरस्त्विति वाच्यं, जारशब्देमितां ह्रस्वःर॑ इति ह्रस्वापत्तेः ।जनीजृ॑षिति जृधातोर्णौ मित्त्वात् । लुकि तु सति तस्य परनिमित्तत्वाऽभावेन ,क्विलुगुपधे॑ति क्वौ लुप्तस्य निषेधेन वा स्थानिवत्त्वाऽभावाज्जार इति रूपं सिध्यतीति भावः । एतेन दीर्यते यैस्ते दाराः, जीर्यतेऽनेनेति जार इत्यण्यन्ताभ्यामेव करणे घञस्तु किमनेन वचनेनेति केषांचिदुक्तिः परास्ता ।ॠदोर॑बित्यपवादविषये उत्सर्गस्य घञो दुर्लभत्वात् । स्त्र्यधिकारादूध्र्वं वाऽसरूपविधेरनङ्गीकारादपवादोऽप्यच्करणाधिकरणयो॑रिति ल्युटा बाधादिह दुर्लभ इत्यन्यदेतत् ।", "33021": "<<इङश्च>> - उपेत्येति । गुरुसमीपमेत्येत्यर्थः । अपादान इति । पुरस्तादपवादन्यायेन इङश्चेत्यस्याऽच एवापवादत्वात्स्त्रियां तु क्तिन् स्यादिति तद्बाधनायाऽयमारम्भः ।घञनुक्रमणमजपोर्विषये॑ इति वचनात्स्त्रियां घञ् न स्यादिति स्त्रियाङ्ग्रहणम् । उपाध्यायेति । यां स्वयमद्यापयति तस्यामिदं रुपद्वयम् । पुंयोगे तु ङीषेव । आनुगागमश्च पाक्षिक इत्युक्तम् । करणे क्त इति । वृञ् वरण इत्यस्मादित्यर्थः । नीशार इति ।उपसर्गस्य घञी॑ति दीर्घः । ननुप्रदक्षिणप्रसव्यगामिनां शाराणा॑मिति कथं प्रयोगः ,वायुवर्णे॑ इत्यर्थपरिगणनादिति चेत् । अत्राहुः — अतएव वार्तिकप्रयोगादक्षेष्वपि शृणातेर्घञिति ।", "33022": "<<उपसर्गे रुवः>> - रव इति ।ॠदोर॑बित्यप् ।", "33023": "", "33024": "<<श्रिणीभुवोऽनुपसर्गे>> - राज्ञो नय इति । णीञ् प्रापणे इत्यस्मादचो यत् ।", "33025": "", "33026": "", "33027": "", "33028": "", "33029": "", "33030": "", "33031": "<<यज्ञे समि स्तुवः>> - यज्ञे समि । अधिकरणे ल्युटोऽपवादोऽयं घञ् ।", "33032": "", "33033": "", "33034": "<<छन्दोनाम्नि च>> - छन्दो । शब्दविषयत्वात्पूर्वेणाऽप्राप्ते वचनम् । केचित्तुप्रस्तारपङ्क्ति॑रित्यादिप्रयोगानुरधेनात्र वाविति नानुवर्तयन्ति ।", "33035": "<<उदि ग्रहः>> - उदि ग्रहः । भावादौ घञ् स्यात् ।ग्रहवृदृ॑ इति प्राप्तस्याऽपोऽपवादः ।", "33036": "", "33037": "<<परिन्योर्नीणोर्द्यूताभ्रेषयोः>> - परिन्योः । अक्षादिभिः क्रीडनं द्यूतम् । यथाप्राप्तकरणमभ्रेषः ।", "33038": "<<परावनुपात्यय इणः>> - परावनु । अत्र व्याचख्युः — द्विः परिग्रहणमिह व्यर्थम् । सकृदेव कर्तुं शक्यम् । तथा हि — परौ नियो द्यूते॑,इणोऽनुपात्यये॑,नावभ्रेषे॑ । इह इण इत्यनुवर्तनादिणोऽनुपात्यय इत्यत्र तु परावित्यनुवर्तनाच्चेष्टं सिध्यतीति भावः । ननु पूर्वसूत्रेऽनुपात्ययः पर्यायार्थकत्वेन व्याख्यातः, तथा च तदनुवृत्त्यैव सिद्धे पर्यायग्रहणमिह बाधित्वाऽयमेव घञ् भवतीति ।", "33039": "", "33040": "", "33041": "<<निवासचितिशरीरोपसमाधानेष्वादेश्च कः>> - आकायमिति । आचीयन्तेऽस्मिन्निष्टका इत्याकायम् । अधिकरणे घञ् । अग्निम् = अग्निस्थानविशेषं, चिन्वीत = चयनेन निष्पादयेदिति श्रुत्यर्थः ।", "33042": "<<संघे चानौत्तराधर्ये>> - सङ्घे चानौत्तराधर्ये । उत्तरे चाधरे चोत्तराधरास्तेषां भाव औत्तराधर्यम् । सूकरेति । स्तनपानार्थंमुत्तराधरभावेन सूकराः शेरते तदैतत्प्रत्युदाहरणम् । यदा तु भिक्षुवत्पृथक्पृथगेवावतिष्ठन्ते तदेहापि घञ् ।", "33043": "<<कर्मव्यतिहारे णच् स्त्रियाम्>> - कर्मव्यतिहारे णच् । कर्मव्यतिहारः क्रियाव्यतिहारः । परस्परकरणमिति यावत् । तत्र वर्तमानाद्धातोरित्यर्थः । भावे णजिति । कर्तृवर्चिते कारके न भवत्यनभिधानादित्याहुः ।भावादा॑विति प्राचोक्तं यत्तदुपेक्ष्यम्, आकरविरोधात् ।", "33044": "<<अभिविधौ भाव इनुण्>> - अभिविधौ । अभिविधौ किम् । संरावः । वासरूपेण घञ् क्तश्च न भवति, पुनर्भावग्रहणात् । नच कर्तृभिन्नकारकनिवृत्तये भावग्रहममिति वाच्यं, पूर्वसूत्र इव शक्तिस्वाभाव्यादेवेनुणोऽप्रवृत्तेः । ल्युटा तु समावेश इष्यते — संरवणमिति । तच्च बाहुलकाल्लभ्यत इत्याकरः ।", "33045": "<<आक्रोशेऽवन्योर्ग्रहः>> - आक्रोशे ।ग्रहवृदृ॑ इति — अपि प्राप्तेऽयमारम्भः । अवग्रहः पदस्येति । छेदविशेष इत्यर्थः । निग्रहो — निरोधः ।", "33046": "<<प्रे लिप्सायाम्>> - प्रे लिप्सायाम् । लिप्सायां किम् । देवदत्तस्य प्रग्रहः । प्रकृष्टोऽभिनिवेश इत्यर्थः । पात्रप्रग्राहेणेति । भिक्षापात्रोपादानेन । पात्रं गृहीत्वेति यावत् । नौ वृ । नौ उपपदे वृञो भावादौ घञ् स्यात् । निवरा कन्येति ।ग्रहवृदृ॑ इत्यादिना कर्मण्यप् । ननु स्त्रीत्वविशिष्टे कर्मणि परत्वात्, क्तिना भाव्यम्अजब्भ्यां स्त्रीखलनाः॑ इत्युक्तेरत आह — क्तिन्विषयेऽपीति । एवं च प्रायेण भावार्थ एवघञजबन्ताः पुंसी॑ति द्रष्टव्यम् ।", "33047": "", "33048": "", "33049": "", "33050": "", "33051": "", "33052": "", "33053": "<<रश्मौ च>> - रश्मौ च । रथादियुक्तानामआआनां संयमनार्था रज्जुः — रश्मिः । तस्यामभिधेययायां प्रे उपपदे ग्रहेर्घञ्वा स्याद्भावादौ । इह द्विःकृत्वो ग्रहिरुपात्तः, सकृदेव तु वक्तुं शक्यः । तथाहि -उदि ग्रहः॑,समि मुष्टौ॑ ,आक्रौशेऽवन्योः॑,प्रे लिप्सायाम् ,परौ यज्ञे॑,अव वर्षप्रतिबन्धे विभाषाप्रे वणिजा॑मित्यादिपरौ भुवोऽवज्ञाने॑ इत्यस्यानन्तरम्आङि रुप्लुवोः ॑ इत्यस्तु, तथा तु न कृतमित्येव ।", "33054": "<<वृणोतेराच्छादने>> - वृणोते । [प्रावार इति ।उपर्गस्य घञ्यमनुष्ये बहुल॑मित्युपसर्गस्य दीर्घः] । आच्छादने किम् । प्रवरो गौः । प्रशस्त इत्यर्थः ।", "33055": "<<परौ भुवोऽवज्ञाने>> - परिभावः ।अनादरः परिभवः परीभावस्तिरस्क्रिया॑ इत्यमरः । परत्वाद्धि क्तल्युटौ प्राप्तौ । तथा च पूर्वविप्रतिषेधोऽयं फलितः । एवं च वाऽसरूपन्यायोऽत्र न प्रवर्तते, अनपवादत्वादिति भावः ।", "33056": "<<एरच्>> - वर्षमिति ।वृषभो वर्षणा॑ दिति भाष्यप्रयोगात्तु ल्युडपि । वर्षणम् ।", "33057": "<<ऋदोरप्>> - ऋदोरप् । ॠच्च उच्च तयोः समाहारे सौत्रं पुंस्त्वम् ।ॠदो॑रित्ययं न तकारः, किं तर्हि । दकारः ।निरभ्योः पूल्वः॑ इत्यपवादतया घञ्विधानाज्ज्ञापकाद्दीर्घान्तादप्युदाहरति — लवः । पव इति । घञचोरपवाद इति ।निश्चय॑ इत्यत्राऽचः प्राप्तिरन्यत्र घञ इति विवेकः । हस्तादाने तु प्रपूर्वकाच्चिनोतेर्घञुदाहृतः ।", "33058": "<<ग्रहवृदृनिश्चिगमश्च>> - वशिरण्योरिति । घञि प्राप्ते वचनम् । वशनं वशः । रणन्ति शब्दं कुर्वन्त्यस्मिन्निति रणः = सङ्ग्रामः ।", "33059": "", "33060": "", "33061": "<<व्यधजपोरनुपसर्गे>> - उपजापो मन्त्रभेदः ।शब्दे निनादनिनदध्वनिद्वनरवस्वनाः । स्वान॑ इत्यमरः ।", "33062": "", "33063": "", "33064": "", "33065": "<<क्वणो वीणायां च>> - क्वणो ।निक्वाणो निक्वणः क्वाणः क्वणः क्वणनमित्यपि । वीणायाः क्वणिते प्रादेः प्रक्वाणप्रक्वणादयः॑ इत्यमरः ।", "33066": "<<नित्यं पणः परिमाणे>> - पर्याप्तो भोक्तुमिति । भोक्तुं समर्थ इत्यर्थः ।", "33067": "<<मदोऽनुपसर्गे>> - मदो । अनुपसर्गे सुप्युपपदे नित्यमप् स्याद्भावादौ ।", "33068": "<<प्रमदसम्मदौ हर्षे>> - प्रमद ।प्रसंभ्यां हर्षे॑ इति तु नोक्म्, प्रसंमदः, संप्रमद इति हर्षे माभूदिति ।", "33069": "", "33070": "", "33071": "<<प्रजने सर्तेः>> - प्रजने सर्तेः । प्रजननं प्रजनः । भावे घञ् ।जनिवध्यो॑रिति वृद्धिनिषेधः । प्रशब्दबलादत्र जनेरर्थान्तरत्वम् । प्रतिष्ठते इत्यत्र प्रादुर्भावो यथा । तदेतदाह — पर्थमगर्भग्रहणमिति । काशिकानुरोधेनेदमुक्तम् । प्रथमं द्वितीयं वेत्यनाग्रहः, किन्तु गर्भग्रहणमित्यन्ये ।", "33072": "", "33073": "", "33074": "", "33075": "", "33076": "<<हनश्च वधः>> - हनश्च वधः । अन्तोदात्त इति । सूत्रे वधशब्दोऽन्तोदात्ततयोच्चारित इति भावओः ।", "33077": "", "33078": "", "33079": "<<अगारैकदेशे प्रघणः प्रघाणश्च>> - अगारैक ।प्रघाणप्रघणाऽलिन्दा बहिद्र्वारप्रकोष्ठके॑ इत्यमरः ।", "33080": "", "33081": "", "33082": "", "33083": "", "33084": "", "33085": "", "33086": "<<संघोद्घौ गणप्रशंसयोः>> - सङ्घोद्धौ ।मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ । प्रशस्तवचकान्यमूनि॑ इत्यमरः ।", "33087": "", "33088": "<<ड्वितः क्त्रिः>> - ड्वितः । अयमिति । अतएव पाकेन निर्वृतमिति विगृह्रते न तु पक्वेनेति । यत्तु प्राचोक्तंभावादा॑विति, तन्नेति भावः । क्रेर्मप् । तद्धितेषु व्याख्यातमिदम् । नित्यग्रहणादिति । तत्र हि नित्यमिति योगो विभज्यते तत्सामर्थ्यादर्थविशेषानादरेणैव मब्विषयत्वं निर्णीयते । एकयोगत्वे तु निर्वृत इत्यधिकारान्निर्वृत्तार्थस्याऽविवक्षायां स्वातन्त्र्यं प्रसज्येत, ततश्च मपं विनापि पक्रिरिति प्रयोगः स्यादिति भावः । उप्त्रिममिति । वपेर्यजादित्वात्किति संप्रसारणम् । वापेन निर्वृत्तमित्यर्थः ।", "33089": "", "33090": "<<यजयाचयतविच्छप्रच्छरक्षो नङ्>> - यजयाच । भावेऽकर्तरि कारके चेति वर्तते । अत एवयज्ञेन यज्ञमयजन्त देवाः॑ इत्यत्र इज्यते इति यज्ञ इति व्याचक्षते । [विश्न इति ।च्छ्वोः शूडनुनासिके चे॑ति शः] ।", "33091": "", "33092": "<<उपसर्गे घोः किः>> - उपसर्गे [घोः किः । बाहुलकात्कर्तर्यपीति माधवः । अतएव उप = समीपे स्वधर्ममादधातीत्युपाधिरिति व्याचक्षते] । कित्त्वादातो लोपः । अन्तर्धिरिति ।अन्तः शब्दस्याऽङ्किविधी॑ति वार्तिकादुपसर्गत्वम् । उपाधीयतेऽनेनेति । एतेनउप = समीपे स्वधर्ममादधातीत्युपाधिः । बाहुलकात्कर्तरि कि॑रिति माधवादिग्रन्थो नादर्तव्य इति ध्वनितम् ।विधाता विआसृड्विधि॑रित्यत्रापि कर्तरि माभूत् किः, किंतु विध विधाने इत्यस्मादिगुपधात्किदितीति रूपसिद्धेः ।", "33093": "", "33094": "<<स्त्रियां क्तिन्>> - स्त्रियां क्तिन् । घञोऽपवाद इति । यत्तु प्रक्रियाग्रन्थं व्याचक्षाणा आहुः — ॒भाष्ये त्वधिकः कारोऽधिकार॑ इति घञप्युदाहृत॑ इति, तद्रभसात् । न हि तत्र स्त्रीत्वविशिष्टो भावोऽर्थः, किंतु पुंस्त्वविशिष्ट इति ध्येयम् । अजपौ त्विति । तयोरवकाशः — चयः । लवः । क्तिनोऽकाशः — कृतिः । ह्मतिः । चिनोतिस्तौतिभ्यां तु स्त्रियामुभयप्रसङ्गे परत्वात् क्तिन्नित्यर्थः । [प्रामादिकम् ।स्फायः स्फी निष्ठायाटमिति निष्ठायामेव स्फीभावविधानादिति भावः] । श्रुयजीति । परत्वात्करणाधिकरणयोश्चे॑ति ल्युटि प्राप्ते वचनम् । श्रुतिः -श्रोत्रम् । यजेरिति । यजेः क्तिनिवचिस्वपी॑ति संप्रसारणेव्रश्चभ्रस्जे॑ति षत्वे इष्टिरिति रूपम् । इज्यतेऽनयेति विग्रहःओ । एवमिष्यतेऽनया इष्टिः । स्तूयतेऽनया स्तुतिः । तेन नत्वमिति । कीर्णिरित्यादौरदाभ्या॑मित्यनेन नत्वम् । लूनिरित्यादौ तुल्वादिभ्यः॑ इत्यनेनेति विवेकः । ह्लाद इति ।ह्लादो निष्ठाया॑मित्यत्रेत्यर्थः । चूर्तिरिति ।ति चे॑ति चरफलोरुत्वेर्वोरुपधाया दीर्घः॑ इति दीर्घः । चायतेः । चायृ पूजानिशामनयोः] । क्तिन्नपीति । अस्त्रियामिति प्रतिषेधेन स्त्रियां वासरूपविधेरबाधादिदमुक्तम् ।", "33095": "<<स्थागापापचां भावे>> - अङोऽपवादः इति । पुरस्तादपवादन्यायेन स्थादिभ्यःआतश्चोपसर्गे॑ इति, पचेस्तुषिद्भिदादिभ्यः॑ इति प्राप्तस्याऽङोऽपावदो न तु ण्वुलिञोरिति भावः । ण्वुलिञौ तु परत्वाद्भवत एव ।कां त्वं स्थायिकां , कां त्वं स्थायि॑मिति भाष्यकारप्रयोगात् । प्रस्थतिरिति ।द्यतिस्यतिमास्था॑ मित्यात इत्त्वम् । सङ्गीतिरिति ।घुमास्थे॑त्यादिना ईत्त्वम् ।", "33096": "", "33097": "<<ऊतियूतिजूतिसातिहेतिकीर्तयश्च>> - उदात्त इतीति ।मन्त्रे वृषेषे॑ति सूत्रादनुवर्तत इत्यर्थः । एवं च क्तिन्नन्तस्याद्युदात्तत्वे प्राप्तेऊतियूती॑त्यादयोऽन्तोदात्ता इति पर्यवसन्नोऽर्थः । इत्त्वाऽभाव इति ।द्यतिस्यती॑ति प्राप्तस्याऽभाव इत्यर्थः । हन्तेरिति । नकारस्येत्वं, हिनोतेस्तु गुण इति बोध्यम् । कीर्तिरिति । कीर्तयतेःण्यासश्रन्थे॑ — ति युचि प्राप्ते क्तिननिपात्यते, उदातत्वं च ।तां सुते कीर्तिम् ।", "33098": "<<व्रजयजोर्भावे क्यप्>> - व्रजयजोः । उदात्त इत्येव । पित्करमं तूत्तरत्र तुगर्थम् ।", "33099": "<<संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः>> - गलपार्ोति । तया हि क्रुद्धो ज्ञायत इति भावः । शेरतेऽस्यामिति शय्या । भरणं भृत्या = जीविका ।कुमारभृत्या — गर्भिण्याः परिचर्याऽभिधीयते॑ इति हारावली ।कुमारमृत्याकुशलैरधिष्ठिते॑ इति रघुः । संज्ञायां किम् । मतिः । भृतिः । आसुतिः । तथा च व्यवह्मतं -॒मतिबुद्धिपूजार्थेभ्यश्चटकर्मणि भृतौ॑रजः कृष्यासुती॑त्यादि । एतेनमतिबुद्धी॑त्यादसूत्रप्रयोगादेव मतिभृत्यादीनां साधुत्वमिति दुर्घटाद्युक्तिः प्रत्युक्ता ।", "33100": "<<कृञः श च>> - क्रियेति । यदा भावकर्मणोः शस्तदासार्वधातुके यक् ।रिह् शयग्लिङ्क्षु॑ इति रिङादेशः । अन्यत्र तु यगभावेऽपि शे परतो रिङादेशे कृते इयङि सति रूपं तुल्यम् ।", "33101": "<<इच्छा>> - इच्छा । इषेर्भाव इति । न त्वकर्तरि कारकेऽपीत्यर्थः । अतएव करणेऽर्थे इष्यतेऽनया इष्टिरिति प्रागुक्तम् । यकारनिवृत्तिरिति । हलादिः शेषस्तु नास्ति, षाष्ठाद्वित्वे धातुद्वत्वे वाऽभ्याससंज्ञास्वीकारात् । इह च तदुभयाऽभावादिति भावः । अटाटएति । यदा तु अटतेर्यङन्तादप्रत्ययादित्यकारस्तदाऽतोलोपेयस्य हलः॑ इति यलोपेऽटाटेति रूपं बोध्यम् । द्वित्वे हलादिः शेषे सतिदीर्घोऽकितः इत्यभ्यासस्य दीर्घप्रवृत्तेः । जागर्तेरिति । शे परतःसार्वधातुके यक् ।जाग्रोऽविचिण्ण॑लिति गुणः ।", "33102": "", "33103": "<<गुरोश्च हलः>> - गुरोश्च । धातोरित्यनुत्यवृत्त्या हल इति धातोर्विशेषणात्तदन्तविधौ हलन्तो धातुर्लभ्यते । न चाऽयं गुरुरिति संभवति । अज्विषयो हि गुरुः, अतो मत्वर्थो लक्ष्यते । तदाह — गुरुमत इति । ननु विपरीतमस्तुगुर्वन्ताद्धल॑ इति, तादृशस्यापि धातोर्डुक्रीञित्यादेः सत्त्वादिति चेन्मैवम् ।चेष्टायामनध्वनि॑आशंसायां भूतवच्चे॑ति निर्देशेन विपरीतशङ्काया अप्रवृत्तेः ।", "33104": "<<षिद्भिदादिभ्योऽङ्>> - षिद्भिदा । कथं तर्हिमुखाब्जगन्धलब्धे॑ रिति माघः ।प्रेक्षोपलब्धि॑रित्यमरश्च । षित्त्वादङिलभे॑त्येव ह्रुचितम् । सत्यम् ।अनर्थकास्तु प्रतिवर्णमनुपलब्धे॑ रिति भाष्यप्रयोगाद्बाहुलकाद्वा क्तिन्नपि बोध्यः । विस्तरस्त्विह मनोरमायां बोध्यः । भिदेति । एवमादयोऽदन्ताः समुदाया एव गणे पठन्ते तत्र ये प्रकृतिभागा भिद-छिद इत्यादयस्ते आदिशब्देन सूत्रे निर्दिष्टाः । गणे विशिष्टपाठस्तु लोकप्रसिद्धार्थविशेषस्य कवचिदलाक्षणिककार्यस्य सङ्ग्रहार्थः । भित्तिरन्येति । भिद्यत इति भित्तिः = कुडम् । छिदेति । द्वैधीकरण एवायम् । अन्यत्र तु छित्तिश्छिद्रम् । मृजेति । भृजू शुद्धौ, अस्याऽषित्त्वाद्भिदादौ पाठः ।", "33105": "<<चिन्तिपूजिकथिकुम्बिचर्चश्च>> - चिन्तिपूजि । चकारोऽनुक्तसमुच्चयार्थः । तेन तोलयतेस्तुलेति हरदत्तः । अतएवतुलां यदारोहति दन्तवाससा॑ इति नैषधकृदाह । युचोऽपवादैति ।ण्यासश्रन्थे॑ति वक्ष्यमाणस्येत्यर्थः ।", "33106": "", "33107": "<<ण्यासश्रन्थो युच्>> - आसनेति । आस्यतेऽस्यामिति विग्रहः ।ऋहलोण्र्य॑दिति ण्यत्प्रत्यये त्वास्या । न च स्त्रीप्रत्यये वाऽसरूपविधिर्नेति शङ्क्यम्, अपवादस्य युचः स्त्रीप्करणस्थत्वेऽपि उत्सर्गस्य ण्यतस्तदभावात् । घट्टिवन्दि । विदिर्लाभार्थो गृह्रते । ज्ञानार्थस्य तु संवित्तिः । इषेरिति । अनिच्छार्थस्य युच् । इच्छार्थस्य् त्विषेरिच्छेत्येव ।", "33108": "<<रोगाख्यायां ण्वुल् बहुलम्>> - रोगाख्या । धातोर्बहुलं ण्वुल् स्यात्प्रत्ययान्तं चेद्रोगस्यसंज्ञा । क्तिन्नादीनामपवादः । प्रच्छर्दिकेति । छर्द वमने । प्रवाहिकेति । प्रवाहयति = मुहुर्मुहुः प्रवर्तयतीति प्रवाहिका = ग्रहणी । विचर्चिकेति । चर्च अध्ययने । प्रत्ययोपसर्गाभ्यां रोगप्रतीतिः ।पाम पामा विचर्चिका॑ इत्यमरः । शिरोर्तिरिति । शिरःपीडा । अर्द हिंसायात् ।तितुत्रे॑ति नेट् । धात्वर्थनिर्देश इति । क्रियानिर्देश इत्यर्थः । आसिका । शायिकेति । आसनं, शयनमित्यर्थः । इक्श्तिपौ । धातोर्निर्देशः-अनुकरणम् । बहुलमित्यनुवृत्तेः क्वचिन्न ।गुप्तिज्किद्भ्यः सन्भुवो वुग्लुङ्लिटोः॑ । पचतिरिति ।उपसर्गात्सुनोति सुवतिस्यति॑ध्यायतेः संप्रसारमं चे॑त्यादिनिर्देशादकर्तृवाचिन्यपि सार्वधातुके परे शबादयः । एवं भावकर्मवाचिन्यपि सार्वधातुके क्वचिद्यक्,विभषा लीयतेः॑ इति यथा । तत्र हिलीलीङोर्यका निर्देशो, न तु श्यने॑त्युक्तम् । यत्तु प्राचाश्तिपः शित्करणसामर्थ्याच्छबादय॑ इत्युक्तम् । तन्न । पिबतिर्ग्लायतिरित्यादौ पिबाद्यादेशप्रवृत्त्या , आत्वनिवृत्त्या च शित्त्वस्य चरितार्थत्वात् । वर्णादिति । वर्णानुकरणादित्यर्थः । न तु वर्णादुच्चार्यमाणादिति । तथा हि सत्यकार इत्यादावेव स्यान् तु ककार इत्यादौ । अत्र हि सङ्घातस्योच्चारणात् । अनुकार्यं त्विह वर्णमात्रम्, अकारत्सङ्घातादपि भवति,उच्चैस्तरां वा वषट्कारः॑ इति सूत्रनिर्देशात् ।सर्वे चकाराः प्रत्याख्यायन्ते॑ भाष्यप्रयोगाद्बहुलवचनाच्चेति । इह कारप्रत्ययस्य धातोरविहितत्वेऽपि धात्वदिकारस्थत्वात्कृत्संज्ञा । तेन कृदन्तत्वात्प्राप्तिपदिकत्वम् । प्रयोजनाऽभावन्न ककारस्येत्संज्ञा । आर्धधातुकत्वाऽभावादिडागमो न ।अस्य च्वौ॑ इत्यादौ तु कारप्रत्ययाऽभावो बाहुलकादेव । रादिफः । वाऽसरूपविधिना कारोऽपि । तेनरकारादीनि नामानि शृण्वतो मम पार्वति॑ इत्यादि प्रयोगः साधुरेव । अकारलोप इति । अतद्धतपरत्वादभत्वाच्चयस्ये॑ति लोपस्याऽप्राप्तिरिति भावः । कृदन्तत्वात्प्राप्तपदिकत्वमिह पूर्ववद्बोध्यम् ।तसौ मत्वर्थे॑ इत्यत्र बाहुलकाच्छो न ।शैषकान्मतुबर्थीया॑दित्यत्र तु बाहुलकादेव मतुबर्थशब्दाच्छः । अन्ये तु नैतत्कृदन्तं, मत्वर्थे भव इति विगृह्र गहादित्वाच्छप्रत्यये तद्धितान्तमेवेत्याहुः । इणजा । धात्वर्थनिर्देशे प्राप्तस्य ण्वुलऽपवादोऽयम् ।एवमग्नेऽपि । आजिरिति । बाहुलकादजेर्वीभावो न ।", "33109": "<<संज्ञायाम्>> - संज्ञायाम् । अधिकरणे ण्वुलर्थोऽयमारम्भः । उद्दालकः = श्लेष्मातकः, तस्य पुष्पाणि भज्यन्ते यस्यां क्रियायां सा तथा भञ्जनं भञ्जिका । भावे ण्वुल् । उद्दालकपुष्पाणां भञ्जिकेत्यन्ये । सूत्रे आख्यानशब्दस्याऽल्पाच्तरत्वेन पूर्वनिपाते कृते व्याख्यानस्य प्रश्नपूर्वकतयाऽर्थप्राप्तकममनुसृत्य व्याचष्टे — परिप्रश्ने आख्याने चेति ।", "33110": "", "33111": "<<पर्यायार्हणोत्पत्तिषु ण्वुच्>> - परिपाटीति । पट गतौ परिपूर्वः ।इणजादिभ्यः॑ इतीण् ।कृदिकारा॑दिति ङीष् ।", "33112": "<<आक्रोशे नञ्यनिः>> - आक्रोशे । आक्रोशःऋ-शापः । नपुंसके भावे क्तः । ननुतयोरेव कृत्यक्तखलर्थाः॑ इति लिङ्गत्रयसाधारण्येन भावकर्मणोः कृत्यादिविधानात्तेनैव नपुंसके भावे क्तः सिध्यति, किमनेन पुनर्विधानेनेति चेत् । अत्राहुः — भूते॑ इत्यधिकृत्यनिष्ठा॑ इति सूत्रेण विहितस्य क्तस्य भावोऽर्थःतयोरेवे॑ति सूत्रेण विहितः, अनेन तु कालसामान्ये नपुंसके भावे क्तो विधीयते । एवं च स्वविषये परत्वाद्धञजपां बाधक इति परिशेषादेवैषां पुंविषयत्वं सिध्यति । किंच इहभावे चाऽकर्मकेभ्य॑ इत्यस्याऽसन्निधानात्सकर्मकेभ्योऽप्ययं भवति, घञादिवत् ।गतं तिरिश्चीनमनूरुसारथेः॑ इत्यादिदर्शनात् । तथा च नास्त्यत्र शङ्केति । नन्वेवं कृद्योगे कर्मणि द्वितीया स्यात्, कृद्योगलक्षणषष्ठआन लोके॑ति निषेधात् । एवं चघटं कृतं॑ वृक्षं भिन्न॑मित्यादि प्रसज्येत ।अनूरुसारथे॑रित्यत्र तु कर्तरि तृतीया नापद्यते, कारकदृष्टआ निषेधेऽपि शेषत्विवक्षया षष्ठीति समाधानसंभवादिति चेन्मैवम् । नपुंसके भावे क्तस्य योगे षष्ठआ उपसङ्ख्यातत्वात्कर्मण द्वितीयया अभावात् । शेषत्बविवक्षामाश्रित्य वार्तिकमिदं प्रत्याख्यातमाकरे इति चेत्तर्हि तत्प्रामाण्यात्प्रायेण शेषत्वविवक्ष#ऐवेत्यस्तु वार्तिकमिदं प्रत्याख्यातमाकरे इति चेत्तर्ह तत्प्रामाण्यात्प्रायेण शेषत्वविवक्षैवेत्यस्तु । तथा चघटं कृत॑मित्यादि तु न प्रसज्यत एव । क्वचित्तु द्वितीयाऽपि दृश्यतेभ्रान्तं देशमनेकदुर्गविषम॑मि[ती]ति दिक् ।", "33113": "", "33114": "", "33115": "", "33116": "<<कर्मणि च येन संस्पर्शात् कर्तुः शरीरसुखम्>> - कर्मणि च । कर्तुरिति कर्मणि षष्ठी,उभयप्राप्तौ कर्मणि॑ इति नियमात् । येनेति तृतीया । तदाह — येन स्पश्यमानस्य कर्तुरिति । ल्युट् स्यादिति । नपुंसके भावे इति बोध्यम् । अत एवाह — पूर्वेणेति ।ल्युट् चे॑त्यनेनेत्यर्थः । नेहेति । स्नानकर्तृत्वेऽपि स्नापने न गुरुः कर्ता, किंतु शिष्य इत्यर्थः । शरीरग्रहणं किम् । पुत्रस्य परिष्वजनं सुखम् । मानसी प्रीतिरत्र ।", "33117": "<<करणाधिकरणयोश्च>> - करणाऽधिकरणयोः । येन नाऽप्राप्तिन्यायेन घञोऽपवादोऽयमजपौस्त्रीप्रत्ययांश्च परत्वाद्बाधते । उक्तं हि — अजब्भ्यां स्त्रीखलनाः, स्त्रियाः खलनौ विप्रतिषेधेने॑ति । इध्मेति । इध्मानि प्रवृस्च्यन्ते येन, गौर्दुह्रते यस्यामिति विग्रहः ।", "33118": "", "33119": "", "33120": "<<अवे तॄस्त्रोर्घञ्>> - अवे । अवे उपपदे तृस्त-डभ्यां करणाधिकारणयोः पुंसि संज्ञायां घञ्स्यात् । घस्यांपवादः ।", "33121": "", "33122": "<<अध्यायन्यायोद्यावसंहारा(धारावया)श्च>> - अवहारेत्यादि । वृत्तिकारस्त्वाधारावायशब्दौ सूत्रे प्रक्षिप्य चकारेणाऽवहारशब्दं संजग्राह, तदसंबद्धमिति स्पष्टमेव ।", "33123": "<<उदङ्कोऽनुदके>> - उदङ्को ।हलश्चे॑त्येव सिद्दे उदकप्रतिषेदार्थमिदम् । उदकोदञ्चन इति ।पुंसि संज्ञाया॑मिति घे प्राप्ते घञ्विहितः । उदके तु घञि प्रतिषिद्धे घ एव स्यान्न तु ल्युडिति चेन्मैवम् । प्रतिषेधसामर्थ्याद्धस्याऽप्यप्रवृत्तेः । नहि इह घे घञि वा रूपे विशेषोऽस्ति । नच स्वरे विशेषः, घे सति कृदुत्तरपदप्रकृतिस्वरेणाऽन्तोदात्तता, घञ्यपि थाथादिस्वरेण तथैवेति ।", "33124": "<<जालमानायः>> - जालमा । जल धातने [धान्ये] ज्वलितिकसन्तेभ्यो णः॑ इति णप्रत्यये जालमाशब्दः सिद्धः । तेन जालशब्दोऽत्र निपात्यतैति न भ्रमितव्यम् ।", "33125": "<<खनो घ च>> - खनो । घित्ककरणमिति ।आखन॑इत्यादौचजो॑रिति कुत्वस्य प्रसक्त्यभावादिति भावः । भगः । पदमिति । ननु पदमित्यत्र घस्य किं प्रयोजनमिति चेदत्राहुः — करणाधिकरणयोः॑पुंसि संज्ञाया॑मिति यदि घः स्यात्तदापद॑मिति नपुंसकं न स्यात्, अनेन चेद्धो भवति तदा त्विष्टसिद्धिरिति । एते इति । आखनादयः षडित्यर्थः ।", "33126": "<<ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्>> - ईषद्दुःसुषु । इह सामान्योक्तावपि योग्यताबलाद्विशेषणस्य विषयविभागो लभ्यते । दुरिति कृच्छ्रार्थे,इतरौ त्वकृच्छ्रार्थे ।तदेतद्दर्शयति — कृच्छ्रे दुष्कर इत्यादिना । भवतेति ।न लोके॑ति षष्ठीनिषेधात्कर्तरि तृतीया । कच्छ्रेत्यादि किम् । ईषत्कार्यम् । स्वल्पं कार्यमित्यर्थः । खलिति । लकारः स्वरार्थः, खित्करणं तूत्तरत्र मुमर्थम् । निमिमीति ।मीनातिमिनोतिदीङां ल्यपि च ॑विभाषा लीयतेः इति प्राप्तं निषिध्यते । निमय इत्यादि ।एरच् । उपसर्गात्खल्घञोः ।लभेश्चे॑त्यनेनैव सिद्धे नियमार्थमिदमित्याह — उपसर्गादेवति ।", "33127": "<<कर्तृकर्मणोश्च भूकृञोः>> - कर्तृकर्मणोः । चकारः संनियोगार्थः । यदा कर्तृकर्मणोरीषदादीनां च युगपत्प्रयोगस्तदैव प्रत्ययो यथा स्यात् । न च कर्तृकर्मणोः प्रत्ययार्थत्वमेवास्तु न तूपपदत्वमिति वाच्यम्, ईषदादीनामेवोपपदत्वे तु खलः खित्त्वस्य वैयथ्र्यापत्तेः । मुमर्थं हि तत् । मुम् चानव्यस्य विधीयते । तस्मात्कर्तृकर्मणोरिति उपपदत्वमेव । तदेतदाह — ईषदादिषु चेति । कर्तृकर्मणी द्वे, भूकृञौ च द्वौ, तयोर्यथासङ्ख्यं प्राप्तम्, स्वीकृतं च काशिकाकृता, कन्यासकारहरदत्तादिभिश्च, प्राचापि तथैवोक्तं, तद्वयाख्यातृभिश्चानुमोदितं, तत्सर्वं नादर्तव्यम्,यथासङ्ख्यसूत्रस्थभाष्यविरोधादिति ध्वनयन्नाह — यथासङ्ख्यं नेष्यत इति । ननूपपदयोर्मध्ये पूर्वापरीभावव्यवस्था न सिध्यति, भूकृञोरवयवहितत्वं क्रतृकर्मणोरेवेष्यते न त्वीषदादीनाम् । एवं च कथमत्रेष्टव्यवस्था सिध्यतीति चेदत्राहुः — बहुलग्रहणानुवृत्त्या दुराढम्भव इति भाष्योदाहरणाच्चेष्टव्यवस्था सिध्यतीति । तदेतदभिप्रेत्याह - कर्तृकर्मणि चेति । भवतेः कर्तर्युदाहरति - अनाढएनाढएनेति । कर्मणि त्वनाढ आढओ भूयते इति विग्रहः । भाव्यते इति तदर्थः । एवमग्रेऽपि विग्रहद्वयमुन्नेयम् । अनाढएनाढएन स्वयमेव क्रियते, अनाढ आढ्यः क्रयत इति ।", "33128": "<<आतो युच्>> - इत्यादीति । आदिशब्देन दुर्दर्शनः । दुर्धर्षणः । दुर्मर्षणः ।", "33129": "", "33130": "", "33131": "<<वर्तमानसामीप्ये वर्तमानवद्वा>> - वर्तमान । स्वर्थे ष्यञिति । अस्मादेव सामीप्य इति निर्देशात्ष्यञि सिद्धेचतुर्वर्णाअदिभ्यः॑ इति वार्तिकं प्रपञ्चार्थमित्याहुः । न चाऽत्रपूरणगुणे॑ति निषेधात्षष्ठीसमासो नप्राप्नोतीति वाच्यम्, अनेनैव निर्देशेन तन्निषेधस्याऽनित्यत्वाऽभ्युपगमात् ।तेनबुद्धमान्द्य॑मित्यादि सिद्धम् । येनोपाधिनेति । धातुविशेषाद्युपाधिना । तथाहि पूडजोः शानन्विहितः, स ताभ्यामेव धातुभ्यां भवति,न तु धात्वन्तरात् । तच्छीलादिविशिष्टे कर्तरिअलङ्कृ॑ञित्यारभ्यभ्राजभासे॑ति यावत् ये इष्णुजादय उक्तास्तेऽपि कृञादिभ्यो धातुभ्यस्तस्मिन्नुपाधौ सत्यैव भवन्ति ।कदा आगतोऽसी॑ति भूतकालेन प्रश्नवाक्यम्,आगच्छामी॑त्युदाहरणे भूतकालाभिव्यक्तयेऽयमिति प्रयोगस्त्विदानीमेवागममिति वर्तमानसमीपभूतकालद्योतनाय । तेन ह्रागमनाऽविनाभूतं यद्रूपं परिकरबन्धादियुक्तं तत्प्रतिनिर्दिश्यते । न चकदे॑ति प्रश्ने उत्तरवाक्ययोः कालानुपादानादसङ्गतिः शङ्क्या, उत्तरत्राऽयमेषशब्दाभ्यामिदानीमिति कालावगमात् । सामीप्ये किम् । कदा आगतो भवान् । अस्मान्मासात्पूर्वस्मिन्मासे आगच्छम् । एतच्च सूत्रमाकरे प्रत्याख्यातम् । गङ्गासमीपे गङ्गात्वारोपवद्वर्तमानसमीपे वर्तमानत्वारोपसंभवात् ।", "33132": "<<आशंसायां भूतवच्च>> - आशंसायाम् । आशंसनमाशंसा = अप्राप्तस्य प्राप्तुमिच्छा । आशंसायां वर्तमानत्वेऽपि तद्विषयस्य वर्षादेर्भविष्यत्कालसंबन्धाद्भविष्यतीत्युक्तम् । आशंसायां किम् । गमिष्यति ।", "33133": "<<क्षिप्रवचने लृट्>> - क्षिप्रवचने । वचनग्रहणं स्वरूपग्रहमनिरासार्थम् । तदाह — क्षिप्रपर्याय इति । पूर्वविषय इति.आशंसायामित्यर्थः । तेन पूर्वलकारापवादोऽयम् ।", "33134": "<<आशंसावचने लिङ्>> - आशंसावचने । भूतवद्वर्तमानवत्प्रत्ययोरपवादः । न भूतवदिति । न वर्तमानवदित्यपि बोध्यम् । आशंसेऽधीयीयेति । एवं प्रार्थये अधीयीय,इच्छामो वयवमधीयीमहीत्यादि ज्ञेयम् । क्षिप्रमिति । क्षिप्रयोगेऽपि परत्वाल्लिङिति भावः ।", "33135": "<<नानद्यतनवत् क्रियाप्रबन्धसामीप्ययोः>> - नानद्यतन । भूतानद्यतने लङ्विहितो, भविष्यत्यनद्यतने तु लुट्, तौ चानयोरर्थयोर्निषिध्येते । तदाह — लङ्लुटौ नेति । एवं च भूते लुङ्, भविष्यति तु लृडित्याशयेनोदाहरति — अन्नमदात्, दास्यतीत्यादि । अग्नीनिति । आहवनीयादीन् ।", "33136": "<<भविष्यति मर्यादावचनेऽवरस्मिन्>> - भविष्यति मर्यादा । अक्रियाप्रबन्धार्थमसामीप्यार्थं चेदं वचनम् ।नाऽनद्यतनव॑दित्यनुवर्तते इत्याह - अनद्यतनवन्नेति । लुडत्र नेत्यर्थः । इह सूत्रे देशकृत मर्यादा, उत्तरत्र कालकृता । तत्र विशेषं वक्ष्यति — तस्य यदवरमिति । पाटलिपुत्रावधिकमार्गस्य यदवरं कौशाम्ब्याः सकाशादित्यर्थः । कौशाम्ब्याः पूर्वमिति यावत् । भविष्यति किम् । योऽध्वा अतिक्रान्त आपाटलिपुत्रात्तस्य यदवरं कौशाम्ब्यास्तत्र सक्तूनपिबाम । मर्यादावचने इति किम । योऽध्वा गन्तव्यो निरवधिकस्तस्य यदवरं कौशाम्ब्यास्तत्र सक्तून्पास्यामः । अवरस्मिन्निति किम् । योऽध्वा गन्तव्य आपाटलिपुत्रात्तस्य यत्परं कौशाम्ब्यास्तत्र सक्तून्पाता स्मः ।", "33137": "<<कालविभागे चानहोरात्राणाम्>> - कालविभागः = कालविशेषः । अनहोरात्राणामिति संबन्धषष्ठी । पूर्वसूत्रमिति । तदयमर्थः — मर्यादोक्तौ कालविशेषाद्यदवरं तस्मिन्प्रविभागे भविष्यत्यनद्यतनवन्न, स चेत्कालविभागोऽहोरात्रसंबन्धी न चेदित्यर्थः । इह कालविभागे सत्यवरस्मिन्ननद्यतनवन्नेत्युक्ते कस्मादित्यपेक्षायामर्थात्कालविशेषादिति लभ्यत इत्येके । केचित्तु कालविभाग इति पञ्चम्यर्थे सप्तमीत्याहुः । उत्तरार्थ इति ।परस्मिन्विघाषे॑ति सूत्रे कालमर्यादाया एवानुवृत्तिर्यथा स्यात् । भविष्यतीति किम् । यः संवत्सरोऽतीतस्तस्य यदवरं मासात्तत्र पयोऽपिबाम । मर्यादायामिति किम् । यो निरवधिः समयस्तस्य यदवरं मासात्तत्र पयः पातास्मः । पञ्चदशरात्र इति । नन्वत्रसङ्ख्यापूर्वं रात्र॑मिति क्लीब्तवेन भाव्यम् । न च पञ्चदश रात्रयो यस्मिन्पक्षे इति बहुव्रीह्राश्रयणात्पुंल्लिङ्गःसिद्ध इति वाच्यम्,अहः सर्वैकदेशेट त्यच्प्रत्ययस्याऽभावप्रसङ्गादिति चेत् । सत्यम् । अतएव हि भाष्यप्रयोगात्क्लीबत्वं नेत्याहुः ।", "33138": "<<परस्मिन् विभाषा>> - परस्मिन् ।भविष्यत्यनद्यतनवतन्ने॑ति वकल्पेन निषिध्यते । वज्र्यमिति । णिजन्तात्अचो य॑दिति कर्मणि यत् । वर्जमिति । पाठे तुद्वितीयायां चे॑ति णमुल् ।अनहोरात्रामित्येव । योऽयं वत्सर आगामी तस्य यत्परं पञ्चदशरात्रात्तत्र पयः पातास्म [इत्यादि] । लिङ्निमित्त इति । अतिपत्तिः — अनिष्पत्तिः ।", "33139": "<<लिङ्निमित्ते लृङ् क्रियाऽतिपत्तौ>> - हेतुहेतुद्भावादीति । अत्र केचित् — आदिशब्देनाशंसावचनं गृह्रत॑ इति व्याख्याय आशंसावचने लिङो यन्निमित्तं तत्रापि क्रियातिपत्तौ भविष्यति लृङ्, गुरुश्चेदायास्यत्, आशंसे,- अहमध्येष्ये॑ इत्याद्युदाहरन्ति । अन्ये तुभविष्यति मर्यादे॑त्यादिना भविष्यतीत्युपक्रम्य यो यो लिङ्ग विहितस्तन्निमित्त एव क्रियातिपत्तौ लृह् भवति, नान्यत्रेत्याहुः॥ लिङ्निमित्तमिति ।हेतुहेतुमतोर्लिङ् ,इच्छार्थेष #उ लिङ्लोटौ॑ इत्यादिलकारार्थप्रक्रियायां स्फुटीभविष्यति । अनिष्पत्ताविति ।सुवृष्टिश्चेदभविष्यत्तदा सुभिक्षमभविष्य॑दिति तत्रैवोदाहरिष्यति ।", "33140": "<<भूते च>> - भूते च । लिङ्निमित्ते लृङ् स्याद्भूते भविष्यति च क्रियापत्तौ । अद्यतनाऽनद्यतनसाधारमं भूतसामान्यमिह ज्ञेयम् । अस्योदाहरणानि -॒उताप्योः समर्थयोर्लिङ् इत्यारभ्यसमानकर्तृकेषु तुमु॑न्निति विहाय सप्तसूत्र्यां बोध्यानि, ततः प्राचीनेषुवोताप्यो॑रित्यनेन विकल्पोक्तेः ।", "33141": "<<वोताप्योः>> - लृङ् वेति । लिङ्निमित्ते भूत एवायं विकल्पो, भविष्यति तु न्तियमेव लृङ् ।", "33142": "<<गर्हायां लडपिजात्वोः>> - गर्हायाम् । अत्रवोताप्यो॑रितिन संबध्यते । वर्तमाने लडुक्तः तु न प्राप्नोतीति विधिरयम् । कालत्रय इति । कालविशेषानुपादानादिति भावः । परत्वादिति । निरवकाशत्वादित्यपि बोद्ध्यम् । अपि जायामिति । त्यक्ष्यसि अत्याक्षीरित्यादिविषयेऽपियो जायामपि त्यजति जातु गणिकामाधत्ते॑ इति लडेव कालत्रयलकारापवादतया प्रयोक्तव्यः । लिङ्निमित्ताऽभावादिह क्रियातिपत्तौ लृङ्न भवति । कालत्रये लकारा इति । परोक्षानद्यतनभूते लिट् — कथं धर्मं तत्यक्थ । भूतानद्यतने लह् — कथं धर्ममत्यजः । भूतसामान्ये लुङ् — अत्याक्षीः । भविष्यत्यनद्यने लुट् — त्यक्तासि । भविष्यत्सामान्ये लृट् — कथं धर्मं तय्क्ष्यसीत्यादि । अत्रेति । क्रियातिपत्ताविति ज्ञेयम् ।", "33143": "", "33144": "<<किंवृत्ते लिङ्लृटौ>> - किंवृत्ते । लिङ्लृटौ कालत्रये स्तः । नानुवर्तत इति । एवं चाऽस्मिन्विषये नित्यं भूते वेत्यर्थः ।", "33145": "<<अनवकॢप्त्यमर्षयोरकिंवृत्ते अपि>> - अनवकॢप्त्यमर्षयोः । लिङ्लृटावनुवर्तेते, तौ च कालत्रये भवतस्तेन सर्वलकाराणामपवादौ । किंवृत्तस्यानधिकारादेवाऽविशेषादुभयोर्भविष्यतीत्यकिंवृत्तेऽपीति न कर्तव्यम् । पूर्वनिपाताऽर्हस्याऽल्पाऽचः परनिपातो यथासङ्ख्यनिवृत्त्यर्थः । लृङ् प्राग्वदिति । भूते वा, भविष्यति नित्यमित्यर्थः । नाऽहं भावयामि चैत्रो हरिम निन्दिष्यदित्याद्युदाहर्तव्यम् ।", "33146": "<<किंकिलास्त्यर्थेषु लृट्>> - किंकिलास्त्यर्थेषु । लिङ्लृटोः प्राप्तयोरिह लृङ्ग्रहणाल्लिङ् निवर्तत इत्याशयेनाह — लिङोऽपवाद इति । अस्ति भवतीति । त्वत्कर्तृकं शूद्रागमनमस्तीत्यादिरर्थः । लृङ् नेति । लिङो निवृत्त्तवेन तन्निमित्तत्वाऽभावात् ।", "33147": "<<जातुयदोर्लिङ्>> - जातुयदोर्लिङ् । अनवकॢप्त्यमर्षयोरिति वर्तते । तथा च॒अनवकॢप्त्यमर्षयो॑रिति लिङ्लृटोः प्राप्तयोर्वचनमिदं लृरटो बाधनार्थम् । तदाह — लृटोऽपवाद इति । अयं कालत्रये । लृङ् प्राग्वदिति । क्रियाऽतिपत्तौ भूते वा, भविष्यति नित्यमित्यर्थः ।जातु भवान् हरिमनिन्दिष्य॑दित्याद्युहार्तव्यम् । अगर्हार्थमिदम् । गर्हायां तु जातुयोगे लडुक्तः ।", "33148": "<<यच्चयत्रयोः>> - यच्चयत्रयोः ।अनवक्लप्त्यमर्षयो॑रिति वर्तते ।यथासङ्ख्यमिह नेष्यते । अयमपि लिङ्लृटोरपवादः । योगविभागस्तु उत्तरसूत्रद्वये यच्चयत्रयोरेवाऽनुवृत्तिर्यथा स्यादित्येतदर्थः । क्रियातिपत्तौ लृङ् प्राग्वत् । यच्च यत्र वा त्वमेवमकरिष्योन श्रद्दधे न मर्षयामीत्यादि ।", "33149": "<<गर्हायां च>> - गर्हायां च । कालत्रयेऽयं भवतीति सर्वलकारापवादः । लिङेव स्यादिति.गर्हायांविभाषा कथमी॑ति लट् प्राप्तस्तत्रैवकिंवृत्ते॑ इति लृट् प्राप्तस्तयोरपवादो यच्चत्रयोर्योगे विहितोऽयं लिङिति भावः । लृङ् प्राग्वत् ।यच्च यत्र वा त्वं शूद्रमयाजयिष्यस्तदन्याय्य॑मित्यादि ।", "33150": "<<चित्रीकरणे च>> - चित्रीकरणे च । अयमपि कालत्रये । लृङ् प्राग्वत् । यच्च यत्र वा त्वं शूद्रमयाजयिष्यः, आश्चर्यमेतत्!! ।", "33151": "<<शेषे लृडयदौ>> - शेषे । सर्वलकारापवादः । सोऽधीयीतेति । यदायद्योरुपसङ्ख्यानात्जातुयदो॑रिति लिङ् । लिङ्निमित्ताऽभावादिह लृङ् न ।", "33152": "<<उताप्योः समर्थयोर्लिङ्>> - उताप्योः । धातोर्लिङ् स्यात्कालत्रये । भूतेऽपि नित्य इति । वाग्रहमस्य निवृत्तत्वाद्भविष्यतीव भूतेऽपि नित्यं लृङ् । उताऽहनिष्यद्दस्युं राजा । नाऽहन्, न हनिष्यतीति गम्यते ।", "33153": "<<कामप्रवेदनेऽकच्चिति>> - कामप्रवेदने । लिङ् स्यादिति । कालत्रये ।सर्वलकारापवादः । कच्चिज्जीवतीति ।कामो मे॑ इत्यनुषञ्जनीयम् ।वर्तमानसामीप्ये॑ इति लट् ।", "33154": "", "33155": "<<विभाषा धातौ सम्भावनवचनेऽयदि>> - विभाषा धातौ । संभावनमुच्यते येन तत्संभावनवचनं, तस्मिन्धातौ । संभावनार्थकधातावित्यर्थः । भुञ्जीथास्त्वमिति । अत्र पूर्वेण नित्यो लिङ् । धातौ किम् ।संभावनवचने स्वरूपग्रहणं माभूत् । कृते तु संभावनवचने तद्वाचकधातोरप्रयोगादिह विभाषा न भवति । भुञ्जीत भवान् । पूर्वेणाऽत्र नित्यो लिङ् ।", "33156": "<<हेतुहेतुमतोर्लिङ्>> - हेतुहेतु । विभाषेत्स्याऽनुवर्तनादाह — वा स्यादिति । नमेच्चेदिति । कृष्णनतिः सुखप्राप्तौ हेतुः । *भविष्यत्येवेष्यते । भविष्यत्येवेति । लिङित्यनुवर्तमाने पुनर्लिङ्ग्रहणं कालविशेषप्रतिपत्त्यर्थमिति भावः । हन्तीत्यादि । ननुलक्षणहेत्वोः क्रियायाः॑ इति हन्तेः शतृप्रत्ययः स्यात्, हननस्य पलायने हेतुत्वात् । मैवम् ।देवत्रातो गलो ग्राह इति योगे च सद्विधिः । मिथस्ते न विभाष्यन्ते गवाक्षः संशितव्रतः॑ इतिशाच्छोरन्यतरस्यामिति सूत्रे भाष्ये व्यवस्थापितत्वात् । व्याख्यातं च कैयटेन तत्रैव सूत्रे — देवत्रात् इति संज्ञा । तत्रनुदविदोन्दत्राघ्राह्यीभ्योऽन्यतरस्या॑मिति न णत्वं भवति — देवत्राण इति । किं तु देवत्रात इत्येव ।ग्रो यङि॑,अचि विभाषा॑ इति प्राण्यह्गे नित्यं लत्वम् । गलः । विषवाचकेगर॑ इत्यत्र न भवति ।विभाषा ग्रहः॑ इति णप्रत्ययो जलचरे भवति — ग्राहः । ज्योतिषि न, — ग्रहः ।लक्षणहेत्वो॑रिति सूत्रेनन्वोर्विभाषे॑त्यतो विबाषेत्यनुवर्त्त्य व्यवस्थितविभाषाश्रयणादितिशब्दयोगे सद्विधिः = शतृशानचौ न भवतः । हन्तीति पलायते । वातायने — गवाक्षः॑ । अन्यत्र त्ववङ्न भवति — गोऽक्षः । संशितव्रत इति बहुव्रीहिः । अत्रशाच्छोरन्यतरस्या॑मिति संशात इतीत्वविकल्पो न भवति । अन्यत्र तु शातः । शितः । ते = पूर्वोक्तनत्वादिविधयो, मिथः =परस्परम् एकविषये, न विकल्प्यन्ते — तत्तद्विधायकसूत्रे व्यवस्थितविभाषाश्रयणादिति भावः । क्रियातिपत्तौ तु भूते भविष्यति च नित्यं लृङ् । यद्यवर्षिष्यत् सस्यमुपत्स्यम् ।", "33157": "<<इच्छार्थेषु लिङ्लोटौ>> - इच्छार्थेषु लिङ्लोटौ । एषूपपदेषु धातोरेतौ स्तः । सर्वलकाराणामपवादः ।लिङ् चे॑त्यनेन रसमानकर्तृकेषु लिङो विधानादिह लिङ्लोटटावसमानकर्तृकेषु भवत इति बोध्यम् । * कामप्रवेदन इति वक्तव्यम् । इच्छन् करोतीति । अत्राऽनभिधानात्समानकर्तृकेषु॑ इति तुमुन् न । ननुकामप्रवेदनेऽकच्चिती॑त्यनेनैव लिङः सिद्धत्वादिह लिड्ग्रहणं मास्तु, लोडेव विधीयतामिति चेन्न, लोटा लिङो बाधा माभूदिति लिङ्ग्रहणस्याऽत्रावश्यकत्वात् । न चैवम्इच्छार्थेषु लोट् चे॑त्येव सूत्र्यतामिति वाच्यम् । चकारेण लिङोऽनुकर्षे तत्संबद्धविभाषाग्रहणस्याऽनुकर्षणप्रसक्त्या लकारान्तमपि स्यादिति । न चैवमपिकामप्रवेदने॑ इत्युपसङ्ख्यानादनेनैव सिद्धेकामप्रवेदनेऽकच्चिती॑ति सूत्रं मास्त्विति वाच्यम्, यत्राऽर्थप्रकरणादिना कामप्रवेदनं गम्यते इच्छार्थकमुपपदं नास्ति तदर्थं तदारम्भात् ।", "33158": "<<समानकर्तृकेषु तुमुन्>> - समानकर्तृकेषु । अक्रियार्थेति ।भोक्तुमिच्छती॑त्यत्र भोजनविषयिणीच्छेति प्रतीयते न भोजनार्थेच्छेति । अतः पूर्वेणाऽप्राप्तिरिति भावः । सूत्रस्थसमानशब्द एकतावचन इत्याह — एककर्तृकेष्विति । एकेति किम् । पुत्रस्य पठनमिच्छति । पुत्रस्येति कर्तरि षष्ठी । पुत्रकर्तृकं पठनमित्यर्थः । इह सूत्रेसमानकर्तृके॑ति पदाभाऽवेपुत्रस्य पठितुमिच्छती॑ति प्रयोगः स्यात् । देवदत्तं भुञ्जानमिच्छतीति काशिका । प्रयोगाऽभावेऽपि इच्छन् कर्तुं गच्छतीत्यादौ तुतुमुन्ण्वुलौ॑ इति सूत्रेण स्यादिति । तच्चिन्त्यम् । करोतीत्यर्थ तुमुनः प्राप्तेरेवाऽभावात्, तस्य भावार्थकत्वात् । इह च लटा कर्तृप्रतीतेः । कंचेच्छन्कर्तुमिति प्रयोगो नेष्यते इति रिक्तं वचः, कर्तुमच्छन्निति प्रयोगस्य सकलसंमतत्वात् । पदानुपूर्व्याश्चाहर पात्रं पात्रमाहरेत्यादविव स्वेच्छायत्तत्वात् । विस्तरस्त्विह मनोरमादावनुसन्धेयः । वष्टीति । वश कान्तौ, कान्तिरिच्छेति वशधातुरपीच्छार्थकः ।", "33159": "<<लिङ् यदि>> - लिङ् यदि । कालसमयवेलासु चेति ।उपपदेष्वि॑ति वचनविपरिणामेन संबध्यते । तुमुनोऽपवादः । यद्भुञ्जीतेति । यत्कालः पचतीत्यत्र तु न , प्रेषादीनामनुवृत्तेः ।", "33160": "<<इच्छार्थेभ्यो विभाषा वर्तमाने>> - इच्छार्थेभ्यः । इच्छार्थेभ्यः किम् । पचति गच्छति ।", "33161": "<<विधिनिमन्त्रणामन्त्रण अधीष्टसम्प्रश्नप्रार्थनेषु लिङ्>> - द्योत्येषु वाच्येषु वेति । पक्षद्व्यस्याप्याकरे स्थितत्वादिति भावः । अत्राद्ये त्वित्थमुपपत्तिः — विध्यादीनां प्रत्ययार्थत्वमनुचितम् । तथाहि सति कत्र्रादीनामर्थानां लकारान्तरे चरितार्थानां विद्यादयोऽर्थ बाधकाः स्युः, तथा च लिङः कत्र्राद्यबिधायकत्वं न स्यात्, ततश्च द्विवचनबहुवचने न स्यातां, शबादयश्च न स्युः, पुरुषव्यवस्था च न स्यात्, अभिहितत्वप्रयुक्तस्तृतीयादिविरहश्च न सिध्येदिति॥ द्वितीये त्वित्थमुपपत्तिः — विध्यादिभिः कत्र्रादयो न बाध्यन्ते, परस्परविरोधाऽभावात् । तथा चलः कर्मणी॑त्यत्रल॑ इति बहुवचननिर्देशेन सर्वलकाराणां सङ्ग्रहाल्लिङादीनामपि कत्र्रादयोऽर्था भवेयुः । किं च कत्र्रादयोऽपि निरवकाशाः । न च लडादयोऽवकाशाः । न्यायसाम्येन विध्यादिवद्वर्तमानत्वभूतत्वादेरपि तत्तल्लकारवाच्यत्वात् । न चैवं पचतीत्यादौ धात्वर्थं रप्रति वर्तमानत्वादेः प्रत्ययार्थतया विशेष्यत्वं स्यात्, तथा चैककर्तृका वर्तमाना पचिक्रियेत्यादिशाब्दबोधवर्णनमयुक्तं स्यादिति वाच्यम् । प्रत्ययार्थतया विशेष्यत्वापादनस्य कत्र्रादावपि तुल्यत्वात् । ननु प्रत्ययार्थः प्रधानं, प्रकृत्यर्थो विशेषणमित्यौत्सर्गिकमाख्याते त्यज्यत#एभावप्रधानमाख्यात॑मिति सिद्धान्तानुरोधादिति चेत्तर्हि तत एव नोक्तदोष इति दिक्॥ प्रवर्तनायामिति । प्रवर्तनात्वस्य विध्यादिषु चतुष्र्वनुस्यूतत्वादिति भावः । अत्र वदन्ति — प्रवृत्तिः प्रवर्तना चोभयमपि व्यापारः, स च धात्वर्थः । फलव्यापारयोर्धातुवाच्यत्वस्वीकारात् । तदाश्रयस्तु लकारार्थः, व्यापारत्वेन प्रवर्तनाया धात्वर्थत्वेऽपि प्रवर्तनात्वेन प्रवर्तना तु लिङ्त्वादिरूपेण लकारवाच्या द्योत्या वेति पक्षद्वयम् । प्रवृत्तिः पुरुषनिष्ठाआर्थी भावने॑त्युच्यते । प्रवर्तना तु विधिः, मां प्रेरयतीत्यनुभवात् लिङादिनिष्ठाशाब्दी भावने॑त्युच्यते । वेद एव लिङादिनिष्ठा, वक्तुरभावात्, लोके तु पुरुषनिष्ठेति केचिदभ्युपगच्छन्ति । प्रवर्तनाया अस्याः पुरुषप्रवृत्तिरेव भाव्या । पुरुषप्रवृत्तेस्तु यजनदानादि ज्यायान् । लिङ्त्वादिरूपेण लकारस्य प्रवर्तनायां शक्त्यन्तरकल्पने गौरवात् । एवं णिच्यपि । इयांस्तु विशेषः — णिच्प्रत्ययद्योत्या प्रेरणा सर्वस्मिन्नपि मते पुरुषादिनिष्ठैव न तु णिज्निष्ठा, लिङादिद्योत्या तु मतभेदेन लिङ्निष्ठा वा पुरुष निष्टा वेति॥ स्यादेतत् — लिङादिद्योत्या प्रवर्तना लोके पुरुषनिष्ठे॑ति मतेपाचयत्य#ओदनं देवदत्तेन यज्ञदत्त॑ इतिवत्पचेदोदनं देवदत्तेन यज्ञदत्त॑ इति प्रयोगः स्यात् । अत्राहुः — पुरुषनिष्ठेति मते प्रवर्तना लिङादिवाच्यैव, न तु धातुवाच्या । तथा च लिङुपात्तव्यापाराश्रयस्य पुरुषस्य कर्तृत्वाऽभावान्नोक्तदोषः ।देवदत्तेन पाचयति यज्ञदत्तर॑ इत्यादौ तु णिजन्तस्य धातुत्वाद्धातूपात्तव्यापाराश्रयत्वेन प्रयोज्यप्रयोजकयोरुभयोरपि कर्तृत्वाल्लकारेणाऽनुक्ते प्रयोज्ये कर्तरि तृतीयेति वैषम्यमिति । कौस्तुभादौ तु — हेतुमति चे॑ति सूत्रे प्रयोजकव्यापारस्य णिज्वाच्यत्वपक्ष एव मुख्यत्वेन स्थापितः । व्यापारद्वयस्यापि णिच्प्रकृत्यर्थत्वे तु — अभीत्यस्य णिजर्थविशेष्यकत्वे अभिसावयति, प्रकृत्यर्थविशेष्यकत्वे तुउपसर्गात्सुनोती॑ति षत्वमभिषावयतीति सिद्धान्तस्य स्वारस्यभङ्गापत्तेरिति । तथागतिबुद्धी॑ति सूत्रे अणिकर्तेति विशेषणमव्यावर्तकं स्यात् । त्वन्मते प्रयोजकव्यापारस्यापि णिच्प्रकृत्यर्थत्वेन प्रयोजकस्याप्यणौ कर्तृत्वादिति दिक् । प्रार्थनं — याच्ञा॥", "33162": "`विधिनिमन्त्रणे`त्याद्यनुवर्तते। तदाह - विध्यादिष्विति॥", "33163": "<<प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च>> - प्रैषतिसर्ग । प्रैषो विधिरिति । विधिग्रहणे कर्तव्ये प्रैषग्रहणं शिष्यबुद्धिवैशद्यार्थमित्याहुः । लोटोऽनुकर्षणमिति ।लोट् चे॑ति योगस्येदमेव प्रयोजनम् । एकयोगत्वे तु लिङोऽप्यनुकर्षणं स्यात् । प्राप्तकालार्थमिति । प्रैषतिसर्गयोः पूर्वेणैव सिद्धत्वादिति भावः ।", "33164": "<<लिङ् चोर्ध्वमौहूर्तिके>> - लिङ् चोध्र्व । प्राप्तकालविशेषेऽप्राप्तस्य लिङो विधानार्थमिदं सूत्रम् । प्रैषातिसर्गयोस्तु पूर्वेण प्राप्त एव लिङ् । लोट्कृत्यानां कालविशेषेऽस्मिन् लिङा माभूदिति चकारः ।", "33165": "<<स्मे लोट्>> - पूर्वसूत्रस्यविषय इति । प्रैषादयः, ऊध्र्वमौहूर्तिके इति चानुवर्तत इति भावः ।", "33166": "<<अधीष्टे च>> - अधीष्टे च । लिङोऽपवादः । योगविभास्तु ऊध्र्वमौहूर्तिकाऽननुवृत्त्यर्थः ।", "33167": "", "33168": "लिङ् यदि। कालसमयवेलासु चेति। `उपपदेष्वि`ति वचनविपरिणामेन संबध्यते। तुमुनोऽपवादः। यद्भुञ्जीतेति। यत्कालः पचतीत्यत्र तु न , प्रेषादीनामनुवृत्तेः।", "33169": "<<अर्हे कृत्यतृचश्च>> - अर्हे । योग्ये कर्तरि गम्यमाने कृत्यतृचो भवन्ति । त्वया कन्या वोढ्वया, वहनीया । त्वं कन्यां वोढा । कन्यां वहेरिति । कन्योद्वहने योग्यस्त्वमित्यर्थः । नन्वर्हे किमर्थं कृत्यतृचो विधीयन्ते यावता सामान्येन विहितत्वादनर्हेऽपि भविष्यन्तीति चेत् । अत्राहुः — अर्हतायां द्योत्यायमप्राप्तो लिङ् विधीयते, तेन तु लिङा बाधा माभूदिति कृत्यतृचोर्विधानम् । न च वासरूपविधिना समीहितसिद्धिः, स्त्र्यधिकारादूध्र्वं तदप्रवृत्तेरिति ।", "33170": "", "33171": "", "33172": "", "33173": "<<आशिषि लिङ्लोटौ>> - ननु विध्यादिसूत्र एव संप्रश्नप्रार्थनाशीःष्वित्युच्यतां किमनेन पृथक्सूत्रकरणेनेति चेत् । अत्राहुः - इह हिक्तिच्क्तौ चे॑त्युत्तरसूत्रार्तमाशिषीति तावदावश्यकम् । लिङ्लोटावपीहैव विधेयौ, विध्यादिसूत्रे आशीग्र्रहणे हिस्मे लो॑डित्यादिना स्वविषये परत्वादद्बाधः स्यात् । सिद्धान्ते तु परत्वादेष विधिःस्मे लो॑रडित्यादेर्बाधक इति महान्विशेष इति॥", "33174": "<<क्तिच्क्तौ च संज्ञायाम्>> - क्तिच्क्तौ । क्तिचश्चकारोन क्तिची॑ति विशेषणार्थः ।न क्त्वा॑ वित्युक्ते हि क्तिनोऽपि ग्रहणं स्यादिति भावः । तत्र एकानुबन्धपरिभाषयैव क्तिनो व्यावृत्तिसिद्धेरिति हरदत्तः । यत्तु वदन्ति — ॒तितुत्रे॑त्यत्र सामान्यग्रहणार्थश्चकारः । अन्यथा एकानुबन्धत्वादस्यैव ग्रहणं स्यान्न तु क्तिन इति, तद्रभसात्,तितुत्रे॑ति सूत्रेऽनुबन्धविशिष्टरूपानुच्चारणेनैकानुबन्धपरिभाषाया उक्तिसंभवस्यैवाऽभावात् । #एतेनतितुत्रे॑ति सूत्रे एकानुबन्धत्वात्तिबेव गृह्रते न त्वयं क्तिच् । ततश्च रोदतीति रूपं न स्यादिति शङ्काप्यपास्ता । भूतिरिति । यद्यपीह परत्वात्श्र्युकः किति॑ इत्येवेण्निषेधोन्याय्यस्तथापि वन्तितन्त्योरिण्निषेधार्थमावश्यकत्वात्फले विशेषाऽभावाच्चतितुत्रे॑त्युपन्यस्तम् ।", "33175": "<<माङि लुङ्>> - सर्वलकारापवाद इति । मास्त्वित्यादौ निषेधार्थकमाशब्दोऽन्य एव, न तु माङित्याहुः ।", "33176": "", "34001": "<<धातुसम्बन्धे प्रत्ययाः>> - धातुसंबन्धे । इह धात्वोर्विशेषणविशेष्यभावादिसंबन्धोऽनुपपन्नः , स्वार्थस्मारणेनोपक्षीणत्वात्, पदार्थसंसर्गो वाक्यार्थः, कारकविशिष्टा क्रिया चेति स्वीकारात् ।शब्दानुगमादृते न शाब्दोऽस्ति प्रत्यय॑ इत्यवष्टभ्य शाब्दबोधे शब्दोऽपि भासत इत्यभ्युपगमेऽपि शब्दस्य स्वर्थं प्रत्येव प्रकारत्वं न तु शब्दान्तरं प्रति । तथा च धातुसंबन्धो वाक्येन न बुध्यते इति तस्य वाक्यार्थत्वाऽसंभवाद्धातुशब्देन धात्वर्थो लक्ष्यते । ननुधातोः कर्मणः समानकर्तृका॑दिति सन्विधौ कर्मत्वं समानकर्तृकत्वं च धातोरर्थद्वारकं विशेषणमाश्रितं तथेहापि धात्वोरर्थद्वारकः संबन्धोऽस्त्विति रकचेत् । मैवम् । तथा हि सति परस्परसंबन्धाऽर्थबोधकाऽनेकधातुप्रयोग एव प्रत्ययाः स्युस्ततश्च गोमानासीत् गोमान् भवितेत्यादि न सिध्येत् । न ह्यत्रवसन् ददर्शे॑ त्यत्र वर्तमानकालो वसिरिव वर्तमानकालोऽस्तिः प्रयुज्यते । न चाऽप्रयुज्यमानस्य दात्वन्तरेण संबन्धोऽस्ति । अर्थयोः संबन्धाभ्युपगमे धातुद्वयाऽभावेऽपि धात्वर्थद्वयस्य सत्त्वाद्गोमानासीदित्यादौ नाऽनुपपत्तिः । तदेतदभिप्रेत्याह - धात्वर्थानामिति । विषयबहुत्वापेक्षं बहुवचनम् । एकैकविषयापेक्षायां त#उ धात्वर्थयोरिति बोध्यम् । एतच्च मनोरमानुसारेण व्याख्यातम् । केचित्तु — धात्वोरर्थ्दवारकसंबन्धेऽभ्युपगतेगोमानासीद्भविते॑त्यादि न सिध्येदिति मनोरमोक्तं चिन्त्यमेव ।तत्करोति तदाचष्टे॑ इत्यकत्रेवतदस्यास्त्यस्मि॑ न्नितक्यत्राप्येकत्ववर्तमानत्वयोरविवक्षितत्वात्प्रकृतसूत्रानपेक्षयैव तत्सिद्धेः । न ह्यत्र मतुब्बिधौवर्तमाने ल॑डित्यादाविव कालविशेषपरिग्रहोऽस्तीत्याहुः । तद्भाष्यकैयटाद्यननुगुणम् । तधा हि भाष्ये — प्रत्यय इत्यनुवर्तमाने पुनरत्र प्रत्ययग्रहणं किमर्थमित्याक्षिप्य अधातुप्रत्ययानामपि संबन्धे साधुत्वं यथा स्यात्, गोमानासीत् भविता वेति समाहितम् । कैयटेन तु — तदस्यास्त्यस्मिन्निति मतुप् प्रत्ययोवर्तमानसत्ताविशिष्टप्रकृत्यर्थयुक्तो विहित॑ इत्युक्तम् । तथा च मतुब्विधावस्तीत्यत्र एकत्वस्याऽविवक्षतत्वेऽपि वर्तमानत्वं विवक्षितमिति तद्ग्रन्थबलादवगम्यते । किं चदण्डिनमानये॑ त्युक्ते वर्तमानसत्ताविशिष्टदण्डयुक्त एवानीयते नाऽन्यः । तथा चआसीत्भविते॑ ति तिङन्तपदानुरोदेनगोमा॑नित्यत्र गावोऽस्यासन् गावोऽस्य भवितार इत्यतीतानागतसत्ताविशिष्टप्रकृत्यर्थयुक्तो मतुप्प्रत्ययः प्रकृतसूत्रेणैव व#इधीयते न तु तदुक्तरीत्या लभ्यत इति दिक् । ननु तत्तद्विधिवाक्यैरेव स्वविषये प्रत्ययाः सिद्धाः किमनेन सूत्रेणेत्यत आह — अत्र काल इति ।वर्तमानसामीप्ये॑ इत्यारभ्य कालाऽन्यत्वं प्रायेण प्रतिपाद्यते तदेव चेह गृह्रत इति भावः ।वनानि पश्यन् यया॑ वित्यादौ वर्तमानभूतकालादिप्रत्ययेषु को वा स्वकालात्प्रच्युतो भवतीत्याकङ्क्षायामाह — तिङन्तवाच्येति । प्रधानानुरोधेन गुणस्य नयनमुचितं न तु विपरीतमिति भावः । प्रत्यया इति । कालान्तरभाजो भवनन्तीत्यर्थः । भूते लडिति । एवं चोषित्वा ददर्शेत्र्थः । अतीतेति । अतीतवासकर्ता कर्ता यस्य दर्शनस्येति बहुव्रीहिः । सोमयाजीति ।करणे यजः॑ इति भविष्यति णिनिः । अत एवाह — सोमेन यक्ष्यमाण इति । एवं चपश्यन् यया॑ वित्यत्र दृशेर्भूते लट् । दृष्ट्वा ययावित्यर्थः ।निवेदयिष्यतो मनो न विव्यथे॑ इत्यत्र तु वेदतेर्भूते लृट् । तस्यलृटः सद्वाट इति शतृप्रत्ययः । निवेदनं कृतवत इत्यर्थ इत्याद्यूह्रम् ।स्यादेतत्भावि कृत्यमासी॑दित्यत्र सूत्ररीत्याभावि॑शब्दस्य भूतकालत्वे स्वीकृते सत्यतीतं भवनमित्यर्थादासीच्छब्दस्याप्येकर्तृकमतीतं भवनमितयर्थाद्भाव्यासीच्छब्दयोर्युगपत्प्रयोगो न स्यात्, भाविशब्दार्थस्य आसीच्छब्देनैव लाभात् । ततश्चैतावन्तं कालं भावितया व्यवह्मतं तदिदानीमासीदित्यर्थोऽत्रावश्यं स्वीकर्तव्यः । स्वीकृते तुगोमानासी॑दित्यत्रापि गोमानिति व्यवहारविषय आसीदित्यर्थोऽस्तु ।वसन् ददर्शे॑ इत्यादौ भूते लक्षणया यथायथं लडादिः स्वीकर्तव्यः ।सोमयाजी॑ त्यत्र तु भूत एव णिनिप्रत्यये जातेऽपि भवितेति लुडन्तसमभिव्याहारे सति सोमयाजीति व्यवहरिष्यमाण इत्यध्याहारेण,णिनेर्भविष्यदर्थे लक्षमया वा प्रयोगो भवेदिति किमनेन सूत्रेणेति चेत् । अत्राहुः — अध्याहारलक्षणाप्रयुक्तक्लेशं विनैव प्रायशो निर्वाहार्थः सूत्रारम्भः । न हिभावि कृत्यमासी॑दित्यादौ क्वचिदध्याहारादिकमगत्या भवतीति सर्वत्र तत्स्वीकर्तुमुचितमिति ।", "34002": "<<क्रियासमभिहारे लोट्, लोटो हिस्वौ, वा च तध्वमोः>> - क्रियासमभिहारे । द्योत्य इति । क्रियासमभिहारो धातोरेवार्थः । लोट् तु द्योतक इति भावः । तस्यच हिस्वौ स्त इति । ननुलो॑डित्यनेन तिङो लक्षयित्वा तिङामेव हिस्वौ विधीयेताम् ।था सति तिङन्तत्वात्पदत्वं लभ्यत इति गुणोऽप्यस्ति,वा च तध्वमो॑रिति वाक्यशेषोऽपि स्वरसतः सङ्गच्छते । अनय्था येन नाप्राप्तिन्यायेन हिस्वयोस्तिङतिङलक्षणा न न्याय्या, असंजातविरोधित्वेनोपक्रमस्य प्राबल्यात्, वि,यसप्तम्याश्रणेन वाक्यसेषस्योपपन्नत्वाच्च । किंच तिङामादेशत्वे तिप्सिप्मिपां स्थाने विहितस्यहेः स्थानिवद्भावेन पित्त्वान्ङित्त्वाऽभावेनलुनीही॑त्यत्रई हल्यघो॑रितीत्वं न स्ात् ।ब्राऊही॑त्यत्रब्राऊव ई॑डितीडागमेब्रावीही॑ति स्यात् ।तृण्ढी॑त्यत्र तुतृणह इ॑मितीमागमे तृणेढीति स्यात् । किंच लादेशानामेव परस्मैपदात्मनेपदसंज्ञे न तु लादेशतिङादेशानामिति सर्वेषां तिङां द्वावपि हिस्वौ पर्यायेण स्यातां न तु तिबादीनां हिः, तिङां स्व इति पदव्यवस्थया । ततश्च लकारस्यैवादेशौ हिस्वौ स्यातामत आह -तौ चेति । अयं भावः-लोटो हिस्वौ॑ इति वाक्येक्रियासमभिहारे लो॑डिति वाक्याल्लोडित्यनुवर्तते, तच्च हिस्वावित्यस्य विशेषणम् । न च हिस्वौ लोटौ भवत इतिसामर्थ्याल्लोटधर्मकावित्र्थः संपद्यते । तत्रापि मुख्यलोट्संबन्धिनो धर्मस्य प्रत्ययत्वस्यातिदेशोव्यर्थः, स्थानिवत्त्वेनैव तत्सिद्धेः । किंतु स्थानवद्भावलब्धलोड्व्यपदेशकौ तिङ्भूतौ यौ हिस्वौ तयोरेव धर्म इहातिदिश्यते । केचित्तु — क्रियासमभिहारे लो॑ डित्यनन्तरं लाघवात्तस्य हिस्वाविति वक्तव्ये लोड्ग्रहणसामर्थ्याल्लोड्धर्मकावेव हिस्वौ लोटः स्थाने भवत इत्यर्थः संपद्यते । तथा च पूर्वोक्तरीत्या तिङ्भूतौ यौ हिस्वौ तयोरेव धर्म इहातिदिश्यत इति सिद्धमिष्टम् । एवं चलोटो हिस्वा॑विति वाक्ये पूर्ववाक्याल्लोड्ग्रहणं नानुवर्तनीयमित्याहुः । तिङ्संज्ञौ चेति । तेन पदत्वं,तिङ्ङतिङः॑ इति च भवति । हिस्वविधान इति । यदि हि पुरुषवचनसंज्ञे अपि स्यातां तर्हि युष्मत्सामानाधिकरणये एकत्वे च सत्येव हिस्वाभ्यां भाव्यं, तत्रच व्यर्थो हिस्वविधिरिति भावः । हिः कर्तरि । स्वो भावकर्मकर्तृष्विति । उक्तं च कैयटेनापि — हिशब्दस्य कर्ता वाचयः, स्वशब्दस्य तु भावकर्मकर्तार इति । अत्र नव्याः — अल्पे॑ह्रस्वे॑ इत्यादौ कप्रत्ययवत्क्रियासमभिहारे लोडयं स्वर्थिक एव । न त्वस्मल्लोटिलः कर्मणि चे॑ त्याद्यर्थोऽभ्युपेयः, प्रयोजनाऽभावात् । यदि तु हिशब्दस्य कर्ता अर्थः स्यात्, पुनः पुनरतिशयेन वा यानं ह्रन्तस्यार्थ इति वक्षमाणग्रन्थः स्वरसतो न सङ्गच्छेत । याहियाहीत्यादौ तु कत्र्रादिप्र्तीतिर्यातीत्यादिसमभिव्याहारेण सुलभैव । यथा एधांचक्रे इत्यत्र तङादेशात्प्रागेव आमः परस्य लेर्लुक्यामन्ते सह्ख्याप्तीत्भावेऽपि चक्रे इत्यनुप्रयोगवशेन एकर्तृका वृद्धिरूपा क्रियेत्यविद्यमानाऽपि सङ्ख्या प्रतीयते, तथैव हिस्वान्तेष्पि कालकारकसङ्ख्याप्रतीतिर्यातीत्याद्यनुप्रयोगबलेन भवतीत्याहुः । स्यादेतत् — ॒क्रियासमभिहारे हिस्वौ लोड्वा च तध्वमो॑रिति सूत्रमस्तु । तथा च हिस्वौ लोटौ न भवत इत लोड्धर्मकावित्यर्थः पूर्वोक्तरीत्या स्यादिति सर्वेष्टसिद्धौ किमनेन लोट इति षष्ठन्तकरणेनेतिचेत् । अत्राहुः - हिस्वयोर्यदि लोट्स्थानिकत्वं न स्वीक्रियते तर्हि तयोर्लोडादेशवद्भावेनईहल्यघो॑रित्यादिप्रवृत्त्या लुनीहीत्यादिसिद्धावपि हिस्वान्तस्य लोडन्तत्वं न सिध्येत् । तथा चहन्त चे॑त्यनुदात्तविकल्पो न स्यात्,हन्त! प्रलुनीहिप्रलुनीहीत्ययं लुनाति॑ । एवंच लोडन्तत्वलाभार्थंलोटो हिस्वा॑विति विधीयते । यदि तुहिस्वौ लो॑डित्युक्तेऽपि लोड्वद्भावाश्रयेण लोडन्तकार्यंहन्त चे॑ति स्वरविकल्पः सिध्यतीति ब्राऊषे तर्हि स्थानिवद्भावलब्धलोड्धर्मकौ हिस्वावित्यर्थस्याऽनाश्रयणाल्लोडादेशकार्याणि परस्मैपदात्मनेपदतिङ्संज्ञास्तु न सिध्यन्ति । तथा च पूर्वोक्तदोषस्तदवस्थः स्यात् ।लोट् लोटो हिस्वौ॑इत्युक्ते तु स्थानिवद्भावेन हिस्वयोर्लोट्त्वाल्लोडन्तकार्यं स्वरविकल्प सिध्यति,क्रियासमभिहारे लोडि॑ति वाक्याल्लोडित्यरनुवर्त्त्य हिस्वौ लोडिति प्रागेव व्याख्यातत्वाल्लोपडादेशवद्भावेन परस्मैपदात्मनेपदसंज्ञादीन्यपि सिध्यन्तीति ।", "34003": "<<समुच्चयेऽन्यतरस्याम्>> - समुच्चये । चिनोतेर्भावेएरच् इत्यच् । प्रगुक्तमिति । धातोर्लोट्, लोटो हिस्वौ तध्वमोर्विषये वेत्यर्थः । यथाविध्यनु ।", "34004": "<<यथाविध्यनुप्रयोगः पूर्वस्मिन्>> - पूर्वस्मन् = क्रियासमभिहारविषये । अत्र सङ्ख्याकारकादीनां हिस्वान्तादप्रतीतेस्तद्बोधनायानुप्रयोगो न्यायत एव प्राप्तस्तदनुवादेनयथाविधी॑ति नियम्यते । तथा च पक्षे प्राप्तस्य नियमनाद्याहियाहीति गच्छतीत्यादि न भवति । यद्यप्यन्यत्रहन्हपूषाऽर्यम्णां शौ॑ इत्यादौ नियमशब्देन परिसङ्ख्या व्यवह्यियते,सर्वनामस्थाने चे॑त्यादिना शौ तद्भिन्ने च दीर्घप्राप्तेशेरन्यत्र तु तन्निवृत्तिपरत्वात्, तथापीहकदाचिद्यातीत्यस्य कदाचिद्गच्छतीत्यस्यानुप्रयोगे प्राप्ते यथाविधीत्ययमप्राप्ताशंपरिपूरणायव्रीहीनवहन्ती॑त्यादिवद्विधीयत इति नियमविधिरेवाऽयम् । एतेन मीमांसकप्रिसद्धनियमविधिः शब्दशास्त्रे ऽप्रसिद्ध इति वदन्तः परास्ताः । * क्रियासमभिहारे द्वे वाच्ये । द्वे वाच्ये इति । वार्तिकमिदं द्विरुक्तप्रक्रियायां व्याख्यातम् । इतिशब्दस्त्विति । ननु इतिशब्देन व्यवधानाद्यातीत्यस्याऽनुप्रयोगत्वं कथमिति चेत् । अत्राहुः - अनुशब्दस्येहानुवादित्वमात्रपरत्वाद्व्यहितविपरीतप्रयोगयोरिष्टापत्तिः । एतच्च भाष्यकारीयोदाहरणसूत्रप्रत्याख्यानाभ्यां निर्णीयते । न चसमुच्चये सामान्यवचनस्ये॑ति विशेषस्योक्तत्वात्सूत्रैकदेशस्य पूर्वस्मिन्नितिपदस्य वैयथ्र्यमस्तु नाम,यथाविध्यनुप्रयोग॑ इति तु यथाविधीति नियमार्थं स्वीकर्तव्यमेव । अन्यथायाहि याहीति गच्छती॑त्यादि स्यादिति वाच्यम्, यस्माल्लोड्विधिस्तत्प्रकृतिकतिङन्तस्यैवोपस्थितत्वेनाऽनुप्रयोक्तुमर्हत्वान्न तूपस्थितपरित्यागेन यत्कचिद्धातुप्रकृतितिङन्तस्याऽनुप्रोगार्हतेति । अतएवस्वं रूपं शब्दस्ये॑त्यपि सूत्रं प्रत्याख्यातं भाष्यकारेण ।अग्नेर्ढ॑गित्यादौ विधिवाक्यगतस्याऽङ्गारवाचकाऽग्निशब्दादेरुपस्थितत्वात्तत्परित्यागेनाऽनुपस्थितवह्न्यादिशब्देभ्यो ढगादिर्न भवेदिति । एवं चाऽस्मिन्प्रत्याख्याते यथाविध्यनुप्रयोगसूत्रे मीमांसकप्रसिद्धनियमविधेः स्थितोदाहरणमन्यदन्वेषणीयमिति दिक् । एवमिति । याह#इयाहीति यातः, याहियाहीति यान्तीत्येवमूह्रमित्यर्थः । पक्षे इति ।वा च तध्वमो॑रित्युक्तत्वाद्धिस्वाऽभावपक्ष इत्यर्थः । तध्वमोरित्यत्र तशब्देन मध्यमपुरुषबहुवचनं गृह्रते,ध्वम् साहचर्यात् । यद्यपिध्व॑मित्यस्यात्मनेपदत्वमस्तीति तत्साहचर्येण प्रथमपुरुषैकवचनस्य ग्रहणं प्राप्नोति, तथापि बहुवचनत्वमध्यमत्वरूपधर्माभ्यां मध्यमपुरुषबहुवचनमेव गृह्रत इत्याशयेनोदाहरत — यातयातेति यूयमिति । अस्यापि लोटो लङ्वत्त्वात्तस्थस्थमिपा॑मिति यातेत्यत्र थस्य तादेशः । विध्यादिलोड्विषये त्वनुप्रयोगेऽपि तु थस्य तादेशप्रवृत्तेर्यूयं यातेत्यनुप्रयोक्तम् । अधीध्वमधीद्वमिति ।सवाभ्या॑मित्यम् । अधीध्वे इति । विध्यादिलोड्विषये तु सवाभ्यां वामाविति प्रवृत्तेरधीध्वमित्येवानुप्रयोक्तव्यम् । भावकर्मणोस्तुभूयस्व — भूयस्वेति भूयते॑पच्यस्वपच्यस्वेति पच्यते॑ इत्याद्युन्नेयम् ।समुच्चयेऽन्यतरस्या॑मिति सूत्रे क्रियासमभिहारैत्यननुवर्तनाद्द्वित्वमकृत्वैवोदाहरति -सक्तन् पिब धानाः खादेति । अब्यवहरथेति । विध्यादिलोड्विषये तुअभ्यवहरते॑त्यनुप्रोक्तव्यम् । एवमभ्यवहरध्वे इत्यत्राप्युक्तविषये अभ्यवहरध्वमित्यनुप्रयोक्तव्यम् । पक्षे हिस्वाव#इति ।पिब खादेत्यब्यवहरथ॑भुङ्क्ष्व आस्वादस्वेत्यभ्यवहरध्वे॑ इत्युदाहार्यम् । लवनादीति । आदिशब्देन — मोषणहरणे ग्राह्रे । अनुवृत्त्यभ्युपगमे बाधकमाह — लोडन्तस्योत । भ्रम एवेति । पुरुषांशे, वचनांशे च । लोडंशे तु प्रमैवेति भावः । एवमुक्तोदाहरणेषु हिस्वान्तेषु तिङन्तत्वं यथायथं परस्मैपदात्मनेपदान्तत्वं च सिद्धं । पुरुषवचनसंज्ञे तु विधानसामर्थ्याद्धिस्वयोर्न स्त इत्युक्तमिति सर्वेष्टसिद्धिः ।इति श्रीपरमहंसपरिव्राजकाचार्यश्रीवामनेन्द्रस्वामिचरणारणारविन्दसेवकज्ञानेन्द्र सरस्वती कृतौ सिद्धान्तकौमुदी व्याख्यायां तत्त्वबोधिन्याख्यायां तिङन्तकाण्डं समाप्तम् ।", "34005": "", "34006": "", "34007": "", "34008": "", "34009": "", "34010": "", "34011": "", "34012": "", "34013": "", "34014": "", "34015": "", "34016": "", "34017": "", "34018": "<<अलङ्खल्वोः प्रतिषेधयोः प्राचां क्त्वा>> - अलंखल्वोः । पूजार्थमिति । ननु विकल्पार्थमेवास्तु, अलं रुदित्वा अलं रोदनेनेति रूपद्वयसिध्यर्थमिति चेन्मैवम् । वासरूपन्यायेनैतत्सिद्धेः । न चक्तल्युट् तुमुन्खलर्थेषु॑ वाऽसरूपविधिर्ने॑ति सिद्धान्ताल्ल्युटि वासरूपन्यायो अस्तीति वाच्यं,क्तल्यडादयोऽपवादभूताः स्वबाध्यं नित्यं बाधन्ते॑ इति हि तस्य निष्कृष्टोऽर्थः । इह तु ल्युटोऽपवादः क्त्वेति वैषम्यात् । ननुप्रैषादिषु कृत्याश्चे॑ति वचनेन स्त्र्यधिकारादूध्र्वं वासरूपवधिर्नावश्यमस्तीति ज्ञापितमिति चेत्कं ततः ।ज्ञापकसिद्धं न सर्वत्रे॑तीष्टानुरोधेन तदभ्युपगमे बाधकाऽभावात् । अलं दत्त्वेति । अपात्रे न देयमिति फलितोऽर्थः ।", "34019": "<<उदीचां माङो व्यतीहारे>> - उदीचाम् । व्यतीहारो व्यतिक्रमः । मेङः कृतात्वस्यायं माङ इति निर्देशोनानुबन्धकृतमनेजन्तत्वमिति परिभाषां ज्ञापयति, तेन घुसंज्ञायां दैपोऽप्यदाबिति पर्युदासः सिध्यति ।", "34020": "<<परावरयोगे च>> - परावर । अप्राप्येति । दक्षिणदेशस्थानां गङ्गामप्राप्य विन्ध्यः । गङ्गाप्राप्तविरहविशिष्टदेशस्थो विन्ध्य इत्यर्थः । अत्र विन्ध्यात्परा गङ्गेति गम्यते । अतिक्रम्येति । दक्षिणदेशस्थानामेवायमपि प्रयोगः । अत्र हि गङ्गायाः पूर्वो विन्ध्य इति गम्यते । इह त्रिसूत्र्यां क्त्वाप्रत्ययस्य भावमात्रार्थत्वेऽपि विशेषणविशेष्यसंसर्गा भिद्यन्त इति नास्ति वैयथ्र्यमिति दिक् ।", "34021": "<<समानकर्तृकयोः पूर्वकाले>> - समानकर्तृक । इह धात्वधिकारेऽपि समानकर्तृकत्वं क्रिययोरेव सम्भवतीत्याशयेनाह — धात्वर्थयोरिति । निर्धारणे षष्ठी सप्तमी वा । धात्वर्थयोर्मध्ये पूर्वः कालो यस्य धात्वर्थस्य तस्मिन्विद्यमानादित्यर्थः । एवं च निर्धारणविभक्तिरेव पूर्वकाल इत्यस्य बहुव्रीहित्वद्योतिकेति फलितम् । क्त्वा स्यादिति । स च भावे,अव्ययकृत॑ इति वचनात् । भावोऽपि घञादाविव नेह सिद्धावस्थः, किन्तु साद्यावस्थः । स च धातुनैव लब्धः । क्वाप्रकृत्यर्थभूता क्रिया च क्रियान्तरं प्रति विशेषणं, धातुसंबन्धादिकारात् । संसर्गश्चेह सामानाधिकरण्यं , पूर्वोत्तरकालत्वं च । नत्र संसर्गविशेषतात्पर्यग्राहकः क्त्वाणमुलादयः । अत्र चसमानकर्तृकयो॑रिति सूत्रांशेन सामानाधिकरण्यमुपनिबद्धम्, दातूपात्तव्यापराश्रयस्य कर्तृतया तथा पर्यवसानादिति दिक् । द्वित्वमिति । नन्वमीषां ब्राआहृणानां पूर्वमानयेत्युक्ते मध्यमो नानायीते, तथेहापि बहुक्रियासमभिव्याहारे मध्यमक्रियावाचकात् क्त्वाप्रत्ययो न स्यादिति चेदत्राहुः — इहाप्याख्यातवाच्या क्रिया प्रधानं,तां प्राति क्त्वान्तोपस्थिताः क्रियाः सर्वा एव विशेषणं, न तु तासां परस्परसंबन्धः,गुणानां च परार्थत्वा॑दित न्यायात् । अतएव स्नात्वा पीत्वा भुक्त्वा व्रजतीत्याद्यनियमेन प्रयुज्यत इति ।स्वरतिसूती॑ त्यादिना विकल्पे प्राप्ते नित्यार्थमाह — स्वरत्यादेरिति ।", "34022": "<<आभीक्ष्ण्ये णमुल् च>> - आभीक्ष्ण्ये णमुल् च । ननु वाऽसरूपन्यायेन क्तवाप्रत्ययो भविष्यतीतिच॑ ग्रहणमिह व्यर्थमिति चेन्मैवम् । उक्तन्यायस्वीकारे तु लडादिरपीह प्रवर्तेत । न चेष्टापत्तिः,विभाषाऽग्रे॑ इति वक्ष्यमाणसूत्रस्थविभाषाग्रहणस्य वैयथ्र्यप्रसङ्गात् । तत्र हि क्त्वाणमुलौ विभाषाग्रहणेन लडादिसमावेशार्थं विकल्प्येते । यद्यपि वाऽसरूपन्यायेनैव लडादिः सिध्यति तथापि णमुला सहैव क्त्वाप्रत्ययो यत्र विधीयते तत्रवाऽसरूपविधिर्न प्रवर्तत इति ज्ञापनार्थं विभाषाग्रहणम् । तत्फलं तुआभीक्ष्णे णमुल् चे॑त्यत्र लडाद्यप्रवृत्तिः । ततश्च चकारेणैव क्त्वाप्रत्ययो लभ्यत इति नास्त्येव तस्य वैयर्थ्यम् । किं च वाऽसरूपं विनैव क्त्वालडाद्योः स्वीकारे तुन यद्यनाकाङ्क्षे॑ इत्यत्र क्त्वाप्रत्ययवल्लडादिरपि न सिद्ध्येत् । तथा चयदयं भुङ्क्ते ततः पठती॑त्युदाहरणं न स्यात् । सिद्धान्ते तुआभीक्ष्ण्ये णमुल्चे॑ति विशेषविहितयोः क्त्वाणमुलोरेव निषेधात्सामान्यविहितलडादिर्भवत्येवेति नास्त्येवाऽनुपपत्तिरिति दिक् ।पूर्वविषय इति ।समानकर्तृकयोः पूर्वकाले॑ इत्यर्थः । पायंपायमिति ।आतो युक् । वा दीर्घ इति । गमेण्र्यन्ताण्णमुलि मितां ह्रस्वे च कृते वा दीर्घ इत्यर्थः । ण्यन्तस्यापीति । यत्तु प्राचा ण्नय्तजागर्तेश्चिण्णमुलोर्वा वृद्धिरिति मतमुपन्यस्तं,तदपाणिनीयमिति भावः ।", "34023": "<<न यद्यनाकाङ्क्षे>> - न यदि । अनाकाङ्क्ष इति पचाद्यजन्तेन नञ्समासः । तद्दर्शयति — नाकाङक्षते चेदिति । चेदत्राहुः — पूर्वकाले यत्प्राप्नोति तन्ने॑ति व्याख्यानात् क्त्वाप्रत्ययोऽपि न भवतीति ।", "34024": "<<विभाषाऽग्रेप्रथमपूर्वेषु>> - विभाषाऽग्रे । यद्यप्यग्रेशब्दो देशविशेषवचनोऽप्यस्ति,प्रभोरग्रेभुङ्क्ते॑ इत्यादिप्रयोगात्, तथापीह कालविशेषवाच्येव गृह्रते, प्रथमशब्दसाहचर्यात् ।प्रथमं भुङ्क्ते॑ इत्यादौ तु काल एव हि प्रतीयते ।अग्रे॑ इति सप्तम्यन्तस्यानुक्रणम् ।प्रकृतिवदनुकरण॑मित्यस्य वैकल्पिकत्वाद्विभक्तेर्लुङ्न कृतोऽस्यवामीय॑मिति वत् । अग्रेभोजमिति ।अग्रेभोजमिति ।अमैवाव्ययेने॑ति नियमाद्व्यस्तमेवेदं, न त्वत्रोपपदसमासः । नन्वग्रेप्रथमपूर्वशब्दैः पूर्वकालत्वमुच्यत इति कथमिह क्त्वाणमुलौ स्यातामिति चेदत्राहुः — अन्येभ्यो भोक्तृभ्यः पूर्वं भुक्त्वा व्रजतीति हि वाक्यार्थः । तत्राग्रेप्रभृतिभिर्भोक्रपेक्षया पूर्वत्वमुच्यते चेदत्रापि अन्येभ्यो भोक्तृभ्यः पूर्वं व्रजतीति व्रजनपेक्षया पूर्वत्वं तु क्त्वाणमुल्भ्यां द्योत्यत इत्याशङ्कैवात्र नास्तीति । नित्यमेव विधिरिति । अग्रे भुङ्क्ते इत्येव लडादिर्न प्रयुज्यत इतिभावः ।", "34025": "", "34026": "<<स्वादुमि णमुल्>> - स्वादुमि ।स्वांदुमी॑त्यर्थग्रहणं, व्याख्यातम् । तदाह — स्वाद्वर्थेष्विति । मान्त्तवमिति । ननुस्वादौ॑ इत्येव सूत्रमस्तु, मास्त्वत्र णमुल् । खमुञेवानुवर्त्त्यताम् ।अरुर्द्विष॑दिति मुम्भविष्यति । एवं च निपातनं विनापि मान्तत्वं सिध्यतीति महल्लाघवमिति चेन्मैवम् । च्व्यन्तस्य मुम्न स्यात्, अनव्ययस्येति वचनात्, ततश्च स्वादुङ्कारमित्यत्रच्वौ चे॑ति दीर्घः स्यात्,सम्पन्नङ्कारः॑ मित्यादिषुअस्य च्वौ॑ इतीत्वं स्यात् । किं च स्त्रियांवोतो गुणवचना॑दिति ङीषि स्वाद्वीकारमिति स्यादतोऽत्र स्वादुमिति रूपं निपात्यते । ततश्चानजन्तत्वान्नेत्त्वदीर्घौ, न वा ङीष् । निपातनमिह भावप्रत्ययमात्रविषकम् । तेन स्वादुङ्कृत्वेत्यपि सिध्यति । स्यादेतत् — उक्तदोषपरिहारायस्वादुमी॑त्येव सूत्रमङ्गीक्रियतां, णमुल्तु त्यज्यतां, कृञः खमुञि कृतेषऽपिस्वादुङ्कार॑मित्यादिरूपसिद्धरिति चेन्मैवम् । तथा सत्युत्तरसूत्रेषु सन्निहितत्वात् खमुञेवाऽनुवर्तत इति कन्यादर्शनं ब्राआहृणवेदमित्यादिषु पूर्वपदस्य मुमागमः स्यादिति दिक् ।", "34027": "<<अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत्>> - व्यर्थत्वादिति । निष्प्रयोजनत्वादित्यर्थः । तदेतद्दर्शयति — इत्थं भुङ्क्त इत्यर्थ इति । इह शाब्दबोधे विशेषसत्त्वेऽपि फलितार्थः । कथनपरतया कारमिति णमुलन्तस्य निष्फलत्वमुक्तम्, अनतिप्रयोजनत्वात् । विस्तरस्तु मनोरमादावनुसन्धेयः । शिरोऽन्यतेति । इह शिरोऽन्यथा कृत्वौदनादिकं भुङ्क्त इत्यर्थलाभाय करोतेः प्रयोग आवश्यकः । तदभावे तु भुजिक्रियागत एव प्रकारो गम्येत न तु शिरसोऽन्यथाकरणम्, अतः करोतेः प्रयोगार्हत्वमस्तीति णमुलन्तः करोतिरिह न प्रयुज्यत इति भावः ।", "34028": "<<यथातथयोरसूयाप्रतिवचने>> - यथाकारमिति । प्रष्टुमनर्हः सन्यदि पृच्छति तदेदमुत्तरम् । अत्रापि वाऽसरूपन्यायेन पक्षे क्त्वाप्रत्ययो बोध्यः ।", "34029": "<<कर्मणि दृशिविदोः साकल्ये>> - कन्यादर्शमिति । अत्र दर्शनविषयीभूतानां सर्वासां कन्यानां वाक्यार्थऽन्वयात्साकल्यं बोध्यम् । सर्वा इति । दर्शनविषयीभूताः सर्वा इत्यर्थः । अतिशयप्रतिपादनपरमेतत् । ब्राआहृणवेदमिति । विद ज्ञाने, विद्लृ लाभे, विद विचारमे इति धात्वर्थान्पर्यालोच्य व्याचष्टे — जानातीत्यादि । सत्तार्थस्य विदेरनेकार्थत्वान्नेह ग्रहणमिति भावः ।", "34030": "<<यावति विन्दजीवोः>> - यावति विन्द । विदेर्लाभार्थस्यानुकरणम् । तस्य हिविन्दती॑त्यादौशे मुचादीना॑मिति नुमस्ति । यावल्लभत इति । असाकल्यमनेन दर्शयति । साकल्ये हिकर्मणि दृशिविदो॑रित्यनेनैव सिद्धम् ।", "34031": "<<चर्मोदरयोः पूरेः>> - चर्मोदर । कर्मणीत्येवेति । एवं च पूरेरिति ण्यन्तस्य निर्देशो, न तु केवलस्यइक्श्तिपौ॑ इति इका निर्देशः । तस्याऽकर्मकत्वादिति भावः । चर्मपूरमित्यादि । चर्म पूरयित्वा । उदरं पूरयित्वा उदरपूरणविशिष्टाभुजिक्रियेत्यर्थः । इह पूर्वकाले इति न संबध्यतेऽसंभवात्, अप्रतीतेश्च । एवमन्यत्रापि यथासंभवं बोध्यम् । उदरपूरणविशिष्टाभुजिक्रियेत्यर्थः । इह पूर्वकाले इति न संबध्यतेऽसंभवात्, अप्रतीतेश्च । एवमन्यत्रापि यथासंभवं बोध्यम् ।", "34032": "<<वर्षप्रमाण ऊलोपश्चास्यान्यतरास्यम्>> - खात्वना । खनित्वेति ।उदितो वे॑ति वेट् ।", "34033": "<<चेले क्नोपेः>> - चेलेः । व्याख्यानादर्थग्रहणमित्याहुः । चेलार्थेष्विति । चेलक्नोपमित्यादि । यथा वर्षणे चेलानि शब्दायन्ते तथा वृष्ट इत्यर्थः । अन्ये तु क्नूथी क्लेदने, क्लिदू आद्र्रीभावे इत्येवं क्नोपयति ममुलन्तस्य प्रकृत्यर्थ पर्यालोच्य यथा वर्षमेन चेलान्याद्र्रीभवन्ती तावद्वृष्ट इति व्याचख्युः ।", "34034": "<<निमूलसमूलयोः कषः>> - निमूलमिति । नियतं मूलमस्य निमूलम् । सह मूलेन समूलम् । निमूलसमूलकषणाऽभिन्नं कषणमिति शाब्दबोधः । तेनेति । अत्रेदं बोध्यं — सामान्यं विशेष्यं, विशेषस्तु विशेषणम् ।आम्रो वृक्ष॑ इत्यादौ आम्रो विशेषणं, वृक्षस्तु विशेष्यमिति सर्वजनानुभवात् । ततश्चात्र निमूलकषणादिकं विशेषणं, केवलषणं तु विशेष्यमिति ।", "34035": "", "34036": "", "34037": "", "34038": "<<स्नेहने पिषः>> - स्नेहने ।शुष्कचूर्णे॑ति सूत्रे एव स्नेहनग्रहणं न कृतम् । तत्र हिकर्मणि दृशिविदो॑रिति सूत्रात्कर्मणीत्यनुवर्तते, इह तु पूर्वसूत्रात्करण इत्यनुवर्तनीयमिति ।", "34039": "<<हस्ते वर्त्तिग्रहोः>> - हस्ते । हस्त इत्यर्थग्रहणं, तदाह — हस्तार्थे इति ।", "34040": "", "34041": "", "34042": "", "34043": "", "34044": "", "34045": "", "34046": "<<कषादिषु यथाविध्यनुप्रयोगः>> - तथैवेति ।निमूलकाषं कषती॑त्याद्युदाहृतमित्यर्थः ।", "34047": "<<उपदंशस्तृतीयायाम्>> - मूलकोपदंशमिति । अयमर्थः — मूलकेन भुङ्क्ते । किं कृत्वा । उपदस्य । किमुपदश्य । अर्थान्मूलकमिति संबध्यते । एतावतैवेति । शाब्दान्वयाऽभावेऽपि आर्थिकान्वयमात्रेणेत्यर्थः । वचनसामर्थ्यादिति । यदि हि तृतीयान्तेव शाब्दान्वये सत्येव प्रत्ययो भवेत्तर्हिकरणे हनः॑इति वत्उपदंशः करणे॑ इत्येव ब्राऊयात् । ततश्च क्रियान्तरं प्रति करणत्वं मूलकेनेत्यस्येष्टमिति भावः । एतच्च मनोरमाग्रन्थानुसारेणोक्तम् ।अत्र केचित्त — नन्वेवम्उपदंशः कर्मणी॑त्येव सूत्रमस्तु । अथवोपदंश इत्येवाऽस्तु ।उपमाने कर्मणी॑त्यतः कर्मणीत्यनुवर्त्त्य कर्मण्युपपदे उपपूर्वकाद्दशेर्णमुलिति व्याख्यायतां, किमनया कुसृष्टएति । न चैवं कर्मण्युपपदे नित्यसमासः स्यादिति वाच्यं, करणे इत्युक्तेऽप्युक्तदोषस्य तुल्यत्वात् । न चतृतीयाप्रभृतीनी॑ति सूत्रेकरणप्रभृतीनी॑त्युक्ते नास्त्येव दोषः,करणे हनःर॑ इत्यारभ्य विकल्प इति सन्देहवारणायव्याख्यानतो विशेषप्रतिपत्तिर्न हि संदेहादलक्षण॑मिति परिभाषास्वीकारादिति वाच्यं,तृतीयाप्रभृतीनी॑ति सूत्रेकर्मणिप्रभृतीनी॑ति सूत्रेकर्मणिप्रभृतीनी॑त्युक्तेऽपि दोषाऽभावात् ।कर्मण्याक्रोशे कृञः खमुञ्कर्मण#इ दृशिविदो॑ रित्यारभ्य वा विकल्प इति सन्देहस्यव्याख्यानतो विशेषप्रतिपत्तिः॑ रिति परिभाषया वारयितुं शक्यत्वात् । तस्मात्उपदंशः करणे॑ इत्येव ब्राऊया॑दिति मनोरमा चिन्त्येत्याहुः । वस्तुतस्तुकर्मणिप्रभृतीन्यन्यतरस्या॑मित्युक्तेउपमाने कर्मणि चे॑त्यतः कर्मणीत्यनुवर्त्त्यउपदंश॑ इत्येव सूत्रमिति स्वीकारपक्षे कषादिषु यथाविध्यनुप्रयोगोऽपि विकल्पेन स्यात् । मण्डूकप्लुत्याश्रयणं त्वगतिकगतिः ।उपदंशः कर्मणी॑ति सूत्रस्वीकारपक्षेऽपिमूलकोपदंश॑मिति ।करणे प्रभृतीनी॑ति मनरमोक्तौ तु समासाऽभावपक्षेमूलकेनोपदंश॑मिति सिध्यत्येव, करणतृतीयायाः प्रवृत्तेरिति दिक् ।", "34048": "<<हिंसार्थानां च समानकर्मकाणाम्>> - कालयतीति । कल विक्षेपे चुरादिः । प्रेरयतीत्यर्थः । दण्डताडमिति । तड आघाते । अयमपि चुरादिरेव ।", "34049": "<<सप्तम्यां चोपपीडरुधकर्षः>> - सप्तम्यां चो । उपपूर्वेभ्य इति । सूत्रे पीडादीनां समाहारद्वन्द्वं कृत्वा उपपूर्वः पीडरुधकर्ष इति उत्तरपदलोपी समास इति भावः । इह सौत्रं पुंस्त्वं, पञ्चम्यर्थे प्रथमेति च ज्ञेयम् । कर्षेति शपा निर्देशः, कृष विलेखने इत्यस्य गुणसहितस्योच्चारणात् । तत्फलं तुदादेव्र्युदासः । यद्यपि विलेखन एव सोऽपि पठते तथापि क्षेत्रविषयकविलेखन एव स प्रयुज्यते । पञ्चभिर्हलैः कर्षतीति दर्शनात् । एवं च तौदादकात् कृषेः क्त्वाप्रत्यय एव भवति, क्षेत्रे उपकृष्य, हलेनोपकृष्येति, न त्विह णमुलिति स्थितमाकरे ।", "34050": "<<समासत्तौ>> - समासत्तौ । केशग्राहमिति । केशेषु ग्रहणं भवतु वा, मा भूत्, सन्निकर्षप्रतिपादनपरमेतत् ।", "34051": "<<प्रमाणे च>> - द्व्यङ्गुलोत्कर्षमिति । द्वयोरङ्गुल्योः समाहारो द्व्यङ्गुलम् ।तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः॑ इत्च् समासान्तः । द्व्यङ्गुलेनोत्कृष्य । परिच्छित्येत्यर्थः । स्वल्पः खण्डः खण्डिका । ह्रस्वः खण्डः खण्डिकेति मनोरमायामुक्तम् । यद्यपि ह्रस्वशब्दो वामनपर्यायतया चेतनेष्वेव प्रायेण प्रयुज्यते, अल्पे ह्रस्वे इति पृथक्सूत्रस्वारस्यात्, तथापि ह्रस्वदीर्घत्यादिनिर्देशादचेतनेष्वपि क्वचिद्भवतीत्याहुः ।", "34052": "", "34053": "<<द्वितीयायां च>> - द्वितीयायां । परीप्सायामित्येवेति । कथं तर्हिअनुदात्तं पदमेकवर्ज॑मिति, नह्यत्र त्वरा गम्यते । अत्राहुः- अस्यां हि परिभाषायां त्वरा विवक्षिता । तेनयमर्थः — उदात्तः स्वरितो वा यत्र विधीयते तत्र तत्समकालमेवैकमचं वर्जयित्वा परिशिष्टमनुदात्तं कर्तव्यं, न विलम्बतिव्यमिति । यष्टिग्राहमित्यादि । एवं खलु युद्धाय त्वरन्ते यदासन्नं यष्टआदिकमपि गृहीत्वा धावन्ति नायुधं प्रतीक्षन्त इति भावः ।", "34054": "", "34055": "", "34056": "<<विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः>> - उपपदसंज्ञार्थमिति ।विशिपती॑ति सूत्रे द्वितीयायामित्यनुवर्तनात्तदन्तस्योपपदसंज्ञार्थमित्यर्थः ।", "34057": "", "34058": "", "34059": "<<अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ>> - अव्यये । अयथेति । न यथाभिप्रेतमयथाभिप्रेतं तथाख्यान इत्यर्थः । त्रियस्योच्चैः, अप्रियस्य नीचैः कथनं यथाभिप्रेताख्यानम् । तद्विपरीताख्याने इति यावत् । नन्वप्रियाख्याने इत्येव कुतो नोक्तमिति चेदत्राहु — प्रियस्य नीचैः कथनमपि प्रियाख्यानमेव, न त्वप्रियाख्यानमितिनीचैः कृत्य नीचैः कारं प्रियं ब्रूते॑ इति प्रयोगो न स्यात् । तथा अप्रियस्य नीचैः कथनमप्यप्रियाख्यानमिति नीचैः कृत्य नीचैः कारमप्रियं ब्राऊत इति प्रयोगोऽपि स्यादित्ययथाभिप्रेताख्याने इत्युक्तमिति ।", "34060": "<<तिर्यच्यपवर्गे>> - तिर्यक्कृत्वेति । अनृजुत्वादग्रतः स्थितं पार्ातः कृत्वा गत इत्यर्थः ।", "34061": "<<स्वाङ्गे तस्प्रत्यये कृभ्वोः>> - स्वाङ्गे । तस्प्रत्ययो यस्मात्तस्प्रत्ययस्तस्मिन्स्वाङ्गे उपपदे इत्येके । प्रत्ययग्रहणपरिभाषया तस्प्रत्ययान्ते स्वाङ्गे इत्यन्ये । तस् चासौ प्रत्ययश्चेति कर्मधारयः । तस्प्रत्यये परतो यत्स्वाङ्गं तस्मिन्नुपपद इति तु प्राञ्चः । तत्र यद्यपि स्वाङ्गमात्रं नोपपदं तथापि तस्मिन्नित्येतत्प्रकृतिप्रत्ययसमुदायपरिमिति बोध्यम् । मुखतःकारं मुखतोभूयेति । क्त्वाणमुलोः कृभुवोश्च यथासङ्ख्यं नेष्यतत इति भावः । मुखत इत्यत्राद्यादित्वात्सप्तम्यर्थे तसिः । प्रत्ययग्रहणं किम् । मुके तस्यति मुखतः । तसु उपक्षये क्विप् । धातुत्वादिहअत्वसन्तस्ये॑ति दीर्घो न । मुखतः कृत्वा गत इति काशिकादौ स्थितम् । वस्तुतस्तु प्रत्ययाऽप्रत्ययपरिषाषायैवेष्टसिद्धेः प्रत्ययग्रहणं सुत्यजम् ।", "34062": "<<नाधाऽर्थप्रत्यये च्व्यर्थे>> - नार्धार्थ । नार्थौविनञ्भ्या॑मिति विहितौ नानाञौ । धार्थाः — द्वित्र्योश्च धमुञादयः ।सङ्ख्याया विधार्थे धे॑ति धाप्रत्ययो धाऽर्थको भवतीत्याशयेनोदाहरति — एकधाभूयेत्यादि । एवं द्वैधङ्कृत्य द्वैधम्भूय द्वैधम्भावमित्याद्युदाहर्तव्यम् । ननु नानाञौ प्रत्ययौ, धा च प्रत्ययः, धमुञादिविधौ तुएकाद्धो ध्यमुञ्यन्यतरस्या॑मित्यतोध॑ इत्यनुवर्त्त्यतेषामादेशत्वाऽश्रयणेऽपि स्थानिवद्भावेन धमुञादिर्धाप्रत्ययो भवतीति किमर्थं प्रत्ययग्रहणमित्यक्षिपति — प्रत्ययग्रहणमिति । यद्यप्युक्तरीत्या धाग्रहणेन धमुञादेग्र्रहणं संभवतीत्यर्थग्रहणमिह व्यर्थं, तथापिधमुञन्तात्सवार्थे डदर्शन॑मिति डप्रत्ययान्तसङ्ग्रहार्थमर्थग्रहणं, तत्फलं । तु द्वैधीकृत्येत्यादिप्रयोगः ।", "34063": "<<तूष्णीमि भुवः>> - तूष्णीमि । कृञो निवृत्त्यर्थं तूष्णीङ्ग्रहणम् ।", "34064": "<<अन्वच्यानुलोम्ये>> - अन्वच्या । नन्विहअचः॑ इत्यकारलोपेच्वौ॑ इति पूर्वस्याऽणो दीर्घऽनूचीति निर्देष्टुमुचितम् ।द्युप्रागपागि॑ति सूत्रेप्रतीचोय॑दितिवतो । एवंतिर्यच्यपवर्गे॑ इति सूत्रेऽपितिरश्ची॑त्येव निर्देष्टुमुचितमिति चेत् । अत्र केचित् — शास्त्रोक्तं कार्यमर्थवत्येव भवति । अर्थश्च लोके प्रसिद्ध एव गृह्रते ।अभिव्यक्तपदार्था ये स्वतन्त्रा लोकविश्रुताः । शास्त्रार्थस्तेषु कर्तव्यः॑ इति न्यायात् । अतोऽनुकरणे न भविष्यतीत्यन्वचीति सम्यगेवेति । तच्चिन्त्यम् । एवं तर्हिक्षियो दीर्घात् इत्यादावियङादिकं न स्यात् ।प्रतीचो य॑दित्यपि न सिध्येदिति । वस्तुतस्तुप्रकृतिवदनुकरण॑मित्यस्य वैकल्पिकत्वादन्वचीत्यादिनिर्देशे तु न दोषखः । वैकल्पिकत्वं चयत्तदेतेभ्यः॑ इति सूत्रे त्यदाद्यत्वस्य करणादेकशेषाऽभावदर्शनाच्च निर्णीयत इति प्रागेव प्रपञ्चितम् । अग्रत इत्यादि । अन्वक्शब्दस्यानुकूल्यमात्रे विश्रान्तेर्देशविशेषवाचित्वे नियमो नेति ध्वनयितुमिदम् । पृष्ठतो भूत्वत्यर्थ इति । इहान्वक्शब्देनानुकूलोऽननुकूलो वेति न स्पृश्यते, तस्य देशविशेषमात्र पर्यवसानात् । प्रमाणान्तरेण क्वचिदिहानुकूल्यलाभेऽपि अन्वक्शब्दस्य तत्समर्पणे व्यापाराऽभावाण्णमुल् न, किन्तु क्त्वैव भवतीति व्यवस्था बोध्या । इत्युत्तरकृदन्तम् ।इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीवामनेन्द्रस्वामिचरणसेवकज्ञानेन्द्रसरस्वतीकृतायां सिद्धान्तकौमुदीव्याख्यायां तत्त्वबोधिन्याख्यायां कृदन्तं समाप्तम् । समाप्ता चेयं तत्त्वबोधिनी ।", "34065": "<<शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन्>> - शकधृष । अयमप्यक्रियार्थोपपदार्थ आरम्भः ।भोक्तुं शक्नोति जानाती॑त्यत्र हि भुज्यर्थो विषयतया संबध्यते, नैपुण्यं च गम्यते । ग्लायति भोक्तुमित्यत्र भोजनविषयिण्यशक्तिर्गम्यते ।भोक्तुं घटते॑ इत्यत्र तु भोक्तुमर्हतीति योग्यता ।आरभते भोक्तु॑मित्यत्र भोक्तुं प्रक्रमते = उत्सहते इति भुजेराद्यावस्था ।लभते इत्यत्राऽप्रत्याख्यानम् ।अस्ति भोक्तु॑मित्यादौ तु संभवमात्रम् ।", "34066": "", "34067": "", "34068": "<<भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्या वा>> - भव्य.॒तयोरेवे॑ति नियमात्कर्तर्यप्राप्ते वचनम् । साम्नामिति । कर्मणि षष्ठी । इत्यादीति । प्रवक्तीति प्रवचनीयो गुरुः स्वाध्यायस्य । प्रवचनीयो गुरुणा स्वाध्यायः । उपस्थानीय शिष्यो गुरोः । उपस्थानीयो गुरुः शिष्येण । जायते जन्यः, जन्यमनेन वा । आप्लवते आप्लाव्यः । ण्यत् । आप्लाव्यमनेन वा । शकि लिङ् च । वोढव्य इति । वह प्रापणे इत्यस्मात्तव्यः । हस्यहो ढः॑ इति ढत्वेझषस्तथो॑रिति धत्वेष्टुना ष्टु॑रिति ष्टुत्वेढो ढो लोपः॑ ।सहिवहो॑रित्यवर्णस्यौत्वम् । अत्र ढलोपे कर्तव्ये ष्टुत्वमसिद्धमिति न शङ्क्यम्, आश्रयाऽसिद्धत्वात् । बाधा माभूदिति ।कृत्याना॑मिति शेषः । कृत्योक्तिरिति । कृत्याऽनुकर्षकचकारोक्तिरित्यर्थः । इति तत्त्वबोधिन्याम् कृत्यप्रकरणम् ।अथ क्र्यादयः ।", "34069": "<<लः कर्मणि च भावे चाकर्मकेभ्यः>> - लः कर्मणि च । चकारात्कर्तरि क॑दित्यतः कर्तरीत्यनुकृष्यते । सकर्मकविषयं चेदम् । अकर्मकेषु कर्मणीत्यंशस्य बाधितत्वात्,भावे चे॑त्युत्तरवाक्येन तत्र विशेषविधानाच्च । तदेतदाह - सकर्मकेभ्य इति । भावे चेति । चकारेण कर्तैवाऽनुकृष्यते न तु कर्म, असंभवात् । तदाह — भावे कर्तरि चेति । ननु भावकर्मणोरात्मनेपदविधानात्,शेषात्कर्तरी॑ति परस्मैपदविधानाच्च ज्ञापकाल्लकाराणां भावकर्मकर्तारोऽर्था अनुमातुं शक्यन्त इति किमनेन सूत्रेण मैवम् । असत्यस्मिन्सूत्रे सकर्मकेभ्योऽपि घञादिवद्भावे लकारापत्तौघटं क्रियते देवदत्तेने॑त्यादिप्रयोगः प्रसज्येत, तन्माभूदित्येतदर्थमेतत्सूत्रस्यावश्यकत्वात् । न चैवम्अककर्मकेभ्यो भावे लः॑ इत्येव सूत्र्यतां,भावे अकर्मकेभ्य एवे॑ति नियमार्थमिति वाच्यम्,अकर्मकेभ्यो भाव एवे॑ति विपरीतनियमापत्त्या कर्तरि तेभ्यो लकाराऽनापत्त्या कर्तरि तेभ्यो लकाराऽनापत्तेः । तस्माद्भावे चेति चकार आवश्यकः । न चैवंभावे चाकर्मकेभ्यः॑ इत्येवाऽस्त्विति वाच्यं, भावे इव कर्तर्यप्यकर्मकेभ्य एवेति नियमापत्तौ सकर्मकेभ्यो भाव इव कर्तर्यपि लकारानापत्तेः । नन्वेवमपिलश्च भावे चाऽकर्मकेभ्यः॑ इत्येवास्तु, चकारेण कत्र्रीत्यनुकर्षणाल्लकाराः सकर्मकेभ्यः कर्तरि स्युरकर्मकेभ्यो भावे कर्तरि च स्युरित्यर्थे पर्यवसिते, कर्मणि तूक्तज्ञापकाद्भविष्यन्तीति किमनेन कर्मणीत्यनेनेति चेन्मैवम्, उत्तरसूत्रेतयो॑रित्यनेन कर्मणोऽपि परामर्शार्थं तस्यावश्यकतया ज्ञापकानुसरणक्लेशस्य वैयथ्र्यात् । तस्माद्यथान्यासमेव रमणीयम् । अत्र नैयायिका — लकाराणां कृतावेव शक्तिर्लाघवान्न तु कर्तरि, कृतिमतः कर्तृत्वेन तत्र शक्तौ गौरवात्,देवदत्त॑ इत्यादिप्रथमान्तपदेन तल्लाभाच्च ।देवदत्तः पचती॑त्यत्र हि देवदत्तो विशेष्यः, यत्नो विशेषणम् , आश्रयत्वं तु संसर्गः । रतथा च पाकानुकूलकृत्याश्रयो देवदत्त इत्यादिशाब्दबोधोऽपि सूष्ठूपपद्यते॑ इति । तन्न । पचतीत्युक्ते पाककर्ता कस्मिन्नित्याकाङ्क्षा स्यात्, कस्येति वा । न चैककर्तृका पचिक्रियेति शाब्दबोधाब्युपगमेऽपि क इत्याकाङ्क्षा नोपपद्यत एवेति शङ्क्यं, कर्तृसामान्यबोदे सति क इति कर्तृविशेषाकाङ्क्षायां बाधकाऽभावात् । नापि देवदत्तकर्तृका पचिक्रियेत्युक्तेऽपि कस्मिन्नस्ति कस्य वेत्याकाङ्क्षा दुर्वारेवेति शङ्क्यं, विक्लित्त्यनुकूलव्यापारस्यैव पचिक्रियात्वात्, तदाश्रयस्य देवदत्तस्य कर्तृत्वात्, क्रियाश्रयत्वे निश्चिते कस्मिन्नित्याद्याकाङ्क्षाया अप्रवृत्तेः । किंचपचन्तं देवदत्तं पश्य॑,पचते देवदत्ताय देहि॑,पचमानस्य देवदत्तस्य द्रव्य॑मित्यादौ शतृशानजादीनामपि तिबादिवल्लादेशत्वाऽविशेषेण तेभ्योऽपि कृतिमात्रबोधापत्तेः । न चेष्टापत्तिराश्रयत्वं संसर्ग इत्युक्तत्वेन पाकानुकूलकृत्याश्रयं देवदत्तं पश्येत्याद्यर्थस्वीकारे दोषाऽभावदिति वाच्यं, नामार्थयोर्भेदान्वयस्य स्वपरसिद्धान्तविरुद्धत्वात् । न चैवं नामार्थयोरमेदसंसर्गव्युत्पत्त्यनुरोधेन, शतृशानजाजीनां कर्तरि शक्तिस्तिबादीनां तु कृतावेवेति वैषम्यं स्वीक्रियते, प्रामाणिकगौरवस्याऽदोषत्वादिति वाच्यं,स्थान्येव वाचको लाघवान्न त्वादेशो गौरवा॑दिति स्वसिद्धातन्तस्य परित्यागापत्तेः ।रामः॑,ज्ञानं॑,कतर॑दित्यादौ सोर्विसर्गे सोरमि सोरदडि च कृते लाघवात्सुत्वनैव शक्तिर्न तु तत्तद्रूपेणेत्यादिभवदीयव्यवहारस्याऽसाङ्गत्यापत्तेश्च । एवं च तिबादीनां शत्रादीनां च स्मारकतया लिपिस्थानीयत्वं, बोधकस्तु लकार एवेति स्थितम् । स च शत्राद्यन्ते कर्तरि शक्त इत्यभ्युपगमे तिङन्ते कथं कृतिं बोधयेत् ।अन्यायश्चाऽनेकार्थत्व॑मिति न्यायात् । यदि त#उ वैयाकरणरीतिमाश्रित्य सर्वत्रादेशा एव वाचका इत्याद्यभ्युपगम्यते तर्हि — घटं, घटेन, हरेऽव, विष्णोऽवेत्यादिषुसर्वे सर्वपदादेशाः॑ इति न्यायेन पदस्फोटो वाक्यस्फोटश्च सिध्येदिति भवतां तन्महदनिष्टम् । किं चकर्तरि कृ॑दिति यत्कर्तृग्रहणं तदेवलः कर्मणी॑ति सूत्रे चकारेणानुकृष्यत इति कथं ण्वुलादीनां लकाराणां च शक्तौ वैलक्षण्यम् । न च नामार्थयोरभेदान्वयसंसर्गाभ्यपगम एव ण्वुलादौ कर्तुर्वाच्यत्वे बीजमिति वाच्यं,पचतिरूपं पचतिकल्पं देवदत्त॑ इत्याद्यनुरोधेन तिङ्क्ष्वपि कर्तुरेव वाच्यतौचित्यात् । ननु समुदायस्य नामत्वेऽपि तिङ्प्रत्ययो न नामेति चेत्, पाचक इत्यत्राप्यक इत्येतन्न नामेति तुल्यम् । अकान्तं नामेति चेद्रूपबाद्यन्तमपि नामेति तुल्यम् । ततश्चात्र प्रशस्तपाककर्ता देवदत्त इत्याद्यभेदान्वयो भवद्भिरभ्युपगन्तव्य इति तिङ्क्ष्वपि कर्तुर्वाच्यता स्वीकत्र्वयैव । किं च कर्तुर्वाच्यत्वाऽनभ्युपगमेयुष्मदि समानाधिकरणे मध्यमः॑अस्मद्युत्तमः॑ इति सामानाधिकरण्यप्रयुक्ता पुरुषव्यवस्था,अभिहिते कर्तरि प्रथमे॑त्यादिकं च बवन्मते कथं सङ्गच्छताम् । यत्तु अनभिहित इत्यस्यानभिहितसङ्ख्याक इत्यर्थवर्णनेनदेवदत्तः पचत्योदनम्,ओदनः पच्यते देवदत्तेने॑त्यादौ प्रथमाद्वितीयादिव्यवस्थापनमुक्तं, तन्न, कृत्तद्धितसमासेषु सङ्ख्याभिधानस्याऽप्रसिद्धत्वात् । ततश्चपक्तकव्यस्तण्डुलः॑,शत्यः शतिकोऽआः॑,प्राप्तोदको ग्रामः॑ इत्यादिषुकर्मणि द्वितीये॑त्यस्य प्रवृत्तौ प्रथमा न स्यात् । न चतिष्ठती॑त्यध्याहारेण सङ्ख्याबिधानमिहाप्यस्तीति वाच्यं,स्थित॑ इत्याद्यध्याहारे तदभावात् ।शाब्दिकोऽयं देवदत्तो न तु नैयायिक॑ इत्यादिषुनीलमिदं न तु रक्त॑मित्यत्रेव क्रियापदा[द्य]ध्याहारस्याऽनावश्यकतया आख्यातेन,शब्ददर्दुरं करोती॑ति ठक्प्रत्ययेन वा कर्तृसङ्ख्याया अनुक्तत्वाद्देवदत्ते कर्तरि तृतीयोत्पत्तिप्रसङ्गाच्च । तस्मादनभिहिते कर्तरीत्यादि व्याख्यानमेवाभ्युपेतव्यम् । अपि च धातूपात्तव्यापाराश्रयः कर्ता, तत्राश्रयमात्रं कृतां लकाराणां चार्थो न तु व्यापारोऽपि, तस्य धातुनैव लब्धत्वात् । अत एव कर्ता कारक इत्यादौ प्रकृतिप्रत्ययार्थयोर्नाऽनन्वयः, व्यापाराश्रयस्य प्रत्ययार्थत्वे तु तस्य प्रकृत्यर्थेन व्यापारएमान्वयः क्लिष्टः स्यात् । यस्तु वदति — कृदातोः कृतिरर्थः, कृत्प्रत्ययस्यापि कृतावेव शक्तिर्न तु कर्तरि ।कर्तरि कृ॑दित्यत्रं हि कर्तरीति भावप्रधानो निर्देशः । कर्तृत्वं कृतिमत्त्वम् । तच्च कृतिरेवायत्र तु देवदत्तादिपदसमभिव्याहारस्तत्र तृजादौ कृतिमति लक्षणे॑ इत्यादि, तन्मते पूर्वोक्तकर्तेत्यादौ सुतरामनन्वयः ।कर्मवत्कर्मणे॑ति सूत्रे करोतिरुत्पादनार्थः, उत्पत्तिश्च कर्मस्था, यत्नार्थकत्वे तुकरिष्यते घट॑ इत्यादि न सिद्ध्येदिति वक्ष्यमाणदूषणं च दुरुद्धरम् । आश्रयमात्रस्य प्रत्ययार्थत्वे तुरथो गच्छती॑त्यत्र रथस्याचेतनस्य यत्नाभावेऽपि गमनानुकूलचक्रभ्रमणादिव्यापाराश्रयत्वान्न काचिदनुपपत्तिः । एवं स्थिते कृतौ शक्तिरित्यास्योक्तिसंभव एव नास्ति, कृतेरपि व्यापारविशेषतया प्रायेण धातुत एव लाभात् । जानातीत्यादावाश्रयत्वं प्रत्ययस्यार्थ इति स्वीकृत्य यत्नार्थत्वस्य त्वयापि वक्तव्यत्वात् । नहि यत्नमन्तरेण ज्ञानं नोदेतीति कश्चिदभ्युपैति । तस्मात्कृतां तिङां च वैलक्षण्यं दुर्लभमिति कत्र्रर्थकत्वमभ्युपेयम् । एतेन कत्र्रधिकरणे आख्यातवाच्यत्वं कर्तुर्निरस्य जञ्जभ्यमानाधिकरणे यङन्ताद्विहितस्य जञ्जमान इति सानचः कर्तृवाचकत्वं स्वीकुर्वन्तो मीमांसका अपि प्रयुक्ताः । यत्तु तैरुक्तं-शानजंशे॒कर्तरि कृ॑दिति व्याकरणं शक्तिग्राहकमस्ती॑ति । तन्न । कृद्वाक्यशेषो ह्रयमर्थाकाङ्क्षायामनिर्दिष्टार्थेषु ण्वुलादिष्वेवोपतिष्ठतेआकाङ्क्षितविधानं ज्यायः॑ इति न्यायात्, न तु शत्रादिषु । स्थानिबूतलाकारार्थेनैव तेषां निराकाङ्क्षत्वात्, अन्यथा भावे कर्मणि च शानचो दौर्लभ्यापत्तेः । ततश्चशय्यमाने आस्यमाने चायं गत॑ इत्यादिप्रयोगो भावे न स्यात् । कर्मणि तुक्रियमाण॑ इत्यादिप्रयोगो न स्यात् । यत्तु भट्टपादा आहुः -कर्तरि यदेकत्वं तत्र तिप्, कर्तरि यद्द्वित्वं तत्र तसित्यादिक्रमेणलः कर्मणी॑त्यस्यद्व्येकयो॑रित्यादेश्चैकवाक्यतया व्याख्यानान्न कर्तृवाच्यता सूत्रादायाती॑ति । तञ्चिन्त्यम् ।तान्येकवचनद्विवचने॑ति विहितद्विवचनादिसंज्ञा हि तिबाद्यादेशनिष्ठा । ततश्च द्विवचनादिसंज्ञाकतिबादिविधिनाद्वेयकयो॑रित्यस्यैकवाक्यताऽस्तु । न च तिबादिविधौ कर्तरीत्यस्ति यद्द्वित्वैकत्वादिविशेषणतयाक कथंचिन्नीयेत । ननुलः कर्मणी॑ति सूत्रे कर्तरि कृ॑दित्यतोऽनुवृत्तं कर्तृग्रहणं तिबादिविधावस्त्येव, लविधि-तिबादिविध्योरप्येकवाक्यतास्वीकारादिति चेत् । सत्यम् । वाक्यैकवाक्यता हि सा, न तु पदैकवाक्यता,लः कर्मणी॑ति विहितलकारानुवादेन तिबाद्यादेशविधेः प्रवृत्तत्वात् । तथा च लविधौ श्रूयमाणं कर्तृग्रहणं कथं सङ्ख्यां विशिनष्टु । न हि यत्र कर्तृग्रहणं तत्र सङ्ख्योपस्थापकमस्ति, लकारस्य द्विवचनादिसंज्ञाविनिर्मुक्तत्वात् । ततश्चकर्तरि यदेकत्व॑मिति व्याख्या कथमपि न संभवत्येव । स्यादेतत् — लः कर्मणी॑ति सूत्रेल॑ इत्यकारानुबन्धकयोर्लङ्लटोः सामान्यग्रहणं न भवति, किन्तूत्सृष्टानुबन्धकलकाराणां सामान्यग्रहणमिति निर्विवादम् । तत्रल॑ इति जसन्तं माभूत् । किं तु ङसन्तमस्तुलः परस्मैपद॑मितिवत् । आदेशापेक्षा चेयं षष्ठी — लस्य य आदेशः स कर्मणि चेत्यादि । न चाऽविहितस्य लस्यानुवादोन संभवतीति वाच्यं,वर्तमाने ल॑डित्यादिभिरेव लविधानात् । तथा च लस्य स्थानेय आदेशः स सकर्मकात्कर्मणि कर्तरि च [यदेकत्वं तत्र] स्यादकर्मकाद्भावे कर्तरि चेत्याद्यर्थः सुलभ इति भट्टपादोक्त्योजनिकानिर्बाधैवेति चेत् । अत्राहुः — ल इत्यस्य षष्ठन्तत्वे आदेशानामेवाऽर्थ उक्तः स्यात् । सोऽपि तिबादिनामेव, न तु शवादीनां , तेषां द्विवचनादिसंज्ञाविरहात् ।द्व्येकयो॑रित्यादिनाऽस्यैकवाक्यतायाभवद्भिरुक्तत्वात् । न च भवदुक्तरीत्याकर्तरि कृ॑दित्यनेन निर्वाहः । भावे कर्मणि च शानचो दौर्लभ्यापत्तेर#उक्तत्वात् । न च शानज्विधिना सहाऽऽत्मनेपदव्यवस्थाकपकानामेकवाक्यतयाभावकर्मणो॑रित्यनेनेष्टसिद्धिः । सकर्मकादपि भावे शानजापत्तेः । किं च जसन्तत्वे श्रुतेनैव संबन्धः, षष्टन्तत्वे त्वादेश इत्यध्याहाराद्गौरवमित्यादि । अत्रेदं बोध्यम् — भावे चाकर्मकेभ्यः॑ इत्यकर्मकग्रहणेनाऽविवक्षितकर्माणोऽपि गृह्यन्ते । अत एवणेरणौ॑ इति सूत्रे — नेह पच्यते नेह भज्यते इति भावे लकार इति हरदत्तः ।अत्यन्ताऽविद्यमानकर्मकामामेव ग्रहणं,नेह, पच्यते॑ इत्यादौ तु कर्मण्येव लकारः । गम्यमानत्वाच्च कर्म न प्रयुज्यते॑ इति मतान्तरम् । एतच्चगतिबुद्धी॑त्यादिसूत्रे हरदत्तग्रन्ते स्पष्टम् । यत्तु कैश्चिदुक्तम् — इहअविवक्षितकर्मणां भावे लकार इति प्रसादकृतोक्तं भाष्यादिविरोधादयुक्त॑ मिति, तच्चिन्त्यम्, पक्षद्व्यस्यापि भाष्यकैयकटादिग्रन्थारूढत्वात् । प्रत्युताऽविवक्षितकर्माणोऽप्यकर्मका इति पक्ष एव प्रबलः । तथाहिसमानकर्तृकेषु तुमु॑न्निति सूत्रे इच्छता क्रियत इति भावे लडुक्तो हरदत्तेन ।णेरध्ययने वृत्त॑मितिसूत्रे कैयट हरदत्तादिभिरपिनपुंसके भावे क्तोऽकर्मकेभ्य एव,तयोरेव कृत्यक्ते॑त्यत्र कृन्मात्रस्य ग्रहणात्, तत्र भावेचाऽकर्मकेभ्य इत्यनुवर्तनात्, अन्यथा घटं कृतमिति प्रसज्येते॑ति सिद्धान्तितम् । एवं स्थिते यद्यविवक्षितकर्मणोऽपीह सूत्रेऽकर्मकग्रहणेन न गृह्रेरन्, तर्हि पीता गावो भुक्ता ब्राआहृणा इत्यादौ भावे क्तान्तादर्श आद्यजित्यादि निष्ठादिप्रकरणे स्वयमेव वक्ष्यमाणम्,आदिकर्मणि क्तः॑ इति सूत्रे हरदत्तेन वक्ष्यमाणं, कृतपूर्वीत्यत्र भावे क्त इति कैयटाद्युक्तं च कथं सङ्गच्छेत् । कथं चगतं तिरश्चीन॑ मित्यादिप्रयोगाः सङ्गच्छेरन् ।गतिबुद्धी॑ति सूत्रे त्वकर्मकग्रहणेनाऽविवक्षितकर्मके॑ति सूत्रेऽपि न गृह्यन्ते,तेन हि सूत्रेण कर्तर्यपि क्तो विधीयत इति दत्तवान्पक्ववानित्याद्यर्थे दत्तः पक्व इत्याद्यापत्तेः । इह सूत्रे त्विवक्षितकर्मणाकर्मकत्वेन ग्रहणे न कोऽपि दोष इत्यास्तां तावत् ।", "34070": "<<तयोरेव कृत्यक्तखलर्थाः>> - तयोरेव । तच्छब्देन भावकर्मणी परामृश्येते, एवकारस्तु क्रतृयोगव्यवच्छेदार्थः । तदाह — भावकर्मणोरेवेति । यद्यप्येतत्तक्रकौण्डिन्यन्यायेनैव लभ्यते तथापि स्पष्टप्रतित्त्यथमेवकार इत्येके । तन्न्यायस्याऽनित्यज्ञापनार्थमित्यन्ये ।", "34071": "<<अदिकर्मणि क्तः कर्तरि च>> - आदिकर्मणीति । आद्येषु क्षणेषु भूतेषु सर्वस्याः क्रियाया भूतत्वाऽभावान्निष्ठा न प्राप्नोतीति वचनम्, आदिकर्मणि क्तस्य कर्तरि विधानार्थं चेत्याहुः । चादिति । अन्यथा तक्रकौण्डिन्यन्यायेन भावकर्मणोर्न स्यादिति भावः ।", "34072": "<<गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च>> - गत इति ।अनुदात्तोपदेशे॑ति मलोपः । प्राप्त इति । प्रपूर्व आप्लृ व्याप्तौ । व्याप्तिरपीह सूत्रे गतिशब्देन विवक्षितेति भावः । ग्लान इति । ग्लै हर्षक्षये । अकर्मकोऽयम् ।आदेच॑ इत्यात्वेसंयोगादेरात॑ इति नत्वम् । शेषमिति ।अधिशीङस्थासां कर्मे॑ति कर्मत्वम् । अधिष्ठित इति ।द्यतिस्यती॑ति इत्त्वम् । उपोषित इति ।वसतिक्षुधो॑रितीट् ।शासिवसी॑ति षत्वम् । अनुजीर्ण इति । जृष् वयोहानौ ।ऋत इद्धातोः॑हलि चे॑ति दीर्घः । नत्वणत्वे ।", "34073": "", "34074": "<<भीमादयोऽपादाने>> - भीमः । भीष्म इति ।भियो हेतुभये षु॑गिति मप्रत्ययसंनियोगेन वैकल्पिकः षुक् । प्रस्कन्दत्स्मादिति प्रस्कन्दनः । अपादाने ल्युट् । प्ररक्षत्यस्मादिति प्ररक्षः । पचाद्यच् । मुह्रत्यस्मादिति मूर्खः ।मुहेः खो मूर्च॑ । स्खलत्यस्मादिति खलतिर्निष्केशशिरा इति प्रागुक्तम् । ताभ्यामितीति ।ताभ्या॑मित्यनुक्तौ तु सन्निहिताऽपादानस्यैव परामर्शादपादानादन्यत्रेत्यर्थः स्यादिति भावः । ततोऽसाविति । तनोतेः कर्तरि क्तः ।अनुदात्तोपदेशे॑त्यनुनासकिलोपः । असौ ततो भवति = विस्तृतो भवतीत्यर्थे तनोतेस्तुन् । वृत्तमिति । गमनादिना निष्पन्नं यत्तद्वत्र्म । वृतेः कर्मणि मनिन् ।अयनं वत्र्ममार्गाऽध्वे॑त्यमरः ।", "34075": "", "34076": "<<क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः>> - मुकुन्दस्येति । आस्यतेऽस्मिन्नित्यासितम् । आसनमित्यर्थः । यायतेऽस्मिन्निति यानं मार्गः । भुज्यतेऽस्मिन्निति भुक्तं । भोजनमित्यर्थः । त्रिष्वपिअधिकरणवाचिनश्चे॑ति कर्तरि षष्ठी ।", "34077": "<<लस्य>> - वणग्रहणे प्रत्ययग्रहमपरिभाषा, अर्थवद्ग्रहणपरिभाषा च न प्रवर्तते इति लुनाति, चूडाल इत्यादौ तिबाद्यादेशः कुतो न भवतीति चेत् । अत्राहुः -लः कर्मणी॑ति सूत्रे निर्दिष्टानां कत्र्राद्यर्थानामनुवृत्तेः कत्र्राद्यर्थे विहितस्य लकारस्य ग्रहणमिति । अतोऽपि तिबाद्यादेशानुवादेन कत्र्राद्यर्थ विधिरिति कल्पना निरस्ता । लस्थानिकतिबादीनां कत्र्राद्यर्थर्थे विहितस्य लस्य तिबादिविधानमित्यन्योन्याश्रयापत्तेः । द्वा धातोरित्यधिकाराद्धातोर्विहितस्यैव लस्येह ग्रहणमिति नोक्ताऽतिप्रसङ्गः । लस्येत्संज्ञा तु न भवति, फलाऽभावात् । न च लित्स्वरः फलं, णलो लित्त्वेन तदभावस्य ज्ञापनात् । नाप्यश्रवणमेव फलं, तदुच्चारणस्यानर्थक्यापत्तेः, आदेशविधिनैवाऽश्रवणलाभाच्च । लसय् तिबादिस्थानित्वाभ्युपगमे तुलः परस्मैपद॑मित्यादि स्वरसतः सङ्गच्छत इति दिक् ।", "34078": "<<तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्>> - समाहारे द्वन्द्वः । इटष्टकार आगमलिङ्गं न भवति, सप्तदशभिरादेशैः समभिव्याहारात् । किंतुइटोऽ॑दिति विशेषणार्थः ।एर॑दित्युच्यमाने एधेवहि एधेमहीत्यत्रापि स्यात्, वर्णग्रहणे प्रत्ययग्रहणाऽर्थवद्ग्रहणपरिभाषयोरप्रवृत्तेः । केचित्तु — इटोऽ॑दित्यत्र लिङ इत्यनुवर्तनाल्लिङ्गादेशस्येवर्णस्येति सामानाधिकरण्येन व्याख्याने एधेवहि एधेमहीत्यादावतिप्रसङ्गो नास्त्येव । न हि तत्र इकामात्रमादेशो भवति । तेनइटोऽ॑दित्यत्र टकारः स्पष्टप्रतिपत्त्यर्थ एवेत्याहुः । तच्चिन्त्यम् । वहि — महीत्यस्यापि स्थानिवत्त्वेन लिङ्त्वात् । महिङो ङकारस्तिङ् तङिति प्रत्यानिषेधो न, तथा च वृश्चतेः पृच्छतेश्च कर्मणि रलिटि वव्रश्चिमहे पप्रच्छिमहे इत्यत्रग्रहिज्ये॑ति संप्रसारणं न ।", "34079": "<<टित आत्मनेपदानां {टे}रे>> - ननु शानचोऽपि लस्थानिकात्मनेपदत्वात्पचमानो यजमान इतय्त्र टेरेत्वेन भवितव्यमिति चेत् । अत्राहुः — प्रकृतैस्तिबादिभिरात्मनेपदानां विशेषणान्न दोषः । एवं तुटितस्तङां टेरे॑ इत्येव वक्तुमुचितमिति ।", "34080": "<<थासस्से>> - एकारोच्चारणं ज्ञापनार्थमितिलिटस्तझयो॑रित्यत्र स्फुटीभविष्यति । अतो गुणे इति । इट एत्वे कृते आद्गुणं बाधित्वा वृद्धौ प्राप्तायामनेन पररूपमित्यर्थः ।", "34081": "<<लिटस्तझयोरेशिरेच्>> - एशिति शकारकरणकारविशिष्टतकारस्यादेशत्वाय ।", "34082": "<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> - अत्र थशब्दस्याऽकारो विधीयमानोऽन्त्यस् प्राप्नोति । न चाऽकारस्याऽकारविधौ निरर्थकत्वमिति वाच्यं, यथासङ्ख्यसंपादनेन कृतार्थत्वात् । अत्राहुः - धातोरित्यधिकारात्आदेः परस्ये॑ति व्यञ्जनमात्रस्य कृतेर, द्वयोःअतो गुणे॑ इति पररूपम् । यद्वा द्वयोरकारयोः पपरूपेण सूत्रे निर्देशः, तथा चानेकाल्त्वात्सर्वादेशे सिद्धमिष्टमिति । ननु सुबन्थानामेव द्वन्द्वस्तत्र त्वकारद्वयकल्पनायां सवर्णदीर्घ एव स्यादिति चेन्मैवम् । आदेशानां स्थान्यर्थेनैवार्थवत्त्वात्थशब्दस्य विधीयमानमकारद्वयं प्रत्येकमर्थवन्न भवतीति समुदितस्य प्रातिपदिकत्वेनअतो गुणे॑ इति पररूपस्यैव प्रवृत्तिः॥", "34083": "<<विदो लटो वा>> - विदो लटो वा । पञ्चमीयं, न तु षष्ठी, तेन विद्यतिविन्दत्योरव्यवहितपरस्य लटोऽभावान्नैते आदेशाः । तदाह — वेत्तेरिति ।", "34084": "<<ब्रुवः पञ्चानामादित आहो ब्रुवः>> - ब्राउवः पञ्चानाम् ।विदो लटो वे॑त्यतो लटो वेतित वर्तते ।ब्राउव॑ इत्येतदादिमं पञ्चम्यन्तमन्तिमं तु पञ्चम्यन्तमन्तिमं तु षष्ठन्तमित्याशयेनाह — ब्राउवो लट इत्यादि । चर्त्वमिति । प्रक्रियालाघवात्आहस्तः॑ इत्येव सुवचमित्याहुः ।", "34085": "<<लोटो लङ्वत्>> - ॒लोट॑ इत्युपमेये षष्ठीदर्शनात् [उपमानादपि] षष्ठन्तादेव वतिः, तदाह — तेनेति । अडादौ तु नातिदिश्येते, न हि तौ लङः क्रियेते, किं तु लङि अङ्गस्येति भावः॥ नन्वेमपि यान्तु वान्तु इत्यत्रलङः वाग्रहणमिहानुवत्र्य व्यवस्थितविभाषाश्रयणान्न जुस् । यद्वालङः शाकटायनस्ये॑ति सूत्रेनित्यं ङितःर॑ इत्यतोङित॑ इत्यनुवृत्त्यैवेष्टसिद्धेर्लचङ्ग्रहणमतिरित्यते, लुङि सिचा, लृङि स्यप्रत्ययेन च व्यवधानात्, लिङि तुझेर्जु॑सिति जुसो विहितत्वाच्च,ङित॑ इत्यस्य लडएव पर्यवसानात् । ततो लड्ग्रहणं विभज्यते । नियमश्चायंलडेव यो लङ् तस्यैव झेर्जुस् न तु लङ्वद्भावेन यो लङ् तस्ये॑त्यतो नोक्तदोष॑ इति । तञ्चिन्त्यम् । अदुरित्यत्रसिजभ्यस्ते॑ति नित्यजुसं बाधित्वा परत्वाच्छाकटायनस्येति विकल्पप्रसङ्गात् । तस्माल्लड्ग्रहणं शाकटायनसूत्रे कर्तव्यमेव, न तु तदतिरिच्यते । न चआतः॑ इति सूत्रेणाऽदुरित्यत्र नित्यं रजुस्स्यादिति वाच्यं, तस्य नियमार्थत्वेन विद्यर्थत्वा.योगात्, अन्यथा अभूवन्नित्यत्रसिजभ्यस्ते॑ति जुस् दुर्वार एव स्यादिति नव्याः॥ यदि त्विहआतः॑ इति सूत्रमावर्त्त्य विध्यर्थता नियमार्थता च व्याख्यायेत तदा तूक्तद#ओषाऽभावाद्यद्वेति समाधानमपि सम्यगेव, शाकटायनस्येति जुसो वैकल्पिकत्वात् । तदभावपक्षे पुनःप्रसङ्गविज्ञानात्सिजभ्यस्ते॑ति जुसि स्वीकृते तु सुतरां सम्यगेव, परं तु जुह्वतु विन्दत्वित्यत्र जुस्वारणाय व्यवस्थितविभाषा त्वाश्रयणीयैवैति दिक् ।", "34086": "", "34087": "<<सेर्ह्यपिच्च>> - सोऽपिच्चेति । एवं च पित्त्वेनानुदात्तस्य सिपः स्थाने यो हिरादेशः स तुस्थानेऽन्तरतमः॑ इत्यनुदात्तो न भवति,जहि शत्रून्ट,स्तुहि श्रुतम्॥", "34088": "", "34089": "", "34090": "", "34091": "", "34092": "<<आडुत्तमस्य पिच्च>> - ॒स॑ इति तच्छब्देन यस्याऽऽडागमः स परामृश्यत इत्याहुः॥", "34093": "<<इतश्च>> - ॒इतश्च लोपः॑ इति सूत्रात्परस्मैपदेष्वित्यनुवृत्तं षष्ठएकवचनान्ततया विपरिणमय्य इत इत्यनेन विशेष्येते । तदाह — परस्मैपदमिकारान्तं यत्तस्येति । प्राचा तुपरस्मैपदेष्विकारस्य लोपर॑ इत्युक्तम्, तदयुक्तम्, भवेदित्यादावतिव्याप्तेः । ननुअतो येयः॑ इत्यत्र ईय् दीर्घादिरस्तु, एवं च नोक्तातिव्याप्तिःइतश्चे॑ति तपरकरणात् । अत एव अबोभवीदित्यादावपि न दोष इति चेत् । मैवम् । करुदेर्लङि अरुदितामित्यादौ दोषध्रौव्यादिति मनोरमायां स्थितम्॥", "34094": "", "34095": "", "34096": "", "34097": "", "34098": "", "34099": "<<नित्यं ङितः>> - सकारान्तस्येति ।ङिल्लकारोत्तमसकारस्ये॑ति प्राचो व्याख्यानं त्वयुक्तं, भूयासमित्यादावतिप्रसङ्गः स्यादिति भावः । ङिदुत्तमस्येति । ङिल्लकारोत्तमस्येत्यर्थः । तेन भवाव भवामेत्यादौ नातिप्रसङ्गः॥", "34100": "`इतश्च लोपः` इति सूत्रात्परस्मैपदेष्वित्यनुवृत्तं षष्ठ�एकवचनान्ततया विपरिणमय्य इत इत्यनेन विशेष्येते। तदाह - परस्मैपदमिकारान्तं यत्तस्येति। प्राचा तु `परस्मैपदेष्विकारस्य लोपर` इत्युक्तम्, तदयुक्तम्, भवेदित्यादावतिव्याप्तेः। ननु `अतो येयः` इत्यत्र ईय् दीर्घादिरस्तु, एवं च नोक्तातिव्याप्तिः `इतश्चे`ति तपरकरणात्। अत एव अबोभवीदित्यादावपि न दोष इति चेत्। मैवम्। करुदेर्लङि अरुदितामित्यादौ दोषध्रौव्यादिति मनोरमायां स्थितम्॥", "34101": "", "34102": "<<लिङस्सीयुट्>> - सलोप इति ।लिङः सलोपोऽनन्त्यस्ये॑त्यनेन । एधेयातामिति । सीयुटः सलोपे आद्गुणः ।", "34103": "<<यासुट् परस्मैपदेषूदात्तो ङिच्च>> - क्वचिदिति । ज्ञापनफलं तु वक्ष्यमाणेत्यादौ टिदुगिल्लक्षणङीबभाव इतिटिड्ढे॑ति सूत्र एवोक्तम् ।रुया॑दित्यादौउतो वृद्धिर्लुकि हली॑ति न प्रवर्तते, भाष्येपिच्च ङिन्न, ङिच्च पिन्ने॑ति व्याख्यानाद्विशेषविहितेन ङित्त्वेन पित्त्वस्य बाधादित्यदादौ वक्ष्यमाणतया यासुतटो ङित्त्वं न ज्ञापकमित्यपरितोषादाह — श्नः शानचः शित्त्वमिति॥", "34104": "<<किदाशिषि>> - ङित्त्वेनैव गुणवृद्धिप्रतिषेधेसिद्धे किद्वचनमिज्यादित्यादौ संप्रसारणार्थं, जागर्यादित्यत्र गुणार्थं च । जागर्तेर्गुणो हि ङिति पर्युदस्यते, ङित्त्वं चेह विशेषविहितेन कित्त्वेन बाध्यते । सलोप इति । झल्परसंयोगादित्वेन यासुटः सस्य लोपः, सुटस्तु पदान्तसंयोगादित्वेनेति भाव मनोरमायां स्थितं, तदसंबद्धमिति मत्वाऽत्र निष्कर्षमाहुः — भूयास्तां, भूयास्तं, भूयास्तेत्यत्र झस्पसंयोगादित्वेन यासुटः सस्य लोपः । भूयादित्यत्र तु सुट इव यासुटोऽपि सस्य लोपः पदान्तसंयोगादित्वेनैव । अन्यथा झस्परसंयोगादिलोपस्याऽसिद्धत्वात्संयोगान्तलोप एव स्यात् । भृष्ट इत्यादौ सावकाशस्य झस्पसंयोगादिलोपस्य संयोगान्तलोपऽबाधकत्वादिति ।", "34105": "", "34106": "<<इटोऽत्>> - एधिषीध्वमिति । इणः परत्वेऽपि इणन्तादह्गात्परत्वाऽभावात्इणः षीध्वमि॑ति ढत्वं न भवति ।", "34107": "<<सुट् तिथोः>> - तकारादिकार उच्चारणार्थः ।", "34108": "", "34109": "", "34110": "<<आतः>> - सिज्ग्रहणमंनुवर्तते,झेर्जु॑सिति च । सिच आकाराच्च परसय् झेर्जुस् । तत्र प्रत्ययलक्षणेन सिचः परत्वमाकारात्तु श्रुत्या । एवं स्थिते फलितमाह — सिज्लुकीति ।गातिस्थे॑ति सूत्रेणेत्यर्थः ।सिज्यभ्यस्ते॑ति पूर्वसूत्रेणवादन्तादपि झेर्जुस् सिद्धे स्थिते नियमार्थोऽयमित्याह — आदन्तादेवेति ।", "34111": "<<लङः शाकटायनस्यैव>> - प्रणिदातीति ।शेषे विभाषे॑ति णत्वविकल्पः । अदासीदिति । अघुत्वान्न सिज्लुक् । नमः ख्यात्रे इति । यद्ययमाद्र्धधातुकेऽपि प्रयुज्येत तर्हि तृजन्तेऽस्मिन्परेशर्परे विसर्जनीयः॑ इत्यस्याऽप्रवृत्त्याकुप्वो॑रिति जिह्वामूलीयो दुर्वारः स्यादेवेतितदभावः ख्शादित्वे प्रयोजन॑मिति वार्तिककाराद्युक्तिव्र्याकुप्येतेति भावः । संपूर्वस्येत्यादि । सङ्ख्यातीत्यादि प्रयोगो नास्त्येव ।सङ्ख्ये॑ति प्रयोगस्तु ख्याञादेशस्येति न्यासकाराशयः । मा माने । नास्येति ।घुप्रकृतिमा॑ङिति पाठान्ङितामेव तत्र ग्रहणं, ततश्चशेषे विभाषे॑ति विकल्प एव प्रवर्तत इत्याशयेनाह — प्रणिमातीत्यादि । वच परिभाषणे । उवाच । वक्ता । वक्ष्यति । वक्तु । वक्तात् । अवक् । अवक्ताम् । अयमन्तिपर इति । तथा च — वचन्ति, वक्ष्यन्ति, वचन्तु, अवचन्, अवोचन्, अवक्ष्यन्नित्येतेऽसाधवः । बहुवचनपर इति । अस्मिन् पक्षे लटि मध्यमे — वक्थ । उत्तमे तु — वच्मः । लिटि — ऊचुः । मध्यमे- उच । उत्तमे तु — ऊचिम । लुटि - वक्तारः । लिङि — उच्यासुः । वच्यासुरित्यादयोऽप्यसाधवः । झिपर इति । अस्मस्तु पक्षे — वक्थ वच्मः ऊच ऊचिमेत्यादयः साधव इति दिक् ।", "34112": "<<द्विषश्च>> - दुह प्रपूरणे । प्रपूरणं — त्याजनम् । लङ्वदपीति । अदुग्ध । अदुग्धाः । अधुग्ध्वम् । अदुह्वाहि । दिह । उपचयो वृद्धिः । प्रणिदेग्धीति ।नेर्गदे॑ति णत्वम् । अलिक्षतेति ।शल इगुपधे॑ति क्सः । अलिक्षाताम् । अलिक्षन्त । अलीढेति ।लुग्वा दुहे॑ति वा लुक् । अलीढाः । अलीढ्वम् । चक्षिङ् । दर्शनेऽपीति ।विआआ रूपा अभिचष्टे शचीभि॑रित्यत्र दर्सनार्थत्वेन व्याख्यातत्वादिति भावः । युजर्थ इति ।अनुदात्तेतश्च हलादे॑रिति युच् । अन्तेदित इति ।इदितः॑ इति नुम्विधौगोः पादान्ते॑ इत्यस्मादन्त इत्यस् मादन्त इत्यनुवर्तत इति भावः । एवं च नुमागमशङ्काऽनुत्थानाय चक्षिङ इकारस्थानेऽकार एवासक्तुमुचितः । अनुदात्तेत्त्वेनैव तङि सिद्धे ङकारो व्यर्थ इत्याशङ्क्याह — ङकारस्त्विति । स्फायन्निति ।स्फायी वृद्धा॑वित्यनुदात्तेतो लटः शत्रादेशः । चष्टे इति ।स्को॑रिति कलोपः । ष्टुत्वम् ।", "34113": "<<तिङ्शित्सार्वधातुकम्>> - धात्वदिकारोक्ता इति कम् । हरीन् । शसःसार्वधातुकमपि॑दिति ङित्त्वेघेर्ङिती॑ति गुणः स्यात्, लिहः श्रिय इत्यादिशसन्तेषुसार्वधातुके य॑गिति यक्क स्यात् । केचित्तु वारिणी इत्यत्र नुमि कृतेऽपि लघूपधगुणः स्यादित्याहुः । तन्न । क्ङितीति निषेधात्, इगन्तत्वप्रयुक्तस्य नुमो गुणप्रयोजकत्वे सन्निपातपरिभाषाविरोधाच्च ।", "34114": "<<आर्धधातुकं शेषः>> - ॒धातोरेकाचः॑ इत्यत्र धातोरित्यनुवर्तमाने पुनर्धातोरित्यधिकारसूत्रारम्भादिदं लभ्यते । एतच्च तत्रैव मनोरमायां स्पष्टम् । दातोरितिविहित इति किम् । लूभ्यां । जुगुप्सते॥", "34115": "<<लिट् च>> - आर्धधातुकसंज्ञ एवेति ।लङः शाकटायनस्ये॑ति सूत्रादेवकारोऽनुवर्तत इति भावः ।", "34116": "<<लिङाशिषि>> - आर्धधातुकसंज्ञ इति ।लङः शाकटायनस्यैवे॑त्येत एवकारोऽनुवर्तनीयः । अन्यथा एकसंज्ञाधिकारबहिर्भूत्तवेन सार्वधातुकसंज्ञापि स्यात्, ततश्च पक्षे शबादिः स्यात् ।", "34117": "", "41001": "<<ङ्याप्प्रातिपदिकात्>> - ङ्याप्प्रातिपदिकात् । समाहारद्वन्द्वादेकवचनम् ।ङी॑ति ङीप्ङीष्ङीनां सामान्यग्रहणम् ।आ॑विति च टाप्डाप्चापाम् । आपञ्चमपरिसमाप्तेरिति । ननुघकालतनेषु॑ — इति ज्ञापकात्सुबन्तात्तद्धितोत्पत्तिरित्यभ्युपगतेः किमर्थस्तद्धितेषु प्रातिपदिकाधिकार इति चेदत्राहुः — असति त्वधिकारेअत इ॑ञित्यत्राऽत इत्येतत्सुबन्तस्यैव विशेषणं स्यात्, ततश्च दक्षस्यापत्यमित्यत्रैव इञ्स्यान्न तु दक्षयोर्दक्षाणामित्यत्र । किञ्चवद्धाच्छः॑ इत्यत्रवृद्ध॑-मित्येतत्सुबन्तविशेषणं मा भूत् । अन्यथा जानन्तीति ज्ञाः,इगुपधे॑तु कः ।ज्ञानामय॑मित्यत्र सुबन्तस्य वृद्धत्वाच्छो न भवति, किन्त्वणेव भवति । शब्दकौस्तुभे त्वसत्यस्मिन्नधिकारे वाक्यादपि कप्रत्ययादयः स्युः । ततो विशिष्यस्य प्रातिपदिकतया [सकल]सुब्लोपे स्पष्टमेवानिष्टमिति स्थितम् । लिह्गविसिष्टस्येति । लिङ्गबोधकप्रत्ययविशिष्टस्यापीत्यर्थः । परिभाषायाः प्रयोजनः-आश्रूः । प्रत्ययान्तत्वेनाऽप्रातिपदिकत्वेऽपि इह स्वादयः । न चआशुरः आओ॑ति निर्देशादेव स्वादिसिद्धिरिति वाच्यम् । निर्देशस्य शब्दपरत्वात् ।विपाराभ्यां जेः॒॑ङेर्यः॑ इतिवत् । किंच कुमारीमाचष्टे कुमारयति ।णाविष्ठव॑दिति टिलोपः । एवं यामिन्य इवांचरन्ति अहानियामिनयन्ती॑त्यत्राचारे क्विबपि फलम् । ङ्याब्भ्यां प्रागिति । तेनएनिका॑आर्यका॑ च सिध्यति । तथाहिन सामिवचने॑ इति ज्ञापयिष्यमाणोऽत्यन्तस्वार्थिकः क एतार्याशब्दाभ्यां ङ्यापौ बाधेत, ततश्चएतिका॑आर्यिके॑त्येव रूपं स्यात् । ङ्याब्ग्रहणसामर्थ्यात्तु ङीबन्तात्कनिएनिके॑-त्यपि सिध्यति ।वर्णादनुदात्ता॑दित्यस्य वैकल्पिकत्वात् । आबन्तात्कनि तुउदीचामातः स्थाने॑ इतीत्त्वविकल्पादार्यका आर्यिकेति रूपद्वयं सिध्यति । वस्तुतस्तु ङ्यापोग्र्रहणं मास्तु,घकालतनेषु॑ — इत्यलुग्विधानसामर्थ्यात्सुबन्तात्तद्धितोत्पत्तिरिति हि निष्कर्षः । तथा च सुपः प्रागेव ङ्यापौ प्रवर्तेते । स्वार्थद्रव्यलिङ्गसङ्ख्याकारकप्रयुक्तकार्याणां क्रमिकत्वस्वीकारादित्यवधेयम् ।", "41002": "<<स्वौजसमौट्छस्टाभ्याम्भिस्-ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्>> - स्वौजसमौट् । समाहारे द्वन्द्वः । सुङस्यौरिति । सोरुकारःअर्वणस्त्रसा॑वित्यत्र विशेषणार्थः ।असी॑त्युक्ते हि असकारादाक्त्यिर्थः स्यात् । तथा चवाजमर्वत्सु॑ इति न सिध्येत् । ङसेरिकारःटाङसिङसां॑ — ॒ङसिङयोः स्मात्स्मिनौ॑ इत्येतदर्थः । जश्शसोर्जकारशकारौजसः शी॑ तस्माच्छसौ नः॑ इत्यनयोर्विषयविभागार्थौ । [ननु] अन्यतरस्य निरनुबन्धकत्वमेवास्त्विति चेत्[न], जाकाराऽभावेऔ॑इत्यस्य आव् स्यात्, ततश्च प्रत्ययस्य वकारान्तता संभाव्येत । एवं शसः शकाराऽभावे औटो ङित्त्वं संभाव्येत, तथाचतेजसी॑ इत्यादौ टिलोपः स्यात् । अथवालिहा॑वित्यादौ ङित्त्वसामर्थ्यादभस्यापि टेर्लोपः संभाव्येत । औटष्टकारःसु॑डिति प्रत्याहारार्थः । टाटकारस्तुटाङसिङसां॑ — ॒द्वितीयाटौस्वेनः॑ इति विशेषणार्थः । एतेनआदिरन्त्येने॑ति सूत्रे काशिकाकारेण यदुक्तम्-॒अन्त्येनेति किम् ,सु॑डिति तृतीयैकवचनावयवेन मा भूत्-इति तत्परास्तम् । औटष्टकारस्यान्यार्थतया तेनैव संभवात्, प्रत्यासत्तेश्च । अतेव शब्दकौस्तुभे तत्रान्यदेव प्रयोजनमुक्तम् — ॒मध्यमेनेता सहित आदिस्तदुत्तरेषामपि ग्राहको मा भूदित्यन्त्येनेति ग्रहणम् । अन्त्येनेता सहितो मध्यमः पूर्वेषामपि मा भूदित्यादिग्रहणम्-इति । अमुमेवार्थं मनसि निधाय — ॒आद्यन्ताभ्यामवयवाभ्यामवयवी समुदाय आक्षिप्यते॑ — इति निष्कृष्टमुक्तं प्राक् । प्रकृतमनुसरामः — ङेप्रभृतीनां ङकारोघेर्ङिति॑ङेराम् — ॑ इति विशेषणार्थः । सुपः पकारस्तु प्रत्याहारार्थः ।", "41003": "", "41004": "<<अजाद्यतष्टाप्>> - अजाद्यतः । अजशब्द आदिर्यस्येति बहुव्रीहिः । अच् आदिर्यस्येति तु नाऽर्थः,ऋची॒ति निर्देशात् गणपाठसामर्थ्याच्च ।अ॑दिति न स्वरूपग्रहणम्,सङ्ख्यायं॑इति लिङ्गात्, अजादिभ्यः पृथक्पाठसामर्थ्याच्च । इहङ्याप्प्रातिपदिका॑दित्यधिकारेऽपि ङ्यापौ न संबध्येते, इहैव तयोर्विधेयत्वात्, अपि तु प्रातिपदिकमेव । तच्चाऽकारणे विशेष्यते॥ विशेषेण च तदन्तत्वालाक्भः, तदाह -अजादीनामकारान्तस्य चेति । सूत्रेअतः॑इति षष्ठी । तदर्थश्च वाच्यवाचकभावः ।स्त्रिया॑मिति तु धरमप्रधाने निर्देश इत्याशयेनाह -वाच्यं यत्स्त्रीत्वमिति । एतच्चलिङ्गं प्रातिपदिकार्थ॑इति पक्षाभिप्रायेणोक्तम् ।कस्यमाद्भवती॑त्याकाङ्क्षायां संनिधानादजादिभ्योऽकारान्ताच्चेति बोध्यम् ।इको यणची॑त्यत्र कस्मादचि पर इत्याकाङ्क्षायामिक इति यथा । टापः पकारः स्वरार्थः,औङ आपः॑,आङि चापः॑,याडापः॑, इत्यादौ सामान्यग्रहणार्थश्च । तदविधातार्थष्टकारः ।आ॑बित्युक्ते हि तदनुबन्धपरिभाषयाऔङ् आपः॑इत्यादावयमेव गृह्रते, डाप्चापोस्तु ग्रहणं न स्यात् । नन्वत इत्येव सिद्धे अजादिग्रहणं व्यर्थम्, नचक्रुञ्चा॒॑उष्णिहा॑देवविशे॑त्यादिषु हलन्तत्वादप्राप्ते विध्यर्थं तदिति वाच्यं, तथा सतिक्रुञ्चे॑त्यादिरेव गृह्रत, न त्वजादिः । अतो व्याचष्टे — अजाद्युक्तिर्ङीशषो ङीपश्चेति । खट्वेति ।खट काङ्क्षायाम्अशूप्रुषिलटिखटिकणिविशिभ्यः क्वन् । नन्वचेतनानां खट्वादिशब्दानां कथं लिङ्गव्यवस्थेति चेत् । उच्यते — लोकप्रसिद्धं स्तनाद्यवयवसंस्थानविशेषात्मकं लिङ्गं न व्याकरणे आश्रीयते, दारा॑ नित्यादौ नत्वाऽभावपर्सङ्गाक्, तटस्तटी तटमित्यादौ यथायथं लिङ्गत्रितयनिबन्धनकार्यांणामसिद्धिप्रसङ्गाच्च, किन्तु पारिभाषिकमेव लिङ्गत्रयम् । तच्च केवलान्वयि ।अयमर्थः॒॑इयं व्यक्तिः॒॑इदं वस्त्वि॑ति शब्दानां सर्वत्राऽप्रतिबग्धप्रसरत्वात् ।तत्र कश्चिच्छब्द एकस्मल्लिङ्गे शक्तः कश्चिद्द्वयोः वकश्चिश्रिष्विति लिङ्गानुशासनादिभ्यो निर्णेयम् । कुमारब्राआहृणादिशब्दास्तु लौकिकपुंस्त्वविशिष्टे शास्त्रीये पुंस्त्वे शक्ताः, लौकिकस्त्रीत्वविशिष्टे च शास्त्रीयस्त्रीत्वे । कथमन्यथा कुमी कुमार इत्यादयः प्रयोगा व्यवतिष्ठेरन् ।करेणुरिभ्यां स्त्री नेभे॑इत्यमरस्याप् ।यमेवार्थः । नन्वेवंपशुने॑ति पुंस्त्वं विवक्षितमिति मीमांसकोद्धोषः कथं योज्यः । पारिभाषिकस्याऽव्यावर्तकतया तद्विवक्षाया अकिञ्चित्करत्वात् । ल#औकिकस्य तु लिङ्गस्य पशिशब्दादप्रतीतेरिति चेत् । अत्राहुः — ॒छागो वा मन्त्रवर्णा॑दिति षष्ठान्त्याधिकरणन्यायेन पुंस्त्वस्य नियमो बोध्यः, छागशब्दस्य लौकिकपुंस्त्वविंशिष्टपारिभाषिके शक्तत्वादिति । तच्च जातित्रयमित्येक । उक्तं च हरिणा -॒तिरुआओ जातय एवाताः केषांचित्समवस्थिताः ।अविरुद्धा विरुद्धाभिर्गोमनुष्यादिजातिभिः॑ । भाष्ये तु प्राकारान्तरमुक्तम् -॒संस्त्यानप्रसवौ लिङ्गमास्थेयौ स्वकृतान्ततः । संस्त्याने स्त्यायतेर्ड्रट् स्त्री, सूतेः सप् प्रसवे पुमान्॥ उभयोरन्तरं यच्च तदङावे नपुंसकम्॥॑इति । अस्यायमर्थः — संस्त्यानं स्त्री, सत्त्वरजस्तमोलक्षणानां गुणानामपचयः । प्रसवो गुणानामुपचयः । स च पुमान् । सूतेर्धातोः सप् — सकारस्य पकारादेश इत्यर्थः । औणादिकोम्सुन्प्रत्ययो ह्रस्वश्च बाहुलकादिति तैयटः ।पूञो डुम्सुन्इति माधवः । तयोरुपचयापचययोरभावे सति यदुभयोरन्तरं=सदृशं तन्नपुंसकं ।नम्राण्नपा॑दिति निपातनादिति भावः । तथाऽवस्थितिमात्रं नपुंसकसम् । अत एवाविशब्दाश्च शुक्लादिशब्दवद्धर्मे धर्मिण च वर्तन्ते । स्वकृतान्तत इति । वैयाकरणसिद्धान्तत इत्यर्थः ।कृतान्तौ यमसिद्धान्तौ॑इत्यमरः । पञ्चाजीति । पञ्चानामजानां समाहार इत#इतद्धितार्थे॑त्यादिना द्विगुः ।अकारान्तोत्तरपद॑इति स्त्रीत्वेद्विगो॑रिति ङीप् । न चात्र प्रत्ययविधौ तदन्तविधिविरहादेव टापोऽप्रवृत्तौ ङीबेव स्यादिति वाच्यम्, अमहत्पूर्वग्रहणेनानुपसर्जनाधिकरेण च स्त्रीप्रत्ययेषु तदन्तविधिज्ञापनाट्टाप्प्राप्तेः सत्त्वात् । समासार्थसमहारनिष्ठमिति । नन्वजहत्स्वार्थायां वृत्तौ समाहारोऽप्यजाद्यर्थ एवेति चेन्मैवम् । तथापि तस्य पदान्तर समाभिव्याहारपेक्षया बहिरङ्गत्वात् । टाब्विधेस्त्वन्तरङ्गे चरितार्थत्वात् । कथं तर्हि परमाजेति चेत्, प्रागुत्पन्नस्यैव टापस्तत्र श्रवणात् ।अत्यजा॑निरजे त्यत्र त्वदन्तत्वप्रयुक्तष्टाबित्यवेहि । नचपञ्चाजी॑त्यत्रापि तथास्त्विति वाच्यं,द्विगो॑रिति ङीपै बाधितत्वात्ष । चटकेति । न चाऽत्रप्रत्ययस्था॑दितीकारः शङ्क्यः,चटकाया ऐर॑गिति लिङ्गादिहैव निपातनाद्वा तदपर्वृत्तेः । एवं च क्षिपकादिषुचटके॑ति पठनं नाऽतीवावश्यकमिति नव्याः । मूषिकेति ।वृश्चिकृषोः किकन्नि॑त्यधिकारेमुषेर्दीर्घश्चे॑ति किकनि इकारमध्यो मूषिकाशब्दः । यस्तुमूष स्तेये॑इति दीर्घोपधात्संज्ञायां क्वुनि मूषकशब्दो माधवेनोक्तस्ततोऽप्ययं टाप् । प्रत्ययस्थादितीत्वं तु विशेषः । केचित्तु क्वुन्नन्तोऽसावजादिगणे पाठं न प्रयुङ्केः,गणे तत्पाठस्य जातिलक्षणङीष्वाधनार्थत्वात्संज्ञायाश्चषऽजादिकत्वात् । तथा चादन्तत्वादेव क्वुन्नन्ताट्टप्सिध्यतीत्याहुः । तच्चिन्त्यम् ।व्याघ्री॑त्यादिवत्संज्ञातवेऽपि जातित्वानपायात् ।सम्भस्त्राजिनशणपिण्डभ्यः फलात् । भस्त्रेव फलानि यस्या इति विग्रहः । ङ्यापोरिति । एतच्चफल निष्पत्ता॑विती धातौ माधवग्रन्थे स्थितम् ।पाककर्णे॑त्यत्र भाष्ये तु दीर्घ एव दृश्यते ।सगच्काण्डप्रान्तशतैकेभ्यः पुष्पात् । सदच्काण्डेति ।सत्प्राक्काण्डे॑ति पाठो नादर्तव्य इति ध्वनयुन्नदाहरति -प्रत्यक्पुष्पेति । अत्र नव्याः — ॒संभस्त्रे॑त्यादि वचनद्वयं,मूलान्नञः॑इति वक्ष्यमाणं चपाककर्णे॑त्यनेनपब्राआप्तस्य ङीपो निषेधार्थ तत्रैव सूत्रे भाष्ये पठितमपि फले विशेषाऽभावादिहैव ग्रन्थकारैः पठितम् ।न चैतावताऽजाद्यन्तर्गणसूत्राणीति भ्रमः कार्यः, तथात्वे मानाऽभावात् । किन्तु वार्तिकान्येवेमानीत्याहुः ।शूद्रा चाऽमहत्पूर्वा जातिः॥ शूद्रा चेति । शूद्रशब्दष्टापमुपादयति जातिश्चेत् । महत्पूर्वस्तु न । जातिश्चेदितीहपि संबध्यते । तेन महती शूद्रामहाशूद्रे॑ति भवत्येव । पुंयोगेत्विति । पुंयोगश्च दाम्पत्यरूप एवेति न नियमः, किन्तु जन्यजनकभावोऽपि गृह्रते । तथा च स्मृतिः — ॒वैश्याशूद्योस्तु राजन्यान्माहिष्योग्रौ सुतौ॑इति । महीशूद्रीति ।आभीरी तु महाशूद्री जातिपुंयोगयोः सने॑त्यमरः । इहअमहत्पूर्वे॑ति व्यर्थं, महाशूद्रशब्दो हि समुदित एवाऽऽभीरत्वजातौ वर्तते । तत्राऽवयवस्यानर्थकतया शूद्रशब्दार्थसमवेतस्त्रीत्वाऽभावने टापः पर्सक्त्यभावात् । न, तदन्तविधिज्ञापनाय तदिति वाच्यम्, अनुपसर्जनाधिकारेणैव तदन्तविधिज्ञापनादिति दिक् । अत्र नव्याः — ॒शूद्रा चे॑त्यादिवचनम्अजाद्यत॑इसि सूत्रस्थं वार्तिकमेव, नत्विदं गणसूत्रमित्याहुः । क्रुञ्चेत्यादि । त्रयोऽमी हलन्ता इत्येके । भाष्ये तुक्रुञ्चानालभेत॒॑उष्णिहककुभौ॑इत्यादिप्रयोगमुदाहृत्याऽन्ता अपि स्वीकृताः । पचाद्यचा इगुपधलक्षणेन कप्रत्ययेन च यथासंभमदन्तत्वात् । पुंयोगेऽपीति । यदा ज्येष्ठादयः पर्थमजातादौ वर्तन्ते तदाऽदन्तत्वादेव टाप्सिद्धः । यदा तु ज्येष्ठस्य स्त्रीत्वादिविवक्षा तदा पुंयोगलक्षणो ङीष्प्राप्तः — सोऽप्यनेन बाध्यते इति सूचयितुमपिशब्दः ।मूलान्नञः ।मूलान्नञः । नञः किम्, शतमूली । अमूलेति । ओषधिजातिरियम् ।", "41005": "<<ऋन्नेभ्यो ङीप्>> - ऋन्नेभ्यो । ऋत्-ऋकारः, नो — नकारः । प्रयोगापेक्षं बहुत्वम् । प्रातिपदिकविश्षणात्तदन्तविधि- ।स्त्रिया॑मिति चाधिक्रियते, तदाह-ऋदन्तेभ्ये इत्यादि । क्रोष्ट्रीति ।स्त्रियां चे॑त्येतस्ताङ्गत्वादङ्गेन प्रत्ययस्याक्षेपाद्विभक्तौ परत एवेह तृज्वद्भावस्ततो खीबिति बोध्यम् । भ्रूरिति । भ्रमतीति भ्रूः ।भ्रमस्चे डूः॑इति भ्रमतेर्ङूप्रत्ययः । डित्त्वाट्टिलोपः । हे सुभ्रूरिति । डूप्रत्ययस्याऽस्त्रीप्रत्ययत्वाद्गोस्त्रियोरिति ह्रस्वो न भवति ।नेयङुवङ्स्थाना॑विति नदीसंज्ञानिषेधात्संबुद्धिह्रस्वोऽपि नेति भावः । ह्रस्वोऽत्रानुपपन्न इत्याक्षिपति — — कथं तर्हीति ।विमानना सुभ्रु पितुर्गृहे कुतः॑इति कालिदासप्रयोदोऽप्यनुपपन्न इति बोध्यम् । बहव इति । केचुत्तु — ॒नेयहुवं॑ङिति सूत्रे॒वामी॑त्यतो वाग्रहणमपकृष्य व्यवस्थितविभाषां चाश्चित्यसमादधिरे । तदसत् । तथा सतीहन॑ञ्ग्रहणंवामी॑त्युत्तरसूत्रं च व्यर्थं स्यात्,वेयङुवङ्स्थानौ॑इत्येव वक्तुं शक्यत्वात् । अन्ये तु — ॒सामान्ये नपुंसक॑मिति कथञ्चित्समादधुः ।", "41006": "<<उगितश्च>> - उगिच्छब्देन प्रातिपदिकं विशेष्यते, विशेषणेन तदन्तविधिः ।न च प्रत्ययविधौ प्रतिषेधः शङ्क्यः,अनुपसर्जना॑दित्यनेन स्त्रीप्रत्ययेषु तदन्तविधिरस्तीति ज्ञापनात्,उगिद्वर्णग्रहणवर्ज॑मितियेन विधि॑रिति सूत्र एवोक्तत्वाच्चेत्याशयेनाह — उगिदन्तादिति । अत्रोगित्प्रतिपदिकं, प्रत्ययश्चेति द्विविधं संभवति । आद्ये उगिदन्ते — भवन्तं महान्तं चातिक्रान्तै अतिभवती अतिमहतीत्थदाहरणम् । सर्वादिगणेभवतु॑इति पाठाद्भवच्छब्दस्योगित्त्वव्यपदेशः । महच्छशब्दस्य तु शतृवद्भावात् । न चैवंप्यपदेशिवद्भावोऽप्रातिपदिकेने॑ति निषेधात्केवलाभ्यां भवन्महच्छब्दाभ्यां ङीम्न स्यादिति वाच्यम् । प्रातिपदिकाऽप्रातिपदिकसाधरण्येन शब्दमात्रमुगित्पदाभिधेयमुत्युक्तनिषेधाऽप्रवृत्तेरित्याशयेनोदाहरति -भवन्तीति । द्वितीयमुगिदन्तमुदाहरति — पचन्तीति । पचेर्लटः शतरिकर्तरि शप् । यदि तु सर्वादिगणेभवतु॑इति य उगित्पठितः सःभातेर्डवतु॑रिति व्युत्पाद्यते, तदाभवती॑ति द्वितीयोगिदन्तस्याप्युदाहरणं भवत्येव । शत्रन्तात्तु भवतेर्ङीपिशप्शयनो॑रिति नित्यो नुम् । भवन्ती । उखारुआदित्यादि । उखायाः रुआंसते, पर्णेभ्यो ध्वंसते ।रुआंसु ध्वंसु अव रुआंसने॑वस#उरुआंसु॑इति दत्वम् ।वनो न हश इति वक्तव्यम् । वनोर च ।व॑न्निति प्रत्ययेन तदन्तं प्रातिपदिकं गृह्रते । वन्नन्तेन त्वधिकृत प्रातिपदिकविशेषणात्तदन्तविधिरित्याह — वन्नन्तात्तदन्ताच्चेति ।येन विधिस्तदन्तस्ये॑त्यत्रस्वं रूप॑मिति सूत्रात्स्वमित्यनुवर्त्त्य स्वस्य चेति व्याख्यानादुभयं लभ्यत इथि भावः । यदि तु वन्नन्तमेव व्यपदेशिवद्भावेन वन्नन्तान्तमित्युच्यते, तर्हियेन विधि॑रित्यत्रस्व॑मित्यनुवर्त्त्यस्वस्य चे॑ति न व्याख्येयम् । न चात्रव्यपदेशिवद्भावोऽप्रातिपदिकेने॑ति निषेधः शङ्क्यः, तस्य प्रातिपदिकत्वाऽभावाच्चेत्याहुः । सामान्यग्रहममिति । सूत्रेवन॑ इत्यनुबन्धरहितस्य ग्रहणात्तदनुबन्धपरिभाषा नोपतिष्ठत इति भावः । वन्ग्रहणे वन्नन्तं वन्नन्तान्तं च कथं लभ्यत इत्याशङ्कायामाह — प्रत्ययग्रहणे इत्यादि । तेनेति । वन्नन्तेनेत्यर्थः । तदन्तान्तमपिलभ्यत इति ।स्त्रिया॑मित्यधिकारेग्रहण वता प्रातिपदिकेने॑ति निषेधो न पर्वर्तते,अमहत्पूर्वे॑त्यादिज्ञापकागिति भावः । अन्ये त्वाहुः — वन्नन्तस्य वस्तुतः प्रातिपदकत्वेऽपि सूत्रे गृहीतस्य वन इत्यस्य प्रातिपदिकत्वं नास्तीत्युक्तत्वाद्ग्रहणवतेति निषेधशङ्कैव नास्तीति । सुत्वानमिति ।सुजयोर्ङ्वनिप् ।अत्यादयः क्रान्ताद्यर्थे॑ इति समासः । अतिधीवरीति । दधातेःअन्येभ्योऽपि दृश्यते॑इति क्वनिप् ।घुमास्थे॑तीत्त्वम् । भाष्ये तु ध्यायतेः क्वनपि संप्रसारणमिति स्थितम् । नस्य रेफादेशे कृतेऽप्येकदेशविकृतस्यानन्यत्वात्अल्लोपरोऽनः॑इति प्राप्नोति, अनो नकारान्तत्वविशेषणात्तु न भवतीतिआयुवमघोना॑मित्यत्रैव व्युत्पादितम् । शर्वरिति । शृधातोःअन्येभ्योऽपी॑त्यनेनैव वनिप् । गुणे कृते रपरत्वे च हशन्तात्परत्वेऽपि हशन्ताद्विहितत्वाभावान्ङीब्रायोरत्र निषेधो न । बहुव्रीहौ वा॥ बहुव्रीहौ वेति ।अन्यतरस्या॑मिति योगविभागदिदं लभ्यते, नत्वपूर्वं वचनमिति वक्ष्यते । बहुधीवरीति ।बहवो धीवानो यस्या नगर्या॑मिति विग्रहः । पक्षे डाविति ।डाबुभाभ्या॑मिति सूत्रेण । तथाच द्विवचनेबहुधीवर्यौ॒॑बहुधीवानौ॒॑बहुधीवेइति रूपत्रयं भवतीति भावः ।", "41007": "", "41008": "<<पादोऽन्यतरस्याम्>> - द्विपादिति । द्वौ पादौ यस्या इति बहुव्रीहौबहुधीवरीति । ॑बहवो धीवानो यस्यां नगर्या॒मिति विग्रहः । पक्षे डाबिति ।डाबुभाभ्या॑मिति सूत्रेण । तथाच द्विवचनेबहुधीवर्यौ॒॑बहुधीवानौ॒॑बहुधीवे॑इति रुपत्रयं भवतीति भावः ।", "41009": "<<टाबृचि>> - टाबृचि । पूर्वेण प्राप्तस्य ङीपोऽपवादः । यद्यपिपदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु॑इति कोशात्पादसमानार्थकः पदशब्दोऽस्तीति तेनैवद्विपदा॒॑एकपदे॑ति रूपं सिध्यति, तथापि ऋचि वाच्यायांद्विपदी॒॑द्विपा॑दिति प्रयोगनिवृत्तये सूत्रारम्भोऽयमावश्यकः । असिद्धत्वादिति । एतच्चाऽसिद्धत्वेपवर्णनं कार्यकालपक्ष एवोपयुज्यते, न तु यथोद्देशपक्षे, सकृत्कृतायाः संज्ञायाः सर्वार्थत्वेन तस्याः पुनरपक्षाऽभावात् । न च॒पञ्च॑न्निति नान्तस्य कृतायामपि संज्ञायांपञ्चे॑त्यदन्तस्य न कृतेति शङ्क्यम्, एकदेशविकृतस्याऽनन्यत्वादित्याहुः । तदसत् । एकदेशविकृतस्योपसङ्ख्यानं हिस्थानिवदादेशोऽनल्विधा॑वित्यत्र पठते, तच्चाऽल्विधौ न प्रवर्तत एवेति यथोद्देशपक्षेऽप्यसिद्धत्ववर्णनस्य युक्तत्वात् ।", "41010": "<<न षट्स्वस्रादिभ्यः>> - न षट्स्वस्त्रादिभ्यः ।स्त्रियां यदुक्तं तन्न भवती॑ति व्याख्यानादनन्तरो ङीबिव व्यवहितष्टबपि निषिध्यत इत्याशयेनाह — — ङीष्टापौ नेति । स्वस्त्रादीनां ङीप्प्राप्तः । षट्संज्ञकानां तूभौ । स्वसा तिरुआ इति ।न तिसृचतसृ॑इति नामि दीर्घत्वप्रतिषेधाज्ज्ञापकादेव ङीबभावे सिद्धे स्वस्त्रादिषु तिसृचतसृशब्दपाठो न कर्तव्य इतिकृन्मेजन्तः॑इति सूत्रे कैयटः । स्वसेति ।सावसेरृन् ।ऋदुशन॑इत्यनङ् ।ननान्दा तु स्वसा पतच्युः॑ ।भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम् । द्यौर्गोवदिति ।गमेर्डोः॑बाहुलकाद्दयुतेरपि । डित्त्वाट्टिलोपः ।ओतो णि॑दिति णिद्व द्भावाद्वृद्धिः । राः पुंवदिति । यद्यपि पुंलिङ्गः एवायम्, अर्थरैविभवा अपि॒इत्यमरोक्तेः । भिन्नलिङ्गानां न द्व॑न्द्व इति तेन परिभाषितत्वात्, तथापिरात्येनं राः । स्त्रीत्येके॑इति क्षीरस्वामिनास्त्रीलिङ्गताया अप्यभ्युपगमादेवमुक्तम् । नौर्ग्लौवदिति ।ग्लानुदिभ्यां ङौः॑ । डित्वाट्टिलोपः ।स्त्रियां नौस्तरणिस्तरि॑रित्यमरः ।", "41011": "<<मनः>> - न ङीबिति । पूर्वसूत्रान्नेत्यनुवर्तत इति भावः ।", "41012": "<<अनो बहुव्रीहेः>> - अनो बहुव्रीहेः । ननुराजयुध्वे॑त्यादिसिद्धयेऽवश्यं वक्तव्येनवनो न हशः॑इत्यनेनैबेष्टलसिद्धेः किमनेन सूत्रेण । मैवम् । अन्नन्ताद्बहुव्रीहेःडाबुभाभ्या॑मिति ङाब्विधानार्थमेतत्सूत्रस्याऽवश्यारब्धव्यत्वात् । तथा चाऽनेन ङीपि निषिद्धे तत्संनियोगेन प्राप्तोवनो र चे॑ति यो रेफः सोऽपि दुर्लभ एवेतिवनो न हशः॑इति वार्तिकमबहुव्रीह्रर्थमिति फलितम् । बहुयज्वानाविति ।न संयोगो॑दिति निषेधान्नायमुपधालोपि । तेनाऽत्रअन उपधालोपिन॑इति वक्ष्यमाणविकल्पो न प्रवर्तते ।", "41013": "<<डाबुभाभ्यामन्यतरस्याम्>> - डाबुभाभ्याम् । उभाभ्याङ्गरहणं व्यर्थं, मन्नन्ताऽन्नन्तयोरनुवृत्त्यैव तत्फलसिद्धेरित्येके । उभोरप्यनुवृत्तिसृचनाय त्द्ग्रहणमावश्यकम्, अन्यथा संनिहितस्यान्नन्तस्यैवानुवृत्तिरिति शङ्का स्यादित्यन्ये । ननु निषेधापोर्वचनसामर्थ्यात्पर्यायः सिध्यति तत्किमन्यतरस्यङ्गरहणेन । सत्यम् ।अन्यतरस्या॑मिति योगो विभज्यते, तत्रमनः॑इति निवृत्तम् । अनो बहुव्रीहेर्डाब्वा स्यात् । पूर्वेणैव डैपि सिद्धे पुनर्विधानमिदम्ऋन्नेभ्यः — ॑इति ङीपा स ह विकल्पार्थम् ।अन उपधालोपिनः — ॑इति सूत्रं तु नियमार्थम् ।अनो योऽसौ विकल्पः स उपधालोपिन एवे॑ति । एवं टबहुधीवर्य्यौ॒॑बहुधीवानौ॑बहुधीवे॑त्युक्तरुपत्रयं सिद्धमितिबहुव्रीहौ वे॑त्येतन्नाऽपूर्वं वचनमिति बोध्यम् ।उपधालोपिन एवे॑ति नियमात्तुसुपर्वा॑चारुपर्वे॒त्यादावनुधालोपिनो ङीप्न भवति, किंतु डाप्प्रतिषेधावेव भवतः । अयं च योगविभागोऽबश्यमभ्युपेयः, अन्यथाबहिधावरी॑त्यत्र प्रकरणान्तरस्थेनअन उपधालोपिन॑इति वक्ष्यमाणेन पाक्षिके ङीपि कृतेऽपिऋन्नेभ्यः॑इति प्राप्तं ङीपमनूद्य तत्संनियोगेन हि विधायमानो योवनोर चे॑ति ,#ऊत्रमेव ङीब्राऔ विधत्तामिति चेन्, उभयविधौ गौरवात् । किञ्चोभयविधायकत्वेऽपिअनो बहुव्रीहे॑रित्यनेन ङीपि निषिद्धे रोऽपि दुर्लभः, संनियोगशिष्टत्वात् । भाष्ये तुअनो बहुव्रीहे॑रित्यस्याऽनन्तरम्उपधालोपिनो वे॑ति सूत्रमस्तु,अन उपधे॑त्यादि प्रदेशान्तरस्थं सूत्रं, ङाप्सूत्रेऽन्यतरस्याङ्ग्रहणं च मास्त्वित्युक्तम् ।", "41014": "<<अनुपसर्जनात्>> - टिड्ढाण्ञ् । टिड्ढादयः प्रत्ययास्तैः तदन्तं गृह्रते, तच्चाऽनुवर्तमानस्यप्रातिपदिकस्य विशेषणम् ।अजाद्यतः॑इतिसूत्रादनुवर्तमानमप्यत इत्येतत् प्रातिपदिकविशेषणम् । अतएव तदन्तविधिरतो व्याचष्टेटुदन्तं प्रातिपदिक॑मिति व्याख्यानं सङ्गच्छत एव ।स्तनन्धयी॑त्यत्र तु प्रत्ययस्य टित्त्वाभावेऽपि धातोष्टित्त्वस्याऽचरितार्थत्वात्समुदायात्स्यादेव ङीबिति वक्ष्यति । अन्ये तु — ढादय एव प्रत्ययाःस टिदिति तु प्रत्ययाऽप्रत्ययसाधारणं, तेन टिद्यात्प्रतिपदिकं ढाद्यन्तं च यत्प्रातिपदिकमित्यर्थः । टित्त्वं तु प्रातिपदिकस्य क्वचित्स्वतः, क्वचित्प्रतिकृतं भवति, अवयवधर्मस्य समुदाये उपचारात् । तत्र आद्यस्योदाहरणम् -कुरुचरीति । द्वितीयस्योदहारणं — नदडिति । पचादिषुटितोऽस्य पाठात्स्वत एव टित्त्वम् । तृतीयन्तुधेटष्टित्त्वात्स्तनन्धयी॑ति कृदन्ते उदाहरिष्यतीत्याहुः । कुरुचरीति । कुरुषु चरतीत्यधिकरणोपपदेचरेष्टः॑इति कर्तरि टः । उपसर्जनत्वान्नेहेति । बहवः कुरुचरा सा यास्यां सा बहुकुरुचरेति बहुब्राईहिरिन्यपदार्थप्रधानास्तथा च टुजन्तस्योपसर्जनत्वान्ङीन्बेत्यर्थः । वक्ष्यमाणेति । ब्राऊञो लृटिलृटः सद्वे॑ति शनच् ।ब्राउवो वचि॑रिति वच्यादेशः ।वच परिभाषणे॑इत्यस्मात्कर्मणि वा लृटः शानच् ।स्यतासी॑इति स्यः । कुत्वषत्वे ।आने मुक्इति मुक् । टित्त्वादुगित्त्वाच्चेति । स्थानिवद्भावेनेत्यर्थः । न चाऽल्विधित्वात्कथमिह स्थानिवद्भाव इति शङ्क्यम्,न ल्यपि॑इति ज्ञापकादनुबन्धकार्येषुअनल्विधौ॑इति निषेधस्याऽप्रवृत्तेः । अतएवरमया॑मित्यादौ परत्वान्ङेरामि कृते स्थानिवद्भावेनाऽऽमो ङित्वात्याडापः॑इति याडागमः सिध्यति । ज्ञापनान्न भवतीति । लिङादेशपरस्मैपदानां स्थानिवद्भावेनैव ङित्त्वालाभात्तदागमस्य यासुटो ङित्त्वं व्यर्थं सत्लाश्रयानुबन्धकार्यमादेशानां ने॑ति सामान्यतो ज्ञापयतीति भावः ।पिच्च ङिन्ने॑त्यदादिगणे वक्ष्यमाणत्वात्तिबादिष्वौपदेशिकेन पित्त्वेनातिदेशिकं ङित्त्वं बाध्यत इति यासुटो ङित्त्वास्य वैयथ्र्याऽभावान्न तज्ज्ञापयतीति शङ्कमानं प्रत्याह — श्नः शानच शित्त्वेनेत्यादि । सौपर्णेयीति ।कद्रूश्च वै सुपर्णी॑ति श्रुतिः । सुपर्णीशब्दादपत्येऽर्थेसमाया यः॑ढश्छन्दसी॑ति विहितस्तयोरेव ढयोग्र्रहणेन भवितव्यं न तु ढकः । सत्यम् । शिलाया ढस्य स्वभावान्नपुंसक एव पर्वृत्तेः स्त्रियामसंभवात् । सभाया ढस्य चसभेयी॑ति स्त्रियां छन्दसि प्रयोगाऽदर्शमनादन्यस्य हि निरनुन्धस्याऽसम्भवादगत्या सानुबन्धको गृह्रते । ऐन्द्रीति । इन्द्रो देवता अस्याः ।साऽस्य देवते॑त्यण् ।इन्द्रस्येयमिति वा विग्रहः ।तस्येद॑मित्यण् । अत्र व्याचक्षते -॒कृद्धहणे गतिकारकपूर्वस्ये॑त्यस्य प्रवृत्त्यभाषेऽपि अण्णन्तस्य प्रातिपदिकविशेषणातदन्तान्तमपि गृह्रत इति कुम्भकारशब्दान्ङीप्स्यादेव । अस्तु वा कारशब्दादेव ङीप्, तथापिकुम्भकारी॑ति रूपं सिध्यत्येव । न च कारशब्दादेव ङीप्, तथापिकुम्भकारी॑ति रूपं सिध्यत्येव । न च कारशब्दान्ङीपि तदन्तात्स्त्रीभ्यो ढक्इति ढक्प्रत्यये कौम्भकारेयो न सिध्येदिति वाच्यम्, अनुपसर्जनस्त्रीप्रत्यये तदादिनियमाऽभावात्तत्सिद्धेः । नापि नियमाऽभावेकारी॑शब्दात्कदाचिड्ढकिकुम्भकारेय॑इति रूपं स्यादिति शङ्क्यम् ।समर्थः पदविधि ॑रिति वक्ष्यमाणत्वेनाऽसमर्थधात्तद्धितानुत्पत्तेरिति मनोरमायान्तु इह सूत्रेऽनेकं वाक्यं, तत्राऽनुपसर्जनमण्, तस्य योऽकारस्तदन्तादिति व्याख्यानान्नेह — आपिशलमधीते आपिशला ब्राआहृणीति । अत्र हि प्रोक्तर्थे योऽण्श्रीयमाणः, स उपसर्जनम् । यस्तु प्रधानोऽध्येत्रण्प्रोक्ताल्लुक्इति स लुप्तः । वर्णप्राधान्यान्न प्रत्ययलक्षणमतष्टाबेव भवतीति स्थितम् । नन्वेवमापिशलेति रूपसिद्द्यर्थमनुपसर्जनग्रहणस्यावश्यकत्वेन सामर्थ्योपक्षयात्कथमेतस्य तदन्तविधिज्ञापकेति चेत्; अत्राहुः — स्वरितत्वप्रतिज्ञयी अधिकारोऽयमित्यधिकारत्वाश्रयणादनुपसर्जनग्रहणं व्यर्थम् । अञन्तस्याद्युदात्तत्वेन ङीम्ङीनो स्वरे विशेषाऽभावात् । मैवम् । उत्सस्यापत्यं स्त्री ओत्सीत्यत्राऽञन्तलक्षणं ङीपं बाधित्वा परत्वाज्जातिलक्षणे ङीषि प्राप्ते तद्बाधनार्थं तस्यावश्यकत्वात् । न चैवंशाङ्र्गरवाद्यञः॑इति ङीनास सिद्धमिदं रूपमित्यञ्ग्रहमिह न कर्तव्यमिति वाच्यं, तत्रजाते॑रित्यनुवृत्तेः । अन्यथा शाङ्र्गरवस्य स्त्री शाङ्र्गरवी, औत्सस्य स्त्री औत्सीत्यादौ पुंयोगेऽपि परत्वान्ङीन्स्यान्न तु ङीष् । इष्यते तु पुंयोगे ङीषेव । तस्माद्भवाद्यर्थस्य जातित्वेनाऽपरिभाषणाद्भावाद्यर्थे ङीबर्थमिहाप्यञ्ग्रहणमावश्यकमेवेति दिक् । ऊरुद्वयसीत्यादि । ऊरू प्रमाणमस्याः सा ।प्रमाणे द्वयसज्दन्घञ्मात्रचः॑ । यद्यत्रन लोके॑ति सूत्रे तृन्नितिवद्द्वयसजिति मात्रचश्चकारेण प्रत्याहारो गृह्रते, तदा दन्घञ्माक्पज्ग्रहणमिहाऽकर्तुं शक्यम् । पञ्चतयीति । पञ्चावयवा अस्याः ।सङ्ख्याया अवयवे तयप् । आक्षिकीति ।तेन दीव्यती॑ति ठक् । लावणिकीति । लवणं पण्यमस्याः ।लवणाट्ठञ् । ठक्ठञोर्मेदेनोपादानं ठन्निवृत्त्यर्थम्, तेनेह न, — दण्डोऽस्त्यस्याः सा दण्डिका ।अत इनी॑ति ठन् । अतएव ञिठन्तेऽपि न ङीप् । काशिषु भवा काशिका ।काश्यादिभ्यष्ठञ्ञिठौ॑ । यादृशीति ।त्यदादिषु दृश॑इति कञ् ।आ सर्वनाम्नः॑इत्याकारः । इत्वारीति । एति तच्छीला ।इण्नशजिसर्तिभ्यः क्वरप् ।ह्रस्वस्य पिति कृति तुक् । क्वरपोऽन्यतरानुबन्धोपादानं स्पष्टार्थम् । एकेनैव वरचो व्यावृत्तिसिद्धेः ।विन्यस्तमङ्गलमहौषधिरीश्वरायाः॑इति भारविः । तत्रस्थेशमासे॑ति वरच् ।ईआरी॑ति तु त्रेधा । पुंयोगलक्षणे ङीष्यन्तोदात्त मेकम्,ईच्चोपधायाः॑इत्यनुवृत्तौअश्नोतेराशुकर्मणि वर॑ङित्यौणादिके वरटि टित्त्वान्ङीपि मध्योदात्तमपरम्, ईशेः क्वनपि वनिपि वा ङीब्राआयोराद्युदात्तदमन्यत् । ताच्छीलिकेति । अयं भावः -॒शीलं॒॑छात्रादिभ्यो णः॑इति विहितो यो णस्तस्मिन्नण्कार्यं भवति,कार्मस्ताच्छील्ये॑इति ज्ञापकात् । तत्र हिअ॑न्नित्यणि विहितं प्रकृतिभावं बाधितुं टिलोपो निपात्यते, यदि तु णप्रत्यये अण्कार्यं न स्यात्तर्हि किं तेन । ताच्छीलिके एवाऽण्कार्यज्ञापनान्नेह, -दण्डः प्रहरणमस्यां क्रीडायां दाण्डा ।तदस्यां प्रहरण॑मिति णः ।छत्रादिभ्योऽ॑णित्येव सूत्रमस्तु किमनया कुसृष्टएति तु बहवः । चौरीति । चुरा शीलमस्याः ।नञ्स्नञीकक्ख्युंस्तरुणतलुनानामुपसख्यानम् । नञ्स्नञ् । वृत्तिकृता त्वत्रात्यख्युन्ग्रहणं सूत्रे प्रक्षिप्यक्वरप्ख्युना॑मिति पठितम्, तच्च भाष्यविरुद्धमित्युत्तरत्र स्फुटीभविष्यति । स्त्रैणी पौंस्नीति ।स्त्रीपुंसाभ्या॑मिति नञ्स्नञौ । शाक्तीकीति । शक्तिः प्रहरणमस्याः ।शक्तियष्टओरिकक् । आढङ्करणीति । अनाढ आढ्यः क्रियते अनयेत्यर्थेआढसुभगे॑त्यादिना कृञः ख्युन् ।युवो॑रित्यनादेशः ।अरुर्द्विष॑दिति मुम् । तरुणी । तलुनीति । तरुणतलिनयोरुनन्प्रत्ययान्तत्वेन नित्त्वादाद्युदात्तता । सैव ङीपि । ङीषि त्वन्तोदात्ततेति ।", "41015": "", "41016": "<<यञश्च>> - यञश्च । योगविभाग उत्तरार्थः ।प्राचां ष्फ तद्धितः॑इत्यत्र यञ एवानुवृत्तिर्यथा स्यात् ।", "41017": "<<प्राचां ष्फ तद्धितः>> - प्राचां ष्फ तद्धितः ।तद्धित॑ग्रहणं ष्फप्रत्ययान्तस्य प्रातिपदिकसंज्ञार्थम् । तेनषिद्गौरे॑ति ङीष्सिध्यति । ननु प्रातिपदिकसंज्ञा विनापि षित्करणसामर्थ्यादेव ङीष्भाविष्यति किमनेन तद्धितग्रहणेन । न च यञन्तेयस्येति चे॑ति लोपार्थं तदिति वाच्यम् । सवर्णदीर्घेणापि रूपसिद्धेर्लोपस्याऽनावश्यकत्वात् । एवं तर्हि तद्धितग्रहणमिञन्तादपि क्वचित्ष्फोभवतीति ज्ञापनार्थम् । तेनआसुरेरुपसङ्ख्यान॑मिति वक्ष्यमाणं सिध्यति ।", "41018": "<<सर्वत्र लोहितादिकतान्तेभ्यः>> - सर्वत्र । सर्वषां मत इत्यर्थः । तदेतत्फलितमाह — नित्यं ष्फः स्यादिति । नन्वारम्भसामर्थ्यान्नित् ।त्वे सिद्धे सर्वत्रग्रहणं व्यर्थमिति चेत् । अत्राहुः — पूर्वसूत्रे बाधकबाधनोपयुक्तस्येह स्पष्टार्थमभ्युपगमान्न वैयथ्र्यमिति ।यञ॑इत्यनुवर्तनादाह — यञन्तेभ्य इति । लोहितादिर्गर्गाद्यन्तर्गण इति भावः । लौहित्यायनीति ।सांशित्यायानी॒॑बाभ्राव्यायणी॑त्यदायोऽपि ज्ञेयाः । ननु गर्गादौ कत — कण्व-शकलेति पठते, तथा चशाकल्यायनी॑ति रूपं न सिध्येत् । यदि तु लोहितादिकार्यार्थं कतशब्दात्प्रागेव शकलब्दः पठते, तथा चशाकल्यायनी॑ति रूपं न सिध्येत् । यदि तु लोहितादिकार्यार्थं कतशब्दात्प्रागेव शकलब्दः पठते तर्हि शाकल्यस्य छात्राः शाकला इत्यत्रकण्वादिभ्यो गोत्रे॑इति कण्वादिकार्यमण् न सिध्येत् । उच्यते — कतकण्वशकलेति गणपाधे कण्वशब्दात् पूर्वं शकलशब्दः पठितव्यः ।॒कतन्तेभ्य॑इत्यत्र कतस्याऽन्तः कतन्तः, कतोऽन्तो येषां ते कतन्ताः । शाकन्ध्वादित्वात्पररूपम् । कतन्तश्च कतन्ताश्चेति बहुव्रीहितत्पुरुषयोरेकशेषोऽभ्युपेयः । तथाकण्वादिभ्य॑इत्यत्रापि कण्वस्यादिः कण्वादिः, कण्व आदिर्येषामिति बहुव्रीहितत्पुरुषयोरेकशेषस्तथा च सर्वेष्टसिद्धिरिति ।", "41019": "<<कौरव्यमाण्डूकाभ्यां च>> - कौरव्य । टाम्ङीषोरिति योपधत्वेनजाति॑रिति तथापि तत्रङी॑बिति लेखकपर्माद एव । पारिभाषिकस्य पौत्रपर्भृतिगोत्रस्यैव जातित्वान्ङीषः प्राप्तिर्नेति मतान्तराभि प्रायेण वा तथोक्तमिति बोध्यम् । कौरव्यसाहचर्यान्माण्डूकशब्दोऽप्यपत्यपत्र्ययान्त एवेह गृह्रते न तुतस्येद॑मित्यणन्तः, तेनयद्यसौ कूपमाण्डूकि । तवैकावतिकः स्मय॑इति भट्टिप्रयोगः सिद्धः । तत्र हि मण्डूकस्येयं भार्येति विवक्षयातस्येद॑मित्यण् ।", "41020": "<<वयसि प्रथमे>> - वयसि । कालकृता शरीरावस्था वयः । यस्त्वर्थपर्करणादिकमनपेक्ष्य श्रवणमात्रेण वयः पर्तिपादयति स वयोवाचीत्युच्यते, अन्तरङ्गत्वात् । तेनेह न, — उत्तानशया । लोहितपादा । इह प्रकरणादिना वयसः प्रतीतावपि शब्दादप्रतीतेः । अवलाऽपि हि व्याध्यादिवशादुताना शेते, अलक्तकेन च रक्तचरणा भवति । प्रथमेति किम् । वृद्धा । कुमारीति । पर्थमवयोवचन एवाऽयं शब्दो न त्वनूढत्वप्रयुक्तः । पुंस्यपिकुमार॑इति प्रयोगात् ।वृद्धकुमारी॑ति तु गौणः प्रयोगः । वयस्यचरम इति वाच्यम् । वयस्यचरम इति । यौवनं न प्रथमवयः, किंतु द्वितीयमिति वार्तिकारम्भः ।उपचयापचयलक्षणे द्वे एव वयसी॑ इति पक्षे यौवनस्यापि प्राथम्यात्सूत्रेणैव सिध्यतीत बोध्यम् । वयांसि चत्वारीत्येके । यदाहुः — ॒अद्ये वयसि नाधीतं द्वितीये नार्जितं धनम् । तृतीये न तपस्तप्तं चतुर्थे किं करिष्यसि॑॥ इति । त्रीणीत्यन्ये । यदाहुः — ॒पिता रक्षति कौमारे भर्ता रक्षति यौवने । पुत्रस्तु स्थावीरे भावे न स्त्री स्वातन्त्र्यमर्हति॥॑इति ।", "41021": "", "41022": "<<अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि>> - पञ्चाओति । नन्वत्रद्विगो॑रिति ङीब्माभूत्, ठगन्तत्वात्तु स्यादेव । न चअपरिमाणे॑ति निषेधस्यनिरवकाशतेति वाच्यम्, पञ्चानामजानां निमित्तं धनपतिसंयुक्तिःपञ्चाजा॑पञ्चोष्ट्रे॑त्यादौसावकाशत्वात् । तत्र हिगोद्द्यचोऽसङ्ख्ये॑ति यत्प्रत्ययस्यअध्यर्धपूर्वे॑त्यादिना लुगिति चेदत्राहुः — ॒ठको योऽकार॑ इति व्याख्यानाट्ठगन्तलक्षणो ङीब्नेति । द्विबिस्तेति ।सुवर्णबिस्तौ हेम्नोऽक्षे॑इत्यमरः ।आचितो दश भाराः स्युः॑ । द्विकम्बल्येति । द्वाभ्यां कम्बल्याभ्यां क्रीता । कम्बल्यम् -ऊर्णापलशतम् ।कम्बलाच्च संज्ञाया॑मिति यत् । ततः क्रीतार्थस्य ठञो लुक् । ह्रढकीति । द्वावाढकौ पचतीति विग्रहेआढकाचितपात्रात्खोऽन्यतरस्याम्,द्विगोष्ठंश्चे॑ति खठनौ विहितौ, ताभ्यां मुक्ते प्राग्वतीयष्ठञ् । तस्यअध्यर्द्धे॑ति लुक् । एतेनद्द्याचिता॑व्याख्याता । स्यादेतत् -॒काण्डान्ता॑दित्युत्तरसूत्रेपरितः सर्वतो येन मीयते तत् — परिमाणमाढककुडवादि, न तु परिच्छेदकमात्र॑मिति मनोरमायां स्थितम् । तथा चाऽपरिमाणत्वादेव सिद्धे बिस्तादिग्रहणमिह व्यर्थं स्यात् । अत्राहुः — ॒उन्मानस्य निषेदे बिस्तादीनामेवे॑ति नियमार्तं तद्ग्रहणं, तेनद्विकार्षापणी॒॑द्द्यक्षी॑त्यादी सिध्यतीति ।", "41023": "<<काण्डान्तात् क्षेत्रे>> - काम्ढान्तात् । षोडशहस्तप्रमाणो दण्डः काण्डम् । यद्यपि विशेषणेन तदन्तविधिः सिद्धः, तथाप्यसत्यन्तग्रहणेक्षेत्रे॑इत्येतत् श्रुतत्वात्काण्डस्यैव विशेषणं स्यान्न तु काण्डान्तस्य । ततश्च द्वाभ्यां काण्डाभ्यां=काण्डप्रमिताभ्यां क्रीताद्विकाण्डी वडवे॑त्यत्र निषेधः स्यात् । इह तु निषेधो न स्यात् — ॒द्विकाण्डा क्षेत्र भक्ति॑रिति । अत्र हि काण्डं प्रमाणे वर्तते, काण्डान्तस्तु क्षेत्रे, अतोऽन्तग्रहणं कृतम् । इहद्विगो॑रित्यनुवर्ततेन तद्धितलुकी॑ति च, तदाह — द्विगुस्ततो न ङीबत्यादि । मात्रचेति.॒द्वयसचो लु॑गिति प्राचोक्तं नादर्तव्यम् ।प्रथमश्च द्वितीयश्च ऊध्र्वमाने मतौ ममे॑ति सिद्धान्तादिति भावः । द्विकाण्डी रज्जुरिति । द्वे काण्डे प्रमाणमस्याः । पूर्ववत्ताद्धितलुक् । द्विगोः॑इति ङीप् । नन्विहापरिमाणान्तादिति पूर्वेण निषेधः स्यात्, काण्डशब्दस्यायामपरतया अपरिमाणार्थत्वात्, परितः सर्वत आरोहतः परिणाहतश्च येन मीयते तद्धि परिमाणम् — आढककुडवादि, नतु यथाकथञ्चिच्परिच्छेदकमात्रम् । यदाहुः — ॒ऊध्र्वमानं किलोन्मानं परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात्सङ्ख्या बाह्रा तु सर्वतः॑इति । अतएवद्विहस्ता भित्ति॑रित्यत्र ङीम्न भवतीति चेदत्रीहुः — नियमार्थमिदंक्षेत्र एव निषेधा यथा स्या॑दिति । तथा चद्विकण्डी रज्जु॑रित्यत्र ङीबेव सूत्रारम्भस्य फलमिति ।", "41024": "<<पुरुषात् प्रमाणेऽन्यतरस्याम्>> - पुरुषात्प्रमाणे । अपरिमाणान्तत्वान्निषेधे प्राप्ते विकल्पार्थं वचनम् । पुरुषशब्दो यद्यपि लोके जातिवचनस्तथापिद्वौ पुरुषौ प्रमाणमस्या॑इति वाक्ये प्रमाणशब्दसामानाधिकरण्यात्प्रमाणे वर्तत एव । वृत्तौ तु शब्दशक्तिस्वाभाव्यादेव । तथा च शुल्लसूत्रम् — ॒पञ्चारित्रि- पुरुषः॑इति । द्विपुरुषीति । अत्रपर्माणे लोद्विगोर्नित्य॑मिति द्वयसचो लुगिति न्यासकारः । नन्विह तद्धितलुग्लुर्लभः, पुरुषशब्दस्य प्रमाणवाचित्वाऽभावेनप्रमाणे लः॑इति श्लोकवार्तिकस्याऽपर्वृत्तेः । ये हि शमादिवत्प्रमाणत्वेन प्रसिद्धस्तत्रैव तत्प्रवर्तते, न तु पुरुषशब्देऽपि । अन्यथापुरुषद्वयस॑मित्यत्रापि लुक् स्यात् । न चैवं द्वयसज्दघ्नचावपि नास्मात्स्यातामिति वाच्यम्, — ॒ऊध्र्वमाने मतौ ममे॑त् वचनात् । एवंपुरुषात्प्रमाणे -॑इति वैकल्पिकस्यापि ङीपः सामर्थ्यादेव प्रवृत्तिः । किन्तु तद्धितलुगेव दुर्लभः इति चेत्राहुः — अस्त्विहप्रमाणे लः॑इत्यस्याऽप्रवृत्तिस्तथापि सुलभ एव लुक् ।पुरुषात्प्रमाणे॑इति सूत्रे हिद्विगोस्तद्धितलुकी॑त्यनुवर्तते तत्सामर्थ्याल्लुगप्याक्षिप्यत इति सुवचत्वादिति । प्रमाणे किम् । द्वाभ्यां पुरुषाभ्यां क्रीता द्विपुरुष#आ गौः ।तद्धितलुकी॑त्येव । समाहारे — पञ्चपुरुषी । नन्विह पुरुषशब्दः पर्माणे न वर्तते इति द्द्यङ्गविकलमेतदिति चेदत्राहुः — प्रमाणार्थवृत्तीनामेव पुरुषाणामत्र समाहारान्न द्द्यङ्गविकलता । ततश्चतद्धितलुकी॑त्यनुक्तौपञ्चपुरुषशब्दाद्विकल्पः स्यात्, इष्यते तुद्विगो॑रिति नित्यं ङीबीति ।", "41025": "<<बहुव्रीहेरूधसो ङीष्>> - ऊधोन्तस्य बहुव्रीहेरिति । समासान्तप्रकरणस्थत्वेऽप्यनङो न प्रत्ययत्वम्, अन्यथा ङित्त्ववैयथ्र्यापत्तेरिति प्राञ्चः । वस्तुतस्तु ष्यङ इव प्रत्ययत्वेऽप्यादेशत्वमविरुद्धं,कुण्डोध्नी॑त्यत्र ङीषि कृते स्वरेऽपि विशेषाऽभावादिति बोध्यम् । स्त्रियामिति । उपसङ्ख्यानाल्लब्धमेतत् । डाम्ङीन्बिषेधेष्बिति ।डाबुभाभ्या॑मिति वैकल्पिको डाप् ।अन उपधालोपिनोऽन्यतरस्या॑मिति विकल्पेन ङीप् ।अनो बहुव्रीहे॑रित्यनेनऋन्नेभ्य॑इति प्राप्तस्य ङीपो निषेध इथि विवेकः । ङीष् स्यादिति । पर्कृतो ङीबेव तु न विहितः, स्वरे विशेषात् । कुण्डोन्धीति । कुण्डमिव ऊधो यस्याः सा । बहुव्रीहेः किम् । प्राप्ता ऊधः — प्राप्तोधाः ।प्राप्तापन्ने चे॑ति समासः । धैनुकमिति ।अचित्तहस्ती॑ति समूहार्थे ठक् ।इसुसुक्तान्तात्कः॑ । स्त्रियामित्युपसङ्ख्यानादिति । नन्विहैव लाघवार्थंबहुव्रीहेरूधसो ङीषे॑नश्चे॑ति सूत्र्यताम्अनङ् चे॑ति वा । समासान्तेषुऊधसो न॑ङिति च त्यक्त्वाधनुषो न॑ङित्येव पठताम् । मैवम् । कबभावे सावकाशस्याऽस्य पक्षे कपा बाधपत्तेः । सिद्धान्ते त्वनङः समासान्ततया शेषत्वमेवेह नास्तीति न कप् ।", "41026": "<<संख्याऽव्ययादेर्ङीप्>> - सङ्ख्याऽव्यया । आदिग्रहणत्पदान्तरव्यवधानेऽपि स्यादेव, द्विविधोन्धी ।", "41027": "<<दामहायनान्ताच्च>> - दाम । बहुव्रीहिविशेषणत्वादेव सिद्धेऽन्तग्रहणं स्पष्टप्रतिपत्त्यर्थम् । सङ्ख्यादेरिति । समासनिर्देशेऽपि स्वरितत्वबलादेकदेश एवानुवर्तत इति भावः । अननुवृत्तेरिति । भाष्यकृताऽननुवर्ततत्वादिति भावः । एवं चोद्दामेत्यत्रदामहायनान्ताच्चे॑त्यस्याऽप्रवृत्त्या पूर्वोक्तेषु डाप्ङीब्नेषेधेषु प्राप्तेषु बहुराज्ञीवद्रूपत्रयं भवत्यतो व्याचष्टे -डान्बिषेधावपीति ।", "41028": "<<अन उपधालोपिनोन्यतरस्याम्>> - अन उपधा ।बहुव्रीहेरूधसो ङी॑षित्यतो बहुव्रीहिग्रहणंसङ्ख्याव्ययादेङी॑बित्यतो ङीप्चानुवर्तत इत्याशयेनाह — अन्नन्तादित्यादि । नियमार्थमिदमित्युक्तम् । न चैवं पूर्वसूत्रेणैव विकल्पसिद्धाविहान्यतरस्याङ्ग्रहणं व्यर्थमिति वाच्यम्, असति ह्रन्यतरस्याङ्ग्रहणे नित्यार्थो विधिरेवायं स्यान्न तु नियम इति ।", "41029": "<<नित्यं संज्ञाछन्दसोः>> - नित्यं सञ्ज्ञाछन्दसोः ।अन उपधालोपिनः॑इति विकल्पस्याऽपवादः । आरम्भसामर्थ्यात्सिद्धेऽपि नित्यत्वे नित्यग्रहणमुत्तरत्र विकल्पाननुवृत्तितसूचनाय कृतमित्याहुः । शतमूर्न्धीति । इहपञ्चदाम्नि॑ति क्वचित्पाठः, स चाऽयुक्तःदामहायनान्ताच्चे॑त्यनेनैव सिद्धत्वात् ।", "41030": "<<केवलमामकभागधेयपापापरसमानार्यकृत- सुमङ्गलभेषजाच्च>> - केवल । छन्दसिमामकी तनू॑ ।मित्रावरुणयोर्भागधेयी॒॑तन्वः सन्तु पापीः॑ ।॒उतापरूभ्यः॑ ।समानी व आकूतिः॑ । आर्यकृती । सुमङ्गली ।सुमङ्गलीरियं वधूः॑इत्यत्र तुछन्दसीवनिपौ॑इति मत्वर्थे ईप्रत्ययो बोध्यः ।शिवा रुद्रस्य भेषजी॑ । अन्यत्र केवलेत्यादीति । मामकनरकयोरुपसङ्ख्यानादित्वम् । मामिका.भागशब्दात्पुंलिङ्गात्स्वार्थे धेयप्रत्ययः ।स्वार्थिकाः क्वचित्प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते॑इति स्त्रीत्वम् । भागधेया । अभेदोपचारात्तद्वति वर्तमानः पापशब्दो विशेष्यनिघ्नः । पापा । अपरा । समाना । आर्येण कृतेति प्राक् सुबुत्पत्तेः कृदन्तेन समासः । टाप् । आर्यकृता । भिषज इयमित्यणि आदिवृद्धेरपवादोऽस्मादेव निपातनादेकारः ।संज्ञाछन्दसो॑रिति नियमादन्यत्र — भेषजा ।", "41031": "", "41032": "<<अन्तर्वत्पतिवतोर्नुक्>> - प्रत्युदाहरणं त्विति ।अन्तर्वती॒॑पतिवती॑ति प्राचोक्तं प्रत्युदाहरणमयुक्तमिति भावः । [आद्येऽस्तिसामानाधिकरण्याभावान्मतुपोऽसंभवात्, द्वितीये तु वत्त्वाऽसंभवादिति भावः] ।", "41033": "", "41034": "<<विभाषा सपूर्वस्य>> - विभाषा सपूर्वस्य । अप्राप्तविभाषेयम्, अयज्ञसंयोगत्वात् । पूर्वेण सहितः सपूर्वस्तस्य । यस्य समुदायस्य पूर्वावयवो विद्यते तस्येत्यर्थः । स च समुदायः पतिशब्दो नभवतीति पतिशब्देन तदन्तविधिरित्याह -पतिशब्दान्तस्येति । ननुपत्यु॑रिति प्रातिपदिकविशेषणेन तदन्तलाभात्पत्यन्तस्येत्येवास्तु किमनेन सपूर्वग्रहणेन । अत्राहुः — केवलपतिशब्दस्यापि व्यपदेशिवद्भावेन पत्यन्तत्वादतिप्रसङ्गः स्यात्तद्वारणाय सपूर्वग्रहणमिति । अत्र पूर्वशब्दः पूर्वावयवपर इथि ध्वनयन्प्रत्युदाहरति -गवां पतिः स्त्रीति । पातीति पतिरिति क्रियाशब्दस्य त्रिलिङ्गत्वादिह स्त्रीत्वम् । तथा च तैत्तिरीयैर्नपुंसकेऽपि प्रयुज्यते -॒अन्नं साम्राज्यानामधिपति तन्मावतु॑इति । व्यस्ते कथमिति । प्राचा तु समस्तेऽप्युपचार इत्युक्तं तद्वृथैवेति भावः ।", "41035": "<<नित्यं सपत्न्यादिषु>> - नित्यं सपत्न्यादिषु । आरम्भसामर्थ्यादेव नित्यत्वे सिद्धे नित्यग्रहणं स्पष्टार्थम् । निपात्यत इत । इह गणे समान एक वीर भ्रातृ पुत्रेति समानादय एव पठन्ते, ततश्चसमानादिषु॑इति वक्तव्येसपत्न्यादि॑ष्वित्युक्तिः सभावनिपातनार्थेति भावः । सपत्न्यादिषु बहुव्रीहिराश्रीयत इत्याशयेनाह -समानः पतिर्यस्याः सेति ।", "41036": "<<पूतक्रतोरै च>> - पूतक्रतोरै च । ऐकार आदेशो ननु प्रत्ययः, उत्तरसूत्रे उदात्तग्रहणात् । नत्विति । अन्यथालाघवन्ते इति मध्योदात्तो वृषाकपिशब्द उदात्तत्वं प्रयोजयति, अग्न्यादिषु त्रिषुस्थानेऽन्तरतमः॑इत्येव सिद्ध॑मिति वृत्त्यादिग्रन्था विरुध्येरन्निति भावः ।", "41037": "<<वृषाकप्यग्निकुसितकुसीदानामुदात्तः>> - उदात्तैकार इति ।शृस्वृस्निहीत्यादिना मनेरुप्रत्ययविधौधान्ये नि ॑दित्यधिकारान्मनुशब्द आद्युदात्तः । समासनिर्देशेनैतद्दर्शयति — उदात्त इत्यनुवर्तमानं संबन्धानुवृत्तेरैकारणेव संबध्यते त्वैकारेणापीति । ततश्चैकारौकारावृदात्तौ स्त इति प्राचोक्तं वृत्तिपदमञ्जर्यानामिति । एथः । शोणः । पृश्निः । पृषत् । इति क्रमेणोदाहरणानि । आद्युदात्त इति ।अनुदात्तं पदमेकवर्ज॑मिति शेषनिघातेनाऽनुदात्तान्त एत शब्द इति भावः । त्र्येण्येति । अत्र एतशब्दस्योपसर्जनत्वामिति भावः ।पूर्वपदात्संज्ञाया॑मिति णत्वम् । गृह्रमिति ।गृहू ग्रहणे॒॑ऋदुपधाच्चाऽकॢपिचृतेः॑ इति क्यप् । त्रीण्येतानि यस्या इति । ननुचित्रं किर्मिरकल्माषशबलैताश्च कर्वुरे॑इति चित्रपर्याय एतशब्दः । तथा च शकल्यां चित्रत्रयाऽभावादर्थाऽस,ङ्गतिरित्याशङ्क्या केचिदिह व्याचक्षते — एतशब्दोऽत्र एतावयवपर इति नास्त्यत्रार्थाऽसङ्गतिः । न चैवमपि गुणविषयेनपुंसकपर्योगो न सङ्गच्छतेगुणे शुल्कादयः पुंसि॑इत्युक्तेरिति वाच्यम्, एतानि — एतावयवाधिकरणानीति ब्याख्यया गुणिलिङ्गपरत्वादेतशब्दस्य नपुंसकमप्युपपद्यत इति ।प्शङ्गादुपसङ्ख्यानम् । पिशङ्गादिति ।लघावन्ते॑इति पिशङ्गशब्दस्य मध्योदात्तत्वात्अन्यको ङी॑षिति ङीषि प्राप्ते ङीबुपसङ्ख्यायते । स्वरे विशेषः ।छन्दसि क्नमेके । क्नमेके इति । असितपलितयोस्तकारस्यवर्णादनुदत्ता॑दिति नकारे प्राप्ते तं बाधित्वा तकारस्थाने क्नमादेशं तत्संनियोगेन ङीपं चेच्छन्त्येके आचार्या इत्यर्थः । अत्रछन्दस्येके॑इत्यन्वयाद्भाषायां न्को भवत्येव । छन्दस्येवैके इच्छन्त्यन्ये तु भाषायामपीत्यर्थपर्यवसानात् । अन्यथा एकग्रहणं भाष्यकारो न कुर्यात् । न हि छन्दसिपलिन्किरिद्युवतयः॑इत्यादिप्रयोगेषु कश्चिद्विप्रतिपद्यते । एवं चगतो गणस्तूर्णमसिक्निकाना॑मिति प्रयोगो नाऽनुपन्नः । विशुद्धवाचीति ।दैप् शोधने॑इत्युक्तेः । अमरेण तु विशुद्धत्वसाधम्र्यात्अवदातः सितो गौरः॑इत्युक्तमिति भावः ।", "41038": "", "41039": "", "41040": "<<अन्यतो ङीष्>> - लघा४वन्त इति । अन्ते एकस्मिन् लघौ द्वयोश्च लध्वोः परतो बह्वषो=बह्वच्कस्य गुरुरुदात्तः स्यात् ।अ॑षित्यचः प्राचां संज्ञा । कृष्णोत्यादि ।कृषश्चे॑ति नक्प्रत्ययेकपेश्चे॑ति सौत्राद्धातोरौणादिके इलचि च कृष्णकपिलावन्तोदात्तौ ।", "41041": "<<षिद्गौरादिभ्यश्च>> - षिद्गौरादि । नर्तकीति । नृतुधातोःशिल्पिनि ष्वुन् । ष्वुनः षित्त्वमवयवेऽचरितार्थत्वात्तदन्तस्य प्रातिपदिकस्य विशेषणम् । त्रपूषः षित्त्वस्याऽङ्विधौ चरितार्थत्वत्त्रपेत्यत्र तु न ङीष् । मृजेः षित्त्वमनार्षं, भिदादौ भृजेति पाठादित्याहुः । मृजेः षित्त्वादेवाह्, भिदादौ मृजेति पाठस्त्वनार्ष इत्यन्ये । गौरीति । गौरशब्दस्य वर्णवाचित्वेऽपि प्रातिपदिकस्वरेणान्तोदात्तत्वात्अन्यतो ङीष्इति ङीष् न प्राप्नोतीतिहि गणे पाठः ।आमनडुहःस्त्रियां वा । अनङ्वाही । अनडुहीति । अनकारान्तत्वाज्जातिलक्षणस्य पुंयोगलक्षणस्य वा ङीषोऽप्राप्ततया गणेऽस्मिन्पठते । प्रत्ययसहितपाठस्तु ङीषि परे आम्विकल्पार्थः । गौर मत्स्य मनुष्य शृङ्ग गवय हय मुकय[गौतम]अनङ्वाही अनडुही तरुण तलुन आन् ।पिप्पल्यादयश्च । पिप्पल्यादयश्च । पिप्पली ।हरीतकी । कोशातकी । पृथिवी । मातामहीत्यादि । यत्तु प्राचाऋन्नेभ्यो ङीप्इत्यत्रशुनी॑त्युदाहृतं तत्तु गौरादिगणे आन्शब्दपाठाऽदर्शनप्रयुक्तमित्याहुः । अत्र केचित् — नित्यस्त्रीत्वात्जातेरस्त्रीविषया॑दित्यप्राप्ते ङीषि पिप्पल्यादयो गौरादिषु पठन्ते, ङीषन्तपाठस्तु चिन्त्यप्रयोजनः । नच पिप्पली भार्या यस्य स पिप्पलीभार्य इत्यादौ पुंवद्भावं बाधित्वा ङीषः श्रवणं यथा स्यादित्येतदर्थः स इति वाच्यम्, भाषितपुंस्कत्वाऽभावादेव पुंवद्भावनिषेधसिद्धेः । किं चाऽवान्तरगणत्वाभ्युपगमोऽपि पिप्पल्यादेव्यर्थ एव । न चैवं जाताधिकारेचित्रारेवतीरोहिणीभ्यः स्त्रियामुपसङ्ख्यान॑मित्यत्र पिप्ल्यादेराकृतिगणत्वात्पुनर्ङिषिति वक्ष्यमाणग्रन्थो विरुध्यत इति वाच्यं, गौरादेराकृतिगणत्वादित्यपि वक्तुं शक्यत्वादित्याहुः ।", "41042": "<<जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुक- कबराद्वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्य- वर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु>> - जानपदीति । जनपदे भवा । वृत्तिश्चेदिति । वर्ततेऽनयेति वृत्तिर्जीविका.कुण्डीति ।अस्त्री कमण्डलुः कुण्डी॑त्यमरः । कुण्डाऽन्येति । क्रियाशब्दोऽयम् । अत एवाह — कुडि दाह इत्यादि । यस्तु घटपर्यायः कुण्डशब्दः स न प्रत्युदाहरणम् ।पठिरः स्थाल्युखा कुण्ड॑मिति तस्य नपुंसकत्वात् । अग्न्यालयादिपर्यायोऽपि कुण्डशब्दो नपुंसकलिङ्गे नियतः ।कुण्डमग्न्यालये मानभेदे देवलाशये॑इति मेदिनीकोशात् । आवपनं चेदिति । आङ्पूर्वाद्वपेरधिकरणे ल्युट् । ओप्यते निक्षिप्यते धान्यं यस्मिन् । गोणाऽन्येति । यस्या यादृच्छिकं नाम । अकृत्रिमेति । यथासैषा स्थली यत्र विचिन्वता त्वा॑मिति स्थलाऽन्येति । कृत्रिमा — पुरुषेण संस्कृता । श्राणा — पक्वा ।प्राणिनि च । अयोविकार इति ।फाल॑इति प्रसिद्धः । कुशाऽन्येति । छन्दोगाः स्तोत्रीयागणनार्थानौदुम्बरान् शङ्कून्कुशा॑इति व्यवहरन्ति ।अतःकृकमी॑ति सूत्रे प्रसिद्ध एवाऽयम् । कामुकाऽन्येति । मैथुनादन्यद्धनादिकं कामयितुं यस्याः शीलं सेत्यर्थः ।लषपते॑त्युकञ् ।", "41043": "<<शोणात् प्राचाम्>> - शोणात् ।शोणः कोकनदच्छवि॑रिति कोशाच्छोणशब्दस्य वर्णवाचित्वात्वर्णानां तणे॑त्याद्युदात्ततयाअन्यतो ङी॑षिति सिद्धेऽपि प्राचामेव ङीष् नान्येषामिति नियमार्थमिदम् ।", "41044": "<<वोतो गुणवचनात्>> - गुणवचनात् । गुणो नाम नेहादेङ्रूपः,उतः॑इति विशेषणाद्वचनग्रहणाच्च, नापि विशेषणमात्रमिदम्, आखुद्र्रव्यमित्यादावतिप्रसङ्गादिति चेत् । अत्राहुः — ॒संज्ञाजातिक्रियाशब्दान् हित्वाऽन्ये गुणवाचिनः॑ ।चतुष्टयीशब्दानां प्रवृत्तिरित्याकरग्रन्थनिष्कर्षादेव निर्णयः॑ इति । भाष्ये तुसत्त्वे निविशतेऽपैति पृथग्जातिषु दृश्यते । आधेयश्चाऽक्रियाजश्च सोऽसत्त्वप्रकृतिर्गुणः ।॑इति स्थितम् । सत्त्वं द्रव्यम् । सत्त्व एव निविशतो इति सावधारणं व्याख्येयम् । एतेनसत्ता व्यावर्त्त्यते । सा हि न केवलं द्रव्ये वर्तते किन्तु द्रव्यगुणकर्मसु । ननु द्रव्य एव द्रत्र्यत्वं वर्तत इति तत्राऽतिव्याप्तिरत आह -अपैतीति । अपगच्छतीत्यर्थः । अर्थात्सत्त्वादेव । यथा पीततायां जातायां फलादेर्नीलताऽपैति, नैवं द्रव्यत्वं द्रव्यादपैति । एवमपि गोत्वं गोषु वर्तते अआआदेश्चापैति तत्रातिव्याप्तिरत आह — पृथग्जातिषुदृश्यत इति । गोत्वं हि द्रव्यत्वाऽवान्तरनानाजातिषु न दृश्यते । गुणस्तु दृश्यते । यथा अम्रे दृष्टा नीलता तृणादिष्वपि दृश्यते । एतेन पूर्वार्धेन सकलजातेव्र्यवच्छेदः । एवं तर्हि कर्म द्रव्ये वर्तते ततोऽपैति पृथग्जातिषु दृश्यते चेति तत्रातिव्याप्तिरत आह — आधेयश्चाक्रियाजश्चेति । उत्पाद्योऽनुत्पाद्य इत्यर्थः । उत्पाद्यो — यथा घटादेः पाकजो रूपादिः । अक्रियाजोऽनुत्पाद्यः । स यथा आकाशादेर्महत्त्वादिः । क्रिया तु सर्वाप्युत्पाद्यैव न नित्येति तस्या द्वेविध्याऽभावाद्गुणत्वाऽभावाः । एवमपिल द्रव्यस्य गुणत्वं प्राप्नोति, अवयविद्रव्यं ह्रस्तपादादिषु दृश्यते, द्विविधं च भवति नित्याऽनित्यभेदेन, निरवयवस्याऽत्मपरमाण्वादेर्नित्यात्वादवयविद्रव्यस्य तु घटादेरनित्यत्वादत आह — असत्त्वपर्कृतिरिति । अद्रव्यस्वभाव इत्यर्थः । पतिवरेति । एवं च पाणिग्रहणोत्कण्ठाभिधायित्वाद्गुणवचनोऽयमिति भावः ।", "41045": "<<बह्वादिभ्यश्च>> - बह्वादिभ्यश्च । बहुशब्दस्य गुणवाचित्वात् पूर्वेण सिद्धेऽप्युत्तरार्थं ग्रहणम्, — ॒नित्यं छन्दसी॑त्युत्तरसूत्रेण बहुशब्दादपि छन्दसि नित्यं यथा स्यादिति । वस्तुतस्तु बहुशब्दो,नित्यं छन्दसी॑ति सूत्रं च व्यर्थमेव, सर्वविकल्पानां छन्दसि व्यवस्थितत्वात् । गुणसूत्रामाह — कृदिकारादिति ।सर्वतोऽक्तिन्नार्था॑ दित्यपि गुणसूत्रमेव । व्यवस्थितविभाषात्वादिह न, — सुगन्धिः । प्रियकतिर्वेश्या । अजननिरिति ।आक्रोशे नञ्यनिः॑इति जनेरनिप्रत्ययः । इहाऽन्यान्यपि गणसूत्राणि सन्ति -शक्तिः शस्त्रे । शक्तिः शक्ती । शस्त्रे किम् । शक्तिः सामर्थ्यम् । शक्तिः शस्त्रीति पाठे तु शब्दद्वयम् । शस्त्रीः शस्त्री । इतः प्राण्यङ्गात् । धमनिः । धमनी । चन्द्रभागान्नद्याम् । चन्द्रभागी । चन्द्रभागा । अहन्शब्दोऽत्र पठते, तत्सामर्थ्यात्तदन्तो बहुव्रीहिरुदाहार्यः, अनुपसर्जनाधिकारबाधश्च । दीर्घाह्यी प्रावृट् । पक्षे ङीम्ङीन्बिषेधाः । बहु पद्धति यष्टि विकट विशाल कल्याण पुराण चण्ड कृपाण अहन् । इत्यादि ।", "41046": "", "41047": "", "41048": "<<पुंयोगादाख्यायाम्>> - पुंयोगादाख्यायाम् । इह॒पु॑मिति लुप्तषष्ठीकं पृथक् पदं, तच्चावर्तते ।पुंयोगा॑दिति हेतौ पञ्चमी ।आख्याया॑मिति तु पञ्चम्यर्थे सप्तमीत्याशयेनाह — — या पुमाख्येत्यादि ।पुमाख्या॑ -पुंवाचकः शब्दः ।पुंयोगात् स्त्रियां वर्तते॑ इत्यनेन गौणी वृत्तिरुक्ता । यदा तु मुख्यार्थात्तस्येदम्इत्यण्, तदागौपी॑त्येव भवति । योगः — संबन्धः । स चेहदन्पतिभाव एवेति नाग्रहः, किं तु जन्यजनकभावोऽपि गृह्रते, सङ्कोचे मानाऽभावात् । तेनकौसल्ययाऽसावि सुखेन रामः प्राक्केकयीतो भरतस्ततोऽभू॑दिति भट्टिप्रयोगः सङ्गच्छते । केकयस्य दुहिता केकयी ।जनपशब्दात्क्षत्त्रियाद॑ञित्यपत्यप्रत्यये तुकैकेयीतो भरत॑इति स्यात् । न चेहअतश्चे॑ति तद्वाजाकारस्य लुक्शङ्क्यः,न प्राच्यभर्गादी॑ति प्रतिषेधात् । तथा च कालिदासः — ॒कैकेयि । कामाः फलितास्तवे॑ति । एतेनदेवकी॑व्याख्याता । पुंयोगात् किम्, देवदत्ता । अयं हि संज्ञाशब्दः स्वभावात्स्त्रियमाह, न तु पुंवाचकशब्दयोगात् । आख्यायां किम्, प्रसूता । अयं हि जातपर्सवामाह । स च पर्सवो गर्भधारणद्वारा पुंयोगनिमित्तक इत्यस्तीह पुंयोगः, किं तु नायं पुंसो वाचक इति न ङीष् । सूर्याद्देवतायां चाब्वाच्वः । सूर्याद्देवतायामिति । ङीषोऽपवादः । सूरीति ।सूर्यतिष्ये॑ति यलोपः ।", "41049": "<<इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवन- मातुलाचार्याणामानुक्>> - यवाद्दोषे । दुष्टो यवो यवानीति । जात्यन्तरमेवानेनामिधीयते । अयमेव चाऽस्य दोषो यस्माद्धि यवत्वजातेरभावेऽपि तदाकारानुकृतिः ।यवनाल्लिप्याम् । वा ङीष्वाच्य इति । इदं चइङश्चे॑ति घञ्विधायकसूत्रस्थं वार्तिकम् । वक्ष्यति च तत्र -॒अपादाने स्त्रियामुपसङ्ख्यानं तदन्ताच्च बा ङी॑षिति । उपाध्यायी — उपाध्यायेति । उपेत्य अस्या अधीयत इति विग्रहः । स्वार्थैति । यदि तु पुंयोगे एवायं विधिः स्याच्छूद्रापि क्षत्त्रियस्य भार्या क्षत्त्रियाणी स्यात् । ब्राआहृणभार्या च क्षत्त्रिया क्षत्त्रियाणी स्यादिति भावः ।अर्यक्षत्त्रियाभ्यां वा स्वार्थे । वैश्या वेत्यर्थं इति ।अर्यः स्वामिवैश्ययो॑रित्यर्थद्वये निपातनादिति भावः । अत्राऽमरस्य सङ्ग्रहः -॒अर्याणी स्वयमर्या स्यात्क्षत्त्रिया क्षत्त्रियाण्यपि । उपाध्यायाऽप्युपाध्यायी स्यादाचार्यापि च स्वतः । आचार्यानी सु पुंयोदे स्यादर्यी क्षत्त्रियी तथा । उपाध्यायाऽप्युपाध्यायी -॑इति । कथमिति । सूत्रे ब्राहृआन्शब्दस्याऽग्रहणादानुगनुपपन्न एवेति प्रश्नः । उत्तरं तु -ब्राहृआणमानयतीत्यादि । ण्यन्तात्अन प्राणने॑इत्यस्मात्कर्मण्यणिणेरनिटी॑ति णिलोपेटिड्ढाण॑ञिति ङीपिपूर्वपदाक्संज्ञाया॑मिति णत्वे चब्राहृआणी॑ति रूपसिद्धेरिति भावः ।", "41050": "", "41051": "<<क्तादल्पाख्यायाम्>> - क्तादल्पाख्यायाम् । अत्र व्याचख्युः — ॒अल्पाख्याय॑मिति समुदायोपाधिः । अल्पैरभ्रैर्लिप्ता अब्रालिप्ती । कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहण॑मिति समुदायस्यापि क्तान्तत्वान्ङीष् । यद्यपि पूर्वपदार्थस्य अभ्राणमेवाल्पत्वं गम्यते तथापि तदल्पत्वे सति तद्विलेपनस्याप्यल्पत्वमवश्यं भावीति समुदायोपाधित्वमल्पत्वस्य सङ्गच्छत इति ।", "41052": "<<बहुव्रीहेश्चान्तोदात्तात्>> - तेन बह्विति । अयं भावः — ॒बहोर्नञ्वदुत्तरपदभूम्नि॒॑नञ्सुभ्यां॒॑जातिकालसुखादिभ्योऽनाच्छादनात् क्तोऽकृतमितप्रतिपन्नाः॑इति ह्रन्तोदात्तविधायकानि । तत्रजातिपूर्वा॑दित्युक्ते बह्वादिपूर्वकस्यांर्थाद्व्युदास इति ।जातिपूर्वादिति वक्तव्यम् । सुखादिपूर्वान्नेति ।सुखादिभ्यः कर्तृवेदनाया॑मित्यत्र ये पठिताः सुखदुःखकृच्छ्रादयस्तेऽत्र गृह्यन्ते । सुखायाता । सुखं दुःखं वा आयातं प्राप्तमनयेति विग्रहः ।अस्वाङ्गपूर्वपदाद्वे॑ति विकल्पस्य वक्ष्यमाणत्वादिह स्वाङ्गपूर्वपद एवोदाहरणामाह — ऊरुभिन्नीति । भिन्नौ ऊरु यस्या इति बहुव्रीहौस भिन्नशब्दस्यनिष्ठे॑ति पूर्वनिपाते प्राप्तेजातिकालसुखादिभ्यः परा निष्ठा वाच्ये॑ति परनिपातः । बहुकृतेति । बहूनि कृतानि यया सा ।जातान्तान्न । जातान्तान्नेति ।वर्णादनुदात्ता॑दितिवत् — -॒बहुव्रीहेरुदात्ता॑दित्येव सिद्धेऽन्तग्रहणं नित्यत्वप्रतिपत्त्यर्थम् ।वा जाते॑इति तु वैकल्पिक उदात्तो न तु नित्यमिति भावः ।पाणिगृहीति भार्यायाम् । पाणिगृहीतीति । यस्याः पाणिरग्निसाक्षिकं गृह्रते तस्यां वाच्यायां पाणिगृहीतशब्दान्ङीष्वक्तव्य इत्यर्थः । अन्येति । कौतुकादिना पाणिर्गृहीतो यस्या दास्यादेः सापाणिगृहीता॑ ।", "41053": "<<अस्वाङ्गपूर्वपदाद्वा>> - पूर्वेण नित्यं प्राप्त इति । एतेन विकल्पोऽप्ययं जातिपूर्वादेवेति ध्वनितम् । कथं तर्हिपुत्रहती॑त्यत्रअस्वाङ्गपूर्वपदा॑दिति वा ङीषिति कैयटः, पुत्रशब्दस्याऽजातिवाचकत्वात् । अन्यथापुत्रादिनी॑त्यत्रसुप्यजातौ — — ॑इति णिनिर्न स्यात् । यदि त्वदनमादः, सोऽस्यास्तीति आदिनी, पुत्राणामादीनीति विगृह्र कथंचित्साधितेऽपिजातिकालसुखादिभ्यः॑इत्यन्तोदात्तविधायकसूत्रेजातेः किं, पुत्रायातः॑इति वक्ष्यमाणमूलग्रन्थो विरुध्यत एवेति चेदुच्यते -॒प्रादुर्भावविनाशाभ्यां सत्त्वस्य युगपद्गुणैः । असत्त्विलिङ्गां बह्वार्थां ता जातिं कवयो विदुः॑ -इति भाष्ये लक्षणान्तरमुक्तम् ।सत्त्वस्य द्रव्यस्य प्रादुर्भावविनाशाभ्यां प्रादुर्भावतिरोभावौ या प्राप्नोति । यावद्द्रव्यभाविनीत्यर्थः । गुणैर्युगपद्द्रव्येण सम्बध्यते । बह्वर्थां । सर्वव्यक्तिव्यापिनीमित्यर्थः । तां जाति॑मित्यादि कैयटेन व्याख्यातम् । एवं च पुत्रत्वस्य यावद्द्रव्यभावित्वेनोक्तलक्षणलक्षितत्वाज्जातिवाचक एव पुत्रशब्द इतिअस्वङ्गेति वा ङी॑षिति ग्रन्थस्तत्र न विरुध्यते ।आकृतिग्रहणा जाति॑रित्यादिमुख्यपक्षाश्रयणे तु पुत्रत्वास्याऽजातित्वाज्जातेः किं,पुत्राऽऽयात॑इति ग्रन्थोऽपि सङ्गच्छत इति दिक् । केचिदर्वाचीनास्तु पुत्रहती पुत्रग्धीत्यत्रक्तादल्पाख्याया॑मित्यनेन ङीषामाहुः । सुरापीतीति । पीता सुरा यया सा ।जातिकाले॑ति सूत्रवार्तिकाभ्यां निष्ठाया अन्तोदात्तत्वपरनिपातौ । वस्त्रच्छन्नेति । बहुव्रीहिस्वरेण पूर्वपदपर्कृतिस्वरे शेषनिघाते, च कृते अनुदात्तान्तोऽयम् ।", "41054": "<<स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्>> - स्वाङ्गाच्चोप । इह बहुव्रीहेरिति नानुवर्तते इति ध्वनयन्नुदाहरति -अतिकेशीति । शिखेत् ।शीङः खो ह्रस्वश्चे॑ति खः । तदन्ताट्टाप् । अन्यथा टापं बाधित्वा ङीष् स्यादिति भावः । [केचित्तु सुशिखेत्यपि प्रत्युदाहरन्ति । तच्चिन्त्यम् । टाबन्तेन समासेऽनदन्तेत्वेन ङीषः प्राप्त्यभावात् । न च टापः प्रागेव कृदन्तेनैव समासाददन्तत्वमस्तीति वाच्यम्, तथा हि सति शोभना शिखा सुशिखेत्यर्थस्याऽलाभादिति नव्याः] । यद्यत्र स्वमङ्गं गृह्रते तर्हि सुमुखा शालेत्यत्रापि स्यात्, मुखस्य शालाङ्गत्वात् । सुकेशी रथ्येत्यत्र च न स्यात्, केशानां रथ्याङ्गत्वाऽभावात् । अतोऽव्याप्त्यतिव्याप्तिपरिहार्थमाह - ।अद्रवं मूर्तिमत्खाङ्गं प्राणिस्थमविकारजम् । स्वाङ्गं त्रिधेति । मूर्तिमदिति । स्पर्शवद्द्रव्यपरिमाणं मूर्तिः । प्राणीति । मुखनासिकासञ्चार वायुः प्राणः । सुमुखा शालेति । एवं चफलमुखी कारणमुखी वाऽनवस्थे॑त्यादिप्रयोगाः प्रामादिका इति भावः । प्रतिमादिगतस्तनस्य प्राणिन्यदृष्टत्वात्स्वाङ्गत्वं न प्राप्नोतीति तृतीयलक्षणमाह — तेन चेदिति.येनाऽह्गेन प्राणिरूपं वस्तु यथा युतं तेन=तत्सदृशेनाऽङ्गेन तदप्राणिरूपं वस्तु तथा=प्राणिवद्युतं=युक्तं चेत्तदप्यप्राणिनि दृष्टं स्वाङ्गमित्यर्थः ।", "41055": "<<नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च>> - मध्येऽपवादेति ।मध्येऽपवादाः पूर्वान्विधीन्बीधन्ते नोत्तरान् इति न्यायादित्यर्थः । उरः क्रोडेति । स्त्रीलिङ्गोऽयमिति हरदत्तादयः । तत्रोपसर्जमह्रस्वत्वे कृते अदन्तत्वान्ङीषः प्राप्तिः । अमरस्तुन ना क्रोडं भुजान्तरम्इत्याह । रत्नमतिस्तुपुंलिङ्गतामाह ।गणे चक्रोड॑इति प्रातिपदिकमात्रं पठते न तु टाबन्त॑मिति गणरत्न महोदधिकारः । एवं चाऽविशेषाल्लिङ्गत्रयेऽप्युदाहरणं बोध्यम् । माधवस्तु — तुदादिगणेक्रुड निमज्जने॑इति धातावाह -॒क्रोडः — धञ् । क्रोडा अआनामुरः । टाबन्तोऽयं स्वभावतो विशेषविषयः । क्रोडादिषु टाबन्तमात्रस्य पाठात् । भुजान्तरमात्रवचनस्य क्रोडशब्दस्य बहुव्रीहौ स्वाङ्गलक्षणो ङीष्विकल्पो भवत्येव ।कल्याणक्रोडी कल्याणक्रोडा मयूरी॑ति । केशैः सह वर्तत इति ।", "41056": "", "41057": "<<सहनञ्विद्यमानपूर्वाच्च>> - सकेशाष अविद्यमानाः केशा यस्याः सा — अकेशा ।", "41058": "<<नखमुखात् संज्ञायाम्>> - शर्पणखेति ।पूर्वपदात्संज्ञाया॑मिति णत्वम् । यदा तु शूर्पवन्नखानि यस्या इति योगमात्रं विवक्ष्यते न तु संज्ञा, ततोऽसंज्ञात्वान्न ङीष्निषेधो, न वा णत्वं, तेन राक्षस्यपि योगवृत्त्याशर्पनखी॑ति भवतीत्याहुः ।", "41059": "", "41060": "<<दिक्पूर्वपदान्ङीप्>> - ङीषो ङीबादेश इति ।अन्यतो ङी॑षित्यतो ङीषित्यनुवर्तते ।दिक्पूर्वपदा॑दिति पञ्चम्याङी॑षिति प्रथमायाः षष्ठी कल्प्यत इति भावः । यदि तु स्वतत्त्रो ङीप्स्यात्तर्हिप्राग्गुल्फा॑प्राक्रोडे॑त्यत्रापि प्रसज्येत, पूर्वोक्ताऽसंयोगोपधादित्यस्य निषेधानां चानुवृत्तौ प्रतिपत्तिगौरवमिति भावः । [प्राङिति.॒निपाता आद्युदात्ताः॑इति पूर्वपदे उदात्ते सतिबहुव्रीहौ प्रकृत्या पूर्वपद॑मिति पूर्वपदप्रकृतिस्वरे सिद्धे ङीष् प्रत्ययस्वरेणोदात्त इति सेषनिघातः स्यात्, तन्माभूदिति ङीषो ङीबनुदात्तो विधीयत इति प्राङ्गुखीति पदमाद्युदात्तमिति भावः]", "41061": "<<वाहः>> - वाहः । ण्विप्रत्ययान्तस्य वहेरनुकरणमिदम् ।वहश्चे॑त्यनेन कर्मण्युपपद एव वहेर्ण्विप्रत्ययविधानात्केवलस्य संभवो नास्तीति सामर्थ्यात्तदन्तविधिरित्यभिप्रेत्याह — वाहन्तादिति । न ङीबिति । अस्वरितत्वादिति भावः । दित्यौहीति । ङीषि भसंज्ञायांवाह ऊठ्,संप्रसारणाच्च॑इति पूर्वरूपम् ।एत्येधत्यूठ्सु॑इहि वृद्धिः ।", "41062": "<<सख्यशिश्वीति भाषायाम्>> - सख्याशिआईति । सखिशब्दादशिशुशब्दाच्च ङीष् निपात्यते । न विद्यते शिशुर्यस्याः सा अशिआई । भाषायां किम् । सखा सप्तपदी भव ।", "41063": "<<जातेरस्त्रीविषयादयोपधात्>> - जातेरस्त्री । जात्या स्ववाचकशब्दो लक्ष्यते, अर्थे कार्याऽसंभवात्, स्वरूपं तु न गृह्रते, अस्त्रीविषयादित्यादेर्वैथ्र्यापत्तेरित्याशयेनाह — जातिवाचि यदिति ।आकृतिग्रहणा जाति.आकृतिग्रहणेति ।ग्रहण॑मिति करणे ल्युट् । सामान्ये नपुंसकम् । आकृतिग्र्रहणं यस्या इति बहुव्रीहिस्तदेतत्फलितमाह -अनुगतसंस्थानेत्यादि । वृषले ब्राआहृणादिव्यावृत्तसंस्थानाऽभावादव्याप्तिरिति लक्षणान्तरमाह — — लिङ्गानां चेत्यादि । चकारो भिन्नक्रमःनिग्र्रह्रे॑त्यस्यानन्तरं बोध्यः ।॒लिङ्गाना॑मिति कर्मणि षष्ठी । न सर्वभागिति । सर्वाणि लिङ्गानि न भजतीत्यर्थः । सर्वशब्दस्य लिङ्गापेक्षत्वेऽपि गमकत्वाद्भजो ण्विः समासश्च भवत्येवेति नात्र सामर्थ्याऽभावः शङ्क्यः । वृषलीति । एकस्यां हि व्यक्तौ वृषलत्वे कथिते तदपत्यतत्सहोदरादौ कथनं विनापि तस्य सुग्रहत्वादिति भावः देवदत्तेति ।लिङ्गानां च न सर्वभाक्-सकृदाख्यातनिग्र्रह्रा । नन्वत्र परिमाणभेदेन द्रव्यभेदाभ्युपगमे स्यादेवातिप्रसङ्गः, एकस्यां व्यक्तौ देवदत्तत्वे कथिते व्यक्त्यन्तरे कथनं विनापि तस्य सुग्रहत्वात् । मैवम्, — परिमाणभेदेन द्रव्यभेदस्य प्रामाणिकैरनभ्युपगमात् । अभ्युपगमे वा समानकालतया व्यक्त्यान्तरस्य विशेषणात् । तथा च यस्यां व्यक्तौ देवदत्तत्वं कथ्यतेतत्समकालमन्या देवदत्तव्यक्तिरप्रसिद्धेति न देवदत्तत्वं जातिः । वृषलत्वादिस्तु भवत्येव, तदीयपितृभ्रात्रादिषु तस्य सुग्रहत्वादिति दिक् । उक्तलक्षणद्वयानाक्रान्तत्वात्तृतीयं लक्षणमाह — ।गोत्रं च चरणैः सह । गोत्रं च चरणैः सहेति । अपत्याधिकारादन्यत्र लौकिकं गोत्रम् । चरणः — शाखाध्येता । तदेतत्फलितमाह -अपत्यप्रत्ययान्त इति । अत्र व्याचख्युः -॒नाडायनं बह्वृचमिद॑मिति नपुंसकप्रयोगदर्शनात्सर्वलिङ्गौ गोत्रचरणौ, अतः पृथग्लक्षणं कृतम् । तेनात्रलिङ्गानां च न सर्वभा॑गिति द्वितीयलक्षणेन गतार्थता न शङ्क्येति । औपगवीति । अण्णन्तलक्षणं ङीपं परत्वादयं बाधते । एवं चापत्याधिकारेऔपगवी॑ति प्रतीकमुपादायटिड्ढाण॑ञित्यादिना ङीबिति व्याचक्षाणा उपेक्ष्या इथि भावः । केचित्तु अपत्याधिकारादत्तुरत्रैव लौकिकं गोत्रं गोत्रशब्देन गृह्रते नान्यत्रेति पारिभाषितगोत्रप्रत्ययान्त एव जातिकार्यं लभते न त्वपत्यप्रत्ययान्तः ।गोत्रं च चरणैः सहे॑ति वचनस्यापत्याधिकरात्पूर्वभावित्वात् । तथा चापत्यार्थे औपगवीति ङीबन्त इथि प्राचामुक्तिः सम्यगेवेत्याहुः । कठीति । कठेन प्रोक्तमधीयाना [वा] ।कलापिवैशंपायनान्तेवासिभ्यश्चे॑ति वैशंपायनान्तेवासित्वाण्णिनिः । तस्यकठचरकाल्लु॑गिति लुक् । अध्येत्रणस्तुप्रोक्ताल्लु॑गित्यनेन । बह्वृचीति । बह्व्य ऋचोऽध्येतव्या यया सेति बहुव्रीहिः । अनृचबह्वृचावध्येतर्येवे॑ति वचनात्ऋक्पूरब्धू॑रिति अप्रत्ययः समासान्तः । यद्यपि स्त्रीणामध्ययनं प्रतिषिद्धम्, तथापि पुराकल्पे ह्रेतदासीत् । तदाह यमः — ॒पुराकल्पे तु नारीणां मौञ्जीबन्धनमिष्यते । अध्यापनं च वेदानां सावित्रीवचनं तथा.॑इति । यद्वा -॒मा नामाऽध्यगीष्ट, तद्वश्यत्वात्ताच्छब्द्यं भविष्यति, यथाऽनधीयानेऽपि माणवके । ब्राआहृणीत्यत्रेति । एवं च प्राचो ङीबुदाहरणं प्रामादिकमिति भावः । मुण्डेति । मुण्डगुणयोगान्मुण्डा ।बलाका बिसकण्ठिका॑ । क्षत्त्रियेति ।क्षत्राद्धः॑इत्यपत्ये घविधानाद्गोत्रलक्षणा,लिङ्गानां च न सर्वे॑त्यादिलक्षणा वा जातिः ।योपधप्रतिषेधे हयगवयमुकयमनुष्यमत्स्यानामप्रतिषेधः । योपधप्रतिषेध इत्यादि । गौरादिषु गवादय इदानीन्तनैः प्रक्षिप्ता इत्यस्मादेव वार्तिकाद्विज्ञायत इति कैयटादयः ।", "41064": "<<पाककर्णपर्णपुष्पफलमूलबालोत्तरपदाच्च>> - इतो मनुष्य । इतः किम् । विट् । दरद् । विटशब्दात्जनपदशब्दात्क्षत्त्रि#आदञ्इत्यञ् । दरच्छब्दात्तुद्द्यञ्मगदे॑त्यण् । तयोःअतश्चे॑ति लुक् । यस्तु वैश्यपर्यायो विट्शब्दः सोऽपि प्रत्युदाहरणमित्याहुः । दाक्षिति ।अत इञ॑ । गोत्रलक्षणा जातिः । अदन्तत्वाऽभावादप्राप्तो ङीष् विधीयते । योपधादपीति ।जाते॑रित्यनुवर्तमाने पुनर्जातिग्रहणादिति भावः । उदमेयस्येति । उदकं मेयं यस्य उदमेयः ।उदकस्योदः संज्ञाया॑मित्युदादेशः । इञ उपसङ्ख्यानमजात्यर्थम् । सौतङ्गमी । निर्वृत्ताद्यर्थेवुञ्छ॑णादिसूत्रेण सुतङ्गमादिभ्य इञ् । न चायमिञन्तो जातिः ।", "41065": "", "41066": "<<ऊङुतः>> - ऊङुतः । ङकारोनोङ्धात्वोः॑ इति विशेषणार्थः । अन्यथायगाग्वै॑यगाग्वै॑इत्यत्रापि स निषेधः स्यात् । दीर्घोच्चारणं तुआश्रू॑शब्दार्थम् । अन्यत्र सवर्णदीर्घेणापि सिद्धेः । कुरुरिति । लिङ्गविशिष्टपरिभाषया स्वादयः । अत्र व्याचक्षते -॒यद्येकादेशस्य पूर्वान्तत्वेन ग्रहणात्स्वादय इति व्याख्यायेत तर्हिकाण्डे॑कुडए॑इत्यादावपिएकवचनमुत्सर्गतः॑इति सुःप्रवर्तत, तद्वारणायअप्रत्ययः॑इति प्रसज्यप्रतिषेधाभ्युपगमे तु प्रकृते दोषः ।आश्रू॑रित्यत्रैकादेशाऽभावाल्लिङ्गविशिष्टपरिभाषाया आवश्यकत्वाच्च । अतएवरमे॑इत्यत्रएकादेशस्य पूर्वान्तत्वेन ग्रहणात्स्वादयैति मनोरमादौ न व्याख्यातमिति । अध्वर्युरिति । अध्वर्युशाखाध्येत्री, अध्वर्युशाखाध्यायिवंशोद्भवेति वार्थः । चरणलक्षणेयं जातिः । अध्वरं यातीति विग्रहेमृगय्यादयष्चे॑त्यौणादिकेन अध्वरशब्दस्यान्तलोपः, याधातोः कुप्रत्ययश्च ।अप्राण्जातेश्चारज्ज्वादीनामुपसङ्ख्यानम् । पर्युदासादिति । यदि सूत्रादुत इति गृह्रते तर्हि अलाब्बादावूहः संभवो नेति भावः । अलाब्वेत्यादि । प्रथमान्तं द्वितीयान्तं वा नोदाहृतम् । वक्ष्यमाणप्रयोजनस्य तत्राऽसभवात् । नोङ्धात्वोरिति । ऊङ्धात्वोर्यणः परे शसादय उदात्ता न स्युरिति सूत्रार्थः ।", "41067": "", "41068": "<<पङ्गोश्च>> - पङ्गोश्च । अजात्यर्थमिदम् । पङ्गुशब्दो हि गुणवाची ।आशुरस्योकाराऽकारलोपश्च । आशुरस्येति । पुंयोगलक्षणे ङीषि प्राप्ते ऊङ् तत्संनियोगेन च विधीयमानो लोपः संनिहितत्वादन्तस्यैवाऽकारस्य न त्वादेः । एतच्च वचनंआशुरः आश्र्वे॑ति निर्देशसिद्धार्थकथनपरम् । अतोऽपि प्रथमाकारस्य लोपो न शङ्क्यः ।", "41069": "<<ऊरूत्तरपदादौपम्ये>> - ऊरूत्तपदात् । उपमीयतेऽनयेत्युपमा, तस्या भाव औपम्यम् । उत्तरपदेन पूर्वपदमिहाक्षिप्यते । तदेतत्फलितमाह -उपमानवाचिपूर्वपदमिति । करभोरूरिति ।माणिबन्धादाकनिष्ठं करस्य करभो बहिः॑ । तद्वदूरू यस्याः सा ।धात्री कराभ्यां करभोपमोरु॑रित्यत्र तूङ् न, करभशब्दस्योपमानवाचित्वेऽपि पूर्वपदत्वाऽभावात् । औपम्ये किम् । वृत्तोरुः ।ऊर्वन्ता॑दिति वक्तव्ये उत्तरपदग्रहणंहस्तितस्वाम्यूरु॑रित्यत्र माभूदित्येवमर्थम् । अत्र हि हस्तिन इव स्वाम्यूरु अस्या इति विग्रहः । तथा चोर्वन्तत्वेऽपि ऊरुत्तरपदत्वमिह नास्ति ।स्वाम्यूरु॑शब्दस्यैवोत्तरपदत्वात् ।", "41070": "<<संहितशफलक्षणवामादेश्च>> - संहित । संहितादिपूर्वपदमूरूत्तरपदं यत् प्रातिपदिकं तस्मादूङ् स्यात् । शफाविति । यद्यप्यमरेणशफं क्लीबे खुरः पुमान्इति नपुंसकतोक्ता, तथापि शफशब्दस्य पुंस्त्वमपि प्रामाणिकमेव ।शफाविव जर्भुराणे॑ति श्रुतेः ।शफः खुरे गवादीनां मूले विटपिनामपि॑इति हेमचन्द्रकोशाच्च । वामोरूरिति । वामौ सुन्दरौ ऊरू यस्या इतचि विग्रहः । कथं तर्हिपीवरोरु । पिबतीव बर्हिणः॑इति कुमारः । ऊङभावे हिपीवरोरो॑इति स्यात् । ऊङ्श्चेह विधायकं नास्ति । अत्राहुः -संज्ञापूर्वकविधेरनित्यतया संबुद्धिगुणाऽभावादिति स्थितस्य गतिरुन्नेयेति ।सहितसहाभ्यां चेति वक्तव्यम् । हितेन सहेति । अत्राहुः — समो वा हितततयोः॑इति व्युत्पादितःसहित॑शब्दस्तु नेह गृह्रते, एकदेशविकृततया संहितग्रहणादेव तत्सिद्धेरिति भावः ।", "41071": "", "41072": "<<संज्ञायाम्>> - कमण्डलुरिति । चतुष्पाज्जातिवाचतोऽयम् । अतएवचतुष्पाभ्द्यो ढञ्इत्यत्रकामण्डवेय॑इत्युदाहरिष्यति । पात्रपर्यायस्तु न प्रत्युदाहरणं, तस्य स्त्रीलिङ्गत्वाऽभावात् । अच्छन्दोर्थमिति । वेदे तुकद्रुकमण्डल्वोश्छन्दसी॑त्यनेन संज्ञायामलसंज्ञायां चोङ् सिध्यतीति भावः । अञो योऽकार इति । अञा अकारविशेषणं किम् । शूरसेनी ।जनपदशब्दा॑दित्यञःअतश्चे॑ति लुकि जातिलक्षणोऽत्र ङीष् ।", "41073": "<<शार्ङ्गरवाद्यञो ङीन्>> - शाङ्र्गरवीति । श्रऋङ्गरुशब्दादपत्येऽण् । आदिवृदधिः ।ओर्गुणः॒॑टिड्ढाणञ -॑इति ङीषं बाधित्वा परत्वात्जातेः॑इति ङीषि प्राप्तेङीन् विधीयते । तेन नित्त्विदाद्युदात्तः । ङीषि तु प्रत्ययस्वरेणाऽन्तोदात्तः स्यात् । बैदाति बिदस्यापत्यं स्त्री ।अनृष्यानन्तर्येबिदादिभ्योऽञ्.पूर्ववज्जातिलक्षणे ङीषि प्राप्ते ङीन् विधीयते । शाङ्गरव कापटव ब्राआहृणा गौग्गुलव गौतम इत्यादि । शृङ्गारुकपटुब्राहृन्गुग्गुलुशब्देभ्यः प्राग्दीव्यतोऽण् । गौतमशब्द ऋष्यणन्तः । अयं गौरादिविष्विपि पठित इति पक्षे अत्र ङीषपि भवति । ङीषेवेति ।जाते॑ रित्यननुवृत्तौ तु शाङ्र्गरवस्य स्त्री बिदस्य स्त्रीति पुंयोगविवक्षायामपि परत्वान्ङीनेव स्यादिति भावः ।नृनरयोर्वृद्धिश्चेति गणसूत्रम् । नृनरयोरिति । नृशब्दात्ऋन्नेभ्यः॑इति ङीपि, नरशब्दाज्जातिलक्षणे ङीषि प्राप्ते वचनं वृद्धिविधानार्थम् । ननु नरशब्देअलोऽन्त्यस्ये॑ति वृद्धिः स्यात् । अत्राहुः — ॒वर्णादाङ्गं बलीयः॑इत्याकारस्ययस्येति चे॑ति लोपोनापहारादनन्त्य्स्याप्यकारस्य वृद्धिर्भवतीति । यद्वा । नरस्य — अः नरः । कतन्तवत्पररूपम् । ना च नरश्च तयोर्नृनरयोः । परस्य च प्रथम एवाऽकारो गृह्रते न तु द्वितीयः, पर्श्लेषसामर्थ्यादिति । इह नरस्येत्यर्थवतो ग्रहणाद्वानरशब्दे नातिप्रसङ्ग इति बोध्यम् । यद्यर्यन्यतरोपादानेनापिनारी॑ति रूपं सिध्यति तथाप्यन्यतरस्यानिष्टरुपनिवृत्त्यर्थं द्वयोरूपादानम् । कथं तर्हिकिन्नरीणां नारीणां॑मित्यादिप्रयोगः । अत्राहुः — नरस्य स्त्री नरी । पुंयोगलक्षणो ङीषे । एवं च किन्नरूत्यपि सिद्धम् । किचिन्नरीति विग्रहादिति । केचित्तु अनिर्दिष्टस्थानिकत्वादिक्परिभाषोपस्थितौ नृ शब्दस्यैव वृद्धेर्नारीति भवति । नरशब्दस्य ग्रहणं तु ङीनर्थमेव । तत्राऽनिको वृद्द्यभावान्नरीत्येव भवितव्यमित्याठुः । तदपरे न क्षमन्ते । यदि ङीनर्थमेव नरशब्दग्रहणं स्यात्तर्हि शाङ्र्गरवादिगणे पृथगेव पठेत् । वृद्धिविधायके तद्गणसूत्रे तत्पाठस्य वैयथ्र्यापत्तेरिति । पुत्रशब्दोऽत्र गणे पठते । ततः स्त्रियां ङीन् । पुत्री । न च पुत्रशब्दः कन्यायां नास्तीति शङ्क्यम्,आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रीयां त्वमी । आहुर्दुहितरं सर्वे॑इत्यमरोक्तेः । तेनपुत्रीव हर्षं ह्मदये तनोति॑ ।कुर्वे तदुर्वीपतिपुत्रि । सर्वम्इत्यादिप्रयोग निर्बाधा एव । यत्त्वत्र हरदत्तेनोक्तम् — ॒कोवलः पुत्रशब्दः स्त्रियां नास्ती॑ति । तदुपेक्ष्यम् । उदाहृतकोशविरोधात् ।सूतिकापुत्रिस्थवार्तिकं व्यर्थमिति मनोरमायां स्थितम् ।", "41074": "<<यङश्चाप्>> - यङ्श्चाप् । पकारोऽत्रहल्ङ्याबि॑ति सामान्ग्रहणार्थः । चकारस्य तदविघातेन चरितार्थत्वेऽपि परत्वाच्चित्स्वरः पित्स्वरं बाधते । आम्बष्ठएति । आम्बष्ठस्यापत्यं स्त्री ।वृद्धेत्कोशला — — ॑इति ञ्यङ् । कारीषगन्ध्येति । करीषस्येव गन्धोऽस्य करीषगन्धिः ।उपमानाच्चे॑ति गन्धस्येदन्तादेशः । तस्य गोत्रापत्यं स्त्री । अण् ।अणिञोरनार्षयोः — — ॑इति ष्यङादेशः । स च यद्यपि स्त्रियामेव विहितसतथापि ङित्करणसामर्थ्यात्तदन्तादप्ययं चाप् । षाद्यञ इति । एतच्चआवटआच्चे॑ति चकारस्यानुक्त समुच्चयार्थत्वाल्लभ्यत इत्यहुः । पौतिमष्येति । पूतिमाषशब्दो गर्गादिः ।षाद्यञश्चाववाच्यः । तद्धिताः । बहुवचनमनुक्तानामुपसङ्ग्येयानां सङ्ग्रहार्थम् । महासंज्ञाकरणं तु — तेभ्यः प्रयोगेभ्यो हितास्तद्धिता इत्यन्वर्थलाभाय । तेन यथाप्रयोगमेव स्युः । ननु टापः प्रागेवायमधिकारोऽस्तु, ष्फविधौ तद्धितग्रहणं यस्येतिलोपे, ईद्ग्रहणं च मास्त्विति चेन्मैवम्;पठ्वी॒॑मृद्वी॑त्यादावोर्गुणपर्सङ्गात् । यदि तुयस्येति चे॑त्यत्र ईद्ग्रहणमेव ङीषि तद्धितकार्याऽभावं ज्ञापयतीति स्वीक्रियेत, तर्हि टापः प्राक्तद्धिताधिकारेऽपि न कश्चिद्दोष इथि केचित् । तच्चिन्त्यम् ।कुरु॑रित्यादौ ओर्गुणादिप्रसङ्गादिति नव्याः ।", "41075": "", "41076": "", "41077": "<<यूनस्तिः>> - यूनस्तिः ।ऋन्नेभ्यः॑इति ङीपोऽपवादः । युवतिरिति ।स्वादिषु -॑इति पदत्वान्नलोपः । कथं तर्हियुवतीकरकोमलनिर्मथित॑मिति प्रयोगः । अत्र केचित् — ॒सर्वतोऽक्तिन्नर्था॑दिति बह्वादिगणसूत्राद्वैकल्पिकोऽत्र ङीष् । न च तिप्रत्ययेनैव स्त्रीत्वस्योक्तत्वान्ङीष् नभविष्यतीति शङ्क्यम्, -॒उक्तेऽपि हि भवन्त्येते॑इति भष्यात् । न चैवमपि युवतीनां समूहोयोवत॑मिति न सिध्येत् । किं तुतस्य समूहः॑इत्यणिभस्याढे तद्धिते॑इति पुंवद्भावेनयौवन॑मित्येव स्यादिति वांच्यम्, बाहुलकाद्यौतेरौणादिके कतिप्रत्ययेसति युवतिशब्दस्तमादय तत्सिद्धेरिति । इमं क्लेशं परिहारन्नाह -शत्रन्तादिति । यौति मिश्री करोति पत्येति विग्रहेलटः शतृशानचौ॑इति शतरिउगितश्च॑इति ङीप् । एवं हियौवत॑मिति प्रयोगोऽपि सुलभः । त्यन्तादणि तु पुंवद्भावाद्यौवनमित्येव ।भिक्षादिपाठसामर्थ्यात् पुंव॑दिति वृत्तिकारोक्तिरयुक्तेतिभिक्षादिभ्योऽण्इत्यत्रैवोपपादयिष्यामः । *इति तत्त्वबोधिन्यां स्त्रीप्रत्ययप्रकरणम्*अथ स्वादयः ।षुञ् । सुन्व इति ।लोपश्चास्ये॑त्युकारस्य लोपः ।", "41078": "<<अणिञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ् गोत्रे>> - अणिञोः । उत्तममिति । अव्युत्पन्नं प्रातिपदिकमिदं न तूच्छब्दात्तमप्ष तेनकिमेत्तिङव्ययघादि॑त्याम् नशङ्क्यः । गोत्रे याविति ।अपत्याधिकारादन्यत्र लौकिकं गोत्र॑मिति नेह शास्त्रीयं गृह्रते । तथा चअनार्षयो॑रिति पर्युदासादेव सिद्धे गोत्रग्रहणमिह त्यक्तुं शक्यम् । न चाऽत्र गोत्रग्रहणसामर्थ्याच्छास्त्रीयमेव गोत्रं गृह्रत इति वाच्यं, दैवदत्त्या याज्ञदत्त्येत्यादीनामानन्तरापत्येऽपीष्यमाणत्वात् । अतएवानुपदं वक्ष्यतिकुमुदगन्धेरपत्यं स्त्री कौमुदगन्ध्ये॑ति । इदं च कौस्तुभानुसारि व्याख्यानमत्रत्यमूलानुगुणमपिदैवयज्ञि॑सूत्रस्थेनअगोत्रार्थ॑मित्यादिमूलग्रन्थेन सह विरुध्यत इति तत्रैव स्फुटीभविष्यति । यद्यपि स्त्रीप्रत्ययाः प्रकृतास्तथापिपत्युर्नो यज्ञसंयोगे॑इति नकारस्येव ष्यङ आदेशत्वमेवोचितम्,अणिञो॑रिति षष्ठीस्वरसादित्यभिप्रेत्याह -ष्याङादेशः स्यादिति । ष्यङः प्रत्ययत्वेऽपि लक्ष्यसिद्धिरप्रत्यूहेति मनोरमायां स्थितम् । नन्वयंङिच्चे॑त्यन्तादेशं बाधित्वापर्तावत्सर्वादेशः स्यात् ।ङिच्चे॑त्यस्यानन्यार्थङित्त्वेष्वनङादिषु चरितार्थत्वात् । ष्यङोऽनुबन्धस्ययङश्चा॑बिति विशेषणार्थतया सप्रयोजनत्वादित्याशङ्क्याह -निर्दिश्यमानस्येति । षङाविताविति । अनुबन्धद्वयकरणं ञ्यङ इव ष्यङोऽपियङश्चा॑बित्यत्र सामान्यग्रहणार्थम् । न चष्यङः संप्रसारण॑मित्यत्र विशेषणार्थं तयोरुपयोगोऽस्ति । अन्यथा पाश्यापुत्रः पाश्यापतिरित्यत्रपाशादिभ्योः येः॑इति यप्रत्ययेऽपि संप्रासारणप्रसङ्ग इति वाच्यं,यङः संप्रसारण॑मित्येकानुबन्देनापि तद्वारणात् ।लोलूयापति॑रित्यत्र त्वकारप्रत्ययेन व्यवधानात्संप्रसारणाऽभावः ।कौमुदगन्धीपुत्र॑ इत्यत्र त्वेकादेशस्य पूर्वान्तत्वेन ग्रहणान्नास्ति व्यावधानमिति संप्रसारणं सिध्यति । कौमुदगन्ध्येति । अणः ष्यङ् । वाराह्रेति । इञः ष्याङ् । अणिञोः किम् । ऋतभागस्यापत्यमार्तभागी । बिदादित्वादञ् ।शाङ्र्गरवाद्यञः॑इति ङीन् ।टिड्ढे॑त्यादिना ङीबिति तु वृत्तिकारः ।अणिञो॑रित्यत्र तु लौकिकं गोत्रं गृह्रते ।गोत्रं च चरणै॑रित्यत्र तु पारिभाषिकमेव गृह्रते । तेन जातित्वाऽभावान्ङीनः प्राप्तिर्नास्तीति स्थितस्य गतिमाहुः ।", "41079": "<<गोत्रावयवात्>> - गोत्रावयवात् । अवयवशब्दोऽप्रधानवाची, अवयवश्चासौ गोत्रं चेति कर्मधारयः, निपातनाद्गोत्रशब्दस्य पूर्वनिपातः । गोत्रभिमता इति ।गोत्र मित्येवमभिमताः=गोत्रवाचित्वेन देशविशेषे प्रसिद्धाः, न तु प्रवराध्याये पठिता इत्यर्थः । प्रवराध्यायेऽपाठाच्चाऽप्राधान्यम् । कुलाख्या इति । कुलमाख्यायते यैरिति कुलाख्याः — पुणिकभुणिक मुखरप्रभृतयः । तैर्हि कुलमाख्यायतेपुणिका वयं गोत्रेण॑भुणिका वयं गोत्रेण॑इति । तत इचि । गोत्रावयवादित्यर्थः ।", "41080": "<<क्रौड्यादिभ्यश्च>> - क्रौडआदिभ्यश्च । पञ्चमीनिर्देशात्प्रत्ययत्वमेवेहाश्रीयत इत्याह — ष्यङ् प्रत्यय इति । क्रौडि, व्याडि, आपिशलि, गौकक्ष्य -इत्यादि । गौकक्ष्यशब्दो गर्गादियञन्तस्तदर्थमाह -अनणिञन्तार्थश्चेति । सूतेति । गण सूत्रम् । सूतशब्दः ष्यङं लभते युवत्यां वाच्यायामित्यर्थः । सूत्येति । ष्यङियङश्चार् । अन्यत्र तु क्रियाशब्दाट्टाप् । सूतजातिवाचिनस्तु ङीष् । सूती । भोजेति । इदमपि गणसूत्रम् । जातिलक्षणङीषोऽपवादः ष्यङ् । क्रियाशब्दात्तु टाबेव -भोजयतीति भोज्या ।", "41081": "<<दैवयज्ञिशौचिवृक्षिसात्यमुग्रि- काण्ठेविद्धिभ्योऽन्यतरस्याम्>> - दौवयज्ञि । चतुभ्र्य इति ।इञन्तेभ्य॑इति शेषः । देवा यज्ञा यष्टव्या यस्य स देवयज्ञः । शुचिर्वृक्षो यस्य शुचिवृक्षः । सत्यमुग्रं यस्य सत्यमुग्रः । निपातनाद्विशेष्यस्य पूर्वनिपातः, मुमागमश्च । काण्डेन विद्धः कण्ठेविद्धः ।कर्तृकरणे कृते॑ति समासः । निपातनात्काण्डशब्दस्यैकारः । पाठान्तरे कण्ठे विद्धमस्य, कण्ठे वा विद्धः कण्ठेविद्धः ।अमूर्धमस्तकादि ॑त्यलुक् । एभ्यः सर्वेभ्योऽपत्येअत इञ् । गोत्रेऽपि परत्वादिति । तथा चोभयत्र विभाषेति भावः । अत्रेदमवधेयम् — ॒अणिञो॑रिति सूत्रे यदि शास्त्रीयं गोत्रं गृह्रते तदाअगोत्रार्थमिद॑मित्यादिग्रन्थः स्वरसतः सङ्गच्छते । यदि तु लौकिकं गोत्रमेव तत्र गृह्रते तदाअणिञोरि॑ति नित्ये प्राप्ते विकल्पार्थमिदमित्येव व्याख्यातुनुचितमिति ।इत्यपत्याधिकारः तत्त्वबोधिन्याम् ।", "41082": "<<समर्थानां प्रथमाद्वा>> - अपवादसङ्गत्या तद्धितान्विवक्षुस्तदीयमधिकारसूत्रमाह — समर्थानामिति ।अन्यतरस्याङ्ग्रहणानुवृत्तेः समासोऽपी॑ति वक्ष्यमाणमूलग्रन्थेन समासापवादत्वं सूचितम् । विधेयाऽनिर्देशादुत्तरत्र प्रकृतिविशेषकाङ्क्षासत्त्वाच्चनाऽयं स्वतन्त्रो विधिरित्याह -अधिक्रियत इति ।पदत्रय॑मित्यनेन प्रत्येकं स्वरितत्वप्रतिज्ञा सूचिता । तत्प्रयोजनं तु कस्यचिन्निवृत्तावप्यपरस्याऽनिवृत्तिः, तथा चप्राग्दिशः॑इति सूत्रेसमर्थानां प्रथमा॑दिति निवृत्तं,वा॑ इति त्वनुवर्तत एव॑ -इति वक्ष्यमाणमूलग्रन्थः सङ्गच्छते ।", "41083": "<<प्राग्दीव्यतोऽण्>> - प्राग्दिश इतीति । तत उत्तरेषां प्रत्ययानां स्वार्थिकत्वेनसमर्थानां॑,प्रथमा॑दिति पदयोः प्रयोजनं नेति भावः । ननुसमर्थः पदविधि॑रिति परिभाषया गतार्थत्वात्समर्थाना॑मित्येतव्द्यर्थम् । न च पदविधित्वं नेति शङ्क्यं,घकालतनेषु॑इत्यलिग्विधानात्सुबन्तात्तद्धितोत्पत्ति॑रिति सिद्धान्तस्य सकलसंमतत्वादत आह — सामर्थ्यमिति । कृतसन्धिकार्यत्वमिति । अस्य फलं तुतस्यापत्य॑मिति सूत्रे मूल एव स्फुटीभविष्यति । इहसमर्थात्प्रथमाद्वे॑ति वक्तुं युक्तम् । महोत्सर्गानाह -प्राग्दीव्यत इत्यादीना । सूत्रेदीव्य॑दित्येकदेशोऽनर्थकोऽप्यवधित्वेनोपात्तःप्राग्रीश्वरा॑दितिवदित्येके । अन्ये त्वाहुः — ॒दीव्य॑दिति शत्रन्तम् । तेन देवनकर्ता अर्थ एवावधिरिति ।", "41084": "<<अश्वपत्यादिभ्यश्च>> - प्राग्दीव्यतीयेष्विति । दीव्यतः प्राक्प्राग्दीव्यत् ।अपपरिहहिरञ्चवः पञ्चम्या॑ इत्यव्ययीभाव॑इति प्राञ्चः ।प्राग्दीव्यत॑मिति तूचितम्,झयः॑इति टच्प्रवृत्ते॑रिति केचित् । तन्न ।झयः॑इति टचः पाक्षिकत्वात् । अन्यथाउपसमिधमुपसमि॑दिति तत्सूत्रस्थमूलोदाहरणस्याऽसङ्गत्यापत्तेः । न चाऽत्र टचोऽभावेअव्ययानां भमात्रे॑इति टिलोपेप्राग्दीव्यतीय॑इति रूपं न स्यादिति शङ्क्यम् । अव्ययीभावस्याव्ययत्वे प्रयोजनंलुङ्भुखस्वरोपचारः॑इति परिगणनात् । प्राग्दीव्यति भवः प्राग्दीव्यतीयः ।वृद्धाच्छः॑ । त्यप्तु न शङ्कनीय एव,अमेहक्वतसित्रेभ्य एव॑ इति परिगणनात् ।लुङ्भुखस्वर॑इत्यादिपरिगणनया अनव्ययत्वाच्च । वक्ष्यमाणस्येति ।पत्युत्तरपदाण्ण्यः॑इति वक्ष्यमाणस्य ।", "41085": "<<दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः>> - दित्यदित्या । पतिशब्दस्योत्तरपदशब्देन बहुव्रीहि कृत्वा पश्चद्द्वन्दः कार्यो, न तु द्वन्द्वोत्तरं बहुव्रीहिरित्याह — पत्युत्तरपदाच्चेति ।पत्यन्ता दुत्युच्यनाने बह्वच्पूर्वादपि स्यादित्युत्तरपदग्रहणं कृतम् । दैत्य इति । ननु दितेर्देवताद्यर्थेण्यः सावकाशः,इतश्चानिञः॑इत्यपत्ये ढक् दौलैय इत्यादौ सावकाशः, तथा च दितेरपत्यमित्यत्रोभयप्रसङ्गे परत्वाल्लुक्स्यात् । मैवम् ।ण्यादयोऽर्थविशेषलक्षणादणपबादात्पूर्वविप्रतिषिद्ध॑मिति भाष्ये पूर्वविप्रतिषेधाश्रयणात् । अर्थविशेषे इति किम् । औष्ट्रपतम् । उष्ट्रपतिर्नाम पत्रम् ।तस्येदम्पत्राध्वर्युपरिपदश्चे॑त्यञ् । इह पूर्वविप्रतिषेधेनतस्येद॑मित्यर्थे ण्यो न भवति, इदमित्यस्य सामान्यार्थत्वात् । कथं तर्हिदैतेयः॑इति । अत्राहु -॒कृदिकारा॑दिति ङीषन्तात्स्त्रीभियो ढत् । ण्यस्तु न भवति, लिङ्गविशिष्टपरिभाषाया अनित्यत्वात् । न चअन्तादिवच्चे॑ति पूर्वस्यान्तवद्भावेन स्यादेव ण्य इति भ्रमितव्यम् । दितिशब्दान्ङीषि कृतेयस्येति चे॑ति लोपेन सवर्णदीर्घाऽभावा॑दिति । आदित्यशब्दाण्ण्यप्रत्ययेयस्ये॑ति लोपेहलो यमा॑मिति पाक्षिको यलोपः । न चाल्लोपस्य स्तानिवत्त्वं, यलोपेन पादन्ते॑ति तन्निषेधात्,पूर्वत्रासिद्धे न स्थानिव॑दित्युक्तेश्च । काशिकायामिति । भाष्ये तु न दृष्टमिति भावः । अणन्तात्स्वार्थिकेन ष्यञा प्रयोगः सूपपादः । स्त्रियां ङीष्न भवति, षितां ङीषोऽनित्यत्वात् ।पृथिव्या ञाऽञौ । ञाऽञोः फलभेदज्ञापनाय स्त्रीलिङ्गमुदाहरति — पार्थिबा । पार्थिवीति ।बहिषष्टिलोपो यञ्च । बहिष इति । टिलोपवचनम्अव्ययानां भमात्रे॑ इत्य्स्याऽनित्यतां ज्ञापयितुम् । तेनआरातीय॑इति सिद्ध्म् ।स्थाम्नोऽकारः । अआत्थमेति । भाष्येदाहरणात्तदन्तविधिः । न च बलवाचिनः स्थामन्शब्दस्यापत्येन योगाऽसंभवाद्वचनारम्भसामर्थ्यात्तदन्तविधिः स्यादिति वाच्यं, जाताद्यर्थे तत्संभवेन सामर्थ्योपक्षयात् । अआस्येव स्थाम यस्येति बहुव्रीहिः ।लोम्नोऽपत्येषु बहुषु । उडुलोम इति । उडूनि नक्षत्राणीव लोमान्यस्येति विग्रहः । केवलस्यापत्येन योगाऽभावात्तदन्तविधिस्ततोऽकारष्टिलोपः ।[सर्वत्र]गोरजादिप्रसङ्गेयत् । गोरिति । न केवलमपत्य एवायं, किं तु प्राग्दीव्यतीयेषु सर्वेष्वर्थेष्विति ज्ञेयम् । गव्यमिति । गवि भवं, गौर्देवता अस्य, गोरिदमित्यादिरर्थः । केचित्तु भाष्ये सर्वग्रहणात्प्राग्दीव्यतीयेभ्योऽन्यस्मिन्नर्थेप्ययं यत् । तेन गवा चरति गब्य इत्याद्यपि भवतीतच्याहुः । गोरुष्यमित्यादि ।हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः॑मयट् चे॑ति रूप्यमयटौ ।", "41086": "<<उत्सादिभ्योऽञ्>> - उत्सादिभ्योऽञ् । अणस्तदपवादानामिञादीना चायमपवादः । इहबष्कयाऽसे॑ इति गणसूत्रम् । असे=असमासे । पूर्वाचार्यसंज्ञेयम् । बष्कयस्यापत्यादि बाष्कयः । असे किम् । गौबष्कयिः ।असे॑इति निषेधाल्लिङ्गादिह तदन्तविधिः, तेन धेनुशब्दस्येह पाठाददेनूनां समूह आधेनवमिति सिद्धम् । नन्वेवं धैनुकं गौधेनुकमित्यत्राऽञ्प्रवर्तेत,अचित्तहस्तिधेनो॑रिति सूत्रे धेनुशब्दग्रहणाद्धैनुकमिति सिद्धावपि गौधेनुकं न सिद्ध्येदिति चेन्न,धेनुरनञ् इकमुत्पादयती॑ति विशेषवचनस्य भाष्ये स्थितत्वात् । इकं -ठकमित्यर्थः ।अग्निकलिभ्यां ढग्वक्तव्यः । अग्निकलिभ्यामिति । अयं भावः -॒साऽस्य देवता॑इत्यधिकारेअग्रेर्ढ॑गिति सूत्रं,॒दृष्टं सामे॑त्यधिकारेकलेर्ढ॑गिति वार्तिकं चापनीय प्राग्दीव्यतीयेष्विदमेव पठनीयम् । तेनाऽग्नेरपत्यम्, अग्निना दृष्टं साम, अग्निरिदम्, अग्नौ भवम्, अग्नेरागतमाग्नेयमिति सिध्यति । तथा कलेरपत्यमित्याद्यर्थे कालेयमपि सिध्यतीति । एतेनयदकालयत् तत्कालेयस्य कालेयत्व॑मिति श्रुतावर्थान्तरेऽपि ढको दर्शनात्कलेर्ढ॑गिति सूत्रमपार्थकमिति मीमींसकोक्तिः परास्ता । वार्तिके सूत्रत्वोक्तिरप्यवैयाकरणमीमांसकप्रतारणार्थेति दिक् । इत्यपत्यादिबिकारान्तार्थसाधारणाः प्रत्ययाः ।", "41087": "<<स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्>> - स्त्रीपुंसाभ्याम् । प्रागित्यनुवर्तते । तदाह -प्रागर्थेष्विति । र्पौस्न इति । इहस्वादिषु॑इति पदत्वात्संयोगान्तलोपेन पुंसः सस्य निवृत्तावपि प्रत्ययसकारः श्रूयत एव । अतएवोभाभ्यां परतो नञेव न विहितः, पौंस्नमिति रूपाऽसिद्धिप्रसङ्गात् । स्यादेतत् -उभाभ्यामपि प्रकृतोऽञेवाऽस्तु, तत्संनियोगेनस्त्रीपुंसयोर्ुक्चे॑ति नुगेव विधीयताम् । न चैवंस्त्रैणाः, पौंस्नाः॑इत्यत्रयञञोश्चे॑ति लुक्प्रसङ्गः, रुऔणानां सङ्घ इत्यादौसङ्घाह्कलक्षणेषु॑ इत्यणप्रसङ्गश्च स्यादिति वाच्यम्, उभयत्रापिगोत्रे॑इत्यनुवृत्तेः । प्रवराध्यायप्रसिद्धं हि तत्र गोत्रम् । अन्यथापौत्राः, दौहित्राः॑इत्यत्राऽप्यञो लुक्स्यात् । एवं चनञ्स्नञीकक्ख्यु॑न्निति वार्तिके नञ्स्नञ्ग्रहणं विनाऽञन्तत्वादेव ङीप्सिध्यतीत्यपरमप्यनुकूलमिति चेत् । अत्राहुः -नुकिनस्तद्धिते॑इति टिलोपः स्यात् । न चैवं नुगानर्थंक्यं, टिलोपप्रवृत्त्यैव नुकः सार्थकत्वात् । यद्यपि स्त्रीशब्दे तस्य सार्थक्यं नास्ति,यस्येति चे॑त्यनेनापीकारलोपसंभवात्, तथापिश्रीर्देवताऽस्य श्रायं हविः॑इत्यत्रैव लोपात्परत्वाद्वृद्धिः स्यात्, नुकि तु टिलोपः प्रवर्तते इति स्त्रीशब्देऽपि नुकः सार्थक्यमस्तु । तस्मान्नञ्स्नञाविति यतान्यासमेव स्वीकर्तव्यमिति । अन्ये तुस्त्रीपुंसयोर्नुक्चे॑त्यस्तु, आगमे अकारो विवक्षितः । तस्य चयस्येति चे॑ति लोपे कृतेऽपि स्थामिवत्त्वाट्टिलोपो न भविष्यति । एवं चटिड्ढाण॑ञिति सूत्रेणैव डीप्सिद्धौ नञ्स्नयोरुपसङ्ख्यानं माऽस्विति महदेव लाघवमित्याहुः । वत्यर्थ इति ।स्त्रीपुंसाभ्यां नञ्स्नञौ वत्यर्थे न प्रवर्तेते॑ इति सामान्यापेक्षं ज्ञापकमिति भावः । अत एवोदाहरति -स्त्रीवदिति ।आ च त्वा॑दिति चकारो नञ्स्नञ्भ्यां त्वतलोः समावेशार्थ इति वक्ष्यति । तेन स्त्रीत्वं स्त्रीता, पुंस्त्वं पुंस्तेति सिद्धम् ।", "41088": "<<द्विगोर्लुगनपत्ये>> - द्विगोर्लुगनपत्ये । द्विगोरिति षष्ठी, तदर्थश्च हेतुत्वं, तच्च भाविनोऽप्युपपद्यते, बुद्द्याध्यवसायादित्याशयेनाह — द्विगोर्निमित्तमिति । अजादिरिति । एतच्चोत्तरसूत्रात्,अचि॑ इत्यपकर्षाल्लभ्यते, वाग्रहणमनुवर्त्त्य व्यवस्थितविभाषाश्रयणेन वा । प्राग्दीव्यतीयः किम् । पञ्चम्यः कपालेभ्यो हितं पञ्चकपालीयम् ।", "41089": "<<गोत्रेऽलुगचि>> - गोत्रे लुगचि । गोत्रे किम् । गोत्रार्थकप्रत्ययस्यैवाऽलुग्यथा स्यात् । नेह — कुवलस्येदं कौवलं, बदरस्येदं बादरम् । कुवलीबदरीशब्दौ हि गौरादिङीषन्तौ, ताभायं फलरूरे विकारेअनुदात्तादेश्चे॑त्यञ् । तस्यफले लु॑गिति लुक् । तत इदमर्थे अजादिप्राग्दीव्यतीये विवक्षितेऽनेनाऽलुङ्न भवतीति वृद्धित्वाऽभावाच्छो नेति भावः । विवक्षित इति । अचीति विषयसप्तमी । परसप्तमीत्वे तु अवृद्धत्वाच्छस्याऽप्राप्तौ अणेव स्यादिति भावः ।", "41090": "<<यूनि लुक्>> - यूनि लुक् । प्राग्दीव्यतीय इति वर्तते, अचीति च, प्रत्ययाधिकाराच्च प्रत्यय इति लभ्यते । तदेतदाह -प्राग्दीब्यतीयेऽजादौ प्रत्यय इति ।प्रत्ययस्य लु॑गिति संज्ञाकरणाल्लब्धो यः प्रत्ययः, सःयूनी॑त्यनेन विशेष्यते । तथा चयूनियः प्रत्ययस्तस्य लु॑गित्यर्थस्तदाह ।", "41091": "<<फक्फिञोरन्यतरस्याम्>> - कात्यायनस्येति । कतस्य गोत्रापत्यं कात्यः । गर्गादित्वा द्यञ् । ततो यूनियञिञोश्चे॑ति फक् । कातीया इथ ।आपत्यस्य चे॑ति यलोपः ।", "41092": "<<तस्यापत्यम्>> - तस्यपत्यम् ।तस्ये ति न स्वरूपग्रहणं, किं तु षष्ठन्तमात्रोपलक्षणमित्याशयेनाह — षष्ठन्तादिति । पञ्चम्यर्थोऽध्याहारलभ्यः । अनुकरणात्पञ्चम्याः सौत्रो लुग्वा । उक्ता इति । अण् ण्यादय उक्ताः । वक्ष्यमाणा इति । इञादयः । ननुउपगु — अ॑ इति स्थिते ओर्गुणात्परत्वात्अचोऽञ्णिती॑ति वृद्ध्या भाव्यं । घुणस्तु पिचव्यादौ सावकाशः । कृते च गुणे अवादेसे चअत उपधायाः॑इति वृद्द्या भाव्यमत आह — आदिवृद्धिरिति । परत्वादिति भावः । अन्त्योपधावृद्द्योरवकाशः -गौः, पाचकः । आदिवृद्धेस्तु — सुश्रुत् । सौश्रुत् । सौश्रुतः ।त्वाष्ट्रो॑जागतः॑इत्यादौ तूभयप्रसङ्गे परत्वादादिवृद्धिरेव भवति । लक्ष्यानुरोधेनात्र सकृद्गतिन्यायस्यैवाश्रयणात् । अनुशतिकादिषु पुष्परसच्छब्दपाठो ह्यत्र लिङ्गम् । अन्यथा आद्युपधावृद्धिभ्यां पौष्करसादेः सिद्धत्वात्तेषु पाठोऽनर्थकः स्यात् । न चपुष्करसदा चरती॑ — त्यर्थे ठकिपौष्करसादिक॑इत्येतदर्थमनुशतिकादिपाठ आवश्यकः, ञिति णित्येव उपधावृद्धिस्वीकारान्न तु कितीति वाच्यम्, अनभिधानाठ्ठगत्र न भवतीत्यादिसमाधानस्य कैयटे स्थितत्वात् । एतेन भिन्नविषये बाध्यबाधकभावो नोपपद्यत इति शङ्का निरस्ता । उक्तज्ञापकेनसत्यपि संभवे बाधनं भवती॑त्यवश्याश्रयणीयत्वात् । नन्वेवमपिजगतः॑इत्यादावुपधावृद्धिर्बाध्यताम्,औपगव॑इत्यत्र त्वादिवृद्धिप्रवृत्तिवेलायामुपधावृद्धेरप्राप्त्या कथं बाधः स्यादिति चेदत्राहुः -॒जागत॑इत्यादावुपधावृद्धेर्बाध्यत्वे निर्णीते, क्वचित्कालान्तरप्राप्ताया अपि तस्या बाध्यत्वौचित्यादिति । स्यादेतत् -यत्रादिबृद्धिर्न जाता तत्राऽन्त्योपधालक्षणा वृद्धिः कस्मान्न भवति । व्यसोर्भावो वैयसवम् ।इगन्ताच्चेत्यण् । व्यापदि भवं वैयापदम् ।तत्र भवः॑इत्यण् । अत्र कैयटः -अत्राप्यैचौ परत्वात्तद्बाधकाविति सर्वेष्टसिद्धिरिति । शाब्दबोधे वैलक्षण्यसत्त्वेऽपि तदनादरेणाक्षिपति ।तस्येदमित्यपत्येऽपि बाधनार्थ कृतं भवेत् । तस्येदमित्यपत्येऽपीति । इदमर्थे अपत्यसमूहविकारादीनामन्तर्भावादपत्येऽपितस्येद॑मित्यण् प्रवर्तत इति किमनेनतस्यापत्य॑मिति सूत्रेणेत्यर्थः । यद्यपिअत इञि॑त्याद्यर्थंतस्यापत्य॑मित्येतद्वक्तब्यन्तथापि योगविभागः किमर्थ इत्याक्षेपोऽत्र बोध्यः । समाधत्ते -बाधनार्थमिति ।तस्येद॑मित्यस्य यद्बाधकंवृद्धाच्छः [इति], तद्बाधनार्थं पृथक् सूत्रं कृतं भवेदित्यर्थ- । ननुतस्येद॑मित्यणस्तदपवियुज्यतवादस्य वृद्धाच्छस्य च शैषिकत्वादपत्यार्थे प्रसक्तिरेव नास्ति,अपत्यादिचतुरर्थीपर्यन्तेभ्यो योऽन्योऽर्थः स शेषः॑ इत्यब्युपगमादत आह — उत्सर्गः शेष एवासाविति । असौ — अपत्यार्थः । अयं भावः — असति योगविभागे अदन्तबाह्वादिप्रकृतिसंबद्धस्यैवाऽपत्यार्थस्योपयोगादुपग्वादिप्रकृतिसंबद्धोऽपत्यार्थः शेष एव स्यात् । तथा चाऽणं बाधित्वा भान्वादिभ्यो वृद्धाच्छः प्रसज्येत । योगविभागे तु कृते प्रकृतिसामान्यसंबद्धस्याप्यपत्यार्थस्योपयोगाच्छेषत्वाऽभावेन छस्य प्राप्तिरेव नास्तीति । ननु उपग्वादेरवृद्धत्वेन छस्य प्रसक्त्यभावान्निष्पलो योगविभाग इत्यत आह -वृद्धानीति ।प्रातिपदिकानी॑ति शेषः । कृतसन्धेः किमिति । अन्तरङ्गत्वात्संधौ कृतायां तदुत्तरमेव प्रत्ययो भविष्यतीत्यधिकारसूत्रस्थं समर्थपदग्रहणं किमर्थमिति प्रश्नः । अकृतेति । इयं च परिभाषा समर्थग्रहणेन ज्ञापितेति हरदत्तादयः, लोकतः सिद्धेत्यन्ये । सावुत्थितिर्माभूदिति । अन्तरङ्गपरिभाषाया अपवादभूतयाअकृते॑त्यनया अकृतसन्धेरेव प्रत्यय स्यात् । तन्निवारणाय समर्थग्रहणधिकरणसूत्रस्थमावश्यकमिति भावः । यद्यपि तत्रसामर्थ्यं परिनिष्ठितत्व॑मित्यविशेषेणोक्तं, तथापि ङ्याप्प्रातिपदिकासे एव परिनिष्ठितत्वं न तु सुब्विशिष्टे इत्यवदेयम् । तेन औपगवो दण्डिमानित्यादि सिद्धम् । अन्यथाऔपगः॑दण्डीमा॑मित्यादि स्यात् ।अइआमानणि॑त्यादिनिर्देशश्चेह लिङ्गम् । यदि तु पामादिगणेविष्वगित्युत्तरपदलोपश्चे॑त्यत्राऽकृतसन्धिग्रहणेनपरिनिष्ठतात्तद्धितोत्पत्ति॑रित्यभ्युपगम्यते, तर्हि व्यर्थमेव समर्थग्रहणमित्याहुः । प्रथमात्किमिति ।तस्यापत्य॑मित्यत्र निर्दिष्टपदद्वयमध्ये प्राथमिकमेव प्रकृतिसमर्पकं, न त्वपत्यम् । तथाच प्रकृत्याकाङ्क्षायांतदेव ग्रहीष्यत इति किं तेनप्रथमा॑दित्येनेनेति प्रश्नः ।", "41093": "<<एको गोत्रे>> - एको गोत्रो ।गोत्रे॑इति जात्यपेक्षया एकवचनम् । एकशब्दः सङ्ख्यावाची ।गोत्रेऽभिधित्सितेऽपत्यत्वबोधकप्रत्यय एक एव स्या॑दित्युक्तेगोत्रापत्ये प्रथम एव शब्दः प्रत्ययं लभते नान्यः । यदि त्वनन्तरापत्यप्रत्ययान्तादपि प्रत्ययः स्यात्तर्हि गोत्रापत्ये एक एव प्रत्ययो न कृतः स्यात् । इत्थं चअपत्यप्रत्ययान्तात्प्रतिषेधोवाच्यः॑इति वार्तिकार्थोऽप्यनेन सङ्गृहित इत्याशयेन व्याचष्टे -गोत्रे एव एवेति । अपत्यप्रत्यय इति । एतच्चाधिकारल्लब्धम् । अन्ये तु — एकशब्दः प्रथमपर्यायः, प्रथमश्चापत्यप्रत्ययशून्यः । तथा चप्रथमा प्रकृतिर्गोत्रे अपत्यप्रत्ययं लभते॑इति सूत्रार्थ व्याचक्षते । तत्क्लिष्टम् ।अस्यां पङ्क्तावेकमानये॑त्युक्तेप्रथम॑मिति प्राथम्यार्थस्याऽप्रतीतेः । वस्तुतस्तुप्रथमादित्यधिकाराद्गोत्रे प्रथमादेव प्रातिपदिकादपत्यप्रत्ययः॑इति व्याख्यायैकग्रहणमिह त्यक्तुं शवयमित्याहुः । औपगव इथि । उपगुशब्द एव प्रत्ययं लभते, न त्वौपगवशब्दः इतिगोत्रापत्येऽप्यनन्तरापत्य इवाऽणेव भवति, न त्विञ् । गग्र्य इति । गोत्रापत्येगर्गादिभ्योय॑ञिति विशिष्य विधानादनन्तरापत्य इवात्रअत इञ् न भवति, किं तु यञेव । स च गाग्र्यस्यापत्येऽपि भवति, नत्वत्र यञन्तात्फक्,एको गोत्रे॑इति नियमात् । नाडायण इति ।नडादिभ्यः फ॑गिति गोत्रापत्ये विधानादत्रापिअत इञ॑न भवति, किंतु फगेव, स च नाडायनस्यापत्येऽपि भवति, न तु फगन्तादिञ्, उक्तनियमात् । नन्वेकस्मिन्गोत्रे युगपदनेकप्रत्ययाऽप्रसक्तेव्यर्थमिदं सूत्रमित्याशङ्क्य सूत्रारम्भफलं मतभेदेन व्यवस्थापयति — गोत्रे स्वैकोनेति ।स्व=गोत्रं, तदपेक्षया एकोनसङ्ख्यानां, तृतीये द्वयोः परम्परा, चतुर्ये त्रयाणां, पञ्चमे तु चतुर्णा॑मित्यादिपरम्परा प्रसज्यत इत्यर्थः । तथाहि — उपगोस्तृतीये अणिञोः परम्परा, चतुर्थे त्वणिञ् फगिञाम्, । यद्यप्यत्रयस्येति च॑ इति लोपेनाऽणादेरसत्त्वात्अणिञादीनां परम्परे॑त्युक्तिर्न सङ्गच्छते, तथापिअणन्तादिञुत्पद्यते, इञन्तत्फगि॑त्युपत्तिमात्राभिप्रायेण प्रत्ययपरम्पराभिधानं बोध्यम् । स्वद्व्यूनसङ्ख्येभ्य इति । स्वं=गोत्रं, तदपेक्षया द्व्यूनसङ्ख्येभ्यः प्रातिपदिकेभ्यः, तृतीये एकस्मादनिष्ठोत्पत्तिः, चतुर्थे द्वाभ्यां, पञ्चमे त्रिभ्यः, इत्यादीत्यर्थः । अपत्यं पितुरेवेति । तता चामरः — ॒आत्मजस्तनयःस सूनुः सुतः पुत्रः स्त्रियां त्वमी । आहुर्दुहितरं सर्वेऽपत्यं तोकं तयो#ः समे॑इति । मुख्यमतमाह -ततः प्रातामिति । पित्रपेक्षया ये प्राञ्चः पितामहप्रपितामदादयस्तेषामपीत्यर्थः । अत्रायमाशयः -अपत्यशब्दः कियानिमित्तो न त्वात्मजपर्यायः,न पतन्त्यनेनेत्यपत्य॑मिति व्युत्पत्तेःपङ्क्तिर्विशती॑ति सूत्रे भाष्यकृता दर्सितत्वात्, बाहुलकात्करणे यत्प्रत्ययः ।यन्निमित्तं यस्यापतनं तत्तस्यापत्य॑मिति फलितोऽर्थः । तथा चपौत्रादिरपि पितामहादीनामपतनहेतु॑रिति तेषामपत्यत्वं भवति । प्रसिद्धं च व्यवहितोऽपि पितामहादीनामुद्धर्तेति जरत्कार्वाद्युपाख्यानेषु ।अपत्यं पौत्रप्रभृती॑ति सूत्रमप्यत्रानुगुणम् । आद्यपक्षे हिअपत्यमिवापत्य॑मिति गौणी वृत्तिराश्रयणीया स्यात् । अमरस्तु सूत्रभाष्यादिविरोधादुपेक्ष्य इति । तद्धान्यै इति । आद्यपक्षे प्रत्ययमाला निवृत्तये, अन्ये तु स्वद्व्यूनङ्ख्येभ्योऽनिष्टोत्पत्तिनिवृत्तये इत्यर्थः । औपगवादिञ्स्यादिति । तृतीयस्य उपगुं प्रति अनपत्यत्वादिति भावः । एवं चऽसति सूत्रे अस्मिन्पक्षे औपगविरित्यनिष्टमेव स्यात्औपगव॑इतीष्टं तु न सिद्द्यतीति बोध्यम् । अजोबज्ज्येष्ठे इति । जीवज्ज्येष्ठे जीवदूंश्ये वा युवसंज्ञायां सत्यां गोत्रसंज्ञा नेति भावः । इष्टे सिद्धेऽपीति । अस्मिन् पक्षे औपगवस्य यदपत्यं तदुपयोगप्यपत्यमिति उपगोर्यदा प्रत्ययः तदाऔपगवः॑ इतीष्टं यद्यपि सिद्द्यपि, तथाप्यौपगविरित्यनिष्टं प्राप्नोतीत्यर्थः । तत इति । इञन्तादित्यर्थः । फगिञोरिति । फगन्तादिञ्, इञन्तात्फक्, तदन्तात्पुनरिञित्यादिपरम्परायां सत्यामित्यर्थः । नियमार्थमिति । नन्वाद्यपक्षे तत्तत्पितृवाचकादेव प्रत्ययो, न तु मूलभूतात्स्यात्, अनन्तरापत्ये मुख्यसंबन्धे चरितार्थस्याऽणादेर्गौणसंबन्धेऽपि प्रवृत्तेरन्याय्यत्वात् । तथा चौपगवापत्येन उपगोर्मुख्यसंबन्धाऽभावादत्राऽप्राप्ते विध्यर्थमेवेदं सूत्रं, न तु नियमार्थमिति औपगवशब्दादपि प्रत्ययो दुर्वार इति चेदत्राहुः — गोत्रे बोधनीये क्रमेणाऽनेकप्रत्ययप्रसङ्गे एक एवापत्यप्रत्ययः स्यादिति सूत्रार्थे कृते औपगवशब्दस्यापत्यप्रत्ययान्तत्वात्पुनरपत्यप्रत्ययस्ततो नोपपद्यते इत्यगत्या परम्परासम्बन्धाभ्युपगमेनोपगोरेव तदुत्पत्तिः, न त्वौपगवशब्दादिति सिद्धिमिष्टमिति । अत्र केचिव्द्याचक्षते -॒आद्यपक्षे प्रत्ययपरम्परायां प्राप्तायाम्एको गोत्रे॑इत्यनेनैकः प्रत्ययो विधीयते । तथा चैको नामैकजातीय इत्यर्थपर्यवसानान्मूलप्रकृतेर्थोऽपत्यप्रत्ययोऽणादिस्तज्जातीय एव गोत्रे बोधनीये तत्तत्पितृवाचकाद्भवतिअणन्तादण्, इञन्तादिञ्, यञन्ताद्यञिति । न चैवमणिञोः परम्परायां निवर्तितायामप्यौपगव इत्यत्राऽण्प्रत्ययपरम्परा स्यात्, तथा गग्र्य इत्यादौ यञादिपरम्परेति वाच्यं, सत्यामपि तस्यामनिष्टाऽभावा॑दिति । तच्चिन्त्यं । फगन्तात्फकिनाडायन॑इत्यादावनिष्टप्रसङ्गादिति दिक् । ऊह्रमिति ।अपत्यं पितुरेवे॑ति पक्षे चतुर्थापत्यरूपे यूनि विवक्षितेगोत्राद्यूनी॑ति नियमसूत्रे सत्यसति च गोत्रप्रत्ययान्तादेव युवप्रत्यय इति द्वयोः परम्परा, सा चेष्टत्वान्न नियमेन व्यावर्त्त्यते । पञ्चमे तु यूनि नियमाऽभावे त्रयाणां परम्परा प्रसज्येत । षष्ठे तु चतुर्णामित्यादि ।ततः प्राचामपी॑ति द्वितीयपक्षे तु — गर्गाचतुर्थे यूनि मूलप्रकृत्यनन्तराभ्यामनिष्टोत्पत्तिः प्रसज्ते । पञ्चमे तु — मूलप्रकृत्यनन्तरयुवभ्यः । तथा नडाच्चतुर्थे यूनि पूर्ववद्द्वाभ्यामनिष्टोत्पत्तिः । पञ्चमे त्रिभ्यः । उपगोश्चतुर्थे वाच्ये तु मूलप्रकृतेरेकस्मादेवानिष्टोत्पत्तिः, न त्वनन्तरा पत्यवाचकात् । ततो जातेऽप्यत इञि रूपानिष्टाभावादित्यादि यथासंभवं तत्रोह्रमित्यर्थः ।", "41094": "<<गोत्राद्यून्यस्त्रियाम्>> - गोत्राद्यूनि । असत्यस्मिन्सूत्रे मुख्यमते पञ्चमादौ यूनि विवक्षिते गोत्रप्रत्ययन्ताद्युवप्रत्ययोत्पत्ताविष्टे सिद्धेऽपि मूलप्रकृत्यनन्तरयुवभ्योऽपि स्यादिति पाक्षिकानिष्टे प्राप्ते नियमार्थमिदमित्याशयेनाह -गोत्रप्रत्ययान्तादेवेति । न तु मूलप्रकृत्यनन्तरयुबभ्य इत्यर्थः । मनोरमायां तुनतु युप्रत्ययान्तादिति प्रथमपक्षेऽर्थ॑इत्यपि स्थितम् । अत्र वदन्ति -पञ्चमादौ यूनि विवक्षिते तस्य यूस्तृतीयं प्रत्यनपत्यत्वादप्राप्तौ विध्यर्थमेवेदं स्यान्न तु नियमार्थमिति युवप्रत्ययान्तात्प्रत्त्ययो दुर्वारः स्यात् । तस्मादिहपितुरेवापत्य॑मिति पक्षो नाश्रयणीय इति । अन्ये त्वाहुः -आद्यपक्षेगोत्राद्यूनि॑त्यावत्र्य एकेनाऽप्राप्तप्रत्ययं विधाय द्वितीयेन नियम्यतेयूनि गोत्रादेव॑इति । एवं चततः प्राचामपी॑ति पक्षेण सहास्यैकरूपता भवतीति ।गोत्राच्चेद्यून्येवे॑ति विपरीतनियमस्त्विह न कृतः, व्यावर्त्त्याऽलाभात् । न च शैषिकाश्छादयो व्यावर्त्त्या इति वाच्यं,गोत्रेऽलुगची॑ति लिङ्गात् । स्त्रियां त्विति । यद्यत्रअस्त्रिया॑मित्यस्यैकवाक्यतयास्त्रीभिन्ने यूनि गोत्रादेवे॑त्यर्थः क्रियते, तर्हि स्त्रीषु युवसंज्ञाय#आ अनषेधाद्यवतिषु स्त्रीषु प्रत्ययानां परम्परा प्रसज्येत । न चएको गोत्रे॑इत्यनेन निस्तारः, युवसंज्ञया गोत्रसंज्ञाया बाधात् । अथस्त्रियां न युवप्रत्ययः॑इति वाक्यभेदेनार्थः क्रियते, तदा गोत्रप्रत्ययेन युवतिर्नाभिधोयेत । ततश्च गाग्र्यस्यापत्यं स्त्री गार्गी न स्यात् । किं तु वाक्यमेव स्यात् । अतोयुवसंज्ञानिषेधपरमेवेद॑मित्याशयेन व्याचष्टे -न युसंज्ञेति । अत्रायमाशयः -॒अस्त्रिया॑मिति योगो विभज्यते ।यूनी॑ति शब्दस्वरूपमनुवर्तते । परिभाषा चेयम् । यत्र युवसंज्ञाविधानं तत्रअस्त्रिया॑मित्युपतिष्ठत॑इति, -सिद्धस्य गतिरियम् ।जीवति तु वंश्ये युवाऽस्त्रिया॑मित्येव सूत्रयितुं युक्तम् ।", "41095": "<<अत इञ्>> - अत इञ् ।घकालतने॑ष्विति ज्ञापकात्सुबन्तादेव तद्धितोत्पत्तिरित्यभ्युपगमेऽप्यधिकृतप्रातिपदिकस्य न वैयथ्र्यं, किं तु प्रयोजनमस्तीति ध्वनयति — — अदन्तं यत्प्रातिपदिकमिति ।अत॑इत्यस्य सुबन्तविशेषणत्वे तु दक्षयोरपत्यमित्यादिविवक्षायां दाक्षिरित्यादि न सिद्ध्येदिति भावः । तपरः किम् । विआपोऽपत्यं वैआपः ।प्रदीयतां दाशरथाये॑त्यत्र तुतस्येद॑मित्यण् । अपत्यत्वविवक्षायां त्विञेव ।", "41096": "<<बाह्वादिभ्यश्च>> - बाह्वदिभ्यश्च ।बाधृ लोडने॑इति धातौकेवलस्य बाहोरपत्ययोगाऽसंभवात्सामर्थ्यात्तदन्तविधौ सौबाहविः॑ इति माधवोक्तं चिन्त्यमिति ध्वनयन्नाह -बाहविरिति ।जानन्तिबाहविगाग्र्यगौतमा॑ इत्याआलायनसूत्रप्रयोगाद्भाष्यवृत्त्याद्युदाहरणाच्च बाहुशब्दः संज्ञारूपोऽस्तीति भावः । औडुलोमिरिति । यद्यपि गणे बाहु कृष्ण युधिष्ठिर अर्जुन प्रद्युम्नेत्यादिषु केवलो लोमन्शब्दः पठितस्तथापि सामर्थ्यात्तदन्तग्रहणम् ।तारकाप्युडु वा स्त्रियाम् इत्यमरोक्त्या नक्षत्रवाच्युडुशब्दः । उडूनीव लोमानि यस्य तस्यापत्यमौडुलोमिः । शरा इव लोमानि यस्य तस्यापत्यं शारोमिः । बहुत्वे तु इञपवादोऽकारः प्रागेवाऽजन्तेषूक्तः । उडुलोमाः । शरलोमाः । इह प्रतिपदविधानेषु पुराणसिद्धाः संज्ञाशब्दा एव गृह्यन्ते, शीघ्रोपस्थितिकत्वात् । तेन इदानीतनो यो बाहुस्तस्यापत्ये बाहव इत्यणेव, न त्विञ् । उक्तं च हरिणा -॒अभिव्यक्तपदार्था ये स्वतन्त्रा लोकविश्रुताः । शास्त्रार्थस्तेषु कर्तव्यः शब्देषु न तदुक्तिषु॑ । अनर्थकं संदिग्धार्थकमप्रयुक्तं च क्रमेण विशेषणत्रयव्यावर्त्त्यम् । तदुक्तिषु । तत्सदृशेष्वित्यर्थः । अत एव संज्ञाआशुरस्यापत्यं आआशुरिरित्यत्रराजाआशुरा॑दिति यन्न । मिमीते माता । तस्य स्वसा मातृस्वसा । इहमातृपितृभ्यां स्वसे॑ति षत्वं न । नन्वेवं बाहवः आआशुररिरिति पूर्वोक्तौ न सिद्द्यतीति चेत् । मैवम् । अणिञोर्विघौ शब्दविशेषानुपादानादप्रसिद्धेष्वपि तत्प्रवृत्तेः ।व्यासवरुडनिषादचण्डालबिम्बानां चेति वक्तव्यम् । व्यासेति । वेदान्व्यस्यतीति वेदव्यासः ।कर्मण्यण् । भीमो मीमसेन इतिवदेकदेशग्रहणम् ।", "41097": "", "41098": "<<गोत्रे कुञ्जादिभ्यश्च्फञ्>> - गोत्रे कुञ्जा । इतः प्राक्एकौ गोत्रे॑इत्यादि सूत्रद्वयं चेत्पठते तह्र्रत्रत्यं गोत्राग्रहणं त्यक्तुं शक्यमित्याहुः । च्फञो ञकारो वृद्द्यर्थः । कौञ्जायन्यः । चकारस्तुव्रातच्फञौ॑रित्यत्र विशेषणार्थः । तेनअआआदिभ्यः फञ् आआयन इत्यत्र ञ्यो न भवति । अत्रेदमदधेयं -कौञ्जायन्य इत्यादावेकवचने द्विवचने च ञ्यस्य ञित्त्वादाद्युदात्तत्वमेव । बहुत्वे तु ञ्यस्य लुकि च्फञश्चकारकारस्योस्तुल्यबलयोर्विरोधेसति परत्वाञ्ञित्स्वरेणाद्युदात्तत्वे प्राप्ते भाष्यादौतद्धितस्य कितः॑ इत्यत्र योगं विभज्यचितः॑इत्यनुवर्त्त्यतद्धितस्य चितोऽन्तोदात्तत्वम्इति व्याख्यानात्कौञ्झायनाः॑इत्यत्रान्तोदात्ततैव भवति । न चैवं हि फगेवात्रास्तु किमनेन गुरुनिर्देशेनेति वाच्यं, तथा हि सतिव्रातफकोरस्त्रिया॑मिति सूत्रप्रणयनापत्त्या नाडायनादिभ्योऽपि ञ्यः स्यादिति । कुञ्ज, व्रध्न, शङ्ख, शकटेत्यादि ।", "41099": "", "41100": "", "41101": "<<यञिञोश्च>> - यञिञोश्च ।अधिकारप्राप्तं गोत्रग्रहणं यञिञोर्विशेषणं न तु विधेयस्य फकः, व्याख्यानात् । तदेतदाह -गोत्रे याविति । गोत्रे किम् ।द्वीपादनुसमुद्रं॑यञ॑द्वीपे भवो द्वौप्यः । सुतङ्गमादिभ्यश्चातुरर्थिक इञ् । सौतङ्गमिः । तदपत्ये फक्मा भूत् । फक्स्यादिति । सामर्थ्याद्यृन्ययम् ।", "41102": "<<शरद्वच्छुनकदर्भाद्भृगुवत्साग्रायणेषु>> - शरद्वच्छुनक । भृगः शरद्वतोऽपत्यं न भवति, पूर्वभावित्वात् । एवं शुनकस्यापत्यं न भवति वत्सः । अतोऽत्र भार्गवश्च वात्स्यश्चाग्रायणश्चेति द्वन्द्वेअत्रभृगु॑इतियञिञोश्चे॑ति च यथासंभवं लुग्बोध्यः । यद्यप्यत्र बहुत्वाऽभावात्अत्रिभृगु॑इत्यादिना लुग्दुर्लभस्तथापि युगपदधिकरणवचनतायां वर्तिपदानां बह्वर्थत्वात्सौत्रत्वाद्वा स्यादेव लुक् । अतो व्याचष्टे -भार्गवश्चेदिकि । वात्स्यश्चेदिति च ।", "41103": "<<द्रोणपर्वतजीवन्तादन्यतरयाम्>> - अनादिरिति । अआत्थाम्नः पिता यो महाभारते प्रसिद्धः, तदपेक्षयाऽन्य एवायं द्रोण इत्यर्थः । अआत्थाम्नीत्यादि । द्रोणाचार्यस्यानन्तरापत्ये अआत्थाम्निद्रौणायन॑इति प्रयोगो भाक्त इत्यर्थः ।", "41104": "<<अनृष्यानन्तर्ये बिदादिभ्योऽञ्>> - अनृष्या ।अनृषी॑ति पञ्चम्याः सौत्रो लुक् । अनृषिभ्य इत्यर्थः । सूत्रे इति । आनन्तर्य [इत्यत्र] इत्यर्थः । स्वार्थ इति । चातुर्वण्र्यादेराकृतिगणत्वादिति भावः । बैदिरित्यत्र ऋष्यणमाशङ्क्याह -बाह्वादेरिति । बिद, उर्व, कश्यप,, कुशिक, भरद्वाज, उपमन्यु, विआआनर,परस्त्री परशुं च॑ इत्यादि ।", "41105": "<<गर्गादिभ्यो यञ्>> - गर्गादिभ्यो । गर्ग, वत्स, व्याघ्रपाद, पुलिस्त, बभ्रु, मण्डु, वतण्ड, कपि, कत शकल, कण्व, अगस्ति, कुण्डिन, यज्ञवल्क, पराशर, जमदग्नि — इत्यादि । कथं तर्हिरामो जामदग्न्यः॑इति । अनन्तरापत्ये ह्रयम् । सत्यम् । अनन्तरेऽपि गोत्रत्वारोपाद्बोध्यः ।", "41106": "<<मधुबभ्र्वोर्ब्राह्मणकौशिकयोः>> - गोत्रे यद्यञन्तमित्यादि । प्रवराध्यायप्रसिद्धगोत्रवाचिनौ केवलौ यञञौ न भवत इतिगोत्र ॑इत्यनेन तदन्तं विशेषितम् । तदवयवयोरिति । निर्दिश्यमानस्यादेशा भवन्ती॑ति भावः । प्रवराध्यायेति । एतच्चस्त्रीपुंसाभ्या॑मिति सूत्रेलौकिकष्य गोत्रस्य ग्रहण॑मिति भाष्यमुपादाय कैयटेनोक्तमिति भावः । लोहितादीति ।सर्वत्र लोहितादी॑त्यादिना ष्फः । ष्फेणोक्तेऽपि स्त्रीत्वे षित्त्वासामर्थ्यान्ङीषित्याशयेनाह -बाभ्रव्यायणीति । गर्गादिगण एवबभ्रुः, कौशिक॑इति पाठम्, एवं हि द्विर्बभ्रुग्रहणं न कर्तव्यं भवतीति हरदत्तादयः ।", "41107": "<<कपिबोधादाङ्गिरसे>> - कापेय इति ।इतश्चऽनिञः॑इति ढक् । कपेर्गर्गादिगणे पाठो लोहितादिकार्यार्थः । तेन कात्यायनीति सिध्यति । बौधिरिति । अनृषित्वादि॑ञ्, बाह्वादित्वाद्वा ।", "41108": "<<वतण्डाच्च>> - वतण्डाच्च । यञणोः प्राप्तयोराङ्गिरस यञेवेति नियमार्थं सूत्रम् ।", "41109": "", "41110": "<<अश्वादिभ्यः फञ्>> - अआआदिभ्यः । गोत्र इति । इह गणे बैल्य, अनाडुह्र, आत्रेय -इति गोत्रप्रत्ययान्तारुआयः पठन्ते तेभ्यस्तु यून्येव ।एको गोत्रे॑,गोत्राद्यूनी॑ति वचनात्ष । तत्र बिलिर्नाम राजर्षिस्ततोवृद्धेत्कोसले॑ति ञ्यङ् । आनडुह्रशब्दो गर्गादिञन्तः ।आत्रेय॑शब्दो डगन्त इति ज्ञेयः । पुंसि जात इति । गणसूत्रमिदम् । जातशब्दे पुंसि विद्यमाने फञित्यर्थः । कस्मादित्याकाङ्क्षायामर्थाज्जातशब्दादिति लभ्यते । जाताया इति । लिङ्गविशिष्टपरि भाषया, एकादेशस्य पूर्वान्तत्वेन ग्रहणाद्वा प्राप्तिः ।", "41111": "", "41112": "<<शिवादिभ्योऽण्>> - शिवादिभ्योऽण् । ननु विशेषविहितानिञादीन्बाधित्वाऽणेवारम्भसामर्थ्याद्भविष्यति किमनेनाऽण्ग्रहणेन । अत्राहुः — — ऋषिषेणशब्दोऽत्र गणे पठते, ततः प्राप्तिमिञं बाधित्वा परत्वात्सेनान्तलक्षणे॑ति ण्ये प्राप्ते इह पाठसामर्थ्याद्यथाप्राप्तप्रत्यय इञेव स्यान्न त्वण् । तथा चाऽत्राषण्ग्रहणमावश्यकमित्येके । अणधिकारादणेव स्यान्नाऽन्य इत्यण्ग्रहणं स्पष्टप्रतिपत्त्यर्थमित्यन्ये । शिब, ककुत्स्थ, वतण्ड, जरत्कारु, विपाट् । तक्षन्, विश्रवण, रवण, ऋषिषेण, विरूपाक्षेत्यादि । गोत्र इति निवृत्तमिति । एतच्च वृत्तौ कैयटे च स्थितम् । यद्यपिगोत्रसंज्ञासूत्रपर्यन्तं गोत्राधिकारः॑इतियूनि लु॑गिति सूत्रस्थभाष्यकैयटाभ्यां लभ्यते, तथापि तन्मतान्तरमिति भावः । एवं चेतः प्रभृत्यपत्यसामान्ये प्रत्यया भवन्तीति स्थितम् । शुभ्राद्त्वान्नित्यं ढकि प्राप्ते जरत्कारुशब्दोऽत्रणर्थं पठते । जारत्कारवः । ढकि तुढे लोपोऽकद्र्वाः॑इत्युलोपः । जारत्कारेयः । कुञ्जादित्वात्गोत्रे कुञ्जादिभ्यः॑इति नित्यं च्फञि प्राप्ते विपाट्शब्दोऽत्राणर्थं पठते । वैपाशः । वैपाशायन्यः ।सेनान्तलक्षणे॑ति ण्यप्रत्ययेउदीचामि॑तीञि त प्राप्ते तक्षन्शब्दोऽत्राऽणर्थं पठते, ण्यप्रत्ययेन समावेशोऽत्रेष्यते, न त्विञा । ताक्ष्णः । ताक्षण्यः । विश्रवणरवणशब्दावत्र पठते, तौ च विश्रवःशब्दस्यादेशौ । विश्रवसोऽपत्यं — वैश्रवणः । रावणः ।", "41113": "<<अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः>> - अवृद्धाभ्यो ।अवृद्धेभ्यो नदीमानुषीनामभ्यः॑इत्येव सूत्रयितुं युक्तमित्याशयेन व्याचष्टे — अवृद्धेभ्य इत्यादिना । आत्रेय इति । परत्वादयमृष्यणं बाधत ऐति भावः ।", "41114": "", "41115": "<<मातुरुत् संख्यासम्भद्रपूर्वायाः>> - द्रैमातुर इति ।तद्धितार्थ॑इत्यादिना समासः । अत्रद्वयोर्मात्रोरपत्य॑मिति विग्रहो, न तुद्विमात्रोरपत्य॑मिति ।दिक्संख्ये संज्ञाया॑मिति नियमेनाऽसंज्ञायां समासाऽसंभवात् । धान्यमातुर्नेति ।अभिव्यक्तपदार्थाः॑इत्यनेन जननीवाचिना एव ग्रहणे सिद्धेऽपि तस्य स्पष्टप्रतिपत्त्यर्थः स्त्रीलिङ्गनिर्देश इति भावः ।अभिव्यक्ते॑त्यस्याऽनित्यताया ज्ञापनार्थ इति त्वन्ये ।", "41116": "<<कन्यायाः कनीन च>> - कन्यायाः । ननु कन्या हृक्षतयोनिः, तस्याश्चाऽपत्यसंभव एव नास्तीत्याशङ्क्याह -अनूढाया इथि । अविवाहिताया इत्यर्थः ।", "41117": "<<विकर्णशुङ्गच्छगलाद्वत्सभरद्वाजात्रिषु>> - विकर्ण । वात्स्यादीनामपत्यप्रत्ययान्तानां द्वन्द्वेयञञोश्च॒॑अत्रिभृगकुत्से ॑ति सूत्राभ्यामपत्यप्रत्ययस्य लुक् । न चात्र वत्सादीनामेव द्वन्द्वोऽस्त्विति सङ्क्यं, मूलभूतानां तेषां विकर्मादीन्प्रत्यपत्यत्वाऽभावादतो व्याचष्टे -वात्स्य इत्यादि ।युगपदधिकरणवचनतायां बहुत्वमस्ती॑तिशरद्वच्छुनक॑सूत्र एवोक्तम् ।", "41118": "<<कुलटाया वा>> - कुलटाया वा.शकन्धवादित्वात्पररूपपमत एव निपातनाद्वा । सती भिक्षुक्यवेति । अत्र=अनङ्विधौ । तथा चोक्तममरेण -॒अथ बान्धकिनेयः स्याद्बन्धुलश्चाऽसतीसुतः । कौलटेरः कौलटीयो भिक्षुकी तु सती यदि । तदा कोलटीनेयोऽस्याः कौलटेयोऽपि चात्मजः॑इति । केचित्तु क्षुद्राया अपि इनङा तृतीयं रूपं कौलटिनेय इतीच्छन्ति । पक्षे ढ्रगिति । ढगपि पक्षे भवत्येवेति भावः ।", "41119": "", "41120": "<<स्त्रीभ्यो ढक्>> - स्त्रीभ्यो ढक् । बहुवचननिर्देशान्न स्वरूपस्य ग्रहणं, नाप्यर्थस्य, ढगर्थतया शुभ्रादिषु विमातृशब्दपाठात् । किं तु स्त्र्यधिकारोक्तटाबादेग्र्रहणं, न तु विप्रकृतिक्तिन्नादेरित्याशयेनाह -स्त्रीप्रत्ययान्तेभ्य इत्यादिना । तेनदरदोऽपत्यं दारदः॑इत्यत्र ढक् न भवति । स्त्र्यर्थग्रहणे तु स्यादेवाऽत्र ढक् । दरच्छब्दो हि जनपदक्षत्रियवाचीति ततोऽपत्यार्थेद्यञ्मगधे॑त्यणि तस्य स्त्रियाम् ।अतश्चे॑ति लुकि दरच्छब्दस्य स्त्र्यर्थवाचित्वात् ।ढक् चे॑ति वर्तमाने पुनरिह ढग्ग्रहणमण्संबद्धस्य ढको निवृत्त्यर्थम् । यद्यपिचानुकृष्टं नोत्तरत्रे॑ति परिभाषया अणिह न प्रवर्तते तथापि तस्या अनित्यत्वज्ञापनाय ढग्ग्रहणमित्याहुः ।तस्येदमिति । शिवादित्वादपत्य एवाऽणित्यन्ये ।", "41121": "", "41122": "<<इतश्चानिञः>> - इतश्च । इतः किम् । दाक्षिः । अनिञः किम् । दाक्षायणः । व्द्यचः किम् । उदधेरपत्यमौदधः । काशिकायां तुमरीचेर्मारीचः॑इत्युदाहृतं, तदसत् । बाह्वादित्वेनेञ्प्रवृत्तेः । न चास्य बाह्वादित्वमव्वक्षितम्,मरीचिशब्दो बाह्वादिषु पठते॑इतिमिदचोऽन्त्यात्परः॑इति सूत्रे भाष्ये स्थित्वात् ।", "41123": "<<शुभ्रादिभ्यश्च>> - शुभ्रादिभ्यश्च । चकारस्त्वाकृतिगणत्वत्वद्योतनार्थ इत्याहुः । मृकण्डशब्दोऽत्र पठते । मार्कण्डेयः । शुभ्र, मृकण्ड, अआ, विमातृ । विधवा, गोधा, प्रवाहणेत्यादि । आकृतिगणोऽयम् । तेनपाण्डवेय॑इत्यादि सिद्धम् । इहाऽदन्तेषु इञ् प्राप्तः, विधवाशब्दात्क्षुद्रालक्षणो ढक्, चतुष्पाज्जातिवाचिषु ढञ्, गोधाशब्दाड्ढ्रग्वनात्सोऽपि भवति, क्वचिदौत्सर्गिकोऽणं प्राप्त इति बोध्यम् ।", "41124": "", "41125": "", "41126": "<<कल्याण्यादीनामिनङ्>> - कल्याण्यदीनाम् । इह परस्त्रीशब्दः पठते ।परस्य स्त्री परस्त्री॑ति षष्ठीसमासः । पारस्त्रैणेयः । परभार्यायामुत्पन्न इत्यर्थः । अनुशतिकादित्वादुभयपदवृद्धिः । बिदादिगणे तुपरस्त्री परशुं चे॑ति पठते ।प्राप्नोती॑ति शेषः । तत्र परा चासौ स्त्री चेति कर्मधारयः । परस्त्रिया अपत्यं — पारशवःष ब्राआहृणाच्छूद्रायां तेनैवोढायामुत्पन्नः । सा च जात्यन्तरयोगात्परस्त्री । न च परआआदेशस्य स्थानिवद्भावात्पारशवेऽपिअनुशतिकादीनां चे॑त्युभयपदवृद्धिः स्यादिति वाच्यं,सत्यादेशे पूर्वोत्तरपदसंप्रमोहात्तदप्रवृत्तेः । इह गणे स्त्रीप्रत्ययान्तानां ढकः सिद्धत्वादिनङर्थं ग्रहणम् । अन्येषां तूभयार्थम् । कल्याणी, सुभगा, दुर्भगा, बन्धकी, परस्त्रीत्यादि ।", "41127": "कुलटाया वा।शकन्धवादित्वात्पररूपपमत एव निपातनाद्वा। सती भिक्षुक्यवेति। अत्र=अनङ्विधौ। तथा चोक्तममरेण - `अथ बान्धकिनेयः स्याद्बन्धुलश्चाऽसतीसुतः। कौलटेरः कौलटीयो भिक्षुकी तु सती यदि। तदा कोलटीनेयोऽस्याः कौलटेयोऽपि चात्मजः`इति। केचित्तु क्षुद्राया अपि इनङा तृतीयं रूपं कौलटिनेय इतीच्छन्ति। पक्षे ढ्रगिति। ढगपि पक्षे भवत्येवेति भावः।", "41128": "", "41129": "<<गोधाया ढ्रक्>> - गौधेर इति । ढस्य एयादेशे कृतेलोपो व्यो॑रिति यलोपः ।", "41130": "<<आरगुदीचाम्>> - आरदुदीचाम् । वचनादेव ढ्रग्ढकारकां पर्याये सिद्धेउदीचां॑ग्रहणं पूजार्थम् ।अरक्इति न सूत्रितं,यस्येति चे॑त्याकारलोपेगौधरः॑इत्यनिष्टप्रसङ्गात् । अन्यत इति । अनाकारान्ताल्लक्ष्यानुरोधेन कुतश्चिदित्यर्थ । पण्डस्येति । पण्डो नपुंसकः, तस्यापत्यं तु कृत्रिमादिरिति ।", "41131": "<<क्षुद्राभ्यो वा>> - क्षुद्राभ्यः । अर्थगतं स्त्रीत्वं शब्दे आरोप्यं स्त्रीलिङ्गनिर्देशः ।", "41132": "", "41133": "", "41134": "", "41135": "", "41136": "<<गृष्ट्यादिभ्यश्च>> - गृष्टआदिभ्यश्च । गृष्टि, ह्मषि, हलि, बलि, क्रुद्रि, अगस्ति, मित्रयु । अण्ढकोरपवाद इति । इहान्त्ययोद्र्वयोरृषित्वादण् प्राप्तः, अन्येभ्यस्तुइतश्चानिञः॑इति ढगिति विवेकः । गार्ष्टेय इति । सकृत्प्रसूता सर्वापि गृष्टिः, न तु गोरेव । अतोऽत्र नचतुष्पाभ्द्यः॑इत्यनेन ढञ्सिद्धिः ।", "41137": "<<राजश्वशुराद्यत्>> - राजआशुराद्यत् ।कमेणाऽणिञोरपवादः ।राज्ञो जातावेवेति वाच्यम । जाता वेवेति । प्रकृति प्रत्ययसमुदायेन जातिश्चेद्वाच्येत्यर्थः । प्रत्ययस्त्वपत्य एव । एवं च पङ्कजादिवद्योगरूढ इति फलितोऽर्थः ।", "41138": "", "41139": "<<कुलात् खः>> - कुलीन इथि । लिङ्गादिति । अन्यथाग्रहणवते॑ति तदन्तविधिप्रतिषेधादपूर्वपदग्रहणं व्यर्थं स्यादिति भावः । आढकुलीन इति । आढश्चासौ कुलीनश्चेति कुलीनविशेषणत्वे कुलस्याढत्वं न प्रतीयते । किं च ईकार उदात्त इति स्वरेऽपि विशेषोऽस्तीति भावः ।", "41140": "<<अपूर्वपदादन्यतरस्यां यड्ढकञौ>> - बहुकुल्य इति ।विभाषा सुपः॑ इति बहुच्प्रत्ययो न पदमिति अपूर्वपदत्वात्प्रत्ययत्रयं भवत्ये॑ति भावः ।", "41141": "", "41142": "", "41143": "", "41144": "", "41145": "<<व्यन् सपत्ने>> - व्यन्स्यादिति । भ्रातुरपत्यं यदि शत्रुदस्तदा भ्रातृशब्दाव्द्यन्नेव स्यान्न तु व्याच्छौ इत्यर्थः । समुदायेनेति । तद्धटितप्रत्यये शत्रुरूपेऽपत्ये वाच्य इत्यर्थः । यत्तु वृत्तिकृतोक्तम् — ॒अपत्यार्थोऽत्र नास्त्येवे॑ति, तदुपेक्ष्यं, भाष्यविरोधादिति मनसि निधायाह — पाप्मनेति । श्रुतिहतभ्रातृव्यशब्दस्य गतिं वदति — उपचारादिति ।अस्त्रि पङ्कं पुमान्पाप्मा पापं किल्विषकल्मष ॑मित्यमरः । न हि पापं भ्रातुरपत्यं भवतीतत्यतो भाक्त एवायं प्रयोग इति भावः ।", "41146": "<<रेवत्यादिभ्यष्ठक्>> - रेवत्या.रेवती, अआपाली, मणिपाली, द्वारपाली -इत्यादि । ठस्येकः ।अङ्गस्ये॑त्यनुवर्तनादाहर -अङ्गात्परस्येति ।अङ्गा॑दिति ठकारविशेषणादठचष्ठकारस्य न भवति । कर्मठः ।", "41147": "<<गोत्रस्त्रियाः कुत्सने ण च>> - गोत्रस्त्रियाः । णित्त्वं तु ग्लुचुकायन्या अपत्यं ग्लौचुकायनो जाल्मः॑इत्य्तर फिन्नन्ताण्णे वृद्द्यर्थमिति बोध्यम् । समाथ्र्याद्यूनीति ।गोत्रादपरो गोत्रप्रत्ययो ने॑त्युक्तत्वादिति भावः । गाग्र्या अपत्यमिति । पितुरसंविज्ञाने मात्रा व्यपदेशात्कुत्सा । गोत्रेति किम् । कारिकेयो जाल्मः । स्त्रियाः किम् । औपगवस्यापत्यम् औपगविर्जाल्मः । कुत्सने किं । गार्गेयो माणवकः ।", "41148": "", "41149": "", "41150": "<<फाण्टाहृतिमिमताभ्यां णफिञौ>> - फाण्टाह्मति ।कुत्सने॑इति निवृत्तम् । वृत्तिमते णित्त्वस्य फलमस्तीति ध्वनयन्नुदाहरति -मैमत इति । न च भाष्यमतेऽपिफाण्टाह्मताभार्यः॑इत्यत्रवृद्धिनिमित्तस्ये॑ति पुंवद्भावनिवृत्तिर्णित्त्वफलमस्तीति वाच्यम्,अस्त्रिया॑मिति युवसंज्ञानिषेधाद्गोत्रसंज्ञासद्भावात्एको गोत्रे॑इति नियमादिञन्तात्फाण्टाह्मतिशब्दादन्यस्यापत्ययस्याऽभावात्फाण्टाह्मताशब्दस्यैवाऽसत्त्वादिति भावः ।", "41151": "<<कुर्वादिभ्यो ण्यः>> - कुर्वादिभ्यो ।सौवीरेषु॑इत्यपि निवृत्तम् । कौरव्या ब्राआह्णण इति । यत्तुकुरुनादिभ्यो ण्य॑इति वक्ष्यति तस्य तद्राजत्वाद्बहुषु लुकिकुरवः क्षन्त्रियाः॑ इति भवति, न तुकौरव्याः॑इति भावः । वावदूक्या इति । बदेर्यंङन्तादूकप्रत्ययः । स चात्रैव गणे निपातनादित्याहुओः । कुरु, गर्ग, वावदूक । सम्राजः क्षत्त्रिये इति । सम्राट्शब्दाण्ण्य इत्यर्थः ।वामरथस्य कण्वादिवत्स्वरवर्जम् । यञन्तस्य काव्यशब्दस्य यत्कार्यं तण्ण्यप्रत्ययान्तस्य वामरथ्यशब्दस्य स्यात् । आद्युदात्तं विनेत्यर्थः । बहुत्वेयञञोश्चे॑ति लुक् । वामरथाश्छात्राः ।कण्वादिभ्यो गोत्रे॑इति छापवादोऽण् । वामरथी । वामरथ्यायनी स्त्री ।यञश्च॑ ।प्राचां ष्फ तद्धितः॑ इति ङीष्ष्फौ । वामरथानि सङ्घाङ्कलक्षणानि ।सङ्घाङ्कलक्षणेषु॑इति छापवादोऽण् । सत्यङ्कार, वलभीकार, बुद्धिकार, इत्यादि ।", "41152": "<<सेनान्तलक्षणकारिभ्यश्च>> - हारिषेण्य इति ।एति संज्ञाया॑मिति षत्वस्याऽसिद्धत्वत्सेनान्तोऽयम् ।ताक्ष्णोऽण उपसङ्ख्यानम् । ताक्ष्ण इति । उदीचामिञोपवादोऽयमण् । अस्मादुपसङ्ख्यानाच्छिवादिषु तक्षन्शब्दपाठोऽनार्षं इति गम्यते । वृत्तिकारस्तु -तक्षन्शब्दं शिवादिषु पठित्वाकारिलक्षणमुदीचाभिञमयमण्बाधते, णस्य तु बाधो नेष्यते॑इत्याह । तदनुरोधेनास्माभिरपि तत्र तथैव व्याख्यातम् । फले विशेषाऽभावात् ।", "41153": "", "41154": "", "41155": "<<कौसल्यकार्मार्याभ्यां च>> - कौशल्य । परमप्रकृतेरेवायमिति । यदि तुवृद्धेत्कोसले॑ति ञ्यङन्तात्कोशलशब्दात्कारिलक्षणण्यन्तात्कर्मारशब्दाच्चायं विधिः स्यात्तदा यून्येव प्रसज्यतेतेति भावः ।छागवृषयोरपि । छागेति । दगुशब्दस्याप्युपलक्षणमेतत् । फैञ्प्रकरणेदगुकोसलकर्मारच्छागवृषाणां युट्चाऽऽदिष्टस्यं॑इति वार्तिकात् । आदिष्टस्य । आयन्नदेशस्येत्यर्थः । अन्यथा प्रातिपदोक्ते युटि कृते प्रत्ययादित्वाऽभावात्कौशल्यायनिरित्यादौ फस्यायन्नादेसो न स्यात्, युकि कृते तुदागव्यायनिः इत्यत्र और्गुणः, अन्यत्राऽल्लोपश्च न स्यादिति भावः ।", "41156": "<<अणो द्व्यचः>> - कात्र्रायणिरिति । कर्तुरपत्यं कात्र्रस्तस्यापत्यं तु कात्र्रायणिः । अत्र व्याचक्षते -कर्तृशब्दः कुर्वादिषु षठते । तथा चकार्त्र्यः॑इत्येव वद्र्धमानेनोदाहृतं, तस्मादिह भर्तृहत्र्राद्युदाहार्यमिति । दाक्षिरिति ।वा नामधेयस्ये॑ति वृद्धसंज्ञाऽभावपक्षे प्रत्युदाहरणमिदम् । पक्षान्तरे तु फिञ्भवत्येव ।दाक्षायण्योऽइआनीत्यादि ताराः॑इत्यमरः ।", "41157": "", "41158": "<<वाकिनादीनां कुक् च>> - वाकिनादीनां । यदिह वृद्धमगोत्र शब्दरूपं, तत्रागमार्थमेवेदं वचनम्, अन्येषां तूभयार्थम् ।उदीचा॑मित्यनुवर्तनाद्विकल्पः फलित इत्याह -फिञ्वा स्यादिति । वाकिनकायमिरिति । वचनं वाकः, सोऽस्यास्तीति वाकिनः । अतएव निपातनादिनन् । अगारे एधत इथि गारेधः । पृषोदरादित्वादादिलोपः । शकन्ध्वादित्वात्पररूपम् । गारेधकायनिमः । चर्मिवम्र्यादौ कूभयार्थम् । चर्मवर्मशब्दाभ्यां व्रीह्रादित्वादिनिः ।चर्मिवर्मिणोर्नलोपश्चे॑ति गणसूत्रम् । चार्मिकायणिः । वार्मिकायणिः । कुकि कृते नकारस्याऽनन्त्यत्वान्नलोपाऽप्राप्तौ वचनम् । न चु कुट् परादिरस्त्विति वाच्यं, फस्याऽनादित्वादायनादेशाऽभावप्रसङ्गा । वाकिनिरिति ।अत इञ् । फिञभावे तत्संनियोगशिष्टः कुगत्र न भवति । एवं गारेधिः, चार्मिण इत्याद्यूह्रम् ।", "41159": "<<पुत्रान्तादन्यतरस्याम्>> - पुत्रान्तात् ।उदीचां वृद्धा॑दित्यनुवर्तत इत्याशयेनाह वा फिञ्सिद्ध इति । तेनैव सुत्रेण फिञि सिद्धे अनेन कुगेव वा विधीयत इति भावः ।", "41160": "<<प्राचामवृद्धात् फिन् बहुलम्>> - प्राचामवृद्धात् । प्राचांग्रहणं पूजार्थम् । अवृद्धादिति किम् । राजदन्तिः । बहुग्रगणान्नेह -दाक्षिः ।", "41161": "<<मनोर्जातावञ्यतौ षुक् च>> - मानुषः । मनुष्य इति । जातिशब्दावेतौ ।अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः । नकारस्य च मूर्धन्यस्तेन सिध्यति माणवः॑ । णत्वविधानार्थमिदम्, अमः सिद्धत्वात् । अनधीतवेदत्वान्मूढत्वं, विहिताननुष्ठानाच्च कुत्सितत्वम् । इदं च वचनब्राआहृणमाणवे॑ति णत्वनिपातनाल्लब्धमित्याहुः ।", "41162": "<<अपत्यं पौत्रप्रभृति गोत्रम्>> - अपत्यवाचकादिति ।तस्यापत्य॑मित्यादिना विहितः प्रत्ययो यथा षष्ठन्तोपग्वादिशब्ददभ्युपगम्यते, तथा अपत्यवाचिकदेवदत्तादिशब्दात्प्रत्ययो भवत्विति शङ्का स्यात्, तद्वारणार्थं प्रथमाद्ग्रहणमावश्यकमिति भावः । ननुउपगोरपत्य॑मिति विग्रहवाक्येऽपत्यवाचकस्याऽप्राथम्येऽपिअपत्यमुपगो॑रिति वाक्ये प्राथम्यात्स्यादेवापत्यवाचकात्प्रत्यय इति चेत् । मैवम् । लक्षणापेक्षं प्राथम्यं नियतत्वादत्राश्रीयते, न तु विग्रहापेक्षमनियतम् । अन्यथाप्रथमादि॑त्येतन्निरर्थकंस्यादिति । षष्ठर्थे मामूदिति । अयमर्थः -यथा इन्द्रो देवता अस्य हविष इति ऐन्द्र॑हविरिति प्रथंमान्तात्प्रत्ययो भवति तथा उपगुरपत्यमस्य देवदत्तस्यऔपगवो देवदत्तः॑देवदत्तोऽपत्यमस्योपगोःदैवदत्तिरुपगु॑रिति माभूदिति । एतच्च कैयटे स्पष्टम्॥ नन्वपवादत्वात्तद्धितः समासं नित्यं बाधेत । न च तद्धितस्य वैकल्पिकत्वात्पक्षे सोऽपि भविष्यतीति वाच्यं,यत्रोत्सर्गापवादौ महाविभाषाया विकल्प्येते, तत्रापवादेन मुक्ते उत्सर्गो न प्रवर्तते, इतिपारेमध्ये॑इत्यत्र वाग्रहणेन ज्ञापितत्वादित्याशङ्क्याह — अन्यतरस्याङ्ग्रहणानुवृत्तोरिति । जातित्वादिति ।गोत्रं च चरणैः सहेत्येनेने॑ति शेषः । प्राचा तुअणन्तत्वान्ङी॑भित्युक्तम् । तव्द्याख्यातृभिश्चटिड्ढाणञि॑त्यनेने॑त्युक्तम् । तदुभयमपिगोत्राद्यून्यस्त्रियाम्इति सूत्रस्थभाष्यनुरोधेनगोत्रं च चरणै॑रित्यत्र कृत्रिमं गोत्रमेव गृह्रते, न त्वपत्यमात्रमित्याशयेन प्रवृत्तमिति बोध्यमित्याहुः । सूत्रस्थान्महोत्सर्गान्कमेणोदाहरति -आआपत इत्यादि । औत्स इति ।उत्सः प्ररुआवणं वारि प्रवाहो निर्झरो झरः॑इत्यमरः । तस्य टचापत्येन योगस्तुगङ्गेयो भीष्मः॑इतिवति । अपत्यं पौत्रं । नन्वपत्यग्रहणं व्यर्थं, पौत्रादेरपत्यात्वाऽव्यभिचारादित्यत आह — अपत्यत्वेन विवक्षितमिति । विवक्षितमिति किं । वस्तुतः पौत्रप्रभृत्येव यदा शेषत्वेन विवक्ष्यतेगर्गस्येद॑मिति, तदा मा भूदित्याहुः । अन्ये तु — वस्तुतः पौत्रादीनामेव तत्त्वेन विवक्षायां संज्ञा मा भूत्, अपत्यत्वेन विवक्षायामेव यथा स्यादित्येवमर्थं तत् । तेनऔपगव॑इत्यादावप्यणर्थस्य गोत्रसंज्ञा सिद्द्यति । नह्रणः पौत्रत्वादिकं शक्यतावच्चेदकं, किं त्वपत्यत्वमेव । अन्यथा गोत्राधिकारस्थायञाद्यर्थस्यैव गोत्रसंज्ञा स्यादिति । नन्वपत्याधिकारे गोत्रयुवसंज्ञाकरणसामर्थ्यादपत्यमिति लभ्यत एवेति तेनैवोक्तप्रयोजनसिद्धौ किमनेना[त्रा]पत्यग्रहणेनेति चेत् । अत्राहुः — — ॒ते तद्राजाः॑इत्यत्र तच्छब्देनजनपदशब्दात्क्षत्रियादञि॑त्यदिना विहिता येऽञादयस्त एव गृह्यन्ते न तु ततः प्राक्तनप्रत्ययाः, गोत्रयुवसंज्ञाकाण्डेन विच्छिन्नत्वादिति वक्ष्यते । तथा चापत्याधिकारपठनसामर्थ्यस्योपक्षयादपत्यस्याऽसंबन्धशङ्कानिराकरणाय पुनरपत्यग्रहणमिह कृतमिति । पौत्रप्रभृतीति किम् । अनन्तरापत्ये मा भूत् -कोञ्जि; । गार्गिः । न चैवमप्यङ्गिरसः पौत्रे गर्गस्यानन्तरे अतिप्रसङ्ग इति वाच्यं,यस्य पौत्रादि तं प्रत्येव गोत्रसंज्ञे॑ति स्वीकारात् । एवं च गार्गि प्रत्यनन्तरापत्यत्वेन विवक्षायामपि गर्गं प्रति गोत्रत्वं निष्प्रत्यूहमिति स्यादेव गर्गाद्यञिति दिक् ।", "41163": "<<जीवति तु वंश्ये युवा>> - जीवति तु वंश्ये । पितृपितामहाद्युत्पादकप्रबन्धो वंशः । तत्र भवो वंश्यः । दिगादित्वाद्यत् ।पौत्रप्रभृती॑त्यनुवृत्तं षष्ठआ विपरिणम्यते, व्याख्यानात्,गोत्राद्यून्यस्त्रिया॑मिति लिङ्गाच्चेत्याह -पौत्रादेरिति । तुशब्दोभिन्नक मो युवेत्यस्मात्परो बोध्यः । स च एवकारार्थ इति व्याचष्टे ।", "41164": "", "41165": "<<वाऽन्यस्मिन् सपिण्डे स्थविरतरे जीवति (वृद्धस्य च पूजायाम्) (यूनश्च कुत्सायाम्)>> - युवसंज्ञमेवेति । तेन एकसंज्ञाधिकारबहिर्भूतयोरपि गोत्रयुवसंज्ञयोर्न समावेश इति भावः । नन्वस्तु संज्ञाद्वयस्यट समावेशः, को दोष इति चेत् । मैवम् । शालङ्काः पैलीया इत्यसिद्धिप्रसङ्गात् । तथा हि शलङ्कोरपत्यं शालङ्किः । पैलादिषु पाठादिञ्शलङ्कादेशौ । शालङ्केरपत्यम् । शालङ्केर्युवापत्यंयञिञिश्चे॑ति फक् । तस्यपैलादिभ्यश्चे॑ति लुक्, ततः शालङ्केर्यूनश्छत्रा इत्यर्थविवक्षायाम्इञस्चे॑त्यणिशालङ्का॑इति भवति । तथा पीलाया अपत्यं गोत्रापत्यं वा -॒पीलाया वा॑इत्यणि — पैलः । तस्या पत्यं युवा,अमो व्द्यचः॑इति फिञ् । तस्यपैलादिभ्यश्चे॑ति लुक् । ततः पैलस्य यूनश्छात्राः पैलीया इति भवति । तत्र गोत्रयूनोः समावेशे तुगोत्रे लुगची॑ति फक्फिञारलुक् प्रसज्येत । न च परत्वाद्यूनि लुग्भविष्यतीति सिद्धमिष्टमिति वाच्यं, ततोऽपि परत्वात्फक्फिञोरन्यतरस्या॑मिति विकल्पापत्तेः । न च सिद्धान्तेऽपि विकल्पः शङ्क्यः,फक्फिञो॑रित्ययं हि यूनि लुक एवापवादो न तुपैलादिभ्यश्चे॑त्यस्य,अनन्तरस्ये॑ति न्यायात् । यद्यपि यूनि लुगवादोऽपिफक्फिञो॑रिति विकल्पः परत्वात्पेलादिभ्यश्चे॑ति लुकमपि बाधेतेति वक्तुं शक्यन्तथापि परादप्यन्तरङ्गस्य बलीयस्त्वात्प्लादिभ्यश्चे॑ति नित्य एव लुगित्याहुः । भ्रातरि च । अवंश्यार्थोऽमारम्भः । भ्राता तु न वंश्यः,उत्पादकप्रबन्धो वंशः॑इत्यभ्युपगमात् ।अपत्यं पौत्रप्रभृती॑त्यनुवर्त्त्यपौत्रप्रभृते॑रिति षष्ठआ विपरिणम्य व्याख्यानात्फलिकमाह -चतुर्थादिरिति । अत्रायमर्थः -गर्गादिषु मृतेष्वपि जीवत्यग्रजे अनुजो युवसंज्ञक इति । वान्यस्मिन् । इहत्यं जीवतिपदं तिङन्तं, न तु सप्तम्यन्तमिति व्याचष्टे — जीवदेवेति । यो जीवति स युवसंज्ञकः, मृतस्तु स्थविरतरे जीवत्यपि गाग्र्य एव भवति, न तु गाग्र्यायण इति भावः । एकमिति । इहत्यमित्यर्थः द्वितीयमिति । अनुवर्तमानं सप्तम्यन्तमित्यर्थः । यदुक्तमुभयोरिति, तदेव विवृणोति — स्थानेनवयसा चेति । मतामहेभ्रातरि वेति । संनिहितत्वात्भ्रातरी॑त्यस्यमातामहभ्रातरी॑त्येवार्थ इत्येके ।पितृव्यपुत्रे॑इत्यन्ये । वृत्तौ तु -॒पितृव्ये पितामहभ्रातरि वे॑ति पाठः । जीवतीति किमिति । जीवतिद्वयं किमर्थमिति प्रश्नः । अतएवमृते मतो वे॑त्यत्तुरं सङ्गच्छते । अन्यस्मिन् किम् । भ्रातरि जीवति जीवतो विकल्पो मा भूत् । पूर्वसूत्रं तु भ्रातरि जीवति भृतस्य कनीयसो युवसंज्ञार्थमिति सावकशम् ।वृद्धस्य च पूजायामिति वाच्यम् । वृद्धस्य । चेति । वार्कतिकमिदम् । तथायूनश्चे॑त्यग्रिममपि ।", "41166": "", "41167": "", "41168": "", "41169": "<<साल्वेयगान्धारिभ्यां च>> - बृद्धेत् । तपरकरणं किम् । कौमारः । कुमारीशब्दो हि जनपदक्षत्रियवचनः ।", "41170": "", "41171": "", "41172": "<<कुरुणादिभ्यो ण्यः>> - कुरुना । नकार आदिर्येषां ते नादयः । कुरुशब्दाद्व्द्यज्लक्षणे अणि प्राप्ते, नादिभ्यस्त्वञि प्राप्ते[च] वचनम् ।", "41173": "<<साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ्>> - उदुम्बरादय इति ।उदुम्बरास्तिलखला मद्रकारा युगंधराः । भ्रूलिङ्गा शरदण्डाश्च साल्वावयवसंज्ञिताः॑इति वृत्तिः । औदुम्बरिरिति । तैलखलिः । माद्रकारिः । यौगन्धरिरित्यादीन्युदाहर्तव्यानि ।", "41174": "<<ते तद्राजाः>> - ते तद्राजाः । अञादय इति । ततः प्राचीनास्तु त्तच्छब्देन न परामृश्यन्ते, गोत्रयुवसंज्ञाकाण्डेन विच्छेजात् । एतदर्थमेव तत्काण्डं मध्ये कृतमाचार्येणेत्याहुः । वस्तुतस्तुतद्राजे॑त्यधिकृत्यजनपदशब्दात्क्षत्रियाद॑ञित्यादिसूत्राणामारम्भे गोत्रयुवसंज्ञाकाण्डस्य मध्ये पाठाऽभावेऽपि न क्षतिरित्यन्ये ।", "41175": "<<कम्बोजाल्लुक्>> - कम्बोजाल्लुक् ।तद्राजस्य बहुषु इति प्रकरण एवेदं न कृतं, द्व्येकार्थवाचकस्याऽञो लुगभावप्रसङ्गात् । यद्यपि लुगधिकारे पुनर्लुग्विधानसामर्थ्यातद्द्व्येकयोरप्यञो लुग्भविष्यत्येवेति वक्तुं शक्यं, तथाप्यतद्राजस्यापि लुक्प्रसङ्गशङ्कापत्तेर्लाघवाऽभावाच्च चचप्रकरणे न कृतमित्याहुः । न चात्र अपत्ये लक्षणयैवकम्बोजः कम्बोजौ॑इत्यादिरूपसिद्धौ किमनेन सूत्रेणेति शङ्क्यं,कम्बोज॑इत्यादिपाक्षिकाऽनिष्टवारणाय सूत्रस्यावश्यकत्वात् ।कम्बोजादिभ्य इति वक्तव्यम् । सिन्धुतक्षेति । कम्बोजशब्दस्य सिन्ध्वादित्वादण् । तस्य तु तद्राजत्वाऽभावल्लुङ्नेति भावः ।", "41176": "<<स्त्रियामवन्तिकुन्तिकुरुभ्यश्च>> - अवन्ती । कुन्तीति ।वृद्धे॑दिति ञ्यङो लुकिइतो मनुष्यजाते॑रिति ङी, । कुरुरिति । ण्यस्य लुक्ऊङुतः॑इत्यूङ् ।", "41177": "<<अतश्च>> - अतश्च । इद तद्राजेन अकारो विशेष्यते, न त्वकारेण तद्राजः । विशेषणेन तदन्तविधौ ञ्यङ्ण्यादीनामप्यदन्ततद्राजत्वादनेनैव लुकि सिद्धे अवन्तिकुन्तिकुरुभ्यो लुग्विधायकस्यस्त्रियामवन्ती॑ति सूत्रस्य वैयथ्र्यापत्तेः । न चेष्ट#आपतिः, कौसल्येति रूपाऽसिद्धिप्रसङ्गादतो व्याचष्टे ।", "41178": "<<न प्राच्यभर्गादियौधेयादिभ्यः>> - तद्राजस्यऽकारस्येति । सूत्रे तपरकरणं विस्पष्टार्थमिति भावः । शूरसेनीति । अञो लुकिजाते॑रिते ङीष् । न त्वञन्तदलक्षणो ङीन्,अञो योऽकारस्तदन्ता॑दिति व्याख्यानात् । कारूशीति । कृञ उः करुः, तं वष्टि करुशः ।वश कान्तौ॑मूलविभुजादित्वात्कः ।ग्रहिज्ये॑ति संप्रसारणम् । तस्यापत्यं राजा वा कारुशः । स्त्रियां कारूशी । एतेन मूर्धन्योष्मोपधः पाठो निरस्तः । यौधेयादिभ्यो लुक्प्रतिषेधमुदाहर्तुमाह -युधाष शुक्रेत्यादि । अतश्चेति लुकि त्विति ।ञ्यादस्तद्राजाः॑इति वक्ष्यमाणत्वादञोऽस्य तद्राजत्वमस्तीति भावः । योपधत्वान्ङीषः प्राप्तिर्नेत्याशयेनाह -ङीपीति । उदात्तनिवृत्तिस्वर इति ।अनुदात्तस्य च यत्रोदात्तलोपः॑ इत्यनेन ङीबुदात्तः स्यादित्यर्थः । सिद्धान्ते त्वञो लुगभावान्ङीन्याद्युदात्तत्वमिति ज्ञेयम् । स्यादेतत् ।अतश्चे॑ति सूत्रेण विधीयमानो लुक् चातुरर्थिकानामेव तद्राजानां भवतु संनिधानात्, न तुञ्यादयस्तद्राजाः॑इति पाञ्चमिकानामपि तद्राजानामिति किमनेन यौधेयादिग्रहणेन । सत्यम् ।व्याप्तिन्यायेन पाञ्चमिकस्यापीह ग्रहण॑मिति ज्ञापयितुं यौधेयादिग्रहणम् । तेन पार्ाआद्यणः स्त्रियां लुक् सिध्यति । तथा हि पर्शुः क्षत्रिय#ओ जनपदेन समानशब्दः । तस्यापत्यं स्त्री ।द्व्यञ्महधे॑त्यण्, तस्यअतश्चे॑ति लुक् । पुनः पर्ाआदिलक्षणः स्वार्थिकोऽण् । तस्यापि लुकिऊङुतः॑पर्शूः । एवं रक्षसः क्षत्रियस्यापत्यं स्त्री रक्षाः । पूर्ववदण्द्वयस्यापि लुकिअत्वसन्तस्ये॑ति दीर्घः । उक्तं च वार्तिककृता -॒पर्ाआदिभ्यो लुग्वक्तव्यः । यौधेयादिप्रतिषेधो वा ज्ञापकः — पार्ाआदिलुगि॑ति यौधेयीत्यादि । युधायाः शुक्राया अपत्यं स्त्रीति विग्रहः ।", "42001": "<<तेन रक्तं रागात्>> - तेन रक्तं । तृतीयान्तात्समर्थाद्यथाविहितं प्रत्ययाः त्युः । रज्यतेऽनेनेतीति । बाहुलकात्करणे घञ् । राग इति । रञ्जकद्रव्यमित्यर्थः । शुक्लस्य वर्णान्तरापादनमिह रञ्जेरर्थः ।", "42002": "<<लाक्षारोचना (शकलकर्दमा) ट्ठक्>> - लाक्षरोचनात् । वृत्तिकृता तु वार्तिकस्थौ शकलकर्दमौ सूत्रे प्रिक्षिप्तौ ।शकलं त्वचि खण्डे च रागवस्तुनि वल्कले॑इति विआः ।सकलकर्दमाभ्यामुपसंख्यानम् । वृत्तिकार इति । भाष्ये तु नैकद्दृष्टमिति भावः ।नील्या अन् । नील्येति । नीली ओषधिविशेषः । अणपवादोऽयम् ।", "42003": "<<नक्षत्रेण युक्तः कालः>> - नक्षत्रेण । नक्षत्रवाचकाः शब्दा वृत्तिविषये तद्युक्तं चन्द्रमसमभिदधानाः प्रत्ययं लभन्ते । पुष्येणेति । पुष्यसमीपस्थेन चन्द्रमसेत्यर्थः । एवं च पौषमह इत्यादिव्यवहारः सङ्गच्छते । सर्वेषामप्यह्नां पुष्ययोगसत्त्वेऽपि तत्समीपस्थचन्द्रमसा योगस्याऽसर्वत्रिकत्वात् । नक्षत्रेणेति किम् । चन्द्रेण युक्ता रात्रिः । कालः किम् । पुष्येण युक्तश्चन्द्रः ।", "42004": "<<लुबविशेषे>> - लुबवि [शेषे] । पूर्वसूत्रस्यानुवर्तनादिहनक्षत्रेण युक्तस्य कालस्याऽविशेषे गम्ये॑इत्यर्थ उपलभ्यते, तदाह — षष्टिदण्डेति ।अद्य पुष्यः॑इत्युक्त्या॒न ह्रो, न आः॑इति विशेषे गम्यमानेऽपि अहोरात्रात्मककालस्यावान्तरविशेषानवगमाल्लुब्भवत्येवेति भावः ।अविशेषे॑इत्यत्र प्रसज्यप्रतिषेधाश्रयणात्पौषोऽहोरात्रः॑इत्यत्र लुब्न भवति, षष्टिदण्डात्मकसमुदायरूपकालस्य प्रतीतावप्यवयवद्वयात्मकस्यापि विशेषस्यापि प्रतीतेरित्याशयेनाह -विशेषश्चेन्नेति । अद्य पुष्य इति.समूलेनावाहयेद्देवीं श्रवणेने॑त्यप्युदाहरणं बोध्यम् ।", "42005": "", "42006": "<<द्वन्द्वाच्छः>> - द्वन्द्वाच्छः । विशेषे उदाहरणमाह — तिष्येत्यादि । अविशेषे तूदाहर्तव्यम्अद्यराधानुराधीय॑मिति । न चात्रलुबविशेषे॑इति अम इव छस्यापि लुप्स्यादिति वाच्यं, मध्येऽपवादन्यायरीत्या पूर्वोपस्थितस्याऽण एव तत्प्रवृत्तेः । यत्तुलुपं परत्वाद्बाधते छ॑इति वृत्तिकृतोक्तं, तन्न, द्वयोर्युपत्प्रप्त्यभावा ।", "42007": "<<दृष्टं साम (कलेर्ढक्)>> - दृष्टं साम । तृतीयान्ताद्दृष्टमित्यर्थेऽणादयः स्युर्युद्दृष्टं त्चेचत्साम ।अस्मिन्नर्थेऽण् डिद्वा वक्तव्यः । अस्मिन्नर्थे इति तथा च श्र्लोकवार्तिकं — ॒दृष्टे सामनि जाते वाप्यण् डिद् द्विर्वा विधीयते । तीयैदीकक् न विद्याया गोत्रादङ्कवदिष्यते । ॑इति । जातेऽर्थे यो द्विरण् स च वा डिदित्यन्वयः । शतभिषजि जातः शातभिषः, शातभिषझः । इह हिप्राग्दीव्यतः॑इति प्राप्तोऽण् कालाट्ठञा बाधितः, स चसन्धिवेलादि॑सूत्रेण प्रतिप्रसूयते इत्ययं द्विरुक्तोऽम् । तीयादिति । तीयादिकक् स्वार्थे भवतीत्यर्थः । द्वैतीयीकः । तार्तीयीकः । न विद्याया इति । विद्यावाचकात्तीयान्तादीकङ्न भवतीत्यर्थः । द्वितीया विद्या । गोत्रादङ्कवदिति । गोत्रप्रत्ययान्तादङ्के यः प्रत्ययः स दृष्टे सामन्यपि भवति । औपगवेन दृष्टपगवकम् । इहगोत्रचरणाद्वु॑ञिति वुञ् ।", "42008": "", "42009": "<<वामदेवाड्ड्यड्ड्यौ>> - वामदेवात् । ग्रहणं माऽदर्थैत्यादि । अतदर्थे — ॒ययतोश्चातदर्थे इति विहिते॑नञ्स्वरे -नञाश्रितस्वरे डड्डतोग्र्रहणं मा भूदित्यर्थः ।ययतोश्चे॑ति सूत्रेण विधीयमानं नञः परस्य ययदन्तस्योत्तरपदस्यान्तोदात्तत्वमवामदेव्यशब्दे मा भूत् किंतु — — अव्ययपूरक्लपदस्वर एव यखा स्यादित्येतदर्थं ढित्करणमिति फलितोऽर्थः । न च कृतेऽपि डित्त्वेययतो॑रित्यस्य प्रवृत्तिः कृतो नेति शङ्क्यं,निरनुबन्धकग्रहणे न सानुबन्धकस्य॑,तदनुबन्धकग्रहणे नाऽतदनुबन्धकस्ये॑ति परिभाषयोः सत्त्वात् । इमे च परिभाषे इहैव डित्त्वेन ज्ञाप्येते । तत्राऽऽद्यायाः प्रयोजनं -॒पूरणगुणे॑ति सूत्रे तव्यग्रहणे तव्यतोऽग्रहणम् । द्वितीयस्यास्तु अङ्ग्रहण् चङोऽग्रहणम् ।आयतेरः॑अहि परे॑इति शेषः । अआत् । चङि परे तु न , अशिइआयत् ।", "42010": "<<परिवृतो रथः>> - परिवृतो । तृतीयान्तत्परिवृत इत्यर्थेऽणादय स्युर्यः परिवृत्तः स चेद्रथो भवति । रथाच्छादनार्थं यद्वस्त्रकम्बलादिकं तत एव सर्ववेष्टनं भवति, न तु च्छात्रादिभ्य इत्याशयेनाह -समन्ताद्वेष्टित इति । परिः सर्वतोबावे वर्तत इति भावः ।", "42011": "", "42012": "", "42013": "<<कौमारापूर्ववचने>> - कौमारा । तेनेति निवृत्तम् ।अपूर्व॑इति भावप्रधानो निर्देश इत्याह -अपूर्वत्वे इति । अपूर्वत्वं तु स्त्रिया एवेष्यते, पुरुषस्तु अपूर्वभार्योऽस्तु वा मा वेत्यनाग्रहः । अपूर्वपतिमिति । न पूर्वं पतिर्यस्या इति बहुव्रीहिः । कौमारः परिति । द्वितीयान्तात्कुमारीशब्दादुपयन्तरि प्रत्ययः । कौमारीति । इह कुमारीशब्दात्प्रथमान्तात्स्वार्थे प्रत्ययः,टिढ्ढा॑णिति ङीप् । तत्रोद्धृत ।सास्मिन्पौर्णमासी॑ति सूत्रात्प्राक्तत्रे॑त्यधिकारः । पात्रवाचिभ्यः सप्तम्यन्तेभ्य उद्धृतमित्यर्थे यथाविहितं प्रत्ययाः स्युः ।", "42014": "<<तत्रोद्धृतममत्रेभ्यः>> - शाराव इति । भुक्तोच्छिष्ट इत्यर्थ इति वृत्तिकृत् । अवशिष्ट इति तदर्थः ।उच्छिनष्टि, न सर्वं जुहोती॑ति कल्पसूत्रव्यवहारात् । सप्तमीति । निधानक्रियापेक्षया अधिकरणत्वादिति भावः ।", "42015": "<<स्थण्डिलाच्छयितरि व्रते>> - स्थण्डिलात् । व्रतं=शास्त्रेण विहितो नियमः, तस्मिन्समुदायेन गम्ये सप्तन्यन्ताद्यथाविहितः प्रत्ययो भवति शयितर्यर्थे ।", "42016": "<<संस्कृतं भक्षाः>> - अष्टाकपाल इति ।द्विगोर्लुगनपत्ये॑इत्यणो लुक् ।", "42017": "<<शूलोखाद्यत्>> - शूलोखात् ।संस्कृतं भक्षाः॑इत्यनुवर्तते । कथम्उख्योऽग्निः॑इति । न ह्रसौ भक्ष इति चेत् । अत्राहुः -दिगादित्वाद्भावार्थे यदिति ।", "42018": "<<दध्नष्ठक्>> - दध्नष्ठत् । दध्नीति । संस्कारस्त्विह लवणादिना, दधि त्वधिकरणमात्रम् । यस्तुप्राग्वहते॑रित्यत्रसंस्कृत॑मिति ठग्वक्ष्यते स तृतीयान्तद्बोध्यः । तेन दध्ना संस्कृतमपि दाधिकमेव ।", "42019": "", "42020": "", "42021": "<<साऽस्मिन् पौर्णमासीति (संज्ञायाम्)>> - सास्मिन् । सेति प्रथमान्तदस्मिन्निति सप्तम्यन्तार्थे प्रत्ययः स्याद्यः प्रथमान्तार्थः स चेत्पौर्णमसी भवनति । इतिशब्दादिति । स हि लौकिर्की विवक्षामनुसारयति । वृत्तिकृता तु सूत्रे एवसंज्ञाया॑मिति प्रक्षिप्तम् । पौर्णमासीति । पूर्णो मासोऽस्यां तिथाविति बहुव्रीहौ प्रज्ञादित्वात्स्वार्थिकोऽणीति हरदत्तादयः ।तदस्मिन्वर्तते॑इत्यधिकारेपूर्णमासादण् वक्तव्यः॑इति वार्तिकं न कर्तव्यमिति तदाशयः ।", "42022": "", "42023": "", "42024": "<<साऽस्य देवता>> - सास्य ।से॑ति प्रकृतं संज्ञासंबद्ध॑मिति पुनः साग्रहणं कृतिमित्याहुः । इहैव सूत्रे निपातनाद्देवशब्दत्स्वार्थे तल् । मन्त्रस्तुत्येति । मन्त्रेण स्तुत्या ।एतिस्तुशा॑सित्यादिना क्यपि तुक् टाप् । आग्नेयो वै ब्राआहृण इति । इहाग्न्युद्देसेन ब्राआहृणो न त्यज्यत इति कथमयं प्रयोग इति न शङ्क्यमिति भावः । परत्वादादिवृद्धिरिति । इदं च समाधानं श्रायमित्यत्रावश्यकमिति तेनैव परिहारसंभवादित्वविधानसामर्थ्यमिह नाश्रितम् ।", "42025": "", "42026": "", "42027": "<<अपोनप्त्रपान्नप्तृभ्यां घः>> - उक्तं रुपमिति ।नपात्इत्यस्यनृप्त॑इति रूपमित्यर्थः ।शतरुद्राद्धश्च । शतं रुद्रा इति । शतशब्दोऽनन्तवचनः । सौमिति ।हलस्तद्धितस्ये॑ति यलोपः ।", "42028": "", "42029": "", "42030": "", "42031": "", "42032": "<<द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पति- गृहमेधाच्छ च>> - द्यावापृ । अण्ण्यञोरपवादः । शुनासीरीयमिति । शुनश्च सूरश्चेति द्वन्देव॑देवताद्वन्द्वि चे॑त्यानङ् । शुनो — वायुः, सीरः — आदित्य इति वृत्तिकृत् । हरदत्तस्तु सुनासीरशब्द इन्द्रस्य गुणवाचीत्यन्ये मन्यन्त इत्याह । तथा च मन्त्रः — ॒इन्द्रं वयं सुनासीरमस्मिन्यज्ञे हवामहे॑इति । मरुतोऽस्य सन्तीति मरुत्वानिन्द्रः, मरुत्वतीयं । मरुत्वत्यम् । अग्निषोमीयम् ।ईदग्नेः सोमवरुणयोः॑ । वास्तुनः पतिः वास्तोष्पतिः । इहैव सूत्रे निपातनात्साधुः ।वेश्मभूर्वास्तुरस्त्रियाम् । वास्तोष्पतीयं वास्तोष्पत्यम् । गृहमेधीयं । गृहमेध्यम् । गृहमेधशब्दोऽकारान्तः । तथा च आआलायनः -॒मरुभ्द्यो गृहमेधेभ्यः॑इति ।", "42033": "", "42034": "<<कालेभ्यो भववत्>> - कालेभ्यो । कालवाचिभ्यो ये प्रत्यया भवार्थे वक्ष्यन्ते तेसास्य देवता॑इत्यस्मिन्नर्थेऽनेनातिदिश्यन्ते । वत्करणं सर्वसादृश्यार्थम् । तेन यस्माद्यो विहितस्तस्मात्स एव भवति नाऽन्यः । तथैवोदाहरति -मासिकम् । प्रावृषेण्यमिति ।कालाठ्ठञ् ।प्रावृष एण्यः ।मातृपितृभ्यां पितरि डामहच् । डामहजिति । एतच्च वृत्त्याद्यनुरोधेनोक्तं । भाष्ये तु आनङादेशो महच् प्रत्ययश्च निपात्यते । तेनावग्रहः सिध्यतीत्युकतम् ।अवेर्दुग्धे सोढदूसमरीसचो वक्तव्याः । सकारपाठेति । अन्यथा प्रक्रियालाघवाय षकारमेव पठेदिति भावः । एतच्च मनोरमायां स्थितम् । अन्ये तूक्तरीत्य ।अविसोढ॑ मित्यत्र षत्वनिवारणेऽपिअविदूस॑मित्यादौ स्यादेव षत्वम् । तत्र हि ण्यन्तात्क्विपिअविदूः॑इत्यादिरूपसिद्धये सकारपाठसामर्थ्यस्योपक्षीणत्वात् । तस्मात्अविसोढ॑मित्यादि भाष्यकृदुदाहरणेषु सकारपाठसामर्थ्यादिति व्याख्येयमित्याहुः ।", "42035": "", "42036": "", "42037": "<<तस्य समूहः>> - तस्य समूहः । इहअचित्ताठ्ठक्,अनुदात्तादेरञ्, गोत्रान्ताद्वुञ्,केदाराद्यञ्च॑इत्यादिना प्रतिपदं यञादीश्त वक्ष्यति । तथा च चित्तवदाद्युदात्तमगोत्रान्तं प्रतिपदोक्तप्रत्ययरहितमिहोदाहरणमित्यशयेनोदाहरति -काकम् । बाकमिति । एवं वार्कम् । काकबकवृकशब्दाःप्राणिनां कुपूर्व॑मिति फिट्सूत्रेणाद्युदात्ताः । प्राणिवाचिनां ये आदिभूताः कवर्गात्पूर्वे, तेषामुदात्तः स्यादिति सूत्रार्थः ।अथादिः प्राक् शकटेः॑इत्यधिकारात् । यत्तु वृत्तिन्यासयोः शौकमित्युहाह्मतं, तदुपेक्ष्यम् । खण्डिकादिषु शुकशब्दस्य पाठातत्राऽञा भाव्यमिति हरदत्तादयः ।", "42038": "<<भिक्षाऽऽदिभ्योऽण्>> - भिक्षादिभ्योऽण् । भैक्षमिति । अचित्तत्वाठ्ठक् प्राप्तः । गार्भिणमिति । अनुदात्तादित्वादञ् प्राप्तः । सति हि तस्मिन्नाद्युदात्तटिलोपौ स्याताम् । न चभस्याढे॑ इति पुंवाचकरूपा तिदेशान्न टिलोपः स्यादिति वाच्यं, हस्तिनीनां समूहो हास्तिकमित्यत्रापि टिलोपाऽनापत्तेः । तस्मात्स्त्रीप्रत्ययनिवृत्तिमात्रपरं तन्न तु रूपातिदेशकमिति बोध्यम् ।", "42039": "", "42040": "", "42041": "", "42042": "<<ब्राह्मणमाणववाडवाद्यन्>> - ब्राआहृणमाणव । ननु त्रयोऽप्यमी वृद्धाः । तेभ्यः प्रकृतो यञेवास्तु, वृद्धाद्यनि यञि वा रूपे विशेषऽभावात् । नापि स्वरे विशेषः, उभयथाप्युदात्तत्वात् । स्त्रिया विशेषस्तु न शङ्क्य एव, नपुंसकत्वात् ।यञश्चे॑त्यत्रापत्यग्रहणाच्च । ठञ् तु नानुवर्तिष्यते, अस्वरितत्वादिति, चेत् । सत्यम् । अवृद्धादपि कृतश्चिद्विधानार्थं यन्वचनम् । तत्सिद्धार्थानुवादकं वार्तिकमाह — ।पृष्ठादुपसङ्ख्यानम् । पुष्ठादिति । पृष्ठं — स्तोत्रविशेषः । पष्ट इति । पृष्टानां समूहः ।पृष्ठ्यः षडह॑इति तु मत्वर्थलक्षणया बोध्यम् ।", "42043": "<<ग्रामजनबन्धुसहायेभ्यः तल्>> - ग्रामजन । वृत्तिकृता तु वार्तिकस्थासहायशब्दोऽपि सूत्रे प्रक्षिप्तः । अनुदात्तादेरञ् । आपूपिकं शाष्कुलिकमित्यादौ परत्वात्अचित्तहस्ति धेनो॑रिति टगेवेत्याशयेनेह सूत्रे चित्तवन्तमुदाहरति -कापोतमिति ।लघावन्त॑इति फिटसूत्रेण कपोतमयूरशब्दौ मध्योदात्तौ । न चशकुनीनां च लघु पूर्व॑मित्याद्युदात्ताविमाविति शङ्क्यम्,अन्त्यात्पूर्वं लघूदात्त॑मिति तत्र व्याख्यानादित्याहुः ।", "42044": "", "42045": "<<खण्डिकादिभ्यश्च>> - खण्डिका । आद्युदातार्थमचित्ताठ्ठको बाधनार्थं च वचनम् ।", "42046": "<<चरणेभ्यो धर्मवत्>> - चरणेभ्यः । यस्याः प्रकृतेर्यः प्रत्ययो धर्मे वक्ष्यते, स तस्याः प्रकृतेः समूहेऽपि स्यादित्य्रथः । वुञादयो हि चरणेभ्यो वक्ष्यन्ते । तत्रचरणाद्धर्माम्नाययो॑रिति तु वार्तिकम् । तदप्यनेनैवातिदेशसूत्रेण ज्ञाप्यते । काठकमित्यादि । गोत्रचरणाद्वुञ् । छान्दोग्यमिति ।छन्दोगौक्थिके॑तिञ्यः । यच्छाविति । यथासङ्ख्यं स्तः । ठगणाविति । केशशब्दादचित्तत्वेन ठक् ।", "42047": "", "42048": "", "42049": "", "42050": "", "42051": "", "42052": "<<विषयो देशे>> - विषयो देशे ।तस्ये॑त्यनुवर्तत इत्याह — षष्टन्तादिति । विषयशब्दार्थमाह -अत्यन्तेति । भौरिक्या । आभ्या गणाभ्यां यथासङ्ख्यमेतौ प्रत्ययौ स्तः ।", "42053": "", "42054": "<<भौरिक्याद्यैषुकार्यादिभ्यो विधल्भक्तलौ>> - भौरिकिविधमित्यादि । क्लीबत्वं लोकात् ।", "42055": "<<सोऽस्यादिरिति च्छन्दसः प्रगाथेषु>> - सोऽस्यादिरिति । छन्दो नाम — अक्षरेयत्तानिबन्धनपङ्क्त्यादिरिह विवक्षितः । तद्वाचकात्प्रथमान्तदस्येत्यादिमति प्रत्ययः स्यात्, य आदिमान्स प्रगाथश्चेत् । प्रग्रथ्यत इति प्रगाथऋ ।ग्रन्थ संदर्भे॑इत्यस्मात्अकर्तरिच कारके॑इति कर्मणि घञ् । पृषोदरादित्वाद्रेफनकारयोर्लोपः । अन्ये तु प्रगीयत इति प्रगाथः ।गै शब्दे॑इत्यतःउषिकुषिगार्तिभ्यः स्थन्इत्याहुः । यत्र द्वे ऋचावावृत्त्या तिरुआः क्रियन्ते स प्रगाथः ।स्वार्थ उपसङ्ख्यानम् । त्रैष्टुभमिति ।स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते॑इति न्यायेन क्लीबतेति भावः ।", "42056": "<<संग्रामे प्रयोजनयोद्धृभ्यः>> - संङ्ग्रामे । ननुप्रथमा॑दित्यधिकारात्प्रथमोच्चारितसङ्ग्रामवाचिन एव प्रत्ययः प्राप्नोति, न प्रयोजनयोद्धृभ्य इत्यत आह — सोऽस्येतीति । एवं च प्रथमान्तविशेषणद्वारा प्रयोजनयोद्धृणां प्रकृतित्वम् ।अस्ये॑ति प्रत्ययार्थविशेषणद्वारा संग्रामस्य प्रत्ययर्थत्वं वक्तुं शक्यमिति भावः । तता चयमिह सूत्रार्थः — प्रयोजनवाचिभ्यो योद्धृवाचिभ्यश्च प्रथमान्तेभ्योऽस्येति षष्ठन्तार्थेऽण् स्यात्, स च षष्ठआन्तार्थः । संग्रामश्चेदिति ।", "42057": "<<तदस्यां प्रहरणमिति क्रीडायाम् णः>> - तदस्यां । प्रथमान्तात्प्रहरणोपाधिकात्सप्तम्यन्तार्थे णः स्यात्, स चेत्सप्तान्यन्तार्थः क्रीडा भवति । प्रहरणं किम् । माला भूषणमस्याम् । क्रीडायां किम् । खङ्गः प्रहणमस्यां सेनायाम् ।", "42058": "<<घञः साऽस्यां क्रियेति ञः>> - घञः । कृद्ग्रहणादिति । तेनश्यैनंपाते॑त्यत्रञ्णिती॑त्यङ्गस्य विधीयमाना वृद्धिः सिद्धा । श्येनपातस्यापि घञन्तत्वादिति भावः । घञः किम् । श्येनपतनमस्यां वर्तते । क्रिया किम् । प्राकारोऽस्यां वर्तते ।तदस्या॑मिति प्रकृते पुनःसास्या॑मित्युक्तिःक्रीडायां॑मित्यस्य निवृत्तिर्यथा स्यादिति । अतएवाह — ।", "42059": "<<तदधीते तद्वेद>> - तदधीते । द्वितीयान्तादध्येतरि वेदितरि च प्रत्ययः स्यात् । द्विस्तद्ग्रहणमधीयाने विदुषि च प्रत्येकं विधानार्थम् । तेनोत्तरत्र क्रतुवसन्तादयः शब्दास्तत्प्रतिपादकग्रन्थे गौणा अप्यधीयानेऽपि प्रत्ययं प्राप्रनुवन्ति । अन्यथा तेषामध्ययनाऽसंभवेन वेदितर्येव प्रत्ययः स्यादिति भावः ।", "42060": "<<क्रतूक्थादिसूत्रान्ताट्ठक्>> - क्रतूक्थादि । क्रतुविशेषेति । स्वरूपस्य तु न ग्रहणं, तथात्वे सत्युक्थादिष्वेव क्रतुशब्दः पठएत । नापि क्रतुपर्ययाणाम्, उक्थादिगणे यज्ञशब्दपाठादिति भावः । अध्यतरीति । अध्येतर्यपीत्यर्थः । आग्निष्टोमिक इति । संस्थाविशेषवाचकस्याप्यग्निष्टोमशब्दस्य तत्संस्थाके क्रतौ निरूढप्रयोग । तल्लक्षणेत्यादि । तत्प्रतिपादकं प्रातिशाख्यमित्यर्थः ।मुख्यार्थात्तूक्थशब्दाठ्ठगणौ नेष्यते । नेष्येते इति । अनभिधानादिति भावः ।अङ्गक्षत्रधर्मत्रिपूर्वाद्विधान्तान्नेति वक्तव्यम् ।त्रिविधेति ।तिरुआओ विद्या अधीते॑इति विग्रहे तु तद्धितार्थे द्विगौत्रिविद्यः॑इत्येव स्यात्, द्विगोर्लुगनपत्ये ॑इति लुक्प्रवृत्तेरिति भावः ।आख्यानाख्यायिकेतिहासपुराणेभ्यश्च । आख्यायिकेति । गद्यपद्यरूपो ग्रन्थविशेष इत्यर्थः ।सर्वादेः सादेश्च लुग्वक्तब्यः । सर्वादेरिति ।सादे॑रित्येव सिद्धे सर्वाग्रहणमर्थवत्परिभाषाज्ञापनार्थम् । सवार्तिक इति । वार्तिकान्तमधीत इत्यर्थः । अन्तवचने अव्ययीभावः॥अव्ययीब्वे चाऽकाले॑इति सहस्य सभावः ।इकन्पदोत्तरपदाच्छतपष्टेः षिकन्पथः । इकन्निति । पदशब्द उत्तरपदं यस्य तस्मादिकन् । शतशह्दात्षष्टिशब्दाच्च परो यः पथिन्शब्दस्तदन्तास्तुषिकन् वाच्य इत्यर्थः । शतपथिक इति । वृत्तिकृता तु वार्तिकेबहुल॑मिति पूरयित्वाशातपथः॑ इत्यणन्तमप्युदाहृतम् । तत्तु भाष्ये न दृष्टम् । षित्त्वफलं दर्शयति — शतपथिकीति ।", "42061": "", "42062": "<<अनुब्राह्मणादिनिः>> - अण्बाधनार्थमिति । भाष्ये तु प्रत्याख्यातमेवेदं सूत्रं, तद्रीत्या त्वणिष्यत इति, अनभिधानान्नेति वा बोध्यम् ।", "42063": "<<वसन्तादिभ्यष्ठक्>> - वसन्ता । उक्थादिष्वेव वसन्ता दीन् पठित्वा, वसन्तादिषु वा उक्थादीन्पठित्वा, अन्यतरच्छक्यमवक्तुम् । अथर्वाणमिति । अथर्वणा प्रोक्त उपचारादथर्वा । यद्वातेन प्रोक्ता॑मित्यधिकारे -ऋषिभ्यो लुग्वक्तव्यः । वसिष्ठो विआआमित्रोऽनुवाक इत्युदाहृत्य अथवणो वा ।अथर्वा॑,अथर्वणः॑इति भाष्योक्तेः — — साधुः ।", "42064": "", "42065": "<<सूत्राच्च कोपधात्>> - अष्टकमिति ।सङ्ख्यायाः संज्ञासङ्घसूत्राध्ययनेषु॑इतिसङ्ख्याया अतिशदन्तायाः कन् ।सह्ख्याप्रकृतिकादिति वाच्यम् । सङ्ख्याप्रकृतिकीदिति । सङ्ख्याप्रकृतिकप्रत्ययन्तादित्य्रथः । कालापक इति । कलापि न्शब्दात्प्रोक्तार्थेऽण् ।सब्राहृचारी॑त्युपसङ्ख्यानाट्टिलोपः । ततोऽद्येतर्यण् । तस्यप्रोक्ताल्लु गिति लुक् । कालापानामाम्नाय इत्य्रथेगोत्रचरणाद्वुञ् । ततोऽध्यतृवेदित्रणो न लुक् । स्वरे स्त्रियां च विशेषः ।", "42066": "<<छन्दोब्राह्मणानि च तद्विषयाणि>> - छन्दोब्राआहृणानि । इह मण्डूक प्लुत्यानुवृत्तंप्रोक्ता॑दिति पञ्चम्यन्तं जसन्तत्वेन विपरिणम्यते,छन्दोब्राआहृणानी॑त्यनेन सामानाधिकरण्यात् । प्रोक्तशब्दश्च प्रोक्तार्थके प्रत्यये लाक्षणिक इत्याशयेनाह -प्रोक्तप्रत्ययान्तानीति । तद्विषयाणीति । तच्छब्देन अध्येतृवेदितृप्रत्ययः परामृश्यते । विषयशब्दस्त्वलिहानन्यभाववाची न तु देशवाचीत्यभिप्रेत्येह -प्रत्ययं विना न प्रयोज्यनीत्यर्थ इति । पाणिनीयं पाणिनीया इतिवदनियमेन प्रयोगे प्राप्ते नियमार्थमेतदिति भावः । छन्दोग्रहणादेव सिद्धे ब्राआहृणग्रहणं चिरन्तनप्रोक्तब्राआहृणानामेव तद्विषयत्वार्थम् । तेनेह न -याज्ञवल्क्यादयो हि पाणिन्यपेक्षया नूतना इति वृत्तिकृतां व्यवहारः । चकारोऽनुक्तसमुच्चयार्थः । तेन काश्यपिनः कौसिकिन इत्यत्र कल्पेऽपि तद्विषयत्वं सिद्धम् ।काश्यपकौसिकाभ्यामृषिभ्या॑मिति प्रोक्ते णिनिः, अध्येत्रणो लुक् । छन्दोब्राआहृणानीति किम् । पाणिनीयं व्याकरणम् । इति तत्त्वबोधिन्याम् रक्ताद्यर्थकाः ।अथ रुधादयः ।", "42067": "<<तेन निर्वृत्तम्>> - तेन निर्बृत्तम् । अन्तर्भावितण्यर्थाद्वृतेः कर्मणि क्तः ।", "42068": "तेन निर्बृत्तम्। अन्तर्भावितण्यर्थाद्वृतेः कर्मणि क्तः।", "42069": "", "42070": "<<अदूरभवश्च>> - अदूर । अदूरमन्तिकम् । तत्र भवतीत्यदूरभवः । निपातनात्सप्तमीसमासः । चातुरर्थिकत्वामिति । चतुर्णामर्थानां समाहारश्चतुरर्थी । तत्र भवाश्चातुरर्थिकाः । अध्यात्मादित्तावट्ठञ् । चतुष्र्वर्थेषु भवा इति तद्धितार्थे द्विगौ तुद्विगोर्लुगनपत्ये॑इति ठञो लुक् स्यात् ।", "42071": "", "42072": "<<मतोश्च बह्वजङ्गात्>> - मतोश्च । ननुमतोर्बह्वचः॑इत्यवास्तु, बह्वचो विहितो यो मतुप् तदन्तादिति वैयधिकरण्येन व्याख्यानादिष्टं सिद्ध्यति किमङ्ग ग्रहणेनेत्याशह्क निवारयति -अङ्गग्रहणमिति । मत्वन्तविशेषणमिति । सम्भवति सामानाधिकरण्ये वैयधिकरण्यस्यान्याय्यत्वादङ्गग्रहणाऽभावे मत्वन्तविशेषणं स्यादेव । ततश्चाहिमतमित्यादावतिप्रसङ्गः स्याद्ति भावः ।", "42073": "", "42074": "", "42075": "", "42076": "", "42077": "", "42078": "<<रोणी>> - रोणी । रोणीशब्दः प्रत्ययमुत्पादयतीत्यर्थः । तथाच फलितमाह — रोणीशब्दादिति । पञ्चम्याः सौत्रो लुगित्यन्ये । तदन्तादिति ।येन विधि॑रिति सूत्रे भाष्यस्थविसेषवचनात्, विशेषणविशेष्ययोः कामचारमाश्रित्यसमासप्रत्ययविधौ प्रतिषेधः॑इत्यस्य प्रत्याख्यानाद्वा तदन्तविरिति भावः ।", "42079": "<<वुञ्छण्कठजिलशेनिरढञ्ण्ययफक्फिञिञ्ञ्य- कक्ठकोऽरीहणकृशाश्वर्श्यकुमुदकाशतृणप्रेक्षाऽश्मसखि- संकाशबलपक्षकर्णसुतंगमप्रगदिन्वराहकुमुदादिभ्यः>> - वुञ्छण् ।ठक॑इत्यन्तमेकं समस्तं पदम् । अरीहणादि त्वपरम् । तत्र प्रथमतः कुमुदान्तानां चतुर्णां द्वन्द्वं विधाय, द्वितीयेन काशादिकुमुदान्तद्वन्द्वेन सह पुनद्र्वन्द्वो बोध्यः । तेन कुमुदशब्दस्य द्विःपाठेऽपि नैकसेषः । आदिशब्दः प्रत्येकं संबध्यत इत्याह -अरीहणादिभ्य इति । पक्षाद्यन्तर्गणसूत्रमाह — पथ इति ।", "42080": "वुञ्छण्। `ठक`इत्यन्तमेकं समस्तं पदम्। अरीहणादि त्वपरम्। तत्र प्रथमतः कुमुदान्तानां चतुर्णां द्वन्द्वं विधाय, द्वितीयेन काशादिकुमुदान्तद्वन्द्वेन सह पुनर्द्वन्द्वो बोध्यः। तेन कुमुदशब्दस्य द्विःपाठेऽपि नैकसेषः। आदिशब्दः प्रत्येकं संबध्यत इत्याह - अरीहणादिभ्य इति। पक्षाद्यन्तर्गणसूत्रमाह -पथ इति।", "42081": "<<जनपदे लुप्>> - जनपदे लुप् । तन्नाम्नीत्येव । नेह — उदुम्बराः सन्त्यास्मिन्नौदुम्बरो जनपदः । न ह्यत्र लुबन्तं नामधेयम् । जनपदस्यैकत्वादेकवचने प्राप्ते बहुवचनादिफलकमतिदेशमाह — ।", "42082": "<<वरणादिभ्यश्च>> - वरणादि । चकारोऽनुक्तसमुच्चयार्थः, तेनास्याकृतिगणत्वं सिद्धम् । वरणा इति । एवं कटुबदरी, शिरीषाः, गोदौ, खलतिकमित्यादीन्युदाहर्तव्यानि । वत्त्वस्याऽसिद्धत्वात्तस्मिन्कर्तव्ये टिलोपो न स्थानिवदित्याशयेनाह — झय इति । नड्वानित्यत्पापि परत्वात्झयः॑इत्यनेनैव वकारो न तुमादुपधायाः॑इत्यनेनेति भावः । न चाऽसिद्धत्वात्मादुपधायाः॑इत्येव तत्र न्याय्यमिति वाच्यं,प्रकरणे प्रकरणमसिद्धं, न तु योगे योगः॑इतिउपसर्गादसमासेऽपी॑त्यत्र भाष्ये निर्णीतत्वात् । ननु वेतस्वानित्यत्र वेतसशब्दस्य सुबन्तत्वेन पदत्वात्ङ्भतुपो डित्त्वसामर्थ्याट्टिलोपे एकदेशविकृतन्यायेन पदत्वात्सस्य रुत्वं स्यात् । न च स्थानिवत्त्वेन निर्वाहः । पूर्वत्रासिद्धे तन्निष #एधादिति चेत्, मैवम् । अन्तरङ्गं रुत्वं प्रति बहुरङ्गस्य टिलोपस्याऽसिद्धत्वात् । न च षाष्ठी बहिरङ्गपरिभाषा त्रैपादिकं न जानातीति वाच्यं, कार्यकालपक्षाभ्युपगमात् । नन्वेवमपिस्वादिषु॑इति सान्तस्य पदत्वे तदाश्रयरुत्वस्यान्तरङ्गत्वाऽभावाद्बहिरङ्गपरिभाषा न प्रवर्तते इति रुत्वं दुर्वारमेव । न च नद्यां मतु॑बिति चतरर्थ्यां मतुपा विधानाच्चातुरर्थिको ङ्भतुप् मत्वर्थीय इतितसौ मत्वर्थे॑ इत्यनेन भत्वं शङ्क्यं, टिलोपस्य स्थानिवत्त्वात् । न च पदत्वेऽप्येवम् ।तस्य रुत्वविधिना सह कार्यकालतयापूर्वत्रासिद्धे ने॑ति निषेधादिति चेत्, अत्राहुः -पदसंज्ञायां यथोद्देशपक्षाश्रयणात्पूर्वत्रिसिद्धे ने॑ति निषेधाऽप्रवर्तनात्स्थानिवत्त्वप्रवृत्त्या सान्तस्याऽपदत्वादिति । एतेन घटी आमलकीत्यत्रस्वादिषु॑इति पदत्वाज्जश्त्वं स्यात्, औत्सीत्यत्र तु संयोगान्तलोपः स्यादिति शङ्कपि परास्तेति दिक् । ननु प्रक्रियालाघवाय ड्वतुबेव विधीयताम्, अथवाकुमुदनडवेतसेभ्यो डि॑दिति प्रकृतस्य मतुपो डित्त्वमतिदिश्यतां, किमनेन ङ्भतु ब्विधानेन । सत्यम् । अन्यतो विधानार्थं तत् । तत्सिद्धार्थकथनपरं वार्तिकमाह -महिषाच्चेति ।", "42083": "", "42084": "", "42085": "", "42086": "", "42087": "", "42088": "", "42089": "<<शिखाया वलच्>> - शिखायाः निर्वृत्ताद्यर्थे देशे तन्नाम्नयणो बाधनार्थं चेदम् ।दन्तशिखात्संज्ञाया॑मिति पञ्चमे वक्ष्यमाणं त्वदेशेऽपि॒शिखाबल॑इति रूपसिद्ध्यर्थम् ।", "42090": "", "42091": "<<नडादीनां कुक् च>> - नडादीनां । नड प्लक्ष बिल्व वेणु वेत्र वेतसादयो नडादयः । नडाद्यन्तर्गणसूत्रमाह -क्रुञ्चेति एवं तक्षन्नित्यपि । उभयत्रापि षष्ठ्याः सौत्रो लुक् ।ढे लोप ॑इत्यतो लोप इत्यनुवर्तमाने लुग्ग्रहणं व्यर्थमित्या शङ्क्याह -सर्वलोपार्थमिति । यमात्रस्येति । न चआदेः परस्य॑इतीकारस्य भाव्यमिति वाच्यं,सूर्यतिष्ये॑ त्यतो यकारसंबद्धस्यैव लोपस्याऽनुवर्ततनादिति भावः । इति तत्त्वबोधिन्यां चातुरर्थिकाः ।तिङन्ते चुरादयः ।", "42092": "<<शेषे>> - शेषे । लक्षणं चेति । ग्रहणक्षुण्णादिष्वर्थेषूत्तरसूत्रानुपात्तेषु अणो विधायकमित्यर्थः । ननु लक्षणं तावव्द्यर्थम्,तस्येद॑मित्यनेन चाक्षुषादीनां,संस्कृतं भक्षाः॑इत्यनेन दार्षदादीनां सिद्धेः । तथा अधिकारोऽपि व्यर्थः । तथाहि -अधिकारस्यापत्यादिचतुरर्थीपर्यन्तेष्वर्थेषु धादीनां टउटउलन्तानां निवृत्तिः, जाताद्यचर्थसाकल्यं वा प्रयोजनम् । तत्र निवृत्तिस्तावन्न प्रयोजनम् । आद्र्रकशालादीनामुत्करादिपाठेन इतः प्राचीनेष्र्थेषु घादयो न प्रवर्तन्ते॑इति ज्ञापनात् । अन्यथावृद्धाच्छः॑इत्येव सिद्धे तत्पाठस्य वैयथ्र्यप्रसङ्गात् । नाप्यर्थसाकल्यं प्रयोजनं, जाताधिकारात्प्राक्पाठसामर्थ्यादेब तल्लाभात् । यदि संनिहिते जातार्थ एव घादयः स्युः, तदुत्तरेषु भवाद्यर्थेषुप्राग्दीव्यतः॑इति विशिष्टावधिवरिच्छन्नेर्थेषु विधीयमाना अणादय एव स्युस्तदा जाताधिकारानन्तरमेवप्रावृषष्ठ॑बित्यादिभिः सहराष्ट्रावारपारा॑दित्यदयोऽपि पठएरन् । तस्माव्द्यर्थमिदं सूत्रमिति चेत् । अत्रोच्यते — ॒शैषिकात्सरूपः शैषिको ने॑ति वक्ष्यमाणार्थस्य विषयलाभाय शेषाधिकार आवश्यकः । शैषिक प्रयुक्तकार्यविशेषं ध्वनयितुं क्रियमाणः शेषाधिकार एवशैषिकान्मतुबर्थीया॑दित्यादिश्र्लोकं ज्ञापयति । एष च श्र्लोकः सन्विधौ मतुब्विधौ च भाष्ये पठितः । इह तु सन्नन्ते पठित इति तत्रैव व्याख्यास्यते । अपत्यादिष्वर्थेषु घादीनां निवृत्त्यर्थमप्यधिकार आवश्यकः । न चोक्तज्ञापकेनैव तत्सिद्धिरिति वाच्यं, ज्ञापकस्य विशेषापेक्षत्वे दोषतादवस्थ्यात् ।आद्र्रकादिभ्यो यदि छः स्यात्तर्हि चतुरथ्र्यामेवे॑ति नियमस्यापि संभवाच्च एवं स्थिते चाक्षुषमित्यादिषु गृह्रमाणत्वादिप्रकारकबोधनाय विधायकत्वमपि तस्य सुवचमिति दिक् । विग्रहीतादपीत्यादि । वचनमेवेदं, सूत्रे यथासङ्ख्यप्रवृत्त्यर्थं विशिष्टोच्चारणात् ।", "42093": "", "42094": "", "42095": "<<कत्त्र्यादिभ्यो ढकञ्>> - कुत्सितास्त्रय इति । इह बहुव्रीहिरपि सुवचः । इहैव निपातनात्कोः कद्भावः ।कद्भावे त्रावुपसङ्ख्यान॑मिति तु प्रत्याख्येयम् ।", "42096": "<<कुलकुक्षिग्रीवाभ्यः श्वास्यलंकारेषु>> - कुल्याया यलोपश्चे ॑ति गण सूत्रम् । कुल्यायां जातः — कौलेयकः । कत्त्रि, उम्भि, कुण्डिन, माहिष्मतीत्यादि ।", "42097": "", "42098": "<<दक्षिणापश्चात्पुरसस्त्यक्>> - दक्षैणापश्चात् । अव्ययमिति । साहचर्यादिति भावः । एवं चदाक्षिणात्य॑इत्यत्रसर्वनाम्नो वृत्तिमात्रे॑इति पुंवद्भावशङ्कैव नास्तीति बोध्यम् । पाश्चात्त्य इति । कथं तर्हिपश्चात्तनैः कश्चन नुद्यमानः॑इति । न च दिग्देशवाचिनि पश्चाच्छब्दे सावकाशं त्यकं कालवाचकात् टउटउलौ बाधेते परत्वादिति वाच्यम् ।अग्रादिपश्चा॑दिति डिमचा टउटउलोर्बाधस्य दुर्वारत्वात् । सत्यम् । पश्चात्तन्वन्ति पश्चात्तना इति कथंचित्समाधेयम् ।", "42099": "<<कापिश्याः ष्फक्>> - कापिश्याः ष्फक् । कापिशीशब्दात्ष्फक्त्स्यात् । षित्त्वान्ङीष् । तदाह -कापिशायनीति ।", "42100": "<<रंकोरमनुष्येऽण् च>> - रङ्कोरमनुष्ये । रङ्कवो जनपदः, ततःप्राग्दीव्यतोऽ॑णित्यण्प्राप्तः । तद्बाधकत्वेनअवृद्धादपी॑ति वुञ्प्राप्तः, तमपि बाधित्वाओर्देशे॑इति ठञप्राप्तः, तस्य तुकोपधादण्बाधकः, ततो ।ञपि परत्वात्कच्छाद्यणि प्राप्तेऽनेन ष्फगणौ विधीयेते । कोपधत्वादेवाऽणि सिद्धे कच्छादिषु सङ्कुशब्दस्य पाठोमनुष्यतत्स्थयोर्वुञ्विधानार्थ इति कैयटः । अतएवाह — — राङ्कवको मनुष्य इति॥ क्वचित्तुराङ्कव॑इति पठते, स तु लेखकप्रमादः । स्यादेतत् -अमनुष्यग्रहणमिह व्यर्थम्, अपवादेन वुञा तत्र ष्फगणोर्बाधेनाऽमनुष्य एव पर्यवसानात् । अण्ग्रहणमपि व्यर्थमेव, कच्छादित्वादेव तत्सिद्धेः । अत्राह काशिकाकृत् — नायं प्रसज्यप्रतिषेधः किं तु पर्युदासः, तेन मनुष्यभिन्ने प्राणिन्येव ष्फग्विधीयत इति, राङ्क्रवः कम्बल इत्यत्र न ष्फक् । विशेष विहितेन ष्पका अणो बाधा मा भूदित्यण्ग्रहणं च क्रियत इति । भाष्ये तु अप्राणिन्यपि ष्फकमङ्गीकत्येदं द्वयमपि प्रत्याख्यातम् ।", "42101": "<<द्युप्रागपागुदक्प्रतीचो यत्>> - द्युप्रागपा । दिव्यमिति । सूत्रेदिव उ॑ दित्युत्वेन निर्देश इति भावः । अपाची दक्षिणा दिक् । द्वितीयो वर्णः पकारो, न तु दन्त्योष्ठ्यः,यदिन्द्र प्रागपागुद॑गित्यादौ तथा दर्शनादिति स्थितं मनोरमायाम् । केचुत्तुप्राच्यवाचीप्रतीच्यास्ताः॑इत्यमरकेशे अवाचीति दन्त्योष्ठपाठं क्वाचित्कं पुरस्कृत्य सूत्रेऽपिअवा॑गिति पठित्वाअवाच्य॑मित्युदाहरन्ति ।प्रागपाक्इति वेदे तु व्यत्ययेन वकारस्य पकार इति तेषामाशयः । प्रागादयोऽस्तात्यन्ता अव्ययाः, तद्भिन्नास्त्वनव्ययाः, उभयेषामपीह ग्रहणमविशेषात् । कथं तर्हिसंस्काराः प्राक्तना इव॑इति । अत्राहुः -कालवाचिनः प्राक्शब्दाद्यतं बाधित्वा परत्वात्टउटउलौ बोध्याविति ।", "42102": "", "42103": "<<वर्णौ वुक्>> - वर्णो वुक् । वर्णुरिति ।अदूरभवेश्चे॑त्यर्थे सुवास्त्वादित्वादणिजनपदे लु॑बिति लुप् ।अमेहक्वतसित्रेभ्य एव । अमात्य इति । अमाशब्दः समीपवाची स्वरादिः । अमा=समीपे भव इत्यर्थः ।", "42104": "", "42105": "<<ऐषमोह्यःश्वसोऽन्यतरस्याम्>> - वक्ष्यमाणाविति ।सायंचिर॑मित्यादिने॑ति शेषः । वक्ष्यत इति ।आसस्तुट् चे॑त्यत्र ।", "42106": "", "42107": "<<दिक्पूर्वपदादसंज्ञायां ञः>> - दिक्पूर्व ।असंज्ञायामि॑त्यत्र सौत्रत्वात्पञ्चम्यर्थे सप्तमीत्याशयेनाह -संज्ञाभूताया इति ।", "42108": "<<मद्रेभ्योऽञ्>> - मद्रेभ्योऽञ् । बहुवचननिर्देशाज्जनपदवाची गृह्रते, न तु भद्रपर्यायः । दिशोऽमद्राणमिति ।दिग्वाचकादुत्तरपदस्य जनपदवाचिनो मद्रभिन्नस्याऽचामादेर्वृद्धिः स्याञ्ञिति णिति किति च तद्धिते॑इति सूत्रार्थः । पौर्वमद्र इति । मद्रैकदेशे मद्रशब्दस्य वृत्तौ दिक्शब्देन समानाधिकरण्यात्तद्धितार्थ॑इति समासः ।", "42109": "<<उदीच्यग्रामाच्च बह्वचोऽन्तोदात्तात्>> - उदीच्य । दिग्ग्रहणं निवृत्तम् । उदीच्यग्रामात्किम् । माधुरः । बह्वचः किम् । ध्वाजः । पिप्पल्यादिङीषन्तो ध्वजीशब्दः । अन्तोदात्तत्किम् । शार्कराधानम्, शर्कराघानशब्दे धाशब्दाकार उदात्तः । कृदुत्तरपदप्रकृतिस्वरेण लित्स्वरस्यावस्थानात् । शैवपुरमिति ।प्रस्थपुरवहान्ताच्चे॑ति वुञ्न भवति,वृद्धा॑दिति तत्रावुवृत्तेः ।", "42110": "<<प्रस्थोत्तरपदपलद्यादिकोपधादण्>> - प्रस्थोत्तर । उदीच्यमग्रामलक्षणस्याऽञोऽपवादः । पालद इति ।पलदी॑ति ईकारान्त इत्येके । नान्त इत्यन्ये । नलोपे सति यणादेशात्संहिता तुल्यैव । वाहीकशब्दः कोपधोऽपि पलद्यादिषु पठते परं छं बाधितुम् । अन्यथा अणं बाधित्वापरत्वाच्छ एव स्यात्, कोपधप्रयुक्तोषऽण् अवृद्धे सावकाश इति । यकृल्लोम नि भवो याकृल्लमः ।अन्इति प्रकृतिभावस्तु न, गणेऽस्मिन्नलोपनिपातनादिति हरदत्तादयः ।", "42111": "", "42112": "<<इञश्च>> - सोतङ्गमेरिति । सुतङ्गमादिभ्यश्चातुरर्थिक इञ् । शास्त्रीयमिति । ननुअपत्याधिकारादन्यत्र लौकिकं गौत्रं गृह्रते॑इति चेत् । अत्राहुः -॒पूर्वसूत्रे गोत्रग्रहणेन पौत्रप्रभृति गोत्रं गृह्रते, कण्वादिभ्यो गोत्रे यः प्रत्ययो विहितस्तदन्तेभ्यः॑इति गोत्रप्रत्ययानुवादेन तत्राऽण्विधानात् । कण्वादयश्च गर्गाद्यन्तर्गताः ।गर्गादिभ्यो यऋ॑ञित्यत्र तुगोत्रे कुञ्जादिभ्यः॑इत्यतो गोत्र इत्यनुवर्तते, न तु शास्त्रीयगोत्रमेव गृह्रते, अपत्याधिकारस्थत्वात्, तदेव हिइञश्चे॑ति सूत्रेऽनुवर्तते इथि ।", "42113": "<<न द्व्यचः प्राच्यभरतेषु>> - न व्द्चः । अपवाद इति । प्रतिषेध इतर्थः॥ भरतानामग्रहणस्येति । तेनइञः प्राचा॑मिति भरतेभ्यो युवप्रत्ययस्य लुड्न भवति, औद्दालकिः पिता, औद्दालकायनः पुत्र इतिअर्हादगोपुच्छे॑ति सूत्रे कैयटः । भवतः । छादिरयं प्रत्ययो न तु शादिः, पदसंज्ञार्थं सित्करणादित्यांशयेनाह — जश्त्वमिति ।", "42114": "", "42115": "", "42116": "<<काश्यादिभ्यष्ठञ्ञिठौ>> - काश्यादिभ्यः । इकार उच्चारणार्थ इति । उभयत्र ञकार एवानुबन्धःस तस्य व्यत्यासपाठस्तु स्त्रीप्रत्यये विशेषार्थ इति भावः । आपदादीति । गणसूत्रमिदम् ।", "42117": "<<वाहीकग्रामेभ्यश्च>> - वृद्धादेवेति ।वृद्धाच्चेत्प्राचमेवे॑ति विपरीतनियमस्तु न भवति,अप्राग्देशवाचिनो वृद्धस्य उवर्णान्तस्याऽभावात् ।", "42118": "", "42119": "", "42120": "", "42121": "<<धन्वयोपधाद्वुञ्>> - धन्वयोपधा । धन्वेति न स्वरूपपर्याययोग्र्रहणं, वद्धत्वाऽसंभवादित्याशयेनाह -धन्वविशेषेति । ऐरावतं धन्वेति । यद्यपिसमानौ मरुधन्वानौ॑इत्यमरेण पुंस्त्वमुक्तं, तथापिआष्टकं नाम धन्वे॑ति भाष्ये ह्रस्वापाठान्नपुंसकोऽपि धन्वशब्दोऽस्त्येवेति बोध्यम् ।", "42122": "<<प्रस्थपुरवहान्ताच्च>> - उत्तरेणेति । रोपधत्वादिति भावः ।", "42123": "", "42124": "<<जनपदतदवध्योश्च>> - जनपद । स चासौ अवधिश्चेति कर्मधारयाज्जनपदजरूप एवावधिर्लभ्यते । न च जनपदत्वादेव सिद्धे अवधिग्रहणं व्यर्थं,बुञेव यथा स्यान्नान्य॑दित्येतदर्थं तस्यावश्यकत्वात् । अत एव जनपदावधिवाचिनस्त्रिगर्तशब्दार्तोत्तरपदा॑दिति च्छो न भवति, किंतुअवृद्धादपि बहुवचनविषया॑दित्युत्तरसूत्रेण वुञेव भवतीत्याशयेनोदाहरति — त्रैगर्तक इति ।जनपदतदवध्यो॑रिति सूत्रे जनपदावधिवाचिन उदाहरणं तुश्यामायनकः॑इत्यादि बोध्यम् । नागरा ब्राआहृणा इति । कत्त्र्यादिषुमाहिष्मती॑ति संज्ञाशब्दसाहचर्यात्संज्ञाभूतनगरशब्दस्यैव ढकञानाग रेयके॑इति भाव्यमिति भावः ।", "42125": "", "42126": "", "42127": "", "42128": "", "42129": "", "42130": "<<विभाषा कुरुयुगन्धराभ्याम्>> - विभाषा कुरु । कुरुशब्दः कच्छादिषु पठते, तत्सामर्थ्यात्पक्षेऽण्सिद्ध इति परिशेषाद्विभाषाग्रहणं युगन्धरार्थमेव ।अवृद्धादपी॑ति नित्यप्राप्तो वुञनेन विकल्प्यते । मनुष्यतत्स्थयोस्तु परत्वान्नित्य एव वुञ् । कौरवको मनुष्यः । कौरवकमस्य हसितम् । एतदर्थमेवास्य कच्छादौ पाठः । अन्यथा अनयैव विभाषया वुञणोः सिद्धौ किं तेनेति भावः ।", "42131": "", "42132": "", "42133": "<<कच्छादिभ्यश्च>> - सैन्धव इति ।ओर्देशे॑इति ठञ्प्राप्तः । वुञि सिद्धे इति ।मनुष्यतत्स्थयो॑रित्यनेन ।", "42134": "", "42135": "", "42136": "", "42137": "", "42138": "<<गहादिभ्यश्च>> - गहादिभ्यश्च । एभ्यो देशवाचिभ्यश्छः स्यात् । पूर्वरक्षादिशब्देभ्यस्तु देशवाचित्वाऽभावेऽपि पाठसामर्थ्याच्छः । मुखपार्ातसोरिति । गणसूत्रमिदम् । सप्तम्यन्ताभ्यामाभ्यामाद्यादित्वात्तसिः । मुखतीयमिति । मुखे जातमित्याद्यर्थे तसन्ताच्छः ।अलोऽन्त्यस्ये॑ति तसः सकारस्य लोपेयस्येति चे॑त्य कारलोपः । कुग्जनस्येति । इदमपि गणसूत्रम् । स्वकीयमिति । स्वार्थिककन्नन्तात्स्वशब्दाद्गहादेराकृतिगणत्वाच्छो देशवाचित्वाऽभावेऽपि पूर्वपक्षादिवद्बोध्यः । अत एवलुब्योगाप्राख्याना॑दिति सूत्रेन हि स्वकीयस्यैव प्रत्याख्यान॑मिति न्यासकारोक्तिः सङ्गच्छते । केवलास्त्वशब्दादणेव । सौवम् । द्वारादीनांचेत्यैच् । एतच्चद्वारादीनां चे॑त्यत्र आकरे उदाहृतम् ।स्वीय॑मित्यत्र तुप्राक्क्रीत्ताच्छः॑ । अन्तरशब्दात्तु गहादित्वाच्छे तदन्तेन नशब्दस्य समासे स्वार्थे कनि चनान्तरीयक॑मिति भवति । अविनाभूतमित्यर्थः ।", "42139": "", "42140": "", "42141": "<<वृद्धादकेकान्तखोपधात्>> - वृद्धादकेकान्त । ब्राआहृणकीय इति ।कोपधाद॑णित्यण्प्राप्तः । अयोमुखीयमिति । वाहीकग्रामलक्षणौ ठञ्ञिठाविह प्रातौ ।", "42142": "<<कन्थापलदनगरग्रामहृदोत्तरपदात्>> - ठञ्ञिठादेरिति । आदिशब्देनरोपधेतोः॑इत्यादिना प्राप्तस्य वुञः ।", "42143": "<<पर्वताच्च>> - पर्वतीय इति ।तत्र जन्यं रघोर्घोरं पार्वतीयैर्गणैरभू॑दित्यत्र तुपर्वतीयस्य राज्ञ इमे॑ इत्यर्थे छान्तादण् ।", "42144": "", "42145": "<<कृकणपर्णाद्भारद्वाजे>> - कृकण । भारद्वाजशब्दोऽत्र देशवचनः, स च न प्रत्ययार्थः, किं तु प्रकृतिविशेषणमित्याह — भारद्वाजदेशेत्यादिना ।", "43001": "<<युष्मदस्मदोरन्यतरस्यां खञ् च>> - युष्मदस्मदोः ।त्यदादीनि चे॑ति वृद्धत्वान्नित्ये छे प्राप्ते खञणोरपि विधानार्थमिदजम् । पक्षे अणिति । अन्यतरस्याङ्ग्रहणादिति भावः । तथा चैते त्रयः प्रत्यया इति वैषम्याद्यथासङ्ख्यं न भवतीति केचित् । मनोरमायां तु यथासङ्ख्यनिवारणाया योगविभागः कृतः । तथा हियुष्मदस्मदोरन्यतरस्यामाभ्यां छो वा स्यात् ।त्यदिदीनि चे॑ति वृद्धत्वान्नित्ये छे प्राप्ते विकल्पोऽयम् । ततःखञ्च॑ । एवमुत्तरसूत्रेऽपि योगविभागो बोध्यः । तेन आदेशयोः खञणभ्यां यथासङ्ख्यं नेत्यादि । युवयोरित्यादि । एकवचने तवकममकादेशविधानादेकवचनान्तेन विग्रहोऽत्र न कृतः ।", "43002": "<<तस्मिन् नणि च युष्माकास्माकौ>> - तस्मिन्नणि च । तस्मिन्निति साक्षाद्विहितः खञ्निर्दिश्यते, नतु चानुकष्टः । निमित्तयोरादेशौ प्रति यखासङ्ख्यं तु न भवति,खञणो॑रिति वक्तव्ये पृथग्विभक्तिनिर्देशसामर्थ्यात् । स्थान्यादेशयोस्तु इष्यत एव तत् ।", "43003": "<<तवकममकावेकवचने>> - तवक । इह पूर्ववदेव निमित्तयोः खञणोरादेशौ प्रति यथासङ्ख्यं न भवति, किंतु स्थान्यादेशयोरेवेत्याशयेनोदाहरति — — तावकीनः । मामकीन इति । परावरापरावराधमोत्तमेभ्यः॑इत्येव वक्तव्ये पूर्वग्रहणं पूर्वविप्रतिषेधसूचनार्थम् । तेन दिक्शब्दयोः परावरयोकर्धशब्देन समासे उत्तरसूत्रेण प्राप्तावपि ठञ्यतौ बाधित्वा यदेव भवति ।", "43004": "", "43005": "", "43006": "<<दिक्पूर्वपदाट्ठञ् च>> - दिक् । पूर्वपदग्रहणं स्वरूपविधिनिरासार्थमित्याहुः ।", "43007": "", "43008": "", "43009": "<<अ साम्प्रतिके>> - अ सांप्रतिके ।सप्रती॑त्यव्ययं न्याय्ये वर्तते,अनाप्तश्चतूरात्रोऽतिरिक्तः षड्रात्रः स वा एष संप्रति यज्ञो यत्पञ्चरात्रः॑इत्यत्र तथा दर्शनात् । न न्यूनो नातिरिक्तः -सम इत्यर्थः । इदानीमित्यर्थे तु प्रसिद्धमेव,एतर्हि संप्रतीदानीम्इत्यमरात् । ततः प्रज्ञादित्वात्स्वार्थेऽण्, विनयादित्वात्स्वार्थे ठगपि । तेन सांप्रतं सांप्रतिकमिति पर्यायौ । उत्कर्षेत्यादि । न्याय्ये विद्यमान एव संप्रतिशब्दोऽत्र गृह्रते इति भावः ।", "43010": "<<द्वीपादनुसमुद्रं यञ्>> - द्वीपादनु । समुद्रं समया अनुसमुद्रम् ।अनुर्यत्समया॑इत्यव्ययीभावः । सप्तम्यन्तं चेदम्, विद्यमानक्रियाद्वारा द्वीपविशेषणमित्याशयेनाह -समुद्रसमीपे यो द्वीप इति । कच्छाद्यणो मनुष्यवुञश्चापवादोऽयम् । अनुसमुद्रं किं । द्वैपमन्यत् । कच्छाद्यण् । द्वैपको मनुष्यः ।मनुष्यतत्स्थो॑रिति वुञ् । द्वैप्येति ।यञश्चे॑ति ङीब्न भवति,अपत्याधिकारस्थादेव यञो ङी॑बिति प्रागेवोक्तत्वात् ।", "43011": "<<कालाट्ठञ्>> - कालाट्ठञ् । स्वरूपस्यैव न ग्रहणं, संधिवेलादिसूत्रेण संधिवेलात्रयोदशीचतुर्दशी — प्रभृतिभ्योऽवृद्धेभ्योऽपि ठञ्वाधनार्थमण्विधानात् । किं तु सर्वेषामपि कालवाचिनां ग्रहणमित्याशयेनाह -कालावाचिभ्य इति । यत्तुस्वरूपस्य पर्यायाणां च न ग्रहण ॑मिति पदमञ्जर्यादिषु स्थितम् । तदसत् ।कालिकः संबन्धः॑,कालिकी व्याप्ति॑रित्यादिप्रयोगाऽनापत्तेः । न च विशेषाणामेव सन्धिवेलादिसूत्रेण सन्धिवेलादिभ्योऽण्विधानं ज्ञापकमिति वाच्यं, तस्य स्वरूपमात्रग्रहणनिरासकत्वेनापि साफल्यात् । गौणमुख्यन्यायस्त्विह नाश्रीयते । तेन कदम्बपुष्पसाहचर्यात्कदम्बपुष्पः कालः, व्रीहिपलालसाहचर्याद्व्रीहिपलालः कालः, तत्र भवं कादम्बपुष्पिकं व्रैहिपलालिकमित्याकरः । अत्रहि प्रमाणं सन्धिवेलादिसूत्रे अनेन कालग्रहणेन नक्षत्राणां विशेषणमेवेत्याहुः । न च पुष्पदिशब्दानां कालो मुख्य एवार्थः,लुबविशेषे॑इति व्युत्पादनात्, तथा च कालविशेषणमुक्तार्थे न प्रमाणमिति वाच्यं, पुष्यादिसमीपस्थचन्द्रमसा युक्ते काले पुष्यादिशब्दानां गौणत्वात् ।लुबविशेषे॑इति शास्त्रमपि गौणवृत्तित्वान्वाख्यायकमेवेति दिक् । एवं स्थितेकालवाचिभ्य॑इति मूलस्यकालप्रतिपादकेभ्यः॑इति फलितोऽर्थः ।", "43012": "<<श्राद्धे शरदः>> - श्राद्धमिति । भक्त्या क्रियमाणं पित्र्यं कर्मेत्यर्थः ।प्रज्ञाश्रद्धार्चाभ्योऽणः॑इति मत्वर्थीयेन व्युत्पादितः श्रद्धातान्पुरुषस्तु न गृह्रते, अनभिधानात् ।", "43013": "", "43014": "", "43015": "<<श्वसस्तुट् च>> - आसस्तुट् च । विभाषेत्यनुवर्तनादाह — ठञ्वास्यादिति ।ऐषमोह्रः॑इत्यादिना त्यबपि विकल्पेन विहितः । आभ्यां मुक्ते ठ्युटउलावपि स्त एव ।", "43016": "<<संधिवेलाऽऽद्यृतुनक्षत्रेभ्योऽण्>> - सन्धिवेला । अण्ग्रहणं तु छबाधनार्थम् । अन्यथासन्धिवेलादिभ्यो यथाविहितं प्रत्ययाः स्युः॑ इत्यक्ते पौर्णमासीशब्दात्वृद्धाच्छः॑स्यात् । वचनं तु ठञो बाधनाय स्यादिति भावः । तैषमिति । तिष्याद्भवादावण् । जातार्थे तुश्रविष्ठाफाल्गुनी॑ति लुक्स्यात् ।सूर्यतिष्ये॑त्यत्रतिष्यपुष्ययोर्नक्षत्राऽणि॑इति वचनाद्यलोपः ।", "43017": "<<प्रावृष एण्यः>> - प्रावृष एण्यः । ऋत्वणोऽपवादः । प्रवर्षतीति प्रावृट्नहिवृती॑ति दीर्घः । तत्र भवः । जाते तु ठपं वक्ष्यति ।रषाभ्यां॑मिति सिद्धे प्रक्रियालाघवार्थं णकारोच्चारणमित्याहुः । किंच प्रावृषएण्यमाचक्षाणः प्रावृषेण् इत्यत्र णकारश्रवणार्थमपि तत् । ण्यन्तात्क्विपि टिलोपणिलोपयलोपाः ।", "43018": "", "43019": "", "43020": "", "43021": "", "43022": "<<सर्वत्राण् च तलोपश्च>> - सर्वत्राण्च । हेमन्तादिति । एतच्चहेमन्ताच्चे॑त्यतोऽनुवृत्तमिति भावः । हैमनमिति । अकारविशिष्टस्य तशब्दस्य लोपेअन् इति प्रकृतिभावात्नस्तद्धिते॑इति टिलोपो नेति बोध्यम् । हैमन्तमिति । ऋत्वणि तकारलोपो न भवति, तस्यसर्वत्रा॑णिति प्रतिपदोक्तेन अणा सन्नियोगशिष्टत्वात् । एतच्च प्रत्याख्यातं भाष्ये । तथाहि — हेमन्तपर्यायो हेमन्शब्दोऽप्यस्ति,हेमन्नागनीगन्ति कर्णौ॑ इत्यादि प्रयोगात्, ततश्च हेमन् — हेमन्त शब्दाभ्यामृत्वणि हैमनं हैमन्तमिति रूपद्वयं सिद्धम् । छन्दसि तुहेमन्ताच्चे॑ति ठञाहैमन्तिक॑मिति तृतीयमपि रूपं सिध्यति । न च विशेषविहितेन ठञा अणो बाधः शङ्क्यः । छन्दसि सर्वविधीनां वैकल्पिकत्वात् । वृत्तिकृता तुहेमन्ताच्चे॑ति सूत्रे सर्वत्रग्रहणमपकृष्य लोकेऽपि हैमन्तिकमिति स्वीकृतम् ।", "43023": "", "43024": "", "43025": "<<तत्र जातः>> - तत्र जातः । ननु शेषे इत्यस्य लक्षमत्वोक्तेःचाक्षुषं रूपं, श्रावणः शब्दः॑इत्यादाविव जातादिष्वर्थेष्वणादयः सिद्धाः, अधिकाराञ्च घादयोऽपि । न चजातादिष्वेवाऽणादयः॑इति नियमार्थं जाताद्यर्थनिर्देश आवश्यकः । अन्यथातत्रास्ते, तत्र शेते॑इत्याद्यर्थेऽपि प्रत्ययः स्यादिति वाच्यम्,चाक्षुषु॑मित्यद्यसिद्द्यापत्तेः ।रुआउध्ने आस्ते, रुआउध्ने शेते॑इत्यादौ त्वनभाधानादेव तद्धितो न भविष्यति, अङ्गुल्या खनति, वृक्षमूलादागत इत्यादौ यथा । समर्थविभक्तयस्त्वाक्षेपादेव लप्स्यन्ते । चाक्षुषमित्यत्र तृतीया यथा, तस्मात्तत्र जातः॑इत्याद्यर्थनिर्देशो व्यर्थ इति चेत् । मैवम् ।प्रावृषष्ठ॑बित्याद्यपवादार्थं तदावश्यकत्वात् । ये तु निरपवादा अर्थनिर्देशाःकृतलब्धक्रीतकुशलाः॑इत्यादयः, ते तु व्यर्था एवेति दिक् ।", "43026": "", "43027": "<<संज्ञायां शरदो वुञ्>> - संज्ञायां शरदः । समुदायेन चेत्संज्ञा गम्यत इत्यर्थः । संज्ञायां किम् । शारदं सस्यम् ।संज्ञाया॑मित्येतत्कृतलब्धे॑त्येतत्पर्यन्तं केचिदनुवर्तयन्तीति वृत्तिकृत् ।", "43028": "<<पूर्वाह्णापराह्णार्द्रामूलप्रदोषावस्कराद्वुन्>> - कृतलब्ध । ननु कृतक्रीत त्वे जातलब्धत्वयोव्र्याप्ये इति किमनयोग्र्रहणेने । सत्यम् । कृतत्वक्रीतत्वप्रकारकबोधेऽपि प्रत्ययार्थं तद्ग्रहणम् । अत एव जाते लुग्भाजामपि कृते न लुक् ।", "43029": "<<पथः पन्थ च>> - अ च । अमावास्याशब्दादकारप्रत्ययः स्यात् । अयमपि पूर्ववदुभाभ्यां बोध्यः । अमावास्य इति । ह्रस्वमध्यात्तु अमावस्यः ।", "43030": "<<अमावास्याया वा>> - अमावास्याया वा । सन्धिवेलाद्यणोऽपवादः ।अमावस्यदन्यतरस्या॑मिति सूत्रेणाऽमापूर्वाद्वसेण्र्यति वृद्धौ पक्षे ह्रस्वत्वं निपात्यत इति ह्रस्वमध्यस्याप्यमावस्याशब्दस्येह ग्रहणम्, प्रकृतिग्रहणे विकृतेरपि ग्रहणात् । अमावस्यकः । आमावस्यः । ये त्विह सूत्रे सन्धिवेलादिषु च ह्रस्वोपधं पठन्ति, तेषां तु दीर्घोपधस्य न स्यात्, विकृतिग्रहणेन प्रकृतेरग्रहणादिति हरदत्तादयः । वस्तुतस्तु वृद्धिप्रकृतिभूतस्यानुकरणमिदमित्याश्रित्य ह्रस्वोपधापाठोऽपि समर्थयितुं शक्यत इत्यन्ये ।", "43031": "", "43032": "<<सिन्ध्वपकराभ्यां कन्>> - सायंचिरं ।नन्वन्तरङ्गत्वात्प्रथमं तुटिमृत्यु॑रित्यादाविव त्युशब्दस्य प्रत्ययतया अङ्गसंज्ञानिमित्तं यो युस्तस्य विधीयमानोऽनादेशो न स्यात् । न चैवं तुगेव क्रियतामिति वाच्यं, तस्य पूर्वान्तत्वेन विसर्गाऽभावात्प्रतस्तनमित्यत्र सत्त्वाऽभावप्रसङ्गात्ष अत आह -तुटः प्रागिति । इत्यादिति । आदिशब्देनघकालतनेषु॑इति ग्राह्रम् । सायंतनमिति । स्यतेर्घञि सायशब्दोऽकारान्तो दिवसावसाने रूढः, तस्य प्रत्ययसंनियोगेन मान्तत्वं निपात्यत इथि वार्तिककृन्मतम् ।भाष्यकृतातुमान्ताव्यय॑मित्याश्रित्य सायंग्रहणं प्रत्याख्यातम् । न चैव सायशब्दात्कालाट्ठञि अनिष्टरूपप्रसङ्गः । तस्य कालवाचित्वाऽभावादनभिधानाद्वेत्याहुः ।चिरपुरुत्परारिभ्यस्त्नो वक्तव्यः । चिरंतनमिति । चिरशब्दस्यापि प्रत्ययसंनियोगेन मान्तता निपात्यत इति भावः । अत्र वदन्ति — स्वरादौ पाठादव्ययत्वादेव सिद्धे सूत्रे चिरमित्येतद्व्यर्थम् । न चादन्ताच्चिरशब्दाट्ठञ्स्यादिति वाच्यम्, त्नेन बाधादिति । एदन्तत्वमिति । प्राह्णः सोढोऽस्य प्राह्णतनमित्याद्यर्थम् । तत्र हि सप्तमी नास्ति । जातार्थेघकालतनेषु॑इत्युलुकाऽपि सिद्धेः । चिरत्नमिति । सूत्रे चिरशब्दस्योपादानाट्टउटउलावपि स्तः । न चैवं सूत्रे चिरशब्दस्य प्रत्याख्यानं न संभवतीति वाच्यम्, मान्ताव्ययादेव टउटउल्विधौ तत्संभवात् । पुरुत्=पूर्वस्मिन्वत्सरे । परारि=पूर्वतरे । अग्रादि । डिमचो डित्त्वं स्पष्टार्थम् ।", "43033": "<<अणञौ च>> - अणञौ च । यथासङ्ख्यार्थो योगविभागः ।", "43034": "<<श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्त- विशाखाऽषाढाबहुलाल्लुक्>> - श्रविष्ठ । इह सूत्रे स्वातिशब्दो ह्रस्वान्त इति कैयटहरदत्तादयः । माधवस्तुदीर्घन्तः॑इतिअत सातत्यगमने॑इति धातावाह । एवं चात्र स्वाती तिष्येति ङीषन्तग्रहणादङीषन्तस्य सौवात इति रूपं भवार्थं इव जातार्थेऽपि माधवमते सिध्यत्वेव । कैयटादिमते तु जातार्थे न सुध्यति । लुग्विधायकेऽस्मिन्ङीषन्तग्रहणेऽपि लिङ्गविशिष्टपरिभाषया ङीषन्तादपि अणो लुकःप्रवृत्तेः ।", "43035": "<<स्थानान्तगोशालखरशालाच्च>> - स्थानान्त । गोशालेत्यत्रविभाषा सेने॑ति नपुंसकत्वे ह्रस्वत्वं, तत्साहचर्यत्खरशालेऽप्येवमेव । न चैवं स्त्रीत्वपक्षे लुङ् न स्यादिति शङ्क्यं, लिङ्गविशिष्टपरिभाषया तत्रापि लुक्सिद्धेरित्याहुः । यद्यपि टाबन्तयोः पाठेऽप्येकदेशविकृतन्यायेन क्लीबेऽपीष्टं सिध्यति, तथापि लाघवार्थं ह्रस्वपाठः । नपुंसकत्वे ह्रस्वत्वमिति ।सूत्रे ॑इति शेषः ।", "43036": "<<वत्सशालाऽभिजिदश्वयुक्छतभिषजो वा>> - वत्सशालाभि । वत्सशाले जात इति । वत्सशालायामित्यपि बोध्यम् । इत्यादीति । आदिशब्दादभिजित् — आभिजितः, अआयुक् — आआयुजः । प्रतिप्रसूत इति । कालाट्ठञा निवर्तमानो य औत्सर्गिकोऽण्सन्धिवेलादि॑सूत्रेण पुनरभ्यनुज्ञात इत्यर्थः ।", "43037": "", "43038": "", "43039": "<<प्रायभवः>> - प्राय । कादाचित्कभवनाश्रयः — प्रायभवः । तेनतत्र भवः॑इत्यनेन न गतार्थतेत्याहुः । भाष्ये तु प्रत्याख्यातमेतत्,प्रायभवग्रहणमन्र्थकं तत्र भवेन कृतत्वा॑दिति ।", "43040": "<<उपजानूपकर्णोपनीवेष्ठक्>> - उपजानू ।त्रयोऽप्यमी । सामीप्येऽव्ययीभावाः । तेषां समाहारद्वन्द्वे सौत्रं पुंस्त्वम् ।", "43041": "<<संभूते>> - संभूते । इह तन्त्रादिना संभावना, अधारपरिमाणादाधेयस्यानतिरेकश्चेति द्वयमप्याश्रीयते । रुआऔग्घ्न इति । रुआउग्घ्ने संभाव्यते, तत्परिमाणानतिरिक्तो वा सेनादिरित्यर्थः ।", "43042": "<<कोशाड्ढञ्>> - केशात् । कौशेयमिति । वस्त्रविशेषे योगरूढोऽयम् । कोशे संभवस्तु सत्कार्यवादाभिप्रायेण । मतान्तरे तु विकारप्रकरणेएण्या ढ॑ञित्यस्यानन्तरंकोशाच्चे॑ति पठितव्यम् । तथा च वार्तिकंविकारे कोशाड्ढञ॑, संभूते ह्रार्थानुपपत्ति॑रिति ।", "43043": "<<कालात् साधुपुष्प्यत्पच्यमानेषु>> - कालात् ।पुष्य॑दिति दैवादिकः शत्रन्तः । तदाह — पुष्प्यन्तीति ।", "43044": "<<उप्ते च>> - उप्ते च ।काला॑दित्येव । योगविङाग उत्तरार्थः । उप्यन्त इति । सूत्रे भूतकालोऽतन्त्रमिति भावः ।", "43045": "<<आश्वयुज्या वुञ्>> - व्यपेक्षायामिति ।इदं सर्पिष्कुण्डिकाया॑इत्यत्रेत्यर्थः । अत्रसर्पि॑रित्यसमस्तं पदमिति बोध्यम् । समासे तुनित्यं समासे॑ इत्यनेन सिद्धे समासाऽभावमेव ज्ञापयितुमिदमिति सपिर्विशेषणमुक्तम् । नित्यार्थश्चेति । अयं भावः-असमासे व्यपेक्षाविरहेऽत्यन्ताप्राप्तौ नित्यतया षत्वार्थः पाठं, व्यपेक्षायां त्वसमासेइसुसोः॑ इति विकल्पेन प्राप्तौ नित्यार्थ इति ।", "43046": "", "43047": "<<देयमृणे>> - देयमृणे । ऋणे किम् । मासे देया भिक्षा ।", "43048": "<<कलाप्यश्वत्थयवबुसाद्वुन्>> - कलाप्य । अआत्थ इति ।फले लुक् । इह पुंलिङ्गनिर्देशो यद्यप्ययुक्तस्तथापि फले अआत्थशब्द औपचारिक इत्याशयेन पुंलिङ्गप्रयोग इत्याहुः ।", "43049": "", "43050": "<<संवत्सराग्रहायणीभ्यां ठञ् च>> - संवत्स । ठञ्चेति ।संवत्सराग्रहाणीभ्यां वे॑त्येव सुवचम् । न चवे॑ति वक्तव्ये ठञ्ग्रहणं व्यर्थं, सन्धिवेलादिषुसंवत्सरात्फलापर्वणो॑रिति पठते, तत्र फले ऋणत्वेन विवक्षितेऽणं बाधित्वा ठञेव यथा स्यादिति काशिकादावुक्तमिति वाच्यं, तस्मै हितास्तद्धिता इत्यन्वर्थसंज्ञाकरणबलेनाऽत्राण्प्रत्ययो न भवेदिति वक्तुं शक्यत्वादिति नव्याः ।", "43051": "<<व्याहरति मृगः>> - नैशिक ति ।निशाप्रदोषाभ्यां चे॑ति वा ठञ् ।", "43052": "", "43053": "<<तत्र भवः>> - तत्र भवः ।काला॑दिति निवृत्तम् । कालसंबद्धस्यतत्रे॑त्यस्य निवृत्तये पुनस्तत्रग्रहणात् । न च पूर्वसूत्रस्थस्यत॑दित्यस्य ब्यावृत्तये तत्रग्रहणमस्त्विति वाच्यं,तदस्य॑इति सूत्रेस्येत उत्तरत्रापि सुपठत्वात् । यद्यपि भूधातुरुत्पत्तावपि वर्तते, तथापीह सत्तार्थ एव वर्तते,त्र जातः॑इति पृथग्ग्रहणादिति बोध्यम् ।", "43054": "<<दिगादिभ्यो यत्>> - दिगादिभ्यो ।दिश्, वर्ग, पूग, पक्ष, रहस्, उखा, साक्षिन्, आदि, अन्त, मुख, जघन, मेघ,यूथ,उदकात्संज्ञायां॑न्याय, वंश, काल्येत्यादि दिगादिः । मुखजघनयोः पाठोऽत्राऽशरीरावयवार्थः । सेनाया मुखे जघने च भवं — — मुख्यम् । जघन्यम् ।", "43055": "", "43056": "<<दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ्>> - दृतिकुक्षि । दृतिश्चर्मकारः, शरीरावयवविशेषश्च । कुक्षिशब्दो धूमादिस्ततोधूमादिभ्यश्चे॑ति वुञि प्राप्तेऽनेन ढञ् । कलशिः — मन्थापात्रं ।॒कलशिमुदधिगुर्वी बल्लवा लोडयन्ति॑इति माघः ।बस्तिर्नाभेरधो द्वयोः॑इत्यमरः । तत्र भवं वास्तेयम् ।अस्ती॑ति तिङन्तप्रतिरूपको निपातः । स च तिङन्तेन समानार्थो भिन्नर्थश्च । आद्यो यथा -अस्तिक्षीरा गौः । द्वितीयो यथा, — अस्तिमान् । धनवानित्यर्थः । तदिहाऽविशेषादुभयोरपि ग्रहणमास्थेयमिति हरदत्तः । अहौ भवमाहेयम् ।॒त्रिष्वाहेयं विषास्थ्यादी॑त्यमरः ।", "43057": "<<ग्रीवाभ्योऽण् च>> - ग्रीवाभ्योऽण् च ।शरीरावयवाच्चे॑ति यतोऽपवादः । ग्रीवाशब्दो धमनीसङ्घाते वर्तते । तत्र उद्भूतावयवसङ्घातविवक्षया सूत्रे बहुवचनम् । तिरोहितावयवसङ्घातविवक्षायां त्वेकवचनान्तादप्यण्ढञौ स्त एव । ग्रैवेयमित्यादि । ग्रीवासु भवं, ग्रीवायामिति वा विग्रहः ।", "43058": "<<गम्भीराञ्ञ्यः>> - गम्भीराञ्ञ्यः । पञ्तजनादुपसङ्ख्यानम् । पाञ्चजन्यम् ।", "43059": "<<अव्ययीभावाच्च>> - अव्य । परिमुखमिति । यदि परिशब्दादिह वर्जनं गम्यते, तदा॒अपपरिबहिरञ्चवः पञ्चम्ये॑त्यब्ययीभावः । यदि तु सर्तोभावः, तदा त्वस्मादेव निपातनादब्ययीभाव इत्याहुः ।परिमुखादिभ्यएवेष्यते । परिमुखादिभ्य एवेति । अयं भावः -दिगादिगणानन्तेरं परिमुख, परिहनु, पर्याष्ठ, पर्युलूखलेत्यादि परिमुखाः दिगणः पटते, तत्साहचर्यादिह सूत्रेऽव्ययीभावशब्देन परिमुखादिरेव गृह्रते । तस्य गणस् । कार्यान्तराऽभावादिति । नन्वेवंपरिमुखादे॑रिति सूत्रं विशिष्यैव क्रियतां, किमनेन प्रयासेन । उत्तरत्रअव्ययीभावा॑दित्यस्यापेक्षायमपि तत्रैव तत्करणौचित्यादिति चेत् । अतारिह हरदत्तः -॒परिमुखादेः॑इत्युच्यमाने बहुव्रीहितत्पुरुषेभ्योऽपि ञः स्यात्, अव्ययीभावग्रहणात्तु तेभ्योऽणेव भवतीति । परिमुखादिगणे प्रतिशाखशब्दोऽपि बोध्यः । तथा च॒शाखृ व्याप्तौ॑इति धातौ प्रतिशाखं भवं प्रातिशाख्यम् ।अव्ययीभावाच्चे॑ति भवार्थे ञ इति माधवः ।", "43060": "<<अन्तःपूर्वपदाट्ठञ्>> - अन्तः पूव । अन्तर्वेश्ममिति ।नपुंसकादन्यतरस्या ॑मिति समासान्तष्टच् ।अध्यात्मादेष्ठञिष्यते । अध्यात्ममिति ।अनश्चे॑ति टच् ।", "43061": "", "43062": "", "43063": "", "43064": "", "43065": "<<कर्णललाटात् कनलंकारे>> - कर्णलाटात् । यतोऽपवादः । अलङ्कारे किम् । कण्र्यम् । ललाटम् ।", "43066": "<<तस्य व्याख्यान इति च व्याख्यातव्यनाम्नः>> - तस्य व्याख्यान इति च । व्याख्यायते येन स व्याख्यानः । करणे लुट् ।इति॑शब्दो वाक्यार्थ परामृशति । तत्समीपे श्रूयमाणश्चकारःतत्र भवः॑इति वाक्यार्थमाक्षिपति । व्याख्यातव्यस्य=ग्रन्थस्य नाम=प्रतिपादकं, तच्च शक्त्या लक्षणय वेत्य[त्र]नाग्रहः । तथा चषष्टन्ताव्द्यख्यानकरणार्थे, सप्तन्यन्तात्तु भवार्थे, व्याख्यातव्यस्य ग्रन्थस्य प्रतिपादकात्प्रत्ययाः स्यु॑रिति सूत्रार्थः । व्याख्यातव्यस्य नाम्नः किम् । पाटलिपुत्रस्य व्याख्यानी सुकोसला । पाटलिपुत्रं हि तया व्याख्यायतेईदृक्संनिवेशविशिष्ट॑मिति । न त्विदं व्याख्यातव्यस्य नाम । ग्रन्थेष्वेव व्याख्येयत्वस्य सुप्रसिद्धत्वात्, नामग्रहणं हि प्रसिद्ध्युपस्ङ्ग्रहार्थमेव सूत्रे कृतम् ।", "43067": "<<बह्वचोऽन्तोदात्ताट्ठञ्>> - बह्वचो । अणोऽपवादः । बह्वचः किम् । व्द्यचष्ठकं वक्ष्यतीत्येकाच्प्रत्युदाहार्यः । सौपम् । तैङम् । अन्तोदात्तात्किम् । संहितायाः संहितम् ।गतिरनन्तरः॑इत्याद्युदात्तोऽयम् । अन्तग्रहणं स्पष्टप्रतिपत्त्यर्थम् । उदात्तादित्युक्तेऽपि वर्णग्रहणे तदन्तग्रहणात्,वर्णादनुदात्ता॑दित्यत्र यथा ।", "43068": "<<क्रतुयज्ञेभ्यश्च>> - क्रतुयज्ञेभ्यश्च । अग्निष्टोमस्य व्याख्यान इति । अग्निष्टोमाद्यर्थेषु मन्त्रब्राआह्मणकल्पेषु वर्तमाना अग्निष्टोमादिशब्दा इहोदाहरणं, ग्रन्थनामेव व्याख्येयताया उक्तत्वादित्याहुः । स्तुतिः -स्तोमः । अग्नेः स्तोमोऽस्मिन्निति बहुव्राहिः ।परादिश्च परान्तश्चे॑त्यन्तोदात्तोऽयम् । पीयतेऽस्मिन्निति पेयः ।कृत्यल्युटो बहुल॑मित्यधिकरणे यत् । वाजो नाम यवागूभेदस्तस्य पेयो वाजपेयः । अयं हि कृदत्तरपदप्रकृतिस्वरेण मध्योदात्तः । पेयशब्दस्ययतो नावः॑इत्युदात्तत्वात् । राज्ञा क्षत्रियेण सूयते, राजा सोमः सूयते अत्रेति वा राजसूयः ।राजसूयसूर्ये॑ति क्यप् । तत एव निपातनात्समासः, षष्ठीसमासे वा । अयमप्युत्तरपदप्रकृतिस्वरेण मध्योदात्त एव । धातुस्वरेण सूयशब्दस्याद्युदात्तत् । असोमकेभ्य उदाहरति — पाकेति । अल्पपर्यायः -पाकशब्दः । पाकश्चासौ यज्ञश्चेति कर्मधारयः । स च समासस्वरेणान्तोदात्तः । नवैव्र्रीहिभिर्यजनं नवयज्ञः — — आग्रयणम् ।यजयाचविच्छे॑ति नङ् ।कर्तृकरणे कृते॑ति समासः । कृदुत्तरपदप्रकृतिस्वरेणाऽन्तोदात्तः । अनन्तोदात्तार्थ इति । वाजपेयराजसूयार्थतया अस्मिन्नारब्धे सत्यन्तोदात्तादपि यज्ञाभिधायिनः परत्वादनेनैव भाव्यमित्याग्निश्टोमिक इत्याद्युदाहृतमिति भावः ।", "43069": "<<अध्यायेष्वेवर्षेः>> - अध्यायेष्वेवर्षेः । एवकारः स्पष्टप्रतिपत्त्यर्थः । वासिषठीति । भवार्थेऽण् ।", "43070": "<<पौरोडाशपुरोडाशात् ष्ठन्>> - पौरोडाश । षित्त्वन्ङीष् । पौरोडाशिकी । पुरोडाशिकी । पुरो दाश्यते इतिपुरोडाषः॑ ।दाशृ दाने॑कर्मणि घञि इहैव निपातनाद्दस्य डत्वम् ।", "43071": "<<छन्दसो यदणौ>> - छन्दसो । छन्दः — शब्दाद्भवव्याख्यानयोरर्थयोर्यदणौ स्तः । व्द्यज्लक्षणस्य ठकोऽपवादः । छन्दस्य इत्यादि । इहार्थयोर्यदण्भ्यां यथासङ्ख्यं न भवत्यस्वरितत्वादिति बोध्यम् ।", "43072": "<<द्व्यजृद्ब्राह्मणर्क्प्रथमाध्वरपुरश्चरण- नामाख्याताट्ठक्>> - व्द्यजृत् । अणोऽपवादः । चातुर्होतृक इति ।पृथिवीहोता द्यौरध्वर्यु॑रित्यादिमन्त्रस्य चतुर्होतेति नामधेयम् । इत्यादीति । आदिशब्दात्प्रथमिकः । आध्वरिकः । पौरश्चरणिकः ।नामख्यातग्रहणं सङ्घातविगृहीतार्थ॑मिति वार्तिकम् । तत्र नामशब्दात् व्द्यच्त्वादेव सिद्धे विगृहीतग्रहणमाख्यातार्थमिति ज्ञेयम् । नामिकः । आख्यातिकः । नामाख्यातिकः ।", "43073": "<<अणृगयनादिभ्यः>> - अणृगय । ऋगयनादिभ्योभवव्याख्यानयोरर्थयोरण्स्यात् । ठञादेरिति । आदिशब्दाट्ठक्छयोः । आर्गयन इति ।अयन॑शब्दो भावसाधनः, तेन समासेअनो भावकर्मवचनः॑इत्यन्तोदात्तः । अभेदोपचाराद्भाववचनोऽपि ग्रन्थे वर्तते । इहबह्वचोऽन्तोदात्ता॑दिति ठञ्प्राप्तः । औपनिषद इत्यत्राप्येवम् । विद्यान्यायशिक्षाशब्देभ्योव्द्यजृद्ब्राआहृणे॑ति ठक्प्राप्तः । व्याकरणशब्दात्तु -॒वृद्धाच्छः॑ ।", "43074": "", "43075": "<<ठगायस्थानेभ्यः>> - ठगाय । एत्येनं स्वामी, स्वमिनमयमेतीति वा — आयः=स्वामिग्राह्रो भागः । स यस्मिन्नुपद्यते तदायस्थानम् । बहुवचननिर्देशः स्वरूपग्रहणनिरासार्थः । वृद्धाच्छं परत्वादयं बाधते । आपणिकः । आकरिकः ।", "43076": "<<शुण्डिकादिभ्योऽण्>> - छादीनां चेति । कार्कण इथ्यत्रकृकणपर्णाद्भारद्वाजे॑इति छः प्राप्तः । तीर्थशब्दात्तु धूमादित्वाद्वुञ्प्राप्तः । उजपानशब्दस्योत्सादित्वदञ्प्राप्त इत्यर्थः ।", "43077": "<<विद्यायोनिसंबन्धेभ्यो वुञ्>> - विद्यायोनि । विद्यायोनिकृतः संबन्धो येषां तेभ्यो वुञ्स्यात् । अणोऽपवादः । छं तु परत्वाद्बाधते । आचार्यकः । मातामहकः । मातुलकः ।", "43078": "<<ऋतष्ठञ्>> - ऋतष्ठञ् । 'विद्यायोनिसम्बन्धेभ्यः' इति वर्तते। तदाह- वुञोऽपवाद इति। 'उष्कञ्' इति वक्तव्ये तपरकरणं ठञ्ग्रहणं च चिन्त्यप्रयोजनमिति प्राञ्चः । पैतृकी विद्येत्यत्र ङीबर्थं ठञ्ग्रहणमिति तु तत्त्वम् । न च टिड्ढेति सूत्रे कञ्ग्रहणान्ङीप्सिध्यतीति वाच्यं, यादृशी, तादृशीत्याद्यसिद्धेः । तदनुबन्धकग्रहणेनाऽतदनुबन्धकस्याग्रहणात्, 'त्यदादिषु दृशः' इति कञो द्व्यनुबन्धकत्वात् । तपरकरणं विहाय 'उष्ठञ्' इत्येव सुवचमित्याहुः ।", "43079": "", "43080": "<<गोत्रादङ्कवत्>> - गोत्रादङ्कवत् ।अपत्याधिकारादन्यत्र लौकिकं गोत्र॑मित्युक्तम् । अपत्यप्रत्ययान्तात्तत आगतः॑इत्यस्मिन्नर्थे अङ्कवत्प्रत्ययाः स्युः । अङ्के दृष्टस्य सर्वस्यायमतिदेशो, न तु साक्षाद्विहितस्यैवेत्याग्रहः, तेनगोत्रचरणाद्वु॑ञिति वुञपि लभ्यते । स हितस्येद॑मिति सामान्येन विधीयमानोऽपि अञ्यञिञन्तादन्यत्र अङ्केऽपि दृष्टः । वेदमित्यादि । सङ्घाङ्के॑त्यादिना अङ्कार्थेऽण्विहित इतीहाप्यञ्यञिञन्तादण् । औपगवकमिति ।गोत्रचरणा॑दिति वुञ् । अङ्के दृष्ट इतीहाप्यण्णन्ताद्वुञ् ।", "43081": "<<हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः>> - हेतुमनुष्येभ्यो । मनुष्यग्रहणमहेत्वर्थं, बहुवचनंम तु स्वरूपविधिनिरासार्थम् । समरूप्यमिति ।विभाषा गुणे॑ इत्यत्रविभाषे॑ति योगविभागादगुणवचनादपि पञ्चमी । योगविभागे तुबाहुवकं प्रकृतेस्दनुदृष्टे॑रिति लिङ्गम् ।", "43082": "<<मयट् च>> - मयट् च । योगविभागो यथासङ्ख्यनिरासार्थः । ट#ओ ङीबर्थः ।", "43083": "<<प्रभवति>> - हैमवतीति । हिमवतः प्रकाशते । तत्र प्रथमं दृश्यत इत्यर्थः । उत्पत्तिवचनस्तु प्रभवतिर्न गृह्रते,तत्र जातः॑इत्यतो भेदेन निर्देशात् ।", "43084": "<<विदूराञ्ञ्यः>> - वैदूर्य इति । दन्त्यमध्योऽयं शाद्वलवत्, न तु नड्वलवन्मूर्धन्यमध्यः । नन्वत्रार्थाऽसङ्गतिः, बालावायपर्वताद्ध्यसौ प्रभवति, विदूरनगरे तु संस्क्रियते । सत्यम् । अतएव समाहितं बाष्ये -॒बालवायो विदूरं च प्रकृत्यन्तरमेव वा । न वै तत्रेति चेद्ब्राऊयाज्जिल्वरीवदुपाचरेत्इति । अस्यार्थः — -बालवायशब्दः प्रत्ययं लभते, विदूरादेशं च, सूत्रे पठितेनादेशेनानुरूपः स्थानीबालवायशब्द आक्षिप्यते, यथाल शिबादिषु पठिताभ्यां विश्रवणरवणादेशाभ्यामनुरूपः स्थानी विआवस्शब्द आक्षिप्यते, यथा वापद्दन्न॑इत्यादौ पदाद्यादेशानुरूपः स्थानी पाददन्तादिराक्षिप्यते तद्वत् । प्रकृत्यन्तरमेवेति । विदूरशब्दो नगरस्येव पर्तस्यापि वाचकोऽस्तीत्यर्थः । एवं चास्मिन्पक्षेबालवायात्प्रभवती॑ति विग्रहे विदूरशब्दात्प्रत्यय इति व्याख्यानक्लेशो नेति भावः । न वै इति ।वै॑ शब्दोऽक्षमां द्योतयति । तत्र पर्वते विदूरशब्दोऽप्रसिद्ध इति च्द्ब्राऊयाज्जित्वरीवव्द्यवहरेत् । नियतपुरषापेक्षो हि व्यवहारो दृश्यते, यथा वणिज एव वाराणसीं जित्वरीति व्यवहरन्ति, एवं वैयाकरणा एवाऽदिंर विदूर इति ।", "43085": "<<तद्गच्छति पथिदूतयोः>> - तद्गच्छति । द्वितीयान्ताद्गच्छतीत्यर्थे प्रत्ययः स्यात्स चेद्गन्ता पन्था दूतो वेत्यर्थः । तत्र साध्वसिश्छनत्ति, काष्ठानि पचन्तीत्यादाविव करणस्य स्वातन्त्र्यविवक्षायां पन्थाः कर्ता ।", "43086": "<<अभिनिष्क्रामति द्वारम्>> - अभिनिष्क्रमिति । द्वितीयान्तात्प्रत्ययः स्याद्यन्निष्क्रामति तच्चेद्द्वारमित्यर्थः । रुआऔग्घ्नं कन्यकुब्जद्वारमिति । रुआउग्घ्नाभिमुखनिष्क्रममे करणीभूतमिति फलितोऽर्थः । पूर्ववत्करणस्य कर्तृत्वम् ।", "43087": "<<अधिकृत्य कृते ग्रन्थे>> - तदित्येवेति ।अधिकृत्ये॑त्यतदपेक्षयाऽत्र[अपि]द्वितीया । शारीरकीयैति । कुत्सितं शरीरं शरीरकं, तत्सम्बन्धी शरीरको जीवात्मा, तमधिकृत्य=प्रस्तुत्य कृतो ग्रन्थः शारीरकीयः=चतुर्लक्षणीसूत्रसंदर्भः ।वृद्धाच्छः॑ । अत्र वार्तिकंलुबाख्ययिकाभ्यो बहुल॑मिति तादथ्र्य एषा चतुर्थी ।अख्यायिका॑नाम गद्यरूपो ग्रन्थविशेषः । अतएवाख्यानाऽऽख्यायिकयोस्तत्र तत्र भेदेनोपादानम् । आख्यायिकाभिधानाय यः प्रत्यय उत्पन्नस्तस्य बहुलं लुगित्यर्थः । वासवदत्तामधिकृत्य कृता आख्यायिका -वासवदत्ता । सुमनोत्तरा । क्वचिन्न -भैमरथी । अभेदोपचारेण गतार्थत्वान्नेदं वार्तिकमावश्यकमिति मूले नोक्तम् ।", "43088": "<<शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यश्छः>> - शिशुक्रन्द । अत्र वार्तिकं — ॒द्वन्द्वे देवासुरादिभ्यः प्रतिषेधः॑ । दैवासुरम् । राक्षोसुरम् । निपातनादिति ।सभा राजे॑ति सूत्रेअमनुष्यशब्दो रुढआ रक्षःपिशाचादीनाहे॑त्युक्तत्वात्तेन सूत्रेण क्लीबत्वं न सिध्यतीति भावः ।", "43089": "<<सोऽस्य निवासः>> - सोऽस्य निवासः ।स॑इति प्रथमान्तादस्येति षष्ठर्थे यथा विहितः प्रत्ययः स्याद्यः प्रथमान्तर्थः स निवासश्चेत् । रुआउग्घ्नो निवास इति.निवासाधिकरणमित्यर्थः । नन्वस्येति कृद्योगे कर्तरि षष्ठी । तथा च विशेषणविशेष्यभावव्यत्यासात्रुआउघ्नाधिकरणवासकर्तेह वृत्त्यर्थः, तथा चतत्र भवः॑इत्येव सिद्धं किमनेनेति चेत् । अत्राहुः — — बासस्य चेतनमात्रकर्तृकतया प्रसिद्धत्वात्प्रकारकृतो भेदोऽस्तीति नास्ति वैयथ्र्यं ।वसन्ति हि प्रेम्णि गुणा न वस्तुनी॑त्यादौ तूपचारो बोध्य इति ।", "43090": "<<अभिजनश्च>> - अभिजनश्च । योगविभाग उत्तरार्थः ।अभिजनाः पूर्वबान्धवाः॑इति वृत्तिः । अभिजायते येभ्य इति व्युत्पत्तेरिति भावः । पूर्वाबान्धवाः पित्रादयः । बन्धुशब्दः प्रज्ञादिः । पूर्वसूत्रादिहनिवासः॑इत्यनुवृत्तम् । तत्सामानादिकरण्यादभिजनशब्दस्यतत्संबन्धिनि लक्षणा । एवं स्थिते फलितमाह -यत्र पूर्वैरिति ।", "43091": "<<आयुधजीविभ्यश्छः पर्वते>> - आयुधजीविभ्यः । तादर्थ्ये एषा चतुर्थी । आयुधजीविभ्यः=आयुधजीब्यर्थम्, आयुधजीविनोऽभिधातुं प्रत्ययः स्यादित्यर्थः । सोऽस्याभिजनः॑इत्यनुवर्तते । पर्वत इति प्रकृतिविशेषणं, तदाह -पर्वतवाचिन इत्यादि । पर्वत इति किम् । साङ्काश्यका आयुधजीविनः ।योपधा॑दिति वुञ् । शण्डिकादिभ्यो ञ्यः । शण्डिका सर्वसेन शकेत्यादि ।", "43092": "", "43093": "<<सिन्धुतक्षशिलाऽऽदिभ्योऽणञौ>> - सिन्धुतक्ष । सिन्धुः वर्णुः गन्धारःकम्बोजादयः सिन्ध्वादयः । ते तु प्रायेण कच्छादिष्वपि पटन्ते । तेभ्योऽणि तत एव सिद्धे मनुष्यवुञो बाधनार्थं वचनम् । तक्षशिला वत्सोद्धरणा बर्बरेत्यादयस्तक्षशिलादयः ।", "43094": "", "43095": "", "43096": "", "43097": "", "43098": "<<वासुदेवार्जुनाभ्यां वुन्>> - वासुदेवार्जुनाभ्यां बुन् । छाऽणोरपवादः ।अजाद्यदन्तम्,अल्पाच्तर॑मिति सूत्राभ्यामर्जुनस्य पूर्वनिपाते प्राप्ते तस्याऽकरणंसर्वतोऽभ्यर्हितं पूर्वं निपतती॑ति ज्ञापनार्थम् । ननु वसुदेवस्यापत्यमित्यर्थेऋष्यन्धके॑त्यणि वासुदेवशब्दो निष्पन्नः । तथा च तत्रगोत्रक्षत्रियाख्येभ्यः॑इत्युत्तरसूत्रेण वुञेवाऽस्तु , किमनेन वुना । न ह्यत्र वृद्धौ विशेष, प्रागेव वृद्धत्वात् । न चवृद्धिनिमित्तस्ये॑ति पुंवद्भावनिषेधो दोषः स्यादिति वाच्यं, वुन्यपिन कोपधायाः इति नि,#एधस्येष्यमाणत्वात् । न वा स्वरे विशेषः,ञ्नित्यादिर्नित्य॑मिति तुल्यस्वरत्वात् । नापिअभ्यर्हितं पूर्व॑मिति ज्ञापनमेव तत्फलमिति वाच्यं, तथात्वे हि पूर्वनिपातप्रकरणेअभ्यर्हित॑मित्येव लाघवात्कुर्यादिति चेत् । अत्र भाष्यं -॒संज्ञैषा भगवतः॑इति । अयं भावः -॒सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः । ततोऽसौ वासुदेवेति विद्वद्भिः परिगीयते ।॑इति स्मृतेः परमात्मा इह वासुदेवः । सर्वत्रासौ वसति, सर्वमत्र वसतीति वा व्युत्पत्त्या वासुः । बाहुलकादुण् । वासश्चासौ देवश्चेति विग्रङः । तथा च नेयं गोत्राख्या, नापि क्षत्रियाख्येति युक्त एव विन्विधिः ।भ्यर्हितं पूर्व॑मिति तु प्रसङ्गाज्ज्ञापितं । तदप्यनित्यंआयुवमघोना॑मित्यादिलिङ्गादित्यवधेयम् ।", "43099": "<<गोत्रक्षत्रियाख्येभ्यो बहुलं वुञ्>> - वृद्धाच्छं बाधत इति । औपगवो भक्तिरस्य औपगवकः ।", "43100": "<<जनपदिनां जनपदवत् सर्वं जनपदेन समानशब्दानां बहुवचने>> - जनपदिनां । स्वस्वामिभावसंबन्धे मत्वर्थयं दर्शयित -जनपदस्वमिवाचिनामिति । प्रत्ययः प्रकृतिश्चेति । अनेन सर्वशब्दस्यार्थो दर्शितः । असति सर्वग्रहणे प्राधान्यात्प्रत्ययस्यैवातिदेशः स्यान्न, तु प्रकृतेरिति हरदत्तःष । अत्र वार्तिककारः सर्वशब्दस्य प्रयोजनमाह -॒सर्ववचनं प्रकृतिनिह्र्यासार्थं, तच्च मद्रवृज्यर्थ॑मिति । अयं भावः -वृद्धिनिमित्तेषु वुञादिष्वतिदिष्टेऽपि प्रकृतिरूपे पुनर्वृद्द्या भाव्यमिति विशेषस्य तत्र दुर्लभत्वान्मद्रवृज्योः कनि विशेषो बोध्यः । सोऽप्यबहुत्वे एवेति । निह्र्यासोऽपचयोऽल्पता । तथा हि मद्राणां राजा ।व्द्यञ्मगधे॑त्यण् । माद्रः । वजिशब्दातच्वृद्देत्कोशले॑ति ञ्यङ् । वार्ज्यः । स भक्तिरस्येति प्रकृतिनिह्र्यासे — मद्रकः । वृजिकः ।मद्रवृज्योः कन् । अन्यथा माद्रकः वाज्र्यक इति स्यात् । आङ्गक इति ।जनपदतदवध्योश्च॑अवृद्धादपी॑ति वुञ् । अङ्गशब्दात्स्वामिवाचिनो बहुवचनान्तादणि प्राप्ते वुञतिदिश्यते । पञ्चाला ब्राआहृणा इति । अभेदोपचारद्ब्राआहृणेषु पञ्चालशब्दस्य वृत्तिः । बहुवचनग्रहणं किम् । एकवचनद्विवचनयोः सत्यपि शब्दभेदे अतिदेशो यथा स्यात् । आह्गः आङ्गौ वा भक्तिस्य आङ्गकः । इह वृद्धाच्छ#ए प्राप्ते वुञ् ।", "43101": "<<तेन प्रोक्तम्>> - तोन प्रोक्तम् । प्रकर्षेणोक्तं प्रोक्तमित्युच्यते, न तु कृतं,कृते ग्रन्थे॑इत्यनेन गतार्थत्वात् । पाणिनिना प्रोक्तमिति । स्वयमन्येवा वा कृतं व्याकरणमध्यापनेनार्थव्याख्यानेन वा प्रकाशितमित्यर्थः । प्रेति किम् । देवदत्तेनाध्यपितं । प्रख्यातस्यैव ग्रन्थस्याध्यापनमिति नानेन प्रत्ययः ।", "43102": "<<तित्तिरिवरतन्तुखण्डिकोखाच्छण्>> - तित्तिरिवर । अणोऽपवादः । तद्विषयतेति ।शौनकादिभ्यश्छन्दसी॑त्यत्रास्यानुवृत्तिस्तित्तिरिणा प्रोक्तः श्र्लोक इत्यत्र न भवतीति भावः । तैत्तिरीयै इति ।प्रोक्ताल्लु॑गित्यध्येतृप्रत्ययस्य लुक्॥ एवमग्रेऽपि ।", "43103": "<<काश्यपकौशिकाभ्यामृषिभ्यां णिनिः>> - काश्यप । छस्यापवादः । णकार उत्तरत्र वृद्द्यर्थः । ननुवृद्धिनिमित्तस्ये॑ति पुंवद्भावनिषेधोऽत्र फलमस्तीति चेत् । अत्राहुः -णिन्यन्तस्याध्येतृवेदितृविषयत्वेन स्त्रियामप्रवृत्तेः । प्रवृत्तावपिजातेस्चे॑ति सिद्धत्वात्, चरणत्वेन जातित्वादिति । ऋषिभ्यामिति किम् । इदानींतमेन गोत्रकाश्यपेन गोत्रकाश्यपेन प्रोक्तं काश्यपीयम् ।", "43104": "<<कलापिवैशम्पायनान्तेवासिभ्यश्च>> - कलापिवेशंपायना । अणोऽपवादः छं तु परत्वाद्बाधते । कलाप्यन्तेवासिनश्चत्वारः । हरिद्रुः छगली तुम्बुरुः उलप इति । वैशंपायनान्तेवासिनस्तु नव आलम्बिः कलिङ्गः कमलः ऋचाभः आरुणिः ताण्डः श्यामायनः कठः कलापी-इति । हारिद्रविण इति । एवं तौम्बुरविणः, औलपिनः छगलिनस्तु ढिनुकं वक्ष्यति । आलम्बिन इति । एवं कालिङ्गिनः कामलिनः आर्चाभिनः आरुणिनः ताण्डिनः श्यामायनिनः । कठाल्लुकं वक्ष्यति, कलापिनश्चाणम् । याज्ञवस्क्याश्मरथ्यशब्दौ कण्वादी, तेन ताभ्यां यञन्ताभ्यां वृद्धाच्छो न भवतीत्यशयेनाह अणि आपत्यस्येतीति ।यज्ञवस्क्यादयो ह्रचिरकालाः॑ इति भारतादिषु व्यवहारः, स एवानुमृत सूत्रकृत ।", "43105": "", "43106": "", "43107": "<<कठचरकाल्लुक्>> - कठचरकाल्लुक् । कठशब्दस्य वेशंपायनान्तेवासित्वा ण्णिनिः चरकादण् । तयोर्लुक् । छन्दसीत्येव । काठाः । चारकाः । श्र्लोकाः ।", "43108": "<<कलापिनोऽण्>> - कलापिनोऽण् । वैशंपायनान्तेवासित्वात्प्राप्तस्य णिनेरपवादः ।इनण्यनपत्ये॑इति प्रकृतिभावे प्राप्ते आह — ।नान्तस्य टिलोपे सब्राहृचारिपीठसर्पिकलापिकौथमितैतिलिजाजलिलाङ्गलिशिलालिलशिखाण्डिसूकरसद्मसुपर्वणामुपसङ्ख्यानम् । नान्तस्य टिलोप इति । माथुरी वृत्तिः, मौदाःल पैप्पलादाः शाकला इति सिद्धम् । मुद पिप्पलाद शाकल -एभ्यःपुरामप्रोक्तेषु॑इति णिनेरपवादोऽण् । छगलिनो ढिनुक् । कलाप्यन्तेवासित्वात्प्राप्तस्य णिनेरपवादोऽयम् ।", "43109": "", "43110": "<<पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः>> - पराशर्य । मण्डूकप्लुयाणिनिरिह सम्बध्यत इत्याह -णिनिः स्यादिति । तद्विषयताऽत्रेष्यते, तदर्थं छन्दोग्रहणमनुवर्त्त्यम् । सूत्रयोश्छन्दस्त्वं तु गौण्या वृत्त्या बोध्यम् । भिक्षुसूत्रमिति । चतुर्लक्षणीरूपम् । पाराशरिण इति । पाराशर्यो -व्यासः । अनन्तरापत्येऽपि गोत्रत्वेनोपचारात्गर्गादिभ्यः॑इति यञ् ।आपत्यस्य चे॑ति यलोपः । अध्येत्रणस्तुप्रोक्ता॑दिति लुक् । भिक्षुनटसूत्रयोः किम् । पराशरम् । शैलालम् ।", "43111": "<<कर्मन्दकृशाश्वादिनिः>> - कर्मन्द । इहापि छन्दोनुवृत्त्यादि प्राग्वत् । भिक्षुनटसुत्रयोः किम् । कार्मन्दम् । कार्शआम् ।", "43112": "<<तेनैकदिक्>> - तेनैकदिक् । तृतीयान्तादेकदिगित्यर्थे अमादयः स्युः । एकदिक् । समाना दिगित्यर्थः । पुनस्तेनेत्युक्तिश्छन्दोऽदिकारनिवृत्त्यर्था । सौदामनीति ।अन्इति प्रकृतिभावान्न टिलोपः ।तडित्सौदामिनी विद्युदि॑त्यमरः ।", "43113": "<<तसिश्च>> - तसिश्च । पूर्वोक्तविषये ।", "43114": "", "43115": "<<उपज्ञाते>> - उपज्ञाते । विनोपदेशं ज्ञातम् — उपज्ञातम् ।", "43116": "", "43117": "", "43118": "<<कुलालादिभ्यो वुञ्>> - कुलालादिभ्यो । कुलाल वरुड चण्डाल निषाद कुम्भकार आपाकादयः कुलालादयः । क्षुद्राभ्रमर । पादपशब्दाच्छे प्राप्ते, अन्यब्योऽपि अणि अञ् विधीयते ।", "43119": "", "43120": "<<तस्येदम्>> - तस्येदम् । अणादयः पञ्च महोत्सर्गाः, घादयश्च षष्ठन्तात्संबन्धिनि स्युः । अनन्तरदिष्वनभिधानान्न, देवदत्तस्यानन्तरमिति ।वहेस्तु रणिट् च । बहेस्तु । इडर्थमिदमुपसङ्ख्यानम्, अण्, तु सिद्ध एवानूद्यते ।तु॑रिति तृन्तृचोः सामान्यग्रहणम् । ढत्वादीनामसिद्धत्वादलौकिके प्रक्रियावाक्ये पूर्वमिट् ततो निमित्ताऽभावान्न ढत्वादोत्याशयेनोदाहरति -सांवहित्रमिति । अग्निदिति । क्विप् । ऋत्विग्विशेषोऽयम् ।त्वमग्निदृतायते॑इत्यत्र तु छान्दसं ह्रस्वत्वम् ।आग्निध्रमिति । भत्वविधानाद्धस्य जशत्वं नेति भावः । सोऽपीति । अग्नीदपीत्यर्थः । ननुपिबाग्निध्रात्तवे॑त्यादावाद्युदात्तं प्रयुज्यते । वार्तिकेतुर॑णिति पाठादयमन्तोदात्त इथि चेत् । अत्राहुः — ॒आग्नीध्रकसाधारणादञि॑ति वार्तिकेन विहितो यः स्वार्थेऽञे तत्पक्षे तत्राद्युदात्तत्वं बोध्यमिति ।समिधामाधाने षेण्येण् । समिधामिति । कर्मणि षष्ठीयम् । आधानमिति करणे ल्युट् । कर्मणि षष्ठन्तादाधानकरणे षेण्यण् स्यात् । सामिधेन्य इति । यया अग्निः समिध्यते सा — समित् । संपदादित्वात्करणे क्विप् । तस्या आधान इति विग्रहः । सामिधेनीति । षित्त्वान्ङीष् । हलस्तद्धितस्ये॑ति यलोपः । यया ऋचा सामिदाधीयते सा सामिदाधीयते सा सामिधेनीत्यर्थः ।प्रवोवाजा अभिद्यवः॑इत्याद्याःआजुहोता दुवस्यत॑इत्यन्ताःसामिधेन्य॑ इति व्यवह्यियन्ते ।", "43121": "<<रथाद्यत्>> - रथाद्यत् । अणोऽपवादः ।रथाद्रथाङ्गे॑इति वार्तिकमिभिप्रेत्याह -रथ्यं चक्रमिति ।रथसीताहलेभ्यो यद्विधौ॑इति तदन्तविधिरूपसङ्ख्यायते । परमरथ्यम् । उत्तमरथ्यम् । द्वयो रथयोरङ्गं द्विरथम् । इहद्विगोर्लुगनपत्ये॑इति यतो लुक् । ननु यत्प्रत्ययोऽत्र रथाङ्ग एव यदीष्यते कथं तर्हिरथस्य वोढा रथ्यः॑इति ।तद्वहती॑त्यनेनेति चेत् । एवं तर्हि अयमेव यद्रथाङ्ग इव वोढर्यीष्यतां,तद्वहति रथयुगप्रासङ्ग॑मित्यत्र रथग्रहणं त्यज्यतामिति चेत् ।मैवम् । द्वौ रथौ वहति द्विरथ्य इत्यत्रद्विगोर्लुगनपत्ये॑इति प्राग्दीव्यतीयस्य लुक्प्रसङ्गात् ।तद्वहती॑ति यत्प्रत्ययस्य तु प्राग्दीव्यतीयत्वाऽभावान्न लुगितिद्विरथ्य ॑इति सिध्यतीति । ननुद्विगोर्लुगनपत्ये॑इत्यत्राऽचीत्य[स्या]पकर्षणात्कथमत्र यतो लुक्प्रसक्तिरिति चेत् । अत्राहु -॒तद्वहती॑त्यत्र रथग्रहणमेव ज्ञापकम् -॒एतस्य यतो हलादेरपि लुग् भवती॑ति । अन्यथा तत्र रथग्रहणं व्यर्थमेव स्यात् । तथा च द्वयो रथयोरङ्गमिति विग्रहे द्रिरथमिति प्रयोगः सुस्थ इति ।", "43122": "<<पत्त्रपूर्वादञ्>> - पत्त्रपूर्वादञ् । पूर्वस्य यतोऽपवादः । पत्रमिति । पतन्त्यनेनेति विग्रहेदाम्नि॑त्यादिना ष्ट्रन् । अआरथस्येदमिति । अआयुक्तो रथोऽआरथस्तस्याङ्गमित्यर्थः । पत्राध्वर्यु । अणोऽपवादः । पत्राद्वाह्रे । पत्त्राद्वाह्र इति । इह पत्त्रेत्यर्थग्रहणे, इतरोयस्तु स्वरूपग्रहणे व्याख्यानमेव शरणम् ।", "43123": "", "43124": "", "43125": "<<द्वन्द्वाद्वुन् वैरमैथुनिकयोः>> - द्वन्द्वद्वुन् । अणोऽपवादः । छं तु परत्वाद्बाधते । काकोलूकिकेति । काकोलूकस्य वैरमित्यर्थः ।वुन्नन्तं स्त्रियाम् । वैरमैथुनिकादिबु॑निति स्त्र्यधिकारे अमरः । कुत्सकुशिकिकेति । कुत्सुकु शिकयोर्मैथुनिका । विवाहरूपः संबन्ध इत्यर्थः । मिथुनं हि दन्पती, तस्य कर्म=क्रियानिष्पादनं । मनोज्ञादित्वाद्वुञ् । वुञन्तं चेदं, स्त्रियां स्वभावात् । अत्र वदन्ति — — कुत्साश्च कुशिकाश्च कुत्सुकुशिकास्तेषां मैथुनिकेत्यपि विग्रहः । इह कुत्सुश्च कुशिका चेति द्वयोरेव मैथुनिकायां वुनिति नाग्रहः कार्यः ।यूनि लुगि॑ति सूत्रे कैयटेन अत्रिभरद्वाजिकेत्यादिकं प्रसङ्गादुदाहृत्य बहुवचनान्तद्वन्द्वाद्वुनो व्याख्यातत्वादिति । सङ्घाङ्क । पूर्वस्य वुञोऽपवादः ।घोषग्रहणमपि कर्तव्यम् । घोषग्रहणिति । एवं च प्रकृतयस्तिरुआः, प्रत्ययार्थविशेषणानि चत्वारीति वैषम्याद्यथासङ्ख्यमपि न प्रवर्तते । गार्ग इति ।आपत्यस्ये॑ति यलोपः । यद्यप्यङ्कलक्षणयोःल पर्यायत्वं प्रसिद्धंकलङ्काङ्कौ लाञ्छनं च चिह्न लक्ष्म च लक्षण मित्यमरः, तथापि पृथग्ग्रहणसामर्थ्यादिह विशेषपरतेत्याह -परम्परासंबन्ध इति । यथा गवादिनिष्ठः स्वामिना गोद्वारा संबन्धः । साक्षादिति । यथा बिदानां विद्या । घोष आभीरस्थानम् । णित्त्वं ङीबर्थं, पुंवद्भावनिषेधार्थं च । बौदी विद्या यस्य बैदीविद्यः । बिदानामसाधारणी या विद्या तद्वानित्यर्थः ।", "43126": "", "43127": "", "43128": "", "43129": "<<छन्दोगौक्थिकयाज्ञिकबह्वृचनटाञ्ञ्यः>> - छन्दोगौक्थिक । सङ्घादयो निवृत्ताः । एभ्यो ञ्यः स्यात्तस्येदमित्यर्थे । चरणशब्देभ्यो बुञोऽपवादः, नटात्त्वौत्सर्गिकस्याऽणः ।धर्माम्नाययो॑रित्युक्तेर्नेह — छान्दोगं कुलमित्यादि ।", "43130": "<<न दण्डमाणवान्तेवासिषु>> - न दण्ड ।॒तस्येदमि॑त्यनुवर्तते । तेषु शिष्यषु चेति ।प्रत्ययार्थविशेषणेष्वि॑ति शेषः । दाक्षा इति ।इञश्चे॑त्यण् ।", "43131": "<<रैवतिकादिभ्यश्छः (कौपिञ्जलहास्तिपदादण्) (आथर्वणिकस्येकलोपश्च)>> - आथर्वणिकस्य । अथर्वणा प्रोक्तो वेदोऽथर्वा, अबेदोपचारात् । तमधीते । वसन्तादित्वाट्ठक् । दाण्डिनायनादिसूत्रे निपातनाट्टिलोपाऽभावः । अन्ये त्वाहुः — — अथर्वणा प्रोक्तामधीते आथर्वणिकः । इह प्रोक्तेऽण् । ततःछन्दोब्राआहृणानी॑ति तद्विषयतायामाथर्वणशब्दस्यापि वसन्तादिषु पाठादध्येतरि ठक्, तस्य विधानसामर्थ्यात्प्रोक्ताल्लुह् नेति॥ इति तत्त्वबोधिन्यां समाप्ता शैषिकाः॥", "43132": "इहैव निपातनादिति। हस्तिनः पाद इव पादो यस्य हस्तिपादः। पादस्य लोपो न भवति, `अहस्त्यादिभ्य`इति वचनात्। तदाह -हस्तिपादस्येति। हास्तिपद इति। अस्मादेव निपातनादण् पद्भावश्चेति भावः।", "43133": "आथर्वणिकस्य। अथर्वणा प्रोक्तो वेदोऽथर्वा, अबेदोपचारात्। तमधीते। वसन्तादित्वाट्ठक्। दाण्डिनायनादिसूत्रे निपातनाट्टिलोपाऽभावः। अन्ये त्वाहुः - अथर्वणा प्रोक्तामधीते आथर्वणिकः। इह प्रोक्तेऽण्। ततः `छन्दोब्राआहृणानी`ति तद्विषयतायामाथर्वणशब्दस्यापि वसन्तादिषु पाठादध्येतरि ठक्, तस्य विधानसामर्थ्यात्प्रोक्ताल्लुह् नेति॥", "43134": "<<तस्य विकारः>> - तस्य विकारः । षष्ठन्ताद्विकारे अणादयः स्युः । घादिसंबद्धस्यतस्य॑[इति]ग्रहणस्य निवृत्ये पुनस्तस्येत्युक्तम् । अणादयस्तु न निवर्तन्ते,प्राग्दीव्यतः॑प्राग्भवना॑दिति विशिष्टावधिरिच्चेदनाधिकृतत्वात् । इहप्राणिरजतादिभ्योञ्,ओरञ्,अनुदात्तादेश्च॑ मयड्वेतयोः॑,नित्यं वृद्धशरादिभ्यः॑,पिष्टाच्चे॑त्यादिभिरपवादानां वक्ष्यमाणत्वादप्राणि, आद्युदात्तम्, अवृद्धं , प्रतिपदमवक्ष्यमाणप्रत्ययं चोदाहरणमिति पर्यालोच्य ततैवोदाहरति -आश्मैत्यादि । अश्मन्भस्मन्शब्दौ मनिन्प्रत्ययान्तौ ।मृदस्तिकन् । निस्त्वरेण त्रयोऽप्याद्युदात्ताः । प्राचीनस्य तस्येत्यस्य निवृत्तत्वादधिकारोक्तप्रत्यया न प्रवर्तन्त इति नेह ठक् । हालः, सैरः ।", "43135": "<<अवयवे च प्राण्योषधिवृक्षेभ्यः>> - चाद्विकार इति । तेन वक्ष्यमाणप्रत्ययाः प्राण्यदिभ्यस्त्रिभ्योऽर्थद्वये भवन्त्यन्येभ्यस्तु विकार एवेति फलितम् । मायूर इति ।प्राणिरजतादिभ्यः॑ इत्यञ् । अनुदात्तादेरञः सिद्धत्वादुदात्ताद्यर्थं, वृद्धेषुमयड्बाधनार्थ चावश्यकमिदं परत्वादनुदात्तादिष्वपि प्रवर्तते । ओषधिभ्य उदाहरति -मौर्वमिति । मूर्वाशब्दःतृणधान्यानां च द्व्यषा॑मित्याद्युदात्तः । पिप्पलशब्दस्तुलघावन्ते॑इत्यनेनाद्युदात्तः ।", "43136": "<<बिल्वादिभ्योऽण्>> - बिल्वादिभ्योऽण् । अञ्मयटोरपवादः । बिल्व व्राहि काण्ड मुद्ग मसूर गोधून इक्षु कर्पासी वेण्वादयो — बिल्वादयः ।", "43137": "", "43138": "<<त्रपुजतुनोः षुक्>> - त्रपुजतुनोः ।बिल्वादिभ्योऽणि॑त्यतोऽनुवर्तनादाह — अण्स्यादिति ।ओरञि॑त्यस्यायमपवादः । अप्राण्यादित्वादवयवे न भवतीत्याशयेनाह -विकारे इति । त्रापुषमिति । त्रपुणो विकारः । एवं जुतनो विकारो जातुषम् ।", "43139": "<<ओरञ्>> - ओरञ् । अनुदात्तादेरन्यदिहोदाहरणम् । दैवदारवमिति । देवदारु — भद्रदारुशब्दौमितद्र्वर्थानामि॑त्याद्युदात्तौ ।", "43140": "<<अनुदात्तादेश्च>> - दाधित्थमिति । दधनि तिष्ठतीतिसुपि स्थः॑इति कः । उपपदसमासः । पृषोदरादित्वात्सकारस्य तकारः । कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तत्वम् । एवं कपित्थेऽपि बोध्यम् ।", "43141": "<<पलाशादिभ्यो वा>> - पलाशादिभ्यो वा । उभयत्रविभाषेयम् । पलाशखदिरशिंशपास्यन्दनानामनुदात्तादित्वान्नित्यं प्राप्ते, करीरशिरीषविकङ्कतपूलासयवासशब्दानामप्राप्तेविधानात् । पालाशमिति । पलाशब्दो घृतादित्वादन्तोदात्तः । खदिरशब्दः॒अजिरशिशिरे॑त्यादौ किरच्प्रत्ययान्तो निपातितः । शिंशपाशब्दःअथ द्वितीयं प्रागीषा॑दिति वर्तमानेपान्तानां गुर्वादीना॑मिति मध्योदात्तः ।स्पदि किंचिच्चलने॒॑अनुदात्तेतश्च हलादे॑रिति युच् । कारीरमिति ।किरतेरीरन् । नित्रुओण करीरशब्दोऽयमाद्युदात्तः ।कृतृभ्यामीषन्शृपृभ्यां किच्च॑ । पूर्ववच्छिरीषशब्दोऽप्याद्युदात्तः । विकङ्कतपूलासयवासशब्दाःग्रामादीनां चे॑त्याद्युदात्ताः ।", "43142": "<<शम्याष्ट्लञ्>> - षित्त्वन्ङीषिति । टित्त्वान्ङीषिति । टित्त्वान्ङीबिति तु माधवः ।", "43143": "<<मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः>> - मयड्वैतयोः । भाषायां किम् । खादिरो यूप इति वृत्तिकारः । ननु मयटो वैकल्पिकत्वात्सिद्धमिदमिति चेत् । अत्राहुः -वेदे बह्वचः परस्य मयटोऽर्थान्तरपरत्वमेवेति तात्पर्यग्रहार्थमेवेदम् ।द्व्यचश्छन्दसी॑ति सूत्रस्यद्व्यच एवे॑ति नियमार्थत्वे यद्यपीदं गतार्थं तथापिद्व्यचश्छन्दस्येवे॑ति विपरीतनियमशङ्कानिवृत्त्यर्थं भाषाग्रहणं कृतमिति । अधिकारादेव विकारावयवयोर्लाभे एतयोरिति वचनं ये विशेषप्रत्ययाःप्राणिरजतादिभ्यो॑ऽञित्येवमादयस्तद्विषयेऽपि यथा स्यादित्येवमर्थम् । कपोतमयं । लोहमयम् । इह । विकाररावयवाभ्यां सह प्रत्येकम्अभक्ष्याच्छदनयो॑रिति सम्बध्यते समासनिर्देसादतो यथासङ्ख्यं न । आश्मनमिति ।विनापि प्रत्ययं पूर्वोत्तरपदयोर्वा लोपो वाच्यः॑इति वचनादस्मभेदशब्दे भेदशब्दस्य लोपे आश्मन्निति नान्तमवशिष्यते । तथा कल्मषाह्घ्रे राज्ञो भार्यायां मदयन्त्यां वसिष्ठेनोत्पादितः सुतोऽश्मको नाम, तत्र संज्ञात्वद्योतकस्य कप्रत्ययस्याऽभावे अश्मन्निति नाम भवति, तस्यावयवे आश्मनं, विकारेऽप्याश्मनमित्येव भवति । न चअश्मनो विकारे॑इति टिलोपः स्यादिति वाच्यं, प्रसिद्धतरत्वेन पाषाणवाचकस्यैव तत्र ग्रहीतुमुचितत्वात् । वस्तुतस्तुतस्येद॑मिति सामान्यविवक्षायां पाषाणवाचकस्याप्यश्मन्शब्दस्याऽऽश्मनमिति भविष्यति, पैष्टी सुरेतिवत् । मौद्गः सूपः । कार्पासमिति । मुद्गशब्दो घृतादित्वादन्तोदात्तः ।॒कृञः पासः॑ इति पासप्रत्यये गुणे रपरे च कर्पसीशब्दो जातिलक्षणङीषन्तः । ताभ्यांअनुदात्तादेश्च॑इत्यञं बाधित्वा बिल्वादिचादण् ।", "43144": "<<नित्यं वृद्धशरादिभ्यः>> - नित्यं वृद्ध । इहभाषायामभक्ष्याच्छादनयो॑रित्यनुवर्तत इति वृत्तिः । नन्वेवमानन्दमयाधिकरणे शङ्कराचार्यैःअन्योन्तर आत्मानन्दमयः॑इति श्रुतौआनन्दमय इति विकारे मय॑डित्युक्तं तत्कथं सङ्गच्छतां ।प्राचुर्ये मय॑डिति तु वक्तुमुचितमिति चेत् । अत्राहुः -प्राचुर्ये मयटपि प्रकृत्यर्थविरोधिनो दुःखस्य लेशतोऽनुवृत्तिलाभात्प्रकृते विकारार्थः पर्यवस्यतीति तेषामाशयः । यद्वानित्यं वृद्धे॑त्यत्र भाषाग्रहणं नानुवर्तते । अनुवृत्तावपिभाषायां नित्यम्, अन्यत्र क्वाचित्कः॑इत्याश्रित्य मयट् सुसाधः । अथ वाहेतुमनुष्येभ्य॑इत्यनुवर्तमानेमयट् चे॑ति सूत्रेण आगतार्थे मयट् । विकार इति त्वार्थिकार्थकथनमेव । अतः शङ्करभगवत्पादोक्तिरनवद्यैवेति । शरमयमिति । शर दर्भ मृत्कटी तृण सोम बल्वज इति शरादिः ।एकाचो नित्यम् । एकाचो नित्यमिति.॒नित्यं वृद्धे॑ति नित्यग्रहणं योगविभागेनान्यत्रापि क्वचिद्विधानार्थं, तेनैतल्लभ्यत इति भावः । एकाच्त्वादेव सिद्धे शदादिषु मृच्छब्दपठनं विस्पष्टार्थमित्याहुः ।", "43145": "<<गोश्च पुरीषे>> - गोस्च पुरीषे । पुरीषं न विकारो, नाप्यवयवः, तथापितस्येद॑ मित्यर्थेऽयं प्रत्ययः । विकारावयवोस्तु गोपयसोर्यतं वक्ष्यति । पुरीषे किम् । गव्यं पयः ।", "43146": "", "43147": "", "43148": "", "43149": "<<असंज्ञायां तिलयवाभ्याम्>> - यावक इति । यवशब्दाद्विकारेऽण्, तदन्तात्यावादिभ्यः॑इति स्वार्थे कन् ।", "43150": "", "43151": "", "43152": "<<तालादिभ्योऽण्>> - तालादिभ्योऽण् । अञ्मयटोरिति । तालशब्दश्यामाकशब्दाभ्यां वृद्धत्वान्मयट् प्राप्तः । बर्हिणां विकारो बार्हिणम् ।प्राणिरजतादिभ्योऽञ् । ततोञितश्च तत्प्रत्यया॑दित्यञ्प्राप्तः, शेषेभ्यस्त्वनुदात्तादित्वादञ्प्राप्तः । तथाहि विशिदृशिभ्यामिन्द्रशब्द उपपदे मूलविभुजादित्वात्कः ।अन्येषामपी॑ति दीर्घः । इन्द्राविशः । इन्द्रादृशः ।चप सान्त्वने॑पचाद्यच् ।चापपीयूक्षा॑शब्दोलघावन्ते — इति मध्योदात्तःफिषः॑इत्यदिकाराट्टापः प्रागेव स्वरप्रवृत्तेः । इन्द्रायुधशब्दः समासस्वरेणान्तोदात्तः । अण्ग्रहणं बाधकबाधानार्थम् । यथाविहितप्रत्ययविधौ बार्हिशब्दाद्वृद्धलक्षणो मयट् स्यात्,ञितश्च तत्प्रत्यया॑दित्यञो बाधनेन वचनस्य चरितार्थत्वादित्याहुः । तालाद्धनुषीति । गणसूत्रमिदम् । हाटक इति । इह वृद्धलक्षणो मयट् प्राप्तः । तपनीयदेः — ॒अनुदात्तादेश्चे॑त्यञ्प्राप्तः ।", "43153": "", "43154": "<<प्राणिरजतादिभ्योऽञ्>> - प्राणि । अनुदात्तादेरञः सिद्धत्वात्परिशिष्टमिहोदाहरणं । तदाह -शौकं बाकमिति । शुकबकशब्दौप्राणिनां कुपूर्वाणा॑मित्याद्युदात्तौ । राजतमिति । रजत सीस उदुम्बर कण्ट कारेत्यादयो रजतादयः । तेषु अनुदात्तादीनां पुनः पाठो मयड्बाधनार्थः । अन्यथा हि परत्वान्मयट् स्यादेव ।", "43155": "<<ञितश्च तत्प्रत्ययात्>> - शामीलमिमि । शामीलशब्दःशम्याः ष्ल॑ञिति ष्लञन्तः । दधित्थात्अनुदात्तादेश्चे॑त्यञ् । दाधित्थस्य दाधित्थम् । बैल्वमयमिति । बिल्वशब्दोऽणन्तः ।", "43156": "<<क्रीतवत् परिमाणात्>> - नेष्किकमिति ।तेन क्रीत॑मिति ठक् । शत्यः । शतिक इति ।शताच्च ठन्यतौ॑ ।", "43157": "", "43158": "<<उमोर्णयोर्वा>> - अणञाविति । उमाशब्दःतृणधान्यानां च॑ इत्याद्युदात्तः । ऊर्णाशब्दस्तु प्रातिपदिकस्वरेणान्तोदात्त इति भावः ।", "43159": "<<एण्या ढञ्>> - एण्या ढञ् । प्राण्यञोऽपवादः । स्त्रीलिङ्गनिर्देशादाह -एणस्यत्विति ।", "43160": "<<गोपयसोर्यत्>> - गोपयसोः । यद्यपि सर्वत्र गोरजादिप्रसङ्गे यदुक्तस्तथापिमयड्वैतयो॑रिति पक्षे प्राप्तं मयटं बाधितुं पुनरयं यद्विधिः ।", "43161": "<<द्रोश्च>> - द्रोश्च ।ओरञः॑,एकाचो नित्य॑मिति मयटश्चापवादोऽयम् । द्रव्यमिति ।ओर्गुणः॑,वान्तो यि प्रत्यये॑ ।द्रव्यगुणकर्मे॑त्यादिषु प्रयुज्यमानद्रव्यशब्दस्तु गुणैर्द्रूयते आश्रीयते इति द्रुधातोःअचो य॑दिति यत्प्रत्ययान्तः ।", "43162": "<<माने वयः>> - माने वयः । यतोऽपवादः । द्रुवयमिति । द्रोर्विकारभूतं प्रस्थादिपरिमाणमित्यर्थः ।", "43163": "<<फले लुक्>> - फले लुक् । विकारावयवेति । फलितस्य वृक्षस्य फलमवयवो, विकारश्च । तेनान्यतरस्मिन्प्रत्ययः । आमलकमिति । मयटो लुक् ।लुक्तद्धितलुकि॑ति ङीषो लुक् । न चात्र स्थानिवद्भावनेयस्येति च॑इति लोपः शङ्ख्यः,लुका लुप्तं न स्थानिव॑दित्यभ्युपदमात् । अत एव पञ्चभिः पट्वीभिः क्रीतः पञ्चपटुरित्यत्रअध्यर्धपूर्वे॑ति ठञो लुकि कृतेलुक्तद्धिते॑तिङीषो लुका लुप्तत्वेन स्थानिवत्त्वाऽभावादुकारस्य यणादेशो न भवति ।", "43164": "<<प्लक्षादिभ्योऽण्>> - प्लक्षादिभ्योऽण् । अञोऽपवादः । शिग्रुकर्कन्धूशब्दाभ्याम्ओर॑ञिति, अन्येभ्यस्त्वनुदात्तादित्वादञः प्राप्तिः । प्लक्ष न्याग्रोध अआत्थ इङ्गुदी शिग्रु कर्कन्धू बृहती । तत्र प्लक्षशब्दःफिषः॑इत्यन्तोदात्तः । न्ग्रोधशब्दोलघावन्ते॑ इति मध्योदात्तः । अआत्थशब्दस्तु घृतादित्वादन्तोदात्तः । इङ्गुदीबृहतीशब्दौ गौरादिङीषन्तौ ।आआत्थवैणवप्लाक्षनैयग्रोधैङ्गुदं फले॑इत्यमरः ।", "43165": "<<जम्ब्वा वा>> - जम्ब्विति । नपुंसकह्रस्वः ।फले जम्बा जम्ब्वूः स्त्री जम्बु जाम्बवम् ।फलपाकशुषामुपसङ्ख्यानम् । फलपाकेति । फलपाकेन शुष्यन्तीति फलपाकशुषः । व्रीहयः । मुद्ग इति । बिल्बाद्यणो लुक् ।फुष्पमूलेषु बहुलम् । मल्लिकेति । अनुदात्तलक्षणस्याऽञो लुप् ।मादीनां चे॑ति फिट्सूत्रान्मल्लिकाशब्दे द्वितीयमुदात्तम् । जातीविदारीशब्दौ दौरादिङीषन्तौ । पाटलानीति । बिल्वादित्वादण् । साल्वशब्दः प्रातिपदकस्वरेणान्तोदात्तः ।", "43166": "", "43167": "<<हरीतक्यादिभ्यश्च>> - हरीतक्यादिभ्यश्च । इह द्राक्षाप्रभृतिभ्योनित्यं वृद्धे॑ति प्राप्तस्य मयटो लुप्, अनुदात्तादिभ्योऽञः, इतरेभ्यस्त्वणः । लिङ्गमेवेति । वचनं तु विशेष्यवदेव,हरीतक्यादिषुव्यक्ति॑रित्युक्तत्वादिति भावः ।", "43168": "<<कंसीयपरशव्ययोर्यञञौ लुक् च>> - कंसीयमिति ।प्राक्क्रीताच्छः॑इत्यधिकारेतस्मै हित॑मिति छः । तस्यै छस्यापवादतयाउगवादिभ्यो यत् -परशव्यं दारु । परशव्यशब्दस्याऽनुदात्तादित्वादञि[#ः] सिद्धे तत्संनियोगेन यतो लुगर्थं वचनम् । नचयस्येति॑यलोपे कृतेहलस्तद्धितस्ये॑ति यलोपेन सिद्धमिष्टमिति भ्रमितव्यम्, ईतीत्यनुवृत्तेः । इति तत्त्वबोधिन्याम् विकारार्थाः प्राग्दीव्यतीयाश्च ।अथ विसर्गसन्धिः॥ — — — — — — — विष्णुस्त्रातेति । प्रातिपदिकात्स्वैजसमौ॑डिति सुप्रत्यये तस्य रुत्वेखरवसानयो॑रिति विसर्गे च कृतेविसर्जनीयस्य स॑ इति सः । अस्य च रुत्वं नाशङ्क्यम्, रुत्वं प्रति विसर्जनीयसत्वस्याऽसिद्धत्वात् ।", "44001": "<<प्राग्वहतेष्ठक्>> - तदाहेति माशब्दादिभ्य उपसंख्यानम् । तदाहेतीति । वाक्यादयं प्रत्ययविधिः, शब्दो माकारीति यो निशेधति समाशब्दिक॑इत्युच्यते । तथा नित्यः शब्द इति य आह सनैत्यशब्दिकः॑ ।कार्यशब्दिकः॑ । इह वाक्याद्द्वितीया न सम्भवति, अप्रतिपदिकत्वात् । तेन तच्छब्देन कर्ममात्रं निर्दिश्यते । तच्च वाक्यार्थरूपमित्याहुः । ऐज्य स्यादिति ।न य्वाभ्या॑ मिति प्राप्त ऐजागमोऽनेन निषिध्यते,न कर्मे॑त्यतो नञनुवर्तनादिति भावः ।", "44002": "<<तेन दीव्यति खनति जयति जितम्>> - तेन दीव्यति । इह कालपुरुषसङ्ख्या न विवक्षिताः, तेनाक्षैरदेवीत् देविष्यति वा आक्षिक इति भवति । एवमक्षैर्देविष्यसि देविष्यामि वा आक्षिकः, दीव्यन्ति दीव्यथ दीव्यामो वा आक्षिकाः । कारकं तु विवक्षितमेव,जयति, जित॑मिति कर्तृकर्मणोः पृथगुपादानात् । तेनाक्षैद्र्यूतः, अक्षैः खात इति कर्माद्यर्थे आक्षिक इति न भवति । अभ्र्येति ।अभ्रिः स्त्री काष्ठकुद्दालः॑इत्यमरः ।", "44003": "<<संस्कृतम्>> - संस्कृतम् । योग विभाग उत्तरार्थःष । बाहुकेति । सूत्रे षकारः सांहितिको, न त्वनुबन्ध इति न ङीष् । तथा चआकर्षात्पर्पादेः॑ इत्यादि श्र्लोकवार्तिकं षित्त्वविवेचनाय प्रकरणान्ते पठिष्यति । निकषोपल इति । सुवर्णपरीक्षार्थः ।", "44004": "", "44005": "", "44006": "", "44007": "", "44008": "", "44009": "<<आकर्षात् ष्ठल्>> - पाठान्तरमिति । एतच्च भ्वादौकषखषे॑त्यादिदण्डकेआकषात्ष्ठ॑लिति माधवेनोपन्यस्तम् । किन्तुआकर्षात्पर्पादे॑रिति वार्तिकस्याननुगुणम् । तत्र हि नीरेफपाठे वृत्ताऽसङ्गप्रसङ्गात् ।", "44010": "<<पर्पादिभ्यः ष्ठन्>> - पर्प इति ।पर्प गतौ॑ ।हलश्चे॑ति करणे घञ् । इहन्तर्गणसूत्रंपादः पच्चे॑ति । पादाभ्यां चरति पदिकः । यत्तु वार्तिकंपद्भाव इके चरतावुपसङ्ख्यान॑मिति सोऽस्यैव प्रपञ्चः । प्रप, अआ, अआत्थ, रथ, जाल,(जल) न्या, व्याल, पादः पत् ।", "44011": "<<श्वगणाट्ठञ्च>> - आगणाट्ठञ्च । ठकोऽपादः ।", "44012": "", "44013": "", "44014": "<<आयुधाच्छ च>> - आयुधाच्छ छ । आयुध्यन्ते अनेनेति आयुधं ।घञर्थे कविधान॑मिति कः ।", "44015": "<<हरत्युत्सङ्गादिभ्यः>> - हरत्युत्सङ्गादिभ्यः । एभ्यस्तृतीयान्तेभ्यष्ठक् स्यादुपादत्ते नयति वेत्यर्थे । उत्सङ्ग , उडुप, उत्थित, पिटक, पिटाक ।", "44016": "<<भस्त्राऽऽदिभ्यः ष्ठन्>> - भस्त्रदिभ्यः ष्ठन् । भस्त्रा चर्मबिकारः ।॒शीर्षेभार॑शब्दोऽत्र पटते । निपातनाच्छीर्षभावः । सप्तमीसमाश्च, तत्पुरुषे कृती॑ति वा अलुक् । पक्षेशीर्षभारः॑ ।", "44017": "<<विभाषा विवधात् (विवधवीवधात्)>> - एकदेशविकृतस्येति ।वीवधाच्चेति वक्तव्य॑मिति वार्तिकं न्यायसिद्धार्थकथनपरमिति भावः । वृत्तिकृत्तु सूत्रे वीवशब्दं प्रक्षिप्यविभाषा विवधवीवधा॑दिति पपाठ ।", "44018": "", "44019": "", "44020": "<<क्त्रेर्मम् नित्यं>> - त्रेर्मम्नित्यम् । नित्यग्रहणं स्वातन्त्र्येण प्रयोगं वारयितुम् । अतएव लौलिके विग्रहवाक्येक्तिन्नदीनां प्रयोगो , न तु त्रेः, तदाह -कृत्या निर्वृत्तमिति । एवमग्रेऽपि पाकेन निर्वृत्तमिति विग्रहो बोध्यः । सङ्ख्यावाची त्रिशब्दो नेह गृह्रते, प्रत्ययाऽप्रत्यययोः प्रत्ययस्यैव ग्रहणात्,णिजां त्रयाणा॑मिति लिङ्गाच्च । ननु नित्यग्रहणेन निर्वृत्तार्थविवक्षायां मपं विना त्रिप्रत्ययान्तस्य प्रयोगनिवारणेऽपि तदविवक्षायां तस्य स्वातन्त्र्येण प्रयोगो दुर्वार इति चेत् । न ।नित्य॑मिति योगं विभज्य तत्सामर्थ्यादर्थ विशेषानादरेणैव स्वातन्त्र्यवारणात् । इमबिति । एवं च मप् कर्तव्यः ।भावप्रत्ययान्तादिमब्वक्तव्यः । तथा हि -॒भावप्रत्ययान्तादिमप् । ततःत्रेः॑ । पूर्वेण सिद्धे नियमार्थमिदं, -त्रिप्रत्ययान्त इमब्विषय एवेति । तेन त्रिपत्ययान्तस्य प्रयोगो निवर्तते । ततोनित्यम् । अनेन निर्वृत्तार्थाऽविवक्षायामपि त्र्यन्तस्य स्वातन्त्रं वार्यते । एवं च सङ्ख्यावाचित्रिशब्दस्य ग्रहणशङ्कैव नास्ति,भावप्रत्ययान्ता॑दित्यनुवृत्तेः । स्वरेऽपि विशेषो नास्ति, उदात्तनिवृत्तिस्वरेण इमप इकारस्योदात्तत्वात् ।", "44021": "<<अपमित्ययाचिताभ्यां कक्कनौ>> - अपमित्येति ।उदीचां माङः॑इति क्त्वाप्रत्यनेन सह गतिसमासः । क्त्वो ल्यप् ।मयतेरिदन्यतरस्या॑मिति इत्त्वम् ।ह्रस्वस्ये॑ति तुक् । ल्यबन्तादस्मात्तृतीयान्तात्प्रत्ययो न भवति, किन्तु वचनात्प्रथमान्तादेव ।", "44022": "", "44023": "", "44024": "", "44025": "", "44026": "<<व्यञ्जनैरुपसिक्ते>> - व्यञ्जनैरुप । व्यज्यते अनेन ओदनादिरस इति व्यञ्जनां, तद्वाचिभ्य उपसक्ति इत्यर्थे ठक्स्यात् ।", "44027": "", "44028": "<<तत् प्रत्यनुपूर्वमीपलोमकूलम्>> - तत्प्रत्यनु । वृतेरकर्मकत्वात्कथं तस्य द्वितीयान्ते नप्रतीपमित्यादिना सम्बन्ध इत्याशङ्कायामाह -क्रियाविशेषणत्वादिति । प्रतीपमिति । प्रतिगता आपोऽस्मिन्निति बहुव्रीहिः ।ऋक्पूः॑इत्यकारः समासान्तः ।व्द्यन्तरूपसर्गेभ्यः॑इति ईत्वम् । व्युत्पत्तिमात्रमिदम् । प्रतिकूलाऽनुकूलपर्याया हीमे रूढिशब्दः । आन्वीपिक इति ।अन्वीप ॑मित्यत्रऊदनोर्देशे॑इत्युत्वं तु न भवति, अदेशत्वात् ।", "44029": "<<परिमुखं च>> - परिमुखमिति ।अपपरी वर्जने॑इति परेः कर्मप्रवचनीयसंज्ञायांपञ्चम्यपाङ्परिभि॑रिति पञ्चमी ।अपपरिबहिरञ्चवः पञ्चम्या॑इत्यव्ययीभावः । ततष्ठक् । स्वामिनो मुखं वर्जयित्वा यः सेवको वर्तते स -॒पारिमुखिकः॑ । यदा तु सर्वतोभावे परिशब्दः, प्रादिसमासश्च, तदा यतो यतः स्वामिनो मुखं ततस्ततो यो वर्तते स एवमुच्यते । एवं पारिपार्िआकोऽप्यर्थद्वये बोध्यः ।", "44030": "<<प्रयच्छति गर्ह्यम्>> - प्रयच्छति । द्वितीयान्तात्प्रच्छतीत्यर्थे ठक्स्याद्यत्प्रयच्छति गर्ह्रं चेत्तत् । द्विगुणार्थे द्विगुणमिति । तादथ्र्यात्ताच्छब्द्यमिति भावः । बहुवृद्ध्युद्देश्यकदानकर्मतयाऽस्य द्रव्यस्य गह्र्रत्वम् ।वृद्धेर्वुधुषिभावो वक्तव्यः । वार्द्धुषिक इति । वृद्द्यर्थं वृद्धिः । तां प्रयच्छतीति विग्रहः । अथ कथंवृद्द्याजीवश्च वार्धुषि॑रित्यमरः, ठक्सन्नियोगेनैव वृधुषिभावस्वीकारात् । अत्राहुः — निरङ्कुशाः कवय इति । गह्र्रमिति किम् । द्विगुणं त्रिगुणं वा वृदिंध प्रत्यच्छत्यधमर्ण इत्यर्थेद्वैगुणिक॑इत्यादि माभूत् ।", "44031": "<<कुसीददशैकादशात् ष्ठन्ष्ठचौ>> - निपात्यते इति । अतएव व्याख्यातृप्रयोगोऽप्युपपद्यत इत्याशयेनोदाहरति -दशैकादशानिति ।सङ्ख्याया अल्पीयस्याः॑इति पूर्वनिपातः । उत्तमर्ण एवेति । दश दत्त्वा एकादश गृह्णातीति तस्यैव गह्र्रत्वादिति भावः ।", "44032": "<<रक्षति>> - सामाजिक इति । समजन्ति अस्मिन्निति समाजः=समूहः ।", "44033": "सामाजिक इति। समजन्ति अस्मिन्निति समाजः=समूहः।", "44034": "<<शब्ददर्दुरं करोति>> - शब्दं करोतीति । प्रकृतिप्रत्ययविभागेन व्युत्पादयतीत्यर्थः । अभिधानस्वाभाव्याद्व्युत्पादन एवायं प्रत्ययः । नेह -शब्दं करोति बर्बरः खरो वा । दार्दुरिक इति । कुलाल इत्यर्थः । वाद्यभाण्डवाचीह दर्दुरशब्दः ।स्वरूपस्य पर्यायाणां विशेषाणां च ग्रहणम् । मात्स्यिक इति ।मत्स्यस्य ङ्या ॑मिति परिगणनात्सूर्यतिष्ये॑ति यलोपाऽभावः । हारिणिक इति । नन्विदं पर्यायस्योदाहरणं न भवति, हरिणस्य मृगविशेषंत्वात्तथा चात्र पर्यायस्योदाहरणं किमिति न प्रदर्शितमिति चेत् । अत्राहुः — — आरण्यकचतुष्पात्सु हरिणे च मृगशब्दो वर्तते । यदा हरिणवाची मृगशब्दः, तदा मृगपर्यायस्योदाहरणं भवत्येवेति ।", "44035": "", "44036": "<<परिपन्थं च तिष्ठति>> - परिपन्थं च । परिमुखवदयमव्ययीभावस्तत्पुरुषो वा । क्रियाविषयत्वात्तिष्ठतेरकर्मकत्वेऽपि परिपन्थस्य कर्मत्वमस्त्येवेत्याह -द्वितीयान्तादिति । चकारो भिन्नक्रमः प्रत्ययार्थं समुच्चिनोतीत्याह -तिष्ठति हन्ति चेति ।", "44037": "<<माथोत्तरपदपदव्यनुपदं धावति>> - माथ इति । मथ्यते गन्तृभिरिति माथः ।मते विलोडने॑ । कर्मणि घञ् । पदोत्तरपदं । पदशब्द उत्तरपदं यस्य तत्पदोत्तरपदम् ।पदान्त॑मिति तु नोक्तम्, बहुच्पूर्वान्मा भूदिति ।", "44038": "", "44039": "", "44040": "<<प्रतिकण्ठार्थललामं च>> - प्रतिकण्ठमिति । कण्ठं कण्ठं प्रतीति यथार्थेऽव्ययीभावः,लक्षणेनाभिप्रती आभिमुख्ये॑इत्यनेन वा । यस्तु प्रतिगतः कण्ठं प्रतिकण्ठ इति प्रादिसमासः, तस्येह न ग्रहणं, व्याख्यानादित्याहुः ।", "44041": "<<धर्मं चरति>> - धर्म चरति । चरतिरिहाऽऽसेवायां, न त्वनुष्ठानमात्रे । तेन दैववशाद्धर्मे प्रवृत्तो दुर्वृत्तो धार्मिक इति नोच्यते । आसेवा हि स्वारसिकि प्रवृत्तिः । एवं दैववशादधर्मे प्रवृत्तो यः सद्वृत्तः स आधर्मिक इति नोच्यते ।", "44042": "<<प्रतिपथमेति ठंश्च>> - प्रतिपथमिति । वीप्सयामाभिमुख्ये वाऽव्ययीभावः ।ऋक्पू॑रिति समासान्तः ।", "44043": "<<समवायान् समवैति>> - समवायान् । समूहवाचिभ्यो द्वितीयान्तेभ्यष्ठक्स्यात्समवैतीत्यर्थे । इह समवपूर्वस्येणोऽर्थः प्राविश्यैकदेशीभवनम् । तत्र गुणभूतप्रवेशाऽपेक्षया समवायानिति द्वितीयानिर्देशः । विशेष्यापेक्षया तु लोके सप्तमी प्रायेण प्रयुज्यते -॒कुरुक्षेत्रे समवेताः॑इति यथा ।एत्येधती॑ति वृद्धिरिह न भवति, एजादित्वाऽभावात् ।", "44044": "", "44045": "<<सेनाया वा>> - सैन्याः सैनिका इति । द्वितीयान्ताण्ण्यठकौ । यत्तुसेनायां समवेता ये सैन्यास्ते सैनिकाश्च ते॑इति निघण्टुषूक्तं तत्फलितार्थकथनपरं बोध्यम् ।", "44046": "<<संज्ञायां ललाटकुक्कुट्यौ पश्यति>> - संज्ञायाम् । ललाटकुक्कुटीशब्दाभ्यां द्वितीया । ताभ्यां पश्यतीत्यर्थे ठक्स्यात् । सम्यग्ज्ञानं संज्ञा=प्रसिद्धिः, तस्याम् । प्रसिद्धिविषयभूतेऽर्थं इत्यर्थः । लालाटिक इति । दूरे स्थित्वा प्रभोर्ललाटं पश्यति न तु कार्येषूपतिष्ठत इत्यर्थः ।लालाटिकः प्रभोर्भालदर्शी कार्याऽक्षमश्च यः॑ । कौक्कुटिको भिक्षुरिति । संन्यासी हि पादविक्षेपपर्याप्तदेशपर्यन्तमेव चक्षुः संयम्य गच्छतीति भावः ।", "44047": "<<तस्य धर्म्यम्>> - धम्र्यमिति । धर्मादनपेतं धम्र्यम् ।धर्मपथ्यर्थन्यायादनपेते॑इति यत् ।", "44048": "", "44049": "", "44050": "<<अवक्रयः>> - अवक्रयः । अवक्रीयते अनेनेति करणेएरच् ।", "44051": "<<तदस्य पण्यम्>> - पण्यमिति । पणितव्येऽर्थेअवद्यपण्ये॑ति यदन्तो निपातितः ।", "44052": "", "44053": "", "44054": "<<शलालुनोऽन्यतरस्याम्>> - शलालुक इति ।इसुसुक्तान्तात्कः॑ । ठक्पक्षे त्वादिवृद्धिः । शालालुकः । मार्दङ्गिक इति । मृदङ्गशब्देन मृदङ्गवादनं लक्ष्यते । मुख्यार्थे तु प्रयोगो न भवति, अनभिधानादिति भावः ।", "44055": "<<शिल्पम्>> - शिल्पं — क्रियाकौशलम् । तच्च मृदङ्गवादनविषयकम् । तेन मृदङ्गवादनविषयके मृदङ्गशब्दस्य लक्षणेति निष्कर्षः ।", "44056": "", "44057": "<<प्रहरणम्>> - प्रहरणम् । प्रह्यियते अनेनेति प्रहणमायुधम् । धानुष्क इति ।इसुसुक्तान्तात्कः॑ ।इणः षः॑इति विसर्गस्य षः ।", "44058": "<<परश्वधाट्ठञ्च>> - परआधाट्ठञ् । चाट्ठक् ।द्वयोः कुठारः स्वधितिः परशुश्च परआधः॑ । परलोक इति । एतच्चाबिधानशक्तिस्वाभाव्याल्लभ्यते ।", "44059": "", "44060": "<<अस्तिनास्तिदिष्टं मतिः>> - आस्तिक इति । अस्तिनास्तिशब्दौ निपातौ । यद्वा वचनसामर्थ्यादस्तीत्याख्यातात्, नास्तीति निपाताख्यातसमुदायाच्च प्रत्ययः । दिष्टमिति ।दैवं दिष्टं भागधेय॑मित्यमरः ।॒नालम्बते दैष्टिकता॑मिति माघः ।प्रमाणानुगा मतिर्दिष्टा॑ — इति प्राचोक्तिस्तूपेक्ष्या । दिष्टशब्दस्य स्त्रीत्वे, प्रमाणानुगमतिवाचकत्वे चोक्तकोशविरोधादिति दिक् ।", "44061": "", "44062": "<<छत्रादिभ्यो णः>> - छत्रादिभ्यो णः ।छत्रादिभ्योऽ॑णित्येव सुवचमितिकार्मस्ताच्छील्ये॑इति सूत्रे कैयटः । ताच्छील्ये णे इति । कर्मन्शब्दस्य छत्रादित्वादिति भावः । चौरीत्यादि । चुरा शीलमस्याः, तपः शीलमस्या इति विग्रहे णप्रत्यये सति तदन्तान्ङीप् सिद्ध्यतीत्यर्थः ।", "44063": "<<कर्माध्ययने वृत्तम्>> - कर्माध्ययने ।तदस्ये॑त्यनुवर्तते, ठगिहाधिक्रियत । एव तदाह -प्रथमान्तादित्यादि । ऐकान्यिक इति । एकमन्यदिति विगृह्र॒तद्धितार्था ॑इति समासः, ततष्ठक् । एवं द्वैयन्यिकः त्रैयन्यिक इत्युदाहार्यम् । इह तु वृदिंध बाधित्वान ध्वाभ्या॑ मित्यैच् ।", "44064": "", "44065": "<<हितं भक्षाः>> - हितं भक्षाः ।अस्ये॑ति प्रकृतमपीह हितयोगाच्चतुथ्र्या विपरिणम्यते,तदस्मै॑इत्यस्यापकर्षो वेत्याशयेनाह -अपूपभक्षणं हितमस्मा इति । अपूपशब्दस्तद्भक्षणे लाक्षणिक इति भावः ।", "44066": "", "44067": "<<श्राणामांसौदनाट्टिठन्>> - श्राणा ।यवागूरुष्णिक श्राणा विलेपी तरला च से ॑त्यमरः । टिठनिति । इकार उच्चारणार्थः । टो ङीबर्थः । सङ्घातविगृहीतार्थमिति ।ओदनिक॑इत्यत्र हि वृद्धिनिवारणाऽयं टिठन्नारब्धः । अन्यथा लाघवाट्ठञमेव ब्राऊयादिति भावः ।", "44068": "", "44069": "<<तत्र नियुक्तः>> - आकरिक इति ।खनिः स्त्रियामाकरः स्या॑दित्यमरः ।", "44070": "", "44071": "<<अध्यायिन्यदेशकालात्>> - अध्ययिन्य । अदेशकालात् किम् । काश्यामधीते । पूर्वाह्णे अधीते ।", "44072": "<<कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति>> - कठिनान्त । प्रस्तारसंस्थानशब्दौ सन्निवेशपर्यायाविति बहवः । प्रस्तारो यज्ञः ।प्रे स्त्रोऽयज्ञे॑इति घञ् । संस्थानं संनिवेश इत्येके ।", "44073": "<<निकटे वसति>> - नैकटिको भिक्षुरिति । सन्यासी हिल ग्रामस्य निकटे वसन्भिक्षार्थमेव ग्रामे प्रविशति, न तु तत्र वसतीति भावः ।", "44074": "<<आवसथात् ष्ठल्>> - आवसथात् । लकारः स्वरार्थः । आवसन्त्यस्मिन्नित्यावसथः ।उपसर्गे वसेः॑इत्यप्रत्ययः । आकर्षत्पर्पादेर्भस्त्रादिभ्यः कुसीदसूत्राच्च ।कुसीदसूत्रादिति ।कुसीददशैकादशा॑दिति सूत्रोपात्ताभ्यां प्रकृतिभ्यामित्यर्थः । इहनौव्द्यचष्ठ॑नित्यत्रेव येषां षकारः सांहितिक इति सम्भाव्यते तेषामेव गणने ष्ठलादेः षित्त्वामनार्षमिति भ्रमः स्यादतः श्र्लोकवार्तिककारः षित्प्रत्ययान्सर्वानपि पर्यजीगणत् । ठकोऽवधिः समाप्तः ।इति तत्त्वबोधिन्यां ठगधिकारः ।", "44075": "", "44076": "<<तद्वहति रथयुगप्रासङ्गम्>> - युग्य इति । युगं रथाङ्गं वहतीत्यर्थः । प्रासङ्ग इति । प्रासज्यते असाविति कर्मणि घञ् ।", "44077": "<<धुरो यड्ढकौ>> - धुरो ।धुरो ढक् चे॑त्येव सुवचम् ।", "44078": "<<खः सर्वधुरात्>> - खः सर्वधुरात् ।सर्वधुराया॑इति वक्तव्ये नपुंसकनिर्देशः शब्दस्वरूपापेक्षयाबन्धुनि बहुव्रीहौ॑इतिवत् । सर्वधुरामिति ।पूर्वकालैके॑ति समासः ।ऋक्पूरब्धुः -॑इति समासान्ते अप्रत्यये टाप् ।", "44079": "<<एकधुराल्लुक् च>> - एकधुराल्लुक् च । चात्खः । एवं च प्राकरणिकस्य यतो लुक्, खस्य तु विधानसामर्थ्याच्छ्रवणमिति फलितं, तदाह -एकधुरीण इत्यादि ।", "44080": "<<शकटादण्>> - शाकटो गौरिति । ननुतस्येद ॑मित्यणा सिद्धम् । यौ हि शकटं वहति शकटस्यासौ भवति । अत्राहुः -आरम्भसामर्थ्यादत्र तदन्तविधिः । तेन द्वे शकटे वहति द्वैशकट इत्यत्रद्विगोर्लुगनपत्ये॑इति प्राग्दीव्यतीयो लुङ् न भवति,तस्येद॑मित्यणि तु स्यादेव लुगिति ।", "44081": "<<हलसीराट्ठक्>> - हलसीरात् । ननुतस्येद॑मित्युपक्रमेहलसीताट्ठ॑गिति पठितम् । तथा च तेनैव शैषिकेण हालिकः सैरिक इति सिद्धौ किमनेनेति चेत् । सत्यम् । आरम्भसामर्थ्यादत्रापि तदन्तविधिः । तेन द्वैहलिको द्वैसीरिक इति भवति, शैषिके ठकि तु प्राग्दीव्यतीयो लुक् स्यात् । जायते अस्यां गर्भ इति व्युत्पत्तिमाश्रित्य आह — ।", "44082": "<<संज्ञायां जन्याः>> - जनी वधूरिति ।जनिघसिभ्यामिण् ।जनिवध्योश्चे॑ति न वृद्धि ।कृदिकारा॑दिति ङीष् । ततोऽनेन सूत्रेण यति जन्या=जामातुर्वयस्या । सा हि विवादादिषु वधूं जामातृसमीपं प्रापयति । कालिदासस्तु वध्वा यानवाहेष्वपि प्रायुङ्क्तः -॒यतोति जन्यानवदत्कुमारी॑ति । जनीं वहन्तीति जन्यस्तानित्यर्थः ।", "44083": "<<विध्यत्यधनुषा>> - पद्या इति ।पद्यत्यतदर्थे॑इति पद्भावः । अधनुषा किम् । चोरं विध्यति । सम्भाव्यते हि चोरब्यधने धनुषः करणता । यदा तु धनुषेति प्रयुज्यते तदा सापेक्षत्वादेव न भवति । एवं चन चेत्तत्र धनुः करण॑मित्यत्रसम्भव्यते॑इति शेषो बोध्याः ।", "44084": "<<धनगणं लब्धा>> - तृन्नन्तमिति । एवं चन लोके॑त्यादिना कृद्योगषष्ठआ निषेधात्धनगण ॑मिति प्रयोगो निर्बाध इति भावः ।", "44085": "", "44086": "<<वशं गतः>> - वशं गतः । वशनं वशः -इच्छा ।वशिरण्योरुरसङ्ख्यान॑मित्यप् ।", "44087": "", "44088": "<<मूलमस्याबर्हि>> - मूलमस्याबर्हि । प्रथमान्तादाबर्हि इत्युपाधिकान्मूलशब्दादस्येति षष्ठर्थे यत्स्यात् । आवर्ह इति ।वृहू उद्यमने॑दन्त्योष्ठआदिरयम्, न तु परवर्गादिः,उद्वृह रक्षः सहमूलनिन्द्रे॑त्यादिप्रयोगदर्शनात् । मूल्या मुद्गा इति । मूलोत्पटनं विना सङ्ग्रहीतुमशक्याः, मध्यतो लूयमानेषु कोशस्था अपि सयस्यामवस्थायां पतेयुस्तमवस्थां प्राप्ताः । सुष्ठु शुष्का इति यावत् । यप्रत्यय इति । तेनधेनुष्याशब्दोऽन्त उदात्तः । यतु तु तित्स्वरः स्यादिति भावः ।", "44089": "<<संज्ञायां धेनुष्या>> - संज्ञायामिति । ऋणप्रत्यर्पणाय या धेनुर्दोहनार्थमुत्तमर्णाय दीयते तस्या संज्ञेयम् ।", "44090": "<<गृहपतिना संयुक्ते ञ्यः>> - गार्हपत्य इति ।गृहपतिने॑ति निर्देशादेव तृतीयान्तात्प्रत्ययः ।संज्ञाया॑मित्यनुवृत्तेराहवनीयादौ नातिप्रसङ्गः ।", "44091": "<<नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्य- वध्यानाम्यसमसमितसम्मितेषु>> - नौवयोधर्म । नावादिभ्यो यथासङ्ख्यं तार्यादिष्वष्टस्वर्थेषु यत्स्याते । इह तार्यादियोगे यथासम्भवं करणे कर्तरि हेतौ तुल्यार्थयोगे च तृतीया भवतीति सैवेह समर्थविभक्तिरर्थाल्लभ्यते । अत्र प्रथमं मूलान्तानां पञ्चानां द्वन्द्वं कृत्वा द्वितीयमूलादिद्वन्द्वेन सह समाहारद्वन्द्वः । मूलान्तानां द्वित्राणां वा मूलादीनामेव वा द्वन्द्वं कृत्वा नावादिषु द्वन्द्वः । तेन सारुप्याऽभावादेकशेषो न भवति । नावा तार्यमिति । शक्यार्थेऋहलोण्र्यत् । करणे तृतीया । वयस्य इति ।रिउआग्धो वयस्यः सवयाः॑इत्यमरः ।वयसा तुल्यः शत्रु॑रित्यत्र तु न भवति । संज्ञाधिकारात् । विषेण वध्य इति । विषेण वधमर्हतीत्यर्थः ।दण्डादिभ्यः॑इति सूत्रेण वधशब्दादर्हार्थे यद्विधानात् । मूलेनाम्यमिति । मूलं नाम पटादीनामुत्पत्त्यर्थं वणिग्भिर्विनियुक्तं द्रव्यम् । तेन स्वस्मादतिरिक्तं लाभाक्यं यद्द्रव्यमात्मानं प्रति शेषीक्रियते=आत्मन उपकारकं क्रियते , तत् -आनाम्यम् । आङ्पूर्वको नमिरभिभवे वर्तते, तस्मात्पोरदुपधा॑दिति यति प्राप्ते अतएव निपातनाण्ण्यत् । तथा चानाम्यमभिभवनीयम्ात्मानं प्रति शेषीकर्तव्यम् । स च लाबाख्यो भाग एव.लोके तु यावता द्रव्येण पटादिकं विक्रीयते तत्रैव समुदाये मूल्यशब्दः प्रसिद्धो, न तु मूलातिरिक्तभागमात्रे । एवं च लाभमात्रे व्युत्पादितस्य मूल्यशब्दस्यच तद्धटिते सङ्घाते निरूढलक्षणा बोध्या । सीतेति । सीता=हलाग्रं । सम्पूर्वादिणः क्तः । समितं=सङ्गतं, निम्नोन्नता दिरहितं कृतमित्यर्थः । समीकृतमिति यावत् ।रथसीताहलेभ्यो यद्विधौ॑ इति तदन्तविधिः । परमसीत्यम् । द्वाभ्यां सीताभ्यां समितमिति तद्धितार्थे समासस्ततो यत् । द्विसीत्यम् । तुलया संमितमिति । संमितं=परिच्छिन्नम् । रूढिशब्दोऽयंसंज्ञाया॑मित्यधिकारात् । अतएवतुल्य॑मिति सदृशमात्रे प्रयुज्यते, न तु तुलायामागद्रहः क्रियते ।", "44092": "<<धर्मपथ्यर्थन्यायादनपेते>> - पथ्यमिति । संज्ञाधिकारादभिधेयनियमः, तेन शास्त्रीयात्पथोऽनपेतमेव पथ्यम् । न तु मार्गादनपेतश्चोरोऽपि ।", "44093": "<<छन्दसो निर्मिते>> - छन्दसो ।छदि संवरे॑इति चुरादिरिच्छायामपि वर्तते, धातूनामनेकार्थत्वात् । ततो घञि इच्छापर्यायश्छन्दः — शब्दः प्रसिद्ध एवस्वच्छन्दोच्छलदच्छकच्छे॑त्यादौ । असुनि तु यः सान्तः सोऽत्र प्रकृतिः । तत्र निर्माणे इच्छायाः करणत्वत्सामर्थ्यात्तृतीयान्तात्प्रत्ययः । इच्छया कृतमिति । यद्यपिवेदे त्रिष्टुबादिषु च सान्तश्छन्दः शब्दोऽस्ति, तथापीह न गृह्रते, संज्ञाधिकारात्, किं त्विच्छापर्याय एव स गृ-ह्रत इति भावः ।", "44094": "<<उरसोऽण् च>> - पुत्र इति । संज्ञाधिकारान्नेह — उरसा निर्मितं सुखम् ।", "44095": "<<हृदयस्य प्रियः>> - ह्मदयस्य । प्रीणतीति प्रियः ।इगुपधे॑ति कः । कृद्योगात्कर्मणि षष्ठी, अलौकिके तद्धित प्रकृतिभागे तु वचनसामर्थ्यादेव । एवमन्यत्रापि बोध्यम् ।", "44096": "<<बन्धने चर्षौ>> - बन्धने । बध्यतेऽनेनेति बन्धनः । करणे ल्युट् । वशीकरणमन्त्र इति । ते नहि परह्मदयं वशीक्रियते । संज्ञाधिकारद्व सिष्ठादावृषौ नायं यत् ।", "44097": "<<मतजनहलात् करणजल्पकर्षेषु>> - मत । तस्य करणमिति । कर्मणि षष्ठी । कृतिः -करणं, क्रियतेऽनेनेति वा तरणमित्याशयेनाह -भावः साधनं वेति । जल्पशब्दो भावसाधनः । कर्तरि षष्ठी । हलस्येति । कर्षणं -कर्षः । तद्योगात्कर्मणि षष्ठी । करहणस्य कर्तृत्वविवक्षायां कर्तरि षष्ठी वा ।रथसीते॑ति तदन्तविघिः । द्विहल्यः । त्रिहल्यः ।", "44098": "<<तत्र साधुः>> - तत्र साधुः । सा४धुरिह प्रवीणो योग्यो वा गृह्रते, निपकर्ता । तत्र हि परत्वात्तस्मै हित॑मित्येन भाव्यम् । संज्ञाधिकारादुपकर्ता न गृह्रत इत्यन्ये ।", "44099": "<<प्रतिजनादिभ्यः खञ्>> - प्रतिजनमिति । जनंजनं प्ति[जनो जन इति] प्रतिजनम् । वीप्सायामव्ययीभावः । प्रतिजन, इदंयुग, संयुग, पापकुल, परस्यकुल, अमुष्यकुल, सर्वजन, विआजन, पञ्चजन ।परस्य॒॑अमुष्य॑इति षष्ठएषा निपातनादलुक् ।", "44100": "<<भक्ताण्णः>> - भक्ते इति ।भस्सां स्त्री भक्तमन्धोऽन्न॑मित्यमरः ।", "44101": "", "44102": "", "44103": "<<गुडादिभ्यष्ठञ्>> - वसतिरिति ।वसेश्च॑त्यतिप्रत्ययः । स्वस्य पति स्वपतिः=आढ्यः, तस्मिन्साधु स्वापतेयम् । सभाया यः । यति तु तित्स्वरः स्यात्,क्रतुर्भवत्युक्थ्यः॑इति वत् । न चयतोऽनावः॑इत्याद्युदात्तता शङ्क्या ।यदुत्पत्तिवेलायां व्द्यच्कस्य यदन्तस्यादिरुदात्तः॑इति वेदभाष्ये स्थापितत्वात् । पक्षान्तरे तुनमः शष्प्याय च फेन्याय च॑इत्यादिवदाद्युदात्तः स्यात् । एवं च व्याख्यानद्वयस्याप्यावश्यकत्वे लक्ष्यमुरोधेन क्वचित्कचिव्द्याख्येयमिति तत्त्वम् ।", "44104": "वसतिरिति। `वसेश्च`त्यतिप्रत्ययः। स्वस्य पति स्वपतिः=आढ्यः, तस्मिन्साधु स्वापतेयम्। सभाया यः। यति तु तित्स्वरः स्यात्, `क्रतुर्भवत्युक्थ्यः`इति वत्। न च `यतोऽनावः`इत्याद्युदात्तता शङ्क्या। `यदुत्पत्तिवेलायां व्द्यच्कस्य यदन्तस्यादिरुदात्तः`इति वेदभाष्ये स्थापितत्वात्। पक्षान्तरे तु `नमः शष्प्याय च फेन्याय च`इत्यादिवदाद्युदात्तः स्यात्। एवं च व्याख्यानद्वयस्याप्यावश्यकत्वे लक्ष्यमुरोधेन क्वचि�त्कचिव्द्याख्येयमिति तत्त्वम्।", "44105": "", "44106": "", "44107": "<<समानतीर्थे वासी>> - समानतीर्थे वासी । निपातनाण्णिनिः, ग्रहादेराकृतिगणत्वान्नन्दिग्रहीत्यनेन वा । सतीथ्र्य इति ।तीर्थे ये॑इति सभावः । तरन्त्यनेनेति तीर्थम् ।तरतेस्थक् ।तीर्तं शास्त्राध्वरक्षेत्रोपायोपाध्यायमन्त्रिषु । योनौ जलावतारे चे॑ति विआः । इह तूपाध्यायवाचिन एव ग्रहणं, नाऽन्यस्य, संज्ञाधिकारात् ।", "44108": "<<समानोदरे शयित ओ चोदात्तः>> - शयितः स्थित इति । शीधातुः स्थित्यर्थे वर्तते ।जलाशयः॑कुशेशय॑मिति प्रयोगादिति भावः । समानमुदरमितिपूर्वापरप्रथमे॑त्यादिना तत्पुरुषःष ततो यत्, तित्स्वरापवाद ओकारस्योदात्तः ।", "44109": "<<सोदराद्यः>> - सोदराद्यः ।ओ चोदात्तः॑इति नानुवर्तते ।विभाषेदरे॑इति समानस्य सभावः । तत्रतीर्थे ये॑इत्यतोऽनुवृत्तंये इत्येतद्विषयसप्तमी । तेन सोदर इत्यस्माद्यः । प्रत्ययस्वरः । प्राग्वदीति । समानोदारे शयित इत्येवार्थ इत्यर्थः । कथं तर्हिअपनेथानं तु गच्छन्तं सोदरोऽपि विमुञ्चती॑ति मुरारिरिति चेत् । अत्राहुः — — सह=समानमुदरं यस्य सोदरः ।वोपसर्जनस्ये॑ति सहस्य सभावः । तस्य च वैकल्पिकत्वात्यत्र भ्राता सहोदरः॑इत्याद्यपि सिद्धमिति । इति तत्वबोधिन्यां प्राग्घितीयाः ।", "44110": "", "44111": "", "44112": "", "44113": "", "44114": "", "44115": "", "44116": "", "44117": "", "44118": "", "44119": "", "44120": "", "44121": "", "44122": "", "44123": "", "44124": "", "44125": "", "44126": "", "44127": "", "44128": "", "44129": "", "44130": "", "44131": "", "44132": "", "44133": "", "44134": "", "44135": "", "44136": "", "44137": "", "44138": "", "44139": "", "44140": "", "44141": "", "44142": "", "44143": "", "44144": "", "51001": "<<प्राक् क्रीताच्छः>> - प्राक् क्रीताच्छः । इत्यतः प्रागिति । इहार्थोऽवधित्वेन गृह्रते, न तु प्रत्ययः, प्रकृतिर्वा । तेनाऽर्थ एवावधिमान्त इति प्राक्कीताद्येऽर्था हितादयस्तेष्वस्योपस्थानम् । अवधिसजातीयो ह्रवधिमान् भवति । यथामासात्परः॑इति कालः प्रतीयते,ग्रामात्पूर्वः॑इति देशः,अलोऽन्त्यात्पूर्व॑इत्यलेव । एवं च समानेऽर्थे प्रकृतिविशेषादुत्पद्यमानो यदादिः प्रकृत्यन्तरे सावकाशं छं तक्रकौण्डिन्यन्यायेन बाधते । अन्यथा छस्य यदादेश्च संनिधानाऽविशेषत्तव्यत्तव्यानीयरामिव पर्यायः स्यात् । अतोऽत्रार्थोऽवधित्वेन गृह्रते । ननु यदादिविषये छो न भविष्यतिविभाषा हविरपूपादिभ्यः॑इति विभाषागद्रहणाल्लिङ्गात् । तथा च प्रत्ययस्य प्रकृतोर्वा अवधित्वस्वीकारेऽपि न क्षतिः । उक्तज्ञापकेनोगवादिप्रभृतिभ्यश्छस्यातिप्रसङ्गनिरासादिति चेत् । अत्राहुः — — एवं सतुछः॑इत्यावाधिकारोऽस्तु, नार्थोऽवधिनिर्देशेन । प्राग्वतेष्ठ॑ञित्यादिके तु प्रकरणे नास्याधिकारः, अधिकारान्तरेणोपष्टब्धत्वात् । स्पष्ठप्रतिपत्त्यर्थमवधिनिर्देशः, अन्यथा प्रतिपत्तिगौरवं स्यादिति चेत् । तर्हिविभाषा हवि॑रित्यादिज्ञापकाश्रयणे प्रतिपत्तिगौरवादर्थ एवावधित्वेन निर्देष्टुमुच#इत इति । उगवादिभ्यो । उवर्णादेर्गशब्दादेर्वशब्दादेश्च यत्स्यादित्यर्थो न भवति, गवादिगणपाठात् । गवाद्यन्तर्गणसूत्राण्याह -नाभि नभं चेति । नाबिशब्दो यतं लभते, नभादेशं चेत्यर्थः । नभ्योऽक्ष इति । रथाङ्गं सच्छिद्रं -नाभिः । तदनुप्रविष्टः काष्ठविशेषोऽक्षः । स च तदनुगुणत्वात्तस्मै हितः । अञ्जनं =तैलाभ्यङ्गः, तदपि स्नेहनत्वान्नाभये हितम् । रथमाभावेवेति । शरीरावयवे तु नाभ्यमित्येव, परेणशरीरावयवाद्य॑दित्यनेनाऽस्य बाधादिति भावः । शुनःसं । शून्यमितचि । चकारस्यानुक्तसमुच्चयार्थत्वात्नस्तद्धिते॑इति टिलोपोन भवति ।ये चाभावकर्मणोः॑इति प्रकृतिभावस्तु दुर्लभः, संप्रसारणे पररूपे च कृते अन्रूपाऽभावात् । दीर्घपक्षे तु तद्विधान सामर्थ्यादपि टिलोपाऽभावः सुपरिहरः । नङ् चेति । चाद्यत् ।नश्चे॑ति सुवचमिति मनोरमा । अन्ये त्वाहुः — — ऊधन्यशब्दात्तत्करोति तदाचष्टे॑इति णिचिणाविष्ठव॑दिति टिलोपे णिजन्तात्कर्तरि क्विपि णिलोपयलोपयोः कृतयोःअनुनासिकस्य क्वी॑ति दीर्घे ततः क्विबन्तादाचारक्विपिऊधानते॑इत्यादावात्मने पदार्थ नङो ङित्करणमावश्यकमिति । ऊधन्य इति ।ये चे॑ति प्रकृति भावः ।", "51002": "", "51003": "<<कम्बलाच्च संज्ञायाम्>> - कम्बलाच्च संज्ञायाम् । प्राक्क्रीतीयेष्वर्थेषु यत्स्यात् । छस्यापवादः ।", "51004": "<<विभाषा हविरपूपादिभ्यः>> - विभाषा हविरपूपादिभ्यः । गवादिषु हविःशब्दस्य पाठादिह हविविशेषणां ग्रहणम् । न च गवादिष्वेव हविर्विशेषणां ग्रहणं किं न स्यादिति वाच्यम्, असंजातविरोधित्वेन तत्र स्वरूपग्रहणस्य न्याय्यत्वात् । अपूप्यमिति । अपूपेभ्यो हितं चूर्णमित्यर्थः । अपूप, तण्डुल, पृथक्, मुसल, कर्णवेष्टकेत्याद्यपूपादिगणे अन्नविकारेभ्येश्चेति पठते । अन्नविकाराः=अन्नप्रकारा अदनीयविशेषास्तेभ्यो यद्वा स्यादिति तदर्थः । आदन्या ओदनीयास्तण्डुलाः । एवं चानेनैव गणसूत्रेण सिद्धे अपूपादीनां केषाचिद्गणे पाठः प्रपञ्चार्थः ।", "51005": "<<तस्मै हितम्>> - ॒हविरपूपादिभ्यो विभाषाया उगवादिभ्यो यत्पूर्वविप्रतिषेधेन॑ । सक्तव्या धानाः । चस्व्यास्तण्डुलाः । चरुर्नाम हविरिति काशिका । स्थालीवचनस्य चरुशब्दस्य तत्रत्ये हविषि उपचाराद्वृत्तिरिति कैयटादयः ।", "51006": "<<शरीरावयवाद्यत्>> - नस्यमिति । नासिकायै हितम् ।नासिकायां भव॑मिति विग्रहे तुशरीरैवयवाच्चे॑ति यत् । नस्यम् । तस्युदाहरणं -नस्तः ।अपादाने चाहीयरुहो॑रिति तसिः । क्षुद्रे तु — नासिकायाः क्षुद्रो नःक्षुद्रः ।सुप्सुपे॑ति समासः । नाभ्यमिति ।नाभि नभं चे॑ति नभादेशो रथनाभावेव प्रवर्तते, तस्य गवादियता संनियोगशिष्टत्वादिति भावः ।", "51007": "<<खलयवमाषतिलवृषब्रह्मणश्च>> - खलयव । अत्र वृषशब्दोऽकारान्तो गृह्रते न तु नकारान्तः । अन्यथा ह्रसदेहार्थं नलोपमकृत्वै निर्दिशेत्,आत्मन्विआजने॑ति वत् । वृषाय हितं वृष्यम् । नान्ताद्यति तु — — वृषण्यमिति स्यात् । ब्राहृण्यमिति । ब्राहृन्शब्दो ब्राआहृणपर्यायः । प्रकृतिभावस्तुये चे॑त्यनेन पूर्ववत् । इह वृषन्शब्दाद्द्ब्राहृणशब्दाच्च यतः प्राप्तिरेव नास्ति । छेऽप्यनभिधानान्नेत्याकरः । तेन -वृष्णे हितं , ब्राआहृणेभ्यो हितमिति वाक्यमेव । चाद्रथ्येत । गवादिषुरथशब्दो न पठितः । हितार्थ एव रथ्येति स्यात्, अर्थान्तरे मा भूदिति ।", "51008": "<<अजाविभ्यां थ्यन्>> - अजादिभ्याम् । अजशब्द इह पुंलिङ्ग उपात्तः । अतएवद्वन्द्वे घी॑त्यविशब्दस्य पूर्वनिपातं बाधित्वाअजाद्यदन्त॑मिति अजशब्दस्य पूर्वनिपातः कृतः ।प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापी॑ति स्त्रीलिङ्गादपि थ्यन् । तसिलादिषु थ्यनः परिगणनात्पुंवद्भावे रूपं तुल्यम् । अजथ्येति । अजेभ्यो आजाङ्यो वा हितेति विग्रहः ।", "51009": "", "51010": "<<सर्वपुरुषाभ्यां णढञौ>> - सर्वपुरुषाभ्याम् । आभ्यां शब्दाभ्यां यथासङ्ख्यं णढञौ स्तस्तस्मै हितमित्यर्थे,प्राक्क्रीता॑दिति छस्यापवाद इति सूत्रार्थः ।सर्वाण्णो वेति वक्तव्यम् । सर्वादिति । अनुकरणत्वात्सर्वनामकार्याऽभावः ।पुरुषाद्वधविकारसमूहतेनकृतेषु । पुरुषाद्वधविकारेति । योग्यताबलादिह षष्ठी समर्थविभक्तिर्लभ्यते,तेन कृते॑त्यत्र थु उपात्तैव तृतीया । तदाह — — पुरुषस्य वध इति । समूहेऽप्यणीति ।तस्य समूहः॑इत्यनेन । ग्रन्थेऽणीति ।कृते ग्रन्थे ॑इत्यनेन । अप्राप्ते इति ।पौरुषेयः प्रासाद॑इत्यादौ न कस्याप्यपवादोऽयं ढञिति भावः ।", "51011": "<<माणवचरकाभ्यां खञ्>> - माणव । खञो ञित्करणं वृद्द्यर्थं स्वरार्थं च । यद्यपि माणवे वृद्धिः स्वतः सिद्धैव, तथापिमाणविनाभार्य॑इत्यत्रवृद्धिनिमित्तस्य चे॑ति पुंवद्भावप्रतिषेधार्थमिति ज्ञेयम् । माणवायेति । मनोः कुत्सितमपत्यं माणवः ।अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः । नकारस्य च मूर्धन्यस्तेन सिद्द्यति माणवः॑इत्यपत्याधिकारस्थवार्तिकाण्णत्वम्, तच्च वार्तिकमेतत्सूत्रस्थनिर्देशसिद्धार्थकथनपरमित्याहुः । चारकीणमिति । चरतीति चरः । पचाद्यच् ।चरिचलिपतिवदीना॑मिति द्विर्वचनं विकल्पितत्वादिह नभवति । ततः संज्ञायां कनि -चरकः ।", "51012": "<<तदर्थं विकृतेः प्रकृतौ>> - तदर्थ विकृतेः ।तस्मै हित॑मित्यतस्तस्मा इत्यनुवर्तते । तदाह -चतुथ्र्यन्तादिति ।तदर्थ॑मितिसामान्ये नपुंसकं॑ । व्यत्ययेन सप्तमीस्थाने प्रथमेत्याशयेनाह — तदर्थायामिति । विकृत्यर्थायामित्यर्थः ।त॑दिति सर्वनाम्ना हि विकृतिः परमृश्यते । एवं च विकृतिरेव प्रथमानिर्दिष्टेतिसमर्थाना प्रथमा॑दित्यधिकारोऽप्यत्र निर्बाध व । शङ्कव्यमिति ।उगवादिभ्यः॑ इति यत् ।", "51013": "<<छदिरुपधिबलेः ढञ्>> - छदिरुपधि । समाहारद्वन्द्वे सौत्रं पुंस्त्वम् । छस्यापवादोऽयम् । छादिषेयाणीति । छाद्यतेऽनेनेति छदिः ।अर्चिशुचिहुसृपिच्छादिच्छर्दिभ्य इसिः॑ ।इस्मन्त्रन्क्विषु च॑इति ह्रस्वत्वम् । यदा तु चर्मविकारश्छदिस्तदा परत्वात्चर्मणोऽ॑ञित्यञ् प्राप्नोति । पूर्वविप्रतिषेधेन तु ढञेवेष्यते । छादिषेयं चर्म । आह चयञ्ञ्यावञः पूर्वविप्रतिषिद्धम्ढञ् चे॑ति । यत उदाहरणं स्त[स]नङ्गव्यं । स्त[स]नङ्गुश्चर्मविकारस्तदर्थं चर्म ।उगवादिभ्यः॑इति यत् । ञ्यस्योदाहरणमौपानह्रमिति अनुपदं वक्ष्यति । बालेया इति ।करोपहारयोः पुंसि बलिः प्राण्यङ्गजे स्तरिया॑मित्यमरः ।उपधिशब्दात्स्वार्थे इष्यते । उपधिरिति ।उपसर्गे घोः कि॑रिति धाञःकिः ।॒आतो लोप इति चे॑त्यलोपः विप्रतिषेधेनेति ।यञ्ञ्यावञ॑इत्यादिवार्तिकेनेत्यर्थः । ननु ढञ्विधौ छदिरित्यस्य, ञ्यविधौ उपानहश्च विशिष्य ग्रहणेनप्रतिपदोक्तं बलीयः॑इति सिद्धे किमनेन पूर्वविप्रतिषेधेन । अत्राहुः — ॒निरवकाशत्वे सत्येव प्रतिपदविधित्वं बलीयस्त्वे प्रयोजकं॑, न तु सावकाशत्वे॑इत्यनेन मुनिवचनेनाऽनुमीयते । तेनस्वम्पि तडाकानि॑इत्येव युक्तं, परत्वान्नुम्प्वृत्तेः । प्रतिपदोक्तत्वाद्दीर्घमाश्रित्यस्वाम्पि तडाकानी॑ति मतं दुर्बलम् ।अप्तृन् इति दीर्घस्यआपस्तिष्ठन्ती॑त्युदाहरणे सावकाशतया प्रतिपदोक्तत्वस्याऽबलीयस्त्वादिति ।", "51014": "", "51015": "<<चर्म्मणोऽञ्>> - चर्मणोऽञ् ।तदर्थ॑मित्यादिपूर्वोक्ते अञ्स्यात् । छस्यापवादः ।चर्मणः॑इति षष्ठी न तु पञ्चमी । पञ्चम्यां तु चर्मशब्दाच्चर्मार्थायां प्रकृतौ प्रत्ययः स्यात्चर्मणे द्वीपी॑त्यादौ । न चेष्यतेचार्मणो द्वीपी॑ति । तदाह -चर्मणो या विकृतिरिति । वार्ध्र्यै इति ।वृधिवपिभ्या॑मिति रन्प्रत्यये वध्र्रशब्द आद्युदात्तश्चर्मवाची,तस्य विकारः॑इत्यण् ।टिड्ढे॑तित ङीप् । वार्ध्री रज्जुः, तस्यै । वधेरौणादिके ष्ट्रनि तु वध्रीति भवति । ततोऽञि तु वाध्रम् ।नध्री वध्री वरत्रा स्या॑दित्यमरः ।चञ्चाः पश्य, वध्रिकाः पश्य॑इति भाष्यम् ।", "51016": "<<तदस्य तदस्मिन् स्यादिति>> - तदस्य । प्रथमा समर्थात्प्रातिपदिकात्षष्ठर्थे सप्तम्यर्थे च यथाविहितं प्रत्ययो भवति । स्यादिति । संभावनेऽलमिति चे॑दित्यादिना संभावनेलिङ् । इष्टकानां बहुत्वेन प्राकार आसां स्यादित्येतत्सम्भाव्यते । देशस्य हि गुणेन प्राकारोऽस्मिन्स्यादिति सम्भाव्यते । इह प्रकृतिविकारभावस्तादथ्र्यं च न विवक्षितं, कुं तु योग्यतामात्रम् । तेन पूर्वस्याऽयमविषयः । द्विस्तच्छब्दस्य ग्रहणं स्पष्टप्रतिपत्त्यर्थम्,तदस्यास्त्यस्मि॑न्नितिवत्सकृत्तच्छब्दग्रहणेनैवेष्टसिद्धेः ।इति तत्वबोधिन्यां छयतोः पूर्णोऽवधिः ।", "51017": "", "51018": "<<प्राग्वतेष्ठञ्>> - प्राग्वतेष्ठञ् ।ठ॑ञित्येव वक्तव्येप्राग्वते॑रिति वचनं मध्ये योऽगदिकारवानपवादः,सर्वभूमिपृथिवीभ्यामणञौ॒॑शीर्षच्चेदाद्यच्चे॑त्येवमादिः, तेन विच्छेदेऽपिपारायणतुरायणे॑त्यादौ ठञेव यथा स्यादित्येवमर्थम् । न चैवं पारायणादिसूत्र एव ठञ्निर्दिश्यतामिति वाच्यम्, उत्तरसूत्रे येषां पर्युदासः क्रियते गोपुच्छादीनां तेभ्याष्ठञः प्रकृतसूत्रं विनाऽलाभात् । तथा च गौपुच्छिकः साप्ततिक इत्यादौ ठञर्थमिदं सूत्रमत्र प्रदेशे आरब्धमिति बोध्यम् ।", "51019": "<<आर्हादगोपुच्छसंख्यापरिमाणाट्ठक्>> - आर्हादगोपुच्छ । तदर्हतीति । इहतदर्ह॑मिति सूत्रान्तर्गतमच्प्रत्ययान्तं नाऽनुक्रियते किं तु तिङन्तस्यैकदेशः शबन्त एव, व्याख्यानादिति भावः । अभिव्याप्येति । तेनऔतच्छत्रिक॑इत्यत्रार्हत्यर्थे ठग्भवतीति भावः । ननु परिमाणत्पृथक्सङ्ख्याग्रहणं व्यर्थं, परिमीयते परिच्छिद्यते येन तत्परिमाणं, सङ्ख्ययापि च परिच्छिद्यत इति सापि परिमाणमेवेति चेत् । अत्र श्लोकवार्तिकम् -॒ऊध्र्वमानं किलोन्मानं परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात्सङ्ख्या बाह्रा तु सर्वतः॑ । अस्यार्थः — तुलादावारेप्य येन द्रव्यान्तपरिच्छिन्नगुरुत्वेन पलादिशब्दवाच्येन पाषाणादिना सुवर्णादिगुरुत्वमुन्मीयते तदुन्मानम् । आरोहः=उच्छ्रायः । परिणाहो=विस्तारः । ताभ्यामारोहपरिणाहाभ्यां स्वगताभ्यां येन काष्ठादिनिर्मितेन व्रीह्रादिः परिमीयते तत्परिमाणं=प्रस्थादि, । परिः सर्वतोभावे । आयामो=दैघ्र्यं, स येन मीयते तत्प्रमाणम् । तच्च क्वचित्तिर्यगवस्थितस्य वस्तुनो भवति -यथा वस्त्रादेर्हस्तादिः । क्वचिदूध्र्याधोबागावस्थितस्य भवति — — यथा हास्तिनमुदकम् । ऊरुद्धयसमुदकमिति । सङ्ख्या तु उन्मानपरिमाणप्रमाणेभ्यः पलादिप्रस्थादिहस्त्रादिभ्यस्त्रिभ्यो बहुर्भूता एकत्वद्वित्वादिरिति । इह सङ्ख्यापरिमाणयोरेव प्रकृतत्वेऽप्युन्मानप्रमाण्योर्विवेचनं प्रसङ्गात्कृतमिति बोध्यम् ।", "51020": "<<असमासे निष्कादिभ्यः>> - असमासे निष्कादिभ्यः । निष्क, पण, पाद, माष,वाह,द्रोण, षष्टि — इति सप्त निष्कादयः । तत्र द्रोणशब्दः परिमाणवाची, षष्टिशब्दः सङ्ख्यावाची, ताभ्यां ठञि प्राप्ते वचनम् । इतरेषां तु पञ्तानामुन्मानवाचित्वेन पूर्वसूत्रेणैव ठकि सिद्धे समासप्रतिषेधार्थं वचनमित्येके । अन्ये त्वाहुः — — पूर्वसूत्रे परिच्छेदकमात्रं सङ्ख्याभिन्नं परिमाणशब्देन गृह्रते । तेन सर्वेभ्यष्ठञि प्राप्ते ठग्विधानार्थं वचनम् । न चैवंपरिमाणं तु सर्वतः॑इति भेदेन व्युत्पादनं व्यर्थमिति वाच्यं,प्रमाणपरिमाणाभ्या सङ्ख्यायाश्चापि संशये॑इत्यादावस्योपयोगादिति पक्ष द्वयमप्येतत्पदमञ्जार्यां स्पष्टम् ।", "51021": "<<शताच्च ठन्यतावशते>> - शताच्च । अशतेऽभिधेये आर्हीयष्वर्थेषु ठन्यतौ स्तः । उत्तरसूत्रेण प्राप्तस्य कनोऽपवादः । चकारःअसमासे॑ इत्यस्यानुकर्षणार्थः । द्विशतकमिति । द्वौ च शतं च तेषां समाहारे द्विशतम् । ततः कन्प्राग्वतेः सङ्ख्यापूर्वपदानां तदन्तग्रहणमलुकी॑त्यनया इष्टआ समासादपि प्राप्नोतीतिअसमासे॑इत्यतस्यानयनमुचितमिति भावः ।", "51022": "<<संख्याया अतिशदन्तायाः कन्>> - त्यन्तशदन्ताया इति । त्यन्तसहिता शदन्तेत्युत्तरपदलोपी समासः ।थ पञ्चक इति । लौकिक्याः सङ्ख्याया उदाहरणम् । बहुक इति । पारिभाषिक्याः । साप्ततिक इति । ठञो ञित्त्वादादिवृद्धिः । ठस्येकादेशेयस्येति चे॑तीकारलोपः । अर्थवतस्तिशब्दस्य ग्रहणाड्डत्यवयवस्य तिशब्दस्य पर्युदासो न भवतिष । कतिकः । चात्वारिंशत्क इति ।इसुसुक्तान्तात्कः॑ ।", "51023": "<<वतोरिड्वा>> - वतोरिड्वा ।वतोः॑इति वञ्चमी, सा चक॑न्निति प्रथमायाः षष्ठीं कल्पतीत्याह - वत्वन्तात्कन इति । तावतिक इति ।यत्तदेतेभ्यः॑इति वतुप् ।आ सर्वनाम्नः॑ इत्यात्वम् ।", "51024": "<<विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम्>> - कर्तव्य इति । अन्यथा । त्यन्तशदन्तयोः पर्युदासादिंवशतितिंरशद्भ्यां कन् दुर्लभ इति भावः । विंशक इथि ।ति विंशतेर्डिती॑ति तिशब्दस्य लोपः ।आर्धाच्चेति वक्तव्यम् । अर्धिक इति । अर्धशब्दस्य कार्षापणार्द्धे रुञत्वाद्भागवदपेक्षयाऽत्राऽसामर्थं नाशह्क्यम् । प्रकरणादिवशेन भावविशेषे विज्ञाते सति नास्त्य[स्याऽ]सामर्थ्यमिति बोध्यम् । एतेनाऽर्धशब्दस्य सापेक्षत्वात्तदन्तादेव टिठन्, द्रोणार्धिकः प्रस्थार्धिक इति केषांचिदुक्तिः परास्ता ।", "51025": "", "51026": "<<शूर्पादञन्यतरस्याम्>> - शूर्पादञ् । शूर्पशब्दस्य परिमाणवाचित्वाट्ठञि प्राप्ते तदपवादत्वेनाऽञ् पक्षे विधीयते ।", "51027": "<<शतमानविंशतिकसहस्रवसनादण्>> - ठञ्ठक्कनामिति । शतमानं परिमाणं, ततष्ठञ् प्राप्तः । विंशत्या क्रीतं विंशतिकम् । संज्ञाशब्दोऽयम् । असंज्ञायां हिविंशति तिंरशभ्द्या॑मिति ड्वुन् स्यात् । संज्ञा च यदि परिमाणस्य, तदा ठञ् प्राप्तः । अर्थान्तरस्य चेत्तर्हि ठक् प्राप्तः । वसनशब्दात्तु ठगेव । सहरुआशब्दस्य सङ्ख्यावाचित्वात्ततःसङ्ख्याया अतिशदन्तायाः॑इति कन्प्राप्त इति विवेकः ।", "51028": "<<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> - अध्यर्धपूर्व । अध्यारूढमर्धं यस्मिन् तदध्यर्धम् ।प्रादिभ्यो धातुजस्ये ॑त्युत्तरपदलोपः । अध्यर्धशब्दः पूर्वो यस्मिन्निति बहुव्रीहिगर्भे बहुव्रीहौ कृते अध्यर्धपूर्वं च द्विगुश्चेकति द्वन्द्वः । सौत्रं पुंस्त्वम् । द्विगोरिति पञ्चमी न तु षष्ठीत्याशयेन व्याचष्टे — — — अध्यर्धपूर्वादित्यादि । एतच्च वृत्तिकाररीत्या व्याख्यातम् । अत्र वार्तिकंद्विगोर्लुकि तन्निमित्तग्रहणम् । द्विगोर्निमित्तं यस्तद्धितस्तस्य लुगिति वक्तव्यम् । द्वाभ्यां शूर्पभ्यां क्रीतं द्विशूर्पम् । द्विशूर्पेण क्रीतं द्विशैर्पिकमिति । पूर्वोक्तोदाहरणे तु ठञो लुङ् माभूदिति । ननु द्वयोः शूर्पयोः समाहारो द्विशूर्पी, तया क्रीतमिति विग्रहे द्विशूर्पमिति रूपं न स्यात् । तद्धितस्यात्रे द्विगोरनिमित्ततयाअध्यर्धे॑ति लुकोऽप्रवृत्तेः ।द्विगोः परस्ये॑ति व्याख्यायां तु नः सिद्धमिष्टमिति चेन्मैवम् ।अर्थविशेषाऽसंप्रत्यये अतन्निमित्तादपी॑ति वचनान्तरस्या वार्तिककृतैवोक्तत्वात् । यत्र तद्धितार्थद्विगुना सहार्थो न भिद्यते तत्र सतद्धितो यस्य निमित्तं न भवति तस्मादपि द्विगोः परस्य लुगिति वक्तव्यमिति तस्यार्थः । एवं च द्विशूर्पमिति तद्धितार्थद्विग#उना सह द्विशूप्र्या क्रीतमित्यस्यार्थो न भिद्यते इति समाहाराद्विगोः परस्य तद्धितस्य लुग् भवत्येवेति न काप्यनुपपत्तिः । वस्तुतस्तु सूत्रेद्विगो॑रिति षष्ठीमाश्रित्यद्विगोर्निमित्तं यस्तद्धितः॑इति व्याख्याय प्रथमं वार्तिकं प्रत्याख्यातुं शक्यम् ।द्वुशूप्र्या क्रीत ॑मिति विग्रहे तु द्विशूर्पादेव प्रत्ययो भवति, अवयविकन्यायात् , न तु द्विशूर्पीशब्दादित्याश्रित्य द्वितीयमपि प्रत्याख्यातुं शक्यम् । नन्वध्यद्र्धशब्दः संख्यावाच्येव, तथा च लोके गण्यतेएकोऽध्यार्धो द्वौ॑इति । अतएव अध्यर्धकमिति कन्, अध्यर्धकंसमिति तद्धितार्थे द्विगुः, अध्यद्र्धसंवत्सरिकमित्यादौसङ्ख्यायाः संवत्सरसङ्ख्यस्य चे॑त्युत्तरपदवृद्धिश्च भवति, तत्किमध्यर्धपूर्वग्रहणेनेति चेत् । अत्राहुः — — ॒सङ्ख्याकार्यमेतस्य किंचन्ने॑ति ज्ञापनार्थमिदम् । तेन कन्द्विगुसमासोत्तरपदवृद्धिभ्योऽन्यत्र भवति । तद्यथा -अध्यर्धं करोति । नेह कुतृवसुच् । यः सकृत्फलान्तां क्रियामभिनिर्वर्त्त्य पुनस्तामेव कुर्वन्मध्ये निवर्तते स एवमुच्यते इति ।पाञ्चकलायिकमिति । पञ्च कलायाः परिमाणमस्येति विग्रहेतद्धितार्थ ॑इति समासकः ।तदस्य परिमाण॑मिति ठञ् । एवं पाञ्चलोहितिकमपि बोध्यम् । पञ्च लोहिन्यो गुञ्जाः परिमाणमस्येति विग्रहे पूर्वत्समासतद्धितौ ।भस्याऽढे तद्धिते॑इति पुंबद्भावाल्लोहिनीशब्दस्येकारनकारयोरभावः । परिमाणविशेषस्य मानधेये एते । असंज्ञाग्रहणं प्रत्ययान्तस्य विशेषणं, न तु द्विगोः । एतच्च वृत्तिकृता सूत्रशयमनुरुध्य वर्णितमिति इहापि ततैवोक्तम् । भाष्यवार्तिकयोस्त्वसंज्ञाग्रहणं प्रत्याख्यातम् । तथा हि द्विगुविशेषणमसंज्ञाग्रहणम् । पञ्चकलायचपञ्चलोहितशब्दौ च द्विगू कृततद्धितलुकावेव संज्ञे । यस्तु ताभ्यामुत्पद्यते ठन्स श्रूयते एव, द्विगोरनिमित्तत्वेन तस्य लुगभावादिति ।", "51029": "<<विभाषा कार्षापणसहस्राभ्याम्>> - विभाषा । टिठनो लुगिति । प्रत्यादेशपक्षे तु लङ् न भवति, प्रत्यादेशस्य प्रत्ययसंनियोगशिष्टत्वादिति बोध्यम् । अध्यर्धसहरुआमिति ।शतमानविंशतिके॑ति बिहितस्याऽणो लुक् । तदभावपक्षे तुसङ्ख्यायाः संवत्सरसंख्यस्य चे॑त्युत्तरपदवृद्धिः । अध्यर्धशब्दः सङख्यावाचीत्यधुनैवोक्तत्वात् ।द्वित्रिपूर्वात् । अध्यर्धग्रहणमुत्तरार्थमनुवृत्तमपीह न संबध्यते ।द्विगो॑रिति तु संबध्यत एव षष्ठीसमासं व्यावर्तयितुम् । अत्र च व्याख्यानमेव शरणम् ।द्वित्रिभ्यां निष्का॑ दित्येव सिद्धे पूर्वग्रहणं चिन्त्यप्रयोजनमिति हरदत्तः । द्विनैष्किकमिति ।प्राग्वतेष्ठञ् । मतान्तरे तु ठगिति मनोरमायाम् ।  — निष्कादिभ्यः समासे ठगभावात्,परिच्छेदकमात्रं गृह्रते॑इति मतान्तरेऽपि ठञेव भवित, तन्मते उन्मानस्यापि परिमाणत्वात्अगोपुच्छे॑त्यादिना पर्युदस्तत्वाठ्ठगभावे निष्कादिभ्यष्ठञि प्राप्ते । असमासे ठग्विधानेऽपि समासे ठञ एव प्राप्तत्वात् — — इत्यन्ये ।परिमाणान्तस्ये॑त्युत्तरपदवृद्धिः ।द्विगो॑रिति संबन्धान्नेह लुक् । द्वयोर्निष्को द्विनिष्कस्तेन क्रीतं द्विनैष्किकम् ।अध्यर्धपूर्वे॑त्यसंबन्धादध्यर्धनैष्किकमित्यत्राप्यनेन लुङ् न भवति ।", "51030": "", "51031": "<<बिस्ताच्च>> - बिस्ताच्च । चकारेणद्वित्रिपूर्वा॑दित्यत्र पूर्वादित्यनुकृष्यते । तत्फलं तचुचानुकृष्टं नोत्तरत्रे॑त्युत्तरत्रानुवृत्त्यभावः ।", "51032": "<<विंशतिकात् खः>> - विंशतिकात्खः ।शतमानविंशतिके॑त्यणिप्राप्ते, तस्य च लुकि प्राप्तेखोऽत्र विधीयते ।", "51033": "<<खार्या ईकन्>> - खार्याः ।तदस्य परिमाण॑मिति ठञि प्राप्ते तस्य च लुकि प्राप्ते ईकन्विधीयते । कन्विधौकेऽणः॑इति ह्रस्वः स्यात् । इकन्विधावपियस्येति चे॑ति लोपादिष्टं न सिध्यतीति भावः ।", "51034": "<<पणपादमाषशतादत्>> - प्राण्यङ्गार्थस्यैवेति । अयं भावः -॒पादस्य पदाज्यातिदोपहतेषु॑इत्यत्र प्राण्यङ्गस्यैव हि पादस्य ग्रहणं , तस्यै वाज्यातिभिर्गतिवचनैः संबन्धसंभवात् । तथा चपद्यती॑त्यादावपि तस्यैवानुवृत्तिः । इह तु पणमाषाभ्यां साहचर्यात्परिमाणवाचिनो ग्रहणमिति ।", "51035": "<<शाणाद्वा (द्वित्रिपूर्वादण् च)>> - द्वित्रिपूर्वादण् । वार्तिकमिदं वृत्तिकृता सूत्रेषु प्रक्षिप्तम् । भाष्यादिप्रामाण्याच्छतग्रहणमिह न संबध्यत इत्याशयेनाह — — शाणादित्येवेति । न्यासकृता त्वण्विधायके वार्तिके सूत्रत्वभ्रमणे व्याख्यातम् -॒शत शाणाभ्यां वे॑ति सूत्रयितव्येपणवादे॑कति पूर्वसूत्रे शतग्रहणं क्रियते तस्येदं फलं, -शतशब्दः स्वरितत्वेनानुवर्तमानोऽपिशाणाद्वा॑इत्यत्रैव संबध्यते, तदुत्तरसूत्रेद्वित्रिपूर्वादण् चे॑त्यत्र तु न संबध्यते, तेन शतशब्दादण् नेति । तदिदं सामर्थ्यवर्णनमण्विधायकं यदि सूत्रं स्यात्तदा सङ्गच्छते नान्यथेत्यास्तां तावत् । त्रैरूप्यमिति । तदेतद्दर्शयति — — द्वैशाणमित्यादिना । अण्येकं, ठञो लुकि द्वितीयं, यति तृतीयम् । ठञादयस्त्रयोदशेति । ननु एकदशैव प्रत्ययाः प्रकृताः, सूत्रभेदेन विहितत्वाद्यत्प्रत्ययस्य द्विर्गणने तु द्वादशेति त्रयोदशेत्येतद्दुरुपपादमेव । न चशूर्पादञन्यतरस्या॑मित्यन्यतरस्याङ्ग्रहणलभ्यठञमादाय त्रयोदशत्वं सूपपादिमिति वाच्यं, तुल्यन्यायेनशाणाद्वे॑ति सूत्रलभ्ययट्ठञोग्र्रहणेन पञ्चदशत्वप्रसङ्गात् । नापि सूत्रोपात्तैद्र्वादशभिः सहद्वित्रिपूर्वादण् चे॑ति वार्तिकोपात्ताऽण्प्रत्ययस्य गणनेन निर्वाहः ।उक्तरीत्या॒कंसाट्टिठ॑न्निति सूत्रेअर्धाच्चेति वक्तव्यं॑,कार्षापणाट्टिठन्इति सूत्रस्थ एव टिठन् अध्यर्धकार्षापणशब्दाभ्यां परामष्ट इति स नभिद्यते ।द्वित्रिपूर्वादण् चे॑ति स वार्तिकस्थोऽण् तु भिद्यते,शतमानविंशतिके॑त्यणो दूरस्थत्वेन परामर्ष्टुंमशक्यत्वादिति ।", "51036": "द्वित्रिपूर्वादण्। वार्तिकमिदं वृत्तिकृता सूत्रेषु प्रक्षिप्तम्। भाष्यादिप्रामाण्याच्छतग्रहणमिह न संबध्यत इत्याशयेनाह - शाणादित्येवेति। न्यासकृता त्वण्विधायके वार्तिके सूत्रत्वभ्रमणे व्याख्यातम् - `शत शाणाभ्यां वे`ति सूत्रयितव्ये `पणवादे`कति पूर्वसूत्रे शतग्रहणं क्रियते तस्येदं फलं, - शतशब्दः स्वरितत्वेनानुवर्तमानोऽपि `शाणाद्वा`इत्यत्रैव संबध्यते, तदुत्तरसूत्रे `द्वित्रिपूर्वादण् चे`त्यत्र तु न संबध्यते, तेन शतशब्दादण् नेति। तदिदं सामर्थ्यवर्णनमण्विधायकं यदि सूत्रं स्यात्तदा सङ्गच्छते नान्यथेत्यास्तां तावत्। त्रैरूप्यमिति। तदेतद्दर्शयति - द्वैशाणमित्यादिना। अण्येकं, ठञो लुकि द्वितीयं, यति तृतीयम्। ठञादयस्त्रयोदशेति। ननु एकदशैव प्रत्ययाः प्रकृताः, सूत्रभेदेन विहितत्वाद्यत्प्रत्ययस्य द्विर्गणने तु द्वादशेति त्रयोदशेत्येतद्दुरुपपादमेव। न च `शूर्पादञन्यतरस्या`मित्यन्यतरस्याङ्ग्रहणलभ्यठञमादाय त्रयोदशत्वं सूपपादिमिति वाच्यं, तुल्यन्यायेन `शाणाद्वे`ति सूत्रलभ्ययट्ठञोग्र्रहणेन पञ्चदशत्वप्रसङ्गात्। नापि सूत्रोपात्तैद्र्वादशभिः सह `द्वित्रिपूर्वादण् चे`ति वार्तिकोपात्ताऽण्प्रत्ययस्य गणनेन निर्वाहः।उक्तरीत्या`कंसाट्टिठ`न्निति सूत्रे `अर्धाच्चेति वक्तव्यं`, `कार्षापणाट्टिठन्`इति सूत्रस्थ एव टिठन् अध्यर्धकार्षापणशब्दाभ्यां परामष्ट इति स नभिद्यते। `द्वित्रिपूर्वादण् चे`ति स वार्तिकस्थोऽण् तु भिद्यते, `शतमानविंशतिके`त्यणो दूरस्थत्वेन परामर्ष्टुंमशक्यत्वादिति।", "51037": "<<तेन क्रीतम्>> - तेनक्रीतम् । तेनेति तृतीयान्कात्क्रीतार्थे यथाविहितं प्रत्ययाः स्युः । ठञिति ।आर्हा॑दिति सूत्रेअगोपुच्छे॑त्यादिपर्युदासाट्ठगभावे गोपुच्छसप्ततिप्रस्थेभ्यष्ठञ् भवतीत्यर्थः । ननु देव दत्तेन क्रीतं, [पाणिना क्रीतं,]संतोषेण क्रीतमित्यादिवतिप्रसङ्ग इति चेत् । अत्राहुः -करणे तृतीयैवेह समर्थविभक्तिः, सापि मूल्यद्रव्यसमर्पकाच्छब्दादुत्पन्ना, न त्वन्याऽपि, अन्यत्र त्वमिभिधानान्न प्रत्ययः । एतच्चतद्धिताः॑इति महासंज्ञाकरणाल्लभ्यते, तेभ्यः प्रयोगेभ्यो हितास्तद्धिता इति व्याख्यानादिति ।", "51038": "", "51039": "<<गोद्व्यचोरसंख्यापरिमाणाश्वादेर्यत्>> - पञ्चकमिति । सङ्ख्यालक्षणैः कन् । आश्मिकमिति । अश्मनो निमित्तमित्यर्थे ठक् ।नस्तद्धिते॑इति टिलोपः ।", "51040": "<<पुत्राच्छ च>> - पुत्राच्छ च ।गोव्द्यचः॑इति नित्यं यति प्राप्ते वचनम् । कथं पुत्रीयः क्रतुरिति । नहि कतुः संयोगो, नाप्युत्पात् इति चेत् । अत्राह हरदत्तः -संयुज्यतेऽनेनेति व्युत्पत्त्या क्रतुरपि संयोग एव, यागकरणेन हि पुरषः फलेन संयुज्यते अतो यागादिरपि संयोगो,न केवलं संबन्धएवेत्याग्रह इति ।", "51041": "<<सर्वभूमिपृथिवीभ्यामणञौ>> - सर्वभूमि । आभ्यां यथासङ्ख्यमणञौ स्तः ।", "51042": "<<तस्येश्वरः>> - तस्येआरः ।तस्य निमित्त॑मित्यतोऽनुवृत्त्यैव सिद्धे पुनःतस्ये॑ति निर्देशो निमित्तरूपप्रत्ययार्थस्य निवृत्तये । अन्यथा हि संयोगोत्पाताविवेआरोऽपि प्रत्ययार्थस्य विशेषणं संभाव्येत ।", "51043": "<<तत्र विदित इति च>> - तत्र वदितीति च । योगविभाग उत्तरार्थो, यथासङ्ख्यनिवृत्त्यर्थश्च ।", "51044": "", "51045": "<<तस्य वापः>> - तस्य वापः ।तस्ये॑ति वापापेक्षया क्रमणी षष्ठीत्याह — — प्रस्थस्येति । कर्तरि षष्ठआं तुदेवदत्तस्य वापः क्षेत्र॑मित्यादौ स्यादिति भावः । खारीकमिति ।", "51046": "", "51047": "<<तदस्मिन् वृद्ध्यायलाभशुल्कोपदा दीयते>> - तदस्मिन् । प्रथमासमर्थादस्मिन्निति सप्तम्यर्थे यथाविहितं प्रत्ययो भवति । शुल्कग्रहणं प्रपञ्चार्थं, तस्याप्यायविशेषत्वात् । तथा चठगायस्थानेभ्यः॑इति ठग्भवति, शौल्कशालिक इथि हरदत्तः । उपदा दीयत इति । जसः सस्य रुत्वे यत्वे च यलोपः । साहरुआ इति ।शतमाने॑त्यादिनाऽण् । रक्षानिर्वेश इति । निर्वेशो -भृतिः । रक्षानिमित्तको निर्वेशो रक्षानिर्वेशः । संबन्धषष्ठआ समासः । सममित्यादि । एवं च सम्प्रदानस्यैवाऽधिकरणत्वविवक्षयेष्टसिद्धौ उपसङ्ख्यानं नादर्तव्यमिति भावः ।", "51048": "<<पूरणार्धाट्ठन्>> - पूरणार्धाट्ठन् । पूर्यतेऽनेनेति पूरणोऽर्थस्तद्वाचिनोऽर्धशब्दाच्च ठन्स्यात् । अर्धिक इति ।अर्धाच्चेति वक्तव्यमिति टिठन्प्राप्तः, सति च तस्मिन्स्त्रियां ङीप्स्यात् । इष्यते तु टाप् ।", "51049": "<<भागाद्यच्च>> - रुपकस्येति । रूपकं — कार्षापणम् । रूढैति । तथा च भागवद्द्रव्यसापेक्षत्वेनाऽसामर्थ्यमिह नोद्भावनीयमिति भावः ।", "51050": "<<तद्धरति वहत्यावहति भाराद्वंशादिभ्यः>> - भारभूतेभ्यो वंशादिभ्य इथि । ननु वंशादयः शब्दास्ते कथं भारभूता इत्यत आह -भारभूतानिति । भारशब्दोऽर्थद्वारा वंशादीनां विशेषणमिति भावः ।भारेभ्यः॑इति वक्तव्येप्रत्येकं संबन्धविवक्षाया सूत्रेभारात्इति निर्देशः ।", "51051": "<<वस्नद्रव्याभ्यां ठन्कनौ>> - वस्निक इति । वस्नं -मूल्यम् ।", "51052": "<<सम्भवत्यवहरति पचति>> - संभवत्यवहरति । आधारप्रमाणादाधेयप्रमाणस्य यदनाधिक्यं तदुपसर्जनं धारणं संभवतेर्थः । तेन सकर्मकत्वात्तदिति द्वितीयान्तानुवृत्तिर्न विरुध्यते । तदाह -प्रस्थं स्वस्मिन्निति । प्रास्थिकीति । ठञन्तत्वान्ङीप् । अवहरतीत्येतव्द्याचष्टे -उपसंहरतीति ।तत्पचतीति द्रोणादण् च । तत्पचतीति । वार्तेकेऽस्मिन्पचतिग्रहणं संभवत्यवहरतीतिनिवृत्त्यर्थम् । द्रोणपरिमिते व्रीह्रादौ द्रोणशब्दो लाक्षणिकः । पक्षे ठञिति । आढकादीनां परिमाणत्वाट्ठक् नेति भावः ।", "51053": "", "51054": "<<द्विगोष्ठंश्च>> - द्विगोः ष्ठंश्च । ष्ठनिति छेदः, तदाह -षित्त्वादिति.व्द्याढकिकीति ।न य्वाभ्या॑मित्यैजागमो न शङ्क्यः, वृद्धिनिषेधसंनियोगेन तद्विधानाद्वृद्धेश्च प्राप्त्यभावात् । अपरिमाणेति । आचितस्य परिमाणत्वेऽपि तस्मिन् सूत्रे विशिष्यग्रहणादिति भावः ।", "51055": "<<कुलिजाल्लुक्खौ च>> - द्वैकुलिजिकीति ।असंज्ञाशाणयो॑रित्यत्र कुलिजशब्दोऽपि इष्यते, तेनोत्तरपदवृद्धिनेत्याहुः ।", "51056": "", "51057": "<<तदस्य परिमाणम्>> - तदस्य परिमाणम् । इह परिमाणशब्देन परिच्छेदकमात्रं गृह्रते, नतु सर्वतोमानमेव, उत्तरसूत्रे सङ्ख्यायाः परिमाणेन विशेषणात् । षष्टिर्जीवितं परिमाणमस्य षाष्टिकः ।सोऽस्ये॑ति वर्तमाने पुनःतदस्ये॑ति ग्रहणात्द्वे षष्टी जीवितं परिमाणमस्य द्विषाष्टिकस्त्रिषाष्टिकः॑ इत्यादौअध्यर्धे॑ति लुङ् न भवति । स्पष्टं चेदं काशिकादौ । पूर्वसूत्रमिति । तेन पञ्च गावः परिमाणमस्य पञ्चको गोसङ्घ इत्यादि सिध्यति । यदा तु प्रकत्यर्थस्यैव परिच्छेदिका संख्या -पञ्च गावोऽस्य सङ्घस्येति, तदा तु प्रत्ययो न भव ति, परिमाणस्या प्रत्ययार्थत्वाऽभावात् । एतच्चआर्हादगोपुच्छे॑ति सूत्रे कैयटे स्पष्टम् । संज्ञायां स्वार्थे प्रत्ययो वाच्यः । पञ्चैवेति । स्तोमे डविधिरिति । डित्करणमेकविंश इत्यत्र तिलोपार्थम् । त्रयस्त्रशादौ टिलोपार्थं च ।स्तोमे डविधिः । पञ्चदश मन्त्रा इतदि ।साम्ना स्तुवीत॑,एकं सामत्र्यृचे क्रियते॑इति हि श्रुतिः । तत्र त्र्यृचस्य पञ्चकृत्व आवृत्त्या पञ्चदशमन्त्राः । सप्तदशे स्तोमे अन्त्याया ऋचः सप्तकृत्व आवृत्तिः । प्रथममध्यमयोस्तु पञ्चकृत्व एव, एकविंशे स्तोमे तु त्र्यृचस्य सप्तकृत्व आवृत्तिरिति ज्ञेयम् । छन्दोगौरिति । सामगैरित्यर्थः ।", "51058": "", "51059": "<<पङ्क्तिविंशतित्रिंशत्चत्वारिंशत्पञ्चाशत्षष्टि- सप्तत्यशीतिनवतिशतम्>> - पङ्क्तिवंशति ।तदस्य परिमाण॑मिति वर्तते । पञ्चन्शब्दस्य टिलोपः, तिप्रत्ययः,चोः कु॑रिति कुत्वम् । पञ्च पदानि परिमाणमस्य पङ्क्तिश्छन्द इति काशिका । पदशब्दोऽत्र पादपर्याय इति हरदत्तः । रूढिशब्दा इति । तथा चात्र नाऽवयवर्थेऽभिनिवेष्टव्यम् । पङ्क्तिशब्दो हि नानार्थः । अस्ति क्रमसंनिवेशे -ब्राआहृणपङ्क्ति पिपीलिकापङ्क्तिरिति । अस्ति च दशसंख्यायं -, पङ्क्तिरथ इति । दशरथ इत्यर्थः । अस्ति हि छन्दोविशेषे — — ॒यस्य पञ्चाक्षराः पञाच पादाः॑ । तथा च छन्दोविशेषे एवायवार्थो नान्यत्रेति बोध्यम् । द्वयोर्दशतोर्विन्भावः, शतिश्च प्रत्ययः , अपदत्वं चेति न पठन्ति । त्रयाणां दशतां त्रिन्भावः । शच्च प्रत्ययः । मतान्तरे तु तिंरभावः । त्रयो दशतः परिमाणमस्य तिंरशत् । एवं चतुर्णां चत्वारिन् । पञ्चानां पञ्चा । आभ्यामपि शत्प्रत्ययः । षण्णां दशतां षष्,तिश्च प्रत्ययः, अपदत्वं च । षट् दशतः परिमाणमस्य षष्टिः । ततस्त्रिभ्योऽपि तिप्रत्यय एव । सप्तानां दशतां सप्त, अष्टानां दशतामशी, नवानां दशतां नव, दशानां दशतां शभावः, तश्च प्रत्ययः । दश दशतः परिमाणमस्य शतम् ।", "51060": "<<पञ्चद्दशतौ वर्गे वा>> - पञ्चद्दशतौ । इमौ डत्यन्तावेव निपात्येते वर्गेऽभिधेये ।तदस्य परिमाण॑मित्यनुवर्तत एव । दशदिति । दश परिमाणमस्य । पक्षे इति । वाग्रहणात्संख्याया॑इति कन्नपि भवतीति भावः ।", "51061": "", "51062": "<<त्रिंशच्चत्वारिंशतोर्ब्राह्मणे संज्ञायां डण्>> - तिंरशच्चत्वारिंशतोः । व्यत्ययेन पञ्चम्यर्थे षष्ठीद्विवचनम् ।चत्वारिंशतो ब्राआहृणे॑इति पाठे तु समाहारद्वन्द्वात्पञ्चम्येकवचनम् । इहब्राआहृणसंज्ञाया॑मिति षष्ठीसमासेन निर्देष्टुमुचितम् । तथा हि सतिब्राआहृणस्य चेत्संज्ञा॑इतिस्फुटीभवति । अन्यथा तु यस्य कस्यचित्संज्ञायां ब्राआहृणस्थे च प्रयोगे इत्यनिष्टोऽर्थः सम्भाव्येत । ततश्च मन्त्रे भाषायां च डण्न सिध्येत् । इष्यते च सः । तस्मादिष्टानुरोधेन षष्ठर्थे सप्तमीति व्याख्येयम् ।ब्राआहृणेऽभिधेये॑इति तु काशिकायां व्याख्यातम् । ठञादय इति । ठञ उदाहरणं तु — — प्रस्थमर्हति प्रास्थिकः,द्रौणिकः इत्याद्यूह्रम् । आदिशब्दग्राह्रस्य ठक उदाहरणमाह ।", "51063": "<<तद् अर्हति>> - औतच्छत्रिक इति । एवं खारीकाः । शत्यः । शतिकः । साहरुआः । इत्यादीन्युदाहर्तव्यानि ।", "51064": "<<छेदादिभ्यो नित्यम्>> - छेदादिभ्यो । नित्यग्रहणमिहनित्यं क्रीडाजीविकयो॑रित्यत्रेव महाविभाषया प्राप्तस्य वाक्यस्य निवृत्त्यर्थं न भवति, आरम्भसामर्थ्यादेव तन्निवृत्तिसिद्धेः, किं तु प्रत्ययार्थविशेषणमिति द्वनयति -छेदं नित्यमर्हतीति । भाष्ये तु नित्यग्रहणं प्रत्याख्यातं । सूत्रमेव मास्त्विति तदाशय इति मनोरमा । अयं भावः — — नित्यग्रहणमिह प्रत्ययार्थविशेषणं न भवति, नित्यं छेदमर्हतीत्यस्यार्थस्यासम्भवात् । कालान्तर एव तस्य छेदप्रवर्तनात् । न चात्र नित्यग्रहणत्यागेऽपि छेदमर्हतीत्यादिविग्रहवाक्यनिवृत्तये सूत्रस्यावश्यकत्वातत्तत्प्रत्याख्यानं न युज्यत इति शङ्क्यम् । विग्रहवाक्यस्य भाष्यादिसंमतत्वादिति दिक् । छेद भेद द्रोह दोषेत्यादयश्छेदादयः । गणसूत्रमाह -विरागेति ।", "51065": "", "51066": "<<दण्डादिभ्यः>> - दण्डादिभ्यः । पूर्वसूत्राद्यदनुवर्तत इकत्याह — यत्स्यादिति । केचित्तुदण्डादिभ्यो यः॑इति पठन्ति, स चाऽपपाठ एव, भाष्यादिविरोधादित्याहुः । तथा हिअचो य॑दिति सूत्रे भाष्ये उक्तं -॒हनो वा यद्वधा देशश्च॑ । वध्यः घात्यः ।तद्धितो वा॑ । वधमर्हति वध्य इति । यदि चेह यद्विधीयतेतदैवैतदुपपद्यते, पक्षेद्वयेऽपियतोऽनावः॑इत्याद्युदात्तत्वात् । यदि त्वर यो विधीयत तदा स्वरो भिद्येत । मनोरमायां तुक्यब्विधौ हनो वा वधस्तद्धितो वा॑इति भाष्यम् । यदि चेह यद्विधीयते, तदैवैतदुपपद्यते । क्यप्याद्युदात्तत्वं, यत्यपि तद्धितेयतोऽनावः॑इत्याद्युदात्तत्वमित्यादि स्थितम् ।", "51067": "", "51068": "", "51069": "<<कडङ्गरदक्षिणाच्छ च>> - कडङ्करदक्षिणाच्छ च ।कडङ्गरे॑ति पाठस्तूपेक्ष्य इति ध्वनयति -कडं करोतीति ।कड मदे॑ । कडतीति कडः । माषमुद्नादिकाष्ठमिति । अमरश्चाहकडङ्करो बुसं क्लीब ॑मिति । गौरिति ।नीवारपाकादिकडङ्करीयैः॑इति रघुः ।", "51070": "<<स्थालीबिलात्>> - स्थालीबिलात् । छयतावनुवर्तेते । अस्माच्छयतौ स्तः । ठकोऽपवादः । पाकयोग्या इति । त्रिष्फलीकृता इति यावत् ।", "51071": "<<यज्ञर्त्विग्भ्यां घखञौ>> - यज्ञमृत्विजं चार्हतीति । अमर्थी सर्थो विद्वान् । शास्त्रेणाऽपर्युदस्त इत्यर्थः । देसस्यानेवंविधत्वादुपसंख्यातम् ।यज्ञत्वग्भ्यांतत्कर्मार्हतीत्युपसङ्ख्यानम् । यज्ञियो देश इति । यज्ञाननुष्ठाने योग्य इत्यर्थः । ऋत्विगिति । स तु ऋत्विक्कर्मार्हति, न तु ऋत्विजमिति सूत्रेण खञोऽप्राप्तावुपसंख्यानम् ।आर्हीयाणां ठगादीनां द्वादशानां गतोऽवधिः ।इति तत्त्वबोधिन्यां आर्हीयादि समाप्तम् ।अथ तिङन्ते आत्मनेपदप्रक्रिया ।", "51072": "<<पारायणतुरायणचान्द्रायणं वर्तयति>> - पारायण । आदित आरभ्य आन्तादविच्छेदेन वेदस्याध्ययनं पारायणम् । तच्च शिष्येण च निर्वत्र्यते, अन्यतराऽसंनिधौ अध्ययनक्रियाया अनिष्पादनात्, तथापि शिष्ये एव प्रत्यय इष्यते न तु गुरावित्याकरे स्थितम् । तदाह -छात्र इति । यजमान इति । यद्यपि पुरोडाशादिनिर्वर्तनेन ऋत्विगपि यज्ञं वर्तयति, तथापि तत्रतौरायणिक॑इति न प्रयुज्यते, अनभिधानादिति भावः । चान्द्रायणं — — व्रतविशेषः ।", "51073": "<<संशयमापन्नः>> - विषयीभूतोऽर्थ इति ।स्थाणुर्वा पुरुषो वे॑तित संशयविषयीभूते स्थाण्वादावेव प्रत्यय इष्यते, न तु संदेग्धरीति भावः । कथं तर्हिसांशयिकऋ संशयापन्नमानसः॑इत्यमर इति चेत् । अत्राहुः — — — संशयापन्नं मानसं यस्मिन्विषये स विषयः संशयापन्नमानस इति ।ततोऽभामनमर्हतीति च वक्तव्यम् । ततोऽभिगमनमिति । अत्र पञ्चम्यन्तात्प्रत्ययः ।", "51074": "", "51075": "", "51076": "<<पन्थो ण नित्यम्>> - पन्थो ण । पथःपन्थ॑इत्ययमादेशः स्याण्णश्च प्रत्ययः । नित्यग्रहणमिह प्रत्ययार्थविशेषणं , न तु वाक्यनिवृत्त्यर्थमित्याशयेनाह -नित्यं गच्छतीति । नित्यमिति किम् । पथिकः । भाष्ये तु नित्यग्रहणं प्रत्याख्यातम् । इहं हि भाष्याशयः -नित्यं पन्थानं गच्छतीत्यर्थोऽत्र यद्यपि संभवति, तथापि नात्रैवार्थे पान्थशब्दस्य प्रयोग इष्यते, कदाचिद्गच्छत्यपि तत्प्रयोगात् । न चैवमपि विग्रहवाक्यनिवृत्त्यर्थं नित्यग्रहणमस्त्विति शङ्क्यम् । शिष्टप्रयोगे विग्रहवाक्यस्य दर्शनादिति । उत्तरपथेन । चकारेण गच्छतीति प्रत्ययार्थः समुच्चीयते ।", "51077": "<<उत्तरपथेनाहृतं च>> - उत्तरपथेन गच्छतीति । वारिपथिकमिति । वारिपथेन गच्छ [ती]ति, वारिपथेनाह्ममिति वा विग्रहः ।", "51078": "<<कालात्>> - कालात् । स्वरूपग्रहणमिह न भवति,तमधीष्टो भृतो भूतो भावी॑त्यत्यन्तसंयोगे द्वितीयानिर्देशात् ।मासाद्वयसो॑त्यादौ मासादीनां कालेन विशेषणाच्च ।", "51079": "<<तेन निर्वृत्तम्>> - तेन निर्वृत्तम् । तृतीयान्कतात्कालवाचिनष्ठञ्स्यात् । तेनेति करणे तृतीया । चतुरथ्र्यान्तर्गतेतेन निर्वृत्त॑मित्यत्र तु कर्तरि तृतीयेति विशेषः । उभयत्राप्यन्तर्भावितण्यर्थाद्वृतेः कर्मणि क्तः । आह्निकमिति ।अह्नष्टखोरेवे॑ति नियमात् ।नस्तद्धिते॑इति टिलोपो न ।", "51080": "", "51081": "<<मासाद्वयसि यत्खञौ>> - मासाद्वयसि । खञो ञित्करणं स्वरार्थं, पुवंद्भावप्रतिषेधार्थं च । मासीनाभार्यः । अधीष्टादीनां चतुर्णामधिकारेऽपि सामर्थ्याद्भूत इत्येतदत्र संबध्यते ।न हि मासमधीष्टो भृतो वेत्याद्युक्तौ काचित्कालकृता शरीरावस्था गम्यत इत्याशयेनाह -मासं भूत इति । एतच्च वृत्तिपदमञ्जर्योः स्पष्टम् । मासीन इति । बालकः ।", "51082": "<<द्विगोर्यप्>> - द्विगोर्यप् । प्राग्वतेः संख्यापूर्वपदानां तदन्तविधेरभ्युपगमात्पूर्वेण यत्खञोः प्राप्तयोर्यब्विधीयते । पित्त्वादनुदात्तःष । तेनद्विमासः॑इत्यादौइदन्तकाले॑त्यादिना पूर्वपदप्रकृतिस्वरोऽवतिष्ठते ।यः॑इत्युक्ते तु प्रत्ययस्योदात्तत्वादन्तोदात्तो द्विमासः स्यात्, सति शिष्टस्वरबलीयस्त्वादिति भावः ।", "51083": "<<षण्मासाण्ण्यच्च>> - यबप्यनुवर्तत इति । व्याख्यानमेवात्र शरणम् ।", "51084": "", "51085": "<<समायाः खः>> - समायाः खः ।हायनोऽस्त्री शरत्समाः॑इत्यमरः । समामधीष्ट इत्यादि । अधीष्टादय श्चात्वारोऽर्था अत्राप्यनुवर्तन्त इति भावः ।", "51086": "<<द्विगोर्वा>> - द्विगोर्वा ।संख्यापूर्वपदानांतदन्तग्रहणमलुकी॑त्यभ्युपगमात्पूर्वेण नित्ये प्राप्ते विकल्पः । द्वैसमिक इति । खेन मुक्ते पक्षे ठञिति भावः ।", "51087": "<<रात्र्यहस्संवत्सराच्च>> - द्वैयह्निक इति ।टेखोरेवे॑ति नियमादिह टिलोपो न ।अल्लोपोऽनः॑ ।न य्वाभ्यां॑मित्यैच् । ननुतद्धितार्थ॑इति द्विगुसमासानन्तरंरात्र्यहःसंवत्सराच्चे॑क्येवं बाधित्वा परत्वाट्टचा भाव्यम् । न च महाविभाषया टचो विकल्प इति वाच्यम् ।बृहतीजात्यन्ताः समासान्ताश्चे॑ति नित्येषु परिगणनादत आह -समासान्तविधेरिति । यद्यपि टचि कृतेऽप्यह्नादेशेनद्वैयह्निकः॑इति रूपं सिध्यति, तथापिद्व्यहीनः॑इति हि रूपं न सिध्यति, टचि सति आह्नादेशे तस्य स्थानिवत्त्वात्,राजाहः॑इति समासान्तस्याऽहःशब्दान्तसमासग्रहणेनैव ग्रहणाच्चरात्र्यहऋसंवत्सराच्च॑इति खप्रत्यये कृतेऽपिद्व्यह्नीन॑इति रूपप्रसङ्गादित्याहुः ।", "51088": "<<वर्षाल्लुक् च>> - द्विवर्षीणो ब्याधिरिति । द्विवार्षिको मनुष्य इति । अत्र वदन्ति -मनुष्येचित्तवती॑ति नित्यलुक्प्रसङ्गात्मनुष्यो मनुष्यसदृशः प्रतिमादिः॑इति व्याख्याय स्थितस्य गतिः समर्थनीयेति ।", "51089": "<<चित्तवति नित्यम्>> - दारक इति.बालकः ।परिजय्ये॑त्यस्य विवरणंजेतुं शक्यः॑इति ।क्षय्यजय्यौ शक्यार्थे॑इत्ययादेशः । महानाम्न्यादिभ्यः षष्ठन्तेभ्य उपसङ्ख्यानम् । महानाम्न्योनामेति.तथा चाऽभाषितपुंस्कत्वात्पुंवद्भावो नेति भावः । हरदत्तिस्त्विति । यौगिकोऽयं, न तु रूढ इति मन्यते । माहानामिक इति । पुंवद्भावे कृतेनस्तद्धिते इति टिलोपः ।चतुर्मासाण्ण्यो ज्ञे तत्र भव इत्यर्थे । चतुर्मासादिति । मासशब्दस्य कालवाचित्वात्कालाधिकारे वार्तिकारम्भः । न च विशिष्टस्य कालवाचित्वाऽभावादिह सङ्गतिदुर्निरूपेति शङ्क्यं,प्राग्वतेः संरख्यापूर्वपदानां तदन्तग्रहण॑मित्यभ्युपगमादस्त्येव सङ्गतिरिति ।अण्संज्ञायाम् । अण्संज्ञायामिति ।तत्र भवः॑ इत्यनेनैव सिद्धे पुनरण्विधिःद्विगोर्लुगनपत्ये॑इति लङ्बा भूदित्येतदर्थमिदमत्रारब्धम् । एवं चास्मिन् वार्तिकेचतुर्मासा॑दित्यस्यानुवृत्तये पूर्ववार्तिकमत्रैवारब्धमित्यपि ज्ञेयम् । चातुर्मासीति । कस्य संज्ञेत्याकाङ्क्षायामाह -आषाढीति । आषाढानक्षत्रयुक्ता पौर्णमासीत्यर्थः ।", "51090": "", "51091": "", "51092": "", "51093": "", "51094": "", "51095": "<<तस्य च दक्षिणा यज्ञाख्येभ्यः>> - तस्य च दक्षिणा । षष्ठन्तेभ्यो यज्ञाख्येभ्यो दक्षिणेत्यस्मिन्नर्थे ठञ् स्यात् । कालाधिकारादेवेह द्वादशाहादिभ्यः सिद्धे आख्याग्रहणं व्यर्थमित्याशङ्क्य परिहरति -आख्याग्रहणादिति ।", "51096": "<<तत्र च दीयते कार्यं भववत्>> - तत्र च । कालवाचिनः सप्तम्यन्तद्दीयते कार्यमित्येतयोरर्थयोर्मववत्प्रत्ययः स्यात् । प्रावृषेण्यमिति ।प्रावृष एण्य॑इति भवार्थे विहितः, स इहाप्यतिदिश्यत इति भावः । शारदमिति ।सन्दिवेलाद्यृतुनक्षत्रेभ्योण् । कालाधिकारस्य पूर्णोऽवधिः ।", "51097": "<<व्युष्टादिभ्योऽण्>> - व्युष्टादिभ्योऽण् । व्युष्टशब्दः कालवाची दिवसमुके वर्तते ।", "51098": "", "51099": "<<सम्पादिनि>> - संपादिनि । गुणोत्कर्षः — संपत्तिः ।आवश्यके णिनि॑रिति वृत्तकृत् । एवं वस्त्रयुगेन संपादि वास्त्रयुगिकं शरीरमित्यप्युदाहार्यम् । वस्त्रयुगेन अवश्यं शोभत इत्यर्थः ।", "51100": "", "51101": "<<तस्मै प्रभवति संतापादिभ्यः>> - तस्मै प्रभवति । समर्थः शक्तः प्रभवतीत्युच्यते ।", "51102": "", "51103": "", "51104": "", "51105": "<<ऋतोरण्>> - आर्तवमिति ।पुष्प॑मित्यादि विशेष्यं बोध्यम् ।", "51106": "", "51107": "<<कालाद्यत्>> - काल्यं शीतमिति ।प्रत्यूषोऽहर्मुखं कल्य॑मित्यमरः । तत्र प्रातःकाले काल्यशब्दस्य व्युत्पत्त्यन्तरं मृग्यम् ।", "51108": "<<प्रकृष्टे ठञ्>> - प्रकृष्टे ठञ् । प्रकृष्यते अयमिति प्रकृष्टः । कर्मणि क्तः । तेन च प्रकर्षेण कालो विशेष्यते इत्याह -दीर्घः काल इति । ठञ्ग्रहणं विस्पष्टार्थम्, अन्यथा अनन्तरस्य यतोऽनुवृत्तिराशङ्क्येत ।", "51109": "<<प्रयोजनम्>> - इन्द्रमह इति । महः -उत्सवः । वैशाखो मन्थः । आषाढो दण्ड इति । वैशाखाऽऽषाढशब्दौ रूढिरूपेण मन्थदण्डयोर्वर्तेते । तयोस्तु यथा कथंचिद्व्युत्पत्तिः क्रियत इति हरदत्तः । विलोडनदण्डस्यैवाधारभूतः काष्ठविशेषोमन्थ॑इत्युच्यते ।", "51110": "", "51111": "<<अनुप्रवचनादिभ्यश्छः>> - अनुप्रवचना । अनुप्रवचनं नाम ब्राह्मौदनमुच्यते ।", "51112": "<<समापनात् सपूर्वपदात्>> - सपूर्वपदादिति । विद्यमानपूर्वपदादित्यर्थः ।", "51113": "<<ऐकागारिकट् चौरे>> - ऐकागारिकट् । टो ङीबर्थः ।ऐकागारिकी । किमर्थमिदमुच्यते यावताप्रयोजन॑मित्येव ठञि सिद्धम् । सत्यम् । चौरे नियमार्थमावश्यकमिदं सूत्रम् । अन्यथा एकागारं प्रयोजनं यस्य भिक्षोरित्यत्रापि स्यात् । नन्वेवमपिऐकागाराच्चौरे॑इति ठञेव नियम्यतां किमैकागारिक इति निपातनेन, चित्कणेन च प्रयोजनमिति चेत् । अत्राहुः -टकारः कार्यावधारणार्थः -ङीबेव भवति न ञित्स्वर इति । वृद्धिस्तु निपातनाद्भवत्येवेति ।", "51114": "<<आकालिकडाद्यन्तवचने>> - आकाल आदेश इति ।निपात्यते॑इति शेषः । आद्यन्तौ यस्येत्यादि । अस्येत्यधिकारात्षष्ठर्थे इकट् प्रत्ययो निपात्यत इति भावः ।आकालाट्ठंश्च । आकालाट्ठंश्चेति । वार्तिकमिदम् । ठञः पूर्णोऽवधिः ।इति तत्त्वबोधिन्यां ठञधिकारः । तिङन्ते तुदादयः ।", "51115": "<<तेन तुल्यं क्रिया चेद्वतिः>> - तेन तुल्यं क्रिया चेद् बतिः ।तुल्य॑मिति सामान्ये नपुंसकम् । तृतीयान्तात्तुल्यमित्यर्थे वतिः स्याद्यत्तुल्यं क्रिया चेत्सा । ब्राआहृणेन तुल्यमिति । नन्वत्रब्राआहृणो यथा वर्तते तथा क्षत्रियादिकर्तृकाध्ययनं वर्तते॑ इति वाक्यार्थोऽसङ्गत इति चेत् । अत्राहुः — — ब्राआहृणशब्दस्यत्कर्तृकाध्ययने लक्षणया वर्तते ।ब्राआहृणकर्तृकाध्ययनतुल्याध्ययनं वाक्यार्थः॑इति न कोऽपि दोषः । गुणतुल्ये इति । उपलक्षणमिदम् । अक्रियातुल्य इत्यर्थः । एवं चब्राआहृणेन सदृशः क्षत्त्रियः॑इत्यर्थेब्राआहृणवत् क्षत्त्रियः॑इति प्रयोगोऽसाधुरेव [इति] । अतएवपर्वतो वह्निमान्महानवसदि॑ति वाक्येमहानससदृशः पर्वतः॑इत्यर्थे वतेरसाधुत्वं मत्वा तस्य वतेः साधुत्वरक्षमार्थंपर्वतो वह्निमान्भवितुमर्हती॑त्यादि क्रियापदं प्रयुज्यते वृद्धाः ।", "51116": "<<तत्र तस्येव>> - तत्र तस्येव । सप्तम्यन्तात् षष्ठन्ताच्च इवार्थे प्रत्ययः ।क्रिया चेत्इति नानुवर्तते इति द्रव्यादितुल्येऽत्र वत्प्रत्ययो भवति । मथुरावत्रुआउघ्ने इति । मथुरायां यादृशः प्राकारस्तेन तुल्यः प्राकारः स्नुघ्ने इत्यर्थः ।", "51117": "<<तदर्हम्>> - तदर्हम् । अर्हतीत्यहम् । पचाद्यच् । यद्यपि कृद्योगे कर्मणि षष्ठआ भवितव्यम्, तथाप्यत्र सौत्रो विभक्तिव्यत्यय इत्येके ।कर्तृकर्मणो॑रिति षष्ठआ अनित्यत्वे ज्ञापकमिदम् । तेन चधायैरामोदमुत्तम॑मिति भट्टिप्रयोगः सङ्गच्छत इति तु कारकेष्ववोटाम । द्वितीयान्तादेव प्रत्यय इति स्फुटीकर्तुं तिङन्तेन वगृह्णाति — — विधिमर्हतीति । कथं तर्हिततो यथावद्विहिताध्वराये ॑कि असत्त्वार्थकस्य कर्मत्वाऽसंभवेन द्वितीयान्तत्वाऽभावादिति चेत् । अत्राहुः — — यथाशब्दो वृत्तिविषये सत्त्वार्थकः,तथात्वं॑यथात्व॑मित्यादिषु त्वतलादिदर्शनात् । अन्यथा षष्ठपि नास्तीति त्वतलौ न स्याताम् । तथा च द्वितीयान्ताद्यशब्दादर्हार्थे वतिः । योग्यतामर्हतीति विधानमित्यर्थाक्रियायोगोऽपि सुलभ इति ।", "51118": "", "51119": "<<तस्य भावस्त्वतलौ>> - तस्य भावस्त्वतलौ । प्रकृतीति । न तु यः कश्चिद्धर्मः, घटत्वमित्यत्र द्रव्यत्वपृथिवीत्वादेरभानात् । गोर्भाव इति । इह गोशब्दोऽर्थपरः, शब्दस्वरूपपरो वेति पञ्चद्वयम् । यदाऽर्थपरस्तदा धर्मविशेषः प्रत्ययार्थः, स च धर्मत्वेनैव भासते ।प्रकृतिजन्ये॑त्यादिस्तु प्रयोगोपाधिः । यदा तु शब्दपरस्तदा तज्जन्यबोधप्रकारः प्रत्ययर्थः । स च धर्मविशेष एव ।पाचकत्व॑मित्यत्र तु कर्तृत्वरूपसंबन्धः प्रकारः ।पच्यमानत्व॑मित्यत्र तु कर्मत्वरूपसंबन्धः । तथाऔपगवत्व॑मित्यत्र जन्यत्वरूपसंबन्धः प्रकारः ।राजपुरुषत्व॑मित्यत्र तु स्वरूपसंबन्ध इत्याद्यह्रम् । एवं स्थिते हरिटीकायां यदुक्तंकृत्तद्धितसमासेभ्यः संबन्धाभिधानं भावप्रत्ययेनेति, तत्र नाऽपूर्वं शक्त्यन्तरं कल्प्यम् । उक्तरीत्यैव तत्राप्युपपत्तेरिति संक्षेपः ।", "51120": "<<आ च त्वात्>> - अपवादैः सहेति ।पृथ्वादिभ्य इमनिज्वे॑त्यादिभिः । चकार इति । अन्यथा त्वतलौ स्त्रीपुंसाभ्यां न स्याताम्, अन्यत्क तयोः सावकाशत्वादिति भावः । पौस्नं पुंस्त्वमिति । संयोगान्तलोपेपुमः खयी॑ति रुत्वम् । पाक्षिकावनुनासिकानुस्वारौ । विसर्गे कृते सत्वम् ।", "51121": "<<न नञ्पूर्वात्तत्पुरुषादचतुरसंगतलवणवटयुधकतर- सलसेभ्यः>> - अपतित्वमिति । इहपत्यन्ये ॑ति यग् न भवति । अपटुत्वमिति । इह तुइगन्ताच्च लघुपूर्वा॑दित्यण् न भवति । आचतुर्यमित्यादि । ब्राआहृणादित्वात् ष्यञ् ।", "51122": "<<पृथ्वादिभ्य इमनिज्वा>> - पृथ्वादिभ्यः । अणादीति । इगन्तलघुपूर्वेषु पृथुमृदुप्रभृतिष्वणः समावेशः । चण्डखण्डादिषु गुणवचनेषु ष्यञः । बालत्सादिषु वयोवचनलक्षणस्याऽञ इति बोध्यम् । त्वतलौ तु पूर्वसूत्रेणैव लब्धौ ।", "51123": "<<वर्णदृढादिभ्यः ष्यञ् च>> - वर्णदृढदिभ्यः । गुणवचनत्वादेव सिद्धे इमनिजर्थं वचनम् ।पृथुमृदुभृसे॑ति परिगणनादिह रभावो न भवति — — कृतमाचष्टे कृतयति । णाविष्ठवद्भावः । औचितीति । ब्राआहृणादेराकृतिगणत्वात् ष्यञ् ।हलसतद्धितस्ये॑ति यलोपः । एवं याथाकामी । दृढ, वृढ, परिवृढ । भृश, कृश, इत्यादि । अत्र द्वे गणसूत्रे -॒वेर्यातलाभमतिमनःशारदानाम् । विशब्दादुत्तरे ये यातादयः पञ्च तदन्तानां समासानामनन्तरः ष्यञ् भवतीत्वर्थः । वियातत्वं । वियातता । वियातिमा । वैयात्यम् । विलाभिमा । वैलाब्यम् । विमतिमा । वैमत्यम् । इगन्तत्वादणपि — — वैमतम् । विमनिमा । वैमनस्यम् । विशारदिमा । वैशारद्यम् । त्वतलोः समावेशेन -विलाभत्वम् । बिलाभतेत्यादीन्यप्यूह्रानि ।समो मतिमनसोः॑ । समः परे ये मति मनसी तदन्तयोः समासयोरनन्तरः ष्यञ् भवतीत्यर्थः । संमतित्वम् । संमतिता । संमतिमा । सांमात्यम् । इगन्तत्वादणि -सांमतम् । संमनस्त्वम् । संमनस्ता । संमनिमा । सांमनस्यम् ।", "51124": "<<गुणवचनब्राह्मणादिभ्यः कर्मणि च>> - गुणवचन । ष्यञनुवर्तते, कर्म क्रिया कार्यं च ।शरीरायासमात्रसाध्यं शौचादि क्रिया । शास्त्रेण विहितो यागादिः कार्य॑मिति तयोर्भेदमाहुः ।अर्हतो नुम् च । अर्हत इति ।अर्हः प्रशंसाया॑मिति शत्रन्तोऽर्हच्छब्दः पूजार्थाभिधायीति कैयटः । आकृतिगण इति । केषांचित्पाठस्तु कार्यान्तराय । तथा हिअर्हतो नुम् चे॑ति नुमर्थः पाठः । एकभावः, त्रिभावः, अन्यभावः, -एषां पाठः स्वार्थे विधानार्थः । तथा च प्रत्याहाराह्निके वार्तिकप्रयोगः -॒आन्यभाव्यं तु कालशब्दव्यावाया॑दिति । अन्यभाव एव आन्यभाव्यम् । अन्यत्वमित्यर्थः । यत्तु व्याकरणाधिकरणे भट्टपादैरुक्तम्आन्यभाव्यमपप्रयोगः॑इति, तत्त्ववैयाकरण मीमांसकसंतोषार्थमित्यवधेयम् । सर्ववेद इति ।पूर्वकालैके॑ति समासः ।चतुर्वर्णादीनां स्वार्थ उपसङ्ख्यानम् । चतुर्वेद इति । तद्धितार्थे द्विगुः ।द्विगोर्सुगनपत्ये॑इत्यणो लुक् । चतुर्विद्य इति ।विद्यालक्षणसूत्रान्ता॑दिति ठक् । तस्य लुक् ।", "51125": "<<स्तेनाद्यन्नलोपश्च>> - सङ्घातग्रहणमिति । वर्णग्रहणे तुयस्येति चे॑त्यकारलोपे सतीष्टं न सिध्यति,अचः परस्मि॑न्नित्यल्लोपस्य स्थानिवद्भावादयादेशप्रसङ्गादिति भावः । ननु सङ्घातग्रहणेऽपिअलोऽन्त्यस्ये॑त्यकारस्यैव लोपः स्यान्न तु सङ्घातस्येति चेत् । मैवम् । आरम्भसामर्थ्यात्,नानर्थकेऽलोन्त्यविधि॑रिति निषेधाद्वा तत्सिद्धेः ।", "51126": "", "51127": "<<कपिज्ञात्योर्ढक्>> - कपिज्ञात्योः । इह कपिज्ञाती द्वौ, भावकर्मणी अर्थावपि द्वौ, तयोर्यथासङ्ख्यं नभवति, अस्वरितत्वप्रतिज्ञानात् । एवंपत्यन्तपुरोहितादिभ्यःट,द्वन्द्वमनोज्ञादिभ्यः॑इत्यत्रापि बोध्यम् । ब्राआहृणादित्वादिति । यद्यपि ब्राआहृणादिषु राजन् शब्दः केवलः पठितस्तथाप्ययमेवअसे॑इति प्रतिषेधो ज्ञापयतिअस्त्यत्र प्रकरणे राजन्शब्देन तदन्तविधि॑रिति । एवं त ब्राआहृणादिपाठस्य समासे चरितार्थत्वादसमासे विशेषविहितो यगेव भवति । अन्ये तु ब्राआहृणादेराकृतिगणत्वादेव तदन्तात्कतंचित्ष्यञि सिद्धे राजन्शब्दस्य तत्रपाठो यका सह समावेशार्थ इति । तथा चावेष्टधिकरणे शाबरभाष्ये उक्तं -॒राज्ञः कर्म राज्यं, ब्राआहृणादित्वात् ष्यञि॑ति । पुरोहित, सङ्ग्रामिक, पथिक, सारथिकेत्यादयः पुरोहितादयः ।", "51128": "", "51129": "<<प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ्>> - प्राणभृज्जति । मुखनासासंचारी वायुः प्राणः ।प्राणिजाती॑त्येव सुवचम् । प्राणभृदिति किम् । तृणत्वम् । तृणता । जातीति किम् । देवदत्तत्वम् । औद्गात्रमिति । उद्गात्रादिषु ये ऋत्विग्वचनास्तेभ्योहोत्राभ्यश्छः॑इति छे प्राप्ते अञ् विधीयते । सुष्ठु दुष्ठु — -द्वाभ्यां गुणलक्षणे ष्यञि प्राप्ते, वधूशब्दादिगन्तलक्षमेऽणि, शेषेभ्यस्त्बतलोः प्राप्तयोः । इह तुसुभगं मन्तेर॑इतिपटते । सुभगमित्येतच्छब्दरूपं मन्त्रविषये प्रयोगे अञमुत्पादयतीत्यर्थः ।महते सौभगाय॑ । सर्वविधीनां छन्दसि वैकल्पिकत्वादिहह्मद्भगसिन्ध्वन्ते॑इत्युत्तरपदवृद्धिर्न भवति । अतएव मन्तेरऽपि क्वचिदञ् न भवति ।सौभाग्यमस्यै दत्त्वाय॑ । इह ष्यञ् ।", "51130": "<<हायनान्तयुवादिभ्योऽण्>> - हायनान्त । अस्मात्त्वतलोः प्राप्तयोरण्विधानम् । युवस्थविरशब्दाभ्यां वयोवचनलक्षणे अञि प्राप्ते । योवनमिति । अणि परतःअन्इति प्रकृतिभावः । मनोज्ञादिपाठाद्वञपि । यौवनकम् ।प्रकृत्याऽके राजन्यमनुष्ययुवानः॑इति प्रकृति भावः ।श्रोत्रियस्य यलोपश्च । श्रोत्रियस्येति ।श्रोत्रियंश्छन्दोऽधीते॑इत्यत्र छान्दसः श्रोत्रभावः, घंश्च प्रत्यय इति यदा व्याख्यानं तदेहघलोपः॑इति यथाश्रुतम् । यदा तुवाक्यार्थे पदवचन॑मिति पक्षस्तदा घशब्देन इय इति रूपं लक्ष्यते । क्वचित्तुयलोपश्चे॑ति पाठः, तत्र येति संघातग्रहणं व्याख्येयम् । वर्णग्रहणे त्विकारस्य यणादेशः स्यान्न तुयस्येति चे॑ति लोपः , अकारलोपस्य स्थानिवत्त्वेन इकारान्तस्य भत्वाऽबावात् । एतच्च हरदत्तग्रन्थे स्पष्टम् । मूलपुस्तकेषुयलोपः॑इति मुख्यपाठ एव प्रायेण दृश्यते, न तुघलोप॑इति पाठः ।", "51131": "<<इगन्ताच्च लघुपूर्वात्>> - इगन्ताच्च । लघुः पूर्वोऽवयवो यस्येति प्रातिपदिकविशेषणम् । पूर्वत्वं च संनिधानदिगवधिकमेव । तेनाऽतिपाण्डुशब्दान्न भवति ।लघुपूर्वेकः॑इत्येव सुवचम् । लघुपूर्वश्चासौ इक् च लघुपूर्वेक् । तस्य प्रातिपदिकविशेषणात्तदन्तलाभ इति नव्याः । इगन्तात्किम् । घटत्वम् । लघुपूर्वात्किम् । पाण्डुत्वम् । कथं काव्यमिति । कुधातोःओरावस्यके॑इति रूप सिद्धावपि कवेः कर्मेत्यर्थे कावमिति स्यादिति प्रश्नः ।", "51132": "<<योपधाद्गुरूपोत्तमाद्वुञ्>> - योपधात् । गुरु उपोत्तमं यस्य प्रातिपदिकस्य तस्मादित्यर्थः । योपधात्किम् । विमानतवम् । गुरुपोत्तमादिति किम् । क्षत्त्रियत्वम् । आभिधानीयकमिति । अत्र प्रकृतिरभेः परोऽनीयर्प्रत्ययान्तो दधातिः । अबिदेयस्य भावः कर्म वेत्यर्थः ।सहायाद्वा । सहायाद्वेति । सूत्रेण नित्ये प्राप्ते विकल्पार्थं वचनम् । द्वन्द्वमनोज्ञादिभ्यश्च । मनोज्ञ, प्रियरूप, बहुल , अवश्य, इत्यादिर्मनोज्ञादिः ।", "51133": "", "51134": "<<गोत्रचरणाच्श्लाघाऽत्याकारतदवेतेषु>> - गोत्रचरणात् । गोत्रवाचिनश्चरणवाचिनश्च प्रातिपदिकाद्वुञ् स्याद्भावकर्मणोः । अपत्याधिकारादन्यत्र लौकिकं गोत्रम् । तेनापत्यप्रत्ययान्तेभ्य इत्यर्थः । प्रवराध्याये ये पठितास्तेभ्य इत्यपरे ।गोत्रं च चरणैः सहे॑ति जातित्वात्प्राणभृज्जाती॑त्यादिना अञि प्राप्ते वचनम् । श्र्लोघेत्यादि । श्र्लाघादिषु विषयभूतेष्वित्यर्थः । प्राप्त इति । इणः प्राप्त्यर्थत्वात् । अवपूर्णस्येणो ज्ञाने प्रसिद्धत्वादाह -अवगतवान्वेति । गार्गदिकयेति ।अपत्यस्ये॑ति यलोपः । चरणाद्वुञ् उदाहरणं तुकठिकया श्र्लाघते॑इत्यादि बोध्यम् । श्र्लाघादिष्विति किम् । गाग्र्यत्वम् । कठत्वम् ।", "51135": "<<होत्राभ्यश्छः>> - होत्राशब्द इति । जुहोतेरुआन् ।", "51136": "<<ब्रह्मणस्त्वः>> - नेति वाच्ये इति । छप्रत्यये निषिद्धेतस्य भावस्त्वतलौ॑इत्यनेनैव त्वप्रत्ययः सिद्द्यति, विभक्तेरनुच्चारणाल्लाघवं च भवतीति भावः ।होत्राभ्यः॑इत्यनुवृत्तेः फलं दर्शयति -ब्राआहृणपर्यायादिति ।इति तत्त्वबोधिन्यां भावकर्मार्थाः ।तत्त्वबोधिनी- बालमनोरमा-शेखर-संवलितासिद्धान्तकौमुदीतस्या उत्तरार्धम् अथ तिङन्ते भ्वादयःतत्त्वबोधिनी — श्रौत्रार्हन्तीचणैर्गुण्यैर्महर्षिभिरहदिंवम् । स्तोष्टूय्यमानोऽप्यगुणो विभुर्विजयतेतराम्॥१॥अज्ञाननाशने दक्षं दीक्षितं भक्तरक्षणे । वटमूलाश्रयं त्र्यक्षं दक्षिणामूर्तिमाश्रये॥१॥ग्रन्थमध्ये विघ्नविघाताय कृतं मङ्गलं शिष्यशिक्षार्थं निबन्धाति — श्रौत्रेत्यादिना । श्रौत्रियस्य भावः श्रौत्रम् । हायनान्तयुवादिभ्योऽणिति सूत्रे श्रोत्रियस्य् यलोपश्चेति वार्तिकाद्यलोपेऽण्प्रत्यये च यस्येति चेतीतकारलोपः । अर्हतो भाव आर्हन्ती । गुणवचनब्राआहृणादिभ्यः इति सूत्रे अर्हतो नुम् चेत्युक्तेर्नुम्, ष्यञ् च । षित्त्वान्ङीषि हलस्तद्धितस्येतियलोपः । ताभ्यां वित्तैः — श्रौत्रार्हन्तीचणैः । तेन वित्तः इति चणप् । श्रोत्रियत्वयोग्यताभ्यां प्रसिद्धैरित्यर्थः ।किं च गुण्यैः गुणवद्भिः । प्रशस्तगुणयुक्तैरिति यावत् । रूपादाहतप्रशंसयोरिति सूत्रे [मत्वर्थे]अन्येभ्योऽपि दृश्यते॑ इत्युकागुण्या ब्राआहृणाः॑ इत्यस्य भाष्यादावुदाहृतत्वात् । अहर्दिवमिति । अहन्यहनि । प्रत्यहमित्यर्थः ।अचतुरे॑ त्यादिना निपातनात्साधुः । तोष्टूय्यमान इति । स्तौतेर्यङन्तात्कर्मणि शानच् ।सार्वधातुके य॑ गिति धातोर्यक् ।आने मु॑गिति मुक् । अपिशब्देन आपाततो विरोधं द्योतयति । वस्तुतस्तु न विरोधः । स्तुतिप्रयोजकीभूतानामनन्तकल्याणगुणानां श्रुतिस्मृतिसिद्धत्वेऽपि बियदादिवद्व्यावहारिकत्वात्तदभावस्य पारमार्थिकत्वात् । एतच्चोत्तरमीमांसायां स्पष्टमेव । विभुव्यापकः परमेआरः । अतिशयेन विजयते विजयतेतराम् । सर्वोत्कर्षेण वर्तत इति फलितोऽर्थः ।विपराभ्यां जे॑रिति इत्यस्य अप्रातिपदिकत्वादतिङन्तत्वाच्च । न चसह सुपे॑त्यत्र सहेति योगविभागात्तिङन्तेन विशब्दस्य समासे प्रातिपदिकत्वं स्यादेवेति वाच्यं,स च छन्दस्येवे॑ति तत्रत्यग्रन्थेन सह विरोधापत्तेः । किं च प्रातिपदिकत्वाभ्युपगमे सोरूत्पत्तिः स्यात्, लिङ्गसर्वनामताभ्युपगमेन नपुंसकत्वात्सोर्लुक्यपिह्रस्वो नपुंसके॑ इति ह्रस्वो दुर्वारः स्यात् । समुदायान्तर्गतस्यजयते॑ इत्यस्य तिङन्तत्वेऽपि साकाङ्क्षत्वेनाऽसामर्थ्यात्ततोऽपि भवितुं नार्हति,समर्थः पदविधि॑रिति चेत् । अत्राहुः — समुदायान्तर्गताज्जयत इत्यस्मादेव तरप् । तस्य विशब्देन सह साकाङ्क्षत्वेनाऽसामर्थ्यं शङ्क्यम् । तिङन्तस्य प्रधानत्वेन सापेक्षत्वेऽपि दोषाऽभावात्, उपसर्गस्य द्योतकत्वेन प्रत्येकमर्थ एव नास्तीति साकाङ्क्षताया वक्तुमशक्यत्वाञ्चेति॥ पूर्वार्द्धे कथितास्तुर्यपञ्चमाध्यायवर्तिनः ।प्रत्यया, अथ कथ्यन्ते तृतीयाध्यायगोचराः॥२॥वृत्तकथनपुर्वकं वर्तिष्यमाणमाह — पूर्वाद्र्ध इति । हलन्तेषुस्पृशोऽनुदके क्विन्,ऋत्विग्दधृक्,त्यदादिष्वि॑त्यादिना क्विन्नादिव्युत्पादनं प्रासङ्गिकमिति भावः । तुर्यः — चतुर्थः ।चतुरश्छ्यतावाद्यक्षरलोपश्चेत्युक्तत्वात् । अथेति । इहापि कृत्सुणचः स्त्रियामञ्,अणिनुणः॑ इत्यादिव्युत्पादनं प्रासङ्गिकंबोध्यचम्, प्राधान्येन तु तृतीयाध्यायस्था एवेहोच्यन्त इति भावः । अनुबन्धभेदेन भेदमाश्रित्याह — दश लकारा इति । प्रदश्र्यन्त इति । यद्यपि पञ्चमलकाररूपाण्यधुना न व्युत्पाद्यन्ते तथापि लकारः स्वरूपेण प्रदश्र्यतेलः कर्मणि च बावे चाकर्मकेभ्यः॑,लस्ये॑त्यादिसूत्रविषयतां व्युत्पादयितुमिति भावः । पञ्चम इति । लेडित्यर्थः । लट्-लिडिति स्वोक्तक्रमापेक्षयैव लेटः पञ्चमत्वं, न तु सूत्रोक्तमेणेति बोध्यम् ।", "52001": "<<धान्यानां भवने क्षेत्रे खञ्>> - धान्यानाम् ।धिवि प्रीणने॑इत्यस्मात्कृत्यल्युटो बहुल॑मिति कर्तरि ण्यत् । अस्मादेव निपातनादन्त्यस्य लोप इकारस्य चात्वम् । धिनोतीति धान्यम् । मन्त्रश्चधन्यमसि धिमुहि देवान्इति दृश्यते ।धान्याना॑मिति भवनापेक्षया कर्तरि षष्ठी । सा च निर्देशादेव समर्थविभक्तिः । बहुवचनं तु स्वरूपविधिनिरासार्थम् । अलौकिके प्रकियावाक्ये तु षष्ठन्तत्वानुवादेन तद्विधिसामर्थ्यादेवेति बोध्यम् । भवतिरिहोत्पत्तिवचनः, क्षेत्रग्रहणसामर्थ्यात् । सूत्रे हि सत्तावचनस्यापि भवतेग्र्रहणं माभूदिति क्षेत्रग्रहणं कृतम् । अन्यथाधान्यानां भवनं कुसूलः॑इत्यत्रापि स्यादिति । धान्यानां किम् । तृणानां भवनं क्षेत्रम् ।", "52002": "<<व्रीहिशाल्योर्ढक्>> - व्रीहिशाल्योः । अत्रापि निर्देशादेव षष्ठी समर्थविभक्तिः । सा च भवनापेक्षया कर्तरीत्यादि पूर्ववत् ।", "52003": "<<यवयवकषष्टिकादत्>> - यवयवक । अत्र प्रत्ययार्थसामर्थ्याल्लभ्या षष्ठी समर्थविभक्तिः । विभाषा खञि नित्ये प्राप्ते वचनम् । औमीनं भाह्गीनमिति । ननूमाभङ्गयोर्धान्यत्वाऽबावात्कथमिह खञ् ।व्राहियश्च मे यवाश्च मे॑इति चनकानुवाके हि द्वादशैव धान्यानि पठितानि, न तूमाभङ्गौ पठितौ इति चेत् । मैवम् ।शणसप्तदशानि धान्यानी॑ति स्मरणात् । तत्र चोमभङ्गयोरपि पाठाद्धान्यत्वमस्तीति भाष्यादौ स्थितत्वात् । न च चमकानुवाके धान्यपरिगणनेनाऽर्थः, तत्राऽधान्यानामप्यश्मादीनां पाठात्, धान्यानामपि कैषांचित्कोद्रवादीनामपाठात् । तस्मादन्यत एव धान्यनिर्णय इति पूर्वोक्तस्मृत्या तयोर्धान्यत्लमस्तीति ज्ञेयम् ।", "52004": "", "52005": "<<सर्वचर्मणः कृतः खखञौ>> - सर्वचर्मणः ।खश्चे॑त्येव तु नोक्तं, यतोऽप्यनुकर्षः संभाव्येतेति । अत्र तृतीया समर्थविभक्तिः, कृत इति प्रत्ययार्थे चर्मणः करणत्वस्योचितत्वात् । सर्वश्चर्मणेति । सर्वेण चर्मणा कृत इत्यर्थे तद्धितो नेष्यत इति भावः ।", "52006": "<<यथामुखसंमुखस्य दर्शनः खः>> - यथामुख । दृश्यतेऽस्मिन् दर्शनः=आदर्शादिः । अधिक,रणे ल्युट् ।असादृश्ये॑इति प्रतिषेधात्सादृश्ये कथं यथाशब्दस्य समासः । तत्राह — — निपातनादिति । एतच्च वृत्तिग्रन्थमनुसृत्योक्तम् । भट्टिकाव्ये तु पदार्थानतिवृत्तौ यथाशब्द आश्रितः । तथा च मायामृगं प्रकम्योक्तं -॒यथामुखीनः सीतायाः पुप्लुवे बहु लोभयन्इति । यथामुखं दर्शन इति । अव्ययीभावस्यापि यथामुखशब्दस्येन्मत्तगङ्गादिवत्सत्त्ववचनत्वात्कर्मशक्तियोगे सति कृद्योगलक्षणा षष्ठी । तस्यानाव्ययीभावा॑दित्यमादेशः । सर्वस्य मुखस्येति ।संमुखस्ये॑ति नोक्तं, प्रत्ययसंनियोगेनैव समशब्दस्याऽन्त्यलोपनिपातनात् । संशब्दस्तचुसमशब्दार्थे न दृश्यते,संमुखो भव॑इत्यत्रअभिमुख॑इत्यर्थप्रतीतेः । तत्र च खप्रत्ययस्याऽनिष्यमाणत्वात् । कथं तर्हि — — ॒संयुगे संमुखीनं तमुद्गदं प्रसहेत कः॑इति भट्टिः । अभिमुखावस्थानात्सामर्थ्याद्भविष्यतीति हरदत्तः ।", "52007": "<<तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं व्याप्नोति>> - तत्सर्वादेः ।त॑दिति द्वितीया समर्थविभक्तिः । व्याप्नोतीति प्रत्ययार्थः । परिशिष्टं प्रकृतिविशेषणम् । तत्र केवलानां पथ्यादीनां सर्वादित्वाऽसंभवात्प्रातिपदिकैरपि तैस्तदन्तविधिः । तदाह — — पथ्याद्यन्तादिति । पथ्यङ्गकर्मपत्रपात्रान्तात्प्रातिपदिकादित्यर्थः । सर्वपथीनि इति ।पूर्वकालैके॑ति समासः ।ऋक्पी॑रिति समासान्तः । तस्य पथ्यन्तसमासग्रहणेन ग्रहणाद्भवति खप्रत्यय ।", "52008": "", "52009": "<<अनुपदसर्वान्नायानयं बद्धाभक्षयतिनेयेषु>> - अनुपदसर्वान्नायानयं ।बद्धाभक्षयती॑त्यत्र निपातनातिङन्तेन सह द्वन्द्वः । द्वितीयान्तेभ्योऽनुपाददिभ्यो यथासङ्ख्यं बद्धादिष्वर्थेषु खः स्यात् । अनुरायाम इत्यादि ।यस्य चायामः॑इति , यथार्थे — ॒ऽव्यय॑मिति वा अव्ययीभाव इत्यर्थः । सर्वान्नीन इति । प्रकारकार्त्स्न्ये सर्वशब्दः । यान्यन्नानि लभ्यन्ते उष्णानि शीतलामि सरसानि वा सर्वाणि भक्षयतीत्यर्थः ।अयः -प्रदक्षिणगमनम् । अनयः -प्रसव्यगमनम् । प्रदक्षिणप्रसव्यगामिनां शाराणां यस्मिन्परैरसमावेशः सोऽयमयानः॑इति काशिका । तं नेय इति । नयतेर्द्विकर्मकत्वादप्रधाने कर्मणि द्वितीया । आयानयीनः शारैति ।फलकशिरसि स्थित इत्यर्थः॑इति काशिका ।", "52010": "<<परोवरपरम्परपुत्रपौत्रमनुभवति>> - अवरस्येति ।आदे॑रिति शेषः । उत्वे कृतेआद्गुणः॑ । केचुत्तु ओत्वं परशब्दस्य निपात्यते, तस्मात्परस्याऽतःएङः पदान्ता॑दिति पूर्वरूपादेश इति पक्षान्तरमाहुः ।", "52011": "<<अवारपारात्यन्तानुकामं गामी>> - अवारपार । गामीति ।गमेरिनिः, आङि णिच्चे॑ति बहुलवचनात्केवलादपि णिनिः ।भविष्यति गम्यादयः॑इति भविष्यत्कालता । न्यासकारस्तुआवश्यके णिनिः, सोऽपि भविष्यत्येवे॑त्याह । अवारपारमिति । अकतेनोर्भविष्यदाधमण्र्ययो॑रिति षषाठीप्रतिषेधः । केचित्तुगत्र्थकर्मणी॑ति सूत्रे द्वितीयाग्रहणमपवादविषये विधानार्थम् । तेन कृद्योगषष्ठी न भवतिग्रामं गन्ते॑तिवदिति व्याचख्युः । तदसत् ।अकेनो॑रिति प्रतिषेधे षष्ठीप्रसङ्गस्यैवाऽभावात् । अवारीण इत्यादि ।विगृहीताद्विपरीतादपीष्यते॑इति भावः । अत्यन्तमिति । क्रियाविशेषणम् । अनुकाममिति । काम इच्छा , तस्य सदृशमनुकामम् । कामानुरूपमित्यर्थः ।अव्ययं विभक्ती॑ति यथार्थेऽव्ययीभावः ।", "52012": "<<समांसमां विजायते>> - समांसमाम् । यलोप इति ।समाया॑मित्यत्र यकारलोप इत्यर्थः । पूर्वपदे निपात्यत इति । अन्यथा तद्धिते उत्पन्ने यथोत्तरपदे सुपो लुग्भवतिसुपो धातुप्रातिपदिकयो॑रिति, तथा पूर्वपदेऽपि स्यादिति भावः । समांसमीनेचि । वीप्सायां द्विर्वचनम् । सुबन्तसमुदायः प्रकृतिः । विजायत इत्येतद्व्याचष्टे -प्रसूयत इति । विपूर्वको जनिर्गर्भविमोचने वर्तत इति भावः । गर्भविमोचने कृत्स्नायाः समाया व्याप्त्यभावात्अत्यन्तसंयोगे चे॑ति द्वितीया नभवतीत्याशयेनाह -समायामित्यादि ।खप्रत्ययानुत्पत्तौ यलोपो वा वक्तव्यः ।खप्रत्ययानुत्पत्ता॑विति । वार्तिकेन समांसमामिति सौत्रप्रयोगस्तूपपन्न इति भावः । अद्यआईना । अविभक्तिको निर्देशो न तु स्त्रीलिह्गनिर्देशोऽयम्,अद्यआईनो गोसमूहः ॑अद्यआईनं गोमण्डल॑मित्यादावपीष्टत्वात् ।", "52013": "<<अद्यश्वीनाऽवष्टब्धे>> - अद्य आओ वेति । निपातनाद्वाऽर्थे समासोऽयमिति भावः ।अवाच्चालम्बने॑ति सूत्रेण आविदूर्ये स्तन्भेः षत्वविधानादवष्टब्धशब्द आसन्नपरः ।विजायते॑इति हि वर्तते । स च गर्भविमोचनार्थकः । तदाह -आसन्नप्रसतेत्यर्थ इति ।", "52014": "<<आगवीनः>> - कर्मकतरे इति । यस्तु प्रातर्गा गृहीत्वा गच्छति गोपालस्तस्मिन्नित्यर्थः । गोः प्रत्यर्पणपर्यन्तमिति । गोशब्दो लक्षणया गोः प्रतिदाने वर्तते इति भाव । आगवीन इति ।आङ्भर्यादाभिविध्यो॑रित्यव्ययीभङावेगोस्त्रियो॑रिति ह्रस्वे कृतो खप्रत्ययः ।ओर्गुणः॑ ।", "52015": "<<अनुग्वलंगामी>> - अनुग्वलं ।ख॑इत्यनुवर्तते । अनुगुशब्दात्अलंगामी॑त्यस्मिन्नर्थे खः स्यात् । गोः पश्चादिति । पश्चादर्थेऽव्ययीभावः । पर्याप्तिमिति । क्रियाविशेषणम् । अत्र हरदत्तः -अनुग्वित्यस्य क्रियाविशेषणत्वाद्द्वितीयान्तादिह प्रत्ययः । न चालङ्गामीत्यस्यसुप्यजातौ॑इति णिनिप्रत्ययान्ततया कृद्योगलक्षणा षष्ठी स्यादिति वाच्यं, क्रियाविशेषणात्तदप्रवृत्तेः,शोभनं पाचक॑इत्यादौ तथादर्शनादित्याह । अत्र केचित् -धातूपात्तव्यापारजन्यफलाश्रयत्वं यत्र तन्मुख्यं कर्म, यत्र तु व्यापारजन्यत्वमात्रं तदौपचारिकम् । ततश्चतण्डुलाना पाचक॑इत्यत्र मुख्ये कर्मणि कृद्योगलक्षणा षष्ठी भवति ।मृदु पाचकः॑शोभनं पाचक॑इत्यत्र तु सा न भवति, फलव्यापारयोः क्रियाकर्मभावव्यवहारे सत्यपि फलस्योपचारिककर्मत्वात्, तद्विशेषणत्वाच्च मृद्वादेरिति तस्याशयैत्याहुः । अन्ये त्वेवं तर्हि तुल्यन्यायेन क्रियाविशेषणाद्द्वितीययाया अप्यप्रवृत्तिः स्यात् । तस्मात्तदर्ह मिति निर्देशादनित्या कृद्योगषष्ठीति क्रियाविशेषणात्सान स्वीक्रियत इति हरदत्ताशयः कथं चिद्वर्णनीय इत्याहुः । वस्तुतस्तु पश्चादर्थेऽव्ययीभावोऽयमिति निर्बिवादम् । पश्चादिति चाऽस्तत्यर्थे निप#आतितम् । तच्च यद्यपि विभक्तित्रयसाधारणं तथापीह योग्यताबलात्सप्तम्यर्थवृत्तिः । अतस्तस्य कर्मत्वाऽयोगात्प्रथमान्तादेवेह प्रत्यय इति वक्तुमुचितम् । कृद्योगलक्षणषष्ठीशङ्काऽप्यत एव नेति बोध्यम् ।", "52016": "", "52017": "<<अभ्यमित्राच्छ च>> - अभ्यमित्रात् । अभ्यमित्रशब्दोलक्षणेनाभिप्रती आभिमुख्ये॑इत्यव्ययीबावः । क्रियाविशेषणत्वाद्द्वितीया समर्थविभक्तिः ।", "52018": "<<गोष्ठात् खञ् भूतपूर्वे>> - गोष्ठात्खञ् । गावस्तिष्ठन्त्यस्मिन्निति घोष्ठः ।घञर्थे कविधानं॑मित्यदिकरणे कः ।अम्बाम्बोगोभूमी॑ति षत्वम् । पूर्वं भूतो भूतपूर्वः ।सुप्सुपे॑ति समासः ।", "52019": "<<अश्वस्यैकाहगमः>> - अआस्य । कर्तरि षष्ठीयं निर्देशादेव समर्थविभक्तिः । एकाहगम इति ।कर्तृकरणे कृते॑ति समासः । नन्विहग्रहणवृद्दनिश्चिगमश्चे॑त्यपं बाधित्वापारिमाणाख्यायां सर्वेभ्यः॑इति घञ्प्राप्नोति, अस्ति चाऽत्र परिमाणख्याएकाहेन गम्यते॑इति परिच्छेदावगमात् । अत्राहुः -अस्मादेव निपातनादप्द्रष्टव्य इति ।", "52020": "<<शालीनकौपीने अधृष्टाकार्ययोः>> - शलीनकौपीने । इमौ खप्रत्ययान्तत्वेन निपात्येते । रूढिशब्दावेतौ कथंचिद्वयुत्पाद्याविति नात्राऽवयवार्थेऽभिनिवेशः कार्यः । शालाप्रवेशमिति । अप्रागल्भ्यादन्यत्र गन्तुमशक्तः शालामेव प्रवेष्टुमर्हतीत्यर्थः । कूपपतनमिति । यदकार्यं तत्प्रच्छादनीयत्वात्कूपावतरणमर्हतीत्यर्थः । तदाच्छादनमिति । वासःखण्ड इत्यर्थः । अन्ये त्वाहुः -अकार्यशब्दे यः करोति स क्रियासामान्यवचनः, तेन लज्जाहेतुत्वेन अद्रष्टव्यत्वात्पुरुषलिङ्गंकौपीनम्ष । अस्पृश्त्वात्तदाच्छादनमिति ।", "52021": "<<व्रातेन जीवति>> - शरीरायासेनेति । भारवहनादिनेत्यर्थः । यद्यपि व्रातशब्दो लोके सङ्घातवचनः, तथाप्यत्रत्यभाष्यादिग्रन्थपर्यालोचनया अयमेवार्थ इहोचित इति भावः ।", "52022": "<<साप्तपदीनं सख्यम्>> - साप्तपदीनम् । योग्यतया समर्थविभक्तिस्तृतीयेति दर्शयति -सप्तभिः पदैरिति । पदमिह संभाषणं पादवक्षेपो वा तद्धितार्थे द्विगुः । अवाप्यतैत्यर्थे खञ् ।", "52023": "<<हैयंगवीनं संज्ञायाम्>> - हैयंगबीनम् । ह्रोगोदोहस्येति । गोर्दोहो गोदोहः । षष्ठीसमासः । तेन सह ह्रस्शब्दस्यसुप्सुपे॑ति समासः । ततो विकारे अनुदात्तलक्षणस्याऽञोऽपवादः खञ् । अत्र ह्रस्शब्देन कालप्रत्यासत्तिर्विवक्षिता । नवनीतमिति । यद्यिपि वृत्तौघृत॑मित्युक्तं, तथैव चामरेणा॑पि -॒तत्तु हैयङ्गवीनं यद् ह्रोगोहोद्भवं घृत॑मित्युक्तम्, तथापि घृतशब्देन नवतीतमेव विवक्षितमिति हरदत्तग्रन्थानुरोधेनेदमुक्तम् ।", "52024": "<<तस्य पाकमूले पील्वदिकर्णादिभ्यः कुणब्जाहचौ>> - तस्य पाक । पाकः=परिणामः । मूलम् — उपक्रमः ।तस्येद॑मित्यणादिषु प्राप्तेष्वयमारम्भः । जाहचो जकारस्य प्रयोजनाऽभावान्नेत्वम् । पीलु, कर्कन्धु,शमी, करीर, कुवल, बदर, [अआथ] थदिर — पील्वादिः । कर्ण, अक्षि, नख, मुख,केश, पाद,गुल्फ, भ्रू, शृङ्ग, दन्त, ओष्ठ, पृष्ठ, -कर्णादिः ।मूलग्रहणमात्रमिति । एकादेशे स्वरितत्वप्रतिज्ञानादिति भावः ।", "52025": "<<पक्षात्तिः>> - पक्षतिरिति । प्रतिवत्, पक्षिणां, पक्षमूलं च ।", "52026": "<<तेन वित्तश्चुञ्चुप्चणपौ>> - तेन वित्तः । वित्तः=प्रतीतः ।वित्तो भोगप्रत्ययो॑रिति निपातनात्रदाभ्यां निष्ठातो नः॑इति नत्वं न । लुप्तनिर्दिष्ट इति ।चुटुषाः प्रत्ययस्ये॑ति वक्तव्ये पृथग्योगकरणात्चुटू॑ इत्येतदनित्यमिति समाधानान्तरमप्याहुः ।", "52027": "<<विनञ्भ्यां नानाञौ नसह>> - नानाञाविति । नाञो ञकारो वृद्द्यर्थः, स्वरार्थश्च ।न सहे॑ति प्रकृतिविशेषणं, न प्रत्ययार्थ इत्यादशयेनाह -असहार्थ इत्यादि । यदि प्रत्ययार्थः स्यात्ततोद्वौ प्रतिषेधौ प्रकृतमर्थ गमयतः॑इति सहार्थो गन्येतन न सह=अपि तु सहैवे॑ति । तस्मात्प्रकृतिविशेषणम् । एतच्च व्याख्यानाल्लभ्यते । यद्येवं सहेत्येव प्रत्ययार्थोऽस्तु विनञोः प्रतिषेधार्थत्वादिष्टसिद्धेःविगार्दभरथकः॑इत्यादौ विशब्दस्यापि प्रतिषेधवृत्तिद्र्दष्टैवेति । सत्यम् । क्रियावाचिनो विशब्दात्सहार्थे प्रत्ययो विज्ञायेत, -विगतेन सह, विकृतेन सहेति । सत्याद्यथोक्तमेव न्याय्यम् । एतच्च हरदत्तग्रन्थे स्पष्टम् । स्वार्थ इति । अनिर्दिष्टार्थत्वादिति भावः ।", "52028": "", "52029": "<<सम्प्रोदश्च कटच्>> - संप्रोदश्च । क्रियाविशिष्टसाधनवाचकात्स्वार्थे प्रत्ययः । सङ्कटं=संहतम् । संबाध इत्यर्थः । प्रकटं=प्राज्ञातम् । प्रकाशत इत्यर्थः । उत्कटम्ुद्भूतं । विकटं=विकृतं, । रूढशब्दाश्चैते कथंचिद्व्युत्पाद्यन्ते ।अलाबूतिलोमाभङ्गाभ्यो रजस्युपसङ्ख्यानम् । अलाबूकटमिति । एभ्यः पञ्चभ्यो रजस्यभिधेये कटच्प्रत्ययो भवति । रजसो विकारत्वाद्विकारप्रत्ययानामपवादोऽयम् । अलाबूकटमिति ।ओरञ्॒मयड्वैतयो॑रिति मयड्वेह प्राप्तः । तिलकटमिति ।असंज्ञायां तिलयवाभ्या॑मिति मयट् प्राप्तः । उमाशब्दाद्धृतादित्वादन्तोदात्तात्अनुदातादेश्चे॑त्यञ्,उमोर्णयोवे॑ति वुञ्च प्राप्तः । भङ्गाशब्दात्तृणधान्यानां च व्द्यषा॑मित्याद्युदात्तत्वादण्डमयड्वा प्राप्त इत्येवं यथासंभवं प्रत्ययप्राप्तिरूह्रां । हरदत्तस्तु -तिलशब्दस्य घृतादित्वादन्तोदात्तत्वमङ्गीकृत्य ततःअनुदात्तादेश्चे॑त्यञ्,असंज्ञायां तिलयवाभ्या॑मिति मयड्वा प्राप्त इत्याह । तत्र तिलशब्दस्य घृतादित्वकल्पनेबीजं चिन्त्यम् ।तृणधान्यानां च व्द्याषा॑मिति फिट्सूत्रेणाद्युदात्तस्यैव न्याय्यत्वात् ।॒तिलाश्च मे॑इत्यत्र तथैव वेदे पाठाच्च ।गोष्ठजादयः स्थानादिषु पशुनामभ्यः । गोष्ठजादय इति ।सङ्घाते कट॑जित्यादीन्यस्यैव प्रपञ्चः । इहोभयत्राऽऽदिशब्दः प्रकारे । पशुनामभ्य इति ।पशुनामादिभ्यः॑इति भाष्मे प्रचुरः पाठः । गवां स्थानमिति ।तस्येद॑मित्यत्रार्थेसर्वत्र गोरजादिप्रसङ्गे॑इति यति प्राप्ते गोष्ठच् ।सङ्घाते कटच् । सङ्घात इति । अप्रसृताक्यवः समूहः — सङ्घातः । प्रसृतावयवस्तु -बिस्तारः । कठच्पटचौ द्वावपि सामूहिकानामपवादौ ।द्वित्वे गोयुगच् । द्वित्वे इति । प्रकृत्यर्थस्य द्वित्वे द्योत्य इत्यर्थः । उष्ट्रगोयुगमिति । द्वयं युग्ममित्यादिवद्द्व्यवयवसङ्घातप्राधान्यादेकवचनम् । एवमग्रेऽपि ।", "52030": "", "52031": "<<नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्राटचः>> - नतमिति । नपुंसके भाषे क्तः । नमनमिति । नीचैस्त्वमित्यर्थः । अकटीटमिति । नासिकासाधनके नमने वर्तमानादवशब्दात्स्वार्थे प्रत्ययः । कथं तर्हि नासिकायां पुरुषे चाऽवटीटशब्दस्य प्रयोग इत्यत आह -तद्योगादिति । नेर्बिडच् ।नते नासिकायाः संज्ञाया॑मिति वर्तते ।निशब्दान्नासिकाया नतेऽभिधेये बिडज्बिरीसचौ स्तः । निबिडमिति । तद्यागान्निबिडा नासिका, निबिरीसा । कथं तर्हि निबिडाः केशाः॑, निबिडं वस्त्र ॑मिति । उपमानाद्भविष्यति । एतच्च काशिकायां स्पष्टम् । केचित्तु उक्तप्योगानुरोधेनेह सूत्रेनते नासिकायाः॑इति नानुवर्तत इति व्याचक्षते । प्रकृतेरिति । निशब्दस्येत्यर्थः । आदेशौ चेति । प्रत्ययौ, तत्संनियोगेन यखासङ्ख्यमिमावादेशौ च स्त इत्यर्थः ।कप्रत्ययचिकादेशौ च वक्तव्यौ । चिकिनमिति । इनच्प्रत्ययसंनियोगेन चिकादेशः । चिपिटमिति । पिटच्प्रत्ययसंनियोगेनचि॑ इत्यादेशः ।क्लिन्नस्य चिल् — पिल् — लश्चाऽस्य चक्षुषी । क्लिन्नस्येति । चिल् पिल् इत्येतावादेशौ भवतो, लश्च प्रत्ययःअस्य चक्षुषी॑इत्येतस्मिन्नर्थे ।चुल् च । चुल् चेति । चाल्लप्रत्ययः । चुल्ल इति । क्लिन्ने अस्म चक्षुषी इति पूर्वोक्त एव विग्रहः । कथं तर्हिस्युः क्लिन्नाक्षे चुल्लचिल्लपिल्ला क्लिन्नेऽक्ष्णि चाप्यमी॑इत्यमर इति चेत् । अत्राहुः — पुरुषे व्युत्पादितानां तदवयवे लक्षणा बोध्येति । अन्ये त्वाहुः — -॒अस्य चक्षुषी॑इत्यत्रअस्ये॑ति न वक्तव्यम् । क्लिन्ने चक्षुषी — चिल्ले पिल्ले । पुरुषे तु मत्वर्थेऽच्, अर्साअदिषुस्वाङ्गाद्धीना॑दिति सूत्रितत्वादिति ।", "52032": "", "52033": "", "52034": "<<उपाधिभ्यां त्यकन्नासन्नारूढयोः>> - उपाधिभ्याम् । संज्ञाधिकारादिह नियतविषयमासन्नारूढं गृह्रत इत्याशयेनाह -पर्वतस्येति । आसन्नं=समीपम् । आरूढम् -उच्चस्थानम् । उपत्यकेति ।प्रत्ययस्था॑दितीत्त्वं तु न भवति,त्यकनश्च निषेधः॑ इत्युक्तत्वात् ।", "52035": "<<कर्मणि घटोऽठच्>> - कर्मणि घटो । सप्तम्यन्तात्कर्मन्शब्दात्घटते॑इत्यर्थेऽठञ् स्यात् । कर्मठ इति ।ठस्येकः॑इतीह नभवति । अठचि ठस्याऽप्रत्ययत्वेनाऽङ्गसंज्ञानिमित्तत्वाऽभावात् ।", "52036": "<<तदस्य संजातं तारकाऽऽदिभ्य इतच्>> - तारकितमिति । एवं पुष्पितं फलितं पुलकितं रोमाञ्चितमित्याद्युदाहार्यम् ।", "52037": "<<प्रमाणे द्वयसज्दघ्नञ्मात्रचः>> - प्रमाणे द्वयसज् । प्रमाणे विद्यमाननात्प्रथमान्तात्अस्ये॑ति निर्दिष्टे प्रमेयेऽर्थे त्रयः प्रत्ययाः स्युः । प्रमाणमिह परिच्छेदकमात्रम् । तत्र मात्रच् । द्वयसच्दघ्नचौ तूध्र्वमान एव भवतः,प्रथमश्च द्वितीयश्च ऊध्र्वमाने मतौ ममे॑ति भाष्यात् । ऊध्र्वावस्थितेन येन मीयते तदूध्र्वमानम् -ऊर्वादि । तेन तिर्यङ्भानादौदण्डज्वयसं क्षेत्र॑मित्यादि न प्रयुज्यते, यथोत्तरं मुनीनां प्रामाण्यात् । अतएवद्विकाण्डा क्षेत्रभक्ति॑रित्यत्रद्वयसचोलु॑गिति प्राचोक्तं नादर्तव्यमित्यवोचाम ।प्रमाणे लः । प्रमाणो ल इति । लुक एषा पूर्वाचार्यसंज्ञा । प्रमाणत्वेन ये प्रसिद्धास्ततः परस्यैवायं लुगित्युदाहरति — शमः दिष्टिः वितस्तिरिति । शमः प्रमाणस्येत्यादिविग्रहः । एषु मात्रचो लुक्, इतरयोरसंभवात् । शमादीनामनूध्र्वमानत्वात् ।द्विगोर्नित्यम् । द्विगोर्नित्यमिति । द्विगोरप्रमाणत्वात्तदन्तविध्यभावाच्च पूर्वेणाऽप्राप्तो लुग्विधीयते । ननु विकल्पस्याऽप्रकृतत्वान्नित्यग्रहणमिह निरर्थकमिति चेत् । अत्राहुः — — अनुपदं संशये वक्ष्यमाणो मात्रच् शममात्रमित्यादौ यथा न लुप्यतेप्रमाणे लः॑इत्यस्यप्रमाणे द्वयस॑जिति यः पूर्वविधिस्तद्विषयत्वात्, -एवं द्विगोरपि न लुप्येत । इष्यते च लुक् । द्वौ शमौ स्यातां न वा द्विशम इति । तथा चाऽधिकसङ्ग्रहार्थं नित्यग्रहणभिति । अत्र केचित् -द्विगोर्लः॑इत्युक्तेऽपि पुनर्लग्रहणं नित्यार्थमधिसङ्ग्रहार्थमिति व्याख्यातुं शक्यत इति वैचित्र्यार्थं नित्यग्रहणमित्याहुः ।प्रमाणपरिमाणाभ्यां सङ्ख्यायास्तपि संशये मात्रज्वक्तव्यः । शममात्रमित्यादि । शमः स्यान्न वेत्यादिविग्रहः ।", "52038": "<<पुरुषहस्तिभ्यामण् च>> - पुरुषहस्तिभ्यामण्च ।इनण्यनपत्ये॑ इति प्रकृतिभावः । हस्ती प्रमाणमस्य हास्तिनम् । अत्र काशिकायामिक्तंद्विगोर्नित्यं लुक । द्वुपुरुषमुदक॑मित्यादि । व्याख्यातं च हरदत्तेन -यद्यपिप्रमाणे लो द्विगोर्नित्य॑मित्यस्य नायमनुवादः, पुरुषहस्तिनोः शमादिवत्प्रमाणत्वेनाऽप्रसिद्धत्वात्, अतएव हिपुरुषद्वयस॑मित्यादौ॒प्रमाणे लः॑इति लुङ् न भवति, तथाप्यपूर्वोऽत्र लुग्विधीयते इति । एतच्चाऽसङ्गतम् ।द्विगोर्नित्यं लु॑गित्यपूर्ववचनस्य मुनित्रयाऽनुक्तत्वात् । वस्तुतस्तु विधीयत इत्यस्याऽनुमीयत इत्यर्थः । अयं भावः -॒द्विगोः॑तद्धितलुकी॑त्यनुवर्तमानेपुरुषात्प्रमाणेऽन्यतरस्या॑मिति ङीब्विकल्प्यते, तदेव लुकमनुमापयतीति ।", "52039": "<<यद्तदेतेभ्यः परिमाणे वतुप्>> - यत्तदेतेभ्यः । यावानित्यादि ।आ सर्वनाम्नः॑इत्यात्वेउगिदचा॑मिति नुम् ।अत्वसन्तस्य चे॑ति दीर्घः । हल्डआदिलोपसंयोगान्तलोपौ ।प्रमाणे॑इत्यनुवर्तमाने परिमाणग्रहणं प्रमाणपरिमाणयोर्भेदात्कृतम् । तथा च वार्तिकम् -॒डावतावर्थवैशेष्यान्निर्देशः पृथगुच्यते । मात्राद्यप्रतिघाताय भावः सिद्धश्चडावतोः । इति । अस्यार्थः -इह शास्त्रे वतुपं विधाय तस्मिन् परे आत्वं विहितम् । पूर्वाचार्यास्तु डावतुं विदधिरे, तद्वीत्या निर्देशोऽयं डावताविति । विशेष्यते इति विशेषः, तस्य भावो वैशेष्यं, तस्मात्, अर्थभेदादित्यर्थः । अर्थभेदस्तु -॒परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्या॑दिति प्रागेवोक्त इति भावः । नन्वनयोरर्थभेदे सति यावानध्वा यावती रज्जुरित्यादि न सिध्येत्, अत्र ह्रायाममात्रं गम्यते । यद्युपमानाद्भविष्यतीति ब्राऊषे, तर्हि प्रमाणग्रहणमेवानुवर्त्त्यतां, यावानध्वेत्यादिप्रयोगाश्च मुख्याः सन्तु । ये तु परिमाणे प्रयोगाःयावान् धान्यराशि॑रित्यादयः, त एवोपमानाद्भवन्तु । तत्राह -॒मात्रादिति॑ ।यत्तदेतेभ्यः॑इति विशेषविहितो हि वतुप् सामान्यविहितान् मात्रजादीन् बाधेत । तेन तन्मात्रमित्यादि न स्यात् । परिमाणग्रहणे सति तु भिन्नोपाधिकत्वाद्वतुपः प्रमाणे विहितमात्रजादिभिः सह बाध्यबाधकभावो नेति भावः । नन्वेवमपि बाधः स्यादेव,प्रमाणे द्वयस॑जित्यत्र प्रस्थमात्रमित्यादिसिद्धये प्रमाणग्रहणस्य परिच्छेदकमात्रपरतया व्याख्यातत्वेन वतुपो यत्तदेतेभ्यो विहितत्वेन विशेषविहितत्वातनपायात् । तस्मात्यत्तदेतेभ्यो वतुप् चे॑त्येव सूत्र्यतां, मास्तु परिमाणग्रहणम्, अस्तु च प्रमाणे इत्यर्थाधिकारः, तेनयावती रज्जुः॑यावान् धान्यराशि॑रित्यादिप्रयोगाः सर्वेऽप्युपचारं विनैव निर्वहन्तीत्यपरमनुकूलमत आह -॒भावः सिद्धश्चेति॑ । डावतोरिति पञ्चम्यन्तम् । अर्थभेदे सति वत्वन्तान्मात्रजादीनामुत्पत्तिः सिध्यति । तत्परिमाणमस्य तावद्धान्यं राशीकृतम् । तावत्प्रमाणमस्य कुडआदेःतावन्मात्रम् । यादृग्राशीकृतस्य धान्यादेर्दैध्र्यं तादृशं कुडआदेरपीत्यर्थः । एकविषयत्वे तु वतुपैव विशिष्टस्य प्रमेयस्योक्तत्वाद्वतुबन्तान्मात्रजादयो न स्युः । यस्य हि तावत्प्रमाणं तस्यतदपि प्रमाणम् । जानुप्रमाणकं जलादि यस्य प्रमाणं तदपि जानुप्रमाणकमिति वक्तुं शक्यत्वात् । एवं च तावच्छब्द एव प्रयुज्येत न तुतावन्मात्र॑मित्यादि । अन्यथा तत्प्रमाणमस्य तन्मात्रम् । तन्मात्रं प्रमाणमस्य तन्मात्रमात्रमित्येवं मात्रजादिभ्यः प्रत्ययमालाप्रसङ्गात् ।", "52040": "<<किमिदंभ्यां वो घः>> - किमिदंभ्याम् । वतुप्स्यादिति । वकारस्य घविधिसामर्थ्याद्वतुपरमनुवर्त्त्य सोऽप्यत्र विधीयत इति भावः ।आदेः परस्ये॑त्येव सिद्धेवः॑ इथि वचनमादेशप्रतिपत्त्यर्थम् । इतरथा घः प्रत्ययान्तरं विज्ञायते । कियामिति ।इदंकिमोरीश्की॑यस्येति चे॑ति लोपः । इयानिति । ईसादेशस्ययस्ये॑ति लोपे प्रत्ययमात्रमवशिष्यते । पठन्ति च — — ॒उदितवति परस्मिन् प्रत्यये शास्त्रयोनौ, गतवति विलयं च प्रकृतेऽपि प्रपञ्चे । सपदि पदमुदीतं केवलः प्रत्ययो यत्तदियदिति मिमीते को ह्मदा पण्डितोपि.॑ वैयाकरणानामौपनिषदानां च प्रक्रियामाश्रित्य प्रवृत्तो व्द्यर्थोऽयं श्लोकः ।", "52041": "<<किमः संख्यापरिमाणे डति च>> - किमः सङ्ख्या ।तदस्ये॑त्यनुवर्तत एव । संख्यायाः परिमाणं=परिच्छेदः, तस्मिन् कर्तव्ये यः प्रश्नस्तस्मिन्वर्तमानात्किमः प्रथमासमर्थादस्येति षष्ठर्थे डतिः स्यात् । सङ्ख्यापरिमाणे किम् । क्षेपे माभूत् । का सङ्ख्येयमेषां दशानाम् ।अव्रतानाममन्त्राणां जातिमात्रोपजीविनाम् । सहरुआशः समेतानां परिषत्त्वं न विद्यते इत्येवं सङ्ख्येयद्वारेणाऽत्र संख्यायां कुत्सा बोध्या ।", "52042": "<<संख्याया अवयवे तयप्>> - संख्यायाः । अवयवे वर्तमाना या संख्या तद्वाचिनः प्रथमान्तात्षष्ठआर्थे तयप् स्यात् । यं प्रत्यवयवः सोऽवयवी प्रत्ययार्थः,अस्ये॑त्यधिकारात् । यथा द्वयसजादिषु प्रमाणे प्रकृत्यर्थे प्रमेयं प्रत्ययार्थस्तद्वत् ।", "52043": "<<द्वित्रिभ्यां तयस्यायज्वा>> - त्रयमिति । ननुत्रयोऽवयास्तन्तवो यस्य त्रयं सूत्र॑मिति प्रयोगे संभवत्यपिमुनित्रय ॑मिति प्रयोगो न सङ्गच्छते, अन्यपदार्थस्यावयविनोऽभावादिति चेत् । अत्राहुः -अवयवी त्वत्र समुदाय एव । स चातिरिक्तो वाऽनतिरिक्तो वेति विचारान्तरम् । एवं च समुदायस्यातिरिक्तत्वपक्षेऽपि समुदायघटकत्वेन मुनीनां प्रत्यभिज्ञानान्मुनित्रयनमस्कारस्य विघ्नविघातकत्वमस्त्येवेति ।", "52044": "<<उभादुदात्तो नित्यम्>> - उभादुदात्तो नित्यम् । इहचितः॑इत्यनेनैवान्तोदात्तत्वं सिद्धं, सर्वोदात्तत्वं तुअनुदात्तं पदमेकवर्ज॑मिति वचनाद्वाधितम् । न च हे उभयेति संबुद्ध्यन्ते आमन्त्रिताद्युदात्तत्वं बाधितुं वचनमिति शङ्क्यं, पुरस्तादपवादन्येन चित्स्वरस्यैव बाध्यता, न त्वामन्त्रिताद्युदात्तत्वस्येति सुवचत्वात् । तस्मादुदात्तवचनसामर्थ्यादादेरेवायम् । प्रयुज्यते च तथा -॒उभयं शृणवच्च न॑इति । तदेतत्सकलमभिप्रेत्याह -स चेति ।", "52045": "<<तदस्मिन्नधिकमिति दशान्ताड्डः>> - तदस्मिन् । पुनस्तद्ग्रहणम्अस्ये॑ति षष्ठन्तसंबद्धतद्ग्रहणनिरासार्थः प्रत्ययविधौ तदन्तविध्यभावादाह -दशान्तादिति । अन्तग्रहणं किम् । दश अधिका अस्मिन्शते । न चेह व्यपदेशिवद्भावेन दशान्तत्वमस्तीति वाच्यं,व्यपदेशिवद्भावोऽप्रातिपदिकेने॑त्यभ्युपदमात् । शदन्त प्रत्ययग्रहणपरिभाषया तदन्तविधौ सतियस्मात्प्रत्ययविधिस्तदादेस्तदन्तस्ये॑ति परिभाषया तदादिनियमः स्यात्, तं वारयितुमन्तग्रहणम् । तेनएकतिंरशं शतम्एकचत्वारिंश॑मित्यादि सिद्धम् । न चैवं गोतिंरशदधिका अस्मिन् गोशते इत्यादावतिप्रसङ्गः शङ्क्यः,सङ्ख्याया अवयवे तय॑वित्यतः सङ्ख्याग्रहणानुवृत्तेः । अन्तग्रहणमिह विंशति शब्दानन्तरं कर्तव्यंषड्वशत्यन्ताच्चे॑ति । तेनएकविंशं शत॑मित्यादि सिध्यति । अन्यथाग्रहणवते॑ति तदन्तविधिप्रतिषेधादिह न स्यात् ।", "52046": "", "52047": "<<संख्याया गुणस्य निमाने मयट्>> - सङ्ख्याया गुणस्य । गुणो -भागः । निमीयते=क्रीयतेऽनेनेति निमानं=मूल्यम् ।मेङ् प्रणिदाने -इत्यस्मान्निपूर्वात्करणे ल्युट् । तदाह -भागस्य मूल्ये इति । षष्ठआर्थे इति । यद्यपितदस्मिन्नधिक ॑मित्यतःत॑दित्यनुवृत्तौ प्रथमान्तादित्ययमेवार्थो लभ्यते, तथापि मण्डूकप्लुत्या ।तदस्य संजात॑मित्यतःतदस्य॑इत्यनुवर्तनात्षष्ठर्थे॑इत्येतदपि लभ्यत इति भावः । द्विमयमिति । द्विशब्दस्य सम्बन्धिशब्दत्वेन नित्यसापेक्षत्वात्यवाना॑मिति पदे सत्यपि तद्धितोत्पत्तिरिहाऽविरुद्धेति ज्ञेयम् । नन्वेवमपि प्रत्ययान्तस्योदइआच्छब्देन सामानाधिकरण्यं दुर्लभम् । यावतोदइआद्भागे प्रत्ययो विहितो, नोदइआति । अत्राहुः — — भागेऽपि विधीयमानः प्रत्ययोऽभिदानस्वाभाञ्याद्भागवन्तमाचष्टे । तेन सामानाधिकरण्यं भवतीति ।गुणनिमाने॑इति वक्तव्ये व्यस्तोच्चारणात्एकत्वं गुणस्ये॑त्यत्र विवक्षितम् । तेनेह न भवतियवाना द्वौ भागौ निमानमेषामुदइआतस्त्रायाणां भागाना॑मिति ।भूयसश्च वाचिकायाः सङ्ख्यायाः प्रत्यय इष्यते॑ । इह न भवति । एको भागो निमानमस्येति ।भूयस॑इति च प्रत्ययार्थादाधिक्यमात्रं प्रकृत्यर्थस्य विवक्षितं, न तु बहुत्वम् । तेन द्विशब्दादपि भवत्येव । तस्य पूरणे ।तस्ये॑ति षष्ठन्तानुकरणम् । एकत्वं त्वविवक्षितम् । एकस्य पूरणाऽसम्भवात् । पूर्यतेऽनेनेति पूरणः । ण्यन्तात्करणे ल्युट् । एकादशानामिति । उद्भूतवयवभेदः समुदायः प्रकृत्यर्थः । अवयवः प्रत्ययार्थः । इह यस्मात्सङ्ख्यावाचिनः प्रत्ययविधिस्तदीयप्रवृत्तिनिमित्तस्य एकादशत्वादेः पूरणे प्रत्ययः । यथाअतिशायने॑,याप्ये॑इत्यादिषु प्रवृत्तिनिमित्तस्यैवातिशयादिकं गृह्रते, अन्तरङ्गत्वात्, तथेहापि । तेनएकादशानां घटानां पूरणो जलादि॑रित्यत्र नातिप्रसङ्गशषङ्कालेशोऽपीति भावः । ननु यदि प्रवृत्तिनिमित्तस्य पूरणे प्रत्ययः, तह्र्रत्र एकादशत्वस्य पूरण इति विग्रहो वक्तुं युक्त इति चेत् । अत्राहुः -॒वैयाकरणपाशः॑इत्यत्र यथायाप्यो वैयाकरणः॑इति विग्रहः, न तुयाप्यं वैयाकरणत्व॑मिति, तथेहापि बोध्यमिति । एवं च व्युत्क्रमेणाध्यायेषु गम्यमानेषुवृद्धिरादै॑जित्यध्यायो यदा चरमं गण्यते तदा सोऽप्यष्टमो भवत्येव ।", "52048": "", "52049": "<<नान्तादसंख्याऽऽदेर्मट्>> - नान्तादसङ्ख्यादेः । डट इति ।डट्इति प्रथमान्तस्यानुवृत्तस्यनान्ता॑दिति पञ्चम्या षष्ठी कल्प्यत इति भावः । यद्यपीह मटः प्रत्ययत्वेऽपि न क्षतिः, तथाप्युत्तरत्र तमट आगमत्वमेवाभ्युपगन्तव्यम्, अनुदात्तता यथा स्यात् । प्रत्ययत्वै ह्राद्युदात्तः स्यात् । तया चैकरूप्येणैव संदर्भव्याख्यानमुचितम् । अन्येत्वाहुः — मटः प्रत्ययत्वे अकारसहितो मकारो विधेयः, आगमत्वे तु मकारमात्रमिति लाघवमस्तीति । विंश इति । विशतेः पूरणः ।ति विंशतेर्डिति॑इति लोपः ।", "52050": "", "52051": "<<षट्कतिकतिपयचतुरां थुक्>> - षट्कति । इह षष्ठीनिर्देशबवात् षडादीनामागमित्वं स्पष्टमिति तदानुकूल्यंनानुवृत्तो डट् सप्तम्या विपरिणम्यते । तदाह -डटीति । डट एव थुट् तु न कृतः, षष्ठो षकारस्य जश्त्वुप्रसङ्गात् । चतुर्थे रेफस्य विसर्गप्रसङ्गाच्च । न चैवंनान्ता ॑दिति सूत्रेऽपि डति परे मुगेव विधीयतामिति वाच्यं, पञ्चमः सप्तम इत्यादौ नलोपाऽभावापत्तेः ।चतुरश्छयता वाद्यक्षरलोपश्च । चतुरश्छयताविति । विशेषविहिताभ्यामपि छयभ्द्यां डट्प्रत्ययो न बाध्यते, थुग्विधानसामर्थ्यात् । तेनचतुर्थ॑इति सिद्धम् । आद्यक्षरेति । अच्सहितं व्यञ्जनमक्षरशब्देनोच्यते, अच्सहितस्यादेव्र्यञ्जनस्येत्यर्थः ।व्यञ्जनसहितस्यादेरच॑इति व्याख्याने तु द्विर्वचनन्यायेन तकारस्यापि लोपः स्यादिति हरदत्तः ।आदेव्र्यञ्जनस्ये॑ति व्याख्याने प्रमाणं तु — — ॒द्वितीयतृतीये॑ति सूत्रेतुर्याणी॑ति निर्देशो बोध्यः ।", "52052": "", "52053": "", "52054": "<<द्वेस्तीयः>> - द्वेस्तीयः । डटोऽपवाद इति । डट आदेशस्तु न भवति, टितिटिड्ढे॑ति ङीपः प्रसक्त्याद्वितीयाश्रिते॑ति निर्देशानुपपत्तेः ।अतएव निर्देशाद्द्विशब्दस्याप्यादेशो न भवति ।", "52055": "<<त्रेः सम्प्रसारणं च>> - तृतीय इति । रेफस्य ऋकारः संप्रसारणम् ।हलः॑इति दीर्घस्तु न भवति,ढ्रलोपे॑इति सूत्रादण इत्यनुवृत्तेःत्रेस्तृ च॑इति नोक्तं, प्रत्ययो मा विज्ञायीति ।", "52056": "<<विंशत्यादिभ्यस्तमडन्यतरस्याम्>> - विंशत्यादिभ्यः । इह प्रत्यासत्त्यापङ्क्ती॑त्यादिसूत्रे निपातिता विंशत्यादयो गृह्यन्ते, न लोकप्रसिद्धाः, विप्रकृष्टत्वादिति । भाष्यमतम् । वृत्तिकृता तु विंशत्यादयो लौकिका एव सङ्ख्याशब्द गृह्रन्तं, न पङ्क्त्यदिसूत्रनिर्दिष्टाः, तद्ग्रहणं ह्रेकविंशतिप्रभृतिभ्यो न स्यात्, ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधात् । एवं च सतिषष्ठआदेश्चाऽसङ्ख्यादे॑रिति पर्युदासो युज्यत एवेत्युक्तम् । एकविंशतितम इति । यद्यपि भाष्यमते तदन्तविधिर्दुर्लभस्तथापिषष्टआदेशश्चे॑ति सूत्रे सङ्ख्यादिपर्युदासो ज्ञापयति -॒इह प्रकरणे तदन्तानामपि ग्रहण॑मिति । एवं च सति एकन्नविंशतेः पूरण एकान्नविंशतितम इत्यपि सिध्यति.॒लौकिकानां ग्रहण॑मिति वृत्तिमते ति नैतत्सिध्येत् । विंशतिसंख्यातः प्राग्भावित्वादस्याः संख्यायाः । एतच्च कैयटहरदत्तग्रन्थयोः स्पष्टम् । ननुअनारम्भो वा प्रतिपदिकविज्ञानाद्यथा सहरुआआदिषु॑ इति वदता कात्यायनेन पङ्क्त्यादिसूत्रस्य प्रत्याख्यातत्वात्तत्सूत्रे॑निपातिता विंशत्यादयो गृह्यन्ते॑इति भाष्यमतमयुक्तमिति चेदत्राहुः -यद्यपि प्रत्याख्यातं तथापीहार्थमावश्यकं तत् । अतएव तत्र भाष्यकृतानाऽसूया कर्तव्या यत्रानुगमः क्रियते॑इत्युक्तम् । अतः कात्यायनोक्तप्रत्याख्यानं नादर्तव्यमिति । शततम इति । यद्यपीदंषष्टआदेश्चे॑त्युत्तरसूत्रेणैव सिध्यति, तथापि संख्याद्यर्थनित्यं शतदी॑त्यावश्यकमिति ध्वनयन्नुदाहरति -एकशततम इति । मासादेरिति । संख्यावाचित्वाऽभावेऽपीति भावः ।", "52057": "", "52058": "<<षष्ट्यादेश्चासंख्याऽऽदेः>> - षष्टदेश्चेति ।विशत्यादिभ्यः॑इति विकल्पे प्राप्ते नित्यार्थोऽमारम्भः । सङ्ख्यादेस्त्विति । एतच्च प्राक्शताब्दोध्यम्,नित्यं शतादी॑त्युक्तत्वात् । मतौ छः । मत्वर्थ इति । मतोर्विषय इत्यर्थः । तेनत॑दिति प्रथमा समर्थविभक्तिः,अस्याऽस्मि॑न्निति प्रत्ययार्थश्चेह लभ्यते ।", "52059": "", "52060": "<<अध्यायानुवाकयोर्लुक्>> - विधानसामर्थ्यादिति । मतुप्प्रकरण एवास्मिन् सूत्रे कर्तव्ये यदत्रास्य लुग्विधानं तत्पाक्षिकं लुकमनुमापयतीति कैयटः । तत्र कुशलः । सप्तमीसमर्थात्पथिन्शब्दात्कुशल इत्यर्थे वुन्स्यात् ।", "52061": "", "52062": "", "52063": "", "52064": "<<आकर्षादिभ्यः कन्>> - आकर्षादिभ्यः कन् । वुना सिद्धे कन्ग्रहणं इदुदन्तार्थम् । शकुनिकः । अशनिकः । त्सरुकः । मुख्यः पाठ इति । आकषन्त्यस्मिन् सुवर्णादिकमित्याकषः ।पुंसि संज्ञायां घः॑इति व्याख्याय, ये तुआकर्षादिभ्यः॑ इति सरेफं पठन्ति, तेषाम्आकर्ष॑इति घञि रूपम् — — इति हरदत्तेनोक्तत्वादिति भावः ।", "52065": "<<धनहिरण्यात् कामे>> - धने काम इति ।तत्रे॑त्यनुवर्तनात्सप्तम्यन्तात्प्रत्यय इति भावः । उदरात् । आद्यूनशर्दार्थमाह ।", "52066": "", "52067": "<<उदराट्ठगाद्यूने>> - अविजिगीषाविति ।दिवोऽविविगीषाया॑मिति तत्रैव निष्ठानत्वविधानात् ।", "52068": "<<सस्येन परिजातः>> - सस्येन । कर्मकर्तरि तृतीयेयम् । परितो जातः -परिजातः । फलितमाह -संबद्ध इति । अतएवेति ।अके नो॑रिति निषेधादिति भावः ।", "52069": "", "52070": "<<तन्त्रादचिरापहृते>> - तन्त्रात् । तन्यन्ते तन्तवोऽस्मिन्निति व्युत्पत्त्था तन्त्रं=तन्तुवायशलाका । अचिरः कालोऽपह्मतस्येत्यचिरापह्मतस्तस्मिन् ।कालाः परिमाणने॑ति समासः । प्रत्यग्र इति । नूतन इत्यर्थः ।", "52071": "<<ब्राह्मणकोष्णिके संज्ञायाम्>> - ब्राआहृण कोष्णिके । ब्राआहृणशब्दादायुधीवित्वोपाधिकात्प्रथमान्तात्सप्तन्यर्थे कन् प्रत्ययो निपात्यते, अन्नशब्दात्तु अल्पत्वौपाधिकात् । तदाह -आयुधेत्यादि ।", "52072": "<<शीतोष्णाभ्यां कारिणि>> - शीतोष्णाभ्याम् । शीतमिव शीतम् । मन्दमित्यर्थः । शूते सति कार्यकरणे पाटवाऽभावात् । उष्णमिवोष्णम् । शीग्रमित्यर्थः । क्रियाविशेषणाभ्यां द्वितीयान्ताभ्यां प्रत्ययः । कृद्योग लक्षणा षष्ठी तु क्रियाविशेषणान्नेत्युक्तम् । मुख्यार्थवृत्तिभ्यां तु प्रत्ययो न भवति, अनभिधानात् ।", "52073": "<<अधिकम्>> - अधिकम् । अध्यारूढशब्दादिति ।गत्यार्थाकर्मके॑त्यादिना रूहेः कर्तरि कर्मणि वा क्तो विहितः । आद्ये क्तप्रत्ययेन कर्मणोऽनभिहितत्वादध्यारूढशब्दयोगे द्वितीया ।अध्यारूढो द्रोणः खारी॑मिति,ग्रामं गत॑इतिवत् । तथा अधिकशब्देनापि योगे द्वितीयायां प्राप्तायांयस्मादधिकं॑,तदस्मिन्नधिक॑मिति च निर्देशद्वयाकत्पञ्चमीसप्तम्यौ भवतः ।अधिको द्रोणः खार्याः ।अधिको द्रोणः खार्या॑मिति । द्वितीये तु क्तेन कर्मणोऽभिहितत्वात्प्रथमा ।अधिका खारी द्रोणेन॑ । कर्मणोऽभिहितत्वादेव पञ्चमीसप्तम्याविह न शङ्कनीये ।", "52074": "<<अनुकाभिकाभीकः कमिता>> - अनुका । समाहारद्वन्द्वे सौत्रं पुंस्त्वम् । सूत्रत्वाल्लिङ्गव्यत्यय इति फलितोऽर्थः । अन्वभिभ्यां कन्निति । क्रियाविशिष्टसाधनवाचिभ्यां स्वार्थे निपात्यत इत्यर्थः ।", "52075": "<<पार्श्वेनान्विच्छति>> - पार्ोनान्विच्छति ।आकर्षादिभ्यः कन्नि॑त्यतः कननुवर्तते । अनृजुरिति । तीर्यगवस्थानात्पार्ामनृजु, तत्साधम्र्यादुपयोऽपि । इह शीतोष्णपार्ाआऽयःशूलदण्डाजिनशब्दा गौणा एव गृह्यन्ते । मुख्यार्थेभ्यस्तु प्रत्ययो न भवति, अनभिधानात् ।", "52076": "", "52077": "<<तावतिथं ग्रहणमिति लुग्वा>> - तावतिथं ग्रहणमिति लुग्वा । तावतां पूरणं -तावतिथम् ।वतोरिथुक् । यथातस्यापत्य॑मित्यत्र तस्येति षष्ठन्तानां सामान्यनिर्देशस्तथाऽत्रतावतिथ॑मिति पूरणप्रत्ययान्तानां सामान्यनिर्देशः । अनन्तरावपि ठक्ठञौ नानुवर्तेते, अस्वरितत्वादित्यभिप्रेत्याह -कन्स्यादिति । पूरणप्रत्ययस्येति । नतु कनो लुक्, वाग्रहणानर्थक्यप्रसङ्गात् । पञ्चमं पञ्चमकमित्यादिरूपं हि तेन साध्यम् । तच्च महाविभाषाधिकाराद्विकल्पेन कन उत्पत्त्यापि सिद्धमेव । तस्मात्पूरणप्रत्ययस्यैव लुक्सूत्रकारस्याऽभिमत इति व्याचष्टे -द्विकमिति । वार्तिककारस्तु कन एव लुगिति व्याख्यामभिप्रेत्यतावतिथं ग्रहणमिति लुग्वा वचनानर्थक्यं, विभाषाग्रहणा॑दित्याह । तन्ते द्वितीयकं द्वितीयमित्येव रूपं न द्विकमिति बोध्यम् । तावतिथेन गृह्णातीति कन्वक्तब्यो नित्यं च लुक् । तावतिथेनेति । पूरणप्रत्ययान्ताद्ग्रहणोपाधिकात् स्वार्थे विधीयमानो ग्रहगीतरि न प्राप्नोतीति वचनमिति कैयटः ।", "52078": "", "52079": "<<शृङ्खलमस्य बन्धनं करभे>> - स एषां ग्रामणीः ।ग्रामणीर्नापिते पुंसि श्रेष्ठे ग्रामाधिपे त्रिषु॑ इत्यमरः । करभ इति । उष्ट्रबालकः ।", "52080": "", "52081": "<<कालप्रयोजनाद्रोगे>> - द्वितीयेऽहनीति । यद्यपि द्वितीयशब्दः कालवाची न भवति, तथाप्यप्र्रकरणादिना वृत्तिविषये काले वर्तत इति भावः । ननु साक्षात्कालवाचिभ्यो मासादिभ्यो न भवति, द्वितीयादिभ्यस्तु भवतीत्यत्र किं मानमिति चेदत्राहुः -उत्तरसूत्रस्थसंज्ञापकर्षणाच्छब्दस्वाभाव्याद्वा तद्बोध्यमिति । वटकेभ्यैनिर्वाच्यः । वटकेभ्य इति । कमि प्राप्ते वचनम् । ननु संज्ञाग्रहणात्कन्न भविष्यतीति चेत् । किं ततः । इनेरप्राप्तत्वात्तदर्थं वचनमङ्गीकार्यमेव ।अत इनिठनौ॑इत्येव कथंचिदिनिः सिध्यतीत्याशाऽत्र न कार्या,सप्तम्यां च न तौ स्मृतौ॑इति वचनात् ।", "52082": "", "52083": "", "52084": "<<श्रोत्रियंश्छन्दोऽधीते>> - श्रोत्रियन् । यश्छन्दोऽधीते सः श्रोत्रियो भवति । अत्र भाष्येछन्दोऽधीते इत्यस्य वाक्यस्यार्थे श्रोत्रियन्नित्येतत्पदं निपात्यते॑इति वाक्यार्थे पदवचनपक्षः ।छन्दसो वा श्रोत्रभावो निपात्यते, तदधीत इत्येतस्मिन्नर्थे, घश्च प्रत्ययः॑इति पक्षान्तरं च स्थितम् । व्याख्यातं च कैयटेनवाक्यार्थस्य =संबन्धरूपस्य क्रियारूपस्य वाऽसत्त्वरूपत्वात्,श्रोत्रियशब्दस्य च सत्त्वरूपार्थाभिधायित्वाद्वाक्यार्थग्रहणेन तदाश्रयश्छन्दोऽध्ययी अभिधीयत इति ।एकां शाखामधीत्य श्रोत्रियो भवती॑ति धर्मशास्त्रम् । वेत्यनुवृत्तेरिति ।तावतिथं ग्रहणमिति लुग्वे॑त्यतः ।", "52085": "<<श्राद्धमनेन भुक्तमिनिठनौ>> - श्राद्धमनेन । श्रद्धाऽस्मिन्नस्तीति श्राद्धम् ।प्रज्ञाश्रद्धाऽर्चाभ्यो णः॑ । यद्यपि पित्र्यं कर्मश्राद्धशब्देनोच्यते, तथापीह तत्साधनद्रव्यमुच्यते, मुख्यश्राद्धस्य भोक्तुमशक्यत्वात् । श्राद्धे । श्राद्धिक इति । अद्यतन एवेष्यते, अद्य भुक्ते आः श्राद्धिक इति मा भूत् ।", "52086": "<<पूर्वादिनिः>> - पूर्वादिनिः । पूर्वमिति क्रियाविशेषणाद्द्वितीयान्तात्प्रत्ययः ।अनेने॑ति कर्तृवाचकमनुवर्तते । न च क्रियामन्तरेण कर्ता संभवतीति कांचित्क्रियामध्याह्मत्य प्रत्ययो विधेयस्तदाह -पूर्व कृतमनेनेति ।", "52087": "<<सपूर्वाच्च>> - सपूर्वाच्च ।अनेने॑ति, पूर्वसूत्रं चानुवर्तते । विद्यमानपूर्वकात्पूर्वशब्दादनेनेत्यस्मिन्नर्थे इनिः स्यात् ।पूर्वान्ताच्चे॑त्येतत्फलितम् । कृतपूर्वबीति । कृतपूर्वशब्दयोःसुप्सुपा॑इति समासः । इह प्रातिपदिकाधिकारात्पूर्वादिनि॑रित्यनेनैव पूर्वशब्दान्तप्रातिपदिकात्कृतपूर्वशब्दादिनौ सिद्धेसपूर्वाच्चे॑त्येतत्ग्रहणवता प्रातिपदिकेन तदन्ततविधिर्ने॑ति परिभाषां ज्ञापयति ।कृतपूर्वी॑त्येतत्सिद्धयेपूर्वान्ताच्चे॑ति स्वीकृते तेनैव व्यपदेशिवद्भावेन पूर्वीत्यपि रूपे सिद्धेपूर्वादिनिः॑इत्येतत्व्यपदेशिवद्भावोऽप्रातिपदिकेने॑ति परिभाषां ज्ञापयति ।", "52088": "", "52089": "<<छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि>> - छन्दसि । पर्यवस्थातृशब्दाच्छत्रुपर्यायात्स्वार्थे इनिप्रत्यचयः, अवस्थातृशब्दस्य चपन्थ॑पर॑ एतावादेशौ निपात्येते ।अपत्यं परिपन्थिनम्,मा त्वा परि परिणो विदन् । उभयत्रापि परिशब्देऽवग्रहः ।लोके त्विति ।अनुपस्थितपरिपन्थिभिः पार्थिवै॑रित्यादौ ।", "52090": "<<अनुपद्यन्वेष्टा>> - अनुपद्यन्वेष्टा । अन्वेष्टरि इनिः प्रत्ययो निपात्यते । अनुपदमिति । पदस्य पश्चात् । पश्चादर्थेऽव्ययीभावः । अनुपदीगवामिति । पदापेक्षया षष्ठी गोपदात् । पश्चादन्वेषणं गवामेव । तेन हिरण्यादावन्येष्ये न भवतीति हरदत्तः ।", "52091": "<<साक्षाद्द्रष्टरि संज्ञायाम्>> - साक्षाद्द्रष्टरि । द्रष्टर्यर्थे इनिः स्यात् । साक्षाच्छ६ब्दोऽव्ययम्, तेनप्रकृतिवदनुकरण॑मित्यतिदेशादिह सूत्रे पञ्चम्या लुक् ।उदः स्थास्तम्भोः॑,अवाच्छालम्बने॑त्यादौ तुप्रकृतिव॑दित्यतिदेशस्य वैकल्पिकत्वेनाऽभ्ययत्वाऽभावात् पञ्चम्या लुङ् न भवतीति बोध्यम् । साक्षीति ।अव्ययानां भमात्रे॑इति टिलोपः । यद्यपि साक्षाद्द्रष्टाररुआयो भवन्ति, दाता ग्रहीता उपद्रष्टा त, तथापीह संज्ञाग्रहणात्साक्षिशब्देनोपद्रष्टैवोच्यत इत्याहुः ।", "52092": "<<इन्द्रियमिन्द्रलिंगमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टम्- इन्द्रदत्तमिति वा>> - इन्द्रियमिन्द्र । इन्द्रशब्दाद्धच् । इन्द्रेण दृष्टं=ज्ञातं -॒मम चक्षुः, मम श्रोत्रम् इत्यादिक्रमेण । सृष्टम् -अदृष्टद्वारा । जुष्टं=प्रीणितं सेवितं वा । दत्तं=यथायतं विषयेभ्यः । रूढिशब्दोऽयं यथाकथञ्चिद्व्युत्पादितः ।अथ परस्मैपदप्रक्रिया ।शेषात्कर्तरि ।अनुदात्तङित॑ इत्यादिष्वात्मनेपदमेवेति नियमान्न तत्र परस्मैपदस्य संभवः । तथा चकर्तरि परस्मैपद॑मित्यनेनपरस्मैपदमेव॑ति नियमिते त्दभिन्नानामेव तद्भविष्यतीति शेषग्रहणं स्पष्टप्तिपत्त्यर्थमित्याहुः ।अनुदात्तङितः॑ इत्यादिष्वेवात्मनेपदमिति नियमात्शेषात्कर्तरी॑इत्यनेन परस्मैपदमेव तत्र भविष्यतीति परस्मैपदग्रहणं स्पष्टप्रतिपत्त्यर्थमिति केचित् ।", "52093": "इन्द्रियमिन्द्र। इन्द्रशब्दाद्धच्। इन्द्रेण दृष्टं=ज्ञातं - `मम चक्षुः, मम श्रोत्रम्` इत्यादिक्रमेण। सृष्टम् - अदृष्टद्वारा। जुष्टं=प्रीणितं सेवितं वा। दत्तं=यथायतं विषयेभ्यः। रूढिशब्दोऽयं यथाकथञ्चिद्व्युत्पादितः।", "52094": "<<तदस्यास्त्यस्मिन्निति मतुप्>> - तदस्यास्त्यस्मिन्नति मतुप् ।त॑दिति प्रथमासमर्थात्प्रत्ययः । अस्तीति पुरुषवचने अविवक्षिते, कालस्तु विवक्षितः, धने गते बाविनि वाधनवानय॑मिति प्रतीत्यभावात् । इति शब्दो विषयविशेषलाभार्थः । भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने ।॒भूमिनिन्दाप्रशंसासु नित्ययोगेऽतिशायेन । संसर्गेऽस्तिविवक्षायां भवन्ति मतुबादयः॑ । अस्तिविवक्षायां ये मतुबादयो विधीयन्ते ते भूमादिषु विषयेषु भवन्तीति वार्तिकार्थः । भूमा -बहुत्वम् । तच्चापेक्षिकम् । यस्य हि यावदुचितं तावदेव बहुत्वबोधकबहुशब्देनापि प्रतीयते । तथा पञ्चषाभिरपि गोभिर्देवदत्तस्यबह्व्यो गाव॑इति व्यवहारः । राज्ञस्तु सहरुआगोरपि गावोऽल्पा इति व्यवहारः । गोमान् । यवमान् । यस्य खार्यादिभिः परिच्छिन्ना यवाः सन्ति स एवमुच्यते । नतु सहरुओणापि यवैर्यवमानिति । कथं तर्हियवमतीभिरद्भिर्यूपं प्रोक्षति॑ -इति । अत्राहुः -जातिमात्रसम्बन्धस्य विवक्षितत्वाद्भूमाऽभावेऽप्यत्र मतुप् । भूमादिग्रहणं तु प्रायेण भूमादयः प्रतीयन्त इत्येवंपरमिति । निन्दायां -ककुदावर्तिनी कन्या । प्रशंसायां -रूपवान् । नित्ययोगे — — क्षीरिणो वृक्षाः । अतिशायेन -उदरिणी कन्या । संसर्गे -दण्डी । संसर्गः=संयोगः । तेन संयुक्तदम्ड एवोच्यते, न तु गृहावस्थितदण्डोऽपि । इह दण्डपुरुषयोः संयोगे सत्यपिदण्डी पुरुष॑इत्यादिवत्पुरुषी दण्डः॑पुरुषवान्दण्डः॑इति न प्रयुज्यते, वृत्तिनियामकस्य विलक्षणसम्बन्धस्याऽभावात् । संयोगे समानेऽपि प्रतीतिबलाद्वैलक्षण्यं कल्प्यत इत्याहुः । एवं च यवसंयोगमात्रेण यवमत्य आपो न भवन्ति, किं तु यवमज्जलवच्च पात्रमेवेत्याशयेनकथं यवमतीभिरद्भिः॑ इत्याक्षेफो,भूमादिग्रहणं प्रायिक॑मित्याद्युत्तरं च सङ्गच्छत एव ।", "52095": "<<रसादिभ्यश्च>> - अन्यमत्वर्थीयेति । कथं तर्हिरूपिमी कन्या॑रसिको नटः॑इति । अत्राहुः -रसादिगणेगुणात्इति पठते । तेन गुणवाचिभ्य एवाऽन्यमत्वर्थीयस्य निषेधः, रूपिणीत्यत्र तु रूपशब्देन सौन्दर्यं गृह्रते । तच्च न गुणः ।रसिक॑इत्यत्र तु रसशब्देन भावो गृह्रते, न तु रसनाग्राह्रो गुण इति ।गुणवचनेभ्यो मतुपो लुगिष्ठ । गुणवचनेभ्य इति । गुणे तद्वति च प्रसिद्धा ये शुक्लादयस्त एव गृह्यन्ते न तु रूपादयोऽपि । तेन रूपं वरुआमित्यादिप्रयोगो न भवति ।", "52096": "<<प्राणिस्थादातो लजन्यतरस्याम्>> - प्राणिस्थात् । शिखावान्दीप इति । प्रत्युदाहरणदिगियं दर्शिता । शिखशब्दस्य व्रीह्रादिपाठेन लचोऽप्रसङ्गात् ।चूडावान् वृक्षः॑इति प्रत्युदाहार्यमिति हरदत्तः । न च वृक्षस्य प्राणित्वमस्तीति शङ्क्यम्, मुखनासासंचारी वायुः प्राणः, तद्वानेव प्राणीति तदाशयात् । प्राण्यङ्गादेवेति । एतच्चेतिकरणानुवृत्त्या लभ्यते । चूडालोऽसीति ।असी॑त्यस्यतिङ्ङतिङः॑इति निगातः । चूडालशब्दात्सोरुत्वे तस्यअतो रोरप्लुता॑दित्युकारे कृते, हलां स्नंसनधर्मत्वात्तत्स्थानिकोऽकारोऽनुदात्तः । सुप्स्थानिकस्यापि सुप्त्वात्अनुदात्तौ सुप्पितौ॑इत्यनुदात्त इत्यन्ये । पूर्वेण सह आद्गुणे सतिएकादेश उदात्तेने॑त्योकार उदात्तः । ततःएङः पदान्तादती॑ति पूर्वरूपमेकादेशस्तस्यस्वरितो वाऽनुदात्ते॑इत्यादिना स्वरिते प्राप्ते तद्बाधनाय चकार इत्यर्थः ।", "52097": "<<सिध्मादिभ्यश्च>> - सिध्मादिभ्यश्च । सिध्म, गडु, मणि, विजय, निष्पाव, पांसु, हनु, पाष्ण्र्यादयः सिध्मादयः । समुच्चयार्थमिति । निपातानामनेकार्थत्वादिति भावः । न च इनिठनावप्यन्यतरस्याङ्ग्रहणेन समुच्चीयेतामिति शङ्क्यम् । तयोरप्रकृतत्वात् । मतुप्प्रत्ययस्तु समुच्चीयते । तस्य प्रकृतत्वात् । अस्ति चेह लिङ्गंकेशाद्वः॑इत्यत्रान्यतरस्याङ्ग्रहणम् । तद्धि इनिठनोः प्राप्त्यर्थं क्रियते । प्रकृतस्याऽन्यतरस्याङ्ग्रहणस्य विकल्पार्थत्वे तदनुवृत्त्यैव सिद्धौ किं तेन ; । क्रियमाणं तु पूर्वस्यान्यतरस्यांग्रहणस्य समुच्चयार्थतां ज्ञापयत्येव । तथा च वार्तिकं -॒लजन्यतरस्यामिति समुच्चयः॑इति । अयं भावः -॒प्राणिस्था॑दिति सूत्रेण लचि विकल्पिते पक्षे मतुबिति चूडालश्चूडावानिति रूपद्वयं यद्यपि सिध्यति, तथापि सिध्मादिषु येऽदन्तास्तेषु इनिठनोः प्रवृत्त्या दोषः । समुच्चयार्थत्वे तु न दोष इति । एवं चलज्वा स्या॑दिति वृत्तौ वाशब्दः समुच्चये बोध्यः ।वा स्याद्विकल्पोपमयोरे वार्थेऽपि समुच्चये॑इत्यमरः । वातदन्तेत्यादि । सिध्माद्यन्तर्गणसूत्रम् । ऊङ् चेति । ङित्त्वादन्तादेशः । ऊकारमात्रोक्तावन्तादेशत्वसिद्धावपि प्रत्ययत्वशङ्कानिवारणाय ङानुबन्धः कृतः । न च षष्ठन्ताद्विहितस्य प्रत्ययत्वं नेति शङ्क्यम्,अहंशुभमोर्युस्,गोपयसोर्य॑दित्यादौ प्रत्ययत्वाभ्युपगमात् । वातूल इति । अन्तोदात्तमिदम् । प्राचा तुबलादूतलः॑,वाताच्चे॑ति पठित्वा वातूल इत्युक्तं, तदुपेक्ष्यम्, प्रत्ययस्वरेण मध्योदात्तत्वप्रसङ्गात् । गणसूत्रबलेनाऽन्तोदात्तत्वमेवेष्यत इत्याहुः ।पाष्णधमन्योर्दीर्घश्च॑ ।क्षुद्रजन्तूपतापाच्चे॑त्यपि गणे पठते । पार्ष्णीलः । धमनीलः । क्षुद्रजन्तुः -यूकालः । मक्षिकालः । उपतापो रोगः । विपादिकालः ।", "52098": "<<वत्सांसाभ्यां कामबले>> - वत्सांसाभ्याम् । कामवतीति । कामबलशब्दौ सूत्रे अर्शाअद्यजन्ताविति भावः । वत्सल इति । स्नेहवानित्यर्थः । ननु वत्सांसशब्दौ वयोविशेषे प्राण्यङ्गविशेषे च रूढौ, न कामबलयोः, तत्कथं ताभ्यां लजन्ताभ्यां कामवान्बलवांश्चेच्यत इति चेत् । अत्राहुः -वृत्तिविषये वत्सांसशब्दौ स्नेहबलयोर्वर्तते इति । अस्मस्तु प्रकरणे सर्तर् समुच्चीयमानोऽपि मतुबिह नेष्यते, मतु बन्तेनोक्तार्थस्याऽप्रतीतेः । किं त्वर्थान्तरमेव तेन प्रतीयते । वत्सवती गौः । अंसवान् दुर्लब इति ।", "52099": "", "52100": "<<लोमादिपामादिपिच्छादिभ्यः शनेलचः>> - लोमादि । इहनन्दिग्रहिपचादिभ्यः॑इतिवत्लोमपामपिच्छादिभ्यः॑इति सुपठम् ।अङ्ग कल्याणे॑इति गणसूत्रमर्थतः पठति — — अङ्गादिति ।शाकीपलालीदद्र्वा ह्रस्वत्वं च । शाकीपलालीदद्र्वा ह्रस्वत्वं च । चान्नप्रत्ययः । महच्छाकं शाकी । तद्वत् -शाकिनम् । महत्पलालं पलाली । तद्वत् पलालिनम् ।दरिद्रातेर्यालोपश्चे॑त्युणादिसूत्रेण इकाराकारयोर्लोपश्चादूप्रत्ययः । दर्द्रूस्त्वग्रोगविशेषऋ । तद्वान् -दद्र्रुणः ।विष्वगित्युत्तरपदलोपश्चाऽकृतसन्धेः । विष्वगिति ।समर्थाना॑मित्यस्यापवादोऽयम् । अकृत सन्धेरकृतयणादेशस्याऽञ्चतेर्लोपः, चकारान्नप्रत्यय इत्यर्थः । यदि तु कृते यणादेशे उत्तरपदलोपः स्यात्तदा विलिलोपे सतिविष्ण॑इति स्यात् । विषुण इति । विषु=नाना अञ्चन्तीति विष्वञ्चि, तान्यस्य सन्ति विषुणः=विषुवदाख्यः कालः । तस्य हि नानागतानि दिनानि सन्ति । दिनान्तराणां न्यूनाधिकभावस्य तन्मूलत्वात् । अयं भावः — — विषुवति दिनानां समतायां जातायामग्रे न्यूनान्यधिकानि च दिनानि भवेयुरिति नानागतदिनवत्त्वं यद्यपि विषुवति नास्ति तथापि नानागतदिमूलङूतदिनानां सत्त्वात्तथोच्यत इति । तथा नानागमनवत्त्वान्मृत्युर्वायुरव्यवस्थितचितश्चविषुण॑शब्देनोच्यते ।प्रज्ञाश्रद्धा । प्राज्ञो व्याकरणमिति । गुणभूतया क्रियया कर्मत्वेन संबन्धः । कृद्ग्रहणात्तद्धितप्रयोगे षष्ठी न, कृतपूर्वी कटमितिवत् । ननु प्रकर्षेण जानातीति प्रज्ञः, स एव प्रज्ञा इत्यणि कृते सिद्धमिष्टं, किमत्र प्रज्ञाग्रहणेनेत्याशङ्कां निराकुर्वन्नाह -प्राज्ञेति । स्त्रियां टाप् ।प्रज्ञादिभ्यश्चे॑त्यणि तुङीप् स्यादिति भावः ।वृत्तेश्च । वृत्तेश्चेति । वार्तिकमिदम् । काशिकाकृता तु वृत्तिशब्दः सूत्रे प्रक्षिप्तः । विच्छिन्नस्य प्रतिविधानं -वृत्तिः ।", "52101": "", "52102": "<<तपःसहस्राभ्यां विनीनी>> - तपस्वी । सहरुआईति ।असन्तत्वाददन्तत्वाच्च सिद्धे पुनर्वचनमणा बाधा माभूदिति । सहरुआआत्तु ठनोऽपि बादनार्थम् । एतच्च समाधानं मूलपुस्तकेष्वपि क्वचिद्दृश्यते ।", "52103": "<<अण् च>> - उत्तरार्थ इति । विनीन्योर्यथा सङ्ख्यप्रवृत्त्यर्थश्चेत्यपि बोध्यम् ।ज्योत्स्नादिभ्य उपसङ्ख्यानम् । ज्यौत्स्न इति । शुक्लपक्षः । तामिरुआ इथि । कृष्णपक्षो, नरकविशेषश्च । तमःसमूहस्तमिरुआम् ।ज्योत्स्नातमिरुओ॑ति निपातनाम्नत्वर्थीयो रः । तत्र ह्रलयवभूतानि तमांसि विद्यन्ते । तदस्मिन्नस्तीति विग्रहे रान्तादण् । स्त्रियां -तामरुआई ।तमिरुआआ तामसी रात्रिर्ज्यौत्स्नि चन्द्रिकयान्विता॑इत्यमरोक्तौ तु तमिरुओत्येतद्रान्तं न त्वणन्तमिति न विरोधः । एवं च तमिरुआआ रात्रयो अस्मिन् सन्तितामिरुआः पक्ष॑इत्यपि व्याख्यातुं शक्यम् ।", "52104": "<<सिकताशर्कराभ्यां च>> - सिकताशर्करा । देशविशेषस्य वक्ष्यमाणत्वादाह -घट इति ।", "52105": "<<देशे लुबिलचौ च>> - मतुप् चेति । अन्यतरस्यांग्रहणेन सर्वत्र मतुपः समुच्चयादिति भावः । सिकता इति । लुपि युक्तवद्भावः । अत्र सूत्रद्वस्योदाहरणान्यमरः संजग्राह -॒स्त्री शर्करा शर्करिलः शार्करः शर्करावति । देश एवादिमावेवमुन्नेयाः सिकतावती॑ति ।", "52106": "<<दन्त उन्नत उरच्>> - दन्त उन्नत । उन्नत इति किम् । दन्तवान् ।", "52107": "<<ऊषसुषिमुष्कमधो रः>> - ऊषुसुषि । समाहारद्वन्द्वे सौत्रं पुंस्त्वम् ।स्यादूषः क्षार मृत्तिका॑ ।ऊषवानूषरः॑इत्यमरः । सुषिस्छिद्रम् ।रप्रकरणे खमुखकुञ्जेभ्य उपसङ्ख्यानम् । खर इति । महत्कण्ठविवरं खं, तद्वानित्यर्थः । गर्दभे रूढोऽयम् । मुखरो वाचाल इति हरदत्तः ।नगपांसुपाण्डुभ्यश्च । नगरमिति । नगा वृक्षाः, पर्वताश्च । जातिशब्दोऽयम् । तथा चनगरी॑त्यत्र ङीष् भवति । नगशब्दोऽयमश्मादिषु पठते इति वुञ्छणादिसूत्रेणास्य सिद्धत्वादस्माद्रोऽयं न वक्तव्य इति हरदत्तः । पाण्डुर इति । पाण्डुः शुक्लो वर्णस्तद्वान् । अव्युत्पन्न एवेति । गुणमात्रे गुणिनि च वर्तते ।हरिणः पाण्डरः पाण्डुः॑इत्यमरः ।गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वती॑ति च ।कच्छ्वा ह्रस्वत्वं च । कच्छ्वा इति । कच्छूस्त्वग्रोगविशेषः ।", "52108": "<<द्युद्रुभ्यां मः>> - द्युद्रुभ्यां मः । द्युम इति । द्यौरस्यास्ति ।दिव उ॑दित्युत्वम् । द्रुर्वृक्षः सोऽस्यास्ति जनकतयेति॑द्रुमोऽपि वृक्ष एव ।पलाशी द्रुद्रुमाऽगमाः॑इत्यमरः । इह सर्वत्र समुच्चीयमानोऽपि मतुब्राऊढशब्देषु नेष्यते, तदर्थस्य मतुपा अभिधातुमशक्यत्वात् । दृश्यत इति ।व॑इत्यनुवर्तते ।अर्णसो लोपश्च । अर्णव इति । अर्तेरसुन्, नुट्च । अर्णः=जलं, तद्वान् ।", "52109": "", "52110": "<<गाण्ड्यजगात् संज्ञायाम्>> - संज्ञायामिति ।तदस्यास्ती॑ति सूत्रस्थेतिशब्दस्यैवायं प्रपञ्चः ।यणेति ।ख्यत्या॑दिति वत्कृतयणादेशस्यानुकरणं न भवति, लक्ष्ये यणोऽभावात् । किं तु सूत्रे सांहितिकोऽयं यणिति भावः । प्रयिज्यते चोभयथा -॒अधिरोहति गाण्डिवं महेषौ॑ ।गाण्डीवी कनकशिलानिबं भुजाभ्या॑मिति च ।", "52111": "", "52112": "<<रजःकृष्यासुतिपरिषदो वलच्>> - आसुतीवल इति ।षुञ् अभिषवे॑ । क्तिन् । आसुतिरभिषवः । परिषद्वल इति । परितः सीदतीति परिषत् ।सत्सूद्विषे॑त्यादिना क्विप् ।सदिरप्रते॑रिति षत्वम् । पाठान्तरमिति ।शृदृभसोऽदिः॑इत्यदिप्रत्ययो बाहुलकात् पृषेरपि भवति । तथा च भाष्यं — -॒पार्षदकृतिरेषा तत्रभवतां॑सर्ववेदपार्षदं हीदं शास्त्र॑मिति च । भट्टिस्त्वाह -॒पर्षद्बलान्महाब्राहृऐराट नैकटिकाश्रमा॑निति ।पर्षदेषा दसावरे॑ति मनुः ।अन्येभ्योऽपि दृश्यते । भ्रातृवल इति ।वले॑ इत्यत्राऽण्ग्रहणानुवृत्तेर्नेह दीर्घः । पुत्रवलादौ तु स्यात्तत्राह -संज्ञायामित्यनुवृत्तेरिति ।वनगिर्यो ॑रिति सूत्रादिति भावः ।", "52113": "<<ज्योत्स्नातमिस्राशृङ्गिणोजस्विन्नूर्जस्वलगोमिन्- मलिनमलीमसाः>> - ज्योत्स्ना=चन्द्रप्रभा । तत्रावयवीभूतं ज्योतिरस्तीति मत्वर्थीयोपपत्तिः । एतेन तमःसमूहे तमिरुआआशब्दो व्याख्यातः । निघन्टुषु तमःपर्यायस्तमिरुआशब्दः पठितः । तत्र समूहसमूहिनोरभेदोपचार इति हरदत्तः । स्त्रीत्वमतन्त्रमिति । व्याख्यानमत्र शरणम् ।ऊर्जस्विन्गोमिन्नि॑त्यत्र नान्तत्वाभिव्यक्तये नलोपो न कृतः ।", "52114": "ज्योत्स्ना=चन्द्रप्रभा। तत्रावयवीभूतं ज्योतिरस्तीति मत्वर्थीयोपपत्तिः। एतेन तमःसमूहे तमिरुआआशब्दो व्याख्यातः। निघन्टुषु तमःपर्यायस्तमिरुआशब्दः पठितः। तत्र समूहसमूहिनोरभेदोपचार इति हरदत्तः। स्त्रीत्वमतन्त्रमिति। व्याख्यानमत्र शरणम्। `ऊर्जस्विन्गोमिन्नि`त्यत्र नान्तत्वाभिव्यक्तये नलोपो न कृतः।", "52115": "<<अत इनिठनौ>> - अत इनिठनौ । तपरकरणं किम् । खट्वावान् ।एकाक्षरात्कृतोजातेः सप्तम्यां च न तौ स्मृतौ॑ । एकाक्षरात् -स्ववान् । कृतः -कारकवान् । जातेः — — व्याघ्रवान्, सिंहवान् । सप्तम्यां - दण्ड अस्यां सन्ति दण्डवती शाला ।तदस्यास्ती॑ति सूत्रस्थेतिकरणो विषयनियमार्थः सर्वत्रापि संबध्यत इति । क्वचित्कृतोऽपि भवति -कार्यी । कार्यिकः । क्वचित्तु जातेरपि -तण्डुली । तण्डुलिकः । एतच्च काशिकादौ स्पष्टम्ष", "52116": "", "52117": "<<तुन्दादिभ्य इलच् च>> - तुन्दादिभ्य इलच्च । अन्यतरस्यामित्यनुवर्तनादाह -मतुप्चेति । अत्रस्वाङ्गाद्विवृद्धौ॑इति पठते । विवृद्ध्युपाधिकात्स्वाङ्गवाचिन इलजादयः स्युः । विवृद्धौ कर्णावस्य -कर्णिलः कर्णी कर्णिकः कर्णवान् ।", "52118": "<<एकगोपूर्वाट्ठञ् नित्यम्>> - एकगोपूर्वात् । ऐकशतिक इति । एकं च तच्छतं चेतिपूर्वकाले॑त्यादिना कर्मधारयः । षष्ठीतत्पुरुषाद्बहुव्रीहेद्र्वन्द्वाच्च न भवति, अनभिधानादिति हरदत्तादयः ।अत॑इत्येव । नेह -एकविंशतिरस्यास्तीति । नित्यग्रहणं मतुपो बाधनार्थम् । अन्यता ठञा इनिठनोर्बाधे कृतेऽप्यन्यतरस्याङ्ग्रहणानुवृत्त्या मतुप् स्यादेवेत्याहुः । कथंएकद्रव्यवानिति । असाधुरेवायम् । एकेन द्रव्यवानिति वा विग्रहीतव्यम् । कथमेकदण्डीति ।एकदेशिनैकाधिकरणे॑इति निर्देशो ज्ञापयति — — ॒इनरपि क्वचिद्भवती॑ति ।", "52119": "", "52120": "<<रूपादाहतप्रशंसयोरप्>> - रूपादाहत । आहतप्रशंसाविशिष्टेऽर्थे वर्तमानाद्रूपशब्दान्मत्वर्थे यप् स्यात् । आहतमिति । आहनमाहतं=ताडनमित्यर्थः । ततो निष्पन्नं यत्कार्षापणादिरूपं तदपि कार्ये कारणोपचारादाहतमित्युच्यते इत्याहतरूपयोः सामानाधिकरण्यमुपपद्यते ।अन्येभ्योऽपि दृश्यते । हिम्या इत । भूम्नि यप् । पर्वता इति । हिमवान्, तत्पर्यन्तवर्तिनश्च । गुण्या इति.दृसिग्रहणादिनिरपि । तथा च माघः -॒गुण्यगुण्य इति न व्यजीगणत् । गुणी — अगुण्य इति पदच्छेदः ।", "52121": "<<अस्मायामेधास्रजो विनिः>> - अस्मायामेधा । यशस्वीति ।तसौ मत्वर्थे ॑इति भत्वाद्रुत्वं न । यशस्वानिति । नित्यग्रहणात्पूर्वत्राऽसंबद्धमप्यन्यतरस्याङ्ग्रहणं मतुप्समुच्चयार्थमिह संबध्यत एव ।तसौ मत्वर्थे॑इति सूत्रे यशस्वी यशस्वानिति भाष्योदाहरणादिति भावः ।चोः कु॑रित्यनेन सिद्धे व्रश्चादिषत्वमाशङ्क्याह -क्विन्नन्तत्वादिति । ह्मदयाच्चालुरन्यतरस्याम् । ह्मदयाच्चालुरन्यतरस्याम् । अन्यतरस्याङ्ग्रहणमिनिठनोः प्राप्त्यर्थम् । मतुप् सर्तत्र समुच्चीयत एव । चकारस्यचुटू॑इतीत्संज्ञा । तेन ह्मदयालुशब्दोऽन्तोदात्त इत्याहुः ।शीतोष्णतृप्रेभ्यस्तदसहने । शीतोष्णेति । इह चालुरनुवर्तते । परुडाश इति ।न तृप्रा उरुव्यचस॑मिति मन्त्रस्य भाष्ये तथा व्याख्यातत्वादिति भावः । माधव इति । सुब्धातुवृत्तौ स्थितमिदम् ।हिमाच्चेलुः । हिमाच्चेलुरिति । एकारदिरयं प्रत्यय इति माधवः ।बलादलः । बलादिति । सिध्मादिषु बलूलवातूलशब्दौ मत्वर्थे प्रकारान्तरेण व्युत्पादितौ । तप्पर्वमरुद्भ्याम् । पित्त्वमनुदात्तत्वार्थम् । काशिकायां तुपर्वमरुद्भ्यां तन्वक्तव्यः॑इति स्थितम् । हरदत्तेनतुत॑न्निति प्रतीकमुपादाय आद्युदात्तत्वार्थो नकार इत्युक्तम् । तच्च मनोरमायां महता प्रबन्धेन दीक्षितैर्निराकृतं तत एव तदवधार्यम् ।", "52122": "", "52123": "<<ऊर्णाया युस्>> - पदत्वमिति । तेनयस्येति चे॑ति लोपो न प्रवर्तत इति भावः । अनुवर्तयन्तीति ।बहुलं छन्दसी॑त्यतः ।", "52124": "<<वाचो ग्मिनिः>> - वाचो ग्मिनिः । इकारो नकारपरित्राणार्थः । चकारस्य कुत्वे जश्त्वे च कृते वाग्ग्मी वाग्ग्मिनावित्यादौ द्वयोर्गकारयोः श्रवणं भवति । द्वित्वेतु -त्रयाणाम् ।मिनिः॑इत्युक्ते तु द्वित्वे सति द्वयोर्गकारयोः श्रवणं, द्वित्वाऽबावे त्वेकस्यैव श्रवमं स्यात् । किंचयरोऽनुनासिके॑,प्रत्यये भाषायां नित्य॑मिति वाङ्भयमित्यत्रेव नित्यमनुनासिकः प्राप्नोति, तच्चाऽनिष्टमिति ग्मिनिः कृतः ।", "52125": "", "52126": "<<स्वामिन्नैश्वर्ये>> - स्वामिन्नैआर्ये । ऐआर्यवाचकादिति । स्वशब्दस्यैआर्यवाचित्वमेतद्वृत्तिविषयकमेवेति बोध्यम् । ईशिता हि ईआरः । स तु स्वामीत्युच्यते । यथा वागीश एव वाचस्पतिः वाचः स्वामिति । ऐआर्ये किम् । स्ववान् ।", "52127": "<<अर्शआदिभ्योऽच्>> - अर्शाअदिभ्योऽच् । इहस्वाङ्गाद्धीना॑दिति । गणे पठते । खञ्जः पादोऽस्यास्तीति खञ्जः । कां चक्षुर्यस्यास्तीति काणः ।", "52128": "", "52129": "", "52130": "", "52131": "", "52132": "", "52133": "", "52134": "", "52135": "", "52136": "", "52137": "<<संज्ञायां मन्माभ्याम्>> - प्रथिमिनीति ।पृथ्वादिभ्यः॑ इतीमनिचिटे॑रिति टिलोपः ।र ऋतः॑ इत #इ रभावः ।अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयोजयन्ती॑ति मन्नन्तादिनौ कृतेनस्तद्धिते॑इति टिलोपे नान्तत्वान्ङीप् । दामिनीति । दाधातोर्मनिन् । होमिनी । सोमिनीति ।अर्तिस्तुसुहुसृधृक्षी॑त्यौणादिकेन मनिनित्त्वाद्धोमसोमशब्दौ मप्रत्ययान्तौ ।", "52138": "<<कंशंभ्यां बभयुस्तितुतयसः>> - कंशंभ्याम् । पदत्वार्थ इति । अन्यथाकम्युः, काम्यः, शम्युः, शाम्यः॑इति स्यादिति भावः । वकारयकारपरस्येति । बहुव्रीहिरयम् । अनुनासिकौ वयाविति । एतेन प्रथमप्रत्ययः दन्त्योष्ठआदिः, न तु पवर्गतृतीय इथि ध्वनितम् । माधव इति ।तुडि तोडने॑इति धातौ तेनोक्तं -॒वृद्धा नाभिस्तुण्डिः॑ । इन् । तुण्डिरस्यास्तीति तुण्डिलः ।तुन्दादिभ्य इलच्चे॑त्यत्रस्वाङ्गाद्विवृद्धौ॑इति गणसूत्रेण इलच् । तुण्डिल एव तुण्डिभः ।तुण्डिवलिवटेर्भः॑इति मत्वर्थीयो भ॑इति ।", "52139": "<<तुन्दिवलिवटेर्भः>> - वटिभ इति ।वटवेष्टने॑इन् । वटिशब्दः पामादिषु पटते । तेनवटिन॑इत्यपि भवति ।", "52140": "<<अहंशुभमोर्युस्>> - अहंयुः । शुभंयुरिति । पूर्ववदनुस्वारपरसवर्णै ।इति तत्त्वबोधिन्यां मत्वर्थीयाः ।अथ नामधातुप्रक्रिया ।", "53001": "", "53002": "<<किंसर्वनामबहुभ्योऽद्व्यादिभ्यः>> - किंसर्वनाम । द्व्यादिपर्युदासात्किमः पृथग्ग्रहणम् । द्व्यादिषु किंशब्दपाठे प्रयोजनं तु -त्वं च कश्च कौ ।अहं च कश्च कौ । भवांश्चकश्च कौ इत्यत्र किमः शेषः,त्यदादीनां मिथः सहोक्तौ यत्परं तच्छिष्यते॑इत्युक्तत्वात् ।", "53003": "", "53004": "", "53005": "<<एतदोऽश्>> - एतदोऽन् । भाष्यारूढोऽयं पाठः । वृत्तिकारस्तुएतदो॑ऽशिति पठित्वा शकारः सर्वादेशार्थ इत्याह । अनिति । प्राग्दिशीये परे अन्स्यात् । अनेकाल्वादिति । नित्करणस्य प्रयोजनं नास्ति, प्रत्ययनित्त्वस्यैव स्वरार्थत्वादिति भावः ।", "53006": "<<सर्वस्य सोऽन्यतरस्यां दि>> - आत्मनापञ्चम इति । तृतीयेति योगविभागात्समासः । इह प्रकृत्यादित्वात्प्रथमार्थे तृतीयेत्येके । आत्मना कृतः पञ्चमः इति करोतिक्रियापेक्षा सेत्यन्ये । पूरण इति वक्तव्यम् । बहुव्रीहर्बोध्य इति । एकस्याप्यौपाधिकभेदं परिकल्प्य वर्तिपदार्थत्वमन्यपदार्थत्वं च विवक्षणीयमिति भावः ।", "53007": "", "53008": "", "53009": "", "53010": "<<सप्तम्यास्त्रल्>> - सप्तम्यास्त्रल् । इह त्रल्तसिलौ स्वतन्त्रौ प्रत्ययौ, न तु सप्तमी पचम्योरादेशौ । तेन कुत्र बहुत्र कुतः बहुत इत्यादौअच्च घेः॑घेर्ङिती॑त्यादिकं नेत्याहुः ।", "53011": "", "53012": "<<किमोऽत्>> - किमोऽत् ।न विभक्तौ तुस्माः॑इतिनिषेधोऽत्र न प्रवर्तते, थमोरुकारेण मकारपरित्राणार्थेनाऽनित्यताज्ञापनात् । वाग्रहणमिति ।किमोऽद्वा॑इति सूत्रं पठित्वाह च छन्दसी॑ति सूत्रयितुं युक्तम् ।", "53013": "<<वा ह च च्छन्दसि>> - वा ह च छन्दसि । पूर्वोक्तस्य वाग्रहणापकर्षणस्य स्फुटीकरणार्थमिदमुपन्यस्तम् । अत इति । एतस्माद्ग्रामादित्यर्थः ।दृशिग्रहणाद्भवदीदियोग एव । तत्रभवन्तमिति । ततो भवता तत्र भवता । ततो भवते थत्रभवते इत्यादि । एवमिति । ततो दीर्घायुस्तत्र दीर्घायुरित्याद्यूह्रमित्यर्थः । सदेति ।सर्वस्य सोऽन्यतरस्यां दी॑ति सभावः । कदेति ।किमः कः॑ ।", "53014": "", "53015": "", "53016": "<<इदमो र्हिल्>> - एतर्हीति ।एततौ रथोः॑एत्येतादेशः ।", "53017": "<<अधुना>> - अधुनाप्रत्यय इति । निपातनान्मध्योदात्तोऽयम् । भाष्यमतं चेदम् । वृत्तिकारस्त्वाह -इदमो अश्भावो धुना च प्रत्यय इति । तत्रऊडिद॑मित्यादिना विभक्तितस्वरः, स चआदेः परस्ये॑त्यादेर्भवतीति हरदत्तः ।तदो दावचनमनर्थकं विहितत्वात् । दावचनमिति ।तदश्चे॑त्येव सूत्रं पठनीयमिति भावः ।", "53018": "", "53019": "", "53020": "", "53021": "<<अनद्यतने र्हिलन्यतरस्याम्>> - एतस्मिन्काले एतर्हीति ।एतदः॑इति योगविबागाद्रेफादावेतादेशः ।", "53022": "<<सद्यःपरुत्परार्यैषमःपरेद्यव्यद्यपूर्वेद्युरन्येद्युर्- अन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः>> - सद्यः परुत् । निपातनाद्विषयविशेषो लभ्यत इत्याह — — अहनीति । सप्तम्यन्तस्याऽहन्शब्दस्यार्थे इत्यर्थः । समानस्य सभावो द्यश्चाऽहनि । समानेऽहनीति । पर उदारीचेति ।पर॑इत्यादेशः, उदारी प्रत्ययौ ।", "53023": "<<प्रकारवचने थाल्>> - प्रकारवचने थाल् । सामान्यस्य भेदको विशेषः प्रकारः । यथा ब्राआहृणसामान्यस्य माठरकाठकादय इति हरदत्तः । यद्यपिप्रकारे गुणवचनस्ये॑त्यत्र सादृश्यं प्रकारस्तथापि नेह सादृश्यं गृह्रते, अनबिधानात् ।अव्ययं विभक्ती॑ति सूत्रे सादृश्यमपि यथाशब्दार्थ इत्युक्तम्, इह तु केवलस्य थाल्प्रत्ययस्य सादृश्यं नाऽर्थः, किं तु प्रकार एवेत्युक्तमिति नास्ति पूर्वापरविरोध इति बोध्यम् । तेन प्रकारेण तथेति । प्रथमान्तात्तु न भवति -स प्रकारस्तथेति, अनभिधानादेवेति भावः । किंसर्वनामबहुभ्यो विशेषविहितेनापि थाला जातीर्न बाध्यते, अर्थभेदात् । प्रकारे हि थाल् । जातीयर्तु तद्वति, स्वभावात् । एवं च कृत्वा प्रकारमात्रे थालं विधाय तदन्तात्प्रकारवति जातीयरं प्रयुञ्जते — तथाजातीयो यताजातीयोऽन्यथाजातीय इति ।एतदोऽपि वाच्यः । अनेन एतेन वेति । द्वितीयान्तादपि थमुर्भवत्येव, इममेतं वा प्रकारमापन्न इत्थम्भूतः । अत्र चलक्षणेत्थम्भूताख्याने॑त्यादिसौत्रप्रयोगे लिङ्गम् । एतेन कथम्भूतो व्याख्यातः । इत्थमिति ।एततौ रथो॑रिति इदम इतादेशः ।एतदः॑इति योगविभागादेतदोऽपि इतादेश इति भावः ।", "53024": "", "53025": "<<किमश्च>> - किमश्च । योगविबागःथा हेतौ च छन्दसी॑त्युत्तरसूत्रे किम एवानुवृत्तिर्यथा स्यादिदमो मा भूदिति । इति तत्त्वबोधिन्याम प्राग्दिशीयानां पूर्णोऽवधिः ।", "53026": "", "53027": "<<दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः>> - दिग्देशकालेष्विति । यतासङ्ख्यमत्र नेष्यते, अस्वरितत्वात् ।", "53028": "", "53029": "", "53030": "<<अञ्चेर्लुक्>> - प्राच्यां प्राच्या इति । प्राच्यादिशि वसति — प्राग्वसति । प्राच्या दिश आगतः प्रागागत इत्यादि योज्यम् ।", "53031": "", "53032": "", "53033": "", "53034": "", "53035": "<<एनबन्यतरस्यामदूरेऽपञ्चम्याः>> - पञ्चम्यन्तं विनेति । नेह -उत्तरादागतः । अधरादागतः । उत्तरेणेत्यादि । वसति रमणीयं वा । पक्षे यथास्वमिति । दक्षिणतः । उत्तरतः । अधः । अधस्तात् । उत्तारात् ।अधरात् । दक्षैणात् ।", "53036": "<<दक्षिणादाच्>> - वाचिकमिति ।स्वार्थिकाःस क्वचिल्लिङ्गमतिवर्तन्ते॑इति नपुंसकत्वम् ।", "53037": "", "53038": "", "53039": "", "53040": "<<अस्ताति च>> - पुरः पुरस्तादिति । कथं तर्हिपश्यामि तामित इतः पुरतश्च पश्चा॑दिति भवभूतिः,स्यात्पुरः परुतोऽग्रतः॑इत्यमरः,पुरतः प्रथमे चाऽग्रे॑इति विआस्च ।समानकालीनं॑पूर्वकालीन॑मित्यादिवत्प्रामादिकमेवेति बहवः । केचित्तुदक्षिणोत्तराभ्यां तसुज्विधिनैवेष्टसिद्धौअतसु॑जित्यकारोच्चारणमन्यतोऽपि विधानार्थम् । तेन पुरत इति सिध्यति ।पुर अग्रगमने॑ क्विपि — पुर् ।र्वोः॑इति दीर्घस्तु न भवति, भत्वात् । न च अतसुचाश्चित्त्वेऽप्यकारोच्चारणं पक्षे आद्युदात्तत्वार्थमिति वाच्यं, बहूनां प्रयोगानुरोधेनाऽन्यतो विधानार्थमिति कल्पनस्यैव न्याय्यत्वादित्याहुः । यथासङ्ख्यत्वानाश्रयणात् पुरस्ताद्वसति पुरस्तादागतः पुरस्ताद्रमणीयम् । अधस्ताद्वसति अधस्तादागतः — इत्यादि सिध्यति ।", "53041": "", "53042": "<<संख्याया विधाऽर्थे धा>> - सङ्ख्याया विधार्थे धा । विधाशब्दस्याऽर्थो विधार्थः । यद्यप्योदनपिण्डोऽपि विधाशब्देनोच्यते तथापीह न गृह्रते । तेन एका गोविधेत्यादौ न भवति । इह हिविधाया॑मिति वक्तव्ये अर्थग्रहणस्य प्रयोजनं — विधाशब्दो यत्रार्थे प्रसिद्धतरस्तत्रैव यथा स्यात् । तादृशश्चार्थः प्रकार एव, स च क्रियाविषयक एव गृह्रते, अभिदानस्वभावात् । तदाह -क्रियाप्रकारे वर्तमानादिति । कथं तर्हिनवधा द्रव्यं,॑ बहुधा गुणः॑ इत्यादि । अत्रापि ह्रश्रुता क्रिया प्रतीयतेउपदिश्यते इति वा॑इति हरदत्तः ।", "53043": "<<अधिकरणविचाले च>> - अधिकरणविचाले च । अधिकरणं=द्रव्यं, विचलनं विचालः=अन्यथाकरणम् । णिजन्तादेरच् । तच्चेह संख्यासंनिधानात्संख्यान्तरापादनमिति व्याचष्टे -द्रव्यस्येत्यादिना । संख्यान्तरापादनं हि एकस्यानेकीकरणम्, अनेकस्य च एकीकरणम् । तत्राद्ये उदाहरणम् — — एकं राशिं पञ्चधेति । पञ्च राशीन्कुर्वित्यर्थः । द्वितीये तु -॒अनेकं एकधा कुर्वि॑त्युदाहर्तव्यम् । इह क्रियाविषयकप्रकारो न गम्यत इति सूत्रारम्भः ।", "53044": "<<एकाद्धो ध्यमुञन्यारयाम्>> - एकाद्धो । शब्दप्रधानत्वात्सर्वनामकार्याऽभावः । इह प्रकरणादेव सिद्धे पुनर्धाग्रहणं विधार्थे विहितस्यापि यथा स्यात् ।अनन्तरस्ये॑ति न्यायेनाधिकरणविचाले विहितस्यैव हि प्राप्नोतीति वृत्तिपदमञ्जार्योः स्पष्टम् । एतेन ध्युमञ् स्वतन्त्र एव प्रत्ययोऽस्त्वित्याशङ्का परास्ता । ऐकध्यमिति । विधार्थे -॒एकेध्यं भुङ्क्ते॑ । अधिकरणविचाले तु — ऐकध्यं राशिं कुर्वि ॑त्यादि ज्ञ्यम् । एवमग्रेऽपि द्वैधमिच्यादौ योज्यम् ।", "53045": "", "53046": "<<एधाच्च>> - एधाच्च । द्वित्र्योः संबन्धिनो धाप्रत्ययस्य एधाच् स्यात् । योगविभागो यथासङ्ख्यनिरासार्थः ।", "53047": "<<याप्ये पाशप्>> - याप्ये पाशप् ।कुत्सिते॑इत्यत्रैव नाऽयं विहितः, तिङन्तादपि प्रसङ्गात् ।", "53048": "<<पूरणाद्भागे तीयादन्>> - पूरणाद्भागे । पूरणार्थत्वात्तीयप्रत्ययः पूरणशब्देनोक्तः । पूरणग्रहणं चोत्तरार्थम्, न ह्रपूरणस्तीयप्रत्ययो भवति । मुखतीयः इत्यत्र त्वनर्थकत्वान्नतिप्रसङ्गः । भग इति पुंस्त्वं विवक्षितम् । तेन समानेऽप्यर्थे विभक्तौ विवक्षितायां चतुर्थी पञ्चमीत्येव भवति ।प्रागेकादशभ्यः॑इत्यनि सति तु टापि चतुर्था पञ्चमेति प्रसज्येत ।", "53049": "", "53050": "", "53051": "", "53052": "<<एकादाकिनिच्चासहाये>> - एकाधाकिनिच्चा । असहायवाचिन एकशब्दादाकिनिच् स्यात् । कुन्लुकाविति । आकिनिचः कनो वा पक्षे लुक् । तयोरेवानेन सूत्रेण विधानात् । असहायग्रहणं सङ्ख्याशब्दनिरासार्थम्, अन्यथा प्रसद्धत्वात्संख्याप्रकरणाच्च तस्यैव ग्रहणं स्यात् । इष्टापत्तौ तु द्वित्वे बहुत्वे च न स्यादेकाकिनौ एकाकिन इति । न हि द्वयोर्बहुषु वा एकत्वसंख्याऽस्ति । असहायत्वं तु परस्परातिरक्तसहायाऽभावेन द्वयोर्बहूनामपि भवति । इह अकिनिजेवायं वक्तव्यः, सवर्णदजीर्घेण सिद्धमिष्टम् ।यस्येति चे॑ति लोपश्चाऽकारोच्चारणसामर्थ्यान्न भवतीत्यादि हरदत्तग्रन्थे स्थितम् ।", "53053": "<<भूतपूर्वे चरट्>> - भूतपूर्वे । अत्र वर्तमानाच्चरट् स्यात् ।गोष्ठात् खञि॑त्यत्रैव नोक्तं, विशेषविहितेन खञा चरटो बाधा मा भूदिति । संनिधौ हि सामान्यविशेषभावः स्फुटीभवति । यद्यपि दूरस्थस्यापि बाधो न्याय्य एव, तथापीह गौरवं स्वीकृत्य दूरे पाठसामर्थ्याद्बाधो नेति भावः ।", "53054": "<<षष्ठ्या रूप्य च>> - षष्ठआ रूप्य च । भूतपूर्व इत्यनुवर्तते । तच्च यद्यपि पूर्वत्र ङ्याप्प्रातिपदिकस्य विशेषणं, तथापीह न तथा, षष्ठन्तार्थस्य विशेषणत्वात्, तदाक्षिप्तस्य ॑संबन्धिनो गवादेः प्रधानत्वात्, प्रधानेतरसंनिधौ च प्रधाने कार्यसंप्रत्ययस्य न्याय्यत्वात् । त [देत]दाह -भूतपूर्वेऽर्थे रूप्यः स्यादिति ।", "53055": "<<अतिशायने तमबिष्ठनौ>> - अतिशायने । अतिपूर्वाच्छेतेर्ल्युट् । अतिशयनमेवातिशयनम् । अस्मादेव निपातनाद्दीयः । नचु सौत्रः । तेन लोकेऽपि दीर्घः साधुः ।अबाधकान्यपि निपातनानि भवन्ति॑ । तेन ह्रस्वोऽपि साधुः । यद्यपि केवलः शोतिः स्वप्ने वर्तते तथाप्यतिपूर्वः प्रकर्षे । प्रकर्षश्चात्र नाधिक्यं, किं त्वभिभवः,पूर्वान्महाभागतयाऽतिशेषे॑इति प्रयोगदर्शनात् । न चैवंप्रकर्षे तमबिष्ठनौ॑इत्येव कुतो न सूत्रितमिति शङ्क्यम्, अतिशायनमिति निपातनार्थमेव तथोक्तत्वात् । अतिशयो न प्रत्ययार्थः, तथा हि सति लघोरतिशायनं लघुतममिति स्यात् । प्रत्ययार्थस्य फ्राधान्यात् । नापि प्रकृत्यर्थः, तथा हि सति प्रकर्षातिशयनादिभ्य एव स्यात्, न त्वाढआदिभ्यः । किं तु प्रकृत्यर्थविशेषणम् । प्रत्ययस्तु द्योतकः । तदेतदाह -अतिशयविशिष्टेत्यादि । अयमेषामिति । द्व्यवयवे समुदाये यदा एकस्यातिशयो विवक्ष्यते तदा तरबीयसुनावपवादौ वक्ष्येते । तथा च परिशेषाद्बहूनां मध्ये यदा एकदेशस्य निर्धारणं सोऽस्य विषय इति भावः । आढतम इति । सुबन्तात्तमप् ।सुपो धात्वि॑ति लुक् । यद्यपिङ्याप्प्रातिपदिका॑दित्येवानुवर्तते तथापि सुबन्तपरतयैव व्याख्येयम् । अन्यथा हि पूर्वाह्णेतमामित्यादौघकालतनेषु कालनाम्नः॑इति सप्तम्या अलुग्विधानं कथमुपपद्येत ।", "53056": "<<तिङश्च>> - ह्रस्वे । तैलादौ ह्रस्वदीर्घादिव्यवहाराऽबावाद्वृक्षक इत्युदाहृतम् । यद्यपिअल्पे॑इत्यनेनैवेदं रूपं सिध्यति ततापि शाब्दबोदे विशेषोऽस्तीत्याहुः ।", "53057": "<<द्विवचनविभज्योपपदे तरबीयसुनौ>> - द्विवचनविभज्योपपदे । द्वयोरर्थयोर्वचनं -द्विवचनम् । करणे ल्युट् । कर्मणि षष्ठआ समासः । येन पदेन द्वावर्थावुच्येते तद्द्विवचनम् । विभक्तव्यं=विभज्यम् ।ऋहलो॑दिति ण्यति प्राप्ते तदपवादो यत् निपात्यते । ण्यति तुचजो॑रिति कुत्वेन विभाग्यमिति स्यात् । विभाज्यशब्दस्य स्मृतिषु प्रयुक्तस्य साधुत्वं चिन्त्यमिति हरदत्तोक्तिश्चिन्त्या । ण्यन्तात्अयो य॑दिति यति विभाज्यमिति रूपसिद्धेः । न चात्राऽर्थबेदः शङ्क्यः,नुवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिच॑इतिणेरणौ॑इति सूत्रे व्युत्पादनादिति दिक् । द्विवचनं च विभज्यं चेति द्वन्द्वः । तस्य उपपदेन कर्मधारयः । तथा च व्द्यर्थवाचके विभजनीये चोपपदे सतीत्यक्षरार्थः ।द्विवचनान्ते उपपदे॑इति व्याख्यायां तुदन्तोष्ठस्य दन्ताः स्निग्धतराः ॑इत्यादि न सिध्यति । नचद्वयोर्वचनं द्विवचन॑मिति पक्षेऽपि नेदं सिध्यति, समाहारस्यैकत्वात्, गुणभूतवर्तिपदार्थश्रयमे तु द्वातिंरशद्दन्ताः तु द्वातिंरशद्दन्ताः , द्वावोष्ठाविति तेषां बहुत्वात्सुतरां न सिध्येदिति चेत् । अत्राहुः — — वृत्ताभेदैकत्वसङ्ख्यामुपपाददति वर्तिपदानि । ततश्च ऊभेदस्य परित्यागादभेदैकत्वं , सङ्ख्यायाश्चोपादानाद्दन्तोष्ठलक्षणार्थद्वयं दन्तोष्ठशब्देनोच्यत इति नास्ति द्वयोर्वचनं द्विवचनमित्येतदर्थकद्विवचनोपपदे इति पक्षे दोष इति । विस्तरस्त्तवाकरग्रन्तेब्योऽवगन्तव्यः । अन्वर्थं चोपपदम्, — -उपोच्चारितं पदमिति, न तु कृत्रिमम् । तद्धितविधौ तस्याऽसंभवात् । तच्च विग्रहवाक्य एव प्रयुज्यते । वृत्तौ तु गतार्थत्वान्नावश्यकम् । एवं स्थिते उपपदग्रहणं स्पष्टार्थम् । इह द्वे उपपदे, द्वे च प्रकृती सुबन्ततिङन्तरूपे, द्वौ च प्रत्ययौ, तथापि यथासङ्ख्यं नेष्यते । द्विवचनोपपदमुदाहरति — — अनयोरिति । लघीयामिति ।टे॑रिति लोपः । उगित्त्वान्नुम् ।सान्तमहतः॑इति दीर्घः । हल्डआदिसंयोगान्तलोपौ । विभज्योपपदमुदाहरति -प्राच्येभ्य इति ।पञ्चमी विभक्ते॑इति पञ्चमी । कथं तर्हिपरुद्भवान् पटुरासीत्, ऐषमस्तु पटुतरः॑इति । अत्राहुः — — एकस्यापि धर्मिणस्तत्कालस्थत्वादिरूपधर्मभेदेन भेदाध्यारोपात्प्रतियोग्यपेक्षस्तत्कालस्थप्रकर्षःष तदाश्रयश्चेह तपप्प्रत्यय इति । व्यपदिशन्ति च — — ॒अन्य एवासि संवृत्तः॑,कच्चित्स एवासि धनञ्जयस्त्वम्इति ।", "53058": "<<अजादी गुणवचनादेव>> - अजादी गुणवचनादेव । इष्टतोऽवधारणार्थ एवकारः । तेन प्रत्यय नियमोऽयम् । एवकाराऽभावे तुगुणवचनादजादिप्रत्ययावेवे॑ति प्रकृतिनियमोऽपि सम्भाव्येत । तथा च पटुतरः, पटुतम इत्यादि न सिध्येत् ।", "53059": "<<तुश्छन्दसि>> - तुश्छन्दसि । पूर्वेण नियमेव व्यावर्तितयो प्रतिप्रसवोऽयम्, नत्वपूर्वो विधिः । तेन उपाधिसङ्करो न ।", "53060": "<<प्रशस्यस्य श्रः>> - प्रशस्यस्य श्रः ।अजादी॑इत्यनुवृत्तं सप्तम्या विपरिणम्यत इत्याह -अजाद्योरिति । अजाद्योः किम् । प्रशस्यतरः । प्रशस्यतमः ।", "53061": "", "53062": "<<वृद्धस्य च>> - वृद्धस्य च । स्वरूपस्येह ग्रहणं, न तुवृद्धिर्यस्याचामादि॑रिति पारिभाषिकस्य, व्याख्यानात् । अस्यप्रियस्थिरे॑त्यादिना वर्षादेसोऽपि पक्षे भवति । न च तस्येमनिचि सावकाशता शङ्क्या, वृद्धशब्दादिमनिचोऽभावात् । यदि तुवृद्धस्य वर्षिश्चे॑ति सूत्रमिहैव क्रियेत तदा द्विर्वृद्धग्रहणं न कर्तव्यमिति लाघवं भवतीत्याहुः ।", "53063": "", "53064": "<<युवाल्पयोः कनन्यतरस्याम्>> - युवाल्पयोःयुवे॑ति स्वरूपग्रहणं , न तु युवापत्यस्य, अल्पसाहचर्याव्द्याख्यानाच्च ।अजादी॑इत्यनुवर्तनादरजाद्योरेव परयोर्न तु तरप्तमपोरित्याशयेन व्याचष्टे — इष्ठेयसोरिति ।", "53065": "<<विन्मतोर्लुक्>> - विन्मतोर्लुक् । रुआजिष्ठ इति । विनो लुकि कृते भत्वात्पदकार्याऽभावः । अस्मादेव ज्ञापकादगुणवचनत्वेऽपि विन्मतेरजादी भवतः ।", "53066": "<<प्रशंसायां रूपप्>> - प्रशंसायां रूपप् । प्रकृत्यर्थस्य परिपूर्णतेह प्रशंसा, न तु स्तुः । तेनेहापि भवति — — ॒चौररूपोऽयं यदक्ष्णोरप्यञ्झनं हरति । गुप्तवस्त्वपहरणेन चौर्यं परिपूर्यते । पचतिरूपमिति । क्रियाप्रधानमाख्यातम् । क्रियायाश्चाऽसत्त्वरूपत्वेऽपि औत्सिर्गिकमेकवचनं भवति । तेन पचतोरूपं पचन्तिरूपमित्यादि । इह प्रथमैव, विबक्त्यन्तराणामप्राप्तेरिति बहुवः । वस्तुतस्तु पश्येत्यादियोगे कर्मणि द्वितीयापि सुलभा । क्लाबत्वं लोकात् ।एवंपचतिकल्प॑मित्यादावपि बोध्यम् ।ट", "53067": "", "53068": "<<विभाषा सुपो बहुच् पुरस्तात्तु>> - विभाषा सुपः । सूत्रेसुपः॑इति षष्ठन्तं,षष्ठतसर्थप्रत्ययेने॑त्युक्तेः । सुबन्तादिति । एतच्च पञ्चम्यन्तं युक्तमेव, पुरस्ताच्छब्दपर्यायस्य प्रागितिशब्दस्य वृत्तौ प्रयुक्तत्वात् । प्रागित्यपकृष्यत इथि तु मनोरमायां स्थितम् । नस च सूत्रस्थपुरस्ताच्छब्दसमानार्थकप्राक्शब्दयोगेऽपिषष्ठतसर्थे॑ति षष्ठी स्यादिति वाच्यम्,अन्यारा॑दिति सूत्रेऽञ्चूत्तरपदस्य दिक्शब्दत्वेऽपिषष्ठतसर्थप्रत्ययेने॑त्येतद्बाधनार्थं पृथग्ग्रहणमिति सिद्धान्तयित्वाप्राक् प्रत्यग्वा ग्रामा॑दित्युदाहृतत्वात् । काशिकायां तु वृत्तपवि पुरस्ताच्छब्दः प्रयुक्तः, सुबन्तादिति च प्रयुक्तं । तदसमञ्जसमिति मत्वा हरदत्तेन कथंचितं समर्थितं -॒ल्यब्लोप एषा पञ्चमी । एवंभूतं प्रकृतित्वेनाश्रित्येत्यर्थ॑इति । प्रागेवेति । सौत्रस्तुशब्दोऽवधारणे वर्तत इति भावः । तेन च बहुजेव विकल्प्यते, न तु पूर्वत्वम् । तुशब्दाऽभावे तु प्राक्त्वं विकल्प्येत । तथा च पक्षे बहुच् परः स्यात् । भाष्यकारस्य मते तु नेदं तुशब्दस्य फलम् । तथाहि -॒उदइआतोऽन्यतरस्या॑मित्यादौ प्रधानत्वात्प्रत्यय एव विकल्प्यते, न तु परत्वं, प्रत्यय एव हि परत्वविशिष्टो विधीयत इत#इ , विशेषणस्य गुणत्वात्,गुणानां च परार्थत्वादि॑ति न्यायात् । तद्वदिहापि विभाषाग्रहणेन बहुजेब संभन्त्स्यते, न पुरस्तादित्येतत् । तुशब्दस्य तु अवधारणार्थस्याऽन्यदेव प्रयोजनंपुस्तादेव सर्वं यथा स्या॑दिति । तेन लिङ्गसङ्ख्ये अपि प्राक् प्रत्ययोत्पत्तेः प्रकृत्यवस्थायां ये दृष्टे ते एव स्तः । बहुचः प्रयोगश्च प्राक् प्रकृतेरेव भवतीति । तेनबहुगुडो द्राक्षा॑,लघुर्बहुतृणं नरः॑इत्यादौ प्रकृतिवल्लिङ्गमेव भवति, न त्विभिधेयवल्लिङ्गम् । ननुस्वार्थिकाः प्रकृतितो लिङ्गवचनामि लभन्ते॑इत्येव सिद्धमिति किमनेन तुशब्दग्रहणेनेति चेत् । अत्राहुः -एतदेव ज्ञापयतिईषदसमाप्तौ ये स्वार्थिकास्तेष्वभिधेयवदेव लिङ्गवचने स्तः॑इति । तेनगुडकल्पा द्राक्षा॑शर्कराकल्पो गुड॑इत्यादि सिद्धण् । प्रागिवात्कः ।सुपः॑इत्यनुवर्तते, तेन तिङन्तात्को न ।", "53069": "", "53070": "", "53071": "<<अव्ययसर्वनाम्नामकच् प्राक् टेः>> - अव्ययसर्वनाम्नाम् । अनुवर्तते इति । मण्डूकप्लुत्येति बावः ।ङ्याप्प्रातिपदिकात्सुपः॑इति चानुवर्तत एव ।", "53072": "<<कस्य च दः>> - कस्य च दः । कान्ताव्ययस्येति । सर्वनामग्रहणं तिङ्ग्रहणं च नेह संबध्यते, तयोः कान्तत्वाऽसंभवात् । न चाऽधोक् अधोगित्यादौ संभवोऽस्तीति वाच्यं , कत्वस्याऽसिद्धत्वात् । यद्यपि शक्नोतेर्यङ्लुकि लङि तिपिअशाशक्इति संभवति, तथापि यङ्लुकोऽसार्वत्रिकत्वान्नेदृसं लक्ष्यमस्ति । छन्दसि क्वचिल्लक्ष्यसद्भावेऽपिसर्वे विधाश्छन्दसि वा विधीयन्ते॑इति दत्वविधिर्न प्रवर्तत इति भावः ।ओकारसकारभकारादौ सुपि सर्वनाम्नष्टे प्रागकच् । ओकारसकारेति । अकज्विधौ सुपोऽप्यनुवृत्त्या सर्वनाम्ना सुपा च ठेर्विशेषणे कामचारादव्यवस्थाप्रसङ्गे भाष्यकारवचनाव्द्यवस्था श्रीयते ।ओकारसकारे॑त्यादिसङ्कोचश्च युष्मदस्मन्मात्रविषयकः, तथैव भाष्येउदाहृतत्वात् । अन्येषां त्विवशेषेण प्रातिपदिकस्यैव टेः प्रागकच् न सुबन्तस्य । तेन सर्वकेण इमकेन भवकन्तमित्यादि सिध्यति । त्वयका मयकेति । नन्वत्र सुपः प्रागकचि कृते प्रत्यये परतस्त्वमादेशयोः सतोरपियोऽची॑ति यत्वं न स्याद्विभक्तिपरत्वाऽभावादिति चेत् । मैवम् । अकृतव्यूहपरिभाषाया अनित्यतामाश्रित्याऽकचः पूर्वमेव यत्वविधानात् । एवं युवकामावकामित्यत्राप्यकचः पूर्वमेव युवावादेशाविति बोध्यम् ।शीले को मलीपश्च । शीले क इति । शीलं स्वभावो नियमश्च । तूष्णीक इति ।केऽणः॑इति ह्रस्वस्तु भाष्यकार प्रयोगात्न कपी॑त्यत्रने॑ति योगविभागाद्वा न भवतीत्याहुः । अकचो द्वितीय अकार उच्चारणार्थ इति ध्वनयन्नुदाहरति -पचतकीत्यादि ।", "53073": "", "53074": "", "53075": "", "53076": "<<अनुकम्पायाम्>> - अनुकम्पायाम् ।कृपा दयाऽनुकम्पा स्या॑दित्यमरः ।", "53077": "<<नीतौ च तद्युक्तात्>> - नीतौ च तद्युक्तात् । अनुकम्पायुक्तादिति । यद्यपि पुत्रादिरेव साक्षादमुकम्पायुक्तो न तु धानादिस्तथापि तद्द्वारा धानादीनामप्यस्त्यनुकम्पासंबन्ध इति भावः । धानका इति ।धाना॑शब्दः स्त्रीलिङ्गः । ततः कः ।केऽणः॑इति ह्रस्वः । कप्रत्ययान्ताट्टाप् । अत्रप्रत्ययस्था॑दितीत्त्वेन भाव्यम् । प्रायेण तुधानका॑इति पटते । तत्र लिङ्गातिवृत्तिद्र्रष्टव्येति हरदत्तः ।कर्मव्यतिहारे णच्स्त्रिया॑मिति सिद्धेणचः स्त्रियामञि॑ति सूत्रे पुनः स्त्रीग्रहणेन ज्ञापितंस्वार्थिकाः प्रकृतिलिङ्गं क्विचदतिवर्तन्ते॑इति । तेनधानका॑इत्यत्र पुंस्त्वमिति भावः ।", "53078": "", "53079": "<<घनिलचौ च>> - घनिलचौ च । चकाराद्यथाप्राप्तमिति काशिका । इह पूर्वसूत्रेणाव ठञ् विहितः । वावचनात्कोऽपि । चकारेण तु कस्याभ्यमुज्ञेति चिन्त्यं, योगविभागे फलमपि चिन्त्यमिति हरदत्तः ।", "53080": "<<प्राचामुपादेरडज्वुचौ च>> - प्राचामुपादेः ।बह्वचो मनुष्ये॑त्याद्यनुवर्तते । उपेन्द्रदत्त इति । ननु कृतसन्धेरूपेन्द्रशब्दादेकादेशस्य पूर्वान्ततया ग्रहणात्उपादे॑रिति विधीयमानौ प्रत्ययौ स्तां नाम, लोपस्तु नकारादेरेव स्यात् । ततश्चउपक॑उपड॑इति रूपे न स्यातां, किं तुउपयक॑उपयड॑इति रूपे स्याताम् । एवं घनिलच्ठच्ष्वपि दोष एव । तस्मादिहैवद्वितीयं सन्ध्यक्षरं चे॑दिति वार्तिकं कुतो नोक्तमिति चेत् । अत्राहुः -प्रकारान्तरेण निर्वाहसंभवान्नोक्तम् । तथाहि -आद्गुणे कृतेद्वितीयं सन्ध्यक्षर॑मित्यादिना अकारस्यापि लोपप्रक्त्या गुणात्पूर्वमेवाऽकृतव्यूहपरिभाषया प्रत्ययः । नच परिनिष्ठितत्वपरेण समर्थग्रहणेन सौत्थितिरित्यत्रेव परिभाषाबाधः शङ्क्यः ।प्राग्दिशः॑इति सूत्रेसमर्थग्रहणं निवृत्त॑मित्युक्तत्वात् ।अकृतसन्धे॑रिति प्रागुक्तज्ञापकबलेन समर्थग्रहणप्रत्यार्यानपक्षेऽपि ज्ञापकस्य विशेषपरत्वाश्रयणादिति । उपेन्द्रः ष उपगुः, उपकर्तेत्यादिषूपडादीनां पञ्चानां रूपाणां साम्येऽपि सैन्धवादिष्विव प्रकरणादिना विसेषेऽध्यवसेयः ।", "53081": "<<जातिनाम्नः कन्>> - जातिनाम्नः । ये शब्दा जात्यन्तरे प्रसिद्धाः, मनुष्येषु नामत्वेन विनियुक्तास्त इहोदाहरणम् । द्वितीयं सन्ध्यक्षरं चेत्तदादेर्लोपो वक्तव्यः । द्वितीयमित्यादि ।एचः सन्ध्यक्षराणी॑ति प्राचां संज्ञा ।एकाक्षरपूर्वपदानामुत्तरपदलोपो वक्तव्यः । वागाशीरिति । वाचि आशीर्यस्येति विग्रङः । वाचिक इति । यद्यत्र द्वितीयादच ऊध्र्वस्य लोपः स्यात्तदा वाच् आ इक इति स्थितेयस्येति चे॑त्याकारस्य लोपे तस्य स्थानिवत्त्वादाकारान्तस्य भत्वे अन्तर्वर्तिनीं विभक्तिमाश्रित्य चकारान्तस्य पदत्वेन कुत्वजश्त्वयोः सतोर्वागिक इति स्ायात् ।उत्तरपदलोपे तु अज्जलादेशत्वेन स्थानिवत्त्वाऽभावात्तुल्यावधिकतयायचि भ॑मिति भसंज्ञायासुप्तिङन्त॑मिति पदसंज्ञा एकसंज्ञाधिकारात्परत्वाद्वाध्यते ।स्वादिषु॑इति पदसंज्ञा तु न शङ्कनीयेव,यचि भ॑मिति भसंज्ञायास्तदपवादत्वात् । कथमिति । अत्राप्युत्तरपदलोपे जाते जश्त्त्वं दुर्लभमिति प्रश्नः ।षषष्ठाजादिवचनात्सिद्धम् । षष इति । अत्र सौत्र एव लोप इष्यते, न त्वौपसङ्ख्यानिक इत्यर्थः ।", "53082": "", "53083": "<<ठाजादावूर्ध्वं द्वितीयादचः>> - ठाजादौ । समाहारद्वन्द्वे सौत्रं पुंस्त्वम् । आदिग्रहणं चिन्त्यप्रयोजनं,यस्मिन्विधिस्तदादौ॑इत्येव सिद्धमिति हरदत्तः । अस्मिन्प्रकरण इति । अनुकम्पायां नीतौ चेत्यर्थद्वस्यैव प्रत्यासत्त्या बुद्धौ सन्निधानादिति भावः । ऊध्र्वग्रहणिह सर्वलोपार्थम् । अन्यथाआदेः परस्ये॑त्यादेरेव स्यादित्यभिप्रेत्याह — -द्वितीयादच ऊध्र्व सर्वमिति ।अजिनान्तस्ये॑त्यतो लोप इत्यनुवर्तनादाह -लुप्यत इति । ननु ठग्रहणं व्यर्थम्, इकादेशे कृते अजादावित्येव सिद्धत्वादत आह -ठग्रहणमुको द्वितीयत्व इति । वायुक इति । वायुशब्दात्परस्य दत्तशब्दस्य ठावस्थायामेव वलोपेइसुसुक्तान्ता॑दिति कः । किंच पृथक् ठग्रहणस्य प्रयोजनान्तरमप्यस्ति । यदा तु चित्रगुग्रभृतिभ्ष्ठच्, तदोगन्तत्वात्कादेशप्राप्त्या प्रथममिकादेशस्याऽसंभवेनाजादिलक्षणो लोपो न स्यादिति तदर्तमपि ठग्रहणम् । तेन ठावस्थायामुत्तरपदलोपे कादेशस्याऽसंभवादिकादेशेचित्रिक॑इति रूपं सिध्यतीति बोध्यम ।चतुर्थादनजादौ चे॑ति वक्ष्यमाणमेव भङ्क्त्वा व्याचष्टे -चतुर्थादच ऊध्र्वस्येति । अनजादौ च विभाषा लोपो वक्तव्यः । अनजादाविति । हलादावित्यर्थः ।अस्मिन् प्रकरणे॑इत्येव ।लोपः पूर्वपदस्य च । लोपः पूर्वपदस्य चेति । ठाजादावनजादौ चेति बोध्यः ।अप्रत्यये ततैवेष्टः॑इत्येतद्व्याचष्टे -विनापि प्रत्ययमिति ।उवर्णाल्ल इलस्य च । ल इलस्य चेति । इलस्य लः=लोपः इत्यर्थः । तत्रआदेः परस्ये॑ति इकारलोपो बोध्याः ।", "53084": "<<शेवलसुपरिविशालवरुणार्यमादीनां तृतीयात्>> - शेवलसुपरि । शेवलिक इति ।बह्वचो मनुष्यनाम्नः॑इति ठच् । घनिलचोस्तु — — शेवलियः । शेवलिलः ।शेवलादीनां तृतीयाल्लोपो य उच्यते स चाऽकृतसन्धीनां वक्तव्यः । सुपर्याशीः । सुपरिकः । सुपरियः । सुपरिलः॑ इति भाष्ये स्थितम्, कैयटेन तुसुपरिकत॑इति प्रतीकमुपादायसंहिताकार्ये तु कृते लोपे सतिसपर्यिक॑इति स्यादिति व्याख्यातम् । अयं भावः -संहिताकार्ये यणि कृते तृतीयादच ऊध्र्वं लोपे सतिशीर्दत्त॑इत्यस्यैव लोपः स्यात्, आकारस्य तुयस्येति चे॑त्यनेन स्यात्, तथाच स्थानिवद्भावाद्यणो निवृत्तिर्न भविष्यतीति ।", "53085": "", "53086": "", "53087": "", "53088": "<<कुटीशमीशुण्डाभ्यो रः>> - कुटीर इति ।स्वार्थिकाः प्रकृतितो लिङ्गमतिवर्तन्ते॑इति पुंलिङ्गताऽत्र सङ्गच्छते ।", "53089": "", "53090": "", "53091": "<<वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे>> - वत्सोक्षाआ । तनुत्वं=न्यूनता । सा च प्रवृत्तिनिमित्तस्य, प्रत्यासत्तेः । क्वचित्तु तत्सहचरितधर्मान्तराणाम् । तत्र वत्सः — प्रथमवयाः । वयसश्च प्रथमस्य न्यूनत्वं नाम वयोऽन्तरप्राप्तिः । तदाह -द्वितीयमिति । तरुण उक्षा । तारुण्यस्य चतनुत्वं तृतीयवयःप्राप्तिः । अआआयामआआदुत्पन्नोऽआः । अआत्वं च जातिः । तत्सहचरितस्याऽआआयामआआदुत्पन्नत्वधर्मस्यन्यूनत्वमन्यपितृकता । तथा च गर्दभेनाऽशावायामुत्पादितोऽआतरः । ऋषभो भावरस्य वोढा । तस्य तनुत्वं बारोद्वहने मन्दशक्तिता । तद्वांस्तु ऋषभतरः ।", "53092": "<<किंयत्तदो निर्द्धारणे द्वयोरेकस्य डतरच्>> - किंयत्तदो । कतरो वैष्णव इति । गुणेन निर्धारणमिदम् । क्रियासंज्ञाभ्यां निर्धारणे तिकतरोऽध्यापकः॑कतरो देवदत्त॑इत्यादि ज्ञेयम् । ननु द्वयोरेकस्य निर्धरणे डतरच्चेद्भवति, तर्हिकयोरन्यतरो देवदत्तः॑ययोरन्यतरः॑तयोरन्यतरः॑इत्यत्रापि प्राप्नोति । अत्राहुः -निर्धार्यमाणवाचिभ्य एवायं प्रत्ययोऽभिधान स्वाभाव्यात्, तेनात्र नातिप्रसङ्ग इति । एकस्येति किम् ।द्वयो॑रिति कर्मणि षष्ठी माभूत् । तथाहि सतिअस्मिन् सङ्घे कौ देवदत्तयज्ञदत्तौ॑इत्यादावेव स्यात् ।", "53093": "<<वा बहूनां जातिपरिप्रश्ने डतमच्>> - वा बहूनाम् ।किंयत्तदः॑इति वर्तते । जातिश्च परिप्रश्नश्चेति समाहारद्वन्द्वः । तत्र जाताविति सर्वेषां विशेषणम् । षष्ठीसमासे तु गुणभूतस्य जातिग्रहणस्य निष्कृष्यं संबन्धोऽनुपपन्नः स्यात् । परिप्रश्नग्रहणं तु किम एव विश्षणम् । तच्च क्षेपनिवृत्त्यर्थम् । तत्र जातिग्रहणं प्रायोऽभिप्रायम् । क्रियागुणसंज्ञाभिरपि निर्धारणे डतरच इष्टत्वात् । तता पूर्वसूत्रे द्वयोरिति प्रायोऽभिप्रायम् । बहूनां निर्धारणेऽपि ढतरच इष्टत्वात् । तथा च वार्तिकम् -॒किमादीनां द्विबह्वर्थे प्रत्ययविधानादुपाध्यानर्थक्य॑मिति । अत्र कैयटः -द्वयो॑रिति ,जातिपरिप्रश्ने॑इति च न कर्तव्यमिति भाव इति । तदेतदाह -प्रत्याख्यातमाकर इति । कठैति ।कतमो भवतामध्यापकः, शूरो, देवदत्तो वे॑त्यप्युदाहर्तव्यम् । यकः सक इति ।कक॑इति तु नोक्तम् । अकच्सहितस्यापिकिमः कः॑इत्ययमादेश इति व्याख्यातत्वात् । महाविभाषयेति ।प्रागिदिशः॑ इति सूत्रे समर्थप्रथमग्रहणयोर्निवृत्तत्वेऽपि वाग्रहणमनुवर्तते इत्युक्तत्वादिति भावः ।किंयत्तदः॑इति सूत्रे द्वयोरित्यस्य प्रत्याख्यानादाह -किमोऽस्मिन्निति ।", "53094": "<<एकाच्च प्राचाम्>> - एकाच्च । प्राचांग्रहणं पूजार्थम् । विकल्पोऽनुवर्तत एव ।", "53095": "<<अवक्षेपणे कन्>> - अवक्षेपणे कन् । कुत्सिते तु कः । स्वरे विशेषः । येनेतर इति । अवक्षिप्यते येनेत्यवक्षेपणशब्दः करणे ल्युडन्त इति भावः ।इति तत्त्वबोधिन्यां प्रागिवीयानां पूर्णोऽवधिः ।अथ प्रकृतिभावः । — — — — — —", "53096": "<<इवे प्रतिकृतौ>> - अआक इति । अआशब्दोऽस्वे एव वर्तते, कन्प्रत्ययस्तु प्रतिकृतिरूपे सदृश इति नाऽयं स्वार्थिक इत्येके । अन्ये तु सादृश्यनिबन्धनादभेदोपचाराद्गौर्वाहिक इति वदआशब्द एव प्रतिकृतौ वर्तते । प्रत्ययस्तु तस्यैवौपचारि कत्वस्य बोधक इत्याहुः । प्रतिकृतौ किम् । गौरवि गवयः । तृणचर्मकाष्ठादिनिर्मितं प्रतिमाऽपरपर्यायं वस्तु प्रतिकृतिः । गवयस्तु नैवम् ।", "53097": "<<संज्ञायां च>> - समुदायश्चेदिति । प्रकृतिप्रत्ययसमुदायश्चेदआसदृशस्य संज्ञेत्यर्थः ।", "53098": "<<लुम्मनुष्ये>> - चञ्चा । वर्ध्रिकेति । लुपि युक्तवद्भावात्स्त्रीलिङ्गता ।", "53099": "<<जीविकाऽर्थे चापण्ये>> - वासुदेवः । शिव इत्यादि । याः प्रतिमाः प्रतिगृह्र गृहाद्गृहं भिक्षमाणाअटन्ति ता एवमुच्यन्ते । देवलका अपि त एव भिक्षवोऽभिप्रेताः । यास्त्वायतनेषु प्रतिष्ठाप्यन्ते पूज्यन्ते च तासूत्तरसूत्रेण लुप् । तदुक्तम् -॒अर्चासु पूजनार्हासु चित्रकर्मध्वजेषु च । इवे प्रतिकृतौ लोपः कनो देवपथादिषु॑ । इति । अर्चासु=प्रतिमासु -कीदृशीषु । पूजनार्हासु । गेहेष्वायतनेषु वा याः पूज्यन्ते तासु । चित्रकर्मध्वजाभ्यां तद्गताः प्रतिकृतयो लक्ष्यन्ते । अर्चासूदाहरणं — शिवः । विष्णुः । चित्ककर्मणि — अर्जुनः । दुर्योधनः । ध्वजेषु — कपिः । गरुडः । सिंहः । सुपर्णसिंहमकरादयो राज्ञां ध्वजेषु सन्ति । हस्तिकानिति । ईदृशमेव विषयमभिप्रेत्य पठन्ति -॒रामं सीतां लक्ष्मणं जीविकार्थे विक्रीणीते यो नरस्तं च धिग्धिक् । अस्मिन्पद्ये योऽपशब्दान्न वेत्ति व्यर्थप्रज्ञं पण्डितं तं च धिग्धिक्इति । अयं भावः — ॒अपण्ये॑इत्युक्तत्वात्पण्ये हस्तिकानितिवत् रामकं सीतिकां लक्ष्मणकमिति प्रयोगा एव साधव इति ।", "53100": "<<देवपथादिभ्यश्च>> - देवपथ इत्यादि । देवपथ इव प्रतिकृतिः हंसपथ इव प्रकृतिरिति विग्रहः ।", "53101": "<<वस्तेर्ढञ्>> - बस्तिरिति ।बस्तिर्नाबेरधो द्वयो॑रित्यमरः ।", "53102": "", "53103": "", "53104": "<<द्रव्यं च भव्ये>> - द्रव्यं च भव्ये । द्रुशब्दादिवार्थे यत्प्रत्ययो निपात्यते । समासाच्च तद्विषयात् । तच्छब्देन प्रकृत इवार्थो निर्दिश्यते इत्याह -इवार्थविषयादिति । थः स्यादिति । इवार्थे इति बोध्यम् ।पूगाञ्ञ्यः॑इत्यतः प्रागिवेत्याधिकारात् । शास्त्री श्यामेत्यादौ तु एक एव इवार्थः, स च समासान्तर्भूत इति छो न भवत्युक्तार्थानामप्रयोगात् ।", "53105": "", "53106": "<<समासाच्च तद्विषयात्>> - काकतालीय इति । प्रकृतसूत्रादेव ज्ञापकादिवार्थे समासः । सुप्सुपेति वा । उभयथापि विशेषसंज्ञाविनिर्मुक्तः । स च छप्रत्ययविषय एव । तेनेह स्वातन्त्र्यमुपाध्यन्तरयोगो विग्रहश्च नेत्याकरः । इह काकतालेत्यादि । आगच्छतः काकस्याऽकस्मात्ताल फलपतनाद्यथा वधः, तथैव चाकस्मिकचोरसमागमाद्देवदत्तवधः । एवमजाया आगच्छन्त्याः कृपापतनाद्यथ वधः, तत्सदृशं मरणमिति फलितोऽर्थः । अतर्कितोपनत इति । अचिन्तितोपपन्नः । यादृस्छिक इत्यर्थः ।", "53107": "", "53108": "", "53109": "", "53110": "", "53111": "", "53112": "<<पूगाञ्ञ्योऽग्रामणीपूर्वात्>> - पूगाञ्ञ्यो । स्वरूपग्रहणं तु न भवति,अग्रामणीपूर्वा॑दिति वचनात् । पूर्वशब्दो ह्रवयववचनः । अग्रामणो पूर्वादिति किम् । देवदत्तो ग्रामणीर्येषां ते देवदत्तकाः ।स एषां ग्रामणी॑रिति कन् । अत्र समुदायः पूगवचनः । लौहितध्वज्य इति । लोहितो ध्वजो यस्य सङ्घस्य स लोहितध्वजः । स एव लौहितध्वज्यः । व्रातच्फञोः । उत्सेधजीवित्वं व्रातस्य पूगाद्विशेषः । उत्सेधः=शरीरायासः । कौञ्जायन्य इति ।गोत्रे कुञ्जादिभ्यः॑इति च्फञ् ।", "53113": "<<व्रातच्फञोरस्त्रियाम्>> - ब्राआतच्फञो ।पूगाञ्ञ्योऽग्रामणी॑त्यतोऽनुवर्तनादाह -ञ्यः स्यादिति । व्रातवाचिभ्यःकापोतपाक्यः॑इत्युदाहरिष्यति । अस्त्रियां किम् । कपोतपाका स्त्री । तद्राजत्वादिति ।ञ्यादयस्तद्राजाः॑इति सूत्रेणे॑ति शेषः । लुग्वक्ष्यत इति ।तद्राजस्य बहुषु॑इत्यनेने॑ति शेषः । कौञ्जायानीति । इह सति ञ्याप्रत्यये योपधत्वात्जातेः॑इति ङीषबावे चापि रूपे स्वरे च विशेषो बोध्या इत्याहुः ।", "53114": "", "53115": "", "53116": "<<दामन्यादित्रिगर्तषष्ठाच्छः>> - दामन्यादित्रिगर्तषष्ठात् । समाहारद्वन्द्वात्पञ्चमी । त्रिगर्तषष्ठेभ्य इति । येषामायुधजीविनां षङन्तर्वर्गाः, षष्ठवर्गस्तु त्रिगर्तस्तेभ्य इत्यर्थः । त्रिगर्तवर्गषष्ठकाः के इत्याकाङ्क्षायामाह -आहुस्त्रिगर्तषष्ठांश्चेति । अत्र जानकयस्त्रिगर्तवर्गः । तेषु च त्रिगर्तषष्ठेषु[तु]प्रथमपञ्चमौ कौण्डोपरथब्राआहृगुप्तशब्दौ शिवाद्यणन्तौ, शेषास्त्विञन्ताः । केचित्तु अतद्धितान्तमेव पञ्चमं ब्राहृगुप्तशब्दं पठन्ति । कौण्डोपरथीय इति । बहुवचने तु कौण्डोरपथाः दाण्डकय इत्यादि ।", "53117": "<<पर्श्वादियौधेयादिभ्यामणञौ>> - पार्शव इति ।पर्शु॑रितिस जनपदशब्दस्ततोऽपत्येव्द्यञ्मगधे॑त्यण् । बहुत्वे तद्राजत्वाल्लुक् । पुनः सङ्घविवक्षायामनेनाऽण् । अस्याप्यणो बहुत्वे तद्राजत्वाल्लुक् । तदाह -पर्शव इति । ननुपर्शु॑रिति यो जनपदशब्दस्तस्मादेवाऽनेन स्वार्थेऽम् विधीयताम्, अपत्यवाचिपर्शुशब्दात्सङ्घविवक्षायामण्विधौ तु स्वार्थिकत्वं न सिध्येदिति चेत् । अत्राहुः -केवलः पर्शुशब्द एव जनपदवाचीस न त्वणन्त इति जनपदवाचिनः स्वार्थेऽण् न विधीयते, किं तुव्द्यञ्मगधे॑त्यणःतद्राजस्य बहुषु॑इत्यादिना लुकि बह्वपत्यवाचिपर्शुशब्दादेव स्वार्थे विधीयते । स्वार्थश्चात्र सङ्घ एव । न च पर्शुशब्दस्य सङ्घवाचित्वं नेति शङ्क्यं, बह्वपत्यवाचित्वे सङ्घवाचितवध्रौव्यादिति न काप्यनुपपत्तिरिति । यौधेय इति । युध्यतेऽसौ युधा । युधेरिगुपधलक्षणः कः । युधाया अपत्यं ।व्द्यचः॑इति ढक् । तदन्तात्सङ्घाविवक्षायामनेनाऽञ् । तेनयौधेय॑इति आद्युदात्तं भवति । किं च यौधेयस्याऽङ्को लक्षणं वा यौधेयः ।संघाङ्कलक्षणे॑त्यञन्तादञ् । एवं यौधेयाधिषु ये ढगन्ताः शौक्रेयदयस्तेषु सर्वेषु प्रयोजनद्वयमह्रम् । यौधेया इति । अञो लुक् । अन्तोदात्तम् । न चन प्राच्यभर्गे॑त्यादिना न#इषेधः शङ्क्यः, स्त्रियामेव तन्निषेधात् ।", "53118": "<<अभिजिद्विदभृच्छालावच्छिखावच्छमीवदूर्णावच्छ्रुमदणो यञ्>> - आभिजित्य इति । आभिजितशब्दादणन्ताद्यञ् । एवं विदभृत्प्रभृतिभ्योऽणि तदन्तेभ्यो वैदभृत — — शालावतः -शैखावतादिब्योयञ् ।", "53119": "", "54001": "<<पादशतस्य संख्याऽऽदेर्वीप्सायां वुन् लोपश्च>> - पादशतस्य सङ्ख्यादेः । पादशतस्य किम् । द्वौ द्वौ माषौ ददाति । संख्यादेरिति किम् । पादं पादं ददाति । वीप्सीयामिति किम् । द्वौ पादौ ददाति । अनैमित्तिकत्वार्थमिति । निमितिते भवो नैमित्तिकः । अध्यात्मादित्वाट्ठञ् । तद्धितार्थ इति । समास इति । यद्यपि प्रकृत्युपाधिवीप्सा, तथापि वुनो द्योत्येति तद्धितार्थो भवत्येवेति भावः । ददातीति । समर्पणमात्रमिह ददातेरर्थः, न तु परस्वत्वापादनपर्यन्तम् । तथात्वे हि उत्तरसूत्रविषयत्वं स्यात् । केचित्तु व्यवसृजेर्धातोः प्रयोगे सत्येव उत्तरसूत्रस्य प्रवृत्तिमाहुः । अन्यत्रापि दर्शनादिति ।द्वौ द्वौ माषौ ददाती॑त्यादौ त्वनभिधानान्नतिप्रसङ्ग इति भावः ।", "54002": "<<दण्डव्यवसर्गयोश्च>> - दण्डव्यवसर्ग । दण्डनं दडः । दण्डेस्चुरादित्वाद्भावे घञ् । अत्राप्युदाहरणेतद्धितार्थ॑इति समासः । स्त्रीलिह्गं च तद्धितार्थः । यद्वा प्रकृत्यर्थ एव तद्धितार्थः, स्वार्थिकत्वाद्वुनः । द्वौ पादौ दण्डित इति ।देवदत्तेन यज्ञदत्त॑इति शेषः । दण्डेरप्रधाने कर्मणि क्त इति यज्ञदत्त इत्यत्र प्रथमा । द्वौ पादावित्यत्र द्विपदिकामित्यत्र च द्वितीया भवति ।दण्डिग्र्रहणार्थ॑इति तु द्विकर्मकेषूक्तम् । तथा च द्विपदिकाकर्मकग्रहणविषयीभूतो यज्ञदत्त इत्यादिर्थ इति नव्याः ।", "54003": "<<स्थूलादिभ्यः प्रकारवचने कन्>> - स्थूलादिभ्यः । प्रकारोभेदः सादृश्यं च । उभयत्रापि यथासंभवं कन् । जातीयरोऽपवाद इति । तेनायमपि तद्वदेव प्रकारवति भवति न तु प्रकारमात्रे इत्युक्तं भवति ।चञ्चद्बृहतोरूपसंख्यानम् । चञ्चाद्बृहतोरिति । एंतावपि स्थूलादिष्वेव पठितव्याविति भावः । चञ्चत्क इति । चञ्चतिश्चलनकर्मा । चञ्चत्कः । एवं बृहद्विशेषो बृहत्कः । अचञ्चन्नबृहन्नपि प्रभाविशेषाच्चञ्चन्निव बृहन्निव मणिविशेषो लक्ष्यते स चञ्चत्कः । बृहत्कः । सुरक इति ।केऽणः॑इति ह्रस्वः ।", "54004": "<<अनत्यन्तगतौ क्तात्>> - छिन्नकमिति । ईषच्छिन्नमित्यर्थः । क्तप्रकृतिवाच्यया क्रियया कप्रत्ययवाच्यस्य साधनस्य व्याप्तिरत्यन्तगतिः । सेह नास्ति ।", "54005": "<<न सामिवचने>> - न सामिवचने । सामि अर्थ उच्यते ये तत्सामिवचनमिति व्यत्पत्त्या वचनग्रहणं पर्यायार्थमित्याह -सामिपर्याये इति । सामिकृतमिति ।सामी॑ति समासः । अर्धकृतमिति । विशेषणसमासो बहुव्रीहिर्वा । प्रकृत्यैवेति । सामिवचनेनैवेत्यर्थः । ज्ञापयतीति । अयं भावः -॒न सामिवचने॑इत्यनेनअनत्यन्तगतौ॑इति कनो न निषेधः, सामिकृतादिभ्यस्तस्य प्राप्त्यभावात्, एतभ्योऽसमासे सामिपदेनैव अनत्यन्तागतेर्द्योतनात् । समासेभ्यस्तु क्तान्तत्वाऽबावाच्च । न च कृद्ग्रहणपरिभाषया समासस्य क्तान्तत्वमस्तीति शङ्क्यं, सामिशब्दस्य गतिकारकत्वाऽभावात् । तस्मात् स्वार्थिक एव कन्निषिध्यतीति । इदमेव निषेधवचनं क्चित्स्वार्थिकं कनं ज्ञापयतीति ।", "54006": "", "54007": "<<अषडक्षाशितङ्ग्वलंकर्मालम्पुरुषाध्युत्तरपदात् खः>> - अषडक्षीण इति । अविद्यमानानि षडक्षीणि यस्मिन्निति बहुव्रीहिः अक्षिशब्दोऽत्र श्रोत्रेन्द्रिये वर्तते ।बहुव्रीहौ सक्थ्यक्ष्णो॑रिति षच् । तदन्तादनेन खः । मन्त्रो मन्त्रणम् । आशितंगवीनमिति । आह्पूर्वादश्नोतेःअशितः कर्ते॑ति ज्ञापकात्कर्तरि क्तः, ण्यन्तात्कर्मणि वा । उभयथापि प्रभूतयवसमिति फलितोऽर्थः । अलङ्कर्मीण इति । अलङ्कर्म अलंपुरुषेतिपर्यादयो ग्लानाद्यर्थे चतुर्थ्ये॑ति समासः । अलंपुरुषीण इति । प्रतिमल्लादिः । ईआराधीन इति । अधिशपब्दः शौण्डाडिरित्युक्तम् । तमबादय इत ।अतिशायने तमबि॑त्यादयः । प्राक्कन इति ।अवक्षेपणे कन्इति विहितात् । ञ्यादय इति ।पूगाञ्ञ्योऽग्रामणीपूर्वा॑दित्यादयः । प्राग्वुन इति ।पादशतस्य सङ्ख्यादेः॑इति बिहितात् । आमादय इति ।किमेत्तिह्व्ययगादामु -॑इत्यादयः । प्राङ्मयट इति ।तत्प्रकृतवचने मयट्इत्यतः प्रागित्यर्थः । बृहतीजात्यन्ता इति ।बृहती॑शब्देनबृहत्या आच्छादने॑इति विहितः कन्नुपलक्ष्यते ।जात्यन्त॑शब्देनजात्यन्ताच्चे॑ति च्छः । बहुवचननिर्देशबादयो गृह्यन्ते । यो हि वैयाकरणपाशादिशब्दैरर्थः प्रतीयते नासौ प्रकृतिमात्रेण प्रतीयते इति तेऽपि तमबादिवन्नित्या एवेति स्थितमाकरे । कन्छौ मुक्त्वा मूले बृहतीमात्रप्रयोगो जात्यन्तमात्रप्रयोगास्च कृतः, स तु अवाचकोऽप्यार्षग्रन्थानुवादकत्वान्न दोषाय ।", "54008": "<<विभाषा अञ्चेरदिक्स्त्रियाम्>> - विभाषाञ्चेर । दिक् चासौ स्त्री चेति दिक्स्त्री, तत्र प्रतिषेधो, न तु दिशि, स्त्रियां च, स्त्रीलिङ्गैकवचननिर्देशात् । प्राचीनमिति ।अचः॑इत्यकारलोपे कृतेचौ॑ इति दीर्घः । एवमग्रे क्वचिदूह्रम् । प्राचीना ब्राआहृणीति । प्रकर्षेंणाञ्चतीति प्राचीनेत्येवं क्रियानिमित्तको वा, देशकालनिमित्तको वा अयं शब्दो ब्राआहृण्यां वर्तते, न तु दिशीति प्रतिषेधाऽभावः । प्राचीनमिति । प्राच्यां दिशीत्यर्थेदिक्शब्देभ्यः॑इत्यस्तीतिःअञ्चेर्वु॑गिति लुक् ।लुक्तद्धितलुकी॑ति ङीपो लुक् ।तद्धितश्चाऽसर्वविभक्ति॑रित्यव्ययत्वात् स्त्रीत्वाऽबावः । खे तु कृते स्वभावान्नपुंसकत्वम् ।", "54009": "<<जात्यन्ताच्छ बन्धुनि>> - ब्राआहृणजातीय इति । द्व्येकयोरितिवद्भावप्रधानो ब्राआहृणशब्दः, तस्य जातिशब्देन सह बहुव्रीहिः । ब्राआहृणत्वजात्याधारभूतः पिण्ड इत्यर्थः । ब्राआहृणजातीरिति । षष्ठीतत्पुरुषः । भावप्रधानेन सह कर्मधारयो वा । जातेव्र्यञ्जकमिति । बद्यते जातिरस्मिन्निति बन्धु[#ः] ।शृस्वृस्निहि॑इत्यादिना अधिकरणे उप्रत्ययः । रूढोऽपि बन्धुशब्दाअप्चपर्यायः पुंलिङ्गोऽस्ति, तथापि स नेह गृह्रते,बन्धुनी॑ति नपुंसकनिर्देषादिति भावः ।सस्थानेने॑त्यस्यैव व्याख्यानं -तुल्येनेति ।", "54010": "<<स्थानान्ताद्विभाषा सस्थानेनेति चेत्>> - पितृस्थानीय इति । स्थानमात्र संबन्धविशेषः, पदमिति यस्य प्रसिद्धिः । पितुरिव स्थानमस्य पितृस्थानः । पितृतुल्य इत्यर्थः ।गो[#ः]स्थानमिति । तिष्ठन्त्यस्मिन्निति स्थानं देशः । इति । करणं विवक्षार्थम् । तेन तत्पुरुषो बहुव्रीहिर्वा यस्तुल्यस्थानशब्दस्तस्माच्छो न भवति ।", "54011": "<<किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे>> - किमेत् । ओमोरुकारो यदि नुटा त्यज्येत तर्हि पचतितरामित्यादौह्रस्वानद्यापः॑इति नुटिपचतितरणा॑मिति स्यात्,यस्येतिलोपस्य परेण नुटा बाधात् । सिद्धान्ते तुनिरनुबन्धकग्रहणे न सानुबन्धकस्ये॑ति परिभाषया नुड्विधौ नाऽस्य ग्रहणम् ।", "54012": "", "54013": "<<अनुगादिनष्ठक्>> - अनुगादिनः । प्रकृति रुआऊपप्रदर्शनपरं चैतन्न त्वयं केवलः प्रयोगार्हः, ठको नित्यत्वादिति हरदत्तः ।सुप्यजातौ॑इति णिनिः ।", "54014": "<<णचः स्त्रियामञ्>> - णचः स्त्रि । अनेन णजिति चकारोऽत्र विशेषणार्थं इति ध्वनितम् । स्त्रियां किम् । व्यतिपाको वर्तते ।", "54015": "<<अणिनुणः>> - अणिनुणः । अनेननुणोणानुबन्धो विशेषणार्थ इति ध्वनितम् । सांराविममिति॥ समन्ताच्छब्द इत्यर्थः । संशब्दोऽभिविधिद्योतकः । पर्ववत्सगतिकादण् । अणस्तद्धितत्वादादिवृद्धिः ।इनण्यनपत्ये॑ इत्यनपत्याऽणि इनः प्रकृतिभावात्नस्तद्धिते॑ इति टिलोपेन न निवृत्तिः । स्वभावतश्चेदमणिनुणन्तं नपुंसकम् ।", "54016": "<<विसारिणो मत्स्ये>> - विसारिणो । पूर्ववदिहापि णिनिः । हरदत्तस्तु -॒सुप्यजातौ॑इति णिनिरूपसर्गभिन्न एव सुप्यपपदे भवतीत्याशयेन पूर्वसूत्रेऽस्मश्च अतएव निपातनाण्णिनिरित्याह । तदयुक्तम् ।स बभूवोपजीविनाम्,अनुयायिवर्गः॑,न वञ्चनीयाः प्रभावोऽनुजीविभि॑रित्यादिप्रयोगानुरोधेन उपसर्गे सुप्युपपदेऽपि णिनेरवश्यस्वीकर्तव्यतया निपातनाश्रयणस्य व्यर्थत्वात् ।अणिनुणः॑इत्यतोऽनुवर्तनादाह -अण् स्यादिति । वैसारिण इति ।इनण्यनपत्ये॑इति प्रकृतिभावः । सङ्ख्यायाः । अभ्यावृत्तिशब्देन यदि द्वितीयादिप्रवृत्तिर्गृह्रते, तदा षट्कृत्वः प्रवृत्तौ पञ्चकृत्व इति स्यात्, अतोऽत्र विवक्षितमर्थमाह -अभ्यावृत्तिर्जन्मेति ।", "54017": "<<संख्यायाः क्रियाऽभ्यावृत्तिगणने कृत्वसुच्>> - भूरिवारानिति । भूरिशब्दस्य लौकिकसङ्ख्यावाचित्वेऽपि नेह ग्रहणम्,बहुगणे॑ति सूत्रे बहुग्रहणमस्य नियमार्थत्वात् ।अनियतसङ्ख्यावाचिनां चेद्भवति बहोरेवे॑ति नियमशरीरमिति मनोरमा ।बहुगणयोरेवे॑ति नियमशरीरिमित्यन्ये । वारशब्दस्य क्रियोत्पत्त्याधारकालवाचित्वात्कालाध्वनो॑रिति द्वितीयेति हरदत्तः । ननु वारशब्दस्य कालवाचित्वे भूरिशब्दोऽपि तत्समानाधिकरणात्वात्काल एव वर्तत इति कथमत्र प्रसङ्ग इति चेत् । अत्राहुः — -कालवाचित्वेऽपि क्रियाभ्यावृत्तेरपि गम्यमानत्वात्प्रसङ्गैति । अभ्यावृत्तिगणने किम् । पञ्चपाकाः, दश पाकाः -इत्यत्र क्रियामात्रगणने माभूत् । क्रियाग्रहणं किमर्थम् । यावताऽभ्यावृत्तिः क्रियाया एव भवति, साध्यार्थविषयत्वात्तस्याः,न द्रव्यगुणयोः, तयोस्तु सिद्धस्वभावतया शब्दाभिधानात् ।पुनःपुनर्दण्डः॑,पुनः — पुनः स्थूलः॑ -इत्यत्रापि दम्यामानाया भवतिक्रियाया एवाभ्यावृत्तिर्न तु द्रव्यगुणयोरिति चेत् । मैवम् । उत्तरार्थं क्रियाग्रहणस्यावश्यकत्वात् ।", "54018": "", "54019": "<<एकस्य सकृच्च>> - एकस्य सकृच्च । अभ्यावृत्तिरिति न संबध्यते, एकशब्देन ह्रेकैव क्रियाव्यक्तिराख्यायते, तस्यास्त्वावृत्तेरसंभवात् । क्रियाग्रहणमिहार्थमावश्यकम्, अन्यथाआ दशतः सङ्ख्या सङ्ख्येये वर्तते॑इत्येको भुङ्क्ते इत्यत्रापि स्यादिति । इह साधु पचतीत्यादिवदेकं भुङ्क्ते इति प्रयोगे प्राप्ते सकृच्छब्दप्रयोगार्थमिदं सूत्रमिति कैयटः ।एकः पाक॑इत्यत्र तु अनभिधानान्नेति काशिका । संयोगान्तस्येति ।हल्ङ्यादिना सुलोप॑इति प्राचो ग्रन्थोऽयुक्त इत्याह -न त्विति ।सुतिसी॑ति साहचर्याद्विभक्तय एव तत्र गृह्रन्त इथ्यभिप्रेत्याह -सिच इवेति ।", "54020": "<<विभाषा बहोर्धाऽविप्रकृष्टकाले>> - बहुधा दिवसस्य भुङ्क्ते इति । शेषत्वविवक्षायां षष्ठी ।कृत्वोऽर्थप्रयोगे कालेऽधिकरणे॑इत्यनेन षष्ठी॑ति हरदत्तोक्तिस्तु नादर्तव्या,शेषाधिकारबलेनाष्टसूत्र्याः समासनिवृत्तिफलकतया तिङन्तेनोदाहरण॑मिति प्रागुक्तनिष्कर्षविरोधादित्याहुः ।", "54021": "", "54022": "<<समूहवच्च बहुषु>> - मौदकिकम् । शाष्कुलिकमिति ।अचित्तहस्तिधेनोष्ठक् ।", "54023": "<<अनन्तावसथेतिहभेषजाञ्ञ्यः>> - आवसथ इति ।उपसर्गे वसेः॑इत्यथप्रत्ययः । निपातसमुदाय इति । उपदेश पारम्पर्ये वर्तते, वचनाच्चाऽप्रातिपदिकादेव प्रत्ययः ।ऐतिह्रमितिहाऽव्यय॑मिति कोशः । भेषजमिति । भिषज्यतेः कण्ड्वादियगन्तत्क्विपे । भिषक् । भिषजामिदं भेषजम् । अस्मादेव निपातनादेकारः ।", "54024": "<<देवतान्तात्तादर्थ्ये यत्>> - पितृदेवत्यमिति । पितरश्च ता देवताश्च पितृदेवताः । पितृदेवताभ्य इदमिति विग्रहः ।", "54025": "<<पादार्घाभ्यां च>> - अध्र्यमिति ।मूल्ये पूजाविधावर्घः॑ इत्यमरः । पूर्वोक्ता इति । त्नप्तनप्खप्रत्यया इत्यर्थः ।आग्नीध्रसाधारणादञ् । आग्नीध्रमिति ।अग्नीधः शरणे रण् भं चे॑ति शैषिकेषु व्युत्पादितं, तच्चान्तोदात्तम्, ततः स्वार्थेऽनेनाऽञ् । आद्युदात्तत्वं फलम् । फलन्तारमप्याह — — स्त्रियामिति । आग्नीध्रीति.सालेति विशेष्यम् । समानं धारणमस्याः साधारणी । अनेकं प्रत्यविशिष्टसम्बन्धो भूम्यादिः । पृषोदरादित्वात्वात्समानस्य सभावः । विभाषाप्रकरणादञभावे टाप् । आग्नीध्रा शाला । साधारणा भूमिः । नन्वञभावपक्षे समानस्य सधारण इत्येव स्यान्न त्वत्रादिवृद्धिरिति चेत् । अत्राहुः -॒साधारणाद॑ञित्यतएव निपातनात्, समानस्य साभावविधानाद्वा इष्टसिद्धिरिति ।", "54026": "", "54027": "<<देवात्तल्>> - देवतेति ।तलन्तं स्त्रियाम॑ ।", "54028": "", "54029": "", "54030": "", "54031": "<<वर्णे चानित्ये>> - वर्णे चाऽनित्ये । अनित्ये किम् । लहितं रुधिरम् । लोहिता लाक्षा । अनित्यत्वमिह स्वसमानाधिकरणध्वंसप्रतियोगित्वाम् । अतएवरक्ते॑इत्युत्तरसूत्रं सार्थकम् । लाक्षादिना रक्ते लौहित्यस्य यावदाश्रयमवस्थानेन नित्यतया पूर्वेणाऽसिद्धेः ।लोहिताल्लिङ्गबाधनं वा । लोहितक इथि । कोपेन लोहितो यः परुषस्तस्मिन्नेव क्षणादूध्र्वं कोपशान्तौ लौहित्यं नश्यतीति भवत्यत्राऽनित्यो वर्णः ।प्रातिपदिकात्तद्धिताः॑इति पक्षस्यप्रतिपदविधानमात्रेणाऽपवादत्वे॑मिति पक्षस्य चाश्रयणेवर्णादनुदात्ता॑दित्यतः प्रागेव कनि कृते लोहितिकेति रूपं न स्यादित्याशङ्कायामाह - ।", "54032": "<<रक्ते>> - लिङ्गबाधनं वेति । लोहितादित्युपलक्षणम् । एतिका एनिकेत्यादेरपि सङ्ग्रह्रत्वात् ।सुबन्तात्तद्धिताः॑इति पक्षस्यनिरवकाशत्वमपवादत्व॑मिति पक्षस्य च मुख्यत्वात्तदाश्रयणे तुवर्णादनुदात्ता॑दित्यास्यानन्तरमेव कनः प्रवृत्तेः कन्प्रतद्ययस्य पुंल्लिङ्गे सावकाशतया निरवकाशत्वाऽभावाच्च वार्तिकमिदं न कर्तव्यम् । अतएव ङ्याब्ग्रहणं व्यर्थमिति, स्वाम्पीति रूपं प्रबलमिति च मनोरमादावुक्तमिति दिक् ।", "54033": "", "54034": "<<विनयादिभ्यष्ठक्>> - उपाय इति । उपायशब्दष्ठकं लभते ह्रस्वत्वं चेत्यर्थः । अकस्माच्छब्दोऽत्र पठते स तु दान्तो न तु तान्तः । तेन कादेशो न ।अव्ययाना भमात्रे टिलोपः॑ । आकस्मिकम् ।", "54035": "<<वाचो व्याहृतार्थायाम्>> - वाचो व्याह्मता । व्याह्मतार्थायां किम् । मधुरा वाग्देवदत्तस्य ।", "54036": "", "54037": "", "54038": "<<प्रज्ञादिभ्यश्च>> - प्रज्ञ एवेति । प्रजानातीति प्रज्ञः ।इगुपधज्ञे;ति कः । ततः स्वार्थेऽण् । प्राज्ञः । प्रार्ज्ञिति ।टिड्ढे॑ति ङीप् । प्रज्ञानं प्रज्ञा ।आतश्चोपसर्गे॑त्यङि टाप् । प्रज्ञा विद्यते यस्याः सा तु प्राज्ञा भवति ।प्रज्ञाश्रद्धार्चाभ्यः॑ इति णः ।", "54039": "<<मृदस्तिकन्>> - मृदस्तकन् ।प्रत्ययस्था॑दित्येव सिद्धे इकारोच्चारणं प्रक्रियालाघवार्थं , टापो लुक्यपि श्रवणार्थं च । पञ्चभिर्मृत्तिकाभिः क्रीतः पञ्चमृत्तिकः पटः ।", "54040": "<<सस्नौ प्रशंसायाम्>> - सस्नौ । इहप्रशंसायां रूप॑बित्यस्यानन्तरंवृकज्येष्ठाभ्यां तिल्तातिलौ च छन्दसि॑ । मृदः सस्नौ॑ ।तिकंश्चे॑ति वक्तुमुचितम् । नचैवं सस्नाविति कन्प्रत्ययोऽपि प्रसंशायामेवेत्येवमतिप्रसङ्ग ।तिकश्चे॑त्यत्रप्रशंसाया॑मिति निवृत्तिमिति कल्पनायां मानाऽबावादिति वाच्यं,मृदः सस्नतिकनः॑इति वक्तव्ये तिकनः पृखक्करणस्यैव तत्र मानत्वात् । प्रशस्ता मृदिति ।मृन्मृत्तिका प्रशस्ता तु मृत्सा मृत्स्ना च भृत्तिके॑त्यमरः । नित्योऽयमिति । मृदित्येतावदुक्ते प्रशस्तत्वानवगमाद्विभाषाऽत्र नानुवर्तत इति सस्नावित्ययं विधिर्नित्य एव । उत्तरसूत्रस्थाऽन्यतरस्याङ्ग्रहणात्तु सुतरामिति भावः ।", "54041": "", "54042": "<<बह्वल्पार्थाच्छस् कारकादन्यतरस्याम्>> - बह्वल्पार्थात् । बहूनीति ।बहुभ्यो ददाति बहुशः॑अल्पेब्योऽल्पश॑थिय्द्यपि बोध्यम् । बह्वल्पार्थात्किम् । गां ददाति । अआं ददाति । अर्थग्रहणात्पर्यायेभ्यो विशेषभ्यश्च । भूरिशो ददाति । त्रिशः । कारकात्किम् । बहूनां स्वामी, अल्पानां स्वामी ।बह्वल्पार्थामन्ङ्ग[लाऽभङ्ग]लवचनम् । मङ्गलवचनमिति ।बहुशो ददात्याभ्युदयिकेषु कर्मसु । अल्पशो ददात्यनिष्टेषु॑ । आभ्युदयिकेषु बहुदानम्, अनिष्टेष्वल्पदानं च मङ्गलम् । तद्वैपरीत्येव दानं तु मङ्गसं न भवतीत्याशयेनाह -नेहेति । अनिष्टेष्विति । भयादिनिमित्तेषु दानेषु । आभ्युदयिकेष्विति । अभ्युदयप्रयोजनेऽग्न्याधेयादिषु । मूलपुस्तकेषुमङ्गलाऽमङ्गलवचन॑मिति प्रायेण पठते, तत्राऽमङ्गलग्रहणं वृथेत्याहुः । प्रायिकं चैतन्मङ्गलवचनमन्यत्रापि हि दृश्यतेअपेतापोढमुक्तपतितापात्रस्तैरल्पशः॑ इति । कारकत्वं तु समसनक्रियां प्रति पञ्चम्याः कर्मत्वात्दभिधायकत्वाच्चाल्पशब्दस्य । तथा च व्याचक्षते -अल्पा पञ्चमी समस्यत इति ।आचार्येणे॑ति शेषः ।", "54043": "<<संख्यैकवचनाच्च वीप्सायाम्>> - परिमाणशब्दा इति । तथा चैकवचनग्रहणेन एकोऽर्थ उच्यते येनेत्यर्थकेन वृत्तावेकार्थतानियताः परिमाणशब्दा एव गृह्रन्त इति भावः । माषं माषमिति । माषदातेत्युक्ते माषमात्रस्य हिरण्यादेर्दातेति प्रतीयते, न तु माषाणामिति प्रतीतिरिति भवत्ययं वृत्तावेकार्थतानियमः । एवं प्रस्थादिरपि । घटादयस्तु नैवम् । घटदातेत्युक्ते तु घटानां दातेत्यर्थस्यापि प्रतीयमानत्वात् । अतएव च प्रत्युदाहरति -घटं घटमिति । घटादयो हि जातिशब्दा नैकार्था भवन्तिस जातियोगस्यैकानेकसाधारणत्वात्, किं त्वभेदैकत्वसङ्ख्यामुपाददते । एतच्च सर्वं जयादित्यमतानुसारेणोक्तम् । वामनमते जातिशब्देभ्योऽपि बवत्येव । तथा चजश्शसो ॑रिति सूत्रे तेनोक्तम्, -जसा सहचरितस्य शसो ग्रहणादिह न भवति -॒कुण्डशो ददाति वनशः प्रविशती॑ति, तस्यायमाशयः -जातिशब्दोऽपि यद्यर्थप्रकरणादिना वृत्तावेकार्थो भवति, तदा भवत्येव ततोऽपि शसिति । अथ कथम्एकैकशः पितृसंयुक्ता॑निति द्विर्वचनशसोः सह प्रयोद इति चेत् ।छन्दोवदृषयः कुर्वन्ती॑ति हरदत्तः । अतएवसुपः॑इति सूत्रेएकैकश॑इति प्राचो ग्रन्थः प्रामादिक॑इत्यवोचामेति मनोरमायां स्थितम् । वस्तुतस्तु एकैकमेव एकैकशः । स्वार्थे शस्, न तु वीप्सायाम्,एकां कपिलामेकैकशः सहरुआकृत्वो दत्त्वे॑ति भाष्यादितितान्येकवचने॑त्यादिसूत्रे वक्ष्यामः । द्वौ ददातीति । कथं तर्हि -॒अव्रतानाममन्त्राणां जातिमात्रोपजीविनाम् । सहरुआशः समेतानां परिषत्तवं न विद्यते॑इति । न ह्यत्र वीप्सास्ति, नापि कारकत्वमिति चेत् । अत्राहुः सहरुआं सहरुआं ये समेतास्तेषामपि परिषत्त्वं नेत्यर्थः । तथा च समवायक्रियां प्रति कर्तृत्वं, वीप्सा चस्त्येवेति । एतेनएकश एकवचनादिसंज्ञानि स्यु॑रिति व्याख्यातम् । एकशब्दार्थस्याऽस्तिक्रियां प्रति कर्तृत्वात् । कृष्णतः प्रतीति ।प्रतिः प्रतिनिधिप्रतिदानयो॑रिति कर्मप्रवचनीयसंज्ञायांप्रतिनिधिप्रतिदाने च यस्मा॑दिति पञ्चमी ।आद्यादिभ्य उपसङ्ख्यानम् । आद्यादिभ्य इति ।स्यादित उदात्तमद्र्धह्रस्व॑मित्येतदत्र लिङ्गम् ।", "54044": "", "54045": "<<अपादाने चाहीयरुहोः>> - ग्रामत इथि । एवमध्ययनात्पराजयते, अध्ययनत इत्याद्यपि बोध्यम् ।", "54046": "<<अतिग्रहाव्यथनक्षेपेष्वकर्तरि तृतीयायाः>> - अतिगृह्रत इति । अन्याऽतिक्रमेण लौकैर्गृह्रत इत्यर्थः । फलितमाह -अन्यानतिक्रम्य वर्तत इति ।", "54047": "", "54048": "", "54049": "<<रोगाच्चापनयने>> - प्रवाहिकात इति ।प्रच्छर्दिकातः कुर्वि॑त्याद्यप्युदाहरणम् । प्रवाहिका -विषूचिका । प्रच्छर्दिका तु -वमनव्याधिः ।", "54050": "<<अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः>> - कृभ्वस्तियोगे । योग इति किम् । अशुक्लः शुक्लो जायते ।", "54051": "<<अरुर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च>> - अरुर्मनः । च्विश्चेति । पूर्वेण सिद्धस्यापि च्वेरयमनुवादः । लोपस्तु तत्संनियोगशिष्टत्वार्थः ।", "54052": "<<विभाषा साति कार्त्स्न्ये>> - विभाषा साति । विभाष्यते विकल्प्यते इति विभाषा ।गुरोश्च हलः॑इत्यकारप्रत्ययः । ततः टाप् । न त्विदमव्ययंद्वयोर्विभाषयोर्मध्ये॑,॒पयसस्तु विभाषया॑इत्यादौ बिभक्तेर्दर्शनात् । कृत्स्नमिति । सर्वावयवोपेतमित्यर्थः ।", "54053": "<<अभिविधौ सम्पदा च>> - अग्निसाद्भवति शस्त्रमिति । जातावेकवचनम् । सर्वाणि शस्त्राणीत्यर्थः ।", "54054": "", "54055": "", "54056": "<<देवमनुष्यपुरुषमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम्>> - वन्दे रमे इति । देवान् बन्दे — देवत्रा वन्दे । देवेषु रमे — देवत्रा रमे इत्यर्थोऽत्र पर्यवसन्नः । एवं मनुष्यन् गच्छति — मनुष्यत्रा गच्छति । मनुष्येषु वसति । पुरुषान् गच्छति -परुरत्रा गच्छति । पुरुषेषु वसति -पुरषत्रा वसति ।पुरु॑शब्दो बहुपर्यायः । पुरून् गच्छति पुरुष वसति वा पुरुत्रा । मत्र्यान्मत्र्येषु वा -मत्र्यत्रा ।डाचि विवक्षिते द्वे बहुलम् । डाचि विवक्षित इति । परसप्तम्यां त्वन्योन्याश्रयः स्यात् । डाचि कृते द्वित्वे सति व्द्यजवरार्धता, तस्यां च सत्यां डाजिति भावः ।नित्यमाम्नेडिते डाचीति वक्तव्यम् ।खरटखरटाकरोतीति । द्वित्वपररूपादि प्राग्वात् ।व्द्यजवरार्धा॑दित्यक्ते त्वत्र डाज्न स्यात् । न ह्यत्रार्ध व्द्यच्, किं तुत्र्यच् । अनेकाच इत्येवेति ।व्दयजवरार्धा॑दित्यपनीयेत्यर्थः । पटितीति ।अव्यक्तानुकरणस्यात इतौ॑इति पररूपम् । नन्वत्र करोतिना योगो दुर्लभः, इतिशब्देन व्यवधानात्, तथा चाऽनिताविति व्यर्थमिति चेत् । अत्राहुः -इतिशब्देन करोत्यर्थगतप्रकार एव परामृश्यते, इत्येवंप्रकारेण करोतीति । तथा च पटच्छब्दस्यार्थद्वारा योगोऽस्त्येवेति ।", "54057": "", "54058": "<<कृञो द्वितीयतृतीयशम्बबीजात् कृषौ>> - बीजेन सहेति । ननु बीजेन सह भूतलस्य कर्षणे बीजानामपि कर्षणप्रसङ्गाद्विवक्षितार्थो न सिध्यतीति चेत् । अत्राहुः -वृत्तिविषये बीजशब्दो बीजावापसहिते विलेखने वर्तते । तथा च बीजावापसहितं विलेखनं करोतीत्यर्थ इति ।", "54059": "", "54060": "<<समयाच्च यापनायाम्>> - समाच्च । कालं यापयतीत्यर्थ इति ।कर्तव्यस्याऽवसरप्राप्तिः समयस्तस्यातिक्रमणं यापना॑इति वृत्तिग्रन्थमुपादाय हरदत्तत आह — — ॒अद्य मे पारवस्यं, आः परआओ वा अस्य समय इत्येव बहुषु दिवसेषु य आह स एवमुच्यते॑इति ।", "54061": "<<सपत्त्रनिष्पत्रादतिव्यथने>> - सपत्त्रनिष्पत्त्रात् । लक्ष्ये शराः पतन्त्यनेनेति पात्त्रम्=शराणां पुङ्खगतो बर्हः । सपत्त्रं निष्पत्त्रं वा करोतीति । पत्त्राणि=पर्णानि तत्सहितं तद्रहितं वेति यथा सम्भवमर्थः ।", "54062": "<<निष्कुलान्निष्कोषणे>> - निष्कुलात् । निष्कोषणमन्तरवयवानां बहिर्निष्कासनम् । निष्कोषणे किम् । निष्कुलं करोति शत्रुम् ।", "54063": "", "54064": "", "54065": "<<शूलात् पाके>> - शूलात्पाके । पाके किम् । शूलं करोति कदन्नं । शूलमुदररोगः । सत्यादशपथे । सत्सु साधु सत्यम् ।तत्र साधु॑रिति प्राग्घितीयत्वाद्यति प्राप्ते अतएव निपातनाद्यः । अन्तोदात्तोऽयम् ।सत्येनोत्तभिता भूनिः॑ऋतं च सत्यं चे॑त्यत्र तथा दर्शनात् । सत्याकरोतीति । भाण्डं — — रत्नादिद्रव्यजातम् । क्रेतव्यमिति ।मयैवैतद्ग्राह्र॑मिति बुद्द्या परीक्षादिना, सत्यङ्कारद्रव्यप्रदानेन च दृढं करोतीत्यर्थः । तथ्यमिति । तथैव तथ्यम् ।पादार्घाभ्यां च॑इति चकारस्यानुक्तसमुच्चयार्थत्वात्स्वार्थे यत् ।", "54066": "", "54067": "<<मद्रात् परिवापणे>> - परिवापणमिति । कर्मव्यापारमात्रवाचिनो वपेर्हेतुमण्णिचि ल्युडिति हरदत्त्#H । कर्मव्यापारः -फलं, तस्य कर्मनिष्ठत्वात् । तथा च फलमात्रवाचिन इत्यर्थः फलित इत्याहुः । माङ्गल्यमुण्डनेनेति । चौलदीक्षादौ ।भद्राच्चेति वक्तव्यम् । भद्राच्चेति । भद्रादित्यर्थग्रहणमिति व्याख्याने तु मङ्गलादिभ्योऽपि स्यादिति बोध्यम् ।इति तत्वबोधिन्यां तद्धितप्रक्रिया ।अथ तनादयः ।", "54068": "<<समासान्ताः>> - समासान्त इति । समासस्य समासार्थोत्तरपदस्य वा चरमावयव इत्यर्थः । तेनोपशरदमित्यत्रनव्ययीभावा॑दित्यम् सिध्द्यति, अव्ययीभावस्याऽदन्तत्वात्, द्विपुरीत्यादौतुऋक्पूरब्धू॑रित्यप्रत्यय उत्तरपदस्यावयव इतिअकारान्तोत्तर पदो द्विगुः स्त्रियो॑मिति स्त्रीत्वेद्विगो॑रिति ङीप्सिध्यतीति बोध्यम् ।", "54069": "", "54070": "<<किमः क्षेपे>> - किमः क्षेपे । क्षेपग्रहणमिह शक्यमवक्तुं, प्रतिपदोक्तपरिभाषयाकिं क्षेपे॑ इति विहितसमासस्यैव ग्रहणात् । किंराज इत्यादि । किमत्र प्रश्ने षष्ठीसमासः, कर्मधारयो वा ।", "54071": "<<नञस्तत्पुरुषात्>> - नञस्तत्पुरुषात् ।नञः॑इति षष्ठी । नञः सम्बन्धी यस्तत्पुरुषो नञवयवकस्तस्मादित्यर्थः ।", "54072": "<<पथो विभाषा>> - अपथं वर्तत इति । अर्थाऽभावेऽव्ययीभाव ।इति सकलसमाससाधारणाः समासान्ताः ।इति तत्त्वबोधिन्यां समासान्तप्रकरणम्॥", "54073": "<<बहुव्रीहौ संख्येये डजबहुगणात्>> - बहुव्रीहौ सङ्ख्येये । व्यत्ययेन पञ्चम्यर्थे सप्तमीत्याह -यो बहुव्रीहिस्तस्मादिति ।उपगणा॑इत्यत्र डचि सत्यसति च रूपे विशेषो नास्तीत्यत आह — स्वरे विशेष इति । डचि सतिचितः॑ इत्यन्तोदात्तत्वं स्यात्, असति तु पूर्वपदप्रकृतिस्वर इत्यर्थः । न च सत्यपि डचि परत्वात्पूर्वपदप्रकृतिस्वर एव स्यादिति शङ्क्यमं,चितः॑इति स्वरस्य सतिशिष्टत्वात्, डचश्चित्करणस्य वैयथ्र्यापत्तेश्च ।सङ्ख्यायास्तत्पुरुषस्य वाच्यः । सङ्ख्याया इति । सङ्ख्यान्तस्य तत्पुरुषस्य चरमावयवो डज्वक्तव्य इत्यर्थः ।एकविंशति॑रित्यादौ तु न भवति,अन्यत्राधिकलोपा॑दिति वार्तिककारोक्तेः ।", "54074": "<<ऋक्पूरब्धूःपथामानक्षे>> - ऋक्पूर ।अ॑इति लुप्तप्रथमैकवचनान्तं,समासान्ताः॑इति त्वधिक्रियते, तदाह -समासस्याप्रत्ययोऽन्तावयव इति ।अनक्षे॑इत्येतत्सामान्यतः श्रुतमपि धुरैव संबध्यते, सामर्थ्यात्, नान्यैरित्याशयेन व्याचष्टे — अक्षे या धूरिति । तदन्तस्य तु नेति । सूत्रे संबन्धिनोऽधिकरणत्वविवक्षया सप्तमी । तेन अक्षसंबन्धिनी या धूस्तदन्तस्य नेत्यर्थः । यद्यत्रअक्षे पूर्वपदे ने॑ति व्याख्यायेत, तर्हिदृढधूरक्षः॑इत्यत्र निषेधो न स्यात् । यदि तुअक्षे समासार्थेने॑ति व्याख्यायेत, तदाअक्षधू॑रित्यत्र न स्यात् । तस्मादुभयसंग्रहार्थमुक्तव्याख्यानमेव ज्यायः । अद्र्धर्चेति ।अर्द्धं नपुंसक॑मिति समासः ।अर्धर्चाः पुंसि चे॑ति पुंस्त्वम् । अनृगित्यादि । अनुक्तसमासान्तत्वात्शेषाद्विभाषे॑ति कप्प्रत्ययेअनृच्कं॑बह्वृच्कं॑मित्यपि बोध्यम् । विष्णुपुरमिति । यद्यपि पुरशब्देन समासेऽप्येतत्सिध्यति, तथापिविष्णुपू॑रित्यनिष्टवारणाय सूत्रे पूग्र्रहणम् ।", "54075": "<<अच् प्रत्यन्ववपूर्वात् सामलोम्नः>> - प्रतिसाममिति । अव्ययीभावः, प्रादिसमासो, बहुव्रीहिर्वा । एवमनुसामादवप्यूह्रम् । कृष्णोदगिति ।अ॑जिति योगविभागेन गतार्थमिदम् । एवमुत्तरवार्तिकमपि ।कृष्णभूम॑इत्यादयौ बहुव्रीहयः । पद्मनाभ इति ।पद्मं नाभा वस्ये॑ति विग्रहः । गड्वादित्वात्सप्तम्यन्तस्य परनिपातः ।पदमाकारा नाभिरस्ये॑ति वा । एवमूर्णनाबोऽपि ज्ञेयः । तत्र तुङ्यापोः संज्ञाछन्दसो॑रिति ह्रस्वो विशेषः ।", "54076": "<<अक्ष्णोऽदर्शनात्>> - अक्ष्णो । दृश्यतेनेनेति दर्शनं चक्षुः, तद्वाचिनोऽक्षिशब्दस्य पर्युदासादमुख्यस्य ग्रहणमित्याशयेनाह -अचक्षुःपर्यायादिति । गवाक्ष इति । गावः — किरणाः । अक्षिशब्दो रन्ध्रवाची । षष्ठीसमासः ।", "54077": "<<अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्क्साम- वाङ्मनसाक्षिभ्रुवदारगवोर्वष्ठीवपदष्ठीवनक्तंदिव- रत्रिंदिवाहर्दिवसरजसनिःश्रेयसपुरुषायुषद्व्यायुष- त्र्यायुषर्ग्यजुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः>> - अचतुर । निपात्यन्त इति । निपातनफलं तु समासविशेषणियमः, टिलोपादिकं च । तदाह -आद्या इति । बहुब्राईहय इति । बहुव्रीहय एवेत्यर्थः । तेन तत्पुरुषो अचत्वारो विचत्वार इत्येव भवतीति भावः । एवमुत्तरत्राप्यवधारणमुह्रम् ।त्र्युपाभ्यां चतुरोऽजिष्यते । त्रिचतुरा इति । त्रयश्चत्वारो वेति विग्रहः ।सङ्ख्याव्ययासन्ने॑ति बहुव्रीहिः ।बहुव्रीहौ सङ्ख्येये॑इति डचोऽपवादोऽच् । अक्षिभ्रुवमिति । प्राण्यङ्गत्वादेकवत् । ऊरू चाष्ठीवन्तौ चेति ।सक्थि क्लीबे पुमानूरुः॑इत्यमरः ।जानूरुपूर्वाऽष्ठीवदस्त्रिया॑मिति च । ऊर्वष्ठीवं । पदष्ठीवमिति । प्राण्यङ्गत्वादेकवद्भावः । द्वन्द्वो निपात्यत इति ।विरूपाणामपू॑त्येकशेषं बाधित्वेति शेषः । सरजसमिति ।अव्ययीभावे चाऽकाले॑इति सहस्य सभावः । सरजः पङ्कजमिति.॒सरजसमकरन्दमिर्भरासु॑इति माघप्रयोगस्तु चिन्त्य इति भावः । निःश्रेयानिति ।निश्चितं श्रेयो येने॑ति विग्रहः ।निः श्रेयस्कः॑इति केषाञ्चित्प्त्र्युदाहरणमशुद्धम्,ईयसश्चे॑ति कपो निषेधात् । गोष्ठे ओति । एतेनसप्तमीतत्पुरुष एवे॑ति नियमो दर्शितः, तेन षष्ठीतत्पुरुषेगोष्ठआआ॑इत्येव ।", "54078": "<<ब्रह्महस्तिभ्याम् वर्च्चसः>> - ब्राहृवर्चसमिति । षष्ठीतत्पुरुषः । एवं हस्तिवर्चसमपि । पल्यराजभ्यां चेतिवक्तव्यम् । पल्येति । पलं मांसमर्हती॑ति पल्यो मांसभोजी, तदीयं वर्चः — पल्यवर्चसम् ।", "54079": "<<अवसमन्धेभ्यस्तमसः>> - अवतमसमित्यादिष अवहीनं संततं च तम इथि विग्रहः । अन्धयतीति ।अन्ध दृष्टउपघाते॑ चुरादिः । अन्धमिति । गाढमित्यर्थः ।", "54080": "<<श्वसो वसीयःश्रेयसः>> - आसो ।अवस् शब्दात्प्रशस्तवचनादीयसुन्नि॑त्याकरविरुद्धं व्याचक्षाणा उपेक्ष्या इति ध्वनयति — वसुशब्द इति । वसीय इति ।यः कामयेत वसीयान् स्या॑मिति श्रौतप्रयोगोऽप्यत्रानुकूल इति भावः । आस्शब्द इति । कालवाच्यप्ययं, प्रकृते त्वर्थविशेषपरः, शक्तिस्वाभाव्यात्तमेवाह -उत्तरपदार्थंप्रशंसामिति । उत्तरपदार्थभूतां प्रशंसामित्यर्थः । आशीर्विषयमिति । षष्ठीसमासः । विषयशब्दस्याऽजहल्लिङ्गत्वात्पुंलिङ्गनिर्देशः ।उत्तरपदार्थप्रशंसाया आशीर्विषयतामाहे॑ति पाठान्तरं क्वचिदस्ति । उभयथापि आशीर्विषयताया द्योतकोऽयमिति फलितोऽर्थः ।", "54081": "<<अन्ववतप्ताद्रहसः>> - अन्वव । इहरहः ॑इत्यप्रकाशमुच्यते ।अनुगतमवहीनं च रहः॑इति प्रादिसमासः,अनुगतं रहोऽस्मिन्नि॑त्यादिबहुव्रीहिर्वा । प्तरहसमिति ।तप्तं च तद्रहश्चे॑ति विग्रहः । परेणानधिगम्यमित्यर्थः । इत्यतः प्रागिति ।प्राग्बहुव्रीहिग्रहणं कर्तव्य॑मिति वार्तिकोक्तेरिति भावः ।", "54082": "", "54083": "", "54084": "", "54085": "", "54086": "<<तत्पुरुषस्याङ्गुलेः संख्याऽव्ययादेः>> - तत्पुरुषस्येति । अलोन्त्यविधिं बाधित्वाप्रत्ययः॑परश्चे॑ति परत्वात्तत्पुरुषस्याऽङ्गुले॑रिति तु समासान्तापेक्षया अवयवषष्ठीत्याहुः । व्द्यङ्गुलमिति ।तद्धितार्थ॑इति समासः ।द्विगोर्नित्य॑मिति मात्रचो लोप इति वृत्तिकृत् । मनोरमायां तु द्वयसचो लुगिति स्थितम् ।अहग्र्रहणं द्वन्द्वर्थम् । द्वन्द्वार्थमिति ।अह्नो रात्रि॑रिति षष्ठीतत्पुरुषस्याऽसम्भवादिति भावः । नन्वहःशब्दस्याऽहस्तुल्यतायां, रात्रिशब्दस्य वा रात्रितुल्यतायां गौणत्वसम्भवादहश्चासौ रात्रिश्चेति कर्मधारयोऽस्त्विति चेन्न । मुक्यसम्भवे गौणग्रहणाऽयोगात् ।हेमन्तशिशिरावहोरात्रे चे॑त्यत्र द्वन्द्वे समासान्तदर्शनाच्च । अहोरात्र इति ।जातिरप्रणिना॑मित्येकवद्भावः ।स नपुंसक॑मित्येतद्बाधित्वा परत्वात्रात्राह्नाहाः॑इति पुस्त्वम् । एतेनैकवद्भावात् क्लीबतेति प्राचो ग्रन्थः परास्तः ।मासेन स्यादहोरत्रः॑ इत्यादिग्रन्थविरोधाच्च । सर्वरात्र इथि ।पूर्वकालैके॑ति समासः । पूर्वरात्र इति ।पूर्वापराधरोत्तर॑मित्येकदेशिसमासः । यदा तु रात्रिशब्दस्यैकदेसे लक्षणां स्वीकृत्य कर्मधारयोऽभ्युपगम्यते तदा पूर्वरात्रिरित्येव भवति । द्विरात्रमिति ।सङ्ख्यापूर्वं रात्रं क्लीब॑मिति वक्ष्यते । अह्नष्टखोरेव ।नस्त्द्धिते॑इत्येव सिद्धे नियमार्थमिदम् । एवकारस्त्वह्न एव टखयोरिति विपरीतनियमशङ्कानिरासार्थः ।आत्माध्वनौ खे॑इति प्रकृतिभावविधानेन तन्निरासे प्रतिपत्तिगौरवं स्यादिति भावः । टखोरेवेति किम् । अह्ना निर्बृत्तमाह्निकम् ।काला॑दित्यधिकारेतेन निर्वृत्त॑मिति ठञ् । टिलोपाऽभावात्अल्लोपोऽनः॑इत्यकारलोपः ।", "54087": "", "54088": "<<अह्नोऽह्न एतेभ्यः>> - अह्नोऽह्न एतेभ्यः । एतच्छब्देनअहःसर्वैकदेश -॑इति सूत्रस्थाः परामृश्यन्ते । सूत्रे तु तस्मिन्नहरादयो निर्दिष्टाश्चकारेण च सङ्ख्याव्यये अनुकष्टे । तत्र बुद्धिस्थत्वाऽविशेषेऽप्यहःशब्द इह न गृह्रते, असंभवादित्यशयेनाह -सर्वादिभ्यैति । समासान्ते पर इति । एतच्च प्रकारणाल्लब्धम् । भाष्ये तु अह्नादेशः प्रत्याख्यातः,अह्न एभ्योऽच्स्याट्ट्चोऽपवादः॑ इति व्याख्यायाम्,अह्नष्टखोरेवे ति नियमाट्टिलोपाऽभावेअल्लोपोऽनः॑ इत्यकारलोपात्सर्वाह्न इत्यादिरूपसिद्धेः ।", "54089": "", "54090": "<<उत्तमैकाभ्यां च>> - पुण्याहमिति ।पुण्यसुदिनाभ्या॑मिति क्लीबत्वं वक्ष्यति । उपान्त्यस्यापीति । यथाप्रथमयो॑रिति प्रथमाद्वितीययोग्र्रहणं द्विवचननिर्देशात्, तथेहापि उत्तमग्रहणसामर्थ्यादन्त्ययोद्र्वयोग्र्रहणम् । उत्तमौ चैकश्चेति विग्रहे सौत्रं द्विवचनमिति तेषामाशयः ।", "54091": "", "54092": "<<गोरतद्धितलुकि>> - गोरतद्धित ।तत्पुरुषस्ये॑त्यनुवर्तते, टच्च,तदाह — गोन्तादित्यादिष । ननु ग्रहणवता प्रातिपदिकेन तदन्तविधेरभावत्तत्पुरुषस्यावयवो यो गोशब्दस्तस्माट्टजित्यर्थः स्यात् । तथा चगोमूत्र॑मित्यादावतिप्रसङ्गः स्यादत आह — समासान्त इति । अयं भावओः — ॒समासान्ताः॑ इत्यधिकाराट्टचा समासान्तेन भवितव्यम्, गोरिति पञ्चमीश्रवणात्ततः परेणापि । न चैतत्तदन्तविधिमन्तरेणोपपद्यत इति सामर्थ्यात्तदन्तविधिलाभः, ततश्च तत्पुरुषस्येति षष्ठन्तं पञ्चम्यन्तेन विपरिणम्यत इति । न तु तद्धितलुकीति । लुग्विषय इत्य्रथो, न तु तद्धितलुकि सतीति, समासान्ता नामन्तरङ्गत्वात् । अतद्धितलुकीति किम् । पञ्चभिर्गोभिः क्रीतः पञ्चगुः । अत्र तद्धितस्य ठकोऽद्यर्धपूर्वे॑ति लुक् ।", "54093": "<<अग्राख्यायामुरसः>> - अग्राख्यायाम् । पञ्चम्यर्थे सप्तमी । अग्रं प्रधानम् । अग्रवाची य उरःशब्दस्तदन्तात्तत्पुरुषाट्टच्स्यात् । अग्राख्यायां किम् । देवदत्तस्योरो देवदत्तोरः ।", "54094": "", "54095": "<<ग्रामकौटाभ्यां च तक्ष्णः>> - ग्रामकौटाभ्यां ।जातिसंज्ञयोः॑इति नानुवर्तते । ग्रामेति किम् । राज्ञस्तक्षा राजतक्षा । अतिआ इति । आआनमतिक्रान्तो जेवेनेत्यर्थः ।", "54096": "<<अतेः शुनः>> - अतिआईति । नीचेत्यर्थः ।", "54097": "<<उपमानादप्राणिषु>> - आकर्षः ओवेति ।उपमितं व्याघ्रादी॑ति समासः । आकृष्यतेऽनेन खलादिगतं धान्यमित्याकर्षः काष्ठविशेषः । उपमानात्किम् । निष्क्रान्तः शुनो निःआआ ।", "54098": "<<उत्तरमृगपूर्वाच्च सक्थ्नः>> - फलकसक्थमिति । अतएव ज्ञापकादसामान्यवचनेनाप्युपमानस्य समास इति माधवः ।", "54099": "<<नावो द्विगोः>> - द्विनावरूप इति ।हेतुमनुष्येभ्यः — ॑इति रूप्यः । पञ्चनौरिति । आर्हीयष्ठत् ।अध्यर्धपूर्वे॑ति लुक् । खार्याः । द्विगोरिति । खारीशब्दान्ताद्द्विगोरित्यर्थः ।", "54100": "<<अर्धाच्च>> - अद्र्धखारीति ।परवल्लिङ्ग॑मिति स्त्रीत्वम् ।", "54101": "<<खार्याः प्राचाम्>> - अद्र्धखारमिति । अद्र्धनावमिव क्लीबत्वं लोकात् । टज्वा स्याद्द्विगाविति । द्विगाविति किम् । द्वयोरञ्जलिः -व्द्यञ्जलिः ।", "54102": "<<द्वित्रिभ्यामञ्जलेः>> - व्द्यञ्जलमिति । समाहारे द्विगुः । अतद्धितलुकीत्येवेति । एतच्च पूर्वसूत्रेऽपि बोध्यम् । अञ्जलिभ्यां क्रीत इति । नात्राऽञ्जलिः पाणिद्वयं, तस्य मूल्यत्वाऽसंभवात्, किन्तु अञ्जलिपरिमितो व्रीह्रादिर्विवक्षितः । ततश्टच परिमाणत्वादूव्द्यञ्जलिरित्यत्र ठञ् । तस्य तुअध्यर्धपूर्वे ॑ति लुक् ।", "54103": "", "54104": "<<ब्रह्मणो जानपदाख्यायाम्>> - ब्राहृणो । जनपदे भवो जानपदः ।द्व्येकयो॑रितिवद्भावप्रधानो निर्देशस्तस्याख्यायां, प्रत्यासत्त्या समासेनेत्येतल्लभ्यते । तदाह -समासेन जानपदत्विमिति । कस्येत्याकाङ्क्षायां संनिधानाह्ब्राआहृण इति लभ्यते । सुराष्ट्रब्राहृ इति ।सप्तमी॑ति योगविभागात्समासः । जानपदेति किम् । देवब्राहृआ नारदः ।", "54105": "<<कुमहद्भ्यामन्यतरस्याम्>> - कुब्राहृ इति । ब्राआहृणपर्यायो ब्राहृन्शब्दः ।", "54106": "<<द्वन्द्वाच्चुदषहान्तात् समाहारे>> - द्वन्द्वात् । अन्तग्रहणं विस्पष्टार्थं । चु इति वर्गग्रहणस्य प्रयोजनं ध्वनयति -त्वक्रुआजमिति । बहूनां द्वन्द्वे तु वाक्त्वक्रुआजम् । द्वन्द्वगर्भे द्वन्द्वे तु वाक्त्वाचरुआजम् । इति तत्त्वबोधिन्यां द्वन्द्वः ।", "54107": "<<अव्ययीभावे शरत्प्रभृतिभ्यः>> - प्रतिविपाशमिति ।लक्षनेनाभिप्रती -॑इति समासः ।विपाशा तु विपाट् स्त्रिया॑मित्यमरः । गणं पठति — शरदित्यादिना । अत्र ये झयन्तास्तेषांझयः॑ इति विकल्पे प्राप्ते नित्यार्थः पाठः । इहजराया जरस्,प्रतिपरे॑ति च द्वयं गणसूत्रम् । उपजरसमिति । जरायाः समीपमित्यर्थः । यस्येतिचेति । टचस्तद्धितकत्वात्तस्मिन्परे इकारलोप इति भावः । प्रत्यक्षमिति । वीप्सायां यथार्थत्वेन समासः । अक्ष्णो राभिमुख्यमित्यर्थेलक्षणेनाभिप्रती -॑ इति वा समासः । अक्ष्णः परमिति । अविषय इत्यर्थः । वृत्तिविषयेअक्षि॑ शब्द इन्द्रियमात्रपरः । अव्ययाऽघटितसमुदायस्य कथमिहाव्ययीभावो, विधायकसूत्राऽभावादित्याशङ्क्याह — विधानसामर्थ्यादिति । समक्षमिति । अक्ष्णो योग्यम् । अन्वक्षमिति । अक्ष्णः पश्चादित्यर्थेऽव्ययीभावः ।", "54108": "", "54109": "<<नपुंसकादन्यतरस्याम्>> - नपुंसकादन्य । नपुंसकग्रहणमन्नन्तस्य विशेषणं नाव्ययीभावस्य, अव्यभिचारादित्याह — अन्नन्तं यत्क्लीवमिति । अन्नन्तचेन चाव्ययीभावविशेषणात्तदन्तविधिरित्याह — तदन्तादिति । उपचर्ममिति । टचि टिलोपपोऽदन्तत्वादम्भावश्च । तत्त्व] ।", "54110": "<<नदीपौर्णमास्याग्रहायणीभ्यः>> - नदीपौर्ण । इह स्वरूपस्यैव ग्रहणं न संज्ञायाः, पौर्णमास्याग्रहायण्योः पृथग्ग्रहणात् । उपनदीति । टचभावे नपुंसकह्रस्वः । अत्र व्याचक्षते — ॒वृत्तिग्रन्थमनुरुध्येदं विकल्पकथनम् । परमार्थतस्तु नेहान्यतरस्यामित्यनुवर्तते ।बहुगणे॑ति सूत्रस्थभाष्यविरोधात् । तत्र हि — नदीशब्देन नदीविशेषाणां गङ्गायमुनादीनां ग्रहणमाशङ्क्य शरत्प्रभृतिषु विपाट्शब्दपाठान्नेति समाहितम् । न चेदं भाष्यंनदीपौर्णमासी॑त्यत्र टचः पाक्षिकत्वे सङ्गच्छते,नित्यार्थतया तत्पाठस्योपपत्तेः । अतएव सेनकग्रहणमुत्तरत्राऽर्थवत् । कैयटस्तु व्यवस्थितविभाषामाश्रित्य वृत्तिग्रन्थं कथंचित्समर्थितवानिति ।", "54111": "", "54112": "<<गिरेश्च सेनकस्य>> - पूजार्थमिति । अन्यतरस्यामित्यनुवृत्त्या विकल्पसिद्धेरिति भावः । इतितत्त्वबोधिन्यामव्ययीभावः॥", "54113": "<<बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच्>> - व्यत्ययेन षष्ठीति । एतच्चोपलक्षणं, सप्तम्यपि व्यत्ययेनैव । तदाह -स्वाङ्गवाचीत्यादि ।अद्रवं मूर्तिम॑दित्यादिलक्षणलक्षितं स्वाङ्गं गृह्रते । तेनशोभनाक्षी प्रतिमे॑त्यादिप्रयोगो निर्बाध एवेत्याहुः । षच्स्यादिति । षो ङीषर्थः । चस्तुचितः॑ इत्यन्तोदात्तार्थः । तेनात्र पूर्वपजप्रकृतिस्वरो न भवति । स्थूलाक्षेति । स्थूलानि अक्षीण्=पर्वाङ्कुराणि यस्याः सा । प्राचा तु स्थूलाक्षिरिक्षुरिति प्रत्युदाहृतम् । तन्न ।अक्षाणोऽदर्शना॑दित्यचो दुर्वारत्वात् । यदपि समासान्तविधेरनित्यत्वात्स न कृत इति कैश्चिव्द्याख्यातं, तदसारम् । एवंहि षजपि तथैव न भविष्यतीति प्रत्युदाहरणस्याऽसङ्गतिप्रसङ्गात् ।", "54114": "<<अङ्गुलेर्दारुणि>> - अङ्गुलेति । मात्रचोद्विगोर्नित्यम् इति लुक् ।नेतुर्नक्षत्रेऽब्वक्तव्यः । नेतुरिति । नेता — नायकः । नक्षत्रे यो नेतृशब्दस्तदन्ताब्दहुव्रीहेरित्यर्थः । मृगनेत्रा इति । मृगः — मृगशीर्षनक्षत्रम् । चन्द्रो नेता यस्य मृगनक्षत्रस्यचन्द्रनेता मृग॑इत्यत्र तु न भवति, इह हि नेतृशब्दान्तो बहुव्रीहिर्नक्षत्रे वर्तते न तु नेतृशब्द इति ।खुरखराभ्यां वा नस् । खुराखराभ्यामिति ।नासिकायाः॑इति वर्तते । केवलादेशवचनं प्रत्ययनिवृत्त्यर्थम् । खुरणा इति ।अत्वसन्तस्ये॑ति दीर्घः ।", "54115": "", "54116": "<<अप् पूरणीप्रमाण्योः>> - प्रमाणीति । करणे ल्युट् । तदन्तस्य विशेष्यनिन्घत्वात्स्त्रियां ङीप् । कथं तर्हिप्रमाणायां स्मृतौ॑ इति शाबरभाष्यमिति चेत् । अत्र भट्टाः — -॒प्रमाणमयते याति मूलभूतां श्रुति यतः । क्वीबन्तादयतेस्तस्मात्प्रमाण स्मृतिरुच्यते॥॑ इत्याहुः । तत्राऽयतेः क्विपिह्रस्वस्य पिति कृती॑ति तुकि टाब्दुर्लभः, तथाप्यागमशास्त्रस्याऽनित्यत्वात्तुङ्नेति बोध्यम् । क्विबिववाचरति क्विब्, विजित्यर्थ इति वा व्याख्येयम् । अन्ये तु प्रमाणं वेदस्तद्वदाचरतीत्याचारक्वीबन्तात्प्रमाणशब्दात्पचाद्यचि टाबित्याहुः । प्रधानपूरण्या मेवेति । प्रधाने कार्यसंप्रत्ययान्न्यायसिद्धमिदम् । नद्यृतः । तपरत्वं स्पष्टार्थम् ।", "54117": "", "54118": "", "54119": "<<उपसर्गाच्च>> - उपसर्गाच्च उपसर्गग्रहणं प्रादीनामुपलक्षणं, नासिकाशब्दस्याऽक्रियार्थत्वेन तं प्रत्युपसर्गत्वाऽयोगात् । न च क्रियायोगाभावेऽप्युपसर्गत्वमस्त्विति शङ्क्यं, सावके[इति]अधिसावकमित्यव्ययीभावेउपसर्गात्सुनोती॑ति सस्य षत्वप्रसङ्गात् । तदाह — प्रादेरिति ।", "54120": "<<सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रैणीपदाजपद- प्रोष्ठपदाः>> - शोभनं प्रातस्स्येति । अधिकरणशक्तिप्रधानस्य सामानाधिकरण्याऽसम्भवात्प्रातः शब्देन प्रातस्तनं कर्म लक्ष्यत इत्याहुः ।प्रातःकल्प॑मित्यत्रेव प्रातःशब्दो वृत्तिविषये शक्तिमत्पर इति सामानाधिकरण्यानुपपत्तिरित्यन्ये । एणीपदादिषु निपातनात्पद्भावः ।", "54121": "<<नञ्दुःसुभ्यो हलिसक्थ्योरन्यतरस्याम्>> - नञ्दुःसुभ्यो । नन्वत्र हलिग्रहणं व्यर्थं, हलशब्दमादायाऽहल इति प्रयोगसम्भवात् । न च मदद्धलं हलिः, तद्रहितोऽहलिस्तत्रैवार्थेऽहल इति प्रयोगार्थं तद्ग्रहणमिति वाच्यम्, अहल इत्यत्र पूर्वपदप्रकृतिस्वरः स्यादिति सङ्क्यं,नञ्सुभ्या॑मित्यनेनान्तोदात्तत्वविधानात् । अत्राहुः -शैषिकस्य कपो निवृत्त्यर्थं,दुर्हलः॑ इत्यत्रान्तोदात्तत्वार्थं च तदिति । शक्त्योरिति । आचार्येण केचिच्छात्राहलिशक्त्यो॑रिति पाठिता इति भावः ।", "54122": "<<नित्यमसिच् प्रजामेधयोः>> - नित्यमसिच् । अकारोच्चारणं भत्वसम्पादनार्थम्, ते नसुप्रजसावित्यादौयस्येति चे॑ त्यकारलोपः सिध्यति । अस्वरितत्वादेव अन्यतरस्याङ्ग्रहणा ननुवृत्तिसिद्धौ नित्यग्रहणमन्यतो विधानार्थम् । तेनअल्पमेधस॑इति सिध्यतीति वृत्तिकारादयः ।", "54123": "", "54124": "<<धर्मादनिच् केवलात्>> - धर्मादनिच् । अनिचोऽकारश्चिन्त्यप्रयोजन इत्येके । अन्ये तु धर्मं करोत्याचष्टे वा,तत्करोती॑ति ण्यन्तात्क्विपि धर्म्, परमो धर्म् यस्य सः परमधर्म् । एकदेशविकृतस्यानन्यत्वाद्धर्मशब्दोऽयमित्यकारोच्चारणमिह सप्रयोजनमेवेत्याहुः । बहुव्राहिणात्र पूर्वपदमाक्षिप्यत इत्यनुपदमेव वक्ष्यति । तच्चकेवला॑दित्यनेन विशेष्यत इत्याह -केवलात्पूर्वपदादिति । प्राचा तूत्तरपदमपि विशेषितम् । प्रसादकृतापि केवलादिति धर्मशब्दस्य पूर्वपदस्य च विशेषणमिति व्याख्यातम्, तदुभयमपि चिन्त्यम् । आवृत्तौ मानाऽभावात्, धर्मपदविशेषणे प्रयोजनाऽभावाच्च । न च धर्मशब्दान्तं यत्रोत्तरपदं तव्द्यवृत्तिः फलमिति वाच्यं , तत्र बहुव्रीह्रवयवीभूतपूर्वपदात्परस्य धर्मपदेऽसम्भवादेवाऽदोषत्वात् । मध्यमत्वादिति । न चसर्वनामसङ्ख्ययो॑रिति स्वशब्दस्य पूर्वनिपातः शङ्क्यः, आहिताग्न्यादेराकृतिगणत्वादिति हरदत्तदिभिः समाहितत्वात् । आपेक्षिकमिति । नन्वत एव केवलग्रहणं व्यर्थं, पूर्वशब्दस्य समासप्रथमावयवे रूढत्वेनैव मध्यमपदव्यावृत्तिसम्भवादिति चेत् । अत्राहुः — पूर्वपदाक्षेपे तात्पर्यग्राहकत्वेन केवलपदस्य सार्थकत्वादिति । कर्मधारयपूर्वपद इति । नन्वत्राऽनिच् द#उर्लभः,केवला॑दित्यस्य समासानातच्मकत्वादित्यर्थादिति चेत्, मैवम् । केवलग्रहणस्य समासानात्मकपूर्वपदपरत्वे मानाऽभावात् ।निवृत्तिधर्मा हि स्थानी भवती॑त्यादिप्रयोगविरोधाच्च । अस्मदुक्तार्थस्तुधृञ् धारणे॑इति धातौ माधवग्रन्थे स्पष्टः । एतेन साध्योः धर्मोऽस्येति साध्यधर्मा, संदिग्धश्चासौ साध्यधर्मा चेति विग्रहः । स च सन्देहः साध्यधर्मद्वारक एव पर्यवस्यतीति केषाञ्चिव्द्याख्यानं परास्तम् । उक्तिरीत्यैव साध्यस्य साक्षात्सन्दिग्धत्वलाभे तत्समर्थनप्रयासस्य व्यर्थत्वात् । साध्वेवेति । परमश्चासौ स्वश्च परमस्वः, स धर्मो यस्येति यदा विगृह्रते तदेत्यर्थः ।", "54125": "", "54126": "<<दक्षिणेर्मा लुब्धयोगे>> - दक्षिणर्मा । लुब्धो — व्याधः । तद्योगादेवेर्मनिष्पात्ताविगं निपातनं नान्यदेत्यर्थस्तदेतदाह -व्याधेनेति ।वाली हेमाब्दमाली गुणनिधिरिषुणा निर्मितो दक्षिणेर्मा॑इति प्रयोगस्त्वौपचारिक इति कथंचिन्नेयः ।", "54127": "<<इच् कर्मव्यतिहारे>> - केशकेशीति ।तत्र तेनेद॑मिति कर्मव्यतिहारे बहुव्रीहिः । इच्प्रत्ययस्य तिष्ठद्गुप्रभृतिषु पाठादव्ययीभावत्बेऽव्ययत्वम् । नन्वेवमिचश्चित्करणं व्यर्थम्, अव्ययीभावसंज्ञाया बहुव्रीहिसंज्ञाया बाधात्समासस्वरेणान्तोदात्तत्वसिद्धेः । अत्राहुः — विशेषणार्तं तदावश्यकमेव । तिष्ठद्गुणप्रभृतिषु इकारमात्रपाठे हि सुगन्धिरित्यादावतिव्याप्तिप्रसङ्गात् । किञ्चात्राऽव्ययीभावसंज्ञया बहुव्राहिसंज्ञा न बाध्यते, किं तु द्वयोः समावेश एव, उपजीव्यविरोधस्याऽन्याय्यत्वात् । एवं च स्वरार्थमपि चित्त्वं कर्तव्यमेवेति ।", "54128": "<<द्विदण्ड्यादिभ्यश्च>> - द्विदण्डीति । समुदायनिपातनस्य विषयविशेषपरिग्रहार्थत्वाद्द्विदण्डा शालेत्यत्र त्विज् न भवति । उभाहस्तीत्यादि । इह निपातनादेवाऽयचः पाक्षिकत्वम् ।", "54129": "<<प्रसम्भ्यां जानुनोर्ज्ञुः>> - प्रसंभ्याम् । जानुशब्दस्यैकत्वेऽप्युपपजनिबन्धनं द्वित्वमाश्रित्य जानुनोरिति द्विचननिर्देशः, तत्फलं तु स्थानषष्ठीत्वस्फुटीकरणम् ।जानुनः॑इत्युक्ते तु किमियं पञ्चमी, प्रत्ययाधिकारात् ज्ञुरपु प्रत्यय इत्येवं सन्देहः स्यात्, तदेततद्ध्वनयन्नाह -जानुशब्दयोर्ज्ञुरादेश इति ।", "54130": "", "54131": "<<ऊधसोऽनङ्>> - ऊधसोऽनङ् । नादेशेनैव सिद्धेऽनङ्करणंधनुषश्चे॑त्युत्तरार्थम्, अन्यथाशाङ्र्गधन्वे॑ति न सिद्ध्येदित्याहुः । वस्तुत इहार्थमप्यावश्यकमेव, अन्यथा अनोलक्षणिकत्वेनाऽल्लोपाऽपर्सङ्गादित्यन्ये । इहबहुव्रीहौ सक्थ्यक्ष्णो॑रित्यतो बहुव्रीहावित्यनुवर्तते इत्याह —", "54132": "", "54133": "<<वा संज्ञायाम्>> - शार्ङ्ग्धन्वेति । कथं तर्हिस्वलालण्याशंसाधृतधनुषमह्नाय तृणव॑दिति पुष्पदन्तप्रयोग इति चेदत्राहुः -समासान्तविधेरनित्यत्वान्नत्रानुपपत्तिः । अनीयत्वे प्रमाणं त्वंआआदिगणे राजन्शब्दपाठः । स हिप्रतेरंआदयस्तत्पुरुषे॑इत्यन्तोदात्तार्थः ।राजाहःसखी॑ति टचो नित्यत्वे तु किं तेनेति ।", "54134": "", "54135": "<<गन्धस्येदुत्पूतिसुसुरभिभ्यः>> - गन्धस्येत् । तकार उच्चारणार्थ इत्याशयेनाह -इकारोऽन्तादेश इति ।आदेः परस्ये॑तीह न भवति,समासान्ताः॑इत्यधिकारात् । अत्र केचिदाहुः — इकारस्य प्रत्ययत्वेऽपि न क्षतिः,यस्येति[चे॑ति] लोपेनोद्गन्धिरित्यादिरूपसिद्धेः । न चतित्स्वरित॑मित्यन्तस्वरितत्वापत्तिर्न शङ्क्या, तकारस्योच्चारणार्थत्वाभ्युपगमात् । नापि षष्ठीनिर्देशादादेशत्वमेव न प्रत्ययत्वमिति वाच्यं,गापोष्ट॑गित्यादिप्रत्ययविधिष्वपि षष्ठीदर्शनादीति । गन्धस्येत्वे तदेकान्तग्रहणम् । अविभागेनेति । एवं च गुणवाचिन एव ग्रहणं, न तु द्रव्यवाचिन इति फलितोऽर्थः । द्रव्याणीति । अस्ति च गन्धशब्दो द्रव्यवचनः,वहति जलमियं पिनष्टि गन्धा॑निति प्रयोगात्,गन्धस्तु सौरबे नृत्ये गन्धके गर्वलेशयोः । स एव द्वव्यवचनो बहुत्वे पुंसि च स्मृतः॑ इति कोशाच्च । केचित्तु -॒गन्धस्येत्वे॑इति वार्तिके तदेकान्तशब्देन स्वाभाविकत्वं विवक्षितं, तेनागन्तुकस्य नेत्याहुः । तथा च भट्टिः -॒आघ्रायिवान् गन्धवहः सुगन्धः॑इति । व्याख्यातं च जयमङ्गलायां — ॒गन्धस्ये॑त्यादिनेकारः समासान्तो न,गन्धस्येत्वे तदेकान्तग्रहण॑मिति वचनात् । सुगन्ध आपणिक इति यथेति । अतएवभग्नबालसहकारसुगन्धौ॑इत्यादीनां प्रमादिकत्वं दुर्घटवृत्तिकृतोक्तम् ।", "54136": "<<अल्पाख्यायाम्>> - अल्पाख्यायाम् । अल्पवाचिनो गन्धस्येकारान्तादेशः स्याद्बहुव्रीहौ । सूपस्य गन्ध इति । अतएव ज्ञापकाव्द्यधिकरणपदो बहुव्रीहिः । यद्वा फलितार्थकनमेतत् । सूपो गन्धो यस्मिन्नित्येव विग्रहः । गन्धशब्दस्य विशेषणत्वेऽप्यस्मादेव ज्ञापकात्परनिपातः ।", "54137": "", "54138": "<<पादस्य लोपोऽहस्त्यादिभ्यः>> - पादस्य । यद्ययं लोपः समासान्तो न स्यात्आदेः परस्ये॑त्यादेः स्यात् । शैषैकः कप्च प्रसज्येत,शेषद्विभाषा॑इत्यत्र समासान्तापेक्षस्य शेषस्याश्रयणात् । अत आह — समासान्त इति । कथं पुनरभावो भावस्यावयवः स्यात्तत्राह — स्थानिद्वरेणेति । वचनबलादौपचारिकमवयवत्वं गृह्रत इति भावः ।", "54139": "<<कुम्भपदीषु च>> - कुम्भपदीषु च । बहुवचननिर्देशाद्गणपाठसामर्थ्याच्चाद्य्र्थावगतिरित्यभिप्रेत्याह — कुम्भपद्यादिष्विति । इह गणे — कुम्भपदी एकपदी जानपदीत्येवं समुदाया एव पठन्ते, तस्य च प्रयोजनं विषयविशेषपरिग्रह इत्याशयेनाह -स्त्रियामिति । यच्चेहोपमानपूर्वं संख्यापूर्वं च पठते तस्य सिद्धे लोपे नित्यङीबर्थं वचनं तेनपादोऽन्यतरस्या॑मिति विकल्पा न भवति ।", "54140": "", "54141": "<<वयसि दन्तस्य दतृ>> - द्विदन्निति । द्वौ दन्तावस्य जातौ । शिशुत्वावस्था त्विह गम्यते ।उगिदचा॑मिति नुम् । संयोगान्तलोपस्याऽसिद्धत्वान्नलोपो न । षोडन्निति ।षष उत्वं दतृदशधे॑त्यने नोत्वष्ठुत्वे । सुदतीति ।उगितश्चे॑ति ङीप् ।", "54142": "", "54143": "<<स्त्रियां संज्ञायाम्>> - समदन्तीति ।नासिकेदरे॑त्यदिना ङीष् ।", "54144": "<<विभाषा श्यावारोकाभ्याम्>> - श्यावदन्निति ।श्यावः स्यात्कपिशः॑इत्यमरः । अरोकदन्निति । अरोकाः=अच्छिद्रा दन्ता यस्य सः ।", "54145": "<<अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च>> - अग्रान्त । इहाऽनुक्तसमुच्चयार्थश्चकारः, तेन मूषिकदन्निति सि व्द्यतीत्याहुः ।", "54146": "<<ककुदस्यावस्थायां लोपः>> - अजातेति । अजातं ककुदमस्येति विग्रहः । इह हि बाल्यावस्था गम्यते ।", "54147": "", "54148": "", "54149": "", "54150": "", "54151": "<<उरःप्रभृतिभ्यः कप्>> - उरः प्रभृतिभ्यः कप् । उरः प्रभृत्यन्ताद्बहुब्राईहेः कप्स्याते ।समासार्थोत्तरपदान्ताः समासान्ताः॑इति पक्षे तु बहुव्रीहेश्चरमावयवेभ्य उरःप्रभृतिभ्यः कबिति ब्याख्येयम् । तद्धितत्वात्कस्य नेत्वम् । व्यूढोरस्क इति । व्यूढं विशालमुरो यस्य सः ।सोऽपदादौ॑इति विसर्जनीयस्य सः । प्रियसर्पिष्क इति ।इणः षः॑ इति विसर्गस्य षत्वम् । एकवचनान्तनीति ।नद्यृतश्चे॑ति सिद्धे लक्षामीशब्दपाठस्त्विह एकवचनान्तलक्ष्मी शब्दावयवकबहुव्रीहेरेव नित्यं कप्, अन्यत्रशेषा॑दिति विकल्प एवेति नियमार्थः । तेनअकृशमकृशलक्ष्मीश्चेतसा शंसितं सः॑इति भारविप्रयोगः सिद्धः । अकृशा लक्ष्म्यो यस्येति विग्रहः । यत्तु प्राचोक्तं=॒नद्यृतश्चे॑ति कप्, बहुलक्ष्मीक इति । तदयुक्तम् । सङ्ख्यावाचिबहुशब्दस्यैकवचनान्तत्वाऽभावात्प्रकृतनियमेन वारितत्वात् । बह्वी अधिका लक्ष्मीर्यस्येति विग्रहे वैपुल्यवाचिन एकवचनान्तत्वसंभवेऽपि विशेषणविधेर्बलीयस्त्वेनउरःप्रभृतिभ्यः कप् इत्येव वक्तुमुचितत्वात् । यदा तुनियमशास्त्राणां निषेधमुखेन प्रवृत्ति॑ रित्याश्रीयते तदा प्राचोक्तमपि सम्यगेवेति ज्ञेयम् । अर्थान्नञ इति । गणसूत्रमिदम् । अनर्थकेनापीति । कथं तर्हिसुपथ#ई नगरी॑ति हलन्तेषूक्तं, कपोऽत्र दुर्वारत्वात् । न चन पूजनात्इत्यनेनऋक्पूरब्धूः — — ॑इत्यस्यैव कपोऽपि निषेधः शङ्क्यः । षचः प्राचीनानामेव स निषेध इति वक्ष्यमाणत्वात् । कप्प्रत्ययस्य षच उत्तरत्वात् । सत्यम् । समासान्तविधेरनित्यत्वात्साधुरिति समाधेयम् ।युवोरनाकौ॑इति सूत्रे सुपथीति भाष्याच्चेत्युक्तम् ।", "54152": "<<इनः स्त्रियाम्>> - बहुवाग्ग्मिकेति ।वाचो ग्मिनिः॑ ।", "54153": "<<नद्यृतश्च>> - नद्युत्तरपदादिति ।नद्यन्ता॑दिति नोक्तं, कप्रत्ययेन सह समासे कृते बहुव्रीहेरनद्यन्तत्वात् । उत्तरपदं तु नद्यन्तं भवत्येव,समासे अन्तः समासान्तः॑इति पक्षाश्रयणादिति बोध्यम् । दृढमिति । अदाढर्निवृत्तिमात्रपरत्वेनात्र दृढशब्दप्रयोगान्न लिङ्गविशेषविवक्षेति भावः । लिङ्गविशेषविवक्षायां तु दृढभक्तिरित्यादिसिद्धये प्रियादिषु भक्तिशब्दपाठः ।", "54154": "<<शेषाद्विभाषा>> - शेषद्वि । यद्यत्र प्रागुक्तकब्मात्रापेक्षः शेषः स्यात्तर्हि व्याघ्रपात्सुगन्धिरित्यादावपि स्यादतः समासान्तापेक्षः शेष इह गृह्रत इत्याह -अनुक्तसमासान्तादिति । व्याघ्रपादिति । स्थानिद्वारा लोपोऽपि समासान्तापेक्ष इत्युक्तम् । सुगन्धिरिति ।गन्धस्ये॑दित्यादिना इत्समासान्तः । प्रियपथ इति ।ऋक्पूः -॑इत्युप्प्रत्ययः समासान्तः । उपबहव इति ।संङ्ख्याव्यये॑त्यादिना समासः । उत्तरपूर्वेति ।दिङ्नामे॑त्यादिना समासः । सुपुत्र इति ।तेन सहेती॑त्यादिना समासः । अयं भावः — ॒शेषो बहुव्राहि॑रित्यतऋ शेषपदम्अनेकमन्यपदार्थे॑इत्येतस्मिन्नेव सूत्रेऽनुवर्तते,सङ्ख्यायाव्ययासन्ने॑त्यादिषु च निवर्तते । तथा च शेषधिकारस्थात्वाऽभावादुपबहव इत्यादिषु कप्प्रत्ययो नेति । एवं चअनेकमन्यपादर्थे॑इति सूत्रत्पृथक्सङ्ख्ययाव्ययासन्ने॑त्यादीनामारम्भः कबभावार्थमप्यावश्यक इति स्थितम् । ननु सकृदुच्चरितस्य शेषशब्दस्याऽनुक्तसमासान्तपरत्वं शेषाधिकारस्थपरत्वं च कथमित्यत आह -तन्त्रादिनेति ।अर्थभेदेन शष शब्दभेदः॑,सत्यप्यर्थभेदे ब्दस्याऽभेदः॑इति मतद्वयम् । आद्ये आवृत्तिर्द्वितीये तन्त्रमिति विवेकः । यत्तु वदन्ति -॒प्रतिपदोक्ताः समासान्ताः स्वविषये बाधका भवन्ति, तत्किमनुक्तसमासान्तपरेण शेषग्रहणेने॑ति । तन्न ।ऋक्पूः॑ इत्यादीनां समासान्तरे चरितार्थतयाप्रियपथ॑इत्यादौ परेण कपा बाधापत्तेः ।", "54155": "", "54156": "<<ईयसश्च>> - ईयसश्च । नित्यो वैकल्पिकश्च कप्सर्वोऽपि निषिध्यते । बहुश्रेयानिति । अतिशयेन प्रशस्यः — श्रेयान् ।द्विवचनविभज्योपे॑तीयसुन् ।प्रशस्यस्य श्रः॑ ।शेषद्विभाषे॑ति कप्प्राप्तः ।ईयसो बहुव्रीहेर्नेति वाच्यम् । बहुश्रेयसीति ।नद्यृतश्चे॑ति नित्यं प्राप्तः कब्लङ्गविशिष्टपरिभाषयाईयसश्चे॑ति प्रतिषिध्यते ।", "54157": "", "54158": "", "54159": "<<नाडीतन्त्र्योः स्वाङ्गे>> - बहुनाडिरिति । उपसर्जनह्रस्वः । स्त्रीप्रत्ययान्तत्वाभावादिति ।अवितृस्तृतन्त्रिभ्यः॑इतीप्रत्ययस्यस्त्रिया॑मित्यधिकारेऽविहितत्वादिति भावः ।", "54160": "", "61001": "<<एकाचो द्वे प्रथमस्य>> - आत्मयापनायेति । कालक्षेपाय, शरीरपक्षणाय वेत्यर्थः ।", "61002": "<<अजादेर्द्वितीयस्य>> - यदि बहुव्रीहेः षष्ठी तदा इन्द्रमात्मन इच्छति इन्द्रीयति, इन्द्रीयितुमिच्छति इन्दिद्रीयिषतीत्यत्र दकारस्यनन्द्राःर॑ इति द्वित्वनिषेधः स्यात्, किंतु अञ्चासावादिश्चाऽजादिस्तस्मादिति कर्मधारयादेषापञ्चमी ।", "61003": "<<न न्द्राः संयोगादयः>> - न न्द्राः । अजादेरिति वर्तते । स च कर्मधारयः । आदिग्रहणस्य तु प्रकृतेऽनुप्रयोगः । तदेतदाह — अचः परा इति । उन्दिदिषति । इन्दिदिषति । अड्डिडिषति । अर्चिचिषति ।न न्द्राः॑ इति किम् । ईक्षतेः सनि ईचिक्षिषते । संयोगादयः किम् । प्राणिणिशति । अरिरिषति । अचः पराः किम् । इन्द्रीयितुमिच्छतीति क्यजन्तात्सनि इन्दिद्रीयिषति । इह नकारस्य द्वित्वाऽभावेऽपि दकारस्तु द्विरुच्यत एव, अचः परत्वाऽभावात् । नुशब्दस्येति । उपदेशे नकारएव, णत्वं तुरषाभ्या॑मित्यनेनेति भावः । पूर्वत्रासिद्धीयमिति । अत्र द्विर्वचनशब्देन षाष्ठआष्टमिकं चोभयं गृह्रते । तत्र षाष्ठस्य ऊढिमाख्यत् औडिढदित्युदाहरणम् । आष्टमिकस्य तु द्रोग्धा,द्रोग्धा, द्रोढा- द्रोढेति । इह त्रिपादीस्थं घत्वढत्वादिकं द्विर्वचने सिद्धमेव । असिद्धत्वे तु त्रिपादीस्थकार्यात्पूर्वमेव द्रोहता इत्यस्य द्वित्वे, पश्चात्वाह द्रुहे॑ ति घत्वढत्वयोः प्रवृत्तौ द्रोग्धा द्रोढेत्यपि द्विर्वचनं कदाचित्स्यान्न तु द्रोग्धा — द्रोग्धेति । समानजातीयस्यैव नियमेन द्विर्वचनं सिध्यति । किंच षट् सन्त इत्यत्र धस्य जश्त्वेन दकारे व्यक्तिभेदाद्दकारस्यापि द्वित्वं सुवचमेवेत्याहुः । अनित्यमित#इ । अत एव हतिशब्दस्य द्वित्वमौजिढदित्यपि नामधातुषु वक्ष्यति । उभौ साभ्यासस्येति ।अनिते॑ रित्यनेन णत्वं कृत्वा द्विर्वचने कृते प्राणिणत् प्राणिणिषतीति सिद्धमिति सूत्रमिदं ज्ञापकमित्यर्थः । एवं चप्रणिनाये॑त्यादौ द्वितीयस्य णत्वाऽभावः सिद्धः । विभाषोर्णोः ।गाङ्कुटादिभ्यः॑ इत्यतो ङिदिति,विज इ॑ डित्यत इडिति चानुवर्तते इत्याशयेनाह-इडादिप्रत्यय इत्यादि । तेन गुणविकल्पे पक्षे उवङ् ।", "61004": "<<पूर्वोऽभ्यासः>> - ॒एकाचो द्वे॑ इति प्रकरणे ।", "61005": "<<उभे अभ्यस्तम्>> - ॒द्वे॑इत्येनुवृत्त्यैव सिद्धेउभे॑ग्रहणं समुदजायप्रतिपत्त्यर्थमिति व्याचष्टे — उभे समुदिते इति । अन्यथानेनिजतीत्यत्रअभ्यस्तानामादि॑रित्याद्युदात्तत्वं प्रत्येकं पर्यायेण स्यात् ।", "61006": "", "61007": "", "61008": "<<लिटि धातोरनभ्यासस्य>> - तदाह — आदिभूतादचः परस्य त्विति॥ भूव्भूविति । यद्यप्यत्र धात्ववयवत्वं प्राथम्यं च न सङ्गच्छते, तथापि व्यपदेशिवद्भावेन तद्बोध्यम् । नन्विह चत्वार एकाचस्तत्रावयवास्त्रयः, तत्र भू, ऊ, ऊविति । भूविति समुदायश्चतुर्थः । तथा चाऽनियमेन यस्य कस्यचिद्द्वित्वं स्यात् । मैवम् । समुदायस्यैकाच एव द्विर्वचनस्य न्याय्यत्वात्, तस्मिन्हि द्विरुच्यमाने अवयवा अपि द्विरुच्यन्त एव, वृक्षचलनेन सर्वावयवचलनवत्॥", "61009": "<<सन्यङोः>> - सन्यङोः । सप्तमीमाश्रित्य सनि यङि च परे इति व्याख्यायां — प्रतीषिषति,॑अटाटते॑ इत्यादि न सिध्येत्, सन्यङोः प्रकृतिभागस्यैव द्वित्वप्रसक्तेरत आह — सन्नन्तस्येति । ननु सप्तमीपक्षेऽपि सन्यङोरेव द्वित्वं स्यान्न तु प्रकृतिभागस्य, शपोऽकारेणैव जुगुप्सते तितिक्षते इत्यादिरूपसिद्धेस्तयोरकारोच्चारणस्यअजादेर्द्वितीयस्ये॑ति द्वित्वार्थत्वात् । यद्यपि निमित्तस्य कार्यित्वस्वीकारे आट आटतुरित्यादौ । लिटि परतः पूर्वभागमात्रस्य द्वित्वं न सिध्येत्तथाप्यकारोच्चारणसामर्थ्यात्सन्यङोः कार्यित्वमभ्युपगन्तुं शक्यमिति चेन्मैवम् ।अकारफलानां बहूनां सत्त्वात् । तथाहि — — दित्स्यं धित्स्यमित्यत्राऽचो यति कृतेयतोऽनावः॑ इत्याद्युदात्तः सिध्यति । अकाराऽभावे तुऋहलो॑रिति ण्यतीष्टस्वरो न सिध्येत् । किंचपिपठिषि ब्राआहृणकुलानी॑त्यत्राऽल्लोपस्य स्थानिवत्त्वाज्झलन्तलक्षणो नुम् न भवति, अकाराऽभावे तु स्यादेव नुम् । अपिचपापचक॑ इत्यादावल्लोपस्य स्थानिवत्त्वात्अत उपधायाः॑ इति वृद्धिर्न प्रवर्तते । अपि चयस्य हलः॑ इत्यत्र यस्येति सङ्घातग्रहणमहर्यीदित्यादौ यलोपव्यावृत्त्यर्थमिति सर्वसंमतम् । तथा चअपापचिष्टे॑ त्यादौ यलोपोऽप्यकारफलमितिसन्यङो॑ रिति षष्ठएव युक्ता । एवं हि यङ्लुकि प्रत्ययलक्षणेन यङन्तत्वाद्द्वित्वं सिध्यति । परसप्तम्यां तु द्वित्वस्याऽङ्गकार्यत्वात्न लुमते॑ ति निषेधः प्रवर्तेतेति दिक् । दानशानौ चेति । आर्जवनिशानार्थविति भावः । अर्थान्तरे त्विति । धातुपाठोपात्ते गोपनादिरूपेऽर्थे इत्यर्थः । अननुबन्धका इति । सानुबन्धकत्वे तु केवलेऽचरितार्थत्वादऽनुबन्धस्य सन्नन्तादिवाऽकर्तृगफलाण्ण्यन्तादपि तङ् स्यादिति भावः । एवं चानुपूर्वीमात्रसाम्येऽपि भ्वादयश्चुरादिभ्यो भिन्ना एवेति फलितम् । इड्गुणौ नेति । यद्यपिहलन्ताच्चे॑ति सनः कित्त्वेनापि गुणाऽभावः सुसाधस्ततापीडभावार्थमुक्तहेतुरेवाश्रयणीय इति किं हेत्वन्तराश्रयणेनेति भावः । केचित्तु अर्थवद्ग्रहणपरिभाषया इच्छासन एवहलन्चाच्चे॑ति सूत्रे ग्रहणमिति नाऽस्य स्वार्थसनः कित्त्वमित्याहुः । रभ राभस्ये । राभस्यमुपक्रमः । लिटि रेभे । रेभाते । लुङि अरब्ध । अरप्साताम् । डुलभष् ।ड्वितः क्रिः॑ लप्त्रिमम् ।षिद्भिदादिभ्य॑ इत्यङ् । लभा । लिटि — लेभे । लुङि — अलब्ध ।", "61010": "", "61011": "", "61012": "", "61013": "<<ष्यङः सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे>> - ष्यङः । इह तत्पुरुषपदेन पूर्वपदमुत्तरपदं चाक्षिप्यते, तत्र ष्याङा पूर्वपदस्य विशेषणात्तदन्तं गृह्रत इत्याह — ष्यङन्तस्येति । पुत्रपत्योरुत्तरपदयोरिति ।पुत्रपत्यन्तयो॑रिति व्याख्याने तुकारीषगन्ध्यापरमपुत्रः॑इत्यादावतिप्रसङ्गः स्यादिति भावः ।", "61014": "", "61015": "", "61016": "<<ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छति- भृज्जतीनां ङिति च>> - ग्रहिज्यावयि । गृह्णाति । गृह्णीतः । जिनाति । जिनीतः । जीनः । ङिति वयेरुदाहरणं नास्ति । किति तुवचिस्वपियजादीना॑मिति सिद्धम्, यजादिषु वेञः पाठात् । अत एवाऽभ्याससंप्रसारणमपि सिद्धम् ।वेञ॑ इति संप्रसारणनिषेधस्तुलिटि वयो य॑ इति निषेधारम्भान्न प्रवर्तते । तस्माद्ग्रहिज्यादिषु वयिग्रहणं स्पष्टार्थमेवेति बोध्यम् ।", "61017": "<<लिट्यभ्यासस्योभयेषाम्>> - लिटभ्यासस्येति । वच्यादयो — वचिस्वपियजादयः । ग्रह्रादयस्तु — ग्रहिज्यावयी॑त्यादयः । यद्यपि ग्रहिपृच्छतभृज्जतीनामभ्यासस्य संप्रसारणे कृतेऽकृते च विशेषो नास्ति, तथापि पर्जन्यवल्लक्षणं प्रवर्तते । जग्राह । पप्रच्छ । बभ्रज्ज । वृश्चतेस्तु विशेषः, - संप्रसारणस्याऽकरणे वव्रश्चेत्यत्र वकारस्य संप्रसारणं स्यात्, कृते तु संप्रसारणेन संप्रसारणे॑ इति निषेधप्रवृत्तिरिति । लटीति किम् । विवक्षति । पिपक्षति । वचिस्वपि । आगणान्ता यजादयः ।यजिर्वपिर्वहिश्चैव वसिर्वेञ् व्येञ इत्यपि । ह्वेञ्वदी आयतिश्चेति यजाद्याः स्युरिमे नव॑ । कितीति किम् । इयष्ठ । डुवप् ।॒ड्वितः क्रिः॑ । उप्त्रिमम् ।", "61018": "<<स्वापेश्चङि>> - स्वापेश्चङि । चङि किम् । स्वापयति । असूषुपदिति । इह संप्रसारणोत्तरं द्वित्वम् ।", "61019": "<<स्वपिस्यमिव्येञां यङि>> - स्वपिस्यमि । यङि किम् । स्वप्नक् ।सेसिम्यते इति ।स्यमु शब्दे॑ दन्त्याऽजन्तसदित्वाऽभावेनाऽषोपदेशत्वान्न यङलुगर्थम् । अत एवन लुमते॑ति निषेधोऽपि न प्रवर्तत इति यङ्लुक्यपि चायः की स्यादेव । चेकीतः ।", "61020": "", "61021": "", "61022": "<<स्फायः स्फी निष्ठायाम्>> - स्फायः स्फी । स्फायी वृद्धौ । कथं तर्हि स्फीतिकाम इति । स्फीतमाष्टे इति ण्यन्तादच इः, अल्लोपणिलोपौ ।", "61023": "", "61024": "", "61025": "", "61026": "", "61027": "<<शृतं पाके>> - शृतम् । श्रातिश्रपयत्योरिति । श्रापाके इत्यदादौ पठते, चुरादावपि, घटादिष्वपि पठते मित्त्वार्थम्, श्रै पाक इति च भ्वादौ , तस्यापि कृतात्वस्येह ग्रहणम् । निपातनसामत्र्याल्लक्षमप्रतिपदोक्तपरिभाषा नाश्रीयत इत्याहुः । शृभावो निपात्यत इति ।ष्यङः संप्रसारण॑मिति प्रकृतमेव संप्रसारणं न विहितम्, श्रयतेरपि श्रितमेव यथा स्यादिति । अत्रविभाषाभ्यवपूर्वस्ये॑ति विभाषाऽनुवर्तते, सा च व्यवस्थिता, तेन क्षीरहविषोरेव शृभावो नित्यश्च, अन्यत्र तु नैव भवतीत्याशयेनाह — क्षीरहविषोः पाक इति । अन्यत्त्विति । शाकादि । श्रपितमिति । णौ मितां ह्रस्वः ।", "61028": "<<प्यायः पी>> - पीनमिति । ओदित्त्वान्निष्ठानत्वम् । प्यान इतिश्वीदितो निष्ठायाटमितीडभावे यलोपः । नत्वे व्यवस्थान्तरमाह - सोपसर्गस्य नेत्यादि । अन्धुः- कूपः ।", "61029": "<<लिड्यङोश्च>> - यङि — पेपीयते ।", "61030": "<<विभाषा श्वेः>> - विभाषा श्वेः । लिटि यङि चेति ।लिडङोश्चे॑ति पूर्वसूत्रमिहानुवर्तत इति भावः । उभयत्रविभाषेयम् । लिडंशे अतुसादौ नित्यं प्राप्ते, णलादावप्राप्ते । यङंशे त्वप्राप्तविभाषा । शोशूयते । शेआईयते । संप्रसारणं नेति । अन्यथा शुआआयेत्यादि स्यादिति भावः ।", "61031": "<<णौ च संश्चङोः>> - णौ च ।विभाषा ओ॑रित्यनुवर्तते ।संश्चङो॑रिति णावित्यस्य विशेषणं ।ह्वः संप्रसारण॑मित्यतः संप्रसारणमित्यनुवर्तत एवेत्याह — सन्परे चङ्परे इति । वचनादिति । इयं च परिभाषालिटभ्यासस्योभयेषा॑मित्यत्र वच्यादीनां ग्रह्रादीनामनुवृत्त्यैवेष्टसिद्धावुभयेषांग्रहणसामर्थ्याल्लभ्यते । अन्यथा वव्रश्चेत्यत्र हलादिःशेषे कृते वस्य संप्रसारणं स्यादित्याहुः । स्तन्भुसिव ।", "61032": "<<ह्वः सम्प्रसारणमभ्यस्तस्य च>> - अभ्यस्तस्य चेति । पूर्वयोगस्तुणौ च संश्चङो॑र्विषये प्रवर्तते । जुहावयिषति । अजूहवत् । अभ्यस्तीभविष्यतो ह्वेञ इति । अभ्यस्तनिमित्ते प्रत्यये परे द्विर्वचनात्प्रागेव ह्वेञः संप्रसारणमिति फलितोऽर्थः । अभ्यस्तमस्यास्तीति अभ्यस्तः = सनादिः, तस्य यो ह्वेञ् = तत्प्रकृतिभूतस्तस्येत्यादिव्याख्यानस्य स्वीकारात् । तेन जिह्वायकमात्मन इच्छति जिह्वायकीषतीत्यत्र ह्वेञः संप्रसारणं न भवति, ण्वुलो द्वित्वनिमित्तत्वाऽभावात् । अत एव णिचो द्वित्वनिमित्तत्वं नेतिह्वः संप्रसारण॑मिति योगविभागः क्रियते । एतच्च आकरे स्पष्टम् ।", "61033": "अभ्यस्तस्य चेति। पूर्वयोगस्तु `णौ च संश्चङो`र्विषये प्रवर्तते। जुहावयिषति। अजूहवत्। अभ्यस्तीभविष्यतो ह्वेञ इति। अभ्यस्तनिमित्ते प्रत्यये परे द्विर्वचनात्प्रागेव ह्वेञः संप्रसारणमिति फलितोऽर्थः। अभ्यस्तमस्यास्तीति अभ्यस्तः = सनादिः, तस्य यो ह्वेञ् = तत्प्रकृतिभूतस्तस्येत्यादिव्याख्यानस्य स्वीकारात्। तेन जिह्वायकमात्मन इच्छति जिह्वायकीषतीत्यत्र ह्वेञः संप्रसारणं न भवति, ण्वुलो द्वित्वनिमित्तत्वाऽभावात्। अत एव णिचो द्वित्वनिमित्तत्वं नेति `ह्वः संप्रसारण`मिति योगविभागः क्रियते। एतच्च आकरे स्पष्टम्।", "61034": "", "61035": "", "61036": "", "61037": "<<न सम्प्रसारणे सम्प्रसारणम्>> - न संप्रसारणे ।ह्वः॑ संप्रसारण॒मित्यतः ॑संप्रसारणमित्यनुवर्तमानेऽपि पुनः सम्प्रसारणग्रहणात्प्रदेशान्तरस्थंआयुवमघोना॑मित्यपि संप्रसारणं निषिध्यते, तदाह — इति यकारस्य नेत्वमिति । यून इति । ननू कारेण व्यवधानात्कथमत्र निपेधः,विव्याध॒॑विव्यथे॑इत्यादावव्यवधानेऽपि निषेधस्य चरितार्थत्वात् । न च सम्प्रसारणग्रहणादेव व्यवधानमिति वाच्यम्,अचः परस्मि॑न्निति स्थानिवत्त्वात् । अत्राहुः — विदेशस्थानिषेधार्थत्पुनः सम्प्रसारणग्रहणादेव व्यवधानेऽप्यत्र निषेधोभविष्यतीत्यदोषः । न च॒व्यथो लिटी॑ति विदेशस्थेन यकारस्य संप्रसारणे कृते वकारस्य तदभावायन सम्प्रसारणे॑इति सूत्रं प्रवर्त्त्य पुनः संप्रसारणग्रहणं चरितार्थमिति व्यवधेने निषेधो न भविष्यतीति शङ्क्यं,व्यथो लिटी॑त्येतद्धलादिः शेषापवाद॒इत्याकरे स्पष्टत्वात् । ॑उत्सर्गसदेशश्चापवाद॒इति परस्यैव संप्रसारणं भवति न पूर्वस्ये॑ति कैयटेन व्याख्यातत्वाच्चेचि ।", "61038": "", "61039": "<<वश्चास्यान्यतरस्याम् किति>> - वश्चास्या.॒अस्ये॑त्यनेनवयो यः॑ इति परामृश्यते । तदाह — वयो यस्येति ।वो वा किती॑त्येव सुवचं, लिटि वयो यः॑ इति प्रकृतत्वात् ।उपदेशेऽत्वतः॑ इति निषेधमाशङ्क्याह - वयस्तासावभावादिति । ननु स्थानिनस्तासौ विद्यमानत्वात् स्थानिवद्भावेन तासौ विद्यमानत्वं सुलभमिति चेत् । अत्राहुः - शास्त्रीयकार्ये हि स्थानिवद्भावो न तु लौकिके ।अचस्तास्व॑दिति निषेधस्य शास्त्रीयत्वेऽपि सोऽत्र नातिदिश्यते,अच॑ इत्युक्तेरल्विधित्वादिति ।", "61040": "<<वेञः>> - वेञः । लिटि किम् । उतम् । उतवान् ।", "61041": "", "61042": "<<ज्यश्च>> - ज्यश्च । संप्रसारणं न स्यात् । एवं व्यश्चेत्यत्रापि व्याख्येयम् ।", "61043": "", "61044": "<<विभाषा परेः>> - कथमिति । ल्यबादेशस्य स्थानिभूतः क्त्वाप्रत्ययो दुर्लभः तद्वधौ पूर्वकाल इत्युक्तेः । न चेह तदस्ति । पूर्वं ह्रसौ स्वपिति पश्चान्मुखं व्यादत्ते । यदैव हसति तदैव नेत्रे संभीलयति । तथा च क्त्वाप्रत्ययस्य दुर्लभत्वाल्ल्यपः प्रसक्तिरेव नास्तीति प्रश्नः । समाधत्ते — व्यादानेत्यादिना । एतेनेआरःसर्वं व्याप्य वर्तते, ज्ञात्वा तिष्ठतीत्यादि व्याख्यातम् ।श्रीशैलशिखरं दृष्ट्वा पुनर्जन्म न विद्यते॑ इत्यादौ तु समानकर्तृकतानिर्वाहार्थंस्थितस्ये॑त्यादि यथासंभवमध्याहार्यम् ।", "61045": "<<आदेच उपदेशेऽशिति>> - आदेच उपदेशेऽशिति ।लिटि धातो॑रित्यनुवृत्तमेचा विशेष्यते । तदाह — एजन्तस्य धातोरिति । उपदेशे किम् । चेता । स्तोता । ननु लाक्षणिकत्वादेवाऽत्र न भविष्यतीति चेत् । अत्राहुः वर्णग्रहणे लक्षणप्रतिपदोक्तपरिभाषा नाश्रीयत इति ज्ञापनार्थमुपदेशग्रहणम् । तेनक्रीङ्जीनां णौ॑ इति कृतात्वे क्रापयीत्यादौ पुक् सिध्यतीति मनोरमाकृत् । धातोः किम् । गोभ्याम् । नौभ्याम् । अस्ति ह्यत्रापिगमेर्डोः॑ग्लानुदिभ्यां डौ॑ रित्युपदेशे एच् ।अशिती॑ति प्रसज्यप्रतिषेध इत्याह - न तु शितीति । पर्युदासे तु जग्ले मग्ले इत्यादौद्विर्वचनेऽची॑ति निषेधादात्वं न स्यात्, अभ्यासे इकारश्च श्रूयेत । किं चसुग्ल॑ इत्यत्रआतश्चोपसर्गे॑ इति कः,सुग्ले॑त्यत्रआतश्चोपसर्गे॑ इति रिउआयामङ्,सुग्लान॑ इत्यत्रआतो युजि॑ति युज्न स्यात् । प्रत्ययनिमित्तं ह्रात्वम्, आदन्ताच्च प्रत्यय इत्यन्योन्याश्रयात् । प्रसज्यप्रतिषेधे तु न कोऽपि दोषः ।ह्वावामश्चे॑ति सूत्रेण कबाधनार्थं पुनरण्विधानं च प्रतिषेधपक्षे ज्ञापकम् । तदाहुः - अनैमित्तिकमात्वं, शिति तु प्रतिषेध इति । नन्वेमपि एशः शित्त्वाकाले मम्ले इत्यादि न सिध्यतीति चेत् । अत्राहुः — — यदि त#उ शितीति बहव्रीहिः स्यात्तदाऽत्र स्यादेव दोषः । किं तु क्रमधारयोऽयम् । तथा चाऽशितीत्यत्रेत्संज्ञकारादौ प्रत्यये परे नेत्यर्थः । धातुग्रहणाक्षिप्तस्य प्रत्ययस्य शितीति कर्मधारयेण विशेषणात्॥ विषयसप्तम्यां तु इत्संज्ञकशकारादिभिन्नप्रत्ययविषये आत्वमित्यर्थात्पर्युदासेऽपि न क्षतिरिति ।", "61046": "<<न व्यो लिटि>> - लिटि किम । व्याता । व्यास्यति ।", "61047": "<<स्फुरतिस्फुलत्योर्घञि>> - आचमेति ।नोदात्ते॑ति सूत्रेअनाचमे॑रित्युक्तत्वादिति भावः । तत्रैव सूत्रे॒ऽनाचमिकमिवमीना॑मिति वार्तिकाद्वृद्धिनिषेधो नेत्याह — कामः वाम इति । अपाणिनीयमिति । श्रमेरुदात्तोपदेशत्वाद्धञि, वृद्धेर्दुर्लभत्वात् । यदि तुधुर्यान्विश्रामय॑न्नित्यादिवण्णिचि वृद्धिमाश्रित्य णिजन्तादेरच् क्रियते तदा रूपं सिध्यति । न च णिच्यपि वृद्धिनिषेधः शङ्क्यः ।नोदात्ते॑त्यत्रकृती॑त्यनुवृत्त्या णिचि निषेधाऽभावात् । न चैवमपिमितां ह्रस्वःर॑ इति ह्रस्वः स्यादिति शङ्क्यं, वेत्यनुवर्त्त्य व्यवस्थिविभाषाश्रयणेन ह्रस्वाऽभावसिद्धेः । परन्तु णिजन्तकल्पनायामर्थो भिद्यत इति भावः । वस्तुतस्तुनिवृत्तप्रेषमाद्धातोः प्राकृतेऽर्थे णि॑जिति विवक्षायां तु न दोष इत्यवधेयम् । एवं चरोगी चिरप्रवासी परान्नभोजी परावसथशायी । यज्जीवति तन्मरणं यन्मरणं सोऽस्य विश्रामः॑ इत्यादिकविप्रयोगाः साधव एवेति बोध्यम् ।", "61048": "<<क्रीङ्जीनां णौ>> - क्रीङ्जीनाम् ।डुक्रीञ् द्रव्य विनिमये॑ ।इङ् अध्ययने॑ ।जि जये॑ । अचिक्रपत् । अध्यजीगपदिति । नाऽत्र णिज्निमित्तस्य गाङो द्वित्वे कर्तव्ये स्थानिवद्भावो, निषेधो वा शङ्क्यः, यत्राऽभ्यासोत्तरखण्डे आद्योऽवर्णोऽस्ति तत्रैव स्थानिवद्भावो, निषेधो वेत्युक्तत्वात् । इह तु गाङ् पूर्वं सतिहि द्वित्वेअजादेर्द्वितीयस्य॑ इति णिच एव द्वित्वं भवेत्ततश्चह्परणिज्निमित्तो गाङ्, ततश्च प्रक्रयायां परिनिष्ठितरूपे वा अवर्णवदुत्तरखण्डं दर्लुभं, कीर्तयतिसाम्यादिति नोक्तशङ्कावकाशः ।अध्यापिपदिति । पिशब्दस्यात्र दित्वम् ।", "61049": "<<सिध्यतेरपारलौकिके>> - सिध्यतेरपार । श्यना निर्देशाद्भौवादिकस्याऽग्रहणम् । तत्त्वं निश्चिनोतीति । तत्त्वनिश्चयश्चात्मविषयकः । स च परलोके उपयुज्यते ।", "61050": "<<मीनातिमिनोतिदीङां ल्यपि च>> - मीनाति । मीञ् हिंसायाम् । डुमिञ् प्रक्षेपणे । प्रमाय । उपदाय । प्रमातव्यम् । उपदातव्य् । एज्निमित्त इति विषयसप्तमी । तेन आदावात्वं पश्चाद्धञ् ।आतो यु॑गिति युक् । उपदाय इति सिध्यति । अन्यथा एरचि कृते तत आत्वे उपदा इति स्यात् । अदास्तेति ।दीङः प्रतिषेधःस्थाध्वोरित्त्वेट इति न घुत्वमित्यदितेति रूपं न भवतीत्येके । अन्ये तुस्थाध्वोरिच्चे॑त्येतत्तु न भवति, दीङोऽनुकरणे दारूपाऽसंभवेनाऽघुत्वात् । अत एव प्रनिदातेत्यादौनेर्गदे॑ति णत्वम् [अपि] न भवतीत्याहुः अयं भावः — द अवखण्डने॑ इत्यादेर्दारूपत्वं संभवति ।आदेच उपदेशे॑ इत्यस्याऽनैमित्तिकत्वात् ।दीङस्तु एज्निमित्तप्रत्ययविषये आत्वं, दा इत्यनुकरणे एज्निमित्तस्याऽभावित्वान्न घुत्वम् । एवं च घुप्रकृतित्वमपि नास्तीति णत्वस्याऽप्रसक्तिरिति । डीङ् । डीनः । डीनवान् । स्वादिषु पाठसामर्थ्यान्निष्ठायामिण्न । इटि हि सति व्यवधानात् ।ओदितश्चे॑ति नत्वं नस्यादिति । स्वादिषु पाठसमाथ्र्यादिड्व्यवधानेऽपि णत्वमस्त्विति न शङ्क्यम्, इष्टानुरोधात् । डयतीति प्रयोगस्तु भौवादिकस्य ।निष्ठा शीङ् इत्यत्र निष्ठेति योगविभागादकत्त्वे गुण इत्याहुः । मीङ् हिंसायाम् । मीञिति क्र्य#आदौ । प्राणवियोग इति । मीयते । प्राणैर्वियुज्यत इत्यर्थः । लीङ् । ली श्लेषण इति क्र्यादौ ।", "61051": "<<विभाषा लीयतेः>> - यकेति ।सार्वधातुके य॑गिति विहितेन । न तु श्यनेति । अन्यथालीङ॑ इत्येव ब्राऊयादिति भावः । यका निर्देशस्य फलमाह — लीलीङोरिति । ल्यपि — विलाय । विलीय । व्ीङ् । वृणोत्यर्थो — वरणम् । वृञ् वरण इति स्वादौ पठिष्यमाणत्वात् ।वरणे॑ इति वक्तव्ये वृणोत्यर्थ इति वचनं वैचित्र्यार्थम् । व्री वरण इति क्र्यादौ । माङ् । मायत इति ।घुमास्थे॑ तीत्तवं तु न, तत्राद्र्धधातुक इत्यधिकारात् ।", "61052": "", "61053": "<<अपगुरो णमुलि>> - अस्यपगोरमिति । असिमुद्यम्येत्यर्थः ।", "61054": "<<चिस्फुरोर्णौ>> - चिस्फुरोर्णौ ।आदेच उपदेशे॑ इत्यत आदित्यनुवर्ततेविभाषा लीयतेः॑ इत्यतो विभाषाग्रहणं च । तदाह — आत्वं वा स्यादिति ।", "61055": "<<प्रजने वीयतेः>> - प्रजने ।वीयते॑ रितिवी गतिप्रजनादौ,आदादिकस्य यका निर्देशः । अत्र केचिदुत्प्रेक्षयन्ति — वीतेरिति वक्तव्ये यका निर्देशाद्वेञोऽपि ग्रहणम्, तस्यापियकि संप्रसारणे वीधातुना समानरूपत्वात् । अतो द्वयोरपि प्रजनेऽर्थे आत्वं वा स्यात् । तत्र आत्वे, तदभावे च यद्यपि व्येञः व्याययतीति रूपं तुल्यं,शाच्छासे॑ति पुकोऽपवादतया युग्विधानात्, तथापि णिजन्तात्क्विप — व्याः व्यौ व्याः । आत्वाऽभावपक्षे व्यैः व्यायौ व्याय इत्यस्ति विशेषः । विभाषाविधानसामर्थ्यात्पक्षेऽपिआदेच उपदेशेऽशिती॑ति न प्रवर्तते । अनेकार्थत्वाच्च धातूनां व्ययतेरपि प्रयोजनोऽर्थ इति ।", "61056": "<<बिभेतेर्हेतुभये>> - बिभेतेर्हेतुभये । हेतुः — प्रयोजकः । इहआदेच उपदेशे॑ इत्यत एच आदित्यनुवर्तते,विभाषा लीयते॑रित्यतो विभाषा,चिस्फुरो॑रित्यतो णाविति च । तदाह — बिभेतेरेच इत्यादि ।", "61057": "", "61058": "<<सृजिदृशोर्झल्यमकिति>> - झलि किम् । ससर्ज । ददर्श । अकितीति किम् । सृष्टः । सृष्टवान् । दृष्टः । दृष्टवान् ।", "61059": "<<अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्>> - अनुदात्तस्य ।आदेच उपदेशेऽशिती॑त्यत उपदेश इत्यनुवर्तते । उपदेशे किम् । रुआप्तुम् । तुमुनि उदात्तः । ऋदुपधस्य किम् । कर्ता । झलीति किम् । ससर्प । अकितीति किम् । सृप्तः । असृपदिति । लृदित्त्वादङ् ।स्पृशमृशे॑ति सिज्विकल्पवार्तिके सृपं प्रक्षिप्यअरुआआप्सीदसार्प्सी॑दिति केचिदुदाहरन्ति, तत्प्रामादिकमित्याहुः । अयंसीदिति ।यमरमे॑तीट्सकौ ।", "61060": "<<ये च तद्धिते (अचि शीर्षः)>> - ये च त ।शीर्षंश्छन्दसी॑त्यतोऽनुवर्तनादाह -शीर्षन्नादेश इति । वा केशेषु । शीर्षण्य इति ।ये चाऽभावे॑ति प्रकृतिभावः । शिरस्यतीति ।न क्ये॑इति नियमेन पदत्वाऽभावाद्रुत्वाऽभावः ।", "61061": "<<पद्दन्नोमाशृन्निशसन्यूषन्दोषन्यकञ्छकनुदन्नासञ्छस् प्रभृतिषु>> - पद्दन्नो । शसादौ वेति ।अनुदात्तस्य चर्दुपधस्ये॑त्यतोऽन्यतरस्यामित्यनुवर्तत इति भावः । अत्र शस्प्रभृतयो निमित्ततयोपात्ताः, ते च पदाद्यादेशानुरूपान्प्रकृतिविशेषानाक्षिपन्तीत्याह-पाददन्तेति । यद्यसिशीर्षंश्छन्दसी॑त्यतःछन्दसी॑त्यनुवर्तते, तथापि भाषायामपि क्वचित्पदादयो भवन्ति,मासश्छन्दसी॑ति वार्तिके छन्दोग्रहणसामर्थ्यादिति वक्ष्यति । प्रामादिकमिति । तथाहि-॒आस्नो वृकस्य वर्तिका॑मिति मन्त्रे मुखादित्यर्थः, औचित्यात् ।वृकस्य चिद्वर्तिकामन्तरास्यात् इति मन्त्रान्तरसंवादाच्च । तथाहव्या जुह्वान आसनि॑ इति मन्त्रे मुखे इत्यर्थः । एवम्आसन्यं प्राणमूचुः॑ इत्यादावपि बोध्यम् ।", "61062": "", "61063": "पद्दन्नो। शसादौ वेति। `अनुदात्तस्य चर्दुपधस्ये`त्यतोऽन्यतरस्यामित्यनुवर्तत इति भावः। अत्र शस्प्रभृतयो निमित्ततयोपात्ताः, ते च पदाद्यादेशानुरूपान्प्रकृतिविशेषानाक्षिपन्तीत्याह-पाददन्तेति। यद्यसि `शीर्षंश्छन्दसी`त्यतः `छन्दसी`त्यनुवर्तते, तथापि भाषायामपि क्वचित्पदादयो भवन्ति, `मासश्छन्दसी`ति वार्तिके छन्दोग्रहणसामर्थ्यादिति वक्ष्यति। प्रामादिकमिति। तथाहि-`आस्नो वृकस्य वर्तिका`मिति मन्त्रे मुखादित्यर्थः, औचित्यात्। `वृकस्य चिद्वर्तिकामन्तरास्यात्` इति मन्त्रान्तरसंवादाच्च। तथा `हव्या जुह्वान आसनि` इति मन्त्रे मुखे इत्यर्थः। एवम् `आसन्यं प्राणमूचुः` इत्यादावपि बोध्यम्।", "61064": "<<धात्वादेः षः सः>> - धातुग्रहणं किम् । षट् षड् । आदेः किम् । लषति ।", "61065": "<<णो नः>> - णो नः । धातोरिति ।धात्वादेः षः सः इत्यतोऽनुवर्तनाद्धात्वादेरित्येव । नेह — अणति । णोपदेशान्पर्युदासमुखेनाह — णोपदेशास्त्विति ।नर्द शब्दे॑ ।नट अवस्यन्दने॑ । चुरादिः । यस्तु नट नृत्ताविति घटादिः स नेह गृह्रते, नाटीति दीर्घनिर्देशात् ।नाथृ नाधृ याच्ञादौ॑ ।टुनदि समृद्धौ॑ ।नक्क नाशने॑ ।नृ नये॑ ।नृती गात्रविक्षेपे॑ । एभ्योऽष्टाभ्यो भिन्ना इत्यर्थः । तवर्गेति । तेषां मते तु पञ्चब्यो भिन्ना णोपदेशाः ।", "61066": "<<लोपो व्योर्वलि>> - लोपो व्योर्वलि ।व्योर्लोप॑इति वक्तव्येवेरपृक्तलोपाद्वलिलोपः पूर्वविप्रतिषेधेन॑इति ज्ञापयितुमादौ विधेयनिर्देशः कृतः । तेन सुखीयतेः क्विपि सुखीरिति सिद्ध्म् ।", "61067": "", "61068": "<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> - हल्ङ्याब्भ्यो ।दीर्घा॑दित्येतन्ङ्यापोरेव विशेषणं न तु हलोऽसंभावदित्याहदीर्घौ याविति । परमिति । न त्विदंयः॒॑स॑ इत्यादावतिव्याप्तेः ।कर्ता॒॑सखे॑त्यादावव्याप्तेश्च । यद्यपि त्यदाद्यत्वविधौविभक्ता॑वित्यस्य विषयसप्तमीत्वे स्वीकृतेया॑से॑ त्यादौ नोक्तदोषः, सुविभक्तेराबन्ताद्विहितत्वस्य संभवात् । तथा अनङ्विधौ सावित्यस्य विषयसप्तमीत्वेकर्ता॒॑सखे॑त्यादावपि न दोषः, हलन्ताद्विहितस्य सोः सम्भवात्तथापिबहुश्रेयसो त्यत्राऽव्यप्तिप्रसङ्ग इथि भावः । हलिति । तस्य सुतिसीत्येवंरूत्वमेकादेशविकृतन्यायेन बोध्यम् । लुप्यत इति । यद्यपीहलोपो व्योर्वली॑त्यतोलोप॑ इत्यनुवर्तते, तच्च तत्र भावसाधनं, तथापीह कर्मसाधनं,ह॑लिति प्रथमान्तेन सामानाधिकरण्यादिति भावः । निष्कौशाम्बिः । अतिखट्व इति । प्रादिसमासेगोस्त्रियो॑रिति ह्रस्वः नन्विह समस्तस्य ङ्यबन्तत्वं नास्ति, न च स्त्रीप्रत्यये तदादिनियमो नास्तीति वाच्यम्, अनुपर्जने हि तथा, इह तूपसर्जनत्वात्तदादिनियमोऽस्त्येव । अन्यथाअतिकारीषगन्ध्यापुत्र॑इत्यत्र ष्यडन्तपूर्वपदलक्षणसंप्रसारणप्रसङ्गात् । सत्यम् । तथाप्युत्तरपदस्य ङ्याबन्तत्वेन सोस्ततः परत्वाऽनपायाद्दीर्घग्रहणाऽभावे सुलोपः स्यादेव । नहीदं ङ्याब्ग्रहणं विहितविशेषणमित्यधुनैवोक्तम् । स्यादेतत् । गङ्गामात्मन इच्छति गङ्गीति । ततः क्किपि अल्लोप चगङ्गीः॑ । इह ईकारस्य स्थानिवद्भावेनाप्त्वाद्दीर्घत्वाच्चाऽतिव्याप्तिः । नचाऽल्लोपस्य स्थानिवत्त्वात्सोरापः परत्वं नेति शङ्क्यम् ।॒क्कौ लुप्तं न स्थानिव॑दिति निषेधादिति चैन्मैवम्, ङी-ई आ-आबिति पश्लिष्य दीर्घग्रहणस्य प्रत्याख्यातत्वेन प्रकृते आकाररूपस्य आपोऽभावादुक्तातिप्रसङ्गाऽभावात् । निष्कौशाम्बीयतेः क्किपि तुनिष्कौशाम्वी॑ति भवत्येव, ईकाररूपङीबन्तत्वेन सुलोपप्रवृत्तेः । अपृक्तं किं बिभर्तीति । इदं च पत्र्यदाहरणं चित्यं, विशिष्टस्याऽहल्वात् ।सुतिसीनां ह॑लिति क्लिष्टं व्याख्यायाऽतिप्रसङ्गापादमस्यानुचितत्वात् । यत्तु व्याचख्युः — ॒सुरां॑ सुनोतीति सुरासुत्, तमाचष्टे सुरासयति, ततः किप् — सुराः । सुरासौ ।सुरासः । इह सुनोतेरवयवस्य सस्य लोपं व्यवर्तयितुमप्टक्तग्रहण॑मिति । तदपि चिन्त्यम् । परस्परसाहचर्येण सुतुसीनां विभक्तिनामेव ग्रहणात् । अन्यथा सिचो लोपापत्तेरुक्तत्वात् । प्रत्ययाऽप्रत्याययोः प्रत्ययस्यैव ग्रहणाच्च । यत्तुतित्स्वरित॑मिति सूत्रे कैयटेनोक्तं-॒न क्वचिदियं परिभाषा भाष्यवातिककाराभ्यामाश्रिते॑-ति, तद्रभसात् ।॒अङ्गस्ये॑ति सूत्रे भाष्यादौ तस्याः पठितत्वात्स स्वयमपि तत्र व्याख्यातत्वाच्च । संयोगान्तलोपस्यासिद्धत्वादिति.ननु संयोगान्तलोपो नाऽसिद्धः,न ङिसंबुज्द्यो॑रिति सूत्रे संबुद्धिग्रहणाज्ज्ञापकात् । न चैवंगोमा॑नित्यादावपि नलोपापत्तिः, ज्ञापकस्य विशेषविषयत्वात् । यत्र हि नकारविभक्त्योरानन्तर्यं तत्रैव सिद्धत्वं, व्याख्यानात् । यत्त्वाहुः-॒हे ब्राहृआन्निति नपुंसकार्थत्वान्नैतज्ज्ञापक॑मिति, तन्न, लुका लुप्ते प्रत्ययलक्षणाऽभावात् ।संबुद्धौ वा नपुंसकाना॑ मित्यस्यावश्यकत्वाच्च । समबुद्धिग्रहणस्य नपुंसकविषयत्वाऽसंभवेनोक्तज्ञापकस्य सुस्थत्वात् । तस्मान्नलोपो न प्रयोजनमिति चेदिह तर्हिअभिनोऽत्रे॑त्यत्र रोरुत्वं न स्यात् । सिपिदश्चे॑ति रुत्वे विभक्तिसकारस्य संयोगान्तलोपे तस्याऽसिद्धात्वात् । तथाअबिभर्भवान्॒अजागर्भवा॑नित्यत्र तिलोपो न स्यात्,रात्सस्ये॑ति नियमात् ।तदुक्तम्-॒संयोगान्तस्य लोपे हि नलोपादिर्न सिध्यति । रात्तु कतैर्नैव लोपः स्याद्धलस्तस्माद्विधीयते॑इतिष नलोपादिरित्यादिशब्देनोत्त्वं सङ्गृह्रते । अत्रेदमवधेयम्-ङ्याब्ग्रहणं सोर#एव विशेषणं न तु तिस्योः, व्याख्यानात्, तेन मालेवाचरत्-अमलात् । गङ्गेवाचरत्-अगङ्गादित्यत्र नातिप्रसङ्गः । तथा चहलन्तात्परं सुतिसीत्येतदपृक्तं हल्लुप्यते, दीर्घौ यौ ङ्यपौ तदन्तात्परंसु॑ इत्येतदपृक्तं हल्लुप्यते॑इति वाक्यार्थोऽत्र पर्यवसन्नः । यत्तु व्याचख्युः-ङ्याब्भ्यां तिस्योरसंभव एवेति, तत्रङ्यन्तादसंभव॑इति सत्यम् । आबन्तात्तु आचारक्किबन्ताल्लङस्तिप्सिपौ स्त एव ।अगङ्गात्॒अगङ्गा इति यथा । न च शपा व्यवधानम्, एकादेशस्य पूर्वान्तत्वेन ग्रहणात् । न च स्थानिवद्भावः, अपूर्वविधित्वात् । अन्ये त्वाहुः — ङ्याब्ग्रहणमसंभवादेव तिस्योर्विशेषणं न भवतीति यदुक्तं तत्सम्यगेव । नच अगङ्गादगङ्गा इत्यत्र संभवोऽस्तीत्युक्तमिति वाच्यं, तत्र स्थानिभूतस्य शपः पूर्वस्मान्निमित्तभूतादापः परयोस्तिस्योर्लोपे कर्तब्ये स्थानिवद्भावेन शपा व्यवधानात्तिस्योलौपस्याऽप्रसक्तेः । न च फलाऽभावात्पञ्चमीसमासपक्षे न स्वीक्रियत इत्यपि वाच्यं, तत्प्रयोजनस्य प्रागेव प्रदर्शितत्वादिति । सखेति । समानं ख्यायते जनैरितिसखा॑ ।ङिच्च॑यलोप॑ इति चानुवर्तमानेसमाने ख्यः स चोदात्तः॑इति ख्या इत्यस्मादिण्, समानशब्दस्योदात्तः, सभावश्च । न चेह सुविभक्तिसंनियोगेन सखिशब्दस्यानङि कृते संनिपाकपरिभाषायाहल्ङ्या॑बिति सुलोपो न भवतीति शङ्क्यम्,स्वतन्त्रः कर्ते॑त्यादिनिर्देशेनाऽनङो नकारमाश्रित्य सुलोपे कर्तव्ये तत्परिभाषाया अप्रवृत्तेः ।", "61069": "<<एङ्ह्रस्वात् सम्बुद्धेः>> - संबुद्ध्याक्षिप्तस्येति । तदन्तस्यैव संज्ञाभ्युपगमे तु सम्बुद्ध्याऽङ्गमाक्षेप्तुं न शक्यते इति बोध्यम् । ह्रस्वात्परत्वं नास्तीति । तथा च सूत्रे एङ्ग्रहणमावश्यकमिति भावः । किं चइमां किमाचामयसे न चक्षुषी॑इति श्रीहर्षप्रयोगेसे॑ इति पृथक्पदं,सलक्ष्मीके हे दमयन्ती॑त्यर्थ इतिनिगरणचलनार्थेभ्यश्चे॑ति सूत्रे मनोरमायां व्युत्पादितम् । ततश्च तत्रापि संबुद्धिलोपार्थमेङ्ग्रहणमावश्यकमेव । स्यादेतत् । एङ्ग्रहणस्यसे॑ इत्यत्र सावकाशतयाहे हरे॑ इत्यादौ संबुद्धिलोपो न स्यात्, संनिपातपरिभाषाविरोधात् । तथा ह्रस्वग्रहणस्यापिहे रामे॑त्यत्र सावकाशत्वात्हे गौरी॑-त्यादौ परत्वाद्धल्ङ्यादिलोपं बाधित्वाअम्बार्थनाद्यो॑रिति ह्रस्वे कृते संबुद्धिलोपो न स्यात् । लक्ष्मीशब्दे तु हल्ङ्यादिलोपस्याप्यभावाद्धे लक्ष्मीत्यत्र सुतरां संबुद्धिलोपो न स्यात् । सत्यम्,गुणात्संबुद्धे॑रिति वक्तव्ये एङ्ह्रस्वग्रहणसामर्थ्यात्संनिपातपरिभाषां बाधित्वाऽपि संबुद्धिलोपः प्रवर्तते इति दिक् ।", "61070": "<<संहितायाम्>> - संहितायाम् । इत्यधिकृत्येति । एतच्चइकोयणची॑त्यत्रैव वक्तव्यमपि सूत्रक्रमानुरोधेनात्रोक्तम् ।", "61071": "<<ह्रस्वस्य पिति कृति तुक्>> - कथं तर्हि उपेयमिति । ईङ्गताविति दैवादिकाद्यत् । * वृ इति वृञो ग्रहणं । न वृङ इति ।ईडवन्दे॑ति ज्ञापकात् । तत्र हि ईडवन्दिभ्यां साहचर्यादात्मनेपदिनो वृङ एव ग्रहणमिति भावः । परस्यापीति ।ओरावश्यके॑ इति प्राप्तस्य ण्यस्यावकाशोऽवश्यलाव्यमिति.आवश्यकाऽविवक्षायां स्तुत्य इत्यादौ क्यपोऽवकाशः । अवश्यस्तुत्य इत्यादावुभयप्राप्तौविप्रतिषेधे पर॑मिति ण्यत्स्यात्, तन्माभूदिति पुनः क्यबुक्तिरिति भावः । * आङ्पूर्वादञ्जेः संज्ञायामुपसङ्ख्यानम् । आङ्पूर्वाञ्जेरिति । ननु ण्यत्येव नलोपः कस्मान्नोक्कत इति चेन्न, कुत्वप्रसह्गातित्स्वप्रसङ्गाच्च । तस्मात्क्यबन्त एवाऽऽज्यशब्दः । नन्वेवमवग्रहः प्राप्नोति । नचेष्टापत्तिः ।आज्यं किमासी॑दित्यादौ॑ पदकारैस्तदकरणादितिचेत् । अत्र भाष्यम् — न लक्षणेन पदकारा अनुवर्त्त्याः पदकारैस्तु लक्षममनुवर्त्त्यमिति । सत्यपि अवान्तरपदत्वेऋत्विजं॑,पूर्वेभिः॑ इत्यादाविव संप्रदायानुरोधेन क्वचिदवग्रहो न क्रियते इत्यादि तदाशयः ।", "61072": "संहितायाम्। इत्यधिकृत्येति। एतच्च `इकोयणची`त्यत्रैव वक्तव्यमपि सूत्रक्रमानुरोधेनात्रोक्तम्।", "61073": "<<दीर्घात् पदान्ताद्वा>> - पदान्ताद्वा । प्रकृतेन दीर्घेण पदविशेषणात्तदन्तविधिलाभेनेष्टसिद्धावप्यन्तग्रहणं पदान्तस्यैव तुग्यथा स्यात्पदस्य मा भूदित्येतदर्थम् । अन्यथा पदविधित्वात्समर्थपरिभाषोपस्थितौ समर्थेषुलक्ष्मीच्छाये॑त्यादिष्वेव स्यात्,तिष्ठतु कुमारी, छत्रं हर देवदत्ते॑त्यत्र न स्यात्, असामर्थ्यात् । एवंन पदान्ताट्टो॑रिति सूत्रेपदाट्टो॑रिति वक्तव्येऽन्तग्रहणंदुष्टाः षट्,सन्तस्त्रय॑ इत्यत्रापि ष्टुत्वनिषेधार्थमित्याहुः ।इति तत्त्वबोधिन्यां हल्सन्धिप्रकरणम् । — — — — — — — — — — — — — अथ जुहोत्यादयः॥अथ जुहोत्यादयः । हु दाना । यद्यपि स्वस्वत्वनिवृत्तिपूर्वकं परस्वत्वाऽऽपादनमेव दानं, तथापि प्रयोगमनुसृत्य व्याचष्टे — प्रक्षेप इति । वैध इति । आहवनीयादौ । इविष इति । विधिबोधितद्रव्यस्येत्यर्थः । स्वभावादिति । तेन आहवनीये पुरोडाशे प्रक्षेप्तव्ये प्रमादेन कोपेन [कामेन] वा पाषाणः प्रक्षिप्तः, पुरोडाशो वा गर्तादौ, स तु प्रक्षेपो न होम इति ज्ञेयम् । परस्मपैदिन इति । तेनहोष्ये॑ इति केषांचित्प्रयोगोऽसाधुरेव ।स्मराग्नौ जुह्वानाः॑ इत्यानन्दलहरीप्रयोगस्तु साधुरेव, शानचोऽप्रवृत्तावपि चानशन्तत्वात् ।", "61074": "", "61075": "सेनासुरेति। यदि हि छस्य तुक्?स्यात्तर्हि छस्य चर्त्वे सति चद्वयं स्यात् संनिपातपरिभाषया चर्त्त्वाऽप्रवृत्तौ तु छकारोपरि चकारः श्रूयतेति भावः।", "61076": "पदान्ताद्वा। प्रकृतेन दीर्घेण पदविशेषणात्तदन्तविधिलाभेनेष्टसिद्धावप्यन्तग्रहणं पदान्तस्यैव तुग्यथा स्यात्पदस्य मा भूदित्येतदर्थम्। अन्यथा पदविधित्वात्समर्थपरिभाषोपस्थितौ समर्थेषु `लक्ष्मीच्छाये`त्यादिष्वेव स्यात्, `तिष्ठतु कुमारी, छत्रं हर देवदत्ते`त्यत्र न स्यात्, असामर्थ्यात्। एवं `न पदान्ताट्टो`रिति सूत्रे `पदाट्टो`रिति वक्तव्येऽन्तग्रहणं `दुष्टाः षट्`, `सन्तस्त्रय` इत्यत्रापि ष्टुत्वनिषेधार्थमित्याहुः।", "61077": "<<इको यणचि>> - इकोयणचि । प्रत्याहारग्रहणेषु तद्वाच्यवाच्ये निरूढा लक्षणा,यूस्त्र्याख्यौ॑ल्वादिभ्यः॑ इति च निर्देशात् । तेन इक्शब्देन षट्षष्टिर्गृह्यन्ते, यण्शब्देन चत्वारः, भाव्यमानस्याऽणः सवर्णाग्राहकत्वात् । एवं चेह यणि तद्वाच्यवाच्ये लक्षणा तु न शङ्क्यैव, भाव्यमानस्याऽणः सवर्णग्राहकत्वाऽभावेन यण्वाच्ययकारादिवाच्यानामभावात् । अतो नास्ति यथासङ्ख्यम् । न च लक्ष्यार्थबोधात्पूर्वभाविनं शक्यार्थज्ञानमादाय यथासङ्ख्यमस्त्विति वाच्यम्; एवमपि तृतीयचतुर्थाभ्युमृकारऌकाराभ्यां प्रत्येकं त्रिंशदुपस्थितौ ऌवर्णानां रेफादेशस्य, ॠवर्णानां लादेशस्य च प्रसङ्गात् । तस्मादिहस्थानेऽन्तरतमः॑ इति सूत्रेणैवेष्टसिद्धिरित्यनुपदं वक्ष्यति-॒स्थानत आन्तर्या॑दिति । अचीति ।कस्मादचि परे॑ इत्याकाङ्क्षायामर्थादिक इति संबध्यते । संहितायां विषय इति ।दध्यत्रे॑-त्यादौ कार्यिनिमित्तयोर्यदाऽतिशयितसंनिधिर्विवक्ष्यते तदैव यण्भवतीति भावः ।", "61078": "<<एचोऽयवायावः>> - एचः क्रमादिति । नन्वत्रैव यथासङ्ख्यसूत्रं वक्तुमुचितम् । प्रत्याहारग्रहणेषुतद्वाच्यवाच्ये निरूढलक्षाभ्युपगमेऽपि लक्ष्यार्थबोधात्पूर्वभाविशक्यार्थज्ञानमादाय यथासङ्खयत्वस्यावश्यं वक्तव्यत्वात् । अन्यथा एचां क्रमेणायवायावो न सिध्येरन् । मैवम् । अन्तरतमत्वेनापि तत्सिद्धेः । तथाहि एचः सन्ध्यक्षराणि । ततश्च संवृताकारतालव्यस्य एकारस्य संवृताकारतालव्योऽय्, संवृताकारोष्ठस्य ओकारस्य तादृश एव अव्, ऐचश्चोत्तरभूयस्त्वादैकारे इकारोऽध्यर्थमात्रः, अकारस्त्वर्धमात्र एव । एवमोकारेऽप्युकारोऽध्यद्र्धमात्रः, अकारस्त्वर्धमात्रः । एवंच विवृताकारतालव्यस्य ऐकारस्य विवृताकारतालव्य आय् । विवृताकारौष्ठ आव्॥", "61079": "<<वान्तो यि प्रत्यये>> - वान्तो यि प्रत्यये । यीति किम् । गोभ्याम् । नौभ्याम् । प्रत्यये किम् । गोयानाम् । यकारादाविति ।येन विधि॑रिति सूत्रस्यापवादभूतेनयस्मिन्विधिस्तदादावल्ग्रहणे॑ इति वार्तिकेनाऽयमार्थो लभ्यते । ओदौतोरिति । [॒उपस्थितानुपस्तितयोरुपस्थितं बलीयः॑ ।] पूर्वसूत्रे तयोरेव वान्तौ प्रति स्थानित्वेन निर्णीतत्वादिति भावः ।अद्वेति । भाषार्थमिदम् । गोर्यतौ लोकेऽपि वान्तादेशः स्यात्समुदायेनाऽध्वनः परिमाणं गम्यते चेदित्यर्थः ।गव्यूतिः स्त्री क्रोशयुग॑मित्यमरः । निपातित इति । क्तिन्नन्तत्वेनेत्यर्थः । ननुगव्य॑नाव्य॑मित्यत्र भत्वेनाऽपदत्वाद्वलोपाभावेऽपिगव्यूति॑रित्यत्रहलि सर्वेषा॑मिति,लोपः शाकल्यस्ये॑ति वा लोपः स्यादत आह — वान्तैत्यत्रेति । वकारो न लुप्यत इति । एवं चहलि सर्वेषा॑मिति सूत्रेव्यो॑रित्यनुवृत्तावपि वकारं परित्यज्ययस्य लोपः स्या॑दिति व्याख्यास्यमानं सङ्गच्छते । एतच्च तत्रैव स्फुटीकरिष्यते ।", "61080": "<<धातोस्तन्निमित्तस्यैव>> - धातोस्तन्निमित्तस्यैव । पूर्वेण सिद्धे नियमार्थमिदम् । अत्र पूर्वसूत्रमनुवर्तते,एच॑ इति च । तच्छब्देन यादिप्रत्ययः परामृश्यते योग्यत्वान्नतु संनिहितोऽपि धातुः । नहि स्वावयवस्यैचः स्वयं निमित्तं भवति । एवकारस्त्विष्टतोऽवधारणार्थः । अन्यथा हितन्निमित्तस्यैचो यदि भवति तर्हि धातोरेवे॑ति विपरीतनियमः संभाव्येत । ततश्चबाभ्रव्य॑ इत्यत्र न स्यात् । धातोस्त्वतन्निमित्तस्यापि स्यात्-ओयते इत्यादौ । तदेतत्सकलमभिप्रेत्याह-यादो प्रत्यये परे धातोरेचश्चेद्वान्तादेशा इत्यादि । लव्यमिति । लुनातेरचो यदिति यत् । सार्वधातुकार्धधातुकयोः॑ इति गुणः । अवश्यलाव्यमिति ।ओरावश्यके॑ इति ण्यत् । मयूरव्यंसकादित्वात् समासः ।लुम्पेदवश्यमः कृत्ये॑ इति मकारलोपः ।लव्य॑मित्यादेः पूर्वसूत्रेणैव सिद्धे नियमसूत्रमिदं व्यर्थमित्याक्षिपति-तन्निमित्तस्यैवेति किमिति । एकदेशाक्षेपेऽपि सूत्रस्यैवायमाक्षेपः पर्यवसन्नः । ओयत इति । आङ्पूर्वाद्वेञः कर्मणि लट् ; यगात्मनेपदे यजादित्वात्संप्रसारणम् । पूर्वरूपम् ।अकृ॑दिति दीर्घः । आद्गुणस्य परादिवद्भावेन दातोरेच्यत्वेऽपि यादिप्रत्ययनिमित्तकत्वं नास्तीति भावः । ओयत इति । वेञः कर्मणि लङ् । यगादि प्राग्वत् ।आडजादीनाम् ।आटश्चे॑ति वृद्धिः ।", "61081": "<<क्षय्यजय्यौ शक्यार्थे>> - क्षय्यमिति ।शकिलिङ् चे॑ति यत् । चात्कृत्याः । क्षेयमिति ।अर्हे कृत्यतृचश्चे॑ति यत् ।", "61082": "<<क्रय्यस्तदर्थे>> - प्रकृत्यर्थायेति । प्रकृत्यर्थो द्रव्यविनिमयः ।", "61083": "", "61084": "", "61085": "<<अन्तादिवच्च>> - अन्तादिवच्च । इहएकः पूर्वपरयोः॑ इत्यनुवर्तते, यथासङ्ख्यं चाश्रीयत इत्यभिप्रेत्याह-पूर्वस्यान्तवदिति । स्थानिवत्सूत्रेणैव गतार्थमिदम् । न चाल्विध्यर्थमिदमस्त्विति शङ्क्यम् ; अस्याऽप्यल्विधावनिष्टत्वात् । अन्यथाअयजे इन्द्र॑मित्यत्र सवर्णदीर्घापत्तेः ।", "61086": "<<षत्वतुकोरसिद्धः>> - षत्वतुकोः । प्रासङ्गिकषत्वविषयमुदाहरति — कोऽसिचदिति । को — असिचदिति स्थितेएङः पदान्तादती॑ति पूर्वरूपमेकादेशः । तस्यअन्तादिवच्चे॑ति परादिवत्त्वेनसात्पदाद्यो॑रिति निषेधाऽभावादिणः परत्वेन षत्वं प्राप्तमेकादेशस्याऽसिद्धत्वे सति अकारेण व्यवधानादिणः परत्वाऽभावान्न भवति । प्रकृतं ल्यपि कार्यमुदाहरति — अधीत्येति । विधायेति । दधातेहिर्न ।", "61087": "", "61088": "<<वृद्धिरेचि>> - वृद्धिरेचि । पूर्वसूत्रादादित्यनुवर्तते । तदाह-आदेचीति ।कृष्णे॑ति संबोधने पृथक् पदम् । एवंदेवे॑त्यपि । इत्थं चात्र षष्ठीसमासत्वमभ्युपेत्यपूरणगुणे॑ति निषेधमाशङ्क्यसंज्ञाप्रमाणत्वा॑दित्यादिनिर्देशेनगुणेन निषेधोऽनित्यः॑ इति केषाचिद्व्याख्यानं नात्यन्तावश्यकमिति बोध्यम् ।", "61089": "<<एत्येधत्यूठ्सु>> - एत्येधत्यूठसु । अत्रएची॑त्यनुवर्तते । तच्च एत्येधत्योर्विशेषणं न तूठः, असंभवात् ।आद्गुणः॑ इत्यत आदित्यनुवर्तत एवाऽतो व्याचष्टे-अवर्णादेजाद्योरिति । प्रष्ठौह इति । प्रष्ठं वहतीति प्रष्ठवाट् ।वहश्चे॑ति ण्विः । ततः शसिवाह ऊठ् । गुणापवादतयाऽनेन वृद्धिः । प्रेदिधदिति । प्रपूर्वस्यैधतेण्र्यन्तस्य लुङि रूपम् ।न माङ्योगे॑ इत्याडागमाऽभावः । पुरस्तादिति ।पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते नोत्तरा॑निति न्यायेनेत्यर्थः । अक्षादिति ।आ॑दित्यनुवर्तते,अची॑ति च । तेन पूर्वपरयोर्वर्णयोरेव भवति । एवमन्यत्राप्यूह्रम् ।अक्षादूहिन्यामुपसङ्ख्यानम् । अक्षौहिणीति । ऊहः=समूहः, सोऽस्त्यस्याः सा ऊहिनी । अक्षाणामूहिनीति विग्रहः । परिमाणविशेषविशिष्टा सेना अक्षौहिणी ।पूर्वपदात्संज्ञायाम्-॑ इति णत्वम् ।अक्षणा॑मित्यस्यऊह॑-शब्देन समासे तत इनौ तुअक्षौहिणी॑त्येव भवति, न तु तत्र वृद्धिः, अन्तरङ्गेण गुणेन बाधात् । अपवादभूताया अपि वृद्धेरूहिनीशब्देन समासे चरितार्थत्वात् । यथोक्तं प्राक्यद्यपवादोऽन्यत्र चरितार्थस्तर्हि परान्तरङ्गभ्यां बाध्यते॑ इति ।स्वादीरेरिणोः ।ईरेरिण्योः इति क्वाचित्कोऽपपाठः ।स्वैरी॑ति णिन्यन्तस्य अस्त्रियां वृध्द्यभावप्रसङ्गात् ।ईरि॑न्ग्रहणस्य फलमाह-स्वेनेरितुमिति । यदा त्वी(रणमी)र इति घञन्तेन स्वशब्दस्य समासेस्वादीरे॑ इति वृद्धौ कृतायां मत्वर्थीय इनिः, यदा वा मत्वर्थीयेनिप्रत्ययान्तेन ईरिञ्शब्देन स्वशब्दस्य समासस्तदापि तदेकदेश ईरशब्दोऽस्त्येवेति पृथगीरिन्ग्रहणं व्यर्थं स्यादिति भावः ।स्वैरीति ।सुप्यजातौ॑ इति णिनिः । उपपदसमासः । स्वैरिणीति । ङीपः प्राग्भागमीरिञ्शब्दमादाय वृद्धिः । केचित्तु लिङ्गविशिष्टपरिभाषयाऽत्र वृद्धिरित्याहुस्तन्निष्फलमिति । भावः । नानर्थकस्येति । उपस्थितस्याऽर्थस्य शब्दं प्रति विशेषणत्वसंभवे त्यागाऽयोगादिति भावः । प्रैष्य इति । एषसाहचर्यादेष्योऽप्यनव्ययं गृह्रते; तेन ण्यन्तादिषेः त्त्को ल्यपि पररूपमेव, न तु वृद्धिः । प्रेष्य गतः । लघूपधगुणमाशङ्क्याह-तयोर्दीर्घोपधत्वादिति । प्रवत्सतरेति । इह केचिद्वत्सशब्दं वत्सरशब्दं च प्रक्षिपन्ति, तद्भाष्यादावदृष्टत्वादुपेक्ष्यम् । वत्सतरार्णमिति । तकारमकारयोर्द्वित्वविकल्पाच्चत्वारि रूपाणि । रेफात्परस्य तुअचो रहाभ्या॑मिति द्वित्वेयणो मयः॑ इति वचनान्तरेण पुनर्द्वित्वे एकणं द्विणं त्रिणमिति द्वादश ।खयः शरः॑ इति सकारद्वित्वे चतुर्विंशतिः(२४) । न चेहशरोऽची॑ति द्वित्वनिषेधः शङ्क्यः, तस्य सौत्रद्वित्वमात्रविषयत्वात् । अतएवखयः शरः॑ इति वार्तिकस्यवत्स्सरः॑अप्स्सराः॑ इत्युदाहरणं भाष्ये दत्तम् । न च वदेः सरप्रत्यये परतश्चर्त्वे कृते तस्याऽसिद्धत्वात्सस्य खयः परत्वं नेति शङ्क्यम् ;पूर्वत्रासिद्धीयमद्वित्वे॑ इत्युक्तेः । अतएव मनोरमायांषट् सन्तः॑ इत्यत्र टकारात्परस्य सस्य द्वित्वं स्वीकृतमिति दिक् ।", "61090": "<<आटश्च>> - आटश्च । यद्यपि इह ङयिवृद्धिरेची॑त्येव सिद्धं, ङे सिङ्सोर्ङेरामि च सवर्णदीर्घेण, तथाप्यैन्दिददित्याद्यर्थं सूत्रमिहापि न्याय्यत्वादुपन्यस्तम् ।अजादीनामटा सिद्धम्आडजादीनाम्इति सूत्रं मास्तु इति वदतो वार्तिककारस्य मतेतुअटश्चे॑त्येव सूत्रमिति बोध्यम् ।", "61091": "<<उपसर्गादृति धातौ>> - उपसर्गादृति । उपसर्गात्किम् , खट्वच्र्छति । ऋति किम् , उपेतः । तपरकरणमुत्तरार्थम् । इह दीर्घर्कारादेर्धातोरसंभवेन व्यावर्त्त्याऽलाभात् । धातौ किम् , उपर्कारः । नन्वत्रउपेत्युपसर्ग एव न भवति, क्रियायोग एवोपसर्गत्वात् । उपगत ऋकार इति विगृह्र क्रियायोगत्वसंपादनेऽपियत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गत्युपसर्गसंज्ञः॑ इति ऋकारं प्रति अनुपसर्ग एव । तथा चाऽकृतेऽपि धातुग्रहणे ऋकारादिधातावेव वृद्धिर्भविष्ट्यनुपसर्गेण धातोराक्षेपात्, नत्वत्रेति चेत्सत्यम्; अतएवयोगविभागेन पुनर्विधानार्थ॑मित्यनुपदं वक्ष्यतीति न काप्यनुपपत्तिः ।", "61092": "<<वा सुप्यापिशलेः>> - सुब्धाताविति । सुबन्तावयवके इत्यर्थः । सुबन्तस्य धातोरसंभवात् । यद्यपिऋज गतौ॑ इत्यादीनां क्विपि धातुत्वं सुबन्तत्वं च संभवति, तथापि न तादृशेषु तपरत्वव्यावर्त्त्यत्वं प्रसिद्धं, नामधातुष्वेव तत्संभवतीति न त एवेह गृह्यन्ते इति भावः । प्रार्षभीयतीति ।शरोऽची॑ति वक्ष्यमाणेन द्वित्वनिषेधः ।", "61093": "<<ओतोऽम्शसोः>> - गौरित्यादि ।चित्रगु॑रित्यत्र तु न भवतिओत॑इति वक्ष्यमाणत्वात् ।तद्धितो यः शस् स ओकारान्तान्न संभवती॑त्याशयेनाह — शसा साहचर्यादिति ।सुपी॑ — त्यनुवर्तनाच्चेत्यपि काशिकयामुक्तम् । कैयटस्तुतद्धितोऽपि शसस्तीति कथमिह साहचर्यादम्रः सुप्त्व॑मित्याशङ्क्य,अचीत्यधिकारदजादि शस सुबेव संभवति, न तु तद्धित॑इत्याह । अचिनवमिति । चिनोतेर्लह्शब्देशस्य मिपःतस्थस्थामिपाम् — — ॑इत्यम् ।ओतो णिदिति वाच्यम् । ओतो णिदिति वाच्यमिति ।गोत॑इत्यपहायओत॑इति वाच्यमित्यर्थः । एवंचगा॑मित्यत्र परत्वाद्धृद्धिः स्यादिति शङ्कया अनवकाशः, नरवकाशतया आत्वेन वृद्धेरेव बाधनात् ।इत्योदन्ताः ।", "61094": "<<एङि पररूपम्>> - एङि पररूपम् ।एङ्ये॑ङित्येव सिद्धेपर॑-ग्रहणमुत्तरार्थम् ।रूप॑ ग्रहणं तु स्पष्टार्थम्,अमि पूर्व॑वदेङि पर इत्येव सिद्धेः । प्रेजत इति ।एजृ दीप्तौ॑ । कम्पनार्थस्तु परस्मैपदी । प्रेजति ।एवे चाऽनियोगे । नियोगोऽवधारणमिति । निर्धारणमित्यर्थः । तदुक्तम्-॒अनवकॢप्तौ यदा दृष्टः पररूपस्य गोचरः । एवस्तु विषयो वृद्धेर्नियमेऽयं यदा भवेत् ।॑ इति । अस्यार्थः-अनवकॢप्तौ अनिश्चये यदा एवकारो दृष्टः स पररूपस्य विषयः । यस्तु नियमे निर्धारणे यदा दृष्टः स वृद्धेर्विषय इति । ये तुनियोगे त्वद्यैव गच्छे॑ति प्राचोग्रन्थे स्थितस्य प्रत्युदाहरणस्यानुगुणतयानियोजनं नियोगो व्यापार॑ इति व्याचक्षते, तेषांयदैव पूर्वं ज्वलने शरीरं॑ममैव जन्मान्तरपातकाना॑मिति लौकिकप्रयोगाः,तपस्तपःकर्मकस्यैव॑लङः शाकटायनस्यैवे॑त्यादिसौत्रप्रयोगाश्चन सिद्धयेयुः । उदाहृतवृत्तिश्लोकविरोधश्च स्यात् ।अवधारण॑मिति व्याकुर्वतां तु सर्वेष्टसिद्धिः ।(६६) अचोऽन्त्यादि टि.१.१.६४ ।अचोऽन्त्यादि टि ।अच॑ इति निर्धारणे षष्ठी । जातावेकवचनं, तदाह-अचां मध्य इति ।शकन्ध्वादिषु पररूपं वाच्यम् । शकन्ध्वादिष्विति । शकन्ध्वादिविषये तत्सिद्धयनुगुणं पररूपं वाच्यमित्यर्थः । अतएवाह-तच्च टेरिति । यदि तुआ॑दित्यधिकारादकारस्यैवेष्येत तर्हि मनीषा पतञ्जलिरिति न सिध्येत् । केचित्तु मनःपतच्छब्दयोः पृषोदरादित्वादन्त्यलोपे अकारस्यैव पररूपमाहुः । शकानां देशविशेषाणामन्धुः कूपः । कर्काणां राजविशेषाणामन्धुः कर्कन्धुः अटतीत्यटा । पचाद्यचि टाप् । कृलस्य अटा कुलटा । यदि तु कुलमटतीति विगृह्रते तदा कर्मण्यणि ङीपिकुलाटी॑ति त्यात् ।ईष उञ्छे॑ ।ईष गत्यादिषु॑ । आभ्यांगुरोश्च हलः॑ इत्यप्रत्यये ईषा । मनस ईषा मनीषा । हलस्य ईषा हलीषा । ईषा-लाङ्गलदण्डः । पतन्तोऽञ्जलयो यस्मिन्नमस्कार्यत्वादिति पतञ्जलिः । मार्तण्ड इति । पररूपेणानेनमृतण्ड॑ इति सिद्धे तत अण्यादिवृद्धिः ।परा मार्ताण्डमास्यत्पुनर्मार्ताण्डमाभरत् इत्यादिषु तु दीर्घश्छान्दस इति भावः । केचिदत्र सवर्णदीर्घमेवाहुः । पूर्वोक्तवैदिकप्रयोगास्तेषामनुकूलः ।ओत्वोष्ठयोरिति । अकारस्य ओत्वोष्ठयोश्च एकत्र समासे स्थितौ सत्यामिदं प्रवर्तते । तेनेह न,-॒वृषलसुतौष्ठव्रणस्ते॑ इति ।", "61095": "<<ओमाङोश्च>> - शिवेहीति । ननुशिव आ इही॑त्यत्र सवर्णदीर्घे कृते पश्चादाद्गुणे च सिद्ध मिष्टं तत्किमाङ्ग्रहणेन । सत्यम् ।पूर्वं धातुरूपसर्गेण युज्यते॑ इति दर्शनेधातूपसर्गयोः कार्यमन्तरङ्ग॑मिति पूर्वं गुणे कृते वृद्धिः स्यात्, तन्मा भूदित्याग्रहणम् ।अव्यक्तानुकरणस्यात इतौ । यद्यपिअतो गुणे॑ इति पूर्वसूत्रादत इत्यनुवर्त्त्याऽतो ग्रहणमिह त्यक्तुं शक्यं, तथापि पूर्वसूत्रेअत॑इति तपरकरणाद्ध्रस्वाकारस्य ग्रहणमिह तु शब्दाधिकारपक्षाश्रयणादच्छब्दस्य ग्रहणमिति व्याख्याने क्लेशः स्यादिति पुनरत्राऽतो ग्रहणं कृतम् । ॒अव्यक्त॑शब्दं व्याचष्टे-ध्वनेरिति । अनुकरणस्येति । परिस्फुटाऽकारादिवर्णस्येति भावः । तस्य चानुकरणत्वं किंचित्साम्येन बोध्यम् । पररूपस्याऽस्य नित्यत्वेऽपि संहितायामविवक्षितायां तदभावादाह-पटत्-इतीदी ।", "61096": "<<उस्यपदान्तात्>> - अन्तरङ्गत्वादिति । प्रत्ययमात्रापेक्षत्वात् ।अतो येयः॑ इत्यस्य त्वाङ्गत्वात्प्रकृतिप्रत्ययोभयसापेक्षत्वेन बहिरङ्गत्वादिति भावः । नचाऽपदान्ताऽकारस्य जुसश्चाश्रयणात्पररूपस्याप्युभयसापेक्षत्वमस्त्येवेति चेन्मैवम्, अनेकाश्रयणेऽपि प्रत्ययमात्राश्रयतया प्रकृतेरनाश्रयणात् । व्याख्येयमिति । एतच्च विप्रतिषेधसूत्रे भाष्ये स्पष्टम्॥", "61097": "", "61098": "", "61099": "", "61100": "", "61101": "<<अकः सवर्णे दीर्घः>> - नाज्झलावित्यादि । अयं भावः — विधेयभेदे वाक्यभेदात्संभवन्त्यामेंकवाक्यतायां तदयोगात्तुल्यास्यप्रयत्न॑मित्यस्यनाज्झलौ॑ इत्यस्य च एकवाक्यत्वलाभायअज्झल्भिन्नं सवर्ण॑मित्यर्थोऽभ्युपेयते ।अज्झल्भिन्न॑मित्यत्र परस्परनिरूपिततुस्यत्वविशिष्टास्यप्रयत्नकौ यावज्झलौ, तदुभयभिन्नत्वं विवक्षितम् । तथाचयो ह्रस्वदीर्घात्मको वर्णो येन वर्णेन तादृशेन तुल्यास्यप्रयत्नस्तदुभयं मिथः सवर्णं भवति॑, तथायेन हला तुस्यास्यप्रयत्नकं यद्धल्, तदुभयंमिथः सवर्णं स्यात्,यश्च दीर्घप्लुतात्मको वर्णो येन हला तुल्यास्यप्रयत्नस्तदुभयमपि मिथः सवर्ण॑मित्यर्थः फलितः । ततश्चानेन सूत्रद्वयेन सवर्णसंज्ञायां सिद्धायाम्अणुदित्सवर्णस्ये॑ति ग्राहकशास्त्रं प्रवर्तते, ननु ततः प्राक् । अतोनाज्झलौ॑ इत्यनेन आक्षरसमाम्नायिकानामेव सावण्र्यं व्युदस्यते, नतु सर्वेषाम् । तेनात्र दीर्घशकारयोः सावण्र्यमस्त्येवेति तद्वारणायअकः सवर्णे॑ इत्यात्राऽचीत्यनुवर्तनं युक्तमिदम् । यदा तूष्मणामीषद्विधृतत्वं परिकल्प्यनाज्झलौ॑ इति सूत्रं प्रत्याख्यायते, तदेह सवर्णसूत्रेअची॑ति नानुवर्तनीयम् ।हे पिषासो इत्यादौ गुरोरनृतः-॒इत्याकारस्य प्लुते कृते ततः परस्य सस्य इणः परत्वेन षत्वं स्यात्,नाज्झलौ॑ इत्यत्राकारप्रश्लेषेण दीर्घहकारयोः सावण्र्याऽभावेऽपि प्लुताकारस्य हकारसवर्णत्वेनेण्त्वादित्याशङ्क्य तत्समाधानार्थमाश्च आश्चेति द्वन्द्वं कृत्वा सवर्णदीर्घेण दीर्घात्परत्र प्लुतोऽपि प्रश्लिष्यत इति क्लिष्टव्याख्यानमपि नाश्रयणीयम् । विआपाभिरित्यादौ ढत्वादेरप्यप्रसक्तिः । स्वराणामूष्माणां च प्रयत्नभेदेन सावण्र्याऽभावादिति सुगमोऽयं पन्थाः । अकोऽकीत्येवेति ।अकोऽकि दीर्घः॑ इत्येवेत्यर्थः । सुवचमिति । यथासङ्ख्यसंबन्धेनदध्यत्रे॑त्यादावतिप्रसङ्गाऽभावात् ,ऋ॑इति तिंरशतः संज्ञेत्युक्तत्वात्होतृ-ऌकार॑ इत्यत्र ऋकारस्य ऋकारपरत्वमस्त्येवेत्यप्रसङ्गाभावादीकारशकारयोः सावण्र्ये सत्यप्यचीत्यनुवर्तनं विनैव समीहीतिरूपसिद्धेश्चेति भावः ।ऋति ऋ वा॑ लृति लृ वे॑ति वार्तिकं सूत्रस्थेन सवर्णपदेन योजयित्वा पठति ।ऋति सवर्ण इत्यादि । नन्वेवम्अकः सवर्णे-॑ इति सवर्णपदाऽकरणे वार्तिकयोः सवर्णग्रहणं कर्तव्यम्, सूत्रे तुअकोऽकी॑ति कर्तव्यमिति विपरीतगौरवात्कथम्अकोऽकीत्येव सुवच॑मित्युक्तमिति चेदत्राहुः — भाष्यकारैरेतद्वार्तिकद्वयस्य प्रत्याख्यानान्नास्त्येव गौरवमिति । प्रत्याश्याने तूपपर्त्तिर्ऌकारान्तेषु विचारयिष्यते ।वर्णद्वयं द्विमात्रमिति । एतेनदीर्घे प्राप्ते ह्रस्वऌकारश्च विधीयते॑ इति प्राचो व्याख्यानमाकरविरुद्धमिति ध्वनितम् ।", "61102": "<<प्रथमयोः पूर्वसवर्णः>> - प्रथमयोः । अत्र प्रथमाशब्दः प्रथमाद्वितीययोः समुदाये गौणः, द्विवचनं तु समुदाय्यपेक्षया ।इको यणची॑त्यतोऽचीतिअकः सवर्णे दीर्घः॑ इत्यतो॑ऽको दीर्घ॑इतिएकः पूर्वपरयो॑रिति सूत्रं चानुवर्तते इत्याशयेन व्याचष्टे — अकः प्रथमाद्वितीययोरचीत्यादिना । अचि किम् । रामः । अकः किम् गावौ, नावौ । प्रथमयोः किम् । वृक्षे, प्लक्षे । यद्यपीदंनादिची॑त्यनेनैव सिध्यति, तथापिहरी॑ इत्यत्रेवहर्यो॑रित्यत्रापि पूर्वसवर्णदीर्घः स्यत् । तद्वारणायप्रथमयो॑रित्युक्तमिति दिक् । पूर्वग्र्रहणं किम् ।अग्नी॑इत्यत्र पक्षे परसवर्णो मा भूत् । दीर्घग्रहणं किम् । त्रिमात्रे स्थानिनि त्रिमात्रो मा भूत् ।आद्गुण॑ इति । अपवादे निषिद्धे पुनरुत्सर्गस्य स्थिति॑रिति न्यायादिति भावः । अत्रभिद्योध्द्यौ नदे॑तौ स॑दित्यादि लिङ्गम् ।", "61103": "<<तस्माच्छसो नः पुंसि>> - तस्माच्छसो ।त॑च्छब्देन संनिहितः पूर्वसवर्णदीर्घः परामृश्यते । दीर्घमात्रपरामर्शे तुएतान् गाः पश्ये॑त्यत्रापि नत्वप्रसङ्गात् ।शस॑इत्यवयवषष्ठी, स चावयवः परत्वेन विशेष्यते-पूर्वसवर्णदीर्घात्परस्य शसोऽवयवस्येति, तदेतदाह-परो यः शसः सकार इति ।परो यः श॑सिति न व्याख्यातम् । कृते पूर्वसवर्णदीर्घे ततः परस्य शसोऽसंभवात् ।", "61104": "<<नादिचि>> - तद्धिनादिची॑ति पूर्वसवर्णदीर्घे निषिद्धे पुनरुत्सर्गस्य वृद्धेः प्रवृत्त्यैव सिध्यति नान्यथेति । नन्वेवंनान्तःपादमव्यपरे॑ इति पाठेसुजाते अआसूनृते॑उपप्रयन्तो अध्वर॑मित्यादौएङः पदान्तादती॑ति पूर्वरूपमेव हि तेन निषिध्येत, तस्मश्च निषिद्धेएचोऽडयवायावः॑ इत्युत्सर्गोऽपि प्रवर्तेत ।मैवम् ; बाधके निषिद्धे बाध्यमपि क्वचिन्नेति स्वीकारात्तत्सिद्धेः ।", "61105": "<<दीर्घाज्जसि च>> - दीर्घाज्जसि च । चकारादिचीत्यनुकृष्यते, नेति चानुवर्तते, तदाह-दीर्घाज्जसि इचि चेति । सूत्रे चकाराऽभावे ह्रस्वाऽकारादिचि दीर्घाकारात्तु जसीति व्यवस्था संभाव्येतेति भावः । इत्याद्यर्थमिति । ननुयू स्त्र्याख्यौ॑ल्वादिभ्यः॑ इति निर्देशादिक्प्रत्याहाराऽच्प्रत्याहारयोरेव निरूढलक्षणेति व्याख्यायतां, तथाच दीर्घस्याऽच्त्वाऽभावाद्गौर्यावित्यादौ पूर्वसवर्णदीर्घो न प्राप्नोतीति किमनेन निषेधसूत्रेणेति चेन्मैवम्, अस्मादेव निषेधाज्ज्ञापकादिगज्भिन्नेष्वपि प्रत्याहरेषु लक्षणा स्वीक्रियते । अन्यथागौरी॑रित्यादौ शसि परतः पूर्वसवर्णदीर्घो न स्यात् । किंचउपार्छती॑त्यादौउरण्रपरः,॑नैषादकर्षुकः॑ इत्यादौइसुसु॑गिति ठस्य कादेशः,अमीषा॑मित्यादौ इणः परस्य सस्य च षत्वं न सिध्यतीति दिक् ।प्रथमयोः — ॑ इति सूत्रानन्तरंदीर्घाच्छसी॑त्येव सुवचम् । दीर्घाच्छस्येव पूर्वसवर्णदीर्घ इति तस्यार्थः । एवं च चकारो न कर्तव्यो, नेति च नानुवर्तनीयमिति महल्लाघवमित्येके ।शसि दीर्घादेवे॑ति विपरीतनियमवारणायनृन्पे॑,कानाम्रेडिते॑ इति निर्देशाश्रयणे प्रतिपत्तिगौरवं स्यादिति यतान्यास एव श्रेय इत्यन्ये ।", "61106": "", "61107": "<<अमि पूर्वः>> - अमिपूर्वः ।प्रथमयो॑रिति पूर्वसवर्णदीर्घे प्राप्तेऽयमारम्भः ।इको यणची॑त्यतोऽचीत्यनुवर्तते, तदाह — अम्यचीति । अमि योऽच् तस्मिन् । अमोऽवयवे अचीति यावत् । तेन मकारसहितस्य पूर्वरूपं नेति स्थितं मनोरमायाम् । एवम्अक्षादूहिन्या॑मित्यादावपिऊहिन्यां योऽच्तस्मि॑न्नित्यादि बोध्यम् ।पदास्वैरिबाह्रे॑त्यादिनिर्देशाश्चास्मिन्व्याख्याने लिङ्गमित्यपि स्थितम् । कथं तर्हि काशिकादावमि परत इत्येवोक्तं, न त्वम्यचीति चेदत्राहुः-॒तस्मादित्युत्तरस्या,॑आदेः परस्ये॑त्यादेरेवादेश इति निर्णीतेएकः पूर्वपरयो॑रित्यादेशः पूर्वपरयोर्वर्णयोरेव भविष्यतीत्याशयेन नोक्तमिति ।", "61108": "<<सम्प्रसारणाच्च>> - संप्रसारणाच्च ।अमि पूर्वः॑इत्यतःपूर्व॑इति वर्तते॑इकोयणची॑त्यतोऽचीति च,एकः पूर्वपरयो॑रिति ताधिक्रियते । तदाह — — संप्रसारणादचीत्यादिना.छन्दस्येव ण्विरिति ।वहश्चे॑ति सूत्रेभजो ण्विः॒॑छन्दसि सहः॑इत्यतो ण्विप्रत्ययस्यच्छन्दसी॑त्यस्य चाऽनुवृत्तेरिति भावः । स्यादेतत् — ॒वाहः॑इत्येव सूत्रमस्तु, संप्रसारणमेवाऽन्न विधीयतां, तस्य लघूपधगुणो कृतेवृद्धिरेची॑ति वृद्धौ सिद्धंविआऔह॑इत्यादि, किमूठ्ग्रहणेन । सत्यम् । एवं स्थिते क्रियमाणमूठ्ग्रहणं बहिरङ्गपरिभाषां ज्ञापयति । तस्यां हि सत्यां जातस्य बहिरङ्गस्य संप्रसारणस्याऽसिद्धत्वादन्तरङ्गो गुणो न स्यादिति भाष्ये स्थितम् । नन्वनकारान्तोपपदेऽकारान्तोपसर्गोपपदे च रूपे विशेषः स्यादिति कथमऋठग्रहणं ज्ञापकमिति चेत्, अत्राहुः कैयटादयः -भाष्यकारोक्तज्ञापकबलेनैव तादृशस्थले ण्विप्रत्ययाऽभावोऽनुमीयत इति । एतेन भुवं वहतीति भूवाट् । भूहः । भूहा । प्रौहः । प्रौहेत्यादिप्रयोगाः परास्ताः ।", "61109": "<<एङः पदान्तादति>> - एङः पदान्तादति । अयवोरपवादः ।ङसिङसोश्चे॑त्यस्यारम्भादस्य पदान्तविषयत्वे लब्धे उत्तरार्थं पदान्तादिति स्पष्टप्रतिपत्तये इहैव कृतमिति मनोरमायां स्थितम् । केचित्तुपदान्ता॑दित्येतदिहाप्यावश्यकमेव, अन्यथाऽपदान्तादपि स्यात् ।ङसिङसोश्चे॑ति सूत्रं तुसुप्सम्बन्धिन्यति परतः पूर्वरूपं चेन्ङसिङसोरेवाऽति परे॑ इति नियमार्तं स्यात् । तत्फलं तु हरयः, गुरवः, इः स्मृतो यैस्ते स्मृतय इत्यादौ पूर्वरूपाऽप्रवृत्तिरित्याहुः । एङः किम् । दध्यत्र । पदान्तात्किम् , चयनम् । लवणम् । अचिनवम् । अति किम् , हरयिह । विष्णविह । तपरः किम् , वायवायाहि ।", "61110": "<<ङसिङसोश्च>> - ङसिङसोश्च । इह ङसिङसौ द्वौ, एङावपि द्वौ, तयोर्यथासङ्ख्यं न, अस्वरितत्वात् । अल्पाच्यतरस्य पूर्वनिपाताऽकरणाल्लिङ्गात्,अच्च घेः॑उपसर्गे घोः कि॑रिति निर्देशाच्च ।", "61111": "<<ऋत उत्>> - ऋत उत् । ऋकाराकारयोरेकादेशे सति ह्रस्व एव उकारः स्यान्न तु दीर्घ इत्येतदर्थकेन तपरकरणेन भाव्यमानोऽण्क्वचित्सवर्णान्गृह्णातीति ज्ञाप्यते, तेन यवलपरे हकारे मस्य विधीयमाना यवला अनुनासिका भवन्ति ।", "61112": "<<ख्यत्यात् परस्य>> - ख्यत्यात् । पञ्चमीनिर्देशादेव॒परस्ये॑ति लब्धे॒परस्ये॑ति ग्रहणमेकः पूर्वपरयोरिति नवृत्तमिह तु नाधिक्रियते इहि ध्वननार्थम् । ख्यश्च त्यश्चेति समाहारद्वन्द्वे ख्यत्यं, तत्र खिखीशब्दयोः कृतयणादेशयोरनुकरणंख्य॑इति । एवं तितीशब्दयोस्त्येति । उभयत्राप्यकार उच्चाणार्थौ न तु मुख्यापत्यादिशब्दैकदेशानुकरणमिदं,सख्युर्यः॒॑पत्युर्नः,॒॑सङ्ख्यायाः संवत्सरसङ्ख्यस्य च॑,आपत्यस्य चे॑ त्यादिनिर्देशादित्यभिप्रेत्याहखितिशब्दाभ्यामित्यादि । एवं च यत्र यण्प्रवृत्तिः तत्रैवोत्त्वं न त्वतिसखेरित्यादौ । न चैवं यणा निर्देशस्योक्तप्रयोजनत्वाद्भस्वान्तयोरेव ग्रहणं स्यान्न तु दीर्घन्तयोरिति शङ्क्यम् । निर्देशस्य ह्रस्वदीर्घसाधारणत्वाच्छास्त्रस्य बहुविषयत्वसंभवे तत्सङ्कोचस्याऽन्याय्यत्वाच्चेति भावः ।", "61113": "<<अतो रोरप्लुतादप्लुते>> - यत्वस्यासिद्धत्वादुत्वे कृतेऽपि तस्य स्थानिवत्त्वेन रुत्वाद्यत्वं स्यादित्याशङ्कायामाह-यत्वस्यापवाद इति । उत्वविधेः सामर्थ्यादिति । न चअतो रोरप्लुता॑दिति सूत्रं परित्यज्यरोः सुपी॑ति सूत्रानन्तरम्अत उरती॑त्येव लाघवादुच्यतां किमनेन सामर्थ्याश्रयणप्रयासेनेति वाच्यम्; तथाहि सति उत्बस्यासिद्धतयाशिवोऽच्र्य॑ इत्यादावाद्गुणस्याऽप्रवृत्तिप्रसङ्गात् ।", "61114": "", "61115": "", "61116": "", "61117": "", "61118": "", "61119": "", "61120": "", "61121": "", "61122": "<<सर्वत्र विभाषा गोः>> - सर्वत्र विभाषा । यद्यपीहछन्दसि॑ इति न पकृतम्, तथापियजुष्युरः॑ इत्यादिप्रक्रमाच्छन्दस्येवेति संभाव्येत, अतःसर्वत्रेत्युक्तम् । तद्व्याचश्टे-लोके वेदे चेति । इहएङ॑ इत्यनुवर्त्त्यएङन्तस्य गो॑रिति व्याख्येयम् । तेनेह न — चित्रग्वग्रम् । प्रकृतिभाव इति । एतच्चप्रकृत्यान्तःपाद॑मिति सूत्रात्प्रकृत्येत्यनुवृत्त्या लभ्यते ।नान्तःपाद॑मिति पाठे तुसर्वत्र विभाषे॑ति सूत्रेण पूर्वरूपमेव विभाषा निषिध्यत इत्यवधेयम् । निषेधविकल्पे विधिविकल्पः फलित इत्याशयेन पूर्वरूपमेवविकल्प्यत इति मनोरमायां स्थितम् ।", "61123": "<<अवङ् स्फोटायनस्य>> - अवङ् स्फोटायनस्य । स्फोटोऽयनं परायणं यस्य सः स्फोटप्रतिपादनपरो वैयाकरणः । तस्य स्फोटायनस्य । अत्रापिएङन्तस्या गो॑रिति व्याख्येयम् ।अ॑गित्येव सूत्रयितुमुचितम् । विभाषानुवृत्तेः स्फोटायनग्रहणं पूजार्थम् । अतीति निवृत्तमिति । अन्यथागवेशः॑गवोद्धः॑ इत्यादि न सिद्ध्येदिति भावः । अचि पर इति । अत्रा॒चीत्यनुवर्तते, अतीति तु निवृत्तमित्यत्र व्याख्यानमेव शरणम् । गवाक्ष इति । गवां=किरणानामक्षीवेति विग्रहः ।अक्ष्णोऽदर्शना॑दित्यच्समासान्तः । वातायने रूढोऽयम् । पुंस्त्वं लोकात् ।", "61124": "<<इन्द्रे च (नित्यम्)>> - इन्द्रे च । आरम्भसामर्थ्यान्नित्यमिदम् । इदं च सूत्रंत्यक्तुं शक्यम् । अन्यार्थं स्वीकृतेन व्यवस्थितविभाषाश्रयणेनैवेष्टसिद्धेरित्याहुः । प्लुतुप्रगृह्राः — ॑ इति सूत्रादव्यवहितपूर्वःअथ प्रकृतिभावः॑ इति पाठो मूलपुस्तकेषु प्रायेण दृश्यते, स चाऽपपाठ पव ।सर्वत्र विभाषा गोः;॑ इति प्रकृतिभावस्य प्रागेवारब्धत्वादित्येके । अन्ये तुअवङ् स्फोटायनस्य॑ इन्द्रे चे॑ति सूत्रद्वयं प्रकृतिभावप्रकरणे पठितमपि तद्बहिर्भूतमित्यवश्यं वक्तव्यं, ताभ्यां तदविधानात् । न चअवङ्सूत्रस्य प्रकृतिभावापवादत्वेनोत्सर्गापवादरूपत्वात्तत्प्रकरणस्थत्वं सूपपादमित्यवङादेशानुवृत्त्यर्थं तदनन्तरं पठितस्यइन्द्रे चे॑ति सूत्रस्यापीति वाच्यम् ; पूर्वरूपापवादत्वस्यापिअवङ्सूत्रस्य सुवचत्वात् । एतत्प्रकरणपाठस्य गोशब्दानुवृत्त्यर्थतया चरितार्थत्वात् । एवं च स्वलेख्यप्रकृतिभावप्रकरणाद्बहिस्तत्सूत्रद्वयं लिखितं, तदनुकूलत्वेनसर्वत्र विषाषे॑ति सूत्रमपि तत्रैवेति स्थितस्य गतिर्बोध्येत्याहुः ।अथ तत्त्वबोधिन्यामदादिप्रकरणम् ।", "61125": "<<प्लुतप्रगृह्या अचि नित्यम्>> - प्लुतप्रगृह्राः । प्रकृति भावं प्रति प्लुतो नाऽसिद्धः, प्लुतमनूद्य प्रकृतिभावविधानसामर्थ्यात् । अचि किम् ,जानु उ जानू॑ । उञः प्रगृह्रत्वेऽपीह सवर्णदीर्घः ।अची॑त्यनुवर्तमाने पुनरचिग्रहणमादेशनिमित्ते एवाऽचि प्रकृतिभावः । तेन इहाप्येकादेशः स्यादेव-॒जानु उ अस्य रुजति॑,जानू अस्य रुजति॑ । इहमय उञः॑ इति पाक्षिके वकारे तुजान्वस्य रुजति॑ । एहि कृष्णेति ।दूराद्धूते चे॑ति प्लुतः । प्राचा तु-॒कृष्णा एही॑ति उदाहृतम् । तदसत् ।वाक्यस्य टेः॑-इत्यधिकारात् । ह्रस्वसमुच्चितो मा भूदिति । अयं भावः-॒हरी ईशा॑वित्यादौप्लुतप्रगृह्राः॑इत्येतत्सावकाशम्,चक्री अत्रे॑त्यत्र तुइकोऽसवर्णे-॑ इति । ततश्चहरी एता॑वित्यत्र परत्वाद्ध्रस्वसमुच्चित एव स्यात् । नित्यग्रहणे तु कृते तत्सामर्थ्यात्परमपि बाधत इति ।चक्रयत्रेति । इहस्कोः॑ इति कलोपो न, यणः कार्यकालपक्षे बहिरङ्गपरिभाषया असिद्धत्वात्, स्थानिवद्भावाच्च ।पूर्वत्रासिद्धे न स्थानिव॑दिति तु नास्ति,तस्य दोषः संयोगादिलोपलत्वणत्वेषु॑ इति वक्ष्यमाणत्वात् । पार्ामिति । पर्शूनां समूहः ।पर्ाआ णस् वक्तव्यः॑ इति णस् । ओर्गुणस्तु न,सिति चे॑ति पदत्वस्य भत्वापवादत्वात् ।", "61126": "", "61127": "", "61128": "<<ऋत्यकः>> - ऋत्यकः । ब्राहृ ऋषिरिति । ननुऋत्यस्ये॑त्येव सूत्रमस्तु ।दधि ऋच्छती॑त्यादौइकोऽसवर्णे॑इत्यनेनैव प्रकृतिभावसिद्धेः । मैवम् ।होतृ-ऋकार॑ इत्यत्र प्रकृतिभावार्थमग्ग्रहणस्यावश्यकत्वात् । एतेनअकोऽसवर्णे॑ इत्येकमेव सूत्रमस्त्विति शङ्काया निरवकाश एव, उक्तदोषाऽनिवृत्तेः, सप्तॠषीणामित्यत्रन समासे॑ इति निषेधापत्तेश्च ।न समासे॑ इति निषेधवार्तिकं हिइकोऽसवर्णे॑ इति सूत्र एव, न तुऋत्यकः॑ इत्यत्रेति सिद्धान्तः । अत एवाह — समासे ऽप्ययमिति । एवं चऋऌवर्णयोः॑ इति पूर्वोक्तो निर्देशः सङ्गच्छते ।", "61129": "<<अप्लुतवदुपस्थिते>> - यणादिकं करोतीति । अत्र नव्याः-॒यद्येवम्अग्नी इति ॑ विष्णू इति ॑ इत्यत्र प्रगृह्राश्रयं प्रकृतिभावं बाधित्वा परत्वादनेन यणादिकार्यं स्यात्, ततश्च वत्करणप्रयोजन यणादिकमेव स्यात्, तस्मात्प्लुतकार्यं प्रकृतिभावं न करोतीत्यर्थः॑ इति प्राचां व्याख्यैव ज्यायसी । एवं चइको यणची॑त्यत्रेग्ग्रहणस्य वैयथ्र्यशङ्रकाऽपि नास्ति । तथाहि — तत्रेग्ग्रहणाऽभावेऽपिह्रस्वस्य पिति कृति तुक्दीर्घा॑दित्यतो ह्रस्वदीर्घपदानुवृत्त्या तयोर्यण्विधानान्न व्यञ्जनस्य भविष्यति । प्लुतस्य तु प्रकृतिभावेनैव न भवितव्यमेव । योदयोऽपवादाहरय॑ इत्यादौ ।उपेन्द्रः॑कृष्णैकत्व॑मित्यादौ तुआद्गुणः॑वृद्धिरेचि॑ इति बाधके भविष्यतः । यथा सत्यपीग्ग्रहणेश्रीश॑ इत्यादौ सवर्णदीर्घत्वं बाधकम् । अतो नार्थ इग्ग्रहणेन । तथापिएहि करभोरु ३ इति॑सुतनु ३ इति॑ चिनुहि ३ अत्रे॑त्यादौअप्लुतवदुपस्थिते॑ई ३ चाक्रवर्मणस्ये॑ति प्रकृतिभावनिषेधेऽपि आभ्यां यणादिकार्याऽविधानात् प्लुतस्याऽस्य यण्न स्यात् । ह्रस्वदीर्घपदाननुवृत्तौ तु व्यञ्जनस्य स्यात् । तस्मादिग्ग्रहणं व्यर्थमिति न शक्यते शङ्कितु॑मित्याहुः । अन्ये त्विग्ग्रहणस्य प्रयोजनान्तरमप्याहुः,-इको यणेव क्वचिद्यथा स्याद्यदन्यत्प्राप्नोति तन्मा भूत् । किंचाऽन्यत् प्राप्नोति ,इकोऽसवर्णे॑ इति शाकलम् । एवं च यदुक्तंन समासे॑सिति चे॑ति, तदनेन सङ्गृहीतं भवती॑ति ।", "61130": "<<ई३ चाक्रवर्मणस्य>> - चिनु हीति ।चि॑न्विति लोडन्तम् ।ही॑त्यव्ययम् ।अनन्त्यस्यापि प्रश्नाख्यानयोः॑ इत्यनेन प्लुतः । उभयत्रविभाषेयमिति ।इति॑ शब्दे परतः पूर्वेण प्राप्ते, अन्यत्राऽप्राप्ते चारम्भादिति भावः ।", "61131": "<<दिव उत्>> - दिव उत् । तपरकरणमिहद्युभ्या॑मित्यादावुकारस्य संप्रसारणत्वात्हलः॑इति दीर्घे प्राप्ते तन्निवारणायेत्याहुः । इति वान्ताः । चत्वार इति ।चतेरुरन्इत्युरन्प्रत्ययान्तश्चतुर्श ब्दः । ततो जसिचतुरनडुहो॑रित्याम् ।", "61132": "<<एतत्तदोः सुलोपोऽकोरनञ्समासे हलि>> - एतत्तदोः । अत्र त्यदाद्यत्वमेकशेषश्च न कृतः, सौत्रत्वात्,प्रकृतिवदनुकरण॑दिति वैकल्पिकातिदेशाद्वा । एवं च वृत्तावप्येतत्तदोरिति प्रयोगः साधुः ।हल्ङ्याब्भ्यः॑-इत्यस्यानन्तरमेवेदं लाघवाय न कृतं, संहिताधिकारोपजीवनादित्याहुः । सूत्रेसु॑ इति पृथक् पदं लुप्तषष्ठीकमित्याह-एतत्तदोर्यः सुरिति । एतत्तदर्थगतसङ्ख्याभिधायी यः सुस्तस्येत्यर्थः ।एतत्तदोर्विहिकत॑ इति व्याख्याने तु परमैष ददाति परमस ददातीत्यादौ सुलोपो न स्यात् ।एतत्तदौः पर॑ इति व्याख्यानं तु न संभवति,एतत्तभ्द्या॑मिति पञ्चम्यभावात् ।एतत्तदोरवयव॑ इति तु न संभवत्येव, सोः प्रत्ययत्वात् । तस्मादर्थद्वारकसंबन्ध एवाश्रितः । तदाश्रयणे लिङ्गं तुअनञ्समासे॑-इति बोध्यम् । एतत्तदोः किम्, यो ददाति । अकोः किमिति । साकच्कयोः शब्दान्तरत्वादप्रसङ्ग इति प्रश्नः । एषक इति । अकोरिति प्रतिषेध एवतन्मध्यपतितस्तद्ग्रहणेन गृह्रते॑ इति परिभाषां ज्ञापयतीति भावः ।", "61133": "", "61134": "<<सोऽचि लोपे चेत् पादपूरणम्>> - सोऽचि लोपे ।अचीति विस्पष्टार्थ॑मिति वृत्तौ स्थितम् ।सस्इति तच्छब्दस्य प्रथमैकवचनान्तस्यानुकरणं लुप्तषष्ठीक्रमित्याह — स इत्यस्येति । बहुलग्रहणेति । अतएव लोपं विना पादपूरणेऽपि क्वचिद्भवति-॒सास्मा अरम् इति । अत्र वदन्ति — ये तुसोऽहमाजन्मशुद्धना॑मित्यादिसिध्द्यर्थंपादश्चेल्लोपे सत्येव पूर्येते॑ति सावधारणं व्याचख्युस्तेषांसास्मा अर॑मित्यादौ सलोपानापत्तिः । अत्र हिसः-अस्मै॑ इति च्छेदः । बहुलग्रहणानुवृत्त्या तदुपपादने तुसोऽहमाजन्मे॑त्याद्येव तथोपपाद्यतां, किमवधारणेनेति । * इति तत्त्वबोधिन्यां स्वादिसन्धिप्रकरणम् । *", "61135": "", "61136": "", "61137": "", "61138": "", "61139": "", "61140": "<<किरतौ लवने>> - किरतौ लवने ।उपात्प्रतियत्ने॑ति सूतरादुपादिति वर्तते । लवने किम् । उपकिरति ।", "61141": "<<हिंसायां प्रतेश्च>> - हिंसायां प्रतेश्च । चादुपात् ।उरोविदारं प्रतिचस्करे नखै॑रिति माघः । कर्मणि लिट् ।ऋच्छत्यृता॑मिति गुणः ।", "61142": "<<अपाच्चतुष्पाच्छकुनिष्वालेखने>> - * गचोऽपकिरतीति । अत्र हर्षे सत्यपि आलेखनाऽभावात् सुटोऽप्राप्तिः । * शप उपालम्भे । कृष्णाय शपते इति ।श्लाघह्नु॑ ङिति संप्रदानसंज्ञा ।नीवीं प्रति प्रणिहिते तु करे प्रियेण सख्यः ! शपामि यदि किंचिदपि स्मरामी॑त्यत्र तु स्वाशयं प्रकाशयामीत्यर्थो विवक्षितो न तु शपथ इति न तङित्याहुः ।", "61143": "", "61144": "", "61145": "<<विष्किरः शकुनौ (विकरो) वा>> - विष्किरः ।कृ विक्षेपे॑इत्यस्मात्इगुपधे॑त्यादिना कप्रत्यये सुडागमोऽनेन निपात्यते । षत्वं तुपरिनिविभ्यः॑ इत्यनेन । विकिरग्रहणमिति ।विष्किरः शकुनौ विकिरो वा॑इति वृत्तिग्रन्थे पाठः, सूत्रपाठे तु विकिरग्रहणं नास्त्येवेति बोध्यम् । तस्यापीति । विकिरशब्दस्यापीत्यर्थः ।", "61146": "", "61147": "<<आश्चर्यमनित्ये>> - आश्चर्यमिति । आडः परस्य चरेः सुट् ।चरेराङि चाऽगुरौ॑इति यत् ।", "61148": "", "61149": "", "61150": "<<कास्तीराजस्तुन्दे नगरे (कारस्करो वृक्षः)>> - कातीरमिति ।ईषदर्थे॑ इति कोः कादेशः ।", "61151": "", "61152": "<<प्रतिष्कशश्च कशेः>> - कशेरेव कशेति । कशधातोरेव कशाशब्दो निष्पन्न इत्यर्थः । धात्वन्तरेति ।प्रतिकशः॑इत्यत्र प्रतिर्गमेरुपसर्गो, न तु कशेः,यत्क्रियायुक्ताः प्रादयस्तं प्रत्येवे॑ति न्यायादिति भावः ।", "61153": "<<प्रस्कण्वहरिश्चन्द्रावृषी>> - अमन्त्रार्तमिति । मन्त्रे तुह्रस्वाच्चन्द्रोत्तरपदे मन्त्रे॑इत्यनेनैव सिद्ध्यतीति भावः ।", "61154": "<<मस्करमस्करिणौ वेणुपरिव्राजकयोः>> - मस्कर । मस्करशब्दादिनिना मत्वर्थीयेनेष्टसिद्धौ मस्करिग्रहणंपरिव्राजक एवायं प्रयोगो यथा स्या॑दित्येवमर्थमित्याहुः ।", "61155": "कातीरमिति। `ईषदर्थे` इति कोः कादेशः।", "61156": "", "61157": "<<पारस्करप्रभृतीनि (च संज्ञायाम्)>> - पारस्कर इति ।पारं करोती॑ति विग्रहः ।कृञो हेतुताच्छील्ये॑ति टः । किष्किन्धेति ।किमपि धत्ते॑इति विग्रहेआतोऽनुपसर्गे कः॑ । टाप् । निपातनात्किमोद्वित्वं । पूर्वस्य मलोपः । सुट् षत्वं च ।किं किं दधाती॑ति विगृह्णतां तु मते वीप्सीयां द्वित्वं सिद्धम् । अन्यत्र तु निपातनादेव । वस्तुतस्तु रूढिशब्दा एते कथंचिद्व्युत्पाद्यन्त इत्यवयवार्थे नाग्रहः कार्यः ।तद्वृहतोः करपत्योश्चोरदेवतयोः सुट् तलोपश्च । तद्वृहतोरिति । गणसूत्रमेतत् । तादिति ।तलोपश्चे॑त्यत्रे॑ति शेषः ।प्रायस्य चित्तिचित्तयोः । प्रायस्येति । गणसूत्रमेतदपि ।प्रायः पापं विजानीयाच्चित्तं तस्य विशोधन॑मिति स्मृतिः । आकृतिगणोऽयमिति । तेन शतात्पराणि परश्शतानि कार्याणीत्यादि सिद्धम् । इहसुप्सुपे॑ति वा,पञ्चमी॑ति योगविभागाद्वा समासः । राजदन्तादित्वाच्छतशब्दस्य परनिपातः, पारस्करादित्वात्सुट् । इति तत्त्वबोधिन्यां समासाश्रयविधयः ।* ॐ श्रीगणेशाय नमः *तत्त्वबोधिनी-बालमनोरमा-व्याख्याद्वयविराजितावैयाकरण-सिद्धान्तकौमुदी । — — — — — — — — -तस्याः पूर्वाद्र्धम् ।अथ संज्ञाप्रकरणम् — — — — — — मुनित्रयं — -सिद्धान्तकौमिदीव्याख्या क्रियते तत्त्वबोधिनी॥ १॥विघ्नविघाताय कृतं मङ्गलं शिष्यशिक्षायै निबध्नंश्चिकीर्षितं प्रतिजानीते-मुनित्रयमित्यादिना । त्रयोऽवयवा यस्येति त्रयम् ।संख्याया अवयवे तयप् ।द्वित्रिभ्यां तयस्य-॑ इत्ययच् । मन्तारे वेदशास्त्रार्थतत्त्वावगन्तारो मुनयः ।मनेरुच्च॑ इत्यौणादिकसूत्रेण मनेरत उकारो मनेः पर इन् प्रत्ययश्च । गुणस्तु नेह भवति, किदित्यनुवर्तनात्, तपरकरणाद्वा । तेषा पाणिनिकात्यायनपतञ्जलीनां त्रयं मिनित्रयम् । ननुस्वयंभुवे नमस्कृत्य॑ इत्यत्रेवात्रापिनमःस्वस्ति-॑ इत्यादिना चतुर्थी स्यात् । मैवम् ।उपपदविभक्तेः कारकविभक्तिर्बलीयसी॑ इति वक्ष्यमाणत्वात्नमस्करोति देवान् इतिवद्द्वितीयाया एव युक्तत्वात् । किंचजहत्स्वार्था वृत्तिः॑ इति पक्षे नमःशब्दस्यात्र निरर्थकत्वात्तद्योगे चतुर्थी न भवति, अर्थवह्यहणपरिभाषायाः प्रवृत्तेः ।स्वयंभुवे नमस्कृत्य॑ इत्यत्र तु स्वयंभुवमनुकूलयितुमित्यर्थविवक्षायांक्रियार्थोपपदस्य-॑ इत्यादिना चतुर्थीति मूल एव स्फुटीभविष्यति । नचैवंनमःस्वस्ति-॑ इति सूत्रे नमःपदं व्यर्थमिति शङ्क्यम्, हरये नम इत्यत्र हरिमनुकूलयितुमित्यर्थेऽविवक्षिते संबन्धसामान्ये षष्ठआं प्राप्तायां तदपवादतया तस्यावश्यकत्वात् । तदुक्तीरिति । तेषांपाणिन्यादीनामुक्तीः । सूत्रवार्तिकभाष्याणीत्यर्थः । तस्य मुनित्रयस्योक्तीरिति व्याख्यानेऽपि समुदायेन सूत्रं वार्तिकं भाष्यं वा नोक्तमिति समुदायिनां मुनीनामेवोक्तीरिति पर्यवस्यति ।परिभाव्येति । पर्यालोच्येत्यर्थः । नच परिपूर्वस्य भवतेस्तिरस्कारार्थत्वात्कथमत्र ज्ञानार्थतेति शङ्क्यम्, परीत्यस्य भावीति चुरादिणिजन्तेन योगात् । केचिदत्र भवतिना योगमभ्युपेत्याहुः-॒पुरौ भुवोऽवज्ञाने॑ इति सूत्रे परौ भुव इत्यस्यावज्ञान #इति विशेषणान्न तिरस्कारार्थत्वनियमः ।मनसा परिभाव्य किंचित् इत्यादि-श्रीहर्षप्रयोगाच्च । अतएवात्राऽप्रयुक्तत्वदोषशङ्कापि नास्तीति । अन्ये तु-॒अनादरः परिभवः परीभावस्तिरस्क्रिया॑ इति कोशात्परिपूर्वकाद्भवतेर्घञन्तादेव तिरस्कारप्रतीतिर्नान्यस्मादित्याशङ्कैवात्र नास्तीत्याहुः । तन्मन्दम् । परिभूय परिभवतीत्यतोऽपि तिरस्कारप्रतीतेः ।वैयाकरणेति । व्याकरणमधीयते विदन्ति वा वैयाकरणाः । तत्सिद्धान्ताना कौमुदी । प्रकाशिकेत्यर्थः । निर्दुष्टसकलजनाह्लादकत्वसाम्येन॒कौमिदी॑शब्दप्रयोगः । करिष्यमाणाया अपि कौमुद्या बुद्ध्या संनिधापितत्वादियमित्यङ्गुल्या निर्देशः । विरच्यत इति ।मये॑ति शेषः ।रच प्रतियत्रे । प्रतियन्त्रो गुणाधानम् । विपूर्वादस्माद्वर्तमानसामीप्ये भविष्यदर्थे वर्तमानप्रत्ययः ।ऐउणिति । णोऽनुबन्धोऽण्संज्ञार्थः । या या संज्ञा सा सा प्रयोजनवती । ऋऌगिति । ककारस्त्वक्िकुसंज्ञार्थः॥ एओङिति । ङकार एङ्संज्ञार्थः॥ ऐऔजिति । चकारस्वचिचेचैच्संज्ञार्थः । वर्णानामसन्दिग्धत्वेन बोधनाय संहिताया अविवक्षणादेतेष्वसन्धिः । स्वराणां चादिषु पाठात्चादयोऽसत्त्वे॑ इति निपातसंज्ञायांनिपात एकाजनाङ् इति प्रगृह्रत्वे प्रकृतिभावान्न सन्धिरित्यन्ये । स्यादेतत् । अकाराद्युपदेशेन यथा तत्सवर्णानामाकारादीनां लाभात्पृथगाकारादयो नोपदिष्टास्तथा ॠऌवर्णयोरपि सावण्र्यादृकारोपदेशेनैवेभयसिद्धेः किं पृथगुपदेशेन । न च जातिपक्षे ॠऌवर्णयोः पृथगुपदेश-आवश्यकस्तयोर्भिन्नजातित्वादिति वाच्यम्, सावण्र्यादेवैकजात्युपदेशे जात्यन्तरस्यापि लाभात् । ॠऌवर्णयोः प्रत्येकं तिंरशतः संज्ञासिद्धयेअणुदित्सवर्णस्य-॑ इति सूत्रे अणग्रहणस्य जातिपक्षेऽप्यावश्यकत्वादिति चेत् । अत्राहुः-ॠऌवर्णयोः सावण्र्यस्याऽनित्यतां ज्ञापयितुमुभयोर्निर्देशः, तत्फलं तु कॢप्ता शिखा यस्य कॢप्तशिखः, तस्य दूरात्संबोधने कॢप्तशिखेति प्लुतः । ॠऌवर्णयोः सावण्र्यस्य नित्यत्वे तुअनृतः॑ इति पर्युदासादृकारस्येव ऌकारस्यापि प्लुतो न स्यादिति समाधानान्तरमपिओर्गुणः॑ इत्यत्र दर्शयिष्यते॥ हयवरडिति । टोऽनुबन्धोऽट्संज्ञार्थः । हकारोपदेशस्तु अटाश्हश्िण्ग्रहणेषु हकारग्रहणार्थः । अर्हेण ।अङ्वयवायेऽपि॑ इति णत्वम् । देवा हसन्ति ।भोभगो-॑ इति रोर्यत्वम् । देवो हसति ।हशि च॑ इत्युत्वम् । लिलिहिंध्वे लिलिहिढ्व ।विभाषेटः॑ इति वा ढः । लणिति । णकारोऽनुबन्धोऽण्िण्यण्संज्ञार्थः । नन्वणिति क्वचित्पूर्वणकारेण गृह्रते, क्वचित्तु परेण णकारेण, इणिति तु परणकारेणैव । तथाच निःसन्देहार्थमनुबन्धान्तरमेव कर्तुमुचितम् । सत्यम् ।व्याख्यानतो विशेषप्रतिपत्तिर्नहि सन्देहादलक्षणम् इति परिभाषाज्ञापनाय पुनर्णकारोऽनुबन्ध इति स्थितमाकरे । ञमङणनमिति । मकार इह अम्यम्ञम्ङम्संज्ञार्थः । झभञिति । ञकारोयञ्संज्ञार्थः । घढधषिति । षकारस्तु झष्भष्संज्ञार्थः । जबगडदशिति । शोऽनुबन्धो अश्हश्वश्झश्जश्बश्संज्ञार्थः । खफछठथचटतविति । वकारस्तु छव्संज्ञार्थः । कपयिति । यकारो यय्मय्झय्खय्चय्संज्ञार्थः । शषसरिति । रेफस्तु यर्झर्खर्चर्शर्संज्ञार्थः । हलिति । लकारः अल्हल्वल्रल्झल्शल्संज्ञार्थः । पुनर्हकारोपदेशस्तु वल्रल्झल्शल्षु हकारग्रहणार्थः । रुदिहि । स्वपिहि ।रुदादिभ्यः सार्वधातुके॑ इति वलादिलक्षण इट् । स्निहित्वा ।नक्त्वा सेट् इति निषेधं बाधित्वारलो व्युपधात्-॑इति वा कित्त्वम् । अदाग्धाम् । घत्वस्याऽसिद्धत्वेऽपि हकारस्य झल्त्वात्झलो झलि॑ इति सलोपः । अलिक्षत् ।शलः-॑ इति क्सः । ननु पुनर्हकारोपदेशस्यावश्यकत्वेऽपि शर्मध्या एव हकारं पठित्वाअलोऽन्त्यस्य॑,हलोऽनन्तराः संयोगः॑,झलो झलि॑,शल इगुपधा-॑ इत्यादिसूत्राणि यावन्ति लानुबन्धानि तानिअरोऽन्त्यस्य॑,हरोषनन्तराः॑ इत्येवंरूपेण रेफानुबन्धान्येव च कृत्वाहल् इति पृथक् सूत्रं त्यज्यताम् । मैवम् । तथाहि सति हरिर्हसति हरिर्हरिरित्यादि न सिध्येत् । तत्रखरवसानयोर्विसर्जनीयः॑,वा शरि॑ इत्यादिप्रसङ्गात् । अतोहल् इति सूत्रमावश्यकमेव । एवञ्चहलिति सूत्रेऽन्त्यम्-॑ इति वक्ष्यमाणग्रन्थोऽपि स्वरसतः सङ्गच्छते । अणादिसंज्ञार्थानीति । अणादिसंज्ञा अर्थः प्रयोजनं येषा तानीति विग्रहः । अणादिसंज्ञाभ्य इमानि इत्यस्वपदविग्रहो वा ।अर्थेन नित्यसमासो विशेष्यलिङ्गता च॑ इति वक्ष्यमाणत्वात् । एषामन्त्या इतीति । एषां सूत्राणामन्त्या णादयोहलन्त्यम् इत्यनुपदं वक्ष्यमाणेनेत्संज्ञका इत्यर्थः । लण्सूत्रेऽकारश्चेति । अनन्त्यत्वात्पृथगुक्तिः । वचनविपरिणामेनेदिति सम्बध्यते । इत्संज्ञा चास्यउपदेशेऽजनुनासिक इत् इत्यनेन । एवञ्च णादिभिरिद्भिःआदिरन्त्येन-॑ इति वक्ष्यमाणेन प्रत्याहारग्रहणात्अणादिसंज्ञार्थानि॑ इति यदुक्तं तत्सङ्गच्छत् इति भावः । अकार उच्चारणार्थ इति । नतु लण्सूत्रस्थाऽकार इव प्रयोजनार्थ इत्यर्थः ।", "61158": "", "61159": "", "61160": "", "61161": "", "61162": "", "61163": "", "61164": "", "61165": "", "61166": "", "61167": "", "61168": "", "61169": "", "61170": "", "61171": "", "61172": "", "61173": "", "61174": "", "61175": "", "61176": "", "61177": "", "61178": "", "61179": "", "61180": "", "61181": "", "61182": "", "61183": "", "61184": "", "61185": "", "61186": "", "61187": "", "61188": "", "61189": "", "61190": "", "61191": "", "61192": "", "61193": "", "61194": "", "61195": "", "61196": "", "61197": "", "61198": "", "61199": "", "61200": "", "61201": "", "61202": "", "61203": "", "61204": "", "61205": "", "61206": "", "61207": "", "61208": "", "61209": "", "61210": "", "61211": "", "61212": "", "61213": "", "61214": "", "61215": "", "61216": "", "61217": "", "61218": "", "61219": "", "61220": "", "61221": "", "61222": "", "61223": "", "62001": "", "62002": "", "62003": "", "62004": "", "62005": "", "62006": "", "62007": "", "62008": "", "62009": "", "62010": "", "62011": "", "62012": "", "62013": "", "62014": "", "62015": "", "62016": "", "62017": "", "62018": "", "62019": "", "62020": "", "62021": "", "62022": "", "62023": "", "62024": "", "62025": "", "62026": "", "62027": "", "62028": "", "62029": "", "62030": "", "62031": "", "62032": "", "62033": "", "62034": "", "62035": "", "62036": "", "62037": "", "62038": "", "62039": "", "62040": "", "62041": "", "62042": "", "62043": "", "62044": "", "62045": "", "62046": "", "62047": "", "62048": "", "62049": "", "62050": "", "62051": "", "62052": "", "62053": "", "62054": "", "62055": "", "62056": "", "62057": "", "62058": "", "62059": "", "62060": "", "62061": "", "62062": "", "62063": "", "62064": "", "62065": "", "62066": "", "62067": "", "62068": "", "62069": "", "62070": "", "62071": "", "62072": "", "62073": "", "62074": "", "62075": "", "62076": "", "62077": "", "62078": "", "62079": "", "62080": "", "62081": "", "62082": "", "62083": "", "62084": "", "62085": "", "62086": "", "62087": "", "62088": "", "62089": "", "62090": "", "62091": "", "62092": "", "62093": "", "62094": "", "62095": "", "62096": "", "62097": "", "62098": "", "62099": "", "62100": "", "62101": "", "62102": "", "62103": "", "62104": "", "62105": "", "62106": "", "62107": "", "62108": "", "62109": "", "62110": "", "62111": "", "62112": "", "62113": "", "62114": "", "62115": "", "62116": "", "62117": "", "62118": "", "62119": "", "62120": "", "62121": "", "62122": "", "62123": "", "62124": "", "62125": "", "62126": "", "62127": "", "62128": "", "62129": "", "62130": "", "62131": "", "62132": "", "62133": "", "62134": "", "62135": "", "62136": "", "62137": "", "62138": "", "62139": "", "62140": "", "62141": "", "62142": "", "62143": "", "62144": "", "62145": "", "62146": "", "62147": "", "62148": "", "62149": "", "62150": "", "62151": "", "62152": "", "62153": "", "62154": "", "62155": "", "62156": "", "62157": "", "62158": "", "62159": "", "62160": "", "62161": "", "62162": "", "62163": "", "62164": "", "62165": "", "62166": "", "62167": "", "62168": "", "62169": "", "62170": "", "62171": "", "62172": "", "62173": "", "62174": "", "62175": "", "62176": "", "62177": "", "62178": "", "62179": "", "62180": "", "62181": "", "62182": "", "62183": "", "62184": "", "62185": "", "62186": "", "62187": "", "62188": "", "62189": "", "62190": "", "62191": "", "62192": "", "62193": "", "62194": "", "62195": "", "62196": "", "62197": "", "62198": "", "62199": "", "63001": "<<अलुगुत्तरपदे>> - अलुक्सयादिति । प्रसज्यप्रतिषेधोऽयम् । सुपो धात्वित्यादिना प्राप्तो लुङ्ग भवतीत्यर्थः ।", "63002": "<<पञ्चम्याः स्तोकादिभ्यः>> - हलः । र॒संप्रसारणस्ये॑त्यनुवर्तते ।अङ्गस्ये॑त्यवयवषष्ठी ।हल॑ इति पञ्चमी । तदेतदाह — अङ्गावयवादिति । अङ्गावयवात्किम् । निरुतम् । दुरुतम् । तदन्ताङ्गस्य किम् । विध्यति । क्षीष् हिंसायाम् । षित्त्वादङ् ।क्षिया॑ ।हेति क्षियायाम् ।क्षियाशी॑रित्यादौक्षिया धर्मव्यतिक्रम आचारभेद॑ इति वक्ष्यति । दीर्घनिर्देशसामर्थ्यादिति । ननु दीर्घग्रहणेनाऽङ्गवृत्तपिरभाषा ज्ञाप्यत इत्याकरे स्थितम् । अन्यथा ज्ञाजनोर्जं विदध्यात्,अतो दीर्घो यञी॑ति दीर्घसिद्धेः । तथा च दीर्घनिर्देशसामर्थ्यस्योपक्षयात्कथमिह ह्रस्वाऽभावसिद्धिरिति चेत् । अत्राहुः — ह्रस्वाऽभावे सत्येव दीर्घनिर्देश उक्तपरभाषाया ज्ञापकः । सति तु ह्रस्वे पुनरङ्गकार्यं प्रवृत्तमेवेति न ज्ञापकः । तथा च ह्रस्वाऽभावसिद्धौ न किंचिद्बाधकमिति । किंचअङ्गवृत्ते पुनरङ्गवृत्तावविधि॑रित्येव परिभाषाशरीरम् । तञ्चोक्तज्ञापकात्सिद्धम् । यदि तुभ्यसो भ्य॑मिति सूत्रे भाष्ये परिनिष्ठितस्येत्येव पाठस्तर्हि स्वतन्त्रमेवेदं वचनं न तु ज्ञापकमिति पक्षोऽपि युष्मदस्मच्छब्दगतमनोरमाग्रन्तादवगम्यते । तस्मस्तु पक्षे दीर्घग्रहणसामर्थ्यं नोपक्षीणमिति सम्यगेवायं ग्रन्थ इति । केच#इत्तु संज्ञापूर्वकविधेरनित्यत्वान्न ह्रस्व इति व्याख्येयमित्याहुः । बध्नातीति ।अनिदिता॑मिति नलोपः । अभान्त्सीदिति ।वदव्रजे॑ति वृद्धिः । भष्भावः । अबान्द्धामिति ।झषस्तथो॑रिति तस्य धत्वम् ।झरो झरी॑ति वा लोपः । वृङ् संभक्तौ । भक्तिर्भजनम् । श्रन्थ । कित्त्वपक्षे इति ।श्रन्थिग्रन्थदम्भिस्वञ्जीनां लिटः कित्त्वं वे॑ति व्याकरणान्तरमित्युक्तत्वात् ।", "63003": "<<ओजःसहोऽम्भस्तमसः तृतीयायाः>> - ओजः सहो । ओजसाकृतमिति । कर्तृकरणे कृतेति समासः । कथं तर्हि सततनैशतमोवृतमन्यतः इति भारविः । अत्राहुः — वृतु वर्तने इत्यस्मात् घञर्थे कविधानमिति भावे कप्रत्यये तदन्तेन षष्ठीसमासाश्रयणान्न दोष इति । यत्तु केवलपदाधिकार एव तदन्तविधिर्न तूत्तरपदाधिकारे । तथा च नैतशतमसा इति तृतीयाया अलुङ्न भवतीति दुर्घटवृत्याद्वुक्तम् । तन्न । पदाङ्गाधिकारे इत्यत्र इष्टकचितं, पक्वेष्टकचितमिति भाष्योदाहरमादुत्तरपदाधिकारेऽपि तदन्तविधिप्रवृत्तेः । पुंसानुजो जनुषान्ध इति च । जनुषेति । जनुर्जननजन्मानीत्यमरः ।", "63004": "", "63005": "", "63006": "", "63007": "<<वैयाकरणाख्यायां चतुर्थ्याः परस्य च>> - परस्य च । परशब्दस्य च या चतुर्थी तस्या अलुक् स्याद्वैयाकरणाख्यायाम् ।", "63008": "परस्य च। परशब्दस्य च या चतुर्थी तस्या अलुक् स्याद्वैयाकरणाख्यायाम्।", "63009": "", "63010": "<<कारनाम्नि च प्राचां हलादौ>> - अविकटोरण इति । सङ्घाते कट जिति कटच्प्रत्ययान्तः । उरणो-मेषः ।", "63011": "", "63012": "", "63013": "<<बन्धे च विभाषा>> - बन्धे च विभाषा । बन्ध इति घञन्तः । हस्तेबन्ध इति । बहुव्रीहिरयम् । तत्पुरुषे तु नेन्सिद्धबन्धातिषु चेति वक्ष्यमाणेन निषेध एवेत्याहुः । अप्सव्य इति । दिगादित्वाद्यति ओर्गुणे वान्तादेशः । प्राचा तु यतः स्थाने जं पठित्वा अप्सुजः इत्युदाहृतं, तदाकरविरुद्धम् । अपो योनियन्मतुषु । अप्सुमन्ताविति । कारीर्यामप्स्वग्ने सधिष्ठव अप्सु मे सोमो अब्रावीदित्याज्यभागमन्त्रौ स्तः । तत्र ह्रप्सुशब्दोऽस्तीति तद्द्वारा आज्यभागयोरप्यप्सुमत्त्वम् । प्राचा तु मतिषु इति पठित्वा अप्सुमतिः इत्युदाहृतम् । अत्र केचित् - अप्स्वित्येतदनुकरणशब्दः सप्तम्यन्तो न वा । आद्ये सप्तम्यान्तात्प्रथमाया अभावेन मतुबेव दुर्लभः । अन्त्ये तु लुकः प्राप्तिरेव नास्ति, सप्तम्यभावात् । तथा च मतिषु इति प्राचोक्तः पाठ एव युक्तः । न च स पाठो भाष्यादौ न दृष्ट इति वाच्यं, मतिषु इति पाठस्य अप्सुमतिः इत्युदाहरणस्य च भाष्यवृत्त्यादिपुस्तकेषु दृश्यमानत्वेन मतुष्विति पाठस्यैव क्काप्यदर्शनात्, व्यर्थत्वाच्च । अस्यवामीयं कथाशुभीयम् इत्यादाविव लुकि कर्तव्ये प्रकृतिप्रकृतिवदनुकरणमित्यतिदेशाऽप्रवृत्त्यैवेष्टसिद्धेरित्याहुः ।", "63014": "", "63015": "", "63016": "", "63017": "", "63018": "", "63019": "<<नेन्सिद्धबध्नातिषु>> - नेन्सिद्धब । चक्रबन्ध इति । तत्पुरुषे इत्यनुवृत्तेस्तत्पुरुष एवायं निषेधः । बहुव्रीहौ तु बन्धे च विभाषा इति विकल्प एव । वाग्दिक्पश्यद्भ्यो युक्तिदण्डहरेषु । पश्यतोहर इति । पश्यन्तमनादृत्य हरतीत्यर्थः । षष्ठी चाऽनादरे इति षष्ठी । देवानांप्रिय इति च मूर्खे । देवानामिति । मूर्खा हि देवानां प्रीतिं जनयन्ति देवपशुत्वादिति मनोरमा । अयं भावः — ब्राहृआज्ञानरहितत्वात्संसारिणो मूर्खाः । ते तु यागादिकर्माण्युनुतिष्ठन्तः पुरोडाशादिप्रदानद्वारा देवानाम्तयन्तं प्रीतिं जनयन्ति । बहृज्ञानिनस्तु न तथा, तेषां यागाद्यनुष्ठानाऽबावात् । अतो गवादिस्थानापन्नत्वान्मूर्खा एव देवपशव इति । शेपपुच्छलाङ्गूलेषु शुनः । सेपपुच्छेति । शुन इव शेपमस्य शुनःशेपः । यद्यपि शेपस्शब्दः सकारान्तः, गौर्लिङ्गं चिह्नशेपसोः इत्यमरप्रोगात्, तथापि शीङ्गो निपातनादौणादिके पप्रत्यये अकारान्तोऽप्यस्त्येव । तथा च मन्त्र यस्याकमुशन्तः प्रहराम शेपमिति । चिह्नशेफसोः इति पाटे तु शेफशब्दस्य सकारान्तत्वशङ्कैव नास्तीति बोध्यम् । शुनः पुच्छ इत्यादावपि बहुव्रीहिः । त्रयोऽप्यमी ऋषिविशेषाणां संज्ञाः । मातुः पितुभ्र्यामिति सूत्रे समासेऽङ्गुलेः सङ्गः इत्यतः समास इत्यनुवर्तितम्, तत्फलं दर्शयति — असमासे त्विति । वाक्ये वैकल्पिकमपि षत्वं नेत्यर्थः । इत्यलुक्समासः तत्त्वबोधिन्याम् ।", "63020": "", "63021": "", "63022": "", "63023": "", "63024": "", "63025": "<<देवताद्वन्द्वे च>> - देवता । अनृकारान्तार्थमविद्यायोनिसम्बन्धार्थं च वचनम् ।", "63026": "देवता। अनृकारान्तार्थमविद्यायोनिसम्बन्धार्थं च वचनम्।", "63027": "<<ईदग्नेः सोमवरुणयोः>> - ईदग्नेः । आनङोऽपवादोऽयम् । देवताद्वन्द्व इत्येवेति । इदं च वृत्तिगन्थे स्थितम् । ज्यतिर्लतयोरदेवताद्वन्द्वेऽपिअग्नीषोमौप्रणेष्यामि॑इत्याआलायनप्रयोगस्त्वार्षत्वात्साधुः । यद्वा मास्तु तदनुवृत्तिः, अद्निसोमौ माणवकावित्यत्रअभिव्यक्तपदार्था ये स्वतन्त्रा लोकविश्रुताः॑इति न्यायेनाऽदोषत्वात् ।", "63028": "<<इद्वृद्धौ>> - इद्वृद्धौ । तकार उच्चारणार्थः । इकारस्येकारविधानं तु बाधकबाधनार्थम् । वृद्धिशब्देनाऽत्र वृद्धिमद्गृह्रते, वृद्धिमात्रस्योत्तरपदस्याऽसंभवात् । अतो व्याचष्टे -वृद्धिमत्युत्तरपद इति । आनङमीत्वं च बाधित्वेति । यद्यपि वृद्धेः प्रागेव आनङीत्वयोरन्तरङ्गत्वात्प्रवृत्तिरस्ति, तथापिपरिह्मत्यापवादविषयमत्सुर्गोऽभिनिविशते, इति न्यायादानङीत्वे न भवत इति भावः । आग्नावेष्णवमिति । इत्वाऽभावादानङेव भवति ।", "63029": "", "63030": "<<दिवसश्च पृथिव्याम्>> - रुत्वं मा भूदिति । अकारे सति सकारस्य श्रवणं भवति, तेन प्रयोगे विकाराऽभावोऽनुमीयत इति भावः ।छन्दसि दृष्टानुविधिः । विसर्गमिति । तथा चक्वचिद्वकारो ने॑त्येवानुमेयं, लक्ष्यामुरोधादिति भावः ।", "63031": "<<उषासोषसः>> - उषासासूर्यमिति । उषाश्च सूर्यश्च तयोः समाहारः । मातरपितरौ । मातृशब्दस्याऽरङादेशो निपात्यते ।", "63032": "", "63033": "", "63034": "<<स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु>> - स्त्रियाः पुंवत् । निपातनादिति । एतच्च पूर्वत्रापि योज्यम् । अन्यथा व्यधिकरणानां बहुव्रीहिः स्वरसतो न सिध्येत् । लुगति ।अनु॑ङिति प्रथमान्तम् । षष्ठर्थे प्रथमेति हरदत्तऋ । एवं च सूत्रे केषांचित् अनूङः समानाधिकरणे॑ इति षष्ठन्तपाठोऽसांप्रदायुक इति भावः । तुल्ये इत्यादि ।भाषितः पुमान् यस्मिन् इत्यादिव्याख्यानादयमर्थो लभ्यते इतितृतीयादिषु भाषितपुंस्क॑मित्यत्रोपपदितम् । यद्यत्रभाषितः पुमान्येन तद्भाषितपुंस्क॑मित्युच्येत तर्हि कुटीभार्यः द्रोणीभार्य इत्यादावतिप्रसङ्गः स्यात् । भवति हि कुटशब्दो घटे पुंलिङ्गो, गेहे तु स्त्रीलिङ्गः । द्रोणशब्दस्तु परिमाणविशेषे पुंलिङ्गो, गवादन्यां तु स्त्रीलिङ्ग इति । ऊङोऽभावा यत्रेति । यदि तु ऊङन्योऽनूङिति पर्युदासः स्यात्तर्हि टाबाद्यन्तमेव गृह्रेत । ततः किमिति चेत्, दरदोऽपत्यं दारदः ।॒व्द्यञ्मगधे॑त्यण्, तस्य स्त्रियाम्अणश्चे॑ति लुक् । दरद् । सा चासौ वृन्दरिका च दारदवृन्दारिकेत्यादि न सिध्येत् । न ह्यत्र दर्शनीया भार्या यस्य स दर्शनीयभार्य इत्यादाविव स्त्रीप्रत्ययः कश्चिदस्तीति भावः । ननुन कोपधाया ऊङश्चे॑त्येव सूत्र्यतामिते चेन्न, बाधकबाधनार्थेनपुंवत्कर्मधारये॑त्यनेन वामोरूभार्येति कर्मधारये पुंवद्भावपत्तेः । पृथक्प्रतिषेधसामर्थ्यात्सिद्धान्ते तु न दोषः ।स्तरिया॑इत्यस्य स्त्रीप्रत्ययपरतां वारयति — स्त्रीवाचकस्येति ।स्त्रीप्रत्ययस्य पुंवद्भावः॑ इत्युक्ते तु स्त्रीप्रत्ययलोप इत्येवार्थः पर्यवस्यतीति दारदवृन्दारिकेति न सिध्येत् । किं चपटुभार्य॑इत्यत्र उत्तरपदनिमित्ताया ङीषो निवृत्तेःअचः परस्मिन्नि॑ति स्थनिवद्भावाद्यण् स्यात् । अपि च वतण्डस्यापत्यं स्त्री वतण्डी ।वतण्डाच्चे॑ति यञ्,लुक्स्त्रिया॑मिति तस्य लुक् । शाङ्र्गरवादित्बान्ङीन् । वतण्डी चासौ वृन्दारिका च वातण्डवृन्दारिका । अत्र पुंवद्भावेन ङीनो निवृत्तावपि अर्थगतस्य स्त्रीत्वस्यानिवृत्तत्वात्लुक् स्त्रिया॑ मिति यञो लुक् प्रसज्येतेति भावः । ह्रस्व इति ।अनेक॑मिति प्रथमानिर्दिष्टत्वात्प्रथमानिर्दिष्ट॑मिति,एकविभक्ति चे॑ति वा गोशब्दस्योपसर्जनत्वादिति भावः । चित्रा असिति ।अन्तरङ्गानपी॑ति न्यायादिह पूर्वसवर्णदीर्घो न प्रवर्तते । अन्यथा एकादेशस्य परादित्वेन सुपो लुकि चुत्रगुरित्यत्र अकारो न लभ्येतेति भावः । नेहेति । अत्रैव सूत्रे पठ्वीमृव्द्यौ भार्ये अस्येति द्वन्द्वगर्भबहुव्रीहौपट्वीमृदुभार्य॑इति भाष्योदाहरणादिति भावः । आनङिति । तथा चसमर्थ॑सूत्रे भाष्येहोतृपोतृनोष्टोद्गातार॑इत्यत्र चतुर्णां द्वन्द्वे तृतीयस्यानङ् उदाहृतः । पूर्वपदाक्षेपे तु स न सिध्येत् । न ह्यत्र नेष्टा पूर्वपदं, होतु रेव पूर्वपदत्वादिति भावः । अतएवेति । पूर्वपदाऽनापक्षेपादेवेत्यर्थः । चित्राजरदिति । द्वन्द्वन्तर्गतजरच्छब्दस्योत्तरपदत्वेऽप्यसामानाधिकरण्यान्न टापो निवृत्तिः । न चैवमपि द्वन्द्वात्मकस्य पूर्वपदस्य समानाधिकरणोत्तपदपरत्वात्पुंवद्भावे टाब्निवृत्तिर्दुर्वारेति वाच्यं, द्वन्द्वान्तर्गतचित्रजरच्छब्दयोः स्त्रीप्रत्ययप्रकृत्योः प्रत्येकं भाषितपुंस्कत्वेऽपि द्वन्द्वात्मकस्य पूर्वपदस्याऽतथात्वात् । द्वयोरपीति । पूर्वपदान्तर्गतमुत्तरपदमाश्रित्य प्रथमास्यपि पुंवद्भाव इति भावः । जरच्चित्रेति । पूर्वकालैके॑ति समासः । लिङ्गविशिष्टपरिभाषया जरद्ग्रहणेन जरती शब्दस्यापि ग्रहणात् । चित्रजरद्गवीक इति । जरती चासौ गौश्च जरद्गवी ।गोरतद्धिते॑ति टचि टित्त्वान्ङीप् । चित्रा जरद्गवीस यस्येति बहुव्रीहौनद्यृतश्चे॑ति वक्ष्यमाणः कप् । वामोरूभार्य इति ।संहितशफलक्षणवामादेश्चे॑त्यूङ् । प्रधानमिति । भावल्युडन्तं नित्यनपुंसकम् । पञ्चमीति ।तस्य पूरणे॑इति डट् ।नान्तादसङ्ख्यादेः॑ इति डटो मडागमः ।टिड्ढे॑ति ङीप् ।", "63035": "<<तसिलादिष्वाकृत्वसुचः>> - तसिलादिषु कृत्वसुजन्तेष्विति ।पञ्चम्यास्तसिलि॑त्यारभ्यसङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुजि॑त्येतत्पर्यन्तेष्वित्यर्थः । अव्याप्त्यतिव्याप्तिवारणायेति । वृकतिरजथ्या बहुश इत्यत्राऽव्याप्तिः, तसिलादिकृत्वसुच्पर्यन्तेषु तिल्थ्यनूशसां पाठाऽभावात् । पट्वीदेश्या शुभ्रारूप्य इत्यत्राऽतिव्याप्तिः,ईषदसमाप्तौ॑इति देश्यस्य, षष्ठआ रूप्य चे॑ति रूप्यस्य च तत्र पाठात्, अतस्तन्निवारणाय परिगणनमित्यर्थः । परिगणितान् त्रतसादीन् क्रमेणोदाहरति — बह्वीष्विति । यद्यपि बह्वादिषु ङीषो वैकल्पिकत्वात्तदभावे बहुत्रेत्यादि सिध्यति, तथापि पक्षे बह्वीत्रेत्याद्यनिष्टवारणायेदम् । ततस्तत्रेति प्राचोक्तमुदाहरणमत्रोपेक्षितम् ।सर्वनान्मो वृत्तिमात्रे॑इत्यनेन गतार्थत्वादिति मनोरमायां स्थितम् । पठ्वितरेति । प्राचा तु पटुतरत्युदाहृतं तत्प्रामादिकमिति भावः । पटुचरीति ।भूतपूर्वे चरट॑ । पटुजातीयेति ।प्रकारवचने जातीयर् । दर्शनीयरूपेत्यादि । प्रशंसायां रूपप् ।याप्ये पाशप् । बहुथेति ।प्राकारवचने थाल् । तत्र हिकिसर्वनामबहुभ्यः॑इत्यधिकृतम् । वृकतिरिति ।वृकज्येष्ठाभ्यां तिल्तातिलौ च छन्दसी॑ति तिल् । अजथ्येति ।अजाविभ्या#ं थ्यन् ।शसि बह्वल्पार्थस्य पुंवद्भावो वक्तव्यः । शसीति ।बह्वल्पार्थादि॑ति यः शस् स तसिलादिषु ज्ञातव्य इत्यर्थः । त्रतसादिषु परिगणनं कर्तव्यमिति यावत् ।त्वतलोर्गुणवचनस्य । त्वतलोर्गुणवचनस्येति ।गुणस्ये॑ति वक्तव्ये वचनग्रहणं प्रसिद्धगुणपरिग्रहार्थम् । अतस्तथैवोदाहरति -शुक्लत्वं शूक्लतेति । नन्विह जातिसंज्ञाव्यतिरिक्तं धर्ममात्रं गुण इति यत्प्राचीनैरुक्तं, तत्स्वीकर्तव्यम् । अन्यथानिरीक्ष्य मेने शरदः कृतार्थता॑,सा मुमोच रतिदुःखशीलता॑मित्यादिषु पुंवद्भावाऽप्रवृत्त्या दीर्घश्रवणं स्यादित्यताअह — सामान्ये नपुंसकमिति । एवं चनेष्टं पुरो द्वारवतीत्वमासीत्इत्यादिप्रयोगो निर्बाध इति भावः ।भस्याऽढे तद्धिते । हास्तिकमिति ।अचितथस्तिधेनो॑रिति ठक् । न चात्र यस्येति लोपेन निर्वाहः, तस्यअसिद्धवदत्रे॑त्यसिद्धत्वात्,अचः परस्मि॑न्निति स्थानिवद्भावाच्चनस्तद्धिते॑इति टिलोपाऽनापत्तेः । न चठक्छसोश्चे॑त्यनेनैववात्र पंवद्भावसिद्धिः शङ्क्या, छसा साहचर्यात्भवतष्ठक्छसौ॑इत्यस्यैव ठकस्तत्र ग्रहणात् । नापिजातेश्चे॑ति पुंवद्भावनिषेधः शङ्क्यः, अस्मादेव भाष्योदाहरणात्सौत्रस्यैव निषेधो, न त्वौपसङ्ख्यानिकस्ये॑ति ज्ञापनात् । रौहिणेय इति । रोहितशब्दात्वर्णांदनुदात्तादि॑ति ङीन्बकारौ । सति तु पुंवद्भावे तयोर्निवृत्तौरौहितेय॑इति स्यादिति भावः । गृह्रत इति । व्याख्यानादितिशेषः । अग्नायीति । अग्नीशब्दात्वृषाकप्यग्नी॑ति स्त्रियां ङीबैकारादेशौ । आग्नेय इति । पुंवद्भावाऽभावे तुआग्नायेय॑इति स्यादिति भावः । शत्रुपर्यायादिति । अत्र चव्यन् सपत्ने॑इति निर्देशो लिङ्गम् ।रिपौ वैरिसपत्नाऽरिद्विषव्द्देषणदुह्र्मदः॑इत्यमरः । विवाहनिबन्धनमिति । तज्जन्यसंस्कारविशेषविशिष्टे रूढमित्यर्थः । सापत्न इति । अभाषितपुंस्कत्वाव्द्दितीयस्य पुंवद्भावौ न भवति । सति च पुंवद्भावे नकारादेशाऽभावात्सापत इति स्यात् । आद्यस्य तु पुंवद्भावेऽपिसारत्न॑इत्येव भवतीति भावः । रूढयोरेवेति । आद्यः शब्दो रूढः, द्वितीयस्तु योगरूढः, तेनसमानः पतिर्यस्याः॑इति विग्रहो न विरुध्यत इति दिक् । ठक्छसोश्च । अभत्वार्थ आरम्भः ।भावत्का इति ।भवतष्ठक्छसौ॑ । ठावस्थायामेव पुंवद्भावे कृतेठस्येकः॑ इति इकादेशं बाधित्वा तान्त लक्षणः कादेशः । नन्विकादेशे भत्वात्भस्याऽढे॑इति पुंवद्भावे सति कादेशप्रवृत्त्या रूपसिद्धौकिमत्र ठग्ग्रहणेन । मैवम् । मथितं पण्यमस्य माथितिक इत्यत्रेवाऽल्विधित्वेन स्थानिवद्भाववाऽयोदात्सन्निपातपरिभाषया वा कादेशप्रवृत्तेर्दुर्लभत्वात् । अतःठक्छसो॑रिति ठग्ग्रहणं कर्तव्यमेव । भवदीया इति । छसः सित्करणात्सिति चे॑ति पदसंज्ञा । तेनाऽत्र जश्त्वं भवति । एवं च पदसंज्ञया भसंज्ञाया बाधात्भत्याऽढे॑ इत्यस्याऽप्रवृत्त्या वार्तिके छस्ग्रहणं कृतम् । भाष्यकारेष्टएति । अनेन सूत्रवार्तिकयोरुक्तिसंभवो ध्वनितः । उत्तरं दृष्ट्वा पूर्वस्याऽप्रवृत्तत्वात् । निष्कर्षे तु व्यर्थमेवेत्याह -गतार्थत्वादिति । इष्टेरुदाहरणान्यह -सर्वमय इत्यादिना ।तत आगतः॑इत्यर्थेमयट्चे॑इति मयट् । तसिलादिषु मयडादेरपरिगणितत्वात्तेनेदं न सिध्यतीति भावः । सर्वकभार्य इति । न चस्त्रियाः पुंव॑दिति सूत्रेण गतार्थता,न कोपधायाः॑इति निषेधात् । न चाऽस्यापि तेन निषेधः शङ्क्यः,स्त्रियाः पुंवदि॑त्यादिप्रकरणोक्तस्यैव तेन निषेधात् । अस्या इष्टेस्तु तस्मिन्प्रकरणेऽसमाविष्टत्वात् । न च वृत्त्यन्तर्गतस्य सर्वनामत्वाऽभावात्पुंवद्भावो न भवेदिति वाच्यं, वचनारम्भसामर्थ्यान्मात्रग्रहणाद्वा क्वचित्सर्वनामत्वेन दृष्टानां संप्रति संज्ञाऽभावेऽपि पुंवद्भावाभ्युपगमात् । अतएवोत्तरपूर्वायै इत्यत्र संज्ञाऽभावेऽपि पुंवद्भावः । सर्वां नाम काचित्तस्याः पुत्रः सर्वापुत्र इत्यत्र तु नाऽतिप्रसङ्गः,संज्ञोपसर्जनयोः सर्वादिगणबहुर्भूतत्वेन वृत्तेः पूर्वमप्यसर्वनामत्वात् । सर्वप्रिय इति ।स्त्रियाः पुंव॑दित्यत्र प्रियादिपर्युदासोरूपवतीप्रिय॑ इत्यादाबुपयुज्यत इति भावः । तदितरा तदन्येत्यादावुत्तरपदेऽतिप्रसङ्गमाशङ्क्याह -पूर्वस्यैवेति । वृत्तिघटकाऽनेकभागमध्ये किंचिदपेक्षया पूर्वस्येत्यर्थः । लिङ्गादिति । अन्यथा एषा द्वा एतयोः कात्पूर्वस्य आपि विधीयतमानमित्वं निर्विषयं स्यादिति भावः ।दक्षिणपूर्वा दि॑गिति भाष्योदाहरणमपीह लिङ्गमिति बोध्यम् । यत्तु प्राचासर्वनाम्नः समासे पूर्वं पुंव॑दित्युक्तम्, यच्च व्याचख्युः — ॒वार्तिकार्थमनुवदति -सर्वनाम्न इत्यादिना॑इति । तत्प्रामादिकम् ।वृत्तामात्रे॑इति पाठस्यैव भाष्यारूढत्वात् ।सर्वमयः॑सर्वकाम्यती॑त्युक्तोदाहरणाऽसिद्धिप्रसङ्गाच्च ।वार्तिकार्थ॑मित्याद्यपि प्रामादिकमेव । वार्तिकग्रन्थे एतदभावात् । न चसर्वनाम्नो वृत्तिमात्रे॑इत्येतद्धार्तिकमेव, न तु भाष्यकारेष्टिरिति शङ्क्यं -॒ठक्छसो ॑रिति वार्तिकस्य निरालम्बनत्वापत्तेः । भाष्यकारेष्टित्वे तु वार्तिकस्योक्तिसंभव उक्त एव प्राक् ।", "63036": "<<क्यङ्मानिनोश्च>> - क्यङ्भा । एतयते इत्यादि ।कर्तुः क्यङ् सलोपश्च॑ ।क्यङि पुंवद्भावे कृते एतश्येतयोःअकृत्सार्वे॑ति दीर्घः । मानिन्ग्रहणमसमानाधिकरणार्थमस्त्र्यर्थं चेत्याशयेन यथाक्रममुदाहरति — स्वाभिन्नामित्यादिना । दर्शनीयमानिनीति ।मनः॑इति णिनिः । नान्तत्वान्ङीप् । या त्वात्मानमेव दर्शनीयां मन्यते तत्रस्त्रियाः पुंव॑दित्येव सिद्धम् । एकस्या अपि ईप्सिततमत्वव्यापाराश्रयत्वविवक्षाभेदेन कर्मकर्तृत्वयोः सत्त्वेऽपि वास्तवाऽभेदेन सामानाधिकरण्याऽविधातादिति भावः ।", "63037": "<<न कोपधायाः>> - पाचिकाभार्य इति । पचतीति पाचिका । ण्वुल् ।युवो॑रित्यकादेशे टापिप्रत्ययस्था॑दितीत्त्वम् । रसिकाभार्य इति । रसोऽस्त्यास्या इति रसिका ।अत इनिठनौ॑इति ठन् । मद्रिकायत इति ।क्यङ्भानिनोश्चे॑ति पुंवत्त्वप्राप्तिः । मुद्रेषु भवा मद्रिका ।मद्रवृज्योः कन् । सति तु पुंवद्भावे इत्वं न श्रूयेतेति भावः ।तद्धितवुग्रहणमिति । द्वन्द्वान्ते श्रूयमाणः शब्दः प्रत्येकं सम्बध्यते, तद्धितग्रहणं वुग्रहणं चेत्यर्थः । पाका भार्येति ।अर्भकपृथुकपाका वयसी॑ति कप्रत्ययान्तोऽयमुणादिषु निपातितः । न चायं तद्धितस्य ककारो, नापि वोः ।वयसि प्रथम् इति ङीपं बाधित्वाऽजादित्वाट्टाप् ।", "63038": "<<संज्ञापूरण्योश्च>> - संज्ञापूरण्योश्च । यत्तुदत्तायते॑इति क्यङन्तमपि वृत्त्यादिषूदाहृतं, तत्तु विशेषाऽभावादिहोपेक्षितम् । पञ्चमीपाशेति ।याप्ये पाशव् ।तसिलादिषु॑इति प्राप्तिः ।", "63039": "<<वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे>> - वृद्धिनिमित्तस्य । रुआऔग्घ्नीति । रुआउग्घ्ने भवा ।तत्र भवः॑इत्यणिटिड्ढे॑ति ङीप् । माथुरीयत इति । मथुरायां भवा माथुरी । सेवाऽऽचरतीत्यर्थेकर्तुः क्य॑ङिति क्यङ् । मध्यमेति । मध्ये भवा मध्यमा ।मध्यान्मा॑इति मः । काण्डलावेति । काण्डं लुनातीति काण्डलावी ।कर्मण्यण् । कृदयम् । तावदिति । तत्परिमाणमस्यास्तावती ।यत्तदेतेभ्यः॑इति वतुपिआ सर्वनाम्नः॑ इत्याकारो न वृद्धिशब्देन विहित इति भावः । काषायीति । कषायेण रक्तेत्यर्थेतेन रक्तं रागा॑त्यणि ङीप् । हैमीति । हेम्नो विकार इत्यर्थेअनुदात्तदेश्चे॑त्यञ् । फलोपधानेति । मिमित्तशब्दः फलोपहितपरः । स्वरूपयोग्यपरत्वे तुवैयाकरणभार्य॑इत्यत्र पुंवद्भावो न सिध्येदिति भावः । व्याकरणमधीते वेत्ति वा वैयाकरणी ।तदधिते तद्वेदे॑त्यण् । स्वआस्यापत्यं स्त्री सौवआई ।तस्यापत्यम् इत्यण् । उभयत्र णित्त्वात्प्राप्ता आदिवृद्धिःन य्वाभ्या॑मित्यनेन प्रतिषिध्यत इति नायं वृदिंध प्रति फलोपहितः, किं तु स्वरूपयोग्यः । यद्यप्यैजागमनिमित्तत्वाद्वृदिंध प्रति फलोपहितोऽपि भवत्ययं तद्धितस्तथापि वृद्धिशब्देन विहितां वृदिंध प्रति न भवतीति भावः । अत्र व्याचक्षते -सूत्रे निमित्तशब्द#ः फलोपहितपरः, अन्यथा निमित्तग्रहणमनर्थकं स्यात् । वृद्धिस्तद्धितस्येत्युक्तेऽपि निमित्तत्वमेव सम्बन्ध इति वृद्धिनिमित्तं यस्तद्धित इत्यर्थलाभात् । तेन वृद्धिरित्ययमर्थो लभ्यते । अन्यथा फलोपहितपरत्वलाभो निष्फलः स्यात्, उक्तदोषतादवस्थ्यादिति । अमानिनीति वक्तव्यम् । सुकेशीति ।स्वाङ्गाच्चोपसर्जना॑दिति ङीष् । अकेशेति ।सहनञ्विद्यमाने॑ति निषेधान्ङीषभावः ।", "63040": "", "63041": "<<जातेश्च>> - जातेश्च । यद्यत्रजातेरित्येव विहित॑ इति व्याख्यायेत तर्हि हास्तिकमित्युदाहरणेऔपसङ्ख्यामिकस्य नायं निषेद॑इति भाष्योक्तिर्न सङ्गच्छेत । हस्तिन्शब्दात्जाते॑रिति ङीष्न विहितः, अदन्तत्वाऽभावात्, किं तुऋन्नेभ्यः॑इति ङीब्विहित इति पुंवद्भावनिषेधस्याऽप्रसक्तेरत आह — जातेः पर इति । एवं चहस्तनीभार्यः॑, इत्यादावपि निषेधः सिध्यतीति भावः ।", "63042": "<<पुंवत् कर्मधारयजातीयदेशीयेषु>> - भाषुतपुंस्कादित्यादि । एतच्चस्त्रियाः पुंव॑दिति सूत्रे स्फुटीकरिष्यते । ननु तेनैव कर्मधारयेऽपि सिद्धं जातीयदेशीययोस्तुतसिलादिष्वि॑ति सिद्धं, तत्किमनेन सूत्रेणेत्यत आह — पूरणीप्रियादिष्विति । तथेति च । महानवमीति । नवानां पूरणी ।तस्य पूरणे डट्॒नान्तादसङ्ख्यादेर्मट॑ । टित्त्वान्ङीप् । महती चासौ नवमी चेत् विग्रहः । पुंवद्भावे कृते वक्ष्यमाणेन महत आकारः । कोपधादेरिति ।न कोपधायाः॑संज्ञापूरण्योश्च॑वृद्धिनिमित्तस्य च तद्धितस्याऽरक्तविकारे॑त्वाह्गाच्चेतः॒॑जातेश्चे॑ति पञ्चसूत्र्या प्रितषिद्ध इत्यर्थः । क्रमेणोदाहरति — पाचकस्त्रीति । जातीयदेशययोरपि प्रतिप्रसवमुदाहरति — एवमिति । पाचिकाप्रकारवती पाचकजातीया । प्रकारवचने जातीयर् । पाचकदेशीयेति ।ईषदसमाप्तौ॑इति देशीयर् । उभयत्रतसिलादिषु॑इति पुंवद्भावस्यन कोपधायाः॑ इति निषेधः प्राप्तः, पटुजातीया पटुदेशीयेत्यादौ तस्य चरितार्थत्वात् । इत्यादीति । आदिपदाद्दत्तजातीया, पञ्चमजातीया, रुआऔग्ध्नजातीया, सुकेशजातीयै, ब्राआहृणजातीया । एवं दत्तदेशीयेत्याद्युदाहार्यम् । स्त्रीपुंसलक्षणेति । स्तनश्मश्र्वादियुक्ता स्त्रीत्यर्थः । उदइआदिति ।तक्रं ह्रुदइआन्मथितं प#आदाम्ब्वार्धाऽम्बु निर्जल॑मित्यमरः । कठधूर्त इति । नात्र कठत्वं कुत्स्यते, अतःकित्सितानि कुत्सनैः॑ इति गतार्थता शङ्क्या, प्रवृत्तिनिमित्तकुत्सायामेव तस्य प्रवृत्तेः ।जनयति कुमुदभ्रान्ति धूर्तबको बालमत्स्याना॑मित्यत्रधूर्तबक॑इत्यसाधुरेव ।", "63043": "<<घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः>> - घरूपकल्प । तरप्तमपौ घः । प्रशंसायां रूपप् । चिल वसने । चेलडिति पचादौ टित्पठते ङीवर्थम् । प्रत्ययेष्विति । लेखग्रहणेन उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तग्रहणं नास्तीति ज्ञापयिष्य इति भावः । ब्राआहृणितरेति । जातेश्चेति निषेधात् तसिलादिषु इति न पुंवद्भावः । चेलीति । पचादौ चेलट् इति पाठात् टिड्ढेति ङीप् । आमलकीति । आमलकीकुवलीशब्दौ वृक्षे नित्यस्त्रीलिङ्गौ ।", "63044": "<<नद्याः शेषस्यान्यतरस्याम्>> - उक्ताद्नयशेषः, स च द्विदेत्याह — अङ्यन्तेति । उपलक्षणमेतत् । भाषित्पुंस्केत्यपि नेह संबध्यत इत्याशयेनाह — स्त्रीतरेति ।", "63045": "<<उगितश्च>> - उगितः परा या नदीति । ईदूतोः केवलयोरपि नदीसंज्ञेत्याश्रित्येदमुक्तम् । विदुषितरेति । उगितश्चेति ङीपि वसोः संप्रसारणम् । वृत्त्यादिष्विति । प्रक्रियातद्व्यख्यानानि चादिशब्दग्राह्राणि ।", "63046": "<<आन्महतः समानाधिकरणजातीययोः>> - आन्महतः । तकार उच्चारणार्थो, न तु सर्वादेशार्त इत्याह -आकारोऽन्तादेशः स्यादिति । इहोत्तरपदाऽधिकारे पूर्वपदमाक्षिप्यते । तच्च महता विशेषितमिति तदन्तविधिर्लभ्यते ।ग्रहणवता॑इति निषेधस्तु प्रत्ययविधिविषय इत्युक्तत्वात् । तेन महाबाहुवदतिमहाबाहुरिति प्रयोगो भवति ।परममहत्परिमाण॑मित्यत्र तु परममहतो द्रव्यस्य परिमाणमिति षष्ठीतत्पुरुषोऽभ्यु पगम्यत इति न तत्राऽऽत्वप्रसक्तिरिति वृद्धाः । यत्तु वद्र्धमानेनोक्तम् -॒इष्टकेषीकामालानामित्यत्र तदन्तविध्युपसङ्ख्यानसमाथ्र्यादुत्तरपदाधिकारे तदन्तविधिर्नास्ति, तेन परममहत आत्वं ने॑ति, तद्भाष्यकैयटविरुद्धम् । तथाहि — ॒येन विधि॑रिति सूत्रे पदाधिकारे प्रयोजनमिष्टकचितं पक्वेष्टकचितमिति भाष्ये उदाहृतं, कैयटेन च पदशब्देन उत्तरपदं गृह्रत इति व्याख्यातम् । एतदेवाऽर्थतः काशिकायामुपनिबद्दं न तु इष्टकेषीके॑त्यत्र कात्यायनोक्तमुपसङ्ख्यानमस्ति । ननु प्रतिपदोक्तसमासे यदुत्तरपदं तस्मिन्नेव परे आत्वं स्यान्नन्यत्रेति किमनेन समानाधैकरणग्रहणेनेत्यत आह — महाबाहुरिति । बहुव्रीहिरयम्, स च सामान्यशास्त्रनिर्वृत्तत्वाल्लाक्षणिक इति भावः । अष्टनः कपाल इति । कपाले उत्तरपदे हविषि वाच्ये अष्टन आत्वं वक्तव्यमित्यर्थः ।अष्टाकपाल इति ।संस्कृतं भक्षाः॑ इत्यणःद्विगोर्लुगनपत्ये॑इति लुक् ।अध्यर्धपूर्वे॑त्यणो लुगिति केषांचिद्व्याख्यानं तु प्रामादिकं,संस्कृत॑मित्यणोऽनाहीयत्वात् ।", "63047": "<<त्रेस्त्रयः>> - त्रेस्त्रयः । सन्धिवेलादिषु त्रयोदशीति पाठात्सान्तोऽयमादेशः इति ध्वनयन्नाह -त्रयस्स्यादिति । सुजर्थे बहुव्रीहिरिति ।संङ्ख्यायाव्यये॑त्यादिने ति शेषः ।षष उत्वं दतृदशधासूत्तरपदादे[#ः]ष्टुत्वं च, धासु वेति वाच्यम् । षोडन्निति । षड् दन्ता अस्य षोडन् ।वयसि दन्तस्ये॑ति दत्रादेशः ।", "63048": "त्रेस्त्रयः। सन्धिवेलादिषु त्रयोदशीति पाठात्सान्तोऽयमादेशः इति ध्वनयन्नाह - त्रयस्स्यादिति। सुजर्थे बहुव्रीहिरिति। `संङ्ख्यायाव्यये`त्यादिने ति शेषः।", "63049": "", "63050": "<<हृदयस्य हृल्लेखयदण्लासेषु>> - अणन्तस्य ग्रहणमिति । अण्प्रत्ययसाहचर्याल्लेखशब्दोऽणन्त एव निर्दिष्ट इति भावः । नन्वेवं लेखग्रहणमेव व्यर्थं स्यादण्ग्रहणेनैव सिद्धेरत आह - ज्ञापकमिति । अत एव घरूपकल्पेषु तदन्तग्रहणं नेति व्याख्यातम् ।", "63051": "<<वा शोकष्यञ्रोगेषु>> - सौहार्यमिति । ब्राआहृणादित्वात्ष्यञ्, ह्मद्भगसिन्ध्वन्ते इत्युबयपदवृद्धिः ।", "63052": "<<पादस्य पदाज्यातिगोपहतेषु>> - पादस्य पद । उत्तरसूत्रे पद्ग्रहणात्पदेत्ययमदन्तः, सौत्रो विभक्तिलुक् । तदाह — अदन्त आदेश इति । तेन पदगः इत्यादि सिद्धम् ।", "63053": "<<पद् यत्यतदर्थे>> - पद्याइति ।विध्यत्यधनुषे॑ति यत् । पाद्यमिति ।पादार्घाभ्यां चे॑ति यत् । पूर्वसूत्रे आज्यात्यादिषु प्राण्यङ्गस्यैव करणत्वसंभवादिहापि तद्वचन एव पादशब्दो गृह्रते, न परिमाणवचनः । तेनद्वाभ्यां पादाभ्यां क्रीतं द्विपाद्यं, त्रिपाद्य॑मित्यत्रपणपादमाषे॑ति यति पदादेशो न भवति । एतच्च वृत्तिहरदत्तग्रन्थयोः स्पष्टम् ।", "63054": "<<हिमकाषिहतिषु च>> - पत्काषीति ।सुप्यजाता॑विति णिनिः । पद्धितिरिति । कर्मणि क्तिन् ।", "63055": "<<ऋचः शे>> - ऋचः शे ।शे॑ इति शस्प्रत्ययस्येदमनुकरणम्, लोमादिषु पादशब्दस् । पाठाऽभावान्मत्वर्थे शो न संभवतीति भावः ।", "63056": "<<वा घोषमिश्रशब्देषु>> - पच्छब्द इति ।सङ्ख्यैकवचनाच्च वीप्साया॑मिति शस् ।", "63057": "<<उदकस्योदः संज्ञायाम्>> - उदमेघ इति । सादृश्यात्पुरुषस्येयं संज्ञा ।", "63058": "<<पेषंवासवाहनधिषु च>> - उदपेषमिति ।स्नेहने पिषः॑इति णमुल् । उदधिरिति । उदकं धीयतेऽस्मिन्निति विग्रहः ।कर्मण्यधिकरणे चे॑ति किप्रत्ययः ।", "63059": "", "63060": "<<मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु च>> - मन्थौद । उदमन्थ इति । द्रवद्रव्यसंस्कृताः सक्तवो — मन्थः ।उदकेन मन्थः॑इति विग्रहेतृतीये॑ति योगविभागात्समास इति हरदत्तः ।इयङुवङ्भाविनामव्ययानां च नेति वाच्यम् । शुक्लीभाव इति ।ऊर्यादिच्विडाचश्चे॑ति च्व्यन्तत्वान्निपातत्वेऽव्ययत्वम् ।अभ्रुकुंसादीनामिति वक्तब्यम् । भ्रूकुंस इत्यादि ।भ्रकुंसश्च भुकुंसश्च भ्रूकुंसश्चेति नर्तकः॑इत्यमरः ।तन्द्री प्रमीला भ्रकुटिर्भ्रूकुटिः स्त्रिया॑मिति च ।", "63061": "", "63062": "<<एक तद्धिते च>> - एक तद्धिते च ।एके॑ति लुप्तषष्ठीकं, तदाह -एकशब्दस्योति । ह्रस्वविधानमस्य टाबन्ते एवोपयुज्यते न तु केवले, स्वभावत एव ह्रस्व त्वादतो व्याचष्टे -एकस्या आगतमित्यादि ।", "63063": "", "63064": "", "63065": "<<इष्टकेषीकामालानां चिततूलभारिषु>> - इष्टकचितमिति ।कर्तृकरणे कृते॑ति तृतीयासमासः । पक्वेष्टकचितमिति । पदाधिकारात्तदन्तविधिः प्रवर्तत इति भावः । मालभारीति ।मालां बिभर्ती॑त्यर्थः ।सुप्यजातौ॑ इति णिनिः ।हारिषु॑इति पाठान्तरम् ।", "63066": "<<खित्यनव्ययस्य>> - शर्द्धंजहा इति । शर्धनं शर्धः । शृधु कुत्सायाम् । घञ् । तं जहातीति । ननु माषाः शद्र्धमपानशब्दं त्याजयन्ति न तु स्वतो जहतीत्याशङ्कायामाह — अन्तर्भावितण्यर्थ इति । यथासङ्ख्यं वारयितुमाह — अत्रेति ।", "63067": "<<अरुर्द्विषदजन्तस्य मुम्>> - अरुर्द्विषत् । वर्णग्रहणे तदन्तविधेः सिद्धावप्यन्तग्रहणं शुनिन्धय इत्यादौ ह्रस्वे कृते मुम्प्रवृत्त्यर्थम् । तथा हि अन्तः शब्दः समीपपरः, अञ्चाऽसावन्तश्चेति विग्रहः । निपातनाद्विशेषणस्य परनिपातः । समीपःखित्यनव्ययस्ये॑ति सूत्रेण विहितो योऽच् तदन्तस्य मुमिति व्याख्यायते । एवं चजनमेजय॑ इत्यादौस्वतो ह्रस्वेऽपि मुम्सिद्धये प्रथमं खितीति ह्रस्वः प्रवर्तनीय इत्यवधेयम् ।", "63068": "<<इच एकाचोऽम्प्रत्ययवच्च>> - इच एकाचः । अम्ग्रहणमिहाऽऽवर्तते, तत एकेन अम् विधीयते, परेण प्रत्ययो विशेष्यते । तदाह — स्वाद्यम्वदिति । एवं चन विभक्तौ तुस्माः॑ इति निषेधान्मकारस्य नत्संज्ञा, अतएव परश्च भवति ।औतोऽम्शसो॑रित्यत्र शशा साहचर्यात्सुबेवाऽम् गृह्रत इत्युक्तत्वादोत आकारश्च भवतीत्याशयेनोदाहरति — गांमन्य इति । नरंमन्य इति ।ऋतोऽङीत्यादिना गुणः ।भाष्यकरोति । अयं भावः — यथा प्रष्ठादयः शब्दाः पुंयोगात्स्त्रीयां वर्तन्ते — प्रष्ठी गणिकेति, तथेह श्रीशब्द परित्यक्तस्वलिङ्गः क्लीबः सन् कुले वर्तते, तत्रह्रस्वो नपुंसके॑ इति ह्रस्वः, मुम् तु न, अपवादेन अमा बाधात् ।स्वमोर्नपुंसका॑दित्यमो लुक् । नचैं गामंन्य इत्यादावपिसुपो धातुप्रातिपदिकयो॑रिति लुक् स्यादिति वाच्यम्,अम्विधिसामर्थ्यादेव तद्बाधादित्याहुः । अम्प्रत्ययस्तुमध्येऽपवादा॑ इति न्यायेनसुपो धातुप्रातिपदिकयो॑रिति लुकमेव बाधते न तुस्वमोर्नपुंसका॑दिति लुकमिति भाष्यादौ स्थितम् । स्यादेतत् — नपुंसकह्रस्वे कृते मुमः प्राप्तिरेव नास्ति, कथमत्रापवादेन अमा बाधादित्युक्तिः सङ्गच्छेत,अरुर्द्विष॑दिति सूत्रे हि अन्तग्रहणस्य समीपवाचित्वेनखित्यनव्ययस्ये॑ति पुनह्र्यस्वो मुमर्थः स्वीक्रियते तथात्रापि भवेदित्यस्त्येव मुमः प्राप्तिरिति ।", "63069": "<<वाचंयमपुरंदरौ च>> - निपात्यत इति । न चैवं खच् प्रत्ययोऽप्यत्रैव निपात्यतामिति वाच्यं, व्रतादन्यत्रापि प्रसङ्गात् । यदि तु निपातनबलादव व्रतविषयता आश्रीयते,तत्रैव वा व्रतग्रहणं क्रियते, — वाचंयमो व्रते पुरन्दरश्चे॑ति तदा इहवाचि यमो व्रते॑ इति सूत्रं,पूः सर्वयो॑रित्यत्र पुरि दारेरित्यंशश्च शक्यमकर्तुम् ।", "63070": "<<कारे सत्यागदस्य>> - कारे सत्या ।अरुर्द्विष॑दित्यतोऽनुवर्तनादाह — मुम्स्यादिति । सत्यङ्कारः — शपथकरणम् । अशपथेऽपिसत्यादशपते॑इति डाचं बाधित्वा पत्वान्मुमेव । अगदङ्कारो वैद्यः ।अस्तोश्चेति वक्तव्यम् । अस्तुङ्कारेऽभ्युपगमः । अस्त्विति तिङन्तप्रतिरूपकमव्ययम् । धेनोर्भव्यायाम् । धेनुम्भव्येति । भविष्यन्ती धेनुरित्यर्थः ।भव्येगेये॑ति निपातनात्कर्तति कृत्यः । धेनुश्चासौ भव्या चेकि विग्रहः । गौतमस्मृतौ तुअधेनुभव्या॑इत्यत्र आर्षत्वान्मु म्नेति बोध्यम् । लोकम्पृण इति । पृणधातुः प्रीणनार्थः ।पृणतिः पूरणकर्मा॑इति तु हरदत्तः ।इत्येऽनभ्याशस्य । अनभ्यशमित्य इति । अभ्यासं=समीपं, तद्भिन्नमनभ्याशम् ।एतिस्तुशास्वृदृजुषः॑इति इणः क्यप् ।भ्राष्ट्राइयोरिन्धे । भ्राष्ट्रमिन्ध इति । कर्मण्यपि उपपदसमासः । एवमग्निमिन्धोऽपि । गिलेऽगिलेस्य च ।गिलेऽगिलस्येति । गिलशब्दे उत्तरपदे अगिलस्य मुमुत्यर्थः ।तिमिङ्गिल इति । मत्स्यविशेषः । गिरतेर्मूलविभुजादित्वात्कः ।अचि विभाषे॑ति लत्वम् ।गिलिगिले च । गिलगिले चेति ।गिलं गिलतीति गिलगिलः, तिमीनां गिलगिलः॑इति विग्रहे इदमारब्धम् ।", "63071": "<<श्येनतिलस्य पाते ञे>> - दण्डापातोऽस्यां तिथाविति ।", "63072": "<<रात्रेः कृति विभाषा>> - रात्रेः कृति । उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तग्रहणाऽभावेऽपि रात्रिशब्दात्परत्र कृतोऽसंभवात्कृदन्त उत्तरपदेऽयं विधिरित्याशयेनोदाहरति -रातिंरचर इथि । यद्यप्याचारक्विबन्ताण्ण्वुलादिः संभवति, तथापि विलम्बितोपस्थितिकत्वात्स न गृह्रत इति भावः । नित्यमेवेति । पूर्वविप्रतिषेधेनेति भावः । रात्रिम्मन्य इति ।आत्ममाने खश्चे॑ति खश् । खशः सार्वधातुकत्वात्तस्मिन्परे श्यन् ।", "63073": "<<नलोपः नञः>> - नलोपो नञः ।नञोऽशि॑ति वक्तव्ये नलोपवचनं साकच्कार्थं, तेन नञोऽकचिअकब्राआहृणः॒॑अकनश्च॑इत्यादि सिद्धमित्याहुः । उत्तरपदे इति ।अलुगुत्तरपदे॑इत्यधिकारादिति भावः । उत्तरपदे किम् । घटो नास्ति । पटो नास्ति । नन्वेवमपिस्त्रैणाऽर्थः॑ इत्यत्र नलोपः स्यादिति चेदत्राहुः — उत्तरपदाक्षिप्तपूर्वपदेन नञं विशेष्यपूर्वपदभूतस्य नञः॑इति व्याख्यानान्न भवति ।स्त्रीपुंसाभ्या॑मिति विहितस्य नञ्प्रत्ययस्याऽपूर्वपदत्वात् । अतएव चाऽत्रप्रत्ययाऽप्रत्ययोः प्रत्ययस्यैव ग्रहण॑मिति परुभाषा नोपतिष्ठते । न च प्रत्ययग्रहणे तदन्तग्रहणान्नञप्रत्ययान्तस्य पूर्वपदत्वं संभवत्येवेतिप्रत्ययाप्रत्यययो॑रित्येतदुपतिष्ठत एवेति वाच्यं,ह्मदयस्य ह्मल्लेके॑ति सूत्रेऽण्ग्रहणात्पृथग्लेखग्रहणेनउत्तरपदा धिकारे प्रत्ययग्रहणे तदन्तग्रहणं नास्ती॑ति ज्ञापनात् । यद्वाअमूर्धमस्तकात्॒विभक्तावप्रथमाया॑मित्यादिज्ञापकात्नलोपो नञः॑ इत्यत्राऽव्ययमेव नञ् गृह्रते, न तु प्रत्यय इति ।", "63074": "<<तस्मान्नुडचि>> - तस्मान्निडाच ।डः सि धुडि॑त्यत्रेवाऽचीति सप्तम्याः षष्ठी प्रकल्प्यत इत्याह — अजादेरिति । अचा उत्तरपदविशेषणात्यस्मिन्विधि॑रिति तदादिविधिर्लभ्यत इति भावः । अनआ इति । नुटः परादित्वेनाऽपदान्तत्वान्ङमो ह्रस्वादिति ङमुण्न भवति । ननु विन्घानामबावोऽविघ्नामित्यत्रापि परत्वात्तत्पुरुषः स्यात्, अव्ययीभावस्य निर्मक्षिकादौ सावकाशत्वात् । अन्यथाअनुपलब्धिः॑अविवाद॑ इति न सिद्धयेदित्याशङ्क्याह -अर्थाभावेऽव्ययीभावेन सहेत्यादि । अविघ्नमिति । यद्यप्यविद्यमाना विग्नायस्मिन्निति बहुव्रीहिणाअविघ्नं कर्मे॑त्यादिप्रयोगः सिद्द्यति, तथापिउत्तरे कर्मण्यविघ्नमस्तु॑इत्यादिप्रयोगा अव्ययी भावं विना स्वरसतो न सिद्द्यन्तीति भावः ।नञो नलोपस्तिङि क्षेपे । नञो नलोप इति । तिङन्तेन समासाऽभावादप्राप्ते वचनम् । अपचसीति । कुत्सितं पचसीत्यर्थः । नशब्देनेति । नञा समासे त्वनेकधेत्येव स्यादिति भावः ।", "63075": "<<नभ्राण्नपान्नवेदानासत्यानमुचिनकुलनख- नपुंसकनक्षत्रनक्रनाकेषु प्रकृत्या>> - नभ्राट् । सत्सु साधवः सत्याः ।तत्र साधुः॑इति यत् । न सत्या असत्याः । न असत्या नासत्याः । इह बहुवचनमविवक्षितम् । तेननासत्यावइआनौ दस्नौ॑इति सिद्धम् । नमुचिरिति ।सर्वधातुब्य इन् ।इगुपधात्किदि॑ति कित्त्वान्न गुणः । क्षरतेः क्षीयतेर्वेति ।क्षर सञ्चलने॑भ्वादिः ।क्षि निवासगत्योः॑तुदादिः ।", "63076": "", "63077": "", "63078": "<<सहस्य सः संज्ञायाम्>> - सहयुध्वेति ।सहे चे॑ति क्वनिप् । स्त्रियामपिवनो न हशः॑इति निषेधान्ङीब्राऔ न । समुहूर्तमिति । अन्तवचनेऽव्ययीभावः ।अव्ययीभावे चाऽकाले॑इत्यत्र कालपर्युदासादप्राप्ते सभावे ग्रन्थान्तग्रहणम् ।", "63079": "", "63080": "<<द्वितीये चानुपाख्ये>> - द्वितीये ।अप्रधानो यः स द्वितीयः॑इति लोकप्रसिद्धम् । उपाख्यं=प्रत्यक्षं, तद्भिन्नमनुमेयं । तदाह -अनुमेये इति । सराक्षसीकेति ।नद्यृतश्चे॑ति कप् ।", "63081": "<<अव्ययीभावे चाकाले>> - चक्रेण युगपदिति । अत्र केचित् — युगपच्चक्रमिति समासेनैव भवितव्यं, युगपच्छब्दस्याप्यव्ययत्वात्, किं तु चक्रेणैककालमित्यादि विग्रहीतुमुचितमित्याहुः । सहपूर्वाह्णमिति । साकल्येऽव्ययीभावः । गुणभूतेऽपीति । यदि सादृश्य इति नोच्येत, तर्हि यत्र सादृश्यं प्रधानमवगम्यते तत्रैव स्यात्, अव्ययार्थप्राधान्यस्याऽव्ययीभावे औत्सिर्गिकत्वादिति भावः । अन्त इति ।इदानीमेतावान् प्रदेशोऽध्येतव्य॑इति यावतो ग्रन्थप्रदेशस्य परिग्रहः कृतस्तदपेक्षा समाप्तिरिहाऽन्तशब्देन विवक्षिता । सा चाऽसकलेऽप्यध्ययने भवतीति साकल्यात्पृथगुच्यते । साग्नीति । अग्निशब्दस्तत्प्रतिपादकग्रन्थे वर्तते । स टच तृतीयान्तो नित्यं समस्यते । न चैवमग्निना सहेति प्रयोगो दुर्लभ इति वाच्यम् । साहित्यमात्रविवक्षायां तत्प्रयोगस्योपपत्तेः । अन्तत्वविवक्षायां तु समासस्य नित्यत्वादग्निग्रन्थपर्यन्तमित्यस्वपदविग्रहो दशितः । यत्तु केचित् — अग्निरन्तोऽस्येति प्रथमान्तेनाऽग्रेरन्तत्वमिति षष्ठन्तेना वा विग्रहः, समासोऽपि प्रथमान्तेन षष्ठन्तेन वेत्याहुः । तन्न । सहशब्दस्यान्तवाचकत्वाऽभावात् । अन्तत्वस्य तु सुतरामलाभात् । सहयुक्ते तृतीयाया न्याय्यत्वाच्च ।सतृणमत्ती॑त्यत्र साकल्यस्येव साग्नीत्यत्रान्तत्वस्यापि साहित्येद्योत्यतया तत्र तृतीयान्तेन समासं स्वीकृत्य इह तत्परित्यागस्य निष्प्रमाणत्वाच्च । अत्रेदं बोध्यम् -॒तदधीते॑इत्यध्वेतृप्रत्ययस्य वैकल्पिकत्वास्ताग्नीत्यत्राऽण्नोक्तः । कृतेऽप्यध्येत्रणिसर्वादेः सादेश्च लुग्वक्तव्यः॑इति वक्ष्यमाणत्वात्साग्नीत्येव रूपमिति॥", "63082": "<<वोपसर्जनस्य>> - वोपसर्जनस्य । उपसर्जनस्येति न सहस्य विशेषणम्, अव्यभिचारात् । किं तूत्तरपदेन संनिधापितस्य समासस्य । तच्चावयवद्वारकम् । उपसर्जनसर्वावयवकस्य समासस्येत्येर्थः । तदेतत्फलितमाह -बहुव्रीहीति । तेनेह न, — सहयुध्वा । सहकृत्वा । राजनि युधि कृञःसहे चे॑ति क्वनिपि उपपदसमासाविमौ ।सहस्य सः संज्ञाया॑मित्यतोऽनुवर्तनादाह — सहस्य सः स्यादिति । प्रायिकमिति ।विभाषा सपूर्वस्ये॑त्यादिनिर्दिशादिति भावः । सकर्मक इति । विद्यमानकर्मक इत्यर्थः ।प्रकृत्याशिषि । कथं तर्हियजमानस्य सपुत्रस्य सभ्रातृकस्य सपरिवारस्यायुरारोग्यैआर्याभिवृद्धिरस्तु॑ इत्यादिप्रयोगाः सङ्गच्छन्त इति चेत् । उच्यते — — ॒ऐआर्याभिवृद्धिरस्त्विति भवन्तोऽनुगृह्णन्तु॑ इत्येतत्प्रार्थनावाक्यं, न त्वाशीर्वचनम् । यच्चाशीर्वचनंतथास्तु॑इति , तत्र हि सपुत्रकेत्यादि न प्रयुज्यत एवेति न काप्यनुपपत्तिः ।", "63083": "", "63084": "<<समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु>> - योगो विभज्यत इति । एतदर्थमेव च्छान्दसमपिसमानस्यच्छन्दसी॑ति सूत्रमिहोपन्यस्तमिति भावः । बहुब्राईहिरिति । तेनवोपसर्जनस्ये॑ति सहस्य सभावः प्राप्नोतीति भावः ।", "63085": "<<ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्ण- वयोवचनबन्धुषु>> - सज्योतिरिति । समानं ज्योतिरस्येति बहुव्रीहिः । यस्मिन्ज्योतिषि आदित्ये नक्षत्रे वा संजातं तदस्तमयपर्यन्तमनुवर्तमानमाशौचं सज्योतिरित्युच्यते । इहसमानमध्यमध्यमवीराश्चे॑ति प्रतिपदेक्त एव समासो न गृह्रते,सरूपाणामेकशेषः॑इति लिङ्गात् । किंतु बहुव्रीहिरपी॑ति हरदत्तः ।", "63086": "<<चरणे ब्रह्मचारिणि>> - ब्राहृचारीति ।व्रते॑इति णिनिः । सब्राहृचारीति । समानो ब्राहृचारीत्यर्थः । ब्राहृचारिणश्च समानत्वं — ब्राहृणः समानत्वात् । ततश्चसमाने ब्राहृणि व्रतचारी॑ति फलितोऽर्थः ।", "63087": "<<तीर्थे ये>> - तीर्थे ये । अकारो न विवक्षितः ।प्रत्यये॑इति विशेष्यं तु व्याख्यानाल्लभ्यते । तेनयस्मिन्विधि॑रिति तदादिविधिरित्याह -यादौ प्रत्यय इति ।", "63088": "<<विभाषोदरे>> - विवक्षित इति । उत्तरपदमात्रनिमित्तः समासोऽन्तरङ्गः, समासप्रकृतिकसुबन्तात्तु यत्प्रत्ययः । अतस्तस्य परत्वं न संभवतीत्याशयेनेदमुक्तम् । सोदर्य इति ।समानोदरे शयितः॑इत्यर्थे प्रत्ययात्प्राक्समानस्य सभावे कृतेसोदराद्यः॑इति यः । सभावाऽभावपक्षे तुसमानोदरे शयित ओ चोदात्तः इथि यतिसमानोदर्यः॑ ।", "63089": "<<दृग्दृशवतुषु>> - सदृक्सदृश इति ।समानान्ययोश्चेति वक्तव्य॑मिति दृशेः क्विन्कञौ । दीर्घ इति । अदस आत्वे कृते सवर्णदीर्घ इत्यर्थः । एतच्च पूर्वोत्तरोदाहरणाऽन्वयि ।", "63090": "", "63091": "<<आ सर्वनाम्नः>> - आकारोऽन्तादेश इति । अकारादेशे सति त्वतो गुणे इथि स्यात् । न चाऽकारोच्चारणसामर्थ्याद्दीर्घः स्यादेवेति वाच्यमि, अकारस्याऽविधौ हल एव श्रवणप्रसङ्गांत् । विडिति ।विश प्रवेशने॑इत्यस्मात् क्विप् । नशेर्वा । केचिदिहझली॑त्यनुवत्र्यझलि पदान्ते चे॑ति व्याचक्षते, तन्न,नष्ट॑मित्यादावतिप्रसङ्गात् ।", "63092": "", "63093": "<<समः समि>> - समः समि ।समी॑त्यविभक्तितो निर्देशः । एवंतिरसस्तिरी॑त्यपि । सङ्गतमञ्चतीति — सम्यङ् । समीचेति । अल्लोपेचौ॑ इथि दीर्घः । सह अञ्चतीति ।", "63094": "<<तिरसस्तिर्यलोपे>> - तिरसः । न विद्यते लोपो यस्य सःअलोप॑इति बहुव्रीहिः । अञ्चतावित्यनुवर्तमानमन्यपदार्थः । अवयवद्वारकश्च लोपः समुदाये उपचर्यत इत्यभिप्रेत्याह -अलुप्ताकार इत्यादि ।अकारलोपे सती॑ति नोक्तं, व्याख्यानात् । अप्रत्ययान्ते किम्,तिरोऽञ्चन॑मित्यादौ मा भूत् । तिरश्च इथि । लुप्ताऽकारत्वात्तिर्यादेशाऽभावे सस्य श्रुत्वेन शः । न चाऽल्लोपस्य स्थानिवत्त्वात् । श्चुत्वं न स्यादिति वाच्यम्, पूर्वत्रासिद्धे तदभावात्पदान्तविधित्वाच्च ।", "63095": "<<सहस्य सध्रिः>> - सध्र्यङ् । भविषये अल्लोपदीर्घौ । सध्रीच इत्यादि ।", "63096": "", "63097": "<<द्व्यन्तरुपसर्गेभ्योऽप ईत्>> - कृतसमासान्तस्येति ।येन विधि॑रिति सूत्रेआपस्तिष्टन्ति स्वापस्तिष्ठन्ती॑ति भाष्यादिति भावः । अन्तरीपमित्यादि । अन्तर्गताः, प्रतिकूलाः, सङ्गताश्चपो अस्मिन्निति विग्रहः । उपसर्गग्रहणं प्रादेरुपलक्षणार्थम् । समाप इति । अनुपसर्गत्वान्नेत्वमिति भावः । भाष्ये तुसमाप ईत्वप्रतिषेधो वक्तव्यः॑इत्युक्तम् । स च देवयजनरूपविशेषार्थपरःसमीपसमृद्धी॑ति निर्देशात्,समीपे॑मिति भाष्योदाहरणाच्चेति ज्ञेयम् । देवयजनमिति । देवा इज्यन्ते अस्मिन्निति व्युत्पत्त्या यज्ञभूमिः । स्वबिति ।न पूजना॑दिति समासान्ताऽभावः ।अवर्णान्ताद्वा । अवर्णान्ताद्वेति ।व्द्यन्त॑रिति सूत्रेईत्वमनवर्णा॑दिति वक्तव्यम् । इह माभूत्प्रापं पराप॑मिति भाष्योक्तेः,गतिश्चे॑ति सूत्रेप्रेपं परेप॑मिति भाष्योक्तेश्चेति भावः ।", "63098": "<<ऊदनोर्देशे>> - ऊदनोः । दीर्घोच्चारणं क्वचिच्छाखायामवग्रहार्थम् । बह्वृचास्तुअनूपे गोमान् गोभिः॑इत्यत्रा नूपशब्दं नावगृह्णन्ति । अनूप इति । अनुगता आपोऽस्मिन्नित्यनूपो देशः ।जलप्रायमनूपं स्य॑दित्यमरः ।", "63099": "<<अषष्ठ्यतृतीयास्थस्यान्यस्य दुगाशिराशाऽऽस्थाऽऽस्थितोत्सुकोतिकारकरागच्छेषु>> - अषष्ठ । अन्यदाशीरित्यादयः कर्मधारयाः ।कारके छे च नायं निषेधः । नायं निषेध इति । एतच्च अषष्ठी तृतीयास्थस्ये॑त्येव सिद्धे निषेधाऽनित्यत्वज्ञापनार्थाद्द्विर्नञ उपादानाल्लभ्यत इत्याहुः ।त्रौ च । त्रौ चेति । अनजाद्यर्थमिदं वार्तिकं,कत्त्र्यादिभ्यो ढकञि॑ति निर्देशेनैव सिद्धम् ।", "63100": "", "63101": "", "63102": "", "63103": "", "63104": "<<का पथ्यक्षयोः>> - कापथमिति । कुत्सितः पन्थाः ।ऋक्पूरब्धू॑रिति समासान्तः ।पथः सङ्ख्याव्ययादेः॑इति नपुंसकत्वम् ।", "63105": "", "63106": "<<विभाषा पुरुषे>> - अप्राप्तविभाषेति ।ईषदर्थे॑इत्यस्याननुवृत्तेरिति भावः ।", "63107": "", "63108": "<<पथि च च्छन्दसि>> - चौ ।चजोः॑इति निर्देशाच्चवर्गग्रहणं न भवतीत्याह -लुप्ताकारनकारेञ्चताविति । अत्राऽकारलोपेन नकारलोपस्याक्षिप्तत्वात्तत्कथनं व्यर्थमेव, किंतु लुप्ताऽकारेऽञ्चातावित्येव सुवचमित्याहुः ।ढ्रलोपे॑इति सूत्रादणो दीर्घ इत्यस्य चानुवर्तमादाह — अणो दीर्घः स्यादिति । प्राचः । प्राचेति ।प्रतीचः॑इत्याद्यर्थमवश्यंस्वीकार्येऽतोलोपे कृतेऽनेन दीर्घो विधीयत इति भावः । प्राग्भ्यामिति ।चोः कुः॑इति कुत्वं, न तुक्विन्प्रत्ययस्ये॑त्यनेन, तस्याऽसिद्धात्वात् ।", "63109": "<<पृषोदरादीनि यथोपदिष्टम्>> - पृषोदर । प्रकाराणीति । आदिशब्दो हि न व्यवस्थावचनः, यथोपदिष्टपदानर्थक्यादिति भावः । शिष्टैरिति । अध्याहारलभ्यमिदम् ।यथोपदिष्ट॑मित्यत्र यथार्थेऽव्ययीभावः । उपदिशिश्चोच्चारणक्रियः ।यानि यानि शिष्टैरुप दिष्टानि॑इत्यर्थः । एवं स्थिते फलितमाह — यथोच्चारितानि तथैवेति । समासयदविषयकमिदम्, उत्तरपदाधिकारात् । निरुक्तादिशास्त्रसिद्धानामसमासपदानाम्उणादयो बहुल॑मित्येव सिद्धेश्च । यद्यपि समासविषयकमेवेति नियमो न युज्यते, हंससिंहशब्दयोरपि प्राचां कारिकायामुदाहृतत्वात्, तथापि तत्करिकायां यथाशब्दाध्याहरेण दृष्टान्तप्रदर्शनार्थं तयोरुपन्यासः कृतो न तु प्रकृतसूत्रोदाहरणत्वेनेति नियमोक्तिः सम्यगेवेत्याहुः । वर्णागमादिति । हन्तेः पचाद्यचि सगागमः । विपर्ययादिति । हिंसेस्तु पचाद्यचि हकारसकारयोः स्थानव्यत्ययः ।दिक्शब्देभ्यस्तीरस्य तारभावो वा । दिक्शब्देभ्य इति । वार्तिकमिदम् ।दुरो दाशनाशे॑त्यप्येवम् ।दुरो दाशनाशदभध्येषूत्वमुत्तरपदादेः ष्टुत्वं च । खल्त्रिभ्य इति । दाशनाशदभेति त्रयोऽपिईषद्दुःसुषु॑इति खल्प्रत्ययान्ता इत्यर्थः । बृसीति ।मुनीनामासनं बृसो॑ आकृतिगणोऽयमिति । तेन॒लुम्पेदवश्यमः कृत्ये तुंकाममनसोरपि । समो वा हितततयोर्मासस्य पचि युड्घञोः ।॑ इत्यपि सङ्गृहीतम् । कृत्यान्ते उत्तरपदे अवश्यमः अन्तं पुमान्लुम्पेत् । अवश्यगन्तव्यः । अवश्यसेव्यः । तथा तुमः काममनसोः परतोऽन्तं लम्पेत् । गन्तुकामः । गन्तुमनाः । समो हितततयोरन्तं वा लुम्पेत् । हितः संहितः । सततः संततः । युट् घञ्च, एतत्परो यः पच्धातुस्तस्मिन्परे मांसस्याऽन्तं लुम्पेत् । मांस्पचनम् । मांस्पाकः । इह संयोगान्तलोपोऽपि शिष्टोच्चारणान्नेतचि बोध्यम् ।", "63110": "<<संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ>> - अह्नः साय इति । स्यतेर्घञि अवसानवचनः सायशब्दः, सङ्याविसाये॑ति ज्ञापकादेकदेशिसमासः । इत्यदन्ताः । विआपा इति । विआं पाति रक्षतीति विग्रहेपा रक्षणे॑ इत्यस्मात्आतोऽनुपसर्गे॑ इति कं बाधित्वाआतोमनिन्क्वनिब्वनिपश्चे॑ति चकाराद्विजिति व्याख्यातारः । इह च्छन्दसिआतो मनिन् — ॑ इति विच् । लोके तुअन्येभ्योऽपि दृश्यते॑ इत्यनेनेति विवेकः ।", "63111": "<<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> - ढ्रलोपे ।रे॑त्यकार उच्चारणार्थः । ढश्च रश्च ढ्रौ, तौ लोपयतीति ढ्रलोपः । णिजन्तात्कर्मण्यण्युपपदसमासः । तृढो वृढ इति । ऊदित्त्वेन वेट्कत्वाद्यस्य विभाषेति निष्ठायां नेट् । ढत्वधत्वष्टुत्वढलोपाः । प्राचा तुदृढ॑ इति प्रत्युदाहृतं, तदसत्, तत्र ढलोपस्यैवाऽभावात् ।दृढः स्थूलबलयो॑रिति घत्वेन बाधात् । न चेडभावो ढत्वं नलोपश्च निपात्यतां, धत्वष्टुत्वढलोपास्तु भविष्यन्त्येवेति वाच्यम्, तथा सतिपरिद्रढय्ये॑त्यत्रल्यपि लघुपूर्वा॑दिति णेरयादेशो न स्यात् । [तथा]पारिवृढी कन्ये॑त्यत्रइतो मनुष्यजाते॑रिति ङीषं बाधित्वाअणिञो॑रिति ष्यङ् स्यात्, ढलोपस्याऽसिद्धत्वेन गुरूपोत्तमत्वादित्याकरे स्थितम् । ननुपरिद्रढय्ये॑त्यत्र ल्यबादेशः कथं भवेद्यावता परिदृढमाचण्टे इति णिचि कृते क्त्त्वाप्रत्यये च क्त्त्वान्त एव परेरन्तर्भावात्समासाऽभाव इति चेदत्र कैयटः-सङ्ग्रामयतेरेव सोपसर्गात्प्रत्ययोत्पत्तिर्नान्यस्मादिति नियमात्परिशब्दं पृथक्कृत्य दृढशब्दादेव णिच्क्रियते । णिजन्तस्य धातुत्वात्क्त्त्वाप्रत्यये कृते परेः क्त्त्वान्तेन कृदन्तेन समास इति सिद्धो ल्यबादेशः । णाविष्ठवद्भावाद्रभाव इति । ननुपूर्वस्ये॑ति व्यर्थं, सप्तमीनिर्देशादेव तल्लाभादत आह-पूर्वग्रहणमित्यादि ।ढ्रलोपे पूर्वस्ये॑ति सूत्रस्योत्तरपदाधिकारस्थत्वादुत्तरपदस्थयोरेव ढरेफयोः परतो दीर्घः स्यान्न तुलीढः॑अजर्घाः॑ इत्यत्रेति भावः । यद्यप्यसंभवादेवानुत्तरपदस्थे ढकारे दीर्घो भनेत्तथाप्यजर्घा इत्यत्र दीर्घो न स्यादिति ज्ञेयम् । वस्तुतस्तूत्तरपदस्य समासचरमावयवे रूढत्वात्पुना रमत इत्यादावपि न स्यात्, किंतुनीरक्तं॑दूरक्त॑मित्यादावेव स्यादिति तत्त्वम् । लीढ इति ।लिह आस्वादने॑ क्तः । ढत्वधत्वष्टुत्वढलोपाः । इह ढलोपं प्रति ष्टुत्वं नासिद्धं, ढकारे परतो लोपविधिसामर्थ्यात् । अतएवढो ढे लोपः॑ इत्यस्य पदाधिकारस्थत्वेऽप्यपदान्तस्य ढस्य लोपो भवति । अजर्घा इति ।गृधु अभिकाङ्क्षायां॑ यङ्लुकि द्वित्वे अभ्यासस्य रुक् । लङः सिपि शब्लुकि सिप ईडभावपक्षे लघूपधगुणो रपरः ।इतश्चे॑तीकारलोपे हल्ङ्यादिलोपः । भष्भावः । जश्त्वं ।दश्चे॑ति रुत्वपक्षेअजर्घर् र् इति स्थितेरोरी॑ति रेफलोपेऽनेन दीर्घः । अत्रेयं सुगमा व्याख्या-ढ्रलोपे पूर्वस्य दीर्घोऽणः । लीढः । नीरक्तं । दूरक्तम् । अणः किम् । तृढः वृढः । पूर्वग्रहणमनुत्तरपदेऽप#इपूर्वमात्रस्य दीर्घार्थम् । अजर्घाः । पुना रमते । हरी रम्यः । शम्भू राजते॑ इति ।", "63112": "<<सहिवहोरोदवर्णस्य>> - इह रेफलोपस्याऽसंभवात्ढ्रलोपे पूर्वस्ये॑त्यतोढलोप॑ एवानुवर्तते । तदाह — ढलोप इति । ढलोपे किम् । सहते । वहते ।", "63113": "", "63114": "<<संहितायाम्>> - संहितायाम् । तेनद्विगुणाकर्णः॑इत्यादाववग्रहे दीर्घो न भवतीति सूत्राशयमुत्प्रेक्षयन्ति । अधिकारोऽयमिति । तेनविद्मा हि त्वा॑इत्यादौ पदकालेव्द्यचोऽतस्तिङः॑इति दीर्घो नेत्यादिप्रयोजनान्यीह्रानीति ।", "63115": "", "63116": "<<नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ>> - नहिवृति ।णह बन्धने॑,वृतु वर्तने॑,॒वृषु सेचने॑,व्यध ताडने॑,रुच दीप्तौ॑,षह मर्षणे॑,तनुविस्तारे॑ । क्विबन्तोष्विति ।उत्तरपदेषु॑इति शेषः । तेनदिवसेषु रुक् इत्यादौ नातिप्रसङ्गः । उपानदिति । संपदादित्वात्कर्मणि क्विप् । निवर्तते इति निवृत् । प्रवर्षतीति प्रावृट् । मर्माणि विध्यतीति मर्मावित् । व्यधेःग्रहिज्ये॑ति संप्रसारणम् । निरोचते इति नीरुक् । ऋतिं सहते ऋतीषट् ।पूर्वपदा॑दिति षत्वमिति हरदत्तः ।सहेः पृतनतीभ्यां चे॑त्यत्रसहे॑रिति योगविभागाच्चकारस्यानुक्तसमुच्चयाद्वेत्यन्ये । सुषामादेराकृतिगणत्वादित्यपरे । परितनोतीति परीतत् ।गमः क्वौ॑इत्यत्रगमादीनामिति वाच्य॑मित्युक्तेर्नलोपः ।", "63117": "", "63118": "<<वले>> - कृषीवल इति ।रजः कृष्यासुती॑त्यादिना मत्वर्थे वलच् ।", "63119": "<<मतौ बह्वचोऽनजिरादीनाम्>> - अमरावतीति ।मादुपधायाश्चे॑ति,संज्ञाया॑मिति वा मतोर्मस्य वः । घञ्मात्रस्योत्तरपदत्वाऽसंभवादाह —", "63120": "", "63121": "", "63122": "<<उपसर्गस्य घञ्यमनुष्ये बहुलम्>> - घञन्त इति । निषाद इति । पुलिन्दो मनुष्यजातिः ।निषीदत्यस्मिन्पाप॑मिति निषादः ।हलश्चे॑त्याधिकरणे घञ् । कथं तर्हि दौवारिके प्रतीहारशब्दप्रयोग इति चेत् । अत्राहुः — प्रतीहारो द्वारम् । तास्थ्यात्ताच्छब्द्यमिति ।", "63123": "", "63124": "<<दस्ति>> - दस्ति ।इकः काशे॑ इत्यतइक॑ इति,उपसर्गस्य घञी॑त्यत उपसर्गस्येति,ढ्रलोपे पूर्वस्ये॑त्यतो दीर्घ इति चानुवर्तते ।अलुगुत्तरपदे॑ इत्यतोऽनुवृत्तस्योत्तरपदे इत्यस्य तीति विशेषणं ।यस्मिन्विधि॑रिति तदादिविधिः, तदेतत्सकलमभिप्रेत्य व्याचष्टे — इगन्तोपसर्गस्येत्यादिना । ननु चत्त्र्वस्याऽसिद्धत्वाद्दादेशतकारो नास्तीत्यत आह — आश्रयात्सिद्धमिति ।अतो रो॑रित्युत्वं प्रति रुत्ववदिति भावः । धीतमिति ।दधातेर्हि॑रित्यत्र लुग्विकरणस्य निर्देशात् घेट् पान इति भ्वादेर्हिर्न भवति, नापि दत्दो दद्धो॑रिति द इत्युपादानादिति भावः ।", "63125": "", "63126": "", "63127": "<<चितेः कपि>> - एकचितीक इति ।शेषाद्बिभाषे॑ति कपे ।दंष्ट्रे॑ति वार्तिके दीर्घान्तः पबठते । केचित्तु ह्रस्वान्तं पठित्वाआआदंष्ट्रः॑इति बहुव्रीहौ दीर्घमाहुः, न तु तत्पुरुषे । इह षादिति ।काश्र्य॑इति तालव्यापाठस्त्वनार्ष इति भावः । वनस्पतिभ्यो वनस्य णत्वमुदाहरति ।", "63128": "<<विश्वस्य वसुराटोः>> - विआस्य वसु ।ढ्रलोपे॑इत्यतोऽनुवर्तनादाह -विआशब्दस्य दार्घः स्यादिति ।", "63129": "", "63130": "", "63131": "", "63132": "", "63133": "", "63134": "", "63135": "", "63136": "", "63137": "<<अन्येषामपि दृश्यते>> - अन्येषामपि दृश्यते । अत्र प्राचादृशिग्रहणात्कर्मव्यतिहारे बहुव्रीहौ पूर्वपदान्तस्य दीर्घत्वम्, आत्वं वाऽनचि॑ इत्युक्तम् । तत्रआत्वं वा॑इत्यपाणिनीयम् । अतएव मुष्टामुष्टीत्युदाहरणमप्यप्रामाणिकमेव । एतच्च मनोरमायां स्पष्टम् ।", "63138": "", "63139": "<<सम्प्रसारणस्य>> - संप्रसारणस्य ।उत्तरपदे॑इत्यधिक्रियते ।ढ्रलोपे॑इत्यतोदीर्घ॑ इत्यनुवर्तते । तदाह -दीर्घः स्यादुत्तरपद इति ।हलः॑इति दीर्घोऽत्र न प्रवर्तते, प्रत्ययस्य लुका लुप्तत्वेनाङ्गसंज्ञाया अप्रवृत्तेः । कौमुदगन्ध्याया इति । कुमुदगन्धेरपत्यं स्त्री कौमुदगन्ध्या ।तस्यापत्य॑मित्यणि कृतेअणिञो॑रिति ष्यङादेशः ।यङश्चाप् । ननुकौमुदगन्धीपुत्रः॑इत्यादौइको ह्रस्वोऽङ्योगालवस्ये॑ति ह्रस्वेन भाव्यं, दीर्घविधानं तु पक्षे सावकाशमित्यत आह — व्यवस्थितविभाषयेति । नेहेति संप्रसारणमिह नेत्यर्थः । अतिकारीषेति । कारीषगन्ध्यामतिक्रान्तोऽतिकारकीषगन्ध्यः, तस्य पुत्रः ।", "64001": "", "64002": "", "64003": "<<नृ च>> - नृ च । इहछन्दस्युभयथे॑ति सूत्रादुभयथेत्यनुवर्तत इत्याभिप्रेत्याह -वा दीर्घः स्यादिति । केचित्त्विहछन्दसी॑त्यप्यनुवर्तयन्ति, तेषां हिचिन्ताजर्जरचेतसां बत नृणा कता नाम शान्तः कथा,॒॑नृणामेको गम्यस्त्वमसी॑त्यादिप्रयोगा न सङ्गच्छेरन् । किञ्चछन्दस्युभयथे॑ति पूर्वसूत्रेणैवनृणा॑मिति सिद्धेनृ चे॑ति सूत्रस्य वैयथ्र्यं स्यात् । यदपि पूर्वसूत्रेतिसृचतसृ॑इत्यनुवर्तयन्ति, तदप्ययुक्तम् । अविशेषेण विकल्पदर्शनात् । तथा च धाता धातृणां मिति मन्त्रे तैत्तिरीयैह्र्यस्वः पच्यते, बह्वृचैस्तु दीर्घ इति दिक् ।इति ऋदन्ताः । इत्यृदन्ताः । प्रकृतिवदनुकरणमित्यादि ।यत्तदेतेभ्यः परिमाणे॑इति निर्देशोऽत्र लिह्गम् । भवति हि तत्र त्यदाद्यत्वकरणाजनिकरणस्य प्रकृतिवत्त्वमेकशेषाऽभावदर्शनाच्च वैकल्पिकत्वमिति । इत्वे रपरत्वमिति ।ऋत इद्धातोः॑इतीत्वेउरण्रपरः॑इति रपरत्वम् । कीरिति । कृधातुरित्यर्थः । एवं — तीरिति ।तृ॑धातुः । इत्यादीति ।ऋत उ॑दिति तपरकरणान्ङसिङ्सोरत उदादेशो न -क्रः ।दीर्घान्तत्वादामो न नुट् — क्राम् । ङौ तुक्री॑त्यादि । इत्यृदन्ताः । इत्यृदन्ताः । अनङितित । ऋऌवर्णयोः सावण्र्यात्ऋदुशन॑सिति सूत्रपर्वृत्तेः । गुणविषय इथ ।ऋतो ङी॑ति गुणविषये । गमृनिति । ऌवर्णस्यट दीर्घाऽभावात्प्रथमयो॑रिति यः पूर्वसवर्णदीर्घेः स ऌकाराऽकारयोः स्थाने ॠकार एव भवति । नन्वत्र लकारद्वयगर्भो ऌकारो दीर्घोऽस्त्वितिचेत्, अत्राहुः — ॒पर्तमयोः पूर्वसवर्णः॑इत्यस्याऽकः प्रथमाद्वितीययोरचि पूर्वस्य सवर्णो यो दीर्घः स पूर्वपरयोः स्थाने भवतीत्यर्थाहऌवर्णयोर्वचनेन सावण्र्यसद्भावाह्मकार एव ऌकाराऽकारयोः स्थाने भवति न तु लकारद्वयगर्भो दीर्घः, तस्य ईषत्स्पृष्टपर्यत्नत्वात्प्रयत्नभेदेन ऌकारसावण्र्याऽभावादिति । एवं चहोतृ॑नित्यादौ रेफद्वयगर्भो दीर्घे ऋकाराऽकारयोः स्थाने न भवत्येवेति बोध्यम् ।इत्यदीति । गम्लृभ्याम् । गम्लृभिः । गम्लृभ्यः । आमि तुगमृणा॑मिति केचित् । वस्तुतस्तु ऌकारस्थाने लकारद्वयह्मगर्भेणैव दीर्घेण भवितव्यं, स्थानत आन्तर्यस्य बलीयलस्त्वात् ।होतृणा॑मित्यत्र तु ॠकार एव भवति, स्थानपर्यत्नोबयसाम्यात् । स्यादेतत् — रेफद्वययुक्तस्य लकारद्वययुक्तस्य चेषत्स्पृष्टप्रयत्नत्वाप्रयत्न भेदेन ऋऌ वर्माभ्यां सावण्र्याऽभावेनाऽच्त्वाबावात्ऊकालोऽ॑जित्यादिना दीर्घसंज्ञा नास्तीति कथमत्र लकारद्वयगर्भेण भवितव्यम्,ऋति ऋवा॒॑लृति लृवे॑ति वार्तिकपत्र्याख्यानं वा कथं सङ्गच्छताम्,अकः सवर्णे॑इत्यनेन इष्टरूपाणामसिद्धेः । अत्राहुः-उभयोरप्यच्त्वासिद्धये वर्णसमाम्नायऋलृक्सूत्रोत्तरं पाठः कर्तव्यः, तेन सर्वेष्टसिद्धिः । न च दीर्घत्वसिद्धावपि विवृतप्रयत्नसाम्यात्होतृ — ऌकार॑इत्यत्र ऋकारो दीर्घ एव स्यात्, न तु रेफद्वययुक्तो दीर्घ ति शङ्क्यम्, ऋकारद्वयस्थाने रेपद्वयवतः साम्येन कदाचित्तस्यापि पर्वृत्तेः ।होतृऌकार॑इत्यत्र ऌकारेण आन्तर्यात्कदाचिल्लकारद्वययुक्तः कदाचिहकारेण आन्तर्याद्दृकारश्च भवति । परं तु वार्तिकमतेहोतृऌकार॑इत्यत्ररेफद्वयगर्भो न भवति,प्रत्याख्यानपक्षे तु कदाचिद्भवतीति वैषम्यमस्ति, तत्रेष्टापत्तिर्वा, प्रत्याख्यानस्य प्रौढिवादमात्रता वा अभ्युपगन्तव्येति । अत्रेदं बोध्यम् — ॒अकः सवर्णे॑इति सूत्रस्थाभाष्येऋति ऋवा॑लृति लृवे॑त्येतन्न प्रत्याख्यातम्,तुल्यास्ये॑ति सूत्रस्थाभाष्ये तु तस्य प्रत्याख्यानेऽपि फलभेदे तदयोगात् । स्वीकृते तु तस्मिन्नकोऽकीत्येव सुवचमिति ग्रन्थोऽनुपपन्न एव । यदि तुऋति ऋवे॑ति वार्तिकम्,उॠ॑इतिऋवे॑ति पटएत, तदा वार्तिकयोः सवर्ण इति पदानुवृत्त्यनपक्षेणात्मुवचमेवाऽकोकीति । प्रकृतमनुसरामः, — ङौ तुऋतो ङि -॑इति गुणो लपरः । गमलि । गमल्ो#ः । गम्लृषु । एवं शक्लृशब्देऽप्यूह्रम् । इति लृदन्ताः । इति लृदन्ताः । सेरिति । अस्यापत्यमिः कामः, अस्य स्त्री ई=लक्ष्मीः । तेन तया वा सह वर्ततैति विग्रहेतेन सहेति तुल्ययोगे॑इति बहुव्रीहौवोपसर्जनस्ये॑ति सहस्य सभावेआद्गुणः॑ । सय इति । ननुसे॑इत्येकारस्य अन्तवद्भावेन पदान्तत्वादयादेशं बाधित्वा जसि परकतःएहः पदान्ता॑दिति पूर्वरूपमेकादेशः स्यात्, तथाचसे॑पित्येव रूपं स्यान्न तुसय॑इति चेदत्र केचित् — एवं तर्हिथासः से॑ईशः से॒इति विहितादेशस्यानुकरणशब्दोऽमस्तु, तत्र हि जसि परतोऽयादेशस्य निर्बाधत्वादिति । स्मृतेरिति । इः कामः स्मृतो येन सः, ई लक्ष्मीः स्मृता येनेति वा विग्रहः ।निष्ठे॑ति स्मृतशब्दस्य पूर्वनिपातः । स्मृतय इति । नन्वत्र पूर्वोक्तरीत्याएङः पदान्तादती॑ति पूर्वरूपेण भाव्यं न त्वयादेशेन, न ह्यत्रानुकरणशब्दत्वकल्पनमौचित्यं लभत इति चेदत्र नव्याः — ॒उत्तरपदत्वे चाऽपदादिविधौ प्रतिषेधः॑इति प्रत्ययलक्षणप्रतिषेधादेडः पदान्तादती॑त्यस्याऽप्रवृत्तिः । किंचस्वादिष्वसर्वनामस्थाने॒॑यचि भ॑ मित्यत्र भाष्यकृतैस्वादिषु पूर्वं पदसंज्ञं भवती॑ति व्याख्यातम् । ततश्चानेनसुप्तिङन्त॑मितिस्वादि॑ष्विति च द्विविधापि संज्ञा निषिध्यत इति पूर्वन्तत्वप्रयुक्ता पदान्ततेह दुर्लभेतिस्मृतय॑ — इति रूपं निर्बाधमेव । तथासय॑इत्यत्र॒इना सहे॑त्यादिव्युत्पत्तिपक्षेऽपि नानुपपत्तिः । न चैकारदेशस्य पूर्वनतत्वेनाव्ययत्वात्सुपो लुक् स्यादिति शङ्क्यम्, अव्ययसंज्ञाया अन्वर्थत्वेनोपसर्जने तदभावात् । न चैवमपिसहग इ॑इति स्थितेऽन्तरङ्गत्वाद्रुणे कृते सहशब्दस्य सादेश एव न स्यात्, एकादेशस्य पराविद्भावे सहशब्दस्य सभावः, तथापिस॑इत्यदन्तमेव रूपं स्यान्न तुसे॑ इत्येदन्तमिति शङ्क्यम्,नेन्द्रस्य परस्ये॑त्युत्तरपदवृद्धिपर्तिषेधेनपूर्वोत्तरपदयोः पर्थमं कार्यं भवति तत एकादेशः॑इति सामान्यज्ञापनादित्याहुः ।", "64004": "<<न तिसृचतसृ>> - त्रिचतुरोर्विशेषणादिति । श्रुतत्वाद्भित्रिचतुरो॑रित्यस्यैवस्त्रिया॑मिति विशेषणं, नाङ्गस्येति भावः । प्रियास्तिस्त्र इति ।प्रिया जस् त्रि जस्इति स्थितेअन्तरङ्गानपि विधान्वहिपङ्गो लुग्बाधते॑इत्यकृत एव तिरुआआदेशे सुपो लुकि कृते समासाद्या विभक्तिस्तस्यां परतस्तिरुआआदेशः ।स्त्रियाः पुंव॑दिति प्रियाशब्दस्य पुंवद्भावः ।ऋदुशेन॑त्यनङ् । यद्यपि इह जहत्स्वार्थावृत्तिपक्षे त्रिशब्दस्य निर्थकत्वेन स्त्रीवाचित्वं दुर्लभं, तथापि भूतपूर्वगत्या स्त्रियां वृत्तिर्बोध्या ।उत्तरपदार्थप्रधानस्तत्पुरुष॑इत्यादिसिद्धान्तप्रवादस्यैवमेव निर्वाह्रत्वात् ।अजहत्स्वार्था वृत्ति॑रिति पक्षे तुस्त्रीनिष्ठसङ्ख्यासमर्पकयोस्त्रिचतुरो॑रिति विवक्षितोऽर्थः, तेन प्रियास्त्रयस्त्रीणि वा यस्याः साप्रियत्रि॑रित्यत्र प्रियत्रिशब्दस्य स्त्रियां वृत्तित्वेऽपि न तिस्त्रादेसप्रसङ्गः,॒प्रत्ययोत्तरपदयोश्चे॑त्येतत्सूत्रगतभाष्यग्रन्थसन्दर्भश्चोक्तव्याख्याने प्रमाणाम् । अनित्यत्वादिति ।इकोऽची॑त्यज्ग्रहणमिह लिङ्गम् । तथाहि -भ्याम्मिसादिषु सत्यपि नुमिनलोपः प्रातिपदिकान्तस्ये॑ति तल्लोपसंभवाचीति व्यर्थम् । न चन ङिसंबिद्द्यो॑रिति निषेधात्सम्बुद्धौ लोपो न संभवतीति तत्रानिष्टवारणायाऽचीत्यावश्यकमिति वाच्यं, संबुद्धिश्च लुका लसुप्तेति नुमः प्राप्तेरेव तत्र दुर्लभत्वात् ।न लुमते॑ति निषेधस्याऽनित्यतां विना तत्र प्रत्ययलक्षणाऽप्रवृत्तेः । नाप्युत्तरार्थं तदिति वाच्यम्, उत्तरत्रैव कर्तव्ये तत्राऽचीति करणस्य वैयथ्र्यात् ।न लुमते॑ति निषेधस्याऽनित्यत्वे तु संबुद्धौ प्रतत्यलक्षणेन प्राप्तं नुमं वारयितुंम तदिति भवत्येवाऽज्ग्रहणं लिङ्गम् । न चेदमनित्यत्वं संबुद्धिगुणमात्रविषयकमित्यबिनिवेष्टव्यं, लक्ष्यानुरोधेनाऽन्यत्रापि क्वचित्तदब्युरगमे बाधकाऽभावात् । अतएवप्रियतिसृ॒॑प्रियत्री॑ति रूपद्वयमपि कैयटेन स्वीकृतम् ।रादेशात्पूर्वविप्रतिषेधेन नुम् । रादेशादिति । तत्रप्रियतिसृणी,॒॑प्रियतिसृणी॑ति भाष्यं मानम् । इत्यादीति । प्रियतिस्त्रे । प्रियातिसृणे । प्रियतिरुआः । प्रियतिसृणः । आमि रादेशं बाधित्वा पूर्वविप्रतिषेधेन नुम्, तं च बाधित्वा पूर्वविप्रतिषेधेन नुट् । प्रियतिसृणाम् । द्वेरत्वे सत्याबिति । विभक्तिसंनिपातकृतमपि त्यदाद्यत्वं टापो निमित्तं,न यासयो॑रिति निर्देशेन संनिपातपरिभाषायां अमित्यत्वादिति भावः । विभक्तौ लिह्गविशिष्टाऽग्रहणम् । अङ्यन्तत्वादिति । केचिदिहकृदिकारा॑दिति पाक्षिक ङीषमिच्छन्ति तन्मते तु सुलोपः पक्षे स्यादेव । अतएववातप्रमी॒॑श्री॒॑लक्ष्मी॑तिपक्षे ङ्यन्ताः सुसाधव इति रक्षितः ।लक्ष्मीर्लक्ष्मी हरिप्रिये॑ति द्विरूपकोशश्च ।", "64005": "", "64006": "नृ च। इह `छन्दस्युभयथे`ति सूत्रादुभयथेत्यनुवर्तत इत्याभिप्रेत्याह - वा दीर्घः स्यादिति। केचित्त्विह `छन्दसी`त्यप्यनुवर्तयन्ति, तेषां हि `चिन्ताजर्जरचेतसां बत नृणा कता नाम शान्तः कथा,``नृणामेको गम्यस्त्वमसी`त्यादिप्रयोगा न सङ्गच्छेरन्। किञ्च `छन्दस्युभयथे`ति पूर्वसूत्रेणैव `नृणा`मिति सिद्धे `नृ चे`ति सूत्रस्य वैयथ्र्यं स्यात्। यदपि पूर्वसूत्रे `तिसृचतसृ`इत्यनुवर्तयन्ति, तदप्ययुक्तम्। अविशेषेण विकल्पदर्शनात्। तथा च धाता धातृणां मिति मन्त्रे तैत्तिरीयैह्य्यस्वः पच्यते, बह्वृचैस्तु दीर्घ इति दिक्।", "64007": "<<नोपधायाः>> - नोपधायाः ।ने॑ति लुप्तषष्ठीकं पदमङ्गस्य विशेषेणम् । नलोपस्यऽसिद्धत्वात्नामी॑पि दीर्घो न प्रवर्तत इत्ययमारम्भः । गौणत्वे त्विति । बहुवचमनिर्देशस्यार्थप्राधान्यार्थत्वादिति भावः । प्रियपञ्च्ञामिति । ञद्वयमध्ये चकारः ।", "64008": "<<सर्वनामस्थाने चासम्बुद्धौ>> - अचि सुपीति । सुपीति किम् सुध्युपास्यः । वस्तुतस्तु सुपीत्यननुवृत्तावपि न क्षतिः,अनन्तरस्ये॑ति न्यायेन॒एरनेकाचः॑इतिओः सुपी॑ति च सूत्रद्वयेन प्रापितस्यैव यणोन भूसुधियो॑रिति निषेधाभ्युपगमात् । स्थानिवत्त्वाद्यणि प्राप्त इति ।एरनेकाचः -॑इत्यनेन । न चान्तर्वर्तिनीं विभक्तिमाश्रित्य सखि शब्दस्य पदत्वात्न पदान्ते॑ति निषेधेन अल्लोपो न स्थानिनदिति वाच्यम्, नः क्ये नियमेन क्यचि नान्तस्यैव पदत्वात् ।॑क्वौ लुप्तं न स्थानिवत् । क्वौ लुप्तमिति ।नपुंसके भावे क्तः॑ । क्वौ लोप इत्यर्थः । इदं सर्वं कुमारीमिच्छन् किमारीत्यत्रापि बोध्यम् ।क्वौ लुप्त॑मित्येतत्क्काचित्कं,क्वौ विधिं प्रति न स्थानिव॑दित्यब्युपगमात् । अन्यथाबेभिदि ब्राआहृणकुलानी ति हलन्तनपुंसके वक्ष्यमाणं न सङ्गच्छेत । बेभिद्यतेः क्किपि अल्लोपे यलोपे च क्वौ लुप्तत्वेनाऽल्लोपस्य स्थानिवत्त्वाऽभावे झलन्तलक्षणनुम्प्रसङ्गात् ।क्वौ विधिं पर्ति न स्थानिव॑ दित्यस्योदाहरणं तु लवमाचक्षाणोः लौः । अत्र णिचि यष्टिलोपो, यश्च क्वौ णिलोपः, तदुभयंछ्वोः शू॑डिति वकारस्य क्विनिमित्ते ऊठि कर्तव्ये न स्थानिवत् ।एत्येदत्यूठ्सु॑इति वृद्धिः । अत्रेदमवधेयम्, -॒न पदान्ते॑ति सूत्रेक्विलुगुपधात्वचङ्परनिह्र्यासकुत्वेषूपसङ्ख्यान॑मिति वार्तिकमस्ति तदेकदेशानुवादोऽयंक्वौ लुप्त॑मित्यादीति ।लुका लुप्ते न स्थानिव दित्यादीनामप्युदाहरणान्यत्रोच्यन्ते । पञ्चभिः पट्वीबिः क्रीतः पञ्चपटुः ।अर्हा॑दिति ठक्, तस्यअध्यर्धपूर्वे॑ति लुक्,लुक्तद्धितलुकी॑ति ङीषो लुक् । तस्य लुका लुप्तत्वेन स्थानिवत्त्वाऽभावादत्र यणादेशो न भवति । न च ङीषो लुकः परनिमित्तकत्वाऽभावात्स्थार्निवत्त्वं न भवेदिति शङ्कयं, ङीषो लुकं प्रति स्थानिद्वारा तद्धितलुकः परत्वस्वीकारात् । यद्वा बुद्धि परिक्लिपतं पौर्वापर्यमभावेऽप्यस्तीति नास्त्यत्राऽनुपपत्तिः । न च अढे तद्धिते विवक्षितेभास्यैढे॑इति पुंवद्भावादुक्तनिषेधं विनैवेष्टसिद्धिरित्यपि शङ्क्यं,यत्र भाविभत्वं तत्रैव पुंवद्भावः, इह तु लुकि भत्वाऽभावात्कुतः पुंवद्भाव॑इति कैयटेनोक्तत्वात् । तथा पञ्चेन्द्राण्यो देवता अस्य पञ्चेन्द्रः ।सास्य देवते॑त्यण् ।द्विगोर्लुगनपत्ये इति लुक् । ततो ङीषो लुकि तस्य स्थानिवत्त्वाऽभावान्ङीषा संनियुक्त आनङ् श्रूयते । पुंवद्भावास्यात्राऽऽशङ्कापि नास्ति, इन्द्रे इन्द्रत्वमिन्द्राण्यामिन्द्रस्त्रीत्वमिति प्रवृत्तिनिमित्तभेदे भाषितपुंस्कत्वस्यानभ्युपगमात् । ये तुन पदान्ते॑ति सूत्रेवर-ई॑इति ईकारप्रश्लेषं कुर्वन्तितेषामिह लुग्ग्रहणं न कार्यम् ।उपधात्वे कर्तव्ये न स्थानिवत् । तेन परिखाशब्दाच्चातुरर्थिके अणि कृतेवृद्धादकेकान्ते॑त्यादिना पारिखशब्दत्खोपधलक्षणे छप्रत्ययेपारिखीयः॑सिध्ति । अन्यथा उपधासंज्ञायाः पूर्वविधित्वेन तस्यां कर्तव्यायामालोपः स्थानिवत्स्यात् । नन्वेवंपटयती॑त्यादौ वृद्धिः स्यादिति चेन्न, यत्रोपधासंज्ञयामुपजीव्यप्रत्ययो विहिततस्तत्रैवायं निषेध इति भाष्ये स्थितत्वात् । तत्र च चङ्परनिपह्र्यासग्रहणमेव ज्ञापकम् — ॒चङ्परनिर्ह्रासस्तत्र न स्थानिवत् । वादितवन्तं प्रयोजितवान् अवीवद्वीणां परिवांदकेन । अत्र पर्थमणिलोपस्य स्थानिवत्त्वादाकारोऽनुपधेतिणौ चङी॑त्युपधाह्रस्वो न प्राप्तोति । णिसामान्यग्रहणादेतत्सिद्धमिति चेत्, तह्र्रन्यदुदाहर्तव्यं, वारि आख्यदवीवरत् । न चअग्लोपी॑ति निषेधः शङ्क्यः, परत्वाद्वृद्धौ सत्यां टिलोप इत्यभ्युपगमेनाऽग्लोपित्वाऽभावात् । अतएवमुण्डमिश्रे॑ति सूत्रे हलिकल्योर्हलकलेत्यदन्तनिपातनं सार्थकम् ।कृत्वे न स्थानिवत् । अर्चयतेरर्कः ।कृदाधारार्चिकलिभ्यः॑इति कः । पाचयतेः पाक्तिः । इ ह॒चोः॑कु॑रिति कुत्वे णिलोपो न स्थानिवत् । वार्तिकेऽस्मिन् क्विचङ्परनिह्र्यासोपधानां ग्रहणमावश्यकं । कृत्वे न स्थानिवत्,लुक ईकारप्रश्लेषेण गतार्थत्वात्, कुत्वस्य पूर्वत्रासिद्धीयत्वाच्चेत्यवधेयम् ।चजो॑रिति कुत्वे चोदाहरणमन्वेषणीयम् । सख इति ।तेन सहेती॑ति बहुव्रीहौवोपसर्जनस्ये॑ति सभावः । सखीरित्यादि ।सुपाअत्मनः क्यच् ।क्यचि च॑ इतीत्त्वम् । दीर्घस्यापीति । एतदर्थं कृतयणदेश इति भावः । ननु अतिसखेर्भूपतेरिति गुणविषयं व्यापर्तयितुं यणा निर्देश इति चेदस्त्वेवं, तथापि दीर्घे प्रवृत्तिः केन वार्यताम् । न हि ह्रस्वे यणा भाव्यं न दीर्घेष्वित्यत्र प्रमाणमस्ति । सौत्रस्य विकृतिनिर्देशस्याऽव्याप्त्यतिव्याप्त्युभयवारकत्वे सारवत्त्वलाभेन तथैवौचित्याद्भाष्यारूढत्वाच्च । लूनमिति ।ल्वादिभ्यः॑इति निष्ठातस्यः नः । क्षाममिति ।क्षयो मः॑इति मः ।स्त्यःप्रपूर्वस्ये॑ति संप्रासारणम् । शुष्कीरिति ।शुषः कः॑इति निष्ठातस्य कः । पक्वीरिति ।पचोः वः॑इति वः । इयङिति । संयोगपूर्वत्वादिवर्णस्य यण्नेति भावः । इतीदन्ताः । हरिवदिति । तद्वत्साध्य इत्यर्थः ।", "64009": "<<वा षपूर्वस्य निगमे>> - ऊदुपधायाः । गुणहेताविति । एतच्चगोह॑ इति विकृतनिर्देशाल्लब्धम् ।अचिश्नुधात्वि॑त्यतोऽनुवृत्तेनाऽचीत्यनेनाह्गाक्षिप्तप्रत्ययो विशेष्यते । विशेषणेन तदादिविधिः । तदाह — अजादाविति ।", "64010": "<<सान्तमहतः संयोगस्य>> - सान्त महतः । अत्रनोपाधायाः॒॑सर्वनामस्थाने चासंबुद्धा॑वित्यनुवर्तते ।सान्ते॑ति लुप्तषष्ठी कंसंयोगान्तस्ये॑त्यनेन समानाधिकरणमिति व्याचष्टे — — सान्तसंयोगस्येत्यादि । तस्योपधाया इति । तत्पूर्वस्येत्यर्थः । अमि लुकोऽपवादमित्यादि । एतेनस्वमोरमादेशे एव कृते वा जर॑सिति प्राचो ग्रन्थः प्रत्युक्तः । मांस्पचन्या इत । पच्यतेऽस्यामिति पचनी ।करणाधिकरणयोश्चे॑ति ल्युट् । टित्त्वान्ङीप्ष मांसस्य पचनी मांस्पचनी । अत्र ङसो लुका लुप्तत्वात्प्रत्ययलक्षणं नेति प्रभृतिग्रहणस्य प्रकारार्थत्वं विना मांसशब्दस्यमा॑सित्यादेशो न सिध्येदिति भावः । ननु पृषोदरादिसूत्रेमांसस्य पचि युङ्घञो॑रिति वक्ष्यमाणत्वादन्तलोपेनाप्येतद्रूपं सिद्धमिति चेत्, अत्राहुः — ॒पृष्टोदरादीनि यथोपदिष्ट॑मित्यस्योत्तरपदाधिकारस्थत्वाल्ल्युडन्तं यदुत्तरपदंमांस्पचन॑मित्यादि तत्रैबान्तलोपः स्यात् । अत्र हि ङूबन्तमुत्तरपदं न तु ल्युडन्तमिति नास्त्येबान्तलोप इति । मासश्छन्दसीति ।मास्शब्दस्य तकारः स्याद्भादौ प्रत्यये छन्दसी॑ति वार्तिकार्थः ।माद्भिः शरद्भिः दुरोदरं तवे॑त्युदाहरणम् ।", "64011": "", "64012": "<<इन्हन्पूषार्यम्णां शौ>> - इन्हन् ।सर्वनामस्थाने चासंबुद्धा॑वित्यनेनैव सिद्धे नियमार्थमिदं, तदाह -शावेवोपधाया इति । उपधादीर्घमात्रस्यायं नियमः । तेनवृत्रहायते॑इत्यत्रअकृत्सार्वधातुकयो॑रिति दीर्घो भवत्येव ।वृत्रहणी॑इत्यत्रअनुनासिकस्य क्विझलो रिति यो दीर्घः सोऽपि नियमेन व्यावर्त्त्यते । उपधादीर्घमात्रपेक्षया नियमविज्ञानादिति तु मनोरमायां स्थितम् । शावेवेति नियमाद्दीर्घस्याऽप्राप्तावाह-", "64013": "<<सौ च>> - सौ चेति ।शिस्वो॑रिति वक्तव्ये योगविभाग उत्तरार्थः । वृत्रहेति । वृत्रं हतवान् ।ब्राहृभ्रूणे॑ति क्विप् ।", "64014": "<<अत्वसन्तस्य चाधातोः>> - अत्वसन्तस्य चाऽधातोः ।ढ्रलोपे॑सूत्राद्दीर्घस्यनपोधायाः॑इत्यपधाग्रहणस्य चानुवर्तनादाह — उपधाया दीर्घः स्यादिति । इहअधातो॑रिति योगो विभज्यते, तत्सामर्थ्यादनन्तरस्याऽसन्तस्यैव प्रतिषेधः, न त्वत्वन्तस्येति कैयटादयः । तदेतद्दर्शयति -धातुभिन्नाऽसन्तस्य चेति । धात्ववयवभिन्नो योऽस् तदन्तस्येत्यर्थः । तेनउखास्त्रत्पर्णध्व॑दित्यादि सिद्धम् ।धातुभिन्नो योऽसन्तस्तस्ये॑ति व्याख्यायांस्त्रत्॒ध्व॑दित्यत्र सिद्धान्ते दीर्घाऽभावेऽप्यत्र तु स्यादेवेति दिक् । अत्रसर्वनाम स्थाने चे॑ति सूत्रादसंबुद्धावित्यनुवर्तते ।सौ चे॑त्यतःसा॑विति च । तदाह — असंबुद्धौ सौ पर इति । अत्वन्तत्वाभावादिति ।अतु॑इत्यकारानुबन्धस्याऽनुकरणाच्छत्रन्तस्य न भवतीत्यर्थः । उभे । शब्दरूपाऽपेक्षया नपुंसकनिर्देशः । षाष्ठाद्वित्वेति ।अनन्तस्य विधिर्वा भवति प्रतिषेधो वे॑ति न्यायादिति भावः ।", "64015": "<<अनुनासिकस्य क्विझलोः क्ङिति>> - अनुनासिकस्य ।अङ्गस्ये॑ति विशेष्यसन्निधानात्तदन्तलाभः ।ढ्रलोपे॑ इत्यतो दीर्घग्रहणं,नोपधायाः॑ इत्यत उपधाग्रहणं चानुवर्तते । तदाह — अनुनासिकान्तस्येत्यादि । झलादाविति । एतच्चयस्मिन्विधिस्तदादावल्ग्रहणे॑ इति परिभाषया लभ्यते । झलादौ किति शान्तो दान्त इत्युदाहरणं, ङिति तु यङ् लुकि — तसि शंशान्तः दंदान्तः । पथीनतीति । अन्तरङ्गत्वाद्दीर्घस्ततो न गुण इत्याहुः ।इन्ह॑ न्नित्यनेन शावेवेति नियमाद्दीर्घाभावे गुणे सतिपथेनती॑न्निति नियमो, न तु पथ्यादीनाम् । एतेषां तु शौ परतः सुपन्थानीत्यादावुपधादीर्घप्रवृत्तावपिइतोऽत्सर्वनामस्थाने॑ इत्यत्वे कृतेइन्ह॑ न्निति नियमाऽप्रवृत्तेः । अन्यथा पन्थानौ पन्थान इति न सिध्येत् । तथा च पथीनतीत्यात्याद्येव साध्वित्यपरे । देवतीति माधव इति । अपदान्तत्वाद्दिव उन्न । अत्रेति । लघूपधगुणं बाधित्वान्तरङ्गत्वादूठि यण् । तस्मिन्कर्तव्ये बहिरङ्गस्याप्यूठो नाऽसिद्धत्वं,नाजानन्तर्ये॑ इति निषेधात् । न च वर्णादाङ्गस्य बलीयस्त्वाद्यणं बाधित्वा लघूपधगुणः स्यादिति वाच्यं, व्याश्रयत्वात् । अत एव सिवेरौणादिके नप्रत्यये स्योनशब्दः सिध्यतीति भावः । क इवेति । को — ब्राहृआ । चक इतीति । नन्वेवमौ अतुरित्यत्रापिअत आदेः॑ इति दीर्घं बाधित्वाअतो लोप॑ एव स्यादिति चेत् । अत्राहुः — ण्यल्लोपौ॑ इति वचनेन जायमानो योऽतो लोपः स तु सन्निहितमेवअकृत्सार्वे॑ति दीर्घं बाधते, अनन्तरस्येति न्यायात्, न तु व्यवहितमपिअत आदे॑रिति दीर्घमिति माधवाशान्नानेन तद्ग्रन्थस्य विरोध इति । अनाकरमेवेति । अनेकाच्त्वाऽभावादित्यर्थः । अन्ये तु भाष्येप्रत्ययग्रहणमनीये॑ इत्यनुक्तत्वात्प्रत्ययान्ततया स्वामासेत्यादि रूपं शुद्धमेवेत्याहुः ।", "64016": "<<अज्झनगमां सनि>> - अज्झगमाम् । गमः सामान्येन ग्रहमे गम्लृ गतावित्यस्मात्संजिगंसते इत्यत्रातिप्रसङ्गः स्यादतःसनि च॑,इङश्चे॑ति सूत्राभ्यां विहितस्येणिङोरादेशस्य,इण्वदिकः॑इति इक आदेशस्य च ग्रहणमित्याशयेनाह — अजादेशगमेरिति । एतच्च सूत्रेऽज्ग्रहणाल्लभ्यते । तथाहि — इहसनी॑त्येव सूत्रं कर्तव्यं, दीर्घश्रुत्योपस्थितेनाऽच इत्यनेनाङ्गस्य विशेषणादजन्ताङ्गस्य दीर्घः । चिचीषति । ततोहनिगम्यो॑रित्यपरं कर्तव्यम् । एवं चाऽज्ग्रहणमतिरित्यमानं प्रवृत्तिभेदेन गमेर्विशेषणार्थम् । अजन्तस्य दीर्गो भवति, अजादेशगमेश्चेति । झलादाविति किम् । जिगमिषति ।गमेरिट् परस्मैपदेषु॑ इति इट् ।", "64017": "", "64018": "<<क्रमश्च क्त्वि>> - झलादावितीति ।जान्तनशा॑मिति सूत्रे वक्तव्यमित्यर्थः ।", "64019": "<<च्छ्वोः शूडनुनासिके च>> - च्छ्वोः शूडनु ।च्छ्वो॑रिति सतुक्कस्यानुकरणम् । चुत्वेन तकारस्थाने चकार इत्याह — सतुक्कस्येति । एवं च सूत्रे छकारात्पूर्वं चकारो ज्ञेयः । सतुक्कस्य किम् । विच्छप्रच्छायां नङ्प्रत्यये छकारस्य शकारे कृते तुकोऽश्रवणं यथा स्यात् । अकृतव्यूहपरिभाषा त्वनित्या, अस्मादेव सतुक्कग्रहणात् । तेनातिक्रान्तो भवकन्तमतिभवकानित्यादि सिद्धमित्याहुः । सूत्रस्थेन चशब्देन क्विझलोः क्ङितीत्यनुकृष्यत इत्याह - क्वावित्यादि । ग्रहो लिटि दीर्घः । एकाचः किम् । जाग्रहिता । जाग्रहिष्यति — इत्यादौ यङ्लुकि माभूत् । विहितस्येति किं । ग्राहितम् । न चाऽत्र णिलोपस्य स्थानिवद्भावाद्ग्रहेः परत्वं कनेति वाच्यं, दीर्घविधौ स्तानिवत्त्वनिषेधात् ।त्रैपादिकदीर्घविधावेव, स्थानिवत्त्वनिषेध॑ इत्यभ्युपगमे तु विहितविशषमं व्यर्थमेवेत्याहुः । प्रकृतस्येटो ग्रहणाद्ग्राहिता ग्राहिष्यत इत्यादौ चिण्वदिटो न दीर्घः ।", "64020": "<<ज्वरत्वरश्रिव्यविमवामुपधायाश्च>> - ज्वर रोगे । ञित्वरा संभ्रमे । अत्र वृत्तौझलादौ क्ङिती॑त्युक्तं तत्र क्ङितीत्येतद्रभयसकृतमेवेत्याह — क्ङितीति नानुवर्तत इति । अवतेस्तुनीति ।ज्वरत्वरे॑त्युपधावकारयोरूठि गुणे च कृते मन्प्रत्ययस्य टिलोपे चोमिति सिध्यतीत्यर्थः । ज्वरादेरुदाहरणं क्विपि जूः । जुरौ । जुरः । झलादौ तु — जूर्तिः । जूर्णः । जूर्णवान् । त्वर — तूः । तुरौ । तुरः । तूर्तिः । तूर्णः । तूर्णवान् । रिउआवि- स्रूः । रुआउवौ । रुआउवः । रुआऊतिः । अवि — ऊः । उवौ । उवः ।ऊतिः । मव — मूः । मुवौ । मूतः । मूतिः । मामोषीत्यादि । ईट्पक्षे मामवीषि । मामवीमि । मामवीतु । अमामवीत् । अमामवीरिति बोध्यम् । राल्लोपः ।च्छ्वोः शू॑डित्तश्च्छ्वोरित्यनुवर्तते । क्वावुदाहरणं — तूः । तुरौ तुरः । धुर्वी — धूः । धुरौ । धुरः । मुच्र्छा — मूः । मुरौ । मुरः ।", "64021": "", "64022": "<<असिद्धवदत्राभात्>> - वत्करणं प्रतिपत्तिलाघवाय, अन्यथा सिद्धे असिद्ध इति प्रयुज्यमानमनुपपन्नं सत्सामर्थ्यादसिद्धवदिति कल्पनीयं स्यात् । यथा राजभिन्ने पुरोहितेराजाऽय॑मिति प्रयोगोराजव॑ दिति कथंचित्कल्पयति,राजवदयं पुरोहित॑ इत्युक्ते तु लघुप्रतिपत्तिर्भवति । तथा चाऽगत्याषत्वतुकोरसिद्धः॑ इत्यत्राऽसिद्धवदिति कल्प्यते ।असंयोगल्लिक्टि॑दित्यत्रापि किद्वदित्यगत्यैव कल्प्यत इति ज्ञेयम् । आ भादिति । अभिविधावाङ् । भाधिकारमभिव्याप्येत्यर्थः । अधिकारश्चायम् ।अत्र॑ ग्रहणं समानाश्रयप्रतिपत्त्यर्थम् । आबाद्ग्रहणं विषयनिर्देशार्थम् । भाधिकारस्याऽवधिलाभस्तुअङ्गस्य॑,प्रत्ययः॑,परश्चे॑त्यादाविव व्याख्यानेनैव सिध्यति । एवंअनुदात्तोपदेशे॑त्यत्रास्योपस्थाने सत्ययमर्थो भवति,एषामनुनासिकस्य लोपः स्याज्झलादौ क्ङिति परे, स चासिद्धो भवति, अत्र झलादिक्ङिदाश्रित्यैव यदाभीयं प्राप्नोति तस्मिन्कर्तव्ये सति॑ इति । जङ्गहि जङ्घहि ।अतो हेः॑ इति लुग्न भवति, अनुनासिकलोपस्य हिशब्दाश्रितत्वेनाऽसिद्धत्वात् । नन्वस्याधिकारत्वे यत्र यत्रोपस्थानं तत एवारभ्य यदाभीयं तस्मिन्नेव कर्तव्येऽसिद्धत्वं स्यान्न तु ततः पूर्वस्मिन्नपि । ततश्चध्वसो॑रित्येत्वं पूर्वस्मिन्नपि धित्वे कर्तव्ये नाऽसिद्धं स्यादिति चेत् । भवेदयं दोषः शब्दाधिकारे, अर्थाधिकारस्त्वयम् । ततश्चेहश्नान्न लोपः॑ इत्यवधिर्निर्णीतः, स एव प्रतिसूत्रमुपतिष्ठते । तदेतत्सकलमभिप्रेत्याह — इति ऊध्र्वमिति । अत्रापि शात्राऽसिद्धत्वमेवाऽकरे स्थितम् । तेन एधि शाधीत्यत्र स्थानिनो झलन्तत्वबुद्धेरनिवर्तितत्वात्तन्निबन्धनंहुलझल्भ्यो हेर्धि॑रिति धित्वं सिध्यति । प्राचोक्तकार्याऽसिद्धत्वपक्षे तु न सिध्यति,देवदत्तस्य हन्तरि हते देवदत्तस्योज्जीवनं ने॑ति न्यायेन एत्वविधिना झल्बुद्धौ निवर्तितायां पश्चादेत्वबुद्धिनिवर्तनेऽपि धित्वकार्यस्याऽप्रवृत्तेरित्याहुः । समानाश्रये इति किम् । पपुषः । चिच्युषः । लुलुवुषः । इह पाधातोश्चिञो लूञश्च परस्य वसोर्यत्संप्रसारणं तत्आतो लोप इटि च॑ इत्याल्लोपेएरनेकाचः॑ इति यण्युवङि च कर्तव्ये नाऽसिद्धम् । आल्लोपादीनि हि क्वसौ, संप्रसारणं तु विभक्ताविति व्याश्रयत्वात् । न च बहिरङ्गत्वेनाऽसिद्धताऽस्त्विति शङ्क्यं,नाऽजानन्तर्ये॑ इति निषेधात् ।वाह ऊठ् सूत्रस्थबहिरङ्गपरिभाषाया अप्याभीयत्वेनाऽऽल्लोपादिषु कर्तव्येष्वसिद्धत्वाच्च । न चोक्तपरिभाषाया आल्लोपादीनां च समानाश्रयत्वं नेति शङ्क्यम्, वसोः संप्रसारणे कृते ह्रजाद्याश्रयेणाल्लोपादीनि प्रवर्तन्ते, तेषु कर्तव्येषु संप्रसारणस्याऽसिद्धत्वात्तद्विषये बहिरङ्गपरिभाषाऽपि प्रवर्तत इति तेषां तत्सत्त्वादिति दिक् । विषयलाभार्थमाभाद्ग्रहणं किम् । आभीयं प्रत्येवाऽभीयमसिद्धं नान्यं प्रतीति यथा स्यादित्येवमर्थम् । तेनअभाजि॑,राग॑ इत्यत्रभञ्जेच चिणि॑,रञ्जेश्च॑,घञि च भावकरणयोः॑ इति नलोपे कृते तस्याऽसिद्धत्वाऽभावात्अथ उपधायाः॑ इति वृद्धिर्भवतीत्याहुः । स्यादेतत् - देभतुः देभुरित्यत्रश्रन्थिग्रन्थिदम्भी॑ति वक्ष्यमाणवचनेन लिटः कित्त्वान्नलोपेप्येत्वाभ्यासलोपौ न स्यातां, नलोपस्याऽसिद्धत्वात् । अत्राहुः -श्नसोरल्लोपः॑ इति तपरकरणाल्लिङ्गादाभीयाऽसिद्धत्वमनित्यमिति नास्त्यत्र दोषः । तपरकरणं हि आस्तामित्यत्राऽऽडागमस्य लोपो माभूदित्येतदर्थम् । यद्याडागमः श्नसोरलोपं प्रत्याभीयत्वेनाऽसिद्धः स्यात्तर्हि किं तेन तपरकरणेन । एवं चदम्भेश्चे॑ति वक्ष्यमाणं नाऽपूर्वं वार्तिकं, किं त्वनित्यत्वबललभ्यमेवेति॥बुग्युटावुवडणोः सिद्धौ वक्तव्यौ ।वुक् शास्त्रस्य । एवमग्रेऽपि । युट उदाहरणंदितीये॑ । बभूवेति । अत्र प्राचा — इन्धिभवतिभ्यां च॑ति सूत्रं पितोऽ#एपि लिटः कित्त्वार्थमिति व्याख्यायअचोऽञ्णिती॑ति वृद्धिप्राप्तौक्ङिति चे॑ति निषेध॑ इत्युक्तं, तदुपेक्षितम् ।इग्लक्षणयोरेव गुणवृद्ध्योर्निषेध॑ इति सिद्धान्तात् । अन्यथा इक्स्थानिकयोर्निषेधेलैगवायन॑ इत्यत्रापि वृद्धिर्न स्यात् । न चाऽत्र कित्त्वसामर्थ्यादनिग्लक्षणाया अपि वार्तिकम् — ॒इन्धेश्छन्दोविषयत्वाद्भुवो वुको नित्यत्वात्ताभ्यां लिटः किद्वचनानर्थक्य॑मिति । यद्यपीह शब्दान्तरकप्राप्त्या वुको नित्यत्वं नास्ति, तथापि कृताऽकृतप्रसङ्गित्वमात्रेणापि क्वचचिन्नित्यता स्वीक्रियत इति पक्षोऽप्यस्मादेव वार्तिकादवगम्यते, तेन रधेर्णिचि परामप्यपधावृदिंध बाधित्वा नित्यत्वात्रधिजभोरची॑ति नुमि कृते रन्धयतीति सिद्धम् । नन्वेवमपि संयोगात्परस्य लिटः कित्त्वार्थमिन्धेश्चेत्यंशोऽपेक्षित एव । अन्यथासमीधे दस्यु हन्तम॑मित्यत्रेन्धेर्नलोपो न स्यात् । मैवम् ।छन्दस्युभयथे॑ति सूत्रेण हि सार्वधातुकसंज्ञा आर्धधातुकसंज्ञा च विधीयते, तेनसार्वधातुकमपि॑दिति ल#इटो ङित्त्वे स्यादेव नलोप इति वार्तिकाशयात् । अतर्नव्याः — बभूवे॑त्यत्रद्विर्वचनेऽची॑त्यजादेशस्य निषेधाद्गुणवृद्धिभ्यां प्रगेव वुकः प्रवृत्त्याभुवो वुको नित्यत्वा॑दिति वार्तिकेनित्यत्वा॑दिति हेतूपन्यासो निष्प्रयोजनः, शब्दान्तरप्राप्त्या वुको नित्यत्वं नास्ती॑त्याशङ्क्य कृताऽकृतप्रसङ्गित्वमात्रेणापि क्वचिन्नित्यत्वं स्वीक्रियत इत्यादिसमाधानमपि व्यर्थमेवेत्याक्षिप्य स्वयमेव समादधुः — षाष्ठद्वित्वप्रकरणान्ते हि वार्तिककृता पूर्वविप्रतिषेधः पठतेद्विर्वचनं यणयवायावादेशाल्लोपोपधालोपकिकिनोरुत्वेभ्यः॑ इति । तथा चद्विर्वचनेऽची॑ति सूत्रं नारम्भणीयमित्याशयेन नित्यत्वादिति हेतुरुपन्यस्त॑ इति ।द्विर्वचनेऽचीति सूत्रेणाऽरजादेशस्य स्थानिवद्भावो विधीयतर॑ इति पक्षे तु द्वित्वात्प्रागेव वृद्ध्याद्यादेशस्य स्वीकृतत्वादादेशानन्तरमपि वुकः प्रवृत्तिरस्तीति भुवो वुको नित्यत्वादित्यादिग्रन्थः सम्यगेव । न चैवमपि नामधातुषु त्वापयति मापयतीत्यत्रमपर्यन्तस्य त्वमौ, पररूपात्पूर्वं नित्यत्वाट्टिलोप॑ इति ग्रन्थः कथं सङ्गच्छेतेति वाच्यं,॒प्रकृत्यैका॑जिति सूत्रं भाष्ये प्रत्याक्यातमित्याशयेन तत्प्रवृत्तेः । अत एव त्वादयति मादयतीत्येव न्याय्यमिति तत्रोक्तमिति दिक्॥", "64023": "<<श्नान्नलोपः>> - श्नान्नलोपः । अस्य मुख्योदाहरणम् — अनक्ति । भनक्ति । श्नादित्युत्सृष्टमकारानुबन्धस्य श्नमो ग्रहणमित्याह — श्नमः परस्येति । एवं चयजयाचे॑ति विश्नशब्द्सयाऽऽमि नुटि विश्नानामित्यत्र लक्षणप्रतिपदोक्त — प्रत्ययग्रहमपरिभाषयोः प्रवृत्त्या नलोपशङ्कैव नास्तीत्याहुः । इन्धे इन्त्से । श्नमो नकारस्यानुस्वारपरसवर्णौ ।अनिदिता॑मिति नलोपस्तु न भवति, अल्लोपस्यअसिद्धवदत्रे॑त्यसिद्धित्वात्सथानिवत्त्वाद्वा । भञ्जो । आदित्करणं निष्ठानत्वार्थम् । भग्नः । भुज पालनादौ ।भुजोऽनवने॑ इत्यात्मनेपदं वक्ष्यते । भुङ्क्ते । भुञ्जाते । भुञ्जते ।", "64024": "<<अनिदितां हल उपधायाः क्ङिति>> - अनिदितिम् । इत् ह्रस्वेकार इत्संज्ञको येषां तानि इदिन्ति, न इदिन्ति अनिदिन्ति, तेषाम् — अनिदितम् । एतच्च अङ्गस्य विशेषणं, हल इत्यपि । तदाह -हलन्तामामनिदितामिति । उपधाया नस्येति ।श्नान्न लोपः॑इति सूत्रान्नेति लुप्तषष्ठीकं पदमनुवर्तते, तच्चोपधाग्रहणेन विशेष्यत इथि भावः । अनिदितामिति किम् । नन्द्यते । हलः किम्, नीयत । उपधायाः किम् । हन्यते ।", "64025": "", "64026": "", "64027": "<<घञि च भावकरणयोः>> - प्रायिकमिति । सर्वात्मना संज्ञाग्रहमत्यागेकृतः कटर॑ इत्यत्रकारः कट॑ इति स्यादिति भावः । भाष्ये त्वनभिधानमाश्रित्य प्रत्याख्यातम् ।", "64028": "", "64029": "<<अवोदैधौद्मप्रश्रथहिमश्रथाः>> - अवोदै । अवोद इति । उन्दी क्लेदनेऽवपूर्वः । घञि नलोपो निपात्यते । एध इति । इन्धेर्घञि नलोपो गुणश्च निपात्यते ।न धातुलोपे॑ इति निषेधादप्राप्ते गुणस्य निपातनमिति ज्ञेयम् । ओद्म इति । उन्देरौणादिके मन्प्रत्ययो नलोपो गुणश्चाऽत्रापि निपात्यते । श्रन्थेरिति । प्रपूर्वस्य हिमपूर्वस्य च घञि निपात्यते इति बोध्यम् ।", "64030": "<<नाञ्चेः पूजायाम्>> - नाञ्चेऋ । नुमैव सिद्धेप्राञ्चः ॑प्राञ्चे॒त्यादौ नुमोऽभावेऽपि नकारश्रवणार्थः । प्राङिति । प्रकर्षेणाऽञ्चति पूजयतीति पूजार्थादञ्चेः क्विन् । प्रङ्क्षिति ।ङ्णोः कुक्टु॑गिति वा कुक् ।चयो द्वितीया॑इति क्षे खकारोऽपि बोध्यः । एवमिति । शसादिषु — प्रत्यञ्चः । प्रत्यङ्भ्याम् । अमुमुयञ्चः अमुमुयङ्भ्याम् । उदञ्चः । उदङ्भ्यामित्यादि ज्ञेयम् । क्रुञ्चतीति क्रुङ् । सलोप इति । श्चुत्वस्याऽसिद्धत्वात्पूर्वंडः सी॑ति वा धुट् । ततश्चर्त्वम् । इति चान्ताः । निपात्यन्तः इति ।पृषु सेचने॑ ।बृह वृद्धौ॑ । अत्र गुणाऽभावः । महेः कर्मणि प्रत्ययः । अतएव मह्रते पूज्यते महानिति व्याचष्टे । गमेस्तु जगादेशः । चत्वारोऽप्यतिप्रत्ययान्ताः । एतच्चोणादिषु स्फुटीकरिष्यते ।", "64031": "<<क्त्वि स्कन्दिस्यन्दोः>> - क्त्वि स्कन्दि । स्कन्दिर्गतिशोषणयोः ।इर इत्संज्ञेट ति वार्तिककादिकारमात्रस्येत्संज्ञा नेतिअनिदिता॑मिति पर्युदासोऽत्र न प्रवर्तत इति स्कन्दिग्रहणम् । स्कन्त्वेति ।एकाच॑ इति नेट् ।", "64032": "", "64033": "", "64034": "<<शास इदङ्हलोः>> - शास इदङ्हलोः । अङि अशिषत् । क्ङिति — शिष्टः । शिष्टवान् । शिष्यात् । शिष्यास्ताम् । अङ्साहचर्यात्परस्मैपद एवेत्वम् । नेह - आशास्ते । अन्ये तु यस्माच्छासेरङ् संभवति तस्यैवेत्वमिति व्याख्याय व्यतिशिष्टे व्यतिशिढ्वे इत्यात्मनेपदेऽपि इत्वं स्वीकुर्वन्ति ।", "64035": "<<शा हौ>> - शा हौ । शादेश इति ।धि चे॑ति सलोपेन शाधीति रूपे सिद्धेऽपि सलोपस्याऽसिद्धत्वात्शासै॑दिति इत्वं स्यात्; तद्वारणाय शाविधानमित्याहुः ।", "64036": "<<हन्तेर्जः>> - आभीयतयेति । सन्निपातपरिभाषयाऽपि हेर्लुङ् नेति वक्तुं शक्यमिति केचित् । तन्मन्दम् ।अतो हे॑ रित्यारम्भसामर्थ्यात्तस्या अप्रवृत्तेरिति नव्याः ।", "64037": "<<अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति>> - यज्वेति । इष्टावान्यज्वा ।सुयजोर्ङ्वनिप् । ब्राहृणा इति ।सर्वधातुभ्यो मनि॑ न्निति प्रकम्यबृंहर्नोऽच्चेत॑ति नस्याऽत्वाविधानाह्ब्राहृञ्शब्दोऽयं॒निष्पन्नः ।", "64038": "<<वा ल्यपि>> - प्रदायेति ।दोदद्धोः॑रिति न । प्रखन्येति ।जनसनखना॑मित्यात्वं न । प्रस्थायेति ।द्यतिस्यतीतीत्वं न । प्रक्रम्येति ।क्रमश्च क्त्वी॑ति दीर्घो न । आपृच्छ्य । प्रदीव्येति । छकारवकारयोश्छ्वोरिति शूठौ च । इडभावस्योदाहरणं तु प्रखन्य प्रदीव्येत्यादावेव बोध्यः ।", "64039": "<<न क्तिचि दीर्घश्च>> - दीर्घानुनासिकेति ।अनुनासिकस्य क्विझलो॑रिति दीर्घस्य र॒अनुदात्तोपदेशे॑त्यादिनानुनासिकलोपस्य च प्राप्तरिति बोध्यम् । यन्तिरित्यादि । यम उपरमेष रम क्रीडायाम्, वनु याचने, तनु विस्तारे ।", "64040": "", "64041": "<<विड्वनोरनुनासिकस्यात्>> - अवावेति । अनुनासिकस्य आत्वे अवादेशः । सौ दीर्घनलोपौ । रोट् रेडिति । रुष रिष हिंसायाम् । उपधागुणः । जश्त्वचर्त्वे ।", "64042": "<<जनसनखनां सञ्झलोः>> - जनसनखनाम् । जन जनने, जनी प्रादुर्भावे इत्युभयोरपि ग्रहणम् । झलादौ सनि सिषासति । जज्ञतीति ।गमहने॑त्युपधालोपः । जजायादिति ।ये विभाषे॑ति वा आत्वम् । एवं जायादित्यत्रापि । जिगातीति ।रबहुलं छन्दसी॑ति इत्वम् । इति तत्त्वबोधिन्याम् जुहोत्यादयः ।अथ कण्ड्वादयः", "64043": "<<ये विभाषा>> - गत्यादिष्विति । गतिशब्दसंभवक्तिष्वित्यर्थः । मीमृ । ऋदित्फलं तुनाग्लोपी॑ति निषेधः । अमिमीमत् ।", "64044": "<<तनोतेर्यकि>> - तनोतेर्यकि ।विड्वनो॑रिति सुत्रादादिति,ये विभाषे॑त्यतो विभाषेति चानुर्तते । यकि किम् । तंतन्यते ।", "64045": "", "64046": "", "64047": "<<भ्रस्जो रोपधयोः रमन्यतरस्याम्>> - भ्रस्जो रोपधयोः । रम्यकार उच्चारणार्थः ।र॑मित्यस्याऽन्त्यादचः परत्वेरोपधयो॑रिति षष्ठीनिर्देशस्य वैयथ्र्यमाशङ्क्याह — निवृत्तिरिति । अयं भावः — स्थानिविशेषलाभाय मित्त्वस्य करणान्न रोपधयोः स्थाने रम् भवति । यत्र ह्रनिर्धारितः स्थानषष्ठआ निर्दिश्य विधीयते स तत्स्थाने भवति । यथाइको यणची॑त्यादौ यणादिः । प्रकृते तु रमो निर्दिष्टस्तानिकत्वादोपधयोः स्थाने न भवति । एं चास्य आदेशागमत्वे भवति, यथा श्नमः प्रत्ययागमत्वे॑ इति । अन्ये त्वेतादृग् व्याख्यानमयुक्तमिति मत्वासनः क्तिची॑त्यतो लोपमनुवत्र्य भ्रस्जो रोपधयोर्लोपः,रम् तु आगम एवेत्याहुः । परे तु — भ्रस्जो रसरन्यतरस्या॑मित्येव सूत्रमस्तु ।रसः — ऋ॑इति च्छेदः ।रस॑ इति रेफाऽकारसकाराणां यः सङ्घातस्तस्यऋ॑ इत्यादेशः स्यादित्यर्थः । ततश्च अक्ङिति भर्जको भर्जनं बभर्जेत्यादि सिध्यति । ऋकाराऽभावपक्षे तु भ्रज्जको भ्रज्जनं बभ्रज्जेत्यादि । क्ङिति तु ऋकारपक्षे भृष्टिः भृज्यादित्यादि । तदभावे संप्रसारणे सति तदेव रूपम् । एवंच बरीभृज्यत इत्यादौ रीको रेफस्य निवृतिंत वारयितुम्अनुदात्तोपदेशे॑ त्यत उपदेशग्रहणमनुवर्त्त्यम्, इदानीं तु नानुवर्त्त्यं,क्ङिति रमागमं बाधित्वा संप्रसारण॑मति पूर्वविप्रतिषेधश्च न कर्तव्य इति महदेव लाघवमित्याहुः । इदं चरसोर्वचनात्सिद्ध॑मिति वार्तिकाशयवर्णनमेव न त्वपूर्वम् ।र्वचना॑दित्यस् वा ऋवचनादिति छेदः । भाष्यकारैस्तुसूत्रं भिद्यते यतान्यासमेवास्तु॑ इति वदद्भिरस्यां कल्पनायां दुष्टत्वं सूचितं । तच्च मनोरयामां स्पष्टमेव । तथा हि रेफाऽकारसकारसमुदायस्य ऋभावे पञ्च दोषाः । अपिल्लिटि बभर्जुतः बभर्जुरित्यादीष्यते, बभृजतुः बभृजुरित्यादि स्यात् । न चाऽत्र गुणेन निर्वाहः, ऋभावे सतिअसंयोगाल्लिट् कि॑दिति कित्त्वप्रवृत्त्या तन्निषेधात् ।सनीवन्ते॑ति इड्विकल्पाद्विभक्र्षतीत्यादि इष्यते, बिभृक्षतीत्यादि स्यात् । ऋभावेहलन्ताच्चे॑ति सनः कित्त्वप्रवृत्तेः । लिङसिचोस्तङिभर्क्षीष्ट अभर्ष्टेत्यादीष्यते, भृक्षीष्ट अभृष्टेत्यादि स्यात् ।लिङ् सिचावात्मनेपदेषु॑ इति कित्त्वात् । णिजन्ताच्चङि अबभर्जदितीष्यते । अबीभृजदित्यपि स्यात् । इररारामपवादत्वेनउरृदिति ऋत्वप्रवृत्तौसन्वल्लघुनी॑ति सन्वद्भावात्सन्यतः इतीत्वेदीर्घो लघो॑रिति प्रवृत्तेः । यद्यपिउरृ॑दित्यस्य वैकल्पिकत्वादबभर्जदिति सिध्यत्येव तथापि पक्षे अबीभृजदित्यनिष्टं स्य#आदिति बोध्यम् ।ऋजिभृजी भर्जने॑ इति भ्वादेस्तादृशं रूपमिष्टमिति चेत् । मैवम् । भर्जनार्थे हि तादृग्रूपमिष्टं न तु पाकसामान्ये । उभयोरेकार्थत्वाभ्युपगमेऽपि प्राचीनाश्चत्वारो दोषास्तु दृढा एव । हि तेऽपि धात्वन्तरेण सुपरिहराः । अपिल्लिटि भृजेरपि धातोर्गुणाऽभावादनुदात्तत्वेन आत्मनेपदित्वाच्च बभर्जतुरित्यादिरूपस्य तेनाऽप्यसिद्धेः । तथा भृजेरुदात्तत्वेन ततः परेषां सन्लिङ्सिचामिडागमध्रौव्यात् — बिभक्र्षति भर्क्षीष्ट अभर्ष्टेत्यादिरपि तेन न सिध्यति । एतेनभ्रस्जेर्भृजिरादेश॑ इति पक्षोऽपि निरस्तः, पूर्वोक्तदूषणगणप्रसङ्गात् । किं च अस्मिन्पक्षे यङ्लुकि अधिको दोषः । वधादेशवत्साभ्यासस्य भृज्ज्यादेशे पुनर्द्विर्वचनस्य दुर्लभत्वात्, स्थानिवत्त्वेनाऽनभ्यासस्येति निषेधात् । स्वीकृतेऽपि द्विर्वचने रुग्रिग्रीकोऽभ्यासस्य स्युरेवेति रुगादिरहितं बाभर्जिता बाभर्जिष्यतीत्यादि रूपं नैव सिध्येत् । यदितु लाघवे पक्षपातेन स्वातन्त्र्यं चिकीष्र्यते तर्हिभ्रस्जेरसो॑रिति पठित्वा रसिति समुदायस्य अरेव विधीयतां, तथा च न कोऽपि दोष इति । अयमत्र सङ्ग्रहः -रस ऋञ्चेदपिल्लिट्सन्लिङ्सिच्चङ्परणिक्षु ते । दोषो भ्रस्जेर्भृजौ चैवं, दोषो यङ्लुकि चाधिकः । साभ्यासस्य हि भृज्भावो भवेद्धन्तेर्वधिर्यथा । द्वित्वं पुनर्न लभ्येत स्थानिवत्त्वाद्वधेरिव । तस्मादस्तु यथान्यासं, स्वातन्त्र्येऽस्तु रसोरिति॑ ।*क्ङिति रमागमं बाधित्वा संप्रसारणं पूर्वविप्रतिषेधेन । पूर्वविप्रतिषेधेनेति । नित्यत्वादित्यपि सुवचम् । न च संप्रसारणात्पूर्वं धातो रेफस्य, पश्चात्तु रमागमरेफस्येति शब्दान्तरप्राप्त्या संप्रसारणस्य नित्यत्वं नेति शङ्क्यं, लक्ष्यानुरोधेन कृताऽकृतप्रसङ्गित्वेनापि क्वचिन्नित्यत्वस्वीकारात् ।", "64048": "<<अतो लोपः>> - ॒अनुदात्तोपदेशे॑ति सूत्रादुपदेश इत्यनुवर्ते । तदाह — आर्धधातुकोपदेशेत्यादि । उपदेशे इति किम् । अय पय गतौ । आभ्यां क्विपिवेरपृक्तलोपाद्वलि लोपः पूर्वविप्रतिषेधेने॑ति वार्तिकात्लोपो व्यो॑रिति यलोपोअतो लोपः॑ इति लोपो मा भूत् । अत् । पत् । इहह्रस्वस्य पिती॑ति तुक् । आर्धधातुके पर इति किम् । कथयते । वृद्धौ कर्तव्यायांअचः परस्मि॑न्निति स्थानिवत्त्वं यथा स्यात् । गोपायामिति । नन्विह आयप्रत्ययस्याऽदन्ततामाश्रित्य लोपकरणे लोपकरणे फलाऽभावादुच्चारणार्थ एव तत्राकारोऽस्त्विति चेत् । अत्राहु — गोपायतं नः॑ इत्यत्र गोपायशब्दस्य धातुत्वाद्धातोरन्त उदात्तो भवति.ततः शबकारेणैकाशेऽपिएकादेश उदात्तने॑त्युदात्त एव,तकाराऽकारस्तुतास्यनुदात्तेन्ङिददुपदेशात् इत्यनुदात्तः । ततश्चउदात्तादनुदात्तस्ये॑ति स्वरितो भवति ।स्वरितात्संहितायामनुदात्ताना॑मितिन॑ इत्यस्य एकश्रुतिः । आयप्रत्ययस्य अनदन्तत्वेतु नेदमिष्टं सिध्यतीति । स्तुतावेवेति । भट्टिस्तु व्यवहारेऽपि आयं प्रयुङ्क्तं — ॒न चोपलेभे वणिजां पणाया॑मिति । वणिजां व्यवहारमित्यर्थः ।अ प्रत्यया॑ दित्यायप्रत्ययान्तादकारप्रत्यये टाप् । चक्षंस इति । इहअनुनासिकस्य क्विझलो॑रित्युपधादीर्घो न कृतः, संज्ञापूर्वकविधेरनित्यत्वादिति स्थितस्य गतिमुत्प्रेक्षयन्ति ।", "64049": "<<यस्य हलः>> - यस्य हलः । सङ्घातग्रहणमिति । तेन ईर्ष्यिता अहर्यीदित्यादौ यलोपो न । सङ्घातग्रहणेन चाऽर्थवद्ग्रहमपरिभाषोपस्थित्या पुत्रकाम्येत्यादौ नातिप्रसङ्गः । वर्णग्रहणे तु उक्तपरिभाषाया अनुपस्थित्या स्यादेवाऽत्र यलोप इति भावः । हलः किम् । लोलूयिता । पोपूयिता ।", "64050": "", "64051": "<<णेरनिटि>> - णेरिति णिङ्णिचोग्र्रहणम् । एवमन्यत्रापि बोध्यम् ।अनिटी॑त्यनेनाधिकृतमाद्र्धधातुक इत्येतद्विशेष्यते ।यस्मिन्विदि॑रिति तदादिविधिः ।अतो लोपः॑ इत्यस्माल्लोप इति चानुवर्तते, तदाह — अनिडादावित्यादि । यणि प्राप्त इति । ननु परत्वादियङ्यणादिविधयो यथासंभवमत्र सन्तु नाम, तेषु स्थानिवद्भावाण्णिग्रहणेन ग्रहणाल्लोपो भविष्यतीति चेत्, नैवं शङ्क्यम्, इयङादेशे ह्रन्त्यलोपः प्रसज्येतेति दोषः स्यात् । एतच्च अतो लोपः॑इति सूत्रे भाष्ये स्थितम् । न चाऽत्रकारणा॑कारक॑ इत्यादौ गुणवृद्ध्योः कृतयोरन्तरङ्गत्वादयायादेशयोः कृतयोरन्त्यस्य लोपः प्राप्नोतीति कथमियङादेशे एव दोषौक्त इति शङ्क्यं,॒वार्णादाङ्गं बलीयःर॑ इत्ययादौ बाधित्वा णिलोपो भविष्यतीति भाष्याशयात् । ण्यल्लोपावियङ्यण्गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषेधेनेति । ण्यल्लोपाविति । णिलोपः इयङ्यण्गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषेधेन । अल्लोपस्तु- वृद्धिदीर्घाभ्यामिति विवेकः । णिलोपस्य निरवकाशत्वेन वार्तिकस्योक्तसंभव एव नास्तीत्यत आह — पाक्तिरित्यादि क्तिजन्तमिति । तत्रतितुत्रे॑तीण्निषेधादिति भावः । वचनसामर्थ्यादिति । अयं भावः — णे॑रित्येतावति सूत्रे कृतेऽप्याद्र्धधातुक इत्यनुवृत्त्या आर्धधातुके परतः प्रवर्तमानो णिलोप इयङ्यणादिभिर्बाधितः सन् परिशेषात् क्तिच्येव स्यादित्यनिटीत्यस्य वैयथ्र्यं प्रसज्येत, तथा चाऽनिडाद्याद्र्धधातुकं सर्वमप्यस्य विषयो, न तु क्तिजन्तमेवेति । अयमिति । णिलोप इत्यर्थः । अल्लोपांशे तु वचनमपेक्षितमेव । तेनचिकीर्षक॑ इत्यत्र वृद्धि, चिकीष्र्यादित्यत्रअकृत्सार्वे॑ति दीर्घं च बाधित्वा पूर्वप्रतिषेधेनअतो लोपः॑ इति लोपो भवतीत्याहुः ।", "64052": "<<निष्ठायां सेटि>> - संप्रसारणमिति ।वचिस्वपी॑त्यनेन । शून इति । टुओश्वि गतिवृद्ध्योः ।हलः॑ इति दीर्घः ।ओदितश्च॑ इति निष्ठातस्य नः । गूढ इति ।यस्य विभाषे॑ति नेट् । ढत्वधत्वष्टुत्वढलोपदीर्घाः । वतः तत इति ।अनुदात्तोपदेशे॑ति नलोपः । सनि केट्कत्वादिति ।तनिपतिदरिद्रातिभ्यः सनो वा इड्वाच्यः॑ इति वचनात् । कृन्तत्यादीनामिति ।श्वीदित॑ इति निष्ठायामनिट्त्वार्थं कृती छेदने, चृती हिंसाग्रन्थनयोः, नृती गात्रविक्षेपे इत्यतेषामीदित्त्वकरणेनयस्य विभाषे॑त्यस्याऽनित्यत्वज्ञापनाद्वा पतित इति सिद्धमित्यर्थः ।", "64053": "", "64054": "", "64055": "<<अयामन्ताल्वाय्येत्न्विष्णुषु>> - ॒नामन्ते॑ति सूत्रितेऽपिणेरनिटी॑ति वक्ष्यमाणलोपस्य निषेधे गुणाऽयादेशयोः सतोःकामयांचक्रे॑ इत्यादिरूपाणि सिद्यन्त्येव, तथापिल्यपि लघुपूर्वा॑दित्येवमर्थमयादेशवचन् । प्रस्तनय्य । सङ्गमय्य । नह्यत्र गुणाऽयादेशौ लभ्येते ।", "64056": "<<ल्यपि लघुपूर्वात्>> - लघुपूर्वादिति । लघुः पूर्वो यस्माद्वर्मात् । लघुपूर्ववर्णात्परस्येत्यर्थः । विगणय्येति । नन्विह णौ कुतस्याऽल्लोपस्य पूर्वस्माद्विधौ स्थानिवद्भावाल्लघुपूर्वकवर्णात्परत्वं नास्ति । न चारम्भसामर्थ्यात्, अनुगमय्येत्यादौ मित्सु चरितार्थत्वात् । अत्रोच्यते — पूर्वस्माद्विधौ स्थानिवत्त्वमनित्यं,निष्ठायां सेटी॑ति लिङ्गात् । तथा चात्र स्थानिवत्त्वाऽभावाण्णेरयादेशो भवत्येव ।निष्ठायां सेटी॑त्यस्याऽनित्यत्वज्ञापकत्वं तुअचः परस्मि॑न्निति सूत्र एवास्माभिरुपपादितमिति नात्रोपपाद्यते । प्रणमय्येति । अमन्तत्वान्मित्त्वे, मितां ह्रस्वः । प्रबेभिदय्येति । भिदेर्यङन्ताद्बेभिद्येत्यस्माण्णिच्यल्लोपेयस्य हलः॑ इति यलोपः । ननु ह्रस्वलोपाऽल्लोपानामाभीयत्वेनाऽसिद्धत्वाल्लघुपूर्वकवर्णात्परो णिर्नास्तीति कथमिह णेरयादेशः स्ादिति [गणयतीत्यादौ वा कथं स्यादिति] चेन्मैवम्,असिद्धवदत्राभा॑दित्यत्रसमानाश्रये तस्मिन्कर्तव्ये तदसिद्धं स्या॑दिति हि व्याख्यातम् । तेनात्राशङ्कैव नास्ति, ह्रस्वादयो हिणौ, णेरयादेशस्तु ल्यपि परत इति व्याश्रयत्वात् ।", "64057": "<<विभाषाऽऽपः>> - आप्नोतेरिति॥ यद्यपीङो णिचि परतःक्रीङजीनां णौ॑ इत्यात्वेअर्तिह्यी॑त्यादिना पुकि आबिति शब्दोऽस्ति, तथापि तस्य नेह ग्रहणं, लाक्षणिकत्वादिति भावः । प्राप्येति । एतेनअयमयोगिवधूवधपातकैभ्र्रमिमवाप्य दिवः खलु पात्यते॑ इति श्रीहर्षप्रयोगा व्याख्यातः ।अवाप्ये॑त्यस्याऽवपय्येत्र्थसंभवात् । एतेन तत्राऽन्तर्भावितण्यर्थतेति क्लेशमनुभवन्तः परास्ताः । ल्यप्स्थानिनां कित्त्वात्वचिस्वपी॑ति प्राप्तं संप्रसारणं निषेधयितुमाह — ल्यपि चेति ।", "64058": "", "64059": "", "64060": "<<निष्ठायामण्यदर्थे>> - ण्यदर्थो भावकर्मणी इति । यद्यपि धाय्या ऋगित्यादौ कणादावपि बहुलकाण्ण्यद्भवति, तथापितयोरेवे॑ति वचनाद्भावकर्मणी एव साक्षादुपात्तोऽर्थ इति स एवेह विवक्षित इति भावः ।", "64061": "", "64062": "<<स्यसिच्सीयुट्तासिषु भावकर्मणोर्- उपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च>> - स्यसिच्सीयुट्तासिषु । यद्यप्यजादयो द्वन्द्वेन निर्दिष्टास्तथाप्युपदेश इत्यच एव विशेषणं न हनादीनाम्, अव्यभिचारात्तदाह — उपदेशेयोऽजिति ।उपदेशे अजन्ताना॑मिति न व्याख्यातम् । तथाहि सति णिजन्तस्य न स्यात्, तस्योपदेशाऽभावात् । उपदेशो हि साक्षादुच्चारण् । न च ण्यन्तस्य तदस्ति । चिण्वदिति सप्तम्यन्ताद्वतिः, ॒स्यसिच् सीयुट् तासिषु॑इति प्रतियोगिनिसप्तमीनिर्देशादतो व्याचष्टे -चिणीवेति । ननु च चिणि दृष्टमात्रस्य वृद्ध्यादिकार्यस्याऽतिदेशे घानिष्यते आयिष्यते अध्यायिष्यते इत्यत्र हनोवधादेशः,इणो गादेशः,इङो गाङादेशोऽपिस्यादिति चेत् । मैवम् । अङ्गाधिकारबलेन आङ्गस्यैव कार्यस्यातिदेशात् । न चैते हनिणिङादेशा आङ्गाः, तदेतदाह — अङ्गकार्यं वा स्यादिति । सीयुट इति । तथा च सीयुट् शब्देन तद्विशिष्टं लक्ष्यत इति भावः । आर्धधातुकं इत्यनेन व्यावर्त्त्यस्तु विधिलिङ् । तेन भूयेतेत्यत्र न भवति । न चाऽत्रलिङः सलोपः॑ इति सलोपाद्वलादित्वं नास्तीति वाच्यं, तस्येहानपेक्षणात् । यदाहुः — चिण्वद्वृद्धिर्युक्च हन्तेश्च घत्वं दीर्घश्चोक्तो यो मितां वा चिणीति । इट् चाऽसिद्धस्तेन मे लुप्यते णिर्नित्यश्चायं वल्निमित्तो विघाती ।॑ इति । अस्यार्थः — चिण्व॑ दित्यतिदेशस्य वृद्ध्यादिकं प्रयोजनम् । तथा हिभाविता॑भाविष्यते॑ इत्यादौ वृद्धिः ।दायिता॑दायिषीष्टे॑ इत्यादौ युक्,घानिता॑ घानिष्यते॑ इत्यादौ घत्वम् । हेतुमण्ण्यन्तात्कर्मणिल लकारेशामिता॑शमिता॑शामिष्यते॑शमिष्यते॑ इत्यादौ चिण्णमुलोरिति, मितामुपधाया वा दीर्घः । अत्रैव श#आमितेत्यादौस्यसिच्सीयु॑डित्यनेन कृत इट् आभीयत्वेनाऽसिद्धः, तेनाऽनिटीति निषेधो न प्रवर्तत इति णेर्लोपो भवति ।भाविष्यते॑ इत्यादौ भू — स्य इति स्थिते परमपि वलादिलक्षणमिटं बाधित्वा चिण्वदिडेव भवति । यतोऽयं नित्यः । विल्नमितो विघाती त्वनित्यः । साप्तमिके तस्मिन्कृतेऽयं चिण्वदिड्भवति । अस्मिन्कृते तु स न भवति । वलादिनिमित्तस्य विहितत्वात् । एवं च नित्यत्वात्सेड्भयोऽप्यपयमेवेड्भवति । एतदभावपक्षे तु सेड्भयो वलादिलक्षण इड्भवतीति बोध्यम् ।", "64063": "<<दीङो युडचि क्ङिति>> - दीङो । पञ्चमीत्यभिप्रायेण व्याचष्टे — परस्येति । अजादेरिति ।डऋ सी॑त्यत्रेवउभयनिर्देशे पञ्चमीनिर्देशो बलीया॑निति सप्तम्याः षष्ठीकल्पनम् । अचि किम् । देदीयते । क्ङितीति किम् । उपादानम् । आभीयत्वेनाऽसिद्धत्वमाशङ्क्याह — वुग्युटाविति ।*वुग्युटावुवडणोः सिद्धौ वक्तव्यौ । दिदीये इति । परमपि यणं बाधित्वा नित्यत्वादादौ युट् । सति तु यणि ईकारस्य श्रवणं न स्यादिति युटः सिद्धत्वमुक्तम् ।", "64064": "<<आतो लोप इटि च>> - आर्धधातुक इत्यनुवर्तते ।दीङो युडचि क्ङिती॑त्यतोऽचि क्ङितीति च । तदेतत्फलितमाह -अजाद्योराद्र्धधातुकयोरिति । अजाद्योः किम् । ग्लायते । यक् — जाग्लायते । यङ् — दासीय । डुदाञो लिङुत्तमैकवचनमिट् । आर्धधातुकयोः किम् । यान्ति । वान्ति । व्यतिरे । कर्मव्यतिहारे रा दाने धातोर्लङुत्तमैकवचनमिट् । [व्यतिरै । लट इट्] दधिश्चेति । एवं च अजाद्याद्र्धधातुकस्य कित्त्वेन दधिव दधिमेत्यादिष्वातो लोपसिद्धावपि दधिथ पपिथेत्यादि रूपसिद्धये सूत्रेऽस्मिन्निटीति ग्रहणमावश्यकमिति ज्ञेयम् । यदि तु इडागम एवात्र गृह्रते व्याख्यानात्तदाऽचि क्ङितीत्येतदाद्र्धधातुकस्यैव विशेषणं , न तूभयोः ।", "64065": "<<ईद्यति>> - * हनो वा यद्वधश्च वक्तव्यः । हनो वा यदिति । हन्तेर्वा यत्स्यात् । यत्संनियोगेन वधादेशस्तु नित्य एव । यद्यपि वधमर्हतीति वध्य इतिशीर्षच्छेदाद्यच्चे॑त्यतो यदित्यनुवर्तमानेदण्डादिभ्यः॑ इति तद्धितेन यताऽपि सिध्यति तथाप्यसिवध्यो मुसलवध्य इति समासो न सिध्येत् । कृति पुनःकर्तृकरणे कृता॑ इति सिध्यति । न चासिवधमर्हतीति विग्रहे कृतसमासादेव तद्धितोऽस्त्विति वाच्यम् । दण्डादिषु केवलस्य वधशब्दस्य पाठात्प्रत्ययविधौ तदन्तविदेश्च प्रतिषेधात्, स्वरे भेदाच्च । असिवधशब्दाद्यति हि सतितित्स्वरित॑मिति स्वरितः प्रसज्येत । कृदन्तेन समासे तु कृदुत्तरपदप्रकृतिस्वरेण वध्यशब्द आद्युदात्तः । अतएव वध्यशब्देन तद्धितान्तेन सह सुप्सुपेति समास इत्यपि न वाच्यम्, अन्तोदात्तत्वप्रसङ्गादिति दिक् । घात्य इति ।हनस्तोऽचिण्णलोः॑ इति तत्वम् ।हो हन्तेः॑ इति कुत्वम् ।", "64066": "<<घुमास्थागापाजहातिसां हलि>> - घुमास्था ।दीङो युडची॑त्यतः क्ङितीत्यनुवर्तते । आर्धधातुक इति चाधिक्रियत एव । क्ङिति किं । दाता धाता । हलादौ किं । ददतुः । ददुः । अन्यथा आतो लोपात्परत्वादीत्त्वं स्यात् । आर्धधातुके किं । मातः । माथः । अध्यगीष्टेति । सिचो ङित्त्वादीत्त्वम् । इक् स्मरणे । ककार इहइण्वदिकः॑ इति विशेषणार्थः ।ए॑रित्युक्ते तुइट किट कटी॑त्यत्र प्रश्लिष्टस्य ईधातोरपि ग्रहणं स्यादित्याहुः ।* इण्वदिक इति वक्तव्यम् । केचित्त्विति । आर्धधातुकाधकारे वार्तिकपाठात्तदधिकारोक्तानामेव कार्याणामुपस्थितत्वादतिदेश इति भावः । अधीयन्निति । स्मरन्नित्यर्थः ।राघवयो॑रिति । अत्रअधीयगर्थदयेशां कर्मणी॑ति षष्ठी । वी गति । अवियन्निति । अडागमात्परत्वादियङ् । अडागमे सतीति । कृताऽकृतप्रसङ्गित्वमात्रेण अटो नित्यत्वादिति भावः । अत एवाऽपरितोषात्,असिद्धवदत्राभा॑दिति समानाश्रये यणि कर्तव्ये अटोऽसिद्धत्वादियङेवोचित इत्याशयेन वा केचिदित्युक्तम् ।लावस्थायामेवाऽडागम॑ इति पक्षे तु यणेवेति बोध्यम् । ईकारोऽपीति । प्रयुञ्चते च — न हि तरणिरुदीते दिक्पराधीनवृत्ति॑रिति । व्याख्यातं च मनोरमायाम् — कर्मव्यतिहारे तङ् । न चन गतिहिंसार्थेभ्यः॑ इति निषेधः शङ्क्यः । उत्पूर्वस्याविर्भावार्थत्वा॑दिति । अत्र वदन्ति — व्यतिशब्दं विना कर्मव्यतिहारकल्पनं क्लेशावहम् । परकीयकर्म च कर्मव्यतिहारेऽपेक्ष्यते, तञ्चात्र । परस्परकरणं तु न संभवत्येव । ततश्चोदिते इति भावे निष्ठा ज्ञेया । तथा चोदये दिक्पराधीनवृत्तिस्तरणिर्नेत्यर्थः सुगम इति ।", "64067": "<<एर्लिङि>> - एर्लिङि । मास्थादीनमिति । मास्थागापाजहातिसामित्यर्थः । मा माने । गामादाग्रहणेष्वविशेषेऽपि माङ्मेङौ नेह गृह्रेते, लिङि कित्त्वाऽसंभवात् । ष्टा गतिनिवृत्तौ । गै शब्दे । गाङ् गतौ इति तु न गृह्रते, लिङि कित्त्वाऽसंभवादेव । पा पाने । ओहाक् त्यागे । षोऽन्तकर्मणि । देयात् । धेयात् । मेयात् । स्थेयात् । गेयात् । पेयात् । हेयात् । अवसंयात् । आर्धधातुके किम् । मायात् । मायाताम् । मायुः । कितीति किम् । दासीष्ट । इहदीङो युडची॑त्यतः क्ङितीत्यनुवर्तमानेऽपि प्रकृतोपयोगितया कितीत्यस्यैवानुवृत्तिः कृता ।", "64068": "<<वाऽन्यस्य संयोगादेः>> - वान्यस्य । अन्यस्य किम् । स्थेयात् । द्यै न्यक्करणे । द्यायति । दद्यौ । अद्यासीत् । घुमास्थेत्यत्रेति । व्याख्यानात्तन्त्रान्तरे जहातिस्यतीनामिति श्यना निर्देशाच्चेति भावः । विभाषा घ्रेति । कश्यन्विकरणाभ्यां शाच्छाभ्यां साहचर्यादिति भावः । एवं शाच्चासेति युग्विधावपि स्येतेरेव ग्रहणमिति बोध्यम् । तेनाऽस्य धातोःअर्तिह्यी॑ति पुगेव । सापयति । पै ओवै । पायति । वायति । शुष्यतीत्यर्थः ।ओदितश्चे॑ति निष्ठानत्वम् । वानम् ।शुष्के वानमुबे त्रिषु॑ इत्यमरः । अदन्तत्वादिति । केचित्तु अङ्गवृत्तपरिभाषयापि गुणाऽभावं समर्थयन्ति । घ्रा गन्धोपादाने । गन्धोपादानं — गन्धग्रहणम् । नन्वेवं कर्मणो धात्वर्थेनोपसङ्गहाकर्मकत्वेनजिघ्रति कुसुम॑मित्यादि प्रयोगो न सिद्ध्येदिति चेदत्राहुः — यद्धात्वर्थेन कर्तृनिष्ठकर्मण उपसङ्ग्रहस्तस्यैव धातरकर्मकत्वं नान्यस्य । भवति हि जीवति नृत्यतीत्यादेरकर्मकत्वम् । तदर्थोपसंगृहीतकर्मणः कर्तृनिष्ठत्वात् । घ्राधातोः कर्मणस्त्वतथात्वान्नाऽकर्मकतेति । ध्मा शब्दाग्निसंयोगयोः । शब्दशब्देन तदनुकूलो वायुरिह गृह्रते । तेन शङ्खं धमतीतिवन्मृदङ्गं धमतीति प्रयोगो नेत्याहुः । अग्निसंयोगे — सुवर्णं धमति । अग्निना संयुक्तीत्यर्थः । स्थेयादिति ।एर्लङी॑ति नित्यमेत्वम् । लुङि — अस्थात् । म्ना अभ्यासे । मनति विद्याम् । अभ्यस्यतीत्यर्थः । मम्नौ । अम्नासीत् । अदादिति ।गातिस्थे॑ति सिचो लुक् ।", "64069": "<<न ल्यपि>> - न ल्यपि । कथं तर्हिनिपीय यस्ये॑ति श्रीहर्षप्रयोग इति चेदत्राहुः- पीङ् पाने इति दिवादिगणस्थात् ल्यपि न दोष इति । इह प्रशाय प्रच्छायेत्यत्रशाच्छोरन्यतरस्या॑मिति प्राप्तस्येत्वस्याप्यभावो बोध्यः ।", "64070": "<<मयतेरिदन्यतरस्याम्>> - अपमित्येति ।समासेऽनञ्पूर्वे॑ति वक्ष्यमाणेन क्त्वो ल्यपि तुक् । याचित्वा प्रणिददातीत्यर्थः ।", "64071": "", "64072": "<<आडजादीनाम्>> - एतच्चाऽजादीनमटा सिद्धमिति वार्तिककृता प्रत्याख्यातम् । ननु अटिसतिवृद्धिरेची॑त्यनेन ऐधतेत्यादिसिद्धावपि ऐन्ददित्यादि न सिध्येत् । किं चअतो गुणे॑ इति पररूपप्रवृत्त्या ऐधतेत्याद्यपि न सिध्येत् । यदि तुआटश्चे॑ति सूत्रम्अटश्चे॑ति क्रियेत तर्हि अस्वपोऽहसदित्यत्र वृद्धिः स्यात् ।॒रुदश्च पञ्चभ्यः॑,अङ्गाग्र्यगालवयो॑रित्यडागमस्य सत्त्वात्,अतो रोरप्लुता॑दिति रोरुत्वे सति अच्परत्वाच्चेति चेन्न,उपसर्गादृति धातौ॑ इत्यतो धातावित्यपकृष्याऽजादौ धाताविति व्याख्यानात् । न च अस्वपोऽस्तीत्यादावोकारस्यान्तवद्भावेनाऽट्त्वात्परत्राजादिधातुसत्त्वाच्चोक्तदोषस्तदवस्थ इति वाच्यम्, आदित्यनुवत्र्य अकाररूपादटोऽचि परे वृद्धिरिति व्याख्यानात् । एतेन अटश्चेत्युक्तौअट गतौ॑ इत्यस्माल्ल्युटि अटनमित्यत्रातिप्रसङ्गः स्यादित्येतदपि निरस्तमम् । न चैवमपि आतत् आतीदित्यादि न सिध्यति ।अटश्चे॑त्यस्यैन्ददित्यादौ सावकाशतया परत्वादिहअतो गुणे॑ इत्यस्यैव प्रवृत्तेरिति वाच्यं, चकारोऽत्र पुनर्वृद्धिविधानार्थ इत्यभ्युपगमादन्तरङ्गत्वाद्वाअटश्चे॑त्यस्यैव प्रवृत्तेः । स्यादेतत् — आडजादीना॑मिति सूत्राऽभावे आस्तामासन् इति कथमटा सिध्यति ।श्नसो॑रित्याल्लोपेनअटश्च॑ इतितत्र वृद्ध्यप्रवृत्तेः । मैवम् । अन्तरङ्गत्वात्प्रागेवाऽऽडागमे कृते वृद्धौ च कृतायां पश्चात् श्नसोरल्लोपस्याऽप्रसक्तेः । न चवार्णादाङ्गं बलीयः॑ इति वृद्धेःप्रागल्लोप एव स्यादिति शङ्क्यं, व्याश्रयत्वात्,वार्णादाङ्ग॑मिति परिभाषाया अनित्यत्वाद्वा । तत्र हिश्नसोरल्लोपः॑ इति तपरकरणमेव लिङ्गं ,यदि वृद्धेः प्रागेवाल्लोपः स्यात्तर्हि किंतेन तपरकरणेनेति । यद्यपि वैदिकप्रक्रियायामानट् आव इत्यादौछन्दस्यापि दृश्यते॑ इत्याडागमस्य वक्ष्यमाणत्वात्तदर्थमाट्सूत्रं कर्तव्यं तथाप्याटं विनैवाड्व्यत्ययेन, आङ्पूर्वकत्वेन वा तत्र कथंचिद्व्याख्येयमिति स्थितस्य गतिमाहुः ।", "64073": "", "64074": "", "64075": "", "64076": "", "64077": "<<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> - अचि श्रु ।भ्रमेश्च डूः॑इति डूप्रत्ययान्तत्वाद्भ्रूशब्दस्य धातोः पृथग्ग्रहणम् । अन्ये त्वाहुः — ॒गमः क्कौ॑इत्यत्रऊङ् च गमादीनामितिवक्तव्य॑मिति वार्तिकादनुनासिकलोपे ऊङादेशे च कृते निष्पन्नोऽयं भ्रूशब्दः । तथा च धातुग्रहणेनैव सिद्धे भ्रूग्रहणं निरर्थकमिति ।इण॑इति वक्तव्येय्वो॑रिति गुरुनिर्देश॒इण्प्रत्याहारः परेणैव णकारेण गृह्रते॑इति ज्ञापनार्थः । इहय्वो॑रिति धातोरेव विशेषणं, न तु श्रुभ्रुरव्यभिचारादित्याशयेनाह — इवर्णान्तधातेरिति ।श्रुधातुभ्रुवामिवर्णोवर्णयों॑रिति व्याख्याने तु इयङुवोर्ङित्त्वं व्यर्थं स्याद्वैधिकरण्यं च सर्वादेशत्वनिवृत्तिसंभवादि चेन्न; श्रभ्रुवोरपि निर्दि श्यमानत्वेन सर्वादेशत्वप्रसङ्गात् ।इ उ इत्यष्टादशानां संज्ञे त्युक्तत्वाद्यथासङ्ख्यमिहन न प्रवर्तते, इत्याह — आन्तरतम्यादिति । स्थानत इति भावः । य्वेः किम् । चक्रतुः । चक्रुः । अचीति किम् । आप्तुयात् । जुहुयात् ।", "64078": "<<अभ्यासस्यासवर्णे>> - असवर्णे किम् । ऊखतुः । अचि किम् । इयाज, उवाय । उवोखेति ।द्विर्वचनेऽची॑ति निषेधात्पूर्वं द्वित्वं, पश्चादुकारस्य लघूपधगुणेकृते अभ्यासस्योवङ् । एवमियेषेत्यत्रेयङ् । असवर्णग्रहणसामर्थ्यादियङादौ कर्तव्ये गुणोऽत्र न स्थानिवदिति बोध्यम् । संनिपातपरिभाषयेति । आमि सति लिट्परत्वं धातोर्न सिध्येदिति भावः । अन्ये तु — इजादे॑रिति सूत्रे गुरुमानिति नित्ययोगे मतुप् । ततश्च नित्यं यो गुरुमान्एध वृद्धौ॑ इत्यादिस्तत्रैव स्यादिति नात्र आमः प्रसक्तिरित्याहुः । ऊखतुरिति । अत्र कित्त्वाद्गुणाऽभावेअब्यासस्यासवर्णे॑ इति उवङ् न भवति । ननु इयेष उवोखेत्यत्राप्यन्तरङ्गत्वात्सवर्णदीर्घे कृतेऽच्परत्वाभावादियङुवङौ न स्त इतीष्टरूपाऽसिद्धेः किं तन्नाऽसवर्णग्रहणेनेति चेत् । अत्राहुः — वार्णादाङ्गं बलीयः॑ इति परिभाषाज्ञापनार्थमेवाऽसवर्णग्रहणं कृतम् । तेन भवतीत्यत्रान्तरङ्गमपि यणं बाधित्वा गुणो भवति । तथा करोतेर्घञिकार॑ इत्यत्र यणं बाधित्वा वृद्धिर्भवति । नचैवं सिवेरौणादिके नप्रत्ययेयस्त्वात् । इह तु निमित्तभेदेन व्याश्रयत्वमिति । अभ्यासग्रहणेनेति । पूर्वस्यान्तवत्त्वेनेत्यर्थः । पर्जन्यवल्लक्षणेति । उपयोगाऽनुपयोगाऽव#इचारेण प्रवर्तमानं शास्त्रं ह्रस्वस्थानेऽपि ह्रस्वं प्रवर्तयीत्यथः । तथा चैकस्मल्लक्ष्ये लक्षणं सकृदेव प्रवर्तत इति न तस्य पुनः प्रवृत्तिरिति भावः । आङ्गं बलीय इति । नन्वत्र ह्रस्वसवर्णदीर्घयोर्निमित्तभेदात्समानाश्रयत्वाऽभावे कथमाङ्गस्य बलीयस्त्वमितिचेत् । सत्यम् । इष्टानुरोधेन स्थानिनमादाय क्वचित्समानाश्रयत्वाभ्युपगमात् । अत एव उङ्शब्दे इत्यस्माल्लिटि ऊवे ऊवाते इत्यादीष्टं सिध्यति । उवङः प्राक् सवर्णदीर्घप्रवृत्तौ तन्न सिध्येदिति दिक् । परत्वाच्चेति । आपाततोऽयं हेतुः, ह्रस्वस्याऽऽङ्गत्वेन बहिरङ्गत्वादन्तरङ्गं सवर्णदीर्घं प्रति परत्वोपन्यासस्यायुक्तत्वात् । उङ्खतीति । इदित्त्वान्नुम् । लिटि उङ्खाञ्चकार । आशिषि-उङ्ख्यात् । ववखतुरिति । वादित्वादेत्वाभ्यासलोपौ न । एखति । इङ्खति । इङ्खांचकार । ईखति । ईखाञ्चकार । इङ्गति । इङ्गांचकार । त्वगि कम्पने इति । अयमुख उखि इति दण्डके गतौ पठितस्य गतिविशेषे वृतिंत बोधयितुं पठते । अतएवानतिप्रयोजनत्वाद्बहुषु पुस्तकेषु न पठितः । सेवने चेति ।यं पूरवो वृत्रहणं सचन्ते॑ इत्यादौ सेवन्ते इत्यभियुक्तैव्र्याख्यातत्वात् । स्वरितेत्सुषच समवाये॑ इति वक्ष्यते । लोचृ । ऋदित्त्वात्नाग्लोपी॑ति ह्रस्वनिषेधः । अलुलोचत् ।पचि व्यक्तीकरणे॑ ।पचि विस्तारवचने॑ इति चुरादौ । ऋज गति । अर्जनं — प्राधान्येन, उपार्जनं तु — प्रासङ्गिकम् । नुड्विधावित्यादि ।नुज्विधिलादेशविनामेषु तु प्रतिविदेय॑मिति वचनान्नुडादिविधिषु वर्णैकदेशस्य वर्णत्वेन ग्रहणादिति भावः । यद्वा द्विहल्ग्रहणं भाष्यादौ प्रत्याख्यायते । न च आट आटतुरित्यत्रातिप्रसङ्गः,अश्नोतेश्चे॑त्यनेनअवर्णोपधस्य यदि भवति तह्र्रस्नोतेरेवे॑ति नियमात्सिद्धमिष्टमित्यन्यत्र विस्तरः । ऋजिभृजी । भर्जनं — जलं विना तण्डुलादेः संतापविशेषः । ईदित्त्वात्श्वीदितोनिष्ठाया॑मिति नेट् । भृक्तः । भृक्तवान् । एजृ भेजृ भ्राजृ । भ्राजेरृदित्करणमनुदात्तेत्त्वमात्रफलम् ।भ्राजभासे॑त्यादिना चङ्परे णौ उपधाह्रस्वस्य विकल्पितत्वात् । अबिब्राजत् । अबभ्राजत् । परस्मैपदिन इति.चवर्गीयान्ताः परस्मैपदिनः । पूजायां त्विति ।नाञ्चेः पूजाया॑मिति निषेधादिति भावः ।", "64079": "<<स्त्रियाः>> - स्त्रीति । स्यायतोऽस्यां शुक्रशोणिते इतिस्त्री॑ ।स्यायतेर्ड्रट् ।लोपे व्यो॑रिति यलोपः । टित्त्वान्ङीप् । ङ्यन्तत्वात्सुलोपः ।", "64080": "<<वाऽम्शसोः>> - परत्वादिति ।स्त्रियाः॑इतीयङपेक्षया । इयादेशोऽचि नान्यत्रेति । अजादौ य इयादेशो विहितः स उपसर्जनत्वे पुंसि विद्यमानस्य स्त्रीशब्दस्य ओसादिषु चतुर्ष्वेव, न त्वन्यत्र, गुणनाभावादिभिः पूर्वोक्तैर्बाधितत्वादित्यर्थः । इयङुवह्स्थानावित्यस्यैवेति ।यू स्त्र्याख्या॑ वित्यनुवर्तनादियह्वब्स्थानाविति ईदुतोर्विशेषणम् । तेन इयङुवङ्स्थानावीदूतावेवाऽस्त्रीति पर्युदस्तौ न तु ह्रस्वाविति भावः । श्रीरिति ।क्विब्वचिप्रच्छी॑त्यादीना क्विब्दीर्घौ । ङ्यन्तत्वाभावान्न सुलोपः ।", "64081": "<<इणो यण्>> - येन नाप्राप्तिन्यायेनेति भावः । गुणवृद्धी तु परत्वादस्य बाधिके । अयनम् । आयकः ।", "64082": "<<एरनेकाचोऽसंयोगपूर्वस्य>> - एरनेकाचः ।इणो यण्इत्यतो यणिति वर्तते ।अचि श्नुधातु — ॑इति सूत्रादिह धातुरेवानुवर्तते, न तु श्रुभ्रुवौ, तयोरिवर्णाऽसंभवात् । धातुग्रहणं चावृत्त्योभयोर्विशेषणं, संयोगस्याङ्गस्य चेति ब्याचष्टे — धात्ववयवसंयोगेत्यादि । तत्र धातुना संयोगस्य विशेषणादिह यण् — , उन्न्यौः । उन्न्यः ।हरी॒॑हरी॑नित्यादि सिह्रार्थं धातुना अङ्गं विशेष्यते । अन्यथाप्रध्यं॒॑प्रध्य॑इत्यादाविव पूर्वरूपं पूर्वसवर्णदीर्घं च बाधित्वा यण्स्यात्, धात्ववयवसंयोगपूर्वो न भवति य इवर्णस्तदन्तत्वादङ्गस्य । प्रधीरिति । प्रध्यायतीति प्रधीः ।ध्यायतेः संपर्सारणं चे॑ति क्किपि संप्रसारणे पूर्वरूपे च कृतेहलः॑इति दीर्घः । यदा तुप्रकृष्टा धीर्बुद्धिर्यस्ये॑ति विगृह् ।यते तदा धीशब्दस्य नित्यस्त्रीत्वात्प्रथमलिङ्गग्रहणं चे॑ति नित्यस्त्रीलिङ्गातिदेशे यथासंभवं नदीकार्यं बोध्यम् ।प्रथमलिङ्गग्रहणं चे॑ति वार्तिकस्य प्रथमलिङ्गंयू स्त्र्याख्यौ॑इत्यनेन नदीत्वं वक्तव्यमित्यर्थात् । एरनेकाचेति यण्विषयटत्वेननेयडुवङ् -॑इति निषेधस्याऽप्रवृत्तेश्चेत्येके । अन्ये त्वाहुः -एवं तर्हि यथोद्देशप्रवृत्तौ न्यायसिद्धमिदमिति मनोरमादिग्रन्थो विरुध्येत । यथोद्देशपक्षेऽपि प्रधीशब्दार्थतया वचनस्यावश्यकत्वात् । मूले हिउपसर्जनत्वेऽपि नदीत्वं वक्तव्य॑मित्युक्तं, न तु नित्यस्त्रीत्वमिति । तस्मात्प्रथमलिङ्गग्रहण॑मित्यनेन लिङ्गप्रयुक्तं यन्नदीत्वं वृत्तेः प्राक् स्थितं तदिहाऽतिदिश्यते । धीशब्दे तुनेयङुवङ् — ॑इति निषेधेन मदीत्वाऽभावान्नास्त्येव प्रधीशब्दे नदीत्वातिदेश इति ।ङिति ह्रस्वश्चे॑ति वैकल्पिकनदीत्वमपीह नातिदिश्यते ।प्रथमलिङ्गे॑ति वचनं यथोद्देशे न्यायसिद्धमिति ग्रन्थानुरोधेनः वृत्तेः प्रागवस्थायामवयवत्वेनाभिमतेऽपि विद्यमानाया एव नदीसंज्ञायाः समुदाये अभ्युपेयत्वात् । न च प्रकृष्टा धीर्यस्य तस्मै प्रध्ये प्रध्य इत्यादौ प्रथमान्तधीशब्दस्य ङिति परे प्रवर्तमाना नदीसंज्ञाऽस्तीति दिक् । उन्नीरिति ।सत्सूद्विषे॑त्यादिना क्किप् । ङेरामिति । अङ्गत्वान्नीशब्दान्तादपि ङेराम्भवतीति भावः । ग्रामणीरिति । ग्रामं नयतीति ग्रामणीः ।अग्रग्रामाभ्यां नयते॑ रितिणत्वम् । नीरिति । नयतीति नीःष क्किप् ।गतिकारकेतरेति ।गतिकारकपूर्वस्यैव यणिष्यते॑इति तु नोक्तम्, कुमारीमिच्छन् ब्राआहृणः कुमारी, कुमार्यौ कुमार्य इत्यत्र यणभावप्रसङ्गात् । शुद्धधियाविति । यदा तु शुद्धं ब्राहृ ध्यायतीति विगृह्रते तदा भवत्येव यण् । शुद्धध्यौ । शुद्धध्यः । एवमग्रेऽपि । कथं तर्हीति । गतिकारकेतरपूर्वपदत्वमिह नास्तीतियणैव भाव्यमिति प्रश्नः ।दुर्धिय॑इत्यत्रप्रादिभ्यो धातुजस्ये॑ति वार्तिकेन उत्तरपदलोपो बोध्य इत्याशयेनाह — दुःस्थिता धीर्येषामिति । वृश्चिकशब्दस्येति । भाष्यकृता हि बुद्धिपरिकल्पितपायमाश्रित्यभीत्रार्थाना॑मिति सूत्रं प्रत्याख्यातं । ततश्च सम्बन्धमात्रविवक्षायां षष्ठएवेति नास्त्यत्र कारकपूर्वत्वमिति भावः ।ओः सुपी॑त्यतःसुपी॑त्यनुवर्तनादाह —", "64083": "<<ओः सुपि>> - ओः सुपि ।इणो यण्इत्यतो यण्,एरनेकाचः ॑इति सूत्रं च सर्वमनुवर्तते इवर्णवर्जम्,ओ॑रित्युकारस्य कार्यिणो निर्देशात् ।अचि श्नुधात्वि॑ति सूत्राद्धातुःएरनेकाचः॑इत्यत्रेव संवध्यत इत्याशयेन व्याचष्टे -धात्ववयवसंयोगेत्यादि ।", "64084": "<<वर्षाभ्वश्च>> - वर्षाभ्वौ वर्षाभ्व इति । अत्रइको यणची॑ति यणं बाधित्वाप्रथमयो॑रिति पूर्वसवर्णगीर्घः प्राप्तः, तस्यदीर्घज्जसि चे॑ति निषेधे पुनरपि यणादेश प्रसक्तौअचि श्नुधातु भ्रुवाम्इत्यवङ्, तं च बाधित्वाऔः सुपी॑ति यण्, तस्यन भूसुधियो॑रिति निषेधे पुनरवङादेशस्य प्रसक्तौवर्षाभ्वश्चे॑ति यणिति बोध्यम् । एवमन्यत्राप्युत्सर्गापवादादविधय ऊह्राः ।भेके मण्डूकवर्षाभूशालूररल्पवदेर्दूराः॑इत्यमरः ।भोक्यां पुनर्नवायां स्त्री वर्षाभूर्दर्दूरे पुमान्इति यादवः । हम्भतीति ।हम्भी ग्रन्थे॑तुदादिः । हन्भूग्र्रन्थकर्ता । कथक इत्यन्ये । व्यचुत्पादितीति । ऊप्रत्ययो नुमागमश्चात्र निपात्यत इत्यर्थः । दशपादीवृत्तौ तुदर्भणं हम्भूः । नुमागमोऽनुस्वारश्च निपात्यते॑इत्युक्तम् । अयमुकारो न धातोरिति उवङोऽप्रसङ्गात्इको यणची॑ति यण्, स चअमि पूर्वः॑इत्यनेन बाध्यत इत्याशयेनाह — हम्भूमिति । इदं च श्रीपतिमतम् । माधवेन तुअन्दूहम्भू — ॑इत्यादिसूत्रेण हढशब्दे उपपदे भुवः कूप्रत्ययः, उपपदस्य हन्नदेशश्च निपात्यते इत्युक्तम् ।हन्करपुनःपूर्वस्य भुवो यण्वक्तव्यः । हम्भूरिति । तरुः । सर्पजातिभेद इत्येके । कपिरित्यन्ये । वक्तव्य इति ।वर्षाभ्वश्चे॑ति चकारस्याऽनुक्तसमुच्चयार्थत्वादिति भावः । एवञ्चओः सुपि॑इति प्राप्तस्य यणोन भूसुधियो॑रिति निषेधेवर्षाहन्करपुनः पूर्वस्य भुवः॑इत्येतद्धिध्यर्थमिति स्थितम् । अत्र नव्याः — ॒वर्षाहन्करे॑त्यस्य नियमार्थतां स्वीकृत्यन भूसुधियो रित्यत्र भूग्रहणं त्युक्तं शक्यमिति, तन्न,हन्करपुनः पूर्वस्य चेद्भवे॑दिति विपरितनियमापत्तेः । तथाचपुनर्भ्वौ॑इत्यादि न सिद्धयेदिति । दीर्घपाठ इति ।हन्कारे॑ — ति पाठे इत्यर्थः । एवंच ह्रस्वपाठे कारपूर्वस्योवहेव , दीर्घपाठे तु करपूर्वस्योवङिति विवेकः ।पुनर्भूदिंधिषूरूढा द्वि॑रित्यमरोक्तेः पुनर्भूशब्दो नित्यस्त्रीलिङ्गः । तथा च स्त्रीलिङ्गप्रकतरण एव वक्तुमुचितो न त्वत्रेत्याशङ्कायामाह — — यौगिकः पुंसीति ।पुनर्भवतीति पुनर्भू॑रिति क्रियाशब्दः पुंलिङ्गेऽप्यस्तीत्यर्थः । स्वयंभूवदिति । प्राचा तुहम्भू॒॑काराम्भू॑शब्दौ वर्षाभूवदाहृतौ, तदुपेक्ष्यमिति भावः । इत्यूदन्ताः । धातेति । दधातीति धाता अब्जयोनिः । डुधाञस्तृच् तृन् वा । अनङ्दीर्घसुलोपनलोपः ।ऋवर्णान्नस्य णत्वं वाच्यम् । व्युत्पत्तिपक्ष इति । अव्युत्पत्तिपक्षे दीर्घशङ्कैव नास्ति, अबादिष्वपठनादिति भावःष नेति ।नयतेर्डिच्चे॑ति ऋपत्र्ययान्तोनृ॑शब्दः । अनङादि प्राग्वत् ।", "64085": "", "64086": "", "64087": "<<हुश्नुवोः सार्वधातुके>> - हुश्नुवोः । जुह्वति । सुन्वति । हुश्नुवोः किम् । योयुवति । नोनुवति । सार्वधातुके किम । जुहुवतुः । जुहुवुः । असंयोगपूर्वेति किम् । अक्ष्णुवन्ति । असंयोगपूर्वघणमोर्विशेषणं न श्नुप्रत्ययस्य । तेन आप्नुवन्तीत्यत्रापि यण्निषेधः सिध्यति । प्रत्ययविशेषणत्वे तु अक्ष्णुवन्तीत्यत्रैव निषेधः स्यादिति भावः । स्यादेतत् — यङ्लुकश्छान्दसत्वाद्योयुवतीत्यादौ प्रत्ययस्यछन्दस्युभयथे॑त्यनेनाद्र्धकत्वाश्रयणे यणादेशो न भवेदिति किमनेन हुश्नुग्रहणेन । न च युवन्ति नुवन्तीत्यत्रातिप्रसङ्गवारणार्थं तद्ग्रहणमिति वाच्यम्, अनेकाच॑ इत्यस्यानुवर्तनेनोक्तदोषाऽभावादिति चेत् । अत्राहुः — दाधर्तिदर्धर्तिदर्धर्षिबोभूतु॑ इति च्छन्दसि निपातनाद्भाषायां यङ्लुकि बोभवी#ईत्यादौभूसुवो॑रिति गुणनिषेधो न प्रवर्तते, अत एव भाषायामपि यङ्लुक् सिद्ध इति वक्ष्यमाणत्वात् — योयुवतीत्यादावतिप्रसङ्गवारणाय हुश्नुग्रहणं कर्तव्यमेवेति । हुश्नुग्रहणाज्ज्ञापकाद्भाषायामपि क्वचिद्यङ्लुग्भवतीति भाष्यकाराः । एवं च सार्वधातुकपरयोर्हुश्नुवोरनेकाच्त्वाऽवयभिचारादनेकाच इत्यस्यानुवृत्तिरिह किमर्थेत्याशङ्काया निरवकाश एव । तदनुवृत्त्यभावे हुश्नुग्रहणस्य ज्ञापकत्वाऽसंभवादिति दिक् । दुदविथेति । भारद्वाजनियमादिट् । दुद्रोथ । दुद्रुवेति । क्रादित्वा ल्लिटि नेट् । गाङ् गतौ । गाते गाते गाते इति । पूर्वं शपा सह सवर्णदीर्घे कृतेआतो ङितः॑ इति न प्रवर्तते,आत्मनेपदेष्वनतः॑ इति तु प्रवर्तते इति ताऽऽतांझेषु तुल्यं रूपमिति भावः । गै । गावहे । गामहे । जगे । जगाते । गाताम् गाताम् गाताम् । गास्व । उत्तमे तु — गै । गावहै । गामहै । अगात् । अगाताम् । न त्वस्येति ।गाते॑ इत्यादौ तङं प्रवर्त्त्य ङकारस्य चरितार्थत्वात् । आदेशङकारस्तु न चरितार्थः, स्थानिवद्भावेन ङित्त्वादेव तङः सिद्धत्वादिति भावः । आदादिकोऽयमिति । एवंच गाते गाथे इत्यादावातामाथामोः परतःआतो ङितः॑ इत्यस्य प्रवृत्तिशङ्कैव नास्तीति भावः । फलेतु न भेद इति । न च गाते गाथे इत्यादौ शपा सह सवर्णदीर्घे कृतेऽपि पूर्वस्मात्परस्य विधौ कर्तव्ये स्थानिवत्त्वादतः परत्वेन ङितामाकारस्य इय् स्यादिति शङ्क्यम्, पञ्चमीसमासपक्षस्याऽनित्यत्वाभ्युपगमादिति भावः । ञुङुवे इति ।कुङोश्चु॑रिति ङस्य ञः । च्युङिति । अस्मात्पचाद्यचि विक्लवः । वबयोरभेदाद्विक्लब इत्यन्ये । मेङ् । प्रणिमयत इति । ननुनेर्गदे॑ति कथमिह णत्वं स्यात्, शिद्विषये आत्वाऽभाव#एन मारूपाऽभावात्, अशिद्विषये कृतात्वेऽप्यस्मिन् णत्वं दुर्लभमेव, प्रतिपदोक्तस्यैव माधातोग्र्रहणौचित्यान्न त्वस्य लाक्षणिकस्य ।गामादाग्रहणेष्वविशेषः॑ इत्यभ्युपगमे तु मीनातिमिनोत्योरात्वे कृते प्रनिमाता प्रनिमास्यतीत्यादावतिप्रसङ्गः स्यादित्यत आह — तत्रेति । इष्टत्वादिति । अयं भावः — घुसंज्ञासूत्रे प्रणिदयते प्रणिधयतीत्यादौ णत्वसिद्धये भाष्यकारैरित्थं सिद्धान्तितम्,नेर्गदनदे॑ति णत्वविधौघुमे॑त्यस्य स्थानेघुप्रकृतिमाङि॑ति पठनीयम् । घुश्च प्रकृतिश्च माङ् चेति द्वन्द्वः । प्रकृतिश्च कस्येत्याकाङ्क्षायां संनिधानात्पूर्वोत्तरयोरेव । तेन न क्वाप्यव्याप्तिः । नापिमा माने॑ इत्यत्र, मीनातिमिनोत्योश्चाऽतिव्याप्तिः, माङिति ङकारानुबन्धकस्यैव पठितत्वादिति ।", "64088": "<<भुवो वुग्लुङ्लिटोः>> - ॒अचि श्नुधात्वि॑ति सूत्रादचीत्यनुवर्तते । तदाह — लुङ्लिटोरचीति । अचीति किम् । अभूत् अभूः । वुकि सतिलोपो व्यो॑रिति लोपं बाधित्वा परत्वाद्धल्ङ्यादिलोपः स्यात् । ननु हल्ङ्यादिलोपादन्तरङ्गत्वात्लोपो व्यो॑रिति लोप एव भविष्यति । तथा च मव्यतेर्लङ्लुगन्ताल्लङि तिप्सिपोः अमामत् अमाम इत्यत्र व्योर्लोप एव माधवादिभिः स्वीकृतः । एवं चाऽज्ग्रहणम्ऊदुपधाया॑ इत्युत्तरार्थमनुवर्तमानमिहाप्युपरञ्जकतया वृत्तिकारादिभिर्योजितं न त्वावस्यकतयेत्येव निष्कर्ष उचित इति चेत् । अत्राहुः — भुवो वुगि त्यस्याङ्गत्वाह्वपेक्षत्वेन हल्ङ्यादिलोपस्येव वुकोऽपि बहिरङ्गतयाऽसिद्धत्वे सति वलिलोपस्य प्राप्तेरेवाऽभवादज्ग्रहणमिहार्थमपीत्येव युक्तमिति । अयं च शङ्काग्रन्थः, समाधानग्रन्थश्च मनोरमायां स्थितः । अत्र नव्याः — मव्यतिर्यङ्लुगन्त एव नास्ति, णमामदित्यादि रूपं तु दूरादपास्तमेव,यकारवकारान्तानामूठ्भाविनां यङ्लुग्नास्ती॑तिछ्वोः शू॑डिति सूत्रे भाष्ये ध्वनितम्, कैयटेन च स्पष्टीकृतम् । इदं च छ्वोरिति यत्रोठ् तद्विषयकं,ज्वरत्वरे॑ त्यूठ्भाविनोः रिउआविमव्योस्तु यङ्लुगस्त्येवेति न्याय्यं, माधवादिसंमतं च ।मव्य बन्धने॑ अयं य#आन्त ऊठ्भावी॑ ति मूले वक्ष्यमाणत्वात् । तथा च तद्ग्रन्थेन सहात्रत्यमनोरमाग्रन्थो विरुध्यत इत्याहुः । यदि तु मवतेर्यङ्लुगन्तादिति मनोरमायां पठते तदा तत्र पूर्वाऽपरग्रन्थविरोधो नास्तीति दिक् ।", "64089": "", "64090": "<<दोषो णौ>> - दोषो णौ । दुष वैकृत्ये । दिवादिः । णौ किम् । दोषः ।", "64091": "<<वा चित्तविरागे>> - चित्तमिति ।चिती संज्ञाने॑ इत्यस्मात् क्तः । दूषयति दोषयति वेति । चित्तं दुषयति । स्नानसन्ध्यादौ विरक्तं भवति । तत्प्रयुङ्क्त इत्यर्थः । जृणातेस्त्विति । अपित्त्वादस्य मित्वं नेति भावः । आखेटकमिति । *रञ्जेर्णौ मृगरमणे नलोपो वक्तव्यः । रजयतीति । रजन्ति मृगाः, ग्रहणमरणाद्यनुकूलव्यापारविषया भवन्ति, तान्मृगांस्तादृग्व्यापारविषयान्करोतीत्यर्थः । ज्ञपादिश्चिञिति । तेन मित्त्वाद्ध्रस्व इति भावः । स्वादिगणस्थस्य तु मित्त्वं नेत्युदाहरति - चापयतीत्यादि । अपुस्फुरदिति । द्वित्वे कर्तव्ये अजादेशस्य स्थानिवत्त्वान्निषेधाद्वास्फु॑ रित्युकारवतो द्वित्वं, ततःचिस्फुरोर्णौ॑ इति वा आत्वम् ।", "64092": "<<मितां ह्रस्वः>> - वेष्टनमिति ।परिवेषस्तु परिधि॑रित्यमरः । न त्वित्यादि । अयं भावः — घटादौयमोऽपरिवेषणे॑ इति पठितं, तत्र हि परिवेषणमिति हेतुमण्ण्यन्तस्य रूपम् । हेतुमण्ण्यन्तस्य हि भोजना वेष्टना चाऽर्थः । तथा च अपरिवेषण इत्यनेन भोजनातो वेष्टनातश्चान्यत्र मित्त्वनिषेधेऽपि तयोरर्थयोस्त्वमन्तत्वादेव मित्त्वसिद्धेरिति । यद्यपि घटादौयच्छतिर्भोजनातोऽन्यत्र मिन्ने॑ति व्याख्यातं तथाप्यत्रत्यग्रन्थानुगुण्येनोपपलक्षणतया तद्व्याख्येयमित्याहुः । अत्रेदं बोध्यं — घटादौयमोऽपरिवेषणे॑ इत्यत्र परिपूर्वकस्य विषेर्णिजन्तस्य ल्युटि रूपम्,यम च परिवेषणे॑ इत्यत्र तु केवलस्यैव ल्युटि रूपं न तु णिजन्तस्य । तथा च भोजनावद्वेष्टनाया अपि परिवेषणशब्दार्थत्वादुभयत्राप्यमन्तत्वेनैव मित्त्वं सिध्यति । वेष्टने तु अपरिवेषण इत्यनेन अमन्तत्वप्रयुक्तमित्त्वस्य निषेधेऽपियम च परिवेषणे॑ इत्यनेन मित्त्वं सिध्यतीति दिक् ।", "64093": "<<चिण्णमुलोर्दीर्घोऽन्यतरस्याम्>> - चिण्णमुलोः । शामितेत्यादौजनीजृ॑षित्यादिना मित्त्वेन मितामुपधाया नित्यं ह्रस्वे प्राप्ते दीर्घोऽनेन विकल्प्यते । ण्यन्ताण्णाविति । णिलोपस्य स्थानिवत्त्वेन व्यवधानादिति भावः । दीर्घः सिध्यतीति ।न पदान्ते॑ ति निषेधादित्यर्थः । ननु त्रिपादीस्थेदीर्घे कर्तव्ये स्थानिवत्त्वाऽभावःपूर्वत्रासिद्ध॑ मित्यनेनैव सिद्ध इति दीर्घग्रहणस्योपयोगाऽभावेऽपि ण्यन्ताण्णौचिण्णमुलो॑रिति दीर्घे कर्तव्ये स्थानिवद्भावनिवारणाय दीर्घग्रहणमावश्यकमित्यत आह — जातिपरो निर्देश इति । इदं मास्त्विति । ह्रस्वविकल्पेनाऽपीष्टं सिध्यतीति भावः । वस्तुतस्तुचिण्णमुलो॑रिति सूत्रे दीर्घग्रहणं कर्तव्यमेव । तथाहि -हेडृ अनादरे॑ घटादिः । मितां ह्रस्वे कर्तव्य एच इक् । हिडयति । अत्र चिण्णमुलोः कृतयोह्र्यस्वे विकल्प्यमाने अहिडि अहेडि इति स्यात् । दीर्घे तु — अहिडि अहीडीति भवति । एतच्चात्रैव सूत्रे कैयटे स्पष्टम् । शंशामितेत्यादि । चिणिअशंमि । अशंशामि । णमुलि, शंशमं — शंशमं । शंशामं-शंशाममित्यादि द्रष्टव्यम् । दीर्घोनास्तीति । यङोऽल्लोपस्य स्थानिवत्त्वेन णिच्परत्वाऽभावादुपधादीर्घस्योपधावृद्धेश्चाऽप्रवृत्तेः । तथा च फलभेदाद्दीर्घग्रहणप्रत्याख्यानं न युज्यत इति भावः । शम्यते मुनिनेति । अकर्मकत्वाद्भावे लः ।", "64094": "", "64095": "<<ह्लादो निष्ठायाम्>> - प्रह्लन्न इति । ह्लादी सुखे । ईदित्त्वादिडभावेरदाभ्या॑मिति नत्वम् ।", "64096": "<<छादेर्घेऽद्व्युपसर्गस्य>> - आकुर्वन्तीति । एत्य कुर्वन्त्यस्मिन्व्यवहारमित्याकर उत्पत्तिस्थानम् ।", "64097": "", "64098": "<<गमहनजनखनघसां लोपः क्ङित्यनङि>> - गमहनअचि श्नुधातुभ्रुवा॑मित्यतोऽचीत्यनुवर्तते ।ऊदुपधाया गोहः॑ इत्यत उपधाग्रहणं च । तदाह — एषामुपधाया इत्यादि । जग्मतुः । जग्मुः । जघ्नतुः । जग्घुः । जज्ञे । जज्ञाते । जक्षतुः । जक्षुः । अनङीति अनङीति किम् । अगमत् । चीवृ । चीवरं — वरुआं ।चीवरपीवरमीवरे॑त्युणादिषु निपातितऽयम् । व्यय गतौ । वित्तत्यागे तु नित्यमात्मनेपदीगत इति मनोरमा । न कुत्रापि गत इति चिन्त्यैव सा । अव्ययीदिति । यान्तत्वान्न वृद्धिः । स्पश बाधनस्पर्शनयोः ।णिश्री॑ति च्लेश्चङि — अपस्पशत् । — अत्स्मृद्दृत्वरप्रथे॑त्यादिना अभ्यासस्याऽत्वं सन्वदित्त्वापवादः । पस्पशा । यङन्तादचियङोऽचि च॑ इति लुक् ।अजाद्यतः॑ इति टाप् ।दीर्घोऽकितः॑ इत्यभ्यासस्य दीर्घस्तु न भवति, संज्ञापूर्वकविधेरनित्यत्वादित्याहुः ।जपजभदहदशभञ्जपसां चे॑त्यत्र पसेति सौत्रो धातुः । पसतीत्यादि । यङ्लुकोस्तुजपजभे॑त्यनेनैवाभ्यासस्य नुक् । यङि — पंपस्यते ।लुकि — पंपसीति । पंपसिति कण्ड्वादिः । पंपस्यति ।", "64099": "", "64100": "", "64101": "<<हुझल्भ्यो हेर्धिः>> - जुहुधि ।घसिभसोर्हली॑त्यतो हलीत्यनुवर्त्त्य हलादेरिति व्याख्यानात् रुदिहि स्वपिहीत्यादाविडादेर्हेर्धिर्न भवति,अत्ता॑दित्यत्र तु धित्वात्परत्वात्तातङि कृते स्थानिवद्भावेन पुनर्धित्वं तुसकृद्गतौ॑ इति न्यायान्नेत्याहुः । अन्ये तु - हेर्धिरित्यत्र स्थान्यादेशयोद्र्वयोरपीकार उच्चारणार्थं इति हकारस्य धकार आदेशः, तेन हलीत्यनुवृत्तिर्न कर्तव्या, नापि तातङो धित्वप्रसङ्ग इति सकृद्गतिन्यायाश्रयणमपि मास्त्वित्याहुः ।", "64102": "", "64103": "<<अङितश्च>> - पादऋ पत् । तदवयवस्येति । एतच्चनिर्दिस्यमानस्यादेशा भवन्ती॑ति परिभाषया लभ्यते । इयं च परिभाषाषष्ठीस्थानेयोगे॑त्यनेन ज्ञापिता । तथाहिअस्तेर्भूः॒॑इको यणची॑-त्यादौ सामीप्यादिसम्बन्धप्रसङ्गे[ ।पि]लक्ष्यानुरोधेन व्याख्यानादन्करङ्गत्वात्स्थानिवदादेशः॑इति ज्ञापकाच्च स्थानेयोगत्वे सिद्धेऽप्यारभ्यमाणेनषष्ठीस्थानेयोगे॑त्यनेन षष्ठन्कतमुच्चार्यमाणमेव स्थानेन युज्यते न तु प्रतीयमानमित्यर्थो लभ्यते । तथाचनिर्दिश्यमानस्यादेशा भवन्ती॑ति सिद्धम् ।अलोऽन्त्यस्य॒॑आदेः परस्ये॑ति योगौ त्वारम्भसामर्थ्यान्निर्दिश्यमानपरिभाषाया बाधकौ, तेनपुमः खय्यम्परे॒॑उदः स्थास्तम्भो॑रित्यादौ न दोष इति दिक्॥ इति दान्ताः । अग्निमदिति । मथ्नातेर्मन्थतेश्च क्विपि एतदेव रूपम् । इदितस्तु न नलोपाभावादिग्निमन्थौ । अग्निमन्थः॥ इति थान्ताः ।", "64104": "<<चिणो लुक्>> - चिणो लुक् । परस्य लुक् स्यादिति ।तदशब्दस्ये॑ति कैश्चित्पठते, तदार्थिकार्थकथनम्, तशब्दे परतश्चिणि विहिते चिणः परस्य जायमानो लुक् — प्रत्ययस्य लुकश्लुलुपः॑ इति वचनात्तशब्दस्यैवेति स्पष्टत्वात् । अयमिति । षेवृ धातुः । भाष्यविरुद्धमिति । यदि सोपदेशः स्यात्तदा स्त्यायतिरिवाऽयमपि षोपदेश लक्षणे पर्युदस्येत, तदकरणान्नास्ति सोपदेश इति भावः । प्लवगताविति । केचित् प्लवेति धात्वन्तरमित्याहुस्तद्धि मनोरमायां दूषितम् ।प्लवे॑ति धात्वन्तरत्वेविभाषऽऽङि रुप्लुवो॑रित्यत्र प्लुवः पक्षे घञ्विधानं व्यर्थं स्यात्, ल्पेवेत्येतस्माद्धञि आप्लावशब्दस्य सिद्धत्वात् । तथारुआवतिश्रणोती॑ति सूत्रेण प्लवेतरभ्यासोकारस्येत्वविधानमपि व्यर्थं स्यात्, तद्धि पक्षे अपिप्लवदिति रूपसिद्ध्यर्थं क्रियते, तच्च रूपं प्लवधातोःसन्यतः॑ इत्यनेन सिद्धमिति किं तदुपादानेनेति । ममव्येति ।यस्य हलः॑ इति लोपस्तु न भवति,यस्येति सङ्घातग्रहण॑मिति सिद्धान्तितत्वात् । वर्णंग्रहणे त्वर्थवद्ग्रहणपरिभाषाया अप्रवृत्त्या पुत्रकाम्येत्यादावपि लोपः स्यादिति दिक् । लुटि — मव्यिता । आशिषि — मव्यात् ।हलो यमा॑मिति धातुयकारस्य वा लोपः । सूक्ष्र्य ईर्क्ष्य । णलि — सुषूक्ष्र्य । ईक्ष्र्याचकार । ईष्र्याचकार । एभ्यः क्विपिलोपो व्योटरिति यलोपे,स्कोः॑ इति कलोपे जश्त्वचर्त्वयोः — सूर्ट् इत्येव रूपम् । हय गतौ । जहाय । हय्यात् । शिथिलीकरणमिति ।सोममभिषुणोती॑त्यादौ दर्शनात् । सुराया इति । तत्प्रकरणेसंधानं स्यादभिषवः॑ इत्यमरोक्तेः ।", "64105": "<<अतो हेः>> - भवतादिति । लुगपेक्षया परत्वाद्धेस्तातङ्, अन्तरङ्गमेव लुग्बाधते न तु परमिति भावः॥", "64106": "<<उतश्च प्रत्ययादसंयोगपूर्वात्>> - कृवि । अयमिति । कृणोतीत्यादिरित्यर्थः । स्वादौ हि कृवीत्ययंधातुर्न पठते, किंतु कृञ् हिंसायामिति । तस्य च परस्मैपदेषु सार्वधातुके कृणोतीत्यादीनि रूपाणि तुल्यानीति फलितोऽर्थः । अव रक्षणे । एकोनविंशतिरर्थाः । कान्तिः — शोभा । दीप्तिस्तेज इत्याहुः । तृप्तिः — इच्छानाशः । स्वाम्यर्थः — स्वामित्वम् । हिंसा — हननम् । आदानं — ग्रहणम् । न चात्र दानमेवार्थोऽस्त्विति वाच्यम् ।भागे वृद्धौ ग्रहे वधे॑ इत्येवमर्थानां विशिष्य बोपदेवेन गणितत्वनात् । भिक्ष । याच्ञालाभाऽलाभास्त्रयोऽर्थाः । स्वामी तुक्लेश अव्यक्तायां वाचि चे॑ति पठित्वा इमावपि भिक्षधातोरर्थाविति मन्यते ।क्लिश उपतापे॑ इति दिवादौ ।क्लिशू विबाधने॑ इति क्र्यादौ । दीक्ष । पञ्चार्थाः । ईष गति ।गुरोश्च हलः॑ इत्यप्रत्यये टाप् । ईषा । मनस ईषा — मनीषा । शकन्ध्वादिः । मनीषामभिनिविष्टं मनीषितम् ।प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्चे॑ति णिचि तदन्तात् क्तः ।ईष उञ्छे॑ इतितु परस्मैपदेषु । ह्रस्वादयरुआयः ।इष गतौ॑ दिवादिः ।इष इच्छायां॑ तुदादिः ।इष आभीक्ष्ण्ये॑ क्र्यादिः । कासांचक्रे इति ।कास्प्रत्यये॑त्याम् । भासृ दीप्तौ । अस्य ऋदित्त्वं भ्राजतेरिव तङ्मात्रफलकम् ।भ्राजभासे॑त्यादिनोपधाह्रस्वस्य विकल्पितत्वात् । णस कौटिल्ये । लिण्निमित्तादेशादित्वाऽभावादेत्वम् । नेसे । आङः शसि ।शंसु स्तुता॑विति तु पसस्मैपदिषु वक्ष्यते । ग्रसु ग्लसु ।उदितो वे॑ति क्त्वायां वेट् । ग्रसित्वा । ग्रस्त्वा ।यस्य विभाषे॑ति नेट् । ग्रस्तः । वेह्म जेह्म वाह्म । आद्य इति । वेहतेरति प्रत्यये वेहच्छब्दो निपातितःपोटायुवती॑ति सूत्रे इति भावः ।वेहद्गर्भोपघातिनी॑ । अन्त्य इति । बाहुशब्दस्य भुजपर्यायस्य,क्षुब्धस्वान्तध्वान्ते॑ति निपातितस्य बाढशब्दस्य च निर्विवादत्वादिति भावः । दन्त्योष्ठआदी इति ।उभावपी॑त्यनुषज्यते । अनुदात्तेत्वकृतमात्मनेपदमनित्यम् । तेनववाह रक्तं पुरुषास्ततो जाताः सहरुआशः॑ इति सिद्धम् । न चात्राऽर्थासङ्गतिः, धातूनामनेकार्थत्वात्प्ररुआवणार्थकत्वे बाधकाऽभावादित्याहुः । ऊह । कथं तर्हिअनुक्तमप्यूहति पण्डितो जनः इति । अत्राहुः - अनुदात्तेत्त्वलक्षणस्य तङोऽनित्यत्वान्न दोष इति । गाहू । ऊदित्त्वादिड्वा । इहभावे ढत्वम् ।एकाचः॑ इति भष्भावः ।षढो कः सी॑ति कः । कात्परस्य षत्वम् — जघाक्षे ।विभाषेटः॑ इति वा मूर्धन्यः । जगाहिढ्वे । जगाहिध्वे । इडभावे तु भष्भाव ।ढो ढे लोपः॑ — जघाढ्वे । ढे किम् । ऊढः । इह पूर्वं ढलोपो माभूत् । कृते तु ढेग्रहणेष्टुना ष्टु॑रित्यस्य आश्रयात् सिद्ध्तवं भवतीति सिद्धमिष्टमित्याहुः ।", "64107": "<<लोपश्चास्यान्यतरस्यां म्वोः>> - लोपश्चा । यः प्रत्ययोकार इति । असंयोगपूर्वो यः प्रत्यय इति प्रत्ययविशेषणं तु न कृतम्, अक्ष्णुवः अक्ष्णुम इत्यादावनिष्टाऽभावेऽपि अश्नुवहे इत्यादावतिप्रसङ्गात् । एवम्उतश्चे॑ति सूत्रेऽपिअक्ष्णुही॑त्यत्र दोषाऽभावेऽपि अश्नुहीत्यत्रातिप्रसङ्गः स्यादित्यसंयोगपूर्वेति प्रत्ययविशेषणं तु कृतमत्याहुः ।अश्नुही॑ति परस्मपैदं यद्यपि लोके दुर्लभं, तथापि वेदाभिप्रायेण तत्प्रयोगस्य साधुत्वं बोध्यम् ।आप्नुहीटति पाठस्तूतिः ।", "64108": "", "64109": "<<आ च हौ>> - चादिदीताविति । अत एव भट्टिः प्रायुङ्क्त — जहिहि जहीहि जहाहि रामभार्या॑मिति ।", "64110": "<<अत उत् सार्वधातुके>> - क्ङिति किम् । करोति । करोषि । लुकोऽसिद्धत्वादिति । सार्वधातुकग्रहणमुत्तरार्थमेव नात्राऽऽवश्यकम् ।इह भूतपूर्वगत्या सार्वधातुकपरत्वामाश्रीयते॑ इति वृत्तिमते त्वसिद्धत्ववर्णनस्योपयोगलेशोऽपि नास्तीति ज्ञेयम् ।", "64111": "<<श्नसोरल्लोपः>> - श्नसोरल्लोपः ।अत उ॑ दिति सूत्रादत इत्यनुवत्र्याऽद्ग्रहणं त्यक्तुं शक्यमित्याहुः । श्नसोरिति । शकन्ध्वादित्वात्पररूपमित्याह — श्नस्याऽस्तेश्चेति । श्नस्योदाहरणं [रुन्धः] । रुन्धन्तीत्यादि । क्ङिति किम् । रुणद्धि । अस्ति । तपरकरणमास्तामासन्नित्यत्र ह्राडागमे कृते तस्य लोपो माभूदित्येतदर्थम् । निष्कर्षस्तु अनुपदं स्फुटीभविष्यति ।", "64112": "<<श्नाऽभ्यस्तयोरातः>> - श्नभ्यस्त ।क्रीणन्ति.क्रीणते । पुनन्ति । पुनते । दधति दधते । क्ङिति किम् । क्रीणाति । पुनाति । दधाति । आतः किम् । बिभ्रति । ओ इत्येव सिद्धे इति । प्रथमत्यागे मानाऽभावादिति भावः । निर्मूलमेवेति । यत्तु व्याख्यातृभिः समथ्र्यते — आमोऽभावे आतो लोपे कृते आदन्तत्वाऽभावादौत्वं नेति । तन्न ।आत औ णलः॑ इत्यत्र प्राथम्यादोकारे कर्तव्ये औकारविधानं दरिद्रातेराल्लोपेऽपि श्रवणार्थं सदामभावे लिङ्गमिति हरदत्तमाधवादिग्रन्थैः, स्वग्रन्थेन च विरोधात् । तत्कथमौत्वस्याऽप्रवृत्तिर्भवेत्यदप्युक्तम् — ओकारौकारयोर्द्विमार्तवाऽविशएषादौकारविधानमिति तदपि स्थवीयः । तस्मिन्पक्षे आमो दुर्वारत्वप्रसङ्गात् । * दरिद्रातेराद्र्धधातुके विवक्षिते आतोलोपो वाच्यः । विवक्षित इति । तेन दरिद्रातीति दरिद्र इति पचाद्यजेव भवति । परसप्तम्यां तुश्याद्व्यधे॑त्यादन्तलक्षणो णः स्यात् । सति तु तस्मिन्आतो युक् चिण्कृतो॑रिति युकि दरिद्राय इति स्यादिति भावः । सनि ण्वुलीति । एतेष्वालोपो नेत्यर्थः । दिदरिद्रासति । दरिद्रायकः । दरिद्राणम् । अदरिद्रुरिति ।सिजभ्यस्ते॑ति झेर्जुस् ।लङः शाकटायनस्यैवे॑त्यादन्तलक्षणो विकल्पस्तु न भवति, परत्वात्स्नाभ्यस्तयो॑त्याल्लोपे आकारान्तस्यैवाऽभावात् ।ई हल्यघो॑रित्यात ईत्त्वमिह न शङ्क्यमेव । झेर्जुसि हलादिपरत्वाऽभावादिति भावः । ननु दरिद्रा झि इति स्थिते जुसः प्रागेव आल्लोपात्परत्वादपवादत्वाच्च ईत्वं स्यात् । मैवम् । अकृतव्यूहपरिभाषाया जागरूकत्वात् । ईत्त्वनिमित्तं हि हलादित्वं, तच्च विनासोन्मुखं, जुसो भावित्वात् । झस्य अदिति ।अदभ्यस्ता॑ दित्यनेन । तिप्यनस्तेः । पदान्तस्य किम् । चकास्ति । सस्येति किम् । वशेर्लङि तिपि अवट् । तिपि किम् । क्विपि चकाः । अनस्तेः किम् । सर्वम् । इदम् ।आ॑ इति लङि तिपि अस्ते रूपम् ।बहुलं छन्दसी॑ति ईट् न ।", "64113": "<<ई हल्यघोः>> - ई हल्यघोः । श्नाभ्यस्तयोरिति । लुनीते । पुनीते । क्ङितीति किम् । लुनति । अघोः किम । धत्तः । दत्तः । मिमीते इति ।घुमास्थे॑तीत्त्वमिह न प्रवर्तते, तत्राद्र्धधातुक इत्यनुववृत्तेः । अन्यथा मातः माथः, गाते गासे इत्यादावतिप्रसङ्गात् । अत एव काशिकायामुक्तमाद्र्धधातुक इत्यधिकारो न ल्यपीति योगं यावदिति ।", "64114": "<<इद्दरिद्रस्य>> - इद्दरिद्रस्य ।इद्दरिद्र॑ इतिवक्तुमुचितम् ।", "64115": "<<भियोऽन्यतरस्याम्>> - भियोऽन्यतरस्याम् । सार्वधातुके किम् । भीयते । बिभीये । हलादौ किम् । बिभ्यति । क्ङिति किम् । बिभेति । केचिदत्र हलादौ क्ङितीत्येतन्नाऽतीवोपयुज्यते, इत्वविधानस्य बिभित इत्यादौ चरितार्थत्वात्, बिभ्यति बिभेतीत्यादौ यणादेः प्रवृत्तिसंभवादित्याहुः ।", "64116": "<<जहातेश्च>> - जहातेश्च । क्ङितीति किम् । जहाति । सार्वधातुके किम् । हीयते ।", "64117": "चादिदीताविति। अत एव भट्टिः प्रायुङ्क्त - `जहिहि जहीहि जहाहि रामभार्या`मिति।", "64118": "<<लोपो यि>> - लोपो यि । सार्वेति किम् । हेयात् । प्रणिददातीति ।नेर्गदे॑ति णत्वम् । दत्त इति ।श्नाभ्यस्तयो॑रित्यालोपः ।अघो॑रित्युक्तत्वादीत्त्वं तु न । अदादिति ।गातिस्थे॑ति सिचो लुक् ।", "64119": "<<घ्वसोरेद्धावभ्यासलोपश्च>> - घ्वसोरेद्धा । एत्वमलोन्त्यस्य, लोपस्तु शित्त्वात्सर्वस्येति भाष्यादौ स्पष्टम् । देहि । धेहि । असिद्धत्वादाडिति । नन्वेवमाटोऽसिद्धत्वात्श्नसो॑रित्यल्लोपो न भवेदिति तपरकरणं तत्र व्यर्थमिति चेत्, अत्राहुः — आभाच्छास्त्रस्याऽनित्यताज्ञापनाय तपरकरणम् । तेनदेभतु॑रित्यादि सिद्धमिति । स्यादेतत् — अत्र केचित् — अद्ग्रहणस्य निष्फलत्वे तपरकरणस्य ज्ञापनार्थत्वं न सिध्येत् । न चअत उ॑दिति सूत्रस्थतपरकररणमेव ज्ञापनार्थमस्त्विति वाच्यम्, अस्येत्युक्तौ गौरवादद्र्धमात्रालाघवाय तत्र तपरत्वमिति सुवचत्वात् । तस्मादुक्तज्ञापनार्थमद्ग्रहणमावश्यकमित्याहुः ।", "64120": "<<अत एकहल्मध्येऽनादेशादेर्लिटि>> - लिण्निमित्तेति । किति लिटीति च । यद्यपिगहमने॑ति सूत्रे क्ङितीति वर्तते, तथापि प्रयोजनाऽभावान्ङितीत्येतन्नानुवर्तत इति भावः । किति कित् । ननाद । लिटि किम । पापच्यात् ।", "64121": "<<थलि च सेटि>> - चकणतुरिति । न चैवमपि बभणतुरित्यत्रअभ्यासे चर्चे॑त्यस्याऽलसिद्धत्वादेत्वाभ्यासलोपौ स्त एवेति वाच्यं, फलभजग्रहणेन एत्वविधिं प्रति तत्सूत्रस्य सिद्धत्वज्ञापनात् । एवं चादेशश्चेह वैरूप्यसंपादक एव गृह्रते इति व्याख्यानमवश्यं कर्तव्यमवेति दिक् ।", "64122": "", "64123": "<<राधो हिंसायाम्>> - राधो हिंसायाम् ।अत॑ इत्यनुवर्तमानेऽपि सामर्थ्यादकारमात्रं स्थानित्वेनाश्रीयते ।", "64124": "<<वा जॄभ्रमुत्रसाम्>> - वाजृभ्रमुत्रसाम् । अप्राप्तविभाषेयम् । अंभ्रमीदिति । मान्तत्वान्न वृद्धिः । अक्षारीदिति । हलन्तलक्षणाया वृद्धेःनेटी॑ति निषेधेऽपिअतो ल्रान्तस्ये॑ति वृद्धिः । षह । अपराधे सत्यपि कोपाऽनाविष्करणं मर्षणम् ।", "64125": "<<फणां च सप्तानाम्>> - फण गतौ । फणति । लुङि । अफाणीत् । अफणीत् । णौ तुचिण्णमुलो॑रिति वा दीर्घः । अफणि । अफाणि । फणंफणम् । फाणंफाणम् । असंभवादिति । मित्त्वप्राप्त विना निषेधाऽसंभवादिहने॑त्येतन्न संबध्यते किंतु मित्संज्ञैव । तदेतदाह — फणयति । (ग) वृत् । वृत् । सामर्थ्यादिति । फणादिषु पाठसामर्थ्यादित्यर्थः । तत्र हीति । षत्वविधौ हीत्यर्थः । तथा च विभ्राट् । विभ्राड्भ्याम् । पूर्वं पठितस्य तु विभ्राक् विभ्राग्भ्यामित्यादि सिध्यतीति भावः । अस्यमीदिति । मान्तत्वान्न वृद्धिः । अथ ज्वलादिः । अज्वालीदिति ।अतो ल्रान्तस्ये॑ति वृद्धिः । वैक्लव्य इति । वैक्लव्यं — भयादिजनितोद्विग्नता । तद्वयापार इति । बन्धुतानुकूलो व्यापारः ।", "64126": "<<न शसददवादिगुणानाम्>> - न शसदद ।शसु हिंसायां॑ दन्त्यान्तः । सूत्रेऽवयवावयवभावः षष्ठर्थः । तथा च शसददवादीनां योऽकार इत्यन्वयसंभवेऽपि अकारस्य गुणरूपत्वाद्भेदनिबन्धना षष्ठी न संभवतीत्याशङ्क्य तन्निर्वाहार्थं व्याचष्टे — गुणशब्देन भावितस्येति । भावितत्वं च साक्षात्पेरम्परासाधारणम् । तथा च शशरतुः पपरतुरित्यादौ गुणशब्देन क्रियमाणो योऽर् तदवयवोऽकारः । लुलविथेत्यादौ तु गुणशब्देन क्रियमाणो य ओकारस्तत्स्थानिकस्याऽवादेशस्यावयवोऽकार इत्यर्थान्नास्त्यत्रानुपपत्तिः । दददे इति । शशसतुः । शशसुः । ववमतुः । ववमुरित्यादावपि निषेधो बोध्यः । ष्वद स्वर्द । अयमिति । प्रत्येकाभिप्रायेणोक्तमित्याहु । सकर्मक इति । स्वदस्व हव्यानि । अनुभवेत्यर्थः । अकर्मक इति ।अपां हि तृप्ताय न वारिधारा स्वादुः सुगन्धिः स्वदते तुषारा॑- इति श्रीहर्षः । न स्वदते । न रोचत इत्यर्थः ।", "64127": "<<अर्वणस्त्रसावनञः>> - अर्वणस्तृ ।॒अङ्गस्ये॑ति वर्तते, तच्चाऽर्वणा विशेष्यते,अनञ॑इत्यनेनापि, तदाह — नञा रहितस्येत्यादि ।असा॑विति परयुदासे विभक्तौ परत एव स्यात्, ततश्चाऽर्वतीत्यादौ न स्यादित्याशयेनाह — न तु साविति । नचैवमर्वप्रिय इत्यादावतिप्रसङ्गः, अङ्गेन स्वनिमित्तस्य प्रत्ययस्याऽऽक्षेपाल्लुका लुप्तत्वेनाऽत्र प्रत्ययलक्षणाऽभावात् । एतेनवाहैरलुप्यत सहस्त्रगर्वगर्वः॑इति श्रीहर्षप्रयोगो व्याख्यातः । नन्वेवं,स्थानिवदादेशः॑इति सूत्रेधात्वङ्गकृत्तद्धिताब्ययसुप्तिङ्पदादेशाः स्थानिवत्स्यु॑रिति प्राचो ग्रन्थमनूद्य -॒तत्क परिगणनुदाहरणमात्रं वे ति विकल्प्य,॒नान्त्यः, अब्ययस्याङ्गपदाभ्यां पृथग्ग्रहणवैयथ्र्या॑दिति मनोरमायां यदुक्तं तत्कथं सङ्गच्छेत, अव्ययस्योक्तिरीत्याऽनङ्गत्वात् । न चन लुमते॑त्यनेनाऽङ्गकार्यनिषेधेऽप्यङ्गसंज्ञाया अनिषेधान्नोक्तदोष इति वाच्यम्, प्रत्यये परतः पूर्वस्य यत्कार्यमाङ्गमनाङ्गं वा तत्सर्वंन लुमते॑त्यनेन निषिध्यते इथियङोऽचु चे॑ति सूत्रस्थमनोरमाग्रन्थपर्यालोचनया लुमताशब्देन लुप्तेऽङ्गसंज्ञाया अप्यस्वीकार्यत्वात् । तस्या अपि प्रत्यये परतः पूर्वस्य कार्यत्वात् । यदि तु लुका लुप्तेऽप्यङ्गत्वं स्वीक्रियते, तदाऽयं ग्रन्थोयचि भं॒॑वृषण्वस्वआयो॑रित्यत्रवृष वर्षुकं॑वसु धनं यस्य वृषण्वसु, वृषा अआओ यस्य वृषणआ॑इत्युदाहृत्म भत्वादिह नलोपो न भवति, अल्लोपस्तु अनङ्गत्वान्नेट॑ति मूले वैदिकप्रक्रियायां वक्ष्यमाण ग्रन्थेन सह विरुध्यते । नचअल्लोपोऽनः॑इत्यत्रा॒ऽङ्गावयवोऽसर्वमानस्थानयजादिस्वादिपरो योऽ॑निति व्याख्यानादल्लोपस्य तत्र प्राप्त्यभावादनाङ्गत्वादिति समाधानं व्यर्थमिति भ्रमितव्यम्, भसंज्ञयैवयजादिस्वादिपरोयोऽ॑निति व्याख्यानावद्वस्वआयोः परतो योऽनिति व्याख्यानस्यापि लभात् । तस्मात्पदात्पृथगित्येव वक्तव्ये अङ्गपदाभ्यामित्यङ्गग्रहणं रभसकृतमेवेति चेदत्राहुः — ॒न लुमते॑ति सूत्रे लुमतालुप्ते तन्निमित्ताङ्गसंज्ञकस्य कार्यं नस्यादिति यदा व्याख्यायते, तदाअर्वणस्तृ॑इत्यद्यङ्गकार्याऽवृत्तावप्यङ्गसंज्ञाया निर्बाधत्वादङ्गग्रहणं तत्रत्यं सम्यगेव । यदात्वाङ्गमनाङ्गं वेत्यादिमनोरमाग्रन्थस्यानङ्गत्वादिति मूलग्रन्थस्य च स्वारस्यपर्यालोचनया लाघवादव्ययस्याङ्गत्वे फलाभावाच्च प्रत्यये परतः पूर्वस्य कार्यं निषिध्यते, तदा त्वविशेषेणाऽङ्गसंज्ञाया अपि निषेधादङ्गग्रहं तत्र रभसकृतमेव । न चन लुमते॑त्यनेनाङ्गसंज्ञानिषेधेयुवोरनाका॑विति सूत्रस्थभाष्यकैयटाभ्यां विरोधः स्यादिति वाच्यं, तयोस्तत्र प्रौढवादेन प्रवृत्तत्वात् । तथाचन लुमत तस्मि॑न्निति सिद्धान्तः, प्रत्यये परतः पूर्वस्य कार्यं निषिध्यते॒इति मनोरमाग्रन्थश्च स्वरसतः सङ्गच्छत इति । ननु ऋधातोर्विचि गुणे चअ॑रिति रूपं, तस्मान्मतुपि अर्वन्तावित्यादि सेत्स्यति,छन्दसीवनिपा॑विति वनपि वेदेअर्वे॑ति सेत्स्यति । ऋधोरोरेवस्त्रामदिपद्यर्ती॑त्यादिना वनिपि तु लोकेऽप्यर्वेति सेत्स्यति । रूढिशब्दश्चायं,वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः॑इत्यमरकोशात् । ततश्चार्थोऽपि न भिद्यत इति किमनेन सूत्रेणेति चेदत्राहुः — नान्ततान्तयोः सर्वत्र प्रयोगे प्राप्ते सौ परे नञ्पूर्वपदे च नान्तस्य प्रयोगो भवत्यन्त्र तचु नान्तस्य प्रयोगो न भवतीति व्यवस्थार्थमिदं,तृज्वत्क्रोष्टु॑रिति त्रिसूत्रीवदिति । यत्तु केश्चिदुक्तम् -॒अर्वन्मघवन्शब्दयोरपि भाषायामसाधुत्वमेव । ॑अर्वणस्तृ मघोनश्च न शिप्यं धान्दसं हि तत् । मतुब्वन्योर्विधानाच्च धन्दस्युभयदर्शमात्इति वार्तिकादिति । तदापाततः, वार्तिकस्य वनिबन्तमध्योदात्तपरत्वात् । छन्दस्येव वनिब्व#इधानात् । तथाच श्रीहर्षः -॒वाहैरलुप्यत सहस्त्रद्दगर्वगर्वः॑इति प्रायुङ्लः । अर्वन्तौ अर्वन्त इति । व्यपदेशिवद्भावेनाऽर्वन्नन्तत्वाव्रादेशः । न च व्यवदेशिवद्भावोऽप्रातिपदिकेनेति वाच्यं, तस्य प्रत्ययविधिविषयत्वात् ।", "64128": "<<मघवा बहुलम्>> - माधवेनोक्तमिति । इत्थं हि तदियो ग्रन्थः — ॒भसंज्ञायामल्लोपे उत्तरपदमनच्कं स्थानिवद्भावश्चाऽल्विधित्वान्ने॑ त्येकाजुत्तरपदत्वाऽभात्प्रातिपदिकान्तनुम्विभक्तिषु चे॑ति विकल्पो भवति — वृत्रघ्नो॒॑वृत्रघ्ण॑इति । तद्भाष्येतिष किंचअल्विधित्वान्ने॑त्यसङ्गतम् । अल्बिघ्यर्थमेबअचः परस्मि॑न्नित्यस्यारम्भात् । तस्याऽप्रवृत्तौ युक्तयन्तरस्यैव वाच्यत्वात् । ॑एकाजुत्तरे॒त्यस्याऽप्रवृत्तावपि ॑कुमति चे॒ति सूत्रस्य दुर्वारत्वाद्वैकल्पिकत्वं णत्वस्याऽसङ्गतमेव । न च त्रिपद्यामपि पूर्वं प्रत्युत्तरशास्त्रस्याऽसिद्धत्वात्एकाजुत्तरपदेः णः॑कुमति चे॑त्यस्याऽप्रवृत्त्याप्रातिपदिकान्ते॑ति वैकल्पिकमेव णत्वं भवतीति वाच्यं,न हि योगोऽसिद्धः किंतुपर्करणे प्रकरण॑मिति भाष्यादौ स्पष्टत्वादिति दिक् । अनिनस्मन्ग्रहणानीति । अन् — ॒राज्ञे॑त्यर्थवता,साम्ना॑इत्यनर्थकेन । इन् — ॒दण्डी॑त्यर्थवता,वाग्ग्मी॑त्यनर्थकेन । अस् -॒सुपया॑इत्यर्थकेन । इहस्त्रुरूभ्यां नुट् चे॑त्यसुनस्तुट् । मन् — ॒सुशर्मे॑त्यर्थवता,सुप्रथिमा॑इत्यमर्थकेन । एतच्चइणः षीध्व॑मिति सूत्रेऽङ्गग्रहणेनार्थवद्न्रहणपरिभाषाया अनित्यत्वज्ञापनात्सिद्धम् ।वेविषीध्व॑मित्यत्र षीध्वंशब्दस्य ग्रहणं माभूदिति हि तत्राऽङ्गग्रहणं कृतम् । तच्चाऽपार्थकम्, अनर्थकत्वादेव तद्न्रहणाऽसिद्धेः । अतो ज्ञायतेअर्थवद्न्रहणपरिभाषा अनित्ये॑ति । मघवा बहुलम् ।अर्वणस्त्रसा॑वित्यतस्तृ इत्यनुवर्तते, तदपक्षा चमघवे॑तिषष्ठर्थे प्रथमा, तदाह —", "64129": "", "64130": "", "64131": "<<वसोः सम्प्रसारणम्>> - वसोः । प्रत्ययग्रहणे तदन्तग्रहणमित्याह — वस्वन्तस्येति । सेदिवानिति ।भाषायां सदवसश्रुवः॑इति लिटः क्वसुः ।लिटि धातो॑रितिद्वित्वम्,हलादिः शेषः॒॑अत एकहल्मध्ये॑इत्येत्वाभ्यासलोपौ ।वस्वेकाजाद्धसा॑मितीट् । नुम् ।सान्ते॑ति दीर्घः । सेदुष इति । ननुतदनुबन्धकग्रहणे नाऽतदनुबन्धकस्ये॑ति परिभाषयाविदेः शतुर्वसु॑रित्यस्यैव वसोः संप्रसारणं युक्तं, न तु क्वसोः । सत्यम् । वसोरुकारानुबन्धकरणं क्वसोः सामान्यग्रहणार्थम् । उगित्त्वस्य स्थामिवद्भावेनाऽपि सिद्धेः । इह गमिप्रभृतिभ्यः क्वसुर्नोदाहृतः, छान्दसत्वात् । अतएव वैदिकप्रक्रियायां॒तस्थिवान्जग्निवान्इत्याद्युदाहर्तव्यं नाऽत्रेत्याहुः । कवयस्तु प्रयुञ्जते — ॒श्रेयांसि सर्वाण्यधिजग्मुषस्ते॑ ।तं तस्थिवांसं नगरोपकण्ठे॑इत्यादि । अत्र वदन्ति — छान्दसा अप् ।येके पद्ददादय इव क्वचिद्भाषायां भवन्ति,मासश्छन्दसी॑त्यस्य सामान्यापेक्षज्ञापकत्वाश्रयणा[दिति]कथंचित्सामाधेयमिति । सुहिनिति । संयोगान्तलोपस्याऽसिद्धत्वान्नोपधादीर्घः । सुहिन्त्स्विति ।नश्चे॑ति सस्य वा धुट् । ध्वसत इति ध्वत् । रुआंसत इति रुआत् ।॒रुआसु ध्वंसु अवरुआंसने॑ध्वंसु गतौ याचने चे॑त्याभ्यां क्विप् ।अनिदिता॑मिति नलोपः ।वसुरुआसु॑इति दत्वम् ।", "64132": "", "64133": "<<श्वयुवमघोनामतद्धिते>> - आयुव ।अल्लोपोऽनः॑इत्यतो — ऽन॑ इत्यपकृष्य व्याचष्ट#ए — अन्नन्तनामिति । अन्नन्तानां किं । मघवत इति । यद्यपि नस्य तादेशेऽप्येकदेशविकृतस्याऽनन्यत्वादन्नन्तताऽत्रास्त्येव, तथापि विशेषणसामर्थ्यच्छ्रयमाणनकारान्तस्यैव संप्रसारणं न त्वत्रेत्याहुः । वार्तिककृता तुआआदीनां संप्रसारणे नकारान्तग्रहणमनकारान्तप्रतिषेधार्थ॑मित्यक्तम् । नन्वेवमपिअल्लोपोऽनः॑इत्यल्लोपो दुर्वार इति चान्मैवम्, भाष्यकृता पुर्वोक्तवार्तिकमत्रानुवत्र्यअल्लोपोऽनः, नकाकान्तस्यैवे॑तिव्याख्यातत्वात् । एतच्चऋलृ॑गिति सूत्रे भाष्ये स्पष्टम् । एतेन॒बहुधीवरी॒॑राजकीय॑मित्यत्राऽप्यल्लोपाऽभावः सिद्धः ।वनो र च॒॑राज्ञः क चे॑त्यादेशे कृते चकारान्तत्वाऽभावात् । स्त्रिया मघवतीति । मधवती मघवत्यौ । मघवत्य इत्यत्र लिङ्गविशिष्टपरिभाषायाउगिदचा॑मिति नुम्न शङ्क्यः,विभक्तौ लिङ्गविशिष्टाऽग्रहणा॑दित्याहुः ।", "64134": "<<अल्लोपोऽनः>> - अचः ।अल्लोपोऽनः॑इत्यतोऽल्लोप इत्यनुवर्तते,भस्ये॑ति च । तदाह -भस्याकारस्य लोपः स्यादिति । अत्र नव्याः — यद्यत्राञ्चतेर्भस्येति सामानाधिकरण्येनान्वयः स्वीक्रियते तर्हिप्रतीचः॒॑प्रतीचे॑त्यादि न सिध्येत् । उपसर्गसहितस्यैव भत्वेन केवलस्याऽञ्चतेर्भत्वाऽभावात् ।भस्यावयवस्याञ्चते॑रिति वैयधिकरण्येनान्वये तु प्रत्यगात्मनेत्यादावञ्चतेकारस्य लोपः स्यात् ।अञ्चत्यन्तस्य भस्याकारस्य लोप॑इति व्याख्यानेतुप्राचः॑प्रातीचे॑प्रशब्दाकारस्यापि लोपः स्यात् । तन्त्रावृत्त्यादिनाऽञ्चत्यन्तस्य भस्याञ्चतेरकारस्येति व्याख्यानेऽपि — प्रत्यञ्चमञ्चति प्रत्यङ् । ततः शसादिषुप्रत्यक्वः॒॑प्रत्यक्चे॑त्यादावतिप्रसङ्ग एव । तस्मात्अल्लोपोऽनः॑इत्यत्रेवात्रापिअङ्गावयवोऽसर्वनामस्थानयजादिस्वादिपरो योऽञ्चतिस्तस्याऽकारस्य लोपः स्या॑दिति व्यख्येयम् ।द्युप्रागपागुदक्प्रतीचः॑इति निर्देशश्चेह व्याख्याने लिङ्गमित्याहुः ।", "64135": "<<षपूर्वहन्धृतराज्ञामणि>> - ताक्ष्ण इति । शिवादित्वात्,तस्येदम्इति वाऽण् । ताक्ष्ण्य इति । कारिलक्षणोण्यः । कुलात्खः । केवलात्कुलशब्दात्अपूर्वपदा॑दित्यादिना विशेषविहिताभ्यामपि यङ्ङकञ्भ्यां खो न बाध्यते, तद्विधावन्यतरस्याङ्ग्रहणादित्याशयेनाह — ।", "64136": "<<विभाषा ङिश्योः>> - विभाषा ङिश्योः ।शी॑ति-॒नपुंसकाच्चे॑ति विहितो गृह्रते, न तुजश्शसोः शिः॑ । तस्मिन्नमत्वात् ।भस्ये॑त्यनेनाऽसर्वनामस्थानस्यैव यजादेराक्षेपात् । तदेतदाह — अरुआवनामस्थानेत्यादि । ककुद्दोषणी इति । ककुत् — दोषणी इति च्छेदः । एकपदत्वे त्वनुपपत्तिरनुपदमेव वक्ष्यते । आसन्यमिति ।ये चाभावकर्मणो॑रिति प्रकृतिभावात्नस्तद्धिते॑ इति टिलोपो न । अत एवेति ।ककुद्दोषणी॑ इति प्रयोगादेवेत्यर्थः । यंद्यपि ककुच्चदोश्च तयोः समाहारः ककुद्दोः । ककुद्दोश्च ककुदोश्च ककुद्दोषणी कृते भाष्यं सुयोजमिति दोःशब्दस्य नपुंसकत्वे नेदं प्रमाणं, तथापिककु॑दित्यस्य पृथक्पदत्वमेव न्याय्यम् । अन्यथा बाह्वोर्द्वित्वे लब्धेऽपि ककुद एकत्वं न लभ्येतेति भावः ।तमुपाद्रवदुद्यम्य दक्षिणं दोर्निशाचरः॑ इति रघुः । तत्र दक्षिणं दोरुद्यम्य तमुपाद्रवदित्यन्वयः । दोषं तस्येति । अयं च श्रीहर्षप्रयोगः । दोषं हस्तु दूषणं च भजतः चापस्येति संबन्धः । द्वयोरह्नोर्भव इति । तद्धितार्थ इति समासः ।राजाहःसखिभ्य॑ इति टच्,अह्नोऽह्न एतेभ्यः॑ इति अह्नादेशः, कालाट्टञोद्विगोर्लुगनपत्ये॑ इति लुक् ।", "64137": "", "64138": "", "64139": "<<उद ईत्>> - उद ईत् ।अचः॑इत्यस्यापवादः । इहअच॑इत्यनुवर्तते,भस्ये॑ति च । तदाह — उच्छब्दात्परस्य लुप्तनकारस्येत्यादि । भस्येति किम् । उदञ्चौ । उदञ्चः । उदग्भ्याम् । लुप्तमकारस्येति किम्, पूजायाम् — ॒उदञ्चः॒॑उदञ्चे॑ति यथा स्यादिति ।", "64140": "<<आतो धातोः>> - हाहानिति । गन्धर्वविशेषवाचकमव्युत्पन्नं प्रातिपदिकमिदम् ।हाहा हूहूश्चैवमाद्या गन्धर्वाः॑ इत्यमरः । केचित्तु अकारो वासुदेवस्तेन सह वर्तन्ते इति साः । तान् सानिति प्रत्युदाहरन्ति । क्त्व श्न इति । यद्यपिक्त्वो ल्यप् श्नः शानज्झौ॑,क्रमश्च क्त्वि॑ इति निर्देशादेतत्सूत्रेष्वातो लोपः सिध्यति, तथापि क्त्वो ल्यब्भवति॑श्नः शानज्भवती॑ति व्याख्यानवाक्येष्वसाधुत्वशङ्कावारणायेदमुक्तम् । इत्यादन्ताः ।", "64141": "", "64142": "<<ति विंशतेर्डिति>> - तिशब्दस्येति । आसन्नविंशा इति । इह तिलोपोत्तरम्अतो गुणे॑इति पररूपमेव, न तु टिलोपः, टिलोपस्याऽऽभीयत्वेनाऽसिद्धत्वात् । न चात्र पररूपमपि न स्याट्टिलोपस्य स्थानिवत्त्वादिति शङ्क्यम्, अज्झलादेशोऽजादेशो न भवतीतिअचः परस्मि॑न्नित्यस्याऽप्रवृत्तेः ।स्थानिवदादेशः॑ इति तु न प्रवर्तत एव, शास्त्रिये कार्ये हि क्रतव्ये तत्प्रवृत्तिर्न तु विधातार्थमिति सिद्धान्तात् । विंशतेरिति । इहापि आसन्ना विंशतिर्येषामिति न विगृहीतम्, उक्तयुक्तेः । अदूरेत्यादि । अदूरास्त्रशतः, अधिकाश्चात्वारिंशत इति विग्रहौ बोध्यौ । द्वित्रा इति । वाऽर्थेऽयं बहुव्रीहिः । स च वार्थो न विकल्पः, पक्षे द्विवचमस्याप्यापत्तेः, किं तु संशयः । स चाऽनियतसकङ्ख्यावमर्शी, तत्र त्रयोऽपि सर्वदा भासन्त इति तदपेक्षं बहुवचनमेव । आनयनादिक्रियान्वयस्तु द्वयोस्त्रयाणां वेत्यनियत एवेत्याहुः । द्विरावृत्ता इति । सुजर्थे बहुव्राहिरित्यर्थः । वृत्तौ तु सुजार्थान्तर्भावेणैवैकार्थीभावाश्रयणात्सुचोऽप्रयोगः । सङ्ख्येति किम् । चत्वारो ब्राआहृणाः । अव्ययेत्यादि किम् । ब्राआहृआणाः पञ्च । सङ्ख्येये इति किम् । अधिका विंशतिर्गवाम् । सङ्ख्यार्थेयं सङ्ख्येति न सम#आसः । आ दशतः सङ्ख्याः सङ्ख्येते वर्तन्ते न तु सङ्ख्यायाम् । विंशत्याद्याः सङ्ख्यास्तु सङ्ख्येय सङ्ख्ययोर्वर्तन्ते । यदा तु सङ्ख्येये विंशतिशब्दस्तदा भवत्येव समासः — अधिकाविंशा इति ।", "64143": "", "64144": "<<नस्तद्धिते>> - नास्तद्धिते ।न॑इत्यनेन भस्येत्यधिकृतं विशेष्यते, विशेषणेन तदन्तविधिरत आह — नान्तस्य भस्येति । ननूपराजिमित्यत्रनस्तद्धिते॑इति व्यर्थम्,अव्ययानां भमात्रे -॑ इति टिलोपेनैव सिद्धेः । न चाव्ययत्वं टज्विशिष्टे पर्याप्तमिति वाच्यम्, अव्ययीभावसंज्ञाया उपजीव्यत्वेन टचः पूर्वभागस्याप्यव्ययत्वानपायात् । अत्राहुः — भाष्ये लुङ्मुखस्वरोपचारेषु त्रिष्वेव कार्येषु अव्ययीभावस्याव्ययसंज्ञाविधानान्न दोष इति । युक्त चैतत् । अन्यथा उपशरदमित्यादौ टिलोपः प्रसज्येत । यद्यप्यडुत्तमस्य पिच्चेत्यत्र दीर्घोच्चारणेन स्वावयवेन पौर्वपर्यं नास्तीतिज्ञापितम्,अ॑ डित्युक्तेऽपि तदादिग्रहणेन तद्विशिष्टस्याऽङ्गत्वादतो दीर्घो यञीति दीर्घसिद्धेः, तथाप्यह्नष्टखोरेवेति लिङ्गत्समासान्तेषु तन्नाश्रीयत इति बोध्यम् । आध्यायत्ममिति आत्मनि अध्यात्मम् । विभक्त्यर्थेऽव्ययीभावः ।", "64145": "<<अह्नष्टखोरेव>> - उत्तमाह इति ।सर्वैकदेशसङ्ख्याते॑त्यत्र उत्तमशब्दस्याऽपाटदह्नोदेशो न । व्द्यहीन इति । समासान्तविधेरनित्यत्वान्न टच् । सति तु तस्मिन्नह्नादेशः प्रसज्येत । न च नान्तस्य खे परे टिलोपविधिसामर्थ्यान्न टजिति वाच्यम्,अहीन॑इत्यत्र तस्य सावकाशत्वात् । अनित्यत्वादिति । अत्र च लिङ्गंशक्तिलाह्गलाङ्कुशे॑त्यत्र घटीग्रहणम् । मद्रराज्ञीति । यद्यत्र टच् स्यात्तदाभस्याऽढे -॑ इति पुंवद्भावे टिलोपे च मद्रराजीत्यनिष्टरूपं स्यादिति भावः ।", "64146": "<<ओर्गुणः>> - ओर्गुणः । तद्धिते किम् । पठ्वी । वाय्वोः । गुणोक्तिरिति । यद्यपिओरो॑दिति सूत्रितेऽपिभस्य॒॑तद्धिते॑इत्येवंरूपसंज्ञापूर्वकत्वामस्त्येव, तथापि विधेयसमर्पकं पदं यत्र संज्ञारूपं स एव संज्ञापूर्वको विधिरिति । भावः । यद्यपिओ॑दिति तपरस्तत्कालस्य संज्ञैव, तथापि इह तकार उच्चारणार्थः, तपरत्वे फलाऽभावात् । स॒ओरो॑इत्येव वाऽस्तु ।स्वं रूपं शब्दस्ये ति तु प्रत्याख्यातमिति भावः । स्यादेतत् — तपरस्तत्कालस्य संज्ञा भवतीतिगुरोरनृतः॑इति प्लुतनिषेधस्यापि संज्ञापूर्वकत्वेनाऽनित्यत्वात्क्लृ३प्तशिखेत्यत्र प्लुतसिद्धयेऋलृक् सूत्रे ऋकारात्पृथक् ऌकारोपदेशो व्यर्थः । सावण्र्ये सत्यप्युक्तरीत्या ऌकारस्य प्लुतसिद्धेरनित्यत्वज्ञापनस्य निष्फलत्वात् । न चैवमपि ऋदिताम्लृदित्कार्यम्लृदितामृदित्कार्यं च वारयितुमनित्य्त्वज्ञापनमावश्यकमिति वाच्यं, राजृभ्राजृग्म्लृशक्लृ इति पृथगनुबन्धकरणसाम्थ्र्यात्,नाग्लोपिशास्वृदिताम्लृदितः परस्मापदेषु॑ इति पृथगनुवादसामर्थ्याच्च तत्कार्याणामसार्ङ्क्यसिद्धेरिति चेदत्राहुः -॒गुरोरनृतः॑इत्यनेन ऋद्भिन्नस्य गुरोः प्लुतविधानात्अनृतः॑इत्यतदनूद्यमानगुरुविशेषणत्वेनानुवादरूपमेव, न तु विधेयसमर्पकसंज्ञारूपं पदमिति ऋस्थानिकप्लुतनिषेधस्याऽनित्यत्वाऽसिद्द्यक्लृ३प्तशिखेत्यत्र प्लुतो न सिध्यति, ततश्च तत्सि तत्सिद्द्यथमुक्तज्ञापनायोभयोपदेश आवश्यक इति । अन्ये तु -ऋकारात्पृथग्ऌकार उपदेष्टव्य एव, ऋकारोपदेशेन ऌकारस्याऽलाभात् । न चऋऌवर्णयोर्भिथः सावप्र्य॑मिति वचनात्तल्लाभः शङ्क्यः । वार्तिकं दृष्ट्वा सूत्रकृतोऽप्रवृत्तेरित्याहुः ।", "64147": "", "64148": "", "64149": "<<सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः>> - सूर्यतिष्य । अत्रभस्ये॑त्यनुवर्तमानमपि न सम्बध्यते, विषयपरिगणनेनैवातिपर्सङ्गनिवारणात् ।मत्स्यस्व ङ्याम् । मत्स्यस्य ङ्यामिति । नेह — मत्स्यस्येदं मात्स्यम् ।सूर्यागस्त्ययोश्छे च ङ्याचं॥छे च ङ्यां चेति । सूरीयः । सूरी । अगस्तीयः । अगस्ती । नेह — सौर्यं चरुम् । आगस्त्यम् ।तिष्यपुष्ययोर्नक्षत्राऽणि यलोप इति वाच्यम् । नक्षत्राऽणीति । नक्षत्रसम्बन्धी योऽण्नक्षत्रेण युक्तः कावलः॑इति,सन्धिवेलाद्यृतुनक्षत्रेभ्योऽ॑णिति च विहितस्तस्मिन्नित्यर्थः । तत्र तिष्यस्य यलोपो निपात्यते । पुष्यस्यत्वप्राप्तो विधीयते । तिष्येण युक्तः कालस्तैषः । पुष्येण युक्तः पौषः । तथा — तिष्ये भवस्तैषः । पुष्ये भवः पौषः । नेह — तिष्यस्यायं तैष्यः । मत्सीति । योपधत्वात्जातेरस्त्रीविषया॑दित्यप्राप्ते गौरादिपाठान्ङीष् । मातरि षिच्चेति ।पितृव्यमातुलमातामहे॑ति सूत्रस्थमिदं वचनम् । तच्चपितामही॑ति रूपसिद्ध्यर्थमवश्यं वक्तव्यमिति न वार्तिक्स्य वैयर्थ्यम् । ये तु पितामहशब्दमपि गौरादिषु पठन्ति, तन्मते वचनमिदं स्वरसतो न सङ्गच्छते । यदि त्वनित्यत्वज्ञापनमेव वचनस्य फलमिति ब्राऊषे, तर्हिषिद्गौरे॑ति सूत्र एवअनित्यं षितः॑इति वक्तव्यं किमनेन वक्रमार्गेणेति दिक् । दश्यतेऽनयेति दंष्ट्रा ।दाम्नीशसे॑त्यादिना करणे ष्ट्रन् ।", "64150": "<<हलस्तद्धितस्य>> - हलस्तद्धितस्य ।हल॑इति पञ्चमी ।यस्येति चे॑त् सूत्रात् — ईतीत्यनुवर्तते ।नस्ताद्धिते॑इत्यतस्तद्धित नानुवर्तते,आपत्यस्य चे॑त्यत्तरसूत्रे पुनस्तद्धितग्रहणात्तदाह -हल उत्तरस्येत्यादि ।तद्धिते॑इत्यनुवृत्तौ त्विहापि स्यात्, -साङ्काश्यकः । काम्पिल्यकः ।सङ्काशादिभ्यो णयः॑ । ततोधन्वयोपधा॑दिति वुञ् । उपधाभूतस्येति ।सूर्यतिष्ये॑त्यतउपधाया॑इत्यनुवर्तत इति भावः । ननुयस्येति चे॑ति यञोऽकारलोपे कृते यकारस्य ईकारपरत्वमस्त्येव किमुपधाग्रहणानुवृत्त्या । न चाऽल्लपोस्य स्थानिवद्भावो, यलोपे तन्निषेधात् । अत्राहुः — यलोपे कर्तव्येऽल्लोपस्याभीयत्वनाऽसिद्धत्वादुपधाग्रहणानुवृत्तिरभ्युपगन्तव्येति । अन्ये त्वाहुः — सूत्रारम्भसामर्थ्यादल्लोपस्याऽसिद्धकत्वं न भवति । तथा चोपधाग्रहणं विनापि नात्र क्षतिः । एवं चसूर्यतिष्ये॑ति सूत्रेऽप्युपधाग्रहणं त्यक्तुं शक्यमुक्तयुक्तेरिति । गार्गीति । गोत्रप्रत्ययान्तस्य जातित्वेऽपि योपधत्बादत्रजाते॑रिति ङीषिन भवति । तथाच आद्युदात्तमेवेदं पदम् । अनपत्याधिकारेति । यद्यपिआपत्यग्रहणं कर्तव्य वार्तिकम्, तथाप्यपत्याधिकारविहितपरं तत् । तादृशश्च गर्गादियञेव न तु देवाद्यञ् । तस्याऽपत्याधिकाररात्प्रागेवन पाठात् । अतएव भाष्यकृतायञश्चे॑त्यत्रकञ्क्वरपोऽयञश्चे॑ति,गर्गादिभ्यो य॑ञित्यत्रअय॑ञिति अकारः प्राश्लिष्टः । एवं चयञञोश्चे॑ति सूत्रेऽपियस्कारदिभ्यो गोत्रे -अयञञोश्चे॑त्यकारः प्रश्लिष्टः । एतच्च मनोरमाग्रन्थानुरोधोनोक्तम् । नव्यास्तु -अधिकारग्रहणमिहऽपार्थकं, यथाश्रुतवार्तिकेनैव द्वीपे भवा द्वेप्येति रूपसिद्धेः । न च देवस्यापत्यं स्त्री दैव्येति रुपाऽसिद्धि शङ्क्या,अयञश्चे॑ति भाष्यकारीयमिष्कर्षात्तत्सिद्धेः । नहिदेवाद्यञञौ॑इत्यत्राऽयञित्यकारः प्रश्लेष्टं शक्यते । किंचाधिकारग्रहणे अभिजितोऽपत्यं स्त्रीत्यणन्तात्स्वार्थेअभिजिद्विदभृ॑दित्यादिना यञिआभिजिती॑ति रूपं न सिध्येत् ।॒श्रुमदणोऽयञ॑इत्यकारप्रश्लेषेण भाष्यकाररीतियाऽपीह ङीपः संभवादित्याहुः । स्यादेतत् -अकारं प्रश्लिष्य गर्गादिभ्योऽयञि कृते गाग्र्य इति रूपं न सिध्येत् । मैवम् । वार्तिकप्रत्याख्यानाय भाष्यविरुद्ध इति स्पष्टमेव ।", "64151": "<<आपत्यस्य च तद्धितेऽनाति>> - गर्गाणामिति । अपत्यबहुत्कविवक्षायांयञञोश्चे॑ति लुक्, स चाऽजादिप्रत्यये चिकर्षिते अनेन प्रतिषिद्ध इति गाग्र्यशब्दाच्छे कृते तस्य ईयादेशः ।यस्येति चे॑त्यकारलोपे यलोपार्थमाह -आपत्यस्य चेति ।ढे लोपो ऽकद्र्वाः॑ इत्यतोलोप॑ इत्यनुवर्तते,सूर्यतिष्ये॑त्यतोय॑ इति,हलस्तद्धितस्ये॑त्यतोहल॑इति च । तदाह — हलः परस्येत्यादि । आभीयत्वेऽप्यल्लोपो नाऽसिद्धः, आरम्भसमाथ्र्यात् । अत एवोपधाया इति नानुवर्तितमिति व्याचष्टे -यकारस्येति । आपत्यस्येति किम् । सङ्काश्यकः । काम्पिल्यकः ।संकाशादिभ्यो ण्यः॑ । ततोधन्वयोपधा॑दिति वुञ् । तद्धिते इति किम् । गर्ग्ये । गार्ग्यांयोः । अनातीति किम् । गग्र्यायणः । गर्गीयमिति ।तस्मै हित॑मिति छः ।", "64152": "<<क्यच्व्योश्च>> - गार्गीभवतीति । इह यञन्तात्सुपि ततः च्विप्रत्यये कृतेआपत्यस्य च तद्धितेऽनाती॑ति यलोपो न भवति, ईकारेण व्यवधानादिति बोध्यम् ।", "64153": "", "64154": "<<तुरिष्ठेमेयस्सु>> - तुरिष् ।टे॑रित्यनेनान्त्यलोपे सिद्धेऽप्यारम्भसामर्थ्यात्सर्वस्य तृशब्दस्य लोपस्तदाह -करिष्ठ इति । दोहीयसीति इयमनयोरतिशयेन दोग्ध्री ।भस्याऽढे तद्धिते सिद्धश्च प्रत्ययविधौ॑इति वचनात्तद्धिते कर्तव्ये प्रागेव पुंवद्भाव इति ङीपि निवृत्ते दोग्धृशब्दात्प्रत्ययः, ततस्तृचि निवृत्ते निमित्ताऽभावाद्धत्वजश्त्वयोरपि निवृत्तिः । अलौलिके विग्रहवाक्ये प्रागेव तयोरप्रवृत्तिःअकृतव्यूह॑परिभाषयेति तु तत्त्वम् । गुणस्तु प्रवर्तते । लुप्तेऽपि तृचि प्रत्ययलक्षणध्रौव्यात्, छान्दसमपितु॑रिति सूत्रम्,तुरिष्ठेमेयः,सु॑इति चणाविष्ठव॑दित्यति देशेन लोकेऽपि कर्तारमाचष्टे कारयतीत्यादावुपयोक्ष्यमाणत्वादिहोपन्यस्तम् ।", "64155": "", "64156": "<<स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः>> - स्थूलदूर । परग्रहणं यविष्ठो ह्यसिष्ठ इत्यत्र पूर्वयणादेर्वोपो माभूदिति । पूर्वग्रहणं तु स्पष्टार्थम् । परस्मिन् लुप्ते सामर्थ्यात्पूर्वस्यैव गुणवलाभात् । स्थविष्ठ इति । न चाऽत्रओर्गुम॑इत्येव सिद्धे गुणग्रहणं व्यर्खमिति वाच्यं, परयणादिलोपस्याभीयत्वेनाऽसिद्धत्वात् क्षिप्रक्षुद्रयोरोर्गुणस्य प्राप्त्यभावात् । क्षेपिष्ठः क्षोदिष्ठ इत्यसिद्धिप्रसङ्गाच्च । एवमिति । प्रेयान् । स्थेयान् । स्फेयाम् । वरीयानित्यादि । इमेयसोर्लोप इति । स चआदेः परस्ये॑इत्यादेरेव भवति ।", "64157": "", "64158": "", "64159": "<<इष्ठस्य यिट् च>> - इष्ठस्य यिट् च । पूर्वसूत्रं संपूर्णमनुवर्तते । तदाह -बहोरित्यादि ।भूरादेशश्चे॑त्यपि ज्ञातव्यम् । भूयिष्ठ इति । अत्र इष्ठस्याऽऽजिलोपे कृते यिशब्द आगमः । यद्वा लोपापवादो यकार आगमः । इकारस्तूच्चारणार्थः । पक्षद्वयमपीदं भाष्यारूढम् ।", "64160": "", "64161": "<<र ऋतो हलादेर्लघोः>> - र ऋतो । हलादेः किम् । ऋजिष्ठः । ऋजीयान् । लघोः किम् । कृष्णिमा ।पृथुमृदुभृशे ॑ति परिगणने तुहलादेर्लघो॑रिति त्यक्तुं शक्यम् ।", "64162": "", "64163": "<<प्रकृत्यैकाच्>> - श्रेष्ठ इति । प्रकृतिभावादिहटे॑रिति लोपोयस्ये॑ति लोपश्च न भवति । ज्यादादी । ज्यादुत्तरस्य ईयसुन आकारादेशः श्यात् ।", "64164": "<<इनण्यनपत्ये>> - यौवनमिति । युवतिशब्दस्यानुदात्तादित्वादञि प्राप्ते अणर्थमिह पाठः । पुंवद्भावात्तिप्रत्ययनिवृत्तिः ।अन्इति प्रकृतिभावः । ननुभस्याऽढे॑इत्यत्रअढे तद्धिते विवक्षिते पुंवद्भावः॑इत्यभ्युपगमात्तद्धितोत्पत्तेः प्रागेव तिप्रत्ययनिवृत्तौ सत्यांकिन्युवृषी॑ति कनिनन्ततया आद्युदात्तत्वादण् सिद्धएवेति चेत् । सत्यम् । अतएव भाष्ये मिक्षादिषु युवतिशब्दपाठः प्रत्याख्यातः ।इह युवतिशब्दपाठसामर्थ्यात्पुंवद्भावो ने॑ति वृत्तिकारोक्तिरप्यत एव निरस्ता । नन्वेवंगार्भिणं यौवतं गणे॑इत्यादिप्रयोगा न सङ्गच्छेरन्नित्याशङ्क्याह -शत्रन्तादिति ।", "64165": "<<गाथिविदथिकेशिगणिपणिनश्च>> - गाथिविदथि ।इनण्यनपत्ये॑इति सिद्धे अपत्येऽप्यणि प्रकृतिभावार्थमयमारम्भः । गाथिनः । वैदथिनः । कैशिनः । गाणिनः । पाणिनः ।", "64166": "", "64167": "<<अन्>> - टिलोपो नेति ।नस्तद्धिते॑इति प्राप्तष्टिलोपो नेत्यर्थः ।", "64168": "", "64169": "<<आत्माध्वानौ खे>> - कर्मधारयादेवेति । व्याख्यानादिति भावः । विआजनीयमिति । विआस्य जनः= सर्वसाधारणो वेश्यादिः । विआओ जनोऽस्येति बहुव्रीहावपि स एवान्यपदार्थः । तस्मै हितमिति विग्रङः ।पञ्चजनादुपसङ्ख्यानम् । पञ्चजनीनमिति । रथकारपञ्चमाश्चत्वारो वर्णाः पञ्चजनास्तेभ्यो हितम् ।दिक्सङ्ख्ये संज्ञाया॑मिति समासः ।पञ्चजना॑दित्येतत्प्रभृति वार्तिकत्रयमपि कर्मधारयविषयमेव । तेन षष्ठीसमासाद्बहुव्रीहेश्छ एव । पञ्चजनीयः । सर्वजनीन इति । सर्वो जनः सर्वजनः ।पूर्वकालैके॑ति तत्पुरुषः । तस्मै हितमिति विग्रङः । साध्वर्थे तुप्रतिजनादिभ्यः ख॑ञिति खञि सार्वजनीनवैआजनीनशब्दौव्युत्पादितौ ।महाजनाट्ठञ् । मातृभोगीण इति । इहाऽखण्डपदत्वाऽभावेऽपिअट्कुप्वा॑ङित्यनेन यथा णत्वं भवति तथा प्रागेवोपपादितम् । मातुर्भोगः=शरीरं, तस्मै हित इति विग्रहः । यद्यपिभोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययो॑रित्यमरेण अहेरित्युक्तं, तथापि प्रयोगबाहुल्याभिप्रायं तत् । शक्तिस्तु शरीरमात्रे इत्याकरः । मातृपितृशब्दाभ्यामौत्सर्गिकश्छ एव । मात्रीयः । पित्रीयः । राजाचार्यादिभ्यां त्वौत्सर्गिकश्छोऽपि न भवति, अनभिधानात् । किं तु राज्ञे हितमाचार्याय हितमिति वाक्यमेवेत्याकरः ।", "64170": "", "64171": "<<ब्राह्मोअजातौ>> - ब्राआहृओ जातौ । योगविभागोऽत्रेति । एकयोगत्वे त्वारम्भसामर्थ्यादनपत्ये जातौब्राआहृई॑त्यात्राऽप्राप्तटिलोपसिद्धावपिब्राआहृण॑इति न सिद्ध्येत् ।अन्इति प्रकृतिभावस्यन मपूर्वोऽपत्ये॑इति निषेधाट्टिलोपस्य दुर्वारत्वात् । किंच अजातौ ब्राआहृमित्यादि न सिद्ध्येत्,अन् इति प्रकृतिभावस्य दुर्वारत्वादिति भावः#ः । ब्राआहृ इति । इहअपत्ये॑इति न संबध्यते, अन्यथा निपातनमिदं व्यर्थं स्यात्,न मपूर्वे॑ति प्रकृतिभावनिषेधाट्टिलोपसिद्धेरित्याशयेनाह -अनपत्येऽणीति । ब्राआहृमिति ।ब्राआहृओ मुहूर्तः॑,ब्राआहृऋ स्थालीपाकः॑इत्याद्यप्युदाहरणम् । नन्वेवमपि ब्राआहृणो न सिध्यति,न मपूर्वः॑इति प्रकृतिबावनिषेधादपत्येऽणिनस्तद्धिते॑इति टिलोपप्रवृत्तरत आह -जाताविति । इह मण्डूकप्लुत्याअपत्ये॑इत्यनुवर्तते,न॑ इति च । तदेतदाह -अपत्ये जातावित्यादिना । अयमत्रार्थः — ॒अपत्ये जातौ ब्राआहृणशब्दे टिलोपो न भवती॑ति । केचिदिहअजातौ॑इति छित्त्वाजातौ न भवती॑ति व्याचक्षते । तस्मिस्तु व्याख्यानेने॑ति नानुवर्तनीयम् । जातौ किम् । ब्राआहृओ नारदः ।", "64172": "", "64173": "", "64174": "<<दाण्डिनायनहास्तिनायनाथर्वणिकजैह्माशिनेय- वाशिनायनिभ्रौणहत्यधैवत्यसारवैक्ष्वाकमैत्रेयहिरण्मयानि>> - दाण्डिनायन । निपात्यन्त इति । दण्डिन्, हस्तिन् — आभ्यां नडादित्वात्फक्, निपातनाट्टिलोपाऽभावः । वसन्तादिषुअथर्वन्इति पठते ।अथर्वणा प्रोक्तो ग्रन्थ उपचारादथर्वा, तमधीतेआथर्वणिकः॑ । शुभ्रादिषुजिहृआशिन्इति पटते, तस्यापत्यं जैहृआशिनेयः । वाशिनोऽपत्यं वाशिनायनिः ।उदीचां वृद्धा॑दिति फिञ् । भ्रूणहन्, धीवन्, — अनयोः ष्यञि तकारोऽन्तादेशो निपात्यते । भ्रूणघ्नो भावो भ्रौणहत्यम् । धैवत्यम् ।हनस्तोऽचिण्णलोः॑इत्यनेनैव हन्तेस्तत्त्वे सिद्धे तकारनिपातनं ज्ञापयतिधातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञान॑मिति । तेन वात्र्रघ्नमित्यत्र तत्वं न । नन्वेवंप्रसृङ्भ्या॑मित्यादौअनुदात्तस्य चे॑त्यम् दुर्वारः स्यात्, अम्विधौ धातोः स्वरूपग्रहणाऽभावात् । अत्राहुः -॒मृजेर्वृद्धि॑रिति सूत्रस्थभाष्यपर्यालोचनयाधातोः कार्यमुच्यमानं तत्प्रत्यये भवती॑ति ज्ञापनार्थं तकारनिपातनमिति व्याख्येयम् । तेन न कोऽपि दोष इति ।सरयू॑इत्यस्याऽणि परे य्वादेर्वो निपात्यते । सरय्वां भवंसारव॑मुदकम् । इक्ष्वाकोरपत्यंऐक्ष्वाकः॑ ।जनपदशब्दात्क्षन्त्रियादञ् । उवोपो निपातनात् । इक्ष्वाकुषु जनपदेषु भवः ।कोपधादण् । ऐक्ष्वाकः । अत्राप्युलोपो निपातनादेव । अञणन्तयोद्र्वयोरप्येकश्रुत्या पाठात् । बहुत्वे तुअञस्तद्राजत्वाल्लुक्,अणस्तु ने॑ति विशेषः । तथा च रघुः -इक्ष्वाकूणां दुरोपेऽर्थे॑इति । मुरारिस्त्वाहऐक्ष्वाकेषु च मैथिलेषु च फलन्त्वस्माकमद्याशिषः॑इति । हिरण्यस्य विकारो हिरण्मयः । मयटि यादेर्लोपोऽत्र निपात्यते ।", "64175": "", "71001": "<<युवोरनाकौ>> - युवोः । समाहारद्वन्द्वे सौत्रं पुंस्त्वम् । उकारस्तूच्चारणार्थो नेत्संज्ञकः । तेन नन्दनः, कारकः , नन्दना, कारिकेत्यत्रोगिल्लक्षणौ नुम्ङीपौ न स्तः । अनुनासिकयोरिति किम् । ऊर्णायुः ।प्रकृत्याऽके राजन्यमनुष्ययुवानः । प्रकृत्याऽकेइति । इह राजन्यमनुष्यग्रहणं व्यर्थं, रूढिशब्दत्वेनअपत्यस्य चे॑ति यलोपस्य प्राप्त्यभावात् । अतएवगोत्रोक्षोष्ट्र॑इत्यत्र तयोग्र्रहणं सार्थकम् । अन्यथा गोत्रग्रहणेनैव सिद्धे तयोग्र्रहणं न कुर्यादित्याहुः । यूनो भावो योवनिका । मनोज्ञादित्वाठ्ठञ् ।वृद्धाच्चेति वक्तव्यम् । वार्धकमिति । यदि वृद्धत्वेऽपि वार्धकमिति प्रयोगोऽस्ति, तर्हि मनोज्ञादित्वं यौवनिका । मनोज्ञादित्वाठ्ठञ् ।", "71002": "<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> - आयने । आयनीनोर्नकारस्य नेत्त्वम्, फिनो नित्करणसामर्थ्यात् । फकारदिष्बकार उच्चारणार्थः । तेन ढ्रक्फिञादीनामादेशः सिध्यति । आदिग्रहणं किम् । ऊरुदन्घं मित्यादौ मा भूत् । प्रत्ययेति किम् । धीतोरादीनां मा भूत् । फक्कति । ढौकते । छादयति । घूर्णते । घञादिषु तुचजोः कुघिण्ण्यतो॑रित्यादिनिदेर्शेनेत्संज्ञया भाव्यमित्यादेशाभावः ।शमेर्ढः — शण्ढ॑इत्येवमादिनामेते आदेशा न भवन्ति,उणादयो बहुल॑मिति बहुलवचनादिति दिक् । क्रमादिति । फ[स्य] — आयन् । ढ[स्य] — एय् । ख[स्य] — ईन् । छ[स्य] — ईय् । घ[स्य] — इय् — इत्यर्थः । स्त्रियामेव ष्फप्रत्ययविधानादत्र ङीष्न स्यादित्याशङ्क्याह — षित्त्वसामथ्र्यादितिष । एकमेव स्त्रीत्वमुभाभ्यामुच्यत इति भावः । सर्वत्रग्रहणमुत्तरसूत्रादिहापकृष्यते बाधकबाधनार्थम् । तेनआवटआच्चे॑ति वक्ष्यमाणं परमपि चापं बाधित्वा प्राचां मते आवटशब्दादपि ष्फ एव भवति । चाब्विधेस्तूदीचां मते सावकाशत्वात् । आवटआयनी । एवं षाद्यञश्चाब्विषयेऽपि प्राचां ष्फ एव, शार्कराक्ष्यायणीति यथा ।", "71003": "<<झोऽन्तः>> - तकारादकार उच्चारणार्थः ।आयनेयीनी॑ति सूत्रात्प्रत्ययग्रहणमनुवर्तते न त्वादिग्रहम्, एकदेशे स्वरितत्वप्रतिज्ञानात् । तस्याप्यनुवृत्तौ तुशयान्तै॑ इति न सिध्येत् । शीङोलेटोऽरडाटौ॑ इत्यन्तरङ्गत्वादन्तादेशात्प्रागाटि कृते झस्यादित्वाऽभावात् । तदेतदाह — प्रत्ययावयवस्येति । प्राचा तु प्रत्ययादेर्झस्येत्युक्तं, तदनेन प्रत्युक्तम् । इह मनोरमायामादिग्रहणं निवृत्तमित्युक्तं, तदापाततः, अन्यत्राऽप्रवृत्तस्यादिग्रहणस्य निवृत्तत्वाऽयोगात् ।निवृत्त॑मित्यस्याननुवृत्तमित्यर्थ इति वा कथंचिद्व्याख्येयम् । यत्तु प्रत्ययादेरिति ग्रन्थसमर्थनाय व्याचक्षते — आडागमे कृते तत्सहितोऽपि प्रत्ययोऽस्तु नाम, न तु तत्सहित एव प्रत्यय इति नियमोऽस्तीति । तन्न । अवयवविनिर्मुकत्स्यावयवित्वाऽयोगात् । अन्यथा भूयास्तामित्यादौ तामादीनामिडागमापत्तेः । नन्वह्गात्परस्य प्रत्ययस्येट्, यासुडन्तं तु नाङ्गमिति चेत् ।आगमविनिर्मुक्तस्यापि प्रत्ययत्व॑मिति वदतां मते भवामि भविष्यामीत्यादौ विकरणान्तस्येव तदादिग्रहणबलेन यासुडन्तस्याप्यङ्गताया दुर्वारत्वात् । किं च लविषीयेत्यत्र विशेषविहितत्वात्सीयुटि कृते लिङः स्थाने इट्, तस्यागमेनाऽऽदित्वविघातात्प्रत्ययाद्युदात्तत्वं न प्राप्वोतीत्याशङ्क्य प्रत्ययस्वरे कर्तव्ये आगमा अविद्यमानवदित्यतिदेशः#आद्युदात्तश्चे॑ति सूत्रे भाष्यादौ स्वीकृतः । न चैतत्कैवलस्यापि प्रत्ययत्वे युज्यते । न च तन्मते आगमसहितस्यापि प्रत्ययत्वादिकारस्याप्युदात्तः स्यात्,तद्वारणायप्रत्ययस्वरे कर्तव्ये॑ इत्यादिग्रन्थः स्वीकर्तव्य एवेति नास्त्येवाऽऽकरग्रन्थविरोध इति वाच्यम्,आगमा अनुदात्ताः॑ इति विशेषवचनेनागमस्याप्यनुदात्तत्वे कृते आद्युदात्तत्वस्य तत्राऽप्रवृत्तेरिति दिक् । झस्येति । झकारादकार उच्चारणार्थः । अतो गुणे इति ।अतो दीर्घो यञी॑ति तु न प्रवर्तते, स्थान्यलादेशविधौ स्थानिवत्त्वनिषेधादिति भावः ।", "71004": "<<अदभ्यस्तात्>> - अन्तापवाद इति ।झोऽन्तः॑ इत्यस्य अदादेशोऽपवादः । अस्य त्वपवादो जुसिति ज्ञेयम् । बभ्रामेति ।जक्षन् क्रीडन् रममाण॑ इत्युपनिषदि जशादित्वस्य निर्विवादत्वात् ।नाभ्यस्ताच्छतु॑रिति निषेधेनजक्ष॑न्निति नुमश्छान्दसत्वेऽपि जशादित्वस्य तत्कल्पनाया अन्याय्यत्वात् । धातुवृत्त्यादौ जशादिपाठाच्च ।", "71005": "<<आत्मनेपदेष्वनतः>> - आत्मनेपदे ।झोऽन्तः॑ इत्यतोझ॑ इतिअदभ्यस्ता॑दित्यास्माददिति चानुवर्तते । तदाह — झस्य अत्स्यादिति । आत्मनेपदेषु किम् । अदन्ति । सुन्वन्ति । अनतः किम् । एधन्ते । प्लवन्ते । इड्भिन्न एवेणिति ।विभाषेटः॑ इति इटो विशिष्यग्रहणाद्गोबलीवर्दन्यायेन कैश्चिदिड्भिन्न एवेणिह गृह्रते इति भावः । ऊदृदन्तैरित । ऊदृदन्तैर्विना, यौत्यादिभिर्विना, वृङ्वृरञ्भ्यां च विना अन्ये ये एकाचोऽजन्तास्ते निहताः । अनुदात्ता इत्यर्थः । तथा च दाता धाता चेता स्तोतेत्यादिषु इण्न भवति । ऊदन्ता भूलूप्रभृतयः । ॠदन्ताः कृतृप्रभृतयः ।यु मिश्रणादौ॑ ।रु शब्दे॑,रुङ् गतिरेषणयोः॑ इत्युभयोग्र्रहणम्, निरनुबन्धपरिभाषया,लुग्विकरणाऽलुग्विकरणयोः॑ इति परिभाषया च । नच साहचर्याल्लुग्विकरणस्यैव ग्रहणमिति शङ्क्यम्, तस्याऽनितय्त्वात् ।क्ष्णु तेजने॑ ।शीङ् स्वप्ने॑ष्णुप्रस्नवणे॑ ।णुस्तुतौ॑ ।टुक्षु शब्दे॑ ।टुओश्वि गतिवृद्ध्योः॑डीङ् विहायसा गतौ॑ ।श्रिञ् सेवायाम् ।वृङ् संभक्तौ॑ ।वृञ् वरणे॑ । नन्वेतद्भिनानामेकाचामेवानुदात्तत्वे ऊर्णुतः ऊर्णुतवानित्यादि न सिध्येदिति चेत् । मैवम् ।ऊर्णोतेर्णुव्दभावो वाच्यः॑ इति वक्ष्यमाणवार्तिकेन#एष्टसिद्धः । तेन ऊर्णोनूयते इत्यत्र तुधातोरेकाच॑ इति यङ् । ऊर्णुनावेत्यत्राऽनेकाच्त्वेन प्रवनृत्तस्याऽऽमोऽभावश्च सिध्यति । उक्तं च भाष्ये -वाच्य ऊर्णोर्णुवद्भावो यङ्प्रसिद्धिः प्रयोजनम् । आमश्च प्रतिषेधार्थमेकाचश्चेदुपग्रहात्॥ इति ।विभाषा गुणेऽस्त्रिया॑मिति हेतावियं पञ्चमी । हेतुरिह फलम् । एतच्च कैयटे स्पष्टम् । उपग्रहः — प्रतिषेधः । इट्प्रतिषेधार्थमित्यर्थः । एवं च णुवद्भावेनैकाच्त्वात्श्र्युकः किती॑ति निषेधप्रवृत्तेरूर्णुत इत्यादि सिध्यति ।एकाच उपदेशे॑ इतीण्निषेधस्तु न प्रवर्तते, णुवद्भावनैकाच्त्वेऽप्यनुदात्तत्वाऽभावात्, ऊर्णुधातोर्णुदातोश्चोदात्तत्वात्, तता चोर्णविता औंर्णावीदित्याद्यपि सिद्धम् ।वसतिशक्लृघस्लृभ्यः॑ इतिप्राचो ग्रन्थस्तं पाठमुपेक्ष्य हलन्तेषु कादिक्रमेणाह — शक्लृ इति । कान्त एकः । चान्तेषु पच् मुच्रिच्वच्सिचः षट् ।डुपचष् पाके॑ ।पचि व्यक्तीकरणे॑ । द्वावपिप॑चित्यनेन गृह्रेते ।मुच्लृ मोक्षणे॑ ।रि॑चित्यनेनरिचिर्विरेके॑रिच वियोजनसंपर्चनयोःर॑ इतियौजादिकश्च गृह्रेते ।व॑चित्यनेन तुवच परिभाषणे॑ ब्राउवो वचिरपि । वचिर्यौजादिकोऽपि गृह्रते ।विचिर्पृथग्भावे॑ ।षिच क्षरणे॑ । छान्तेषु प्रच्छ्येकः । जान्तेषु त्यज्निजिर्भज्भञ्ज्भुज्भ्रस्ज्मस्ज्यजयुज्रुज्रञ्ज्विजिर्स्वञ्ज्सञ्ज्सृजः पञ्चदश । भुजित्यनेनभुज पालनाभ्यवहारयोः॑भुजो कौटिल्ये॑ इति च गृह्रते । युजित्यनेनयुजिर्योगे॑,युज समाधौ॑ इति च गृह्रते । केचित्तु व्याघ्रभूतिश्लोके भाष्ये च युजित्येतत्युजिर्योगे॑ इत्यस्यैकदेशोच्चारणित्याहुस्तनमतयुज् समाधौ॑ सेट् । सृजित्यनेन तुसृज विसर्गे॑ दिवादिस्तुदादिश्च गृह्रते । दान्तेषु अद्क्षुद्खिद्छिद्तुद्नुद्पद्यभिद्विद्यतिर्विनद्शद्शद्स्विद्यस्कन्दहदः पञ्चदश । खिदित्यनेनखिद दैन्ये॑ खिद्यतिः खिन्दतिः खिनत्तिश्च गृह्रते । विद्यतीति ।विद सत्तायाम् विनदिति ।विद विचारणे॑ । धान्तेषु क्रुध् क्षुध्बुध्यबन्धयुध्रुध्राध्व्यध्शुध्साध्सिध्यतय एकादश । रुधित्येनरुधिर् आवरणे॑अनो रुध कामे॑ इति दिवादिश्च गृह्रते । नान्तेषु मन्यहनौ द्वौ ।मन ज्ञाने॑ दिवादिः । पान्तेषु आप्क्षिप्छुप्तप्तिप्तृप्यदृप्यलिप्लुप्वप्शप्स्वप्सृपस्त्रयोदश । क्षिपित्यनेनक्षिप प्रेरणे॑ क्षिप्यतिः क्षिपतिश्च गृह्रते ।छुप स्पर्शे॑ । तपित्यनेनतप संतापे॑,तप ऐआर्ये॑ दिवादिः ।तप दाहे॑ इत्यपि णिजभावपक्षे गृह्रते ।तिपृ क्षरणे॑ । तृप्यतिदृप्यत्योर्वेट्कत्वेऽपिअनुदात्तस्य चर्दुपधस्येऽत्यमर्थोऽत्र पाठः । भान्तेषु यभ्रभ्लभस्त्रयः । मान्तेषु गम्नम्यम्रमश्चत्वारः । शान्तेषु क्रुश्दंश्दिश्दृश्मृश्रिश्रुश्लिश्विश्स्पृशो दश ।रिश् रुश् हिंसायाम् ।लि॑शित्यनेनलिश् अल्पीभावे॑ दिवादिः,लिश गतौ॑तुदादिश्च गृह्रते । षान्तेषु कृष्ट्विष्टुष्द्विष्दुष्पुष्य्पिष्विष्शिष्शुष्श्लिष्य एकादश । कृषिति भौवादिकतौदादिकौ गृह्रेते । विषित्यनेनविष्लृ व्याप्तौ॑ जिष्विष्मिषितिदण्डकस्थोऽपि गृह्रते । शिषित्यनेन तुशिष्लृ विशेषणे॒॑कष खष विषे॑ति दण्डकस्थश्च गृह्रते । विषितिविष्लृ व्याप्तौ॑ इति जौहोत्यादिक एव गृह्रते न तचु दण्डकस्थः । शिषित्यनेनापिशिष्लृ विशेषणे॑ इति रौधादिक एव न तु दण्डकस्थ इति बोपदेवादयः । सान्तेषु घस्लृवसती द्वौ ।घस्लृ अदने॑ ।लुह् सनोर्घस्लृ॑ इत्यत्तेरादेशस्य तु स्थान्यनुदात्तत्वेनापि सिद्धम् । हान्तेषु दह्दिह्दुह्मिह्नह्रुह्लिह्वहयोऽष्टौ । दुहिरिति भौवादिको न गृह्रते किं तुदुह प्रपूरणे॑ इति आदादिक एवेति प्राञ्चः । इह मनोरमामां सङ्गहश्लोक उक्तः — कचच्छजा दधनपा भमशाः षसहाः क्रमात् । कचका णणटाः खण्डो गघञाष्टखजाः स्मृताः॑ इति । तत्र पूर्वार्धोपात्ता ये चतुर्दश वर्णास्तदन्ता धातव उत्तरार्धोपात्तकादिक्रमेण ये वर्णास्तत्संख्याका बोध्या इत्यर्थः । अत एवकान्त एकः, चान्ताः षट्, छान्त एकः, जान्ताः पञ्चदशेत्यादि व्याख्यातम् । क इत्येकस्य, चेति षण्णां, ण इति पञ्चदशानां संज्ञेत्याद्यभ्युपगमात् । पान्तेषु द्व्योः श्यना । निर्देशस्य फलमाह — तुदादाविति । तृप्-दृपी मतभेदेन तुदादौ स्थितौ । चुरादौ तु तृपिः सर्वमतेन स्थितः । दृपिस्त्वेकीयमतेनेति विवेकः । अत एव वक्ष्यति — तृप तृम्फ तृप्तौ॑ । द्वावपि द्वितीयान्तावित्यन्ये ।दृप दृम्फ उत्क्लेशे॑ । प्रथमः प्रथमान्तः, द्वितीयो- द्वितीयान्तः । प्रथमो द्वितीयान्त इत्येके इति च तुदादौ । चुरादौ तु-तृप तृप्तौ॑ तृप दृप संदीपने॑ इत्येके इति च । अन्यनिवृत्तये इति । निवर्तनीयास्तुञिष्विदा स्नेहनमोचनयोः॑ । पद स्थैर्ये॑ । षिध गत्याम् । षिधू शास्त्रे माङ्गल्येचट । बुधिर्बोधने॑ इति भौवादिः ।मनु अवबोधने॑ तानादिकः ।पुष पुष्टौ॑ भौवादिकः क्रैयादिश्च ।श्लिष दाहे॑ भौवादिकः ।वस आच्छादने॑ आदादिकः । एते अनुदात्तत्वराहित्यात् सेटः । युञ् बन्धने॑ क्रैयादिकोऽयमनुदात्त इत्यनिट् । श्यना निर्देशेन सङ्ग्रह्रास्तुञिष्विदा गात्रप्रक्षरणे॑ ।पद गतौ॑ । षिधू संराद्धौ॑ ।बुध अवगमने॑ । मन ज्ञाने॑ । पुष पुष्टौ॑ ।श्लिष आलिङ्गने॑ ।वस निवासे॑ । एतेऽनिटः ।यु मिश्रणामिश्रणयोः॑ अयं सेट् । अमी तथेति ।णिजि शुद्धौ॑ ।ओविजी भयचलनयोः॑ ।शक मर्षणे॑ इत्येतेषां क्रमेण आदादिकतौदादिकदैवादिकानां व्यावृत्तये सानुबन्धा निर्दिष्टा इत्यर्थः । विन्दतिरिति ।विद्लृ लाभे । इष्ट ।अनिट्त्वेने॑ति शेषः । भाष्यानुक्ता इति । भाष्याकृताऽनुक्ता, न तु प्रत्याख्याता इति नास्तीह तद्विरोधः । ततश्च व्याघ्रभूत्यादिग्रन्थानुरोधात्,शुष्कधृष्टौ॑क्तेन नञ्विशिष्टेनाऽन॑ञित्यादि सौत्रप्रयोगादत्तुं प्रतिपत्तुमित्यादिसार्वलौकिकव्यवहाराच्च उपलक्षणतयैव भाष्यां नेयमिति भावः । अकर्मक इति.अत्र केचित् — अभिभवेच्छा धात्वर्थः । तथा च स्पद्र्धार्थकस्य सकर्मकता दृश्यते,आह्वास्त मेरावमरावतीं या॑इति । उदाहरिष्यते चस्पर्धायामाङः॑ इत्यत्र स्वयमेवकृष्णश्चाणूरमाह्वयते । स्पर्धत इत्यर्थः॑ इति । श्रीहर्षोऽपि प्रायुङ्क्त — तन्नासत्ययुगान्तं वा त्रेता स्पर्द्धितुमर्हति॑ इति । अतोऽस्य सकर्मकत्वं न्याय्यमित्याहुः ।", "71006": "<<शीङो रुट्>> - शीङो रुट् ।झोऽन्तः॑ इत्यतोझ॑ इत्यनुवर्तते ।अदभ्यस्ता॑दित्यतोऽदिति च । तथा चेष्टानुरोधेनाऽदिति प्रथमान्तस्य षष्ठन्तत्वमाश्रित्य व्याचष्टे झादेशस्याऽत इति । झस्यैव रुडागमे तु अदादेशो दुर्लभ इत्यदित्यस्याप्यनुवृत्तिः कृता । शिश्ये इति ।एरनेकाचः॑ इति यण् । शेताम् । शयाताम् । शेरताम् । शेध्वम् ।", "71007": "<<वेत्तेर्विभाषा>> - वेत्तेर्विभाषा ।शीङो रु॑डित्यतो रुडनुवर्तते,अदभ्यस्ता॑ दित्यतोऽदित्यनुवर्त्त्य षष्ठन्तत्वेन विपरिणम्यत इत्याह — अतो रुडागम इति ।* अर्तिश्रुदृशिभ्यश्चेति वक्तव्यम् । अङ्विधौ त्विति ।सर्तिशास्त्यर्ती॑ति लुप्तविकरणेन शासिना साहचर्यादिति भावः । मा समृतेति ।उश्चे॑ ति कित्त्वम् । माङ्योगादडभावपः । समार्तेति । ननु सिज्लोपस्याऽसिद्धत्वात्आटश्चे॑ति वृद्धौ कृतायांह्रस्वादङ्गा॑दिति सिज्लोपाऽप्रवृत्त्या समार्ष्टेति रूपं स्यात् । न च ह्रस्वाद्विहितस्येति व्याख्यानदिष्टसिद्धिरिति वाच्यं, विहितविशेषणे मानाऽभावात् । उदायत आहतेत्याद्यसिद्ध्यापत्तेश्च । अत्र केचित् — सिज्लोप एकादेशे सिद्धो वाच्यः॑ इत्यनेन पूर्वं सिज्लोपे पश्चाद्वृद्धिर्भवति,एकादेशे॑ इति विषयसप्तम्याश्रयणात् । न चैवमध्यैष्टेति न सिध्येत्, तत्राप्युक्तरीत्या पूर्वं सिज्लोपे वृद्धौ सत्यामध्यैतेति रूपप्रसङ्गादिति वाच्यम्,वार्णादाङ्गं बलीयः॑ इति पूर्वमेव गुणे कृते सिज्लोपो न प्रवर्तते इतिआटश्चे॑ति वृद्धौ कृतायामध्यैष्टेति रूपस्य निर्बाधत्वात् । समार्तेत्यत्र तुउश्चे॑ ति कित्त्वेन गुणाऽप्रवृत्त्या पूर्वमेव सिज्लोपे पश्चात्आटश्चे॑ति वृद्धिरिति वैषम्यमित्याहुः । अन्ये तु — सिज्लोपानन्तरं यत्रैकदेशः प्रसज्यते तत्रैव सिज्लोपः सिद्धो, यथा अग्रहीदिति । न चात्र तादृशो विषयोऽस्ति । किं चवार्णादाङ्गं बलीयः॑ इति पूर्वमेव गुणे कृते इत्यादि यदुक्तं, तदसत् । समानाश्रये हि वार्णादाङ्गं बलीयः । अन्यथा द्यौरिवाचरति द्यवतीत्यत्र यण्न स्यात् । किं तुपुगन्ते॑ति गुण एव स्यात् । तथा च समार्ष्टेत्येव वक्तव्ये समार्तेति लेखकप्रमाद इत्याहुः ।", "71008": "", "71009": "<<अतो भिस ऐस्>> - अतो भिस ऐस् । ननुए॑सित्येवास्तु । न चअतो गुणे॑ इति पररूपापत्तिः । एकारोच्चारणवैयथ्र्यापत्तेः । अन्यता इसमेव विदध्यादिति चेत्सत्यम् । एदैतोर्द्विमात्रत्वाऽविशेषेण गौरवाऽभावात् ।बहुलं छन्दसि॑ इत्यत्रअनतोऽपि भवति नद्यै॑रिति काशिकोदाहृतप्रयोगस्य ऐस्करणं विना अनिर्वाहाच्च । केचिदैस्करणं निर्जरसैरित्यैकारश्रवणार्थमिति व्याचख्युः, तच्चिन्त्यम् । संनिपातपरिभाषया जरसादेशाऽप्रवृत्तेर्निर्जरैरित्येव भाष्ये सिद्धान्तितत्वात् ।", "71010": "", "71011": "<<नेदमदसोरकोः>> - नेदमदसोः । भाष्ये तुइदमदसोः कात् । नियमार्थमिदम् ।इदमदसोः कादेव भिस ऐस् नान्यतः॑इति स्थितम् । नव्यास्तु — ॒इदमदसो का॑दिति सूत्रिते तुकाद्भिस ऐस् इदमसोरेवे॑ति विपरितनियमोऽपि संभाव्येत । तथाचपाचकै॑रित्यादि न सिध्येत् । किं तुइदमदसोः काद्भिस ऐस्॒अतः॑इत्येव सूत्रद्वयं सुवचमित्याहुः । स्मायादेशात्परत्वादनादेशः स्यादित्याशङ्कायामाह — नित्यत्वान्हेः स्मै इति ।", "71012": "<<टाङसिङसामिनात्स्याः>> - टाङसि ।अतो भिस ऐ॑सित्यस्मादनुवृत्तेनअत॑ इत्यनेन सामानाधिकरण्येन विशेषणात्अङ्गस्ये॑त्याधिकृतं षष्टन्तमपि पञ्चम्या विपरिणम्यते, विशेषणेन तदन्तविधिस्तदाह — अकारान्तादङ्गादिति ।", "71013": "<<ङेर्यः>> - ङेर्यः ।ङे॑रिति चतुर्थ्येकवचनस्य ग्रहणं, न सप्तम्येकवचनस्य, व्याख्यानात् । अतएवङेरा॑मित्यत्रास्याऽग्रहणम्,समानाधिकरणे॒॑स्त्रिया॑मित्यादिनिर्देशाच्च । स्थानिवद्भवेनेति । आदेशालाश्रयविधौ स्थानिवत्त्वनिषेधाऽभावादिति भावः । सुपि चेति दीर्घ इति । न च परत्वात्अकृत्सार्वधातुकयोः — ॑ इति दीर्घोऽस्त्विति शङ्क्यम्, तत्रअयङ्यि क्ङिति॑ इत्यतःक्ङिती॑त्यनुवर्तनात् । अन्यथाउरुये॑त्यत्रापि दीर्घः स्यात् । उरुशब्दात्परस्यटा॑ इत्यस्यसुपां सुलुक् इति यादेशः । एतच्च काशिकायां स्पष्टम् । यद्यपि ङेर्यादेशस्य ङित्त्वमस्तिन ल्यपि॑ इति ज्ञापकेन अनुबन्धकार्येष्वनल्विधावपि स्थानिवत्त्वाभ्युपगमात्, तथापि शानचः शित्त्वेन लिङ्गेन क्वचिदनुबन्धकार्येषु स्थानिवत्त्वानभ्युपगमाद्यादेशे ङित्त्वं नेत्यभ्युपेत्येदं । विरोधाऽभावात्परत्वमत्राकिंचित्करभित्यनादरेण वाअकृत्सार्वधातुकयोः-॑ इति दीर्घेण ज्यायानिति रूपसिद्धेरिति भाष्ये स्थितं, तदिदानीं विरुध्येत,क्ङिती॑त्यनुवृत्तौ तुज्याया॑नित्यत्रअकृत्सार्वे॑ति दीर्घाऽप्रवृत्तेः । तथाचअकृत्-॑ इति सूत्रे क्ङितीति नानुवर्तनीयम्, उरुया धृष्णुयेत्यत्र दीर्घाभावश्छान्दस इत्येवाभ्युपेयमिति चेत्, अत्राहुः,ज्ञाजनोर्जा॑ इत्याकारग्रहणमुक्तपरिभाषालिङ्गम् । अन्यथा जमेव विदध्यात् ।अतो दीर्घो यञि॑ इतिजायते॑जानातीत्यादौ दीर्घसिद्धेरित्यपि भाष्ये स्थितं, तच्च ज्ञापकम्अकृत्-॑ इत्यत्र क्ङितीत्यनुवृत्तावपि सङ्गच्छते । एवं च सतिज्यादात् इत्याकारग्रहणं लिङ्गमिति तु भाष्ये प्रौढवादमात्रमस्तु ।संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्ये॑ति । संनिपातेति । संनिपातः संश्लेषः लक्षणं निमित्तं यस्य स संनिपातलक्षणः । तं संनिपातं विहन्तीति तद्विघातः । कर्मण्यण्, कुत्वतत्वे । उपजीवकविधिः स्वोपजीव्यविघातकविधेर्निमित्तं न भवतीत्यर्थः ।", "71014": "", "71015": "", "71016": "<<पूर्वादिभ्यो नवभ्यो वा>> - एकशब्दस्याष्टावर्था उक्तास्तत्र विशेषमाह — सङ्ख्यायामिति । अन्येषु तु सप्तस्वर्थेषु वचनान्तरमपि स्यादेव,एके॑एकोषा॑मिति यथेति भावः ।", "71017": "<<जसः शी>> - जसः शी । दीर्घोच्चारणमुत्तरार्थं-वारिणी मधुनी । अनेकाल्त्वादिति । न तु शित्त्वादिति भावः । इत्संज्ञाया एवाभावादिति ।तृ॑इत्यत्रोपदेशकाल एव ऋकारस्येत्संज्ञा, शीभावस्य तु सर्वादेशत्वानन्तरं स्थानिवत्त्वेन प्रत्ययत्वे लब्धेलशक्वतद्धिते॑ इति प्रत्ययादेःशस्येत्संज्ञेति दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यमिति भावः ।", "71018": "<<औङ आपः>> - अथाऽडजन्ताःस स्त्रीलिङ्गाः । रमेति । रमते इति रमा ।रमु क्रीदायाम्इत्यस्मात्पचाद्यति टाप् । लिङ्गविशिष्टपरभाषया सावदयः । हल्ङ्यादिलोपःष न चात्राबन्तत्वादेव स्वाद्युत्पत्तिरेस्तु, प्रत्ययान्तस्याऽप्रातिपदिकत्वेऽपि ङ्योपोः पृथग्ग्रहणादिति वाच्यं, ङ्याब्ग्रहणस्यान्यार्थतायाः प्रागेवोक्तत्वात्प्रत्याख्यातत्वाच्च तद्भहणस्यष शी स्यादिति ।जसः शी॑त्यतःशी॑त्यनुवर्तत इति भावः ।", "71019": "<<नपुंसकाच्च>> - नपुसंकाच्च ।जसः शी॑औङ् आपः॑ इत्यतःशी॒॑औङ॑इति चानुवर्तत इत्यभिप्रत्याहक्लीबात्परस्येत्यादि ।यस्येति । इश्च अश्च यं, तस्य — [यस्य] । तदाह -इवर्णावर्णयोरिति ।ईति चे॑ति चकारेणनास्त द्धिते॑इत्यतस्तद्धितोऽनुकृष्यते, तदाह -ईकार तद्धिते चेति । औङः श्यामिति । विभक्त्य पेक्षया स्त्रीलिङ्गनिर्द्देशः । नेदं वचनं कर्तव्यम् ।विभाषा ङिश्यो॑रित्यतःश्यां॑मिति प्रकृतं,न संयोगात् इत्यतोने॑ति च, तत्रापि सबन्धमात्रं कर्तव्यं, यस्य ईकारे तद्धिते च लोपो भवति, श्यां नेत्याकरः ।", "71020": "<<जस्शसोः शिः>> - जश्शसोः । जसा साहचर्यादिह सुबेव शस् गृह्रते । तेनेह न -कुण्डशो ददाति ।", "71021": "<<अष्टाभ्य औश्>> - अष्टाभ्य औश् । शित्त्वात्सर्वादेशः । ननुअनेकाल्शित्सर्वस्ये॑ति सूत्रे शिद्ग्रहणं प्रत्याख्यायानेकाल्त्वादेव सर्वादेश इति सुवचम् । न च शस्येत्संज्ञायामन्काल्त्वं नास्तीति वाच्यं, शकरोच्चारणसामर्थ्यादत्र भूतपूर्वगत्याश्रयणात् । न चैवम्अर्वश्रस्त्रसा॑विति त्रादेसस्यापि सर्वादेशता स्यादिति वाच्यम्, ऋकारस्योगित्कार्यार्थत्वेन तत्र सामर्थ्योपक्षयात् । न चैवमशित्यादौ शकारः श्रवणार्थ एव स्यादिति शङ्क्यम्, अनुशतिकादिषुऐहलौकिक॑मिति निर्देशेन शकारस्येत्संज्ञाभ्युपगमाजितिदिक् । कृताकारादिति । ननुहली॑त्यपकृष्यत इत्युक्तं तत्कथं कृताकारतेत्यत आह — अष्टभ्य इतीति ।अष्टाभ्य॑इति कृतात्वस्येदमनुकारणम्, न तु लक्षणवशसंपन्नमात्वं, तथाहि सति वक्ष्यमाणज्ञापकेन तस्य वैकल्पिकतया लाघवार्थम्अष्टभ्य औ॑शित्येव ब्राऊशित्येव ब्राऊयादिति भावः । इदमिति । श्रुतमनुमितं चेत्यर्थः । अष्टनो दीर्घादिति । दीर्घान्तादष्टनः परा असर्वनामस्थानविभक्तिरुदात्ता स्यात् । अष्टभिः । दार्घात्किम्ष्टमिः । मध्योदात्तमिदम् ।षटत्रिचतुर्भ्यो हलादिः॑इति बाधित्वाझल्युपोत्तम॑मित्यस्य प्रवृत्तेः ।षट्त्रिचतुर्भ्यो या झलादिविभक्तिस्तदन्ते पदे उपोत्तममुदात्तं स्या॑दिति तदर्थः । ननुप्रियाष्ट्ने॑त्यादौ विभक्तेरुदात्तत्वनिवारणायट दीर्घग्रहणमिहावश्यकमिति कथमस्यात्वविकल्पज्ञापकतेति चेदत्राहुः — ॒अष्टनो दीर्घा॑दित्य त्रान्तोदात्तदित्युवर्त्त्यान्तोदात्तदष्टनः परेत्यादिव्याख्यानादष्टभिरित्यादौ विभ्केतदात्तत्वं सिद्द्यति । घृतादित्वेनाऽष्टनोऽन्तोदात्तत्वात् ।प्रियष्ट्न॑इत्यादिबहुव्रीहौ तु पूर्वपदप्रकृतिस्वराभ्युपगमेनाष्टनोऽन्तोदात्तत्वाऽभावाद्विभक्त्युदात्तत्वं न प्रवर्तते इति दीर्धग्रहणं व्यर्थं सदुक्तार्थे ज्ञापकमेवेति । अष्टानामिति ।नुटः पश्चादेव संनिपातपरिभाषाया अनित्यत्वादात्वं, नतु ततः प्रा॑गिति तु मनोरमायां स्थितम् । अत्र नव्याः — संनिपातपरिभाषयाऽऽत्वाभावेऽप्यत्र न क्षतिः ,॒नोफ्धाया॑इति दीर्घे नलोपेपञ्चनां॒॑सप्ताना॑मितिवद्रूपसिद्धेः । न च॒अष्टनो दीर्घा॑दिति विभक्त्युदात्तत्वमात्वविधेः प्रयोजनमिति वाच्यं,षट्त्रिचतुर्भ्यो हलादि॑रित्यनेनैव तत्सिद्धेरिति । पूर्वस्मादपीति । न चात्रपूर्वत्रासिद्धीये न स्थानिवत्इति निषेधः शङ्क्यः,तस्य दोषः संयोगादिलोपलत्वणत्वेषु॑, इत्युक्तत्वादिति दिक् । प्राधान्य एवेति । औशत्वं हि लुङ्नुटाविब प्राधान्य एव भवति न तु गौणात्वे,अष्टाभ्य॑इति बहुवचननिर्देशात् । अन्यथा हि कृताऽऽत्वानुकरणेऽपि एकवचनेनैव निर्दिशेत् -॒अष्टा औ॑शितिअष्ट॑इति वा । एतच्चष्णान्ता ष॑डिति सूत्रे भाष्यकैयटयोः स्पष्टम् । तथा चौश्व्तविधौ कृतात्वनिर्देशबलेनानुमीयमानमात्वं प्राधान्य एवोचितमिति भावः ।प्रियष्टा॑ -इति प्रथमैकवचनम् । उक्तार्थं सङ्गृह्णाति — — — प्रियाष्ट्नो राजवदिति । इति नान्ताः । भुदिति । बुध्यतेः क्विप् । इति धान्ताः ।", "71022": "<<षड्भ्यो लुक्>> - पङ्भ्यो लुक् ।सर्वनाम्नः स्मै॑ इतिवत्षषोलु॑गिति वक्तव्ये बहुवचननिर्दिशोऽत्रार्थप्राधान्यसूचनार्थः, कृत्रिमाकृत्रिमन्यायेन स्वरूपनिराससिद्धेः । तेनषडर्थगतसङ्ख्याभिधायिनोरेव जश्शसोर्लु॑गित्यर्थपर्यवसानात्प्रियपञ्चन इत्यादौ नातिप्रसङ्गः ।जश्शसोः शि ॑रित्यातोऽनुवर्तनादाह-जश्शसोर्लुक्स्यादिति ।", "71023": "<<स्वमोर्नपुंसकात्>> - स्वमोर्नपुंसकात् ।अयं लुक् पूर्वविप्रतिषेधेन त्यदाद्यत्वस्य, किमः कादेशस्य च बाधकः । परत्वाद्धि त्यदाद्यत्वेतदोः — ॑इति सोरम्भावे चसं कुल॑मिति स्यात् । इष्यते तुतत्कुल॑मिति ।", "71024": "<<अतोऽम्>> - अथाजन्ता नपुंसकलिङ्गाः । अतोऽम् ।अत॑इत्येतदधिकृतस्याऽङ्गस्य विशेषणं,स्वमोर्नपुंसका॑ — दिति चानुवर्तत इत्याशयेनाह -अतोऽङ्गादित्यादि । अदन्तादङ्गदित्यर्थः । स्वमोरिति । अमोऽम्विधानंस्वमोर्नपुंसका॑दिति प्राप्तस्य लुको बाधानार्थम् । अम्स्यादिति । यद्यपिम् इत्येवच्छित्त्वा सोर्मे कृते संनिपातपरिभाषयासुपि चे॑ति दीर्घत्वाऽप्रसक्त्याज्ञान॑मिति रूपं सिध्यिति । द्वितीयैकवचने तुआदेः परस्ये॑त्यकारस्य मकारे कृतेऽन्त्यस्य मस्य संयोगान्तलोपे सिद्धमिष्टम्, तथापिसंयोगान्तलोपो झलः॑इत्यभिप्रायेणेदं व्याख्यातम् ।यत्त्वाहुः — ॒अ॑मिति पदच्छेदाऽकरणेअतिजिरस॑मिति न सिध्यदिति, तद्रभसात् । सोरमि कृते संनिपातपरिभाषया जरसादेशस्याऽप्रवृत्त्याअतिजर॑मिति रूपस्यैवेष्यमाणत्वात् । द्वितीयैकवचने तुअतोऽ॑मिति बाधित्वा परत्वाज्जरसि कृते संनिपातपरिभाषया लिकोऽप्रवृत्तावतिजरसमिति रूपसिद्धेश्चेति दिक् । ज्ञानमिति । ज्ञप्तिज्र्ञानम् । ल्युट् ।युवोरनाकौ॑ ।॒कृत्ताद्धिते॑ति प्रातपदिकत्वात्स्वाद्युत्पत्तिः । हल्मात्रेति ।हे ज्ञान सु॑इति स्थिते संबुद्धिलोपात्परत्वादमादेशे कृते अमि पूर्वत्वे च तस्याऽन्तवद्भावाद्भस्वान्तमङ्गं भवतीति ततः संबुद्धिसंबन्धिनो मकारस्य लोप इत्यर्थः ।", "71025": "<<अद्ड् डतरादिभ्यः पञ्चभ्यः>> - अद्ड्डतरादिभ्यः । पञ्चभ्य इति किम्, नेमं तिष्ठति । नेमं पश्य । डतरादयोडतरडतमेतरान्यतरे॑ति सर्वादिषु पठिताः । अद्डादेशः स्यादिति । जिघृक्षितादेशस्वरूपप्रतिपादमाय ष्टुत्वं न कृतम् ।", "71026": "", "71027": "<<युष्मदस्मद्भ्यां ङसोऽश्>> - युष्मादस्मद्यां ङसोऽश् । शित्त्वं सर्वादेशार्थम् । अन्यथा हिआदेः परस्ये॑तिस्यात् । न चाऽकारस्याऽकारविधाने वैयर्थ्यम्, आदेशव्यपदेशेन यत्वनिवृत्त्यर्थत्वात् । न चावयवस्यादेशे सत्यपि विभक्तेरनादेशताऽस्त्येवेति वाच्यं,सर्वे सर्वपदादेशा॑इति सिद्धान्तात् । इदमेव शित्त्वं ज्ञापयतिसर्वे सर्वपदादेशाः॑इति । अर्थवत्येव स्थान्यादेशभावविश्रान्तिरित्यर्थः । सिच्चङादयस्तु वचनसामर्थ्यादनर्थकस्यापि भवन्तीति मनोरमायां स्थितम् ।", "71028": "<<ङे प्रथमयोरम्>> - ङे प्रथमयोरम् ।युष्मदस्मभ्द्यां ङसोऽ॑सित्यतोयुष्मदस्मभ्द्या॑मित्यनुवर्तते ।ङे॑इति पृथक्पदं लुप्तषष्ठीकम् ।प्रथमयो॑रिति द्विवचनबलेन प्रतमाशब्दः प्रथमाद्वितीयभयार्थके इत्याशयेन व्याचष्टे -युष्मदस्मद्भ्यां परस्य ङे इत्येतस्येत्यादिना ।ङेसुटो॑रिति सुवचम् ।", "71029": "", "71030": "<<भ्यसः भ्यम्>> - पक्षद्वयेऽपि साधुरिति । नन्वन्त्यलोपपक्षे पररूपं बाधित्वा सवर्णगदीर्घः स्यादकारोच्चारणसामर्थ्याजिति चेदत्राहुः, बहुवचने झल्ये॑दित्येत्त्वनिवृत्याऽकारोतच्चारणस्य चरितार्थत्वादिति । यद्यप्यङ्गवृत्तपरिभाषया एत्वं सुपरुहरं, तथापि तस्या अनित्यत्वे इदमप्यकारोच्चारणं ज्ञापकमिति तत्त्वम् ।", "71031": "", "71032": "", "71033": "<<साम आकम्>> - तव ममेति । नन्वत्रान्त्यलोपपक्षेऽशः स्यादेशः स्यात्, यत्वमिवृत्त्यर्थतया अआचनस्य चरितार्थत्वात् । नच स्यादेशस्यापवादोऽशिति वाच्यम्, अशादेशप्रवृत्तिकाले शेषे लोपाऽभावेन स्यादेशस्यऽप्रसक्तेः । अत्राहुः — अङ्गवृत्तपरिभाषया स्यादेशे वारणीयः । यदि तु अङ्गस्य तत्कार्यं तद्विषययिण्येव सा परिभाषा, न त्वङ्गाधिकारपरेति दुराग्रहस्तह्र्रशित्यत्रअतो गुणे॑इति पररूपेणाऽकारान्तरं प्रश्लिष्याऽकाररूप एवाऽश् भवति न तु विक्रियत इति व्याख्येयमिति । नन्वाकमादेशात्पूर्वमनादेशत्वाद्योचीति यत्वेन भाष्यं, ततश्च शेषे लोपाऽभावादवर्णान्तादिति विधायमानस्य सुडागमस्या.ञप्रसक्त्या साम इति ससुट्कनिर्देशो व्यर्थ इत्यत आह — भाविन इति । कृते हि शेषेलोप अकारान्तत्वात्प्राप्तः सुट् ससुट्कस्य स्थानित्त्वेन निर्देशसामर्थ्यान्निवर्तत इति भावः ।शेषे लोपष्टिलोपः॑इति पक्षे तु सुङ्ग्रहणं व्यर्थमेन । आकमि दीर्घोच्चारणं सवर्णदीर्घार्थम् । अन्यथा पररूपं स्यात् । न चाऽकारोच्चारणसामर्थ्यम्, एत्वनिवृत्त्या अभ्यमैव चरितार्थत्वात् । इहयुवावौ द्विवचने॒॑त्वमावेकवचने॑इति सूत्रद्वयेऽपि द्विवचनैकवनशब्दार्थपरौ, नतु प्रत्ययपराविति व्याख्यातं, तत्फलं दर्शयति — समस्यमान इत्यादिना । द्व्येकत्ववाचिनी इति ।पञ्चकं प्रातिपदिकार्थं॑इति पक्षाभिप्रायेणेदमुक्तम् । अस्मिस्तु पक्षे सङ्ख्याया अपि प्रातिपदिकार्थत्वात् । त्रिकपक्षे चुद्व्येकार्थवाचिनी॑इति पाटम् । सङ्ख्याया विभक्त्यर्थत्वेऽपि सङ्खयेयस्य प्रातिपदिकार्यत्वानपायात् । अन्यसङ्ख्यश्चेदिति । युष्मदस्मदर्थगतसङ्ख्येतरसङ्ख्यायुक्तश्चेदित्यर्थः । स्त इति । अर्थपरत्वाश्रयणसामर्थ्यादेव भूतपूर्वगतेरपि स्वीकाराद्युवावौ त्वमावपि स्तः । प्रत्ययपरत्वे तु न स्यातामित्यव्याप्तिः स्यादिति भावः । एवं चतुर्थश्लोकेऽपिन युवावौ त्वौ न चे॑त्युक्त्या प्रत्ययपरत्वेऽतिव्याप्तिध्र्वनिता । एवं चाऽव्याप्त्यतिव्याप्तिपरिहारायार्थपरत्वमाश्रितमिति फलितम् । नन्वेवं सुजस्ङेङस्स्वपि युष्मदस्मदोद्वर्य्र्थत्वे युवावौ स्यातामेकार्थंत्वे तु त्वमावित्याशङ्कायामाह — सुजस्ङेङस्सु परत इति । के ते आदेशा इत्यत त्याह -त्वाहौ यूयवयावित्यादि । अस्त्वेवं त्वाहागिभिर्युवावयोर्बाधस्त्वमौ तु तेभ्यः परौ कथं तैर्बाध्येतामित्यत आह -त्वमावपीति ।विप्रतिषेधे पर॑मित्यत्र परशब्दस्येष्टवाचित्वादिति भावः । अतित्वामतिमामिति । त्वां मा#ं वा अतिक्रान्ताविति विग्रहः । अतियूयम् । अतिवयमिति । त्वां मां वा अतिक्रान्ता इति विग्रहः । एवमग्रेऽप्यूह्रम् । अतित्वाकम् । अतिमाकमिति । अत्रान्त्यलोपपक्षे त्वङ्गवृत्तपरिभाषया नुडागमो निवार्यः,ह्रस्वनद्यापः॑इत्यत्रह्रस्वान्ताद्विहितस्यामो नु॑डिति व्याख्यानाद्वा । नन्वेवं भिन्नविषयतया सुटो नुडपवादत्वाऽभावेनाऽवर्णान्तसर्वनामाभ्यो विहितस्यामो नुडेव परत्वात्स्यात्, नतु सुडागमः, तस्ययेषां॒॑ताषा॑मित्यादौ सावकाशत्वादिति चेदत्राहुः — ॒त्यदादेरमि सु॑डिति वक्तव्ये॒आमि सर्वनाम्नः॑इति सर्वानामग्रहणसामर्थ्याद्धलि सर्वेषैमित्यादिनिर्देशाच्च अवर्णान्तसर्वनामभ्योऽप्यामः सुडेव भवति, नतु नुट् ।शस्प्रभृतिषु॑इति च विषयसप्तसी, तेन पद्दन्नादिष्वप्यामि न नुडिति । एवं चसाम॑इतिससुट्कनुर्देशेन युष्माकमस्माकमित्यत्र सुडादमाऽभावेऽपि नुडागमो दुर्वाप इत्याशङ्काया अपि निरवकाश एवेति बोध्यम् । यत्त्ु वदन्ति — ॒साम आक॑मित्यत्र यद्यपि सुड्ग्रहणं न स्थानिविशेषणं, बाधात्, तथापि उपलक्षणं तु भवति । यस्यामः सुडग्रे भावी तस्यैवाम आकमा भवितव्यं, न चैतद्रौत्वे संभवतीत्यकम्न प्रवर्तते । तथाचअतित्वयाम्॒अतिमया॑मित्येव रूपं, न त्वतित्वाकमतिमाकमिति । तदसत् । आकमाऽपह्मतस्यामः सुडन्वयाऽभावात् ।आकमः सुड्भावी॑ति चेत्तर्हि तमेवोपलक्षयेत् । आदेशद्वारकेण परम्परासंबन्धेन स्थानिनमुपलक्षयति चेदेवं तर्हियुष्माक॑ — मित्यादौ सुट् श्रूयते ।साम॑इति निर्देशसामर्थ्यान्न श्रूयतेति चेन्न, निर्देशस्य गौणव्यावृत्त्या चरितार्थत्वेन सामर्थ्याऽभावादित्यन्यत्र विस्तरः । गुणभूतयोर्युष्मदस्मदोरेकार्थत्वे उदाहरणान्युत्क्वा सम्प्रति द्द्यर्थवाचित्वे उदाहरति — युवामावां वा अतिक्रान्त इत्यादिना । बह्वर्थयोस्तूदाहरति -युष्मानस्मान्वेति.॒॒॑॑", "71034": "<<आत औ णलः>> - आत औ णलः । इह अङ्गस्येत्यनुवर्तते । धातोरिति तु फलितार्थकथनम् । आदन्तादङ्गादित्यर्थः ।", "71035": "<<तुह्योस्तातङाशिष्यन्यतरस्याम्>> - यद्यपितिह्रोस्तात॑ङिति वक्तुं शक्यं, तथापि लाघवाऽभावादतिप्रसङ्गवारणाय हिशब्दसाहर्याश्रयणे लोट् इत्यनुवर्तमाने वा गौरवाच्च तुह्रोरित्युक्तम् ।", "71036": "<<विदेः शतुर्वसुः>> - विदेः । स्थानिवत्त्वादेव सिद्धे वसोरुगित्करणंवसोः संप्रसारण॑मित्यत्र क्वसोरपि सामान्यग्रहणार्थम् । तत्सामर्थ्याच्चएकानुबन्धग्रहणे न द्वयनुबन्धकस्ये॑त्येतदपि न प्रवर्तते ।", "71037": "<<समासेऽनञ्पूर्वे क्त्वो ल्यप्>> - समासेऽनञ् । नञ्भिन्नं नञ्सदृशम् । अव्ययमिति यावत् । तत्पूर्वं पूर्वपदं यस्य समासस्येति व्याचष्टे — अव्ययेति । प्रकृत्येति । प्रशब्दः क्त्वाप्रत्ययार्थगतप्रकर्षस्य द्योकः, स तुकुगतिप्रादयः॑ इति क्त्वान्तेन नित्यं समस्यते । पर्युदासेति.प्रसज्यप्रतिषेधाश्रयणे तु स्यादेवात्र ल्यबिति भावः ।", "71038": "", "71039": "", "71040": "", "71041": "", "71042": "", "71043": "", "71044": "", "71045": "", "71046": "", "71047": "", "71048": "", "71049": "", "71050": "", "71051": "<<अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि>> - अआक्षीर ।आज्जसे॑रित्यतोऽसुगिति वर्तते ।* अआवृषयोर्मैथुनेच्छायाम् । अआस्यतीति । मैथुनार्थमआमिच्छतीत्यर्थः एवं मैथुनार्थं वृषमिच्छति वृषस्यति गौः । ननुइति रामो वृषस्यन्ती॑मिति प्रयोगो मनुष्यविषये कथं सङ्गच्छत इति चेत् । अत्राहुः — अआवृषरूपप्रकृत्यर्थपरित्यागेन मैथुनेच्छैवार्थः, अतएववृषस्यन्ती तु कामुकी॑ति कोशोऽपि स्वरसतः सङ्गच्छते इति । *लवणयोर्लालसायाम् । लालसायामिति । उत्कटेच्छायामित्यर्थः ।", "71052": "<<आमि सर्वनाम्नः सुट्>> - अवर्णान्तादिति । अवर्णान्चतादङ्गत्पर्सयेत्यर्थः । तेनयेषां॑तेषा॑मित्यादौ नाऽव्याप्तिः । सर्वनाम्नो विहितस्येति ।सर्वनाम्नः परस्ये॑ति नोक्तं,वर्णाश्रमेतराणा॑मित्यत्र सुट्प्रसङ्गात्,द्वन्द्वेचे॑त्यनेन समुदायस्य सर्वनामसंज्ञानिषेधेऽप्यवयवस्याऽनिषेधात् । विहितविशेषणत्वाश्रयणे प्रमाणं तुदक्षिणोत्तरपूर्वाणा॑मिति भाष्यकारप्रयोग एव । आम इति ।सर्वनाम्न॑ इति पञ्चम्या निरवकाशतयाआमी॑ति सप्तम्याःत्रेस्त्रयः॑इत्युत्तरसूत्रे कृतार्थायाः षष्ठी प्रकल्प्यत इति भावः । पञ्चतिंरशदिति । पञ्च च तिंरशच्चेति द्वन्द्वः । पञ्चाधिकास्त्रशदिति तत्पुरुषो वा । न चसंङ्ख्यायास्तत्पुरुषस्ये॑ति वक्ष्यमाणवार्तिकेन समासान्तो डच्स्यादिति वाच्यम्, तत्रैव वार्तिकेअन्यत्राधिकलोपा॑ दित्युक्तत्वात् । ननु सर्वेषां नाम सर्वनामेत्यन्वर्थत्वात्संज्ञायाः सर्वविआआदय एव संज्ञिनो भविष्यन्ति नान्ये इति किमनेन पञ्चतिंरशदिति परिगनेन,सर्वादीनी॑ति सूत्रेण वा । मैवम् । परिगणनाऽभावे कृत्स्नसकलसमस्तादिष्वतिप्रसङ्गात् । एवं चपञ्चतिंरशत्सङ्ख्याकानि सर्वादीन्येव सर्वनामसंज्ञकानि नान्यानी॑ति नियमायसर्वाद#ईनी॑ति सूत्रमावश्यकं न त्वनुनासिकसंज्ञासूत्रमिव मन्दप्रयोजनमिति बोध्यम् । पूर्वपरावर । व्यवस्थायामसंज्ञायां यानि पूर्वपरावरदक्षिणोत्तरापराधराणि तानि सर्वादिगणसंनिविष्टानि नान्यानीत्यर्थः । सर्वनामसंज्ञा तुसर्वादीनि सर्वनामानि॑ इत्यनेनैव सिध्यति । एवमुत्तरसूत्रद्वयेऽपि बोध्यम् ।त्यद्तद् एतौ उक्तपरामर्शकौ ।तत्राद्यश्छान्दस॑ इति गणरत्नकारोक्तिर्नादर्तव्या । स्यश्छन्दसि बहुल॑मिति सूत्रे छन्दोग्रहणवैयथ्र्यापत्तेः । एक इति ।एकोऽन्यार्थे प्रधाने च प्रथमे केवले तथा । साधारणे समानेऽल्पे सङ्ख्यायां च प्रयुज्यते॑ । अत एवेति । द्वयोर्द्विवचनस्यैव युक्तत्वादिति भावः । नित्यं द्विवचनान्त इति । सर्वदा । द्विवचनान्त इत्यर्थः । न चैवमुभादुदात्तो नित्यम्,उभय सर्वनामत्वे कोऽर्थः॑-इति सूत्रकारभाष्यकारप्रयोगो विरुध्यत इति शङ्क्यम्, अर्थपरस्यैव नित्यं द्विवचनान्तता न तु स्वरूपानुकरणपरस्येत्यभ्युपगमात् । अथ सर्वादिषूभशब्दपाठो व्यर्थः, सर्वनामकार्याणां स्मायादीनां द्विवचनेऽभावात् । न चसर्वनाम्नस्तृतीया चे॑ति सूत्रेणोभाभ्यां हेतुभ्यामुभयोर्हेत्वोरिति षष्ठीतृतीयासिद्धिसतत्फलमिति वाच्यम् ।निमित्तकारणहेतुषु सर्वासां प्रायदर्शन॑मिति वार्तिकेनैव गतार्थत्वात् । न च वृत्तिकृतासर्वनाम्नस्तृतीया चे॑ति सूत्रे पठितत्वादिदमपि वार्तिकं सर्वनाम्न एव सर्वविभक्तिप्रापकं नान्यस्येति वाच्यम्, भाष्येहेतौ॑ इति सूत्रे तद्वार्तिकस्य पठितत्वादिदमपि वार्तिकं सर्वनाम्न एव सर्वविभक्तिप्राप्कं नान्यस्येति वाच्यम्, भाष्येहेतौ॑ इति सूत्रो तद्वार्तिकस्य पठितत्वात् । अत एवअन्नेन कारणेन वसति॑अन्नस्य कारणस्ये॑त्युदाहृतं हरदत्तेनेत्याशङ्ख्याह-तस्येह पाठस्त्विति । ननु कप्रत्ययेनापीष्टसिद्धेः किमनेनाऽकजर्थपाठेना । न च काऽकचोः स्वरे विशेषोऽस्तीति वाच्यम्, प्रत्ययस्वरेण चित्स्वरेण वाऽन्तोदात्तत्वे विशेषाऽभावादित्याशङ्क्याह- न चेति । उभशब्दस्य द्विवचनपरत्वमकच्प्रत्ययो न विहन्ति, टेः प्राग्जायमानत्वात्, तन्मध्यपतितस्य तद्ग्रहणेन ग्रहणात् । कप्रत्ययस्तु विहन्त्येव, प्रातिपदिकात्परत्र जायमानत्वादित्याशङ्ख्यामाह-द्विवचनपरत्वाभावेनेति । अयच्प्रसङ्गादिति । उभयशब्दात्रतसोः परतः स्वार्थे यथा अयज्यभवति तथा कप्रत्यये सति स्यादिति भावः । यद्यपि स्वार्थे अयज्दृष्टान्तेऽपि दुर्लभस्तथापिउभादुदात्त॑ इति सूत्रेनित्य॑मिति योगविभागात्सुलभ एव । तथाहि-॒उभादुदात्तः॑ ।द्वित्रिभ्या॑मिति सूत्राद्वेति नानुवर्तते, अस्वरितत्वात् । अवयववृत्तेः सङ्ख्यावाचिन उभशब्दादवयविन्यर्थे अयच् स्यात् । उभयो मणिः । उभयः पाशः । ततोनित्यम् । उभशब्दाद्वृत्तिविषये नित्यमयच्स्यात्स्वार्थे । तेनउभयतः॑,उभयत्र,॑उभयपक्षविनीतानिद्राः॑ इत्यादि सिद्धम् । नन्वेवमकचि कृतेऽप्ययज्दुर्वारः,वृत्तिविषये स्वार्थे नित्यमय॑जिति त्वयैवोक्तत्वादिति चेत्, एवं तर्हि योगविभागस्येष्टध्द्यर्थतयाउभौ साभ्यासस्ये॑ति निर्देशेन च यत्र द्विवचनं न श्रूयते तत्रैवायमिति व्याख्यायते, न तु वृत्तिविषय इति न दोषः । तदुक्तमिति ।वार्तिककृते॑ति शेषः ।उभयोऽन्यत्रेति । उभयेति यः स्वार्थिकोऽयजन्तः सोऽन्यत्र प्रयुज्यते, न तु द्विवचने परत इत्यर्थः । न चउभा॑वित्यादौ द्विवचनपरत्वं दुरुपपादम्, उभयत आश्रयणोऽन्तादिवद्भावविरहादिति वाच्यम्;उभशब्दादुत्पन्नं द्विवचनं लुका नापह्मतं यत्र ततोऽन्यत्रायजिति विवक्षितोर्थ॑ इति मनोरमायामुक्तत्वात् । एवं च सर्वादिषूभशब्दपाठोऽकजर्थ इति स्थितम् । भाष्ये तु — कप्रत्ययस्य स्वार्थिंकत्वेन स्वार्थाभिधानसमर्थत्वादुभशब्दात्परस्य द्विवचनपरत्वमस्तीत्याश्रित्योभशब्दपाठः सर्वादिगणे प्रत्याख्यातः । मनोरमायां तु-भाष्ये प्रत्याख्यानं प्रौढिवादमात्रं, कृत्तिमस्यैव द्विवचनस्येह ग्रहीतुमुचितात्वदन्यथात्रतसिलादावतिप्रसक्तत्वादित्यादि स्थितम् ।उभयशब्दस्येति । उभावयवौ यस्य उभयः ।उबादुदात्तो नित्य॑मिति तयपोऽयच् । नास्तीति । अनभिधानादिति भावः । तथा चोभयशब्दस्य द्विवचनानुत्पादादसर्वविभक्तत्वेनाऽव्ययत्वे प्राप्तेतद्धितश्चासर्वविभक्ति॑रिति सूत्रेकृत्ताद्धितानां ग्रहणं च पाठे॑ इति भाष्यं कैयटेनावतारितम् । अस्तीति ।पचतिरूप॑मित्यादिवारणेन पाठस्योपक्षीणत्वादनभिधाने प्रमाणं नास्तीति भावः । तस्मादिति । उभयशब्दादित्यर्थः । तयप्प्रत्ययान्ततयेति ।उभयशब्दस्ये॑ति शेषः । यदि तूभयशब्दादयच् स्वतन्त्रः, नतु तयप आदेश इति निष्कर्षः स्वीक्रियते, तदाऽपिप्रथमचरमतये॑ति वैकल्पिकप्राप्तिर्नास्त्येवेति बोध्यम् । नित्यैवेति ।उभया अमित्रा॑ इति तु छान्दसत्वाद्बोध्यम् । डतरडतमाविति ।किंयत्तदोर्निधारणे द्वयोरेकस्य डतरच्,वा बहूनां जातिपरिप्रश्ने डतमच्, एकाच्च प्राचा॑मिति विहितौ । अव्युत्पन्नाविति । एतच्च पस्पशायां कैयटे स्पष्टम् । एके इति । काशिकाकाराः ।एतं त्वं मन्ये॑इत्युनुदात्तस्य,उत त्वः पश्यन् इत्यनुदात्तस्य च दर्शनादिति भावः । एक इति । प्रथम इत्यर्थः । संहितया पाठे तान्तत्वस्याऽस्फुटत्वेऽपित्व॑दिति तान्तश्छेत्तव्यः । अन्यथा एकश्रुत्या सकृदेव पठेत् । न च तान्ते विप्रतिपत्तव्य ।त्वत्त्वसमसिमेत्यनुच्चानी॑ति फिट्सूत्रात् । तथाच ऋङ्भन्त्रः-॒स्तरीरु त्वद्भवति सूत उ त्वत् इति । जयदेवोपि प्रायुङ्क्त॒त्वदधरममधुरमधूनि पिबन्त॑मिति । त्वत्तोऽन्यस्या अधर इति विग्रहो न तु तवाधर इति,पश्यति दिशि दिशि रहसि भवन्त॑मिति पूर्ववाक्येन सहाऽनन्वयापत्तेः । सम इति । तथाच श्रूयते-॒मा नो वृकाय वृक्ये समस्मै॑ ।उतो समस्मिन् इत्यादि ।सिमः कृत्स्ने च शक्ते च स्यान्मर्यादावबद्धयोः॑ । गणसूत्र इति । यद्यपि भाष्येऽष्टाध्यायीस्थसूत्रेअपुरीति वक्तव्य॑मिति वार्तिकं पठितं, तथापि तद्गणसूत्रस्यैव शेषो न तु जसि विभाषाविधायकस्य ।अत॑ इत्यधिकृत्य जसः शीविधानादाबन्तात्प्राप्त्यभावात् । अन्तरायामिति । प्राकाराद्बाह्रायां, तदन्तर्विर्तिन्यां वेत्यर्थः । लिङ्गविशिष्टपरिभाषया एकादेशस्य पूर्वान्तत्वेन ग्रहणाद्वा सर्वनासतायाः प्राप्तिर्बोध्या । इत्थं सर्वादिगणं व्याख्यायेदानीं तदन्तर्गतत्रिसूत्रीसमानाकारामष्टाध्यायीस्थां त्रिसूत्रीं व्याचष्टे ।", "71053": "<<त्रेस्त्रयः>> - त्रेस्त्रयः ।त्रे॑रिति षष्ठी न तु पञ्मी ।त्रय॑इत्यदन्तं न तु सान्तं,निजां त्रायाणां॑मिति निर्देशादित्यमिप्रेत्याह — त्रिशब्दस्य त्रयादेश इति ।ननु निजां त्रयाणा॑मिति निपातनादेवत्रयादेशे सिद्र्ध किमनेन सूत्रेणेति चैन्मैवम् ।अबाधकान्यपि निपातनानि भवन्ती॑त्यनेन ज्ञापनात् । तेनपुरातन॑मिति सिध्यति । अन्यथापुराणप्रोक्तेषु — ॑इति निपातनादेतद्बाध्येत ।त्रेरय॑ङित्येव न सूत्रितम् । तत्करोति आचष्टे वेत्यर्थंतत्करोति॑इत्यादिना णिचि ततः क्विपिप्रकृत्यैकाजि॑ति प्रकृतिभावाट्टिलोपाऽभावेह्रस्वस्य पिती॑तु तुकित्रित् । ततो बहुत्वविवक्षायामामि कृते त्रेरयङित्रयाणा॑मिति रूपाऽसिद्धेः । न चवार्णादाङ्गं बलीयः॑इति तुकः प्रागेवायं स्यादिति शङ्क्यम्, युगपत्प्रवृत्तावेवाऽऽङ्गस्य बलीयस्त्वात् । केचिदिति ।त्रेः संबंन्धिन्यामी॑ति विज्ञानाद्गौणत्वेऽपि त्रयादेशो न भवतीति तेषामाशयः । वस्तुतस्त्विति । अर्थप्राधान्यबोधकस्य बहुवचनस्याऽभावाद्गणत्वेऽपि त्रयादेशो न्याय्यः, प्रियास्थ्नेत्यादावस्थ्याद्यनङ्वदिति भावः ।", "71054": "<<ह्रस्वनद्यापो नुट्>> - ह्रस्वनद्यापो ।अङ्गस्ये॑त्यनुवर्तते । तच्च पञ्चन्यन्तेन सामानाधिकरण्यादङ्गादिति विपरिणमय्य ह्रस्वादिभिर्विशेष्यते, विशेषणेन तदन्तविधिरित्याशयेनाह-ह्रस्वान्तादिति । एतेनह्रस्वनद्यापः-॑ इति पञ्चमी न तु षष्ठीति स्फोरितम् । ज्ञापकं त्वत्रनामी॑ति । नहि प्रकृत्यागमत्वे अङ्गसंज्ञानिमित्तं नाम् सम्भवति । एवं चानया पञ्चम्याऽनन्यार्थयातस्मादित्युत्तरस्ये॑ति परिभाषोपस्थित्याआमि सर्वनाम्नः सुट् इत्यतोऽनुवृत्तमामीति सप्तम्यन्तंडः सि धु॑डित्यत्रेव षष्ठ्या विपरिणम्यते,अमी॑ति सप्तम्याःत्रेस्त्रयः॑ इत्यत्र चरितार्थत्वादित्यभिप्रेत्याह-आमो नुडागमः स्यादिति । अत्र नव्याः-॒नुट् इति योगं विभज्यअङ्गात्परस्यामो नुट् इत्युत्सर्गविधि कृत्वानद्यापः॑ इत्यंशेनदीर्घात्परस्यामो नुट् चेद्भवति तर्हि नद्याप एव॑ इति नियमविधिं व्याख्याय ह्रस्वग्रहणं प्रत्याख्येयम् । न चैवंलिहां॑दुहा॑मित्यादावतिप्रसङ्गैति वाच्यम् ।हलन्ताच्चेद्भवति तर्हि षट्चतुभ्र्य एवे॑ति नियमाभ्युपगमात् ।ध्वस्वनडुहां॑कतिपयचतुरां॑यजिक्रुञ्चा॑झलाम् इत्यादिनिर्देशाच्च । तस्माद्ध्रस्वग्रहणप्रत्याख्याने न कोऽपि द#ओष इत्याहुः । अत्र वदन्ति — ॒नु॑डिति पृथग्योगे कृते सति ङेरामि कृते परमप्याटं बाधित्वाऽन्तरङ्गत्वादामो नुट् स्यात् । तथा च-॒परत्वादाटा नुड्बाध्यते॑-इति वक्ष्यमाणग्रन्थेन,आटि कृते सकृद्गतिन्यायान्नुड् ने॑ति भाष्यग्रन्थेन च विरोधः स्यात् । यद्यपिनियमसूत्राणां विधिमुखेन प्रवृत्ति॑रिति पक्षे ङेरामि कृते तस्यनद्यापः॑ इत्यनेनैव नुडागमे प्रसज्यमानेआण्नद्याः॑ इत्यनेन स बाध्यत इतिपरत्वादाटा नुड् बाध्यत॑ इत्यादिग्रन्थः सङ्गच्छते, तथापिनियमसूत्राणां निषेधमुखेन प्रवृत्ति॑रिति पक्षे परमपि आटं बाधित्वा अन्तरङ्गत्वान्नुट् स्यादेव । किंचनद्यापः॑ इत्यत्रनद्यापः परस्यामो नुडेव स्यान्नान्यत् इत्यर्थः स्यात् । तथा च गौर्यां रमायां सर्वासां सर्वस्यामिति न सिध्येत् । सुडामस्य पुंसि, आट्-याट्-स्याडागमानां तु ङिदन्तरे चरितार्थत्वात् । अपि च गौर्यामित्यादौ ङेरामि कृते नुटं बाधित्वा प्राप्तमाटं बाधितुं नदीग्रहणम् । एवं रमायां सर्वासां सर्वस्यामित्यादौ प्राप्तं याटं सुटं स्याटं च बाधितुमाब्ग्रहणमितिनद्यापः॑ एतद्विध्यर्थमेव स्यान्न नियमार्थम् । ततश्च विआपां वातप्रम्यामित्यादौ नुड् दुर्वार एव ।नद्यां मतुप्भाषायां सदवसश्रुवः॑सर्वसां प्रायदर्शनम्तदस्यां प्रहरणम् इत्यादिनिर्देशाञ्शरणीकृत्य विध्यर्थत्वापादनस्य, नुडेवेति प्रागुक्तनियमस्य [च] निवारणे तु प्रतिपत्तिगौरवम् । अपि च-॒आकारान्तादीकारान्तादूकारान्ताच्चेद्भवति तर्हि नद्याप एव॑ इति नियमस्यापि संभवाद्विआपां वातप्रम्यां खलप्वामित्यादौ नुडागमाऽभावेऽपि गवामित्यादौ नुट् स्यात् । न च छन्दसिगोः पादान्ते॑ इत्यारम्भाल्लोके गोशह्दात्परस्यामो नुड् न भवेदिति वाच्यम्,पादान्ते गोशब्दात्परस्यामो नुट् चेच्छन्दस्येवे॑ति नियमेन लोके पादान्तेगोना॑मिति प्रयोगस्याभावेऽप्यपादान्ते तस्याऽनिवर्त्त्यत्वापत्तेः । रायां ग्लावां नावामित्यादौ दुर्निवारत्वाच्च । यदि तुदीर्घात्परस्य आमो नुट्चे॑दित्यादिनियमेगोः पादान्ते॑ इति सूत्रं विध्यर्थं भवेत् ।आकारान्तादिभ्यः परस्यामो नुट् चे॑दित्यादिनियमे तु नियमार्थं स्यात् । तत्र विधिनियमयोर्विधिरेव ज्यायानिति न्यायाननुसन्धानेनदीर्घान्तात्परस्यामो नुट् चे॑दित्यादिनियम एव स्वीक्रियत इत्युच्यते तदापि पुनः प्रतिपत्तिगौरवमस्त्येवदीर्घान्तात्परस्यामो नुट् चे॑दित्यादिनियम एव स्वीक्रियत इत्युच्यते तदापि पुनः प्रतिपत्तिगौरवमस्त्येव, तस्माद्ध्रस्वग्रहणप्रत्याख्यानस्यातिक्लेशसाध्यत्वाद्यथाश्रुतमेव रमणीयमिति ।", "71055": "<<षट्चतुर्भ्यश्च>> - षट्चतुभ्र्यश्च । बहुवचननिर्देशादर्थस्य प्राधान्यं विवक्षितम् । अर्थाच्चाऽऽमः परत्वं शब्दद्वारकं, तेन तदन्तविधौ सत्यपिपरमचतुर्णा॑मित्यादावेब भवति, न तु बहुव्रीहौ । तदेतद्वक्ष्यति — ॒गौणत्वे तु नुण्नेष्यते॑इत्यादिना । द्धित्वमिति ।अचोरहाभ्या॑मित्यनेन ।", "71056": "", "71057": "", "71058": "<<इदितो नुम् धातोः>> - मदि स्तुति । मोदः - संतोषः ।मदो- गर्वः । स्वप्नः- आलस्यम् ।", "71059": "<<शे मुचादीनाम्>> - षिच क्षरणे ।षिचि॑रिति केचिदिरतं पठन्ति । तत्तु फलाऽभावादुपेक्ष्यम् । इहलिपिसिचिश्चे॑ति च्लेरङ् विधीयते, सचाऽप्राप्तविधिः । इरित्त्वे तु विकल्पेन प्राप्तौ नित्यार्थो विधिरिति फलाऽभावः । पिंशत्विति । दीपयत्वित्यर्थः ।इति तत्त्वबोधिन्याम् तुदादयः ।अथ प्रथमपादः । अथोणादयः । कृवापा । डुकृञ् करणे, वा गतिगन्धनयोः, पा पाने, पा रक्षणे, जि अभिभवे, डुमिञ् प्रक्षेपणे, स्वद आस्वादने, साध संसिद्धौ,अशू व्याप्तौ ।विआकर्मणि ना कारुस्त्रिषु कारकशिल्पिनोः॑ इति मेदिनीकोशः ।कारुः शिल्पिनि कारके॑ इति धरणिकोशस्तदेतदभिप्रेत्याह — कारुरित्यादि । आद्ये योगरूढिद्वितीये तु योगमात्रमिति विवेकः । अतएव द्वितीये धात्वर्थं प्रति कारकान्वयो भवत्येव । तथा च भट्टिः — राघवस्य ततः कार्यं कारुर्वानरपुङ्गवः । सर्ववानरसेनानामाआआगमनमादिश॑दिति । पिबत्यनेन तैलादिकमिति पायुर्गुदस्थानम् ।गुदं त्वपानं पायुर्ना॑ इत्यमरः । पाति रक्षतीति विग्रहे रक्षकोऽपि । तथा च मन्त्रःभुवस्तस्य स्वतवाँ#ः पायुरग्ने॑ इति ।स्वतवान् पायौ॑ इति नस्य रुत्वम् ।अगदोजायुरित्यपि॑ इत्यमरः । पुंलिङ्गसाहचर्याज्जायुः पुंसि ।मायुः पित्तं कफः श्लेष्मा॑ इत्यमरः । गोपूर्वाद्गां वाचं विकृतामिनोति प्रक्षिपतीति गोमायुः शृगाल इत्युज्जलदत्तः । वस्तुतस्तु मायुः शब्दः,यत्पशुर्मायुमकृत॑गोमायुरेकोऽजमायुरेकः॑ इत्यादौ वेदभाष्याकारदिभिस्तथैव व्याख्यातत्वात् । स्वदते रोचते इति स्वादुः । विशेष्यनघ्नोऽयम् । एवं साधुरपि । आशु शीघ्रमिति । विलम्बाऽभावमात्रे क्लीबं ,तद्विशिष्टद्रव्यपरत्वे तु त्रिलिङ्गम् ।अथ शीघ्रं त्वरित॑मित्युपक्रम्यक्लीबे शीघ्राद्यसत्त्वे स्यात्रिष्वेषां भेद्यगामि य दित्यमरः । व्रीहौ पुंस्येव ।उणादयो बहुल॑मिति बहुलवचनादन्यस्मादप्युण्भवति । रह त्यागे । गृहीत्वा चन्द्रं रहति त्यजतीति राहुः । वस निवासे । वसत्यस्मिन्सर्वमिति, सर्वत्रासौ वसतीति वा वासुः । वासुश्चासौ देवश्च वासुदेव- । वसुदेवस्यापत्यमित्यस्मिन्नर्थेऋष्यन्धकवृष्णिकुरुभ्यश्चे॑त्यणि कृते वासुदेव इति व्युत्पत्त्यन्तरमिति दिक् ।छन्दसीणः । उणनुवर्तते । एति गच्छतीत्यायुः । मा न आयौ इति । आयुशब्दो मनुष्यपर्यायेषु वैदिकनिघण्टौ पठितः । अत एवत्वामग्ने प्रथममायुमायवे॑मा नस्तोके तनये मा न आयौ॑ इत्यादिमन्त्रेषु वेदभाष्ये तथैव व्याख्यातम् । अर्वाचीनास्तुछन्दसीणः॑ इति सूत्रं बहुलवचनाद्भाषायामपि प्रवर्तत इति स्वीकृत्यआयुर्जीवितकालो ना॑ इत्यमरग्रन्थे आयुशब्दमुकारान्तं व्याचख्युः । ननुएतेर्णिच्चे॑ त्युस्प्रत्यये सकारान्तो वक्ष्यमाण आयुःशब्दस्तु लोकवेदयोर्नर्विवाद एव, अत एव जटा आयुरस्येति विग्रहेगृध्नं हत्वा जटायुष॑मिति रामायणप्रयोगः,यहि त्रिलोकी गणनापरा स्यात्तस्याः समाप्तिर्यदि नायुषः स्यादिति श्रीहर्षप्रयोगश्च सङ्गच्छते । तथा चआयुर्जीवितकालो ना ॑ इत्यत्रायुः शब्दः सकारान्त इत्येव व्याख्यायतां किमुकारान्ताभ्युपगमेनेति चेत् । अत्राहुः — सकारान्त आयुःशब्दो नपुसंक इति तस्य पुंलिङ्गता नेत्याशयेन तथोक्तमिति । अन्ये तुछन्दसीणः॑ इति सूत्रस्य भाषायां प्रवृत्त्यभावेमा वधीष्ट जटायुं मा ॑ मिति भट्टिप्रयोगः,तटीं विन्ध्यस्याऽद्रेरभजत जटायोः प्रथमजः॑ इति विन्ध्यवर्णने अभिनन्दोक्तप्रयोगश्च न सङ्गच्छेतेत्याहुः । वस्तुतस्तु जटां याति प्राप्नोतीति जटायुः । मृगय्वादित्वात्कुः । आयातीत्यायुः । एवं चजटायुषा जटायुं च विद्यादायुं तथायुषा॑इति द्विरूपकोशः,वायुना जगदायुना॑ इति वर्णविवेकश्च सुसाध इति दिक् । दसनि । दृ विदारणे, षणु दाने,जन जनने, चर गतौ, चट भेदने । दार्विति ।काष्ठं दार्विन्धनं त्वेधः॑ इत्यमरः । चाट्विति ।चटु चाटु प्रियं वाक्य॑मिति हट्टचन्द्रः ।चाटुर्नरि प्रियोक्तिः स्यात् इति रत्नमालाकोशः । नरि = पुंसि ।चकर च बहु चाटून् प्रौढयोषिद्वदस्य॑इति माघः । माघे तु नपुंसकमपि दर्शितम् ।चाटु चाऽकृतकसंभ्रममासा॑मिति । किंजरयोः । शृ हिंसायाम्, इण् गतौ, आभ्यामुण् स्यात् । सस्येति ।किंशारुर्ना सस्यशूके विशिखे कङ्कपक्षिणि॑ इति मेदिनीकोशः । त्रो रश्च लः । तृ प्लवनतरणयोः । त्रः रश्चेति च्छेदः । केचित्तुतृ॑ऋ॑ इति प्रश्लिष्य द्वयोरपि सवर्णदीर्घे त्रौ, तयोरुआओरित्युक्त्वा ऋ गतावित्यस्मादपि ञुण् रस्य ल इति व्याख्याय इयर्ति अर्यते वा आलुः साकविशेषो, घटी चेत्याहुः ।कर्कर्यालुर्गलन्तिका॑ । भृमृशी । भृञ् भरणे, मृङ्प्राणत्यागे, शीङ् स्वप्ने,तृ प्लवनतरणयोः,चर गतौ, अयं भक्षणेऽपि, त्सर छद्मगतौ, तनु विस्तारे , धन धान्ये , डुमिञ् प्रक्षेपणे, टुमस्जो शुद्धौ । भरुरिति ।भरुः स्वर्णे हरे पुंसि॑ इति मेदिनी ।भरुर्भर्तृकनकयोः॑ इसि हेमचन्द्रः । शयुरिति ।अजगरे शयुर्वाहस इत्युभौ॑ इत्यमरः । तरुरिति । तरन्ति नरकमनेन रोपकाः । चरुरिति । अनवस्त्राविताऽन्तरूष्मपक्व ओदन इति याज्ञिका । तृवृञ्चर्वधिकरणेऽप्येवमुक्तम् ।उगवादिभ्यो य॑दिति सूत्रे कैयटस्त्वाह — स्थालीवाची चरुशब्दस्तात्स्थ्यादोदने भाक्त इति ।तनुः काये त्वचि स्त्री स्यात्रिष्वल्पे विरले कृशे॑ इति मेदिनी ।धनुः पुमान् प्रियालद्रौ राशिभेदे शरासने॑ इति नान्ते मेदिनी । विआप्रकाशमुदाहरति — धनुषा चेत्यादि । धनुषा सार्धं धनुं विदुरित्यर्थः ।स्यात्तनुस्तनुषा सार्धमित्यतः सार्धमित्यनुषज्यते ।शुद्धवंशजनितोऽपि निर्गुणः किं करिष्यती॑ति धन्वन्तरिः । इह पूर्वत्र च धनुरिति उकारान्तः सकारान्तो वा बोध्यः । न च सकारान्तधनुः शब्दो नपुंसक एवेति शङ्क्यम् ।अथाऽस्त्रियाम्,धनुश्चापौ॑ इत्यमरोक्त्या तस्यापि पुंस्त्वात् । किंनर इति ।तुरंगवदनो मयुः॑ इत्यमरः ।मीनातिमिनोती॑त्यात्वं तु नेह, बाहुलकात् ।मयुस्तुरंगवदनो मृगेऽपि मयुरिष्यते॑ इति विआः । मज्जति पानीये इति मद्गुः ।अणश्च । अण शब्दे अस्मादुप्रत्ययः स्यात् । चादिति । कटे वर्षादौ, वट वेष्टने । कटति रसनामिति कटुः ।कटुः स्त्री कटुरोहिण्यां लताराजिकयोरपि । नपुंसकमकार्ये स्यात्पुंलिङ्गो रसमात्रके । त्रिषु तद्वत्सुगन्ध्योश्च मत्सरेऽपि स्वरेऽपि च॑ इति मेदिनी । वटुरिति । वटतीति वटुः ।वटुर्द्विजसुतः स्मृतः॑ इति संसारावर्तः । नटवटुरिति तूपचारात् । अभिव्याप्तेति । यद्यपिफलिपाटी॑ति सूत्रं यावदनुवर्तत इति न्यासग्रन्थेन मर्यादीकृत्येत्यपि प्रतीयते तथाप्यभिव्याप्येत्येवोचितम् ।पिबतं सौम्यं मधु॑ इत्यादौ मधुशब्दस्यादात्ततादर्शनात् ।वोतो गुणवचना॑दिति सूत्रे हरदत्तेनाप्यभिव्याप्येति स्पष्टमभिधानाच्चेति भावः । शृस्वृस्निहि । शृ हिंसायाम्, स्वृ शब्दोपतापयोः, स्निह उपतापे, त्रपूष् लज्जायाम्, असु क्षेपणे, वस निवासे , हन हिंसागत्योःष क्लिदू आद्र्रीभावे, बन्ध बन्धने, मन ज्ञाने । शरुरिति ।शरुः कोपे शरे वज्रे॑ इति हेमचन्द्रः । स्वरुर्वज्रमिति ।शतकोटिः स्वरुः शम्बः॑ इत्यमरः । त्रपु सीसमिति । तद्धि अग्न दृष्ट्वा त्रपते = लज्जत इव ।रङ्गसीसकयोरुआपु॑ इति मेदिनी । अस्यन्ति क्षिपन्ति शरीरमित्यसवः प्राणाः । हनुरिति ।हनुः पुमान्परो गण्डा॑दिति वररुचिकोशः । स्त्रिलिङ्गोऽप्ययम् ।हनुर्हट्टविलासिन्यां नृत्यारम्भे गदे स्त्रियाम् । द्वयोः कपोलावयवे॑ इति मेदिनीकोशः । अतिशायने मतुप् । हनुमान् ।अन्येषामपि दृश्यते॑ इति दृशिग्रहणात्पाक्षिको दीर्घः । हनूमान् । स्नेहेन बध्नातीति बन्धुः । प्रज्ञादित्वाद्बान्धवः ।बन्धुर्बन्धूकपुष्पे स्याद्वन्धुभ्र्रातरि बान्धवे॑ इति विआः । मनुरादिराजो, मन्त्रश्च ।स्यन्दू प्ररुआवणे । उन्देः । उन्दी क्लेदने । ईषेः । ईष गतिहिंसादानेषु । स्कन्देः । स्कन्दिर्गतिशोषणयोः । कन्दुरिति । स्कन्दत्यस्मिञ्जनताप इति व्युत्पत्त्या भोगस्थानमिति केचित् । अन्ये तु स्कन्दति शोषयति कन्दुर्लोहादिपात्रमित्याहुः । अत एवक्लीबेऽम्बरीषं ब्राआष्ट्रो ना कन्दुर्वा स्वेदनी स्त्रिया॑मित्यमरः ।कन्दुर्वा ना॑ इति पूर्वेणान्वयाद्वा पुमानित्यर्थः ।सृजेः । सृज विसर्गे । सृजतीति रज्जुः स्त्रियाम् । आगमसकारस्य श्चुत्वेन शः । जश्त्वेन जः ।सृजेरजुम् चे॑ ति सुवचमिति नव्याः ।रज्जुर्वेण्यां गुणेऽपि॑ चेति मेदिनी । कृतेराद्यन्त । कृती छेदने । तर्कुरिति । कृन्त्यतेऽनेनेति तर्कुः सूत्रवेष्टनयन्त्रविशएषः । तर्कुटी सूत्रला तर्कुः॑ इति हारावली । नावञ्चेः । अञ्चु गतौ ।न्यङ्कुर्मुनौ मृगे पुंसि॑ इति मेदिनी ।फलिपाटि । फल निष्पत्तौ, पटगतौ, ण्यन्तः । णम प्रह्वत्वे शब्दे, मन ज्ञाने, जनी प्रादुर्भावे, एभ्य उः स्यादेषां च यथाक्रमं गुगागमः पटि नाकि ध त इत्यादेशाश्च भवन्ति । इह एकापि षष्ठी विषभेदाद्भिद्यते । गुगागमे हि फलेरवयवषष्ठी, पठआद्यादेशचतुष्टयविधौ तु पाठआदिभ्यः स्थानषष्ठी । सापि धतयोर्विधौ अन्तेऽप्युपसंह्यियत इति विवेकः । अनागमकानां सागमका आदेशा इति पक्षे तु स्थानषष्ठएवेति बोध्यम् ।फल्ग्वसारेऽभिधेयवत् । नदीभेदे मलय्वां स्त्री॑ इति मेदिनी । नाकुर्वल्मीकमिति ।वामलूरश्च नाकुश्च वल्मीकं पुंनपुंसकम् इत्यमरः । मध्विति ।मधुश्चैत्रे च दैत्ये च मद्ये पुष्परसे मधु॑ इति हट्टचन्द्रः ।मकरदन्दस्य मद्यस् माक्षिस्यापि वाचकः । अर्धर्चादिगणे पाठात्पुंनसकयोर्मधुःर॑ इति शाआतः । बल संवरण इति दन्त्योष्ठआदिः ।वल्गुः स्याच्छगले पुंसि सुन्दरे चाभिदेयव॑दिति मेदिनी । यत्तु उज्ज्वलदत्तेनबलेर्गुक् चे॑ति ओष्ठआदिं पाठित्वा बल प्राणने इत्युपन्यस्तं तल्लक्ष्यविरोदादुपेक्ष्यम् ।यं नाभावदति वल्गु वो गृहे॑ इत्यादौ दन्त्योष्ठपाठस्य निर्विवादत्वात् । शः कित् । शो तनूकरणे अस्मादुप्रत्ययःआदेच उपदेशे॑ इत्यात्वं द्वित्वंसन्यतः॑ इत्यभ्यासस्येत्वम् ।आतो लोप इटि चे॑ त्याकारलोपः । शिशुः । यो द्वे च । या प्रापणे । कुभ्र्रश्च । भृञ् भरणे अस्मात्कुप्रत्ययो दातोद्र्वत्वं च । भरतीति बर्भ्रुः । धरणिकोशस्थमाह — बभ्रुरित्यादि ।बभ्रुर्वैआआनरे शूलपाणौ च गरुडध्वेजे । विशाले नकुले पुंसि पिङ्गले त्वभिधेयवत् इति मेदिनीकोशः । चादन्यतोऽपीति ।भ्रः कुश्चे॑ति वक्तव्ये प्राक् प्रत्ययनिर्देशादित्येके ।भ्रश्चे॑ ति प्रकतिसंसृष्टेन चकारेण प्रकृत्यन्तरसमुच्चयादित्यन्ये । पृभिदि । पृ पालनपूरणयोः, भिदिर्विदारणे, व्यध ताडने, गृधु अभिकङ्क्षायाम्, ञिधृषा प्रागल्भे । पुरुरिति । कुप्रतत्यये परतःउदोष्ठपूर्वस्ये॑त्युत्वे रपरत्वम् ।पुरुः प्राज्येऽभधेयवत् । पुंसि स्याद्देवलोके च नृपभेदपरागयोः॑ राहवोऽपि ह्मषवः॑ इति केचित् । डुकृञ् करणे,गृ शब्दे, आभ्यां कुः स्यादुकारोऽन्तादेशश्च ।उरण् रपरः॑ ।कुरुर्नृपान्तरे भक्ते पुमान् पुंभूम्नि नीवृति॑ इति मेदिनी । अपदुःसु । ष्ठा गतिनिवृत्तौ । सुषामेत्यादि । एतच्च न्यासाद्यनुरोधेनोक्तम् । वार्तिककृता तु स्थास्थिन्स्थृणामित्युपसंख्यातम् ।अपष्ठुः पुंसि बाले च वामे स्यादन्यलिङ्गकः॑ इति मेदिनी । वामे = प्रतिकूले । एषां त्रयाणां मृगय्वादिपाठेन सिद्धत्वात्सूत्रमिदं न्यासकारस्य न संमतमिति रक्षितः । अर्जिदृशि । अर्ज अर्जने अस्य ऋजिरादेशः, दृशेः पशिरादेशः, कमेस्तुगागमः । अम रोगे गत्यादौ वा । अस्य धुगागमः । पशि नासने सौत्रो धातुः । अस्य दीर्घः । बाधृ लोजने अस्य हादेश- । षड्भ्योऽपि कुप्रत्ययः स्यादित्यर्थः । अविशेषेणेति । चादिगणे पइआति पठितम् ।पशु दृश्यर्थमव्ययम् इति धरणिः । कन्तुः कन्दर्पः ।इः कन्तुर्मकराङ्गः॑ इति त्रिकाण्डशेषः । पांसुरिति । पडि पसि नाशने चुरादिर्दन्त्यान्तः । स्त्रीपुंसयोरिति । उक्तं ह्रमरेणद्वौ परौ द्वयोः । भुजवाहु॑ इति । परौ द्वौ = भुजबाहुशब्दौ, द्वयोः = स्त्रीपंसयोरिति तदर्थः । आकारान्तोऽप्ययम् । अत एवबाहोऽआभुजयोः पुमान् इति दामोदरः ।बाहा भुजे पुमान्मानभेदाऽस्ववृषवायुषु॑ इति मेदिन्यां टाबन्तोऽप्ययम् ।प्रथिम्रदि । प्रथ प्रख्याने, म्रद मर्दने, भ्रस्ज पाके । प्रथते इति पृथुः ।पृथुः स्यान्महति त्रिषु । त्वक्पत्र्यां कृष्णजीरेऽथ पुमानग्नौ नृपान्तरे॑ इति मेदिनी । म्रदितुं शक्यतेऽकठनत्वादिति मृदुः कोमलः ।भृगुः शुक्रे प्रपाते च जमदग्नौ पिनाकिनि॑ इति विआः । लघुरिति ।पृक्कायां स्त्री लघुः क्लीबं शीघ्रे कृष्णाऽगुरुण्यपि॑ इति त्रिकाण्डशेषः ।लघुरगुरौ च मनोज्ञे निःसारे वाच्यवत्क्लीबम् । शीघ्रे कृष्णागुरुणि च पृक्कानामौषधौ स्त्रियाम् इति मेदिनी । * वालमूललघ्वलमङ्गुलीनां वा लोरत्वमापद्यते । नृपभेद इति । एतेनअवेक्ष्य धातोर्गमनार्थमर्थविच्चकार नाम्ना रघुमात्मसंभव॑मिति कालिदासवचनं व्याख्यातम् । बहुरिति ।बहुः स्यात्र्यादिसङ्ख्यासु विपुले त्वभिधेयव॑दिति मेदिनी । ऊरिरिति ।सक्थि क्लीबे पुमानूरुः॑ इत्यमरः । ऊर्णूयते आच्छद्यते इत्यूरिः । कर्मणि प्रत्ययः । उरु महदिति । कर्तरि प्रत्ययः । श्लिषेः । श्लिष आलिङ्गने अस्मात्कुप्रत्ययः, कश्चान्तादेशः । उद्यत इति । स हि यावत्कार्यं श्लिष्यति = लगति । व्याप्रियत इति यावत् । आङपरयोः । खनु अवदारणे, शृ हिंसायाम् । पर्शुरपीति । पर्शुः परशुना सहे॑ति विआः । हरिमितेति । द्रु गतौ, अस्माद्धरिमितयोरुपपदयोः कुः स्यात्स च डित् । हरिद्रुर्वृक्ष इति । दारुहरिद्रा इत्येके । शतद्रुर्नदीभेदः ।शतद्रुस्तु शुतुद्रिः स्यात् इत्यमरः । तद्वानिति ।द्युद्रुभ्यां मः॑ इति मः । खरुशङ्कु । खनु अवदारणे, शकि शङ्क्याम् । काम इत्यादि । खरुः पतिंवरा कन्येत्यपि बोध्यम् ।खरुर्दर्पे हरे दन्ते हये ओते तु वाच्यवत् इति विआत्रिकाण्डशेषौ । शङ्कते अस्मादिति शङ्कुः ।शङ्कुः कीले गरे शस्त्रे संख्यापादपभेदयोः । यादोभेदे च पापे च स्थाणावपि च दृश्यते॑ इति विआः । पीयुरिति ।पीयुः कालेरवौ घोरे॑ इति मेदिनी । क्रिमिविशेष इति ।नीलङ्गुः क्रिमिजातौ स्याद्भम्भरालीप्रसूनयोः॑ इति विआः ।नीलङ्गुः स्यात्कृमौ पुंसि भम्भराल्यां तु योषिति॑ इति मेदिनीकारः । पाठान्तरमिति ।नीलङ्गुरपि नीलाङ्गुः॑ इति विआः । धातोरपीति । केचित्तु नीलशब्दे उपपदे गमेष्टिलोपः, उपपदस्य मुम्, दीर्घश्च पाक्षिको निपात्यते इत्याहुः ।लिगु चित्ते नपुसंकम् इति वररुचिः ।मृगय्वादयश्च ।मृगयुः पुंसि गोमायौ व्याधे च परमेष्ठिनि॑ इति मेदिनी ।मृगयुब्र्राहृणि ख्यातो गोमायुव्याधयोरपि॑ इति विआः ।देवयुर्वाच्यलिङ्गः स्याद्धार्मिके लोकयात्रिके॑ इति मेदिनी । आकृतिगण इति । तेन पील प्रतिष्टम्भे अस्मात्कुः ।पीलुर्गजे द्रुमे काण्डे परमाणुप्रसूनयोः॑ ति विआः । भाट्टास्तु — पीलुशब्दसय् वृक्षे आर्यप्रसिद्धिर्गजे तु म्लेच्छप्रसिद्धिरित्याश्रित्य व्यवजह्युः । पडि गतौ अस्मात्कुः धातोर्वृद्धिश्च । पाण्डुः । कडि मदे । कण्डुरित्यादि बोध्यम् । मन्दिवाशि । मदि स्तुत्यादौ,वाशृ शब्दे, मथे विलोवाशुरो गर्दभ इत्यन्ये ।वाशुरा वाशितारात्र्योः॑ इति मेदिनीहेमचन्द्रौ । चङ्कुर इति ।चङ्कुरः स्यन्दने वृक्षे॑ इति मेदिनी ।अङ्कुरो रुधिरे लोम्नि पानीयेऽभिनवोद्भिदि इति च । खर्जूरादित्वादिति । ऊरप्रत्ययोऽपीति भावः ।अङ्कुरोऽङ्कूर एव च॑ इति विआप्रकाशः ।व्यथेः । व्यथ भयसंचलनयोरस्मादुरच् कित्स्याद्धातोः संप्रसारणं च । दशपाद्यां तुव्यथेः संप्रासरणं धः किच्चे॑ति सूत्रं पठित्वा धकारमन्तादेशं विधायविधुरोऽनग्निक॑ इत्युदाहृतम् । माधवप्रसादकारादिभिरपि तदेवाऽनुसृतं । नत्वेतद्युक्तम् ।त्वमेषां विथुरा शवांसि॑ अथ विद्धा विथुरेणाऽचिदरुआआ॑ इत्यादि मन्त्रेषु थकारपाठस्य निर्विवादत्वात् । यद्यपि माधवेनोक्तं — विदिभिदिच्छिदी॑त्यत्रव्यथेः संप्रसारण॑मिति वचनात्कुरचि दान्तरूपमिति, तदपि स्थवीयः । कुरज्विधायके सूत्रे व्यथेरुपसङ्ख्यानस्याऽप्रसिद्धत्वात् । तस्मादिहधः किच्चे॑ति दशपादीपाठ उपेक्ष्य एव । कथं तर्हि विधुर इतीष्टप्रयोगस्य निर्वाह इति चेत्, धुरो विगत इति प्रादिसमासेनेत्यवधेहि ।समासान्ताः॑ इति सूत्रे वृत्तिपदमञ्जर्योस्तथैवोक्तत्वात् ।इहव्यथेः किच्चे॑त्येवास्तु,ग्रहिज्ये॑त्यनेन संप्रसारणं स्यादेवेति न भ्रमितव्यम् । ग्रहिज्यादिषु व्यधिर्वर्गचतुर्थो न त्वयमिति निष्कर्षात् । मकुर इति । मकि मण्डने अस्मादुरच्, लोपश्च । बहुलकादिति । धातोरुपधायाः पक्षे उकार इति भावः ।मकुरो मुकुरोऽपि च॑ इति विआः ।मकुरः स्यान्मुकुरवद्दर्पणे बकुलद्रुमे । कुलालदण्डे॑ इति मेदिनी । धातोर्द्विर्वचनमिति । केचित्तु गुणो दुगागमश्च निपात्यत इत्याहुः । ग्रामजाले चेति ।यामजाले चे॑ति पाठान्तरम् । मद्गुरादयश्च । मदी हर्षे । कर्बुर इति ।कर्बुरं सलिले हेम्नि कर्बुरः पापरक्षसोः । कर्बुरा कृष्णवृन्तायां शबले पुनरन्यव॑ दिति मेदिनी । बन्धूरबन्धुराविति । बन्ध बन्धने । कुक्कुर इति । कुक आदाने ।कुक्कुरः कुकुरो मतः॑ इति हट्टचन्द्रः ।कुक्कुरः सारमेये ना ग्रन्थिपर्णे नपुंसक ॑मिति मेदिनी । अत सातत्यगमने । आदिदीर्घः । आतुरः । वा गतिगन्धनयोः । गुगागमः ।वागुरा मृगबन्धिनी॑त्यादिरपि ज्ञेयम् । असेः । असु क्षेपणे ।मसेश्च । मसी परिणामे ।॒मसूरा मसुरा वा ना वेश्याव्रीहिप्रभेदयोः । मसूरी पापरोगे स्यादुपधाने पुनः पुमानिति मेदिनी । शावशेः ।शु॑इतिकृताऽऽकारलोप आशुशब्दस्तस्मिन्नुपपदे आप्तौ गम्यमानायामशू व्याप्तावित्यस्माद्धातोरुरन्स्यात् । आशुशब्दस्तस्मिन्नुपपदे आप्तौ गम्यमानायामशू व्याप्तावित्यस्माद्धातोरुरन्स्यात् । आशुरो दम्पत्योः पिता ।पतिपत्न्योः प्रसूः आश्रूः आशुरस्तु पिता तयोः॑ इत्यमरः । अवि । अव रक्षणादौ । मह पूजायाम् । अविष इति । राजा समुद्रश्च । महिषो महान् ।तुरीयं धाम महिषो विवक्ति॑ ।उत माता महिषमन्ववेनत् । टित्त्वान्ङीप् । महिषी राजपत्नी । रुहेः । रुह बीजजन्मनि ।रौहिषो मृगभेदः स्याद्रौहिषं च तृणं मत॑मिति संसारावर्तः । वेदभाष्यमिति ।इन्द्रो वृत्रस्य तविषीम् ।इन्द्रस्याऽत्र तविषीभ्यो विरप्शिन् इत्यादिमन्त्रेष्विति भावः । वैदिकनिघण्टौओजः पाजः॑ इत्यादिषु बलनामसु तविषीशब्दस्य पाटश्चेह मूलमिति बोध्यम् ।तविषः शोभनाकारे बलेऽब्धिव्यवसाययोः । तविषी देवकन्यायां पुंसि स्वर्गे महोदधौ । ताविषी चेन्द्रकन्यायां ना स्वर्गाम्बुधिकाञ्चने॑ इति मेदिनी । नञि व्यथेः । व्यथ भयसंचलनयोः । किलेः । किल औत्यक्रीडनयोः । अस्माट्टिषच्धातोर्वुगागमश्च ।किल्बिषं पापरोगयोः । अपराधेऽपि॑ इति मेदिनी ।इषिमदि । इष इच्छायाम्, मदी हर्षे, मुद हर्षे, खिद दैन्ये, छिदिर्द्वैधीकरणे, भिदिर्विदारणे, मदि स्तुत्यादौ, चदि आह्लादने, तिम आद्र्रीभावे, मिह सेचने,मुह वैचित्ये, मुच्लृ मोक्षणे, रुच दीप्तौ, रुधिर् आवरणे, बन्ध बन्धने, शुष शोषणे । इषिरोऽग्निरिति । आहार इत्यन्ये ।छिदिरः पावके रज्जौ करवाले परआधे॑ इति मेदिनी ।मन्दिरं नगरेऽगारे क्लीबं ना मकरालये॑ इति मेदिनी ।चन्दिरोऽनेकपे चन्द्रे॑ इति च ।तिमिरं ध्वान्ते नेत्रामयान्तरे इति च ।मिहिरः सूर्यबुद्धयोः॑ इति च मेदिनी ।मिहिरः कामिमूर्खयोः॑ इति च ।सुन्दरं रुचिरं चारु॑ इत्यमरः । अशेः । अश भोजने । अजिरमिति । दशपादीवृत्तौ तु नञ्पूर्वस्य जीयतेरृवर्णलोपो निपात्यते इत्युक्तं तदपि ग्राह्रम् ।आशु द्रुतमजिरं प्रत्नमीडम् इत्यादौ न जीर्यतीत्यजिर इत्यस्याऽनुगुणत्वात् । अङ्गणमिति । अङ्गेर्ल्युटि अनादेशः । नकारस्य बाहुलकाम्णत्वमित्येके । अन्ये तु दन्त्यमेवेच्छन्ति ।अजिरं प्राङ्गणे काये विषये दर्दुरेऽनिले॑ इति मेदिनी ।शिशिरो ना हिमे, न स्त्री ऋतुभेदे, जडे त्रिषु॑ इति च । विआकोशस्थमाह — शिशिरं स्यादिति । खदिरो वृक्षभेदः ।खदिरी शाकभेदे स्त्री ना चन्द्रे दन्तधावने॑ इति मेदिनी । शिबिरमिति । शेरतेऽस्मिन् राजबलानि ।निवेशः शिबिरं शण्ढे॑ इत्यमरः । सलिकलि । षल गतौ, कल सङ्ख्याने, अन प्राणने, मह पूजायाम्, भडि परिभाषणे, भडि कल्याणे, शडि रुजायाम्,पिडि सङ्घाते, तुडि तोडने, कुक आदाने, भू सत्तायाम्, कुट कौटिल्ये । कलिल इति । मिश्रो गहनश्च ।कलिलं गहनं समे॑ इत्यमरः । महिलेति ।महिला फनलिनीस्त्रियोः॑ इति मेदिनी ।प्रियङ्गुः फलिनी फली॑त्यमरः । पृषोदरेति । तथा च दमयन्तीकाव्ये प्रयोगः — परमहेलारतोऽप्यपारदारिकः॑ इति । परस्य महेला = स्त्री, अथ च परमा उत्कृष्टा हेला = क्रीडा तत्र रत इत्यर्थः । कमेः । कमु कान्तौ । अस्मादिलच् पश्चान्तादेशः ।कपिला रेणुकायां च शिंशपागोविशेषयोः । पुण्डरीके करिण्यां स्त्री वर्णभेदे त्रिलिङ्गकम् । नाऽनले वासुदेवे च मुनिभेदे च कुक्कुरे॑ इति मेदिनी । रेणुकेह लताविशेषःहरेणु रेणुका कुन्ती कपिला भस्मगन्धिनी॑ इत्यमरात् । गुपादिभ्यः । गुपू रक्षणे, तिज निशाने, गुहू संवरणे । मिथिलादश्च । मथे विलोडने । अकारस्येत्वं निपातनात् । पथे गतौ । पतिकठि । पत्लृ गतौ, कठ कच्छ्रजीवने, कुठि च, गड सेचने, गुड रक्षायाम्, दंश दशने । कुठि धातोरिदित्त्वान्नुमि प्राप्ते आह — बाहुलकादिति । कुम्बेः । कुबि आच्छादने । अन्येषामैआर्यं कुम्बतीति कुबेरः ।कुबेरस्त्र्यम्बकसखः॑ । शदेः । शद्लृ शातने । मूलेरा । मूल प्रतिष्ठायाम्, गुध परिवेष्टने, गुहू संवरणे, मुह वैचित्ये । कबेः । कबृ वर्णे ।कपोतः स्याच्चित्रकण्ठे पारावतविहङ्गयोः॑ इति मेदिनी ।कपोतः पक्षिमात्रेऽपी॑ति त्रिकाण्डशेषः । अत्रओतचश्चित्त्वं प्रामादिकम् ।यत्कपोतः पदमग्नौ कृणोति,देवाः कपोत इषितो यदिच्छन् इत्यादौ सर्वत्र प्रत्ययस्वरेण मध्योदात्तस्यैव पठमानत्वादित्याहुः । भातेः । भा दीप्तौ । भवानिति । सर्वनामशब्दोऽयम् । कठि । कठ कृच्छ्रजीवने, चक तृप्तौ । कठोरः कठिनः पूर्णश्च ।कठोरताराधिपलाञ्छनच्छविः॑ इति माघः । चकोरः पक्षिभेदः । किशोरा । शृ हिंसायाम् । षह मर्षणे ।किशोरोऽआस्य शावके । तैलपर्ण्योषधौ च स्यात्तरुणावस्थसूर्ययोः॑ इति मेदिनी । कपिगडि । कपि चलने, गड सेचने, गडि वदनैकदेशे,कटे वर्षावरणयोः, पट गतौ । कपोल इति । केचित्तु सूत्रे कडिं पठन्ति.कडि मदे । कण्डोलश्चाण्डालः ।चण्डालिका तु कण्डोलवीणा चण्डालवल्लकी इत्यमरः । पटोल इति ।पटोलं वस्त्रभेदे नौषधौ ज्योत्स्न्यां तु योषिति॑ इति मेदिनी । स्यन्दे । स्यन्दू प्ररुआवणे ।सिन्दूरस्तरुभेदे स्यात्सिन्दूरं रक्तवर्णके॑ इतिमेदिनीविआप्रकाशौ । सितनि । षिञ् बन्धने, तनु विस्तारे, ग्मलृ गतौ, मसी परिणामे, षट सेचने, अव रक्षणादौ,डुधाञ् धारणपोषणयोः, क्रुश आक्रोशे ।सेतुर्नाऽऽलौ कुमारके॑ इति मेदिनी ।सेतुरालौ स्त्रियां पुमान् इत्यमरः ।सूत्राणि नरि तन्तवः॑ इत्यमरः ।मण्डं दधिभवं मस्तु॑ इति च ।धातुर्ना नेन्द्रिये त्रिषु । शब्दयोनिमहाभूततदगुणेषु रसादिष । मनःशिलादौ श्लेष्मादौ विशेषाद्गैरिकेऽस्थ्निच॑ इदि मेदिनी ।श्लेष्मादिरसरक्तादिमहाभूतानि तद्गुणाः । इन्द्रियाण्यश्मविकृतिः शब्दयोनिश्च धातवः॑ इत्यमरः । पः किच्च । पा पाने अस्मात्तुन्, स च कित् । कित्त्वात्घुमास्थे॑ तीत्त्वम् । अर्तेश्च तुः । ऋ गतौ । तुनि प्रकृते अन्तोदात्तार्थं तुः क्रियते ।ऋतुना यज्ञं य ऋतुर्जनीनामि॑त्यादि ।ऋतुर्वर्षादिषट्सु च । आर्तवे मासि च पुमान् इति मेदिनी ।ऋतुः स्त्रीकुसुमेऽपि च॑ इत्यमरः । कमिमनि । कमु कान्तौ, मन ज्ञाने, जनी प्रादुर्भावे, गै शब्दे, भा दीप्तौ, या प्रापणे, हि गतौ वृद्धौ च । कमिग्रहणं प्रपञ्चार्थम् ।अर्जिदृशि॑ इत्यादिना कुप्रत्यये तुकि सिद्धत्वात् । मन्तुरिति ।मन्तुः पुंस्यपराधेऽपि मनुष्येऽपि प्रजापतौ॑ इति मेदिनी ।गातुर्ना कोकिले भृङ्गे गन्धर्वे त्रिषु रोषणे॑ इति च मेदिनी ।भातुर्ना किरणे सूर्ये॑ इति च । चायः किः । चायृ पूजनिशामनयोः । अस्मात्तुर्धातोः किरादेश्च ।केतुर्ना रुक्पताकाविग्रहोत्पातेषु लक्ष्मणि॑ इति मेदिनी । आप्नोतेः । आप्लृ व्याप्तौ । अप्नुः शरीरमिति । अभिलषितार्थश्च, आप्तव्यत्वात् । अत एव यागविशेषवाचकस्याऽऽप्तोर्यामशब्दस्याभिलषितार्थप्रापक #इत्यवयवार्थमाहुः । वसेः । वस निवासे । डुकृञ् करणे ।कतोः कित्त्वाद्गुणाऽभावे यणादेशः ।क्रतुर्यज्ञे मुनौ पुंसि॑ इति मेदिनी । एधिवह्रोश्चतुः । एध वृद्धौ,वह प्रापणे । चित्त्वाद्नतोदात्तः ।स्योनं पत्ये वहतुं कृणुष्व॑ ।वहतुः पथिके वृषभे पुमान् इति मेदिनी । जीवेः । जीव प्राणधारणे । आतृकन् ।जैवातृकः पुमान् सोमे कृषकायुष्मतोस्त्रिषु॑ इति मेदिनी । कृषिचमि । कृष विलेखने, चमु अदने, तनु विस्तारे, धन धान्ये । रभसकोशस्थमाह — कर्षूः पुंसीत्यादि ।कर्षूः पुमान् करीषाऽग्नौ स्त्रियां कुल्याऽल्पखातयोः॑ इति मेदिनी ।चमूः सेनाविशेषे च सेनामात्रे च योषिति॑ इति मेदिनी ।स्त्रियां मूर्तिस्तनुस्तनूः॑ इत्यमरः ।सर्जूर्वणिजि विद्युति । स्त्रियां स्वर्गे विधौ रुद्रे॑ इति मेदिनी ।खर्जूः कोटान्तरे नृ (वृ ) तौ॑,खर्जूरीपादपे कण्ड्वा॑मिति च । मृजेः । मृजू शुद्धो । अस्मादूः स्याद्वृद्ध्यपवादो गुणश्च ।मर्जूः स्त्री शुद्धौ धावकेऽपि च॑इति मेदिनी । वहो धश्च । वह प्रापणे ।वधूः स्नुषा नवोढा स्त्री भार्यापृक्काङ्गनासु च॑ इति विआः ।पृक्का महिला च वधूः॑ इति त्रिकाण्डशेषः । कषेश्छश्च । कषशिषेथि दण्डके हिंसार्थः । अस्मादूः स्याच्छश्चान्तादेशः ।कच्छ्वां तु,पाम पामा विचर्चिका॑इत्यमरः । णित्कसि । कसगतौ, पद गतौ, ऋ गतौ ।कासूर्विकलवाचि स्यात्तथा शक्त्यायुधे स्त्रीयाम् इति मेदिनी ।कासूः शक्त्यायुधे रुजि । बुद्धौ विकलवाचि स्यात् इति हेमचन्द्रः । अणो डश्च । अण दण्डके शब्दार्थः । अस्मादूः स्यात्स च णित् । डश्चान्तादेशः । नञि लम्बेः । लबि अवरुआसने । न लम्बते जले इत्यलाबूः । के श्रः । शृ हिंसायाम् । त्रो दुट् च । तप्लवनतरणयोः । तर्दूरिति ।नेड्वशी॑ति नेट् ।वरमनादा॑विति परिगणनं तु बाहुलकान्नाश्रीयते इत्याहुः । केचित्तु इडभावेत्रो दुक् चे॑ति पठित्वा धातोर्दुगागममाहुस्तेषां तु धातोर्गुणो दुर्लभः । दुगागमात्पूर्वं यत्प्राप्तं तदपि भवतीत्येवं चकारबलेन व्याख्याय वा गुणः साधनीयः । दरिद्रातेः । दरिद्रा दुर्गतौ । इश्च आश्चेति । भोजदेवस्तुर्यालोप॑ इति रेफाघटितं पदं छित्त्वा द्वेधा व्याख्यत् । इश्च आश्चेति व्याख्याने — दर्द्रूः । रश्च इश्च आश्चेति व्याख्याने तुअन्त्यबाधेऽन्त्यसदेशस्ये॑ति द्वितीयस्यैव रेफस्य लोपाद्दर्दूरिति । मृगय्वादित्वात्कुप्रत्यये दद्र्रुरित्यन्ये ।दद्र्रुणो दद्रुरोगी स्यात् इत्यमरः । इत्थं चत्वारि रूपाणि । नृति । नृती गात्रविक्षेपे, शृधु शब्दकुत्सायाम् ।अन्दूदृम्भू । अदि बन्धने ।नृतिशृध्योः कूः॑ इत्यत्रादिग्रहणं नकृतं वैचित्र्यार्थमित्याहुः । ला आदाने कफपूर्वः । डुधाञ् धारणपोषणयोः कर्कपूर्वः । षोऽन्तचकर्मणि — दिधिपूर्वः षत्वं च । अन्दूर्बन्धनमिति ।अन्दूः स्त्रियां स्यान्निगडे प्रभेदे भूषणस्य च॑ इति मेदिनी ।अन्दुको हस्तिनि गदे॑इत्यमरः । संज्ञायां कन् ।केऽणः॑ इति ह्रस्वः । केचित्तु अम गतौ अस्य दुक् । अन्दूर्बुद्धिरिति व्याचख्युः । दृभी ग्रन्थ इति । तुदादिरयम् । दृभतीति दृम्भूः संदर्भकर्तेत्यर्थः । कथक इत्यन्ये । कैयटमतानुरोधेनास्य रूपाणि हूहूवदित्युक्तम् । माधवादयस्तु दृढशब्दे उपपदे भुवः कूप्रत्ययः, उपपदस्य दृन्नादेशो निपात्यते । यद्वा दृढार्थकं दृन्निति नान्तमन्ययमुपपदम् । दृम्भूस्तु सर्पः कपिर्वेति व्याख्यायदृन्करे॑ति यणि वर्षाभूवद्रूपमस्येत्याहुः । ह्रस्वोऽपीति । अतएव विक्रमादित्येनोक्तं — तस्या जम्बोः फलरसोनदीभूय प्रवर्तते॑ इति.केचित्तुपरिणतजम्बुफलोपभगह्मष्टाः॑ इति भारविप्रयोगं ह्रस्वान्तत्वे साधकत्वेनोदाजह्युस्तन्न ।इको ह्रस्वोऽङ्य॑ इत्युत्तरपदाधिकारस्थह्रस्वविदायकसूत्रेण गतार्थत्वात् । दिधिमिति । केचित्तु दधातोरित्वं द्वित्वं षुक् च निपात्यते । दधात्यसौ दिधित्यसौदिधिषूरित्याहुः । पुनर्भूरिति ।पुनर्बूदिधिषूरूढा द्विः॑ इत्यमरः । द्विरूढा = द्विवारं विवाहितेत्यर्थः । उज्ज्वलदत्तोक्तपाठमाह — केचित्त्विति । एतच्च कैयटमाधवादिग्रन्थविरुद्धम् । अतएवदृम्भूः स्त्रीसर्पचक्रयोः इति भान्ते मेदिनी । मृग्रोः । मृङ् प्राणत्यागे,गृ निगरणे, आभ्यामुतिः । इकारस्तकारस्येत्संज्ञापरित्राणार्थः । मरुदिति । प्रज्ञादित्वादणि मारुतोऽपि । मरुतशब्दोऽप्यव्युत्पन्नोऽस्ति.तथा च विक्रमादित्यकोशःमरुतः स्पर्शः प्राणः समीरो मारुतो मरुत् इति ।कोऽयं वाति स दक्षिणात्यमरुतः॑ इति कविराजश्लोकेऽनुपपतिंत मत्वादक्षिणात्यपवन॑ इति पाठं केचित्कल्पयन्त्यल्पदृआआन इति वर्णविवेकः । गरुदिति । यवादिरयम् । तेनाऽस्मात्परस्य मतुपो मस्यझयः॑ इत्यनेन वत्वं न । गरुत्मान् । गर्मुदिति ।गर्मुत्स्त्री स्वर्णलतयोःट इति मेदिनी । ह्मषेः । ह्मष तुष्टौ । चटतेरिति । चटे वर्षावरमयोः । ह्मसृ । ह्मञ् हरणे, गतौ, रुह बीजजन्मनि । विआकोशस्थमाह — हरिदिति ।हरिद्दिशि स्त्रियां पुंसि हर्षवर्णविशेषयोः । अस्त्रियां स्यात्तृणे च॑ मेदिनी । ऋश्यस्येति । एतेनगतं रोहिद्भूतां रिरमयिषुमृस्यस्य वपुषा — ॑ इति पुष्पदन्तप्रयोगो व्याख्यातः ।रोहिन्मृग्यां लताभेदे स्त्री नाऽर्के॑ इति मेदिनी । ताडेः ।तड आघाते॑ ण्यन्तः ।तडित्सौदामनी विद्युत् इत्यमरः । शमेः । शम उपशमे । बाहुलकादिति । यद्यपिनेड्वशि कृती॑त्यनेनैव इडभावस्य सिद्धत्वादिट् च नेत्येतदयुक्तं तथापिनेड्वरमनादा॑विति परिगणनाद्बहुललग्रहणमाश्रित्यैव इडभावोऽपि साधितः ।शण्ढः स्यात्पुंसि गोपतौ । आकृष्टाऽण्डे वर्षवरे तृतीयप्रकृतावपि॑ इति मेदिनी ।कमेः । कमु कान्तौ ।कमठः कच्छपे पुंसि भाण्डभेदे नपुंसकम् इति मेदिनी । जरठ इति । जृ वयोहानौ ।जरठः कठिने पाण्डौ कर्कशेऽप्यभिधेयवत् इति विआमेदिन्यौ ।जरठः कठिने जीर्णे॑ इति वैजयन्ती । रमेः । रम क्रीडायाम् । शमेः । शम उपशमे ।शङ्खो निधौ ललाटाऽस्थ्नि कम्बौ न स्त्री॑ इत्यमरः ।शङ्खः कम्बौ न योषिन्ना भालास्थिनिधिभिन्नखे॑ इति मेदिनी । कणेः ।कण्ठो गले सन्निधाने ध्वनौ मदनपादपे॑ इति विआमेदिन्यौ । कल.तृप प्रीणने । फलत्रिके इति ।त्रिफला तृफला च सा॑ इति विआः । त्रिफलाशब्दसमानार्थस्तृफलाशब्द इति द्विगोः॑ इति सूत्रे रक्षितः । शपेः । शप आक्रोशे । वृषादिभ्यः । वृषु सेचने,पलगतौ, सृ गतौ,तृ प्लवनतरणयोः ।शूद्राश्चाऽवरवर्णाश्चवृषालश्च जघन्यजाःट इत्यमरः ।वृषलस्तुरगे शूद्रे॑ इति हेमचन्द्रः ।पलं तिलचूर्णे च पिकेमांसे नपुंसकम् । ना राक्षसे॑इति मेदिनी ।सरला विरलायन्ते घनायन्ते किल द्रुमाः । न शमी न च पुन्नागा अस्मिन्संसारकानने॑इत्यभियुक्तप्रयोगः । कमेः । कमु कान्तौ । अस्माद्ववृषादित्वेन कलप्रत्यये बाहुलकादित्यनुषज्यत इति बुक् ।कम्बलोनागराजे स्यात्सास्नाप्रावारयोरपि । कृमावप्युत्तरासङ्गे सलिले तु नपुंसकम् इति मेदिनी ।मुसलं स्यादयोऽग्रे च पुंनपुंसकयोः रिउआयाम् । तालमूल्यामाखुपर्णीगृहगोधिकयोरपि॑इति मेदिनी । मूर्धन्यमध्योऽप्यमिति वर्णदेशना । मुस खण्डन इति धातोर्दन्त्यान्तेषु मूर्धन्यान्तेषु च बोपदेवादिभिः पठितत्वात् । उज्ज्वलदत्तदयस्तु तालव्यमध्यमप्याहुः । अतएवमुसलो मुषलोऽपि च॑इति विआकोशे ।मुशलोऽपि चे॑ति पाठान्तरम् । लङ्गे । लगि गतौ । अस्मात्कलप्रत्यये बाहुलकादित्यनुषङ्गाद्वृद्धिरिति भावः । एवमग्नेऽपि । मुडागमो बाहुलकादेव । कुटिकशि । कुट कौटिल्ये, कशगतिशासनयोः, कु शब्दे, अस्मात्कलप्रत्यये गुणो नेत्याशङ्क्याह — बाहुलकादिति ।कोमलं मृदुलं मृद#उ॑ । बाहुलकादन्यत्रापि बोध्य- । तद्यथा — कुस श्लेषणे । द्त्यान्तोऽयम् । बोपदेवमते तु तालव्यान्तोऽपि.गुणः । गोशलः कोसलो वा देशविशेषः ।वृद्धेत्कोसले॑ति सूत्रे तु दन्त्यान्त एव सांप्रदायिकः । संबसंबन्धे, शंब च । संबलं शंबलम् ।शंबलोऽस्त्री संबलवत् कुलपाथेयमत्सरे॑ इति मेदिनी । कदि आह्वाने । नलोपः । गौरादित्वान्ङीषि — कदली ।मन्दान्दोलितकर्पूरकदलीदलसंज्ञया । विश्रमाय श्रमापन्नानानाह्वयन्तीमिवाध्वगा॑निति काशीखण्डम् । अजादेराकृतिगणत्वाट्टाबपि ।कदलाकदलौ पृश्न्यां कदलीकदलौ पुनः । रम्भावृक्षेऽथ कदली पताकामृगभेदयोः । कदली बिम्बिकायां च ॑ इति मेदिनी । कमु कान्तौ ।कमलं सलिले ताम्रे जलजे व्योम्नि भेषजे । मृगभेदे तु कमलः कमला श्रीवरस्त्रियोः॑ इति विआमेदिन्यौ । मडि भूषायाम् ।मण्डलं परिधौ कोठे देशे द्वादशराजके॑ इति मेदिनी ।कोठो मण्डलकं क्लीबे॑ इत्यमरः ।बिम्बोऽस्त्री मण्डलं त्रिषु॑ इति च ।मृजेः । मृजू शुद्धौ ।मलोऽस्त्री पापविट्किट्टे कृपणे त्वभिधेयवत्इति मेदिनी । चुपेः । चुप मन्दायां गतौ ।चपलः पारदे मीने चोरकेप्रस्तरान्तरे । चपला कमलाविद्युत्पुंश्चलीपिप्पलीषु च । नपुंसके तु शीघ्रे स्याद्वाच्यवत्तरले चले॑ इति मेदिनी । शकिशम्योः । शक्लृ शक्तौ, शम उपशमे । शकलं खण्डे रोहितादीनां त्वचि च । तद्योगात् शकली मत्स्यः ।मत्स्यान् शकला॑निति भाष्यम् ।शकलं त्वचि खण्डे स्याद्रागवस्तुनि वल्कले॑ इति मेदिनी । छो गुक् । छो छेदने ।छगलं नीलवस्त्रे ना छागे स्त्री वृद्धदारके॑ इति मेदिनी । ञमन्ताड्डः ।ञ॑मिति प्रत्याहारः । दमु उपशमे, रमु क्रीडायाम्, खनु अवदारणे, मन ज्ञाने, वन संभक्तौ, अम गत्यादिषु षणु दाने, गम्लृ गतौ,चण दाने, पण व्यवहारे स्तुतौ च । काशिकायां तुत्रिभ्य एव कणमाः स्यु॑रित्युक्तम् । ञम् प्रत्याहारस्तु न स्वीकृतः । अष्टाध्यायां तस्य विषयाऽभावात् । दण्ड इति । बाहुलकात्चुटू॑ इति नेत्संज्ञा ।दण्डोऽस्त्री लगुडेऽपि स्यात् इत्यमरः ।रण्डा मूषकपर्ण्यां च विधवायां च योषिति । खण्डोऽस्त्री शकले नेक्षुविकारमणिभेदयोः ।मण्डः पञ्चाङ्गु शाकभेदे क्लीबं तु मस्तुनि ।वण्डा तु पांसुलायां स्त्री त्रिषु हस्तादिवर्जिते॑ । अमन्ति संप्रयोगं यान्ति अनेनेति अण्डः प्राण्यवयवः ।षण्डः पद्मादिसङ्घाते न स्त्री स्याद्गोपतौ पुमान् । शडि रुजायाम्, अस्माद्धञि शण्डखङ्गिनि । चिह्नवीरकपोलेषु हयभूषणबुद्बुदे । चण्डो ना तिन्तिणीवृक्षे यमकिङ्कदैत्ययोः । चण्डी कात्यायनीदेव्यां हिंसाराकोपनयोषितो- ।पण्डः षण्डे धियि स्त्री स्या॑दिति मेदिनी । फमगतौ फण्डः । प्रज्ञादित्वादण् । फाण्डमुदरम् । क्वादिभ्यः कित् ।कुण शब्दोपकरणयोः । कुण्डमिति । इह कुण्डमित्यत्र प्रायेणानुस्वारमेव लिखन्ति, तत्तु प्रमादकृतम् । एवमन्यत्रापि बोध्यम् । डस्य कित्त्वान्न गुण- ।अनुनासिकस्य क्विझलो॑रिति दीर्घस्तु न भवति, बाहुलकात्संज्ञापूर्वकविधेरनित्यत्वाद्वेत्याहुः ।कुण्डमग्न्यालये मानभेदे देवजलाशये । कुण्डी कमण्डलौ काण्डमिति । कमु कान्तौ ।अनुनासकिस्ये॑ति दीर्घः ।काण्डोऽस्त्री दण्डबाणाऽर्ववर्गावसरवारिषु॑ इत्यमरः । अर्वाङ्कुत्सितः । अतएवकाण्डं स्तम्बे तरुस्कन्धे बाणेऽवसरनीरयोः । कुत्सिते वृक्षभिन्नाडीवृन्दे रहसि नस्त्रिया॑मिति मेदिनी । गुह् अव्यक्ते शब्दे ।गुडो गोलेक्षुपाकयोः॑ इत्यमरः । गुडा स्नुही,तद्वत्केशा यस्य सगुडाकेशः = शिवः, जटाधारित्वात् ।गुडः स्याद्गोलके हस्तिसन्नाहेक्षुविकारयोः । गुडा स्नुह्रां च कथिता गुडिकायां च योषिति॑ इति मेदिनी । गुडाका = निद्रा, तस्याईश इति वा, जितेन्द्रियत्वादिति भावः ।स्थाचति । ष्ठा गतिनिवृत्तौ, चते याचने, मृजू शुद्धौ । लचा सिद्धे आलच आकारश्चिन्त्यप्रयोजनः । चित्स्वरं बाधित्वा पक्षे आद्युदात्तार्थमित्येके ।स्थालं स्मृतः शूद्रेबिजालेकायशोधने॑ इति मेदिनी । पतिचण्डि । पत्लृ गतौ, चडि कोपे ।पतन्त्यस्मिन्नधर्मेणेति पातालम् । उपधावृद्धिः ।अधोभुवनपातालं बलिसद्म रसातल॑मित्यमरः ।पातालं नागलोके स्याद्विवरे वडवाऽनले॑ इति मेदिनी । चण्डाल इति । इदित्त्वान्नुमि अदुपधत्वाऽभावान्न वृद्धिः । माधवेन तुपतिचण्डिब्यामालन् इति नितं पठित्वा पातालशब्दे बाहुलकाद्वृद्धिमुक्त्त्वावृद्ध्यर्थमालञिति केषांचित्पाठे तु चण्डालशब्देऽपि वृद्धिः स्यादित्युक्तं तदतिरभसात् । एके इति । उज्ज्वलदत्तादयः । एतच्चकुलालवरुडकर्मारनिषादचण्डालमित्राऽमित्रेभ्यश्छन्दसी॑ति चण्डालात्स्वार्थेऽणं विदधता तद्भाष्येण च सह विरुद्धमिति बोध्यम् । तमिविशि । तमु काङ्क्षायाम्, विश प्रवेशने, बिड आक्रोशे, भृण हिंसायाम्, कुल संस्त्याने, कपि चलने, निर्देशान्नलोपः । पलगतौ, पचि विस्तारे ।तमालस्तिलके खङ्गे तापिच्छे वरुणद्रुमे॑ इति मेदिनी ।विशाला त्विन्द्रवारुण्यामुज्जयिन्यां तुयोषिति । नृपवृक्षभिदोः पुंसि पृथुलेऽप्यभिधेयवत् इति मेदिनी ।बिडालो नेत्रपिण्डे स्याद्वृषदंशकके पुमान् इति च मेदिनी ।ओतुर्बिडालोमार्जारो वृषदंशक आखुभुक् इत्यमरः ।मृगालंनलदे क्लीबे पुंनपुंसकयोर्बिसे॑इति मेदिनी ।कुलालः ककुभे कुम्भकारे स्त्रीत्वञ्जनान्तरे॑ इति च मेदिनी ।कुलालो घूकपक्षिणि । ककुभे कुम्भकारे च॑ इति हेमचन्द्रः ।कपालोऽस्त्रीशिरोऽस्थ्नि स्याद्धटादेः शकले व्रजे॑ इति मेदिनीविआप्रकाशौ ।पाञ्चाली पुत्रिकागीत्योः स्त्रियां पुंभूम्नि नीवृति॑ इति मेदिनी । बाहुलकात् श्यतेरपि कालन् ।आदेच उपेदेशे॑ इत्यात्वम् । शाला शल चलने । अस्मात् घञि शाला ।सेनासुराच्चायाशालनिशाना॑मिति निपातनात्स्त्रीत्वमिति न्यासः ।शालाद्रुस्कन्धशाखायां गृहगेहैकदेशयोः । ना झषे इति मेदिनी । पतेरङ्गच् । पत्लृ गतौ । पक्षिणीत्युपलक्षणम् ।पतङ्गः शलभे शालिप्रभेदे पक्षिसूर्ययोः । क्लीबंसूते॑ इति मेदिनी । सूते पारद इत्यर्थः । तरत्या.तृ प्लवनतरणयोः । लूञ् छेदने । तरङ्ग ऊर्मिः ।तरङ्गस्तुरगादीनामुत्फाले वरुआभङ्गयोः॑ इति विआः ।लवङ्गं देवकुसुमे॑ । आकृतिगणोऽयम् । विडादिभ्यः । बिड आक्रोशे, मृद क्षोदे, कृ विक्षेपे, एभ्योऽङ्गच् कित्स्यात् । विडङ्ग ओषधिविशेष इति उज्ज्वलदत्तः ।विडङ्गः कृमिसङ्घघ्ने विडङ्गो नागरेऽन्यवत् इति विआः ।विडङ्गस्त्रिष्वभिज्ञे स्यात् कृमिघ्ने पुंनपुंसक॑ मिति मेदिनी ।मृदङ्गः पटहे घोषे॑ इति च । कुरङ्गो मृगविशेषः । बाहुलकादुत्वं चेति.कुर शब्दे इत्यस्मादङ्गच् ।तस्य कित्त्वेन गुणाऽभाव इत्यन्ये । सृवृञोः । सृ गतौ, वृञ् वरणे ।सारङ्ग पुंसि हरिणे चातके च मतङ्गजे ।शबले त्रिषु॑इति मेदिनी । बाहुलकात् नृ नये ।अथ नारङ्गः पिप्लीरसे । यमजप्राणिनि विटे नागरङ्गद्रुमेऽपि चे॑ति मेदिनी । गन् गम्य । गम्लृ गतौ, अद भक्षणे,बाहुलकादम गत्यादिषु । अस्मादपि गन् ।अङ्गं गात्रे उपाये च प्रतीके चाऽप्रधानके । अह्गोदेशविशेषे स्यादङ्ग संबोधनेऽव्यय॑मिति विआः ।अङ्गं गात्रे प्रतीकोपाययोः पुंभूम्नि नीवृति । क्लीबैकत्वे त्वप्रधाने त्रिष्वङ्गवति चान्तिके॑ इति मेदिनी । छापू । छो छेदने, पूङ् पवने, खड भेदने । छायते छिद्यते यज्ञार्थमिति छागः । पूयतेमुखमनेनेति पूगः ।पूगस्तु क्रमुके वृन्दे॑ इति मेदिनी ।खङ्गो गण्डकशृङ्गे स्यान्निस्त्रशे गण्डकेऽपि चे॑ति शब्दतरङ्गिणी ।खङ्गो गण्डक शृङ्गाऽसिबुद्धभेदेषु गण्डके॑ इति मेदिनी । भृञः । डुभृञ् धारमपोषणयोः । किदित्यनुवर्तनात्किद्ग्रहममिह स्पष्टार्थम् ।भृङ्गो धूम्याटषिङ्गयोः ।मधुव्रते वभृङ्गराजे पुंसि भृङ्गं गुडत्वचि॑ इति मेदिनी । शृणातेः । शृ हिंसायामस्माद्गन्,धातोह्र्यस्वत्वं प्रत्ययस्य तु कित्त्वं नुट् च ।शृङ्गं प्रभुत्वे शिखरे चिह्ने क्रीडाऽम्बुयन्त्रके । विषाणोत्कर्षयोश्चाथ शृङ्गः स्यात्कूर्चशीर्षके । स्त्री विषायां स्वर्णमीनभेदयोरृषभौषधौ॑ इति मेदिनी ।शृङ्गं विषाणमाख्यातं शैलाग्ने जलयन्त्रके । मीनौषधिसुवर्णानां बेदे शृङ्गी प्रयुज्यते इत्युत्पलिनीकोशः । गण् शकुनौ । शृणातेः शकुनौ वाच्ये गण् स्यात्तस्य नुट् ।अचोऽञ्णिती॑ति धातोर्वृद्धिः । शार्ङ्गः पक्षी । शाङ्र्गं धनुरिति तु शृङ्गस्य विकार इति बोध्यम् । मुदिग्रोः । मुद हर्षे,गृ निगरणे,आभ्यां यथासंख्यं गक् ग इत्येतौ स्तः । मुद्गः सस्यभेदः । गर्गो मुनिविशेषः ।अण्डन् । डुकृञ् करणे,सृ गतौ,भृञ् भरणे, वृञ् वरणे ।करण्डो मधुकोशाऽसिकारण्डेषु दलाढके॑ इति मेदिनी ।वरण्डोऽप्यन्तरावेदौ समूहमुखरोगयोः॑ इति विआमेदिन्यौ । बाहुलकात् — तृ प्लवनतरणयोरपि ।तरण्डो वडिशीसूत्रबद्धकाण्ठादिके प्लवे॑ इति मेदिनी । शृ दृ ।शृ हिंसायाम्, दृ विदारणे, भस भत्र्सनदीप्त्योः । शरत् स्त्री वत्सरेऽप्यृतौ ।दरत्स्त्रियां प्रपाते च भयपर्वतयोरपि ।भसत् स्त्री भास्करे योनौ इति मेदिनी ।उबे अम्बसुलाभिक॑ इति व्याख्यातारः । दृणातेः । दृ विदारणे ।दृष्निष्पेषणशिलापट्टप्रस्तरयोः स्त्रियाम् इति मेदिनी । त्यजि.त्यज हानौ, तनु विस्तारे, यज देवपूजादौ । त्यदितयादि.अदेर्डित्वाट्टिलोपः । एतेः । इण् गतौ अस्माददिः । तस्य तुटि गुणः । एतद् । सर्तेः । सृ गतौ ।लङ्घेः । लघि शोषणे । पारयतेः । पीर तीर कर्मसमाप्तौ चुरादिः । पारगिति । णिलोपः कुत्वम् । प्रथेः । प्रथ प्रख्याने । भियः । ञिभी भये । युष्यसि । असु क्षेपणे । अर्तिस्तु । ऋ गतौ, ष्टुञ् स्तुतौ, षुञ् अभिषवे, हु दनादनयोः,सृ गतौ, धृञ् धारणे, क्षि क्षये, टुक्षु शब्दे,भा दीप्तौ, या प्रापणे, वा गतिगन्धनयोः,पद गतौ, णीञ् प्रापणे ।सोमस्तु हिमदीधितौ । वानरे च कुबेरे च पितृदेवे समीरणे । वसुप्रभेदे कपूरे नीरे सोमलतौषधौ॑ इति मेदिनी । होम इति । देवतोद्देशेन हविः प्रक्षेपः ।धर्मोऽस्त्री पुण्य आचारे स्वभावौपमयोः क्रतौ । अहिंसोपनिषन्नयाये ना धनुर्यमसोमपे॑ इति च ।धर्मः पुण्ये यमे न्याये स्वभावाचारयोः क्रतौ॑ इति विआः ।क्षौमं पट्टे दुकूलेऽस्त्री क्षौमं वल्कलजांऽशुके । शणजेऽतसिजे॑ इति मेदिनी ।भामः क्रोधे रवौ दीप्तौ॑ इति च ।यामस्तु पुंसि प्रहरे संयमेऽपि प्रकीर्तितः॑ इति च ।वामं धने पुंसि हरे कामदेवे पयोधरे । वल्गुप्रतीतपसव्येषु त्रिषु नार्यां स्त्रियामथ.वामी शृगालीवडवारासभीकरभीषु चे॑ति ।पद्मोऽस्त्री पद्मके व्यूहनिधिसंख्यान्तरेऽम्बुजे । ना नागे॑इति च॑ इत्यमरः ।राजयक्ष्मेव रोगाणा॑मिति माघः ।यक्ष्मणाऽपि परिहाणिराययौ॑ इति रघुः । अत्र जकारयकारयोर्भेदाऽग्रहेण जक्ष भक्षहसनयोरित्युज्ज्वलदत्तेनोपन्यस्तम् । तन्न । तस्यचवर्गतृतीयादित्वात् । अतएवअक्षीभ्यां ते नास#इकाभ्यां कर्णाभ्यां चुबुकादधि । यक्ष्मं सर्वस्मात् इति मन्त्रे यक्ष्मशब्दस्यान्तः स्थादित्वम् ।जक्षन् क्रीडन् रममाण॑ इत्यादिमन्त्रे तु जक्षच्छब्दस्य चवर्गतृतीयादित्वं वेदभाष्यकृतो व्याचख्युः ।नेमः कीलेऽवधौ गर्ते प्राकारे कैतवेऽपि च॑ इति मेदिनी ।नेमस्त्वर्धे प्राकारगर्तयोः । अवधौ कैतवे च॑ इति हेमचन्द्रः ।जहातेः । ओहाक् त्यागे । जहृ इति । मन्प्रत्ययस्य सन्वत्त्वाद्वित्वेसन्यतः॑ इतीत्वम् ।जिहृस्तु कुटिले मन्दे क्लीबं तगरपादपे॑ इति मेदिनी । अवेतिः । अव रक्षणादौ ।ॐ प्रश्ने स्वीकृतौ रोषे॑ इति विआः । ग्रसेरा च । ग्रसु अदने । अतो मन्, धातोराकारश्च ।ग्रामः स्वरे संवसतेवृन्दे शब्दादिपूरवकः॑ इति विआः । शब्दादिपूर्वको ग्रामशब्दो वृन्दे । शब्दग्रामोगुणग्राम इति यथा ।शब्दादिपूर्वो वृन्दे शब्दादिपूर्वकः॑ इति विआः । शब्दादिपूर्वको ग्रामशब्दो वृन्दे । शब्दादिपूर्वो वृन्देऽपि ग्रामः॑ इत्यमरः । संपूर्वोऽयं युद्धे । तदुक्तंसंपूर्वः संयुगे स्मृतः॑ इति । अविसिवि । अव रक्षणादौ, षिवु तन्तुसन्ताने,षिञ् बन्धने, शुष शोषणे , एभ्यो मन्स्यात्स च कित् । ऊठादितं पूर्ववत् । ऊमं नगरमिति ।त्वे क्रतुम् इति मन्त्रे ऊमास्तर्पका यजमाना इति वेदभाष्यम् । टापिबाहुलकाद्ध्रत्वत्वेउमाऽतसीहैमवतीहरिद्राकान्तिकीर्तिषु॑ इति मेदिनी । स्यूमो रश्मिरिति । सूत्रतन्तुरित्यन्ये । सिमः सर्वनाम गणे पठितः ।शुष्मं तेजसि सूर्ये ना॑ इति मेदिनी । शुष्मं बलमिति वेदभाष्यम् । इषियुधि । इष गतिहिंसादानेषु । ईष गताविति केचित् । इष्मः । युध संप्रहारे,ञीन्धी दीप्तौ, दसु उपक्षये, श्यैङ् गतौ, धूञ् कम्पने, षूञ् प्राणिगर्भविमोचने । युध्म इति ।युध्मो धनुषि संयुगे॑, इति मेदिनी ।दस्मस्तु यजमाने स्यादपि चौरे हुताशने॑ इति च ।त्रिषु श्यामौ हरित्कृष्णौ श्यामा स्याच्छारिवा निशा॑ इत्यमरः ।श्यामो वटे प्रयागस्य वारिदे वृद्धदारके । पिके च कृष्णहरितोः पुंसि स्यात्तद्वति त्रिषु । मरीचे सिन्धुलवणे क्लीबं स्त्री शारिवौषधौ ।अप्रसूताऽङ्गनायां च प्रियङ्गावपि गुग्गुलौ । यमुनायां त्रियामायां कृष्णत्रिवृतिकौषधे । नीलिकाया॑मिति मेदिनी । ईर्ममिति । ईर गतौ ।व्रणोऽस्त्रियामीर्ममरुः क्लीबे॑ इत्यमरः । बाहुलकाज्जन जनने स्तु अकारान्तनकारान्तोभयसाधारणः ।युजि । युजिर्योगे, रुच दीप्तौ, तिज निशाने, एभ्यो मक्, कवर्गश्चान्तादेशः ।रुक्मं तु काञ्चने लोहे॑ इति विआमेदिन्यौ । तिग्मं तीक्ष्णम् । हन्तेः । हन हिंसागत्योरस्मान्मक्, धातोर्हिरादेशश्च ।हिमं तुषारमलयोद्भवयोः स्यान्नपुसंकम् । शीतले वाच्यलिङ्गः॑ इति मेदिनी । भियः । ञिभी भये । बिभेत्यस्मादिति विग्रहः ।भीष्मो गाङ्गेयघोरयोः ।भीमोऽम्लवेतसे धोरे शम्भौ मध्यमपाण्डवे॑ इति मेदिनी । घर्मः । घृ क्षरणदीप्त्योः । ग्रीष्मः । ग्रसु अदने ।घर्मः स्यादातपे ग्रीष्मेऽपर्युष्णस्वेदाम्भसोरपि॑ ।ग्रीष्म ऊष्मर्तुभेदयोः॑ इति च मेदिनी । प्रथेः । प्रथ प्रख्याने । षित्त्वान्ङीष् ।पृथवी पृथिवी पृथ्वी धरा सर्वसहा रसा॑ इति शब्दार्णवः । अशुप्रुषि.अशू व्याप्तौ, लट बाल्ये,कण निमीलने,खटि काङ्क्षायाम्,विश प्रवेशने ।अआः पुंजातिभेदे च तुरङ्गे च पुमानय॑मिति मेदिनी ।अआः पुंभेदवाजि#ईनोः॑ इति विआः ।लट्वा करञ्जभेदे स्यात्फले वाद्ये खगान्तरे॑ इति विआमेदिन्यौ ।कण्वं पापे मुनौ पुंसि॑ इति मेदिनी ।किण्वं बीजाऽघसीधुषु॑ इति च पठते । शयनार्थिभिः काङ्क्ष्यते इति खट्वा ।विआआ ह्रतिविषायां स्त्री जगति स्यान्नपुंसकम् । न ना शुण्टआं पुंसि देवप्रभेदेष्वखिले त्रिषु॑ इति मेदिनी । इण् । इण गतौ । शीङ् स्वप्ने । शेवं सुखमिति वेदभाष्यम् । शेवं मेढ्रमित्युज्जज्वलदत्तः । सर्वनिघृष्व । सर्वनिघृष्व । सृ गतौ,घृषु संघर्षे, रिष हिंसायाम्, लष कान्तौ, शीङ् स्वप्ने, पट गतौ, ह्वेञ् स्पर्धायां शब्दे च, ओहाक् त्यागे इति वा, ईष गत्यादिषु । तन्त्रशब्दोऽत्र कर्तृवाचीत्याह — अकर्तरीति । निपात्यन्त इति ।वन् प्रत्ययान्ततये॑ ति शेषः ।ह्रस्व इति । ह्यस शब्दे ।ह्रस्वो न्यक्खर्वयोरिउआषु॑ इति मेदिनी । शेयवह्व । एते वन्प्रत्ययान्ता निपात्यन्ते । अन्तोदात्तार्थमिति ।इण्शीभ्या॑मित्यनेन आद्युदात्तत्वसिद्धेरिति भावः । शीङ् स्वप्ने । शेवा लिङ्गाकृतिः । दशपादीवृत्तिरीत्याह — यान्त्यनेनेति । उज्ज्वलदत्तस्तु यज देवपूजादौ जकारस्य हकारो, यह्वो यजमान इत्याह । वैदिकनिघण्टौ महन्नामसु यह्वशब्दः पठितः ।प्रवो यह्वं पुरुणां । यह्वं महान्तमिति वेदभाष्यम् । लिह आस्वादने । लिह लिहनत्यनयेति जिह्वा । जि जये हुगागमः । जिह्वा रसनेत्युज्ज्वलदत्तः । ग्रीवेति । गृ निगरणे, आप्लृ व्याप्तौ, मीह् हिंसायाम् । मीवेति.वेदे तु अमीवेति छित्त्वा अम रोग इत्यस्माद्वः, इट् चेत्युक्तम् ।अमीवहा वास्पोष्पते॑ इत्यादिमन्त्रास्तत्रानुकूलाः । कृ गृ कृ विक्षेपे, गृ निगरणे, शृ हिंसायाम्, दृ विदारणे । गर्वोऽहंकारः । शर्वो रुद्रः । कनिन्यु ।यु मिश्रणे, वृषु सेचने, तक्षू तनूकरणे, राजृ दीप्तौ, धन्वि (वि) गत्यर्थः, द्यु अभिगमने, दिवु क्रीडादौ ।युवा स्यात्तरुणे श्रेष्ठे निसर्गबलशालिनी॑ ति ।वृषा कर्णे महेन्द्रे ना॑इति च मेदिनी ।तक्षा तु वर्धकिस्त्वष्टा रथकारश्च काष्ठतट् इत्यमरः ।राजा प्रभौ नृपे चन्द्रे यक्षे क्षत्रियशक्रयोः॑ इति च ।समानौ मरुधन्वानौ॑ इति च ।अथाऽस्त्रियाम् । धनुश्चापौ धन्वशरासनकोदण्डकार्मकुम् इति चाऽमरः ।धन्वा तु मरूदेशेना क्लीबे चापे स्थलेऽपि च॑ इति मेदिनी । सप्यशूभ्याम् । षप समवाये, अशू व्याप्तौ । नञि । ओहाक् त्यागे, कनिनि आतो लोपः । आन्नुक्षन् । टुओआगतिवृद्ध्योः, उक्ष सेचने, पूष वृद्धौ । ष्णिह प्रीतौ, मुह वैचित्ये, मुर्वी बन्धने । उकारस्य दीर्घत्वे वकारस्य धकार इत्युज्जवलदत्तः । टुमस्जो शुद्धौ । मस्जेः सकारस्य शकारस्तस्य जश्त्वेन जः । माङ् माने शब्दे च, प्सा भक्षणे, जनी प्रादुर्भावे, टुओश्वि गतिवृद्ध्योः । कनिप्रत्ययान्ता इति । नायं निदिति भावः । केचित्तु नित्त्वं स्वीकृत्य उक्षन्नादीनां सूत्रेऽन्तोदात्तनिपातनमाहुस्तच्च गौरवग्रस्तमित्युपेक्ष्यम् । ओति । इकारलोपो निपात्यते । पूषेति ।सौ चे॑त्युपधादीर्घः ।इन्हन् इति नियमात्पूषणौ पूषण इत्यादौ न दीर्घः ।क्लिदौषदिशशाङ्कयोः॑ इति यादवः । मूर्धेति ।मूर्धा ना मस्तकोऽस्त्रियाम् इत्यमरः । मज्जेति । नकारान्तोऽयं । टाबतोऽप्यभ्युपगम्यते ।ऊष्मया सार्धमूष्मापि मज्जोक्तो मज्जया सह॑ इति द्विरुपकोशात् ।अर्यमा तु पुमान्सूर्ये पितृदेवन्तरेऽपि॑चेति मेदिनी । परिजायत इत्यादि । एतच्च दशपादीवृत्त्यनुरोदेनोक्तम् ।परिज्मानं सुखं रथ॑मिति मन्त्रस्य वेदभाष्येतु परिज्मा परितो गन्ता । अञ्जेः परिपूर्वस्यआन्नुक्षन् इत्यादिना मन्प्रत्ययः, अकारलोपः, आद्युदात्तत्वं च निपात्यत इत्युक्तम् । उज्जवलदत्तस्तु परिज्वेति पठित्वा जु इति सौत्रो धातुः परिपूर्वः, यणादेशः परिज्वा चन्द्र इत्याह, तल्लक्ष्यविरोधादुपेक्ष्यम् । मातरिओति । सप्तम्या अलुक् । इह भत्वविषये संप्रसारणं न भवति,आयु वे॑ति सूत्रे अभिव्यक्ततरत्वेन कुक्कुरवाचकस्यैव आशब्दस्य,तदन्तस्य च ग्रहणात् । तेन मातरिआनः, मातरिनेत्येव । इह सूत्रे इतिशब्द आद्यर्थस्तेनाऽन्येभ्योऽपि यथादर्शनं कनिः प्रयोक्तव्यः । दशपाद्यां तु इतिशब्दोऽत्र न पठते । इत्युणादिषु प्रथमः पादः ।अथ द्वितीयः पादः ।कृह्मभ्याम् । डुकृञ् करणे, ह्मञ् हरणे ।करेणुरिभ्यां स्त्री नेभे॑ इत्यमरः ।करेणुर्गजयोषायां स्त्रियां पुंसिमतङ्गजे॑ इति मेदिनी । गन्धद्रव्यमिति । कलायश्चेति बोध्यम् ।कलायस्तु सतीनकः॑ इत्यमरः । हरेणुखण्डिके चास्मिन् इत्यमरः ।हेरणुर्ना सतीने स्त्री रेणुकाकुलयोषितोः॑ इति मेदिनीविआप्रकाशौ ।हनिकुषि । हन हिंसागत्योः,कुष निष्कर्षे, णीञ्प्रापणे, रमु क्रीडायाम्, काशृ दीप्तौ ।कुष्ठं रोगे पुष्करे स्त्री॑ इति मेदिनी ।कुष्ठं रोगे सुगन्धे च॑ इति विआः ।नीथे नीथे मघवानं सुतासः॑ इति मन्त्रे नीथशब्दस्याऽन्तोदात्तत्वं बाहुलकात् । नीथे नीथे = स्तोत्रे स्तोत्रे इति वेदभाष्यम् ।रथः पुमानवयवे स्यन्दने वेतसेऽपि च॑ इति मेदिनी ।रथः स्यात्स्यन्दने काये चरणे वेतसेऽपि च॑ इति विआः ।काष्ठा दारुहरिद्रायां कालमानप्रकर्षयोः । स्थानमात्रे दिशि च स्त्री दारुणि स्यान्नपुंसकम् इति मेदिनी । अवे । डुभृञ् धारणपोषणयोः । अवभृथो यज्ञावसानम् । उषिकुषि । उष दाहे, कुष निष्कर्षे, गै शब्दे, ऋ गतौ, एभ्यस्थन् ।कोष्ठं कुक्षिकुसूलयोःर॑ ।गाथा शोके संस्कृतान्यभाषायां शेषवृत्तयोः॑ इति मेदिनी ।अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु॑ इत्यमरः । शोथः आयथुः । शु गतौ । सर्तेः । सृ गतौ ।सार्थो वणिक्समूहे स्यादपि सङ्घातमात्रके॑ इतिमेदिनीविआप्रकाशौ । जृवृञ् । ज्या वयोहनौ क्यादिः, जृष् दिवादौ । वृञ् वरणे । जरूथोऽसुरविशेष इति वेदभाष्यम् ।वरूथः स्यात्तनुत्राणे रथगोपनवेश्मनोः॑ इति हेमचन्द्रः । पातृ । पा पाने, तृ प्लवनतरणयोः, तुद व्यथने, वच परिभाषणे, रिचिर्विरेचने, षिच क्षरणे, ऋच स्तुतौ ।तुत्थोऽग्नावञ्जने तुत्था नीलीसूक्ष्मैलयोरपि॑ इति विआः ।तुत्थमञ्जनभेदे स्यान्नीलीसूक्ष्मैलयोः स्त्रियाम् ।सिक्थो भक्तपुलाके ना मधूच्छिष्टे नपुसंकम् इति मेदिनी । अर्तेः । ऋ गतौ ।द्रोघवाचस्ते निरृथं सचन्ताम् इति मन्त्रे निरृथो हिंसेति वेदभाष्यम् । निशीथ । शीङ् स्वप्ने निपूर्वः, पा पाने गोपूर्वः ।घुमास्थे॑ तीत्वम् । गाङ् गतौ । अवपूर्वस्य धातोह्र्यस्वत्वम् ।निशीथस्तु पुमानद्र्धरात्रे स्याद्रात्रिमात्रके॑ इति मेदिनी ।प्रति त्यं चारुमध्वर॑ मिति मन्त्रेगोपीथः सोमपान॑मिति वेदभाष्यम् । तीर्थमिति तु वृत्तिकारः । गश्चोदि । उदि उपपदे गै शब्दे इत्यस्मात्थक् । समीणः । इणा गतावस्मात्समि उपपदे थक् । समिथशब्दः सङ्ग्रामपर्यायेषु वैदिकनिघण्टौ पठितः ।श्रिये जातः॑ इति मन्त्रेसमिथाः युद्धानी॑ति वेदभाष्यम् । तच्च युक्तमेव । सम्यगेति जयार्थमत्रेति व्युत्पत्तेः । संपूर्वस्येणः क्तिन्नाद्यन्तस्य लोकेऽपि युद्धार्थत्वदर्शनाच्च । उक्तं ह्रमरेणसमित्याजिसमिद्युधः॑ इति । तिथपृष्ठ । तिज निशाने, पृषु सेचने, गु पुरीषोत्सर्गे,यु मिश्रणे, प्रुङ् गतौ । एते थक्प्रत्ययान्ता निपात्यन्ते ।पृष्ठं तु चरमं तनोः॑ इत्यमरः ।पृष्ठं चरममात्रेऽपि देहस्यावयवान्तरे॑ इति मेदिनी । स्तोत्रविशेषोऽपिपृष्ठैः स्तुवते॑ इत्यादौ तथा निर्णयात् । गूथमिति । निपातनाद्दीर्घः । एवं यूथोऽपि [॒यूथं तिर्यक्समूहेऽस्त्री पुष्पभेदेऽपि योषिती॑ति मेदिनी । यूथी पुष्पप्रेभेदे स्यान्मागध्यां चकुरण्टके]यूथं तिर्यक्समूहेऽपि वृन्दमात्रेऽपि भाषित॑मिति विआः ।यूथं तदग्रसरगर्वितकृष्णसार॑मिति रघुः । प्रोथमिति । निपातनाद्गुणः ।प्रोथोऽस्त्री हयघोणायां ना कटआ मघ्वगे त्रिषु॑ इति मेदिनी । स्फायतिञ्चि । स्फायी वृद्धौ, तञ्चु संकोचने, वञ्चु प्रलम्भने, शक्लृ शक्तौ , क्षिप प्रेरणे, क्षुदिर् संपेषणे, सृप्लृ गतौ, तृप प्रीणने,दृप हर्षमोचनयोः, वदि अभिवादनस्तुत्योः, उन्दी क्लेदने,इआता वर्णे, वृतु वर्तने, अजगतिक्षेपणयोः, णीञ् प्रापणे, पद गतौ, मदी हर्षे, मुद हर्षे, खिद दैन्ये, छिदिर्द्वैधीकरणे भिदिर्विदारणे, मदि स्तुतौ, चदि आह्लादने, दह भस्मीकरणे, दसु उपक्षेपे, दम्भु दम्भने, वस निवासे, वाशृ शब्दे, शीङ् स्वप्ने, हसे हसने, षिध गत्याम्, शुभ दीप्तौ । द्वाशिंशत इति । दशपाद्यां तु त्रयस्त्रशदुक्ताः ।दम्भिवहिवसी॑ति पठित्वा वह प्रापणे ऊह्रोऽनड्वानित्युदाहरणात् । माधवोऽप्येवम् । [तक्रमिति] ।तक्रं ह्रुदइआन्मथितं पादाम्ब्वर्धाम्बु निर्जल॑मित्यमरः ।वक्रः स्याज्जटिले क्रुरे पुटभेदे शनैश्चरे॑ इति विआः ।शक्रः पुमान् देवराजे कुटजाऽर्जुन भूरुहोः॑ इति मेदिनी ।क्षुद्रः स्यादधमक्रूरकृपणाऽल्पेषु वाच्यवत् इति मेदिनी । तृप्र पुरोडाश इति ।न तृप्रा उरुव्यचस॑मिति मन्त्रे वेदभाष्यकारैरित्थं व्याख्यातं, प्रकृतसूत्रे उज्ज्वलदत्तादिभश्च । दशपादीवृत्तौ तु तृप्रमाज्यं काष्ठं चेत्युक्तम् । तृप्रं दु#ःखमिति सुबन्धातु वृत्तौ माधवः । हिमांशुरित्यादि । हिमद्युतिरित्यन्तं शब्दार्वणः । दस्यति रोगान् क्षिपतीति दरुआः ।दरुआः खरेऽआनीसुते॑ इति मेदिनी ।दरुआः खरे चाऽइआनयोः॑ इति विआः ।", "71060": "<<मस्जिनशोर्झलि>> - नष्टेति ।नशेर्वा॑ इति कुत्वमिहन शङ्क्यं, पदान्त एव तद्विधानात् । अन्यथा नष्टं नष्टिरित्यादि न सिध्येत् । प्रणश्यतीति ।उपसर्गादसमासेऽपी॑ति णत्वम् ।", "71061": "<<रधिजभोरचि>> - रन्धयति । परापि वृद्धिर्नित्येन नुमा बाध्यते । अचीति किम् । रद्दा । जब्धा ।", "71062": "<<नेट्यलिटि रधेः>> - नेटलिटि । इटीति किम् । रन्धकः । अलिटीति किम् । ररन्धिव । नुमि कृते संयोगात्परत्वेनाऽकित्त्वान्नलोपो न ।", "71063": "<<रभेरशब्लिटोः>> - रभेरशब्लिटोः ।रधिजभो॑रित्यतोऽचीति,इदितः॑ इत्यतो नुमितिचानुवर्तते । अचि किम । आरब्धम् । अशब्लिटोः किम् । रभते । रेभे ।", "71064": "<<लभेश्च>> - योगविभागःआङो यी॑त्यत्र लभेरेवानुवृत्तर्यथा स्यादिति ।* काण्यादीनांवेति वक्तव्यं । काण्यादीनामिति ।कण निमीलने॑ । रण शब्दे॑ ।श्रम छेदने॑ ।हेठ बिबाधायाम् । षट् ।ह्वेञ् स्पर्धायां शब्दे च॑ ।वण शब्दे॑ ।लुट (ठ) प्रतिघाते॑ लुप्लृ छेदने॑ । लोपीति णिजन्तनिर्देशः । लापयतीति । पाठान्तरम् । लप व्यक्तायां वाचि । केचित्तु लप हेठ इति पठन्ति । न्यासे चत्वारः ।चण दाने॑ ।लुठ स्तेये॑ भ्वादिः । चुरादौ दण्डकपाठे भाषार्थकोऽपि । अजिहेठत् ।", "71065": "", "71066": "<<उपात् प्रशंसायाम्>> - उपात्प्रशंसायाम् । यादौ प्रत्यये विवक्षिते उपपूर्वाल्लभेर्नुम् स्यात्प्रशंसायाम् । सा चेह गम्यमानतया विशेषणम् । धात्वर्थस्तु प्राप्तिरेव,तेन यस्य प्राप्तिर्यस्माद्वा प्राप्तिः प्रशंसाहेतुर्भवति तदिहोदाहरणम् । विपरीतं तु प्रत्युदाहरणम् । इहापियादौ प्रत्यये विवक्षिते॑ इत्यर्थान्नुमि कृते ण्यति सत्यन्तस्वरितत्वं भवति । यति तु सत्युत्तरपदाद्युदात्तत्वं स्यात् । प्राचा तु स्वरे विशेषमनालोच्यपोरदुपधा॑दिति यतमेव स्वीकृत्य यति परे नुमिति व्याख्यातं, तदाकरिरोधादुपेक्ष्यमित्याहुः ।", "71067": "", "71068": "<<न सुदुर्भ्यां केवलाभ्याम्>> - यदा स्वती इति ।सुः पूजायाम्,अतिरतिक्रमणे चे॑ति तयोः कर्मप्रवचनीयत्वम् ।", "71069": "<<विभाषा चिण्णमुलोः>> - विभाषा ।लभेश्चे॑त्यतो लभेरिति वर्तते । णमुलि — लभंलभम् । लाभंलाभम् । प्रादेस्तु — प्रलम्भंप्रलम्भमित्येव । अथ ये द्विकर्मकास्तेषु लकृतद्यक्तखलर्थाः किं मुख्ये कर्मणि, उत गौणे, किं वोभयोरिति संदेहे व्यवस्थामाह — — द्विकर्मकाणां त्विति.दुह्रादेरिति । दुह्राच्पचिति श्लोके पूर्वार्धोपात्ता द्वादश दुह्रादयस्तेभ्यो गौणे कर्मणि लादयो मता इत्यन्वयः ।अकथितं चे॑ति सूत्रेण यस्य कर्मसंज्ञा तद्गौणम् ।गतिबुद्धी॑ति सूत्रेण ये द्विकर्मकास्तत्र व्यवस्थामाह — तद्गौणम् । प्रयोज्येति । अणौ कर्तुणौ कर्मसंज्ञा यस्य तत्प्रयोज्यकर्म । अन्येषामिति । गत्यर्थाऽकर्मकह्मकरोतीनाम् । लादय इति । कृत्यक्तखलर्था आदिशब्देन ग्राह्राः । गौर्दुह्रते इति ।देवदत्तेने॑ति शेषः ।कृत्यादिषु गौर्दोग्धव्या । दोहनीया पयः । गौः सुदोहा दुर्दोहा पयः । अजा ग्रामं नेतव्या । नयनीया । हरत्वया । हरणीया । अजा ग्रामं नेया इत्याद्युहर्तव्यम् । ग्रामं गम्यत इति ।यज्ञदत्तेने॑त्यध्याहारः । माणवक इति । अयं प्रयोज्यः कर्ता । देवदत्तेनेति प्रयोजकस्त्वध्याहर्तव्यः । इति तत्त्वबोधिन्याम् भावकर्मप्रक्रिया ।", "71070": "<<उगिदचां सर्वनामस्थानेऽधातोः>> - मघववन्शब्दस्येति । अधातोरिति । अधातुभूतपूर्वस्यापूत्यर्थः । अञ्चतिग्रहणं हि नियमार्थम्, — ॒उगितो धातोश्चेद्भवति तह्र्रञ्चतेरेवे॑तचि । एवञ्च गोमानिवाचरति॒गोमा॑नित्यदौ संप्रति धातुत्वेऽपि विध्यर्थमधातुग्रहम् । एतच्च मूल एव स्फूटूभविष्यति । नन्वञ्चतिग्रहणमौपदेशिकधातोश्चेदुगित्कार्यं तह्र्रञ्चतेरेवेति व्याख्याय अधातुग्रहणं त्यज्यतामिति चेत् । अत्र नव्याः — नुन्मात्रविषयको नायं नियमो, — — ॒धातोस्चेदुगित्कार्यं तह्र्रञ्चतेरेवेति नियम्यत । तेनेह न, -उखारुआत् — इति उगितश्चे ति सूत्रे वक्ष्यमाणत्वात् । ततश्च यद्यौपदेशिकधातोश्चेदुगित्कार्यमिति व्याख्यायेत तर्हि पूर्वोक्ते॒गोमा॑नित्यादौ स्त्रियम्उगिश्चे॑ति ङीप्प्रसज्येत । आचारक्विबन्तस्यौपदेशिकधातुत्वाऽभावात् । न चेष्टापत्तिः, — अधातोग्र्रहणादेव सूत्रकृता तत्र ङीब्नेष्यत इत्यनुमानादिति दिक् । ननु नलोपिनोऽञ्चतेरेव नुमागमः स्यान्न तु पूजार्थस्य नकारवतोऽञ्चेतेरित्येवमर्थम्अचा॑मिति ग्रहणस्य सार्थकत्वात्कथमेतस्य सामान्यनियमार्थतेति चेदुच्यते — ॒अचा॑मित्यत्र नलोपोऽविवक्षितः । तथाच पूर्वोक्तनियमार्थता भाष्यकैयटटाद्युक्ता सङ्गच्छत एव । पूजार्थस्याऽञ्चेतेर्नुम#इ सत्यपिनश्चापदान्तस्ये॑ति सूत्रे जातिपक्षमाश्रित्य नत्वजातेरनुस्वारविधानेन समीहितरूपसिद्धेः । व्यक्तिपक्षे त्वनुस्वारस्य शर्षु पठितत्वादनुस्वारे परे नुमोऽनुस्वारे सति अनुस्वारद्वयवद्रूपमिष्यते ।अनचि चे॑ति द्वित्बेन तद्रूपस्य तवापि मते दुर्वारत्वात् । न च भवन्मते द्वित्वेनाऽनुस्वारत्रयं स्यादिति शङ्क्यम्,झरो झरी॑ति लोपेन निवारयितुं शक्यत्वात् ।लोपऽभावापक्षे त्रयाणां श्रवणं स्यादिति चेद्भष्यकैयटाद्युक्तनियमानुरोधेन तत्स्वीकारे बाधकाभावात् । इष्टानुरोधेन जातिपक्ष एवात्राश्रयणीयः । नुमागमः स्यादिति ।इदितो नुम् धातो॑रित्यतो नुमनुवर्तत इति भावः । ननुकुर्व॑न्नित्यादाविव संयोगान्तलोपस्याऽसिद्धत्वेन नान्तत्वाऽभावाद्दीर्घत्वं न स्यादित्याशङ्क्याह — इह दीर्घे कर्तव्य इति । बहुलग्रहणादिति । क्वचिदन्यदेवेत्यर्थकादित्यर्थः । बहूनार्थान् लातीति बहुलम् ।आतोऽनुपसर्गे॑इति कर्मण्युपपदे कः । आन्नुक्षन्निति ।आन्नुक्षन्पषन्प्लीहन्क्लेदन्स्नेहन्मूर्धन्मज्जन्नर्यमान्विआप्सन्परिज्मन्मातरिआन्मघव॑न्नित्युणादिसूत्रेणेत्यर्थः । निपातनादिति । महेर्हकारस्य घकारोऽवुगागमः कनिप्रत्ययश्चेत्यस्य त्रितयस्य निपातनादित्यर्थः । प्रत्याख्यातमाकर इति । एवं च फलभेदे त्रादेशस्य प्रत्यख्यानाषसंभवादादेशपक्षेऽपि दीर्घो भाष्यादिसंमत एवेति बहुलग्रहणात्संयोगान्तलोपस्य नाऽसिद्धत्वमित्युक्तम् । यत्त्वाहुः — मतुप्पक्षेऽपि छान्दसत्वान्न दीर्घ इत्येव भाष्याशय इति, तन्न,मतुबन्तस्य छान्दसत्वे मानाऽभावादुदाहृतभट्टिप्रयोगविरोधाच्चेति दिक् । छन्दसीवनिपाविति ।मन्वर्थे ईवनिपौ स्तः छन्दसी॑ति वार्तिकार्थः ।सुमङ्गलीरियं वधूः॒॑मघवानमीमहे॑इत्युदाहरिष्यति वैदिकप्रक्रियायाम् । अन्तोदात्तंत्विति । यद्यपिश्रन्नुक्ष॑न्नित्यत्र कनिन्नन्ता एते॑ इत्युज्ज्वलदत्तादिग्रन्थपर्यालोचनयाऽऽद्युदात्तत्वं लभ्यते, तथापिउक्षा समुद्रो अरुणः सुपर्णः॒॑पूषा त्वेतो नयतु,॒॑अग्निर्मूर्धादिवः॑इत्यादौ तत्सूत्रोपात्तानामुक्षादीनामन्तोदात्तत्वस्यनिर्विवादतया कनिप्रत्यय एवोचित इति भावः ।", "71071": "<<युजेरसमासे>> - युजेरसमासे ।उगिदचा॑मित्यतःसर्वनामस्थाने॑इत्यनुवर्तते ।इदितो नुम् धातो॑रित्यतोनुम्चेत्याशयेनाह — सर्वमास्थाने नुम्स्यादिति ।", "71072": "<<नपुंसकस्य झलचः>> - नपुंसकस्य झलचः ।इदितो नुम् धातो॑रित्यतो नुमनुवर्तते ।उगिदचा॑मित्यतःसर्वनामस्थाने॑इति च ।अङ्गस्ये॑ति चाघधिकृतम् । तथाच झलज्भ्यां नपुंसतमङ्गं विशेष्यते, विशेषणेन च तदन्तविधिर्भवतीत्याह -झलन्तस्येत्याद ।", "71073": "<<इकोऽचि विभक्तौ>> - इकोऽचि । विभक्तौ किं मधु मद्यं तस्येद माधवम् । अत्र नुमि सति टिलोपः स्यात् ।वृद्धौत्त्वतृज्वद्भावगुणेभ्यो नुम्पूर्वविप्रतिषेधेन । वृद्ध्यौत्वेति ।अति सखिनी॑त्यत्रसख्युरसंबुद्धा॑विति णिद्वद्भावाद्वृद्धिः प्राप्ता,वारिणी॑त्यत्र तुअच्च घे॑रित्यौत्त्वम्,प्रियक्रोष्टूनी त्यादौ तृज्वद्भावः प्राप्तः ननु नुम्रुटोः को विशेषस्तन्नाह — — नामीति दीर्घत्वमिति । नुमस्त्वङ्गभक्तत्वात्तस्मिन्सति दीर्घो न स्यादिति भावः ।", "71074": "<<तृतीयाऽऽदिषु भाषितपुंस्कं पुंवद्गालवस्य>> - तृतीयादिषु । यद्यत्र भाषितः पुमान् येन शब्देन स भाषित पुंस्कः शब्द इति विज्ञायेत तदापीलुने॑इत्यादावतिप्रसङ्गः स्यात्, अतो व्याचष्टे — प्रावृत्तनिमित्तैक्ये इति । अयं भावः — भाषितः पुमान् यस्मिन् अर्थे तद्भाषितपुंस्कं प्रवृत्तिनिमित्तं, तदस्यास्तीति अर्श आदित्वादच् । तेनैकस्मिन् प्रवृत्तिनिमित्ते भाषितपुंस्कं यच्छब्दस्वरूपं तल्लयत इति ।इकोऽचिविभक्ता॑वित्यतोऽची॑त्यनुवर्तनादाह — टादावचीति । इगन्तं किम्, सोमपेन कुलेन । अचि किम्, ग्रामणिभ्याङ्कुलाभ्याम् । टादौ किम्, अनादिनी । अनादीनि । तत्फलमिति । पीलोः फलं पीलु ।फले लु॑गिति ओरञो लुक् । प्रवृत्तिनिमित्तभेदादिति । पीलुशब्दस्य हि वृक्षत्वव्याप्यजातिर्वृक्षे प्रवृत्तिनिमित्तं, फले तु फलत्वाव्याप्यजातिर्वृक्षविशेषप्रभवत्वं वा । उभयथापि पुंनपुंसकयोनैकं प्रवृत्तिनिमित्तमिति भावः ।", "71075": "<<अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः>> - अस्थिदधि ।इकोऽची॑ति नुमि प्राप्ते विधिरयम्, नकारादकार उच्चारणार्थः । ङकारस्त्वन्तादेशार्थः ।नब्विषयस्याऽनिसन्तस्ये॑ति फिट्सूत्रेणाऽस्थ्यादय एते आद्युदात्ताः । तत्राऽन्तस्यानुदत्तेकारस्य विधीयमानोऽनङ्स्थानेऽनन्तरतमः॑इत्यनुदात्तः स्यादित्युदात्त उच्यते । तच्चोदात्तत्व॒मस्थनि॒॑दधनि॑इत्यादावल्लोपाभावपक्षे स्फुटम्,दध्ना॒॑दध्ने॑इत्यादावनङोऽकारलोपेअनुदात्तस्य च यत्रोदात्त लोपः॑इत्युदात्तनिवृत्तिस्वरेण विभक्त्युदात्तत्वं प्रयोजनमिति बोध्यम् । तृतीयाष्वित्यनुवर्तते, अचीति च, तदाह — टादावचीति । टादौ किम् । दधिनी, दधीनि । अचि किं दधिभ्याम् । तदन्तस्यापीति । आङ्गत्वादिति भावः । अतिदध्नेति । दधि अतिक्रान्तेनेत्यर्थः । स्त्रकियामप्यतिदध्नेत्येव । संनिपातपरिभाषया बहिरङ्गपरिभाषया बहिरङ्गपरिभाषया च ङीपोऽप्रवृत्तेः । प्राचा तुप्रियदध्ना ब्राआहृणेने॑त्युक्तम् । स्त्रियांप्रियदध्न्या॒॑प्रियदध्न्यै॑इत्यद्यपि कैश्चिदुक्तम् । तदसत् । उरःप्रभृतिषु दधिशब्दस्य पाठाद्बहुव्रीहौ नित्यं कप्यनडः प्रसक्त्यभावात् । उक्तपरिभाषाभ्यां ङीपः प्रवृत्तेर्दूरापास्तत्वाच्चेति दिक् । सुधिनी इति । परत्वान्नुमा इयङ्बाध्यते । सुधियेति । शोभनज्ञानवत्त्वं प्रवृत्तिनिमित्तं पुंनपुंसकयोरेकमेवेति भाषितपुंस्कत्वात्तृतीयादिष्वि॑ति पुंवत्पक्षे#ऐ नुमभावात्न भूसुधियो॑रिति यण्निषेधाच्चेयङ् । प्रध्येति । अत्रापि प्रकृष्टज्ञानवत्त्वं पुंनपुंसकयोरेकमेवेति भाषितपुंस्कत्वात्तृतीयादिष्विति पुंवत्पक्षे यण् । नपुंसकपक्षे तु नुमिति बोध्यम् ।बह्वयः श्रेयोस्यो यस्य तद्बहुश्रेयसी कुल मित्यत्र नपुंसकह्यस्ततिवमं न,ईयसो बहुव्रीहेर्ने॑ति ह्रस्वामात्रस्य प्रतिषेधादित्येके । अन्ये तूपसर्जनह्रस्व एव निषिध्यते, नपुंसकह्रस्वत्वं तु स्यादेव ।बहुश्रेयसि॑ बहुश्रेयसिनी॑इतयाहुः । मध्विति ।मधु मद्ये पुष्परसे॒॑मधुर्वसन्ते चैत्रे च॑ । इह पुंनपुंसकयोरेकं प्रवृत्तिनिमित्तं नास्ति, किंतु मद्यत्ववसन्तत्वादिरूपं भिन्नं भिन्नमेव । तथा च भाषितपुंस्कत्वाऽभावान्मधुने॒॑मधुनः॒॑मधुनो॑रित्येव भवति, न तुमधवे॒॑मधो॑रित्यादीति दिक् । स्नुर्वेति ।मांसपृतनासानूना॑मिति वार्तिककीरेक्त्येति भावः ।स्त्रुः प्रस्थः सानुरस्त्रिया॑मित्युभयलिङ्गः सानुशब्दः, तस्य नपुंसकत्वे रूपमाह -स्नूनि सानूनीति । पुंसि तु स्नून् । सानून् -इत्यादि । सुल्वेति.शोभनलवनकर्तृत्वं पुंनपु#ंसकयोरेकमेवेति भाषितपुंस्कत्वात्पुंवत्पक्षे नुमभावात्ओः सुपी॑ति यण् । सुलुनेति । यणं बाधित्वा परत्वान्नुम् । धात्रेति । धारणपोषणकर्तृत्वं पुंनपुंसकयोरेकमेवेति पुंवत्पक्षे यण् ।", "71076": "", "71077": "", "71078": "<<नाभ्यस्ताच्छतुः>> - नाभ्यस्ताच्छतुः । व्यवहितोऽपि नुमेवाऽत्र निषिध्यते, अन्येषामप्रसक्तेरित्यभिप्रेत्याह -नुम्न स्यादिति । दददिति । ददातीति ददत् । दाञो लटः शत्रादेशः । शपः श्लुः ।श्लौ॑इति द्वित्वम् । अभ्यासस्य ह्रस्वः ।श्नाभ्यस्तयोरातः॑इत्यलोपः । जक्षित्यदयः षट् ।ज॑क्षिति पृथक् पदम् ।इति॑शब्देन जक्षिरेव परामश्यते । इति आदिर्येषामित्यतद्गुणसंविज्ञानबहुव्रीहिस्तदेतदाह — षड्धातवोऽन्ये इति । इति तान्ताः । गोपायतीति गुप् । क्विपि विवक्षितेआयादय आर्धधातुके वे॑ति वैकल्पिकत्वादिहाऽऽयप्रत्ययाऽभावः । आयप्रत्ययपक्षे त्वतो लोपे यलोपे चगोपा॑इति रूपं बोध्यम् । इति पान्ताः ।", "71079": "<<वा नपुंसकस्य>> - दददिति । पुंलिङ्गेऽ[प्य]यं व्युत्पादितः । शतेति ।ऋदुशने॑त्यनङ् । शतृप्रत्यय इत्यर्थः ।", "71080": "<<आच्छीनद्योर्नुम्>> - आच्छीनद्योः । नुम्ग्रहणमिह चिन्त्यप्रयोजनं,नाभ्यस्ताच्छतुः॒॑वा नपुंसकस्ये॑त्यत्रइदितो नुम्धातो॑रित्यतोऽनुवृत्तेरावश्यकतया तदुत्तरत्रापि तत एवानुवर्तने बाधकाऽभावात् । शतुपवयव इति । तुदादेः शस्याऽन्तरङ्गत्वाच्छत्रेदेशाऽकारेण सहैकादेशे कृतेऽवर्णान्तत्परस्य शतुरिति न सम्भवति ।उभयत आश्रयणे नान्तादिव॑दिति वक्ष्यमाणत्वादिति भावः । भादिति ।भा दीप्तौ॑ । लटः शतर्यदादित्वाच्छपो लुक् । शप्श्यनोर्नित्यम् । आरम्भसामर्थ्यान्नित्यत्वे सिद्धेऽपि नित्यग्रहणमिहवे॑त्यधिकारनिवृत्त्यर्थम् । अन्यथा ह्रारम्भसारथ्र्यादिह नित्यमुत्तरत्र विकल्प इत्याशङ्क्येत ।", "71081": "<<शप्श्यनोर्नित्यम्>> - पचन्ती इति । कर्तरि शपि नित्यं नुम् । दीव्यन्ती इति । दिवादिभ्यः श्यनि नित्यं नुम् । पचन्ति दीव्यन्तीति बहुवचने तुनपुंसकस्य झलचः॑इति नुम्बोध्यः । स्वबिति । शोभना आपो यस्मिन्सरसीति बहुव्रीहिः ।ऋक्पूर॑बिति समासान्ते प्राप्तेन पूजना॑दिति निषेधः ।द्द्यन्तरुपसर्गेभ्य॑इति ईन्ब भवति, तत्रअप इति कृतसमासान्तस्यानुकरण॑मिति वक्ष्यमाणत्वात् । निरवकाशत्वं प्रतिपदोक्तत्वमिति । अयमेव पक्षः प्रबल इतिछदिरुपधिबलेर्ढ॑ञिति सूत्रे मनोरमायां स्थितम् । धनेरुसिति.॒जनरेसिः॑इत्यतउसि॑रित्यनुवर्तमानेअर्तिपृवपियजितनिधनितपिभ्यो नि॑दित्यौणादिकेनेत्यर्थः । धनुभ्र्यामिति.इहर्वोरिपधाया॑इत्यादिना दीर्धो न शङ्क्यः, रेफान्तस्याऽधातचुत्वात् । एवमिति ।चक्षेः शिच्च॑चादुसि । चक्षुः ।अर्चिशुचिहुसृपि॑इत्यादिना जुहोतेरिसिः ।आदि॑शब्देन सर्पिरर्चिरादयो ग्राह्राः । सुपुमांसीति ।पुंसोऽसुङ्इति सूत्रेसुटी॑ति व्याचक्षाणस्य प्राचो मते जसीष्टिसिद्धावपि शसि नैतत्सिध्येत् । औङिचाऽतिप्रसङ्गः ।इतोऽत्सर्वनामस्थाने॑इत्यतोऽनुवृतिंत पर्यालोच्य सर्वनामस्थान इति यथाश्रुतं ब्राउवतां तु सर्वेष्टसिद्धिः । इति तत्त्वबोधिन्यां हलन्तनप#उ#ंसकलिङ्गप्रकरणम् ।अथ हल्सन्धिप्रकरणम् । — — — — — — — -", "71082": "", "71083": "", "71084": "<<दिव औत्>> - दिव औत् । तकार उच्चारणार्थः । प्रतिपदिकस्येति । अव्युत्पन्नस्य,दिवेर्डिवि॑रिति न्यासोहितसूत्रेण व्युत्पन्नस्य वा ग्रहणं, नतुदिवु क्रीडादौ॑इति धातोः,निरनुबन्धकग्रहणे न सानुबन्धकस्ये॑ति परिभाषया । तेनाक्षद्यूरित्यादौ न भवति । न च तत्रान्तरङ्गत्वादूठेव स्यान्न तु औत्वप्रसक्तिरिति वाच्यम्, ऊठि कृतेऽप्येकदेशविकृतन्यायेनदिव औ॑दित्यास्यापि प्रसक्तिसंभवादिति दिक् ।", "71085": "<<पथिमथ्यृभुक्षामात्>> - पथिमथि ।गमेरिनि॑रित्यतइनि॑रितिपरमे कि॑ दित्यतःकि॑दित्यनुवर्तमानेमन्थः॑इत्यनेन निष्पन्नो मथिन्शब्दः ।पतस्थ च॑चादिनिः । पथिन् ।ऋभुक्षः स्वर्गवज्रयोः॑ । ततो मत्वर्थीयेनिना ऋभुक्षिन्निति बोध्यम् । ननुअस्थिदधी॑ति सूत्रे उदात्ततया पठितेऽप्यनङीष्टसिद्धौअनुङुदात्तः॑इत्युदात्तग्रहणंगुणा अभेदकाः॑इति पक्षं ज्ञापयतीति निर्विवादम् । तथाच तस्मिन्पक्षे सूत्रेननुनासिकोच्चारणेऽप्यान्तरतम्यादनुनासिकाऽऽकारः स्यादत आह -आ-आदिति ।", "71086": "<<इतोऽत् सर्वनामस्थाने>> - इतोऽत्सर्वनाम ।आ॑दिति वर्तमाने पुनरद्वचनं किमर्थं, कृतेऽप्यद्वचनेपन्था॑इत्यत्र सवर्णदीर्घेण भाब्यमन्यत्र तूपधाया दीर्घेणेति चेन्मैवम्,ऋभुक्षण॑मित्यत्रवा षपूर्वस्य निगमे॑ इति दीर्घविकल्पे सति पक्षे ह्रस्वाश्रवणार्थमद्ववचनस्यावश्यकत्वात् ।", "71087": "<<थो न्थः>> - थो न्थः । स्थान्यदेशौ द्वावप्यनच्कौ ।थेर्न्थः॑इत्येव सिद्धेइतोऽत्सर्वनामस्थाने॑इत्येतद्दभुक्षिन्नर्थं । त्रयाणाननुवृत्तापि ऋभुक्षस्थो न संभवतीत्याशयेनाह -", "71088": "<<भस्य {टे}र्लोपः>> - पथिमथोरिति । प्रसङ्गादाह — स्त्रियामिति । नान्तलक्षण इति ।न पूजना॑दिति निषेधात्ऋक्पूरब्धू॑रित्यप्रत्ययो नेति भावः । सुपथीति ।इनः स्त्रिया॑ — मिति कप्तु न कृतः, समासान्तविधेरमनित्यत्वात् ।युवोरनाका॑विति सूत्रेसुपथी॑ति भाष्याच्च ।न पूजनां॑दिति निषेधस्य तु नायं विषयः॒॑षचः प्राचीनेष्वेव सः॑इति वक्ष्यमाणत्वात् ।पथिमथी त्यात्वं थो न्थश्च लिङ्गविशिष्टपरिभाषया प्राप्तं विभक्तौ लिङ्गविशिष्टाऽग्रहणान्न भवति । अत्रेदं बोध्यम् — पन्थानमात्मन इच्छति पथीयति । ततः क्विप् । अल्लोपयलोपौ । एकदेशविकृतस्यानन्यत्वात्पथिमथी॑त्यात्वम् ।थोः न्थः॑ । पन्थाः ।इतोऽत्सर्वनामस्थाने॑इत्यत्वं न भवति ।इत॑इति तपरकरणात् ।एरनेकाचः॑इति यणं बाधित्वा परत्वान्नित्यत्वाच्च — ॒थो न्थः॑ । संयोगपूर्वकत्वान्न यण् । पन्थियौ । पन्थियः । पन्थियम् । पन्थियौ ।भस्य टेक्लोपः॑ । पथः । पथा । पथीभ्यम् । पथीभिरित्यादि । एवं मथीयतेः क्विपि तु — मन्थाःष मन्थियौ । मन्थियः । ऋभुक्षाः । ऋभुक्षियौ । ऋभुक्षियः । इत्यादि । एतेनइतोऽत्सर्वनामस्थाने॑इत्यत्रस्थानिन्यदेशे च तपरकरणं मुखसुखार्थमिति हरदत्तग्रन्थः प्रयुक्तः । आदेशे तपरकरणस्यानावश्यकत्वेऽपि स्थान#इनि तुपन्थियौ॑इत्यादिसिद्धये तस्यावश्यकत्वात् । ननु नलोपस्याऽसिद्धात्वात् ।पथिमथ्यृभुक्षाम् -॑इति नस्यात्वे पन्थ्याः, मन्थ्याः, ऋभुक्ष्या इथ्येव भवितव्यम्, न तुपन्था॑इत्यादिति चेत् । अत्राहुः — नलोपस्यान्तर्वर्ती सुब्विमित्तम् । आत्वस्य तु बहिर्वर्ती सुप् । प्रत्यासत्त्या हि अत्र एक एव सुब्निमित्तभूतस्तत्रैवनलोपः सुप्स्वरे॑ति नलोपस्यासिद्धत्वं नान्यचत्रेति नात्र नकारस्यात्वं, किं त्वीकारस्येति ।", "71089": "<<पुंसोऽसुङ्>> - पुंसोऽसुङ् ।इतोऽत्सर्वनामस्थाने॑इत्यतः सर्वनामस्थाने इत्यनुवर्तनादाह — सर्वनाम स्थान इति । विवक्षित इति । तेन॒परमपुमा॑नित्यत्र परत्वादसुङि कृते समासान्तोदात्तत्वं भवदसुङ एवाऽकारस्य भवति । परसप्तम्यां तु नैतत्सिध्यते । सर्वनामस्थानोत्पतेः प्रागेव पुम्शब्दोकारस्योदात्तत्वे कृते रुआंसनधर्मणो हलः स्थाने तद्धर्मणोऽनुदात्तस्यैवादेशस्य पर्सङ्गात् । न चोकारस्य कृतोऽपि स्वरोऽनन्त्यत्वान्निवर्तयिष्यते, असुङश्चान्त्यत्वात्करिष्य इति वाच्यम्, अन्तरङ्गे स्वरे कर्तव्ये बहिरङ्गस्याऽसुङोऽसिद्धत्वादिति भावः । वस्तुतस्तु अकृतव्यूहपरिभाषाया अन्तरङ्गपरिभाषापवादत्वात्परसप्तमोपक्षोऽपि सूपपादः । एतच्च मनोरमायां स्पष्टम् । पूञ इति । यद्यप्युणादिषुपातेर्डुम्सु॑न्निति वक्ष्यति, तथापि पाठान्तरमनुसृत्याऽत्रोक्तमिति बोध्यम् । हे पुमन्निति ।असंबुद्धा॑वित्युक्तेःसान्ते॑ति न दीर्घः । पुंस्विति । संयोगान्तलोपेमोऽनुस्वारः॑ । नुम्स्थानिकस्यैवाऽनुस्वारस्योपलक्षणान्नुम्बिसर्जनीयेति न षत्वम् । उशनेति ।वशेः कनसिः॑ ।ग्रहिज्ये॑ति संप्रसारणम् । अस्य संबुद्धाविति । एतच्च वार्तिकम् । हरदत्तादयस्त्वाहुः — ॒सोर्डेति वाच्येअनङ् सा॑विति वचनेन क्वचिदनङ्श्रवणस्य ज्ञापितत्वादेतत्सिद्धमिति । यद्यपिसोर्डे कृते डित्त्वसामर्थ्याट्टिलोपेसर्वनामस्थाने चाऽसंबुद्धौ॑इति दीर्घे॒उशाने॑त्यनुष्टरूपं प्रसज्यते, तथाप्यङ्गवृत्तपरिभाषाया दीर्घो नेति कृत्वा ज्ञापकत्वं सङ्गच्छत इति तेषामाशयः । अनेहा । वेधा इति । असुन्प्रकरणएनञि हनएहच॒॑विधाञो वेध चे चि व्युत्पादनादसन्तत्वेन दीर्घः । अनेहा-कालः । वेधाः — विआसृट्", "71090": "<<गोतो णित्>> - गोतो णित् ।इतोऽत्सर्वमाभस्थाने॑इत्यतोऽनुवृत्तं सप्तम्यन्तं सर्वनामस्थानग्रहणं प्रथमया विपरिणम्यते,णि॑दित्यनेन समानाधिकरण्यात्तदाह -सर्वनामस्थानमिति । णित्कार्यकृत्स्यादिति । णिति परे पूर्वस्य यत्कार्यं तत्कारोतीत्यर्थः ।", "71091": "", "71092": "<<सख्युरसम्बुद्धौ>> - सख्युरसंबुद्धौ । इहइतोऽत्सर्वनामस्थाने॑इत्यतः॒सर्वनामस्थाने॑इत्यनुवर्तते, तदसंबुद्धावित्यनेन विशेष्यते ।गोतो णि॑दिति सूत्राण्णिदित्यनुवृत्तं तत्सामानाधिकरण्येन सप्तम्याः प्रथमा कल्प्यत इत्याह — संबुद्धिवर्ज्ज सर्वनामस्थानमिति ।सख्युरसंबुद्धि॑रित्येव सूत्रयितुं युक्तमिति मनोरमायां स्थितम् । ननु॒सखे॑त्यत्रोपधादीर्घे बाधित्वना परत्वाद॒त उपधाया॑इति वृद्ध्या भाव्यं, सोर्णित्त्वादिति चेदत्राहुः-कृताऽकृतप्रसङ्गित्वमात्रेणापि नित्यत्वस्वीकारात्, अन्तरङ्गत्वाच्चसखे॑त्यत्र वृदिंध बाधित्वासर्वानामस्थाने चासंबुद्धौ॑ इत्युपधादीर्घेणैव भवतव्यम्,सख्युरसंबुद्धा॑विति णिद्वद्बावमुपजीव्याऽत्र पर्वर्तमानस्यअत उपाधायाः॑इत्यस्य बहिरङ्गत्वादिति ।", "71093": "<<अनङ् सौ>> - अनङ् सौ । नकारादकार उच्चारणार्थः ।असंबुद्धौ॑ इति पर्युदासात्साविति प्रथमैकवचनं गृह्रते, न तु सप्तमीबहुवचनम् ।सौर्डा॑ इत्येव सिद्धे अनङिधामन्यातोऽपि स्यादिति ज्ञापनार्थम्, तेन उशनसः संबुद्धावनङ् सिह्रतीति प्राञ्चः । यद्यपिसोर्डे॑ त्युक्तेऋदुशन -॑ इत्युत्तरसूत्रेणापि ङा स्यात् । ततश्चउशने॑त्यत्रसर्वनामस्थाने चाऽसंबुद्धौ॑इति दीर्घः स्यात् ।॒पुरुदंसे॑त्यत्र तुसान्तमहतः॑इति दीर्घः स्यात्, तथापि संज्ञापूर्वकविधेरनित्यत्वादङ्गवृत्तपरिभाषया वा कतत्समाधेयमिति तेषामाशयः ।", "71094": "", "71095": "<<तृज्वत् क्रोष्टुः>> - तृज्वत्क्रोष्टुः ।क्रुश आह्वाने रोदने च॑ । अस्मा॒त्सितनिगमिमसिसच्यविधाञ्क्रुशिभ्यस्तुन्इति तुन्प्रत्यये क्रोष्टुशब्दः । तृचि तु क्रोष्टृशब्दः । द्वावपि शृगालवचनौ । तत्राऽविशेषेण द्वयोः प्रयोगे प्राप्तेसर्वष्टु॑ रिति तुन्नन्तात्प्रथमा ।तृज्व॑दिति तृतीयान्ताद्वतिः । निमित्तेव्यपदेशतादात्म्यशास्त्रकार्यरूपविषयकत्वेनातिदेशस्यानेकविधत्वेऽपि प्राधान्यादिह रूपमेवातिदिश्यते [इत्याह — तृजन्तवद्रूपमिति ।]तच्च न पचादेर्यस्य कस्यचित्कतु क्रुशेरेव, उपस्थितत्वादर्थत आन्तर्याच्चेत्यभिप्रेत्य फलितमाह — क्रोष्टुशब्दस्य स्थाने क्रोष्टुशब्द इति । निमित्तोतिदेशो यथा — चिकीर्षति । चिकीर्षते । अत्र सन्नन्तस्यपूर्ववत्सनः॑इत्यनेन ञित्त्वातिदेशे कर्तृगामिनि क्रियाफले आत्मनेपदं सिध्यति । ननु कार्यातिदेशोनाप्येतद्गतार्थमिति चेदत्राहुः -निमित्तप्रतिसन्धानपूर्वकत्वात्तस्येति निमित्तातिदेशः पृथगुक्तं इति । व्यपदेशातिदेशे यथा -॒आद्यन्तवदेकस्मि॑न्नित्यनेनकर्तव्य॑मित्यादौ सावकाशः प्रत्ययाद्युदात्तत्वफलक आदित्वव्यपदेश औपगवादावतिदिश्यते । तादात्म्यातिदेशो यथा — — ॒सुबामन्त्रिते पराङ्गवत्स्वरे॑इत्यनेनद्रवत्पाणी शुभस्पती॑इत्यत्र शुभशब्दस्य पराङ्गवत्त्वे सति षाष्ठिकेनआमन्त्रितस्ये॑त्यनेन शकारादुकारस्याद्युदात्तत्वं सिध्यति । शास्त्रातिदेशो यथा -॒कालेभियो भवव॑दित्यनेन कालवाचिभ्यःतत्र भवः॑इत्यधिकारे यच्छस्त्रं तत्सास्य देवकते॑त्यर्थोऽतिदिश्यते । तेनमासिकं॒॑प्रावृषेण्य॑मित्यत्रा यथाविहितंकालाट्ठञ्प्रावृष् एण्यः॑इति सिध्यति । कार्यातिदेशे तु — — इह प्रकृतिपत्र्ययादीनां साङ्कर्यं स्यात् । कायातिदेशेगोतो णित् । गौः गावौ गावः । अत्र णित्कार्यं वृद्धि रतिदिश्यते, प्राधान्यात् । केचित्तु निमित्तातिदेशेगोतो णि॑दित्युदाहरन्ति, तन्मते कार्यातिदेशस्यकर्मवत्कर्मणा॑,स्थानिदादेशः — ॑इत्याद्युदाहर्तव्यम् । रूपातिदेशो यथा-वतण्डी चासौ वृन्दीरिका च वातण्डवृन्दरिका । अत्र वतण्डीशब्देपुंवत्कर्मधारये॑त्यनेन पुंवाचकवातण्डशब्दरूपमितिदिश्यते । इह मनोरमायामतिदेशस्य षड्विधत्वमुक्तम् । अन्ये त — ॒कार्यरूपनिमित्तार्थशास्त्रतादात्म्यशब्दिताः । व्यपदेशश्च सप्तैतानतिदेशान्प्रचक्षते ।॑ — — इति वप्तविधत्वमाहुः । अर्थातिदेशस्योदाहरणं तु — गर्गी च गग्र्यायणौ च गर्गाः । अत्रस्त्री पुंवच्चे॑ — त्यनेन गोत्रप्रत्ययान्तस्त्रीव#आचकस्यवृद्धोयूने॑ त्येकशेषे सति रूयर्थस्य पुमर्थोऽतिदिश्यते । तेन स्त्रियामपत्यकृतबहुत्वेयञञोश्चे॑ति लुक् सिध्यति ।", "71096": "", "71097": "<<विभाषा तृतीयाऽऽदिष्वचि>> - विभाषा तृ ।यस्मिन्विधिस्तदादौ॑इति तदादिविधिरित्याह — अजादिष्विति ।", "71098": "<<चतुरनडुहोरामुदात्तः>> - चतुरडुहोः ।इतोत्सर्वनामस्थाने॑इत्यतोऽनुवर्तनादाह — सर्वनामस्थान इति ।सावनडुहः ।आच्छीनद्यो॑रित्यतो नुममनुवर्त्त्याह -नुम्स्यादिति । विशेषविहितेन यासुटा सामान्यविहितः सीयुडिव नुमा आम्बाध्यतामित्याशङ्कां निराकरोति -अवर्णात्परोऽयमित्यादिना । उपजीव्योपजीकयोर्विरोधाऽभावेन बाध्यबाधकभावो नेति भाव ।", "71099": "<<अम् सम्बुद्धौ>> - अमा चेति ।विशेषबिहितेनाऽपी॑त्यनुषज्यते ।आमा च नुम्न बाध्यते॑इति केचित्पठन्ति । तस्याययर्थः — ॒बह्वनङ्वांही॑त्यत्र परत्वादामि कृते पुनःप्रसङ्गविज्ञानात्नपुंसकस्य झलचः॑इति नुम्भवत्येव, न तु बाध्यत इथ । नुमो दत्वमाशङ्क्याह — नुम्विधिसामर्थ्यादित्यादि । विधानसामर्थ्यात्सर्वत्राऽविकृतेन नुमा भवितव्यमिति भावः । नन्वेवमनङ्वास्तत्रेत्यत्रनश्छवू॑ति रुत्वमपि न स्यादिति चेदत्राहुर्भाश्यकाराः -॒यं विधिं प्रतुयपदेशोऽनर्थकः स विधिर्बाध्यते, यस्य तु विधेर्निमित्तमेव, नासौ बाध्यते॑इति । भवति हि दत्वं प्रति नुमो विधिरनर्थकः, रुत्वं प्रति तु निमित्तमेवेति । अनङ्वानिति । अनः शकटं वहतीति विग्रहे अनसि वहेः क्विप् । अनसो डश्च । यजादित्वात्संप्रसारणम् । अनडुह् -स् इति स्थिते आम्रुम्सुलोपेषु कृतेषु संयोगान्तलोपेन हकारलोपः ।", "71100": "<<ॠत इद्धातोः>> - ऋत इद्धातोः । किरति । गिरति । कीर्णः । गीर्णः । स्तीर्णः । धातोः किम् । मातृणाम् । इत्त्वोत्त्वाभ्यां गुणवृद्धी विप्रतिषेधेन । इत्त्वोत्त्वाभ्यामिति ।परत्वाद्गुणवृद्धी भवत॑ इति वक्तव्ये । किमिदं वार्तिकमिति चेत् । अत्राहुः - परादप्यन्तरङ्गं प्रबलमितीत्त्वे प्राप्ते वार्तिकमिदमारब्धमिति ।", "71101": "<<उपधायाश्च>> - उपधायाश्च ।ऋत इद्धातो॑रिति वर्तते । तदाह — धातोरुपधाया इति । ननुॠत इद्धातो॑रिति सूत्रे धातोरृत इति वैयधिकरण्येन व्याख्याने सिद्धमिष्टमिति किमनेन सूत्रेणेति चेन्मैवम् । तथा हि सति ॠकारीयतीत्यत्रापि इत्वप्रसङ्गात् । अर्दन इत्येके इति । अत्र वदन्ति - अर्दने लुबितुबि भ्वादौ पठितौ, तयोस्तत्र पाठो वृथा स्यात् । इदित्त्वादेव लुम्बति तुम्बतीत्यादिरूपमिद्धेः । अदर्शने त्वर्थेऽर्थभेदाद्भ्वादिपाठः सार्थक इत्यर्दनार्थत्वं चौरादिकयोरयुक्तमित्यस्वरसादेक इत्युक्तमिति । म्रक्ष म्लेच्छने । म्रक्षणेऽप्ययम् । तच्च तैलादिनाऽभ्यञ्जनम् । म्रक्षयति । अमम्रक्षत् । गुर्द पूर्व निकेतने । गुर्दयति । पूर्वयति । केचित्तुपूर्वनिकेतने॑ इति पठित्वा गुर्दधातुः पूर्वनिवासे वर्तते इति व्याचक्षते । जसु हिसांयाम् । क्त्वायामिड्वकल्पार्थमुदित्करणमिति तत्सामर्थ्यादस्य णिजनित्यः । जासयति । जसति । जसित्वा । जस्त्वा । जस्तम् । चिति संचेतने । संचेतनं — मूच्र्छाद्यवस्थानिवृत्त्युत्तरकालिकं ज्ञानम् । दंशतीति । इहदंशसञ्जे॑ति नलोपमाशङ्क्याह — सञ्जिसाहचर्यादिति । स्पश । स्पाशयते ।अत्स्मृदृत्वरे॑त्यादिनाऽभ्यासस्य अत्वम् - इत्वापवादः । अपस्पशत् । तर्ज भत्र्स तर्जने । तर्जयते । भत्र्सयते ।तर्जयन्निव केतुभिटरिति प्रयोगस्तु णिजन्तादस्माद्भौवादिकात्तर्जतेर्वा हेतुमण्णिचि बोध्यः । भ्रूण । भ्रूणयते ।भ्रूणोऽर्भके रुऔणगर्भे॑ इत्यमरः । गूर उद्यमने । दीर्घोपधोऽयम् । गूरयते । ह्रस्वोपधस्तु दिवादौ चेति मनोरमायां स्थितम् । यद्यपि तुदादौगुरी उद्यमने॑ इति पाठाद्ध्रस्वोपध एव तथापि दिवादौ धूरी गूरी हिंसागत्योरिति पाठान्नास्ति ह्रस्वोपध इति नव्याः । शम लक्ष । ननुनिशामय तदुत्पत्ति॑मित्यत्र शामय इत्येतत् शमु उपशम इत्यस्म ण्णिचि रूपं चेदमन्तत्वन्मित्त्वे सति ह्रस्वेन भाव्यमित्याशङ्क्य कथमनेन सिद्धमिति वदन्ति, आकुस्मीयत्वात्तङि निशामयस्वेति रूपस्य सर्वसंमतत्वादिति चेत् । अत्राहुः — स्वार्थण्यन्तादस्माद्धेतुमण्णिचि निशामयेति रूपम् । न चार्थाऽसङ्गतिः,निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजुच्यते॑ इति सिद्धान्तादिति । कुत्स अवक्षेपणे ।यूनश्च कुत्साया॑मिति निर्देशादङ् ।कुत्सा ।ण्यासश्रन्थे॑ति युच् । कुत्सना । भल आभण्डनं निरूपणमित्याहुः । वञ्चु प्रलम्भने । ल्युटि वञ्चनम् । उदित्करणस्य क्त्वायामिड्विकल्पार्थत्वाण्णिजनित्यः । वञ्चयति । वञ्चति । वचित्वा । वञ्चित्वा । वक्त्वा ।वञ्चिलुञ्च्यृतश्चे॑ति सेटः क्त्वः कित्त्वविकल्पनात्पाक्षिको नलोपः । इडभावे तु नित्यम् । निष्ठायां तु — वक्तम् ।यस्य विभाषे॑तीण्निषेधः ।नाम्नो वे॑ति वाशब्दं व्याचष्टे — अथ वेति । प्रातिपदिकमिति ।अन्येष्वपि दृश्यते॑ इति सूत्रेअन्येभ्योऽपी॑ति वक्ष्यमाणत्वात्कुपूर्वात्स्मयतेर्डप्रत्यये टिलोपेकुगती॑ति समासे च निष्पन्नमित्यर्थः । यद्यपि कुपूर्वस्य स्मिढो लङादिषु कुस्मयते इत्यादि सिद्धं तथापि प्रकुस्मयते इत्यादि न सिद्येदुपसर्गस्य धातुना व्यवधानाऽयोगात् ।कुस्मयां चक्रे॑ इत्याद्यर्थमपि कुस्मेति पाठोऽर्थवान् । इत्याकुस्मीयाः । चर्च । सर्वोऽपि चुरादिर्णिच् पाक्षिक इति पक्षेगुरोश्च हलः॑ इत्यप्रत्ययः । चर्चा । कण निमीलने । एकनेत्रनिमीलन एवायं शब्दः, स्वभावात् । काणः । काण्यादीनामिति । एते हेतुमण्ण्य्नतेषु वक्ष्यन्ते । हन्त्यर्थाश्च । तेन घातयति हन्तीत्येततौ समानार्थौ । अर्ज । प्रतियत्नो गुणाधानम् । अर्जयतीति । सङ्गृह्णातीत्यर्थः । घुषिर् । अविशब्दनं — प्रतिज्ञानम् । निषेधाल्लिङ्गादिति । घुषिरविशब्दन इति सूत्रेण अविशब्दने निष्ठाया इण्निषिध्यते, विशब्दनार्थादेतस्मादनन्तरा निष्ठा नास्त्येव, णिचा व्यवधानात् । अतो घुषिरविशब्दन इति भौवादिकादेव निष्ठाया इण्निषेधो भवेदितिकिं विशब्दनप्रतिषेधेन । ततश्चानेननैव विशब्दनप्रतिषेधेनाऽनित्योऽस्य णिजिति ज्ञाप्यते इति भावः । इरित्करणादपि णिज्विकल्पः सिध्यतीति केचित् । शिल्पयोग इति । क्रियाकौओशलं शिल्पम् । यत निकारोपस्कारयोः । यत्नो वा प्रैषो वा निकारः ।निराकारोपस्कारयो॑रिति पाठान्तरम् । क्रियानिघणटौयत्ने प्रैषे निराकारे पादपे चाप्युपस्कृतौ । निसोऽयं धान्यधनयोः प्रतिदाने॑ इत्युक्तम् । अस्यार्थः — — यत्नाद्यर्थेषु चतुर्षु यतधातुं प्रयुञ्जीत । निसः चेत्प्रुयज्यते तदाऽयं धान्यधनयोः प्रतिदाने च वर्तते इति । ऋणं निर्यातयति । प्रतिददातीत्यर्थः । अञ्च विशेषणे । विशेषणं- व्यावर्तनम् ।भुवोऽवकल्कने॑ । भूधातोर्णिच् स्यात् । भावयतीति । मिश्रीकरोति चिन्तयति वेत्यर्थः । कृपेश्च । कृपेर्णिच् स्यादवकल्कने । आ स्वदः । अभिव्याप्येति ।आकुस्मा॑दिति पूर्वत्र, आधृषादावर्गादिति परत्र च आङोऽभिविध्यर्थतायाः सर्वसंमतत्वेन तन्मध्यपतितेऽत्रापि तथैव व्कयाख्यानमुचितमिति भावः । अन्ये त्वाङ्पूर्वकात्स्वदः सकर्मकाण्णिजिति व्याचख्युः । आस्वदीयेषु धातवः सर्वे सकर्मकाः । घटयतीति । अय#ं चुरादावेव सङ्घाते गतः, पुनः पाठस्तु अर्थभेदात् ।", "71102": "<<उदोष्ठ्यपूर्वस्य>> - उदोष्ठ । अह्गावयवेति किम् ।ऋ गतौ॑ क्र्यादिस्तस्मात् क्तप्रत्ययेश्र्युकः किती॑ति इण्निषेधात्समीर्ण इति भवति । अन्यथा तुसमूर्ण॑ इति स्यात् ।", "71103": "", "72001": "<<सिचि वृद्धिः परस्मैपदेषु>> - ॒इको गुणवृद्धी॑ इति परिभाषोपस्थानादाह — इगन्तेति । परस्मैपदेष्विति किम् । अधविष्ट । अधोष्ट । सिचि किम् । एति । बिभर्ति । गुणं बाधित्वा वृद्धिः स्यात् । खज मन्थे । कजेति केचित्पठन्ति । एजृ कम्पने । दीप्तौ त्वात्मनेपदी गतः । टुओस्फूर्जा ।ट्वनितोऽथुच्ट । स्फूर्जथुः ।ओदितश्चे॑ति निष्ठानत्वार्थमोकारः । स्फूर्ग्णः । स्फूर्ग्णवान् । आकारस्तुओदितश्च॑ इति निष्ठायामिटो निषेधार्थः,विभाषा भावादिकर्मणो॑रिति विकल्पार्थश्चास्फूर्ग्ण, स्फूर्जितमनेनेत्यादि ।उपधायां चे॑ति दीर्घस्याऽनित्यत्वज्ञापनार्थमिह दीर्घोपदेशः । तेन हुच्र्छति मुच्र्छति इत्यपि भवतीति केचित् । क्षि क्षये । अजन्तेष्वस्य पाठो युक्तः ।क्षि निवासगत्यो॑रिति तुदादौ ।", "72002": "<<अतो ल्रान्तस्य>> - अतो ल्रान्तस्य । यद्यवयववचनेनाऽन्तशब्देन बहुव्रीहिरङ्गं चान्यपदार्थस्तत्पक्षे विशेषणेन तदन्तविधेः विशेषणेन तदन्तविधेः सिद्धत्वादन्तग्रहणमनर्थकम् । अआल्लीदित्यत्रातिव्याप्तिश्च । समीपवाचिना अन्तशब्देन षष्ठीसमासपक्षे विशेषणेन तदन्तविधेः सिद्धत्वादन्तग्रहणमनर्थकम् । अआल्लीदित्यत्रातिव्याप्तिश्च । समीपवाचिना अन्तशब्देन षष्ठीसमासपक्षे रपिरणिआल्लप्रभृतिष्वतिव्याप्तिः, अङ्गस्याऽतो ल्रोः समीपत्वात् ।ल्र॑ च तदन्तश्चेति समीपवाचिनाऽन्तशब्देन कर्मधारयपक्षे त्वन्तशब्दस्य विशेषणत्वात्पूर्वनिपातः स्यादत आह — लुप्तषष्ठीकमिति । अन्तशब्दः समीपवाचीत्यभिप्रेत्याह — अतः समीपाविति । अतो वृद्धि स्यादिति । इहअत॑ इत्यस्य तन्त्रावृत्यादिकं स्वीकर्तव्यम् । अन्यथा प्रयोजनाऽभावादिक्परिभाषानुपस्थानऽप्यलोन्त्यपरिभाषयाऽन्त्यस्य स्यादिति भावः । यद्यपिअतो ल्रस्येट त्युक्तेऽपि ल्रान्तस्याङ्गस्य अतः सिचि परे वृद्धिरित्यर्थोऽपि प्रतीयेत । ततश्चाऽआल्लीदित्यत्रातिप्रसङ्गः स्यात् । तद्वारणाय सूत्रेऽन्तग्रहणं कृतमिति । तदनुरोधेनाऽन्तशब्दस्य समीपवनाचित्वमत इत्यस्य चाऽऽवृत्तिः स्वीकृतेति बोध्यम् । अतः समीपाविति क#इम् । अखोरीत् अमीलीत् । ल्रान्तस्याङ्गस्य किम् । आल्ल आशुगमने । अआल्लीत् । अकारसमीपे यो लकारः स नाङ्गस्यान्तः, यस्त्वङ्गस्यान्तः, रा तु नाकारस्य समीपः । ननु ल्रेत्यस्य लुप्तषष्ठीकत्वनाभ्युपगमेऽप्यन्तशब्दस्यावयववाचित्वंस्वीकृत्य अङ्गस्यान्तं यत् ल्रं तस्याऽतो = तत्समीपस्याऽतो वृद्धिरिति व्याख्याने त्वत इत्यस्यावृत्तिर्नापेक्षितेति चेत् । अत्राहुः — हलन्त्यटमिति सूत्रे मनोरमायांसामीप्यं षष्ठर्थः॑ इति पक्षस्य निराकरणात्तदनुरोधनात्राऽत इत्यस्याऽऽवृत्तिराश्रितेति । अत्र केचित् — अतो ल्रान्तस्ये॑त्यत्र ल्रेति लुप्तसप्तमीकम् । अथवाअतो ल्रान्ते॑ इति व्यस्तमेव सूत्रयितुं शक्यम् । तथा चअङ्गस्यान्तं यत् ल्रं तस्मिन्परेऽव्यवहितस्याऽतो वृद्धिरिति व्याख्यानसंभवान्न तन्त्रा[वृत्त्या] द्याश्रयणक्लेशः । न चाङ्गस्य विशेख्यत्वेनैवान्वयो युज्यते न तु विशेषणत्वेनपदाङ्गाधिकारे तस्य च तदन्तस्य चे॑ति परिभाषायाः पदमङ्गं च विशेष्यं भवतीत्यभिप्रायवर्णनादिति वाच्यम्,अल्लोपोऽनः॑ इतिसूत्रेऽङ्गावयवोऽसर्वनाम स्थानेत्येवं भाष्याकारादिभिर्विशेषणतया व्याख्यानात्क्वचिद्विशेषणत्वेऽप्यङ्गस्य न क्षतिर#इत्याहुः । नेटीत्यादि । यद्यपि पुरस्तादपवादन्यायेननेटी॑त्यस्यापवादो न तु विकल्पस्यापि, तथापि बाध्यसामान्यचिन्तायां स्वविषये प्राप्तं सर्वं बाध्यत इति पुरस्तादपवादन्यायोऽत्र न प्रवर्तत इति भावः । मील संकोचे इति । नेत्रसंकोचे तु प्रचुरप्रयोगः । तिल गतौ । तिल स्नेहने इति चुरादौ । दल विशरणे । विशरणमवयवानां विभागः । धोरृ । धोरितकमआआनां गतिविशेषः । निष्ठान्तात्संज्ञायां कन् । त्सरः । छद्मना कपटेन गतिः — छद्मगतिः । क्मर हूर्छने । हूर्छनं — कौटिल्यम् । ष्ठिवु निरसने । अस्य ल्युटि — ष्ठेवनम् ।ष्ठीवनाऽसृक्शकृन् मूत्ररेतांस्यप्सु न निक्षिपे॑दित्यत्र पृषोदरादित्वापक्षे दीर्घ ईकार इत्याहुः ।", "72003": "<<वदव्रजहलन्तस्याचः>> - वदव्रज। अवादीत्। अव्राजीत् अतो हलादेरिति विकल्पं बाधित्वा अनेन नित्यं वृद्धिः। हलन्तस्योदाहरणम्— अपाक्षीत् अधाक्षीत्। तदन्तविधिनैव सिद्धेऽन्तग्रहणं स्पष्टप्रतिपत्त्यर्थम्। हलोऽजित्युक्ते त्वजन्ताङ्गस्य हलः स्थाने वृद्धिरिति कदाचिदाशङ्क्येत। अच इति तु इक्परिभाषाया अनुपस्थानार्थम्, अन्यथा अभैत्सीदित्यत्र स्यान्नत्वपाक्षीदित्यादौ।", "72004": "<<नेटि>> - नेटि। प्रागुक्तं नेति। हलन्तत्वादेव सिद्धे वदव्रजोर्विशिष्य विधानान्न निषेधः, किन्तु हलन्तलक्षणाया एव वृद्धेर्निषेधः तस्या अनिडादौ सिचि चरितार्थत्वात्। अमुमेवार्थ मनसि निधाय क्वचित् पुस्तकेषु ‘हलन्तलक्षणा वृद्धिर्ने’त्येव पठते। इर इत्संज्ञेति। इकारस्य ‘उपदेशेऽजनुनासिक’ इति, रेफस्य तु ‘हलन्त्य’मिति प्रत्येकमित्संज्ञायाम् ‘इदित’ इति नुम् स्यादिति भावः। एतस्य वैयर्थ्यं ‘चक्षिङ् व्यक्ताव्यां वाची’त्यत्र स्फुटीभविष्यति।", "72005": "<<ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम्>> - हृयन्तलक्षणां अग्रहीत् । टुवम् । अवमीत् । हय गतौ । अहयीत् । क्षणु हिंसायाम् । अक्षणीत् । आस प्राणने । अआसीत् । जागृ निद्राक्षये । अजागरीत् ण्यन्ते छन्दसिनोनयतिध्वनयती॑ त्यादिना चङि निषिद्धे औनयीदिति उदाहरणम् । टुओश्वि । अआयीत् । इडादौ सिचीति । इडादौ किम् । दह भस्मीकरणे । अधक्षीत् । किट खिट । इट किटेति किटिर्गतौ पठिष्यते । इह पाठस्त्वर्थभेदात् । जट झट । जेटतुः । जझटतुः । इह त्वादेशादित्वादेत्वाभ्यासलोपौ न । खट ।अशूप्रुषिलटिखटिकणिविशिभ्यः क्वन् । खट्वा । णट नृतौ । प्रणटति । णोपदेशपर्युदासे नाटीति सवृद्धिकनिर्देशेननट अवस्यन्दने॑ इति चौरादिकस्यैव ग्रहणादयं णोपदेश एव । हट दीप्तौ । हाटकं — सुर्वणम् ।संज्ञायां चे॑ति ण्वुल् बाहुलकादस्त्रियामपि । षट । पटाद्यजन्ताट्टाप् ।॒सटा जटाकेसरयोःर॑ । चिट ।सर्वधातुभ्यः॑ इतिऔणादिक इन् । चेटिः ।कृदिकारात् — ॑ इति ङीष् । चेटी । विट । इगुपधलक्षणः कः । विटः । इयायेति । द्वित्वे कृते णलि वृद्धौ सत्यामायादेशः ।अभ्यासस्याऽसवर्णे॑ इति इयङ् । ईयतुरिति । द्वित्वे ककृतेएरनेकाच॑ इति यणं बाधित्वा अन्तरङ्गत्वात्सवर्णदीर्घः । ततःअचि श्नुधातु-॑ इतीयङ् । एकादेशस्य पूर्वान्तवत्त्वेन अभ्यासग्रहणेन ग्रहणात्अभ्यासस्याऽसवर्णे॑ इत्यनेनेत्येके । केचित्तु — वार्णादाङ्गं बलीयःर॑ इति दीर्घं बाधित्वा यण् । न चेह समानाश्रयत्वं नेति वाच्यम्, अभ्यासोत्तरस्येकारस्य सवर्णदीर्घयणौ प्रति स्थानित्वेन तयो समानाश्रयत्वात् । अत एव ईयतुरित्यत्रइणो यण् इति यणै ततोदीर्घ इणः किति॑ इत्यब्यासस्य दीर्घो विधीयते । अन्यथा सूत्रमिदं निर्विषयं स्यात्, अभ्यासाऽभावादित्याहुः । स्यादेतत् — णल्थलोस्त्वभ्यासस्येयङ् दुर्लभः, तस्मिन्कर्तव्येअचः परस्मिन्-॑ इति वृद्धिगुणयोः स्थानिवद्भावेन असवण इति प्रतिषेधादिति चेत् । अत्राहुः — न ह्रेकमुदाहरणं योगारम्भं प्रयोजयति । अन्यथा ह्रभ्यासस्यार्ताविति ब्राऊयात् । एवं चान्तरङ्गत्वात्सवर्णदीर्घे कृते ततो वृद्धिगुणयोः सतोर्णलि आय, थलि — एथ । इट्पक्षे तु अयिथेति स्यादित्याशङ्कापि न कार्या,अब्यासस्याऽसवर्णे॑ इत्यस्य वैयथ्र्यापत्तेरिति । एता । एष्यति ।अकृत्सार्वेति दीर्घः । ईयात् । ऐषीत् । कुडि । वैकल्यविवेकः । तुड्ट । तोडनं दारणं हिंसनं च । रोड्ट लोड्ट । उन्मादश्चित्तविभ्रमः । गडि वदनैकदेशे । टवर्गीयप्रकरणादिह पाठस्तु उचितः । अन्तत्यादिषु तुपञ्चैते न तिङ्विषया॑ इति मतान्तरं बोधयितुं प्रसङ्गादुपन्यस्तः । तिपृ तेपृ ।", "72006": "<<ऊर्णोतेर्विभाषा>> - ॒सिचि वृद्धि॑रिति सूत्रं,नेटी॑त्यत्र इटीति चानुवर्तत इत्याशयेनाह - इडादावित्यादि । स्तवीतीति ।तुरुस्तुशम्यमइति ईड्वा ।स्तुसुधूञ्भ्यः॑ इत्यत्र परस्मैपदेष्वित्युक्तेरात्मनेपदे तु नेट् । अस्तोष्ट । अस्तोषाताम् ।", "72007": "<<अतो हलादेर्लघोः>> - अतो हलादेः । इहसिचि वृद्धि॑रिति सूत्रमनुवर्तते ।नेटी॑ति सूत्रादिटीति,ऊर्णोतेर्विभाषे॑त्यतो विभाषाग्रहणं च । तदाह — इडादावित्यादि । वृद्धिर्वा स्यादिति । अतः किम् । अदेवीत् । हलादेः किम् । मा भवानतीत् । अटीत् । लघोः किम् । अगर्दीत् । अरक्षीत् । इडादौ किम् । अपाक्षीत् । परस्मैपदे किम् । अयतिष्ट । अयतिषाताम् । अचकासीदित्यत्र चकारादकारस्य वृद्धिवारणाययेन नावयवधान॑मिति न्यायेन यद्येकवर्णव्यवधानमेवाश्रीयते तदा त्वरक्षीदित्यत्रापि प्रसक्त्यभावाल्लघोरिति शक्यमकर्तुमित्याहुः । तपरकरणं स्पष्टार्थम् । पवर्गीयादिरिति । दन्त्योष्ठआदित्वे तुशसददे॑त्येत्वाभ्यासलोपनिषेधाद्बेदतुः बेदिथेत्यादि न सिध्येदिति भावः ।", "72008": "<<नेड् वशि कृति>> - सुशर्मेति । सुष्टु शृणातीति वग्रहः । प्रातः एतीति प्रातरित्वा । इणः क्वनिपिह्रस्वस्य पिती॑ति तुक् ।", "72009": "<<तितुत्रतथसिसुसरकसेषु च>> - मेढ्रमिति ।हो ढः॑ । धत्वष्टुत्वढलोपाः । दंष्ट्रेति । षित्वेऽपि ङीषिह न भवति,अनित्यः षितां ङी॑षित्युक्तत्वात् । अन्ये त्वजादिपाठाट्टापमाहुः । नद्द्रीति ।नहो धः॑ इति धत्वम् ।झषस्तथोर्धोऽधःट इति जश्त्वम् । सूत्रेदशे॑ति नलोपिनो निर्देशो ज्ञापकः — क्वचिदकित्यपि दंशेर्नलोपो भवती॑ति । तेन दंश दशने इत्यस्माल्ल्युटिदशना दन्ता॑ इति सिद्धम् । न च सन्निधानात् ष्ट्रन्येव नलोपः स्यादिति वाच्यम्,सुनो दन्तदंष्ट्रे॑ति निर्देशात् ।", "72010": "<<एकाच उपदेशेऽनुदात्तात्>> - उभयान्वयीति । मध्ये पाठाद्देहलीदीपन्यायेन पूर्वोत्तराभ्यां संबध्यत इत्यर्थः । तत्रोत्तरान्वयस्य कर्तुं गन्तुमित्यादाविण्निषेधः फलम् ।नित्स्वरेण संप्रत्युदात्तत्वात् । पिपक्षतिबिभत्सतीत्यादाविण्निषेधस्तु पूर्वान्वयस्य फलम् । द्वित्वे कृतेऽनेकाच्त्वात् । नन्वेकाच इत्युक्ते ह्रुपदेशपदेनाऽप्यन्वयः स्वीकर्तव्यस्तदेव मास्तु, उपदेशेऽनुदात्तादित्यनेनैवेष्टसिद्धेरिति शङ्कते- एकाचः किमिति । पिपक्षतीत्यादाविव यङ्लुक्यपीण्निषेधः स्यादेवेत्याशङ्कायायमाह णत्वं न । शपा यथा — भरेति । तेन बिभर्तेः सनि बिभरिषतीत्यत्रसनीवन्तर्दे॑तीड्विकल्पो न, किंतु नित्यमेवेट् ।एकाच॑ इति निषेधाऽप्रवृत्तेः । अनुबन्धेन निर्देशो द्विधा, स्वरूपेणेत्संज्ञकत्वेन च । स्वरूपेण यथा — शीङः सार्वधातुके गुणः॑,दीङो युडचि॑इति । शेशितः । देद्यितः । तसि क्तप्रत्यये चेमे क्रमेणोदाहरणे । इत्संज्ञकत्वेन यथा — अनुदात्तहितः॑ इति । तेन स्पर्धशीङादिभ्यःअनुदात्तङितः॑ इत्यात्मनेपदं न । पास्पर्धीति । शेशयीति । गणेन यथा — बेभिदीति ।रुधादिभ्यः॑ इति श्नम्न । एकाज्ग्रहणं प्रकृतसूत्रे । तेन बेभेदिता चेच्छेदितेत्यादाविण् निषेधो न । एतच्चेति । न च श्तिपा शप#आद्यंशे कथमिदं ज्ञापकमिति शङ्क्यम्, एकादेशानुमतिद्वारा सर्वत्र ज्ञापनस्यउपपदमति॑ङित्यादौ दृष्टत्वात् । अत एव तत्रगतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्ते॑रिति सिद्धमित्युक्तम् । अनन्यार्थैः स्यतिहन्तिभरेत्यादिभिः श्तिप्शबादिभिरेव ज्ञापनसंभवाच्च ।अपरस्पराः॑ इति सूत्रे सातत्यग्रहणेन एकदेशानुमत्यालुम्पेदवश्यमः कृत्ये॑ इत्यादिपूर्वाचार्यश्लोको ज्ञापित इति तु तत्रैवाऽवोचाम । मनोरमायां त्वेकदेशानुमतिद्वारा पूर्वाचार्यपठितपरिभाषाया ज्ञापनस्यगतिकारकोपपदाना॑मित्यादौ दृष्टत्वादित्युक्तं, तदयुक्तमिति नव्याः ।गतिकारकोपपदाना॑मित्याद्येव हि पूर्वाचार्याणां परिभाषा । न च तज्ज्ञापनं तत्रैव दृष्टमिति युज्यते वक्तुमिति । तद्वत इति । न च मत्वर्थलक्षणायां मानाऽभावः, वसत्यादीनामनुदात्तपाठस्यैव तत्र मानत्वात् । न चेदानीमनुदात्तपाठ परिभ्रष्टः, आधुनिकानां वसतिशल्कित्यादिपाठस्त्वनार्षत्वान्न मानमिति शङ्क्यं, पाणिनिना पठितानामेवानुदात्तधातूनामाधुनिकैव्र्याख्यातृपरम्परया सङ्गृहीतत्वात् । अन्यथा एकोऽच् यस्येति बहुव्रीहिलाभार्थमेकग्रहणे कृतेऽप्यनुदात्तपाठस्य परिभ्रष्टत्वाद्वसतिशक्लादयोऽनुदात्ताः, न तु भ्वेधादय इति निर्धारणं न स्यात् । एकग्रहणेति । नन्वेकाज्ग्रहणं यङ्लुग्व्यावृत्त्यर्थमित्युक्त्वा पुनरेकग्रहणसामर्थ्यादित्यक्तौ परस्परव्याघातः स्यादिति चेत् । अत्राहुः - एकाच्शब्देनैकाज्ग्रहणं यङ्लुग्व्यावृत्त्यर्थमिति नार्थः, किं तु वस्तुगत्यैवैकाज्ग्रहणं, तच्चैकग्रहणं विनैव लभ्यत इत्यदोष इति । वधेरिति । यस्तु तद्व्यावृत्तयेऽनिट्कारिकास्वदन्तपर्युदास उक्तो व्याघ्रभूतिना, स एव प्राचाऽनुसृतः ।अदूदृदन्तरुरुआउक्ष्णुशीयुनुक्षुइआडीङ्श्रिभिः । वृङवृञ्भ्यां च विनैकाचः स्वरान्ता धातवोऽनिटः॑ इति । स चादन्तपर्युदास इहोपेक्षितः । सूत्राननुगुणत्वात् । तथाहि — सर्वे सर्वपदादेशाः॑ इति न्यायेनकृ॑इत्यादेः करित्यादिरादेशस्तस्य यथा स्थान्युपदेशं गृहीत्वा कर्ता हर्तेत्यादौ निषेधः प्रवर्तते तथैव वधादेशेऽपि प्रवर्तमानः केन वार्यताम् । अदन्तपर्युदाससामर्थ्यादिति चेन्न, सूत्रकारेणाऽपर्युदस्तत्वादिति भावः ।", "72011": "<<श्र्युकः किति>> - श्र्युकः किति ।एकाच उपदेशे॑ इत्यत एकाच इत्यनुवर्तते । तच्च उको विशेषणमित्याह — एकाच उगन्तादिति । श्रितः । श्रितवान् । श्रित्वा । भूतः । भूत्वा । भूतिः । गित्युदाहरणं — भूष्णुः ।ग्लाजिस्थश्चे॑ति ग्स्नुः । स च गिद्भवति न कित् । स्थास्नुरित्यत्रघुमास्थे॑तीत्त्वप्रसङ्गात् । एकाचेति किम् । जागरितः । जागरितवान् । ऊर्णोतेस्तु नुवद्भावे — ऊर्णुतः । ऊर्णुतवानिति सिध्यति । उगन्तात्किम् । शयितः । शयितवान् । पुरस्तादित्यादि ।आर्धधातुकस्येड्वलादे॑रित्यादि विधिकाण्डात्प्रागेवनेज्वशि कृती॑त्यादिप्रतिषेधकाण्डारम्भसामर्थ्यादित्यर्थः । निषेधे प्राप्ते इति । स्वृतः । सूतः । धूत इत्यादौ यथेति भावः । सृ गतौ । सरति । सरिष्यति ।", "72012": "<<सनि ग्रहगुहोश्च>> - सनि ग्रहगुहोश्च । ग्रहेर्नित्यं, गुहेर्विकल्पेन प्राप्ते निषेधोऽयम् । सनः षत्वस्यासिद्धत्वाद्भष्भाव इति । रकुत्वस्याऽसिद्धत्वाद्भष्भाव इत्येव सुवचम् । केचित्तु ढत्वे सति भष्भाव इत्यध्यहारेण योजयन्ति । तथा च जगृह् स इति स्थिते इणः परत्वेन सस्य षत्वं प्राप्तं,तस्याऽसिद्धत्वाड्ढत्वे भष्भावः । ततश्च कत्वे कवर्गात्परस्य षत्वमिति विधिक्रमः । अन्ये तु षत्वे ढत्वे च कृते पश्चाद्भष्भावे कर्तव्ये सकारपरत्वाऽभावाद्भष्भावो न स्यादित्याशङ्कायां सनः षत्वस्याऽसिद्धत्वादिति ग्रन्थः प्रवृत्त इति कार्याऽसिद्धपक्षावलम्बनेन व्याचक्षते । जिघृक्षतीति । गुहेर्जुघुक्षति । सूत्रे चकारात्श्र्युकः किती॑ त्यत उक इत्यनुकृष्यते । उगन्तात्- बुभूषति । लुलूषति । श्रयतिस्तु नाऽनुकृष्यते, तस्यसनीवन्तर्धे॑ति विकल्पविधानात् ।", "72013": "<<कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि>> - कृसृभृ ।डुकृञ् करणे॑ ।कृञ् हिंसायाम् । इह निरनुबन्धग्रहणादेकानुबन्धद्वयनुबन्धयोरुभयोग्र्रहणम् । एवमग्रेऽपिभृञ् भरणे॑डुभृञ् धारणपोषणयो॑रित्युभयोग्र्रहमम् ।सृ गतौ॑ ।वृङ् संभक्तौट ।वृञ् वरणे॑ । इह निरनुबन्धकग्रहणाद्भिन्नानुबन्धयोरप्युभयोग्र्रहणम् । कृ सृ भृ एषामनुदात्तत्वात्एकाच उपदेश॑ इति प्रकृत्याश्रये निषेधे प्राप्ते, वृङ्वृञोस्तूदात्तत्वात्श्र्युकः किती॑ति प्रत्ययाश्रये निषेधे प्राप्ते नियमोऽयमित्याह — क्रादीनां चतुर्णामिति । इह स्तुद्व्रादीनां चतुर्णां ग्रहणस्य भारद्वाजनियमप्रापितेण्निषेधोऽपि प्रयोजनमिति बोधयितुमष्टानां ग्रहणमिति नोक्तम् । इण्निषेध इति ।नेड्वशी॑ति प्रक्रमान्नञा प्रापितस्यैवाऽभावस्य नियमो न तु विभाषाबलभ्यस्यापि ।अनन्तरस्ये॑ति न्यायादपि संनिहितस्यैव नियम उचितः । तेन — सिषेधिथ । सिषेद्ध । सिषिधिव । सिषिध्व इत्याद्युभयं भवति । नान्येभ्य इति.तेन पेचिव, बभूविवेत्यादि सिद्धम् । नचैवं क्रादिनियमेनैवनेड्वशि कृती॑ति निषेधस्याप्यप्रवृत्तौ सेदिवान् जक्षिवानित्यादि सिध्यत्येवेतिवस्वेकाजाद्धसा॑मितीड्विधानं किमर्थमिति शङ्क्यं, तस्य नियमार्थत्वेन व्याख्यास्यमानत्वात् । अन्यथा बभूवानित्यत्रापीडागमः स्यादिति । नन्विहक्रादिभ्यश्चेदिण्न स्यात्तर्हि लिटएवे॑ति विपरीतनियमः किं न स्यात् । तथा च कर्ता अकार्षीदित्यादाविडागमः स्यादिति चेत् । मैवम् ।कृते ग्रन्थे॑,तमधीष्टो भृतः॑, परिवृतो रथः॑ इत्यादिनिर्देशविरोधापत्तेः । वमादिष्विति । आदिशब्ेदन सेध्वेवहिमहीनां ग्रहणम् । तुष्टुध्वे । तुष्टुवहे । तुष्टुमहे इत्यादि । स्यादेतत् — अस्तु प्रकृत्याश्रयनिषेधस्य नियमः, प्रत्ययाश्रयस्य तु न संभवति, वृग्रहमस्य ववर्थेत्यत्राऽप्राप्तनिषेधप्रापकत्वात् । न ह्यत्र प्रत्ययाश्रयो निषेधः प्राप्नोति, थलोऽकित्त्वात् । नापि प्रकृत्याश्रयः , वृञ उदात्तत्वात् । न चैवम्पि वृङो नियमार्थत्वमस्त्विति वाच्यं, तस्य विशिष्याऽग्रहणात् । यद्यपि विशिष्य ग्रहणे वृञोऽपि नास्ति, तथाप्यप्राप्तनिषेधप्राप्तिफलकत्वाद्वृ इति वृञ एव ग्रहणं भवेत् । विदिनियमयोर्विधिरेव ज्यायानिति न्यायात् । एवं च बभूविवेत्यादौश्र्युकः किती॑ण्निषेधो दुर्वार इति चेत् । अत्राहुः — बभूथाततन्थजगृजगृम्भववर्थेति निगमे॑ इति सूत्रेण छन्दसि ववर्थेति निपातनाद्भाषायां वृञस्थल इटः स्वीकर्तव्यतया वृग्रहणस्य थल्विषयत्वाऽयोगात्, वमादीनां च कित्त्वन नियमस्य सुस्थत्वादिति ।", "72014": "", "72015": "<<यस्य विभाषा>> - यस्य विभाषा । यस्येत्याद्र्धधातुकापेक्षया षष्ठी । यदीयस्याद्र्धधातुकस्येत्यर्थः । समक्न इति । अञ्चु व्यक्ती॑त्यस्य,न त्वञ्चेः । तेनात्र न्तवाऽबावः । वृक्ण इति । ओव्रश्चू छेदने ।ग्रहिज्ये॑ ति संप्रसारणम् । नत्वस्याऽसिद्धत्वात्स्को॑रिति सलोपः,चोः कुः॑ इति कुत्वं च । ऊदित्वेन वेट्कत्वात्यस्य विभाषे॑ति निषठाया इडभावः । नुड्विधिलादेशविनामेषु वर्णैकदेशस्यापि वर्णत्वेन ग्रहणादृकारैकदेशो रेफो निमित्तमितिअट्कुप्वा॑ङिति नस्य णत्वम् । णत्वस्यविनाम॑ इति प्राचां संज्ञा ।ऋवर्णान्नस्य णत्व॑मिति यथाश्रुतपक्षेऽपि णत्वनिषेधार्थं क्षुभ्नादिषु नृमनशब्दपाठादृकारं निमित्तीकृत्याऽपिअट्कुप्वा॑ ङिति णत्वं भवत्येवेति दिक् ।", "72016": "", "72017": "<<विभाषा भावादिकर्मणोः>> - प्रस्वेदित इति । प्रशब्द आदिकर्मद्योतनार्थः । स्वेदितमित्यादि भावे । भ्वादिरत्रेति ।ञिष्विदा स्नेहनमोचनयोः॑ इति पठितः । स्विद्यतेस्त्विति ।ष्विदा गात्र प्रक्षरणे॑ इति दिवादिषु पठितस्य स्विदित इत्येवेति, कित्त्वनिषेधाऽभावादिति भावः । न च ष्विदेति दैवादिकोऽपि ञीदिति वाच्यम्, हरदत्तग्रन्थविरोधादिति भावः । अत्र हरदत्तः — ञिक्ष्विदा स्नेहनमोचनयोरिति दिवादिर्गृह्रते न तु ञिक्ष्विदा अव्यक्ते शब्दे इति भ्वादिरपि, मिदिना साहचर्यादित्याह । तच्चिन्त्यम् । भ्वादिष्वपि मिदेः पठमानत्वात् । तस्मादविशेषादुभयोग्र्रहणं न्याय्यं । तदेतदाह — दिवादी भ्वादी चेति ।", "72018": "<<क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानि मन्थमनस्तमःसक्ताविस्पष्टस्वरानायासभृशेषु>> - क्षुब्ध । क्षुभ संचलनेझषस्तथो॑रिति धत्वम् । स्वन ध्वन शब्दे । इडभावेअनुनासिकस्य क्विझलो॑ रिति दीर्घः । लगे सङ्गे, म्लेच्छ अव्यक्ते शब्दे,व्रश्चे॑ ति षत्वे ष्टुत्वम् । रेभृ शब्दे, फण गतौ । दीर्घः, ष्टुत्वम् । बाह्म प्रयत्ने । इडभावे ठत्वधत्वष्टुत्वढलोपाः । अनयासशब्देन तत्साध्यो लक्ष्यत इत्याह — — अनायाससाध्य इति ।क्षुण्णमौषधजातमुष्णोदके प्रक्षिप्य सद्योऽभिषुत्य पूत्वा यत्पीयते तत्फाण्टमित्याहुः । वेदभाष्ये इति ।तद्वै नवनीतं भवति । घृतं देवानां फाण्टं मनुष्याणा॑मिति शतपथश्रुतेर्वयाख्यायामित्यर्थः । अन्यत्र त्विति । मन्थादेरवाच्यत्वे त्वित्यर्थः ।", "72019": "<<धृषिशसी वैयात्ये>> - धृषिशसी । ञिधृषा प्रागल्भे । शसु हिंसायाम् । अनयोःआदितश्च॑यस्य विभाषे॑ति सूत्राभ्यामिट्प्रतिषेधे सिद्धेऽप्यनयोर्वैयात्य एवाऽनिट्त्वं नान्यत्रेति नियमार्थमित्याह - अविनये एवेति । विरुद्धं यातो वियातः = अविनीतः, तस्य भावो वैयात्यम् । ननु धृषेःविभाषा भावादिकर्मणो॑रिति विकल्पे प्राप्ते नित्यार्थं कस्मान्न भवतीत्याशङ्कायामाह — नास्तीति । अनभिधानादिति भावः । अत्र प्रमाणमाह — अत एवेति । माधवस्त्विति । एवं च आदित्त्वस्य फलवत्तवाद्धरदत्तोक्तं यच्चिन्त्यं तदेव चिन्त्यमिति भावः ।", "72020": "<<दृढः स्थूलबलयोः>> - दृढः स्थूल । बलमस्यास्तीति बलः ।अर्श आदिभ्योऽच् । तदाह — बलवतीति । स्थूलो = मांसलः, स च निर्बलोऽपि बलवांस्तु कृशोऽपि दृढ इति फलितोऽर्थः । तस्येति । तकारस्येत्यर्थः । हस्येति । ननुहो ढः॑ इति ढत्वे ढो ढे लोपेनैव सिद्धमिति तस्य ढत्वं, हस्य लोपश्च न निपात्यतामिति चेन्मैवम् । तथाहि सति ढलोपस्याऽसिद्धत्वेन द्रढञिमेत्यत्रर ऋतो हलादेर्लघो॑रिति रभावो न स्यात्,परिद्रढय्य गत॑ इत्यत्रल्यपि लघुपूर्वा॑दित्ययादेशो न स्यात्, परिदृढस्यापत्यं पारिदृढञी कन्येत्यत्र गुरूपोत्तमलक्षणः ष्यङ् स्यात् । अतोऽसिद्धत्वनिवृत्तये हलोपो निपात्यत इति भाष्यादौ स्थितम् । अत एवढ्रलोपे॑ इति सूत्रेअणः किं दृढ॑ इति प्राचो ग्रन्थस्य प्रामादिकतामभिप्रेत्य तृढो वृढ इति प्रत्युदाहृतम् ।", "72021": "<<प्रभौ परिवृढः>> - प्रभौ । निपातनमिति । हलोपे प्रयोजनमपि व्रढिमा परिव्रढय्येत्यादिसिदिधरिति प्राग्वदेव बोध्यम् ।", "72022": "<<कृच्छ्रगहनयोः कषः>> - कृच्छ्रगहनयोः । कृच्छ्रं दुःखं, तत्कारणं च लक्षणया गृह्रते । कषतिहिंसार्थः । कष्टो मोह इति । दुःखहेतुरित्यर्थः ।", "72023": "<<घुषिरविशब्दने>> - घुषिरवि । घुषिरविशब्दार्थ इति भ्वादिः , घुषिरविशब्दन इति चुरादिः, द्वयोरपि सामान्येन ग्रहणम् । ननु विशब्दनार्थाद्धुषेश्चुरादिणिचा भाव्यं, ततश्च णिचा व्यवधानाद्धुषेः परा निष्ठा नास्तीति कथमिण्निषेधप्रसङ्गः, किं च विशब्दने त्विण्निषेधाऽभावाण्णिच्युपधागुणेनिष्ठायां सेटी॑ति णिलोपे चघोषितं वाक्य॑मित्यपि स्यादिति चेत् । अत्राहुः — एवं तर्हि विशब्दनप्रतिषेध एव ज्ञापकः - विशब्दनार्थस्य चुरादिणिजनित्य इति [इति] नास्त्युक्तदोष इति दिक् ।", "72024": "", "72025": "<<अभेश्चाविदूर्ये>> - अभेः । विशेषेण दूरं विदूरं, ततोऽन्यविदूरं, तस्य भाव आविदूर्यम् । ब्राआहृणादित्वात्ष्यञ् । अस्मादेव निर्देशात् न नञ्पूर्वात्तत्पुरुषा॑दिति निषेधो न भवति । सामीप्य इत्येव तु नोक्तं, नातिदूरस्याऽसङ्ग्रहापत्तेः, तदेतद्ध्वनयन्व्याचष्टे — नातिदूरमासन्नं वेति । एवं च सामीप्य इति प्राचीनव्याख्यानमुपलक्षणतया नेयमितयाहुः ।", "72026": "<<णेरध्ययने वृत्तम्>> - णेः । अधीयत इति अध्ययनम् ।कृत्यल्युटः॑ इति बहुलवचनात्कर्मणि ल्युट् । णिलुक् चेति ।निपात्यते॑ इति शेषः । लोपे हि प्रत्ययलक्षणेन गुणः स्यादिति भावः ।", "72027": "<<वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः>> - वा दान्त । शमु दमु उपशमे, पूरी आप्यायने, दिवादिश्चुरादिश्च । दसु उपक्षये, स्पश बाधने, छद अपवारणे । ज्ञपिर्मित्संज्ञायांमारणतोषणनिशामनेष्वि॑त्युक्तः ।", "72028": "<<रुष्यमत्वरसंघुषास्वनाम्>> - रुष्य । रुष रोषेतीषसहे॑ति विकल्पितेट्कत्वात्यस्य विभाषे॑त नित्ये निषेधे प्राप्ते विकल्पो विधीयते । अम गत्यादिषु । अम रोगे इति चौरादिकस्तु न गृह्रते,एकाचः॑ इत्यधिकारादित्ययाहुः । आन्त इति ।अनुनासकिस्ये॑ति दीर्घः । तूर्ण इति । ञित्वरा संभ्रमे,ज्वरत्वरे॑त्यूठ् । निष्ठानत्वम् ।आदितश्चे॑ति निषेधे प्राप्ते विकल्पः । एवं च आदित्त्वस्य फलमात्मनेपदमात्रं, तच्च एधत्यादिवद्ध्रस्वानुबन्धत्वेऽपि सिध्यत्येवेत्याशयेनाह — फलं मन्दमिति । संघुष्ट इति । संपूर्वाद्धुषेर्विशब्दने इटि प्राप्ते विकल्पोऽयम् । अविशब्दनेऽपि संपूर्वस्य परत्वादयं विकल्प एव । आस्वान्त इति । आङ्पूर्वस्य स्वनेर्मनोभिधानेऽप्ययमेव विकल्पः, परत्वात् । आस्वान्तं मनः । आस्वनितं मन इति ।", "72029": "<<हृषेर्लोमसु>> - ह्मषेः । ह्मषु अलीके । उदित्तवन्निष्ठायामनिट्, ह्मष तुष्टौ सेट्, उभयोरपि ग्रहणमित्युभयत्र विभाषेयम् ।", "72030": "", "72031": "", "72032": "", "72033": "", "72034": "", "72035": "<<आर्धधातुकस्येड् वलादेः>> - ॒नेड्वशि कृती॑त्यत इडित्यनुवर्तमाने पुनरिड्ग्रहणं निषेधसंबद्धस्येटो निवृत्त्यर्थम् । वस्तुतस्तुसमर्थानां प्रथमाद्वे॑त्यनुवृत्तस्य पदत्रयस्य् मध्येप्राग्दिश् इत्यनन्तरंसमर्थानां प्रथमा॑दिति निवृत्तं,वे॑तित्वनुवर्तत इति व्याख्यानमिवनेति निवृत्तम्, इडित्यनुवर्तते॑ इति व्याख्यातुं शक्यत्वादिड्ग्रहणं त्युक्तं शक्यम्, तथापि स्पष्टप्रतिपत्त्यर्थं तत्स्वीकृतमिति बोध्यम् । आर्धधातुकस्येति किम् । आस्ते, शेते । वलादेः किम् । एधनीयम् । ननुरुदादिभ्यः सार्वधातुके॑ इत्यनेन सार्वधातुकस्य यदीड्भवति तर्हि रुदादिभ्य एवे॑ति नियमादास्ते शेत इत्यत्र इड्न भवेदित्याद्र्धधातुकस्येति ग्रहणं व्यर्थम् । न च रुदादिभ्यः सार्वधातुक एवेति विपरीतनियमाद्रोदितेत्यत्र न स्यात्, आस्ते शेत इत्यत्र तु स्यादिति शङ्क्यम् ।रुदविदमुषग्रहिस्वपिप्रच्छः संश्चे॑ति क्त्वाप्रत्यये औपदेशिककित्त्वस्य सुस्थत्वात् ।हलन्तञ्चे॑ति झलादिसनः कित्त्वाच्च । तस्माद्विपरीतनियमाऽसंभवेनाद्र्धदातुकग्रहणं व्यर्थमेव । ननु तद्ग्रहणाऽभावे वलादेरित्यस्य — अङ्गस्येति यदधिकृतं तद्विशेष्यं स्यात्, ततश्च अडाटाविवेडागमोऽतादवस्थ्यात्, अकृते ।पि तद्ग्रहणेऽङ्गस्य यो वलादिरङ्गनिमित्तं तस्येडिति व्याख्यानादिष्टसिद्धेश्च । तस्मादुभयथापि व्याख्यानेशरणीकर्तव्येआर्धधातुकस्ये॑त्यस्य त्याग एव श्रेयान् । नन्वेवंकेशवः॑,अङ्गना॑वृक्षत्व॑मित्यत्रेट् स्यात् ।ऋत इद्धातो॑रित्यतो धातोरित्यनुवर्तनादधातोः परस्य न भवतीति परिहारसंभवेऽपि लूभ्यां पूभ्यामित्यत्र दुर्वार एवेडागमः । विहितविशेषणेनाप्ययं वारयितुमशक्यः, क्विबन्ता धातुत्वं न जहतीति लूभ्यां लूभिरित्यत्र ब्यामादेर्धातोर्विहितत्वाऽनपायात् । किंचजुगुप्सते॑ इत्यादौगुप्तिज्किद्भ्यः॑ इति धातोर्विहितस्य सन इड् दुर्वारः स्यात् । न चेह धातोः परत्र विहितस्य वलादेरिति व्याख्यानलाभाय धातोरिति पञ्चम्यन्तमपेक्षितं, तच्च दुर्लभम्,ऋत इद्धातो॑रित्यत्र धातोरित्यस्य षष्ठन्तत्वात्, तथा च वृक्षत्वमित्यादावपीडागमप्रसङ्ग इति वाच्यं, शब्दाधिकारपक्षे स्वरितत्वेन तत्सदृशशब्दोऽनुमीयत इति पञ्चम्यन्तलाभात् । अस्तु वा षष्ठन्तत्वं, विहितत्वं षष्ठर्थ इति व्याख्यायामिष्टसिद्धः । तस्माज्जुगुप्सत इत्यादावतिप्रसङ्गवारणार्थमाद्र्धधातुकस्यति ग्रहणम् । केचित्तु - धातोरित्युच्चार्य विहितो यः प्रत्ययस्तस्य#एडिति यदि व्याख्यायेत तदा लूभ्यां जुगुप्सत इत्यत्रातिप्रसङ्गाऽभावादाद्र्धधातुकस्येति व्यर्थमित्याहुः । बभूविवेति । न चाऽत्रश्र्युकः किती॑तीण्निषेधे वुगागमोऽपि न स्यादिति शङ्क्यं, क्रादिनियमादिटः प्रवृत्तेः॥", "72036": "<<स्नुक्रमोरनात्मनेपदनिमित्ते>> - स्नुक्रमो । अनात्मनेपदनिमित्ते इति । आत्मनेपदनिमित्ताऽभावे इत्यर्थः । अन्ये तु द्विवचनस्थाने व्यत्ययेन एकवचनम्, अनात्मनेपदनिमित्तयोरित्यर्थ इत्याहुः । उभयोरपि भावकर्मकर्मव्यतिहारास्तङो निमित्तं, क्रमेस्तु वृत्तिसर्गादयोऽपीति बोध्यम् । स्नुकर्मोरुदात्तत्वदिटि सिद्धे नियमार्थोऽमित्याह — अत्रैवेडिति । अनात्मनेपदेति किम् ।उपस्नोष्यते जलेन॑ ।उपक्रंस्यते॑ ।आक्रंस्यते॑ । निमित्त इति किम् स्नौतीति स्नविता, स इवाचरति स्नवित्रीयते । इह क्यङ् आत्मनेपदनिमित्तं न तु स्नौतिरित्याहुः ।", "72037": "<<ग्रहोऽलिटि दीर्घः>> - ग्रहिषीष्टेति ।वृत॑ इत्यनुवृत्तेर्न लिङी॑ति दीर्घनिषेधो न प्रवर्तते । अग्रहीषातामिति । लुङ् । आत्मनेपदद्विवचनम् ।इति तत्त्वबोधिन्याम् क्र्यादयः ।अथ तिङन्ते लकारार्थप्रक्रिया ।", "72038": "<<वॄतो वा>> - वृतो वा । इहआर्धधातुकस्ये॑डित्यत इडित्यनुवर्तते,ग्रहो लिटी॑त्यतो लिटि दीर्घ इति च । तदाह — — इटो दीर्घो वेत्यादि ।", "72039": "", "72040": "<<सिचि च परस्मैपदेषु>> - सिचि च ।न लिङी॑त्यतो नेत्यनुवर्तनादाह — इटो दीर्घो नेति ।", "72041": "<<इट् सनि वा>> - इट्सनि वा । चिकीर्षतीत्यादौअज्झनगमा॑मिति दीर्घे कृते नेदं प्रवर्तते,एकाच उपदेशे॑ इत्यत उपदेश इत्यनुवर्त्त्य , उपदेशे ऋकारान्तादिति व्याख्यानात् । अत एवेटं विनैवोदाहरति — दुध्वूर्षतीति ।ध्वृ कौटिल्यै॑ ।अज्झने॑ति दीर्घः ।#उदोष्ठपूर्वस्ये॑त्युत्वं । रपरत्वं ।हलि चे॑ति दीर्घः ।", "72042": "<<लिङ्सिचोरात्मनेपदेषु>> - लिङ्सिचोः ।वृत इत्यनुवर्तते । आत्मनेपदेषु किम् । अवारीत् । अवारिष्टाम् । अवारिषुः ।सिचि च परस्मैपदेषु॑ इति निषेधादिहवृतो वे॑ति न दीर्घः ।", "72043": "<<ऋतश्च संयोगादेः>> - ॒इट् सनि वे॑त्यत इट् वेत्यनुवर्तते ।लिङ्सिचो॑रिति सूत्रादात्नेपदेष्विति च । तदाह — इड् वा स्यात्तङीति । तङि किम् । स्तर्यात् । अस्तार्षीत् ।", "72044": "<<स्वरतिसूतिसूयतिधूञूदितो वा>> - स्वरतिसूति ।स्वृ शब्दोपतापयोःर॑ भ्वादिः । ननुस्वरतिसूधूञूदितो वे॑ति सूत्र्यतां,किमनेन सूतिसूयत्योः पृथग्ग्रहणेन । मैवम् । तथाहि सति निरनुबन्धकपरिभाषयाषू प्रेरणे॑ इति तौदादिकस्यैव ग्रहणं स्यान्नत्वादादिकदैवादिकयोरेतयोः । न चैवं षूङिति पठतामिति वाच्यं,लुग्विकरणाऽलुग्विकरणयो॑रिति परिभाषया अलुग्विकरणस्य सूयतेरेव ग्रहणप्रसङ्गात् । अस्याश्च परिभाषायाः सूतिसूयत्योः पृथग्ग्रहणेव ज्ञापकमित्याहुः ।धूञ् कम्पने॑स्वादिः क्र्यादिश्च । सानुबन्धनिर्देशो [अन्यथा लिङ्गिज्विशिष्टं वापदमत्रापि सिङ्सचोरेव विकल्पं कुर्यात् । पुनर्वाग्रहणे तु आर्धधातुकमात्रे विकल्पः सिद्ध इति भावः] ।", "72045": "<<रधादिभ्यश्च>> - रधादिभ्यश्च ।स्वरतिसूति॑ इत्यतो वेत्यनुवर्तते । योगविभागो वैचित्र्यार्थः । गणनिर्दशाद्यङ्लुकि रारधितेत्येव न तु रारद्धेति ।", "72046": "<<निरः कुषः>> - निरः कुषः ।स्वरती॑ति सूत्राद्वेत्यनुवर्तते ।आर्धधातुकस्ये॑डित्यधिक्रियत एव । तदाह — — वलादेरित्यादि । निरः किम् । कोषिता । कोषितुम् । निरकुक्षदिति । इडभावे क्सः । सहिना साहचर्यादिति । यद्यपि षह षुह चक्यर्थ इति दिवादिरपि सहिरस्ति तथापि सहेति शपा निर्देशाद्भौवादिकेनैव सहिना साहचर्यमित्याहुः । *इषेस्तकारे श्यन्प्रत्ययात्प्रतिषेध । श्यन्प्रत्ययादिति । बहुव्रीहिरयम् । श्यन्प्रत्ययवत इषेस्तकारे परत इड्विकल्पप्रतिषेध इति वार्तिकार्थः । तथा च दैवादिकाद्विकल्पो नेति फलितम् । एवं चतीषसहे॑त्यत्र इष्णातेरपि ग्रहणमिति बोध्यम् । पोषितेति । अनिट्केषु पुष्येति श्यना निर्देशादयं सेडिति भावः ।", "72047": "<<इण्निष्ठायाम्>> - यस्येति ।निरः कुषः॑ इति विकल्पितेट्त्वादिति भावः ।", "72048": "<<तीषसहलुभरुषरिषः>> - तीषसह । इष इच्छायाम् । षह मर्षणे । लुभ गाघ्र्ये । रुष रिष हिंसायाम् । एषिता । एष्टा । सहिता । सोढा । लोभिता । लोब्धा ।", "72049": "", "72050": "", "72051": "<<पूङश्च>> - पूङश्च ।श्र्युकः किती॑ति निषेधे प्राप्ते वचनम् ।", "72052": "<<वसतिक्षुधोरिट्>> - उषित इति । यजादित्वात्संप्रसारणम् ।शासिवसी॑ ति षः ।वसती॑ति शपा निर्देशः स्पष्टार्थः । वस्तेः सेट्कत्वाद्भवितव्यमेवेटा । क्षुधित इति । एवं चतस्याऽलमेषा क्षुधितस्ये॑ति प्रयोगो निर्बाध एवेति क्षुधेर्धातोर्भावे क्विपितारकादित॑ जिति धातुवृत्तिषु यदुक्तं, तन्नादर्तव्यम् । समानन्यायतया क्रुधितादावुयोक्ष्यत इति वा कथंचिन्नेयम् ।", "72053": "<<अञ्चेः पूजायाम्>> - अञ्चेः । उदित्त्वात् क्त्वायां विकल्पे प्राप्ते, निष्ठायांयस्य विभाषे॑ति निषेधे प्राप्ते वचनम् । अञ्चित इति ।नाञ्चेः पूजाया॑मिति नलोपनिषेधः । अक्त इति ।अनिदिता॑ मिति नलोपः ।", "72054": "<<लुभो विमोचने>> - लुभो ।तीषसहे॑ति क्त्वायां विकल्पे, निष्ठायां निषेधे च प्राप्ते वचनम् ।", "72055": "<<जॄव्रश्च्योः क्त्वि>> - जृव्रश्च्योः । जृ इत्यस्मात्श्र्युकः किती॑ति ति निषेधे प्राप्ते व्रश्चेरूदित्वाद्विकल्पे प्राप्ते वचनमिदम् । जरीत्वेति ।वृतो वा॑इति इटो वा दीर्घः । व्रश्चित्वेति । इहन क्त्वा से॑डिति कित्त्वनिषेधात्ग्रहिज्ये॑ति संप्रसारणं न ।", "72056": "<<उदितो वा>> - द्यूत्वेति । इडभावपक्षेच्छ्वो॑रित्यूठ् ।", "72057": "<<सेऽसिचि कृतचृतच्छृदतृदनृतः>> - सेऽसिचि । नातष्यति । नत्स्र्यतीति । निनर्तिषति । निनृत्सति । कर्तिष्यति । कत्स्र्यति.चिकर्तिषति । चिकृत्सति । इत्यादि ज्ञेयम् । अनर्तीदिति ।असिची॑त्युक्तत्वादिह नित्यमिट् । त्रेसतुरिति । वा जृभ्रमुत्रसा॑मीत्येत्त्वाभ्यासलोपौ । कुथ । पूतीभावः — पवित्रीभवनम् । कुथ्यति भूमिः । पवित्रीभवतीत्यर्थः । पुष्प विकसने ।कालात्साधुपुष्यत्पच्यमानेष्वि॑त्यत्र पुष्यतिः शत्रन्तः । पचाद्यचि पुष्पम् । संज्ञायां कन् ।पुष्पकम् । व्रीड ।गुरोश्च हलः॑ इत्यप्रत्यये टाप् । व्रीडा । घञि तु व्रीडः ।अत एव व्रीडमावहति मे स संप्रती॑ति कालिदासः ।व्रीडादिवाभ्यासगतैर्विलिल्ये॑ इति माघश्च । षह षुह ।परिनिविभ्यः॑ इत्यत्र सहेत्यकार उच्चारणार्थ इति षत्वमिह भवति । परिषह्रति ।तीषसहे॑तीड्विकल्पस्तु नाऽस्य भवति,सहे॑ति शबन्तनिर्देशात्, किं तुषह मर्षणे॑ इत्यस्यैव स इत्यात्रेयादयः । सहेति निर्देशस्योभयत्र तुल्यत्वेतीषसहे॑त्यत्र शपा निर्देशः,परिनिविभ्यः॑ इत्यत्र तु नेत्यद्र्धजरतीयमिदं हेयमेव । तत्त्वं तु प्रयोगमनुसृत्य महद्भिरेव निर्धार्यम् । नपुंसके भावे क्तः । सुहतंतृप्तिः । अत एवपूरणगुणे॑ति सूत्रे सुहितार्थास्तृप्त्यर्था इति व्याख्य#आतम् । जेरतुरिति ।ऋच्छत्यृता॑मिति गुणे कृतेन शसददे॑ति गुणशब्देन भावितस्य निषेधात्अत एकहल्मध्ये॑ इत्यपर्वृत्तौवा जृभ्रमुत्रसा॑मित्येत्वाभ्यासलोपविकल्पः । षूङ् । प्रसव उत्पत्तिः ।मृत्पिण्डो घटं सूयते॑ इत्यादिप्रयोगाऽभावात्प्राणीत्युक्तम् ।स्वादय ओदितः॑ इति वक्ष्यमाणत्वात्ओदितश्चे॑ति निष्ठातस्य नत्वम् । प्रसूनम् । विकल्पमिति ।परमपी॑ति शेषः । निषेधे प्राप्ते इति । पुरस्तात्प्रतिषेधकाण्डारम्भसामर्थ्यादिति भावः ।", "72058": "", "72059": "<<न वृद्भ्यश्चतुर्भ्यः>> - न वृद्भ्यः । गणकार्यत्वादुभयोर्यङ्लुक्यप्रवृत्तिः । वर्वर्तिष्यति । वर्वर्तिषति । चतुग्र्रहणफलं तु मूले एव स्फुटीभविष्यति ।सेऽसिची॑ति सूत्रात्से इत्यनुवर्तते । तदाह — सकारादेरिति । इण् न स्यादिति । स्यन्देरूदित्त्वाद्विकल्पे प्राप्ते, इतरेषां प्राप्ते, इतरेषां नित्यमिटि प्राप्ते निषेधोऽयम् । तङानयोरिति । जिगमिषिता । जिगमिषितारावित्यादौ तृचि परतः सन इडागमसिद्धयेगमेरिट् परस्मैपदग्रहणमं तङानयोरभावं लक्षयतीत्यभ्युपगम्यते । तञ्चात्रापि तथैवानुवर्तते, अर्थाधिकाराश्रयणात् ।तेन परस्मैपदाऽभावेऽपि तृचि विवृत्सितारावित्यत्रअतो हे॑ रिति हेर्लुकित्वं विवृत्से॑त्यत्र च सन इण्निषेधः सिध्यतीति भावः । अत्र भाष्यवार्तिकयोर्वृतादीनामात्मनेपदेन समानपदस्थर्स्येड्वचनादन्यत्र निषेध इति स्थितम् । तेन विवर्तिषते विवर्द्धिषते इत्यादाविड्भवति । विवृत्सतेवाचरति विवृत्सित्रीयते इत्यत्र त्वात्मनेपदोत्पत्तेः पूर्वं तत्समानापदस्थत्वाऽभावादन्तरङ्गोऽयं निषेधः प्रवर्तते । स च पश्चात्तङि कृतेऽपि न निवर्तते, चतुग्र्रहणसामर्थ्यादिति । अत्र व्याचख्युः -पञ्चभ्य॑ इति वक्तुमुचितम् । [एवं च]तासि चे॑त्येव सूत्रं कर्तव्यम् । न च वृतादिष्वतिव्याप्तिः तङानयोः सत्त्वादिति । अस्यन्त्तेति । अत्रअनिदिता॑मिति न लोपो न भवति, सिज्लोपस्याऽसिद्धत्वेनानुपधात्वात् ।", "72060": "<<तासि च कॢपः>> - तासि च कॢपः । चकारात्साद्याद्र्धधातुकं गृह्रते । कॢप्सीष्टेति ।लिङ्सिचावात्मनेपदेषु॑ इति कित्त्वान्न गुणः । (ग ।) वृत । वृदिति । वृतु वर्तने इत्यस्मात्क्विप् ।ञित्वरा संभ्रमे॑ इत्यस्यानन्तरंघटादयः षितः॑ इत्युक्तत्वात्त्वरत्यन्तारुआयोदसैव षितो न तु फणान्ताः सर्वेऽपीति सिद्धं,तथापि स्पष्टप्रतिपत्त्यर्थमाह — षितश्चेति । प्रयोजनं तु षिद्भिदादिभ्यः॑ इत्यङि टाप् । घटा व्यथेत्यादिरूपसिद्धिः । ये धातवोऽन्यत्राधीतास्तेषमिह पाठोऽर्थनियमाय । ये त्विहैव पठन्ते तेषामुपसर्गादिनाऽर्थान्तरपरत्वेऽपि मित्त्वमस्त्येवेति धातुवृत्त्यादिषु स्थितं । तदेतद्ध्वनयन्नुदाहरति — विघटयतीति ।", "72061": "<<अचस्तास्वत् थल्यनिटो नित्यम्>> - अचस्तास्वत् । उत्तरसूत्रादुपदेश इत्यपकृष्यते, तच्चाऽजन्तस्य विशेषणमित्याह — उपदेशेऽजन्त इति । धातुरित्याक्षेपाल्लभ्यते । न ह्रधातोस्थल् संभवति । नित्यग्रहणमनिटो विशेषणम् । क्व नित्यमनिडित्यपेक्षायां संनिधानात्तासावेवेति विज्ञायते,तासि च कॢपःर॑ इति सन्निहितं वाऽनुवर्तते ।न वृद्भ्यः॑ इत्यस्मान्नेत्यनुवर्तते , तदाह — तासौ नित्यानिट् ततः परस्येत्यादि । तासाविव तास्वदिति सप्तम्यन्ताद्वतिः । यथा तासौ न भवति एवं थल्यपीत्यर्थः । अचेति किम् । बिभेदिथ । रुरोधिथ । उपदेशे इति किम् । जहर्थ । इह परत्वान्नित्यत्वच्च गुणे रपरत्वे च कृते अजन्तत्वाऽभावादेतस्याऽप्रवृत्ताविट् प्रसज्येतेत्युपदेश इत्युक्तम् । थलीति किम् । पपिव पपिम । नित्यमनिटः किम् । सस्वरिथ । सस्वर्थ । नाऽयं तासौ नित्यमनिट्,स्वरतिसूती॑ति विकल्पितेट्त्वात् । इह तासीति नेति चानुवृत्त्यैवेष्टसिद्धेस्तास्वदित्येतन्नातीवोपयुज्यत इति केचित् । अन्ये तु — यस्य तासौ विद्यमानत्वं तस्मादेव परस्य थल इण्निषेध इत्येतल्लाभार्थं तत् ।तेन उवयिथ, जघसिथेत्यत्र न निषेध इत्याहुः ।", "72062": "<<उपदेशेऽत्वतः>> - उपदेशेऽत्वतः । पपक्थ । इयष्ठ । उपदेशे किम् । कर्ष्ठा । चकर्षिथ । अकारवत इति किम् । भेत्ता । बिभेदिथ । तपरकरणं कम् । राद्धा । रराधिथ । तासौ किम् । जिघृक्षति । जग्रहिथ ।सनि ग्रहगुहोश्चे॑ति सनि नित्यमनिरट् । क्रान्तः । चक्रमिथ । ऊदित्त्वेन क्त्वायां वेट्कत्वात्यस्य विभाषे॑ति निष्ठायां नेट् । नित्यानित्याऽनिट् ।स्नुक्रमोरनात्मनेपदनिमित्ते॑ इति परस्मैपदे सेक्टत्वात् ।", "72063": "<<ऋतो भारद्वाजस्य>> - ऋतो भारद्वाजस्य । तपरकरणात्कृगृप्रभृतिषु दीर्घान्तेषु नायं निषेधः प्रवर्तते । ह्रस्वान्तेषु ह्मञ्धृञादिषुअचस्तास्व॑दित्येव सिद्धं, वृरञ्वृङौ तु यद्यपि सेटौ, तथापि वृङः थलेव नास्ति, आत्मनेपदित्वात्, वृञस्तु छन्दसिववर्थे॑ति निपातनाद्ववरिथेति भाषायमिटा भाव्यम् । त्समान्नियमोऽयमित्याह - ऋदन्तादेवेति । जहर्थ । दधर्थ । अन्यस्य स्यादेवेति । एवं च भारद्वाजमते स्यादन्यमते न स्यादिति विकल्पः फलितः । पपिथ । पपाथ । पेचिथ । पपक्थ । इयजिथ । इयष्ठ । अकारवानिति । ह्रस्वाऽकारवानित्यर्थः । ईदृगिति । यस्तास्यनिट् स ऋदन्तस्थलि नित्याऽनिड्भवतीत्यर्थः । ननु स्तुद्रुरुआउश्रुवामपि थलि भारद्वाजनियमादिट् स्यात् । न चैवं क्रादिसूत्रे तेषां पठनं निरर्थकं स्यादिति वाच्यं, तत्पठनस्य वमादिष्विण्निवृत्त्यर्थतया सफलत्वात् । अन्यथा क्रादिनियमात्तत्र इडागमो दुर्वारः स्यादित्याशङ्क्याह — न चेति । योगद्वयेति । क्रादियोगप्रापितस्य तु न निवर्तक इति भावः । कुत इत्याकाङ्क्षायामाह — अनन्तरस्येति । न चैवम्उपदेशेऽत्वतः॑ इत्यस्यैव बाधः स्यादिति वाच्यम्, अत्वत्सु धातुषु ऋदन्तत्वाऽदर्शनेन यद्यत्वतस्थलि इण्निषेधस्तर्हि ऋदन्तादेवेति नियन्तुमशक्यत्वात् । ननु तर्हिअचस्तास्व॑दित्यस्यैव बाधोऽस्तु, तत्कथंयगोद्वयप्रापितस्ये॑त्युक्तम् । अत्राहुः — उपदेशेऽचस्तास्व॑दित्येव सूत्रे कृतेऽपि तास्वत्थलीत्यादिपदानामिवोपदेशपदस्याप्यनुवृत्तिसंबवे अत्वत इति सूत्रे उपदेशपदस्य, अचेति पूर्वसूत्रे तु तास्वत्थलीत्यादेश्च करणादुभयोः समानयोगक्षेम इति ज्ञायते । तस्मादिष्टानुरोधाच्च योगद्वयमपि भारद्वाजनियमेन बाध्यते । यदि तुउपदेशेऽत्वतोऽचस्तास्वत्थल्यनिटो नित्य॑मिति एको योगः स्वीक्रियते तदात्र नास्त्येव शङ्कालेशोऽपीति बोध्यमिति । अन्ये तु व्याचक्षते — अचस्तास्व॑दिति सूत्रानन्तरमेवऋतो भारद्वाजस्ये॑ति पठनीयं । द्वयोरनन्तरमस्यारम्भादिहतास्वत्थल्यनिटो नित्यं॑तासी॑त्यनुवर्त्त्य योऽयं तासि नित्यानिटस्थलि इण्निषेधः स बाधकमस्तु, पुरस्तात्प्रतिषेधकाण्डारम्भसामर्थ्यात् । अनाश्रितविधानविशेषमिण्मात्रमनारभ्याधीतेन प्रतिषेधेन यथा बाधेतेत्येतदर्थो हि स आरम्भः । अमुमेवार्थं सिद्धवत्कृत्यततश्चतुर्णां थलि भारद्वाजनियमप्रापितस्य वमादिषु क्रादिनियमप्रापितस्य चेटो निषेधार्थर॑मिति मूलेऽप्युपनिबद्धमिति । विव्यिव । विव्यिमेति । क्रादिनियमान्नित्यमिट् ।", "72064": "<<बभूथाततन्थजगृम्भववर्थेति निगमे>> - बभूथाततन्थ । भूधातोस्तनोतेश्च थलि इडभावो निपात्यते ।त्वं हि होता प्रथमो बभूथ॑ ।येनान्तरिक्षमुर्वा ततन्थ॑ । भाषायां तु बभूविथ तेनिथ ।जगृम्भा तेदक्षिणमिन्द्र हस्तम् । भाषायां तु जगृहिम । वृणोतेस्थलि क्रादिसूत्रेणेण्निषेधे सिद्धेऽपि निगम एव निषेधो नान्यत्रेति । नियमार्थं ववर्थग्रहणम् ।ववर्थ त्वं हि ज्योतिषाम् । भाषायां तु ववरिथ । ववृषे ।", "72065": "<<विभाषा सृजिदृशोः>> - क्रादिनियमान्नित्ये प्राप्ते विभाषेयम् ।", "72066": "<<इडत्त्यर्तिव्ययतीनाम्>> - नित्यमिट् स्यादिति ।विभाषा सृजिदृशो॑रित्यतो विभाषा नानुवर्तत इति भावः । ध्वृ हूर्छने । हूर्झनं — कौटिल्यम् । सृ गतौ । यद्यपि सामान्येन गतिरुक्ता तथापि द्रवद्द्रव्यस्यैव गतिरिह ज्ञेया । रुआवति घृतम् ।", "72067": "<<वस्वेकाजाद्घसाम्>> - वस्वे ।वस्वि॑ त्यविभक्तिको निर्देशस्तथा च व्याख्यास्यते — वसोरिति । नित्यत्वाद्द्वित्वे कृते एकाच्त्वमेव नेति कथमिट् स्यादित्यत आह — कृतद्विर्वचनानामेकाचामिति । कृतेऽपि द्वित्वे एकाच एव ये अवशिष्यन्ते तेषामित्यर्थः ।नेड्वशि कृती॑ति निषेधं बाधित्वा क्रादिनियमात्सर्वत्र प्राप्रस्येटो नियमोऽयमित्याह — नान्येषामिति । आदिवानिति । अद भक्षणे, द्वित्वहलादिशेषाभ्यासदीर्घसवर्णदीर्घेषु कृतेषु कृतद्वित्वोऽप्ययमेकाजेवेतीड्भवति । आरिवानिति । ऋ गतौ ।ऋच्छत्यृता॑मिति गुणे कृते द्वित्वादिष #उपूर्ववत्कृतेष्वयमप्येकाच् । ददिवानिति । डुदाञ् दाने । कृते द्वित्वे नायमेकाच्, इण्निमित्तश्चातो लोपो नाऽसति तस्मिन्भवतीत्यनेकाजर्थमाद्ग्रहणम् । जक्षिवानिति ।लिटन्यतरस्या॑मित्यदर्घस्लादेशः । द्वित्वे कृते नाऽयमेकाजिति घसिग्रहणम् । अत्र व्याचख्युः — द्वित्वात्पूर्वं परत्वात्घसिभसोर्हली॑त्युपधालोपः स्यात्तस्मश्च कृतेऽनच्कत्वाद्द्वित्वमेव न स्यात् । न चाऽस्य द्वित्वे कर्तव्येद्विर्वचनेऽची॑त्यनेन स्थानिव्दभावो, निषेधो वा शङ्क्यः, द्वित्वनिमित्तस्याऽचोऽभावात् । ततश्च नाऽयं कृतद्विर्वचन एकाज्भवतीति घसिग्रहणं, तत्सामत्र्यात्तु परत्वादुपधालोपमिडागमो बाधते, कृते त्विडागमेगमहने॑त्युपधालोपस्तस्य चाऽज्निमित्तत्वेन स्थानिवत्त्वाद्द्वित्वम् । यद्वाद्विर्वचनेऽची॑ति निषेधपक्षे तूपधालोपात्प्रागेव द्वित्वं, पश्चादुपधालोपःशासिवसिघसीनां चे॑ति षत्वं चर्त्वं क्षः ।अभ्यासे चर्चे॑ त्यभ्यासघकारस्य जश्त्वमिति ।", "72068": "<<विभाषा गमहनविदविशाम्>> - जग्मिवानित्यादि । इट्पक्षेगमहने॑त्युपधालोपः ।", "72069": "", "72070": "", "72071": "<<अञ्जेः सिचि>> - अञ्जेः सिचि । नित्यमिट् स्यादिति । विभाषाग्रहमं नानुवर्तत इति भावः । सिचि किम् । अङ्क्ता । पृची । ईदित्त्वान्निष्ठायां नेट् । पृक्तःअपृक्त एका॑लित्यत्र नञ्पूर्वः ।इति तत्त्वबोधिन्याम् रुधादयः ।", "72072": "<<स्तुसुधूञ्भ्यः परस्मैपदेषु>> - स्तुसुधूञ्भ्यः । परस्मैपदेषु किम् । अतोष्ट । अधोष्ट ।", "72073": "<<यमरमनमातां सक् च>> - यमरमनमाताम् । इहआर्धधातुकस्येड्वलादे॑रितीतडनुवर्तते ।अञ्जेः सिची॑त्यतः सिज्ग्रहणं,स्तुसुधूञ्भ्य॑ इत्यतः परस्मैपदग्रहणं च । तदाह - एभ्यः सिच इडित्यादि । अयंसीत् । अयंसिष्टाम् । व्यरंसीत् । व्यरंसिष्टाम् । अनंसीत् । अनंसिष्टाम् । परस्मैपदेषु किम् । उदायंस्त भारम् । अरंस्त । अरंसाताम् ।", "72074": "<<स्मिपूङ्रञ्ज्वशां सनि>> - स्मिपूङ् ।पू॑ङिति ङकारानुबन्धग्रहणात् पूञः पुपूषतीत्येव,सनि ग्रहे॑तीण्निषेधात् । सिस्मयिषत इति । स्मिङ् ईषद्धसने॑ अस्याऽनिट्त्वादिडागमस्याऽप्राप्तिः ।स्तौतिण्योरेवे॑ति नियमान्न षः । अरिरिषतीति । अस्याप्यनिट्त्वादिडागमस्याऽप्राप्तिः । रिस्शब्दस्येति । सन इटि गुणे च कृते अरिस् इति स्थितेअजादेद्र्वतीयस्ये॑ति रिस्शब्दस्य द्वित्वमित्यर्थः । अञ्जिजिषतीत्यादि ।अञ्जू व्यक्तिम्रक्षणादौ॑ ।अशू व्याप्तौ॑ अनयोरूदित्त्वादिड्विकल्पे प्राप्तेनित्यमिट् । अश भोजन इति क्र्यादिस्तु नित्यं सेडेव । सूत्राभ्यामिति । एकं द्वितीयेऽपरं तु षष्ठे । तत्राद्येन गाङादेशोऽपरेण संप्रसारणम् । ह्वः संप्रसारणम् । इदं च णिजन्तेषु व्याख्यातमिह तु स्मारितम् । जिजावयिषतीति । जुः सौत्रो धातुःजुचङ्क्रम्ये॑ त्यत्रोक्तः । शुश्रूषते इति ।ज्ञाश्रुस्मृदृशां सनः॑ इत्यात्मपदम् ।", "72075": "<<किरश्च पञ्चभ्यः>> - किरश्च पञ्चभ्यः ।पञ्च॑ग्रहणमुत्तरार्थं स्पष्टप्रतिपत्तये इहैव कृतम् । एवं च प्रच्छधातोरनन्तरं गणपाठस्थं वृत्करणं त्युक्तं शक्यम् । अत्रत्यपञ्चब्य॑ इत्यनेनैव वृत्करणं यत्तदपाणिनीयमिति व्याख्येयमित्याहुः । केचित्तु — भूषाकर्मकिरादिसना॑मिति वार्तिके किरादिज्ञानार्थं वृत्करणमावश्यकमित्याहुः॥ अत्रेट इति ।वृतो वे॑ति प्राप्ते भाष्यकारेष्टिरियम् । भौवादिकयोरिति । तथा चअज्झनगमा॑मिति वक्ष्यमाणेन दीर्घ इति भावः ।", "72076": "<<रुदादिभ्यः सार्वधतुके>> - वलादेः सार्वधातुकस्येति । वलादेः किम् । रुदन्ति । सार्वधातुके किम् । स्वप्ता । धित्वं नेति । सकृद्गताविति न्यायात्, हेर्धिरिति स्थान्यादेशयोरिकार उच्चारणार्थ इत्यादिप्रागुक्तसमाधानाद्वेति भावः ।", "72077": "<<ईशः से>> - ईशः से । यथाश्रुतसूत्रन्यासे ईसो ध्वे शब्दे परे ईशिध्वे ईशिध्वमिति न सिध्येदत आह -", "72078": "<<ईडजनोर्ध्वे च>> - ईशीड्जनामिति । वैचित्र्यार्थं इति ।ध्वे॑ इत्यस्य पूर्वत्रापकर्षः,से॑ इत्यस्योत्तरत्रानुवृत्तिरित्येवं वचित्रबोधार्थ इत्यर्थः । इह काशिकादौ जनेरुदाहरणमुक्तम् । तथा हिजनी प्रादुर्भावे॑ इत्यस्माच्छयनश्चान्दसो लुक्, उपधालोपाऽभावश्च । जनिषे । जनिध्वे । जनिष्व । जनिध्वम् ।जन जनने॑ इति श्लुविकरणस्याप्युपधालोपे व्यतिजज्ञिषे । व्यतिजज्ञिध्वे ।कर्तरि कर्मव्यतिहारे॑ इति तङ् । नमोवाकमिति ।नमस्ते रुद्र मन्यवे॑ इत्यादि नमोवचनम् । वचेर्घञ् ।चजो॑रिति कुत्वम् । ववसे इति । वादित्वादेत्वाभ्यासलोपौ न । णिखि चुम्बने । बभ्रामेति ।नुम्विसर्जनीये॑ति सूत्रे वृत्तिपदमञ्जर्यादिभिरुक्तं — नुमादिभिः प्रत्येकं व्यवाये षत्वमिष्यते, तेन निस्से निस्त्वेत्यत्र न भवती॑ति । तच्चाऽस्य सान्तत्वे युज्यते, शान्तत्वे तुव्रश्चे॑तिवत्वेषढो॑रिति कत्वे, कवर्गात्परत्वेन षत्वं दुर्वारमिति प्रत्युदाहरणमिदं न सङ्गच्छत इति भावः । णिजि शुद्धौ । अनिड्केषु णिजिरिति जौहोत्यादिकस्य ग्रहणादयं सेडिति ध्वनयति — निञ्जितेति । शिजि अव्यक्ते शब्दे । क्तप्रत्यये — — शिञ्जितम् । आवश्यकणिन्यन्तान्ङीपिशिञ्जिनी॑ ।भूषणानां तु शिञ्जितम् ।मौर्वी ज्य#आ शिञ्जिनी गुणः॑ इति चामरः । सुषुविषे इति ।स्वरतिसूति॑ इति विकल्पं बाधित्वाश्र्युकः किति॑ इति निषेधे प्राप्ते क्रादिनियमान्नित्यमिट् । शीङ् स्वप्ने ।", "72079": "<<लिङः सलोपोऽनन्त्यस्य>> - ॒रुदादिभ्यःर॑ इति सूत्रात्सार्वधातुक इत्यनुवर्तते, सेति लुप्तषष्ठीकमनन्त्यस्येत्यनेन विशेष्यते । तदाह — सार्वधातुकलिङोऽनन्त्यस्येति । सकारद्वयस्यापीति । अवयवावयवोऽपि समुदायं प्रत्यवयव इत्याश्रयणात्सुटोऽपि लिङ्भक्तत्वादिति भावः । आशीर्लिङीति । भूयास्तमित्यादौ । ननु सुटि कृतेअनचि चे॑ति द्वित्वस्याऽसिद्धत्वात्ततः प्रागेवस्को॑रिति यासुटः सकारो लुप्यते, झलि परे यः संयोगस्तदादित्वात् । तथा चैकसकारं रूपं तुल्यम् । सुडभावे यासुटः सकारस्य द्वित्वे कृते सुटिस्को॑रिति सलोपात्सुट एव सकारस्य द्वित्वे च द्विसकारकमपि रूपं तुल्यमेवेति सुटो विधानं व्यर्थमित्यपरितोषादाह — स्फुटतरं त्विति । एधिषीष्टेत्यादाविति भावः ।", "72080": "<<अतो येयः>> - मध्येऽपवादन्यायेनेति ।रुदादिभ्य॑ इति सूत्रात्सार्वधातुक इत्यननुवृत्तावयं न्यायः प्रवर्तत इति भावः ।", "72081": "", "72082": "<<आने मुक्>> - आने मुक् ।अतो येयः॑ इति पूर्वसूत्रादनुवृत्तं पञ्चम्यन्तमप्यत इति पदं षष्ठ्या विपरिणम्यते,आने॑ इति सप्तमीबलात् । न चाऽत इति पञ्चमीबलादान इति सप्तम्यन्तं पं षष्ठआ विपरिणम्यते इति शङ्क्यं, पञ्चम्याः पूर्वसूत्रे चरितार्थत्वात्सप्तम्याश्चाऽचरितार्थत्वात् । तदेतदाह — अङ्गस्याऽत इति । प्राचा त्वदन्तङ्गस्येति व्याख्यातं, तदयुक्तम् ।पचमान॑ इत्यादौअदुपदेशाल्लसार्वधातुकमनुदात्त॑मिति शानचः स्वरस्याऽसिद्धिप्रसङ्गात् ।अदन्ताङ्गस्ये॑ति पक्षे हिअङ्गभक्तो मुक् स चाङ्गमेव न व्यवदध्यात् , तदवयवमकारं तु व्यवदध्यादेव । अकारमात्रभक्तत्वे तु तदवयवत्वान्नास्ति व्यवधानमित्यदोषः । ननुस्वरविधौ व्यञ्जनमविद्यमानव॑दिति परिभाषया मुकोऽविद्यमानवत्त्वेन व्यवधानाऽबावात्स्यादेवानुदात्तत्वमिति चेत् । अत्राहुः- हलः स्वरप्राप्तौ व्यञ्जनमविद्यमानवन्नान्यत्रेत्याकरारूढम् । न चाऽत्र हलः स्वरप्राप्तिरस्तीति प्रकृते परिभाषेयं नोपयुज्यते । अन्यथा मरुत्त्वनित्यादावपिह्रस्वनुड्भ्यां मतु॑विति मतुप उदात्तत्वं स्यादिति दिक् । लिडिति । यद्यपि प्रथमान्तं प्रकृतं, तथापि धातोरित्यधिकारात्पञ्चम्यन्तात्परं प्रथमान्तं षष्ठ#आ विपरिणम्यत इति भावः । न चवर्तमाने ल॑डित्यत्रैवोक्तरीत्या विपरिणामोऽस्त्विति शङ्क्यं, प्रत्ययविधौ पञ्चम्याः प्रकल्पकत्वं नास्तीतिगुप्तिज्किद्भ्यः स॑नित्यत्र भाष्यकारैः स्वीकृत्वात् । प्रथमासामानाधिकरण्येऽपीति । उपलक्षममिदम् । अप्रथमान्तेन सामानाधिकरण्याऽभावेऽपीत्यर्थः । उपलक्षणमिदम् । अप्रथमान्तेन सामानाधिकरण्याऽभावेऽपीत्यर्थः । तेन कुर्वतोऽपत्यं कौर्वतः । कुर्वतो भक्तिः कुर्वद्भक्तिः,कुर्वाणभक्तिरिति प्रत्ययोत्तरपदयोरपि सिध्यति । अन्यथा कुर्वतोऽपत्यमित्यादौतद्धितसमासौ न स्याताम् ।", "72083": "", "72084": "<<अष्टन आ विभक्तौ>> - अष्टन आ विभक्तौ । सौत्रत्वादिहाऽल्लोपो न कृतः ।कनिन्युषितक्षी॑त्यतःकनिः नित्यनुवर्तमाने ॑सप्यशूभ्यां तुट् चे॒त्यनेन सप्तन्नष्टन्शब्दौ निष्पन्नौ ।रायौ हली त्युत्तरसूत्राद्धलीत्यपकृष्यते, तच्च विभक्तेर्विशेषणमित्यभिप्रेत्य व्याचष्टे -हलादाविति ।हली॑त्यस्यानपपकर्षणे त्वष्टानामिति न सिध्येत् । परत्वान्नित्यत्वाच्च नुटः प्रागात्वे कृते अनान्तत्वेन षट्संज्ञाऽभावान्तुटोऽप्रवृत्तेः ।न च यथोद्देशपक्षेऽन्तकङ्गत्वात्प्रागेव कृता षट्संज्ञा एकदेशविकृतन्यायेन कृतात्वेऽपि सुलभेति वाच्यम्, अल्विधौ उक्तन्यायऽयौग्त् । किंचप्रियाष्टानौ॒॑प्रियष्टानः॑प्रियष्ट्नः॑प्रियष्ट्ने॑त्याद्यपि न सिध्येत्, उक्तरीत्या तत्राप्यात्वप्रवृत्तेरिति बोध्यम् ।", "72085": "", "72086": "<<युष्मदस्मदोरनादेशे>> - युष्मदस्मदोरमादेशे । आदेशे किम्युष्मभ्यम् । न चाऽभ्यम्पक्षे आदेशो हलादिर्नत्यनादेशग्रहणं त्यक्तु शक्यमिति वाच्यं,योऽचीच्यच्त्राऽनुवृत्त्यर्थं तस्यावश्यकत्वात् । हलादौ परे इति ।योऽची॑त्यज्ग्रहणात्परिशेषसिद्धमिदम्,रायौ हली॑त्यतोऽनुवृत्त्या लब्धं वा ।", "72087": "", "72088": "<<प्रथमायाश्च द्विवचने भाषायाम्>> - युवं वस्त्राणीति । शेषे लोपः । मपर्यन्तस्य किमिति । अधिकारसूत्रं किमर्थमिति प्रश्नः । युवकाम् । आवकामिति । ननु युवावयोः समुदायाशत्वेऽपियुवका॑मित्यादि सिध्यति ।ओकारसकारभकारादौ सुपि सर्वनामष्टेः प्रागकच्, अन्यत्र तु सुबन्तस्यटेः प्रा॑गिति युष्मदस्मद्विषये व्यवस्थायास्त्वयका मयकेत्यादिसिद्धये वक्ष्यमाणत्वात्, किमनेनमपर्यन्तस्ये॑त्यधिकारेणेत्यपरितोषादाह — त्वया मयेत्यत्रेति । ननु त्वमादेशयोरपि समुदायादेशत्वेत्वये॑त्यादि साधयितुं शक्यत एव,योऽची॑ति सूत्रं परित्यज्यअच्ये॑इति सूत्रे कृते अजादौ विभक्तौ परतोऽन्त्यस्य एकारदेशे सत्ययादेशप्रवृत्तेरिति पुनरपरितोषादाह —", "72089": "<<योऽचि>> - योऽचि । अचि किम् । युवाभ्याम् । यदि तुयुष्मदस्मगदोरनाद्शे॑इत्यत्ररायो हली॑त्यतो हलीत्यनुवर्तते तदेहा॒ऽची॑ति मास्तु, परिशेषादेव सिद्धेः ।", "72090": "<<शेषे लोपः>> - आत्वयत्वनिमित्तेतरेति । अन्त्यस्येति । अलोन्त्यपरिभाषयेति भावः । अतो गुण इति । नत्यास्तुत्वाहौ सा॑वित्यत्र त्वाहादेशयोरन्त्याकार उच्चारणार्थ एवाऽस्तु किमनेन पररूपकरणप्रयासेनेत्याहुः । त्वम् । अहमिति । ननु युष्मानतिक्रान्तःअतित्व॑मित्यादौत्वाहौ सौ॑इत्यस्यावकाशोऽस्ति, त्वामतिक्रान्तेनाऽतित्वयेत्यादौत्वमावेकवचने॑इत्स्यावकाशः, त्वमबमित्यत्र तूभयोः प्रसङ्गेत्वमावेकवचने॑इत्यनेन परत्वाद्भाव्यम् । नैष दोषः, — ॒त्वमावपि प्रबाधन्ते पूर्वविप्रतिषेधतः॑इति वक्ष्यमाणत्वात् । अधिकरणत्वविवक्षयेति । यदि तुशेषे॑इति विभक्तिविशेषणं स्यात्तर्हि व्यर्थमेव तत्, आत्वयत्वाभ्यां विशेषविहिताभ्यां स्वविषये लोपस्य बाधसम्भवत् । न चैवमन्त्यलोप इति पक्षस्य निरालम्बनतापत्त्या युष्मदस्मदोरन्त्यस्य लोपः स्यादिति ग्रन्थोऽयुक्त इति बाच्यम्,साम आक॑मिति ससुट्कनिर्द्देशेन तस्यापि पक्षस्य ज्ञापितत्वादिति भावः । अतो गुणे कृते प्रवर्तते ति ।वार्णादाङ्गं बलीयः॑इति तु समानाश्रय एव भवति, न तु व्याश्रये । इह तु शेषेलोपस्य विभक्तिर्निमित्तं, पररूपस्य त्वकार इति व्याश्रयत्बमिति भावः । समानाश्रये उदाहरणं तुकारक॑इत्यादि बोध्यम् । तत्र हि यण्वृद्द्योः प्राप्तयोर्वृद्धिरेव भवति । आङ्गत्वात्तदन्तविधिरित्याह — — परमत्वमित्यादि ।", "72091": "", "72092": "<<युवावौ द्विवचने>> - युवावौ द्विवचने । उक्तिर्वचनं, द्वयोर्वचनं द्विवचनं, तदेतदाह — द्वयोरुक्ताविति.न चात्र कृत्रिमाऽकृत्रिमन्यायविरोधः शङ्क्यः, वचनग्रहणसामर्थ्यादेव तद्बाधात् । अन्यथाद्वित्वे॑इत्येव ब्रायात् ।अष्टन आ विभक्ता॑वित्यतो विभक्तावित्यधिकाराद्द्वित्वे य विभक्तिस्तस्यां परत इति ब्याख्यानसंभवात् ।", "72093": "<<यूयवयौ जसि>> - युवकाभ्यादित्यादि । अङ्गकार्य इति । एतेनअङ्गवृत्ते पुनर्वृत्तावविधि॑रिति परिभाषा अर्थत उपनिवबद्धा ।अङ्गे-अङ्गधिकारे-वृत्तं वर्तनं यस्य तदङ्गवृत्तं शास्त्रं, तस्मिन्प्रवृत्ते सति पुनरन्यास्याऽङ्गवृत्तशाश्त्रस्य प्रवृत्तौ प्राप्तायामविधिः॑इति तत्परिभाषाया अर्थः । एषा च परिभाषाज्ञाजनोर्जे॑त्यनेन ज्ञापिता । उपपत्तिस्तु मनोरमातोऽवगन्तव्या । न चैवंद्वाभ्या॑मित्यत्र त्यदाद्यत्वे कृतेसुपि चे॑ति दीर्घो न स्यादिति वाच्यं,द्वयोरेकस्ये॑त्यादिनिर्देशेन उक्तपरिभाषाया अनित्यत्वज्ञापनादिति दिक् । मकारान्तरमित्युपलक्षणं,जसश्श्शी॑त्यत्रजसः स्इति सकारं प्रश्लिष्य सान्तस्य जस इति व्याख्यानात्,अतोऽ॑मितिसूत्रादम्ग्रहणमनुवर्त्त्यअममेवे॑ति व्याख्यानाद्वेति बोध्यम् ।", "72094": "<<त्वाहौ सौ>> - त्वाहौ सौ । यद्यपि युष्मदःत्वमावेकवचने॑इत्येवत्वादेशः सिद्धस्तथापि अस्मदोऽहादेशार्थमिदम् । किंचत्वमौ॑इति सूत्रेण युवां युष्मान् वाऽतिक्रान्तोऽतित्वमिति न सिध्यति, एकार्थवाचित्वऽभावाद्युष्मद इति भावः । युष्मदस्मदोरिति । एतच्चयुष्मदस्मदोरनादेशे॑इत्यतो लभ्यते । शेषे । उक्तादन्यः शेषः, आत्वं यत्वं च प्रागुक्तम्, तद्विषयादन्यविभक्तिरिह शेषशब्दार्थस्तदेतद्द्याचष्टे — —", "72095": "", "72096": "", "72097": "<<त्वमावेकवचने>> - अविभक्तिकमिति । तथाचङे प्रथमयो॑रिति पूर्वसूत्रेण प्राप्तषेधोऽयमिति भाष्ये शङ्कितम् । नच तथैब किं न स्यात्,द्लितीयायां चे॑त्यात्वे पूर्वसवर्णदीर्घेतस्माच्छसः॑इति नत्वे चेष्टसिद्धेरिति वाच्यं, स्त्रीनपुंसकयोर्नत्वाऽप्राप्त्या॒युष्मान्ब्राआहृणीः॑युष्मान्कुलानी॑त्यसिद्धिप्रसङ्गात् । अलिङ्गत्वपक्षे तु युष्माम् ब्राआहृणा॒नित्यादेरप्यसिद्धिप्रसङ्गाच्च ।", "72098": "", "72099": "<<त्रिचतुरोः स्त्रियां तिसृचतसृ>> - त्रिचतुरोः ।अष्टन आ विभक्ता॑वित्यतोऽनुवर्तनादाह — — विभक्तौ परत इति ।विभक्तौ किम्त्रिभार्यः चतुर्भार्य॑इति केचित् । तन्मन्दम् ।स्त्रिया- पुंव॑दिति पुंवद्भावेनापीष्टसिद्धेः । किंतु प्रियादौ पकतः पुंवद्भावो नेतित्रिप्रिय॑इत्याद्युदाहर्तव्यमिति नव्याः ।", "72100": "<<अचि र ऋतः>> - गुणदीर्घोत्वानामिति । तिस्त्रस्तिष्ठन्ती त्यत्रऋतो ङी॑ति गुणस्य रत्वमंपवादः ।तिरुआः पश्ये॑त्यत्र तुप्रथमयो॑रिति पूर्वसवर्णदीर्घस्यापवादः ।प्रियतिरुआ आगतः॒॑प्रियतिरुआः स्व॑मित्यत्रऋत उ॑दित्युत्त्वस्येति विवेकः । यद्यपि मध्ये ।पवादन्यायेन दीर्घोत्त्वयोरेव रत्वमपवादः स्यान्न तुऋतो ङी॑ति गुणस्य, तथापि बाध्यसमान्यचिन्तामाश्रित्य स्वविषये प्राप्तं सर्वमेव हि बाध्यत इति भावः ।", "72101": "<<जराया जरसन्यतरस्याम्>> - जराया जर ।अष्टन आ विभक्तौ॑ इत्यतोविभक्ता॑वित्यनुवर्त्त्यअचि र ऋतः॑ इत्यतो ।डनुवृत्तेनाचीत्यनेन विशेष्यते, विशेषणेनेह तदादिविधिः,यस्मिन् विधिस्तदादावल्ग्रहणे॑ इत्यस्य तदन्तविधेरपवादत्वादित्याशयेनाह — अजादौ विभक्ताविति । अजादौ किम् जराभ्याम् । जराभिः । विभक्ताविति किम् । जराया इदं जारम् । न चजराया असु॑ङेवाऽस्त्विति वाच्यम् । जराशब्दात्तत्करोती॑ति णिचिणाविष्टवत् — ॑ इति टिलोपे ततः क्विपि णिलोपे चैकदेशविकृतस्यानन्यतयाज॑रित्यस्य जराशब्दत्वादसुङि सतिङिच्चे॑त्यन्त्यस्य प्रवृत्त्याजसौ॑ इति रूपापत्तेः । इष्यते त्वत्रापिजरसौ॑जरस॑ इति । न च णिलोपस्य स्थानिवद्भावाद्विभक्तिपरत्वाऽभावेनजरसा॑वित्यादि न सिध्यतीति वाच्यम्,क्वौ लुप्तं न स्थानिव॑दिति निषेधात् । यद्यपिक्वौ लुप्तं न स्थानिव॑दिति क्वाचित्कं, तथापीह तदाश्रयणेजर॑सिति गुर्वादेशकरणमेव मानमित्यवधेयम् ।पदाङ्गाधिकार इति । परिभाषेयंयेन विधि॑रित्यस्य प्रपञ्चभूता । अतएव मनोरमायां पदमङ्गं च विशेष्यं, विशेषणेन च तदन्तविधि॑रित्युक्तम् ।विशेष्य॑मिति तु प्रायेणेति बोध्यम् । तेनअल्लोपोऽनः॑ इति सूत्रेअङ्गावयवो योऽ॑निति वक्ष्यमाणग्रन्थः [स्वरसतः] सङ्गच्छते । अत्र नव्याः — ॒नन्वाकारेतस्य तदुत्तरपदस्य चे॑ति प्रचुरः पाठः ।तदन्तस्य चे॑ति पाठे तु बहुच्पूर्वकेषु न प्रवर्तन्त इत्याशयेन फलितार्थकथनपरतयातदुत्तरपदस्य चे॑ति पठितं न त्विदमपूर्वं वचन॑मिति । सोपसर्गस्य सर्वस्य स्थाने जरसादेशमाशङ्क्याह ।निर्दिश्येति । ननु तदन्तविधिनाऽपि जराशब्दान्तं यदङ्गं तत्रैव निर्दिश्यमानजराशब्दे जरसादेशेन भवितव्यं, न त्वन्यत्रेत्यत आह-एकदेशविकृतस्येति । पदाधिकारेऽपि तदन्तविधाबुदाहरणं — तदन्तस्यापि रुत्वरत्वेदीर्घाहा निदाघ॑ इति वक्ष्यति ।अलुगुत्तरपदे॑ इत्ययमुत्तरपदाधिकारोऽपि पदाधिकारग्रहणेन गृह्रते । तत्फलं तु तत्रैव स्फुटीकरिष्यति । पक्षे इति । जरसादेशभावे ।तदनुसारिभिरिति । ये तुनिर्जरसिने॑त्यादि व्याचक्षते तन्मतानुसारिभिरित्यर्थः । निर्जरस्येत्येवेति । पूर्वविप्रतिषेधेन स्यादेशे कृते जरसादेशो न प्रवर्तत इत्येकमेव रूपमिति तेषामाशयः । अतएववीतजन्मजरसः परं शुचिब्राहृणः पद॑मिति भारविप्रयोगमसमञ्जसं मत्वावीतजन्मरजसः॑ इति पठनीयमिति तैरुक्तम् । एतच्चेति । भाष्यकृताहिटाङ्सी॑ति सूत्रे इनातौ प्रत्याख्याय, नादेशमदादेशं च विधाय, नादेशे परे एत्वम्आङि चे॑ति योगं विभज्य साधितम् । तथा च निर्जरसिनः॑ निर्जरसा॑दित्येतद्भाष्यविरुद्धमिति स्पष्टमेव । न च नादेशे कृते हलि लोपप्रवृत्त्याअनेने॑त्येतन्न सिध्यतीति शङ्क्यम्, नशब्दे परतो विशिष्याऽनादेशविधानात् । तथाहिअनाप्यकः; इत्यत्रअन्-नापि॑ इति पदच्छेदः । नपुंसकत्वात्सोर्लुकि नलोपः ।नापी॑ति समाहारद्वन्द्वात्सप्तम्येकवचनम् । न च ङसेरदादेशे कृते पररूपं स्यादित्यपि शङ्क्यम् , अकारोच्चारणसामर्थ्याद्दीर्घसंभवात् । तथाजराया जरसन्यतरस्या॑मित्यस्मिन्नेव सूत्रे भाष्ये उक्तम्-॒अतिजरैरिति भवितव्यं संनिपातपरिभाषये॑ति । ततश्चनिर्जरसै॑रित्यपि बाष्यविरुद्धमेव । एतेनअतो भिसः॑ इति सूत्रेए॑सिति वक्तव्ये ऐस्करणंनिर्जरसै॑रिति रूपार्थमिति केषांचिद्व्याख्यानं प्रामादिकमिति स्पष्टमेव ।", "72102": "<<त्यदादीनामः>> - त्यदादिनामः ।अष्टन आ विभक्तौ॑इत्यतोऽनुवर्तनादाह-विभक्ताविति किम् । तद् ।यद् । सोर्लुका लुप्तत्वात्प्रत्ययलक्षणं न ।द्विपर्यन्तानां किमिति । युष्मदस्मच्छब्दयोरिष्टआभावेऽपि दोषो नास्ति, आत्वयत्वलोपैर्विशेषविहितैरत्वस्य बाधनात् । तथा किंशब्देऽपि न दोषः, किमः कादेशस्य विशिष्टस्य विधानादिति प्रश्नः । भवानिति । भवत्-सु इति स्थिते तकारस्थाने अत्वे कृतेअतो गुणे॑ इति पररूपेउगिदचाम् — — ॑इति नुमि सतिसर्वनामस्थाने॑इत्यनेन दीर्घे सुलोपे नलोपे च सतिभवा॑इति रूपं स्यादिति भावः । भवन्ताविति । पूर्ववत्तकारस्याऽत्वे पररूपे नुमि दीर्घेभवाना॑विति रूपं स्यादिति भावः । उडूनीव लोमानि यस्य तस्यापत्यमौडुलोमिः ।इञोऽपवाद इति । तथा च बहुत्वे अकारान्तोऽयमुडुलोमशब्दः, स औडुलोमिशब्दादन्य एव, तस्य च इकारान्तेषु व्युत्पादनं प्रासङ्गिकमिति बोध्यम् । इति इदन्ताः । किदिति । तेनआतो लोप इटि चे॑ त्यालोप इति भावः । क्विबन्तवातप्रमीति । माङ्धातोः क्किपिईत्त्वमवकारादौ॑इति निषेधादीत्त्वं नेति शङ्क्यायां मीनातेरेव क्किब्बोध्यः । यद्वा ईप्रत्ययान्तवातप्रमीशब्दादाचारक्किबन्तात्कर्तरि क्किबोध्यः । श्रेयस्य इति ।प्रशस्यश्रः॑इतीयसुनि श्रादेशः ।उगितश्चे॑ङीप् । बहुश्रेयसीति ।स्त्रियाः पुंवत् — ॑इति पुंवद्भावः ।ईयसश्चे॑ति न कप् । नाऽप्युसर्जनह्रस्वः,ईयसो बहुव्रीहिर्ने॑ति निषेधात् ।", "72103": "<<किमः कः>> - किमः कः ।कायतोर्डिमि॑रिति डिमिप्रत्यये निष्पन्नः किंशब्दः । विभक्ताविति ।अष्टन आ विभक्ता॑वित्यतोऽनुवर्तत इति बावः । नन्वत्र॒इमः॑इत्येव सूत्र्यताम्स तेन तिमष्ठिमादीनां क्विबन्तानामतिप्रसङ्गवारणाय त्यदादीनामित्यनुवर्त्त्यत्यदादीनामिमः अः स्या॑दिति व्याख्यास्यते द्विशब्दात्प्राक्कशब्दस्य पाठः कर्तव्यः ।नानार्थके॑इति निषेधादारम्भसामर्थ्याच्चालोन्त्यविधिर्न भविष्यति, तत्क कादेशेनेत्यत आह — अकच्सहितस्यापीति । इमोऽकारविधौ तु साकच्कस्यकक॑इति रूपं स्यादिति भावः । नन्वेवं गणकार्यत्वाऽभावादुपसर्जनत्वेऽपि स्यात्, मैवम्,त्यदादीना॑मित्यनुवर्त्त्य॒त्यदादीनां किम॑इति व्याख्यानात् ।", "72104": "<<कु तिहोः>> - कु तिहोः । तकारादिकार उच्चारणार्थः । वेत्यनुवृत्तेः फलं दर्शयेति -कस्मादिति । यतस्तत इति ।कृत्तद्धिते॑ति प्रातिपदिकत्वात्सुपो लुकि त्यादाद्यत्वम् । पक्षे — यस्मात् । तस्मात् । इतीति ।इदम इश् । पक्षे अस्मात् । अत इति । एतदोऽनादेशः । पक्षे एतस्मात् । अमुत इति ।अदसोसे॑रिति मुत्वम् । पक्षे । अमुष्मात् । बहुत इति । पक्षे -बहुभ्यः । द्वाभ्यामिति । सर्वनामत्वात्प्राप्तोऽपि तसिल्अद्व्यादिभ्यः॑इति पर्युदासान्न । तसेरिति ।प्रतियोगे पञ्चम्यास्तसिः;,अपादाने चाहीयरुहो॑रिति विहितस्य तसेस्तसिलादेश इत्यर्थः । विभक्त्यर्थ चेति । अन्यथा परत्वात्तसौ कृते तस्याऽप्राग्दिशीयत्वाद्विभक्तिसंज्ञाया अभावात्त्यदाद्यत्वांऽबावेयतोऽवगच्छती॑त्यादि न सिध्येदिति भावः । ननु तसेग्र्रामत इत्यादौ चरितार्थत्वात्किमादिभ्यस्तसिलो बाध्यत्वेन तसिर्नप्रवर्तते, तस्य निरलकाशत्वात् । तथा चतसेश्चे॑ति विधानं व्यर्थमिति वाच्यं,कुतोऽवहीयते॑कुतोऽवरोहती॑त्यादौ तसिलः सावकाशत्वात् । सर्वोभयार्थाभ्यामेव.सर्वोभयार्थाभ्यामेवेति । अत्र चाभिधानस्वाभाव्यमेव हेतुः । तेनेह नभवति -परिषिञ्चति । अभिषिञ्चति । उपर्यर्थे परिः । अभिस्त्वाभिमुख्ये । नन्वोदनं परिषिञ्चतीत्यत्र सर्वतोभावो परिरिति तसिलभावः कथमिति चेन्मैवम् । वावचनाऽनुवृत्त्या तु तत्सिद्धेः ।", "72105": "<<क्वाति>> - कुत्रेति । यद्यपि भागृवृत्तिकारो बाषायं त्रल् नेच्छति, तथापि बहु प्रयोगदर्शनादिह स्वीकृतम् । तथा च श्रीहर्षः -॒नान्यत्र कुत्रापि च साभिलाषम् । अमरस्चाह -॒साहचर्याच्च कुत्रचि॑दिति ।", "72106": "<<तदोः सः सावनन्त्ययोः>> - तदोः सः सावनन्त्ययोः ।त्यदादीनामः॑ इत्यतोऽनुवर्तनादाह — त्यदादीनामिति । त्यदादीनामिति किम् । आतपः । तारकः । तदोरिति किम् । यः । अनन्त्ययोः किम् । हे स.अत्र परत्वात्त्यदाद्यत्वं बाधित्वा दस्य सकारे सति हल्डआदिना सुलोपे रुत्वविसर्गौ स्याताम्, तथाचहे सः॑इति रूपं सयात् ।किञ्च स्त्रियांस्ति रूपं न स्यात् । यदा त्वन्त्यस्य सकारे जातेऽपि पुनःप्रसङ्गविज्ञानात्त्यदाद्यत्वं सकारस्य स्वीक्रियते, तदा न किंचिदनिष्टमित्यनन्त्ययोरिति त्यक्तुंशक्यम् । यदि तुतदोः सः सा॑ — वित्यस्यानन्तरम्अदस औ सुलोपश्चे॑त्यत्रअदसः॑इति योगं विभज्याऽदस एव दकारस्य सत्वं नान्यस्य दस्ये॑ति नियमः [स्वी]क्रियते, तदा तुसकृद्गता ॑विति न्यायेप्यनन्त्ययोरिति त्यक्तुं शक्यम् । न चैवं द्वावात्मन इच्छतिद्वीयति॑, ततः क्विपिस्व॑इति रूपं नस्यात्, किंतुद्व॑इति रूपं स्यादिति फले भेदान्नियमपक्षो न संभवतीति वाच्यं, — गौणे अत्वसत्वयोरसंभवेद्वी॑रित्यस्यैव रूपस्य न्याय्यत्वादिति मनोरमायामुक्तत्वात् । सौ किम् । तौ ते तं तौ तान् । ननुतोः सः सौ॑इत्येव सूत्रमस्तु, किमनेनतदो॑रिति पृथग्ग्रहणेनेति चेन्मैवम्,अनेष॑इत्यत्र नकारस्य सत्वप्रसङ्गात् ।नलोपो नञः॒॑तस्मान्नडचि॑इत्यजाद्युत्तरपदस्यएष॑इत्यस्य नुङ्विधानेन त्यदादितवर्गत्वान्नतारस्य । न च सत्वे सति नुङ्विधानं व्यर्थमिति वाच्यम्,अनआ॑इत्यादौ सावकाशत्वात् । तथाचतदौ॑रित्येव सूत्रं युक्तम् । ननुतस्मान्नुडची॑ति सूत्रे ॑तस्मादिति पदं परित्यज्य लाङवात्नुगची॑त्येवोच्यतां, तथाच अजाद्युत्तरपदे परे नञ एव नुगागम इत्यनेष इत्यत्रनोक्तदोष इति चेत्ेवं तर्हिनलोपः प्रातिपदिकान्तस्ये॑ति सूत्रे पञ्चम्यन्तमावश्यकमेव टिदनुबन्धश्चेति ।तदो॑रिति सूत्रे तोरिति वक्तुमशक्यम् ।अने,॑इत्यत्रोक्तदोषात् । अत्र कैयटः — ॒तो॑ — रित्युक्तेऽप्यनेष इत्यत्र सत्वं न भवेत्, नुडागमस्य पदद्वयाश्रितत्वेन बहिरङ्गत्वादन्तरङ्सत्वद्दष्टआ असिद्धत्वादिति । उत्ररपदाधिकारस्थाकार्ये बहिरङ्गपरिभाषाऽभावस्यइच एकाचोऽम् — ॑इत्यत्र भाष्ये उक्तत्वादयं कैयटश्चिन्त्यः । गौणेचरितार्थत्वादिति । गौणे हि अन्तर्गणकार्यत्वात्सत्वं न प्रवर्तते ।स्वाहौ सा॑वित्युक्ते तुअतिस्व॑मिति स्यादिति भावः । अत्वसत्वे नेति । तयोः सर्वाद्यन्तर्गणकार्यत्वादिति भावः ।अतित्यदिति । त्यमतिकान्तोऽतित्यद् ।", "72107": "<<अदस औ सुलोपश्च>> - अदस औ सुलोपश्च ।अदस इति षष्ठी ।तदोः सः सौ इत्यतः सावित्यनुवर्तते, तदाह — औकारोऽन्तादेशः स्यात्सौ पर इति । नन्वदस इति पञ्चम्येवाऽस्तु ततः परस्य सोरेवौकारो विधीयतां, त्यदाद्यत्वेन असाविति रूपं सिध्यति किं सुलोपविधानेन । न च स्वरे भेदः, उदात्तेन सहेकादेश औकारस्योदात्तत्वात् । मैवम् ।असकौ स्त्री॑त्यत्र टापिपत्र्ययस्था॑दितीत्त्वपर्सङ्गात् । असुक इति । औत्वाऽभावे त्यदाद्यत्वे सादुत्वम् । स्त्रियां तुअसुकौ॒॑असुका॑इति ।अमुकी॒॑असुकी॑ति च प्रयोगऽसाधुरेव । एवममुकशर्मेत्यादिरपि ।अदकःशर्मे॑त्यादेरेव न्याय्यत्वात् ।", "72108": "<<इदमो मः>> - इदमो मः ।इन्दे कमिर्नलोपश्च॑ । इदम् ।तदोः सः सौ॑इत्यतोऽनुवर्तनादाह -सौ पर इति ।", "72109": "<<दश्च>> - उत्सर्ग इति । तेनतदोः सः सा॑बिति सूत्रेअनन्त्ययोरिति किं हे स॑इति भाष्यं,भो अच्युत॒॑भवन्नच्युते॑त्यादि प्रयोदाश्च न विरुध्यन्त इति भावः ।", "72110": "<<यः सौ>> - यः सौ । यत्वमिदं स्त्रियामेव, परिशेषात् । इदोऽय्पुंसी॑ति पुंस्यय्वचनात्, क्लीवे सोर्लुका लुप्तत्वाच्च । एवमिति । सा । ते । ताः । याः ये । याः । एषा । एते । एताः । इत्यादीत्यर्थः । वागिति । वचेःक्विब्वची॑त्यादीना क्वीब्दीर्घोऽसंपर्सारणं च ।चोः कुः॑ ।", "72111": "<<इदोऽय् पुंसि>> - इदोऽय । पुंसीति किम् । इयं स्त्री । त्यदादेः संबोधनं नास्तीति । प्रचुरप्रयोगा.डदर्शनमेवात्र मूलम् ।", "72112": "<<अनाप्यकः>> - अनाप्यकः ।आ॑विति प्रत्याहारो न तु टाप्, विभक्ताविति विशेषणादतो व्याचष्टे — टा इत्यारभ्य सुपः पकारेणोति ।", "72113": "<<हलि लोपः>> - नानर्थकेऽलोन्त्यविधिरिति । नन्वेवंबिभर्ति॒॑पिपर्ती॑त्यादौभृञामित्॒अर्तिपिपत्र्योश्चे॑तीत्त्वं सर्वस्याऽभ्यासस्य स्यात्, द्वित्वाऽभावे केवलस्याऽर्थवत्त्वेऽपि द्वित्वे सति समुदायस्यैवाऽर्थवत्त्वादित्याशङ्कायामाह — अनभ्यासविकार इति ।", "72114": "<<मृजेर्वृद्धिः>> - मृजेर्वृद्धिः । गुणापवादः । धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानमित्याह — धातुप्रत्यये किम् । कंसपरिमड्भ्याम् । *क्ङित्यजादाविति । एतञ्चाऽन्येषां वैयाकरणानां मतम् — इको गुणवृद्धी॑ इति सूत्रे भाष्यकृता स्वीकृतम् । मृड्ढीति ।हुझल्भ्यःर॑ इति हेर्धिः । षत्वष्टुत्वजश्त्वानि ।", "72115": "<<अचो ञ्णिति>> - अचोञ्णिति ।मृजेर्वृद्धि॑रित्यतोवृद्धि॑रित्यनुवर्तते,अङ्गस्ये॑ति चानुवृत्तमचा विशेष्यते, विशेषणेन तदन्तविधिरित्याशयेन व्याचष्टे -अजन्ताङ्गस्येति ।", "72116": "<<अत उपधायाः>> - अत उप । अतः किम् । तुतोद । उपदायाः किम् । गणयति । इह अतो लोपं बाधित्वा परत्वाद्वृद्धिः स्यात् ।", "72117": "<<तद्धितेष्वचामादेः>> - तद्धितेष्व । अचां मध्ये आदिरजेवेतिअचोऽञ्णिती॑ति सूत्रदच इत्यनुवर्तत इत्याशयेन व्याचष्टे — अचेति । वृद्धिः स्यादिति ।मृजेर्वृद्धि॑रित्यतोऽनुवर्तत इति भावः ।", "72118": "<<किति च>> - किति च ।वाहीकः॑ इत्याद्यर्थमपीदं सुगमव्याख्यानायत्रैवोपन्यस्तम् ।अचामादे॑रिति निर्दिष्टस्थानिकत्वादिक्परिभाषाऽत्र नोपतिष्ठत इत्याशयेनोदाहरति — आआपतिमित्यादि । प्रामादिकमेवेति । एतच्च हरदत्तग्रन्थे स्थितम् । यदि तु देवतार्थकाऽण्णन्ताच्चातुर्वण्र्यादेराकृतिगणत्वात्ष्यञिति व्याख्यायते तदा निर्दुष्ट एवायं प्रयोगः । अआपति गणपति राष्ट्रपति कुलपति गृहपति पशुपति क्षेत्रपतीत्यआपत्यादिः ।", "73001": "", "73002": "<<केकयमित्त्रयुप्रलयानां यादेरियः>> - केकय । केकयस्यापत्यं स्त्रीकैकेयी॑ ।जनपदशब्दात्क्षत्रियादञ् ।मैत्रेयिकया शर्लाध्यते॑ । मित्रयूनां भावेनेत्यर्थः ।गोत्रचरणाच्छ्लाघात्याकारे॑ति वुञ् । तत्र हि लौकिकं गोत्रं गृह्रते, लोके चऋषिशब्दो गोत्रमिति प्रसिद्ध॑मिति काशिका । एतच्च यदा मित्रयुशब्दोऽभेदोपचारात्तदपत्यसंताने वर्तते तदा बोध्यम्, अन्यथामित्र यूनामि॑ति बहुवचनान्तेन विग्रहो न स्यात् । प्रलयादागतंप्रालेयम् । इयादेशो वृदिंध न बाधते,अचामादेरचो वृद्धिः,॑यादिरियादेशः॑ इति भिन्नविषयत्वात्, अङ्गं तूभयोर्विशेषणं न तु कार्यीति हरदत्तः । आदिवृद्धेरपीदमेव सूत्रं विधायकमस्तु, किमनेन विषयभेदविचारेणेत्यन्ये ।", "73003": "<<न य्वाभ्यां पदान्ताभ्याम् पूर्वौ तु ताभ्यामैच्>> - न य्वाभ्यां । य्वाभ्यां किम् । न अर्थो यस्य नार्थः, तस्यापत्यं नार्थिः । पदान्ताभ्यां किम् । याज्ञिकः । ऐचो विषयप्रदर्शनायने॑ति निषेधोक्तिः । तेनेह न -दाघ्यश्विः, माध्वश्विः । न ह्यत्र य्वाभ्यां परस्य बृद्धिप्रसक्तिरस्ति । क्वचित्तु वृद्धिप्रसक्तिसत्त्वेऽपि नेष्यते । द्वे अशीति भृतो भूतो भावी वा व्द्याशीतिकः । वारुडकिरिति । बरिजादयो जातिविशेषाः । वकारस्यापदान्तत्वात्न य्वाभ्या॑मित्यैज्न । इत्यादीति । नैषादकिः, चाण्डालकिः, बैम्बकिः ।", "73004": "शौवस्तिकमिति। नन्वन्तरङ्गत्वात्तुटि ठस्य प्रत्ययादित्वाऽभावात्कर्मठ इत्यत्र ठच इवेकादेशो न स्यात्। न च परत्वादिकादेशे तस्य तुडिति वाच्यम्, आदेशात्प्रागेवान्तरङ्गत्वात्तुटः प्रवृत्तेः। इकादेशस्य त्वाङ्गत्वेन बहिरङ्गत्वात्। सूत्रभङ्गेन तुकि हि क्रियामाणे तु `इसुसुक्तान्ता`दिति कादेशप्रसङ्ग इथि चेत्। सत्यम्। वुञ्छणादिषु ठचश्चित्त्वेन?। कृते त्विकादेशे प्रत्ययस्वरबाधनाय चित्त्वं प्रयुज्यत इति मनोरमायां स्थितम्।", "73005": "<<न्यग्रोधस्य च केवलस्य>> - न्यग्रोधस्य च । केवलस्येति किम् । न्यग्रोमूले भवा न्याग्रोधमूलाः — शालयः । न्यक् — रोहतीति न्यग्रोध इति व्युत्पत्तिपक्षे नियमार्थम्, अव्युत्पत्तिपक्षे तु विध्यर्थम् ।", "73006": "<<न कर्मव्यतिहारे>> - ऐच् नेति ।न य्वाभ्या॑मिति प्राप्तस्य निषेधेनादिवृद्धिरेव । णचस्तद्धितत्वाऽभावेऽप्यञस्तद्धितत्वादिति भावः । कृद्ग्रहमपरिभाषया सोपसर्गधातोर्णजन्तत्वात्ततोऽञि तत्प्रयुक्तादिवृद्धिरुपसर्गस्येत्याशयेनोदाहरति — वयावक्रोशीति । क्रुश आह्वाने, हसे हसने ।स्यादेतत् — ॒स्त्रियां क्ति॑न्निति प्रकरण एवायं मज्विधेयः । एवंच स्त्रियामिति न कर्तव्यमिति लाघवमिति चेन्मैवम् । स्त्रियामित्यधिकारे वासरूपविधिनिषेधापत्तेः । इष्यते तु व्यावक्रुष्टिरिति । स्त्रियां क्तिन्नपि अपवादविषये क्वचिदिष्यते — व्यावचोरी । इहण्यासश्रन्थे॑ ति युच्प्राप्तः । व्यात्यक्षी । अत्रगुरोश्च हलः॑ इत्यकारप्रत्ययः प्राप्तः । क्वचिदकार एवेष्यते, न तु णच् । व्यतीक्षा, व्यतीहा । सैषा व्यवस्था न्यायतो दुर्लभाऽपि बाहुलकात्स्वीकार्या ।", "73007": "<<स्वागतादीनां च>> - स्वपतेयमिति ।पथ्यतिथि वसतिस्वपतेर्ढञ॑ । स्वशब्दस्य द्वारादित्वादैजागमस्य प्राप्तिः । द्वारादित्वफलं तु स्वस्येदंसौव॑मिति ज्ञेयम् ।आहौ प्रभूतादिभ्यः । आहाविति ।उपसङ्ख्यान॑मित्यनुषज्यते । आहेतिपदे एकदेशस्य प्रकृतिभागस्यागन्तुकेनेकारेणआहा॑वित्यनुकरणम् । प्राभूतिक इति । क्रियाविशेषणाद्वक्तरि प्रत्ययः ।", "73008": "<<श्वादेरिञि>> - इदमेव ज्ञापकमिति । द्वारादिगणे आन्शब्दः पठते, न तु आभस्त्र आदंष्ट्रेत्यादिस्तथा चआआदेरिञी॑ति निषेधसूत्रमेव व्यर्थं सद्द्वारादिषु तदादिविधिं ज्ञापयतीत्यर्थः । फलं तु द्वारपालस्यायंदौबारपाल॑इत्यादावैजागमस्य प्रवृत्तिः ।इकारादाविति वाच्यम् । इकारादाविति । सूत्रे इञीत्यपनीय इकारादाविति पठनीयमित्यर्थः । अन्ये तु इञीति स्थाने इतीति पठनीयम् । तथा चाऽङ्गाक्षिप्रप्तत्ययस्य विशेष्यत्वात्यस्मिन्विधिस्तदादौ॑इत्यनेन इकारादिर्लभ्यत इत्याहुः । आगणिकीति । ष्ठनः षित्त्वान्ङीष् ।", "73009": "<<पदान्तस्यान्यतरस्याम्>> - आआपादस्येति ।अन्येषामपि दृश्यते॑इति दीर्घः । धावुक इति वेतनादिगणे धनुर्दण्डेति पठते, तच्च सङ्घातविगृहीतार्थम् । तथा चधानुर्दण्डिकः॑,दाण्डिक॑ इत्यप्युदाहार्यम् ।", "73010": "", "73011": "<<अवयवादृतोः>> - अवयवादृतोः । पूर्ववार्षिक इत्यादि । वर्षाणां पूर्वः, हेमन्तस्यापर इति विग्रहेपूर्वापराधरोत्तर॑मित्येकदेशसमासः । पूर्वास्विति । तद्धितार्थे समासः ।ऋतोर्वृद्धिमद्विधाववयवानम् । ऋतोर्वृद्धिमद्विधाविति । ऋतुवाचिनः शब्दाद्वृद्धिनिमित्तकप्रत्ययविधाने तदन्तविधिर्वाच्यः, स चेदृतुवाची शब्दोऽवयवेभ्यः पर इत्यर्थः । पूर्वत्रेति ।पूर्ववाषिकः॑अपरहेमन॑इत्यत्र । तथा चवर्षाब्यष्ठक्,सर्वत्राण्च तलोपश्चे॑त्याभ्यां क्रमेण ठगणौ भवतः । वृद्धिमद्विधौ किं । पूर्वप्रावृषम् ।प्रावृष एण्यः॑इत्यत्र तदन्तविध्यभावादिह ऋत्वणेव । इह त्विति ।पौर्ववर्षिक॑इत्यत्र । तथा चेह — ॒कालाट्ठ॑ञिति ठञेवेति भावः । अवयवत्वाभावादिति । अन्यथा पूर्वासु वर्षास्वित सामानाधिकरण्यं न सङ्गच्छेतेति भावः ।", "73012": "<<सुसर्वार्धाज्जनपदस्य>> - सुसर्वा । जनपदतदवध्योरितीति । तस्मिन्ननुवर्तमानेअवृद्धादपि बहुवचनविषया॑दित्यनेनेत्यर्थः ।", "73013": "<<दिशोऽमद्राणाम्>> - दिशो । पौर्वमद्रैति ।मद्रेभ्योऽ॑ञित्यञ् । पूर्वाह्णक इथि ।विभाषा पूर्वाह्णापराह्णाभ्या॑मित्यस्यापवादः ।", "73014": "", "73015": "<<संख्यायाः संवत्सरसंख्यस्य च>> - उत्तरपदवृद्धिर्नेति । एतच्चोपलक्षणम् ।द्विवर्षा॑इत्यत्रद्विगो॑रिति ङीन्बभवति । परिमाणपर्युदासेन पर्युदासाऽबावात्अपरिमाणबिस्ताचिते॑तीह निषेधप्रवृत्तेः । द्विवर्षे भृतेतमधीष्टः॑इति ठञ् ।॒वर्षाल्लुक्च॑इति लुक् ।चित्तवति नित्य॑मिति नित्यलुको वक्ष्यमाणत्वादचित्तवानिह प्रत्ययार्थ इति प्रत्युदाहरति ।", "73016": "", "73017": "<<परिमाणान्तस्यासंज्ञाशाणयोः>> - परिमा । अथ किमर्थम्असमासे ॑इत्यच्यते , प्रातिपदिक ग्रहणे तदन्ग्रहणाऽभावादेवेष्टसिद्धेरत आह -असमासगद्रहणमिति । सुगव्यमिति ।उगवादिभ्यो यत् । यवापूप्यमिति । विभाषा हविरपूपादिभ्यः॑इति यत् । अन्नविकारत्वादेव सिद्धेअपूपादीनां प्रतिपदपाठसामर्थ्यात्तदन्तविधिर्नेतिन्यासग्रन्थस्तूपक्ष्यः, वृत्त्यादिग्रन्थविरोधादिति भावः । अतएव तत्सूत्रेअपूपादीनां केषांचित्पाठः प्रपञ्चार्थः॑इत्यवोचाम् । इत ऊध्र्वमिति । ज्ञापकेन तदन्तविधौ लब्धेऽपि विशेषव्यवस्थार्थमिदम् । सङ्ख्यापूर्वपदानामिति किम् । इह मा भूत् । परमपारायणं वर्तयति ।सङ्ख्यापूर्वपदानां तदन्तग्रहणं प्राग्वतेरिष्यते तच्चाऽलुकि । द्विशूर्पमिति । तद्धितार्थे द्विगुरम्ष । एषा हि प्रकृतिर्लुगन्ता न भवतीति सङ्ख्यापूर्वपदादप्यस्मात्शूर्पादञन्यतरस्या॑मिति प्राप्तस्याऽञष्ठञो वाअध्यर्धपूर्वे॑ति लुक् । द्विशौर्पिकमिति ।परिमाणान्तस्ये॑त्युत्तरपदवृद्धिः । ठञो द्विगुं प्रति निमित्तत्वाऽभावाल्लुगभावः । यद्यपिअध्यर्धे॑ति सूत्रे द्विगोः परस्यार्हीयस्य लुगित्येव मूले व्याख्यास्यते तथापि द्विगोर्निमित्तस्येति व्याख्येयमेव । अन्यथा अत्रैव ठञो लुक्स्यात् । एतच्च अध्यर्धे॑ति सूत्रे स्फुटीकरिष्यते । तपरः किमिति । दीर्घाकारस्य वृद्धौ कृतायामपि रूपे विशेषो नास्तीति प्रश्नः निषेधो न स्यादिति । तथा च वृद्धिनिषेदाऽभावाय तपरकरणमावश्यकमिति भावः । इदं च पुंवद्भावनिषेधाऽभावापादनं पूर्वपदस्य वृद्द्यभावपक्षे क्रियते । यदा तु पूर्वपदस्य पाक्षिकी वृद्धि क्रियते, तदा फलोपधायवृद्धिनिमित्तं तद्धित इत्युत्तरपदाऽकारस्य वृद्धिनिषेधेऽपि स्यादेव पुंवद्भावनिषेध इति बोध्यम् ।", "73018": "", "73019": "<<हृद्भगसिन्ध्वन्ते पूर्वपदस्य च>> - हद्भद ।पूर्वपदस्य चे॑ति चकारेणउत्तरपदस्य॑ इत्यनुकृष्यते । तदाह -पूर्वोत्तरपदयोरिति ।महते सौभगाये॑त्यत्र तूद्रात्रादित्वादञ् । छान्दसत्वान्नोत्तरपदवृद्धिरित्याशयः ।चटकायाऋ॑इति स्त्रीलिङ्गनिर्देशात्पुंसि न स्यादित्याशङ्क्याह ।चटकस्येति वाच्यम् । चटकस्येति वाच्यमिति । एवं चचटकादैरगि॑त्येव सांप्रदायिकः पाठ इति न्यासकृदुक्तिर्वार्तिकविरोधादुपेक्ष्या ।स्त्रियामपत्ये लुग्वक्तव्यः । तयोरेवेति । तत्र टाबन्तात्तद्धित लुकिलुक्तद्धितलुकी॑ति टापो लुकी जातिलक्षमङीषं बाधित्वा अजादिलक्षणष्टाबिति भावः ।", "73020": "", "73021": "", "73022": "", "73023": "", "73024": "<<प्राचां नगरान्ते>> - प्राचां नगरान्ते । सप्तमीनिर्देशात्अङ्गस्ये॑त्यधिकृतमपि सप्तम्यन्तेन विपरिणम्यते । तदाह -नगरान्तेऽङ्गे इति ।", "73025": "", "73026": "", "73027": "", "73028": "<<प्रवाहणस्य ढे>> - प्रवाहणस्य ढे । उत्तरपदस्येत्यधिक्रियते ।अर्धात्परिमाणे॑त्यतःपूर्वस्य तु वा॑ इति अनुवर्तते । तदाह -उत्तरपदस्याचामादेरित्यादि । नित्यमुत्तरपदवृद्धेः फलं तुप्रवाहणेयीभार्यः॑इत्यत्रवृद्धिनिमित्तस्ये॑ति पुंवद्भावप्रतिषेधः ।", "73029": "", "73030": "", "73031": "", "73032": "<<हनस्तोऽचिण्णलोः>> - णिच्प्रकृतिरिति । वधशब्दो णिच्प्रकृतिः, इदानां तु कृल्लक्यवशिष्टभाग एव प्रकृतिरित्यर्थः । आख्यानात्कृत इति । यद्यपिवध॑ शब्दः कृदन्तः, स आख्यानं न भवति तथाप्याख्यान वाची कृदन्तश्च कंसवधशब्दो भवत्येव, कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणात् । कृल्लुगिति ।हनश्च वधः॑इति विहितस्य अप्प्रत्ययस्य लुक् । प्रकृतिप्रत्यापत्तिरिति । विकारपरित्यागेन स्वरूपेणाऽवस्थितिरित्यर्थः । तदेतत्सकलमभिप्रेत्याह — कंसं हन् इ इति स्थिते इति । कंसविशिष्टस्येति । तस्मादेव णिचो विधानादिति भावः । दोष इति । कंसशब्दात्पूर्वमडागमः, कंस् इत्यस्य द्विर्वचनं स्यादित्यर्थः । किं चेति । एवं च कंसमजीघतदितीष्टं न सिध्येदिति भावः । तत्प्रत्यये — धातोर्विहितप्रत्यये । तेनवात्र्रघ्न॑मित्यत्रहनस्त॑ इति तत्वं न भवतीति ज्ञेयम् । उक्तदोषान्परिहरति — सत्यमिति ।प्रकृतिवच्चे॑ति चकारोऽनुक्तसङ्ग्रहार्थं इत्याह — — वात्कार्यमिति । यद्यप्यन्यतरादितदेशेनाप्यड्द्विर्वचने सिध्यतः, तथापि धाताप्रसिद्धे कंसवधाद्युपाख्याने एव णि॑जिति नाग्रहः, किं तूपाख्यानमात्रे । तेन राजागमनमाचष्टे राजानमागमयतीत्यादि सिध्यति । इह कृत्प्रकृतौ राज्ञः कर्तृत्वेऽपि गमेर्हेतुमण्णौगतिबुद्धी॑त्यनेन तस्य कर्मत्वमिति द्वितीयान्तमेव रूपातिदेश बलात्स्वीक्रियते । देवदत्तपाकमाचष्टे देवदत्तेन पाचयतीत्यत्र तु देवदत्तस्य कर्तृत्वानपायात्तृतीयैव भवति । रुक्मिणीहरणमाचष्टे इत्यादौह्मक्रोरन्यतरस्या॑मिति विकल्पाद्रुक्मिणीं रुक्मिण्या वा हारयतीति प्रयोगः । कर्तृकरणादिति । कर्तृग्रहणाऽभावे चक्षुषा पश्यति चक्षयतीत्यादावेव स्यान्न तु करिभिरवबध्नाति अवकरयतीत्यादौ । लोके इन्द्रियाणामेव करणत्वेन सुप्रसिद्धत्वात्, अतस्तत्सङ्ग्रहार्थं कर्तृग्रहणमिति मनोरमायां स्थितम् । नव्यास्तु - साधकतमत्वेन विवक्षितं यत्तत्करणशब्देन गृह्रते न तु लोकप्रसिद्धकरणमेव । अन्यथाकर्तृकरणयोस्तृतीया॑ इत्यादावपि लोकप्रसिद्धकरणग्रहणप्रसक्त्याबाणेन हत॑ इत्यादि रूपं न सिध्येततथा च कर्तृग्रहमं विनाप्यवकरयतीति रूपसिद्धौ न किंचिद्बाधकमिति व्याख्यायकर्तृकरमा॑दित्यत्र समाहारद्वन्द्वं मत्वा देवदत्तेन पाचयति देवदत्तयतीत्युदाजह्युः । कदाचिद्दर्शने ।चित्रकरणकदाचिद्दर्शनयो॑रिति सुवचम् । अदन्तेषु पाठबलादिति । अदन्तस्य फलान्तराऽभावादतो लोपं बाधित्वा वृद्धिरित्यर्थः । सङ्ग्राम । सङ्ग्रामेति युद्धवाचि प्रातिपदिकं कर#ओत्यर्थे णिचं लभ्यते । अनुदात्तेदिति । एतच्चभृशादिभ्यो भुवी॑ति सूत्रे कैयटेनोक्तम् । अकारप्रश्लेषादिति । तेन प्रश्लिष्टस्येत्संज्ञा, प्रकृत्यकारस्य तुइष्ठव॑दिति टिलोपः । तथा च अग्लोपादससङ्ग्रामतेत्यत्र नोपधाह्रस्वः । सुख दुःख । तच्छब्देन प्रातिपदिकार्थौ पराभृश्येते । प्रातिपदिकाद्धात्वर्थ इत्येव सिद्धे अनयोः पाठः सोपसर्गात्प्रत्ययार्थ इत्येके । सुखदुःखाभ्यां तत्कियायामेव णिच् स्यान्न त्वाचष्ट इत्यस्मिन्नर्थे इत्येतदर्थः पाठ इत्यन्ये । पुच्छादिष्वति । भीमसेनस्य वाक्यम् । ग्रन्थान्त इति । भू सत्तायामित्यादिधातुपाठस्याऽन्त इत्यर्थः । इति चुरादयः ।अथ दिवादयः ।दिवु क्रीडा । उदित्करणं क्त्वायामिड्विकल्पार्थं निष्ठायामनिडर्थं, च । देवित्वा । द्यूत्वा.द्यूतम् । क्रीडायां — दीव्यन्ति माणवकाः । विजिगीषायां - शत्रुं दीव्यति । विजिगीषते इत्यर्थः । कान्तिरिच्छा । द्युतेः पृथग्ग्रहणात् । षिवु ।परिषिषेवेति ।स्थादिष्वेवाऽभ्यासस्ये॑ति नियमो नेह प्रवर्तते, तत्रप्राक् सिता॑दित्यनवृत्तेः । अस्य चाऽप्राक्सितीयत्वात् । तेनाऽभ्यासस्य षत्वंपरिनिविभ्यः॑ इत्यनेन भवत्येव । न्यषवीदिति ।सिवादीनां वे॑ति विकल्पः । नृती । ईदित्करणंश्वीदित॑ इति निष्ठायामिण्निषेधार्थम् । यद्यपिसेऽसिची॑ति इटो विकल्पतत्वात्यस्य विभाषेऽत्यनेनैवेष्टं सिध्यति, तथापियस्य विभाषे॑त्यस्याऽनित्यत्वज्ञापनार्थमीदित्करणं, तेनदावितमिभराजधिया॑ इत्यादि सिद्धम् ।", "73033": "<<आतो युक् चिण्कृतोः>> - आतो युक् ।अचो ञ्णिती॑त्यतो ञ्णितीत्यनुवर्तते । तच्च कृतो विशेषणं न तु चिणः, तस्य णित्त्वेनाऽव्यभिचारात् । चिण्कृतोः किम् । चौडिः । बालाकिः । बाह्वादित्वादिञ् । ददौ । ञ्णितीति किं । पानीयम् । दानीयम् । अदायिषातामिति ।स्थाधवोरिच्चे॑त्येतद्बाधित्वा परत्वाच्चिण्वदिटि कृतेघुमास्थे॑ तीत्वं न भवति, अजादित्वात् ।स्थाध्वोरिच्चे॑त्यपि पुनर्न् भवति, अज्झलादित्वादित्याहुः । तेषामयमाशयः — इको झ॑लिति सूत्राज्झलनुवर्तते । तथा च झलादिरेव सिच् किन्न त्वयमिडादिः सिच् । एवं च तत्संनियोगशिष्टत्वादित्त्वमप्यत्र न भवतीति । वस्तुतस्तु सत्यपि तस्मिन्नेह काचित्क्षतिः- सिचः कित्त्वेऽप्यनिग्लक्षणाया अनिषेधात्अचो ञ्णिती॑ति वृद्ध्या रूपनिष्पत्तेः । आशीर्लिङीति । न तु लुङि । तत्र चिण्वद्भावात्आत्मनेपदेष्वन्यतस्यार॑मिति वधादेशस्यापि वैकल्पिकतया येन नाप्राप्तिन्यायऽभावादिति भावः । आर्धधातुके सीयुटीत्यादि । यद्यपिहनो वध लिङी॑ त्यत्रापि आर्धधातुकाधिकारादाद्र्धधातुके लिङीत्यपि समानं, तथापि लिङीति पदद्वयसाधारणं , सीयुट् तु आत्मनेपद एवेति विशेषविहितत्वमस्तीति भावः । अहसातामिति । चिण्वदिटोऽभावेहनः सि॑जिति कित्त्वात्,अनुदात्तोपदेशे॑ त्यनुनासिकलोपः । चिणि वधादेशस्य दृष्टत्वाच्चिण्वद्भावेन स्यादिषु प्राप्तिमाशङ्क्य परहरति — नचेत्यादिना । अदर्शिषातामिति ।न दृशः॑ इति क्सस्य निषेधादिह सिचि चिण्वदिट् । सिचः कित्त्वादिति ।लिङ्गिचावात्मनेपदेषु॑ इत्यनेन । लत्वमिति ।अचि विभाषे॑ति । गिरते रेफस्य ल्वे षट् । ढत्वमिति ।विभाषेटः॑ इत्यनेन । षण्णां ढत्वे द्वादश । द्वित्वत्रयं चेति ।अनचि चे॑ति । द्वादशानां मध्ये षण्णां ढस्य, षण्णां धस्य च द्वित्वे चतुर्विशतिः (२४) ।मय॑ इति पञ्चमीयण॑ इति षष्ठीति पक्षे वकारस्य द्वित्वे त्वष्टाचत्वारिंशत् (४८) । अनचि चे॑ति मकारस्य द्वित्वे षण्णवतिः (९६) । ढवमानामिति ।अचो रहाभ्या॑मिति द्वित्वे द्वयम् (२) । द्वयोरपि वस्ययणो मयः॑ इति द्वित्वे चत्वारि (४) । चतुर्णामपि मस्यअनचि च॑ इति द्वित्वे त्वष्टौ (८) ।", "73034": "<<नोदात्तोपदेशस्य मान्तस्यानाचमेः>> - नोदात्तोपदेशस्य । ञिति कृति — शमः । दमः । घञ् । णिति कृति शमकः । दमकः । ण्वुल् । उपदेशैति किम् । शमी ।दमी । इह घिनुणि कृते वज्र्यमानस्वरेण उदात्तत्वाऽभावान्निषेधो न स्यात् । कथं तर्हिहरेर्यदक्रामि पदैककेन खमिति श्रीहर्षप्रयोग इतिचेत् । अत्राहुः — निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिचि ततश्चिण् बोध्यः । तथा च णिचोऽकृत्त्वाद्वृद्धेर्न निषेधः ।मिता॑मिति ह्रस्वस्तु न भवति,वा चित्तविरागे॑ इत्यतो वेत्यनुवत्र्य व्यवस्थितविभाषाश्रयणादिति घटादावुक्तत्वात् । किं च ह्रस्वे जातेऽपि न क्षतिः,चिण्णमुलो॑रिति दीर्घविकल्पनादिति । कथमड उद्यमे यम उपरमे इति प्रयोगः । संज्ञापूर्वकविधेरनित्यवाद्वृरद्ध्यभाव इति ज्ञेम् । अथवा उद्यमोपरमशब्दौ घञर्थे कविधानाद्बोध्यौ । णिङूणिचोरप्येवमिति । णिङन्ताण्णिजन्ताद्वा कमश्चिणिणेरनिटी॑ति णिलोपे सति रूपं तुल्यमिति भावः ।", "73035": "<<जनिवध्योश्च>> - ञिति णिति कृति चेति । ञिति कृत्युदाहरणं घञि — जनः । णिति कृति तु — जनकः । जनयतीत्यत्रोपधावृद्धौ सत्यांजनीजृ॑षिति मित्त्वात्मितां ह्रस्वः॑ इति ह्रस्वः । रदीपी दीप्तौ । ईदत्त्वान्निष्ठायामिण्न । दीप्तः । एं पूरीत्यादेरीदित्त्वात्पूर्ण इत्यादि ज्ञेयम् । केचित्त्विति । तेषां मते ऐआर्ये तप्यते इत्येव प्रयोगो न तु तपतीति । न्यविक्षतेति । निपूर्वाद्विशतेर्लुङिशल इगुपधे॑ति क्सः ।नेर्विशः॑ इति तङ् । वाशृ शब्दे ।मन्दिवाशी॑त्युरच् । वाशुरा रात्रिः । तितिक्षायामिति ।गुप्तिज्किद्भ्यः॑ इति सन् । तत्र हितिजे क्षमाया॑मित्युक्तम् । ई शुचिर् । ईदित्त्वान्नेट् । शुक्तम् । क्लिन्नमित्यर्थः । ननद्धेति ।नहो धः॑ इति धत्वम् ।", "73036": "<<अर्त्तिह्रीब्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ>> - अर्तिह्यी । परत्वादन्तरङ्गत्वाच्च आदौ पुक्, पश्चाद्गुणः । अर्पयति । ह्येपयति । व्लेपयति । रेपयति । यलोपः । क्नोपयति । क्ष्मपयति । स्थापयति । चपयतीति । वर्णग्रहणे लक्षणप्रतिपदोक्तपरिभाषा न प्रवर्तते,आतोऽनुपसर्गे॑ इति कबाधनायह्वावामश्चे॑त्यारम्भादिति भावः । ज्ञपादिभ्य इति । मुख्यमते पञ्च ज्ञपादयः । मतान्तरे तु सप्त पूर्ण इत्येके । पुणेत्यन्ये इति । ईदृशेषु पाठशुद्धिनिर्णेतुमशक्या । अत एव क्षीरस्वामिनोक्तम् — ॒पाठेऽर्थे चागमभ्रंशान्महतामपि मोहतः । नविद्मः किं जहीमोऽत्र किमुपादद्महे वयम् । इति । पूलपूर्णादिषु पाठे भ्रंशः । पजधातोर्मार्गसंस्कारोऽर्थ उत संस्कार एवेत्यर्थे भ्रंशः । आगमभ्रंशात् -शास्त्रभ्रंशात् । चूर्ण संकोवने । प्रेरणे पठितस्य पुनः पाठोऽर्थभेदकृतः । मर्च चेति । क्वचिद्धातुपाठेऽस्याऽदृष्टत्वेऽपि नाऽयम प्रामाणिक इति मन्तव्यम् ।मिदचोऽन्त्यात्परः॑ इति सूत्रे कैयटेनाऽस्योपन्यस्तत्वात् ।मर्तो मर्तं मर्चयति द्वयेने॑ति प्रयोगदर्शनाच्च ।", "73037": "<<शाच्छासाह्वाव्यावेपां युक्>> - शास्छासा ।शो तनूकरणे॑ ।छो छेदने॑ ।षोऽन्तकर्मणि॑ ।ह्वेञ् स्पर्धायाम् ।व्येञ् संवरणे॑ ।वेञ् तन्तुसंताने॑ । पा पाने॑ ।लुग्विकरमाऽलुग्विकरणे॑ति परिभाषयापा रक्षणे॑ इति नेह गृह्रते । तस्य तु पालयतीति रूपमनुपदं वक्ष्यति । शाययति । अशीशयत् । छाययति । अचिच्छयत् । साययति । असीषयत् । ह्वाययति । अविह्वयत् । व्याययति । अविव्ययत् । वाययति । अवीवयत् । पाययति । अपीपयत् । इह शाच्छासादीनां कृतात्वानां निर्देशः पुकः प्राप्त ध्वनयितुम् । तत्प्रयोजनं त्वस्मिन्प्रकरणे लक्षमप्रतिपदोक्तपरिभाषाया अप्रवृत्तिः । तेन ध्यापयति, क्रापयतीत्यादि सिद्धम् ।", "73038": "<<वो विधूनने जुक्>> - वो विधू । लुग्विकरणाऽलुग्विकरणपरिभाषयाओवै शोषणे॑ इत्यस्यैव ग्रहणं न तुवा गतिगन्धनयो॑ रित्यस्य । लक्षणप्रतिपदोक्तपरिभाषा त्वस्मिन्प्रकरणे न प्रवर्तते इत्युक्तं प्राक् ।ओवै शोषणे॑ इत्यस्य रूपमिति वदन्वामनोऽप्यत्रानुकूलः । वज गताविति धातुना वाजयीति रूपे सिद्धे जुगागमस्य पुङ्ननिवृत्तिरेवेहापि फलम् । वातेरिति ।वायते॑ रिति वक्तुं युक्तम् । आत्वविधायकसूत्रं स्मारयति — विभाषा लीयतेरिति । लीयतेरिति यका निर्देशो नतु श्यना । अन्यथाविभाषा लीङ् इत्येवाक्ष्यत् । तेन लीलीङोरुभयोरप्यात्वं भवति ।", "73039": "<<लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने>> - लीलोः ।लीङ् श्लेषणे॑ दिवादिः ।ली श्लेषणे॑ क्र्यादिओः । लाग्रहणेनला आदाने॑ अदादिःष कृतात्वौ लीलीङौ च त्रयोऽपि गृह्यन्ते ।लीयते॑रिति औचित्यादिहापि यका निर्देश इत्युभयोरपि ग्रहणम् । न चनिरनुबन्धकग्रहणे न सानुबन्धकस्य ग्रहण॑मिति परिभाषया सूत्रेऽपि लीङो न ग्रहणमिति वाच्यम्, इयं हि परिभाषावामदेवाड्ङ्यड्डऔ॑ इत्यत्र डित्त्वेन ज्ञापिता । ज्ञापनं च उत्सर्गतः सजातीयापेक्षमिति प्रत्ययग्रहणविषयत्वमस्याः कल्प्यते । यथासदव्ययतव्यसमानाधिकरणेने॑त्यत्र तव्यस्यैव ग्रहणं न तु तव्यतः, अत एवजृब्राश्च्योः क्त्वी॑ति सूत्रे जृणातजीर्यत्योरुभयोग्र्रहणमिति न्यासकृतोक्तम् । अतोऽत्र लीलीङोग्र्रहणमिति सम्यगेव । न चैवंदिव औ॑दित्यत्र निरनुबन्धपरिभाषया दिविति प्रातिपदिकस्यैव ग्रहणं न तु धातोरिति ग्रन्थः कथं सङ्गच्छत इति वाच्यम्, उत्सर्गतः प्रत्ययग्रहणविषयत्वेन क्वचिदन्यत्रापि प्रवृत्तौ बाधकाऽभावादिति वदन्ति । विलीनयतीति । लीलीङोरिकारान्तयोर्नुकि रूपम् । विलाययतीति । नुगभावपक्षे तयोरेव रूपम् । विलालयतीति । लातेः कृतानुग्लुकोरभावादात्वपक्षे पुक् । आत्वाऽभावे तु वृद्ध्यादेशौ । प्रलम्भनेति । प्रलम्भनं वञ्चनम् । अशिति किम । लीयते । लिनाति ।", "73040": "<<भियो हेतुभये षुक्>> - ईकारान्तस्येति । तेन आत्वपक्षे भाययते इत्येव, न त्वत्र षुगित्यर्थः । करणादेव हीति । तथा च करणात्स्मये आत्वाऽभावेन पुद्गुर्लभ इति भावः । प्रयोज्यकत्र्रीति । यद्यपि प्रथमणिजर्थं प्रति मनुष्यवागेव प्रयोजिका, अतएव आत्वं प्रवृत्तं तथापि द्वितीयणिजर्थाभिप्रायेणेदमुक्तमिति मनोरमायाम् । केचित्तु प्रयोज्यस्य कत्र्री । प्रयोजककत्र्रीति यावदिति प्रथमणिजभिप्रायेणैवेदं सुयोजमित्याहुः । ण्यन्ताण्णाविति । राजा विस्मयते, तंमनुष्यवाग्विस्मापयते, तया सिंहो विस्मापयन्नित्यर्थः । एवं च प्रथमणिचि हेतुर्मनुष्यवागिति आत्वपुकावुपपन्नौ ।", "73041": "", "73042": "", "73043": "", "73044": "<<प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः>> - प्रत्ययस्थात्कात्पूर्वस्य ।का॑दित्यकार उच्चारणार्थः । व्यञ्जनमात्रं विवक्षितम् । अन्यथा एतिकाश्चरन्तीत्यादावकचि इत्वं न स्यात् । तत्र हि अकारविशिष्टककारस्य प्रत्ययस्थत्वाऽभावात् । न चाकच्यप्यकारान्तककार एल प्रत्ययस्थो भवतु,अतो गुणे॑इति पररूपे सत्येतिका इत्यादिरूपसिद्धेरिति वाच्यम्,पचतकी॑त्यादिवक्ष्यमाणरूपाऽसिद्धिप्रसङ्गादित्याशयेनाह — ककासादिति । वर्णनिर्देशे हि कारप्रत्ययो विहितः । क्वचित्समुदायात्प्रयोगस्तुउच्चैस्तरां वा वषट्कारः॑इत्यादिनिर्देशरूपत्रसाध्य इति भावः । आपि पर इति । एतच्चाऽकारविशेषणम् । तत्सामर्थ्यात्ककाराकाराभ्यां व्यवायेऽपि भवति, न तुपुत्रकाभ्या॒॑स्थकटये॑त्यादौ त्रिचतुरादिव्यवाये । अतएवसर्विके॑त्यादावाद्याकारस्य न भवति, तदेतदुक्तम् -अकारस्येकारः स्यादापि पर इति । यदि त्वापीति ककारविशेषणं स्यात्तर्हिरथकठए॑त्यादावतिप्रसङ्गः, व्यवहितस्यापि परत्वाऽपायात् । न च निर्दिष्टपरिभाया निस्तारः, अनुवादे परिभाषाणामित्यत्राऽनुवाद इत्यस्याऽनूद्यमानविशेषणेष्वित्यर्थाभ्युपगमात् ।कात्पूर्वस्यात् इ॑दित्यत्र हि॒अत॑इत्यनूद्येत्वविधानादनुवाद्यत्वमेवाऽत इत्यस्य, न त्वनूद्यमानविशेषणत्वम् ।का॑दित्यस्य त्वनूद्यमानविशेषणत्वं स्पष्टमेवेति न तत्र निर्दिष्टपरिभाषोपतिष्ठत इति वैषम्यात्ष । अनूद्यमानविशेषणे परिभाषा नोपतिष्ठत इत्येतत्उदिचामातः॑इति सूत्रस्थस्थाने ग्रहणेन ज्ञापयिष्यते । यदिअसुपः॑इति पर्युदासः स्यात्तर्हिबहुपरिव्राजका नगरी॑त्यत्रापि स्यादेव, उत्तरपदस्य सुबन्तत्वेऽपि समुदायस्याऽसुबन्तत्वात्ततः परष्टाबिति । तेनाऽत्रप्रसज्यप्रतिषेध इत्याह — स आप्सुपः परो न चेदिति । सुबन्तात्परो न चेदित्यर्थः । सर्विकेति ।अव्यय सर्वनाम्ना॑मित्यज्ञातार्थेऽकच् । कारिकेति । करोतेर्ण्वुल् । णित्त्वाद्वृद्धिः । नौकेति ।नौ॑शब्दात्स्वार्थे कः, ततष्टाप् । शकेति । शक्नोतीति विग्रहः । पचाद्यत् । ततष्टाप् । बहुपरिव्राजकेति । परिपूर्वद्व्रजेर्ण्वुल् । बहवः परिव्राजका यस्यामिति बहुव्रीहौ तदवयवस्य सुपो लुकि कृतेऽपि प्रत्ययलक्षणेनोत्तरपदस्य सुबन्तत्वाट्टापः सुबन्तात्परत्वमस्तीतीत्वमत्र न भवति । नन्दनेति ।नन्दीग्रही॑ति ल्युः । पूर्वस्य किमति । अर्थादेवेदं लभ्यते । टाबेकादेशे कृते परत्र ह्रस्वाऽकाराभावादिति प्रश्नः । इतरो निर्दिष्टपरिभाषया कात्पूर्वस्येति न लभ्यते, किंतु टाबेकादेशं बाधित्वा कात्परस्यैवाकारस्य स्यादित्याशयेनाह -परस्येत्यादि । कटुकेति । कटुरत्र कटुरसवति । आज्ञातादौ कः । वस्तुतस्तु सूत्रेप्रत्ययस्थे की॑ति सप्तमीनिर्देशमेव कृत्वापूर्वस्ये॑ति ग्रहणं सुत्यजमित्याहुः । राकेति ।कृदाधारार्चिकलिभ्यः कः॑ । बाहुलकादित्संज्ञाऽभावः । संज्ञापूर्वकविधेरनित्यत्वात्केऽणः॑इति ह्रस्वो न ।मामकनरकयोरुपसङ्ख्यानम् । मामकनरकयोरिति । ककारस्य प्रत्ययस्थत्वाभावादप्राप्ते वचनम् । मानिकेति । ममेयं मामिका ।युष्मदस्मदोरन्यतरस्यां खञ्चेत्यण्,तवकममकावेकवचने॑इति ममकादेशः, आदिवृद्धिः ।केवलमानके॑त्यादिनासंज्ञाछन्दसोरेवे॑ति नियमान्नङीप् । नरकेति ।कै शब्दे॑आदेच उपदेशे॑इत्यत्वम्,आतऽनुपसर्गे कः॑,आतो लोप इटि चे॑त्यलोपः टाप, इत्वम् । त्यक्त्यपोश्च ।उपसङ्ख्यान॑मित्यनुषज्यते ।उदीचामातः॑इति विकल्पापवादः । दाक्षिणात्यिकेति । दक्षिणस्यामदूरे दक्षिणा ।दक्षिणादाच्दक्षिणा भवेति विग्रहेदक्षिणापश्चात्पुरसस्त्यत्,किति च॑ इत्यादिना वृद्धिः, टाप् । ततोऽज्ञातार्थे कः ।केऽणः॑इति ह्रस्वः, टाप् । प्राचा तुदक्षिणस्यां दिशि भवे॑ति विगृहीतं, तच्च मनोरमायां दूषितम् । त्यग्विधावव्साहचर्यादाजन्तस्यैव दक्षैणाशब्दस्य ग्रहणात् । अन्यथा सर्वनाम्नो वृत्तिमात्रे पुंवद्भावापत्तेश्चेति । इहत्यिकेति ।अव्ययात्त्यप् ।", "73045": "<<न यासयोः>> - न यासयोः ।प्रत्ययस्था॑दिति प्राप्ते निषेधोऽयम् ।यासे॑ति यत्तदोरुपलक्षणमित्याशयेनाह -यत्तदोरिति । यका सकेति । यत्तदोरकच् । त्यदाद्यत्वे टाप् । स्वरूपस्यऽविवक्षायां फलमाह — यकां तकामिति । यद्यपिन यत्तदो॑रित्येव सूत्रयितुमुचितं, तथापि संनिपातपरिभाषाया अनित्यत्वज्ञापनार्थंन यस्यो॑रित्युक्तमित्याहुओः । वस्तुतस्तु [॒न]यत्तदो॑रित्युक्तेऽप्यनित्यत्वं सिध्यत्येव, अन्यथा अनयोरकारस्याप्परत्वं दुर्लभमिति किमनेन निषेधेनेति ।त्यकनश्च निषेधः । त्यकनश्च निषेध इति । ननुमृदस्तिक॑न्नितिवत्प्राक्रियालाघवायत्यिक॑न्निति वक्तव्येत्यक॑न्नित्यकारनिपर्देशसामर्थ्यादित्त्वाऽभावे सिद्धे किमनेन निषेधवचनेन । मैवम् । पञ्चभोरुपत्यकाभिः क्रीतःपञ्चोपत्यक॑इत्यादौ तद्धितलुकि रुआईप्रत्ययस्यापि लुक्यकारस्य श्रवणार्थत्वात्तस्य ।त्यिक॑न्नित्युक्ते हिपञ्चोपत्यिक॑इति स्यात्, इष्यते तुपञ्चोपत्यक॑इति । तस्मादावश्यकमेव निषेधवचनम् ।मृदस्तिक॑न्नित्यत्रापीकारोच्चारणं तद्धितलुकि श्रवणार्थं न तु प्रक्रीयालाघवार्थम् । अन्यथा पञ्चमिर्मृत्तिकाभिः क्रीत इतिआर्हा॑दिति ठकःअध्र्धपूर्वे॑ति लुकि कृतेलुक्तद्धितलुकी॑ति टापो लुकी निमित्ताऽभावात्प्रत्ययस्थादि॑तीत्त्वं न स्यात् — पञ्चमृत्तिक इत्यत्र । नच लुकः प्रागेवाऽन्तारङ्गत्वात्प्रत्ययस्थात् — ॑इतीत्त्वं सिध्यत्येवेति वाच्यम्,अन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधते॑इत्यभ्युपगमात् । अतएवसनीरुआंसते॑इत्यादौ नलोपाऽभावः सिध्यति । पञ्चभिः खट्वाभिः क्रीतःपञ्चखट्व॑इत्यादौ टापा सहैकादेशोऽपि न भवति, अन्यथा एकादेशस्यादिवद्भावाट्टाब्ग्रहणेन ग्रहणात्लुक्तद्धितलुकी॑त्यनुपसर्जनस्त्रीप्रत्ययस्य लुकि कृते अकारस्य श्रवणं न स्यात् । एतच्च भाष्यकैयटयोः स्पष्टम् । उपत्यकेति ।उपाधिभ्यां त्यकन्नासन्नारुढयोः॑ ।आशिषीति । आशीरर्थे विहितस्य वुन्प्रत्ययस्याऽत इत्त्वं न भवतीति वक्तव्यमित्यर्थः । जीवका । भवकेति । जीवताद्भवतादित्यर्थे जीवतिभवतिभ्यामाशिषि चे॑ति बुन्, तस्याऽकादेशे कृते टाप् ।उत्तरपदलोपे न । देवकेति देवदत्तशब्दात्स्वार्थिकः कः ।अनजादौ विभषा लोपो वक्तव्यः॑इति प्रागिवीयेषु वक्ष्यमाणत्वाद्द्वितीयादच ऊध्र्वस्य दत्तशब्दस्य लोपः । देवदत्तिकाशब्दस्योपन्यासस्तु दत्तलोपमभिव्यङ्क्तुं, तद्दभावे इत्त्वनिषेधाऽभावं च दर्शयितुम् ।क्षिपकादीनां च । क्षिपकादीनां चेति ।ने॑त्यनुषज्यते । क्षिपकेत्यादि । क्षिपेरिगुपधलक्षणः कः । एवंध्रुव स्थैर्ये॑इत्यस्मादपि कः । यद्वाध्रु गतिस्थैर्ययोः॑पचाद्यच् । कुटादित्वान्ङित्त्वेन गुणाऽभावे उवङ् ।चट भेदने॑पचाद्यच् । ततष्टाप् । अज्ञातादौ कः ।केऽणः॑इति ह्रस्वः । पुनष्टाप् ।तारका ज्योतिषि । तारकेतचि । तरतेर्ण्वुल् । अकादेशः । नक्षत्रं नेत्रकनीनिका च ज्योतिः ।प्रावारविशेषः ।वर्ण वर्णक्रियाविस्तारगुणवचनेषु॑इति चौरादिकाण्ण्वुल् । तन्तूनां विकारस्तान्तवम् । अन्यत्र वर्णिकेति । ग्रन्थविशेषस्य व्याख्या स्तोत्रकत्र्री च ।वर्तका शकुनौ प्राचाम् । वर्तकेति । वर्तयतीति वर्तका । शकुनावेव वाच्येऽयं विकल्पः, अन्यत्र नित्यमेवेत्त्वमिति बोध्यम् ।अष्टका पितृदेवत्ये । अष्टकेति । पतरश्च तचा देवताश्च पितृदेवताः । तदर्थं कर्म — पितृदैवत्यम् । देवतान्तात्तादर्थ्ये यत् । अश्रन्ति ब्राआहृणा यस्यां सा अष्टाका ।इष्यशिभ्यां तकन् । अष्टिकान्येति । अष्टौ परिमाणमस्याः ।सङ्ख्याया अतिशदन्तायाः कन् ।सूतकापुत्रिकावृन्दरकाणां वेतिवक्तव्यम् । सुतकेति । सूतशब्दात् स्वार्थे कन् ।वृन्दमस्यास्तीति मत्वर्थेशृङ्गवृन्दाभ्यां॑ मित्यारकन् । देवतावाचिवृन्दारकशब्दस्य पुंलिङ्गत्वेऽपि रूपिमुख्यवाचिनोः स्त्रीलिङ्गत्वं संभवत्येव, अतएवत्रिषूत्तरे॑इत्युपक्रम्यवृन्दारकौ रूपिमुख्यौ॑इत्यमरेणोक्तम् ।", "73046": "<<उदीचामातः स्थाने यकपूर्वायाः>> - उदीचाम् । यकौ पूर्वौ यस्याः सा । अर्थगतं स्त्रीत्वमाकारे आरोप्ययकपूर्वाया॑इति स्त्रीलिङ्गनिर्देशः । तेन स्त्रीप्रत्ययो लभ्यत इत्यह — स्त्रीप्रत्ययाऽकारस्येति । अत्रन यासयो॑रित्यतोने॑ति वर्तते । यकपूर्वस्य स्त्रीप्रत्ययाऽऽकारस्य स्थाने योऽकारस्तस्य कात्पूर्वस्योदीचां मते इत्त्वं नेत्यक्षरार्थः । एवं स्थिते फलितमाह -इद्वास्यादिति । एवमग्रेऽप्यूह्रम् ।षष्ठी स्थानेयोगे॑त्यनेनैव लब्धे सूत्रे स्थानग्रहणमनूद्यमानविशेषणेषु परिभाषानोपतिष्ठत, तदा औपगवीय इत्यादावेववृद्धाच्छः॑स्यात् नतुशलीयः॒॑मालीय॑इत्यादौ ।तत्र ह्राकारवृद्धेरिक्स्थानिकत्वाऽभावात् । तथाअतो गुणे॑इत्यत्रेक्परिभाषोपस्थितौएधे॒॑पचे॒॑यजे॑इत्यादावेव पररूपं स्यात् ।टित आत्मनेपदाना॑मिति इट एत्वे कृत्वे इक्स्थानिकत्वादेकारगुणस्य ।भवन्ती॒॑पचन्ती॑त्यादौ न स्यात्, तत्रेक्स्थानिकत्वाऽभावादकारगुणस्येत्यपि बोध्यम् । नव्यास्तु वृद्धाच्छं बाधित्वाअणृगयनादिभ्यः॑इत्यण्प्रत्ययो यथा स्यादित्येतदर्थभृगयनादिगणे व्याकरणशब्दः पठते । यद्यनूद्यमानविशेषणेषु परिभाषा उपतिष्ठेरन् तर्हि तत्पठनं व्यर्थं स्यात् । आकारवृद्धेरिक्स्थानिकत्वाऽभावने वृद्धसंज्ञाया अभावाच्छस्याऽप्रवृत्तेः । तथा च तस्मादेव पाठादुक्तार्थज्ञापनसंभवे स्थानेग्रहणमिह स्पष्टर्थमित्याहुः । साङ्काश्यिकेति । शङ्काशेन निर्वृत्तं नगरं साङ्काश्यं,वृञ्छ॑णादिसूत्रेणसङ्काशादिभ्योः ण्यः॑ । ततो भवार्थेधन्वयोपधाद्वुञ् । अकादेशः । स च साङ्काश्यभवां स्त्रियमाहेति तदकारस्यापि वैकल्पिकमित्त्वं स्यात्, तस्मादात इत्युक्तम् । अत्र वदन्ति — यथाऽयमकारो नाऽऽकारस्थानिकः, एवं स्त्रीप्रत्ययस्थानिकोऽपि नेति व्द्यङ्गविकलमेतत्,अके॑ति समुदायस्य स्त्रीवाचकवुञ्स्थानिकत्वेऽप्यकारमत्रस्याऽतथात्वात् । तस्मादात इति स्पष्टार्थमेवेति । शुभंया इति ।अन्येभ्योऽपि दृश्यते॑इति विच् ।शुभ॑मिति मान्तो निपातः ।धात्वन्तयकोस्तु नित्यम् । सुनयिकेत । सुष्ठु नयो यस्याः सा सुनया । ततः कः ।केऽणः॑इति ह्रस्वः । एवं सुष्ठु पाको यस्याः सा सुपाकिका ।", "73047": "<<भस्त्रैषाऽजाज्ञाद्वास्वानञ्पूर्वाणामपि>> - भस्त्रैषा । लुप्तषष्ठीकमिति । केचिदिहस्वाः॑इति च्छित्त्वा षष्ठ्याः स्थाने सौत्रत्वाद्द्दत्ययेन जसिति व्याचक्षते ।प्रत्ययस्थछादि॑त्यतोऽनुवर्तनादाह -अत इद्वा स्यादिति । ननुनञ्पूर्वाणामपी॑त्यपिशब्देन केवलानां सङ्ग्रहः क्रियते, नतु नञ्भिन्नपूर्वाणामपि । तथा चनिर्भस्त्रिके॑त्यादि न सिध्येदतस्तदन्तविधिरावश्यक इत्याशयेनाह — तदन्ताविधिनैवेत्यादि । आङ्गत्वादिति भावः । एवं चनञ्पूर्वामा॑मित्यस्य नियमार्थत्वशङ्का निरस्ता,निर्भस्त्रिके॑त्यादावव्याप्तिप्रसङ्गात् । अन्यस्य त्विति । अनुपसर्जनस्य तुअभाषितपुस्काच्चे॑त्यनेन सिद्धमित्यर्थः ।एतयोस्त्विति । भस्त्राजाज्ञास्वानां तु सपूर्वाणामपीत्वं भवत्येव । तत्र टापः कप्रत्ययात्परत्वेन सुपः परत्वाऽभावत्असुपः॑इति निषेधाऽप्रवृत्तेरिति भावः । सपूर्वयोरिति । पूर्वावयवसहितयोः । विद्यमानपूर्वपदकयोरिति यावत् । अन्तर्वर्तिनीमित्यादि ।न सु एतद् सु॑इति स्थितेऽकचि कृतेऽकचः प्रागेव वा नञ्तत्पुरुषे कृतेअन्तरङ्गानपी॑ति न्यायेन त्यदाद्यत्वप्रवृत्तेः प्रागेव सामासिके लुकि विशिष्टात्पुनः सुपि त्यदाद्यत्वे पररूपे च कृते ततष्टाप्, स च आप् सुपः पर इति भावः । अनेषकेति । अज्ञाता एषा एषका, न एषका अनषका, अज्ञाता अनेषा अनेषकेति वा लौकिकविग्रहोऽत्र बोध्यः । एवमग्रेऽप्यूह्रेम् । स्वशब्दस्यातो विशेषणमिति । यद्यपि हरदत्तग्रन्थेअत्रातः स्थान इत्येतत्स्वशब्दस्य विशेषण॑मित्युक्तं, तथापि तत्रस्वशब्दस्ये॑त्यनन्तरमत इति शेषो बोध्य इति भावः । अर्थान्तरे त्विति । आत्मज्ञातिधनेष्वित्यर्थः । नित्यमेवेति ।स्विके॑त्यादावकचि कृते आतः स्थानिकोऽकारोऽत्र दुर्लभ इति प्रकृतसूत्रस्याऽविषयत्वात्प्रत्ययस्था॑दिति नित्यमेवेत्त्वप्रवृत्तेः । एवं चहंसं तनौ संनिहितं चरन्तं मुनेर्मनोवृत्तिमिव स्विकाया॑मिति श्रीहर्षश्लोकेभस्त्रैषे॑ति वैकल्पिकमित्त्वमिति केषांचिद्व्याख्यानं नादर्तव्यमिति भावः । वस्तुतोहंसं तनौ -॑इति श्लोकेस्विकाया॑मिति प्रयोगोऽसाधुरेव । आत्मीयायां स्वशब्दस्य सर्वनामत्वात्स्याडागमपर्वृत्तेरिति नव्याः । प्रत्युदाहरणान्युक्त्वोदाहरणान्याह -निर्भस्त्रिकेत्यादि । निष्कान्ता भस्त्रयाः निर्भस्त्रा ।निरादयः क्रान्ताद्यर्थे पञ्चम्या॑इति समासः । उपसर्जनह्रस्वः । टाप् । ततोऽज्ञातादौ कः ।केऽणः॑इति ह्रस्वः । पुनष्टाप् । सूत्रेएषे॑ति विकृतनिर्देशो विवक्षितविषयो , न तुयासयोः॑इतिवदुपलक्षणमित्यभिप्रेत्याह -कृतषत्वनिर्देशादिति । इहाऽजाज्ञेति स्त्रीलिङ्गनिर्देशादजादयः स्त्रीलिङ्गः एव गृह्यन्ते, तेनेह विकल्पो न, शभ्रोऽजो यस्याः सा शुब्राआजिका । जानतीतिः ज्ञः ।इगुपधे॑ति कः । प्रियो ज्ञो यस्याः सा प्रियज्ञिकेति.निःस्वकेति । स्वस्या निष्कन्तेति विग्रहो, न त्विह स्विकस्या निष्कान्ततेति । तथात्वे ह्रुपसर्जनेऽपिनिः स्विके॑त्येकमेव रूपं स्यात्, आतः स्थानिकाऽकारस्य दुर्लभत्वेन प्रकृतसूत्राऽविषयत्वात् ।", "73048": "<<अभाषितपुंस्काच्च>> - अभषित । एतस्मादिति । नित्यस्त्रीलिङ्गादित्यर्थः । विहितविशेषणतया व्याख्यानस्य फलमाह -बहुव्रीहेरिति । ततो विहितस्य नित्यमिति । आवेद्यमाना खट्वा यस्याः साअखट्वे॑त्यत्रशेषद्विभाषे॑ति समासान्तस् कपो वैकल्पिकत्वात्कबभावपक्षेगोस्त्रियो॑रित्युपसर्जनह्रस्वे कृते पुनरखट्वशब्दाद्भाषितपुंस्काट्टापि सत्यज्ञातादौ कप्रत्ययेकेषणः॑इति ह्रस्वेऽस्य विकल्पस्याऽप्रवृत्तेःप्रत्ययस्था॑दित्युत्सर्ग एव पर्वर्तते, परविशेषणत्वे त्वयं विकल्पः स्यादेवेति भावः ।बहुव्रीहे॑रित्युपसर्जनोपलक्षणं, तेनाऽतिखट्विकेत्यादावपि नित्यमेव । विकल्प एवेति ।अखट्वे॑ति बहुव्रकीहौन सु खट्वा सु॑इति स्थितेसुपो धातु -॑इति सोर्लुक्यपसर्जनह्रस्वत्वं बाधित्वाशेषाद्विभाषे॑ति समासान्ते कपि परत्वात्कृते स्त्रीप्रत्ययान्तत्वाऽभावादुपसर्जनह्रस्वो न प्रवर्तते, किन्तुकेऽणः॑इति ह्रस्वस्यन कपि॑आपोऽन्यतरस्या॒मिति वैकल्पिकनिषेधात्पाक्षिकह्रस्वे सतिअभाषितपुंस्काच्चे॑ति विकल्पः प्रवर्तते । तत्र हि खट्वाशब्दात्परस्य टापोऽभाषितपुंस्काद्विहितत्वादिति भावः । ह्रस्वाऽभावपक्षे त्त्वखट्वाकेत्यतद्रूपान्तरम् ।", "73049": "", "73050": "", "73051": "<<इसुसुक्तान्तात् कः>> - इसुसुक्तान्तात् ।ता॑दित्युक्तेऽप्यङ्गविशेषणेनैव तान्तादिति लब्धेऽन्तग्रहणं प्रत्ययोपदेशकाले यस्तान्तस्तस्मात्परस्य ठस्य कादेशो न भवतीतिठस्येकः॑इति सूत्रे कैयटः । संनिपातपरिभाषयैव इकस्य कादेशो न स्यादित्यन्तग्रहणं त्युक्तं शक्यमित्यन्ये । उदइआदिति । आयतेः क्विपि तुक् ।उदकस्योदः॑इत्युदादेशः । इहैव निपातनात्संप्रसारणाऽभावः ।", "73052": "<<चजोः कु घिण्ण्यतोः>> - चजोः । यथासङ्ख्यं नेह विवक्षितं,तेन रक्तं रागात् इति लिङ्गादिति कैयटहरदत्तादिभिरुक्तं । तदालोच्याह — चस्य जस्य चेत्यादि । घिति ण्यति च चस्य कुत्वं,घिति ण्यति च जस्य कुत्वमिति विवेकः ।", "73053": "<<न्यङ्क्वादीनां च>> - न्यङ्कुरिति ।कृष्णसाररुरुन्यङ्कुरङ्कुशम्बररौहिषाः॑ इत्यमरः ।", "73054": "<<हो हन्तेर्ञ्णिन्नेषु>> - हन्तेर्हस्येति ।ञिति॑णिती॑त्येतद्धन्तेर्विशेषणम्,नकारे॑इति तुहस्ये॑ति यथासंभवं बोध्यम् । यद्वा ञिण्णिन्नाः सर्वेऽपि ह्यस्यैब विशेषणं । ञिति णितीत्यंशे येन नाव्यवधानन्यायेन द्वाभ्यां व्यवधानं स्वीक्रियते । तेघातः॒॑घातक॑इत्यत्र कुत्वं भवति । इह तु न भवति, हननमात्मन इच्छति हननीयति । हननीयतेर्ण्वुल् — ॒हननीयक॑इति । एतच्च भाष्यकैयटादौ स्पष्टम् ।", "73055": "", "73056": "<<हेरचङि>> - हेरचङि । जेघीयते । अचङीति किम् । अजीहयत् । इह ण्यन्तस्य धात्वन्तरत्वात्केवलस्य त्वभ्यासनिमित्तप्रत्ययपरत्वाभावात्कुत्वप्राप्तिरेव नास्तीत्यचङीति निषेधो व्यर्थः सन् ज्ञापयति — ण्यधिकस्यापि कुत्वं भवतीति । तेन जिघापयिषतीत्यादि सिद्धम् । आप्नुहीति । संयोगपूर्वत्वात्उतश्च प्रत्यया॑दिति हेर्लुङ् न ।", "73057": "<<सन्लिटोर्जेः>> - सँल्लिटोर्जेः । शंल्लिण्निमित्त इति । यदि तु सनि लिटि च परे योऽभ्यास इति प्राचो व्याख्यानमाद्रियेत तदायेन नाव्यवधान॑ न्यायेन प्रकृतिव्यवधानं सोठव्यमेव, परं तु यङ्लुगन्तात्सनि जेजयिषतीत्यत्र कुत्वं स्यात्, न च तन्माधवग्रन्थसंमतमिति भावः ।", "73058": "<<विभाषा चेः>> - विभाषा चेः ।चजो॑रिति सूत्रात्कुरनुवर्तते,सन्लिटोर्जे॑रित्यतः सन्लिटोरिति च । सन्युदाहरणं चिकीर्षति । चिचीषति । र", "73059": "<<न क्वादेः>> - गज्र्यमिति । गर्ज शब्देऋहलो॑रिति ण्यति चजोरिति कुत्वे प्राप्तेऽयं निषेधः । कुत्वं स्यादेवेति ।उदितो वे॑ति क्त्वायामिड्विकल्पात्यस्य विभाषे॑ति निष्ठायामनिट्त्वादिति भावः । विपरीतमिति । सूत्रकारमते ग्रुचुग्लुञ्चुप्रभृतीनांन क्वादे॑रिति कुत्वं न भवति,वार्तिकारमते तु निष्ठायामनिट्त्वात्चजो॑रिति कुत्वं भवतीति परस्परविरद्धमित्यर्थः । यथोत्तरमिति । तथाच वार्तिककानुरोधेन कुत्वं स्वीकर्तव्यमिति भावः ।", "73060": "<<अजिवृज्योश्च>> - समाज इति ।अज गतिक्षेपणयो॑रित्यस्माद्धञिचजो॑रिति कुत्वे प्राप्तेऽयं निषेधः । एवं व्रजेरपि ।", "73061": "", "73062": "<<प्रयाजानुयाजौ यज्ञाङ्गे>> - न्युब्ज इति । उब्ज आर्जवे । निपूर्वस्याऽस्यजस्य कुत्वाऽभावो,दस्य बकारो निपात्यते ।", "73063": "", "73064": "<<ओक उचः के>> - घञा सिद्धे इति ।उच समवाये॑ इत्यस्माद्धञिचजो॑रिति कुत्वे लघूपधगुणे चओक ॑ इति रूपं सिध्यति, परं तुञ्नित्यादिर्नित्य॑मित्याद्युदात्तत्वमनिष्टं स्यादिति भावः ।", "73065": "<<ण्य आवश्यके>> - ण्य आवश्यके । अवश्यंभाव - आवश्यकम् । मनोज्ञादित्वाद्वुञ् ।अव्ययानां भमात्रे टिलोपः॑ । अवश्यपाच्यमिति ।आवश्यकाधमण्र्ययोर्णिनिः॒॑कृत्याश्चे॑ति ण्यत् । आवश्यकशब्दोऽर्थद्योतनार्थो न तु प्रयोगार्थः । तेनाऽर्थप्रकरणादिगम्येऽपि तस्मिन् ण्यत्, कुत्वाऽभावश्च भवति । यथाअशोच्यानन्वशोचस्त्व॑मिति । केचित्तु -शोचितुमर्हाः शोच्याः, न शोच्या अशोच्या इति भगवद्गीतास्विदं व्याचक्षते, तच्चिन्त्यम् ।अर्हे कृत्यतृचश्चे॑ति ण्यतिचजोः॑ कुत्वप्रसङ्गात् ।चजो॑रिति कुत्वंनिष्ठायामनिटः॑ इति वार्तिकमते तु सम्यगेवेति दिक् ।", "73066": "<<यजयाचरुचप्रवचर्चश्च>> - यज । यज देवपूजादौ । टुयाचृ याच्ञायाम् । रुच दीप्तौ । प्रपूर्वो वच परिभाषणे । ऋच स्तुतौ । ग्रन्थविशेष इति । तथा च संज्ञेयमितिवचोऽशब्दसंज्ञाया॑मित्यस्याऽप्रसङ्गान्निषेधोऽयमिति भावः । ज्ञापकादिति । सरूपत्वाद्वासरपविधिना ण्यद्भवेदिति न शङ्कनीयमिति भावः ।", "73067": "<<वचोऽशब्दसंज्ञायाम्>> - वाक्यमिति ।तिङ्सुबन्तचयो वाक्यम् । भोज्यम् । भक्ष्यमिहाभ्यवहार्यमात्रं विवक्षितं, न तुखरविशदमभ्यवहार्थम् । तेन भोज्या यवागूरित्यपि भवतीत्याहुः ।", "73068": "", "73069": "<<भोज्यं भक्ष्ये>> - भोज्यम् । भक्ष्यमिहाभ्यवहार्यमात्रं विवक्षितं, नतु खरविशदमभ्यवहार्यम् ।तेन भोज्या यवागूरित्यपि भवतीत्याहुः । भोग्यमन्यदिति । पालनीयमुपभोग्यं चेत्यर्थः । * लपिदभिभ्यां चेति वक्तव्यम् । लपिदभिभ्यां चेति ।पोरदुपधा॑ दिति प्राप्तस्य यतोऽपवादः । जयादित्यस्तु — आसुयुवपरिपी॑ति सूत्रे लपं प्रक्षिप्यरपिलपित्रपी॑ति पठित्वाऽनुक्तसमुच्चयार्थेन चकारेण दभेः सङ्ग्रह इत्युक्तवान्,तत्र वैषम्येण व्याख्यानं निर्बीजं, भाष्यविरोधश्च स्पष्ट एवेति बोध्यम् । स्वीकार्य इति ।कास्यनेकाच आम्वक्तव्यश्चुलुम्पाद्यर्थ॑मिति वार्तिकबलाद्यथा चुलुम्पादिभ्य आम् स्वीक्रियते तद्वदिति भावः । तथा च प्रयुज्यतेनता नशन्ति न दभाति तस्करः॑ ,विष्णुर्गोपा अदाभ्यः॑ इत्यादि ।", "73070": "", "73071": "<<ओतः श्यनि>> - षोऽन्त । अन्तक्रम — नाशनम् ।राघव !स्य शरैर्गोरैर्घोरं रावणमाहवे॑ इति । राघवेति संबुद्ध्यन्तम् । स्येति लोण्मध्यमैकवचनम् । अभिष्यतीति ।उपसर्गात्सुनोती॑ति षत्वम् । अभ्यष्यदिति ।प्राक्सितादड्व्यवायेऽपी॑ति षत्वम् । अभिससाविति ।स्थादिषु॑ इति नियमान्न षत्वम् । दो अवखण्डने । अवेत्युपसर्गप्रयोगो वैचित्र्यार्थः, खण्डने इत्येतावत्युक्तेऽपीष्टसिद्धेः । प्रणिदातेति ।नेर्गदे॑ति णत्वम् । देयादिति ।एर्लिङी॑त्येत्त्वम् । अदादिति ।गातिस्थे॑ति सिचो लुक् ।", "73072": "<<क्सस्याचि>> - घुषि कान्तिकरणे । लुङि अघुंषिष्ट । अघुंषिषाताम् । अदुपधपाठे तु — अघषिष्ट । अघषिषाताम् ।", "73073": "<<लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये>> - दन्त्ये तङीति । दन्त्यादौ तङीत्यर्थः । अदुग्ध । अधुक्षत । अदिग्ध । अधिक्षत । अलीढ । अलिक्षतेत्यादि ।", "73074": "<<शमामष्टानां दीर्घः श्यनि>> - भ्रमु अनवस्थाने । शेषमिति । श्यनि दीर्घो लुङि अङ च विशेष उक्तस्ततोऽन्यदित्यर्थः । चक्षण्वेति ।म्वोश्चे॑ति मस्य नत्वे कृते णत्वम् । शमादिपाठ इति ।॒शमित्यष्टाभ्यो घिनुण् । शमादय इति । शमुतमुदमुश्रमुभ्रमुक्षमुक्लमुमद इत्यर्थः ।", "73075": "<<ष्ठिवुक्लम्याचमां शिति>> - ष्ठिवुक्लमु । ष्ठीवति । क्लामति । आङि चम इति ।ष्ठिवुक्लम्वाचमा॑मिति वृत्तिकारोक्तपाठोऽयुक्त इति भावः । जिमिं केचिदिति । तथा च जेमनमिति भोजने प्रयुञ्जते ।", "73076": "<<क्रमः परस्मैपदेषु>> - क्रमः ।ष्ठिवुक्लमुचमा॑मित्यतोऽनुवर्तनादाह-परस्मैपदे शतीति । परस्मैपदे किम् । उपक्रमते । पराक्रमते ।", "73077": "<<इषुगमियमां छः>> - जग्मतुरिति ।गमहने॑त्युपधालोपः ।", "73078": "<<पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः>> - पाघ्राध्मा । पा पाने । पा रक्षणे इति तु न गृह्रते, लुग्विकरणत्वात् ।द्रष्ट्रि॑ इति केषांचित्पाठस्तत्रसृजिदृशो॑रित्यम् । अर्तीत्यादौ ऋच्छादेशाद्यभाव इव सौत्रत्वात्पश्यादेशाऽभाव इति बोध्यम् ।दृश्यर्ती॑ति पाठस्तु निर्दुष्ट एव । पादीनामिति । एकादशानामेषां यथासङ्ख्यमेकादश- पिबाद्यादेशाः स्युरित्यर्थः ।ष्ठिवुक्लमुचमा॑मित्यतः शितीत्यनुवर्तते । स च कर्मधारय इत्यभिप्रेत्याह — इत्संज्ञकशकारादाविति । शकारादाविति किम् । पपे । जिघ्रे । दध्मे । शितीति बहुव्रीहिरित्यभ्युपगमे त्विह पिबाद्यादेशाः स्युरेव ।", "73079": "<<ज्ञाजनोर्जा>> - ज्ञाजनोर्जा । जानाति । शिति किम् । ज्ञाता ।ज॑ इति ह्रस्वोच्चारणेऽपिअतो दीर्घोयञी॑ति दीर्घे सिद्धे जाग्रहणमङ्गवृत्तपरिभाषाज्ञापनार्थम् । तेन पाधातोः पिबादेशे कृते गुणो न भवति, पिबादेशस्याऽदन्तत्वाश्रयणं तूपायान्तरमित्याहुः ।", "73080": "<<प्वादीनां ह्रस्वः>> - प्वादीनां ह्रस्वः ।ष्ठिवुक्लमुचमा॑मित्यतः शितीत्यनुवर्तत इत्याह — शिति पर इति । न लिङीति । अनेन वृत इटो लिङि दीर्घो नेति स्मारितम् । उदोष्ठ । दन्तोष्ठओऽपि ओष्ठग्रहणेन गृह्रत इत्याह — वूर्यादिति । वरिषीष्टेति ।लिङ्सिचोरात्मनेपदेषु॑ इति वेट् । वूर्षीष्ट । अवूर्ष्टेति ।उश्चे॑ति लिङ्सिचोः कित्त्वाद्गुणाऽभावे सत्युत्वम् ।", "73081": "", "73082": "<<मिदेर्गुणः>> - मिदेर्गुणः ।ष्ठिवुक्लमुचमा॑मित्यतः शितीत्यनुवर्तते । तत्र शश्चासौ इच्चेति कर्मदारयात्समप्तमी । अङ्गाक्षिप्तप्रत्ययस्तु विशेष्यः । तेनयस्मिन्विधि॑रिति तदादिविधिः प्रवर्तते । तदाह — इत्संज्ञकशकारादाविति । आदिशित्त्वाभावादिति । मेद्यति मेद्यत इत्यादौ तुदिवादिभ्य॑ इति श्यन आदिशित्त्वाद्गुणो भवत्येव । मिमिदे इति ।शिती॑ति बहुव्रीहौ त्विह स्यादेव गुणः । तथा पपे तस्थे इत्यादौ पिबादयोऽपि स्युरिति भावः । ञिष्विदा । अनिट्कारिकायां स्विद्यतिरिति श्यना निर्देशादयं सेट् । स्वेदिता । स्वेदिष्यते । ञिक्ष्विदा चेति । पूर्वोक्तयोरेवार्थयोरयमिति बोध्यम् । हरये इति ।रुच्यर्थाना॑मिति संप्रदानसंज्ञायां चतुर्थी । घुट् ।परिवर्तनम् — इतस्ततो भ्रमणम् । जुघुटे इति ।असंयोगा॑दिति कित्त्वाद्गुणाऽभावः । क्षुभ । संचलनं — प्रकृतिविपर्यासो,मन्थनं च । क्षोभते ।क्षुभ्यती॑ति दिवादौ ।क्षुभ्नाती॑ति क्र्यादौ । नारुआसदिति ।नारुआंस॑दित्यपपाठ एव । न चेदं लहो रूपं, तत्र परस्मैपदाऽसंभवादिति भावः ।", "73083": "<<जुसि च>> - जुसि च । चकारः स्पष्टप्रतिपत्त्यर्थः ।क्सस्याची॑त्यतोऽत्यतोऽचीत्यनुवर्तत इत्याह — अजादाविति । जागृयुरिति । एवं शृणुयुः चिनुयुरित्यादावपि गुणो नेति बोध्यम् ।यासुटो ङित्तवाच्छृणुयुरित्यादौ गुणो ने॑ति प्राचोक्तिस्तु मनोरमायां दूषिता,जुसि चे॑ति गुणस्य निषेधापवादत्वादिति । केचित्तु — ॒जुसि चे॑त्यत्र उसीत्यावर्त्त्यउरुआऊपे जुसी॑ति व्याख्यानान्नोक्तदोष इत्याहुः ।अजादौ जुसी॑ति समाधानं तु भाष्यारूढम् । जागर्तेः सिच इटि कृते यणादिप्राप्तिक्रमं दर्शयति — जागृ- इसित्यत्रेति.तत्र कृते इति । हलन्तलक्षणाया वृद्धेर्जागर्तिगुणेन बाधः, तेन गुणेनहलन्तत्वसंपादनात् । या हि गुणप्रवृत्तिसमये वृद्धिः सा बाध्यते नान्येति भावः । अजागरिष्टाम् । अजागरिषुः । अजागरीदित्यादि । दरिद्रा ।", "73084": "", "73085": "<<जाग्रोऽविचिण्णल्ङित्सु>> - जाग्रोऽविचिण्णल् । ङिद्भ्योऽन्यस्मिन्निति । जागृविः । विशब्देन वादिप्रत्ययो गृह्रते ।इकारस्तूच्चारणार्थ॑ इति वदतां मते क्वसावपि न भवति । जजागृवान् । जजागृवांसौ । चिण्- अजागारि । णल्- जजागार । ङित् — जागृतः । जागृथः । वृद्धिविषये इति । ण्वुलि — जागरकः । घञि — जागरः । णिचि — जागरयति । नचैतेषु गुणे कृतेऽपिअत उपधायाः॑ इति वृद्धिः स्यादिति वाच्यं, गुणविधेश्चिण्णल्प्रतिषेधस्य चाऽऽनर्थक्यापत्तेः ।", "73086": "<<पुगन्तलघूपधस्य च>> - अनेकव्यवहितस्येति । सार्वधातुकादिकमिको विशेषणं न त्वङ्गस्येति भावः॥", "73087": "<<नाभ्यस्तस्याचि पिति सार्वधातुके>> - नाभ्यस्तस्य । अभ्यस्तस्य । अभ्यस्तस्य किम् । द्वेषाणि । अचि किम् । वेवेष्टि । पिद्ग्रहणम्उतो वृद्धिर्लुकि हली॑त्युतरार्थम् । सार्वेति किम् । निनेज । बहुलं छन्दसीतीत्त्वमिति । एतच्च पूर्वोत्तरान्वयि । इयर्तीति । अभ्यासस्य इयङ्, अभ्यासादुत्तरस्य तु गुणः । इय्रतीति ।अदभ्यस्ता॑दित्यत् । अर्यादिति ।गुणोऽर्ती॑ति गुणः । आरदिति ।सर्तिशास्ती॑त्यङिऋदशोऽङी॑ति गुणः । बब्ध इति । तसस्तकारस्यझषस्तथो॑रिति धत्वम् । तुतूर्त इति ।हलि चे॑ति दीर्घः । धन धान्ये । धान्यार्जन इत्यर्थः । दधन्त इति । छान्दसत्वात्अनुनासिकस्ये॑ति नेह दीर्घ इत्याहुः ।", "73088": "<<भूसुवोस्तिङि>> - ॒षूझ् प्राणिगर्भविमोचने॑ । सुवतिसूयत्योस्तु न ग्रहणं, तिङो विकरणेन व्यवधानात् ।", "73089": "<<उतो वृद्धिर्लुकि हलि>> - उतो वृद्धिः ।नाभ्यस्तस्याचि पिती॑त्यतो निषेधानुवृत्तेराह — न त्वभ्यस्तस्येति । उतः किम् । एति । एषि । लुकीति किम् । सुनोति । जुहोति । हलि किम् । यवानि यवाव ।आडुत्तमस्ये॑त्याडागमः पित् । पिति किम् । युतः । रुतः ।नाभ्यस्तस्ये॑ति किम् । योयोति । रोरोति । सार्वधातुके किम् । यूयात् । न चाऽत्र ङिच्च पिन्नेति व्याख्यानान्निर्वाहः शङ्क्यः,किदाशिषी॑ति यासुटः कित्त्वात् । केचित्तु युयात् स्तुयादित्यादावपिङिच्च पिन्ने॑त्येतदानाश्रित्य व्याचक्षते । संज्ञापूर्वकविधेरनित्यत्वाद्वृद्धिर्न भवति । अन्यथाउत औ॑ दित्येव वदेदिति ।", "73090": "<<ऊर्णोतेर्विभाषा>> - ॒उतो वृद्धि॑रिति नित्ये प्राप्ते विभाषेयम् । हलादौ किम् । ऊर्णवानि । पिति किम् । ऊर्णुतः । सार्वधातुके किम् । ऊर्णूयात् । *ऊर्णोतेराम्नेति वाच्यम् । ऊर्णोतेराम्नेति ।ऊर्णोतेर्णुवद्भावो वाच्यः॑ इति वक्ष्यमाणस्य आमभावोऽपि फलमिति भावः ।", "73091": "<<गुणोऽपृक्ते>> - गुणोऽपृक्ते ।नाभ्यस्तस्याची॑त्यतःपिति सार्वधातुके॑ इति,उतो वृद्धिर्लुकि हली॑ त्यतो हलीति चानुवर्तते । तदाह - हलादावित्यादि ।", "73092": "<<तृणह इम्>> - तृणह इम् ।तृहू॑ इति वक्तव्ये सश्नमो ग्रहणं विशेषविहितेन इमा श्नमो बाधो माभूदित्येवमर्थम् । न च तौदादिकस्य तृह इत्यस्य व्यावृत्त्यर्थमेवास्त्विति शङ्क्यं, ततः परस्य हलादेः पितः सार्वधातुकस्य विकरणेन व्यवधानात् ।नाभ्यस्तस्याचि पिती॑त्यतः पितीति,उतो वृद्धि॑रित्यतो हलीति च वर्तते । तदाह — हलादौ पितीति ।प्रत्ययलोपे प्रत्ययलक्षण॑मिति सूत्रस्थभाष्यकारीयनिष्कर्षे तु हलीति नानुवर्तते, किं तु पितीत्यनुवर्तत एव । तेनतृण्ढ॑ इत्यत्र नातिप्रसङ्गः । नच हलीत्यनुवृत्तौ तृणहानीत्यत्रातिप्रसङ्ग इति वाच्यम्, अचि नेत्यनुवर्तनात् । उन्दी क्लेदनमाद्रीभावः । अञ्जू । व्यक्तिर्विवेचनम् । म्रक्षणं — स्निग्धता ।", "73093": "", "73094": "<<यङो वा>> - यङो वा ।नाभ्यस्तस्याची॑ति सूत्रात्पिति सार्वधातुक इति,॒उतो वृद्धि॑रित्यतो हलीति चानुवर्तते,ब्राउव ई॑डित्यत ईडिति च । तदेतदाह — यङन्तादित्यादि । यङो लुक्यपि प्रत्ययलक्षणेनाऽत्र यङन्तत्वम् । एतेन यङन्ताद्धलादिपित्सार्वधातुकं न संभवतीति यङ्शब्देन यङ्लुगन्तं लक्ष्यत इति व्याख्यानं परास्तम् । उक्तरीत्या यङन्तत्वानपायात् । किं च यङन्ताद्वलादिपिन्न संभवतीति यङ्शब्देन यङ्लुगन्ते लक्षितेऽपिसन्यङो॑रिति द्वित्वस्य यङन्ते चरितार्थतया यङ्लुगन्तलक्षणायां बीजाऽभावाद्यङ्लुकि द्वित्वाऽभावप्रसङ्गादिति दिक् । छन्दसि निपातनादिति । गुणनिषेधे सिद्धे निपातनमिदंछन्दस्येव गुणनिषेधो नाऽन्यत्रे॑ति नियमार्थमित्यर्थः । बोभूत्विति । समुदायस्याऽतिरिक्तत्वात्भूसुवो॑रिति गुणनिषेधो न प्राप्नोतीति निपातनमिदं न नियमार्थमित्याशङ्कायामाह — न चेत् । द्विः प्रयोग इति । तथा च प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणमित्येतन्न्यायसिद्धं, नाऽपूर्वं वचनमिति बावः । बोभुवतीति ।अदभ्यस्ता॑दित्यत् । बोभूवीदिति । केचिदिहभुवो वुगि॑ति सूत्रेओः सुपी॑त्यत ओरित्यनुवर्तते । तथा च उवर्णान्तस्य भुवो वुगित्यर्थाद्गुणे कृते वुकः प्राप्तिर्न#आस्तीत्यनित्यो वुक् । स च पराभ्यां गुणवृद्धिभ्यां बाध्यते । तेनाऽबोभवी॑दिति रूपमाहुः । तच्चिन्त्यम् ।भुवो वुको नित्यत्वा॑दिति भाष्याग्रन्थविरोधात् । तस्माद्वुको नित्यत्वमाश्रित्यइन्धिभवतिभ्यां चे॑ति सूत्रं प्रत्याख्यातवतो भाष्यकृत ओरित्यनुवर्तनसंमतमेव ।आत॑ इति नियमाज्जुसभावमाशङ्क्याह — अभ्यस्ताश्रय इति । अयं भावः — सिजभ्यस्ते॑ ति सूत्रेण सिचः परत्वमाश्रित्य यो जुस् प्राप्तस्तस्यैवाऽयं नियमो न त्वभ्यस्ताश्रयस्य जुस इति ।जुसि चे॑ति गुणमाशङ्क्याह - नित्यत्वाद्वुगिति । अबोभूविरिति । न चाऽत्र परत्वात्अदभ्यस्ता॑दित्यदादेशः स्यादिति वाच्यम्, अभ्यस्ताश्रयजुसोऽदादेशाऽपवादत्वात् । पास्पर्धीतीति । स्पर्ध संघर्षे ।दीर्घोऽकितः॑ इत्यभ्यासस्यदीर्घः ।यङो वे॑ति ईड्विकल्पः । ईडभापक्षेझषस्तथो॑रिति धत्वं,झरो झरि सवर्णे॑ इति वा धलोपः । लिटि — पास्पर्धाचकार । लुट — पास्पर्धिता । लृटि — पास्पर्द्धिष्यति । लोटि पास्पर्धीतु । पास्पर्द्धु । पास्पर्धात् । पास्पर्धाम् । पास्पर्धतु । पास्पद्र्धीति । हेर्धित्वे वा धलोपः । लङि इडागमपक्षे — अपास्पर्धीत् । रुत्वपक्षे इति । पक्षान्तरे तु अपास्पत् । अपास्दद्र्ध । लिङि — पास्पध्र्यात् । पास्पध्र्याताम् । पास्पध्र्यास्ताम् । लुङि — अस्तिसिचोऽपृक्ते॑ इति नित्यमीट् ।इट ईटी॑ति सलोपः । अपास्पर्धीति । अपास्पर्द्धिष्टाम् । अपास्पर्धिषुः । लृङि - अपास्पर्धिष्यत् । जागाद्धीति । गाधृ प्रतिष्ठादौ । ईट्पक्षे तु जागाधीति । जाघात्सीतिएकाच॑ इति भष्भावः । धस्य चर्त्वम् । लोटि — जागाधीतु । जागाद्धु । जागाद्धाम् । जागाधतु । लङि — अजगाधीत् । अजाघात् । अजागाद्धाम् । अजागाधुः । लुङि — अजागाधीत् । अजागाधिष्टाम् । नाथ नाधृ याच्ञादौ । नानात्तीति । ईट्पक्षे — दादधीति । लुङिअतो हलादे॑रिति वा वृद्धिः । चोस्कुन्दीति । स्कुदि । आप्रवणे ।इदितः॑ इति नुम् । ईडभावेझरो झरि सवर्णे॑ इति वा लोपः । लङि — ईट्पक्षे — अचोस्कुन्दीत् । लुङि तुअस्तिसिचः॑ इति नित्यमिट् । अचोस्कुन्दीत् । अचोस्कुन्दिष्टाम् । मोमुदीतीति । मुद हर्षे ।नाभ्यस्तस्याऽची॑ति लघूपधगुणनिषेधः । मोमोदितेति । न चाऽत्रन धातुलोप॑ इति गुणनिषेधः शङ्क्यः, बहुलग्रहणेन प्राप्तस्य यङ्लुकोऽनैमित्तिकत्वात् । लुङि गुण इति । सिज्निमित्तकोऽयं गुणस्तेननाभ्यस्तस्याची॑ति निषेधो न शङ्कनीय इति भावः । चोकूर्तीति । कुर्द खुर्द गुर्द गुद क्रीडायाम् । लङि तिपि ईट्पक्षे अचोकूर्दीत् । अचोखूर्दीत् । अचोगूर्दीत् । पक्षे अचोकूरिति ।दश्चे॑ति रुत्वपक्षे इत्यर्थः । वनीवञ्चीतीति । वञ्च गतौ ।नित्यं कौटिल्ये गतौ॑ इति यङ् ।नीग्वञ्चु॑ इत्यभ्यासस्य नीगागमः । यङो लुका लुप्तत्वान्न तदाश्रितो नलोपः । वनीवक्त इति । तसो ङित्त्वदिह स्यादेवअनिदिता॑मिति नलोपः । लोटि — वनीवञ्चीतु । वनीवङ्क्तु । वनीवक्तात् । वनीवक्ताम् । वनीवचतु । वनीवग्धि । वनीवञ्चानि । जह्गमीतीति ।नुगतोऽनुनासिकान्तस्ये॑ति नुक् । जङ्ग्मतीति ।गमहने॑त्युपधालोपः । अजङ्गन्निति । ईट्पक्षे त्वजङ्गमीत् । अजङ्गताम् । अजङ्ग्मुः । अजङ्गमीः । अजङ्गतम् । अजङ्गत । अजङ्गमम् । अजङ्गन्व । अजङ्गम । सामन्यापेक्षेति । अयं भावः — एकाच इत्यत्रैकाज्ग्रहणाद्यङ्लुकि द्विर्वचनं न कुत्रापि प्राप्नोति, तथा चगुणो यङ्लुको॑ इत्यभ्यासस्य विधीयमानो गुणो द्विर्वचनं विनानिवेशमलभमानः सन्श्तिपा शपा॑ इति सर्वेषामपि निषेधानां क्वचिद्यङलुक्यप्रवृतिंत ज्ञापयतीति । तथा च प्रयुज्यते — राजा वृत्रं जङ्घनत् इत्यादि । द्वित्वं तु न भवतीति । वध्यात् अवधीदित्यत्र कृतद्विर्वचनस्यहनो वध लिङि॑,लुङि च॑ इति वधादेशात्पुनर्द्वित्वं न भवतीत्यर्थः । तत्र हेतुमाह — स्थानिवत्त्वेनेति । आङ्पूर्वादिति । प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणादिति भावः । चञ्चूर्तीति । चरतिर्गतौ भक्षणे च ।चरफलोश्च॑ इत्यभ्यासस्य नुक् ।उतपरस्याऽतः॑ इत्युत्वम् ।हलि च॑ इति दीर्घः । अचञ्चूरित्यत्र तु पदान्तविषयत्वात्र्वोरुपधायाः॑ इति दीर्घः । चङ्खनीतीति । खनु अवदारणे । चङ्खात इति । यत्तु केचिद्धातुग्रहणेन कृतं कार्यं यङ्लुकि वेतिजनसने॑त्यात्वाऽभावेअनुनासिकस्य क्विझलोः॑ इति दीर्घोऽपि न भवति । क्विप्साहर्याद्धि झलादिः कृदेव तत्र गृह्रते न तु तिङित्यभ्युपेत्य चङ्खन्त इति रूपमाहुः, तदयुक्तम् । धातुग्रहणेन कृतस्य यङ्लुक्यप्रवृत्तौ मानाऽभावात् । सत्यपि प्रमाणे आत्वं वेति विकल्पोत्तया चङ्खात इति रूपं केन वार्यताम् । यच्चोक्तम्अनुनासिकस्य॑ इति सूत्रे क्विप्साहचर्याद्धि झलादिरपि कृदेव गृह्रत इति, तदप्युक्तमेव । यदि हि कृदेव क्विप्स्यात्तदा साहचर्योक्तिः सङ्गच्छेत । किं तु कृद्भिन्नोऽप्यस्त्येवाचारक्विप् । अतएव राजानति चर्माणतीत्यादौ माधवादिभिः क्विनिमित्तो दीर्घ उक्तः । चङ्खाहीति । हेरपित्त्वेन ङित्वात्जनसने॑ त्यात्वम् । अचङ्खानीदिति ।अतो हलादेः॑ इति वा वृद्धिः । जाहेतीत्यादि । हाङ्हाकोस्तुल्यानि र#ऊपाणि, ङित्त्वप्रयुक्तस्यात्मनेपदस्य यङ्लुक्यप्रवृत्तेः ।भृञामित् इति हाङ इत्त्वस्य श्लुनिमित्ताभ्यासस्यैव विहितत्वाच्च । नच अकितैति निषेधेन हाकोऽभ्यासस्य दीर्घो दुर्लभ इति कथमुभयोस्तुल्यरूपतेति शङ्क्यम्, अकित इत्यत्र हि न विद्यते किद्य्सयाभ्यासस्येति बहुव्रीहिराश्रीयते, तेनद्विः प्रयोगो द्विर्वचनं षाष्ठम् इत्यस्याऽभ्युपगमाद्धातोः कित्त्वे अभ्यासस्य कित्त्वेऽपि वनीवञ्चीतीत्यादाविव कित्त्वाऽभावान्न दोषः । किंच द्वित्वाऽभावे केवलस्यार्थवत्त्वेऽपि द्वित्वे सति समुदाय एवार्थवानिति हि सर्वसंमतम् । तथा कित्त्वमपि समुदायस्यैवास्तु न तु प्रत्यवयवमिति नास्त्येव दीर्घे प्रतिबन्धः । जाहीयादिति ।ई हल्यघोः॑ इतीत्वम् । लुका लुप्त इति । सर्वविधिभ्यो लुग्विधेर्बलीयस्त्वात् । अकृतव्यूहपरिभाषया च लुकः पूर्वं न शङ्क्यमेवेति भावः । उत्वं नेति । फलितार्थकथनमिदम् ।स्वपिस्यमि॑ इत्यादिना विधीयमानं यत्संप्रसारणं तन्नेत्यर्थः । असास्वापीदिति ।अतो हलादेः॑ — इति विकल्पेन वृद्धिः ।", "73095": "<<तुरुस्तुशम्यमः सार्वधातुके>> - ॒तुरुस्तु ।तुः सौत्रो धातु॑रिति वक्ष्यति । अपिदर्थमिति ।एभ्यः परस्य पितः सार्वधातुकस्ये॑ति प्राचो व्याख्यानं प्रामादिकं , रुवीतः स्तुवीत इत्याद्यसिद्ध्यापत्तेरिति भावः । शम्यमोरुदाहरणं तु शमीध्वम् । अभ्यमीति । अभ्यन्ति । शम्यमोश्छन्दसि विकरणस्य लुकि सति झलादिसार्वधातुकमनन्तरं संभवतीति काशिकायामुक्तम् । आपिशलास्तु — तुरुस्तुशम्यमः सार्वधातुके छन्दसी॑ति पठन्ति, तन्मते सूत्रमिदं छन्दस्येव ।", "73096": "<<अस्तिसिचोऽपृक्ते>> - अत्र प्राञ्चः — अस्तिश्च सिच्चेति समाहारद्वन्द्वे अस्तिसिच्, तस्मादिति विग्रहं मत्वा अस्तेः सिचश्च परस्येति व्याचख्युः । तच्चिन्त्यम् । तत्र समासान्तस्याऽनित्यत्वाश्रयणेद्वन्द्वाच्चुदषहान्ता॑दिति प्राप्तस्य टचः परिहारेऽपि,समुद्राभ्राद्धः॑इति निर्देशात्अल्पाच्तर॑मित्येतदनित्यमित्याश्रित्य सिच्छब्दस्य परत्वसमर्थेऽपि,अस्तेर्भू॑रिति भूभावस्य स्थानिवत्त्वेनाऽस्तितया तत्रापृक्तस्य हल ईडागमस्य दुर्वारत्वात् । तथा गातिस्थाघुपाभूभ्यः सिचो लुक्यपि स्थानिवद्भावेन सिचः पर्तवानपायादगादस्थादभूदित्यादावतिप्रसङ्गाच्च । तदेतद्ध्वनयन्व्याचष्टे — सिच्च अस् चेति । सौत्रं भत्वमिति । तेनाऽत्र कुत्वजश्त्वे न भवत इति भावः । विद्यमानादिति । सिचोऽस्तेश्च विद्यमानविशेषणेन लुप्तात्सिचः, कृतभूभावादस्तेश्च नेति भावः॥ भाष्यकारास्त्वाहुः — अस्तिसिचोऽपृक्ते॑ इति द्विसकारकोऽयं निर्देश इति । अत्र माधवः — अस् स् इति समुदायस्याऽधातुतयाइक्श्तिपौ धातुनिर्देशे॑ इति श्तिप् प्रत्ययो न स्यादिति । अत्र वदन्ति — द्विसकारकनिर्देशे श्तिप् न स्यादिति यदुक्तं, तद्रभसोक्तिमात्रम् । इत्थं हि भाष्याशयः — सिच इत्यस्यानन्तरं सकारः प्रश्लिष्यते न तु श्तिपः प्राक्, अत एवसिचोऽपृक्ते इति द्विसकारकोऽयं निर्देश॑ इत्युक्तं भाष्ये । अन्यथाअस्तीति निर्देशो द्विसकारक॑ इत्येव ब्राऊयात्, एवं च सान्तादस्तेः, सान्तात्सिचेति चार्थो निर्बाध एव । द्वितीयस्च सकारो लुप्यते,संयोगान्तस्य पदान्तस्ये॑ति व्याख्यानात्, व्यपदेशिवद्भावेन पदान्तत्वाद्वितीयसकारस्य । न च संयोगान्तलोपस्याऽसिद्धत्वात्अतो रो॑रित्युत्वं दुर्लभमिति वाच्यं,संयोगान्तलोपो रोरुत्वे॑ इति वार्तिकेनाऽसिद्धत्वनिषेधात् ।संयोगान्तां यत्पद॑मिति व्याख्याने तु नेह संयोगान्तलोपः, किंतु सकारद्व्यस्यापि रुत्वे कृतेअतो रो॑रित्यनेनैक एवोकारो भविष्यति, विधेयविशेषणस्यैकत्वस्य पओकत्ववद्ववक्षितत्वात् । न च स्थानिभेदेन उकारद्वये सत्यपि न क्षतिः, सवर्णदीर्घानन्तरमाद्गुणे सति समीहितरूपसिद्धेरिति वाच्यम्, एकपदाश्रयत्वेनाऽन्तरङ्गत्वादाद्गुणे पश्चादवादेशप्रवृत्त्याअस्तिसिचोऽपृक्ते॑ इति रूपाऽसिद्धेः, तस्मादुक्तरीत्या एक एवोकार इति स्वीकर्तव्यम् । अत एव विधेयगतैकत्वस्य विवक्षितत्वात्एकः पूर्वपरयो॑रित्यत्रैकग्रहणं भाष्यादौ प्रत्याख्यातम् । नन्वति परे यो रुः, स त्वत#ः परो न भवति, अतः परस्तु अतिपूर्वो न भवतीति रुद्वयस्थाने कथमुकारः स्यात् । मैवम् ।रो॑रिति जातिपरनिर्देशेनाऽतः परत्वस्य पूर्वत्वस्य च संभवात् । न चैवमपि परत्वात्हशि चे॑ति प्रथमस्यैव रोरुः स्यादिति वाच्यं, रुत्वस्याऽसिद्धतया हश्परत्वाऽभावात् । न चाश्रयाऽसिद्धत्वमिति वाच्यं, स्थान्यंशे तथात्वेऽपि निमित्तभूतहशंशे तदसंभवात् । यद्यपि सत्वजातेरेकत्वादुभयोरपि एक एव रुर्भवतीति व्याख्यायां नायं क्लेशस्तथापि रुत्वविधौ पदस्येत्यनुवर्तनादेकपदान्तत्वं न संभवति, द्वितीयसकारस्य पृथक्पदत्वादित्याहुः । अपृक्तस्य हल इति ।अपृक्तसार्वधातुकस्ये॑ति प्राचोक्तं त्युक्तम्, ऐधिषीत्यादावतिव्याप्तेः, सार्वधातुकग्रहमव्यावत्र्याऽलाभाच्च॥", "73097": "", "73098": "", "73099": "<<अड्गार्ग्यगालवयोः>> - प्रकृतिप्रत्ययेत्यादि । हलादिपित्सार्वधातुकाऽपृक्ताऽपेक्षत्वाच्च बहिरङ्गत्वमडीटोः । अरुदिति ।इरितो वे॑त्यङ् । अरोदीदिति ।अस्तिसिच॑ इति ईट् ।रुदश्चे॑ त्यनेन तु न, सिचा व्यवधानेन रुदादेः परत्वाऽभावात् । सुषुपतुरिति ।वचिस्वपी॑ति संप्रसारणम् । ततो द्वित्वम् ।", "73100": "<<अदः सर्वेषाम्>> - अदः सर्वेषाम् ।अङ्गाग्र्यगालवयोः॑ इत्यतोऽडित्यनुवर्तते । गाग्र्यगालवयोरित्यस्य् त्वनुवृत्ति शङ्कां निवारयितुं सर्वेषांग्रहणम् ।", "73101": "<<अतो दीर्घो यञि>> - ॒तुरुस्तुशम्यमः॑ इति सूत्रात्सार्वधातुक इत्यनुवर्तते । सार्वधातुके किं । केशवः अङ्गना ।अत आ॑ इति वक्तव्ये दीर्घग्रहणं दीर्घ एव यता स्यादित्येवमर्थम् । अन्यथाऽपाक्षीरोदनं देवदत्त !, ननु पचामि बोरित्यत्रानन्त्यस्यापि प्रश्नाख्यानयोरिति प्लुतः स्यात् । केचित्तु — अत आ॑ दिति सुवचं, तपरकरणसामर्थ्याद्विकारनिवृत्तिर्भवेदिति प्लुतस्याऽप्रसङ्गात्, उदात्तस्थाने उदात्त आकारः, अनुदात्तस्थानेऽनुदात्त आकार इत्यादि तुस्थानेऽन्तरतमः॑ इत्यनेनैव सिद्धम् । अत एववृषाकप्यग्नी॑ति सूत्रे वृषाकपिशब्दो मध्योदात्त एक एवोदात्तत्वं प्रयोजयति, अग्न्यादिषु तुस्थानेऽन्तरतमः॑ इत्येव सिद्धमिति मनोरमादावुक्तम् । ततश्च प्रयोजनाऽभावात्तपरकरणमनणि विध्यर्थमिति नाशह्कनीयमेव । यदि तुहल्ङ्याब्भ्यः॑ इत्यत्र आ-आबितिवत्,अत आ॑ इत्यत्रापि आ-आ इति प्रश्लेषः क्रियते तदा तपरकरणं विनापीष्टसिद्धिरत्याहुः॥प्रहासे चे॑ति सूत्रस्योदाहरणमाह — एहि मन्ये इति ।ओदनं भोक्ष्ये॑ इति त्वं मन्यस इत्यर्थः॥ एतम् एत वेति ।एतं मन्ये ओदनं भोक्ष्येथे॑,एत मन्ये ओदनं भोक्ष्यध्वे॑ इत्यन्वयः । भोक्ष्यावहे इति युवां मन्येथे, भोक्ष्यामह इति यूयं मन्यध्वे इति क्रमेणार्थः॥", "73102": "<<सुपि च>> - सुपि च ।यञी॑त्यनुवर्तते । अल्ग्रहणात्तदादिविधिरित्याह — यञादौ सुपीति । यञि किम् । रामः । अत इति किम् । अग्निभ्याम् ।", "73103": "<<बहुवचने झल्येत्>> - रामः । रामस्येति । यद्यपि रामस्येत्यत्र संनिपातरिभाषयाप्येत्त्वं सुपरिहरम्, तथापिअदः सर्वेषा॑मिति निर्देशादेत्त्वविधौ संनिपातपरिभाषा न प्रवर्तत इत्याशयेनोक्तमिति स्थितस्य गतिः समर्थनीया ।", "73104": "", "73105": "<<आङि चापः>> - आङि । चकारेणओसि चे॑ति प्रकृतं परामृश्यत इत्याह — — ओसि च पर इति । रमाभिरिति । नन्विह एकादेशस्य पूर्वान्तत्वेन ग्रहणादतो भिस एसित्यैस्प्राप्नोति । नच तपरत्वसामर्थ्यान्नैवमिति वाच्यम्, अकृतैकादेशेविश्चपाभि॑रित्यादौ कृतार्थत्वादिति चेन्मैवम्, अल्विधौ अन्तादिवच्चे त्यस्याऽप्रवृत्तेः ।", "73106": "<<सम्बुद्धौ च>> - संबुद्धौ च ।बहुवचने झल्येत्आङि चापः॑इत्यतएत्॒आप॑इति चानुवर्तते, तदाह -आप स्यादिति । एङ्ह्रस्वादिति । न चात्र हल्ङ्यादिनैध सुलोपोऽस्तु, प्रत्ययलक्षणन्यायेनसुबुद्धौ चे॑त्येत्त्वस्यापि प्रवृत्तिसंभवादिति शङ्कयं, परत्वाकत्प्रतिपदोक्तत्वच्च एत्त्वे कृते हल्ङ्यादिलोपस्याऽप्राप्तेः, स्थानवद्भावादाप्त्वेऽप्याकाररूपत्वाऽभावात् ।आ आ॑बित्याकारं पर्श्लिष्य दीर्घग्रहणस्य प्रत्याख्यानात् ।एङ्ह्रस्वा॑दिति लोपस्यैव परत्वेन न्याय्यत्वाच्चेति भावः ।", "73107": "<<अम्बाऽर्थनद्योर्ह्रस्वः>> - वर्णसंज्ञापक्षाश्रयेणाह -नद्यन्तानामिति । हे बहुश्रेयसीति । अत्र ह्रस्वबुधानसामर्थ्याद्गुणो न प्रवर्तते । अन्यथाअम्बार्थनद्योर्गुण॑इत्येव ब्राऊयात् । न च लाघवाऽभावः शङ्क्यः, ह्रस्वग्रहणे मात्राधिक्यात्,ह्रस्वस्यट गुणः॑इत्युत्तरसूत्रे गुणग्रहणत्यागेन सुतरां लाघवसंभवाच्च । अन्ये तु कृतेऽपि ह्रस्वे यदि गुण इष्टः स्यात्तर्हिअम्बार्थानां ह्रस्वः॑इत्युक्त्वानदीह्रस्वयोर्गुणः॑इत्येव ब्राऊयादित्याहुः । तत्र पदलाघवाऽभावेऽपि प्रक्रियालाघवमस्ति, परन्तुजसि च त्यत्र॑ह्रस्वस्ये॑त्येकदजाशानुवृत्तौ क्लेशोऽस्तीति बोध्यम् ।", "73108": "", "73109": "", "73110": "<<ऋतो ङिसर्वनामस्थानयोः>> - ऋतो ङि ।कृ॑तृ॑ एतयोरनुकरणे ऋकारान्ते गुणवारणाय तपरकरणमिति बोध्यम् ।अप्तृन् ।तुरिष्ठेमेयस्स्वि॑तिवृत्तृ इत्येवसिद्धे तृन्तृचोर्मभेदानोपादानंक्वचित्सामान्योक्तावपि विशेष एव गृह्रते॑इति ज्ञापनार्थन् । तेनन कापधायाः॑इत्यत्र सामान्योक्तावपि वुतद्धितयोरेव को गृह्रते, न कमात्रम् । तेन यदग्रे वक्ष्यतिकोपधप्रतषेधे तद्धितवुग्रहण॑मिति, तदुपपन्नं भवतीत्येके । अन्ये त्वाहुः — ॒अप्तृ॑ — इत्योव वक्तव्येतृन्तृ॑जिति भेदेनोपादानमर्वणस्तृव् ।यावृत्तये । यद्यप्यर्थवत्परिभाषाया तन्निवृत्तिः सिध्यति, तथापि तस्याः परिभाषाया अनित्यत्वज्ञापनाय तयोः पृथगुपादानम् । तेनअनिनस्मन्ग्रहणान्यर्थवता चानर्थकतेन त तदन्तविधिं पर्योजयन्ती॑ति सिद्धमिति । व्युत्पत्तिपक्षे तृन्नन्तत्वात्तृजन्तत्वाद्वा सिद्धे नप्त्रादिग्रहणं व्यर्थमित्यत आह — नियमार्थमिति । औणादिकानामन्यषां संज्ञाशब्दानां मा भूदित्येतदर्थमित्यर्थः । धातृशब्दस्त्वौणादिकः संज्ञाशब्दो न भवतीति तत्र दीर्घो भवत्येव । धातारौ । धातारः । अव्युत्पत्तिपक्षे तु नप्त्रादिग्रहणं विध्यर्थमिति पितृभ्रातृप्रभृतीनां दीर्घशङ्कैव नास्तीति बोध्यम् ।तेनेति । पितरौ । पितरः ।भ्रातरौ । भ्रातर इत्यादौ दीर्घे नेत्यर्थः । क्रोष्टेति । अनङ् । ह्ल्ङ्यादिलोपात्परत्वादुपधादीर्घः । स चसर्वनामस्थाने चे॑त्यनेन यद्यपि लभ्यते, तथापि परत्वात्अप्तृ॑न्नित्येवं न्याय्यः । कृतेऽप्यनङिएकदेशविकृतस्यानन्यत्वेन तृच्त्वात् । अन्यथा गुणे कृतेऽपिक्रोष्टारा॑वित्यादौ दीर्घे न स्यादिति भावः ।", "73111": "", "73112": "<<आण्नद्याः>> - आण्नद्यः ।आण्नद्याः॑इत्येव सुवचम्, विधानसमाथ्र्यात्अतो गुणे॑ इत्यस्याऽप्रवृत्तौ यथायथं वृद्धिसवर्णदीर्घाभ्यांबहुश्रेयस्यै॑बहुश्रेयस्या॑इत्यादिरूपसिद्धेः । ननुपरत्वादाटा नुङ् बाध्यते॑इत्युत्तरग्रन्थपर्यालोचनया ङेरामि कृते तस्य नुडागमनिवारणार्थमड्विधेरावश्यकत्वात्सामर्थ्यमुपक्षीमिति चेत्, एवं तर्हिह्रस्वनद्यापः॑इत्यन्तरंङेर्ने॑त्येव सूत्र्यतामामीत्यनुवृत्त्याङेरामो नुण्ने॑त्यर्थलाभात् । तस्मात्अण्नाद्याः॑इति विधानसामर्थ्यात्अतो गुणे॑इति न प्रवर्तते इति दिक् ।", "73113": "<<याडापः>> - याडापः ।घेर्ङिती॑त्यतोऽनुवृत्तंङिति॑ति सप्तम्यन्तमाप इति पञ्चम्यनुरोधेन षष्टन्तं विपरिणम्यत् इत्याह -ङिद्वचनस्येति । अत्रसुपि चे॑त्यतःसुपी॑त्यमुवर्तनात्सुप एव याट् । तेन अपित्सार्वधातुकस्य ङित्त्वेऽपि मालेवाचरतोमालात॑इत्यादौ तसादेर्न भवति । एतच्च अचः परस्मि॑न्नित्यत्र पूर्वस्यविधिः पूर्वविधिरिति षष्ठीसमासपक्षाभ्युपगमेनोक्तम् । पञ्चमीसमासपक्षाभ्युपगमे तु शपः स्थानिवत्त्वेन व्यवधानात्मालात्इत्यादौ याटः प्रसङ्ग एव नास्तीत्याहुः ।य॑डित्येव वक्तव्ये दीर्घोच्चारणं स्पष्टप्रतिपत्त्यर्थम् । न चअतो गुणे॑इति पररूपापत्तिः, अकारोच्चारणसामर्थ्यादेव तद्बाधात् । वृद्धिरेचीति । प्राचा तुआटश्चे॑त्युपन्यस्तंतदुपेक्षितम् । याट्स्याटोष्टकारस्य समुदायानुबन्धत्वेनेह आटोऽभावात् ।", "73114": "<<सर्वनाम्नः स्याड्ढ्रस्वश्च>> - सर्वनाम्नः स्याट् । दीर्घोच्चारणं प्राग्वत्स्पष्टपर्तिपत्त्यर्थाम् । आबन्तस्य सर्वादिगणे पाठाऽभावात्सर्वनामत्वं नेत्याशङ्क्याह -एकाजेशस्य पूर्वान्तत्वेनेति ।", "73115": "<<विभाषा द्वितीयातृतीयाभ्याम्>> - त्यक्तुं शक्यमिति । न चाबन्तस्य द्वितीयादिशब्दस्य तीयप्रत्ययान्तत्वाऽभावाद्विभाषा द्वितीयेति सूत्रमावश्यकमिति शङ्क्यम्, एकादेशस्य पूर्वान्तस्य द्वितीयादिशब्दस्य तीयप्रत्ययान्तात्वाऽभावाद्विभाषा द्वितीयेति सूत्रमावश्यकमिति शङ्क्यम्, एकादेशस्य पूर्वान्तत्वेन ग्रहणादाबन्तस्यापि तीयप्रत्ययान्तत्वात् । तीयस्येति । पुनंपुंसकार्थमवश्यं वक्तव्येनाऽनेनैव सिद्धौविभाषाद्वितीये॑ति सूत्रं न कर्तव्यमिति भावः ।॒अम्बार्थनद्योह्र्यस्वः॑ । अत्रअम्बार्थं द्व्यक्षरं यदी॑तचि वचनात् द्व्यच्कस्यैवाऽम्बार्थस्य ह्रस्वो भवति नान्येषामित्याशयेन फलितमाह — असंयुक्ता ये डलकास्तद्वतां ह्रस्वो न ।-असंयुक्ता ये डलका इत्यादि । जरेति ।जृष् वयोहाना॑वित्यास्मात्षिद्भिदादिभ्य इत्यादिऋद्दशोऽङी॑ति गुणे कृते टाप् । शीभावात्परत्वाज्जरसित्यादि । नुऔङ् आपः॑ह्रस्वनद्यापो नु॑डित्यापेक्ष्याजराया॑इति सूत्रस्य परत्वादस्त्वेवं, परन्तुआहि चापः॒॑याडापः॒॑ङेरा॑मिति विधयो जरसादेशं बाधित्वा परत्वात्स्युरिति चेदत्राहुः, — ॒आहि चापः॑इत्येकारादेशे कृतेऽप्येकदेशविकृतन्यायेनजरायाः॑इति जरसादेशप्रसक्त्या नित्यत्वादेकारादेशं बाधित्वा जरसादेश एव भवति । न चैकारादेशोऽपि नित्यएव, जरसादेशे कृतेऽपि स्थानिवत्त्वेनाबन्तत्वादङि चाप इति पर्वृत्तिरिति वाच्यम्,आकारारूपस्यैवापः सर्वत्र ग्रहणा ॑दित्यनुपदमेव वक्ष्यमाणत्वात्तदप्रवृत्तेः ।याडपः॑इति याडगमं तु जरसादेशोऽन्तरङ्गत्वाब्दाधते । आकाररूपादापः परस्य ङितः सुपो विहितस्य याटो बह्वाश्रयत्वेन बहिरङ्गत्वात् । ङेराममपि जरसादेशो नित्यत्वाब्दाधते । न चाकाररूपाबन्तात्परस्य ङेरामि कृते संनिपातपरिभाषया जरसादेशस्याऽप्रवृत्तेर्न तस्य नित्यतेति वाच्यम्, रूपमालायांजरसी॑इत्युक्तत्वादिष्टानुरोधेनोक्तपरिभाषाया अनित्यत्वाभ्युपगमे बाधकाऽभावादिति । स्वाश्रयमिति । यञादिसुबाश्रयं । तन्निमित्तकमित्यर्थः । यञादिसुप एव याडादमापादनात्स्वशब्देन तत्परामृश्यते । स्थानिवद्भानेवेति । न चैवं लक्षणिकत्वात्कथमिह याट् ल स्यादिति वाच्यम्, अतिदेशविषये लक्षणप्रतिपदोक्तपरिभाषायाः प्रवृत्तावतिदेशस्य वैयथ्र्यापत्तेः । अतो व्याचष्टे आबन्तं यदङ्गमिति ।यस्मात्प्रत्ययविधिस्तदादेस्तदन्तस्य ग्रहण॑मिति नियमादतिखट्वेति यदङ्गं तदाबन्तं न भवति, यच्चाबन्तंखट्वे॑ति, तदङ्गं न भवतीति नात्र #आडादमप्रसक्तिरिति भावः । अत्र नव्याः — प्रत्ययग्रहणे तदन्तग्रहण॑मित्याब्ग्रहणेनाबन्तं गृह्रते । अबन्तस्याङ्गविशेषणे त्वाबन्तान्तग्रहणदतिखट्वायेत्यत्रोक्तदोषतादवस्थमिति यद्युच्यते, तह्र्रङ्गेनाबन्तं विशेष्यताम् -॒अङ्गसंज्ञकं यदाबन्त॑मिति, तथै च नोक्तातिप्रसङ्गशङ्कालेश इत्याहुः । स्त्रीप्रत्यये तदादिनियमो नेत्याशङ्क्याह — उपसर्जमेति । अयं भावः — ॒स्त्रीप्रत्यये चानुपलर्जने ने॑त्यनुपसर्जनस्त्रीप्रत्यये तदादिनियमप्रतिषेधो वक्ष्यते न तूपसर्जनेऽपि । अतएव परमकारीषगन्धपुत्रवदतिकारीषगन्ध्यपुत्र इत्यत्रष्यङः संप्रसारणं पुत्रपत्योस्तत्पुरुषे॑इति संप्रसारणं न भवति । अतिकारीषगन्ध्यस्य हि ष्यहन्तत्वाऽभावात् । न चबहुश्रेयसी॑ — त्यत्रश्रेयसी॑त्युत्तरभागस्य ङ्यन्तत्वाद्य था हल्ङ्यादिलोपः प्रवर्तते तथा तत्राप्युत्तरभागस्य ष्यङन्तत्वात्संप्रसारणं स्यादेवेति शङ्क्यं, पूर्वपदस्य ष्यङन्तस्य पुत्रपत्योरुत्तचरपदयोः संप्रसारणमितिष्यङः संप्रसारण॑मित्यत्रैव वक्ष्यमाणत्वात् ।", "73116": "<<ङेराम्नद्याम्नीभ्यः>> - ङेराम् ।ङे॑रिति सप्तम्येकवचनस्य ग्रहणं,समानाधिकरणे॑स्त्रिया॑मित्यादिनिर्देशात् । आटा नुड्वाध्यत इति । आटि कृते तु पुनर्न पर्वर्तते ।सकृद्गतौ॑इति न्यायाश्रयणादिति भावः । न सुलोप इति ।लक्षेर्मुट् चे॑त्यैणादिक ईप्रत्ययान्तो लक्ष्मीशब्द इत्युपसर्जनह्रस्वोऽपि नेति बोध्यम् । कुमारीति । यद्यपि क्किबर्थं प्रति ङ्यन्तस्योपसर्जनरत्वाद्द्धस्तत्वं प्राप्तं,तथापिगोस्त्रियोः॑इत्यत्र कृत्रिमोपसर्जनत्वं गृह्रते न त्वप्रधानरूपमिति नात्र ह्रस्वः प्रवर्तते । अतएव हरीतक्याः फलानि हरीतक्य इत्यत्रापि ह्रस्वो न भवति ।लुक्तद्धितलुकी॑त्यत्र त्वप्रधानरूपमुपसर्जनमेव गृह्रते, नतु कृत्रिमोपसर्जनमसम्भवादिति वक्ष्यामः ।", "73117": "<<इदुद्भ्याम्>> - औत्त्वे प्राप्ते इति ।ङेरा॑मित्यपेक्षया परत्वादिति भावः । प्राचा तुऔ॑दिति सूत्रेइदुभ्द्याम्॒अच्च घे॑रिति पूर्वोत्तरसूत्रद्वयबललभ्यार्थमुपादायघिनदीसंज्ञावर्जिताभ्या॑मिति व्याख्यातम् ।इदुभ्द्या॑मिति सूत्रं च नोपन्यस्तमित्यसमज्जसमेतत् ।", "73118": "आत्। एतच्च सूत्रं नदीसंज्ञकेषु `इदुभ्द्या`मिति पूर्वसूत्रेण बाध्यते। घिसंज्ञकेषु `अच्च घे`रिति उत्तरसूत्रेण। तस्मात्संज्ञाद्वयशून्योऽस्य विषयः। न च तादृश उकारोऽस्तीत्यत आह-उकारनुवृत्तिरिति। प्राचा तु `घिनदीसंज्ञावर्जिताभ्यामिदुभ्द्यां परस्ये`त्युक्तम्?। तदसत्। तादृसत्। तादृशस्योरकारस्याप्रसिद्धेः। सुसखेति। प्रादिसमासे `राजाहः सखिभ्या`इति टचो `न पूजना`दिति निषेधः। `शेषो ध्यसखी`इत्यत्राऽसखीति नायं प्रसज्यप्रतिषधः, असमर्थसमासादिदोषापत्तेः, किं तु पर्युदास एवेति `सुसखी`त्यस्य सखिशब्दभिन्नत्वाद्धिसंज्ञा स्यादेव। न च समुदायस्य सखिशब्दभिन्नत्वेऽपि सखिशब्दान्तभिन्नत्वं नेति कथमसखीति निषेधाऽपर्वृत्तिरिति शङ्क्यम्। विशेष्याऽसंनिधानादसखीत्यत्र `येन विधिस्तदन्तस्ये`त्यस्याऽप्रवृत्तेः। तदेतत्साकलभिग्रेत्याह - समुदायस्येत्यादि। एवमतिसखेत्यत्रापि समासान्तनिषेधादिकं बोध्यम्। गौणत्वेऽपीति। `अतिदन्धे`त्यादावस्थ्याद्यनङ्वदिति भावः। तथा च `येन विधि`रिति सूत्रे `परमसखाया`विति बहुर्वीहिः, तत्पुरुषे हि टचा भाव्यमिति कैथटः। तथा `द्वितीया श्रिते`ति सूत्रे `सोमसखे`ति प्रतीकमुपादाय बहुव्रीहित्वान्न सम#आसान्त इति स एवाह। `अनुद्युक्षोवरुण इन्द्रसखा,` `अग्ने याहि मरुत्सखा`, `तीव्रं सोमं पिबति गोसखाय`मित्यादिप्रयोगाश्चैवमेव सङ्गच्छन्ते। तत्र [तु] बहुव्रीहिप्रयुक्तस्य पूर्वपदप्रकृतिस्वरस्य दर्शनेन गौणत्वात्। एतेन घिसंज्ञासूत्रे शोभनः सखा अस्य सुसखिरित्युदाहरन्तौ हरदत्तन्यासकारौ तदनुगामिनश्चान्ये उपेक्ष्याः। अनित्यत्वादिति। `शक्तिलाङ्गलाङ्कुशे`ति वार्तिके घटघटीग्रहणमत्र लिङ्गम्।", "73119": "<<औदच्च घेः>> - अच्च घेः । अत्र॒इदुद्भ्याम्,औ॑दितिडेरा॑मित्यतोङे॑रिति च पदत्रयमनुवर्तत इत्याशयेन व्याचष्टे-इदुद्भ्यां परस्य ङेरौत्स्यादिति ।घेरुत्तरस्ये॑ति प्राचां व्याख्यानमिह तु नोक्तम् । सूत्रेघे॑रित्यस्य षष्ठन्तत्वात्, तन्त्रावृत्त्यादौ च प्रमाणाऽभावात् ।ओ॑दिति पूर्वसूत्रेइदुभ्द्यामुत्तरस्य ङे॑रिति कॢप्तम्बन्धस्य त्यागाऽयोगाच्च । यत्तु व्याचख्युः — ॒अ॑दिति तपरत्वंबुद्धा॑ वित्यादावत्त्वे कृते स्त्रियां टाब्मा भूदित्येतदर्थमिति; । तच्चिन्त्यम् । तपरग्रहणाद्धि टापा सह दीर्घो मा भूट्टाप्तु स्यादेव, लक्षणद्वयबाधे मानाऽभाबात् । अतएवकृन्मजन्त॑इति सूत्रे भाष्यादौ संनिपातपरिभाषयापद्धता॑वित्यत्र टान्मेत्युक्तम्, टापा व्यवधाने ह्रानन्तर्यविघातः स्यादिति । तपकरणाट्टबभावे तु संनिपातपरिभाषेपन्यासस्तत्र विरुध्यते । यदपि व्याचख्युः — ॒औतस्तकारः स्परितार्थ॑इति, तदपि न ।स्तीर्णे बर्हिषि समिधाने अग्नौ॑ इत्यादौ स्वरितत्वाऽदर्शनात् ।न विभक्तौ इति सूत्रे ङे रौतस्तु तकार उच्चारणार्थो नेत्संज्ञक इति स्वयमेव उक्तत्वाच्च । तस्मादुभयत्र तपरकरणमुच्चारणार्थमेवेति मनोरमायां स्थितम् ।॑", "73120": "<<आङो नाऽस्त्रियाम्>> - आङो ना ।पुंसी॑ति तु नोक्तम्,अमुना कुलेने॑त्यत्र यथा स्यात् । न च नुमा रूपसिद्धिः, मुत्वास्याऽसिद्धत्वाइकोऽची॑ति नुमोऽप्रवृत्तेः । नादेशे तु नाऽसिद्धत्वम् ।न मुने॑ इति निषेधात् । नचन मु ने॑ इति निषेधो नुम्येव किं न स्यात्,-॒न॑ इत्यकारस्याऽविवक्षितत्वादिति वाच्यम्,अमुना घटेने॑त्याद्यसिद्ध्यापत्तेः ।अमुष्मै कुलाये॑त्यादौ नुम्प्रसङ्गाच्च । न च तत्रस्मायादेशे सति नुमोऽप्रवृत्तिरिति शङ्क्यं, स्मायादेशं बाधित्वा परत्वान्नुमः प्रवृत्तेः । प्राचामिति ।आचार्याणा॑मिति शेषः ।", "74001": "<<णौ चङ्युपधाया ह्रस्वः>> - उपधायाः किम् । अचकाङ्क्षत् ।", "74002": "<<नाग्लोपिशास्वृदिताम्>> - स्वाद इत्येके इति । अस्मिन्मते पूर्वत्राप्यास्वादः सकर्मकादिति पाठम् । ननु दीर्घपाठो व्यर्थः, ह्रस्वपाठेऽप्युपधावृद्ध्या स्वादयतीति रूपाणां तुल्यत्वादत आह - दीर्घस्य त्विति ।सः स्विदिस्वदिसहीनां चे॑ति सूत्रेण अभ्यासेणः परस्य सस्य सकारो न तु षत्वमिति वक्ष्यमाणत्वात्सन्नन्तेऽपि सिस्वादयिषतीत्यादि रूपं तुल्यमेवेत्यभिप्रेत्याह - असिस्वददिति । इत्यास्वदीयाः । आधृषाद्वा । व्याख्यानात्, योग्यताबलाद्वा णिजिति संबध्यते । अयौक्षीदिति । णिजभावपक्षे अनिट्कोऽयमिति भावः । ली द्रवीकरणे ।लिनातिलीयत्योर्यका निर्देश॑ इति भाष्यकारोक्त्याविभाषा लीयते॑रित्यात्वमिह न प्रवर्तत इति ध्वनयति — लेतेति । वरीतेति ।वृतो वे॑ति वा दीर्घः । लिङि — वूर्यात् । आत्मनेपदे तु वृषीष्ट । वरिषीष्ट ।लिङ्सिचोरात्मनेपदेषु॑ इति वेट् ।न लिङी॑ति इटो दीर्घनिषेधः । इडभावपक्षेउश्चे॑ति कित्त्वान्न गुणः । लुङि अवारीत् । अवारिष्टाम् । अवारिषुः ।सिचि च परस्मैपदेषु॑ इति दीर्घनिषेधः । आत्मनेपदे तु अवरिष्ठ । अवरीष्ट । इडभावे सिचो लोपः । अवृत । रिच ।णिजभावे अयमनिडित्याह — रेक्तेति । अशिक्षदिति ।शल इगुपधा॑दिति क्सः । तृप । अनिट्सु श्यना निर्देशादयं सेडिति ध्वनयति — तर्पितेति । छृदी । ईदित्वान्निष्ठायां नेट् । ऋवर्णान्नस्य णत्वम् । छृण्णः । छृण्णवान् । *धूञ्प्रीञोर्नुग्वक्तव्यः । ह्रस्वश्चेति । धुञ् कम्पने इत्यर्थः । अवाक्षीदिति ।अस्यतिवक्ती॑ति लुका निर्देशादङ् नेति भावः ।वचिस्वपी॑ति संप्रसारणम् । उच्यात् । धृष प्रसहने । केचित्त्वादितमाहुस्तन्मते धृष्टो, मुख्यमते तु धृषितः । नन्वत्रनिष्ठा शीङि॑त्यादिना सेण्निष्ठायाः कित्त्वनिषेधाद्गुणेन भाव्यमिति चेत् । अत्राहुः — आदित्साहचर्यादादित एव । ञिधृषेत्यस्य तत्र ग्रहणात् ।न च आदितो निष्टाया इड् दुर्लभ इति शङ्क्यं,विभाषा भावादिकर्मणो॑रिति तत्संभवादिति । इत्याधृषीया युजादयः । अथाऽदन्ता इति । वक्ष्यमाणेषु धातुषु अन्त्यावयवोऽकारो न तूच्चारणार्थ इत्यर्तः । स्थानिवत्त्वान्न वृद्धिरिति ।अचः परस्मिन् इति सूत्रेणेत्यर्थः । न च स्थानिनि सति यत्कार्यं तदेव स्थानवदित्यनेनातिदिश्यते नत्वादेशप्रयुक्तं वार्यते, अन्यथा नायक पावक इत्यादि न सिध्येदिति वृद्धिरत्र दुर्वारेति वाच्यम्,अचः परस्मिन् इत्यत्र स्थानिवदित्यनुवर्त्त्य शब्दाधिकारपक्षाश्रयेण भावाऽभावावुभावप्यतिदिश्यते इति सिद्धान्तात् । स्थानिनि सत्यभवन्त्या वृद्धेरादेशेऽप्यभावात् ।स्थानिनि सति यन्न भवति तदादेशेऽपि न भवती॑त्यत्र तुन पदान्ते॑ति सूत्रस्थलोपादिग्रहणमेव लिङ्गिमिति दिक् ।", "74003": "<<भ्राजभासभाषदीपजीवमीलपीडामन्यतरस्याम्>> - पृ पूरणे । दीर्घोच्चारणमित्यादि । पारयतीत्यादिरूपाणि ह्रस्वोच्चारणेऽपि सिध्यन्तीति परतीत्याद्यर्थं दीर्घोच्चारणमित्यर्थः । अत्र वदन्ति — धातुपाठकृता पाणिनिना विशिष्यैव उदात्ता अनुदात्ताश्च पठिताः,न हिऋकारान्ताः सेट्का॑ इति तेन परिभाषितं येनेत्थं तस्याशयः कल्प्येत । कविकल्पद्रुमे त्वस्य नित्यण्यन्तत्वमुक्तमिति । एवं चाऽस्मिन्पक्षे दीर्घोच्चारमं व्यर्थमिति फलितम् । अन्ये तु दीर्घोच्चारमं परिता परीत्येत्यादौवृतो वे॑ति इटो दीर्घविकल्पार्थम् । ततश्च णिज्विकल्पः सिद्ध एवेति परतीत्यादिरूपमाहुः । ऊर्ज । ऊर्जयति । बलवान्भवति । जीवति वेत्यर्थः ।", "74004": "<<लोपः पिबतेरीच्चाभ्यासस्य>> - अपीप्यदिति । उपधालोपस्य द्वित्वे कर्तव्ये प्रतिषेधात्कृते लोपे स्थानिवद्भावाद्वा पाय्शब्दस्य द्वित्वे हलादिः शेषे ईकारः । सच अनभ्यासविकार इति निषेधादन्त्यस्यादेशः । इहाऽग्लोपित्वादलघूपधत्वाच्च सन्वदित्त्वदीर्घयोरप्राप्तवित्त्वं विधीयते । व्लेपयतीत्यादि । व्ली वरणे । रीङ् क्षये । क्नूयी शब्दे उन्दे चाक्ष्मायी विधूनने ।", "74005": "<<तिष्ठतेरित्>> - तिष्ठतेरित् । तकारो मन्दप्रयोजनः । श्तिपा निर्देशो यङ्लुङ्निवृत्त्यर्थः । अतास्थपत् । लटि — तास्थापयतीति तास्थापेति ।", "74006": "<<जिघ्रतेर्वा>> - ॒उरृत् । चुरादौ व्याख्यातम् । अचिकीर्तदिति । ऋदादेशाऽभावपक्षेउपधायायश्चे॑तीत्वे रपरत्वम् ।उपधायां चे॑ति दीर्घः । * पातेर्णौ लुग्वक्तव्यः । पुकोऽपवाद इति । आदन्ततवात्पुकः प्राप्तिः । एवं च लुगागमस्य पुङ्निवृत्तिरेव फलम् ।पालयती॑ति रूपस्यपाल रक्षणे॑ इति धातुनापि सिद्धेरिति भावः ।", "74007": "<<उरृत्>> - उरृत् ।जिघ्रतेर्वे॑त्यतो वेति वर्तते । इररारामिति । ऋकारोपधे तुउपधायाश्चे॑त्यचीकृतदित्यादौ इर्प्राप्तः, अमीमृजदित्यत्रमृजेर्वृद्धिरार्प्राप्तः, इतरेषांमृदुपधानां गुणेन अपीपृथदित्यादावरिति विवेकः । नन्विह उरित्यनूद्यमानः सवर्णान् गृह्णाति, ऋदिति विधीयमानस्तु न गृह्णाति । तथा च अचीकॢपदित्यत्रउरृ॑दित्यनेन ऋवर्णे सति अचीकृपदिति प्रसज्येतेति चेत् । मैवम् । लत्वस्याऽसिद्धत्वेन प्रतमम्उरृ॑दित्यस्य प्रवृत्तौ पश्चात्कृपो रो लः॑ इत्यनेन ऋकारैकदेशस्यऌकारैकदेशविधानादिष्टसिद्धेः । न च चलीकॢप्यत इत्यादौ रीगागमादेर्लत्वार्थंकृपो रो लः॑ इत्य्सयावश्यकत्वेऽपि कृपूदातुःकॢपू सामर्थ्ये॑ इत्येव पठताम्, एवं हि प्रक्रियालाघवं लभ्यते, ऋकारैकदेशस्य ऌकारैकदेश इति व्याख्यानक्लेशोऽपि न भवतीति वाच्यम्, अचीकॢपदित्यत्रउऋ॑दित्यस्य प्रवृत्तावनिष्टरूपप्रसङ्गात् । कृपो रो लः॑ इत्यनेन ऋकारैकदेशस्यऌकारैकदेश इत्यभ्युपगमे तु उक्तव्याख्यानक्लेशध्रौव्यात् । [इदं च कैयटरीत्योक्तम् । नत्विदं क्षोदक्षमम्,ऋत उत् इत्यनेन तपरकरणेन ऌवर्णग्राहकत्वेरूपसिद्धेः स्पष्टत्वात्] अयं दोपध इति । टोपधत्वे त्वाटिट्टदिति स्यादिति भावः । शठ आठ । शाठयति । असंस्कृतो भवति, गच्छति वेत्यर्थः । स्माययत इति.आत्वं तु नेह भवति,नित्यं स्मयते॑रिति निर्देशेनस्मिङ् ईषद्धसने॑ इति भौवादिकादेव हेतुमण्णौ तद्विधानात् । श्रण दाने । विश्राणनं — वितरणम् । चुद संचोदने ।ण्यासश्रन्थः॑ इति युचि — चोदना । वज मार्ग । वाजयति । मार्गयति । केचित्तु मार्गेति न धात्वन्तरं किं तु वजेत्येक दातुर्मार्गसंस्कारे गतौ चेति व्याचख्युः । ज्ञप मिच्च । चाद्गत्यामत्येके । ज्ञपधातुर्णिचं लभते मित्संज्ञकश्चेत्यन्ये ज्ञाने ज्ञापने चेति ।प्रतिपज्ज्ञप्तिचेतनाः॑ । प्रच्छ ज्ञीप्सायामित्यत्र ज्ञाने,श्लाघह्नु॑ङिति सूत्रेज्ञीप्स्यमानो बोधयितुमिष्यमाण॑ इति व्याख्यायां ज्ञापने च प्रयोगदर्शनादिति भावः ।", "74008": "", "74009": "<<दयतेर्दिगि लिटि>> - दिग्यादेशेनेति । दयतेर्लिटि परे द्वित्वं प्राप्तं, दिग्यादेशश्च, तत्र विशेषविहितेन दिग्यादेशेन द्वित्वशास्त्रस्य बाधः, न चैवंप्यायः पी॑,चक्षिङः ख्या॑ञिति पीख्याञोरपि विशेषविहितत्वात्ताभ्यां द्वित्वबाधः स्यादिति वाच्यं, विषयसप्तमीमाश्रित्य लिडुत्पत्तेः प्रागेव तयोः प्रवृत्तत्वात् । दिग्यादेशविधौ तु लिटीति परसप्तम्येव, न तु विषयसप्तमी, लक्ष्यानुरोधात् । तदेत्सूचयति — इष्यत इति ।दयतेर्लिटि द्वित्वे प्राप्ते तद्बाधित्वा परत्वाद्दिग्यादेश॑इति तु नोक्तम् । परस्परलब्धावकाशयोरेव परस्य बलीयस्त्वात् । दिग्यादेसं विना द्वित्वस्य सावकाशत्वेऽपि द्वित्वं विना दिग्यादेशस्य तदभावादिति दिक् ।", "74010": "<<ऋतश्च संयोगादेर्गुणः>> - रीगृदुपधस्य च । ऋदिति किम् । चेकीत्र्यते । णिजभावपक्षे एकाच्त्वाद्यङ् ।", "74011": "<<ऋच्छत्यॄताम्>> - प्राग्वदिति । किदर्थमारब्धोऽपि गुणः परत्वाण्णल्यपि भवति । रपरत्वम् । तत उपधावृद्धिरित्यर्थः ।", "74012": "<<शृदॄप्रां ह्रस्वो वा>> - शृदृप्रां । शृ हिंसायाम् । दृ विदारणे । इमौ क्र्यादी । पक्षे गुण इति ।ऋच्छत्यृता॑मित्यनेन । पप्रतुरिति । ह्रस्वपक्षे यण् । ननु ह्रस्वग्रहणमिह मास्तु, गुणानुवृत्त्या तस्यैव विकल्पोऽस्तु । तथा च यणादेसेन पप्रतुः शश्रतुरित्यादि सिध्यत्येव । गुणपक्षेतु पपरतुः शशरतुरित्याद्यपि सिध्यतीति चेत्, मैवम् । गुणाऽभावपक्षेऋत इद्धातो॑ रितीत्त्वप्रसङ्गात् । न चान्तरङ्गत्वाद्यणेव स्यादिति वाच्यं, वार्णादाङ्गसय् बलीयस्त्वात् । डुभृढ् ।ड्वितः क्रिः॑ । भृत्रिमम् ।", "74013": "", "74014": "", "74015": "", "74016": "<<ऋदृशोऽङि गुणः>> - अदाङ्क्षीदिति ।वदव्रजे॑ति वृद्धिः । अदांष्टाम् । अदाङ्क्षुः ।", "74017": "", "74018": "<<श्वयतेरः>> - आयतेरः । अलोऽन्त्यपरिभाषालभ्यमाह — इकारस्येति । पररूपमिति । अतो लोपस्तु न भवति,आर्धधातुकोपदेशे यदकारान्त॑ मिति व्याख्यातत्वात् । इयङिति॥ लघूपधगुणापेक्षयाऽन्तरङ्गत्वादिति भावः । अआयीदिति । नन्विहान्तरङ्गत्वाद्गुणायादेशयोः कृतयोर्यान्तत्वादेव वृद्धिनिषेधो भवेदिति किमनेन णिइआग्रहणेनेति । चेत् । अत्राहुः -न सिच्यन्तरङ्गमस्ती॑ति ज्ञापनार्थं णिइआग्रहणम् । तेन चिरिणोतिजिरिणोत्योर्यङ्लुगन्तानां चिनीप्रभृतीनां च सिचि बहिरङ्गा वृद्धिरेव भवति । अचिरायीत् । अजिरायीत् । अचेचायीत् । अनेनायीदिति । तेनेति । उक्तं च वार्तिककृता — कास्यनेकाज्घणं चुलुम्पाद्यर्थ॑मिति । चुलुम्पतीति । लुम्पतीत्यर्थः, चुलुम्प लोपे इति कविकल्पद्रुमे उक्तत्वात् । इति तत्त्वबोधिन्यां भ्वादयः ।", "74019": "<<पतः पुम्>> - पतः पुम् । मित्त्वादन्त्यादचः परः । अक्वथीदिति । एदित्त्वान्न वृद्धिः । एवम् — अपथीत् । अमथीदित्यत्रापि । टुवम् । केचिदमुमुदितं पठित्वा वान्त्वा वमित्वेत्युदाहरन्ति , तत्तु वामनेन विरुध्यते । तेन हिआदितश्चे॑ति चकारस्यानुक्तसमुच्चयार्थत्वमाश्रित्यवान्त॑ इत्यत्र इडभावः साधितः । उदित्त्वे तुयस्य विभाषे॑त्येनेनैववान्त॑ इति सिद्धेस्तदसङ्गतं स्यात् । एवं च क्त्वाप्रत्यये वमित्वेत्येव साधु । निपातनादिति । अन्यथा गुणे सति उद्गरण इति स्यात् । यद्यपि अर्थनिर्देश आधुनिकस्तथापि पृषोदरादित्वमित्यत्रैव तात्पर्यं बोध्यत् । इत्याद्यप्युदाहृतमिति ।वेमुश्च केचिद्रुधिर॑ मित्यादिप्रयोगानुरोधेन तथोदाहृतमित्याहुः । ननु वादित्वेन निषेधादेत्त्वाब्यासलोपौ कथमिह स्यातामिति चेत् । अत्राहुः — न शसददवादिगुणाना॑मिति सूत्रितेऽपि वेत्यकारान्तसङ्घातग्रहणेनेष्टसिद्धेरादिग्रहणमौपदेशिकप्रतिपत्त्यर्थम् ।एकान्ता अनुबन्धा॑ इति च स्वीक्रियते । तथा च नायं वादिः, किं तु ट्वादिरिति । अन्ये तु वमेरादौलोपो व्यो॑रिति लोपेन यकारः प्रश्लिष्यते । ततश्चोपदेशे वादित्वाऽभावान्निषेधो नेत्याहुः । भ्रमु चलने । मण्डलाकारेण चलनमेव धात्वर्थो, न तु चलनमात्रम् । तदभाववद्विशेष्यकं तत्प्रकारकज्ञानं च धात्वर्थः ।शुकिंत पश्यन् रजतमिति भ्रमती॑ति प्रयोगात् ।उदितो वे॑ ति क्त्वायां वेट् । भ्रमित्वा । भ्रान्त्वा ।यस्य विभाषे॑ति निष्ठायां नेट् । भ्रान्तः । नन्वस्य ज्वलादिगणे पाठः किमर्थः । न चात्र णप्रत्ययार्थमेव पाठ इति वाच्यं, पचादेराकृतिगणत्वादच्प्रत्ययेनाऽपिभ्रम॑ इति रूपसिद्धेः,नोदात्तोपदेशस्ये॑ति वृद्धिनिषेधाण्णप्रत्यये अच्प्रत्यये च रूपस्य तुल्यत्वादिति चेत् । अत्राहुः- यदि पचादित्वादच्प्रत्ययः स्यात्तर्हिअभ्रम॑ इत्यत्रअच्कावशक्तौ॑ इति नञः परमन्तोदात्तं स्यात् । णप्रत्यये त्विहतत्पुरुषे तुल्यार्थे॑ त्याद्युदात्तमेव भवतीति ।", "74020": "", "74021": "<<शीङः सार्वधातुके गुणः>> - क्ङिति चेत्यस्येति । अन्यत्रसार्वधातुकाद्र्धधाततुकयो॑रित्यनेन सिद्धमिति भावः ।", "74022": "", "74023": "", "74024": "<<एतेर्लिङि>> - एतेर्लिङि । इहाद्र्धधातुक इति स्वरूपकथनार्थं प्रक्षिप्तम् । किति लिङीत्येतावतैवेष्टसिद्धेः । उभयत आश्रय इति । अन्तादिशब्दाववयवविशेषवाचिनौ । तत्र यदि पूर्वस्यावयवबुद्ध्या एकादेश आश्रीयते तदा तस्यैव परस्य कथमादिवद्भावः स्यात् । एवं परस्यादित्त्वात् पूर्वस्यान्तवद्भावो न स्यात्, एकस्योभयापेक्षया पारतन्त्र्यविरोधादिति भावः । नन्वेवं रामौ इत्यस्यसुप्तिङन्त॑मिति पदत्वं न स्यात्, परादित्वे रामेति प्रकृतेरभावात् ।यस्मादत्प्रत्ययविधिस्तदादेस्तदन्तस्य ग्रहण॑मिति स्वीकाराद्रामित्यस्याऽप्रकृतित्वात् । पूर्वान्तत्वे तु परत्र प्रत्ययाऽभावात् । अत्राहुः — पूर्वं पदसंज्ञा पश्चादेकादेश इति नोक्तदोषः । इह च ज्ञापकं [तु]सुपिसूतिसमाः॑ इति । विध्यादौ समीयादिति न भवत्येव । आशीर्लिङि तुअकृत्सार्वे॑ति दीर्घे कृतेऽपि ह्रस्वत्वेन भाव्यमित्याङक्याह - समीयादिति प्रयोगस्तु भौवादकस्येति ।इटकटी॑त्यत्र प्रश्लिष्टस्य इधातोराशीर्लिङि इदं रूपम् ।वीगती॑त्यत्र ईकारोऽपि धात्वन्तरं प्रश्लिष्यते इति मते तु विध्यादिलिडपि भवत्येवेति बोध्यम् ।", "74025": "<<अकृत्सार्वधातुकयोर्दीर्घः>> - दीर्घग्रहणेनअचश्चे॑ति परिभाषोपस्थानादाह — अजन्तेति । यादौ प्रत्यय इति ।अयङ् यि क्ङिती॑त्यतो यीत्यनुवर्त्त्यं अङ्गाक्षिप्तप्रत्ययस्तेन विशेष्यते, विशेषणेन तदादिविधिः ।यस्मिन्विधि॑रिति परिभाषोपस्थानादिति भावः । न त्विति । कृद्यकारे — प्रकृत्य । प्रह्मत्य । उच्चैः कृत्य । तुकं बाधित्वापरत्वाद्दीर्घः स्यात् । तुग्विधिस्तु — अग्निचित् । सोमसुदित्यादौ चरितार्थः । ल्यपः पित्त्वमप्यनुदात्तार्थकतया चरितार्थमित्याहुः । सार्वधातुकयकारे तु — चिनुयात् । सुनुयात् । कृजिनेति । अर्थैक्यादेकत्र पाठ उचित इति भावः । लज लजि । लज्यात् । लञ्ज्यात् । लज प्रकाशने इति कथादौ । भत्र्सने चेति । चाद्भर्जने । तुजि पालने । भाषार्थोऽयं युजादौ । गज गजि ।गञ्जा तु मदिरागृहम् । गज मदने च । मदनं — मदः - चित्तविकारः । वज व्रज । वादित्वादेत्वाभ्यासलोपौ न । ववजतुः । वव्रजतुः । शाडन्ता इति ।शाडृ श्लाघाया॑मित्यन्ता इत्यर्थः । दोपधोऽयमिति । तथा च ष्टुत्वशास्त्रस्याऽसिद्धत्वाटन्न न्द्राःर॑ इति द्वित्वनिषेधेन दकारं विहाय टिशब्दस्य द्वित्वे पश्चाद्दकारस्य ष्टुत्वे च अट्टिटिषते आट्टिटदित्यादि सिध्यति । टोपधत्वे तु अटिट्टिषते । आटिट्टदिति स्यादिति भावः । तोपध इति । अस्मस्तु पक्षे — अतिट्टिषते आतिट्टदित्यादि बोध्यम् । हलादिः शेषेण टकारनिवृत्तौ तननिमित्तस्यापि ष्टुत्वस्य निवृत्तत्वादिति नव्याः । मनोरमायां तुपूर्वत्रासिद्धीयमद्विर्वचने॑ इति ष्टुत्वस्याऽसिद्धत्वाऽभावट्टकारद्वयसहितस्य द्वित्वे हलादिः शेषे अटिट्टिषते आटिट्टदित्यादि सिध्यतीत्युक्तम् ।निमित्ताऽपाये नैमित्तिकस्याप्यपायः॑ इति त्विनित्यमिति तदाशयः । आनट्टे इति । इहन न्द्राः॑ इति निषेधो न, तत्र द्वितीयस्येत्यनुवर्तनाद्द्वितीयैकाच एव नदराणां निषेधात् । घट्ट चलने । अयं चुरादावपि । स्फुट । अयं कुटादावपि । आनण्ठे इति ।तस्मान्नुड् द्विहलः॑ । इति नुट् । वण्ठते इति । सहायं विना चरतीत्यर्थः । मडि च । पृथक्पाठसामर्थ्यादयं वेष्टनेऽपीत्याहुः ।मडि भूषाया॑मित्यग्रे परस्मैपदिषु । भडि ।यः सनिन्द उपालम्भस्तत्र स्यात्परिभाषण॑मित्यमरः । शडि ।शण्डोऽसुरपुरोहितः॑ । दाड्ट । विशरणम् — अवयवविभागः । शाड्ट । डलयोरैक्यात्शालते॑ इति काश्यपः । शौट्ट गर्वे । अस्योणादुषु ईरन्वक्ष्यते ।तदेतदतिशौटीर्यमौडुलोमेर्न मृष्यति॑ इति कल्पतरुः । कटे ।", "74026": "", "74027": "<<रीङ् ऋतः>> - रीङृतः । अङ्गवृत्तपरिभाषयाअकृत्सार्वे॑ति दीर्घो न प्रवर्तत इति दीर्घग्रहणमित्याहुः । यस्येति चेति ।पित्रीयती॑त्यत्र रूङ्विधिः सावकाश इति भावः । उषस्यमिति उषस्शब्दः स्त्रीलिङ्गो दिवो दुहितरं देवतां ब्रावीति ।", "74028": "<<रिङ् शयग्लिङ्क्षु>> - लिङ् शयग्लिङ्क्षु ।अयङ् यि क्ङिती॑त्यतोऽनुवृत्तं यीत्येतल्लिङ एव विशेषणं, सेऽसंभवात् । यकि तु वैयथ्र्यात् । तथाअकृत्सार्वधातुकयो॑ रित्यनुवृत्तमपि लिङ एव विशेषणमित्यभिप्रेत्याह - यादावित्यादि । शे — म्रियते ।तुदादिभ्य॑ इतिशः । यकि — क्रियते । म्रियते ।", "74029": "", "74030": "यङि च। इह `गुणोऽर्तिसंयोगाद्यो`रित्येतत्सर्वमप्यनुवर्तते। यकारपररेफस्येति। यदि भाष्योदाहरणं सामान्यापेक्षं ज्ञापकं स्यात्तदाऽर्यमाख्यत् आरर्यदित्यादि सिध्यति।", "74031": "<<ई घ्राध्मोः>> - ई घ्माध्मोः । दीर्घोच्चारणं प्राग्वत् । जेघ्रीतः [वस्तुतस्तु]अस्य च्वौ॑ इत्याद्यर्थ दीर्घग्रहणमिति तु सुवचम् । शाशय्यते इति । परत्वादन्तरङगत्वाच्चाऽयङादेशे कृते द्वित्वम् ।इति तत्त्वबोधिन्यां यङन्तक्रिया ।अथ यङ्लुगन्तप्रक्रिया ।", "74032": "<<अस्य च्वौ>> - सम्पद्यकर्तरीति । सम्पद्यश्चासौकर्ता चेति विग्रहः ।पाघ्राध्माधेट्दृशः शः॑इति विहितः शप्रत्ययोऽस्मादेव निपातनात्सम्पदोऽपि भवति । दिवादित्वाच्छ्यनिति हरदत्तः । वक्तव्यमिति । वृत्तिकारस्तुअभूततद्भावे॑इति सूत्रमध्ये प्चिक्षेप । भ्रान्तत्वादिति ।अव्ययस्य च्वावीत्वं नेति वाच्यम् । च्व्यन्तत्वादिति । तस्य निपातत्वात्स्वारादिनिपातमव्यय॑मित्यनेनेत्यर्थः ।", "74033": "<<यङि च>> - यङि च । इहगुणोऽर्तिसंयोगाद्यो॑रित्येतत्सर्वमप्यनुवर्तते । यकारपररेफस्येति । यदि भाष्योदाहरणं सामान्यापेक्षं ज्ञापकं स्यात्तदाऽर्यमाख्यत् आरर्यदित्यादि सिध्यति ।", "74034": "<<अशनायोदन्यधनाया बुभुक्षापिपासागर्द्धेषु>> - अशनायोदन्य । क्यजन्ता इति । उदकशब्दस्योदन्भावोऽन्ययोर्दीर्घ इत्यपि ज्ञेयम् । इह यः सद्यएव भोक्तुमशनमिच्छति, यश्च पातुमुदकं, यश्च धने सत्यपि पुनर्धनं — तत्रोदाहरणानि । यस्तु कालान्तरोपयोगार्थमशनमिच्छति, यश्च स्नातुमुदकं,यश्च दरिद्रः सन् धनमिच्छति तत्र प्रत्युदाहरणानि । नुउदन्या तु पिपासा तृ॑डिति निघण्टौ परस्परसामानाधिकरण्यं न स्यात्, उदन्याशब्दस्य उदकेच्छावाचित्वादिति चेत् । अत्राहुः — अशनायती॑त्यादिषु अविवक्षितप्रकृत्यर्थं बुभुक्षापिपासादिकमेवार्थः, तथा च नोक्तदोष इति ।", "74035": "", "74036": "", "74037": "", "74038": "", "74039": "", "74040": "<<द्यतिस्यतिमास्थामित्ति किति>> - द्यतिस्यति । दोऽवखण्डने, षोऽन्तकर्मणि, मा माने, माङ् माने ,मेङ् प्रणिदाने, ष्ठा गतिवृत्तौ । श्तिपा निर्देशो धातुविशेषणार्थः । न हि श्तिपं विना श्यन् सुलभः । यत्तु प्रसादकृतोक्तं — श्तिपा निर्देशो यङ्लुङ्निवृत्त्यर्थः, दादत्तः [सासात॑] इति । तन्न । यङ्लुकि हि इटा भाव्यं — दादितः सासित इति । तत्रति कितीति वचनान्नाऽस्ति प्रसङ्गः । किं चदो दद्धो॑रिति विधीयमान आदेशोऽनेकाल्त्वात्सर्वस्येति निर्विवादम् । तथा च हन्तेर्यङ्लुगन्तस्य वधादेशवत्साभ्यासस्य प्रवर्तेतेति दादत्त इति त्वदुदाहृतरूपं कथमुक्तिसम्भवं लभेतेत्याहुः ।", "74041": "<<शाछोरन्यतरस्याम्>> - शाच्छो । शो तनूकरणे । छो छेदने ।", "74042": "<<दधातेर्हिः>> - दधातेर्हिः । श्तिपा निर्देशो धटो निवृत्त्यर्थः । तीत्यनुवृत्तेर्यङ्लुकिन । दाधितः । अत्रापि प्रसादकृता — श्तिपा निर्देशस्य यङ्लुङिवृत्त्यर्थत्वद्दाधीत इतिघुमास्थे॑तीत्वमुदाहृतं, तत्पूर्ववदेव हेयम् ।", "74043": "<<जहातेश्च क्त्वि>> - जग्ध्वेति ।झरो झरी॑ति पाक्षिको धलोपः ।", "74044": "", "74045": "", "74046": "<<दो दद् घोः>> - दो दद्धोः । इहादेशः थान्त एव, न तु त-द-धान्तः, जश्त्वे कृते संहितायास्तुल्यत्वेऽपि प्रक्रियायां दोषादिति प्राञ्चः । तथा चाहुः — तान्ते दीर्घत्वाख्यो दोषो, दान्ते दोषो निष्ठानत्वम् । धान्ते दोषो धत्वाख्यः स्यान्निर्दोषत्वात्थान्तो ग्राह्रः॑ इति । तदनुसारेणाह — दथ्स्यादिति । दात इति । दाप् लवने ।अदा॑बिति निषेधान्न घुत्वम् । इह सर्वे प्षाः सूपपादा इत्याह - तान्तो वेत्यादिना । दीर्घापत्तिरिति । विदत्तमित्यादावुपसर्गस्येत्यर्थः ।दस्तीटत्यत्र द्वौ पक्षौ — इत्यस्य य आदेशः स तकारान्तः॑तकारादिर्वे॑ति । तत्राद्ये पक्षेऽयं दोषो नान्त्ये इत्याशयेनोक्तदोषं परिहरति — तकारादाविति । निष्टानत्वमिति ।रदाभ्याटमित्यनेन । सन्निपातेति । तादि निमित्तीकृत्य विहतो यो दान्ताद्यादेशः स तकारविघातकनत्वादिविधेर्निमित्तं न भवतीति भावः ।", "74047": "<<अच उपसर्गात्तः>> - अच उपसङख्यार्गात्तः । तकारादकार उच्चारणार्थः ।अच॑ इत्यावर्तते । तत्रैकं पञ्चम्यन्तमुपसर्गं विशिनष्टि । अपरं षष्ठन्तं स्थानलाभायेति व्याचष्टे — अजन्तादित्यादिना । यद्वाअच इत्यनावृत्तं पञ्चम्यन्तमेवास्तु किं तु द्वितकारकोऽयमादेशस्तेनानेकाल्त्वात्सर्वस्य घोर्भवविष्यति । एकतकारो हिअलोऽन्त्यस्ये॑ति बाधित्वाआदेः परस्ये॑ त्यादेरेव स्याद चेति पञ्चमीनिर्देशात् । यद्येवम्अपो भी॑ त्युत्तरसूत्रेऽपि द्वितकार एवेति सर्वादेशः स्यादिति चेत् । अत्राहुः — पञ्चम्यान्तस्याऽच इत्यनुवृत्तेरचः परस्य पकारस्यैव भविष्यत तत्रान्त्यस्य संयोगान्तलोपे पूर्वस्य जश्त्वेन सिद्धमिष्टमिति । अवदत्तमित्यादि । आदिकर्मणीत्येतत्प्रदत्तमित्यस्यैव विशेषणं, नेतरेषाम् , असंभवात् । दातुं प्रक्रान्तमारब्धमिति प्रदत्तमित्यस्याऽर्थः । इष्यते इति । तादेशबाधनार्थं निपातनमिष्यत इत्यर्थः । अन्ये तु अवादीनामपुसर्गप्रतिरूपकत्वाश्रयणे ह्रवदत्तं विदत्तमित्यादि सिध्यति, उपसर्गत्वाश्रयणे तु पूर्वोक्तमवत्तं वीत्तमित्यादीति नाऽपूर्वमिदं वचनमित्याहुः ।", "74048": "<<अपो भि>> - अप्शब्द अत् ।आप्नोतेह्र्यस्वश्चे॑ति ह्रस्वः, चकारात्क्वित् ।अच उपसर्गात्तः॑इत्यतोऽनुवर्तनादाह — तकारः स्यादिति । दिगिति । क्विन्निन्तत्वात्कुत्वम् । षडगकाः प्राग्वदूह्राः । अन्यत्रापीति । त्यदाद्युपपदत्वाभावेऽपीत्यर्थः । त्विहिति ।त्विष दीप्तौ॑इत्यस्यात्क्विप् । जश्त्वचर्त्वे । सजूरिति ।जुषी प्रीतिसेवनयो रित्यस्मात्क्विप् ।ससजुषो॑रिति षस्य रुत्वम् ।र्वो॑रिति दीर्घः । आशिषाविति ।आशसः क्ववुपधाया इत्वं वाच्य मित्युपधाया इत्वम्,शासिवसी॑ति षत्वम् । असाविति । अदसस्त्यदाद्यत्वं, टाप् । एकादेशस्य पूर्वान्तत्वेन ग्रहणात्अदस औ सुलोपश्च॑ ।तदोः — ॑इति सत्वमित्येके । अन्ये चु परत्वाद्विशेषविधेश्च पूर्वमौत्वं, ततोऽत्र नाऽत्वटापावित्याहुः । इति हलन्तस्त्रीलिङ्गप्रकरणम् ।उत्तरपदत्वे चाऽपदादिविधौ प्रतिषेधः॥ उत्तरपदत्वे चेति । उत्तरशब्देनोत्तरपदमुच्यते । उत्तरपदस्य पदत्वे=पदव्यपदेशे कर्तव्ये प्रत्ययलक्षणं न भवतीत्यर्थः । एतेनसुधियौ॑सुधिय॑इत्यत्रान्तर्वर्तिसुपा पदत्वात्पक्षे शाकलप्रसङ्ग इत्याशङ्का परास्ता, उक्तरीत्या प्रत्ययलक्षणप्रतिषेधात् । उत्तरपदत्वे किम् ।राजपुरुष॑इत्यादौ नलोपो यथा स्यात् ।पश्यति दधी॑त्यादावपि दधिशब्दस्य पदत्वे प्रत्ययलक्षणं भवत्येव । उत्तरपदस्य समासावयवे रूढत्वात् । दधिसेचाविति.सिञ्चत इति सोचौ ।अन्येभ्योऽपि दृश्यन्ते॑इति विच् । दध्नः सेचाविति षष्ठीसमासः । उपपदेसमासे तु प्राक् सुबुत्पत्तेः समासविधानात्सेच्शब्दस्य पदसंज्ञा नास्तीति पदादित्वं सकारस्य न स्यात् । नन्वेमुपपदसमासे षत्वं दुर्वारमिति चेत्, अत्राह कैयट -॒अनभिधानत्सोपपदाद्विजभावः, दधिसेचाविति प्रयोगाऽभावा॑दिति । वस्तुतस्तु पदादादिः पदादिरिति पक्षे तूपपदसमासेऽपि षत्वं सुपरिहरम् ।अन्वादेशे नपुंसके एनद्वक्तव्यः । अन्वादेश इत । अभ्येवेदं विधीयते नत्वौट्शसादिषु, फलाऽभावात् ।स्वोमोर्नपुंसकात्इत्यमो लुका लुप्तत्वेऽपि प्रत्ययलक्षणमिह पर्वर्तते, वचनसामर्थ्यादित्याहुऋ । वस्तुतस्तुद्वितीयाटौओःसु -॑इति सूत्र एव एनद्वक्तव्यः । एनम् एनौ एनानित्यादि तु त्यदाद्यत्वेन सिद्धम् । क्लीबे अमि लुका लुप्तत्वेऽपि तकारोच्चारणसमाथ्र्यादेनदादेशः । न चैवमेतच्छ्रित इत्यत्राप्येनदादेशापत्तिः ।द्वितीयाश्रिते॑ति समासे कृते सुपो लुकि द्वितीयदिविभक्तिपरत्वाऽभावात् । न च तकारोच्चारणसामर्थ्यादेनदादेश इत्युक्तमिति वाच्यम्, एकपदाश्रयत्वेनान्तरङ्गे स्वमोर्लुकि चरितार्थत्बेन बहिरङ्गे सामासिके लुकि तदप्रवृत्तिरिति मनोरमायां स्थितम् । ब्राह्मणी इति । इहविभाषा ङिश्यो॑रित्यल्लोपो न,संयोगाद्वमन्ता॑दिति निषेधात् । रोऽसुपि । अहर्भातीति ।अहन् इति रुतच्वे कृते तुहशि चे॑त्युत्वपर्वृत्त्याअहोभाती॑ति स्यादिति भावः ।", "74049": "<<सः स्यार्द्धधातुके>> - सः — सीति च्छेदः । सादौ किम् । घस्मरः । आर्धधातुके इति किम् । वस्से । आशिषीति । आशीर्लिङीत्यर्थः । एतच्च कर्तरि प्रोगमभिप्रेत्योक्तम् । कर्मणि तु यग्विषये प्रयोगो नेति बोध्यम् ।", "74050": "<<तासस्त्योर्लोपः>> - ॒सः स्यार्धदातुके॑ इत्यतः सीत्यनुवर्तते, अङ्गाक्षिप्तस्य प्रत्ययस्य सीत्यनेन विशेषणात्यस्मिन्विधि॑रिति तदादिविधिः, तदिदमाह — सादाविति । एवं रादावित्यत्राप्यूह्रम् ।", "74051": "<<रि च>> - प्राग्वदिति । तासेर्लोप इत्यर्थः । अस्तिस्तु नेह संबध्यते,ततो रादिप्रत्ययस्याऽसंभवात्॥", "74052": "", "74053": "<<यीवर्णयोर्दीधीवेव्योः>> - यीवर्णयोः ।य्वो॑रित्युक्तेऽपीष्टसिद्धौ यकारेकारयोरिति स्फुटप्रतिपत्तिर्न स्यादिति वर्णग्रहणं कृतम् । यिश्च इवर्णश्च यीवर्णौ, तयोः । यिश्चेति इकार उच्चारणार्थो न तु विवक्षितस्तदाह - यकारे इवर्णे चेति ।यिवर्णयो॑रिति पाठस्तूचितः । लोपं बाधित्वेति । रलोपस्य तूदाहरणम् । आदीध्य गतः । आवेव्य गतः । दीधिता । दीधिष्यते । वेविता । वेविष्यते । यीवर्णयोरिति किम् । आदीध्यनम् । आवेव्यनम् । षस । असदिति ।तिप्यनस्ते॑रितिदत्वम् । अस इति ।सिपि धातो॑ रिति रुर्वा । पक्षे दः । सन्तीति । इदित्त्वान्नुमि सन्सत्तीति स्थितेस्को॑रिति सलोपेझरो झरि सवर्णे॑ इति तकारस्य वा लोपः । संस्ति संस्त इति । इहापि पूर्ववत्तलोपो वा बोध्यः । वश कान्तौ । भाषायामप्यस्य प्रयोगो दृश्यते ।वष्टि भागुरिरल्लोपं॑,जयाय सेनान्यमुशन्ति देवाः इति । (ग)चर्करीतं च । गणसूत्रमिदम् । चर्करीतमिति यङ्लुगन्तस्य पूर्वाचार्याणां संज्ञा । अदादौ बोध्यमिति । तेन यङ्लुगन्तेषुअदिप्रभृतिभ्यः॑ इति शपो लुग् भवतीति भावः । प्राचा तुचर्करीत॑मिति यङ्लुगन्तं परस्मैपदमित्युक्तं, तच्चेहाऽप्रकृतत्वादुपेक्षितम् ।इति तत्त्वबोधिन्यामदादयः ।* अथ अजन्तपुलिङ्गप्रकरणम् । *", "74054": "<<सनि मीमाघुरभलभशकपतपदामच इस्>> - सनि मीमा ।सः सी॑त्यतः सीत्यनुवर्तते । तस्य सनो विशेषणत्वात्सादौ सनीति लाभः । मीरूपाऽविशेषादिति । ननु मिनोतेर्मीरूपस्य लाक्षणिकत्वान्मीग्रहणेन ग्रहणं न प्राप्नोति । नैष दोषः । यत्र लक्षणाभिनिर्वृत्तत्वेन शब्दरूपमपेक्ष्यते तत्रलक्षणप्रतिपदोक्तयो॑रिति परिभाषोपस्थानं न तु यत्र प्रयोगाश्रयणं तत्रेतिइको झ॑लिति सूत्रे कैयटेनोक्तत्वात् । तस्यायमाशयः — मीरूपमात्रस्य प्रयोगाऽत्राश्रितः ।विभाषा दिक्समासे॑ इत्यत्र तु लक्षणाभिनिर्वृत्तस्य समासशब्दस्याश्रयणात्दिङ्नामान्यन्तराले इति प्रतिपदोक्त एव समास आश्रीयते इति । लक्षणप्रतिपदोक्तपरिभाषाया अनित्यत्वात्क्वचिदुपतिष्ठते क्वचिन्नोपतिष्ठते इतितु निष्कृष्टोऽर्थः । मित्सतीति ।हलन्ताच्चे॑ति कित्त्वान्नोपधागुणः । शिक्षतीति । ननु निरनुबन्धपरिभाषयाशक मर्षणे॑ इत्यस्यैव ग्रहणमुचितमिति चेत् । अत्राहुः — इयं हि परिभाषा प्रत्ययग्रहणविषया । अत एजृव्रश्च्यो॑रित्यत्र जजृषोरुभयोग्र्रहणमिति न्यासकारेणोक्तमतोऽत्रापि स्वादिदैवादिकयोग्र्रहणं युक्तमेवेति ।", "74055": "<<आप्ज्ञप्यृधामीत्>> - आप्ज्ञ ।सनि मीमे॑ त्यतः — अच इत्यनुवर्तते,सः स्याद्र्धधातुके॑ इत्यतः सीति च । तदाह — अव ईत्स्यादाविति ।सी॑त्यस्य सनो विशेषमात्सादाविति लाभः ।", "74056": "<<दम्भ इच्च>> - यियविषतीति ।द्विर्वचनेऽचीत्यादेशनिषेधाद्द्वित्वे कृतेऽभ्यासस्योवर्णस्येत्वम् । ऊर्णुनूषतीति । इडभावेअज्झनगमा॑मिति दीर्घः । इट्पक्षे तुविभाषोर्णो॑रिति वा ङित्त्वम् । न चेह सन्निति.किं तु नुशब्द इत्यर्थः । कित्त्वान्न गुण इति । णिचः स्थाने इत्यर्थः । *आशङ्कायां सन्वक्तव्यः । स्वा मुमूर्षतीति । एकआविषया मरणशङ्केति बोधः । मरणाऽऽशङ्काविषयो भवतीत्यन्ये ।पूर्ववत्सनः॑ इत्यात्मनेपदमिह न शङ्क्यं,शदे॑रित्यादसूत्रद्वयेसनो ने॑त्यनुवर्त्त्य वाक्यभेदेन व्याख्येयमिति वक्ष्यमाणत्वात् ।", "74057": "<<मुचोऽकर्मकस्य गुणो वा>> - मुचोऽकर्मकस्य ।हलन्ताच्चे॑ति कित्त्वेन गुणाऽभावे प्राप्ते विधिरयम् । विवत्सतीति ।वृद्भ्यः स्यसनो॑रिति विकल्पेन परस्मैपदम् ।", "74058": "<<अत्र लोपोऽभ्यासस्य>> - ईप्सतीति ।अजादेर्द्वितीयस्ये॑तिप्सशब्दस्य द्वित्वम् । बिभ्रज्जिषतीति । इटि तदभावे च रमागमविकल्पाच्चत्वारि रूपाणि । सुस्वूर्षतीति ।अज्झनगमा॑मिति दीर्घे सत्युत्वम् ।", "74059": "", "74060": "<<हलादिः शेषः>> - अभ्यासस्येति जातिपरो निर्देशस्तेन आटतुः आटुरित्यादौ तकारादिनिवृत्तिः सिध्यति, क्वचिदभ्यासे आदेर्हलः सत्त्वमाश्रित्य सर्वत्रानादेर्लोपविधानात्॥", "74061": "<<शर्पूर्वाः खयः>> - शर्पूर्वाः । अतद्गुणसंविज्ञानोऽयं बहुव्रीहिः । तेन शरो न शेषः, कि #ं तु खयामेव । इह स्पर्ध इत्यत्र रेफस्यापि द्वित्वं भवति, द्वितीयस्यैकाचः संबन्धिरेफस्यैवनन्द्राः॑ इति निषेधादिति बोध्यम् । गाधृ । ऋकारोनाग्लोपिशास्वृदिता॑मिति निषेधार्थः । अजगाधत् । आस्पदं स्थापना अवस्थानं वा प्रतिष्ठा । एकत्र स्थापनं संदर्भो वा ग्रन्थः । नाथृ नाधृ । उपतापो रोगः । अनुदात्तेत्त्वादेव सिद्धे नियमार्थं वार्तिकमित्याह - आशिषि नाथ इति वाच्यम् । आशिष्येवेति । अत एकहल्मध्ये । एकशब्दोऽत्राऽसहायवचनः । एकयोर्हलोर्मध्ये इत्यर्थः । तद्व्याचष्टे — असंयुक्तेति । इष्टानुरोधेन लिटीत्यावत्र्य आदेशविशेषणमेत्वस्य नमित्तं च क्रियत इत्याह —", "74062": "", "74063": "<<न कवतेर्यङि>> - न कवतेर्यङि । इह कोरित्येव वाच्ये कवतेरिति शपा निर्देशात्कूङ् शब्द इति भ्वादिरेव गृह्रते न तु कु शब्द इत्यदादिः, कूङ् शब्द इति तुदादिश्चेत्याशयेनाह — कौतिकुवत्योस्त्विति । ननुको॑रित्युक्तेऽपि कूङः प्रसङ्गो नास्ति, दीर्घान्तत्वात्, लुग्विकरणपरिभाषया च कौतेरपि प्रसङ्गो नास्तीति चेत् । अत्राहुः — को॑रित्युक्ते तु निनुबन्धपरिभाषाया अपि जागरूकत्वादुभयोग्र्रहणं स्यादिति कौतिव्यावृत्त्यर्थं शपा निर्देश कर्तव्यः । कृते च तस्मिन्कुवतिमपि व्यावर्तयतीत्यत्र तात्पर्यमिति ।कुङ॑ इत्येवाऽत्र सुवचम् ।", "74064": "", "74065": "", "74066": "", "74067": "<<द्युतिस्वाप्योः सम्प्रसारणम्>> - द्युतिस्वाप्योः ।स्वापी॑ति णिजन्तस्य ग्रहणम् । दिद्युते इति । संप्रसारणे कृतेसंप्रसारणाच्चे॑ति पूर्वरूपम् । तेनेह न — स्वापेर्ण्वुल् स्वापकः, तमिच्छति स्वापकीयति, ततः सन् सिस्वापकीयिषति ।", "74068": "<<व्यथो लिटि>> - व्यथो लिटि । हलादिः शेषापवाद इति । हलादिः शेषप्रक्रमणादिति भावः । एवं चउत्सर्गसदेशश्चापवादःर॑ इति परस्यैव संप्रसारणं भवति न पूर्वस्येति कैयटाद्युक्त्यान संप्रसारणे॑ इति निषेदोऽत्र नापेक्षितः । केचित्तु हलादिः शेषेण यकारनिवृत्तावपि वकारस्य सत्त्वात्सूत्रमिदं सावकाशमित्यपवादत्वं न संभवतीति मत्वासंप्रसारणं तदाश्रयं च कार्यं बलव॑दिति वचनाद्धलादिःशेषं बाधित्वा परस्य संप्रसारणे पूर्वस्य निषेधः ।संप्रसारणं तदाश्रयं चे॑ति वचनाऽभावे तुव्यथो लिटी॑ति संप्रसारणस्य धातुविशेषप्रत्ययविशेषाश्रयत्वेन,इग्यण॑ इति संज्ञाविशेषद्वयाश्रयत्वेन च बह्वपेक्षस्य बहिरङ्गत्वात्संप्रसारणं बाधित्वा हलादिः शेषे जाते वकारस्य संप्रसारणं स्यादित्याहुः । थस्येति । संप्रसारणस्याऽभ्यासान्तर्गतयकारनिवृत्तेरपवादत्वं न तु थकारनिवृत्तेरिति भावः । लिटीति किम् । विव्यथिषते । इहसन्यतः॑ इति इत्त्वम् । वाव्यथ्यते । वाव्यथीति । क्रप कृपायां गतौ । चकाराभावेऽपीहार्थद्वयमित्येव बोध्यमित्याहुः । कदि क्रदि । क्रन्दयति । क्रन्दयति । अक्रन्दि । अक्रान्दि । क्रन्दंक्रन्दम् । क्रान्दंकान्दम् । ञित्वरा । आदित्त्वमिह व्यर्थम्, ह्रस्वोच्चारणेन#आप्यात्मनेपदसिद्धेः । न च निष्ठायाम्आदितश्च॑ इतीद्प्रतिषेधार्थमिति शङ्क्यम् ।रुष्यमत्वरे॑ति निष्ठायामिटो विकल्पितत्वात् । तूर्णः । त्वरितः । ज्वर रोगे । णौ- ज्वरयति । अज्वरि । अज्वारि । ज्वरं ज्वरम् । ज्वारंज्वारम् । गड सेचने । णौ गडयति । अगडि । अगाडि । गडंगडांगाडंगाडम् । एवमन्यत्राप्यूह्रम् । हेड वेष्टने । उत्सृष्टानुबन्ध इति । तेन वेष्टनेनाग्लोपी॑ति निषेधशङ्कैव नास्तीति भावः । णोपदेश एवेति । प्रणटति । प्रणटयति ।नाटी॑त्यस्य तु प्रनाटयति । वृद्धिर्निपात्यत इति । तेनमितां ह्रस्व॑ इति न प्रवर्तत इति भावः । निपातनात्परत्वादिति । निपातनविषयीभूतमितां ह्रस्व॑ इत्यस्मात्परत्वात् ।मितां ह्रस्वः॑ इत्येतदेव निपातनेन बाध्यते न तु ततः परंचिण्णमुलो॑रित्येतदित्यर्थः । वन च । संभक्तौ पठितस्य हिंसायां मित्त्वार्थोऽनुवादः । वनति । णौ — वनयति । अवनि । अवानि । वनंवनम् । वानंवानम् । तानादिकस्येति । वनु याचन इत्यस्येत्यर्थः । सामर्थ्यादिति । अनुवादे तु तत्र कृतेनोदित्त्वेन क्त्वायामिड्वकल्पस्य, निष्ठायामिट्प्रतिषेधस्य च सिद्धेः पुनरिदित्करणं व्य्रथं स्यादिति भावः । वनतीत्यादीति । णौ — वनयति । तानादिकस्य तु — वनुते । वानयति । मित्त्वविकल्प इति ।ग्लास्नावनुवमां चे॑ति गणसूत्रेण । णप्रत्ययार्थमिति ।ज्वलितिकसन्तेभ्यो णः॑ इति ज्वलादिभ्यो णप्रत्ययार्थम् । द भये । धातोरनेकार्थत्वाद्भ्यार्थकत्वम् । दृणाति । दरयति । तन्नेतीति । माधवस्यायमाशयः — सूत्रे दीर्घान्त एव पाठः सर्वसंमतः । घटादावपि दीर्घान्त एव सर्वैः पठते । यद्ययं ह्रस्वान्तो भवेत्तर्हिशृदृप्रां ह्रस्वो वे॑ति ह्रस्वविकल्पविधायके सूत्रे दृग्रहणमनर्थकं स्यात् । धातुद्वयेन दद्रतुः ददरतुरिति रूपद्वयसिद्धः । न चदृ विदारणे॑ इत्यस्य रूपद्वयलाभार्तं दृग्रहणमावश्यकमिति वाच्यं, धातूनामनेकार्थत्वात्समीहितसिद्धेरिति । नृ नये । नृणाति । नरयति । अनरि । अनारि । नरंनरं । नारंनारम् । श्रै इतीति । अयं हि वक्ष्यमाणो भौवादिकः । लुग्विकरणेति । अत्र व्याचक्षते -॒स्वरतिसूती॑ति सूत्रेसूङ॑ इति पठितेपि द्वयोग्र्रहणे सिद्धे सूतिसूयत्योः पृथग्ग्रहणं व्यर्थं सदिमां परिभाषां ज्ञापयति । नन्वलुग्विकरणं बलीय इति वैपरीत्यं किं न स्यादिति शङ्क्यम्, इष्टानुरोधात् ।सूङ॑ इति पठिते स्वरतिसाहचर्यादलुग्विकरणस्यैव ग्रहणं स्यान्न तूभयोरित्यपि न शङ्क्यं, साहचर्यस्याऽनत्यत्वात् । तस्मात्पृथग्ग्रहणं व्यर्थं सज्ज्ञापकमेवेति । परिभाषाभ्यामिति । यद्यप्युक्तपरिभाषयोः परस्परविरोधेनाऽप्रवृत्तावपीष्टं सिध्यति, तथाप्यविशेषादुभयोः प्रवृत्तिरप्यत्र युक्तैवेति भावः । मारणतोषण ।निशामन॑ मित्यस्य शम आलोचन इत्यस्मान्निष्पन्नत्वादाह - चाक्षुषं ज्ञानमिति । एष्वर्थेष्विति । पशुं संज्ञपयति । मारयतीत्यर्थः । विष्णुं विज्ञपयति । संतोषतीत्यर्थः । संज्ञपयति रूपम् । माधवमते — दर्शयतीत्यर्थः । मतान्तरे तु बोधयतीत्यर्थः । पर्ज्ञपयति शरम् । तीक्ष्णीकरोतीत्यर्थः । स्यादेतत् -॒निशामनं ज्ञापनमात्र॑ मिति वदतां मते॒श्लाघह्नुङ्स्थे॑ति सूत्रेज्ञीप्स्यमानो बोधयितुमभिप्रेत॑ इति वृत्तिग्रन्थः सङ्गच्छतां नाम, माधवमते तु तद्ग्रन्थस्य का गतिरित्यत आह — ज्ञप मिच्चेति । ज्ञापनमिति । एवं च वृत्तिग्रन्थो माधवमतेऽपि सङ्गच्छत इति भावः । मारणादिकं चेति । एतच्च मतान्तराभिप्रायेणोक्तम् । चुरादिषु तुज्ञप मिच्च, अयं ज्ञाने ज्ञापने च वर्तते॑ इति वक्ष्यमाणत्वात् । कथमिति । ज्ञाधातोर्ज्ञपधातोश्च णौ मित्त्वाद्ध्रस्वेन भवितव्यमिति भावः । मित्त्वाऽभावादिति । एवं च बोधने ज्ञापयति , ज्ञपधातोस्तु ज्ञपयतीति रूपद्वयं माधवमते बोध्यम्॥ छदिरुर्जने ।ऊर्ज बलप्राणनयोः॑ । अत्र छदिर्मित् । चुराद्यन्तर्गणो यौजादिकः । स्वार्थे णिजभाव इति ।आधृषाद्वे॑ति वैकल्पिकत्वादिति भावः । लडयति । जिह्वामिति । जिह्वां ज्ञापयतीत्यर्थः । जिह्वयेति । जिह्वया पदार्थान्तरं ज्ञापयतीत्यर्थः । जिह्वाव्यापारे उदाहरणमाह - लडयति शत्रुमिति । शत्रुमुद्दिश्य गालिदानादिकं [गालनादिकं] करोतीत्यर्थः । लडयति दधीति । उन्मध्नाति । विलोडयतीत्यर्थः । केचित्तु जिह्वाव्यापारे लडयति दधि, उन्मथने तु लडयति शत्रुमिति व्यत्यासेन योजयन्ति । लाडयति पुत्रमिति । शर्करादिदानेनाऽनुकूलयीत्यर्थः । ध्वनिरणी उदाहृताविति । ध्वनिरव्यवधानेनोदाहृतः, रणिस्तु अस्वानीति । अस्वनि । अस्वानि । स्वनंस्वनम् । स्वानंस्वानम् ।(ग) घटादयो [मितः] । मित्संज्ञा इत्यर्थ इति । अन्ये तु मकारानुबन्धा इति व्याचक्षते ।घटम् चेष्टाया॑मिति प्रत्येकं पाठे गौरवादेकत्रैव सर्वेषां मित्संज्ञा, मकारानुबन्धकत्वं वाऽनेन सूत्रेण विधीयत इति भावः । (ग) जनीजृष्क्नसुरञ्जोऽमन्ताश्च । जनीजृष् । जनी प्रादुर्भावे । जृष् वयोहानौ । क्नसु ह्वरणदीप्त्योः । त्रयोऽपि दिवादयः । रञ्ज रागे । दैवादिको भौवादिकश्च । अमन्ताः — क्रमिगमीत्यादयः । जनयति । जरयति । क्नसयति । रजयति । मृगान् । रञ्जयति पक्षिणः । क्रमयति । गमयति । रमयति ।(ग) ज्वलह्वहृलनमामनुपसर्गाद्वा । ज्वलह्वल । एषां मित्त्वमिति ।मित॑ इत्यनुवृत्तस्येह भाव प्रधानता,अनुपसर्गा॑दिति तु षष्ठर्थे पञ्चमीत्येवं क्लेशेन व्याख्येयमिति भावः ।नमोऽनुपसर्गाद्वे॑ ति पाठान्तरं, तत्र न कश्चित्क्लेशः । प्राप्तविभाषेति । ज्वल दीप्तौ, ह्वल हृल चलने इति त्रयाणां पूर्वपठितत्वात्, नमेस्त्वमन्तत्वादिति भावः । कथं संक्रामयतीति । क्रमेःनोदात्तोपदेशस्ये॑ति वृद्धिप्रतिषेधाद्धञिक्म॑ इत्येव भवति, न तुक्राम॑ इति पूर्वोक्कतसमाधानस्याऽत्राऽसंभवात्पृथक् प्रश्नः । व्यवस्थितविभाषेत्यादि । क्वचिण्णौ मितां ह्रस्वो न प्रवर्तत इति भावः । वृत्तिकृदिति । केचित्तु घञन्ताक्रमशब्दात्प्रज्ञाद्यणि क्रामशब्दं स्वीकृत्य तस्मात्तत्करोती॑ति णौ सङ्क्रामयतीति । समादधत इति भावः । इतरयोः प्राप्ते इति । वनेः पूर्वं पाठाद्वमेरमन्तत्वाच्चेति भावः । ग्लापयति । ग्लपयति । स्नापयति । स्नपयति । वानयति । वनयति । वामयति । वमयति । शाम्यतिवदिति । यथा शाम्यतिर्निशामयतीत्यादौ दर्शने प्रयुज्यते तथा चुरादिः शमधातुरपि, श्रवणे भविष्यतीत्यर्थः । (ग) यमोऽपरिवेषणे । यच्छतिरिति ।यम उपरमे॑ इत्यय#ं धातुर्भोजनातोऽन्यत्र । भोजनाशब्दोण्यासश्रन्तो यु॑ञिति युजन्तो ज्ञेयः । परिवेषणमिह भोजनानुकूलव्यापारस्ततोऽन्यस्मिन्नर्थे मिन्निषेधः । नियमयन्निति । नियमवच्छब्दाण्णिचि विन्मतोर्लुकि शतरि शप्प्रत्यये गुणे च ज्ञेयम् । व्यत्यासः फलित इति । स्वामिमते त्वपरिवेषणे — आयामयति । परिवेषणे तु — यमयति ब्राआहृणान् । अवादिपूर्वस्य (ग) स्खदिरवपरिभ्यां च । स्खदेः — अवस्खदयति । परिस्खदयति । प्रपूर्वस्य तु प्रस्खादयतीत्येवं व्यत्यासो ज्ञेयः । उपेक्ष्यमिति ।न पादम्या॑ङिति सूत्रेआयामयते॑ इत्युदाहृत्य वृत्तावुक्तं -यमोऽपरिवेषणे इत्यनेन मित्त्वं प्रतिषिध्यते॑ इति । न्यासेऽपितत्र न कम्यमीत्यतो नेत्यनुवर्तते॑ इत्युक्तम् । एवं हि निषेधानन्तरं पाठ उपपद्यते । अन्यथान कमी॑ त्यतः प्रागेव त्रिसूत्रीं पठेदिति भावः ।", "74069": "<<दीर्घ इणः किति>> - दीर्घ इणः किति ।अत्र लोपोऽभ्यासस्ये॑त्यतोऽभ्यासस्येत्यनुवर्तते ।व्यथो लिटीत्यतो लटीति च । किति किम् । इयाय । अत्र वदन्ति - इह दीर्घे कृतेऽपिअभ्यासस्याऽसवर्णे इतीयङा रूपसिद्धेः कितीति व्यर्थम् । न च दीर्घस्येयङि दीर्घविधानं व्यर्थमिति वाच्यम्, ईयतुः ईयरित्यत्रिवार्णादाङ्गं बलीयः॑ इति यणि कृते दीर्घविधेरावश्यकत्वात् । किंच लिटीत्यनुवर्तनमपीह व्यर्थमेव, व्यावर्त्त्याऽभावादिति । एता । एष्यति । एतु । इतात् । इताम् । यन्तु । इहि । उत्तमे तु अयानि । अयाव । अयाम । लङ्मध्यमे-ऐः । ऐतम् । ऐत । उत्तमे तु आयम् । ऐव । ऐम । ईयादिति ।अकृत्सार्वे॑ति दीर्घः ।", "74070": "<<अतः आदेः>> - पररूपापवाद इति ।अपवाद॑ इत्ययं ग्रन्तो नामधातुप्रक्रियास्थस्वग्रन्थेन सह विरुध्यते । तत्र हि अ इवाचरति अति । प्रत्ययग्रहणमुपनीय कास्यनेकाजित्युक्तेर्नाम् । औ । अतुः । उः । द्वित्वम्अतो गुणे॑,अत आदेः॑ इति दीर्घः । णल औ वृद्धिरित्युक्तत्वात् । हलादिःशेषात्प्रागेव परत्वात्अत आदे॑ दिति दीर्घे कृते तु पररूपशङ्कापि तत्र नास्तीति चिन्त्योऽयं ग्रन्थ इति नव्याः ।", "74071": "<<तस्मान्नुड् द्विहलः>> - तस्मात् । तच्छब्देन कृतदीर्घाकारः परामृश्यत इत्याह — दीर्घीभूतादिति । खर्द [दन्दशूके] दन्दशूकस्य सर्पत्वात्तद्वाचित्वे धातुत्वं न सङ्गच्छत इत्याह — दन्दशूकक्रियायामिति । दन्दशूककर्तृकायामित्यर्थः । आनन्तेति । इदित्त्वान्नुम् । तस्मान्नुड् द्विहलः इति नुट् । वदनैकदेश इति । तत्क्रियायामित्यर्थः ।", "74072": "<<अश्नोतेश्च>> - अश्नोतेश्च ।तस्मान्नुडि॑त्यनुवर्तत इत्याह — दीर्घादिति । श्नुविकरणनिर्देशः किम् । क्र्यादेरश भोजन इत्यस्य माभूत् । आश । आशतुः । ञिधृषा । शूलेन धृष्णोति प्रगल्भते इति शूल धृक् शूलधृषौ ।ऋत्विग्दधृ॑गिति क्विनो विधानादन्यत्रापि पदान्तविषये कुत्म् । दम्भु । लोकवञ्चनाय विहितक्मानुष्ठानं दम्भः । तृप । अयं सेट्कः, अनुदात्तेषु श्यना निर्देशात् । अह व्याप्तौ । अस्मात्ऋहलोण्र्य॑दिति ण्यतिअह्र॑ इतितस्यादित उदात्तमद्र्धह्रस्व॑मित्यत्रास्माभिरुपपादितम् । अन्ये त्वाहुः -शतचक्रं यो३ह्रो वर्तनि॑रित्यत्रअह्र॑ इति षष्ठयन्तमेव ।घेर्ङिती॑ति गुणस्तु अहिशब्दस्य च्छान्दसत्वान्नेति । रि क्षि । एते षट् धातवः । एक एवाजादिरिति मते तु पञ्च धातवः॥इति तत्त्वबोधिन्याम् स्वादयः॥* अथ स्वादिसन्धिः *अथस्वादिसन्धिः ।शिव॑ इत्यस्यावसाने विसर्गस्तस्याच्र्य इत्यनेन समभिव्याहारे सस्याभावाद्रुत्वं कथं स्यादित्याशङ्कायामाह-स्वौजसमौडित्यादिनेति । एवं चात्र मूलभूत एव सुरस्तीति रुत्वादिकं स्यादेव, विसर्गस्त्विह न भवति, खरवसानाऽभावात् । भाविन्यवसानभङ्गेऽकृतव्यूहपरिभाषयाऽच्र्यपदसमभिव्याहारात्पूर्वमपि न भवतीति बोध्यम् ।", "74073": "<<भवतेरः>> - ॒अत्र लोपोऽभ्यसस्ये॑ति सूत्रादभ्यासपदमनुवर्तते । अत्र प्राचोक्तं — भवतेरिति कर्तृनिर्देशाद्भावकर्मणोर्नाऽत्वमिति । व्याख्यातं च तत्पौत्रेण — कत्र्रर्थयोः श्तिप्शपोर्निर्देशादित्यर्थ॑ इति । तन्न । धातुनिर्देशमात्रे श्तिपो विधानात्, शपश्च विकरणत्वनानर्थकत्वात्, कत्र्रर्थके परे विहितस्यापि तस्य श्तिपः शित्त्वसामर्थ्यादेवेह प्रवृत्तेः, अन्यथा त्वदुक्तरीत्याउपसर्गात्सुनोतिसुवती॑त्यादीनामपि भावकर्मणोरप्रवृत्तौ सर्वोपप्लव एव स्यात्, अपसिद्धान्तश्चाऽयमिति स्पष्टमेवाकरदृशाम् । प्रयुञ्जते चकर्मण्यप्यकारं कवयः — तस्यातपत्रं बिभरांबभूवे॑,विभावरीभिर्विभरांबभूविरे॑ इत्यादि । एतच्च प्रक्रियाप्रसादग्रन्थदूषणं मनोरमायां स्थितम् ।अत्र नव्याः — श्तिपः शित्त्वसामर्थ्यादेवेह शपः प्रवृत्ति॑रिति यदुक्तं, तन्नापिबतिर्ग्लायतिरित्यादौ पिबद्यादेशप्रवृत्त्या आत्त्वनिवृत्त्या च शित्त्वस्य चरितार्थत्वात् । एवं चउपसर्गात्सुनोतिसुवति॑,भवतेरः॑ध्यायतेः संप्रसारणं चे॑त्यादिनिर्देशादकर्तृवाचिन्यपि परे शवादय इत्येव व्याख्येयम् । अन्यथाइक्श्तिपौ॑ इति सूत्रे वक्ष्यमाणस्वग्रन्थेन सह विरोधापत्तेः । केचित्तु — शित्वात्तिपः सार्वधातुकत्वेन भवतिरित्यादौआर्धधातुकस्येड्वलादे॑रितीडागमनिवृत्त्या,ब्रावीति॑रित्यत्रब्राउव ईडि॑ तीडागमप्रवृत्त्या च शित्त्वं चरितार्थमिति व्याचख्युः, तञ्चिन्त्यम् ।तितुत्रे॑ त्यनेनेंण्निषेधादाद्र्धधातुकत्वेऽपि क्षत्यभावात् ।ब्राउव ई॑डित्यत्रब्राउवः परस्य हलादेः पित ईडागम॑ इत्येतन्मात्रस्य मूले व्याख्यातत्वात्सार्वधातुकस्येति विशेषणाऽभावेऽपि क्षत्यभावात् । न च हलादेःपित्प्रत्ययस्यसार्व्धातुकस्ये॑ति विशेषणाऽभावे ब्राउवो लिटि वच्यादेशे सिपस्थलि उवक्थेत्यत्राऽतिप्रसङ्गः स्यादिति वाच्यं, थलोऽत्र पित्तवाऽभावात् । न च स्थानिवद्भावेन पित्त्वं, श्नः शानचः शित्त्वेन लिङ्गेन क्वचिदनुबन्धकार्येऽप्यनल्विध#आविति तन्निषेधात् । तस्मात्पूर्वोक्तरीत्यैव श्तिपः शित्त्वसाम्रथ्यादकर्तर्यपि शपः प्रवृत्तिरिति ग्रन्थो निराकर्तव्य इत्याहुः । तदपरे न क्षमन्ते । थलः पित्त्वाऽभावे हिअसंयोगाल्लिट्कि॑दिति कित्त्वात्वचिस्वपी॑ति संप्रसारणे सत्युवचिथ उवक्थेति न सिध्येत्, किंतु ऊचिथ ऊक्थेति स्यात् । तस्मात्स्थानिवत्त्वेन थलः पित्त्वेऽभ्युपगते उवक्थेत्यादावतिप्रसङ्गवारणायपितः सार्वधातुकस् ईडागम॑ इति व्याख्यातमेव, तथा च ब्रावीतिरित्यत्र ईडागमप्रवृत्त्या शित्त्वं चरितार्थमिति कैश्चिद्यदुक्तं तदपि सम्यगेवेति॥", "74074": "", "74075": "<<निजां त्रयाणां गुणः श्लौ>> - निजाम् । श्लाविति किम् । निनेज ।", "74076": "<<भृञामित्>> - भृञामित् । णिजां त्रयाणा॑मित्यतोऽनुवर्तनादाह — एषां त्रयाणामिति । केचित्तु कपिञ्जलाधिकरणन्यायेन त्रयाणामिति लभ्यत इत्याहुः । त्रयाणां किम् । जहाति ।श्लौ किम् । बभार ।", "74077": "<<अर्तिपिपर्त्योश्च>> - अर्तिपिपत्र्योश्च । अर्तेरुदाहरणमियतीति वक्ष्यति ।", "74078": "", "74079": "<<सन्यतः>> - ॒अत्र लोपोऽभ्यसस्ये॑त्यतोऽभ्यासस्येति,भृञामि॑ दित्यत इद्ग्रहणं चानुवर्तते । तदाह — अभ्यासस्येत्यादि । तपरकरणं किम् । पापच्यतेः सन् । पापचिषते । न च सनि योऽभ्यासः सन्निमित्त इति विज्ञानात्तरपरकरणाऽभावेऽपि नोक्तातिप्रसङ्गः, अभ्यासस्येह यङ्निमित्तत्वादिति वाच्यं, तादृशविवक्षायामधीषिषति प्रतीषिषतीत्यादावव्याप्तः । न हि कार्यी निमित्तत्वेनाश्रीयते । यद्याश्रीयेत तर्हिद्विर्वचनेऽची॑ति निषेधेन रिस्शब्दस्य द्वित्वाऽप्रवृत्तावरिरिषतीत्यादि न सिध्येत् । नन्वेवं पिपक्षतीत्यादावपव्याप्तिः, अभ्यासस्य सन्परत्वाऽभावात् । न चयेन नाव्यवधान॑ न्यायेन सन्प्रकृत्या व्यवहितेऽप्यभ्यासस्येत्वं स्यादेवेति वाच्यं, प्रतीषिषतीत्यादावभ्यासस्याऽव्यवहितसन्परत्वसंभवादुक्तव्यायस्याऽप्रवृत्तेरिति चेत् । अत्राहुः — सना धातुमाक्षिप्य सनि सति यो धातुः सन्नन्तस्तदीयाभ्यासस्येति व्याख्यानान्नोक्तदोषः । न च सनि परे अभ्यासस्येति यथाश्रुतं परित्यज्योक्तव्याख्याने किं मानमिति वाच्यम्, तपरकरणस्यैव तत्र मानत्वात् । किं च अकारग्रहणमपि तत्र मानम् । अन्यथासन॑ इत्येव ब्राऊयात्, तावताप्यधीषिष[ति प्रतीषिष] तीत्यादावित्त्वप्रृत्तिसिद्धेरिति ।", "74080": "<<ओः पुयण्ज्यपरे>> - ओः पुयण्जि ।पुयण्जी॑ति समाहारद्वन्द्वात्सप्तम्येकवचनम् ।अपरे॑ इति बहुव्रीहिः ।अत्र लोपोऽभ्यासस्ये॑त्यतोऽभ्यासस्येत्यनुवर्तते ।भृञामी॑दित्यत इद्ग्रहणं,सन्यतः॑ इत्यतः सनीति च, अङ्गस्येति तु अधिक्रियत एव । तदेतदभिप्रेत्याह - सनि परे यदङ्गमित्यादि । अपरे किम् । बुभूषति । पवर्गयण्जीति किम् । ऊर्णुनविषति । अबीभवदित्यादि ।भू सत्तायाम् ।पूङ् पवने॑ । मृङ् बन्धने॑ ।यु मिश्रणादौ॑ । रु शब्दे॑ ।लूञ्छेदने॑ ।जु गतौ॑ । सौत्रोऽयं धातुःजुचङ्क्रम्ये॑त्यत्र निर्दिष्टः । ननु भू भू इति द्वित्वोत्तरं वृद्ध्यावादेशौ भवस्ततः कृतस्यणौ चङी॑ति ह्रस्वस्य स्थानिवद्भावेन लघुपरत्वाऽभावात्सन्वद्भावाऽप्रवृत्त्याऽबीभवदित्यादावभ्यासोवर्णस्येत्वं दुर्लभमिति चेत् । अत्राहुः — आरम्भसामर्थ्यादेव न स्थानिवत्त्वमिति ।", "74081": "<<स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा>> - रुआवतिशृणोति ।अपरे॑ इत्यनुवर्तते न तु पुयण्जीति॑ पवर्गजकारयोरसंभवात् । यणः संभवेऽप्यव्यभिचारात्तदाह — अवर्णपरे धात्वक्षरे इति ।अक्षर॑ शब्दोऽत्र वर्णपरः । अवर्णपरे किम् । सुरुआऊषति । शृमोत्यादेरुदाहरणं तु — अशिश्रवत् । अशुश्रवत् । अदिद्रवत् । अदुद्रवत् । रापिप्रवत् । अपुप्रवत् । अचिच्यवत् । अचुच्यवत् । अडुढौकदिति ।ढौकृ गतौ॑ ।चङ्परे णौ यदङ्गं तस्य योऽभ्यासो लघुपर॑ इति पक्षाश्रयेणाह - अचीचकासदिति । मतान्तर इति ।अङ्गं यत्र द्विरुच्यते॑ इति मते,चङ्परे णौ यल्लघु तत्परो योऽङ्गस्याऽभ्यास॑इति मते चेत्यर्थः । सुब्धातुप्रकरण इति । अतितिरायत् । अससध्रायत् । अविविष्वद्रायत् । अदिदेवद्रायदित्याद्युदाहरिष्यत इत्यर्थः । वृदिंध बाधित्वेति ।ण्यल्लोपाविय॑ङ्ङित्यादिवचनात्, लोपांऽशप्रत्याख्यानपक्षेऽपवादत्वाद्वेत्यर्थः । असंभव इति । तथा च अचुचोरदित्येव रूपमिति भावः । ण्याकृतिनिर्देशादिति ।चङ्परे णा॑वित्यत्र चङ्परे णित्वे इत्यर्थः । तेन णिद्वये सत्यपि णित्वं चङ्परमस्तीति ह्रस्वदीर्घयोरस्ति संभव इति भावः । एतेनअवीवदद्वीणां परिवादकेने॑त्यादौ सन्वद्भावो व्याख्यातः, तत्रापीकत्थमेव पूर्वपक्षसिद्धान्तयोस्तुल्यत्व#आत् ।", "74082": "<<गुणो यङ्लुकोः>> - ब्राउवो वचिरित्यादीति । वावच्यते, चाख्यायत इत्यादिरूपसिद्धिः प्रयोजनमित्यर्थः । धातुग्रहणाऽभावे धिगित्यव्ययादपि स्यात्तस्य क्रियावाचित्वादेकाच्त्वाच्चेति तद्वारणार्थमपि धातुग्रहणमावश्यकमित्याहुः ।", "74083": "<<दीर्घोऽकितः>> - दीर्घोऽकितः । अकितः किम् । यंयम्यते । रंरम्यते । ननु दीर्घश्रुत्योपस्थितेनाऽचाअत्र लोपोऽभ्यासस्ये॑त्यतोऽनुवृत्तमभ्यासस्येत्येतद्विशिष्येत । ततश्चाऽजन्ताभ्यासस्य दीर्घो भवतीत्यर्थात् पापच्यत इत्यादावेव दीर्घो भवेन्न तु यंयम्यते जङ्घनीतित्यादौ । तत्र हि परत्वान्नुकि कृतेऽभ्यासस्याऽजन्तत्वाऽभावाद्दीर्घस्य प्रसक्तिरेव नास्तीति किमनेनाऽकित इत्यनेन । न चाभ्यासावयवस्याऽचो दीर्घ इति वैयधिकरण्यान्वये स्वीकृतेऽकिद्ग्रहणं प्रयोजनवदिति वाच्यं, संभवति सामानाधिकरणे वैयधिकरण्यस्याऽन्याय्यत्वात् । येन नाप्राप्तिन्यायेन नुको दीर्घापवादत्वस्वीकाराच्च । तस्मादकित इति व्यर्थमिति चेत् । अत्राहुः — डोढौक्यते इत्यत्राभ्यासह्रस्वं बाधित्वा परत्वात्दीर्घोऽकितः॑ इति दीर्घे कृते डोढौक्यत इति स्यात् । तस्मादभ्यासविकारेषु उत्सर्गविधीन्बाधका न बाधन्त इति ज्ञापनायाऽकित इति ग्रहणं कर्तव्यमिति । रतथाचोक्तज्ञापकनिर्वाहायदीर्घोऽकितः॑ इत्यत्राऽभ्यासस्याऽचेति वैयकरम्यपक्षस्याश्रयणाद्यंयम्यत इत्यादौ दीर्घात्प्रागेव नुकि कृतेऽपि दीर्घः स्यात्, तद्वारणार्थमकित इत्यावश्यकमिति दिक् । अटाटत इति । इह टशब्दस्य द्वित्वम् ।", "74084": "<<नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम्>> - इत्यादीति । दनीध्वनस्यते । बनीभ्रस्यते । चनीकस्यते । पनीपत्यते । पनीपद्यते । चनीस्कद्यते । एं वनीञ्चीति सनीरुआंतीति दनीध्वंसीतीत्यादि यङ्लुक्युदाहर्तव्यम् । *हन्तेर्हिसायां यङि घ्नीभावो वाच्यः । घ्नीभाव इति । ह्नीभावे कृतेऽपिअभ्यासाच्चे॑ति कुत्वेन जेघ्नीयत इति सिध्यति, तथापि प्रक्रियालाघवायघ्नी॑त्युक्तमिति मनोरमा । अन्ये तुसेर्हिः॑मेर्नि॑रिति इकारोच्चारणसामर्थ्याद्यताएरु॑रित्युत्वं न भवति तथा ह्नीभावे हि कृतेअभ्यासाच्चे॑ति कुत्वं न स्यादित्याशयेन घ्नीभावः कृत इत्याहुः । अत्र च दिग्यादेशेनैव घ्रीभावेन द्वित्वं न बाध्यते पुनः प्रसङ्गविज्ञानादिति केचित् । वस्तुतस्तु यङन्तावयवस्य द्वितीयाऽवजवधिकस्य द्वित्वं, ध्नीभावस्तु प्रकृतिमात्रस्येति विषयभेदाद्द्वत्वं निर्बाधमेव ।", "74085": "", "74086": "", "74087": "", "74088": "", "74089": "<<ऋतश्च>> - ऋतश्च । ऋताऽनुवर्तमानमङ्गं विशेष्यते । ऋदन्तस्याङ्गस्य योऽभ्यासस्तस्येत्यर्थः ।ऋदन्ताद्धातो॑रिति पाठस्तु फलितार्थकथनपरतया नेयः । लोटि — वर्वृतीतु । ३ वर्वतु ३ । वर्वृतात् । वर्वृताम् ३ । वर्वृततु ३ । वर्वृद्धि ३ । अङ्नेति ।पुषादिद्युतादी॑त्यनेन । चर्करीतीति । डुकृञ् करणे । चर्कृयादति । सार्वधातुकत्वात्अकृत्सार्वे॑ तिन दीर्घः । लुङिसिचि वृद्धि॑रिति वृद्धिः । अचर्कारीत् ३ । अचर्कारिष्टाम् ३ । अचर्कारिषु३ । अचर्कारीः ३ । चाकर्तीति । ईट्पक्षे — चाकरीति.लोटि- चाकरीतु । चाकर्तु । चाकीर्ताम् । चाकिरतु । चाकीर्हि । लङि अचाकरीत् । अचाकः । अचाकीर्ताम् । अचाकरुः । लिङि — चाकीर्यात् । आशिषि तु - चाकीर्यास्ताम् । लुङि — अचाकारीत् । अचाकारिष्टाम् । एवं तातरीतीत्यादि । अर्तेरिति - भौवादिकजौहोत्यादिकयोग्र्रहणम् । उरदत्वमिति । के#इत्तुगुणो यङ्लुको॑ रित्यभ्यासस्य गुणमाहुः । फले तु न विशेषः । रिग्रीकोस्त्विति । एवं च अरियर्तीति रूपमुभयोस्तुल्यमिति भावः । आरतीति ।रो री॑ति लोपेढ्रलोपे॑ इति दीर्घः ।दीर्घोऽकितः॑ इति दीर्घस्तु न भवति, कित्त्वात् । अरिय्रतीति । परत्वात्पूर्वमियङ् । ततो यण् । रिग्रीकोस्तुल्यमिदम् । मध्यमोत्तमयोस्तु — अरर्षि । अरियर्षि । अररीषि । अरियरीषि । अरृथः अरियृथः । अरर्मि । अरियर्मि । अररीमि । अरियमरीमि । अरृवः । अरियृवः । अरियृमः । लिटि — अररांचकार । रिग्रीकोस्तु — अरियरांचकार । लुटि — अरियृताम् । आरतु । अरिय्रतु । अरृहि । अरियृहि । अरराणि । अरियराणि । अरराव । अरियराव । लङि — आरः । आरियः । आररीत् । आरियरीत् । आरृताम् । आरियृताम् । आररुः । आरियरुः । आरः । आरियः । आररीः । आरियरीः । आरृतम् । आरियृतम् । आरृत् । आरियृत । आररम् । आरियरम् । आरृव । आरियृव । विधिलिङि — अरृयात् । अरियृयात् अरृयाताम् । अरियृयाताम् । अरृत्युः । लिङीति । आशीर्लिङीत्यर्थः । अरिय्रियादिति । रिग्रीकोः — अरियृ इति स्थिते लिङि रिङ् । बहिरङ्गत्वेन रिङोऽसिद्धत्वाद्यलोपो न भवति,अचः परस्मिन्नि॑ति स्थानिवत्त्वाच्च । न चन पदान्ते॑ति निषेधः शङ्क्यः, स्वरदीर्घयलोपेषु लोपरूपाऽजादेश एव न स्थानिवदित्युक्तत्वात् । न च अकृतव्यूहपरिभाषया इयङ्नेति शङ्क्यं,रिङः स्थानिवत्त्वेन निमित्तविनाशाऽभावादुक्तपरिभाषाया अप्रवृत्तेः । अतएव अरिय्रतीत्यपि सिद्धम् । तत्रापियणः स्थानिवत्त्वेन निमित्तविनाशाऽभावादुक्तपरिभाषाया अप्रवृत्तेः । अतएव अरिय्रतीत्यपि सिद्धम् । तत्रापि यणः स्थानिवत्त्वेन निमित्तविनासाऽभावादुक्तपरिभाषाया अप्रवृत्तेरियङो निर्बातत्वात् । क्वचित्तु मूलपुस्तेषु परत्वान्नित्यत्वाच्च पूर्वं रिङि कृते इयङोऽप्रवृत्तिरित्याशयेन — अरिरियात् अरीरिया॑दिति पठते, तदापाततः । अरिय्रतीति रूपाऽसिद्ध्या पूर्वोत्तरग्रन्थयोर्विरोधापत्तेः । लुङि आरारीत् । आरियारीत् । लृङि आररिष्यत् । जर्गृहीतीति ।नाभ्यस्तस्याची॑ति गुणनिषेधः । मध्यमोत्तमयोस्तु — जर्गृहीषि ३ । जर्घर्क्षि ३ । ज्गृढः ३ । जर्गृहीमि ३ । जर्गर्हिऋ ३ । जर्गृह्वः ३ । जर्गृह्मः ३ । जर्गृहतु ३ । जर्गृहांचकार ३ । जर्गर्हिता । जरिगर्हिता । जरीगर्हिता । इहानुबन्धनिर्देशादूदिल्लक्षण इड्विकल्पो नाजर्गृहीतु । जर्गर्ढु । जर्गृढाम् ३ । जर्गृहतु ३ । जर्गृढि ३ । मिपि जर्गृहाणि ३ । लुङि अजर्गृहीत् ३ । ईडभावे — एकाच॑ इति भष्भावः । अजर्घर्ट् ३ । यद्यपि इहयत्रैकाज्ग्रहणं चे॑ति निषेधाद्भष्भावो दुर्लभस्तथापिगुणो यङ्लुको ॑ रित्यनेनश्तिपा शपे॑त्यादिनिषेधस्याऽनित्यत्वज्ञापनाद्भष्भावोऽत्र प्रवर्तते इत्याहुः । अजर्गृढाम् ३ । अजर्गृहुः ३ । अजर्घर्टः ३ । अजर्घर्ड् ३ । अजर्गृढम् ३ । अजर्गृढ ३ । अजर्गृहम् ३ । अजर्गृह्व ३ । जर्गृह्रात् ३ । अजर्गर्हीत् ३ । अजर्गर्हिष्टाम् ३ । अजर्गर्हिष्यत् ३ । जाग्रहीतीति । ग्रह उपादाने । यङो लुका लुप्तत्वात्तन्निमित्तंग्रहिज्ये॑ति संप्रसारणमिह नेति भावः । जर्गृढ इति ।उरत् ।दीर्घोऽकितः॑ । तत्रैकाच इत्यनुवर्तत इतिएकाचो द्वे॑ इत्यस्मिन् सूत्रे हरदत्तेनोक्तत्वादिति भावः । माधवस्त्विति । अयं भावः — ग्रहोऽलिटि॑ इति सूत्रेयङ्लोपे चोक्त॑मिति वार्तिकतदीयभाष्यकैयटादिपर्यालोचनया जरीगृहीतेत्यादिषु ग्रहेर्यङन्तात्तृचस्तासेर्वा य इट् तस्य दीर्घाऽभावे युक्तिद्वयं लभ्यते । पूर्वस्मादपि विधौ स्थानिद्भाव इत्येके । ग्रहेर्विरोत य इट् तस्य दीर्घ इत्यपरे । तत्राद्यः पक्षो भाष्यवार्तिककाररीत्या । ताभ्यां हिपूर्वत्रासिद्धे न स्थानिव॑दित्यवष्टभ्य दीर्घादिग्रहणस्य प्रत्याख्यानात् । त्रैपादिकदीर्घातिरिक्तदीर्गेऽस्मिन् कर्तव्ये स्थानिवद्भावस्य तन्मते सुवचत्वात् । द्वितीयस्तु सूत्ररीत्या, तेन तु सामान्यतो दीर्घविधौ स्थानिवद्भावस्य वक्तुमशक्यत्वात् । एवं च यङ्लुकि दीर्घप्रवृत्तौ न किंचिद्बाधकम्, यङ्लुकोऽनैमित्तिकत्वात्, अज्झलादेशत्वाच्च स्तानिवद्भावाऽयोगात् ।द्विः प्रयोगो द्विर्वचनं षाष्ठ॑मिति सिद्धान्ताद्यङ्लुगन्ताद्गृह्णातेर्विहितस्य ग्रहेर्विहितत्वाऽनपायाच्च । तद्भाष्यादिविरुद्धमिति । आदिशब्देन कैयटहरदत्तौ गृह्रेते । विरोधाश्चात्र मनोरमायामुपपादितः । तथा हि — एकाचो द्वे प्रथमस्ये॑ति सूत्रेग्रहेरङ्गा॑दिति भाष्यामुपादाय कैयट आह — तृचो हिजरीगृहि॑त्यङ्गं, न तु ग्रहिः, विशेषणसामर्थ्याद्धि यथाश्रुतरूपाश्रयण॑मिति । यद्यपि तत्र यङन्तं प्रक्रम्येदमुक्तं, तथापि युक्तसाम्याद्यङ्लुगन्तेऽपि न दीर्घ इति लक्ष्यते । एकाज्ग्रहणमनुवर्तयन् हरदत्तोऽप्यत्रानुकूलः । न ह्रस्मिन्पक्षे यङ्लुकि दीर्घस्य प्रसक्तिरस्ति । एवं च पूर्वस्मादपि विधौ स्थानिवद्भाव इति ग्रहेर्विहितस्य य इट् तस्यग्र॑हिति यथाश्रुतरूपाश्रयणेगृहीत॑ इत्यादाविटो दीर्घो न स्यादिति वाच्यम्, अङ्गसंज्ञाप्रवृत्तिवेलायां यथाश्रुतरूपस्यैव सत्त्वात् ।ग्राहित॑मित्यादौ तु नैवम् ।एकाच॑ इति समाधानं तु णिज्भिन्नविषयकमेव,निष्ठायां सेटी॑ति णिलोपे ग्राहितमित्यादावेकाच्त्वानपायात् । तदित्थं — यङ्लुगन्ताण्णिजन्ताच्च यङन्ताच्च ग्रहेरिटः । द्विधा त्रिधा चतुर्धा च दीर्घप्राप्तिः समाहिता॑ । अस्यार्थः - यङ्लुगन्तार्द्दीर्घे प्राप्ते समाधानद्वयम् । ग्रहेरङ्गादिति व्याख्यानमेकाच इत्यनुवृत्तिश्चेति । णिजन्तात्तु ग्रहिस्वरूपाऽभावः, विहितविशेषणं, स्थानिवद्भावश्चेति समाधानत्रयम् । यङन्तात्समाधानचतुष्टयम्,एकाचः॑इत्यनुवृत्तिः, पूर्वोक्तसमाधानत्रयं चेति । अजर्घा इति । गृधु अभिकाङ्क्षायाम् । इह अपदान्तस्यापि रेफस्यरो री॑ति लोपो भवत्येव, तत्र मण्डूकप्लुत्या पदस्येत्यनुवर्तनात् । पाप्रष्टीति । प्रच्छ ज्ञीप्सायाम् ।व्रश्चे॑ति षः । पाप्रच्छिता । पाप्रच्छिष्यति । प्रापष्टु । पाप्रष्टात् । पाप्रष्टाम् । पाप्रच्छतु । पाप्रड्ढि । पाप्रच्छानि । अपाप्रच्छीत् । अपाप्रट् । अपाप्रष्टाम् । अपाप्रच्छुः । अपाप्रच्छीः । अपाप्रट् । अपाप्रष्टाम् । अपाप्रष्ट । अपाप्रच्छम् । अपाप्रच्छ्व । अपाप्रश्म । भाष्ये ध्वनितमिति ।च्छोः शू॑डिति सूत्रे भाष्ये क्ङिद्ग्रहणेच्छः षत्वं वक्तव्य॑मिति । अननुवर्तमाने त्वनेन छः शत्वे कृते शान्तत्वादेव षो भविष्यतीति प्रष्टा प्रष्टुमित्यादिसिद्धये व्रश्चादिसूत्रे छग्रहणं न कर्तव्यमिति भावः । एवं हि वदता भाष्यकृता ऊठ् भाविभ्यो यङ्लुङ्नास्तीत्युक्तप्रायम् । अन्यथा दिवेर्यङ्लुकि ईडभावपक्षे देदेति देदेषि इत्यादौ भावाऽभावाभ्यां महान् विशेषः स्यात् । तत्र क्ङिद्ग्रहणाननुवृत्तावूठः प्रवृत्त्या देद्योति देद्योषीत्यादिरूपविशेषलाभात् । ततश्चैतावानेवेत्यवकारो विरुध्येत । रिउआविमव्योस्त्विति । रिउआवु गतिशोषणयोः । मव बन्धने । जाहामीति । ईट्पक्षे जाहयीमि । लोटि जाहयीतु । जाहुत । जाहतात् । जाहताम् । जाहयतु । जाहहि । जाहतात् । जाहयानि । जाहयाव । जाहयाम । लङि — अजाहयीत् । अजाहत् । अजाहताम् । अजाहयुः । अजाहयीः । अजाहः । अजाहतम् । अजाहत ।अजाहयम् । अजाहाव । अजाहाम । जाहय्यात् ।ह्म्यन्तक्षणे॑ति वृद्धिनिषेधः । अजाहयीत् । अजाहयिष्टाम् । अजाहयिष्यत् । ज्वरत्वर ।", "74090": "", "74091": "<<रुग्रिकौ च लुकि>> - रुग्रिकौ च । चकारेण रीगृदुपधस्य॑ इत्यतो रीगनुकृष्यते । रुक उकार उच्चारणार्थः ।", "74092": "ऋतश्च। ऋताऽनुवर्तमानमङ्गं विशेष्यते। ऋदन्तस्याङ्गस्य योऽभ्यासस्तस्येत्यर्थः। `ऋदन्ताद्धातो`रिति पाठस्तु फलितार्थकथनपरतया नेयः। लोटि - वर्वृतीतु। 3 वर्वतु 3। वर्वृतात्। वर्वृताम् 3। वर्वृततु 3। वर्वृद्धि 3। अङ्नेति। `पुषादिद्युतादी`त्यनेन। चर्करीतीति। डुकृञ् करणे। चर्कृयादति। सार्वधातुकत्वात् `अकृत्सार्वे` तिन दीर्घः। लुङि `सिचि वृद्धि`रिति वृद्धिः। अचर्कारीत् 3। अचर्कारिष्टाम् 3। अचर्कारिषु3। अचर्कारीः 3। चाकर्तीति। ईट्पक्षे - चाकरीति।लोटि- चाकरीतु। चाकर्तु। चाकीर्ताम्। चाकिरतु। चाकीर्हि। लङि अचाकरीत्। अचाकः। अचाकीर्ताम्। अचाकरुः। लिङि - चाकीर्यात्। आशिषि तु - चाकीर्यास्ताम्?। लुङि - अचाकारीत्। अचाकारिष्टाम्। एवं तातरीतीत्यादि। अर्तेरिति - भौवादिकजौहोत्यादिकयोग्र्रहणम्। उरदत्वमिति। के#इत्तु `गुणो यङ्लुको` रित्यभ्यासस्य गुणमाहुः। फले तु न विशेषः। रिग्रीकोस्त्विति। एवं च अरियर्तीति रूपमुभयोस्तुल्यमिति भावः। आरतीति। `रो री`ति लोपे `ढ्रलोपे` इति दीर्घः। `दीर्घोऽकितः` इति दीर्घस्तु न भवति, कित्त्वात्। अरिय्रतीति। परत्वात्पूर्वमियङ्। ततो यण्। रिग्रीकोस्तुल्यमिदम्। मध्यमोत्तमयोस्तु - अरर्षि। अरियर्षि। अररीषि। अरियरीषि। अरृथः अरियृथः। अरर्मि। अरियर्मि। अररीमि। अरियमरीमि। अरृवः। अरियृवः। अरियृमः। लिटि - अररांचकार। रिग्रीकोस्तु - अरियरांचकार। लुटि - अरियृताम्। आरतु। अरिय्रतु। अरृहि। अरियृहि। अरराणि। अरियराणि। अरराव। अरियराव। लङि - आरः। आरियः। आररीत्। आरियरीत्। आरृताम्। आरियृताम्। आररुः। आरियरुः। आरः। आरियः। आररीः। आरियरीः। आरृतम्। आरियृतम्। आरृत्। आरियृत। आररम्। आरियरम्। आरृव। आरियृव। विधिलिङि - अरृयात्। अरियृयात् अरृयाताम्। अरियृयाताम्। अरृत्युः। लिङीति। आशीर्लिङीत्यर्थः। अरिय्रियादिति। रिग्रीकोः - अरियृ इति स्थिते लिङि रिङ्। बहिरङ्गत्वेन रिङोऽसिद्धत्वाद्यलोपो न भवति, `अचः परस्मिन्नि`ति स्थानिवत्त्वाच्च। न च `न पदान्ते`ति निषेधः शङ्क्यः, स्वरदीर्घयलोपेषु लोपरूपाऽजादेश एव न स्थानिवदित्युक्तत्वात्। न च अकृतव्यूहपरिभाषया इयङ्नेति शङ्क्यं,रिङः स्थानिवत्त्वेन निमित्तविनाशाऽभावादुक्तपरिभाषाया अप्रवृत्तेः। अतएव अरिय्रतीत्यपि सिद्धम्। तत्रापियणः स्थानिवत्त्वेन निमित्तविनाशाऽभावादुक्तपरिभाषाया अप्रवृत्तेः। अतएव अरिय्रतीत्यपि सिद्धम्। तत्रापि यणः स्थानिवत्त्वेन निमित्तविनासाऽभावादुक्तपरिभाषाया अप्रवृत्तेरियङो निर्बातत्वात्। क्वचित्तु मूलपुस्तेषु परत्वान्नित्यत्वाच्च पूर्वं रिङि कृते इयङोऽप्रवृत्तिरित्याशयेन - `अरिरियात् अरीरिया`दिति पठ�ते, तदापाततः। अरिय्रतीति रूपाऽसिद्ध्या पूर्वोत्तरग्रन्थयोर्विरोधापत्तेः। लुङि आरारीत्। आरियारीत्। लृङि आररिष्यत्। जर्गृहीतीति। `नाभ्यस्तस्याची`ति गुणनिषेधः। मध्यमोत्तमयोस्तु - जर्गृहीषि 3। जर्घर्क्षि 3। ज्गृढः 3। जर्गृहीमि 3। जर्गर्हिऋ 3। जर्गृह्वः 3। जर्गृह्मः 3। जर्गृहतु 3। जर्गृहांचकार 3। जर्गर्हिता। जरिगर्हिता। जरीगर्हिता। इहानुबन्धनिर्देशादूदिल्लक्षण इड्विकल्पो नाजर्गृहीतु। जर्गर्ढु। जर्गृढाम् 3। जर्गृहतु 3। जर्गृढि 3। मिपि जर्गृहाणि 3। लुङि अजर्गृहीत् 3। ईडभावे - `एकाच` इति भष्भावः। अजर्घर्ट् 3। यद्यपि इह `यत्रैकाज्ग्रहणं चे`ति निषेधाद्भष्भावो दुर्लभस्तथापि `गुणो यङ्लुको ` रित्यनेन `श्तिपा शपे`त्यादिनिषेधस्याऽनित्यत्वज्ञापनाद्भष्भावोऽत्र प्रवर्तते इत्याहुः। अजर्गृढाम् 3। अजर्गृहुः 3। अजर्घर्टः 3। अजर्घर्ड् 3। अजर्गृढम् 3। अजर्गृढ 3। अजर्गृहम् 3। अजर्गृह्व 3। जर्गृह्यात् 3। अजर्गर्हीत् 3। अजर्गर्हिष्टाम् 3। अजर्गर्हिष्यत् 3। जाग्रहीतीति। ग्रह उपादाने। यङो लुका लुप्तत्वात्तन्निमित्तं `ग्रहिज्ये`ति संप्रसारणमिह नेति भावः। जर्गृढ इति। `उरत्`। `दीर्घोऽकितः`। तत्रैकाच इत्यनुवर्तत इति `एकाचो द्वे` इत्यस्मिन् सूत्रे हरदत्तेनोक्तत्वादिति भावः। माधवस्त्विति। अयं भावः - `ग्रहोऽलिटि` इति सूत्रे `यङ्लोपे चोक्त`मिति वार्तिकतदीयभाष्यकैयटादिपर्यालोचनया जरीगृहीतेत्यादिषु ग्रहेर्यङन्तात्तृचस्तासेर्वा य इट् तस्य दीर्घाऽभावे युक्तिद्वयं लभ्यते। पूर्वस्मादपि विधौ स्थानिद्भाव इत्येके। ग्रहेर्विरोत य इट् तस्य दीर्घ इत्यपरे। तत्राद्यः पक्षो भाष्यवार्तिककाररीत्या। ताभ्यां हि `पूर्वत्रासिद्धे न स्थानिव`दित्यवष्टभ्य दीर्घादिग्रहणस्य प्रत्याख्यानात्। त्रैपादिकदीर्घातिरिक्तदीर्गेऽस्मिन् कर्तव्ये स्थानिवद्भावस्य तन्मते सुवचत्वात्। द्वितीयस्तु सूत्ररीत्या, तेन तु सामान्यतो दीर्घविधौ स्थानिवद्भावस्य वक्तुमशक्यत्वात्। एवं च यङ्लुकि दीर्घप्रवृत्तौ न किंचिद्बाधकम्, यङ्लुकोऽनैमित्तिकत्वात्, अज्झलादेशत्वाच्च स्तानिवद्भावाऽयोगात्। `द्विः प्रयोगो द्विर्वचनं षाष्ठ`मिति सिद्धान्ताद्यङ्लुगन्ताद्गृह्णातेर्विहितस्य ग्रहेर्विहितत्वाऽनपायाच्च। तद्भाष्यादिविरुद्धमिति। आदिशब्देन कैयटहरदत्तौ गृह्येते। विरोधाश्चात्र मनोरमायामुपपादितः। तथा हि - `एकाचो द्वे प्रथमस्ये`ति सूत्रे `ग्रहेरङ्गा`दिति भाष्यामुपादाय कैयट आह - `तृचो हि `जरीगृहि`त्यङ्गं, न तु ग्रहिः, विशेषणसामर्थ्याद्धि यथाश्रुतरूपाश्रयण`मिति। यद्यपि तत्र यङन्तं प्रक्रम्येदमुक्तं, तथापि युक्तसाम्याद्यङ्लुगन्तेऽपि न दीर्घ इति लक्ष्यते। एकाज्ग्रहणमनुवर्तयन् हरदत्तोऽप्यत्रानुकूलः। न ह्यस्मिन्पक्षे यङ्लुकि दीर्घस्य प्रसक्तिरस्ति। एवं च पूर्वस्मादपि विधौ स्थानिवद्भाव इति ग्रहेर्विहितस्य य इट् तस्य `ग्र`हिति यथाश्रुतरूपाश्रयणे `गृहीत` इत्यादाविटो दीर्घो न स्यादिति वाच्यम्, अङ्गसंज्ञाप्रवृत्तिवेलायां यथाश्रुतरूपस्यैव सत्त्वात्। `ग्राहित`मित्यादौ तु नैवम्। `एकाच` इति समाधानं तु णिज्भिन्नविषयकमेव, `निष्ठायां सेटी`ति णिलोपे ग्राहितमित्यादावेकाच्त्वानपायात्। तदित्थं - `यङ्लुगन्ताण्णिजन्ताच्च यङन्ताच्च ग्रहेरिटः। द्विधा त्रिधा चतुर्धा च दीर्घप्राप्तिः समाहिता`। अस्यार्थः - यङ्लुगन्तार्द्दीर्घे प्राप्ते समाधानद्वयम्। ग्रहेरङ्गादिति व्याख्यानमेकाच इत्यनुवृत्तिश्चेति। णिजन्तात्तु ग्रहिस्वरूपाऽभावः, विहितविशेषणं, स्थानिवद्भावश्चेति समाधानत्रयम्। यङन्तात्समाधानचतुष्टयम्, `एकाचः`इत्यनुवृत्तिः, पूर्वोक्तसमाधानत्रयं चेति। अजर्घा इति। गृधु अभिकाङ्क्षायाम्। इह अपदान्तस्यापि रेफस्य `रो री`ति लोपो भवत्येव, तत्र मण्डूकप्लुत्या पदस्येत्यनुवर्तनात्। पाप्रष्टीति। प्रच्छ ज्ञीप्सायाम्। `व्रश्चे`ति षः। पाप्रच्छिता। पाप्रच्छिष्यति। प्रापष्टु। पाप्रष्टात्। पाप्रष्टाम्। पाप्रच्छतु। पाप्रड्ढि। पाप्रच्छानि। अपाप्रच्छीत्। अपाप्रट्। अपाप्रष्टाम्। अपाप्रच्छुः। अपाप्रच्छीः। अपाप्रट्। अपाप्रष्टाम्। अपाप्रष्ट। अपाप्रच्छम्। अपाप्रच्छ्व। अपाप्रश्म। भाष्ये ध्वनितमिति। `च्छोः शू`डिति सूत्रे भाष्ये क्ङिद्ग्रहणे `च्छः षत्वं वक्तव्य`मिति। अननुवर्तमाने त्वनेन छः शत्वे कृते शान्तत्वादेव षो भविष्यतीति प्रष्टा प्रष्टुमित्यादिसिद्धये व्रश्चादिसूत्रे छग्रहणं न कर्तव्यमिति भावः। एवं हि वदता भाष्यकृता ऊठ् भाविभ्यो यङ्लुङ्नास्तीत्युक्तप्रायम्। अन्यथा दिवेर्यङ्लुकि ईडभावपक्षे देदेति देदेषि इत्यादौ भावाऽभावाभ्यां महान् विशेषः स्यात्। तत्र क्ङिद्ग्रहणाननुवृत्तावूठः प्रवृत्त्या देद्योति देद्योषीत्यादिरूपविशेषलाभात्। ततश्चैतावानेवेत्यवकारो विरुध्येत। रिउआविमव्योस्त्विति। रिउआवु गतिशोषणयोः। मव बन्धने। जाहामीति। ईट्पक्षे जाहयीमि। लोटि जाहयीतु। जाहुत। जाहतात्। जाहताम्। जाहयतु। जाहहि। जाहतात्। जाहयानि। जाहयाव। जाहयाम। लङि - अजाहयीत्। अजाहत्। अजाहताम्। अजाहयुः। अजाहयीः। अजाहः। अजाहतम्। अजाहत।अजाहयम्। अजाहाव। अजाहाम। जाहय्यात्। `ह्म्यन्तक्षणे`ति वृद्धिनिषेधः। अजाहयीत्। अजाहयिष्टाम्। अजाहयिष्यत्। ज्वरत्वर।", "74093": "<<सन्वल्लघुनि चङ्परेऽनग्लोपे>> - चङ्पर इत्येतावतैव णिरिति न लभ्यते, श्रिद्रुरुआउवामपि चङ्परत्वात् । अत आह — अह्गसंज्ञानिमित्तमिति । अङ्गस्याभ्यास इति । अङ्गस्य ये द्वे विहिते तयोः पूर्वोऽभ्यास इत्यर्थः । अङ्गस्येति नावर्तत इति । अस्मस्तु व्याख्यानेचङ्परे॑ इत्येतावतैव णिरिति लभ्यते, श्रिद्रुरुआउषु परेषु अङ्गत्वाऽसंभवादतो व्याचष्टे — चङ्परे णौ यदङ्गमिति । चङपरे इत्यस्यैव व्याख्यानंणा॑विति ज्ञेयम् । अनग्लोपे किम् । अचकथत् ।", "74094": "<<दीर्घो लघोः>> - दीर्घो लघोः । लघोरभ्यासस्येति । ननु अज्झल्समुदायाऽभ्यासस्य लघुसंज्ञा दुर्लभा,ह्रस्वं लघु॑ इति सूत्रितत्वात् । नैष दोषः । इमे हि न समानाधिकरणे षष्ठ्यौ, किं तु व्यधिकरणे, तथा चाभ्यासावयवस्य लघोर्दीर्घ इत्यर्थः ।लघुनि चङ्परेऽनग्लोपे॑ इतिच सर्वमिहानुवर्तते । तच्च प्राग्वदेव द्वेधा व्याख्येयं । तदाह — सन्वद्भावविषय इति ।हलादे॑रिति प्राचोक्तमिहोपेक्षितं, निष्प्रमाणत्वात् । न हि मुनित्रयोकिंत विना हलादेरिति व्याख्यातुमुचितम् । न चैवमौन्दिददत् आट्टिटदित्यादौ दीर्घः स्यादिति शङ्क्यम्, अङ्गलघ्वोरुभयोरपि णिचं प्रति विशेष्यत्वे दीर्घस्य तत्राऽप्राप्तेः । चङ्परं हि यदङ्गमुन्द् इति, न तदीयोऽभ्यासो, न वा चङ्परणिच्परं यल्लघु तत्परः । एतेन आट्टिटदित्यादिभाष्योदाहरणमेवहलादे॑रिति व्याख्याने प्रमाणमिति, केषांचिदुत्प्रेक्षापि प्रयुक्ता । दीर्घाऽप्राप्त्यैवोदाहरणसौष्ठवस्योक्तत्वात् । लघोः किम् । क्ष्णु हिंसायाम् । अचिक्ष्णवत्॥ शास्त्रेऽस्मिन्कार्यकालं संज्ञापिरभाषं,यथोद्देशं संज्ञापरिभाषमिति पक्षद्वयमप्यस्ति जातिव्यक्तिपक्षवत् । तथा चपूर्वोऽभ्यासःर॑ इत्यस्यसन्वल्लघुनी॑त्यादिना सह पक्षद्व्येऽपि एकवाक्यता समानैव, तथापि कार्यकालपक्षे पदैकवाक्यता, यथोद्देशपक्षे तु वाक्यैकवाक्यतेत्यस्ति विशेषः । तत्रेदानीं कार्यकालपक्षपातिमाधवमतं तावद्व्याचष्टे — संज्ञाया इत्यादिना । श्लोकद्व्येन । अङ्गं यत्रेति । अयं भावः — सन्वल्लघुनि॑दीर्घो लघो॑रिति सूत्रद्वये अङ्गस्येत्यनुवर्तते, अभ्यासस्येति च । तेनाङ्गस्य ये द्वे तयोः पूर्वोऽभ्याससंज्ञकस्तस्येति फलितम् ।द्वे॑ इत्यत्र चउच्चारणे॑ इति विशेष्यसमर्पकमध्याह्यियते, तच्च कृदन्तं , तद्योगादङ्गस्येति कर्मणि षष्ठी । तेन यत्राङ्गं द्विरुच्यते तत्रैव पूर्वस्य दीर्घसन्वद्भावौ स्त इति । अचीकरत् । अपीपचत् । युक्तं चैतत् । अङ्गस्येति षष्ठ्याः कारकविभक्तित्वसंभवे तदुपेक्ष्य शेषष्ठीत्वकल्पनाया अन्याय्यत्वात् । नाङ्गं द्विरुच्यते इति । एवं च अचचकासत् । आर्तथपत् । और्णुनवदित्येव भवतीति भावः । अवयवः कश्चिदिति । हलादेः प्रथमावयवो द्विरुच्यते, अजादेस्तु द्वितीयावयव इत्यर्थः । अङ्गं यत्र द्विरुच्यते तत्र पूर्वस्य दीर्घसन्वद्भावौ विधीयमानौ एकाक्ष्वेवेति च फलितम् । किंच अस्मिन्पक्षेएकाच॑ इत्यङ्गस्य विशेषमं शब्दतोऽपि सुलभम्,एकाचो द्वे॑ इत्यधिकारादित्याशयेनाह — तस्मादेकाक्ष्विति । स्यादेतत् — उक्तरीत्या ह्रस्वहलादिशेषचुत्वादीन्यपि अनेकाक्षु न स्युः । न चेष्टापत्तिः । दिद्रासति । दिदरिद्रासति । जिगणयिषतीत्यादिलक्ष्यस्य सर्वसंमतत्वात् । तन्निर्वाहार्थं यथोद्देशपक्ष आश्रीयत इतिचेत्, तर्हि इहापि स एवोचितः । अर्थाधिकारपक्षस्यैवाभ्यर्हितत्वात्, वृत्त्यादिषु स्वीकृतत्वाच्चेत्यभिप्रेत्याह — वस्तुत इति । ऊर्णौ दीर्घ इति ।स्या॑ दित्यपकृष्यते । और्णुनवत् । इह सन्वद्भावस्तुनोपयुज्यते, णौ कृतस्यादेशस्य स्थानवद्भावेन, निषेधेन वा नुशब्दस्य द्वित्वे सति अभ्यासे अवर्णाऽभावादिति भावः । अर्थापयताविति । अर्थमाचष्टे इत्यर्थे णिच्यापुगागमे ततश्च च्लेश्चङि दीर्घस्य,सन्यतःर॑ इतीत्वस्य च प्रवृत्तौ आर्तीथपदित्येव भवतीति भावः ।अर्थ उपयाच्ञाया॑मित्यस्य तु चङ्परे णौ आर्तथतेति भवति, न तु तत्र दीर्घसन्वद्भावयोः प्रवृत्तिरिति चुरादिषु स्फुटीभविष्यति । उभयमिति । दीर्घः, सन्वच्चेत्येतद्व्यमित्यर्थः । न स्यात्स्याच्च व्यवस्थयेति ।चङ्परे णौ यल्लघ्वि॑ति व्याख्याने न स्यात्,चङ्परे णौ यदङ्ग॑मिति व्याख्याने तु स्यात् । एवं च अचचकासत्चीचकासदिति व्याख्याभेदेन रूपद्वयमित्यर्थः । ननु यताचङपरे णौ यल्लघ्वि॑ति व्याख्यानेयेन नाव्यवधान॑ न्यायेन अपीपचदित्यादावेवोभ्यं भवति, न त्वनेकव्यवाये अचचकासदित्यादौ, तथा न्यायसाम्येनलघनि योऽभ्यास॑ इत्यत्राप्येकनैव व्यवायस्य स्वीकार्यत्वादचिक्षणदित्यादौ सन्वदितीत्वं न स्यादिति चेत् । अत्राहुः — अत्स्मृद्दृत्वरे॑ तीत्त्वापदेन अत्ववचनेन तुल्यजातीयापेक्षेण संयोगस्य व्यवधानेऽपीत्वस्य ज्ञापितत्वान्नोक्तदोषः । अत एवदीर्घो लघो॑रिति सूत्रे लघोरिति सार्थकम् । माधवोऽपि जागृधातावित्थमेवाह । एवं च वदन् यथोद्देशपक्षमेवाशिश्रियत् । तता च ऊर्णुधातौ यत्तेनोक्त॑मौर्णुनवदित्यत्रदीर्घो लघो॑रित्यब्यासस्य दीर्घो न भवति, चङपरे णौ यदङ्गं तसय् योऽभ्यास इति सूत्रार्थात् । अत्र त्वह्गावयवस्याभ्यासो न त्वङ्गस्ये॑ त्यादि, तत्र तस्याप्याग्रहोनास्तीति गम्यते । अतएव चकास्तावचीचकासदित्युदाजहार । तथा च मतभेदाभिप्रायेण पूर्वापरग्रन्थविरोधः समाधेय इति । कातन्त्रपरिशिष्टे त्वित्वदीर्घयोरजीजागरदित्युदाहृतं, तन्मतदव्येऽप्यसंभवादुपेक्ष्यम् । व्यवस्थामेव विवृणोति णेरिति ।सन्निहित॑मिति हेतुगर्भविशेषणं,लघुनी॑ त्येतण्णेर्विशेष्यं भवति, सन्निहितत्वादित्यर्थः । अङग्मेवेति । अस्य चङ्पर#ए इत्यत्र आदेशरूपपचङंशे आकाङ्क्षाऽभावेऽपि णाविति प्रत्ययांशे उत्थिताकाङ्क्षत्वादिति हेतुः स्पष्ट एवेति भावः । कैयटेनैवेति । तथा च एकं हरदत्तमतम्परं तु कैयटमतमिति विषयविभागेन व्याचक्षाणा उपेक्षा इति भावः । चङ्परे इत्यावत्र्य अग्लोपविशेषणतयापि योजितं, तस्य फलमाह — णेरिति । श्रिद्रुरुआउषु परतोऽग्लोपित्वाऽसंबवादिहापि चङ्पर इत्येतावतैव णाविति लभ्यत इति बोध्यम् । अगितामपिति । पचिकमिशकिप्रभृतीनामित्यर्थः । नहीत्संज्ञकानां लोपो णिचं प्रतीक्षत इति भावः । णोपदेशफलमिति । अनुस्वार इत्यर्थः । दंध्रन्तीति ।नुगतोऽनुनासिकान्तस्ये॑इत्यभ्यासस्य नुक् ।", "74095": "", "74096": "", "74097": "<<ई च गणः>> - ई च गणः ।अत्स्मृदृत्वरे॑त्यत्र योऽत् स चकारेण समुच्चीयते । स्तन गदी ।गदी॑ त्यत्र इका निर्दशादतो लोपः । अनेकाच्त्वेनाषोऽपदेशत्वात्षत्वं न । तिस्तनयिषति ।स्तनिह्मषिपुषी॑ति णेरिष्णुचिअयामन्ते॑त्ययादेशः ।स्तनयित्नुर्बलाहकः॑ । पत गतौ वा । गणसूत्रमिदम् । कृपयतीति ।कृपो रो लः॑ इति न प्रवर्तते, तत्र कृपू सामर्थ्य इत्यस्य ग्रहणात्, कृपप्रकृतिकणिजन्तस्य तु धात्वन्तरत्वात् । स्पृह । आप्तुमिच्छा ईप्सा । अबभामदिति । अल्लोपस्य स्थानिवत्त्वात्णौ चङी॑त्युपधाह्रस्वो न । सूच । पिशूनो दुर्जनस्तस्य कर्म पैशुन्यम् । अषोपदेशत्वादिति । अनेकाच्त्वादिति भावः । साम सान्त्वने इत्यतीतस्य त्विति । अयं धातुरितः प्राङ् मूलपुस्तके न कुत्रापि दृष्टः, पुस्तकान्तरेषु मृघ्यः । केचित्तुसाम सान्त्वने॑ इत्यस्य क्वाप्यपठितत्वेपिषान्त्व सामप्रयोगे॑ इति प्राक्पठितमेव । तत्र चषान्त्व॑सामे॑ति धातुद्वयं प्रयोगे वर्तते । प्रयोगश्च सान्त्वप्रयोगपरः । स च सान्त्वनमेवेत्येवं ग्रन्थकाराशयं वर्णयित्वा स्थितस्य गतिं समथ्र्यन्ते । गवेष । मार्गणम् — अन्वेषणम् । ऊन परिहाणे । अस्माण्णौ चङि द्वित्वात्परत्वादन्तरङ्गत्वाच्च अल्लोपेनअजादेर्द्वितीयस्ये॑ति णिचा सह दित्वे औ निनदित्यनिष्टं प्रसज्येत, किं तु औननदित्येवं रूपमिष्टम् । तच्च नशब्दस्य दित्वं सिध्यतीति वाच्यं, णिचो द्वित्वनिमित्तत्वाऽभावादत आह — ओः पुयण्जीत्यादि । संपूर्णसूत्रं लिङ्गमिति केषांचिद्भ्रमं निवर्तयितुमाह — पययोरिति । अयं भावः -स्मिपूङ्ञ्ज्वशां सनि॑,सनीवन्तर्द्धे॑ति सूत्राभ्यां पूङ्यौतिभ्यां परस्य सन इडागमे कृतेद्विर्वचनेऽची॑ति स्थानिवद्भावादादेशनिषेधाद्वा उवर्णान्तस्यैव द्वित्वमिति — पुपविषते युयविषतीत्यनिष्टं प्रसज्येत । ततश्चाऽभ्यासोवर्णस्येत्वार्थं पययोरित्यपेक्षितम् । अन्यथा पिपविषते यियविषतीति न सिध्येदिति । वर्गप्रत्याहारेति ।पुयण्जी॑ति वर्गादिग्रहणफलं तु — अबीभवत् अमीमवत् अरीरवत्, अलीलवत्, अजीजवत्, बिभावयिषति मिमावयिषति रिरावयिषति लिलावयिषतीत्यादिरूपसिद्धिरिति वाच्यम् ।तदुभयं सूपपादम् । णिचि परत्वादन्तरङ्गत्वाच्च वृद्ध्यादौ कृते द्वित्वे सत्यभ्यासे उवर्णस्य दुर्लभत्वात्, अकारस्यसन्यतः॑ इतीत्वेन रूपसिद्धेश्च । ततो वर्गादिग्रहणं व्यर्थं सदुक्तार्थे ज्ञापकमिति भावः । ज्ञापनफलं तु यत्रओः पुयण्जी॑त्यस्याऽप्राप्तिस्तत्र बोध्यम् । तद्यथा - चुक्षावयिषति । चङि अचुक्षवत् । तु इति सौत्रो धातुस्ततो णौ सन् । तुतावयिषति । चङि अतूतवत् । नुनावयिषति । अनूनवत् । पुस्फारयिषति । अपुस्फुरत् ।चिस्फुरोर्णौ॑ इति वा आत्वम् । अपुस्फरदित्यादिष्वभ्यासे उकारश्रवणं भवति ज्ञापनात्, अन्यथा चिक्षावयिषतीत्यादि प्रसज्येत । तदेतत्सकलमभिप्रेत्य वार्तिककृतोक्तम्ओः पुयण्जिषु वचनं ज्ञापकं — णौ स्थानिवद्भावस्ये॑ति । स्थानिवद्भावः प्रतिषेधस्याप्युपलकक्षणम् । अच आदेशो न स्यादिति । प्रतिषेधपक्षो मुख्य इत्यभिप्रेत्येदमुक्तम् । प्रतिषेधः स्थानिवद्भाव्सयाप्युपलक्षणमिति वा बोध्यम् । नन्वेवं कृतसंशब्दन इति धातोर्णौ चङि इरादेशात्प्रागेव कृत इत्यस्य द्वित्वे उरदत्वे च अचकीर्तदिति स्यान्न तु अचिकीर्तदित्यत आह — यत्र द्विरुक्ताविति । आद्योऽजिति । चङ्सहितस्योत्तरखण्डत्वमभ्युपेत्येदमुक्तम् । अन्ये तु आद्यग्रहणं स्पष्टप्रतिपत्त्यर्थं, धातोरवयस्यैकाचो दित्वे सत्यभ्यासोत्तरखण्डे अज्द्वयाऽसंभवादित्याहुः । औजढत् औननदित्यादौ परिनिष्ठिते अवर्णस्याऽलाभादाह — प्रक्रियायामिति । चुक्षावयिषतीत्यादौ प्रक्रियायामवर्णो न लभ्यते इत्याह — परिनिष्ठिते रूपे वेति । वाशब्दोऽनास्थायाम् । क्वचिदवर्णपरत्वं विवक्षितं, न तु अमुकत्रैवेत्याग्रह इति भावः । सजातीयापेक्षत्वादिति ।पुयण्जी॑त्यभ्यासोत्तरखण्डे अवर्णपरा भवन्ति । अतस्तथैव ज्ञापकमित्यर्थः । अत एव भाष्यकृतापवर्गादेरन्यस्मिन्नपि हलि अवर्णपरे एव स्थानिवत्तवमिति अचिकीर्तदित्यादौ नाऽतिव्याप्ति॑रिति सिद्धान्तितम् । ननुओः पुयण्जी॑ ति सूत्रे णिचि इति नास्ति, तथा च णिच्यच आदेशो न स्यादित्यर्थे कथमिदं ज्ञापकं भवेत् । न च सामान्यतो द्वित्वे कार्ये अच आदेशो न स्यादित्येव ज्ञाप्यतामिति वाच्यं, दिदवनीयिषति निनयिषतीत्यादावभ्यासे उकारश्रवणप्रसङ्गादिति चेत् । अत्राहुः — येन नाव्यवधानमित्यकेन प्रत्ययेन द्वित्वनिमित्तप्रत्ययस्य व्यवधानमाश्रीयते । तच्च णेरेव संभवतीति णिज्विषयकमेव ज्ञापकं, दिदवनीयिषतीत्यत्र तु ल्युटा क्यचा च व्यवदानादनेकव्यवधानमिति न तद्विषयकं ज्ञापनमिति । अस्मन्मते आचारक्विबन्ताद्दिवनशब्दात्सनि दुदवनिषतीति स्यात्, तच्च नेष्यते,णौ स्थानिवद्भावस्य ज्ञापक॑ मिति वार्तिकोक्तेः । स्थानिवत्त्वेन प्रतिषेधेन वा णावेवाभ्यासे उकारेण भवितव्यम् । अतो वार्तिककारवचनादेव णौ स्थानिवदिति स्वीकर्तव्यम् । तथा च न पूर्वोदाहरणेषु दोष इति दिक् । फलितमाह — प्रकृतेत्वित#इ । औननदिति ।नोनयति ध्वनयती॑ति चङ् निषेधस्त्विह न । तत्र छन्दसीत्यनुवृत्त्यामा त्वायतो जरितुः काममूनयी॑रित्यादिवेदे एव तन्निषेधात् । यद्यपि परिनिष्ठित एवाऽवर्णपरत्वमितयाशयेनउवर्णादेश एव स्थानिवत्स्यान्नाऽन्य॑ इति वदतां बोपदेवादीनां मते औनिनदित्येव भाव्यम्, अवर्णादेशस्य स्थानिवत्त्वे तु परिनिष्ठितरूपे अवर्णपरत्वाऽलाभात्, तथापि अचिकीर्तदित्यादौ स्थानिवत्त्वाशङ्क्य उत्तरभागे अवर्णाऽभावादिति भाष्यकारोक्तपरिहारपर्यालोचनया उवर्णादेश एव स्थानिवदिति नियमो नास्तीत्यौननदितिरूपं निर्बाधमेव । चङि उपधालोपे तस्य स्थानिवत्त्वात्पाय्शब्दस्य द्वित्वमिति वृत्तिग्रन्थो विरुध्येत । अपि चशुष्किका शुष्कजङ्घा च क्षामिमानौजढत्तथे॑ति वैयाघ्रपद्यवार्तिकस्य औजढदिति प्रयोगोऽपि विरुध्येत । एतद्धि पूर्वत्राऽसिद्धमित्यस्य प्रयोजन कथनवार्तिकम् । तद्यथा - शुष्किकेत्यत्र तुउदीचामातः॑ इतीत्वविकल्पो न,शुषः कः॑इति कत्वस्याऽसिद्धत्वेन यकपूर्वत्वाऽभावात् ।सुष्करजङ्घे॑त्यत्र कत्वस्याऽसिद्धत्वादेवन कोपधायाः॑ इति पुंवद्भावनिषेधो न । क्षामिमानित्यत्र तुमादुपधाया॑ इति वत्वं न,क्षायो मः॑ इति मत्वस्याऽसिद्धत्वात् । वहेः क्तान्ताण्णिचि चङि औजढदित्यत्र ढत्वस्याऽसिद्धत्वाण्णौ कृतस्य टिलोपस्य स्थानिवत्त्वाच्च ह्तशब्दस्य द्वित्वं ।कुहोश्चुः॑अभ्यासे चर्च॑ । सन्वदित्वं तु अनग्लोपीति प्रतिषेधान्न भवति । एवं काशिकायामपिपूर्वत्रासिद्ध॑मिति सूत्रे औजढदित्युदाहृत्य, ऊढिमाख्यदौजिढदित्येतत्तु क्तिन्नन्तस्य ऊढिशब्दस्य भवतीत्युक्तं, तदपि विरुध्येत ।उवर्णादेश एव स्थानिव॑दिति नियमे णौ कृतस्य टिलोपस्याऽत्र स्थानिवत्त्वाऽभावेन ह्तशब्दस्य ह्तिशब्दस्य वा द्वित्वाऽसंभवात् । एवं चाऽङ्कधातोर्णिच्यल्लोपे चङि स्थानिवत्त्वात्कशब्दस्य द्वित्वे आञ्चकदिति रूपमेव सर्वसंमतं, न त्वाञ्चिकदिति बोपदेवोक्तमिति बोध्यम् । नन्वचिकीर्तदित्यादौ स्थानिवत्त्वमाशङ्क्योत्तरभागे अवर्णाऽभावादिति वदन्भाष्यकारो न बोपदेवग्रन्थस्य प्रतिकूलः । उत्तरभागे परिनिष्ठितरूपे अवर्णपरत्वमुवर्णादेशस्यैव संभवति नान्यस्येत्याशयेनैव भाष्यकारेण तथोक्तमिति वक्कतुं शक्यत्वादिति चेत् । मैवम् । तथा हि सति यत्रओः पुयण्जी॑त्यस्याऽप्राप्तिस्तत्राप्युवर्णादेश एवस्थानिवत्, ज्ञापकस्य सजातीयापेक्षत्वादित्येवमेव भाष्यकारो वदेत् । ऋजुमार्गेण सिध्यतोऽर्थस्य वक्रेण साधनाऽयोगादिति दिक् । सङ्केत । चत्वारोऽत्र धातवः । पाठान्तरमिति ।सङ्कोचने॑ इत्येतत्पर्यन्तम् । अनेकाच्त्वेनाऽषोपदेशत्वात्षत्वं नेति ध्वनयति — अतिस्तेनदिति । गृहयते इति । अल्लोपस्य स्थानिवत्त्वान्न गुणः । लुङि — अजगृहत । अग्लोपान्न सन्वद्भावः । मृगयते इति । मार्गयति मार्गतीति तु मार्ग अन्वेषणे इत्याधृषीयस्य । अर्थ । अर्थयते इति ।वृद्धेर्लोपो बलीया॑नित्यल्लोपान्न वृद्धिः । बोपदेवस्तु — वृद्धौ कृतायां पुकि चाऽर्थापयते इति रूपमाह, तद्रभसात् । न चअर्थवेदसत्याना॑मित्यापुक् स्यादेवेति वाच्यं, तत्र प्रातिपदिकस्य ग्रहणात् । अदन्तत्वसामर्थ्यादिति । कथादिषूपधावृद्धिदीर्घसन्वद्भावविरहेण, सारभामप्रभृतीनामुपधाह्रस्वस्य, गृहमृगप्रभृतीनामुपधागुणस्य च व्यावर्तनेनाऽदन्तत्वं सार्थकम् । इह त्वदन्तत्वे प्रागुक्तफलाऽभावाण्णिचः पाक्षिकत्वं ज्ञापयीति भावः । नन्वदन्तत्वसार्थकत्वायवाऽल्लोप॑ इति प्राचोक्तमेवाभ्युपगम्यतामिति चेत् । अत्राहुः — चिन्तयतेरिदित्त्वं सामान्यापेक्षं ज्ञापक॑मिति मते इह अदन्त्तवस्य फलं स्पष्टमेव ।विशेषाऽपेक्षं ज्ञापक॑मिति मते तु तत्र तत्र आकार ईकार उकार ऊकारश्चेत्यनुबन्धा यथा ज्ञापकतय#आ स्वीकृतास्तथा अदन्तताऽपि णिच्विकल्पमेव ज्ञापयतु, कॢप्तेनैव णिज्विकल्पेन कृतार्थत्वे अपूर्वस्य लोपबाधस्य कल्पनाया अन्याय्यत्वात् । एवं हि सति मतद्वयेऽप्येकरूपमेव फलं लभ्यत इति । असुसूत्रदिति । अनेकाच्त्वान्न षत्वम् । प्रातिपदिकादिति । यदि सुबन्ताण्णिच् स्यात्तदा रुआजयतीत्यादौ कुत्वं स्यादिति भाव इति केचित् । तन्न । इष्ठवद्भावेन भत्वे कुत्वस्याऽप्रसक्तेः । अत्रबहुलं णिच् स्यात् । स च णिच् इष्ठवद्भवती॑त्यन्वयात्पक्षे वाक्यमपि भवतीत्याह — पटुमाचष्ट इति । धात्वर्थ इत्यनेन करणऽऽख्यानादिर्गृह्रत इति भावः । ननु बहून्याचष्टे भावयीत्यत्रइष्ठस्य यिट् चे॑ति णिचोऽपि यिट् स्यात् । अत्राहुः — टे॑रिति सूत्रेणाविष्ठवत्प्रातिपदिकस्ये॑ति वार्तिके प्रातिपदिकग्रहणं प्रत्ययकार्याणामतिदेशो माभूदित्येवमर्थम् । तेनाऽत्र णिचोऽपीण्न भवति, तदभावे भूभावेनापि न भवितव्यं, संनियोगशिष्टत्वात्, किंतु बहयतीत्येव भवितव्यमिति मतान्तरम् । एतच्च तत्रैव सूत्रे कैयटे स्पष्टमिति । अन्ये त्वाहुः — इष्ठवदिति हि सप्तम्यन्ताद्वतिः, णावित्युपमेये सप्तमीदर्शनात्, तेन इष्ठनि परे पूर्वस्य यत्कार्यं तदतिदिश्यते न त्विष्ठनोऽपीति । पुंवद्भावेति । अतिशयेन पट्वी पटिष्ठेत्यत्रभस्याऽढे तद्धिते॑ इति पुंवद्भावः । क्रशिष्ठः द्रढिष्ठ इत्यत्रर ऋतो हलादे॑रिति रभावः ।साधिष्ठ॑ इत्यादौ टिलोपः । अतिशयेन रुआग्वी रुआजिष्ठ इत्यत्रविनमतोर्लु॑गिति विनो लुक् । अतिशयेन गोमान् गविष्ठ इत्यादौ मतुपो लुक् । स्थविष्ठ इत्यादौस्थूलदूरे॑त्यादिना यणादिलोपः । प्रेष्ठ इत्यादौप्रियस्थिरे॑त्यादिना प्रस्थाद्यादेशः । तद्वण्णावपीति । पुंवद्भावस्योदाहरणम्- ऐनीमाचष्टे एतयति । टिलोपेनैव सन्नियोगशिष्टत्वान्नकारनिवृत्तौ सिद्धायां पुंवद्भावग्रहणं दरदमाचष्टे दारदयतीत्यादिसिध्यर्थमिति बोध्यम् । द्रढयतीत्यादौ रभावः । रुआग्विणमाचष्टे रुआजयतीत्यत्र विनो लुक् । गोमन्तमाचष्टे गवयतीत्यत्र मतुपो लुक् । अङ्गवृत्तपिरभाषया वृद्धिरत्र न भवति । प्रियमाचष्टे प्रापयति, स्थिरमाचष्टे स्थापयीत्यादौ तु वृद्धिर्भवत्येव,द्वयो॑रिति निर्देशेन तस्याः परिभाषाया अनित्यत्वज्ञापनादिति दिक् । परत्वाद्वृद्धाविति । लोपः शब्दान्तरप्राप्त्याऽनित्यः । वृद्धिरप्यनित्या । उभयोरनित्ययोः परत्वाद्वृद्धिः । तस्यां कृतायामौकारस्याऽऽवादेशात्प्रागेव परतवाद्वार्णादाङ्गस्य बलीयस्त्वाच्च लोप इत्यर्थः । एवं चाऽनग्लोपित्वाद्दीर्घसन्वद्भावौ स्त इत्याह - अपीपटदिति । इह टिलोपस्य स्थानिवत्त्वेन व्यवधानाद्दीर्घसन्वद्भावौ नति न भ्रमितव्यम्, स्थानिवत्त्वेऽप्यङ्गस्य णिच्परत्वाऽनपायात् । चङ् परे णौ यल्लघ्विति पक्षेऽपि अभ्यासस्य आदिष्टादचः पूर्वत्वेन स्थानिवत्त्वमेव नास्तीति दीर्घसन्वद्भावौ स्त एव । केचित्तुचङ् परे णौ यल्लघ्वि॑ति पक्षे पटुशब्दोकारस्य वृद्धौ कृतायां णिच्परं लघु दुर्लभमिति सन्वद्भावाऽप्राप्त्या अपपटदित्येव रूपम् । प्रथमं टिलोपः, पश्चाद्विर्वचनमिति मत्वा अभ्यासस्य आदिष्टादचः पूर्वत्वेन स्थानिवत्त्वमेव नास्तीति मनोरमोक्तं यत्, तन्नादर्तव्यम् ।णिच्यच आदेशो न स्याद्वित्वे कर्तव्ये॑ #इति निषेधपक्षस्य मुख्यतया प्रागुक्तत्वेन प्रथमं टिलोपस्य दुरुपपादत्वादित्याहुस्तन्मन्दम् । अपीपटदित्यत्र द्वितीयाऽच्पर्यन्तस्य प्रथमावयवस्य द्वित्वमिति हि निर्विवादम् । तथा च द्वितीयस्याऽचो द्वित्वकरणात्प्रथमं टिलोपः स्यादेवेति । वृद्धेर्लोप इति । कृताऽकृतप्राप्तिमात्रेण लोपो नित्यः, वृद्धिस्त्वनित्या, टिलोपे सति स्थानिनः पूर्वत्र कर्तव्यायां लोपस्य स्थानिवत्त्वात्, स्वविधौ स्वस्य स्थानिवत्त्वाऽभावाच्च । अस्मस्तु पक्षेमुण्डमिश्रे॑ति सूत्रे हलिकल्योरदन्तत्वनिपातनस्य वैयथ्र्यमेव, वृद्धेः प्राक् टिलोपे सति अग्लोपित्वसंभवात् । तथा चाऽदन्तत्वनिपातनसामर्थ्याट्टिलोपात्पूर्वं वृद्धिरेवेत्यनग्लोपित्वादपीपटदित्येव रूपं साध्विति प्रतीयते । भाष्यद्वयप्रामाण्याद्रूपद्वयमपि साध्विति बहवः । लडर्थस्त्विति । करोत्याचष्टे इति हि कर्तरि वर्तमाने लडेकवचनम् । लडर्थाऽविवक्षायां तु ण्यन्ताद्भावकर्मणोर्भूतभविष्यतोर्द्वित्वबहुत्वयोश्च प्रत्ययो भवत्येवेति भावः । यद्यप्येकत्वादिसङ्ख्या लडर्थो न भवति, तथापि लडादेशतिङर्थोऽपीह लडर्थत्वेन गृहीत इति ज्ञेयम् । तेनातिक्रामति । तृतीयाप्रकृतिभृतात्प्राप्तिपदिकाण्णिच् । तृतीयान्तण्णिजित्यन्ये । एवं तत्करोतीत्यत्रापि द्वितीयाप्रकृतिभूताद्द्वितीयान्ताद्वा णिच् । न च सुबन्ताण्णिचि वाचं करोत्याचष्टे वाचाऽतिक्रामति वा वाचयतीत्यत्र कुत्वं विनो लुकि प्राप्तस्य पदकार्यस्य बाधार्थं भसंज्ञातिदेशस्यावश्यकत्वात्,तत्करोती॑त्यादिनिर्देशानुगुणत्वाच्च सुबन्ताण्णिजिति पक्ष एव ज्यायानित्याहुः ।", "81001": "<<सर्वस्य द्वे>> - सर्वस्य द्वे । सर्वशब्दस्य द्वे भवत इति विधिरत्र न शङ्क्यः, किं तुनित्यवीप्सायो॑रित्येवमादीनां विधेयकार्यिणोरनिर्देशेन साकाङ्क्षत्वात्स्वरितत्वाच्चाधिकारोऽयं, तदाह — — इत्यधिकृत्येति । एतदर्थरूपमधिकृत्येत्यर्थः । स्वरूपग्रहणं तु न भवति,नाम्रेडितस्यान्त्यस्य तु वे॑ति लिङ्गात् । स्वरूपग्रहणे हि सति द्विरुक्तसर्वशब्दस्यैव परमाम्रेडितं स्यान्न तु द्विरुक्तस्याऽव्यक्तानुकरणशब्दस्य परमितिनाम्रेडितस्ये॑ति पररूपनिषेधोऽन्त्यस्य तकारस्य विकल्पविधिश्च कथं सङ्गच्छेत । ननुनित्यवीप्सयो॑रित्यादौपदस्ये॑ति वक्ष्यमाणमपकृष्य पदस्यैव द्वित्वं विधीयते इति किमनेन सर्वस्येति ग्रहणेनेति चेत् । अत्राहुः — ॒स्वादिषु ॑इति पदसंज्ञामादायवृक्षाभ्या॑मित्यादौ प्रकृतिभागमात्रस्य द्विर्वचनं स्यात् । कृते तुसर्वस्ये॑ति ग्रहणेसर्वशब्दोऽवयवकार्त्स्न्त्ये वर्तते॑इतिसर्वावयवोपेतस्य द्वित्वं न तु कस्चिदवयो वज्र्यते॑इत्यर्थलाभादिष्टसिद्धिरिति । इहद्वे॑इत्यस्य सङ्ख्येयापेक्षायां शब्दरूपे गृह्रेते, शब्दानुशासनप्रस्तावात् ।सर्वस्ये॑ति स्थानषष्ठी । सोऽयं स्थाने द्विर्वचनपक्षः । यदि तु उच्चारणे सङ्ख्येये, तदा स्थान्यादेशभावो न सम्भवति, निवृत्तिधर्मा हि स्थानं, भवति, सर्वं चेन्निवृत्तं कस्योच्चारणं स्यात्, अतःसर्वस्ये॑त्यद्याह्मतोच्चारण शब्दापेक्षयाकर्तृकर्मणोः कृती॑ति कर्मणि षष्ठी ।सर्वं द्विरुच्चारये॑दिति फलितोऽर्थः । सोऽयंद्विःप्रयोगो द्विर्वचन॑मिति पक्षः । ननु आद्यपक्षे स्थानिवद्भावेन समुदायस्यैव पद्त्वं स्यान्न त्ववयवयोः, ततश्च पदकार्याणि न स्युः । न चेष्टापत्तिः ।अपचन्नपच॑न्नित्यत्र ङमुट्,वृक्षान् वृक्षा॑न्नित्यत्रपदान्तस्ये॑ति णत्वनिषेधः,अग्रेऽग्रे॑इत्यत्रएङः पदान्ता॑दिति पूर्वरूपत्वं च न सिध्येत् । किं चाऽपदान्तत्वप्रयुक्तकार्याणि स्युः । तद्यथापयःपयः॑इत्यत्रसोऽपदादौ॑इति सत्वं स्यात्,पपीःपपीः॑ इत्यत्रइणः षः॑इति षत्वं स्यात् ।पाशकल्पककाम्येषु॑इति वृत्तिग्रन्थमवष्टह्र कथञ्चित्सत्वषत्वपरिहारेऽपिअशीताश्नीते॑त्यत्रअतो गुणे॑इति पररूपं स्यादिति चेत् । अत्राहुः -यदि प्रत्यस्तमितावयवभेदः समुदाय एव एवादेशः स्यात्,द्वे॑ इति द्विवचनमनुपपन्नं स्यात्, अतोद्वे॑इति वचनादेकस्य पदस्य स्थाने द्वे पदे समुदिते युगपदादेशत्वेन विधीयते, तत्र स्थानिवद्भावेन समुदायस्य पदत्वं, स्त एव चावयवयोरपीति न कश्चिद्दोष इति । स्यादेतत् -द्विःप्रयोगपक्षे प्रत्येकं पदसंज्ञायां सिद्धायामपि समुदायस्य सा न सिध्यति । ततश्चदेवदत्तः पचतिपचती॑त्यादौतिङ्ङतिङः॑इति सर्वस्य पदस्य निघातो न सिध्यतीति चेत् । अत्राहुः -॒पचतिपचती॑त्यादौ हि स एव धातुः प्रत्ययश्चाऽत्र द्विः पठते । ततश्च [यो] यस्मात्प्रत्ययो विहितस्तदादितदन्तमिति विधीयमाना पदसंज्ञा समुदायस्यापि प्रवर्तते । तेनाऽवग्रहादिः सिध्यतीति ।", "81002": "", "81003": "", "81004": "<<नित्यवीप्सयोः>> - नित्यवीप्सयोः । नित्यमिह पौनःपुन्यमित्याह -आभीक्ष्ण्य इति । द्योत्य इति ।नपुंसकमनुपुंसकेने॑त्येकशेषः, एकवद्भावश्च बोध्यः पदस्येति । तेन नित्यतायां विधीयमानं द्विर्वचनं धातुमात्रस्य न भवति । किं च क्रियासमभिहारे धातोर्विहितो यङन्तरङ्गः, पदस्योच्यमानं द्विर्वचनं तु बहिरङ्गमिति यङं न बाधते । अन्यथा हि पौनःपुन्यं भृशार्थश्च क्रियासमभिहार इति भृसार्थे सावकाशो[ऽयं]यङ् पौनःपुन्ये परेण द्विर्वचनेन बाध्येत । न च पदस्य द्विर्वचनाभ्युपगमे सगतिकस्य प्रपचति प्रपठतीत्यादेर्द्विर्वचनं न स्यादिति वाच्यं, वार्तिककारवचनात्तत्सिद्धेः । अत्र वदन्ति सगतिकस्य द्वित्वे ऐकपद्यं नास्त्येव, स्थानिनः पदत्वाऽभावेन आदेशेऽपि तस्य दौर्लभ्यात् । द्विःप्रयोगपक्षे तु प्रथमगतिं विहायाऽवशिष्टस्य पदत्वं प्राप्तं, तस्मिन् सत्यपि न क्षतिः । वस्तुतस्त्विह स्थाने द्विर्वचनपक्ष एव मुख्यः । स्थानिनः सुबन्तत्वेनादेशस्यापबि सुबन्तत्वात्सुबन्तात्तद्धित इति पक्षे समुदायात् ष्यज्ठञोः संभवेन पौनःपुन्यं पोनःपुनिक इति रूपसिद्धेः ।प्रातिपदिकात्तद्धितः॑इति पक्षाभ्युपगमेऽपि श्रूयमाणप्रत्ययान्तस्यैव प्रातिपदिकत्वनिषेधात्पुनरित्यस्य[एव] प्रातिपदिकत्वे[न] आदेशस्यापि प्रातिपदिकत्वात्पौनः पुन्यमित्यादि सिध्यत्येव । द्विःप्रयोगपक्षे त्वन्तरङ्गत्वादव्ययात्सुपो लुकि द्वित्वं प्रवर्तत इति समुदायस्य सुबन्तत्वाऽभावात् प्रातेपदिकत्वाऽभावाच्च ष्यञ्ञञौ नच भवतः । न चअर्थवदधातु॑रित्यादिना समुदायस्य प्रातिपदिकत्वेवे सोरुत्पत्तौ तस्य लुकि च सुबन्तत्वं प्रातिपदिकत्वं च संभवत्येवेति वाच्यम् ।यत्र सङ्घाते पूर्वो भागः पदं तस्य चेद्भवति समासस्यैवे॑ति नियमेन प्रातिपदिकत्वस्याऽसंभवेन सुबन्तत्वस्याप्यसंभवात् । न च द्विःप्रयोगपक्षे स एव धातुः प्रत्ययश्च द्विःपठत इति समुदायस्यापि पदसंज्ञा प्रवर्तते इत्यधुनैवोक्तत्वात्पुनःपुनरिति समुदायस्य सुबन्तत्वमस्त्येवेति शङ्क्यम्, अन्तरङ्गत्वात्सोर्लुकि प्रकृतिभागस्य द्विर्वचने सति यस्मात्प्रत्ययो विहितस्तदादि तदन्तमिति विधीयमानायाः पदसंज्ञायाः समुदायस्य दुर्लभत्वात् । ततश्चैकपद्याऽभावेपुनःपुनर्जायमाना पुराणी॑ इत्यादाववग्रहोऽपि न सिध्येदिति । आभीक्ष्ण्यमिति । तद्धि क्रियानिष्ठधर्मः । तेन तद्द्योतनार्थं द्वित्वं क्रियाप्राधानानामेव न्याय्यम् । क्रियाप्राधान्यं चाख्यातेऽस्ति, कृद्वि शेषे चअव्ययकृतो भ#आवे॑इति वक्ष्यमाणत्वादिति भावः । केचित्तु क्रियाप्रधानानामेव द्वित्वे परिगृहीतसाधनाया एव क्रियायाः व्यवहारोपयोगित्वात्तदनभिधानाच्च धातुमात्रस्य द्वित्वं न भवति, किंतु तादृश क्रियाभिधायिनः पदस्यैव स्यादिति पदस्येत्यस्यापकर्षणाऽभावेऽपि न क्षतिरित्याहुः । तच्चिन्त्यम् । उक्तरीत्या नानाकारकविशिष्टक्रियासमर्थकस्य वाक्यस्यैव द्वित्वापत्तेः । किं च भावार्थकलकारान्तानामव्ययकृतां च भवदुक्तरीत्या द्वित्वं न स्यात् । ननु तत्र नित्यतावगत्यन्तरं पदान्तरैः साधनाकाङ्क्षा परिपूर्यत इति भूयते पक्त्वेत्यादिपदानां द्वित्वं स्यादेवेति चेत् । तर्हि तत्रैव धातुमात्रस्य द्वित्वं केन वार्यताम् । किं च तद्वदेव कर्तृकर्मलकारस्थलेऽपि धातिमात्रस्य द्वित्वं दुर्वारमिति पदस्येत्यपकर्षणमावश्यकमेवेति दिक् । वीप्सायामिति । व्याप्तुमिच्छा वीप्सा । व्याप्तिप्रतिपिपादयिषेति यावत् । सा च प्रयोक्तृधर्मः आबाधवत् ।गतगत॑इत्युक्ते प्रियस्य चिरगमनादिना पीडितो वाक्यं प्रयुङ्क्ते इति यथा प्रतीयते तथा वृक्षंवृक्षं सिञ्चितीत्यादावपि व्याप्त बुबोधयिषोरिदं वाक्यमित्यवगमात् । शाब्दबोधविषयस्तु व्याप्तिरेव । तथाचनित्यव्याप्त्यो॑रित्येव सूत्रयितुं शक्यम् । व्याप्तिरिह कार्त्स्न्यं, तच्चाधिकारिकम् ।सर्वे ब्राआहृणा आमन्त्रिताः ॑इत्यादौ यथा ।न हि जगतीतले विद्यमाना ब्राआहृणाः सर्वेऽपि केनतिदामन्त्रयितुं शक्यन्ते॑इति स्वग्रामस्थस्वजातीयब्राआहृणपरतया तत्र सङ्कोचो यद्यप्यभ्युपेयते तह्र्रत्राऽपि सकलवृक्षसेचनसामर्थ्यं कस्यापि मनुष्यस्य नास्तीति यत्र वाटिकादौ वृक्षसेचनार्थमधिकारस्तद्वाटिकास्थवृक्षाणामेव कार्त्स्न्यंवृक्षंवृक्षं॑सिञ्चती॑त्यादौ गम्यते इत्यभ्युपेयम् । यत्र तु सङ्कोचे कारणं नास्ति, तत्राऽसंकोच इष्ट एव,जातोजातो निधनमुपैती॑ति यथा । न चैवं वृक्षंवृक्षमित्यादौ बहुवचनप्रसङ्गः । बहूनां भानेऽपि बहुत्वसंख्यायास्तत्राऽभानात् । प्रत्येकनिष्ठमेकत्वमेव हि तत्र भासते इत्यादि मनोरमायां स्थितम् ।वृक्षंवृक्ष॑मिति समुदायस्य तु प्रातिपदिकत्वाभावाद्बहुवचनस्य प्रसङ्ग एव नास्ति । न चअर्थवदधातु॑रित्यनेन प्रातिपदिकत्वं शङ्क्यम् ।यत्र सङ्घाते पूर्वो भागः पदं तस्य चेद्भवति [तर्हि] समासस्यैवे॑ति नियमात् । न चाष्टमिकं द्विर्वचनमादेशरूपमिति सङ्घातो न भवतीत्यपि शङ्क्यम्,द्वे॑ इति वचनादेकस्य पदस्य स्थाने द्वे पदे समुदिते युगपदादेशत्वेन विधीयेते इति प्रागुक्तत्वात् । नन्वेवमपिसरित्सरित्॒योषायोषे॑त्यादौ बहुवचनोत्पत्तिर्दुर्वारैव ।सरि॑दिति स्थानिनः प्रातिपदिकत्वसंभवने तदादेशस्यापि सरित्सरिदित्यादेः स्थानिवद्भावेन प्रातिपदिकत्संभवादिति चेत् । अत्राहुः — — अन्तरङ्गैकसङ्ख्यावरुद्धो । द्विरुक्तार्थः सङ्ख्यान्तरे निराकाङ्क्ष एव । न हि वस्तुगत्या बहुत्वमस्तीत्येतावतैव तस्य शाब्दबोध आपादयितुं शक्यते । असत्त्वार्थकेष्वपि तदापत्तेः । न हि शयनबाहुल्याभिप्रायेण [॒देवदत्तेन]शय्यन्ते॑इति भावे कश्चित्प्रयुङ्क्ते । तत्राऽयोग्यं तदिति चेत् । समं प्रकृतेऽपि । अत्र च लिङ्गम्एकैकस्य प्राचा॑मिति निर्देश इति ।", "81005": "<<परेर्वर्जने>> - परेर्वर्जने । अत्र वार्तिकं -॒परेर्वर्जनेऽसमासे॑ । नेह -परित्रिगर्तं वृष्टो देवः ।वेति च वक्तव्यम् । तथा च अप हरेः परि हरेः संसार इति कारकेषूदाहृतम् ।परेर्वर्जने वावचनम् ।परिपरि वङ्गेभ्य इति॥अपपरी वर्जने॑इति कर्मप्रवचनीयसंज्ञायांपञ्चम्यपाङ्परिभि॑रिति पञ्चमी ।", "81006": "", "81007": "<<उपर्यध्यधसः सामीप्ये>> - उपर्यध्य । सामीप्यं प्रत्यासत्तिः, तच्च कालकृतं देशकृतं वा । अध्यधि सुखमिति । कालकृतस्योदाहरणमिदम् । सामीप्य इति किम्ष उपरि चन्द्रमाः ।उपरि शिरसो घचं धारयती॑त्यत्र तु वस्तुतो विद्यमानमपि सामीप्यं न विवक्षितं, किं त्वौत्तराधर्यमेव केवलं विवक्षितमिति द्विर्वचनं नभवति । विवक्षा हि शब्दव्युत्पत्तेः प्रधानं कारणम् । अत्र चउपज्ञोपक्रमं तदाद्यचिख्यासाया॑मिति सन्नन्तप्रयोगो ज्ञापक इत्याहुः ।", "81008": "<<वाक्यादेरामन्त्रितस्यासूयासम्मतिकोपकुत्सनभर्त्सनेषु>> - वाक्यादेः । सुन्दरसुन्दरेत्यादि ।स्वरितमाम्रेडितेऽसूयासंमतिकोपकुत्सनेषु॑,आम्रेडितं भत्र्सने॑इति सूत्राभ्यां यतायथं प्राप्तःप्लुतौ वैकल्पिकत्वान्नेह कृतः । उक्तं हि प्राक्सर्वः प्लुतो वैकल्पिकः॑इति । नन्वत्र कोपाऽसूयाभ्यां पृथक्कुत्सनभत्र्सनग्रहणमपार्थकम् । न ह्रसूयां विना कुत्सयते, न वा अकुपितो भत्र्सयते इथि चेकत् । अत्राहुः -गुरवो हि हतैषित्वादकुपिता अपि भत्र्सनं कुर्वते,विनाप्यसूयां कुत्सां कुर्वन्ती॑ति पृथक्तया निर्देशः सूत्रकारेण कृतः ।साऽमृतैः पाणिभिर्ध्नन्ति गुरवो न विषोक्षितैः । लालनाश्रयिणो दोषास्ताडनाश्रयिणो गुणा॑इति ।", "81009": "<<एकं बहुव्रीहिवत्>> - एकं बहुव्रीहिवत् । द्वे इत्यनुवर्तते । तच्चानुवाद्यसमर्पकं, तदाह -द्विरुक्त इति । तेनेति । यद्यप्येतौ बहुव्रीहौ विशिष्य न विहितौ , तथापि तत्र दृष्टवित्येतावतैवातिदिश्येते इति भावः । सुब्लोपपुंवद्भावाविति । पूर्वपदप्रकृतिस्वरश्च बोध्यः । समुदायात्सुबिति । तच्चैकवचनमेवेति, अन्तरङ्गैकसङ्ख्यावरुद्धो द्विरुक्तार्थः सङ्ख्यान्तरे निराकाङ्क्ष इतिप्रागेवोक्तत्वात् । पूर्वभाग इति । नतूत्तरभागेऽपि । तथाहि द्विधाऽत्र पुंवद्भावःसर्वनाम्नो वृत्तिमात्रे॑इति वा,स्त्रियाः पुंव॑दिति वा । तत्राद्यः पूर्वभागस्यैव,भस्त्रैषे॑ति ज्ञापकादित्युक्तम् । द्वितीयस्तु समानाधिकरणे परे विधीयते, न चोत्तरबागस्य समानादिकरणपरत्वमस्तीति भावः । अवग्रहे विशेषैति ।एकैकयेत्येकएकये॑ति भवतीत्यर्थः । एकैकस्मै इति । ननु सुब्लोपपुंवद्भावाविव बहुव्रीहौ सर्वनामसंज्ञाऽभावोऽपि दृष्ट इत्ययमपि बहुव्रीहिवद्भावेनातिदिश्यताम्, तथाच स्मायादेशोऽत्र दुर्लभ इति चेत् । अत्राहुः — — सुब्लोपपुंवद्भावाविव सर्वनामसंज्ञाऽभावः शास्त्रेण न दृष्ट । किं तु बहुव्रीहेर्गौणत्वात्सर्ववाचकत्वं न संभवतीति तदभावो दृष्ट इति नायमतिदिश्यते ।न बहुव्रीहौ॑इति शास्त्र#ं त्वलौकिकवाक्ये निषेधकं , नतु बहुव्रीहावित्युक्तत्वादिति ।", "81010": "<<आबाधे च>> - आबाधे च ष । इहेति ।बहुव्रीहि वद्भावा॑दित्यनुषज्यते । तथा चस्त्रियाः पुंव॑दिति वर्तते । न च द्विरुक्तस्य परमुत्तरपदं नेति वाच्यं,बहुव्रीहि व॑दित्यतिदेशबलेनैव उत्तरपदत्वस्यापि लाभात् । ननु बहुव्रीहिवद्भावेनोत्तरपदत्वलाभे सतिनने॑त्यत्रनलोपो नञः॑ इथि कस्मान्न भवति । उच्यते -॒न लोपो नञः॑इत्यत्र उत्तरपदे इति [प्र]वर्तते, नञ इति च कार्यिणो निर्देशः, तत्र साक्षाच्छिष्टेन कार्यित्वेन नञो निमित्तभावो बाध्यते । यथा मद्रह्यदो भद्रह्यद इति । अत्र रेफस्यअचो रहाभ्यामि॑ति द्वित्वप्रसङ्गे आकरे उक्तंनेमौ रहौ कार्यिणौ किं तु निमित्तमेतौ द्विर्वचनस्ये॑ति । नन्वेवमपिधूर्धूः॑पन्थाःपन्थाः॑ इत्यादौऋक्पूरब्धू॑रिति समासान्तः स्यादिति चेन् ।समासाच्च तद्विषया॑दित्यतः समासादित्यनुवर्तमानेसमासान्ताः॑इति पुनः समासग्रहणं हि समासाधिकारविहितो यः समासस्तत्परिग्रहार्थम् । तेनातिदेशिके समासे समासान्तानामप्रवृत्तिरति दिक् ।", "81011": "<<कर्मधारयवत् उत्तरेषु>> - कर्मधारयवदुत्तरेषु । अधिकरेणैव सिद्धेउत्तरेषुटैति वचनं विस्पष्टार्थमिति वृत्तिः ।", "81012": "<<प्रकारे गुणवचनस्य>> - प्रकारे गुणवचनस्य । यद्यपि प्रकारशब्दो भेदे सादृश्ये च वर्तते । बहुभिः प्रकारैर्भुङ्क्ते । बहुभिर्भेदैर्विशेषैरित्यवगमात् । ब्राआहृणप्रकारोऽयं माणवकः, ब्राआहृणसदृश इत्यवगमाच्च । तथापीह विवक्षितमाह -सादृश्य इति । व्याख्यानमेवाऽत्र शरणम् । पुंवद्भाव इति ।पुंवत्कर्मधारये॑ति सूत्रात् । तच्च कोरधादिष्वपि कालककालिकेत्यादिषु प्रवर्तते । तेन बहुव्रीहिवद्भावे प्रकृते कर्मधारयवद्भावोक्तिव्र्यर्थेति शङ्काया निरवकाश इति बोध्यम् । पटुपटुरिति । इह द्वित्वेन जातियरो बाधा नेष्यते,पटुजातीय॑इति वामनः । अन्यता ब्राआहृणजातीय इत्यदावगुणवचनेऽपि भेदरूपेऽर्थे सावकाशो जतीयर्गुणवचनेषु सादृस्ये परेण द्वित्वेन बाध्येतेति भावः । गुणवचनस्येति किम् । अग्निर्माणवकः । सिंहो माणवकः । यद्यपीहाऽग्निसिंहशब्दाभ्यां गौण्या वृत्त्या तैक्ष्णक्रौर्यादिगुणो गम्यते, तथापि प्रकारे वर्तमानस्येत्येव सुद्धे गुणवचनग्रहणसामर्थ्यात् मुख्यवृत्त्या गुणपराणामेव द्वित्वं, न त्वन्येषामित्याकरः ।नवंनवं प्रीतिरहो करोतो॑त्यत्र वीप्सायां द्विर्वचनम् । अनेन तु द्विर्वचने सुब्लुक् स्यात् ।नवनवा वनवायुभिराददे॑इत्यत्र त्वनेनैव द्विरह्वचनं, नतु वीप्स#आयामिति पुंवद्भावः । कथंभीतभीत इव शीतमयूखः॑इति भारविः । इवशब्देन सादृस्यस्योक्ततया इह प्रकारे द्वित्वाऽयोगात् । सत्यम् । भीतेभ्यो भीत इति कथंचिव्द्याख्येयम् । तेनाऽतीभीत इति फलितम् ।आधिक्ये द्वे वाच्ये॑ इति वार्तिकेन भीतभीतादौ द्वित्वमिति दुर्घटादिभिरुक्तं समाधानं नादर्तव्यम् । तादृशस्य वार्तिकस्याऽप्रसिद्धत्वात् । अथ कथंखिन्नः खिन्नः शिखरिषु पदं न्यस्य गन्तासि यत्र क्षीणःक्षीणः परिलघु पयः रुआओतसां चोपयुज्ये॑ति मेघदूतः । पदार्थबेदस्याऽभावेन वीप्सार्थस्यासंभवादिति चेत् । अत्राहुः -एकस्यापि केदावस्थासु क्षयावस्थासु च भेदं परिक्ल्प्य वीप्सा बोध्येति । अथ कथंमन्दं मन्दं नुदति पवनश्चानुकूलो यता त्वा॑मिति मेघदूतः । वीप्सार्थस्याऽसंभवादनेनैव द्विर्वचने कृतेमन्दमन्दमुदितः प्रत्ययौ ख॑मितिवत्सुब्लुक् स्यादिति चेत् । सत्यम् । स्वतो मन्दगामिनं त्वां पवनो मन्दं नुदतीति कथं चिव्द्याख्येयम् । सिद्धस्य गतेश्चिन्तनीयत्वात् । शुक्लशुक्लमिति । केवलगुणवाचिन उदाहरणमिति ध्वनयति -रूपमिति । आनुपूर्व्ये द्वे वाच्ये । आनुपूर्व्ये इति । वीप्साऽबावादयमारम्भः । मूलेमूले इति ।अग्रेअग्रे सूक्ष्म॑इत्यप्युदाहर्तव्यम् । एकस्य वस्तुनो वेणुदण्डादेरेकमेव मुख्यं मूलमगं च । इतरेषां भागानामापेक्षिकोऽग्रमूलव्यपदेशः । स्थौल्य सोक्ष्म्ये अपि नैकरूपे, किं तर्हि यथामूलमुपचीयते स्थौल्यं, यथा अग्रं सौक्ष्म्यं तता नेतरे भागा इति वीप्साया असंभवः ।मूलेमूले पथि विटपना॑मित्यत्र तु वीप्सायां द्विर्वचनम् । एतच्च हरदत्तग्रन्थे स्पष्टम् ।संभ्रमेण प्रवृत्तौ यथेष्टमनेकधा प्रयोगो न्यायसिद्धः । न्यायसिद्ध इति । याव्द्भिः शब्दैः संबोध्याऽर्थमवगच्छति तावतां प्रयोक्तव्यत्वादिति भावः ।क्रियासमभिहारे च । पौनःपुन्य इति । पुनःपुनर्भवितरि वर्मानात्पुनः — पुनःशब्दाद्बावे प्रत्ययः । लोटा सह समुच्चित्येति । नन्वत्र लोटा सह समुच्चित्य यथा द्विर्वचनं भवति, तथा क्रियासमभिहारे यङि यङा सह समुच्चित्य द्विर्वचनं स्यात् -पापच्यतेपापच्यते बोभूयते बोभूयते इति । अत्राहुः -लोटे क्रियासमभिहारं व्यभिचरति, समुच्चयेऽपि जायमानत्वात् । ततस्च लोट् द्विर्वचनयोरेव तद्द्योतकत्वं, न त्वेकैकस्येति युक्तं लोडन्तस्य द्विर्वचनम् । यङ् तु क्रियासमभिहारं न व्यभिचरतीति द्विर्वचनं विनैव तस्य द्योतकत्वम् । तेन तदन्तस्य न द्विर्वचनमिति ।कर्मव्यतिहारे सर्वनाम्नो द्वे वाच्ये । कर्मव्यतिहार इति । क्रियाविनिमय इत्यर्थः । द्वे इति । नित्यमेवेदं द्वित्वम्, बाहुलकं तु समासवद्भावस्यैव ।असमासवद्भावे पूर्वपदस्थस्य सुपः सुर्वक्तव्यः । सुपः सुर्वक्तव्य इति । अत्र कैश्चिदुक्तं — द्वितीयादीनामेवेदं स्वादेशविधानम् । अतएवोत्तरदलेऽपि द्वितीयादय एव न तु प्रथमा, तत्राप्येकवचनमेव , न तु वचनान्तरमिति । तदपाणिनीयम् । भाष्यादावनुक्तत्वात् । तदेतद्ध्वनयन् वचनान्तरमुदाहरति — -अन्योन्यावन्योन्यानिति । माघ इति । स च भाष्यानुगुण एवेति भावः । एतेनाऽर्वाचीनमतं कवयोऽपि नाद्रियन्त इत्युक्तं भवति । भारविस्चाह -॒क्षितिनभःसुरलोकनिवासिभिः कृतमिकेतमदृष्टपरस्परै ॑रिति । अत्राऽदृष्टः परस्परो यैरिति विग्रहः । यदि तु द्वितीयादीनामेव स्वादेशविधानं न तु प्रथमायाः, तह्र्रयं प्रयोगो न सिध्येदिति दिक् ।स्त्रीपुंसकयोरुत्तरपदस्थाया विभक्तेराम्बावो वा वक्तव्यः । अन्योन्यमिति । न चाऽत्र आमबावेऽपि टाप् स्यादिति शङ्क्यम् ।बहुलग्रहणाट्टाबभावः॑इत्यनुपदमेव वक्ष्यमाणत्वात् । स्त्रीनपुंसकयोस्तृतीयादिषु पुंवदिति प्राचो ग्रन्थं परिष्कुर्वन्नाह -अत्र केचिदिति । वस्तुस्थितिमाह -अन्ये त्विति । अतिप्रसङ्गादिति । तथा च एकशेषप्रतिबन्धाद्द्विर्वचनस्यापि वृत्तित्वमाश्रित्य तद्बलेन पुंवद्भावो न श्ङ्क्यो, लक्ष्यविरोधात् ।कारकं चेद्विजानीयाद्यां यां मन्येत सा भवे॑दिति॒अकथित॑सूत्रस्थ -॒यांया ॑मिति भाष्यप्रयोगविरोधाच्चेति भावः । नव्यास्तु — ॒यांया प्रियः प्रैक्षते॑त्यादिमागप्रयोगेसासा॑इति द्विर्वचनमयुक्तम्, द्विरुक्तार्थस्य सेत्यनेनैव परामर्ष्टुं शक्यत्वात् । अतएव भाष्येयांया मन्येता सा भवे॑दित्येवोक्तमित्याहुः । सोर्लुक् च प्राप्त इति । सुपः स्वादेशविधानस्याऽन्योन्यं परस्परमित्यत्र केवले चरितार्थत्वादिति भावः ।", "81013": "", "81014": "<<यथास्वे यथायथम्>> - यीऽयमात्मेत्यादि । आत्मात्मीययोरपि स्वशब्दवाच्यत्वात् । यथायथमिति ।न लोके॑त्यनेन कृद्योगषष्ठीनिषेघः, ज्ञातेत्यस्य तृन्नन्तत्वात् ।यो य आत्मा॑इत्यर्ते विद्यमानयथायथशब्दस्यार्थमाह -यतास्वभावमिति ।आत्मा यत्नो धृतिर्बुद्धिः स्वबावो ब्राहृ वष्र्म चे॑त्यमरः ।", "81015": "<<द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमण- यज्ञपात्रप्रयोगाभिव्यक्तिषु>> - पूर्वपदस्येति । द्वि औ द्विऔ इति स्थिते कर्मधारयवद्भावात्सुब्लुकि कृते पूर्वपदावयवस्येकारस्येत्यर्थः । अत्वमुत्तरपदस्येति । उत्तरपदावयवस्येकारस्येत्यर्थः । नपुंसकत्वं चेति । चकारादेकवद्भाव इत्यपि बोध्यम् । तेनअतोऽ॑मित्यमादेशे द्वन्द्वमिति सिध्यति । रहस्यं द्वन्द्वशब्दवाच्यमिति । द्वाभ्यां निर्वृत्ते रहस्ये योगरूढिरेवेत्यर्थः । द्वन्द्वं मन्त्रयते इति । द्वौ द्वौ भूत्वा मन्त्रयेते इत्यर्थः । एवं हि तद्रहस्यं भवति । आचतुरमिति ।आङ्भार्यादाभिविध्यो॑रित्यव्ययीभावः ।अव्ययीभावे शरत्प्रभृतिभ्यः॑इति टच् । चतुःशब्दोऽत्र चतुर्णा पूरणे द्रष्टव्यः । आ चतुर्थादित्यर्थः । द्वन्द्वं यज्ञपात्राणीति ।स्फ्यश्च कपालानि चे॑त्यादीनि पात्राणि द्वन्द्वं प्रयुनक्ति । आसादयतीत्यर्थः । अभिव्यक्तौ साहचर्येणेत्यर्थ इति । अत्रद्वन्द्व॑मित्यत्र स्वार्थे द्विर्वचनम् । एकवद्भावादिकं तु पूर्ववत् । अन्यत्रापीति ।द्वन्दंव युद्धं प्रवर्तते॑ । इह वीप्सायां द्विर्वचनम् । द्वयोद्र्वयोर्युद्धमित्यर्थः ।द्वन्द्वानि सहते॑ ।शीतमुष्णमेकं द्वन्द्वं, सुखदुःखे चापरं, क्षुत्तृष्णे चापरम् । इह स्वार्थे द्विर्वचनमेकदवद्भावादि पूर्ववत् । बहुत्वं त्वेकशेषवशात् ।सिद्धान्तकौमुदीव्याख्या विहिता तत्त्वबोधिनी ।समाप्तं तत्र पूर्वार्ध तेन तुष्यत शङ्करः॥१॥इति श्रीपरमहंसपरिव्राजकाचार्यवामनेन्द्रस्वामिचरणारविन्दसेवकज्ञानेन्द्रसरस्वतीकृतौ सिद्धान्तकौमुदीव्याख्यायां तत्त्वबोधिन्याख्यायां पूर्वाद्र्धम् ।द्वन्द्वापवादत्वेनाह-अथैकशेष इति ।विरूपाणामपि समानार्थानाम् । विरूपाणामिति । रूप्यते बोध्यत इति व्युत्पत्त्या सौत्रस्य रूपशब्दस्याऽर्थपरयापि व्याख्यानात्सूत्रारैरेव लब्धुं शक्यत इति प्रागेव व्याख्यातम् ।", "81016": "<<पदात्>> - पदात् ।कुत्सने च सुप्यगोत्रादौ॑इत्यतः प्रागयमधिकारः । यदि तुकपत्सने च सुपी॑त्यत्रापि पदादित्यनुवर्तते, तदादेवदत्तः पचति पूति॑त्यत्रैव निघातः स्यान्न तुपचति पूती॑त्यत्र ।", "81017": "पदात्। `कुत्सने च सुप्यगोत्रादौ`इत्यतः प्रागयमधिकारः। यदि तु `कपत्सने च सुपी`त्यत्रापि पदादित्यनुवर्तते, तदा `देवदत्तः पचति पूति`त्यत्रैव निघातः स्यान्न तु `पचति पूती`त्यत्र।", "81018": "<<अनुदात्तं सर्वमपादादौ>> - अनुदात्तं सर्वमपादादौ । इदं पदत्रयमा पादपरिसमाप्तचेरधिक्रियते ।", "81019": "", "81020": "<<युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ>> - षष्ठीचतुर्थीदि ।अल्पाच्तर॑मितिषष्ठी॑त्यस्य पूर्वनिपातः । षष्ठआदिविशिष्ययोरिति । ननु युष्मदस्मदोरित्युक्तत्वात्तयोरेव उक्तरूत्या वस्नसादौ दोषाऽभावेऽपि भ्यामादौ परतो युष्मदस्मदोः पदत्वात्केवलयोर्वानावादेशप्रसङ्गस्य दुर्वारत्वात् । तथा चसुखं वां नौ ददात्वीशः॑इति प्रयो#ओ न सह्गच्छेत । नापिद्वितीयास्थयो॑रिति स्थग्रङणसामर्थ्याद्विभक्तिविशिष्योरेव आदेशा भवेयुरिति वाच्यम्,स्थग्रहणाच्छयमाणविभक्तिकयोरेवे॑ति वक्ष्यमाणतया तत्सामर्थ्यस्योपक्षयात् । मैवम्,अनुदात्तं सर्व॑मिति सर्वग्रहणाधिकारात्सर्वस्यैव विभक्तिविशिष्टस्य आदेशा भवन्तीति आकरे स्पष्टत्वात् । यदि तु सर्वस्य द्वे॑इत्यतःसर्वस्ये ति पदमनुवर्तते, तदा सर्वग्रहणमिह त्यक्तुं शक्यमित्याहुः ।", "81021": "", "81022": "", "81023": "<<त्वामौ द्वितीयायाः>> - उक्तानादेशान्वचनक्रमेणोदाहरति — श्रीश इत्यादिना । स्मी ते मेऽपीति ।स्वामीआराधिपती॑ति षष्ठीसप्तम्योर्विधानादिह षष्ठी । द्विवचनान्तयोरुदाहरणमाह — पातु वामित्यादिना । बहुवचनान्तयोस्तु — सोऽव्याव्दोन इत्यदि । सेव्योऽत्र वः स न इति ।अर्हे कृत्यतृचश्चे॑ति ण्यत् ।कृत्यानाम कर्तरि वे॑ति षष्ठी । वेदैरशेषैरिति.॒युष्मान् रक्षतु गोविन्दः॑इति प्राचः पाठस्तूपेक्षितः,युष्मा॑नित्यस्य पदात्परत्वाऽभावादेवाऽप्राप्तेः ।अस्मा॑नित्यस्य तु पदात्परत्वेऽपि समानवाक्यस्थपदात्परत्वाऽभावात् । ननुयुष्मदस्मदोः षष्ठीचतुर्थीद्वितीयाना॑मिति सूत्र्यतां, विशेषणेन तदन्तविधौ षष्ठआद्यन्तयोर्युष्मदस्मदोः पर्यवस्यति । न च॒स्थ॑ग्रहणाऽभावे युष्मदस्मदोः सम्बन्धिनीनां षष्ठीचतुर्थीद्वितियानां वानावावित्यर्थः स्यादिति वाच्यं,सर्वस्य पदस्ये॑त्यनुवर्तनादतो व्याचष्टेस्थग्रहणादिति । तिष्ठतिरिहाऽहानौ वर्तते । यथासमये तिष्ठ सुग्रीवे॑ति । समयं मा हासीरिति गम्यते । तेन षष्ठयादीनविजहतोरेव युष्मदस्मदोरादेशा इत्यर्थः । इतियुष्मत्पुत्र इति । युवयोः पुत्रो युष्माकं पुत्र इति वा विग्रहः, न तु तव पुत्रं इति । तथा हि सतित्वत्पुत्र॑इत्येव स्यात् । एवमस्मत्पुत्र इत्यत्राप्यूह्रम् । पदात्परत्वं संपादयितुम् — इतिशब्दः । ननु राज्ञोः पुरुषो राज्ञां पुरुष इति विग्रहेराजपुरुष॑इति नेष्यत इति सुद्धान्तविरोधाद्युष्मत्पुत्रोऽस्मत्पुत्र इत्यत्र युवयोर्युष्माकमित्यादिविग्रहो नसंभवतीति चेदत्राहुः — यत्र वृत्तौ सङ्ख्यविशेषबोधकं प्रमाणं नास्ति तत्रैवैकत्वसङ्ख्याऽऽश्रूयते, यथाराजपुरुष॑इति । न हिराजपुरुष॑इत्यत्र विभक्तौ निवृत्तायां राजपदार्थे द्वित्वादिप्रत्यायकं किंचिदस्ति । यत्र पुनः सङ्ख्याभेदगमकमर्थप्रकरणाद्यस्ति, भवति तत्र द्विवचनबहुवचनयोरपि वृत्तिः । प्रकृते त्वेकवचनान्तेव विग्रहे प्रत्ययोत्तरपदयोश्चे॒ति त्वमागेशप्रसङ्गादर्थाद्द्विवचनबहुवचनान्तेनेति विग्रहे वृत्तिर्भविष्यतीति । अर्थः -अर्थाद्यथा, — मुद्गैः क्रीतो मौद्गिकः । न ह्रेकेन मुद्गेन द्वाभ्यां वा मुद्गाभ्यां क्रयणं संभवति । प्रकरणाद्यथा॒भवाद्गिरामवसरप्रदानाय वचांसि नः॑ । भवतोरिगिरामिति तत्र ह्रर्थः । समानवाक्य इति ।देवदत्त अस्त्ययं दण्डो, देवदत्त हराऽनेने॑त्यत्रदण्ड॑इत्येतत्पूर्ववाक्यस्थमिति समानवाक्यस्थत्वाऽभावादामन्त्रितनिघातो न भवति । एकातिङिति । एकं तिङन्तं यत्रेत#इ बहुव्रीहिः । ननु ओदनस्त्वया पक्तव्यस्तव भविष्यतीत्यत्रातिप्रसङ्गः, पक्तव्योऽस्तीत्यध्याहारेण भिन्नवाक्यतासमर्थनेऽपि पश्य मृगो धावतीत्यादावेकवाक्यत्वव्यवहारो न स्यात् ।सत्यम् । प्रकृतोपयोगित्वेनेदमुक्तं ।पश्य मृग॑इत्यादौ तुअर्थैकत्वादेकं वाक्यं साकाङ्क्षञ्चेद्विभागे स्या॑दिति शास्त्रान्तरप्रसिद्धमेवेत्येक । अन्ये तु — — ॒अख्यातं सविशेषणं वाक्य॑मिति वार्तिककारवचनपर्यालोचनयाएकति॑ङित्यत्र तिङन्तं विशेष्यसमर्तकं विवक्षितं, ततश्चपश्य मृगो धावती॑त्यत्र तिङन्तद्वये सत्यपि पश्येत्यस्यैव विशेष्यसमर्पकत्वान्नोक्तदोष इत्याहुः । एकशब्दः समानवचनो न तु सङ्ख्यावाची । बहुव्रीहिश्चायम् । तेनब्राऊहि ब्राऊहि देवदत्ते॑त्यत्रवाक्यत्वादामश्चितनिघातः सिध्यतीति समर्थसूत्रे कैयटः ।युष्मदस्मदोर्विभाषा अनन्वादेशे॑इति वार्तिकमर्थतः पठति एते वांनावादय इत । यद्यपिसपूर्वायाः प्रथमाया विभाषे॑त्यत्रैतत्पठते तथाप्यविशेषेण विकल्पोऽयं विधीयते इत्याशयेन सपूर्वत्वाऽभावेऽपि विकल्पमुदाहरति — धाता ते भक्त इति । अन्वादेशे तु नित्यमुदाहरति — तस्मै ते नम इत्येवेति ।तुल्यार्थै॑रित्यादिवन्न चवाहाहैवैरिति तृतीयानिर्देशेनाऽपि युक्तार्थलाभेयुक्त॑ग्रहणमनर्थकमित्यत आह —", "81024": "<<न चवाहाहैवयुक्ते>> - युक्तग्रहणादिति । यत्र युष्मदस्मदर्थगतान् समुच्चयादींश्चादयो द्योतयन्ति तदा चादिभिः सहाऽर्थद्वारा युष्मदस्मदोः साक्षाद्योगः, तत्रैवायं निषेध इत्यर्थः । हरो हरिश्चेति । अत्रच॑शब्दो हरहरिगतसमुच्चयमाह । हरिहराभ्यां त्स्मदः सम्बन्धो, नतु समुच्चयेनेति न साक्षाद्योगः किंतु परम्परायोग इति न निषेध इति भावः । पश्यार्थैश्चाऽना । अकएव निपातनाद्भावेपघ्राघ्माधे॑डिति शः । दर्शनं पश्यः । तच्चेह ज्ञानमात्रम् ।अदर्शनं लोपः॑इत्यत्र यथा, न तु चाक्षुषज्ञानमेव,अनालोचने॑इति निषेधात् ।", "81025": "<<पश्यार्थैश्चानालोचने>> - तदेतदाह — अचाक्षुषज्ञानार्थैरिति । परम्पासम्बन्धेऽपीति । पूर्वसूत्रस्थ — ॒युक्त॑ग्रहणेन ज्ञापितमेतद्भवत्यन्यत्र परम्परासम्बन्धेपि निषेधैति ।", "81026": "<<सपूर्वायाः प्रथमाया विभाषा>> - सपूर्वायाः ।सह॑शब्दोऽत्रसलोमक॑इत्यत्रेव विद्यमानवचनः ।तेन सहेती॑त्यत्र तुल्ययगवचनं प्रायिकमिति वक्ष्यमाणत्वाद्विद्यमानवचनस्यापि सहस्य समासः ।वोपसर्जनस्ये॑ति सभावः ।प्रथमाया॑इति च प्रत्ययग्रहणात्तदन्तविधिरित्यावोच्याह — विद्यमानपूर्वादित्यादि ।एते वानावादय आदेशाः॑इत्यविशेषोत्तयैव विभाषया सिद्धे, किमर्थमिदं व चनमित्याशङ्कां परिहन्नाह — अन्वादेशेऽपीति । भक्तस्त्वमित्यादि । त्वं हरेस्त्वं भक्तस्तेनैव कारणेनाऽहमपी ति व्याचक्षाणानां तु यच्छब्दाध्याहारक्लेश इति बोध्यम् । अत्रतेने॑ति पूर्वं विद्यमानं पदं, ततो हरिरिति प्रथमान्तं, ततः परस्य युष्मच्छब्दस्यादेशः । तथात्रायते॑इकत्यस्मात्परं॒स॑इति प्रथमान्तं, ततः परस्याऽस्मच्छब्दस्यादेशः ।", "81027": "", "81028": "", "81029": "", "81030": "", "81031": "", "81032": "", "81033": "", "81034": "", "81035": "", "81036": "", "81037": "", "81038": "", "81039": "", "81040": "", "81041": "", "81042": "", "81043": "", "81044": "", "81045": "", "81046": "", "81047": "", "81048": "", "81049": "", "81050": "", "81051": "", "81052": "", "81053": "", "81054": "", "81055": "", "81056": "", "81057": "", "81058": "", "81059": "", "81060": "", "81061": "", "81062": "", "81063": "", "81064": "", "81065": "", "81066": "", "81067": "", "81068": "", "81069": "", "81070": "", "81071": "", "81072": "<<आमन्त्रितं पूर्वमविद्यमानवत्>> - इहेति ।अग्ने तव॑देवास्मा॑नित्यत्रयुष्मदस्मदोर्न भवत्यादेशः,अग्ने नये॑त्यत्रतिड्डतिङः॑इति न तिङन्तनिघातः,अग्न इन्द्र वरुणे॑त्यत्र तुआमन्त्रितस्य चे॑त्यमान्त्रितनिघातो नेति विवेकः । सर्वेषां निघात इति । अयं च निघातः पदकाले श्रीयते न तु संहिताकाले ।स्वरितात्संहितायामनुदात्ताना॑मिति संहितायामेकश्रुतिविधानात् ।", "81073": "", "81074": "<<सामान्यवचनं विभाषितं विशेषवचने (बहुवचनम्)>> - सुपादिति । शोभनौ पादौ यस्येति बहुव्रीहिः । सङ्ख्यासुपूर्वस्याऽन्तलोपः ।", "82001": "<<पूर्वत्रासिद्धम्>> - पूर्वत्रासिद्धम् । यद्ययं स्वतन्त्रो विधिः स्यात्तर्हि त्रिपादी पूर्वं प्रत्यसिद्धेत्येव लभ्येत, त्रैपादिकं तु पूर्वं प्रति परं नासिद्धं स्यात्, तथाच प्रशानित्यत्रमो नो धातोः॑ इति नत्वस्य सिद्धत्वान्नलोपः स्यात्, नत्वविधेः संबुद्धौ चरितार्थत्वात् । तथाऽनङ्वानित्यत्र संयोगान्तलोपस्य सिद्धत्वान्नलोपः स्यात् , नुम्बनिधेस्तु संबुद्धौ चरितार्थत्वात् । तथाऽनङ्वानित्यत्र संयोगान्तलोपस्य सिद्धत्वान्नलोपः स्यात्, नुम्बिधेस्तु संबुद्धौ चरितार्थत्वाद्त आह-अदिकारोऽयमिति । त्रिपाद्यां विहितं कार्यमिति कार्याऽसिद्धिपक्षे अमू अमूमित्यादि न सिद्ध्येदिति भावः । यथा चैतन्न सिध्यति तथाऽदःशब्दव्याख्यावसरेऽस्माभिरुपपादयिष्यते । एकादशधेति । यद्यपि भाष्येऽष्टावुक्ताः, उदात्तादयस्तु नोक्ताः, तथापि कैयटोक्तिमनुसृत्यैकादशोक्ता इति बोध्यम् । खयां यमा इति । बालबोधनाय बाह्रप्रयत्नाः कैश्चित्सुगमोपायेनोपनिबद्धाः । तद्यथा-॒खरो विवाराः आआसा अघोषाश्च, हशः संवारा नादा घोषाश्च, वर्गाणां प्रथमतृतीयपञ्चमा यणश्चाल्पप्राणाः, वर्गाणां द्वितीयचतुर्थौ शलश्च महाप्राणाः॑ इति । आआसानुप्रदाना इति । आआसप्रयत्नका इत्यर्थः । विवृण्वते कण्ठमिति । विवार एषा प्रयत्न इति भावः । अन्येत्विति । हशो, हशां यमाः, अनुस्वारश्च । नादेति । नादभागिनः । नाश्प्रयत्नवन्त इत्यर्थः । अयुग्मा इति । प्रथमतृतीयपञ्चमा वर्गेष्वयुग्माः । वर्गयमगा इति । वर्गगा-यमगाश्चेत्यर्थः । अल्पेति । अल्पासवः=अल्पप्राणाः ।पुंसि भूम्न्यसवः प्राणाः॑ इत्यमरः । अनुपयुक्ता इति । अन्यथा कखगघादीनां परस्परं सावण्र्यं न स्यादिति भावः । आन्तरतम्यपरीक्षायामिति । परीक्षा च-॒अघोषस्य महाप्राणस्य सस्य तादृश एव थकारः॑,घोषवतो नादवतो महाप्राणस्य हस्य तादृशो वर्गचतुर्थ॑ इत्यादिना मूले एव स्फुटीभविष्यति । कादय इति । लोकप्रसिद्धपाठापेक्षमिदम् । चतुर्दशसूत्र्यां सादृश्यमुच्चारणे लेखने च बोध्यम् । कपाभ्यां प्रागिति । एतच्चोपलक्षणम् । खफाभ्यां प्रागित्यपि बोध्यम् । अर्धविसर्गेति । सादृश्यमुच्चारणे लेखने च बोध्यम् । ऋऌवर्णयोरिति ।ऋत्यकः॑ इति प्रकृतिभावः । विग्रहस्तु आ च ऌवर्णश्च ऋऌवर्णौ, तयोरित्येके । मनोरमायां तु-आ च आ च रलौ, तौ च तौ वर्णौ चेत्यादिं स्थितम् । नाज्झलौ । आकारसहित इति ।कालसमयवेलासु॑ इत्यादिनिर्देशा आकारप्रश्लेषे लिङ्गम् । यणादिकमिति । शीतलशब्दे सवर्णदीर्घ आदिशब्दार्थः । इहअसेध॑ दित्यादौहो ढः॑ इति ढत्वं नेत्यपि सुवचम् ।इण॑ इति सस्य षत्वमपि नेति तु न सुवचम्, ढत्वं प्रति तस्याऽसिद्धत्वादिति दिक् । अन्यथेति ।नाज्झलौ॑ इत्यस्यानारम्भे । ग्रहणकशास्त्रबलादिति । अयं भावः,-दीर्घादीनामिव हकारादीनामप्यकारवाच्यत्वेऽभ्युपगते ह्रच्त्वं स्यात्, प्रत्याहारेषु तद्वाच्यवाच्ये निरूढलक्षणाभ्युपगमादिति ।", "82002": "<<नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति>> - नलोपः सुप्स्वर ।पूर्वत्रासिद्ध॑मित्यनेनैव नियमार्थोऽयमारम्भ इत्याह — नान्यत्रेत्यादि । तेनराजाआ॑इत्यादौ सवर्णदीर्घो कर्तव्ये नलोपोऽसिद्धो न भवतीति भावः । सुब्विधिमिदाहरति — आत्वमित्यादिना । सुबाश्रितो विधिः — सुब्विधिः । स्वरविधौ तुपञ्चार्मम् ।दिक्सङ्खये संज्ञाया॑मिति समासे नलोपे कृते अवर्णान्तं पूर्वपदं जातमितिअर्मे चाऽवर्णं द्द्यच्त्र्य॑जिति पूर्वपदाद्युदात्तत्वं प्राप्तंनलोपस्यादिद्धत्वान्न भवति.थ संज्ञाविधौपञ्चेत्यत्र नलोपे कृतेऽपी॑त्यादिना स्त्रीप्रत्ययेषु वक्ष्यति । अन्येतु — ॒दण्डिगुप्तौ॒॑गुप्दण्डिना॑वित्यप्युदाहरन्ति । अत्र नलोपस्याऽसिद्धत्वाद्धिसंज्ञा नास्तीतिद्वन्द्वे घी॑ति पूर्वनिपातनियमो न भवतीत्याहुः । कृति तुग्विधाविति किम् वृत्रहच्छत्रम् । इह स्यादेवछे चे॑ति तुक् । यद्यपिवृत्रहभ्या॑मित्यत्रअसिद्धं बहिरङ्गमन्तरङ्गे॑इत्यनेनैव नलोपस्याऽसिद्धत्वं सिध्यति, तथाप्यस्याः परिभाषाया अनित्यत्वज्ञापनार्थं कृति तुग्ग्रहणं, तेन॒या॒॑से॑त्यादि सिध्यति । अन्यथा विभक्त्यश्रयस्याऽत्वस्य बहिरङ्गत्वेनाऽसिद्धत्वाट्टाब्न स्यात् । एतच्चनजानन्तर्ये बहिष्ट्वप्रकॢप्ति॑रित्यत्रयत्रान्तरङ्गे बहिरङ्गे वाऽचोरानन्तर्य॑मिति हरदत्तादिमतेन कैश्चिदुक्तम् ।उत्तरकार्ये अच आनन्तर्य॑मिति कैयटमते तु नाऽत्र बहिरङ्गपरिभाषा प्रवर्तते ।या॒॑से॑त्यत्र टाप्तु संनिपातपरिभाशषामपि बाधित्वान यासयो ॑रिति निर्देशादेव सिध्यतीति ज्ञेयम् । प्रतिदिवेति ।कनिन् युवृषितक्षिराजिधन्विद्युप्रतिदिवः॑इति कनिन् ।", "82003": "<<न मु ने>> - न मु ने ।ने॑इति विषयसप्तमीत्याह — नभावे कर्तव्य इति । अन्यथा घेः परत्वाऽभावान्नाभावो न स्यादिति भावः । नन्वेवमपि कृते नाभावेसुपि चे॑ति दीर्घः स्यात्, दीर्घं प्रति मुत्वस्याऽसिद्धत्वादत आह — कृते चेति । एतच्चने॑इत्यस्यावृत्त्यां लभ्यते । एकत्र विषयसप्तम्यपरत्र तु परसप्मीत्याश्रयणात् । वस्तुतस्तुकृते चे॑चि व्याख्यानं व्यर्थं, संनिपातपरिभाषायासुपि चे॑ति दीर्घस्य सिसमाधेयत्वात् । ननुअधुना॑इति वत्अमुना॑इत्येवोच्यतां किमनेनाऽसिद्धक्वनिषेधेनेति चेत् । अत्राहुः -॒न मु ने॑इत्युक्तिःन॑इति योगविभागार्था, तेनरामः॒॑रामेभ्य॑इत्यादि सिध्यति । अन्यथा हि रोरसिद्धतयोकारस्येत्संज्ञालोपौ कतं स्याताम् । न चानुनासिकनिर्देशसामर्थादित्संज्ञालोपौ प्रति रुत्वम नासिद्धमिति वाच्यम्,तरुमूलं॑देवरुही॑त्यादौहशि चे॑त्यस्य व्यावृत्तयेअतो रो॑रित्यत्रानुनासिकस्यैव निर्देशेन तत्रैव चरितार्थत्वात् । एवं च स्थानिवत्सूत्रस्यापि प्रवृत्तौ पदत्वाद्विसर्गौ लभ्यते ।पत्र्ययः॒॑परश्चे॑त्यादिनिर्देशाश्चेह लिङ्गमिति दिक् । इति हलन्तपुंलिङ्गप्रकरणम् ।", "82004": "", "82005": "", "82006": "", "82007": "<<नलोपः प्रातिपदिकान्तस्य>> - नलोपः प्रातिपदिकान्तस्य । लुप्तषष्ठीके इति । सौत्रत्वात् । न तु षष्ठीतत्पुरुषौ, पूर्वपदे सापेक्षत्वेन समासाऽसंभवात्, प्रातिपदिकस्य पदविशेषणत्वाच्चेति भावः । तदन्तस्येति । षष्ठीतत्पुरुषोऽयम् । तस्य-प्रातिपदिकसंज्ञकपदस्याऽन्तो यो नकारस्तस्येत्यर्थः । यतदि तु प्रातिपदिकेनेव॒ने॑त्यनेनापि पदं विशेष्यते तदा विशेषणेन तदन्तविधौ सौत्रमन्तग्रहणं शक्यमकर्त्तुमिति मनोरमायां स्थितम् । प्रातिपदिकेति किम् । अहन् । पदमिति किम् । राजानौ । राजानः ।", "82008": "", "82009": "<<मादुपधायाश्च मतोर्वोऽयवादिभ्यः>> - मादुपधायाः । म्च अश्च मं । समाहारो द्वन्द्वः । तेन मतुप्प्रत्ययाक्षिप्तं प्रातिपदिकं विशेष्यते । तदाह -मवर्णावर्णान्तादिति ।उपधायाश्चे॑ति वाक्यान्तरम् । उपधाभूतान्मात्परस्य मतोरित्यर्थः ।येन नाव्यवधान॑न्यायेनाऽन्त्याऽल्व्यवहितेऽपि भवतीति । एवमक्षरार्थे स्थिते फलितमाह -मवर्णावर्णोपधादिति ।", "82010": "<<झयः>> - झयः । इदमपि मतुबाक्षिप्तस्य प्रातिपदिकस्य विशेषणम् । तदाह — — झयन्तादिति । विद्युत्वानिति । एतेनवह्निमद्वा॑निति नैयायिकप्रयोगो निरस्तः । उक्तरीत्या जश्त्वस्याऽप्रवृत्तेः । मत्वन्तान्मतुपो निषेधाच्च । ननु गोधुङ्भान् मधुलिण्मानित्यत्र हस्य घत्वे ढत्वे च कृतेझयः॑इति वत्वप्रवृत्त्याऽनुनासिकपरत्वाऽभावात्प्रत्यये भाषायां नित्य॑मित्यनेन धकारढकारयोरनुनासिकाऽप्रवृत्तेर्गोधुग्वान् मधुलिड्वानित्यनिष्टं प्रसज्येत । मैवम् । घत्वढत्वयोरसिद्धत्वेनझयः॑इति वत्वाऽप्रवृत्तेः ।", "82011": "", "82012": "", "82013": "", "82014": "", "82015": "", "82016": "", "82017": "", "82018": "<<कृपो रो लः>> - ॒कृपो रो लः॑ इत्यर्वाचीनपाठस्तु नादर्तव्य इति ध्वनयति — कृपेरृकारस्येत्यादिना । वर्णैकदेशस्य वर्णग्रहणेन ग्रहणादाह — रेफसदृश इति । एवं चात्र कृपेत्यस्यावृत्तिरवश्यं स्वीकर्तव्या । तथा चलुटि च कॢपः॑ इत्यादिसौत्रनिर्देशोऽप्युपपद्यत इति भावः ।", "82019": "<<उपसर्गस्यायतौ>> - अथ कथमिति । शानचा भाव्यमिति शङ्कितुराशयः । क्नूयी शब्दे शब्दे च । उन्दः क्लेदनम् ।", "82020": "<<ग्रो यङि>> - ग्रो यङि ।कृपो रो लः॑ इत्यतो रो ल इति वर्तते । तदाह — रेफस्य लत्वमिति । चेक्रीयते । इति । परत्वाद्रीङि कृते द्विर्वचनम् । संचेस्क्रीयते इति । रीङि द्वित्वे च सुट् । न चसं - कृ॑इत्यस्यामवस्थायां द्वित्वात्परत्वात्सुटि कृते संयोगादित्वेन रीङ्प्रवृत्तेः प्राग्गुणः स्यादिति वाच्यम्,अडभ्यासव्यवायेऽपी॑त्यस्यारम्भेण अडभ्यासयोः कृतयोरेव सुण्न तु ततः प्रागिति सिद्धान्तात् ।एतेनसुटो बहिरङ्गत्वान्न संयोगादित्वेन गुण॑ इति केषांचित्समाधानं परास्तम् । अभ्यासात्परस्य सुटि कृते साभ्यासस्याङ्गस्य संयोगादित्वमृदन्तत्वं च नास्तीति गुणप्राप्तेरभावात् । ननुअडभ्यासव्यवायेऽपि सुट्कात्पूर्वः॑इति वार्तिकप्रत्याख्यानायपूर्वं धातुरुपसर्गेण युज्यते॑ इति पक्षं स्वीकृत्य भाष्यकृता सं त्यादावन्तरङ्गत्वात्सुटि ससुक्टस्यैव द्वित्वाभ्युपगमात् संचेस्क्रियते इति न सिध्येत् । तत्र हि सुटि कृते रीङं बाधित्वा पर्तवात्यङि चे॑ति गुणे संचास्कर्यत इत्यनिष्टरूपप्रसङ्गात् । यदि तु इष्टानुरोधेनपूर्वं धातुः साधनेन युज्यते पश्चादुपसर्गेणे॑ति मताश्रयणेन रीङादेशं द्वित्वं च कृत्वा पश्चात्सुटि इष्टं रूपं सिध्यतीत्युच्यते, तर्हिअडभ्यासव्यवायेऽपी॑ति वचनं स्वीकर्तव्यमेव स्यादिति चेत् । अत्राहुः — अडभ्यासव्यवायेऽपी॑ति वचनं स्वीकर्तव्यमेव स्यादिति चेत् । अत्राहुः — अडभ्यासे॑त्यादिवार्तिकं विनापि संचस्करतुरित्यादरूपसिद्धये भाष्याकृतापूर्वं धातुरुपसर्गेण युज्यते॑ इति पक्ष आश्रितः । संचेस्क्रीयते संचस्करतुरित्यादिरूपसिद्धये समचेस्क्रियतेत्यादिसिद्धिस्तु वार्तिकायत्तैवेति ।", "82021": "<<अचि विभाषा>> - दृङ् आदरे ।तथाद्रियन्ते न बुधाः सुधामपी॑ति श्रीहर्षः । प्रच्छ ज्ञीप्सायाम् । ज्ञातुमिच्छा ज्ञीप्सा । अत्र ज्ञपिज्र्ञाने ।आप्ज्ञप्यृधामीत् ।अत्र लोपः॑ इत्यभ्यासलोपः । ण्वुलि प्रच्छकः । पृच्छाशब्दात्तत्करोती॑ति णिजन्ताण्ण्वुलि तु — पृच्छकः । पृच्छाशब्दस्तु भिदादेराकृतिगणत्वादङि संप्रसारणे बोध्यः । किरादयो वृत्ताः इति.एतेचभूषाकर्मकिरादिसना॑मिति वक्ष्यमाणयकिणादिनिषेधवार्तिके उपयोक्ष्यन्ते ।किरश्च पञ्चभ्य॑इत्येतदुत्तरसूत्रेऽनुवृत्त्यर्थमिति बोध्यम् । ससर्जिथेति ।विभाषा सृजिदृशो॑रिति थलि वेट् । * मस्जेरन्त्यात्पूर्वो नुम्वाच्यः । विच्छ गतौ । तुदादिपाठसामर्थ्यादायप्रत्ययान्तादपि शो,न तु शप् । तेन विच्छायती विच्छायन्तीति नुम्विकल्पः । केचित्तु तुदादिपाठसामर्थ्यादायप्रत्ययस्य पाक्षिकत्वं स्वीकृत्य विच्छती विच्छन्तीति नुम्विकल्पं, विच्छति विच्छतः विच्छन्तीत्यादिरूपाणि चोदाजह्युः, तेषां तु मते तुदादिपाठस्य केवले चरितार्थत्वादायप्रत्ययान्ताच्छबेव । तेन विच्छायन्ती [इ]ति नित्यमेवशप्श्यनो॑रिति नुम् । पठितस्येति । अस्मिन्नेव गणे परस्मैपदिषु पठितस्येत्यर्थः । तङर्थ इति । पूर्वपाठस्तु संश्लेषणे कत्र्रभिप्रायेऽपि परस्मैपदार्थः ।", "82022": "", "82023": "<<संयोगान्तस्य लोपः>> - संयोगान्तस्य । तदन्तस्येति । अलोऽन्त्यस्ये॑ति परिभाषयेति भावः । यद्यपि विशेषणेन तदन्तविधिवलाभात्संयोगस्येत्येव सूत्रयितुमुचितं तथापिप्रत्येकं संयोगसंज्ञे॑ति पक्षेदृष्टत्करोती॑त्यादौ लोपं वारयितुं संयोगावन्तौ यस्येति द्विवचनान्तेन समासलाभार्थमन्तग्रहणमिति मनोरमायां स्थितम् ।संयोग॑ इति महासंज्ञाकरणसामथ्र्यादेकस्य संयोगसंज्ञा न भविष्यतीति अन्तग्रहणमिह त्यक्तुं शक्यम् । यणः प्रतिषेधः इति । वाचनिकमिदम् । यद्वा वाच्यो=व्याख्येयः । व्याख्या च द्वेधा,झलो झली॑त्यतो झल्ग्रहणमपकृष्य झल एव लोपो विधीयत इति, अन्तरङ्गे लोपे कर्तव्ये बहिरङ्गस्य यणोऽसिद्धत्वमिति वा । न च षाष्ठी परिभाषा त्रैपादिकमन्तरङ्गलोपं न पश्यतीति वाच्यम्; कार्यकालपक्षाभ्युपगमात् । न चनाजानन्तर्ये॑ इति निषेधः, उत्तरकालप्रवृत्ते लोपेऽजानन्तर्याभावात् । तदुक्तम्-॒संयोगान्तलोपे यणः प्रतिषेधः॑ ।न वा झलो लोपात्बहिरङ्गलक्षणत्वाद्वे॑ति । चत्वारि रूपाणीति । इह धकारस्य द्वित्वे जश्त्वे च कृतेपूर्वत्रासिद्धीयमद्वित्वे॑ इति जशोऽसिद्धत्वाभावेन लक्ष्यभेदात्पुनर्दकारे द्वित्वप्रवृत्तौ रूपाधिक्यमस्ति । अत्र केचिदाहुः-॒उकारात्पर्सय यरो द्वित्वे कृते पुनरुकारात्परस्य यरो द्वित्वं न भवति, निमित्तभादेभावादित्याशयेनेदमुक्तमिति । तेषां तु तुदादिगणेवव्रश्चेत्यत्र उरदत्त्वस्य, अचः परस्मिन्निति स्थानिवद्भावान्न संप्रसारणे इति वस्योत्वं ने॑ति समाधानग्रन्थो मूलस्थो विरुध्येत, तन्निमित्तस्य लिटो भेदाऽभावादिति दिक् । अन्ये तु धकारस्य जश्त्वे कृतेपूर्वत्रासिद्धीयमद्वित्वे॑ इति जशोऽसिद्धत्वाबावाद्दकारे पुनर्द्वित्वं भवत्येव, व्यक्तिभेदात् । अत एव सय्यँन्तेत्यादौ परसवर्णद्वित्वं भाष्यकृता उदाहृतम् ।षट्ट्स्सन्त॑ इत्यत्र सकारद्वित्वसिद्धयेपूर्वत्रासिद्धीयमद्वित्वे॑ इति मनोरमायामप्युक्तम् । एवं यकारेऽपि द्वित्वस्य पुनः प्रवृत्तौ क्षत्यभावः, आष्टमिकद्विर्वचनस्य स्थाने द्विर्वचनरूपत्वात्स्थान्यादेशव्यत्तयोश्च भेदात् । यत्तूक्तं मनोरमायायम्-॒एकस्यां व्यक्तौ एकं लक्षणं सकृदेव प्रवर्तते॑ इतिएकः पूर्वपरयोः॑ इति सूत्रे भाष्ये सिद्धान्तितत्वात्कथं पुनर्द्वित्वप्रवृत्तिः, अन्यथा द्वित्वानन्त्यापत्ते॑-रित्यादि, तदनवधाननिबन्धनम्,तत्राधानादिशास्त्रदृष्टान्तेन प्रयोगान्तरेऽपि गुणादिशास्त्रप्रवृत्तेरेव सिद्धान्तितत्वात्, न तु सकृच्छास्त्र प्रवृत्तेः । आनन्त्यापत्तिरपि प्रकृते न दोषः । सा हि अनन्तकार्यसहितप्रयोगस्याशक्यत्वात्तच्चास्त्रकर्तव्यस्य परिनिष्ठितप्रयोगस्याऽभावात्तच्छास्त्रस्याननुष्ठापकत्वापत्त्या दोषः । प्रकृते तु नास्ति, द्वित्वस्य वैकल्पिकत्वेन यावच्छक्ति द्वित्वप्रयोगसहितस्य परिनिष्ठितत्वेन तेनैव शास्त्रस्य कृतार्थत्वात् ।लिटि धातो॑रिति द्वित्वस्य तु नित्यत्वादानन्त्यापत्तेः क्वचिद्विश्रान्तौ कल्पनीयायां लाघवात्प्रथमप्रवृत्तावेव विश्रान्तिकल्पनादनभ्यासग्रहणं प्रत्याख्यातम् । अत एवसर्वस्य द्वे॑ इत्यस्यापि न पुनः पुनः प्रवृत्तिरित्याहुः । नन्वत्रइकोऽसवर्णे॑ इति शाकल्यमतेन रूपान्तरमस्त्विति चेन्मैवम्; समासे तन्निषेधात् । न च नित्यसमास एव तन्निषेध इति वाच्यम्;सिन्नित्यसमासयोः शाकलप्रतिषेधः॑ इति वार्तिकस्थनित्यग्रहणस्य भाष्ये प्रत्याख्यतत्वात् । मनोरमायां तु जश्त्वेन दकारे कृते तस्य द्वित्वं नेत्याद्य#आशयेन सकारद्वित्वेनाष्टौ, विसर्गाद्वित्वेन षोडशेत्युक्तम् । द्विधमिति । यद्यपि धस्य जश्त्वेन दकारे धद्वय नास्ति, तथापि भूतपूर्वगतिमाश्रित्यैवमुक्तम् । सुध्युपास्य इति ।कर्तृकरणे कृता बहुल॑मिति तृतीयासमासः । नन्विह यणेव दुर्लभः,सुधी॑शब्दस्य ध्यायतेः संप्रसारणेन निष्पन्नत्वेनसंप्रसारणाच्चे॑ति पूर्वरूपापत्तेरिति चेन्मैवम्,संप्रसारणपूर्वत्वे समानाङ्गग्रहण॑मिति वार्तिकोक्तेः । न चैवमपि न भूसुधियो॑रिति यण्निषेधः शङ्क्यः ; आङ्गत्वेन प्रत्यये परत एव तन्निषेधप्रवृत्तेः ।सुपी॑त्यनुवर्त्त्य सुपि परत एव यण्निषेधाच्च । धात्रंश इति । अत्र रेफस्य द्वित्वं न, द्वित्वप्रकरणेरहाभ्या॑मिति साक्षाच्छतेन निमित्तभावेन रेफस्य कार्यित्वबाधनात् ।सुध्युपास्य॑ इत्यादौ तु स्थानित्वेन निमित्तत्वमिको न बाध्यते,तस्मादित्युत्तरस्य॑वाय्वृतुपित्रुषसः॑ इत्यादिनिर्देशाज्ज्ञापकात् । तकारस्य तु द्वित्वं भवत्येव । तच्च वेत्यतो रूपद्वयम् ।", "82024": "<<रात् सस्य>> - रात्सस्य ।संयोगान्तस्य लोपः॑इत्यनेनैव सिद्धे नियमार्थमिदमित्याह — सस्यैवेति । नान्यस्येति ।उर्क् परिमार्ट्इत्यादौ रेफात्संयोगान्तस्य लोपो नेत्यर्थः ।रादेव सस्ये॑ति विपरीतनियमोऽत्र न भवति, उरप्रभृतिषु कृतसंयोगान्तलोपस्यपुमा॑नित्यस्य दर्शनात् । परत्वादिति । न च नुट् नित्यैति वाच्यम्, तृज्वद्भावे कृते संनिपातपरिभाषया नुटो दुर्लभत्वादिति भावः । नुमन्विरतृज्वद्भावेभ्यो नुट् पूर्वविप्रतिषेधेन । नुमचिरेति.॒वारीणा तिसृणां॑क्रोष्टुना॑मिति क्रमेणोदाहरणानि । ननु रेण स्वविषये प्राप्तं सर्वं बाध्यं, बाध्यसामान्यचिन्ताश्रयणात्त एवगुणदीर्घोत्वानामपवाद॑इति वक्ष्यति । तथा चाऽविशेषान्नुडप्यनेन बाध्यत इति कथमिह विप्रतिषेधः, उत्सर्गापवादयोस्तदयोगादिति चेत्; अत्राहुः — अतएव तदंशे विप्रतिषेधं दूषयित्वान तिसृचतसृ॑इतिज्ञापकान्नुडिति भाष्यकृतोक्तम् । एवंचनुम्तृज्वद्भावाभ्या॑मित्येव सुवचमिति । इत्युदन्ताः । हु हु रिति । गन्धर्वविशेषवाचकमव्युत्पन्नं प्रातिपदिकमिदम् । हूह्वविति ।दीर्घज्जसि चे॑ ति पूर्वसवर्णदीर्घनिषेधे सतिइक॑इति यण् । अतिचमूशब्दे त्विति ।पर्थमलिङ्गग्रहणं चे॑त्युक्तेः । तथा चएवमतिचम्वादय॑इति प्राचोक्तं नादर्तव्यमिति भावः । खलूपूरिति । खलं पुनातीति । पूञः क्विप् ।", "82025": "<<हो ढः>> - अथ हलन्ताः पुंलिङ्गाः । हो ढः ।झलो झलि॒॑पदस्य॒॑स्कोः संयोगाद्योरन्ते चे॑ त्यतो झलीति पदस्यान्त इति चानुवर्तते । तदाह — झलित्यादि । झलि परतः पदान्ते वा विद्यमानल् । हस्येत्यर्थः । लिडिति ।लिह आस्वादने॑क्विप् । लिट्स्विति । ढस्य जश्त्वेन डः, तस्यखरि चे॑ति चर्त्वेन टः । तस्याऽसिद्धात्वाच्चयो द्वितीया इति पक्षे टस्य ठो न । सस्य ष्टुत्वं तु न भवति,न पदान्ताट्टो॑रिति निषेधात् । लिट्त्स्विति । ढस्य जश्त्वेन डकारे कृते चर्त्वस्याऽसिद्धत्वात्ततः प्रागेवडः सी॑ति पक्षे धुट् । तस्य चर्त्वेन तकारः, ततो डस्य चर्त्वेन टः । धुटश्चत्त्र्वस्यऽसिद्धित्वात्पक्षेचयो द्वितीया॑इति तस्या थो न । ष्टुत्वं तु तकारस्य न शङ्क्यमेव,न पदान्ता॑दिति निषेधस्याऽधुनैवोक्तत्वादिति ।", "82026": "<<झलो झलि>> - ॒संयोगान्तस्ये॑त्यतो लोप इति,रात्सस्ये॑त्यतः सस्येति चानुवर्तते । तदाह — सस्य लोपः स्यादिति । पदस्येत्यधिकारात्प्रत्यासत्तेर्झलो झलि सस्येति निर्दिष्टानां त्रयाणामेकपदसंबन्धित्वे लोपोऽयम् । तेनसोमसुत्स्थानटमित्यत्र नभवति । झलः किम् । अनैष्टाम् । झलि किम् । असैत्सीत् । असेधीदिति ।नेटी॑ति वृद्धिप्रतिषेधः गुणः । रखादृ भक्षणे । ऋकार इदिति । तेननाग्लोपी॑ति निषेधः । अचखादत् ।", "82027": "<<ह्रस्वादङ्गात्>> - प्रत्ययस्यैव तत्रापीष्टत्वात्सिच एव लोपो भवति । तेनेह न - अस्तं द्विष्टमाम् । केचित्त्विहाऽङ्गग्रहणाऽभावे अयाविष्टामलाविष्टामित्यादावपि अतिप्रसङ्गः स्यादित्याहुः । तदपरे न क्षमन्ते । संनिपातपरिभाषयापि परिहारसंभवादिति । झलीति किम । अभृषाताम् । अभृषत । ह्मञ् हरणे । चत्वार इहाऽर्थाः । भारं हरति । प्रापयतीत्यर्थः । अंशं हरति । स्वीकरोतीत्यर्थः । स्वर्णं हरति । चोरयति । पापं हरति । नाशयति । धृञ् । दधार । दध्रतुः । दधर्थ । दध्रे । दध्राते । धर्ता । ध्रियात् । णीञ् । निनयिथेति । भारद्वाजनियमादिङ्विकल्पः ।", "82028": "<<इट ईटि>> - ॒संयोगान्तस्य लोपः॑इत्यतो लोप इति,रात्सस्ये॑त्यतः सस्येति चानुवर्तते । तदाह — लोपः स्यादिति । इटः किम् । अहार्षीत् । ईटि किम् । आतिष्टाम् । आतिषु । सिज्लोप एकादेशे सिद्धो वाच्यः । सिज्लोप इति । अत्र वदन्ति — सलोप इति वक्तव्ये सिज्ग्रहणंझलो झली॑त्यादिसूत्रत्रयं सिज्विषयकमिति ज्ञापनार्थम् । तेनेह सोमस्तुत् । स्तोता । द्विष्रकटराम् । द्विष्टमाम् ।धि चे॑ति सूत्रे तु वामनमते सिचो लोपः । भाष्यमते तु सस्येति भेदो बोध्य इति ।", "82029": "<<स्कोः संयोगाद्योरन्ते च>> - स्कोः ।पदस्ये॑त्यनुवर्तते,झलो झलि॑त्यतोझली॑ति च ।संयोगे॑ति लुप्तषष्ठीकं झलन्ताभ्यां विशेष्यते । तदेतदाह — पदान्ते झलि च परे इति । झलि किम्भ्रष्टा । भृज्जतीति भृट् । क्विप् ।ग्रहिज्ये॑ति संप्रसारणम् ।व्रओ॑ति षत्वम् । ऊर्गिति ।ऊर्ज बलप्राणनयोः॑ । अस्माच्चुरादिण्यन्तात्भ्रजभासे॑त्यादिना क्विपि णिलोपः, स च चोः कुत्वे न स्थानिवत्, पदान्तविधित्वात्, पूर्वत्राऽसिद्धत्वाच्च । इह जान्तेषु — अवयाः । अवयाजौ । अवयाजैति नोदाहृतं,मन्त्रेओतवहोक्थे॑ति पर्कृत्यअव यजः॑इति विहितस्य ण्विनस्तदपवादस्य पदान्ते ङसश्छान्दसत्वेन वैदिकप्रक्रियायामेव वक्तुमुचित्वात् । इति जान्ताः ।", "82030": "<<चोः कुः>> - सुयुगिति । सुष्ठु युनक्तीति विग्रहे॒सत्सूद्विषे॑ति क्विप् । तेनेह नेति । नम्नेकत्यर्थः । क्विन्प्रत्ययस्तु स्यादेव,ऋत्वि॑गित्यादिसूत्रे॒युजी॑ति इका निर्देशात् । खन्निति । खञ्जतीनि खन् ।खजि गतिवैकल्ये॑ । एवं विभ्राडिति । फणादिरयम् । विशेषे भ्राजते इथि विभ्राट् । देवान् यजतीति देवेट् । क्विपि यजादित्वात्संप्रसारणे आद्गुणः । विआं सृजतीति विआसृट्, क्विबन्तः । क्विन्प्रत्ययो यस्मादिति बहुव्रीह्राश्रणात्कुत्वं कस्मान्न भवतीत्यशङ्क्याह -नेति क्लीबे वक्ष्यत इति.॒रज्जुसृङ्भ्या॑मिति भाष्यकारप्रयोगात् । यद्वाव्रआआदिसूत्रे सृजियज्योः पदान्ते षत्वं कुत्वापवादः॑इति वक्ष्यत इत्यर्थः । परिमार्ष्टीति -परिमृट् । परौ व्रजेः ।क्विब्वचिप्रच्छिश्रिरुआउद्रुप्रुज्वां दीर्घोऽसंप्रसारणं चे॑त्यौणादिकात्पूर्वसूत्रादिह क्विब्दीर्घावनुवर्तेते, तदाह — क्विप्स्याद्दीर्घश्चेति ।", "82031": "<<नहो धः>> - नहो धः ।द॑इत्येव तु नोक्तं, तथा हि सतिनद्ध॑मित्यत्ररदाभ्यां॑मिति नत्वं स्यात्,झषस्तथो॑रिति च न स्यात् । नहो हस्येति ।हो ढः॑इत्यतोऽनुवृत्तेःअलोऽन्त्यस्ये॑त्यनेन वा हस्यैवादेश इति भावः ।झलो झलि॒॑पदस्य॒॑स्कोःसंयोगाद्योरन्ते चे॑त्यतो झल्पदान्तग्रहणान्यनुवर्तन्ते । तदाह — झलीत्यादि । झलि परतः पदान्ते वा विद्यमानेस्येत्यर्थः । उपानदिति । उपपूर्वान्नहेः संपदादित्वात्क्विपिनहिवृती॑ति पूर्वपदस्य दीर्घः । सोर्हङ्यादिलोपे धत्वम् । जश्त्वचर्त्वे । अत्रेदं बोध्यम् — सुष्ठु अनङ्वाहो यस्यामिति बहुव्रीहौस्वनङ्वा॑निति पुंवदेव रूपम्ष । केचित्तु गौरादिङीषं कृत्वास्वनङ्वाही॑त्युदाजह्युः । तदसत् । अनुपसर्जनाधिकारविरोधात् । गीरिति ।गृ निगरणे॑,गृ शब्दे॑इत्यस्माद्वा क्विप् ।ॠत इद्धातोः॑इतीत्त्वे रपरत्वम् ।र्वोरुप धाया दीर्घः॑इति दीर्घः । पूरिति ।पृ पालनपूरणयोः॒॑उदोष्ठपूर्वस्य॑इत्युत्त्वम् । चतरुआ इति । इहचतुरनडुहो॑रित्याम्न भवति, परत्वादामं बाधित्वा चतरुआआदेसे कृते सकृद्गतिन्यायेन पुनस्तस्याऽप्रवृत्तेः । चतसृणामिति ।न तुसृचतसृ॑इति न दीर्घः । सर्ववदिति ।तेन तुल्य॑मिति वति ।सर्वनाम्नो वृत्तिमात्रे॑इति पुंवद्भावः ।", "82032": "<<दादेर्धातोर्घः>> - दादेर्धाकोर्घः ।धातो॑रित्यावर्तते । तत्रैकमतिरिच्यमानमुपदेशकालं लक्षयतीत्याशयेनाह -उपदेश इति । उपदेशग्रहणस्याऽव्याप्त्यतिव्याप्तिपरिहारः फलमित्याह -अधोगित्यादिना — अत्र मा भूदित्यन्तेन ।", "82033": "<<वा द्रुहमुहष्णुहष्णिहाम्>> - वा द्रुह ।द्रुह जुघांसायाम्,मुह वैचित्ये॑,ष्णुह उ द्रिरणे॑,ष्णिह प्रीतौ॑ । द्रुहेर्दादित्वान्नित्यं प्राप्ते अन्येषामप्राप्ते उभयत्र विभाषेयम् । ननु द्रुहादयो दिवादिष्वनेनैव क्रमेण पठन्ते, तत्रवा द्रुहादीनाम्इत्येवास्तु, दिवाद्यन्तर्गणस्य पुषादेरन्तर्गणो रधादिस्तदन्तर्गणो द्रुहदिस्तु । रधादिगणसमाप्तये स्निहधातोरनन्तरं वृत्करणस्य कृतत्वेनाऽतिप्रसङ्गशङ्कया निरवकाशत्वात् । मैवम्, तथाहि सति यङ्लुकि दोध्रुडित्यादि न सिध्येत्निर्दिष्टं यद्गणेन चे॑ति निषेधात् ।", "82034": "नहो धः। `द`इत्येव तु नोक्तं, तथा हि सति `नद्ध`मित्यत्र `रदाभ्यां`मिति नत्वं स्यात्, `झषस्तथो`रिति च न स्यात्। नहो हस्येति। `हो ढः`इत्यतोऽनुवृत्तेः `अलोऽन्त्यस्ये`त्यनेन वा हस्यैवादेश इति भावः। `झलो झलि``पदस्य``स्कोः `संयोगाद्योरन्ते चे`त्यतो झल्पदान्तग्रहणान्यनुवर्तन्ते। तदाह -झलीत्यादि। झलि परतः पदान्ते वा विद्यमानेस्येत्यर्थः। उपानदिति। उपपूर्वान्नहेः संपदादित्वात्क्विपि `नहिवृती`ति पूर्वपदस्य दीर्घः। सोर्हङ्यादिलोपे धत्वम्। जश्त्वचर्त्वे। अत्रेदं बोध्यम् -सुष्ठु अनङ्वाहो यस्यामिति बहुव्रीहौ `स्वनङ्वा`निति पुंवदेव रूपम्ष। केचित्तु गौरादिङीषं कृत्वा `स्वनङ्वाही`त्युदाजह्रुः। तदसत्। अनुपसर्जनाधिकारविरोधात्। गीरिति। `गृ? निगरणे`, `गृ? शब्दे`इत्यस्माद्वा क्विप्। `ॠत इद्धातोः`इतीत्त्वे रपरत्वम्। `र्वोरुप धाया दीर्घः`इति दीर्घः। पूरिति। `पृ? पालनपूरणयोः``उदोष्ठ�पूर्वस्य`इत्युत्त्वम्। चतरुआ इति। इह `चतुरनडुहो`रित्याम्न भवति, परत्वादामं बाधित्वा चतरुआआदेसे कृते सकृद्गतिन्यायेन पुनस्तस्याऽप्रवृत्तेः। चतसृणामिति। `न तुसृचतसृ`इति न दीर्घः। सर्ववदिति। `तेन तुल्य`मिति वति। `सर्वनाम्नो वृत्तिमात्रे`इति पुंवद्भावः।", "82035": "", "82036": "<<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> - टतयोष्ठथौ नेति । धुडभावे टस्य ठो न, धृट्पक्षे तु तस्य थो नेति विवेकः । न भवतीति । जशत्वात्प्राक् षस्य कुत्वं न भवतीत्यर्थः ।", "82037": "<<एकाचो बशो भष् झषन्तस्य स्ध्वोः>> - एकाचो बशो । झलीति निवृत्तमिति ।धुग्भ्यां॑धुक्ष्वि॑त्यादौपदान्ते॑इत्येव भष्भावसिद्धेरिति भावः । प्राचा तुप्रातिपदिकस्य॑तु झलि पदान्ते चे॑त् व्याख्यातम् । तत्प्रामादिकमेव ।अधोक्अधोग्इत्याद्यसिद्द्यापत्तेः । प्रातिपदिकग्रहणस्याऽप्रकृतत्वाच्च । ननुधातोरवयव॑इति वैयधिकरण्येनाऽन्वये क्विन्तस्य दुह्#Hदादे॑रिति घत्वेन झषन्तत्वेऽपि भष्भावो न स्यात्,दु॑घिति समुदायस्य यः पूर्ववयवोदु॑घिति समुदायस्य यः पूर्वावयवोदु॑इत्येकाच् तस्य झषन्तत्वाऽभावात् ।उघ्इत्युत्तरावयवे तु बशोऽभावादित्यत आह -व्यपदेशिवद्भावेनेति । न च धात्ववयवो धातुरित्येव व्यपदिश्यतां, तथाचगर्ध॑बिति सिध्येदिति वाच्यम्, अर्थवतां हि व्यपदेशिवद्बावः, न चावयवोऽर्थवानिति तस्य धातुत्वव्यपदेशाऽसंबवात् । भष्भाव इति । क्विपः प्राक्प्रवृत्ताया धातुसंज्ञाया निरपवादत्वेनावस्थितत्वात्दादेर्धातो॑रिति घत्वे कृते झषन्तत्वादिति भावः । धुगिति ।दुह प्रपूरणे॑क्विप् ।", "82038": "<<दधस्तथोश्च>> - दधस्तथोश्च ।दध॑ इति कृतद्विर्वचनाभ्यासकार्यो धाञेव गृह्रते न तु दध धारण इत्ययमिति व्याचष्टे - द्विरुक्तस्येति । झषन्तस्य किम् । दधाति । नन्वेवंधत्ते॑ इत्यादावपि न स्यादाल्लोपस्य स्थानिवत्त्वेनाऽझषन्तत्वादत आह — वचनसामर्थ्यादिति ।", "82039": "", "82040": "<<झषस्तथोर्धोऽधः>> - ॒अध॑ इति किम् । धत्तः । असैत्सीदिति ।अस्तिसिचः॑इति ईडागमः ।वदव्जे॑ति वृद्धि । ततश्चर्त्वम् ।", "82041": "<<षढोः कः सि>> - केचित्त्विति । परिशिष्टकारादयः । निच्शु इति । अत्रशश्छोट#ई॑ति पक्षे छत्वं बोध्यम् ।मांसपृतनासानूनां मांस्पृत्स्नवो वाच्याः शसादौ वा । मांसपृतनेति । पृतना -सेना । नात्वं नेति ।अस्त्रियां॑मिति पर्युदासादिते भावः ।", "82042": "<<रदाभ्यां निष्ठातो नः पूर्वस्य च दः>> - रदाभ्याम् । इह रदाभ्यामित्यनेन तकारो विशेष्यते, न निष्ठा, तेन चरितमुदितमित्यत्र न , तकारस्येटा व्यतत्वात् । तदेतदाह — परस्य निष्ठातस्येति । बहिरङ्गत्वेनेति । निष्ठातकाराद्बहिर्भूतं तद्धितञित्प्रत्ययमाश्रित्याऽङ्गस्यादेरचो विधीयमानत्वाद्वृद्धिर्बहिरङ्गेति भावः । द्राण इति । द्रा कुत्सायां गतौ । ग्लानः म्लान इति । ग्लौ म्लै हर्षक्षये ।", "82043": "", "82044": "<<ल्वादिभ्यः>> - एकविंशतेरिति । क्र्यादिषु प्वादयो द्वाविंशतिः पठते,तत्र पूञं विहाय ल्वादयो ज्ञेयाः । जीन इति ।हल॑ इति दीर्घः । सिद्धत्वान्नित्यत्वाच्चग्रहिज्ये॑ ति संप्रसारणे कृतेसंयोगादेरातःर॑ इत्यस्याऽप्राप्तिः । *दुग्वोदीर्घश्च । गून इति । गु परीषोत्सर्गे । *पूञो विनाशे । विनष्टा इति । धातूनामनेकार्थत्वात्पूञ पवन इत्यस्य विनाशेऽपि वृत्तिः । * सिनोतेग्र्रासकर्मकर्तृकस्य । सिनोतेरिति । षिञ् बन्धने । ग्रासरूपं कर्म ग्रासकर्म,तत्कर्तृ यस्य सिनोतेस्ततः परस्य निष्ठातस्य नः स्यादित्यर्थः । सिनो ग्रास इति । पिण्डीक्रियमाणो ग्रासो यदा दध्यादिव्यञ्जनवशाद्बन्धनेऽनुकूलो भवति तदा कर्मण्येव कर्तृत्वमिति बोध्यम् । ग्रासेति किमिति ।ग्रास कर्मकर्तृकस्ये॑ति किमर्थमित्यर्थः । कर्मकर्तृकेति किमिति ।ग्रासकर्मकस्ये॑त्येवास्तु कर्तृपदं किमर्थमित्यर्थः । कर्मपदं विहायग्रासकर्तृकस्ये॑त्युक्तौ तुग्रासेन कण्ठः सित॑ इत्यत्रापि स्यादिति बोध्यम् ।", "82045": "<<ओदितश्च>> - भुग्न इति । भुजो कौटिल्ये । नत्वस्याऽसिद्धत्वाज्झलि परतः कुत्वम् । उच्छून इति । आयतेर्यजादित्वात्संप्रसारणे पूर्वरूपे चहलः॑ इति दीर्घः । प्रहीण इति ।घुमास्थे॑ति ईत्वम् । सून इति । षूङ् प्राणिप्रसवे । दून इति । दूङ् परितापे । ओदिन्मध्ये इति । यदि डीङ इट् स्यात्तर्हि धातोः परो निष्ठातकारो न संभवतीति नत्वार्थः पाठोऽनर्थकः स्यादिति भावः । न च ओदिन्मध्ये पाठसामर्थ्यादिटा व्यवधाने नत्वं बवेदिति वैपरीत्यं किं न स्यादिति शङ्क्यम्, लक्ष्यानुरोधेन इडभावकल्पनाया एव न्याय्यत्वात् । अन्ये तु सत्यपि इडागमे सवर्णदीर्घे चैकादेशस्य पूर्वान्तत्वेन ग्रहणादिटा व्यववधानं नास्त्येवेतीष्टं सिध्यतीत्याहुः ।", "82046": "<<क्षियो दीर्घात्>> - क्षियो । क्षि क्षये, क्षि निवासगत्योः, द्वयोरपि ग्रहणम् । क्षितः काम इति । अन्तर्भावितण्यर्थत्वेन सकर्मकत्वात्कर्मणि क्तः । एतच्च अक्षितोतसनेदिम॑मिति मन्त्रव्याख्यायां माधवग्रन्थे स्पष्टम् । भावे तु क्षितं कामेनेत्याद्युदाहरणीयम् । इण्निषेधसूत्रं स्मारयति — श्र्युकः कितीति । क्षुत इति । टुक्षु शब्दे । नुत इति । णु स्तुतौ । वृत इति । वृङ् संभक्तौ,वृञ् रणे ।", "82047": "<<श्योऽस्पर्शे>> - संश्यान इति । श्यैङ् गतावित्यस्यआदेच॑ इत्यात्वेसंयोगादेरातः॑ इति निष्ठातस्य नः ।", "82048": "", "82049": "<<दिवोऽविजिगीषायाम्>> - द्यून इति ।च्छ्वोः शू॑डित्यूठ् । क्षीण इत्यर्थः । द्यूतमिति । विजिगीषया हि तत्राऽक्षाः पात्यन्ते इति गम्यते विजिगीषा ।", "82050": "<<निर्वाणोऽवाते>> - निर्वाणोऽवाते । वा गतिगन्धनयोः,निर्पूर्वादस्मान्निष्ठातस्य नत्वे णत्वम् । वातश्चेत्कर्ता नेति । एवं चवातेन हेतुना निर्वाणो दीप॑ इत्यत्र निषेधो नेत्याहुः । निर्वात इति ।गत्यर्थाकर्मके॑ति कर्तरि क्तः । नितरां वातो गतः इत्यर्थः ।", "82051": "<<शुषः कः>> - शुष्क इति । शुष शोषणे ।", "82052": "", "82053": "<<क्षायो मः>> - क्षाम इति । क्षै क्षये ।आदेचः॑ इत्त्यात्वम् ।", "82054": "<<प्रस्त्योऽन्यतरस्याम्>> - प्रस्तीमः प्रस्तीत इति । स्त्यै ष्ठै शब्दसङ्घातयोः । आत्वे कृतेसंयोगादे॑रित्यस्याऽसिद्धत्वात्पूर्वं संप्रसारणे पूर्वरूपे कृतेहलः॑ इति दीर्घः, पश्चाद्यण्वत्त्वादन्तत्वयोर्विरहान्न नत्वम् ।संस्त्यान॑ इत्यत्र तु भवत्येव ।", "82055": "<<अनुपसर्गात् फुल्लक्षीबकृशोल्लाघाः>> - क्षीबादिष्विति । क्षीबृ मदे,कृश तनुत्वे, लाघृशक्तावुत्पूर्वः, एभ्यः क्तः । ननु फुल्ल विकसन इत्यस्मादुल्लाघेश्च पचाद्यचि इतराभ्यामिगुपधलक्षणे कप्रत्यये च फुल्लादयः सिध्यन्ति तत्क सूत्रेणेत्यत आह — सूत्रं त्विति ।", "82056": "<<नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम्>> - नुदविदो ।रदाभ्यां॑संयोगादेरातः॑ इति नित्ये प्राप्ते, ह्रीत्यस्याऽप्राप्ते उभयत्र विभाषेयम् । वेत्तेस्त्विति । तथा च भाष्यम् - वेत्तेस्तु विदितो निष्ठा विद्यतेर्विघ्न इष्यते । विन्तेर्विन्नश्च वित्तश्च भोगे वित्ततश्च विदन्तेः॑ इति । नुन्नः नुत्त इति ।अनिदिता॑मिति नलोपः ।", "82057": "<<न ध्याख्यापॄमूर्छिमदाम्>> - न ध्या । ध्यै चिन्तायाम् । ख्या प्रकथने । प पालनपूरणयोः । मुच्र्छा मोहसमुच्छ्राययोः । मदी हर्षे । पूर्त इति ।श्र्युकः किती॑ति इण्निषेधः । छलोपविधिं स्मारयति -राल्लोपैति । मूर्तैति ।आदितश्चे॑ति नेट् । मत्त इति ।श्वीदितः॑ इति नेट् ।", "82058": "<<वित्तो भोगप्रत्यययोः>> - वित्तो । ज्ञानार्थकाद्विदेरिटा भाव्यं, सत्तार्थकविदेर्विचारणार्थकविदेश्च भोगप्रत्ययोर्वृत्तिर्न संभवतीत्याशयेनाह — विन्दतेरिति । विद्लृ लाभ इत्यस्येत्यर्थः । भुज्यत इति भोगः । प्रतीयत इति प्रत्यय इति कर्मसाधनावेतावितिव्याचष्टे- भोगे प्रतीते चार्थ इति ।", "82059": "<<भित्तं शकलम्>> - भित्तं शकलम् । भिदेः क्तेरदाभ्या॑मिति प्राप्तनत्वस्याऽभावो निपात्यते ।भित्तं शकलखण्डे वा॑ इत्यमरः । भिन्नमन्यदिति । विदीर्ममित्यर्थः ।", "82060": "<<ऋणमाधमर्ण्ये>> - ऋणमाधमण्र्ये । अधमं दुःखप्रदमृणमस्य सोऽधमर्णः, तस्य भाव आधमण्र्य । तेन व्यवहारविशेषो लक्ष्यते । ततश्च उत्तमर्णोऽपि सिध्यतीत्याशयेन व्याचष्टे - अधमर्णव्यहार इति । स च व्यवहारो दातृग्रहीत्रोः संबन्धी भवतीत्युत्तमर्णोऽपि प्रयोगो न विरुध्यते । लक्षणायां तुधारेरुत्तमर्णः॑ इति निर्देशो लिङ्गम् ।", "82061": "", "82062": "<<क्विन्प्रत्ययस्य कुः>> - क्विन्प्रत्ययस्य । क्विनः कु ॑ रित्युक्तेऽपि प्रत्ययग्रहणे तदन्तग्रहणात्क्किन्नन्त्स्य ग्रहणे सिद्धे प्रत्ययग्रहणं बहुव्रीहिविज्ञानार्थमित्याशयेन व्याचष्टे — क्विन्प्रत्ययो यस्मादितिष.बहुव्रीह्राश्रयणफलं तुस्पृ॑गित्यादि स्फुटीबविष्यति ।", "82063": "<<नशेर्वा>> - नगिति । षडगकाः प्रग्वात् ।", "82064": "<<मो नो धातोः>> - प्रशानिति ।शम उपशमे॑क्विप् ।अनुनासिकस्य क्वी॑ति दीर्घः ।", "82065": "<<म्वोश्च>> - कमु कान्तौ । अस्य णिङभावेउदितो वे॑ति क्त्वायामिड्विकल्पः । कमित्वा । कान्त्वा । निष्ठायां तुयस्य विभाषे॑ति निषेधात्कान्तः ।", "82066": "<<ससजुषो रुः>> - ससजुषो रुः ।पदस्ये॑त्यनुवृतं ससजूभ्र्यां विशेष्यते, विशेषणेन तदन्तविधिः । न च सजूःशब्दांशेग्रहणवता प्रतिपदिकेन तदन्तविधिर्ने॑ति निषेधः शङ्क्यः, तस्य प्रत्ययविधिविषयकत्वात् । सान्तं सजुष्शब्दान्तं च यत्पदं तस्य रुः स्यात्स चाऽलोन्त्यस्य । एवं स्थिते फलितमाह-पदान्तस्य सस्येति । सजुष्शब्दस्येति । तदन्तस्य पदस्येत्यर्थः । तेनसुजुषौ॑सजुष॑ इत्यत्रापि नातिव्याप्तिः । नचसजू॑रित्यत्राऽव्याप्तिः,व्यपदेशिवद्भावोऽप्रातिदिकेने॑ति निषेधादिति वाच्यं, तस्यापि प्रत्ययविधिविषयकत्वात् । अतएवव्यपदेशिवद्भावोऽप्रातिपदिकेने॑तिग्रहणवते॑ति च परिभाषाद्वयमपि प्रत्ययविधिविषयकमितिदिव उ॑त्सूत्रे हरदत्तेनोक्तम् । कैयटहरदत्ताभ्यामिति तु मनोरमायां स्थितम् । तत्र कैयटेनानुक्तत्वात्कैयटग्रहणं प्रमादपतिततमिति नव्याः । केचित्तुदिव उ॑त्सूत्रं यस्मिन्निति बहुव्रीहिरयं, सूत्रसमुदायश्चान्यपदार्थः । तथाचदिव उ॑त्सूत्रशब्देनद्वन्द्वे चे॑ति सूत्रस्यापि क्रोटीकारात्तत्र च कैयटेनोक्तत्वान्नोक्तदोष इति कुकविकृतिवत्क्लेशेन मनोरमां समर्थयन्ते ।", "82067": "", "82068": "<<हलि च>> - हलि च ।र्वोरुपधाया दीर्घ इकः॑इत्यनुवर्तते,सिपि धातोः॑इत्यतोधातो॑रिति च, तच्च धातुग्रहणं र्वो॑रित्यनेन विशेष्यते, विशेषणेन तदन्तविधिस्तदाह — — रेफवान्तस्य धातोरित्यादि । रेफान्तस्य तुगीर्यति॒॑पर्यति॒॑गीर्णं॒॑पूर्ण॑मित्याद्युदाहरणानि । धातोः किम् रेफान्तस्य पदस्य मा भूत् । अग्निः करोति । वायुः करोति । नन्वस्तु धातोरनुवर्तनं परंतुर्वो॑रित्यनेन धातुर्न विशेष्यते — ॒रेफवान्तस्य धातो॑रिति, किं तु इग्विशेष्यते, — ॒रेफवान्तस्येको दीर्घः स्यात्तौ च रेफवकारौ धातोश्चेत् । अन्तशब्दोऽत्र समीपवाची । तथाचउपधायां चे॑ति सूत्रं त्यक्तुं शक्यम्, अनेनैव मूर्छतिहूर्छतूत्यादिरूपसिद्धेरिति चेन्मैवम् ।कुर्कुरीयती॑त्यादवतिप्रसङ्गः स्यात् । तस्मात्र्वो॑रित्यनेन धातुरेव विशेष्यः । एतच्चाकरे स्पष्टम् । यत्तुउपधायां चे॑ति कैश्चिदुपन्यस्तम्, तन्न, दिवेर्वकारस्याऽनुपधात्वात् । उक्तन्यायेनेति । यथो#एद्देशपक्षे षाष्ठीं परिभाषां प्रति दीर्घस्याऽसिद्धतयेत्यर्थः । प्रतिदिव्न इथि । न भकुर्छुरा॑मित्यत्रर्वो॑रित्यनुवर्तनाद्रेफवान्तस्यैव भस्य निषेध इति न दीर्घनिषेधोऽत्र शङ्क्यो, नान्तस्येह भत्वात् ।", "82069": "<<रोऽसुपि>> - रोऽसुपि ।असुपी॑ति यदि पर्युदासः स्यात्ततः सुप्सदृशे प्रत्यय एव स्यादहर्यतीत्यादौ, न त्वहर्भातीत्यादावपि । तस्मात्प्रसज्यप्रतिषेध एवेति व्याचष्टे-न तु सुपीति । अहरहरिति ।नित्यवीप्सयो॑रिति द्वित्वम् । न चात्र रेफादेशस्याऽसिद्धत्वात्पूर्वं नलोपे अकारस्यैव रेफः स्यादिति वाच्यम्,अह॑न्नित्याववर्त्त्य एकेन लोपाभावं निपात्य द्वितीयेन रुर्विधेय इतिअह॑न्निति सूत्रे वक्ष्यमाणतया रुत्वपवादस्यापि रेफादेशस्य नकारस्थानिकत्वलाभात् । अहोरात्र इति ।अहःसर्वैकदेशे॑त्यादिना समासान्तो वक्ष्यते ।रात्राह्नाहाः पुंसी॑ति पुंस्त्वम् । अहोरथन्तरमिति । रथन्तरं साम । तेनाह्नः समाहारद्वन्द्वः । पृथक्पदत्वं वा । अहारादीनामिति । उभयत्राप्यादिशब्दः प्रकारे । तेनस्वर्चक्षा रथिरः,॑कविः काव्येना स्वर्चना॑ इत्यादि ग्राह्रम् ।", "82070": "", "82071": "", "82072": "<<वसुस्रंसुध्वंस्वनडुहां दः>> - वसुरुआंसु । वस्विति प्रत्ययः, तेन तदन्तं ग्राह्रम् ।ससजुषो॑रिति सूत्रात्सेत्यनुवर्तते, तच्च वसोरेव विशेषणं, न तु सरंसुध्वंस्वोः, अव्यभिचारात् । नाऽप्यडुहः, असंभवादित्यभिप्रेत्याह — सान्तवस्वन्तस्येति ।", "82073": "", "82074": "", "82075": "", "82076": "<<र्वोरुपधाया दीर्घ इकः>> - ॒षङ्भयो लुक्षट्चतुभ्र्यश्चे॑ति बहुवचननिर्देशात्षडर्थप्राधान्ये एव लुङ्नुटौ भवत इति भावः । पिपठिषतेः क्विप्यतो लोपे कृदन्तत्वात्स्वाद्युत्पत्तौपिपठिष् — सु इति स्थिते सोर्हल्ङ्यादिलोपे प्रत्ययलक्षणेन पदान्तत्वात्सस्य रुर्भवति । न च रुत्वे कर्तव्येऽल्लोपस्य स्थानिवत्त्वं शङ्क्यं, पूर्वत्रासिद्धे तन्निषेधात् ।", "82077": "हलि च। `र्वोरुपधाया दीर्घ इकः`इत्यनुवर्तते, `सिपि धातोः`इत्यतो `धातो`रिति च, तच्च धातुग्रहणं र्वो`रित्यनेन विशेष्यते, विशेषणेन तदन्तविधिस्तदाह - रेफवान्तस्य धातोरित्यादि। रेफान्तस्य तु `गीर्यति``पर्यति``गीर्णं``पूर्ण`मित्याद्युदाहरणानि। धातोः किम्? रेफान्तस्य पदस्य मा भूत्। अग्निः करोति। वायुः करोति। नन्वस्तु धातोरनुवर्तनं परंतु `र्वो`रित्यनेन धातुर्न विशेष्यते -`रेफवान्तस्य धातो`रिति, किं तु इग्विशेष्यते, -`रेफवान्तस्येको दीर्घः स्यात्तौ च रेफवकारौ धातोश्चेत्`। अन्तशब्दोऽत्र समीपवाची। तथाच `उपधायां चे`ति सूत्रं त्यक्तुं शक्यम्, अनेनैव मूर्छतिहूर्छतूत्यादिरूपसिद्धेरिति चेन्मैवम्। `कुर्कुरीयती`त्यादवतिप्रसङ्गः स्यात्। तस्मात् `र्वो`रित्यनेन धातुरेव विशेष्यः। एतच्चाकरे स्पष्टम्। यत्तु `उपधायां चे`ति कैश्चिदुपन्यस्तम्, तन्न, दिवेर्वकारस्याऽनुपधात्वात्। उक्तन्यायेनेति। यथो#एद्देशपक्षे षाष्ठीं परिभाषां प्रति दीर्घस्याऽसिद्धतयेत्यर्थः। प्रतिदिव्न इथि। न भकुर्छुरा`मित्यत्र `र्वो`रित्यनुवर्तनाद्रेफवान्तस्यैव भस्य निषेध इति न दीर्घनिषेधोऽत्र शङ्क्यो, नान्तस्येह भत्वात्।", "82078": "<<उपधायां च>> - ॒सिपि धातो॑रित्यतो धातोरित्यनुवर्तते,र्वरुपधायाः॑ इत्यतो र्वोरिक इति ।हलि चे॑त्यतो हलीति च । तदाह — धातोरित्यादि । धातोः किम् ।ऊङुतः॑ । कुरूः कुर्वौ कुर्व इत्यत्रेको दीर्घो माभूतू । न चात्र रेफस्य प्रातिपदिकोपधात्वेऽपि पदोपधात्वाऽभावदेव दीर्घो भवेदिति धातोरित्यनुवर्तनमिहानावश्यकमिति वाच्यं, पदस्येत्यनुवृत्तौ तु कूर्दते गूर्दते इत्याद्यसिद्धिप्रसङ्गात् । वस्तुतस्तु पूर्वत्रासिद्धे न स्थानिवदिति स्वीकारात्अचः परस्मि॑न्निति स्थानिवत्त्वस्य निषेधाभ्युपगमेऽपि कार्यकालपक्षेअसिद्धं बहिरङ्ग॑मिति परिभाषायाः प्रवृत्तेर्बहिरङ्गयणोऽसिद्धत्वात्कुर्वौ कुर्व इत्यत्रउपधायां चे॑ति दीर्घो न भवेदिति धातुग्रहणानुवर्तनस्य नात्यन्तावश्यकता, पदस्येत्यननुवृत्त्या कूर्दते इत्यादौ दीर्घः सिध्यत्येवाहुः । रेफवकारयोः किम् ।पुष्प विकसने॑ पुष्प्यति । हल्परयोः किम् । चिरणोति । जिरिणोति । इकः किम् । अर्वते । नर्दति । ननुहलि चे॑त्यत्र रेफवकारयोर्हल्परयोरिको दीर्घः स्यादिति व्याख्यायां कूर्दते गूर्दते इत्यादि सिध्यत्येवेति सूत्रमिदं व्यर्थमिति चेत् । अत्राहुः — हलिचे॑त्यत्र धातुग्रहणमनुवर्तनीयमेव । अन्यथा दिवमिच्छति दिव्यतीत्यादावतिप्रसङ्गः स्यात् । तथा चउपधायां चे॑ति सूत्राऽभावे उपधाभूतयोः र्वोः परतो दीर्घोन स्यात् किं तुरेफवान्तयोरेव धात्वोःहलि चे॑ति सूत्रेण स्यादित्येतत्सूत्रमावश्यकमेवेति । सूदते इति । रुआवतीत्यर्थः । ननु स्वर्दतिवत्स्वद सूदेति दन्त्यादय एव धातवः पठन्ताम्, षोपदेशान् पठित्वा सत्वविधौ गौरवात् । मैवम् । तथाहि सति ण्यन्च्चङि असिष्विदत, असूषुददित्यादौ, लिटि सुषूदे सिषेधेत्यादौ चआदेशप्रत्यययोः॑ इति षत्वं न स्यात् । इणः परस्य सकारमात्रस्य षत्वविधौ तु सुपिसौ सुपिस इत्यादावपि स्यादिति धातुपाठे पाणिनिना तालव्यदन्त्यादिपाठवत्षोपदेशा अपि व्यवस्थयैव पठिताः, स च पाठ इदानीं परिभ्रष्टः । साधादिषु सादिपाठस्यैव दृश्यमानत्वात् । अतो लक्षणमुखेन तान्व्यवस्थापयति — सेगित्यादि । दन्तश्च अञ्च दन्त्यादौ, तौ अन्तौ अव्यवहितपरौ यस्य् स दन्त्याजन्तः । दन्त्याजन्तश्चासौ सश्च दन्त्याजन्तसः, स आदिर्येषां धातूनां ते दन्त्यान्तसादयोऽजन्तसादयश्चैकाचः षोपदेशा बोध्याः । तथा च साधादौ सांप्रतं पठमानः सकार उपदेशे न स्थित इत्यनुमेयदन्तौ ।उक्तलक्षणस्यातिव्याप्त वारयितुमाह — सिगिति ।सकृ गतौ॑ ।सृप्लृ गतौ॑स्तृञ् आच्छादने॑ ।सृज विसर्गे॑ । स्तृञ् आच्छादने॑ ।स्त्यै शब्दसह्घातयो॑ । एभ्योऽन्ये । पूर्वेण केषांचिदसङ्ग्रहादाह — ष्वष्केति ।ष्वष्क गतौ॑ ञिष्विदा गात्रप्रक्षरणे॑ ।स्वद आस्वादने॑ ।ष्वञ्ज परिष्वङ्गेट ।ञिष्वप् शये॑ ।स्मिङ् ईषद्धसने॑ एते षोपदेशा॑ इत्यन्वयः ।स्वाद आस्वादने॑ इत्यादावतिव्याप्तिमाशङ्क्ायाह — दन्त्यः केवलदन्त्य इति । तथा च असिस्वददित्यादौ षत्वं नेति भावः । ह्लादी सुखे च । चादव्यक्ते शब्दे । ईकारःश्वीदितो निष्ठाया॑मितीण्निषेधार्थः । प्रह्लन्नः प्रह्लन्नवान् । इहह्लादो निष्ठाया॑मित्युपधाह्रस्वः । श्लाघायामिति । अविद्यमानगुणसम्बन्धज्ञापनं — श्लाघा । आततुरिति । हल्मध्यस्थत्वाऽभावादेत्वं न ।", "82079": "", "82080": "<<अदसोऽसेर्दादु दो मः>> - अदसोऽसेः ।असे॑रिति इकार उच्चारणार्थस्तदाह -अदसोऽसान्तस्येति । असान्तस्येति किममुमात्मन इच्छति अदस्यति । दात्परस्य किममुया॑अमुयो॑रित्यत्राऽन्त्ययकारस्य माभूत् । ह्स्वव्यञ्जनयोरिति । व्यञ्जनस्य हि ह्रस्व ईषात्सदृशो, दीर्घस्तु विसदृश इथि भावः । प्राञ्चस्तु — ह्रस्वदीर्घयोः समाहारद्वन्द्वमकृत्वैवविधीयमानोऽप्यण् क्विचित्सवर्णान् गृह्णाती॑ति सावीकृत्य आन्तरतम्याद्ध्रस्वव्यञ्जनयोह्र्यस्वो दीर्घस्य दीर्घ इति व्याचक्षते ।अन्त्यबाध इति । सूत्रेअदस॑ इति नाऽवयवषष्ठी, किन्तु स्थानेषष्ठी, एवं हि अलोऽन्त्यपरिभाषोपतिष्ठते । तथा च अदसो योऽन्त्यः स दात्परो न भवति, दात्परो यः सोऽदसोऽन्त्यो न भवतीत्येवमन्त्यबाधेऽन्त्यसमीपस्य भवतीति तेषामाशयः । उक्तं चेति ।वार्तिककृते॑ति शेषः । एवं चअमन्द्य॑ङ्ङिति केषाञ्चिदुदाहरणं भाष्यादावनुक्तत्वादुपेक्ष्यमिति भावः । लत्ववदिति ।चलीकॢप्यते॑इत्यत्रकृपो रो लः॑इत्युभयोर्यथा लत्वं तथेत्यर्थः । नन्वप्रत्ययग्रहणाभावेऽप्युत्तरपदाधिकारस्थत्वाद्विष्वन्द्यङ् देवन्द्यङ्ङित्यञ्चत्युत्तरपदेष्वेवाऽद्यादेशः स्यान्न तुविष्वगञ्चन॑मित्यत्राऽतो व्याचष्टे-अप्रत्ययग्रहणं ज्ञापयतीति । अन्यत्रेति ।अतः कृकमी॑त्यादौ । तेनेति । अन्यथानित्यं समासे॑इत्यतोऽनुवृत्तेन समासग्रहणेनोत्तरपदस्याक्षेपादतः कृकमीति कृधातुग्रहणे कृधातूत्तरपदक एवाऽयस्कृदित्यादौ सत्वं स्यान्नत्वणन्तोत्तरपदकेऽयस्कार इत्यत्रेति भावः ।", "82081": "<<एत ईद्बहुवचने>> - एत ईद्बहुवचने । परिभाषिकस्य बहुवचनस्य ग्रहणेअमीभि रित्यादिसिद्धावपि जसुअमी ति न सिध्येत् । न ह्यत्र एकारस्य बहुवचनपरताऽस्र्ति । अतो व्याचष्टे — बह्वार्थोक्ताविति । विभक्तिकार्य प्रागिति ।त्यदादीनामः॑इत्यादिसपादसप्ताध्यायीं प्रतिअदसोऽसे॑रिति त्रैपादिकसास्त्रस्याऽसिद्धत्वात्, अकृते विभक्तिकार्ये सान्तत्वादुत्वमत्वयोरप्रवृत्तेश्चेति भावः । यदि तुपूर्वत्रासिद्ध॑मित्यत्र कार्याऽसिद्धत्वमिष्येत, तर्हिअमू॒॑अमु॑मित्यादि न सिद्ध्येत् । त्यदाद्यत्वे कृते पररूपात्प्रागेवोत्वमत्वयोः कृतयोः पश्चान्मुत्वकार्यस्याऽसिद्धतयाअतो गुणे॑इति पररूपेअमौ॑इत्यादि रूपसिद्धिपर्सङ्गात् । किंच चर्म वस्तेचर्मवः॑, सुष्टु वस्तेसुवः॑ । अत्र परत्वात्स्कोरिति सलोपे तस्याऽसिद्धत्वा४द्धल्ह्रादिलोपे उक्तरूपं न सिध्यतीति कार्यऽसिद्धि पक्षो हेय एव । अत्र वदन्ति — ॒सपादसप्ताध्याय्यां विहितं कार्यं प्रति त्रिपाद्यां विहितमसिद्ध॑मिति प्रक्रियाग्रन्थोक्तकार्याऽसिद्धिपक्षेमनोरथः॑अमु॑मित्यादि न सिद्ध्येदिति केचुत् । तन्न । प्रक्तियाग्रन्थोक्तेर्हि कार्य प्रति — कार्ये कर्तव्ये, असिद्धं — पूर्वमेव न जातमित्यर्थः । शस्त्राऽसिद्धत्वेऽप्येवमेव फलितोऽर्थः । तदुक्तं कैयटेन -॒यच्छास्त्रमुच्चारितं तस्याऽसिद्धत्वमशक्यं कर्तुमित्यसिद्धवचनादतिदेश आश्रीयते॑इति । तथा चातिदशेन कार्याऽप्रवर्तकत्वरूपोऽसिद्धधर्मः शास्त्रेऽतिदिश्यमानः कार्याऽसिद्धत्व एव फलति । एवं चमनोरथ॑इत्यत्र उत्वे कर्यव्ये रेफलोपस्य पूर्वमेवाऽप्रवृत्तौ रोरुत्वस्याऽपर्तीघातान्मनोरथसिद्धिरप्त्यूहा । तथाअमु॑मित्यादिसिद्धिरिति कार्याऽसिद्धपक्षे न काप्यनुपपत्तिरिति ।", "82082": "", "82083": "<<प्रत्यभिवादेअशूद्रे>> - प्रत्यभिवादे । इहप्रत्यभिवाद॑शब्देन आशीर्वचनमुच्यते । अशूद्रे किम् , अभिवादये तुषजकोऽहम्भोः । आयुष्मानेधि तुषजक । आयुष्मानेधीति । अस्तेः सेर्हिः ।ध्वसो॑रिति एत्वम् ।हुझल्भ्यो हेर्धिः॑ ।श्नसोरल्लोपः॑ । नाम गोत्रं वेति । गोत्रस्योदाहरणम्-॒अभिवादये गाग्र्योऽहम्भोः, आयुष्मानेधि गाग्र्या॑ इत्यूह्रम् ।", "82084": "<<दूराद्धूते च>> - दूराद्धूते च । हूतमाह्वानं, तच्च संबोधनमात्रोपलक्षणमित्याह — दूरात्संबोधन इति । उपलक्षणतया व्याख्यानस्य फलमुदाहरति-सक्तन्पिवेत्यादि ।", "82085": "", "82086": "<<गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम्>> - गुरोरनृतः । अनन्त्यस्याप्रीति । अत्र वदन्ति-यद्यन्त्यस्य गुरोः प्लुतार्थोऽपिशब्दः इति व्याख्यायेत तर्हि गुरुस्थानिकप्लुतानामेव पर्यायता स्यात्तथाच्चदूराद्धूते॑ इति लक्षणान्तरेण लघोष्टेः स्थाने विहितेन प्लुतेन सह युगपत्प्रयोगः प्रसज्येत । तस्मादपिशब्दो गुरोरगुरोश्च टेः प्लुतार्थ इत्येव व्याख्यातव्यं,टे॑रिति प्रकृतत्वादिति । देवदत्तेति । वाक्यत्वसंपत्तये अस्यादिरेहीति शब्दो बोध्यः । एवमग्रेऽपि । सर्वः प्लुतो विकल्प्यत इति । एतेनद्वैपायनो विशकातर आजुहाव पुत्रेति॑ इति भागवतं व्याख्यातम् ।प्लुतस्य वैकल्पिकत्वादार्षः प्रयोगः॑ इति श्रीधराचार्योक्तिस्तु भादर्तव्या । विस्तरस्त्वत्र मनोरमायामनुसन्धेयः ।", "82087": "", "82088": "", "82089": "", "82090": "", "82091": "", "82092": "", "82093": "", "82094": "", "82095": "", "82096": "", "82097": "", "82098": "", "82099": "", "82100": "", "82101": "", "82102": "", "82103": "", "82104": "", "82105": "", "82106": "", "82107": "", "82108": "", "83001": "", "83002": "<<अत्रानुनासिकः पूर्वस्य तु वा>> - अत्रानुनासिकः । अयमधिकारो विधिर्वेति पक्षद्वयम् । आद्येअत्राग्रहणमनर्थकम्, अधिकारादेव रूप्रकरणलाभात् ।तु॑शब्दस्तु अधिकारपक्षे परस्मात्कार्यिणः पूर्वकार्यस्य विशेषद्योतनार्थः,-॒परस्य नित्यं रुत्वं पूर्वस्य तु वाऽनुनासिक॑ इति । विधिपक्षेतु॑शब्दो व्यर्थोवा॑ ग्रहणं स्पष्टार्थम्,अनुनासिकात्परः॑ इति ज्ञापकादेव सिद्धेः । नहि विकल्पं विनाअनुनासिकं विहाये॑त्यनुनासिकाऽभावपक्षः संभवति । इदमेव ध्वनयितुं वृत्तौतुध्वे॑तिशब्दावनुक्त्वारोः पूर्वस्यानुनासिकः स्या॑दित्येवोक्तम् । रोः पूर्वस्येति । उपलक्षणमेतल्लोपस्यापि । अत्ररुप्रकरणे यो विधिस्ततः पूर्वस्ये॑ति निष्कृष्टोऽर्थः । एवंरोः पूर्वस्मात्पर॑ इत्यस्यापिरुप्रकरणे यो विधिस्ततः पूर्वस्मात्पर॑ इत्यर्थो बोध्यः ।", "83003": "", "83004": "<<अनुनासिकात् परोऽनुस्वारः>> - अनुनासिकात् । ल्यब्लोपे पञ्चमीत्याह — अनुनासिकं विहायेति । अनुनासिकाऽभावपक्षे इत्यर्थः ।पूर्वस्ये॑ति प्रकृतस्य तु विभक्तिविपरिणामेन पञ्चम्यन्ततेत्यभिप्रेत्याह-रोः पूर्वस्मादिति ।-संसर्गवद्विप्रयोगस्यापि विशेषावगतिहेतुत्वात्अवत्सा धेनुरानीयता॑मित्यत्रेवसंभावितानुनासिकत्वगुणक एवोपस्थितत्वादाकाङ्क्षितत्वाच्चावधित्वेन सम्बध्यत इत्यभिप्रेत्याह-रोः पूर्वस्मादिति-॑ इति तु मनोरमायामवतारितं, तत्तुपूर्वस्ये॑त्यनुवर्तनं विभक्तिविपरिणामं चानपेक्ष्य लौकिकन्यायेनैवेष्टं सिध्यतीत्याशयेनोक्तमित्याहुः । अनुस्वारागम इति । आगमत्वं च परशब्देनैव लभ्यते । यथापूर्वौ तु ताभ्यामै॑जित्यत्र पूर्वशब्देन ऐचोरागमत्वमिति भावः ।", "83005": "<<समः सुटि>> - समः सुटि । यद्यपि मोऽनुस्वारेण सिद्धं, तथापि अनुनासिकत्रिसकारसिध्द्यर्थमिदम् ।", "83006": "<<पुमः खय्यम्परे>> - पुमःखयि । पुंसः संयोगान्तलोपेऽवशिष्टभागस्येदमनुकरणम् ।अम्पर॑ इति बहुव्रीहिः । पर्युदासादिति ।इदुदुपधस्ये॑ति षत्वविधायके सूत्रे इति भावः । ख्य ञादेशे नेति ।चक्षिङः ख्या॑ञित्यत्र ख्शादिरयमादेशः । असिद्धकाण्डे णत्वानन्तरंशस्य यो वे॑ति स्थितमिति वक्ष्यते । एवंच यत्वस्यासिद्धतयाऽम्परत्वाऽभावात्पुमः खयी॑ति रुत्वं नेत्यर्थः ।पुंख्यानमिति । चक्षिङोल्युट् चे॑ति ल्युटि ख्याञादेशः । ननु आदेश इह दुर्लभः,वर्जने प्रतिषेधः॑-॒असनयोश्चे॑ति वार्तिकादिति चेत्सत्यम् ;बहुलं तण्यन्नवधकगात्रविचक्षणाऽजिरातद्यर्थ॑मिति वार्तिके बहुलग्रहणात्समाध्रेयम् । विस्तरस्तिवह मनोरमायामनुसन्धेयः । त्रायस्वेति ।त्रैङ् पालने॑लोटि शप्यायादेशः ।", "83007": "<<नश्छव्यप्रशान्>> - प्रशानिति । प्रपूर्वाच्छाम्यतेः क्विप् ।अनुनासिकस्ये॑ति दीर्घः ।मो नो धातो॑रिति नः । तस्याऽसिद्धत्वान्नलोपो न ।", "83008": "", "83009": "", "83010": "<<नॄन् पे>> - नृन्पे । पकारोपरि अकार उच्चारणार्थः । तेननृ#ः पुनाती॑त्यादि सिद्धम् ।उभयथक्र्षु॑ इत्यतउभयथे॑नुवृत्तेर्विकल्पः फलित इत्याशयेनाह-रुः स्याद्वेति । कुप्वो क । अत्रकुप्वो॑रिति रेफस्य विसर्गः, जिह्वामूलीयस्य खत्र्वात् ।खर्परे शरी॑ति विसर्गस्यास्य लोपः, जिह्वामूलीयस्य शत्र्वात् ।वा शरी॑ति विसर्गस्य विसर्ग एव वा । आदेशयोः कपावुच्चारणार्थौ । चाद्विसर्ग इति । प्राचा तुचाद्विकल्पः॑ इत्युक्तं , तदसत् । कपाभ्यां मुक्ते विसर्जनीयस्य सत्वप्रसङ्गात् ।", "83011": "", "83012": "<<कानाम्रेडिते>> - कानाम्रेडिते ।कान्कान् इति वाच्ये आंम्रेडितग्रहणं यत्र दिंवरुक्तिस्तत्रैव यथा स्यात् । इह मा भूत् — ॒कान् कान् पश्यसी॑ति । अत्र एकः किंशब्दः प्रश्ने । द्वितीयः क्षेपे । कान् कुत्सितान् पश्यसीत्यर्थः । वार्तिके कान्ग्रहणाऽभावेऽपि सत्वं सिध्यतीत्याशयेनाह-यद्वेति । संपुमोस्तु वार्तिकेनैव सत्वम् । कस्कादिषु संस्कर्ता संसकरिष्यति पुंस्कोकिलः पुंस्काम इत्यादिबहूनां पाठे गौरवात् । कस्कादिषुसंपुंका॑निति पठित्वा सर्वमपि वार्तिकं त्यक्तुमशक्यंपुस्कोकिल॑ इत्यादाविणः परत्वेन विसर्गस्य षत्वप्रसङ्गात् । किं तु कान्ग्रहणमिव सम्ग्रहणं वार्तिके त्यक्तुं शक्यमित्यम्ये ।", "83013": "<<ढो ढे लोपः>> - अगाढेति ।झलो झली॑ति सलोपः । ढत्वधत्वष्टुत्वढलोपाः । सिज्लोपात्पूर्वं भष्भावस्तु न , असिद्ध्तवात् । भष्भावस्तु सिज्लोपानन्तरमपि न बवति, सकारपरत्वाऽभावात् । न च कृतेऽपि सलोपे प्रत्ययलक्षमेन सिच्परत्वाद्भष्भावो दुर्वार इति शङ्यं, वर्णाश्रये प्रत्ययलक्षणाऽभावात् । अन्यथा गवे हितं गोहितमित्यत्राऽवादेशः स्यादिति दिक् । जगृहे इति । कित्त्वात्परत्वात्पुगन्ते॑ति गुणे प्राप्तेरऋदुपधेब्य॑ इति वार्तिकात्कित्त्वे गुणाऽभावः ।", "83014": "<<रो रि>> - विसर्गापवाद इति । मो राजिवद्रेफस्य रेफो विधीयते विकारनिवृत्त्यर्थमिति भावः ।", "83015": "<<खरवसानयोर्विसर्जनीयः>> - न विसर्ग इति । एतच्चसुखार्त॑इत्यादावपि बोध्यम् ।", "83016": "<<रोः सुपि>> - रोः सुपि ।सुपि॑ति न प्रत्याहारः,खरी॑त्यनुवृत्तेः । तेनपराभ्या॑मित्यादौ विध्यर्थमेतन्न भवति ।खरवसानयो॑रित्येव सिद्धेऽयमारम्भो नियमार्थ इत्याह — रोरेवेति ।रोः सुप्येव विसर्जनीयः॑इति विपरीतनियमस्त्विह न भवति,हलोऽनन्तराः संयोगः॑इत्यादिनिर्देशात् ।", "83017": "<<भोभगोऽघोऽपूर्वस्य योऽशि>> - भोभगो । असन्धिः सौत्र इति । सूत्रे कृतः सौत्रः ।कृतलब्धे॑त्यण् । भगोअघोशब्दयोरोकारस्याऽकारस्य च पूर्वरूपं सौत्रत्वान्नेत्यर्थः । यदि तु भोस्भगोसघोसिति सान्तं रान्तं वाऽनुकृत्य-॒भो॑ इत्यादीनां त्रयाणाम्अलोऽन्त्यस्ये॑त्यन्त्यस्य यः स्यात्, अपूर्वस्य रो॒श्चे॑ति व्याख्यायेत, तर्हि असन्धिन्र्याय्य #एवेति बोध्यम् । ननु रोरुकारस्यानुबन्धत्वाद्रेफमात्रं विसर्गस्यस्थानि, तथा चअनल्विधौ॑ इति स्थानिवद्भावो न स्यादित्याशङ्क्याह-नह्रयमिति । अथाअग्र॒ही॑दित्यत्रग्रहोऽलिटी॑ति दीर्घस्य स्थानिवद्भावेन इट्त्वादिट् ईटीति प्रवर्तते एवमिहापि विसर्गस्य रुत्वाद्यत्वं प्रवर्तेतेति भावः । यद्यपिरोरी॑त्यतोर॑ इत्यनुवर्त्त्यरोर्यो रोफस्तस्य यादेश॑ इति व्याख्याने अयमल्विधिरेव, तथापि उत्तरार्थं कर्तव्यमशिग्रहणंर॑इत्यस्यानुवृत्तिक्लेशवारणार्थमिहैव कृतम् । निपाता इति ।भोभगो-॑ इति सूत्रे निर्दिष्टाश्चादेराकृतिगणत्वात्तत्र बोध्याः । यदि तुविभाषा भवद्भगवदघवतामोच्चावस्ये॑ति वार्तिकेनएषां रुः स्यादवस्योकारो वा संबुद्धौ॑ इत्यर्थकेन निष्पन्ना एव भोःशब्दादयो गृह्रेरन्, तदा पुंलिङ्गैकवचनमात्रेभ#ओ हरे॑ इत्यादिसिद्धावपिभो हरिहरौ॑,भो विद्वद्वृन्द,॑भोगङ्गे॑ इत्यादि न सिद्ध्येत् । तस्मा॒द्विभाषा भव॑दिति वार्तिकं नावश्यमाश्रयणीयमिति भावः । मनोरमायां तु-॒भाष्यस्वरसरीत्या तुविभाषे॑ति वार्तिकमारब्धव्यमेवे॑त्युक्तम् । तथाहिहे भवन् इतिवत्हे भो॑ इति प्रयोगस्यापीष्टत्वात् । तस्य च वार्तिकारम्भ एव सिद्धेः ।स्युः पाट्प्याडङ्गहैहेभोः॑ इत्यमरोक्तानां तु संबोधनार्थानां निपातानां सह प्रयोगाऽयोगात् । किंचअत्र भवान्हरिः॑तत्र भवान्,ततो भवान्, इतिवत्तत्र भो इत्याद्यपि वार्त्तिके सत्येव सिध्यति,इतराभ्योऽपि दृश्यन्ते॑ इति सर्वविभक्त्यन्तात्रतसोर्भवदादियोग॑एवेष्टत्वात् । किंच आमत्रितत्वे पदात्परस्याष्टमिकनिघातः,आमत्रितं पूर्वमविद्यामानव॑दित्यविद्यमानद्भावश्चेत्यादि सिध्यति नान्यथा ।भो हरिहरा॑वित्यादिसिद्धयेभो॑ #इति निरातोऽप्यवश्याभ्युपगन्तव्यः । यदि तु भगोअघो इति निपातावपि प्रामाणिकौ, तर्हि स्तां नाम, वार्त्तिकं तूक्तप्रयोजनाय स्वीकर्तव्यमेवेति दिक् । स्यादेतत्-निपातानामब्युपगमे यत्वविधौ त एव गृह्रेरन् प्रतिपदोक्तत्वान्न तु संबुद्धयन्ताः, लाक्षणिकत्वादिति चेन्मैवम् ।स्वरितेनाधिकारः॑ इत्यत्राधिकः कारोऽधिकार इति व्याख्यानमाश्रित्य लक्ष्यानुरोधेन स्वरितत्वमाश्रित्योभयग्रहणात् । लक्षणप्रतिपदोक्तपरिभाषाया अनित्यत्वाच्च । अनित्यत्वे लिङ्गं तु॒भुवश्च महाव्याह्मतेः॑इति सूत्रे महाव्याह्मतिग्रहणं,यावत्पुरे॑ति सूत्रे निपातग्रहणं च । न चैवं लाक्षणिकानामपि ग्रहणेविभोरिदं॑,-सुप्रभा गौर्यस्य स सुप्रभगुः, तस्य-॒सुप्रभगोरिदं,रघो॑रिदमित्यत्रापि यत्वापत्तिरिति वाच्यम्, परस्परसाहचर्येण निपातानां वार्तिकोक्तानां च ग्रहणेऽप्यन्योषामग्रहणात् । साहचर्यं त्वेषां संबोधनार्थे इति बोध्यम् ।भो॑ इत्यादीनां त्रयाणामलोऽन्त्यस्य यः स्यादिति व्याख्याने त्वर्थवद्ग्रहणपरिभाषया नातिप्रसङ्गः । न चअजहत्साव्र्था वृत्ति॑रिति पक्षे विभोरिदं॒॑प्रभोरिद॑मित्यत्रभो॑रित्येकदेशस्य अर्थोऽस्तीति शङ्क्यम्,जहत्स्वार्था वृत्ति॑रिति मुख्यपक्षे तदभावादिति दिक् ।", "83018": "<<व्योर्लघुप्रयत्नतरः शाकटायनस्य>> - व्योर्लघु । वकारयकारयोरिति । भोभगोअघोअपूर्वयोरित्यर्थः । लघुप्रयत्नतरः=लघूच्चारणतरः । स चान्तरतम्याद्वस्य वः;यस्य य इत्याह-वयाविति ।", "83019": "<<लोपः शाकल्यस्य>> - लोपः शाकल्यस्य । अवर्णपूर्वयोः किम् , दध्यत्र । मध्वत्र । अशि पर इति । एतच्चभोभगो॑ इति सूत्रादनुवर्तते । अशि किम् । वृक्षव्यकरोति । अत्र लोपो मा भूत् । न चात्र टिलोपस्य स्थानिवद्भावेन निर्वाहः,पूर्वत्रासिद्धे न स्थानिव॑दित्यभ्युपगमात् । न चैवमपिहलि सर्वेषा॑मिति नित्यं लोपः स्यादिति शङ्क्यम् ; तत्रअशि॑ इत्यनुवर्त्त्य अशा हलो विशेषणात् ।लोपो व्योर्वली॑ति लोपस्तु न शङ्कनीय एव, (टिलोपस्य णिलोपस्य वा) स्थानिवत्त्वन्नेतिन पदान्ते॑ति सूत्र एवोक्तत्वात् । हर एहीति ।ओमाङोश्चे॑ति पररूपं प्राप्तम् । तन्निषेधादिति । नच स्थानिवत्त्वनिषेधेऽपिअसिद्धं बहिरङ्गमन्तरङ्गे॑ इत्यल्लोपस्याऽसिद्धत्वाद्यणावादेशौ स्त एवेति वाच्यम्, पदद्वयाश्रयत्वेन तयोरेव बहिरङ्गत्वात् ।नाजानन्तर्ये॑ इति निषेधाच्च ।", "83020": "<<ओतो गार्ग्यस्य>> - विधानसामर्थ्याल्लघुप्रयत्नतरस्य न भवतीत्याशयेनाह-अलघुप्रत्नयस्येति । भोयच्युतेति । एवं भगोयच्युत । अघोयच्युत । वकारस्योदाहरणं तु-॒असावादित्यः॑ । एतच्च काशिकायां स्पष्टम् ।", "83021": "<<उञि च पदे>> - उत्तरार्थं पदग्रहणमिति । वस्तुतस्तूत्तरत्रापि नोपयुज्यते,पदस्ये॑त्यनुवृत्त्यैव निर्वाहात् ।उञि च पदे॑ इत्यतःपदे॑ इत्यनुवर्त्त्यअजादेः पदस्ये॑ति व्याख्यानात् ।परमदण्डिनावित्यादौ ङमुण्ने॑ति प्राचो व्याख्यानस्यङमो ह्स्वादची॑ति सूत्रे मनोरमायां निरस्तत्वाच्च । ननुहलि सर्वेषा॑मित्यत्रपदे॑ग्रहणानुवृत्तौहलादौ पदे॑ इति व्याख्यानलाभाद्वृक्षव्भ्यां वृक्षव्भिरित्यत्र वस्य नित्यं लोपो न भवति, किं तुलोपः शाक्ल्यस्ये॑ति वैकल्पिक एव लोपैत्यस्तिपदे॑-ग्रहणस्य प्रयोजनमिति चेन्मैवं; हलि सर्वेषा॑मित्यत्र वस्याऽननुवर्तितत्वात् । किंचमाभ्यां॑माभि॑रित्यत्र भ्यामादौ परतो यस्य विकल्पेनैव भवन्मते लोपः स्यात्, तत्रहलि सर्वेषा॑मित्यस्याऽप्रवृत्तेः । न चेष्टापत्तिः, भाष्यकारैर्दण्डिनेत्यत्र ङमुङ्वारणायङमो ह्रस्वादची॑त्यत्रानुवृत्त्यर्थं पदग्रहणमित्युक्तत्वात् । न च तदेव प्रयोजनमस्त्विति वाच्यं,ह्रस्वात्परो यो ङम् तदन्तं यत्पदं तस्मात्परस्याचो नित्यं ङमु॑डिति व्याख्यानेनदण्डिने॑त्यत्र प्रसक्तयभावात् ।", "83022": "<<हलि सर्वेषाम्>> - द्विस्त्रिश्चतुरिति । इह द्वित्रिभ्यां सुजन्ताभ्यां साहचर्याच्चतुःशब्दोऽपि सुजन्त एव ग्रहीष्यते । कृत्वोर्थग्रहणं तुसाहचर्यं न सर्वत्र व्यवस्थपक॑मित्यत्र ज्ञापकम् । तेनदीधीवेवीटा॑मित्यत्र धातुसाहचर्येऽप्यागमस्येटो ग्रहणम् । चतुष्कपाल इति । चतुर्षु कपालेषु संस्कृत इत्यर्थेसंस्कृतं भक्षाः॑इत्यणोद्विगोर्लुगनपत्ये॑ इति लुक् । अत्र मनोरमायाम्-॒इदुदुपधस्येति नित्यं ष॑इत्युक्तम् । एवं चद्वितं त्रितमिति चतुःपञ्चाश॑दिति स्वमूलग्रन्थे प्रयोगश्चिन्त्यः स्यात्, चतुष्कपालवत्तत्रापि नित्यतया षत्वप्रवृत्तेः । अतोऽत्र षत्वनिवारणायअप्रत्ययस्ये॑त्यत्रप्रत्ययस्य यो विसर्जनीयो न भवती॑त्यर्थ एव स्वीकर्तव्यः ।चतुष्कपाल॑ इत्यत्र (तु) कस्कादेराकृतिगणत्वात्षत्वप्रवृत्तिरित्याहुः ।", "83023": "<<मोऽनुस्वारः>> - मोऽनुस्वारः ।हलि सर्वेषा॑मित्यतोहली॑त्यनुवर्ततेपदास्ये॑ति च, तदाह-मान्तस्येत्यादि । हलि किम् । त्वमत्र । किमत्र ।", "83024": "", "83025": "<<मो राजि समः क्वौ>> - मो राजि समः क्वौ । राजीति किम् संपत् । सम इति किम् , इदं राट् । क्वाविति किम् संराजितुं, संराजितव्यम् । मकारस्य मकारवचनमनुस्वारनिवृत्त्यर्थं, तदाह — म एव स्यादिति । सम्राडिति ।राजृ दीप्तौ॑ संपूर्वादस्मात्सत्सूद्विषे॑त्यादिना क्विप् । व्रश्चादिना षत्वं, जश्त्वचर्त्वे ।", "83026": "<<हे मपरे वा>> - हे मपरे वा । मपर इति बहुव्रीहिः । यवलेति । यवलाः परा यस्माद्यवसपरस्तस्मिन्हकारे परे मस्य यवला (वा) भवन्तीत्यर्थः॥", "83027": "<<नपरे नः>> - नपरे । अयमपि बहुव्रीहिरेव ।हे॑ इति त्वनुवर्तते, तदाह — नपरे हकारे इति ।", "83028": "<<ङ्णोः कुक्टुक् शरि>> - ङ्णोः । चयो द्वितीया इति । एतच्च नादिन्याकोशे इति सूत्रे भाष्ये स्थितम् । अतएव मनोरमायांडः सी॑ति सूत्रेतु॑डित्युच्यमानेचयो द्वितीयाः-॑ इति पक्षे थकारापत्तिरुक्ता । यदि तुङ्णोः॑ इति सूत्रस्थं स्यात्तर्हितु॑डित्येव सुवचं स्यात् । तुटोऽसिद्धत्वेन चयो द्वितीयाः-इत्यस्याऽप्रवृत्तेः । पौष्करसादेरिति । पुष्करे तीर्थविशेषे सीदतीति पुष्करसत् । तस्यापत्यं पौष्करसादिराचार्यः । बाह्वादित्वादिञ् । अनुशतिकादित्वादुभयपदवृद्धिः ।", "83029": "<<डः सि धुट्>> - ङः सि धुट् ।उभयनिर्देशे पञ्चमीनिर्देशो वलीयान्परत्वा॑दित्यभिप्रेत्याह — सस्येति । सीति सप्तमी निर्देशस्तु लाघवार्थः । षट्सन्त इति । धुटश्चर्त्वेन तकारः ।चयो द्वितीयाः — ॑ इति तस्य थो न, चर्त्वस्याऽसिद्धत्वात् । अतएव धुडभावेषट्सन्त॑ इत्यत्र टस्य ठो न भवति । नन्वेवमपिङः सि धु॑गिति धुग्विधीयतां डकारस्य सकारे परे धु॑गिति व्याख्यानसंभवात्किमनेन धुटः परादित्वाभ्युपगमेन । मैवम् । पूर्वान्तत्वे तु न पदान्ताट्टोरनामिति निषेधाप्रवृत्त्या धकारस्य ष्टुत्वप्रसङ्गात् । अतएव वक्ष्यमाणस्तुगिहैव न कृतः । डस्य तुकि ष्टुत्वे तस्याऽसिद्धत्वेन चयो द्वितीया इत्यस्यापि प्रसङ्गाच्च । इग धुड्विकल्पेन रूपद्वये सति टकारनकारविसर्गाणां द्वित्वविकल्पात्षोडश रूपाणि । खयः शर इति द्वित्वे द्वातिंरशत् (३२) । शरोऽचीति निषेधोऽत्र न प्रवर्तते । तस्य सौत्रद्वित्वमात्रविषयत्वस्योक्तत्वात् । न च चर्त्वस्यासिद्धत्वात्खयः परत्वमेव नास्तीति शङ्क्यम् ।पूर्वत्रासिद्धीयमद्वित्वे॑ इत्युक्तेः॥", "83030": "", "83031": "<<शि तुक्>> - शि तुक् ।शी॑ति सप्तमी पूर्वत्र कृतार्थायान॑ इति पञ्चम्याः षष्ठीं कल्पयतीत्याह — नस्येति । चलोप इति ।झरो झरी॑त्यत्र सवर्णग्रहणसामर्थ्याद्यथासङ्ख्यं न प्रवर्तत इति भावः । सञ्छम्भुरिति । इह श्चुत्वतुकोरसिद्धत्वमाश्रित्यनश्छवी॑ति रुत्वं नाशङ्क्यं, छत्वस्याऽसिद्धत्वात् । चतुष्टयमिति । अत्र तुकः श्चुत्वेचयो द्वितीयाः॑ इति पक्षे चस्य छत्वे शस्यापि छत्वविकल्पात्सञ्छ्छम्भुः शञ्छ्शम्भुरिति रूपद्वयवृद्धिर्वोध्या । न च शस्य छत्वपक्षे शर्परत्वाऽभावात्चयो द्वितीयाः-॑ इति पक्षे चस्य छो निति शङ्क्यम्,शश्छोऽटी॑ति छत्वस्याऽसिद्धत्वादित्याहुः ।॒ञछौ ञचछा ञचशा ञशाबिति चतुष्टयम् ।रूपाणामिह तुक्छत्वचलोपानां विकल्पनात्॥॑", "83032": "<<ङमो ह्रस्वादचि ङमुण्नित्यम्>> - ङमो ह्रस्वात् । ङम् प्रत्याहारः, संज्ञायां च कृतं टित्त्वं सामर्थ्यात्संज्ञिभिः संबध्यते । तेन यथासङ्ख्यं ङुट्-णुट्-नुटः प्रवर्तन्ते । नित्यग्रहणं विस्पष्टार्थं,हे मपरे॑ इतिमय उञो वे॑ति च विकल्पद्वयस्य मध्ये पाठादेव नित्यत्व लाभात् । नन्विह नित्यग्रहणाऽभावेहे मपरे वे॑ति वाग्रहणमुत्तरसूत्रेषु पञ्चस्वप्यनुवर्तते वा न वेति शङ्का स्यादिति चेत्सत्यम् । अतएवविस्पष्टार्थ॑मित्युक्तं न तु व्यर्थमिति । तस्मात्परस्याऽचेति । ननुङम॑ इत्यस्य षष्ठन्ततामाश्रित्याऽचि परे पूर्वस्यैव विधीयतां को दोष इति चेन्मैवम्, तथाहि सति ङमन्तस्य पदस्य पूर्वावयवः स्यादित्यनिष्टं प्रसज्येत ।पदस्य यो ङम् तस्ये॑ति वैयधिकरण्येन व्याख्यायामपिकुर्वन्नास्ते॑ इत्यत्र णत्वं प्रसज्येत,पदान्तस्ये॑ति निषेधस्याऽप्रवृत्तेः । यद्यपि बहिरङ्गपरिभाषया ङमुड्विधेरसिद्धत्वादिष्टं सिध्यति, तथापि यथोद्देशपक्षे त्रैपादिकेऽन्तरङ्गे बहिरङ्गपरिभाषाया अप्रवृत्तेः प्रसज्यत एव णत्वमिति यथोक्तव्याख्यानमेव सांध्विति दिक् । सुगण्णीश इति । ण्यल्लोपौ न स्थानिवत्, पूर्वत्रासिद्धे तन्निषेधात् । ननुपरमदण्डिना॑वित्यादावन्तर्वर्तिविभक्तया पदत्वान्नुट् स्यादिति चेन्न;उत्तरपदत्वे चापदादिविधौ॑ इति प्रत्ययलक्षणप्रतिषेधात् । अतएव परमवाचौ॑परमगौदुहौ॑परमलिहा॑वित्यादौ कुत्वघत्वनत्वादीनि न । प्राचा तुउञि च पदे॑ इत्यतःपदे॑ इत्यनुवर्त्त्यअजादेः पदस्ये॑ति व्याख्यानान्ङमुण्नेत्युक्तं, तदनेन प्रत्युक्तम् । इहैव नलोपं वारयितुमुक्तरीतेरेव तेनाऽप्यनुसर्तव्यत्वात् ।", "83033": "<<मय उञो वो वा>> - ॒प्रगृह्र॑मित्यनुवर्तनादाह — प्रगृह्रश्चेति । ननु दीर्घोच्चारणसामर्थ्यादेव प्रकृतिभावासिद्धौ किमनेन प्रगृह्रत्वेनेति चेदत्राहुः-प्रगृह्राप्रगृह्रयोद्र्वयोरप्युञोरादेशापत्तौ प्रगृह्रादेशे प्रकृतिभावादिष्टसिद्धावपि अप्रगृह्रादेशस्याऽनुनासिको वकारः स्यात्तद्वारणाय प्रगृह्रत्वाश्रयणमिति । आदेशस्यास्य स्थानिवत्त्वेनोञ्त्वादुञ इति प्रगृह्रत्वविकल्पे प्राप्ते नित्यार्थं तदाश्रयणमित्यन्ये । यदि तुप्रगृह्र॑मित्यस्य स्थानिविशेषणत्वं स्वीकृत्यप्रगृह्रस्योञः ऊँ इत्यमादेशः॑ इति व्याख्यायते, तदा दीर्घानुनासिकोक्तिवत्प्रगृह्रश्चेत्युक्तिरपि स्वरूपकथनमेवेति बोध्यम् । ऊँ इत्यत्र यदि शाकल्यस्येति नापेक्ष्यते, तदा प्रगृह्रस्योञो नित्यमादेशः स्यात्ततश्चविति॑ऊँ अत् ॑ एते द्वे रूपे स्याताम्, तस्माच्छाकल्यग्रहणानुवृत्त्या आदेशविकल्पे सिद्धे त्रीणि रूपाणि सिध्यन्तीति कैयटस्तदाह — अयमादेषो वा स्यादिति । व(त्व)स्यासिद्धत्वादिति । अत एवेदं त्रिपाद्यां विधीयते । प्रकृतिभावमात्रबाधनार्थत्वे हिइको य॑णित्यनन्तरंमय उञो वे॑त्येवावक्ष्यत्, यणं चाऽन्ववर्तयिष्यत् ।", "83034": "<<विसर्जनीयस्य सः>> - विसर्जनीयस्य । खरीति । एतच्च॒खरवसानयोः॑ इति सूत्रान्मण्डूकप्लुत्याऽनुवर्तते । संस्स्कर्तेति ।संपरिभ्या॑मिति करोतेः सुट् । नन्वनुस्वारस्याऽनच्त्वात्ततः परस्य द्वित्वं न स्यादेवेत्यनुस्वारपक्षे त्रिसकारकं रूपं कथं स्यादित्याशङ्क्याह-अनुस्वारविसर्गेत्यादि । अकारोपरीति । यदि त्विकारोपरि पठएरंस्तर्हिपयःसु॑यशःसु॑ इत्यादौइणः परस्ये॑ति षत्वं स्यादिति भावः । अच्त्वादिति । न चैवंहरिः कर्ता॑हरिंस्मरेत्रामः पातीत्यादौ यणादिप्रसङ्गः, त्रिपादीस्थत्वेन विसर्गादीनामसिद्धत्वात् । अनुस्वारस्यापि द्वित्वे इति । अपिशब्दात्ककारस्य । वचनान्तरेणेति ।अचो रहाभ्या॑मिति कृतेऽपियणो मयः॑ इति भवत्येवेति भावः ।", "83035": "<<शर्परे विसर्जनीयः>> - शर्परे विसर्जनीयः ।शर्परे॑ इति बहुव्रीहिः । अनुवर्तमानश्च खरन्यपदार्थः । सत्वादेरयमपवादः । यदि तुशर्परे ने॑त्यवोच्येत तर्हि प्रकृते सत्वे निषिद्धेऽपि कुप्वोः क पौ स्याताम्वासः क्षौममद्भिः प्सात॑-मित्यादौ । विसर्जनीयवचनात्तु विकारमात्रं बाध्यते इत्याशयेनाह -न त्वन्यदिति । तदेव स्फुटयति-इहेति ।", "83036": "<<वा शरि>> - अयःसहितेति । न त्वयसो विकारः,जानपदे॑तिङीष्वप्रसङ्गात् । अयस्कर्णीति । अय इव कर्णौ यस्याः ।नासिकोदर॑ इति ङीष् । अधःशिरसी । एतयोरिति । सूत्रे तु षष्ठ्याः स्थाने प्रथमा बोध्या । अधस्पदमिति । पदस्याध इति विग्रहः । मयूरव्यंसकादित्वात्समासः । शिरस्पदमिति । षष्ठीसमासः । * इति तत्वबोधिन्यां विसर्गसन्धिः *अथ यङन्तप्रक्रिया ।धातोरेकाचो हलादेः क्रियासमभिहारे यङ् ।३.१.२२ ।धातोरेकाचो । क्रियासमभिहार इत्युक्तत्वाद्धातोरेव स्यान्न तु प्रातिपदिकादिति पृच्छति धातो धातोः किमिति ।", "83037": "", "83038": "<<सोऽपदादौ>> - सोऽपदादौ । अपदाद्योरिति । सूत्रे व्यत्ययेन एकवचनम् । यदि तुविसर्जनीयस्य सः॑शर्परे विसर्जनीयः॑ इत्यत्र मण्डूकप्लुत्यानुवर्तितो यः खर् स इहाप्यनुवत्र्य विशेष्येतअपदादौ री॑ति, तदा यथाश्रुतं साधु । परन्तु पनर्मण्डूकप्लुत्याऽनुवर्तने क्लेश इति भावः । अन्ये त्वाहुः-पुनर्मण्डूकप्लुति विनाप्यनुवर्त्तितुं शक्यः,वा शरी॑त्यत्र शरा खरं विशेष्यशर्रूपे खरी॑ति व्याख्याने,कुप्वो॑रिति सूत्रेकुप्वोः खरी॑ति व्याख्याने च क्षत्यभावादिति । पयस्पाशमिति ।याप्ये पाशप् ।ईषदसमाप्तौ कल्पप् ।अज्ञाते॑कुत्सिते॑ इति कः ।काम्यच्चे॑ति काम्यच् । पाशकल्पककाम्येष्विति वृत्तिः । सम्भवदर्शनमेतन्नतु परिगणनम्, अन्यस्याऽसम्भवात् । प्रातःकल्पमिति । अधिकरणशक्तिप्रधानस्यापिप्रातः॑ शब्दस्येह वृत्तिविषये शक्तिमत्परत्वं,दोषाभूतमहः॑ दिवाभूत रात्रि॑रितिवत् ।गीः काम्यतीति । नच सत्वनिषेधेऽपीहइणः षः॑ इति षत्वं स्यादिति वाच्यं, तत्रापिकाम्ये रोरेव॑त्यस्याऽनुवृत्तेः । यदि तुइणः षः॑ इत्यत्रैवेदं पठते तर्हि षत्वमात्रप्रतिषेधेऽपि पूर्वेण सत्वं स्यात् ।", "83039": "<<इणः षः>> - इणः षः । सोऽपदादावित्यस्यापवादः ।", "83040": "<<नमस्पुरसोर्गत्योः>> - पुरःप्रवेष्टव्या इति ।पृ पालनपूरणयोः॑ । भ्राजभासे॑त्यादिना क्विप् । तदन्ताज्जस् । जसन्ततां स्फुटीकर्तुंपूः पुरा॑वित्युपन्यस्तम् ।", "83041": "<<इदुदुपधस्य चाप्रत्ययस्य>> - इदुदुपधस्य । इदुदिति किम् , गीः करोति । पूः करोति । इहइदुतौ उपधे यस्य समुदायस्य तस्यावयवो यो विसर्ग॑ इति वैयधिकरण्येन सम्बन्धः ।अप्रत्ययस्ये॑ति तुअप्रत्ययो यो विसर्ग॑ इति सम्बध्यते । सम्भवति सामानाधिकरण्ये वैयधिकरण्यस्याऽन्याय्यत्वात् । न च विसर्गस्य प्रत्ययत्वमप्रसिद्धमिति वाच्यम्,अग्निः करोती॑त्यादौ स्थानिवद्भावेन तत्प्रसिद्धेः । न चातिदेशं प्रति त्रिपाद्या असिद्धत्वं शङ्क्यम्,अप्रत्ययस्ये॑ति निषेधेनैव सिद्धतिवज्ञापनात् । अतएवअग्नि॑रित्यादौ रोर्विसर्गः सिध्यति । अन्यथाऽपदान्तत्वान्न स्यात् । विसर्गविधिस्तुपुन॑रित्यादौ चरितार्थः । ज्ञापकं च विशेषापेक्षम् । तेनअचः परिस्मिन्-॑ इति त्रापाद्यां न प्रवर्तते । एवं चपूर्वत्रासिद्धीये न स्थानिव॑दिति सिद्धान्त उक्तयुक्तिमूलको न तु वाचनिक इति मनोरमायां स्थितम् । अत्र वदन्ति-॒अप्रत्ययस्ये॑त्यत्र प्रत्ययस्य यो विसर्जनीयो न भवतीत्याद्यर्थ एव आकारे स्थित इतिअप्रत्ययो यो विसर्ग॑ इति सामानाधिकरण्येनान्वयो न युक्तः ।सर्पिष्करोती॑त्यत्रइसुसोः सामर्थ्ये॑ इति वैकल्पिकशत्वप्रवृत्तावपितिष्ठतु सर्पिः पिबत्वमुदक॑मित्यत्रइदुदुपधस्ये॑त्यनेन नित्यं षत्वप्रसङ्गात् । न चाकरमतेऽप्युणाअदीनामव्युत्पत्त्याश्रयणे तथा स्वीकारादिष्टापत्तिरिति वाच्यम्, व्युत्पत्त्याश्रयणे दोषतादवस्थ्यात् ।इसुसो॑रित्यत्रसर्पिष्करोती॑त्युदाहरणेन व्युत्पत्तिपक्षस्यैव वार्तिककारेण स्वीकृतत्वानुमानात् । अन्यथाइदुदुपधस्ये॑त्यनेनैव व्युत्पत्त्यव्युत्पत्तिपक्षभेदेन षत्वविकल्पसिद्धेस्तदुदाहरणस्याऽसङ्गतिप्रसङ्गात् । किंचतिष्ठतु सर्पि॑रित्यादौइदुदुपधस्ये॑ति षत्वस्येष्टत्वे-॒कस्कादिषु सर्पिष्कुण्डिकाशब्दोऽसमासे व्यपेक्षाविरहेऽपि षत्वार्थः॑-इति स्वमूलग्रन्थविरोध इति । अत्र केचित्,इदुभ्द्यामप्रत्ययस्ये॑ति वक्तव्येइदुदुपधस्ये॑तिग्रहणं नित्यं य #इदुदुपधस्तस्यैव विसर्गस्य षत्वं यथा स्यात्,कविभिः कृत॑मित्यादौ मा भूदित्येवमर्थम् । भिसो विसर्गस्य हि नित्यमिदुदुपधत्वं नास्ति॑रामै॑रित्यादौ तदभावादिति, तन्न;अग्निः करोती॑ति निषेधादाहारणस्याऽसाङ्गत्यापत्तेः ।देव॑ इत्यादावकारोपधत्वात् ।प्रियचत्वा॑ इत्यादावाकारोपधत्वेनचतुष्कपाल॑ इत्यादौ षत्वानापत्तेश्चेति यत्किञ्चिदेतत् । अन्ये तु-॒प्रत्ययस्य यो विसर्जनीयो न भवती॑त्यादिव्याख्याने तूक्तोदाहरणे षत्वस्याऽप्रवृत्तेरुपधस्येत्येतत्सुत्यजमित्याहुः । स्यादेतत् ।अप्रत्ययग्रहणमेव — स्थानिवत्सूत्रं प्रति त्रिपादी सिद्धेत्यत्र ज्ञापक॑मित्युक्तम् । तदिदं वैयधिकरण्येनान्वयमभ्युपगच्छतां न सिध्येत् । अत्राहुः — ॒न मु ने॑ इत्यत्रने॑ति योगं विभज्यस्थानिवत्सूत्रं प्रति त्रिपादी नासिद्धे॑ति व्याख्यायते ।प्रत्ययः॑, परश्चे॑त्यादिनिर्देशाश्चेहानुकूलाः । योगविभागस्येष्टसिद्ध्यर्थत्वात ।अचः परस्मिन् — ॑ इति सूत्रं प्रति त्वसिद्धैव । ततश्चपूर्वत्रासिद्धे न स्थानिव॑दिति सिद्धान्तो युक्तिमूलक इत्यादि सर्वं सङ्गच्छत इति ।अप्रत्ययो यो विसर्ग॑ इति सामानाधिकरण्यपक्षेमातुः कृपे॑त्यादौइदुदुपधस्ये॑ति षत्वमाशङ्क्याह — एकादेशशास्त्रनिमित्त कस्येति ।मातु॑रित्यत्र हिऋत उत् इति एकादेशशास्त्रं विसर्गं प्रति परम्परया प्रयोजकम् । आकरे तुएकादेशनिमित्ता॑दिति प्रचुरः पाठः । तत्र एकादेशः — एकादेशशास्त्रं, तन्निमित्तं यस्य उकारस्य तस्मादित्यर्थः । नन्वेवम्अप्रत्ययस्ये॑त्यत्र सामानाधिकरण्यपक्षोऽप्याकरसंमत इति चेदत्राहुः,प्रत्येकं संयोगसंज्ञे॑ति पक्ष आकरसंमतोऽपि यथा निष्प्रयोजनस्तथायमपि । वैयधिकरण्यपक्षस्त्वावश्यक-एव । अन्यथातिष्ठतु सर्पिः पिब त्वमुदक॑मित्याद्यसिध्द्यापत्तेरितिं । भ्रातुष्पुत्रशब्दस्य पाठादिति । नचषत्वतुकोरसिद्धः॑ इत्येकादेशशास्त्रस्याऽसिद्धत्वात्षत्वाऽप्राप्तौ विध्यर्थ एव तत्र पाठो न ज्ञापनार्थं इति वाच्यम्,षत्वे तुकि चंकर्तव्ये पदान्तपदाद्योः सतोरेवैकादेशोऽसिद्ध॑ इति सिद्धान्तात् । अन्यथाशकहूष्वि॑त्यत्रापि षत्वं न स्यात् । शकान् ह्वयन्तीत्यत्रआदेच उपदेशे॑ इत्यात्वे क्विपि संप्रसारणे कृतेसंप्रसारणाच्चे॑ति पूर्वरूपैकादेशे चहलः॑इति दीर्घः । भवति हिकोऽसिचत्सोऽसिच॑दित्यादौ पदान्तपदाद्योरादेशः । तेन तत्र षत्वनिषेधः सिध्यति, न तुशकहूष्वि॑त्यत्र । एवं चभ्रातुष्पुत्र॑ इत्यत्रापिषत्वतुको॑रित्येकादेशशास्त्रमसिद्धं न भवतीत्युक्तं न ज्ञापकं सुस्थमेव । ननूक्तज्ञापकात्शकहूष्वि॑त्यत्रापिमातुः कृपे॑त्यत्रेव षत्वं न स्यात् । मैवम् । तुल्यजातीयस्य ज्ञापकत्वात् । कश्च तुल्यजातीयः, यः कुप्वोरिति दिक् ।", "83042": "", "83043": "", "83044": "<<इसुसोः सामर्थ्ये>> - व्यपेक्षाविरहेऽपीति ।तिष्ठतु सर्पिष्कुण्डिकामानाये॑त्यादावित्यर्थः ।", "83045": "", "83046": "", "83047": "", "83048": "<<कस्कादिषु च>> - कस्कादिषु च । अत्रसौपदादौ॑ इत्यतः स इति,इणः षः॑ इति सूत्रं चानुवर्तते, तदाह-एष्विण उत्तकस्येत्यादि । कौतस्कुत इति । कुतः कुत आगत इत्यर्थे अव्ययात्त्यपि प्राप्ते गणपाठसामर्थ्यादणित्याहुः ।अव्ययानां भमात्रे॑ इति वक्ष्यमाणेनाऽत्र टिलोपः । सर्पिंष्कुण्टिकेति ।नित्यं समासे॑ इत्येव सिद्धे इह पाठस्य प्रयोजनमसमासे व्यपेक्षाविरहेऽपि षत्वार्थमित्यादि वक्ष्यति ।", "83049": "", "83050": "", "83051": "", "83052": "", "83053": "", "83054": "", "83055": "<<अपदान्तस्य मूर्धन्यः>> - अपदान्तस्य ।ष॑ इत्येव सिद्धे मूर्धन्यग्रहणम्इणः षीध्व॑मिति ढत्वार्थम् । चकृढ्वे । अकृढ्वम् ।", "83056": "<<सहेः साडः सः>> - सहेः साडः सः । सहेपिति किम् । सह डेन वर्तते सडः । यस्य नाम्निड॑शब्देऽस्ति । यथामृड॑इति । सडस्यापत्यं साडिः । इति हान्ताः ।", "83057": "<<इण्कोः>> - इण्कोः । समाहारद्वन्द्वे सौत्रं पुंस्त्वम् । कोः किम् । गवाक्षु । गवाङ्षु ।", "83058": "<<नुम्विसर्जनीयशर्व्यवायेऽपि>> - नुम्बिसर्जनीय ।इण्को॑रिति पञ्चमीनिर्देशाव्द्यवबितस्याऽप्राप्तौ वचनम् । ष्टुत्वेन पूर्वस्येति । सनः सस्य रुत्वविसर्गयोः कतयोःवा शरी॑ति विकल्पात्प७#ए सकारस्तेन शरा व्यवाये सुपः सस्य षत्वं । पूर्वस्य ष्टुत्वम्, न तुआदेशप्रत्यययो॑रिति षः,अपदन्तस्ये॑ति निषेधादिति भावः । एवं स्थिते शग्र्रहणे विसर्जनीयस्य लाभादित्यन्ये । निस्स्वेति । आद्यसकारारस्य प्रत्येकं व्यवधानेऽपि आदेशप्रत्ययावयवत्वनाऽभावात्षत्वं न भवति । न चाऽत्रआदेशप्रत्यययो॑रित्यनुवृत्त्यभावात्नुम्बिसर्जनीये॑त्यनेन धातुकारस्य षत्वं स्यादिति वाच्यम्, तस्य स्वातन्त्र्येण विधायकत्वाऽनङ्गीकारात् ।अपदान्तस्य मूर्धन्यः॒॑इण्को॑रितिवत्नुम्बिसर्जनीये॑त्यस्याप्यधिकारसूत्रत्वात् । विधाकत्वाऽनङ्गीकारात् ।अपदान्तस्य मूर्धन्यः॑इण्को॑रितिवत्नुम्वि#इ#इ#इसर्जनीये॑त्यस्याप्यधिकारसूत्रत्वात् । कर्तुमिच्छति चिकीर्षतिष चिकीर्षतेः क्विप्प्र त्ययः — चिकीः ।एकाच उपदेशे॑इतिसनिग्रहगुहोश्चे॑ति वासन इडभावेइको झ॑लिति कित्वाद्गुणाऽभावेअज्झनगमां सनी॑ति दीर्घेऋत इ॑दीतीत्वे रपरत्वं, ततो द्वित्वं,हलादिः शेषः॒॑कुहोश्चुः॑अल्लोपः । सर्हल्ङ्यादिलोपे पदान्तत्वात्र्वोरुपधायाः॑इति दीर्घः । दोरिति । दाम्यतीति दोः । संयोगान्तलोप इति । न चाऽस्मिन्कर्तव्ये बहिरङ्गत्वेनाऽतोलोपस्याऽसिद्धत्वं शङ्क्यं, बहिर्निमित्तापेक्षपदसंज्ञासापेक्षत्वेन संयोगान्कलोपस्यैव बहिरङ्गत्वादिति दिक् । विविडिति । विशेः सन् ।एकाच॑इतीण्निषेधेहलन्ताच्चे॑ति कित्त्वाद्गुणीऽभावः । द्वित्वाऽभ्यासकार्ये । तडिति ।तक्षू त्वक्षू तनूकरणे॑इत्यस्मात् क्विप् । गां रक्षतीति -गोरट् । कर्मण्युपपदेवा सरूप॑न्यायेन क्विप् । कुत्वस्यासिद्धत्वादिति । इतरथास्को॑रिति कलोपः स्यादिति भावः । पिपागति । पक्तुमिच्छति पिपक् । वक्तुमिच्छति विवक् ।दादे॑रिति घः ।एकाचो बश॑इति भाष्भावः । दग्धुमिच्छतीति दिधक् । इति षान्ताः । सुतूरिति । सुष्ठु तोसतीति सुतूः । वेत्तीति विद्वन् ।विदेः शतु र्वसुः॑ । अदादित्वाच्छपो लुक् ।सार्वधातुकमिपित्इति ङित्त्वान्नोपधागुणः । उगित्त्वान्नुम् ।सान्तमहतः॑इति दीर्घः । संयोगान्तलोपस्याऽसिद्धत्वान्नलोपो न ।", "83059": "<<आदेशप्रत्यययोः>> - आदेशप्रत्ययोः । प्रत्ययशब्दः प्रत्ययावयवे लाक्षणिकः,हलि सर्वेषाम् इति निर्देशात्सात्पदाद्योः॑ इत्यत्र सातिग्रहणाच्च लिङ्गादित्याशयेन व्याचष्टे — आदेशः प्रत्ययावयवश्चेति । यदि तु आदेशावयवो गृह्रेत, तर्हितिसृणा॑मित्यादौ दोषः । यद्यपि सकारोच्चारणसामर्थ्यात्तत्र षत्वं न स्यात्, तथापि बिसम्बिसं मुसलंमुसलमित्यादौ षत्वं दुर्वारं स्यात् । आष्टमिकद्विर्वचनस्यादेशरूपत्वात् । यदि तुप्रत्ययो यः सकार॑ इति गृह्रेत, तर्हिरामेषु॑करिष्यती॑त्यादौ न स्यात्, किं तुइन्द्रो मा वक्षत् इत्यादावेव स्यात् । इह मनोरमायामेकापि षष्ठी विषयभेदाद्भिद्यत इत्युक्त्वा सहविवक्षाऽभावेऽपि सौत्रत्वान्द्वद्व इत्युक्तं, तत्तु प्रत्ययशब्दे लक्षणामनङ्गीकृत्य यथाश्रुताभिप्रायेणोक्तमिति बोध्यम् । विवृताघोषस्येति ।विवृतस्य सस्य तादृश एवे॑त्युक्ते ऋकारेऽतिप्रसङ्गस्तद्वारणायाऽघोषस्येति ।अघोषस्ये॑त्येतावदुच्यमाने ठकारेऽतिप्रसङ्गस्तद्वारणायोभयमुपात्तम् । तादृश एव ष इति । तादृशः ष एवादेशो भवति नान्य इत्यर्थः । नचदधिसेचौ॑दधिसेच॑ इत्यादौ प्राक् सुबुत्पत्तेः समासे षत्वं वारयितुं पदादादिः पदादिरिति पञचमीसमासो भाष्ये उक्तस्ततश्चेहापिसात्पदाद्योः॑ इति निषेधः स्यात्,करिष्यती॑त्यादौ षत्वविधेः सावकाशत्वादिति चेन्मैवम्,स्वादिषु॑ इति या पदसंज्ञा तामाश्रित्य उक्तनिषेधो न प्रवर्तत इति सातिग्रहणेन ज्ञापितत्वात् । रामस्येति ।टाङसिङसामिनात्स्याः॑ इति वक्तव्ये सकारोच्चारणसामर्थ्यात्षत्वं न भवेत्, नडादिषुअमुष्ये॑ति निपातनात्ततः फगादौआमुष्यायण॑ इत्यादिवार्तिकनिर्देशाच्च अमुष्ये॑त्यत्र षत्वं भवेदिति यदि तर्हिविआपास्वि॑त्यादि प्रत्युदाहर्तव्यम् । न च तत्रापिषु॑बिति वक्तव्येसु॑बिति सकारोच्चारणसामर्थ्यादेव न भवेदिति शङ्क्यं लिट्त्सु॑प्रशान्त्सु॑ इत्यत्रडः सि धट्नश्चे॑ति धुटः प्रवृत्तये सकारोच्चारणस्यावश्यं स्वीकर्तव्यत्वादिति दिक् ।", "83060": "<<शासिवसिघसीनां च>> - शासिवसिघसीनां च । धातुसकारस्याऽप्राप्ते विधिरयम् । ननु सुपिसौ सुपिस इत्यादावतिप्रसङ्गवारणायधातोः सकारस्य चेदेषामेवे॑ति नियमार्थतां स्वीकृत्यआदेशप्रत्यययो॑रिति सूत्रं त्यज्यतामिति चेत् । अत्राहुः - आदेशावयवस्य षत्ववारणाय आदेशस्यैत्यंशस्तावदावश्यककः । तद्ग्रहणे कृतेधातुभिन्नसकारस्य चेद्भवति आदेशरूपस्यैवे॑ति नियमप्रसङ्गवारणाय प्रत्ययग्रहणमपि कर्तव्यमेवेति । अवात्सीदिति ।वदव्रजे॑ति वृद्धिः ।सः सी॑ ति तः ।अस्तिसिचः॑ इतीट् । उच्चारणार्थ इति । इत्संज्ञायां तुइदितः॑ इति नुम् स्यादिति भावः । उवायेति ।ग्रहिज्ये॑त्यत्र वयिग्रहणाद्वेञ् इति निषेधोऽत्र न प्रवर्तत इत्याहुः ।", "83061": "<<स्तौतिण्योरेव षण्यभ्यासात्>> - स्तौतिण्योरेव । एवंच रिषाधयिषेति प्रयोगस्य साधुत्वं न तु सिसाधयिषेत्यस्येति ज्ञेयम् । उपसर्गात्त्विति । मध्येऽपवादन्यायात्स्तौतिम्यो॑रिति नियमेनआदेशप्रत्यययो॑रिति षत्वमेव बाध्यते न तुस्थादिष्वभ्यासेन चे॑त्युत्तरेण विहितमिति भाव- । सुषुप्सतीति ।रुदविदे॑ति सनः कित्त्वान्न गुणः । प्रतीषिषतीति । इह षभूते सनीण् गताविति धातोः परसय् सत्य षत्वं भवत्येवेत्यर्थः ।", "83062": "<<सः स्विदिस्वदिसहीनां च>> - नियमान्नेहेति । न चाऽत्र नियमादेव निषेधेसुनोतेः स्यसनो॑रिति सन्विषये निर्विषयं स्यादिति वाच्यम्, अभिसुसूषतेरप्रत्ययःअभिसुसू॑रित्यत्र षत्वनिषेधाय तस्यावश्यकत्वात् । एतच्च काशिकायां स्पष्टम् । * शैषिकेति । एतच्च श्लोकवार्तिकमिति केचित् । भाष्यमिति बहवः । शेषे भवः शैषिकः । अध्यात्मादित्वाठ्ठञ् । मतुबर्थे रभवो मतुबर्थीयः । गहादित्वाच्छः । मतुबर्थोऽस्यास्तीति मतुबर्थिकः ।अत इनिठनौ॑ इति ठन् । इति तत्त्वबोधिन्यां सन्नन्तप्रक्रिया ।कृत्तद्धितसमासेकशेषसनाद्यन्तधातुरूपाः पञ्च वृत्तयः । प्रसङ्गादाह — कृत्तद्धितेत्यादि । पञ्च वृत्तय इति । पञ्चानांवृत्तिः॑इति पूर्वचार्याणां संज्ञा इहाप्याश्रीयत इति भावः । तल्लक्षणमाह -परार्थेति । प्रत्ययार्थन्तर्भावेण परपदार्थान्तर्भावेन वा यो विशिष्ट[ऽर्थः] स परार्थः । स चाभिधीयते येन तत्परार्थीभिधानम् । अतएव तिङन्ते वृत्तिर्न भवति, तत्रैकार्थीभावानभ्युपगमात् । अन्यथाभृदु पचती॑त्यादौ फले मृदुत्वान्वयो न स्यात्,सबिशेषणानां वृत्तिर्न भवति, वृत्तस्य च विशेषणयोगोने॑त्यभ्युपगमादित्येके । समर्थसूत्रे कैयटस्त्वाह — ॒परस्य शब्दस्य योऽर्थस्तस्याभिधानं शब्दान्तरेण यत्र सा वृत्तिरित्यर्थः । यथा राजपुरुष इत्यत्र राजशब्देन वाक्यावस्थायामनुक्तः पुरुषार्थोऽभिधीयते॑इति । अविग्रह इति । लौकिकविग्रहरहित इत्यर्थः । अस्वपदेति । समस्यमानयावत्पदाऽघटित इत्यर्थः । द्वन्द्वबहुब्राईह्रोरेवेति । अनेकग्रहणतदनुवृत्तिभ्यां तद्विधानाद्वहुपदसमासत्वं यतोरेव संभवतीति भावः । क्वचिदेवेति ।व्द्यह्नजात॑इत्यादौ । नाम्नेति । प्रातिपदिकेनेत्यर्थः । कुम्भकार इति । अत्र हि सुबुत्पत्तेः प्रागेवोपपदसमासः । कटप्रूः अजरुआमिति ।क्विब्वचिप्रच्छी॑ति वार्तिके,नमिकम्पी॑ति सूत्रे चकटप्रूः॑अजरुआ॑मिति निपातनाद्धातुना समासः । पिबतखादतेति॥आख्यातमाख्यातेने॑ति मयूरव्यंसकादौ पाठात्समासः । इति तत्त्वबोधिन्यां सर्वसमासशेषः ।", "83063": "<<प्राक्सितादड्व्यवायेऽपि>> - प्राक्सितात् ।उपसर्गात्सुनोति॑त्यादिना विहितं षत्वमड्व्यवाय एवेति भ्रमनिवारणार्थमपिशब्दस्योपादानम् । तेषामिति । पञ्चदशानामित्यर्थः । अब्यषुणोदित्यादीन्युदाहर्तव्यानि । स्थादिषु । इह द्वे वाक्ये,आद्यं षत्वविध्यर्थं, द्वितीयं तु नियमार्थमित्याशयेनाह —", "83064": "<<स्थाऽऽदिष्वभ्यासेन चाभ्यासय>> - व्यवायेऽपि षत्वं स्यादेषामेव चेति । स्थदीनां दशानामेवभ्यासस्य षत्वमित्यर्थः । तत्फलं तुषू प्रेरणे॑ अभिसुसूषति । अत्रोक्तनियमादभ्याससकारस्य न षत्वं, द्वितीयस्य तुस्तौतिण्यो॑रिति नियमान्न भवति । अभिसिषासतीत्यत्र तु षणोऽभावादभ्यासात्परस्य षत्वं, पूर्वस्य तूक्तनियमान्नेति बोध्यम् । स्यादेतत् - निषिषेधेत्यादौ अभ्यासस्यउपसर्गात्सुनोती॑त्यनेन सिद्धम्, अभ्यासात्परस्य तुआदेश प्रत्ययो॑रित्यनेनेति किमाद्यावाक्येन । अत्राहुः — फलत्रयार्थमाद्यं वाक्यं । तथाहि अषोपदेशार्थम् — सेनया अभियातुमिच्छति अभिषिषेणयिषति । अवर्णान्ताभ्यासार्थं च — ॒अर्धासनं गोत्रभिदोऽधितष्ठौ॑ । षणि प्रतिप्रसवार्थ च — अभिषिषिक्षति ।षिच क्षरणे॑ ।स्तोतिण्योरेवे॑ति नियमात्षभूते सनि निवर्तितमपि सत्वमुपसर्गमाश्रित्याऽत्र भवतीति ।", "83065": "<<उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनय- सेधसिचसञ्जस्वञ्जाम्>> - उपसर्गात् ।सुनोति सुवती॑ इत्यादिश्तिपा निर्देशो यङ्लुङ्निवृत्त्यर्थस्तेन अभिसोषवीति अभिसोषोतीत्यादौ षत्वं नेति प्राञ्चः ।स्थादिष्वेवाभ्यासस्य षत्वं न सुनोत्यादिष्वि॑ति नियमान्नेह षत्वप्राप्तिरिति व्यर्थः प्रतिषेध॑ इति मनोरमादौ स्थितम् । सेनयेति णिजन्तो नामदातुः । सेनयाऽभियाति — अभिषेणयति । सेधेति शपा निर्देशाद्भौवादिकस्य ग्रहणं, न तु सिध्यतेः । परिसिध्यति ।गृहा दारा॑ इत्यत्रेव ता४त्स्थ्यात्ताच्छब्द्यमित्याह — उपसर्गस्थादिति । निमित्तादिति । इण्रूपात् । कवर्गस्तुनेह संबध्यते, असंभवात् । न च निःषुणोति निःषेधति निःषिञ्चतीत्यादौ व्यवदानेन इणः परत्वाऽभावात्सस्य षत्वं न स्यादिति शङ्क्यं, षत्वविधौनुम्विसर्जनीयशव्र्यवायेऽपी॑त्यधिकारात् ।इणन्तादुपर्गा॑दिति व्याख्याने तु स्यादेवात्राऽव्याप्तिः ।दुरः षत्वणत्वयो॑रित्युपसर्गत्वप्रतिषेधाद्दुः सुनोति दुःसेधतीत्यादौ तु षत्वेन न भवितव्यमिति दिक् । मूर्धन्यादेशे फलितमाह — सस्य षः स्यादिति । स्थादिषुप्राक् सिता॑दित्यत्र क्रमज्ञानस्यापेक्षितत्वात्तेनैव क्रमेण षत्वसूत्राणि व्याचष्टे-", "83066": "<<सदिरप्रतेः>> - सदिरप्रतेः । अप्रतेः किम् । प्रतिसीदति । षष्ठर्थे प्रथमेत्याह — सदेरिति ।", "83067": "<<स्तम्भेः>> - स्तम्भेः । सौत्रस्येति ।स्तन्भुस्तुन्भु॑ इति सूत्रे निर्दिष्टस्य रोधनार्थस्य, न तुष्टभि प्रतिबन्धे॑ इत्यस्येति भावः । एवंजृस्तम्भु॑ इत्यङ्विधायकसूत्रेऽपि सौत्रस्यैव ग्रहणमिति बोध्यम् । एतच्चलक्षणप्रतिपदोक्त॑ परिभाषया लभ्यते । सौत्रो हि धातुर्नकारोपध इति प्रतिपदोक्तः । इदित्त्वान्नुमि ष्टभिर्लाक्षणिकः । तेन विस्तम्भते मकारस्योभयत्रापि लाक्षणिकत्वात् । उत्तरार्थ इति । उत्तरसूत्रे स्तन्भेरेवानुवृत्त्यर्थ इति भावः । ननुसदिस्तन्भ्यो॑रिति सूत्रितेऽपि एकदेशे स्वरितत्वप्रतिज्ञानात्कथंचिदनुवृत्तिर्भविष्यतीत्यत आह — किंचेति । नानुवर्तत इति । तथा चस्तन्भे॑रित्यत्राऽननुवृत्तये योगविभाग आवश्यक इति भावः ।", "83068": "<<अवाच्चालम्बनाविदूर्ययोः>> - अवाञ्चा । चकारश्चिन्त्यप्रयोजन इत्याहुः । आलम्बनमाश्रयणम् । यथा — यष्टिमवष्टभ्य आस्ते । तामाश्रित्य तिष्ठतीत्यर्थः । आविदूर्यं — सामीप्यम् ।तच्च प्रयोगोपाधिः । अवष्टब्धा गौः । निरुद्धा सती समीपे आस्त इत्यर्थः । एतयोः किम् । अवस्तब्धो वृषलः शीतेन । केचिदिह अविदूरशब्दात्स्वार्थे ष्यञ् । आविदूर्यमनतिदूरम् । ईषद्दूरमित्यर्थः । तथा च अविदूरशब्दात्न नञ्पूर्वात्तत्पुरुषा॑दिति निषेधे प्राप्ते अतएव निपातनाद्भावप्रत्यय इति मनोरमाग्रन्थोक्तिर्नातीवोपयुज्यत इत्याहुः ।", "83069": "<<वेश्च स्वनो भोजने>> - वेश्च । विष्वणति सशब्दं भुङ्क्त इत्यर्थः ।अट्कुप्वा॑ङिति णत्वम् । एवम् — अवष्वणति । व्यष्वणत् । विषष्वाण ।स्थादिष्वभ्यासेन चे॑ति षत्वम् । भोजने किम् । विखनति वीणा ।", "83070": "<<परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम्>> - परिनिवभ्यः । सेवेत्यत्र अकार उच्चारणार्थः । न च यङ्लुग्निवृत्तये शपा निर्देश एवास्त्विति शङ्क्यं, वकारान्तानामूठ्भाविनां यङ्लुङ् नास्तीति वक्ष्यमाणत्वात् ।षेवृ सेवायाम् । परिषेवते ।षिञ् बन्धने॑ । क्तान्तः सितशब्दः । एरजन्तः पचाद्यजन्तो वा सयशब्दः । विषितः । विषयः । प्रत्ययविशिष्टग्रहणं किम् । विसिनोति ।षिवु तन्तुसन्ताने॑ । परिषीव्यति ।षह मर्षणे॑ परिषहते । सुट आगमः । परिष्करोति । [विष्करोति] । स्तुस्वञ्ज्योःउपसर्गात्सुनोती॑त्येव सिद्धे परिनिविभ्यः परयोरेतयोःसिवादीनां वाड्व्यवायेऽपी॑ति विकल्पार्थं पुनर्वचनम् ।", "83071": "<<सिवादीनां वाऽड्व्यवायेऽपि>> - सिवादीनां । सिवुसहसुट्स्तुस्वञ्जः सिवादयः । पर्यषीव्यत् । पर्यसीव्यत् । पर्यष्करोत् । न्यष्टौत् । न्यस्तौत् । व्यष्वजत् । व्यस्वजत् । रम क्रीडायाम् । अमुमुदितं मत्वा रन्त्वा रमित्वेति केचिदुदाजह्युस्तन्माधवादयो न सहन्ते । तथा च क्त्वायां रन्त्वेत्येव साधु । रेमिषे इति । क्रादिनियमादिट् । पचाद्यचि टाप् । रमा । घञि तु — रामः । अमन्तत्वेन मित्त्वाण्णौ ह्यत्वः । रमयति । षद्लृ । विशरणमवयवानां विश्लेषः । अवसादनं — नाशः ।", "83072": "<<अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु>> - अनुविपर्यभिनिभ्यः । एभ्य इति । पञ्चभ्य इत्यर्थः । षत्वं भवत्येवेति । प्राण्यप्राणिकर्तृकस्याऽप्यप्राणिकर्तृकत्वानपायादिति भावः । असमर्थसमास — वाक्यभेदापत्तिदोषाभ्यां प्रसज्यप्रतिषेधो न सूत्रेऽभिप्रेत इत्याशयेनाह - प्राणिषु नेत्युक्ताविति । कृपू सामर्थ्ये । भाष्यकृतां व्याख्यामाह — कृप उ इति ।", "83073": "<<वेः स्कन्देरनिष्ठायाम्>> - वेः स्क्नदेरनिष्ठायाम् ।सिवादीना॑मित्तोवे॑त्यनुवर्तते । अषोपदेशत्वादप्राप्ते विभाषेयम् । माधवादिग्रन्तानुरोधेनाह — कृत्येवेदमिति । प्राचा तुविकन्दती॑त्युदाहृतं, तत्र मूलंमृग्यमिति भावः ।", "83074": "<<परेश्च>> - न संबध्यत इति । अत एव तिङन्तेऽपि षत्वमुदाहरति । परिष्कन्दतीति । णम् प्रह्वत्वे ।केचिदमुमुदितं पठन्ति, तत्प्रामादिकमित्याहुः ।", "83075": "<<परिस्कन्दः प्राच्यभरतेषु>> - परिस्कन्दः । अचि निपातनम् । अथ वा निष्टातकारस्य लोप इति काशिका ।", "83076": "<<स्फुरतिस्फुलत्योर्निर्निविभ्यः>> - स्फुरतिस्फुलत्योः ।सिवादीना॑मित्यतो वेत्यनुवर्तनादाह — षत्वं वा स्यादिति । परिणूतेति ।श्र्युकः किती॑तीण्निषेधः ।", "83077": "<<वेः स्कभ्नातेर्नित्यम्>> - वेः स्कभ्नातेर्नित्यम् ।सिवादीनां वे॑त्यतो वेति नानुवर्तते इति ध्वननार्थमिह नित्यग्रहणम् । विस्कभ्नोतीति ।स्कभ्नाते॑रित्यत्र श्नाविशिष्टं रूपं न विवक्षितं किं तु धातुमात्रम्, अन्यथा विष्कम्भिता विष्कम्भितमित्यादावपि षत्वं न स्यात् । न चेष्टापत्तिः, माधवादिग्रन्थविरोधादिति भावः ।", "83078": "<<इणः षीध्वंलुङ्लिटां धोऽङ्गात्>> - ॒इण्को॑रित्यधिकारेऽपि पुनरिण्ग्रहणं कवर्गात्परस्य माभूदित्येतदर्थम् । तेनेहन न- पक्षीध्वम् । अङ्गात्परेषामिति ।विहिताना॑मित्युक्तौ तु दाञो लुङि अदिड्ढ्वमित्यत्राऽव्याप्तिः स्यात्, लिहदुहनहां तु ढत्वघत्वधत्वेषु लिक्षीध्वं धुक्षीध्वं नत्सीध्वमित्यत्रातिव्याप्तिश्च स्यादिति बोध्यम् । अङ्गात् किम् । वेविषीध्वम् । यद्यप्यर्थवतः षीध्वमित्यस्य ग्रहणात्कृषीढ्वमित्यादावेव भवेन्नत्वत्र, तथाप्यर्थवद्ग्रहमपरिभाषा क्वचिन्न प्रवर्तत इति ज्ञापनार्थमिदमुक्तम् । तेनअनिनस्मन्ग्रहणानी॑ति सिद्धम् । एधांबभूवेत्यादि ।आम्प्रत्ययव॑दिति सूत्रे कृञ्ग्रहणादनुप्रयोगान्तरे तङ् नेतिशेषात्कर्तरी॑ति परस्मैपदमेव, भावकर्मणोस्तु स्यादेव — एधांबभूवे ईक्षांबभूवे इति । अस्तेस्तु भावकर्मणोस्तङि कृते एशि इटि च रूपे विप्रतिपद्येते । तथाहि — उभयत्रापिह एती॑ति हादेशे कृते एधामाहे ईक्षामाहे इति केचित् । तासिसाहचर्यादिटएव हत्वं न त्वेशीत्यन्ये । तत्साहचर्यादेव सार्वधातुक एव एति हत्वम् । तथा च कर्मव्यतिहारे तङि व्यतिहे इत्यत्रैव भवति न तूक्तद्वयेऽपि । तेन एधामासे ईक्षामासे इत्येव रूपमित्यपरे । कृभ्वितीति । यद्यपि कृञित्युक्तौ लाघवमस्ति, तथापि धातुद्वयस्यैव लाभार्थं प्रत्याहाराश्रयणे क्लेश इति भावः ।", "83079": "<<विभाषेटः>> - लुह्लिटां धस्येति । लिटि लिलिहिढ्वे । लिलिहिध्वे ।", "83080": "", "83081": "<<भीरोः स्थानम्>> - भीरोः स्थानमिति । विसर्जनीयव्यवधानेऽपि षत्वप्राप्तिरस्ति ।", "83082": "<<अग्नेः स्तुत्स्तोमसोमाः>> - अग्नेः ।सात्पदाद्यो॑रिति निषेधेऽयमारम्भः । अग्निष्टुदिति । अग्निः स्तूयतेऽस्मिन् स कतुविशेषः । सम्पदादित्वादधिकरणे क्विप् । अग्निष्टोम इति । अग्नीनां स्तोमोऽग्निष्टोमः । सोमयागस्य संस्थास्वाद्या संस्थोच्यते ।", "83083": "<<ज्योतिरायुषः स्तोमः>> - ज्योतिषः स्तोम इति । इहज्योतिः स्तोमोऽय॑मिति प्रकत्युदाहर्तुमुचितम् ।", "83084": "", "83085": "", "83086": "", "83087": "<<उपसर्गप्रादुर्भ्यामस्तिर्यच्परः>> - उपसर्गप्रादुभ्र्याम् । प्रादुसिति सान्तमव्ययम् ।प्रादुषश्चे॑ति पाठे प्रादुभ्र्यामिति निर्देशो न युज्यते इति प्राचां षान्तपाठः प्रामादिकः । परस्येति । अयमस्तेः सस्य विशेषणं, न त्वस्तेः । तेन प्रादुरस्तीत्यत्र न षत्वम् । उपसर्गेत्यादि किम् । दधि स्यात् । अस्तेः किम् । परिसृजति । मृजू शुद्धौ । अयं न षित्, भिदादिपाठसामर्थ्यात् ।", "83088": "<<सुविनिर्दुर्भ्यः सुपिसूतिसमाः>> - सुपिसूतिसमा इति ।सूति॑ति क्तिन्नन्तः ।समे॑ति पचाद्यजन्तः । सुषुप्तिः । सुषूतिः । सुषमा । विषमः । अद्विर्वचन इति । तेन षत्वसहितस्य द्वित्वम् । सुपिरूपाभावादिति ।एकदेशविकृतमनन्यव॑दिति तु न प्रवर्तते, तस्य स्थानिवत्सूत्रशेषत्वात्, षत्वस्य त्रैपादिकत्वेन तत्कार्यं प्रति स्थानिवत्त्वाऽभावादित्याहुः । वस्तुतस्तुस्थानिवदादेश॑ इत्येनं प्रति त्रिपादी सिद्धेत्युक्तम् । तस्मादिह समाधानान्तरमूह्रमित्यन्ये ।", "83089": "", "83090": "", "83091": "", "83092": "", "83093": "", "83094": "", "83095": "<<गवियुधिभ्यां स्थिरः>> - गवियुधि । स्थिरशब्दोऽयमजिरशिशिरेत्यौणादिकः किरच्प्रत्ययान्तस्तिष्ठतेर्निष्पन्नः । सात्पदाद्योरिति निषेधे प्राप्ते वचनारम्भः । गवीति वचनादेवेति । न च लुकं बाधित्वापरत्वादन्तरङ्गत्वाच्चाऽवादेशे हलदन्तात्सप्तम्याः इत्येवाऽलुक् सिध्यीति वाच्यम्, अन्तरह्गानपि विधीन् बहिरङ्गो लुग् बाधते इति लुको बलीयस्त्वादिति भावः । ह्मद्द्युभ्यां च । ह्मदिस्पृक् दिविस्पृगिति । ह्मदयं दिवं च स्पृशतीति विग्रहः । अलुग्विधिसामत्र्यात्कर्मणि सप्तमी, कर्मणोऽधिकरणत्वविवक्षया वा ।", "83096": "", "83097": "<<अम्बाम्बगोभूमिसव्यापद्वित्रिकुशेकुशङ्क्वङ्गुमञ्जि- पुञ्जिपरमेबर्हिर्दिव्यग्निभ्यः स्थः>> - अम्बाम्ब । कप्रत्ययान्तस्येति । तेन भूमिस्थितं गोस्थानमित्यादौ नेति भावः । प्राचा तुस्थस्य सस्ये॑ति व्याख्यातव्येस्थ सस्ये॑ति व्याख्यातं, तदाकरविरोधेनकप्रत्ययान्तस्ये॑त्यध्याह्मत्य व्याख्येयम् । द्विष्ठः त्रिष्ठ इति । द्वयोस्तिष्ठतीत्यादि विग्रहः । एवमम्बष्ठः आम्बष्ठः गोष्ठः भूमिष्ठः सव्यष्ठः अपष्ठः कुशेष्ठः कुष्ठः शङ्कुष्ट अङ्गुष्ठः पुञ्जिष्ठ परमेष्ठः बर्हिष्ठः दिविष्ठः अग्निष्ठः । आभ्यामिति ।परिमृजापनुदो॑रित्यत्र पञ्चम्यर्थे षष्ठीति भावः ।", "83098": "", "83099": "<<एति संज्ञायामगात्>> - एति संज्ञायामिति । सुषामाद्यन्तर्गणसूत्रमेतत् ।", "83100": "<<नक्षत्राद्वा>> - एति संज्ञायामिति । सुषामाद्यन्तर्गणसूत्रमेतत् ।", "83101": "<<ह्रस्वात् तादौ तद्धिते>> - एति संज्ञायामिति । सुषामाद्यन्तर्गणसूत्रमेतत् ।", "83102": "<<निसस्तपतावनासेवने>> - एवंनक्षत्राद्वा॑इत्यपि । विष्वक्सेन इति । चत्त्र्वस्याऽसिद्धत्वाद्गकारेण व्यवधानमस्तीति भावः ।", "83103": "<<युष्मत्तत्ततक्षुःष्वन्तःपादम्>> - ह्रस्वात्तादौ । पदान्तत्वात्षत्वस्याऽप्राप्तावयमारम्भः । आदिग्रहणं तु व्यर्थं,यस्मिन्विधि॑रित्येव सिद्धेः । ह्वस्वांत्किम् । गीस्तराम् । धूस्तराम् । तदौ किम् । सर्पिःसाद्भवति । तद्धिते किम् । सर्पिस्तरति ।तिङन्तस्य प्रतिषेधो वाच्यः॑ । भिन्द्युस्तरम् । दूरादेत्यः । दूरेत्य इति । दूरादागत इत्यादिरर्थः ।उत्तरादाहञ् । औत्तराह इति । इहाद्युदात्तत्वं स्त्रियां टाप्च बोध्यः । यदा तुउत्तराच्च॑त्याहिप्रत्यये ततोऽण्क्रियते,अमेहे॑ति परिगणनेन त्यपोऽभावात्, तदा औत्तराहशब्दोऽन्तोदात्तः, स्त्रियां ङीप्च विशेषः ।", "83104": "<<यजुष्येकेषाम्>> - निसस्तपता ।मूर्धन्य॑इत्यनुवर्तमाने फलितमाह — षः स्यादिति । आसेवने तु — निस्तपति । पुनः पुनस्तपतीत्यर्थः ।", "83105": "", "83106": "", "83107": "", "83108": "", "83109": "", "83110": "शासिवसीति प्राप्तमपि नेति। एवं च `अविन्द उरिउआयाः` इति मन्त्रे षत्वाऽभावः सिद्धः। माधवस्तु वृत्तिग्रन्थानुरोधेन बाहुलकादिह षत्वं नेति व्याचष्टे। `उरुआओ वृषे च किरणे उरुआआऽर्जुन्युपचित्रयोः` इति मेदिनी। `माहेयी सौरभेयी गौरुरुआआ माता च श्रङ्गिणी`त्यमरः। `वाश्रो ना दिवसे क्लीबं मन्दिरे च चतुष्पथे` इति मेदिनी। `वाश्रो रासभपक्षिणोः` इति केचित्। माधवेन तु `वाश्रेव विद्युन्मिमाति` इति मन्त्रे शब्दयुक्ता प्रस्नुतस्तना धेनुर्वाश्रेति व्याख्यातम्। `शुभ्रं स्यादभ्रके क्लीबमुद्दीप्तशुक्लयोरिउआषु इति मेदिनी।", "83111": "", "83112": "<<सिचो यङि>> - शासिवसीति प्राप्तमपि नेति । एवं चअविन्द उरिउआयाः॑ इति मन्त्रे षत्वाऽभावः सिद्धः । माधवस्तु वृत्तिग्रन्थानुरोधेन बाहुलकादिह षत्वं नेति व्याचष्टे ।उरुआओ वृषे च किरणे उरुआआऽर्जुन्युपचित्रयोः॑ इति मेदिनी ।माहेयी सौरभेयी गौरुरुआआ माता च श्रङ्गिणी॑त्यमरः ।वाश्रो ना दिवसे क्लीबं मन्दिरे च चतुष्पथे॑ इति मेदिनी ।वाश्रो रासभपक्षिणोः॑ इति केचित् । माधवेन तुवाश्रेव विद्युन्मिमाति॑ इति मन्त्रे शब्दयुक्ता प्रस्नुतस्तना धेनुर्वाश्रेति व्याख्यातम् ।शुभ्रं स्यादभ्रके क्लीबमुद्दीप्तशुक्लयोरिउआषु इति मेदिनी । मुरुआमिति । मुस खण्डने । चकि । चक तृप्तौ, रमु क्रीडायाम्,चुक्रस्त्वम्लेऽम्लवेतसे । चुक्री चाङ्गेरिकायां स्याद्वृक्षाम्ले चुक्रमिष्यते॑ इति विआः । वौ कसेः । कस गतौ । विपूर्वादस्माद्रक् स्यादुत्वं चोपधायाः । अमि । अम गत्यादिषु, तमु काङ्क्षायाम् । आभ्यां रक् स्यादुपधाया दीर्घश्च । निन्देः । णिदि कुत्सायाम् । अर्देः । अर्द गतौ ।आद्र्रा नक्षत्रभेदे स्यात्स्त्रियां क्लिन्नेऽभिधेयव॑दिति मेदिनी । शुचेः । शुच शोके, अस्माद्रक् दश्चान्तादेश ,धातोर्दीर्घश्च । शूद्रो वृषलः ।अहहा रे त्वा शूद्र॑ इति श्रुतौ तु रूढेर्बाधाद्योग एव पुरस्कृतः । तथा चोत्तरतन्त्रे भगवता व्यासेन सूत्रितं — ॒शुगस्य तदनादरश्रवणा॑दिति । दुरीणो । इणा गतावित्यस्माद्दुपपदेरक् स्याद्धातोर्लोपश्च ।रो री॑ति रेफस्य लोपेढ्रलोपे॑ इति दीर्घः । कृतेः । कृती च्छेदने इत्यस्माद्रक् स्याच्छक्रू इत्येतावादेशौ च स्तः । छस्त्वन्त्यस्यादेशः ।क्रू॑ त्वनेकाल्वात्सर्वस्यादेशः ।कृच्छ्रमाख्यातमाभीले पापसंतापनादिनोः॑ इति विआमेदिन्यौ ।स्यात्कष्टं कृच्छ्रमाभील॑मित्यमरः ।क्रूरस्तु कठिने धोरे नृशंसे चाभिधेयवदि॑ति विआः ।नृशंसो धातुकः क्रूरः पापो धूर्तस्तु वञ्चकः॑ इत्यमरः । रोदेः । रुदिर् अश्रुविमोचने, ण्यन्तादस्माद्रक्,णेश्चलुक् ।णेरनिटी॑ति लोपे तुपुगन्ते॑ति गुणः स्यादिति णिलुक् चेत्युक्तम् । रोदयतीति रुद्र इति । नन्वेवंसोऽरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्व॑मिति श्रुत्या सह विरोधोऽत्र स्यादिति चेत् । अत्राहुः — कर्तरि कृ॑दिति सूत्रानुरोधेन शम्भुरित्यत्र शं भावयतीत्यन्तर्भावितण्यर्थता यथा स्वीक्रियते तथा अरोदीदित्यत्राप्यन्तर्भावितण्यर्थतायां स्वीकृतायं रोदनं कारितवानित्यर्थलाभान्नास्ति श्रुतिविरोधः । न च देवैरग्नौ वामं वसु स्थापितं तच्चधनं देवैयर्याचितं तेदग्निस्तु रोदनं कृतवानिति सोऽरोदीदित्यादिश्रुत्यर्थादिहान्तर्भावितण्यर्थकल्पनं न संभवतीति श्रुतिविरोधस्त्वपरिहार्य एवेति वाच्यम्, दैवैः स्थापितं वामं वसु देवेभ्योऽग्निना न दत्तं, ते देवा एव रोदनं कृतवन्तः । अग्निस्तु तदीयमदत्वा रोदनं कारितवानित्यर्थकल्पनायाः संभवात् । अथवाऽग्नौ प्रयुज्यमानरुद्रशब्दस्य रोदितीति रुद्र इत्येवार्थोऽस्तु, परन्तु ब्राहृविष्णुरुद्रा इति व्यवह्यियमाणो यो रुद्रस्तद्वाचकरुद्रशब्दस्य रोदेरित्युणादिसूत्रान्तरात्प्रत्ययान्तरेऽपि णेर्लुगित्यर्थः । संज्ञायामुदाहरणम् — बृंहयति वर्धयति प्रजा इति ब्राहृआ । शं सुखं भावयतीति शम्भुरित्यादि । छन्दसि तु वृधु वृद्धौ ।वर्धन्तु त्वा सुष्टुतयः । वर्धयन्त्वित्यर्थः ।य इमा जजान॑ । जनी प्रादुर्भावे लिटि रूपम् । जनयामासेत्यर्थः । इह णलि परतःअत उपधायाः॑ इति वृद्धिर्भवत्येव,जनिवध्योश्च॑ इति निषेधस्यचिणि ञिति णिति किति च स्वीकारात् । न च णिलोपे सति प्रत्ययान्तत्वात्कास्प्रत्यया॑दित्याम्स्यादिति वाच्यम्, अमन्त्र इति पर्युदासादामोऽप्रसक्तेः ।कास्यनेकाच॑ इति वार्तिकेन तु आम्शङ्का दूरापास्तैव, लिटि णिलोपे सत्यनेकाच्त्वाऽभावात् । ननु णलिणेरनिटी॑त्यनिडादावाद्र्धधातुके णिलोपे जजानेति रूपं सिद्धमिति किमनेन लुक्युदाहरणेनेति चेन्मैवम् । णिलोपे सतिजनीजृषन्कसुरञ्जोऽमन्ताश्चे॑ति णौ मित्त्वेमितां ह्रस्वः स्यात्, प्रत्ययलक्षणन्यायेन णिपरत्वसंभवात् । ततश्चजनेनेति स्यात् । लुकि सति तु प्रत्ययलक्षणन्यायो न प्रवर्तत इति मित्त्वाऽभावादिष्टं सिध्यति । बाहुलकादसंज्ञाछन्दसोरपि क्वचिद्भवतीत्याशयेनोदाहरति — वान्तीत्यादि ।पर्णानि शोषयन्तीति पर्णशु षः । पर्णानि मोचयन्तीति पर्णमुचः । जोरी च । जु गतौ सौत्रोऽस्माद्रक्, ईकारश्चान्तादेशः ।जीरः खड्गे वणिद्ग्रव्ये॑ इति विआः ।जीरस्तु जरणे खड्गे॑ इति मेदिनी । ज्यश्चेति । ज्या वयोहानौ । अस्माद्रक्ग्रहीज्ये॑ इति संप्रसारणं पूर्वरूपम्हलः॑इति दीर्घः । एके इति । मुख्या इत्यर्थः । तथा च न धातुलोपे॑ इति सूत्रे जीवेरदानुरित्यस्य प्रत्याख्यानार्थं नैतज्जीवेरूपं किं तु रकिज्यः संप्रसारण॑मिति भाष्ये उक्तम् । सुसूधा । षुञ् अभिषवे, षूञ् प्राणिगर्भविमोचने, डुधाञ् धारणादौ, गृधु अभिकाङ्क्षायाम् ।सुरा चषकमद्योः । पुंलिङ्गस्त्रिदिवेशे स्यात् इति मेदिनी ।सुरो देवे सुरा मद्ये चषकेऽपि सुरा क्वचित् इति विआः । सुबति प्रेरयति कर्मणि लोकमिति सूरः सूर्यः ।सूरसूर्यार्यमादित्ये॑त्यमरः ।दीरो धैर्यान्विते स्वैरे बुधेक्लीबं तु कुङ्कुमे । स्त्रियां श्रवणतुल्याया॑मिति मेदिनी ।गृध्रः खगान्तरे पुंसि वाच्यलिङ्गोऽथ लुब्धके॑ इति च ।शुसिचि । शु गतौ, षिञ् बन्धने, चिञ् चयने, डुमिञ् प्रक्षेपणे, एभ्यः कन्ेषां दीर्घत्वं च ।शूरः स्याद्यादवे भटे॑ इति मेदिनी ।शूरश्चारु(र)भटे सूर्ये॑ इति विआहेमचन्द्रौ ।सीरोऽर्कहलयोः पुंसि चीरी झिल्ल्यां नपुंसकम् । गोस्तने वरुआभेदे च रेखालेखनभेदयोः॑ इति मेदिनी ।चीरं तु गोस्तने वरुओ चूडायां सीम(स) केऽपि च । चीरी कृच्छ्राटिकाझिल्ल्योः॑ इति विआः । वा विन्धेः । ञीन्धी दीप्तौ । विपूर्वादस्मात् क्रन् ।अनिदितामि॑ति नलोपः ।वीघ्रं तु विमलात्मक॑मिति विशेष्यनिघनेऽमरः । वृधि । वृधु वृद्धौ, डुवप् बीजसन्ताने ।वप्रः पितरि केदारे वप्रः प्राकाररोधसोः॑ इति धरणिरन्तिदेवौ ।वप्रस्ताते पुमानस्त्री रेणौ क्षेत्रे चये तटे॑ इति मेदिनी ।ऋज्रेनद्राग्र । ऋज गतिस्थानादिषु,इदि परिमैआर्ये,अगि गतौ ,वज गतौ, डुवप् बीजसन्ताने, कुबि आच्छादेन, चुबि वक्रसंयोगे, भदि कल्याणे, शुच शोके , गुङ् अव्यक्ते शब्दे, इण् गतौ । नायक इति ।ऋज्राआः पृष्टिभिरम्बरीषः इति मन्त्रे ऋज्रा गतिमन्तोऽस्वा यस्य स ऋज्राआ इति वेदभाष्यम् ।इन्द्रः शचीपतावन्तरात्मन्यादित्ययोगयोः॑ इति विआः ।अग्रं पुरस्तादुपरि परिमाणे पलस्य च ।आलम्बने समूहे च प्रान्ते स्यात्पुंनपुंसकम् । अधिके च प्रधाने च प्रथमे चाभिधेयवत् इति मेदिनी ।भद्रः शिवे खञ्जरीटे वृषभे तु कदम्बके । करिजातिविशेषे ना क्लीबं मङ्गलमुस्तयोः॑ इति च ।उग्रः शूद्रासुते क्षत्राद्रुद्रे पुंसि त्रिषूत्कटे । स्त्रीवचांक्षुद्रयोः॑ इति मेदिनी । भेरीति । गौरादित्वान्ङीष् ।॒भेरी स्त्री दुन्दुभिः पुमा॑नित्यमरः ।भेलः प्लवे भीलुकेच निर्बुद्धिमुनिभेदयोः॑ इति विआः ।भेलः प्लवे मणौ पुंसि भीरावज्ञे च वाच्यव॑दिति ।शुक्रः स्याद्भार्गवे ज्येष्ठमासे वैआआनरे पुमान् । रेतोऽक्षिरुग्भिदोः क्लीबं शुक्लो योगान्तरे सिते । नपुंसकं तु रजते॑ इति च ।गौरः पीतेऽरुणे ओते विशुद्धेऽप्यभिधेयवत् । ना ओतसर्षपे चन्द्रे न द्वयोः पद्मकेसरे । गौरी त्वसंजातरजः कन्याशङ्करभार्ययोः । रोचने रजनीपिङ्गाप्रियङ्गुवसुधासु च । आपगाया विशेषेऽपि यादसांपतियोषिति॑ इति च मेदिनी ।नदीभेदेच गौरीस्याद्वरुणस्य च योषिति॑ इति विआः ।अष्टवर्षा तु या दत्ता श्रुतशीलसमन्विते । सागौरी तत्सुतो यस्तु स गौरः परिकीर्तितः॑ इति ब्राहृआण्डवचनं श्राद्धकाण्डे हेमाद्रिणोदाहृतम् । एतेनगौरः शुच्याचारः॑ इत्यादि भाष्यं व्याख्यातम् ।इरा भूवाक्सुराप्सु स्या॑दित्यमरः । मालेति । प्रत्ययरेफस्य लत्वम् ।मालं क्षेत्रे स्त्रियां पृक्कारुआजोर्जात्यन्तरे पुमा॑निति मेदिनी ।मालं क्षेत्रे जिने मालो माला पुष्पादिदामनी॑ति विआः ।मालमुन्नतभूतल॑मित्युत्पलः ।क्षेत्रमारुह्रमाल॑मिति मेघदूतः । मणिपूर्वोऽयमर्थान्तरे रूढः ।मणिमालास्मृता हारे स्त्रीणां दन्तक्षताऽन्तरे॑ इति विआः । [बाहुकटौ॑ इति मेदिनी ] ।समि कस ।संकुसुकोऽस्थरः॑ इति विशेष्यनिघ्नेऽमरः । पचिनशोः । डुपचष् पाके, णश अदर्शने । आभ्यां णुकन् प्रत्ययः स्यात् । णकारो वृद्ध्यर्थः । अनयोर्यथाक्रमं कादेशनुमागमौ च भवतः । भियः । ञिभी भये ।अधीरे कातररुआस्नौ भीरुभीरुकभीलुकाः॑ इत्यमरः । क्वुन् । शिल्पिन्यभिधेये संज्ञायां गम्यमानायां च क्वुन् स्यादपूर्वस्य निरुपपदस्य च । अपिशब्दात्सोपपदस्य । पञ्चम्यर्थे षष्ठी । यद्वा अर्थद्वारकसंबन्धे षष्ठी, प्रकृतिप्रत्ययार्थयोः क्रियाकारकभावात् । एवं च निरुपपदप्रकृत्यर्थनिरूपतिकर्तृकारके क्वुन्नित्याद्यर्थः फलितः । शिल्पिनि तावत् — रञ्ज रागे ।रजको धावको शुके॑ इति विआः ।रजकौ धावकशुकौ॑ इति हेमचन्द्रः ।कुट्ट छेदने॑ । इक्षून् कुट्टयति गौडिकः । चर गतिभक्षणयोः । संज्ञायां तुचषकोऽस्त्री पानमात्रम् । शुन गतौ, भष भत्र्सने । शुनकः भषकः आआ । लमक इति । ऋषिविशेषः । जहातेः । ओहाक् त्यागे । ध्मो धम च । ध्मा शब्दाग्निसंयोगयोः । कुहको दाम्भिकः । कृतकमिति । कृती छेदने । कृषेः । कृष विलेखने । अस्मात्क्वुन् । [वृद्धिश्च] । कार्षकः कृषीवलः । कृषकः सएव ।कृषकः पुंसि फाले स्यात्कर्षके त्वभिधेयवत् इति मेदिनी । उदकं च । उन्दी क्लेदने अस्मात्क्वुन् । ननुक्वुन् शिल्पि॑ इत्यादिना गतार्थमित्याशङ्कायामाह — प्रपञ्चार्थमिति । वृश्चिकृष्योः । ओव्रश्चू छेदने, कृष विलेखने । प्राङि । पण व्यवहारे । कषशिषेति दण्डके हिंसार्थकः । मुषेः । मुषस्तेये अस्मात्किकन् धातोर्दीर्घश्च । स्यमेः । स्यमु शब्दे । क्रियः । डुक्रोञ् द्रव्यविनिमये । आङि पणि । पण व्यवहारे स्तुतौ च, पन च, पत्लृ गतौ, खनु अवदारणे, एभ्य आङि उपपदे इकन् स्यात् । आपणिक इति । नन्वेत्रैव प्रपूर्वे आङि प्रापणिक इति सिद्धौप्राङि पणी॑त्यत्र पणिग्रहणं प्रपञ्चार्थमित्युज्ज्वलदत्तः । उपसर्गान्तरनिवृत्त्यर्थमिति तु मनोरमायाम् । आपणिकशब्दोऽयं णित्स्वरेणाद्युदात्तः । आपणेन व्यवहरतीत्यर्थे ठकि तु कित इत्यन्तोदात्तः । श्यास्त्या । श्यैङ् गतौ, स्त्यै ष्टऐ शब्दसंघातयोः,ह्मञ् हरणे, अव रक्षणादौ ।श्येनः पत्रिणि पाण्डुरे॑ इति मेदिनी । स्त्येनश्चौरः । स्तेन चौर्ये इति टचौरादिकात्पचाद्यचि तु स्तेन निर्यकारोऽपि । केचित्तुस्तायूनां पतये नमः॑ इत्यादिप्रयोगोपष्टम्भेन निर्यकारस्यापि ष्टैधातोर्माधवादिभिर्भ्वादिषु स्वीकृतत्वात्प्रकृतसूत्रेऽपि ष्टैधातुमेव पठन्तः स्तेनशब्दो निर्यकार एवेत्याहुः ।हरिणः पुंसि सारङ्गे विशदे त्वमभिधेयवत् । हरिणी हरितायां च नारीभिद्वृतभेदयोः । सुवर्णप्रतिमायां च॑ इति मेदिनी । वृजेः । वृजी वर्जने । वृजिं पापम् ।वृजिं कल्मषे क्लीबं क्लेशे ना कुटिलेऽन्यव॑दिति मेदिनी ।अजेः । अज गतिक्षेपमयोरस्मादिनच् । अजेरजादेशविधानं व्यर्थमित्यत आह — वीभावबाधनार्थमिति ।अजिनं चर्म कृतिः स्त्री॑ इत्यमरः । बहुलमन्यत्रापि । अन्यस्मादपीत्यर्थः । कठ कृच्छ्रजीवने,णल गहने,मल मल्ल धारणे, कुडि दाहे, दोअवखण्डने ।कठिनमपि निष्ठुरे स्यात्स्तब्धे तु त्रिषु नपुंसकं स्थाल्याम् । कठिनी खटिकायामपि कठिना गुडशर्करायां च॑ इति मेदिनी ।मलिनं दूषिते कृष्णे ऋतुमत्यां तु योषिति॑ इति मेदिनी । कुण्डिनमिति ।नगरं कुण्डिनमण्डजो ययौ॑ इति श्रीहर्षः । कुण्डिन ऋषिः । तस्यापत्यं कौण्डिन्यः । [यत्पुरुषीति] ।यत्पुरषि = पर्वणि दिनं खण्डितं तद्देवाना॑मिति तैत्तिरीयश्रुत्यर्थः । द्रुदक्षि । द्रु गतौ,दक्ष वृद्धौ ।द्रविणं न द्वयोर्वित्ते काञ्चने च पराक्रमे इति मेदिनी ।दक्षिणो दक्षिणोद्भूतसरलच्छन्दवृत्तिषु । अवामे त्रिषु यज्ञादिविधिदाने दिशिस्त्रियाम् इति च ।दक्षैमः सरलोदारपरच्छन्दानुवृत्तिषु । वाच्यवद्दक्षिणावाची यज्ञदानप्रतिष्ठयोः इति विआः । अर्तेः । ऋ गतौ,अस्मादिनन्कित्स्यात् । इकारश्च धातोः । रपरत्वम् ।इरिणं शून्यमूषरम् इत्यमरः ।इरिणं तूषरे शून्येऽपि॑इति मेदिनी । वेपि । टुवेपृ कम्पने, तुहिर् अर्दने, आभ्यामिनन् ह्रस्वश्च धातो- ।अटव्यरण्यं विपिनम्इत्यमरः । तुहिनमिति । लघूपधगुणे कृते ह्रस्वः । तलि.तल प्रतिष्ठायाम्, पुल महत्त्वे ।तलिनं विरले स्तोके स्वच्छेऽपि वाच्यलिङ्गम् इति मेदिनी । गर्वेः । गर्व मोचने, अस्मादिनन् अकारस्य उत् । रुहेश्च । रुह बीज जन्मनि प्रादुभावे । रोहिण इति । प्रज्ञादित्वादणि रौहिणश्चन्दनतरुः । महेः । मह पूजायाम् ।कुतस्त्वमिन्द्रमाहिनः सन् । माहिनो महनीयः पूजनीय इति वेदभाष्यम् । क्विब्वचि । वच परिभाषणे, प्रच्छ ज्ञीप्सायाम्, श्रिञ्सेवायाम्, रुआउ गतौ, प्रुङ्गतौ,जुगतौ सौत्रः । वागिति ।वचिस्वपि॑ इति संप्रसारणाऽभावः । पृच्छतीति प्राट् ।ग्रहीज्ये॑ति संप्रसारणाऽभावः ।छ्वोः शूड् इति शः ।व्रश्च॑ इति षत्वं, जश्त्वचर्त्वे, प्राशौ प्राशः । श्रीरिति ।कृदिकारा॑दिति ङीष् तु न भवति,कृतप्रत्ययस्य य इकार॑ इति व्याख्यानात् ।कृदन्तं यदिकारान्त॑मिति पक्षे तु यद्यपि ङीषः प्राप्तिरस्ति तथापि कारग्रहणसामर्थ्येन केवलस्येकारस्य ग्रहणादिकारन्तपक्षो दुर्बल इत्याहुः । दुर्घटस्तु — ङीषि श्रीमित्यपि रक्षित इच्छतीत्याह ।श्री वेषरचाशोभारारतीसरलद्रुमे । लक्ष्म्यां त्रिवर्गसंपत्तिविद्योपकरणेषु च । विभूतौ च मतौ च स्त्री॑ति मेदिनी ।जूराकाशे॑ इत्यादिमूलोदाहृतमपि मेदिनी । आप्नोतेः । आप्लृ व्याप्तौ, अस्मात्क्विप् धातोश्च दीर्घः । श्लुवद्भावाद्द्विर्वचनम् । परौ । व्रज गतौ । हुवः । हु दानादनयोः । अस्मात्क्विप् धातोश्च दीर्घः । श्लुवद्भावाद्द्विर्वचनम् । रुआउवः कः । रुआउ गतौ । रुआउवो यज्ञपात्रविशेषः ।अयं रुआउवो अभिजिहर्ति॑रुआउवेण पार्वणौ जुहोति॑ इत्यादौ प्रसिद्धः । चिक् च । रुआउव इत्येव । योगविभाग उत्तरार्थः । क इदिति । तेन रुआउक् रुआउचौ रुआउच इत्यादौ गुणो न । [तनोते] । तनु विस्तारे । व इति सङ्घातग्रहमं । तदाह — वशब्दादेश इति ।रिउआयां तु त्वगसृग्धरा॑ इत्यमरः । ग्लानुदि । ग्लै हर्षक्षये, णुद प्रेरणे ।ग्लौर्मृगाङ्कः कलानिधिः॑इत्यमरः ।रिउआयां नौस्तरणिस्तरिः॑ इति च । ग्लौकरोतीति । अग्लौः ग्लौः संपद्यते तथा करोतीत्यर्थः । अव्ययत्वात्सुपो लुक् । च्व्यन्त एवेति । तेन ग्लौर्नौर्गौरित्यादीनां नाव्ययत्वमिति भावः । रातेः । रा दाने । रा इति । रायो हली॑त्यात्वम् ।रा स्मृतः पावके तीक्ष्णे राः पुंसि स्वर्णवित्तयोः॑ इति मेदिनी ।रास्तीक्ष्णे दहने रास्तु सुवर्णे जलदे धने॑ इति हेमचन्द्रः । गमेः । गम्लृ गतौ ।गोतो णित् । गौः । केशवोक्तमाह — गौर्नादित्य इत्यादि ।गौः स्वर्गे वृषबे रश्मौ वज्रे चन्द्रे पुमान् भवेत् । अर्जुनी नेत्रदिग्बाणभूवाग्वारिषु गौर्मता॑ इत्यमरः । द्युतेरपीति । द्युत दीप्तौ । द्योतन्ते देवा अस्यामिति द्यौः । भ्रमेश्च । भ्रमु अनवश्थाने, गम्लृ गतौ । अग्रेगूः सेवकः । दमेः । दमु उपशमे । डित्त्वाट्टिलोपः । दोरिति ।दोषं तस्ये॑ति श्रीहर्षप्रयोगात्पुंस्त्वम् ।ककुद्दोषणी॑ इति भाष्यप्रयोगान्नपुंसकत्वम् ।दोर्दोषा च भुजो बाहुः॑ इति धनञ्जयकोशात्स्त्रीलिङ्गोऽप्ययमित्यादि प्रागेव प्रपञ्चितम् । पणेः । पण व्यवहारे स्तुतौ च । अमरोश[स्थ] माह — नैगम इत्यादि । वशेः । वश कान्तौ, अस्मादिनिः कित्स्यात्, ।ग्रहिज्ये॑ति संप्रसारणम् । भृञः । भृञ् भरणे, अस्मादिनिः कित्स्याद्धातोरुकारान्तादेशश्च । जसि । जसु मोक्षणे । षह मर्षणे ।जसुरये स्तर्यं पिप्यथुर्गा॑मिति मन्त्रे जसुरये श्रान्तायेति,नीचायमानं जसुरिं न श्येन॑ मित्यत्र जसुरिं क्षुधितं श्येनं न = श्येनपक्षिणमिवेति ।उतस्य वाजी सहुरिरृतौ॑इति मन्त्रेसहुरिः सहनशील इति च वेदभाष्यम् । सुयु । षुञ् अभिषवे, यु मिश्रणे, रु शब्दे, वृञ् वरणे ।सवनं त्वघ्वरे स्नानेसोम निर्दलनेऽपि च॑ इति मेदिनी । यवनो म्लेच्छविशेषः ।रवणः शब्दने स्वरे॑ इति च मेदिनी । रवणः कोकिल इत्येके । वरणो वृक्षभेदः । टापितु वरणा नदी ।वरणस्तिक्तशाकेऽपि प्राकारे वरणं वृत्तौ॑ इति विआः ।वरुणो वरणः सेतुस्तिक्तशाकऋ कुमारकः॑ इत्यमरः । अशेः । अशू व्याप्तौ । जिह्वावाची त्विति ।रस आस्वादने चौरादिकः । ततो नन्द्यादित्वाल्ल्युः ।ण्यासश्रन्थः॑ इति युज्वा । रसत्यास्वदयतीति रसना ।रसनं स्वदने ध्वनौ । जिह्वायां तु न पुंसि स्याद्गास्नायां रसना रिउआयाम् इति मेदिनी । काञ्चीवाची तालव्यशकारवान्, जिह्वावाची तु दन्त्यसकारवानित्येषा व्यवस्था भूरिप्रयोगाबिप्रेयणोक्ता । वस्तुतस्तु तालव्यशकारवान् रशनाशब्दोऽपि काञ्च्यां जिह्वायां च, दन्त्यसकारवान् रसनाशब्दोऽप्यर्थद्वये बोध्यः । तथा हितालव्या अपि दन्त्याश्च शम्बशूकरपांशवः । रशनापि च जिह्वाया॑मिति विआकोशाज्जिह्वायामुभयं साधु ।रसनं निःस्वने रसना काञ्चिजिह्वयोः॑ इत्यजयधरणिकोशाभ्यां काञ्च्यामप्युभयं साधु । एवं चअसेरश चे॑ति सूत्रे अशू व्याप्तौ, अश भोजने,इति धातुद्वयमपि ग्राह्रम् । रस आस्वादने, रसशब्दे इति धातुभ्यां तुबहुलमन्यत्रापि॑ इत्यनुपदमेव वक्ष्यमाणो युच् । तेन सर्वत्रावयवार्थानुगमोऽपि सूपपाद इत्याहुः । उन्देः । उन्दी क्लेदने अस्माद्युच् ।ओदनं न स्त्रियां भक्ते बलायामोदिनी स्त्रिया॑मिति मेदिनी । गमेः । गम्लृ गतौ ।नभोऽन्तरिक्षं गगन॑मित्यमरः । बहुलम् । स्यन्दू प्ररुआवणे, रुच दीप्तौ ।स्यन्दनं तु श्रुतौ नीरे तिनिशे ना रथे स्त्रियी॑मिति मेदिनी ।रोचना रक्तकह्लारे गोपितवरयोषितोः । रोचनः कूटशाल्मल्यां पुंसि स्याद्रोचके त्रिषु॑ इति च । चदि आह्लादे ।चन्दनं मलयोद्भवे । चन्दनः कपिभेदे स्यान्नदीभेदे तु चन्दनी॑ इति विआः ।चन्दनी तु नदीभिदि । चन्दनोऽस्त्री मलयजे भदर्काल्यां नपंसक॑मिति मेदिनी । भद्रकाली ओषधिविशेषः ।भद्रकाली तु गन्धोल्यां कात्यायन्यामपि स्त्रिया॑मिति मेदिनी । असु क्षेपणे ।असनं क्षेपणे क्लीबं पुंसि स्याज्जीवकद्रुमे॑ इति मेदिनी । अत सातत्यगमने राजपूर्वः ।राजातनः क्षीरिकायां प्रियाले किंशुकेऽपि च॑ इति विआमेदिन्यौ । एवमन्येऽपि द्रष्टव्याः । रञ्जेः । रञ्ज रागे । ल्युटि तु रञ्जनम् ।रञ्जनो रागजनने रञ्जनं रक्त चन्दने॑ इति मेदिनी । बाहुलकात्कृपेरपि क्युन् ।कृपो रो लः॑ इति प्राप्तलत्वाऽभावश्च । कृपणः । भूसू । भू सत्तायां, षूङ् प्राणिप्रसवे, धूञ् कम्पने, भ्रस्ज पाके, बहुलवचनाद्भाषायामपि क्वचित् ।भुवनं विष्टपेऽपि स्यात्सलिले गगने जने॑ इति मेदिनी ।विष्टपं भुवनं जग॑दित्यमरः । भृज्जनामति ।ग्रहिज्ये॑ति संप्रसारणम् ।सस्य जश्त्वेन दः, दस्य श्चुत्वेन जः । क्लीबेऽम्बरीषं भ्राष्ट्रो ना॑ इत्यमरः । कृपृ । कृ विक्षेपि, पृ पालनादौ वृजी वर्जने, मदि स्तुत्यादौ, डुधाञ् धारणपोषणयोः ।निधनं स्यात्कुले नाशे॑ इति मेदिनी ।निधनं कुलनाशयोः॑ इति हेमचन्द्रः । धृषेः । ञिधृषा प्रागल्भ्ये, अस्मात्क्युः, धिषादेशश्च धातोः॑ ।धिषमरिउआदशाचार्ये धिषणा धियि योषिति॑ इति मेदिनी ।गीष्पतिर्धिषणो गुरुः॑ इत्यमरः । वर्तमाने । शतृवच्चेति । तथा चउगिदचा॑मिति नुमि महान् । रिउआयां तुउगितश्च॑ इति ङीपि महतीत्यादि सिध्यतीति भावः । ननु पृषन्महदादयःलटः शतृनाशचौ॑ इति शतृप्रत्ययान्ता एव भवन्तु । ततश्च वर्तमान इति शतृवच्चेति च न कर्तव्यमिति महदेव लाघवमिति चेदत्राहुः — शतृप्रत्ययान्तत्वे तुकर्तरि शप् इति शप्प्रत्यये महतीत्यादौआच्छीनद्योः॑ इति नुम् स्यात्, महानित्यादौ तुतास्यनुदात्तेन्ङिददुपदेशात् इति लसार्वधातुकस्वरः स्यात्, अतिप्रत्ययान्तत्वे तु तस्याऽतिप्रत्ययस्याद्र्धधातुकत्वाभ्युपगमेन शबभावान्नोक्तदोष इत्याशयेनाऽडतिप्रत्ययान्तत्वेन निपातनं स्वीकृतमिति । वृह वृद्धौ, मह पूजायाम्, गम्लृ गतौ । पृषन्तीति । बिन्दुवाची पृषच्छब्दो नपुंसकमिति ध्वननाय बहुवचनमुदाहृतम् ।पृषन्भृगे पुमान् बिन्दौ न द्वयोः पृषतोऽपि ना । अनयोश्च त्रिषु ओतबन्दुयुक्तेऽप्युभाविमौ॑ इति मेदिनी ।बृहती क्षुद्रवार्ताक्यां कण्टकार्यां च वाचि च । वारिधान्यां महत्यां च छन्दोवसनभेदयोः॑ इति विआः । शतृवदभ्वात्उगिदचाम् इति नुम् । बृहन्-विपुलः ।महती वल्लकीभेदे राज्ये तु स्यान्नपुंसकम् । तत्त्वभेदे पुमान् श्रेष्ठे वाच्यव॑दिति मेदिनी । महती — नारदवीणा ।विआआवसोस्तु बृहती तुम्बुरोस्तु कलावती । महती नारदस्य स्यात्सरस्वत्यास्तु कच्छपी॑ति वैजयन्ती ।अवेक्ष्यमाणं महतीं मुहुर्मुहुः॑ इति माघः ।जगत्स्याद्विष्टपे क्लीबं वायौ ना जङ्गमे त्रिषु । जगती भुवने क्ष्मायां छन्दोभेदे जनेऽपि चेटति मेदिनी । तत्र वायुवाचिनः पुंलिङ्गस्य शतृवद्भाबादुगित्त्वेन नुमिजगन् जगन्तौ जगन्त॑ इत्यादि भवति ।द्युतिगमिजुहोतीनां द्वे चे॑ति व्युत्पादितस्य तु नुमभावाज्जगत् जगतौ जगत इत्यादीति बोध्यम् । संश्चत्तृ चिञ् चयने, तृप प्रीणने, हन हिंसागत्योः । निपात्यन्त इति ।अतिप्रत्ययान्ता॑ इति शेषः । निवृत्त्यर्थमिति । एवं च संश्चदित्यत्रउगिदचा॑मिति नुमः । शङ्कैव नास्ति । वेहदित्यत्र तुउगितश्चे॑ति ङीब्नेति भावः । सञ्चिनोतेरिति । सुभूतिचन्द्रस्तु संपूर्वाच्छ्वयतेः संश्च दित्याहथ । तृपच्छत्रमिति । चन्द्रमा इत्यन्ये । विहन्ति गर्भमिति वेहत् । एतए चेति । विशब्दसम्बन्धिन इकारस्य एकार इत्यर्थः । गौरित्यनुवृत्तौवेहद्गर्भोपघातिनी॑ इत्यमरः । छन्दसि । शु गतौ, जृष् वयोहानौ । पन्था इति ।प्रथमन्मह॑ इत्यादिमन्त्रद्वये शवसानशब्दो गन्तृपरतया व्याख्यातः । ऋञ्जि । ऋजि भर्जने, वृधु वृद्धौ, मदि स्तुत्यादौ, षह मर्षणे एभ्यः असनाच् कित्स्यात् । ऋञ्जसानो मेघ इति । ऋजेरिदित्त्वान्नुम् । इदित्त्वादेव नलोपऽभावः । एवं चायं मनदिसही च त्रयोऽपि पूर्वसूत्र एव पठितुं शक्याः । कित्त्वं तु वृधुधातावेवोपयुज्यते । उत्तरसूत्रेऽपि गुणग्रहणं सुत्यजम्, अर्तेः सुट् च वृधेः भाष्ये तु यौगिकार्थ एव पुरस्कृतः । अर्तेः । ऋ गतौ धातोर्गुणः प्रत्ययस्य सुडागमः ।आसाविषदर्शसानाये॑ति मन्त्रस्य भाष्ये तु अर्शसानाय = शत्रूणां हिंसित्रे इति व्याख्यातम् । समि । ष्टुञ् स्तुतौ । अस्मात्सम्युपपदे आनच् । युधि । युध संप्रहारे । युधानो रिपुः । बुधिर्बोधने । बुधान आचार्यः । दृशिर्प्रेक्षणे । बाहुलकात् कृपेरप्यानच् । कृपाणः खङ्गः ।कृपाणेन कथङ्कारं कृपणः सह गण्यते । परेषां दानसमये यः स्वकोशं विमुञ्चति॑ । हुर्च्छेः । हुच्र्छा कौटिल्ये, अस्मात्सन्नन्तादानच्स्यात्सनो लुक् छलोपश्च ।युयोध्यस्मज्जुहुराणमेनः॑ इति मन्त्रे जुहुराणं = कौटिल्यकारि एनः = पापं युयोधि = पृथक् कुरु इति भाष्यम् । इआतेः । इआता वर्णे अस्मात्सन्नन्तादानच् ।सन्यङोः॑ इति द्वित्वम् । सनो लुक् । तकारस्य च दकारः । किदित्यनुवत्तेर्न गुणः । पुण्यकर्मेति ।शिइआदानोऽकृष्णकर्मे॑ति विशेष्यनिघ्ने अमरः । अकृष्णं = शुक्लं निष्पापत्वात् शुद्धं कर्म यस्येत्यर्थः । क्षीरस्वामिना तु प्कृतसूत्रं विस्मृत्य इआदि औत्ये अस्माल्लिटः कानजिति व्याख्यातं, तदसङ्गतं, कानचश्छान्दसत्वात् । इदित्त्वेन नलोपानुपपत्तेश्चेति दिक् । शंस्तेति । शंसु स्तुतावस्मात्तृन् ।अप्तृन् — ॑ इति सूत्रे नप्त्रादिग्रहणं नियमार्थमौणादिकतृजन्तानां चेदुपधादीर्घस्तर्हि नप्त्रादीनामेवेत्युक्तम् । तेनात्र दीर्घो नेत्युदाहरति — शंस्तरौ शस्तर इति । नित्त्वादाद्युदात्तः । तथा च मन्त्रःग्रावग्राभ उत शंस्ता सुविप्रः॑ । आदिशब्दाच्छासु अनुशिष्टौ । शास्ति विनयति सत्त्वात् शास्ता बुद्धः । शास्तरौ ।शास्तरः ।शास्ता समन्तभद्रे ना शासके पुनरन्यवत् इति । प्रपूर्वस्य तु नप्त्रादिषु पाठात्अप्तृन् इति दीर्घः । प्रशास्तारौ प्रशास्तारः ।क्षत्ता वैश्याजे प्रतीहारे च सारथौ । भुजिष्यातनयेऽपि स्यान्नियुक्तवेधसोःपुमान् इति मेदिनीकोशानुसारेणाह — वैश्यायामिति । अमरस्तुक्षत्रियायां च शूद्रजे॑ इत्याह । णीञ् प्रापणे उत्पर्वः । उन्नेता ऋत्विग्भेदः । बहुलमन्यत्रापि । अन्यत्रापि धातोर्बहुलं तृन्तृचौ भवतः । पूर्वसूत्रस्थादिशब्देनैव मन्ता हन्तेत्यादेः सिद्धत्वात्प्रपञ्चार्थमिदं सूत्रम् । नप्तृनेष्ट्ट । नप्त्रादयोदश तृन्तृजन्ता निपात्यन्ते । नप्तेति । नञः प्रकृतिभावः । पत्लृ गतावित्यस्याऽच्छब्दलोपः । णीञ् प्रापणे, त्विष दीप्तौ, हु दानादनयोः, पूञ् पवने, भ्राजृ दीप्तौ, मा माने, पा रक्षणे, दुह प्रपूरणे ।त्वष्टा पुमान् देवशिल्पितक्ष्णोरादित्यभिद्यपि॑ इति मेदिनी । जायां मातीत्यन्तरभावितण्यर्थः । सुञि उपपदे असु क्षेपणे इत्यस्मात् ऋन्, यणादेशः । स्वसा भगिनी । सावसेरिति तु क्वाचित्कः पाठः । यतेः । यती प्रयत्ने । नञि च । टुनदि समृद्धौ अस्मान्नञ्युपपदे ऋन् । न नन्दतीति । कृतायामपि सेवायां तुष्यतीत्यर्थः ।उषाप्यूषा ननान्दा च ननन्दा च प्रकीर्तिता॑ इति द्विरूपकोशः । दिवेः । दिवु क्रीडाविजिगीषादौ । देवेति । भ्रातर इत्यनुवृत्तौस्वामिनो देवृदेवरौ॑ इत्यमरः । [देवे धवे देवरि माधवे चे॑ति श्रीहर्षः । नयतेः । णीञ् प्रापणे । अस्माद् ऋप्रत्ययः स च डित् । डित्त्वाट्टिलोपः ।स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरः॑ इत्यमरः । सव्ये । ष्ठा गतिनिवृत्तौ अस्मात्सव्यशब्दे उपपदे ऋः स्यात्स च डित् ।तत्पुरुषे कृती॑ ति सप्तम्या अलुक् । * स्थास्थिन्स्थूणाममुपसङ्ख्यानम् । उपसंख्यानमिति ।षत्वस्ये॑ति शेषः । अर्ति । ऋ गतौ, सृ गतौ, धृञ् धारणे, धमिः सौत्रः, अम गतौ, अश बोजने, अव रक्षणादौ, तृ प्लवनतरणयोः ।अरणिर्हह्निमन्थे ना द्वयोर्निर्मत्यदारुणि॑ इति मेदिनी ।सरणिः श्रेणिवर्त्नोः॑ इति दन्त्यादौ रभसः ।सरणिः पङ्क्तौ मार्गे स्त्री॑ इति मेदिनी । शृ हिंसायां ततोऽतिप्रत्ययः । शरणिरित्येके ।शरणि पथि चाऽऽवलौ॑ इति तालव्यादावजयः ।इमामग्ने शरणि॑ मिति मन्त्रे शरणिं हिंसां व्रतलोपरूपां मीमृषः क्षमस्वेति वेदभाष्यम् । धरणिर्भूमिः ।धमनी तु शिराहट्टविलासिन्यां तु योषिति॑ इति मेदिनी । अमनिर्गतिः । अश्यते भुज्यते राज्यमिन्द्रेणानयेति अशनिर्वज्रम् ।अशनिः स्त्रीपुंसयोः स्याच्चञ्लायां रवावपी॑ति मेदिनी । अवनिः पृथिवी ।तरमद्र्युमणौ पुंसि कुमारीनौकयोः स्त्रिया॑मिति मेदिनी । कुमारी लताविशेषः ।तरणी रामतरणी कर्णिका चारुकेसरा । सहा कुमारी गन्धाढआ॑ इति धन्वन्तरिनिघण्टुः । रजनिरिति । रञ्ज रागे अस्मादप्यनिः । न लोपोऽपि बाहुलकात् ।कृदिकारा॑दिति ङीष् । रजनी ।रजनी नीलिनी रात्रिर्हरिद्राजतु कासु च॑ इति मेदिनी । आङि । शुष शोषणे अस्मात्सन्नन्तादाङि उपपदे अनिः स्यात् । कृषेरादेः । कृष विलोपखने॑ । चर्षणिर्जन । इति । वैदिकनिघण्टौ चर्षणिशब्दस्य मनुष्यनामसु पाठात्,ओमासस्चर्षणीधृतः॑ इत्यादिमन्त्रेषु वेदभाष्यकारैस्तथैव व्याख्यातत्वाच्च । उज्जवलदत्तेन तु आदेश्च ध इति पठित्वा धर्षणिर्बन्धकीति व्याख्यातम् । तदयुक्तम् । तथा सति धृषेरित्येव सूत्रयेत्, प्रगाल्भ्यरूपावयवार्थानुगमात् ।आदेश्च ध॑ इत्यंशस्य त्यागेन लाघवाच्च, तस्मादादेश्च चेति दशपादीवृत्तिपाठ एव युक्त इत्याहुः । अदेः । अद भक्षणे अस्मादनिस्तस्य मुडागमश्च । वृतेश्च । वृतु वर्तने अस्मादप्यनिः । वर्तनिरित ।॒कृदिकारा॑दिति ङीषि तु वर्तनी ।सरणीः पद्धतिः पद्या वर्तन्येकपदीति चे॑त्यमरः । क्षिपेः । क्षिप प्रेरणे । क्षिपणिरायुधमिति ।उतस्य वाजी क्षिपणिं तुरण्यती॑ ति मन्त्रस्य वेदभाष्ये तु क्षिपणिं = क्षेपणमनु, तुरण्यति = त्वरयति, गन्तुमिति व्याख्यातम् । अर्चि । अर्च पूजायाम्, शुच शोके, हु दानादनयोः॑ सृप्लृ गतौ,छद अपवारणे,ण्यन्तः । छर्द वमने, अर्चिरिति सान्तम् ।तमर्चिषा स्फूर्जयन् इति मन्त्रः ।नयनमिव सनिद्रं घूर्णते दैवमर्चिः॑ इति माघः । ज्वालाभासोर्नपुंस्यर्चिः॑ इति नानार्थे सान्तेष्वमरः । इदन्तोऽपीति । इदन्तोऽपीति । णिजन्तादर्चेरत इरिति भावः ।अर्चिर्हेतिः शिखारिउआया॑मित्यमरः ।रोचिः शोचिरुभे क्लीबे॑ इति च । स्पिर्घृतम् । छाद्यतेऽनया छदिः ।छदिः रिउआयामेवे॑ति लिङ्गानुशासनसूत्रम् । एवं चपटलं छदि॑ रित्यमरग्रन्थे पटलसाहचर्याच्छदिषः क्लीबतां वदन्त उपेक्ष्याः । छद्र्यतीति । छर्दिश्चातिसारश्च शूलञ्च तानि यस्य सन्तीति विग्रहः । बृंहेः । बृहि वृद्धौ अस्मादिसिः । कुशशुष्मणोरिति । शुष्मा नाम अग्निः । शुष्मा नाम अग्निः ।अग्निर्वैआआनरो वह्निः॑ इत्युक्रम्यबर्हिः शुष्मेत्यमरेणोक्तत्वात् । [॒ बर्हिः पुंसि हुताशने । स्त्री कुशे॑ इति मेदिनी] । द्युतेः । द्युत दीप्तौ ।ज्योतिरग्नौ दिवाकरे । पुमान्नपुंसकं दृष्टौ स्यान्नक्षत्रप्रकाशयोः॑ इति मेदिनी । वसौ । रुच दीप्तावस्माद्वसुशब्दे उपपद इसिन्तस्यात्संज्ञायाम् । बाहुलकात्केवलादपि ।रोचिः शोचिरुभे क्लीबे॑ इत्यमरः । भुवः । भवतेरिसिन् स्यात्स न कित् । सहो । षह मर्षणेषऽस्मादिसिन् धश्चान्तादेशः । पिबतेः । पा पाने अस्मादिसिन्धातोश्च थुगागमः । जेः । जनी प्रादर्भावे । मनेः । मनु अवबोधनेऽस्मादुसिः स्याच्छन्दसि धकारश्चान्तादेशः । मधु पवित्रद्रव्यम् । अर्तिपृ । ऋ गतौ, पृ पालनपूरणयोः , डुवप् बीजसन्ताने, यज देवपूजादौ, तनु विस्तारे, धन धान्ये, तप सन्तापे, एभ्य उसिर्नित्स्यात् । व्रणोऽस्त्रियामीर्ममरुः क्लीबे॑ इत्यमरः ।ग्रन्थिर्ना पर्वपरुषी॑ इति च ।वपुः क्लीबं तनौ शस्ताकृतावपि॑ इति मेदिनी । शस्ताकृतिः प्रशस्ताकृतिरित्यर्थ- । यजुरितियजुर्वेदः । तनुः शरीरम् ।तनुषे तनुषेऽनङ्ग॑मितति सुबन्धुः ।स्यात्तनुस्तनुषा सार्धं धनुषा च धनुं विदुः॑ र्धरे त्रिषु॑ इति सान्ते मेदिनी । एतेः । इण् गतावित्यस्मादुसिः । णित्त्वाद्वृद्धौ कृतायामायादेशः । चक्षेः । चक्षिङ् व्यक्तायां वाचि, अस्मादुसिः शिद्भवति । शित्त्वात्ख्याञादेशाऽबावः । चक्षते रूपमनुभवन्त्येनेनेति चक्षुः ।मुहेः । मुह वैचित्ये ।मुहुः पुनः पुनः शस्वदभीक्ष्णमसकृत्समाः॑ इत्यव्ययेष्वमरः । [अस्मात्परं बहुलमन्यत्रापि इति सूत्रं स्पष्टत्वात्] । कृ गृ ।कृ विक्षेपे,गृ निगरणे, शृ हिंसायाम्, वृञ् वरणे, चते याचने ।नैरृतः कर्वरः क्रव्यात्कर्बुरो यातुरक्षसोः॑इति शब्दार्णवः ।शर्वरी यामिनीस्त्रियोः॑ इति मेदिनी ।वर्वरः पामरेकेशविन्यासे नीवृदन्तरे । वर्वरः फञ्जिकायां तु वर्वरा शाकपुष्पयोः॑ इति विआः ।वर्वरः पामरेकेशवक्रले नीवृदन्तरे । फञ्जीकायां पुमान् शाकपुष्पभेदभिदोः स्त्रियाम् इति मेदिनी ।चत्वरं स्थण्डिले गणे॑ इति च । नौ सदेः । षद्लृ विशरणादौ । निपूर्वादस्मात्ष्वरच् स्यात् ।सदिरप्रतेः॑ इति षत्वम् ।निषद्वरः स्मरे पङ्के निशायां तु निषद्वरी॑ ति मेदिनी ।इत्युणादिषु द्वितीयः पादः ।छित्वर । अनयोरिति । छिदिर्द्वैधीरणे, छद अपवारणे,छित्वरशश्छेदने द्रव्ये धूर्ते वैरिणि च त्रिषु॑ इति मेदिनी । डुधाञ् धारणपोषणयोः, पा पाने, मा माने, एषां त्रयाणामीत्वमन्त्यस्य निपात्यत इत्येके । अन्ये तु पीव मीव तीव नीव स्थौल्ये । एभ्यः ष्वरचिलोपो व्योः॑ इति लोपमाहुः ।पीवरः कच्छपे स्थूले॑ इति मेदिनी । मीवर इति । हिंसक इत्यर्थानुगुण्येन मीञ् हिंसायामित्यस्मात्ष्वरजिति केचिदाहुः ।तीवरो नाऽम्बुधौ व्याधे॑ इति मेदिनी ।स्यान्नीवरो वाणिजके वास्तवेऽपि च दृश्यते॑ इति मेदिनी । उपह्वरो रथ इति केचित् ।तदु प्रयक्षतम्इति मन्त्रे तु उपह्वरे उपगन्तव्ये समीपदेशे] ।इण् । इण् गतौ,षिञ् बन्धने, जि जये, दीङ् क्षये, उष दाहे, अव रक्षणे ।इनः पत्यौ नृपाऽर्कयोः॑ इति मेदिनी ।जिनोऽर्हति च बुद्धे च पुंसि स्त्र्यात्रिषु जित्वरे॑ इति च ।दीना मूषिकयोषायां दुर्गते कातरेऽन्यवत् इति विआः ।उष्णो ग्रीष्मे पुमान् दक्षाऽशीतयोरन्यलिङ्गकः॑ इति मेदिनी ।ज्वरत्वरे॑ त्यूठ् । ऊनमसंपूर्णम् । फेन । स्फायी वृद्दौ,अस्य फे इत्यादेशःडिण्डीरोऽब्धिकफः फेनः॑ इत्यमरः । मीञ् हिंसायाम् ।मीनो राश्यन्तरे मत्स्ये॑ इति विआः । कृषेः । कृष विलेखने अस्माद्वर्णे वाच्ये नक् स्यात् ।कृष्णः सत्यवतीपुत्रे केशवे वायसेऽर्जुने । कृष्णा स्याद्द्रौपदीनीलीकणाद्राक्षासु योषिति । मेचके वाच्यलिङ्गः स्यात्क्लीबे मरिचलोहयोः॑ इति मेदिनी । बन्धेः । बन्ध बन्धने अस्मान्नक् ।भास्करोऽहस्करो ब्राध्नः प्रभाकरदिवारकरौ॑ इत्यमरः ।बुध्नो ना मूलरुद्रयोः॑ इति मेदिनी । धापृ । डुधाञ् धारणादौ, पृ पालनादौ, वस निवासे, अज गतौ, अत सातत्यगमन,एभ्यो नः स्यात् । नक्प्रत्यये सति तु वस्न इत्यत्र संप्रसारणं स्यात । वेन इत्यत्र तु गुणो न स्यादिति बावः ।धाना भृष्टयवे प्रोक्ता धान्याकेऽभिनवोद्भिदि॑ इति विआः ।पर्णं पत्रं किंशुके ना॑ इति मेदिनी ।वस्नस्त्ववक्रये पुंसि वेतने स्यान्नपुंसक॑मिति च । वेनः लुण्टाकः प्रजापतिश्च । लक्षेः । लक्ष दर्शनाङ्कनयोः । लक्षणमित्यादि । लक्षणलक्ष्मणशब्दौ द्वापवि नामचिह्नयोः क्लीबौ । रामभ्रातरि तु पुंलिङ्गौ । हंसयोषायां लक्षमा,सारसस्य योषायां तु लक्ष्मणेति व्यवस्थेत्यर्थः ।लक्षणं नाम्नि चिह्ने च सौमित्रिरपि लक्षणः । लक्ष्मणं नाम्नि चिह्ने च सारस्यां लक्षणा क्वचित् । लक्षणा त्वौषधीभेदे सारस्यामपि योषिति । रामभ्रातरि पुंसि स्यात्सश्रीके चाभिधेयव॑दिति मेदिनी । कोशे तुसारस्यामपि लक्षणा॑इति निर्मकारः पाठः स्वीकृतः । वनेः । वन संभक्तावस्मान्नः, उपधाया इत्वं च । वेन्नेति । लघूपधगुणः । सिवेः । षिवु तन्तुसन्ताने । बाहुलकादिति । एत्चछ्वोः शूड् इति सूत्रे वृत्तौयेन विधिः॑ इति सूत्रे कैयटग्रन्थे च स्पष्टम् । यणिति । लघूपधगुणे कृते त्वेकारस्याऽदेशे ऊठोऽपिसार्वधातुके॑ त्यादिना गुणे कृते सयोन इति स्यादिति भावः ।स्योनः किरणसूर्ययोः॑ इति मेदिनी । कृवृ कृ विक्षेपे,वृञ् वरणे, दीर्घपाठे तु वृ वरणे, जृष् वयोहानौ, दिवादिः । जृ इति क्र्यादौ चुरादौ च । षिञ् बन्धने, द्रु गतौ, पन स्तुतौ, अन प्रापणने, ञिष्वप् शये, एभ्यो नप्रत्ययो नित्स्यात् ।कर्णः पृथाज्येष्ठसुते सुवर्णालौ श्रुतावपि॑ इति विआमेदिन्यौ ।वर्णौ द्विजादिशुक्लादियशोगुणकथासु च । स्तुतौ ना न स्त्रियां भेदे रूपाक्षरविलेखने॑ इति मेदिनी । विआमेदिनीस्थमाह — जर्णश्चन्द्र इति ।जर्णो जीर्मद्रुमेन्दुषु॑ इति हेमचन्द्रः ।ध्वजिनी वाहिनी सेना॑ इत्यमरः ।॒द्रोणोऽस्त्रियामाढके स्यादाढकाचितुष्टये । पुमान्कृपीपतौ कृष्णकाकेऽस्त्री नीवृदन्तरे । स्त्रीयां काष्ठाम्बुवाहिन्यां गवादन्यमपीष्यते॑ ।अन्नं भक्ते च भुक्ते स्या॑दिति मेदिनी ।स्वप्नः स्वापे प्रसुप्तस्य विज्ञाने दर्शने पुमान् इति मेदिनी । धेटः । धेट् पाने अस्मान्नः स्यादिच्चान्तादेशः ।देना नद्यां नदे पुमा॑निति मेदिनी ।धेनः समुद्रे नद्यां च धेना॑ इति विआ । श्लोको धारा इत्यादिषु वाङ्नामसु देनेति वैदिकनिघण्टौ पठितम् । अत एवधेना जिगाति दाशुषे॑इन्द्र धेनाभिरिह मादयस्व॑ इत्यादिमन्त्रेषु धेना वागिति व्याख्यातं भाष्ये । तृषि । ञितृषा पिपासायाम्, शुष शोषणे, रस शब्दे ।तृष्णा लिप्सापिपासयोः॑ इति विआः । सुञः । षुञ् अभिषवे अस्मान्नः स्याद्धातोर्दीर्घश्च ।सूनाऽधोजिह्विकापि चे॑ति नान्तेऽमरः ।सूनं प्रसवपुष्पयोः । सूना पुत्र्यां वधस्थानगलकण्ठिकयोः स्त्रियाटमिति मेदिनी । रमेः । रमेण्र्यन्तान्नः स्यात्तकारश्चाऽन्तादेशः ।रत्नं स्वजातिश्रेष्ठेऽपि मणावपि नपुंसक॑मिति मेदिनी ।रास्ना । रस आस्वादने उपधीदीर्घः ।रास्ना तु स्याद्भुजङ्गाक्ष्यामेलापण्र्यामपि स्त्रिया॑मिति मेदिनी । षस स्वप्ने उपधादीर्घः ।सास्ना तु गलकम्बलः॑ इत्यमरः ।सास्नः गोगलकम्बलः॑ इति पाठान्तरम् । ष्ठा गतिनिवृत्तागत्यादिषु । गुणाऽभाव णत्वं च ।वीणा विद्युति वल्लक्या॑मिति मेदिनी । गादाभ्याम् ।गै शब्दे, डुदाञ् कुक्षिषु॑ इति मेदिनी । कृत्यशू ।कृती वेष्टने, अशू व्याप्तौ ।कृत्स्नं सर्वाम्बुकुक्षिषु॑इति मेदिनी । तिजेः । तिज निशाने अस्मात्कस्नः, धातोर्दीर्घश्च ।॒तीक्ष्णं सामुद्रलवणेविषलोहाऽऽजिमुष्कके । क्लीबं यवाग्रके तिग्मात्मत्यागिनोस्त्रिषु॑ इति मेदिनी । यजि । यज देवपूजादौ,मन ज्ञाने, शुन्ध ज्ञाने,शुन्ध शुद्धौ,दसु उपक्षय, जनी प्रादुर्भावे ।दस्युश्चौरे रिपौ पुंसि॑ इति मेदिनी ।अथ जन्युः स्यात्पुंसि प्राण्याग्निधातृषु॑ इति च । भुजि । भुज पालनादौ, मृङ् प्राणत्यागे, आभ्यां यथासंख्यं युक्त्युकौ स्तः ।मृत्युर्ना करणे यमे॑ इति मेदिनी ।सृ गतौ । पा रक्षणे, णीञ् प्रापणे, विष्लृ व्याप्मतौ ।नीपः कदम्बबन्धूकनीलाऽशोकद्रुमेऽपि च॑ इति मेदिनी । च्युवः । च्युङ् गतौ । धातूनामनेकार्थत्वादिह भाषणे । च्यवन्ते भाषन्तेऽनेनेति विग्रहः । दशपाद्यः तुचुपः किच्चे॑ति पठते । चुप मन्दायां गतौ । चोपतीति च्युपः मन्दगमनकर्ता । स्तुवः । ष्टुञ् स्तुतौ । अस्मात्पः स्याद्धातोर्दीर्घश्च । सुशृ । षुञ् अभिषवे, शृ हिंसायाम् । आभ्यां पः स्यात्स च निद्भवति । नित्त्वं तु स्वरार्थम् ।सूपो व्यञ्जनसूदयोः॑ इति मेदिनी । शूर्पमिति । बाहुलकादुत्वं रपरत्वंहलि च॑ इति दीर्घः ।प्रस्फोटनं शूर्पमरुआई॑ इत्यमरः ।कुयु । कु शब्दे, यु मिश्रणे । आभ्यां पः, सच निद्धातोर्दीर्घत्वं च । खष्पशिल्प । खनु अवदारणे, शील समाधौ, बाधृ लोडने, रु शब्दे, पृ पालनादौ ।खष्पः क्रोधे बलात्कृतौ॑इति विआः ।शष्पं बालतृणेऽपि च । पुंसि स्यात्प्रतिभाहानौ॑ इति मेदिनी । विआओक्तिमाह — बाष्प इति ।बाष्पमूष्मणि चाश्रुणि॑ इति कोशान्तरमभिप्रेत्याह — बाष्पं चेति ।रूपं स्वभावे सौन्दर्ये नाणके पशुशब्दयोः । ग्रन्थवृत्तौ नाटकादावाकारश्लोकयोरपि॑ इति विआमेदिनौ ।तल्पमट्टे कलत्रे चशयनीये चन द्वयोः॑ इति मेदिनी । अमरोक्तिमाह — तल्पं शय्येति । स्तनिह्मषि । स्तनदी देवशब्दे चचुरादिण्यन्तौ,ह्मष तुष्टौ,पुष पुष्टौ, मदी रर्षग्लेनयोः, घटादिः, एभ्यो ण्यन्तोब्यो इत्नुच् स्यात् ।स्तयित्नुः पुमान्वारिधरेऽपि स्तनितेऽपि चे॑ति मेदिनी ।स्तनयित्नुः पयोवाहे तद्ध्वनौमृगरोगयोः॑ इति विआः ।हर्षयित्नुः सुते हेम्नि पोषयित्नुः पिके द्विजे॑ इति च ।गदयित्नुः पुमान्कामे जल्पाके कार्मुकेऽपि च॑इति विआमेदिन्यौ ।मदयित्नुः कामदेवे पुमान्मद्ये नपुंसक॑मिति मेदिनी । कृहनि । डुकृञ करणे, हन हिंसागत्योः । हत्नुरिति ।अनुदात्तोपदेशे॑त्यादिनाऽनुसनासिकलोपः । एवमुत्तरत्र गमेः क्नुप्रत्यये जिगत्नुरित्यत्रापि बोध्यः । शस्त्रं चेति । चाद्धन्ता । दशपादीवृत्तौ तु क्नुरिति तकाररहितं पठित्वा कृणुः कर्ता । हनुर्वक्रैकदेशः । बाहुलकान्नलोपः । गमेसतुजिगत्नुरित्युदाहृतं तत्सर्वं प्रामादिकम् । लक्ष्यविसंवादात् । तथा च श्रूयते — ॒सुरूपकृत्सुमूतये॒॑ज्येष्ठराजं भरे कृत्नु॑अयं कृत्नुरगृभीतः॑मा नो वधाय हत्नवे॑मृगं न भीममुपहत्नुमुप्रम्योनः सनुत्य उतवा जिगत्नु॑रित्यादि । अतएव हन्तिधातुं विवृण्वता माधवेन उपहत्नुरित्युदाहृत्य क्त्नोः कित्त्वादनुनासिकलोप इत्युक्तम् । [यत्तु तेनैवसुरूपकृत्नु॑मिति मन्त्रं विवृण्वता तकारोपजनश्छान्दस इत्युक्तं, तद्दशपादीवृत्तिमनुसृत्य, नतु वस्तुस्थितिमनुरुध्येति सह्मदयैराकलनीयमित्याहुः] । दाभाभ्याम् । डुदाञ्, दाने,भा दीप्तौ ।दानुर्दातरि विक्रान्ते॑इति मेदिनी ।भानू रश्मिदिवाकरौ॑ इत्यमरः । वचेः । वच परिभाषणे । वग्नुर्वाचालः । धेटः । धेट् पानेअस्मान्नुः स्यादिकारश्चान्तादेशः ।धेनुः स्यान्नवसूतिका॑ ओहाक् त्यागे ।जह्नुः स्यात्पुंसि राजषिभेदे च मधुसूदने॑इति मेदिनी । सुवः षूङ् प्राणिप्रसवे । अस्मान्नुः स्यात्स च कित् । विआओक्तिमाह — सू नुः पुत्रे इति । जहातेः । ओहाक् त्यागे ।जह्नुः स्यात्पुंसि राजषिभेदे च मधुसूदने ॑ इति मेदिनी । स्थो णुः । ष्ठा गतिनिवृत्तौ । अस्माण्णुः स्यात् । विआओक्तिमाह — स्थाणुरिति ।स्थाणुः कीले हरे पुमान् । अस्त्री ध्रुवे॑ इति मेदिनी । अजिवृ । अज गतौ, वृङ् संभक्तौ, री गतिरेषणयोः, एभ्यो णुर्नित्स्यात् ।वेणुर्नृपान्तरे वंशे॑ इति विआः ।रेणुः स्त्रीपुंसयोर्धूलौ पुंलिङ्गः पर्पटे पुनः॑ इति मेदिनी । विषेः । विष्लृ व्याप्तौ । अस्माण्णुः स्यात्स च कित् । चान्नित् । नित्त्वादाद्युदात्तत्वम् । विष्णुरिच्छा.॒विष्णुर्नारायणः कृष्णः॑ इत्यमरः । कृदा । डुकृञ् करणे, डुधाञ् धारणपोषणयोः,रा दाने, अर्च पूजायाम्,कल गतौ ।कर्कः कर्केतने वह्नौशुक्लाओ दर्पणे घटे॑ इति विआमेदिन्यौ ।राका नद्यन्तरे कच्छ्वां नवजातरजः स्त्रियाम् । संपूर्णेन्दुतिथौ॑ इति मेदिनी ।राका तु सरिदन्तरे । राका नवरजः कन्या पूर्णेन्दुः पूर्णिमापिच॑ इति विआः । इह दा धा रा एषांकेणः॑ इति ह्रस्वोऽपि बाहुलकात्संज्ञापूर्वकविदेरनित्यत्वाद्वा नेति बोध्यम् ।अर्कोऽर्कपर्णे स्फटिके रवौ ताम्ने दिवस्पतौ॑ इति विआमेदिन्यौ ।कल्कोऽस्त्री घृततैलादिशेषे दम्भे विभीतके । विट्किट्टयोश्च पापे च त्रिषु पापशये पुनः॑ इति मेदिनी । बाहुलकाद्रमेरपि कः ।रङ्गः कृपणमन्दयोः॑ इति मेदिनी । कपिलकादित्वाल्लत्वं । टाप् ।लङ्का रक्षः पुरीशाखाशाकिनीकुलटासु च॑ इतीति विआमेदिन्यौ । सुवृ । सृ गतौ, वृञ् वरणे, भू सत्तायाम्, शुष शोषणे, मुष स्तेये । सृक इति । सृक इति ।सृकं संशाय पविमिन्द्र तिग्म॑मिति मन्त्रस्य वेदभाष्ये तु सृकं = सरणशीलं पविं = वज्रं संशाय सम्यक् तीक्ष्णीकृत्येति व्याख्यातम् ।भूकं छिद्रे च काले चे॑ति मेदिनी ।मुष्को मोक्षकवृक्षे स्यात्संघाते वृषणेऽपि च॑ इति स एव ।शुको व्याससुते कीरे रावणस्य च मन्त्रिणि । शिरीषपादपे पुंसि ग्रन्थिपर्णे नपुसंकम् ।वल्कं वल्कलशल्कयोः॑ इति च ।उल्का ज्वालाविभावसोःर॑ इति शुभूतिचन्द्रः ।इण्भी ।इण् गतौ, ञिभी भये,कै शब्दे, पा पाने,शल गतौ, अत सातत्यगमने ।एखं संख्यान्तरे श्रेष्ठे केवलेतरयोस्त्रिषु॑ इति मेदिनी ।कारः स्याद्वायसे वृक्षप्रभेदे पीठसर्पिणि । शिरोऽवक्षालने मानप्रभेदद्वीपभेदयोः । काका स्यात्काकनासायां काकोलीकाकरजङ्घयोः । रक्तिकायां मलय्वां च काकमाच्यां च योषिति । काकं सुरतबन्धे स्यात्काकानामपि संहतौ इति मेदिनीविआप्रकाशौ ।पाकः परिणतौ शिशौ । केशस्य जरसा शोक्ल्ये स्थाल्यादौ पचनेऽपि च ॑इति मेदिनी ।शल्कं तु शकलेवल्के इति च । मर्चेति सौत्रो धातुरिति बहव- । मर्च शब्दे चौरादिक इतिमिदचोऽन्त्यापरः॑इति सूत्रे कैयटः ।मर्तो मर्तं मर्चयति द्वयेन॑ इति मन्त्रे मर्चयति विधेयीकरोति भत्र्सयति वेति वेदभाष्यम् । न चैवं णिलोपस्य स्थानिवद्भावेन कुत्वाऽभावान्मर्क इति न सिध्येदिति वाच्यम्, पूर्वत्रासिद्धे तदभावात् । शो तनूकरणे अस्मादपि बाहुलकात्कन् ।शाको द्वीपान्तरेऽपि च ।शक्तौ द्रुमविशेषे च पुमान् हरितके स्त्रियाम् इति मेदिनी । नौ सदेः । षद्लृ विशरणे अस्मान्निशब्दे उपपदे कन् स्यात्स च डित् । डित्त्वाट्टिलोपः ।सदिरप्रतेःर॑ इति षत्वम् ।निष्क्रमस्त्री साऽष्टहेमशते दीनारकर्षयोः । वक्षोऽलङ्करणे हेममात्रे हेमपलेऽपि च॑ इति मेदिनी । स्यमेः । स्यमु शब्दे अस्मात्कनत्स्यात्तस्य च ईडागमः ।स्यमीका नीलिकायां स्त्री स्यमीको नाकवृक्षयोः॑ इति मेदिनी । अजि । अज गतिक्षेपणयोः, यु मिश्रणे, धूञ् कम्पने, णीञ् प्रापणे, एभ्यः कन् स्यादेषां दीर्घश्च । तत्सामर्थ्याद्गुणाऽबाव- । अजेर्वीभावः । ह्यियः । हृी लज्जायामस्मात्कन्धातोर्दीर्घत्वं च । तत्सामर्थ्याद्गुणाऽभावः । शकेः । शक्लृ शक्तौ ।शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः॑ इत्यमरः ।शकुनस्तु पुमान्पक्षिमात्रपक्षिविशेषयोः । शुभाशंसिनिमित्ते च शकुनं स्यान्नपुंसकम् इति मेदिनी ।शकुन्तः कीटभेदे स्याद्भासपक्षिविहङ्गयोः॑ इति ।शकुनिः पुंसि विहगे सौबले करणान्तरे॑ इति च । भुवः । भू सत्तायाम् । अस्मात् झिच् स्यात् ।झोऽन्तः॑कृदिकारात् — ॑ इति ङीष् । भवन्ती लटः संज्ञा । [भवन्तीति स्पष्टार्थः] । तथा चअस्तिर्भवन्तीपरः प्रयोक्तव्यः॑ इति भाष्यम् । बाहुलकात्कमेरपि प्रत्ययादिपलोपे धातोः कुशब्दादेश । कुन्तिः ।इतो मनुष्यजातेः॑इति ङीष् ।कुन्ती पाण्डुप्रियायं च शल्कक्यां गुग्गुलद्रुमे॑ इति मेदिनी । अवन्तिरित्यादि । अव रक्षणे, वद वक्तायां वाचि, आभ्यामपि झिच् । वदन्तिरिति ।कृदिकारा॑दिति वा ङीष् । कन्युच् । क्षिप प्रेरणे, भू सत्तायाम् ।क्षिपण्युस्तु पुमान् देहे सुरभौ वाच्यलिङ्गकः॑ इति मेदिनी ।भुवन्युः स्यात्पुमान्भानौ ज्वलने शशलाञ्छने॑ इति विआमेदिन्यौ । अनुङ् । णद अव्यक्ते शब्दे । अस्मादनुङ्प्रत्ययः स्यात् । क्षिपणुरिति । ङित्त्वाद्गुणाऽभावः । कृवृ । कृ विक्षेपे, वृञ् वरणे,दृ विदारणे, ण्यन्तः ।करुणस्तु रसे वृक्षे कृपायां करुणा मता॑ इति विआमेदिन्यौ ।वरुणस्तरुभेदेऽप्सु प्रतीचीपतिसूर्ययोः॑ इति विआः ।दारुणं भीषणं भीष्मम् इत्यमरः ।दारुणो रसभेदे ना त्रिषुतु स्याद्भयावहे॑ इति मेदिनी । त्रो रश्च । तृ प्लवनतरणयोरस्मादुनन्स्यात् ।तरुणं कुब्जपुष्पे ना रुचके यूनि तु त्रिषु॑ इति मेदिनी । गौरादित्वान् ङीष् ।तरुणी तलुनीति च॑ इति द्विरुपेषु विआः । क्षुधि । क्षुध बुभुक्षायाम्, पिश अवयवे, अयं दीपनायामपि । मिथिः सौत्रो धातुः ।पिशुनो दुर्जनः खलः॑ इत्यमरः ।पिशुनं कुङ्कुमे स्मृतम् । कपिवक्रे च काके ना सूचकक्रूरयोस्त्रिषु । पृक्कायां पिशुना स्त्री स्यात् इति मेदिनी ।मिथुनं न द्वयो राशिभेदेस्त्रीपुंसयुग्मके॑ इति च । फलेः । फल निष्पत्तौ, अस्मादुनन्, गुगागमश्च धातोः ।फल्गुनस्तु फाल्गुणोऽर्जुने॑ इति द्विरुपकोशः । अशेः । अश भोजने अस्मादुनन्,धातोर्लशादेशश्च । लशुनं महाकन्दः ।लशुना लशुनं वेश्म कश्मलं विस्वमआवत्ट इति मध्यतालव्येषु विआः । लस चेति दन्त्यमध्यपाठस्तु प्रामादिकः । अर्जेः । ऋझ गतिस्थानार्जनोपार्जनेषु, अस्माण्ण्यन्तादुनन् स्यात् णेश्च लुक् । इहणेरनिटि॑इति णिलोपेनैव सिद्धे णिलुक् चेत्युक्तेः फलं चिन्त्यम् ।अर्जुनः ककुभे पार्थे कार्तवीर्यमयूरयोः । मातुरेकसुतेऽपि स्याद्धवले पुनरन्यवत् । नपुंसकं तृणे नेत्ररोगे वाप्यर्जुनी गवि । उषायां बाहुदानद्यां कुट्टन्यामपि च क्वचित् इति विआमेदिन्यौ । अर्तेश्च । ऋ गतावस्मादुनन्स्यात्स च चित् ।अरुणोऽवन्यक्तरागेऽर्के सन्ध्यारागेऽर्कसारथौ । निःशब्दे कपिले कुष्ठभेदे ना गुणिनि त्रिषु । अरुणाऽतिविषाश्यामामञ्जिष्ठात्रिवृतासु च॑ इति मेदिनी । अजि । अज गतिक्षेपणयोः, यम उपरमे, शीङ् स्वप्ने, एभ्य उनन् स्यात्स च चित् । अजेर्वीभावः । वीयते गम्यतेऽत्रेति वयुन् ।विआआनि देव वायुनानि विद्वान्इति मन्त्रे वयुनानि प्रज्ञानानीति वेदभाष्यम् । वैदिकनिघण्टौ प्रज्ञापर्याये प्रशस्यपर्याये च वयुनशब्दः पठितः ।यमुना शमनस्वसा॑ इत्यमरः । वृ तृ । वृ वरणे, तृ प्लवनतरणयोः, वद व्यक्तायां वाचि, हन हिंसागत्योः, कमु कान्तौ, कष हिंसायाम् । वर्सः तर्स इति ।तितुत्रे॑ति नेट् । षत्वं तु न भवति, बाहुलकेन षत्वे कर्तव्ये प्रत्ययसंज्ञाया अप्रवृत्तेः । कक्षशब्दे तु षत्वं भवत्येव । एतच्च भाष्यकैयटादिपर्यालोचनयोक्तम् । कथं तर्हि सर्वैरप्युणादिवृत्तिकारैरिह षत्वमुदाहृतमिति चेत् । अत्राहुः — अस्तु भाष्यप्रामाण्यात् वर्सं तर्समिति दन्त्यपाटोऽपि साधुः । पक्षे तु षत्वमस्तु । बाहुलकलभ्यषत्वाऽभावस्य पाक्षिकत्वेऽपि बाधकाऽभावात्, वृषितृषिभ्यां घञि कृते ण्यन्तादेरचिघञर्थे कविधान॑मिति ण्यन्तात्कप्रत्यये वा कृते वर्षतर्षशब्दयोर्दुर्वारत्वात्, अज्विधौ भयादीनमुपसङ्ख्यागनं नपुंसके क्तादिनिवृत्त्यर्थमित्यत्र वर्षमित्याकरे उदाहृतत्वाच्च । तस्मादिह द्विरूपता फलितेति । वर्षोषऽस्त्री भारतादौ स्याज्जम्बूद्वीपाऽब्दबृष्टिषु । प्रावृट्काले स्त्रियां भूम्नी॑ति मेदिनी ।तर्षो लिप्सोदन्ययोः॑ इति च ।पुत्रादौ तर्णके वर्षे वत्सः क्लीबं तु वक्षसी॑ति त्रिकाण्डशेषः । सद्योजातस्तु तर्णकः॑ ।हंसः स्यान्मानसौकसि । निर्लोभनृपविष्ण्वर्कपरमात्मसु मत्सरे । योगभेदे मन्त्रभेदे शारीरमरुदन्तरे ।तुरङ्गमप्रभेदे चे ॑ ति मेदिनी ।कंसोऽस्त्री तैजसद्रव्ये कांस्ये मानेऽसुरे तुना॑इति च ।कंसो दैत्यान्तरे स्मृतः । कांस्ये च कांस्यपात्रे च मानभेदे च कीर्तितः॑ इति विआः ।कक्षः स्यादनतरीयस्य पश्चादञ्चलपल्लवे । स्पर्धायां ना तु दोर्मूले कच्छवीरुत्तृणेषु चे॑ति मेदिनी । प्लुषेः । प्लुष दाहे, अस्मात्सः स्यादुपधाया अकारश्च ।प्लक्षो जटी गर्दभाण्जद्वीपभित्कुञ्जराशने॑ इति मेदिनी ।प्लक्षो द्वीपविशेषे स्यात्पर्कटीगर्दभाण्डयोः । पिप्पले द्वारपार्ो च गृहस्य परकीर्तितः॑ इति विआः । मनेः । मन ज्ञाने ।मांसं स्मादामिषे क्लीबं कक्कोलीजटयोः स्त्रिया॑मिति मेदिनी । अशेः । अशू व्याप्तौ, अस्माद्देवने वाच्ये सः स्यात् ।व्रश्चभ्रस्जे॑त्यादिना षत्वादिकार्यम् ।अथाऽक्षमिन्द्रिये । ना द्यूताङ्गे कर्षे चक्रे व्यवहारे कलिद्रुमे॑इत्यमरः ।अक्षो ज्ञानात्मशकटव्यवहारेषु पाशके । रुद्राक्षेन्द्राऽक्षयोः सर्पे बिभीतकरावपि । चक्रे कर्षे पुमान् क्लीबं तुत्थसौवर्चलेन्द्रिये॑ इति मेदिनी । स्नुव्रश्चि । स्नु प्ररुआवणे, ओव्रश्चू छेदने, कृती छेदने, ऋषी गतौ, एभ्य सः कित्स्यात् । स्नुषा पुत्रवधूः । वृक्षः इति । सस्य कित्त्वात्ग्रहिज्या॑ इति संप्रसारणम् ।ऋक्षः पर्वतभेदे स्याद्भल्लूके शोणके पुमान् । कृतवेधेऽप्यन्यलिङ्गं नक्षत्रे पुंनपुंसक॑मिति मेदिनी । ऋषेर्जातौ ।पूर्वसूत्रेणैव सिद्धे ऋषेर्जातावेवेति नियमार्थं सूत्रम् । तेनाऽन्येभ्यस्त्रिभ्यः केवलयौगिकत्वेऽपि सप्रत्ययो भवति ।उन्दिगुधि । उन्दी क्लेदने, गुध रोषे,कुष निष्कर्षे, एभ्यः सः कित्स्यात् ।अनिदिता॑मिति नलोपः ।उत्सः प्ररुआवणं वारी॑त्यमरः ।गुत्सः स्यात्स्तबके स्तम्बे हारभिद्ग्रन्थिपर्णयोः॑ इति मेदिनी । गुच्छश्च ।गुत्सो गुच्छो गुलुञ्छव॑दिति द्विरूपकोशात् ।सयाद्गुच्छः स्तबके स्तम्बे हारभेदकलापयोः॑ इति चवर्गद्वितीयान्ते मेदिनीकोशाच्च । गृधि । गृधु अभिकाङ्क्षायाम्, पम व्यवहारे स्तुतौ च । ननु गृधेश्चर्त्वेन गृत्स इति सिद्धे दकारविधानं व्यर्थमिति चेत् । मैवम् । चर्त्वस्याऽसिद्धत्वेनएकाचो बश॑ इति भष्भावप्रसङ्गात् । न चैवमपि प्रक्रियालाघवाय तकार एव विधीयतामिति शङ्क्यं ,चयो द्वितीयाः॑ इति पक्षे तकारस्य थकारापत्तेः । पक्षो मासाऽर्धके पार्ो ग्रहे साध्यविरोधयोः । केशादेः परतोवृन्दे बले सखिसहाययोः । चुल्लीरन्ध्रे पतत्रे च राजकुञ्जरपार्ायोः॑ इति हेमचन्द्रः ।असेः सरन् इत्युज्जवलदत्तादिपाठस्तु प्रामादिकः, नित्स्वरापत्तेः । इष्यते तु प्रत्ययस्वरेणाऽक्षरशब्दस्य मध्योदात्तत्वम् ।ऋचो अक्षरे परमे व्योमन् इत्यादिऋङ् मन्त्रेषु ,त्रीणि च शतानि षष्ठिश्चाक्षराणी॑ति यजुषी च तथैव पाठात् । अत एवाऽश्नोतेर्वा सरोऽक्षरमिति द्वितीयाह्निकान्ते भाष्यकृतोक्तम् । वसेश्च । वस निवासे, अस्मादपि सरः स्यात् ।सः स्याद्र्धदातुके॑ इति तत्त्वम् ।सपूर्वादिति । पाठान्तरम् । तच्च लक्ष्यविरोधादुपेक्ष्यम् । कृधू । डुकृञ् करणे, धूञ् कम्पने, मदी हर्षे, एभ्यः सरः कत्स्यात् ।कृसरः स्या॑दित्यादि हारावलीस्थम् ।धूसरी किन्नरीभेदे ना खरे त्रिषु पाण्डुरे॑ इति मेदिनी । मत्सरा मक्षिकायां स्यान्मात्सर्यक्रोधयोः पुमान् । असह्रपरसंपत्तौ कृपणे चाभिधेयव॑दिति च ।मत्सरोऽन्यशुभद्वेषे तद्वत्कृपणयोस्त्रिषु॑ इत्यमरः ।अथ मत्सरः ।असह्रपरसंपत्तौ मात्सर्ये कृपणे क्रुधी॑ति विआः । वेदे तु मदी हर्षे इति योगार्थं पुरस्कृत्य प्रयुज्यते — हन्दुमिन्द्राय मत्सरम् ।तं सिन्धवो मत्सरमिन्द्रियाणमि॑त्यादि । मत्सरं हर्षहेतुमिति तद्भाष्यम् ।पतेः । पत्लृ गतावस्मात्सरः स्याद्रेफस्य लश्च । तन्यृषि । तनु विस्तारे, ऋषी गतौ । अमरोक्तिमाह — तसर इति । कित्त्वात्अनुदात्तोपदेशे॑त्यादिनाऽनुनासिकलोपः । ऋक्ष ऋत्विगिति ।ऋक्षरं वारिधारायामृक्षरस्त्वृत्विजि स्मृतः॑ इति मेदिनी ।अनृक्षरा ऋजवः सन्तु पन्थाःर॑ इति मन्त्रस्य वेदभाष्ये तु ऋक्षरः कण्टक इति व्याख्यातम् । पीयुक्वणिभ्याम् । अण रण इति दण्डके क्वणिः पठते स च शब्दार्थकः । आभ्यां कालन् स्याद्यथाक्रमं ह्रस्वः,संप्रसारणं च ।राजादनः प्रियालः स्या॑दित्यमरः ।प्रियालः स्यात्पियादलव॑दिति द्विरूपकोशः । बाहुलकारद्भञ्जेरपि कालन् । कित्त्वान्नलोपः ।न्यङ्क्वादित्वात्कुत्वम् ।भगालं नरमस्तकम् । मत्वर्थे इनिः ।चण्डिकातो बगाली च लेलिहानो वृषध्वज॑ इत राजशेखरः ।कठिकुषि । कठ कृच्छ्रजीवने, कुष निष्कर्षे ।कुषाकुः कपिवह्न्यर्के ना परोत्तापिनि त्रिषु॑ इति मेदिनी । उज्ज्व्लदत्तस्तुकटिकषिभ्या॑मिति पठित्वा कषशिषेति दण्डकदातुमुपन्यस्य कषाकुरित्युदाजहार, तत्कोशविरुद्धम् । मेदिनीकोशे ह्रुपकारप्रक्रमे पाठात् । सर्तेः । सृ गतावस्मात्काकुः स्याद्धातोर्दुगागमश्च ।सृदानुर्नाऽनिले चक्रे ज्वलने प्रतिसूर्यके॑ इति मेदिनी । वृतेः । वूतु वर्तने ।॒वार्ताकुः प्रियवार्ताकी वृन्ताकोऽपि च दृश्यते॑ इति द्विरूपे विआः ।वार्ताको हिङ्गुली सिंही भाण्टाकी दुष्प्रधर्षणी॑त्यमरः ।वार्ताकं पित्तलं किंचिदङ्गारपरिपाचित॑मिति वैद्यशास्त्रम् । पर्देः । पर्द कुत्सिते शब्दे । अस्मात्काकुः स्यात्स च नित् । धातोः रेफस्य संप्रसारणमकारलोपश्च । विआकोशस्थमाह — पृदाकुरिति ।पृदाकुर्वृश्चिके व्याघ्रे सर्पचित्रकयोः पुमा॑निति मेदिनी । सृयु ।सृ गतौ, यु मिश्रणे,वच परिभाषणे ।सरण्युस्तु पुमान् वारिवाहे स्यान्मातरिआनी॑निति मेदिनी ।सरण्युरस्य सूनुरआः॑ इति मन्त्रस्य भाष्ये सरण्युः शीघ्रगामीति व्याख्यातम् ।यवागूरुष्णिकाश्राणा विलेपी तरलाच सा॑इत्यमरः ।वचक्नुस्तु पुमान् विप्रे वावदूकेऽभिधेयव॑दिति मेदिनी । आनकः । शीङ् स्वप्ने, ञिभी भये । विभेत्यस्मादिति भयानको भयङ्करः ।॒भयानकः स्मृतो रसे राहौ भयङ्करे॑इति मेदिनी । आणको । लूञ् छेदने, धूञ् कम्पने, शिघि आघ्राणे, डुधाञ् धारणषोषणयोः । हारावलीस्थमाह — शिङ्घाणमिति ।शिङ्घाणं काचपात्रे स्याल्लोहनासिकयोर्मले॑इति विआः ।शिङ्घाणः फेनडिण्डीरो नक्ररेतश्च पिच्छिलः॑ इति विक्रमादित्यकोशः । उल्मुक । एते निपात्यन्ते । निपातनप्रकारमेवाह — उष दाहे इत्यादि । हारावलीस्थमाह — उल्मुकमिति.॒दर्विः कम्बिः खजाका च॑ इत्यमरः ।ह्यियः । हृी लज्जायामस्मात्कुक्प्रत्ययः स्यात् । ककारो गुणनिषेधार्थः । हसि । हसे हसने, मृङ् प्राणत्यागे,गृ निगरणे, इण् गतौ, वा गतिगन्धनयोः, अम गत्यादिषु,दमु उपशमे, लूञ् छेदने, पूञ् पवने, धुर्वी हिंसायाम् ।हस्तः करे करिकरे सप्रकोष्टकरेऽपिच । ऋक्षे केशात्पपरो व्राते॑ इति मेदिनी । अत्रायमर्थः — केशावाचकात्परो यो हस्तशब्दः ससमूहवाची । तथा च केशहस्तशब्दः केशसमूहशब्दपर्याय इति । मर्तो भूलोकस्तत्र भवो मत्र्यः । दिगादेराकृतिगणत्वाद्यत् ।गर्तस्त्रिगर्तभेदे स्यादवटे च कुकुन्दरे॑ इति मेदिनी ।एतः कर्बुर आगते । अन्तः स्वरूपे नाशे ना न स्त्री शेषेऽन्तिके त्रिषु॑ इति च ।दन्तोऽद्रिकटके कुञ्जे दशने चौषधौ स्त्रियाम् इति च मेदिनी । लोतमश्रुणि चोरिते॑ इति विआः ।क्तक्तवतू निष्ठा॑इतिसूत्रेलोतो मेष॑इति कैयटः ।पोतः शिशौ वहित्रे च॑ इति विआमेदिन्यौ । धूर्त इति । धूर्त इति ।लोपा व्योर्वली॑ति वलोपः,राल्लोपः॑ इत्यनेन लोपस्तु क्ङितीत्यननुवृत्तिपक्षे बोध्यः ।हलि चे॑ति दीर्घः ।धूर्ते तु खण्डलवणे धत्तूरे ना शठे त्रिषु॑ इति मेदिनी । तूस्तमिति । तुस खण्डन इत्यस्मात्तन् । नञ्या । आप्लृ व्याप्तौ । अस्मान्नञ्युपपदे तन्स्यादिडागमश्च । बाहुलकान्नञो नलोपाऽभावः । तनि.तनु विस्तारे,मृङ् प्राणत्यागे, आभ्यां तन्प्रत्ययः स्यात्स च कित् । कित्त्वादनुनासिकलोपः ।ततं वीणादिकं वाद्य॑मित्यमरः ।अथ ततं व्याप्ते विस्तृते च त्रिलिङ्गकम् । क्लीबं वीणादिवाद्ये स्यात्पुंलिङ्गस्तु समीरणे॑ इति मेदिनी ।मृतं तु याचितेमृत्यौ क्लीबं मृत्युमति त्रिषु॑ इति च । अञ्जि । अञ्जू व्यक्तम्रक्षणादौ, घृ क्षरणदीप्त्योः, षिञ् बन्धने,एभ्यः क्तः स्यात् । निष्ठासंज्ञात्वेतस्य न भवति,उणादीनमव्युत्पन्नत्वाद्बाहुलकाद्वा । अन्यथानिष्ठा द्व्यजना॑दित्याद्युदात्तत्वं स्यादितिक्तक्तवतू निष्ठे॑ ति सूत्रे कैयटः । अक्तं — परिच्छिन्नम् ।अक्तपरिमाणवाचक॑ इति भाष्यस्य कैयटेन तथा व्याख्यातत्वात् ।अक्तं व्याप्ते च सङ्कुले इति विआ॑ इत्युज्वलदत्तेनोक्तम्, तच्चलिपिभ्रमप्रयुक्तम् । विआकोशे जले क्लीबं प्रदीप्ते त्वभिधेयवत् ।सितमवसिते च बद्धे धवलेत्रिषु शर्करायां स्त्री॑ इति मेदिनी । बाहुलकात् ऋ गतावित्यस्मात् क्तः । ऋतमुञ्छशिले जले ।सत्ये दीप्ते पूजिते स्या॑दिति मेदिनी ।दुतनि । दु गतौ, तनु विस्तारे, आभ्यां क्तः स्याद्धातोर्दीर्घश्च । दूतः प्रेष्यः । गौरादित्वान्ङीष् । दूती ।कथं तर्हितेन दूति । विदितं निषेदुषा॑ इति रघुरिति चेत् । अत्राहुः — दूङ् परितापे इत्यस्मात् क्तिचि दूतिरित ।दूत्यांदूतिरपि स्मृता॑ इति द्विरूपकोशः ।तातोऽनुकम्प्ये जनके॑ इति विआमेदिन्यौ । बाहुलकात् शीङ् स्वप्ने इत्स्मादपि क्तः । शीता लाङ्गलपद्धतिः ।सीता लाङ्गलपद्धतिः । वैदेहीस्वर्गगङ्गासु॑ इति दन्त्यादौ मेदिनी ।सीता लाङ्गलरेखा स्याद्व्योमगङ्गा च जानकी॑ति दन्त्यादौ रभसकोशाच्च ।जेः । जि जये, अस्मात् क्तप्रत्ययस्तस्योदात्तमुडागमः स्यात् । दीर्घ इत्यनुवृत्त्या धातोर्दीर्घश्च स्यात् । इदं सूत्रमनार्षमिति केचित् । अतएव वृत्त्यादिग्रन्थे पृषोदरादिषु जीमूतशब्द उदाहृतः ।तीमूतोऽद्रौ मृतिकरे देवताडे पयोधरे॑ इति मेदिनी ।वेणी खरा गरी देवताडो जीमूतः॑ इत्यमरः ।जोमूतः स्याद्भृतकरे घने॑ इति विआः । लोष्ट ।लूञ् छेदने, पल गतौ,एतौ क्तान्तौ निपात्येते ।लोष्टानि लेष्टवः पुंसि॑ इत्यमरः । अत्र पुंसीत्युभयान्वयि । तेन पुंनपुंसकलिङ्गो लोष्टशब्दः । तथा चस्थानेऽन्तरतमः॑ इति सूत्रे भाष्यंलोष्टः क्षिप्तो बाहुवेगं गत्वे॑त्यादि.अत एवलेष्टुः शण्डेऽपि लोष्टः स्यात् इति पुंलिङ्गकाण्डे बोपालितः ।पलितं शैलजेतापे केशपाके च कर्दमे॑ इति मेदिनी । ह्मश्या । ह्मञ् हरणे,श्यैङ् गतौ ।हरिता स्त्री च दूर्वायां हरिद्वर्णयुतेऽन्यव॑दिति मेदिनी ।शुक्लशुभ्रशुचिओतविशदश्येतपाण्डराः॑ इत्यमरः । रुहेः । रुह बीजजन्मनि प्रादुर्भावे च । अस्मादितन् ।रोहितं कुङ्कुमे रक्तेऋजुशक्रशरासने । पुंसि स्यानमीनमृगयोर्भेदे रोहितकद्रुमे॑ इति मेदिनी ।लोहितं रक्तगोशीर्षकुङ्कुमाजिकुचन्दने । पुमान् नदान्तरे भौमे वर्णे च त्रिषु तद्वति॑ इति च । पिशेः । पिश अवयवे । अयं दीपनायामपि । अस्मादितन्स्यात्स च कित् ।पिशितं मांसम्, मांस्यां स्त्री॑ति मेदिनी । मांस्यां — जटामांस्याम् । तथा चजटा च पिशिता पेसी॑ति धन्वन्तरिः । श्रुदक्षि । श्रु श्रवणे, दक्ष वृद्धौ, स्पृह ईप्सायाम्,गृहू ग्रहणे, चुरादावदन्तौ ।उद्यतरुआउचे भवसि श्रवाय्यः॑ इति मन्त्रे श्रवाय्यो = मन्त्रैः श्रवणीय इति वेदभाष्यम् ।दक्षाय्यो यो दम आस नित्यः॑ इत्यादिष्वपि यौगिकार्थ एव भाष्ये पुरस्कृतः । स्पृहयाय्यः ।अयामन्ते॑ णेरयादेशः । एवं — गृहयाय्य इति । दिधिषाय्य इति । डुधाञ् धारणपोषणयोः । उज्ज्वलदत्तस्तु दधिषाय्य इति सूत्रं पठित्वा दधिपूर्वात्स्यतेराय्यः षत्वं च, दधिषाय्यो घृतमिति व्याख्यात् । दशपादीवृत्तिकारस्तु धिषु शब्दे अस्य द्वित्वं, गुणाऽबावः, अत्वं चाऽभ्यासस्य निपात्यत इत्याह, प्रसादकारादयोऽप्येवमेवाहुस्तदेतत्सर्वं प्रामादिकम् ।मित्र इव यो दिधिषाय्योऽभूत् इति वैदिकप्रयोगाद्दिधिषाय्य इत्येव सूत्रं युक्तिमिति प्रमाणिकाः । वृञः । वृञ् वरणे । वरेण्यः = श्रेष्ठः । स्तुवः । ष्टुञ् स्तुतौ । स्तुषेय्यं स्तोतव्यम् । पुरुवर्चसं = बहुरूपमिति वेदभाष्यम् । स्तुवः केय्य इति पठित्वा कित्वाद्गुणाऽभावे उवङि सति स्तुवेय्यः पुरन्दर इत्युदाहरन्नुज्वलदत्तस्तु उदाहृतश्रुतितद्भाष्यादिविरोधादुपेक्ष्यः । तस्मादिह क्सेय्यप्रत्ययं पठन् दशपादीवृत्तिकृदेव ज्यायानित्याहुः । राजेः । राजृ दीप्तौ । क्षत्रियजातौ तुराजआराद्य॑दिति यत्प्रत्यये राजन्य इत्यन्तस्वरितः । शृरम्योः । शृ हिंसायाम्, रम क्रीडायाम् । आभ्यामन्यः स्यात् । अर्तेः । ऋ गतौ ।अस्मादन्यः, स च नित् ।अटव्यरण्यं बिपिन॑मित्यमरः । पर्जन्यः । पृषु सेचने, षस्य जः ।पर्जन्यो मेघशब्देऽपि ध्वनदम्बुदशकयोः॑ इति मेदिनी । वदेः । वद व्यक्तायां वाचि । अजयकोशस्थमाह — वदान्य इति । अमिनक्षि । अम गत्यादिषु, नक्ष गतौ, नक्ष गतौ, यज देवपूजादौ, वध हिंसायाम्, पत्लृ गतौ । नक्षत्रमिति ।नभ्रण्नपा॑दिति सूत्रे नञः प्रकृतिभावेन नक्षत्रमिति साधितं तत्तु व्युत्पत्त्यन्तरमिति बोध्यम् । यजत्रमग्निहोत्रमिति व्याख्यातत्वात् । अमरकोशस्थमाह — पतत्रं चेति । गडेः । गड सेचने, अस्मादत्रन्स्याद्गकारस्य ककारादेशश्च ।कलत्रं श्रोणिभार्ययोःर॑ इत्यमरः । वृञः । वृञ् वरणे अस्मादत्रन् चित्स्यात् । चित्त्वादन्तोदात्तः ।नघ्री वध्री वरत्रा स्यात् इत्यमरः ।वरत्रायां दार्वानह्रमानः॑ इत्यादौ चित्स्वरः स्पष्टः । सुविदेः कत्रः । विद ज्ञाने । इह कत्रन्निति नितंकेचित्पठन्ति, तत्प्रामादिकम् ।बृहस्पतेः सुविदत्राणि राध्या॑इत्यादौ नित्स्वराऽदर्शनात् । कृदुत्तरपदप्रकृतिस्वरेण प्रत्ययस्वरस्यैव दर्शनाच्चेत्याहुः । कृतेः । कृती छेदने, अस्मात्कत्रः स्याद्धातोर्नुमागमश्च ।धन्व च यत्कृन्तत्रं चे॑ति कृनतत्रं कर्तनीयमरण्यमिति वेदभाष्यम् । शृमृ । मृञ् भरणे, भङ् प्राणत्यागे, दृशिर्प्रेक्षणे,यज देवपूजादौ, परव पूरणे, डुपचष् पाके,अम गतौ, तमु काङ्क्षायाम्, णम प्रह्वत्वे शब्दे च, हर्य गतिकान्त्योः । दशपाद्यां तु भृदृशीङिति पठित्वा दृङ् आदरे द्रियते दरतः शेते शयतः इत्युदाहृतम् । तन्न ।रुशन्तमग्न दर्शतं बृहतम्,तरणिर्विआदर्शतःर॑दैव्यो दर्शतो रथः॑ इत्यादिमन्त्रैस्तद्भाष्येण च विरोधात् ।भरतो नाटशास्त्रे मूनौ नटे । रामानुजे च दौष्यन्तौ॑ इति मेदिनी । यजत ऋत्विगिति । उज्ज्वलदत्ताद्यनुरोधेनैवमुक्तम् । वेदभाष्ये तुहिरण्यशृङ्गं यजतौ बृहन्त॑मित्यादिषु यजतशब्दो यष्टव्यपरतया व्याख्यातः ।पर्वतः पादपे पुंसि शाकमत्स्यप्रभेदयोः ।देवमुन्यन्तरे शैले॑इति मेदिनी । हर्यतोऽआ इति ।परि त्यं हर्यतं हरिम् [॒आनर्यताय धृष्णवे॑] इत्यादिमन्त्रेषु हर्यतः सर्वैः स्पृहणीय इति वेदभाष्यम् । पृषि । पृषु सेचने, रञ्ज रागे, आभ्यामतच् कित्स्यात् ।पृषन् मृगेपुमान् बिन्दौ न द्वयोः पृषतोऽपि ना । अनयोश्च त्रिषु ओतबिन्दुयुक्तेऽप्युभाविमौ॑ इति मेदिनी ।रजतं त्रिषु शुक्ले स्यात् क्लीबं हारेच दुर्वर्णे॑ इति च ।खलतिः । स्खल संचलने । शीङ्शपि । शीह् स्वप्ने, शप आक्रोशे, रु शब्दे, गम्लृ गतौ, वञ्चु गतौ भ्वादिः, वञ्चु प्रलम्भने चुरादिः, जीव प्राणधारणे,अन प्राणने प्रपूर्वः । उज्ज्वलदत्तेनाऽत्र वञ्चिजीवीति पठते । अन्यैस्तु वञ्चिस्थाने वन्दिः पठते । वञ्चथवन्दथयोरन्यतरं वेदादावुपलभ्य बहुश्रुतैः पाठो निर्णेयः । वन्दथ इति । कर्मणि कर्तरि वा प्रत्ययः । प्रणथ इति ।अनितेः॑ इति णत्वम् । शमिदमिभ्यामिति । शम उपशमे,दमु उपशमे ।शमथः शान्तिमन्त्रिणोः॑ इति मेदिनी ।दमथस्तु पुमान् दण्डे दमे च परिकीर्तितः॑ इति च । भृञः । डुभृञ् धारणपोषणयोः । अस्मादथः स्यात्सच चित् । रुदि । रुदिर् अश्रुविमोचने,विद ज्ञाने, आभ्यामथः स्यात्स च ङित् ।विदथो योगिकृतिनोः॑ इति मेदिनी । अत्रोज्ज्वलदत्तो रुविदिभ्यां किदिति पठित्वा रौतीति रुवथः ओत्युदाजहार । दशपादीवृत्तिकारस्तु रुदिविदिभ्यां किदिति पपाठ । इह तु भाष्यानुरोधेन ङिदिति पठितम् । तथाहिगाङ्कुटादि॑सूत्रेके पुनश्चङादयः चङङ्नजिङथङ्नङ् इति भाष्यम् । किदिति पठतां तु अथङिति भाष्यं न सङ्गच्छेतेति दिक् । उप । वस निवासे, अस्मादुपसर्गे अथः स्यात् । उज्ज्वलदत्तेन तु सोपसर्गाद्वसेरिति पठितम्, अन्यैस्तु आङि वसेरिति पठितम् । अत्यवि । अत सातत्यगमने अव रक्षणादौ,चमु अदने,तमु काङ्क्षायाम्, णम प्रह्वत्वे शब्दे च, रभ राभ्स्ये,डुलभष् प्राप्तौ, णभ तुभ हिंसायाम्, भ्वादौ क्र्यादौ चायम् । तप सन्तापे, पत्लृ गतौ,पण व्यवहारे स्तुतौ च, पन च, मह पूजायाम् । गौरादित्वात् ङीष् ।अतसी स्यादुमा क्षुमा॑ इत्यमरः ।चमसो यज्ञपात्रस्य भेदेऽस्त्री पिष्टके स्त्रिया॑मिति मेदिनी ।पनसः कण्टकिफले कन्दके वानरान्तरे । स्त्रियां रोगप्रभेदे स्यात् इति च । वेञः । वेञ् तन्तुसन्ताने, अस्मादसच् स्यात्तस्य तुट् । दशपादीवृत्तौ तुवियस्तुट् चे॑ति पठित्वा वी गतिप्रजनकान्त्यादिष्विति धातुरुदाहृतः । वहि । वह प्रापणे, यु मिश्रणादौ,अजगरे॑ शयुर्वाहस इत्युभौ॑ इत्यमरः ।वा तु क्लीबे दिवसवासरौ॑ इति च । यावस इति । असचो णित्त्वाद्वृद्धिः । दिवः । दिवु क्रीडादौ । कृशृ । कृ विक्षेपे, शृ हिंसायाम्,शल गतौ, कल विलेखने,गर्ग शब्देषकरभो मणिबन्धादिकनिष्ठान्तोष्ट्रतत्सुते॑इति मेदिनी ।मणिबन्धादाकनिष्ठं करस्य करभो बहिः॑ इत्यमरः ।शरभस्तु पशोर्भिदि॑ ।करभो वानरभिदि॑ इति मेदिनी ।समौ पतङ्गशभौ॑ इत्यमररः ।कलभः करिपोतकः॑ इति च ।गर्दभः ओतकुमुदे गर्दभो गन्धभिद्यपि । रासभे गर्दभी क्षुद्रजन्तुरोगप्रभेदयोः॑ इति मेदिनी । ऋषि । ऋषी गतौ,वृषु सेचने, आभ्यां अभच् स्यात्स च कित् ।ऋषभस्त्वौषधान्तरे । स्वरभिद्वृषयोः कर्णरन्ध्रगर्दभपुच्छयोः । उत्तरस्थः स्मृतः श्रेष्ठे स्त्रीनराकारयोषिति । शूकशिम्ब्यां शिरालायां विधवायां क्वचिन्मता॑ इति मेदिनी । जृविशि.जृ वयोहानौ,विश प्रवेशने ।वेशन्तः पल्वलं चाल्पसरःट इत्यमरः । बाहुलकादर्हतेरपि झच् । अर्हन्तः क्षपणको जिनः॑इति विक्रमादित्यकोशः । रुहि । रुह बीजजन्मनि प्रादुर्भावे च, टुनदि समृद्धौ, जीव प्राणधारणे,अन प्राणने प्रपूर्वः । एभ्य आशिषि झच्, स च षिद्भवति । प्राणन्त इति ।अनितेः॑ इति णत्वम् ।तृभू । तृ ल्पवनतरणयोः,भू सत्तायाम्,वह प्रापणे वस निवासे, बासृ दीप्तौ, साध संसिद्धौ,गड सेचने, मडि भूषायाम्, उभौ ण्यन्तौ । जि जये, टुनदि समृद्धौ ण्यन्तः । नन्दयन्त इति । उज्ज्वलदत्तस्तु स्वयमेवानुवर्तितत्वात् । हन्तेः । हन हिंसागत्योरस्मात् झच्प्रत्ययः स्यात्तस्य मुडागमः, धातोर्हिरादेशश्च ।भन्दे । भदि कल्याणे सुखे च । अस्मात् झच् स्याद्धातोर्नकारलोपश्च । ऋच्छेः । ऋच्छ गतौ । बाहुलकादिति । जर्ज चर्च झर्झ परिभाषणहिंसातर्जनेषु । परिभाषणभत्र्सनयोरिति तुदादौ ।जर्जरं शैवले शक्रध्वजे त्रिषु जरत्तरे । झर्झरः स्यात्कलियुगे वाद्यभेदे नदान्तरे॑ इति च मेदिनी । बाहुलकादेव झस्य जादेशे जर्झर इत्युज्ज्वलदत्तः ।अर्तिकमि । ऋ गतौ, कमु कान्तौ,भ्रमु अनवस्थाने, चमु अदने, दिवु क्रीडादौ, वस निवासे, उभावपि ण्यन्तौ ।अररं छदकपाटयोः॑इति मेदिनी ।कपटामररं तुल्ये॑ इत्यमरः ।भ्रमरः कामुके भृङ्गे॑ इति मेदिनी ।चमरं चामरे स्त्री तु मञ्जरीमृगभेदयोः॑इति च । चमरोमृगभेदः । देवरः पत्युः कनिष्ठभ्राता । वासर इति । केचित सूत्रे वाशिभ्य इति तालव्यं पठित्वा वाशृ शब्द इत्यस्मादरप्रत्यये वाश्यत इतिवाशरः कोकिल इत्याहुः । कुवः । कु शब्दे । अङ्गि.अगिर्गत्यर्थः,मदी हर्षे,मदि स्तुत्यादौ ।॒अङ्गार उल्मुके न स्त्री पुंलिङ्गस्तु महोसुते॑ इति मेदिनी ।मन्दारः स्यात्सुरद्रुमे । पारिभद्रेऽर्कपर्णे च मन्दारो हस्तिधूर्तयोः॑ इति च । मदि स्तुत्यादावित्स्माद्बाहुलकादारुरपि ।पारिभद्रे तु मन्दारुर्मन्दारः पारिजातकः॑ इति शब्दार्णवः । गडेः । गडि वदनैकदेशे,गड सेचने, अस्मादारन्प्रत्ययः स्यात्कडादेशश्च ।कडारः कपिले दासे॑इति मेदिनी ।कडारः कपिलः पिङ्गः॑ इत्यमरः । शृङ्गार । शृ हिंसायाम्, डुभृञ् धारणपोषणयोः,एतौ निपात्येते । आभ्यामारन्नुम् गुग् ह्रस्वश्च ।शृङ्गारः सुरते नाटए रसे च गजमण्डने । नपुंसकं लवङ्गेऽपि नागसंभवचूर्णयोः॑इति मेदिनी ।भृङ्गारी झिल्लिकायां स्यात्कनकालौ पुनः पुमान् इति च । कञ्जि । मृजू शुद्धौ, चित्वादारन्प्रत्ययः, अन्तोदात्तः । कञ्जारो जरठे सूर्ये विरञ्चौ वारणे मुनौ॑इति विआमेदिन्यौ ।मार्जार ओतौ खट्वाङ्गे॑इति च ।ओतुर्बिरडालो मार्जारः॑इत्यमरः । कमेः । कमु कान्तौ, अस्मादरन्कित्स्यात् ।कुमारः स्याच्छुके स्कन्दे युवराजेऽआवारके । बालके वरुणद्रौ ना न द्वयोर्जात्यकाञ्चने । कुमारी सैलतनयावनकाल्योर्नदीभिदि । सहापरजिताकन्याजम्बुद्वीपेषु च स्त्रिया॑मिति मेदिनी । विआप्रकाशेतुकुमारी रामतरणी॑ति पाठः ।रामतरणी लताविशेषः । सहेति प्रसिद्धः ।तरणो रामतरणी कर्णिका चारुकेसरा । सहा कुमारी गन्धाढआ॑ इतिधन्वन्तरिनिघण्टुः ।जम्बूद्वीपसहाकन्याः कुमार्योऽथाआवारके । बालके कार्तिकेये च कुमारो भर्तृदारके॑ इति त्रिकाण्डशेषः । तुषारा । एते निपात्यन्ते । तुष तुष्टौ आरन् ।तुषारस्तुहिं दीङ् क्षये, अस्मादारम्, चस्य नुडागमश्च । सृ गतौ अस्मादपः स्याद्धातोः षुगागमश्च । उषि । उष दाहे, कुट कौटिल्ये,दल विदारणे, कच बन्धने, खज मन्थे । क्वणेः । क्वण शब्दे । अस्मात्कपन् धातुवकारस्य संप्रसारणं च ।कुणपः पूतिगन्धे शवेपि चे॑ति मेदिनी ।कुणपः शवमस्त्रिया॑मित्यमरः । विटप ।विटपो न स्त्रियां स्तम्बशाखाविस्तारपल्लवे । विटाधिपे ना॑ इति मेदिनी । विशत्तेरिति.विश प्रवेशने । आदेः प इति । एतच्च उज्ज्वलदत्तरीत्योक्तम् । अनये तु सूत्रे विष्टपेति दन्त्यादौष्ठआदिमेव पठन्ति । युक्तं चैतत् ।अत्र ब्राध्नस्य विष्टपम् इत्यादौ तथा दर्शनात् । अमरकोशेऽपि॒विष्टपं भुनं जगत् इति प्रचुरपाठाच्च । वलवल्ल संवरणे संचरणे च ।उलपो न स्त्री गुल्मिन्यां ना तृणान्तरे॑ इति मेदिनी ।वृतेः । वृतु वर्तने । कृतिभिदि । कृती छेदने, भिदिर्विदारणे, लतिः सौत्रो धातुः । इष्यशि । इष इच्छायाम्, अशू व्याप्तौ,आभ्यां तकन् कित्स्यात् । इष्टकेति ।इष्टकेषीकामालाना॑मिति निर्देशात्प्रत्ययस्था॑ दिति नेत्त्वम् । केचित्तु प्रत्ययस्थादितीत्वमिह न भवति, अनित्यत्वात् । तज्ज्ञापकं तुमृदस्तिकन्इति इकारोच्चारणित्याहुः । इणस्तश । एतशा इति ।अत्वसन्तस्ये॑ति दीर्घः । एतशसौ । एतशसः । वीपति । पत्लृ गतौ ।॒पत्तनं पुटभेदन॑मति पुरीपरर्यायेष्वमरः । दृदलि । दृ विदारणे, दलविकसने । अर्तिगृ । ऋ गतौ । इयर्तीति अर्भः शिशुः ।संज्ञायां कनिअर्भख- ।॒गर्भो भ्रूणेऽर्भके कुक्षौ सन्धौ पनसकण्टके॑ इति मेदिनी । इणः । इण् गतौ,अस्माद्भन् कित्स्यात् ।इभः स्तम्बेरमः पद्मी॑ इत्यमरः । असि । असु क्षेपणे,षञ्ज सङ्गे ।कीकसं कुल्यमस्थि च॑ इत्यमरः,॒सक्थि क्लीबे पुमानूरुः इति च । प्लुषि । प्लुष दाहे, कुष निष्कर्षे, शुष शोषणे । अशेः । अशू व्याप्तौ, अस्मात् क्सिन्, नित्स्यात् । अक्षि नयनम् । इष इच्छायाम् ।रसाल इक्षुः॑ इत्यमरः । अवि । अव रक्षणादौ, तृ प्लवनतरमयोः, स्तृञाच्छादने,तत्रि कुटुम्बधारणे, चुरादिण्यन्तः । तरीरिति ।स्त्रियां नौस्तरणिस्तरिःर॑ इत्यमरः । यापोः । या प्रापणे, पा पाने, आभ्यामीः कित्स्याद्दवित्वं च धातोः । लक्षेः । लक्ष दर्शनाङ्कनयोश्चुरादिण्यन्तः । अस्मादीप्रत्ययः स्यात्तस्य मुडागमो णिलोपश्च ।लक्ष्मीः पद्मा विभूतिश्च ।कृदिकारा॑दिति ङीषि लक्ष्मीत्यपि भवतीपि रक्षितः ।लक्ष्मीः संपत्तिशोभयोः । ऋद्ध्योषधौ च पद्माया॑मिति मेदिनी । इत्युणादिषु तृतीयः पादः । अथ चतुर्थः पादः ।माधातोरिति । मा माने, कित्त्वात्आतो धातोः॑ इत्यालोपः ।वातप्रमीर्वातमृगः॑ इत्यमरः । अयं स्त्रीपुंसयोः अयमिति ।द्विचतुः षट्पदोरगाः॑इत्यमरेण चतुष्पाद्वाचिनामुभयलिङ्गतोक्तेः, सुभूतिचन्द्रादिभिरपि वातप्रमीशब्दस्य द्विलिङ्गतोक्तेश्चेति भावः । तत्रकृदिकारा॑दिति पाक्षिकोऽपि ङीष् कैश्चिदिष्यते । न च ह्रस्वादेवकृदिकारा॑ दिति ङीष् भवति न तु दीर्घादिति शङ्क्यं, वर्णनिर्देशे कारप्रत्ययस्य विधानेन दीर्घादपिकृदिकारा॑दिति ङीषः संभवात् । अत एव वातप्रमीश्रीलक्ष्मीति पक्षे ङ्यन्ताः सुसाधव इति रक्षितः । एतच्च दुर्घटग्रन्थे स्पष्टम् ।आशीराश्यहिदंष्ट्रायां लक्ष्मीर्लक्ष्मी हरिस्त्रिया॑मिति द्विरुपकोशः । अत एवआशीविषो विषधरः॑ इत्यमरकोश सङ्गच्छते । अश भोजन इत्यस्मात्इणजादिभ्यः॑ इति इण् प्रत्यये उपधावृद्धौकृदिकारा॑दिति ङीषः स्वीकारात् ।आशीमिव कलामिन्दोः॑ इति राजशेखरः ।आशीर्हिताशंसाऽहिदंष्ट्रयो॑रिति सान्तेऽमरात्सान्तोऽप्याशीः शब्दोऽस्तीत्यन्यदेतत् । ऋतनि । ऋ गतौ, तनु विस्तारे, अञ्जू व्यक्त्यादौ, वनु याचने, अञ्जू स एव, ऋ गतौ ण्यन्तः, मदी हर्षे, अत सातत्यगमने अगि गत्यर्थः, कु शब्दे, यु मिश्रमे, कृश तनूकरणे । प्रसङ्गादाह — अरत्निरिति । न रत्निः अरत्निरिति नञ्समासः । प्रसृताङ्गुलिः स = हस्तः अरत्निरित्यर्थः । दशपादीवृत्तौ तु कत्निजित्यत्र ककारमपठित्वा अर्तेरत्निचमकितं विधाय अरत्निः साधितः । उज्ज्वलदत्तानुसारेणाह — वायू रात्रिश्चेति । तन्यतुः शब्दो मेघः अशनिश्चेत्यपि बोध्यम् ।आविस्माऽस्य तन्यतोरिव द्यौः॑ इति मन्त्रेदिवश्चित्रं न तन्यतुः॑मिति मन्त्रे च तन्यतुरशनिरिति वेदभाष्ये व्याख्यातत्वात् ।अञ्जलिस्तु पुमान् हस्तसंपुटे कुडवेऽपि चे॑ति मेदिनी । स्थविरान्त्रमिति ।वनिष्ठोह्मदयादधि॑ इति मन्त्रस्य भाष्ये तथोक्तत्वात् । अञ्जिष्ठ इति । केचिदञ्जेरिष्णुचमिच्छनति तेषामञ्जिष्णुरुदाहरण् । अर्पिस इति ।अर्तिह्यी॑ त्यादिना पुक् ।णरेरनिटी॑ ति णिलोपः । मदेरिति ।मत्स्यो मीनेऽथ पुंभूम्नि देशे॑ इति मेदिनी ।अतिथिः कुशपुत्रे स्यात्पुमानागन्तुके त्रिषु॑ इति च ।अङ्गुलिः करशाखायां कर्णिकायां गजस्य चे॑ति च । कवसः सन्नाहः कङ्कटजातिश्च । अचेति॒कवचो गर्दभाण्डे च संनाहे पर्पटेऽपि च॑ इति मेदिनी । योतेरिति ।दुरालभाकटुस्पर्शा यासो धन्वयवासकः॑ इति धन्वन्तरिनिघण्टुः ।कृशानुः पावकोऽनलः॑ इत्यमरः ।श्रः । शृ हिंसायाम् ।शर्करा खण्डविकृतौ उपलाकर्परांऽशयोः । शर्करान्वितदेशे च रुग्भेदे शकलेऽपि च॑ इति मेदिनी । पुषः । पुष पुष्टौ, अस्मात्करन्स्यात्स च कित् ।पुष्करं खेऽम्बुपद्मयोः । तूर्यवक्रेखङ्गफले हस्तिहस्ताऽग्रकाण्डयोः । कुष्ठौषधिद्वीपतीर्थभेदयोश्च नपुंसकम् । ना रोगनागविहगनृपभेदेषु वारुणौ॑ इति मेदिनीं । कलंश्च । पुष्यतेः कलन् स च कित् ।पुष्कलस्तु पूर्णे श्रेष्ठे॑ इति हेमचन्द्रः । गमेः । गम्लृ गतौ ।भविष्यति गम्यादयः॑ इत्याशयेनाह — गमिष्यतीति ।आगामीति इनि प्रत्ययस्य णित्त्वादुपधावृद्धिः । आगमिष्यतीत्यर्थः ।#भुवश्च । भू सत्तायाम् । अस्मादिनिः स च णित्स्यात् । भविष्यतीति भावी । प्रे स्थः । ष्टा गति निवृत्तौ, प्रपूर्वादस्मादिनिः स च णित् । णित्तवात्आतो युक् ॑ इति युक् । प्रस्थायी गन्तुकामः । परमे । परमशब्दे उपपदे तिष्टतेरिनिः कित्स्यात् । कित्त्वादातो लोपः ।हलदन्ता॑दित्यलुक् ।परमेष्टी पितामहः॑ इत्यमरः । मन्थः । मन्थ विलोडने । मन्था इति ।पथिमथि॑ इत्यात्वम् ।इतोऽत्सर्वनामस्थाने॑ ।मन्था मन्थनदण्डे च वज्रे वातेऽपि च स्मृतः॑ । पतः । पत्लृ गतावित्यस्मादिनिः स्थश्चान्तादेशः । पथे गतावित्यस्मात्पचाद्यचि अकारान्तोऽप्यस्ति ।वाटः पथश्च मार्गश्चे॑ति सुभूतिचन्द्रः ।त्वचि त्वचः किरोऽपि स्यात्किरौ प्रोक्तः पथ पथि॑ इति द्विरुपेषु विआः । इह ऋभवो देवाः क्षयन्त्यस्मिन्निति विग्रहेअन्येब्योऽपि दृश्यते॑ इति डः ।ऋभुक्षः स्वर्गवज्रयोः॑इति विआः । ततो मत्वर्थीयेनिः । ऋभुक्षिन्निति नान्तं प्रातपदिकम् ।पथिमथी॑त्यात्वेइतोऽटदित्यत्वे च ऋभुक्षा इन्द्रः, ऋभुक्षाणौ ऋभुक्षाण इत्युज्ज्वलदत्तः । दशपाद्यां तुअर्तेः भुक्षिनक् इति सूत्रमुपन्यस्य तस्य ऋभुक्षिन्नित्युदाहृतम् ।ऋभुक्षिणमिन्द्रमाहुव ऊतये॑ इति मन्त्रस्य वेदभाष्ये तत्सूत्रमुदाहृतम् । अत्रायं विवेकः - इनिप्रत्ययान्ता इति मते अन्तोदात्तत्वं न्याय्यं, प्रत्ययस्वरेण इनेरिकारस्योदात्तत्वात् । अवग्रहाऽभावो बाहुलकात् । द्वितीयमते त्ववग्रहाऽभावो न्याय्यः, परन्तु प्रत्ययस्वरेणोकारस्योदात्ततया भुक्षिनक्प्रत्ययान्तस्य मध्योदात्तत्वे प्रसक्ते बाहुलकादन्तोदात्तः स्वीकर्तव्य इति । खजेः । खज मन्थे । बलाका.बल प्राणने, शलगतौ, पत्ल गतौ,एते आकप्रत्ययान्ता निपात्यन्ते ।बलाका बकपङ्किः स्याद्बलाका बिसकण्ठिका । बलाका कामुकी प्रोक्ता बलाकश्च बको मतः॑ इति विआशाआतौ ।शलाकाऽञ्जनयष्टिका॑ ।पताका वैजयन्त्यां च सौभाग्येऽङ्के ध्वजेऽपि च॑ इति विआः ।पताका वैजयन्त्यां च सौभाग्ये नाटकाङ्कयोः॑ इति मेदिनी । पिनाका । एतेआकप्रत्ययान्ता निपात्यन्ते । पा रक्षणे,पिनाकोऽस्त्री रुद्रचापे पांशुवर्पत्रिशूलयोः॑ इति मेदिनी । अमरोक्तिमाह क्लीबपुंसोरिति । किञ्च पिष्लृ संचूर्णने, षकारस्यणत्वं दातोर्यगागमः ।पिण्याकोऽस्त्री तिलकल्के हिङ्गुबाह्लीकसिह्लके॑ इति मेदिनी । कषि । कष खषेति दण्डके हिंसार्थकः । दुष वैकृत्ये ण्यन्तः ।दोषो णौ॑ इत्युपधाया ऊकारः । अमरोक्तिमाह — दूषिकेति । किञ्च अकृतेऽपि ईकनि दूषयतेःअचः इः॑इति इप्रत्यये दूषिः ।कृदिकारा॑दिति ङीषि दूषी । उभाभ्यामपि स्वार्थे कनि दूषिका ह्रस्वमध्यैव ।केऽणः॑ इति ङीषोऽपि ह्रस्वादेशात् ।पिचण्डी दूषिका दूषी पिचाटं च दृशोर्मल॑मिति विक्रमादित्यकोशः ।दूषिका तूलिकायां च मले स्याल्लोचनस्य चे॑ति मेदिनी ।ह्मषीकं विषयीन्द्रिय॑ मित्यमर । चङ्कणः । कणधातोर्यङ्लुकि प्रत्ययलक्षणन्यायेनसन्यङोः॑ इति द्वित्वेकुहोश्चुः॑ इत्यभ्यासस्य चुत्वेनुगतोऽनुनासिकान्तस्य॑ इति नुकि चङ्कण् । ङसिङसोस्तु चङ्कणः । धातोरिति । चङ्कणित्यस्य । शृ पृ ।शृ हिंसायाम्, पृ पालनादौ, वृञ् वरणे, एब्य ईकन्, एषां द्विर्वचनमभ्यासस्य रुगागमश्च । शर्शरीक इत्यादि । उरदत्वे रपरत्वम् ।पर्फरीका । ईकन्नन्ता एते निपात्यन्ते । पर्फरादेश इति । एतच्चोज्ज्वलदत्तरीत्योक्तं, वस्तुतस्तु धातोर्द्वित्वमुकारस्याऽकारः, सलोपः, रुक् चाभ्यासस्येति दशपाद्यां यदुक्ततदेव न्याय्यम् ।चरेर्नुम् चे॑त्युत्तरग्रन्थानुरोदेनद्वे रुक् चे॑त्याद्यनुवृत्तेन्र्याय्यत्वात् । किसलयमिति ।नैतोशव तुर्फरीपर्फरीकौट इति शत्रूणां विदरयितारौ,स्तोतृणां पालकौ, इष्टार्थस्य पूरयितारौ चेति व्याख्यातम् । दर्दरीकमिति । दृ विदारणे, अस्मादीकन्धातोर्दर्दरादेशः । झर्झरीकमिति । झृष् वयोहानो, अस्मादीकन्थातोर्झर्झरादेशः । वस्तुतस्तु दर्दरीक झर्झरीकावपि पर्फरीकवद्धातोद्र्वत्वं रुक् चाभ्यासस्येति व्याख्येयौ । उत्तरखण्डे ऋकारस्य गुणे रपरत्वम् । तित्तिडीक इति । तिम ष्टिम ष्टीम आद्र्रीबावे,मकारस्योकारः, अभ्यासस्य तुक् च ।तित्तिडी चिञ्चाऽम्लिका॑ इत्यमरे तु शब्दान्तरं बोध्यम् । तथा चतित्तिडी त्वम्लिका चिञ्चा तित्तिडीका कपिप्रिया॑ इति वाचस्पतिः ।अम्लीका चाम्लीका चिञ्चा तित्तिडीका च तित्तिडा॑ इतिचन्द्रः ।अम्लीका चुकक्रिकाचुक्रा साम्ला शुक्राथ शुक्लिका.अम्लिका चिञ्चका चिञ्चा तित्तिडीका सुतिन्तडा॑इति धन्वन्तरिनिघण्टुः । चरेरिति । चर गतिभक्षमयोरस्मादीकन् द्विर्वचमभ्यासस्य नुमागमश्च ।भ्रमरश्चञ्चरीकः । स्याद्रोलम्बो मधुसूदनः । इन्दिन्दिरः पुषपकीटो मधुद्रो मधुकेशटः॑ इति त्रिकाण्डशेषः । मर्मरीक इत्यादि । मृङ् प्राणत्यागे, डुकृञ् करणे, आभ्यामीकन् धातोर्द्वित्वमभ्यासस्य रुक् ।कर्कर्यालुर्गलन्तिका॑ इत्यमरः । पुण कर्मणि शुभे, णस्य डः, प्रत्ययस्य रुडागमश्च ।पुण्डरीकंसिताम्भोजे सितच्छत्रे न भेषजे । पुंसि व्याघ्रेऽग्निदिङ्नागे कोशकारान्तरेऽपि चे॑ति मेदिनी ।इषेः । ईष गतावस्मादीकन् ह्रस्वश्च ।कित्त्वाद्गुमाऽभावः । ह्रस्वविदानसामर्थ्यादेव गुणाऽभावे सिद्धेऽप्युत्तरार्थं कित्तवमित्याहुः ।इषीकास्यादीषिकापि वानायुजवनायुजौ॑ इति द्विरुपकोशः । ऋजेः । ऋज गतौ । सर्तेः । सृ गतावस्मादीकन्कित्स्याद्धातोर्नुमागमश्च ।सृणिकास्यन्दिनी लाला॑ इत्यमरः । मृडः कीकच् । मृड सुखने । मृडः कीकन्नितयुज्ज्वलदत्तादिपाठः प्रामादिकः । मृडीकशब्दस्य चित्स्वरेणान्तोदात्तत्वात् ।मृडीके अस्य सुमतौ स्याम॑ इत्यादौ चित्स्वरस्यैव दर्सनात् । अलीकाद ।अलीकसप्रियेऽपि भाले वितये॑ इति हेमचन्द्रः । तथा चाऽभियुक्तैः प्रयुज्यते — ते दृष्टिमात्रपतिता अपि कस्य नाऽत्र क्षोभाय पक्ष्मलदृशामलकाः खलाश्च । नीचाः सदैव सविलासमलीकलम्ना ये कालत॑ कुटिलतां च न संत्यजन्ति॑ इति । इहाऽलीकलम्नाः = भाललम्नः, अप्रिये लम्ना इत्याद्यर्थो यथायोग्यं बोध्यः ।व्यलीकमप्रियाऽकार्यवैलक्ष्येष्वपि पीडने । ना नागरे॑ इति मेदिनी । वल संवरणे ।वलीकनीध्रे पटलप्रान्ते॑ इत्यमरः । वलतेर्मुगागमे वल्मीकन् ।॒वामलूरश्चनाकुश्चवल्मीकं पुनपुंसक॑मित्यमरः । वहतेर्वद्धिस्च । वाहीको गोरस्वश्च ।सुप्रपूरमवादिणस्तुट् च । सुप्रतीकः । शामय्तेः शमीक ऋषिः । एवमन्येऽप्यूह्रा इत्याशयेनाह — इत्यादीति । शृपृ । शृ हिंसायाम्, पृ पालनादौ , आभ्यामीषन् कित्स्यात् ।ऋत इद्धातोः॑ इति इत्व रपरत्वम् । शिरीषो वृक्षभेदः ।उदोष्ठपूर्वस्य॑ इत्युत्वम् ।पुरीषं गूथं वर्चस्कमस्त्री विष्टाविशौ स्त्रियाम् इत्यमरः । अर्जेः । अर्ज पर्ज अर्जने, अस्मादीषन् कित्स्यात्, धातोरृजादेशश्च । अमरोक्तिमाह — ऋजीषमिति । किंच उद्धृतरसः । सोमलतायाः शेषोऽपि ऋजीषम् । एतच्चऋजीषिण॑ वृषणसश्चत श्रिये॑असत्यो पातु मघवाँऋजीषी॑ इत्यादिमन्त्रे भाष्ये स्पष्टम् । अयमिति । ईषन्प्रत्ययस्य अरुडागमश्चेत्यर्थः । वोपालितोक्तिमाह — अम्बरीषमिति ।क्लीबेऽम्बरीषं भ्राष्ट्रो ना॑इत्यमरः ।अम्बरीषो रणे भ्राष्ट्रे क्लीबं पुंसि नृपान्तरे । नरकस्य प्रभेदे च किशोरे भास्करेऽपि च । आम्रातकेऽनुपाते च॑ इति मेदिनी । कृशृपृ । कृ विक्षेपे, शृ हिंसायाम्, पृ पालनपूरणयोः, कटे वर्षावरणयोः, इट किट कटी गतौ, चुरादौ पट पुटेति दण्डके भाषार्थः, शौटृ गर्वे ।वंशाङ्कुरे करीरोऽस्त्री वृक्षमिद्धद्वयोः पुमान् ।करीका चीरिकायां च दन्तमूले च दन्तिना॑ मिति मेदिनी । शीर्यत इति शरीरम् ।शरीरं वर्ध्म विग्रहः॑ इत्यमरः । अद्र्धर्चादित्वाच्छरीर इति पुंलिङ्गोऽपि । परीरमिति । पूर्यतेऽनेनेति विग्रहः । बाहुलकात् हिडि गत्यनादरयोः । हिण्डते इतस्ततो गच्चतीति हिण्डीरः ।हिण्डीरोऽब्धिकफः फेनः॑ इत्यमरः ।डिण्डिरोऽपि च हिण्डीरः॑ इति द्विरुपकोशः । किर्मीरजम्बीरतूणीरादयोऽपि बाहुलकादेव बोध्याः ।किर्मीरो नागरङ्गेच कर्बुरे राक्षसान्तरे॑ इति मेदिनी ।॒जम्बीर । प्स्थपुष्पे स्यात्ततता दन्तशठद्रुमे॑ इति च । वशेः । वशकान्तौ, अस्मादीरन्कित्स्यात् । कित्त्वात्संप्रसारणादि । उशीरं वीरणनूलमुशीरोऽपि ।मूलेऽस्योशीरमस्त्रियाम् । अभयं नलदं सेव्य॑मित्यमरः । कशेः । कश इति सौत्रो धातुः, अस्मादीरन् तस्य मुडागमश्च । पृषोदरादित्वात्काश्मीरः । कृञः । डुकृञ् करणे अस्मादीरन्, धातोरन्त्यस्यौदादेशो रपरः । घसेः । घस्लृ अदने । अस्मादीरन् कित्स्यात् ।गमहनेत्युपधालोपे कत्वं षत्वं च ।क्षीरं दुग्धे च नीरे च॑ इति विआः । गभीर् । गम्लृ गतौ । अस्मादीरन् भकारोऽन्तादेशः । पक्षे नुमागमश्च निपात्यते ।॒निम्नं गभीरं गम्भीर॑ मित्यमरः । विष । षोऽन्तकर्मणि, ओहाक् त्यागे, आभ्यां विपूर्वाभ्यानाप्रत्ययो निपात्यते । पचः । डुपचष् पाके, अस्मादेलिमच् स्यात् । कर्तरि अयम् । कृत्यप्रत्ययेषु तु केलिमर् उपसङ्ख्यातः । शीङः । शीङ् स्वप्ने । शेरतेऽनेनति शीघुर्मद्यविशेषः ।मैरेयमासवः शीधुः॑इत्यमरः । अर्धर्चादिपाठात् क्लीबं च ।पुंनपुंसकयोर्दारुजीवातुस्थाणुशीधवः॑इति त्रिकाण्डशेषः ।शीलं स्वभावे सद्वृते॑ इति मेदिनी ।जलनीली तु शेवालं शैवलः॑इत्यमरः ।शैवलं पद्मकाष्ठे स्यात् शैवाले तु पुमानय॑मिति मेदिनी । शब्दार्णवोक्तिमाह — शैवालं शेवल इति । मृकणि । मृङ् प्राणत्यागे, कण शब्दार्थः । ऊकश्च उकण् च ऊकोकणौ एतौ प्रत्ययौ यथाक्रमं भवतः । वल संवरणे । ॒उलूकः पुंसि काकाराविन्द्रे भारतयोधिनि॑ इति मेदिनी । वदेर्यङ्लुगन्तादूकः ।वाचोयुक्तिपटुर्वाग्मी वावदूकोऽतिवक्तरि॑ इत्यमरः । भल्लूक इति । भल्ल परिभाषणे इत्यस्मादूकः । शमेः । शम उपशमे अस्मादूकः । धातोर्बुगागमश्च । शम्बूको गजकुम्भान्ते घोण्टे च शूद्रतापसे॑ इति मेदिनी । बाहुलकादुकप्रत्यये ह्रस्वमध्योऽपि ।जम्बूकं जम्बुकं प्राहुः शम्बुकमपि शम्बुक॑मिति द्विरुपकोशः । जम्बूकबन्धूकादयोऽप्यत्रैव द्रष्टव्यः । जम्बूकः फेरवे नीचे पश्चिमाशापतावपि॑ इति मेदिनीविआप्रकाशौ ।बन्धूकं बन्धूकं बन्दुजीवे स्याद्बन्धूकः पीतसारके॑ इति च । शलिमण्डि । शलगतौ, मडि भूषायां हर्षे च ।सौगन्धिकं तु कह्लार॑मित्याद्युपक्रम्य्सालूकमेषां कन्दः स्यात् इत्यमरः । एषां च सौगन्धिकादीनां कुमुदकैरवान्तानां कन्दो मूलं शालूकमित्यर्थः । मण्डते वर्षासमयमिति मण्डूको भेकः । नियो मिः । णीञ् प्रापणे । नयति चक्रमिति नेमिश्चक्रावयवः ।नेमिर्ना तिनिशेकूपत्रिकाचक्रान्तयोः स्त्रिया॑मिति मेदिनी । बाहुलकादन्यतोऽपि । या प्रापणे ।यामिः स्वसकूलस्त्रियोः॑ इत्यन्तस्थादौ रभसः ।जामिः स्वसृकुलस्त्रियोः॑इति चवर्गतृतीयादावजयकोशः ।चवर्गादिरपि प्रोक्तो जाभिः स्वसृकुलस्त्रियोः॑ इति द्विरूपेषु विआः । अर्तेरुच्च । ऋ गतावित्यस्मन्मिः, धातोरुकारादेशश्च । उचेति वक्तुमुचितम्,रपरत्वेहलिचे॑ति दीर्गसंभवात् ।ऊर्मिः स्त्रीपुंसयोर्वाच्यां प्रकाशे वेगभङ्गयोः । वस्त्रसंकोचरेखायां वेदनापीडयोरपि॑ ति मेदिनी । भुवः । भवतेर्मिः कित्स्यात् । भवन्ति भूतान्यस्यामिति भूमिः ।भूमिर्वसुन्धरायां स्यात्स्थानमात्रेऽपि च स्त्रिया॑मिति मेदिनी ।बूर्भूमिरचलाऽनन्ता॑ इत्यादिस्त्वमरः । अश्नोतेः । अशू व्याप्तौ, अस्मान्मिः, धातो रशादेशश्च ।रश्मिः पुमान् दीधितौ स्यात्पक्षप्रग्रहयोरपी॑ति मेदिनी । वीज्या । वी गतौ, ज्या वयोहानौ,ज्वर रोगे । अमरोक्तिमाह — वेणिः स्यादित्यादि ।कृदिकारा॑दिति ङीष् ।वेणी केशस्य बन्धने । नद्यादेरन्तरे देवताडे॑ इति मेदिनी ।वेणी खरा गरी देवताडेजीमूत इत्यपि॑ इत्यमरः ।ज्यानिर्हानौ रुआवन्त्यां च॑ इति विआः ।ज्वरत्वरे॑ त्युपधाया वकारस्य च ऊठ् । जूर्णिः स्त्रीरोगः । सृवृषि । सृगतौ, वृषु सेचने, आभ्यां निः कित्स्यात् ।अङ्कुशोऽस्त्री सृणिः स्त्रिया॑मित्यमरः ।सृणिः स्याङ्कुशे पुमा॑निति कोशान्तरम् । अत एवआरक्षमग्नमवमत्य सृणिं शिताग्न॑ इति माघे पुंलिङ्गप्रयोगः ।वृष्णिस्तु यादवे मेषे वृष्णिः पाखण्डमेषयोः॑ इति विआः ।ऐन्द्रे वृष्णिं षोडशिनि तृतीय॑मिति श्रुतौ वृष्णिं मेषमित्यर्थः । अङ्गेः । अगिर्गत्यर्थः ।अग्निर्वैआआनरेऽपि स्याचित्रकाख्यौषधौ पुमाटमिति मेदिनी । वहि । वह प्रापणे, श्रिञ् सेवायाम्,श्रु श्रवणे,युमिश्रणे, द्रु गतौ, ग्लै म्लै हर्षक्षये,ओहाक् त्यागे, ञित्वरा संभ्रमे, एभ्यो निः प्रत्ययः स्यात्स च नित् ।वहिर्वैआआनरेऽपि स्याचित्रकाख्यौषधौ पुमा॑निति मेदिनी । श्रेणिः । पङ्क्तिः ।निः श्रेणिस्त्यधिरोहिणी॑ । श्रेणिः स्त्रीपुंसया । पङ्क्तौ समाने शिल्पिसहतौ॑ इति मेदिनी । श्रोणिः कटिप्रदेशः ।कटिः श्रोणिः कुकुद्योनी॑त्यमरः । योनिर्भगम् ।योनिः स्त्रीपुंसयोश्च स्यादाकरे स्मरमन्दिरे॑इति मेदिनी । द्रोणिः सेचनौ ।कृदिकारा॑दिति ङीषि द्रोणी ।द्रोणोऽस्त्रीयामाढके स्यादाढकादिचतुष्टये । पुमान् कृपीपत्तौ कृष्णकाके स्त्री नीवृदन्तरे॑ इति मेदिनी । ग्लानिर्दौर्बल्यम् । हानिरपचयः क्षयश्च । तूर्णिर्मानः ।घृणि.घृ सेचने, स्पश संस्पर्शने, पृषु सेचने, चर गतौ, डुभृञ् धारणपोषणयोः । निप्रत्ययो गुणाभावश्च निपात्यते । घृणिः पुनः । अंशुज्वालातरङ्गेषु॑ इति हेमचन्द्रः ।पृश्निरल्पतनौ॑ इत्यमरः ।पाष्णिःस्यादुन्मदस्त्रियाम् । स्त्रियां द्वयोः सैन्यपृष्ठे पादमग्रन्थ्यधरेऽपि चे॑ति मेदिनी । भूर्णिरिति ।तक्वा न भूर्णिः॑ इति मन्त्रभाष्ये तु भूर्णिर्धारकः पोषको वेति व्याख्यातम् । वृदृ । दृञ् वरणे, दृङ् आदरे । स्त्रियांकृदिकारा॑दिति ङीष् । दर्वी । जृशृ । जृ वयोहानौ, शृ हिंसायाम्, स्तृञ् आच्छादने, जागृ निद्राक्षये । क्विनः कित्त्वात्ऋत इद्धातोः॑ इति इत्वे रपरत्वे जीविरित्यादि । दिवो । दिवु क्रीडादौ अस्मात् क्विन् । कित्त्वाद्गुणाऽभावः ।दीदिविर्धिशषणाऽन्नयोः॑ इति विआः ।दीदिविनां धिषणेऽन्नेतदस्त्रिया॑मिति मेदिनी । धिषणो बृहस्पतिः ।दीदिविद्र्वादशकरश्चक्षुः सुरगुरुर्गुरुः॑ इति त्रिकाण्डशेषः ।दीदिविद्र्वादशाचिः स्याज्जीवः प्राक्फल्गुनीसुतः॑ इति हारावली ।ओदनोऽस्त्री सदीदिविः॑ इत्यमरः । अत्रसदीदिविदीदिविसहित इति व्याख्यानं न्याय्यम् । अत्र स इति विशेषणाद्दीदिविः पुंलिङ्ग इति केषांचिद्व्याख्यान नादर्तव्यम् । स इति छेदने तु अस्त्रियामिति न लभ्येत । ततश्चान्ते॑ तदस्त्रिया॑मिति पूर्वोक्तमेदिनीग्रन्थो विरुध्येतेति ध्येयम् ।गोपामृतस्य दीदिविम् इति मन्त्रे तु द्योतमानमित्यर्थः । कृवि घृष्वि । डुकृञ् करणे, वृषु सेचने,छो छेदने , ष्ठा गतिनिवृत्तौ, दिवु क्रिडादौ, एते क्विन्नन्ता निपात्यन्ते । घृष्विर्वराह इति ।उग्रस्य द्यूनः स्थविरस्य घृष्वेः॑ इति मन्त्रे तु घृष्वेः = कामानां वर्षकस्येत्यर्थ इति व्याख्यातम्, घृषु सेचने इति धात्वर्थानुगमात् ।छविः शोभारुचोर्योषित् इति मेदिनी ।अथ चाषः किकीदिविः॑इत्यमरः । विनिमय इति ।किकिदीविः किकीदिवौ॑ इति द्विरूपकोशः । पातेः । पा रक्षणे डित्त्वाट्टिलोपः ।पतिर्धवे ना त्रिष्वीशे॑ इति मेदिनी । शकेः । शक्लृ शक्तौ ।उच्चाराऽवस्करौ शमलं शकृतम् । गूथं पुरीषं वर्चस्कमत्री विष्ठाविशौ स्त्रिया॑ मित्यमरः । अमेः । अम गतौ ।अथाऽमतिः पुंसि हिमदीधितिकालयोःर॑ इति मेदिनी । अमितिश्चामतिः काले॑ इतिद्विरुपेषु विआः । वहि । वह प्रापणे,वस निवासे, ऋ गतौ ।वहतिः सचिवे गवि॑ इति विआः ।वसतिः स्यात् स्त्रियां वासे यामिन्यां च निकेतन् इति मेदिनी । अञ्चेः । अञ्चु गतौ, अस्मादतिः स्यात्ककारश्चान्तादेशो विकल्पेन ।हन्तेः । दृन हिंसागत्योः । अमरोक्तिमाह — प्रादेशनमित्यादि । रमेः । रमेतरतिः स्यात्स च नित् ।रमतिर्नायके नाके पुंसि स्यात् इति मेदिनी । नित्त्वमाद्युदात्तार्थम् ।रन्तिरसि रमतिरसि॑ । सूङः । षूङ् प्राणिप्रसवे । कित्त्वाद्गुणाऽबावः ।दीमान् सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः॑इत्यमरः । दशपाद्यां तुसुञोरिन् दीर्घश्च॑ इति पाठः । तत्र रिनी नकारो नानुबन्धः, उत्तरसूत्रे क्रिन् प्रत्ययारम्भात् । अनुबन्धत्वे हि लाघवादिहैव क्रिन्नुच्येत । तथा च सूरिणौ सूरिण इत्यादि रूपम् । अत एवाभिधानमालायां सूरीति नान्तमुदाहृतमित्यभिधेयम् । दशपादीवृत्तिकारैस्तु नित्वं स्वीकृत्य सूरिरित्युदाहृतं , तदेतेन प्रयुक्तम् । स्वरविरुद्धमपिसदा पश्यन्ति सूरयः॑विसूरयो दधतो विआमायुः॑ इत्यादौ सूरिशब्दस्यान्तोदात्तत्वदर्शनात् । अदि । अद भक्षणे, शद्लृ शातने, भू सत्तायाम्, शुभ शुम्भ शोभार्थे ।अद्रयो द्रुमशैलाऽर्काः॑इत्यमरः ।भूरिर्ना वासुदेवे च हरे च परमेष्ठिनि । नपुंसकं सुवर्णे च प्राज्येस्याद्वाच्यलिङ्गकः॑ इति मेदिनी । वह्क्यादयश्च । वकि कौटल्ये, टुवप् बीजसन्ताने । निपातनात्संप्रसारणाऽभावः । अहिर्भाषार्थश्चुरादिण्र्यन्तः । अधि गतौ गत्यारम्भे च । ञिभी भये । तन्द्रिरिति ।कृदिकारा॑दिति पक्षे ङीष् ।तन्द्री निद्राप्रमालयोः॑ इति मेदिनी ।तन्द्री तन्द्रिव तन्द्राया॑मितिद्विरुपकोशः ।विभज्य नक्तंदिवमस्ततन्द्रिणा॑ इति भारविः । प्रत्ययस्य कित्त्वाद्गुणाऽभावमाशङ्क्याह — बहुलकादिति । राशदि । रा दाने, शद्लृ शातने ।शत्रिर्नाम्भोधरे विष्णौ॑ इति मेदिनी ।शत्रिमग्र उपमां केतुमर्थः॑ इति मन्त्रस्य वेदभाष्ये तु उपमाम्- उपमानभूतं केतुं = प्रख्यातं , शत्रिम् = एतन्नामकं राजषिमिति व्याख्यातम् । अदेः । अद भक्षणे । अब्राई भक्षकः, अत्रिर्मुनिभेदः । उज्ज्वलदत्तस्तु अदेस्त्रिन्निति पठित्वा अत्रिरित्युदाजहार । तन्न । त्रिचैवेष्टसिद्धौ प्रत्ययान्तरवैयथ्र्यात् । गोवद्र्धनस्तु अदेस्त्रिन्निचेति पठित्वा निदिति वचनान्नकारस्य नेत्संज्ञा, अब्राई अग्निणौ अग्निण इत्याह । तदपि न । नित्त्वे सत्याद्युदात्तत्वापत्तेः । न चेष्टापत्तिः । जहीन्या । १ अब्रिआणं पणिं॑ । [दूरे वा ये अन्ति वा केचिदब्रिआणः॑ ।]अग्ने हंसिन्या २ अत्रिणम् इत्यादावन्तोदात्तस्य निर्विवादत्वात् । अतएवन लुमताङ्गस्य॑ इति सूत्रेअदेस्त्रिनिश्चे॑त्येव कैयटोऽप्याहेति दिक् । पतेः । पत्लृ गतौ । पतत्रिरिति । पक्षवाचकात्पतत्रशब्दान्मत्वर्थे इनि तु नान्तः । पतव्री पतव्रिणौ पतव्रिण इत्यादि । मृकणि । मृङ् प्राणत्यागे, कण शब्दार्थः ।कणीचिः कृपणे दीप्तौ ऋषिभेदे च दृश्यते॑ इति विआः ।मरोचिर्मुनिभेदे ना भगस्तावनपुंसक॑मिति मेदिनी ।कणीचिः पुष्पितलतागुञ्जयोः शकटे स्त्रिया॑मिति च । आयतेः । टुओश्वि गतिवृद्ध्योः, अस्मादीचिप्रत्ययश्चित्स्यात् । वेञः । वेञ् तन्तुसन्तानेऽस्मादीचिर्डित्स्यात् ।वीचिः स्वल्पे तरङ्गे स्यावकाशेसुखे द्वयोः॑ इति विआमेदिन्यौ । ऋहनि । ऋ गतौ,हन हिंसागत्योः ।पुरः । कुष निष्कर्षे । कित्त्वाद्गुणाऽभावः ।पुरुषं पुरुषे साङ्ख्यज्ञे च पुंनागपादपे॑ इति विआमेदिन्यौ । पृनहि । पृ पालनपूरणयोः, णह बन्धने, कल शब्दसङ्ख्यानयोः ।परुषं कर्बुरे रुक्षे निष्ठुरोक्तौ च वाच्यवत्इति मेदिनी ।बहुषो राजविशेषे नागभिद्यपि॑ इति हेमचन्द्रः । उवचश्चित्त्वान्नहुषशब्द्सयान्तोदात्तत्वे प्राप्ते ग्रामादित्वाद्वृषादित्वाद्व । आद्युदात्तत्वमित्याहुः । एतच्चदेवा अकृण्वन्नहुषस्य विआ॑मिति मन्त्रस्य भाष्ये स्पष्टम् ।कलुषं त्वाविलैनसोः॑ इति विआः । पीयेः ।पीयुषममृतं सुधा॑ इत्यमरः ।पीयूषं सप्तदिवसावधि क्षीरे तथाऽमृते॑ इति मेदिनी । अमरोक्तिमाह — पेयूष इत्यादि । मस्जेः । टुमस्जो शुद्धौ, अस्मादूषन्स्यान्नुमागमश्च धातोः ।मिदचोऽन्त्यात्परः॑ । सस्य श्चुत्वेन शः । तस्य जश्त्वेन जः । तस्यझरो झरी॑ति वा लोपः । लोपाऽभावपक्षे जकारद्वयम् । मञ्जूषा काष्ठमयं द्रव्यम् । पेटक इति यावत् ।पिटकः पेटकः पेटा मञ्जूषा॑ इत्यमरः । गडेः । गडि वदनैकदेशे ।गण्डूषो मुखपूरणः॑[॒गण्डूषो मुखपर्तीभपुष्करप्रसृतोन्मिते॑ इति मेदिनी] । अर्तेः । ऋ गतौ, उकारान्तोऽयं प्रत्ययो न तु सकारान्त इति स्फोरयति — अररू अररव इत्यनेन । न चोकारान्तत्वे विवक्षितत्वात् ।कश्चिद्यावीरररु शूरमत्र्यम्अपाररुमदेवयजनो जहि॑ इत्यादिमन्त्रेषु तथा दर्शनात् । अत्र व्याचक्षते — मा नः शंसो अररुषःरट इति मन्त्रस्य बाष्येसान्तोऽयमिति माधवेनोक्तं, यत्तत्प्रौढिवादमात्रं, न तु वास्तवम् । अररुष इति पदस्य आद्युदात्तत्वापत्तिप्रसङ्गात् । तस्माद्रातेर्लिटः । क्वसुश्चेति क्वसोररिवानित्यनेन नञ्समासे ङस्यररुष इति व्याख्येयम् । ततश्चतत्पुरुषे तुल्यार्थे॑ त्यादिना पूर्वपदप्रकृतिस्वरे सत्याद्युदात्तत्वं॑ सिध्यति ।गुरुद्वेषो अररुषे दधन्ति॑ इत्यत्र स्वयमेव रातेः । क्वसन्तस्य नञ्समास इत्यादि व्याख्यानात् ।यो नो अग्ने अररिवाँ अत्रायुः॑ इत्यादिमन्त्रान्तरसंवादाञ्चेति । कुटः । कुट कौटिल्येऽस्मादरुः स्यात्सच कित् । चिन्त्यमिति ।गाङ्कुटादिभ्यःर॑ इति ङित्त्वेनैव गुणाऽभावुसिद्धेरिति भावः ।शकादि । शकिगत्यर्थ इति । शक्लृ शक्तावित्स्मादटन्नित्येके ।क्लीबेऽयः शकटोऽस्त्री स्यात् इत्यमरः ।करटो कजगण्डे , कटेवर्षावरणयोः ।करम्बो मिश्रिते वान्तो, भान्तु दधिसक्तुषु॑ इति विआः ।कदम्बं निकुरम्बेस्यान्नीपसर्षपयोः पुमान् इतिच । कदेः ।कादम्बः स्यात्पुमान्पक्षिविशेषे सायकेऽपि चे॑ति मेदिनी । कलि । कल सङ्ख्याने, कर्द कुत्सिते शब्दे ।कलमः पुंसि लेखन्यां शालौ पाटचरेपि च॑ इति मेदिनी । कुणिपुल्योः । पुल महत्वे । कुपेः । कुप क्रोधेऽस्मात्किन्दच् स्यात्, वकारश्चान्तादेशो विकल्पेन ।तन्तुवायः कुविन्दः स्यात् इत्यमरः । बाहुलकात् अल भूषणादौ । अलिन्दम् ।यस्यामलिन्देषु च चक्ररेव मुग्धाह्गनागोमयगोमुखानि॑ इति भावः । नौ षञ्जेः । षञ्ज सङ्गे । निपूर्वादस्मात् घयिन्स्यात् ।उपसर्गात्सुनोती॑त्यादिना षत्वम् ।चजोरिति॑कुत्वम् ।आभुरस्य निषङ्गथिः॑ । रथकूवर इत्यर्थः । उद्यर्ते । ऋ गतावुत्पूर्वादस्मात् घथिन् स्यात्, स च चित् । सर्तेः । सृ गतावस्माद्धथिन् णित्स्यात् ।नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः॑ इत्यमरः । खर्जि । खर्ज मार्जने, पिञ्ज हिंसायाम् । खर्जादिभ्यः, पिञ्जादिभ्यश्च यथाक्रमं ऊरौउलचौ स्तः ।॒खर्जुरं रूप्यफलयोः खर्जूरः कीटवृक्षयोः॑ इति मेदिनीहेमचन्द्रौ । कृपू सामर्थ्ये । बाहुलकात्कृपो रो लः॑ इति लत्वाऽभावः ।अथ कर्पूरमस्त्रियाम् । घसारश्चन्द्रसंज्ञः सिताऽभो हिमवालुका॑ इत्यमरः । वल्ल संवरणे । वल्लूरम् ।उत्त्प्तं शुष्कमांसं स्यात्त्तद्वल्लूरं त्रिलिङ्गक॑मित्यमरः । एवं शालूरादयो द्रष्टव्याः ।भेके मण्डूकवर्षाबूशालूरप्लवदर्दुराः॑इत्यमरः । लङ्गेः । लगिर्गत्यर्थः । लाङ्गूलं पुच्छशेफसोः॑ इति मेदिनी । कुसूल इति । कुस श्लेषणे दन्त्यसकारवान् ।कुसूलं च कुसीदं च मध्यदन्त्यमुदाहृत॑मिति विआः । ताम्बूलादयोऽप्यत्र द्रष्टव्याः । तमु ग्लानौ, वुग् दीर्घत्वं च ।ताम्बूली नागवल्यां स्त्री क्रमुके तु नपुंसक॑मिति मेदिनी । शृ हिंसायाम्, धातोर्वृद्धर्दुगागमश्च ।शार्दूलो राक्षसान्तरे । व्याघ्रे च पशुभेदे च सत्तमे तूत्तरस्थितः॑ इति मेदिनीविआप्रकाशौ । उत्तरस्थितः = उत्तरपदभूतः शार्दूलशब्दस्तु श्रेष्ठवाची ।राजशार्दूल॑ इति यथा । दु गतौ, कुङ् शब्दे, अनयोः कुक् च ।दुकूलं श्लक्ष्णवस्त्रे स्यात् क्षौमे चे॑ति मेदिनी ।क#उकूलं शङ्कसङ्कीर्णे आश्रे ना तु तुषाऽनले॑ इति विआमेदिन्यौ ।शिरीषादपि मृद्वङ्गी क्वेयमायतलोचना । अयं क्व च कुकूलाऽमिकर्कशो मदनानलः॑ इति प्रोयगश्च । कुषः । कु शब्दे । कुचः = स्तनः ।कुचकूचौ स्तनौ मतौ॑इति विआः । कूचीति । टित्त्वान्ङीप् । समीणः । इण् गताविस्मात्सम्युपपदे चट् स्याद्दीर्घश्च धातोः । सिवेः । षिवु तन्तुसन्तानेऽस्माचट् प्रत्ययः स्याट्टेकत्वं च । टित्त्वान्ङीप् । सूची तु सीवनद्रव्येऽप्याङ्गिकाभि नयान्तरे॑ इति मेदिनी । शमेः । शम उपशमे । शम्बः स्यान्मुसलाऽग्रस्थलोहमण्डलके पव । शुभान्विते त्रिषु॑ इति विआमेदिन्यौ । उल्वा । उल्वमिति ।गर्भाशयो जरायुः स्यादुल्यं च कललोऽस्त्रिया॑मित्यमरः । शुच शोके । चस्य लत्वं, गुणाऽभावश्च प्राग्वत् ।शुल्वं ताम्रे यज्ञकर्मण्याचारे जलसंनिधौ॑ इतिमेदिनीहेमचन्द्रौ । वी गतिप्रजनकान्त्यसनखादनेषु । अस्य मुमागमो ह्रस्वत्वं च । ववयोरभेदाद्विम्बम् ।विम्बस्तु प्रतिबिम्बे स्यान्मडले पुंनपुंसकम् । बिम्बिकायाः फले क्लीबं कृकलासे पुनः पुमान् इति मेदिनी । स्थः स्तः । ष्ठा गतिनिवृत्तौ ।स्तम्बो गुल्मे तृणादीनामप्रकाण्डद्रुमेऽपि च॑ इति विआः ।स्तम्बोऽप्रकाण्डद्रुमगुच्छयोः॑ इति मेदिनी ।स्याद्गुच्छकस्तु स्तम्बकःर॑ इत्यमरः । शाशपि । शो तनूकरणे, शप आक्रोशे ।शादो जम्बालशष्पयोः॑ इत्यमरः ।शष्पं बालतृणं घासः॑ इति च ।शादः स्यात्कर्दमे शष्पे॑ इति मेदिनी । शब्दो = निनादः । अब्दादयः । एते दनन्ता निपात्यन्ते । अव रक्षणे । वस्य वः ।अब्दः संवत्सरे वारिवाहमुस्तकयोः पुमान् इति मेदिनी । कौतेः । कु शब्दे ।कुन्दौ माध्येऽस्त्री मुकुन्दभ्रमिनिद्यन्तरेषु ना॑ इति च मेदिनी । वलिमलि । वल संवरणे ॑[संचरणे च],मल मल्ल धारणे, तनु विस्तारे ।वलयः कण्ठरोगे ना कङ्कणे पुंनपुंसक॑मिति मेदिनी ।मलयः पर्वातन्तरे । शैलांशे देशाअरामे त्रिवृत्तायां तु योषिति ॑ इति च ।आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रिया॑मित्यमरः । वृह्रोः । वृञ् वरणे,ह्मञ् हरणे, आभ्यां कयन् स्यात्, यथाक्रमं षुग्दुकावागमौ च भवतः । कयनः कित्त्वं त्विह गुणाऽभावर्थम् । ह्यियते विषयैरिति ह्मदयं मनः । मिपीभ्याम् । डुमिञ् प्रक्षेपणे, पीङ् पाने ।मेरुः सुमेरुर्हेमाद्रिः॑ इत्यमरः । पीयते रसनिति पेरुः । पिबतेरिति । पा पाने । हट्टचन्द्रोक्तिमाह — संवत्सरवपुरित्यादि । जत्र्वादयः । रुप्रत्यान्ता निपात्यन्ते ।जनी प्रादुर्भावे । नकारस्य तकारः । जत्रुः स्कन्धसन्धिः ।सन्दी तस्यैव जत्रुणी॑ इत्यमरः । तस्य= पूर्वोक्तस्य स्कन्धस्य सन्दी इत्यर्थः । असु क्षेपणे, अशू व्याप्तौ सङ्घाते च । अरुआउ अश्रु च नयनजलम् । बाहुलकात् शीङो ह्रस्वत्वं गुगागमस्च ।शिग्रुर्ना शाकमात्रेऽपि शोभाञ्जनमहीरुहे॑ इति मेदिनी । रुशाति.रु शब्दे, शद्लृ शातने ण्यन्तः ।कृष्णसाररुरुन्यङ्कुरकुङ्कुशम्बररौहिषाःर॑ इत्यमरः । रुरुर्दैत्ये मृगेऽपि चेति मेदिनी । जनिदा । जनी प्रादुर्भावे, डुदाञ् दाने, च्युङ् गतौ, सृ गतौ, वृञ् वरणे, मदी हर्षे, षम ष्टम अवैकल्ये,णम प्रह्वत्वे शब्द च, डुमृञ् धारणपोषणयोः । एभ्यो नवभ्यो यथासङ्ख्यं नव स्युः । जनेरित्वन् । जनेरिडागमेनापि जनित्वेति रुपसिद्धाविकारोच्चारणमुत्तरार्थम् । च्यौत्न इति । त्नणो णित्त्वाद्वृद्धिः । सृणिरिति । क्निनः कित्त्वान्न गुणः । नित्त्वं तु आद्युदात्तार्थम् ।सृवृषिभ्यां कि॑दिति निप्रत्यये त्वन्तोदात्तः साधितः । वृश इति । शकः कित्त्वान्न गुणः । मत्स्य इति । स्यप्रत्यये चर्त्वेन दस्य तः । अन्तोदात्तोऽयम् ।ऋतत्यजी॑ति सूत्रे तु आद्युदात्तः साधितः । षण्ढ इति । बाहुलकाद्धात्वादेः षस्य सकारो न । प्रत्ययादेर्ढस्य तु प्रयोजनाऽभावान्नेत्संज्ञा ।शमेर्ढः॑ इति सूत्रे तु तालव्यादिः साधितः ।सायं सायो भवेत्कोशः कोषः षण्ढश्च शण्डवदि॑ति द्विरूपकोशः ।षण्ढो वर्षवरः॑इत्यमरः ।नटी नल्यौषधी स्त्री स्याच्छैलूषाऽशोकयोः पुमान् इति मेदिनी । भरट इति । विभर्तेटच् । नट इति । नमतेर्डट् । अन्येभ्योऽपि । इत्वन्नादयोऽनुवर्तन्ते । पेत्वमिति । पा पानेऽस्मादित्वन् । भृशमिति । भृञः शक् ।कुसेः । कुस संश्लेषणेऽस्मादुम्ब उम ईद इत एते प्रत्यया स्युः ।कुसुम्भं हेमनि महारजने ना कमण्डलौ॑ इति मेदिनी ।कुसुमं स्त्रीरजोनेत्ररोगयोः फलपुष्पयोः॑ इति च ।कुसीदं जीवने वृद्ध्यां क्लीबं त्रिषु कुसीदके॑ इति च । इह सूत्रे तृतीयो ह्रस्वादिर्दीर्घादिश्च तन्त्रेणोपात्तः ।वृषाकप्यग्नी॑ति सूत्रे ह्रस्वादिरेवेति वृत्तिकारहरदत्तादिग्रन्तोपष्टम्भेन निर्णीतम् ।पारलौकिककुसीदमसीद॑दिति श्रीहर्षप्रयोगात्तु दीर्घादिरपि । सानसि । सनोतेरिति । षणु दाने । वृञो नुक् चेति । वृञ् वरणेऽस्मादसिः । दशपाद्यां तु — सानसिधर्णसी॑ति पठित्वा धृञो नुक् च । धर्णसिर्लोकपाल इति व्याख्यातम् । युक्तं चैतत् ।धर्णसिं भूरिधायस॑मित्यादिमन्त्रानुगुणत्वात् । पर्णसिरिति । पृ पालनपूरणयोरस्मादसिप्रत्ययो नुक् च । तण्डूला इति । उलच्प्रत्ययो नुमागमश्च धातोः ।त्रेधा तण्डुलान्विभजेत् । इह चित्स्वरः ।तण्डुलः स्याद्विडङ्गे च धान्यादिनिकरे पुमा॑निति मेदिनी । अङ्कुश इति । अयमपि चित्स्वरेणान्तोदात्तः । तथाच मन्त्रःदीर्घ ह्रङ्कुशं यथा॑ इतिअङ्कुशोऽस्त्री सृणिः स्त्रिया॑ मित्यमरः । चषेराल इति । चष भक्षणे । प्रत्ययस्वरेणाद्युदात्तः । उज्ज्वलदत्तस्त्वालनात् । अमरोक्तिमाह — चषाल इति । इल्वल इति । इल स्वप्नप्रेरणयोः । वलच् । गुणाऽभावः ।इल्वलस्तारका राजभेदे ना दैत्यमत्स्ययोःर॑ इति मेदिनी ।इल्वलास्तच्छिरोदेसे तारका निवसन्ति याः॑ इत्यमरः । पा पाने अस्माद्वलच्, लुगागमो ह्रस्वत्वं च । पिबन्त्यस्मिन्निति पल्वलमल्पसरः ।वेशन्तः पल्वलं चाल्पसरः॑ इत्यमरः । इकार इति । रपरत्वाऽभावो ण्यप्रत्ययश्चेति बोध्यम् ।धिष्ण्यं स्थाने गृहे भेऽग्नौ इत्यमरः ।धिष्ण्यं स्थानाग्निसद्मसु । ऋक्षे शक्तौ च॑ इति मेदिनी ।धिष्ण्यं स्थाने च ऋक्षे च धिष्ण्योऽग्नौ धिष्ण्यमालये॑ इति धरणि । शलेः । शल गतौशल्यं तु न स्त्रियां शङ्कौ क्लीबं क्ष्वेडेषुतोमरे । मदनद्रुआआविधोर्ना॑ इति मेदिनी । मूशकि । मूङ् बन्धने, शक्लृ शक्तौ, अवि शब्दे ।मूलं शिफाऽऽद्ययोः ।मूलं वित्तेऽन्तिके॑ इति मेदिनी ।शक्लः प्रियंवदेः॑ इति विशेष्यनिद्नेऽमरः । अमेरिति । अम रोगे चुराणित्यन्तः । बाहुलकादेवोपधाह्रस्वः ।अम्लो रसविशेषे स्यादम्ली चाङ्गेरिकोषधौ॑ इति मेदिनी । माछा । मा माने, छो छेदने, षस स्वप्ने ।माया स्याच्छाम्बरीबुद्ध्योर्मायः पीताम्बरेऽसुरे॑ इति मेदिनी ।छाया स्यादातपाऽभावे प्रतिबिम्बार्कयोषितोः । पालनोत्कोचयोः कान्तिच्छोभापङ्क्तिषु स्त्रिया॑मिति विआमेदिन्यौ ।वृक्षादीनां फलं सस्य॑ मित्यमरः । सुनोतेरिति । षुञ् अभिषवे ।सद्यं वामे प्रतीपे चे॑ति मेदिनी । जनेः । जन जनने । यकः कित्त्वमुत्तरार्थम् ।जन्यं हट्टे परीवादे सङ्ग्रामे च नुपंसकम् । जन्या मातृवयस्यायां जन्यः स्याज्जनके पुमान् । त्रिषूत्पाद्यजनित्रोश्च नवोढाज्ञातिभृत्ययोः ।स्निग्धे॑ इति मेदिनी । आत्वपक्षे रुपमाह — जायेति ।अध्न्यादयश्च । अध्न्य इति । यकः कित्त्वात्गमहने॑त्युपधालोपेहो हन्ते॑रिति कुत्वेन हस्य घः । अडागममनुक्त्वा नञ्पूर्वाद्धन्तेर्यगित्यन्ये । अध्न्येति । स्त्रियां टाप् ।माहेयी सौरभेयी गौरुरुआआ माता च शृङ्गिणी । अर्जुन्यघ्न्या रोहिणी स्या॑दित्यमरः । संपूर्वाद्धाञो यक् आतो लोपश्च ।संध्या पितृप्रसूद्यन्तरयोर्युगसन्धिषु॑ इति मेदिनी ।कन्या कुमारिकानार्योरोषधीराशिभेदयोः॑ इति विआमेदिन्यौ । बन्ध्येति । बन्ध बन्धने ।बन्द्यस्त्वफलवृक्षादौ स्त्रियां स्यादप्रजस्त्रिया॑मिति मेदिनी । कौतेर्यति डुक् । कुडमित्युज्ज्वलदत्तः ।यतोऽनावः॑ इत्याद्युदात्तः । डक्प्रत्ययान्तोऽयमन्तोदात्त इत्यन्ये इति ।निवाते वातत्राणे॑ इति सूत्रे वृत्तिः । डित्त्वाट्टिलोपे सति कित्करणं व्यर्थं स्यादिति गुणप्रतिषेधार्थात्ककाराड्कारस्येत्त्वं नेति तत्रैव हरदत्तः । एवं स्थितेऽध्न्यादयो यगन्ता इति प्रायोवादः । स्नामदि । ष्णा शौचे । मदी हर्षे , पद गतौ, ऋ गतौ, पृ पालनपूरणयोः, शक्लृ शक्तौ ।अर्वा तुरङ्गमे पुंसि कुत्सिते वाच्यलिङ्गकःर॑ इति मेदिनी ।पर्व क्लीबं महे ग्रन्थौ प्रस्तावे लक्षणान्तरे । दर्शप्रतिपदोः सन्धौ विषुवत्प्रभृतिष्वपी॑ति च । ङीव्राविति ।वनो रचे॑ त्यनेन । अङ्गुलिरिति । एतच्चआरोहतं दर्शतं शक्वरीर्ममे॑त्यादिमन्त्रव्याख्यायां स्पष्टम् ।शक्वरी छन्दसो भेदे नदीमेखलयोरपी॑ति मेदिनी । शीङ् । शीङ् स्वप्ने, क्रुश आह्वाने रोदने च, रुह बीजजन्मनि प्रादुर्भावे च, जि जये, क्षि निवासगत्योः, सृ गतौ,धृञ् धारणे ।ध्याप्योः । ध्यै चिन्तायाम्, प्यैङ् वृद्धौ, आभ्यां क्वनिप्स्यात्संप्रसारणं च । धातोर्हल इति दीर्घः । अदेः । अद भक्षणेऽस्मात्क्वनिप्, धकारश्चान्तादेशः । अध्वा मार्गः । प्र ईर । ईर गतौ, शद्लृ शातने, आभ्यां प्रपूर्वाभ्यां क्वनिप्स्यात्तस्य तुडागमश्च । प्रेत्र्वरीति । स्त्रियींवनो र चे॑ति ङीब्राऔ । सर्वधातुभ्य इन् । डुपचष् पाके, तुडि तोडने, तोडनं दारणं हिंसन च , वल संवरणे, वट वेष्टने, यज देवपूजादौ, काशृ दीप्तौ, यती प्रयत्ने ।यतिः स्त्री पाठविच्छेदे निकारयतिनोः पुमान् इति मेदिनी । मल मल्ल धारणे, केलृ चलने भ्वादिः, केला विलासे कणड्वादिः, किल स्वैत्यक्रीडनयोः तुदादिः, कुट कौटिल्ये, हिल भावकरणे, बुध अवगमने,टुनदि समृद्धौ,कल शब्दसङ्ख्यानयोः ।गाङ्कुटादिभ्यः॑ इति ङित्त्वाद्गुणाऽभावमाशङ्क्याह — बाहुलकादिति ।कोटिः स्त्री धनुषोऽग्नेऽश्रौ संख्याबेदप्रकर्षयोः॑ इति मेदिनी ।बोधिः पुंसि समाधेश्च भेदे पिप्पलपादपे॑ इति च ।नन्दिद्र्यूताङ्ग आनन्दे स्त्री नन्दिकेआरे पुमान् इति च । इह इन्नित्येव सूत्रम् ।सर्वधातुभ्य॑ इति तु प्रक्षिप्तं व्यर्थं च । एवंसर्वदातुभ्यष्ट्रन्निटत्यादावपि बोध्यमित्याहुः । अतएव दशपाद्यांष्ट्र॑ न्नित्येव पठितमिति दिक् । ह्मपिषि.ह्मञ् हरणे, पिष्लृ संचूर्णने, रुह बीजजनमनि प्रादुर्भावेच, वृतु वर्तने । वर्तिर्दीपोपकरणम् । विद सत्तायाम् । विद्यते पुण्यमस्यामिति वेदिः ।वेदिः परिष्कृता भूमिः॑ । छिदिर्द्वैधीकरणे, कृत संशब्दने, हरतेः कीर्तयतेश्चअच इः॑ इति प्राप्ते, इतरेषां तुइगुपधा॑दिति कप्रत्यये प्राप्ते वचनमिदम् ।यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांसुवाजिषु । शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॑ इत्यमरः ।हरिश्चन्द्रार्कवाताआशुकभेकयमाहिषु । कपौ सिंहे हरेऽर्जेऽशौ शक्रे लोकान्तरे पुमान् । वाच्यवत्पिङ्गहरितोः॑ इतिमेदिनी ।वर्तिर्भेषजनिर्माणे मुद्रायां स्यात्परिष्कृतभूतले॑ इति च ।कीर्तिः प्रसादयशसोर्विस्तारे कद्र्दमेऽपि चे॑ति विआः ।इगुपधात् । कृष विलेखने, ऋषी गतौ,शुच शोके, लिप उपदेहे इत्यादेरिगुपधाद्धातोरिन्स्यात्स च कित् । केचित्तु इगुपधातिकंरितिअग्निः पूर्वेभिरृषिभिः॑ऋषिर्विप्रः काव्येन॒॑ शुचिर्विप्रः शुचिः कविः॑ इत्यादौ ऋषिशुचिप्रभृतीनामाद्युदात्तत्वदर्शनात् । न चैवम्अक्षैर्मा दीव्यः कृषिमित्कृषस्वे॑त्यादौ कृषिशब्दस्यान्तोदात्तता न सिध्येदिति वाच्यम्,इग्लृष्यादिभ्यःर॑ इतीक्प्रत्यये सत्यन्तोदात्तत्वसिद्धेः ।ऋषिर्वेदे वसिष्ठादौ दीधितौ च पुमानय॑मिति मेदिनी ।शुचिग्र्रीष्माग्निशृङ्गारेष्वाषाढे शुद्धमन्त्रिणी॑ति च ।भ्रमेः । भ्रमु अनवस्थानेऽस्मादिन्स्यात्, सच कित्, संप्रसारणं च ।भृमिं चिद्यथा वसवः पुषन्ति॑ इति मन्त्रे भृमिं = भरणशीलं दरिदिंर जनमिति वेदभाष्यम् । क्रमि । क्रमु पादविक्षेपे, तमु काङ्क्षायाम्, शतिस्तम्भौ सौत्रौ, एभ्य इन्स्यात्स च कित् । एषामत इकारादेशश्च । क्रिमिः क्षुद्रजन्तुः ।कृमिर्ना किमिवत्कीटे लाक्षायां क्रिमिले खरे॑ इति विआमेदिन्यौ ।पारतं पारदं वारुआओ वासरः, क्रिमिवत्कृमिः॑ इति द्विरुपकोशः । तिमिरिति ।अस्ति मत्स्यस्तिमिर्नाम तता चास्ति तिमिङ्गिलः । तिमिङ्गिलगिलोऽप्यस्ति, तद्गिलोऽप्यस्ति लक्ष्मणे॑ति रामायणे सप्तमे काण्डे रामवाक्यम् । केचित्तुतद्गिलोऽप्यस्ति राघवे॑ति पठित्वा राघवं प्रति लक्ष्मणवाक्यमित्याहुः ।शितिः कृष्णे सिते भूर्जे॑ इति विआः ।शितिर्भूर्जे ना सिताऽसितयोस्त्रिषु॑ इति मेदिनी ।मनेः । मन ज्ञाने, अस्मादिन्स्यात्स च किदकारस्योकारदेशश्च स्यात् । मन्यते जानातीति मुनिः । मुनिः पुमान्वसिष्ठादौ वङ्गसेनतरौ जिने॑ इति मेदिनी । वर्णेः । अस्मादिन्स्यात्स च कित् । [॒बलिर्दैत्यप्रभेदे च करचामरदण्डयोः । उपहारे पुमान्स्त्री तु जरया श्लक्ष्णचर्मणि । गृहदारुप्रभेदे च जठरावयवेऽपि चे॑ति मेदिनी] । वसि । वस निवासे, डुवप् बीजसन्ताने, यज देवपूजादौ,राजृदीप्तौ, व्रज गतौ, षद्लृ विशरणादौ, हन हिंसागत्योः, वाशृ शब्दे, वद व्यक्तायां वाचि ण्यन्तः, वृञ् वरणे ण्यन्तः । वासिरिति दन्त्यसकारवान् । सूत्रेऽष्टमस्तु तालव्यशकारवान् । द्वयमपि छेदनसाधने प्रयुज्यते ।वास्यादीनामिव करणानां कर्तृव्यापार्यत्वनियमा॑दिति वैशेषिकाः ।वास्यर्थमित्यत्रस्कोः॑ इतिसलोपः प्राप्नोती॑ति भाष्यम् । वापिरुदकाधारः । वापी प्रसिद्धा ।राजिः स्त्री पङ्क्तिरेखयोः ॑ इति मेदिनी । इह वादीति ण्यन्तनिर्देशेऽपि बाहुलकादण्यन्तादपि इञ्, तथा च भूवादिसूत्रे वदन्तीति वादयो वाचका इति न्यासकारादयः ।वारिः स्मृता सरस्वत्यां वारि ह्यीबेरनीरयोः । वारी घटीभबन्ध्नयोः॑इति विआः । ह्मञ् हरणेऽस्मादिञ् ।हारिः पथिकसन्तानद्यूतादिभङ्गयोः स्त्रियाम् इति मेदिनी । नहः । णह बन्धनेऽस्मादिञ् स्याद्भवश्चान्तादेशः । स्त्रियामिति । लिङ्गानुशासने स्त्रियामित्यधिकारेनाबिरक्षत्रिये॑ इति सूत्रितत्वादिति भावः । पुंस्यपीति । तथा च मेदिनी — नाभिर्मुख्यनृपे चक्रमध्यक्षत्रिययोः पुमान् । द्वयोः प्राणिप्रतीके स्यात्स्त्रियां कस्तूरिकामदे॑ इति । भारविश्च पुंसि प्रायुङ्क्त — ॒समुच्छ्वसत्पङ्कजकोशकोमलैरुपाहितश्रीण्युपनीविनाभिभिः॑ इति । कृषेः । कृष विलेखनेऽस्मादिञ्, वृद्धिश्च ।इको गुणवृद्धी॑ इतीकः स्थाने एव वृद्धिरित्युदाहरति — कार्षिरिति । भाषायां तु कृषिरित्येव । श्रः । शृ हिंसायामस्माच्छकुनौ वाच्ये इञ्स्यात् । शारिर्नाऽक्षोपकरणे स्त्रियां शकुनिकान्तरे । युद्धार्थगजपर्याणे व्यवहारान्तरेऽपि चे॑ति मेदिनी । कपिलकादित्वाल्लत्वम् ।शालिस्तु कलभादौ चगन्धमार्जारके पुमान्दिति मेदिनी । कृञः । करोतेरञ्स्यादुदीचां मते कारुषु वाच्येषु ।कारिः स्त्रियां क्रियायां स्याद्वाच्यलिङ्गस्तु शिल्पिनी॑ति मेदिनी । जनि । जनी प्रादुर्भावे, घस्लृ अदने, आभ्यामिण् ।जनिवध्योश्चे॑ति वृद्धिप्रतिषेधः । जनिरिति स्त्रीलिङ्गम् ।कृदिकारा॑दिति पक्षे ङीष् ।जनी सीमन्तिनीवद्वोरुत्पत्तावौषधीभिदि॑ इति मेदिनी । अजि । अज गतिक्षेपणयोः, अत सातत्यगमने ।बाहुलकादजेर्वोभावो न । पादे च । पादे चोपपदे अज्यतिभ्यामिण् स्यात् ।पादस्य पदाज्यातिगोपहतेषु॑ इति पदादेशः । पदाजिः पादचारी ।पदातिपत्तिपदगपदातिकपदाजयः । पद्गश्च पदिकश्च॑ इत्यमरः । अशिपणाय्योः । अशिश्च पणायिश्चाऽसिपणायी,तयोरिति विग्रहः । अशू व्याप्तौ,पण व्यवहारे आयप्रत्ययान्तः, आभ्यामिण् स्यादनयोर्यथाक्रमं रुडायप्रत्ययलुकौ च भवतः ।राशिर्मेषादिपुञ्जयोः॑इति मेदिनी । ॒वातेः । वा गतिगन्धनयोरस्मादिण् स्यात् । डित्त्वाट्टिलोपः । प्रे हर । प्रपूर्वाद्धरतेः कूपे वाच्ये इण् ।पुंस्येवाऽन्धुः प्रहिः कूप उदपानं तु पुंसि वा ॑ इत्यमरः । नौ व्यो । व्येञ् संवरणे ।स्त्रीकटीवरुआबन्धेऽपि नीवी परिपणेऽपि च॑ इत्यमरः । परिपणो = मूलधनम् । समाने । ख्या प्रकथने । इञ् स्यादिति । यत्तूज्ज्वलदत्तेनोक्तमिञ् स्यात्स चोदात्त इति ।नौ व्यः॑इति पूर्वसूत्रे उक्तम् — इञत्रानुवर्तते न त्विण्ुत्तरसूत्रे उदात्तवचनाज्ज्ञापका॑दिति । तदपि न ।स इञ् उदात्त॑ इति व्याख्याय समानस्य सभाव इति प्रक्रियास्मरणमात्रं कृतं, तदपि न, सभावविधायकस्याऽभावात् । यदपि स्वरमञ्जरीकारादिभिरुक्तंसमानस्य च्छन्दसी॑ ति सूत्रेण सभाव इति, तदपि न,लोके सखिशब्दस्याऽसाधुत्वापत्तेः । अपि चसखासखायमब्रावीत् [॒सखा सख्ये अपचन्]सखायस्त्वा ववृमहे॑ ।सखा सखिभ्य ईडः॑ इत्यादिमन्त्रेषु सर्वत्र सखिशब्द आद्युदात्त एवेति निर्विवादम् । एवं च इञुदात्त इत्युज्जवलदत्तादिव्याख्यानं वेदवार्तानभिज्ञत्वप्रयुक्तमेवेति दिक् । ङि । श्रिञ्, सेवायाम्, हन हिंसागत्योः । अमरोक्तिमाह — स्त्रिय इति । एवं चसुप्राप्तसुओ॑ति सूत्रे चतुरश्चेति तालव्यपाठः सङ्गच्छत एव । तत्सूत्रे केषाञ्चिद्दन्त्यपाठस्तु एतत्सूत्राऽपर्यालोचनामूलक एवेत्यबधेयम् । नन्वेवं चतुररुआमितिदन्त्यप्रयोगस्तु कथं निर्वाह इति चेदत्राहुः — अकारान्तेन दन्त्यगर्भिणाऽरुआशब्देन विग्रहे तत्प्रयोगः साधीयानन् । न च तादृशे शब्दे विप्रतिपत्तव्यम्,अरुआः कोणे कचे पुंसि क्लीबमश्रुण शोणिते॑ इति मेदिनीकोशादिति ।अहिर्वत्राऽसुरे सर्पे॑ इति मेदिनी ।अच इः । अजन्ताद्धातोरिः स्यात् । रु शब्दे, पूञ् पवने, पविर्वज्रम् । तृ प्लवनतरणयोः । तरिर्वरुआआदिस्थापनभाण्डम् ।स्त्रियां नौस्तणिस्तरिः॑ इत्यमरः । कु शब्दे ।कविर्वाल्मीकिशुक्रयोः ।सूरौ काव्यकरे पुंसि स्यात्खलीने तु योषिति॑इति मेदिनी । ऋ गतौ । अरिः शत्रुः । कपिलकादित्वाद्वैकल्पिकं लत्वम् । अलिभ्र्रमरः । खनि । खनु अवदारणे ।कष खषेति दण्डके हिंसार्थकः । अज गतिक्षेपणयोः, असु क्षेपणे,वस आच्छादने, वन षण संभक्तौ, वनु याचने, षणु दाने । ध्वन शब्दे, ग्रन्थ बन्धने उभौ चुरादी । चल कम्पने, एभ्य इः स्यात् ।खनिः स्त्रियामाकरः स्यात् इत्यमरः । ण्यन्तात्अच इः॑ इति इप्रत्यये खानिरपि ।कनिरेव मता खानिः॑ इति द्विरूपकोशः ।ग्रन्थिस्तु ग्रन्थिपर्णे ना बन्धे रुग्भेदपर्वणोः॑ इति मेदिनी ।ग्रन्थिर्ना पर्वपरुषी॑ इत्यमरः । वनिरग्निरिति । वनु याचने इत्यस्मादिप्रत्यये वनिर्याच्ञा इत्याहुः । चलिः पशुरिति ।चरिभ्यश्चे॑ति पाठान्तरम् । चर गतौ, चरतिर्भक्षणेऽपि । चरिः पशुः ।वृतेः । वृतु वर्तनेऽस्मादिः स्यात् । बाहुलकाल्लोकेऽपि -साज्यं च वर्तिसंयुक्त॑मिति प्रयोगः ।वर्तिर्भेषजनिर्माणे नयनाञ्जलनलेखयोः । गात्रानुलेपननीदीपदशादीपेषु योषिति॑ इति मेदिनी । भुजेः । भुज पालनाभ्यवहारयोरस्मादिः स्यात्स च कित् । भुजिरग्निः ।कृगृशृ । कृ विक्षेपे, गृ निगरणे, शृ हिंसायाम्, पृ पालनपूरणयोः, कुट कौटिल्ये, भिदिर्विदारणे, छिदिर्द्वैधीकरणे ।वराहः सूकरो घृष्टिः कोलः पोत्री किरिः किटिः॑इत्यमरः ।इगुपधज्ञाप्रीकिरः॑ इति कप्रत्यये किर इत्यकारान्तोऽपि ।त्वचिः त्वचः, किरोऽपि स्यात्किरौ प्रोक्तः, पथ पथि॑ इति द्विरूपकोशः ।गिरिर्ना नेत्ररुग्भिदि । अद्रौ गिरिजकेयोषिद्गीर्णौ पूज्ये पुनरिउआषु॑ इति मेदिनी । कुटरिति । ङीषि तु कुटी ।कुटीशमीशुण्डाभ्यो रः॑ । कुटीरः ।कुटिः कोटे पुमानस्त्री घटे स्त्रीपुंसयोर्गृहे । कुटी स्यात्कुम्भदास्यां च सुरायां चित्रगुच्छके॑ इति मेदिनी । कुडि । कुडि दाहे, कपि चलने, आभ्यामिः कित्स्याद्धातोर्नलोपश्च ।कपिर्ना सिंहके शाखामृगे च मधुसूदने॑ इति च । सर्वधातुभ्यः । डुकृञ् करणे, चर गतौ, चरतिर्भक्षणेऽपि, जन जनने, भस भत्र्सनदीप्त्योः, शृ हिंसायाम्, शर्म सुखे, ष्ठा गतिनिवृत्तौ,छद अपवारणे चुरादिः, त्रैङ् पालने । सुष्ठु त्रायते इति सुत्रामा इन्द्रः ।कर्म व्याप्ये क्रियायां च पुंनपुंनसकयोर्मतम् इति रुद्रः ।चर्म कृत्तौ च फलके॑ इति मेदिनी । बृंहेः । बृहि वद्धावस्मान्मनिन्, नुमो नकारस्याकारे ऋकारस्य यणादेशः ।ब्राहृ तत्त्वं तपो वेदे न द्वयोः पुंसि वेधसि । ऋत्विग्योगभिदोर्विप्रे॑ इति मेदिनी । अशि । अशू व्याप्तौ सङ्घाते च, शक्लृ शक्तौ । शक्मा इन्द्रः । छन्दसीत्यस्य शकिना सम्बन्धो न त्वशिना । अतएवअश्मानमारोपयतः स्मरारेः॑ इति प्रयोगः । ह्मभृ । ह्मञ् हरणे डुभृञ् धारणपोषणयोः, धृ धारणे,सृ गतो, स्तृञ् आच्छादने, शृ हिंसायाम् । शरिमेति । एतच्चोज्ज्वलदत्तरीत्योक्तम् । दशपाद्यां तु शृणातिर्न पठते, तत्स्थाने सृधातुं प्रक्षिप्य प्रत्ययं च दीर्घादिं नितं च कृत्वा, स्तृसृभ्यामीमन्निति पठते, छन्दोग्रहणं चानुवर्तिनम् । युक्तं चैतत् ।पिपृतां नो भरीमभिः॑ ।वातस्य सर्गे अभवत्सरीमणि ।स्तर्णं बर्हिः सुष्टरीमा जुषाणा॑यस्मामतिर्भा अदिद्युतत्सवीमनि हिरण्यपाणिः॑ इत्यादिमन्त्राणां, तद्भाष्यस्य चानुगुणत्वात् । उक्तप्रयोगाणां भाषायामदर्शनेन च्छन्दोऽनुवृत्तेन्र्याय्यत्वाच्च । अतएववेञः सर्वत्रे॑ति सूत्रे सर्वत्रग्रहणं करिष्यति ।जनि । जन जनने, मृङ् प्राणत्यागे । वेञः । वेञ् तन्तुसन्ताने । निपात्यन्त इति ।मनिनन्ता॑ इति शेषः । म्रा अभ्यासे । मलोपो, नाभावो वा । नाम = संज्ञा । षिञ् बन्धने ।सीमसीमे स्त्रिया मुभे॑ इत्यमरः । व्येञ् संवरणे, रु शब्दे । रोम गात्रकेशः । लूञ् छेदने । लोम स एव । पा पाने । पुगागमः । ध्यै चिन्तायाम् । बाहुलकाणयोः ।धाम देहे गृहे रश्मौ स्ताने जन्मप्रभावयोः॑ इति मेदिनी । मथुने । शृ हिंसायाम् । सुष्ठु शृणातीति सुशर्मा राजविशेषः । कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तं पदम् । मनिनि तु मध्योदात्तं स्यात् । साति । षोऽन्तकर्मणि, अत सातत्यगमने, आभ्यां यथासंख्यमेतौ स्तः । स्यति दुःखयति दुरध्येयत्वात्साम ।साम क्लीबमपायस्य भेदे वेदान्तरेऽपि च॑ इति मेदिनी ।आत्मा पुंसि स्वभावे स्यात्प्रयत्नमनसोरपि । धृतावपि मनीषायां शरीरब्राहृणोरपि॑ इति च ।हनि । हन हिंसागत्योः, मश शब्दे रोषकृते च ।मक्षिका भम्भराली स्यात् इति हारावली । कोररन् । कु शब्दे । कवरः — पावकः । बवयोरैक्यात्कबरी केशविन्यास- ।जानपदे॑ति ङीष् ।अन्यत्र कबरा । गिरः । गृ निगरणे । केचित्तु सूत्रमिदं परित्यज्य गरुता डयत इति विगृह्र डीङो डप्रत्यये पृषोदरादित्वाद्गरुतस्तकारलोपे गरुडशब्दं क्लेशेन व्युत्पादयन्ति । इन्देः । इदि परमैआर्ये ।उज्ज्वलदत्तस्तु कमिन्निति नितं पपाठ, तच्चिन्त्यम् ।इदं त्यत्पात्रमिन्द्रपानम् ।इदं ते सोम्यं मधु॑ इत्यादौ नित्स्वराऽभावात् । दशपाद्यां तुइणो दमक् इति सूत्रितम् । इदमिति । सर्वनामशब्दोऽयं संनिहितपरामर्शी । कायतेः । कै गै शब्दे । प्रयोजनाऽभावादेव मकारस्येत्संज्ञाविरहे सिद्धे डिमेरिकार उच्चारणार्थः । डकारस्तु टिलोपाऽर्थः । दशपाद्यां तु मान्तमेव डिमिति सूत्रितम् । किमिति सर्वनाम । सर्वधातुभ्यः । दशपाद्यां तु अर्थात्सर्वधातुभ्यो भविष्यतीत्याशयेनष्ट्र॑ न्नित्येव सूचितम् । अतएवाधिकं प्रक्षिप्तमित्याहुः । वस निवासे, असु क्षेपणे, शसु हिंसायाम्, छद अपवारणे ण्यन्तः ।अस्त्रं प्रहरणे चापे करवाले नपुंसक॑मिति मेदिनी । पत्लृ गतौ ।॒पत्रं तु वाहने पर्णे स्यात्पक्षे शरपक्षिणोः॑ इति मेदिनी । पा पाने । पात्रम् । षित्वान् ङीष् ।पात्राऽमत्रे त्रिषु क्लीबं रुआउवादौ राजमन्त्रिणि । तीरद्वयान्तरे योग्ये॑इति मेदिनी । दंश दशने । व्रश्चादिना षत्वे ष्टुत्वं । षितां ङीषोऽनित्यत्वाट्टाप् । दंष्ट्रा । भ्रस्जि । भ्रस्ज पाके, गम्लृ गतौ, णम प्रह्वत्वे शब्देच, हन हिंसागत्योः, विश प्रवेशने,अशू व्याप्तौ,एभ्यः ष्ट्रन् स्यादेषां वृद्धिश्च । भ्राष्ट्र इति । संयोगादिलोपः ।व्रश्चे॑ति षत्वे ष्टुत्वम् ।क्लीबेऽम्बरीषं भ्राष्ट्रो ना॑ इत्यमरः ।वैष्टंर = विष्टपम् ।दिवेः । दिवु क्रिडाद, अस्मात् ष्ट्रन् स्यात् । द्युदादेशो वृद्धिश्च धातोः । उषि । उष दाहे, खनु अवदारणे, आभ्यां ष्ट्रन् कित्स्यात् । उष्ट्रः क्रमेलकः ।उष्ट्रे क्रमेलकमयमहाङ्गाः॑इत्यमरः । सिवि । षिवुतन्तुसन्ताने,मुच्लृ मोक्षणे,आभ्यां ष्ट्रन्कित्स्यात्,टेरूकारादेशश्च । सूत्रिमूत्रिभ्यां चुरादिण्यन्ताभ्यामेरचा रूपसिद्धेराद्युत्तार्थमिदं सूत्रम् । नच धञा तत्सिद्धिःएर॑जित्यस्य घञो बाधकत्वात् ।सूत्रंतुसूचनाग्रन्थे सूत्रतन्तुव्यवस्थयोः॑इति विआः । अमि.अमगतिशब्दसंभक्तिषु,चिञ् चयने,ञिमिदा स्नेहने,शसु हिंसायाम् । आन्त्रमिति ।अनुनासिकस्ये॑ति दीर्घः ।श्रोणिलम्बिपुरुषाऽऽन्त्रमेखला॑मिति कालिदासः ।आख्याश्चर्यश्चित्र॑मित्यमरः ।मित्रं सुह्मदि न द्वयोः । सूर्ये पुंसि॑इति मेदिनी ।शस्त्रं लोहाऽस्त्रयोः क्लीबं क्षुरिकायां तु योषिति॑ इति च प्रत्ययस्वरेणैतेऽन्तोदात्ताः ।शुन आन्त्राणि पेचे॑ ।चित्रं देवानाम् ।मित्रं नयनम् ।शस्त्रस्य शस्त्रमसि॑ इत्यादि । पुवः । पूञ् पवनेऽस्मात्रः स्यात्,धातोह्र्यस्वत्वं च । पुनाति स्ववंशानिति पुत्रः । पुंनामा नरकस्तस्मात् त्रायते इत्यर्थे॑आतोऽनुपसर्गे कः॑ इति कप्रत्यये पुत्र इति व्युत्पत्त्यन्तरम् । स्त्यायतेः । स्त्यै ष्टऐ शब्दसङ्घातयोः । स्त्रीति । डित्वाट्टिलोपः ।लोपो व्यो॑रिति यलोपः । टित्त्वान्ङीप् ।स्त्री योषिदबला योषा नारी सीमान्तिनी वधूः॑ इत्यमरः ।गृधृ । गुङ् अव्यक्ते शब्दे, धृञ् धारणे, वी गतिप्रजनादौ, डुपचष् पाके, वच परिभाषणे, यम उपरमे, षद्लृ विशरणगत्यादौ, क्षद इति सौत्रः ।गोत्रा भूगव्ययोर्गोत्रः शैले गोत्रं कुलाख्ययोः । संभावनीयबोधे च काननक्षेत्रवत्र्मसु॑इति मेदिनी ।सत्र्माच्छादने यज्ञे सदादाने धनेऽपि च॑ इत्यमरः ।सत्रं यज्ञसदादानच्छादनाऽरण्यकैतवे॑इति मेदिनी । क्षत्रं ब्राआहृणानन्तरजातिः । हुयामा । हु दानादनयोः, या प्रापणे, मा माने, श्रु श्रवणे,भस भत्र्सनदीप्त्योः । होत्रमाहुतिः । होत्राशब्द ऋत्विक्ष्वपि स्त्रीलिङ्ग इतिहोत्राभ्यश्छः॑इति सूत्रे हरदत्तादयः ।यात्रा तु यातनेऽपि स्याद्गमनोत्सवयोः स्त्रिया॑मिति मेदिनी ।मात्रा कर्णविभूषायां वित्ते माने परिच्छदे । अक्षराऽवयवे स्वल्पे क्लीबं कार्त्स्न्येऽवधारणे॑ इति च ।कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः इत्यमरः ।भरुआआ चर्मप्रसेविका॑इति च । गमेः । गम्लृ गतावस्मात्रन्स्याद्धातोराकारन्तादेश्च ।गात्रमङ्गे॒कलेवरेः । स्तम्बेरमाग्रजङ्घादिविभागेऽपि समीरित॑मिति विआः । दादिभ्यः । दाप् लवने एवमादिभ्यरुआन् । दात्रं धान्यादिच्छेदनसाधनम् । पा पाने ।योग्यभाजनयोः पात्रमित्यमरः । क्षि निवासगत्योः । क्षित्रमित्यादि योज्यम् ।भूवादि । भू सत्तायाम् । भावित्रं त्रैलोक्यम् । वद व्यक्तायां वाचि ण्यन्तः । वादित्रं तूर्यादि । गृ निगरणे । चरेः । चर गतौ, अस्माण्णित्रन्स्याद्वृत्ते वाच्ये ।वृत्तं पद्ये चारित्रे च॑ इत्यमरः । ननु इत्रन्प्रत्यये चरित्रमित्युक्तं ततश्च प्रज्ञाद्यणि चारित्रमितिसिद्धौ किमनेनेति चेत् । मैवम् ।स्वरे विशेषात् । अशू व्याप्तावेवमादिभ्य इत्रः, त्रैङ् पालनेएवमादिभ्य उत्रश्च स्यात् । वहित्रमिति । वह प्रापणे । धरित्रीति । धृञ् धारणे, गौरादित्वात् ङीष् । अमेः । अम गतौ,अस्मादित्रः स्यात्स च चित् । उत्रस्तु नानुवर्तते, अस्वरितत्वात् । मित्रं नेति विग्रहे त्वमित्रमिति नपुंसकम् । आः समिण् । इण् गतौ । अस्मादाप्रत्यये गुणे सत्ययादेशः । केषरिति । कष खषेति दण्डकः । समयानिकषाशब्दौ समीपवाचकौ । बाहुलकात् दुषेः । दोषा । दिवेराप्रत्यये बाहुलकादेवाऽस्य गुणाऽभावे दिवा । स्वदेराप्रत्यये बाहुलकादेव धातोर्धान्तादेशश्च॥ स्वधेत्यादि । चितेः । चिती संज्ञानेऽस्मात्कणः प्रत्ययः स्यात्कश्चाऽन्तादेशः । अमरोक्तमाह — चिक्कणमिति । सूचेः । सूचपैशुन्येचुरादिस्मात्स्मन्,णिलोपः । कुत्वषत्वे ।सूक्ष्मं स्यात्कण्टकेऽध्यात्मे पुंस्यणौ त्रिषु चाल्पके॑इति मेदिनी । पातेः ।पा रक्षणेऽस्माड्डुम्सुन्स्यात् । डित्त्वाट्टिलोपः ।उकारौच्चारणार्थ॑इत्युज्ज्वलदत्तः । वस्तुतस्तूगित्कार्यार्थः — सुपुंसीति ।उगितश्चे॑ति ङीप् । नकारः स्वरार्थः ।पुंसोऽसु॑ ङिति सूत्रे न्यासरक्षिताभ्यां पुनातेर्मक्सुन् ह्रस्वश्चेति पठितम् । पूञो डुम्सुन्नत्यन्ये । भाष्ये तु सूतेः सप्रत्यये पुमानित्युक्तम् ।उपेयप्रतिपत्त्यार्था उपाया अव्यवस्थिताः॑इति तत्त्वम् । रुचि । रुचदीप्तावभिप्रीप्तौ च, भुज पालनदौ ।भुजिष्यस्तु स्वतन्त्रेच हस्तसूत्रकदासयोः । स्त्रियां दासीगणिकयोः इति मेदिनी । वसेः । वस निवासे,वस आच्छादने ।बस्तिद्र्वयोर्निरूहे नाभ्यदोभूदिशासु च॑इति मेदिनी । शास इति । शासु अनुशिष्टौ । अस्यतीति । असु क्षेपणे ।अगस्तिः कुम्भयोनौच वङ्गसेनतरौ पुमान्इति मेदिनी । सावसेः । अस् भुविअस्मात्सावुपपदे तिः स्यात् । बहुवनान्न भूभावः । वौ । तसु उपक्षयेऽस्माद्विपूर्वात्तिः स्यात् ।अङ्गुष्ठे सकनिष्ठे स्याद्वितस्तिद्र्वादशाङ्गुलः॑ इत्यमरः ।स्त्रीपुंसयोर्वितस्तिः स्या॑दित्यमरमाला । पदि । पदगतौ,प्रथ प्रख्याने,आभ्यां तिः स्यात्स च नित् । पत्तिरिति पदातिः । प्रथितिरिति । प्रख्यातिः । तितुत्रेष्विति । ग्रहादित्वादिडागमनिषेधो नेतिभावः । दृणातेः । दृ विदारणे । अस्मात्तिः स्याद्धातोह्र्यस्वत्वं च नात् ।दृतिश्चर्मपुटे मत्स्ये ना॑ इति मेदिनी । कृतृ ।कृ विक्षेपे, तृ प्लवनतरणयोः, कृपू सामर्थ्ये ।किरीटं मुकुटे न स्त्रीति चन्द्रगोमी ।कृपीटमुदरे नीरे॑ इति विआः । दशपाद्यां तुकृतृकृपिकपिभ्य॑ इति पठित्वा कम्पीट इतिचतुर्थमुदाहृतम् । [कृपो रो लः॑ इत्यत्र न्यासे तुकृकृपिभ्या॑मिति पठते । अतस्तरतिरत्र प्रक्षिप्त इति कश्चित् ।तरतेश्चे॑ति पृथक्पठित्वा तिरीटः कूलवृक्ष॑इति कश्चिद्वाख्यात्] । रुचिवचि । रुच दीप्तावभिप्रीतौ,च , वच परिभाषणे,कुच शब्देतारे, अथवाकुञ्च कौटिल्याल्पीभावयोः । इकः कित्त्वात्सूत्रे नलोपेन निर्देशः । कुट कौटिल्ये । उचितमिति ।वचिस्वपी॑त्यादिना संप्रसारणम् । कुटिकुषि ।कुङ्मलो मुकुले पुंसिन द्वयोर्नरकान्तरे॑ इतिमेदिनी । कुष निष्कर्षे । कुष्मलं छर्दनम् । विकसतिमित्यन्ये । सर्वधातुभ्योऽसुन् । दशपाद्यां तु असुन्नित्येव सूत्रम् । चिती संज्ञाने, चित संचेतने चुरादिः, सृ गतौ । गौरादित्वान्ङीष् ।सरसी तु महासरः॑इति शब्दार्णवः ।हमान्ति सरांसि सरस्यः॑इति भाष्यम् । पय गतौ, पीङ् पाने ।पयः स्यात्क्षीरनीरयोः॑इति मेदिनी । षद्लृ विशरणादौ । सदः सभा । वर्च दीप्तौ ।वर्चो नपुसकं रूपे विष्ठायामपि तेजसि । पुंसि चन्द्रस्य तनये॑ इति मेदिनी । रुदिर् अश्रुविमोचने ।रोदश्च रोदसी चापि दिवि भूभौ पृथक् पृथक् । सहप्रयोगेऽप्यनयो रोदस्यावपि रोदसी इति॑ विआः । वी गत्यादिषु ।वयः पक्षिणि बाल्यादौ यौवने च नपुंसक॑मिति मेदिनी । अन प्राणने । अनो भक्तम् । अनोऽश्मायःसरसां जातिसञ्जयोः॑रिति टचि तु अनसम् ।पाकस्थानं महानस॑ मित्यमरः । तमु ग्लानौ ।तमः क्लीबं गुणे शोके सैहिकेयाज्योतिषि च पुंसि हेमन्तमार्गयोः॑ इति मेदिनी । तप संतापे ।तपो लोकान्तरेऽपि च । चान्द्रायणादौ धर्मे च पुमान् शिशिरमाघयोः॑ इति रभसः ।तमो ध्वान्ते गुणे शोके क्लीबं वा ना विधुंतुदे॑ इति मेदिनी । षह मर्षणे ।सहो बले शिशिरमाघयोः॑ इति च । मह पूजायाम् ।मह उत्स्वतेजसोः॑ इति मेदिनी । नभ हिंसायां भौवादिकः क्रैयादिकश्च ।नभोऽन्तरिक्षं गगन॑मित्यमरः ।नभं तु नभसा सार्धं तपं तु तपसा सह । सहं च सहसा सार्धं महं च महसा सह । तमेन च तमः प्रोक्तं सहं तममित्याद्यजन्ता अपि सिध्यन्ति, परन्तु रज इति अकारान्तसकारान्तौ नलोपवच्छब्दौ न सिध्यत इतिरजेनाऽपि रजः सम॑मिति कोशश्चिन्त्य एवेति चेदत्राहुः — रञ्ज रागे इत्यस्मादसुनिभूरञ्जभ्यां कि॑दिति वुक्ष्यमाणेनाऽसुनः कित्त्वान्नलोपे रज इति सिध्यति ।घञर्थे कविधान॑मिति कप्रत्यये तु रज इत्यदन्तोऽपि सिध्यतीति । सपेः । रप व्यक्तायां वाचि, अस्मादसुन्स्यादत एकारश्च । रेपोऽवद्यमिति ।अरेपसा तन्वा॑ इति मन्त्रे निरवद्ययेति भाष्ये उक्तं, नञ्पूर्वकरेपःशब्दस्याऽनवद्यवाचकत्वात् । अशेः । अशू व्याप्तौ सङ्घाते च , अस्मादसुन्स्याद्धातोर्युडागमश्च । यशः कीर्तिः । उब्जेः । उब्जआर्जवे अस्मादसुन्स्याद्बले वाच्ये, बकारस्य लोपश्च ।ओजो दीप्ताववष्टम्भे प्रकाशबलयोरपि इति मेदिनी । श्वेः । टु ओइआ गतिवृद्भ्योः । अस्मादसुन्स्यात्सम्प्रसारणं च । श्रयतेः । श्रिञ् सेवायामस्मात्स्वाङ्गे वाच्येऽसुन्स्यात्स च किद्धातोः शिरादेशश्च ।उत्तमाङ्गं शिरः शीर्ष॑मित्यमरः । घञर्थे कप्रत्यये तु शिर इत्यदन्तोऽपि ।शिरोवाची शिरोऽदन्तो रजोवाची रजस्तथा॑ इति कोशान्तरम् ।पिण्डं दद्याद्गयाशिरे॑ इति वायुपुराणे ।कुण्डलोद्वृष्टगण्डानां कुमाराणां तरस्विनाम् । निचकर्त शिरान्द्रौणर्नालेभ्य इव पङ्कजान् इति महाभारतम् । अर्तेः । ऋ गतावस्मादसुन् कित्स्याद्धातोरुत्वं च । रपरत्वम् ।उरोवत्सं च वक्षश्च॑ इत्यमरः । व्याधौ । अर्तेरेव व्याधौ वाच्येऽसुन्, तस्य सुडागमश्च स्यात् । अर्ण इति । पानीयमित्यर्थः । इणः । इण् गतौ अस्मात्पापे वाच्येऽसुन् स्यात्तस्य नुडागमश् । एनः पापम् । रिचेः । रिचिर्विरेचने, रिच वियोजनसंपर्चनयोरित्यस्माद्वा धने वाच्येऽसुन् । रेक्ण इति ।चजो॑रिति कुत्वेअटकुप्वा॑ङिति णत्वम् । इह दशपादीवृत्तौ नुटं नानुवत्र्य रेकः रेकसी इत्युदाहृतम् । तन्न । उत्तरसूत्रे नुडनुवृत्तेर्निर्विवादत्वात्, मण्डूकप्लुतौ मानाऽभावनाल्लक्ष्यविसंवादाच्च । उज्ज्वलदत्तेन तुरिचेर्धने चित्किच्चे॑ति पठित्वा नुटं चानुवत्र्य कित्त्वाद्गुणाऽभावे नुटश्चुत्वेन ञकारे रिञ्चमिति साधितं तल्लोकवेदयोरप्रसिद्धत्वादुपेक्ष्यम् ।नित्यं रेक्णो अमत्र्यः परिषद्यं ह्ररणस्य रेक्णः॑ इत्यादिमन्त्रेषु रेक्ण इति प्रयोग एव साधीयानिति दिक् । चायतेः । चायृ पूजानिशामनयोः । अस्मादन्ने वाच्येऽसुन्स्यात्तस्य नुट् च धातोह्र्यस्वत्वं च । यलोपः ।चनो दधिष्वपवता॑सुते दधिष्व नश्चनः॑ इत्यादिमन्त्रेषु प्रसिद्धोऽयं चनशब्दः । एतेन चणोऽन्नमित्युदाहृत्य बाहुलकाण्णत्वमिति वदन्तो दशपादीवृत्तिकारास्तदनुसारिणः प्रसादकारादयश्च परास्ताः । वृङ् । वृङ संभक्तौ, शीङ् स्वप्ने, आभ्यां यथाक्रमं रूपे स्वाङ्गे च वाच्येऽसुन्स्यात्तस्य पुडागमश्च । वर्पो रूपमिति ।घ्नञ्छिश्नदेवा अभिवर्पसाऽभूत् इत्यादिमन्त्रेषु प्रसिद्धमिदम् ।शेपः स्याद्वषणं पेल॑मिति सुभूतिचन्द्रः । अकारान्तोऽप्ययम् ।शेपपुच्छलाङ्गूलेषु शुनः॑ इति वार्तिके शेप इति निर्देशात्,यस्यामुशन्तः प्रहराम शेप॑मिति वैदिकप्रयोगाच्च । [॒शेपः शेपौ च शेवश्च शेवं प्रोक्तं च शेरसि॑ इति द्विरूपकोशः] । रुआउरीभ्याम् । रुआउ गतौ, रीङ् रुआवणे, आभ्यामसुन्स्यात्तस्य तुट् च ।रुआओतोऽम्बुवेगेन्द्रिययोः॑ इति विआः । रेतः शुक्रे पारदे च॑ इति मेदिनी । पातेः । पा रक्षणेऽस्माद्बले वाच्येऽसुन् जुडागमश्च [वर्गतृतीयादिः] । युट् चेत्यन्तस्तादिपाठस्तूज्ज्वलदत्तस्य प्रामादिकः ।पृथुपाजा अमत्र्यः॑ इत्यादिमन्त्रतद्भाष्यविरोधात् । उदके । पातेरुदके वाच्येऽसुन्स्यात्तस्य थुडागमश्च ।कबन्धमुकदकं पाथः॑ इत्यमरः ।अदेः । अद भक्षणे ।भिस्सा स्त्री भक्तमन्धोऽन्नम् इत्यमरः ।द्विजातिशेषेम यदेतदन्धसा॑ इति भारविः । स्कन्देः । स्कन्दिर्गतिशोषणयोः । अस्मात्स्वाङ्गे वाच्येऽसुन्, धश्चान्तादेशः । आपः । आप्लृ व्याप्तौ । अस्मात्कर्माख्यायामसुन्, ह्रस्वश्च धातोः । प्रत्ययस्य नुडागमस्तु वा स्यात् ।अप्नस्वतीमइआना॑ अपासि यस्मिन्नधि संदधुः॑ बाहुलकादिति । उपलक्षणं, ह्रस्वनुटौ वा स्त इति व्याख्यानस्यापि संभवात् । तथा चब्राउवते कतमेऽपि नपुंसकमापः॑ इति कोशमुदाहृत्यसर्वमापोमयं जग॑दिति प्रयोगो दुर्घटवृत्तौ समर्थितः । रूपे । रूपे वाच्ये आप्नोतेरसुन्, ह्रस्वत्वं च धातोः, प्रत्ययस्य जुडागमश्च स्यात् । अब्ज इति ।झलां जश् झशी॑ति पकारस्य बकारः । उदके । उदके वाच्ये आप्नोतेरसुन्, ह्रस्वत्वं, नुमागमो भश्चान्तादेशः । नहेः । णह बन्धने अस्माद्गमने वाच्येऽसुन्भश्चान्तादेशः स्यात् ।नभो व्योम्नि नभो मेघे श्रावणे च पतद्ग्रहे । घ्राणे मृणालसूत्रे च वर्षासु च नभः स्मृत॑मिति विआः ।नभः क्लीबं व्योम्नि पुमान्धने । घ्राणश्रवणवर्षासु बिसतन्तौ पतद्ग्रहेर॑ इति मेदिनी ।नभः खं श्रावणो नभाः॑ इत्यमरः ।नभं तु नभसा सार्ध॑मिति द्विरूपकोशादकारान्तोऽपि । इणः । इणोऽसुन्स्यादपराधे वाच्ये, धातोरागादेशश्च । विआओक्तिमाह — आग इति । अमेः । अम गत्यादौ । अस्मादसुन्, हुगागमश्च धातोः स्यात् । अमन्ति गच्छन्त्यनेनाऽधस्तादित्यंहो दुरितम् । रमेश्च । रमेरसुन्स्यात्, हुगागमश्च धातोः । रहो वेगः । अहिरहिभ्यामसुना सिद्धे अघिरघिभ्यामसुनि अङ्घो रङ्घ इति माभूदिति सूत्रद्वयमिति गोवद्र्धनः । तथा चस्यान्मघ्योष्मचतुर्थत्वमंहसो रंहसस्तथा॑ इति द्विरुपकोशः । एवं चतत्तार्घाः सिद्धसङ्घैर्बिदधतु घृणयः शीघ्रमङघ्घोविघात॑मिति,रङ्घःसङ्घः सुराणां जगदुपकृतये नित्ययुक्तस्य यस्य स्तौति प्रीतिप्रसन्नोऽन्वहमहिमरुचेः सोऽवतात्स्यन्दनो वः॑ इत्यत्र अङ्घो रङ्घ इति घकारपाठोऽनुप्रसारसिकानां प्रामादिक इति वदन्ति । देशेः । देशे वाच्ये रमेरसुन्, हकारश्चान्तादेशः स्यात् ।रहस्तत्त्वे रते गुह्रे॑ इति मेदिनी । अञ्चि । अञ्चू गतिपूजनयोः, अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु, युजिर्योगे , युज समाधौ, भृजी भर्जने । अङ्कः अङ्कसी अङ्कांसि । अङ्गः अङ्गसी अङ्गांसि । योगः योगसी योगांसि । भर्गस्तेज इति ।हरः समहरो भर्गः॑ इत्यत्र तु भर्गशब्दो घञन्तः पुंलिङ्ग इति बोध्यः । उच समवायेऽस्मादसुनि बाहुलकात्कुत्वम् । न्यङ्क्वादित्वाद्वा ।ओक आश्रयमात्रेऽपि मन्दिरेऽपि नपुंसक॑मिति मेदिनी । भूरञ्जि । भू सत्तायाम्, रञ्ज रागे, आभ्यामसुन्कित्स्यात् । भुवोऽन्तरिक्षम् । षष्ठन्तप्रतिरूपकमव्ययमिदम् । रजो रेणुः ।रजः क्लीबं गुणान्तरे । आर्तवे च परागे च रेणुमात्रेऽपि दृश्यते॑ इति मेदिनी । घञर्थे कप्रत्यये तु अकारान्तोऽप्ययम् ।रजोऽयं रजसा सार्द्धं स्त्रीपुष्पगुणधूलिषु॑ इत्यजयकोशः । वसेः । वस निवासेऽस्मादसुन् स्यात्स च णित् । णित्वाद्वृद्धिः । च्नदेः । चदि आह्लादने, अस्मादसुन्, आदेः छकारश्च ।छन्दः पद्यप्रभेदेऽपि स्वैराचाराभिलाषयोः॑ इति मेदिनी । अकारान्तोऽप्ययम् ।अभिप्रायवशौ छन्दौ॑ इत्यमरद्विरूपकोशौ । पचि । डुपचष् पाके, वच परिभाषणे, आभ्यामसुन्स्यात्तस्य सुडागमस्च । चस्य कुत्वे सस्य षत्वम् । पक्षः पक्षसी पक्षांसि ।यथा शालायै पक्षसी॑ इति श्रुतिः ।पूर्वोत्तरे द्वे पक्षसी॑ इति अनीकाधिकरणे शाबरभाष्यम् । माधवस्तु पक्ष परिग्रह इत्यस्मादसुन्नित्याह । वहि । वह प्रापणे, ओहाक् त्यागे, डुधाञ्धारणादौ, एभ्योऽसुन्स्यात् । अत्र पूर्वसूत्रात्सूटमनुवर्तयतामुज्ज्वलदत्तादीनां मतेनोदाहरणमाह — वक्षाः हासाः धासा इति । प्राञ्चेति । सकलवृत्तिकृतः, प्रसादकारादयश्चेत्यर्थः । एतञ्चाऽयुक्तम् । उक्तोदाहरणानि हि न तावल्लोके दृश्यन्ते न वा संभवन्ति । सूत्रेऽस्मिन्छन्दसीत्युक्तत्वात् । वेदे तु विपरीतान्येवोदाहरणानि दृश्यन्त इत्याह — वस्तुतस्त्विति । वेदभाष्यकारादयश्चेहानुकूला इत्यवधेयम् । इणः । इण्गतौ, अस्मादासिः स्यात् । मिथुने । सुयशा इति ।अशेर्देवने युट् चे॑ त्यादि पूर्ववत् । सुपयाः सुरुआओता इत्याद्युदाहार्यम् । नञि । हन्तेर्नञ्युपपदेऽसिः स्याद्धातोरेहादेशश्च ।ऋदुशनस्परुदंसे॑ त्यादिना सावनङ् । विधाञः । डुधाञ् धारणादौ, विपूर्वादस्मादसिः स्याद्वेधादेशश्च सोपसर्गाधातोः ।वेधाः पुंसि ह्मषीकेसे बुधे परमेष्ठिनी॑ति मेदिनी ।नुवः । णु स्तुतौ, अस्मादसिः स्यात्तस्य धुडागमश्च । नोधा इति ।सद्यो भवद्वीर्याय नोधाः॑ इति मन्त्रेनोदा ऋषिर्भवती॑ति निरुक्तम् । नवं दधातीति तु नैरुक्तं व्युत्पत्त्यन्तरं बोध्यम् । गति । गतौ कारके चोपपदेऽसिः स्यात् । तप संतापे, विद ज्ञाने, विद्लृ लाभे । चनद्रे । चन्द्रं रजतममृतं च , तदिव मीयतेऽसौ चन्द्रमा इति हरदत्तः । स च डिदिति । डित्त्वाट्टिलोपे चन्द्रमसौ चन्द्रमस इत्यादि सिध्यति । वयसि । डुधाञ् धारणे अस्माद्वयस्युपपदेऽसिः स्यात्स च डित् । पयोधा इति । पयः शब्द उपपदे उधाञः पूर्ववत् । पुरसि च । पुरः शब्दे उपपदे पूर्ववत् ।पुरोधास्तु पुरोहितः॑ इत्यमरः । रौतेरिति । रु शब्दे ।पुरूरवा बुधसुतो राजर्षिश्च पुरूरवाः॑ इत्यमरः । चक्षेः । चक्षिङ् व्यक्तायां वाचि, अस्मादसिः स्यात्स च बहुलं शित् । शित्त्वात्सार्वधातुकसंज्ञायां ख्याञ् न । नृचक्षाः राक्षसः । शित्त्वाऽभावपक्षे तु ख्याञ्यादेशः । प्रख्याः प्रजापतिः ।उषः । उष दाहेऽस्मादसिः स्यात्स च कित् । उषः प्रभातम् । दशपाद्यां तुवसः कि॑दिति पाठः । वसति सूर्येण सहेति उषाः देवताविशेषः ।अपो भि॑ इति सूत्रेउषसश्चेष्यते॑ इति वार्तिकस्थसमुषद्भिरित्युदाहरणं विवृण्वद्भर्हरदत्तादिभिरयं पाठः पुरस्कृतः । दमेः । दमु उपशमे ।सप्तार्चिर्दमुनाः शुक्रः॑ इत्यमरः । पक्षेअन्येषामपि दृश्यये॑ इति दीर्घः ।जुष्टो दमूनाः॑दमूनसं गृहपतिं वरेण्यम् । दशपाद्यां तुदमेरूनसिः॑ इति सूत्र एव दीर्घः पठन्ते तन्मते बाहुलकाद्ध्रस्वो बोध्यः । अगिर्गत्यर्थः । अङ्गिरा ऋषिभेदः । सर्तेः । सृ गतौ । प्रायेणेति ।स्त्रियां बहुष्वप्सरसः प्रार्थितयोर्विवादः॑ इति रघुः । विदि । विद ज्ञाने, भुज पालनाभ्यवहारयोः, आभ्यां विआशब्दे उपपदेऽसिः स्यात् । शब्दस्वरूपपरत्वाद्विधे इत्यत्र स्मिन्नादेशो न कृतः । उदाहरणे विआं वेत्ति, भुङ्क्ते इति विग्रहः । यत्तुतत्पुरुषे कृती॑ति सप्तम्या अलुक् विओवेदाः = अग्निः, विओभोजाः इन्द्र॑ इत्युज्ज्वलदत्तेनोक्तं, तन्न, तथा सति स्मिन्नादेशस्य दुर्वारत्वापत्तेः ।सुमृलीको भवतु विआवेदाः॑पूषा भगः प्रमृथे विआभोजाः॑ #इत्यादिमन्त्रेषु सुपो लुक एव दर्शनात्, वृत्त्यन्तरे तथैवोदाहरणाच्च । वशेः । वश कान्तौ ।उशना भार्गवः कविः॑ इत्यमर । इत्युणादिषु चतुर्थः पादः ।अथ पञ्चमः पादः ।अदि भुवो ।अ॑ दित्यव्ययमाकस्मिकार्थे । अस्मिन्नुपपदे भूधातोर्डुतच्स्यात् । डित्त्वाट्टिलोपः । अद्भुतमाश्चर्यम् । गुधेः । गुध परिवेष्टने । गुध्यते परिवेष्टते प्राणिभिरिति ।गोधूमो नागरङ्गे स्यादौषधिब्राईहिभेदयोः॑ इति मेदिनी ।मसेः । मसी परिणामे । स्थः । ष्ठा गतिनिवृत्तावस्मादूरन् । कित्त्वादालोपः । स्थूरो मनुष्य इति ।स्थूरस्य रायो बृहतो य ईशे॑ इति मन्त्रे तु योगपुरस्कारात्स्थिरस्येत्यर्थ इति व्याख्यातम् । पातेः । पा रक्षणे । वातेः । वा गतिगन्धनयोः । रभसकोशस्थमाह — वातिरिति । अर्तेः । ऋ गतौ, अस्मादतिः स्यात्स च नित् । तृहेः । तृह हिंसायाम्, क्नस्य कित्त्वाद्गुणाऽभावः । वृञ् । वृञ् वरणे, लुट विलोडने, तनु विस्तारे, तड आगाते, चुरादि एभ्य उलच्स्यात्, तण्डादेशश्च धातो- । यद्यपिसानसिधर्णसी॑ति सूत्रे तण्डुलशब्दो निपातिस्तथापि प्रत्ययस्वरेण मध्योदात्तः सः, अयं तु चित्स्वरेणाऽन्तोदात्त इति विवेकः । दंसेः । दसि दंशनदर्शनयोः, अस्माट्टटनौ स्यातां नकारस्याऽऽकारश्च । टनो नकार आद्युदात्तार्थः ।दासः शूद्रे दानपात्रे भूत्यधीबरयोरपि॑ इति विआः । दंशेः । दंश दशनेऽस्मादपि टटनौ स्तो, नकारस्य चात्वं स्यात् ।कैवर्ते दाशधीवरौ॑ इत्यमरः । उदि । चिञ् चयने । डैसो डित्त्वाट्टिलोपः । सौ रमेः । रमु क्रीडायाम् । पूञः । पूञ् पवने ।पुण्यं मनोज्ञेऽभिहितं तथा सुकृतधर्मयोः॑ इति विआः ।रुआंसेः । रुआंसु अधः पतने, कित्त्वं गुणाऽभावार्थम् । अर्तेः । ऋ गतावस्मात्कुप्रत्ययः स्याद्धातोरुत्वं च । रपरत्वम् ।युवोरनाकौ॑ ।मेढ्रोरभ्रोरणोर्णायुमेषवृष्णय एडके॑ इत्यमरः । हिंसेः । हिसि हिंसायाम् । उदि । दृ विदारणे । डित्खनेः । खनु अवदारणे, अस्मादजलौ स्तः ।मुखं निःसरणे वक्रेप्रारम्भोपाययोरपि । सन्ध्यन्तरे नाटकादेः शब्देऽपि च नपुंसक॑मिति मेदिनी । अमेः । अम गतौ ।स्कन्धो भुजशिरोंसोऽस्त्री॑ इत्यमरः ।अंसः स्कन्धे विभागे च॑ इति दन्त्यान्ते विआः ।मुहेः । मुह वैचित्यऽस्मात्खप्रत्ययो धातोर्मूरादेशश्च । मुह्रतीति मूर्खः ।अज्ञे मूढथाजातमूर्खवैधेयबालिशाः॑ इत्यमरः । नहेः । णह बन्धने । अस्मात्खः स्यात् ।नखी कररुहे षण्ढे गन्धद्रव्ये नखं नखी॑ इति विआः ।नखी स्त्रीक्लीबयोः शुक्तौ नखरे पुंनपुंसकम् इति मेदिनी । शीङः । शीङ् स्वप्नेऽस्मात्खः स्याद्धातोह्र्यस्वश्च । ह्रस्वविधानसामर्थ्याद्गुणाऽभावः ।शिखा शाखाबर्हिचूडालङ्गालिक्यग्रमात्रके । चूडामात्रे शिफायां च ज्वालायां प्रपदेऽपि च॑ इति मेदिनी । माङः । माङ् माने ।मयूखस्त्विटकरज्वालासु॑ इत्यमरः ।कलि । कल शब्दसङ्ख्यानयोः, गल अदने, आभ्यां फक्स्यात्, धातोरकारस्योत्वं च । गुल्फ इति ।तद्ग्रन्थी घुटिके गुल्फौ॑ इत्यमरः । तयोः पादयोग्र्रन्थी इत्यर्थः । स्पृशेः । स्पृश संस्पर्शे ।पार्ां कक्षाऽधरे चक्रोपान्ते पर्शुगमेऽपि च ॑ इति विआमेदिन्यौ । श्मनि । श्रिञ् सेवायाम्, अस्मात् श्मन्युपपदे डुन्स्यात् । डित्त्वाट्टिलोपः ।तद्वृद्धौ श्मश्रु पुंमुखे॑इत्यमरः । पुरुषस्य मुखे तेषां रोम्णां वृद्धौ श्मश्रुशब्दो वर्तत इत्यर्थः ।अआआदयः । अशू व्याप्तावस्माद्रुन्प्रत्ययो, नञ्पूर्वात् श्रयतेर्डुन् च । यत्तूज्ज्वलदत्तेनोक्तम् — अश्नातेर्डुन् रुट् चे॑ ति, तदयुक्तम्, डित्त्वाट्टिलोपे सति धातोरश्रवणप्रसङ्गात् । न च टिलोपाऽभावो निपात्यत ति वाच्यं, तथा सति डित्त्वोप्रेक्षमस्य निष्फलत्वापत्तेरिति दिक् । जनेः । जनी प्रादुर्भावे अस्माट्टन्प्रत्ययः स्याद्धातोरन्त्यलोपश्च ।जटा लग्नकचे मूले मांस्यां प्लक्षे पुनर्जटी॑ति मेदिनी ।जङ्घेति । जनेरच्प्रत्यये सतिअजाद्यतः॑ इति टाप् । देहावयवे वाच्ये हन्तेरच्प्रत्ययः स्याद्द्वित्वं च धातोः । अभ्यासकार्यम् ।अभ्यासाच्चे॑ति कुत्वम् । अमरोक्तिमाह — पश्चान्नितम्ब इति । जघनं च स्त्रियाः श्रोणिपुरोभागे कटावपि॑ इति मेदिनी । क्लशेः । क्लिशू विबाधनेऽस्मादन्स्यात् ।केशः स्यात्पुंसि वरुणे ह्यीबेरे कुण्डलेऽपि च॑ इति मेदिनी । फलेः । फल निष्पत्तौ ।पलितं जरसा शौक्ल्य॑मित्यमरः ।पलितं शैलजे तापे केशपाशे च कर्दमे॑ इति मेदिनी । कृञादिभ्यः । डुकृञ् करणे । करकः कमण्डलुः ।करकस्तु पुमान्पक्षिविशेषे दाडिमेऽपि च । द्वयोर्मेघोपले न स्त्री करके च कमण्डलौ॑ इति मेदिनी । करका वृष्टिपाषाणः । कटे वर्षावरणयोः ।कटको वलये सानौ॑ ।क्वुन् शिल्पसंज्ञयोः॑ इति क्वुनाप्ययं सिद्धः । तथा च गुणभाज इहैव वुनि उदाहार्याः, गुणनिषेधभाजस्तु क्वुनि । उदासीनास्तु यत्र कुत्रचिदिति भावः । नृ नये ।स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रिया॑मित्यमरः ।नरकः पुंसि निरये देवाऽरातिप्रभेदयोः॑ इति मेदिनी । उदयनाचार्यास्तु — नच नरकाण्येव सन्ती॑ति क्लीबं प्रयुञ्जते, तन्निर्मूलमित्याहुः । सृ गतौ ।सरकोऽस्त्री शीधुपात्रे शीधुपानेक्षुशीधुनोः॑ इति मेदिनी । कुर शब्दे ।कोरकोऽस्त्री कुड्मले स्यात्कक्कोलकमृमालयोः॑इति मेदिनी ।विचकार कोरकाणी॑ति माघः ।कोरकः पुमान् इत्यमरोक्तिस्तु नादर्तव्येत्याहुः । अपवरकादयोऽपि इहैव बोध्याः । चीकयतेः । चिक आमन्त्रणे, चीक च चुरादिः । अस्याद्यन्तविपर्ययः । पचिमच्योरित्वं चानुपदं वक्ष्यमाणं बाहुलकबललभ्यं बोध्यम् ।कीचको दैत्यभिद्वाताहतसस्वनवशयोः॑ इति मेदिनी । डुपचष् पाके ।उलूके करिणः) पुच्छमूलोपान्ते च पेचकः॑ इत्यमरः ।॒पचको गजलाङ्गूलमूलोपान्ते च कौशिके॑ इति मेदिनी । मचि मुचि कल्कने ।मेचकस्तु मयूरस्य चन्द्रके श्यामले पुमान् । तद्युक्ते वाच्यबक्त्लीबं रुआओतोऽञ्जनान्धकारयोः॑ इति मेदिनी । जनेः । जन जनने, जनी प्रादुर्भावे वा ।जठरः कठिनेऽपि स्या॑दित्यमरः ।जठरो न स्त्रियां कुक्षौ वृद्धकर्कटयोस्त्रिषु॑ इति मेदिनी । वचि । वच परिभाषणे, मन ज्ञाने, आभ्यामरप्रत्ययः स्यात्स च चित् । रश्चान्तादेशः । वठरः कुक्कुटे वण्टे शठे च॑ इति मेदिनी ।ऊर्जि । दृ विदारणेऽस्मादूर्ज्युपपदे अलचौ प्रत्ययौ स्तः ।हन्तेः ।हन हिंसागत्योः । क्रमि । क्रमु पादविक्षेपि, गम्लृ गतौ, क्षमूष् सहने, एभ्यस्तुन्स्यादेषां वृद्धिश्च॥हयतेः । हर्य गतिकान्त्योः ।हिरण्यं रेतसि द्रव्ये शातकुम्भवराटयोः । अक्षये मानभेदे स्यादकुप्ये च नपुंसक॑मिति मेदिनी । कृञः ।डुकञ् करणे ।जने ।तु॑ इत्यविभक्तम् । जनेस्तुप्रत्ययो रेफश्चान्तादेशः स्यात् । ऊर्णोतेः । ऊर्णुञ् आच्छादनेऽस्माड्डः स्यात् । डित्त्वाट्टिलोपः । टाप् ।ऊर्णामेषादिलोम्नि स्यादावर्ते चान्तरा भ्रुवोः॑ इत्यमरः । भ्रुवोर्मध्ये य आवर्तस्तत्रेत्यर्थः ।अन्तररान्तरेणे॑ति द्वितीया । दधातेः । डुधाञ् धारणादौ । अस्माद्यत् प्रत्ययः स्यात्तस्य नुडागमश्च ।धान्यं व्रीहिषु धान्याके॑ इति मेदिनी । जीर्यतेः । जृ वयोहानावस्मात् क्रिन्स्यात् । ऋत इद्धातोः ॑ । रपरत्वम् । रेफस्य वकारादेशः । मव्यतेः । मव्य बन्धने । अन्त्यस्येति । वकारस्येत्यर्थः । ऋजेः । ऋजी गतौ । तनोतेः । तनु विस्तारेऽस्माड्डौः प्रत्ययस्तस्य सन्वद्भावाद्द्वित्वमभ्यासस्येत्वं च । डित्त्वाट्टिलोपः । पृथगुच्चारणसामर्थ्याद्गुणो न । तितौः चालनी ।सक्तुमिव तितौना पुनन्तो यत्र धीरा मनसा वाचमक्रत॑ ।तितौः परपवनं भवति॑ इति पस्पशायां भाष्यम् ।चालनी तितौः पुमा॑नित्यमरः ।चालनं तितौन्युक्त॑मिति कोशान्तरम् ।स्याद्वास्तु हिङ्गु तितौ॑ इति पुंनपुंसकवर्गे त्रिकाण्डशेषः । अर्भक । एते निपात्यन्ते । निपातनप्रकारमेवाह — ऋधु वृद्धावित्यादि । प्रथेरिति । प्रथ प्रख्याने, पा पाने । पिबति स्तनादिकमिति पाकः ।पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः॑ इत्यमरः । अर्भकः कथितो बाले मूर्खेऽपि च कृशेऽपि च॑ ।पृथुकः पुंसि चिपिटे शिशौ स्यादभिधेयवत् ।पाकः परिणतौ शिशौ । केशस्य जरसा शौक्ल्ये स्थाल्यादौ पचनेऽपि च॑इति मेदिनी । अवद्य । एते कुत्सिते । निपात्यन्ते । वद व्यक्तायां वाचि, अव रक्षणादौ, ऋ गतौ,रिफ कत्थनयुद्धनिन्दाहिंसादानेषु ।निकृष्टप्रतकृष्टार्वरेफयाप्याऽवभाऽधमाः॑ इत्यमरः ।कुपूयकुसिताऽवद्यखेटगह्र्राऽणकाः समाः॑ इति च ।अधमः स्याद्गह्र्र ऊनेऽपि॑ इति मेदिनी ।अर्वा तुरङ्गमे पुंसि कुत्सिते वाच्यलिङ्गकः॑ ।रेफो रवर्णे पुंसि स्यात्कुत्सिते पुरन्यव॑दिति च मेदिनी । लीरीङोः । लीङ् श्लेषणे । रीङ् श्रवणे । क्रमादिति । श्लेषणे वाच्ये तप्रत्ययः, कुत्सिते वाच्ये रप्रत्यय इत्यर्थः ।लिप्तं विषाक्ते भुक्ते च वाच्यवत्स्याद्विलेपिते॑ इति विआः । क्लिशेः । क्लिशू विबाधने । नामागमश्चेति ।प्रत्ययस्ये॑ति शेषः । चिन्त्यमिति । ईत्वविधानसामर्थ्यादेव गुणाऽभावसिद्धेरिति भावः ।कीनाशः कर्षकः क्षुद्रोपांशुघातिषु वाच्यवत् । यमे ना॑ इति मेदिनी । अश्नोतेः । अशू व्याप्तौ अस्माद्वरट् स्यात् । ईआरी । आशुकर्म वरदानादिक्रिया यस्य तस्मिन्वाच्ये । शीघ्रदातरीत्यर्थः । ईआर इति । स्त्रियां तु टित्त्वान्ङीप् । ईआरी प्रत्ययस्वरेण मध्योदात्ता । ईशेर्वनिपिवनो र चे॑ति ङीब्रायोस्तु धातुस्वरेणाद्युदात्ता । पुंयोगलक्षणे ङीषि अन्तोदात्ता ।स्थेशभासपिसकसः॑इति वरचि तदन्ताट्टापि ईआरेति विवेकः ।ईआरो मन्मथे शम्भौ नाटए स्वामिनि वाच्यवत् । ईआरी चेआरोमाया॑मिति मेदिनी । ईआरा — उमायामिति छेदः ।ईआरः शङ्करेऽधीशे तत्पत्न्यामीआरीश्वरा॑ इति बोपालितः ।विन्यस्तमङ्गलमहौषधिरीश्वरायाः॑ इति भारविः । दशपादायं तु सूत्रान्तरमपिहन्ते रन् घश्चेति । हन हिंसागत्योरस्माद्रन्प्रत्ययः स्याद्धश्चान्तादेशः । हन्यते गम्यतेऽतिथिभिरिति घरः = गृहम् । चतेः । चते याचनेऽस्मादुरन्स्यात् । अकार उच्चारणार्थः ।चतुरनडुहोरामुदात्तः॑ इत्याम् । चत्वारः । प्राततेः । अत सातत्यगमने प्रपूर्वादस्मादरन्स्यात् । रेफादकार उच्चारणार्थः । स्वरादिपाठादव्ययत्वम् । प्रातर् । अमेः । अम गतिशब्दसंभक्तिषु, अस्मादरन्स्यात्तस्य तुडागमश्च । अन्तःशब्दोऽपि प्रातः शब्दवदव्ययम् । दहेः । दह भस्मीकरणे ।नगो महीरुहे शैले भास्करे पवनाऽशने॑ इति मेदिनी । सिचेः । षैच क्षरणे । हकारादेश इति । धातोरन्त्यस्येत्यर्थः ।सिंहः कण्ठीरवे राशौ सत्तमे चोत्तरस्थितः । सिंही क्षुद्रवृहत्योः स्याद्वासके राहुमातरि॑ इति विआः । व्याङि । घ्रा गन्धोपादानेऽस्माज्जातौ वाच्यायां कः स्यात् । कित्त्वादातो लोपः ।व्याघ्र स्यात्पुंसि शार्दूले रक्तौरण्डकरञ्जयोः । श्रेष्ठे नराद्युत्तरस्थः कण्टकार्यां च योषिति॑ इति मेदिनी । हन्तेः । हन्तेरच्स्याद्धातोर्घुरादेशश्च ।घोरं भीमे हरे॑ इति विआः । क्षमेः । क्षमूष् सहने ।क्ष्माऽवनिर्मेदिनी मही॑त्यमरः । तरतेः । तृ प्लवनतरणयोरस्मात् ड्रिः स्यात् । डित्त्वाट्टिलोपः । ग्रहेः । ग्रह उपादाने । ङीषिति ।कृदिकारा॑दित्यनेन ।ग्रहणी रुक् प्रवाहिका॑ इत्यमरः । प्रथेः । प्रथ प्रख्याने ।प्रथमस्तु भवेदादौ प्रधानेऽपि च वाच्यवत्, इति मेदिनी ।प्रथमचरमे॑ति वैकल्पिकसर्वनमत्वात्पक्षेः जसः शीभावः । प्रथमे प्रथमाः ।चरेश्च । चर गतिभक्षमयोरस्मादमच्स्यात् । चरमे चरमाः । योगविभागश्चिन्त्यप्रयोजनः ।प्रथिचरिभ्या॑मित्येव सुचवचम् । मङ्गेः । उख उखीत्यादिदण्डके गत्यर्थको मागः पठते ।कल्याणं मङ्गलं शुभम् । मङ्गलो ग्रहभेदः ।मङ्गला सितदूर्वायामुमायां पुंसि भूमिजे । नपुंसकं तु कल्याणे सर्वार्थे रक्षणेऽपि च॑ इति मेदिनी । भावे ष्यञि — माङ्गल्यम् ।तत्र साधुः॑ इति यत् ।मङ्गल्यः स्यात्रायमाणाऽआत्थबिल्वमसूरके । स्त्रियां शम्यामधःपुष्प्यां मिसिशुक्लवचासु च । रोचनायामथो दध्नि क्लीबं शिवकरे त्रिषु॑ इति मेदिनी । इत्युणादिषु पञ्चमः पादः ।उणादिप्रत्ययाः सन्ति पादोत्तरशतत्रयम् (३२५) । तेषां विवेचनं त्वत्र ज्ञानेन्द्रस्वामिभिः कृतम्॥१॥प्राचा तु कतिपयानामेवोणादीनामुपन्यासः कृतो न तु सर्वेषां , सोऽप्युपन्यासो नैकप्रघट्टकतया कृतः, किंतु विच्छिद्येति स्पष्टम् । तत्रापि केचित्प्रमादा मनोरमायां प्रदर्शितास्तेष्वेव कांश्चित्प्रमादान्दर्शयामः । [ द्वितीयपादे — ] ।भजो ण्वि#उ#ः॑ इति ण्विप्रकरणेछन्दसि सहः॑वहश्चे॑त्युपन्यस्यपरौ व्रजेः षः पदान्ते॑ इति ण्विस्तेनैव षः, परिव्राडित्ययं हि प्राचो ग्रन्थः । तद्व्याख्यायां तत्पौत्रेणपचपाद्युणादिसूत्रे इदं पठते॑ इत्युक्तं, तदुभयमपि प्रामादिकम् ।क्विब्बवची॑ति क्विब्दीर्घौ हि प्रक्रम्यपरौ व्रजे॑ रिति सूत्रस्य पाठात् । अस्मिन्नंशे पञ्चपादीदशपाद्योरेकवाक्यत्वात् ।[यदपि प्राचो ग्रन्तोऽपि प्रयुक्तः । सूत्रारूढे सर्वसंमते चार्थे केचिदित्युक्तेरप्रामाणिकत्वात् । ] । यदपिधनर्तिचक्षिङ्वपितपिजनियजेरुस् इति पठितं, तदप्यनाकरम् । तथा हि — जनेरुसिःरटअर्तिपृवपियजितनिधनितपिभ्यो नित् ।एतेर्णिच्च॑ ।चक्षेः शिच्चे॑ति सर्वसंमतः पाठः,तपूंषि तस्मै वपुषो वपुष्टर॑मित्यादिमन्त्रेषु आद्युदात्तताया अनुकूलश्च । वेदबाष्ये एवमेव स्थितम् । इत्यादयो द्वितीयपादे प्रमादाः । तृतीयपादेऽपि — ॒स्तनिदूषिपुष#इगदिमदिह्मदिभ्यो णेरित्नु॑ञिति प्राचा पठितं , तत्र दूषिह्मदी केषामपि वृत्तिकृतां ग्रन्थे न पठितौ । दूषयित्नुः ह्मदयिन्नुरिति प्रयोगोऽप्याकरे न दृष्टः ।स्तनिह्मषिपुषिमुदिगदिमदिभ्य॑ इति हि पञ्चपादीपाठः ।घुषिगन्धिमण्डिजनिनमिभ्यः॑ इति दशपाद्यामधिकं पठितमित्यन्यदेतत् । यदपिश्रुदक्षिस्पृहिद्दृगृहिजृभ्य आय्यः॑ इति पठित्वा दराय्य जराय्य इति प्राचोक्तं, तदपि न, दृजृग्रहणस्याऽकरानारूढत्वात् । [यदपिजृविशिभ्यां झच्गण्डिमण्डिजनिनन्दिभ्यस्चे॑त्युक्त्वा गण्डयतो जनयन्त इत्युदाहृतं प्राचा, यच्च गण्डयन्त इति प्रतीकमुपाया मेघनामेदमिति व्याख्याय गडि वदनैकदेशे इति व्याख्यातृभिर्विवृतं, तत्सर्वं प्रामादिकम् । तथाहि उणादिषु गडीति निरनुषङ्गं पठित्वा गड सेचने इति विवृतं,अयामन्ते॑ ति सूत्रे वृत्तिन्यासहरदत्तादिसकलग्रन्थेष्वेवं , माधवग्रन्थेष्वेवं, माधवग्रन्थेऽप्येवमेव.युक्तं चैतत् । मेघ इति व्याख्यानं प्रति सेचनार्थस्यैवाऽनुगुणत्वात् । जनेः पाठोऽप्यप्रामाणिकः । जिधातुं पठित्वाजयन्तः पाकशासनि॑ रिति सर्वैर्विवृतत्वात्, जनयन्त इति लक्ष्यस्य कैरपि अप्रदर्शितत्वात् । अप्रसिद्धत्वाच्च] इत्यादयस्तृतीयपादे प्रमादाः ।अथ चतुर्थे — यदपिकृगृस्तृजागृभ्यः क्विन् । कीर्विः गीर्विः स्तीर्वि॑रिति प्राचोक्तं, तदपि लिपिभ्रमप्रयुक्तमेव । कृ विक्षेपे, गृ निगरणे, स्तृञ् आच्छादने इति प्राचो ग्रन्थं विवृण्वतामुक्तिरपि मूलाऽशुद्ध्यैवाऽशुद्धा ।जृशृस्तृजागृभ्यः क्विन् इति हि पाठ उणादिवृत्तिकृतां माधवादीनां च संमतः । जीर्विः पशुः । शीर्विर्हिरुआः । स्तीर्विरध्वर्युरिति च तद्ग्रन्थेषूपपादितम् । स्तृ इत्यस्य दीर्घान्तत्व एवहिऋत इद्धातोः॑ इतीत्वं लभ्यते न तु ह्रस्वान्तत्वेऽपि , तस्माद्यथाकरमेव हि ग्रहीतुमुचितमिति दिक् । यदपि प्राचोक्तं — ॒ग्लाज्याहात्वरिभ्यो निः॑ इति, तदप्यनाकरम् । आकरे हिवीज्याज्वरिभ्यो निः॑ इति पठित्वा सूत्रद्वयानन्तरंवहिश्री॑ति सूत्रेग्लाहात्वरिभ्यो निः॑ इति, तदप्यनाकरम् । आकरेहिवीज्याज्वरिभ्यो निः॑ इति पठित्वा सूत्रद्वयानन्तरंवहिश्री॑ ति सूत्रेग्लाहात्वरिभ्यो नि॑दिति सूत्रितत्वात् ।तूर्णी॑रथः सदानवः॑ इत्यादावद्युदात्तदर्शनाच्च । नचस्त्रियां क्ति॑ न्नित्यधिकारस्थं वार्तिकमेवेदं प्राचोदाहृतं न तूणादिसूत्रस्तमिति वाच्यम्, एवमपि त्वरतेः पाठस्याऽनुचितत्वात् । न ह्रसौ वार्तिकेऽस्तीति दिक् । एवंसंस्त्याने स्त्यायतेर्ड्र॑ डित्यपि प्राचोदाहृतमनाकरम् ।स्त्यायतेर्ड्र॑ डित्येव सूत्रस्याकरे पञ्चपाद्यां दशपाद्यां चोपलम्भात् ।संस्त्याने स्त्यायतेर्ड्रट् स्त्री सूतेः सप्प्रसवे पुमान्इति भाष्ये श्लोकपाठः, [स एव माधवेनोपन्यस्तो] न तु सूत्रपाठस्य तथात्वं दृश्यते, एवं तद्ग्रन्थव्याख्यातृणामपि प्रमादा ऊह्राः । तद्यथापाणिन्यादिमुनी॑ति व्याचक्षाणैरुक्तम्मनेरुच्चोपधायाः॑ इति, न ह्रेवंविधं सूत्रं पञ्चपाद्यां दशपाद्यां वास्ति, अत इत्यनुवर्तमानेमनेरुच्च॑ इत्येव सूत्रितत्वादिति दिक् । इति चतुर्थपादे प्राचः प्रमादाः । इत्युणादयः ।इति तत्त्वबोधिन्यामुणादयः॥अथ उत्तरकृदन्तम् ।उणादयो बहुलम् ।वर्तमाने ल॑डित्यतो वर्तमानग्रहणं,पुवः संज्ञाया॑मित्यतः संज्ञाग्रहणं चानुवर्तते । तदाह — एते इति । अत्र हि सूत्रेधातोःर॑प्रत्ययः॑कृदिति॑ङति चानुवर्तते, तेनकृवापाजिमी॑त्यादिना विहितानामष्टाध्यायीबहिर्भूतानामप्युणादीनां प्रत्ययसंज्ञा, कृत्संज्ञा च सिध्यति । तथा चोणादिप्रत्ययाः सर्वे धातोः परत्रकर्तरि कृ॑दिति कत्र्रर्थे भवन्ति । उणादिप्रत्ययान्तस्यकृत्तद्धिते॑ति प्रातिपदिकसंज्ञायां खाद्युत्पत्तिरित्यादिसर्वमपीष्टं सिध्यति । अपरिपूर्णानामुणादीनां परिपूरणार्थं बहुलग्रहणम् । तस्य फलमाह — केचिदविहिता अपीति । ह्मषेरुलज्विहितः, स तु शङ्केरपि भवति, शङ्कुलेति प्रयोगदर्शनात् । किच्च फिडफिड्डप्रत्ययौ कुत्रापि न विहितौ अर्तेरुह्रेते ऋफिडः ऋफिड्ड इति, तयोः कित्तवं च कल्प्यते । तथा षण्ढ इत्यत्र सत्वाऽभावश्चेत्यादि । संज्ञास्विति । अनादिसंज्ञास्वेव, न तु सर्वास्वित्याहुः ।ह्मषेरुल॑जिति प्रत्ययं दृष्ट्वा शङ्किः प्रकृतिरुह्रते । तेन शङ्कुलेति सिद्धम् । ऋ गतावित्यादिभ्यः फिडाफिड्डादिप्रत्यया गृह्यन्ते । कार्याद्विद्यादिति ।ऋफिड॑ इत्यादौ गुणप्रतिषेधादिकार्यानुरोधादनुबन्धं ककारादिकं विद्यात् । अनूबन्धमित्यत्रउपसर्गस्य घञी॑ति दीर्घः । एतदुणादिषु शास्त्रं = शासितव्यमित्यर्थः ।", "83113": "सेधतेर्गतौ। श्तिपा निर्देशाद्गत्यर्थादस्माद्यङ्लुकि न निषेधः,तेनोपसर्गमाश्रित्य षत्वं भवत्येव - `विषेषिधीति`। न च सेदेति शपा निर्देशाद्यङलुकि `उपसर्गात्सुनोती`ति षत्वं न भवेदिति शङ्क्यं,दैवादिकनिवृत्त्यर्थतया शपा निर्देशस्य चरितार्थतत्वात्। अन्यथा सेधतेरिति श्तिपा निर्देशस्य वैयर्थ्यापत्तेरिति दिक्। षिधू शास्त्रे। माङ्गस्यं- मङ्गलक्रिया। स्वार्थे ष्यञ।", "83114": "<<प्रतिस्तब्धनिस्तब्धौ च>> - सिचो यङि । अभ्याससकारस्यउपसर्गात्सुनोती॑ति,ततः परसय् तुस्थादिष्वभ्यासेन चे॑ति षत्वे प्राप्ते निषेधोऽयम् । यङि किम् । अभिषिषिक्षति ।", "83115": "<<सोढः>> - सेधतेर्गतौ । श्तिपा निर्देशाद्गत्यर्थादस्माद्यङ्लुकि न निषेधः,तेनोपसर्गमाश्रित्य षत्वं भवत्येव — विषेषिधीति॑ । न च सेदेति शपा निर्देशाद्यङलुकिउपसर्गात्सुनोती॑ति षत्वं न भवेदिति शङ्क्यं,दैवादिकनिवृत्त्यर्थतया शपा निर्देशस्य चरितार्थतत्वात् । अन्यथा सेधतेरिति श्तिपा निर्देशस्य वैयथ्र्यापत्तेरिति दिक् । षिधू शास्त्रे । माङ्गस्यं- मङ्गलक्रिया । स्वार्थे ष्यञ ।", "83116": "स्तन्भुः सौत्रः। `षिवु तन्तुसंताने`। षह मर्षणे`। स्तन्भतेः `स्तन्भेः` इत्यनेन प्राप्तिरन्ययोस्तु `परिनिविभ्यः` इत्यनेनेति विवेः। आटिटत्। आशिशदिति। णिचा सह द्वित्वात्सन्वद्भावो नेति त्दविषये विहितो यो `दीर्घो लघो`रिति दीर्घः स न प्रवर्तते। ऋदित्करणाल्लिङ्गादिति। यदि पूर्वं द्विर्वचनं भवेत्तद। णिशब्दस्य द्वित्वे सत्युपधाह्रस्वस्याऽप्राप्तेस्तत्प्रतिषेधार्थमृदित्करणं व्यर्थं स्यादतस्तदुक्तेऽथ ज्ञापकमेव। एजादावेधताविति। `एत्येधत्यूठ्सु` इति सूत्रे `एजाद्योरेत्येधत्यो`रिति व्याख्यातत्वादिति भावः। न च मा भवान्प्रेदिधदित्यत्र `णौ चङी`ति ह्रस्वे कृते नायमेधतिरिति वृद्धेरप्रवृत्तौ किमेधतेरेजादिविशेषमेनेति वाच्यम्, एकदेशविकृतस्याऽनन्यत्वात्। न चैवमपि `अजादेर्द्वितीयस्ये`ति धिशब्दस्थाने धिधिशब्दादेशे सति वस्नसोरिव प्रकृतिप्रत्ययविभाघसंमोह इति वाच्यं, `द्विः प्रयोगो द्विर्वचनं षष्ठ`मिति भाष्ये सिद्धान्ततत्वात्। अन्यथा इहैव प्रेदिधदित्यत्र णिलोपो न स्यात्, `जिघांसती`त्यादौ सनः सकारेण विशिष्टस्य द्वित्वे कृते कुत्वं च न स्यादिति दिक्। उब्ज आर्जव इति। अयमुपध्मानीयोपध इति वार्तिककृतोक्तम्। तस्य `झलां जश् झशी`ति झश्त्वेन बकारे कृते - अब्जिता उब्जितुमिति रूपम्। एतच्चाऽयोगवाहानां शर्षु पाठस्य फलम्। भाष्यकारादयस्तूपध्मानीयोपधपाठे `उब्जिजिषती`ति रूपं न सिध्येत्। यदि `पूर्वत्राऽसिद्धीयमद्विर्वचने` इत्याश्रित्य बकारोत्तरं द्वित्वं क्रिये, यदि वा अस्याऽनित्यतामाश्रित्य बकारात्पूर्वमेवोपध्मानीयस्य द्वित्वमुभयतापीष्टरूपाऽसिद्धिः, आद्ये उबिब्जिषति, द्वितीये तूपध्मीनीयस्याऽच्त्वात्तदादेः `अजादेर्द्वितीयस्ये`ति द्वित्वे हलादिः शेषे द्वितीयोपध्मानीयस्य जश्त्वेन बकारे पश्चात्प्रथमस्यापि तथैव बकारे उब्ब्जिषतीत्यापत्तेः। ततश्चेष्टसिद्धये दकारोपधोऽयं स्वीकार्यः। `बुजन्युब्जा`विति निपातनादुपधादकारस्य बो भवतीति वाक्यं कल्प्यते, तच्च `स्तोः श्नुना श्चु`रित्यस्याग्रे। तदयमर्थः - श्चुना योगे उद्?जेर्दकारस्य बकार इति। अभ्युद्रः समुद्र इत्यत्र तु उब्जिता उब्जितुमित्यत्रेव चवर्गयोगो नास्तीति न बकारः। दकारोपधे चास्मन्स्वीकरृते `न न्द्राः` इति निषेधाज्जिशब्दस्य द्वित्वे ततो बकारे च उब्जिजिषतीति सिध्यति रूपम्। न च `पूर्वत्रासिद्धीयमद्विर्वचने`इति धकारोत्तरं द्विर्वचने सति स्यादेवाऽनिष्टमिति वाच्यम्, द्विर्वचने हि त्रैपादिकं सिद्धं न तु तन्निषेधेऽपि। तथा च निषेधे त्रिपादीश्थस्याऽसिद्धत्वात् `न न्द्राः` इति निषेधः प्रवर्तते। य्दवा तादृशवाक्यमिह न कल्प्यते किं तु `भुजन्युब्जौ` इति निपातनेन दस्य ब इति। न चैवं बकारसहितस्य द्वित्वप्रसङ्गः, धातोर्दकारोच्चारणसामर्थ्यात्। नचाऽभ्युद्र इत्यादावपि बकारश्रवणप्रसङ्गः, अकुत्वविषय एव बकारनिपातनाभ्युपगमात्। यद्वा अभ्युद्र इत्यादि रूपं द्व्युपसर्गाद्रमेर्डप्रत्यये ज्ञेयम्। उद्?जेस्तु घञि अनभिधात्प्रयोगाऽभाव इति वदन्ति। तदेतद्भाष्यादिमतमभिप्रेत्याह - उपदेशे दकारोपध इत्यादि। अजादेरित्येवेति। `न न्द्राः` इत्यत्र अजादेरित्यनुवर्तते, तेन आदिभूतादचः परा एव नदरा द्विर्नोच्यन्ते नान्ये इत्यर्थः। ननु `लावस्थायामेव `अ`डिति भाष्याकोरक्तपक्षे अदिद्रपदित्यत्र अजादित्वमस्त्येव, न्याय्यश्च प्रथममट्, परत्वादन्तरङ्गत्वाच्चेति चेत्। अत्राहुः - द्वितीयस्येत्यप्यत्रानुवर्तते, तत्सामर्थ्याच्च नित्यं द्वितीयस्येति तदर्थः। तेन लावस्थायामटि कृतेऽपि दातुसंज्ञाप्रवृत्तिकाले अजादित्वाऽभावान्नोक्तदोषः। नित्यं द्वितीयस्यैकाचो ये नदरास्तेषामेव निषेधात्। न चैवं नित्य#ं द्वितीयस्येति व्याख्ययैव इष्टसिद्धावजादेरित्यस्याऽत्रानुवृत्तिर्मास्त्विति वाच्यम्, इन्द्रिदीयिषतीत्यत्र दकारस्यापि द्वित्वनिषेधापत्तेः। अजादेरित्युक्तौ त्वादिभूतदचः परत्वं दकारस्य नेति सिद्धमिष्टम्। न च अजादेरिति कर्मधारयात्पञ्चमीत्युक्तत्वात्। इह च एकदेशे स्वरितत्वं प्रतिज्ञाय अच इत्येवानुवत्र्यताम्। अथवा आदेरित्य्सयाप्यनुवर्तनमस्तु, तस्य नावयवपरत्वं, किंतु पूर्ववर्तिमात्रपरत्वं, शब्दाधिकाराश्रयणादिति ज्ञेयम्। नन्वेवमुत्तरार्थतया द्वितीयस्येति ग्रहणस्य सार्थकत्वे स्थिते `द्वितीयस्येति न वक्तव्य`मिति भाष्यं विरुध्येतेति चेत्। मैवम्। यस्मिन्सूत्रे पठितं तत्र मास्त्विति तदाशयात्। रन च अजादेरित्येतावत्युक्तेयस्य कस्यचिदेकाचो द्वित्वं स्यादिति वाच्यम्, प्रथमस्यैकाचः पूर्वेणैव सिद्धेः पुनरारम्भो द्वितीयस्य द्वित्वार्थमिति सुवचत्वात्।", "83117": "<<सुनोतेः स्यसनोः>> - षत्वं नेति ।न रपरे॑ ति सूत्रान्नेत्यनुवर्तत इति भावः ।", "83118": "<<सदिष्वञ्जोः परस्य लिटि>> - स्तन्भुः सौत्रः ।षिवु तन्तुसंताने॑ । षह मर्षणे॑ । स्तन्भतेःस्तन्भेः॑ इत्यनेन प्राप्तिरन्ययोस्तुपरिनिविभ्यः॑ इत्यनेनेति विवेः । आटिटत् । आशिशदिति । णिचा सह द्वित्वात्सन्वद्भावो नेति त्दविषये विहितो योदीर्घो लघो॑रिति दीर्घः स न प्रवर्तते । ऋदित्करणाल्लिङ्गादिति । यदि पूर्वं द्विर्वचनं भवेत्तद । णिशब्दस्य द्वित्वे सत्युपधाह्रस्वस्याऽप्राप्तेस्तत्प्रतिषेधार्थमृदित्करणं व्यर्थं स्यादतस्तदुक्तेऽथ ज्ञापकमेव । एजादावेधताविति ।एत्येधत्यूठ्सु॑ इति सूत्रेएजाद्योरेत्येधत्यो॑रिति व्याख्यातत्वादिति भावः । न च मा भवान्प्रेदिधदित्यत्रणौ चङी॑ति ह्रस्वे कृते नायमेधतिरिति वृद्धेरप्रवृत्तौ किमेधतेरेजादिविशेषमेनेति वाच्यम्, एकदेशविकृतस्याऽनन्यत्वात् । न चैवमपिअजादेर्द्वितीयस्ये॑ति धिशब्दस्थाने धिधिशब्दादेशे सति वस्नसोरिव प्रकृतिप्रत्ययविभाघसंमोह इति वाच्यं,द्विः प्रयोगो द्विर्वचनं षष्ठ॑मिति भाष्ये सिद्धान्ततत्वात् । अन्यथा इहैव प्रेदिधदित्यत्र णिलोपो न स्यात्,जिघांसती॑त्यादौ सनः सकारेण विशिष्टस्य द्वित्वे कृते कुत्वं च न स्यादिति दिक् । उब्ज आर्जव इति । अयमुपध्मानीयोपध इति वार्तिककृतोक्तम् । तस्यझलां जश् झशी॑ति झश्त्वेन बकारे कृते — अब्जिता उब्जितुमिति रूपम् । एतच्चाऽयोगवाहानां शर्षु पाठस्य फलम् । भाष्यकारादयस्तूपध्मानीयोपधपाठेउब्जिजिषती॑ति रूपं न सिध्येत् । यदिपूर्वत्राऽसिद्धीयमद्विर्वचने॑ इत्याश्रित्य बकारोत्तरं द्वित्वं क्रिये, यदि वा अस्याऽनित्यतामाश्रित्य बकारात्पूर्वमेवोपध्मानीयस्य द्वित्वमुभयतापीष्टरूपाऽसिद्धिः, आद्ये उबिब्जिषति, द्वितीये तूपध्मीनीयस्याऽच्त्वात्तदादेःअजादेर्द्वितीयस्ये॑ति द्वित्वे हलादिः शेषे द्वितीयोपध्मानीयस्य जश्त्वेन बकारे पश्चात्प्रथमस्यापि तथैव बकारे उब्ब्जिषतीत्यापत्तेः । ततश्चेष्टसिद्धये दकारोपधोऽयं स्वीकार्यः ।बुजन्युब्जा॑विति निपातनादुपधादकारस्य बो भवतीति वाक्यं कल्प्यते, तच्चस्तोः श्नुना श्चु॑रित्यस्याग्रे । तदयमर्थः - श्चुना योगे उद्जेर्दकारस्य बकार इति । अभ्युद्रः समुद्र इत्यत्र तु उब्जिता उब्जितुमित्यत्रेव चवर्गयोगो नास्तीति न बकारः । दकारोपधे चास्मन्स्वीकरृतेन न्द्राः॑ इति निषेधाज्जिशब्दस्य द्वित्वे ततो बकारे च उब्जिजिषतीति सिध्यति रूपम् । न चपूर्वत्रासिद्धीयमद्विर्वचने॑इति धकारोत्तरं द्विर्वचने सति स्यादेवाऽनिष्टमिति वाच्यम्, द्विर्वचने हि त्रैपादिकं सिद्धं न तु तन्निषेधेऽपि । तथा च निषेधे त्रिपादीश्थस्याऽसिद्धत्वात्न न्द्राः॑ इति निषेधः प्रवर्तते । य्दवा तादृशवाक्यमिह न कल्प्यते किं तुभुजन्युब्जौ॑ इति निपातनेन दस्य ब इति । न चैवं बकारसहितस्य द्वित्वप्रसङ्गः, धातोर्दकारोच्चारणसामर्थ्यात् । नचाऽभ्युद्र इत्यादावपि बकारश्रवणप्रसङ्गः, अकुत्वविषय एव बकारनिपातनाभ्युपगमात् । यद्वा अभ्युद्र इत्यादि रूपं द्व्युपसर्गाद्रमेर्डप्रत्यये ज्ञेयम् । उद्जेस्तु घञि अनभिधात्प्रयोगाऽभाव इति वदन्ति । तदेतद्भाष्यादिमतमभिप्रेत्याह — उपदेशे दकारोपध इत्यादि । अजादेरित्येवेति ।न न्द्राः॑ इत्यत्र अजादेरित्यनुवर्तते, तेन आदिभूतादचः परा एव नदरा द्विर्नोच्यन्ते नान्ये इत्यर्थः । ननुलावस्थायामेवअ॑डिति भाष्याकोरक्तपक्षे अदिद्रपदित्यत्र अजादित्वमस्त्येव, न्याय्यश्च प्रथममट्, परत्वादन्तरङ्गत्वाच्चेति चेत् । अत्राहुः — द्वितीयस्येत्यप्यत्रानुवर्तते, तत्सामर्थ्याच्च नित्यं द्वितीयस्येति तदर्थः । तेन लावस्थायामटि कृतेऽपि दातुसंज्ञाप्रवृत्तिकाले अजादित्वाऽभावान्नोक्तदोषः । नित्यं द्वितीयस्यैकाचो ये नदरास्तेषामेव निषेधात् । न चैवं नित्य#ं द्वितीयस्येति व्याख्ययैव इष्टसिद्धावजादेरित्यस्याऽत्रानुवृत्तिर्मास्त्विति वाच्यम्, इन्द्रिदीयिषतीत्यत्र दकारस्यापि द्वित्वनिषेधापत्तेः । अजादेरित्युक्तौ त्वादिभूतदचः परत्वं दकारस्य नेति सिद्धमिष्टम् । न च अजादेरिति कर्मधारयात्पञ्चमीत्युक्तत्वात् । इह च एकदेशे स्वरितत्वं प्रतिज्ञाय अच इत्येवानुवत्र्यताम् । अथवा आदेरित्य्सयाप्यनुवर्तनमस्तु, तस्य नावयवपरत्वं, किंतु पूर्ववर्तिमात्रपरत्वं, शब्दाधिकाराश्रयणादिति ज्ञेयम् । नन्वेवमुत्तरार्थतया द्वितीयस्येति ग्रहणस्य सार्थकत्वे स्थितेद्वितीयस्येति न वक्तव्य॑मिति भाष्यं विरुध्येतेति चेत् । मैवम् । यस्मिन्सूत्रे पठितं तत्र मास्त्विति तदाशयात् । रन च अजादेरित्येतावत्युक्तेयस्य कस्यचिदेकाचो द्वित्वं स्यादिति वाच्यम्, प्रथमस्यैकाचः पूर्वेणैव सिद्धेः पुनरारम्भो द्वितीयस्य द्वित्वार्थमिति सुवचत्वात् ।", "83119": "<<निव्यभिभ्योऽड्व्यवाये वा छन्दसि>> - सुनोतेः स्यसनोः ।न रपरे॑ त्यस्मान्नेत्यनुवर्तनादाह — षो न स्यादिति॥ सनि तु अभिसुसूः । सन्नन्तादस्मात्क्विप्यतो लोपे रुत्वे कृते दीर्घः । सुसूषतीत्येतत्तु नोदाहरणं,स्तौतिण्योरेव षणी॑ति नियमेनैव षत्वाऽभावसिद्धेः । एतच्च काशिकायां स्पष्टम् । चिञ् । चयनं रचनाविशेषः ।", "84001": "<<रषाभ्यां नो णः समानपदे>> - रषाभ्यां नो णः । अत्र <<अपदान्तस्य मूर्धन्यः>> [[8.3.55]] इत्यनुवर्त्त्य णग्रहणं, <<पदान्तस्य>> [[8.4.37]] इति सूत्रं च भाष्ये प्रत्याख्यातम् । समानपदे इति । निमित्तनिमित्तिनोरपदस्थत्वाऽसंभवात्पदे इतीयतैव सामर्थ्यादेकपदत्वे लब्धे समानग्रहणं यत्समानमेव पदं, निमित्तवत्पदभिन्नपदस्थत्वाऽभावादिति यावत्, तत्र यथा स्यादित्येतदर्थम् । तेन समासे रामनाम, गन्धर्वगानमित्यादौ न भवति । तत्र हि नकारस्यैकपदवृत्तित्वेऽपि निमित्तवत्पदभिन्नपदस्थत्वात् । भवति हि यूष्ण इत्यादौ णत्वम्, निमित्तवत्पदभिन्नपदत्वाऽभाववद्वृत्तित्वान्नकारस्य । मातृभोगीण इत्यादावपि नस्य णत्वं भवत्येव, प्रत्ययवृत्तित्वेऽपि निमित्तवत्पदभिन्नपदस्थत्वाऽभावात् । एतेन समानग्रहणमखण्डपदलाभार्थमिति व्याख्याय रामनामेत्यादावपि प्रसङ्गे निवारितेऽपि मातृभोगीण इत्यादावव्याप्तिः स्यादेवेति केषांचिदुक्तिः परास्ता । उक्तरीत्या त्वव्याप्तिशङ्काया निरस्तत्वात् । यूष्ण इति । यूषो मण्डः । 'मुद्रामलकयूषस्तु भेदी दीपनपाचनः' इति दर्शनात् । पूर्वत्रासिद्धे न स्थानिवदिति । एतच्च न्यायसिद्धं, त्रिपाद्या असिद्धत्वेन तत्रत्ये कर्तव्ये अचः परस्मिन्नित्यतिदेशस्याऽप्रवृत्तेः । तस्येति । तस्य पूर्वत्रासिद्धे नेत्यस्य । तथा च स्थलत्रये स्थानिवद्भावो वक्तव्य इत्यर्थः । संयोगादिलोपे — चक्र्यत्र । इह अचः परस्मिन्निति यणादेशस्य स्थानिवत्त्वात्स्कोः इति कलोपो न । लत्वे - निगाल्यते । अत्र णिलोपस्य स्थानिवत्त्वादचि विभाषेति लत्वम् । णत्वे - माषवपनी । इह यस्येति चेत्यल्लोपस्य स्थानिवत्त्वेन नकारस्य प्रातिपदिकान्तत्वाऽभावाण्णत्वं न । ननु गर्गभगिनीत्यत्रेव माषवपनीत्यत्रापि णत्वप्राप्तिर्नास्त्येव,उत्तरपदं यत्प्रातिपदिकं तदन्तस्येति वक्ष्यमाणत्वात् । अत्राहुः - साधनं कृतेति ल्युडन्तेन समासे पश्चान्ङीपि यस्येति चेत्यल्लोपे कृते नकारस्योत्तरपदान्तत्वाण्णत्वप्राप्तिरस्त्येवेति । स्यादेतत्, यूष्ण इत्यादौ रषाभ्यामित्यस्य नोपयोगः, ष्टुत्वेनैव रूपसिद्धेः । अत एव च षग्रहणमुत्तरार्थमित्याकरे स्थितमिति चेदुच्यते, उत्तरार्थतयाऽपीह षग्रहणं स्थितं, ततश्च यूष्णः पुष्णातीत्यादौ रषाभ्यामिति णत्वस्य प्रवृत्तिः केन वार्यताम् । ष्टुत्वेनेति चेन्न, तस्याऽसिद्धत्वात् । न च वचनप्रामाण्यात्सिद्धत्वं शङ्क्यम्,पृष्टः पुष्टिः षष्ठः इत्यादौ चरितार्थत्वात् । नस्य षयोगे ण इत्यंशोऽचरितार्थ इति चेन्न, तस्य पृथगनुक्तेः । इह षात्परस्येत्युक्तिरप्यचरितार्थेत्यस्यापि तुल्यत्वाच्च । एवमप्युत्तरार्थं षग्रहणमित्याकरो विरुध्यत इति चेन्न, आकरे हीह षग्रहणं विना पुष्णातीत्यादिलक्ष्यस्याऽसिद्धिर्नास्तीत्येतावदभिप्रेतं, न तु पुष्णातीत्यादौ रषाभ्यामित्यस्याऽप्रवृत्तिरिति ।", "84002": "<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> - अट्कुप्वाङ् ।रषाभ्या॑मिति पञ्चमीनिर्देशाद्व्यवहितस्याऽप्राप्तौ वचनमिदम् । तत्र सर्वैव्र्यवायोऽसंभवी ।एकैकमात्रव्यवाय॑ इत्यपि नार्थः, क्षुभ्नादिषु क्षु भ्नपाठसामर्थ्यात्,सरूपाणाम्-॑इत्यादिनिर्देशाच्चेत्यभिप्रेत्याह-व्यस्तैर्यथासंभवमिलितैश्चेत्यादि । नन्वेवंकृत्स्नं॑कार्त्स्न्य॑मित्यादावडादिव्यवधानाऽभावण्णत्वाऽभावेप्यादर्शेनेत्यादावड्वयवधानादतिप्रसङ्गः । न च अडादिभिरेव व्यवधान इति नियमः, अप्राप्ते विधिरयमित्युक्तत्वात् । सत्यम् । योगविभागोऽत्र बोध्यः ।व्यवायेऽपि॑ इत्येको योगो विध्यर्थः ।अट्कुप्वाङ्नुम् — ॑इत्यन्यो नियमार्थः । छान्दसो भिसो लुक् । अत्र योगविभागं विनापि निर्वाहः सुकर इति तु नव्याः । तथाहि — अट्कुप्वाङ्-॑इति सूत्रेरषाभ्याम् इत्यनुवर्तते । पञ्चमीश्रुत्यातस्मादित्युत्तरस्ये॑ति परिभाषोपतिष्ठते । उपस्थितापि सा वचनप्रामाण्यादडादिव्यावाये न प्रवर्तते । तदन्यव्यवाये तु प्रवर्तत एव । अतएव-॒येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यादेकवर्णव्यवहितस्यैव इको गुणो न तु भिनत्तीत्यादावनेकव्यवहितस्येकः॑ — इतिपुगन्तलघूपधस्ये॑ति सूत्रे वक्ष्यति । एवं च यत्राडादिभ#इरेव व्यवधानं रामेणेत्यादौ तत्र भवत्येव णत्वम् । अत्र त्वडादिभिन्नेन व्यवधानमादर्शेनेत्यादौ, तत्र न भवति,तस्मा॑दिति परिभाषाया जागरूकत्वात् । निषेधं बाधितुमिति । तेनपर्यणद्ध॑मित्यत्रउपसर्गादसमासेऽपि-॑ इति णत्वं सिध्यतीति भावः । उपलक्षणार्थमिति । नुम्स्थानिकस्य, स्वाभाविकस्य वाऽनुस्वारमात्रस्योपलक्षणार्थं नुम्ग्रहणमित्यर्थः । तेनबृहि वृद्धौ॑ । इदित्त्वान्नुम् । तस्यानुस्वारः ।तृंहू हिंसायां॑ । स्वाभाविकोऽत्रानुसवारः । बृंहणम् तृंहणम् । उभयत्रापि णत्वं सिद्धम् । अयोगवाहानामिति । अविद्यमानो योगः=प्रत्याहारेषु संबन्धो येषां ते अयोगाः । अनुपदिष्टत्वादुपदिष्टैरगृहीतत्वाच्च प्रत्याहारसंबन्धशून्या इत्यर्थः । वाहयन्ति निर्वाहयन्ति प्रयोगमिति वाहाः । अयोगाश्च ते वाहाश्च अयोगवाहाः । अनुपदिष्टत्वे उपदिष्टैरगृहीतत्वे च सति श्रूयमाणा इत्यर्थः । अट्स्विति । निष्कर्षस्त्वकारोपरीति । तेन पयःस्वित्यादाविणः परस्येति षत्वं न भवति । अत एवोक्तं प्राक्-॒अनुस्वारविसर्गजिह्वामूलीयोपध्मानीययमानामकारोपरी॑ति ।", "84003": "", "84004": "<<वनं पुरगामिश्रकासिध्रकाशारिकाकोटराऽग्रेभ्यः>> - वनं पुरगाष व्यत्ययेन षष्ठर्थे प्रथमा इत्याह -वनशब्दस्येति । एभ्य एवेति । कृतिदीर्घेभ्यः पुरगादिभ्य एव परस्य णत्वमित्यर्थः ।एभ्यो वनस्यैव णत्वं नान्येषा॑मिति विपरीतनियमशङ्का तु न भवति, वनादन्यस्मिन्नुत्तरपदे पुरगादीनां दीर्घान्तत्वाऽसंभवात् । नियमार्थ इति । अयं भावः -॒पुरगामिश्रके॑ति दीर्घनिर्देशादसंज्ञायां दीर्घाऽभावेन संज्ञायामेणत्वमिति फलितम् । एवं चपूर्वपदात्संज्ञाया॑मित्यनेनैव वनस्य णत्वे सिद्धे पुनरपि कृतदीर्घस्य पुरगादिपञ्चकस्य णत्वविधौ निर्देशो नियमार्थ एवेति । विध्यर्थ इति । असंज्ञात्वेनपूर्वपदात्संज्ञाया ॑मित्यस्याऽप्रवृत्तेरिति भावः । न च पुरगाग्रहणमपि विध्यर्थमेव, गकारव्ययधानेनपूर्वपदात्संज्ञाया॑मित्यस्य प्राप्त्यभावादिति वाच्यम्,अगः॑ इत्यस्य पञ्चम्यन्तत्वं स्वीकृत्यगान्तात्पूर्वपदात्परस्य णत्वं ने॑ति व्याख्यानात् । पुरगाशब्दस्य त्वकारान्तत्वात्अगः॑ इति निषेधस्याऽप्रवृत्तेः । अतएवअगः॑ इत्यस्यऋगयन॑मित्येकमेवोदाहरणमितिअणृगयनादिभ्यः॑इति निर्देशाश्रयेण तत्प्रत्याख्यातमाकरे । पुरगावणमित्यादि । नरकविशेषस्य संज्ञा । असिपत्रवनमिति ।एभ्यो वनस्यैवे॑ति विपरीतनियमे तु णत्वमत्र दुर्वारमिति भावः । सप्तम्यर्थस्य प्रातिपदिकार्थेऽन्तर्भावादह -प्रथमेति । किंशुलुकादीनामुदाहरणमाह — किंशुलुकागिरिरिति । आदिशब्दग्रह्रास्तुअञ्जनागिरिः॑ इत्यादयः । किंशुलुकेति किम् । कृष्णगिरिः । रामगिरिः ।", "84005": "", "84006": "<<विभाषौषधिवनस्पतिभ्यः>> - शिरीषवणमिति । ननुवानस्पत्यः फलैः पुष्पत्तैरपुष्पाद्वनस्पति॑रित्यमर कोशाद्यस्य पुष्पं विनैव फलप्रादुर्भावः स वनस्पतिः, स चोदुम्बरादिः । शिरीषल्तु न तथा, तस्य पुष्पफलोभयसत्त्वादतो णत्वमिह कथमिति चेत् । अत्राहुः — वनस्पतिशब्देनात्र वृक्षमात्र मुपलक्ष्यते । अत्र चलुपि युक्तव॑दिति सूत्रस्थं भाष्यं लिङ्गम् । तत्र हि व्यक्तिवचने किम् । शिरीषाणामदूरभवो ग्रामः शिरीषाः, तेषां वनं शिरीषवणमित्यत्र णत्वे कर्तव्ये वनस्पतित्वमप्यतिदिश्येतेत्युक्तम् । तच्च शिरीषाणां वनस्पतित्वे सङ्गच्छते नान्यथेति दिक् ।व्द्यच्त्र्यज्भ्यामेव । व्द्यच्त्र्यज्भ्यामेवेति । व्यवस्थितविभाषाश्रयणादिति भावः । ओषधित्वात्प्राप्ते प्रतिषेधमाह ।ईरिकादिभ्यः प्रतिषेधो वक्तव्यः । इरिकादिभ्य इथि । एतदपि व्यवस्थितविभाषाज्ञानादेव सिद्धम् । उशीनरा इति । इह उशीनरशब्दस्त द्देशवासिषु भाक्तः । कर्मणि ल्युडिति ।कृत्यल्युटो बहुल॑मित्यनेन । वा भाव । आदेशार्थ आरम्भ इत्यप्रप्तविभाषा ।", "84007": "<<अह्नोऽदन्तात्>> - रेफादिति । यदि तु लक्षे अहस्तु भव इत्यादिव्युत्पत्त्यालक्षाह्ण॑इत्यपि प्रयोगोऽस्ति, तर्हि षादित्यपि बोध्यम् ।रषाभ्या॑मित्यधिकारात् । ठञो लुगिति ।अणो लु॑गिति वृत्तिकाराद्युक्तमयुक्तमिति भावः । प्रसङ्गादाह -सत्रियामिति । नन्विह स्त्रीत्वं दुर्लभं,रात्राह्नहाः पुंसी॑ति वचनादिति चेन्मैवम् । सर्वमहः सर्वाहृ इत्यादावुपक्षीणस्य वद्वचनस्य लुप्ततद्धितायामप्रवृत्ते ।लुपि युक्तव॑दिति लिङ्गतिदेशो ह्यत्र प्रमाणम् । प्राकृतलिङ्गानुसासनानां लुप्तप्रत्ययेषु प्रवृत्तौ तद्वैयथ्र्यापत्तेः । अतएव लवणः सूपः लवणा यवागूरित्यादौ न क्लीबत्वम् । किं चद्विगुप्राप्तापन्ने ॑त्यादिना परवल्लिङ्गत्वे प्रतिषिद्धे तदपवादस्यरात्राह्नाहाः॑ इत्यस्याऽप्राप्तिरेवेति व्द्यह्नशब्दोऽयं विशेष्यनिघ्न एव, न तु नियतपुंलिङ्गः । एवं चाऽत्र भवार्थकतद्धिते लुप्तेऽपियः शिष्यते स लुप्यमानार्थाभिधायी॑ति न्यायेन भवार्थवत्तन्निष्ठस्त्रीत्वाभिधानमपि न्याय्यमेवेति दिक् । टाबिति । न चेह ठञन्तत्वान्ङीप्स्यादिति शङ्क्यं, ठञो लुप्तत्वात् । न च प्रत्ययलक्षणं, वर्णाश्रयत्वात् ।ठञो योऽकारस्तदन्तान्ङी॑बिति तत्र व्याख्यात्त्वात् । अतएव वृत्तिकाराद्युक्ताऽणो लुक् पक्षेऽपि न ङीफ्,अण्योऽकारः॑इति तत्र व्याख्यातत्वात् । न चैवमपि टजन्तत्बान्ङीप्स्यादेवेति वाच्यम् । टचः समासान्ततया तदन्तस्य तद्धितार्थं प्रत्युपसर्जनत्वात् । अतएव हि आपिशलिना प्रोक्तमधीयाना ब्राआहृणी आपिशलेत्युदाहृतं भाष्ये ।द्विगो॑रिति ङीप्तु न शङ्क्य एव,अपरिमणे॑ति निषेधात् । अतष्टाबेबात्र युक्तः । तथैवोदाहरति —", "84008": "", "84009": "<<पानं देशे>> - क्षीरपाणमिति । पीतिः — पानं ।ल्युट् चे॑ति नपुंसके भावे ल्युट् । पीयते अनेनेति पानं । करणे ल्युट् । क्षीरस्य पानं क्षीरपाणम् ।गिरिनद्यादीनां वा । गिरिनद्यादीनां वेति ।वक्तव्य॑मिति शेषः । संज्ञायां प्राप्ते, असंज्ञायामप्राप्ते उभयत्र विभाषेत्याहुः ।", "84010": "", "84011": "<<प्रातिपदिकान्तनुम्विभक्तिषु च>> - माषवापिणाविति ।बहुलमाभूक्ष्ण्ये॑इति णिनिः । व्रीहिवापाणीति । कर्मण्यण् ।उत्तरपदं यत्प्रातिपदिकं तदन्तस्यैव णत्वम् । उत्तरपदं यदिति । इष्टानुरोधेन तथा व्याख्यायत इति भावः । गर्गभगिनीति । इह भगिनीशब्द उत्तरपदं, न तु भगिन्शब्दः । अत्र च व्याख्याने नुम्ग्रहणमेव ज्ञापकमिति प्राचां मतमाह — अतएवेति । तदुक्तं ज्ञापकं विघटयति — किंचेति ।युवादेर्न । परिक्वानीति ।कुमति चे॑ति नित्यं णत्वं प्राप्तम् । एकाजुत्तर । प्राग्व्याख्यातमपि प्रकरणानुरोधेन स्मार्यते । वृत्रहणाविति । वृत्रं हतवृन्तौ ।ब्राहृभ्रूणे॑ति क्विप् । हरिमाणीति । मनेण्र्यन्तात्क्वीप् चे॑ति क्विप् ।गतिकारकोपपदाना॑मित्यादिना सुबुत्पत्तेः प्राक्समासान्नकारान्तमुत्तरपदम् । नान्तत्वान्ङीप् । क्षीरपाणीति । पिबतेः कर्मण्युपपदेआतोऽनुपसर्गे॑ इति कः ।आतो लोप इटि चे॑त्यालोपः । रम्यविणेति । रम्यश्चासौ विश्चेति विग्रहः । ततआङो नाऽस्त्रियाम् । नन्वन्तर्वर्तिनीं विभक्तिमाश्रित्य विशब्दस्य पदत्वात्पदव्यवायेपी॑ति णत्वनिषेधः स्यात् । मैवम् ।उत्तरपदत्वे चापदादिविधौ॑इति प्रत्ययलक्षणप्रतिषेधेन विशब्दस्य पदत्वाऽभावात् ।स्वादिषु॑ इत्यनेन तु रम्यविशब्दस्यैव पदत्वं न तु विशब्दस्य । यस्मात्स्वादिविधिस्तस्यैव पदत्वाभ्युपगमात् । एवं च पुनर्भूणामित्यत्र णत्वं निर्बाधमेव, नामि परतो भूशब्दस्य पदत्वाऽभावात् ।", "84012": "<<एकाजुत्तरपदे णः>> - एकाच् । एकोञ्च् यस्मस्तदेकाच् । तदत्तरपदं यस्य सएकाजुत्तरपद॑ इति बहुव्रीहिगर्भो बहुव्रीहिः । उत्तरपदशब्दः समासावयवे रूढः । तेनाक्षिप्तः समासोऽनेनविशेष्यत इत्याह — तस्मिन्मास इति ।रषाभ्यां नो णः॑इत्यतोण॑इत्युनुबर्तमानेऽपि णग्रहणमिह नित्यार्थमावश्यकमित्याशङ्क्याह — आरम्भसमाथ्र्यादिति ।प्रतिपदिकान्तनुम्बिभक्तिषु चे॑ति विकल्पने (णत्व)सिद्धावेतदारम्भसामर्थ्यादित्यर्थः । स्वयंभूः पुंवदिति । मतद्वयेऽपि नदीसंज्ञाया आभावान्ङिति ह्रस्वश्चेत्यादि न प्रवर्तत इति भावः ।", "84013": "<<कुमति च>> - कुमति च । अनेकाजुत्तरपदार्थ आरम्भः ।कौ॑ इत्येव तु न सूत्रितम् ।यस्मिन्विधि॑रिति तदादिविधौ कवर्गाद्युत्तरपद एव हरिकामाणीत्यादावयं विधिः स्यान्न तु वस्त्रयुगेणेत्यादौ, तथा च लमतुबन्तनिर्देश आवश्यक इत्याह — कवर्गवतीति ।", "84014": "<<उपसर्गादसमासेऽपि णोपदेशस्य>> - उपसर्गाद ।समासेऽङ्गुलेः सङ्गः॑इत्यतोऽनुवर्तनात्समास एव स्यादित्यसमासग्रहणं । कृते तु तस्मिन्नसमास एवस्यादित्यपेग्र्रहणं कृतम् । प्रणिनदतीति ।नेर्गदे॑ति णत्वम् । धातु नकारस्य तुउपसर्गादसमासे॑ इति णत्वं न भवति, अडादिभिन्नेन व्यवधानात् ।", "84015": "<<हिनुमीना>> - हिनु मीना । प्रमीणति ।", "84016": "<<आनि लोट्>> - ॒नि लो॑ डित्येव वक्तव्ये आनिग्रहणमागमशास्त्रस्याऽनित्यतां ज्ञापयितुम् । तेनसागरं तर्तुकामस्य॑जप्त्वा स्तोत्र॑मित्यादि सिध्यति । लोड्ग्रहणं स्पष्टप्रतिपत्त्यर्थम् । न च प्रकृष्टा वपा येषां तानि प्रवपानि मांसानीत्यत्राप्यनेन नित्यं णत्वं स्यादिति वाच्यम्, उपसर्गग्रहणादर्थवद्ग्रहणाऽच्चास्याऽप्रवृत्तेः ।प्रातिपदिकान्ते॑ति वैकल्पिकणत्वं त्विष्वत एव ।दुरः षत्वणत्वयोरुपसर्गत्वप्रतिषेधो वक्तव्यः । दुरः षत्वेति ।दुरः परस्य णत्वं नेति केचि॑दिति प्राचोक्तं त्वयुक्तम् । एवं हि सिद्धान्ते णत्वं स्यात्, तच्चाकारविरुद्धमिति भावः ।अन्तः शब्दस्याऽङ्किविधिणत्वेषूपसर्गत्वं वाच्यम् । अन्तर्द्धेति ।आतश्चोपसर्गे॑ इत्यङ् । टाप् । अन्तर्धिरिति ।उपसर्गे घोः किः॑ । श्रच्छब्दस्याङ्विधावुपसर्गत्वमुपसङ्ख्यायते तत्तु प्रकृतानुपयोगादुपेक्षितम् । भिदादिपाठेन,प्रज्ञाश्रद्धे॑ति निपातनेन वा गतार्थत्वाच्च ।", "84017": "<<नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्साति- वपतिवहतिशाम्यतिचिनोतिदेग्धिषु च>> - गदादीनां चतुर्णां शपा निर्देशः, स्यत्यादीनामेकादशानां श्तिपा निर्देशश्च यङ्लुङ्गिवृत्त्यर्थः । तेनप्रनिजागदीति । प्रतिनानदीति । प्रनिसासेति । प्रनिजङ्घनीती॑त्यादौ णत्वं न । घुशब्देन घुसंज्ञकादाधादयः षट् गृह्यन्ते । डुधाञ्- प्रणिदधाति । माशब्देन मेङ्भाङोरेव ग्रहणम् ।घुप्रकृतिमा॑ङिति पठित्वा भाष्यादौ कतथा व्याख्यानात् ।", "84018": "<<शेषे विभाषाऽकखादावषान्त उपदेशे>> - ॒नेर्गदनदे॑ति सूत्रोक्तापेक्षया शेष इत्याह — गदनदादेरन्यस्मिन्निति । उपदेशे किम् । प्रनिचकार प्रनिचखादेत्यत्रापि निषेधो यथा स्यात् । अषान्तेति किम् । प्रनिपिनष्टि । उपदेशग्रहणात् — प्रनिपेक्ष्यते ।चक्षिङः क्शाञ् ।प्रनिचक्शे॑इत्यत्रापि निषेधः । शेषग्रहणं स्पष्टार्थम् । णत्वशास्त्रे संहितायामित्यधिकारात्संहितायामववक्षितायां णत्वाऽभावः, संहितायां तु णत्वमिति विकल्पसिद्धेः किमनेन विभाषाग्रहणेनेत्याशङ्का न कार्येत्याह — इहोपसर्गाणामित्यादि । एकपद इत्येनैव सिद्धे समासग्रहणं गोबलीवर्दन्यायेनेति बोध्यम् । वाक्ये त्विति । सा संहिता विवक्षाधीना न त्वत्र नित्येत्यर्थः । उपलक्षममिति । एतच्च सत्ताद्यर्थनिर्देशं कृतवतो भीमसेनस्यापि संमतमित्यत्रकुर्द खुर्द गुर्द गुद क्रीडायामेवे॑त्येवकारो ज्ञापकः ।सेधतेर्गतौ॑ इति सूत्रे गतावित्येतदपिषिध गत्या॑मित्याद्यर्थनिर्देशस्योपलक्षणत्व एव घटते नान्थेति दिक् । उत्पद्यत इत्याद्यर्थादिति । एवं च उपसर्ग विनाप्युत्पत्त्यर्थप्रतीतेरुद्भवतीत्यादौ प्रयुज्यमानोऽप्युपसर्गो द्योतक एव न तु वाचक इति भावः । उपसर्गेण धात्वर्थ इति । अत एवाऽमरेणाप्युक्तं — स्दाभाषणमालापः, प्रलापोऽनर्थकं वचः । अनुलापो मुहुर्भाषा, विलापः परिदेवनम् । विप्रलापो विरोधोक्तिः, संलापो भाषणं मिथः । सुप्रलापः सुवचनमपलापस्तु निह्नवः॑इति ।", "84019": "<<अनितेरन्तः>> - अन्तः । अनितेरिति वर्तते, अन्तोऽत्र पदापेक्षो गृह्रते, नाऽनितेरपेक्षया, अव्यभिचारादत आह — पदान्तस्येति.हे प्राणिति । अन प्राणने । क्विप् ।अनुनासिकस्ये॑ति दीर्घः ।न ङिसंबुद्ध्यो॑रिति नलोपनिषेधः । अन्यत्र तु नलोपेन भाव्यमिति संबुद्ध्यन्तमुदाहृतम् । मित्रशीरिति । लुप्तेऽपि क्विप्प्रत्यये प्रत्ययलक्षणन्यायेन हलादिकित्प्रत्ययपरत्वमस्ति,वर्णाश्रये नास्ति प्रत्ययलक्षण॑ मित्येतद्वर्णप्राधान्य एवेत्युक्तत्वादिति भावः । * आशास इति । शासु अनुशिष्टौ । आङः शासु इच्छायाम्, आत्मनेपदी ।शास इ॑दित्यादिना सिद्धेक्वावेवु उपधाया इत्त्व॑ मिति नियमार्थमिदम् । तेन आशास्ते इति सिद्धमित्येके । अन्ये तु विध्यर्थमेवेदं, न नियमार्थं, प्राप्त्यभावात् । न चशास इदङ्हलो॑रिति इत्त्वस्य प्राप्तरस्तीति वाच्यं, तत्राङ्साहचर्यात्परस्मैपदिन एव सासेग्र्रहणात् । यद्यपिसर्तिशास्ती॑ति सूत्रे पृथग्योगकरणादर्तेर्लुङि आरत समारतेति पदद्वयेऽप्यङिति सिद्धान्तस्तथाप्युत्तरार्थतया परस्मैपदग्रहणानुवृत्तेरप्याकरे स्पष्टतया परस्मैपदे दृष्टो यः शासिस्तस्मात्परस्याऽङिति निष्कर्षः । तथा चाशास्ते इत्यत्र इत्त्वप्रसक्तिरेव नास्तीत्याहुः । वस्तुतस्तुआशिषि लिङ्लोटौ॑ ,क्षियाशीः प्रैषेषु॑ इत्यादिनिर्देशेनैव सिद्धमिति नेदमपूर्वं वार्तिकम् ।इत्त्वं वाच्यटमित्यस्य इत्त्वं व्याख्येयमित्यर्थः । आशिषीत्याद्युक्त निर्देशादिति दिक् । सुम्वाविति ।ओः सुपि॑ इति यण् ।", "84020": "अन्तः। अनितेरिति वर्तते, अन्तोऽत्र पदापेक्षो गृह्यते, नाऽनितेरपेक्षया, अव्यभिचारादत आह - पदान्तस्येति।हे प्राणिति। अन प्राणने। क्विप्। `अनुनासिकस्ये`ति दीर्घः। `न ङिसंबुद्ध्यो`रिति नलोपनिषेधः। अन्यत्र तु नलोपेन भाव्यमिति संबुद्ध्यन्तमुदाहृतम्। मित्रशीरिति। लुप्तेऽपि क्विप्प्रत्यये प्रत्ययलक्षणन्यायेन हलादिकित्प्रत्ययपरत्वमस्ति, `वर्णाश्रये नास्ति प्रत्ययलक्षण` मित्येतद्वर्णप्राधान्य एवेत्युक्तत्वादिति भावः।", "84021": "<<उभौ साभ्यासस्य>> - उभौ सा ।रषाभ्याटमिति सूत्रेन॑इति षष्ठन्तं प्रथमाद्विवनान्ततया विपरिणम्यत इत्याह — उभौ नकाराविति । ननुसाऽभ्यास्ये॑ त्युक्त्या उभयोरपि भविष्यतीत्युभौग्रहणं व्यर्थमिति चेत्, अत्राहुः — साहित्यमात्रं विवक्षितं न तुल्ययोग इत्यभ्युपगमे द्वयोर्युगपन्न सिध्येदित्युभौग्रहणम् । न च तुल्ययोगविवक्षायांतेन सहेति तुल्योगे॑ इति समासोऽत्र न स्यादिति शङ्क्यं,तुल्ययोगग्रहणं प्रायिकं, सकर्मकः सलोमक॑ इत्युक्तत्वादिति । कैयटे तु — उभावित्यस्मिन्नसति साभ्यासस्याऽनितेर्णो भवतीत्युच्यमाने वचनसामर्थ्याच्चपूर्वत्रासिद्धीयमद्विर्वचने॑ इत्यनाश्रीयमामे कृतणत्वस्य द्विर्वचने कृते अनन्तरस्याऽनितेरिति पूर्वेणैव णत्वस्य सिद्धत्वाद्व्यवहितनकारार्थमिदं णत्वं स्यात्, अनन्तरस्य तु तक्रकौण्डिन्यन्यायेन न स्यादिति उभावित्युच्यते॑ इति स्थितम् । साभ्यासस्येति किम् । प्राण् नमति । असत्यस्मिन्अनिते॑रिति षष्ठी संबन्धसामान्ये स्यात् ।ततश्चानन्तर्यादिसंबन्धोऽपि गृह्रेत । सति त्वस्मिन्नवयवावयविभावसंबन्धो लभ्यते । अतोऽर्थवत्साभ्यासग्रहणम् । यदि त्विष्टानुरोधेनाऽनितेरिति षष्ठीजनम् । इह पूर्वं णत्वं कृत्वा द्वित्वे क#ऋते प्राणिणदित्यादिसिद्धावयमारम्भःपूर्वत्रासिद्धीयमद्विर्वचने॑इत्स्याऽनित्यत्वज्ञापनार्थः । तेन ऊर्णुनावेत्यत्र णत्वात्पूर्वमेव नुशब्दस्य द्वित्वादभ्यासोत्तरखण्डे णत्वाऽभावः सिद्धः ।", "84022": "<<हन्तेरत्पूर्वस्य>> - अत्पूर्वस्येति । एकाजुत्तरेति । न चाऽल्लोपे कृते एकाच्त्वं नास्तीति वाच्यं, पूर्वस्मादपि विधौ स्थानिवद्भावात् । न चपूर्वत्राऽसिद्धे न स्थानिव॑दिति वाच्यम्,तस्य दोषः संयोगादिलोपलत्वणत्वेष्वि॑त्युक्तेः । निवर्त्त्यते इति ।कुमति चे॑ति णत्वमपि निवर्त्त्यत एवेति बोध्यम् । भाष्ये तु — ॒कुव्यवाये हादेशेषु प्रतिषेधो वक्तव्यः॑ । किं प्रयोजनम् ।वृत्रघ्नः रुआउग्घ्नः प्राघानि ।हन्तेरत्पूर्वस्ये॑त्यत्पूर्वग्रहणं न कर्तव्यं भवति, इत्युक्तम् । एतच्च वार्तिकाशयवर्णनमात्रम्, नतु वस्तुस्थितिः वार्तिकेन सूत्रावयवप्रत्याख्यानापेक्षया योगविभागमाश्रित्य वार्तिकार्थोपसङ्ग्रहस्यैव न्याय्यत्वादिति तु मनोरमाया स्थितम् । नन्वत्पूर्वस्येत्यत्र तपरो विवक्षितो न वा, यदि विवक्षितस्तर्हिबहुवृत्रहाणी॑ति न सिध्येत् । यद्यविवक्षितस्तदाप्राघानी॑ति चिणन्तेऽपि णत्वं स्यात्, ततश्चकुव्यवाये हादेशेषु प्रतिषेधः॑इति वचनं स्वीकर्तव्यमेवेति किमनेन योगाविभागेन अत्राहुः — तुपरोऽत्र विवक्षित एव । न चबहुवृत्रहाणी॑त्यत्र णत्वाऽसिद्धिः, णत्वस्याऽन्तरङ्गत्वेन तत्कार्यं प्रति दीर्घस्याऽसिद्धत्वात् । न च त्रैपादिकेऽन्तरङ्गे ष#आष्ठी परिभाषा न प्रवर्तत इथि वाच्यं, कार्यकालपक्षाऽभ्युपगमात् । न चैवमन्तरङ्गं णत्वंप्राघानी॑त्यत्रापि स्यादिति वाच्यं,पूर्वधातुः साधनेन युज्यते॑इति पक्षे णत्वस्य बहिरङ्गत्वात् । इष्टानुरोधेनपूर्वं धातुरूपसर्गेणे॑ति पक्षस्यानभ्युपगमादिति । अन्ये तु — ॒हन्तेरत्पूर्वस्ये॑त्यत्रउपसर्गा॑दित्यस्यानुवृत्तिस्वीकाराद्योदविभागसार्थ्येनभ्रूणप्रघ्न ॑इत्यत्रएकाजुत्तरे॑त्यादिना णत्वाऽभावेऽपिवृत्रघ्नः॒॑रुआउग्घ्न॑इत्यत्र णत्वं दर्वारमितिकुव्यवाये॑इति वार्तिकं स्वीकर्तव्यमेव । योगविभागस्याऽनन्तरस्येति न्यायबाधेनापि चरितार्थकत्वादुपसर्गसंबन्धस्यापि बाधे सामर्थ्याऽभावात् । न च ब्राहृआदिषु कर्मसूपपदेषु विधीयमानः क्विप्प्रत्ययः केवलधातोरेव स्यान्न तु सोपसर्गादितिबरहृप्रहा॒॑भ्रूणप्रहे॑ — त्यादि रूपमेव दुर्लभमिति वाच्यम्,आतोऽनुपसर्गे कः॑इत्यत्राऽनुपसर्गे इति सामान्यापेक्षज्ञापकात्सोपसर्गाद्धन्तेरपिब्राहृभ्रूणे॑ति क्विप्संभवात् । अनुपसर्गग्रहणस्य सामान्यापेक्षज्ञापकत्वे तूक्तवार्तिकमेव प्रमाणम् । तस्मान्हन्ते॑रिति योगविभागोऽत्र निरर्थक एवेत्याहुः ।", "84023": "<<वमोर्वा>> - जघान जघ्नतुरिति । यद्यप्यत्रअभ्यासाच्चे॑त्यस्यापि प्रवृत्तिरस्ति तत्राप्यन्तरङ्गत्वात्हो हन्ते॑रित्युपन्यस्तम् ।", "84024": "<<अन्तरदेशे>> - नश्चापदान्तस्य । अपदान्तस्य किम् । राजन्पाहि । आक्रंस्यत इति ।आङ उद्गमने॑ इति तङ् ।स्नुक्रमोः-॑ इति नेट् ।", "84025": "", "84026": "", "84027": "<<उपसर्गादनोत्परः (उपसर्गाद् बहुलम्)>> - उपसर्गादनोत्परः । अनोत्परः किम् । प्रनो मुञ्चतमित्यत्र णत्वं मा भूत् । तद्भङ्क्त्वेति ।अनोत्पर॑इत्यपनीय बहुलग्रहणं च कृत्वेत्यर्थः । अन्यथा प्रणो नयेत्यादावव्याप्तिः, प्र नः पूषेत्यादौ त्वतिव्याप्तिः प्रसज्येतेति भावः । प्रणसैथि । प्रगता नासिका अस्येति विग्रहः । कथं तर्हीति । ग्रख्ययोरन्यतरेण भाव्यमिति प्रश्नः । नासिकयेति । तथा च विनसेति न प्रथमान्तं, किं तुपद्दन्न॑ इति नसादेशे तृतीयान्तमिति भावः ।", "84028": "उपसर्गादनोत्परः। अनोत्परः किम्?। प्रनो मुञ्चतमित्यत्र णत्वं मा भूत्। तद्भङ्क्त्वेति। `अनोत्पर`इत्यपनीय बहुलग्रहणं च कृत्वेत्यर्थः। अन्यथा प्रणो नयेत्यादावव्याप्तिः, प्र नः पूषेत्यादौ त्वतिव्याप्तिः प्रसज्येतेति भावः। प्रणसैथि। प्रगता नासिका अस्येति विग्रहः। कथं तर्हीति। ग्रख्ययोरन्यतरेण भाव्यमिति प्रश्नः। नासिकयेति। तथा च विनसेति न प्रथमान्तं, किं तु `पद्दन्न` इति नसादेशे तृतीयान्तमिति भावः।", "84029": "<<कृत्यचः>> - कृत्यचः । उपसर्गादित्यनुवर्तते, रषाभ्यामिति च । तत्र तात्स्थ्यात्ताच्छब्द्यमित्याह - उपसर्गस्थादिति । कृत्स्थस्य नस्येति ।अच उत्तरस्ये॑ त्यस्य कृतो विशेषणत्वे तु प्रयापणमित्यादौ न स्यादिति भावः । प्रमग्न इति ।टुमस्जो शुद्धौ॑ ,ओदितश्चे॑ति निष्ठानत्वं, तस्याऽसिद्धत्वात्स्को॑रिति सलोपः,चोः कुः॑ । * निर्विण्णस्योपसङ्ख्यानम् । निर्विणस्येति । विदेः क्तस्यरदाभ्या॑मिति नत्वं, पूर्वस्य दस्य च ।", "84030": "<<णेर्विभाषा>> - प्रयापणीयमिति । या प्रापणे । णिचिअर्तिह्यी॑ ति पुक् ।णेरनिटी॑तिणिलोपः । प्रयाप्यमाणमिति । यातेर्णैचि पुकि ण्यन्तस्य धातुत्वेन वर्तमाने कर्मणि लटि लटः शानच् । तस्य शित्त्वेनतिङ्शि॑दिति सार्वधातुकत्वेसार्वधातुके यक् इत्यनेन यकि कृतेणेरनिटि॑ इति णिलोपेआने मु॑गिति मुगागमे णत्वे च सिध्यति रूपम् । विहितविशेषऽणाऽकरणे तु यका व्यवधानेन ण्यन्तात्परत्वाऽभावान्न सिध्यति । न चाऽड्व्यवायेऽपीति भविष्यतीति वाच्यं, रषाभ्यां परसय् नस्येत्यंशे तस्मादिति निर्दिष्टपरिभाषया प्रापितस्याऽव्यवधानस्य रामाणामित्यादिसिद्धयेव्यवायेऽपी॑ति योगविभागेन बाधेसति आदर्शेनेत्यादावतिप्रसङ्गे प्राप्ते — अट्कुप्वाङित्यंशो नियमार्थः । आड्ग्रहणं तु पदव्यवायेऽपीति निषेधं बाधितुमिति स्थितम् ।णेर्विभाषा॑ इत्यत्र तु ण्यन्तकृतोरव्यवधानस्याऽपेक्षा कथमड्ग्रहणेन निवार्येतेति भावः ।", "84031": "<<हलश्च इजुपधात्>> - हलश्च । इजुपधस्य हलन्तत्वाऽव्यभिचाराद्धल इत्यनेन तदादित्वं लक्ष्यत इत्याह — हलादेरिति । प्रकोपणीयमिति ।कुप् क्रोधे॑ । प्रोहणीयणमिति । ऊह वितर्के । अत्रकृत्यचः॑ इति नित्यमेव णत्वम् । एवं प्रवपणीयमित्यत्रापि ।डुवप् बीजसंताने॑ ।", "84032": "<<इजादेः सनुमः>> - इजादेः सनुमः ।कृत्यचः॑ इत्येव सिद्धे नियमार्थमिदमित्याह — सनुमश्चेदित्यादि । इहहल॑ इत्यनुवृत्तं तदन्तपरं न तु तदादिपरम् । इजादेर्हलादित्वाऽसंभवात् । तदाह - हलन्तादिति । विहित इति । यदि तु विहितविशेषणं न व्याख्यायेत तर्हि नियमार्थता न लभ्येत्, णिजन्ताद्विहितस्यापि कृतस्थनकारस्य णिलोपे कृते हलन्तात्परत्वेनणेर्विभाषे॑ति विकल्पं बाधितुं विधेः संभवात् । इष्टापत्तौ तु अणिजन्तप्रकृतिकाऽनीयप्र्रत्ययान्तं प्रेङ्खणीयमित्याद्युदाहरणं न स्यात्, किं तु णिजन्तप्रकृतिकमेवोदाहरणं स्यात् । किं अस्य सूत्रस्य नियमार्थत्वाऽभावात्प्रमङ्गनीयमित्यत्रकृत्यचः॑ इत्यनेन णत्वं स्यात्, अतो विहितविशेषणमवश्यं स्वीकार्यमिति दिक् । नन्वेवमपि नियमार्थता न युज्यते । प्रेन्वनमित्यत्र विध्यर्थत्वसंभवात्, नुम्नकारेण व्यवधानात्कृत्यचः॑ इत्यस्याऽप्राप्तेरित्यत आह -नुम्ग्रहणमिति ।अटुकुप्वाङि॑ति सूत्र इवाऽत्रापि नुमाऽनुस्वारो लक्ष्यत एति विध्यर्थत्वमिह न शङ्कनीयमिति भावः । प्रोम्भणमिति । उम्भ पूरण इत्यस्माद्भावे ल्युट् ।कृत्यचःर॑ इत्यतोऽनुवर्तनादाह —", "84033": "<<वा निंसनिक्षनिन्दाम्>> - कृति पर इति ।", "84034": "<<न भाभूपूकमिगमिप्यायीवेपाम्>> - * ण्यन्तभादीनामुपसङ्ख्यानम् । ण्यन्तभादीनामिति । ण्यन्तस्य प्रकृत्यन्तरत्वादप्राप्ते वचनम् ।हेरचङी॑ति सूत्रे अचङीति पर्युदासेनप्रकृतिग्रहणे ण्यधिकस्यापि ग्रहण॑मिति ज्ञापनादेतत्सिद्धमिति केचिदाहुस्ततद्रभसात् । ज्ञापनं तु कुत्वमात्रविषयकमिति भाष्यादौ सिद्धान्तितत्वात् ।", "84035": "", "84036": "<<नशेः षान्तस्य>> - नशेः ।न बाभूपूकमिगनी॑त्यतो नेत्यनुवर्तते । तदाह — णत्वं न स्यादिति ।षस्ये॑त्युक्तेऽपि पदस्येत्यस्य विशेषणेन षान्तस्येति लाभादन्तग्रहणं व्यर्थं सज्ज्ञापयतीत्याह - भूतपूर्वेति । काष्ठानामिति । करणस्य शेषत्वविवक्षायां षष्ठी । तत्रप्थेति ।अनुदात्तस्य चर्दुपधस्ये॑ति विकल्पेनाऽमागमः । रधादय इति । रधनशतृपदृपद्रुहमुहष्णुहष्णिह इत्यर्थः । उदित्तवाक्त्वायां वेट् । शमित्वा । शान्त्वा ।यस्य विभाषे॑ति निष्ठायामनिट् । शान्तः ।", "84037": "<<पदान्तस्य>> - णत्वं न स्यादिति ।न भाभूपूकमिगमी॑त्यतोने॑त्यनुवर्तत इति भावः ।", "84038": "<<पदव्यवायेऽपि>> - पदेन व्यवधान इति । निमित्तनिमित्तिनोर्मध्ये पदे सति णत्वं नेत्यर्थः । माषकुम्भवापेनेति । माषकुम्भं वपतीतिकर्मण्यण् । उपपदसमासः । चतुरङ्गयोगेनेति ।चत्वार्यङ्गान्यस्य॑तेन योगः॑ इति मनोरमायां विगृहितम् । तदयुक्तम् ।उत्तरपदत्वे चाऽपदादिविधौ॑इति प्रत्ययलक्षणप्रतिषेधादङ्गशब्दस्याऽपदत्वात् । तस्मात्अङ्गानां योगोऽङ्गयोगश्चतुर्णामङ्गयोगः॑ इत्येव विग्रहीतव्यम् । न चचतुरङ्गेन योगः इति विग्रहेऽप्यङ्गशब्द उत्तरपदं नेति प्रत्ययलक्षणप्रतिषेधो न प्रवर्तत इति शङ्क्यं, तस्य पूर्वसमासस्योत्तरपदत्वात्, उत्तरपदत्वे चे॑ति प्रतिषेधवचनस्यापिउत्तरस्य=समासचरमावयवस्य पदत्वे कर्तव्ये पदादिविधिभिन्ने प्रत्ययलक्षणं न प्रवर्तते॑इत्यर्था ब्युपगमाच्च ।शाकपार्थिवादीनामुत्तरपदलोपः॑, प्रादिभ्यो धातुजस्ये॑त्यादौ तूत्तरपदशब्देन समासचरमावयवमात्रं गृह्रते इति तत्र प्रत्ययलक्षणप्रवृत्त्यभावेऽपि न क्षतिः । इह तु पदत्वलाभाय प्रत्ययलक्षणप्रवृत्तिरपेक्षिता । एवं चमाषकुम्भवापेने॑त्यात्रापि कुम्भस्य वापः — कुम्भवापः । कुम्भशब्दः कुम्भपरिमितधान्ये भाक्तः ।माषाणां कुम्भवापः॑ इथि विग्रहीतव्यमिति नव्याः । केचुत्तु -॒अपदादिविधौ॑इत्यत्रपदान्तविधौ॑इत्यर्थं परिकल्प्यपदव्यवायेऽपी॑ त्यस्य पदान्तविधित्वाऽभावान्नास्त्यत्र प्रत्ययलक्षणनिषेध इत्याहुः । तदपरे न क्षमन्ते । तथा हि सति लाघवात्पदन्तविधौ॑इत्येव ब्राऊयात्, न तुअपदादिविधौ॑इति दिक् । [किंचोत्तरपदत्वे इति वचनस्य पदान्तविधौ कर्तव्ये प्रतिषेध इत्यर्थाभ्युपगमे पदमदण्डिनावितिङमो ह्रस्वदची॑ति सूत्रस्थमनोरमाग्रन्थेनैव विरोध इत्यलमियता] ।अतद्धित इति वाच्यम् । अतद्धित इथि ।व्यवधायकपदस्य तद्धितश्चेत्परो न भवति, तदा निषेधः॑इत्यर्थः । आद्र्रगोमयेणेति । इह गोशब्दः पदम् ।उत्तरपदत्वे चे॑ति निषेधोऽत्र न शङ्क्यः, गोमयशब्दस्योत्तरपदत्वात्, गोशब्दस्य चस्वादिषु॑इति पदत्वात् ।", "84039": "<<क्षुभ्नाऽऽदिषु च>> - व्द्यह्नेति ।अह्नोऽह्न॑इति सूत्रेऽह्नदेसं प्रत्यख्यायअच्प्रत्यन्ववे॑त्यतोऽचमनुवर्त्त्यटजपवादोऽ॑जिति व्याचक्षाणस्य भाष्यकारस्य मते तु निर्विवाद एवात्र टाप् । कथं तर्हि कालनिर्णयदीपिकायां व्द्यह्नीति प्रयोग इति चेत्, अत्राहुः — द्वे अहनी यस्यां तिथाविति बहुव्रीहौ नान्तलक्षणो ङीब्बोध्यः ।द्वयोरह्नोर्भव॑इति व्याख्यानग्रन्थस्तु फलितार्थकथन परतया ज्ञेय इति । सङ्ख्यादिभिन्नस्य तत्पुरुषस्य समाहारे वृत्त्यसम्भवादाह -स्पष्टार्थमिति ।", "84040": "<<स्तोः श्चुना श्चुः>> - स्तोः श्चुना श्चुः ।स्तो॑रिति समाहारद्वन्द्वः, सौत्रं पुंस्त्वम् । एवंश्चुः॑ष्टु॑रित्यपि बोध्यम् । श्चुनेति ।सह युक्ते-॑ इति सूत्रेविनापि तद्योगं तृतीये॑ति वक्ष्यमाणत्वात्तृतीया । योगे इति । एतदध्याहारलभ्यम् । अत्र स्थान्यादेशयोर्यथासङ्ख्यम् । निमित्तकार्यिणोस्तु न,शा॑दिति ज्ञापकात् । यथासङ्ख्यसूत्रमिह नोपन्यस्तम्,स्थानेऽन्तरतमः॑ इत्यनेनापि इष्टसिद्धेर्नात्यन्तावश्यकत्वात् । हरिश्शेत इति ।वा शरी॑ति पाक्षिकत्वाद्विसर्जनीयस्य शेन योगे शः, चवर्गयोगेरामश्चिनोति॑ । तवर्गस्य तु चवर्गयोगेसच्चि॑दित्यादि । शेन योगे तु तच्शिव इत्याद्युदाहरिष्यति ।", "84041": "<<ष्टुना ष्टुः>> - ष्टुना ष्टुः । इहापि कार्यिनिमित्तयोर्यथासङ्ख्यं न,तोःषी॑ति ज्ञापकात् । सर्पिष्टममिति ।ह्रस्वात्तादौ तद्धिते॑ इति षत्वम् । यरो । पदान्तस्येति किम् । वेद्मि । स्तभ्राति । स्पर्शे चरितार्थ इति । प्रसिद्धप्रयोगाभिप्रायेणेदमुक्तम् ।कमल्मुरारिः॑वृक्षव्नेते॑त्यादौ लकारवकारयोरनुनासिकप्रवृत्तौ बाधकाऽभावात् ।स्पर्शस्यैवेष्यते॑इति प्राचो ग्रन्थानुरोधेन स्पर्शभिन्नेष्वनुनासिकविधिर्न प्रवर्ततेऽनभिधानादिति वा योज्यम् । रेफे न प्रवर्तत इति । यद्यपिव्यक्तिः पदार्थ॑ इति पक्षे लक्ष्यभेदे लक्षणभेदादस्यां व्यक्तौ लक्षणस्याऽचरितार्थत्वाद्रेफेऽपि प्रवृत्तिर्दुर्वारैव, तथापि लक्ष्यानुरोधेन जातिपक्षमाश्रित्येदमुक्तम् । दकारनिपातनादिति । ननु यवादिगणेककु॑दित्येव पठते नतुककुद्मन्त॑ इति मतुब्विशिष्टम् । तथाच यरोऽनुनासिको दुर्वारः । न च यरोऽनुनासिकप्रवृत्तौ झयन्तत्वाऽभावेनझयः॑ इति मतुपो मकारस्य वत्वाप्रसत्तया यवादिगणेककु॑दिति पाठो निरर्थकः स्यादिति वाच्यम्; अनुनासिकविधेरलसिद्धत्वेन झयन्तत्वानपायाद्नणे तत्पाठस्य सार्थक्यादिति चेदत्राहुः, यद्यत्र ककुद्दकारस्य नकार इष्टः स्यात्तर्हि गणेककु॑ नित्येव पठेन्नककु॑दिति । मतुपः प्रकृतिभूतककुच्छब्दस्य नान्तत्वनिपातनेऽप्यन्यत्र दकारान्तप्रयोगस्य निर्बाधत्वात् । तस्माद्यरोऽनुनासिकोऽत्र न प्रवर्तत इति । अन्येत्वाहुः-॒यचि भं तसौ मत्वर्थे॑ इति संहितायां पाठेतसा॑विति तात्पूर्वं दकारं प्रश्लिष्य भत्वेनाप्येतत्समाधातुं शक्यम् ।तसा॑विति द्विवचननिर्देशस्तु दतयोः समाहारद्वन्द्वं कृत्वा इतरेतरयोगद्वन्द्वे कृते समुपपद्यत इति ।", "84042": "", "84043": "", "84044": "<<शात्>> - शात् ।ने॑तितो॑रिति चानुवर्तते तदाह-तवर्गस्येत्यादि ।जश्त्व॑-मित्यादिव्याख्यातृनिर्देशे निःसन्दिग्धत्वेन बोधनायवश्चे॑ति षत्वं जश्त्वं च न कृतं,तथा श्चुत्वमपि न कृतमिति परिहारसम्भवाद्वर्गान्त्यमेवोदाहरति-विश्नः प्रश्न इति ।विच्छ गतौ॑,प्रच्छ ज्ञाप्सायाम् ।यजयाचे॑त्यादिनानङ् ।छ्वोः शू॑डिति छस्य शत्वम् । नङो ङित्वाद्गुणाभावः । प्रच्छेस्तुप्रश्ने चासन्ने॑ति निर्देशात्संप्रसारणाऽभावः । ननु ञमङणनाना नासिकास्थानाधिक्याद्वर्गेष्वाद्यैश्चतुर्भिः सह तुल्यस्थानत्वाभावेन सावण्र्याऽभावात्स्तोः श्चुने॑तितु॑ शब्देन नकारो न गृह्रते किं तु स्ववर्गाद्यश्चत्वार एवेति विश्न प्रश्न इत्यत्र श्चुत्वाऽप्रसक्तेः किमनेन निषेधेनेति चेदत्राहुः,-॒शा॑दिति निषेधाल्लिङ्गादेवतुल्यास्यप्रयत्न॑मित्यत्रास्यग्रहणेन नासिकास्थानभिन्नं ताल्वादिस्थानं गृह्रते, तत्स्थानं तु तुल्यमेवेतितु॑ शब्देन पञ्चमस्यापि ग्रहणात्स्चुत्वप्रसक्तौ निषेधोऽयमावश्यकः । एवंचतोर्ली॑तितु॑ शब्देन नकारस्यापि ग्रहणाद्विद्वाँल्लिखतीत्यादि सिध्यति । नच निमित्तकार्यिणोर्यथासङ्ख्यनिरासज्ञापकमित्युक्तत्वात्तेनैव चार्थवत्त्वे कथमुक्तार्थे ज्ञापकं भवेदिति वाच्यं;तु॑ शब्देन नकारग्रहणे सिद्धे हि यथासङ्ख्यनिवृत्तिरतेन ज्ञापनीयेत्युभयज्ञापेनबाधकाऽभावात् । नापितुल्यास्ये॑त्यत्र यत्किञ्चित्स्थानतुल्यत्वविवक्षायां वर्गेषु पञ्चापि वर्णाः परस्परं सवर्णा भवेयुरित्युक्तोदाहरणे श्चुत्वप्रसक्तौशा॑दित्यारम्भ आवश्यक इत्येतज्ज्ञापकाश्रयणं किमर्थमिति वाच्यं, तथाहि सति ञमङणनानां परस्परसावण्र्यपत्त्यात्व नयसी॑त्यादौअनुस्वारस्य ययि परसवर्णः॒॑वा पदान्तस्ये॑त्यनुस्वारस्य ञादयोऽपि स्युः । ताल्वादिस्थानासाम्याऽभावेऽपि नासिकारूपस्य यत्किचित्स्थानस्य तुल्यत्वात् । नापि तुस्यास्यत्वमन्यूनास्यत्वमिति व्याख्यायां ञादीनां परत्परसावण्र्यं न भवेत्, तेषां नासिकास्थानसाम्येऽपि ताल्वादिस्थानसाम्याऽभावेन न्यूनस्थानकत्वात् । ततश्चत्वं नयसी॑त्यादिषु नातिप्रसङ्गः । स्ववर्गाद्यैः सह तु ञादीनां सावण्र्यं स्यादेव । नासिकास्थानाधिक्येऽपितदन्यूनस्थानकत्वात्तेषामितिविद्वाँल्लिखतीट॑त्यादीष्टं सिध्यति । वर्गाद्यानां तु नासिकास्थानाऽभावेन न्यूनस्थानकत्वात्पञ्चमेन च सावण्र्याभावेऽपि न क्षतिरिति ज्ञापकाश्रयणं विनैवेष्टसिद्धिरिति वाच्यं,हे गौरि एही॑त्यादौ सवर्णदीर्घापत्तेः ।इकोऽसवर्ण॑ इति शाकलप्रकृतिभावानापत्तेश्च । इकारान्यूनस्थानकत्वेन तत्सवर्णत्वादेकारस्य ।स्वराणामूष्माणां चैव विवृतं करणं स्मृतम् । तेभ्योऽपि विवृतावेङौ ताभ्यामैचौ तथैव चे॑ति वचनात्प्रयत्नभेदेन सावण्र्याऽभावमभ्युपगम्योक्तानिष्टवारणेऽपितद्वस्तु॑तदस्त्र॑मित्यत्रतोर्ली॑ति परसवर्णविधिना दकारस्य वकारापंत्तेः,वकारस्य ओष्ठस्थानादिक्येऽपि दन्तस्थानसाम्येन लकाराऽन्यूनस्थानकत्वात् । यदि तुवकारस्य दन्तोष्ठ॑मिति समाहारनिर्देशादोष्ठस्थान (दन्तस्थान)भिन्नमेव दन्तोष्ठस्थानमिति वकारस्य लकारसावण्र्याभावात्तद्वस्त्वित्यादौ नातिप्रसङ्ग इति ब्राऊषे तर्हिलुग्वा दुहे॑त्यादिना दन्त्ये तङि विधीयमानो रक्सस्तस्य लुक्-॒अदुह्वही॑त्यत्र न स्यात्, किंतुअदुग्धे॑त्यादावेव स्यात् । तथापिपूर्तः॑पिपुरती॑त्यादौ विधीयमानम्उदोष्ठयपूर्वस्ये॑त्युत्वंसुस्वूर्षती॑त्यादौ न स्यादुक्तरीत्या वकारस्यौष्ठत्वाऽभावात् । न च वस्योष्ठत्वेदन्त्यत्वेच सतिसेक्सृप् इति षोपदेशलक्षणे स्विदादीनां पृथग्ग्रहणं व्यर्थं स्यात्तेषामपि दन्त्यान्तसादित्वादिति भ्रमितव्यम्;दन्त्यः केवलदन्त्यो न तु दन्तोष्ठजोऽपी॑त्यादेर्मूल एव वक्ष्यमाणत्वात् । ये तु पाणिनिशिक्षायां यमानुस्वारयोरेव नासिकास्थानत्वकथनादन्येषां स्थानं नासिका न भवति, किं त्वनुनासिकत्वं गुण एव । नासिकाव्यापारेणोच्चार्यमाणत्वमात्रेण नासिकास्थानत्वकथने त्वकारादीनामप्युक्तरीत्या नासिकास्थानमिति स्थाननिरूपणे तेषां तदकथान्न्यूनतेत्यादि वदन्ति । तेषामत्रोक्तज्ञापकाश्रयणं विनैवेष्टसिद्धिः । अन्ये त्वकारादीना नासिकया सर्वदाऽनुच्चारणादनुनासिकत्वं गुणः,सत्त्वे निविशतेऽपैती॑त्यादिलक्षणलक्षितत्वात् । ञमङणनानां त्वनुनासिकत्वं नापैति, सर्वदैव तयोच्चारणादिति न गुणः, किन्तु यमानुस्वारयोरिव स्थानमेव नासिकेति स्थानानिरूपणेञमङणनाना नासिका चे॑त्युक्तं नत्वकारादीनां । नासिका चेति । यत्तूक्तं तुल्यास्यत्वमन्यूनास्यत्वमिति व्याख्यायां तद्वस्त्वित्यादौतोर्ली॑ति दकारस्य वकारप्रसङ्ग इति तदापाततः ।तोर्ली॑त्यत्र लकारद्वयनिर्देश इति स्वीकृत्य लकाररूपे लकारे परे परसवर्ण इति व्याख्यायामुक्तदोषाऽप्रसक्तेरित्याहुः॥", "84045": "", "84046": "<<अचो रहाभ्यां द्वे>> - अचो रहाभ्याम् । अचः किम् ह्लुते॑ इत्यादौ नकारस्य माभूत् ।", "84047": "<<अनचि च>> - अनचि च । यरो द्वे वेति ।यरोऽनुनासिके॑ इति सूत्राद्यरो वेति चानुवर्तते ।अचो रहाभ्या॑मिति सूत्रादयो द्वे इति च, तदाह-अचः परस्येत्यादि । एवं चात्रवा॑ग्रहणानुवृत्त्यैवेष्टसिद्धेःत्रिप्रभृतिषु शाकटायनस्य॑सर्वत्र शाकल्यस्य॑ दीर्घादाचार्याणा॑मिति च सूत्रत्रयं नारम्भणायमिति भावः । अचेति किम् ,तादात्म्य॑मित्यादौ मस्य द्वित्वं मा भूत् ।अनची॑ति यदि पर्युदासः स्यात्ततोनञिवयुक्तमन्यसदृशे तथा ह्रर्थगति॑रिति न्यायादज्भिन्नेऽच्सदृशे वर्णे हलीत्यर्थः स्यात्, ततो लाघबाद्धलीत्येव वदेत्, तस्मात्प्रसज्यप्रतिषेध इत्याह-न त्वचीति । एवं चाबसानेऽपि द्वित्वं भवति-वाक्क् वाक् ।", "84048": "<<नादिन्याक्रोशे पुत्रस्य>> - नादिन्या । स्त्रीष्वाक्रोशः प्रायेण प्रवर्तत इति स्त्रीलिङ्गमुदाहरति-पुत्रादिनीति । इहसुप्यजातौ-॑ इति णिनिः । तत्परे चेति । आदिनि यः पुत्रशब्दस्तस्मिन् परेऽपि पुत्रशब्दस्य न द्वे स्त इत्यर्थः ।वा हतेति । द्वित्वस्य वैकल्पिकत्वे वार्तिकमिदं नारम्भणीयमित्येक । अन्ये तु-हतजग्धयोः परतः पुत्रशब्दस्यैवअनचि चे॑ति द्वित्वं नान्येषामित्यादिनियमसंभवात्तदर्थमारम्भणीयमेवेदमित्याहुः । पुत्रहतीति । पुत्रो हतो यया सा ।अस्वाङ्गपूर्वपदाद्वे॑ति ङीष् । एवं पुत्रो जग्धो यया सा पुत्रजग्धी ।", "84049": "शरोऽचि। `अचो रहाम्भा`मित्यतो `द्वे`इति, `नादिन्याक्रोशे`इत्यतो `ने`ति चानुवर्तत इत्याह -न द्वे स्त इति। नन्वस्तु द्वित्वमेकस्य, `झरो झरि सवर्णे`इति लोपे सिद्धमिष्टम्, मैवम्, लोपस्य वैकल्पिकत्वेन पक्षे द्वयोः श्रवणप्रसङ्गात्। प्रियाः चत्वारश्चत्वारि वा यस्य स `प्रियचत्वाः`। आङ्गत्वात्तदन्तस्यापि `चतुरनडुहो`रित्याम्। `हे प्रियचत्व`इत्यत्र तु `अम्सबुद्धौ`इत्यम्। इति रान्ताः। कमलमिति।`कमला श्रीर्हरिप्रिये`त्यमरः। कमलमिति। `तत्करोति तदाचष्टे`इति णिचीष्ठवद्भावाट्टिलोपः। णिजन्तात्क्विपि, `णेरनिटी`ति णिलोपः। एवं सलिलमाचक्षाणः -`सलिलौ` `सलिल`इत्यादि बोध्यम्। नन्वेवं तोयमाचक्षाणस्तय् तोयौ तोय इति यान्ता अपि सुसाधाः। न च `वेरपृक्तलोपाद्वलि लोपः पूर्वविप्रतिषेधेन`ति यलोपः शङ्क्यः, `लोपो व्योर्वली`ति लोपे कर्तव्ये णिलोपस्य टिलोपस्या वा स्थानिवद्भावेन यकारस्य वल्परत्वाऽभावादिति चेन्मैवम्, `न पदान्ते`ति सूत्रेण यलोपे स्थानिवद्भावनिषेधात्। तस्माल्लोपो व्योर्वलीति यलोपः स्यादेवेति यान्ता नोक्ताः। इति लान्ताः। पदान्त इति। प्राचा तु `झलि`त्यप्युक्तं, तन्निष्फलत्वादुपेक्ष्यम्।", "84050": "", "84051": "", "84052": "", "84053": "", "84054": "", "84055": "<<शरोऽचि>> - शरोऽचि ।अचो रहाम्भा॑मित्यतोद्वे॑इति,नादिन्याक्रोशे॑इत्यतोने॑ति चानुवर्तत इत्याह — न द्वे स्त इति । नन्वस्तु द्वित्वमेकस्य,झरो झरि सवर्णे॑इति लोपे सिद्धमिष्टम्, मैवम्, लोपस्य वैकल्पिकत्वेन पक्षे द्वयोः श्रवणप्रसङ्गात् । प्रियाः चत्वारश्चत्वारि वा यस्य सप्रियचत्वाः॑ । आङ्गत्वात्तदन्तस्यापिचतुरनडुहो॑रित्याम् ।हे प्रियचत्व॑इत्यत्र तुअम्सबुद्धौ॑इत्यम् । इति रान्ताः । कमलमिति.॒कमला श्रीर्हरिप्रिये॑त्यमरः । कमलमिति ।तत्करोति तदाचष्टे॑इति णिचीष्ठवद्भावाट्टिलोपः । णिजन्तात्क्विपि,णेरनिटी॑ति णिलोपः । एवं सलिलमाचक्षाणः — ॒सलिलौ॑सलिल॑इत्यादि बोध्यम् । नन्वेवं तोयमाचक्षाणस्तय् तोयौ तोय इति यान्ता अपि सुसाधाः । न चवेरपृक्तलोपाद्वलि लोपः पूर्वविप्रतिषेधेन॑ति यलोपः शङ्क्यः,लोपो व्योर्वली॑ति लोपे कर्तव्ये णिलोपस्य टिलोपस्या वा स्थानिवद्भावेन यकारस्य वल्परत्वाऽभावादिति चेन्मैवम्,न पदान्ते॑ति सूत्रेण यलोपे स्थानिवद्भावनिषेधात् । तस्माल्लोपो व्योर्वलीति यलोपः स्यादेवेति यान्ता नोक्ताः । इति लान्ताः । पदान्त इति । प्राचा तुझलि॑त्यप्युक्तं, तन्निष्फलत्वादुपेक्ष्यम् ।", "84056": "<<वाऽवसाने>> - जश्त्वं वावसान इति । अत्राहुः — जश्त्वे कृतेऽवसाने चर्त्वमिति न मन्तव्यं, किंतु येननाप्राप्तिन्यायेन अवसाने चर्त्वस्य जश्त्वापवादत्वाच्चर्त्वाऽभावपक्षे जश्त्वमिति योज्यमिति । द्वित्व इति ।अनचि चे॑त्यनेन ।अनचीति प्रसज्यप्रतिषेध॑ इति प्रागेवोक्तम् । पर्युदासाभ्युपगमे तु इह द्वित्वं न स्यात् । तादेश आरभ्यत इति । वत्स्यतीत्यादौ चर्त्वेन तकारो न लभ्यत इतिसः स्याद्र्धधातुके॑ इत्यनेन सकारस्य तकारो विधीयत इत्यर्थः ।", "84057": "<<अणोऽप्रगृह्यस्यानुनासिकः>> - अणोऽप्रगृह्रस्य । अण इति किम् , हर्तृ कर्तृ । अच्सन्धिरिति । कुत्वं श्चुत्वं वाऽत्र न कृतं, स्पष्टप्रतिपत्त्यर्थम् । अत एवानुस्वारस्याप्यच्त्वादित्यादिनिर्देशोऽप्युपपन्नः । इति प्रकृतिभावप्रकरणम्॥इति तत्त्वबोधिन्यामच्सन्धिप्रकरणम्॥ — — — — — — — — — — — — — अथ तिङन्ते प्रत्ययमाला । प्रथमस्येति । अजादेस्तु द्वितीयस्य द्वित्वे प्राप्ते इत्यपि ज्ञेयम् । प्राचा तुयथेष्टं नामाधातुषु॑ इति प्राप्तेकण्ड्वादेस्तृतीयस्येत्युक्त॑मित्यवतारितं, तदयुक्तम्, नामधातुत्वस्य निराकृतत्वात् । अत एव मूले नामधाथून् समाप्य कण्ड्वादयः पृथगेवोक्ताः । द्रीशब्दयिशब्दयोरिति । नकारस्य त्वचः परत्वाद्द्वत्वं नेति भाव- । पिप्रापयिषतीति । णाविष्ठवद्भावेन प्रियशब्दस्यप्रियस्थिरे॑त्यादिना प्रादेशः । ततो द्वित्वादि । सिसाधयिषतीति । इष्टवद्भावादिहअनतिकबाढयो॑रिति साधादेशः । सादिधयिषति । साधयियिषति । षत्वं तु नास्तीति । आदेशावयवत्वादिति भावः । बोभयिषयिषतीति । इह यङ् निमित्तद्वित्वे कृतेऽपि सन्निमित्तद्वत्वे कृतेऽपि सन्निमित्तद्वित्ववारणायलिटि धातो॑रिति सूत्रेअनभ्यासस्ये॑ त्येतदवश्यं वर्तव्यम् । एवं चलक्ष्ये लक्षमं सकृदेव प्रवर्तते॑ इति अनभ्यासग्रहणं तत्र माऽस्त्विति भाष्यस्थं प्रत्याख्यानं प्रौढिवादमात्रमिति भावः ।अथ पूर्वकृदन्तप्रकरणम् ।", "84058": "<<अनुस्वारस्य ययि परसवर्णः>> - अनुस्वारस्य । अत्रययी॑ति स्पष्टार्थम्, अचि परेऽनुस्वाराऽभावात् । शलि तु परसवर्णोऽनुस्वारान्तरतमो न संभवतीतिकुण्डं रथेने॑त्यत्रेवदंशन॑मित्यादावपि परसवर्णविध्यप्रवृत्तेः । अत्र वदन्ति-॒ईषद्विवृतमूष्माणां, विवृतं स्वराणा॑मिति भाष्यमतेययी॑त्यास्यापार्थकत्वम् । सूत्रकारमते तदावश्यकमेव । अन्यथादशन॑मित्यादावनुस्वारान्तरतमः परसवर्णोऽनुनासिक ईकारः स्यात् । ईकारशकारयोस्तन्मते सावण्र्यस्य सत्त्वात् । तथाकुण्डं शेते॑ इत्यादावनुस्वारस्यवा पदान्तस्ये॑ति स्यादिति । अङ्कित इति ।अङ्क पदे लक्षणे चे॑ति चुरादिण्यन्तात्क्तः ।निष्ठायां सेटी॑ति णिलोपः । परसवर्णेन ङः ।अकि लक्षणे॑ इत्यस्माद्वा क्तः । नुमोऽनुस्वारे परसवर्णेन ङः । अञ्चित इति ।अञ्चेः पूजाया॑मिति निष्ठायामिट् ।नाऽचे॑रिति नलोपनिषेधः ।कुण्ठित इति ।कुठि प्रतिघाते॑ क्तः । नुमोऽनुस्वारे परसवर्णेन णः ।शान्त इति ।शम उपशमे॑ क्तः ।वा दान्तशान्ते॑ति निपरातनादिडभावः ।अनुनासिकस्य क्वी॑ति दीर्घः । मस्यानुस्वारे परसवर्णेन नकारः । गुम्फित इति ।गुम्फ ग्रन्थे॑क्तः । मस्यानुस्वारे परसवर्णेन मः॥", "84059": "", "84060": "", "84061": "<<उदः स्थास्तम्भोः पूर्वस्य>> - उदः स्था ।अनुस्वारस्य ययी॑त्यत्र समस्तमपि सवर्णग्रहणमिह निष्कृष्य संबध्यते, एकदेशे स्वरितत्वप्रतिज्ञानादित्यमिप्रेत्याह — पूर्वसवर्णः स्यादिति॥", "84062": "", "84063": "<<शश्छोऽटि>> - शाश्छोऽटि । इह पदान्तादित्यनुवत्र्यपदान्ताज्झय॑ इति व्याख्येयम्, तेनेह न,मध्वश्चोतन्त्यभितो विरप्शम् । विपूर्वाद्रपेरौणादिकः शः ।छत्वममीति ।शश्छोऽटी॑ति सूत्रंशश्छोऽमी॑ति पठनीयमित्यर्थः । तच्छ्लोकेनेति ।तच्छ्मश्रुणे॑त्याद्यप्युदाहर्तव्यम्॥", "84064": "<<हलो यमां यमि लोपः>> - हलो यमां यमि । हलः किम् न्याय्यम् । इह यकारादीनां यकारादौ परे यथासम्भवमुदाहरणान्युच्यन्ते । सुध्युपास्यः । मध्वरिः । अत्रयणो मय॑ इति मयः परस्य यस्य वस्य च द्वित्वे कृते अनेन लोपः । दुर्लभः । दुर्ञुङुवे । कुर्मः । अत्र तुअचो रहाभ्या॑मिति लस्य ञस्य मस्य च द्वित्वे कृते लोपः । प्रत्यङ्ङात्मा । सुगण्णीशः । सन्नच्युतः । अत्रअनचि चे॑ति ङमो द्वित्वे सत्यनेन ङकारणकारनकाराणां लोपः । लोपः स्याद्वेति ।झयो ह्मः॑ इति सूत्रादन्यतरस्यामित्यनुवर्तत इति भावः ।लोपारम्भफलं तु आदित्यो देवतेति । आदित्यशब्दात्दित्यदित्ये॑ति ण्यप्रत्ययेयस्येति चे॑त्यकारलोपेऽनेन च यलोपे आदित्यमित्येकयकारकं रूपं सिध्यति नान्यथेति भावः । नचआपत्यस्य च तद्धितेऽनाती॑त्यनेन यलोपे कृते एकयकारकं रूपं सिध्यतीति वाच्यम् ; अदितौ जात आदित्य इत्यादिविवक्षायां तस्याऽप्रवृत्तेः । यथासङ्ख्यविज्ञानादिति । उक्तोदाहरणेषु वोपारम्भफलाभावाद्रोफस्य रेफे परत उदाहरणाऽभावाच्च यथासङ्क्यासूत्रमिह नोप्रन्यस्तम् ष । माहात्म्यमिति । अत्र मलोपो नेत्यर्थः ।हलोयरां यरि सवर्णे लोपः॑ इति तु न सूत्रितम् ।मूर्ध्रः॑शाङ्र्ग॑ मित्यादौ रेफात्परस्य लोपांपत्तेः ।", "84065": "<<झरो झरि सवर्णे>> - झरो झरि ।हलो यमा॑मित्यतोहल॑ इत्यनुवर्तते, तदाह-हलः परस्येति । हलः किम् । प्रत्तम् । झर इति किम् । शाङ्र्गम् । झरीति किम् । तर्प्ता । सवर्णग्रहणसामर्थ्याद्यथासङ्ख्यमत्र न भवति । तेनशिण्डी॑ त्यत्र डस्य विकल्पेन लोपः सिध्यतीति दिक् । लोपोवेति ।झयो हः॑ इति सूत्रादन्यतरस्यामित्यनुवृत्तेः । असति लोप इति ।द्वित्वाऽभावे॑इत्यनुषज्यते । द्वित्वलोपयोरसतोरित्यर्थः । त्रिधमिचि ।यणो मयः॑ इति लक्षणान्तरेण पुनर्द्वित्वेचतुर्ध॑मिति बोध्यम् ।द्वित्वं लस्यैव कस्यैव नोभयोरुभयोरपि ।तवल्कारादिषु बुधैर्बोध्यं रूपचतुष्टयम्॥", "84066": "", "84067": "", "84068": "अ अ। `सुपाम्` इति विभक्त्योर्लुक्। आद्यो विवृतो द्वितीयस्तु संवृतस्तदाह-विवृतमनूद्येति। विवृतस्य स्थाने इत्यर्थः। विवृतत्वमस्त्येवेति। तेन दण्डायनमित्यादौ सवर्णदीर्घः सिध्यतीति भावः।" }