{ "name":"unaadi", "data": [ { "i":"1001", "sutra":"कृवापाजिमिस्वदिसाध्यशूभ्य उण्", "pratyay":"उण्", "sk":"करोतीति कारुः , शिल्पी कारकश्च । [[7.3.33]] <<आतो युक्…>> वातीति वायुः । पायुर्गुदम् । जयत्यभिभवति रोगान् जायुरौषधम् । मिनोति प्रक्षिपति देहे ऊष्माणमिति मायुः पित्तम् । स्वादुः । साध्नोति परकार्यं साधुः । अश्नुते आशु शीघ्रम् । आशुर्व्रीहिः पाटलः स्यात् ।" }, { "i":"1002", "sutra":"छन्दसीणः", "pratyay":"उण्", "sk":"मा न आयौ ।" }, { "i":"1003", "sutra":"दॄसनिजनिचरिचटिभ्यो ञुण्", "pratyay":"ञुण्", "sk":"दीर्यत इति दारु । स्नुः प्रस्थः सानुरस्त्रियाम् । जानु । जानुनी । इह [[7.3.35]] <<जनिवध्योश्च>> इति न निषेधः । अनुबन्धद्वयसामर्थ्यात् । चारु रम्यम् । चाटु प्रियं वाक्यम् । मृगय्वादित्वात्कुप्रत्यये चटु इत्यपि ।" }, { "i":"1004", "sutra":"किञ्जरयोः श्रिणः", "pratyay":"ञुण्", "sk":"किं शृणोतीति किंशारुः सस्यशूकं बाणश्च । जरामेति जरायुर्गर्भाशयः । गर्भाशयो जरायुः स्यात् ।" }, { "i":"1005", "sutra":"त्रो रश्च लः", "pratyay":"ञुण्", "sk":"तरन्त्यनेन वर्णा इति तालुः ।" }, { "i":"1006", "sutra":"कृके वचः कश्च", "pratyay":"ञुण्", "sk":"कृकेन गलेन वक्तीति कृकवाकुः । ’कृकवाकुर्मयूरे च सरटे चरणायुधे’ इति विश्वः ।" }, { "i":"1007", "sutra":"भृमृशीतॄचरित्सरितनिधनिमिमस्जिभ्य उः", "pratyay":"उ", "sk":"भरति बिभर्ति वा भरुः, स्वामी हरश्च । म्रियन्तेऽस्मिन्भूतानि मरुर्निर्जलदेशः । शेते शयुरजगरः । तरुर्वृक्षः । चरन्ति भक्षयन्ति देवता इममिति चरुः । त्सरुः खड्गादिमुष्टिः । तनु स्वल्पम् । तन्यते कर्मपाशोऽनया इति तनुः, शरीरं च । स्त्रियां मूर्तिस्तनुस्तनूः । धनुः शस्त्रविशेषः । धनुषा च धनुं विदुः । धनुरिवाजनि वक्र इति श्रीहर्षः । मयुः किंनरः । मद्गुः पानीयकाकिकेति रभसः । न्यङ्क्वादित्वात्कुत्वम् जश्त्वेन सस्य दः ।" }, { "i":"1008", "sutra":"अणश्च", "pratyay":"उ", "sk":"लवलेशकणाणवः । चात्कटिवटिभ्याम् । कटति रसनां कटुः । वटतीति वटुः ।" }, { "i":"1009", "sutra":"धान्ये नित्", "pratyay":"उ", "sk":"धान्ये वाच्येऽण उप्रत्ययः स्यात् स च नित् । नित्त्वादाद्युदात्तः । प्रियङ्गवश्च मेऽणवश्च मे । व्रीहिभेदस्त्वणुः पुमान् । निद्ग्रहणं फलिपाटीत्यादिसूत्रमभिव्याप्य संबध्यते ।" }, { "i":"1010", "sutra":"शॄस्वृस्निहित्रप्यसिवसिहनिक्लिदिबन्धिमनिभ्यश्च", "pratyay":"उ", "sk":"शृणातीति शरुः । शरुरायुधकोपयोः । स्वर्यन्ते प्राणा अनेन स्वरुर्वज्रम् । स्नेहुर्व्याधिः । चन्द्र इत्यन्ये । त्रपु सीसम् । पुंसि भूम्न्यसवः प्राणाः । वसुर्हृदेऽग्नौ योक्त्रेंऽशौ वसु तोये धने मणौ । हनुर्वक्त्रैकदेशः । क्लेदुश्चन्द्रः । बन्धुः । मनुः । चात् बिदि अवयवे । बिन्दुः ।" }, { "i":"1011", "sutra":"स्यन्देः संप्रसारणं धश्च", "pratyay":"उ", "sk":"देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियामित्यमरः ।" }, { "i":"1012", "sutra":"उन्देरिच्चादेः", "pratyay":"उ", "sk":"उनत्ति इन्दुः ।" }, { "i":"1013", "sutra":"ईषेः किच्च", "pratyay":"उ", "sk":"ईषेरुः स्यात्स च कित् आदेरिकारादेशश्च । ईषते हिनस्ति इषुः शरः । इषुर्द्वयोः ।" }, { "i":"1014", "sutra":"स्कन्देः सलोपश्च", "pratyay":"उ", "sk":"कन्दुः ।" }, { "i":"1015", "sutra":"सृजेरसुम् च", "pratyay":"उ", "sk":"चात्सलोप उप्रत्ययश्च । रज्जुः ।" }, { "i":"1016", "sutra":"कृतेराद्यन्तविपर्ययश्च", "pratyay":"उ", "sk":"ककारतकारयोर्विनिमयः । तर्कुः सूत्रवेष्टनम् ।" }, { "i":"1017", "sutra":"नावञ्चेः", "pratyay":"उ", "sk":"न्यङ्क्वादित्वात्कुत्वम् । नियतमञ्चति न्यङ्कुर्मृगः ।" }, { "i":"1018", "sutra":"फलिपाटिनमिमनिजनां गुक्पटिनाकिधतश्च", "pratyay":"उ", "sk":"फलेर्गुक् । फल्गु । पाटेः पटिः । पाटयतीति पटुः । नम्यतेऽनेन नाकुर्वल्मीकम् । मन्यते इति मधु । जायते इति जतु ।" }, { "i":"1019", "sutra":"वलेर्गुक्च", "pratyay":"उ", "sk":"वल संवरणे ।" }, { "i":"1020", "sutra":"शः कित्सन्वच्च", "pratyay":"उ", "sk":"श्यतेरुः स्यात्स च कित्सन्वच्च । शिशुर्बालः ।" }, { "i":"1021", "sutra":"यो द्वे च", "pratyay":"उ", "sk":"ययुरश्वोऽश्वमेधीयः । सन्वदिति प्रकृते द्वेग्रहणमित्वनिवृत्त्यर्थम् ।" }, { "i":"1022", "sutra":"कुर्भ्रश्च", "pratyay":"कु", "sk":"बभ्रुर्मुन्यन्तरे विष्णौ बभ्रू नकुलपिङ्गलौ । चादन्यतोऽपि । चक्रुः कर्ता । जघ्नुर्हन्ता । पपुः पालकः ।" }, { "i":"1023", "sutra":"पॄभिदिव्यधिगृधिधृषिभ्यः", "pratyay":"कु", "sk":"कुः स्यात् । पुरुः । भिनत्ति भिदुर्वज्रम् । [[6.1.16]] <<ग्रहिज्या...>> इति संप्रसारणम् । विरहिणं विध्यति विधुः । विधुः शशाङ्के कर्पूरे हृषीकेशे च राक्षसे । गृधुः कामः । धृषुर्दक्षः ।" }, { "i":"1024", "sutra":"कृग्रोरुच्च", "pratyay":"कु", "sk":"करोतीति कुरुः । गृणाति गुरुः ।" }, { "i":"1025", "sutra":"अपदुःसुषु स्थः", "pratyay":"कु", "sk":"[[8.3.98]] <<सुषामादिषु च>> इति षत्वम् । अपष्ठु प्रतिकूलम् । दुष्ठु । सुष्ठु ।" }, { "i":"1026", "sutra":"रपेरिच्चोपधायाः", "pratyay":"कु", "sk":"अनिष्टं रपतीति रिपुः ।" }, { "i":"1027", "sutra":"अर्जिदृशिकम्यमिपशिबाधामृजिपसितुक्धुक्दीर्घहकाराश्च", "pratyay":"कु", "sk":"अर्जयति गुणान् ऋजुः । सर्वानविशेषेण पश्यतीति पशुः । कन्तुः । अन्धुः कूपः । पांशुर्ना न द्वयो रजः । तालव्या अपि दन्त्याश्च सम्बसूकरपांसवः । बाधते इति बाहुः । बाहुः स्त्रीपुंसयोर्भुजः ।" }, { "i":"1028", "sutra":"प्रथिम्रदिभ्रस्जां संप्रसारणं सलोपश्च", "pratyay":"कु", "sk":"त्रयाणां कुः संप्रसारणं भ्रस्जेः सलोपश्च । पृथुः । मृदुः । न्यङ्क्वादित्वात्कुत्वम् । भृज्जति तपसा भृगुः ।" }, { "i":"1029", "sutra":"लङ्घिबंह्योर्नलोपश्च", "pratyay":"कु", "sk":"लघुः । । रघुर्नृपभेदः । बहुः ।" }, { "i":"1030", "sutra":"ऊर्णोतेर्नुलोपश्च", "pratyay":"कु", "sk":"ऊरुः सक्थि ।" }, { "i":"1031", "sutra":"महति ह्रस्वश्च", "pratyay":"कु", "sk":"उरु महत् ।" }, { "i":"1032", "sutra":"श्लिषेः कश्च", "pratyay":"कु", "sk":"श्लिष्यतीति श्लिकुर्भृत्यः । उद्यतो ज्योतिश्च ।" }, { "i":"1033", "sutra":"आङ्परयोः खनिशॄभ्यां डिच्च", "pratyay":"कु", "sk":"आखनतीत्याखुः । परं शृणातीति परशुः । पृषोदरादित्वादकारलोपात्पर्शुरपि ।" }, { "i":"1034", "sutra":"हरिमितयोर्द्रुवः", "pratyay":"कु", "sk":"द्रु गतौ अस्मात् हरिमितयोरुपपदयोः कुः स च डित् । हरिभिर्द्रूयते हरिद्रुर्वृक्षः । मितं द्रवति मितद्रुः समुद्रः ।" }, { "i":"1035", "sutra":"शते च", "pratyay":"कु", "sk":"शतधा द्रवति शतद्रुः । बाहुलकात्केवलादपि । द्रवत्यूर्ध्वमिति द्रुर्वृक्षः शाखा च तद्वान् द्रुमः ।" }, { "i":"1036", "sutra":"खरु शङ्कु पीयु नीलङ्गु लिगु", "pratyay":"कु", "sk":"पञ्चैते कुप्रत्ययान्ता निपात्यन्ते । खनते रेफश्चान्तादेशः । खरुः कामः क्रूरो मूर्खः अश्वश्च । शङ्कुर्ना कीलशल्ययोः । पिबतेरित्वं युगागमश्च । पीयुर्वायसः कालः सुवर्णं च । निपूर्वाल्लगि गतावस्मात्कुत्वं नेर्दीर्घश्च । नीलङ्गुः क्रिमिविशेषः शृगालश्च । नीलाङ्गुरिति पाठान्तरम् । तत्र धातोरपि दीर्घः । लगे सङ्गे अस्य अत इत्वं च । लगतीति लिगु चित्तम् । लिगुर्मूर्खः ।" }, { "i":"1037", "sutra":"मृगय्वादयश्च", "pratyay":"कु", "sk":"एते कुप्रत्ययान्ता निपात्यन्ते । मृगं यातीति मृगयुर्व्याधः । देवयुर्धार्मिकः । मित्रयुर्लोकयात्राभिज्ञः । आकृतिगणोऽयम् ।" }, { "i":"1038", "sutra":"मन्दिवाशिमथिचतिचङ्क्यङ्किभ्य उरच्", "pratyay":"उरच्", "sk":"मन्दुरा वाजिशाला । वाशुरा रात्रिः । मथुरा । चतुरः । चङ्कुरो रथः । अङ्कुरः । खर्जूरादित्वादङ्कूरोऽपि ।" }, { "i":"1039", "sutra":"व्यथेः संप्रसारणं किच्च", "pratyay":"उरच्", "sk":"विथुरश्चोररक्षसोः ।" }, { "i":"1040", "sutra":"मुकुरदर्दुरौ", "pratyay":"उरच्", "sk":"मुकुरो दर्पणः । बाहुलकान्मकुरोऽपि । दॄ विदारणे । धातोर्द्विर्वचनमभ्यासस्य रुक् टिलोपश्च । दर्दुरस्तोयदे भेके वाद्यभाण्डाद्रिभेदयोः । दर्दुरा चण्डिकायां स्याद्ग्रामजाले च दर्दुरमिति विश्वः ।" }, { "i":"1041", "sutra":"मद्गुरादयश्च", "pratyay":"उरच्", "sk":"उरजन्ता निपात्यन्ते । माद्यतेर्गुक् । मद्गुरो मत्स्यभेदः । कबृ वर्णे । रुमागमः । कर्बुरं श्वेतरक्षसोः । बध्नातेः खर्जूरादित्वादूरोऽपि । बन्धूरबन्धुरौ स्यातां नम्रसुन्दरयोस्त्रिषु इति रन्तिदेवः । <= कोकतेर्वा कुक् च => (गणसूत्रम् 195) । कुक्कुरः । कुकुरः ।" }, { "i":"1042", "sutra":"असेरुरन्", "pratyay":"उरन्", "sk":"असुरः । प्रज्ञाद्यण् । आसुरः ।" }, { "i":"1043", "sutra":"मसेश्च", "pratyay":"उरन्", "sk":"पञ्चमे पादे मसेरूरन्निति वक्ष्यते । मसूरा मसुरा व्रीहिप्रभेदे पण्ययोषिति । मसूरा मसुरा वा ना वेश्याव्रीहिप्रभेदयोः । मसूरी पादरोगे स्यादुपधाने पुनः पुमान् । मसूरमसुरौ च द्वाविति विश्वः ।" }, { "i":"1044", "sutra":"शावशेराप्तौ", "pratyay":"उरन्", "sk":"शु इति आश्वर्थे । श्वशुरः । पतिपत्न्योः प्रसूः श्वश्रूः श्वशुरस्तु पिता तयोरित्यमरः ।" }, { "i":"1045", "sutra":"अविमह्योष्टिषच्", "pratyay":"टिषच्", "sk":"अविषः । महिषः ।" }, { "i":"1046", "sutra":"अमेर्दीर्घश्च", "pratyay":"टिषच्", "sk":"आमिषं त्वस्त्रियां मांसे तथा स्याद्भोग्यवस्तुनि ।" }, { "i":"1047", "sutra":"रुहेर्वृद्धिश्च", "pratyay":"टिषच्", "sk":"रङ्कुशम्बररौहिषाः । रौहिषो मृगभेदे स्याद्रौहिषं च तृणं मतमिति संसारावर्तः ।" }, { "i":"1048", "sutra":"तवेर्णिद्वा", "pratyay":"टिषच्", "sk":"तवेति सौत्रो धातुः । तविपताविषावब्धौ स्वर्गे च । स्त्रियां तविषी ताविषी नदी देवकन्या भूमिश्च । तविषी बलमिति वेदभाष्यम् ।" }, { "i":"1049", "sutra":"नञि व्यथेः", "pratyay":"टिषच्", "sk":"अव्यथिषोऽब्धिसूर्ययोः । अव्यथिषी धरारात्र्योः ।" }, { "i":"1050", "sutra":"किलेर्बुक् च", "pratyay":"टिषच्", "sk":"किल्बिषम् ।" }, { "i":"1051", "sutra":"इषिमदिमुदिखिदिच्छिदिभिदिमन्दिचन्दितिमिमिहिमुहिमुचिरुचिरुधिबन्धिशुषिभ्यः किरच्", "pratyay":"किरच्", "sk":"इषिरोऽग्निः । मदिरा सुरा । मुदिरः कामुकाभ्रयोरिति विश्वमेदिन्यौ । खिदिरश्चन्द्रः । छिदिरोऽसिकुठारयोः । भिदिरं वज्रम् । मन्दिरं गृहम् । स्त्रियामपि । मन्दिरं मदिरापि स्यादिति विश्वः । चन्दिरौ चन्द्रहस्तिनौ । तिमिरं तमोऽक्षिरोगश्च । मिहिरः सूर्यः मुहिरः काम्यसभ्ययोः । मुचिरो दाता । रुचिरम् । रुधिरम् । बधिरः । शुष शोषणे । शुषिरं छिद्रम् । शुष्कमित्यन्ये ।" }, { "i":"1052", "sutra":"अशेर्णित्", "pratyay":"किरच्", "sk":"आशिरो वह्निरक्षसोः ।" }, { "i":"1053", "sutra":"अजिरशिशिरशिथिलस्थिरस्फिरस्थविरखदिराः", "pratyay":"किरच्", "sk":"अजेर्वीभावाभावः । अजिरमङ्गणम् शशेरुपधाया इत्वम् । शिशिरं स्यादृतोर्भेदे तुषारे शीतलेऽन्यवत् । श्रथ मोचने उपधाया इत्वं रेफलोपः । प्रत्ययरेफश्च लत्वम् । शिथिलम् । स्थास्फाय्योष्टिलोपः । स्थिरं निश्चलम् । स्फिरं प्रभूतम् । तिष्ठतेर्वुक् ह्रस्वत्वं च । स्थविरः । खदिरः । बाहुलकात् शीङो बुक् ह्रस्वत्वं च । शिबिरम् ।" }, { "i":"1054", "sutra":"सलिकल्यनिमहिभडिभण्डिशण्डिपिण्डितुण्डिकुकिभूभ्य इलच्", "pratyay":"इलच्", "sk":"सलति गच्छति निम्नमिति सलिलम् । कलिलः । अनिलः । महिला । पृषोदरादित्वान्महेलापि । भड इति सौत्रो धातुः । भडिलौ शूरसेवकौ । भण्डिलो दूतः कल्याणं च । शण्डिलो मुनिः । पिण्डिलो गणकः । तुण्डिलो मुखरः । कोकिलः । भविलो भव्यः । बाहुलकात्कुटिलः ।" }, { "i":"1055", "sutra":"कमेः पश्च", "pratyay":"इलच्", "sk":"कपिलः ।" }, { "i":"1056", "sutra":"गुपादिभ्यः कित्", "pratyay":"इलच्", "sk":"गुपिलो राजा । तिजिलो निशाकरः । गुहिलं वनम् ।" }, { "i":"1057", "sutra":"मिथिलादयश्च", "pratyay":"इलच्", "sk":"मथ्यन्तेऽत्र रिपवो मिथिला नगरी । पथिलः । पथिकः ।" }, { "i":"1058", "sutra":"पतिकठिकुठिगडिगुडिदंशिभ्य एरक्", "pratyay":"एरक्", "sk":"पतेरः पक्षी गन्ता च । छठेरः कृच्छ्रजीवी । कुठेरः पर्णाशः । बाहुलकान्नुम्न । गडेरो मेघः । गुडेरो गुडकः । दंशेरो हिंस्रः ।" }, { "i":"1059", "sutra":"कुम्बेर्नलोपश्च", "pratyay":"एरक्", "sk":"कुबेरः ।" }, { "i":"1060", "sutra":"शदेस्त च", "pratyay":"एरक्", "sk":"शतेरः शत्रुः ।" }, { "i":"1061", "sutra":"मूलेरादयः", "pratyay":"एरक्", "sk":"एरगन्ता निपात्यन्ते । मूलेरो जटा । गुधेरो गोप्ता । गुहेरो लोहघातकः । मुहेरो मूर्खः ।" }, { "i":"1062", "sutra":"कबेरोतच् पश्च", "pratyay":"ओतच्", "sk":"कपोतः पक्षी ।" }, { "i":"1063", "sutra":"भातेर्डवतुः", "pratyay":"डवतु", "sk":"भातीति भवान् ।" }, { "i":"1064", "sutra":"कठिचकिभ्यामोरन्", "pratyay":"ओरन्", "sk":"कठोरः । चकोरः ।" }, { "i":"1065", "sutra":"किशोरादयश्च", "pratyay":"ओरन्", "sk":"किंपूर्वस्य शृणातेष्टिलोपः किमोऽन्त्यलोपः किशोरोऽश्वशावः । सहोरः साधुः ।" }, { "i":"1066", "sutra":"कपिगडिगण्डिकटिपटिभ्य ओलच्", "pratyay":"ओलच्", "sk":"कपीति निर्देशान्नलोपः । कपोलः । गडोलगण्डोलौ गुडकपर्यायौ । कटोलः कटुः । पटोलः ।" }, { "i":"1067", "sutra":"मीनातेरूरन्", "pratyay":"ऊरन्", "sk":"मयूरः ।" }, { "i":"1068", "sutra":"स्यन्देः संप्रसारणं च", "pratyay":"ऊरन्", "sk":"सिन्दूरम् ।" }, { "i":"1069", "sutra":"सितनिगमिमसिसच्यविधाञ्क्रुशिभ्यस्तुन्", "pratyay":"तुन्", "sk":"सिनोतीति सेतुः । [[7.2.9]] <<तितुत्र...>> इति नेट् । तन्तुः । गन्तुः । मस्तु दधिमण्डम् । सच्यत इति सक्तुः । अर्धर्चादिः । [[6.4.20]] <<ज्वरत्वर...>> इत्यूठ् । तत्र क्ङितीत्यनुवर्तते इति मते तु बाहुलकात् । ओतुर्बिडालः । धातुः क्रोष्टा ।" }, { "i":"1070", "sutra":"पः किच्च", "pratyay":"तुन्", "sk":"पिबतीति पितुर्वह्नौ दिवाकरे ।" }, { "i":"1071", "sutra":"अर्तेश्च तुः", "pratyay":"तु", "sk":"अर्तेस्तुः स्यात्स च कित् । ऋतुः स्त्रीपुष्पकालयोः ।" }, { "i":"1072", "sutra":"कमिमनिजनिगाभायाहिभ्यश्च", "pratyay":"तु", "sk":"एभ्यस्तुः स्यात् । कन्तुः कन्दर्पचित्तयोः । मन्तुरपराधः । जन्तुः प्राणी । गातुः पुंस्कोकिले भृङ्गे गन्धर्वे गायनेऽपि च । भानुरादित्यः । यातुरध्वगकालयोः । रक्षसि क्लीबे । हेतुः कारणम् ।" }, { "i":"1073", "sutra":"चायः किः", "pratyay":"तु", "sk":"केतुर्ग्रहपताकयोः ।" }, { "i":"1074", "sutra":"आप्नोतेर्ह्रस्वश्च", "pratyay":"तु", "sk":"अप्तुः शरीरम् ।" }, { "i":"1075", "sutra":"वसेस्तुन्", "pratyay":"तुन्", "sk":"वस्तु ।" }, { "i":"1076", "sutra":"अगारे णिच्च", "pratyay":"तुन्", "sk":"वेश्मभूर्वास्तुरस्त्रियाम् ।" }, { "i":"1077", "sutra":"कृञः कतुः", "pratyay":"कतु", "sk":"क्रतुर्यज्ञः ।" }, { "i":"1078", "sutra":"एधिवह्योश्चतुः", "pratyay":"चतु", "sk":"एधतुः पुरुषः । वहतुरनड्वान् ।" }, { "i":"1079", "sutra":"जीवेरातुः", "pratyay":"आतु", "sk":"जीवातुरस्त्रियां भक्ते जीविते जीवनौषधे ।" }, { "i":"1080", "sutra":"आतृकन् वृद्धिश्च", "pratyay":"आतृकन्", "sk":"जीवेरित्येव । जैवातृकस्त्विन्दुभिषगायुष्मत्सु कृषीवले ।" }, { "i":"1081", "sutra":"कृषिचमितनिधनिसर्जिखर्जिभ्य ऊः", "pratyay":"ऊ", "sk":"कर्षूः पुंसि करीषाग्नौ कर्षूर्नद्यां स्त्रियां मता । चमूः । तनूः । धनूः शस्त्रम् । सर्ज सर्जने । सर्जूर्वणिक् । खर्ज व्यथने । खर्जूः पामा ।" }, { "i":"1082", "sutra":"मृजेर्गुणश्च", "pratyay":"ऊ", "sk":"मर्जूः शुद्धिकृत् ।" }, { "i":"1083", "sutra":"वहो धश्च", "pratyay":"ऊ", "sk":"वधूर्जायास्नुषास्त्रीषु ।" }, { "i":"1084", "sutra":"कषेश्छश्च", "pratyay":"ऊ", "sk":"कच्छूः पामा ।" }, { "i":"1085", "sutra":"णित्कसिपद्यर्तेः", "pratyay":"ऊ", "sk":"कासूः शक्तिः । पादूश्चरणधारिणी । आरूः पिङ्गलः ।" }, { "i":"1086", "sutra":"अणो डश्च", "pratyay":"ऊ", "sk":"आडूर्जलप्लवद्रव्यम् ।" }, { "i":"1087", "sutra":"नञि लम्बेर्नलोपश्च", "pratyay":"ऊ", "sk":"तुम्ब्यलाबूरुभे समे इत्यमरः ।" }, { "i":"1088", "sutra":"के श्र एरङ् चास्य", "pratyay":"ऊ", "sk":"कशब्दे उपपदे शृणातेरूः स्यादेरङ् आदेशः । कशेरूस्तृणकन्दे स्त्री । बाहुलकादुप्रत्यये कशेरुः क्लीबे पुंसि च ।" }, { "i":"1089", "sutra":"त्रो दुट् च", "pratyay":"ऊ", "sk":"तरतेरूः स्यात्तस्य दुट् । तर्दूः स्याद्दारुहस्तकः ।" }, { "i":"1090", "sutra":"दरिद्रातेर्यालोपश्च", "pratyay":"ऊ", "sk":"इश्च आश्च यौ तयोर्लोपः । दर्द्रूः कुष्ठप्रभेदः ।" }, { "i":"1091", "sutra":"नृतिशृध्योः कूः", "pratyay":"कू", "sk":"नृतूर्नर्तकः । शृधूरपानम् ।" }, { "i":"1092", "sutra":"ऋतेरम् च", "pratyay":"कू", "sk":"ऋतिः सौत्रो धातुः । ततः कूरमागमश्च । रन्तूर्देवनदी सत्यवाक् च ।" }, { "i":"1093", "sutra":"अन्दूदृम्भूजम्बूकफेलूकर्कन्धूदिधिषूः", "pratyay":"कू", "sk":"एते कूप्रत्ययान्ता निपात्यन्ते । अन्दूर्बन्धनम् । दृभी ग्रन्थे । निपातनान्नुम् । दृम्भूः । अनुस्वाराभावोऽपि निपातनादित्येके । दृन्भूः । जनेर्बुक् जम्बूः । जमु अदने अस्येत्येके बाहुलकाद्ध्रस्वोऽपि । जम्बुः । कफं लाति कफेलूः श्लेष्मातकः । निपातनादेत्वम् । कर्कं दधाति कर्कन्धूर्बदरी । निपातनान्नुम् । दिधिं धैर्यं स्यति त्यजतीति दिधिषूः पुनर्भूः । केचित्तु अन्दूदृम्फूजम्बूकम्बू इति पठन्ति । दृम्फ उत्क्लेशे । दृम्फूः सर्पजातिः । कमेर्बुक् कम्बूः परद्रव्यापहारी ।" }, { "i":"1094", "sutra":"मृग्रोरुतिः", "pratyay":"उति", "sk":"मरुत् । गरुत्पक्षः ।" }, { "i":"1095", "sutra":"ग्रो मुट् च", "pratyay":"उति", "sk":"गिरतेरुतिस्तस्य च मुट् । गर्मुत्सुवर्णं तृणविशेषश्च ।" }, { "i":"1096", "sutra":"हृषेरुलच्", "pratyay":"उलच्", "sk":"हर्षुलो मृगकामिनोः । बाहुलकाच्चटतेः । चटुलं शोभनम् ।" }, { "i":"1097", "sutra":"हृसृरुहियुषिभ्य इतिः", "pratyay":"इति", "sk":"हरित्ककुभि वर्णे च तृणवाचिविशेषयोः । सरिन्नदी । रोहित् मृगविशेषस्य स्त्री । युष इति सौत्रो धातुः । ऋश्यस्य रोहित् । पुरुषस्य योषित् इति भाष्यम् ।" }, { "i":"1098", "sutra":"ताडेर्णिलुक् च", "pratyay":"इति", "sk":"ताडयतीति तडित् ।" }, { "i":"1099", "sutra":"शमेर्ढः", "pratyay":"ढ", "sk":"बाहुलकादिसंज्ञा एयादेश इट् च न । शण्ढः स्यात्पुंसि गोपतौ । शण्ढः क्लीबः ।" }, { "i":"1100", "sutra":"कमेरठः", "pratyay":"अठ", "sk":"कमठः । कमठः कच्छपे पुंसि भाण्डभेदे नपुंसकमिति मेदिनी । बाहुलकाज्जरठः ।" }, { "i":"1101", "sutra":"रमेर्वृद्धिश्च", "pratyay":"अठ", "sk":"रामठं हिङ्गु ।" }, { "i":"1102", "sutra":"शमेः खः", "pratyay":"ख", "sk":"शङ्खः ।" }, { "i":"1103", "sutra":"कणेष्ठः", "pratyay":"ठ", "sk":"कण्ठः ।" }, { "i":"1104", "sutra":"कलस्तृपश्च", "pratyay":"कल", "sk":"तृपतेः कलप्रत्ययः चात्तृफतेः । तृपला लता । त्रिफला तु फलत्रिके ।" }, { "i":"1105", "sutra":"शपेर्बश्च", "pratyay":"कल", "sk":"शबलः ।" }, { "i":"1106", "sutra":"वृषादिभ्यश्चित्", "pratyay":"कल", "sk":"वृषलः । पललम् । बाहुलकाद्गुणः । सरलः । तरलः । <= कमेर्बुक् च => (गणसूत्रम् 196) । कम्बलः । मुस खण्डने । मुसलम् । <= लङ्गेर्वृद्धिश्च => (गणसूत्रम् 197) । लाङ्गलम् । <= कुटिकशिकौतिभ्यः प्रत्ययस्य मुट् => (गणसूत्रम् 198) । कुट्मलः । कुडेरपि । कुड्मलः । कश्मलम् । बाहुलकाद्गुणः । कोमलम् ।" }, { "i":"1107", "sutra":"मृजेष्टिलोपश्च", "pratyay":"कल", "sk":"मलम् ।" }, { "i":"1108", "sutra":"चुपेरच्चोपधायाः", "pratyay":"कल", "sk":"चपलम् ।" }, { "i":"1109", "sutra":"शकिशम्योर्नित्", "pratyay":"कल", "sk":"शकलम् । शमलम् ।" }, { "i":"1110", "sutra":"छो गुक् ह्रस्वश्च", "pratyay":"कल", "sk":"छगलः । प्रज्ञादित्वाच्छागलः ।" }, { "i":"1111", "sutra":"ञमन्ताड्डः", "pratyay":"ड", "sk":"दण्डः । रण्डा । खण्डः । भण्डः । वण्डश्छिन्नहस्तः । अण्डः । बाहुलकात्सभावः । षण्डः सङ्घातः । तालव्यादिरित्यपरे । शण्डः। गण्डः । चण्डः । पण्डः क्लीबः । पण्डा बुद्धिः ।" }, { "i":"1112", "sutra":"क्वादिभ्यः कित्", "pratyay":"ड", "sk":"कवर्गादिभ्यो डः कित्स्यात् । कुण्डम् । काण्डम् । गुङ् । गुडः । घुण भ्रमणे । घुण्डो भ्रमरः ।" }, { "i":"1113", "sutra":"स्थाचतिमृजेरालज्वालजालीयचः", "pratyay":"आलच्, वालच्, आलीयच्", "sk":"तिष्ठतेरालच् । स्थालम् स्थाली । चतेर्वालच् । चत्वालः । मृजेरालीयच् । मार्जालीयो बिडालः ।" }, { "i":"1114", "sutra":"पतिचण्डिभ्यामालञ्", "pratyay":"आलञ्", "sk":"पातालम् । चण्डालः । प्रज्ञादित्वादणि चाण्डालोऽपीत्येके ।" }, { "i":"1115", "sutra":"तमिविशिबिडिमृणिकुलिकपिपलिपञ्चिभ्यः कालन्", "pratyay":"कालन्", "sk":"तमालः । विशालः । बिडालः । मृणालम् । कुलालः । कपालम् । पलालम् । पञ्चालाः ।" }, { "i":"1116", "sutra":"पतेरङ्गच् पक्षिणि", "pratyay":"अङ्गच्", "sk":"पतङ्गः ।" }, { "i":"1117", "sutra":"तरत्यादिभ्यश्च", "pratyay":"अङ्गच्", "sk":"तरङ्गः । लवङ्गम् ।" }, { "i":"1118", "sutra":"विडादिभ्यः कित्", "pratyay":"अङ्गच्", "sk":"विडङ्गः । मृदङ्गः । कुरङ्गः । बाहुलकादुत्वं च ।" }, { "i":"1119", "sutra":"सृवृञोर्वृद्धिश्च", "pratyay":"अङ्गच्", "sk":"सारङ्गः । वारङ्गः खड्गादिमुष्टिः ।" }, { "i":"1120", "sutra":"गन् गम्यद्योः", "pratyay":"गन्", "sk":"गङ्गा । अद्गः पुरोडाशः ।" }, { "i":"1121", "sutra":"छापूखडिभ्यः कित्", "pratyay":"गन्", "sk":"छागः । पूगः । खड्गः । बाहुलकात् षिट अनादरे गन्सत्वाभावश्च । षिड्गः तरलः । षिड्गैरगद्यत ससंभ्रममेवमेकेति माघः ।" }, { "i":"1122", "sutra":"भृञः किन्नुट् च", "pratyay":"गन्", "sk":"भृञः गन् कित्स्यात्तस्य नुत् च । भृङ्गाः षिड्गालिधूम्याटाः ।" }, { "i":"1123", "sutra":"शृणातेर्ह्रस्वश्च", "pratyay":"गन्", "sk":"शृङ्गम् ।" }, { "i":"1124", "sutra":"गण् शकुनौ", "pratyay":"गण्", "sk":"नुट् चेत्यनुवर्तते । शार्ङ्गः ।" }, { "i":"1125", "sutra":"मुदिग्रोर्गग्गौ", "pratyay":"गक्, ग", "sk":"मुद्गः । गर्गः ।" }, { "i":"1126", "sutra":"अण्डन्कृसृभृवृञः", "pratyay":"अण्डन्", "sk":"करण्डः । सरण्डः पक्षी । भरण्डः स्वामी । वरण्डो मुखरोगः ।" }, { "i":"1127", "sutra":"शॄदॄभसोऽदिः", "pratyay":"अदि", "sk":"शरत् । दरद्धृदयकूलयोः । भसज्जघनम् ।" }, { "i":"1128", "sutra":"दृणातेर्दृग् ह्रस्वश्च", "pratyay":"अदि", "sk":"दृषत् ।" }, { "i":"1129", "sutra":"त्यजितनियजिभ्यो डित्", "pratyay":"अदि", "sk":"त्यद् । तद् । यद् । सर्वादयः ।" }, { "i":"1130", "sutra":"एतेस्तुट् च", "pratyay":"अदि", "sk":"एतद् ।" }, { "i":"1131", "sutra":"सर्तेरटिः", "pratyay":"अटि", "sk":"सरट् स्याद्वातमेघयोः । वेदभाष्ये तु याभिः कृशानुमिति मन्त्रे सरट्भ्यो मधुमक्षिकाभ्य इति व्याख्यातम् ।" }, { "i":"1132", "sutra":"लङ्घेर्नलोपश्च", "pratyay":"अटि", "sk":"लघट् वायुः ।" }, { "i":"1133", "sutra":"पारयतेरजिः", "pratyay":"अजि", "sk":"पारक् सुवर्णम् ।" }, { "i":"1134", "sutra":"प्रथः कित्संप्रसारणं च", "pratyay":"अजि", "sk":"पृथक् । स्वरादिपाठादव्ययत्वम् ।" }, { "i":"1135", "sutra":"भियः षुक् ह्रस्वश्च", "pratyay":"अजि", "sk":"भिषक् ।" }, { "i":"1136", "sutra":"युष्यसिभ्यां मदिक्", "pratyay":"मदिक्", "sk":"युष् सौत्रो धातुः । युष्मद् । अस्मद् । त्वम् । अहम् ।" }, { "i":"1137", "sutra":"अर्तिस्तुसुहुसृधृभिक्षुभायावापदियक्षिनीभ्यो मन्", "pratyay":"मन्", "sk":"एभ्यश्चतुर्दशभ्यो मन् । अर्मश्चक्षूरोगः । स्तोमः सङ्घातः । सोमः । होमः । सर्मो गमनम् । धर्मः क्षेमं कुशलम् । क्षोमम् । प्रज्ञाद्यणि क्षौमं च । भाम आदित्यः । यामः । वामः शोभनदुष्टयोः । पद्मम् । यक्ष पूजायाम् । यक्ष्मो रोगराजः । नेमः ।" }, { "i":"1138", "sutra":"जहातेः सन्वदालोपश्च", "pratyay":"मन्", "sk":"जिह्मः कुटिलमन्दयोः ।" }, { "i":"1139", "sutra":"अवतेष्टिलोपश्च", "pratyay":"मन्", "sk":"मन्प्रत्ययस्यायं टिलोपो न प्रकृतेः । अन्यथा डिदित्येव ब्रूयात् । [[6.4.20]] <<ज्वरत्वर...>> इति ऊठौ । तयोर्दीर्घे कृते गुणः । चादिपाठादव्ययत्वमित्युज्ज्वलदत्तस्तन्न । तेषामसत्त्वार्थत्वात् । वस्तुतस्तु स्वरादिपाठादव्ययत्वम् । अवतीति ओम् ।" }, { "i":"1140", "sutra":"ग्रसेरा च", "pratyay":"मन्", "sk":"ग्रामः ।" }, { "i":"1141", "sutra":"अविसिविसिशुषिभ्यः कित्", "pratyay":"मन्", "sk":"ऊमं नगरम् । स्यूमो रश्मिः । सिमः सर्वः । शुष्ममग्निसमीपयोः ।" }, { "i":"1142", "sutra":"इषियुधीन्धिदसिश्याधूसूभ्यो मक्", "pratyay":"मक्", "sk":"इष्मः कामवसन्तयोः । ईषीति पाठे दीर्घादिः । युध्मः शरो योद्धा च । इध्मः समित् । दस्मो यजमानः । श्यामः धूमः । सूमोऽन्तरिक्षम् । बाहुलकादीर्मं व्रणः ।" }, { "i":"1143", "sutra":"युजिरुचितिजां कुश्च", "pratyay":"मक्", "sk":"युग्मम् । रुक्मम् । तिग्मम् ।" }, { "i":"1144", "sutra":"हन्तेर्हि च", "pratyay":"मक्", "sk":"हिमम् ।" }, { "i":"1145", "sutra":"भियः षुग्वा", "pratyay":"मक्", "sk":"भीमः । भीष्मः ।" }, { "i":"1146", "sutra":"घर्मः", "pratyay":"मक्", "sk":"घृधातोर्मग्गुणश्च निपात्यते ।" }, { "i":"1147", "sutra":"ग्रीष्मः", "pratyay":"मक्", "sk":"ग्रसतेर्निपातोऽयम् ।" }, { "i":"1148", "sutra":"प्रथेः षिवन् संप्रसारणं च", "pratyay":"षिवन्", "sk":"पृथिवी । पवन्नित्येके । पृथवी पृथिवी पृथ्वी इति शब्दार्णवः ।" }, { "i":"1149", "sutra":"अशूप्रुषिलटिकणिखटिविशिभ्यः क्वन्", "pratyay":"क्वन्", "sk":"अश्वः । प्रुष स्नेहनादौ । प्रुष्वः स्यादृतुसूर्ययोः । प्रुष्वा जलकणिका । लट्वा पक्षिभेदः फलं च । कण्वं पापम् । बाहुलकादित्वे किण्वमपि । खट्वा । विश्वम् ।" }, { "i":"1150", "sutra":"इण्शीभ्यां वन्", "pratyay":"वन्", "sk":"एवो गन्ता । ये च एवा मरुतः । असत्वे निपातोऽयम् । शेवं मित्राय वरुणाय ।" }, { "i":"1151", "sutra":"सर्वनीघृष्वरिष्वलष्वशिवपट्वप्रह्वेष्वा अस्वतन्त्रे", "pratyay":"वन्", "sk":"अकर्तर्येते निपात्यन्ते । सृतमनेन विश्वमिति सर्वम् । निपूर्वाद्घृषेर्गुणाभावोऽपि । निघृष्यतेऽनेन निघृष्वः खुरः । रिष्वो हिंस्रः । लष्वो नर्तकः । लिष्व इत्यन्ये । तत्रोपधाया इत्वमपि । शेतेऽस्मिन् सर्वमिति शिवः शम्भुः । शीङो ह्रस्वत्वम् । पट्वो रथो भूलोकश्च । प्रहूयते इति प्रह्वः । ह्वेञ आकारवकारलोपः । जहातेरालोपो वा । ईषेर्वन् । ईष्व आचार्यः । इष्व इत्यन्ये । अस्वतन्त्रे किम् । सर्ता सारकः । बाहुलकाद् ह्रसतेः ह्रस्वः ।" }, { "i":"1152", "sutra":"शेवयह्वजिह्वाग्रीवाप्वामीवाः", "pratyay":"वण्", "sk":"शेव इत्यन्तोदात्तार्थम् । यान्त्यनेन वह्वः । ह्रस्वो हुगागमश्च । लिहन्त्यनया जिह्वा । लकारस्य जः गुणाभावश्च । गिरन्त्यनया ग्रीवा । ईडागमश्च । अप्नोतीत्याप्वा वायुः । मीवा उदरकृमिः । वायुरित्यन्ये ।" }, { "i":"1153", "sutra":"कॄगॄशॄदॄभ्यो वः", "pratyay":"व", "sk":"कर्वः काम आखुश्च । गर्वः । शर्वः । दर्वो राक्षसः ।" }, { "i":"1154", "sutra":"कनिन् युवृषितक्षिराजिधन्विद्युप्रतिदिवः", "pratyay":"कनिन्", "sk":"यौतीति युवा । वृषा इन्द्रः । तक्षा । राजा । धन्वा मरुः । धन्व शरासनम् । द्युवा सूर्यः । प्रतिदीव्यन्त्यस्मिन् प्रतिदिवा दिवसः ।" }, { "i":"1155", "sutra":"सप्यशूभ्यां तुट् च", "pratyay":"कनिन्", "sk":"सप्त । अष्ट ।" }, { "i":"1156", "sutra":"नञि जहातेः", "pratyay":"कनिन्", "sk":"अहः ।" }, { "i":"1157", "sutra":"श्वन्नुक्षन्पूषन्प्लीहन्क्लेदन्स्नेहन्मूर्धन्मज्जन्नर्यमन्विश्वप्सन्परिज्जन्मातरिश्वन्मघवन्निति", "pratyay":"कनिन्", "sk":"एते त्रयोदश कनिप्रत्ययान्ता निपात्यन्ते । श्वयतीति श्वा । उक्षा पूषा । प्लिह गतौ । इकारस्य दीर्घत्वम् । प्लेहतीति प्लीहा कुक्षिव्याधिः । क्लिदू आर्द्रीभावे । क्लिद्यति क्लेदा चन्द्रः । स्निह्यतेर्गुणः । स्निह्यतीति स्नेहा सुहृच्चन्द्रश्च । मुह्यन्त्यस्मिन्नाहते । मूर्धा । मुहेरुपधाया दीर्घो धोऽन्तादेशो रमागमश्च । मज्जत्यस्थिषु मज्जा अस्थिसारः । अर्यपूर्वो माङ् अर्यमा । विश्वं प्साति विश्वप्साग्निः । परिजायते परिज्मा चन्द्रोऽग्निश्च । जनेरुपधालोपो मश्चान्तादेशः । मातरि अन्तरिक्षे श्वयतीति मातरिश्वा । धातोरिकारलोपः । मह पूजायाम् । हस्य घो वुगागमश्च मघवा इन्द्रः" }, { "i":"2001", "sutra":"कृहृभ्यामेणुः", "pratyay":"एणु", "sk":"करेणुः । हरेणुर्गन्धद्रव्यम् ।" }, { "i":"2002", "sutra":"हनिकुषिनरिकाशिभ्यः कथन्", "pratyay":"कथन्", "sk":"हथो विषण्णः । कुष्ठः । नीथो नेता । रथः काष्ठम् ।" }, { "i":"2003", "sutra":"अवे भृञः", "pratyay":"कथन्", "sk":"अवभृथः ।" }, { "i":"2004", "sutra":"उषिकुषिगार्तिभ्यः स्थन्", "pratyay":"स्थन्", "sk":"ओष्ठः कोष्ठम् । गाथा अर्थः । बाहुलकात् शोथः ।" }, { "i":"2005", "sutra":"सर्तेर्णित्", "pratyay":"स्थन्", "sk":"सार्थः समूहः ।" }, { "i":"2006", "sutra":"जॄवृञ्भ्यामूथन्", "pratyay":"ऊथन्", "sk":"जरूथं मांसम् । वरूथो रथगुप्तौ ना ।" }, { "i":"2007", "sutra":"पातॄतुदिवचिरिचिसिचिभ्यस्थक्", "pratyay":"थक्", "sk":"पीथो रविर्घृतं पीथम् । तीर्थं शास्त्राध्वरक्षेत्रोपायोपाध्यायमन्त्रिषु । अवतारर्षिजुष्टाम्भःस्त्रीरजःसु च विश्रुतमिति विश्वः । तुत्थोऽग्निः । उक्थं सामभेदः । रिक्थम् । बाहुलकादृचेरपि । रिक्थमृक्थं धनं वसु । सिक्थम् ।" }, { "i":"2008", "sutra":"अर्तेर्निरि", "pratyay":"थक्", "sk":"निर्ऋथं साम ।" }, { "i":"2009", "sutra":"निशीथगोपीथावगथाः", "pratyay":"थक्", "sk":"निशीथोऽर्धरात्रः रात्रिमात्रं च । गोपीथं तीर्थम् । अवगथः प्रातःस्नातः ।" }, { "i":"2010", "sutra":"गश्चोदि", "pratyay":"थक्", "sk":"उद्गीथः साम्नो भागविशेषः ।" }, { "i":"2011", "sutra":"समीणः", "pratyay":"थक्", "sk":"समिथो वह्निः संग्रामश्च ।" }, { "i":"2012", "sutra":"तिथपृष्ठगूथयूथप्रोथाः", "pratyay":"थक्", "sk":"तिजेर्जलोपः । तिथोऽनलः कामश्च । पृष्ठम् । गूथं विष्ठा । यूथं समूहः । प्रोथमस्त्री तुरङ्गास्ये प्रोथः प्रस्थित उच्यते ।" }, { "i":"2013", "sutra":"स्फायितञ्चिवञ्चिशकिक्षिपिक्षुदिसृपितृपिदृपिवन्द्युन्दिश्वितिवृत्यजिनीपदिमदिमुदिखिदिछिदिभिदिमन्दिचन्दिदहिदसिदम्भिवसिवाशिशीङ्हसिसिधिशुभिभ्यो रक्", "pratyay":"रक्", "sk":"द्वात्रिंशद्भ्यो रक् स्यात् । वलि यलोपः । स्फारम् । न्यङ्क्वादित्वात्कुत्वम् । तक्रम् । वक्रम् । शक्रः । क्षिप्रम् । क्षुद्रः । सृप्रश्चन्द्रः । तृप्रः पुरोडाशः । दृप्रो बलवान् । वन्द्रः पूजकः । उन्दी, उन्द्रो जलचरः । श्वित्रं कुष्ठम् । वृत्रो रिपौ ध्वनौ ध्वान्ते शैले चक्रे च दानवे । अजेर्वी, वीरः । नीरम् । पद्रो ग्रामः । मन्द्रो हर्षो देशभेदश्च । मुद्रा प्रत्ययकारिणी । खिद्रो रोगो दरिद्रश्च । छिद्रम् । भिद्रं वज्रम् । मन्द्रः । चन्द्रः । पचाद्यचि चन्दोऽपि । हिमांशुश्चन्द्रमाश्चन्द्रः शशी चन्दो हिमद्युतिः । दहोऽग्निः । दस्रः स्वर्वैद्यः । दम्भ्रः समुद्रः स्वल्पं च । वसेः संप्रसारणे ।" }, { "i":"2014", "sutra":"चकिरम्योरुच्चोपधायाः", "pratyay":"रक्", "sk":"चुक्रमम्लद्रव्यम् । रुम्रोऽरुणः ।" }, { "i":"2015", "sutra":"वौ कसेः", "pratyay":"रक्", "sk":"विकुस्रश्चन्द्रः ।" }, { "i":"2016", "sutra":"अमितम्योर्दीर्घश्च", "pratyay":"रक्", "sk":"आम्रम् । ताम्रम् ।" }, { "i":"2017", "sutra":"निन्देर्नलोपश्च", "pratyay":"रक्", "sk":"निद्रा ।" }, { "i":"2018", "sutra":"अर्देर्दीर्घश्च", "pratyay":"रक्", "sk":"आर्द्रम् ।" }, { "i":"2019", "sutra":"शुचेर्दश्च", "pratyay":"रक्", "sk":"शूद्रः ।" }, { "i":"2020", "sutra":"दुरीणो लोपश्च", "pratyay":"रक्", "sk":"दुःखेनेयते प्राप्यत इति दूरम् ।" }, { "i":"2021", "sutra":"कृतेश्छः क्रू च", "pratyay":"रक्", "sk":"कृच्छ्र्म् । क्रूरः ।" }, { "i":"2022", "sutra":"रोदेर्णिलुक् च", "pratyay":"रक्", "sk":"रोदयतीति रुद्रः ।" }, { "i":"2023", "sutra":"बहुलमन्यत्रापि संज्ञाछन्दसोः", "pratyay":"रक्", "sk":"णिलुगित्येव । वान्ति पर्णशुषो वातास्ततः पर्णमुचोऽपरे ।" }, { "i":"2024", "sutra":"जोरी च", "pratyay":"रक्", "sk":"जीरोऽणुः । ज्यश्चेत्येके ।" }, { "i":"2025", "sutra":"सुसूधागृधिभ्यः क्रन्", "pratyay":"क्रन्", "sk":"सुरः । सूरः । धीरः । गृध्रः ।" }, { "i":"2026", "sutra":"शुसिचिमीनां दीर्घश्च", "pratyay":"क्रन्", "sk":"शुः सौत्रः । शूरः । सीरम् । चीरम् । भीरः समुद्रः ।" }, { "i":"2027", "sutra":"वा विन्धेः", "pratyay":"क्रन्", "sk":"वीध्रं विमलम् ।" }, { "i":"2028", "sutra":"वृधिवपिभ्यां रन्", "pratyay":"रन्", "sk":"वर्ध्रं चर्म । वप्रः प्राकारः ।" }, { "i":"2029", "sutra":"ऋज्रेन्द्राग्रवज्रविप्रकुव्रचुव्रक्षुरखुरभद्रोग्रभेरभेलशुक्रशुक्लगौरवम्रेरामालाः", "pratyay":"रन्", "sk":"रन्नन्ता ऊनविंशतिः । निपातनाद्गुणाभावः । ऋज्रो नायकः । इदि इन्द्रः । अङ्गेर्नलोपः । अग्रम् । वज्रोऽस्त्री हीरके पवौ । डुवप् उपधाया इत्वम् विप्रः । कुम्बिचुम्ब्योर्नलोपः । कुब्रमरण्यम् । चुब्रं मुखम् । क्षुर विलेखने रेफलोपः । अगुणः । क्षुरः । खुर छेदने रलोपो गुणाभावश्च । खुरः । भन्देर्नलोपः भद्रम् । उच समवाये । चस्य गः । उग्रः । ञिभी । भेरी । पक्षे लः । भेलो जलतरणद्रव्यम् । शुचेश्चस्य कः । शुक्रः । पक्षे लः । शुक्लः । गुङ् वृद्धिः । गौरोऽरुणे सिते पीते । वन संभक्तौ । वम्रो विभागी इणो गुणाभावः । इरा मद्ये च वारिणि । मा माने माला ।" }, { "i":"2030", "sutra":"समि कस उकन्", "pratyay":"उकन्", "sk":"कस गतौ । सम्यक्कसन्ति पलायन्ते जना अस्मादिति सङ्कसुको दुर्जनः अस्थिरश्च ।" }, { "i":"2031", "sutra":"पचिनशोर्णुकन्कनुमौ च", "pratyay":"णुकन्, कनुम्", "sk":"पचेः कः । पाकुकः सूपकारः । नशेर्नुम् । नंशुकः ।" }, { "i":"2032", "sutra":"भियः क्रुकन्", "pratyay":"क्रुकन्", "sk":"भीरुकः ।" }, { "i":"2033", "sutra":"क्वुन् शिल्पिसंज्ञयोरपूर्वस्यापि", "pratyay":"क्वुन्", "sk":"रजकः । इक्षुकुट्टकः । चरकः । चष भक्षणे । चषकः । शुनकः । भषकः ।" }, { "i":"2034", "sutra":"रमे रश्च लो वा", "pratyay":"क्वुन्", "sk":"रमको विलासी । लमकः ।" }, { "i":"2035", "sutra":"जहातेर्द्वे च", "pratyay":"क्वुन्", "sk":"जहकस्त्यागी कालश्च ।" }, { "i":"2036", "sutra":"ध्मो धम च", "pratyay":"क्वुन्", "sk":"धमकः कर्मकारः ।" }, { "i":"2037", "sutra":"हनो वध च", "pratyay":"क्वुन्", "sk":"वधकः ।" }, { "i":"2038", "sutra":"बहुलमन्यत्रापि", "pratyay":"क्वुन्", "sk":"कुह विस्मापने । कुहकः । कृतकम् ।" }, { "i":"2039", "sutra":"कृषेर्वृद्धिश्चोदीचाम्", "pratyay":"क्वुन्", "sk":"कार्षकः । कृषकः ।" }, { "i":"2040", "sutra":"उदकं च", "pratyay":"क्वुन्", "sk":"प्रपञ्चार्थम् ।" }, { "i":"2041", "sutra":"वृश्चिकृष्योः किकन्", "pratyay":"किकन्", "sk":"वृश्चिकः । कृषिकः ।" }, { "i":"2042", "sutra":"प्राङिपणिकषः", "pratyay":"किकन्", "sk":"प्रापणिकः पण्यविक्रयी । प्राकषिकः परदारोपजीवी ।" }, { "i":"2043", "sutra":"मुषेर्दीर्घश्च", "pratyay":"किकन्", "sk":"मूषिक आखुः ।" }, { "i":"2044", "sutra":"स्यमेः संप्रसारणं च", "pratyay":"किकन्", "sk":"चाद्दीर्घः । सीमिको वृक्षभेदः ।" }, { "i":"2045", "sutra":"क्रिय इकन्", "pratyay":"इकन्", "sk":"क्रयिकः क्रेता ।" }, { "i":"2046", "sutra":"आङि पणिपनिपतिखनिभ्यः", "pratyay":"इकन्", "sk":"आपणिकः । आपनिकः इन्द्रनीलः किरातश्च । आपतिकः श्येनो दैवायत्तश्च । आखनिको मूषिको वराहश्च ।" }, { "i":"2047", "sutra":"श्यास्त्याहृञविभ्य इनच्", "pratyay":"इनच्", "sk":"श्येनः । स्त्येनः । हरिणः । अविनोऽध्वर्युः ।" }, { "i":"2048", "sutra":"वृजेः किच्च", "pratyay":"इनच्", "sk":"वृजिनम् ।" }, { "i":"2049", "sutra":"अजेरज च", "pratyay":"इनच्", "sk":"वीभावबाधनार्थम् । अजिनम् ।" }, { "i":"2050", "sutra":"बहुलमन्यत्रापि", "pratyay":"इनच्", "sk":"कठिनम् । नलिनम् । मलिनम् । कुण्डिनम् । द्यतेः यत्परुषि दिनम् । दिवसोऽपि दिनम् ।" }, { "i":"2051", "sutra":"द्रुदक्षिभ्यामिनन्", "pratyay":"इनन्", "sk":"द्रविणम् । दक्षिणः । दक्षिणा ।" }, { "i":"2052", "sutra":"अर्तेः किदिच्च", "pratyay":"इनन्", "sk":"इरिणं शून्यम् ।" }, { "i":"2053", "sutra":"वेपितुह्योर्ह्रस्वश्च", "pratyay":"इनन्", "sk":"विपिनम् । तुहिनम् ।" }, { "i":"2054", "sutra":"तलिपुलिभ्यां च", "pratyay":"इनन्", "sk":"तलिनं विरले स्तोके स्वच्छेऽपि तलिनं त्रिषु । पुलिनम् ।" }, { "i":"2055", "sutra":"गर्वेरत उच्च", "pratyay":"इनन्", "sk":"गौरादित्वात् ङीष् । गुर्विणी । गर्भिणी ।" }, { "i":"2056", "sutra":"रुहेश्च", "pratyay":"इनन्", "sk":"रोहिणः ।" }, { "i":"2057", "sutra":"महेरिनण् च", "pratyay":"इनण्", "sk":"चादिनन् । माहिनन् । महिनं राज्यम् ।" }, { "i":"2058", "sutra":"क्विब्वचिप्रच्छिश्रिस्रुद्रुप्रुज्वां दीर्घोऽसंप्रसारणं च", "pratyay":"क्विप्", "sk":"वाक् । प्राट् । श्रीः । स्रवत्यतो घृतादिकमिति स्रूर्यज्ञोपकरणम् । द्रूर्हिरण्यम् । कटप्रूः कामरूपी कीटश्च । जूराकाशे सरस्वत्यां पिशाच्यां जवने स्त्रियाम् ।" }, { "i":"2059", "sutra":"आप्नोतेर्ह्रस्वश्च", "pratyay":"क्विप्", "sk":"आपः । अपः । अद्भिः । अद्भ्यः ।" }, { "i":"2060", "sutra":"परौ व्रजेः षश्च पदान्ते", "pratyay":"क्विप्", "sk":"व्रजेः क्विब्दीर्घौ स्तः पदान्ते तु षश्च । परिव्राट् । परिव्राजौ ।" }, { "i":"2061", "sutra":"हुवः श्लुवच्च", "pratyay":"क्विप्", "sk":"जुहूः ।" }, { "i":"2062", "sutra":"स्रुवः कः", "pratyay":"क", "sk":"स्रुवः ।" }, { "i":"2063", "sutra":"चिक् च", "pratyay":"चिक्", "sk":"इकार उच्चारणार्थः । क इत् कुत्वम् । स्रुवं च स्रुचश्च संमृड्ढि ।" }, { "i":"2064", "sutra":"तनोतेरनश्च वः", "pratyay":"चिक्", "sk":"तनोतेश्चिक् प्रत्ययः । अनो वशब्दादेशश्च । त्वक् ।" }, { "i":"2065", "sutra":"ग्लानुदिभ्यां डौः", "pratyay":"डौ", "sk":"ग्लौः । नौः ।" }, { "i":"2066", "sutra":"च्विरव्ययम्", "pratyay":"डौ", "sk":"डौरित्येव । ग्लौकरोति । [[1.1.39]] <<कृन्मेजन्तः>> इति सिद्धे नियमार्थमिदम् । उणादिप्रत्ययान्तश्च्व्यन्त एवेति ।" }, { "i":"2067", "sutra":"रातेर्डैः", "pratyay":"डै", "sk":"राः । रायौ । रायः ।" }, { "i":"2068", "sutra":"गमेर्डोः", "pratyay":"डो", "sk":"गौर्नादित्ये बलीवर्दे किरणक्रतुभेदयोः । स्त्री तु स्याद्दिशि भारत्यां भूमौ च सुरभावपि । नृस्त्रियोः स्वर्गवज्राम्बुरश्मिदृग्बाणलोमसु । बाहुलकाद् द्युतेरपि डोः । द्यौः स्त्री स्वर्गान्तरिक्षयोः ।" }, { "i":"2069", "sutra":"भ्रमेश्च डूः", "pratyay":"डू", "sk":"भ्रूः । चाद्गमेः । अग्रेगूः ।" }, { "i":"2070", "sutra":"दमेर्डोसिः", "pratyay":"डोसि", "sk":"दोः । दोषौ ।" }, { "i":"2071", "sutra":"पणेरिज्यादेश्च वः", "pratyay":"इजि", "sk":"वणिक् । स्वार्थेऽण् । नैगमो वाणिजो वणिक् ।" }, { "i":"2072", "sutra":"वशेः कित्", "pratyay":"इजि", "sk":"उशिगग्नौ घृतेपि च ।" }, { "i":"2073", "sutra":"भृञ ऊच्च", "pratyay":"इजि", "sk":"भूरिक् भूमिः ।" }, { "i":"2074", "sutra":"जसिसहोरुरिन्", "pratyay":"उरिन्", "sk":"जसुरिर्व्रज्रम् । सहुरिरादित्यः पृथिवी च ।" }, { "i":"2075", "sutra":"सुयुरुवृञो युच्", "pratyay":"युच्", "sk":"सवश्चन्द्रमाः । यवनः । रवणः । कोकिलः । वरणः ।" }, { "i":"2076", "sutra":"अशेरश च", "pratyay":"युच्", "sk":"अश्नोतेर्युच् स्यात् रशादेशश्च । रशना काञ्ची । जिह्वावाची तु दन्त्यसकारवान् ।" }, { "i":"2077", "sutra":"उन्देर्नलोपश्च", "pratyay":"युच्", "sk":"ओदनः ।" }, { "i":"2078", "sutra":"गमेर्गश्च", "pratyay":"युच्", "sk":"गमेर्युच् स्याद्गश्चादेशः । गगनम् ।" }, { "i":"2079", "sutra":"बहुलमन्यत्रापि", "pratyay":"युच्", "sk":"युच् स्यात् । स्यन्दनः । रोचना ।" }, { "i":"2080", "sutra":"रञ्जेः क्युन्", "pratyay":"क्युन्", "sk":"रजनम् ।" }, { "i":"2081", "sutra":"भूसूधूभ्रस्जिभ्यश्छन्दसि", "pratyay":"क्युन्", "sk":"भुवनम् । सुवन आदित्यः । धवनो वह्निः । निधुवनं सुरतम् । भृज्जनमम्बरीषम् ।" }, { "i":"2082", "sutra":"कॄपॄवृजिमन्दिनिधाञः क्युः", "pratyay":"क्यु", "sk":"किरणः । पुरणः समुद्रः । वृजनमन्तरिक्षम् । मन्दनं स्तोत्रम् । निधनम् ।" }, { "i":"2083", "sutra":"धृषेर्धिष् च संज्ञायाम्", "pratyay":"क्यु", "sk":"धिषणो गुरुः । धिषणा धीः ।" }, { "i":"2084", "sutra":"वर्तमाने पृषद्बृहन्महज्जगच्छतृवच्च", "pratyay":"अति", "sk":"अतिप्रत्ययान्ताः । पृषु सेचने गुणाभावः पृषन्ति । बृहत् महान् । गमेर्जगादेशः । जगत् ।" }, { "i":"2085", "sutra":"संश्चत्तृपद्वेहत्", "pratyay":"अति", "sk":"एते निपात्यन्ते । पृथक्करणं शतृवद्भावनिवृत्त्यर्थम् । संचिनोतेः सुट् इकारलोपः । संश्चत् कुहकः । तृषत् छत्रम् । विपूर्वाद्धन्तेष्टिलोपः । इत ए च । वेहद्गर्भोपघातिनी ।" }, { "i":"2086", "sutra":"छन्दस्यसानच् शुजॄभ्याम्", "pratyay":"असानच्", "sk":"शवसानः पन्थाः । जरसानः पुरुषः ।" }, { "i":"2087", "sutra":"ऋञ्जिवृद्धिमन्दिसहिभ्यः कित्", "pratyay":"असानच्", "sk":"ऋञ्जसानो मेघः । वृधसानः पुरुषः । मन्दसानोऽग्निर्जीवश्च । सहसानो यज्ञो मयूरश्च ।" }, { "i":"2088", "sutra":"अर्तेर्गुणः शुट् च", "pratyay":"असानच्", "sk":"अर्शसानोऽग्निः ।" }, { "i":"2089", "sutra":"सम्यानच्स्तुवः", "pratyay":"आनच्", "sk":"संस्तवानो वाग्मी ।" }, { "i":"2090", "sutra":"युधिबुधिदृशिभ्यः किच्च", "pratyay":"आनच्", "sk":"युधानः । बुधानः । दृशानो लोकपालकः ।" }, { "i":"2091", "sutra":"हुर्छेः सनो लुक् छलोपश्च", "pratyay":"आनच्", "sk":"जुहुराणश्चन्द्रमाः ।" }, { "i":"2092", "sutra":"श्वितेर्दश्च", "pratyay":"आनच्", "sk":"शिश्विदानः पुण्यकर्मा ।" }, { "i":"2093", "sutra":"तृन्तृचौ शंसिक्षदादिभ्यः संज्ञायां चानिटौ", "pratyay":"तृन्, तृच्", "sk":"शंसेः क्षदादिभ्यश्च क्रमात्तृन्तृचौ स्तः तौ चानिटौ । शंस्ता स्तोता । शंस्तरौ । शंस्तरः । क्षदिः सौत्रो धातुः शकलीकरणे भक्षणे च । अनुदात्तेत् । वृक्ये चक्षदानमिति मन्त्रात् । उक्षाणं वा वेहतं वा क्षदन्ते इति ब्राह्मणाच्च । क्षत्ता स्यात्सारथौ द्वाःस्थे क्षत्रियायां च शूद्रजे ।" }, { "i":"2094", "sutra":"बहुलमन्यत्रापि", "pratyay":"तृन्, तृच्", "sk":"मन् । मन्ता । हन् । हन्ता । इत्यादि ।" }, { "i":"2095", "sutra":"नप्तृनेष्टृत्वष्टृहोतृपोतृभ्रातृजामातृमातृपितृदुहितृ", "pratyay":"तृन्, तृच्", "sk":"न पतन्त्यनेन नप्ता पौत्रो दौहित्रश्च । नयतेः पुग्गुणश्च । नेष्टा । त्विषेरितोऽत्वम् । त्वष्टा । होता । पोता ऋत्विग्भेदः । भ्राजतेर्जलोपः । भ्राता । जायां माति जामाता । मान पूजायां नलोपः । माता । पातेराकारस्य इत्वम् । पिता । दुहेस्तृच इट् गुणाभावश्च । दुहिता ।" }, { "i":"2096", "sutra":"सुञ्यसेर्ऋन्", "pratyay":"ऋन्", "sk":"स्वसा ।" }, { "i":"2097", "sutra":"यतेर्वृद्धिश्च", "pratyay":"ऋन्", "sk":"याता । भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम् ।" }, { "i":"2098", "sutra":"नञि च नन्देः", "pratyay":"ऋन्", "sk":"न नन्दति ननान्दा । इह वृद्धिर्नानुवर्तत इत्येके । ननान्दा तु स्वसा पत्युर्ननन्दा नन्दिनी च सेति शब्दार्णवः ।" }, { "i":"2099", "sutra":"दिवेर्ऋः", "pratyay":"ऋ", "sk":"देवा देवरः । स्वामिनो देवृ देवरौ ।" }, { "i":"2100", "sutra":"नयतेर्डिच्च", "pratyay":"ऋ", "sk":"ना । नरौ नरः ।" }, { "i":"2101", "sutra":"सव्ये स्थश्छन्दसि", "pratyay":"ऋ", "sk":"[[8.3.97]] <<अम्बाम्ब...>> इत्यत्र ‘स्थास्थिन्स्थूणामुपसंख्यानम्’ । सव्येष्टा सारथिः । सव्येष्टरौ । सव्येष्टरः ।" }, { "i":"2102", "sutra":"अर्तिसृधृधम्यश्यवितॄभ्योऽनिः", "pratyay":"अनि", "sk":"सरणिः । धरणिः । धमनिः । अमनिर्गतिः । अशनिः । अवनिः । तरणिः । बाहुलकात् रजनिः ।" }, { "i":"2103", "sutra":"आङि शुषेः सनश्छन्दसि", "pratyay":"अनि", "sk":"आशुशुक्षणिरग्निर्वातश्च ।" }, { "i":"2104", "sutra":"कृषेरादेश्च चः", "pratyay":"अनि", "sk":"चर्षणिर्जनः ।" }, { "i":"2105", "sutra":"अदेर्मुट् च", "pratyay":"अनि", "sk":"अद्मनिरग्निः ।" }, { "i":"2106", "sutra":"वृतेश्च", "pratyay":"अनि", "sk":"वर्तनिः । गोवर्धनस्तु चकारान्मुट् वर्त्मनिरित्याह ।" }, { "i":"2107", "sutra":"क्षिपेः किच्च", "pratyay":"अनि", "sk":"क्षिपणिरायुधम् ।" }, { "i":"2108", "sutra":"अर्चिशुचिहुसृपिछादिछर्दिभ्य इसिः", "pratyay":"इसि", "sk":"अर्चिर्ज्वाला । इदन्तोऽप्ययम् । अग्नेर्भ्राजन्ते अर्चयः । शोचिर्दीप्तिः । हविः सर्पिः । [[6.4.97]] <<इस्मन्...>> इति ह्रस्वः । छदिः पटलम् । छर्दिर्वमनव्याधिः । इदन्तोऽपि । छर्द्यतीसारशूलवान् ।" }, { "i":"2109", "sutra":"बृंहेर्नलोपश्च", "pratyay":"इसि", "sk":"बर्हिर्ना कुशशुष्मणोः ।" }, { "i":"2110", "sutra":"द्युतेरिसिन्नादेश्च जः", "pratyay":"इसिन्", "sk":"ज्योतिः ।" }, { "i":"2111", "sutra":"वसौ रुचेः संज्ञायाम्", "pratyay":"इसिन्", "sk":"वसुरोचिर्यज्ञः ।" }, { "i":"2112", "sutra":"भुवः कित्", "pratyay":"इसिन्", "sk":"भुविः समुद्रः ।" }, { "i":"2113", "sutra":"सहो धश्च", "pratyay":"इसिन्", "sk":"सिधिरनड्वान् ।" }, { "i":"2114", "sutra":"पिबतेस्थुक्", "pratyay":"इसिन्", "sk":"पाथिश्चक्षुःसमुद्रयोः ।" }, { "i":"2115", "sutra":"जनेरुसिः", "pratyay":"उसि", "sk":"जनुर्जननम् ।" }, { "i":"2116", "sutra":"मनेर्धश्छन्दसि", "pratyay":"उसि", "sk":"मधुः ।" }, { "i":"2117", "sutra":"अर्तिपॄवपियजितनिधनितपिभ्यो नित्", "pratyay":"उसि", "sk":"अरुः । परुर्ग्रन्थिः । वपुः । यजुः । तनुः । तनुषी । तनूंषि । धनुरस्त्रियाम् । धनुर्वंशविशुद्धोऽपि निर्गुणः किं करिष्यति । सान्तस्य उदन्तस्य वा रूपम् । तपुः सूर्याग्निशत्रुषु ।" }, { "i":"2118", "sutra":"एतेर्णिच्च", "pratyay":"उसि", "sk":"आयुः । आयुषी ।" }, { "i":"2119", "sutra":"चक्षेः शिच्च", "pratyay":"उसि", "sk":"चक्षुः ।" }, { "i":"2120", "sutra":"मुहेः किच्च", "pratyay":"उसि", "sk":"मुहुरव्ययम् ।" }, { "i":"2121", "sutra":"बहुलमन्यत्रापि", "pratyay":"उसि", "sk":"आचक्षुः । परिचक्षुः ।" }, { "i":"2122", "sutra":"कॄगॄशॄवृञ्चतिभ्यः ष्वरच्", "pratyay":"ष्वरच्", "sk":"कर्वरो व्याघ्ररक्षसोः । गर्वरोऽहंकारी । शर्वरी रात्रिः । वर्वरः प्राकृतो जनः । चत्वरम् ।" }, { "i":"2123", "sutra":"नौ सदेः", "pratyay":"ष्वरच्", "sk":"निपद्वरस्तु जम्बालः । निपद्वरी रात्रिः" }, { "i":"3001", "sutra":"छित्वरछत्वरधीवरपीवरमीवरचीवरतीवरनीवरगह्वरकट्वरसंयद्वराः", "pratyay":"ष्वरच्", "sk":"एकादश प्वरच्प्रत्ययान्ता निपात्यन्ते । छिदिर् छद् अनयोस्तकारोऽन्तादेशः छिदेर्गुणाभावश्च । छित्वरो धूर्तः । छत्वरो गृहकुञ्जयोः । धीवरः कैवर्तः । पीवरः स्थूलः । मीवरो हिंसकाः । चिनोतेर्दीर्घश्च । चीवरं भिक्षुकप्रावरणं । तीवरो जातिविशेषः । नीवरः परिव्राट् । गाहतेर्ह्रस्वत्वम् । गह्वरम् । कटे वर्षादौ । कट्वरं व्यजनम् । यमेर्दकारः । संयद्वरो नृपः । पदेः संपद्वरः इत्येके ।" }, { "i":"3002", "sutra":"इण्सिञ्जिदीङुष्यविभ्यो नक्", "pratyay":"नक्", "sk":"इनः सूर्ये नृपे पत्यौ । सिनः काणः । जिनोऽर्हन् । दीनः । उष्णः । ऊनः ।" }, { "i":"3003", "sutra":"फेनमीनौ", "pratyay":"नक्", "sk":"एतौ निपात्येते । स्फायतेः फेनः । मीनः ।" }, { "i":"3004", "sutra":"कृषेर्वर्णे", "pratyay":"नक्", "sk":"कृष्णः ।" }, { "i":"3005", "sutra":"बन्धेर्ब्रधिबुधी च", "pratyay":"नक्", "sk":"ब्रध्नः । बुध्नः ।" }, { "i":"3006", "sutra":"धापॄवस्यज्यतिभ्यो नः", "pratyay":"न", "sk":"धाना भ्रष्टयवे स्त्रियः । पर्णं पत्रम् । पर्णः किंशुकः । वस्नो मूल्ये वेतने च । अजेर्वी । वेनः । अत्न आदित्यः । बाहुलकात् । शृणोतेः श्रोणः पङ्गुः ।" }, { "i":"3007", "sutra":"लक्षेरट् च", "pratyay":"न", "sk":"लक्षेश्चुरादिण्यन्तान्नः स्यात्तस्याडागमश्च । चान्मुडित्येके । लक्षणं लक्ष्मणं नाम्नि चिन्हे च । लक्षणो लक्ष्मणश्च रामभ्राता । लक्षणा हंसयोषायां सारसस्य च लक्ष्मणा ।" }, { "i":"3008", "sutra":"वनेरिच्चोपधायाः", "pratyay":"न", "sk":"वेन्ना नदी ।" }, { "i":"3009", "sutra":"सिवेष्ठेर्यू च", "pratyay":"न", "sk":"दीर्घोच्चारणसामर्थ्यान्न गुणः । स्यून आदित्यः । बाहुलकात् केवलो नः । ऊठ् । अन्तरङ्गत्वाद्यण् । गुणः । स्योनः ।" }, { "i":"3010", "sutra":"कॄवॄजॄसिद्रुपन्यनिस्वपिभ्यो नित्", "pratyay":"न", "sk":"कर्णः । वर्णः । जर्णश्चन्द्रे च वृक्षे च । सेना । द्रोणः । पन्नो नीचैर्गतिः । अन्नमोदनः । स्वप्नो निद्रा ।" }, { "i":"3011", "sutra":"धेट इच्च", "pratyay":"न", "sk":"धेनः सिन्धुर्नदी धेना ।" }, { "i":"3012", "sutra":"तृषिशुषिरसिभ्यः कित्", "pratyay":"न", "sk":"तृष्णा । शुष्णः सूर्यो वह्निश्च । रस्नं द्रव्यम् ।" }, { "i":"3013", "sutra":"सुञो दीर्घश्च", "pratyay":"न", "sk":"सूना वधस्थानम् ।" }, { "i":"3014", "sutra":"रमेस्त च", "pratyay":"न", "sk":"रमयतीति रत्नम् ।" }, { "i":"3015", "sutra":"रास्नासास्नास्थूणावीणाः", "pratyay":"न", "sk":"रास्ना गन्धद्रव्यम् । सास्ना गोगलकम्बलः । स्थूणा गृहस्तम्भः । वीणा वल्लकी ।" }, { "i":"3016", "sutra":"गादाभ्यामिष्णुच्", "pratyay":"इष्णुच्", "sk":"गेष्णुर्गायनः । देष्णुर्दाता ।" }, { "i":"3017", "sutra":"कृत्यशूभ्यां क्स्नः", "pratyay":"क्स्न", "sk":"कृत्स्नम् । अक्ष्णमखण्डम् ।" }, { "i":"3018", "sutra":"तिजेर्दीर्घश्च", "pratyay":"क्स्न", "sk":"तीक्ष्णम् ।" }, { "i":"3019", "sutra":"श्लिषेरच्चोपधायाः", "pratyay":"क्स्न", "sk":"श्लक्ष्णम् ।" }, { "i":"3020", "sutra":"यजिमनिशुन्धिदसिजनिभ्यो युच्", "pratyay":"युच्", "sk":"यज्युरध्वर्युः। मन्युर्दैन्ये क्रतौ क्रुधि । शुन्ध्युरग्निः । दस्युस्तस्करः । जन्युः शरीरी ।" }, { "i":"3021", "sutra":"भुजिमृङ्भ्याम् युक्त्युकौ", "pratyay":"युक्, त्युक्", "sk":"भुज्युर्भाजनम् । मृत्युः ।" }, { "i":"3022", "sutra":"सर्तेरयुः", "pratyay":"अयु", "sk":"सरयुर्नदी । अयूरिति पाठान्तरम् । सरयूः ।" }, { "i":"3023", "sutra":"पानीविषिभ्यः पः", "pratyay":"प", "sk":"पाति रक्षत्यस्मादात्मानमिति पापम् । तद्योगात्पापः । नेपः पुरोहितः । बाहुलकाद्गुणाभावे नीपो वृक्षविशेषः । वेष्पः पानीयम् ।" }, { "i":"3024", "sutra":"च्युवः किच्च", "pratyay":"प", "sk":"च्युपो वक्त्रम् ।" }, { "i":"3025", "sutra":"स्तुवो दीर्घश्च", "pratyay":"प", "sk":"स्तूपः समुच्छ्रायः ।" }, { "i":"3026", "sutra":"सुशॄभ्यां निच्च", "pratyay":"प", "sk":"चात्कित् । सूपः । बाहुलकादूत्वम् । शूर्पम् ।" }, { "i":"3027", "sutra":"कुयुभ्यां च", "pratyay":"प", "sk":"कुवन्ति मन्ण्डूका अस्मिन् कूपः । युवन्ति बध्नन्त्यस्मिन्पशुमिति यूपो यज्ञस्थम्भः ।" }, { "i":"3028", "sutra":"खष्पशिल्पशष्पबाष्परूपपर्पतल्पाः", "pratyay":"प", "sk":"सप्तैते पप्रत्ययान्ता निपात्यन्ते । खनतेर्नकारस्य पत्वम् । खष्पौ क्रोधबलात्कारौ शीलतेर्ह्रस्वः । शिल्पं कौशलम् । शसु हिंसायाम् निपातनात्पत्वम् । शष्पं बालतृणं प्रतिभाक्षयश्च । बधतेः पः । बाष्पो नेत्रजलोष्मणोः । बाष्पं च । रौतेर्दीर्घ । रूपं स्वभावे सौन्दैर्ये । पॄ । पर्पं गृहं बालतृणं पङ्गुपीठं च । तल प्रतिष्ठाकरणे चुरादिणिचो लुक् । तल्पं शय्याट्टदारेषु ।" }, { "i":"3029", "sutra":"स्तनिह्रुषिपुपिगदिमदिभ्यो णेरित्नुच्", "pratyay":"इत्नुच्", "sk":"’अयामन्त-२३११’ इति णेरयादेशः । स्तनयित्नुः । हर्षयित्नुः । पोपयित्नुः गदयित्नुर्वावदूकः । मदयित्नुर्मदिरा ।" }, { "i":"3030", "sutra":"कृहनिभ्यां क्त्नुः", "pratyay":"क्त्नु", "sk":"कृत्नुः शिल्पीः । हत्नुर्व्याधिः शस्त्रं च ।" }, { "i":"3031", "sutra":"गमेः सन्वच्च", "pratyay":"क्त्नु", "sk":"जिगत्नुः ।" }, { "i":"3032", "sutra":"दाभाभ्यां नुः", "pratyay":"नु", "sk":"दानुर्द्ता । भानुः ।" }, { "i":"3033", "sutra":"वचेर्गश्च", "pratyay":"नु", "sk":"वग्नुः ।" }, { "i":"3034", "sutra":"धेट इच्च", "pratyay":"नु", "sk":"धयति सुतानिति धेनुः ।" }, { "i":"3035", "sutra":"सुवः कित्", "pratyay":"नु", "sk":"सूनुः पुत्रेऽनुजे रवौ ।" }, { "i":"3036", "sutra":"जहातेर्द्वेऽन्तलोपश्च", "pratyay":"नु", "sk":"जह्नुः ।" }, { "i":"3037", "sutra":"स्थो णुः", "pratyay":"णु", "sk":"स्थाणुः कीले स्थिरे हरे ।" }, { "i":"3038", "sutra":"अजिवृरीभ्यो निच्च", "pratyay":"णु", "sk":"अजेर्वी । वेणुः । वर्णुर्नददेशभेदयोः । रेणुर्द्वयोः स्त्रियां धूलिः ।" }, { "i":"3039", "sutra":"विषेः किच्च", "pratyay":"णु", "sk":"विष्णुः ।" }, { "i":"3040", "sutra":"कृदाधारार्चिकलिभ्यः कः", "pratyay":"क", "sk":"बाहुलकान्न कस्येत्संज्ञा । कर्को धवलघोटकः । दाको दाता । धाकोऽनड्वानाधारश्च । राका पौर्णमासी अर्कः । कल्कः पापाशये पापे दम्भे विट्किट्टयोरपि ।" }, { "i":"3041", "sutra":"सृवृभूशुषिमुषिभ्यः कक्", "pratyay":"कक्", "sk":"सृक उत्पलवातयोः । वृकः श्वापदकाकयोः । भूकं छिद्रम् । शुष्कः । मुष्कोऽण्डम् ।" }, { "i":"3042", "sutra":"शुकवल्कोल्काः", "pratyay":"कक्", "sk":"शुभेरन्त्यलीपः । शुकः । वल्कं वल्कलमस्त्रियाम् । उष दाहे । षस्य लः । उल्का ।" }, { "i":"3043", "sutra":"इण्भीकापाशल्यतिमर्चिभ्यः कन्", "pratyay":"कन्", "sk":"एके मुख्यान्यकेवलाः । भेको मण्डूकमेषयोरिति विश्वभेदिन्यौ । काकः । पाकः शिशुः । शल्कं शकलम् । अत्कः पथिकः शरीरावयवश्च । मर्कः शरीरवायुः ।" }, { "i":"3044", "sutra":"नौ हः", "pratyay":"कन्", "sk":"जहातेः कन् स्यान्नो । निहाका गोधिका ।" }, { "i":"3045", "sutra":"नौ सदेर्डिच्च", "pratyay":"कन्", "sk":"निष्कोऽस्त्री हेम्नि तत्पले ।" }, { "i":"3046", "sutra":"स्यमेरीट् च", "pratyay":"कन्", "sk":"स्यमीको वल्मिकः वृक्षभेदश्च । इट्ह्रस्व इति केचित् । स्यमिकः ।" }, { "i":"3047", "sutra":"अजियुधुनीभ्यो दीर्घश्च", "pratyay":"कन्", "sk":"वीकः स्याद्वातपक्षिणोः । यूका । धूको वायुः । नीको वृक्षविशेषः ।" }, { "i":"3048", "sutra":"ह्रियो रश्च लो वा", "pratyay":"कन्", "sk":"ह्रीका ह्लीका त्रपा मता ।" }, { "i":"3049", "sutra":"शकेरुनोन्तोन्त्युनयः", "pratyay":"उन, उन्त, उन्ति, उनि", "sk":"उन उन्त उन्ति उनि एते चत्वारः स्युः । शकुनः । शकुन्तः । शकुन्तिः । शकुनिः ।" }, { "i":"3050", "sutra":"भुवो झिच्", "pratyay":"झिच्", "sk":"भवन्तिर्वर्तमानकालः । बहुलकादवेश्च । अवन्तिः । वदेर्वदन्तिः । किंवदन्ती जनश्रुतिः ।" }, { "i":"3051", "sutra":"कन्युच्क्षिपेश्च", "pratyay":"कन्युच्", "sk":"चाद्भुवः । क्षिपण्युर्वसन्त इत्युज्ज्वलदत्तः । भवन्युः स्वामिसूर्ययोः ।" }, { "i":"3052", "sutra":"अनुङ्नदेश्च", "pratyay":"अनुङ्", "sk":"चात्क्षिपेः । नदनुर्मेघः । क्षिपणुर्वातः ।" }, { "i":"3053", "sutra":"कॄवृदारिभ्य उनन्", "pratyay":"उनन्", "sk":"करुणो वृक्षभेदः स्यात्करुणा च कृपा मता । वरुणः । दारुणम् ।" }, { "i":"3054", "sutra":"त्रो रश्च लो वा", "pratyay":"उनन्", "sk":"तरुणस्तलुनो युवा ।" }, { "i":"3055", "sutra":"क्षुधिपिशिमिथिभ्यः कित्", "pratyay":"उनन्", "sk":"क्षुधुनो म्लेच्छजातिः । पिशुनः । मिथुनम् ।" }, { "i":"3056", "sutra":"फलेर्गुक् च", "pratyay":"उनन्", "sk":"फल्गुनः पार्थः । प्रज्ञाद्यण् । फाल्गुनः ।" }, { "i":"3057", "sutra":"अशेर्लशश्च", "pratyay":"उनन्", "sk":"लशुनम् ।" }, { "i":"3058", "sutra":"अर्जेर्णिलुक् च", "pratyay":"उनन्", "sk":"अर्जुनः ।" }, { "i":"3059", "sutra":"तृणाख्यायां चित्", "pratyay":"उनन्", "sk":"चित्त्वादन्तोदात्तः । अर्जुनं तृणम् ।" }, { "i":"3060", "sutra":"अर्तेश्च", "pratyay":"उनन्", "sk":"अरुणः ।" }, { "i":"3061", "sutra":"अजियमिशीङ्भ्यश्च", "pratyay":"उनन्", "sk":"वयुनं देवमन्दिरम् । यमुना । शयुनोऽजगरः ।" }, { "i":"3062", "sutra":"वॄतॄवदिहनिकमिकशिभ्यः सः", "pratyay":"स", "sk":"वर्सः । तर्सः प्लवसमुद्रयोः । वत्सः । वत्सम् । वक्षः । हंसः । कंसोऽस्त्री पानभाजनम् । कक्षं नक्षत्रम् ।" }, { "i":"3063", "sutra":"प्लुषेरच्चोपधायाः", "pratyay":"स", "sk":"प्लक्षः ।" }, { "i":"3064", "sutra":"मनेर्दीर्घश्च", "pratyay":"स", "sk":"मांसम् ।" }, { "i":"3065", "sutra":"अशेर्देवने", "pratyay":"स", "sk":"अक्षः ।" }, { "i":"3066", "sutra":"स्नुव्रश्चिकृत्यृषिभ्यः कित्", "pratyay":"स", "sk":"स्नुषा । वृक्षः । कुत्समुदकम् । ऋक्षं नक्षत्रम् ।" }, { "i":"3067", "sutra":"ऋषेर्जातौ", "pratyay":"स", "sk":"ऋक्षोऽद्रिभेदे भल्लूके इति च ।" }, { "i":"3068", "sutra":"उन्दिगुथिकुषिभ्यश्च", "pratyay":"स", "sk":"उत्सः प्रस्रवणम् । गुत्सः स्तबकः । उक्षो जठरम् ।" }, { "i":"3069", "sutra":"गृधिपण्योर्दकौ च", "pratyay":"स", "sk":"गुत्सः कामदेवः । पक्षः ।" }, { "i":"3070", "sutra":"अशेः सरः", "pratyay":"सर", "sk":"अक्षरम् ।" }, { "i":"3071", "sutra":"वसेश्च", "pratyay":"सर", "sk":"वत्सरः ।" }, { "i":"3072", "sutra":"सपूर्वाच्चित्", "pratyay":"सर", "sk":"संवत्सरः ।" }, { "i":"3073", "sutra":"कृधूमधिभ्यः कित्", "pratyay":"सर", "sk":"बाहुलकान्न षत्वम् । कृसरः स्यात्तिलौदनम् । धूसरः । मत्सरः । मत्सरा मक्षिका ज्ञेया भम्भराली च सा मता ।" }, { "i":"3074", "sutra":"पते रश्च लः", "pratyay":"सर", "sk":"पत्सलः पन्थाः ।" }, { "i":"3075", "sutra":"तन्यृषिभ्यां क्सरन्", "pratyay":"क्सरन्", "sk":"तसरः सूत्रवेष्टने । ऋक्षरः ऋत्विक् ।" }, { "i":"3076", "sutra":"पीयुक्कणिभ्यां कालन् ह्रस्वः संप्रसारणं च", "pratyay":"कालन्", "sk":"पीयुः सौत्रः । पियालो वृक्षभेदः । कुणालो देशभेदः ।" }, { "i":"3077", "sutra":"कटिकुषिभ्यां काकुः", "pratyay":"काकु", "sk":"कटाकुः पक्षी । कुषाकुरग्निः सूर्यश्च ।" }, { "i":"3078", "sutra":"सर्तेर्दुक् च", "pratyay":"काकु", "sk":"सृदाकुर्वातसरितोः ।" }, { "i":"3079", "sutra":"वृतेर्वृद्धिश्च", "pratyay":"काकु", "sk":"वार्ताकुः । बाहुलकादुकारस्य अत्वम् । वार्ताकम् ।" }, { "i":"3080", "sutra":"पर्देर्नित्संप्रसारणमल्लोपश्च", "pratyay":"काकु", "sk":"पृदाकुर्वृश्चिके व्याघ्रे चित्रके च सरीसृपे ।" }, { "i":"3081", "sutra":"सृयुवचिभ्योऽन्युजागूजक्नुचः", "pratyay":"अन्युच्, आगूच्, अक्नुच्", "sk":"अन्युच् आगूच् अक्नुच् एते क्रमात्स्युः सरण्युर्मेघवातयोः । यवागूः । वचक्नुर्विप्रवाग्मिनोः ।" }, { "i":"3082", "sutra":"आनकः शीङ्भियः", "pratyay":"आनक", "sk":"शयानकोऽजगरः । भयानकः ।" }, { "i":"3083", "sutra":"आणको लुधुशिघिधाञ्भ्यः", "pratyay":"आणक", "sk":"लवाणकं दात्रम् । धवानको वातः । शिङ्घाणकः श्लेष्मा । पृषोदरादित्वात्पक्षे कलोपः । शिङ्घाणं नासिकामले । धाणको दीनारभागः ।" }, { "i":"3084", "sutra":"उल्मुकदर्विहोमिनः", "pratyay":"मुक्, अवि, मिन्", "sk":"उष दाहे । षस्य लः मुकप्रत्ययश्च । उल्मुकं ज्वलदङ्गारम् । दृणातेर्विः । दर्विः । जुहोतेर्मिनिः । होमी ।" }, { "i":"3085", "sutra":"ह्रियः कुक् रश्च लो वा", "pratyay":"कुक्", "sk":"ह्राकुः । ह्रीकुर्लज्जावान् ।" }, { "i":"3086", "sutra":"हसिमृग्रिणवाऽमिदमिलूपूधुर्विभ्यस्तन्", "pratyay":"तन्", "sk":"दशभ्यस्तन् स्यात् । [[7.2.9]] <<तितुत्र ...>> इति नेट् । हस्तः । मर्तः । गर्तः । एतः कुर्बरः । वातः । दन्तः । अन्तः । लोतः स्यादश्रुचिह्नयोः । पोतो बालवहित्रयोः । धूर्तः । बाहुलकात्तु सेर्दीर्घश्च । तूस्तं पापं । धूलिर्जटा च ।" }, { "i":"3087", "sutra":"नञ्याप इट् च", "pratyay":"तन्", "sk":"नापितः ।" }, { "i":"3088", "sutra":"तनिमृङ्भ्यां किच्च", "pratyay":"तन्", "sk":"ततम् । मृतम् ।" }, { "i":"3089", "sutra":"अञ्जिघृसिभ्यः क्तः", "pratyay":"क्त", "sk":"अक्तम् । घृतम् । सितम् ।" }, { "i":"3090", "sutra":"दुतनिभ्यां दीर्घश्च", "pratyay":"क्त", "sk":"दूतः । तातः ।" }, { "i":"3091", "sutra":"जेर्मुट् चोदात्तः", "pratyay":"क्त", "sk":"जीमूतः ।" }, { "i":"3092", "sutra":"लोष्टपलितौ", "pratyay":"क्त", "sk":"लुनातेः क्तः तस्य सुट् धातोर्गुणः । लोष्टम् । पलितम् ।" }, { "i":"3093", "sutra":"हृश्याभ्यामितन्", "pratyay":"इतन्", "sk":"हरितश्येतौ वर्णभेदौ ।" }, { "i":"3094", "sutra":"रुहे रश्च लो वा", "pratyay":"इतन्", "sk":"रोहितो मृगमत्स्ययोः । लोहितं रक्तम् ।" }, { "i":"3095", "sutra":"पिशेः किच्च", "pratyay":"इतन्", "sk":"पिशितं मांसम् ।" }, { "i":"3096", "sutra":"श्रुदक्षिस्पृहिगृहिभ्य आय्यः", "pratyay":"आय्य", "sk":"श्रवाय्यो यज्ञपशुः । दक्षाय्यो गरुडो गृध्रश्च । स्पृहयाय्यः । गृहयाय्यो गृहस्वामी ।" }, { "i":"3097", "sutra":"दिधिषाय्यः", "pratyay":"आय्य", "sk":"दधातेर्द्वित्वमित्वं षुक् च । मित्र इव यो दिधिषाय्यः ।" }, { "i":"3098", "sutra":"वृञ एण्यः", "pratyay":"एण्य", "sk":"वरेण्यः ।" }, { "i":"3099", "sutra":"स्तुवः क्सेय्यश्छन्दसि", "pratyay":"क्सेय्य", "sk":"स्तुषेय्यं पुरुवर्पसम् ।" }, { "i":"3100", "sutra":"राजेरन्यः", "pratyay":"अन्य", "sk":"राजन्यो वह्निः ।" }, { "i":"3101", "sutra":"शॄरम्योश्च", "pratyay":"अन्य", "sk":"शरण्यम् । रमण्यम् ।" }, { "i":"3102", "sutra":"अर्तेर्निच्च", "pratyay":"अन्य", "sk":"अरण्यम् ।" }, { "i":"3103", "sutra":"पर्जन्यः", "pratyay":"अन्य", "sk":"पृषु सेचने । षस्य जः । पर्जन्यः शक्रमेघयोः ।" }, { "i":"3104", "sutra":"वदेरान्यः", "pratyay":"आन्य", "sk":"वदान्यस्त्यागिवाग्मिनोः ।" }, { "i":"3105", "sutra":"अमिनक्षियजिवधिपतिभ्योऽत्रन्", "pratyay":"अत्रन्", "sk":"अमत्रं भाजनम् । नक्षत्रम् । यजत्रः । वधत्रमायुधम् । पतत्रं च तनूरुहम् ।" }, { "i":"3106", "sutra":"गडेरादेश्च कः", "pratyay":"अत्रन्", "sk":"कडत्रम् । डलयोरेकत्वस्मरणात् कलत्रम् ।" }, { "i":"3107", "sutra":"वृञश्चित्", "pratyay":"अत्रन्", "sk":"वरत्रा चर्ममयी रज्जुः ।" }, { "i":"3108", "sutra":"सुविदेः कत्रः", "pratyay":"कत्र", "sk":"सुविदत्रं कुटुम्बकम् ।" }, { "i":"3109", "sutra":"कृतेर्नुम् च", "pratyay":"कत्र", "sk":"कृन्तत्रं लाङ्लम् ।" }, { "i":"3110", "sutra":"भृमृदृशियजिपर्विपच्यमितमिनमिहर्येभ्योऽतच्", "pratyay":"अतच्", "sk":"दशभ्योऽतच्स्यात् । भरतः । मनतो मृत्युः । दर्शत सोमसूर्ययोः । यजतः ऋत्विक् । पर्वतः । पचतोऽग्निः । अमतो रोगः । तमतस्तृष्णापरः । नमतः प्रह्णः । हर्यतोऽश्वः ।" }, { "i":"3111", "sutra":"पृषिरञ्जिभ्यां कित्", "pratyay":"अतच्", "sk":"पृषतो मृगो बिन्दुश्च । रजतम् ।" }, { "i":"3112", "sutra":"खलतिः", "pratyay":"अतच्", "sk":"खलतेः सलोपः अतच्प्रत्ययान्तस्य इत्वं च । खलतिर्निष्केशशिराः ।" }, { "i":"3113", "sutra":"शीङ्शपिरुगमिवञ्चिजीविप्राणिभ्योऽथः", "pratyay":"अथ", "sk":"सप्तभ्योऽथः स्यात् । शयथोऽजगरः । शपथः । रवथः कोकिलः । गमथः पथिकः पन्थाश्च । वञ्चथो धूर्तः । वन्दीति पाठे वन्द्यते वा वन्दथः स्तोता स्तुत्यश्च । जीवथ आयुष्मान् । प्राणथो बलवान् । बाहुलकाच्छमिदमिभ्याम् । शमथस्तु शमः शान्तिर्दान्तिस्तु दमथो दमः ।" }, { "i":"3114", "sutra":"भृञश्चित्", "pratyay":"अथ", "sk":"भरथो लोकपालः ।" }, { "i":"3115", "sutra":"रुदिविदिभ्यां ङित्", "pratyay":"अथ", "sk":"रोदितीति रुदथः शिशुः । वेत्तीति विदथः ।" }, { "i":"3116", "sutra":"उपसर्गे वसेः", "pratyay":"अथ", "sk":"आवसथो गृहम् । संवसथो ग्रामः ।" }, { "i":"3117", "sutra":"अत्यविचमितमिरभिलभिनभितपिपतिपनिपणिमहिभ्योऽसच्", "pratyay":"असच्", "sk":"त्रयोदशभ्योऽसच् स्यात् । अततीत्यतसो वायुरात्मा च । अवतीत्यवसो राजा भानुश्च । चमत्यस्मिन् चमसः सोमपानपात्रम् । ताम्यत्यस्मिन् तमसोऽन्धकारः । नमसः अनुकूलः । रभसो वेगहर्षयोः । लभसो धनं याचकश्च । नभति नभ्यति वा नभस आकाशः । तपसः पक्षी चन्द्रश्च । पतसः पक्षी । पनसः कन्टकिफलः । पणसः पण्यद्रव्यम् । महसं ज्ञानम् ।" }, { "i":"3118", "sutra":"वेञस्तुट् च", "pratyay":"असच्", "sk":"बाहुलकादात्वाभावः । वेतसः ।" }, { "i":"3119", "sutra":"वहियुभ्यां णित्", "pratyay":"असच्", "sk":"वाहसोऽजगरः । यावसस्तृणसङ्घातः ।" }, { "i":"3120", "sutra":"वयश्च", "pratyay":"असच्", "sk":"वय गतौ । वायसः काकः ।" }, { "i":"3121", "sutra":"दिवः कित्", "pratyay":"असच्", "sk":"दिवसम् । दिवसः ।" }, { "i":"3122", "sutra":"कॄशॄशलिकलिगर्दिभ्योऽभच्", "pratyay":"अभच्", "sk":"करभः । शरभः । शलभः । कलभः । गर्दभः ।" }, { "i":"3123", "sutra":"ऋषिवृषिभ्यां कित्", "pratyay":"अभच्", "sk":"ऋषभः । वृषभः ।" }, { "i":"3124", "sutra":"रुषेर्निलुष् च", "pratyay":"अभच्", "sk":"रुष हिंसायाम् । अस्मादभच् नित्कित्स्यात लुषादेशश्च । लुषभो मत्तदन्तिनि ।" }, { "i":"3125", "sutra":"रासिवल्लिभ्यां च", "pratyay":"अभच्", "sk":"रासभः । वल्लभः ।" }, { "i":"3126", "sutra":"जॄविशिभ्यां झच्", "pratyay":"झच्", "sk":"जरन्तो महिषः । वेशन्तः पल्वलम् ।" }, { "i":"3127", "sutra":"रुहिनन्दिजीविप्राणिभ्यः षिदाशिषि", "pratyay":"झच्", "sk":"रोहन्तो वृक्षभेदः । नन्दन्तः पुत्रः । जीवन्त औषधम् । प्राणन्तो वायुः । षित्वान्ङीष् । रोहन्ती ।" }, { "i":"3128", "sutra":"तॄभूवहिवसिभासिसाधिगडिमण्डिजिनन्दिभ्यश्च", "pratyay":"झच्", "sk":"दशभ्यो झच् स्यात्स च षित् । तरन्तः समुद्रः । तरन्ती नौक । भवन्तः कालः । वहन्तो वायुः । वसन्तः ऋतुः । भासन्तः सूर्यः । साधन्तो भिक्षुः । गडेर्घटादित्वान्मित्त्वं ह्रस्वः । [[6.4.55]] <<अयामन्ता...>> इति णेरयः । गण्डयन्तो जलदः । मण्डयन्तो भूषणम् । जयन्तः शक्रपुत्रः । नन्दयन्तो नन्दकः ।" }, { "i":"3129", "sutra":"हन्तेर्मुट् हि च", "pratyay":"झच्", "sk":"हेमन्तः ।" }, { "i":"3130", "sutra":"भन्देर्नलोपश्च", "pratyay":"झच्", "sk":"भदन्तः प्रव्रजितः ।" }, { "i":"3131", "sutra":"ऋच्छेररः", "pratyay":"अर", "sk":"ऋच्छरा वेश्या । बाहुलकाज्जर्जरझर्झरादयः ।" }, { "i":"3132", "sutra":"अर्तिकमिभ्रमिचमिदेविवासिभ्यश्चित्", "pratyay":"अर", "sk":"षड्भ्योऽरश्चित् स्यात् । अररं कपाटम् । कमरः कामुकः । भ्रमरः । चमरः । देवरः । वासरः ।" }, { "i":"3133", "sutra":"कुवः क्ररन्", "pratyay":"क्ररन्", "sk":"कुररः पक्षिभेदः ।" }, { "i":"3134", "sutra":"अङ्गिमदिमन्दिभ्य आरन्", "pratyay":"आरन्", "sk":"अङ्गारः । मदारो वराहः । मन्दारः ।" }, { "i":"3135", "sutra":"गडेः कड च", "pratyay":"आरन्", "sk":"कडारः ।" }, { "i":"3136", "sutra":"शृङ्गारभृङ्गारौ", "pratyay":"आरन्", "sk":"शॄभृञ्भ्यामारन्नुम् गुक् ह्रस्वश्च । शृङ्गारो रसः । भृङ्गारः कनकालुका ।" }, { "i":"3137", "sutra":"कञ्जिमृजिभ्यां चित्", "pratyay":"आरन्", "sk":"कञ्जिः सौत्रो धातुः । कञ्जारो मयूरः । मार्जारः ।" }, { "i":"3138", "sutra":"कमेः किदुच्चोपधायाः", "pratyay":"आरन्", "sk":"चिदित्यनुवृत्तेरन्तोदात्तः । कुमारः ।" }, { "i":"3139", "sutra":"तुषारादयश्च", "pratyay":"आरन्", "sk":"तुषारः । कासारः । सहार आम्रभेदः ।" }, { "i":"3140", "sutra":"दीङो नुट् च", "pratyay":"आरन्", "sk":"दीनारः सुवर्णाभरणम् ।" }, { "i":"3141", "sutra":"सर्तेरपः षुक् च", "pratyay":"अप", "sk":"सर्षपः ।" }, { "i":"3142", "sutra":"उषिकुटिदलिकचिखजिभ्यः कपन्", "pratyay":"कपन्", "sk":"उषपो वह्निसूर्ययोः । कुटपो मानभाण्डम् । दलपः प्रहरणम् । कचपं शाकपत्रम् । खजपं घृतम् ।" }, { "i":"3143", "sutra":"क्वणेः संप्रसारणं च", "pratyay":"कपन्", "sk":"कुणपम् ।" }, { "i":"3144", "sutra":"कपश्चाक्रवर्मणस्य", "pratyay":"कप", "sk":"स्वरे भेदः ।" }, { "i":"3145", "sutra":"विटपपिष्टपविशिपोलपाः", "pratyay":"कप", "sk":"चत्वारोऽमी कपन् प्रत्ययान्ताः । विट शब्दे । विटपः । विशतेरादेः पः । प्रत्ययस्य तुट् । षत्वम् । पिष्टपं भुवनम् । विशतेः प्रत्ययादेरित्वम् । विशिपं मन्दिरम् । वलतेः संप्रसारणम् । उलपं कोमलं तृणम् ।" }, { "i":"3146", "sutra":"वृतेस्तिकन्", "pratyay":"तिकन्", "sk":"वर्तिका ।" }, { "i":"3147", "sutra":"कृतिभिदिलतिभ्यः कित्", "pratyay":"तिकन्", "sk":"कृत्तिका भित्तिका भित्तिः । लत्तिका गोधा ।" }, { "i":"3148", "sutra":"इष्यशिभ्यां तकन्", "pratyay":"तकन्", "sk":"इष्टका । अष्टका ।" }, { "i":"3149", "sutra":"इणस्तशन्तशसुनौ", "pratyay":"तशन्, तशसुन्", "sk":"एतशो ब्राह्मणः । स एव एतशाः ।" }, { "i":"3150", "sutra":"वीपतिभ्यां तनन्", "pratyay":"तनन्", "sk":"वी गत्यादौ । वेतनम् । पत्तनम् ।" }, { "i":"3151", "sutra":"दॄदलिभ्यां भः", "pratyay":"भ", "sk":"दर्भः । ’दल्भः स्यादृषिचक्रयोः’ ।" }, { "i":"3152", "sutra":"अर्तिगॄभ्यां भन्", "pratyay":"भन्", "sk":"अर्भः । गर्भः ।" }, { "i":"3153", "sutra":"इणः कित्", "pratyay":"भन्", "sk":"इभः ।" }, { "i":"3154", "sutra":"असिसञ्जिभ्यां क्थिन्", "pratyay":"क्थिन्", "sk":"अस्थि । सक्थि ।" }, { "i":"3155", "sutra":"प्लुषिकुषिशुषिभ्यः क्सिः", "pratyay":"क्सि", "sk":"प्लुक्षिर्वह्निः । कुक्षिः । शुक्षिर्वातः ।" }, { "i":"3156", "sutra":"अशेर्नित्", "pratyay":"क्सि", "sk":"अक्षि ।" }, { "i":"3157", "sutra":"इषेः क्सुः", "pratyay":"क्सु", "sk":"इक्षुः ।" }, { "i":"3158", "sutra":"अवितॄस्तॄतन्त्रिभ्यः ईः", "pratyay":"ई", "sk":"अवीर्नारी रजस्वला । तरीर्नौः । स्तरीर्धूमः । तन्त्रीर्वीणादेर्गुणः ।" }, { "i":"3159", "sutra":"यापोः किद्द्वे च", "pratyay":"ई", "sk":"ययीरश्वः । पपीः स्यात्सोमसूर्ययोः ।" }, { "i":"3160", "sutra":"लक्षेर्मुट् च", "pratyay":"ई", "sk":"लक्ष्मीः" }, { "i":"4001", "sutra":"वातप्रमीः", "pratyay":"ई", "sk":"वातशब्दे उपपदे माधातोरीप्रत्ययः स च कित् । वातप्रमीः" }, { "i":"4002", "sutra":"ऋतन्यञ्जिवन्यञ्ज्यर्पिमद्यत्यङ्गिकुयुकृशिभ्यः कत्निच्यतुजलिजिष्ठुजिष्ठजिसन्स्यनिथिनुल्यसासानुकः", "pratyay":"कत्निच्, यतुच्, अलिच्, इष्ठुच्, इष्ठच्, इसन्, स्यन्, इथिन्, उलि, अस् , आस्, आनुक्", "sk":"द्वादशभ्यः क्रमात्स्युः । अर्तेः कत्निच् यण् । बद्धमुष्टिः करो रत्निः सोऽरत्निः प्रसृताङ्गुलिः । तनोतेर्यतुच् । तन्यतुर्वायू रात्रिश्च । अञ्जेरलिच् । अञ्जलिः । वनेरिष्ठुच् । वनिष्ठुः स्थविरान्त्रम् । अञ्जेरिष्ठच् । अञ्जिष्ठो भानुः । अर्पयतेरिसन् । अर्पिसोऽग्रमांसम् । मदेः स्यन् । मत्स्यः । अतेरिथिन् । अतिथिः । अङ्गेरुलिः । अङ्गुलिः । कौतेरसः । कवसः । अच इत्येके । कवचम् । यौतेरासः । यवासो दुरालभा । कृशेरानुक् । कृशानुः ।" }, { "i":"4003", "sutra":"श्रः करन्", "pratyay":"करन्", "sk":"उत्तरसूत्रे किद्ग्रहणादिह ककारस्य नेत्वम् । शर्करा ।" }, { "i":"4004", "sutra":"पुषः कित्", "pratyay":"करन्", "sk":"पुष्करम् ।" }, { "i":"4005", "sutra":"कलश्च", "pratyay":"कल", "sk":"पुष्कलम् ।" }, { "i":"4006", "sutra":"गमेरिनिः", "pratyay":"इनि", "sk":"गमिष्यतीति गमी ।" }, { "i":"4007", "sutra":"आङि णित्", "pratyay":"इनि", "sk":"आगामी ।" }, { "i":"4008", "sutra":"भुवश्च", "pratyay":"इनि", "sk":"भावी ।" }, { "i":"4009", "sutra":"प्रे स्थः", "pratyay":"इनि", "sk":"प्रस्थायी ।" }, { "i":"4010", "sutra":"परमे कित्", "pratyay":"इनि", "sk":"परमेष्ठी ।" }, { "i":"4011", "sutra":"मन्थः", "pratyay":"इनि", "sk":"मन्थतेरिनिः कित्स्यात् । कित्त्वान्नकारलोपः । मन्थाः मन्थानौ मन्थानः ।" }, { "i":"4012", "sutra":"पतस्थ च", "pratyay":"इनि", "sk":"पन्थाः । पन्थानौ ।" }, { "i":"4013", "sutra":"खजेराकः", "pratyay":"आक", "sk":"खजाकः पक्षी ।" }, { "i":"4014", "sutra":"बलाकादयश्च", "pratyay":"आक", "sk":"बलाका । शलाका । पताका ।" }, { "i":"4015", "sutra":"पिनाकादयश्च", "pratyay":"आक", "sk":"पातेरित्वम् नुम् च । क्लीबपुंसोः पिनाकः स्याच्छूलशङ्करधन्वनोः । तड आघाते । तडाकः ।" }, { "i":"4016", "sutra":"कषिदूषिभ्यामीकन्", "pratyay":"ईकन्", "sk":"कषिका पक्षिजातिः । दूषिका नेत्रयोर्मलम् ।" }, { "i":"4017", "sutra":"अनिहृषिभ्याम् किच्च", "pratyay":"ईकन्", "sk":"अनीकम् । हृषीकम् ।" }, { "i":"4018", "sutra":"चङ्कणः कङ्कणश्च", "pratyay":"ईकन्", "sk":"कण शब्दे । अस्माद्यङ्लुगन्तादीकन् धातोः कङ्कणादेशश्च । घन्टिकायां कङ्कणीका सैव प्रतिसरापि च ।" }, { "i":"4019", "sutra":"शॄपॄवृञां द्वेरुक् चाभ्यासश्च", "pratyay":"ईकन्", "sk":"शर्करीको हिंस्रः । पर्परीको दिवाकरः । वर्वरीकः कुटिलकेशः ।" }, { "i":"4020", "sutra":"पर्फरीकादयश्च", "pratyay":"ईकन्", "sk":"स्फुर स्फुरणे अस्मादीकन् धातोः पर्फरादेशः । पर्फरीकं किसलयम् । दर्दरीकं वादित्रम् । झर्झरीकं शरीरम् । तित्तिडीको वृषभेदः । <= चरेर्नुम् च => (गणसूत्रम् 199) । चञ्चरीको भ्रमरः । मर्मरीको हीनजनः । कर्करीका गलन्तिका । पुणतेः । पुन्डरीकं वादित्रम् । पुन्डरीको व्याघ्रोऽग्निर्दिग्गजश्च ।" }, { "i":"4021", "sutra":"ईषः किद्ध्रस्वश्च", "pratyay":"ईकन्", "sk":"इषीका शलाका ।" }, { "i":"4022", "sutra":"ऋजेश्च", "pratyay":"ईकन्", "sk":"ऋजिकः उपहतः ।" }, { "i":"4023", "sutra":"सर्तेर्नुम् च", "pratyay":"ईकन्", "sk":"सृणिका लाला ।" }, { "i":"4024", "sutra":"मृडः कीकच्कङ्कणौ", "pratyay":"कीकच्, कङ्कण", "sk":"मृडीको मृगः । मृडङ्कणः शिशुः ।" }, { "i":"4025", "sutra":"अलीकादयश्च", "pratyay":"कीकच्", "sk":"कीकजन्ता निपात्यन्ते । अल भूषणादौ । अलीकं मिथ्या । विपूर्वाद्व्यलीकं विप्रियं खेदश्च । वलीकं पटलप्रान्ते इत्यादि ।" }, { "i":"4026", "sutra":"कॄतॄभ्यामीषन्", "pratyay":"ईषन्", "sk":"करीषोऽस्त्री शुष्कगोमये । करीषः तरीता ।" }, { "i":"4027", "sutra":"शॄपॄभ्यां किच्च", "pratyay":"ईषन्", "sk":"शिरीषः । पुरीषम् ।" }, { "i":"4028", "sutra":"अर्जेर्ऋज च", "pratyay":"ईषन्", "sk":"ऋजीषं पिष्टपचनम् ।" }, { "i":"4029", "sutra":"अम्बरीषः", "pratyay":"ईषन्", "sk":"अयं निपात्यते । अबि शब्दे । अम्बरीषः पुमान् भाष्ट्रम् ।" }, { "i":"4030", "sutra":"कॄशॄपॄकटिपटिशौटिभ्य ईरन्", "pratyay":"ईरन्", "sk":"करीरो वंशाङ्कुरः । शरीरम् । परीरम् । फलम् । कटीरः कन्दरो जघनप्रदेशश्च । पटीरश्चन्दनः कन्टकः कामश्च । शौटीरस्त्यागिवीरयोः ब्राह्म्णादित्वात् ष्यञ् । शौटीर्यम् ।" }, { "i":"4031", "sutra":"वशेः कित्", "pratyay":"ईरन्", "sk":"वशीरम् ।" }, { "i":"4032", "sutra":"कशेर्मुट् च", "pratyay":"ईरन्", "sk":"काश्मीरो देशः ।" }, { "i":"4033", "sutra":"कृञ उच्च", "pratyay":"ईरन्", "sk":"कुरीरं मैथुनम् ।" }, { "i":"4034", "sutra":"घसेः किश्च", "pratyay":"ईरन्", "sk":"क्षीरम् ।" }, { "i":"4035", "sutra":"गभीरगम्भीरौ", "pratyay":"ईरन्", "sk":"गभेर्भः पक्षे नुम् च ।" }, { "i":"4036", "sutra":"विषा विहा", "pratyay":"आ", "sk":"स्यतेर्जहातेश्च विपूर्वाभ्यामाप्रत्ययः । विषा बुद्धिः । विहा स्वर्गः । अव्यये इमे ।" }, { "i":"4037", "sutra":"पच एलिमच्", "pratyay":"एलिमच्", "sk":"पचेलिमो वह्निरव्योः ।" }, { "i":"4038", "sutra":"शीङो धुक्लक्वलञ्वालनः", "pratyay":"धुक्, लक्, वलञ्, वालन्", "sk":"चत्वारः प्रत्ययाः स्युः । शीधु मद्यम् । शीलं स्वभावः । शैवलः शेवालम् । बाहुलकाद्वस्य पोऽपि । शेवालं शैवलो न स्त्री शेपालो जलनीलिका ।" }, { "i":"4039", "sutra":"मॄकणिभ्यामूकोकणौ", "pratyay":"ऊक, ऊकण्", "sk":"मरूंको मृगः । काणूकः काकः ।" }, { "i":"4040", "sutra":"वलेरूकः", "pratyay":"ऊक", "sk":"वलूकः पक्षी उत्पलमूलं च ।" }, { "i":"4041", "sutra":"उलूकादयश्च", "pratyay":"ऊक", "sk":"वलेः संप्रसारणमूकश्च । उलूकाविन्द्रपेचकौ । वावदूको वक्ता । भल्लूकः । <= शमेर्बुक् च=> (गणसूत्र 200) । शम्बूको जलशुक्तिः ।" }, { "i":"4042", "sutra":"शलिमन्डिभ्यामूकण्", "pratyay":"ऊकण्", "sk":"शालूकं कन्दविशेषः । मण्डूकः ।" }, { "i":"4043", "sutra":"नियो मिः", "pratyay":"मि", "sk":"नेमिः ।" }, { "i":"4044", "sutra":"अर्तेरूच्च", "pratyay":"मि", "sk":"ऊर्मिः ।" }, { "i":"4045", "sutra":"भुवः कित्", "pratyay":"मि", "sk":"भूमिः ।" }, { "i":"4046", "sutra":"अश्नोते रश् च", "pratyay":"मि", "sk":"रश्मिः किरणो रज्जुश्च ।" }, { "i":"4047", "sutra":"दल्मिः", "pratyay":"मि", "sk":"दल विशरणे । दल्मिरिन्द्रायुधम् ।" }, { "i":"4048", "sutra":"वीज्याज्यरिभ्यो निः", "pratyay":"नि", "sk":"बाहुलकाण्णत्वम् । वेणिः स्यात्केशविन्यासः प्रवेणी च स्त्रियामुभे । ज्यानिः । जूर्णिः ।" }, { "i":"4049", "sutra":"सृवृषिभ्यां कित्", "pratyay":"नि", "sk":"सृणिरङ्कुशः । वृष्णिः क्षत्रियमेषयोः ।" }, { "i":"4050", "sutra":"अङ्गेर्नलोपश्च", "pratyay":"नि", "sk":"अग्निः ।" }, { "i":"4051", "sutra":"वहिश्रिश्रुयुद्रुग्लाहात्वरिभ्यो नित्", "pratyay":"नि", "sk":"वह्निः । श्रेणिः । श्रोणिः । योनिः । द्रोणिः । ग्लानिः । हानिः । तूर्णिः । बाहुलकान्म्लानिः ।" }, { "i":"4052", "sutra":"घृणिपृश्निपार्ष्णिचूर्णिभूर्णि", "pratyay":"नि", "sk":"एते पञ्च निपात्यन्ते । घृणिः किरणः । स्पृशतेः सलोपः पृश्निरल्पशरीरः । पृषेर्वृद्धिश्च । पार्ष्णिः पादतलम् । चरेरुपधाया उत्वम् । चूर्णिः कपर्दकशतम् । बिभर्तेरुत्वम् । भूर्णिर्धरणी ।" }, { "i":"4053", "sutra":"वृदृभ्यां विन्", "pratyay":"विन्", "sk":"वर्विर्घस्मरः । दर्विः ।" }, { "i":"4054", "sutra":"जॄशॄस्तॄजागृभ्यः क्विन्", "pratyay":"क्विन्", "sk":"जीर्विः पर्शुः । शीर्विर्हिंस्रः । स्तीर्विरध्वर्युः । जागृविर्नृपः ।" }, { "i":"4055", "sutra":"दिवो द्वे दीर्घश्चाभ्यासस्य", "pratyay":"क्विन्", "sk":"दीदिविः स्वर्गमोक्षयोः ।" }, { "i":"4056", "sutra":"कृविघृष्विछविस्थविकिकीदिवि", "pratyay":"क्विन्", "sk":"कृविस्तन्तुवायद्रव्यम् । घृष्विर्वराहः । छास्थोर्ह्रस्वत्वं च । छविर्दीप्तिः । स्थविस्तन्तुवायः । दीव्यतेः किकीपूर्वात् किकीदिविश्चाषः । बाहुलकाद्ध्रस्वदीर्घयोर्विनिमयः । चाषेण किकीदीविना ।" }, { "i":"4057", "sutra":"पातेर्डतिः", "pratyay":"डति", "sk":"पतिः ।" }, { "i":"4058", "sutra":"शकेर्ऋतिन्", "pratyay":"ऋतिन्", "sk":"शकृत् ।" }, { "i":"4059", "sutra":"अमेरतिः", "pratyay":"अति", "sk":"अमतिः कालः ।" }, { "i":"4060", "sutra":"वहिवस्यर्तिभ्यश्चित्", "pratyay":"अति", "sk":"वहतिः पवनः । वसतिर्गृहयामिन्योः । अरतिः क्रोधः ।" }, { "i":"4061", "sutra":"अञ्चेः को वा", "pratyay":"अति", "sk":"अङ्कतिः । अञ्चतिर्वातः ।" }, { "i":"4062", "sutra":"हन्तेरंह च", "pratyay":"अति", "sk":"हन्तेरतिः स्यादंहादेशश्च धातोः । हन्ति दुरितमनया अंहतिर्दानम् प्रादेशनं निर्वपणमपवर्जनमंहतिः ।" }, { "i":"4063", "sutra":"रमेर्नित्", "pratyay":"अति", "sk":"रमतिः कालकामयोः ।" }, { "i":"4064", "sutra":"सूङः क्रिः", "pratyay":"क्रि", "sk":"सूरिः ।" }, { "i":"4065", "sutra":"अदिशदिभूशुभिभ्यः क्रिन्", "pratyay":"क्रिन्", "sk":"अद्रिः । शद्रिः । शर्करा । भूरि प्रचुरम् । शुभ्रिर्ब्रह्मा ।" }, { "i":"4066", "sutra":"वङ्क्र्यादयश्च", "pratyay":"क्रिन्", "sk":"क्रिन्नन्ता निपात्यन्ते । वङ्क्रिर्वाद्यभेदो गृहदारु पार्श्वास्थि च । वप्रिः क्षेत्रम् । अंह्रिरङ्घ्रिश्च चरणः । तदिः सौत्रो धातुः । तन्द्रिर्मोहः बाहुलकाद्गुणः । भेरिः ।" }, { "i":"4067", "sutra":"राशदिभ्यां त्रिप्", "pratyay":"त्रिप्", "sk":"रात्रिः शन्त्रिः । कुञ्जरः ।" }, { "i":"4068", "sutra":"अदेस्त्रिनिश्च", "pratyay":"त्रिन्", "sk":"चात्त्रिप् । अन्त्री । अन्त्रिणौ । अन्त्रिणः । अन्त्रिः । अन्त्री । अन्त्रयः ।" }, { "i":"4069", "sutra":"पतेरत्रिन्", "pratyay":"अत्रिन्", "sk":"पतत्रिः पक्षी ।" }, { "i":"4070", "sutra":"मृकणिभ्यामीचिः", "pratyay":"ईचि", "sk":"मरीचिः कणीचिः पल्लवो निनादश्च ।" }, { "i":"4071", "sutra":"श्वयतेश्चित्", "pratyay":"ईचि", "sk":"श्वयीचिर्व्याधिः ।" }, { "i":"4072", "sutra":"वेञो डिच्च", "pratyay":"ईचि", "sk":"वीचिस्तरङ्गः । नञ्समासे अवीचिर्नरकभेदः ।" }, { "i":"4073", "sutra":"ऋहनिभ्यामूषन्", "pratyay":"ऊषन्", "sk":"अरूषः सूर्यः । हनूषो राक्षसः ।" }, { "i":"4074", "sutra":"पुरः कुषन्", "pratyay":"कुषन्", "sk":"पुर अग्रगमने । पुरुषः । [[6.3.137]] <<अन्येषामपि –>> इति दीर्घः । पूरुषः ।" }, { "i":"4075", "sutra":"पॄनहिकलिभ्य उषच्", "pratyay":"उषच्", "sk":"परुषम् । नहुषः । कलुषम् ।" }, { "i":"4076", "sutra":"पीयेरूषन्", "pratyay":"ऊषन्", "sk":"पीय इति सौत्रो धातुः । पीयूषम् । बाहुलकाद्गुणे पेयूषोऽभिनवं पयः ।" }, { "i":"4077", "sutra":"मस्जेर्नुम् च", "pratyay":"ऊषन्", "sk":"मञ्जूषा ।" }, { "i":"4078", "sutra":"गडेश्च", "pratyay":"ऊषन्", "sk":"गण्डूषः । गण्डूषा ।" }, { "i":"4079", "sutra":"अर्तेररुः", "pratyay":"अरु", "sk":"अररुः शत्रुः । अररू । अररवः ।" }, { "i":"4080", "sutra":"कुटः किच्च", "pratyay":"अरु", "sk":"कुटरुर्वस्त्रगृहम् । कित्वप्रयोजनं चिन्त्यम् ।" }, { "i":"4081", "sutra":"शकादिभ्योऽटन्", "pratyay":"अटन्", "sk":"शकटोऽस्त्रियाम् । शकिर्गत्यर्थः । कङ्कटः सन्नाहः । देवटः शिल्पी । करट इत्यादि ।" }, { "i":"4082", "sutra":"कृकदिकडिकटिभ्योऽम्बच्", "pratyay":"अबच्", "sk":"करम्बं व्यामिश्रम् । कदिकडी सौत्रौ । कदम्बो वृक्षभेदः । कडम्बोऽग्रभागः । कटम्बो वादित्रम् ।" }, { "i":"4083", "sutra":"कदेर्णित्पक्षिणि", "pratyay":"अबच्", "sk":"कादम्बः कलहंसः ।" }, { "i":"4084", "sutra":"कलिकर्द्योरमः", "pratyay":"अम", "sk":"कलमः । कर्दमः ।" }, { "i":"4085", "sutra":"कुणिपुल्योः किन्दच्", "pratyay":"किन्दच्", "sk":"कुण शब्दोपकरणयोः । कुणिन्दः शब्दः । पुलिन्दो जातिविशेषः ।" }, { "i":"4086", "sutra":"कुपेर्वा वश्च", "pratyay":"किन्दच्", "sk":"कुपिन्दकुविन्दौ तन्तुवाये ।" }, { "i":"4087", "sutra":"नौ षञ्जेर्घथिन्", "pratyay":"घथिन्", "sk":"निषङ्गथिरालिङ्गकः ।" }, { "i":"4088", "sutra":"उद्यर्तेश्चित्", "pratyay":"घथिन्", "sk":"उदरथिः समुद्रः ।" }, { "i":"4089", "sutra":"सर्तेर्णिच्च", "pratyay":"घथिन्", "sk":"सारथिः ।" }, { "i":"4090", "sutra":"खर्जिपिञ्जादिभ्य ऊरोलचौ", "pratyay":"ऊर्, उलच्", "sk":"खर्जूरः । कर्पूरः । वल्लूरं शुष्कमांसम् । पिञ्जूलं कुशवर्तिः । <= लङ्गेर्वृद्धिश्च => (गणसूत्रम् 201) । लाङ्गूलम् । कुसूलः । <= तमेर्बुग्वृद्धिश्च => (गणसूत्रम् 202) । ताम्बूलम् । <= शृणातेर्दुग्वृद्धिश्च => (गणसूत्रम् 203) । शार्दूलः । <= दुक्वोः कुक्च => (गणसूत्रम् 204) । दुकूलम् । कुकूलम् ।" }, { "i":"4091", "sutra":"कुवश्चट् दीर्घश्च", "pratyay":"चट्", "sk":"कूची चित्रलेखनिका ।" }, { "i":"4092", "sutra":"समीणः", "pratyay":"चट्", "sk":"समीचः समुद्रः । समीची हरिणी ।" }, { "i":"4093", "sutra":"सिवेष्टेरू च", "pratyay":"चट्", "sk":"सूचो दर्भाङ्कुरः । सूची ।" }, { "i":"4094", "sutra":"शमेर्बन्", "pratyay":"बन्", "sk":"शम्बो मुसलम् ।" }, { "i":"4095", "sutra":"उल्बादयश्च", "pratyay":"बन्", "sk":"बन्नन्ता निपात्यन्ते । उच समवाये । चस्य लत्वं गुणाभावश्च । उल्बो गर्भाशयः । शुल्बं ताम्रम् । बिम्बम् ।" }, { "i":"4096", "sutra":"स्थः स्तोऽम्बजबकौ", "pratyay":"अम्बज्, अबक", "sk":"तिष्ठतेरम्बच् अबक एतौ स्तस्तादेशश्च । स्तम्बो गुच्छस्तृणादिनः । स्तबकः पुष्पगुच्छः ।" }, { "i":"4097", "sutra":"शाशपिभ्यां ददनौ", "pratyay":"द, दन्", "sk":"शादो जम्बालशष्पयोः ।" }, { "i":"4098", "sutra":"अब्दादयश्च", "pratyay":"द, दन्", "sk":"शब्दः । अवतीत्यशब्दः । <= कौतेर्नुम् च => (गणसूत्रम् 205) । कुन्दः ।" }, { "i":"4099", "sutra":"वलिमलितनिभ्यः कयन्", "pratyay":"कयन्", "sk":"वलयम् । मलयः । तनयः ।" }, { "i":"4100", "sutra":"वृह्रोः षुग्दुकौ च", "pratyay":"कयन्", "sk":"वृषयः आश्रयः । हृदयम् ।" }, { "i":"4101", "sutra":"मिपीभ्यां रुः", "pratyay":"रु", "sk":"मेरुः । पेरुः सूर्यः । बाहुलकात् पिबतेरपि । संवत्सरवपुः पारुः पेरुर्वासीर्दिनप्रणीः ।" }, { "i":"4102", "sutra":"जत्र्वादयश्च", "pratyay":"रु", "sk":"जत्रु जत्रुणी । अश्रु । अश्रुणी ।" }, { "i":"4103", "sutra":"रुशातिभ्यां क्रुन्", "pratyay":"क्रुन्", "sk":"रुरुर्मृगभेदः । शातयतीति शत्रुः । प्रज्ञादौ पाठाद्ध्रस्वत्वम् ।" }, { "i":"4104", "sutra":"जनिदाच्युसृवृमदिषमिनमिभृञ्भ्य इत्वन्त्वन्त्नण्क्निन्शक्स्यढडटाटचः", "pratyay":"इत्वन्, त्वन्, त्नण्, क्निन्, शक्, स्य, ढ, डट्, आटच्", "sk":"जनित्वौ मातापितरौ । दात्वो दाता । च्यौत्नो गन्ता अण्डजः क्षीणपुण्यश्च । सृणिरङ्कुरशश्चन्द्रः सूर्यो वायुश्च । वृशः आर्द्रकं मूलकं च । मत्स्यः । षण्ढः । डित्वाट्टिलोपः । नमतीति नटः शैलूषः । बिभर्ति भरटः कुलालो भृतकश्च ।" }, { "i":"4105", "sutra":"अन्येभ्योऽपि दृश्यन्ते", "pratyay":"इत्वन्, त्वन्, त्नण्, क्निन्, शक्, स्य, ढ, डट्, आटच्", "sk":"पेत्वममृतम् भृशम् ।" }, { "i":"4106", "sutra":"कुसेरुम्भोमेदेताः", "pratyay":"उम्भ, उम, ईद, इत", "sk":"कुसुम्भम् । कुसुमम् । कुसीदम् । कुसितो जनपदः ।" }, { "i":"4107", "sutra":"सानसिवर्णसिपणसितण्डुलाङ्कुशचषालेल्वलपल्वलधिष्ण्यशल्याः", "pratyay":"असि", "sk":"सनोतेरसिप्रत्यय उपधावृद्धिः । सानसिर्हिरण्यम् । वृञो नुक् च । वर्णसिर्जलम् । पॄ पर्णसिर्जलग्रहणम् । तड आघाते तण्डुलाः । अकि लक्षणे उशच् । अङ्कुशः । चषेरालच् । चषालो यूपकटकः । इल्वलो दैत्यभेदः । पल्वलम् । ञिधृषा । ऋकारश्च इकारः । धिष्ण्यम् । शलेर्यः शल्यम् । वा पुंसि शल्यं शङ्कुर्ना ।" }, { "i":"4108", "sutra":"मूशक्यबिभ्यः क्लः", "pratyay":"क्ल", "sk":"मूलम् । शक्लः प्रियंवदे । अम्ब्लो रसः । बाहुलकादमेः । अम्लः ।" }, { "i":"4109", "sutra":"माछाससिभ्यो यः", "pratyay":"य", "sk":"माया । छाया । सस्यम् । बाहुलकात्सुनोतेः । सव्यं दक्षिणवामयोः ।" }, { "i":"4110", "sutra":"जनेर्यक्", "pratyay":"यक्", "sk":"[[6.4.43]] <<ये विभाषा>> । जन्यं युद्धम् । जाया भार्या ।" }, { "i":"4111", "sutra":"अघ्न्यादयश्च", "pratyay":"यक्", "sk":"यगन्ता निपात्यन्ते । हन्तेर्युक् अडागम उपधालोपश्च । अघ्न्या माहेयी । अघ्न्यः प्रजापतिः । कनी दीप्तौ । कन्या । बवयोरैक्यम् । वन्ध्याः ।" }, { "i":"4112", "sutra":"स्नामदिपद्यर्तिपॄशकिभ्यो वनिप्", "pratyay":"वनिप्", "sk":"स्नावा रसिकः । मद्वा शिवः । पद्वा पन्थाः । अर्वा तुरङ्गगर्ह्ययोः । पर्वा ग्रन्थिः प्रस्तावश्च । शक्का हस्ती । ङीब्रौ । शक्करी अङ्गुलिः ।" }, { "i":"4113", "sutra":"शीङ्क्रुशिरुहिजिक्षिसृधृभ्यः क्वनिप्", "pratyay":"क्वनिप्", "sk":"शीवा अजगरः । क्रुश्वा सृगालः । रुह्वा वृक्षः । जित्वा जेता । क्षित्वा वायुः । सृत्वा प्रजापतिः । धृत्वा विष्णुः ।" }, { "i":"4114", "sutra":"ध्याप्योः संप्रसारणं च", "pratyay":"क्वनिप्", "sk":"धीवा कर्मकरः । पीवा स्थूलः ।" }, { "i":"4115", "sutra":"अदेर्ध च", "pratyay":"क्वनिप्", "sk":"अध्वा ।" }, { "i":"4116", "sutra":"प्र ईरशदोस्तुट् च", "pratyay":"क्वनिप्", "sk":"प्रेर्त्वा प्रशत्वा च सागरः । प्रेत्वरी प्रशत्वरी च नदी ।" }, { "i":"4117", "sutra":"सर्वधातुभ्य इन्", "pratyay":"इन्", "sk":"पचिरग्निः । तुडिः । तुण्डिः । वलिः । वटिः । यजिः । देवयजिः । काशत इति काशिः । यतिः । मल्लिः । केलिः । मसी परिणामे । मसिः । बाहुलकाद्गुणः । कोटिः । हेलिः । बोधिः । नन्दिः । कलिः ।" }, { "i":"4118", "sutra":"हृपिषिरुहिवृतिविदिछिदिकीर्तिभ्यश्च", "pratyay":"इन्", "sk":"हरिर्विष्णावहाविन्द्रे भेके सिंहे हये रवौ । चन्द्रे कीले प्लवङ्गे च यमे वाते च कीर्तितः । पेषिर्वज्रम् । रोहिर्व्रती । वर्तिः । वेदिः । छदिश्छेत्ता । कीर्तिः ।" }, { "i":"4119", "sutra":"इगुपधात्कित्", "pratyay":"इन्", "sk":"कृषिः । ऋषिः । शुचिः । लिपिः । बाहुलकाद्बत्वे लिबिः । तूल निष्कर्षे । तूलिः । तूली कूर्चिका ।" }, { "i":"4120", "sutra":"भ्रमेः संप्रसारणं च", "pratyay":"इन्", "sk":"भृमिर्वातः । बाहुलकाद्भ्रमिः ।" }, { "i":"4121", "sutra":"क्रमितमिशतिस्तम्भामत इच्च", "pratyay":"इन्", "sk":"क्रिमिः । संप्रसारणानुवृत्तेः कृमिरपि । तिमिर्मत्स्यभेदः । शितिर्मेचकशुक्लयोः । स्तिम्भिः समुद्रः ।" }, { "i":"4122", "sutra":"मनेरुच्च", "pratyay":"इन्", "sk":"मुनिः ।" }, { "i":"4123", "sutra":"वर्णेर्बलिश्चाहिरण्ये", "pratyay":"इन्", "sk":"वर्णिः सौत्रः । अस्य बलिरादेशः । करोपहारयोः पुंसि बलिः प्राण्यङ्गजे स्त्रियाम् । हिरण्ये तु वर्णिः सुवर्णम् ।" }, { "i":"4124", "sutra":"वसिवपियजिराजिव्रजिसदिहनिनाशिवाशिवारिभ्य इञ्", "pratyay":"इञ्", "sk":"वासिश्छेदनवस्तुनि । वापिः । वापी । याजिर्यष्टा । राजिः । राजी । व्राजिर्वातालिः । सादिः सारथिः । निघातिर्लोहघातिनी । वाशिरग्निः । वादिर्विद्वान् । वारिर्गजबन्धनी । जले तु क्लीबम् । बाहुलकाद्वारिः पथिकसंहतौ ।" }, { "i":"4125", "sutra":"नहो भश्च", "pratyay":"इञ्", "sk":"नाभिः स्यात्क्षत्रिये पुंसि । प्राण्यङ्गे तु स्त्रियाम् । पुंस्यपीति केचित् ।" }, { "i":"4126", "sutra":"कृषेर्वृद्धिश्छन्दसि", "pratyay":"इञ्", "sk":"कार्षिः ।" }, { "i":"4127", "sutra":"श्रः शकुनौ", "pratyay":"इञ्", "sk":"शारिः । शारिका ।" }, { "i":"4128", "sutra":"कृञ उदीचां कारुषु", "pratyay":"इञ्", "sk":"कारिः शिल्पी ।" }, { "i":"4129", "sutra":"जनिघसिभ्यामिण्", "pratyay":"इण्", "sk":"जनिर्जननम् । घासिर्भक्ष्यमग्निश्च ।" }, { "i":"4130", "sutra":"अज्यतिभ्यां च", "pratyay":"इण्", "sk":"आजिः संग्रामः । आतिः पक्षी ।" }, { "i":"4131", "sutra":"पादे च", "pratyay":"इण्", "sk":"पदाजिः । पदातिः ।" }, { "i":"4132", "sutra":"अशिपणाय्यो रुडायलुकौ च", "pratyay":"इण्", "sk":"अशे रुट् । राशिः पुञ्जः । पणायतेरायलुक् । पाणिः करः ।" }, { "i":"4133", "sutra":"वातेर्डिच्च", "pratyay":"इण्", "sk":"विः पक्षी । स्त्रियां वीत्यपि ।" }, { "i":"4134", "sutra":"प्रे हरतेः कूपे", "pratyay":"इण्", "sk":"प्रहिः कूपः ।" }, { "i":"4135", "sutra":"नौ व्यो यलोपः पूर्वस्य च दीर्घः", "pratyay":"इण्", "sk":"व्येञ इण् स्याद् यलोपश्च नेर्दीर्घः । नीविः । नीवी वस्त्रग्रन्थौ मूलधने च ।" }, { "i":"4136", "sutra":"समाने ख्यः स चोदात्तः", "pratyay":"इण्", "sk":"समानशब्दे उपपदे ख्या इत्यस्मादिण् स्यात्स च डिच्च यलोपश्च समानस्य तूदात्तः स इत्यादेशश्च । समानं ख्यायते जनैरिति सखा ।" }, { "i":"4137", "sutra":"आङि श्रिहनिभ्यां ह्रस्वश्च", "pratyay":"इण्", "sk":"इण् स्यात्स च डित् आङो ह्रस्वश्च । स्त्रियः पाल्यश्रिकोटयः । सर्पे वृत्रासुरेऽप्यहिः ।" }, { "i":"4138", "sutra":"अच इः", "pratyay":"इ", "sk":"रविः । पविः । तरिः । कविः । अरिः । अलिः ।" }, { "i":"4139", "sutra":"खनिकष्यज्यसिवसिवनिसनिध्वनिग्रन्थिचरिभ्यश्च", "pratyay":"इ", "sk":"खनिः । कषिर्हिंस्रः । अजिः । असिः । वसिर्वस्त्रम् । वनिरग्निः । सनिर्भक्तिर्दानं च । ध्वनिः । ग्रन्थिः । चरिः पशुः ।" }, { "i":"4140", "sutra":"वृतेश्छन्दसि", "pratyay":"इ", "sk":"वर्तिः ।" }, { "i":"4141", "sutra":"भुजेः किच्च", "pratyay":"इ", "sk":"भुजिः ।" }, { "i":"4142", "sutra":"कॄगॄशॄपॄकुटिभिदिछिदिभ्यश्च", "pratyay":"इ", "sk":"इः कित्स्यात् । किरिर्वराहः । गिरिर्गोत्राक्षिरोगयोः । गिरिणा काणः गिरिकाणः । शिरिः शलभो हन्ता च । पुरिर्नगरं राजा नदी च । कुटिः शाला शरीरं च । भिदिर्वज्रम् । छिदिः परशुः ।" }, { "i":"4143", "sutra":"कुडिकम्प्योर्नलोपश्च", "pratyay":"इ", "sk":"कुडि दाहे । कुडिर्देहः । कपिः ।" }, { "i":"4144", "sutra":"सर्वधातुभ्यो मनिन्", "pratyay":"मनिन्", "sk":"क्रियत इति कर्म । चर्म । भस्म । जन्म । शर्म । स्थाम बलम् । [[6.4.97]] <<इस्मन्...>> इति ह्रस्वः । छद्म । सुत्रामा ।" }, { "i":"4145", "sutra":"बृंहेर्नोच्च", "pratyay":"मनिन्", "sk":"नकारस्याकारः । ब्रह्म तत्वं तपो वेदो ब्रह्मा विप्रः प्रजापतिः ।" }, { "i":"4146", "sutra":"अशिशकिभ्यां छन्दसि", "pratyay":"मनिन्", "sk":"अश्मा । शक्मा ।" }, { "i":"4147", "sutra":"हृभृधृसृस्तृशॄभ्य इमनिच्", "pratyay":"इमनिच्", "sk":"हरिमा कालः । भरिमा कुटुम्बम् । धरिमा रूपम् । सरिमा वायुः । स्तरिमा तल्पम् । शरिमा प्रसवः ।" }, { "i":"4148", "sutra":"जनिमृङ्भ्यामिमनिन्", "pratyay":"इमनिन्", "sk":"जनिमा जन्म । मरिमा मृत्युः ।" }, { "i":"4149", "sutra":"वेञः सर्वत्र", "pratyay":"इमनिन्", "sk":"छन्दसि भाषायां चेत्यर्थः । वेमा तन्तुवायदण्डः । अर्धर्चादिः । सामनी वेमनी इति वृत्तिः ।" }, { "i":"4150", "sutra":"नामन् सीमन् व्योमन् रोमन् लोमन् पाप्मन् ध्यामन्", "pratyay":"मनिन्", "sk":"सप्त अमी निपात्यन्ते । म्नायतेऽनेनेति नाम । सिनोतेर्दीर्घः । सीमा सीमानौ । सीमानः । पक्षे डाप् । सीमे सीमाः । व्येञोऽन्त्यस्योत्वं गुणः । व्योम । रौतेः । रोम । लोम । पाप्मा पापम् । ध्याम परिमाणं तेजश्च ।" }, { "i":"4151", "sutra":"मिथुने मनिः", "pratyay":"मनि", "sk":"उपसर्गक्रियासंबन्धो मिथुनम् । स्वरार्थमिदम् । सुशर्मा ।" }, { "i":"4152", "sutra":"सातिभ्यां मनिन्मनिणौ", "pratyay":"मनिन्, मनिण्", "sk":"स्यति । साम । सामनी । आत्मा ।" }, { "i":"4153", "sutra":"हनिमशिभ्यां सिकन्", "pratyay":"सिकन्", "sk":"हंसिका हंसयोषिति । मक्षिका ।" }, { "i":"4154", "sutra":"कोररन्", "pratyay":"अरन्", "sk":"कवरः ।" }, { "i":"4155", "sutra":"गिर उडच्", "pratyay":"उडच्", "sk":"गरुडः ।" }, { "i":"4156", "sutra":"इन्देः कमिन्नलोपश्च", "pratyay":"कमिन्", "sk":"इदम् ।" }, { "i":"4157", "sutra":"कायतेर्डिमिः", "pratyay":"डिमि", "sk":"किम् ।" }, { "i":"4158", "sutra":"सर्वधातुभ्यः ष्ट्रन्", "pratyay":"ष्ट्रन्", "sk":"वस्त्रम् । अस्त्रम् । शस्त्रम् । [[6.4.97]] <<इस्मन्...>> इति ह्रस्वत्वम् । छादनाच्छत्रम् ।" }, { "i":"4159", "sutra":"भ्रस्जिगमिनमिहनिविश्यशां वृद्धिश्च", "pratyay":"ष्ट्रन्", "sk":"भ्राष्ट्रः । गात्रं शकटम् । नान्त्रं स्तोत्रम् । हान्त्रं मरणम् । वैष्ट्रं विष्टपम् । आष्ट्रमाकाशम् ।" }, { "i":"4160", "sutra":"दिवेर्द् युच्च", "pratyay":"ष्ट्रन्", "sk":"द्यौत्रम् ।" }, { "i":"4161", "sutra":"उषिखनिभ्यां कित्", "pratyay":"ष्ट्रन्", "sk":"उष्ट्रः । खात्रं खनित्रं जलाधारश्च ।" }, { "i":"4162", "sutra":"सिविमुच्योष्टेरू च", "pratyay":"ष्ट्रन्", "sk":"सूत्रम् । मूत्रम् ।" }, { "i":"4163", "sutra":"अमिचिमिदिशसिभ्यः क्त्रः", "pratyay":"क्त्र", "sk":"आन्त्रम् । दित्रम् । मित्रम् । शस्त्रम् ।" }, { "i":"4164", "sutra":"पुवो ह्रस्वश्च", "pratyay":"क्त्र", "sk":"पुत्रः ।" }, { "i":"4165", "sutra":"स्त्यायतेर्डट्", "pratyay":"डट्", "sk":"स्त्री ।" }, { "i":"4166", "sutra":"गुधृवीपचिवचियमिसदिक्षदिभ्यस्त्रः", "pratyay":"त्र", "sk":"गोत्रं स्यान्नामवंशयोः । गोत्रा प्रुथिवी । धर्त्रं गृहम् । वेत्रम् । पक्त्रम् । वक्त्रम् । यन्त्रम् । सन्त्रम् । क्षन्त्रम् ।" }, { "i":"4167", "sutra":"हुयामाश्रुभसिभ्यस्त्रन्", "pratyay":"त्रन्", "sk":"होत्रम् । यात्रा । मात्रा । श्रोत्रम् । भस्त्रा ।" }, { "i":"4168", "sutra":"गमेरा च", "pratyay":"त्रन्", "sk":"गात्रम् ।" }, { "i":"4169", "sutra":"दादिभ्यच्छन्दसि", "pratyay":"त्रन्", "sk":"दात्रम् । पात्रम् ।" }, { "i":"4170", "sutra":"भूवादिगॄभ्यो णित्रन्", "pratyay":"णित्रन्", "sk":"भावित्रम् । वादित्रम् । गादित्रमोदनम् ।" }, { "i":"4171", "sutra":"चरेर्वृत्ते", "pratyay":"णित्रन्", "sk":"चारित्रम् ।" }, { "i":"4172", "sutra":"अशित्रादिभ्य इत्रोत्रौ", "pratyay":"इत्र, उत्र", "sk":"अशित्रम् । वहित्रम् । धरित्री मही । त्रैङ् एवमादिभ्य उत्रः । तोत्रं प्रहरणम् । वृञ् वरुत्रं प्रावरणम् ।" }, { "i":"4173", "sutra":"अमेर्द्विषति चित्", "pratyay":"इत्र", "sk":"अमित्रः शत्रुः ।" }, { "i":"4174", "sutra":"आः समिण्निकशिभ्याम्", "pratyay":"आ", "sk":"संपूर्वादिणो निपूर्वात्कषेश्च आ स्यात् । स्वरादित्वादव्ययत्वम् । समया । निकषा ।" }, { "i":"4175", "sutra":"चित्तेः कणः कश्च", "pratyay":"कण", "sk":"बाहुलकादगुणः । चिक्कणं मसृणं स्निग्धम् ।" }, { "i":"4176", "sutra":"सूचेः स्मन्", "pratyay":"स्मन्", "sk":"सूक्ष्मम् ।" }, { "i":"4177", "sutra":"पातेर्डुम्सुन्", "pratyay":"डुम्सुन्", "sk":"पुमान् ।" }, { "i":"4178", "sutra":"रुचिभुजिभ्यां किष्यन्", "pratyay":"किष्यन्", "sk":"रुचिष्यमिष्टम् । भुजिष्यो दासः ।" }, { "i":"4179", "sutra":"वसेस्तिः", "pratyay":"ति", "sk":"वस्तिर्नाभेरधो द्वयोः । वस्तयः स्युर्दशासूत्रे । बाहुलकात् शासः शास्तिः राजदण्डः । विन्ध्याख्यमगमस्यतीत्यगस्तिः । शकन्ध्वादिः ।" }, { "i":"4180", "sutra":"सावसेः", "pratyay":"ति", "sk":"स्वस्ति । स्वरादिपाठादव्ययत्वम् ।" }, { "i":"4181", "sutra":"वौ तसेः", "pratyay":"ति", "sk":"वितस्तिः ।" }, { "i":"4182", "sutra":"पदिप्रथिभ्यां नित्", "pratyay":"ति", "sk":"पत्तिः । प्रथितिः ।" }, { "i":"4183", "sutra":"तितुत्रेष्वग्रहादीनामितीट् दृणातेर्ह्रस्वश्च", "pratyay":"ति", "sk":"दृतिः ।" }, { "i":"4184", "sutra":"कॄतॄकृपिभ्यः कीटन्", "pratyay":"कीटन्", "sk":"किरीटं शिरोवेष्टनम् । तिरीटं सुवर्णम् । कृपीटं कुक्षिवारिणोः ।" }, { "i":"4185", "sutra":"रुचिवचिकुचिकुटिभ्यः कितच्", "pratyay":"कितच्", "sk":"रुचितमिष्टम् । उचितम् । कुचितं परिमितम् । कुटितं कुटिलम् ।" }, { "i":"4186", "sutra":"कुटिकुषिभ्यां क्मलन्", "pratyay":"क्मलन्", "sk":"कुड्मलम् । कुष्मलम् ।" }, { "i":"4187", "sutra":"कुषेर्लश्च", "pratyay":"क्मलन्", "sk":"कुल्मलं पापम् ।" }, { "i":"4188", "sutra":"सर्वधातुभ्योऽसुन्", "pratyay":"असुन्", "sk":"चेतः । सरः । पयः । सदः ।" }, { "i":"4189", "sutra":"रपेरत एच्च", "pratyay":"असुन्", "sk":"रेपोऽवद्यम् ।" }, { "i":"4190", "sutra":"अशेर्देवने युट् च", "pratyay":"असुन्", "sk":"देवने स्तुतौ । यशः ।" }, { "i":"4191", "sutra":"उब्जेर्बले बलोपश्च", "pratyay":"असुन्", "sk":"ओजः ।" }, { "i":"4192", "sutra":"श्वेः सम्प्रसारणं च", "pratyay":"असुन्", "sk":"शवः । शवसी । बालपर्यायोऽयम् ।" }, { "i":"4193", "sutra":"श्रयतेः स्वाङ्गे शिरः किच्च", "pratyay":"असुन्", "sk":"श्रयतेः शिरआदेशोऽसुन् किच्च । शिरः । शिरसी ।" }, { "i":"4194", "sutra":"अर्तेरुच्च", "pratyay":"असुन्", "sk":"उरः ।" }, { "i":"4195", "sutra":"व्याधौ शुट्", "pratyay":"असुन्", "sk":"अर्शो गुदव्याधिः ।" }, { "i":"4196", "sutra":"उदके नुट् च", "pratyay":"असुन्", "sk":"अर्तेरसुन् स्यात्तस्य च नुट् । अर्णः । अर्णसी ।" }, { "i":"4197", "sutra":"इण आगसि", "pratyay":"असुन्", "sk":"एनः ।" }, { "i":"4198", "sutra":"रिचेर्धने घिच्च", "pratyay":"असुन्", "sk":"चात्प्रत्ययस्य नुट् । घित्त्वात्कुत्वम् । रेक्णः सुवर्णम् ।" }, { "i":"4199", "sutra":"चायतेरन्ने ह्रस्वश्च", "pratyay":"असुन्", "sk":"चनो भक्तम् ।" }, { "i":"4200", "sutra":"वृङ्शीङ्भ्यां रूपस्वाङ्गयोः पुट् च", "pratyay":"असुन्", "sk":"वर्पो रूपम् । शेपो गुह्यम् ।" }, { "i":"4201", "sutra":"स्रुरीभ्यां तुट् च", "pratyay":"असुन्", "sk":"स्रोतः । रेतः ।" }, { "i":"4202", "sutra":"पातेर्बले जुट् च", "pratyay":"असुन्", "sk":"पाजः । पाजसी ।" }, { "i":"4203", "sutra":"उदके थुट् च", "pratyay":"असुन्", "sk":"पाथः ।" }, { "i":"4204", "sutra":"अन्ने च", "pratyay":"असुन्", "sk":"पाथो भक्तम् ।" }, { "i":"4205", "sutra":"अदेर्नुम् धौ च", "pratyay":"असुन्", "sk":"अदेर्भक्ते वाच्येऽसुन् नुमागमो धादेशश्च । अन्धोऽन्नम् ।" }, { "i":"4206", "sutra":"स्कन्देश्च स्वाङ्गे", "pratyay":"असुन्", "sk":"स्कन्दः । स्कन्दसी ।" }, { "i":"4207", "sutra":"आपः कर्माख्यायाम्", "pratyay":"असुन्", "sk":"कर्माख्यायां ह्रस्वो नुट् च वा । अप्नः । अपः । बाहुलकात् । आपः । आपसी ।" }, { "i":"4208", "sutra":"रूपे जुट् च", "pratyay":"असुन्", "sk":"अब्जो रूपम् ।" }, { "i":"4209", "sutra":"उदके नुम्भौ च", "pratyay":"असुन्", "sk":"अम्भः ।" }, { "i":"4210", "sutra":"नहेर्दिवि भश्च", "pratyay":"असुन्", "sk":"नभः ।" }, { "i":"4211", "sutra":"इण आग अपराधे च", "pratyay":"असुन्", "sk":"आगः पापापराधयोः ।" }, { "i":"4212", "sutra":"अमेर्हुक्च", "pratyay":"असुन्", "sk":"अंहः ।" }, { "i":"4213", "sutra":"रमेश्च", "pratyay":"असुन्", "sk":"रंहः ।" }, { "i":"4214", "sutra":"देशे ह च", "pratyay":"असुन्", "sk":"रमन्तेऽस्मिन् रहः ।" }, { "i":"4215", "sutra":"अञ्च्यञ्जियुजिभृजिभ्यः कुञ्च", "pratyay":"असुन्", "sk":"एभ्योऽसुन् कवर्गश्चान्तादेशः । अङ्कश्चिह्नशरीरयोः । अङ्गः पक्षी । योगः समाधिः । भर्गस्तेजः ।" }, { "i":"4216", "sutra":"भूरञ्जिभ्यां कित्", "pratyay":"असुन्", "sk":"भुवः । रजः ।" }, { "i":"4217", "sutra":"वसेर्णित्", "pratyay":"असुन्", "sk":"वासो वस्त्रम् ।" }, { "i":"4218", "sutra":"चन्देरादेश्च छः", "pratyay":"असुन्", "sk":"छन्दः ।" }, { "i":"4219", "sutra":"पचिवचिभ्यां सुट् च", "pratyay":"असुन्", "sk":"पक्षसी तु स्मृतौ पक्षौ । वक्षो हृदयम् ।" }, { "i":"4220", "sutra":"वहिहाधाञ्भ्यश्छन्दसि", "pratyay":"असुन्", "sk":"वक्षाः अनड्वान् । हासाश्चन्द्रः । धासाः पर्वत इति प्राञ्चः । वस्तुतस्तु णिदित्यनुवर्तते न तु सुट् । तेन वहेरुपधावृद्धिः । इतरयोः ’आतो युक् – ७-३-३३’ इति युक् । शोणा धृष्णू नृवाहसा । श्रोता हवं गृणतः स्तोमवाहाः । विश्वो विहायाः । वाजम्भरो विहायाः । देवो न यः पृथिवीं विश्वधायाः । अधारयत् पृथिवीं विश्वधायसम् । धर्णसिं भूरिधायसमित्यादिः ।" }, { "i":"4221", "sutra":"इण आसिः", "pratyay":"आसि", "sk":"अयाः वह्निः । स्वरादिपाठादव्ययत्वम् ।" }, { "i":"4222", "sutra":"मिथुनेऽसिः पूर्ववच्च सर्वम्", "pratyay":"असि", "sk":"उपसर्गविशिष्टो धातुर्मिथुनं तन्नासुनोऽपवादोऽसिः । स्वरार्थः ।" }, { "i":"4223", "sutra":"नञि हन एह च", "pratyay":"असि", "sk":"अनेहाः । अनेहसौ ।" }, { "i":"4224", "sutra":"विधाञो वेध च", "pratyay":"असि", "sk":"विदधातीति वेधाः ।" }, { "i":"4225", "sutra":"नुवो धुट् च", "pratyay":"असि", "sk":"नोधाः ।" }, { "i":"4226", "sutra":"गतिकारकोपपदयोः पूर्वपदप्रकृतिस्वरत्वं च", "pratyay":"असि", "sk":"असिः स्यात् । सुतपाः । जातवेदाः । [[6.2.139]] <<गतिकारकोपदात् कृत्>> इत्युत्तरपदप्रकृतिस्वरत्वे सति शेषस्यानुदात्तत्वे प्राप्ते तदपवादार्थमिदम् ।" }, { "i":"4227", "sutra":"चन्द्रे मो डित्", "pratyay":"असि", "sk":"चन्द्रोपपदान्माङोऽसिः स्यात्स च डित् । चन्द्रमाः ।" }, { "i":"4228", "sutra":"वयसि धाञः", "pratyay":"असि", "sk":"वयोधास्तरुणः ।" }, { "i":"4229", "sutra":"पयसि च", "pratyay":"असि", "sk":"पयोधाः समुद्रो मेघश्च ।" }, { "i":"4230", "sutra":"पुरसि च", "pratyay":"असि", "sk":"पुरोधाः ।" }, { "i":"4231", "sutra":"पुरूरवाः", "pratyay":"असि", "sk":"पुरुशब्दस्य दीर्घो रौतेरसिश्च निपात्यते ।" }, { "i":"4232", "sutra":"चक्षेर्बहुलं शिच्च", "pratyay":"असि", "sk":"नृचक्षाः ।" }, { "i":"4233", "sutra":"उषः कित्", "pratyay":"असि", "sk":"उषः ।" }, { "i":"4234", "sutra":"दमेरुनसिः", "pratyay":"उनसि", "sk":"सप्तार्चिर्दमुनाः ।" }, { "i":"4235", "sutra":"अङ्गतेरसिरिरुडागमश्च", "pratyay":"असि", "sk":"अङ्गिराः ।" }, { "i":"4236", "sutra":"सर्तेरप्पूर्वादसिः", "pratyay":"असि", "sk":"अप्सराः । प्रायेणायं भूम्नि । अप्सरसः ।" }, { "i":"4237", "sutra":"विदिभुजिभ्यां विश्वे", "pratyay":"असि", "sk":"विश्ववेदाः । विश्वभोजाः ।" }, { "i":"4238", "sutra":"वशेः कनसिः", "pratyay":"कनसि", "sk":"सम्प्रसारणम् । उशनाः" }, { "i":"5001", "sutra":"अदि भुवो डुतच्", "pratyay":"डुतच्", "sk":"अद्भुतम् ।" }, { "i":"5002", "sutra":"गुधेरूमः", "pratyay":"ऊम", "sk":"गोधूमः ।" }, { "i":"5003", "sutra":"मसेरूरन्", "pratyay":"ऊरन्", "sk":"मसूरः। प्रथमे पादे असेरुरन्मसेश्चेत्यत्र व्याख्यातः ।" }, { "i":"5004", "sutra":"स्थः किच्च", "pratyay":"ऊरन्", "sk":"स्थूरो मनुष्यः ।" }, { "i":"5005", "sutra":"पातेरतिः", "pratyay":"अति", "sk":"पातिः स्वामी । संपातिः पक्षिराजः ।" }, { "i":"5006", "sutra":"वातेर्नित्", "pratyay":"अति", "sk":"वातिरादित्यसोमयोः ।" }, { "i":"5007", "sutra":"अर्तेश्च", "pratyay":"अति", "sk":"अरतिरुद्वेगः ।" }, { "i":"5008", "sutra":"तृहेः क्नो हलोपश्च", "pratyay":"क्न", "sk":"तृणम् ।" }, { "i":"5009", "sutra":"वुञ्लुठितनिताडिभ्य उलच् तण्डश्च", "pratyay":"उलच्", "sk":"व्रियन्ते लुट्यन्ते तन्यन्ते ताड्यन्त इति वा तण्डुलाः ।" }, { "i":"5010", "sutra":"दंसेष्टटनौ न आ च", "pratyay":"ट, टन्", "sk":"दासः सेवकशूद्रयोः ।" }, { "i":"5011", "sutra":"दंशेश्च", "pratyay":"ट, टन्", "sk":"दाशो धीवरः ।" }, { "i":"5012", "sutra":"उदि चेर्डैसिः", "pratyay":"डैसि", "sk":"स्वरादिपाठादव्ययत्वम् । उच्चैः ।" }, { "i":"5013", "sutra":"नौ दीर्घश्च", "pratyay":"डैसि", "sk":"नीचैः ।" }, { "i":"5014", "sutra":"सौ रमेः क्तो दमे पूर्वपदस्य च दीर्घः", "pratyay":"क्त", "sk":"रमेः सुपूर्वाद्दमे वाच्ये क्तः स्यात् । कित्वादनुनासिकलोपः । सूरत उपशान्तो दयालुश्च ।" }, { "i":"5015", "sutra":"पूञो यण् णुक् ह्रस्वश्च", "pratyay":"यत्", "sk":"यत्प्रत्ययः । पुण्यम् ।" }, { "i":"5016", "sutra":"स्रंसेः शिः कुट् किश्च", "pratyay":"यत्", "sk":"स्रंसतेः शिरादेशः यत्प्रत्ययः कित्तस्य कुडागमश्च । शिक्यम् ।" }, { "i":"5017", "sutra":"अर्तेः क्युरुच्च", "pratyay":"क्यु", "sk":"उरणो मेषः ।" }, { "i":"5018", "sutra":"हिंसेरीरन्नीरचौ", "pratyay":"ईरन् , ईरच्", "sk":"हिंसीरो व्याघ्रदुष्टयोः ।" }, { "i":"5019", "sutra":"उदि दृणातेरजलौ पूर्वपदान्त्यलोपश्च", "pratyay":"अल्, अच्", "sk":"उदरम् ।" }, { "i":"5020", "sutra":"डित् खनेर्मुट् स चोदात्तः", "pratyay":"अल्, अच्", "sk":"अच् अल् च डित्स्याद्धातोर्मुट् स चोदात्तः । मुखम् ।" }, { "i":"5021", "sutra":"अमेः सन्", "pratyay":"सन्", "sk":"अंसः ।" }, { "i":"5022", "sutra":"मुहेः खो मूर्च", "pratyay":"ख", "sk":"मूर्खः ।" }, { "i":"5023", "sutra":"नहेर्हलोपश्च", "pratyay":"ख", "sk":"नखः ।" }, { "i":"5024", "sutra":"शीङो ह्रस्वश्च", "pratyay":"ख", "sk":"शिखा ।" }, { "i":"5025", "sutra":"माङ ऊखो मय् च", "pratyay":"ऊख", "sk":"मयूखः ।" }, { "i":"5026", "sutra":"कलिगलिभ्यां फगस्योच्च", "pratyay":"फक्", "sk":"कुल्फः शरीरावयवो रोगश्च । गुल्फः पादग्रन्थिः ।" }, { "i":"5027", "sutra":"स्पृशेः श्वण्शुनौ पृ च", "pratyay":"श्वण् , शुन्", "sk":"श्वण्शुनौ प्रत्ययौ पृ इत्यादेशः । पार्श्वोऽस्त्री कक्षयोरधः । पर्शुरायुधम् ।" }, { "i":"5028", "sutra":"श्मनि श्रयतेर्डुन्", "pratyay":"डुन्", "sk":"श्मन्शब्दो मुखवाची । मुखमाश्रयत इति श्मश्रुः ।" }, { "i":"5029", "sutra":"अश्र्वादयश्च", "pratyay":"डुन्", "sk":"अश्रु नयनजलम् ।" }, { "i":"5030", "sutra":"जनेष्टन् लोपश्च", "pratyay":"टन्", "sk":"जटा ।" }, { "i":"5031", "sutra":"अच् तस्य जङ्घ च", "pratyay":"अच्", "sk":"तस्य जनेः जङ्घादेशः स्यादच्च । जङ्घा ।" }, { "i":"5032", "sutra":"हन्तेः शरीरावयवे द्वे च", "pratyay":"अच्", "sk":"जघनम् । पश्चान्नितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुरः ।" }, { "i":"5033", "sutra":"क्लिशेरन् लो लोपश्च", "pratyay":"अन्", "sk":"लकारस्य लोपः । केशः ।" }, { "i":"5034", "sutra":"फलेरितजादेश्च पः", "pratyay":"इतच्", "sk":"पलितम् ।" }, { "i":"5035", "sutra":"कृञादिभ्यः संज्ञायाम् वुन्", "pratyay":"वुन्", "sk":"करकः । करका । कटकः । नरकम् । नरकः । नरको नारकोऽपि चेति द्विरूपकोशः । सरकं गगनम् । कोरकः कोरकं च ।" }, { "i":"5036", "sutra":"चीकयतेराद्यन्तविपर्ययश्च", "pratyay":"वुन्", "sk":"कीचको वंशभेदः ।" }, { "i":"5037", "sutra":"पचिमच्योरिच्चोपधायाः", "pratyay":"वुन्", "sk":"पेचकः । मेचकः ।" }, { "i":"5038", "sutra":"जनेररष्ठ च", "pratyay":"अर", "sk":"जठरम् ।" }, { "i":"5039", "sutra":"वचिमनिभ्यां चिच्च", "pratyay":"अर", "sk":"वठरो मूर्खः । मठरो मुनिशौण्डयोः । बिदादित्वान्माठरः। गर्गादित्वान्माठर्यः ।" }, { "i":"5040", "sutra":"ऊर्जि दृणातेरलचौ पूर्वपदान्तलोपश्च", "pratyay":"अल्, अच्", "sk":"ऊर्दरः शूररक्षसोः ।" }, { "i":"5041", "sutra":"कृदरादयश्च", "pratyay":"अल्", "sk":"कृदरः । कुसूलः । मृदरं विलसत् । सृदरः सर्पः ।" }, { "i":"5042", "sutra":"हन्तेर्युन्नाद्यन्तयोर्घत्वतत्वे", "pratyay":"युन्", "sk":"घातनो मारकः ।" }, { "i":"5043", "sutra":"क्रमिगमिक्षमिभ्यस्तुन् वृद्धिश्च", "pratyay":"तुन्", "sk":"क्रान्तुः पक्षी । गान्तुः पथिकः । क्षान्तुर्मशकः ।" }, { "i":"5044", "sutra":"हर्यतेः कन्यन् हिर च", "pratyay":"कन्यन्", "sk":"कन्यन् प्रत्ययः । हिरण्यम् ।" }, { "i":"5045", "sutra":"कृञः पासः", "pratyay":"पास", "sk":"कर्पासः । बिल्वादित्वात्कार्पासं वस्त्रम् ।" }, { "i":"5046", "sutra":"जनेस्तु रश्च", "pratyay":"तु", "sk":"जर्तुर्हस्ती योनिश्च ।" }, { "i":"5047", "sutra":"ऊर्णोतेर्डः", "pratyay":"ड", "sk":"ऊर्णा ।" }, { "i":"5048", "sutra":"दधातेर्यत् नुट् च", "pratyay":"यत्", "sk":"धान्यम् ।" }, { "i":"5049", "sutra":"जीर्यतेः क्रिन् रश्च वः", "pratyay":"क्रिन्", "sk":"जिव्रिः स्यात्कलपक्षिणोः । बहुलकात् [[8.2.77]] <<हलि च>> इति दीर्घो न ।" }, { "i":"5050", "sutra":"मव्यतेर्यलोपो मश्चापतुट् चालः", "pratyay":"आल", "sk":"मव्यतेरालप्रत्ययः स्यात्तस्यापतुडागमो धातोर्यलोपो मकारश्चान्त्यस्य । ममापतालो विषये ।" }, { "i":"5051", "sutra":"ऋजेः कीकन्", "pratyay":"कीकन्", "sk":"ऋजीक इन्द्रो धूमश्च ।" }, { "i":"5052", "sutra":"तनोतेर्डउः सन्वच्च", "pratyay":"डउ", "sk":"तितउः । पुंसि क्लीबे ।" }, { "i":"5053", "sutra":"अर्भकपृथुकपाका वयसि", "pratyay":"वुन्, कुकन्, कन्", "sk":"ऋधु वृद्धो । अतो वुन् । भकारश्चान्तादेशः । प्रथेः कुकन्संप्रसारणं च । पिबतेः कन् ।" }, { "i":"5054", "sutra":"अवद्यावमाधमार्वरेफाः", "pratyay":"यत्, अम, वन्", "sk":"कुत्सिते वदेर्नञि यत् । अवद्यम् । अवतेरमः । वस्य पक्षे धः । अवमः । अधमः । अर्तेर्वन् । अर्वा । रिफतेस्तौदादिकादेः । रेफः ।" }, { "i":"5055", "sutra":"लीरीङोर्ह्रस्वः पुट् च तरौ श्लेषणकुत्सनयोः", "pratyay":"त, र", "sk":"तरौ प्रत्ययौ क्रमात् स्तो धातोर्ह्रस्वः प्रत्ययस्य पुट् । लिप्तं श्लिष्टम् । रिप्रं कुत्सितम् ।" }, { "i":"5056", "sutra":"क्लिशेरीच्चोपधायाः कन् लोपश्च लो नाम् च", "pratyay":"कन्", "sk":"क्लिशेः कन् स्यात् उपाधाया ईत्वं लस्य लोपो नामागमश्च । कीनाशो यमः । कित्वफलं चिन्त्यम् ।" }, { "i":"5057", "sutra":"अश्नोतेराशुकर्मणि वरट् च", "pratyay":"वरट्", "sk":"चकारादुपधाया ईत्वम् । ईश्वरः ।" }, { "i":"5058", "sutra":"चतेरुरन्", "pratyay":"उरन्", "sk":"चत्वारः ।" }, { "i":"5059", "sutra":"प्राततेररन्", "pratyay":"अरन्", "sk":"प्रातः ।" }, { "i":"5060", "sutra":"अमेस्तुट् च", "pratyay":"अरन्", "sk":"अन्तर्मध्यम् ।" }, { "i":"5061", "sutra":"दहेर्गो लोपो दश्च नः", "pratyay":"ग", "sk":"गप्रत्ययो धातोरन्तस्य लोपो दकारस्य नकारः । नगः ।" }, { "i":"5062", "sutra":"सिचेः संज्ञायां हनुमौ कश्च", "pratyay":"क", "sk":"सिञ्चतेः कप्रत्ययो हकारादेशो नुम् च स्यात् । सिंहः ।" }, { "i":"5063", "sutra":"व्याङि घ्रातेश्च जातौ", "pratyay":"क", "sk":"कप्रत्ययः स्यात् । व्याघ्रः ।" }, { "i":"5064", "sutra":"हन्तेरच् घुर च", "pratyay":"अच्", "sk":"घोरम् ।" }, { "i":"5065", "sutra":"क्षमेरुपधालोपश्च", "pratyay":"अच्", "sk":"चादच् । क्ष्मा ।" }, { "i":"5066", "sutra":"तरतेर्ड्रिः", "pratyay":"ड्रि", "sk":"त्रयः । त्रीन् ।" }, { "i":"5067", "sutra":"ग्रहेरनिः", "pratyay":"अनि", "sk":"ग्रहणिः ङीष् । ग्रहणी व्याधिभेदः ।" }, { "i":"5068", "sutra":"प्रथेरमच्", "pratyay":"अमच्", "sk":"प्रथमः ।" }, { "i":"5069", "sutra":"चरेश्च", "pratyay":"अमच्", "sk":"चरमः ।" }, { "i":"5070", "sutra":"मङ्गेरलच्", "pratyay":"अलच्", "sk":"मङ्गलम् ।" } ] }