जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः यस्यास्यकमलकोशे वाङ्मयम् अमृतं पिबति लोकः धर्मदृढबद्धमूलो वेदस्कन्धः पुराणशाखाढ्यः क्रतुकुसुमो मोक्षफलो जयति कल्पद्रुमो विष्णुः पितामहाद्यं प्रवदन्ति षष्ठं; महर्षिम् अक्षय्यविभूतियुक्तम् नारायणस्यांशजम् एकपुत्रं; द्वैपायनं वेदनिधिं नमामि पाराशर्यवचस्सरोजम् अमलं गीतार्थगन्धोत्कटं नानाख्यानककेसरं हरिकथासंबोधनाबोधितम् लोके सज्जनषट्पदैर् अहरहः पेपीयमानं मुदा भूयाद् भारतपङ्कजं कलिमलप्रध्वंसि नः श्रेयसे यः श्वेतत्वम् उपागतः कृतयुगे त्रेतायुगे रक्ततां युग्मे यः कपिलः कलौ च भगवान् कृष्णत्वम् आयाग * . . . . . . . दन्ति मुनयो यो योगिभिर् गीयते स ब्रह्मा यदि वा हरो यदि शिवो यः को ऽपि तस्मै नमः वागीशाद्याः सुमनसः सर्वार्थानाम् उ . . . . . त्वा कृतकृत्याः स्युस् तं नमामि गजाननम् व्यासं वसिष्ठनप्तारं शक्तेः पौत्रम् अकल्मषम् पराशरात्मजं वन्दे शुकतातं तपोनिधिम् अचतुर्वदनो ब्रह्मा द्विबाहुर् अ . . . . अभाललोचनः शम्भुर् भगवान् बादरायणः शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ज्ञानानन्दमयं देवं निर्मलं स्फटिकाकृतिम् आधारं सर्वविद्यानां हयग्रीवम् उपास्महे व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः नमो धर्माय महते नमः कृष्णाय वेधसे ब्राह्मणेभ्यो नमस्कृत्वा धर्मान् वक्ष्यामि शाश्वतान् अभ्रश्यामः पिङ्गजटाबद्धकलापः प्रांशुर् दण्डी कृष्णमृगत्वक्परिधानः साक्षाल् लोकान् पावयमानः कविमुख्यः पाराशर्यः पर्वसु रूपं विवृणोतु अशुभानि निराचष्टे तनोति शुभसंततिम् स्मृतमात्रेण यः पुंसां ब्रह्म तन् मङ्गलं विदुः धर्मो विवर्धति युधिष्ठिरकीर्तनेन पापं प्रणश्यति वृकोदरकीर्तनेन शत्रुर् विनश्यति धनंजयकीर्तनेन माद्रीसुतौ कथयतां न भवन्ति रोगाः सरस्वतीपदं वन्दे श्रियः पतिम् उमापतिम् त्विषां पतिं गणपतिं बृहस्पतिमुखान् ऋषीन् नारायणं सुरगुरुं जगदेकनाथं भक्तप्रियं सकललोकनमस्कृतं च त्रैगुण्यवर्जितम् अजं विभुम् आद्यम् ईशं वन्दे भवघ्नम् असुरासुरसिद्धवन्द्यम् नारायणं नमस्कृत्य नरं चैव नरोत्तमम् देवीं सरस्वतीं चैव ततो जयम् उदीरयेत् लोमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर् द्वादशवार्षिके सत्रे समासीनान् अभ्यगच्छद् ब्रह्मर्षीन् संशितव्रतान् विनयावनतो भूत्वा कदा चित् सूतनन्दनः तम् आश्रमम् अनुप्राप्तं नैमिषारण्यवासिनः उवाच तान् ऋषीन् सर्वान् धन्यो वो ऽस्म्य् अद्य दर्शनात् वेद वैयासिकीः सर्वाः कथा धर्मार्थसंहिताः वक्ष्यामि वो द्विजश्रेष्ठाः शृण्वन्त्व् अद्य तपोधनाः तस्य तद् वचनं श्रुत्वा नैमिषारण्यवासिनः चित्राः श्रोतुं कथास् तत्र परिवव्रुस् तपस्विनः अभिवाद्य मुनींस् तांस् तु सर्वान् एव कृताञ्जलिः अपृच्छत् स तपोवृद्धिं सद्भिश् चैवाभिनन्दितः अथ तेषूपविष्टेषु सर्वेष्व् एव तपस्विषु निर्दिष्टम् आसनं भेजे विनयाल् लोमहर्षणिः सुखासीनं ततस् तं तु विश्रान्तम् उपलक्ष्य च अथापृच्छद् ऋषिस् तत्र कश् चित् प्रस्तावयन् कथाः कुत आगम्यते सौते क्व चायं विहृतस् त्वया कालः कमलपत्राक्ष शंसैतत् पृच्छतो मम एवं पृष्टो ऽब्रवीत् सम्यग् यथावल् लोमहर्षणिः वाक्यं वचनसंपन्नस् तेषां तु चरिताश्रयम् तस्मिन् सदसि विस्तीर्णे मुनीनां भावितात्मनाम् सूत उवाच जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः समीपे पार्थिवेन्द्रस्य सम्यक् पारिक्षितस्य च कृष्णद्वैपायनप्रोक्ताः सुपुण्या विविधाः कथाः कथिताश् चापि विधिवद् या वैशंपायनेन वै श्रुत्वाहं ता विचित्रार्था महाभारतसंश्रिताः बहूनि संपरिक्रम्य तीर्थान्य् आयतनानि च समन्तपञ्चकं नाम पुण्यं द्विजनिषेवितम् गतवान् अस्मि तं देशं युद्धं यत्राभवत् पुरा पाण्डवानां कुरूणां च सर्वेषां च महीक्षिताम् दिदृक्षुर् आगतस् तस्मात् समीपं भवताम् इह आयुष्मन्तः सर्व एव ब्रह्मभूता हि मे मताः अस्मिन् यज्ञे महाभागाः सूर्यपावकवर्चसः कृताभिषेकाः शुचयः कृतजप्या हुताग्नयः भवन्त आसते स्वस्था ब्रवीमि किम् अहं द्विजाः पुराणसंश्रिताः पुण्याः कथा वा धर्मसंश्रिताः इतिवृत्तं नरेन्द्राणाम् ऋषीणां च महात्मनाम् श्रुतं मे भारताख्यानं धर्मकामार्थमोक्षदम् जनमेजयेन पृष्टः सन् वैशंपायन उक्तवान् ऋषीणाम् अग्रतस् तत्र धर्मिष्ठानां महात्मनाम् व्यासदेवाज्ञया तत्र यद् वैशंपायनस् तदा श्रुतं वै भारताख्यानं वेदार्थैश् चोपबृंहितम् तत्र मे विदितं सर्वं भारताख्यानम् आदितः ऋषय ऊचुः द्वैपायनेन यत् प्रोक्तं पुराणं परमर्षिणा सुरैर् ब्रह्मर्षिभिश् चैव श्रुत्वा यद् अभिपूजितम् तस्याख्यानवरिष्ठस्य विचित्रपदपर्वणः सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर् भूषितस्य च भारतस्येतिहासस्य पुण्यां ग्रन्थार्थसंयुताम् संस्कारोपगतां ब्राह्मीं नानाशास्त्रोपबृंहिताम् जनमेजयस्य यां राज्ञो वैशंपायन उक्तवान् यथावत् स ऋषिस् तुष्ट्या सत्रे द्वैपायनाज्ञया वेदैश् चतुर्भिः समितां व्यासस्याद्भुतकर्मणः संहितां श्रोतुम् इच्छामो धर्म्यां पापभयापहाम् सूत उवाच आद्यं पुरुषम् ईशानं पुरुहूतं पुरुष्टुतम् ऋतम् एकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम् असच् च सच् चैव च यद् विश्वं सदसतः परम् परावराणां स्रष्टारं पुराणं परम् अव्ययम् मङ्गल्यं मङ्गलं विष्णुं वरेण्यम् अनघं शुचिम् नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम् महर्षेः पूजितस्येह सर्वलोके महात्मनः प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः नमो भगवते तस्मै व्यासायामिततेजसे यस्य प्रसादाद् वक्ष्यामि नारायणकथाम् इमाम् सर्वाश्रमाभिगमनं सर्वतीर्थावगाहनम् न तथा फलदं सूते नारायणकथा यथा नास्ति नारायणसमं न भूतं न भविष्यति एतेन सत्यवाक्येन सर्वार्थान् साधयाम्य् अहम् आचख्युः कवयः के चित् संप्रत्य् आचक्षते परे आख्यास्यन्ति तथैवान्ये इतिहासम् इमं भुवि इदं तु त्रिषु लोकेषु महज् ज्ञानं प्रतिष्ठितम् विस्तरैश् च समासैश् च धार्यते यद् द्विजातिभिः अलंकृतं शुभैः शब्दैः समयैर् दिव्यमानुषैः छन्दोवृत्तैश् च विविधैर् अन्वितं विदुषां प्रियम् पुण्ये हिमवतः पादे मेध्ये गिरिगुहालये विशोध्य देहं धर्मात्मा दर्भसंस्तरम् आश्रितः शुचिः सनियमो व्यासः शान्तात्मा तपसि स्थितः भारतस्येतिहासस्य धर्मेणान्वीक्ष्य तां गतिम् प्रविश्य योगं ज्ञानेन सो ऽपश्यत् सर्वम् अन्ततः निष्प्रभे ऽस्मिन् निरालोके सर्वतस् तमसावृते बृहद् अण्डम् अभूद् एकं प्रजानां बीजम् अक्षयम् युगस्यादौ निमित्तं तन् महद् दिव्यं प्रचक्षते यस्मिंस् तच् छ्रूयते सत्यं ज्योतिर् ब्रह्म सनातनम् अद्भुतं चाप्य् अचिन्त्यं च सर्वत्र समतां गतम् अव्यक्तं कारणं सूक्ष्मं यत् तत् सदसदात्मकम् यस्मात् पितामहो जज्ञे प्रभुर् एकः प्रजापतिः ब्रह्मा सुरगुरुः स्थाणुर् मनुः कः परमेष्ठ्य् अथ प्राचेतसस् तथा दक्षो दक्षपुत्राश् च सप्त ये ततः प्रजानां पतयः प्राभवन्न् एकविंशतिः पुरुषश् चाप्रमेयात्मा यं सर्वम् ऋषयो विदुः विश्वेदेवास् तथादित्या वसवो ऽथाश्विनाव् अपि यक्षाः साध्याः पिशाचाश् च गुह्यकाः पितरस् तथा ततः प्रसूता विद्वांसः शिष्टा ब्रह्मर्षयो ऽमलाः राजर्षयश् च बहवः सर्वैः समुदिता गुणैः आपो द्यौः पृथिवी वायुर् अन्तरिक्षं दिशस् तथा संवत्सरर्तवो मासाः पक्षाहोरात्रयः क्रमात् क्षणा लवा मुहूर्ताश् च निमेषा युगपर्ययाः यच् चान्यद् अपि तत् सर्वं संभूतं लोकसाक्षिकम् यद् इदं दृश्यते किं चिद् भूतं स्थावरजङ्गमम् पुनः संक्षिप्यते सर्वं जगत् प्राप्ते युगक्षये यथर्ताव् ऋतुलिङ्गानि नानारूपाणि पर्यये दृश्यन्ते तानि तान्य् एव तथा भावा युगादिषु एवम् एतद् अनाद्यन्तं भूतसंहारकारकम् अनादिनिधनं लोके चक्रं संपरिवर्तते त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च त्रयस्त्रिंशच् च देवानां सृष्टिः संक्षेपलक्षणा दिवस्पुत्रो बृहद्भानुश् चक्षुर् आत्मा विभावसुः सविता च ऋचीको ऽर्को भानुर् आशावहो रविः पुत्रा विवस्वतः सर्वे मह्यस् तेषां तथावरः देवभ्राट् तनयस् तस्य तस्मात् सुभ्राड् इति स्मृतः सुभ्राजस् तु त्रयः पुत्राः प्रजावन्तो बहुश्रुताः दशज्योतिः शतज्योतिः सहस्रज्योतिर् आत्मवान् दश पुत्रसहस्राणि दशज्योतेर् महात्मनः ततो दशगुणाश् चान्ये शतज्योतेर् इहात्मजाः भूयस् ततो दशगुणाः सहस्रज्योतिषः सुताः तेभ्यो ऽयं कुरुवंशश् च यदूनां भरतस्य च ययातीक्ष्वाकुवंशश् च राजर्षीणां च सर्वशः संभूता बहवो वंशा भूतसर्गाः सविस्तराः भूतस्थानानि सर्वाणि रहस्यं त्रिविधं च यत् वेदयोगं सविज्ञानं धर्मो ऽर्थः काम एव च धर्मकामार्थशास्त्राणि शास्त्राणि विविधानि च लोकयात्राविधानं च संभूतं दृष्टवान् ऋषिः नीतिर् भरतवंशस्य विस्तरश् चैव सर्वशः इतिहासाः सवैयाख्या विविधाः श्रुतयो ऽपि च इह सर्वम् अनुक्रान्तम् उक्तं ग्रन्थस्य लक्षणम् संक्षेपेणेतिहासस्य ततो वक्ष्यामि विस्तरम् विस्तीर्यैतन् महज् ज्ञानम् ऋषिः संक्षेपम् अब्रवीत् इष्टं हि विदुषां लोके समासव्यासधारणम् मन्वादि भारतं के चिद् आस्तीकादि तथापरे तथोपरिचराद्य् अन्ये विप्राः सम्यग् अधीयते विविधं संहिताज्ञानं दीपयन्ति मनीषिणः व्याख्यातुं कुशलाः के चिद् ग्रन्थं धारयितुं परे तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम् इतिहासम् इमं चक्रे पुण्यं सत्यवतीसुतः पराशरात्मजो विद्वान् ब्रह्मर्षिः संशितव्रतः कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम् को ह्य् अन्यः पुण्डरीकाक्षान् महाभारतकृद् भवेत् भाति सर्वेषु वेदेषु रतिः सर्वेषु जन्तुषु तरणं सर्वलोकानां तस्माद् भारतम् उच्यते मातुर् नियोगाद् धर्मात्मा गाङ्गेयस्य च धीमतः क्षेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा त्रीन् अग्नीन् इव कौरव्याञ् जनयाम् आस वीर्यवान् उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरम् एव च जगाम तपसे धीमान् पुनर् एवाश्रमं प्रति तेषु जातेषु वृद्धेषु गतेषु परमां गतिम् एवं वै संग्रहाध्यायः पूर्वम् एव महर्षिणा क्रमणप्रस्तरैर् युक्तः कथं चिद् अप्य् अतीव हि एतदर्थं च विहितः संग्रहो ऽयं यथाश्रुतः तच् छ्रुत्वा सर्वम् आख्यातं लोके ज्ञास्यन्ति मानवाः अब्रवीद् भारतं लोके मानुषे ऽस्मिन् महान् ऋषिः जनमेजयेन पृष्टः सन् ब्राह्मणैश् च सहस्रशः शशास शिष्यम् आसीनं वैशंपायनम् अन्तिके स सदस्यैः सहासीनः श्रावयाम् आस भारतम् कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः विस्तरं कुरुवंशस्य गान्धार्या धर्मशीलताम् क्षत्तुः प्रज्ञां धृतिं कुन्त्याः सम्यग् द्वैपायनो ऽब्रवीत् वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम् दुर्वृत्तं धार्तराष्ट्राणाम् उक्तवान् भगवान् ऋषिः इदं शतसहस्राख्यं श्लोकानां पुण्यकर्मणाम् उपाख्यानैः सह ज्ञेयं श्राव्यं भारतम् उत्तमम् चतुर्विंशतिसाहस्रीं चक्रे भारतसंहिताम् उपाख्यानैर् विना तावद् भारतं प्रोच्यते बुधैः ततो ऽध्यर्धशतं भूयः संक्षेपं कृतवान् ऋषिः अनुक्रमणिम् अध्यायं वृत्तान्तानां सपर्वणाम् सूतः तस्याख्यानवरिष्ठस्य कृत्वा द्वैपायनः प्रभुः कथम् अध्यापयानीह शिष्यान् इत्थम् अचिन्तयत् तस्य चिन्तयतश् चापि ऋषेर् द्वैपायनस्य च स्मृत्वाजगाम भगवान् ब्रह्मा लोकगुरुः स्वयम् प्रियार्थं महर्षेश् चापि लोकानां हितकाम्यया तं दृष्ट्वा विस्मितो भूत्वा प्राञ्जलिः प्रणतः स्थितः आसनं कल्पयाम् आस सर्वदेवगणैर् युतम् हिरण्यगर्भम् आसीनं तस्मिंस् तु परमासने परिवृत्यासनाभ्याशे वासवेयः स्थितो नतः अनुज्ञातो ऽथ कृष्णस् तु ब्रह्मणा परमेष्ठिना निषसादासनाभ्याशे प्रीयमाणः सुविस्मितः उवाच स महातेजा ब्रह्माणं परमेष्ठिनम् कृतं मयेदं भगवन् काव्यं परमपूजितम् ब्रह्मन् वेदरहस्यं च यच् चान्यत् ख्यापितं मया साङ्गोपनिषदानां च वेदानां विस्तरक्रिया इतिहासपुराणानाम् उन्मेषं निमिषं च यत् भूतं भव्यं भविष्यच् च त्रिविधं कालसंज्ञितम् जरामृत्युभयव्याधिभावाभावविनिश्चयम् विविधस्य च धर्मस्य ह्य् आश्रमाणां च लक्षणम् चातुर्वर्ण्यविधानं च पुराणार्थं च कृत्स्नशः तपसो ब्रह्मचर्यस्य पृथिव्याश् चन्द्रसूर्ययोः ग्रहनक्षत्रताराणां प्रमाणं च युगैः सह ऋचो यजूंषि सामानि वेदाध्यात्मं तथैव च न्यायः शिक्षा चिकित्सा च ज्ञानं पाशुपतं तथा इति नैकाश्रयं जन्म दिव्यमानुषसंश्रितम् तीर्थानां चैव पुण्यानां देशानां चैव कीर्तनम् नदीनां पर्वतानां च वनानां सागरस्य च पुराणां चैव दिव्यानां कल्पानां युद्धकौशलम् वाक्यजातिविशेषांश् च लोकयात्राक्रमश् च यः यच् चापि सर्वगं वस्तु तत् प्रभो क्षन्तुम् अर्हसि तपोविशिष्टाद् अपि वै वसिष्ठान् मुनिपुंगवात् मन्ये श्रेष्ठतमं त्वाद्य रहस्यज्ञानवेदनात् जन्मप्रभृति सत्यां ते विद्म गां ब्रह्मवादिनीम् त्वया च काव्यम् इत्य् उक्तं तस्मात् काव्यं भविष्यति अस्य काव्यस्य कवयो न समर्था विशेषणे विशेषणे गृहस्थस्य शेषास् त्रय इवाश्रमाः जडान्धबधिरोन्मत्तं तमोभूतं जगद् भवेत् यदि ज्ञानहुताशेन त्वया नोज्ज्वलितं भवेत् तमसान्धस्य लोकस्य वेष्टितस्य स्वकर्मभिः ज्ञानाञ्जनशलाकाभिर् बुद्धिनेत्रोत्सवः कृतः धर्मार्थकाममोक्षार्थैः समासव्यासकीर्तनैः त्वया भारतसूर्येण नृणां विनिहतं तमः पुराणपूर्णचन्द्रेण श्रुतिज्योत्स्नाप्रकाशिना नृणां कुमुदसौम्यानां कृतं बुद्धिप्रबोधनम् इतिहासप्रदीपेन मोहावरणघातिना लोकगर्भगृहं कृत्स्नं यथावत् संप्रकाशितम् संग्रहाध्यायबीजो वै पौलोमास्तीकमूलवान् संभवस्कन्धविस्तारः सभारण्यविटङ्कवान् अरणीपर्वरूपाढ्यो विराटोद्योगसारवान् भीष्मपर्वमहाशाखो द्रोणपर्वपलाशवान् कर्णपर्वचितैः पुष्पैः शल्यपर्वसुगन्धिभिः स्त्रीपर्वैषीकविश्रामः शान्तिपर्वबृहत्फलः अश्वमेधामृतरसस् त्वाश्रमस्थानसंश्रयः मौसलश्रुतिसंक्षेपः शिष्टद्विजनिषेवितः सर्वेषां कविमुख्यानाम् उपजीव्यो भविष्यति पर्जन्य इव भूतानाम् अक्षयो भारतद्रुमः एवम् आभाष्य तं ब्रह्मा जगाम स्वं निवेशनम् भगवान् स जगत्स्रष्टा ऋषिदेवगणैः सह तस्य वृक्षस्य वक्ष्यामि शश्वत् पुष्पफलोदयम् स्वादुमेध्यरसोपेतम् अच्छेद्यम् अमरैर् अपि इदं द्वैपायनः पूर्वं पुत्रम् अध्यापयच् छुकम् ततो ऽन्येभ्यो ऽनुरूपेभ्यः शिष्येभ्यः प्रददौ प्रभुः संहितास् तैः पृथक्त्वेन भारतस्य प्रकीर्तिताः षष्टिं शतसहस्राणि चकारान्यां स संहिताम् त्रिंशच्छतसहस्रं च देवलोके प्रतिष्ठितम् पित्र्ये पञ्चदश प्रोक्तं रक्षोयक्षे चतुर्दश एकं शतसहस्रं तु मानुषेषु प्रतिष्ठितम् नारदो ऽश्रावयद् देवान् असितो देवलः पितॄन् गन्धर्वयक्षरक्षांसि श्रावयाम् आस वै शुकः अस्मिंस् तु मानुषे लोके वैशंपायन उक्तवान् शिष्यो व्यासस्य धर्मात्मा सर्ववेदविदां वरः एकं शतसहस्रं तु मयोक्तं वै निबोधत वैशंपायनविप्रर्षिः श्रावयाम् आस पार्थिवम् पारिक्षितं महाबाहुं नाम्ना तु जनमेजयम् दुर्योधनो मन्युमयो महाद्रुमः; स्कन्धः कर्णः शकुनिस् तस्य शाखाः दुःशासनः पुष्पफले समृद्धे; मूलं राजा धृतराष्ट्रो ऽमनीषी युधिष्ठिरो धर्ममयो महाद्रुमः; स्कन्धो ऽर्जुनो भीमसेनो ऽस्य शाखाः माद्रीसुतौ पुष्पफले समृद्धे; मूलं कृष्णो ब्रह्म च ब्राह्मणाश् च पाण्डुर् जित्वा बहून् देशान् युधा विक्रमणेन च अरण्ये मृगयाशीलो न्यवसत् सजनस् तदा मृगव्यवायनिधने कृच्छ्रां प्राप स आपदम् जन्मप्रभृति पार्थानां तत्राचारविधिक्रमः मात्रोर् अभ्युपपत्तिश् च धर्मोपनिषदं प्रति धर्मस्य वायोः शक्रस्य देवयोश् च तथाश्विनोः ततो धर्मोपनिषदं भूत्वा भर्तुः प्रिया पृथा धर्मानिलेन्द्रांस् ताभिः साजुहाव सुतवाञ्छया तद्दत्तोपनिषन् माद्री चाश्विनाव् आजुहाव च जाताः पार्थास् ततः सर्वे कुन्त्या माद्र्याश् च मन्त्रतः तेषु जातेषु सर्वेषु पाण्डवेषु महात्मसु माद्र्या तु सह संगम्य ऋषिशापप्रभावतः मृतः पाण्डुर् महापुण्ये शतशृङ्गे महागिरौ तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः मेध्यारण्येषु पुण्येषु महताम् आश्रमेषु च ऋषिभिश् च तदानीता धार्तराष्ट्रान् प्रति स्वयम् शिशवश् चाभिरूपाश् च जटिला ब्रह्मचारिणः पुत्राश् च भ्रातरश् चेमे शिष्याश् च सुहृदश् च वः पाण्डवा एत इत्य् उक्त्वा मुनयो ऽन्तर्हितास् ततः तांस् तैर् निवेदितान् दृष्ट्वा पाण्डवान् कौरवास् तदा शिष्टाश् च वर्णाः पौरा ये ते हर्षाच् चुक्रुशुर् भृशम् आहुः के चिन् न तस्यैते तस्यैत इति चापरे यदा चिरमृतः पाण्डुः कथं तस्येति चापरे स्वागतं सर्वथा दिष्ट्या पाण्डोः पश्याम संततिम् उच्यतां स्वागतम् इति वाचो ऽश्रूयन्त सर्वशः तस्मिन्न् उपरते शब्दे दिशः सर्वा विनादयन् अन्तर्हितानां भूतानां निस्वनस् तुमुलो ऽभवत् पुष्पवृष्टिः शुभा गन्धाः शङ्खदुन्दुभिनिस्वनाः आसन् प्रवेशे पार्थानां तद् अद्भुतम् इवाभवत् तत्प्रीत्या चैव सर्वेषां पौराणां हर्षसंभवः शब्द आसीन् महांस् तत्र दिवस्पृक् कीर्तिवर्धनः ते ऽप्य् अधीत्याखिलान् वेदाञ् शास्त्राणि विविधानि च न्यवसन् पाण्डवास् तत्र पूजिता अकुतोभयाः युधिष्ठिरस्य शौचेन प्रीताः प्रकृतयो ऽभवन् धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च गुरुशुश्रूषया कुन्त्या यमयोर् विनयेन च तुतोष लोकः सकलस् तेषां शौर्यगुणेन च समवाये ततो राज्ञां कन्यां भर्तृस्वयंवराम् प्राप्तवान् अर्जुनः कृष्णां कृत्वा कर्म सुदुष्करम् ततः प्रभृति लोके ऽस्मिन् पूज्यः सर्वधनुष्मताम् आदित्य इव दुष्प्रेक्ष्यः समरेष्व् अपि चाभवत् स सर्वान् पार्थिवाञ् जित्वा सर्वांश् च महतो गणान् आजहारार्जुनो राज्ञे राजसूयं महाक्रतुम् अन्नवान् दक्षिणावांश् च सर्वैः समुदितो गुणैः युधिष्ठिरेण संप्राप्तो राजसूयो महाक्रतुः सुनयाद् वासुदेवस्य भीमार्जुनबलेन च घातयित्वा जरासंधं चैद्यं च बलगर्वितम् दुर्योधनम् उपागच्छन्न् अर्हणानि ततस् ततः मणिकाञ्चनरत्नानि गोहस्त्यश्वधनानि च विचित्राणि च वासांसि प्रावारावरणानि च कम्बलाजिनरत्नानि राङ्कवास्तरणानि च समृद्धां तां तथा दृष्ट्वा पाण्डवानां तदा श्रियम् ईर्ष्यासमुत्थः सुमहांस् तस्य मन्युर् अजायत विमानप्रतिमां चापि मयेन सुकृतां सभाम् पाण्डवानाम् उपहृतां स दृष्ट्वा पर्यतप्यत यत्रावहसितश् चासीत् प्रस्कन्दन्न् इव संभ्रमात् प्रत्यक्षं वासुदेवस्य भीमेनानभिजातवत् स भोगान् विविधान् भुञ्जन् रत्नानि विविधानि च कथितो धृतराष्ट्रस्य विवर्णो हरिणः कृशः अन्वजानात् ततो द्यूतं धृतराष्ट्रः सुतप्रियः तच् छ्रुत्वा वासुदेवस्य कोपः समभवन् महान् नातिप्रीतमनाश् चासीद् विवादांश् चान्वमोदत द्यूतादीन् अनयान् घोरान् प्रवृद्धांश् चाप्य् उपैक्षत निरस्य विदुरं द्रोणं भीष्मं शारद्वतं कृपम् विग्रहे तुमुले तस्मिन्न् अहन् क्षत्रं परस्परम् जयत्सु पाण्डुपुत्रेषु श्रुत्वा सुमहद् अप्रियम् दुर्योधनमतं ज्ञात्वा कर्णस्य शकुनेस् तथा धृतराष्ट्रश् चिरं ध्यात्वा संजयं वाक्यम् अब्रवीत् शृणु संजय मे सर्वं न मे ऽसूयितुम् अर्हसि श्रुतवान् असि मेधावी बुद्धिमान् प्राज्ञसंमतः न विग्रहे मम मतिर् न च प्रीये कुरुक्षये न मे विशेषः पुत्रेषु स्वेषु पाण्डुसुतेषु च वृद्धं माम् अभ्यसूयन्ति पुत्रा मन्युपरायणाः अहं त्व् अचक्षुः कार्पण्यात् पुत्रप्रीत्या सहामि तत् मुह्यन्तं चानुमुह्यामि दुर्योधनम् अचेतनम् राजसूये श्रियं दृष्ट्वा पाण्डवस्य महौजसः तच् चावहसनं प्राप्य सभारोहणदर्शने अमर्षितः स्वयं जेतुम् अशक्तः पाण्डवान् रणे निरुत्साहश् च संप्राप्तुं श्रियम् अक्षत्रियो यथा गान्धारराजसहितश् छद्मद्यूतम् अमन्त्रयत् तत्र यद् यद् यथा ज्ञातं मया संजय तच् छृणु श्रुत्वा हि मम वाक्यानि बुद्ध्या युक्तानि तत्त्वतः ततो ज्ञास्यसि मां सौते प्रज्ञाचक्षुषम् इत्य् उत यदाश्रौषं धनुर् आयम्य चित्रं; विद्धं लक्ष्यं पातितं वै पृथिव्याम् कृष्णां हृतां पश्यतां सर्वराज्ञां; तदा नाशंसे विजयाय संजय यदाश्रौषं द्वारकायां सुभद्रां; प्रसह्योढां माधवीम् अर्जुनेन इन्द्रप्रस्थं वृष्णिवीरौ च यातौ; तदा नाशंसे विजयाय संजय यदाश्रौषं देवराजं प्रवृष्टं; शरैर् दिव्यैर् वारितं चार्जुनेन अग्निं तथा तर्पितं खाण्डवे च; तदा नाशंसे विजयाय संजय यदाश्रौषं जातुषाद् वेश्मनस् तान् मुक्तान् पार्थान् पञ्च कुन्त्या समेतान् युक्तं चैषां विदुरं स्वार्थसिद्ध्यै तदा नाशंसे विजयाय संजय यदाश्रौषं द्रौपदीं रङ्गमध्ये लक्ष्यं भित्त्वा निर्जिताम् अर्जुनेन शूरान् पाञ्चालान् पाण्डवेयांश् च युक्तांस् तदा नाशंसे विजयाय संजय यदाश्रौषं मागधानां वरिष्ठं जरासंधं क्षत्रमध्ये ज्वलन्तम् दोर्भ्यां हतं भीमसेनेन गत्वा तदा नाशंसे विजयाय संजय यदाश्रौषं दिग्जये पाण्डुपुत्रैर् वशीकृतान् भूमिपालान् प्रसह्य महाक्रतुं राजसूयं कृतं च तदा नाशंसे विजयाय संजय यदाश्रौषं सर्वविश्वस्य सारां प्रीत्या राज्ञे निर्मितां तां मयेन गदां चोग्रां भीमसेनाय दत्तां तदा नाशंसे विजयाय संजय यदाश्रौषं हृतराज्यं युधिष्ठिरं; पराजितं सौबलेनाक्षवत्याम् अन्वागतं भ्रातृभिर् अप्रमेयैस्; तदा नाशंसे विजयाय संजय यदाश्रौषं द्रौपदीम् अश्रुकण्ठीं; सभां नीतां दुःखिताम् एकवस्त्राम् रजस्वलां नाथवतीम् अनाथवत्; तदा नाशंसे विजयाय संजय यदाश्रौषं वाससां तत्र राशिं समाक्षिपत् कितवो मन्दबुद्धिः दुःशासनो गतवान् नैव चान्तं तदा नाशंसे विजयाय संजय यदाश्रौषं विविधास् तात चेष्टा; धर्मात्मनां प्रस्थितानां वनाय ज्येष्ठप्रीत्या क्लिश्यतां पाण्डवानां; तदा नाशंसे विजयाय संजय यदाश्रौषं द्रौपदीं तां ब्रुवाणां प्रव्रज्यायाम् अश्रुकण्ठीं रुदन्तीम् पत्यौ युक्तां नात्र वस्तुं हि धर्मस् तदा नाशंसे विजयाय संजय यदाश्रौषं स्नातकानां सहस्रैर्; अन्वागतं धर्मराजं वनस्थम् भिक्षाभुजां ब्राह्मणानां महात्मनां; तदा नाशंसे विजयाय संजय यदाश्रौषं वनवासेषु पार्थान् समागतान् ऋषिमुख्यैः पुराणैः उपास्यमानान् सगणैर् जातु सर्वांस् तदा नाशंसे विजयाय संजय यदाश्रौषम् अर्जुनो देवदेवं; किरातरूपं त्र्यम्बकं तोष्य युद्धे अवाप तत् पाशुपतं महास्त्रं; तदा नाशंसे विजयाय संजय यदाश्रौषं त्रिदिवस्थं धनंजयं; शक्रात् साक्षाद् दिव्यम् अस्त्रं यथावत् अधीयानं शंसितं सत्यसंधं; तदा नाशंसे विजयाय संजय यदाश्रौषं कालकेयास् ततस् ते पौलोमानो वरदत्ताश् च दृप्ताः देवैर् अजेया निर्जिता अर्जुनेन तदा नाशंसे विजयाय संजय यदाश्रौषम् असुराणां वधार्थं किरीटिनं यातम् अमित्रकर्षणम् कृतार्थं चाप्य् आगतं शक्रलोकात् तदा नाशंसे विजयाय संजय यदाश्रौषं तीर्थयात्राप्रवृत्तं पाण्डोः सुतं सहितं रोमशेन तस्माच् छ्रुतं चार्जुनस्यास्त्रलाभं तदा नाशंसे विजयाय संजय यदाश्रौषं वैश्रवणेन सार्धं; समागतं भीमम् अन्यांश् च पार्थान् तस्मिन् देशे मानुषाणाम् अगम्ये; तदा नाशंसे विजयाय संजय यदाश्रौषं घोषयात्रागतानां; बन्धं गन्धर्वैर् मोक्षणं चार्जुनेन स्वेषां सुतानां कर्णबुद्धौ रतानां; तदा नाशंसे विजयाय संजय यदाश्रौषं द्रौपदीं सैन्धवेन नानीतां (सिच्) मोक्षितां चार्जुनेन जयद्रथं मोक्षितं जीवशेषं तदा नाशंसे विजयाय संजय यदाश्रौषं यक्षरूपेण धर्मं; समागतं धर्मराजेन सूत प्रश्नान् उक्तान् विब्रुवन्तं च सम्यक्; तदा नाशंसे विजयाय संजय यदाश्रौषं न विदुर् मामकास् तान् प्रच्छन्नरूपान् वसतः पाण्डवेयान् विराटराष्ट्रे सह कृष्णया तांस् तदा नाशंसे विजयाय संजय यदाश्रौषं तान् अथाज्ञातवासे त्व् अपश्यमानान् विविधैर् उपायैः दक्षान् पार्थान् मे सुतैर् अग्निकल्पांस् तदा नाशंसे विजयाय संजय यदाश्रौषं कीचकानां वरिष्ठं निषूदितं भ्रातृशतेन सार्धम् द्रौपद्यर्थं भीमसेनेन संख्ये तदा नाशंसे विजयाय संजय यदाश्रौषं वसतः पाण्डुपुत्रान् अदृश्यमानान् विविधैर् उपायैः दक्षान् पार्थान् भीमसेनेन संख्ये तदा नाशंसे विजयाय संजय यदाश्रौषं मामकानां वरिष्ठान्; धनंजयेनैकरथेन भग्नान् विराटराष्ट्रे वसता महात्मना; तदा नाशंसे विजयाय संजय यदाश्रौषं सत्कृतां मत्स्यराज्ञा; सुतां दत्ताम् उत्तराम् अर्जुनाय तां चार्जुनः प्रत्यगृह्णात् सुतार्थे; तदा नाशंसे विजयाय संजय यदाश्रौषं निर्जितस्याधनस्य; प्रव्राजितस्य स्वजनात् प्रच्युतस्य अक्षौहिणीः सप्त युधिष्ठिरस्य; तदा नाशंसे विजयाय संजय यदाश्रौषं नरनारायणौ तौ; कृष्णार्जुनौ वदतो नारदस्य अहं द्रष्टा ब्रह्मलोके सदेति; तदा नाशंसे विजयाय संजय यदाश्रौषं माधवं वासुदेवं; सर्वात्मना पाण्डवार्थे निविष्टम् यस्येमां गां विक्रमम् एकम् आहुस्; तदा नाशंसे विजयाय संजय यदाश्रौषं लोकहिताय कृष्णं शमार्थिनम् उपयातं कुरूणाम् शमं कुर्वाणम् अकृतार्थं च यातं तदा नाशंसे विजयाय संजय यदाश्रौषं कर्णदुर्योधनाभ्यां; बुद्धिं कृतां निग्रहे केशवस्य तं चात्मानं बहुधा दर्शयानं; तदा नाशंसे विजयाय संजय यदाश्रौषं वासुदेवे प्रयाते; रथस्यैकाम् अग्रतस् तिष्ठमानाम् आर्तां पृथां सान्त्वितां केशवेन; तदा नाशंसे विजयाय संजय यदाश्रौषं वासुदेवे प्रयाते रथाङ्गहस्ते फाल्गुनेनान्विते ऽपि ग्रहीतुकामं मम पुत्रं द्विपेन तदा नाशंसे विजयाय संजय यदाश्रौषं मन्त्रिणं वासुदेवं; तथा भीष्मं शांतनवं च तेषाम् भारद्वाजं चाशिषो ऽनुब्रुवाणं; तदा नाशंसे विजयाय संजय यदाश्रौषं कर्ण उवाच भीष्मं; नाहं योत्स्ये युध्यमाने त्वयीति हित्वा सेनाम् अपचक्राम चैव; तदा नाशंसे विजयाय संजय यदाश्रौषं वासुदेवार्जुनौ तौ; तथा धनुर् गाण्डिवम् अप्रमेयम् त्रीण्य् उग्रवीर्याणि समागतानि; तदा नाशंसे विजयाय संजय यदाश्रौषं कश्मलेनाभिपन्ने; रथोपस्थे सीदमाने ऽर्जुने वै कृष्णं लोकान् दर्शयानं शरीरे; तदा नाशंसे विजयाय संजय यदाश्रौषं भीष्मम् अमित्रकर्शनं; निघ्नन्तम् आजाव् अयुतं रथानाम् नैषां कश् चिद् वध्यते दृश्यरूपस्; तदा नाशंसे विजयाय संजय यदाश्रौषं चापगेयेन संख्ये स्वयं मृत्युं विहितं धार्मिकेण तच् चाकार्षुः पाण्डवेयाः प्रहृष्टास् तदा नाशंसे विजयाय संजय यदाश्रौषं भीष्मम् अत्यन्तशूरं; हतं पार्थेनाहवेष्व् अप्रधृष्यम् शिखण्डिनं पुरतः स्थापयित्वा; तदा नाशंसे विजयाय संजय यदाश्रौषं शरतल्पे शयानं; वृद्धं वीरं सादितं चित्रपुङ्खैः भीष्मं कृत्वा सोमकान् अल्पशेषांस्; तदा नाशंसे विजयाय संजय यदाश्रौषं शांतनवे शयाने; पानीयार्थे चोदितेनार्जुनेन भूमिं भित्त्वा तर्पितं तत्र भीष्मं; तदा नाशंसे विजयाय संजय यदाश्रौषं शुक्रसूर्यौ च युक्तौ; कौन्तेयानाम् अनुलोमौ जयाय नित्यं चास्माञ् श्वापदा व्याभषन्तस्; तदा नाशंसे विजयाय संजय यदा द्रोणो विविधान् अस्त्रमार्गान्; विदर्शयन् समरे चित्रयोधी न पाण्डवाञ् श्रेष्ठतमान् निहन्ति; तदा नाशंसे विजयाय संजय यदाश्रौषं चास्मदीयान् महारथान्; व्यवस्थितान् अर्जुनस्यान्तकाय संशप्तकान् निहतान् अर्जुनेन; तदा नाशंसे विजयाय संजय यदाश्रौषं व्यूहम् अभेद्यम् अन्यैर्; भारद्वाजेनात्तशस्त्रेण गुप्तम् भित्त्वा सौभद्रं वीरम् एकं प्रविष्टं; तदा नाशंसे विजयाय संजय यदाभिमन्युं परिवार्य बालं; सर्वे हत्वा हृष्टरूपा बभूवुः महारथाः पार्थम् अशक्नुवन्तस्; तदा नाशंसे विजयाय संजय यदाश्रौषम् अभिमन्युं निहत्य; हर्षान् मूढान् क्रोशतो धार्तराष्ट्रान् क्रोधं मुक्तं सैन्धवे चार्जुनेन; तदा नाशंसे विजयाय संजय यदाश्रौषं सैन्धवार्थे प्रतिज्ञां; प्रतिज्ञातां तद्वधायार्जुनेन सत्यां निस्तीर्णां शत्रुमध्ये च तेन; तदा नाशंसे विजयाय संजय यदाश्रौषं श्रान्तहये धनंजये; मुक्त्वा हयान् पाययित्वोपवृत्तान् पुनर् युक्त्वा वासुदेवं प्रयातं; तदा नाशंसे विजयाय संजय यदाश्रौषं वाहनेष्व् आश्वसत्सु; रथोपस्थे तिष्ठता गाण्डिवेन सर्वान् योधान् वारितान् अर्जुनेन; तदा नाशंसे विजयाय संजय यदाश्रौषं नागबलैर् दुरुत्सहं; द्रोणानीकं युयुधानं प्रमथ्य यातं वार्ष्णेयं यत्र तौ कृष्णपार्थौ; तदा नाशंसे विजयाय संजय यदाश्रौषं कर्णम् आसाद्य मुक्तं; वधाद् भीमं कुत्सयित्वा वचोभिः धनुष्कोट्या तुद्य कर्णेन वीरं; तदा नाशंसे विजयाय संजय यदा द्रोणः कृतवर्मा कृपश् च; कर्णो द्रौणिर् मद्रराजश् च शूरः अमर्षयन् सैन्धवं वध्यमानं; तदा नाशंसे विजयाय संजय यदाश्रौषं देवराजेन दत्तां; दिव्यां शक्तिं व्यंसितां माधवेन घटोत्कचे राक्षसे घोररूपे; तदा नाशंसे विजयाय संजय यदाश्रौषं कर्णघटोत्कचाभ्यां; युद्धे मुक्तां सूतपुत्रेण शक्तिम् यया वध्यः समरे सव्यसाची; तदा नाशंसे विजयाय संजय यदाश्रौषं द्रोणम् आचार्यम् एकं; धृष्टद्युम्नेनाभ्यतिक्रम्य धर्मम् रथोपस्थे प्रायगतं विशस्तं; तदा नाशंसे विजयाय संजय यदाश्रौषं द्रौणिना द्वैरथस्थं; माद्रीपुत्रं नकुलं लोकमध्ये समं युद्धे पाण्डवं युध्यमानं; तदा नाशंसे विजयाय संजय यदा द्रोणे निहते द्रोणपुत्रो; नारायणं दिव्यम् अस्त्रं विकुर्वन् नैषाम् अन्तं गतवान् पाण्डवानां; तदा नाशंसे विजयाय संजय यदाश्रौषं भीमसेनेन पीतं रक्तं भ्रातुर् युधि दुःशासनस्य निवारितं नान्यतमेन भीमं तदा नाशंसे विजयाय संजय यदाश्रौषं भीमकर्माणम् उग्रं रणे भीमं शोणितं पीतवन्तम् भित्त्वा वक्षो युवराजस्य सूत तदा नाशंसे विजयाय संजय यदाश्रौषं कर्णम् अत्यन्तशूरं; हतं पार्थेनाहवेष्व् अप्रधृष्यम् तस्मिन् भ्रातॄणां विग्रहे देवगुह्ये; तदा नाशंसे विजयाय संजय यदाश्रौषं द्रोणपुत्रं कृपं च; दुःशासनं कृतवर्माणम् उग्रम् युधिष्ठिरं शून्यम् अधर्षयन्तं; तदा नाशंसे विजयाय संजय यदाश्रौषं निहतं मद्रराजं; रणे शूरं धर्मराजेन सूत सदा संग्रामे स्पर्धते यः स कृष्णं; तदा नाशंसे विजयाय संजय यदाश्रौषं कलहद्यूतमूलं; मायाबलं सौबलं पाण्डवेन हतं संग्रामे सहदेवेन पापं; तदा नाशंसे विजयाय संजय यदाश्रौषं श्रान्तम् एकं शयानं; ह्रदं गत्वा स्तम्भयित्वा तद् अम्भः दुर्योधनं विरथं भग्नदर्पं; तदा नाशंसे विजयाय संजय यदाश्रौषं पाण्डवांस् तिष्ठमानान्; गङ्गाह्रदे वासुदेवेन सार्धम् अमर्षणं धर्षयतः सुतं मे; तदा नाशंसे विजयाय संजय यदाश्रौषं विविधांस् तात मार्गान्; गदायुद्धे मण्डलं संचरन्तम् मिथ्या हतं वासुदेवस्य बुद्ध्या; तदा नाशंसे विजयाय संजय यदाश्रौषं द्रोणपुत्रादिभिस् तैर्; हतान् पाञ्चालान् द्रौपदेयांश् च सुप्तान् कृतं बीभत्सम् अयशस्यं च कर्म; तदा नाशंसे विजयाय संजय यदाश्रौषं भीमसेनानुयातेन; अश्वत्थाम्ना परमास्त्रं प्रयुक्तम् क्रुद्धेनैषीकम् अवधीद् येन गर्भं; तदा नाशंसे विजयाय संजय यदाश्रौषं ब्रह्मशिरो ऽर्जुनेन; मुक्तं स्वस्तीत्य् अस्त्रम् अस्त्रेण शान्तम् अश्वत्थाम्ना मणिरत्नं च दत्तं; तदा नाशंसे विजयाय संजय यदाश्रौषं द्रोणपुत्रेण गर्भे; वैराट्या वै पात्यमाने महास्त्रे संजीवयामीति हरेः प्रतिज्ञां तदा नाशंसे विजयाय संजय द्वैपायनः केशवो द्रोणपुत्रं; परस्परेणाभिशापैः शशाप बुद्ध्वा चाहं बुद्धिहीनो ऽद्य सूत संतप्ये ऽहं पुत्रपौत्रैश् च हीनः संचिन्तयन्न् अद्य विहीनबुद्धिः कर्तव्यतां नाभिजानामि सूत शोच्या गान्धारी पुत्रपौत्रैर् विहीना; तथा वध्वः पितृभिर् भ्रातृभिश् च कृतं कार्यं दुष्करं पाण्डवेयैः; प्राप्तं राज्यम् असपत्नं पुनस् तैः कष्टं युद्धे दश शेषाः श्रुता मे; त्रयो ऽस्माकं पाण्डवानां च सप्त द्व्यूना विंशतिर् आहताक्षौहिणीनां; तस्मिन् संग्रामे विग्रहे क्षत्रियाणाम् कालाभिपन्ना समितिर् महात्मनां निषूदिता हेतुर् आसीत् सुतो मे तमसा त्व् अभ्यवस्तीर्णो मोह आविशतीव माम् संज्ञां नोपलभे सूत मनो विह्वलतीव मे इत्य् उक्त्वा धृतराष्ट्रो ऽथ विलप्य बहुदुःखितः मूर्च्छितः पुनर् आश्वस्तः संजयं वाक्यम् अब्रवीत् संजयैवंगते प्राणांस् त्यक्तुम् इच्छामि माचिरम् स्तोकं ह्य् अपि न पश्यामि फलं जीवितधारणे तं तथावादिनं दीनं विलपन्तं महीपतिम् निःश्वसन्तं यथा नागं मुह्यमानं पुनः पुनः गावल्गणिर् इदं धीमान् महार्थं वाक्यम् अब्रवीत् श्रुतवान् असि वै राज्ञो महोत्साहान् महाबलान् द्वैपायनस्य वदतो नारदस्य च धीमतः महत्सु राजवंशेषु गुणैः समुदितेषु च जातान् दिव्यास्त्रविदुषः शक्रप्रतिमतेजसः धर्मेण पृथिवीं जित्वा यज्ञैर् इष्ट्वाप्तदक्षिणैः अस्मिंल् लोके यशः प्राप्य ततः कालवशं गताः वैन्यं महारथं वीरं सृञ्जयं जयतां वरम् सुहोत्रं रन्तिदेवं च कक्षीवन्तं तथौशिजम् बाह्लीकं दमनं शैब्यं शर्यातिम् अजितं जितम् विश्वामित्रम् अमित्रघ्नम् अम्बरीषं महाबलम् मरुत्तं मनुम् इक्ष्वाकुं गयं भरतम् एव च रामं दाशरथिं चैव शशबिन्दुं भगीरथम् कृतवीर्यं महाभागं तथैव जनमेजयम् ययातिं शुभकर्माणं देवैर् यो याजितः स्वयम् चैत्ययूपाङ्किता भूमिर् यस्येयं सवनाकरा इति राज्ञां चतुर्विंशन् नारदेन सुरर्षिणा पुत्रशोकाभितप्ताय पुरा शैब्याय कीर्तिताः तेभ्यश् चान्ये गताः पूर्वं राजानो बलवत्तराः महारथा महात्मानः सर्वैः समुदिता गुणैः पूरुः कुरुर् यदुः शूरो विष्वगश्वो महाधृतिः अनेना युवनाश्वश् च ककुत्स्थो विक्रमी रघुः विजिती वीतिहोत्रश् च भवः श्वेतो बृहद्गुरुः उशीनरः शतरथः कङ्को दुलिदुहो द्रुमः दम्भोद्भवः परो वेनः सगरः संकृतिर् निमिः अजेयः परशुः पुण्ड्रः शम्भुर् देवावृधो ऽनघः देवाह्वयः सुप्रतिमः सुप्रतीको बृहद्रथः महोत्साहो विनीतात्मा सुक्रतुर् नैषधो नलः सत्यव्रतः शान्तभयः सुमित्रः सुबलः प्रभुः जानुजङ्घो ऽनरण्यो ऽर्कः प्रियभृत्यः शुभव्रतः बलबन्धुर् निरामर्दः केतुशृङ्गो बृहद्बलः धृष्टकेतुर् बृहत्केतुर् दीप्तकेतुर् निरामयः अविक्षित् प्रबलो धूर्तः कृतबन्धुर् दृढेषुधिः महापुराणः संभाव्यः प्रत्यङ्गः परहा श्रुतिः एते चान्ये च बहवः शतशो ऽथ सहस्रशः श्रूयन्ते ऽयुतशश् चान्ये संख्याताश् चापि पद्मशः हित्वा सुविपुलान् भोगान् बुद्धिमन्तो महाबलाः राजानो निधनं प्राप्तास् तव पुत्रैर् महत्तमाः येषां दिव्यानि कर्माणि विक्रमस् त्याग एव च माहात्म्यम् अपि चास्तिक्यं सत्यता शौचम् आर्जवम् विद्वद्भिः कथ्यते लोके पुराणैः कविसत्तमैः सर्वर्द्धिगुणसंपन्नास् ते चापि निधनं गताः तव पुत्रा दुरात्मानः प्रतप्ताश् चैव मन्युना लुब्धा दुर्वृत्तभूयिष्ठा न ताञ् शोचितुम् अर्हसि श्रुतवान् असि मेधावी बुद्धिमान् प्राज्ञसंमतः येषां शास्त्रानुगा बुद्धिर् न ते मुह्यन्ति भारत निग्रहानुग्रहौ चापि विदितौ ते नराधिप नात्यन्तम् एवानुवृत्तिः श्रूयते पुत्ररक्षणे भवितव्यं तथा तच् च नातः शोचितुम् अर्हसि दैवं प्रज्ञाविशेषेण को निवर्तितुम् अर्हति विधातृविहितं मार्गं न कश् चिद् अतिवर्तते कालमूलम् इदं सर्वं भावाभावौ सुखासुखे कालः पचति भूतानि कालः संहरति प्रजाः निर्दहन्तं प्रजाः कालं कालः शमयते पुनः कालो विकुरुते भावान् सर्वांल् लोके शुभाशुभान् कालः संक्षिपते सर्वाः प्रजा विसृजते पुनः कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः संजय उवाच अतीतान् आगतान् वापि वर्तमानास् तथा बुधाः नानुशोचन्ति राजेन्द्र कालो हि जगदन्तकः कालः सर्वेषु भूतेषु चरत्य् अविधृतः समः अतीतानागता भावा ये च वर्तन्ति सांप्रतम् तान् कालनिर्मितान् बुद्ध्वा न संज्ञां हातुम् अर्हसि इत्य् एवं पुत्रशोकार्तं धृतराष्ट्रं जनेश्वरम् आश्वास्य स्वस्थम् अकरोत् सूतो गावल्गणिस् तदा एवम् उक्त्वा च राजानं संजयो विरराम ह धृतराष्ट्रो ऽपि तच् छ्रुत्वा धृतिम् एव समाश्रयत् दिष्ट्येदम् आगतम् इति मत्वा स प्राज्ञसत्तमः सूत उवाच अत्रोपनिषदं पुण्यां कृष्णद्वैपायनो ऽब्रवीत् भारताध्ययनात् पुण्याद् अपि पादम् अधीयतः श्रद्दधानस्य पूयन्ते सर्वपापान्य् अशेषतः लोकानां च हितार्थाय कारुण्यान् मुनिसत्तमः भारतं भानुमान् इन्दुर् यदि न स्युर् अमी त्रयः अज्ञानतिमिरान्धस्य कावस्था जगतो भवेत् मतिमन्थानम् आविध्य येन वेदमहार्णवात् जगद्धिताय जनितो महाभारतचन्द्रमाः देवर्षयो ह्य् अत्र पुण्या ब्रह्मराजर्षयस् तथा कीर्त्यन्ते शुभकर्माणस् तथा यक्षमहोरगाः भगवान् वासुदेवश् च कीर्त्यते ऽत्र सनातनः स हि सत्यम् ऋतं चैव पवित्रं पुण्यम् एव च शाश्वतं ब्रह्म परमं ध्रुवं ज्योतिः सनातनम् यस्य दिव्यानि कर्माणि कथयन्ति मनीषिणः असत् सत् सद् असच् चैव यस्माद् देवात् प्रवर्तते संततिश् च प्रवृत्तिश् च जन्म मृत्युः पुनर्भवः अध्यात्मं श्रूयते यच् च पञ्चभूतगुणात्मकम् अव्यक्तादि परं यच् च स एव परिगीयते यत् तद् यतिवरा युक्ता ध्यानयोगबलान्विताः प्रतिबिम्बम् इवादर्शे पश्यन्त्य् आत्मन्य् अवस्थितम् श्रद्दधानः सदोद्युक्तः सत्यधर्मपरायणः आसेवन्न् इमम् अध्यायं नरः पापात् प्रमुच्यते अनुक्रमणिम् अध्यायं भारतस्येमम् आदितः आस्तिकः सततं शृण्वन् न कृच्छ्रेष्व् अवसीदति उभे संध्ये जपन् किं चित् सद्यो मुच्येत किल्बिषात् अनुक्रमण्या यावत् स्याद् अह्ना रात्र्या च संचितम् भारतस्य वपुर् ह्य् एतत् सत्यं चामृतम् एव च दिव्या यज्ञाश् च निखिला विष्णुश् चोपनिषन् महत् आरण्यकं च वेदेभ्य ओषधिभ्यो ऽमृतं यथा नवनीतं यथा दध्नो द्विपदां ब्राह्मणो यथा ह्रदानाम् उदधिः श्रेष्ठो गौर् वरिष्ठा चतुष्पदाम् यथैतानि वरिष्ठानि तथा भारतम् उच्यते यश् चैनं श्रावयेच् छ्राद्धे ब्राह्मणान् पादम् अन्ततः अक्षय्यम् अन्नपानं तत् पितॄंस् तस्योपतिष्ठति इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् बिभेत्य् अल्पश्रुताद् वेदो माम् अयं प्रतरिष्यति कार्ष्णं वेदम् इमं विद्वाञ् श्रावयित्वार्थम् अश्नुते भ्रूणहत्याकृतं चापि पापं जह्यान् न संशयः य इमं शुचिर् अध्यायं पठेत् पर्वणि पर्वणि अधीतं भारतं तेन कृत्स्नं स्याद् इति मे मतिः यश् चेमं शृणुयान् नित्यम् आर्षं श्रद्धासमन्वितः स दीर्घम् आयुः कीर्तिं च स्वर्गतिं चाप्नुयान् नरः चत्वार एकतो वेदा भारतं चैकम् एकतः समागतैः सुरर्षिभिस् तुलाम् आरोपितं पुरा चतुर्भ्यः सरहस्येभ्यो वेदेभ्यो ह्य् अधिकं यदा तदा प्रभृति लोके ऽस्मिन् महाभारतम् उच्यते महत्त्वे च गुरुत्वे च ध्रियमाणं ततो ऽधिकम् महत्त्वाद् भारवत्त्वाच् च महाभारतम् उच्यते निरुक्तम् अस्य यो वेद सर्वपापैः प्रमुच्यते तपो न कल्को ऽध्ययनं न कल्कः; स्वाभाविको वेदविधिर् न कल्कः प्रसह्य वित्ताहरणं न कल्कस्; तान्य् एव भावोपहतानि कल्कः श्रीसूतः कृष्णद्वैपायनं व्यासं विद्धि नारायणं विभुम् को ह्य् अन्यः पुण्डरीकाक्षान् महाभारतकृद् भवेत् मतिमन्थानम् आविध्य येन वेदमहार्णवात् जगद्धिताय जनितो महाभारतचन्द्रमाः स्तुत्यं तस्यास्ति किं चान्यत् सर्वलोकहितैषिणः वेदा व्यस्ताः कृतं तेन महाभारतम् अद्भुतम् सर्वे तरन्तु दुर्गाणि सर्वो भद्राणि पश्यतु इत्य् उक्त्वा सर्ववेदार्थान् भारते तेन दर्शिताः श्रूयतां सिंहनादो ऽयम् ऋषभस्य महात्मनः धर्मे चार्थे च कामे च मोक्षे च परमर्षभ यद् इहास्ति तद् अन्यत्र यन् नेहास्ति न तत् क्व चित् एष प्रकृत्यैव यतो लोकः सक्तो ऽर्थकामयोः धर्ममोक्षपरं तस्मात् करिष्ये ऽहं समुच्चयम् कामिनो वर्णयन् कामं लोभं लुब्धस्य वर्णयन् नरः किं फलम् आप्नोति कूपे ऽन्धम् इव पातयन् मुनिनापि च कामार्थौ मत्वा लोकमनोहरौ निन्द्याव् अपि स्थिताव् एतौ धर्ममोक्षविवक्षया अन्यथा घोरसंसारबन्धहेतू जनस्य तौ वर्णयेत कथं धीमान् महाकारुणिको मुनिः लोकचिन्तावतारार्थं वर्णयित्वा च तेन तौ इतिहासैर् विचित्रार्थैः पुनर् अत्रैव निन्दितौ भारतं भानुमान् इन्दुर् यदि न स्युर् अमी त्रयः अज्ञानतिमिरान्धे का व्यवस्था जगतो भवेत् एतद् विज्ञाय विद्वद्भिर् नित्यं श्रद्धासमन्वितैः अध्येयो भारतीयो ऽयम् इतिहाससमुच्चयः श्लोका ये भारते वापि क्व चित् के चिद् व्यवस्थिताः तुल्यार्थास् संहितां पुण्यां योजयिष्ये तु ताम् अहम् तच् छ्लोकांश् च समुद्धर्तुं कः कृत्स्नान् भारते क्षमः योगतः सर्वरत्नानि समुद्धर्तुं महार्णवात् न च प्रज्ञाभिमानेन यद् अयं कर्तुम् उद्यतः किं तु भारतभक्तिर् मां विवशं समचूचुदत् ऋषय ऊचुः समन्तपञ्चकम् इति यद् उक्तं सूतनन्दन एतत् सर्वं यथान्यायं श्रोतुम् इच्छामहे वयम् सूत उवाच शुश्रूषा यदि वो विप्रा ब्रुवतश् च कथाः शुभाः समन्तपञ्चकाख्यं च श्रोतुम् अर्हथ सत्तमाः त्रेताद्वापरयोः संधौ रामः शस्त्रभृतां वरः असकृत् पार्थिवं क्षत्रं जघानामर्षचोदितः स सर्वं क्षत्रम् उत्साद्य स्ववीर्येणानलद्युतिः समन्तपञ्चके पञ्च चकार रुधिरह्रदान् योजयानाम् अविस्तीर्णाञ् जामदग्न्यः प्रतापवान् स तेषु रुधिराम्भस्सु ह्रदेषु क्रोधमूर्च्छितः पितॄन् संतर्पयाम् आस रुधिरेणेति नः श्रुतम् अथर्चीकादयो ऽभ्येत्य पितरो ब्राह्मणर्षभम् राम उवाच राम राम महाभाग प्रीताः स्म तव भार्गव अनया पितृभक्त्या च विक्रमेण च ते विभो वरं वृणीष्व भद्रं ते किम् इच्छसि महाद्युते यदि मे पितरः प्रीता यद्य् अनुग्राह्यता मयि यच् च रोषाभिभूतेन क्षत्रम् उत्सादितं मया अतश् च पापान् मुच्येहम् एष मे प्रार्थितो वरः ह्रदाश् च तीर्थभूता मे भवेयुर् भुवि विश्रुताः एवं भविष्यतीत्य् आहुः पितरो ब्राह्मणर्षभाः तं क्षमस्वेति सिषिधुस् ततः स विरराम ह तेषां समीपे यो देशो ह्रदानां रुधिराम्भसाम् समन्तपञ्चकम् इति पुण्यं तत्परिकीर्तितम् येन लिङ्गेन यो देशो युक्तः समुपलक्ष्यते तेनैव नाम्ना तं देशं वाच्यम् आहुर् मनीषिणः अन्तरे चैव संप्राप्ते कलिद्वापरयोर् अभूत् समन्तपञ्चके युद्धं कुरुपाण्डवसेनयोः तस्मिन् परमधर्मिष्ठे देशे भूदोषवर्जिते अष्टादश समाजग्मुर् अक्षौहिण्यो युयुत्सया समेत्य तं द्विजास् ताश् च तत्रैव निधनं गताः एवं नामाभिनिर्वृत्तं तस्य देशस्य वै द्विजाः पुण्यश् च रमणीयश् च स देशो वः प्रकीर्तितः तद् एतत् कथितं सर्वं मया वो मुनिसत्तमाः यथा देशः स विख्यातस् त्रिषु लोकेषु विश्रुतः ऋषय ऊचुः अक्षौहिण्य इति प्रोक्तं यत् त्वया सूतनन्दन एतद् इच्छामहे श्रोतुं सर्वम् एव यथातथम् अक्षौहिण्याः परीमाणं रथाश्वनरदन्तिनाम् यथावच् चैव नो ब्रूहि सर्वं हि विदितं तव सूत उवाच एको रथो गजश् चैको नराः पञ्च पदातयः त्रयश् च तुरगास् तज्ज्ञैः पत्तिर् इत्य् अभिधीयते पत्तिं तु त्रिगुणाम् एताम् आहुः सेनामुखं बुधाः त्रीणि सेनामुखान्य् एको गुल्म इत्य् अभिधीयते त्रयो गुल्मा गणो नाम वाहिनी तु गणास् त्रयः स्मृतास् तिस्रस् तु वाहिन्यः पृतनेति विचक्षणैः चमूस् तु पृतनास् तिस्रस् तिस्रश् चम्वस् त्व् अनीकिनी अनीकिनीं दशगुणां प्राहुर् अक्षौहिणीं बुधाः अक्षौहिण्याः प्रसंख्यानं रथानां द्विजसत्तमाः संख्यागणिततत्त्वज्ञैः सहस्राण्य् एकविंशतिः शतान्य् उपरि चैवाष्टौ तथा भूयश् च सप्ततिः गजानां तु परीमाणम् एतद् एवात्र निर्दिशेत् ज्ञेयं शतसहस्रं तु सहस्राणि तथा नव नराणाम् अपि पञ्चाशच् छतानि त्रीणि चानघाः पञ्चषष्टिसहस्राणि तथाश्वानां शतानि च दशोत्तराणि षट् प्राहुर् यथावद् इह संख्यया एताम् अक्षौहिणीं प्राहुः संख्यातत्त्वविदो जनाः यां वः कथितवान् अस्मि विस्तरेण द्विजोत्तमाः एतया संख्यया ह्य् आसन् कुरुपाण्डवसेनयोः अक्षौहिण्यो द्विजश्रेष्ठाः पिण्डेनाष्टादशैव ताः समेतास् तत्र वै देशे तत्रैव निधनं गताः कौरवान् कारणं कृत्वा कालेनाद्भुतकर्मणा अहानि युयुधे भीष्मो दशैव परमास्त्रवित् अहानि पञ्च द्रोणस् तु ररक्ष कुरुवाहिनीम् अहनी युयुधे द्वे तु कर्णः परबलार्दनः शल्यो ऽर्धदिवसं त्व् आसीद् गदायुद्धम् अतः परम् दुर्योधनस्य भीमस्य दिनार्धम् अभवत् तयोः तस्यैव तु दिनस्यान्ते हार्दिक्यद्रौणिगौतमाः प्रसुप्तं निशि विश्वस्तं जघ्नुर् यौधिष्ठिरं बलम् यत् तु शौनकसत्रे ते भारताख्यानविस्तरम् जनमेजयस्य तत्सत्रे व्यासशिष्येण धीमता कथितं विस्तरार्थं च यशो वीर्यं महीक्षिताम् आख्यानं कथितं कृत्स्नं महाभारतम् उत्तमम् आख्यास्ये तत्र पौलोमम् आख्यानं चादितः परम् विचित्रार्थपदाख्यानम् अनेकसमयान्वितम् अभिपन्नं नरैः प्राज्ञैर् वैराग्यम् इव मोक्षिभिः आत्मेव वेदितव्येषु प्रियेष्व् इव च जीवितम् इतिहासः प्रधानार्थः श्रेष्ठः सर्वागमेष्व् अयम् इतिहासोत्तमे ह्य् अस्मिन्न् अर्पिता बुद्धिर् उत्तमा स्वरव्यञ्जनयोः कृत्स्ना लोकवेदाश्रयेव वाक् अस्य प्रज्ञाभिपन्नस्य विचित्रपदपर्वणः भारतस्येतिहासस्य श्रूयतां पर्वसंग्रहः आदिपर्व पुरा प्रोक्तं पाराशर्येण धीमता पर्वानुक्रमणी पूर्वं द्वितीयं पर्वसंग्रहः पौष्यं पौलोमम् आस्तीकम् आदिवंशावतारणम् ततः संभवपर्वोक्तम् अद्भुतं देवनिर्मितम् दाहो जतुगृहस्यात्र हैडिम्बं पर्व चोच्यते ततो बकवधः पर्व पर्व चैत्ररथं ततः ततः स्वयंवरं देव्याः पाञ्चाल्याः पर्व चोच्यते क्षत्रधर्मेण निर्जित्य ततो वैवाहिकं स्मृतम् विदुरागमनं पर्व राज्यलम्भस् तथैव च अर्जुनस्य वने वासः सुभद्राहरणं ततः सुभद्राहरणाद् ऊर्ध्वं ज्ञेयं हरणहारिकम् ततः खाण्डवदाहाख्यं तत्रैव मयदर्शनम् सभापर्व ततः प्रोक्तं मन्त्रपर्व ततः परम् जरासंधवधः पर्व पर्व दिग्विजयस् तथा पर्व दिग्विजयाद् ऊर्ध्वं राजसूयिकम् उच्यते ततश् चार्घाभिहरणं शिशुपालवधस् ततः द्यूतपर्व ततः प्रोक्तम् अनुद्यूतम् अतः परम् तत आरण्यकं पर्व किर्मीरवध एव च अर्जुनस्याभिगमनं पर्व ज्ञेयम् अतः परम् ईश्वरार्जुनयोर् युद्धं पर्व कैरातसंज्ञितम् इन्द्रलोकाभिगमनं पर्व ज्ञेयम् अतः परम् तीर्थयात्रा ततः पर्व कुरुराजस्य धीमतः जटासुरवधः पर्व यक्षयुद्धम् अतः परम् अर्जुनस्यास्त्रसंप्राप्तिर् अर्जुनागमनं ततः निवातकवचैर् युद्धं पर्व चाजगरं ततः तथैवाजगरं पर्व विज्ञेयं तदनन्तरम् मार्कण्डेयसमस्या च पर्वोक्तं तदनन्तरम् संवादश् च ततः पर्व द्रौपदीसत्यभामयोः घोषयात्रा ततः पर्व मृगस्वप्नभयं ततः रामाख्यानं ततः पर्व सावित्र्याख्यानम् एव च पतिव्रताया माहात्म्यं सावित्र्याश् चैवम् अद्भुतम् रामोपाख्यानम् अत्रैव पर्व ज्ञेयम् अतः परम् व्रीहिद्रौणिकम् आख्यानं ततो ऽनन्तरम् उच्यते मन्त्रस्य निश्चयं कृत्वा कार्यस्यापि विचिन्तयन् नलाख्यानम् अतः पर्व मृगस्वप्नम् अतः परम् ततो नहुषम् आख्यानं ततो ऽनन्तरम् उच्यते द्रौपदीहरणं पर्व सैन्धवेन वनात् ततः कुण्डलाहरणं पर्व ततः परम् इहोच्यते आरणेयं ततः पर्व वैराटं तदनन्तरम् पाण्डवानां प्रवेशश् च समयस्य च पालनम् कीचकानां वधः पर्व पर्व गोग्रहणं ततः अभिमन्युना च वैराट्याः पर्व वैवाहिकं स्मृतम् उद्योगपर्व विज्ञेयम् अत ऊर्ध्वं महाद्भुतम् ततः संजययानाख्यं पर्व ज्ञेयम् अतः परम् प्रजागरं ततः पर्व धृतराष्ट्रस्य चिन्तया पर्व सानत्सुजातं च गुह्यम् अध्यात्मदर्शनम् यानसंधिस् ततः पर्व भगवद् यानम् एव च मातलीयम् उपाख्यानं चरितं गालवस्य च सावित्रं वामदेव्यं च वैन्योपाख्यानम् एव च जामदग्न्यम् उपाख्यानं पर्व षोडशराजकम् सभाप्रवेशः कृष्णस्य विदुलापुत्रशासनम् उद्योगः सैन्यनिर्याणं श्वेतोपाख्यानम् एव च ज्ञेयं विवादपर्वात्र कर्णस्यापि महात्मनः मन्त्रस्य निश्चयं कृत्वा कार्यं समभिचिन्ततम् कीर्त्यते चाप्य् उपाख्यानं सैनापत्ये ऽभिषेचनम् श्वेतस्य वासुदेवेन चित्रं बहुकथाश्रयम् निर्याणं पर्व च ततः कुरुपाण्डवसेनयोः रथातिरथसंख्या च पर्वोक्तं तदनन्तरम् उलूकदूतागमनं पर्वामर्षविवर्धनम् अम्बोपाख्यानम् अपि च पर्व ज्ञेयम् अतः परम् दिव्यं चक्षुर् ददौ यत्र संजयाय महान् ऋषिः भीष्माभिषेचनं पर्व ज्ञेयम् अद्भुतकारणम् जम्बूखण्डविनिर्माणं पर्वोक्तं तदनन्तरम् भूमिपर्व ततो ज्ञेयं द्वीपविस्तरकीर्तनम् पर्वोक्तं भगवद्गीता पर्व भीष्मवधस् ततः द्रोणाभिषेकः पर्वोक्तं संशप्तकवधस् ततः अभिमन्युवधः पर्व प्रतिज्ञापर्व चोच्यते जयद्रथवधः पर्व घटोत्कचवधस् ततः ततो द्रोणवधः पर्व विज्ञेयं लोमहर्षणम् मोक्षो नारायणास्त्रस्य पर्वानन्तरम् उच्यते कर्णपर्व ततो ज्ञेयं शल्यपर्व ततः परम् ह्रदप्रवेशनं पर्व गदायुद्धम् अतः परम् सारस्वतं ततः पर्व तीर्थवंशगुणान्वितम् अत ऊर्ध्वं तु बीभत्सं पर्व सौप्तिकम् उच्यते ऐषीकं पर्व निर्दिष्टम् अत ऊर्ध्वं सुदारुणम् जलप्रदानिकं पर्व स्त्रीपर्व च ततः परम् श्राद्धपर्व ततो ज्ञेयं कुरूणाम् और्ध्वदेहिकम् आभिषेचनिकं पर्व धर्मराजस्य धीमतः चार्वाकनिग्रहः पर्व रक्षसो ब्रह्मरूपिणः प्रविभागो गृहाणां च पर्वोक्तं तदनन्तरम् शान्तिपर्व ततो यत्र राजधर्मानुकीर्तनम् आपद्धर्मश् च पर्वोक्तं मोक्षधर्मस् ततः परम् शुकप्रश्नाभिगमनं ब्रह्मप्रश्नानुशासनम् प्रादुर्भावश् च दुर्वासः संवादश् चैव मायया ततः पर्व परिज्ञेयम् आनुशासनिकं परम् स्वर्गारोहणिकं पर्व ततो भीष्मस्य धीमतः ततो ऽश्वमेधिकं पर्व सर्वपापप्रणाशनम् अनुगीता ततः पर्व ज्ञेयम् अध्यात्मवाचकम् पर्व चाश्रमवासाख्यं पुत्रदर्शनम् एव च नारदागमनं पर्व ततः परम् इहोच्यते वर्णधर्मस् ततो ज्ञेयम् आश्रमाणां च कीर्तनम् मृतानां दर्शनं चैव व्यासेनाद्भुतकर्मणा मौसलं पर्व च ततो घोरं समनुवर्ण्यते महाप्रस्थानिकं पर्व स्वर्गारोहणिकं ततः स्वर्गारोहणिकं पर्व ततो ज्ञेयम् अतः परम् हरिवंशस् ततः पर्व पुराणं खिलसंज्ञितम् विष्णुपर्व शिशोश् चर्या विष्णोः कंसवधस् तथा सौभस्य च वधः पर्व बाणस्य नरकस्य च जनमेजयस्य यज्ञे तु नकुलाख्यानम् एव च भविष्यत्पर्व चाप्य् उक्तं खिलेष्व् एवाद्भुतं महत् एतत् पर्वशतं पूर्णं व्यासेनोक्तं महात्मना यथावत् सूतपुत्रेण लोमहर्षणिना पुनः कथितं नैमिषारण्ये पर्वाण्य् अष्टादशैव तु समासो भारतस्यायं तत्रोक्तः पर्वसंग्रहः पौष्यं पौलोमम् आस्तीकम् आदिवंशावतारणम् संभवो जतुवेश्माख्यं हिडिम्बबकयोर् वधः तथा चैत्ररथं देव्याः पाञ्चाल्याश् च स्वयंवरः क्षात्रधर्मेण निर्जित्य ततो वैवाहिकं स्मृतम् विदुरागमनं चैव राज्यलम्भस् तथैव च वनवासो ऽर्जुनस्यापि सुभद्राहरणं ततः हरणाहरणं चैव दहनं खाण्डवस्य च मयस्य दर्शनं चैव आदिपर्वणि कथ्यते पौष्ये पर्वणि माहात्म्यम् उत्तङ्कस्योपवर्णितम् पौलोमे भृगुवंशस्य विस्तारः परिकीर्तितः श्लोकानां च सहस्रं च पञ्चाशच् छतम् एव च अध्यायानां तथाष्टौ च पर्वण्य् अस्मिन् प्रकीर्तिताः आस्तीके सर्वनागानां गरुडस्य च संभवः क्षीरोदमथनं चैव जन्मोच्छैःश्रवसस् तथा यजतः सर्पसत्रेण राज्ञः पारिक्षितस्य च कथेयम् अभिनिर्वृत्ता भारतानां महात्मनाम् श्लोकाग्रं च सहस्रं च त्रिशतं चोत्तरं तथा श्लोकाश् च चतुराशीतिः पर्वण्य् अस्मिंस् तथैव च अध्यायानां ततः प्रोक्तं चत्वारिंशन् महर्षिणा विविधाः संभवा राज्ञाम् उक्ताः संभवपर्वणि अन्येषां चैव विप्राणाम् ऋषेर् द्वैपायनस्य च अंशावतरणं चात्र देवानां परिकीर्तितम् दैत्यानां दानवानां च यक्षाणां च महौजसाम् नागानाम् अथ सर्पाणां गन्धर्वाणां पतत्रिणाम् अन्येषां चैव भूतानां विविधानां समुद्भवः महर्षेर् आश्रमपदे कण्वस्य च तपस्विनः शकुन्तलायां दुष्यन्ताद् भरतश् चापि जज्ञिवान् यस्य लोकेषु नाम्नेदं प्रथितं भारतं कुलम् वसूनां पुनर् उत्पत्तिर् भागीरथ्यां महात्मनाम् शंतनोर् वेश्मनि पुनस् तेषां चारोहणं दिवि तेज्ॐशानां च संघाताद् भीष्मस्याप्य् अत्र संभवः राज्यान् निवर्तनं चैव ब्रह्मचर्यव्रते स्थितिः प्रतिज्ञापालनं चैव रक्षा चित्राङ्गदस्य च हते चित्राङ्गदे चैव रक्षा भ्रातुर् यवीयसः विचित्रवीर्यस्य तथा राज्ये संप्रतिपादनम् धर्मस्य नृषु संभूतिर् अणीमाण्डव्यशापजा कृष्णद्वैपायनाच् चैव प्रसूतिर् वरदानजा धृतराष्ट्रस्य पाण्डोश् च पाण्डवानां च संभवः वारणावतयात्रा च मन्त्रो दुर्योधनस्य च हितोपदेशश् च पथि धर्मराजस्य धीमतः विदुरेण कृतो यत्र हितार्थं म्लेच्छभाषया विदुरस्य च वाक्येन सुरुङ्गोपक्रमक्रिया निषाद्याः पञ्चपुत्रायाः सुप्ताया जतुवेश्मनि पुरोचनस्य चात्रैव दहनं संप्रकीर्तितम् पाण्डवानां वने घोरे हिडिम्बायाश् च दर्शनम् तत्रैव च हिडिम्बस्य वधो भीमान् महाबलात् घटोत्कचस्य चोत्पत्तिर् अत्रैव परिकीर्तिता महर्षेर् दर्शनं चैव व्यासस्यामिततेजसः तदाज्ञयैकचक्रायां ब्राह्मणस्य निवेशने अज्ञातचर्या पाण्डूनां वासो ब्राह्मणवेश्मनि बकस्य निधनं चैव नागराणां च विस्मयः संभवश् चैव कृष्णाया धृष्टद्युम्नस्य चैव ह ब्राह्मणात् समुपश्रुत्य व्यासवाक्यप्रचोदिताः द्रौपदीं प्रार्थयन्तस् ते स्वयंवरदिदृक्षवः पाञ्चालान् अभितो जग्मुर् यत्र कौतूहलान्विताः कूटस्य धार्तराष्ट्रेण प्रेषणं पाण्डवान् प्रति अङ्गारपर्णं निर्जित्य गङ्गाकूले ऽर्जुनस् तदा सख्यं कृत्वा ततस् तेन तस्माद् एव स शुश्रुवे भ्रातृभिः सहितः सर्वैः पाञ्चालान् अभितो ययौ तापत्यम् अथ वासिष्ठम् और्वं चाख्यानम् उत्तमम् पाञ्चालनगरे चापि लक्ष्यं भित्त्वा धनंजयः द्रौपदीं लब्धवान् अत्र मध्ये सर्वमहीक्षिताम् भीमसेनार्जुनौ यत्र संरब्धान् पृथिवीपतीन् शल्यकर्णौ च तरसा जितवन्तौ महामृधे दृष्ट्वा तयोश् च तद् वीर्यम् अप्रमेयम् अमानुषम् शङ्कमानौ पाण्डवांस् तान् रामकृष्णौ महामती जग्मतुस् तैः समागन्तुं शालां भार्गववेश्मनि स्वयंवरं च पाञ्चाल्या रारायन्त्रप्रभेदनम् नृपाणां सह संग्रामः पाण्डवानां महाद्भुतम् पञ्चेन्द्राणाम् उपाख्यानम् अत्रैवाद्भुतम् उच्यते पञ्चानाम् एकपत्नीत्वे विमर्शो द्रुपदस्य च द्रौपद्या देवविहितो विवाहश् चाप्य् अमानुषः क्षत्तुश् च धृतराष्ट्रेण प्रेषणं पाण्डवान् प्रति विदुरस्य च संप्राप्तिर् दर्शनं केशवस्य च खाण्डवप्रस्थवासश् च तथा राज्यार्धशासनम् नारदस्याज्ञया चैव द्रौपद्याः समयक्रिया सुन्दोपसुन्दयोस् तत्र उपाख्यानं प्रकीर्तितम् अनन्तरं च द्रौपद्या सहासीनं युधिष्ठिरम् अनुप्रविश्य विप्रार्थं फाल्गुनो गृह्य चायुधम् मोक्षयित्वा गृहं गत्वा विप्रार्थं कृतनिश्चयः समयं पालयन् वीरो वनं यत्र जगाम ह पार्थस्य वनवासश् च उलूप्या पथि संगमः पुण्यतीर्थानुसंयानं बभ्रुवाहनजन्म च तत्रैव मोक्षयाम् आस पञ्च सो ऽप्सरसः शुभाः शापाद् ग्राहत्वम् आपन्ना ब्राह्मणस्य तपस्विनः प्रभासतीर्थे पार्थस्य कृष्णेन च समागमः द्वारकायां सुभद्रा च कामयानेन कामिनी वासुदेवस्यानुमते प्राप्ता चैव किरीटिना हरणं गृह्य संप्राप्ते कृष्णे देवकिनन्दने शक्रप्रस्थं महाबाहुः प्रीत्या परमया युतः न्यवसत् सह पार्थेन तत्रैवोदारकर्मणा संप्राप्तिश् चक्रधनुषोः खाण्डवस्य च दाहनम् अभिमन्योः सुभद्रायां जन्म चोत्तमतेजसः द्रौपद्यास् तनयानां च संभवो ऽत्रैव कीर्तितः विहारार्थं च गतयोः कृष्णयोर् यमुनाम् अनु मयस्य मोक्षो ज्वलनाद् भुजंगस्य च मोक्षणम् महर्षेर् मन्दपालस्य शार्ङ्ग्यं तनयसंभवः इत्य् एतद् आधिपर्वोक्तं प्रथमं बहुविस्तरम् अध्यायानां शते द्वे तु संख्याते परमर्षिणा अष्टादशैव चाध्याया व्यासेनोत्तमतेजसा सप्त श्लोकसहस्राणि तथा नव शतानि च श्लोकाश् च चतुराशीतिर् दृष्टो ग्रन्थो महात्मना द्वितीयं तु सभापर्व बहुवृत्तान्तम् उच्यते सभाक्रिया पाण्डवानां किंकराणां च दर्शनम् लोकपालसभाख्यानं नारदाद् देवदर्शनात् राजसूयस्य चारम्भो जरासंधवधस् तथा गिरिव्रजे निरुद्धानां राज्ञां कृष्णेन मोक्षणम् तथा दिग्विजयो ऽत्रैव पाण्डवानां प्रकीर्तितः राज्ञाम् आगमनं चैव सार्हणानां महाक्रतौ राजसूये ऽर्घसंवादे शिशुपालवधस् तथा यज्ञे विभूतिं तां दृष्ट्वा दुःखामर्षान्वितस्य च दुर्योधनस्यावहासो भीमेन च सभातले यत्रास्य मन्युर् उद्भूतो येन द्यूतम् अकारयत् यत्र धर्मसुतं द्यूते शकुनिः कितवो ऽजयत् यत्र द्यूतार्णवे मग्नान् द्रौपदी नौर् इवार्णवात् धृतराष्ट्रो महाप्राज्ञः स्नुषां परमदुःखिताम् तारयाम् आस तांस् तीर्णाञ् ज्ञात्वा दुर्योधनो नृपः पुनर् एव ततो द्यूते समाह्वयत पाण्डवान् जित्वा च वनवासाय प्रेषयाम् आस तांस् ततः एतत् सर्वं सभापर्व समाख्यातं महात्मना अध्यायाः सप्ततिर् ज्ञेयास् तथा द्वौ चात्र संख्यया श्लोकानां द्वे सहस्रे तु पञ्च श्लोकशतानि च श्लोकाश् चैकादश ज्ञेयाः पर्वण्य् अस्मिन् प्रकीर्तिताः अतः परं तृतीयं तु ज्ञेयम् आरण्यकं महत् वनवासं प्रयातेषु पाण्डवेषु महात्मसु पौरानुगमनं चैव धर्मपुत्रस्य धीमतः यत्रादित्याद् वरप्राप्तिर् धर्मराजस्य धीमतः अन्नौषधीनां च कृते पाण्डवेन महात्मना द्विजानां भरणार्थं च कृतम् आराधनं रवेः हितं च ब्रुवतः क्षत्तुः परित्यागो ऽम्बिकासुतात् त्यक्तस्य पाण्डुपुत्राणां समीपगमनं तथा पुनरागमनं चैव धृतराष्ट्रस्य शासनात् कर्णप्रोत्साहनं चैव धार्तराष्ट्रस्य दुर्मतेः वनस्थान् पाण्डवान् हन्तुं मन्त्रो दुर्योधनस्य च तं दुष्टभावं विज्ञाय व्यासस्यागमनं द्रुतम् निर्याणप्रतिषेधश् च सुरभ्याख्यानम् एव च मैत्रेयागमनं चात्र राज्ञश् चैवानुशासनम् शापोत्सर्गश् च तेनैव राज्ञो दुर्योधनस्य च किर्मीरस्य वधश् चात्र भीमसेनेन संयुगे धौम्योपदेशात् तिग्मांशुप्रसादाद् अन्नसंभवः मैत्रेयशापोत्सर्गश् च विदुरस्य प्रवासनम् वृष्णीनाम् आगमो यत्र पाञ्चालानां च सर्वशः श्रुत्वा शकुनिना द्यूते निकृत्या निर्जितांश् च तान् क्रुद्धस्यानुप्रशमनं हरेश् चैव किरीटिना परिदेवनं च पाञ्चाल्या वासुदेवस्य संनिधौ आश्वासनं च कृष्णेन दुःखार्तायाः प्रकीर्तितम् बान्धवागमनं चैव द्रौपद्याश् चाश्रुमोक्षणम् तत् किर्मीरवधाख्यानं वृष्णीनाम् आगमस् तथा पाञ्चालानां च सर्वेषां सौभाख्यानं तथैव च यत्र सौभवधाख्यानं किर्मीरवध एव च सुभद्रायाः सपुत्रायाः कृष्णेन द्वारकां पुरीम् नयनं द्रौपदेयानां धृष्टद्युम्नेन चैव हि प्रवेशः पाण्डवेयानां रम्ये द्वैतवने ततः धर्मराजस्य चात्रैव संवादः कृष्णया सह संवादश् च तथा राज्ञा भीमस्यापि प्रकीर्तितः समीपं पाण्डुपुत्राणां व्यासस्यागमनं तथा प्रतिस्मृत्याथ विद्याया दानं राज्ञो महर्षिणा गमनं काम्यकं चापि व्यासे प्रतिगते ततः अस्त्रहेतोर् विवासश् च पार्थस्यामिततेजसः महादेवेन युद्धं च किरातवपुषा सह दर्शनं लोकपालानां स्वर्गारोहणम् एव च महेन्द्रलोकगमनम् अस्त्रार्थे च किरीटिनः यत्र चिन्ता समुत्पन्ना धृतराष्ट्रस्य भूयसी दर्शनं बृहदश्वस्य महर्षेर् भावितात्मनः युधिष्ठिरस्य चार्तस्य व्यसने परिदेवनम् नलोपाख्यानम् अत्रैव धर्मिष्ठं करुणोदयम् दमयन्त्याः स्थितिर् यत्र नलस्य व्यसनागमे तथाक्षहृदयप्राप्तिस् तस्माद् एव महर्षितः लोमशस्यागमश् चात्र स्वर्गात् पाण्डुसुतान् प्रति वनवासगतानां च पाण्डवानां महात्मनाम् स्वर्गे प्रवृत्तिर् आख्याता लोमशेनार्जुनस्य वै संदेशाद् अर्जुनस्यात्र तीर्थाभिगमनक्रिया तीर्थानां च फलप्राप्तिः पुण्यत्वं चापि कीर्तितम् पुलस्त्यतीर्थयात्रा च नारदेन महर्षिणा तीर्थयात्रा तथैवात्र पाण्डवानां महात्मनाम् जटासुरस्य तत्रैव वधः समुपवर्ण्यते नियुक्तो भीमसेनश् च द्रौपद्या गन्धमादने यत्र मन्दारपुष्पार्थं नलिनीं ताम् अधर्षयत् यत्रास्य सुमहद् युद्धम् अभवत् सह राक्षसैः यक्षैश् चापि महावीर्यैर् मणिमत्प्रमुखैस् तथा आगस्त्यम् अपि चाख्यानं यत्र वातापिभक्षणम् लोपामुद्राभिगमनम् अपत्यार्थम् ऋषेर् अपि ततः श्येनकपोतीयम् उपाख्यानम् अनन्तरम् इन्द्रो ऽग्निर् यत्र धर्मश् च अजिज्ञासञ् शिबिं नृपम् इन्द्रः श्येनः कपोतो ऽग्निर् भूत्वा यज्ञे ऽभिजग्मतुः ऋश्यशृङ्गस्य चरितं कौमारब्रह्मचारिणः जामदग्न्यस्य रामस्य चरितं भूरितेजसः कार्तवीर्यवधो यत्र हैहयानां च वर्ण्यते सौकन्यम् अपि चाख्यानं च्यवनो यत्र भार्गवः शर्यातियज्ञे नासत्यौ कृतवान् सोमपीथिनौ ताभ्यां च यत्र स मुनिर् यौवनं प्रतिपादितः जन्तूपाख्यानम् अत्रैव यत्र पुत्रेण सोमकः पुत्रार्थम् अयजद् राजा लेभे पुत्रशतं च सः अष्टावक्रीयम् अत्रैव विवादे यत्र बन्दिनम् विजित्य सागरं प्राप्तं पितरं लब्धवान् ऋषिः पूर्वं प्रक्षिप्तम् अशृणोत् पितरं लवणाम्भसि अवाप्य दिव्यान्य् अस्त्राणि गुर्वर्थे सव्यसाचिना निवातकवचैर् युद्धं हिरण्यपुरवासिभिः समागमश् च पार्थस्य भ्रातृभिर् गन्धमादने घोषयात्रा च गन्धर्वैर् यत्र युद्धं किरीटिनः पुनरागमनं चैव तेषां द्वैतवनं सरः जयद्रथेनापहारो द्रौपद्याश् चाश्रमान्तरात् यत्रैनम् अन्वयाद् भीमो वायुवेगसमो जवे मार्कण्डेयसमस्यायाम् उपाख्यानानि भागशः संदर्शनं च कृष्णस्य संवादश् चैव सत्यया व्रीहिद्रौणिकम् आख्यानम् ऐन्द्रद्युम्नं तथैव च सावित्र्यौद्दालकीयं च वैन्योपाख्यानम् एव च रामायणम् उपाख्यानम् अत्रैव बहुविस्तरम् कर्णस्य परिमोषो ऽत्र कुण्डलाभ्यां पुरंदरात् तथा यज्ञविभूतिश् च गयस्यात्र प्रकीर्तिता आगस्त्यम् अपि चाख्यानं यत्र वातापिभक्षणम् लोपामुद्राभिगमनम् अपत्यार्थम् ऋषेर् अपि ऋश्यशृङ्गस्य चरितं कौमारब्रह्मचारिणः जामदग्न्यस्य रामस्य चरितं भूरितेजसः कार्तवीर्यवधो यत्र हैहयानां च वर्ण्यते प्रभासतीर्थे पाण्डूनां वृष्णिभिश् च समागमः सौकन्यम् अपि चाख्यानं च्यवनो यत्र भार्गवः शर्यातियज्ञे नासत्यौ कृतवान् सोमपीथिनौ ताभ्यां च यत्र स मुनिर् यौवनं प्रतिपादितः मान्धातुश् चाप्य् उपाख्यानं राज्ञो ऽत्रैव प्रकीर्तितम् जन्तूपाख्यानम् अत्रैव यत्र पुत्रेण सोमकः पुत्रार्थम् अयजद् राजा लेभे पुत्रशतं च सः ततः श्येनकपोतीयम् उपाख्यानम् अनन्तरम् इन्द्रो ऽग्निर् यत्र धर्मश् च अजिज्ञासञ् शिबिं नृपम् अष्टावक्रीयम् अत्रैव विवादो यत्र बन्दिना अष्टावक्रस्य विप्रर्षेर् जनकस्याध्वरे ऽभवत् नैयायिकानां मुख्येन वरुणस्यात्मजेन हि पराजितो यत्र बन्दी वादे तेन महात्मना विजित्य सागरं प्राप्तं पितरं लब्धवान् ऋषिः यवक्रीतस्य चाख्यानं रैभ्यस्य च महात्मनः गन्धमादनयात्रा च वासो नारायणाश्रमे नियुक्तो भीमसेनश् च द्रौपद्या गन्धमादने व्रजन् पथि महाबाहुर् दृष्टवान् पवनात्मजम् कदलीखण्डमध्यस्थं हनूमन्तं महाबलम् यत्र मन्दारपुष्पार्थं नलिनीं ताम् अधर्षयत् यत्रास्य युद्धम् अभवत् सुमहद् राक्षसैः सह यक्षैश् चैव महावीर्यैर् मणिमत्प्रमुखैस् तथा जटासुरस्य च वधो राक्षसस्य वृकोदरात् वृषपर्वणश् च राजर्षेस् ततो ऽभिगमनं स्मृतम् आर्ष्टिषेणाश्रमे चैषां गमनं वास एव च प्रोत्साहनं च पाञ्चाल्या भीमस्यात्र महात्मनः कैलासारोहणं प्रोक्तं यत्र यक्षैर् बलोत्कटैः युद्धम् आसीन् महाघोरं मणिमत्प्रमुखैः सह समागमश् च पाण्डूनां यत्र वैश्रवणेन च समागमश् चार्जुनस्य तत्रैव भ्रातृभिः सह अवाप्य दिव्यान्य् अस्त्राणि गुर्वर्थे सव्यसाचिना निवातकवचैर् युद्धं हिरण्यपुरवासिभिः निवातकवचैर् घोरैर् दानवैः सुरशत्रुभिः पौलोमैः कालकेयैश् च यत्र युद्धं किरीटिनः वधश् चैषां समाख्यातो राज्ञस् तेनैव धीमता अस्त्रसंदर्शनारम्भो धर्मराजस्य संनिधौ पार्थस्य प्रतिषेधश् च नारदेन महर्षिणा अवरोहणं पुनश् चैव पाण्डूनां गन्धमादनात् भीमस्य ग्रहणं चात्र पर्वताभोगवर्ष्मणा भुजगेन्द्रेण बलिना तस्मिन् सुगहने वने अमोक्षयद् यत्र चैनं प्रश्नान् उक्त्वा युधिष्ठिरः काम्यकागमनं चैव पुनस् तेषां महात्मनाम् तत्रस्थांश् च पुनर् द्रष्टुं पाण्डवान् पुरुषर्षभान् वासुदेवस्यागमनम् अत्रैव परिकीर्तितम् मार्कण्डेयसमस्यायाम् उपाख्यानानि सर्वशः पृथोर् वैन्यस्य चाख्यानं यत्रोक्तं परमर्षिणा संवादश् च सरस्वत्यास् तार्क्ष्यर्षेः सुमहात्मनः मत्स्योपाख्यानम् अत्रैव प्रोच्यते तदनन्तरम् मार्कण्डेयसमस्या च पुराणं परिकीर्त्यते ऐन्द्रद्युम्नम् उपाख्यानं धौन्धुमारं तथैव च पतिव्रतायाश् चाख्यानं तथैवाङ्गिरसं स्मृतम् द्रौपद्याः कीर्तितश् चात्र संवादः सत्यभामया पुनर् द्वैतवनं चैव पाण्डवाः समुपागताः घोषयात्रा च गन्धर्वैर् यत्र बद्धः सुयोधनः ह्रियमाणस् तु मन्दात्मा मोक्षितो ऽसौ किरीटिना धर्मराजस्य चात्रैव मृगस्वप्ननिदर्शनम् काम्यके काननश्रेष्ठे पुनर्गमनम् उच्यते व्रीहिद्रौणिकम् आख्यानम् अत्रैव बहुविस्तरम् दुर्वाससो ऽप्य् उपाख्यानम् अत्रैव परिकीर्तितम् जयद्रथेनापहरो द्रौपद्याश् चाश्रमान्तरात् यत्रैनम् अन्वयाद् भीमो वायुवेगसमो जवे चक्रे चैनं पञ्चशिखं यत्र भीमो महाबलः रामायणम् उपाख्यानम् अत्रैव बहुविस्तरम् यत्र रामेण विक्रम्य निहतो रावणो युधि सावित्र्याश् चाप्य् उपाख्यानम् अत्रैव परिकीर्त्यते मार्कण्डेयस्य च तथा देवर्षेर् नारदस्य च कर्णस्य परिमोषो ऽत्र कुण्डलाभ्यां पुरंदरात् यत्रास्य शक्तिं तुष्टो ऽदाद् एकवीरवधाय च आरणेयम् उपाख्यानं यत्र धर्मो ऽन्वशात् सुतम् जग्मुर् लब्धवरा यत्र पाण्डवाः पश्चिमां दिशम् एतद् आरण्यकं पर्व तृतीयं परिकीर्तितम् अत्राध्यायशते द्वे तु संख्याते परमर्षिणा एकोनसप्ततिश् चैव तथाध्यायाः प्रकीर्तिताः एकादश सहस्राणि श्लोकानां षट्शतानि च चतुःषष्टिस् तथा श्लोकाः पर्वैतत् परिकीर्तितम् अतः परं निबोधेदं वैराटं पर्वविस्तरम् विराटनगरं गत्वा श्मशाने विपुलां शमीम् दृष्ट्वा संनिदधुस् तत्र पाण्डवा आयुधान्य् उत यत्र प्रविश्य नगरं छद्मभिर् न्यवसन्त ते पाञ्चालीं प्रार्थयानस्य कामोपहतचेतसः दुरात्मनो वधो यत्र कीचकस्य वृकोदरात् पाण्डवान्वेषणार्थं च राज्ञो दुर्योधनस्य च चाराः प्रस्थापिताश् चात्र निपुणाः सर्वतो दिशम् न च प्रवृत्तिस् तैर् लब्धा पाण्डवानां महात्मनाम् गोग्रहश् च विराटस्य त्रिगर्तैः प्रथमं कृतः यत्रास्य युद्धं सुमहत् तैर् आसील् लोमहर्षणम् ह्रियमाणश् च यत्रासौ भीमसेनेन मोक्षितः गोग्रहे यत्र पार्थेन निर्जिताः कुरवो युधि प्रत्याहृतं गोधनं च विक्रमेण किरीटिना गोधनं च विराटस्य मोक्षितं यत्र पाण्डवैः अनन्तरं च कुरुभिस् तस्य गोग्रहणं कृतम् विराटेनोत्तरा दत्ता स्नुषा यत्र किरीटिनः अभिमन्युं समुद्दिश्य सौभद्रम् अरिघातिनम् चतुर्थम् एतद् विपुलं वैराटं पर्व वर्णितम् अत्रापि परिसंख्यातम् अध्यायानां महात्मना सप्तषष्टिर् अथो पूर्णा श्लोकाग्रम् अपि मे शृणु श्लोकानां द्वे सहस्रे तु श्लोकाः पञ्चाशद् एव तु पर्वण्य् अस्मिन् समाख्याताः संख्यया परमर्षिणा उद्योगपर्व विज्ञेयं पञ्चमं शृण्व् अतः परम् उपप्लव्ये निविष्टेषु पाण्डवेषु जिगीषया दुर्योधनो ऽर्जुनश् चैव वासुदेवम् उपस्थितौ साहाय्यम् अस्मिन् समरे भवान् नौ कर्तुम् अर्हति इत्य् उक्ते वचने कृष्णो यत्रोवाच महामतिः अयुध्यमानम् आत्मानं मन्त्रिणं पुरुषर्षभौ अक्षौहिणीं वा सैन्यस्य कस्य वा किं ददाम्य् अहम् वव्रे दुर्योधनः सैन्यं मन्दात्मा यत्र दुर्मतिः अयुध्यमानं सचिवं वव्रे कृष्णं धनंजयः मद्रराजं च राजानम् आयान्तं पाण्डवान् प्रति उपहारैर् वञ्चयित्वा वर्त्मन्य् एव सुयोधनः वरदं तं वरं वव्रे साहाय्यं क्रियतां मम शल्यस् तस्मै प्रतिश्रुत्य जगामोद्दिश्य पाण्डवान् सान्त्वपूर्वं चाकथयद् यत्रेन्द्रविजयं च यः पुरोहितप्रेषणं च पाण्डवैः कौरवान् प्रति वैचित्रवीर्यस्य वचः समादाय पुरोधसः तथेन्द्रविजयं चापि यानं चैव पुरोधसः संजयं प्रेषयाम् आस शमार्थं पाण्डवान् प्रति यत्र दूतं महाराजो धृतराष्ट्रः प्रतापवान् श्रुत्वा च पाण्डवान् यत्र वासुदेवपुरोगमान् प्रजागरः संप्रजज्ञे धृतराष्ट्रस्य चिन्तया विदुरो यत्र वाक्यानि विचित्राणि हितानि च श्रावयाम् आस राजानं धृतराष्ट्रं मनीषिणम् तथा सनत्सुजातेन यत्राध्यात्मम् अनुत्तमम् मनस्तापान्वितो राजा श्रावितः शोकलालसः प्रभाते राजसमितौ संजयो यत्र चाभिभोः ऐकात्म्यं वासुदेवस्य प्रोक्तवान् अर्जुनस्य च यत्र कृष्णो दयापन्नः संधिम् इच्छन् महायशाः स्वयम् आगाच् छमं कर्तुं नगरं नागसाह्वयम् प्रत्याख्यानं च कृष्णस्य राज्ञा दुर्योधनेन वै शमार्थं याचमानस्य पक्षयोर् उभयोर् हितम् दम्भोद्भवस्य चाख्यानम् अत्रैव परिकीर्तितम् वरान्वेषणम् अत्रैव मातलेश् च महात्मनः महर्षेश् चापि कथितं चरितं गालवस्य च विदुलायाश् च पुत्रस्य प्रोक्तं चाप्य् अनुशासनम् कर्णदुर्योधनादीनां दुष्टं विज्ञाय मन्त्रितम् योगेश्वरत्वं कृष्णेन यत्र राजसु दर्शितम् रथम् आरोप्य कृष्णेन यत्र कर्णो ऽनुमन्त्रितः उपायपूर्वं शौण्डीर्यात् प्रत्याख्यातश् च तेन सः श्वेताभिषेकः कृष्णोक्तो विचित्रो बहुविस्तरः आगम्य हास्तिनपुराद् उपप्लव्यम् अरिंदमः पाण्डवानां यथावृत्तं सर्वम् आख्यातवान् हरिः ते तस्य वचनं श्रुत्वा मन्त्रयित्वा च यद् धितम् सांग्रामिकं ततः सर्वं सज्जं चक्रुः परंतपाः ततश् चाप्य् अभिनिर्यात्रा रथाश्वनरदन्तिनाम् नगराद् धास्तिनपुराद् बलसंख्यानम् एव च यत्र राज्ञा उलूकस्य प्रेषणं पाण्डवान् प्रति श्वोभाविनि महायुद्धे दूत्येन क्रूरवादिना परिवादश् च पाण्डूनां श्वोदर्शनविलम्बनम् रथातिरथसंख्यानम् अम्बोपाख्यानम् एव च अम्बोपाख्यानम् अत्रैव रामभीष्मसमागमे एतत् सुबहुवृत्तान्तं पञ्चमं पर्व भारते उद्योगपर्व निर्दिष्टं संधिविग्रहसंश्रितम् अध्यायाः संख्यया त्व् अत्र षडशीतिशतं स्मृतम् श्लोकानां षट् सहस्राणि तावन्त्य् एव शतानि च श्लोकाश् च नवतिः प्रोक्तास् तथैवाष्टौ महात्मना व्यासेनोदारमतिना पर्वण्य् अस्मिंस् तपोधनाः अत ऊर्ध्वं विचित्रार्थं भीष्मपर्व प्रचक्षते जम्बूखण्डविनिर्माणं यत्रोक्तं संजयेन ह यत्र युद्धम् अभूद् घोरं दशाहान्य् अतिदारुणम् यत्र यौधिष्ठिरं सैन्यं विषादम् अगमत् परम् कश्मलं यत्र पार्थस्य वासुदेवो महामतिः मोहजं नाशयाम् आस हेतुभिर् मोक्षदर्शनैः समीक्ष्याधोक्षजः क्षिप्रं युधिष्ठिरहिते रतः रथाद् आप्लुत्य वेगेन स्वयं कृष्ण उदारधीः प्रतोदपाणिर् आधावद् भीष्मं हन्तुं व्यपेतभीः वाक्यप्रतोदाभिहतो यत्र कृष्णेन पाण्डवः गाण्डीवधन्वा समरे सर्वशस्त्रभृतां वरः शिखण्डिनं पुरस्कृत्य यत्र पार्थो महाधनुः विनिघ्नन् निशितैर् बाणै रथाद् भीष्मम् अपातयत् शरतल्पगतश् चैव भीष्मो यत्र बभूव ह षष्ठम् एतन् महापर्व भारते परिकीर्तितम् अध्यायानां शतं प्रोक्तं सप्तदश तथापरे पञ्च श्लोकसहस्राणि संख्ययाष्टौ शतानि च श्लोकाश् च चतुराशीतिः पर्वण्य् अस्मिन् प्रकीर्तिताः व्यासेन वेदविदुषा संख्याता भीष्मपर्वणि द्रोणपर्व ततश् चित्रं बहुवृत्तान्तम् उच्यते सैनापत्ये ऽभिषिक्तो ऽथ यत्राचार्यः प्रतापवान् दुर्योधनस्य प्रीत्यर्थं प्रतिजज्ञे महास्त्रवित् ग्रहणं धर्मराजस्य पाण्डुपुत्रस्य धीमतः यत्र संशप्तकाः पार्थम् अपनिन्यू रणाजिरात् भगदत्तो महाराजो यत्र शक्रसमो युधि सुप्रतीकेन नागेन सह शस्तः किरीटिना यत्राभिमन्युं बहवो जघ्नुर् लोकमहारथाः जयद्रथमुखा बालं शूरम् अप्राप्तयौवनम् हते ऽभिमन्यौ क्रुद्धेन यत्र पार्थेन संयुगे अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः यत्र भीमो महाबाहुः सात्यकिश् च महारथः अन्वेषणार्थं पार्थस्य युधिष्ठिरनृपाज्ञया प्रविष्टौ भारतीं सेनाम् अप्रधृष्यां सुरैर् अपि संशप्तकावशेषं च कृतं निःशेषम् आहवे संशप्तकानां वीराणां कोट्यो नव महात्मनाम् किरीटिनाभिनिष्क्रम्य गमिता यमसादनम् संशप्तकवधोत्साही जिष्णुः पुत्रवधार्दितः प्रतिज्ञां महतीं कृत्वा तीर्णः श्रीपतिमायया अलम्बुसः श्रुतायुश् च जलसंधश् च वीर्यवान् सौमदत्तिर् विराटश् च द्रुपदश् च महारथः धृतराष्ट्रस्य पुत्राश् च तथा पाषाणयोधिनः नारायणाश् च गोपालाः समरे चित्रयोधिनः घटोत्कचादयश् चान्ये निहता द्रोणपर्वणि अश्वत्थामापि चात्रैव द्रोणे युधि निपातिते अस्त्रं प्रादुश्चकारोग्रं नारायणम् अमर्षितः आग्नेयं कीर्त्यते यत्र रुद्रमाहात्म्यम् उत्तमम् व्यासस्य चाप्य् आगमनं माहात्म्यं कृष्णपार्थयोः शतरुद्रीयम् अत्रैव शंकरस्य महास्तवः सप्तमं भारते पर्व महद् एतद् उदाहृतम् अत्र ते पृथिवीपालाः प्रायशो निधनं गताः द्रोणपर्वणि ये शूरा निर्दिष्टाः पुरुषर्षभाः अध्यायानां शतं प्रोक्तम् अध्यायाः सप्ततिस् तथा अष्टौ श्लोकसहस्राणि तथा नव शतानि च श्लोका नव तथैवात्र संख्यातास् तत्त्वदर्शिना पाराशर्येण मुनिना संचिन्त्य द्रोणपर्वणि अतः परं कर्णपर्व प्रोच्यते परमाद्भुतम् सारथ्ये विनियोगश् च मद्रराजस्य धीमतः आख्यातं यत्र पौराणं त्रिपुरस्य निपातनम् प्रयाणे परुषश् चात्र संवादः कर्णशल्ययोः हंसकाकीयम् आख्यानम् अत्रैवाक्षेपसंहितम् वधः पाण्ड्यस्य च तथा अश्वत्थाम्ना महात्मना दण्डसेनस्य च वधो दण्डस्य च वधस् तथा द्वैरथे यत्र कर्णेन धर्मराजो युधिष्ठिरः संशयं गमितो युद्धे मिषतां सर्वधन्विनाम् अन्योन्यं प्रति च क्रोधो युधिष्ठिरकिरीटिनोः यत्रैवानुनयः प्रोक्तो माधवेनार्जुनस्य वै प्रतिज्ञापूर्वकं चापि वक्षो दुःशासनस्य च भित्त्वा वृकोदरो रक्तं पीतवान् यत्र संयुगे दुःशासनस्य च वधो वृषसेनस्य चोभयोः कर्णपुत्रश् च पार्थेन हतः कर्णस्य पश्यतः यथावद् बलसैन्यं च वर्णयाम् आस वायुजः पूरयित्वाञ्जलिं पूर्णां न दध्नो हीदृशो रसः अन्येषां च रसानां तु प्रतिज्ञादृढनिश्चयः कर्णार्जुनद्वैरथे तु वर्तमाने भयानके शापेनैव च कर्णस्य ततश् चक्रं महीगतम् नागमात्रं वलीकं च कर्णो ऽमुञ्चत फाल्गुने तद्भयात् केशवो भूमिं प्रावेशयत तं रथम् द्वैरथे यत्र पार्थेन हतः कर्णो महारथः अष्टमं पर्व निर्दिष्टम् एतद् भारतचिन्तकैः एकोनसप्ततिः प्रोक्ता अध्यायाः कर्णपर्वणि चत्वार्य् एव सहस्राणि नव श्लोकशतानि च चतुःषष्टिस् तथा श्लोका पर्वैतत् परिकीर्तितम् अतः परं विचित्रार्थं शल्यपर्व प्रकीर्तितम् हतप्रवीरे सैन्ये तु नेता मद्रेश्वरो ऽभवत् यत्र कौमारम् आख्यानम् अभिषेकस्य कर्म च वृत्तानि रथयुद्धानि कीर्त्यन्ते यत्र भागशः विनाशः कुरुमुख्यानां शल्यपर्वणि कीर्त्यते शल्यस्य निधनं चात्र धर्मराजान् महारथात् शकुनेश् च वधो ऽत्रैव सहदेवेन संयुगे सैन्ये च हतभूयिष्ठे किंचिच्छिष्टे सुयोधनः ह्रदं प्रविश्य यत्रासौ संस्तभ्यापो व्यवस्थितः प्रवृत्तिस् तत्र चाख्याता यत्र भीमस्य लुब्धकैः क्षेपयुक्तैर् वचोभिश् च धर्मराजस्य धीमतः ह्रदात् समुत्थितो यत्र धार्तराष्ट्रो ऽत्यमर्षणः भीमेन गदया युद्धं यत्रासौ कृतवान् सह समवाये च युद्धस्य रामस्यागमनं स्मृतम् गदायुद्धं तु तुमुलम् अत्रैव परिकीर्तितम् दुर्योधनस्य राज्ञो ऽथ यत्र भीमेन संयुगे ऊरू भग्नौ प्रसह्याजौ गदया भीमवेगया सरस्वत्याश् च तीर्थानां पुण्यता परिकीर्तिता नवमं पर्व निर्दिष्टम् एतद् अद्भुतम् अर्थवत् एकोनषष्टिर् अध्यायास् तत्र संख्याविशारदैः संख्याता बहुवृत्तान्ताः श्लोकाग्रं चात्र शस्यते त्रीणि श्लोकसहस्राणि द्वे शते विंशतिस् तथा मुनिना संप्रणीतानि कौरवाणां यशोभृताम् अतः परं प्रवक्ष्यामि सौप्तिकं पर्व दारुणम् भग्नोरुं यत्र राजानं दुर्योधनम् अमर्षणम् व्यपयातेषु पार्थेषु त्रयस् ते ऽभ्याययू रथाः कृतवर्मा कृपो द्रौणिः सायाह्ने रुधिरोक्षिताः समेत्य ददृशुर् भूमौ पतितं रणमूर्धनि प्रतिजज्ञे दृढक्रोधो द्रौणिर् यत्र महारथः अहत्वा सर्वपाञ्चालान् धृष्टद्युम्नपुरोगमान् पाण्डवांश् च सहामात्यान् न विमोक्ष्यामि दंशनम् यत्रैवम् उक्त्वा राजानम् अपक्रम्य त्रयो रथाः सूर्यास्तमनवेलायाम् आसेदुस् ते महद् वनम् न्यग्रोधस्यात्र महतो यत्राधस्ताद् व्यवस्थिताः ततः काकान् बहून् रात्रौ दृष्ट्वोलूकेन हिंसितान् द्रौणिः क्रोधसमाविष्टः पितुर् वधम् अनुस्मरन् पाञ्चालानां प्रसुप्तानां वधं प्रति मनो दधे गत्वा च शिबिरद्वारि दुर्दर्शं तत्र राक्षसम् घोररूपम् अपश्यत् स दिवम् आवृत्य धिष्ठितम् तेन व्याघातम् अस्त्राणां क्रियमाणम् अवेक्ष्य च द्रौणिर् यत्र विरूपाक्षं रुद्रम् आराध्य सत्वरः प्रसुप्तान् निशि विश्वस्तान् यत्र ते पुरुषर्षभाः पाञ्चालान् सपरीवाराञ् जघ्नुर् द्रौणिपुरोगमाः कृतवर्मणा च सहितः कृपेण च निजघ्निवान् यत्रामुच्यन्त पार्थास् ते पञ्च कृष्णबलाश्रयात् सात्यकिश् च महेष्वासः शेषाश् च निधनं गताः पाञ्चालानां प्रसुप्तानां यत्र द्रोणसुताद् वधः धृष्टद्युम्नस्य सूतेन पाण्डवेषु निवेदितः द्रौपदी पुत्रशोकार्ता पितृभ्रातृवधार्दिता कृतानशनसंकल्पा यत्र भर्तॄन् उपाविशत् द्रौपदीवचनाद् यत्र भीमो भीमपराक्रमः प्रियं तस्याश् चिकीर्षन् वै गदाम् आदाय वीर्यवान् अन्वधावत संक्रुद्धो भारद्वाजं गुरोः सुतम् भीमसेनभयाद् यत्र दैवेनाभिप्रचोदितः अपाण्डवायेति रुषा द्रौणिर् अस्त्रम् अवासृजत् मैवम् इत्य् अब्रवीत् कृष्णः शमयंस् तस्य तद् वचः यत्रास्त्रम् अस्त्रेण च तच् छमयाम् आस फाल्गुनः द्रौणेश् च द्रोहबुद्धित्वं वीक्ष्य पापात्मनस् तथा द्रौणिद्वैपायनादीनां शापाश् चान्योन्यकारिताः मणिं तथा समादाय द्रोणपुत्रान् महारथात् पाण्डवाः प्रददुर् हृष्टा द्रौपद्यै जितकाशिनः एतद् वै दशमं पर्व सौप्तिकं समुदाहृतम् तोयकर्मणि सर्वेषां राज्ञाम् उदकदानिके गूढोत्पन्नस्य चाख्यानं कर्णस्य पृथयात्मनः सुतस्यैतद् इह प्रोक्तं दशमं पर्व सौप्तिकम् अष्टादशास्मिन्न् अध्यायाः पर्वण्य् उक्ता महात्मना श्लोकाग्रम् अत्र कथितं शतान्य् अष्टौ तथैव च श्लोकाश् च सप्ततिः प्रोक्ता यथावद् अभिसंख्यया सौप्तिकैषीकसंबन्धे पर्वण्य् अमितबुद्धिना अत ऊर्ध्वम् इदं प्राहुः स्त्रीपर्व करुणोदयम् पुत्रशोकाभिसंतप्तः प्रज्ञाचक्षुर् नराधिप कृष्णोपनीतां यत्रासाव् आयसीं प्रतिमां दृढाम् भीमसेनद्रोहबुद्धिर् धृतराष्ट्रो बभञ्ज ह तथा शोकाग्नितप्तस्य धृतराष्ट्रस्य धीमतः संसारगमनं बुद्ध्या हेतुभिर् मोक्षदर्शनैः विदुरेण च यत्रास्य राज्ञ आश्वासनं कृतम् धृतराष्ट्रस्य चात्रैव कौरवायोधनं तथा सान्तःपुरस्य गमनं शोकार्तस्य प्रकीर्तितम् विलापो वीरपत्नीनां यत्रातिकरुणः स्मृतः क्रोधावेशः प्रसादश् च गान्धारीधृतराष्ट्रयोः यत्र तान् क्षत्रियाञ् शूरान् दिष्टान्तान् अनिवर्तिनः पुत्रान् भ्रातॄन् पितॄंश् चैव ददृशुर् निहतान् रणे पुत्रपौत्रवधार्तायास् तथात्रैव प्रकीर्तिता गान्धार्याश् चापि कृष्णेन क्रोधोपशमनक्रिया यत्र राजा महाप्राज्ञः सर्वधर्मभृतां वरः राज्ञां तानि शरीराणि दाहयाम् आस शास्त्रतः एतद् एकादशं प्रोक्तं पर्वातिकरुणं महत् सप्तविंशतिर् अध्यायाः पर्वण्य् अस्मिन्न् उदाहृताः श्लोकाः सप्तशतं चात्र पञ्चसप्ततिर् उच्यते संख्यया भारताख्यानं कर्त्रा ह्य् अत्र महात्मना प्रणीतं सज्जनमनोवैक्लव्याश्रुप्रवर्तकम् अतः परं शान्तिपर्व द्वादशं बुद्धिवर्धनम् यत्र निर्वेदम् आपन्नो धर्मराजो युधिष्ठिरः घातयित्वा पितॄन् भ्रातॄन् पुत्रान् संबन्धिबान्धवान् शान्तिपर्वणि धर्माश् च व्याख्याताः शरतल्पिकाः राजभिर् वेदितव्या ये सम्यङ् नयबुभुत्सुभिः आपद्धर्माश् च तत्रैव कालहेतुप्रदर्शकाः यान् बुद्ध्वा पुरुषः सम्यक् सर्वज्ञत्वम् अवाप्नुयात् मोक्षधर्माश् च कथिता विचित्रा बहुविस्तराः द्वादशं पर्व निर्दिष्टम् एतत् प्राज्ञजनप्रियम् पर्वण्य् अत्र परिज्ञेयम् अध्यायानां शतत्रयम् त्रिंशच् चैव तथाध्याया नव चैव तपोधनाः श्लोकानां तु सहस्राणि कीर्तितानि चतुर्दश पञ्च चैव शतान्य् आहुः पञ्चविंशतिसंख्यया अत ऊर्ध्वं तु विज्ञेयम् आनुशासनम् उत्तमम् यत्र प्रकृतिम् आपन्नः श्रुत्वा धर्मविनिश्चयम् भीष्माद् भागीरथीपुत्रात् कुरुराजो युधिष्ठिरः व्यवहारो ऽत्र कार्त्स्न्येन धर्मार्थीयो निदर्शितः विविधानां च दानानां फलयोगाः पृथग्विधाः तथा पात्रविशेषाश् च दानानां च परो विधिः आचारविधियोगश् च सत्यस्य च परा गतिः महाभाग्यं गवां चैव ब्राह्मणानां तथैव च रहस्यं चैव धर्माणां देशकालोपसंहितम् एतत् सुबहुवृत्तान्तम् उत्तमं चानुशासनम् भीष्मस्यात्रैव संप्राप्तिः स्वर्गस्य परिकीर्तिता एतत् त्रयोदशं पर्व धर्मनिश्चयकारकम् अध्यायानां शतं चात्र षट्चत्वारिंशद् एव च श्लोकानां तु सहस्राणि षट् सप्तैव शतानि च ततो ऽश्वमेधिकं नाम पर्व प्रोक्तं चतुर्दशम् तत् संवर्तमरुत्तीयं यत्राख्यानम् अनुत्तमम् सुवर्णकोशसंप्राप्तिर् जन्म चोक्तं परिक्षितः दग्धस्यास्त्राग्निना पूर्वं कृष्णात् संजीवनं पुनः चर्यायां हयम् उत्सृष्टं पाण्डवस्यानुगच्छतः तत्र तत्र च युद्धानि राजपुत्रैर् अमर्षणैः चित्राङ्गदायाः पुत्रेण पुत्रिकाया धनंजयः संग्रामे बभ्रुवाहेन संशयं चात्र दर्शितः अनुगीता तथा प्रोक्ता सम्यग् भगवता पुनः कथितः शाश्वतो धर्मः कृष्णेनार्जुनसंनिधौ तथा ब्राह्मणगीता च संवादो गुरुशिष्ययोः सुदर्शनं तथाख्यानं वैष्णवं धर्मम् एव च अश्वमेधे महायज्ञे नकुलाख्यानम् एव च इत्य् आश्वमेधिकं पर्व प्रोक्तम् एतन् महाद्भुतम् अत्राध्यायशतं त्रिंशत् त्रयो ऽध्यायाश् च शब्दिताः त्रीणि श्लोकसहस्राणि तावन्त्य् एव शतानि च विंशतिश् च तथा श्लोकाः संख्यातास् तत्त्वदर्शिना तत आश्रमवासाक्यं पर्व पञ्चदशं स्मृतम् यत्र राज्यं परित्यज्य गान्धारीसहितो नृपः धृतराष्ट्राश्रमपदं विदुरश् च जगाम ह यं दृष्ट्वा प्रस्थितं साध्वी पृथाप्य् अनुययौ तदा पुत्रराज्यं परित्यज्य गुरुशुश्रूषणे रता यत्र राजा हतान् पुत्रान् पौत्रान् अन्यांश् च पार्थिवान् लोकान्तरगतान् वीरान् अपश्यत् पुनरागतान् ऋषेः प्रसादात् कृष्णस्य दृष्ट्वाश्चर्यम् अनुत्तमम् त्यक्त्वा शोकं सदारश् च सिद्धिं परमिकां गतः यत्र धर्मं समाश्रित्य विदुरः सुगतिं गतः संजयश् च महामात्रो विद्वान् गावल्गणिर् वशी ददर्श नारदं यत्र धर्मराजो युधिष्ठिरः नारदाच् चैव शुश्राव वृष्णीनां कदनं महत् एतद् आश्रमवासाख्यं पूर्वोक्तं सुमहाद्भुतम् द्विचत्वारिंशद् अध्यायाः पर्वैतद् अभिसंख्यया सहस्रम् एकं श्लोकानां पञ्च श्लोकशतानि च षड् एव च तथा श्लोकाः संख्यातास् तत्त्वदर्शिना अतः परं निबोधेदं मौसलं पर्व दारुणम् यत्र ते पुरुषव्याघ्राः शस्त्रस्पर्शसहा युधि ब्रह्मदण्डविनिष्पिष्टाः समीपे लवणाम्भसः आपाने पानगलिता दैवेनाभिप्रचोदिताः एरकारूपिभिर् वज्रैर् निजघ्नुर् इतरेतरम् यत्र सर्वक्षयं कृत्वा ताव् उभौ रामकेशवौ नातिचक्रमतुः कालं प्राप्तं सर्वहरं समम् यत्रार्जुनो द्वारवतीम् एत्य वृष्णिविनाकृताम् दृष्ट्वा विषादम् अगमत् परां चार्तिं नरर्षभः स सत्कृत्य यदुश्रेष्ठं मातुलं शौरिम् आत्मनः ददर्श यदुवीराणाम् आपाने वैशसं महत् शरीरं वासुदेवस्य रामस्य च महात्मनः संस्कारं लम्भयाम् आस वृष्णीनां च प्रधानतः स वृद्धबालम् आदाय द्वारवत्यास् ततो जनम् ददर्शापदि कष्टायां गाण्डीवस्य पराभवम् सर्वेषां चैव दिव्यानाम् अस्त्राणाम् अप्रसन्नताम् नाशं वृष्णिकलत्राणां प्रभावानाम् अनित्यताम् दृष्ट्वा निर्वेदम् आपन्नो व्यासवाक्यप्रचोदितः धर्मराजं समासाद्य संन्यासं समरोचयेत् इत्य् एतन् मौसलं पर्व षोडशं परिकीर्तितम् अध्यायाष्टौ समाख्याताः श्लोकानां च शतत्रयम् श्लोकानां विंशतिश् चैव संख्याता तत्त्वदर्शिना महाप्रस्थानिकं तस्माद् ऊर्ध्वं सप्तदशं स्मृतम् यत्र राज्यं परित्यज्य पाण्डवाः पुरुषर्षभाः द्रौपद्या सहिता देव्या सिद्धिं परमिकां गताः यत्र ते ऽग्निं ददृशिरे लौहित्यं प्राप्य सागरम् यत्राग्निना चोदितस्य पार्थस् तस्मै महात्मने ददौ संपूज्य तद् दिव्यं गाण्डीवं धनुर् उत्तमम् यत्र भ्रातृन् निपतितान् द्रौपदीं च युधिष्ठिरः दृष्ट्वा हित्वा जगामैव सर्वान् अनवलोकयन् एतत् सप्तदशं पर्व महाप्रस्थानिकं स्मृतम् अत्राध्यायास् त्रयः प्रोक्ताः श्लोकानां च शतं तथा विंशतिश् च तथा श्लोकाः संख्यातास् तत्त्वदर्शिना स्वर्गपर्व ततो ज्ञेयं दिव्यं यत् तद् अमानुषम् प्राप्तं देवरथं स्वर्गान् नेष्टवान् यत्र धर्मराट् आरोढुं सुमहाप्राज्ञ आनृशंस्याच् छुना विना ताम् अस्याविचलां ज्ञात्वा स्थितिं धर्मे महात्मनः श्वरूपं यत्र तत् त्यक्त्वा धर्मेणासौ समन्वितः स्वर्गं प्राप्तः स च तथा यातना विपुला भृशम् देवदूतेन नरकं यत्र व्याजेन दर्शितम् शुश्राव यत्र धर्मात्मा भ्रातॄणां करुणा गिरः निदेशे वर्तमानानां देशे तत्रैव वर्तताम् अनुदर्शितश् च धर्मेण देवराज्ञा च पाण्डवः आप्लुत्याकाशगङ्गायां देहं त्यक्त्वा स मानुषम् स्वधर्मनिर्जितं स्थानं स्वर्गे प्राप्य स धर्मराट् मुमुदे पूजितः सर्वैः सेन्द्रैः सुरगणैः सह एतद् अष्टादशं पर्व प्रोक्तं व्यासेन धीमता कर्णस्य नरकप्राप्तिः प्रमोक्षश् चात्र कीर्त्यते समागमश् च वीराणां स्वर्गलोके महात्मनाम् कीर्त्यते यत्र विधिवत् स्वर्गसंवाद एव च स्वानि स्थानानि च प्राप्ता यत्र ते पुरुषर्षभाः यत्र दुर्योधनादीनां श्रियं दृष्ट्वा युधिष्ठिरः निर्वेदं परमं गत्वा स्वर्गं नाकाङ्क्षद् अव्ययम् देवानां वचनाद् यत्र तनुं त्यक्त्वा महारथः स्वर्गं नित्यं महातेजाः स्वस्थानम् अगमद् वनम् अध्यायाः पञ्च संख्याताः पर्वैतद् अभिसंख्यया श्लोकानां द्वे शते चैव प्रसंख्याते तपोधनाः नव श्लोकास् तथैवान्ये संख्याताः परमर्षिणा अष्टादशैवम् एतानि पर्वाण्य् उक्तान्य् अशेषतः हरिवंशस् ततः पर्व पुराणं खिलसंज्ञितम् विष्णुपर्व शिशोश् चर्या विष्णोः कंसवधस् तथा भविष्यं पर्व चाप्य् उक्तं खिलेष्व् एवाद्भुतं महत् ततः परं विष्णुपर्व महत् पर्वेत्य् उदाहृतम् जन्म यत्र तु देवस्य पद्मनाभस्य मानुषम् वसुदेवकुले जातो नन्दगोपकुले धृतः यत्र बाल्ये स्वकर्माणि रमणान्य् अद्भुतानि च यत्र कंसवधं कृत्वा रङ्गमध्ये चकर्ष ह अनेकैः संश्रयैश् चापि जरासंधवधेन ह विक्रमाद् रुक्मिणीं देवीम् आहृत्य परवीरहा परीक्ष्य च निवासार्थं द्वारकां विनिवेशयत् कलिङ्गं दन्तवक्रं च रणे विक्रम्य जघ्निवान् राजशुल्कां च वै कृष्णः सत्यभामाम् अथोद्वहत् तयोदितः सत्यभामया गत्वा दिवम् अधोक्षजः जित्वामराधिपं यत्र पारिजातम् अथानयत् जघ्ने यत्र महाबाहुर् धेनुकं रणमूर्धनि नरकासुरकालीयहयग्रीवं च दानवम् केशिं सकालियदमं कालनेमिनम् एव च दोष्णां सहस्रं चिच्छेद बाणस्याद्भुतकर्मणः नप्तारं भार्यया सार्धं मुमोचद् यत्र संयुगे भारतीया कथा यत्र वृष्णिवंशश् च कीर्त्यते भविष्यद् धरिवंशस्य खिलानाम् इति कथ्यते वाराहं नारसिंहं च वामनं पौष्करं तथा जित्वा नृपान् रथांस् त्यक्त्वा भीमसेन भवत्प्रभुः दशश्लोकसहस्राणि विंशच्छ्लोकशतानि च खिलेषु हरिवंशे च संख्यातानि महर्षिणा अत्रापि परिसंख्याता कथिता तत्त्वबुद्धिना अध्यायानां सहस्रं तु कीर्तितं वै द्विजोत्तमाः अष्टादशसहस्राणि श्लोकानां कीर्तितानि वै अष्टादशसहस्राणि श्लोकानां च शतं तथा श्लोकाश् च चतुराशीतिर् हरिवंशे प्रकीर्तिताः खिलेषु हरिवंशश् च भविष्यच् च प्रकीर्तितम् खिलेषु हरिवंशस्य व्याख्याताः परमर्षिणा यत्र दिव्याः कथाः पुण्याः कीर्तिताः पापनाशनाः देवासुरकथाश् चैव विचित्राः समुदाहृताः भविष्यद् अपि चाख्यानं विचित्रं पुण्यवर्धनम् यत्र कृष्णस्य कर्माणि श्रूयन्ते जन्मना सह अध्यायास् त्व् एकम् एकानां सप्ताशीतिर् उदाहृता श्लोकानां च सहस्राणि दश त्रीणि शतानि च पौलोमादीनि सर्वाणि दशाष्टौ च महान् ऋषिः उक्तवान् सपुराणानि रहस्यं चावसानिकम् एवम् अष्टादशैतानि पर्वाण्य् उक्तानि धीमता अध्यायानां सहस्रे द्वे पर्वणां शतम् एव च श्लोकानां च सहस्राणि नवतिर् दश एव च एषा वै पर्वणां संख्या श्लोका ग्रन्थे यथाक्रमम् यद् उक्तम् ऋषिणा तेन व्यासेनोत्तमतेजसा जनमेजयस्याश्वमेधं द्रष्टुकामस्य धीमतः संप्रवृत्तो ऽश्वमेधश् च यत्र शक्रेण धर्षितः विरोधश् चाभवद् राज्ञो ब्राह्मणैस् तस्य ऋत्विजैः विश्वावसुपुरानीतो राजा राज्यम् अचीकरत् एषा वै पर्वणां संख्या खिलान्य् आह ततः परम् एतद् अखिलम् आख्यातं भारतं पर्वसंग्रहात् अष्टादश समाजग्मुर् अक्षौहिण्यो युयुत्सया तन् महद् दारुणं युद्धम् अहान्य् अष्टादशाभवत् यो विद्याच् चतुरो वेदान् साङ्गोपनिषदान् द्विजः न चाख्यानम् इदं विद्यान् नैव स स्याद् विचक्षणः अर्थशास्त्रम् इदं प्रोक्तं धर्मशास्त्रम् इदं महत् कामशास्त्रम् इदं प्रोक्तं व्यासेनामितबुद्धिना श्रुत्वा त्व् इदम् उपाख्यानं श्राव्यम् अन्यन् न रोचते पुंस्कोकिलरुतं श्रुत्वा रूक्षा ध्वाङ्क्षस्य वाग् इव धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ यद् इहास्ति तद् अन्यत्र यन् नेहास्ति न तत् क्व चित् एवं विज्ञाय तत्त्वज्ञाः कथयन्ति मनीषिणः भरतानां महज् जन्म महाभारतम् इत्य् उत निरुक्तम् अस्य यो वेद सर्वपापैः प्रमुच्यते भारताध्ययनात् पुण्याद् अपि पादम् अधीयतः श्रद्दधानस्य पूयन्ते सर्वपापान्य् असंशयः त्रिभिर् वर्षैर् महाभागः कृष्णद्वैपायनः शुभः प्रबन्धं भारतस्येमं चकार भगवान् प्रभुः कृष्णद्वैपायनः पुत्रं पूर्वम् अध्यापयच् छुकम् सुमन्तुं जैमिनिं पैलं वैशंपायनम् एव च तैश् चाप्य् अनन्यबुद्धिभ्यो ब्राह्मणेभ्यः प्रकाशितम् या क्रिया क्रियते का चिद् यश् च कश् चित् क्रियाविधिः इदं प्रवर्तते सर्वं श्रोतॄणां प्रीतये क्षितौ अधीयीत यथान्यायं वेदज्ञो वेदभृद् द्विजः वेदैश् चतुर्भिः समितम् इदम् आख्यानम् उत्तमम् भविष्यत्य् उपजीव्यं च कवीनाम् इदम् अन्नवत् न चास्य कवयः के चिद् भविष्यन्ति विशेषणे विशेषणे गृहस्थस्य त्रय एवाश्रमा यथा धन्यम् आरोग्यम् आयुष्यं पुण्यं सत्कर्मसाधकम् बुभूषते महाख्यानम् अभिमन्तव्यम् आदितः यद् अधीतं तदा सम्यग् द्विजश्रेष्ठैर् द्विजोत्तमात् वैशंपायनविप्राद्यैस् तैश् चापि कथितं तदा इतिहासोत्तमाद् अस्माज् जायन्ते कविबुद्धयः पञ्चभ्य इव भूतेभ्यो लोकसंविधयस् त्रयः अस्याख्यानस्य विषये पुराणं वर्तते द्विजाः अन्तरिक्षस्य विषये प्रजा इव चतुर्विधाः क्रियागुणानां सर्वेषाम् इदम् आख्यानम् आश्रयः इन्द्रियाणां समस्तानां चित्रा इव मनःक्रियाः अनाश्रित्यैतद् आख्यानं कथा भुवि न विद्यते आहारम् अनपाश्रित्य शरीरस्येव धारणम् इदं सर्वैः कविवरैर् आख्यानम् उपजीव्यते उदयप्रेप्सुभिर् भृत्यैर् अभिजात इवेश्वरः अस्य काव्यस्य कवयो न समर्था विशेषणे साधोर् इव गृहस्थस्य शेषास् त्रय इवाश्रमाः धर्मे मतिर् भवतु वः सततोत्थितानां स ह्य् एक एव परलोकगतस्य बन्धुः अर्थाः स्त्रियश् च निपुणैर् अपि सेव्यमाना नैवात्मभावम् उपयान्ति न च स्थिरत्वम् द्वैपायनौष्ठपुटनिःसृतम् अप्रमेयं; पुण्यं पवित्रम् अथ पापहरं शिवं च यो भारतं समधिगच्छति वाच्यमानं; किं तस्य पुष्करजलैर् अभिषेचनेन यद् अह्ना कुरुते पापं ब्राह्मणस् त्व् इन्द्रियैश् चरन् महाभारतम् आख्याय संध्यां मुच्यति पश्चिमाम् यद् रात्रौ कुरुते पापं कर्मणा मनसा गिरा महाभारतम् आख्याय पूर्वां संध्यां प्रमुच्यते यो गोशतं कनकशृङ्गमयं ददाति विप्राय वेदविदुषे च बहुश्रुताय पुण्यां च भारतकथां शृणुयाच् च नित्यं तुल्यं फलं भवति तस्य च तस्य चैव आख्यानं तद् इदम् अनुत्तमं महार्थं; विन्यस्तं महद् इह पर्वसंग्रहेण श्रुत्वादौ भवति नृणां सुखावगाहं; विस्तीर्णं लवणजलं यथा प्लवेन सूत उवाच जनमेजयः पारिक्षितः सह भ्रातृभिः कुरुक्षेत्रे दीर्घसत्रम् उपास्ते तस्य भ्रातरस् त्रयः श्रुतसेन उग्रसेनो भीमसेन इति तेषु तत् सत्रम् उपासीनेषु तत्र श्वाभ्यागच्छत् सारमेयः स जनमेजयस्य भ्रातृभिर् अभिहतो रोरूयमाणो मातुः समीपम् उपागच्छत् तं माता रोरूयमाणम् उवाच किं रोदिषि केनास्य् अभिहत इति स एवम् उक्तो मातरं प्रत्युवाच जनमेजयस्य भ्रातृभिर् अभिहतो ऽस्मीति तं माता प्रत्युवाच व्यक्तं त्वया तत्रापराद्धं येनास्य् अभिहत इति स तां पुनर् उवाच नापराध्यामि किं चित् नावेक्षे हवींषि नावलिह इति तच् छ्रुत्वा तस्य माता सरमा पुत्रशोकार्ता तत् सत्रम् उपागच्छद् यत्र स जनमेजयः सह भ्रातृभिर् दीर्घसत्रम् उपास्ते न किं चिद् उक्तवन्तस् ते | सा तान् उवाच | स तया क्रुद्धया तत्रोक्तः अयं मे पुत्रो न किं चिद् अपराध्यति किमर्थम् अभिहत इति यस्माच् चायम् अभिहतो ऽनपकारी तस्माद् अदृष्टं त्वां भयम् आगमिष्यतीति स जनमेजय एवम् उक्तो देवशुन्या सरमया दृढं संभ्रान्तो विषण्णश् चासीत् स तस्मिन् सत्रे समाप्ते हास्तिनपुरं प्रत्येत्य पुरोहितम् अनुरूपम् अन्विच्छमानः परं यत्नम् अकरोद् यो मे पापकृत्यां शमयेद् इति स कदा चिन् मृगयां यातः पारिक्षितो जनमेजयः कस्मिंश् चित् स्वविषयोद्देशे आश्रमम् अपश्यत् तत्र कश् चिद् ऋषिर् आसां चक्रे श्रुतश्रवा नाम तस्याभिमतः पुत्र आस्ते सोमश्रवा नाम तस्य तं पुत्रम् अभिगम्य जनमेजयः पारिक्षितः पौरोहित्याय वव्रे स नमस्कृत्य तम् ऋषिम् उवाच भगवन्न् अयं तव पुत्रो मम पुरोहितो ऽस्त्व् इति स एवम् उक्तः प्रत्युवाच भो जनमेजय पुत्रो ऽयं मम सर्प्यां जातः महातपस्वी स्वाध्यायसंपन्नो मत्तपोवीर्यसंभृतो मच्छुक्रं पीतवत्यास् तस्याः कुक्षौ संवृद्धः समर्थो ऽयं भवतः सर्वाः पापकृत्याः शमयितुम् अन्तरेण महादेवकृत्याम् अस्य त्व् एकम् उपांशुव्रतम् यद् एनं कश् चिद् ब्राह्मणः कं चिद् अर्थम् अभियाचेत् तं तस्मै दद्याद् अयम् यद्य् एतद् उत्सहसे ततो नयस्वैनम् इति तेनैवम् उत्को जनमेजयस् तं प्रत्युवाच भगवंस् तथा भविष्यतीति स तं पुरोहितम् उपादायोपावृत्तो भ्रातॄन् उवाच मयायं वृत उपाध्यायः यद् अयं ब्रूयात् तत् कार्यम् अविचारयद्भिर् इति तेनैवम् उक्ता भ्रातरस् तस्य तथा चक्रुः स तथा भ्रातॄन् संदिश्य तक्षशिलां प्रत्यभिप्रतस्थे तं च देशं वशे स्थापयाम् आस एतस्मिन्न् अन्तरे कश् चिद् ऋषिर् धौम्यो नामायोदः तस्य शिष्यास् त्रयो बभूवुर् उपमन्युर् आरुणिर् वेदश् चेति स एकं शिष्यम् आरुणिं पाञ्चाल्यं प्रेषयाम् आस गच्छ केदारखण्डं बधानेति स उपाध्यायेन संदिष्ट आरुणिः पाञ्चाल्यस् तत्र गत्वा तत् केदारखण्डं बद्धुं नाशक्नोत् स क्लिश्यमानो ऽपश्यद् उपायम् भवत्व् एवं करिष्यामीति स तत्र संविवेश केदारखण्डे शयाने तस्मिंस् तद् उदकं तस्थौ ततः कदा चिद् उपाध्याय आयोदो धौम्यः शिष्यान् अपृच्छत् क्व आरुणिः पाञ्चाल्यो गत इति ते प्रत्यूचुः भगवतैव प्रेषितो गच्छ केदारखण्डं बधानेति स एवम् उक्तस् ताञ् शिष्यान् प्रत्युवाच तस्मात् सर्वे तत्र गच्छामो यत्र स इति स तत्र गत्वा तस्याह्वानाय शब्दं चकार भो आरुणे पाञ्चाल्य क्वासि वत्सैहीति स तच् छ्रुत्वा आरुणिर् उपाध्यायवाक्यं तस्मात् केदारखण्डात् सहसोत्थाय तम् उपाध्यायम् उपतस्थे प्रोवाच चैनम् अयम् अस्म्य् अत्र केदारखण्डे निःसरमाणम् उदकम् अवारणीयं संरोद्धुं संविष्टो भगवच्छब्दं श्रुत्वैव सहसा विदार्य केदारखण्डं भवन्तम् उपस्थितः तद् अभिवादये भगवन्तम् आज्ञापयतु भवान् किं करवाणीति तम् उपाध्यायो ऽब्रवीत् यस्माद् भवान् केदारखण्डम् अवदार्योत्थितस् तस्माद् भवान् उद्दालक एव नाम्ना भविष्यतीति स उपाध्यायेनानुगृहीतः यस्मात् त्वया मद्वचो ऽनुष्ठितं तस्माच् छ्रेयो ऽवाप्स्यसीति सर्वे च ते वेदाः प्रतिभास्यन्ति सर्वाणि च धर्मशास्त्राणीति स एवम् उक्त उपाध्यायेनेष्टं देशं जगाम अथापरः शिष्यस् तस्यैवायोदस्य धौम्यस्योपमन्युर् नाम तम् उपाध्यायः प्रेषयाम् आस वत्सोपमन्यो गा रक्षस्वेति स उपाध्यायवचनाद् अरक्षद् गाः स चाहनि गा रक्षित्वा दिवसक्षये ऽभ्यागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे तम् उपाध्यायः पीवानम् अपश्यत् उवाच चैनम् वत्सोपमन्यो केन वृत्तिं कल्पयसि पीवान् असि दृढम् इति स उपाध्यायं प्रत्युवाच भैक्षेण वृत्तिं कल्पयामीति स तथेत्य् उक्त्वा भैक्षं चरित्वोपाध्यायाय न्यवेदयत् | स तस्माद् उपाध्यायः सर्वम् एव भैक्षम् अगृह्णात् | तम् उपाध्यायः प्रत्युवाच ममानिवेद्य भैक्षं नोपयोक्तव्यम् इति स तथेत्य् उक्त्वा पुनर् अरक्षद् गाः रक्षित्वा चागम्य तथैवोपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे तम् उपाध्यायस् तथापि पीवानम् एव दृष्ट्वोवाच वत्सोपमन्यो सर्वम् अशेषतस् ते भैक्षं गृह्णामि केनेदानीं वृत्तिं कल्पयसीति स एवम् उक्त उपाध्यायेन प्रत्युवाच भगवते निवेद्य पूर्वम् अपरं चरामि तेन वृत्तिं कल्पयामीति तम् उपाध्यायः प्रत्युवाच नैषा न्याय्या गुरुवृत्तिः अन्येषाम् अपि वृत्त्युपरोधं करोष्य् एवं वर्तमानः लुब्धो ऽसीति स तथेत्य् उक्त्वा गा अरक्षत् रक्षित्वा च पुनर् उपाध्यायगृहम् आगम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे तम् उपाध्यायस् तथापि पीवानम् एव दृष्ट्वा पुनर् उवाच अहं ते सर्वं भैक्षं गृह्णामि न चान्यच् चरसि पीवान् असि केन वृत्तिं कल्पयसीति स उपाध्यायं प्रत्युवाच भो एतासां गवां पयसा वृत्तिं कल्पयामीति तम् उपाध्यायः प्रत्युवाच नैतन् न्याय्यं पय उपयोक्तुं भवतो मयाननुज्ञातम् इति स तथेति प्रतिज्ञाय गा रक्षित्वा पुनर् उपाध्यायगृहान् एत्य गुरोर् अग्रतः स्थित्वा नमश्चक्रे तम् उपाध्यायः पीवानम् एवापश्यत् उवाच चैनम् भैक्षं नाश्नासि न चान्यच् चरसि पयो न पिबसि पीवान् असि केन वृत्तिं कल्पयसीति स एवम् उक्त उपाध्यायं प्रत्युवाच भोः फेनं पिबामि यम् इमे वत्सा मातॄणां स्तनं पिबन्त उद्गिरन्तीति तम् उपाध्यायः प्रत्युवाच एते त्वदनुकम्पया गुणवन्तो वत्साः प्रभूततरं फेनम् उद्गिरन्ति तद् एवम् अपि वत्सानां वृत्त्युपरोधं करोष्य् एवं वर्तमानः फेनम् अपि भवान् न पातुम् अर्हतीति स तथेति प्रतिज्ञाय निराहारस् ता गा अरक्षत् तथा प्रतिषिद्धो भैक्षं नाश्नाति न चान्यच् चरति पयो न पिबति फेनं नोपयुङ्क्ते स कदा चिद् अरण्ये क्षुधार्तो ऽर्कपत्राण्य् अभक्षयत् स तैर् अर्कपत्रैर् भक्षितैः क्षारकटूष्णविपाकिभिश् चक्षुष्य् उपहतो ऽन्धो ऽभवत् सो ऽन्धो ऽपि चङ्क्रम्यमाणः कूपे ऽपतत् नायात्य् उपमन्युः | त ऊचुः | वनं गतो गा रक्षितुम् इति | तान् आह उपाध्यायः | अथ तस्मिन्न् अनागच्छत्य् उपाध्यायः शिष्यान् अवोचत् मयोपमन्युः सर्वतः प्रतिषिद्धः स नियतं कुपितः ततो नागच्छति चिरगतश् चेति स एवम् उक्त्वा गत्वारण्यम् उपमन्योर् आह्वानं चक्रे भो उपमन्यो क्वासि वत्सैहीति स तदाह्वानम् उपाध्यायाच् छ्रुत्वा प्रत्युवाचोच्चैः अयम् अस्मि भो उपाध्याय कूपे पतित इति तम् उपाध्यायः प्रत्युवाच कथम् असि कूपे पतित इति स तं प्रत्युवाच अर्कपत्राणि भक्षयित्वान्धीभूतो ऽस्मि अतः कूपे पतित इति तम् उपाध्यायः प्रत्युवाच अश्विनौ स्तुहि तौ त्वां चक्षुष्मन्तं करिष्यतो देवभिषजाव् इति स एवम् उक्त उपाध्यायेन स्तोतुं प्रचक्रमे देवाव् अश्विनौ वाग्भिर् ऋग्भिः प्र पूर्वगौ पूर्वजौ चित्रभानू; गिरा वा शंसामि तपनाव् अनन्तौ दिव्यौ सुपर्णौ विरजौ विमानाव्; अधिक्षियन्तौ भुवनानि विश्वा हिरण्मयौ शकुनी सांपरायौ; नासत्यदस्रौ सुनसौ वैजयन्तौ शुक्रं वयन्तौ तरसा सुवेमाव्; अभि व्ययन्ताव् असितं विवस्वत् ग्रस्तां सुपर्णस्य बलेन वर्तिकाम्; अमुञ्चताम् अश्विनौ सौभगाय तावत् सुवृत्ताव् अनमन्त मायया; सत्तमा गा अरुणा उदावहन् षष्टिश् च गावस् त्रिशताश् च धेनव; एकं वत्सं सुवते तं दुहन्ति नानागोष्ठा विहिता एकदोहनास्; ताव् अश्विनौ दुहतो घर्मम् उक्थ्यम् एकां नाभिं सप्तशता अराः श्रिताः; प्रधिष्व् अन्या विंशतिर् अर्पिता अराः अनेमि चक्रं परिवर्तते ऽजरं; मायाश्विनौ समनक्ति चर्षणी एकं चक्रं वर्तते द्वादशारं प्रधि;षण्णाभिम् एकाक्षम् अमृतस्य धारणम् यस्मिन् देवा अधि विश्वे विषक्तास्; ताव् अश्विनौ मुञ्चतो मा विषीदतम् इदं वृत्तम् अपि वर्षासु भूयस् तिरोधत्ताम् अश्विनौ दासपत्नीः भित्त्वा मेघान् अशिवम् उदाचरन्तं यद् वृष्टिकर्म प्रथितौ बलस्य अश्विनाव् इन्द्रम् अमृतं वृत्तभूयौ; तिरोधत्ताम् अश्विनौ दासपत्नी भित्त्वा गिरिम् अश्विनौ गाम् उदाचरन्तौ; तद्वृष्टमह्ना प्रथिता वलस्य युवां दिशो जनयथो दशाग्रे; समानं मूर्ध्नि रथया वियन्ति तासां यातम् ऋषयो ऽनुप्रयान्ति; देवा मनुष्याः क्षितिम् आचरन्ति युवां वर्णान् विकुरुथो विश्वरूपांस्; ते ऽधिक्षियन्ति भुवनानि विश्वा ते भानवो ऽप्य् अनुसृताश् चरन्ति; देवा मनुष्याः क्षितिम् आचरन्ति तौ नासत्याव् अश्विनाव् आमहे वां; स्रजं च यां बिभृथः पुष्करस्य तौ नासत्याव् अमृतावृतावृधाव्; ऋते देवास् तत् प्रपदेन सूते स्तोतुं न शक्नोमि गुणैर् भवन्तौ चक्षुर्विहीनः पथि संप्रमूढः दुर्गे ऽहम् अस्मिन् पतितो ऽस्मि कूपे युवां शरण्यौ शरणं प्रपद्ये मुखेन गर्भं लभतां युवानौ; गतासुर् एतत् प्रपदेन सूते सद्यो जातो मातरम् अत्ति गर्भस्; ताव् अश्विनौ मुञ्चथो जीवसे गाः एवं तेनाभिष्टुताव् अश्विनाव् आजग्मतुः आहतुश् चैनम् प्रीतौ स्वः एष ते ऽपूपः अशानैनम् इति स एवम् उक्तः प्रत्युवाच नानृतम् ऊचतुर् भवन्तौ न त्व् अहम् एतम् अपूपम् उपयोक्तुम् उत्सहे अनिवेद्य गुरव इति ततस् तम् अश्विनाव् ऊचतुः आवाभ्यां पुरस्ताद् भवत उपाध्यायेनैवम् एवाभिष्टुताभ्याम् अपूपः प्रीताभ्यां दत्तः उपयुक्तश् च स तेनानिवेद्य गुरवे त्वम् अपि तथैव कुरुष्व यथा कृतम् उपाध्यायेनेति स एवम् उक्तः पुनर् एव प्रत्युवाचैतौ प्रत्यनुनये भवन्ताव् अश्विनौ नोत्सहे ऽहम् अनिवेद्योपाध्यायायोपयोक्तुम् इति तम् अश्विनाव् आहतुः प्रीतौ स्वस् तवानया गुरुवृत्त्या उपाध्यायस्य ते कार्ष्णायसा दन्ताः भवतो हिरण्मया भविष्यन्ति चक्षुष्मांश् च भविष्यसि श्रेयश् चावाप्स्यसीति स एवम् उक्तो ऽश्विभ्यां लब्धचक्षुर् उपाध्यायसकाशम् आगम्योपाध्यायम् अभिवाद्याचचक्षे स चास्य प्रीतिमान् अभूत् आह चैनम् यथाश्विनाव् आहतुस् तथा त्वं श्रेयो ऽवाप्स्यसीति सर्वे च ते वेदाः प्रतिभास्यन्तीति एषा तस्यापि परीक्षोपमन्योः अथापरः शिष्यस् तस्यैवायोदस्य धौम्यस्य वेदो नाम तम् उपाध्यायः संदिदेश वत्स वेद इहास्यताम् भवता मद्गृहे कं चित् कालं शुश्रूषमाणेन भवितव्यम् श्रेयस् ते भविष्यतीति स तथेत्य् उक्त्वा गुरुकुले दीर्घकालं गुरुशुश्रूषणपरो ऽवसत् गौर् इव नित्यं गुरुषु धूर्षु नियुज्यमानः शीतोष्णक्षुत्तृष्णादुःखसहः सर्वत्राप्रतिकूलः तस्य महता कालेन गुरुः परितोषं जगाम तत्परितोषाच् च श्रेयः सर्वज्ञतां चावाप एषा तस्यापि परीक्षा वेदस्य स उपाध्यायेनानुज्ञातः समावृत्तस् तस्माद् गुरुकुलवासाद् गृहाश्रमं प्रत्यपद्यत तस्यापि स्वगृहे वसतस् त्रयः शिष्या बभूवुः स शिष्यान् न किं चिद् उवाच कर्म वा क्रियतां गुरुशुश्रूषा वेति दुःखाभिज्ञो हि गुरुकुलवासस्य शिष्यान् परिक्लेशेन योजयितुं नेयेष अथ कस्य चित् कालस्य वेदं ब्राह्मणं जनमेजयः पौष्यश् च क्षत्रियाव् उपेत्योपाध्यायं वरयां चक्रतुः स कदा चिद् याज्यकार्येणाभिप्रस्थित उत्तङ्कं नाम शिष्यं नियोजयाम् आस भो उत्तङ्क यत् किं चिद् अस्मद्गृहे परिहीयते तद् इच्छाम्य् अहम् अपरिहीणं भवता क्रियमाणम् इति स एवं प्रतिसमादिश्योत्तङ्कं वेदः प्रवासं जगाम अथोत्तङ्को गुरुशुश्रूषुर् गुरुनियोगम् अनुतिष्ठमानस् तत्र गुरुकुले वसति स्म स वसंस् तत्रोपाध्यायस्त्रीभिः सहिताभिर् आहूयोक्तः उपाध्यायिनी ते ऋतुमती उपाध्यायश् च प्रोषितः अस्या यथायम् ऋतुर् वन्ध्यो न भवति तथा क्रियताम् एतद् विषीदतीति तस्य स्त्रीवाक्यं न कार्यम् इति धर्मलोपभयाद् एवम् अवदत् | स एवम् उक्तस् ताः स्त्रियः प्रत्युवाच न मया स्त्रीणां वचनाद् इदम् अकार्यं कार्यम् न ह्य् अहम् उपाध्यायेन संदिष्टः अकार्यम् अपि त्वया कार्यम् इति तस्य पुनर् उपाध्यायः कालान्तरेण गृहान् उपजगाम तस्मात् प्रवासात् स तद्वृत्तं तस्याशेषम् उपलभ्य प्रीतिमान् अभूत् स उवाच | सर्वं कृतम् इति | उपाध्यायः प्रत्युवाच | उवाच चैनम् वत्सोत्तङ्क किं ते प्रियं करवाणीति धर्मतो हि शुश्रूषितो ऽस्मि भवता तेन प्रीतिः परस्परेण नौ संवृद्धा तद् अनुजाने भवन्तम् सर्वाम् एव सिद्धिं प्राप्स्यसि गम्यताम् इति स एवम् उक्तः प्रत्युवाच किं ते प्रियं करवाणीति एवं ह्य् आहुः यश् चाधर्मेण विब्रूयाद् यश् चाधर्मेण पृच्छति तयोर् अन्यतरः प्रैति विद्वेषं चाधिगच्छति सो ऽहम् अनुज्ञातो भवता इच्छामीष्टं ते गुर्वर्थम् उपहर्तुम् इति तेनैवम् उक्त उपाध्यायः प्रत्युवाच वत्सोत्तङ्क उष्यतां तावद् इति स कदा चित् तम् उपाध्यायम् आहोत्तङ्कः आज्ञापयतु भवान् किं ते प्रियम् उपहरामि गुर्वर्थम् इति तेनैवम् उक्त उपाध्यायः प्रत्युवाच | किमर्थम् उपहरेयम् इति | तम् उपाध्यायः प्रत्युवाच वत्सोत्तङ्क बहुशो मां चोदयसि गुर्वर्थम् उपहरेयम् इति तद् गच्छ एनां प्रविश्योपाध्यायिनीं पृच्छ किम् उपहरामीति एषा यद् ब्रवीति तद् उपहरस्वेति स एवम् उक्त उपाध्यायेनोपाध्यायिनीम् अपृच्छत् भवत्य् उपाध्यायेनास्म्य् अनुज्ञातो गृहं गन्तुम् तद् इच्छामीष्टं ते गुर्वर्थम् उपहृत्यानृणो गन्तुम् तद् आज्ञापयतु भवती किम् उपहरामि गुर्वर्थम् इति सैवम् उक्तोपाध्यायिन्य् उत्तङ्कं प्रत्युवाच गच्छ पौष्यं राजानम् भिक्षस्व तस्य क्षत्रियया पिनद्धे कुण्डले ते आनयस्व इतश् चतुर्थे ऽहनि पुण्यकं भविता ताभ्याम् आबद्धाभ्यां ब्राह्मणान् परिवेष्टुम् इच्छामि शोभमाना यथा ताभ्यां कुण्डलाभ्यां तस्मिन्न् अहनि संपादयस्व श्रेयो हि ते स्यात् क्षणं कुर्वत इति स एवम् उक्त उपाध्यायिन्या प्रातिष्ठतोत्तङ्कः स पथि गच्छन्न् अपश्यद् ऋषभम् अतिप्रमाणं तम् अधिरूढं च पुरुषम् अतिप्रमाणम् एव स पुरुष उत्तङ्कम् अभ्यभाषत उत्तङ्कैतत् पुरीषम् अस्य ऋषभस्य भक्षयस्वेति स एवम् उक्तो नैच्छत् तम् आह पुरुषो भूयः भक्षयस्वोत्तङ्क मा विचारय उपाध्यायेनापि ते भक्षितं पूर्वम् इति स एवम् उक्तो बाढम् इत्य् उक्त्वा तदा तद् ऋषभस्य पुरीषं मूत्रं च भक्षयित्वोत्तङ्कः प्रतस्थे यत्र स क्षत्रियः पौष्यः तम् उपेत्यापश्यद् उत्तङ्क आसीनम् स तम् उपेत्याशीर्भिर् अभिनन्द्योवाच अर्थी भवन्तम् उपगतो ऽस्मीति स एनम् अभिवाद्योवाच भगवन् पौष्यः खल्व् अहम् किं करवाणीति तम् उवाचोत्तङ्कः गुर्वर्थे कुण्डलाभ्याम् अर्थ्य् आगतो ऽस्मीति ये ते क्षत्रियया पिनद्धे कुण्डले ते भवान् दातुम् अर्हतीति तस्यास् तत् स्त्रीधनं इंद्रेण यज्ञे तुष्टेन दत्तम् आसीत् | तं पौष्यः प्रत्युवाच प्रविश्यान्तःपुरं क्षत्रिया याच्यताम् इति स तेनैवम् उक्तः प्रविश्यान्तःपुरं क्षत्रियां नापश्यत् स पौष्यं पुनर् उवाच न युक्तं भवता वयम् अनृतेनोपचरितुम् न हि ते क्षत्रियान्तःपुरे संनिहिता नैनां पश्यामीति स एवम् उक्तः पौष्यस् तं प्रत्युवाच संप्रति भवान् उच्छिष्टः स्मर तावत् न हि सा क्षत्रिया उच्छिष्टेनाशुचिना वा शक्या द्रष्टुम् पतिव्रतात्वाद् एषा नाशुचेर् दर्शनम् उपैतीति अथैवम् उक्त उत्तङ्कः स्मृत्वोवाच अस्ति खलु मयोच्छिष्टेनोपस्पृष्टं शीघ्रं गच्छता चेति तं पौष्यः प्रत्युवाच एतत् तद् एवं हि न गच्छतोपस्पृष्टं भवति न स्थितेनेति अथोत्तङ्कस् तथेत्य् उक्त्वा प्राङ्मुख उपविश्य सुप्रक्षालितपाणिपादवदनो ऽशब्दाभिर् हृदयंगमाभिर् अद्भिर् उपस्पृश्य त्रिः पीत्वा द्विः परिमृज्य खान्य् अद्भिर् उपस्पृश्यान्तःपुरं प्रविश्य तां क्षत्रियाम् अपश्यत् सा च दृष्ट्वैवोत्तङ्कम् अभ्युत्थायाभिवाद्योवाच स्वागतं ते भगवन् आज्ञापय किं करवाणीति स ताम् उवाच एते कुण्डले गुर्वर्थं मे भिक्षिते दातुम् अर्हसीति सा प्रीता तेन तस्य सद्भावेन पात्रम् अयम् अनतिक्रमणीयश् चेति मत्वा ते कुण्डले अवमुच्यास्मै प्रायच्छत् आह चैनम् एते कुण्डले तक्षको नागराजः प्रार्थयति अप्रमत्तो नेतुम् अर्हसीति स एवम् उक्तस् तां क्षत्रियां प्रत्युवाच भवति सुनिर्वृता भव न मां शक्तस् तक्षको नागराजो धर्षयितुम् इति स एवम् उक्त्वा तां क्षत्रियाम् आमन्त्र्य पौष्यसकाशम् आगच्छत् स तं दृष्ट्वोवाच भोः पौष्य प्रीतो ऽस्मीति तं पौष्यः प्रत्युवाच भगवंश् चिरस्य पात्रम् आसाद्यते भवांश् च गुणवान् अतिथिः तत् करिष्ये श्राद्धम् क्षणः क्रियताम् इति तम् उत्तङ्कः प्रत्युवाच कृतक्षण एवास्मि शीघ्रम् इच्छामि यथोपपन्नम् अन्नम् उपहृतं भवतेति स तथेत्य् उक्त्वा यथोपपन्नेनान्नेनैनं भोजयाम् आस अथोत्तङ्कः शीतम् अन्नं सकेशं दृष्ट्वा अशुच्य् एतद् इति मत्वा पौष्यम् उवाच यस्मान् मे अशुच्य् अन्नं ददासि तस्मद् अन्धो भविष्यसीति तम् उत्तङ्कः प्रत्युवाच | न युक्तं भवतान्नम् अशुचि दत्त्वा प्रतिशापं दातुम् | तस्माद् अन्नम् एव प्रत्यक्षीकुरु | तं पौष्यः प्रत्युवाच यस्मात् त्वम् अप्य् अदुष्टम् अन्नं दूषयसि तस्माद् अनपत्यो भविष्यसीति सो ऽथ पौष्यस् तस्याशुचिभावम् अन्नस्यागमयाम् आस अथ तदन्नं मुक्तकेश्या स्त्रियोपहृतं सकेशम् अशुचि मत्वोत्तङ्कं प्रसादयाम् आस भगवन्न् अज्ञानाद् एतद् अन्नं सकेशम् उपहृतं शीतं च तत् क्षामये भवन्तम् न भवेयम् अन्ध इति तम् उत्तङ्कः प्रत्युवाच न मृषा ब्रवीमि भूत्वा त्वम् अन्धो नचिराद् अनन्धो भविष्यसीति ममापि शापो न भवेद् भवता दत्त इति तं पौष्यः प्रत्युवाच नाहं शक्तः शापं प्रत्यादातुम् न हि मे मन्युर् अद्याप्य् उपशमं गच्छति किं चैतद् भवता न ज्ञायते यथा नावनीतं हृदयं ब्राह्मणस्य; वाचि क्षुरो निहितस् तीक्ष्णधारः विपरीतम् एतद् उभयं क्षत्रियस्य; वाङ् नावनीती हृदयं तीक्ष्णधारम् मम शापो भविष्यतीति | इति तद् एवं गते न शक्तो ऽहं तीक्ष्णहृदयत्वात् तं शापम् अन्यथा कर्तुम् गम्यताम् इति तम् उत्तङ्कः प्रत्युवाच भवताहम् अन्नस्याशुचिभावम् आगमय्य प्रत्यनुनीतः प्राक् च ते ऽभिहितम् यस्माद् अदुष्टम् अन्नं दूषयसि तस्माद् अनपत्यो भविष्यसीति दुष्टे चान्ने नैष मम शापो भविष्यतीति साधयामस् तावद् इत्य् उक्त्वा प्रातिष्ठतोत्तङ्कस् ते कुण्डले गृहीत्वा सो ऽपश्यत् पथि नग्नं श्रमणम् आगच्छन्तं मुहुर् मुहुर् दृश्यमानम् अदृश्यमानं च अथोत्तङ्कस् ते कुण्डले भूमौ निक्षिप्योदकार्थं प्रचक्रमे कृतोदककार्यः शुचिः प्रयतो नमो देवेभ्यो गुरुभ्यश् च कृत्वा महता जवेन तम् अन्वयात् | तस्य तक्षको दृढम् आसन्नः | स तं जग्राह | एतस्मिन्न् अन्तरे स श्रमणस् त्वरमाण उपसृत्य ते कुण्डले गृहीत्वा प्राद्रवत् तम् उत्तङ्को ऽभिसृत्य जग्राह स तद् रूपं विहाय तक्षकरूपं कृत्वा सहसा धरण्यां विवृतं महाबिलं विवेश अथोत्तङ्कस् तस्याः क्षत्रियाया वचः स्मृत्वा तं तक्षकम् अन्वगच्छत् | स तद्बिलं दण्डकाष्ठेन चखान | न चाशकत् | तं क्लिश्यमानम् इन्द्रो ऽपश्यत् | स वज्रं प्रेषयाम् आस | गच्छास्य ब्राह्मणस्य साहाय्यं कुरुष्वेति | अथ वज्रो दण्डकाष्ठम् अनुप्रविश्य तद्बिलम् अदारयत् | तं नागलोकम् अपर्यन्तम् अनेकविधप्रासादहर्म्यवलभीनिर्यूहशतसंकुलम् उच्चावचक्रीडाश्चर्यस्थानावकीर्णम् अपश्यत् | स तत्र | प्रविश्य च नागलोकं स्वभवनम् अगच्छत् तम् उत्तङ्को ऽन्वाविवेश तेनैव बिलेन प्रविश्य च नागान् अस्तुवद् एभिः श्लोकैः य ऐरावतराजानः सर्पाः समितिशोभनाः वर्षन्त इव जीमूताः सविद्युत्पवनेरिताः सुरूपाश् च विरूपाश् च तथा कल्माषकुण्डलाः आदित्यवन् नाकपृष्ठे रेजुर् ऐरावतोद्भवाः तत्रस्थान् अपि संस्तौमि महतः पन्नगान् अहम् | बहूनि नागवर्त्मानि गङ्गायास् तीर उत्तरे इच्छेत् को ऽर्कांशुसेनायां चर्तुम् ऐरावतं विना शतान्य् अशीतिर् अष्टौ च सहस्राणि च विंशतिः सर्पाणां प्रग्रहा यान्ति धृतराष्ट्रो यद् एजति ये चैनम् उपसर्पन्ति ये च दूरं परं गताः अहम् ऐरावतज्येष्ठभ्रातृभ्यो ऽकरवं नमः यस्य वासः कुरुक्षेत्रे खाण्डवे चाभवत् सदा तं काद्रवेयम् अस्तौषं कुण्डलार्थाय तक्षकम् नदीं मन्दाकिनीं रम्यां प्रसन्नसलिलाम् अनु | तक्षकश् चाश्वसेनश् च नित्यं सहचराव् उभौ कुरुक्षेत्रे निवसतां नदीम् इक्षुमतीम् अनु एवं स्तुत्वा स विप्रर्षिर् उत्तङ्को भुजगोत्तमान् नैव ते कुण्डले लेभे ततश् चिन्ताम् उपागमत् नागराजाय मुख्याय कुण्डले आप्नुयां यथा जघन्यजस् तक्षकस्य श्रुतसेनेति यः श्रुतः अवसद्यो महद् द्युम्नि प्रार्थयन् नागमुख्यताम् करवाणि सदा चाहं नमस् तस्मै महात्मने तदा वै चिन्तयाम् आस उपाध्याय्या यद् ईरितम् काले च समतिक्रान्ते शापं दास्यति मन्युना एवं स्तुवन्न् अपि नागान् यदा ते कुण्डले नालभद् अथापश्यत् स्त्रियौ तन्त्रे अधिरोप्य पटं वयन्त्यौ तस्मिंश् च तन्त्रे कृष्णाः सिताश् च तन्तवः चक्रं चापश्यत् षड्भिः कुमारैः परिवर्त्यमानम् पुरुषं चापश्यद् दर्शनीयम् स तान् सर्वांस् तुष्टाव एभिर् मन्त्रवादश्लोकैः त्रीण्य् अर्पितान्य् अत्र शतानि मध्ये; षष्टिश् च नित्यं चरति ध्रुवे ऽस्मिन् चक्रे चतुर्विंशतिपर्वयोगे; षड् यत् कुमाराः परिवर्तयन्ति तन्त्रं चेदं विश्वरूपं युवत्यौ; वयतस् तन्तून् सततं वर्तयन्त्यौ कृष्णान् सितांश् चैव विवर्तयन्त्यौ; भूतान्य् अजस्रं भुवनानि चैव वज्रस्य भर्ता भुवनस्य गोप्ता; वृत्रस्य हन्ता नमुचेर् निहन्ता कृष्णे वसानो वसने महात्मा; सत्यानृते यो विविनक्ति लोके यो वाजिनं गर्भम् अपां पुराणं; वैश्वानरं वाहनम् अभ्युपेतः नमः सदास्मै जगदीश्वराय; लोकत्रयेशाय पुरंदराय ततः स एनं पुरुषः प्राह प्रीतो ऽस्मि ते ऽहम् अनेन स्तोत्रेण किं ते प्रियं करवाणीति स तम् उवाच नागा मे वशम् ईयुर् इति स एनं पुरुषः पुनर् उवाच एतम् अश्वम् अपाने धमस्वेति स तम् अश्वम् अपाने ऽधमत् अथाश्वाद् धम्यमानात् सर्वस्रोतोभ्यः सधूमा अर्चिषो ऽग्नेर् निष्पेतुः ताभिर् नागलोको धूपितः अथ ससंभ्रमस् तक्षको ऽग्नितेजोभयविषण्णस् ते कुण्डले गृहीत्वा सहसा स्वभवनान् निष्क्रम्योत्तङ्कम् उवाच एते कुण्डले प्रतिगृह्णातु भवान् इति स ते प्रतिजग्राहोत्तङ्कः कुण्डले प्रतिगृह्याचिन्तयत् अद्य तत् पुण्यकम् उपाध्यायिन्याः दूरं चाहम् अभ्यागतः कथं नु खलु संभावयेयम् इति तत एनं चिन्तयानम् एव स पुरुष उवाच उत्तङ्क एनम् अश्वम् अधिरोह एष त्वां क्षणाद् एवोपाध्यायकुलं प्रापयिष्यतीति स तथेत्य् उक्त्वा तम् अश्वम् अधिरुह्य प्रत्याजगामोपाध्यायकुलम् उपाध्यायिनी च स्नाता केशान् आवपयन्त्य् उपविष्टोत्तङ्को नागच्छतीति शापायास्य मनो दधे अथोत्तङ्कः प्रविश्य उपाध्यायिनीम् अभ्यवादयत् ते चास्यै कुण्डले प्रायच्छत् सा चैनं प्रत्युवाच उत्तङ्क देशे काले ऽभ्यागतः स्वागतं ते वत्स मनाग् असि मया न शप्तः श्रेयस् तवोपस्थितम् सिद्धिम् आप्नुहीति अथोत्तङ्क उपाध्यायम् अभ्यवादयत् तम् उपाध्यायः प्रत्युवाच वत्सोत्तङ्क स्वागतं ते किं चिरं कृतम् इति तम् उत्तङ्क उपाध्यायं प्रत्युवाच भोस् तक्षकेण नागराजेन विघ्नः कृतो ऽस्मिन् कर्मणि तेनास्मि नागलोकं नीतः तत्र च मया दृष्टे स्त्रियौ तन्त्रे ऽधिरोप्य पटं वयन्त्यौ तस्मिंश् च तन्त्रे कृष्णाः सिताश् च तन्तवः किं तत् तत्र च मया चक्रं दृष्टं द्वादशारम् षट् चैनं कुमाराः परिवर्तयन्ति तद् अपि किम् पुरुषश् चापि मया दृष्टः स पुनः कः अश्वश् चातिप्रमाणयुक्तः स चापि कः पथि गच्छता मया ऋषभो दृष्टः तं च पुरुषो ऽधिरूढः तेनास्मि सोपचारम् उक्तः उत्तङ्कास्य ऋषभस्य पुरीषं भक्षय उपाध्यायेनापि ते भक्षितम् इति ततस् तद्वचनान् मया तदृषभस्य पुरीषम् उपयुक्तम् तद् इच्छामि भवतोपदिष्टं किं तद् इति तेनैवम् उक्त उपाध्यायः प्रत्युवाच ये ते स्त्रियौ धाता विधाता च ये च ते कृष्णाः सिताश् च तन्तवस् ते रात्र्यहनी द्वादशारं द्वादश मासाः | यद् अपि तच् चक्रं द्वादशारं षट् कुमाराः परिवर्तयन्ति ते ऋतवः षट् संवत्सरश् चक्रम् यः पुरुषः स पर्जन्यः यो ऽश्वः सो ऽग्निः य ऋषभस् त्वया पथि गच्छता दृष्टः स ऐरावतो नागराजः यश् चैनम् अधिरूढः स इन्द्रः यद् अपि ते पुरीषं भक्षितं तस्य ऋषभस्य तद् अमृतम् तेन खल्व् असि न व्यापन्नस् तस्मिन् नागभवने स चापि मम सखा इन्द्रः तदनुग्रहात् कुण्डले गृहीत्वा पुनर् अभ्यागतो ऽसि तत् सौम्य गम्यताम् अनुजाने भवन्तम् श्रेयो ऽवाप्स्यसीति स उपाध्यायेनानुज्ञात उत्तङ्कः क्रुद्धस् तक्षकस्य प्रतिचिकीर्षमाणो हास्तिनपुरं प्रतस्थे स हास्तिनपुरं प्राप्य नचिराद् द्विजसत्तमः समागच्छत राजानम् उत्तङ्को जनमेजयम् पुरा तक्षशिलातस् तं निवृत्तम् अपराजितम् सम्यग् विजयिनं दृष्ट्वा समन्तान् मन्त्रिभिर् वृतम् तस्मै जयाशिषः पूर्वं यथान्यायं प्रयुज्य सः उवाचैनं वचः काले शब्दसंपन्नया गिरा अन्यस्मिन् करणीये त्वं कार्ये पार्थिवसत्तम बाल्याद् इवान्यद् एव त्वं कुरुषे नृपसत्तम एवम् उक्तस् तु विप्रेण स राजा प्रत्युवाच ह जनमेजयः प्रसन्नात्मा सम्यक् संपूज्य तं मुनिम् आसां प्रजानां परिपालनेन; स्वं क्षत्रधर्मं परिपालयामि प्रब्रूहि वा किं क्रियतां द्विजेन्द्र; शुश्रूषुर् अस्म्य् अद्य वचस् त्वदीयम् स एवम् उक्तस् तु नृपोत्तमेन; द्विजोत्तमः पुण्यकृतां वरिष्ठः उवाच राजानम् अदीनसत्त्वं; स्वम् एव कार्यं नृपतेश् च यत् तत् तक्षकेण नरेन्द्रेन्द्र येन ते हिंसितः पिता तस्मै प्रतिकुरुष्व त्वं पन्नगाय दुरात्मने कार्यकालं च मन्ये ऽहं विधिदृष्टस्य कर्मणः तद् गच्छापचितिं राजन् पितुस् तस्य महात्मनः तेन ह्य् अनपराधी स दष्टो दुष्टान्तरात्मना पञ्चत्वम् अगमद् राजा वज्राहत इव द्रुमः बलदर्पसमुत्सिक्तस् तक्षकः पन्नगाधमः अकार्यं कृतवान् पापो यो ऽदशत् पितरं तव राजर्षिवंशगोप्तारम् अमरप्रतिमं नृपम् जघान काश्यपं चैव न्यवर्तयत पापकृत् दग्धुम् अर्हसि तं पापं ज्वलिते हव्यवाहने सर्पसत्रे महाराज त्वयि तद् धि विधीयते एवं पितुश् चापचितिं गतवांस् त्वं भविष्यसि मम प्रियं च सुमहत् कृतं राजन् भविष्यति कर्मणः पृथिवीपाल मम येन दुरात्मना विघ्नः कृतो महाराज गुर्वर्थं चरतो ऽनघ एतच् छ्रुत्वा तु नृपतिस् तक्षकस्य चुकोप ह उत्तङ्कवाक्यहविषा दीप्तो ऽग्निर् हविषा यथा अपृच्छच् च तदा राजा मन्त्रिणः स्वान् सुदुःखितः उत्तङ्कस्यैव सांनिध्ये पितुः स्वर्गगतिं प्रति पौष्ये पर्वणि राजेन्द्र स्वस्ति वाच्य द्विजान् अथ समाप्ते पर्वणि तदा स्वशक्त्या तर्पयेद् द्विजान् तदैव हि स राजेन्द्रो दुःखशोकाप्लुतो ऽभवत् यदैव पितरं वृत्तम् उत्तङ्काद् अशृणोत् तदा लोमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर् द्वादशवार्षिके सत्रे ऋषीन् अभ्यागतान् उपतस्थे मयोदङ्कस्य चरितम् अशेषम् उक्तम् | जनमेजयस्य सर्पसत्रस्य निमित्तान्तरम् इदम् अपि | पौराणिकः पुराणे कृतश्रमः स तान् कृताञ्जलिर् उवाच किं भवन्तः श्रोतुम् इच्छन्ति किम् अहं ब्रुवाणीति तम् ऋषय ऊचुः परमं लोमहर्षणे प्रक्ष्यामस् त्वां वक्ष्यसि च नः शुश्रूषतां कथायोगम् तद् भगवांस् तु तावच् छौनको ऽग्निशरणम् अध्यास्ते यो ऽसौ दिव्याः कथा वेद देवतासुरसंकथाः मनुष्योरगगन्धर्वकथा वेद च सर्वशः स चाप्य् अस्मिन् मखे सौते विद्वान् कुलपतिर् द्विजः दक्षो धृतव्रतो धीमाञ् शास्त्रे चारण्यके गुरुः सत्यवादी शमपरस् तपस्वी नियतव्रतः सर्वेषाम् एव नो मान्यः स तावत् प्रतिपाल्यताम् तस्मिन्न् अध्यासति गुराव् आसनं परमार्चितम् ततो वक्ष्यसि यत् त्वां स प्रक्ष्यति द्विजसत्तमः सूत उवाच एवम् अस्तु गुरौ तस्मिन्न् उपविष्टे महात्मनि तेन पृष्टः कथाः पुण्या वक्ष्यामि विविधाश्रयाः सो ऽथ विप्रर्षभः कार्यं कृत्वा सर्वं यथाक्रमम् देवान् वाग्भिः पितॄन् अद्भिस् तर्पयित्वाजगाम ह यत्र ब्रह्मर्षयः सिद्धास् त आसीना यतव्रताः यज्ञायतनम् आश्रित्य सूतपुत्रपुरःसराः ऋत्विक्ष्व् अथ सदस्येषु स वै गृहपतिस् ततः उपविष्टेषूपविष्टः शौनको ऽथाब्रवीद् इदम् शौनक उवाच पुराणम् अखिलं तात पिता ते ऽधीतवान् पुरा भारताध्ययनं सर्वं कृष्णद्वैपायनात् तदा कच्चित् त्वम् अपि तत् सर्वम् अधीषे लोमहर्षणे पुराणे हि कथा दिव्या आदिवंशाश् च धीमताम् कथ्यन्ते ताः पुरास्माभिः श्रुताः पूर्वं पितुस् तव तत्र वंशम् अहं पूर्वं श्रोतुम् इच्छामि भार्गवम् कथयस्व कथाम् एतां कल्याः स्म श्रवणे तव सूत उवाच यद् अधीतं पुरा सम्यग् द्विजश्रेष्ठ महात्मभिः वैशंपायनविप्राद्यैस् तैश् चापि कथितं पुरा यद् अधीतं च पित्रा मे सम्यक् चैव ततो मया तत् तावच् छृणु यो देवैः सेन्द्रैः साग्निमरुद्गणैः पूजितः प्रवरो वंशो भृगूणां भृगुनन्दन इमं वंशम् अहं ब्रह्मन् भार्गवं ते महामुने निगदामि कथायुक्तं पुराणाश्रयसंयुतम् शृणुष्वावहितो ब्रह्मन् पुराणे यच् छ्रुतं मया भृगुर् महर्षिर् भगवान् ब्रह्मणा वै स्वयंभुवा वरुणस्य क्रतौ जातः पावकाद् इति नः श्रुतम् भृगोर् बभूवुः षट् पुत्रास् तपसा भावितात्मनः कविश् च च्यवनश् चैव शङ्खलश् च महातपाः सुरश्मिः सप्तरश्मिश् च वितथश् च महातपाः वीतहव्यस्य तनयः स्मृतो गृत्समदः प्रभुः गृत्सस्यापि सुतस् त्व् अस्य ब्रह्मन् सावेदसो ऽभवत् सावेदस्य तु पुत्रो ऽभूद् ऊर्वः श्रुतवतां वरः ऊर्वस्य तु विहव्यो ऽभूद् ब्रह्मसूनुर् महात्मनः विहव्यस्य तु दायादो विहरः कीर्तिमान् स्मृतः विहरस्यात्मवान् पुत्रो वत्सश् चाधिरथः स्मृतः वत्सस्यापि विनिन्दस् तु सूनुर् आसीन् महातपाः भृगोर् विनिन्दस्य सुतः सद्यो नाम बभूव ह सद्यस्याप्य् आत्मजो ब्रह्मन् वित्तो नाम सुवीर्यवान् वित्तस्य तु महातेजा बभूव च श्रुतश्रवाः श्रुतश्रवसस् तु सूनुर् बभूव तपवान् प्रभो तपसस् तु महातेजाः प्रकाशस् तनयो ऽभवत् ऊर्ध्वः प्रकाशस्य सुतो ब्रह्मर्षिर् ब्रह्मवित्तमः ब्रह्मसृष्टो मतो येन येन पूर्वं महात्मना ऊर्ध्वस्य चैव वागिन्द्रो वागिन्द्रो ब्रह्मवादिनः ऋचीकस् तस्य तनयो ब्रह्मसूनुर् महातपाः जमदग्निः सुतस् तस्य जज्ञे जनकसंनिभः जमदग्नेस् तु वै पञ्च आसन् पुत्रा महात्मनः रुमण्वांश् च सुषेणश् च वसुर् विश्वावसुस् तथा रामस् तस्य जघन्यो ऽभून् महास्त्रो रेणुकासुतः त्रिःसप्तकृत्वः पृथिवी येन निःक्षत्रिया कृता भृगोः सुदयितः पुत्रश् च्यवनो नाम भार्गवः च्यवनस्यापि दायादः प्रमतिर् नाम धार्मिकः प्रमतेर् अप्य् अभूत् पुत्रो घृताच्यां रुरुर् इत्य् उत रुरोर् अपि सुतो जज्ञे शुनको वेदपारगः प्रमद्वरायां धर्मात्मा तव पूर्वपितामहात् तपस्वी च यशस्वी च श्रुतवान् ब्रह्मवित्तमः धर्मिष्ठः सत्यवादी च नियतो नियतेन्द्रियः शौनक उवाच सूतपुत्र यथा तस्य भार्गवस्य महात्मनः च्यवनत्वं परिख्यातं तन् ममाचक्ष्व पृच्छतः सूत उवाच भृगोः सुदयिता भार्या पुलोमेत्य् अभिविश्रुता तस्यां गर्भः समभवद् भृगोर् वीर्यसमुद्भवः तस्मिन् गर्भे संभृते ऽथ पुलोमायां भृगूद्वह समये समशीलिन्यां धर्मपत्न्यां यशस्विनः अभिषेकाय निष्क्रान्ते भृगौ धर्मभृतां वरे आश्रमं तस्य रक्षो ऽथ पुलोमाभ्याजगाम ह तं प्रविश्याश्रमं दृष्ट्वा भृगोर् भार्याम् अनिन्दिताम् हृच्छयेन समाविष्टो विचेताः समपद्यत अभ्यागतं तु तद् रक्षः पुलोमा चारुदर्शना न्यमन्त्रयत वन्येन फलमूलादिना तदा तां तु रक्षस् ततो ब्रह्मन् हृच्छयेनाभिपीडितम् दृष्ट्वा हृष्टम् अभूत् तत्र जिहीर्षुस् ताम् अनिन्दिताम् जातम् इत्य् अब्रवीत् कार्यं जिहीर्षुर् मुदितः शुभाम् सा हि पूर्वं वृता तेन पुलोम्ना तु शुचिस्मिता तां तु प्रादात् पिता पश्चाद् भृगवे शास्त्रवत् तदा तस्य तत् किल्बिषं नित्यं हृदि वर्तति भार्गव इदम् अन्तरम् इत्य् एवं हर्तुं चक्रे मनस् तदा अथाग्निशरणे ऽपश्यज् ज्वलितं जातवेदसम् तम् अपृच्छत् ततो रक्षः पावकं ज्वलितं तदा शंस मे कस्य भार्येयम् अग्ने पृष्ट ऋतेन वै सत्यस् त्वम् असि सत्यं मे वद पावक पृच्छते मया हीयं पूर्ववृता भार्यार्थे वरवर्णिनी पश्चात् त्व् इमां पिता प्रादाद् भृगवे ऽनृतकारिणे सेयं यदि वरारोहा भृगोर् भार्या रहोगता तथा सत्यं समाख्याहि जिहीर्षाम्य् आश्रमाद् इमाम् मन्युर् हि हृदयं मे ऽद्य प्रदहन्न् इव तिष्ठति मत्पुर्वभार्यां यद् इमां भृगुः प्राप सुमध्यमाम् असंमतं कृतं मे ऽद्य हरिष्याम्य् आश्रमाद् इमाम् तद् रक्ष एवम् आमन्त्र्य ज्वलितं जातवेदसम् शङ्कमानो भृगोर् भार्यां पुनः पुनर् अपृच्छत त्वम् अग्ने सर्वभूतानाम् अन्तश् चरसि नित्यदा साक्षिवत् पुण्यपापेषु सत्यं ब्रूहि कवे वचः मत्पूर्वभार्यापहृता भृगुणानृतकारिणा सेयं यदि तथा मे त्वं सत्यम् आख्यातुम् अर्हसि श्रुत्वा त्वत्तो भृगोर् भार्यां हरिष्याम्य् अहम् आश्रमात् जातवेदः पश्यतस् ते वद सत्यां गिरं मम तस्य तद् वचनं श्रुत्वा सप्तार्चिर् दुःखितो भृशम् सत्यं वदामि यदि मे शापः स्याद् ब्रह्मवित्तमात् असत्यं चेद् अहं ब्रूवे पतिष्ये नरकान् क्रमात् भीतो ऽनृताच् च शापाच् च भृगोर् इत्य् अब्रवीच् छनैः अग्निर् उवाच त्वया वृता पुलोमेयं पूर्वं दानवनन्दन किं त्व् इयं विधिना पूर्वं मन्त्रवन् न वृता त्वया पित्रा तु भृगवे दत्ता पुलोमेयं यशस्विनी ददाति न पिता तुभ्यं वरलोभान् महायशाः अथेमां वेददृष्टेन कर्मणा विधिपूर्वकम् भार्याम् ऋषिर् भृगुः प्राप मां पुरस्कृत्य दानव सेयम् इत्य् अवगच्छामि नानृतं वक्तुम् उत्सहे नानृतं हि सदा लोके पूज्यते दानवोत्तम सूत उवाच अग्नेर् अथ वचः श्रुत्वा तद् रक्षः प्रजहार ताम् ब्रह्मन् वराहरूपेण मनोमारुतरंहसा ततः स गर्भो निवसन् कुक्षौ भृगुकुलोद्वह रोषान् मातुश् च्युतः कुक्षेश् च्यवनस् तेन सो ऽभवत् तं दृष्ट्वा मातुर् उदराच् च्युतम् आदित्यवर्चसम् तद् रक्षो भस्मसाद् भूतं पपात परिमुच्य ताम् सा तम् आदाय सुश्रोणी ससार भृगुनन्दनम् च्यवनं भार्गवं ब्रह्मन् पुलोमा दुःखमूर्च्छिता तां ददर्श स्वयं ब्रह्मा सर्वलोकपितामहः रुदतीं बाष्पपूर्णाक्षीं भृगोर् भार्याम् अनिन्दिताम् सान्त्वयाम् आस भगवान् वधूं ब्रह्मा पितामहः अश्रुबिन्दूद्भवा तस्याः प्रावर्तत महानदी अनुवर्तती सृतिं तस्या भृगोः पत्न्या यशस्विनः तस्या मार्गं सृतवतीं दृष्ट्वा तु सरितं तदा नाम तस्यास् तदा नद्याश् चक्रे लोकपितामहः वधूसरेति भगवांश् च्यवनस्याश्रमं प्रति स एवं च्यवनो जज्ञे भृगोः पुत्रः प्रतापवान् तं ददर्श पिता तत्र च्यवनं तां च भामिनीम् स पुलोमां ततो भार्यां पप्रच्छ कुपितो भृगुः केनासि रक्षसे तस्मै कथितेह जिहीर्षवे न हि त्वां वेद तद् रक्षो मद्भार्यां चारुहासिनीम् तत् त्वम् आख्याहि तं ह्य् अद्य शप्तुम् इच्छाम्य् अहं रुषा बिभेति को न शापान् मे कस्य चायं व्यतिक्रमः पुलोमोवाच अग्निना भगवंस् तस्मै रक्षसे ऽहं निवेदिता ततो माम् अनयद् रक्षः क्रोशन्तीं कुररीम् इव साहं तव सुतस्यास्य तेजसा परिमोक्षिता भस्मीभूतं च तद् रक्षो माम् उत्सृज्य पपात वै सूत उवाच इति श्रुत्वा पुलोमाया भृगुः परममन्युमान् शशापाग्निम् अभिक्रुद्धः सर्वभक्षो भविष्यसि सूत उवाच शप्तस् तु भृगुणा वह्निः क्रुद्धो वाक्यम् अथाब्रवीत् किम् इदं साहसं ब्रह्मन् कृतवान् असि सांप्रतम् धर्मे प्रयतमानस्य सत्यं च वदतः समम् पृष्टो यद् अब्रुवं सत्यं व्यभिचारो ऽत्र को मम पृष्टो हि साक्षी यः साक्ष्यं जानमानो ऽन्यथा वदेत् स पूर्वान् आत्मनः सप्त कुले हन्यात् तथा परान् यश् च कार्यार्थतत्त्वज्ञो जानमानो न भाषते सो ऽपि तेनैव पापेन लिप्यते नात्र संशयः शक्तो ऽहम् अपि शप्तुं त्वां मान्यास् तु ब्राह्मणा मम जानतो ऽपि च ते व्यक्तं कथयिष्ये निबोध तत् योगेन बहुधात्मानं कृत्वा तिष्ठामि मूर्तिषु अग्निहोत्रेषु सत्रेषु क्रियास्व् अथ मखेषु च वेदोक्तेन विधानेन मयि यद् धूयते हविः देवताः पितरश् चैव तेन तृप्ता भवन्ति वै आपो देवगणाः सर्वे आपः पितृगणास् तथा दर्शश् च पौर्णमासश् च देवानां पितृभिः सह देवताः पितरस् तस्मात् पितरश् चापि देवताः एकीभूताश् च पूज्यन्ते पृथक्त्वेन च पर्वसु देवताः पितरश् चैव जुह्वते मयि यत् सदा त्रिदशानां पितॄणां च मुखम् एवम् अहं स्मृतः अमावास्यां च पितरः पौर्णमास्यां च देवताः मन्मुखेनैव हूयन्ते भुञ्जते च हुतं हविः सर्वभक्षः कथं तेषां भविष्यामि मुखं त्व् अहम् चिन्तयित्वा ततो वह्निश् चक्रे संहारम् आत्मनः द्विजानाम् अग्निहोत्रेषु यज्ञसत्रक्रियासु च निर्ॐकारवषट्काराः स्वधास्वाहाविवर्जिताः विनाग्निना प्रजाः सर्वास् तत आसन् सुदुःखिताः अथर्षयः समुद्विग्ना देवान् गत्वाब्रुवन् वचः अग्निनाशात् क्रियाभ्रंशाद् भ्रान्ता लोकास् त्रयो ऽनघाः विधध्वम् अत्र यत् कार्यं न स्यात् कालात्ययो यथा अथर्षयश् च देवाश् च ब्रह्माणम् उपगम्य तु अग्नेर् आवेदयञ् शापं क्रियासंहारम् एव च भृगुणा वै महाभाग शप्तो ऽग्निः कारणान्तरे कथं देवमुखो भूत्वा यज्ञभागाग्रभुक् तथा हुतभुक् सर्वलोकेषु सर्वभक्षत्वम् एष्यति श्रुत्वा तु तद् वचस् तेषाम् अग्निम् आहूय लोककृत् उवाच वचनं श्लक्ष्णं भूतभावनम् अव्ययम् लोकानाम् इह सर्वेषां त्वं कर्ता चान्त एव च त्वं धारयसि लोकांस् त्रीन् क्रियाणां च प्रवर्तकः स तथा कुरु लोकेश नोच्छिद्येरन् क्रिया यथा कस्माद् एवं विमूढस् त्वम् ईश्वरः सन् हुताशनः त्वं पवित्रं यदा लोके सर्वभूतगतश् च ह न त्वं सर्वशरीरेण सर्वभक्षत्वम् एष्यसि उपादाने ऽर्चिषो यास् ते सर्वं धक्ष्यन्ति ताः शिखिन् क्रव्यादा च तनुर् या ते सा सर्वं भक्षयिष्यति यथा सूर्यांशुभिः स्पृष्टं सर्वं शुचि विभाव्यते तथा त्वदर्चिर्निर्दग्धं सर्वं शुचि भविष्यति तद् अग्ने त्वं महत् तेजः स्वप्रभावाद् विनिर्गतम् स्वतेजसैव तं शापं कुरु सत्यम् ऋषेर् विभो देवानां चात्मनो भागं गृहाण त्वं मुखे हुतम् एवम् अस्त्व् इति तं वह्निः प्रत्युवाच पितामहम् जगाम शासनं कर्तुं देवस्य परमेष्ठिनः देवर्षयश् च मुदितास् ततो जग्मुर् यथागतम् ऋषयश् च यथापूर्वं क्रियाः सर्वाः प्रचक्रिरे दिवि देवा मुमुदिरे भूतसंघाश् च लौकिकाः अग्निश् च परमां प्रीतिम् अवाप हतकल्मषः एवं स भगवाञ् शापं लेभे ऽग्निर् भृगुतः पुरा एवम् एष पुरावृत्त इतिहासो ऽग्निशापजः पुलोमस्य विनाशश् च च्यवनस्य च संभवः सूत उवाच स चापि च्यवनो ब्रह्मन् भार्गवो ऽजनयत् सुतम् सुकन्यायां महात्मानं प्रमतिं दीप्ततेजसम् प्रमतिस् तु रुरुं नाम घृताच्यां समजीजनत् रुरुः प्रमद्वरायां तु शुनकं समजीजनत् शौनकस् तु महाभागः शुनकस्य सुतो ऽभवत् शौनकस् तु महासत्त्वः सर्वभार्गवनन्दनः जातस् तपसि तीव्रे च स्थितः स्थिरयशास् ततः तस्य ब्रह्मन् रुरोः सर्वं चरितं भूरितेजसः विस्तरेण प्रवक्ष्यामि तच् छृणु त्वम् अशेषतः ऋषिर् आसीन् महान् पूर्वं तपोविद्यासमन्वितः स्थूलकेश इति ख्यातः सर्वभूतहिते रतः एतस्मिन्न् एव काले तु मेनकायां प्रजज्ञिवान् गन्धर्वराजो विप्रर्षे विश्वावसुर् इति श्रुतः अथाप्सरा मेनका सा तं गर्भं भृगुनन्दन उत्ससर्ज यथाकालं स्थूलकेशाश्रमं प्रति उत्सृज्य चैव तं गर्भं नद्यास् तीरे जगाम ह अप्सरा मेनका ब्रह्मन् निर्दया निरपत्रपा कन्याम् अमरगर्भाभां ज्वलन्तीम् इव च श्रिया तां ददर्श समुत्सृष्टां नदीतीरे महान् ऋषिः स्थूलकेशः स तेजस्वी विजने बन्धुवर्जिताम् स तां दृष्ट्वा तदा कन्यां स्थूलकेशो द्विजोत्तमः जग्राहाथ मुनिश्रेष्ठः कृपाविष्टः पुपोष च ववृधे सा वरारोहा तस्याश्रमपदे शुभा जातकर्म क्रियाश् चास्या विधिपूर्वं यथाक्रमम् स्थूलकेशो महाभागश् चकार सुमहान् ऋषिः प्रमदाभ्यो वरा सा तु सर्वरूपगुणान्विता ततः प्रमद्वरेत्य् अस्या नाम चक्रे महान् ऋषिः ताम् आश्रमपदे तस्य रुरुर् दृष्ट्वा प्रमद्वराम् बभूव किल धर्मात्मा मदनानुगतात्मवान् पितरं सखिभिः सो ऽथ वाचयाम् आस भार्गवः प्रमतिश् चाभ्ययाच् छ्रुत्वा स्थूलकेशं यशस्विनम् याचयाम् आस तां कन्यां पुत्रार्थे वरवर्णिनीम् ततः प्रादात् पिता कन्यां रुरवे तां प्रमद्वराम् विवाहं स्थापयित्वाग्रे नक्षत्रे भगदैवते ततः कतिपयाहस्य विवाहे समुपस्थिते सखीभिः क्रीडती सार्धं सा कन्या वरवर्णिनी नापश्यत प्रसुप्तं वै भुजगं तिर्यग् आयतम् पदा चैनं समाक्रामन् मुमूर्षुः कालचोदिता स तस्याः संप्रमत्तायाश् चोदितः कालधर्मणा विषोपलिप्तान् दशनान् भृशम् अङ्गे न्यपातयत् सा दष्टा सहसा भूमौ पतिता गतचेतना विवर्णा विगतश्रीका भ्रष्टाभरणचेतना निरानन्दकरी तेषां बन्धूनां मुक्तमूर्धजा व्यसुर् अप्रेक्षणीयापि प्रेक्षणीयतमाकृतिः प्रसुप्तेवाभवच् चापि भुवि सर्पविषार्दिता भूयो मनोहरतरा बभूव तनुमध्यमा ददर्श तां पिता चैव ते चैवान्ये तपस्विनः विचेष्टमानां पतितां भूतले पद्मवर्चसम् ततः सर्वे द्विजवराः समाजग्मुः कृपान्विताः स्वस्त्यात्रेयो महाजानुः कुशिकः शङ्खमेखलः उद्दालकः कठश् चैव श्वेतकेतुस् तथैव च भारद्वाजः कौणकुत्स आर्ष्टिषेणो ऽथ गौतमः प्रमतिः सह पुत्रेण तथान्ये वनवासिनः तां ते कन्यां व्यसुं दृष्ट्वा भुजगस्य विषार्दिताम् रुरुदुः कृपयाविष्टा रुरुस् त्व् आर्तो बहिर् ययौ ते च सर्वे द्विजश्रेष्ठास् तत्रैवोपाविशंस् तदा सूत उवाच तेषु तत्रोपविष्टेषु ब्राह्मणेषु समन्ततः रुरुश् चुक्रोश गहनं वनं गत्वा सुदुःखितः शोकेनाभिहतः सो ऽथ विलपन् करुणं बहु अब्रवीद् वचनं शोचन् प्रियां चिन्त्य प्रमद्वराम् शेते सा भुवि तन्वङ्गी मम शोकविवर्धिनी प्राणान् अपहरन्तीव पूर्णचन्द्रनिभानना यदि पीनायतश्रोणी पद्मपत्रनिभेक्षणा मुमूर्षुर् अपि मे प्राणान् आदायाशु गमिष्यति पितृमातृसखीनां च लुप्तपिण्डस्य तस्य मे बान्धवानां च सर्वेषां किं नु दुःखम् अतः परम् यदि दत्तं तपस् तप्तं गुरवो वा मया यदि सम्यग् आराधितास् तेन संजीवतु मम प्रिया यथा जन्मप्रभृति वै यतात्माहं धृतव्रतः प्रमद्वरा तथाद्यैव समुत्तिष्ठतु भामिनी एवं लालप्यतस् तस्य भार्यार्थे दुःखितस्य च देवदूतस् तदाभ्येत्य वाक्यम् आह रुरुं वने कृष्णे विष्णौ हृषीकेशे लोकेशे ऽसुरविद्विषि यदि मे निश्चला भक्तिर् मम जीवतु सा प्रिया विलप्यमाने तु रुरौ सर्वे देवाः कृपान्विताः दूतं प्रस्थापयाम् आसुः संदिश्यास्य हितं वचः स दूतस् त्वरितो ऽभ्येत्य देवानां प्रियकृच् छुचिः उवाच देववचनं रुरुम् आभाष्य दुःखितम् देवैः सर्वैर् अहं ब्रह्मन् प्रेषितो ऽस्मि तवान्तिकम् त्वद्धितं त्वद्धितैर् उक्तं शृणु वाक्यं द्विजोत्तम प्रलपन्तम् अतीवार्तं रुरुं दीनतरं तदा देवदूतः समागम्य वचनं चेदम् अब्रवीत् देवदूत उवाच अभिधत्से ह यद् वाचा रुरो दुःखेन तन् मृषा न तु मर्त्यस्य धर्मात्मन्न् आयुर् अस्ति गतायुषः गतायुर् एषा कृपणा गन्धर्वाप्सरसोः सुता तस्माच् छोके मनस् तात मा कृथास् त्वं कथं चन उपायश् चात्र विहितः पूर्वं देवैर् महात्मभिः तं यदीच्छसि कर्तुं त्वं प्राप्स्यसीमां प्रमद्वराम् रुरुर् उवाच क उपायः कृतो देवैर् ब्रूहि तत्त्वेन खेचर करिष्ये तं तथा श्रुत्वा त्रातुम् अर्हति मां भवान् देवदूत उवाच आयुषो ऽर्धं प्रयच्छस्व कन्यायै भृगुनन्दन एवम् उत्थास्यति रुरो तव भार्या प्रमद्वरा रुरुर् उवाच आयुषो ऽर्धं प्रयच्छामि कन्यायै खेचरोत्तम शृङ्गाररूपाभरणा उत्तिष्ठतु मम प्रिया संलापगुणसंपन्ना पूर्णचन्द्रनिभानना मच्छोकं वाक्यतोयेन व्यपनीतं करिष्यति सूत उवाच ततो गन्धर्वराजश् च देवदूतश् च सत्तमौ धर्मराजम् उपेत्येदं वचनं प्रत्यभाषताम् धर्मराजायुषो ऽर्धेन रुरोर् भार्या प्रमद्वरा समुत्तिष्ठतु कल्याणी मृतैव यदि मन्यसे धर्मराज उवाच प्रमद्वरा रुरोर् भार्या देवदूत यदीच्छसि उत्तिष्ठत्व् आयुषो ऽर्धेन रुरोर् एव समन्विता सूत उवाच एवम् उक्ते ततः कन्या सोदतिष्ठत् प्रमद्वरा रुरोस् तस्यायुषो ऽर्धेन सुप्तेव वरवर्णिनी एतद् दृष्टं भविष्ये हि रुरोर् उत्तमतेजसः आयुषो ऽतिप्रवृद्धस्य भार्यार्थे ऽर्धं ह्रसत्व् इति तत इष्टे ऽहनि तयोः पितरौ चक्रतुर् मुदा विवाहं तौ च रेमाते परस्परहितैषिणौ स लब्ध्वा दुर्लभां भार्यां पद्मकिञ्जल्कसप्रभाम् व्रतं चक्रे विनाशाय जिह्मगानां धृतव्रतः स दृष्ट्वा जिह्मगान् सर्वांस् तीव्रकोपसमन्वितः अभिहन्ति यथासन्नं गृह्य प्रहरणं सदा स कदा चिद् वनं विप्रो रुरुर् अभ्यागमन् महत् शयानं तत्र चापश्यड् डुण्डुभं वयसान्वितम् तत उद्यम्य दण्डं स कालदण्डोपमं तदा अभ्यघ्नद् रुषितो विप्रस् तम् उवाचाथ डुण्डुभः नापराध्यामि ते किं चिद् अहम् अद्य तपोधन संरम्भात् तत् किमर्थं माम् अभिहंसि रुषान्वितः रुरुर् उवाच मम प्राणसमा भार्या दष्टासीद् भुजगेन ह तत्र मे समयो घोर आत्मनोरग वै कृतः हन्यां सदैव भुजगं यं यं पश्येयम् इत्य् उत ततो ऽहं त्वां जिघांसामि जीवितेन विमोक्ष्यसे डुण्डुभ उवाच अन्ये ते भुजगा विप्र ये दशन्तीह मानवान् डुण्डुभान् अहिगन्धेन न त्वं हिंसितुम् अर्हसि एकानर्थान् पृथगर्थान् एकदुःखान् पृथक्सुखान् डुण्डुभान् धर्मविद् भूत्वा न त्वं हिंसितुम् अर्हसि सूत उवाच इति श्रुत्वा वचस् तस्य भुजगस्य रुरुस् तदा नावधीद् भयसंविग्न ऋषिं मत्वाथ डुण्डुभम् उवाच चैनं भगवान् रुरुः संशमयन्न् इव केन कर्मविपाकेन भुजगत्वम् उपागतः कामया भुजग ब्रूहि को ऽसीमां विक्रियां गतः डुण्डुभ उवाच अहं पुरा रुरो नाम्ना ऋषिर् आसं सहस्रपात् सो ऽहं शापेन विप्रस्य भुजगत्वम् उपागतः ब्राह्मणस्य तु शापेन प्राप्तो ऽहं विक्रियाम् इमाम् सदा समुपयुक्तस्य वेदाध्यायरतस्य च रुरुर् उवाच किमर्थं शप्तवान् क्रुद्धो द्विजस् त्वां भुजगोत्तम कियन्तं चैव कालं ते वपुर् एतद् भविष्यति डुण्डुभ उवाच सखा बभूव मे पूर्वं खगमो नाम वै द्विजः भृशं संशितवाक् तात तपोबलसमन्वितः स मया क्रीडता बाल्ये कृत्वा तार्णम् अथोरगम् अग्निहोत्रे प्रसक्तः सन् भीषितः प्रमुमोह वै लब्ध्वा च स पुनः संज्ञां माम् उवाच तपोधनः मैवं सर्पेण बाधेथाः सखे भीर् आविशन् मम शप्तश् च त्वं मया विप्र न नन्दामि कदाचन तेनैव बहुशोक्तो ऽहं सर्पके त्व् आत्मणै (सिच्) द्विज अग्निहोत्रे समासीनं वेषयामि समोहितः निर्दहन्न् इव कोपेन सत्यवाक् संशितव्रतः यथावीर्यस् त्वया सर्पः कृतो ऽयं मद्बिभीषया तथावीर्यो भुजंगस् त्वं मम कोपाद् भविष्यसि तस्याहं तपसो वीर्यं जानमानस् तपोधन मुहुर् उष्णं च निःश्वस्य सुसंभ्रान्तस् तपोधनः भृशम् उद्विग्नहृदयस् तम् अवोचं वनौकसम् प्रयतः संभ्रमाच् चैव प्राञ्जलिः प्रणतः स्थितः सखेति हसतेदं ते नर्मार्थं वै कृतं मया क्षन्तुम् अर्हसि मे ब्रह्मञ् शापो ऽयं विनिवर्त्यताम् सो ऽथ माम् अब्रवीद् दृष्ट्वा भृशम् उद्विग्नचेतसम् मुहुर् उष्णं विनिःश्वस्य सुसंभ्रान्तस् तपोधनः नानृतं वै मया प्रोक्तं भवितेदं कथं चन यत् तु वक्ष्यामि ते वाक्यं शृणु तन् मे धृतव्रत श्रुत्वा च हृदि ते वाक्यम् इदम् अस्तु तपोधन यं समाभाष्य दृष्ट्वा च शापाद् अस्माद् विमोक्ष्यसे उत्पत्स्यति रुरुर् नाम प्रमतेर् आत्मजः शुचिः तं दृष्ट्वा शापमोक्षस् ते भविता नचिराद् इव एवम् उक्तस् तु तेनाहम् उरगत्वम् अवाप्तवान् स त्वं रुरुर् इति ख्यातः प्रमतेर् आत्मजः शुचिः शापमोक्षश् च भविता न चिराद् द्विजसत्तम स्वरूपं प्रतिलभ्याहम् अद्य वक्ष्यामि ते हितम् स डौण्डुभं परित्यज्य रूपं विप्रर्षभस् तदा स्वरूपं भास्वरं भूयः प्रतिपेदे महायशाः इदं चोवाच वचनं रुरुम् अप्रतिमौजसम् सूतः इति स्वरूपं गृह्याशु तम् ऋषिं वाक्यम् अब्रवीत् अहिंसा परमो धर्मः सर्वप्राणभृतां स्मृतः तस्मात् प्राणभृतः सर्वान् न हिंस्याद् ब्राह्मणः क्व चित् ब्राह्मणः सौम्य एवेह जायतेति परा श्रुतिः वेदवेदाङ्गवित् तात सर्वभूताभयप्रदः अहिंसा सत्यवचनं क्षमा चेति विनिश्चितम् ब्राह्मणस्य परो धर्मो वेदानां धरणाद् अपि क्षत्रियस्य तु यो धर्मः स नेहेष्यति वै तव क्षत्रियस्य तु यो धर्मः स ते नार्हति वै द्विज दण्डधारणम् उग्रत्वं प्रजानां परिपालनम् तद् इदं क्षत्रियस्यासीत् कर्म वै शृणु मे रुरो जनमेजयस्य धर्मात्मन् सर्पाणां हिंसनं पुरा परित्राणं च भीतानां सर्पाणां ब्राह्मणाद् अपि तपोवीर्यबलोपेताद् वेदवेदाङ्गपारगात् आस्तीकाद् द्विजमुख्याद् वै सर्पसत्रे द्विजोत्तम रुरुर् उवाच कथं हिंसितवान् सर्पान् क्षत्रियो जनमेजयः सर्पा वा हिंसितास् तात किमर्थं द्विजसत्तम किमर्थं मोक्षिताश् चैव पन्नगास् तेन शंस मे आस्तीकेन तद् आचक्ष्व श्रोतुम् इच्छाम्य् अशेषतः ऋषिर् उवाच इत्य् उक्त्वान्तर्हिते योगात् तस्मिन्न् ऋषिवरे प्रभो संभ्रमाविष्टहृदय ऋषिर् मेने तद् अद्भुतम् श्रोष्यसि त्वं रुरो सर्वम् आस्तीकचरितं महत् ब्राह्मणानां कथयताम् इत्य् उक्त्वान्तरधीयत सूत उवाच रुरुश् चापि वनं सर्वं पर्यधावत् समन्ततः तम् ऋषिं द्रष्टुम् अन्विच्छन् संश्रान्तो न्यपतद् भुवि स मोहं परमं गत्वा नष्टसंज्ञ इवाभवत् तद् ऋषेर् वचनं तथ्यं चिन्तयानः पुनः पुनः लब्धसंज्ञो रुरुश् चायात् तच् चाचख्यौ पितुस् तदा न्यवेदयत तत् सर्वं यथावृत्तं पितुर् द्विजः पित्रे तु सर्वम् आख्याय डुण्डुभस्य वचो ऽर्थवत् अपृच्छत् पितरं भूयः सो ऽस्तिकस्य वचस् तदा यत् तद् आख्यानम् अखिलं डुण्डुभेनाथ कीर्तितम् तत् कीर्त्यमानं भगवञ् छ्रोतुम् इच्छामि तत्त्वतः पिता चास्य तद् आख्यानं पृष्टः सर्वं न्यवेदयत् किमर्थं राजशार्दूल राजा स जनमेजयः सर्पसत्रेण सर्पाणां गतो ऽन्तं तद् वदस्व मे इति श्रीरामाय नमः | श्रीगुरुभ्यो नमः | श्रीवेदव्यासाय नमः | अक्षरं यत् परिभ्रष्टं मात्राहीनं तु यद् भवेत् क्षन्तुम् अर्हन्ति विद्वांसः कस्य न स्याद् व्यतिक्रमः शिव शिव | कपर्दि समर्थ भूतेश भगनेत्रनिपातन व्यतिक्रमं मे भगवन् क्षन्तुम् अर्हसि शंकर नारायणाय नमः | श्रीवेदव्यासाय नमः | गणपतये नमः | अविघ्नम् अस्तु | शौनक उवाच किमर्थं राजशार्दूलः स राजा जनमेजयः सर्पसत्रेण सर्पाणां गतो ऽन्तं तद् वदस्व मे निखिलेन यथातत्त्वं सौते सर्वम् अशेषतः आस्तीकश् च द्विजश्रेष्ठः किमर्थं जपतां वरः मोक्षयाम् आस भुजगान् दीप्तात् तस्माद् धुताशनात् कस्य पुत्रः स राजासीत् सर्पसत्रं य आहरत् स च द्विजातिप्रवरः कस्य पुत्रो वदस्व मे सूत उवाच महद् आख्यानम् आस्तीकं यत्रैतत् प्रोच्यते द्विज सर्वम् एतद् अशेषेण शृणु मे वदतां वर शौनक उवाच श्रोतुम् इच्छाम्य् अशेषेण कथाम् एतां मनोरमाम् आस्तीकस्य पुराणस्य ब्राह्मणस्य यशस्विनः सूत उवाच इतिहासम् इमं वृद्धाः पुराणं परिचक्षते कृष्णद्वैपायनप्रोक्तं नैमिषारण्यवासिनः पूर्वं प्रचोदितः सूतः पिता मे लोमहर्षणः शिष्यो व्यासस्य मेधावी ब्राह्मणैर् इदम् उक्तवान् तस्माद् अहम् उपश्रुत्य प्रवक्ष्यामि यथातथम् इदम् आस्तीकम् आख्यानं तुभ्यं शौनक पृच्छते कथयिष्याम्य् अशेषेण सर्वपापप्रणाशनम् आस्तीकस्य पिता ह्य् आसीत् प्रजापतिसमः प्रभुः ब्रह्मचारी यताहारस् तपस्य् उग्रे रतः सदा जरत्कारुर् इति ख्यात ऊर्ध्वरेता महान् ऋषिः यायावराणां धर्मज्ञः प्रवरः संशितव्रतः स कदा चिन् महाभागस् तपोबलसमन्वितः चचार पृथिवीं सर्वां यत्र सायंगृहो मुनिः तीर्थेषु च समाप्लावं कुर्वन्न् अटति सर्वशः चरन् दीक्षां महातेजा दुश्चराम् अकृतात्मभिः वायुभक्षो निराहारः शुष्यन्न् अनिमिषो मुनिः इतस् ततः परिचरन् दीप्तपावकसप्रभः अटमानः कदा चित् स स्वान् ददर्श पितामहान् लम्बमानान् महागर्ते पादैर् ऊर्ध्वैर् अधोमुखान् तान् अब्रवीत् स दृष्ट्वैव जरत्कारुः पितामहान् के भवन्तो ऽवलम्बन्ते गर्ते ऽस्मिन् वा अधोमुखाः वीरणस्तम्बके लग्नाः सर्वतः परिभक्षिते मूषकेन निगूढेन गर्ते ऽस्मिन् नित्यवासिना पितर ऊचुः यायावरा नाम वयम् ऋषयः संशितव्रताः संतानप्रक्षयाद् ब्रह्मन्न् अधो गच्छाम मेदिनीम् येषां तु संततिर् नास्ति मर्त्यलोके सुखावहा न ते लभन्ते वसतिं स्वर्गे पुण्यव्रता अपि अस्माकं संततिस् त्व् एको जरत्कारुर् इति श्रुतः मन्दभाग्यो ऽल्पभाग्यानां तप एव समास्थितः न स पुत्राञ् जनयितुं दारान् मूढश् चिकीर्षति तेन लम्बामहे गर्ते संतानप्रक्षयाद् इह अनाथास् तेन नाथेन यथा दुष्कृतिनस् तथा कस् त्वं बन्धुर् इवास्माकम् अनुशोचसि सत्तम ज्ञातुम् इच्छामहे ब्रह्मन् को भवान् इह धिष्ठितः किमर्थं चैव नः शोच्यान् अनुकम्पितुम् अर्हसि जरत्कारुर् उवाच मम पूर्वे भवन्तो वै पितरः सपितामहाः ब्रूत किं करवाण्य् अद्य जरत्कारुर् अहं स्वयम् पितर ऊचुः पितरस् ते वयं तात संतारय कुलं स्वयम् यतस्व यत्नवांस् तात संतानाय कुलस्य नः आत्मनो ऽर्थे ऽस्मदर्थे च धर्म इत्य् एव चाभिभो न हि धर्मफलैस् तात न तपोभिः सुसंचितैः तां गतिं प्राप्नुवन्तीह पुत्रिणो यां व्रजन्ति ह तद् दारग्रहणे यत्नं संतत्यां च मनः कुरु पुत्रकास्मन्नियोगात् त्वम् एतन् नः परमं हितम् जरत्कारुर् उवाच न दारान् वै करिष्यामि सदा मे भावितं मनः भवतां तु हितार्थाय करिष्ये दारसंग्रहम् समयेन च कर्ताहम् अनेन विधिपूर्वकम् तथा यद्य् उपलप्स्यामि करिष्ये नान्यथा त्व् अहम् सनाम्नी या भवित्री मे दित्सिता चैव बन्धुभिः भैक्षवत् ताम् अहं कन्याम् उपयंस्ये विधानतः दरिद्राय हि मे भार्यां को दास्यति विशेषतः प्रतिग्रहीष्ये भिक्षां तु यदि कश् चित् प्रदास्यति एवं दारक्रियाहेतोः प्रयतिष्ये पितामहाः अनेन विधिना शश्वन् न करिष्ये ऽहम् अन्यथा तत्र चोत्पत्स्यते जन्तुर् भवतां तारणाय वै शाश्वतं स्थानम् आसाद्य मोदन्तां पितरो मम सूत उवाच इत्य् उक्तमात्रे वचने तथेत्य् उक्त्वा पितामहाः अन्तर्धानं गताः सर्वे विस्मयं स ययौ मुनिः ततो निवेशाय तदा स विप्रः संशितव्रतः महीं चचार दारार्थी न च दारान् अविन्दत स कदा चिद् वनं गत्वा विप्रः पितृवचः स्मरन् चुक्रोश कन्याभिक्षार्थी तिस्रो वाचः शनैर् इव तं वासुकिः प्रत्यगृह्णाद् उद्यम्य भगिनीं तदा न स तां प्रतिजग्राह न सनाम्नीति चिन्तयन् सनाम्नीम् उद्यतां भार्यां गृह्णीयाम् इति तस्य हि मनो निविष्टम् अभवज् जरत्कारोर् महात्मनः तम् उवाच महाप्राज्ञो जरत्कारुर् महातपाः किंनाम्नी भगिनीयं ते ब्रूहि सत्यं भुजंगम वासुकिर् उवाच जरत्कारो जरत्कारुः स्वसेयम् अनुजा मम प्रतिगृह्णीष्व भार्यार्थे मया दत्तां सुमध्यमाम् त्वदर्थं रक्षिता पूर्वं प्रतीच्छेमां द्विजोत्तम एवम् उक्त्वा ततः प्रादाद् भार्यार्थे वरवर्णिनीम् सूत उवाच मात्रा हि भुजगाः शप्ताः पूर्वं ब्रह्मविदां वर जनमेजयस्य वो यज्ञे धक्ष्यत्य् अनिलसारथिः तस्य शापस्य शान्त्यर्थं प्रददौ पन्नगोत्तमः स्वसारम् ऋषये तस्मै सुव्रताय तपस्विने स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा आस्तीको नाम पुत्रश् च तस्यां जज्ञे महात्मनः तपस्वी च महात्मा च वेदवेदाङ्गपारगः समः सर्वस्य लोकस्य पितृमातृभयापहः अथ कालस्य महतः पाण्डवेयो नराधिपः आजहार महायज्ञं सर्पसत्रम् इति श्रुतिः तस्मिन् प्रवृत्ते सत्रे तु सर्पाणाम् अन्तकाय वै मोचयाम् आस तं शापम् आस्तीकः सुमहायशाः नागांश् च मातुलांश् चैव तथा चान्यान् स बान्धवान् पितॄंश् च तारयाम् आस संतत्या तपसा तथा व्रतैश् च विविधैर् ब्रह्मन् स्वाध्यायैश् चानृणो ऽभवत् देवांश् च तर्पयाम् आस यज्ञैर् विविधदक्षिणैः ऋषींश् च ब्रह्मचर्येण संतत्या च पितामहान् अपहृत्य गुरुं भारं पितॄणां संशितव्रतः जरत्कारुर् गतः स्वर्गं सहितः स्वैः पितामहैः आस्तीकं च सुतं प्राप्य धर्मं चानुत्तमं मुनिः जरत्कारुः सुमहता कालेन स्वर्गम् ईयिवान् एतद् आख्यानम् आस्तीकं यथावत् कीर्तितं मया प्रब्रूहि भृगुशार्दूल किं भूयः कथ्यताम् इति शौनक उवाच सौते कथय ताम् एतां विस्तरेण कथां पुनः आस्तीकस्य कवेः साधोः शुश्रूषा परमा हि नः मधुरं कथ्यते सौम्य श्लक्ष्णाक्षरपदं त्वया प्रीयामहे भृशं तात पितेवेदं प्रभाषसे अस्मच्छुश्रूषणे नित्यं पिता हि निरतस् तव आचष्टैतद् यथाख्यानं पिता ते त्वं तथा वद सूत उवाच आयुष्यम् इदम् आख्यानम् आस्तीकं कथयामि ते यथा श्रुतं कथयतः सकाशाद् वै पितुर् मया पुरा देवयुगे ब्रह्मन् प्रजापतिसुते शुभे आस्तां भगिन्यौ रूपेण समुपेते ऽद्भुते ऽनघे ते भार्ये कश्यपस्यास्तां कद्रूश् च विनता च ह प्रादात् ताभ्यां वरं प्रीतः प्रजापतिसमः पतिः कश्यपो धर्मपत्नीभ्यां मुदा परमया युतः वरातिसर्गं श्रुत्वैव कश्यपाद् उत्तमं च ते हर्षाद् अप्रतिमां प्रीतिं प्रापतुः स्म वरस्त्रियौ वव्रे कद्रूः सुतान् नागान् सहस्रं तुल्यतेजसः द्वौ पुत्रौ विनता वव्रे कद्रूपुत्राधिकौ बले ओजसा तेजसा चैव विक्रमेणाधिकौ सुतौ भवतो भवतो युक्तौ प्रसादात् तनयौ मम तस्यै भर्ता वरं प्रादाद् अध्यर्धं पुत्रम् ईप्सितम् एवम् अस्त्व् इति तं चाह कश्यपं विनता तदा उक्ते समाहिते गर्भाव् एतौ धारयतस् तदा यथावत् प्रार्थितं लब्ध्वा वरं तुष्टाभवत् तदा कृतकृत्या तु विनता लब्ध्वा वीर्याधिकौ सुतौ कद्रूश् च लब्ध्वा पुत्राणां सहस्रं तुल्यतेजसाम् धार्यौ प्रयत्नतो गर्भाव् इत्य् उक्त्वा स महातपाः ते भार्ये वरसंहृष्टे कश्यपो वनम् आविशत् कालेन महता कद्रूर् अण्डानां दशतीर् दश जनयाम् आस विप्रेन्द्र द्वे अण्डे विनता तदा तयोर् अण्डानि निदधुः प्रहृष्टाः परिचारिकाः सोपस्वेदेषु भाण्डेषु पञ्च वर्षशतानि च ततः पञ्चशते काले कद्रूपुत्रा विनिःसृताः अण्डाभ्यां विनतायास् तु मिथुनं न व्यदृश्यत ततः पुत्रार्थिणी देवी व्रीडिता सा तपस्विनी अण्डं बिभेद विनता तत्र पुत्रम् अदृक्षत पूर्वार्धकायसंपन्नम् इतरेणाप्रकाशता स पुत्रो रोषसंपन्नः शशापैनाम् इति श्रुतिः यो ऽहम् एवं कृतो मातस् त्वया लोभपरीतया शरीरेणासमग्रो ऽद्य तस्माद् दासी भविष्यसि पञ्च वर्षशतान्य् अस्या यया विस्पर्धसे सह एष च त्वां सुतो मातर् दास्यत्वान् मोक्षयिष्यति यद्य् एनम् अपि मातस् त्वं माम् इवाण्डविभेदनात् न करिष्यस्य् अदेहं वा व्यङ्गं वापि तपस्विनम् प्रतिपालयितव्यस् ते जन्मकालो ऽस्य धीरया विशिष्टबलम् ईप्सन्त्या पञ्चवर्षशतात् परः एवं शप्त्वा ततः पुत्रो विनताम् अन्तरिक्षगः अरुणो दृश्यते ब्रह्मन् प्रभातसमये सदा आदित्यरथमध्यास् ते सारथ्यं समकल्पयत् उद्यन्न् अथ सहस्रांशुर् दृष्ट्वा तम् अरुणं प्रभुः स्वतेजसा प्रज्वलन्तम् आत्मनः समतेजसम् सारथ्ये कल्पयाम् आस प्रीयमाणस् तमोनुदः सो ऽपि तं रथम् आरुह्य भानोर् अमिततेजसः सर्वलोकप्रदीपस्य ह्य् अरुणो ऽप्य् अमरो ऽभवत् गरुडो ऽपि यथाकालं जज्ञे पन्नगसूदनः स जातमात्रो विनतां परित्यज्य खम् आविशत् आदास्यन्न् आत्मनो भोज्यम् अन्नं विहितम् अस्य यत् विधात्रा भृगुशार्दूल क्षुधितस्य बुभुक्षतः सूत उवाच एतस्मिन्न् एव काले तु भगिन्यौ ते तपोधन अपश्यतां समायान्तम् उच्चैःश्रवसम् अन्तिकात् यं तं देवगणाः सर्वे हृष्टरूपा अपूजयन् मथ्यमाने ऽमृते जातम् अश्वरत्नम् अनुत्तमम् महौघबलम् अश्वानाम् उत्तमं जवतां वरम् श्रीमन्तम् अजरं दिव्यं सर्वलक्षणलक्षितम् शौनक उवाच कथं तद् अमृतं देवैर् मथितं क्व च शंस मे कारणं चाथ मथने किं जातम् अमृतात् परम् यत्र जज्ञे महावीर्यः सो ऽश्वराजो महाद्युतिः सूत उवाच ज्वलन्तम् अचलं मेरुं तेजोराशिम् अनुत्तमम् पूर्वं सुरगणाः सर्वे तथा दैत्याश् च सर्वशः क्षुज्जराभ्यां समाक्रान्ता ब्रह्माणम् उपतस्थिरे आक्षिपन्तं प्रभां भानोः स्वशृङ्गैः काञ्चनोज्ज्वलैः काञ्चनाभरणं चित्रं देवगन्धर्वसेवितम् अप्रमेयम् अनाधृष्यम् अधर्मबहुलैर् जनैः व्यालैर् आचरितं घोरैर् दिव्यौषधिविदीपितम् नाकम् आवृत्य तिष्ठन्तम् उच्छ्रयेण महागिरिम् अगम्यं मनसाप्य् अन्यैर् नदीवृक्षसमन्वितम् नानापतगसंघैश् च नादितं सुमनोहरैः तस्य पृष्ठम् उपारुह्य बहुरत्नाचितं शुभम् अनन्तकल्पम् उद्विद्धं सुराः सर्वे महौजसः ते मन्त्रयितुम् आरब्धास् तत्रासीना दिवौकसः अमृतार्थे समागम्य तपोनियमसंस्थिताः तत्र नारायणो देवो ब्रह्माणम् इदम् अब्रवीत् चिन्तयत्सु सुरेष्व् एवं मन्त्रयत्सु च सर्वशः देवैर् असुरसंघैश् च मथ्यतां कलशोदधिः भविष्यत्य् अमृतं तत्र मथ्यमाने महोदधौ सर्वौषधीः समावाप्य सर्वरत्नानि चैव हि मन्थध्वम् उदधिं देवा वेत्स्यध्वम् अमृतं ततः सूत उवाच ततो ऽभ्रशिखराकारैर् गिरिशृङ्गैर् अलंकृतम् मन्दरं पर्वतवरं लताजालसमावृतम् नानाविहगसंघुष्टं नानादंष्ट्रिसमाकुलम् किंनरैर् अप्सरोभिश् च देवैर् अपि च सेवितम् एकादश सहस्राणि योजनानां समुच्छ्रितम् अधो भूमेः सहस्रेषु तावत्स्व् एव प्रतिष्ठितम् तम् उद्धर्तुं न शक्ता वै सर्वे देवगणास् तदा विष्णुम् आसीनम् अभ्येत्य ब्रह्माणं चेदम् अब्रुवन् भवन्ताव् अत्र कुरुतां बुद्धिं नैःश्रेयसीं पराम् मन्दरोद्धरणे यत्नः क्रियतां च हिताय नः तथेति चाब्रवीद् विष्णुर् ब्रह्मणा सह भार्गव अचोदयद् अमेयात्मा फणीन्द्रं पद्मलोचनः ततो ऽनन्तः समुत्थाय ब्रह्मणा परिचोदितः नारायणेन चाप्य् उक्तस् तस्मिन् कर्मणि वीर्यवान् अथ पर्वतराजानं तम् अनन्तो महाबलः उज्जहार बलाद् ब्रह्मन् सवनं सवनौकसम् . . . . . . . . लीलया मधुसूदनः सिद्धर्षिसेवितं दिव्यं ततस् तेन सुराः सार्धं समुद्रम् उपतस्थिरे तम् ऊचुर् अमृतार्थाय निर्मथिष्यामहे जलम् अपांपतिर् अथोवाच ममाप्य् अंशो भवेत् ततः सोढास्मि विपुलं मर्दं मन्दरभ्रमणाद् इति ऊचुश् च कूर्मराजानम् अकूपारं सुरासुराः गिरेर् अधिष्ठानम् अस्य भवान् भवितुम् अर्हति कूर्मेण तु तथेत्य् उक्त्वा पृष्ठम् अस्य समर्पितम् तस्य शैलस्य चाग्रं वै यन्त्रेणेन्द्रो ऽभ्यपीडयत् मन्थानं मन्दरं कृत्वा तथा नेत्रं च वासुकिम् देवा मथितुम् आरब्धाः समुद्रं निधिम् अम्भसाम् अमृतार्थिनस् ततो ब्रह्मन् सहिता दैत्यदानवाः एकम् अन्तम् उपाश्लिष्टा नागराज्ञो महासुराः विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः वासुकेर् अग्रम् आश्लिष्टा नागराज्ञो महासुराः अनन्तो भगवान् देवो यतो नारायणस् ततः शिर उद्यम्य नागस्य पुनः पुनर् अवाक्षिपत् वासुकेर् अथ नागस्य सहसाक्षिप्यतः सुरैः सधूमाः सार्चिषो वाता निष्पेतुर् असकृन् मुखात् सूतः वासुकेर् मथ्यमानस्य निःसृतेन विषेण च अभवन् मिश्रितं तोयं तदा भार्गवनन्दन मथनान् मन्दरेणाथ देवदानवबाहुभिः विषं तीक्ष्णं समुद्भूतं हालाहलम् इति श्रुतम् देवाश् च दानवाश् चैव दग्धास् तेन विषेण ह अपाक्रामंस् ततो भीता विषादम् अगमंस् तदा ब्रह्माणम् अब्रुवन् देवाः समेत्य मुनिपुंगवैः मथ्यमाने ऽमृते जातं विषं कालानलप्रभम् तेनैव तापिता लोकास् तस्य प्रतिकुरुष्व ह एवम् उक्तस् तदा ब्रह्मा दध्यौ लोकेश्वरं हरम् त्र्यक्षं त्रिशूलिनं रुद्रं देवदेवम् उमापतिम् तदाथ चिन्तितो देवस् तज् ज्ञात्वा द्रुतम् आययौ तस्याथ देवस् तत् सर्वम् आचचक्षे प्रजापतिः तच् छ्रुत्वा देवदेवेशो लोकस्यास्य हितेप्सया अपिबत् तद् विषं रुद्रः कालानलसमप्रभम् कण्ठे स्थापितवान् देवो लोकानां हितकाम्यया यस्मात् तु नीलता कण्ठे नीलकण्ठस् ततः स्मृतः पीतमात्रे विषे तत्र रुद्रेणामिततेजसा देवाः प्रीताः पुनर् जग्मुश् चक्रुर् वै कर्म तत् तथा मथ्यमाने ऽमृतस्यार्थे भूयो वै देवदानवैः | ते धूमसंघाः संभूता मेघसंघाः सविद्युतः अभ्यवर्षन् सुरगणाञ् श्रमसंतापकर्शितान् तस्माच् च गिरिकूटाग्रात् प्रच्युताः पुष्पवृष्टयः सुरासुरगणान् माल्यैः सर्वतः समवाकिरन् बभूवात्र महाघोषो महामेघरवोपमः उदधेर् मथ्यमानस्य मन्दरेण सुरासुरैः तत्र नानाजलचरा विनिष्पिष्टा महाद्रिणा विलयं समुपाजग्मुः शतशो लवणाम्भसि वारुणानि च भूतानि विविधानि महीधरः पातालतलवासीनि विलयं समुपानयत् तस्मिंश् च भ्राम्यमाणे ऽद्रौ संघृष्यन्तः परस्परम् न्यपतन् पतगोपेताः पर्वताग्रान् महाद्रुमाः तेषां संघर्षजश् चाग्निर् अर्चिर्भिः प्रज्वलन् मुहुः विद्युद्भिर् इव नीलाभ्रम् आवृणोन् मन्दरं गिरिम् ददाह कुञ्जरांश् चैव सिंहांश् चैव विनिःसृतान् विगतासूनि सर्वाणि सत्त्वानि विविधानि च तम् अग्निम् अमरश्रेष्ठः प्रदहन्तं ततस् ततः वारिणा मेघजेनेन्द्रः शमयाम् आस सर्वतः ततो नानाविधास् तत्र सुस्रुवुः सागराम्भसि महाद्रुमाणां निर्यासा बहवश् चौषधीरसाः तेषाम् अमृतवीर्याणां रसानां पयसैव च अमरत्वं सुरा जग्मुः काञ्चनस्य च निःस्रवात् अथ तस्य समुद्रस्य तज् जातम् उदकं पयः रसोत्तमैर् विमिश्रं च ततः क्षीराद् अभूद् घृतम् एतस्मिन् नन्तरे जातं वासुकेर् मुखनिःस्रवात् कालकूटं विषं घोरं सर्वसत्त्वभयंकरम् तस्मिन् समुत्थिते घोरे विषे कालानलप्रभे संत्रस्तासुरदेवौघा दिशः सर्वाः प्रपेदिरे येन विष्णुः कृतः कृष्णो विषेण महता तदा यत्र हाहाकृतं सर्वं जगद् आसीच् चराचरम् ततस् तु ब्रह्मणो वाक्याद् देवदेवो महेश्वरः अपिबत् तद् विषं घोरं प्रत्यक्षं दैवतेषु वै तस्मिन् विषे पीयमाने हरेणामिततेजसा विस्मयं परमं जग्मुर् देवाश् च मुनिदानवाः ततः कण्ठम् अनुप्राप्तं विषं दृष्ट्वा हरस्य च ब्रह्मा प्रोवाच देवेशं कण्ठे धारय वै प्रभो स्वयंभुवचनाच् छंभुर् दधार विषम् उत्तमम् कण्ठे हालाहलं घोरं नीलकण्ठस् ततः स्मृतः ततो ब्रह्माणम् आसीनं देवा वरदम् अब्रुवन् श्रान्ताः स्म सुभृशं ब्रह्मन् नोद्भवत्य् अमृतं च तत् ऋते नारायणं देवं दैत्या नागोत्तमास् तथा चिरारब्धम् इदं चापि सागरस्यापि मन्थनम् ग्लानिर् अस्मान् समाविष्टा न चात्रामृतम् उत्थितम् देवानां वचनं श्रुत्वा ब्रह्मा लोकपितामहः ततो नारायणं देवं ब्रह्मा वचनम् अब्रवीत् विधत्स्वैषां बलं विष्णो भवान् अत्र परायणम् विष्णुर् उवाच बलं ददामि सर्वेषां कर्मैतद् ये समास्थिताः क्षोभ्यतां कलशः सर्वैर् मन्दरः परिवर्त्यताम् सूत उवाच नारायणवचः श्रुत्वा बलिनस् ते महोदधेः तत् पयः सहिता भूयश् चक्रिरे भृशम् आकुलम् तत्र पूर्वं विषं जातं तद् ब्रह्मवचनाच् छिवः प्राग्रसल् लोकरक्षार्थं ततो ज्येष्ठा समुत्थिता कृष्णरूपधरा देवी सर्वाभरणभूषिता ततः शतसहस्रांशुः समान इव सागरात् प्रसन्नभाः समुत्पन्नः सोमः शीतांशुर् उज्ज्वलः श्रीर् अनन्तरम् उत्पन्ना घृतात् पाण्डुरवासिनी सुरा देवी समुत्पन्ना तुरगः पाण्डुरस् तथा कौस्तुभश् च मणिर् दिव्य उत्पन्नो ऽमृतसंभवः मरीचिविकचः श्रीमान् नारायणüरोगतः पारिजातश् च तत्रैव सुरभिश् च महामुने जज्ञाते तौ तदा ब्रह्मन् सर्वकामफलप्रदौ ततो जज्ञे महाभाग चतुर्दन्तो महागजः श्रीः सुरा चैव सोमश् च तुरगश् च मनोजवः अतः परं महाकायश् चतुर्दंष्ट्रो महोत्कटः ऐरावणस् तु नागेन्द्र उत्थितो ऽमृतसंभवः विषं ज्येष्ठा च सोमश् च श्रीः सुरा तुरगस् तथा कौस्तुभश् चाप्सराश् चैव ऐरावतमहागजः कपिला कामवृक्षश् च कौस्तुभश् चाप्सरोगणाः ऐरावतः स वै नागो नागानां प्रवरः शुभः श्वेतैर् दन्तैश् चतुर्भिस् तु महाकायस् ततः परम् ऐरावणो महानागो ऽभवद् वज्रभृता धृतः अतिनिर्मथनाद् एव कालकूटस् ततः परः जगद् आवृत्य सहसा सधूमो ऽग्निर् इव ज्वलन् त्रैलोक्यं मोहितं यस्य गन्धम् आघ्राय तद् विषम् दधार भगवान् कण्ठे मन्त्रमूर्तिर् महेश्वरः तदा प्रभृति देवस् तु नीलकण्ठ इति श्रुतिः एतस्मिन्न् अन्तरे दैत्या देवान् निर्जित्य कृत्स्नशः जगृहुर् अमृतं दिव्यं देवा विमनसो ऽभवन् प्राग्रसल् लोकरक्षार्थं ब्रह्मणो वचनाच् छिवः एतत् तद् अद्भुतं दृष्ट्वा निराशा दानवाः स्थिताः अमृतार्थे च लक्ष्म्यर्थे महान्तं वैरम् आश्रिताः यतो देवास् ततो जग्मुर् आदित्यपथम् आश्रिताः भ्रममाणस्य तु गिरेर् मन्दरस्य तु विप्रुषः तेष्व् अष्टाप्सरसो जज्ञे षष्टिः कोट्यो वराङ्गनाः अजरामराश् चारुरूपाः पीनश्रोणिपयोधराः यासां संदर्शनान् मर्त्यः उन्मत्तक इवाभवत् धन्वन्तरिस् ततो देवो वपुष्मान् उदतिष्ठत श्वेतं कमण्डलुं बिभ्रद् अमृतं यत्र तिष्ठति एतद् अत्यद्भुतं दृष्ट्वा दानवानां समुत्थितः अमृतार्थे महान् नादो ममेदम् इति जल्पताम् ततो नारायणो मायाम् आस्थितो मोहिनीं प्रभुः स्त्रीरूपम् अद्भुतं कृत्वा दानवान् अभिसंश्रितः ततस् तद् अमृतं तस्यै ददुस् ते मूढचेतसः स्त्रियै दानवदैतेयाः सर्वे तद्गतमानसाः सा तु नारायणी माया धारयन्ती कमण्डलुम् आस्यमानेषु दैत्येषु पङ्क्त्या च प्रति दानवैः देवान् अपाययद् देवी न दैत्यांस् ते च चुक्रुशुः सूत उवाच अथावरणमुख्यानि नानाप्रहरणानि च प्रगृह्याभ्यद्रवन् देवान् सहिता दैत्यदानवाः ततस् तद् अमृतं देवो विष्णुर् आदाय वीर्यवान् जहार दानवेन्द्रेभ्यो नरेण सहितः प्रभुः ततो देवगणाः सर्वे पपुस् तद् अमृतं तदा विष्णोः सकाशात् संप्राप्य संभ्रमे तुमुले सति पाययत्य् अमृतं देवान् हरौ बाहुबलेन च निरोधयति चापेन दूरीकृत्य धनुर्धरान् ततः पिबत्सु तत्कालं देवेष्व् अमृतम् ईप्सितम् ये ये ऽमृतं पिबन्ति स्म ते ते युध्यन्ति दानवैः राहुर् विबुधरूपेण दानवः प्रापिबत् तदा तस्य कण्ठम् अनुप्राप्ते दानवस्यामृते तदा आख्यातं चन्द्रसूर्याभ्यां सुराणां हितकाम्यया ततो भगवता तस्य शिरश् छिन्नम् अलंकृतम् चक्रायुधेन चक्रेण पिबतो ऽमृतम् ओजसा तच् छैलशृङ्गप्रतिमं दानवस्य शिरो महत् चक्रेणोत्कृत्तम् अपतच् चालयद् वसुधातलम् चक्रच्छिन्नं खम् उत्पत्य ननादातिभयंकरम् तत् कबन्धं पपातास्य विस्फुरद् धरणीतले सपर्वतवनद्वीपां दैत्यस्याकम्पयन् महीम् त्रयोदशसहस्राणि योजनानि समन्ततः ततो वैरविनिर्बन्धः कृतो राहुमुखेन वै शाश्वतश् चन्द्रसूर्याभ्यां ग्रसत्य् अद्यापि चैव तौ विहाय भगवांश् चापि स्त्रीरूपम् अतुलं हरिः नानाप्रहरणैर् भीमैर् दानवान् समकम्पयत् ततः प्रवृत्तः संग्रामः समीपे लवणाम्भसः सुराणाम् असुराणां च सर्वघोरतरो महान् प्रासाः सुविपुलास् तीक्ष्णा न्यपतन्त सहस्रशः तोमराश् च सुतीक्ष्णाग्राः शस्त्राणि विविधानि च ततो ऽसुराश् चक्रभिन्ना वमन्तो रुधिरं बहु असिशक्तिगदारुग्णा निपेतुर् धरणीतले छिन्नानि पट्टिशैश् चापि शिरांसि युधि दारुणे तप्तकाञ्चनजालानि निपेतुर् अनिशं तदा रुधिरेणावलिप्ताङ्गा निहताश् च महासुराः अद्रीणाम् इव कूटानि धातुरक्तानि शेरते ततो हलहलाशब्दः संबभूव समन्ततः हाहाकारः समभवत् तत्र तत्र सहस्रशः अन्योन्यं छिन्दतां शस्त्रैर् आदित्ये लोहितायति परिघैश् चायसैः पीतैः संनिकर्षे च मुष्टिभिः निघ्नतां समरे ऽन्योन्यं शब्दो दिवम् इवास्पृशत् छिन्धि भिन्धि प्रधावध्वं पातयाभिसरेति च व्यश्रूयन्त महाघोराः शब्दास् तत्र समन्ततः एवं सुतुमुले युद्धे वर्तमाने भयावहे नरनारायणौ देवौ समाजग्मतुर् आहवम् तत्र दिव्यं धनुर् दृष्ट्वा नरस्य भगवान् अपि चिन्तयाम् आस वै चक्रं विष्णुर् दानवसूदनम् ततो ऽम्बराच् चिन्तितमात्रम् आगतं; महाप्रभं चक्रम् अमित्रतापनम् विभावसोस् तुल्यम् अकुण्ठमण्डलं; सुदर्शनं भीमम् अजय्यम् उत्तमम् तद् आगतं ज्वलितहुताशनप्रभं; भयंकरं करिकरबाहुर् अच्युतः मुमोच वै चपलम् उदग्रवेगवन्; महाप्रभं परनगरावदारणम् तद् अन्तकज्वलनसमानवर्चसं; पुनः पुनर् न्यपतत वेगवत् तदा विदारयद् दितिदनुजान् सहस्रशः; करेरितं पुरुषवरेण संयुगे दहत् क्व चिज् ज्वलन इवावलेलिहत्; प्रसह्य तान् असुरगणान् न्यकृन्तत प्रवेरितं वियति मुहुः क्षितौ तदा; पपौ रणे रुधिरम् अथो पिशाचवत् अथासुरा गिरिभिर् अदीनचेतसो; मुहुर् मुहुः सुरगणम् अर्दयंस् तदा महाबला विगलितमेघवर्चसः; सहस्रशो गगनम् अभिप्रपद्य ह अथाम्बराद् भयजननाः प्रपेदिरे; सपादपा बहुविधमेघरूपिणः महाद्रयः प्रविगलिताग्रसानवः; परस्परं द्रुतम् अभिहत्य सस्वनाः ततो मही प्रविचलिता सकानना; महाद्रिपाताभिहता समन्ततः परस्परं भृशम् अभिगर्जतां मुहू; रणाजिरे भृशम् अभिसंप्रवर्तिते नरस् ततो वरकनकाग्रभूषणैर्; महेषुभिर् गगनपथं समावृणोत् विदारयन् गिरिशिखराणि पत्रिभिर्; महाभये ऽसुरगणविग्रहे तदा ततो महीं लवणजलं च सागरं; महासुराः प्रविविशुर् अर्दिताः सुरैः वियद्गतं ज्वलितहुताशनप्रभं; सुदर्शनं परिकुपितं निशाम्य च ततः सुरैर् विजयम् अवाप्य मन्दरः; स्वम् एव देशं गमितः सुपूजितः विनाद्य खं दिवम् अपि चैव सर्वशस्; ततो गताः सलिलधरा यथागतम् ततो ऽमृतं सुनिहितम् एव चक्रिरे; सुराः परां मुदम् अभिगम्य पुष्कलाम् ददौ च तं निधिम् अमृतस्य रक्षितुं; किरीटिने बलभिद् अथामरैः सह सूत उवाच एतत् ते सर्वम् आख्यातम् अमृतं मथितं यथा यत्र सो ऽश्वः समुत्पन्नः श्रीमान् अतुलविक्रमः यं निशाम्य तदा कद्रूर् विनताम् इदम् अब्रवीत् उच्चैःश्रवा नु किंवर्णो भद्रे जानीहि माचिरम् विनतोवाच श्वेत एवाश्वराजो ऽयं किं वा त्वं मन्यसे शुभे ब्रूहि वर्णं त्वम् अप्य् अस्य ततो ऽत्र विपणावहे कद्रूर् उवाच कृष्णवालम् अहं मन्ये हयम् एनं शुचिस्मिते एहि सार्धं मया दीव्य दासीभावाय भामिनि सूत उवाच एवं ते समयं कृत्वा दासीभावाय वै मिथः जग्मतुः स्वगृहान् एव श्वो द्रक्ष्याव इति स्म ह ततः पुत्रसहस्रं तु कद्रूर् जिह्मं चिकीर्षती आज्ञापयाम् आस तदा वाला भूत्वाञ्जनप्रभाः आविशध्वं हयं क्षिप्रं दासी न स्याम् अहं यथा तद् वाक्यं नान्वपद्यन्त ताञ् शशाप भुजंगमान् सर्पसत्रे वर्तमाने पावको वः प्रधक्ष्यति जनमेजयस्य राजर्षेः पाण्डवेयस्य धीमतः शापम् एनं तु शुश्राव स्वयम् एव पितामहः अतिक्रूरं समुद्दिष्टं कद्र्वा दैवाद् अतीव हि सार्धं देवगणैः सर्वैर् वाचं ताम् अन्वमोदत बहुत्वं प्रेक्ष्य सर्पाणां प्रजानां हितकाम्यया तिग्मवीर्यविषा ह्य् एते दन्दशूका महाबलाः तेषां तीक्ष्णविषत्वाद् धि प्रजानां च हिताय वै युक्तं मात्रा कृतं तेषां परपीडोपसर्पिणाम् अन्येषाम् अपि सत्त्वानां नित्यं दोषपरास् तु ये तेषां प्राणान्तिको दण्डो दैवेन विनिपात्यते एवं संभाष्य देवस् तु पूज्य कद्रूं च तां तदा आहूय कश्यपं देव इदं वचनम् अब्रवीत् यद् एते दन्दशूकाश् च सर्पा जातास् त्वयानघ विषोल्बणा महाभोगा मात्रा शप्ताः परंतप तत्र मन्युस् त्वया तात न कर्तव्यः कथं चन दृष्टं पुरातनं ह्य् एतद् यज्ञे सर्पविनाशनम् इत्य् उक्त्वा सृष्टिकृद् देवस् तं प्रसाद्य प्रजापतिम् प्रादाद् विषहणीं विद्यां काश्यपाय महात्मने एवं शप्तेषु नागेषु कद्र्वा च द्विजसत्तम उद्विग्नः शापतस् तस्याः कद्रूं कर्कोटको ऽब्रवीत् मातरं परमप्रीतस् तदा भुजगसत्तमः आविश्य वाजिनं मुख्यं वालो भूत्वाञ्जनप्रभः दर्शयिष्यामि तत्राहम् आत्मानं कामम् आश्वस एवम् अस्त्व् इति तं पुत्रं प्रत्युवाच यशस्विनी सूत उवाच ततो रजन्यां व्युष्टायां प्रभात उदिते रवौ कद्रूश् च विनता चैव भगिन्यौ ते तपोधन अमर्षिते सुसंरब्धे दास्ये कृतपणे तदा सागरस्य परं पारं वेलावनविभूषितम् जग्मतुस् तुरगं द्रष्टुम् उच्छैःश्रवसम् अन्तिकात् ददृशाते तदा तत्र समुद्रं निधिम् अम्भसाम् महान्तम् उदकागाधं क्षोभ्यमाणं महास्वनम् तिमिंगिलझषाकीर्णं मकरैर् आवृतं तथा सत्त्वैश् च बहुसाहस्रैर् नानारूपैः समावृतम् भीषणैर् विकृतैर् अन्यैर् घोरैर् जलचरैस् तथा उग्रैर् नित्यम् अनाधृष्यं कूर्मग्राहसमाकुलम् आकरं सर्वरत्नानाम् आलयं वरुणस्य च नागानाम् आलयं रम्यम् उत्तमं सरितां पतिम् पातालज्वलनावासम् असुराणां च बन्धनम् भयंकरं च सत्त्वानां पयसां निधिम् अर्णवम् शुभं दिव्यम् अमर्त्यानाम् अमृतस्याकरं परम् अप्रमेयम् अचिन्त्यं च सुपुण्यजलम् अद्भुतम् घोरं जलचरारावरौद्रं भैरवनिस्वनम् गम्भीरावर्तकलिलं सर्वभूतभयंकरम् वेलादोलानिलचलं क्षोभोद्वेगसमुत्थितम् वीचीहस्तैः प्रचलितैर् नृत्यन्तम् इव सर्वशः चन्द्रवृद्धिक्षयवशाद् उद्वृत्तोर्मिदुरासदम् पाञ्चजन्यस्य जननं रत्नाकरम् अनुत्तमम् गां विन्दता भगवता गोविन्देनामितौजसा वराहरूपिणा चान्तर्विक्षोभितजलाविलम् ब्रह्मर्षिणा च तपता वर्षाणां शतम् अत्रिणा अनासादितगाधं च पातालतलम् अव्ययम् अध्यात्मयोगनिद्रां च पद्मनाभस्य सेवतः युगादिकालशयनं विष्णोर् अमिततेजसः वज्रपातनसंत्रस्तमैनाकस्याभयप्रदम् डिम्बाहवार्दितानां च असुराणां परायणम् वडवामुखदीप्ताग्नेस् तोयहव्यप्रदं शुभम् अगाधपारं विस्तीर्णम् अप्रमेयं सरित्पतिम् महानदीभिर् बह्वीभिः स्पर्धयेव सहस्रशः अभिसार्यमाणम् अनिशं ददृशाते महार्णवम् आपूर्यमाणम् अत्यर्थं नृत्यमानम् इवोर्मिभिः गम्भीरं तिमिमकरोग्रसंकुलं तं; गर्जन्तं जलचररावरौद्रनादैः विस्तीर्णं ददृशतुर् अम्बरप्रकाशं; ते ऽगाधं निधिम् उरुम् अम्भसाम् अनन्तम् इत्य् एवं झषमकरोर्मिसंकुलं तं; गम्भीरं विकसितम् अम्बरप्रकाशम् पातालज्वलनशिखाविदीपितं तं; पश्यन्त्यौ द्रुतम् अभिपेततुस् तदानीम् सौतिर् उवाच ततस् ते पणितं कृत्वा भगिन्यौ द्विजसत्तम जग्मतुः परमप्रीते परं पारं महोदधेः कद्रूश् च विनता चैव दाक्षायण्यौ विहायसा आलोकयन्त्याव् अक्षोभ्यं समुद्रं निधिम् अम्भसाम् वायुनातीव महता क्षोभ्यमाणं महास्वनम् तिमिंगिलसमाकीर्णं मकरैर् आवृतं तथा संयुतं बहुसाहस्रैः सत्त्वैर् नानाविधैर् अपि घोरैर् घोरम् अनाधृष्यं गम्भीरम् अतिभैरवम् आकरं सर्वरत्नानाम् आलयं वरुणस्य च नागानाम् आलयं चापि सुरम्यं सरितां पतिम् पातालज्वलनावासम् असुराणां तथालयम् भयंकराणां सत्त्वानां पयसो निधिम् अव्ययम् शुभं दिव्यम् अमर्त्यानाम् अमृतस्याकरं परम् अप्रमेयम् अचिन्त्यं च सुपुण्यजलसंमितम् महानदीभिर् बह्वीभिस् तत्र तत्र सहस्रशः आपूर्यमाणम् अत्यर्थं नृत्यन्तम् इव चोर्मिभिः सूत उवाच नागाश् च संविदं कृत्वा कर्तव्यम् इति तद् वचः निःस्नेहा वै दहेन् माता असंप्राप्तमनोरथा प्रसन्ना मोक्षयेद् अस्मांस् तस्माच् छापाच् च भामिनी कृष्णं पुच्छं करिष्यामस् तुरगस्य न संशयः तथा हि गत्वा ते तस्य पुच्छे वाला इव स्थिताः एतस्मिन्न् अन्तरे ते तु सपत्न्यौ पणिते तदा तं समुद्रम् अतिक्रम्य कद्रूर् विनतया सह न्यपतत् तुरगाभ्याशे नचिराद् इव शीघ्रगा ततस् ते तं हयश्रेष्ठं ददृशाते महाजवम् शशाङ्ककिरणप्रख्यं कालवालम् उभे तदा निशाम्य च बहून् वालान् कृष्णान् पुच्छं समाश्रितान् विषण्णवदना तत्र विनता सर्वतो ऽभवत् दृष्ट्वा कृष्णं तु पुच्छं सा वाजिराजस्य विस्मिता अवाक्शिरा दीनमना कद्र्वा दासत्वम् आगता विनतां विषण्णवदनां कद्रूर् दास्ये न्ययोजयत् ततः सा विनता तस्मिन् पणितेन पराजिता अभवद् दुःखसंतप्ता दासीभावं समास्थिता एतस्मिन्न् अन्तरे चैव गरुडः काल आगते विना मात्रा महातेजा विदार्याण्डम् अजायत महासत्त्वबलोपेतः सर्वा विद्योतयन् दिशः कामरूपः कामगमः कामवीर्यो विहंगमः अग्निराशिर् इवोद्भासन् समिद्धो ऽतिभयंकरः विद्युद्विस्पष्टपिङ्गाक्षो युगान्ताग्निसमप्रभः प्रवृद्धः सहसा पक्षी महाकायो नभोगतः घोरो घोरस्वनो रौद्रो वह्निर् और्व इवापरः तं दृष्ट्वा शरणं जग्मुः प्रजाः सर्वा विभावसुम् प्रणिपत्याब्रुवंश् चैनम् आसीनं विश्वरूपिणम् अग्ने मा त्वं प्रवर्धिष्ठाः कच्चिन् नो न दिधक्षसि असौ हि राशिः सुमहान् समिद्धस् तव सर्पति अग्निर् उवाच नैतद् एवं यथा यूयं मन्यध्वम् असुरार्दनाः गरुडो बलवान् एष मम तुल्यः स्वतेजसा जातः परमतेजस्वी विनतानन्दवर्धनः तेजोराशिम् इमं दृष्ट्वा युष्मान् मोहः समाविशत् नागक्षयकरश् चैव काश्यपेयो महाबलः देवानां च हिते युक्तस् त्व् अहितो दैत्यरक्षसाम् न भीः कार्या कथं चात्र पश्यध्वं सहिता मम सूत उवाच एवम् उक्तास् ततो गत्वा गरुडं वाग्भिर् अस्तुवन् अदूराद् अभ्युपेत्यैनं देवाः सर्षिगणास् तदा त्वम् ऋषिस् त्वं महाभागस् त्वं देवः पतगेश्वरः त्वं प्रभुस् तपनप्रख्यस् त्वं नस् त्राणम् अनुत्तमम् त्वं विभुस् तपनः सूर्यः परमेष्ठी प्रजापतिः त्वम् इन्द्रस् त्वं हयमुखस् त्वं शरस् त्वं जगत्पतिः त्वं मुखं पद्मजो विप्रस् त्वम् अग्निः पवनस् तथा त्वं हि धाता विधाता च त्वं विष्णुः सुरसत्तमः त्वं महान् अभिभूः शश्वद् अमृतं त्वं महद् यशः त्वं प्रभास् त्वम् अभिप्रेतं त्वं नस् त्राणम् अनुत्तमम् त्वं गतिः सततं त्वत्तः कथं नः प्राप्नुयाद् भयम् बलोर्मिमान् साधुर् अदीनसत्त्वः; समृद्धिमान् दुष्प्रसहस् त्वम् एव तपः श्रुतं सर्वम् अहीनकीर्ते; अनागतं चोपगतं च सर्वम् त्वम् उत्तमः सर्वम् इदं चराचरं; गभस्तिभिर् भानुर् इवावभाससे समाक्षिपन् भानुमतः प्रभां मुहुस्; त्वम् अन्तकः सर्वम् इदं ध्रुवाध्रुवम् दिवाकरः परिकुपितो यथा दहेत्; प्रजास् तथा दहसि हुताशनप्रभ भयंकरः प्रलय इवाग्निर् उत्थितो; विनाशयन् युगपरिवर्तनान्तकृत् खगेश्वरं शरणम् उपस्थिता वयं; महौजसं वितिमिरम् अभ्रगोचरम् महाबलं गरुडम् उपेत्य खेचरं; परावरं वरदम् अजय्यविक्रमम् ज्वलनसमानवर्चसम् | तडित्प्रभम् | तवौजसा सर्वम् इदं प्रतापितं जगत् प्रभो तप्तसुवर्णवर्चसा भयान्विता नभसि विमानगामिनः विमानिता विपथगतिं प्रयान्ति ते ऋषेः सुतस् त्वम् असि दयावतः प्रभो महात्मनः खगवर कश्यपस्य ह स मा क्रुधः कुरु जगतो दयां परां त्वम् ईश्वरः प्रशमम् उपैहि पाहि नः महाशनिस्फुरितसमस्वनेन ते दिशो ऽम्बरं त्रिदिवम् इयं च मेदिनी चलन्ति नः खग हृदयानि चानिशं निगृह्यतां वपुर् इदम् अग्निसंनिभम् तव द्युतिं कुपितकृतान्तसंनिभां निशाम्य नश् चलति मनो व्यवस्थितम् प्रसीद नः पतगपते प्रयाचतां शिवश् च नो भव भगवन् सुखावहः त्वं पाहि सर्वांश् च सुरान् महात्मनः एवं स्तुतः सुपर्णस् तु देवैः सर्षिगणैस् तदा तेजसः प्रतिसंहारम् आत्मनः स चकार ह सौतिर् उवाच सुपर्ण उवाच सौतिर् उवाच रुरुर् उवाच प्रमतिर् उवाच देवा ऊचुः पितामह उवाच प्रमतिर् उवाच स श्रुत्वाथात्मनो देहं सुपर्णः प्रेक्ष्य च स्वयम् शरीरप्रतिसंहारम् आत्मनः संप्रचक्रमे न मे सर्वाणि भूतानि बिभियुर् देहदर्शनात् भीमरूपात् समुद्विग्नास् तस्मात् तेजस् तु संहरे अरुणं चात्मनः पृष्ठम् आरोप्य स पितुर् गृहात् ततः कामगमः पक्षी कामवीर्यो विहंगमः मातुर् अन्तिकम् आगच्छत् परया मुदया युतः तत्रारुणः स निक्षिप्तः दिशं पूर्वां महाद्युतिः सूर्यतेजोविनिहतांल् लोकान् दग्धुं महारथः किमर्थं भगवान् सूर्यो लोकान् दग्धुमनास् तदा किम् अस्यापकृतं देवैर् येनेमं मन्युर् आविशत् चन्द्रादित्यैर् यदा राहुर् आख्यातो ह्य् अमृतं पिबन् वैरानुबन्धं कृतवांश् चन्द्रादित्ये तदानघ वध्यमाने ग्रहेणाथ आदित्ये मन्युर् आविशत् सुरार्थाय समुत्पन्नो रोषो राहोस् तु मां प्रति बह्वनर्थकरं पापम् एको ऽहं समवाप्नुयाम् सहाय एकः कार्येषु न मे कृच्छ्रेषु जायते पश्यन्ति ग्रस्यमानं मां सह देवैर् दिवौकसः तस्माल् लोकविनाशाय ह्य् अवतिष्ठे न संशयः एवं कृतमतिः सूर्यो ह्य् अस्तम् अभ्यगमद् गिरिम् ततो ऽर्धरात्रसमये सर्वलोकभयावहः उत्पत्स्यते महान् दाहस् त्रैलोक्यस्य विनाशनः ततो देवाः सर्षिगणा उपगम्य पितामहम् भगवन् किमिदं चाद्य महद् दाहकृतं भयम् न तावद् दृश्यते सूर्यः क्षपेयं न प्रभाति च उदिते भगवन् भानौ कथम् एतद् भविष्यति एष लोकविनाशाय रविर् उद्यन्तुम् उद्यतः दृश्यन्न् एव हि लोकान् स भस्मराशीकरिष्यति तस्य प्रतिविधानं च विहितं पूर्वम् एव हि कश्यपस्य सुतो विद्वान् अरुणेत्य् अभिविश्रुतः महाकायो महातेजाः स स्थास्यति पुरो रवेः करिष्यति च सारथ्यं तेजश् चास्य हरिष्यति लोकानां शान्तिर् एवं स्याद् ऋषीणां च दिवौकसाम् ततः पितामहाज्ञातः सर्वं चक्रे तदारुणः उदितश् चैव सविता अरुणेन तदावृतः एतत् ते सर्वम् आख्यातं यत् सूर्यं मन्युर् आविशत् अरुणश् च यथैवास्य सारथ्यम् अकरोत् प्रभुः भूय एवापरं प्रश्नं शृणु पूर्वम् उदाहृतम् सूत उवाच ततः कामगमः पक्षी महावीर्यो महाबलः मातुर् अन्तिकम् आगच्छत् परं तीरं महोदधेः यत्र सा विनता तस्मिन् पणितेन पराजिता अतीव दुःखसंतप्ता दासीभावम् उपागता ततः कदा चिद् विनतां प्रवणां पुत्रसंनिधौ काल आहूय वचनं कद्रूर् इदम् अभाषत नागानाम् आलयं भद्रे सुरम्यं रमणीयकम् समुद्रकुक्षाव् एकान्ते तत्र मां विनते वह ततः सुपर्णमाता ताम् अवहत् सर्पमातरम् पन्नगान् गरुडश् चापि मातुर् वचनचोदितः स सूर्यस्याभितो याति वैनतेयो विहंगमः सूर्यरश्मिपरीताश् च मूर्च्छिताः पन्नगाभवन् तदवस्थान् सुतान् दृष्ट्वा कद्रूः शक्रम् अथास्तुवत् नमस् ते देवदेवेश नमस् ते बलसूदन नमुचिघ्न नमस् ते ऽस्तु सहस्राक्ष शचीपते सर्पाणां सूर्यतप्तानां वारिणा त्वं प्लवो भव त्वम् एव परमं त्राणम् अस्माकम् अमरोत्तम ईशो ह्य् असि पयः स्रष्टुं त्वम् अनल्पं पुरंदर त्वम् एव मेघस् त्वं वायुस् त्वम् अग्निर् वैद्युतो ऽम्बरे त्वम् अभ्रघनविक्षेप्ता त्वाम् एवाहुः पुनर् घनम् त्वं वज्रम् अतुलं घोरं घोषवांस् त्वं बलाहकः स्रष्टा त्वम् एव लोकानां संहर्ता चापराजितः त्वं ज्योतिः सर्वभूतानां त्वम् आदित्यो विभावसुः त्वं महद् भूतम् आश्चर्यं त्वं राजा त्वं सुरोत्तमः त्वं विष्णुस् त्वं सहस्राक्षस् त्वं देवस् त्वं परायणम् त्वं सर्वम् अमृतं देव त्वं सोमः परमार्चितः त्वं मुहूर्तस् तिथिश् च त्वं लवस् त्वं वै पुनः क्षणः शुक्लस् त्वं बहुलश् चैव कला काष्ठा त्रुटिस् तथा संवत्सरर्तवो मासा रजन्यश् च दिनानि च त्वम् उत्तमा सगिरिवना वसुंधरा; सभास्करं वितिमिरम् अम्बरं तथा महोदधिः सतिमितिमिंगिलस् तथा; महोर्मिमान् बहुमकरो झषालयः महद् यशस् त्वम् इति सदाभिपूज्यसे; मनीषिभिर् मुदितमना महर्षिभिः अभिष्टुतः पिबसि च सोमम् अध्वरे; वषट्कृतान्य् अपि च हवींषि भूतये त्वं विप्रैः सततम् इहेज्यसे फलार्थं; वेदाङ्गेष्व् अतुलबलौघ गीयसे च त्वद्धेतोर् यजनपरायणा द्विजेन्द्रा; वेदाङ्गान्य् अभिगमयन्ति सर्ववेदैः सूत उवाच एवं स्तुतस् तदा कद्र्वा भगवान् हरिवाहनः मेघान् आज्ञापयाम् आस वर्षध्वम् उदकं शुभम् नीलजीमूतसंघातैर् व्योम सर्वं समावृणोत् ते मेघा मुमुचुस् तोयं प्रभूतं विद्युदुज्ज्वलाः परस्परम् इवात्यर्थं गर्जन्तः सततं दिवि संघातितम् इवाकाशं जलदैः सुमहाद्भुतैः सृजद्भिर् अतुलं तोयम् अजस्रं सुमहारवैः संप्रनृत्तम् इवाकाशं धारोर्मिभिर् अनेकशः मेघस्तनितनिर्घोषम् अम्बरं समपद्यत . . . . . . . . विद्युत्पवनकम्पितैः तैर् मेघैः संततासारं वर्षद्भिर् अनिशं तदा नष्टचन्द्रार्ककिरणम् नागानाम् उत्तमो हर्शस् तदा वर्षति वासवे आपूर्यत मही चापि सलिलेन समन्ततः रसातलम् अनुप्राप्तं शीतलं विमलं जलम् तदा भूर् अभवच् छन्ना जलोर्मिभिर् अनेकशः रामणीयकम् आगच्छन् मात्रा सह भुजंगमाः सूत उवाच संप्रहृष्टास् ततो नागा जलधाराप्लुतास् तदा सुपर्णेनोह्यमानास् ते जग्मुस् तं देशम् आशु वै तं द्वीपं मकरावासं विहितं विश्वकर्मणा इन्द्रतुल्यबला घोरं ददृशुः सर्वम् आयतम् सुपर्णसहिताः सर्पाः काननं च मनोरमम् सागराम्बुपरिक्षिप्तं पक्षिसंघनिनादितम् विचित्रफलपुष्पाभिर् वनराजिभिर् आवृतम् भवनैर् आवृतं रम्यैस् तथा पद्माकरैर् अपि प्रसन्नसलिलैश् चापि ह्रदैश् चित्रैर् विभूषितम् दिव्यगन्धवहैः पुण्यैर् मारुतैर् उपवीजितम् उपजिघ्रद्भिर् आकाशं वृक्षैर् मलयजैर् अपि शोभितं पुष्पवर्षाणि मुञ्चद्भिर् मारुतोद्धुतैः वायुविक्षिप्तकुसुमैस् तथान्यैर् अपि पादपैः किरद्भिर् इव तत्रस्थान् नागान् पुष्पाम्बुवृष्टिभिः मनःसंहर्षणं पुण्यं गन्धर्वाप्सरसां प्रियम् मत्तभ्रमरसंघुष्टं मनोज्ञाकृतिदर्शनम् रमणीयं शिवं पुण्यं सर्वैर् जनमनोहरैः नानापक्षिरुतं रम्यं कद्रूपुत्रप्रहर्षणम् तत् ते वनं समासाद्य विजह्रुः पन्नगा मुदा अब्रुवंश् च महावीर्यं सुपर्णं पतगोत्तमम् वहास्मान् अपरं द्वीपं सुरम्यं विपुलोदकम् त्वं हि देशान् बहून् रम्यान् पतन् पश्यसि खेचर स विचिन्त्याब्रवीत् पक्षी मातरं विनतां तदा किं कारणं मया मातः कर्तव्यं सर्पभाषितम् किमर्थं च वयं सर्पान् वहामो दुर्बलाधमान् एवम् उक्तस् तदा तेन विनता प्राह खेचरम् पुत्रं सर्वगुणोपेतं महावीर्यबलाचलम् विनतोवाच दासीभूतास्म्य् अनार्याया भगिन्याः पतगोत्तम पणं वितथम् आस्थाय सर्पैर् उपधिना कृतम् सूत उवाच तस्मिंस् तु कथिते मात्रा कारणे गगनेचरः उवाच वचनं सर्पांस् तेन दुःखेन दुःखितः किम् आहृत्य विदित्वा वा किं वा कृत्वेह पौरुषम् दास्याद् वो विप्रमुच्येयं सत्यं शंसत लेलिहाः श्रुत्वा तम् अब्रुवन् सर्पा आहरामृतम् ओजसा ततो दास्याद् विप्रमोक्षो भविता तव खेचर सूत उवाच इत्य् उक्तो गरुडः सर्पैस् ततो मातरम् अब्रवीत् गच्छाम्य् अमृतम् आहर्तुं भक्ष्यम् इच्छामि वेदितुम् विनतोवाच समुद्रकुक्षाव् एकान्ते निषादालयम् उत्तमम् भवनानि निषादानां तत्र सन्ति द्विजोत्तम पापिनां नष्टलोकानां निर्घृणानां दुरात्मनाम् सहस्राणाम् अनेकानां तान् भुक्त्वामृतम् आनय न तु ते ब्राह्मणं हन्तुं कार्या बुद्धिः कथं चन अवध्यः सर्वभूतानां ब्राह्मणो ह्य् अनलोपमः अग्निर् अर्को विषं शस्त्रं विप्रो भवति कोपितः एवमादिभी रूपैस् तु सतां वै ब्राह्मणो मतः स ते तात न हन्तव्यः संक्रुद्धेनापि सर्वदा ब्राह्मणानाम् अभिद्रोहो न कर्तव्यः कथं चन न ह्य् एवम् अग्निर् नादित्यो भस्म कुर्यात् तथानघ यथा कुर्याद् अभिक्रुद्धो ब्राह्मणः संशितव्रतः तद् एतैर् विविधैर् लिङ्गैस् त्वं विद्यास् तं द्विजोत्तमम् गुरुर् हि सर्वभूतानां ब्राह्मणः परिकीर्तितः तर्हि वक्ष्यामि विस्पष्टं कारणं तन् निबोधथ भूतानाम् अग्रभुग् विप्रो वर्णश्रेष्ठः पिता गुरुः गरुड उवाच यथाहम् अभिजानीयां ब्राह्मणं लक्षणैः शुभैः तन् मे कारणतो मातः पृच्छतो वक्तुम् अर्हसि किंरूपो ब्राह्मणो मातः किंशीलः किंपराक्रमः किं स्विद् अग्निनिभो भाति किं स्वित् सौम्यप्रदर्शनः विनतोवाच मेखलाजिनदण्डेन ब्रह्मचारीति लक्षयेत् शुक्लवस्त्रः शुचिर् दान्तो रुक्मकुण्डलमण्डितः वैणवीं धारयन् यष्टिम् उपवीतं कमण्डलुम् एतैस् तु लक्षणैर् युक्तं गृहस्थम् इति लक्षयेत् नखरोमाचितं विप्रं चीराजिनजटाधरम् वनवासरतं नित्यं वनवासीति लक्षयेत् मुण्डी त्रिदण्डी काषायी कमण्डलुधरो यतिः एतैस् तु लक्षणैः पुत्र विद्धि तान् ब्राह्मणान् ऋजून् यस् ते कण्ठम् अनुप्राप्तो निगीर्णं बडिशं यथा दहेद् अङ्गारवत् पुत्र तं विद्याद् ब्राह्मणर्षभम् सूत उवाच प्रोवाच चैनं विनता पुत्रहार्दाद् इदं वचः जठरे न च जीर्येद् यस् तं जानीहि द्विजोत्तमम् जानन्त्य् अप्य् अतुलं वीर्यम् आशीर्वादसमन्वितम् पुत्रहार्दाद् उवाचैनं विनता गरुडं तदा प्रीता परमदुःखार्ता नागैर् विप्रकृता सती पक्षौ ते मारुतः पातु चन्द्रः पृष्ठं तु पुत्रक शिरस् तु पातु ते वह्निर् भास्करः सर्वम् एव तु विष्णुः सर्वगतः सर्वम् अङ्गानि तव चैव च अहं च ते सदा पुत्र शान्तिस्वस्तिपरायणा इहासीना भविष्यामि स्वस्तिकारे सदा रता व्रतोपवासनियता भवामि सुरलोकतः भविष्यति न संदेहो यावद् आगमनं तव अरिष्टं व्रज पन्थानं वत्स कार्यार्थसिद्धये ततः स मातुर् वचनं निशम्य; वितत्य पक्षौ नभ उत्पपात ततो निषादान् बलवान् उपागमद्; बुभुक्षितः काल इवान्तको महान् स तान् निषादान् उपसंहरंस् तदा; रजः समुद्धूय नभःस्पृशं महत् समुद्रकुक्षौ च विशोषयन् पयः; समीपगान् भूमिधरान् विचालयन् ततः स चक्रे महद् आननं तदा; निषादमार्गं प्रतिरुध्य पक्षिराट् तदा निपत्याशनिचण्डविक्रमः प्रसार्य पक्षौ स निषादम् आगतः ततो निषादास् त्वरिताः प्रवव्रजुर्; यतो मुखं तस्य भुजंगभोजिनः तदाननं विवृतम् अतिप्रमाणवत्; समभ्ययुर् गगनम् इवार्दिताः खगाः सहस्रशः पवनरजोभ्रमोहिता; महानिलप्रचलितपादपे वने ततः खगो वदनम् अमित्रतापनः; समाहरत् परिचपलो महाबलः निषूदयन् बहुविधमत्स्यभक्षिणो; बुभुक्षितो गगनचरेश्वरस् तदा सूत उवाच तस्य कण्ठम् अनुप्राप्तो ब्राह्मणः सह भार्यया दहन् दीप्त इवाङ्गारस् तम् उवाचान्तरिक्षगः द्विजोत्तम विनिर्गच्छ तूर्णम् आस्याद् अपावृतात् न हि मे ब्राह्मणो वध्यः पापेष्व् अपि रतः सदा कथं च त्वम् इहायातो निषादानां महालयम् अस्पृश्या याजिनां नित्यं सत्यं च वद मे द्विज ब्रुवाणम् एवं गरुडं ब्राह्मणः समभाषत ब्राह्मण उवाच मध्यदेशात् समायातो धनार्थी मेदिनीं भ्रमन् ततो निषादान् संप्राप्तो रतिं चाप्य् अत्र लब्धवान् गां हिरण्यं धनं धान्यं घटांश् च कटकांस् तथा निषादा मे प्रयच्छन्ति सततं प्रियकारिणः निषादी शोभना चात्र भार्या जाता खगोत्तम तया सह वसन् नित्यं रतिम् अग्र्याम् अवाप्तवान् निषादी मम भार्येयं निर्गच्छतु मया सह ततो ऽहं निर्गमिष्यामि न निर्गच्छेयम् अन्यथा गरुड उवाच एताम् अपि निषादीं त्वं परिगृह्याशु निष्पत तूर्णं संभावयात्मानम् अजीर्णं मम तेजसा सूत उवाच ततः स विप्रो निष्क्रान्तो निषादीसहितस् तदा वर्धयित्वा च गरुडम् इष्टं देशं जगाम ह सहभार्ये विनिष्क्रान्ते तस्मिन् विप्रे स पक्षिराट् वितत्य पक्षाव् आकाशम् उत्पपात मनोजवः ततो ऽपश्यत् स पितरं पृष्टश् चाख्यातवान् पितुः यथान्यायम् अमेयात्मा तं चोवाच महान् ऋषिः कच्चिद् वः कुशलं नित्यं भोजने बहुलं सुत कच्चिच् च मानुषे लोके तवान्नं विद्यते बहु समुत्पत्याभिविश्रान्तः पितरं च समेत्य सः ववन्दे पततां श्रेष्ठो ब्रह्म ब्रह्मविदां प्रभुम् पृष्टश् च पित्रा बलवान् वैनतेयः प्रतापवान् क्व गन्तासीति वेगेन मम त्वं वक्तुम् अर्हसि गरुड उवाच माता मे कुशला शश्वत् तथा भ्राता तथा ह्य् अहम् न हि मे कुशलं तात भोजने बहुले सदा अहं हि सर्पैः प्रहितः सोमम् आहर्तुम् उद्यतः मातुर् दास्यविमोक्षार्थम् आहरिष्ये तम् अद्य वै मात्रा चास्मि समादिष्टो निषादान् भक्षयेति वै न च मे तृप्तिर् अभवद् भक्षयित्वा सहस्रशः तस्माद् भोक्तव्यम् अपरं भगवन् प्रदिशस्व मे यद् भुक्त्वामृतम् आहर्तुं समर्थः स्याम् अहं प्रभो क्षुत्पिपासाविघातार्थं भक्ष्यम् आख्यातु मे भवान् कश्यप उवाच इदं सरो महापुण्यं देवलोके ऽपि विश्रुतम् यत्र कूर्माग्रजं हस्ती सदा कर्षत्य् अवाङ्मुखः तयोर् जन्म तु ते कृत्स्नं प्रवक्ष्याम्य् अनुपूर्वशः तन् मे तत्त्वं निबोधस्व यत्प्रमाणौ च तौ मतौ शृणु त्वं वत्स भद्रं ते कथां वैराग्यवर्धिनीम् पित्रोर् अर्थविभागे वै समुत्पन्नां पुराण्डज आसीद् विभावसुर् नाम महर्षिः कोपनो भृशम् भ्राता तस्यानुजश् चासीत् सुप्रतीको महातपाः स नेच्छति धनं भ्रात्रा सहैकस्थं महामुनिः विभागं कीर्तयत्य् एव सुप्रतीको ऽथ नित्यशः अथाब्रवीच् च तं भ्राता सुप्रतीकं विभावसुः विभागे बहवो दोषा भविष्यन्ति महातपाः विभागं बहवो मोहात् कर्तुम् इच्छन्ति नित्यदा ततो विभक्ता अन्योन्यं नाद्रियन्ते ऽर्थमोहिताः ततः स्वार्थपरान् मूढान् पृथग् भूतान् स्वकैर् धनैः विदित्वा भेदयन्त्य् एतान् अमित्रा मित्ररूपिणः विदित्वा चापरे भिन्नान् अन्तरेषु पतन्त्य् अथ भिन्नानाम् अतुलो नाशः क्षिप्रम् एव प्रवर्तते तस्माच् चैव विभागार्थं न प्रशंसन्ति पण्डिताः एवम् उक्तः सुप्रतीको भागं कीर्तयते ऽनिशम् एवं निर्बध्यमानस् तु शशापैनं विभावसुः गुरुशास्त्रे निबद्धानाम् अन्योन्यम् अभिशङ्किनाम् तेषां मध्ये त्वम् अप्य् एकश् छद्मकृच् च महात्मभिः नियन्तुं न हि शक्यस् त्वं भेदतो धनम् इच्छसि यस्मात् तस्मात् सुप्रतीक हस्तित्वं समवाप्स्यसि शप्तस् त्व् एवं सुप्रतीको विभावसुम् अथाब्रवीत् त्वम् अप्य् अन्तर्जलचरः कच्छपः संभविष्यसि एवम् अन्योन्यशापात् तौ सुप्रतीकविभावसू गजकच्छपतां प्राप्ताव् अर्थार्थं मूढचेतसौ रोषदोषानुषङ्गेण तिर्यग्योनिगताव् अपि परस्परद्वेषरतौ प्रमाणबलदर्पितौ सरस्य् अस्मिन् महाकायौ पूर्ववैरानुसारिणौ तयोर् एकतरः श्रीमान् समुपैति महागजः तस्य बृंहितशब्देन कूर्मो ऽप्य् अन्तर्जलेशयः उत्थितो ऽसौ महाकायः कृत्स्नं संक्षोभयन् सरः तं दृष्ट्वावेष्टितकरः पतत्य् एष गजो जलम् दन्तहस्ताग्रलाङ्गूलपादवेगेन वीर्यवान् तं विक्षोभयमाणं तु सरो बहुझषाकुलम् कूर्मो ऽप्य् अभ्युद्यतशिरा युद्धायाभ्येति वीर्यवान् षड् उच्छ्रितो योजनानि गजस् तद् द्विगुणायतः कूर्मस् त्रियोजनोत्सेधो दशयोजनमण्डलः ताव् एतौ युद्धसंमत्तौ परस्परजयैषिणौ उपयुज्याशु कर्मेदं साधयेप्सितम् आत्मनः महाभ्रघनसंकाशं तं भुक्त्वामृतम् आनय महागिरिसमप्रख्यं घोररूपं च हस्तिनम् सूत उवाच इत्य् उक्त्वा गरुडं सर्षिः माङ्गल्यम् अकरोत् तदा युध्यतः सह देवैस् ते युद्धे भवतु मङ्गलम् पूर्णकुम्भो द्विजा गावो यच् चान्यत् किं चिद् उत्तमम् शुभं स्वस्त्ययनं चापि भविष्यति तवान्डज युध्यमानस्य संग्रामे देवैः सार्धं महाबल ऋचो यजूंषि सामानि पवित्राणि हवींषि च रहस्यानि च सर्वाणि सर्वे वेदाश् च ते बलम् इत्य् उक्तो गरुडः पित्रा गतस् तं ह्रदम् अन्तिकात् अपश्यन् निर्मलजलं नानापक्षिसमाकुलम् एतस्मिन्न् एव काले तु ताव् ऋषी वित्तलोलुपौ गजकच्छपतां प्राप्य युयुधाते परस्परम् स तच् छ्रुत्वा पितुर् वाक्यं भीमवेगो ऽन्तरिक्षगः नखेन गजम् एकेन कूर्मम् एकेन चाक्षिपत् समुत्पपात चाकाशं तत उच्चैर् विहंगमः सो ऽलम्बतीर्थम् आसाद्य देववृक्षान् उपागमत् ते भीताः समकम्पन्त तस्य पक्षानिलाहताः न नो भञ्ज्याद् इति तदा दिव्याः कनकशाखिनः प्रचलाङ्गान् स तान् दृष्ट्वा मनोरथफलाङ्कुरान् अन्यान् अतुलरूपाङ्गान् उपचक्राम खेचरः काञ्चनै राजतैश् चैव फलैर् वैडूर्यशाखिनः सागराम्बुपरिक्षिप्तान् भ्राजमानान् महाद्रुमान् तेषां मध्ये महान् आसीत् पादपः सुमनोहरः सहस्रयोजनोत्सेधो बहुशाखासमन्वितः खगानाम् आलयो दिव्यो नाम्ना रोहिणपादपः यस्य छायां समाश्रित्य सद्यो भवति निर्वृतः तम् उवाच खगश्रेष्ठं तत्र रोहिणपादपः अतिप्रवृद्धः सुमहान् आपतन्तं मनोजवम् यैषा मम महाशाखा शतयोजनम् आयता एताम् आस्थाय शाखां त्वं खादेमौ गजकच्छपौ ततो द्रुमं पतगसहस्रसेवितं; महीधरप्रतिमवपुः प्रकम्पयन् खगोत्तमो द्रुतम् अभिपत्य वेगवान्; बभञ्ज ताम् अविरलपत्रसंवृताम् सूत उवाच स्पृष्टमात्रा तु पद्भ्यां सा गरुडेन बलीयसा अभज्यत तरोः शाखा भग्नां चैनाम् अधारयत् तां भग्नां स महाशाखां स्मयन् समवलोकयन् अथात्र लम्बतो ऽपश्यद् वालखिल्यान् अधोमुखान् ऋषयो ह्य् अत्र लम्बन्ते न हन्याम् इति तान् ऋषीन् तपोरतांल् लम्बमानान् ब्रह्मर्षीन् अभिवीक्ष्य सः वैखानसांश् च शाखायां लम्बमानान् अधोमुखान् हन्याद् एतान् संपतन्ती शाखेत्य् अथ विचिन्त्य सः नखैर् दृढतरं वीरः संगृह्य गजकच्छपौ तपस्यतो भयाविष्टो वैनतेयो महाबलः स तद्विनाशसंत्रासाद् अनुपत्य खगाधिपः शाखाम् आस्येन जग्राह तेषाम् एवान्ववेक्षया अतिदैवं तु तत् तस्य कर्म दृष्ट्वा महर्षयः विस्मयोत्कम्पहृदया नाम चक्रुर् महाखगे गुरुं भारं समासाद्योड्डीन एष विहंगमः गरुडस् तु खगश्रेष्ठस् तस्मात् पन्नगभोजनः शनैः पर्यपतत् पक्षी पर्वतान् प्रविशातयन् एवं सो ऽभ्यपतद् देशान् बहून् सगजकच्छपः दयार्थं वालखिल्यानां न च स्थानम् अविन्दत स गत्वा पर्वतश्रेष्ठं गन्धमादनम् अव्ययम् ददर्श कश्यपं तत्र पितरं तपसि स्थितम् ददर्श तं पिता चापि दिव्यरूपं विहंगमम् तेजोवीर्यबलोपेतं मनोमारुतरंहसम् शैलशृङ्गप्रतीकाशं ब्रह्मदण्डम् इवोद्यतम् अचिन्त्यम् अनभिज्ञेयं सर्वभूतभयंकरम् मायावीर्यधरं साक्षाद् अग्निम् इद्धम् इवोद्यतम् अप्रधृष्यम् अजेयं च देवदानवराक्षसैः भेत्तारं गिरिशृङ्गाणां नदीजलविशोषणम् लोकसंलोडनं घोरं कृतान्तसमदर्शनम् तम् आगतम् अभिप्रेक्ष्य भगवान् कश्यपस् तदा विदित्वा चास्य संकल्पम् इदं वचनम् अब्रवीत् पुत्र मा साहसं कार्षीर् मा सद्यो लप्स्यसे व्यथाम् मा त्वा दहेयुः संक्रुद्धा वालखिल्या मरीचिपाः प्रसादयाम् आस स तान् कश्यपः पुत्रकारणात् वालखिल्यांस् तपःसिद्धान् इदम् उद्दिश्य कारणम् प्रजाहितार्थम् आरम्भो गरुडस्य तपोधनाः चिकीर्षति महत् कर्म तद् अनुज्ञातुम् अर्हथ एवम् उक्ता भगवता मुनयस् ते समभ्ययुः मुक्त्वा शाखां गिरिं पुण्यं हिमवन्तं तपोर्थिनः ततस् तेष्व् अपयातेषु पितरं विनतात्मजः शाखाव्याक्षिप्तवदनः पर्यपृच्छत कश्यपम् भगवन् क्व विमुञ्चामि तरुशाखाम् इमाम् अहम् वर्जितं ब्राह्मणैर् देशम् आख्यातु भगवान् मम ततो निष्पुरुषं शैलं हिमसंरुद्धकन्दरम् अगम्यं मनसाप्य् अन्यैस् तस्याचख्यौ स कश्यपः तं पर्वतमहाकुक्षिम् आविश्य मनसा खगः जवेनाभ्यपतत् तार्क्ष्यः सशाखागजकच्छपः न तां वध्रः परिणहेच् छतचर्मा महान् अणुः शाखिनो महतीं शाखां यां प्रगृह्य ययौ खगः ततः स शतसाहस्रं योजनान्तरम् आगतः कालेन नातिमहता गरुडः पततां वरः स तं गत्वा क्षणेनैव पर्वतं वचनात् पितुः अमुञ्चन् महतीं शाखां सस्वनां तत्र खेचरः पक्षानिलहतश् चास्य प्राकम्पत स शैलराट् मुमोच पुष्पवर्षं च समागलितपादपः शृङ्गाणि च व्यशीर्यन्त गिरेस् तस्य समन्ततः मणिकाञ्चनचित्राणि शोभयन्ति महागिरिम् शाखिनो बहवश् चापि शाखयाभिहतास् तया काञ्चनैः कुसुमैर् भान्ति विद्युत्वन्त इवाम्बुदाः ते हेमविकचा भूयो युक्ताः पर्वतधातुभिः व्यराजञ् शाखिनस् तत्र सूर्यांशुप्रतिरञ्जिताः ततस् तस्य गिरेः शृङ्गम् आस्थाय स खगोत्तमः भक्षयाम् आस गरुडस् ताव् उभौ गजकच्छपौ ताव् उभौ भक्षयित्वा तु स तार्क्ष्यः कूर्मकुञ्जरौ ततः पर्वतकूटाग्राद् उत्पपात मनोजवः प्रावर्तन्ताथ देवानाम् उत्पाता भयवेदिनः इन्द्रस्य वज्रं दयितं प्रजज्वाल व्यथान्वितम् सधूमा चापतत् सार्चिर् दिवोल्का नभसश् च्युता तथा वसूनां रुद्राणाम् आदित्यानां च सर्वशः साध्यानां मरुतां चैव ये चान्ये देवतागणाः स्वं स्वं प्रहरणं तेषां परस्परम् उपाद्रवत् अभूतपूर्वं संग्रामे तदा देवासुरे ऽपि च ववुर् वाताः सनिर्घाताः पेतुर् उल्काः समन्ततः निरभ्रम् अपि चाकाशं प्रजगर्ज महास्वनम् देवानाम् अपि यो देवः सो ऽप्य् अवर्षद् असृक् तदा मम्लुर् माल्यानि देवानां शेमुस् तेजांसि चैव हि उत्पातमेघा रौद्राश् च ववर्षुः शोणितं बहु रजांसि मुकुटान्य् एषाम् उत्थितानि व्यधर्षयन् ततस् त्राससमुद्विग्नः सह देवैः शतक्रतुः उत्पातान् दारुणान् पश्यन्न् इत्य् उवाच बृहस्पतिम् किमर्थं भगवन् घोरा महोत्पाताः समुत्थिताः न च शत्रुं प्रपश्यामि युधि यो नः प्रधर्षयेत् बृहस्पतिर् उवाच तवापराधाद् देवेन्द्र प्रमादाच् च शतक्रतो तपसा वालखिल्यानां भूतम् उत्पन्नम् अद्भुतम् कश्यपस्य मुनेः पुत्रो विनतायाश् च खेचरः हर्तुं सोमम् अनुप्राप्तो बलवान् कामरूपवान् समर्थो बलिनां श्रेष्ठो हर्तुं सोमं विहंगमः सर्वं संभावयाम्य् अस्मिन्न् असाध्यम् अपि साधयेत् सूत उवाच श्रुत्वैतद् वचनं शक्रः प्रोवाचामृतरक्षिणः महावीर्यबलः पक्षी हर्तुं सोमम् इहोद्यतः युष्मान् संबोधयाम्य् एष यथा स न हरेद् बलात् . . . . . . . . गृहीत्वा वरुणायुधान् परिवार्यामृतं सर्वे यूयं मद्वचनाद् इह रक्षध्वं विबुधा वीरा . . . . . . . . अतुलं हि बलं तस्य बृहस्पतिर् उवाच मे तच् छ्रुत्वा विबुधा वाक्यं विस्मिता यत्नम् आस्थिताः परिवार्यामृतं तस्थुर् वज्री चेन्द्रः शतक्रतुः धारयन्तो महार्हाणि कवचानि मनस्विनः काञ्चनानि विचित्राणि वैडूर्यविकृतानि च चर्माण्य् अपि च गात्रेषु भानुमन्ति दृढानि च विविधानि च शस्त्राणि घोररूपाण्य् अनेकशः शिततीक्ष्णाग्रधाराणि समुद्यम्य सहस्रशः सविस्फुलिङ्गज्वालानि सधूमानि च सर्वशः भूषितानि च अन्यानि ज्वलितान्य् अपराणि च शिततीक्ष्णाग्रधाराणि वज्रछेदीनि सर्वशः चक्राणि परिघांश् चैव त्रिशूलानि परश्वधान् शक्तीश् च विविधास् तीक्ष्णाः करवालांश् च निर्मलान् स्वदेहरूपाण्य् आदाय गदाश् चोग्रप्रदर्शनाः तैः शस्त्रैर् भानुमद्भिस् ते दिव्याभरणभूषिताः भानुमन्तः सुरगणास् तस्थुर् विगतकल्मषाः अनुपमबलवीर्यतेजसो; धृतमनसः परिरक्षणे ऽमृतस्य असुरपुरविदारणाः सुरा; ज्वलनसमिद्धवपुःप्रकाशिनः इति समरवरं सुरास्थितं; परिघसहस्रशतैः समाकुलम् विगलितम् इव चाम्बरान्तरे; तपनमरीचिविभासितं बभौ शौनक उवाच को ऽपराधो महेन्द्रस्य कः प्रमादश् च सूतज तपसा वालखिल्यानां संभूतो गरुडः कथम् कश्यपस्य द्विजातेश् च कथं वै पक्षिराट् सुतः अधृष्यः सर्वभूतानाम् अवध्यश् चाभवत् कथम् कथं च कामचारी स कामवीर्यश् च खेचरः एतद् इच्छाम्य् अहं श्रोतुं पुराणे यदि पठ्यते सूत उवाच विषयो ऽयं पुराणस्य यन् मां त्वं परिपृच्छसि शृणु मे वदतः सर्वम् एतत् संक्षेपतो द्विज यजतः पुत्रकामस्य कश्यपस्य प्रजापतेः साहाय्यम् ऋषयो देवा गन्धर्वाश् च ददुः किल तत्रेध्मानयने शक्रो नियुक्तः कश्यपेन ह मुनयो वालखिल्याश् च ये चान्ये देवतागणाः शक्रस् तु वीर्यसदृशम् इध्मभारं गिरिप्रभम् समुद्यम्यानयाम् आस नातिकृच्छ्राद् इव प्रभुः अथापश्यद् ऋषीन् ह्रस्वान् अङ्गुष्ठोदरपर्वणः पलाशवृन्तिकाम् एकां सहितान् वहतः पथि प्रलीनान् स्वेष्व् इवाङ्गेषु निराहारांस् तपोधनान् क्लिश्यमानान् मन्दबलान् गोष्पदे संप्लुतोदके तांश् च सर्वान् स्मयाविष्टो वीर्योन्मत्तः पुरंदरः अवहस्यात्यगाच् छीघ्रं लङ्घयित्वावमन्य च ते ऽथ रोषसमाविष्टाः सुभृशं जातमन्यवः आरेभिरे महत् कर्म तदा शक्रभयंकरम् जुहुवुस् ते सुतपसो विधिवज् जातवेदसम् मन्त्रैर् उच्चावचैर् विप्रा येन कामेन तच् छृणु कामवीर्यः कामगमो देवराजभयप्रदः इन्द्रो ऽन्यः सर्वदेवानां भवेद् इति यतव्रताः इन्द्राच् छतगुणः शौर्ये वीर्ये चैव मनोजवः तपसो नः फलेनाद्य दारुणः संभवत्व् इति तद् बुद्ध्वा भृशसंतप्तो देवराजः शतक्रतुः जगाम शरणं तत्र कश्यपं संशितव्रतम् तच् छ्रुत्वा देवराजस्य कश्यपो ऽथ प्रजापतिः वालखिल्यान् उपागम्य कर्मसिद्धिम् अपृच्छत काश्यपः वालखिल्याः केन कामेन चारब्धं भवद्भिर् होमकर्म च याथातथ्येन मे ब्रूत श्रोतुं कौतूहलं हि मे अवज्ञाताः सुरेन्द्रेण मूढेनाकृतबुद्धिना ऐश्वर्यमदमत्तेन सदाचारान् निरस्यता तद्विघातार्थम् आरम्भो विधिवत् तस्य काश्यप एवम् अस्त्व् इति तं चापि प्रत्यूचुः सत्यवादिनः तान् कश्यप उवाचेदं सान्त्वपूर्वं प्रजापतिः अयम् इन्द्रस् त्रिभुवने नियोगाद् ब्रह्मणः कृतः इन्द्रार्थं च भवन्तो ऽपि यत्नवन्तस् तपोधनाः न मिथ्या ब्रह्मणो वाक्यं कर्तुम् अर्हथ सत्तमाः भवतां च न मिथ्यायं संकल्पो मे चिकीर्षितः भवत्व् एष पतत्रीणाम् इन्द्रो ऽतिबलसत्त्ववान् प्रसादः क्रियतां चैव देवराजस्य याचतः एवम् उक्ताः कश्यपेन वालखिल्यास् तपोधनाः प्रत्यूचुर् अभिसंपूज्य मुनिश्रेष्ठं प्रजापतिम् इन्द्रार्थो ऽयं समारम्भः सर्वेषां नः प्रजापते अपत्यार्थं समारम्भो भवतश् चायम् ईप्सितः तद् इदं सफलं कर्म त्वया वै प्रतिगृह्यताम् तथा चैव विधत्स्वात्र यथा श्रेयो ऽनुपश्यसि एतस्मिन्न् एव काले तु देवी दाक्षायणी शुभा विनता नाम कल्याणी पुत्रकामा यशस्विनी तपस् तप्त्वा व्रतपरा स्नाता पुंसवने शुचिः उपचक्राम भर्तारं ताम् उवाचाथ कश्यपः आरम्भः सफलो देवि भवितायं तवेप्सितः जनयिष्यसि पुत्रौ द्वौ वीरौ त्रिभुवनेश्वरौ तपसा वालखिल्यानां मम संकल्पजौ तथा भविष्यतो महाभागौ पुत्रौ ते लोकपूजितौ उवाच चैनां भगवान् मारीचः पुनर् एव ह धार्यताम् अप्रमादेन गर्भो ऽयं सुमहोदयः एकः सर्वपतत्रीणाम् इन्द्रत्वं कारयिष्यति लोकसंभावितो वीरः कामवीर्यो विहंगमः शतक्रतुम् अथोवाच प्रीयमाणः प्रजापतिः त्वत्सहायौ खगाव् एतौ भ्रातरौ ते भविष्यतः नैताभ्यां भविता दोषः सकाशात् ते पुरंदर व्येतु ते शक्र संतापस् त्वम् एवेन्द्रो भविष्यसि न चाप्य् एवं त्वया भूयः क्षेप्तव्या ब्रह्मवादिनः न चावमान्या दर्पात् ते वाग्विषा भृशकोपनाः एवम् उक्तो जगामेन्द्रो निर्विशङ्कस् त्रिविष्टपम् विनता चापि सिद्धार्था बभूव मुदिता तदा जनयाम् आस पुत्रौ द्वाव् अरुणं गरुडं तथा अरुणस् तयोस् तु विकल आदित्यस्य पुरःसरः पतत्रीणां तु गरुड इन्द्रत्वेनाभ्यषिच्यत तस्यैतत् कर्म सुमहच् छ्रूयतां भृगुनन्दन सूत उवाच ततस् तस्मिन् द्विजश्रेष्ठ समुदीर्णे तथाविधे गरुत्मान् पक्षिराट् तूर्णं संप्राप्तो विबुधान् प्रति तं दृष्ट्वातिबलं चैव प्राकम्पन्त समन्ततः परस्परं च प्रत्यघ्नन् सर्वप्रहरणान्य् अपि तत्र चासीद् अमेयात्मा विद्युदग्निसमप्रभः भौवनः सुमहावीर्यः सोमस्य परिरक्षिता स तेन पतगेन्द्रेण पक्षतुण्डनखैः क्षतः मुहूर्तम् अतुलं युद्धं कृत्वा विनिहतो युधि रजश् चोद्धूय सुमहत् पक्षवातेन खेचरः कृत्वा लोकान् निरालोकांस् तेन देवान् अवाकिरत् तेनावकीर्णा रजसा देवा मोहम् उपागमन् न चैनं ददृशुश् छन्ना रजसामृतरक्षिणः एवं संलोडयाम् आस गरुडस् त्रिदिवालयम् पक्षतुण्डप्रहारैश् च देवान् स विददार ह ततो देवः सहस्राक्षस् तूर्णं वायुम् अचोदयत् विक्षिपेमां रजोवृष्टिं तवैतत् कर्म मारुत अथ वायुर् अपोवाह तद् रजस् तरसा बली ततो वितिमिरे जाते देवाः शकुनिम् आर्दयन् ननाद चोच्चैर् बलवान् महामेघरवः खगः वध्यमानः सुरगणैः सर्वभूतानि भीषयन् उत्पपात महावीर्यः पक्षिराट् परवीरहा तम् उत्पत्यान्तरिक्षस्थं देवानाम् उपरि स्थितम् वर्मिणो विबुधाः सर्वे नानाशस्त्रैर् अवाकिरन् पट्टिशैः परिघैः शूलैर् गदाभिश् च सवासवाः क्षुरान्तैर् ज्वलितैश् चापि चक्रैर् आदित्यरूपिभिः नानाशस्त्रविसर्गैश् च वध्यमानः समन्ततः कुर्वन् सुतुमुलं युद्धं पक्षिराण् न व्यकम्पत विनर्दन्न् इव चाकाशे वैनतेयः प्रतापवान् पक्षाभ्याम् उरसा चैव समन्ताद् व्याक्षिपत् सुरान् ते विक्षिप्तास् ततो देवाः प्रजग्मुर् गरुडार्दिताः नखतुण्डक्षताश् चैव सुस्रुवुः शोणितं बहु साध्याः प्राचीं सगन्धर्वा वसवो दक्षिणां दिशम् प्रजग्मुः सहिता रुद्रैः पतगेन्द्रप्रधर्षिताः दिशं प्रतीचीम् आदित्या नासत्या उत्तरां दिशम् मुहुर् मुहुः प्रेक्षमाणा युध्यमाना महौजसम् अश्वक्रन्देन वीरेण रेणुकेन च पक्षिणा बलाकेन च शूरेण घसेन प्रघसेन च क्रथनेन च शूरेण तपनेन च खेचरः सुपर्णेन च शूरेण श्वसनेन च पक्षिराट् उलूकश्वसनाभ्यां च निमेषेण च पक्षिणा प्ररुजेन च संयुद्धं चकार प्रलिहेन च तान् पक्षनखतुण्डाग्रैर् अभिनद् विनतासुतः युगान्तकाले संक्रुद्धः पिनाकीव महाबलः महावीर्या महोत्साहास् तेन ते बहुधा क्षताः रेजुर् अभ्रघनप्रख्या रुधिरौघप्रवर्षिणः तान् कृत्वा पतगश्रेष्ठः सर्वान् उत्क्रान्तजीवितान् अतिक्रान्तो ऽमृतस्यार्थे सर्वतो ऽग्निम् अपश्यत आवृण्वानं महाज्वालम् अर्चिर्भिः सर्वतो ऽम्बरम् दहन्तम् इव तीक्ष्णांशुं घोरं वायुसमीरितम् नभः स्पृशन्तं ज्वालाभिः सर्वभूतभयंकरम् ततो नवत्या नवतीर् मुखानां; कृत्वा तरस्वी गरुडो महात्मा मुखं सहस्रं स चकार पक्षी नदीयुतं वह्निविनाशहेतोः महायुतैस् तैः सबलैर् महात्मा तम् अग्निम् इद्धं शमयां चकार नदीः समापीय मुखैस् ततस् तैः; सुशीघ्रम् आगम्य पुनर् जवेन ज्वलन्तम् अग्निं तम् अमित्रतापनः; समास्तरत् पत्ररथो नदीभिः ततः प्रचक्रे वपुर् अन्यद् अल्पं; प्रवेष्टुकामो ऽग्निम् अभिप्रशाम्य सूत उवाच जाम्बूनदमयो भूत्वा मरीचिविकचोज्ज्वलः प्रविवेश बलात् पक्षी वारिवेग इवार्णवम् स चक्रं क्षुरपर्यन्तम् अपश्यद् अमृतान्तिके परिभ्रमन्तम् अनिशं तीक्ष्णधारम् अयस्मयम् ज्वलनार्कप्रभं घोरं छेदनं सोमहारिणाम् घोररूपं तद् अत्यर्थं यन्त्रं देवैः सुनिर्मितम् तस्यान्तरं स दृष्ट्वैव पर्यवर्तत खेचरः अरान्तरेणाभ्यपतत् संक्षिप्याङ्गं क्षणेन ह अधश् चक्रस्य चैवात्र दीप्तानलसमद्युती विद्युज्जिह्वौ महाघोरौ दीप्तास्यौ दीप्तलोचनौ चक्षुर्विषौ महावीर्यौ नित्यक्रुद्धौ तरस्विनौ रक्षार्थम् एवामृतस्य ददर्श भुजगोत्तमौ सदा संरब्धनयनौ सदा चानिमिषेक्षणौ तौ दृष्ट्वा सहसा खेदं जगाम विनतात्मजः कथम् एतौ महावीर्यौ जेतव्यौ हरिभोजिनौ इति संचिन्त्य गरुडस् तयोस् तूर्णं निराकरः तयोर् एको ऽपि यं पश्येत् स तूर्णं भस्मसाद् भवेत् तयोश् चक्षूंषि रजसा सुपर्णस् तूर्णम् आवृणोत् अदृष्टरूपस् तौ चापि सर्वतः पर्यकालयत् तयोर् अङ्गे समाक्रम्य वैनतेयो ऽन्तरिक्षगः आच्छिनत् तरसा मध्ये सोमम् अभ्यद्रवत् ततः समुत्पाट्यामृतं तत् तु वैनतेयस् ततो बली उत्पपात जवेनैव यन्त्रम् उन्मथ्य वीर्यवान् अपीत्वैवामृतं पक्षी परिगृह्याशु वीर्यवान् अगच्छद् अपरिश्रान्त आवार्यार्कप्रभां खगः विष्णुना तु तदाकाशे वैनतेयः समेयिवान् तस्य नारायणस् तुष्टस् तेनालौल्येन कर्मणा तम् उवाचाव्ययो देवो वरदो ऽस्मीति खेचरम् स वव्रे तव तिष्ठेयम् उपरीत्य् अन्तरिक्षगः उवाच चैनं भूयो ऽपि नारायणम् इदं वचः अजरश् चामरश् च स्याम् अमृतेन विनाप्य् अहम् एवम् अस्त्व् इति तं विष्णुर् उवाच विनतासुतम् प्रतिगृह्य वरौ तौ च गरुडो विष्णुम् अब्रवीत् भवते ऽपि वरं दद्मि वृणीतां भगवान् अपि तं वव्रे वाहनं कृष्णो गरुत्मन्तं महाबलम् ध्वजं च चक्रे भगवान् उपरि स्थास्यसीति तम् एवम् अस्त्व् इति तं देवम् उक्त्वा नारायणं खगः वव्राज तरसा वेगाद् वायुं स्पर्धन् महाजवः तथेत्य् एवाब्रवीत् पक्षी भगवन्तं सनातनम् एतस्मिन्न् एव काले तु भगवान् हरिवाहनः अनुपत्य खगं त्व् इन्द्रो वज्रेणाङ्गे ऽभ्यताडयत् विहंगमं सुरामित्रं हरन्तम् अमृतं बलात् तम् उवाचेन्द्रम् आक्रन्दे गरुडः पततां वरः प्रहसञ् श्लक्ष्णया वाचा तथा वज्रसमाहतः ऋषेर् मानं करिष्यामि वज्रं यस्यास्थिसंभवम् वज्रस्य च करिष्यामि तव चैव शतक्रतो एष पत्रं त्यजाम्य् एकं यस्यान्तं नोपलप्स्यसे तस्याग्रखण्डाद् अभवन् मयूरो मध्ये द्विवक्त्रा भुजगेन्द्रराजी मूले च शत्रुर् नकुलः फणीनां ते वै त्रयः सर्पविषापहा[ः] स्मृताः न हि वज्रनिपातेन रुजा मे ऽस्ति कदा चन एवम् उक्त्वा ततः पत्रम् उत्ससर्ज स पक्षिराट् तद् उत्सृष्टम् अभिप्रेक्ष्य तस्य पर्णम् अनुत्तमम् इत्य् एवम् उक्त्वा गरुडः पत्रं चैकं व्यसर्जयत् तत्र तं सर्वभूतानि विस्मितान्य् अब्रुवंस् तदा सुरूपं पत्रम् आलक्ष्य सुपर्णो ऽयं भवत्व् इति त्रिधा कृत्वा तदा वज्रं गतं स्थानं स्वम् एव हि दृष्ट्वा तद् अद्भुतं चापि सहस्राक्षः पुरंदरः खगो महद् इदं भूतम् इति मत्वाभ्यभाषत बलं विज्ञातुम् इच्छामि यत् ते परम् अनुत्तमम् सख्यं चानन्तम् इच्छामि त्वया सह खगोत्तम इत्य् एवम् उक्तो गरुडः प्रत्युवाच शचीपतिम् गरुड उवाच सख्यं मे ऽस्तु त्वया देव यथेच्छसि पुरंदर बलं तु मम जानीहि महच् चासह्यम् एव च कामं नैतत् प्रशंसन्ति सन्तः स्वबलसंस्तवम् अनिमित्तं सुरश्रेष्ठ सद्यः प्राप्नोति गर्हणाम् गुणसंकीर्तनं चापि स्वयम् एव शतक्रतो पृष्टेनान्येन गोपते | वक्तव्यं न तु वक्तव्यं सखेति कृत्वा तु सखे पृष्टो वक्ष्याम्य् अहं त्वया न ह्य् आत्मस्तवसंयुक्तं वक्तव्यम् अनिमित्ततः सपर्वतवनाम् उर्वीं ससागरवनाम् इमाम् पक्षनाड्यैकया शक्र त्वां चैवात्रावलम्बिनम् सर्वान् संपिण्डितान् वापि लोकान् सस्थाणुजङ्गमान् वहेयम् अपरिश्रान्तो विद्धीदं मे महद् बलम् अष्टौ भूमीर् नव दिवस् त्रीन् समुद्राञ् शचीपते परः सहस्रान् पर्वतान् वहेयं कामयेथ चेत् सूत उवाच इत्य् उक्तवचनं वीरं किरीटी श्रीमतां वरः आह शौनक देवेन्द्रः सर्वभूतहितः प्रभुः शक्र उवाच एवम् एव यथात्थ त्वं सर्वं संभाव्यते त्वयि प्रतिगृह्यताम् इदानीं मे सख्यम् आनन्त्यम् उत्तमम् न कार्यं तव सोमेन मम सोमः प्रदीयताम् अस्मांस् ते हि प्रबाधेयुर् येभ्यो दद्याद् भवान् इमम् गरुड उवाच किं चित् कारणम् उद्दिश्य सोमो ऽयं नीयते मया न दास्यामि समादातुं सोमं कस्मै चिद् अप्य् अहम् यत्रेमं तु सहस्राक्ष निक्षिपेयम् अहं स्वयम् त्वम् आदाय ततस् तूर्णं हरेथास् त्रिदशेश्वर शक्र उवाच वाक्येनानेन तुष्टो ऽहं यत् त्वयोक्तम् इहाण्डज यद् इच्छसि वरं मत्तस् तद् गृहाण खगोत्तम सूत उवाच इत्य् उक्तः प्रत्युवाचेदं कद्रूपुत्रान् अनुस्मरन् स्मृत्वा चैवोपधिकृतं मातुर् दास्यनिमित्ततः ईशो ऽहम् अपि सर्वस्य करिष्यामि तु ते ऽर्थिताम् भवेयुर् भुजगाः शक्र मम भक्ष्या महाबलाः तथेत्य् उक्त्वान्वगच्छत् तं ततो दानवसूदनः देवदेवं महात्मानं योगिनाम् ईश्वरं हरिम् स चान्वमोदत् तत् सर्वं यथोक्तं गरुडेन वै इदं भूयो वचः प्राह भगवांस् त्रिदशेश्वरः हरिष्यामि विनिक्षिप्तं सोमम् इत्य् अनुभाष्य तम् आजगाम ततस् तूर्णं सुपर्णो मातुर् अन्तिकम् गरुडः विनता विनयावनतो भूत्वा वचनं चेदम् अब्रवीत् इदम् आनीतम् अमृतं देवानां भवनान् मया प्रशाधि किम् अतो मातः करिष्यामि शुभव्रते परितुष्टाहम् एतेन कर्मणा तव पुत्रक अजरश् चामरश् चैव देवानां सुप्रियो भव अथ सर्पान् उवाचेदं सर्वान् परमहृष्टवत् इदम् आनीतम् अमृतं निक्षेप्स्यामि कुशेषु वः स्नाता मङ्गलसंयुक्तास् ततः प्राश्नीत पन्नगाः भवद्भिर् इदम् आसीनैर् यद् उक्तं तद् वचस् तदा अदासी चैव मातेयम् अद्यप्रभृति चास्तु मे यथोक्तं भवताम् एतद् वचो मे प्रतिपादितम् ततः स्नातुं गताः सर्पाः प्रत्युक्त्वा तं तथेत्य् उत शक्रो ऽप्य् अमृतम् आक्षिप्य जगाम त्रिदिवं पुनः अथागतास् तम् उद्देशं सर्पाः सोमार्थिनस् तदा स्नाताश् च कृतजप्याश् च प्रहृष्टाः कृतमङ्गलाः यत्रैतद् अमृतं चापि स्थापितं कुशसंस्तरे परस्परकृतद्वेषाः सोमप्राशनकर्मणि अहं पूर्वम् अहं पूर्वम् इत्य् उक्त्वा ते समाद्रवन् तद् विज्ञाय हृतं सर्पाः प्रतिमायाकृतं च तत् सोमस्थानम् इदं चेति दर्भांस् ते लिलिहुस् तदा ततो द्वैधीकृता जिह्वा सर्पाणां तेन कर्मणा अभवंश् चामृतस्पर्शाद् दर्भास् ते ऽथ पवित्रिणः एवं तद् अमृतं तेन हृतम् आहृतम् एव च द्विजिह्वाश् च कृताः सर्पा गरुडेन महात्मना नागाश् च वञ्चिता भूत्वा विसृज्य विनतां तदा विषादम् अगमंस् तीव्रं गरुडस्य बलात् प्रभो ततः सुपर्णः परमप्रहृष्टवान्; विहृत्य मात्रा सह तत्र कानने भुजंगभक्षः परमार्चितः खगैर्; अहीनकीर्तिर् विनताम् अनन्दयत् इमां कथां यः शृणुयान् नरः सदा; पठेत वा द्विजजनमुख्यसंसदि असंशयं त्रिदिवम् इयात् स पुण्यभाङ्; महात्मनः पतगपतेः प्रकीर्तनात् न चाग्निजं चोरनृपाश्रयं वा; क्षुत्सर्पवेतालपिशाचजं वा भयं भवेद् यत्र गृहे गरुत्मतो; तिष्ठेत् कथेयं लिखितापि पुस्तके यः संस्मरेन् नित्यम् अतन्द्रितो नरो; गरुत्मतो मूर्तिम् अथार्चयेद् गृहे ॐ पक्षिराजेति जपंश् च सर्वदा; तस्याशु सर्पा वशगा भवन्ति शौनक उवाच भुजंगमानां शापस्य मात्रा चैव सुतेन च विनतायास् त्वया प्रोक्तं कारणं सूतनन्दन वरप्रदानं भर्त्रा च कद्रूविनतयोस् तथा नामनी चैव ते प्रोक्ते पक्षिणोर् वैनतेययोः पन्नगानां तु नामानि न कीर्तयसि सूतज प्राधान्येनापि नामानि श्रोतुम् इच्छामहे वयम् सूत उवाच बहुत्वान् नामधेयानि भुजगानां तपोधन न कीर्तयिष्ये सर्वेषां प्राधान्येन तु मे शृणु शेषः प्रथमतो जातो वासुकिस् तदनन्तरम् ऐरावतस् तक्षकश् च कर्कोटकधनंजयौ कालियो मणिनागश् च नागश् चापूरणस् तथा नागस् तथा पिञ्जरक एलापत्रो ऽथ वामनः नीलानीलौ तथा नागौ कल्माषशबलौ तथा आर्यकश् चादिकश् चैव नागश् च शलपोतकः सुमनोमुखो दधिमुखस् तथा विमलपिण्डकः आप्तः कोटनकश् चैव शङ्खो वालशिखस् तथा निष्ठ्यूनको हेमगुहो नहुषः पिङ्गलस् तथा बाह्यकर्णो हस्तिपदस् तथा मुद्गरपिण्डकः कम्बलाश्वतरौ चापि नागः कालीयकस् तथा वृत्तसंवर्तकौ नागौ द्वौ च पद्माव् इति श्रुतौ नागः शङ्खनकश् चैव तथा च स्फण्डको ऽपरः क्षेमकश् च महानागो नागः पिण्डारकस् तथा विप्रस्यावज्ञया शक्रो मातुः सर्पा विपद्गताः सुपर्णस् तूभयप्रीत्या हरेर् अप्य् उपरि स्थितः करवीरः पुष्पदंष्ट्र एऌअको बिल्वपाण्डुकः मूषकादः शङ्खशिराः पूर्णदंष्ट्रो हरिद्रकः अपराजितो ज्योतिकश् च पन्नगः श्रीवहस् तथा कौरव्यो धृतराष्ट्रश् च पुष्करः शल्यकस् तथा विरजाश् च सुबाहुश् च शालिपिण्डश् च वीर्यवान् हस्तिभद्रः पिठरको मुखरः कोणवासनः कुञ्जरः कुररश् चैव तथा नागः प्रभाकरः कुमुदः कुमुदाक्षश् च तित्तिरिर् हलिकस् तथा सुमुखो विमुखश् चैव विमुखो ऽसिमुखस् तथा कर्दमश् च महानागो नागश् च बहुमूलकः कर्कराकर्करौ चोभौ कुण्डोदरमहोदरौ एते प्राधान्यतो नागाः कीर्तिता द्विजसत्तम बहुत्वान् नामधेयानाम् इतरे न प्रकीर्तिताः एतेषां प्रसवो यश् च प्रसवस्य च संततिः असंख्येयेति मत्वा तान् न ब्रवीमि द्विजोत्तम बहूनीह सहस्राणि प्रयुतान्य् अर्बुदानि च अशक्यान्य् एव संख्यातुं भुजगानां तपोधन शौनक उवाच जाता वै भुजगास् तात वीर्यवन्तो दुरासदाः शापं तं त्व् अथ विज्ञाय कृतवन्तो नु किं परम् कश् च तेषां भवेन् मन्त्रः सर्पाणां सूतनन्दन किं वा कार्यम् अकुर्वन्त शापजं भुजगोत्तमाः वासुकिश् चापि नागेन्द्रो महाप्राज्ञः किम् आचरत् सूत उवाच तेषां तु भगवाञ् शेषस् त्यक्त्वा कद्रूं महायशाः तपो विपुलम् आतस्थे वायुभक्षो यतव्रतः गन्धमादनम् आसाद्य बदर्यां च तपोरतः गोकर्णे पुष्करारण्ये तथा हिमवतस् तटे तेषु तेषु च पुण्येषु तीर्थेष्व् आयतनेषु च एकान्तशीली नियतः सततं विजितेन्द्रियः शीतवातातपसहः परित्यक्तप्रियाप्रियः धर्मे मनः समाधाय स्नाने त्रिषवणे तथा तप्यमानं तपो घोरं तं ददर्श पितामहः परिशुष्कमांसत्वक्स्नायुं जटाचीरधरं प्रभुम् तम् अब्रवीत् सत्यधृतिं तप्यमानं पितामहः किम् इदं कुरुषे शेष प्रजानां स्वस्ति वै कुरु त्वं हि तीव्रेण तपसा प्रजास् तापयसे ऽनघ ब्रूहि कामं च मे शेष यत् ते हृदि चिरं स्थितम् शेष उवाच सोदर्या मम सर्वे हि भ्रातरो मन्दचेतसः सह तैर् नोत्सहे वस्तुं तद् भवान् अनुमन्यताम् अभ्यसूयन्ति सततं परस्परम् अमित्रवत् ततो ऽहं तप आतिष्ठे नैतान् पश्येयम् इत्य् उत न मर्षयन्ति सततं विनतां ससुतां च ते अस्माकं चापरो भ्राता वैनतेयः पितामह तं च द्विषन्ति ते ऽत्यर्थं स चापि सुमहाबलः वरप्रदानात् स पितुः कश्यपस्य महात्मनः सो ऽहं तपः समास्थाय मोक्ष्यामीदं कलेवरम् कथं मे प्रेत्यभावे ऽपि न तैः स्यात् सह संगमः तम् एवंवादिनं शेषं पितामह उवाच ह ब्रह्मोवाच जानामि शेष सर्वेषां भ्रातॄणां ते विचेष्टितम् मातुश् चाप्य् अपराधाद् वै भ्रातॄणां ते महद् भयम् कृतो ऽत्र परिहारश् च पूर्वम् एव भुजंगम भ्रातॄणां तव सर्वेषां न शोकं कर्तुम् अर्हसि शापात् तस्मान् महाघोराद् उक्तान् मात्रा महाबल वृणीष्व च वरं मत्तः शेष यत् ते ऽभिकाङ्क्षितम् दित्सामि हि वरं ते ऽद्य प्रीतिर् मे परमा त्वयि दिष्ट्या च बुद्धिर् धर्मे ते निविष्टा पन्नगोत्तम अतो भूयश् च ते बुद्धिर् धर्मे भवतु सुस्थिरा शेष उवाच एष एव वरो मे ऽद्य काङ्क्षितः प्रपितामह धर्मे मे रमतां बुद्धिः शमे तपसि चेश्वर ब्रह्मोवाच प्रीतो ऽस्म्य् अनेन ते शेष दमेन प्रशमेन च त्वया त्व् इदं वचः कार्यं मन्नियोगात् प्रजाहितम् इमां महीं शैलवनोपपन्नां; ससागरां साकरपत्तनां च त्वं शेष सम्यक् चलितां यथावत्; संगृह्य तिष्ठस्व यथाचला स्यात् अन्यम् एव वरं दद्मि तवाहं भुजगोत्तम इमां त्वं सकलां पृथ्वीं मूर्ध्ना संधारयिष्यसि शेष उवाच यथाह देवो वरदः प्रजापतिर्; महीपतिर् भूतपतिर् जगत्पतिः तथा महीं धारयितास्मि निश्चलां; प्रयच्छ तां मे शिरसि प्रजापते ब्रह्मोवाच अधो महीं गच्छ भुजंगमोत्तम; स्वयं तवैषा विवरं प्रदास्यति इमां धरां धारयता त्वया हि मे; महत् प्रियं शेष कृतं भविष्यति सूत उवाच तथेति कृत्वा विवरं प्रविश्य स; प्रभुर् भुवो भुजगवराग्रजः स्थितः बिभर्ति देवीं शिरसा महीम् इमां; समुद्रनेमिं परिगृह्य सर्वतः ब्रह्मोवाच शेषो ऽसि नागोत्तम धर्मदेवो; महीम् इमां धारयसे यद् एकः अनन्तभोगः परिगृह्य सर्वां; यथाहम् एवं बलभिद् यथा वा सूत उवाच अधो भूमेर् वसत्य् एवं नागो ऽनन्तः प्रतापवान् धारयन् वसुधाम् एकः शासनाद् ब्रह्मणो विभुः सुपर्णं च सखायं वै भगवान् अमरोत्तमः प्रादाद् अनन्ताय तदा वैनतेयं पितामहः अनन्ते ऽभिप्रयाते तु वासुकिः स महाबलः अभ्यषिच्यत नागैस् तु दैवतैर् इव वासवः सूत उवाच मातुः सकाशात् तं शापं श्रुत्वा पन्नगसत्तमः वासुकिश् चिन्तयाम् आस शापो ऽयं न भवेत् कथम् ततः स मन्त्रयाम् आस भ्रातृभिः सह सर्वशः ऐरावतप्रभृतिभिर् ये स्म धर्मपरायणाः वासुकिर् उवाच अयं शापो यथोद्दिष्टो विदितं वस् तथानघाः तस्य शापस्य मोक्षार्थं मन्त्रयित्वा यतामहे सर्वेषाम् एव शापानां प्रतिघातो हि विद्यते न तु मात्राभिशप्तानां मोक्षो विद्येत पन्नगाः आराध्य तु जगन्नाथं ब्रह्माणं पन्नगोत्तमाः मातृशापविमोक्षार्थं न शेषो लब्धवान् वरम् अव्ययस्याप्रमेयस्य सत्यस्य च तथाग्रतः शप्ता इत्य् एव मे श्रुत्वा जायते हृदि वेपथुः नूनं सर्वविनाशो ऽयम् अस्माकं समुदाहृतः शापः सृष्टो महाघोरो मात्रा खल्व् अविनीतया न ह्य् एनां सो ऽव्ययो देवः शपन्तीं प्रत्यषेधयत् तस्मात् संमन्त्रयामो ऽत्र भुजगानाम् अनामयम् यथा भवेत सर्वेषां मा नः कालो ऽत्यगाद् अयम् सर्व एव हि नस् तावद् बुद्धिमन्तो विचक्षणाः अपि मन्त्रयमाणा हि हेतुं पश्याम मोक्षणे यथा नष्टं पुरा देवा गूढम् अग्निं गुहागतम् यथा स यज्ञो न भवेद् यथा वापि पराभवेत् जनमेजयस्य सर्पाणां विनाशकरणाय हि सूत उवाच तथेत्य् उक्त्वा तु ते सर्वे काद्रवेयाः समागताः समयं चक्रिरे तत्र मन्त्रबुद्धिविशारदाः तेषु तत्रोपविष्टेषु पन्नगेषु द्विजोत्तम एलापत्रो ऽब्रवीत् तेषां मन्त्रविद्योत्तमो बलैः एके तत्राब्रुवन् नागा वयं भूत्वा द्विजर्षभाः जनमेजयं तं भिक्षामो यज्ञस् ते न भवेद् इति अपरे त्व् अब्रुवन् नागास् तत्र पण्डितमानिनः मन्त्रिणो ऽस्य वयं सर्वे भविष्यामः सुसंमताः स नः प्रक्ष्यति सर्वेषु कार्येष्व् अर्थविनिश्चयम् तत्र बुद्धिं प्रवक्ष्यामो यथा यज्ञो निवर्तते स नो बहुमतान् राजा बुद्ध्वा बुद्धिमतां वरः यज्ञार्थं प्रक्ष्यति व्यक्तं नेति वक्ष्यामहे वयम् दर्शयन्तो बहून् दोषान् प्रेत्य चेह च दारुणान् हेतुभिः कारणैश् चैव यथा यज्ञो भवेन् न सः अथवा य उपाध्यायः क्रतौ तस्मिन् भविष्यति सर्पसत्रविधानज्ञो राजकार्यहिते रतः तं गत्वा दशतां कश् चिद् भुजगः स मरिष्यति तस्मिन् हते यज्ञकरे क्रतुः स न भविष्यति ये चान्ये सर्पसत्रज्ञा भविष्यन्त्य् अस्य ऋत्विजः तांश् च सर्वान् दशिष्यामः कृतम् एवं भविष्यति तत्रापरे ऽमन्त्रयन्त धर्मात्मानो भुजंगमाः अबुद्धिर् एषा युष्माकं ब्रह्महत्या न शोभना सम्यक् सद्धर्ममूला हि व्यसने शान्तिर् उत्तमा अधर्मोत्तरता नाम कृत्स्नं व्यापादयेज् जगत् अपरे त्व् अब्रुवन् नागाः समिद्धं जातवेदसम् वर्षैर् निर्वापयिष्यामो मेघा भूत्वा सविद्युतः स्रुग्भाण्डं निशि गत्वा वा अपरे भुजगोत्तमाः प्रमत्तानां हरन्त्व् आशु विघ्न एवं भविष्यति यज्ञे वा भुजगास् तस्मिञ् शतशो ऽथ सहस्रशः जनं दशन्तु वै सर्वम् एवं त्रासो भविष्यति अथवा संस्कृतं भोज्यं दूषयन्तु भुजंगमाः स्वेन मूत्रपुरीषेण सर्वभोज्यविनाशिना अपरे त्व् अब्रुवंस् तत्र ऋत्विजो ऽस्य भवामहे यज्ञविघ्नं करिष्यामो दीयतां दक्षिणा इति वश्यतां च गतो ऽसौ नः करिष्यति यथेप्षितम् अपरे त्व् अब्रुवंस् तत्र जले प्रक्रीडितं नृपम् गृहम् आनीय बध्नीमः क्रतुर् एवं भवेन् न सः अपरे त्व् अब्रुवंस् तत्र नागाः सुकृतकारिणः दशामैनं प्रगृह्याशु कृतम् एवं भविष्यति छिन्नं मूलम् अनर्थानां मृते तस्मिन् भविष्यति एषा वै नैष्ठिकी बुद्धिः सर्वेषाम् एव संमता यथा वा मन्यसे राजंस् तत् क्षिप्रं संविधीयताम् इत्य् उक्त्वा समुदैक्षन्त वासुकिं पन्नगेश्वरम् वासुकिश् चापि संचिन्त्य तान् उवाच भुजंगमान् नैषा वो नैष्ठिकी बुद्धिर् मता कर्तुं भुजंगमाः सर्वेषाम् एव मे बुद्धिः पन्नगानां न रोचते किं त्व् अत्र संविधातव्यं भवतां यद् भवेद् धितम् श्रेयः प्रसादनं मन्ये कश्यपस्य महात्मनः ज्ञातिवर्गस्य सौहार्दाद् आत्मनश् च भुजंगमाः न च जानाति मे बुद्धिः किं चित् कर्तुं वचो हि वः मया हीदं विधातव्यं भवतां यद् धितं भवेत् अनेनाहं भृशं तप्ये गुणदोषौ मदाश्रयौ सूत उवाच श्रुत्वा तु वचनं तेषां सर्वेषाम् इति चेति च वासुकेश् च वचः श्रुत्वा एलापत्रो ऽब्रवीद् इदम् प्राग् एव दर्शिता बुद्धिर् मयैषा भुजगोत्तमाः हेयेति यदि वो बुद्धिस् तवापि च तथा प्रभो अस्तु कामं ममाद्यापि बुद्धिः स्मरणम् आगता तां शृणुष्व प्रवक्ष्यामि यथातथ्येन पन्नगाः न स यज्ञो न भविता न स राजा तथाविधः जनमेजयः पाण्डवेयो यतो ऽस्माकं महाभयम् दैवेनोपहतो राजन् यो भवेद् इह पूरुषः स दैवम् एवाश्रयते नान्यत् तत्र परायणम् तद् इदं दैवम् अस्माकं भयं पन्नगसत्तमाः दैवम् एवाश्रयामो ऽत्र शृणुध्वं च वचो मम अहं शापे समुत्सृष्टे समश्रौषं वचस् तदा मातुर् उत्सङ्गम् आरूढो भयात् पन्नगसत्तमाः देवानां पन्नगश्रेष्ठास् तीक्ष्णास् तीक्ष्णा इति प्रभो शापदुःखाग्नितप्तानां पन्नगानाम् अनामयम् कृपया परयाविष्टाः प्रार्थयन्तो दिवौकसः पितामहम् उपागम्य दुःखार्तानां महाद्युते देवा ऊचुः का हि लब्ध्वा प्रियान् पुत्राञ् शपेद् एवं पितामह ऋते कद्रूं तीक्ष्णरूपां देवदेव तवाग्रतः तथेति च वचस् तस्यास् त्वयाप्य् उक्तं पितामह एतद् इच्छाम विज्ञातुं कारणं यन् न वारिता ब्रह्मोवाच बहवः पन्नगास् तीक्ष्णा भीमवीर्या विषोल्बणाः प्रजानां हितकामो ऽहं न निवारितवांस् तदा ये दन्दशूकाः क्षुद्राश् च पापचारा विषोल्बणाः तेषां विनाशो भविता न तु ये धर्मचारिणः यन्निमित्तं च भविता मोक्षस् तेषां महाभयात् पन्नगानां निबोधध्वं तस्मिन् काले तथागते यायावरकुले धीमान् भविष्यति महान् ऋषिः जरत्कारुर् इति ख्यातस् तेजस्वी नियतेन्द्रियः तस्य पुत्रो जरत्कारोर् उत्पत्स्यति महातपाः आस्तीको नाम यज्ञं स प्रतिषेत्स्यति तं तदा तत्र मोक्ष्यन्ति भुजगा ये भविष्यन्ति धार्मिकाः देवा ऊचुः स मुनिप्रवरो देव जरत्कारुर् महातपाः कस्यां पुत्रं महात्मानं जनयिष्यति वीर्यवान् ब्रह्मोवाच वासुकेर् भगिनी कन्या समुत्पन्ना सुशोभना तस्मै दास्यति तां कन्यां वासुकिर् भुजगोत्तमः तस्यां जनयिता पुत्रं वेदवेदाङ्गपारगम् सनामायां सनामा स कन्यायां द्विजसत्तमः अपत्यं वीर्यवान् देवा वीर्यवज् जनयिष्यति वासुकेः सर्पराजस्य जरत्कारुः स्वसा किल स तस्यां भविता पुत्रः शापान् नागांश् च मोक्ष्यति एलापत्र उवाच एवम् अस्त्व् इति तं देवाः पितामहम् अथाब्रुवन् उक्त्वा चैवं गता देवाः स च देवः पितामहः सो ऽहम् एवं प्रपश्यामि वासुके भगिनीं तव जरत्कारुर् इति ख्यातां तां तस्मै प्रतिपादय भैक्षवद् भिक्षमाणाय नागानां भयशान्तये ऋषये सुव्रताय त्वम् एष मोक्षः श्रुतो मया सूत उवाच एलापत्रस्य तु वचः श्रुत्वा नागा द्विजोत्तम सर्वे प्रहृष्टमनसः साधु साध्व् इत्य् अपूजयन् ततः प्रभृति तां कन्यां वासुकिः पर्यरक्षत जरत्कारुं स्वसारं वै परं हर्षम् अवाप च ततो नातिमहान् कालः समतीत इवाभवत् अथ देवासुराः सर्वे ममन्थुर् वरुणालयम् तत्र नेत्रम् अभून् नागो वासुकिर् बलिनां वरः समाप्यैव च तत् कर्म पितामहम् उपागमन् देवा वासुकिना सार्धं पितामहम् अथाब्रुवन् भगवञ् शापभीतो ऽयं वासुकिस् तप्यते भृशम् तस्येदं मानसं शल्यं समुद्धर्तुं त्वम् अर्हसि जनन्याः शापजं देव ज्ञातीनां हितकाङ्क्षिणः हितो ह्य् अयं सदास्माकं प्रियकारी च नागराट् कुरु प्रसादं देवेश शमयास्य मनोज्वरम् ब्रह्मोवाच मयैवैतद् वितीर्णं वै वचनं मनसामराः एलापत्रेण नागेन यद् अस्याभिहितं पुरा मातृशापो नान्यथायं कर्तुं शक्यो मया सुराः यस्मान् माता गुरुतरी सर्वेषाम् एव देहिनाम् तत् करोत्व् एष नागेन्द्रः प्राप्तकालं वचस् तथा विनशिष्यन्ति ये पापा न तु ये धर्मचारिणः उत्पन्नः स जरत्कारुस् तपस्य् उग्रे रतो द्विजः तस्यैष भगिनीं काले जरत्कारुं प्रयच्छतु यद् एलापत्रेण वचस् तदोक्तं भुजगेन ह पन्नगानां हितं देवास् तत् तथा न तद् अन्यथा सूत उवाच एतच् छ्रुत्वा स नागेन्द्रः पितामहवचस् तदा संदिश्य पन्नगान् सर्वान् वासुकिः शापमोहितः स्वसारम् उद्यम्य तदा जरत्कारुम् ऋषिं प्रति सर्पान् बहूञ् जरत्कारौ नित्ययुक्तान् समादधत् जरत्कारुर् यदा भार्याम् इच्छेद् वरयितुं प्रभुः शीघ्रम् एत्य ममाख्येयं तन् नः श्रेयो भविष्यति शौनक उवाच जरत्कारुर् इति प्रोक्तं यत् त्वया सूतनन्दन इच्छाम्य् एतद् अहं तस्य ऋषेः श्रोतुं महात्मनः किं कारणं जरत्कारोर् नामैतत् प्रथितं भुवि जरत्कारुनिरुक्तं त्वं यथावद् वक्तुम् अर्हसि तत् तस्य वचनं श्रुत्वा प्रोवाच स महाद्युतिः सूत उवाच जरेति क्षयम् आहुर् वै दारुणं कारुसंज्ञितम् शरीरं कारु तस्यासीत् तत् स धीमाञ् शनैः शनैः क्षपयाम् आस तीव्रेण तपसेत्य् अत उच्यते जरत्कारुर् इति ब्रह्मन् वासुकेर् भगिनी तथा एवम् उक्तस् तु धर्मात्मा शौनकः प्राहसत् तदा उग्रश्रवसम् आमन्त्र्य उपपन्नम् इति ब्रुवन् शौनक उवाच उक्तं नाम यथापूर्वं सर्वं तच् छ्रुतवान् अहम् यथा तु जातो ह्य् आस्तीक एतद् इच्छामि वेदितुम् तच् छ्रुत्वा वचनं तस्य सूतः प्रोवाच शास्त्रतः सूत उवाच संदिश्य पन्नगान् सर्वान् वासुकिः सुसमाहितः स्वसारम् उद्यम्य तदा जरत्कारुम् ऋषिं प्रति अथ कालस्य महतः स मुनिः संशितव्रतः तपस्य् अभिरतो धीमान् न दारान् अभ्यकाङ्क्षत स ऊर्ध्वरेतास् तपसि प्रसक्तः; स्वाध्यायवान् वीतभयक्लमः सन् चचार सर्वां पृथिवीं महात्मा; न चापि दारान् मनसाप्य् अकाङ्क्षत् ततो ऽपरस्मिन् संप्राप्ते काले कस्मिंश् चिद् एव तु परिक्षिद् इति विख्यातो राजा कौरववंशभृत् यथा पाण्डुर् महाबाहुर् धनुर्धरवरो भुवि बभूव मृगयाशीलः पुरास्य प्रपितामहः तथा विख्यातवांल् लोके परिक्षिद् अभिमन्युजः मृगान् विध्यन् वराहांश् च तरक्षून् महिषांस् तथा अन्यांश् च विविधान् वन्यांश् चचार पृथिवीपतिः स कदा चिन् मृगं विद्ध्वा बाणेन नतपर्वणा पृष्ठतो धनुर् आदाय ससार गहने वने यथा हि भगवान् रुद्रो विद्ध्वा यज्ञमृगं दिवि अन्वगच्छद् धनुष्पाणिः पर्यन्वेषंस् ततस् ततः न हि तेन मृगो विद्धो जीवन् गच्छति वै वनम् पूर्वरूपं तु तन् नूनम् आसीत् स्वर्गगतिं प्रति परिक्षितस् तस्य राज्ञो विद्धो यन् नष्टवान् मृगः दूरं चापहृतस् तेन मृगेण स महीपतिः परिश्रान्तः पिपासार्त आससाद मुनिं वने गवां प्रचारेष्व् आसीनं वत्सानां मुखनिःसृतम् भूयिष्ठम् उपयुञ्जानं फेनम् आपिबतां पयः तम् अभिद्रुत्य वेगेन स राजा संशितव्रतम् अपृच्छद् धनुर् उद्यम्य तं मुनिं क्षुच्छ्रमान्वितः भो भो ब्रह्मन्न् अहं राजा परिक्षिद् अभिमन्युजः मया विद्धो मृगो नष्टः कच्चित् त्वं दृष्टवान् असि स मुनिस् तस्य नोवाच किं चिन् मौनव्रते स्थितः तस्य स्कन्धे मृतं सर्पं क्रुद्धो राजा समासजत् धनुष्कोट्या समुत्क्षिप्य स चैनं समुदैक्षत न च किं चिद् उवाचैनं शुभं वा यदि वाशुभम् स राजा क्रोधम् उत्सृज्य व्यथितस् तं तथागतम् दृष्ट्वा जगाम नगरम् ऋषिस् त्व् आस्ते तथैव सः न हि तं राजशार्दूलं क्षमाशीलो महामुनिः स्वधर्मनिरतं भूपं समाक्षिप्तो ऽप्य् अधर्षयत् न हि तं राजशार्दूलस् तथा धर्मपरायणम् जानाति भरतश्रेष्ठस् तत एनम् अधर्षयत् तरुणस् तस्य पुत्रो ऽभूत् तिग्मतेजा महातपाः शृङ्गी नाम महाक्रोधो दुष्प्रसादो महाव्रतः स देवं परम् ईशानं सर्वभूतहिते रतम् ब्रह्माणम् उपतस्थे वै काले काले सुसंयतः स तेन समनुज्ञातो ब्रह्मणा गृहम् एयिवान् सख्योक्तः क्रीडमानेन स तत्र हसता किल संरम्भी कोपनो ऽतीव विषकल्प ऋषेः सुतः उद्दिश्य पितरं तस्य यच् छ्रुत्वा रोषम् आहरत् ऋषिपुत्रेण नर्मार्थं कृशेन द्विजसत्तम तेजस्विनस् तव पिता तथैव च तपस्विनः शवं स्कन्धेन वहति मा शृङ्गिन् गर्वितो भव व्याहरत्स्व् ऋषिपुत्रेषु मा स्म किं चिद् वचो वदीः अस्मद्विधेषु सिद्धेषु ब्रह्मवित्सु तपस्विषु क्व ते पुरुषमानित्वं क्व ते वाचस् तथाविधाः दर्पजाः पितरं यस् त्वं द्रष्टा शवधरं तथा पित्रा च तव तत् कर्म नानुरूपम् इवात्मनः कृतं मुनिजनश्रेष्ठ येनाहं भृशदुःखितः सूत उवाच एवम् उक्तः स तेजस्वी शृङ्गी कोपसमन्वितः मृतधारं गुरुं श्रुत्वा पर्यतप्यत मन्युना स तं कृशम् अभिप्रेष्क्य सूनृतां वाचम् उत्सृजन् अपृच्छत कथं तातः स मे ऽद्य मृतधारकः अनन्यचेताः सततं विष्णुं देवम् अतोषयत् वन्यान्नभोजी सततं मुनिर् मौनव्रते स्थितः एवंभूतः स तेजस्वी स मे ऽद्य मृतधारकः कृश उवाच राज्ञा परिक्षिता तात मृगयां परिधावता अवसक्तः पितुस् ते ऽद्य मृतः स्कन्धे भुजंगमः शृङ्ग्य् उवाच किं मे पित्रा कृतं तस्य राज्ञो ऽनिष्टं दुरात्मनः ब्रूहि त्वं कृश तत्त्वेन पश्य मे तपसो बलम् कृश उवाच स राजा मृगयां यातः परिक्षिद् अभिमन्युजः ससार मृगम् एकाकी विद्ध्वा बाणेन पत्रिणा न चापश्यन् मृगं राजा चरंस् तस्मिन् महावने पितरं ते स दृष्ट्वैव पप्रच्छानभिभाषिणम् तं स्थाणुभूतं तिष्ठन्तं क्षुत्पिपासाश्रमातुरः पुनः पुनर् मृगं नष्टं पप्रच्छ पितरं तव स च मौनव्रतोपेतो नैव तं प्रत्यभाषत तस्य राजा धनुष्कोट्या सर्पं स्कन्धे समासृजत् शृङ्गिंस् तव पिताद्यासौ तथैवास्ते यतव्रतः सो ऽपि राजा स्वनगरं प्रतियातो गजाह्वयम् सूत उवाच श्रुत्वैवम् ऋषिपुत्रस् तु दिवं स्तब्ध्वेव विष्ठितः कोपसंरक्तनयनः प्रज्वलन्न् इव मन्युना आविष्टः स तु कोपेन शशाप नृपतिं तदा वार्य् उपस्पृश्य तेजस्वी क्रोधवेगबलात्कृतः शृङ्ग्य् उवाच यो ऽसौ वृद्धस्य तातस्य तथा कृच्छ्रगतस्य च स्कन्धे मृतम् अवास्राक्षीत् पन्नगं राजकिल्बिषी तं पापम् अतिसंक्रुद्धस् तक्षकः पन्नगोत्तमः आशीविषस् तिग्मतेजा मद्वाक्यबलचोदितः सप्तरात्रादितो नेता यमस्य सदनं प्रति द्विजानाम् अवमन्तारं कुरूणाम् अयशस्करम् नो चेत् ततस् तक्षको ऽपि यास्यते यममन्दिरम् सूत उवाच इति शप्त्वा नृपं क्रुद्धः शृङ्गी पितरम् अभ्ययात् आसीनं गोचरे तस्मिन् वहन्तं शवपन्नगम् स तम् आलक्ष्य पितरं शृङ्गी स्कन्धगतेन वै शवेन भुजगेनासीद् भूयः क्रोधसमन्वितः दुःखाच् चाश्रूणि मुमुचे पितरं चेदम् अब्रवीत् श्रुत्वेमां धर्षणां तात तव तेन दुरात्मना राज्ञा परिक्षिता कोपाद् अशपं तम् अहं नृपम् यथार्हति स एवोग्रं शापं कुरुकुलाधमः सप्तमे ऽहनि तं पापं तक्षकः पन्नगोत्तमः वैवस्वतस्य भवनं नेता परमदारुणम् तम् अब्रवीत् पिता ब्रह्मंस् तथा कोपसमन्वितम् न मे प्रियं कृतं तात नैष धर्मस् तपस्विनाम् कामं क्रोधं तथा लोभं यस् तपस्वी न शक्नुयात् विजेतुम् अकृतप्रज्ञः स याति नरकं ध्रुवम् त्रिविधं नरकस्येदं द्वारं नाशनम् आत्मनः कामः क्रोधस् तथा लोभस् तस्माद् एतत् त्रयं त्यजेत् यः प्रव्रज्यां गृहीत्वा तु न भवेद् विजितेन्द्रियः वर्षकोटिसहस्राणि स याति नरकं ध्रुवम् वयं तस्य नरेन्द्रस्य विषये निवसामहे न्यायतो रक्षितास् तेन तस्य पापं न रोचये सर्वथा वर्तमानस्य राज्ञो ह्य् अस्मद्विधैः सदा क्षन्तव्यं पुत्र धर्मो हि हतो हन्ति न संशयः यदि राजा न रक्षेत पीडा वै नः परा भवेत् न शक्नुयाम चरितुं धर्मं पुत्र यथासुखम् रक्ष्यमाणा वयं तात राजभिः शास्त्रदृष्टिभिः चरामो विपुलं धर्मं तेषां चांशो ऽस्ति धर्मतः सर्वथा वर्तमानस्य राज्ञः क्षन्तव्यम् एव हि परिक्षित् तु विशेषेण यथास्य प्रपितामहः रक्षत्य् अस्मान् यथा राज्ञा रक्षितव्याः प्रजास् तथा तेनेह क्षुधितेनाद्य श्रान्तेन च तपस्विना अजानता व्रतम् इदं कृतम् एतद् असंशयम् अराजके जनपदे दोषा जायन्ति वै सदा उद्वृत्तं सततं लोकं राजा दण्डेन शास्ति वै दण्डात् प्रतिभयं भूयः शान्तिर् उत्पद्यते तदा नोद्विग्नश् चरते धर्मं नोद्विग्नश् चरते क्रियाम् राज्ञा प्रतिष्ठितो धर्मो धर्मात् स्वर्गः प्रतिष्ठितः राज्ञो यज्ञक्रियाः सर्वा यज्ञाद् देवाः प्रतिष्ठिताः देवाद् वृष्टिः प्रवर्तेत वृष्टेर् ओषधयः स्मृताः ओषधिभ्यो मनुष्याणां धारयन् सततं हितम् मनुष्याणां च यो धाता राजा राज्यकरः पुनः दशश्रोत्रियसमो राजा इत्य् एवं मनुर् अब्रवीत् तस्माद् इदं त्वया बाल्यात् सहसा दुष्कृतं कृतम् न ह्य् अर्हति नृपः शापम् अस्मत्तः पुत्र सर्वथा क्रोधात् शापम् उत्सृजता तपोहानिर् अनुत्तमा कृतात्मनस् त्वया तात विप्रेणेव प्रतिग्रहात् अतो ऽहं त्वां प्रब्रवीमि शापो ऽस्य न भवेद् यथा परिक्षितो महाभाग तथा कुरु यतव्रत शृङ्ग्य् उवाच यद्य् एतत् साहसं तात यदि वा दुष्कृतं कृतम् प्रियं वाप्य् अप्रियं वा ते वाग् उक्ता न मृषा मया नैवान्यथेदं भविता पितर् एष ब्रवीमि ते नाहं मृषा प्रब्रवीमि स्वैरेष्व् अपि कुतः शपन् शमीक उवाच जानाम्य् उग्रप्रभावं त्वां पुत्र सत्यगिरं तथा नानृतं ह्य् उक्तपूर्वं ते नैतन् मिथ्या भविष्यति पित्रा पुत्रो वयःस्थो ऽपि सततं वाच्य एव तु यथा स्याद् गुणसंयुक्तः प्राप्नुयाच् च महद् यशः किं पुनर् बाल एव त्वं तपसा भावितः प्रभो वर्धते च प्रभवतां कोपो ऽतीव महात्मनाम् उत्सीदेयुर् इमे लोकाः क्षमा चास्य प्रतिक्रिया सो ऽहं पश्यामि वक्तव्यं त्वयि धर्मभृतां वर पुत्रत्वं बालतां चैव तवावेक्ष्य च साहसम् स त्वं शमयुतो भूत्वा वन्यम् आहारम् आहरन् चर क्रोधम् इमं त्यक्त्वा नैवं धर्मं प्रहास्यसि क्रोधो हि धर्मं हरति यतीनां दुःखसंचितम् ततो धर्मविहीनानां गतिर् इष्टा न विद्यते ते ऽत्र धन्याः शुभधियो ये धर्मे सततं रताः नराः सुकृतकल्याणा आत्मनः प्रियकाङ्क्षिणः शम एव यतीनां हि क्षमिणां सिद्धिकारकः क्षमावताम् अयं लोकः परश् चैव क्षमावताम् तस्माच् चरेथाः सततं क्षमाशीलो जितेन्द्रियः क्षमया प्राप्स्यसे लोकान् ब्रह्मणः समनन्तरान् मया तु शमम् आस्थाय यच् छक्यं कर्तुम् अद्य वै तत् करिष्ये ऽद्य ताताहं प्रेषयिष्ये नृपाय वै ततो गौरमुखं शिष्यं शीलवन्तं गुणान्वितम् आहूय याहि राजानं वृत्तान्तम् इदम् उच्यताम् मम पुत्रेण शप्तो ऽसि बालेनाकृतबुद्धिना ममेमां धर्षणां त्वत्तः प्रेक्ष्य राजन्न् अमर्षिणा सूत उवाच एवमादिश्य शिष्यं स प्रेषयाम् आस सुव्रतः परिक्षिते नृपतये दयापन्नो महातपाः संदिश्य कुशलप्रश्नं कार्यवृत्तान्तम् एव च शिष्यं गौरमुखं नाम शीलवन्तं समाहितम् सो ऽभिगम्य ततः शीघ्रं नरेन्द्रं कुरुवर्धनम् विवेश भवनं राज्ञः पूर्वं द्वाःस्थैर् निवेदितः पूजितश् च नरेन्द्रेण द्विजो गौरमुखस् ततः आचख्यौ परिविश्रान्तो राज्ञे सर्वम् अशेषतः शमीकवचनं घोरं यथोक्तं मन्त्रिसंनिधौ शमीको नाम राजेन्द्र विषये वर्तते तव ऋषिः परमधर्मात्मा दान्तः शान्तो महातपाः तस्य त्वया नरव्याघ्र सर्पः प्राणैर् वियोजितः अवसक्तो धनुष्कोट्या स्कन्धे भरतसत्तम क्षान्तवांस् तव तत् कर्म पुत्रस् तस्य न चक्षमे तेन शप्तो ऽसि राजेन्द्र पितुर् अज्ञातम् अद्य वै तक्षकः सप्तरात्रेण मृत्युस् ते वै भविष्यति तत्र रक्षां कुरुष्वेति पुनः पुनर् अथाब्रवीत् तद् अन्यथा न शक्यं च कर्तुं केन चिद् अप्य् उत न हि शक्नोति संयन्तुं पुत्रं कोपसमन्वितम् ततो ऽहं प्रेषितस् तेन तव राजन् हितार्थिना इति श्रुत्वा वचो घोरं स राजा कुरुनन्दनः पर्यतप्यत तत् पापं कृत्वा राजा महातपाः तं च मौनव्रतधरं श्रुत्वा मुनिवरं तदा भूय एवाभवद् राजा शोकसंतप्तमानसः अनुक्रोशात्मतां तस्य शमीकस्यावधार्य तु पर्यतप्यत भूयो ऽपि कृत्वा तत् किल्बिषं मुनेः न हि मृत्युं तथा राजा श्रुत्वा वै सो ऽन्वतप्यत अशोचद् अमरप्रख्यो यथा कृत्वेह कर्म तत् ततस् तं प्रेषयाम् आस राजा गौरमुखं तदा भूयः प्रसादं भगवान् करोत्व् इति ममेति वै श्रुत्वा तु वचनं राज्ञो मुनिर् गौरमुखस् तदा तम् अनुज्ञाप्य वेगेन प्रजगामाश्रमं गुरोः तस्मिंश् च गतमात्रे वै राजा गौरमुखे तदा मन्त्रिभिर् मन्त्रयाम् आस सह संविग्नमानसः निश्चित्य मन्त्रिभिश् चैव सहितो मन्त्रतत्त्ववित् प्रासादं कारयाम् आस एकस्तम्भं सुरक्षितम् रक्षां च विदधे तत्र भिषजश् चौषधानि च ब्राह्मणान् सिद्धमन्त्रांश् च सर्वतो वै न्यवेशयत् राजकार्याणि तत्रस्थः सर्वाण्य् एवाकरोच् च सः मन्त्रिभिः सह धर्मज्ञः समन्तात् परिरक्षितः न चैनं कश् चिद् आरूढं लभते राजसत्तमम् वातो ऽपि निश्चरंस् तत्र प्रवेशे विनिवार्यते प्राप्ते तु दिवसे तस्मिन् सप्तमे द्विजसत्तम काश्यपो ऽभ्यागमद् विद्वांस् तं राजानं चिकित्सितुम् श्रुतं हि तेन तद् अभूद् अद्य तं राजसत्तमम् तक्षकः पन्नगश्रेष्ठो नेष्यते यमसादनम् तं दष्टं पन्नगेन्द्रेण करिष्ये ऽहम् अपज्वरम् तत्र मे ऽर्थश् च धर्मश् च भवितेति विचिन्तयन् तं ददर्श स नागेन्द्रस् तक्षकः काश्यपं पथि गच्छन्तम् एकमनसं द्विजो भूत्वा वयोतिगः तम् अब्रवीत् पन्नगेन्द्रः काश्यपं मुनिपुंगवम् क्व भवांस् त्वरितो याति किं च कार्यं चिकीर्षति काश्यप उवाच नृपं कुरुकुलोत्पन्नं परिक्षितम् अरिंदमम् तक्षकः पन्नगश्रेष्ठस् तेजसाद्य प्रधक्ष्यति तं दष्टं पन्नगेन्द्रेण तेनाग्निसमतेजसा पाण्डवानां कुलकरं राजानम् अमितौजसम् गच्छामि सौम्य त्वरितं सद्यः कर्तुम् अपज्वरम् विज्ञातविषविद्यो ऽहं ब्राह्मणो लोकपूजितः अस्मद्गुरुकटाक्षेण कल्यो ऽहं विषनाशने तक्षक उवाच अहं स तक्षको ब्रह्मंस् तं धक्ष्यामि महीपतिम् निवर्तस्व न शक्तस् त्वं मया दष्टं चिकित्सितुम् काश्यप उवाच अहं तं नृपतिं नाग त्वया दष्टम् अपज्वरम् करिष्य इति मे बुद्धिर् विद्याबलम् उपाश्रितः तक्षक उवाच दष्टं यदि मयेह त्वं शक्तः किं चिच् चिकित्सितुम् ततो वृक्षं मया दष्टम् इमं जीवय काश्यप परं मन्त्रबलं यत् ते तद् दर्शय यतस्व च न्यग्रोधम् एनं धक्ष्यामि पश्यतस् ते द्विजोत्तम सूतः एवम् उक्तस् तक्षकेण काश्यपः पुनर् अब्रवीत् काश्यप उवाच दश नागेन्द्र वृक्षं त्वं यम् एनम् अभिमन्यसे अहम् एनं त्वया दष्टं जीवयिष्ये भुजंगम पश्य मन्त्रबलं मे ऽद्य न्यग्रोधं दश पन्नग सूत उवाच एवम् उक्तः स नागेन्द्रः काश्यपेन महात्मना अदशद् वृक्षम् अभ्येत्य न्यग्रोधं पन्नगोत्तमः स वृक्षस् तेन दष्टः सन् सद्य एव महाद्युते आशीविषविषोपेतः प्रजज्वाल समन्ततः तं दग्ध्वा स नगं नागः काश्यपं पुनर् अब्रवीत् कुरु यत्नं द्विजश्रेष्ठ जीवयैनं वनस्पतिम् भस्मीभूतं ततो वृक्षं पन्नगेन्द्रस्य तेजसा भस्म सर्वं समाहृत्य काश्यपो वाक्यम् अब्रवीत् विद्याबलं पन्नगेन्द्र पश्य मे ऽस्मिन् वनस्पतौ अहं संजीवयाम्य् एनं पश्यतस् ते भुजंगम ततः स भगवान् विद्वान् काश्यपो द्विजसत्तमः भस्मराशीकृतं वृक्षं विद्यया समजीवयत् अङ्कुरं तं स कृतवांस् ततः पर्णद्वयान्वितम् पलाशिनं शाखिनं च तथा विटपिनं पुनः तं दृष्ट्वा जीवितं वृक्षं काश्यपेन महात्मना उवाच तक्षको ब्रह्मन्न् एतद् अत्यद्भुतं त्वयि विप्रेन्द्र यद् विषं हन्या मम वा मद्विधस्य वा कं त्वम् अर्थम् अभिप्रेप्सुर् यासि तत्र तपोधन यत् ते ऽभिलषितं प्राप्तुं फलं तस्मान् नृपोत्तमात् अहम् एव प्रदास्यामि तत् ते यद्य् अपि दुर्लभम् विप्रशापाभिभूते च क्षीणायुषि नराधिपे घटमानस्य ते विप्र सिद्धिः संशयिता भवेत् ततो यशः प्रदीप्तं ते त्रिषु लोकेषु विश्रुतम् विरश्मिर् इव घर्मांशुर् अन्तर्धानम् इतो व्रजेत् काश्यप उवाच धनार्थी याम्य् अहं तत्र तन् मे दित्स भुजंगम ततो ऽहं विनिवर्तिष्ये गृहायोरगसत्तम यत्तेयं च प्रगृह्य वै विनिवर्ते भुजंगम तक्षक उवाच यावद् धनं प्रार्थयसे तस्माद् राज्ञस् ततो ऽधिकम् अहं ते ऽद्य प्रदास्यामि निवर्तस्व द्विजोत्तम तद् धनं तस्य वो राजा न ग्रहीष्यति किं चन इमे नागा वहिष्यन्ति दत्तं हेम मया बहु सूत उवाच तक्षकस्य वचः श्रुत्वा काश्यपो द्विजसत्तमः प्रदध्यौ सुमहातेजा राजानं प्रति बुद्धिमान् दिव्यज्ञानः स तेजस्वी ज्ञात्वा तं नृपतिं तदा क्षीणायुषं पाण्डवेयम् अपावर्तत काश्यपः दशको प्रस्तं मे देहि धनं पन्नगसत्तम न राजानं गमिष्यामि किं तेन नृपसूनुना इत्य् उक्तस् तक्षकस् तेन विंशत् कोटीर् धनं ददौ स जगाम ततो विप्रो धनं लब्ध्वा यथासुखम् लब्ध्वा वित्तं मुनिवरस् तक्षकाद् यावद् ईप्सितम् निवृत्ते काश्यपे तस्मिन् समयेन महात्मनि जगाम तक्षकस् तूर्णं नगरं नागसाह्वयम् अथ शुश्राव गच्छन् स तक्षको जगतीपतिम् मन्त्रागदैर् विषहरै रक्ष्यमाणं प्रयत्नतः स चिन्तयाम् आस तदा मायायोगेन पार्थिवः मया वञ्चयितव्यो ऽसौ क उपायो भवेद् इति ततस् तापसरूपेण प्राहिणोत् स भुजंगमान् फलपत्रोदकं गृह्य राज्ञे नागो ऽथ तक्षकः तक्षक उवाच गच्छध्वं यूयम् अव्यग्रा राजानं कार्यवत्तया फलपत्रोदकं नाम प्रतिग्राहयितुं नृपम् सूत उवाच ते तक्षकसमादिष्टास् तथा चक्रुर् भुजंगमाः उपनिन्युस् तथा राज्ञे दर्भान् आपः फलानि च तच् च सर्वं स राजेन्द्रः प्रतिजग्राह वीर्यवान् कृत्वा च तेषां कार्याणि गम्यताम् इत्य् उवाच तान् गतेषु तेषु नागेषु तापसच्छद्मरूपिषु अमात्यान् सुहृदश् चैव प्रोवाच स नराधिपः भक्षयन्तु भवन्तो वै स्वादूनीमानि सर्वशः तापसैर् उपनीतानि फलानि सहिता मया ततो राजा ससचिवः फलान्य् आदातुम् ऐच्छत विधिना संप्रयुक्तो वै ऋषिवाक्येन तेन तु यस्मिन्न् एव फले नागस् तम् एवाभक्षयत् स्वयम् यद् गृहीतं फलं राज्ञा तत्र कृमिर् अभूद् अणुः ह्रस्वकः कृष्णनयनस् ताम्रो वर्णेन शौनक स तं गृह्य नृपश्रेष्ठः सचिवान् इदम् अब्रवीत् अस्तम् अभ्येति सविता विषाद् अद्य न मे भयम् सत्यवाग् अस्तु स मुनिः कृमिको मां दशत्व् अयम् तक्षको नाम भूत्वा वै तथा परिहृतं भवेत् ते चैनम् अन्ववर्तन्त मन्त्रिणः कालचोदिताः एवम् उक्त्वा स राजेन्द्रो ग्रीवायां संनिवेश्य ह कृमिकं प्राहसत् तूर्णं मुमूर्षुर् नष्टचेतनः हसन्न् एव च भोगेन तक्षकेणाभिवेष्टितः तस्मात् फलाद् विनिष्क्रम्य यत् तद् राज्ञे निवेदितम् वेष्टयित्वा च भोगेन विनद्य च महास्वनम् अदशत् पृथिवीपालं तक्षकः पन्नगेश्वरः सूत उवाच तं तथा मन्त्रिणो दृष्ट्वा भोगेन परिवेष्टितम् विवर्णवदनाः सर्वे रुरुदुर् भृशदुःखिताः तं तु नादं ततः श्रुत्वा मन्त्रिणस् ते प्रदुद्रुवुः अपश्यंश् चैव ते यान्तम् आकाशे नागम् अद्भुतम् सीमन्तम् इव कुर्वाणं नभसः पद्मवर्चसम् तक्षकं पन्नगश्रेष्ठं भृशं शोकपरायणाः ततस् तु ते तद् गृहम् अग्निना वृतं; प्रदीप्यमानं विषजेन भोगिनः भयात् परित्यज्य दिशः प्रपेदिरे; पपात तच् चाशनिताडितं यथा ततो नृपे तक्षकतेजसा हते; प्रयुज्य सर्वाः परलोकसत्क्रियाः शुचिर् द्विजो राजपुरोहितस् तदा; तथैव ते तस्य नृपस्य मन्त्रिणः नृपं शिशुं तस्य सुतं प्रचक्रिरे; समेत्य सर्वे पुरवासिनो जनाः नृपं यम् आहुस् तम् अमित्रघातिनं; कुरुप्रवीरं जनमेजयं जनाः स बाल एवार्यमतिर् नृपोत्तमः; सहैव तैर् मन्त्रिपुरोहितैस् तदा शशास राज्यं कुरुपुंगवाग्रजो; यथास्य वीरः प्रपितामहस् तथा ततस् तु राजानम् अमित्रतापनं; समीक्ष्य ते तस्य नृपस्य मन्त्रिणः सुवर्णवर्माणम् उपेत्य काशिपं; वपुष्टमार्थं वरयां प्रचक्रमुः ततः स राजा प्रददौ वपुष्टमां; कुरुप्रवीराय परीक्ष्य धर्मतः स चापि तां प्राप्य मुदा युतो ऽभवन्; न चान्यनारीषु मनो दधे क्व चित् सरःसु फुल्लेषु वनेषु चैव ह; प्रसन्नचेता विजहार वीर्यवान् तथा स राजन्यवरो विजह्रिवान्; यथोर्वशीं प्राप्य पुरा पुरूरवाः वपुष्टमा चापि वरं पतिं तदा; प्रतीतरूपं समवाप्य भूमिपम् भावेन रामा रमयां बभूव वै; विहारकालेष्व् अवरोधसुन्दरी सूत उवाच एतस्मिन्न् एव काले तु जरत्कारुर् महातपाः चचार पृथिवीं कृत्स्नां यत्रसायंगृहो मुनिः चरन् दीक्षां महातेजा दुश्चराम् अकृतात्मभिः तीर्थेष्व् आप्लवनं कुर्वन् पुण्येषु विचचार ह वायुभक्षो निराहारः शुष्यन्न् अहरहर् मुनिः स ददर्श पितॄन् गर्ते लम्बमानान् अधोमुखान् एकतन्त्ववशिष्टं वै वीरणस्तम्बम् आश्रितान् तं च तन्तुं शनैर् आखुम् आददानं बिलाश्रयम् निराहारान् कृशान् दीनान् गर्ते ऽऽर्तांस् त्राणम् इच्छतः उपसृत्य स तान् दीनान् दीनरूपो ऽभ्यभाषत के भवन्तो ऽवलम्बन्ते वीरणस्तम्बम् आश्रिताः दुर्बलं खादितैर् मूलैर् आखुना बिलवासिना वीरणस्तम्बके मूलं यद् अप्य् एकम् इह स्थितम् तद् अप्य् अयं शनैर् आखुर् आदत्ते दशनैः शितैः छेत्स्यते ऽल्पावशिष्टत्वाद् एतद् अप्य् अचिराद् इव ततः स्थ पतितारो ऽत्र गर्ते अस्मिन्न् अधोमुखाः ततो मे दुःखम् उत्पन्नं दृष्ट्वा युष्मान् अधोमुखान् कृच्छ्राम् आपदम् आपन्नान् प्रियं किं करवाणि वः तपसो ऽस्य चतुर्थेन तृतीयेनापि वा पुनः अर्धेन वापि निस्तर्तुम् आपदं ब्रूत माचिरम् अथवापि समग्रेण तरन्तु तपसा मम भवन्तः सर्व एवास्मात् कामम् एवं विधीयताम् पितर ऊचुः ऋद्धो भवान् ब्रह्मचारी यो नस् त्रातुम् इहेच्छति न तु विप्राग्र्य तपसा शक्यम् एतद् व्यपोहितुम् अस्ति नस् तात तपसः फलं प्रवदतां वर संतानप्रक्षयाद् ब्रह्मन् पतामो निरये ऽशुचौ संतानं हि परो धर्म एवम् आह पितामहः लम्बताम् इह नस् तात न ज्ञानं प्रतिभाति वै येन त्वां नाभिजानीमो लोके विख्यातपौरुषम् ऋद्धो भवान् महाभागो यो नः शोच्यान् सुदुःखितान् शोच्यान् सुदुःखितान् अस्मान् कस्माद् वेदविदां वर शोचस्य् उपेत्य कारुण्याच् छृणु ये वै वयं द्विज यायावरा नाम वयम् ऋषयः संशितव्रताः लोकात् पुण्याद् इह भ्रष्टाः संतानप्रक्षयाद् विभो प्रनष्टं नस् तपः पुण्यं न हि नस् तन्तुर् अस्ति वै अस्ति त्व् एको ऽद्य नस् तन्तुः सो ऽपि नास्ति यथा तथा मन्दभाग्यो ऽल्पभाग्यानां बन्धुः स किल नः कुले जरत्कारुर् इति ख्यातो वेदवेदाङ्गपारगः नियतात्मा महात्मा च सुव्रतः सुमहातपाः तेन स्म तपसो लोभात् कृच्छ्रम् आपादिता वयम् न तस्य भार्या पुत्रो वा बान्धवो वास्ति कश् चन तस्माल् लम्बामहे गर्ते नष्टसंज्ञा ह्य् अनाथवत् स वक्तव्यस् त्वया दृष्ट्वा अस्माकं नाथवत्तया पितरस् ते ऽवलम्बन्ते गर्ते दीना अधोमुखाः साधु दारान् कुरुष्वेति प्रजायस्वेति चाभिभो न तच् च कुतपोदानैः प्राप्यते फलम् उत्तमम् यच् च कुदारसंतानप्राप्तौ संप्राप्यते ऽमितम् क्षालनस् तात जायंते सर्व एव हि मानवाः पितृदेवर्षिमनुजा भर्तव्या आर्यवर्णजैः अथान्यथा वर्तमाना वार्याः स्युस् त्रिदिवौकसाम् त्वं तात सम्यग् जानीहि धर्मज्ञः सन् न वेत्सि किम् कुलतन्तुर् हि नः शिष्टस् त्वम् एवैकस् तपोधन यं तु पश्यसि नो ब्रह्मन् वीरणस्तम्बम् आश्रितान् एषो ऽस्माकं कुलस्तम्ब आसीत् स्वकुलवर्धनः यानि पश्यसि वै ब्रह्मन् मूलानीहास्य वीरुधः एते नस् तन्तवस् तात कालेन परिभक्षिताः यत् त्व् एतत् पश्यसि ब्रह्मन् मूलम् अस्यार्धभक्षितम् तत्र लम्बामहे सर्वे सो ऽप्य् एकस् तप आस्थितः यम् आखुं पश्यसि ब्रह्मन् काल एष महाबलः स तं तपोरतं मन्दं शनैः क्षपयते तुदन् जरत्कारुं तपोलुब्धं मन्दात्मानम् अचेतसम् न हि नस् तत् तपस् तस्य तारयिष्यति सत्तम छिन्नमूलान् परिभ्रष्टान् कालोपहतचेतसः नरकप्रतिष्ठान् पश्यास्मान् यथा दुष्कृतिनस् तथा अस्मासु पतितेष्व् अत्र सह पूर्वैः पितामहैः छिन्नः कालेन सो ऽप्य् अत्र गन्ता वै नरकं ततः तपो वाप्य् अथवा यज्ञो यच् चान्यत् पावनं महत् तत् सर्वं न समं तात संतत्येति सतां मतम् स तात दृष्ट्वा ब्रूयास् त्वं जरत्कारुं तपस्विनम् यथादृष्टम् इदं चास्मै त्वयाख्येयम् अशेषतः यथा दारान् प्रकुर्यात् स पुत्रांश् चोत्पादयेद् यथा तथा ब्रह्मंस् त्वया वाच्यः सो ऽस्माकं नाथवत्तया बान्धवानां हितस्येह यथा चात्मकुलं तथा कस् त्वं बन्धुम् इवास्माकम् अनुशोचसि सत्तम श्रोतुम् इच्छाम सर्वेषां को भवान् इह तिष्ठति सूत उवाच एतच् छ्रुत्वा जरत्कारुर् दुःखशोकपरायणः उवाच स्वान् पितॄन् दुःखाद् बाष्पसंदिग्धया गिरा जरत्कारुर् उवाच मम पूर्वे भवन्तो वै पितरः सपितामहाः तद् ब्रूत यन् मया कार्यं भवतां प्रियकाम्यया अहम् एव जरत्कारुः किल्बिषी भवतां सुतः तद् दण्डं धारयत मे दुष्कृतेर् अकृतात्मनः पितर ऊचुः पुत्र दिष्ट्यासि संप्राप्त इमं देशं यदृच्छया किमर्थं च त्वया ब्रह्मन् न कृतो दारसंग्रहः धर्मार्थकामैस् तु सुखप्रहीणा; भिक्षाटनाः कर्पटबद्धगात्राः क्षुत्क्षामकण्ठा वसुधां भ्रमन्ति; दारान् परित्यज्य गता नरा ये न ते क्रतुशतैर् लोकाः प्राप्यन्ते दिवि मानद; तपोभिर् विविधैर् वापि यांल् लोकान् पुत्रिणो गताः जरत्कारुर् उवाच ममायं पितरो नित्यं हृद्य् अर्थः परिवर्तते ऊर्ध्वरेताः शरीरं वै प्रापयेयम् अमुत्र वै न दारान् वै करिष्ये ऽहम् इति मे भावितं मनः एवं दृष्ट्वा तु भवतः शकुन्तान् इव लम्बतः मया निवर्तिता बुद्धिर् ब्रह्मचर्यात् पितामहाः करिष्ये वः प्रियं कामं निवेक्ष्ये नात्र संशयः सनाम्नीं यद्य् अहं कन्याम् उपलप्स्ये कदा चन भविष्यति च या का चिद् भैक्षवत् स्वयम् उद्यता प्रतिग्रहीता ताम् अस्मि न भरेयं च याम् अहम् एवंविधम् अहं कुर्यां निवेशं प्राप्नुयां यदि अन्यथा न करिष्ये तु सत्यम् एतत् पितामहाः तत्र चोत्पत्स्यते जन्तुर् भवतां तारणाय वै शाश्वताश् चाव्ययाश् चैव तिष्ठन्तु पितरो मम सूत उवाच एवम् उक्त्वा तु स पितॄंश् चचार पृथिवीं मुनिः न च स्म लभते भार्यां वृद्धो ऽयम् इति शौनक यदा निर्वेदम् आपन्नः पितृभिश् चोदितस् तथा तदारण्यं स गत्वोच्चैश् चुक्रोश भृशदुःखितः स त्व् अरण्यगतः प्राज्ञः पितॄणां हितकाम्यया उवाच कन्यां याचामि तिस्रो वाचः शनैर् इमाः यानि भूतानि सन्तीह स्थावराणि चराणि च अन्तर्हितानि वा यानि तानि शृण्वन्तु मे वचः उग्रे तपसि वर्तन्तं पितरश् चोदयन्ति माम् निविशस्वेति दुःखार्तास् तेषां प्रियचिकीर्षया निवेशार्थ्य् अखिलां भूमिं कन्याभैक्षं चरामि भोः दरिद्रो दुःखशीलश् च पितृभिः संनियोजितः यस्य कन्यास्ति भूतस्य ये मयेह प्रकीर्तिताः ते मे कन्यां प्रयच्छन्तु चरतः सर्वतोदिशम् मम कन्या सनाम्नी या भैक्षवच् चोद्यता भवेत् भरेयं चैव यां नाहं तां मे कन्यां प्रयच्छत ततस् ते पन्नगा ये वै जरत्कारौ समाहिताः ताम् आदाय प्रवृत्तिं ते वासुकेः प्रत्यवेदयन् तेषां श्रुत्वा स नागेन्द्रः कन्यां तां समलंकृताम् प्रगृह्यारण्यम् अगमत् समीपं तस्य पन्नगः तत्र तां भैक्षवत् कन्यां प्रादात् तस्मै महात्मने नागेन्द्रो वासुकिर् ब्रह्मन् न स तां प्रत्यगृह्णत असनामेति वै मत्वा भरणे चाविचारिते मोक्षभावे स्थितश् चापि द्वन्द्वीभूतः परिग्रहे ततो नाम स कन्यायाः पप्रच्छ भृगुनन्दन वासुके भरणं चास्या न कुर्याम् इत्य् उवाच ह रुरुर् उवाच किमर्थं सा तु नागेन्द्रो द्विजेन्द्राय कृतात्मने अविज्ञाताय वै दत्ता स्वसा राजीवलोचना प्रमतिर् उवाच सूत उवाच वासुकिस् त्व् अब्रवीद् वाक्यं जरत्कारुम् ऋषिं तदा सनामा तव कन्येयं स्वसा मे तपसान्विता भरिष्यामि च ते भार्यां प्रतीच्छेमां द्विजोत्तम रक्षणं च करिष्ये ऽस्याः सर्वशक्त्या तपोधन ऋषिर् उवाच त्वदर्थं रक्ष्यते चैषा मया मुनिवरोत्तम न भरिष्ये ऽहम् एतां वै एष मे समयः कृतः अप्रियं च न कर्तव्यं कृते चैनां त्यजाम्य् अहम् प्रतिश्रुते तु नागेन भरिष्ये भगिनीम् इति जरत्कारुस् तदा वेश्म भुजगस्य जगाम ह तत्र मन्त्रविदां श्रेष्ठस् तपोवृद्धो महाव्रतः जग्राह पाणिं धर्मात्मा विधिमन्त्रपुरस्कृतम् ततो वासगृहं शुभ्रं पन्नगेन्द्रस्य संमतम् जगाम भार्याम् आदाय स्तूयमानो महर्षिभिः शयनं तत्र वै कॢप्तं स्पर्ध्यास्तरणसंवृतम् तत्र भार्यासहायः स जरत्कारुर् उवास ह स तत्र समयं चक्रे भार्यया सह सत्तमः विप्रियं मे न कर्तव्यं न च वाच्यं कदा चन त्यजेयम् अप्रिये हि त्वां कृते वासं च ते गृहे एतद् गृहाण वचनं मया यत् समुदीरितम् ततः परमसंविग्ना स्वसा नागपतेस् तु सा अतिदुःखान्विता वाचं तम् उवाचैवम् अस्त्व् इति तथैव सा च भर्तारं दुःखशीलम् उपाचरत् उपायैः श्वेतकाकीयैः प्रियकामा यशस्विनी ऋतुकाले ततः स्नाता कदा चिद् वासुकेः स्वसा भर्तारं तं यथान्यायम् उपतस्थे महामुनिम् तत्र तस्याः समभवद् गर्भो ज्वलनसंनिभः अतीव तपसा युक्तो वैश्वानरसमद्युतिः शुक्लपक्षे यथा सोमो व्यवर्धत तथैव सः ततः कतिपयाहस्य जरत्कारुर् महातपाः उत्सङ्गे ऽस्याः शिरः कृत्वा सुष्वाप परिखिन्नवत् तस्मिंश् च सुप्ते विप्रेन्द्रे सवितास्तम् इयाद् गिरिम् अह्नः परिक्षये ब्रह्मंस् ततः साचिन्तयत् तदा वासुकेर् भगिनी भीता धर्मलोपान् मनस्विनी किं नु मे सुकृतं भूयाद् भर्तुर् उत्थापनं न वा दुःखशीलो हि धर्मात्मा कथं नास्यापराध्नुयाम् कोपो वा धर्मशीलस्य धर्मलोपो ऽथ वा पुनः धर्मलोपो गरीयान् वै स्याद् अत्रेत्य् अकरोन् मनः उत्थापयिष्ये यद्य् एनं ध्रुवं कोपं करिष्यति धर्मलोपो भवेद् अस्य संध्यातिक्रमणे ध्रुवम् इति निश्चित्य मनसा जरत्कारुर् भुजंगमा तम् ऋषिं दीप्ततपसं शयानम् अनलोपमम् उवाचेदं वचः श्लक्ष्णं ततो मधुरभाषिणी उत्तिष्ठ त्वं महाभाग सूर्यो ऽस्तम् उपगच्छति संध्याम् उपास्स्व भगवन्न् अपः स्पृष्ट्वा यतव्रतः प्रादुष्कृताग्निहोत्रो ऽयं मुहूर्तो रम्यदारुणः संध्या प्रवर्तते चेयं पश्चिमायां दिशि प्रभो एवम् उक्तः स भगवाञ् जरत्कारुर् महातपाः भार्यां प्रस्फुरमाणोष्ठ इदं वचनम् अब्रवीत् अवमानः प्रयुक्तो ऽयं त्वया मम भुजंगमे समीपे ते न वत्स्यामि गमिष्यामि यथागतम् न हि तेजो ऽस्ति वामोरु मयि सुप्ते विभावसोः अस्तं गन्तुं यथाकालम् इति मे हृदि वर्तते न चाप्य् अवमतस्येह वस्तुं रोचेत कस्य चित् किं पुनर् धर्मशीलस्य मम वा मद्विधस्य वा नावमानात् कृतवती दिवसो ऽस्तम् उपेयिवान् एवम् उक्ता जरत्कारुर् भर्त्रा हृदयकम्पनम् अब्रवीद् भगिनी तत्र वासुकेः संनिवेशने नावमानात् कृतवती तवाहं प्रतिबोधनम् धर्मलोपो न ते विप्र स्याद् इत्य् एतत् कृतं मया उवाच भार्याम् इत्य् उक्तो जरत्कारुर् महातपाः ऋषिः कोपसमाविष्टस् त्यक्तुकामो भुजंगमाम् न मे वाग् अनृतं प्राह गमिष्ये ऽहं भुजंगमे समयो ह्य् एष मे पूर्वं त्वया सह मिथः कृतः सुखम् अस्म्य् उषितो भद्रे ब्रूयास् त्वं भ्रातरं शुभे इतो मयि गते भीरु गतः स भगवान् इति त्वं चापि मयि निष्क्रान्ते न शोकं कर्तुम् अर्हसि इत्य् उक्ता सानवद्याङ्गी प्रत्युवाच पतिं तदा जरत्कारुं जरत्कारुश् चिन्ताशोकपरायणा बाष्पगद्गदया वाचा मुखेन परिशुष्यता कृताञ्जलिर् वरारोहा पर्यश्रुनयना ततः धैर्यम् आलम्ब्य वामोरूर् हृदयेन प्रवेपता न माम् अर्हसि धर्मज्ञ परित्यक्तुम् अनागसम् धर्मे स्थितां स्थितो धर्मे सदा प्रियहिते रताम् प्रदाने कारणं यच् च मम तुभ्यं द्विजोत्तम अपत्यार्थं तु मे भ्राता ज्ञातीनां हितकाम्यया तद् अलब्धवतीं मन्दां किं मां वक्ष्यति वासुखिः मातृशापाभिभूतानां ज्ञातीनां मम सत्तम अपत्यम् ईप्षितं त्वत्तस् तच् च तावन् न दृश्यते त्वत्तो ह्य् अपत्यलाभेन ज्ञातीनां मे शिवं भवेत् संप्रयोगो भवेन् नायं मम मोघस् त्वया द्विज ज्ञातीनां हितम् इच्छन्ती भगवंस् त्वां प्रसादये इमम् अव्यक्तरूपं मे गर्भम् आधाय सत्तम कथं त्यक्त्वा महात्मा सन् गन्तुम् इच्छस्य् अनागसम् एवम् उक्तस् तु स मुनिर् भार्यां वचनम् अब्रवीत् यद्य् उक्तम् अनुरूपं च जरत्कारुस् तपोधनः अस्त्य् एष गर्भः सुभगे तव वैश्वानरोपमः ऋषिः परमधर्मात्मा वेदवेदाङ्गपारगः एवम् उक्त्वा स धर्मात्मा जरत्कारुर् महान् ऋषिः उग्राय तपसे भूयो जगाम कृतनिश्चयः सूत उवाच गतमात्रं तु भर्तारं जरत्कारुर् अवेदयत् भ्रातुस् त्वरितम् आगम्य यथातथ्यं तपोधन ततः स भुजगश्रेष्ठः श्रुत्वा सुमहद् अप्रियम् उवाच भगिनीं दीनां तदा दीनतरः स्वयम् जानासि भद्रे यत् कार्यं प्रदाने कारणं च यत् पन्नगानां हितार्थाय पुत्रस् ते स्यात् ततो यदि स सर्पसत्रात् किल नो मोक्षयिष्यति वीर्यवान् एवं पितामहः पूर्वम् उक्तवान् मां सुरैः सह अप्य् अस्ति गर्भः सुभगे तस्मात् ते मुनिसत्तमात् न चेच्छाम्य् अफलं तस्य दारकर्म मनीषिणः कामं च मम न न्याय्यं प्रष्टुं त्वां कार्यम् ईदृशम् किं तु कार्यगरीयस्त्वात् ततस् त्वाहम् अचूचुदम् दुर्वासतां विदित्वा च भर्तुस् ते ऽतितपस्विनः नैनम् अन्वागमिष्यामि कदा चिद् धि शपेत् स माम् आचक्ष्व भद्रे भर्तुस् त्वं सर्वम् एव विचेष्टितम् शल्यम् उद्धर मे घोरं भद्रे हृदि चिरस्थितम् जरत्कारुस् ततो वाक्यम् इत्य् उक्ता प्रत्यभाषत आश्वासयन्ती संतप्तं वासुकिं पन्नगेश्वरम् पृष्टो मयापत्यहेतोः स महात्मा महातपाः अस्तीत्य् उदरम् उद्दिश्य ममेदं गतवांश् च सः भूय एवाभवद् भ्राता शोकसंतप्तमानसः स्वैरेष्व् अपि न तेनाहं स्मरामि वितथं क्व चित् उक्तपूर्वं कुतो राजन् सांपराये स वक्ष्यति न संतापस् त्वया कार्यः कार्यं प्रति भुजंगमे उत्पत्स्यति हि ते पुत्रो ज्वलनार्कसमद्युतिः इत्य् उक्त्वा हि स मां भ्रातर् गतो भर्ता तपोवनम् तस्माद् व्येतु परं दुःखं तवेदं मनसि स्थितम् एतच् छ्रुत्वा स नागेन्द्रो वासुकिः परया मुदा एवम् अस्त्व् इति तद् वाक्यं भगिन्याः प्रत्यगृह्णत सान्त्वमानार्थदानैश् च पूजया चानुरूपया सोदर्यां पूजयाम् आस स्वसारं पन्नगोत्तमः ततः स ववृधे गर्भो महातेजा रविप्रभः यथा सोमो द्विजश्रेष्ठ शुक्लपक्षोदितो दिवि यथाकालं तु सा ब्रह्मन् प्रजज्ञे भुजगस्वसा कुमारं देवगर्भाभं पितृमातृभयापहम् ववृधे स च तत्रैव नागराजनिवेशने वेदांश् चाधिजगे साङ्गान् भार्गवाच् च्यवनात्मजात् चरितव्रतो बाल एव बुद्धिसत्त्वगुणान्वितः नाम चास्याभवत् ख्यातं लोकेष्व् आस्तीक इत्य् उत अस्तीत्य् उक्त्वा गतो यस्मात् पिता गर्भस्थम् एव तम् वनं तस्माद् इदं तस्य नामास्तीकेति विश्रुतम् स बाल एव तत्रस्थश् चरन्न् अमितबुद्धिमान् गृहे पन्नगराजस्य प्रयत्नात् पर्यरक्ष्यत भगवान् इव देवेशः शूलपाणिर् हिरण्यदः विवर्धमानः सर्वांस् तान् पन्नगान् अभ्यहर्षयत् शौनक उवाच सूतस्य वचनं श्रुत्वा शौनकः प्राह विस्मितः यद् अपृच्छत् तदा राजा मन्त्रिणो जनमेजयः पितुः स्वर्गगतिं तन् मे विस्तरेण पुनर् वद सूत उवाच शृणु ब्रह्मन् यथा पृष्टा मन्त्रिणो नृपतेस् तदा आख्यातवन्तस् ते सर्वे निधनं तत् परिक्षितः जनमेजय उवाच जानन्ति तु भवन्तस् तद् यथावृत्तः पिता मम आसीद् यथा च निधनं गतः काले महायशाः श्रुत्वा भवत्सकाशाद् धि पितुर् वृत्तम् अशेषतः कल्याणं प्रतिपत्स्यामि विपरीतं न जातु चित् सूत उवाच मन्त्रिणो ऽथाब्रुवन् वाक्यं पृष्टास् तेन महात्मना सर्वधर्मविदः प्राज्ञा राजानं जनमेजयम् शृणु पार्थिव यद् ब्रूषे पितुस् तव महात्मनः चरितं पार्थिवेन्द्रस्य यथा निष्ठां गतश् च सः धर्मात्मा च महात्मा च प्रजापालः पिता तव आसीद् इह यथावृत्तः स महात्मा शृणुष्व तत् चातुर्वर्ण्यं स्वधर्मस्थं स कृत्वा पर्यरक्षत धर्मतो धर्मविद् राजा धर्मो विग्रहवान् इव ररक्ष पृथिवीं देवीं श्रीमान् अतुलविक्रमः द्वेष्टारस् तस्य नैवासन् स च न द्वेष्टि कं चन समः सर्वेषु भूतेषु प्रजापतिर् इवाभवत् ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् चैव स्वकर्मसु स्थिताः सुमनसो राजंस् तेन राज्ञा स्वनुष्ठिताः विधवानाथकृपणान् विकलांश् च बभार सः सुदर्शः सर्वभूतानाम् आसीत् सोम इवापरः तुष्टपुष्टजनः श्रीमान् सत्यवाग् दृढविक्रमः धनुर्वेदे च शिष्यो ऽभून् नृपः शारद्वतस्य सः गोविन्दस्य प्रियश् चासीत् पिता ते जनमेजय लोकस्य चैव सर्वस्य प्रिय आसीन् महायशाः परिक्षीणेषु कुरुषु उत्तरायाम् अजायत परिक्षिद् अभवत् तेन सौभद्रस्यात्मजो बली राजधर्मार्थकुशलो युक्तः सर्वगुणैर् नृपः जितेन्द्रियश् चात्मवांश् च मेधावी वृद्धसेवितः षड्वर्गविन् महाबुद्धिर् नीतिधर्मविद् उत्तमः प्रजा इमास् तव पिता षष्टिं वर्षाण्य् अपालयत् ततो गतिं समापन्नः सर्वेषाम् अनिवर्तिनीम् ततो दिष्टान्तम् आपन्नः सर्पेणानतिवर्तितम् ततस् त्वं पुरुषश्रेष्ठ धर्मेण प्रतिपेदिवान् इदं वर्षसहस्राय राज्यं कुरुकुलागतम् बाल एवाभिजातो ऽसि सर्वभूतानुपालकः जनमेजय उवाच नास्मिन् कुले जातु बभूव राजा; यो न प्रजानां हितकृत् प्रियश् च विशेषतः प्रेक्ष्य पितामहानां; वृत्तं महद् वृत्तपरायणानाम् कथं निधनम् आपन्नः पिता मम तथाविधः आचक्षध्वं यथावन् मे श्रोतुम् इच्छामि तत्त्वतः सूत उवाच स राजा पृथिवीपालः सर्वशस्त्रभृतां वरः एवं संचोदिता राज्ञा मन्त्रिणस् ते नराधिपम् ऊचुः सर्वे यथावृत्तं राज्ञः प्रियहिते रताः बभूव मृगयाशीलस् तव राजन् पिता सदा यथा पाण्डुर् महाभागो धनुर्धरवरो युधि अस्मास्व् आसज्य सर्वाणि राजकार्याण्य् अशेषतः स कदा चिद् वनचरो मृगं विव्याध पत्रिणा विद्ध्वा चान्वसरत् तूर्णं तं मृगं गहने वने पदातिर् बद्धनिस्त्रिंशस् ततायुधकलापवान् न चाससाद गहने मृगं नष्टं पिता तव परिश्रान्तो वयःस्थश् च षष्टिवर्षो जरान्वितः क्षुधितः स महारण्ये ददर्श मुनिम् अन्तिके स तं पप्रच्छ राजेन्द्रो मुनिं मौनव्रतान्वितम् न च किं चिद् उवाचैनं स मुनिः पृच्छतो ऽपि सन् ततो राजा क्षुच्छ्रमार्तस् तं मुनिं स्थाणुवत् स्थितम् मौनव्रतधरं शान्तं सद्यो मन्युवशं ययौ न बुबोध हि तं राजा मौनव्रतधरं मुनिम् स तं मन्युसमाविष्टो धर्षयाम् आस ते पिता मृतं सर्पं धनुष्कोट्या समुत्क्षिप्य धरातलात् तस्य शुद्धात्मनः प्रादात् स्कन्धे भरतसत्तम न चोवाच स मेधावी तम् अथो साध्व् असाधु वा तस्थौ तथैव चाक्रुध्यन् सर्पं स्कन्धेन धारयन् मन्त्रिण ऊचुः ततः स राजा राजेन्द्र स्कन्धे तस्य भुजंगमम् मुनेः क्षुत्क्षाम आसज्य स्वपुरं पुनर् आययौ ऋषेस् तस्य तु पुत्रो ऽभूद् गवि जातो महायशाः शृङ्गी नाम महातेजास् तिग्मवीर्यो ऽतिकोपनः ब्रह्माणं सो ऽभ्युपागम्य मुनिः पूजां चकार ह अनुज्ञातो गतस् तत्र शृङ्गी शुश्राव तं तदा सख्युः सकाशात् पितरं पित्रा ते धर्षितं तथा मृतं सर्पं समासक्तं पित्रा ते जनमेजय वहन्तं कुरुशार्दूल स्कन्धेनानपकारिणम् तपस्विनम् अतीवाथ तं मुनिप्रवरं नृप जितेन्द्रियं विशुद्धं च स्थितं कर्मण्य् अथाद्भुते तपसा द्योतितात्मानं स्वेष्व् अङ्गेषु यतं तथा शुभाचारं शुभकथं सुस्थिरं तम् अलोलुपम् अक्षुद्रम् अनसूयं च वृद्धं मौनव्रते स्थितम् शरण्यं सर्वभूतानां पित्रा विप्रकृतं तव शशापाथ स तच् छ्रुत्वा पितरं ते रुषान्वितः ऋषेः पुत्रो महातेजा बालो ऽपि स्थविरैर् वरः स क्षिप्रम् उदकं स्पृष्ट्वा रोषाद् इदम् उवाच ह पितरं ते ऽभिसंधाय तेजसा प्रज्वलन्न् इव अनागसि गुरौ यो मे मृतं सर्पम् अवासृजत् तं नागस् तक्षकः क्रुद्धस् तेजसा सादयिष्यति आशीविषस् तिग्मतेजा मद्वाक्यबलचोदितः सप्तरात्राद् इतः पापं पश्य मे तपसो बलम् इत्य् उक्त्वा प्रययौ तत्र पिता यत्रास्य सो ऽभवत् दृष्ट्वा च पितरं तस्मै शापं तं प्रत्यवेदयत् स चापि मुनिशार्दूलः प्रेषयाम् आस ते पितुः शिष्यं गौरमुखं नाम शीलवन्तं गुणान्वितम् आचख्यौ स च विश्रान्तो राज्ञः सर्वम् अशेषतः शप्तो ऽसि मम पुत्रेण यत्तो भव महीपते तक्षकस् त्वां महाराज तेजसा सादयिष्यति श्रुत्वा तु तद् वचो घोरं पिता ते जनमेजय यत्तो ऽभवत् परित्रस्तस् तक्षकात् पन्नगोत्तमात् ततस् तस्मिंस् तु दिवसे सप्तमे समुपस्थिते राज्ञः समीपं ब्रह्मर्षिः काश्यपो गन्तुम् ऐच्छत तं ददर्शाथ नागेन्द्रः काश्यपं तक्षकस् तदा तम् अब्रवीत् पन्नगेन्द्रः काश्यपं त्वरितं व्रजन् क्व भवांस् त्वरितो याति किं च कार्यं चिकीर्षति काश्यप उवाच यत्र राजा कुरुश्रेष्ठः परिक्षिन् नाम वै द्विज तक्षकेण भुजंगेन धक्ष्यते किल तत्र वै गच्छाम्य् अहं तं त्वरितः सद्यः कर्तुम् अपज्वरम् मयाभिपन्नं तं चापि न सर्पो धर्षयिष्यति तक्षक उवाच किमर्थं तं मया दष्टं संजीवयितुम् इच्छसि अहं स तक्षको ब्रह्मन् पश्य मे वीर्यम् अद्भुतम् न शक्तस् त्वं मया दष्टं तं संजीवयितुं नृपम् इत्य् उक्त्वा तक्षकस् तत्र सो ऽदशद् वै वनस्पतिम् स दष्टमात्रो नागेन भस्मीभूतो ऽभवन् नगः काश्यपश् च ततो राजन्न् अजीवयत तं नगम् ततस् तं लोभयाम् आस कामं ब्रूहीति तक्षकः स एवम् उक्तस् तं प्राह काश्यपस् तक्षकं पुनः ब्रूहि कामम् अहं ते ऽद्य दद्मि स्वं वेश्म गम्यताम् मन्त्रिण ऊचुः धनलिप्सुर् अहं तत्र यामीत्य् उक्तश् च तेन सः तम् उवाच महात्मानं मानयञ् श्लक्ष्णया गिरा यावद् धनं प्रार्थयसे तस्माद् राज्ञस् ततो ऽधिकम् गृहाण मत्त एव त्वं संनिवर्तस्व चानघ स एवम् उक्तो नागेन काश्यपो द्विपदां वरः लब्ध्वा वित्तं निववृते तक्षकाद् यावद् ईप्सितम् तस्मिन् प्रतिगते विप्रे छद्मनोपेत्य तक्षकः तं नृपं नृपतिश्रेष्ठ पितरं धार्मिकं तव प्रासादस्थं यत्तम् अपि दग्धवान् विषवह्निना ततस् त्वं पुरुषव्याघ्र विजयायाभिषेचितः एतद् दृष्टं श्रुतं चापि यथावन् नृपसत्तम अस्माभिर् निखिलं सर्वं कथितं ते सुदारुणम् श्रुत्वा चैतं नृपश्रेष्ठ पार्थिवस्य पराभवम् अस्य चर्षेर् उत्तङ्कस्य विधत्स्व यद् अनन्तरम् सौतिर् उवाच जनमेजय उवाच एतस्मिन्न् एव काले तु स राजा जनमेजयः उवाच मन्त्रिणः सर्वान् इदं वाक्यम् अरिंदमः अथ तत् कथितं केन यद् वृत्तं तद् वनस्पतौ आश्चर्यभूतं लोकस्य भस्मराशीकृतं तदा यद् वृक्षं जीवयाम् आस काश्यपस् तक्षकेण वै नूनं मन्त्रैर् हतविषो न प्रणश्येत काश्यपात् चिन्तयाम् आस पापात्मा मनसा पन्नगाधमः दष्टं यदि मया विप्रः पार्थिवं जीवयिष्यति तक्षकः संहतविषो लोके यास्यति हास्यताम् विचिन्त्यैवं कृता तेन ध्रुवं तुष्टिर् द्विजस्य वै भविष्यति ह्य् उपायेन यस्य दास्यामि यातनाम् जनमेजय उवाच एतत् तु श्रोतुम् इच्छामि अटव्यां निर्जने वने संवादं पन्नगेन्द्रस्य काश्यपस्य च यत् तदा केन दृष्टं श्रुतं चापि भवतां श्रोत्रम् आगतम् श्रुत्वा चाथ विधास्यामि पन्नगान्तकरीं मतिम् मन्त्रिण ऊचुः शृणु राजन् यथास्माकं येनैतत् कथितं पुरा समागमं द्विजेन्द्रस्य पन्नगेन्द्रस्य चाध्वनि तस्मिन् वृक्षे नरः कश् चिद् इन्धनार्थाय पार्थिव विचिन्वन् पूर्वम् आरूढः शुष्कशाखं वनस्पतिम् अबुध्यमानौ तं तत्र वृक्षस्थं पन्नगद्विजौ स तु तेनैव वृक्षेण भस्मीभूतो ऽभवत् तदा द्विजप्रभावाद् राजेन्द्र जीवितः सवनस्पतिः तेन गत्वा नृपश्रेष्ठ नगरे ऽस्मिन् निवेदितम् यथावृत्तं तु तत् सर्वं तक्षकस्य द्विजस्य च एतत् ते कथितं राजन् यथावृत्तं यथाश्रुतम् श्रुत्वा तु नृपशार्दूल प्रकुरुष्व यथेप्सितम् सूत उवाच मन्त्रिणां तु वचः श्रुत्वा स राजा जनमेजयः पर्यतप्यत दुःखार्तः प्रत्यपिंषत् करे करम् निःश्वासम् उष्णम् असकृद् दीर्घं राजीवलोचनः मुमोचाश्रूणि च तदा नेत्राभ्यां प्रततं नृपः उवाच च महीपालो दुःखशोकसमन्वितः दुर्धरं बाष्पम् उत्सृज्य स्पृष्ट्वा चापो यथाविधि मुहूर्तम् इव च ध्यात्वा निश्चित्य मनसा नृपः अमर्षी मन्त्रिणः सर्वान् इदं वचनम् अब्रवीत् श्रुत्वैतद् भवतां वाक्यं पितुर् मे स्वर्गतिं प्रति निश्चितेयं मम मतिर् या वै तां मे निबोधत अनन्तरम् अहं मन्ये तक्षकाय दुरात्मने प्रतिकर्तव्यम् इत्य् एव येन मे हिंसितः पिता ऋषेर् हि शृङ्गेर् वचनं कृत्वा दग्ध्वा च पार्थिवम् इयं दुरात्मता तस्य काश्यपं यो न्यवर्तयत् यदि गच्छेद् असौ पापो ननु जीवेत् पिता मम परिहीयेत किं तस्य यदि जीवेत् स पार्थिवः काश्यपस्य प्रसादेन मन्त्रिणां सुनयेन च स तु वारितवान् मोहात् काश्यपं द्विजसत्तमम् संजिजीवयिषुं प्राप्तं राजानम् अपराजितम् महान् अतिक्रमो ह्य् एष तक्षकस्य दुरात्मनः द्विजस्य यो ऽददद् द्रव्यं मा नृपं जीवयेद् इति उत्तङ्कस्य प्रियं कुर्वन्न् आत्मनश् च महत् प्रियम् भवतां चैव सर्वेषां यास्याम्य् अपचितिं पितुः सर्पसत्रं विधास्यामि नागानां क्षयकारकम् सूत उवाच एवम् उक्त्वा ततः श्रीमान् मन्त्रिभिश् चानुमोदितः आरुरोह प्रतिज्ञां स सर्पसत्राय पार्थिवः ब्रह्मन् भरतशार्दूलो राजा पारिक्षितस् तदा पुरोहितम् अथाहूय ऋत्विजं वसुधाधिपः अब्रवीद् वाक्यसंपन्नः संपदर्थकरं वचः यो मे हिंसितवांस् तातं तक्षकः स दुरात्मवान् प्रतिकुर्यां यथा तस्य तद् भवन्तो ब्रुवन्तु मे अपि तत् कर्म विदितं भवतां येन पन्नगम् तक्षकं संप्रदीप्ते ऽग्नौ प्राप्स्ये ऽहं सहबान्धवम् यथा तेन पिता मह्यं पूर्वं दग्धो विषाग्निना तथाहम् अपि तं पापं दग्धुम् इच्छामि पन्नगम् ऋत्विज ऊचुः अस्ति राजन् महत् सत्रं त्वदर्थं देवनिर्मितम् सर्पसत्रम् इति ख्यातं पुराणे कथ्यते नृप आहर्ता तस्य सत्रस्य त्वन् नान्यो ऽस्ति नराधिप इति पौराणिकाः प्राहुर् अस्माकं चास्ति स क्रतुः सूत उवाच एवम् उक्तः स राजर्षिर् मेने सर्पं हि तक्षकम् हुताशनमुखं दीप्तं प्रविष्टम् इति सत्तम ततो ऽब्रवीन् मन्त्रविदस् तान् राजा ब्राह्मणांस् तदा आहरिष्यामि तत् सत्रं संभाराः संभ्रियन्तु मे ततस् ते ऋत्विजस् तस्य शास्त्रतो द्विजसत्तम देशं तं मापयाम् आसुर् यज्ञायतनकारणात् यथावज् ज्ञानविदुषः सर्वे बुद्ध्या परं गताः ऋद्ध्या परमया युक्तम् इष्टं द्विजगणायुतम् प्रभूतधनधान्याढ्यम् ऋत्विग्भिः सुनिवेशितम् निर्माय चापि विधिवद् यज्ञायतनम् ईप्सितम् राजानं दीक्षयाम् आसुः सर्पसत्राप्तये तदा इदं चासीत् तत्र पूर्वं सर्पसत्रे भविष्यति निमित्तं महद् उत्पन्नं यज्ञविघ्नकरं तदा यज्ञस्यायतने तस्मिन् क्रियमाणे वचो ऽब्रवीत् स्थपतिर् बुद्धिसंपन्नो वास्तुविद्याविशारदः इत्य् अब्रवीत् सूत्रधारः सूतः पौराणिकस् तदा यस्मिन् देशे च काले च मापनेयं प्रवर्तिता ब्राह्मणं कारणं कृत्वा नायं संस्थास्यते क्रतुः एतच् छ्रुत्वा तु राजा स प्राग्दीक्षाकालम् अब्रवीत् क्षत्तारं नेह मे कश् चिद् अज्ञातः प्रविशेद् इति ततः कर्म प्रववृते सर्पसत्रे विधानतः पर्यक्रामंश् च विधिवत् स्वे स्वे कर्मणि याजकाः परिधाय कृष्णवासांसि धूमसंरक्तलोचनाः जुहुवुर् मन्त्रवच् चैव समिद्धं जातवेदसम् कम्पयन्तश् च सर्वेषाम् उरगाणां मनांसि ते सर्पान् आजुहुवुस् तत्र सर्वान् अग्निमुखे तदा ततः सर्पाः समापेतुः प्रदीप्ते हव्यवाहने विवेष्टमानाः कृपणा आह्वयन्तः परस्परम् विस्फुरन्तः श्वसन्तश् च वेष्टयन्तस् तथा परे पुच्छैः शिरोभिश् च भृशं चित्रभानुं प्रपेदिरे श्वेताः कृष्णाश् च नीलाश् च स्थविराः शिशवस् तथा रुवन्तो भैरवान् नादान् पेतुर् दीप्ते विभावसौ क्रोशयोजनमात्रा हि गोकर्णस्य प्रमाणतः पतन्त्य् अजस्रं वेगेन चाग्नाव् अग्निमतां वर एवं शतसहस्राणि प्रयुतान्य् अर्बुदानि च अवशानि विनष्टानि पन्नगानां द्विजोत्तम इन्दुरा इव तत्रान्ये हस्तिहस्ता इवापरे मत्ता इव च मातङ्गा महाकाया महाबलाः उच्चावचाश् च बहवो नानावर्णा विषोल्बणाः घोराश् च परिघप्रख्या दन्दशूका महाबलाः प्रपेतुर् अग्नाव् उरगा मातृवाग्दण्डपीडिताः शौनक उवाच सर्पसत्रे तदा राज्ञः पाण्डवेयस्य धीमतः जनमेजयस्य के त्व् आसन्न् ऋत्विजः परमर्षयः के सदस्या बभूवुश् च सर्पसत्रे सुदारुणे विषादजनने ऽत्यर्थं पन्नगानां महाभये सर्वं विस्तरतस् तात भवाञ् शंसितुम् अर्हति सर्पसत्रविधानज्ञा विज्ञेयास् ते हि सूतज सूत उवाच हन्त ते कथयिष्यामि नामानीह मनीषिणाम् ये ऋत्विजः सदस्याश् च तस्यासन् नृपतेस् तदा तत्र होता बभूवाथ ब्राह्मणश् चण्डभार्गवः च्यवनस्यान्वये जातः ख्यातो वेदविदां वरः उद्गाता ब्राह्मणो वृद्धो विद्वान् कौत्सार्यजैमिनिः ब्रह्माभवच् छार्ङ्गरवो अध्वर्युर् बोधपिङ्गलः उत्तङ्को ह्य् अभवत् तत्र नेता च ब्राह्मणोत्तमः कुण्डलद्वेषतस् तत्र सर्पान् दहति सर्वतः सदस्यश् चाभवद् व्यासः पुत्रशिष्यसहायवान् उद्दालकः शमठकः श्वेतकेतुश् च पञ्चमः असितो देवलश् चैव नारदः पर्वतस् तथा आत्रेयः कुण्डजठरो द्विजः कुटिघटस् तथा वात्स्यः श्रुतश्रवा वृद्धस् तपःस्वाध्यायशीलवान् कहोडो देवशर्मा च मौद्गल्यः शमसौभरः एते चान्ये च बहवो ब्राह्मणाः संशितव्रताः सदस्या अभवंस् तत्र सत्रे पारिक्षितस्य ह जुह्वत्स्व् ऋत्विक्ष्व् अथ तदा सर्पसत्रे महाक्रतौ अहयः प्रापतंस् तत्र घोराः प्राणिभयावहाः वसामेदोवहाः कुल्या नागानां संप्रवर्तिताः ववौ गन्धश् च तुमुलो दह्यताम् अनिशं तदा पततां चैव नागानां धिष्ठितानां तथाम्बरे अश्रूयतानिशं शब्दः पच्यतां चाग्निना भृशम् तक्षकस् तु स नागेन्द्रः पुरंदरनिवेशनम् जगाम भयसंविग्नः शरणार्थी सुरर्षभम् गतः श्रुत्वैव राजानं दीक्षितं जनमेजयम् ततः सर्वं यथावृत्तम् आख्याय भुजगोत्तमः अगच्छच् छरणं भीत आगस्कृत्वा पुरंदरम् तम् इन्द्रः प्राह सुप्रीतो न तवास्तीह तक्षक भयं नागेन्द्र तस्माद् वै सर्पसत्रात् कथं चन प्रसादितो मया पूर्वं तवार्थाय पितामहः तस्मात् तव भयं नास्ति व्येतु ते मानसो ज्वरः एवम् आश्वासितस् तेन ततः स भुजगोत्तमः उवास भवने तत्र शक्रस्य मुदितः सुखी अजस्रं निपतत्स्व् अग्नौ नागेषु भृशदुःखितः अल्पशेषपरीवारो वासुकिः पर्यतप्यत कश्मलं चाविशद् घोरं वासुकिं पन्नगेश्वरम् स घूर्णमानहृदयो भगिनीम् इदम् अब्रवीत् दह्यन्ते ऽङ्गानि मे भद्रे दिशो न प्रतिभान्ति च सीदामीव च संमोहाद् घूर्णतीव च मे मनः दृष्टिर् भ्रमति मे ऽतीव हृदयं दीर्यतीव च पतिष्याम्य् अवशो ऽद्याहं तस्मिन् दीप्ते विभावसौ पारिक्षितस्य यज्ञो ऽसौ वर्तते ऽस्मज्जिघांसया व्यक्तं मयापि गन्तव्यं पितृराजनिवेशनम् अयं स कालः संप्राप्तो यदर्थम् असि मे स्वसः जरत्कारोः पुरा दत्ता सा त्राह्य् अस्मान् सबान्धवान् आस्तीकः किल यज्ञं तं वर्तन्तं भुजगोत्तमे प्रतिषेत्स्यति मां पूर्वं स्वयम् आह पितामहः तद् वत्से ब्रूहि वत्सं स्वं कुमारं वृद्धसंमतम् ममाद्य त्वं सभृत्यस्य मोक्षार्थं वेदवित्तमम् सूत उवाच तत आहूय पुत्रं स्वं जरत्कारुर् भुजंगमा वासुकेर् नागराजस्य वचनाद् इदम् अब्रवीत् अहं तव पितुः पुत्र भ्रात्रा दत्ता निमित्ततः कालः स चायं संप्राप्तस् तत् कुरुष्व यथातथम् आस्तीक उवाच किंनिमित्तं मम पितुर् दत्ता त्वं मातुलेन मे तन् ममाचक्ष्व तत्त्वेन श्रुत्वा कर्तास्मि तत् तथा सूत उवाच तत आचष्ट सा तस्मै बान्धवानां हितैषिणी भगिनी नागराजस्य जरत्कारुर् अविक्लवा भुजगानाम् अशेषाणां माता कद्रूर् इति श्रुतिः तया शप्ता रुषितया सुता यस्मान् निबोध तत् उच्छैःश्रवाः सो ऽश्वराजो यन् मिथ्या न कृतो मम विनतानिमित्तं पणिते दासभावाय पुत्रकाः जनमेजयस्य वो यज्ञे धक्ष्यत्य् अनिलसारथिः तत्र पञ्चत्वम् आपन्नाः प्रेतलोकं गमिष्यथ तां च शप्तवतीम् एवं साक्षाल् लोकपितामहः एवम् अस्त्व् इति तद् वाक्यं प्रोवाचानुमुमोद च वासुकिश् चापि तच् छ्रुत्वा पितामहवचस् तदा अमृते मथिते तात देवाञ् शरणम् ईयिवान् सिद्धार्थाश् च सुराः सर्वे प्राप्यामृतम् अनुत्तमम् भ्रातरं मे पुरस्कृत्य प्रजापतिम् उपागमन् ते तं प्रसादयाम् आसुर् देवाः सर्वे पितामहम् राज्ञा वासुकिना सार्धं स शापो न भवेद् इति वासुकिर् नागराजो ऽयं दुःखितो ज्ञातिकारणात् अभिशापः स मात्रास्य भगवन् न भवेद् इति तथा विधीयताम् एतद् देवदेव जगत्पते ब्रह्मोवाच जरत्कारुर् जरत्कारुं यां भार्यां समवाप्स्यति तत्र जातो द्विजः शापाद् भुजगान् मोक्षयिष्यति जरत्कारुर् उवाच एतच् छ्रुत्वा तु वचनं वासुकिः पन्नगेश्वरः प्रादान् माम् अमरप्रख्य तव पित्रे महात्मने प्राग् एवानागते काले तत्र त्वं मय्य् अजायथाः अयं स कालः संप्राप्तो भयान् नस् त्रातुम् अर्हसि भ्रातरं चैव मे तस्मात् त्रातुम् अर्हसि पावकात् अमोघं नः कृतं तत् स्याद् यद् अहं तव धीमते पित्रे दत्ता विमोक्षार्थं कथं वा पुत्र मन्यसे सूत उवाच एवम् उक्तस् तथेत्य् उक्त्वा सो ऽस्तीको मातरं तदा अब्रवीद् दुःखसंतप्तं वासुकिं जीवयन्न् इव अहं त्वां मोक्षयिष्यामि वासुके पन्नगोत्तम तस्माच् छापान् महासत्त्व सत्यम् एतद् ब्रवीमि ते भव स्वस्थमना नाग न हि ते विद्यते भयम् प्रयतिष्ये तथा सौम्य यथा श्रेयो भविष्यति न मे वाग् अनृतं प्राह स्वैरेष्व् अपि कुतो ऽन्यथा तं वै नृपवरं गत्वा दीक्षितं जनमेजयम् वाग्भिर् मङ्गलयुक्ताभिस् तोषयिष्ये ऽद्य मातुल यथा स यज्ञो नृपतेर् निर्वर्तिष्यति सत्तम स संभावय नागेन्द्र मयि सर्वं महामते न ते मयि मनो जातु मिथ्या भवितुम् अर्हति वासुकिर् उवाच आस्तीक परिघूर्णामि हृदयं मे विदीर्यते दिशश् च न प्रजानामि ब्रह्मदण्डनिपीडितः आस्तीक उवाच न संतापस् त्वया कार्यः कथं चित् पन्नगोत्तम दीप्ताद् अग्नेः समुत्पन्नं नाशयिष्यामि ते भयम् ब्रह्मदण्डं महाघोरं कालाग्निसमतेजसम् नाशयिष्यामि मात्र त्वं भयं कार्षीः कथं चन सूत उवाच ततः स वासुकेर् घोरम् अपनीय मनोज्वरम् आधाय चात्मनो ऽङ्गेषु जगाम त्वरितो भृशम् जनमेजयस्य तं यज्ञं सर्वैः समुदितं गुणैः मोक्षाय भुजगेन्द्राणाम् आस्तीको द्विजसत्तमः स गत्वापश्यद् आस्तीको यज्ञायतनम् उत्तमम् वृतं सदस्यैर् बहुभिः सूर्यवह्निसमप्रभैः स तत्र वारितो द्वाःस्थैः प्रविशन् द्विजसत्तमः अभितुष्टाव तं यज्ञं प्रवेशार्थी द्विजोत्तमः स प्राप्य यज्ञायतनं वरिष्ठं द्विजोत्तमः पुण्यकृतां वरिष्ठः तुष्टाव राजानम् अनन्तकीर्तिम् ऋत्विक्सदस्यांश् च तथैव चाग्निम् आस्तीक उवाच सोमस्य यज्ञो वरुणस्य यज्ञः; प्रजापतेर् यज्ञ आसीत् प्रयागे तथा यज्ञो ऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नो ऽस्तु प्रियेभ्यः दिलीपराज्ञो नहुषस्य राज्ञो; नलस्य राज्ञः शतबिन्दोश् च राज्ञः शक्रस्य यज्ञः शतसंख्य उक्तस्; तथापरस् तुल्यसंख्यः शतं वै तथा यज्ञो ऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नो ऽस्तु प्रियेभ्यः यमस्य यज्ञो हरिमेधसश् च; यथा यज्ञो रन्तिदेवस्य राज्ञः तथा यज्ञो ऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नो ऽस्तु प्रियेभ्यः गयस्य यज्ञः शशबिन्दोश् च राज्ञो; यज्ञस् तथा वैश्रवणस्य राज्ञः तथा यज्ञो ऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नो ऽस्तु प्रियेभ्यः नृगस्य यज्ञस् त्व् अजमीढस्य चासीद्; यथा यज्ञो दाशरथेश् च राज्ञः तथा यज्ञो ऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नो ऽस्तु प्रियेभ्यः यज्ञः श्रुतो नो दिवि देवसूनोर्; युधिष्ठिरस्याजमीढस्य राज्ञः तथा यज्ञो ऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नो ऽस्तु प्रियेभ्यः नहुषस्य यज्ञः सगरस्य यज्ञः; धुन्धोस् तथा रन्तिदेवस्य चैव कृष्णस्य यज्ञः सत्यवत्याः सुतस्य; स्वयं च कर्म प्रचकार यत्र तथा यज्ञो ऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नो ऽस्तु प्रियेभ्यः इमे हि ते सूर्यहुताशवर्चसः; समासते वृत्रहणः क्रतुं यथा नैषां ज्ञानं विद्यते ज्ञातुम् अद्य; दत्तं येभ्यो न प्रणश्येत् कथं चित् ऋत्विक्समो नास्ति लोकेषु चैव; द्वैपायनेनेति विनिश्चितं मे एतस्य शिष्या हि क्षितिं चरन्ति; सर्वर्त्विजः कर्मसु स्वेषु दक्षाः विभावसुश् चित्रभानुर् महात्मा; हिरण्यरेता विश्वभुक् कृष्णवर्त्मा प्रदक्षिणावर्तशिखः प्रदीप्तो; हव्यं तवेदं हुतभुग् वष्टि देवः नेह त्वद् अन्यो विद्यते जीवलोके; समो नृपः पालयिता प्रजानाम् धृत्या च ते प्रीतमनाः सदाहं; त्वं वा राजा धर्मराजो यमो वा शक्रः साक्षाद् वज्रपाणिर् यथेह; त्राता लोके ऽस्मिंस् त्वं तथेह प्रजानाम् मतस् त्वं नः पुरुषेन्द्रेह लोके; न च त्वद् अन्यो गृहपतिर् अस्ति यज्ञे खट्वाङ्गनाभागदिलीपकल्पो; ययातिमान्धातृसमप्रभावः आदित्यतेजःप्रतिमानतेजा; भीष्मो यथा भ्राजसि सुव्रतस् त्वम् वाल्मीकिवत् ते निभृतं सुधैर्यं; वसिष्ठवत् ते नियतश् च कोपः प्रभुत्वम् इन्द्रेण समं मतं मे; द्युतिश् च नारायणवद् विभाति यमो यथा धर्मविनिश्चयज्ञः; कृष्णो यथा सर्वगुणोपपन्नः श्रियां निवासो ऽसि यथा वसूनां; निधानभूतो ऽसि तथा क्रतूनाम् दम्भोद्भवेनासि समो बलेन; रामो यथा शस्त्रविद् अस्त्रविच् च और्वत्रिताभ्याम् असि तुल्यतेजा; दुष्प्रेक्षणीयो ऽसि भगीरथो वा तुल्यो ऽसि तेनैव महात्मना वा गङ्गा देवी मानयाम् आस यो वै सूत उवाच एवं स्तुताः सर्व एव प्रसन्ना; राजा सदस्या ऋत्विजो हव्यवाहः तेषां दृष्ट्वा भावितानीङ्गितानि; प्रोवाच राजा जनमेजयो ऽथ जनमेजय उवाच बालो वाक्यं स्थविर इव प्रभाषते; नायं बालः स्थविरो ऽयं मतो मे इच्छाम्य् अहं वरम् अस्मै प्रदातुं; तन् मे विप्रा वितरध्वं समेताः सदस्या ऊचुः बालो ऽपि विप्रो मान्य एवेह राज्ञां; यश् चाविद्वान् यश् च विद्वान् यथावत् प्रसादयैनं त्वम् अतो नरेन्द्र द्विजातिवर्यं सकलार्थसिद्धये सर्वान् कामांस् त्वत्त एषो ऽर्हते ऽद्य; यथा च नस् तक्षक एति शीघ्रम् सूत उवाच व्याहर्तुकामे वरदे नृपे द्विजं; वरं वृणीष्वेति ततो ऽभ्युवाच होता वाक्यं नातिहृष्टान्तरात्मा; कर्मण्य् अस्मिंस् तक्षको नैति तावत् जनमेजय उवाच यथा चेदं कर्म समाप्यते मे; यथा च नस् तक्षक एति शीघ्रम् तथा भवन्तः प्रयतन्तु सर्वे; परं शक्त्या स हि मे विद्विषाणः ऋत्विज ऊचुः यथा शास्त्राणि नः प्राहुर् यथा शंसति पावकः इन्द्रस्य भवने राजंस् तक्षको भयपीडितः आस्ते विषधरो नागो निहन्ता जनकस्य ते सूत उवाच यथा सूतो लोहिताक्षो महात्मा; पौराणिको वेदितवान् पुरस्तात् स राजानं प्राह पृष्टस् तदानीं; यथाहुर् विप्रास् तद्वद् एतन् नृदेव पुराणम् आगम्य ततो ब्रवीम्य् अहं; दत्तं तस्मै वरम् इन्द्रेण राजन् वसेह त्वं मत्सकाशे सुगुप्तो; न पावकस् त्वां प्रदहिष्यतीति एतच् छ्रुत्वा दीक्षितस् तप्यमान; आस्ते होतारं चोदयन् कर्मकाले इन्द्रेण सार्धं तक्षकं पातयध्वं विभावसोर् न तु मुच्येत नागः होता च यत्तः स जुहाव मन्त्रैर्; अथो इन्द्रः स्वयम् एवाजगाम आयातु चेन्द्रो ऽपि सतक्षकः पतेद् विभावसौ नागराजेन तूर्णम् जम्भस्य हन्तेति जुहाव होता तदाजगामाहिदत्ताभयः प्रभुः विमानम् आरुह्य महानुभावः; सर्वैर् देवैः परिसंस्तूयमानः बलाहकैश् चाप्य् अनुगम्यमानो; विद्याधरैर् अप्सरसां गणैश् च नागस्य नाशो मम चैव नाशो भविष्यतीत्य् एव विचिन्त्यमानः तस्योत्तरीये निहितः स नागो; भयोद्विग्नः शर्म नैवाभ्यगच्छत् ततो राजा मन्त्रविदो ऽब्रवीत् पुनः; क्रुद्धो वाक्यं तक्षकस्यान्तम् इच्छन् इन्द्रस्य भवने विप्रा यदि नागः स तक्षकः तम् इन्द्रेणैव सहितं पातयध्वं विभावसौ न त्यजेद् यदि तं चेन्द्रः स नागं तक्षकं तथा सूत उवाच जनमेजयेन राज्ञा तु चोदितस् तक्षकं प्रति होता जुहाव तत्रस्थं तक्षकं पन्नगं तथा हूयमाने तथा चैव तक्षकः सपुरंदरः आकाशे ददृशे चैव क्षणेन व्यथितस् तदा पुरंदरस् तु तं यज्ञं दृष्ट्वोरुभयम् आविशत् हित्वा तु तक्षकं त्रस्तः स्वम् एव भवनं ययौ इन्द्रे गते तु नागेन्द्रस् तक्षको भयमोहितः मन्त्रशक्त्या पावकार्चिःसमीपम् अवशो गतः तं दृष्ट्वा ऋत्विजस् तत्र वचनं चेदम् अब्रुवन् ऋत्विज ऊचुः अयम् आयाति वै तूर्णं तक्षकस् ते वशं नृप श्रूयते ऽस्य महान् नादो रुवतो भैरवं भयात् नूनं मुक्तो वज्रभृता स नागो; भ्रष्टश् चाङ्कान् मन्त्रविस्रस्तकायः घूर्णन्न् आकाशे नष्टसंज्ञो ऽभ्युपैति; तीव्रान् निःश्वासान् निःश्वसन् पन्नगेन्द्रः वर्तते तव राजेन्द्र कर्मैतद् विधिवत् प्रभो अस्मै तु द्विजमुख्याय वरं त्वं दातुम् अर्हसि जनमेजय उवाच बालाभिरूपस्य तवाप्रमेय; वरं प्रयच्छामि यथानुरूपम् वृणीष्व यत् ते ऽभिमतं हृदि स्थितं; तत् ते प्रदास्याम्य् अपि चेद् अदेयम् सूत उवाच पतिष्यमाणे नागेन्द्रे तक्षके जातवेदसि इदम् अन्तरम् इत्य् एवं तदास्तीको ऽभ्यचोदयत् वरं ददासि चेन् मह्यं वृणोमि जनमेजय सत्रं ते विरमत्व् एतन् न पतेयुर् इहोरगाः एवम् उक्तस् ततो राजा ब्रह्मन् पारिक्षितस् तदा नातिहृष्टमना वाक्यम् आस्तीकम् इदम् अब्रवीत् सुवर्णं रजतं गाश् च यच् चान्यन् मन्यसे विभो तत् ते दद्यां वरं विप्र न निवर्तेत् क्रतुर् मम आस्तीक उवाच सुवर्णं रजतं गाश् च न त्वां राजन् वृणोम्य् अहम् सत्रं ते विरमत्व् एतत् स्वस्ति मातृकुलस्य नः सूत उवाच आस्तीकेनैवम् उक्तस् तु राजा पारिक्षितस् तदा पुनः पुनर् उवाचेदम् आस्तीकं वदतां वरम् अन्यं वरय भद्रं ते वरं द्विजवरोत्तम अयाचत न चाप्य् अन्यं वरं स भृगुनन्दन ततो वेदविदस् तत्र सदस्याः सर्व एव तम् राजानम् ऊचुः सहिता लभतां ब्राह्मणो वरम् श्रुत्वा तन् नृपतिर् वाक्यं ददौ तस्मै वरं तदा सर्वेषां पश्यतां तत्र पूर्णकामो द्विजो ऽभवत् शौनक उवाच ये सर्पाः सर्पसत्रे ऽस्मिन् पतिता हव्यवाहने तेषां नामानि सर्वेषां श्रोतुम् इच्छामि सूतज सूत उवाच सहस्राणि बहून्य् अस्मिन् प्रयुतान्य् अर्बुदानि च न शक्यं परिसंख्यातुं बहुत्वाद् वेदवित्तम यथास्मृति तु नामानि पन्नगानां निबोध मे उच्यमानानि मुख्यानां हुतानां जातवेदसि वासुकेः कुलजांस् तावत् प्राधान्येन निबोध मे नीलरक्तान् सितान् घोरान् महाकायान् विषोल्बणान् अवशान् मातृवाग्दण्डपीडितान् कृपणान् हुतान् कोटिको मानसः पूर्णः सहः पैलो हलीसकः पिच्छिलः कोणपश् चक्रः कोणवेगः प्रकालनः हिरण्यवाहः शरणः कक्षकः कालदन्तकः एते वासुकिजा नागाः प्रविष्टा हव्यवाहनम् अन्ये च बहवो विप्र तथा वै कुलसंभवाः प्रदीप्ताग्नौ हुताः सर्वे घोररूपा महाबलाः तक्षकस्य कुले जातान् प्रवक्ष्यामि निबोध तान् पुच्छण्डको मण्डलकः पिण्डभेत्ता रभेणकः उच्छिखः सुरसो द्रङ्गो बलहेडो विरोहणः शिलीशलकरो मूकः सुकुमारः प्रवेपनः मुद्गरः शशरोमा च सुमना वेगवाहनः एते तक्षकजा नागाः प्रविष्टा हव्यवाहनम् पारावतः पारियात्रः पाण्डरो हरिणः कृशः सुभोजनः पराशश् च वीर्यवान् एकसाहसः विहंगः शरभो मोदः प्रमोदः संहताङ्गदः ऐरावतकुलाद् एते प्रैविष्टा हव्यवाहनम् कौरव्यकुलजान् नागाञ् शृणु मे द्विजसत्तम ऐण्डिलः कुण्डलो मुण्डो वेणिस्कन्धः कुमारकः बाहुकः शृङ्गवेगश् च धूर्तकः पातपातरौ कौरव्यकुलजास् त्व् एते प्रविष्टा हव्यवाहनम् एते कौरव्यजा नागा विभावसुमुखं गताः धृतराष्ट्रकुले जाताञ् शृणु नागान् यथातथम् कीर्त्यमानान् मया ब्रह्मन् वातवेगान् विषोल्बणान् शङ्कुकर्णः पिङ्गलकः कुठारमुखमेचकौ पूर्णाङ्गदः पूर्णमुखः प्रहसः शकुनिर् हरिः आमाहठः कोमठकः श्वसनो मानवो वटः भैरवो मुण्डवेदाङ्गः पिशङ्गश् चोद्रपारगः ऋषभो वेगवान् नाम पिण्डारकमहाहनू रक्ताङ्गः सर्वसारङ्गः समृद्धः पाटराक्षसौ वराहको वारणकः सुमित्रश् चित्रवेदिकः वराहको वारुणकः सुचित्रा एत्रवेणिकः पराशरस् तरुणको मणिस्कन्धस् तथारुणिः इति नागा मया ब्रह्मन् कीर्तिताः कीर्तिवर्धनाः प्राधान्येन बहुत्वात् तु न सर्वे परिकीर्तिताः एतेषां पुत्रपौत्रास् तु प्रसवस्य च संततिः न शक्याः परिसंख्यातुं ये दीप्तं पावकं गताः सप्तशीर्षा द्विशीर्षाश् च पञ्चशीर्षास् तथापरे शतशीर्षास् तथा नागाः कालानलविषोल्बणाः दशशीर्षाः शतशीर्षास् तथान्ये बहुशीर्षकाः कालानलविषा घोरा हुताः शतसहस्रशः महाकाया महावीर्याः शैलशृङ्गसमुच्छ्रयाः योजनायामविस्तारा द्वियोजनसमायताः पञ्चयोजनविस्तारा दशद्वादशसंख्यया कामरूपाः कामगमा दीप्तानलविषोल्बणाः दग्धास् तत्र महासत्रे ब्रह्मदण्डनिपीडिताः सूत उवाच इदम् अत्यद्भुतं चान्यद् आस्तीकस्यानुशुश्रुमः तथा वरैश् छन्द्यमाने राज्ञा पारिक्षितेन ह इन्द्रहस्ताच् च्युतो नागः ख एव यद् अतिष्ठत ततश् चिन्तापरो राजा बभूव जनमेजयः हूयमाने भृशं दीप्ते विधिवत् पावके तदा न स्म स प्रापतद् वह्नौ तक्षको भयपीडितः शौनक उवाच किं सूत तेषां विप्राणां मन्त्रग्रामो मनीषिणाम् न प्रत्यभात् तदाग्नौ यन् न पपात स तक्षकः सूत उवाच तम् इन्द्रहस्ताद् विस्रस्तं विसंज्ञं पन्नगोत्तमम् आस्तीकस् तिष्ठ तिष्ठेति वाचस् तिस्रो ऽभ्युदैरयत् वितस्थे सो ऽन्तरिक्षे ऽथ हृदयेन विदूयता यथा तिष्ठेत वै कश् चिद् गोचक्रस्यान्तरा नरः ततो राजाब्रवीद् वाक्यं सदस्यैश् चोदितो भृशम् कामम् एतद् भवत्व् एवं यथास्तीकस्य भाषितम् समाप्यताम् इदं कर्म पन्नगाः सन्त्व् अनामयाः प्रीयताम् अयम् आस्तीकः सत्यं सूतवचो ऽस्तु तत् ततो हलहलाशब्दः प्रीतिजः समवर्तत आस्तीकस्य वरे दत्ते तथैवोपरराम च स यज्ञः पाण्डवेयस्य राज्ञः पारिक्षितस्य ह समापिते ततः सत्रे विधिवद् विधिदर्शिभिः प्रीतिमांश् चाभवद् राजा भारतो जनमेजयः ऋत्विग्भ्यः ससदस्येभ्यो ये तत्रासन् समागताः तेभ्यश् च प्रददौ वित्तं शतशो ऽथ सहस्रशः लोहिताक्षाय सूताय तथा स्थपतये विभुः येनोक्तं तत्र सत्राग्रे यज्ञस्य विनिवर्तनम् निमित्तं ब्राह्मण इति तस्मै वित्तं ददौ बहु दत्वा द्रव्यं यथान्यायं भोजनाच्छादनान्वितन् प्रीतस् तस्मै नरपतिर् अप्रमेयपराक्रमः ततो गत्वा चावभृथं कृत्वा स्नानम् अनन्तरम् ततश् चकारावभृथं विधिदृष्टेन कर्मणा आस्तीकं प्रेषयाम् आस गृहान् एव सुसत्कृतम् राजा प्रीतमनाः प्रीतं कृतकृत्यं मनीषिणम् पुनरागमनं कार्यम् इति चैनं वचो ऽब्रवीत् भविष्यसि सदस्यो मे वाजिमेधे महाक्रतौ तथेत्य् उक्त्वा प्रदुद्राव स चास्तीको मुदा युतः कृत्वा स्वकार्यम् अतुलं तोषयित्वा च पार्थिवम् स गत्वा परमप्रीतो मातरं मातुलं च तम् अभिगम्योपसंगृह्य यथावृत्तं न्यवेदयत् एतच् छ्रुत्वा प्रीयमाणाः समेता; ये तत्रासन् पन्नगा वीतमोहाः ते ऽऽस्तीके वै प्रीतिमन्तो बभूवुर्; ऊचुश् चैनं वरम् इष्टं वृणीष्व भूयो भूयः सर्वशस् ते ऽब्रुवंस् तं; किं ते प्रियं करवामो ऽद्य विद्वन् प्रीता वयं मोक्षिताश् चैव सर्वे; कामं किं ते करवामो ऽद्य वत्स आस्तीक उवाच सायं प्रातः सुप्रसन्नात्मरूपा; लोके विप्रा मानवाश् चेतरे ऽपि धर्माख्यानं ये वदेयुर् ममेदं; तेषां युष्मद्भ्यो नैव किं चिद् भयं स्यात् सूत उवाच तैश् चाप्य् उक्तो भागिनेयः प्रसन्नैर्; एतत् सत्यं कामम् एवं चरन्तः प्रीत्या युक्ता ईप्सितं सर्वशस् ते; कर्तारः स्म प्रवणा भागिनेय जरत्कारोर् जरत्कार्वां समुत्पन्नो महायशाः गुणवान् वै महातेजा कार्यकर्ता महायशाः आस्तीकः सत्यसंधो मां पन्नगेभ्यो ऽभिरक्षतु आस्तीकेनोरगैः सार्धं यः पुरा समयः कृतः सूत उवाच तं स्मरन्तं महाभागा न मां हिंसितुम् अर्हथ सर्पापसर्प भद्रं ते गच्छ सर्प महाविष जनमेजयस्य यज्ञान्ते आस्तीकवचनं स्मर आस्तीकवचनं स्मृत्वा यः सर्पो न निवर्तते शतधा भिद्यते मूर्ध्नि शिंशवृक्षफलं यथा स एवम् उक्तस् तु तदा द्विजेन्द्रः समागतैस् तैर् भुजगेन्द्रमुख्यैः संप्राप्य प्रीतिं विपुलां महात्मा ततो मनो गमनायाथ दध्रे असितं चार्तिमन्तं च सुनीथं चापि यः स्मरेत् दिवा वा यदि वा रात्रौ नास्य सर्पभयं भवेत् इत्य् एवं नागराजो ऽथ नागानां मध्यमस् तथा उक्त्वा सहैव ते सर्वैः स्वम् एव भवनं ययौ सूत उवाच मोक्षयित्वा स भुजगान् सर्पसत्राद् द्विजोत्तमः जगाम काले धर्मात्मा दिष्टान्तं पुत्रपौत्रवान् इत्य् आख्यानं मयास्तीकं यथावत् कीर्तितं तव यत् कीर्तयित्वा सर्पेभ्यो न भयं विद्यते क्व चित् यन् मां त्वं पृष्टवान् ब्रह्मञ् श्रुत्वा डुण्डुभभाषितम् व्येतु ते सुमहद् ब्रह्मन् कौतूहलम् अरिंदम श्रुत्वा धर्मिष्ठम् आख्यानम् आस्तीकं पुण्यवर्धनम् सर्वपापैर् विनिर्मुक्तो ब्रह्मलोके महीयते यथा कथितवान् ब्रह्मन् प्रमतिः पूर्वजस् तव पुत्राय रुरवे प्रीतः पृच्छते भार्गवोत्तम यद् वाक्यं श्रुतवांश् चाहं तथा च कथितं मया आस्तीकस्य कवेर् विप्र श्रीमच्चरितम् आदितः श्रुत्वास्तीकश् च चरितं यः स्मरेद् भक्तितत्परः पुत्रपौत्रधनायुश् च कुलसंतति चाक्षया महापुण्यं यशश् चैव लभते नात्र संशयः सर्वपापविनिर्मुक्तो दीर्घम् आयुर् अवाप्नुयात् गार्हस्थ्यं धर्मम् अखिलं प्रयायात् पुत्रपौत्रवान् शौनक उवाच भृगुवंशात् प्रभृत्य् एव त्वया मे कथितं महत् आख्यानम् अखिलं तात सौते प्रीतो ऽस्मि तेन ते प्रक्ष्यामि चैव भूयस् त्वां यथावत् सूतनन्दन यां कथां व्याससंपन्नां तां च भूयः प्रचक्ष्व मे तस्मिन् परमदुष्प्रापे सर्पसत्रे महात्मनाम् कर्मान्तरेषु विधिवत् सदस्यानां महाकवे या बभूवुः कथाश् चित्रा येष्व् अर्थेषु यथातथम् त्वत्त इच्छामहे श्रोतुं सौते त्वं वै विचक्षणः सूत उवाच कर्मान्तरेष्व् अकथयन् द्विजा वेदाश्रयाः कथाः व्यासस् त्व् अकथयन् नित्यम् आख्यानं भारतं महत् शौनक उवाच महाभारतम् आख्यानं पाण्डवानां यशस्करम् जनमेजयेन यत् पृष्टः कृष्णद्वैपायनस् तदा श्रावयाम् आस विधिवत् तदा कर्मान्तरेषु सः ताम् अहं विधिवत् पुण्यां श्रोतुम् इच्छामि वै कथाम् मनःसागरसंभूतां महर्षेः पुण्यकर्मणः कथयस्व सतां श्रेष्ठ न हि तृप्यामि सूतज सूत उवाच हन्त ते कथयिष्यामि महद् आख्यानम् उत्तमम् कृष्णद्वैपायनमतं महाभारतम् आदितः तज् जुषस्वोत्तममते कथ्यमानं मया द्विज शंसितुं तन् मनोहर्षो ममापीह प्रवर्तते सूत उवाच श्रुत्वा तु सर्पसत्राय दीक्षितं जनमेजयम् ब्राह्मणानां पुरस्तात् स नृपेणैवं प्रणोदितः अभ्यागच्छद् ऋषिर् विद्वान् कृष्णद्वैपायनस् तदा जनयाम् आस यं काली शक्तेः पुत्रात् पराशरात् कन्यैव यमुनाद्वीपे पाण्डवानां पितामहम् जातमात्रश् च यः सद्य इष्ट्या देहम् अवीवृधत् वेदांश् चाधिजगे साङ्गान् सेतिहासान् महायशाः यं नातितपसा कश् चिन् न वेदाध्ययनेन च न व्रतैर् नोपवासैश् च न प्रसूत्या न मन्युना विव्यासैकं चतुर्धा यो वेदं वेदविदां वरः परावरज्ञो ब्रह्मर्षिः कविः सत्यव्रतः शुचिः यः पाण्डुं धृतराष्ट्रं च विदुरं चाप्य् अजीजनत् शंतनोः संततिं तन्वन् पुण्यकीर्तिर् महायशाः जनमेजयस्य राजर्षेः स तद् यज्ञसदस् तदा विवेश शिष्यैः सहितो वेदवेदाङ्गपारगैः तत्र राजानम् आसीनं ददर्श जनमेजयम् वृतं सदस्यैर् बहुभिर् देवैर् इव पुरंदरम् तथा मूर्धावसिक्तैश् च नानाजनपदेश्वरैः ऋत्विग्भिर् देवकल्पैश् च कुशलैर् यज्ञसंस्तरे जनमेजयस् तु राजर्षिर् दृष्ट्वा तम् ऋषिम् आगतम् सगणो ऽब्युद्ययौ तूर्णं प्रीत्या भरतसत्तमः काञ्चनं विष्टरं तस्मै सदस्यानुमते प्रभुः आसनं कल्पयाम् आस यथा शक्रो बृहस्पतेः तत्रोपविष्टं वरदं देवर्षिगणपूजितम् पूजयाम् आस राजेन्द्रः शास्त्रदृष्टेन कर्मणा पाद्यम् आचमनीयं च अर्घ्यं गां च विधानतः पितामहाय कृष्णाय तदर्हाय न्यवेदयत् प्रतिगृह्य च तां पूजां पाण्डवाज् जनमेजयात् गां चैव समनुज्ञाय व्यासः प्रीतो ऽभवत् तदा तथा संपूजयित्वा तं यत्नेन प्रपितामहम् उपोपविश्य प्रीतात्मा पर्यपृच्छद् अनामयम् भगवान् अपि तं दृष्ट्वा कुशलं प्रतिवेद्य च सदस्यैः पूजितः सर्वैः सदस्यान् अभ्यपूजयत् ततस् तं सत्कृतं सर्वैः सदस्यैर् जनमेजयः इदं पश्चाद् द्विजश्रेष्ठं पर्यपृच्छत् कृताञ्जलिः कुरूणां पाण्डवानां च भवान् प्रत्यक्षदर्शिवान् तेषां चरितम् इच्छामि कथ्यमानं त्वया द्विज कथं समभवद् भेदस् तेषाम् अक्लिष्टकर्मणाम् तच् च युद्धं कथं वृत्तं भूतान्तकरणं महत् पितामहानां सर्वेषां दैवेनाविष्टचेतसाम् कार्त्स्न्येनैतत् समाचक्ष्व भगवन् कुशलो ह्य् असि तस्य तद् वचनं श्रुत्वा कृष्णद्वैपायनस् तदा शशास शिष्यम् आसीनं वैशंपायनम् अन्तिके कुरूणां पाण्डवानां च यथा भेदो ऽभवत् पुरा तद् अस्मै सर्वम् आचक्ष्व यन् मत्तः श्रुतवान् असि गुरोर् वचनम् आज्ञाय स तु विप्रर्षभस् तदा आचचक्षे ततः सर्वम् इतिहासं पुरातनम् तस्मै राज्ञे सदस्येभ्यः क्षत्रियेभ्यश् च सर्वशः भेदं राज्यविनाशं च कुरुपाण्डवयोस् तदा वैशंपायन उवाच पातु वः कविमातङ्गो व्यासः सत्यवतीसुतः यस्य वाग्मदगन्धेन वासितं भुवनत्रयम् शृणु राजन् यथा वीरा भ्रातरः पञ्च पाण्डवाः विरोधम् अन्वगच्छन्त धार्तराष्ट्रैर् दुरात्मभिः गुरवे प्राङ् नमस्कृत्य मनोबुद्धिसमाधिभिः संपूज्य च द्विजान् सर्वांस् तथान्यान् विदुषो जनान् महर्षेः सर्वलोकेषु विश्रुतस्यास्य धीमतः प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः श्रोतुं पात्रं च राजंस् त्वं प्राप्येमां भारतीं कथाम् गुरोर् वक्तुं परिस्पन्दो मुदा प्रोत्साहतीव माम् शौनक उवाच सूत उवाच जनमेजयेन राज्ञा वै किमर्थं सूतनन्दन सर्पसत्रान्तरे पृष्टो व्यासशिष्यो महातपाः पूर्वजानां कथां मां वै तन् नो वद महामते सर्वज्ञः सर्वदर्शी च न ते ह्य् अविदितं क्व चित् सर्पसत्रे च संपूर्णे ऋत्विजश् चागतश्रमाः धूमसंभ्रान्तनेत्रास् तु दशाष्टौ सुषुपुस् तदा तेषु सुप्तेषु सर्वेषु राजा पारिक्षितस् तदा यज्ञान्ते ऋषिभिर् नैव निद्रा कार्या कथं चन इति स्मृत्युक्तवचनं स्मृत्वा तान् ऋषिसत्तमान् अभिमन्त्रितेनोदकेन ऋषिभिश् चाभिचारकैः प्रोक्षयाम् आस तेषां वै निद्रान्तं तु चिकीर्षवान् एतस्मिन्न् अन्तरे तत्र मूर्च्छाम् आपुः सुदीर्घिकाम् अचेतनांश् च मुनयस् तान् दृष्ट्वा दुःखितो ऽभवत् तदा सभासदो विप्राः प्रोचुश् च जनमेजयम् धिग् धिक् ते चेष्टितं राजन् ब्राह्मणान् हतवान् असि ब्रह्महत्याष्टादश वै कृतास् त्वया नराधिप चर तीर्थान्य् अनेकानि पश्चाच् छुद्धिम् अवाप्स्यसि एतस्मिन्न् अन्तरे तत्र वाग् उवाचाशरीरिणी दुःखितं चिन्तयाक्रान्तं राजानं जीवयन्न् इव ब्रह्महत्याविमोक्षार्थं कृत्वा चीरं निऌईयुतम् अष्टादशारत्निकं च तद् वासः परिधाय च पाण्डवानां कथा ह्य् अत्र अष्टादशकपर्वकम् शृणु त्वं भारतं च ततः शुद्धिम् अवाप्स्यसि इति तद् वचनं श्रुत्वा ऋषिभिश् चानुमोदितः वासस् तद् उक्तं वासित्वा व्यासं सत्यवतीसुतम् प्रश्रयावनतो राजा पप्रच्छ पूर्वजां कथाम् ताम् अहं वर्णयिष्यामि शृणुध्वं भो मुनीश्वराः शृणु राजन् यथा भेदः कुरुपाण्डवयोर् अभूत् राज्यार्थे द्यूतसंभूतो वनवासस् तथैव च यथा च युद्धम् अभवत् पृथिवीक्षयकारकम् तत् ते ऽहं संप्रवक्ष्यामि पृच्छते भरतर्षभ मृते पितरि ते वीरा वनाद् एत्य स्वमन्दिरम् नचिराद् इव विद्वांसो वेदे धनुषि चाभवन् तांस् तथा रूपवीर्यौजःसंपन्नान् पौरसंमतान् नामृष्यन् कुरवो दृष्ट्वा पाण्डवाञ् श्रीयशोभृतः ततो दुर्योधनः क्रूरः कर्णश् च सहसौबलः तेषां निग्रहनिर्वासान् विविधांस् ते समाचरन् ततो दुर्योधनः क्रूरः कर्णस्य च मते स्थितः पाण्डवान् विविधोपायै राज्यहेतोर् अपीडयत् ददाव् अथ विषं पापो भीमाय धृतराष्ट्रजः जरयाम् आस तद् वीरः सहान्नेन वृकोदरः प्रमाणकोट्यां संसुप्तं पुनर् बद्ध्वा वृकोदरम् तोयेषु भीमं गङ्गायाः प्रक्षिप्य पुरम् आव्रजत् यदा प्रबुद्धः कौन्तेयस् तदा संछिद्य बन्धनम् उदतिष्ठन् महाराज भीमसेनो गतव्यथः आशीविषैः कृष्णसर्पैः सुप्तं चैनम् अदंशयत् सर्वेष्व् एवाङ्गदेशेषु न ममार च शत्रुहा उपायैर् बहुभिः क्षुद्रैः संवृतैर् विवृतैर् अपि पाण्डवान् पीडयाम् आस न च किं चिद् असाधयत् तेषां तु विप्रकारेषु तेषु तेषु महामतिः मोक्षणे प्रतिघाते च विदुरो ऽवहितो ऽभवत् स्वर्गस्थो जीवलोकस्य यथा शक्रः सुखावहः पाण्डवानां तथा नित्यं विदुरो ऽपि सुखावहः यदा तु विविधोपायैः संवृतैर् विवृतैर् अपि नाशक्नोद् विनिहन्तुं तान् दैवभाव्यर्थरक्षितान् ततः संमन्त्र्य सचिवैर् वृषदुःशासनादिभिः धृतराष्ट्रम् अनुज्ञाप्य जातुषं गृहम् आदिशत् तत्र तान् वासयाम् आस पाण्डवान् अमितौजसः अदाहयच् च विस्रब्धान् पावकेन पुनस् तदा विदुरस्यैव वचनात् खनित्री विहिता ततः मोक्षयाम् आस योगेन ते मुक्ताः प्राद्रवन् भयात् प्राप्ता हिडिम्बी भीमेन यत्र जातो घटोत्कचः ततो महावने घोरे हिडिम्बं नाम राक्षसम् भीमसेनो ऽवधीत् क्रुद्धो भुवि भीमपराक्रमः अथ संधाय ते वीरा एकचक्रां व्रजंस् तदा ब्रह्मरूपधरा भूत्वा मात्रा सह परंतपाः तत्र ते ब्राह्मणार्थाय बकं हत्वा महाबलम् ब्राह्मणैः सहिता जग्मुः पाञ्चालानां पुरं ततः सुतप्रियैषी तान् राजा पाण्डवान् अम्बिकासुतः (अब्) ततो विवासयाम् आस राज्यभोगबुभुक्षया ते प्रातिष्ठन्त सहिता नगरान् नागसाह्वयात् प्रस्थाने चाभवन् मन्त्री क्षत्ता तेषां महात्मनाम् येन मुक्ता जतुगृहान् निशीथे प्राद्रवन् वनम् ततः संप्राप्य कौन्तेया नगरं वारणावतम् न्यवसन्त महात्मानो मात्रा सह परंतपाः धृतराष्ट्रेण चाज्ञप्ता उषिता जातुषे गृहे पुरोचनाद् रक्षमाणाः संवत्सरम् अतन्द्रिताः (अब्) सुरुङ्गां कारयित्वा ते विदुरेण प्रचोदिताः आदीप्य जातुषं वेश्म दग्ध्वा चैव पुरोचनम् (च्द्) प्राद्रवन् भयसंविग्ना मात्रा सह परंतपाः (अब्) ददृशुर् दारुणं रक्षो हिडिम्बं वननिर्झरे हत्वा च तं राक्षसेन्द्रं भीताः समनुबोधनात् निशि संप्राद्रवन् पार्था धार्तराष्ट्रभयार्दिताः (अब्) एकचक्रां ततो गत्वा पाण्डवाः संशितव्रताः (च्द्) वेदाध्ययनसंपन्नास् ते ऽभवन् ब्रह्मचारिणः ते तत्र प्रयताः कालं कं चिद् ऊषुर् नरर्षभाः मात्रा सहैकचक्रायां ब्राह्मणस्य निवेशने तत्राससाद क्षुधितं पुरुषादं वृकोदरः (अब्) भीमसेनो महाबाहुर् बकं नाम महाबलम् तं चापि पुरुषव्याघ्रो बाहुवीर्येण पाण्डवः निहत्य तरसा वीरो नागरान् पर्यसान्त्वयत् ततस् ते शुश्रुवुः कृष्णां पञ्चालेषु स्वयंवराम् श्रुत्वा चैवाभ्यगच्छन्त गत्वा चैवालभन्त ताम् ते तत्र द्रौपदीं लब्ध्वा परिसंवत्सरोषिताः विदिता हास्तिनपुरं प्रत्याजग्मुर् अरिंदमाः त उक्ता धृतराष्ट्रेण राज्ञा शांतनवेन च भ्रातृभिर् विग्रहस् तात कथं वो न भवेद् इति अस्माभिः खाण्डवप्रस्थे युष्मद्वासो ऽनुचिन्तितः तस्माज् जनपदोपेतं सुविभक्तमहापथम् वासाय खाण्डवप्रस्थं व्रजध्वं गतमन्यवः तयोस् ते वचनाज् जग्मुः सह सर्वैः सुहृज्जनैः नगरं खाण्डवप्रस्थं रत्नान्य् आदाय सर्वशः तत्र ते न्यवसन् राजन् संवत्सरगणान् बहून् वशे शस्त्रप्रतापेन कुर्वन्तो ऽन्यान् महीक्षितः एवं धर्मप्रधानास् ते सत्यव्रतपरायणाः अप्रमत्तोत्थिताः क्षान्ताः प्रतपन्तो ऽहितांस् तदा अजयद् भीमसेनस् तु दिशं प्राचीं महाबलः उदीचीम् अर्जुनो वीरः प्रतीचीं नकुलस् तथा दक्षिणां सहदेवस् तु विजिग्ये परवीरहा एवं चक्रुर् इमां सर्वे वशे कृत्स्नां वसुंधराम् पञ्चभिः सूर्यसंकाशैः सूर्येण च विराजता षट्सूर्येवाबभौ पृथ्वी पाण्डवैः सत्यविक्रमैः ततो निमित्ते कस्मिंश् चिद् धर्मराजो युधिष्ठिरः स वै संवत्सरान् दश द्वे चैव तु वने वसन् वनं प्रस्थापयाम् आस भ्रातरं वै धनंजयम् . . . . . . . . तेजस्वी सत्यविक्रमः प्राणेभ्यो ऽपि प्रियतरं अर्जुनं पुरुषव्याघ्रं स्थिरात्मानं गुणैर् युतम् धैर्याद् धर्माच् च सत्याच् च विजयाच् चाधिकं प्रियम् अर्जुनो भ्रातरं ज्येष्ठं नात्यवर्तत जातु चित् स वै संवत्सरं पूर्णं मासं चैकं वने ऽवसत् तीर्थयात्रां च कृतवान् नागकन्याम् अवाप्य च अथ पाण्ड्यस्य तनयां लब्ध्वा ताभ्यां सहोषितः ततो ऽगच्छद् धृषीकेशं द्वारवत्यां कदा चन लब्धवांस् तत्र बीभत्सुर् भार्यां राजीवलोचनाम् अनुजां वासुदेवस्य सुभद्रां भद्रभाषिणीम् सा शचीव महेन्द्रेण श्रीः कृष्णेनेव संगता सुभद्रा युयुजे प्रीता पाण्डवेनार्जुनेन ह अतर्पयच् च कौन्तेयः खाण्डवे हव्यवाहनम् बीभत्सुर् वासुदेवेन सहितो नृपसत्तम नातिभारो हि पार्थस्य केशवेनाभवत् सह व्यवसायसहायस्य विष्णोः शत्रुवधेष्व् इव पार्थायाग्निर् ददौ चापि गाण्डीवं धनुर् उत्तमम् इषुधी चाक्षयैर् बाणै रथं च कपिलक्षणम् मोक्षयाम् आस बीभत्सुर् मयं तत्र महासुरम् स चकार सभां दिव्यां सर्वरत्नसमाचिताम् तस्यां दुर्योधनो मन्दो लोभं चक्रे सुदुर्मतिः ततो ऽक्षैर् वञ्चयित्वा च सौबलेन युधिष्ठिरम् वनं प्रस्थापयाम् आस सप्त वर्षाणि पञ्च च अज्ञातम् एकं राष्ट्रे च तथा वर्षं त्रयोदशम् ततश् चतुर्दशे वर्षे याचमानाः स्वकं वसु नालभन्त महाराज ततो युद्धम् अवर्तत ततस् ते सर्वम् उत्साद्य हत्वा दुर्योधनं नृपम् राज्यं विद्रुतभूयिष्ठं प्रत्यपद्यन्त पाण्डवाः इष्ट्वा क्रतूंश् च विविधान् अश्वमेधादिकान् बहून् धृतराष्ट्रे गते स्वर्गं विदुरे पञ्चतां गते गमयित्वा स्त्रियः स्वर्गं राज्ञाम् अमिततेजसाम् वार्ष्णेये निलयं प्राप्ते कृष्णदारान् प्ररक्ष्य च महाप्रस्थानिकं कृत्वा गताः स्वर्गम् अनुत्तमम् एवम् एतत् पुरावृत्तं तेषाम् अक्लिष्टकर्मणाम् भेदो राज्यविनाशश् च जयश् च जयतां वर जनमेजय उवाच कथितं वै समासेन त्वया सर्वं द्विजोत्तम महाभारतम् आख्यानं कुरूणां चरितं महत् कथां त्व् अनघ चित्रार्थाम् इमां कथयति त्वयि विस्तरश्रवणे जातं कौतूहलम् अतीव मे स भवान् विस्तरेणेमां पुनर् आख्यातुम् अर्हति न हि तृप्यामि पूर्वेषां शृण्वानश् चरितं महत् न तत् कारणम् अल्पं हि धर्मज्ञा यत्र पाण्डवाः अवध्यान् सर्वशो जघ्नुः प्रशस्यन्ते च मानवैः किमर्थं ते नरव्याघ्राः शक्ताः सन्तो ह्य् अनागसः प्रयुज्यमानान् संक्लेशान् क्षान्तवन्तो दुरात्मनाम् कथं नागायुतप्राणो बाहुशाली वृकोदरः भ्रातॄणां क्लेशम् आयातं गतवान् वै परंतपः परिक्लिश्यन्न् अपि क्रोधं धृतवान् वै द्विजोत्तम कथं सा द्रौपदी कृष्णा क्लिश्यमाना दुरात्मभिः शक्ता सती धार्तराष्ट्रान् नादहद् घोरचक्षुषा कथं सा द्रौपदी शक्ता धार्तराष्ट्रांश् च नादहत् कथं व्यतिक्रमन् द्यूते पार्थौ माद्रीसुतौ तथा अनुव्रजन् नरव्याघ्रं वञ्च्यमानं दुरात्मभिः कथं धर्मभृतां श्रेष्ठः सुतो धर्मस्य धर्मवित् अनर्हः परमं क्लेशं सोढवान् स युधिष्ठिरः कथं च बहुलाः सेनाः पाण्डवः कृष्णसारथिः अस्यन्न् एको ऽनयत् सर्वाः पितृलोकं धनंजयः एतद् आचक्ष्व मे सर्वं यथावृत्तं तपोधन यद् यच् च कृतवन्तस् ते तत्र तत्र महारथाः वैशंपायन उवाच क्षणं कुरु महाराज विपुलो ऽयम् अनुक्रमः पुण्याख्यानस्य वक्तव्यः कृष्णद्वैपायनेरितः महर्षेः सर्वलोकेषु पूजितस्य महात्मनः प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः इदं शतसहस्रं हि श्लोकानां पुण्यकर्मणाम् सत्यवत्यात्मजेनेह व्याख्यातम् अमितौजसा उपाख्यानैः सह ज्ञेयं श्राव्यं भारतम् उत्तमम् संक्षेपेण तु वक्ष्यामि सर्वम् एतन् नराधिप अध्यायानां सहस्रे द्वे पर्वणां शतम् एव च श्लोकानां तु सहस्राणि नवतिश् च दशैव च ततो ऽष्टादशभिः पर्वैः संगृहीतं महर्षिणा य इदं श्रावयेद् विद्वान् यश् चेदं शृणुयान् नरः ते ब्रह्मणः स्थानम् एत्य प्राप्नुयुर् देवतुल्यताम् इदं हि वेदैः समितं पवित्रम् अपि चोत्तमम् श्राव्याणाम् उत्तमं चेदं पुराणम् ऋषिसंस्तुतम् अस्मिन्न् अर्थश् च धर्मश् च निखिलेनोपदिश्यते इतिहासे महापुण्ये बुद्धिश् च परिनैष्ठिकी अक्षुद्रान् दानशीलांश् च सत्यशीलान् अनास्तिकान् कार्ष्णं वेदम् इमं विद्वाञ् श्रावयित्वार्थम् अश्नुते भ्रूणहत्याकृतं चापि पापं जह्याद् असंशयम् इतिहासम् इमं श्रुत्वा पुरुषो ऽपि सुदारुणः मुच्यते सर्वपापेभ्यो राहुणा चन्द्रमा यथा तत्क्षणाज् जायते दान्तः शश्वच् छान्तिं नियच्छति जयो नामेतिहासो ऽयं श्रोतव्यो विजिगीषुणा महीं विजयते सर्वां शत्रूंश् चापि पराजयेत् प्रसूते गर्भिणी पुत्रं कन्या सत्पतिम् अश्नुते इदं पुंसवनं श्रेष्ठम् इदं स्वस्त्ययनं महत् महिषीयुवराजाभ्यां श्रोतव्यं बहुशस् तथा वीरं जनयते पुत्रं कन्यां वा राज्यभागिनीम् अर्थशास्त्रम् इदं पुण्यं धर्मशास्त्रम् इदं परम् मोक्षशास्त्रम् इदं प्रोक्तं व्यासेनामितबुद्धिना संप्रत्य् आचक्षते चैव आख्यास्यन्ति तथापरे पुत्राः शुश्रूषवः सन्ति प्रेष्याश् च प्रियकारिणः शरीरेण कृतं पापं वाचा च मनसैव च सर्वं तत् त्यजति क्षिप्रम् इदं शृण्वन् नरः सदा भारतानां महज् जन्म शृण्वताम् अनसूयताम् नास्ति व्याधिभयं तेषां परलोकभयं कुतः धन्यं यशस्यम् आयुष्यं स्वर्ग्यं पुण्यं तथैव च कृष्णद्वैपायनेनेदं कृतं पुण्यचिकीर्षुणा कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम् अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम् सर्वविद्यावदातानां लोके प्रथितकर्मणाम् य इदं मानवो लोके पुण्यान् वै ब्राह्मणाञ् शुचीन् श्रावयेत महापुण्यं तस्य धर्मः सनातनः कुरूणां प्रथितं वंशं कीर्तयन् सततं शुचिः वंशम् आप्नोति विपुलं लोके पूज्यतमो भवेत् यो ऽधीते भारतं पुण्यं ब्राह्मणो नियतव्रतः चतुरो वार्षिकान् मासान् सर्वपापैः प्रमुच्यते विज्ञेयः स च वेदानां पारगो भारतं पठन् देवा ब्रह्मर्षयो यत्र पुण्या राजर्षयस् तथा कीर्त्यन्ते धूतपाप्मानः कीर्त्यते केशवस् तथा भगवांश् चापि देवेशो यत्र देवी च कीर्त्यते अनेकजननो यत्र कार्त्तिकेयस्य संभवः ब्राह्मणानां गवां चैव माहात्म्यं यत्र कीर्त्यते सर्वश्रुतिसमूहो ऽयं श्रोतव्यो धर्मबुद्धिभिः यथा समुद्रो भगवान् यथा च हिमवान् गिरिः ख्याताव् उभौ रत्ननिधी तथा भारतम् उच्यते य इदं श्रावयेद् विद्वान् ब्राह्मणान् इह पर्वसु धूतपाप्मा जितस्वर्गो ब्रह्मभूयं स गच्छति यश् चेदं श्रावयेच् छ्राद्धे ब्राह्मणान् पादम् अन्ततः अक्षय्यं तस्य तच् छ्राद्धम् उपतिष्ठेत् पितॄन् अपि अह्ना यद् एनश् चाज्ञानात् प्रकरोति नरश् चरन् तन् महाभारताख्यानं श्रुत्वैव प्रविलीयते अह्ना यद् एनः क्रियते इन्द्रियैर् मनसापि वा ज्ञानाद् अज्ञानतो वापि प्रकरोति नरश् च यत् भारतानां महज् जन्म महाभारतम् उच्यते निरुक्तम् अस्य यो वेद सर्वपापैः प्रमुच्यते भरतानां यतश् चायम् इतिहासो महाद्भुतः महतो ह्य् एनसो मर्त्यान् मोचयेद् अनुकीर्तितः त्रिभिर् वर्षैर् लब्धकामः कृष्णद्वैपायनो मुनिः नित्योत्थितः शुचिः शक्तो महाभारतम् आदितः तपो नियमम् आस्थाय कृतम् एतन् महर्षिणा तस्मान् नियमसंयुक्तैः श्रोतव्यं ब्राह्मणैर् इदम् कृष्णप्रोक्ताम् इमां पुण्यां भारतीम् उत्तमां कथाम् श्रावयिष्यन्ति ये विप्रा ये च श्रोष्यन्ति मानवाः सर्वथा वर्तमाना वै न ते शोच्याः कृताकृतैः नरेण धर्मकामेन सर्वः श्रोतव्य इत्य् अपि निखिलेनेतिहासो ऽयं ततः सिद्धिम् अवाप्नुयात् न तां स्वर्गगतिं प्राप्य तुष्टिं प्राप्नोति मानवः यां श्रुत्वैव महापुण्यम् इतिहासम् उपाश्नुते शृण्वञ् श्राद्धः पुण्यशीलः श्रावयंश् चेदम् अद्भुतम् नरः फलम् अवाप्नोति राजसूयाश्वमेधयोः यथा समुद्रो भगवान् यथा मेरुर् महागिरिः उभौ ख्यातौ रत्ननिधी तथा भारतम् उच्यते इदं हि वेदैः समितं पवित्रम् अपि चोत्तमम् श्रव्यं श्रुतिसुखं चैव पावनं शीलवर्धनम् पारिक्षित कथां दिव्यां पुण्याय विजयाय च कथ्यमानां मया कृत्स्नां शृणु हर्षकरीम् इमाम् त्रिभिर् वर्षैः सदोत्थायी कृष्णद्वैपायनो मुनिः महाभारतम् आख्यानं कृतवान् इदम् उत्तमम् यस् तु राजा शृणोतीदम् अखिलाम् अश्नुते महीम् प्रसूते गर्भिणी पुत्रं कन्या चाशु प्रदीयते वणिजः सिद्धयात्राः स्युर् वीरा विजयम् आप्नुयुः आस्तिकाञ् श्रावयेन् नित्यं ब्राह्मणान् अनसूयकान् वेदविद्याव्रतस्नातान् क्षत्रियाञ् जयम् आस्थितान् स्वधर्मनित्यान् वैश्यांश् च श्रावयेत् क्षत्रसंश्रितान् एष धर्मः पुरा दृष्टः सर्ववर्णेषु भारत ब्राह्मणाच् छ्रवणं राजन् विशेषेण विधीयते भूयो भूयः पठेन् नित्यं गच्छेत् स परमां गतिम् श्लोकं वाप्य् अनुगृह्णीत तथार्धं श्लोकम् एव वा अपि पादं पठेन् नित्यं न च निर्भारतो भवेत् इह नैकाश्रयं जन्म राजर्षीणां महात्मनाम् इह मन्त्रपदं युक्तं धर्मं चानेकदर्शनम् इह युद्धानि चित्राणि राज्ञां वृद्धिर् इहैव च ऋषीणां च कथास् तात इह गन्धर्वरक्षसाम् इह तत् तत् समासाद्य विहितो वाक्यविस्तरः तीर्थानां नाम पुण्यानां दर्शनं चैव कीर्तितम् वनानां पर्वतानां च नदीनां सागरस्य च देशानां चैव दिव्यानां पुराणां चैव कीर्तनम् उपचारस् तथैवाग्र्यो वीर्यम् अप्रतिमानुषम् इह सत्कारयोगश् च भारते परमर्षिणा रथाश्ववारणेन्द्राणां कल्पना युद्धकौशलम् वाक्यजातिर् अनेका च सर्वम् अस्मिन् समर्पितम् यथा समुद्रो ऽतिमहान् यथा च हिमवान् गिरिः ख्यातौ रत्नाकरौ तद्वन् महाभारतम् उच्यते नाप्रीतिर् उपपद्येत यथा प्राप्य त्रिविष्टपम् पुण्यं तथेदम् आख्यानं श्रुत्वा प्रीतिर् भवत्य् उत स्त्रियश् च शूद्राः शृणुयुः पुरस्कृत्य द्विजोत्तमान् प्राप्नुवन्ति यथोक्तानि फलान्य् अविकलानि च कुलस्य वृद्धये राजन्न् आयुषे विजयाय च शृणु कीर्तयतः कृत्स्नम् इतिहासं पुरातनम् यश् चेदं श्रावयेत् पित्र्ये ब्राह्मणान् पादम् अन्ततः अक्षय्यम् अन्नपानं तत् पितॄंस् तस्योपतिष्ठति य इदं श्रावयेद् विद्वान् यश् चेदं शृणुयान् नरः स ब्रह्मणः स्थानम् एत्य प्राप्नुयाद् देवतुल्यताम् प्रातर् यद् एनः कुरुते इन्द्रियैर् ब्राह्मणश् चरन् महाभारतम् आख्याय पश्चात् संध्यां प्रमुच्यते रात्र्यां यद् एनः कुरुते इन्द्रियैर् ब्राह्मणश् चरन् महाभारतम् आख्याय पूर्वां संध्यां प्रमुच्यते भारतानां महज् जन्म महाभारतम् उच्यते निरुक्तम् अस्य यो वेद सर्वपापैः प्रमुच्यते त्रिभिर् वर्षैर् महाभागः कृष्णद्वैपायनो ऽब्रवीत् नित्योत्थितः सदा योगी महाभारतम् आदितः धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ यद् इहास्ति तद् अन्यत्र यन् नेहास्ति न तत् क्व चित् इदं हि ब्राह्मणैर् लोके आख्यातं ब्राह्मणेष्व् इह दातुं भोक्तुं तथा श्रोतुं प्रहर्तुम् अरिभिः सह स किं जानाति पुरुषो भारतं येन न श्रुतम् य इदं भारतं राजन् वाचकाय प्रयच्छति तेन सर्वा मही दत्ता भवेत् सागरमेखला पर्वाण्य् अष्टादशेमानि व्यासेन कथितानि वै यद्य् एकम् अपि यो दद्यात् तेन सर्वं कृतं भवेत् वैशंपायन उवाच राजोपरिचरो नाम धर्मनित्यो महीपतिः बभूव मृगयां गन्तुं स कदा चिद् धृतव्रतः स चेदिविषयं रम्यं वसुः पौरवनन्दनः इन्द्रोपदेशाज् जग्राह ग्रहणीयं महीपतिः तम् आश्रमे न्यस्तशस्त्रं निवसन्तं तपोरतिम् देवः साक्षात् स्वयं वज्री समुपायान् महीपतिम् इन्द्रत्वम् अर्हो राजायं तपसेत्य् अनुचिन्त्य वै त्वं नो गतिर् महाराजन्न् इति वज्र्य् अवदन् मुहुः तं सान्त्वेन नृपं साक्षात् तपसः संन्यवर्तयत् इन्द्र उवाच देवान् अहं पालयिता पालय त्वं हि मानुषान् न संकीर्येत धर्मो ऽयं पृथिव्यां पृथिवीपते तं पाहि धर्मो हि धृतः कृत्स्नं धारयते जगत् लोक्यं धर्मं पालय त्वं नित्ययुक्तः समाहितः धर्मयुक्तस् ततो लोकान् पुण्यान् आप्स्यसि शाश्वतान् दिविष्ठस्य भुविष्ठस् त्वं सखा भूत्वा मम प्रियः ऊधः पृथिव्या यो देशस् तम् आवस नराधिप पशव्यश् चैव पुण्यश् च सुस्थिरो धनधान्यवान् स्वारक्ष्यश् चैव सौम्यश् च भोग्यैर् भूमिगुणैर् युतः अत्य् अन्यान् एष देशो हि धनरत्नादिभिर् युतः वसुपूर्णा च वसुधा वस चेदिषु चेदिप धर्मशीला जनपदाः सुसंतोषाश् च साधवः न च मिथ्याप्रलापो ऽत्र स्वैरेष्व् अपि कुतो ऽन्यथा न च पित्रा विभज्यन्ते नरा गुरुहिते रताः युञ्जते धुरि नो गाश् च कृशाः संधुक्षयन्ति च सर्वे वर्णाः स्वधर्मस्थाः सदा चेदिषु मानद न ते ऽस्त्य् अविदितं किं चित् त्रिषु लोकेषु यद् भवेत् देवोपभोग्यं दिव्यं च आकाशे स्फाटिकं महत् आकाशगं त्वां मद्दत्तं विमानम् उपपत्स्यते त्वम् एकः सर्वमर्त्येषु विमानवरम् आस्थितः चरिष्यस्य् उपरिस्थो वै देवो विग्रहवान् इव ददामि ते वैजयन्तीं मालाम् अम्लानपङ्कजाम् धारयिष्यति संग्रामे या त्वां शस्त्रैर् अविक्षतम् लक्षणं चैतद् एवेह भविता ते नराधिप इन्द्रमालेति विख्यातं धन्यम् अप्रतिमं महत् एवं संसान्त्व्य नृपतिं तपसः संन्यवर्तयत् वैशंपायन उवाच यष्टिं च वैणवीं तस्मै ददौ वृत्रनिषूदनः इष्टप्रदानम् उद्दिश्य शिष्टानां परिपालिनीम् प्रययौ देवतैः सार्धं कृत्वा कार्यं दिवौकसाम् ततस् तु राजा चेदीनाम् इन्द्राभरणभूषितः इन्द्रदत्तं विमानं तदास्थाय प्रययौ पुरीम् तस्याः शक्रस्य पूजार्थं भूमौ भूमिपतिस् तदा प्रवेशं कारयाम् आस गते संवत्सरे तदा . . . . . . . . सर्वोत्सववरं तदा मार्गशीर्षे महाराज मार्गशीर्षे महाराज पौर्णमास्यां महामहम् ततः प्रभृति चाद्यापि यष्ट्याः क्षितिपसत्तमैः प्रवेशः क्रियते राजन् यथा तेन प्रवर्तितः अपरेद्युस् तथा चास्याः क्रियते उच्छ्रयो नृपैः अलंकृतायाः पिटकैर् गन्धैर् माल्यैश् च भूषणैः माल्यदामपरिक्षिप्ता विधिवत् क्रियते ऽपि च . . . . . . . . द्वात्रिंशत्किष्कुसंमिताम् उद्धृत्य पीठके चापि द्वादशारत्निकोच्छ्रिते महाराजतवासोभिः परिक्षिप्य ध्वजोत्तमम् वासोभिर् अन्नपानैश् च पूजितैर् ब्राह्मणर्षभैः पुण्याहवाचनं कृत्वा ध्वज उच्छ्रीयते तदा शङ्खभेरीमृदङ्गैश् च चतुर्विंशत्य् अङ्गुलात्मा हस्तः किष्कुर् इति स्मृतः . . . . . . . . द्वात्रिंशत्किष्कुर् आयता पीठे च द्वादशारत्नीर् उच्छ्रिते रत्नभूषिते वासोभिः पञ्चवर्णैस् तु समाल्यैर् भूषितं ध्वजम् भगवान् पूज्यते चात्र हास्यरूपेण शंकरः माणिभद्रादयो यक्षाः पूज्यन्ते दैवतैः सह नानाविधानि दानानि दत्वार्थिभ्यः सुहृज्जनैः अलंकृत्वा माल्यदामैर् वस्त्रैर् नानाविधैस् तथा व्रतिभिः सजलैः सर्वैः क्रीडित्वा नृपशासनात् सभाजयित्वा राजानं कृत्वा नर्माश्रिताः कथाः रमन्ते नागराः सर्वे तथा जानपदैः सह सूताश् च मागधाश् चैव नटन्ते नटनर्तकैः प्रीत्या च नरशार्दूल सर्वे चक्रुर् महोत्सवम् सान्तःपुरः सहामात्यः सर्वाभरणभूषितः महाराजतवासांसि वसित्वा चेदिराट् तथा जातिहिङ्गुलिकेनाक्तः सदारो मुमुदे तदा एवं जानपदाः सर्वे चक्रुर् इन्द्रमहं तदा यथा चेदिपतिः प्रीतश् चकारेन्द्रमखं वसुः रेजे चेदिपतिस् तत्र दिवि देवपतिर् यथा स्वयम् एव गृहीतेन वसोः प्रीत्या महात्मनः एतां पूजां महेन्द्रस् तु दृष्ट्वा देव कृतां शुभाम् हरिभिर् वाजिभिर् युक्तम् अन्तरिक्षगतं रथम् आस्थाय सह शच्या च वृतो ह्य् अप्सरसां गणैः वसुना राजमुख्येन प्रीतिमान् अब्रवीद् विभुः ये पूजयिष्यन्ति नरा राजानश् च महं मम कारयिष्यन्ति च मुदा यथा चेदिपतिर् नृपः तेषां श्रीर् विजयश् चैव सराष्ट्राणां भविष्यति तथा स्फीतो जनपदो मुदितश् च भविष्यति निरीतिकानि सस्यानि भवन्ति बहुधा नृप राक्षसाश् च पिशाचाश् च न लुम्पन्ते कथं चन एवं महात्मना तेन महेन्द्रेण नराधिप वसुः प्रीत्या मघवता महाराजो ऽभिसत्कृतः एवं कृत्वा महेन्द्रस् तु जगाम स्वं निवेशनम् उत्सवं कारयिष्यन्ति सदा शक्रस्य ये नराः भूमिदानादिभिर् दानैर् यथा पूता भवन्ति वै वरदानमहायज्ञैस् तथा शक्रोत्सवेन ते संपूजितो मघवता वसुश् चेदिपतिस् तदा पालयाम् आस धर्मेण चेदिस्थः पृथिवीम् इमाम् इन्द्रप्रीत्या भूमिपतिश् चकारेन्द्रमहं वसुः पुत्राश् चास्य महावीर्याः पञ्चासन्न् अमितौजसः नानाराज्येषु च सुतान् स सम्राड् अभ्यषेचयत् महारथो मगधराड् विश्रुतो यो बृहद्रथः प्रत्यग्रहः कुशाम्बश् च यम् आहुर् मणिवाहनम् मच्छिल्लश् च यदुश् चैव राजन्यश् चापराजितः एते तस्य सुता राजन् राजर्षेर् भूरितेजसः न्यवेशयन् नामभिः स्वैस् ते देशांश् च पुराणि च वासवाः पञ्च राजानः पृथग्वंशाश् च शाश्वताः वसन्तम् इन्द्रप्रासादे आकाशे स्फाटिके च तम् उपतस्थुर् महात्मानं गन्धर्वाप्सरसो नृपम् राजोपरिचरेत्य् एवं नाम तस्याथ विश्रुतम् पुरोपवाहिनीं तस्य नदीं शुक्तिमतीं गिरिः अरौत्सीच् चेतनायुक्तः कामात् कोलाहलः किल गिरिं कोलाहलं तं तु पदा वसुर् अताडयत् निश्चक्राम नदी तेन प्रहारविवरेण सा तस्यां नद्याम् अजनयन् मिथुनं पर्वतः स्वयम् तस्माद् विमोक्षणात् प्रीता नदी राज्ञे न्यवेदयत् महिषी भविता कन्या पौष्यः सेनापतिर् भवेत् शुक्तिमत्या वचः श्रुत्वा दृष्ट्वा तौ राजसत्तमः यः पुमान् अभवत् तत्र तं स राजर्षिसत्तमः वसुर् वसुप्रदश् चक्रे सेनापतिम् अरिंदमम् चकार पत्नीं कन्यां तु दयितां गिरिकां नृपः वसोः पत्नी तु गिरिका कामात् काले न्यवेदयत् ऋतुकालम् अनुप्राप्तं स्नाता पुंसवने शुचिः तदहः पितरश् चैनम् ऊचुर् जहि मृगान् इति तं राजसत्तमं प्रीतास् तदा मतिमतां वरम् स पितॄणां नियोगं तम् अव्यतिक्रम्य पार्थिवः चचार मृगयां कामी गिरिकाम् एव संस्मरन् अतीव रूपसंपन्नां साक्षाच् छ्रियम् इवापराम् अशोकैश् चम्पकैश् चूतैस् तिलकैर् अतिमुक्तकैः पुंनागैः कर्णिकारैश् च बकुऌऐर् दिव्यपादपैः पनसैर् नारिकेलैश् च चन्दनैश् चार्जुनैस् तथा एतैर् अन्यैर् महावृक्षैः पुण्यैः स्वादुफलैर् युतम् कोकिलाकुलसंनादं मत्तभ्रमरनादितम् वसन्तकाले तत् पश्यन् वनं चैत्ररथोपमम् मन्मथाभिपरीतात्मा नापश्यद् गिरिकां तदा अपश्यत् कामसंतप्तश् चरमाणो यदृच्छया पुष्पसंच्छन्नशाखाग्रं पल्लवैर् उपशोभितम् अशोकस्तबकैश् छन्नं रमणीयं तदा नृपः तरोर् अधस्ताच् छाखायां सुखासीनो नराधिपः मधुगन्धैश् च संपृक्तं पुष्पगन्धं मनोरमम् वायुना प्रेर्यमाणं तम् आघ्राय मुदम् अन्वगात् भार्यां चिन्तयमानस्य मन्मथाग्निर् अवर्धत तस्य रेतः प्रचस्कन्द चरतो रुचिरे वने तद् रेतश् चापि तत्रैव प्रतिजग्राह भूमिपः स्कन्नमात्रं च तद् रेतो वृक्षपत्रेण भूमिपः प्रतिजग्राह मिथ्या मे न स्कन्देद् रेत इत्य् उत इदं वृथा परिस्कन्नं रेतो वै न भवेद् इति अङ्गुलीयेन शुक्लस्य रक्षां प्रविदधे नृपः अशोकस्तबकैस् ताम्रैः पल्लवैश् चाप्य् अबन्धयत् इदं वृथैव स्कन्नं मे रेतः स सुमहान् वधः ऋतुश् च तस्याः पत्न्या मे न मोघः स्याद् इति प्रभुः संचिन्त्यैवं तदा राजा विचार्य च पुनः पुनः अमोघत्वं च विज्ञाय रेतसो राजसत्तमः शुक्रप्रस्थापने कालं महिष्याः प्रसमीक्ष्य सः अभिमन्त्र्याथ तच् छुक्रम् आरात् तिष्ठन्तम् आशुगम् सूक्ष्मधर्मार्थतत्त्वज्ञो ज्ञात्वा श्येनं ततो ऽब्रवीत् मत्प्रियार्थम् इदं सौम्य शुक्रं मम गृहं नय गिरिकायाः प्रयच्छाशु तस्या ह्य् आर्तवम् अद्य वै गृहीत्वा तत् तदा श्येनस् तूर्णम् उत्पत्य वेगवान् जवं परमम् आस्थाय प्रदुद्राव विहंगमः तम् अपश्यद् अथायान्तं श्येनं श्येनस् तथापरः अभ्यद्रवच् च तं सद्यो दृष्ट्वैवामिषशङ्कया तुण्डयुद्धम् अथाकाशे ताव् उभौ संप्रचक्रतुः युध्यतोर् अपतद् रेतस् तच् चापि यमुनाम्भसि तत्राद्रिकेति विख्याता ब्रह्मशापाद् वराप्सराः मीनभावम् अनुप्राप्ता बभूव यमुनाचरी श्येनपादपरिभ्रष्टं तद् वीर्यम् अथ वासवम् जग्राह तरसोपेत्य साद्रिका मत्स्यरूपिणी कदा चिद् अथ मत्सीं तां बबन्धुर् मत्स्यजीविनः मासे च दशमे प्राप्ते तदा भरतसत्तम उज्जह्रुर् उदरात् तस्याः स्त्रीपुमांसं च मानुषम् आश्चर्यभूतं मत्वा तद् राज्ञस् ते प्रत्यवेदयन् काये मत्स्या इमौ राजन् संभूतौ मानुषाव् इति तयोः पुमांसं जग्राह राजोपरिचरस् तदा स मत्स्यो नाम राजासीद् धार्मिकः सत्यसंगरः साप्सरा मुक्तशापा च क्षणेन समपद्यत पुरोक्ता या भगवता तिर्यग्योनिगता शुभे मानुषौ जनयित्वा त्वं शापमोक्षम् अवाप्स्यसि ततः सा जनयित्वा तौ विशस्ता मत्स्यघातिना संत्यज्य मत्स्यरूपं सा दिव्यं रूपम् अवाप्य च सिद्धर्षिचारणपथं जगामाथ वराप्सराः या कन्या दुहिता तस्या मत्स्या मत्स्यसगन्धिनी राज्ञा दत्ताथ दाशाय इयं तव भवत्व् इति रूपसत्त्वसमायुक्ता सर्वैः समुदिता गुणैः सा तु सत्यवती नाम मत्स्यघात्यभिसंश्रयात् आसीन् मत्स्यसगन्धैव कं चित् कालं शुचिस्मिता शुश्रूषार्थं पितुर् नावं तां तु वाहयतीं जले तीर्थयात्रां परिक्रामन्न् अपश्यद् वै पराशरः अतीव रूपसंपन्नां सिद्धानाम् अपि काङ्क्षिताम् संगमं मम कल्याणि कुरुष्वेत्य् अभ्यभाषत दृष्ट्वैव च स तां धीमांश् चकमे चारुदर्शनाम् विद्वांस् तां वासवीं कन्यां कार्यवान् मुनिपुंगवः संभवं चिन्तयित्वा तां ज्ञात्वा प्रोवाच शक्तिजः मत्स्यगन्धा क्व कर्णधारो नौर् येन नीयते ब्रूहि भामिनि अनपत्यस्य दाशस्य सुता तत्प्रियकाम्यया सहस्रजनसंपूर्णा नौर् मया वाह्यते द्विज पराशरः शोभनं वासवि शुभे किं चिरायसि वाह्यताम् कलशं भविता भद्रे सहस्रार्धेन संमितम् अहं शेषो भविष्यामि नीयताम् अचिरेण नौः वैशंपायनः मत्स्यगन्धा तथेत्य् उक्त्वा नावं वाहयती जले मत्स्यगन्धा वीक्षमाणं मुनिं दृष्ट्वा प्रोवाचेदं वचस् तदा मत्स्यगन्धेति माम् आहुर् दाशराजसुतां जनाः पराशरः जन्म शोकाभितप्तायाः कथं ज्ञास्यसि कथ्यताम् दिव्यज्ञानेन दृष्टं हि दृष्टमात्रेण ते वपुः प्रणयग्रहणार्थाय वक्ष्ये वासवि तच् छृणु बर्हिषद इति ख्याताः पितरः सोमपास् तु ते तेषां त्वं मानसी कन्या अच्छोदा नाम विश्रुता अच्छोदं नाम तद् दिव्यं सरो यस्मात् समुत्थितम् त्वया न दृष्टपूर्वास् तु पितरस् ते कदा चन संभूता मनसा तेषां पितॄन् स्वान् नाभिजानती सा त्व् अन्यं पितरं वव्रे स्वान् अतिक्रम्य तान् पितॄन् नाम्ना वसुर् इति ख्यातं मनुपुत्रं महीश्वरम् अद्रिकाप्सरसा युक्तं विमाने दिवि विष्ठितम् सा तेन व्यभिचारेण मनसा कामचारिणी पितरं प्रार्थयित्वान्यं योगाद् भ्रष्टा पपात सा अपश्यत् पतमाना सा विमानत्रयम् अन्तिकात् त्रसरेणुप्रमाणांस् तांस् तत्रापश्यत् स्वकान् पितॄन् सुसूक्ष्मान् अपरिव्यक्तान् अङ्गैर् अङ्गेष्व् इवाहितान् त्रातेति तान् उवाचार्ता पतन्ती सा ह्य् अधोमुखी तैर् उक्ता सा तु मा भैषीस् तेन सा संस्थिता दिवि ततः प्रसादयाम् आस स्वान् पितॄन् दीनया गिरा ताम् ऊचुः पितरः कन्यां भ्रष्टैश्वर्यां व्यतिक्रमात् भ्रष्टैश्वर्या स्वदोषेण पतसि त्वं शुचिस्मिते यैर् आरभन्ते कर्माणि शरीरैर् इह देवताः तैर् एव तत्कर्मफलं प्राप्नुवन्ति स्म देवताः मनुष्यास् त्व् अन्यदेहेन शुभाशुभम् इति स्थितिः सद्यः फलन्ति कर्माणि देवत्वे प्रेत्य मानुषे तस्मात् त्वं पतसे पुत्रि प्रेत्य त्वं प्राप्स्यसे फलम् पितृहीना तु कन्या त्वं वसोर् हि त्वं समागता मत्स्ययोनौ समुत्पन्ना सुता राज्ञो भविष्यसि अद्रिका मत्स्यरूपाभूद् गङ्गायमुनसंगमे पराशरस्य दायादं त्वं पुत्रं जनयिष्यसि यो वेदम् एकं ब्रह्मर्षिश् चतुर्धा विभजिष्यति महाभिषक्सुतस्यैव शंतनोः कीर्तिवर्धनम् ज्येष्ठं चित्राङ्गदं वीरं चित्रवीरं च विश्रुतम् एतान् उत्पाद्य पुत्रांस् त्वं पुनर् एवागमिष्यसि व्यतिक्रमात् पितॄणां च प्राप्स्यसे जन्म कुत्सितम् अस्यैव राज्ञस् त्वं कन्या ह्य् अद्रिकायां भविष्यसि अष्टाविंशे भवित्री त्वं द्वापरे मत्स्ययोनिजा एवम् उक्ता पुरा तैस् त्वं जाता सत्यवती शुभा अद्रिकेत्य् अभिविख्याता ब्रह्मशापाद् वराप्सराः मीनभावम् अनुप्राप्ता त्वां जनित्वा गता दिवम् तस्यां जातासि सा कन्या राज्ञो वीर्येण चैव हि तस्माद् वासवि भद्रं ते याचे वंशकरं सुतम् वैशंपायनः विस्मयाविष्टसर्वाङ्गी जातिस्मरणतां गता साब्रवीत् पश्य भगवन् पारावारे ऋषीन् स्थितान् आवयोर् दृश्यतोर् एभिः कथं नु स्यात् समागमः एवं तयोक्तो भगवान् नीहारम् असृजत् प्रभुः येन देशः स सर्वस् तु तमोभूत इवाभवत् दृष्ट्वा सृष्टं तु नीहारं ततस् तं परमर्षिणा विस्मिता चाब्रवीत् कन्या व्रीडिता च मनस्विनी विद्धि मां भगवन् कन्यां सदा पितृवशानुगाम् त्वत्संयोगाच् च दुष्येत कन्याभावो ममानघ कन्यात्वे दूषिते चापि कथं शक्ष्ये द्विजोत्तम गन्तुं गृहं गृहे चाहं धीमन् न स्थातुम् उत्सहे एतत् संचिन्त्य भगवन् विधत्स्व यद् अनन्तरम् एवम् उक्तवतीं तां तु प्रीतिमान् ऋषिसत्तमः उवाच मत्प्रियं कृत्वा कन्यैव त्वं भविष्यसि वृणीष्व च वरं भीरु यं त्वम् इच्छसि भामिनि वृथा हि न प्रसादो मे भूतपूर्वः शुचिस्मिते एवम् उक्ता वरं वव्रे गात्रसौगन्ध्यम् उत्तमम् स चास्यै भगवान् प्रादान् मनसः काङ्क्षितं प्रभुः ततो लब्धवरा प्रीता स्त्रीभावगुणभूषिता लज्जानतमुखी भूत्वा मुनेर् अभ्याशम् आगता जगाम सह संसर्गम् ऋषिणाद्भुतकर्मणा तेन गन्धवतीत्य् एव नामास्याः प्रथितं भुवि तस्यास् तु योजनाद् गन्धम् आजिघ्रन्ति नरा भुवि ततो योजनगन्धेति तस्या नाम परिश्रुतम् ततो रम्ये वनोद्देशे दिव्यास्तरणसंवृतम् वीरासनम् उपास्थाय योगी ध्यानपरो ऽभवत् श्वेतपट्टगृहे रम्ये पर्यङ्के सोत्तरच्छदे तूष्णींभूतां तदा कन्यां ज्वलन्तीं योगतेजसा दृष्ट्वा तां तु समाधाय विचार्य च पुनः पुनः स चिन्तयाम् आस मुनिः किं कृतं सुकृतं भवेत् शिष्टानां तु समाचारः शिष्टाचार इति स्मृतः श्रुतिस्मृतिविदो विप्रा धर्मज्ञा ज्ञानिनः स्मृताः धर्मज्ञैर् विहितो धर्मः श्रौतः स्मार्तो द्विधा द्विजैः दानाग्निहोत्रम् इज्या च श्रौतस्यैतद् धि लक्षणम् स्मार्तो वर्णाश्रमाचारो यमैश् च नियमैर् युतः धर्मे तु धारणे धातुर् महत्त्वे चापि पठ्यते तत्रेष्टफलभाग्धर्म आचार्यैर् उपदिश्यते अनिष्टफलभाक् चेति तैर् अधर्मो भविष्यति तस्माद् इष्टफलार्थाय धर्मम् एव समाचरेत् ब्राह्मो दैवस् तथैवार्षः प्राजापत्यश् च धार्मिकः विवाहा ब्राह्मणानां तु गान्धर्वो नैव धार्मिकः त्रिवर्णेतरजातीनां गान्धर्वासुरराक्षसाः पैशाचो नैव कर्तव्यः पिशाचश् चाष्टमो ऽधमः सामर्षां व्यङ्गितां कन्यां मातुः स्वकुलजां तथा वृद्धां प्रव्राजितां वन्ध्यां पतितां च रजस्वलाम् अपस्मारकुले जातां पिङ्गलां कुष्ठिनीं व्रणीम् न चास्नातां स्त्रियं गच्छेद् इति धर्मानुशासनम् पिता पितामहो भ्राता माता मातुल एव च उपाध्यायर्त्विजैश् चैव कन्यादाने प्रभूत्तमाः एतैर् दत्तां निषेवेत नादत्ताम् आददीत च इत्य् एव ऋषयः प्राहुर् विवाहे धर्मवित्तमाः अस्या नास्ति पिता भ्राता माता मातुल एव च गान्धर्वेण विवाहेन न स्पृशामि यदृच्छया क्रियाहीनं तु गान्धर्वं न कर्तव्यम् अनापदि यद्य् अस्यां जायते पुत्रो वेदव्यासो भवेद् ऋषिः क्रियाहीनः कथं विप्रो भवेद् ऋषिर् उदारधीः एवं चिन्तयतो भावं महर्षेर् भावितात्मनः ज्ञात्वा चैवाभ्यवर्तन्त पितरो बर्हिषस् तदा तस्मिन् क्षणे ब्रह्मपुत्रो वसिष्ठो ऽपि समेयिवान् पितृगणाः पूर्वं स्वागतम् इत्य् उक्त्वा वसिष्ठः प्रत्यभाषत अस्माकं मानसीं कन्याम् अस्मच्छापेन वासवीम् यदि चेच्छसि पुत्रार्थं कन्यां गृह्णीष्व माचिरम् वैशंपायनः पितॄणां वचनं श्रुत्वा वसिष्ठः प्रत्युवाच ह महर्षीणां वचः सत्यं पुराणे ऽपि मया श्रुतम् पराशरो ब्रह्मचारी प्रजार्थी मम वंशधृत् एवं संभाषमाणे तु वसिष्ठे पितृभिः सह ऋषयो ऽभ्यागमंस् तत्र नैमिषारण्यवासिनः विवाहं द्रष्टुम् इच्छन्तः शक्तिपुत्रस्य धीमतः अरुन्धती महाभागा अदृश्यन्त्या सहैव सा विश्वकर्मकृतां दिव्यां पर्णशालां प्रविश्य सा वैवाहिकांस् तु संभारान् संकल्प्य च यथाक्रमम् अरुन्धती सत्यवतीं वधूं संगृह्य पाणिना भद्रासने प्रतिष्ठाप्य इन्द्राणीं समकारयत् आपूर्यमाणपक्षे तु वैशाख्यां सोमदैवते शुभग्रहे त्रयोदश्यां मुहूर्ते मैत्र आगते विवाहकाल इत्य् उक्त्वा वसिष्ठो मुनिभिः सह यमुनाद्वीपम् आसाद्य शिष्यैश् च मुनिपत्निभिः स्थण्डिलं चतुरस्रं च गोमयेनोपलिप्य च अक्षतैः फलपुष्पैश् च स्वस्तिकैर् आर्द्रपल्लवैः जलपूर्णघटैश् चैव सर्वतः परिशोभितम् तस्य मध्ये प्रतिष्ठाप्य बृस्यां मुनिवरं तदा सिद्धार्थयवकल्कैश् च स्नातं सर्वौषधैर् अपि कृत्वार्जुनानि वस्त्राणि परिधाप्य महामुनिम् वाचयित्वा तु पुण्याहम् अक्षतैस् तु समर्चितः गन्धानुलिप्तः स्रग्वी च सप्रतोदो वधूगृहे अपदातिस् ततो गत्वा वधूज्ञातिभिर् अर्चितः स्नाताम् अहतसंवीतां गन्धलिप्तां स्रगुज्ज्वलाम् वधूं मङ्गलसंयुक्ताम् इषुहस्तां समीक्ष्य च उवाच वचनं काले कालज्ञः सर्वधर्मवित् प्रतिग्रहो दातृवशः श्रुतम् एवं मया पुरा वैशंपायनः यथा वक्ष्यन्ति पितरस् तत् करिष्यामहे वयम् तद् धर्मिष्ठं यशस्यं च वचनं सत्यवादिनः श्रुत्वा तु पितरः सर्वे निःसङ्गा निष्परिग्रहाः वसुं परमधर्मिष्ठम् आहूयेदं वचो ऽब्रुवन् मत्स्ययोनौ समुत्पन्ना तव पुत्री विशेषतः वसुः पराशराय मुनये दातुम् अर्हसि धर्मतः सत्यं मम सुता सा हि दाशराजेन धीमता अहं प्रभुः प्रदाने तु प्रजापालः प्रजार्थिनाम् पितरः निराशिषो वयं सर्वे निःसङ्गा निष्परिग्रहाः कन्यादानेन संबन्धो दक्षिणाबन्ध उच्यते कर्मभूमिस् तु मानुष्यं भोगभूमिस् त्रिविष्टपम् इह पुण्यकृतो यान्ति स्वर्गलोकं न संशयः इह लोके दुष्कृतिनो नरकं यान्ति निर्घृणाः दक्षिणाबन्ध इत्य् उक्ते उभे सुकृतदुष्कृते दक्षिणाबन्धसंयुक्ता योगिनः प्रपतन्ति ते तस्मान् नो मानसीं कन्यां योगाद् भ्रष्टां विशां पते सुतात्वं तव संप्राप्तां सतीं भिक्षां ददस्व वै वैशंपायनः इत्य् उक्त्वा पितरः सर्वे क्षणाद् अन्तर्हितास् तदा याज्ञवल्क्यं समाहूय विवाहाचार्यम् इत्य् उत वसुं चापि समाहूय वसिष्ठो मुनिभिः सह वसुः विवाहं कारयाम् आस श्रुतिदृष्टेन कर्मणा पराशर महाप्राज्ञ तव दास्याम्य् अहं सुताम् प्रतीच्छ चैनां भद्रं ते पाणिं गृह्णीष्व पाणिना वैशंपायनः वसोस् तु वचनं श्रुत्वा याज्ञवल्क्यमते स्थितः कृतकौतुकमङ्गल्यः पाणिना पाणिम् अस्पृशत् प्रभूताज्येन हविषा हुत्वा मन्त्रैर् हुताशनम् त्रिर् अग्निं तु परिक्रम्य समभ्यर्च्य हुताशनम् महर्षीन् याज्ञवल्क्यादीन् दक्षिणाभिः प्रतर्प्य च लब्धानुज्ञो ऽभिवाद्याशु प्रदक्षिणम् अथाकरोत् पराशरे कृतोद्वाहे देवाः सर्षिगणास् तदा हृष्टा जग्मुः क्षणाद् एव वेदव्यासो भवत्व् इति पराशरो ऽपि भगवाञ् जगाम स्वं निवेशनम् इति सत्यवती हृष्टा लब्ध्वा वरम् अनुत्तमम् पराशरेण संयुक्ता सद्यो गर्भं सुषाव सा जज्ञे च यमुनाद्वीपे पाराशर्यः स वीर्यवान् जातमात्रः स ववृधे सप्तवर्षो ऽभवत् तदा स्नात्वाभिवाद्य पितरं तस्थौ व्यासः समाहितः स्वस्तीति वचनं चोक्त्वा ददौ कलशम् उत्तमम् गृहीत्वा कलशं पार्श्वे तस्थौ व्यासः समाहितः ततो दाशभयात् पत्नी स्नात्वा कन्या बभूव सा अभिवाद्य मुनेः पादौ पुत्रं जग्राह पाणिना स्पृष्टमात्रे तु निर्भर्त्स्य मातरं वाक्यम् अब्रवीत् मम पित्रा तु संस्पर्शान् मातस् त्वम् अभवः शुचिः वैशंपायनः अद्य दाशसुता कन्या न स्पृशेर् माम् अनिन्दिते व्यासस्य वचनं श्रुत्वा बाष्पपूर्णमुखी तदा मनुष्यभावात् सा योषित् पतिता मुनिपादयोः महाप्रसादो भगवान् पुत्रं प्रोवाच धर्मवित् मा त्वम् एवंविधं कार्षीर् नैतद् धर्म्यं मतं हि नः न दूष्यौ मातापितरौ तथा पूर्वोपकारिणौ धारणाद् दुःखसहनात् तयोर् माता गरीयसी बीजक्षेत्रसमायोगे सस्यं जायेत लौकिकम् जायते च सुतस् तद्वत् पुरुषस्त्रीसमागमे मृगीणां पक्षिणां चैव अप्सराणां तथैव च शूद्रयोन्यां च जायन्ते मुनयो वेदपारगाः ऋष्यशृङ्गो मृगीपुत्रः कण्वो बर्हिसुतस् तथा अगस्त्यश् च वसिष्ठश् च उर्वश्यां जनिताव् उभौ सोमश्रवास् तु सर्प्यां तु अश्विनाव् अश्विसंभवौ स्कन्दः स्कन्नेन शुक्लेन जातः शरवणे पुरा एवम् एव च देवानाम् ऋषीणां चैव संभवः लोकवादप्रवृत्तिर् हि न मीमांस्या बुधैः सदा वेदव्यास इति प्रोक्तः पुराणे च स्वयंभुवा धर्मनेता महर्षीणां मनुष्याणां त्वम् एव च तस्मात् पुत्र न दूष्येत वासवी योगचारिणी मत्प्रीत्यर्थं महाप्राज्ञ सस्नेहं वक्तुम् अर्हसि प्रजाहितार्थं संभूतो विष्णोर् भागो महान् ऋषिः वैशंपायनः तस्मात् स्वमातरं स्नेहात् प्रब्रवीहि तपोधन गुरोर् वचनम् आज्ञाय व्यासः प्रीतो ऽभवत् तदा चिन्तयित्वा लोकवृत्तं मातुर् अङ्कम् अथाविशत् पुत्रस्पर्शात् तु लोकेषु नान्यत् सुखम् अतीव हि व्यासं कमलपत्राक्षं परिष्वज्याश्र्ववर्तयत् स्तन्यासारैः क्लिद्यमाना पुत्रम् आघ्राय मूर्धनि वासवी पुत्रलाभात् परं लोके नास्तीह प्रसवार्थिनाम् दुर्लभं चेति मन्ये ऽहं मया प्राप्तं महत् तपः महता तपसा तात महायोगबलेन च मया त्वं हि महाप्राज्ञ लब्धो ऽमृतम् इवामरैः तस्मात् त्वं माम् ऋषेः पुत्र त्यक्तुं नार्हसि सांप्रतम् वैशंपायनः एवम् उक्तस् ततः स्नेहाद् व्यासो मातरम् अब्रवीत् त्वया स्पृष्टः परिष्वक्तो मूर्ध्नि चाघ्रायितो मुहुः एतावन् मात्रया प्रीता भविष्येथा नृपात्मजे स मातरम् उपस्थाय तपस्य् एव मनो दधे स्मृतो ऽहं दर्शयिष्यामि कृत्येष्व् इति च सो ऽब्रवीत् ततः कन्याम् अनुज्ञाय पुनः कन्या भवत्व् इति पराशरो ऽपि भगवान् पुत्रेण सहितो ययौ गत्वाश्रमपदं पुण्यम् अदृश्यन्त्याः पराशरः जातकर्मादिसंस्कारं कारयाम् आस धर्मतः कृतोपनयनो व्यासो याज्ञवल्क्येन भारत वेदान् अधिजगे साङ्गान् ॐकारेण त्रिमात्रया गुरवे दक्षिणां दत्त्वा तपः कर्तुं प्रचक्रमे एवं द्वैपायनो जज्ञे सत्यवत्यां पराशरात् द्वीपे न्यस्तः स यद् बालस् तस्माद् द्वैपायनो ऽभवत् पादापसारिणं धर्मं विद्वान् स तु युगे युगे आयुः शक्तिं च मर्त्यानां युगानुगम् अवेक्ष्य च ब्रह्मणो ब्राह्मणानां च तथानुग्रहकाम्यया ततः स महर्षिर् विद्वाञ् शिष्यान् आहूय धर्मतः विव्यास वेदान् यस्माच् च तस्माद् व्यास इति स्मृतः वेदान् अध्यापयाम् आस महाभारतपञ्चमान् सुमन्तुं जैमिनिं पैलं शुकं चैव स्वम् आत्मजम् प्रभुर् वरिष्ठो वरदो वैशंपायनम् एव च संहितास् तैः पृथक्त्वेन भारतस्य प्रकाशिताः ततः सत्यवती हृष्टा जगाम स्वं निवेशनम् तस्यास् तु योजनाद् गन्धम् आजिघ्रन्ति नरा भुवि दाशराजः दाशराजस् तु तद् गन्धम् आजिघ्रन् प्रीतिम् आवहत् त्वाम् आहुर् मत्स्यगन्धेति कथं बाले सुगन्धता अपास्य मत्स्यगन्धत्वं केन दत्ता सुगन्धता सत्यवती शक्तेः पुत्रो महाप्राज्ञः पराशर इति श्रुतः नावं वाहयमानाया मम दृष्ट्वा सुगर्हितम् अपास्य मत्स्यगन्धत्वं योजनाद् गन्धतां ददौ ऋषेः प्रसादं दृष्ट्वा तु जनाः प्रीतिम् उपागमन् एवं लब्धो मया गन्धो न रोषं कर्तुम् अर्हसि वैशंपायनः दाशराजस् तु तद् वाक्यं प्रशशंस ननन्द च एतत् पवित्रं पुण्यं च व्याससंभवम् उत्तमम् इतिहासम् इमं श्रुत्वा प्रजावन्तो भवन्ति च तथा भीष्मः शांतनवो गङ्गायाम् अमितद्युतिः वसुवीर्यात् समभवन् महावीर्यो महायशाः वेदार्थविच् च भगवान् ऋषिर् विप्रो महायशाः शूले प्रोतः पुराणर्षिर् अचोरश् चोरशङ्कया अणीमाण्डव्य इति वै विख्यातः सुमहायशाः स धर्मम् आहूय पुरा महर्षिर् इदम् उक्तवान् इषीकया मया बाल्याद् एका विद्धा शकुन्तिका तत् किल्बिषं स्मरे धर्म नान्यत् पापम् अहं स्मरे तन् मे सहस्रसमितं कस्मान् नेहाजयत् तपः गरीयान् ब्राह्मणवधः सर्वभूतवधाद् यतः तस्मात् त्वं किल्बिषाद् अस्माच् छूद्रयोनौ जनिष्यसि तेन शापेन धर्मो ऽपि शूद्रयोनाव् अजायत विद्वान् विदुररूपेण धार्मी तनुर् अकिल्बिषी संजयो मुनिकल्पस् तु जज्ञे सूतो गवल्गणात् सूर्याच् च कुन्तिकन्यायां जज्ञे कर्णो महारथः सहजं कवचं बिभ्रत् कुण्डलोद्द्योतिताननः अनुग्रहार्थं लोकानां विष्णुर् लोकनमस्कृतः वसुदेवात् तु देवक्यां प्रादुर्भूतो महायशाः अनादिनिधनो देवः स कर्ता जगतः प्रभुः आदेर् आदिः समस्तानां स कर्ता न कृतः प्रभुः अव्यक्तम् अक्षरं ब्रह्म प्रधानं निर्गुणात्मकम् आत्मानम् अव्ययं चैव प्रकृतिं प्रभवं परम् पुरुषं विश्वकर्माणं सत्त्वयोगं ध्रुवाक्षरम् अनन्तम् अचलं देवं हंसं नारायणं प्रभुम् धातारम् अजरं नित्यं तम् आहुः परम् अव्ययम् कैवल्यं निर्गुणं विश्वम् अनादिम् अजम् अव्ययम् पुरुषः स विभुः कर्ता सर्वभूतपितामहः धर्मसंवर्धनार्थाय प्रजज्ञे ऽन्धकवृष्णिषु अस्त्रज्ञौ तु महावीर्यौ सर्वशस्त्रविशारदौ यद् आप्नोति यद् आदत्ते यच् चाति विषयाणि च यच् चास्य सततो भावस् तस्माद् आत्मेति कीर्त्यते सात्यकिः कृतवर्मा च नारायणम् अनुव्रतौ सत्यकाद् धृदिकाच् चैव जज्ञाते ऽस्त्रविशारदौ हृदिकः कृतवर्मा च युयुधानस् तु सात्यकिः भरद्वाजस्य च स्कन्नं द्रोण्यां शुक्रम् अवर्धत महर्षेर् उग्रतपसस् तस्माद् द्रोणो व्यजायत गौतमान् मिथुनं जज्ञे शरस्तम्बाच् छरद्वतः अश्वत्थाम्नश् च जननी कृपश् चैव महाबलः अश्वत्थामा ततो जज्ञे द्रोणाद् अस्त्रभृतां वरः धृष्टद्युम्नविनाशाय सृष्टो धात्रा महात्मना तथैव धृष्टद्युम्नो ऽपि साक्षाद् अग्निसमद्युतिः वैताने कर्मणि तते पावकात् समजायत वीरो द्रोणविनाशाय धनुषा सह वीर्यवान् तथैव वेद्यां कृष्णापि जज्ञे तेजस्विनी शुभा विभ्राजमाना वपुषा बिभ्रती रूपम् उत्तमम् प्रह्रादशिष्यो नग्नजित् सुबलश् चाभवत् ततः तस्य प्रजा धर्महन्त्री जज्ञे देवप्रकोपनात् गान्धारराजपुत्रो ऽभूच् छकुनिः सौबलस् तथा दुर्योधनस्य माता च जज्ञाते ऽर्थविदाव् उभौ कृष्णद्वैपायनाज् जज्ञे धृतराष्ट्रो जनेश्वरः क्षेत्रे विचित्रवीर्यस्य पाण्डुश् चैव महाबलः धर्मार्थकुशलो धीमान् मेधावी धूतकल्मषः विदुरः शूद्रयोनौ तु जज्ञे द्वैपायनाद् अपि पाण्डोस् तु जज्ञिरे पञ्च पुत्रा देवसमाः पृथक् द्वयोः स्त्रियोर् गुणज्येष्ठस् तेषाम् आसीद् युधिष्ठिरः धर्माद् युधिष्ठिरो जज्ञे मारुतात् तु वृकोदरः इन्द्राद् धनंजयः श्रीमान् सर्वशस्त्रभृतां वरः जज्ञाते रूपसंपन्नाव् अश्विभ्यां तु यमाव् उभौ नकुलः सहदेवश् च गुरुशुश्रूषणे रतौ तथा पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः दुर्योधनप्रभृतयो युयुत्सुः करणस् तथा ततो दुःशासनश् चैव दुःसहश् चापि भारत दुर्मर्षणो विकर्णश् च चित्रसेनो विविंशतिः जयः सत्यव्रतश् चैव पुरुमित्रश् च भारत वैश्यापुत्रो युयुत्सुश् च एकादश महारथाः अभिमन्युः सुभद्रायाम् अर्जुनाद् अभ्यजायत स्वस्रीयो वासुदेवस्य पौत्रः पाण्डोर् महात्मनः पाण्डवेभ्यो ऽपि पञ्चभ्यः कृष्णायां पञ्च जज्ञिरे कुमारा रूपसंपन्नाः सर्वशस्त्रविशारदाः प्रतिविन्ध्यो युधिष्ठिरात् सुतसोमो वृकोदरात् अर्जुनाच् छ्रुतकीर्तिस् तु शतानीकस् तु नाकुलिः तथैव सहदेवाच् च श्रुतसेनः प्रतापवान् हिडिम्बायां च भीमेन वने जज्ञे घटोत्कचः शिखण्डी द्रुपदाज् जज्ञे कन्या पुत्रत्वम् आगता यां यक्षः पुरुषं चक्रे स्थूणः प्रियचिकीर्षया कुरूणां विग्रहे तस्मिन् समागच्छन् बहून्य् अथ राज्ञां शतसहस्राणि योत्स्यमानानि संयुगे तेषाम् अपरिमेयानि नामधेयानि सर्वशः न शक्यं परिसंख्यातुं वर्षाणाम् अयुतैर् अपि एते तु कीर्तिता मुख्या यैर् आख्यानम् इदं ततम् जनमेजय उवाच य एते कीर्तिता ब्रह्मन् ये चान्ये नानुकीर्तिताः सम्यक् ताञ् श्रोतुम् इच्छामि राज्ञश् चान्यान् सुवर्चसः यदर्थम् इह संभूता देवकल्पा महारथाः भुवि तन् मे महाभाग सम्यग् आख्यातुम् अर्हसि वैशंपायन उवाच रहस्यं खल्व् इदं राजन् देवानाम् इति नः श्रुतम् तत् तु ते कथयिष्यामि नमस्कृत्वा स्वयंभुवे त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां पुरा जामदग्न्यस् तपस् तेपे महेन्द्रे पर्वतोत्तमे तदा निःक्षत्रिये लोके भार्गवेण कृते सति ब्राह्मणान् क्षत्रिया राजन् गर्भार्थिन्यो ऽभिचक्रमुः ताभिः सह समापेतुर् ब्राह्मणाः संशितव्रताः ऋताव् ऋतौ नरव्याघ्र न कामान् नानृतौ तथा तेभ्यस् तु लेभिरे गर्भान् क्षत्रियास् ताः सहस्रशः ततः सुषुविरे राजन् क्षत्रियान् वीर्यसंमतान् कुमारांश् च कुमारीश् च पुनः क्षत्राभिवृद्धये एवं तद् ब्राह्मणैः क्षत्रं क्षत्रियासु तपस्विभिः प्रनष्टम् उद्धृतं राजन् यथा प्रोक्तं स्वयंभुवा सर्वेषाम् एव वर्णानां प्रनष्टानां महीपते ब्राह्मणा एव कुर्वन्ति नित्यम् एव युगे युगे जातम् ऋध्यत धर्मेण सुदीर्घेणायुषान्वितम् क्षत्रं तदा महीपाल स्वधर्मं परिपाठनात् चत्वारो ऽपि तदा वर्णा बभूवुर् ब्राह्मणोत्तराः अभ्यगच्छन्न् ऋतौ नारीं न कामान् नानृतौ तथा तथैवान्यानि भूतानि तिर्यग्योनिगतान्य् अपि ऋतौ दारांश् च गच्छन्ति तदा स्म भरतर्षभ ततो ऽवर्धन्त धर्मेण सहस्रशतजीविनः ताः प्रजाः पृथिवीपाल धर्मव्रतपरायणाः आधिभिर् व्याधिभिश् चैव विमुक्ताः सर्वशो नराः अथेमां सागरापाङ्गां गां गजेन्द्रगताखिलाम् अध्यतिष्ठत् पुनः क्षत्रं सशैलवनकाननाम् प्रशासति पुनः क्षत्रे धर्मेणेमां वसुंधराम् ब्राह्मणाद्यास् तदा वर्णा लेभिरे मुदम् उत्तमाम् कामक्रोधोद्भवान् दोषान् निरस्य च नराधिपाः दण्डं दण्ड्येषु धर्मेण प्रणयन्तो ऽन्वपालयन् तथा धर्मपरे क्षत्रे सहस्राक्षः शतक्रतुः स्वादु देशे च काले च ववर्षाप्याययन् प्रजाः न बाल एव म्रियते तदा कश् चिन् नराधिप न च स्त्रियं प्रजानाति कश् चिद् अप्राप्तयौवनः एवम् आयुष्मतीभिस् तु प्रजाभिर् भरतर्षभ इयं सागरपर्यन्ता समापूर्यत मेदिनी ईजिरे च महायज्ञैः क्षत्रिया बहुदक्षिणैः साङ्गोपनिषदान् वेदान् विप्राश् चाधीयते तदा न च विक्रीणते ब्रह्म ब्राह्मणाः स्म तदा नृप न च शूद्रसमाभ्याशे वेदान् उच्चारयन्त्य् उत कारयन्तः कृषिं गोभिस् तथा वैश्याः क्षिताव् इह न गाम् अयुञ्जन्त धुरि कृशाङ्गाश् चाप्य् अजीवयन् फेनपांश् च तथा वत्सान् न दुहन्ति स्म मानवाः न कूटमानैर् वणिजः पण्यं विक्रीणते तदा कर्माणि च नरव्याघ्र धर्मोपेतानि मानवाः धर्मम् एवानुपश्यन्तश् चक्रुर् धर्मपरायणाः स्वकर्मनिरताश् चासन् सर्वे वर्णा नराधिप धर्मम् एवानुवर्तन्ते न पश्यन्ति स्म किल्बिषम् बभूवुः कर्मसु स्वेषु सम्यक् सर्वाः प्रजाः स्थिताः एवं तदा नरव्याघ्र धर्मो न ह्रसते क्व चित् काले गावः प्रसूयन्ते नार्यश् च भरतर्षभ फलन्त्य् ऋतुषु वृक्षाश् च पुष्पाणि च फलानि च एवं कृतयुगे सम्यग् वर्तमाने तदा नृप आपूर्यत मही कृत्स्ना प्राणिभिर् बहुभिर् भृशम् ततः समुदिते लोके मानुषे भरतर्षभ असुरा जज्ञिरे क्षेत्रे राज्ञां मनुजपुंगव आदित्यैर् हि तदा दैत्या बहुशो निर्जिता युधि ऐश्वर्याद् भ्रंशिताश् चापि संबभूवुः क्षिताव् इह इह देवत्वम् इच्छन्तो मानुषेषु मनस्विनः जज्ञिरे भुवि भूतेषु तेषु तेष्व् असुरा विभो गोष्व् अश्वेषु च राजेन्द्र खरोष्ट्रमहिषेषु च क्रव्यादेषु च भूतेषु गजेषु च मृगेषु च जातैर् इह महीपाल जायमानैश् च तैर् मही न शशाकात्मनात्मानम् इयं धारयितुं धरा अथ जाता महीपालाः के चिद् बलसमन्विताः दितेः पुत्रा दनोश् चैव तस्माल् लोकाद् इह च्युताः वीर्यवन्तो ऽवलिप्तास् ते नानारूपधरा महीम् इमां सागरपर्यन्तां परीयुर् अरिमर्दनाः ब्राह्मणान् क्षत्रियान् वैश्याञ् शूद्रांश् चैवाप्य् अपीडयन् अन्यानि चैव भूतानि पीडयाम् आसुर् ओजसा त्रासयन्तो विनिघ्नन्तस् तांस् तान् भूतगणांश् च ते विचेरुः सर्वतो राजन् महीं शतसहस्रशः आश्रमस्थान् महर्षींश् च धर्षयन्तस् ततस् ततः अब्रह्मण्या वीर्यमदा मत्ता मदबलेन च एवं वीर्यबलोत्सिक्तैर् भूर् इयं तैर् महासुरैः पीड्यमाना महीपाल ब्रह्माणम् उपचक्रमे न हीमां पवनो राजन् न नागा न नगा महीम् तदा धारयितुं शेकुर् आक्रान्तां दानवैर् बलात् ततो मही महीपाल भारार्ता भयपीडिता जगाम शरणं देवं सर्वभूतपितामहम् सा संवृतं महाभागैर् देवद्विजमहर्षिभिः ददर्श देवं ब्रह्माणं लोककर्तारम् अव्ययम् गन्धर्वैर् अप्सरोभिश् च बन्दिकर्मसु निष्ठितैः वन्द्यमानं मुदोपेतैर् ववन्दे चैनम् एत्य सा अथ विज्ञापयाम् आस भूमिस् तं शरणार्थिनी संनिधौ लोकपालानां सर्वेषाम् एव भारत तत् प्रधानात्मनस् तस्य भूमेः कृत्यं स्वयंभुवः पूर्वम् एवाभवद् राजन् विदितं परमेष्ठिनः स्रष्टा हि जगतः कस्मान् न संबुध्येत भारत सुरासुराणां लोकानाम् अशेषेण मनोगतम् तम् उवाच महाराज भूमिं भूमिपतिर् विभुः प्रभवः सर्वभूतानाम् ईशः शंभुः प्रजापतिः यदर्थम् असि संप्राप्ता मत्सकाशं वसुंधरे तदर्थं संनियोक्ष्यामि सर्वान् एव दिवौकसः उत्तिष्ठ गच्छ वसुधे स्वस्थानम् इति सागमत् इत्य् उक्त्वा स महीं देवो ब्रह्मा राजन् विसृज्य च आदिदेश तदा सर्वान् विबुधान् भूतकृत् स्वयम् अस्या भूमेर् निरसितुं भारं भागैः पृथक् पृथक् अस्याम् एव प्रसूयध्वं विरोधायेति चाब्रवीत् तथैव च समानीय गन्धर्वाप्सरसां गणान् उवाच भगवान् सर्वान् इदं वचनम् उत्तमम् स्वैर् अंशैः संप्रसूयध्वं यथेष्टं मानुषेष्व् इति अथ शक्रादयः सर्वे श्रुत्वा सुरगुरोर् वचः तथ्यम् अर्थ्यं च पथ्यं च तस्य ते जगृहुस् तदा अथ ते सर्वशो ऽंशैः स्वैर् गन्तुं भूमिं कृतक्षणाः नारायणम् अमित्रघ्नं वैकुण्ठम् उपचक्रमुः यः स चक्रगदापाणिः पीतवासासितप्रभः पद्मनाभः सुरारिघ्नः पृथुचार्वञ्चितेक्षणः प्रजापतिपतिर् देवः सुरनाथो महाबलः श्रीवत्साङ्को हृषीकेशः सर्वदैवतपूजितः सो ऽपि जन्म मनुष्येषु लेभे सुरवरो हरिः तं भुवः शोधनायेन्द्र उवाच पुरुषोत्तमम् अंशेनावतरस्वेति तथेत्य् आह च तं हरिः वैशंपायन उवाच अथ नारायणेनेन्द्रश् चकार सह संविदम् अवतर्तुं महीं स्वर्गाद् अंशतः सहितः सुरैः आदिश्य च स्वयं शक्रः सर्वान् एव दिवौकसः निर्जगाम पुनस् तस्मात् क्षयान् नारायणस्य ह ते ऽमरारिविनाशाय सर्वलोकहिताय च अवतेरुः क्रमेणेमां महीं स्वर्गाद् दिवौकसः ततो ब्रह्मर्षिवंशेषु पार्थिवर्षिकुलेषु च जज्ञिरे राजशार्दूल यथाकामं दिवौकसः दानवान् राक्षसांश् चैव गन्धर्वान् पन्नगांस् तथा पुरुषादानि चान्यानि जघ्नुः सत्त्वान्य् अनेकशः दानवा राक्षसाश् चैव गन्धर्वाः पन्नगास् तथा न तान् बलस्थान् बाल्ये ऽपि जघ्नुर् भरतसत्तम जनमेजय उवाच दानवानां च ये मुख्याः तथा भुजगरक्षसाम् देवदानवसंघानां गन्धर्वाप्सरसां तथा मानवानां च सर्वेषां तथा वै यक्षरक्षसाम् श्रोतुम् इच्छामि तत्त्वेन संभवं कृत्स्नम् आदितः प्राणिनां चैव सर्वेषां सर्वशः सर्वविद् ध्यसि वैशंपायन उवाच हन्त ते कथयिष्यामि नमस्कृत्वा स्वयंभुवे सुरादीनाम् अहं सम्यग् लोकानां प्रभवाप्ययम् प्राणिनां चैव सर्वेषां सर्वशः प्रभवाप्ययम् ब्रह्मणो मानसाः पुत्रा विदिताः षण् महर्षयः मरीचिर् अत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः मरीचेः कश्यपः पुत्रः कश्यपात् तु इमाः प्रजाः प्रजज्ञिरे महाभागा दक्षकन्यास् त्रयोदश अदितिर् दितिर् दनुः काला अनायुः सिंहिका मुनिः क्रोधा प्रावा अरिष्टा च विनता कपिला तथा कद्रूश् च मनुजव्याघ्र दक्षकन्यैव भारत एतासां वीर्यसंपन्नं पुत्रपौत्रम् अनन्तकम् अदित्यां द्वादशादित्याः संभूता भुवनेश्वराः ये राजन् नामतस् तांस् ते कीर्तयिष्यामि भारत धाता मित्रो ऽर्यमा शक्रो वरुणश् चांश एव च भगो विवस्वान् पूषा च सविता दशमस् तथा एकादशस् तथा त्वष्टा विष्णुर् द्वादश उच्यते जघन्यजः स सर्वेषाम् आदित्यानां गुणाधिकः एक एव दितेः पुत्रो हिरण्यकशिपुः स्मृतः नाम्ना ख्यातास् तु तस्येमे पुत्राः पञ्च महात्मनः प्रह्रादः पूर्वजस् तेषां संह्रादस् तदनन्तरम् अनुह्रादस् तृतीयो ऽभूत् तस्माच् च शिबिबाष्कलौ प्रह्रादस्य त्रयः पुत्राः ख्याताः सर्वत्र भारत विरोचनश् च कुम्भश् च निकुम्भश् चेति विश्रुताः विरोचनस्य पुत्रो ऽभूद् बलिर् एकः प्रतापवान् बलेश् च प्रथितः पुत्रो बाणो नाम महासुरः रुद्रस्यानुचरः श्रीमान् महाकालेति यं विदुः चत्वारिंशद् दनोः पुत्राः ख्याताः सर्वत्र भारत तेषां प्रथमजो राजा विप्रचित्तिर् महायशाः शम्बरो नमुचिश् चैव पुलोमा चेति विश्रुतः असिलोमा च केशी च दुर्जयश् चैव दानवः अयःशिरा अश्वशिरा अयःशङ्कुश् च वीर्यवान् तथा गगनमूर्धा च वेगवान् केतुमांश् च यः स्वर्भानुर् अश्वो ऽश्वपतिर् वृषपर्वाजकस् तथा अश्वग्रीवश् च सूक्ष्मश् च तुहुण्डश् च महासुरः इसृपा एकचक्रश् च विरूपाक्षो हराहरौ निचन्द्रश् च निकुम्भश् च कुपथः कापथस् तथा शरभः शलभश् चैव सूर्याचन्द्रमसौ तथा इति ख्याता दनोर् वंशे दानवाः परिकीर्तिताः अन्यौ तु खलु देवानां सूर्याचन्द्रमसौ स्मृतौ अन्यौ दानवमुख्यानां सूर्याचन्द्रमसौ तथा इमे च वंशे प्रथिताः सत्त्ववन्तो महाबलाः दनुपुत्रा महाराज दश दानवपुङ्गवाः एकाक्षो मृतपा वीरः प्रलम्बनरकाव् अपि वातापिः शत्रुतपनः शठश् चैव महासुरः गविष्ठश् च दनायुश् च दीर्घजिह्वश् च दानवः असंख्येयाः स्मृतास् तेषां पुत्राः पौत्राश् च भारत सिंहिका सुषुवे पुत्रं राहुं चन्द्रार्कमर्दनम् सुचन्द्रं चन्द्रहन्तारं तथा चन्द्रविमर्दनम् क्रूरस्वभावं क्रूरायाः पुत्रपौत्रम् अनन्तकम् गणः क्रोधवशो नाम क्रूरकर्मारिमर्दनः अनायुषः पुनः पुत्राश् चत्वारो ऽसुरपुंगवाः विक्षरो बलवीरौ च वृत्रश् चैव महासुरः कालायाः प्रथिताः पुत्राः कालकल्पाः प्रहारिणः भुवि ख्याता महावीर्या दानवेषु परंतपाः विनाशनश् च क्रोधश् च हन्ता क्रोधस्य चापरः क्रोधशत्रुस् तथैवान्यः कालेया इति विश्रुताः असुराणाम् उपाध्यायः शुक्रस् त्व् ऋषिसुतो ऽभवत् ख्याताश् चोशनसः पुत्राश् चत्वारो ऽसुरयाजकाः त्वष्टावरस् तथात्रिश् च द्वाव् अन्यौ मन्त्रकर्मिणौ तेजसा सूर्यसंकाशा ब्रह्मलोकप्रभावनाः इत्य् एष वंशप्रभवः कथितस् ते तरस्विनाम् असुराणां सुराणां च पुराणे संश्रुतो मया एतेषां यद् अपत्यं तु न शक्यं तद् अशेषतः प्रसंख्यातुं महीपाल गुणभूतम् अनन्तकम् तार्क्ष्यश् चारिष्टनेमिश् च तथैव गरुडारुणौ आरुणिर् वारुणिश् चैव वैनतेया इति स्मृताः शेषो ऽनन्तो वासुकिश् च तक्षकश् च भुजंगमः कूर्मश् च कुलिकश् चैव काद्रवेया महाबलाः भीमसेनोग्रसेनौ च सुपर्णो वरुणस् तथा गोपतिर् धृतराष्ट्रश् च सूर्यवर्चाश् च सप्तमः अनेत्रो वर्हपर्णश् च तथा काशीपतिश् च सः पत्रवान् अर्कपर्णश् च प्रयुतश् चैव विश्रुतः भीमश् चित्ररथश् चैव विख्यातः सर्वविद् वशी तथा शालिशिरा राजन् प्रद्युम्नश् च चतुर्दशः कलिः पञ्चदशश् चैव नारदश् चैव षोडशः इत्य् एते देवगन्धर्वा मौनेयाः परिकीर्तिताः अतस् तु भूतान्य् अन्यानि कीर्तयिष्यामि भारत अनवद्याम् अनुवशाम् अनूनाम् अरुणां प्रियाम् अनूपां सुभगां भासीम् इति प्रावा व्यजायत सिद्धः पूर्णश् च बर्ही च पूर्णाशश् च महायशाः ब्रह्मचारी रतिगुणः सुपर्णश् चैव सप्तमः विश्वावसुश् च भानुश् च सुचन्द्रो दशमस् तथा इत्य् एते देवगन्धर्वाः प्रावेयाः परिकीर्तिताः इमं त्व् अप्सरसां वंशं विदितं पुण्यलक्षणम् प्रावासूत महाभागा देवी देवर्षितः पुरा मेनका सहजन्या च पार्ष्णिना पुञ्जकस् तथा घृतस्थला घृताची च विश्वासी चोर्वशी तथा अलम्बुसा मिश्रकेषी विद्युत्पर्णा तुलानघा अरुणा रक्षिता चैव रम्भा तद्वन् मनोरमा असिता च सुबाहुश् च सुव्रता सुभुजा तथा सुप्रिया चातिबाहुश् च विख्यातौ च हहाहुहू तुम्बुरुश् चेति चत्वारः स्मृता गन्धर्वसत्तमाः जानीबाहुश् च विख्याता हाहाहूहूः पुनस् तथा अमृतं ब्राह्मणा गावो गन्धर्वाप्सरसस् तथा अपत्यं कपिलायास् तु पुराणे परिकीर्तितम् इति ते सर्वभूतानां संभवः कथितो मया यथावत् परिसंख्यातो गन्धर्वाप्सरसां तथा भुजगानां सुपर्णानां रुद्राणां मरुतां तथा गवां च ब्राह्मणानां च श्रीमतां पुण्यकर्मणाम् आयुष्यश् चैव पुण्यश् च धन्यः श्रुतिसुखावहः श्रोतव्यश् चैव सततं श्राव्यश् चैवानसूयता इमं तु वंशं नियमेन यः पठेन्; महात्मनां ब्राह्मणदेवसंनिधौ अपत्यलाभं लभते स पुष्कलं; श्रियं यशः प्रेत्य च शोभनां गतिम् वैशंपायन उवाच ब्रह्मणो मानसाः पुत्रा विदिताः षण् महर्षयः एकादश सुताः स्थाणोः ख्याताः परममानसाः मृगव्याधश् च शर्वश् च निरृतिश् च महायशाः अजैकपाद् अहिर्बुध्न्यः पिनाकी च परंतपः दहनो ऽथेश्वरश् चैव कपाली च महाद्युतिः स्थाणुर् भवश् च भगवान् रुद्रा एकादश स्मृताः मरीचिर् अङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः षड् एते ब्रह्मणः पुत्रा वीर्यवन्तो महर्षयः त्रयस् त्व् अङ्गिरसः पुत्रा लोके सर्वत्र विश्रुताः बृहस्पतिर् उतथ्यश् च संवर्तश् च धृतव्रताः अत्रेस् तु बहवः पुत्राः श्रूयन्ते मनुजाधिप सर्वे वेदविदः सिद्धाः शान्तात्मानो महर्षयः राक्षसास् तु पुलस्त्यस्य वानराः किंनरास् तथा यक्षाश् च मनुजव्याघ्र पुत्रास् तस्य च धीमतः पुलहस्य मृगाः सिंहा व्याघ्राः किंपुरुषास् तथा पुलहस्य सुता राजञ् शरभाश् च प्रकीर्तिताः सिंहाः किंपुरुषा व्याघ्रा ऋक्षा ईहामृगास् तथा क्रतोः क्रतुसमाः पुत्राः पतंगसहचारिणः विश्रुतास् त्रिषु लोकेषु सत्यव्रतपरायणाः दक्षस् त्व् अजायताङ्गुष्ठाद् दक्षिणाद् भगवान् ऋषिः ब्रह्मणः पृथिवीपाल पुत्रः पुत्रवतां वरः वामाद् अजायताङ्गुष्ठाद् भार्या तस्य महात्मनः तस्यां पञ्चाशतं कन्याः स एवाजनयन् मुनिः ताः सर्वास् त्व् अनवद्याङ्ग्यः कन्याः कमललोचनाः पुत्रिकाः स्थापयाम् आस नष्टपुत्रः प्रजापतिः ददौ स दश धर्माय सप्तविंशतिम् इन्दवे दिव्येन विधिना राजन् कश्यपाय त्रयोदश नामतो धर्मपत्न्यस् ताः कीर्त्यमाना निबोध मे कीर्तिर् लक्ष्मीर् धृतिर् मेधा पुष्टिः श्रद्धा क्रिया तथा बुद्धिर् लज्जा मतिश् चैव पत्न्यो धर्मस्य ता दश द्वाराण्य् एतानि धर्मस्य विहितानि स्वयंभुवा सप्तविंशति सोमस्य पत्न्यो लोके परिश्रुताः कालस्य नयने युक्ताः सोमपत्न्यः शुभव्रताः सर्वा नक्षत्रयोगिन्यो लोकयात्राविधौ स्थिताः पितामहो मुनिर् देवस् तस्य पुत्रः प्रजापतिः तस्याष्टौ वसवः पुत्रास् तेषां वक्ष्यामि विस्तरम् धरो ध्रुवश् च सोमश् च अहश् चैवानिलो ऽनलः प्रत्यूषश् च प्रभासश् च वसवो ऽष्टाव् इति स्मृताः धूम्रायाश् च धरः पुत्रो ब्रह्मविद्यो ध्रुवस् तथा चन्द्रमास् तु मनस्विन्याः श्वसायाः श्वसनस् तथा रतायाश् चाप्य् अहः पुत्रः शाण्डिल्याश् च हुताशनः प्रत्यूषश् च प्रभासश् च प्रभातायाः सुतौ स्मृतौ धरस्य पुत्रो द्रविणो हुतहव्यवहस् तथा आपस्य पुत्रो वैतण्ड्यः श्रमश्रान्तो मुनिस् तथा ध्रुवस्य पुत्रो भगवान् कालो लोकप्रकालनः सोमस्य तु सुतो वर्चा वर्चस्वी येन जायते मनोहरायाः शिशिरः प्राणो ऽथ रमणस् तथा अह्नः सुतः स्मृतो ज्योतिः श्रमः शान्तस् तथा मुनिः अग्नेः पुत्रः कुमारस् तु श्रीमाञ् शरवणालयः तस्य शाखो विशाखश् च नैगमेशश् च पृष्ठजः कृत्तिकाभ्युपपत्तेश् च कार्त्तिकेय इति स्मृतः अनिलस्य शिवा भार्या तस्याः पुत्रः पुरोजवः विश्वकर्मा महाभागो तस्य पुत्रो मनोजवः अविज्ञातगतिश् चैव द्वौ पुत्राव् अनिलस्य तु प्रत्यूषस्य विदुः पुत्रम् ऋषिं नाम्नाथ देवलम् द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ शङ्खश् च लिखितश् चैव सर्वशास्त्रविशारदौ बृहस्पतेस् तु भगिनी वरस्त्री ब्रह्मचारिणी योगसिद्धा जगत् सर्वम् असक्तं विचरत्य् उत प्रभासस्य तु भार्या सा वसूनाम् अष्टमस्य ह प्रासूत विश्वकर्माणं सर्वशिल्पवतां वरम् विश्वकर्मा महाभागो जज्ञे शिल्पप्रजापतिः कर्ता शिल्पसहस्राणां त्रिदशानां च वर्धकिः भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः यो दिव्यानि विमानानि देवतानां चकार ह मनुष्याश् चोपजीवन्ति यस्य शिल्पं महात्मनः पूजयन्ति च यं नित्यं विश्वकर्माणम् अव्ययम् स्तनं तु दक्षिणं भित्त्वा ब्रह्मणो नरविग्रहः निःसृतो भगवान् धर्मः सर्वलोकसुखावहः त्रयस् तस्य वराः पुत्राः सर्वभूतमनोहराः शमः कामश् च हर्षश् च तेजसा लोकधारिणः कामस्य तु रतिर् भार्या शमस्य प्राप्तिर् अङ्गना नन्दी तु भार्या हर्षस्य यत्र लोकाः प्रतिष्ठिताः मरीचेः कश्यपः पुत्रः कश्यपस्य सुरासुराः जज्ञिरे नृपशार्दूल लोकानां प्रभवस् तु सः त्वाष्ट्री तु सवितुर् भार्या वडवारूपधारिणी असूयत महाभागा सान्तरिक्षे ऽश्विनाव् उभौ द्वादशैवादितेः पुत्राः शक्रमुख्या नराधिप तेषाम् अवरजो विष्णुर् यत्र लोकाः प्रतिष्ठिताः त्रयस् त्रिंशत इत्य् एते देवास् तेषाम् अहं तव अन्वयं संप्रवक्ष्यामि पक्षैश् च कुलतो गणान् रुद्राणाम् अपरः पक्षः साध्यानां मरुतां तथा वसूनां भार्गवं विद्याद् विश्वेदेवांस् तथैव च वैनतेयस् तु गरुडो बलवान् अरुणस् तथा बृहस्पतिश् च भगवान् आदित्येष्व् एव गण्यते अश्विभ्यां गुह्यकान् विद्धि सर्वौषध्यस् तथा पशून् एष देवगणो राजन् कीर्तितस् ते ऽनुपूर्वशः यं कीर्तयित्वा मनुजः सर्वपापैः प्रमुच्यते ब्रह्मणो हृदयं भित्त्वा निःसृतो भगवान् भृगुः भृगोः पुत्रः कविर् विद्वाञ् शुक्रः कविसुतो ग्रहः त्रैलोक्यप्राणयात्रार्थे वर्षावर्षे भयाभये स्वयंभुवा नियुक्तः सन् भुवनं परिधावति योगाचार्यो महाबुद्धिर् दैत्यानाम् अभवद् गुरुः सुराणां चापि मेधावी ब्रह्मचारी यतव्रतः षण्डामार्कौ प्रथमतः प्रथिताव् उग्रतेजसौ तस्मिन् नियुक्ते विभुना योगक्षेमाय भार्गवे अन्यम् उत्पादयाम् आस पुत्रं भृगुर् अनिन्दितम् च्यवनं दीप्ततपसं धर्मात्मानं मनीषिणम् यः स रोषाच् च्युतो गर्भान् मातुर् मोक्षाय भारत आसीत् तस्य सुकन्या वै भार्या चापि महात्मनः आरुषी तु मनोः कन्या तस्य पत्नी मनीषिणः और्वस् तस्यां समभवद् ऊरुं भित्त्वा महायशाः महातपा महातेजा बाल एव गुणैर् युतः ऋचीकस् तस्य पुत्रस् तु जमदग्निस् ततो ऽभवत् जमदग्नेस् तु चत्वार आसन् पुत्रा महात्मनः रामस् तेषां जघन्यो ऽभूद् अजघन्यैर् गुणैर् युतः सर्वशस्त्रास्त्रकुशलः क्षत्रियान्तकरो वशी और्वस्यासीत् पुत्रशतं जमदग्निपुरोगमम् तेषां पुत्रसहस्राणि बभूवुर् भृगुविस्तरः द्वौ पुत्रौ ब्रह्मणस् त्व् अन्यौ ययोस् तिष्ठति लक्षणम् लोके धाता विधाता च यौ स्थितौ मनुना सह तयोर् एव स्वसा देवी लक्ष्मीः पद्मगृहा शुभा तस्यास् तु मानसाः पुत्रास् तुरगा व्योमचारिणः वरुणस्य भार्या ज्येष्ठा तु शुक्राद् देवी व्यजायत तस्याः पुत्रं बलं विद्धि सुरां च सुरनन्दिनीम् प्रजानाम् अन्नकामानाम् अन्योन्यपरिभक्षणात् अधर्मस् तत्र संजातः सर्वभूतविनाशनः तस्यापि निरृतिर् भार्या नैरृता येन राक्षसाः घोरास् तस्यास् त्रयः पुत्राः पापकर्मरताः सदा भयो महाभयश् चैव मृत्युर् भूतान्तकस् तथा न तस्य भार्या पुत्रो वा कश् चिद् अस्त्य् अन्तको हि सः काकीं श्येनीं च भासीं च धृतराष्ट्रीं तथा शुकीम् ताम्रा तु सुषुवे देवी पञ्चैता लोकविश्रुताः भार्या गरुत्मतश् चैव भासी क्रौञ्ची शुकी तथा चतुर्थी धृतराष्ट्री च तास्व् अपत्यान् निबोध मे उलूकान् सुषुवे काकी श्येनी श्येनान् व्यजायत भासी भासान् अजनयद् गृध्रांश् चैव जनाधिप धृतराष्ट्री तु हंसांश् च कलहंसांश् च सर्वशः चक्रवाकांश् च भद्रं ते प्रजज्ञे सा तु भामिनी शुकी विजज्ञे धर्मज्ञ शुकान् एव मनस्विनी कल्याणगुणसंपन्ना सर्वलक्षणपूजिता नव क्रोधवशा नारीः प्रजज्ञे ऽप्य् आत्मसंभवाः मृगीं च मृगमन्दां च हरिं भद्रमनाम् अपि मातङ्गीम् अथ शार्दूलीं श्वेतां सुरभिम् एव च सर्वलक्षणसंपन्नां सुरसां च यशस्विनीम् अपत्यं तु मृगाः सर्वे मृग्या नरवरात्मज ऋक्षाश् च मृगमन्दायाः सृमराश् चमरा अपि ततस् त्व् ऐरावतं नागं जज्ञे भद्रमना सुतम् ऐरावतः सुतस् तस्या देवनागो महागजः हर्याश् च हरयो ऽपत्यं वानराश् च तरस्विनः गोलाङ्गूलांश् च भद्रं ते हर्याः पुत्रान् प्रचक्षते प्रजज्ञे त्व् अथ शार्दूली सिंहान् व्याघ्रांश् च भारत द्वीपिनश् च महाभाग सर्वान् एव न संशयः मातङ्ग्यास् त्व् अथ मातङ्गा अपत्यानि नराधिप दिशागजं तु श्वेताख्यं श्वेताजनयद् आशुगम् तथा दुहितरौ राजन् सुरभिर् वै व्यजायत रोहिणीं चैव भद्रं ते गन्धर्वीं च यशस्विनीम् विमलाम् अपि भद्रं ते अमलाम् अपि भारत रोहिण्यां जज्ञिरे गावो गन्धर्व्यां वाजिनः सुताः सुरसाजनयन् नागान् राजन् कद्रूश् च पन्नगान् इरायां कन्यका जातास् तिस्रः कमललोचनाः वनस्पतीनां वृक्षाणां वीरुधां चैव मातरः लतारुहे च द्वे प्रोक्ते वीरुधा एव ताः स्मृताः गृह्णन्ति ये ऽपि ताः पुष्पं फलानि तरसा पृथक् ततो सुतास् ते विज्ञेयास् तान् एवाहुर् वनस्पतीन् पुष्पैः फलग्रहान् वृक्षान् रुहायाः प्रसवं विदुः लतागुल्मानि वल्ल्यश् च त्वक्सारतृणजातयः वीरुधो याः प्रजास् तस्यास् तत्र वंशः समाप्यते सप्त पिण्डफलान् वृक्षान् अनलापि व्यजायत अनलायाः शुकी पुत्री कद्र्वास् तु सुरसा सुता अरुणस्य भार्या श्येनी तु वीर्यवन्तौ महाबलौ संपातिं जनयाम् आस तथैव च जटायुषम् कद्रूर् नागम् अनन्तं च प्रजज्ञे धरणीधरम् द्वौ पुत्रौ विनतायास् तु विख्यातौ गरुडारुणौ इत्य् एष सर्वभूतानां महतां मनुजाधिप प्रभवः कीर्तितः सम्यङ् मया मतिमतां वर यं श्रुत्वा पुरुषः सम्यक् पूतो भवति पाप्मनः सर्वज्ञतां च लभते गतिम् अग्र्यां च विन्दति जनमेजय उवाच देवानां दानवानां च यक्षाणाम् अथ रक्षसाम् सिंहव्याघ्रमृगाणां च पन्नगानां पतत्रिणाम् अन्येषां चैव भूतानां सर्वेषां भगवन्न् अहम् श्रोतुम् इच्छामि तत्त्वेन मानुषेषु महात्मनाम् जन्म कर्म च भूतानाम् एतेषाम् अनुपूर्वशः वैशंपायन उवाच मानुषेषु मनुष्येन्द्र संभूता ये दिवौकसः प्रथमं दानवांश् चैव तांस् ते वक्ष्यामि सर्वशः विप्रचित्तिर् इति ख्यातो य आसीद् दानवर्षभः जरासंध इति ख्यातः स आसीन् मनुजर्षभः दितेः पुत्रस् तु यो राजन् हिरण्यकशिपुः स्मृतः स जज्ञे मानुषे लोके शिशुपालो नरर्षभः संह्राद इति विख्यातः प्रह्रादस्यानुजस् तु यः स शल्य इति विख्यातो जज्ञे बाह्लीकपुंगवः अनुह्रादस् तु तेजस्वी यो ऽभूत् ख्यातो जघन्यजः धृष्टकेतुर् इति ख्यातः स आसीन् मनुजेश्वरः यस् तु राजञ् शिबिर् नाम दैतेयः परिकीर्तितः द्रुम इत्य् अभिविख्यातः स आसीद् भुवि पार्थिवः बाष्कलो नाम यस् तेषाम् आसीद् असुरसत्तमः भगदत्त इति ख्यातः स आसीन् मनुजेश्वरः अयःशिरा अश्वशिरा अयःशङ्कुश् च वीर्यवान् तथा गगनमूर्धा च वेगवांश् चात्र पञ्चमः पञ्चैते जज्ञिरे राजन् वीर्यवन्तो महासुराः केकयेषु महात्मानः पार्थिवर्षभसत्तमाः केतुमान् इति विख्यातो यस् ततो ऽन्यः प्रतापवान् अमितौजा इति ख्यातः पृथिव्यां सो ऽभवन्न् नृपः स्वर्भानुर् इति विख्यातः श्रीमान् यस् तु महासुरः उग्रसेन इति ख्यात उग्रकर्मा नराधिपः यस् त्व् अश्व इति विख्यातः श्रीमान् आसीन् महासुरः अशोको नाम राजासीन् महावीर्यपराक्रमः तस्माद् अवरजो यस् तु राजन्न् अश्वपतिः स्मृतः दैतेयः सो ऽभवद् राजा हार्दिक्यो मनुजर्षभः वृषपर्वेति विख्यातः श्रीमान् यस् तु महासुरः दीर्घप्रज्ञ इति ख्यातः पृथिव्यां सो ऽभवन् नृपः अजकस् त्व् अनुजो राजन् य आसीद् वृषपर्वणः स मल्ल इति विख्यातः पृथिव्याम् अभवन् नृपः अश्वग्रीव इति ख्यातः सत्त्ववान् यो महासुरः रोचमान इति ख्यातः पृथिव्यां सो ऽभवन् नृपः सूक्ष्मस् तु मतिमान् राजन् कीर्तिमान् यः प्रकीर्तितः बृहन्त इति विख्यातः क्षिताव् आसीत् स पार्थिवः तुहुण्ड इति विख्यातो य आसीद् असुरोत्तमः सेनाबिन्दुर् इति ख्यातः स बभूव नराधिपः इसृपा नाम यस् तेषाम् असुराणां बलाधिकः पापजिन् नाम राजासीद् भुवि विख्यातविक्रमः एकचक्र इति ख्यात आसीद् यस् तु महासुरः प्रतिविन्ध्य इति ख्यातो बभूव प्रथितः क्षितौ विरूपाक्षस् तु दैतेयश् चित्रयोधी महासुरः चित्रवर्मेति विख्यातः क्षिताव् आसीत् स पार्थिवः हरस् त्व् अरिहरो वीर आसीद् यो दानवोत्तमः सुवास्तुर् इति विख्यातः स जज्ञे मनुजर्षभः अहरस् तु महातेजाः शत्रुपक्षक्षयंकरः बाह्लीको नाम राजा स बभूव प्रथितः क्षितौ निचन्द्रश् चन्द्रवक्त्रश् च य आसीद् असुरोत्तमः मुञ्जकेश इति ख्यातः श्रीमान् आसीत् स पार्थिवः निकुम्भस् त्व् अजितः संख्ये महामतिर् अजायत भूमौ भूमिपतिः श्रेष्ठो देवाधिप इति स्मृतः शरभो नाम यस् तेषां दैतेयानां महासुरः पौरवो नाम राजर्षिः स बभूव नरेष्व् इह कापथस् तु महावीर्यः श्रीमान् राजन् महासुरः सुपार्श्व इति विख्यातः क्षितौ जज्ञे महीपतिः क्रथस् तु राजन् राजर्षिः क्षितौ जज्ञे महासुरः पार्वतेय इति ख्यातः काञ्चनाचलसंनिभः द्वितीयः शलभस् तेषाम् असुराणां बभूव यः प्रह्रादो नाम बाह्लीकः स बभूव नराधिपः चन्द्रस् तु दितिजश्रेष्ठो लोके ताराधिपोपमः चन्द्रवर्मेति विख्यातः काम्बोजानां नराधिपः अर्क इत्य् अभिविख्यातो यस् तु दानवपुंगवः ऋषिको नाम राजर्षिर् बभूव नृपसत्तमः मृतपा इति विख्यातो य आसीद् असुरोत्तमः पश्चिमानूपकं विद्धि तं नृपं नृपसत्तम गविष्ठस् तु महातेजा यः प्रख्यातो महासुरः द्रुमसेन इति ख्यातः पृथिव्यां सो ऽभवन् नृपः मयूर इति विख्यातः श्रीमान् यस् तु महासुरः स विश्व इति विख्यातो बभूव पृथिवीपतिः सुपर्ण इति विख्यातस् तस्माद् अवरजस् तु यः कालकीर्तिर् इति ख्यातः पृथिव्यां सो ऽभवन् नृपः चन्द्रहन्तेति यस् तेषां कीर्तितः प्रवरो ऽसुरः शुनको नाम राजर्षिः स बभूव नराधिपः विनाशनस् तु चन्द्रस्य य आख्यातो महासुरः जानकिर् नाम राजर्षिः स बभूव नराधिपः दीर्घजिह्वस् तु कौरव्य य उक्तो दानवर्षभः काशिराज इति ख्यातः पृथिव्यां पृथिवीपतिः ग्रहं तु सुषुवे यं तं सिंही चन्द्रार्कमर्दनम् क्राथ इत्य् अभिविख्यातः सो ऽभवन् मनुजाधिपः अनायुषस् तु पुत्राणां चतुर्णां प्रवरो ऽसुरः विक्षरो नाम तेजस्वी वसुमित्रो ऽभवन् नृपः द्वितीयो विक्षराद्यस् तु नराधिप महासुरः पांसुराष्ट्राधिप इति विश्रुतः सो ऽभवन् नृपः बलवीर इति ख्यातो यस् त्व् आसीद् असुरोत्तमः पौण्ड्रमत्स्यक इत्य् एव स बभूव नराधिपः वृत्र इत्य् अभिविख्यातो यस् तु राजन् महासुरः मणिमान् नाम राजर्षिः स बभूव नराधिपः क्रोधहन्तेति यस् तस्य बभूवावरजो ऽसुरः दण्ड इत्य् अभिविख्यातः स आसीन् नृपतिः क्षितौ क्रोधवर्धन इत्य् एव यस् त्व् अन्यः परिकीर्तितः दण्डधार इति ख्यातः सो ऽभवन् मनुजेश्वरः कालकायास् तु ये पुत्रास् तेषाम् अष्टौ नराधिपाः जज्ञिरे राजशार्दूल शार्दूलसमविक्रमाः मगधेषु जयत्सेनः श्रीमान् आसीत् स पार्थिवः अष्टानां प्रवरस् तेषां कालेयानां महासुरः द्वितीयस् तु ततस् तेषां श्रीमान् हरिहयोपमः अपराजित इत्य् एव स बभूव नराधिपः तृतीयस् तु महाराज महाबाहुर् महासुरः निषादाधिपतिर् जज्ञे भुवि भीमपराक्रमः तेषाम् अन्यतमो यस् तु चतुर्थः परिकीर्तितः श्रेणिमान् इति विख्यातः क्षितौ राजर्षिसत्तमः पञ्चमस् तु बभूवैषां प्रवरो यो महासुरः महौजा इति विख्यातो बभूवेह परंतपः षष्ठस् तु मतिमान् यो वै तेषाम् आसीन् महासुरः अभीरुर् इति विख्यातः क्षितौ राजर्षिसत्तमः सप्तमस् तु बभूवैषां प्रवरो यो महासुरः समुद्रसेनश् च नृपस् तेषाम् एवाभवद् गणात् विश्रुतः सागरान्तायां क्षितौ धर्मार्थतत्त्ववित् बृहन् नामाष्टमस् तेषां कालेयानां परंतपः बभूव राजन् धर्मात्मा सर्वभूतहिते रतः कुपथस् त्व् अथ विख्यातो दानवानां महाबलः पार्वतीय इति ख्यातः काञ्चनाचलसंनिभः क्रथनस् तु महावीर्यः श्रीमान् राजन् महासुरः सुपार्श्व इति विख्यातः क्षितौ जज्ञे महीपतिः असुराणां तु यः सूर्यः श्रीमान् राजन् महासुरः दरदो नाम बाह्लीको वरः सर्वमहीक्षिताम् गणः क्रोधवशो नाम यस् ते राजन् प्रकीर्तितः ततः संजज्ञिरे वीराः क्षिताव् इह नराधिपाः नन्दिकः कर्णवेष्टश् च सिद्धार्थः कीटकस् तथा सुवीरश् च सुबाहुश् च महावीरो ऽथ बाह्लिकः क्रोधो विचित्यः सुरसः श्रीमान् नीलश् च भूमिपः वीरधामा च कौरव्य भूमिपालश् च नामतः दन्तवक्त्रश् च नामासीद् दुर्जयश् चैव नामतः रुक्मी च नृपशार्दूलो राजा च जनमेजयः आषाढो वायुवेगश् च भूरितेजास् तथैव च एकलव्यः सुमित्रश् च वाटधानो ऽथ गोमुखः कारूषकाश् च राजानः क्षेमधूर्तिस् तथैव च श्रुतायुर् उद्धवश् चैव बृहत्सेनस् तथैव च क्षेमोग्रतीर्थः कुहरः कलिङ्गेषु नराधिपः मतिमांश् च मनुष्येन्द्र ईश्वरश् चेति विश्रुतः गणात् क्रोधवशाद् एवं राजपूगो ऽभवत् क्षितौ जातः पुरा महाराज महाकीर्तिर् महाबलः कालनेमिर् इति ख्यातो दानवानां महाबलः स कंस इति विख्यात उग्रसेनसुतो बली यस् त्व् आसीद् देवको नाम देवराजसमद्युतिः स गन्धर्वपतिर् मुख्यः क्षितौ जज्ञे नराधिपः बृहस्पतेर् बृहत्कीर्तेर् देवर्षेर् विद्धि भारत अंशाद् द्रोणं समुत्पन्नं भारद्वाजम् अयोनिजम् धन्विनां नृपशार्दूल यः स सर्वास्त्रवित्तमः बृहत्कीर्तिर् महातेजाः संजज्ञे मनुजेष्व् इह धनुर्वेदे च वेदे च यं तं वेदविदो विदुः वरिष्ठम् इन्द्रकर्माणं द्रोणं स्वकुलवर्धनम् महादेवान्तकाभ्यां च कामात् क्रोधाच् च भारत एकत्वम् उपपन्नानां जज्ञे शूरः परंतपः अश्वत्थामा महावीर्यः शत्रुपक्षक्षयंकरः वीरः कमलपत्राक्षः क्षिताव् आसीन् नराधिप जज्ञिरे वसवस् त्व् अष्टौ गङ्गायां शंतनोः सुताः वसिष्ठस्य च शापेन नियोगाद् वासवस्य च तेषाम् अवरजो भीष्मः कुरूणाम् अभयंकरः मतिमान् वेदविद् वाग्मी शत्रुपक्षक्षयंकरः जामदग्न्येन रामेण यः स सर्वविदां वरः अयुध्यत महातेजा भार्गवेण महात्मना यस् तु राजन् कृपो नाम ब्रह्मर्षिर् अभवत् क्षितौ रुद्राणां तं गणाद् विद्धि संभूतम् अतिपौरुषम् शकुनिर् नाम यस् त्व् आसीद् राजा लोके महारथः द्वापरं विद्धि तं राजन् संभूतम् अरिमर्दनम् सात्यकिः सत्यसंधस् तु यो ऽसौ वृष्णिकुलोद्वहः पक्षात् स जज्ञे मरुतां देवानाम् अरिमर्दनः द्रुपदश् चापि राजर्षिस् तत एवाभवद् गणात् मानुषे नृप लोके ऽस्मिन् सर्वशस्त्रभृतां वरः ततश् च कृतवर्माणं विद्धि राजञ् जनाधिपम् जातम् अप्रतिकर्माणं क्षत्रियर्षभसत्तमम् मरुतां तु गणाद् विद्धि संजातम् अरिमर्दनम् विराटं नाम राजर्षिं परराष्ट्रप्रतापनम् अरिष्टायास् तु यः पुत्रो हंस इत्य् अभिविश्रुतः स गन्धर्वपतिर् जज्ञे कुरुवंशविवर्धनः धृतराष्ट्र इति ख्यातः कृष्णद्वैपायनाद् अपि दीर्घबाहुर् महातेजाः प्रज्ञाचक्षुर् नराधिपः मातुर् दोषाद् ऋषेः कोपाद् अन्ध एव व्यजायत तस्यैवावरजो भ्राता महासत्त्वो महाबलः स पाण्डुर् इति विख्यातः सत्यधर्मरतः शुचिः मरुतां तु गणाद् वीरः सर्वशस्त्रभृतां वरः पाण्डुर् जज्ञे महाभाग तव पूर्वपितामहः अत्रेस् तु सुमहाभागं पुत्रं पुत्रवतां वरम् विदुरं विद्धि लोके ऽस्मिञ् जातं बुद्धिमतां वरम् कलेर् अंशात् तु संजज्ञे भुवि दुर्योधनो नृपः दुर्बुद्धिर् दुर्मतिश् चैव कुरूणाम् अयशस्करः जगतो यः स सर्वस्य विद्विष्टः कलिपूरुषः यः सर्वां घातयाम् आस पृथिवीं पुरुषाधमः येन वैरं समुद्दीप्तं भूतान्तकरणं महत् पौलस्त्या भ्रातरः सर्वे जज्ञिरे मनुजेष्व् इह शतं दुःशासनादीनां सर्वेषां क्रूरकर्मणाम् दुर्मुखो दुःसहश् चैव ये चान्ये नानुशब्दिताः दुर्योधनसहायास् ते पौलस्त्या भरतर्षभ जनमेजय उवाच वैश्यापुत्रो युयुत्सुश् च धार्तराष्ट्रः शताधिकः ज्येष्ठानुज्येष्ठतां चैव नामधेयानि वा विभो वैशंपायन उवाच धृतराष्ट्रस्य पुत्राणाम् आनुपूर्व्येण कीर्तय दुर्योधनो युयुत्सुश् च राजन् दुःशासनस् तथा दुःसहो दुःशलश् चैव दुर्मुखश् च तथापरः विविंशतिर् विकर्णश् च जलसंधः सुलोचनः विन्दानुविन्दौ दुर्धर्षः सुबाहुर् दुष्प्रधर्षणः दुर्मर्षणो दुर्मुखश् च दुष्कर्णः कर्ण एव च चित्रोपचित्रौ चित्राक्षश् चारुचित्राङ्गदश् च ह दुर्मदो दुष्प्रहर्षश् च विवित्सुर् विकटः समः ऊर्णनाभः सुनाभश् च तथा नन्दोपनन्दकौ सेनापतिः सुषेणश् च कुण्डोदरमहोदरौ चित्रबाहुश् चित्रवर्मा सुवर्मा दुर्विमोचनः अयोबाहुर् महाबाहुश् चित्रचापसुकुण्डलौ भीमवेगो भीमबलो बलाकी बलवर्धनः उग्रायुधो भीमशरः कनकायुर् दृढायुधः दृढवर्मा दृढक्षत्रः सोमकीर्तिर् अनूदरः जरासंधो दृढसंधः सत्यसंधः सहस्रवाक् उग्रश्रवा उग्रसेनः सेनानीर् दुष्पराजयः अपराजितः पण्डितको विशालाक्षो दुराधरः दृढहस्तः सुहस्तश् च वातवेगसुवर्चसौ आदित्यकेतुर् बह्वाशी नागदन्तोग्रयायिनौ कवची निषङ्गी पाशी दण्डधारो धनुर्ग्रहः उग्रो भीमरथो वीरो वीरबाहुर् अलोलुपः अभयो रौद्रकर्मा च तथा दृढरथश् च यः अनाधृष्यः कुण्डभेदी विरावी दीर्घलोचनः दीर्घबाहुर् महाबाहुर् व्यूढोरुः कनकध्वजः कुण्डाशी विरजाश् चैव दुःशला च शताधिका वैश्यापुत्रो युयुत्सुश् च धार्तराष्ट्रः शताधिकः एतद् एकशतं राजन् कन्या चैका प्रकीर्तिता नामधेयानुपूर्व्या च ज्येष्ठानुज्येष्ठतां विदुः सर्वे त्व् अतिरथाः शूराः सर्वे युद्धविशारदाः सर्वे वेदविदश् चैव राजशास्त्रे च पारगाः सर्वे संसर्गविद्यासु विद्याभिजनशोभिनः सर्वेषाम् अनुरूपाश् च कृता दारा महीपते दुःशलां चैव समये सिन्धुराजाय कौरवः जयद्रथाय प्रददौ सौबलानुमते तदा धर्मस्यांशं तु राजानं विद्धि राजन् युधिष्ठिरम् भीमसेनं तु वातस्य देवराजस्य चार्जुनम् अश्विनोस् तु तथैवांशौ रूपेणाप्रतिमौ भुवि नकुलः सहदेवश् च सर्वलोकमनोहरौ यः सुवर्चा इति ख्यातः सोमपुत्रः प्रतापवान् अभिमन्युर् बृहत्कीर्तिर् अर्जुनस्य सुतो ऽभवत् यस्यावतरणे राजन् सुरान् सोमो ऽब्रवीद् वचः नाहं दद्यां प्रियं पुत्रं प्रेयांसम् अपि जीवितात् समयः क्रियताम् एष न शक्यम् अतिवर्तितुम् सुरकार्यं हि नः कार्यम् असुराणां क्षितौ वधः तत्र यास्यत्ययं वर्चा न च स्थास्यति मे चिरम् ऐन्द्रिर् नरस् तु भविता यस्य नारायणः सखा सो ऽर्जुनेत्य् अभिविख्यातः पाण्डोः पुत्रः प्रतापवान् तस्यायं भविता पुत्रो बालो भुवि महारथः तत्र षोडश वर्षाणि स्थास्यत्य् अमरसत्तमाः अस्य षोडशवर्षस्य स संग्रामो भविष्यति यत्रांशा वः करिष्यन्ति कर्म दानवसूदनम् नरनारायणाभ्यां तु स संग्रामो विनाकृतः चक्रव्यूहं समास्थाय योधयिष्यन्ति चासुराः विमुखाञ् शात्रवान् सर्वान् कारयिष्यति मे सुतः बालः प्रविश्य तं व्यूहम् अभेद्यं विचरिष्यति महारथानां वीराणां कदनं च करिष्यति सर्वेषां चैव शत्रूणां चतुर्थांशं नयिष्यति दिनार्धेन महाबाहुः प्रेतराजपुरं प्रति ततो महारथैर् वीरैः समेत्य बहुभी रणे दिनक्षये महाबाहुर् मया भूयः समेष्यति एकं वंशकरं वीरं पुत्रं वै जनयिष्यति प्रनष्टं भारतं वंशं स भूयो धारयिष्यति एतत् सोमवचः श्रुत्वा तथास्त्व् इति दिवौकसः प्रत्यूचुः सहिताः सर्वे ताराधिपम् अपूजयन् एवं ते कथितं राजंस् तव जन्म पितुः पितुः अग्नेर् अंशं तु विद्धि त्वं धृष्टद्युम्नं महारथम् शिखण्डिनम् अथो राजन् स्त्रीपुंसं विद्धि राक्षसम् द्रौपदेयाश् च ये पञ्च बभूवुर् भरतर्षभ विश्वेदेवगणान् राजंस् तान् विद्धि भरतर्षभ भीमसेनाद् राक्षसेन्द्रो गुह्यकेभ्यस् त्व् अजायत जयस्य परिरक्षार्थं स हि सृष्टो महात्मना सर्वेषां देवताभागं दत्त्वा विद्धि महीपते प्रतिविन्ध्यः सुतसोमः श्रुतकीर्तिस् तथापरः नाकुलिश् च शतानीकः श्रुतसेनश् च वीर्यवान् शूरो नाम यदुश्रेष्ठो वसुदेवपिताभवत् तस्य कन्या पृथा नाम रूपेणासदृशी भुवि पितुः स्वस्रीयपुत्राय सो ऽनपत्याय वीर्यवान् अग्रम् अग्रे प्रतिज्ञाय स्वस्यापत्यस्य वै तदा अग्रजातेति तां कन्यां शूरो ऽनुग्रहकाङ्क्षया अददत् कुन्तिभोजाय स तां दुहितरं तदा सा नियुक्ता पितुर् गेहे ब्राह्मणातिथिपूजने उग्रं पर्यचरद् घोरं ब्राह्मणं संशितव्रतम् निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः तम् उग्रं शंसितात्मानं सर्वयत्नैर् अतोषयत् तुष्टो ऽभिचारसंयुक्तम् आचचक्षे यथाविधि उवाच चैनां भगवान् प्रीतो ऽस्मि सुभगे तव यं यं देवं त्वम् एतेन मन्त्रेणावाहयिष्यसि तस्य तस्य प्रसादात् त्वं देवि पुत्राञ् जनिष्यसि एवम् उक्ता च सा बाला तदा कौतूहलान्विता कन्या सती देवम् अर्कम् आजुहाव यशस्विनी प्रकाशकर्मा तपनस् तस्यां गर्भं दधौ तदा अजीजनत् सुतं चास्यां सर्वशस्त्रभृतां वरम् सकुण्डलं सकवचं देवगर्भं श्रियान्वितम् दिवाकरसमं दीप्त्या चारुसर्वाङ्गभूषणम् निगूहयन्ती जातं वै बन्धुपक्षभयात् तदा उत्ससर्ज जले कुन्ती तं कुमारं यशस्विनम् तम् उत्सृष्टं जले गर्भं राधाभर्ता महायशाः राधायाः कल्पयाम् आस पुत्रं सो ऽधिरथस् तदा चक्रतुर् नामधेयं च तस्य बालस्य ताव् उभौ दम्पती वसुषेणेति दिक्षु सर्वासु विश्रुतम् स वर्धमानो बलवान् सर्वास्त्रेषूत्तमो ऽभवत् आ पृष्ठतापाच् च तदा जजाप जपतां वरः यस्मिन् काले जपन्न् आस्ते धीमान् सत्यपराक्रमः नादेयं ब्राह्मणेष्व् आसीत् तस्मिन् काले महात्मनः तम् इन्द्रो ब्राह्मणो भूत्वा पुत्रार्थे भूतभावनः ययाचे कुण्डले वीरं कवचं च सहाङ्गजम् उत्कृत्य कर्णो ह्य् अददत् कुण्डले कवचं च तत् शक्तिं शक्रो ऽददत् तस्मै विस्मितश् चेदम् अब्रवीत् देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् यस्मिन् क्षेप्स्यसि दुर्धर्ष स एको न भविष्यति पुरा नाम तु तस्यासीद् वसुषेणेति विश्रुतम् ततो वैकर्तनः कर्णः कर्मणा तेन सो ऽभवत् आमुक्तकवचः कर्णो यस् तु जज्ञे महारथः कर्ण इत्य् अभिविख्यातः पृथायाः प्रथमः सुतः स तु सूतकुले वीरो ववृधे राजसत्तम कर्णं नरवरश्रेष्ठं श्रेष्ठं सर्वधनुष्मताम् दुर्योधनस्य सचिवं मन्त्रिणं शकुनेः समम् दिवाकरस्य तं विद्धि देवस्यांशम् अनुत्तमम् यस् तु नारायणो नाम देवदेवः सनातनः वशिता सर्वभूतानां संहर्ता चापराजितः तस्यांशो मानुषेष्व् आसीद् वासुदेवः प्रतापवान् शेषस्यांशस् तु नागस्य बलदेवो महाबलः सनत्कुमारं प्रद्युम्नं विद्धि राजन् महौजसम् एवम् अन्ये मनुष्येन्द्र बहवो ऽंशा दिवौकसाम् जज्ञिरे वसुदेवस्य कुले कुलविवर्धनाः गणस् त्व् अप्सरसां यो वै मया राजन् प्रकीर्तितः तस्य भागः क्षितौ जज्ञे नियोगाद् वासवस्य च तानि षोडश देवीनां सहस्राणि नराधिप बभूवुर् मानुषे लोके नारायणपरिग्रहः श्रियस् तु भागः संजज्ञे रत्यर्थं पृथिवीतले भीष्मकस्य कुले साध्वी रुक्मिणी नाम नामतः द्रौपदी त्व् अथ संजज्ञे शचीभागाद् अनिन्दिता द्रुपदस्य कुले कन्या वेदिमध्याद् अनिन्दिता नातिह्रस्वा न महती नीलोत्पलसुगन्धिनी पद्मायताक्षी सुश्रोणी असितायतमूर्धजा सर्वलक्षणसंपन्ना वैडूर्यमणिसंनिभा पञ्चानां पुरुषेन्द्राणां चित्तप्रमथिनी रहः सिद्धिर् धृतिश् च ये देव्यौ पञ्चानां मातरौ तु ते कुन्ती माद्री च जज्ञाते मतिस् तु सुबलात्मजा इति देवासुराणां ते गन्धर्वाप्सरसां तथा अंशावतरणं राजन् राक्षसानां च कीर्तितम् ये पृथिव्यां समुद्भूता राजानो युद्धदुर्मदाः महात्मानो यदूनां च ये जाता विपुले कुले ये च यस्मिन् कुले जाता राजानो भूरितेजसः ब्राह्मणाः क्षत्रिया वैश्या मया ते परिकीर्तिताः एते तु मुख्याः कथिता मया ते राजसत्तम धन्यं यशस्यं पुत्रीयम् आयुष्यं विजयावहम् इदम् अंशावतरणं श्रोतव्यम् अनसूयता अंशावतरणं श्रुत्वा देवगन्धर्वरक्षसाम् प्रभवाप्ययवित् प्राज्ञो न कृच्छ्रेष्व् अवसीदति जनमेजय उवाच त्वत्तः श्रुतम् इदं ब्रह्मन् देवदानवरक्षसाम् अंशावतरणं सम्यग् गन्धर्वाप्सरसां तथा धर्मार्थकामसहितं राजर्षीणां प्रकीर्तितम् पवित्रं कीर्त्यमानं मे निबोधेदं मनीषिणाम् जनमेजयः भगवन् विस्तरेणेह भरतस्य महात्मनः जन्म कर्म च शुश्रूषुस् तन् मे शंसितुम् अर्हसि इमं तु भूय इच्छामि कुरूणां वंशम् आदितः कथ्यमानं त्वया विप्र विप्रर्षिगणसंनिधौ वैशंपायन उवाच पौरवाणां वंशकरो दुःषन्तो नाम वीर्यवान् पृथिव्याश् चतुरन्ताया गोप्ता भरतसत्तम चतुर्भागं भुवः कृत्स्नं स भुङ्क्ते मनुजेश्वरः समुद्रावरणांश् चापि देशान् स समितिंजयः आम्लेच्छाटविकान् सर्वान् स भुङ्क्ते रिपुमर्दनः रत्नाकरसमुद्रान्तांश् चातुर्वर्ण्यजनावृतान् न वर्णसंकरकरो नाकृष्यकरकृज्जनः न पापकृत् कश् चिद् आसीत् तस्मिन् राजनि शासति धर्म्यां रतिं सेवमाना धर्मार्थाव् अभिपेदिरे तदा नरा नरव्याघ्र तस्मिञ् जनपदेश्वरे नासीच् चोरभयं तात न क्षुधाभयम् अण्व् अपि नासीद् व्याधिभयं चापि तस्मिञ् जनपदेश्वरे स्वैर् धर्मै रेमिरे वर्णा दैवे कर्मणि निःस्पृहाः तम् आश्रित्य महीपालम् आसंश् चैवाकुतोभयाः कालवर्षी च पर्जन्यः सस्यानि फलवन्ति च सर्वरत्नसमृद्धा च मही वसुमती तदा स्वकर्मनिरता विप्रा नानृतं तेषु विद्यते स चाद्भुतमहावीर्यो वज्रसंहननो युवा उद्यम्य मन्दरं दोर्भ्यां हरेत् सवनकाननम् धनुष्य् अथ गदायुद्धे त्सरुप्रहरणेषु च नागपृष्ठे ऽश्वपृष्ठे च बभूव परिनिष्ठितः बले विष्णुसमश् चासीत् तेजसा भास्करोपमः अक्षुब्धत्वे ऽर्णवसमः सहिष्णुत्वे धरासमः संमतः स महीपालः प्रसन्नपुरराष्ट्रवान् भूयो धर्मपरैर् भावैर् विदितं जनम् आवसत् जनमेजय उवाच संभवं भरतस्याहं चरितं च महामतेः शकुन्तलायाश् चोत्पत्तिं श्रोतुम् इच्छामि तत्त्वतः दुष्यन्तेन च वीरेण यथा प्राप्ता शकुन्तला तं वै पुरुषसिंहस्य भगवन् विस्तरं त्व् अहम् श्रोतुम् इच्छामि तत्त्वज्ञ सर्वं मतिमतां वर वैशंपायन उवाच स कदा चिन् महाबाहुः प्रभूतबलवाहनः वनं जगाम गहनं हयनागशतैर् वृतः खड्गशक्तिधरैर् वीरैर् गदामुसलपाणिभिः प्रासतोमरहस्तैश् च ययौ योधशतैर् वृतः सिंहनादैश् च योधानां शङ्खदुन्दुभिनिस्वनैः रथनेमिस्वनैश् चापि सनागवरबृंहितैः नानायुधधरैश् चापि नानावेषधरैस् तथा हेषितस्वनमिश्रैश् च क्ष्वेडितास्फोटितस्वनैः आसीत् किलकिलाशब्दस् तस्मिन् गच्छति पार्थिवे प्रासादवरशृङ्गस्थाः परया नृपशोभया ददृशुस् तं स्त्रियस् तत्र शूरम् आत्मयशस्करम् शक्रोपमम् अमित्रघ्नं परवारणवारणम् बलेन चतुरङ्गेण वृतः परमवल्गुना पश्यन्तः स्त्रीगणास् तत्र शस्त्रपाणिं स्म मेनिरे अयं स पुरुषव्याघ्रो रणे ऽद्भुतपराक्रमः यस्य बाहुबलं प्राप्य न भवन्त्य् असुहृद्गणाः इति वाचो ब्रुवन्त्यस् ताः स्त्रियः प्रेम्णा नराधिपम् तुष्टुवुः पुष्पवृष्टीश् च ससृजुस् तस्य मूर्धनि तत्र तत्र च विप्रेन्द्रैः स्तूयमानः समन्ततः निर्ययौ परया प्रीत्या वनं मृगजिघांसया तं देवराजप्रतिमं मत्तवारणधूर्गतम् द्विजक्षत्रियविट्शूद्रा निर्यान्तम् अनुजग्मिरे ददृशुर् वर्धमानास् ते आशीर्भिश् च जयेन च सुदूरम् अनुजग्मुस् तं पौरजानपदास् तदा न्यवर्तन्त ततः पश्चाद् अनुज्ञाता नृपेण ह सुपर्णप्रतिमेनाथ रथेन वसुधाधिपः महीम् आपूरयाम् आस घोषेण त्रिदिवं तथा स गच्छन् ददृशे धीमान् नन्दनप्रतिमं वनम् बिल्वार्कखदिराकीर्णं कपित्थधवसंकुलम् विषमं पर्वतप्रस्थैर् अश्मभिश् च समावृतम् निर्जलं निर्मनुष्यं च बहुयोजनम् आयतम् मृगसंघैर् वृतं घोरैर् अन्यैश् चापि वनेचरैः तद् वनं मनुजव्याघ्रः सभृत्यबलवाहनः लोडयाम् आस दुःषन्तः सूदयन् विविधान् मृगान् बाणगोचरसंप्राप्तांस् तत्र व्याघ्रगणान् बहून् पातयाम् आस दुःषन्तो निर्बिभेद च सायकैः दूरस्थान् सायकैः कांश् चिद् अभिनत् स नरर्षभः अभ्याशम् आगतांश् चान्यान् खड्गेन निरकृन्तत कांश् चिद् एणान् स निर्जघ्ने शक्त्या शक्तिमतां वरः गदामण्डलतत्त्वज्ञश् चचारामितविक्रमः तोमरैर् असिभिश् चापि गदामुसलकर्पणैः चचार स विनिघ्नन् वै वन्यांस् तत्र मृगद्विजान् राज्ञा चाद्भुतवीर्येण योधैश् च समरप्रियैः लोड्यमानं महारण्यं तत्यजुश् च महामृगाः तत्र विद्रुतसंघानि हतयूथपतीनि च मृगयूथान्य् अथौत्सुक्याच् छब्दं चक्रुस् ततस् ततः शुष्कां चापि नदीं गत्वा जलनैराश्यकर्शिताः व्यायामक्लान्तहृदयाः पतन्ति स्म विचेतसः क्षुत्पिपासापरीताश् च श्रान्ताश् च पतिता भुवि के चित् तत्र नरव्याघ्रैर् अभक्ष्यन्त बुभुक्षितैः के चिद् अग्निम् अथोत्पाद्य समिध्य च वनेचराः भक्षयन्ति स्म मांसानि प्रकुट्य विधिवत् तदा तत्र के चिद् गजा मत्ता बलिनः शस्त्रविक्षताः संकोच्याग्रकरान् भीताः प्रद्रवन्ति स्म वेगिताः शकृन्मूत्रं सृजन्तश् च क्षरन्तः शोणितं बहु वन्या गजवरास् तत्र ममृदुर् मनुजान् बहून् तद् वनं बलमेघेन शरधारेण संवृतम् व्यरोचन् महिषाकीर्णं राज्ञा हतमहामृगम् वैशंपायन उवाच ततो मृगसहस्राणि हत्वा विपुलवाहनः ततो मेघघनप्रख्यं सिद्धचारणसेवितम् वनम् आलोकयाम् आस नगराद् योजनद्वये मृगान् अनुचरन् वन्याञ् श्रमेण परिपीडितः मृगान् अनुचरंश् चैव वेगेनाश्वान् अचोदयत् राजा मृगप्रसङ्गेन वनम् अन्यद् विवेश ह एक एवोत्तमबलः क्षुत्पिपासासमन्वितः स वनस्यान्तम् आसाद्य महद् ईरिणम् आसदत् तच् चाप्य् अतीत्य नृपतिर् उत्तमाश्रमसंयुतम् मनःप्रह्लादजननं दृष्टिकान्तम् अतीव च शीतमारुतसंयुक्तं जगामान्यन् महद् वनम् पुष्पितैः पादपैः कीर्णम् अतीव सुखशाद्वलम् विपुलं मधुरारावैर् नादितं विहगैस् तथा पुंस्कोकिलनिनादैश् च झिल्लीकगणनादितम् प्रवृद्धविटपैर् वृक्षैः सुखच्छायैः समावृतम् षट्पदाघूर्णितलतं लक्ष्म्या परमया युतम् नापुष्पः पादपः कश् चिन् नाफलो नापि कण्टकी षट्पदैर् वाप्य् अनाकीर्णस् तस्मिन् वै कानने ऽभवत् विहगैर् नादितं पुष्पैर् अलंकृतम् अतीव च सर्वर्तुकुसुमैर् वृक्षैर् अतीव सुखशाद्वलम् मनोरमं महेष्वासो विवेश वनम् उत्तमम् मारुतागलितास् तत्र द्रुमाः कुसुमशालिनः पुष्पवृष्टिं विचित्रां स्म व्यसृजंस् ते पुनः पुनः दिवस्पृशो ऽथ संघुष्टाः पक्षिभिर् मधुरस्वरैः विरेजुः पादपास् तत्र विचित्रकुसुमाम्बराः तेषां तत्र प्रवालेषु पुष्पभारावनामिषु रुवन्ति रावं विहगाः षट्पदैः सहिता मृदु तत्र प्रदेशांश् च बहून् कुसुमोत्करमण्डितान् लतागृहपरिक्षिप्तान् मनसः प्रीतिवर्धनान् संपश्यन् स महातेजा बभूव मुदितस् तदा परस्पराश्लिष्टशाखैः पादपैः कुसुमाचितैः अशोभत वनं तत् तैर् महेन्द्रध्वजसंनिभैः सिद्धचारणसंघैश् च गन्धर्वाप्सरसां गणैः सेवितं वनम् अत्यर्थं मत्तवारणकिंनरैः सुखशीतः सुगन्धी च पुष्परेणुवहो ऽनिलः परिक्रामन् वने वृक्षान् उपैतीव रिरंसया एवंगुणसमायुक्तं ददर्श स वनं नृपः नदीकच्छोद्भवं कान्तम् उच्छ्रितध्वजसंनिभम् प्रेक्षमाणो वनं तत् तु सुप्रहृष्टविहंगमम् आश्रमप्रवरं रम्यं ददर्श च मनोरमम् नानावृक्षसमाकीर्णं संप्रज्वलितपावकम् तं तदाप्रतिमं श्रीमान् आश्रमं प्रत्यपूजयत् यतिभिर् वालखिल्यैश् च वृतं मुनिगणान्वितम् अग्न्यागारैश् च बहुभिः पुष्पसंस्तरसंस्तृतम् महाकच्छैर् बृहद्भिश् च विभ्राजितम् अतीव च मालिनीम् अभितो राजन् नदीं पुण्यां सुखोदकाम् नैकपक्षिगणाकीर्णां तपोवनमनोरमाम् तत्र व्यालमृगान् सौम्यान् पश्यन् प्रीतिम् अवाप सः तं चाप्य् अतिरथः श्रीमान् आश्रमं प्रत्यपद्यत देवलोकप्रतीकाशं सर्वतः सुमनोहरम् नदीम् आश्रमसंश्लिष्टां पुण्यतोयां ददर्श सः सर्वप्राणभृतां तत्र जननीम् इव विष्ठिताम् सचक्रवाकपुलिनां पुष्पफेनप्रवाहिनीम् सकिंनरगणावासां वानरर्क्षनिषेविताम् पुण्यस्वाध्यायसंघुष्टां पुलिनैर् उपशोभिताम् मत्तवारणशार्दूलभुजगेन्द्रनिषेविताम् तस्यास् तीरे भगवतः काश्यपस्य महात्मनः आश्रमप्रवरं पुण्यं महर्षिगणसेवितम् नदीम् आश्रमसंबद्धां दृष्ट्वाश्रमपदं तथा चकाराभिप्रवेशाय मतिं स नृपतिस् तदा अलंकृतं द्वीपवत्या मालिन्या रम्यतीरया नरनारायणस्थानं गङ्गयेवोपशोभितम् मत्तबर्हिणसंघुष्टं प्रविवेश महद् वनम् तत् स चैत्ररथप्रख्यं समुपेत्य नरेश्वरः अतीव गुणसंपन्नम् अनिर्देश्यं च वर्चसा महर्षिं काश्यपं द्रष्टुम् अथ कण्वं तपोधनम् रथिनीम् अश्वसंबाधां पदातिगणसंकुलाम् अवस्थाप्य वनद्वारि सेनाम् इदम् उवाच सः मुनिं विरजसं द्रष्टुं गमिष्यामि तपोधनम् काश्यपं स्थीयताम् अत्र यावदागमनं मम तद् वनं नन्दनप्रख्यम् आसाद्य मनुजेश्वरः क्षुत्पिपासे जहौ राजा हर्षं चावाप पुष्कलम् सामात्यो राजलिङ्गानि सो ऽपनीय नराधिपः पुरोहितसहायश् च जगामाश्रमम् उत्तमम् दिदृक्षुस् तत्र तम् ऋषिं तपोराशिम् अथाव्ययम् ब्रह्मलोकप्रतीकाशम् आश्रमं सो ऽभिवीक्ष्य च षट्पदोद्गीतसंघुष्टं नानाद्विज गणायुतम् तथैव सामगीतैश् च सामविद्भिर् उदाहृतैः ताभिर् ऋक्सामगीताभिर् अथर्वशिरसान्वितम् अमिताभिर् उक्ताभि(सिच्) सुश्रुवे स नृपस् तदा विस्मयोत्फुल्लनयनो राजा तत्र बभूव ह ऋचो बह्वृचमुख्यैश् च प्रेर्यमाणाः पदक्रमैः क्रत्वर्थांश् च प्रकाशद्भिर् यजुर्भिर् निर्मलस्वरैः जटावर्णविभागज्ञैर् उच्यमानान्य् अनेकशः शुश्राव मनुजव्याघ्रो विततेष्व् इह कर्मसु यज्ञविद्याङ्गविद्भिश् च क्रमद्भिश् च क्रमान् अपि मधुरैः सामगीतैश् च ऋषिभिर् नियतव्रतैः भारुण्डसामगीताभिर् अथर्वशिरसोद्गतैः अमितात्मभिः सुनियतैः शुशुभे स तदाश्रमः अथर्ववेदप्रवराः पूगयाज्ञिक संमताः संहिताम् ईरयन्ति स्म पदक्रमयुतां तु ते शब्दसंस्कारसंयुक्तं ब्रुवद्भिश् चापरैर् द्विजैः नादितः स बभौ श्रीमान् ब्रह्मलोक इवाश्रमः यज्ञसंस्कारविद्भिश् च क्रमशिक्षा विशारदैः न्यायतत्त्वार्थविज्ञानसंपन्नैर् वेदपारगैः नानावाक्यसमाहारसमवायविशारदैः विशेषकार्यविद्भिश् च मोक्षधर्मपरायणैः स्थापनाक्षेपसिद्धान्तपरमार्थज्ञतां गतैः शब्दच्छन्दोनिरुक्तज्ञैः कालज्ञानविशारदैः द्रव्यकर्मगुणज्ञैश् च कार्यकारणवेदिभिः जल्पवादवितण्डज्ञैर् व्यासग्रन्थसमाश्रितैः नानाशास्त्रेषु मुख्यैश् च शुश्राव स्वनम् ईरितम् लोकायतिकमुख्यैश् च समन्ताद् अनुनादितम् तत्र तत्र च विप्रेन्द्रान् नियतान् संशितव्रतान् जपहोमपरान् सिद्धान् ददर्श परवीरहा आसनानि विचित्राणि पुष्पवन्ति महीपतिः प्रयत्नोपहितानि स्म दृष्ट्वा विस्मयम् आगमत् देवतायतनानां च पूजां प्रेक्ष्य कृतां द्विजैः ब्रह्मलोकस्थम् आत्मानं मेने स नृपसत्तमः स काश्यपतपोगुप्तम् आश्रमप्रवरं शुभम् नातृप्यत् प्रेक्षमाणो वै तपोधनगणैर् युतम् स काश्यपस्यायतनं महाव्रतैर्; वृतं समन्ताद् ऋषिभिस् तपोधनैः विवेश सामात्यपुरोहितो ऽरिहा; विविक्तम् अत्यर्थमनोहरं शिवम् वैशंपायन उवाच ततो गच्छन् महाबाहुर् एको ऽमात्यान् विसृज्य तान् नापश्यद् आश्रमे तस्मिंस् तम् ऋषिं संशितव्रतम् सो ऽपश्यमानस् तम् ऋषिं शून्यं दृष्ट्वा तम् आश्रमम् उवाच क इहेत्य् उच्चैर् वनं संनादयन्न् इव श्रुत्वाथ तस्य तं शब्दं कन्या श्रीर् इव रूपिणी निश्चक्रामाश्रमात् तस्मात् तापसीवेषधारिणी सुव्रताभ्यागतं तं तु पूज्यं प्राप्तम् अथेश्वरम् रूपयौवनसंपन्ना शीलाचारवती शुभा सा तम् आयतपद्माक्षं व्यूढोरस्कं सुसंहितम् सिंहस्कन्धं दीर्घभुजं सर्वलक्षणपूजितम् स्पष्टं मधुरया वाचा साब्रवीज् जनमेजय सा तं दृष्ट्वैव राजानं दुःषन्तम् असितेक्षणा स्वागतं त इति क्षिप्रम् उवाच प्रतिपूज्य च आसनेनार्चयित्वा च पाद्येनार्घ्येण चैव हि पप्रच्छानामयं राजन् कुशलं च नराधिपम् यथावद् अर्चयित्वा सा पृष्ट्वा चानामयं तदा उवाच स्मयमानेव किं कार्यं क्रियताम् इति आश्रमस्याभिगमने किं त्वं कार्यं चिकीर्षसि कस् त्वम् अद्येह संप्राप्तो महर्षेर् आश्रमं शुभम् ताम् अब्रवीत् ततो राजा कन्यां मधुरभाषिणीम् दृष्ट्वा सर्वानवद्याङ्गीं यथावत् प्रतिपूजितः दुःषन्तः राजर्षेर् अस्मि पुत्रो ऽहम् इलिलस्य महीपतेः दुःषन्त इति मे नाम सत्यं पुष्करलोचने स्वागतं ते महाराज फलमूलोदकं च नः परिगृह्योपभुङ्क्ष्व त्वं किं च ते करवाण्य् अहम् आगतो ऽहं महाभागम् ऋषिं कण्वम् उपासितुम् क्व गतो भगवान् भद्रे तन् ममाचक्ष्व शोभने द्विजश्रेष्ठ नमो भद्रे मुनिः कण्वः प्रतापवान् शकुन्तलोवाच गतः पिता मे भगवान् फलान्य् आहर्तुम् आश्रमात् मुहूर्तं संप्रतीक्षस्व द्रक्ष्यस्य् एनम् इहागतम् वैशंपायन उवाच अपश्यमानस् तम् ऋषिं तया चोक्तस् तथा नृपः तां च दृष्ट्वा वरारोहां श्रीमतीं चारुहासिनीम् विभ्राजमानां वपुषा तपसा च दमेन च रूपयौवनसंपन्नाम् इत्य् उवाच महीपतिः कासि कस्यासि सुश्रोणि किमर्थं चागता वनम् एवंरूपगुणोपेता कुतस् त्वम् असि शोभने दर्शनाद् एव हि शुभे त्वया मे ऽपहृतं मनः इच्छामि त्वाम् अहं ज्ञातुं तन् ममाचक्ष्व शोभने स्थितो ऽस्म्य् अमितसौभाग्ये विवक्षुश् चास्मि किं चन शृणु मे नागनासोरु वचनं मत्तकाशिनि राजर्षेर् अन्वये जातः पूरोर् अस्मि विशेषतः वृणे त्वाम् अद्य सुश्रोणि दुःषन्तो वरवर्णिनि न मे ऽन्यत्र क्षत्रियाया मनो जातु प्रवर्तते ऋषिपुत्रीषु चान्यासु नावर्णास्व् अपरासु च एवं प्रणिहितात्मानं विद्धि मां कलभाषिणि तस्य मे त्वयि भावो ऽस्ति क्षत्रिया ह्य् असि का वद न हि मे भीरु विप्रायां मनः प्रसहते गतिम् भजे त्वाम् आयतापाङ्गे भक्तं भजितुम् अर्हसि भुङ्क्ष राज्यं विशालाक्षि बुद्धिं मा त्व् अन्यथा कृथाः एवम् उक्ता तदा कन्या तेन राज्ञा तदाश्रमे उवाच हसती वाक्यम् इदं सुमधुराक्षरम् कण्वष्याहं भगवतो दुःषन्त दुहिता मता ताम् उवाच ततो राजा कन्यां राजीवलोचनाम् तपस्विनो धृतिमतो धर्मज्ञस्य यशस्विनः अस्वतन्त्रास्मि राजेन्द्र काश्यपो मे गुरुः पिता तम् एव प्रार्थय स्वार्थं नायुक्तं कर्तुम् अर्हसि दुःषन्त उवाच ऊर्ध्वरेता महाभागो भगवांल् लोकपूजितः चलेद् धि वृत्ताद् धर्मो ऽपि न चलेत् संशितव्रतः कथं त्वं तस्य दुहिता संभूता वरवर्णिनी संशयो मे महान् अत्र तं मे छेत्तुम् इहार्हसि शकुन्तलोवाच यथायम् आगमो मह्यं यथा चेदम् अभूत् पुरा अन्यथा सन्तम् आत्मानम् अन्यथा सत्सु भाषते स पापेनावृतो मूर्खस् तेन आत्मापहारकः शृणु राजन् यथातत्त्वं यथास्मि दुहिता मुनेः ऋषिः कश् चिद् इहागम्य मम जन्माभ्यचोदयत् ऊर्ध्वरेता यथासि त्वं कुतस् तेयं शकुन्तला पुत्री त्वत्तः कथं जाता तत् त्वं मे ब्रूहि काश्यप तस्मै प्रोवाच भगवान् यथा तच् छृणु पार्थिव तप्यमानः किल पुरा विश्वामित्रो महत् तपः सुभृशं तापयाम् आस शक्रं सुरगणेश्वरम् तपसा दीप्तवीर्यो ऽयं स्थानान् मां च्यावयेद् इति भीतः पुरंदरस् तस्मान् मेनकाम् इदम् अब्रवीत् गुणैर् दिव्यैर् अप्सरसां मेनके त्वं विशिष्यसे श्रेयो मे कुरु कल्याणि यत् त्वां वक्ष्यामि तच् छृणु असाव् आदित्यसंकाशो विश्वामित्रो महातपाः तप्यमानस् तपो घोरं मम कम्पयते मनः तपस् तस्य महाघोरं ब्रह्मचर्यं च संश्रितम् मेनके तव भारो ऽयं विश्वामित्रः सुमध्यमे संशितात्मा सुदुर्धर्ष उग्रे तपसि वर्तते स मां न च्यावयेत् स्थानात् तं वै गत्वा प्रलोभय चर तस्य तपोविघ्नं कुरु मे प्रियम् उत्तमम् रूपयौवनमाधुर्यचेष्टितस्मितभाषितैः लोभयित्वा वरारोहे तपसः संनिवर्तय मेनकोवाच महातेजाः स भगवान् सदैव च महातपाः कोपनश् च तथा ह्य् एनं जानाति भगवान् अपि तेजसस् तपसश् चैव कोपस्य च महात्मनः त्वम् अप्य् उद्विजसे यस्य नोद्विजेयम् अहं कथम् महाभागं वसिष्ठं यः पुत्रैर् इष्टैर् व्ययोजयत् क्षत्रे जातश् च यः पूर्वम् अभवद् ब्राह्मणो बलात् शौचार्थं यो नदीं चक्रे दुर्गमां बहुभिर् जलैः यां तां पुण्यतमां लोके कौशिकीति विदुर् जनाः बभार यत्रास्य पुरा काले दुर्गे महात्मनः दारान् मतङ्गो धर्मात्मा राजर्षिर् व्याधतां गतः अतीतकाले दुर्भिक्षे यत्रैत्य पुनर् आश्रमम् मुनिः पारेति नद्या वै नाम चक्रे तदा प्रभुः मतङ्गं याजयां चक्रे यत्र प्रीतमनाः स्वयम् त्वं च सोमं भयाद् यस्य गतः पातुं शुरेश्वर अति नक्षत्रवंशांश् च क्रुद्धो नक्षत्रसंपदा प्रति श्रवणपूर्वाणि नक्षत्राणि ससर्ज यः गुरुशापहतस्यापि त्रिशङ्कोः शरणं ददौ ब्रह्मर्षिशापं राजर्षिः कथं मोक्ष्यति कौशिकः अवमत्य तदा देवैर् यज्ञाङ्गं तद्विनाशितम् अन्यानि च महातेजा यज्ञाङ्गान्य् असृजत् प्रभुः निनाय च तदा स्वर्गं त्रिशङ्कुं स महातपाः एतानि यस्य कर्माणि तस्याहं भृशम् उद्विजे यथा मां न दहेत् क्रुद्धस् तथाज्ञापय मां विभो तेजसा निर्दहेल् लोकान् कम्पयेद् धरणीं पदा संक्षिपेच् च महामेरुं तूर्णम् आवर्तयेत् तथा संशोषेच् च महोदधिम् | संक्षिपेच् च महानद्रिं तादृशं तपसा युक्तं प्रदीप्तम् इव पावकम् कथम् अस्मद्विधा बाला जितेन्द्रियम् अभिस्पृशेत् हुताशनमुखं दीप्तं सूर्यचन्द्राक्षितारकम् कालजिह्वं सुरश्रेष्ठ कथम् अस्मद्विधा स्पृशेत् यमश् च सोमश् च महर्षयश् च; साध्या विश्वे वालखिल्याश् च सर्वे एते ऽपि यस्योद्विजन्ते प्रभावात्; कस्मात् तस्मान् मादृशी नोद्विजेत त्वयैवम् उक्ता च कथं समीपम्; ऋषेर् न गच्छेयम् अहं सुरेन्द्र रक्षां तु मे चिन्तय देवराज; यथा त्वदर्थं रक्षिताहं चरेयम् कामं तु मे मारुतस् तत्र वासः; प्रक्रीडिताया विवृणोतु देव भवेच् च मे मन्मथस् तत्र कार्ये; सहायभूतस् तव देवप्रसादात् वनाच् च वायुः सुरभिः प्रवायेत्; तस्मिन् काले तम् ऋषिं लोभयन्त्याः तथेत्य् उक्त्वा विहिते चैव तस्मिंस्; ततो ययौ साश्रमं कौशिकस्य शकुन्तलोवाच एवम् उक्तस् तया शक्रः संदिदेश सदागतिम् प्रातिष्ठत तदा काले मेनका वायुना सह अथापश्यद् वरारोहा तपसा दग्धकिल्बिषम् विश्वामित्रं तपस्यन्तं मेनका भीरुर् आश्रमे अभिवाद्य ततः सा तं प्राक्रीडद् ऋषिसंनिधौ अपोवाह च वासो ऽस्या मारुतः शशिसंनिभम् सागच्छत् त्वरिता भूमिं वासस् तद् अभिलिङ्गती उत्स्मयन्तीव सव्रीडं मारुतं वरवर्णिनी पश्यतस् तत्र तस्यर्षेर् अप्य् अग्निसमतेजसः विश्वामित्रस् ततस् तां तु विषमस्थाम् अनिन्दिताम् गृद्धां वाससि संभ्रान्तां मेनकां मुनिसत्तमः अनिर्देश्यवयोरूपाम् अपश्यद् विवृतां तदा तस्या रूपगुणं दृष्ट्वा स तु विप्रर्षभस् तदा चकार भावं संसर्गे तया कामवशं गतः न्यमन्त्रयत चाप्य् एनां सा चाप्य् ऐच्छद् अनिन्दिता तौ तत्र सुचिरं कालं वने व्यहरताम् उभौ रममाणौ यथाकामं यथैकदिवसं तथा एवं वर्षसहस्राणाम् अतीतं नाभ्यचिन्तयत् कामक्रोधाव् अजितवान् मुनिर् नित्यं क्षमान्वितः चिरार्जितस्य तपसः क्षयं स कृतवान् ऋषिः तपसः संक्षयाद् एव मुनिर् मोहं विवेश सः मोहाभिभूतः क्रोधात्मा ग्रसन् मूलफलं मुनिः पादैर् जलरवं कृत्वा अन्तर्द्वीपे कुटीं गतः मेनका गन्तुकामा वै शुश्राव जलनिस्वनम् तपसा दीप्तवीर्यो ऽसाव् आकाशाद् एति याति च अद्य संज्ञां विजानामि येन केन तपःक्षयम् हन्त निर्यामि चेत्य् उक्त्वा ऋतुस्नाता तु मेनका कामरागाभिभूतस्य मुनेः पार्श्वं जगाम सा जनयाम् आस स मुनिर् मेनकायां शकुन्तलाम् प्रस्थे हिमवतो रम्ये मालिनीम् अभितो नदीम् देवगर्भोपमां बलां सर्वाभरणभूषिताम् शयानां शयने रम्ये मेनका वाक्यम् अब्रवीत् महर्षेर् उग्रतपसस् तेजस् त्वम् अविनाशिनी तस्मात् स्वर्गं गमिष्यामि देवकार्यार्थम् आगता जातम् उत्सृज्य तं गर्भं मेनका मालिनीम् अनु कृतकार्या ततस् तूर्णम् अगच्छच् छक्रसंसदम् तं वने विजने गर्भं सिंहव्याघ्रसमाकुले दृष्ट्वा शयानं शकुनाः समन्तात् पर्यवारयन् नेमां हिंस्युर् वने बालां क्रव्यादा मांसगृद्धिनः पर्यरक्षन्त तां तत्र शकुन्ता मेनकात्मजाम् उपस्प्रष्टुं गतश् चाहम् अपश्यं शयिताम् इमाम् मां दृष्ट्वैवाभ्यपद्यन्त पादयोः पतिता द्विजाः अब्रुवञ् शकुनाः सर्वे कलं मधुरभाषिणः विश्वामित्रसुतां ब्रह्मन् न्यासभूतां भरस्व वै कामक्रोधाव् अजितवान् सखा ते कौशिकीं गतः तस्मात् पोषय पुत्रीं ते दयावन्न् इति ते ऽब्रुवन् सर्वभूतरुतज्ञो ऽहं दयावान् सर्वजन्तुषु निर्जने विपिने ऽरण्ये शकुन्तैः परिवारिताम् आनयित्वा ततश् चैनां दुहितृत्वे न्ययोजयम् शरीरकृत् प्राणदाता यस्य चान्नानि भुञ्जते क्रमेण ते त्रयो ऽप्य् उक्ताः पितरो धर्मनिश्चये निर्जने च वने यस्माच् छकुन्तैः परिरक्षिता शकुन्तलेति नामास्याः कृतं चापि ततो मया एवं दुहितरं विद्धि मम सौम्य शकुन्तलाम् शकुन्तला च पितरं मन्यते माम् अनिन्दिता एतद् आचष्ट पृष्टः सन् मम जन्म महर्षये सुतां कण्वस्य माम् एवं विद्धि त्वं मनुजाधिप कण्वं हि पितरं मन्ये पितरं स्वम् अजानती इति ते कथितं राजन् यथावृत्तं श्रुतं मया दुःषन्त उवाच सुव्यक्तं राजपुत्री त्वं यथा कल्याणि भाषसे भार्या मे भव सुश्रोणि ब्रूहि किं करवाणि ते सुवर्णमाला वासांसि कुण्डले परिहाटके नानापत्तनजे शुभ्रे मणिरत्ने च शोभने आहरामि तवाद्याहं निष्कादीन्य् अजिनानि च सर्वं राज्यं तवाद्यास्तु भार्या मे भव शोभने गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरि विवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते शकुन्तलोवाच फलाहारो गतो राजन् पिता मे इत आश्रमात् तं मुहूर्तं प्रतीक्षस्व स मां तुभ्यं प्रदास्यति दुःषन्तः पिता हि मे प्रभुर् नित्यं दैवतं परमं मम यस्य मां दास्यति पिता स मे भर्ता भविष्यति पिता रक्षति कौमारे भर्ता रक्षति यौवने पुत्रस् तु स्थविरे भावे न स्त्री स्वातन्त्र्यम् अर्हति अमन्यमाना राजेन्द्र पितरं मे तपस्विनम् अधर्मेण हि धर्मिष्ठ कथं वरम् उपास्महे मा मैवं वद सुश्रोणि तपोराशिं दयात्मकम् मन्युप्रहरणा विप्रा न विप्राः शस्त्रपाणयः अग्निर् दहति तेजोभिः सूर्यो दहति रश्मिभिः राजा दहति दण्डेन ब्राह्मणो मन्युना दहेत् क्रोधितो मन्युना हन्ति वज्रपाणिर् इवासुरान् जानामि भद्रे तम् ऋषिं तस्य मन्युर् न विद्यते मन्युना घ्नन्ति ते शत्रून् वज्रेणेन्द्र इवासुरान् दुःषन्त उवाच इच्छामि त्वां वरारोहे भजमानाम् अनिन्दिते त्वदर्थं मां स्थितं विद्धि त्वद्गतं हि मनो मम आत्मनो बन्धुर् आत्मैव गतिर् आत्मैव चात्मनः आत्मनो मित्रम् आत्मैव तथा चात्मात्मनः पिता आत्मनैवात्मनो दानं कर्तुम् अर्हसि धर्मतः अष्टाव् एव समासेन विवाहा धर्मतः स्मृताः ब्राह्मो दैवस् तथैवार्षः प्राजापत्यस् तथासुरः गान्धर्वो राक्षसश् चैव पैशाचश् चाष्टमः स्मृतः तेषां धर्मान् यथापूर्वं मनुः स्वायंभुवो ऽब्रवीत् प्रशस्तांश् चतुरः पूर्वान् ब्राह्मणस्योपधारय षड् आनुपूर्व्या क्षत्रस्य विद्धि धर्म्यान् अनिन्दिते राज्ञां तु राक्षसो ऽप्य् उक्तो विट्शूद्रेष्व् आसुरः स्मृतः पञ्चानां तु त्रयो धर्म्या द्वाव् अधर्म्यौ स्मृताव् इह पैशाचश् चासुरश् चैव न कर्तव्यौ कथं चन अनेन विधिना कार्यो धर्मस्यैषा गतिः स्मृता गान्धर्वराक्षसौ क्षत्रे धर्म्यौ तौ मा विशङ्किथाः पृथग् वा यदि वा मिश्रौ कर्तव्यौ नात्र संशयः सा त्वं मम सकामस्य सकामा वरवर्णिनि त्वयैवं का समा नारी न गन्धर्वी तथाप्सराः न मिश्रकेशी रम्भा वा न घृताची न मेनका चार्वङ्गी वसुकेशी च यथा त्वं मत्तकाशिनि कम्बुग्रीवा च सुश्रोणी मृगाक्षी सुस्तनीति च निगूढगुल्फा रक्तौष्ठी सुरक्तनखपद्धतिः ईषच् च गद्गदां वाचं रम्भोरु त्वं शुचिस्मिते यौ तौ जातौ सुसंश्लिष्टौ मध्ये हारविलक्षितौ अनर्हं धारयन् नित्यम् अमलं वा चीरवल्कलम् इदं शैलकुशाकीर्णं पल्लवैर् उपसेवितम् सिंहशार्दूलसंयुक्तं मृगपक्षिसमाकुलम् वनं कण्टकितं घोरं निर्मनुष्यम् अभूतवत् अर्हसे हर्म्यप्रासादान् सौवर्णान् मणिकुट्टिमान् स्वास्तीर्णतल्पमुदितान् कार्तस्वरविभूषितान् इदं नार्हसि कल्याणि कृपणत्वं वरानने मुमूर्षुं मदनाश्लिष्टं त्राहि मां शुभचारिणम् न स्मृतिं वाभिजानामि न दिशं गतचापलः अर्धनालीकनाराचशक्तितोमरमुद्गराः पतन्ति स्म शरीरं मे पादम् ऊरुशिरांसि च पुनः प्ररोहते देवि वनं परशुना हतम् कामाग्निना सुसंदीप्तं तपत्य् एव ममाङ्गकम् हृदि प्रौढे सुतीक्ष्णाग्रे मन्ये भैषज्यम् ईदृशम् प्रेम्णा संभाषणं स्पर्शं स्मृतिर् दृष्टिः कथाम् अपि विनान्यौषधकामिन्यः प्रजापतिर् अथाब्रवीत् एवम् एतन् महाभागे सुप्रिये स्मितभाषिणि गान्धर्वेण विवाहेन भार्या भवितुम् अर्हसि शकुन्तलोवाच यदि धर्मपथस् त्व् एष यदि चात्मा प्रभुर् मम प्रदाने पौरवश्रेष्ठ शृणु मे समयं प्रभो सत्यं मे प्रतिजानीहि यत् त्वां वक्ष्याम्य् अहं रहः ब्राह्मीं मे प्रतिजानीहि प्रतिज्ञां राजसत्तम मम जायेत यः पुत्रः स भवेत् त्वदनन्तरम् युवराजो महाराज सत्यम् एतद् ब्रवीहि मे यद्य् एतद् एवं दुःषन्त अस्तु मे संगमस् त्वया वैशंपायनः शकुन्तला तस्यास् तु सर्वं संश्रुत्य यथोक्तं स विशां पतिः दुःषन्तः पुनर् एवाह यद् यद् इच्छसि तद् वद ख्यातो लोकप्रवादो ऽयं विवाह इति शास्त्रतः वैवाहिकीं क्रियां सन्तः प्रशंसन्ति प्रजाहिताम् लोकप्रवादशान्त्यर्थं विवाहं विधिना कुरु सन्त्य् अत्र यज्ञपात्राणि दर्भाः सुमनसो ऽक्षताः यथा युक्तो विवाहः स्यात् तथा युक्ता प्रजा भवेत् तस्माद् आज्यं हविर् लाजाः सिकता ब्राह्मणास् तव वैवाहिकानि चान्यानि समस्तानीह पार्थिव दुरुक्तम् अपि राजेन्द्र क्षन्तव्यं धर्मकारणात् वैशंपायन उवाच एवम् अस्त्व् इति तां राजा प्रत्युवाचाविचारयन् पुरोहितं समाहूय वचनं चेदम् अब्रवीत् राजपुत्र्या यद् उक्तं वै न वृथा कर्तुम् उत्सहे क्रियाहीनो हि न भवेन् मम पुत्रो महाद्युतिः तथा कुरुष्व शास्त्रोक्तं विवाहं मा चिरं कुरु एवम् उक्तो नृपतिना द्विजः परमयन्त्रितः शोभनं राजराजेति विधिना कृतवान् द्विजः शासनाद् विप्रमुख्यस्य कृतकौतुकमङ्गलः अपि च त्वां नयिष्यामि नगरं स्वं शुचिस्मिते यथा त्वम् अर्हा सुश्रोणि सत्यम् एतद् ब्रवीमि ते एवम् उक्त्वा स राजर्षिस् ताम् अनिन्दितगामिनीम् जग्राह विधिवत् पाणाव् उवास च तया सह विश्वास्य चैनां स प्रायाद् अब्रवीच् च पुनः पुनः प्रेषयिष्ये तवार्थाय वाहिनीं चतुरङ्गिणीम् त्रैविद्यवृद्धैः सहितां नानाराजजनैः सह शिबिकासहस्रैः सहिता वनम् आयान्ति बान्धवाः मूकाश् चैव किराताश् च कुब्जा वामनकैः सह सहिता कञ्चुकिवरैर् वाहिनी सूतमागधैः शङ्खदुन्दुभिनिर्घोषैर् वनं च समुपैष्यति तया त्वाम् आनयिष्यामि निवासं स्वं शुचिस्मिते वैशंपायनः अन्यथा त्वां न नेष्यामि स्वनिवेशम् असत्कृताम् सर्वमङ्गलसत्कारैर् अहं सत्यं ब्रवीमि ते एवम् उक्त्वा स राजर्षिस् ताम् अनिन्दितगामिनीम् परिष्वज्य च बाहुभ्यां स्मितपूर्वम् उदैक्षत प्रदक्षिणीकृतां देवीं पुनस् तां परिषस्वजे शकुन्तला साश्रुमुखी पपात नृपपादयोः तां देवीं पुनर् उत्थाप्य मा शुचेति पुनः पुनः शपेयं सुकृतेनैव प्रापयिष्ये नृपात्मजे इति तस्याः प्रतिश्रुत्य स नृपो जनमेजय मनसा चिन्तयन् प्रायात् काश्यपं प्रति पार्थिवः भगवांस् तपसा युक्तः श्रुत्वा किं नु करिष्यति तं न प्रसाद्यागतो ऽहं प्रसीदेति द्विजोत्तमम् एवं संचिन्तयन्न् एव प्रविवेश स्वकं पुरम् मुहूर्तयाते तस्मिंस् तु कण्वो ऽप्य् आश्रमम् आगमत् शकुन्तला च पितरं ह्रिया नोपजगाम तम् शङ्कितेव च विप्रर्षिम् उपचक्राम सा शनैः ततो ऽस्य भारं जग्राह आसनं चाप्य् अकल्पयत् प्राक्षालयच् च सा पादौ काश्यपस्य महात्मनः न चैनं लज्जयाशक्नोद् अक्षिभ्याम् अभिवीक्षितुम् शकुन्तला च सव्रीडा तम् ऋषिं नाभ्यभाषत तस्मात् स्वधर्मात् स्खलिता भीता सा भरतर्षभ अभवद् दोषदर्शित्वाद् ब्रह्मचारिण्य् अयन्त्रिता स तदा व्रीडितां दृष्ट्वा ऋषिस् तां प्रत्यभाषत कण्वः सव्रीडैव च दीर्घायुः पुरेव भविता न च वैशंपायनः वृत्तं कथय रम्भोरु मा त्रासं च प्रकल्पय ततः प्रक्षाल्य पादौ सा विश्रान्तं पुनर् अब्रवीत् निधाय कामं तस्यर्षेः कन्दानि च फलानि च ततः संवाह्य पादौ सा विश्रान्तं वेदिमध्यमा शकुन्तला पौरवाणां दुःषन्तं जग्मुषी पतिम् ततः कृच्छ्राद् अतिशुभा सव्रीडा श्रीमती तदा सगद्गदम् उवाचेदं काश्यपं सा शुचिस्मिता शकुन्तला राजा ताताजगामेह दुःषन्त इलिलात्मजः मया पतिर् वृतो यो ऽसौ दैवयोगाद् इहागतः तस्य तात प्रसीद त्वं भर्ता मे सुमहायशाः अतः सर्वं तु यद् वृत्तं दिव्यज्ञानेन पश्यसि अभयं क्षत्रियकुले प्रसादं कर्तुम् अर्हसि विज्ञायाथ च तां कण्वो दिव्यज्ञानो महातपाः ततो धर्मिष्ठतां मत्वा धर्मे चास्खलितं मनः उवाच भगवान् प्रीतः पश्यन् दिव्येन चक्षुषा . . . . . . . . सद्वृत्तः स महायशाः एवम् एतन् मया ज्ञातं त्वयाद्य राजान्वयया माम् अनादृत्य यत्कृतः पुंसा सह समायोगो न स धर्मोपघातकः न भयं विद्यते भद्रे मा शुचः सुकृतं कृतम् क्षत्रियस्य हि गान्धर्वो विवाहः श्रेष्ठ उच्यते सकामायाः सकामेन निर्मन्त्रो रहसि स्मृतः किं पुनर् विधिवत् कृत्वा सुप्रजास् त्वं भविष्यसि धर्मात्मा च महात्मा च दुःषन्तः पुरुषोत्तमः अभ्यगच्छः पतिं यं त्वं भजमानं शकुन्तले महात्मा जनिता लोके पुत्रस् तव महाबलः य इमां सागरापाङ्गां कृत्स्नां भोक्ष्यति मेदिनीम् परं चाभिप्रयातस्य चक्रं तस्य महात्मनः भविष्यत्य् अप्रतिहतं सततं चक्रवर्तिनः ततः प्रक्षाल्य पादौ सा विश्रान्तं मुनिम् अब्रवीत् विनिधाय ततो भारं संनिधाय फलानि च मया पतिर् वृतो यो ऽसौ दुःषन्तः पुरुषोत्तमः मम चैव पतिर् दृष्टो देवतानां समक्षतः तस्मै ससचिवाय त्वं प्रसादं कर्तुम् अर्हसि कण्व उवाच प्रसन्न एव तस्याहं त्वत्कृते वरवर्णिनि ऋतवो बहवस् ते वै गता व्यर्थाः शुचिस्मिते सार्थकं सांप्रतं ह्य् एतन् न च पापो ऽस्ति ते ऽनघे गृहाण च वरं मत्तस् तत्कृते यद् अभीप्सितम् वैशंपायन उवाच इत्य् एवम् उक्त्वा सहसा प्रणिधाय मनस्विनी ततो धर्मिष्ठतां वव्रे राज्याच् चास्खलनं तथा शकुन्तला पौरवाणां दुःषन्तहितकाम्यया कण्वः वैशंपायनः एवम् अस्त्व् इति तां प्राह कण्वो धर्मभृतां वरः पस्पर्श चापि पाणिभ्यां सुतां श्रीम् इव रूपिणीम् अद्य प्रभृति देवि त्वं दुःषन्तस्य महात्मनः पतिव्रतानां यद् वृत्तिस् तां वृत्तिम् अनुपालय इत्य् एवम् उक्त्वा धर्मात्मा तां विशुध्यर्थम् अस्पृशत् स्पृष्टमात्रे शरीरे तु परं हर्षम् अवाप सा वैशंपायन उवाच प्रतिज्ञाय तु दुःषन्ते प्रतियाते शकुन्तला आश्रमे न्यवसत् तत्र काश्यपस्य महात्मनः गर्भश् च ववृधे तस्यां राजपुत्र्यां महात्मनः शकुन्तला चिन्तयन्ती राजानं कार्यगौरवात् दिवारात्रम् अनिद्रैव स्नानभोजनवर्जिता राजप्रेषणिका विप्राश् चतुरङ्गबलान्विताः अद्य श्वो वा परश्वो वा समायान्तीति निश्चिता दिनान् पक्षान् ऋतून् मासान् अयनानि च सर्वशः गण्यमानानि वर्षाणि व्यतीयुस् त्रीणि भारत त्रिषु वर्षेषु पूर्णेषु ऋषेर् वचनगौरवात् ऋषिपत्न्यः सुबहुशो हेतुमद् वाक्यम् अब्रुवन् शृणु भद्रे लोकवृत्तं श्रुत्वा यद् रोचते तव तत् कुरुष्व हितं देवि नावमान्यं गुरोर् वचः देवानां दैवतं विष्णुर् विप्राणाम् अग्निर् एव च नारीणां दैवतं भर्ता लोकानां ब्राह्मणो गुरुः सूतिकाले प्रसूयेति भगवांस् ते पिताब्रवीत् करिष्यामीति कर्तव्यं तदा ते सुकृतं भवेत् पत्नीनां वचनं श्रुत्वा साधु साध्व् इत्य् अचिन्तयत् गर्भं सुषाव वामोरुः कुमारम् अमितौजसम् त्रिषु वर्षेषु पूर्णेषु दिप्तानलसमद्युतिम् रूपौदार्यगुणोपेतं दौःषन्तिं जनमेजय जाते तस्मिन्न् अन्तरिक्षात् पुष्पवृष्टिः पपात ह देवदुन्दुभयो नेदुर् ननृतुश् चाप्सरोगणाः गायद्भिर् मधुरं तत्र देवैः शक्रो ऽभ्युवाच ह शकुन्तले तव सुतश् चक्रवर्ती भविष्यति बलं तेजश् च रूपं च न समं भुवि केन चित् आहर्ता वाजिमेधस्य शतसंख्यस्य पौरवः अनेकैर् अपि साहस्रै राजसूयादिभिर् मखैः स्वार्थं ब्राह्मणसात् कृत्वा दक्षिणाम् अमितां ददत् देवतानां वचः श्रुत्वा कण्वाश्रमनिवासिनः सभाजयन्तः कण्वस्य सुतां सर्वे महर्षयः शकुन्तला च तच् छ्रुत्वा परं हर्षम् अवाप सा द्विजान् आहूय मुनिभिः सत्कृत्य च महायशाः जातकर्मादिसंस्कारं कण्वः पुण्यकृतां वरः तस्याथ कारयाम् आस वर्धमानस्य धीमतः यथाविधि यथान्यायं क्रियाः सर्वास् त्व् अकारयत् दन्तैः शुक्लैः शिखरिभिः सिंहसंहननो युवा चक्राङ्कितकरः श्रीमान् महामूर्धा महाबलः . . . . . . . . स्वयं विष्णुर् इवापरः चतुष्किष्कुर् महातेजाः कुमारो देवगर्भाभः स तत्राशु व्यवर्धत ऋषेर् भयात् तु दुःषन्तः स्मरन् नैवाह्वयत् तदा गते काले तु महति न सस्मार तपोवनम् षड्वर्ष एव बालः स कण्वाश्रमपदं प्रति व्याघ्रान् सिंहान् वराहांश् च गजांश् च महिषांस् तथा ऋक्षांश् चापि द्विपान् अन्यान् व्यालान् आश्रमपीडकान् बलाद् भुजाभ्यां संगृह्य बलवान् संनियम्य च बद्ध्वा वृक्षेषु बलवान् आश्रमस्य समन्ततः आरोहन् दमयंश् चैव क्रीडंश् च परिधावति वनं च लोडयाम् आस सिंहव्याघ्रगणैर् वृतम् ततश् च राक्षसान् सर्वान् पिशाचांश् च रिपून् रणे मुष्टियुद्धेन तान् हत्वा ऋषीन् आराधयत् तदा कश् चिद् दितिसुतस् तं तु हन्तुकामो महाबलः वध्यमानांस् तु दैतेयान् अमर्षी तं समभ्ययात् तम् आगतं प्रहस्यैव बाहुभ्यां परिगृह्य च दृढं चाबध्य बाहुभ्यां पीडयाम् आस तं तदा मर्दितो न शशाकास्मान् मोचितुं बलवत्तया प्राक्रोशद् भैरवं तत्र द्वारेभ्यो निःसृतं त्व् असृक् तेन शब्देन वित्रस्ता मृगाः सिंहादयो गणाः सुस्रुवुश् च शकृन्मूत्रम् आश्रमस्थाश् च सुस्रुवुः निरसुं जानुभिः कृत्वा विससर्ज च सो ऽपतत् तद् दृष्ट्वा विस्मयं जग्मुः कुमारस्य विचेष्टितम् नित्यकालं वध्यमाना दैतेया राक्षसैः सह कुमारस्य भयाद् एव नैव जग्मुस् तदाश्रमम् ततो ऽस्य नाम चक्रुस् ते कण्वाश्रमनिवासिनः कण्वेन सहिता दृष्ट्वा कर्म सर्वे ऽतिमानुषम् अस्त्व् अयं सर्वदमनः सर्वं हि दमयत्य् अयम् स सर्वदमनो नाम कुमारः समपद्यत विक्रमेणौजसा चैव बलेन च समन्वितः अप्रेषयति दुःषन्ते महिष्यास् तनयस्य च पाण्डुभावपरीताङ्गीं चिन्तया समभिप्लुताम् लम्बालकां कृशां दीनां तथा मलिनवाससम् शकुन्तलां च संप्रेक्ष्य प्रदध्यौ स मुनिस् तदा शास्त्राणि सर्ववेदाश् च द्वादशाब्दस्य चाभवन् तं कुमारम् ऋषिर् दृष्ट्वा कर्म चास्यातिमानुषम् समयो यौवराज्यायेत्य् अब्रवीच् च शकुन्तलाम् कण्वः वैशंपायनः वैशंपायनः वैशंपायनः शकुन्तला वैशंपायनः कण्वः वैशंपायनः शकुन्तलां समाहूय कण्वो वचनम् अब्रवीत् शृणु भद्रे मम सुते मम वाक्यं शुचिस्मिते पतिव्रतानां नारीणां विशिष्टम् इति चोच्यते पतिशुश्रूषणं पूर्वं मनोवाक्कायचेष्टितैः अनुज्ञाता मया पूर्वं पूजयैतद् व्रतं तव एतेनैव च वृत्तेन पुण्यांल् लोकान् अवाप्य च तस्यान्ते मानुषे लोके विशिष्टां लप्स्यसे श्रियम् तस्माद् भद्रे ऽद्य यातव्यं समीपं पौरवस्य ह स्वयं नायाति मत्वा ते गतं कालं शुचिस्मिते गत्वाराधय राजानं दुःषन्तं हितकाम्यया दौःषन्तिं यौवराज्यस्थं दृष्ट्वा प्रीतिम् अवाप्स्यसि देवतानां गुरूणां च क्षत्रियाणां च भामिनि भर्तॄणां च विशेषेण हितं संगमनं सताम् तस्मात् पुत्रि कुमारेण गन्तव्यं मत्प्रियेप्सया प्रतिवाक्यं न दद्यास् त्वं शापिता मम पादयोः एवम् उक्त्वा सुतां तत्र पौत्रं कण्वो ऽभ्यभाषत परिष्वज्य च बाहुभ्यां मूर्ध्न्य् उपाघ्राय पौरवम् सोमवंशोद्भवो राजा दुःषन्त इति विश्रुतः तस्याग्रमहिषी चैषा तव माता शुचिव्रता गन्तुकामा भर्तृपार्श्वं त्वया सह सुमध्यमा गत्वाभिवाद्य राजानं यौवराज्यम् अवाप्स्यसि स पिता तव राजेन्द्रस् तस्य त्वं वशगो भव पितृपैतामहं राज्यम् आतिष्ठस्व स्वभावतः तस्मिन् काले स्वराज्यस्थो माम् अनुस्मर पौरव अभिवाद्य मुनेः पादौ पौरवो वाक्यम् अब्रवीत् त्वं पिता मम विप्रर्षे त्वं माता त्वं गतिश् च मे न चान्यं पितरं मन्ये त्वाम् ऋते तु महातपः तव शुश्रूषणं पुण्यम् इह लोके परत्र च शकुन्तला भर्तृकामा स्वयं यातु यथेष्टतः अहं शुश्रूषणपरः पादमूले वसामि वः क्रीडां व्यालमृगैः सार्धं करिष्ये न पुरा यथा त्वच् छासनपरो नित्यं स्वाध्यायं च करोम्य् अहम् एवम् उक्त्वा तु संश्लिष्य पादौ कण्वस्य तिष्ठति तस्य तद् वचनं श्रुत्वा प्ररुरोद शकुन्तला स्नेहात् पितुश् च पुत्रस्य हर्षशोकसमन्विता निशाम्य रुदतीम् आर्तां दौःषन्तिर् वाक्यम् अब्रवीत् श्रुत्वा भगवतो वाक्यं किं रोदिषि शकुन्तले गन्तव्यं काल्य उत्थाय भर्तृप्रीतिस् तवास्ति चेत् एकस् तु कुरुते पापं फलं भुङ्क्ते महाजनः भोक्तारस् तत्र मुच्यन्ते कर्ता दोषेण लिप्यते मया निवारितो नित्यं न करोषि वचो मम निःसृतान् कुञ्जरान् नित्यं बाहुभ्यां संप्रमथ्य वै वनं च लोडयन् नित्यं सिंहव्याघ्रगणैर् युतम् एवंविधानि चान्यानि कृत्वा वै पुरुनन्दन रुषितो भगवांस् तात तस्माद् आवां विवासितौ अहं न गच्छे दुःषन्तं नास्मि पुत्रहितैषिणी पादमूले वसिष्यामि महर्षेर् भावितात्मनः एवम् उक्त्वा तु रुदती पपात मुनिपादयोः एवं विलपतीं कण्वश् चानुनीय च हेतुभिः पुनः प्रोवाच भगवान् आनृशंस्याद् धितं वचः शकुन्तले शृणुष्वेदं हितं पथ्यं च भामिनि पतिव्रताभावगुणान् हित्वा साध्यं न किंचन पतिव्रतानां देवा वै तुष्टाः सर्ववरप्रदाः प्रसादं च करिष्यन्ति आपदर्थे च भामिनि पतिप्रसादात् पुण्यगतिं प्राप्नुवन्ति न चाशुभम् तस्माद् गत्वा तु राजानम् आराधय शुचिस्मिते शकुन्तलां तथोक्त्वा वै शाकुन्तलम् अथाब्रवीत् दौहित्रो मम पौत्रस् त्वम् इलिलस्य महात्मनः शृणुष्व वचनं सत्यं प्रब्रवीमि तवानघ मनसा भर्तृकामा वै वाग्भिर् उक्त्वा पृथग्विधम् गन्तुं नेच्छति कल्याणी तस्मात् तात वहस्व वै शक्तस् त्वं प्रतिगन्तुं च मुनिभिः सह पौरव तस्य तद् बलम् आज्ञाय कण्वः शिष्यान् उवाच ह शकुन्तलाम् इमां शीघ्रं सहपुत्राम् इतो ऽऽश्रमात् भर्त्रे प्रापयताद्यैव सर्वलक्षणपूजिताम् नारीणां चिरवासो हि बान्धवेषु न रोचते कीर्तिचारित्रधर्मघ्नस् तस्मान् नयत माचिरम् वैशंपायनः धर्माभिपूजितं पुत्रं काश्यपेन निशाम्य तु काश्यपात् प्राप्य चानुज्ञां मुमुदे च शकुन्तला कण्वस्य वचनं श्रुत्वा प्रतिगच्छेति चासकृत् तथेत्य् उक्त्वा तु कण्वं च मातरं पौरवो ऽब्रवीत् किं चिरायसि मातस् त्वं गमिष्यामो नृपालयम् एवम् उक्त्वा तु तां देवीं दुःषन्तस्य महात्मनः अभिवाद्य मुनेः पादौ गन्तुम् ऐच्छत् स पौरवः शकुन्तला च पितरम् अभिवाद्य कृताञ्जलिः प्रदक्षिणीकृत्य तदा पितरं वाक्यम् अब्रवीत् अज्ञानान् मे पिता चेति दुरुक्तं वापि चानृतम् अकार्यं वाप्य् अनिष्टं वा क्षन्तुम् अर्हति तद् भवान् एवम् उक्तो नतशिरा मुनिर् नोवाच किं चन मनुष्यभावात् कण्वो ऽपि मुनिर् अश्रूण्य् अवर्तयत् अब्भक्षान् वायुभक्षांश् च शीर्णपर्णाशनान् मुनीन् फलमूलाशिनो दान्तान् कृशान् धमनिसंततान् व्रतिनो जटिलान् मुण्डान् वल्कलाजिनसंवृतान् समाहूय मुनिः कण्वः कारुण्याद् इदम् अब्रवीत् मया तु लालिता नित्यं मम पुत्री यशस्विनी वने जाता विवृद्धा च न च जानाति किं चन आश्रमेण पथा सर्वैर् नीयतां क्षत्रियालयम् द्वितीययोजने विप्राः प्रतिष्ठानं प्रतिष्ठितम् प्रतिष्ठाने पुरे राजा शाकुन्तलपितामहः अध्युवास चिरं कालम् उर्वश्या सहितः पुरा अनूपजाङ्गलयुतं धनधान्यसमाकुलम् प्रतिष्ठितं पुरवरं गङ्गायामुनसङ्गमे तत्र संगमम् आसाद्य स्नात्वा हुतहुताशनाः शाकमूलफलाहारा निवर्तध्वं महातपाः अन्यथा तु भवेद् विप्रा अध्वनो गमने श्रमः तथेत्य् उक्त्वा तु ते सर्वे प्रातिष्ठन्तामितौजसः शकुन्तलां पुरस्कृत्य सपुत्रां गजसाह्वयम् गृहीत्वामरगर्भाभं पुत्रं कमललोचनम् आजगाम ततः शुभ्रा दुःषन्तविदिताद् वनात् ऋषयः वैशंपायनः नागराः वैशंपायनः वैशंपायनः शकुन्तलां समादाय मुनयो धर्मवत्सलाः ते वनानि नदीः शैलान् गिरिप्रस्रवणानि च कन्दराणि नितम्बांश् च राष्ट्राणि नगराणि च आश्रमाणि च पुण्यानि गत्वा चैव गतश्रमाः शनैर् मध्याह्नवेलायां प्रतिष्ठानं समाययुः तां पुरीं पुरुहूतेन ऐलस्यार्थे विनिर्मिताम् परिघाट्टालकैर् मुख्यैर् उपतल्पशतैर् अपि शतघ्नीशतयन्त्रैश् च गुप्ताम् अन्यैर् दुरासदाम् हर्म्यप्रासादसंबाधां नानापण्यविभूषिताम् मण्टपैः ससभै रम्यैः प्रपाभिश् च समावृताम् राजमार्गेण महता सुविभक्तेन शोभिताम् कैलासशिखराकारैर् गोपुरैः समलङ्कृताम् द्वारतोरणनिर्यूहैर् मङ्गलैर् उपशोभिताम् उद्यानाम्रवणोपेतां महतीं सालमेखलाम् सर्वपुष्करिणीभिश् च उद्यानैश् च समावृताम् वर्णाश्रमैः स्वधर्मस्थैर् नित्योत्सवसमाहितैः धनधान्यसमृद्धैश् च संतुष्टै रत्नपूजितैः क्रतुयुक्तैश् च विद्वद्भिर् अग्निहोत्रपरैः सदा वर्जिताकार्यकरणैर् दानशीलैर् दयापरैः अधर्मभीरुभिः सर्वैः स्वर्गलोकजिगीषुभिः एवंविधजनोपेतम् इन्द्रलोकम् इवापरम् तस्मिन् नगरमध्ये तु राजवेश्मप्रतिष्ठितम् इन्द्रसद्मप्रतीकाशं संपूर्णं वित्तसंचयैः तस्य मध्ये सभा दिव्या नानारत्नविचित्रिता तस्यां सभायां राजर्षिः सर्वालंकारभूषितः ब्राह्मणैः क्षत्रियैश् चापि मन्त्रिभिश् चापि संवृतः संस्तूयमानो राजेन्द्रः सूतमागधबन्दिभिः कार्यार्थिभिः समभ्येत्य कृत्वा कार्यं गतेषु सः सुखासीनो ऽभवद् राजा तस्मिन् काले महर्षयः शकुन्तानां स्वनं श्रुत्वा निमित्तज्ञास् त्व् अलक्षयन् शकुन्तले निमित्तानि शोभनानि भवन्ति नः कार्यसिद्धिं वदन्त्य् एते ध्रुवं राज्ञी भविष्यसि अस्मिंस् तु दिवसे पुत्रो युवराजो भविष्यति वर्धमानपुरद्वारं तूर्यघोषनिनादितम् शकुन्तलां पुरस्कृत्य विविशुस् ते महर्षयः प्रविशन्तं नृपसुतं प्रशशंसुश् च प्रेक्षकाः वर्धमानपुरद्वारं प्रविशन्न् एव पौरवः इन्द्रलोकस्थम् आत्मानं मेने हर्षसमन्वितः ततो वै नागराः सर्वे समाहूय परस्परम् द्रष्टुकामा नृपसुतं समपद्यन्त भारत देवतेव जनस्याग्रे भ्राजते श्रीर् इवागता जयन्तेनेव पौलोमी इन्द्रलोकाद् इहागता इति ब्रुवन्तस् ते सर्वे महर्षीन् इदम् अब्रुवन् अभिवादयन्तः सहिता महर्षीन् देववर्चसः अद्य नः सफलं जन्म कृतार्थाश् च ततो वयम् एवं ये स्म प्रपश्यामो महर्षीन् सूर्यवर्चसः इत्य् उक्त्वा सहिताः के चिद् अन्वगच्छन्त पौरवम् हैमवत्याः सुतम् इव कुमारं पुष्करेक्षणम् ये के चिद् अब्रुवन् मूढाः शाकुन्तलदिदृक्षवः कृष्णाजिनेन संछन्नान् द्रष्टुं नेच्छन्ति तापसान् पिशाचा इव दृश्यन्ते नागराणां विरूपिणः विना संध्यां पिशाचास् ते प्रविशन्ति पुरोत्तमम् क्षुत्पिपासार्दितान् दीनान् वल्कलाजिनवाससः त्वगस्थिभूतान् निर्मांसान् धमनीसंततान् अपि पिङ्गलाक्षान् पिङ्गजटान् दीर्घदन्तान् निरूदरान् विशीर्षकान् ऊर्ध्वहस्तान् दृष्ट्वा हास्यन्ति नागराः एवम् उक्तवतां तेषां गिरं श्रुत्वा महर्षयः अन्योन्यं ते समाहूय इदं वचनम् अब्रुवन् उक्तं भगवता वाक्यं न कृतं सत्यवादिना पुरप्रवेशनं नात्र कर्तव्यम् इति शासनम् किं कारणं प्रवेक्ष्यामो नगरं दुर्जनैर् वृतम् त्यक्तसंगस्य च मुनेर् नगरे किं प्रयोजनम् तस्माद् गमिष्याम वयं गङ्गायामुनसंगमम् एवम् उक्त्वा मुनिगणाः प्रतिजग्मुर् यथागतम् गतान् मुनिगणान् दृष्ट्वा पुत्रं संगृह्य पाणिना मातापितृभ्यां विरहाद् यथा शोचन्ति दारकाः तथा शोकपरीताङ्गी धृतिम् आलम्ब्य दुःखिता गतेषु तेषु विप्रेषु राजमार्गेण भामिनी पुत्रेणैव सहायेन सा जगाम शनैः शनैः अदृष्टपूर्वान् पश्यन् वै राजमार्गेण पौरवः हर्म्यप्रासादचैत्यांश् च सभा दिव्या विचित्रिताः कौतूहलसमाविष्टो दृष्ट्वा विस्मयम् आगतः सर्वे ब्रुवन्ति तां दृष्ट्वा पद्महीनाम् इव श्रियम् गतेन हंसीसदृशीं कोकिलेन स्वरे समाम् मुखेन चन्द्रसदृशीं श्रिया पद्मालयासमाम् स्मितेन कुन्दसदृशीं पद्मगर्भसमत्वचम् पद्मपत्रविशालाक्षीं तप्तजाम्बूनदप्रभाम् करान्तमितमध्यां तां सुकेशीं संहतस्तनीम् जघनं सुविशालं वै ऊरू करिकरोपमौ रक्ततुङ्गनखौ पादौ धरण्यां सुप्रतिष्ठितौ एवंरूपसमायुक्ता स्वर्गलोकाद् इहागता इति स्म सर्वे ऽमन्यन्त दुःषन्तनगरे जनाः पुनः पुनर् अवोचंस् ते शाकुन्तलगुणान् अपि सिंहेक्षणः सिंहदंष्ट्रः सिंहस्कन्धो महाभुजः सिंहोरस्कः सिंहबलः सिंहविक्रान्तगाम्य् अयम् पृथ्वंसः पृथुवक्षाश् च छत्राकारशिरा महान् पाणिपादतले रक्तो रक्तास्यो दुन्दुभिस्वनः राजलक्षणयुक्तश् च राजश्रीश् चास्य दृश्यते आकारेण च रूपेण शरीरेणापि तेजसा दुःषन्तेन समो ह्य् एष कस्य पुत्रो भविष्यति एवं ब्रुवन्तस् ते सर्वे प्रशशंसुः सहस्रशः युक्तिवादान् अवोचन्त सर्वाः प्राणभृतः स्त्रियः बान्धवा इव सस्नेहा अनुजग्मुः शकुन्तलाम् पौराणां तद् वचः श्रुत्वा तूष्णींभूता शकुन्तला वेश्मद्वारं समासाद्य विह्वलन्ती नृपात्मजा चिन्तयाम् आस सहसा कार्यगौरवकारणात् लज्जया च परीताङ्गी राजन् राजसमक्षतः अघृणा किं नु वक्ष्यामि दुःषन्तं मम कारणात् एवम् उक्त्वा तु कृपणा चिन्तयन्ती शकुन्तला अभिसृत्य च राजानं विदिता सा प्रवेशिता सह तेनैव पुत्रेण तरुणादित्यवर्चसा निवेदयित्वा ते सर्वे आश्रमं पुनर् आगताः सिंहासनस्थं राजानं महेन्द्रसदृशद्युतिम् शकुन्तला नतशिराः परं हर्षम् अवाप्य च पूजयित्वा यथान्यायम् अब्रवीत् तं शकुन्तला शकुन्तला अभिवादय राजानं पितरं ते दृढव्रतम् एवम् उक्त्वा सुतं तत्र लज्जानतमुखी स्थिता स्तम्भम् आलिङ्ग्य राजानं प्रसीदस्वेत्य् उवाच सा शाकुन्तलो ऽपि राजानम् अभिवाद्य कृताञ्जलिः हर्षेणोत्फुल्लनयनो राजानं चान्ववैक्षत दुःषन्तो धर्मबुद्ध्या तु चिन्तयन्न् एव सो ऽब्रवीत् किम् आगमनकार्यं ते ब्रूहि त्वं वरवर्णिनि करिष्यामि न संदेहः सपुत्राया विशेषतः प्रसीदस्व महाराज वक्ष्यामि पुरुषोत्तम अयं पुत्रस् त्वया राजन् यौवराज्ये ऽभिषिच्यताम् त्वया ह्य् अयं सुतो राजन् मय्य् उत्पन्नः सुरोपमः यथासमयम् एतस्मिन् वर्तस्व पुरुषोत्तम यथा समागमे पूर्वं कृतः स समयस् त्वया तं स्मरस्व महाभाग कण्वाश्रमपदं प्रति वैशंपायनः तस्योपभोगसक्तस्य स्त्रीषु चान्यासु भारत शकुन्तला सपुत्रा च मनस्य् अन्तरधीयत स धारयन् मनस्य् एनां सपुत्रां सस्मितां तदा तदोपगृह्य मनसा चिरं सुखम् अवाप सः सो ऽथ श्रुत्वैव तद् वाक्यं तस्या राजा स्मरन्न् अपि अब्रवीन् न स्मरामीति कस्य त्वं दुष्टतापसि मैथुनं च वृथा नाहं गच्छेयम् इति मे मतिः नाभिजानामि कल्याणि त्वया सह समागमम् धर्मकामार्थसंबन्धं न स्मरामि त्वया सह गच्छ वा तिष्ठ वा कामं यद् वापीच्छसि तत् कुरु सैवम् उक्ता वरारोहा व्रीडितेव मनस्विनी विसंज्ञेव च दुःखेन तस्थौ स्थाणुर् इवाचला संरम्भामर्षताम्राक्षी स्फुरमाणोष्ठसंपुटा कटाक्षैर् निर्दहन्तीव तिर्यग् राजानम् ऐक्षत आकारं गूहमाना च मन्युनाभिसमीरिता तपसा संभृतं तेजो धारयाम् आस वै तदा सा मुहूर्तम् इव ध्यात्वा दुःखामर्षसमन्विता भर्तारम् अभिसंप्रेक्ष्य क्रुद्धा वचनम् अब्रवीत् जानन्न् अपि महाराज कस्माद् एवं प्रभाषसे न जानामीति निःसङ्गं यथान्यः प्राकृतस् तथा अत्र ते हृदयं वेद सत्यस्यैवानृतस्य च कल्याण बत साक्षी त्वं मात्मानम् अवमन्यथाः यो ऽन्यथा सन्तम् आत्मानम् अन्यथा प्रतिपद्यते किं तेन न कृतं पापं चोरेणात्मापहारिणा एको ऽहम् अस्मीति च मन्यसे त्वं; न हृच्छयं वेत्सि मुनिं पुराणम् यो वेदिता कर्मणः पापकस्य; तस्यान्तिके त्वं वृजिनं करोषि धर्म एव हि साधूनां सर्वेषां हितकारणम् नित्यं मिथ्याविहीनानां न च दुःखावहो भवेत् मन्यते पापकं कृत्वा न कश् चिद् वेत्ति माम् इति विदन्ति चैनं देवाश् च स्वश् चैवान्तरपूरुषः आदित्यचन्द्राव् अनिलानलौ च; द्यौर् भूमिर् आपो हृदयं यमश् च अहश् च रात्रिश् च उभे च संध्ये; धर्मश् च जानाति नरस्य वृत्तम् यमो वैवस्वतस् तस्य निर्यातयति दुष्कृतम् हृदि स्थितः कर्मसाक्षी क्षेत्रज्ञो यस्य तुष्यति न तु तुष्यति यस्यैष पुरुषस्य दुरात्मनः तं यमः पापकर्माणं निर्यातयति दुष्कृतम् अवमन्यात्मनात्मानम् अन्यथा प्रतिपद्यते देवा न तस्य श्रेयांसो यस्यात्मापि न कारणम् स्वयं प्राप्तेति माम् एवं मावमंस्थाः पतिव्रताम् अर्घ्यार्हां नार्चयसि मां स्वयं भार्याम् उपस्थिताम् किमर्थं मां प्राकृतवद् उपप्रेक्षसि संसदि न खल्व् अहम् इदं शून्ये रौमि किं न शृणोषि मे यदि मे याचमानाया वचनं न करिष्यसि दुःषन्त शतधा मूर्धा ततस् ते ऽद्य फलिष्यति भार्यां पतिः संप्रविश्य स यस्माज् जायते पुनः जायाया इति जायात्वं पुराणाः कवयो विदुः यद् आगमवतः पुंसस् तद् अपत्यं प्रजायते तत् तारयति संतत्या पूर्वप्रेतान् पितामहान् पुन् नाम्नो नरकाद् यस्मात् पितरं त्रायते सुतः तस्मात् पुत्र इति प्रोक्तः स्वयम् एव स्वयम्भुवा पुत्रेण लोकाञ् जयति पुत्रेणानन्त्यम् अश्नुते अथ पुत्रस्य पुत्रेण मोदन्ते प्रपितामहाः सा भार्या या गृहे दक्षा सा भार्या या प्रजावती सा भार्या या पतिप्राणा सा भार्या या पतिव्रता अर्धं भार्या मनुष्यस्य भार्या श्रेष्ठतमः सखा . . . . . . . . . शरीरं प्रोच्यते बुधैः भार्या श्रेष्ठतमा लोके . . . . . . . . भार्या मूलं त्रिवर्गस्य भार्या मित्रं मरिष्यतः भार्यावन्तः क्रियावन्तः सभार्या गृहमेधिनः भार्यावन्तः प्रमोदन्ते भार्यावन्तः श्रियान्विताः ब्रह्मा सुरासुरगुरुः सो ऽपि शक्तिं पुराकरोत् प्रकृतिं स्वां प्रविश्याशु ब्रह्माण्डम् अभवत् ततः भर्तव्या रक्षणीया च भार्या हि पतिना सदा धर्मार्थकामसंसिद्धौ भार्या भर्तुः सहायिनी यदा भर्ता च भार्या च परस्परवशानुगौ तदा धर्मार्थकामानां त्रयाणाम् अपि संगमः कथं भार्याम् ऋते धर्मः कथं वा पुरुषः प्रभो प्राप्नोति कामम् अर्थं वाप्य् अस्यां त्रितयम् आहितम् तथैव भर्तारम् ऋते भार्या धर्मादिसाधने न समर्था त्रिवर्गो ऽयं दंपत्योः समुपाश्रितः देवतातिथिभृत्यानाम् अतिथीनां च पूजनम् न पुम्भिः शक्यते कर्तुम् ऋते भार्यां कथं चन प्राप्तो ऽपि चार्थो मनुजैर् आनीतो ऽपि निजं गृहम् नाशम् एति विना भार्यां कुभार्यासंग्रहेण वा कामस् तु नैव तस्यास्ति प्रत्यक्षेणोपदृश्यते सखायः प्रविविक्तेषु भवन्त्य् एताः प्रियंवदाः पितरो धर्मकार्येषु भवन्त्य् आर्तस्य मातरः कान्तारेष्व् अपि विश्रामो नरस्याध्वनिकस्य वै यः सदारः स विश्वास्यस् तस्माद् दाराः परा गतिः संसरन्तम् अपि प्रेतं विषमेष्व् एकपातिनम् भार्यैवान्वेति भर्तारं सततं या पतिव्रता प्रथमं संस्थिता भार्या पतिं प्रेत्य प्रतीक्षते पूर्वं मृतं च भर्तारं पश्चात् साध्व्य् अनुगच्छति एतस्मात् कारणाद् राजन् पाणिग्रहणम् इष्यते यद् आप्नोति पतिर् भार्याम् इह लोके परत्र च पोषणार्थं शरीरस्य पाथेयं स्वर्गतस्य वै आत्मात्मनैव जनितः पुत्र इत्य् उच्यते बुधैः तस्माद् भार्यां नरः पश्येन् मातृवत् पुत्रमातरम् अन्तरात्मैव सर्वस्य पुत्रो नामोच्यते सदा गती रूपं च चेष्टा च आवर्ता लक्षणानि च पितॄणां यानि दृश्यन्ते पुत्राणां सन्ति तानि च तेषां शीलगुणाचाराः संपर्काच् च शुभाशुभात् भार्यायां जनितं पुत्रम् आदर्शे स्वम् इवाननम् ह्लादते जनिता प्रेष्क्य स्वर्गं प्राप्येव पुण्यकृत् पतिव्रतारूपधराः परबीजस्य संग्रहात् कुलं विनाश्य भर्तॄणां नरकं यान्ति दारुणम् परेण जनिताः पुत्राः स्वभार्यायां यथेष्टतः मम पुत्रा इति मतास् ते पुत्रा अपि शत्रवः द्विषन्ति प्रतिकुर्वन्ति न ते वचनकारिणः द्वेष्टि तांश् च पिता चापि स्वबीजे न तथा नृप न द्वेष्टि पितरं पुत्रो जनितारम् अथापि वा न द्वेष्टि जनिता पुत्रं तस्माद् आत्मा सुतो भवेत् दह्यमाना मनोदुःखैर् व्याधिभिश् चातुरा नराः ह्लादन्ते स्वेषु दारेषु घर्मार्ताः सलिलेष्व् इव विप्रवासकृशा दीना नरा मलिनवाससः ते ऽपि स्वदारांस् तुष्यन्ति दरिद्रा धनलाभवत् सुसंरब्धो ऽपि रामाणां न ब्रूयाद् अप्रियं बुधः रतिं प्रीतिं च धर्मं च तास्व् आयत्तम् अवेक्ष्य च आत्मनो ऽर्धम् इति श्रौतं सा रक्षति धनं प्रजा शरीरं लोकयात्रां वै धर्मं स्वर्गम् ऋषीन् पितॄन् आत्मनो जन्मनः क्षेत्रं पुण्यं रामाः सनातनम् ऋषीणाम् अपि का शक्तिः स्रष्टुं रामाम् ऋते प्रजाः देवानाम् अपि का शक्तिः कर्तुं संभवम् आत्मनः पण्डितस्यापि लोकेषु स्त्रीषु सृष्टिः प्रतिष्ठिता ऋषिभ्यो ऋषयः के चिच् चण्डालीष्व् अपि जज्ञिरे परिपत्य यदा सूनुर् धरणीरेणुगुण्ठितः पितुर् आश्लिष्यते ऽङ्गानि किम् इवास्त्य् अधिकं ततः स त्वं स्वयम् अनुप्राप्तं साभिलाषम् इमं सुतम् प्रेक्षमाणं च काक्षेण किमर्थम् अवमन्यसे अण्डानि बिभ्रति स्वानि न भिन्दन्ति पिपीलिकाः न भरेथाः कथं नु त्वं धर्मज्ञः सन् स्वम् आत्मजम् ममाण्डानीति वर्धन्ते कोकिलाण्डानि वायसाः किं पुनस् त्वं न मन्येथाः सर्वज्ञः पुत्रम् ईदृशम् मलयाच् चन्दनं जातम् अतिशीतं वदन्ति वै शिशोर् आलिङ्गनं तस्माच् चन्दनाद् अधिकं भवेत् न वाससां न रामाणां नापां स्पर्शस् तथा सुखः शिशोर् आलिङ्ग्यमानस्य स्पर्शः सूनोर् यथा सुखः ब्राह्मणो द्विपदां श्रेष्ठो गौर् वरिष्ठा चतुष्पदाम् गुरुर् गरीयसां श्रेष्ठः पुत्रः स्पर्शवतां वरः स्पृशतु त्वां समाश्लिष्य पुत्रो ऽयं प्रियदर्शनः अपुत्रस्य जगच् छून्यम् अपुत्रस्य गृहेण किम् पुत्रेण लोकाञ् जयति श्रुतिर् एषा सनातनी नास्ति पुत्रसमः स्नेहो नास्ति पुत्रसमं सुखम् नास्ति पुत्रसमा प्रीतिः नास्ति पुत्रसमा गतिः अनृतं वक्ति लोको ऽयं चन्दनं किल शीतलम् पुत्रगात्रपरिष्वङ्गश् चन्दनाद् अपि शीतलः पुत्रस्पर्शात् सुखतरः स्पर्शो लोके न विद्यते त्रिषु वर्षेषु पूर्णेषु प्रजाताहम् अरिंदम अद्यायं मन्नियोगात् तु तवाह्वानं प्रतीक्षते इमं कुमारं राजेन्द्र तव शोकप्रणाशनम् आहर्ता वाजिमेधस्य शतसंख्यस्य पौरव राजसूयादिकान् अन्यान् क्रतून् अमितदक्षिणान् इति वाग् अन्तरिक्षे मां सूतके ऽभ्यवदत् पुरा ननु नामाङ्कम् आरोप्य स्नेहाद् ग्रामान्तरं गताः . . . . . . . . मूर्ध्न्य् उपाघ्राय पुत्रकम् एवं हि पुत्रेणान्ये ऽपि . . . . . . . . मूर्ध्नि पुत्रान् उपाघ्राय प्रतिनन्दन्ति मानवाः वेदेष्व् अपि वदन्तीमं मन्त्रवादं द्विजातयः जातकर्मणि पुत्राणां तवापि विदितं तथा अङ्गाद् अङ्गात् संभवसि हृदयाद् अभिजायसे आत्मा वै पुत्रनामासि स जीव शरदः शतम् उपजिघ्रन्ति पितरो मन्त्रेणानेन मूर्धनि पोषो हि त्वदधीनो मे संतानम् अपि चाक्षयम् तस्मात् त्वं जीव मे वत्स सुसुखी शरदां शतम् एको भूत्वा द्विधा भूत इति वादः प्रदृश्यते त्वदङ्गेभ्यः प्रसूतो ऽयं पुरुषात् पुरुषो ऽपरः सरसीवामले ऽऽत्मानं द्वितीयं पश्य मे सुतम् सरसीवामले सोमं प्रेक्षात्मानं त्वम् आत्मनि यथा ह्य् आहवनीयो ऽग्निर् गार्हपत्यात् प्रणीयते तथा त्वत्तः प्रसूतो ऽयं त्वम् एकः सन् द्विधा कृतः मृगापकृष्टेन हि ते मृगयां परिधावता अहम् आसादिता राजन् कुमारी पितुर् आश्रमे उर्वशी पूर्वचित्तिश् च सहजन्या च मेनका विश्वाची च घृताची च षड् एवाप्सरसां वराः तासां मां मेनका नाम ब्रह्मयोनिर् वराप्सराः दिवः संप्राप्य जगतीं विश्वामित्राद् अजीजनत् श्रीमान् ऋषिर् धर्मपरो वैश्वानर इवापरः ब्रह्मयोनिः कुशो नाम विश्वामित्रपितामहः कुशस्य पुत्रो बलवान् कुशनाभश् च धार्मिकः गाधिस् तस्य सुतो राजा विश्वामित्रस् तु गाधिजः एवंविधः पिता राजन् माता मे मेनकाप्सराः सा मां हिमवतः पृष्ठे सुषुवे मेनकाप्सराः अवकीर्य च मां याता परात्मजम् इवासती पक्षिणः पुण्यवन्तस् ते सहिता धर्मतस् तदा पक्षैस् तैर् अभिगुप्ता च तस्माद् अस्मि शकुन्तला ततो ऽहम् ऋषिणा दृष्टा काश्यपेन महात्मना जलार्थम् अग्निहोत्रस्य गतं दृष्ट्वा तु पक्षिणः न्यासभूताम् इव मुनेः प्रददुर् मां दयावतः कण्वस् त्व् आलोक्य मां प्रीतो हसन्तीति हविर्भुजः स मारणिम् इवादाय स्वम् आश्रमम् उपागमत् सा वै संभाविता राजन्न् अनुक्रोशान् महर्षिणा तेनैव स्वसुतेवाहं राजन् वै वरवर्णिनी विश्वामित्रसुता चाहं वर्धिता मुनिना नृप यौवने वर्तमानां च दृष्टवान् असि मां नृप आश्रमे पर्णशालायां कुमारीं विजने वने धात्रा प्रचोदितां शून्ये पित्रा विरहितां मिथः वाग्भिस् त्वं सूनृताभिर् माम् अपत्यार्थम् अचूचुदः अकार्षीस् त्व् आश्रमे वासं धर्मकामार्थनिश्चितम् गान्धर्वेण विवाहेन विधिना पाणिम् अग्रहीः साहं कुलं च शीलं च सत्यवादित्वम् आत्मनः स्वधर्मं च पुरस्कृत्य त्वाम् अद्य शरणं गता तस्मान् नार्हसि संश्रुत्य तथेति वितथं वचः स्वधर्मं पृष्ठतः कृत्वा परित्यक्तुम् उपस्थिताम् त्वन्नाथां लोकनाथस् त्वं नार्हसि त्वम् अनागसम् किं नु कर्माशुभं पूर्वं कृतवत्य् अस्मि जन्मनि यद् अहं बान्धवैस् त्यक्ता बाल्ये संप्रति च त्वया संगता राजशार्दूल पूर्वकर्मावसादिनी कामं त्वया परित्यक्ता गमिष्याम्य् अहम् आश्रमम् इमं तु बालं संत्यक्तुं नार्हस्य् आत्मजम् आत्मना दुःषन्त उवाच न पुत्रम् अभिजानामि त्वयि जातं शकुन्तले असत्यवचना नार्यः कस् ते श्रद्धास्यते वचः मेनका निरनुक्रोशा बन्धकी जननी तव यया हिमवतः पृष्ठे निर्माल्येव प्रवेरिता स चापि निरनुक्रोशः क्षत्रयोनिः पिता तव विश्वामित्रो ब्राह्मणत्वे लुब्धः कामपरायणः सुषाव सुरनारी मां विश्वामित्राद् यथेष्टतः अहो जानामि ते जन्म कुत्सितं कुलटे जनैः मेनकाप्सरसां श्रेष्ठा महर्षीणां च ते पिता तयोर् अपत्यं कस्मात् त्वं पुंश्चलीवाभिधास्यसि जातिश् चापि निकृष्टा ते कुलीनेति विजल्पसे जनयित्वा त्वम् उत्सृष्टा कोकिलेव परैर् भृता अरिष्टैर् इव दुर्बुद्धिः कण्वो वर्धयिता पिता अश्रद्धेयम् इदं वाक्यं यत् त्वं जल्पसि तापसि ब्रुवन्ती राजसांनिध्ये गम्यतां यत्र चेच्छसि सुवर्णमणिमुक्तानि वस्त्राण्य् आभरणानि च यद् इहेच्छसि भोगार्थं तापसि प्रतिगृह्यताम् अश्रद्धेयम् इदं वाक्यं कथयन्ती न लज्जसे विशेषतो मत्सकाशे दुष्टतापसि गम्यताम् क्व महर्षिः सदैवोग्रः साप्सरा क्व च मेनका क्व च त्वम् एवं कृपणा तापसीवेषधारिणी अतिकायश् च पुत्रस् ते बालो ऽपि बलवान् अयम् कथम् अल्पेन कालेन शालस्कन्ध इवोद्गतः सुनिकृष्टा च योनिस् ते पुंश्चली प्रतिभासि मे यदृच्छया कामरागाज् जाता मेनकया ह्य् असि सर्वम् एतत् परोक्षं मे यत् त्वं वदसि तापसि सर्वा वामाः स्त्रियो लोके सर्वाः कामपरायणाः सर्वाः स्त्रियः परवशाः सर्वाः क्रोधसमाकुलाः असत्योक्ताः स्त्रियः सर्वा न कण्वं वक्तुम् अर्हसि नाहं त्वाम् अभिजानामि यथेष्टं गम्यतां त्वया शकुन्तलोवाच राजन् सर्षपमात्राणि परच्छिद्राणि पश्यसि आत्मनो बिल्वमात्राणि पश्यन्न् अपि न पश्यसि मेनका त्रिदशेष्व् एव त्रिदशाश् चानु मेनकाम् ममैवोद्रिच्यते जन्म दुःषन्त तव जन्मतः क्षिताव् अटसि राजंस् त्वम् अन्तरिक्षे चराम्य् अहम् आवयोर् अन्तरं पश्य मेरुसर्षपयोर् इव महेन्द्रस्य कुबेरस्य यमस्य वरुणस्य च भवनान्य् अनुसंयामि प्रभावं पश्य मे नृप पुरा नरवरः पुत्र उर्वश्यां जनितस् तदा आयुर् नाम महाराज तव पूर्वपितामहः महर्षयश् च बहवः क्षत्रियाश् च परंतप अप्सरस्सु मृगीणां च मातृदोषो न विद्यते सत्यश् चापि प्रवादो ऽयं यं प्रवक्ष्यामि ते ऽनघ निदर्शनार्थं न द्वेषात् तच् छ्रुत्वा क्षन्तुम् अर्हसि पांसुपातेन हृष्यन्ति कुञ्जरा मदशालिनः विरूपो यावद् आदर्शे नात्मनः पश्यते मुखम् मन्यते तावद् आत्मानम् अन्येभ्यो रूपवत्तरम् यदा तु मुखम् आदर्शे विकृतं सो ऽभिवीक्षते तदेतरं विजानाति आत्मानं नेतरं जनम् अतीव रूपसंपन्नो न किं चिद् अवमन्यते अतीव जल्पन् दुर्वाचो भवतीह विहेठकः मूर्खो हि जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः अशुभं वाक्यम् आदत्ते पुरीषम् इव सूकरः प्राज्ञस् तु जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः गुणवद् वाक्यम् आदत्ते हंसः क्षीरम् इवाम्भसः आत्मनो दुष्टभावत्वाज् जानन् नीचो ऽप्रसन्नधीः परेषाम् अपि जानाति स्वकर्मसदृशान् गुणान् दह्यमानास् तु तीव्रेण नीचाः परयशो ऽग्निना अशक्तास् तां गतिं गन्तुं ततो निन्दां प्रकुर्वते अन्यान् परिवदन् साधुर् यथा हि परितप्यते तथा परिवदन्न् अन्यांस् तुष्टो भवति दुर्जनः अपवादरता मूर्खा भवन्तीह विशेषतः नापवादरताः सन्तो भवन्ति स्म विशेषतः अभिवाद्य यथा वृद्धान् सन्तो गच्छन्ति निर्वृतिम् एवं सज्जनम् आक्रुश्य मूर्खो भवति निर्वृतः सुखं जीवन्त्य् अदोषज्ञा मूर्खा दोषानुदर्शिनः यत्र वाच्याः परैः सन्तः परान् आहुस् तथाविधान् अतो हास्यतरं लोके किं चिद् अन्यन् न विद्यते यत्र दुर्जन इत्य् आह दुर्जनः सज्जनं स्वयम् दारुणाल् लोकसंक्लेशाद् दुःखम् आप्नोत्य् असंशयम् सत्यधर्मच्युतात् पुंसः क्रुद्धाद् आशीविषाद् इव अनास्तिको ऽप्य् उद्विजते जनः किं पुनर् आस्तिकः स्वयम् उत्पाद्य वै पुत्रं सदृशं यो ऽवमन्यते तस्य देवाः श्रियं घ्नन्ति न च लोकान् उपाश्नुते अभव्ये ऽप्य् अनृते ऽशुद्धे नास्तिके पापकर्मणि दुराचारे कलिर् भूयान् न कलिर् धर्मचारिषु कुलवंशप्रतिष्ठां हि पितरः पुत्रम् अब्रुवन् उत्तमं सर्वधर्माणां तस्मात् पुत्रं न संत्यजेत् स्वपत्नीप्रभवान् पञ्च लब्धान् क्रीतान् विवर्धितान् कृतान् अन्यासु चोत्पन्नान् पुत्रान् वै मनुर् अब्रवीत् तत्र षड् बन्धुदायादाः षड् अदायादबान्धवाः धर्मकीर्त्यावहा नॄणां मनसः प्रीतिवर्धनाः त्रायन्ते नरकाज् जाताः पुत्रा धर्मप्लवाः पितॄन् स त्वं नृपतिशार्दूल न पुत्रं त्यक्तुम् अर्हसि तस्मात् पुत्रं च सत्यं च पालयस्व महीपते उभयं पालयन् ह्य् एतन् नानृतं वक्तुम् अर्हसि आत्मानं सत्यधर्मौ च पालयानो महीपते नरेन्द्रसिंह कपटं न वोढुं त्वम् इहार्हसि वरं कूपशताद् वापी वरं वापीशतात् क्रतुः वरं सरशताद् यज्ञः वरं यज्ञात् सुपुत्रकः वरं क्रतुशतात् पुत्रः सत्यं पुत्रशताद् वरम् अश्वमेधसहस्रं च सत्यं च तुलया धृतम् अश्वमेधसहस्राद् धि सत्यम् एव विशिष्यते सर्ववेदाधिगमनं सर्वतीर्थावगाहनम् सत्यं च वदतो राजन् समं वा स्यान् न वा समम् नास्ति सत्यात् परो धर्मो न सत्याद् विद्यते परम् न हि तीव्रतरं किं चिद् अनृताद् इह विद्यते राजन् सत्यं परं ब्रह्म सत्यं च समयः परः मा त्याक्षीः समयं राजन् सत्यं संगतम् अस्तु ते यः पापं न विजानाति कर्म कृत्वा नराधिप न हि तादृक् परं पापम् अनृताद् इह विद्यते यस्य ते हृदयं वेद सत्यस्यैवानृतस्य च कल्याणं साक्षिणं तस्मात् कर्तुम् अर्हसि धर्मतः यो न कामान् न च क्रोधान् न मोहाद् अभिवर्तते अमित्रं वापि मित्रं वा स वै उत्तमपूरुषः अनृते चेत् प्रसङ्गस् ते श्रद्दधासि न चेत् स्वयम् आत्मनो हन्त गच्छामि त्वादृशे नास्ति संगतम् पुत्रत्वे शङ्कमानस्य बुद्धिर् ज्ञापकदीपिनी गतिः स्वरः स्मृतिः सत्त्वं शीलं विद्या च विक्रमः धृष्णुप्रकृतिभावौ च आवर्ता रोमराजयः समा यस्य यदि स्युस् ते तस्य पुत्रो न संशयः सादृश्येनोद्धृतं बिम्बं तव देहाद् विशांपते तातेति भाषमाणं वै मा स्म राजन् वृथा कृथाः ऋते ऽपि गर्दभक्षीरात् पयः पास्यति मे सुतः ऋते ऽपि त्वयि दुःषन्त शैलराजावतंसकाम् चतुरन्ताम् इमाम् उर्वीं पुत्रो मे पालयिष्यति एवम् उक्तो महेन्द्रेण भविष्यति च नान्यथा साक्षित्वे बहवो ऽप्य् उक्ता देवदूतादयो मताः न ब्रुवन्ति तथा सत्यम् उताहो वानृतं किल असाक्षिणी मन्दभाग्या गमिष्यामि यथागतम् वैशंपायन उवाच एतावद् उक्त्वा वचनं प्रातिष्ठत शकुन्तला तस्याः क्रोधसमुत्थो ऽग्निः सधूमो मूर्ध्न्य् अदृश्यत संनियम्यात्मनो ऽङ्गेषु ततः क्रोधाग्निम् आत्मजम् प्रस्थितैवानवद्याङ्गी सह पुत्रेण वै वनम् अथान्तरिक्षे दुःषन्तं वाग् उवाचाशरीरिणी ऋत्विक्पुरोहिताचार्यैर् मन्त्रिभिश् चावृतं तदा भस्त्रा माता पितुः पुत्रो येन जातः स एव सः भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम् . . . . . . . . सत्यम् आह शकुन्तला सर्वेभ्यो ह्य् अङ्गम् अङ्गेभ्यः साक्षाद् उत्पद्यते सुतः आत्मा चैव सुतो नाम तेनैव तव पौरव आहितं ह्य् आत्मनात्मानं परिरक्ष इमं सुतम् अनन्यां त्वं प्रतीक्षस्व स्त्रियः पवित्रम् अतुलम् एतद् दुःषन्त धर्मतः मासि मासि रजो ह्य् आसां दुरितान्य् अपकर्षति ततः सर्वाणि भूतानि व्याजह्रुस् तं समन्ततः आहितस् त्वत्तनोर् एष रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात् त्वं चास्य धाता गर्भस्य सत्यम् आह शकुन्तला पतिर् जायां प्रविशति स तस्यां जायते पुनः अन्योन्यप्रकृतिर् ह्य् एषा जाया जनयते पुत्रम् आत्मनो ऽङ्गं द्विधा कृतम् तस्माद् भरस्व दुःषन्त पुत्रं शाकुन्तलं नृप अभूतिर् एषा कस् त्यज्याज् जीवञ् जीवन्तम् आत्मजम् शाकुन्तलं महात्मानं दौःषन्तिं भर पौरव भर्तव्यो ऽयं त्वया यस्माद् अस्माकं वचनाद् अपि तस्माद् भवत्व् अयं नाम्ना भरतो नाम ते सुतः वैशंपायनः एवम् उक्त्वा ततो देवा ऋषयश् च तपोधनाः पतिव्रतेति संहृष्टाः पुष्पवृष्टिं ववर्षिरे तच् छ्रुत्वा पौरवो राजा व्याहृतं वै दिवौकसाम् सिंहासनात् समुत्थाय प्रणम्य च दिवौकसः पुरोहितम् अमात्यांश् च संप्रहृष्टो ऽब्रवीद् इदम् शृण्वन्त्व् एतद् भवन्तो ऽस्य देवदूतस्य भाषितम् शृण्वन्तु देवतानां च महर्षीणां च भाषितम् अहम् अप्य् एवम् एवैनं जानामि स्वयम् आत्मजम् यद्य् अहं वचनाद् एव गृह्णीयाम् इमम् आत्मजम् भवेद् धि शङ्का लोकस्य नैवं शुद्धो भवेद् अयम् तं विशोध्य तदा राजा देवदूतेन भारत हृष्टः प्रमुदितश् चापि प्रतिजग्राह तं सुतम् ततस् तस्य तदा राजा पितृकार्याणि सर्वशः कारयाम् आस मुदितः प्रीतिमान् आत्मजस्य ह मूर्ध्नि चैनम् उपाघ्राय सस्नेहं परिषस्वजे सभाज्यमानो विप्रैश् च स्तूयमानश् च बन्दिभिः स मुदं परमां लेभे पुत्रसंस्पर्शजां नृपः तां चैव भार्यां धर्मज्ञः पूजयाम् आस धर्मतः अब्रवीच् चैव तां राजा सान्त्वपूर्वम् इदं वचः कृतो लोकपरोक्षो ऽयं संबन्धो वै त्वया सह लोकस्यायं परोक्षस् तु संबन्धो नौ पुराभवत् कृतो लोकसमक्षो ऽद्य संबन्धो वै पुनः कृतः तस्माद् एतन् मया त्व् अद्य तन्निमित्तं प्रभाषितम् तस्माद् एतन् मया देवि त्वच्छुद्ध्यर्थं विचारितम् ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् चैव पृथग्विधाः त्वां देवि पूजयिष्यन्ति निर्विशङ्कं पतिव्रताम् मन्यते चैव लोकस् ते स्त्रीभावान् मयि संगतम् पुत्रश् चायं वृतो राज्ये मया तस्माद् विचारितम् यच् च कोपितयात्यर्थं त्वयोक्तो ऽस्म्य् अप्रियं प्रिये प्रणयिन्या विशालाक्षि तत् क्षान्तं ते मया शुभे अनृतं वाप्य् अनिष्टं वा दुरुक्तं वापि दुष्कृतम् त्वयाप्य् एवं विशालाक्षि क्षन्तव्यं मम दुर्वचः क्षम्याः पतिकृतं नार्यः पातिव्रत्यं व्रजन्ति याः ताम् एवम् उक्त्वा राजर्षिर् दुःषन्तो महिषीं प्रियाम् . . . . . . . . ताम् अनिन्दितगामिनीम् अन्तःपुरं प्रवेश्यैव . . . . . . . . वासोभिर् अन्नपानैश् च पूजयाम् आस भारत स मातरम् उपस्थाय रथन्तर्याम् अभाषत मम पुत्रो वने जातस् तव शोकप्रणाशनः ऋणाद् अद्य विमुक्तो ऽहं तव पौत्रेण शोभने विश्वामित्रसुता चेयं कण्वेन च विवर्धिता स्नुषा तव महाभागे प्रसीदस्व शकुन्तलाम् पुत्रस्य वचनं श्रुत्वा पौत्रं सा परिषस्वजे पादयोः पतितां तत्र रथन्तर्या शकुन्तलाम् परिष्वज्य च बाहुभ्यां हर्षाद् अश्रूण्य् अवर्तयत् उवाच वचनं सत्यं लक्षये लक्षणानि च तव पुत्रो विशालाक्षि चक्रवर्ती भविष्यति तव भर्ता विशालाक्षि त्रैलोक्यविजयी भवेत् दिव्यान् भोगान् अनुप्राप्ता भव त्वं वरवर्णिनि एवम् उक्ता रथन्तर्या परं हर्षम् अवाप सा शकुन्तलां ततो राजा शास्त्रोक्तेनैव कर्मणा ततो ऽग्रमहिषीं कृत्वा सर्वाभरणभूषिताम् ब्राह्मणेभ्यो धनं दत्त्वा सैनिकानां च भूपतिः दुःषन्तश् च ततो राजा पुत्रं शाकुन्तलं तदा भरतं नामतः कृत्वा यौवराज्ये ऽभ्यषेचयत् ततश् चिराय राज्यं तत् कृत्वा राजन्य् उपेयुषि कालधर्मं स भरतस् ततो राज्यम् अवाप्तवान् भरते भारम् आवेश्य कृतकृत्यो ऽभवन् नृपः ततो वर्षशतं पूर्णं राज्यं कृत्वा त्व् असौ नृपः कृत्वा दानानि दुःषन्तः स्वर्गलोकम् उपेयिवान् दौःषन्तिर् भरतो राज्यं यथान्यायम् अवाप सः तस्य तत् प्रथितं चक्रं प्रावर्तत महात्मनः भास्वरं दिव्यम् अजितं लोकसंनादनं महत् स विजित्य महीपालांश् चकार वशवर्तिनः चचार च सतां धर्मं प्राप चानुत्तमं यशः स राजा चक्रवर्त्य् आसीत् सार्वभौमः प्रतापवान् ईजे च बहुभिर् यज्ञैर् यथा शक्रो मरुत्पतिः याजयाम् आस तं कण्वो दक्षवद् भूरिदक्षिणम् श्रीमान् गोविततं नाम वाजिमेधम् अवाप सः यस्मिन् सहस्रं पद्मानां कण्वाय भरतो ददौ भरताद् भारती कीर्तिर् येनेदं भारतं कुलम् अपरे ये च पूर्वे च भारता इति विश्रुताः भरतस्यान्ववाये हि देवकल्पा महौजसः बभूवुर् ब्रह्मकल्पाश् च बहवो राजसत्तमाः येषाम् अपरिमेयानि नामधेयानि सर्वशः तेषां तु ते यथामुख्यं कीर्तयिष्यामि भारत महाभागान् देवकल्पान् सत्यार्जवपरायणान् य इदं शृणुयान् नित्यं शाकुन्तलम् अनुत्तमम् स पुत्रवान् भवेद् राजन् दुःषन्तवद् इति ध्रुवम् तस्माच् छ्रोतव्यम् एतद् वै श्रावयेच् च प्रयत्नतः श्री[ः] कीर्तिर् विशदा नॄणां द्वैपायनवचो यथा वैशंपायन उवाच प्रजापतेस् तु दक्षस्य मनोर् वैवस्वतस्य च भरतस्य कुरोः पूरोर् अजमीढस्य चान्वये यादवानाम् इमं वंशं पौरवाणां च सर्वशः तथैव भारतानां च पुण्यं स्वस्त्ययनं महत् धन्यं यशस्यम् आयुष्यं कीर्तयिष्यामि ते ऽनघ तेजोभिर् उदिताः सर्वे महर्षिसमतेजसः दश प्रचेतसः पुत्राः सन्तः पूर्वजनाः स्मृताः मेघजेनाग्निना ये ते पूर्वं दग्धा महौजसः तेभ्यः प्राचेतसो जज्ञे दक्षो दक्षाद् इमाः प्रजाः संभूताः पुरुषव्याघ्र स हि लोकपितामहः वीरिण्या सह संगम्य दक्षः प्राचेतसो मुनिः आत्मतुल्यान् अजनयत् सहस्रं संशितव्रतान् सहस्रसंख्यान् समितान् सुतान् दक्षस्य नारदः मोक्षम् अध्यापयाम् आस सांख्यज्ञानम् अनुत्तमम् नाशार्थं योजयाम् आस दिगन्तज्ञानकर्मसु ततः पञ्चाशतं कन्याः पुत्रिका अभिसंदधे प्रजापतिः प्रजा दक्षः सिसृक्षुर् जनमेजय ददौ स दश धर्माय कश्यपाय त्रयोदश कालस्य नयने युक्ताः सप्तविंशतिम् इन्दवे त्रयोदशानां पत्नीनां या तु दाक्षायणी वरा मारीचः कश्यपस् तस्याम् आदित्यान् समजीजनत् इन्द्रादीन् वीर्यसंपन्नान् विवस्वन्तम् अथापि च विवस्वतः सुतो जज्ञे यमो वैवस्वतः प्रभुः मार्तण्डश् च यमस्यापि पुत्रो राजन्न् अजायत मार्तण्डस्य मनुर् धीमान् अजायत सुतः प्रभुः यमश् चापि सुतो जज्ञे ख्यातस् तस्यानुजः प्रभुः धर्मात्मा स मनुर् धीमान् यत्र वंशः प्रतिष्ठितः मनोर् वंशो मानवानां ततो ऽयं प्रथितो ऽभवत् ब्रह्मक्षत्रादयस् तस्मान् मनोर् जातास् तु मानवाः तत्राभवत् तदा राजन् ब्रह्म क्षत्रेण संगतम् ब्राह्मणा मानवास् तेषां साङ्गं वेदम् अदीधरन् वेनं धृष्णुं नरिष्यन्तं नाभागेक्ष्वाकुम् एव च करूषम् अथ शर्यातिं तथैवात्राष्टमीम् इलाम् पृषध्रनवमान् आहुः क्षत्रधर्मपरायणान् नाभागारिष्टदशमान् मनोः पुत्रान् महाबलान् पञ्चाशतं मनोः पुत्रास् तथैवान्ये ऽभवन् क्षितौ अन्योन्यभेदात् ते सर्वे विनेशुर् इति नः श्रुतम् पुरूरवास् ततो विद्वान् इलायां समपद्यत सा वै तस्याभवन् माता पिता चेति हि नः श्रुतम् त्रयोदश समुद्रस्य द्वीपान् अश्नन् पुरूरवाः अमानुषैर् वृतः सत्त्वैर् मानुषः सन् महायशाः तुतोष नैव रत्नानां लोभाद् इति च नः श्रुतम् विप्रैः स विग्रहं चक्रे वीर्योन्मत्तः पुरूरवाः जहार च स विप्राणां रत्नान्य् उत्क्रोशताम् अपि सनत्कुमारस् तं राजन् ब्रह्मलोकाद् उपेत्य ह अनुदर्शयां ततश् चक्रे प्रत्यगृह्णान् न चाप्य् असौ ततो महर्षिभिः क्रुद्धैः शप्तः सद्यो व्यनश्यत लोभान्वितो मदबलान् नष्टसंज्ञो नराधिपः स हि गन्धर्वलोकस्थ उर्वश्या सहितो विराट् आनिनाय क्रियार्थे ऽग्नीन् यथावद् विहितांस् त्रिधा षट् पुत्रा जज्ञिरे ऽथैलाद् आयुर् धीमान् अमावसुः दृढायुश् च वनायुश् च श्रुतायुश् चोर्वशीसुताः नहुषं वृद्धशर्माणं रजिं रम्भम् अनेनसम् स्वर्भानवीसुतान् एतान् आयोः पुत्रान् प्रचक्षते आयुषो नहुषः पुत्रो धीमान् सत्यपराक्रमः राज्यं शशास सुमहद् धर्मेण पृथिवीपतिः पितॄन् देवान् ऋषीन् विप्रान् गन्धर्वोरगराक्षसान् नहुषः पालयाम् आस ब्रह्मक्षत्रम् अथो विशः स हत्वा दस्युसंघातान् ऋषीन् करम् अदापयत् पशुवच् चैव तान् पृष्ठे वाहयाम् आस वीर्यवान् कारयाम् आस चेन्द्रत्वम् अभिभूय दिवौकसः तेजसा तपसा चैव विक्रमेणौजसा तथा विशिष्टो नहुषः शप्तः सद्यो ह्य् अजगरो ऽभवत् यतिं ययातिं संयातिम् आयातिं पाञ्चम् उद्धवम् नहुषो जनयाम् आस षट् पुत्रान् प्रियवाससि यतिस् तु योगम् आस्थाय ब्रह्मभूतो ऽभवन् मुनिः ययातिर् नाहुषः सम्राड् आसीत् सत्यपराक्रमः स पालयाम् आस महीम् ईजे च विविधैः सवैः अतिशक्त्या पितॄन् अर्चन् देवांश् च प्रयतः सदा अन्वगृह्णात् प्रजाः सर्वा ययातिर् अपराजितः तस्य पुत्रा महेष्वासाः सर्वैः समुदिता गुणैः देवयान्यां महाराज शर्मिष्ठायां च जज्ञिरे देवयान्याम् अजायेतां यदुस् तुर्वसुर् एव च द्रुह्युश् चानुश् च पूरुश् च शर्मिष्ठायां प्रजज्ञिरे स शाश्वतीः समा राजन् प्रजा धर्मेण पालयन् जराम् आर्छन् महाघोरां नाहुषो रूपनाशिनीम् जराभिभूतः पुत्रान् स राजा वचनम् अब्रवीत् यदुं पूरुं तुर्वसुं च द्रुह्युं चानुं च भारत यौवनेन चरन् कामान् युवा युवतिभिः सह विहर्तुम् अहम् इच्छामि साह्यं कुरुत पुत्रकाः तं पुत्रो देवयानेयः पूर्वजो यदुर् अब्रवीत् किं कार्यं भवतः कार्यम् अस्माभिर् यौवनेन च ययातिर् अब्रवीत् तं वै जरा मे प्रतिगृह्यताम् यौवनेन त्वदीयेन चरेयं विषयान् अहम् यजतो दीर्घसत्रैर् मे शापाच् चोशनसो मुनेः कामार्थः परिहीणो मे तप्ये ऽहं तेन पुत्रकाः मामकेन शरीरेण राज्यम् एकः प्रशास्तु वः अहं तन्वाभिनवया युवा कामान् अवाप्नुयाम् न ते तस्य प्रत्यगृह्णन् यदुप्रभृतयो जराम् तम् अब्रवीत् ततः पूरुः कनीयान् सत्यविक्रमः राजंश् चराभिनवया तन्वा यौवनगोचरः अहं जरां समास्थाय राज्ये स्थास्यामि ते ऽऽज्ञया एवम् उक्तः स राजर्षिस् तपोवीर्यसमाश्रयात् संचारयाम् आस जरां तदा पुत्रे महात्मनि पौरवेणाथ वयसा राजा यौवनम् आस्थितः यायातेनापि वयसा राज्यं पूरुर् अकारयत् ततो वर्षसहस्रान्ते ययातिर् अपराजितः स्थितः स नृपशार्दूलः शार्दूलसमविक्रमः ययातिर् अपि पत्नीभ्यां दीर्घकालं विहृत्य च विश्वाच्या सहितो रेमे पुनश् चैत्ररथे वने नाध्यगच्छत् तदा तृप्तिं कामानां स महायशाः अवेत्य मनसा राजन्न् इमां गाथां तदा जगौ न जातु कामः कामानाम् उपभोगेन शाम्यति हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते पृथिवी रत्नसंपूर्णा हिरण्यं पशवः स्त्रियः नालम् एकस्य तत् सर्वम् इति मत्वा शमं व्रजेत् यदा न कुरुते पापं सर्वभूतेषु कर्हि चित् कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा यदा चायं न बिभेति यदा चास्मान् न बिभ्यति यदा नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा इत्य् अवेक्ष्य महाप्राज्ञः कामानां फल्गुतां नृप समाधाय मनो बुद्ध्या प्रत्यगृह्णाज् जरां सुतात् दत्त्वा च यौवनं राजा पूरुं राज्ये ऽभिषिच्य च अतृप्त एव कामानां पूरुं पुत्रम् उवाच ह त्वया दायादवान् अस्मि त्वं मे वंशकरः सुतः पौरवो वंश इति ते ख्यातिं लोके गमिष्यति ततः स नृपशार्दूलः पूरुं राज्ये ऽभिषिच्य च तपः सुचरितं कृत्वा भृगुतुङ्गे महातपाः कालेन महता पश्चात् कालधर्मम् उपेयिवान् पारयित्वा त्व् अनशनं सदारः स्वर्गम् आप्तवान् जनमेजय उवाच ययातिः पूर्वको ऽस्माकं दशमो यः प्रजापतेः कथं स शुक्रतनयां लेभे परमदुर्लभाम् एतद् इच्छाम्य् अहं श्रोतुं विस्तरेण द्विजोत्तम वर्णसंकरजो धर्मः कथं तं नास्पृशत् तदा जरासंचारणं चापि अन्यदेहेषु नः श्रुतम् आनुपूर्व्या च मे शंस पूरोर् वंशकरान् पृथक् वैशंपायन उवाच ययातिर् आसीद् राजर्षिर् देवराजसमद्युतिः तं शुक्रवृषपर्वाणौ वव्राते वै यथा पुरा तत् ते ऽहं संप्रवक्ष्यामि पृच्छतो जनमेजय देवयान्याश् च संयोगं ययातेर् नाहुषस्य च सुराणाम् असुराणां च समजायत वै मिथः ऐश्वर्यं प्रति संघर्षस् त्रैलोक्ये सचराचरे जिगीषया ततो देवा वव्रिरे ऽऽङ्गिरसं मुनिम् पौरोहित्येन याज्यार्थे काव्यं तूशनसं परे ब्राह्मणौ ताव् उभौ नित्यम् अन्योन्यस्पर्धिनौ भृशम् तत्र देवा निजघ्नुर् यान् दानवान् युधि संगतान् तान् पुनर् जीवयाम् आस काव्यो विद्याबलाश्रयात् ततस् ते पुनर् उत्थाय योधयां चक्रिरे सुरान् असुरास् तु निजघ्नुर् यान् सुरान् समरमूर्धनि न तान् संजीवयाम् आस बृहस्पतिर् उदारधीः न हि वेद स तां विद्यां यां काव्यो वेद वीर्यवान् संजीवनीं ततो देवा विषादम् अगमन् परम् ते तु देवा भयोद्विग्नाः काव्याद् उशनसस् तदा ऊचुः कचम् उपागम्य ज्येष्ठं पुत्रं बृहस्पतेः भजमानान् भजस्वास्मान् कुरु नः साह्यम् उत्तमम् यासौ विद्या निवसति ब्राह्मणे ऽमिततेजसि शुक्रे ताम् आहर क्षिप्रं भागभाङ् नो भविष्यसि वृषपर्वसमीपे स शक्यो द्रष्टुं त्वया द्विजः रक्षते दानवांस् तत्र न स रक्षत्य् अदानवान् तम् आराधयितुं शक्तो भवान् पूर्ववयाः कविम् देवयानीं च दयितां सुतां तस्य महात्मनः त्वम् आराधयितुं शक्तो नान्यः कश् चन विद्यते शीलदाक्षिण्यमाधुर्यैर् आचारेण दमेन च देवयान्यां हि तुष्टायां विद्यां तां प्राप्स्यसि ध्रुवम् तथेत्य् उक्त्वा ततः प्रायाद् बृहस्पतिसुतः कचः तदाभिपूजितो देवैः समीपं वृषपर्वणः स गत्वा त्वरितो राजन् देवैः संप्रेषितः कचः असुरेन्द्रपुरे शुक्रं दृष्ट्वा वाक्यम् उवाच ह ऋषेर् अङ्गिरसः पौत्रं पुत्रं साक्षाद् बृहस्पतेः नाम्ना कच इति ख्यातं शिष्यं गृह्णातु मां भवान् ब्रह्मचर्यं चरिष्यामि त्वय्य् अहं परमं गुरौ अनुमन्यस्व मां ब्रह्मन् सहस्रं परिवत्सरान् शुक्र उवाच कच सुस्वागतं ते ऽस्तु प्रतिगृह्णामि ते वचः अर्चयिष्ये ऽहम् अर्च्यं त्वाम् अर्चितो ऽस्तु बृहस्पतिः वैशंपायन उवाच कचस् तु तं तथेत्य् उक्त्वा प्रतिजग्राह तद् व्रतम् आदिष्टं कविपुत्रेण शुक्रेणोशनसा स्वयम् व्रतस्य व्रतकालं स यथोक्तं प्रत्यगृह्णत आराधयन्न् उपाध्यायं देवयानीं च भारत नित्यम् आराधयिष्यंस् तां युवा यौवनगो ऽऽमुखे गायन् नृत्यन् वादयंश् च देवयानीम् अतोषयत् संशीलयन् देवयानीं कन्यां संप्राप्तयौवनाम् पुष्पैः फलैः प्रेषणैश् च तोषयाम् आस भारत ततः सहस्रं गुरुगाः संरक्षन् वन्यम् आहरत् देवयान्य् अपि तं विप्रं नियमव्रतचारिणम् अनुगायमाना ललना रहः पर्यचरत् तदा गायन्तं चैव शुक्लं च दातारं प्रियवादिनम् नार्यो नरं कामयन्ते रूपिणं स्रग्विणं तथा पञ्च वर्षशतान्य् एवं कचस्य चरतो व्रतम् तत्रातीयुर् अथो बुद्ध्वा दानवास् तं ततः कचम् गा रक्षन्तं वने दृष्ट्वा रहस्य् एकम् अमर्षिताः जघ्नुर् बृहस्पतेर् द्वेषाद् विद्यारक्षार्थम् एव च हत्वा शालावृकेभ्यश् च प्रायच्छंस् तिलशः कृतम् ततो गावो निवृत्तास् ता अगोपाः स्वं निवेशनम् ता दृष्ट्वा रहिता गास् तु कचेनाभ्यागता वनात् उवाच वचनं काले देवयान्य् अथ भारत अहुतं चाग्निहोत्रं ते सूर्यश् चास्तं गतः प्रभो अगोपाश् चागता गावः कचस् तात न दृश्यते व्यक्तं हतो मृतो वापि कचस् तात भविष्यति तं विना न च जीवेयं कचं सत्यं ब्रवीमि ते शुक्र उवाच अयम् एहीति शब्देन मृतं संजीवयाम्य् अहम् वैशंपायन उवाच ततः संजीवनीं विद्यां प्रयुज्य कचम् आह्वयत् आहूतः प्रादुरभवत् कचो ऽरिष्टो ऽथ विद्यया कस्माच् चिरायितो ऽसीति पृष्टस् ताम् आह भार्गवीम् कचः समिधश् च कुशादीनि काष्ठभारं च भामिनि गृहीत्वा श्रमभारार्तो वटवृक्षं समाश्रितः गावश् च सहिताः सर्वा वृक्षच्छायाम् उपाश्रिताः असुरास् तत्र मां दृष्ट्वा कस् त्वम् इत्य् अभ्यचोदयन् बृहस्पतिसुतश् चाहं कच इत्य् अभिविश्रुतः इत्य् उक्तमात्रे मां हत्वा पेशीकृत्वा तु दानवाः दत्त्वा शालावृकेभ्यस् तु सुखं जग्मुः स्वम् आलयम् आहूतो विद्यया भद्रे भार्गवेण महात्मना त्वत्समीपम् इहायातः कथं चित् समजीवितः हतो ऽहम् इति चाचख्यौ पृष्टो ब्राह्मणकन्यया भित्त्वा भित्त्वा शरीराणि वृकाणां स विनिष्पतत् स पुनर् देवयान्योक्तः पुष्पाहारो यदृच्छया वनं ययौ ततो विप्रो ददृशुर् दानवाश् च तम् पुनस् तं पेषयित्वा तु समुद्राम्भस्य् अमिश्रयन् चिरं गतं पुनः कन्या पित्रे तं संन्यवेदयत् विप्रेण पुनर् आहूतो विद्यया गुरुदेहजः पुनर् आवृत्य तद् वृत्तं न्यवेदयत तत् तथा भेदयित्वा शरीराणि मत्स्यादीनां स निर्गतः देवयान्या पुनस् तत्र कदा चिद् वन्यम् आहर उक्तो ऽगच्छद् वनं तं तु ददृशुर् दानवाः पुनः ततो द्वितीयं हत्वा तं दग्ध्वा कृत्वा च चूर्णशः संगृह्य पूरयित्वा च सुरया समलोड्य च प्रायच्छन् ब्राह्मणायैव सुरायाम् असुरास् तदा अपिबत् सुरया सार्धं कचभस्म भृगूद्वहः सा सायंतनवेलायाम् अगोपा गाः समागताः देवयान्य् अथ भूयो ऽपि वाक्यं पितरम् अब्रवीत् वैशंपायनः श्रुत्वा पुत्रीवचः काव्यो मन्त्रेणाहूतवान् कचम् ज्ञात्वा बहिष्ठम् अज्ञात्वा स्वकुक्षिस्थं कचं नृप पुष्पाहारः प्रेषणकृत् कचस् तात न दृश्यते शुक्र उवाच विद्ययोत्थाप्यमानो ऽपि नाभ्येति करवाणि किम् बृहस्पतेः सुतः पुत्रि कचः प्रेतगतिं गतः विद्यया जीवितो ऽप्य् एवं हन्यते करवाणि किम् मैवं शुचो मा रुद देवयानि; न त्वादृशी मर्त्यम् अनुप्रशोचेत् यस्यास् तव ब्रह्म च ब्राह्मणाश् च सेन्द्रा देवा वसवो ऽथाश्विनौ च सुराश् च विश्वे च जगच् च सर्वम्; उपस्थितां वैकृतिम् आनमन्ति अशक्यो ऽसौ जीवयितुं द्विजातिः संजीवितो वध्यते चैव भूयः देवयान्य् उवाच यस्याङ्गिरा वृद्धतमः पितामहो; बृहस्पतिश् चापि पिता तपोधनः ऋषेः पुत्रं तम् अथो वापि पौत्रं; कथं न शोचेयम् अहं न रुद्याम् स ब्रह्मचारी च तपोधनश् च; सदोत्थितः कर्मसु चैव दक्षः कचस्य मार्गं प्रतिपत्स्ये न भोक्ष्ये; प्रियो हि मे तात कचो ऽभिरूपः शुक्र उवाच असंशयं माम् असुरा द्विषन्ति; ये मे शिष्यं नागसं सूदयन्ति अब्राह्मणं कर्तुम् इच्छन्ति रौद्रास्; ते मां यथा प्रस्तुतं दानवैर् हि अप्य् अस्य पापस्य भवेद् इहान्तः; कं ब्रह्महत्या न दहेद् अपीन्द्रम् वैशंपायन उवाच संचोदितो देवयान्या महर्षिः पुनर् आह्वयत् संरम्भेणैव काव्यो हि बृहस्पतिसुतं कचम् स पीडितो देवयान्या महर्षिः समारभत् संरम्भाच् चैव काव्यः कचो ऽपि राजन् सुमहानुभावो विद्याबलाल् लब्धमतिर् महात्मा वैशंपायन उवाच अकारयाम् आस तदा देवयान्याः कृते विभुः गुरोर् भीतो विद्यया चोपहूतः; शनैर् वाचं जठरे व्याजहार कचः प्रसीद भगवन् मह्यं कचो ऽहम् अभिवादये यथा बहुमतः पुत्रस् तथा मन्यतु मां भवान् तम् अब्रवीत् केन पथोपनीतो; ममोदरे तिष्ठसि ब्रूहि विप्र अस्मिन् मुहूर्ते ह्य् असुरान् विनाश्य गच्छामि देवान् अहम् अद्य विप्र कच उवाच भवत्प्रसादान् न जहाति मां स्मृतिः; स्मरे च सर्वं यच् च यथा च वृत्तम् न त्व् एवं स्यात् तपसो व्ययो मे; ततः क्लेशं घोरम् इमं सहामि असुरैः सुरायां भवतो ऽस्मि दत्तो; हत्वा दग्ध्वा चूर्णयित्वा च काव्य ब्राह्मीं मायाम् आसुरी चैव माया; त्वयि स्थिते कथम् एवातिवर्तेत् शुक्र उवाच किं ते प्रियं करवाण्य् अद्य वत्से; वधेन मे जीवितं स्यात् कचस्य नान्यत्र कुक्षेर् मम भेदनेन; दृश्येत् कचो मद्गतो देवयानि देवयान्य् उवाच द्वौ मां शोकाव् अग्निकल्पौ दहेतां; कचस्य नाशस् तव चैवोपघातः कचस्य नाशे मम नास्ति शर्म; तवोपघाते जीवितुं नास्मि शक्ता शुक्र उवाच संसिद्धरूपो ऽसि बृहस्पतेः सुत; यत् त्वां भक्तं भजते देवयानी विद्याम् इमां प्राप्नुहि जीवनीं त्वं; न चेद् इन्द्रः कचरूपी त्वम् अद्य न निवर्तेत् पुनर् जीवन् कश् चिद् अन्यो ममोदरात् ब्राह्मणं वर्जयित्वैकं तस्माद् विद्याम् अवाप्नुहि पुत्रो भूत्वा भावय भावितो माम्; अस्माद् देहाद् उपनिष्क्रम्य तात समीक्षेथा धर्मवतीम् अवेक्षां; गुरोः सकाशात् प्राप्य विद्यां सविद्यः वैशंपायन उवाच गुरोः सकाशात् समवाप्य विद्यां; भित्त्वा कुक्षिं निर्विचक्राम विप्रः कचो ऽभिरूपो दक्षिणं ब्राह्मणस्य; शुक्लात्यये पौर्णमास्याम् इवेन्दुः दृष्ट्वा च तं पतितं ब्रह्मराशिम्; उत्थापयाम् आस मृतं कचो ऽपि विद्यां सिद्धां ताम् अवाप्याभिवाद्य; ततः कचस् तं गुरुम् इत्य् उवाच यः श्रोत्रयोर् अमृतं संनिषिञ्चेद् विद्याम् अविद्यस्य यथा ममायम् तं मन्ये ऽहं पितरं मातरं च तस्मै न द्रुह्येत् कृतम् अस्य जानन् ऋतस्य दातारम् अनुत्तमस्य; निधिं निधीनां चतुरन्वयानाम् ये नाद्रियन्ते गुरुम् अर्चनीयं; पापांल् लोकांस् ते व्रजन्त्य् अप्रतिष्ठान् वैशंपायन उवाच शृण्वत्सु भूतेष्व् इदम् आह काव्यः समुत्थितो ब्रह्मराशिः पुराणः सुरापानाद् वञ्चनां प्रापयित्वा; संज्ञानाशं चैव तथातिघोरम् दृष्ट्वा कचं चापि तथाभिरूपं; पीतं तदा सुरया मोहितेन समन्युर् उत्थाय महानुभावस्; तदोशना विप्रहितं चिकीर्षुः काव्यः स्वयं वाक्यम् इदं जगाद; सुरापानं प्रति वै जातशङ्कः यो ब्राह्मणो ऽद्य प्रभृतीह कश् चिन्; मोहात् सुरां पास्यति मन्दबुद्धिः अपेतधर्मो ब्रह्महा चैव स स्याद्; अस्मिंल् लोके गर्हितः स्यात् परे च मया चेमां विप्रधर्मोक्तिसीमां; मर्यादां वै स्थापितां सर्वलोके सन्तो विप्राः शुश्रुवांसो गुरूणां; देवा लोकाश् चोपशृण्वन्तु सर्वे ब्रह्महत्यासमं तस्य पापं स्याद् ब्राह्मणस्य तु यः पास्यति सुरां मोहान् नरकं चापि यास्यति इतीदम् उक्त्वा स महानुभावस्; तपोनिधीनां निधिर् अप्रमेयः तान् दानवान् दैवविमूढबुद्धीन्; इदं समाहूय वचो ऽभ्युवाच आचक्षे वो दानवा बालिशाः स्थ; सिद्धः कचो वत्स्यति मत्सकाशे संजीवनीं प्राप्य विद्यां महार्थां; तुल्यप्रभावो ब्रह्मणा ब्रह्मभूतः यो ऽकार्षीद् दुष्करं कर्म देवानां कारणात् कचः न तत्कीर्तिर् जरां गच्छेद् याज्ञीयश् च भविष्यति एतावद् उक्त्वा वचनं विरराम स भार्गवः दानवा विस्मयाविष्टाः प्रययुः स्वं निवेशनम् गुरोर् उष्य सकाशे तु दश वर्षशतानि सः अनुज्ञातः कचो गन्तुम् इयेष त्रिदशालयम् वैशंपायन उवाच समावृत्तव्रतं तं तु विसृष्टं गुरुणा तदा प्रस्थितं त्रिदशावासं देवयान्य् अब्रवीद् इदम् ऋषेर् अङ्गिरसः पौत्र वृत्तेनाभिजनेन च भ्राजसे विद्यया चैव तपसा च दमेन च ऋषिर् यथाङ्गिरा मान्यः पितुर् मम महायशाः तथा मान्यश् च पूज्यश् च भूयो मम बृहस्पतिः एवं ज्ञात्वा विजानीहि यद् ब्रवीमि तपोधन व्रतस्थे नियमोपेते यथा वर्ताम्य् अहं त्वयि स समावृत्तविद्यो मां भक्तां भजितुम् अर्हसि गृहाण पाणिं विधिवन् मम मन्त्रपुरस्कृतम् कच उवाच पूज्यो मान्यश् च भगवान् यथा तव पिता मम तथा त्वम् अनवद्याङ्गि पूजनीयतरा मम आत्मप्राणैः प्रियतमा भार्गवस्य महात्मनः त्वं भद्रे धर्मतः पूज्या गुरुपुत्री सदा मम गुरोर् गरीयसी वृत्त्या तस्माद् गुरुतरा मम न माम् अर्हसि कल्याणि वक्तुम् एवं शुचिस्मिते यथा मम गुरुर् नित्यं मान्यः शुक्रः पिता तव देवयानि तथैव त्वं नैवं मां वक्तुम् अर्हसि देवयान्य् उवाच गुरुपुत्रस्य पुत्रो वै न तु त्वम् असि मे पितुः तस्मान् मान्यश् च पूज्यश् च ममापि त्वं द्विजोत्तम असुरैर् हन्यमाने च कच त्वयि पुनः पुनः तदा प्रभृति या प्रीतिस् तां त्वम् एव स्मरस्व मे सौहार्दे चानुरागे च वेत्थ मे भक्तिम् उत्तमाम् न माम् अर्हसि धर्मज्ञ त्यक्तुं भक्ताम् अनागसम् कच उवाच अनियोज्ये नियोगे मां नियुनक्षि शुभव्रते प्रसीद सुभ्रु त्वं मह्यं गुरोर् गुरुतरी शुभे यत्रोषितं विशालाक्षि त्वया चन्द्रनिभानने तत्राहम् उषितो भद्रे कुक्षौ काव्यस्य भामिनि भगिनी धर्मतो मे त्वं मैवं वोचः शुभानने सुखम् अस्म्य् उषितो भद्रे न मन्युर् विद्यते मम आपृच्छे त्वां गमिष्यामि शिवम् आशंस मे पथि अविरोधेन धर्मस्य स्मर्तव्यो ऽस्मि कथान्तरे अप्रमत्तोत्थिता नित्यम् आराधय गुरुं मम देवयान्य् उवाच धर्मकार्ये नियुञ्जाना कन्या संप्राप्तयौवना यदि मां धर्मकामार्थे प्रत्याख्यास्यसि चोदितः ततः कच न ते विद्या सिद्धिम् एषा गमिष्यति कच उवाच गुरुपुत्रीति कृत्वाहं प्रत्याचक्षे न दोषतः गुरुणा चाभ्यनुज्ञातः कामम् एवं शपस्व माम् आर्षं धर्मं ब्रुवाणो ऽहं देवयानि यथा त्वया शप्तो नार्हो ऽस्मि शापस्य कामतो ऽद्य न धर्मतः तस्माद् भवत्या यः कामो न तथा स भविष्यति ऋषिपुत्रो न ते कश् चिज् जातु पाणिं ग्रहीष्यति फलिष्यति न ते विद्या यत् त्वं माम् आत्थ तत् तथा अध्यापयिष्यामि तु यं तस्य विद्या फलिष्यति वैशंपायन उवाच एवम् उक्त्वा द्विजश्रेष्ठो देवयानीं कचस् तदा त्रिदशेशालयं शीघ्रं जगाम द्विजसत्तमः तम् आगतम् अभिप्रेक्ष्य देवा इन्द्रपुरोगमाः बृहस्पतिं सभाज्येदं कचम् आहुर् मुदान्विताः यत् त्वम् अस्मद्धितं कर्म चकर्थ परमाद्भुतम् न ते यशः प्रणशिता भागभाङ् नो भविष्यसि वैशंपायन उवाच कृतविद्ये कचे प्राप्ते हृष्टरूपा दिवौकसः कचाद् अधीत्य तां विद्यां कृतार्था भरतर्षभ सर्व एव समागम्य शतक्रतुम् अथाब्रुवन् कालस् ते विक्रमस्याद्य जहि शत्रून् पुरंदर एवम् उक्तस् तु सहितैस् त्रिदशैर् मघवांस् तदा तथेत्य् उक्त्वोपचक्राम सो ऽपश्यत वने स्त्रियः क्रीडन्तीनां तु कन्यानां वने चैत्ररथोपमे वायुभूतः स वस्त्राणि सर्वाण्य् एव व्यमिश्रयत् ततो जलात् समुत्तीर्य कन्यास् ताः सहितास् तदा वस्त्राणि जगृहुस् तानि यथासन्नान्य् अनेकशः तत्र वासो देवयान्याः शर्मिष्ठा जगृहे तदा व्यतिमिश्रम् अजानन्ती दुहिता वृषपर्वणः ततस् तयोर् मिथस् तत्र विरोधः समजायत देवयान्याश् च राजेन्द्र शर्मिष्ठायाश् च तत्कृते देवयान्य् उवाच कस्माद् गृह्णासि मे वस्त्रं शिष्या भूत्वा ममासुरि समुदाचारहीनाया न ते श्रेयो भविष्यति शर्मिष्ठोवाच आसीनं च शयानं च पिता ते पितरं मम स्तौति वन्दति चाभीक्ष्णं नीचैः स्थित्वा विनीतवत् याचतस् त्वं हि दुहिता स्तुवतः प्रतिगृह्णतः सुताहं स्तूयमानस्य ददतो ऽप्रतिगृह्णतः आधून्वस्व विधून्वस्व द्रुह्य कुप्य च याचकि अनायुधा सायुधाया रिक्ता क्षुभ्यसि भिक्षुकि आधून्वन्या विधून्वन्या हव्यं कव्यं च याचके लप्स्यसे प्रतियोद्धारं न हि त्वां गणयाम्य् अहम् प्रतिकूलं वदसि चेद् इतः प्रभृति याचकि आकृष्य मम दासीभिः प्रस्थास्यामि बहिर् बहिः वैशंपायन उवाच समुच्छ्रयं देवयानीं गतां सक्तां च वाससि हृत्वा तद्व्यसने दिव्ये गृहीत्वा जठरे रुषा शर्मिष्ठा प्राक्षिपत् कूपे ततः स्वपुरम् आव्रजत् तृणवीरुत्समाच्छन्ने स्वपुरं प्रययौ तदा हतेयम् इति विज्ञाय शर्मिष्ठा पापनिश्चया अनवेक्ष्य ययौ वेश्म क्रोधवेगपरायणा प्रविश्य स्वगृहं स्वस्था धर्मम् आसुरम् आस्थिता अथ तं देशम् अभ्यागाद् ययातिर् नहुषात्मजः श्रान्तयुग्यः श्रान्तहयो मृगलिप्सुः पिपासितः स नाहुषः प्रेक्षमाण उदपानं गतोदकम् ददर्श कन्यां तां तत्र दीप्ताम् अग्निशिखाम् इव तां दृष्ट्वा रूपसंपन्नां सर्वाभरणभूषिताम् सर्वलक्षणसंपन्नाम् अपृच्छत् स नराधिपः ताम् अपृच्छत् स दृष्ट्वैव कन्याम् अमरवर्णिनीम् सान्त्वयित्वा नृपश्रेष्ठः साम्ना परमवल्गुना का त्वं ताम्रनखी श्यामा सुमृष्टमणिकुण्डला दीर्घं ध्यायसि चात्यर्थं कस्माच् छ्वसिषि चातुरा कथं च पतितास्य् अस्मिन् कूपे वीरुत्तृणावृते दुहिता चैव कस्य त्वं वद सर्वं सुमध्यमे देवयान्य् उवाच यो ऽसौ देवैर् हतान् दैत्यान् उत्थापयति विद्यया तस्य शुक्रस्य कन्याहं स मां नूनं न बुध्यते ययातिः देवयानी पृच्छसे मां कस् त्वम् असि रूपवीर्यबलान्वितः ब्रूह्य् अत्रागमनं किं वा श्रोतुम् इच्छामि तत्त्वतः ययातिर् नाहुषो ऽहं तु श्रान्तो ऽद्य मृगकाङ्क्षया क्व चिद् अत्रागतो भद्रे दृष्टवान् अस्मि त्वाम् इह एष मे दक्षिणो राजन् पाणिस् ताम्रनखाङ्गुलिः समुद्धर गृहीत्वा मां कुलीनस् त्वं हि मे मतः जानामि हि त्वां संशान्तं वीर्यवन्तं यशस्विनम् तस्मान् मां पतिताम् अस्मात् कूपाद् उद्धर्तुम् अर्हसि वैशंपायन उवाच ताम् अथ ब्राह्मणीं स्त्रीं च विज्ञाय नहुषात्मजः गृहीत्वा दक्षिणे पाणाव् उज्जहार ततो ऽवटात् उद्धृत्य चैनां तरसा तस्मात् कूपान् नराधिपः ययातिः देवयानी गच्छ भद्रे यथाकामं न भयं विद्यते तव इत्य् उच्यमाना नृपतिं देवयानीदम् उत्तरम् उवाच माम् उपादाय गच्छ शीघ्रं प्रियो ऽसि मे गृहीताहं त्वया पाणौ तस्माद् भर्ता भविष्यसि इत्य् एवम् उक्तो नृपतिर् आह क्षत्रकुलोद्भवः त्वं भद्रे ब्राह्मणी तस्मान् मया नार्हसि संगमम् सर्वलोकगुरुः काव्यस् त्वं तस्य दुहितासि वै तस्माद् अपि भयं मे ऽद्य तस्मात् कल्याणि नार्हसि यदि मद्वचनान् नाद्य मां नेच्छसि नराधिप त्वाम् एव वरये पित्रा पश्चाज् ज्ञास्यसि गच्छ हि आमन्त्रयित्वा सुश्रोणीं ययातिः स्वपुरं ययौ गते तु नाहुषे तस्मिन् देवयान्य् अप्य् अनिन्दिता धात्री क्व चिद् आर्ता च रुदती वृक्षम् आश्रित्य तिष्ठती ततश् चिरायमाणायां दुहितर्य् आह भार्गवः धात्रि त्वम् आनय क्षिप्रं देवयानीं शुचिस्मिताम् इत्य् उक्तमात्रे सा धात्री त्वरितानयितुं गता यत्र यत्र सखीभिः सा गता पदम् अमार्गत सा ददर्श तथा दीनां श्रमार्तां रुदतीं स्थिताम् वृत्तं ते किम् इदं भद्रे शीघ्रं वद पिताह्वयत् एवम् उक्ताह धात्रीं तां शर्मिष्ठावृजिनं कृतम् संस्मृत्योवाच धात्रीं तां दुहितुः स्नेहविक्लवः अश्रुभिः स्नापयन्तीं तां पीनोन्नतकुचाव् उभौ वृक्षमूलम् उपाश्रित्य देवताम् इव तद्वने उवाच शोकसंतप्ता घूर्णिकाम् आगतां पुरः देवयान्य् उवाच त्वरितं घूर्णिके गच्छ सर्वम् आचक्ष्व मे पितुः नेदानीं हि प्रवेक्यामि नगरं वृषपर्वणः वैशंपायन उवाच सा तु वै त्वरितं गत्वा घूर्णिकासुरमन्दिरम् दृष्ट्वा काव्यम् उवाचेदं संभ्रमाविष्टचेतना त्वरितं घूर्णिका गत्वा प्रविवेश पुरोत्तमम् द्विजप्रवरम् आसाद्य वचनं चेदम् अब्रवीत् आचक्षे ते महाप्राज्ञ देवयानी वने हता शर्मिष्ठया महाभाग दुहित्रा वृषपर्वणः श्रुत्वा दुहितरं काव्यस् तत्र शर्मिष्ठया हताम् त्वरमाणो ऽनुमार्गं स निश्चक्राम पुरोत्तमात् त्वरया निर्ययौ दुःखान् मार्गमाणः सुतां वने दृष्ट्वा दुहितरं काव्यो देवयानीं ततो वने बाहुभ्यां संपरिष्वज्य दुःखितो वाक्यम् अब्रवीत् आत्मदोषैर् नियच्छन्ति सर्वे दुःखसुखे जनाः मन्ये दुश्चरितं ते ऽस्ति यस्येयं निष्कृतिः कृता देवयान्य् उवाच निष्कृतिर् मे ऽस्तु वा मास्तु शृणुष्वावहितो मम शर्मिष्ठया यद् उक्तास्मि दुहित्रा वृषपर्वणः सत्यं किलैतत् सा प्राह दैत्यानाम् असि गायनः एवं हि मे कथयति शर्मिष्ठा वार्षपर्वणी एवं माम् आह शर्मिष्ठा शिष्या तव महामुने वचनं तीक्ष्णपरुषं क्रोधरक्तेक्षणा भृशम् स्तुवतो दुहिता हि त्वं याचतः प्रतिगृह्णतः सुताहं स्तूयमानस्य ददतो ऽप्रतिगृह्णतः इति माम् आह शर्मिष्ठा दुहिता वृषपर्वणः क्रोधसंरक्तनयना दर्पपूर्णा पुनः पुनः यद्य् अहं स्तुवतस् तात दुहिता प्रतिगृह्णतः प्रसादयिष्ये शर्मिष्ठाम् इत्य् उक्ता हि सखी मया उक्ताप्य् एवं भृशं क्रुद्धा मां गृह्य विजने वने कूपे प्रक्षेपयाम् आस प्रक्षिप्यैव गृहं ययौ अमृतां मां मृतां मत्वा कूपे ऽतीव निरूदके अनावृत्तां निरीक्ष्यैव हृष्टा स्वभवनं ययौ शुक्र उवाच स्तुवतो दुहिता न त्वं भद्रे न प्रतिगृह्णतः अस्तोतुः स्तूयमानस्य दुहिता देवयान्य् असि वृषपर्वैव तद् वेद शक्रो राजा च नाहुषः अचिन्त्यं ब्रह्म निर्द्वन्द्वम् ऐश्वरं हि बलं मम . . . . . . . . अहं न वेद्मि न चापरे गायन् नाहं तद् एवेह . . . . . . . . न स्तोता न च वन्दिता मम विद्या हि निर्द्वन्द्वा दैन्यं शाठ्यं च जैह्म्यं च नास्ति मे तत्त्वतः शुभे वैशंपायन उवाच यच् च किं चित् सर्वगतं भूमौ वा यदि वा दिवि तस्याहम् ईश्वरो नित्यं तुष्टेनोक्तः स्वयंभुवा अहं जलं विमुञ्चामि प्रजानां हितकाम्यया पुष्णाम्य् औषधयः सर्वा इति सत्यं ब्रवीमि ते एवं विषादम् आपन्नां मन्युना संप्रपीडिताम् वचनैर् मधुरैः श्लक्ष्णैः सान्त्वयाम् आस तां पिता शुक्र उवाच यः परेषां नरो नित्यम् अतिवादांस् तितिक्षति देवयानि विजानीहि तेन सर्वम् इदं जितम् यः समुत्पतितं क्रोधं निगृह्णाति हयं यथा स यन्तेत्य् उच्यते सद्भिर् न यो रश्मिषु लम्बते यः समुत्पतितं क्रोधम् अक्रोधेन निरस्यति देवयानि विजानीहि तेन सर्वम् इदं जितम् यः समुत्पतितं क्रोधं क्षमयेह निरस्यति यथोरगस् त्वचं जीर्णां स वै पुरुष उच्यते यः संधारयते मन्युं यो ऽतिवादांस् तितिक्षति यश् च तप्तो न तपति दृढं सो ऽर्थस्य भाजनम् यो यजेद् अपरिश्रान्तो मासि मासि शतं समाः न क्रुध्येद् यश् च सर्वस्य तयोर् अक्रोधनो ऽधिकः तस्माद् अक्रोधनः श्रेष्ठः कामक्रोधौ न पूजितौ क्रुद्धस्य निष्फलान्य् एव दानयज्ञतपांसि च तस्माद् अक्रोधने यज्ञस् तपो दानं महत् फलम् न पूतो न तपस्वी च न यज्वा न च धर्मकृत् क्रोधस्य यो वशं गच्छेत् तस्य लोकद्वयं न च पुत्रभृत्यसुहृन्मित्रभार्या धर्मश् च सत्यतः तस्यैतान्य् अपयास्यन्ति क्रोधशीलस्य निश्चितम् यत् कुमाराः कुमार्यश् च वैरं कुर्युर् अचेतसः न तत् प्राज्ञो ऽनुकुर्वीत विदुस् ते न बलाबलम् देवयान्य् उवाच वेदाहं तात बालापि धर्माणां यद् इहान्तरम् अक्रोधे चातिवादे च वेद चापि बलाबलम् स्ववृत्तिम् अननुष्ठाय धर्मम् उत्सृज्य तत्त्वतः शिष्यस्याशिष्यवृत्तेर् हि न क्षन्तव्यं बुभूषता शिष्ये चाचार्यवृत्तिं हि विसृज्य विपथं गते तस्मात् संकीर्णवृत्तेषु वासो मम न रोचते दह्यमानास् तु तीव्रेण नीचाः परयशो ऽग्निना अशक्तास् तां गतिं गन्तुं ततो निन्दां प्रकुर्वते पुमांसो ये हि निन्दन्ति वृत्तेनाभिजनेन च न तेषु निवसेत् प्राज्ञः श्रेयोर्थी पापबुद्धिषु ये त्व् एनम् अभिजानन्ति वृत्तेनाभिजनेन च तेषु साधुषु वस्तव्यं स वासः श्रेष्ठ उच्यते सुयन्त्रिता नरा नित्यं विहीना वा धनैर् नराः दुर्वृत्ताः पापकर्माणश् चण्डाला धनिनो ऽपि वा न हि जात्या च चण्डालाः स्वकर्मविहितैर् विना धनाभिजनविद्यासु सक्ताश् चण्डालधर्मिणः अकारणाद् विद्विषन्ति परिवादं वदन्ति च न तत्रास्य निवासो ऽस्ति पापिभिः पापतां व्रजेत् सुकृते दुष्कृते वापि यत्र सज्जति यो नरः ध्रुवं रतिर् भवेत् तत्र तस्मात् तेषां न रोचये वाग् दुरुक्तं महाघोरं दुहितुर् वृषपर्वणः न ह्य् अतो दुष्करतरं मन्ये लोकेष्व् अपि त्रिषु निःसंशयो विशेषेण पुरुषं मर्मकृन्तनम् सुहृन्मित्रजनास् तेषु सौहृदं न च कुर्वते यः सपत्नश्रियं दीप्तां हीनश्रीः पर्युपासते मम मथ्नाति हृदयम् अग्निकाम इवारणिम् मरणं शोभनं तस्य इति विद्वज्जना विदुः अवमानम् अवाप्नोति शनैर् नीचेषु संगतः अतिवादा वक्त्रतो निःसरन्ति यैर् आहतः शोचति रात्र्यहानि परस्य वै मर्मसु ये पतन्ति तान् पण्डितो नावसृजेत् परेषु शनैर् दुःखं शस्त्रविषाग्निजातं रोहेन् न संरोहति वाग्व्रणं तु संरोहति शनैर् विद्धं वनं परशुना हतम् वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम् वैशंपायन उवाच ततः काव्यो भृगुश्रेष्ठः समन्युर् उपगम्य ह प्रविश्यान्तःपुरं शुक्रो वन्दितो वृषपर्वणा स प्रविश्यासने शुक्रः संदष्टोष्ठपुटो रुषा वृषपर्वाणम् आसीनम् इत्य् उवाचाविचारयन् नाधर्मश् चरितो राजन् सद्यः फलति गौर् इव शनैर् आवर्त्यमानो हि कर्तुर् मूलानि कृन्तति पुत्रेषु वा नप्तृषु वा न चेद् आत्मनि पश्यति फलत्य् एव ध्रुवं पापं गुरुभुक्तम् इवोदरे अधीयानं हि तं राजन् क्षमावन्तं जितेन्द्रियम् यद् अघातयथा विप्रं कचम् आङ्गिरसं तदा अपापशीलं धर्मज्ञं शुश्रूषुं मद्गृहे रतम् शर्मिष्ठया देवयानी क्रूरम् उक्ता बहु प्रभो विप्रकृत्य च संरम्भात् कूपे क्षिप्ता मनस्विनी सा न कल्पेत वासाय तया हि रहितः कथम् वसेयम् इह तस्मात् ते त्यजामि विषयं नृप वधाद् अनर्हतस् तस्य वधाच् च दुहितुर् मम वृषपर्वन् निबोधेदं त्यक्ष्यामि त्वां सबान्धवम् मा शोचीर् वृषपर्वस् त्वं मा क्रुध्यस्व विशां पते स्थातुं त्वद्विषये राजन् न शक्ष्यामि त्वया सह वृषपर्वा अस्या गतिर् गतिर् मह्यं प्रियम् अस्याः प्रियं मम यदि ब्रह्मन् घातयामि यदि चोपदिशाम्य् अहम् शर्मिष्ठया देवयानीं तेन गच्छाम्य् असद्गतिम् अहो माम् अभिजानासि दैत्य मिथ्याप्रलापिनम् यथेमम् आत्मनो दोषं न नियच्छस्य् उपेक्षसे वृषपर्वोवाच नाधर्मं न मृषावादं त्वयि जानामि भार्गव त्वयि धर्मश् च सत्यं च तत् प्रसीदतु नो भवान् यद्य् अस्मान् अपहाय त्वम् इतो गच्छसि भार्गव समुद्रं संप्रवेक्ष्यामो नान्यद् अस्ति परायणम् . . . . . . . . पूर्वं मद्बान्धवैः सह पातालम् अथ वा चाग्निं यद्य् एव देवान् गच्छेस् त्वं मां च त्यक्त्वा गृहाधिप सर्वत्यागं ततः कृत्वा प्रविशामि हुताशनम् शुक्र उवाच समुद्रं प्रविशध्वं वा दिशो वा द्रवतासुराः दुहितुर् नाप्रियं सोढुं शक्तो ऽहं दयिता हि मे प्रसाद्यतां देवयानी जीवितं ह्य् अत्र मे स्थितम् प्रसन्ना देवयानी चेत् प्रियं नान्यतरं मम योगक्षेमकरस् ते ऽहम् इन्द्रस्येव बृहस्पतिः वृषपर्वोवाच यत् किं चिद् असुरेन्द्राणां विद्यते वसु भार्गव भुवि हस्तिगवाश्वं वा तस्य त्वं मम चेश्वरः शुक्र उवाच यत् किं चिद् अस्ति द्रविणं दैत्येन्द्राणां महासुर तस्येश्वरो ऽस्मि यदि ते देवयानी प्रसाद्यताम् वैशंपायन उवाच ततस् तु त्वरितं शुक्रस् तेन राज्ञा समं ययौ उवाच चैनां सुभगे प्रतिपन्नं वचस् तव वैशंपायन उवाच एवम् उक्तस् तथेत्य् आह वृषपर्वा महाकविः देवयान्यन्तिकं गत्वा तम् अर्थं प्राह भार्गवः वैशंपायनः शुक्रस्य वचनं श्रुत्वा वृषपर्वा सबान्धवः देवयानीं प्रसीदेति पपात भुवि पादयोः देवयान्य् उवाच यदि त्वम् ईश्वरस् तात राज्ञो वित्तस्य भार्गव नाभिजानामि तत् ते ऽहं राजा तु वदतु स्वयम् वृषपर्वोवाच स्तुत्यो वन्द्यश् च सततं मया तातश् च ते शुभे यं कामम् अभिकामासि देवयानि शुचिस्मिते तत् ते ऽहं संप्रदास्यामि यदि चेद् अपि दुर्लभम् देवयान्य् उवाच दासीं कन्यासहस्रेण शर्मिष्ठाम् अभिकामये अनु मां तत्र गच्छेत् सा यत्र दास्यति मे पिता वृषपर्वोवाच उत्तिष्ठ हे संग्रहीत्रि शर्मिष्ठां शीघ्रम् आनय यं च कामयते कामं देवयानी करोतु तम् त्यजेद् एकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् वैशंपायन उवाच ततो धात्री तत्र गत्वा शर्मिष्ठां वाक्यम् अब्रवीत् उत्तिष्ठ भद्रे शर्मिष्ठे ज्ञातीनां सुखम् आवह त्यजति ब्राह्मणः शिष्यान् देवयान्या प्रचोदितः सा यं कामयते कामं स कार्यो ऽद्य त्वयानघे शर्मिष्ठोवाच सा यं कामयते कामं करवाण्य् अहम् अद्य तम् यद्य् एवम् आह्वयेच् छुक्रो देवयानीकृते हि माम् मा त्व् एवापगमच् छुक्रो देवयानी च मत्कृते वैशंपायन उवाच ततः कन्यासहस्रेण वृता शिबिकया तदा पितुर् नियोगात् त्वरिता निश्चक्राम पुरोत्तमात् शर्मिष्ठोवाच अहं कन्यासहस्रेण दासी ते परिचारिका चण्डाले ऽपि नियुङ्क्ष्वाद्य शिरसा धारयामि तम् गुरुं वा स्पर्शयाम्य् अद्य दासीनां धर्मम् उत्तमम् अनु त्वां तत्र यास्यामि यत्र दास्यति ते पिता देवयान्य् उवाच स्तुवतो दुहिता ते ऽहं बन्दिनः प्रतिगृह्णतः स्तूयमानस्य दुहिता कथं दासी भविष्यसि शर्मिष्ठोवाच येन केन चिद् आर्तानां ज्ञातीनां सुखम् आवहेत् सर्वम् आहृत्य कर्तव्यम् एष धर्मः सनातनः एवं कृत्वा करिष्यामि यन् मां वक्ष्यसि शोभने अतस् त्वाम् अनुयास्यामि यत्र दास्यति ते पिता वैशंपायन उवाच प्रतिश्रुते दासभावे दुहित्रा वृषपर्वणः देवयानी नृपश्रेष्ठ पितरं वाक्यम् अब्रवीत् प्रविशामि पुरं तात तुष्टास्मि द्विजसत्तम अमोघं तव विज्ञानम् अस्ति विद्याबलं च ते एवम् उक्तो दुहित्रा स द्विजश्रेष्ठो महायशाः प्रविवेश पुरं हृष्टः पूजितः सर्वदानवैः वैशंपायन उवाच अथ दीर्घस्य कालस्य देवयानी नृपोत्तम वनं तद् एव निर्याता क्रीडार्थं वरवर्णिनी तेन दासीसहस्रेण सार्धं शर्मिष्ठया तदा तम् एव देशं संप्राप्ता यथाकामं चचार सा ताभिः सखीभिः सहिता सर्वाभिर् मुदिता भृशम् क्रीडन्त्यो ऽभिरताः सर्वाः पिबन्त्यो मधुमाधवीम् खादन्त्यो विविधान् भक्ष्यान् विदशन्त्यः फलानि च पुनश् च नाहुषो राजा मृगलिप्सुर् यदृच्छया तम् एव देशं संप्राप्तो जलार्थी श्रमकर्शितः ददृशे देवयानीं च शर्मिष्ठां ताश् च योषितः पिबन्तीर् ललमानाश् च दिव्याभरणभूषिताः आसनप्रवरे दिव्ये सर्वरत्नविभूषिते उपविष्टां च ददृशे देवयानीं शुचिस्मिताम् रूपेणाप्रतिमां तासां स्त्रीणां मध्ये वराङ्गनाम् आसनाच् च ततः किं चिद् विहीनां हेमभूषिताम् असुरेन्द्रसुतां चापि शर्मिष्ठां चारुहासिनीम् शर्मिष्ठया सेव्यमानां पादसंवाहनादिभिः गायन्त्यश् चैव नृत्यन्त्यो वादयन्त्यश् च भारत दृष्ट्वा ययातिं ललना लज्जयावनताः स्थिताः ययातिर् उवाच द्वाभ्यां कन्यासहस्राभ्यां द्वे कन्ये परिवारिते गोत्रे च नामनी चैव द्वयोः पृच्छामि वाम् अहम् देवयान्य् उवाच आख्यास्याम्य् अहम् आदत्स्व वचनं मे नराधिप शुक्रो नामासुरगुरुः सुतां जानीहि तस्य माम् इयं च मे सखी दासी यत्राहं तत्र गामिनी दुहिता दानवेन्द्रस्य शर्मिष्ठा वृषपर्वणः ययातिर् उवाच कथं नु ते सखी दासी कन्येयं वरवर्णिनी असुरेन्द्रसुता सुभ्रु परं कौतूहलं हि मे नैव देवी न गन्धर्वी न यक्षी न च किंनरी एवंरूपा मया नारी दृष्टपूर्वा महीतले श्रीर् इवायतपद्माक्षी सर्वलक्षणशोभिता दैवेनोपहता सुभ्रूर् उताहो तपसापि वा अन्यथैषानवद्याङ्गी दासी नेह भविष्यति अस्या रूपेण ते रूपं न किं चित् सदृशं भवेत् पुरा दुश्चरितेनेयं तव दासी भवत्य् अहो देवयान्य् उवाच सर्व एव नरव्याघ्र विधानम् अनुवर्तते विधानविहितं मत्वा मा विचित्राः कथाः कृथाः राजवद् रूपवेषौ ते ब्राह्मीं वाचं बिभर्षि च किंनामा त्वं कुतश् चासि कस्य पुत्रश् च शंस मे ययातिर् उवाच ब्रह्मचर्येण कृत्स्नो मे वेदः श्रुतिपथं गतः राजाहं राजपुत्रश् च ययातिर् इति विश्रुतः देवयान्य् उवाच केनास्य् अर्थेन नृपते इमं देशम् उपागतः जिघृक्षुर् वारिजं किं चिद् अथ वा मृगलिप्सया ययातिर् उवाच मृगलिप्सुर् अहं भद्रे पानीयार्थम् उपागतः बहु चाप्य् अनुयुक्तो ऽस्मि तन् मानुज्ञातुम् अर्हसि देवयान्य् उवाच द्वाभ्यां कन्यासहस्राभ्यां दास्या शर्मिष्ठया सह त्वदधीनास्मि भद्रं ते सखा भर्ता च मे भव वैशंपायनः असुरेन्द्रसुताम् ईक्ष्य तस्यां सक्तेन चेतसा शर्मिष्ठा महिषी मह्यम् इति मत्वा वचो ऽब्रवीत् ययातिर् उवाच विद्ध्य् औशनसि भद्रं ते न त्वाम् अर्हो ऽस्मि भामिनि अविवाह्या हि राजानो देवयानि पितुस् तव चतुर्णाम् अपि वर्णानां विवाहं ब्राह्मणो ऽर्हति क्षत्रियाद्याः क्रमाधस्तान् नोत्तरोत्तरकारिणः कामात् क्रोधाद् अथो लोभाद् यत् किं चित् कुरुते नरः देवयानि विजानीहि स गच्छेन् नरकं ध्रुवम् परभार्या स्वसा ज्येष्ठा सगोत्रा पतिता स्नुषा अपरा भिक्षुकास्वस्था अगम्याः कीर्तिता बुधैः देवयान्य् उवाच संसृष्टं ब्रह्मणा क्षत्रं क्षत्रं च ब्रह्मसंहितम् तयोर् अप्य् अन्यता नास्ति एकान्तरतमौ हि तौ ऋषिश् च ऋषिपुत्रश् च नाहुषाङ्ग वहस्व माम् ययातिर् उवाच एकदेहोद्भवा वर्णाश् चत्वारो ऽपि वराङ्गने पृथग्धर्माः पृथक्शौचास् तेषां तु ब्राह्मणो वरः देवयान्य् उवाच पाणिधर्मो नाहुषायं न पुम्भिः सेवितः पुरा तं मे त्वम् अग्रहीर् अग्रे वृणोमि त्वाम् अहं ततः कथं नु मे मनस्विन्याः पाणिम् अन्यः पुमान् स्पृशेत् गृहीतम् ऋषिपुत्रेण स्वयं वाप्य् ऋषिणा त्वया ययातिर् उवाच क्रुद्धाद् आशीविषात् सर्पाज् ज्वलनात् सर्वतोमुखात् दुराधर्षतरो विप्रः पुरुषेण विजानता देवयान्य् उवाच कथम् आशीविषात् सर्पाज् ज्वलनात् सर्वतोमुखात् दुराधर्षतरो विप्र इत्य् आत्थ पुरुषर्षभ ययातिर् उवाच एकम् आशीविषो हन्ति शस्त्रेणैकश् च वध्यते हन्ति विप्रः सराष्ट्राणि पुराण्य् अपि हि कोपितः क्व चिद् आशीविषो हन्याच् छस्त्रम् अन्यं निकृन्तति यदृच्छयाग्निर् दहति मनसा हन्ति वै द्विजः दुराधर्षतरो विप्रस् तस्माद् भीरु मतो मम अतो ऽदत्तां च पित्रा त्वां भद्रे न विवहाम्य् अहम् देवयान्य् उवाच दत्तां वहस्व पित्रा मां त्वं हि राजन् वृतो मया अयाचतो भयं नास्ति दत्तां च प्रतिगृह्णतः तिष्ठ राजन् मुहूर्तं त्वं प्रेषयिष्याम्य् अहं पितुः गच्छ त्वं धात्रिके शीघ्रं ब्रह्मकल्पम् इहानय स्वयंवरे वृतं शीघ्रं निवेदय च नाहुषम् वैशंपायन उवाच त्वरितं देवयान्याथ प्रेषितं पितुर् आत्मनः सर्वं निवेदयाम् आस धात्री तस्मै यथातथम् श्रुत्वैव च स राजानं दर्शयाम् आस भार्गवः शुक्रः वैशंपायनः ततो धात्रेयिका गत्वा शीघ्रं तूशनसं प्रति दृष्ट्वा चैनं यथान्यायम् अभिवाद्येदम् अब्रवीत् देवयान्या वृतो भर्ता नाहुषः पृथिवीपतिः तत्रानुज्ञां कुरुष्वाद्य ब्रह्मन् सत्यपरायण गच्छ गच्छाग्रतो भद्रे गच्छामि सहितस् त्वया करिष्यामि वचस् तस्याः पृष्ट्वा राजानम् अच्युतम् प्रादुरासीत् तदा शुक्रः प्रज्वलन्न् इव तेजसा ब्राह्मणः सर्वभूतानि तेजोराशिः प्रकाशयन् दृष्ट्वैव चागतं शुक्रं ययातिः पृथिवीपतिः ववन्दे ब्राह्मणं काव्यं प्राञ्जलिः प्रणतः स्थितः देवयान्य् उवाच राजायं नाहुषस् तात दुर्गे मे पाणिम् अग्रहीत् नान्यपूर्वगृहीतं मे तेनाहम् अभया कृता नमस् ते देहि माम् अस्मै नान्यं लोके पतिं वृणे शुक्र उवाच अन्यो धर्मः प्रियस् त्व् अन्यो वृतस् ते नाहुषः पतिः कचशापात् त्वया पूर्वं नान्यद् भवितुम् अर्हति वृतो ऽनया पतिर् वीर सुतया त्वं ममेष्टया स्वयंग्रहे महान् दोषो ब्राह्मण्यां वर्णसंकरात् गृहाणेमां मया दत्तां महिषीं नहुषात्मज ययातिर् उवाच अधर्मो न स्पृशेद् एवं महान् माम् इह भार्गव वर्णसंकरजो ब्रह्मन्न् इति त्वां प्रवृणोम्य् अहम् शुक्र उवाच अधर्मात् त्वां विमुञ्चामि वरयस्व यथेप्षितम् अस्मिन् विवाहे मा ग्लासीर् अहं पापं नुदामि ते वहस्व भार्यां धर्मेण देवयानीं सुमध्यमाम् अनया सह संप्रीतिम् अतुलां समवाप्स्यसि इयं चापि कुमारी ते शर्मिष्ठा वार्षपर्वणी संपूज्या सततं राजन् मा चैनां शयने ह्वयेः इयं कुमारी शर्मिष्ठा दुहिता वृषपर्वणः तां पूजयेथा मा चैनां शयने वै समाह्वय रहस्य् एनां समाहूय न वदेर् न च संस्पृशेः वहस्व भार्यां भद्रं ते यथाकामम् अवाप्स्यसि वैशंपायन उवाच गान्धर्वेण विवाहेन देवयानी वृता तदा एवम् उक्तो ययातिस् तु शुक्रं कृत्वा प्रदक्षिणम् शास्त्रोक्तविधिना राजन् विवाहम् अकरोच् छुभम् लब्ध्वा शुक्रान् महद् वित्तं देवयानीं तथोत्तमाम् द्विसहस्रेण कन्यानां तथा शर्मिष्ठया सह संपूजितश् च शुक्रेण दैत्यैश् च नृपसत्तमः विवाहं विधिवत् कृत्वा प्रदक्षिणम् अथाकरोत् जगाम स्वपुरं हृष्टो अनुज्ञातो महात्मना वैशंपायन उवाच ययातिः स्वपुरं प्राप्य महेन्द्रपुरसंनिभम् प्रविश्यान्तःपुरं तत्र देवयानीं न्यवेशयत् देवयान्याश् चानुमते तां सुतां वृषपर्वणः अशोकवनिकाभ्याशे गृहं कृत्वा न्यवेशयत् वृतां दासीसहस्रेण शर्मिष्ठाम् आसुरायणीम् वासोभिर् अन्नपानैश् च संविभज्य सुसत्कृताम् देवयान्या तु सहितः स नृपो नहुषात्मजः प्रीत्या परमया युक्तो मुमुदे शाश्वतीः समाः अशोकवनिकाभ्याशे देवयानी समागता शर्मिष्ठया सा क्रीडित्वा रमणीये मनोरमे तत्रैव तां तु निर्दिश्य सह राज्ञा ययौ गृहम् एवम् एव बहुप्रीत्या मुमुदे बहुकालतः विजहार बहून् अब्दान् देववन् मुदितो भृशम् ऋतुकाले तु संप्राप्ते देवयानी वराङ्गना लेभे गर्भं प्रथमतः कुमारं च व्यजायत गते वर्षसहस्रे तु शर्मिष्ठा वार्षपर्वणी ददर्श यौवनं प्राप्ता ऋतुं सा चान्वचिन्तयत् शुद्धा स्नाता तु शर्मिष्ठा सर्वालंकारभूषिता अशोकशाखाम् आलम्ब्य सुफुल्लैः स्तबकैर् वृताम् आदर्शे मुखम् उद्वीक्ष्य भर्तृदर्शनलालसा शोकमोहसमाविष्टा वचनं चेदम् अब्रवीत् अशोक शोकापनुद शोकोपहतचेतसम् त्वन्नामानं कुरु क्षिप्रं प्रियसंदर्शनाद् धि माम् एवम् उक्तवती सा तु शर्मिष्ठा पुनर् अब्रवीत् ऋतुकालश् च संप्राप्तो न च मे ऽस्ति पतिर् वृतः किं प्राप्तं किं नु कर्तव्यं किं वा कृत्वा कृतं भवेत् देवयानी प्रजातासौ वृथाहं प्राप्तयौवना देवयानी पुण्यकृता तस्या भर्ता हि नाहुषः यथा तया वृतो भर्ता तथैवाहं वृणोमि तम् राज्ञा पुत्रफलं देयम् इति मे निश्चिता मतिः अपीदानीं स धर्मात्मा इयान् मे दर्शनं रहः वैशंपायनः केशे बद्ध्वा तु राजानं याचे ऽहं सदृशं पतिम् गृहे मुदा देवयानीपुत्रम् ईक्ष्य पुनः पुनः क्रीडन्न् अन्तःपुरे तस्याः क्व चित् क्षणम् अवाप सः अथ निष्क्रम्य राजासौ तस्मिन् काले यदृच्छया अशोकवनिकाभ्याशे शर्मिष्ठां प्राप्य विष्ठितः तम् एकं रहिते दृष्ट्वा शर्मिष्ठा चारुहासिनी प्रत्युद्गम्याञ्जलिं कृत्वा राजानं वाक्यम् अब्रवीत् सोमस्येन्द्रस्य विष्णोर् वा यमस्य वरुणस्य वा तव वा नाहुष कुले कः स्त्रियं स्प्रष्टुम् अर्हति रूपाभिजनशीलैर् हि त्वं राजन् वेत्थ मां सदा सा त्वां याचे प्रसाद्याहम् ऋतुं देहि नराधिप ययातिर् उवाच वेद्मि त्वां शीलसंपन्नां दैत्यकन्याम् अनिन्दिताम् रूपे च ते न पश्यामि सूच्यग्रम् अपि निन्दितम् तदा प्रभृति त्वां दृष्ट्वा स्मराम्य् अनिशम् उत्तमे अब्रवीद् उशना काव्यो देवयानीं यदावहम् नेयम् आह्वयितव्या ते शयने वार्षपर्वणी देवयान्याः प्रियं कृत्वा शर्मिष्ठाम् अपि पोषय शर्मिष्ठोवाच न नर्मयुक्तं वचनं हिनस्ति; न स्त्रीषु राजन् न विवाहकाले प्राणात्यये सर्वधनापहारे; पञ्चानृतान्य् आहुर् अपातकानि पृष्टं तु साक्ष्ये प्रवदन्तम् अन्यथा; वदन्ति मिथ्योपहितं नरेन्द्र एकार्थतायां तु समाहितायां; मिथ्या वदन्तम् अनृतं हिनस्ति अनृतं नानृतं स्त्रीषु परिहासविवाहयोः आत्मप्राणार्थघातेषु तद् एवोत्तमतां व्रजेत् धर्मसूक्ष्मार्थतत्त्वज्ञा एवम् आहुर् मनीषिणः ययातिर् उवाच यथा वदसि कल्याणि ममाप्य् एतद् धि काङ्क्षितम् ब्राह्मणस्य तु तद् वाक्यं हृदि मे परिवर्तते राजा प्रमाणं भूतानां स नश्येत मृषा वदन् अर्थकृच्छ्रम् अपि प्राप्य न मिथ्या कर्तुम् उत्सहे शर्मिष्ठोवाच समाव् एतौ मतौ राजन् पतिः सख्याश् च यः पतिः समं विवाहम् इत्य् आहुः सख्या मे ऽसि पतिर् वृतः ययातिर् उवाच दातव्यं याचमानेभ्य इति मे व्रतम् आहितम् त्वं च याचसि मां कामं ब्रूहि किं करवाणि ते धनं वा यदि वा कामं राज्यं वापि शुचिस्मिते शर्मिष्ठोवाच अधर्मात् त्राहि मां राजन् धर्मं च प्रतिपादय नान्यं वृणे पुत्रकामा पुत्रात् परतरं न च त्वत्तो ऽपत्यवती लोके चरेयं धर्मम् उत्तमम् पुत्रार्थं भर्तृपोषार्थं स्त्रियः सृष्टाः स्वयंभुवा अपतिश् चापि या कन्या अनपत्या च या भवेत् तस्या जन्म वृथा लोके गतिस् तस्या न विद्यते त्रय एवाधना राजन् भार्या दासस् तथा सुतः यत् ते समधिगच्छन्ति यस्य ते तस्य तद् धनम् सह दत्तास्मि काव्येन देवयान्या महर्षिणा पूज्या पोषयितव्येति न मृषा कर्तुम् अर्हसि सुवर्णमणिमुक्तानि वस्त्राण्य् आभरणानि च याचतां हि ददासि त्वं गोग्रामादीनि यानि च बाहिरं दानम् इत्य् उक्तं न शरीराश्रयं नृप दुष्करं पुत्रदानं च आत्मदानं च दुष्करम् शरीरदानात् तत् सर्वं दत्तं भवति मारिष यस्य यस्य यथाकामं तस्य तस्य ददाम्य् अहम् इत्य् उक्त्वा नगरे राजंस् त्रिकालं घोषितं त्वया अनृतं त्वयोक्तं राजेन्द्र वृथा घोषितम् एव च तत् सत्यं कुरु राजेन्द्र यथा वैश्रवणस् तथा देवयान्या भुजिष्यास्मि वश्या च तव भार्गवी सा चाहं च त्वया राजन् भरणीये भजस्व माम् वैशंपायन उवाच एवम् उक्तस् तु राजा स तथ्यम् इत्य् एव जज्ञिवान् काव्यस्य देवयान्याश् च भीतो धर्मभयाद् अपि पूजयाम् आस शर्मिष्ठां धर्मं च प्रत्यपादयत् ऋत्विक्पुरोहिताचार्यैर् मन्त्रिभिश् चैव संवृतः कृत्वा विवाहं विधिवद् दत्वा ब्राह्मणदक्षिणाम् पुण्ये नक्षत्रसंयोगे मुहूर्ते द्विजपूजिते समागम्य च शर्मिष्ठां यथाकामम् अवाप्य च अन्योन्यम् अभिसंपूज्य जग्मतुस् तौ यथागतम् तस्मिन् समागमे सुभ्रूः शर्मिष्ठा चारुहासिनी लेभे गर्भं प्रथमतस् तस्मान् नृपतिसत्तमात् प्रजज्ञे च ततः काले राजन् राजीवलोचना कुमारं देवगर्भाभं राजीवनिभलोचनम् वैशंपायन उवाच ययातिः वैशंपायनः तस्मिन् नक्षत्रसंयोगे शुक्ले पुण्यर्क्षगेन्दुना स राजा मुमुदे सम्राट् तया शर्मिष्ठया सह प्रजानां श्रीर् इवाग्र्या मे शर्मिष्ठा ह्य् अभवद् वधूः पन्नगीवोग्ररूपा वै देवयानी ममाप्य् अभूत् पर्जन्य इव सस्यानां देवानाम् अमृतं यथा तद्वन् ममापि संभूता शर्मिष्ठा वार्षपर्वणी इत्य् एवं मनसा ध्यात्वा देवयानीम् अवर्जयत् श्रुत्वा कुमारं जातं तु देवयानी शुचिस्मिता चिन्तयाम् आस दुःखार्ता शर्मिष्ठां प्रति भारत अभिगम्य च शर्मिष्ठां देवयान्य् अब्रवीद् इदम् किम् इदं वृजिनं सुभ्रु कृतं ते कामलुब्धया शर्मिष्ठोवाच ऋषिर् अभ्यागतः कश् चिद् धर्मात्मा वेदपारगः स मया वरदः कामं याचितो धर्मसंहितम् अपत्यार्थे स तु मया वृतो वै चारुहासिनि नाहम् अन्यायतः कामम् आचरामि शुचिस्मिते तस्माद् ऋषेर् ममापत्यम् इति सत्यं ब्रवीमि ते देवयान्य् उवाच शोभनं भीरु सत्यं चेद् अथ स ज्ञायते द्विजः गोत्रनामाभिजनतो वेत्तुम् इच्छामि तं द्विजम् शर्मिष्ठोवाच ओजसा तेजसा चैव दीप्यमानं रविं यथा तं दृष्ट्वा मम संप्रष्टुं शक्तिर् नासीच् छुचिस्मिते देवयान्य् उवाच यद्य् एतद् एवं शर्मिष्ठे न मन्युर् विद्यते मम अपत्यं यदि ते लब्धं ज्येष्ठाच् छ्रेष्ठाच् च वै द्विजात् वैशंपायन उवाच अन्योन्यम् एवम् उक्त्वा च संप्रहस्य च ते मिथः जगाम भार्गवी वेश्म तथ्यम् इत्य् एव जज्ञुषी ययातिर् देवयान्यां तु पुत्राव् अजनयन् नृपः यदुं च तुर्वसुं चैव शक्रविष्णू इवापरौ तस्मिन् काले तु राजर्षिर् ययातिः पृथिवीपतिः माध्वीकरसंयुक्तां मदिरां मदवर्धिनीम् पाययाम् आस शुक्रस्य तनयां रक्तपिञ्जराम् पीत्वा पीत्वा च मदिरां देवयानी मुमोह सा रुदती गायमाना सा नृत्यन्ती च मुहुर् मुहुः बहु प्रलपती देवी राजानम् इदम् अब्रवीत् राजवद् रूपवेषौ ते किमर्थं त्वम् इहागतः केन कार्येण संप्राप्तो निर्जनं गहनं वनम् द्विजश्रेष्ठ नृपश्रेष्ठो ययातिश् चोग्रदर्शनः तस्माद् इतः पलायस्व हितम् इच्छसि चेद् द्विज इत्य् एवं प्रलपन्तीं तां देवयानीं तु नाहुषः भर्त्सयाम् आस वचनैर् अपापां पापवर्धिनीम् ततो वर्षवरान् मूकान् पङ्गून् वृद्धान् सपण्डकान् रक्षणे देवयान्याः स पोषणे च शशास तान् ततस् तु नाहुषो राजा शर्मिष्ठां प्राप्य बुद्धिमान् रेमे च सुचिरं कालं तया शर्मिष्ठया सह तस्माद् एव तु राजर्षेः शर्मिष्ठा वार्षपर्वणी द्रुह्युं चानुं च पूरुं च त्रीन् कुमारान् अजीजनत् शर्मिष्ठाकामुको राजा यदासीत् तद्रताकुलः मदिराविवशां कृत्वा रेमे शर्मिष्ठयान्वहम् ततः काले तु कस्मिंश् चिद् देवयानी शुचिस्मिता ययातिसहिता राजन् निर्जगाम महावनम् ददर्श च तदा तत्र कुमारान् देवरूपिणः क्रीडमानान् सुविश्रब्धान् विस्मिता चेदम् अब्रवीत् कस्यैते दारका राजन् देवपुत्रोपमाः शुभाः वर्चसा रूपतश् चैव सदृशा मे मतास् तव एवं पृष्ट्वा तु राजानं कुमारान् पर्यपृच्छत . . . . . . . . पश्यन्तम् अवनीतलम् ज्ञात्वा तु तत्कृतं शापं . . . . . . . . तस्मिन् काले तु तच् छ्रुत्वा धात्री तेषां वचो ऽब्रवीत् किं न ब्रूत कुमारा वः पितरं वै द्विजर्षभम् किंनामधेयगोत्रो वः पुत्रका ब्राह्मणः पिता प्रब्रूत तत्त्वतः क्षिप्रं कश् चासौ क्व च वर्तते विब्रूत मे यथातथ्यं श्रोतुम् इच्छामि तं ह्य् अहम् एवम् उक्ताः कुमारास् ते देवयान्या सुमध्यया ते ऽदर्शयन् प्रदेशिन्या तम् एव नृपसत्तमम् शर्मिष्ठां मातरं चैव तस्याचख्युश् च दारकाः ऋषिश् च ब्राह्मणश् चैव द्विजातिश् चैव नः पिता शर्मिष्ठा नानृतं ब्रूयाद् देवयानि क्षमस्व वै तया रहः पृच्छ्यमानास् तथ्यम् ऊचुश् च दारकाः इत्य् उक्त्वा सहितास् ते तु राजानम् उपचक्रमुः नाभ्यनन्दत तान् राजा देवयान्यास् तदान्तिके रुदन्तस् ते ऽथ शर्मिष्ठाम् अभ्ययुर् बालकास् ततः नातिदूराच् च राजानम् अवातिष्ठद् अवाङ्मुखी दृष्ट्वा तु तेषां बालानां प्रणयं पार्थिवं प्रति बुद्ध्वा च तत्त्वतो देवी शर्मिष्ठाम् इदम् अब्रवीत् श्रुत्वा तु तेषां बालानां सव्रीड इव पार्थिवः प्रतिवक्तुम् अशक्तो ऽभूत् तूष्णींभूतो ऽभवन् नृपः गृहीत्वा तु करे रोषाच् छर्मिष्ठां पुनर् अब्रवीत् देवयान्य् उवाच अभ्यागच्छति मां कश् चिद् ऋषिर् इत्य् एवम् अब्रवीत् ययातिम् एव नूनं त्वं प्रोत्साहयसि भामिनि पूर्वम् एव मया प्रोक्तं त्वया तु वृजिनं कृतम् मदधीना सती कस्माद् अकार्षीर् विप्रियं मम तम् एवासुरधर्मं त्वम् आस्थिता न बिभेषि किम् शर्मिष्ठोवाच यद् उक्तम् ऋषिर् इत्य् एव तत् सत्यं चारुहासिनि न्यायतो धर्मतश् चैव चरन्ती न बिभेमि ते यदा त्वया वृतो राजा वृत एव तदा मया सखीभर्ता हि धर्मेण भर्ता भवति शोभने पूज्यासि मम मान्या च ज्येष्ठा श्रेष्ठा च ब्राह्मणी त्वत्तो ऽपि मे पूज्यतमो राजर्षिः किं न वेत्थ तत् तव पित्रा मे गुरुणा सहदत्ते उभे शुभे ततो भर्ता च पूज्यश् च पोष्यां पोषयतीह माम् वैशंपायन उवाच श्रुत्वा तस्यास् ततो वाक्यं देवयान्य् अब्रवीद् इदम् राजन् नाद्येह वत्स्यामि विप्रियं मे कृतं त्वया रमस्वेह यथाकामं देव्या शर्मिष्ठया सह प्रतिजज्वाल कोपेन देवयानी तदा भृशम् निर्दहन्तीव सव्रीडां शर्मिष्ठां समुदीक्ष्य च अपविध्य च सर्वाणि भूषणान्य् असितेक्षणा सहसोत्पतितां श्यामां दृष्ट्वा तां साश्रुलोचनाम् त्वरितं सकाशं काव्यस्य प्रस्थितां व्यथितस् तदा अनुवव्राज संभ्रान्तः पृष्ठतः सान्त्वयन् नृपः न्यवर्तत न चैव स्म क्रोधसंरक्तलोचना अविब्रुवन्ती किं चित् तु राजानं चारुलोचना अचिराद् इव संप्राप्ता काव्यस्योशनसो ऽन्तिकम् सा तु दृष्ट्वैव पितरम् अभिवाद्याग्रतः स्थिता अनन्तरं ययातिस् तु पूजयाम् आस भार्गवम् देवयान्य् उवाच अधर्मेण जितो धर्मः प्रवृत्तम् अधरोत्तरम् शर्मिष्ठयातिवृत्तास्मि दुहित्रा वृषपर्वणः त्रयो ऽस्यां जनिताः पुत्रा राज्ञानेन ययातिना दुर्भगाया मम द्वौ तु पुत्रौ तात ब्रवीमि ते धर्मज्ञ इति विख्यात एष राजा भृगूद्वह अतिक्रान्तश् च मर्यादां काव्यैतत् कथयामि ते शुक्र उवाच धर्मज्ञः सन् महाराज यो ऽधर्मम् अकृथाः प्रियम् तस्माज् जरा त्वाम् अचिराद् धर्षयिष्यति दुर्जया ययातिर् उवाच ऋतुं वै याचमानाया भगवन् नान्यचेतसा दुहितुर् दानवेन्द्रस्य धर्म्यम् एतत् कृतं मया ऋतुं वै याचमानाया न ददाति पुमान् वृतः भ्रूणहेत्य् उच्यते ब्रह्मन् स इह ब्रह्मवादिभिः अभिकामां स्त्रियं यस् तु गम्यां रहसि याचितः नोपैति स च धर्मेषु भ्रूणहेत्य् उच्यते बुधैः यद् यद् याचति मां कश् चित् तत् तद् देयम् इति व्रतम् त्वयापि सा च दत्ता मे नान्यं नाथम् इहेच्छति मत्वैतन् मम धर्मं तु कृतं ब्रह्मन् क्षमस्व माम् इत्य् एतानि समीक्ष्याहं कारणानि भृगूद्वह अधर्मभयसंविग्नः शर्मिष्ठाम् उपजग्मिवान् शुक्र उवाच नन्व् अहं प्रत्यवेक्ष्यस् ते मदधीनो ऽसि पार्थिव मिथ्याचारस्य धर्मेषु चौर्यं भवति नाहुष वैशंपायन उवाच क्रुद्धेनोशनसा शप्तो ययातिर् नाहुषस् तदा पूर्वं वयः परित्यज्य जरां सद्यो ऽन्वपद्यत ययातिर् उवाच अतृप्तो यौवनस्याहं देवयान्यां भृगूद्वह प्रसादं कुरु मे ब्रह्मञ् जरेयं मा विशेत माम् शुक्र उवाच नाहं मृषा ब्रवीम्य् एतज् जरां प्राप्तो ऽसि भूमिप जरां त्व् एतां त्वम् अन्यस्मै संक्रामय यदीच्छसि ययातिर् उवाच राज्यभाक् स भवेद् ब्रह्मन् पुण्यभाक् कीर्तिभाक् तथा यो मे दद्याद् वयः पुत्रस् तद् भवान् अनुमन्यताम् शुक्र उवाच पुत्रो ज्येष्ठः कनिष्ठो वा यो ददाति वयस् तव संक्रामयिष्यसि जरां यथेष्टं नहुषात्मज माम् अनुध्याय भावेन न च पापम् अवाप्स्यसि वयो दास्यति ते पुत्रो यः स राजा भविष्यति आयुष्मान् कीर्तिमांश् चैव बह्वपत्यस् तथैव च वैशंपायन उवाच जरां प्राप्य ययातिस् तु स्वपुरं प्राप्य चैव ह पुत्रं ज्येष्ठं वरिष्ठं च यदुम् इत्य् अब्रवीद् वचः जरा वली च मां तात पलितानि च पर्यगुः काव्यस्योशनसः शापान् न च तृप्तो ऽस्मि यौवने त्वं यदो प्रतिपद्यस्व पाप्मानं जरया सह यौवनेन त्वदीयेन चरेयं विषयान् अहम् पूर्णे वर्षसहस्रे तु पुनस् ते यौवनं त्व् अहम् दत्त्वा स्वं प्रतिपत्स्यामि पाप्मानं जरया सह यदुर् उवाच जरायां बहवो दोषाः पानभोजनकारिताः तस्मान् न ग्रहीष्ये राजन्न् इति मे रोचते मनः सितश्मश्रुशिरा दीनो जरया शिथिलीकृतः वलीसंततगात्रश् च दुर्दर्शो दुर्बलः कृशः अशक्तः कार्यकरणे परिभूतः स यौवनैः सहोपजीविभिश् चैव तां जरां नाभिकामये . . . . . . . . भार्यापुत्रसुहृज्जनैः सुरूपनाशिनीं घोरां सन्ति ते बहवः पुत्रा मत्तः प्रियतरा नृप जरां ग्रहीतुं धर्मज्ञ तस्माद् अन्यं वृणीष्व वै ययातिर् उवाच यत् त्वं मे हृदयाज् जातो वयः स्वं न प्रयच्छसि तस्माद् अराज्यभाक् तात प्रजा ते वै भविष्यति प्रत्याख्यातस् तु राजा स तुर्वशुं प्रत्यभाषत तुर्वसो प्रतिपद्यस्व पाप्मानं जरया सह यौवनेन चरेयं वै विषयांस् तव पुत्रक पूर्णे वर्षसहस्रे तु पुनर् दास्यामि यौवनम् स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह तुर्वसुर् उवाच न कामये जरां तात कामभोगप्रणाशिनीम् बलरूपान्तकरणीं बुद्धिप्राणविनाशिनीम् ययातिर् उवाच यत् त्वं मे हृदयाज् जातो वयः स्वं न प्रयच्छसि तुर्वशो त्वं प्रियं कामं नैतत् संपत्स्यते क्व चित् तस्मात् प्रजा समुच्छेदं तुर्वसो तव यास्यति संकीर्णाचारधर्मेषु प्रतिलोमचरेषु च पिशिताशिषु चान्त्येषु मूढ राजा भविष्यसि गुरुदारप्रसक्तेषु तिर्यग्योनिगतेषु च पशुधर्मिषु पापेषु म्लेच्छेषु प्रभविष्यसि वैशंपायन उवाच एवं स तुर्वसुं शप्त्वा ययातिः सुतम् आत्मनः शर्मिष्ठायाः सुतं द्रुह्युम् इदं वचनम् अब्रवीत् द्रुह्यो त्वं प्रतिपद्यस्व वर्णरूपविनाशिनीम् जरां वर्षसहस्रं मे यौवनं स्वं ददस्व च पूर्णे वर्षसहस्रे तु प्रतिदास्यामि यौवनम् स्वं चादास्यामि भूयो ऽहं पाप्मानं जरया सह द्रुह्युर् उवाच न गजं न रथं नाश्वं जीर्णो भुङ्क्ते न च स्त्रियम् वाग्भङ्गश् चास्य भवति तज् जरां नाभिकामये ययातिर् उवाच यत् त्वं मे हृदयाज् जातो वयः स्वं न प्रयच्छसि तस्माद् द्रुह्यो प्रियः कामो न ते संपत्स्यते क्व चित् यत्राश्वरथमुख्यानाम् अश्वानां स्याद् गतं न च हस्तिनां पीठकानां च गर्दभानां तथैव च बस्तानां च गवां चैव शिबिकायास् तथैव च उडुपप्लवसंतारो यत्र नित्यं भविष्यति अराजा भोजशब्दं त्वं तत्रावाप्स्यसि सान्वयः अनो त्वं प्रतिपद्यस्व पाप्मानं जरया सह एकं वर्षसहस्रं तु चरेयं यौवनेन ते अनुर् उवाच जीर्णः शिशुवद् आदत्ते ऽकाले ऽन्नम् अशुचिर् यथा न जुहोति च काले ऽग्निं तां जरां नाभिकामये ययातिर् उवाच यत् त्वं मे हृदयाज् जातो वयः स्वं न प्रयच्छसि जरादोषस् त्वयोक्तो ऽयं तस्मात् त्वं प्रतिपत्स्यसे प्रजाश् च यौवनप्राप्ता विनशिष्यन्त्य् अनो तव अग्निप्रस्कन्दनपरस् त्वं चाप्य् एवं भविष्यसि द्रुह्युः ययातिः अनुः ययातिः वैशंपायनः अब्) जीर्णः शिशुवद् आदत्ते ऽकाले ऽन्नम् अशुचिर् यथा न जुहोति च काले ऽग्निं न बुध्यति च कालतः न च कृत्यं करोत्य् एष तां जरां नाभिकामये यो मे त्वं हृदयाज् जातो वयः स्वं न प्रयच्छसि जरादोषस् त्वयोक्तो ऽयं तस्मात् त्वं नाभिपद्यसे प्रजाश् च यौवनं प्राप्ता विनशिष्यन्त्य् अतस् तव अग्निप्रस्कन्दनपरस् त्वं चाप्य् एवं भविष्यसि अनो त्वं प्रतिपद्यस्व पाप्मानं जरया सह एकं वर्षसहस्रं वै चरेयं तव रूपधृक् पूर्णे वर्षसहस्रे तु पुनस् ते यौवनं त्व् अहम् दत्त्वा च प्रतिपत्स्ये वै पात्मानं जरया सह न हस्तिनं नरो नाश्वं जीर्णो भुङ्क्ते न पीठकम् वाग् दुर्भगास्य भवति तां जरां नैव कामये यो मे त्वं हृदयाज् जातो वयः स्वं न प्रयच्छसि {हस्त्यश्वरथयुग्यानाम् अध्वा न स्यात् कदा चन { हस्तिनां पीठकानां वा गर्दभानां तथैव च {उष्ट्राणां च गवां चैव शिबिकायास् तथैव च यद् वान्यद् वाहनं किं चिद् देवो हन्यात् क्व चित् क्व चित् अराजा तव जातश् च भविष्यति च दुर्मते प्रत्याख्यातश् चतुर्भिश् च शप्त्वा तान् यद्यदिच्छया पूरोः सकाशम् अगमज् ज्ञात्वा पूरुम् अलङ्घिनम् एवं ब्रुवन्तं शप्त्वाथ ययातिः सुतम् आत्मनः शर्मिष्ठायाः सुतं चानुम् इदं वचनम् अब्रवीत् अनुं पुत्रम् अथाहूय राजा वचनम् अब्रवीत् पूरो त्वं मे प्रियः पुत्रस् त्वं वरीयान् भविष्यसि जरा वली च मे तात पलितानि च पर्यगुः काव्यस्योशनसः शापान् न च तृप्तो ऽस्मि यौवने पूरो त्वं प्रतिपद्यस्व पाप्मानं जरया सह कं चित् कालं चरेयं वै विषयान् वयसा तव पूर्णे वर्षसहस्रे तु प्रतिदास्यामि यौवनम् स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह वैशंपायन उवाच एवम् उक्तः प्रत्युवाच पूरुः पितरम् अञ्जसा यथात्थ मां महाराज तत् करिष्यामि ते वचः गुरोर् वै वचनं पुण्यं स्वर्ग्यम् आयुष्करं नृणाम् गुरुप्रसादात् त्रैलोक्यम् अन्वशासच् छतक्रतुः गुरोर् अनुमतं प्राप्य सर्वान् कामान् अवाप्नुयात् प्रतिपत्स्यामि ते राजन् पाप्मानं जरया सह यावद् इच्छसि वा जीवं तावत् तां धारयाम्य् अहम् गृहाण यौवनं मत्तश् चर कामान् यथेप्सितान् जरयाहं प्रतिच्छन्नो वयोरूपधरस् तव यौवनं भवते दत्त्वा चरिष्यामि यथात्थ माम् ययातिर् उवाच पूरो प्रीतो ऽस्मि ते वत्स प्रीतश् चेदं ददामि ते सर्वकामसमृद्धा ते प्रजा राज्ये भविष्यति धर्मे चार्थे च कामे च ख्यातिं लोके गमिष्यति एवम् उक्त्वा ययातिस् तु काव्यं स्मृत्वा महातपाः संक्रामयाम् आस जरां तदा पूरौ महात्मनि वैशंपायन उवाच पौरवेणाथ वयसा ययातिर् नहुषात्मजः रूपयौवनसंपन्नः कुमार इव सो ऽभवत् प्रीतियुक्तो नृपश्रेष्ठश् चचार विषयान् प्रियान् यथाकामं यथोत्साहं यथाकालं यथासुखम् धर्माविरुद्धान् राजेन्द्रो यथार्हति स एव हि देवान् अतर्पयद् यज्ञैः श्राद्धैस् तद्वत् पितॄन् अपि दीनान् अनुग्रहैर् इष्टैः कामैश् च द्विजसत्तमान् अतिथीन् अन्नपानैश् च विशश् च परिपालनैः आनृशंस्येन शूद्रांश् च दस्यून् संनिग्रहेण च धर्मेण च प्रजाः सर्वा यथावद् अनुरञ्जयन् ययातिः पालयाम् आस साक्षाद् इन्द्र इवापरः स राजा सिंहविक्रान्तो युवा विषयगोचरः अविरोधेन धर्मस्य चचार सुखम् उत्तमम् स संप्राप्य शुभान् कामांस् तृप्तः खिन्नश् च पार्थिवः कालं वर्षसहस्रान्तं सस्मार मनुजाधिपः परिसंख्याय कालज्ञः कलाः काष्ठाश् च वीर्यवान् यौवनं प्राप्य राजर्षिः सहस्रपरिवत्सरान् विश्वाच्या सहितो रेमे व्यभ्राजन् नन्दने वने अलकायां स कालं तु मेरुशृङ्गे तथोत्तरे यदा स पश्यते कालं धर्मात्मा तं महीपतिः पूर्णं मत्वा ततः कालं पूरुं पुत्रम् उवाच ह यथाकामं यथोत्साहं यथाकालम् अरिंदम सेविता विषयाः पुत्र यौवनेन मया तव तेजसा तव सत्पुत्र पूर्णं यौवनम् उत्तमम् न जातु कामः कामानाम् उपभोगेन शाम्यति हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः एकस्यापि न पर्याप्तं तस्मात् तृष्णां परित्यजेत् या दुस्त्यजा दुर्मतिभिर् या न जीर्यति जीर्यतः यो ऽसौ प्राणान्तिको रोगस् तां तृष्णां त्यजतः सुखम् पूर्णं वर्षसहस्रं मे विषयासक्तचेतसः तथाप्य् अनुदिनं तृष्णा ममैतेष्व् अभिजायते तस्माद् एनाम् अहं त्यक्त्वा ब्रह्मण्य् आधाय मानसम् निर्द्वन्द्वो निर्ममो भूत्वा चरिष्यामि मृगैः सह पूरो प्रीतो ऽस्मि भद्रं ते गृहाणेदं स्वयौवनम् राज्यं चैव गृहाणेदं त्वं हि मे प्रियकृत् सुतः . . . . . . . . यावद् इच्छसि यौवनम् तावद् दीर्घायुषं भुङ्क्ष्व . . . . . . . . मया दत्तं तु सान्वयम् यावद् इच्छसि तावच् च यौवनेन समन्वितम् भुङ्क्ष्व राज्यं सुदीर्घायुः प्रतिपेदे जरां राजा ययातिर् नाहुषस् तदा यौवनं प्रतिपेदे च पूरुः स्वं पुनर् आत्मनः अभिषेक्तुकामं नृपतिं पूरुं पुत्रं कनीयसम् ब्राह्मणप्रमुखा वर्णा इदं वचनम् अब्रुवन् कथं शुक्रस्य नप्तारं देवयान्याः सुतं प्रभो ज्येष्ठं यदुम् अतिक्रम्य राज्यं पूरोः प्रदास्यसि यदुर् ज्येष्ठस् तव सुतो जातस् तम् अनु तुर्वसुः शर्मिष्ठायाः सुतो द्रुह्युस् ततो ऽनुः पूरुर् एव च कथं ज्येष्ठान् अतिक्रम्य कनीयान् राज्यम् अर्हति एतत् संबोधयामस् त्वां धर्मं त्वम् अनुपालय धर्मं चोल्लङ्घयन् राजा प्रजानां दुःखम् आवहेत् ययातिर् उवाच ब्राह्मणप्रमुखा वर्णाः सर्वे शृण्वन्तु मे वचः ज्येष्ठं प्रति यथा राज्यं न देयं मे कथं चन मम ज्येष्ठेन यदुना नियोगो नानुपालितः प्रतिकूलः पितुर् यश् च न स पुत्रः सतां मतः मातापित्रोर् वचनकृद् धितः पथ्यश् च यः सुतः स पुत्रः पुत्रवद् यश् च वर्तते पितृमातृषु अपुत्री तु नरः स्वर्गाद् दुःखं नरकम् आविशेत् पुद् इति नरकस्याख्या दुःखं हि नरकं विदुः पुतस् त्राणात् ततः पुत्रम् इहेच्छन्ति परत्र च आत्मनः सदृशः पुत्रः पितृदेवर्षिपूजने यो बहूनां गुणतरः स पुत्रो ज्येष्ठ उच्यते ज्येष्ठांशहारो गुणकृद् इह लोके परत्र च श्रेयान् पुत्रगुणोपेतः स पुत्रो नेतरो वृथा वदन्ति धर्मं धर्मज्ञाः पितॄणां पुत्रकारणात् मूको ऽन्धबधिरः श्वित्री स्वधर्मं नानुतिष्ठति चोरः किल्बिषकः पुत्रो ज्येष्ठो न ज्येष्ठ उच्यते यदुनाहम् अवज्ञातस् तथा तुर्वसुनापि च द्रुह्युना चानुना चैव मय्य् अवज्ञा कृता भृशम् पूरुणा मे कृतं वाक्यं मानितश् च विशेषतः कनीयान् मम दायादो जरा येन धृता मम वेदोक्तं संभवं मह्यम् अनेन हृदयोद्भवम् तस्य जातम् इदं कृत्स्नम् आत्मा पुत्र इति श्रुतिः मम कामः स च कृतः पूरुणा पुत्ररूपिणा शुक्रेण च वरो दत्तः काव्येनोशनसा स्वयम् पुत्रो यस् त्वानुवर्तेत स राजा पृथिवीपतिः यो वानुवर्ती पुत्राणां स पुत्रो दायभाग् भवेत् भवतो ऽनुनयाम्य् एवं पूरू राज्ये ऽभिषिच्यताम् प्रकृतय ऊचुः यः पुत्रो गुणसंपन्नो मातापित्रोर् हितः सदा सर्वम् अर्हति कल्याणं कनीयान् अपि स प्रभो वेदधर्मार्थशास्त्रेषु मुनिभिः कथितं पुरा अर्हः पूरुर् इदं राज्यं यः सुतः प्रियकृत् तव वरदानेन शुक्रस्य न शक्यं वक्तुम् उत्तरम् वैशंपायन उवाच पौरजानपदैस् तुष्टैर् इत्य् उक्तो नाहुषस् तदा अभ्यषिञ्चत् ततः पूरुं राज्ये स्वे सुतम् आत्मजम् यदुं च तुर्वसुं चोभौ द्रुह्युं चैव सहानुजम् अन्तेषु स विनिक्षिप्य नाहुषः स्वात्मजान् सुतान् दत्त्वा च पूरवे राज्यं वनवासाय दीक्षितः पुरात् स निर्ययौ राजा ब्राह्मणैस् तापसैः सह देवयान्या च सहितः शर्मिष्ठया च भारत अकरोत् स वने राजा सभार्यस् तप उत्तमम् यदोस् तु यादवा जातास् तुर्वसोर् यवनाः सुताः द्रुह्योर् अपि सुता भोजा अनोस् तु म्लेच्छजातयः पूरोस् तु पौरवो वंशो यत्र जातो ऽसि पार्थिव इदं वर्षसहस्राय राज्यं कारयितुं वशी वैशंपायन उवाच एवं स नाहुषो राजा ययातिः पुत्रम् ईप्सितम् राज्ये ऽभिषिच्य मुदितो वानप्रस्थो ऽभवन् मुनिः उषित्वा च वने वासं ब्राह्मणैः सह संश्रितः फलमूलाशनो दान्तो यथा स्वर्गम् इतो गतः स गतः सुरवासं तं निवसन् मुदितः सुखम् कालस्य नातिमहतः पुनः शक्रेण पातितः जनमेजयः साधुभिः संगतिं लब्ध्वा पुनः स्वर्गम् उपेयिवान् स्वर्गतश् च पुनर् ब्रह्मन् निवसन् देववेश्मनि कालेन नातिमहता शक्रेण च्यावितः कथम् निपतन् प्रच्युतः स्वर्गाद् अप्राप्तो मेदिनीतलम् स्थित आसीद् अन्तरिक्षे स तदेति श्रुतं मया तत एव पुनश् चापि गतः स्वर्गम् इति श्रुतिः राज्ञा वसुमता सार्धम् अष्टकेन च वीर्यवान् प्रतर्दनेन शिबिना समेत्य किल संसदि जनमेजय उवाच कर्मणा केन स दिवं पुनः प्राप्तो महीपतिः सर्वम् एतद् अशेषेण श्रोतुम् इच्छामि तत्त्वतः कथ्यमानं त्वया विप्र विप्रर्षिगणसंनिधौ देवराजसमो ह्य् आसीद् ययातिः पृथिवीपतिः वर्धनः कुरुवंशस्य विभावसुसमद्युतिः तस्य विस्तीर्णयशसः सत्यकीर्तेर् महात्मनः चरितं श्रोतुम् इच्छामि दिवि चेह च सर्वशः वैशंपायन उवाच हन्त ते कथयिष्यामि ययातेर् उत्तरां कथाम् दिवि चेह च पुण्यार्थां सर्वपापप्रणाशिनीम् ययातिर् नाहुषो राजा पूरुं पुत्रं कनीयसम् राज्ये ऽभिषिच्य मुदितः प्रवव्राज वनं तदा अन्तेषु स विनिक्षिप्य पुत्रान् यदुपुरोगमान् फलमूलाशनो राजा वने संन्यवसच् चिरम् संशितात्मा जितक्रोधस् तर्पयन् पितृदेवताः अग्नींश् च विधिवज् जुह्वन् वानप्रस्थविधानतः अतिथीन् पूजयाम् आस वन्येन हविषा विभुः शिलोञ्छवृत्तिम् आस्थाय शेषान्नकृतभोजनः पूर्णं वर्षसहस्रं स एवंवृत्तिर् अभून् नृपः अब्भक्षः शरदस् त्रिंशद् आसीन् नियतवाङ्मनाः ततश् च वायुभक्षो ऽभूत् संवत्सरम् अतन्द्रितः पञ्चाग्निमध्ये च तपस् तेपे संवत्सरं नृपः एकपादस्थितश् चासीत् षण् मासान् अनिलाशनः एवम् एव तथाब्दानां पर्यायेण गतं तदा पुण्यकीर्तिस् ततः स्वर्गं जगामावृत्य रोदसी वैशंपायन उवाच स्वर्गतः स तु राजेन्द्रो निवसन् देवसद्मनि पूजितस् त्रिदशैः साध्यैर् मरुद्भिर् वसुभिस् तथा देवलोकाद् ब्रह्मलोकं संचरन् पुण्यकृद् वशी पूजितस् त्रिदशैः साध्यैर् ययातिर् अतिधार्मिकः अवसत् पृथिवीपालो दीर्घकालम् इति श्रुतिः स कदा चिन् नृपश्रेष्ठो ययातिः शक्रम् आगमत् कथयित्वा कथास् तात शक्रेण सह पौरवः कथान्ते तत्र शक्रेण पृष्टः स पृथिवीपतिः शक्र उवाच यदा स पूरुस् तव रूपेण राजञ्; जरां गृहीत्वा प्रचचार भूमौ तदा राज्यं संप्रदायैव तस्मै; त्वया किम् उक्तः कथयेह सत्यम् ययातिर् उवाच गङ्गायमुनयोर् मध्ये कृत्स्नो ऽयं विषयस् तव मध्ये पृथिव्यास् त्वं राजा भ्रातरो ऽन्त्याधिपास् तव इन्द्रः न च कुर्यान् नरो दैन्यं शाठ्यं क्रोधं तथैव च जैह्म्यं च मत्सरं वैरं सर्वत्रैतन् न कारयेत् मातरं पितरं चैव विद्वांसं च तपोधनम् क्षमावन्तं च देवेन्द्र नावमन्येत बुद्धिमान् शक्तस् तु क्षमते नित्यम् अशक्तः क्रोशते नरः दुर्जनः सज्जनं द्वेष्टि दुर्बलो बलवत्तरम् रूपवन्तम् अरूपी च धनवन्तं च निर्धनः अकर्मी कर्मिणं द्वेष्टि धार्मिकं चाप्य् अधार्मिकः निर्गुणो गुणवन्तं च शक्रैतत् कलिलक्षणम् विपरीतं च देवेन्द्र एतेषु कृतलक्षणम् ब्राह्मणो वाथ राजा वा वैश्यो वा शूद्र एव वा प्रशस्तेषु प्रशस्तारः प्रशस्यन्ते यशस्विनः तस्मात् प्रशस्ते देवेन्द्र नरः सक्तमना भवेत् अलोकज्ञा ह्य् अप्रशस्ता भ्रातरस् ते ह्य् अबुद्धयः अन्ताधिपतयः सर्वे ह्य् अभवन् मम शासनात् त्वं हि वै धर्मदो राजन् कथ्यसे धर्मम् उत्तमम् कथयस्व पुनर् मे ऽद्य लोकवृत्तान्तम् उत्तमम् अक्रोधनः क्रोधनेभ्यो विशिष्टस्; तथा तितिक्षुर् अतितिक्षोर् विशिष्टः अमानुषेभ्यो मानुषाश् च प्रधाना; विद्वांस् तथैवाविदुषः प्रधानः आक्रुश्यमानो नाक्रोशेन् मन्युर् एव तितिक्षतः आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति नारुंतुदः स्यान् न नृशंसवादी; न हीनतः परम् अभ्याददीत ययास्य वाचा पर उद्विजेत; न तां वदेद् रुशतीं पापलोक्याम् अरुंतुदं पुरुषं रूक्षवाचं; वाक्कण्टकैर् वितुदन्तं मनुष्यान् विद्याद् अलक्ष्मीकतमं जनानां; मुखे निबद्धां निरृतिं वहन्तम् सद्भिः पुरस्ताद् अभिपूजितः स्यात्; सद्भिस् तथा पृष्ठतो रक्षितः स्यात् सदासताम् अतिवादांस् तितिक्षेत्; सतां वृत्तं चाददीतार्यवृत्तः वाक्सायका वदनान् निष्पतन्ति; यैर् आहतः शोचति रात्र्यहानि परस्य वा मर्मसु ये पतन्ति; तान् पण्डितो नावसृजेत् परेषु न हीदृशं संवननं त्रिषु लोकेषु विद्यते यथा मैत्री च भूतेषु दानं च मधुरा च वाक् तस्मात् सान्त्वं सदा वाच्यं न वाच्यं परुषं क्व चित् पूज्यान् संपूजयेद् दद्यान् न च याचेत् कदा चन इन्द्र उवाच सर्वाणि कर्माणि समाप्य राजन्; गृहान् परित्यज्य वनं गतो ऽसि तत् त्वां पृच्छामि नहुषस्य पुत्र; केनासि तुल्यस् तपसा ययाते ययातिर् उवाच नाहं देवमनुष्येषु न गन्धर्वमहर्षिषु आत्मनस् तपसा तुल्यं कं चित् पश्यामि वासव इन्द्र उवाच यदावमंस्थाः सदृशः श्रेयसश् च; पापीयसश् चाविदितप्रभावः तस्माल् लोका अन्तवन्तस् तवेमे; क्षीणे पुण्ये पतितास्य् अद्य राजन् ययातिर् उवाच सुरर्षिगन्धर्वनरावमानात्; क्षयं गता मे यदि शक्र लोकाः इच्छेयं वै सुरलोकाद् विहीनः; सतां मध्ये पतितुं देवराज इन्द्र उवाच सतां सकाशे पतितासि राजंश्; च्युतः प्रतिष्ठां यत्र लब्धासि भूयः एवं विदित्वा तु पुनर् ययाते; न ते ऽवमान्याः सदृशः श्रेयसश् च वैशंपायन उवाच ततः प्रहायामरराजजुष्टान्; पुण्यांल् लोकान् पतमानं ययातिम् संप्रेक्ष्य राजर्षिवरो ऽष्टकस् तम्; उवाच सद्धर्मविधानगोप्ता कस् त्वं युवा वासवतुल्यरूपः; स्वतेजसा दीप्यमानो यथाग्निः पतस्य् उदीर्णाम्बुधरान्धकारात्; खात् खेचराणां प्रवरो यथार्कः दृष्ट्वा च त्वां सूर्यपथात् पतन्तं; वैश्वानरार्कद्युतिम् अप्रमेयम् किं नु स्विद् एतत् पततीति सर्वे; वितर्कयन्तः परिमोहिताः स्मः दृष्ट्वा च त्वां विष्ठितं देवमार्गे; शक्रार्कविष्णुप्रतिमप्रभावम् अभ्युद्गतास् त्वां वयम् अद्य सर्वे; तत्त्वं पाते तव जिज्ञासमानाः न चापि त्वां धृष्णुमः प्रष्टुम् अग्रे; न च त्वम् अस्मान् पृच्छसि ये वयं स्मः तत् त्वां पृच्छामः स्पृहणीयरूपं; कस्य त्वं वा किंनिमित्तं त्वम् आगाः भयं तु ते व्येतु विषादमोहौ; त्यजाशु देवेन्द्रसमानरूप त्वां वर्तमानं हि सतां सकाशे; नालं प्रसोढुं बलहापि शक्रः सन्तः प्रतिष्ठा हि सुखच्युतानां; सतां सदैवामरराजकल्प ते संगताः स्थावरजङ्गमेशाः; प्रतिष्ठितस् त्वं सदृशेषु सत्सु प्रभुर् अग्निः प्रतपने भूमिर् आवपने प्रभुः प्रभुः सूर्यः प्रकाशित्वे सतां चाभ्यागतः प्रभुः ययातिर् उवाच अहं ययातिर् नहुषस्य पुत्रः; पूरोः पिता सर्वभूतावमानात् प्रभ्रंशितः सुरसिद्धर्षिलोकात्; परिच्युतः प्रपताम्य् अल्पपुण्यः अहं हि पूर्वो वयसा भवद्भ्यस्; तेनाभिवादं भवतां न प्रयुञ्जे यो विद्यया तपसा जन्मना वा; वृद्धः स पूज्यो भवति द्विजानाम् अष्टक उवाच अवादीश् चेद् वयसा यः स वृद्ध; इति राजन् नाभ्यवदः कथं चित् यो वै विद्वान् वयसा सन् स्म वृद्धः; स एव पूज्यो भवति द्विजानाम् ययातिर् उवाच प्रतिकूलं कर्मणां पापम् आहुस्; तद् वर्तते ऽप्रवणे पापलोक्यम् सन्तो ऽसतां नानुवर्तन्ति चैतद्; यथा आत्मैषाम् अनुकूलवादी अभूद् धनं मे विपुलं महद् वै; विचेष्टमानो नाधिगन्ता तद् अस्मि एवं प्रधार्यात्महिते निविष्टो; यो वर्तते स विजानाति जीवन् महाधनो यो यजते सुयज्ञैर् यः सर्वविद्यासु विनीतबुद्धिः वेदान् अधीत्य तपसा योज्य देहं दिवं समायात् पुरुषो वीतमोहः न जातु हृष्येन् महता धनेन वेदान् अधीयीत नाहंकृतः स्यात् नानाभावा बहवो जीवलोके; दैवाधीना नष्टचेष्टाधिकाराः तत् तत् प्राप्य न विहन्येत धीरो; दिष्टं बलीय इति मत्वात्मबुद्ध्या सुखं हि जन्तुर् यदि वापि दुःखं; दैवाधीनं विन्दति नात्मशक्त्या तस्माद् दिष्टं बलवन् मन्यमानो; न संज्वरेन् नापि हृष्येत् कदा चित् दुःखे न तप्येन् न सुखेन हृष्येत्; समेन वर्तेत सदैव धीरः दिष्टं बलीय इति मन्यमानो; न संज्वरेन् नापि हृष्येत् कदा चित् दृष्टो हि मे परतश् चापि लोकः प्राप्ता भोगाः सर्वतो नास्ति निष्ठा भये न मुह्याम्य् अष्टकाहं कदा चित्; संतापो मे मानसो नास्ति कश् चित् धाता यथा मां विदधाति लोके; ध्रुवं तथाहं भवितेति मत्वा संस्वेदजा अण्डजा उद्भिदाश् च; सरीसृपाः कृमयो ऽथाप्सु मत्स्याः तथाश्मानस् तृणकाष्ठं च सर्वं; दिष्टक्षये स्वां प्रकृतिं भजन्ते अनित्यतां सुखदुःखस्य बुद्ध्वा; कस्मात् संतापम् अष्टकाहं भजेयम् किं कुर्यां वै किं च कृत्वा न तप्ये; तस्मात् संतापं वर्जयाम्य् अप्रमत्तः वैशंपायन उवाच एवं ब्रुवाणं नृपतिं ययातिम् अथाष्टकः पुनर् एवान्वपृच्छत् मातामहं सर्वगुणोपपन्नं तत्र स्थितं स्वर्गलोके यथावत् अष्टक उवाच ये ये लोकाः पार्थिवेन्द्र प्रधानास्; त्वया भुक्ता यं च कालं यथा च तन् मे राजन् ब्रूहि सर्वं यथावत्; क्षेत्रज्ञवद् भाषसे त्वं हि धर्मान् ययातिर् उवाच राजाहम् आसम् इह सार्वभौमस्; ततो लोकान् महतो अजयं वै तत्रावसं वर्षसहस्रमात्रं; ततो लोकं परम् अस्म्य् अभ्युपेतः ततः पुरीं पुरुहूतस्य रम्यां; सहस्रद्वारां शतयोजनायताम् अध्यावसं वर्षसहस्रमात्रं; ततो लोकं परम् अस्म्य् अभ्युपेतः ततो दिव्यम् अजरं प्राप्य लोकं; प्रजापतेर् लोकपतेर् दुरापम् तत्रावसं वर्षसहस्रमात्रं; ततो लोकं परम् अस्म्य् अभ्युपेतः देवस्य देवस्य निवेशने च; विजित्य लोकान् अवसं यथेष्टम् संपूज्यमानस् त्रिदशैः समस्तैस्; तुल्यप्रभावद्युतिर् ईश्वराणाम् तथावसं नन्दने कामरूपी; संवत्सराणाम् अयुतं शतानाम् सहाप्सरोभिर् विहरन् पुण्यगन्धान्; पश्यन् नगान् पुष्पितांश् चारुरूपान् तत्रस्थं मां देवसुखेषु सक्तं; काले ऽतीते महति ततो ऽतिमात्रम् दूतो देवानाम् अब्रवीद् उग्ररूपो; ध्वंसेत्य् उच्चैस् त्रिः प्लुतेन स्वरेण एतावन् मे विदितं राजसिंह; ततो भ्रष्टो ऽहं नन्दनात् क्षीणपुण्यः वाचो ऽश्रौषं चान्तरिक्षे सुराणाम्; अनुक्रोशाच् छोचतां मानवेन्द्र अहो कष्टं क्षीणपुण्यो ययातिः; पतत्य् असौ पुण्यकृत् पुण्यकीर्तिः तान् अब्रुवं पतमानस् ततो ऽहं; सतां मध्ये निपतेयं कथं नु तैर् आख्याता भवतां यज्ञभूमिः; समीक्ष्य चैनां त्वरितम् उपागतो ऽस्मि हविर्गन्धं देशिकं यज्ञभूमेर्; धूमापाङ्गं प्रतिगृह्य प्रतीतः अष्टक उवाच यदावसो नन्दने कामरूपी; संवत्सराणाम् अयुतं शतानाम् किं कारणं कार्तयुगप्रधान; हित्वा तत्त्वं वसुधाम् अन्वपद्यः ययातिर् उवाच ज्ञातिः सुहृत् स्वजनो यो यथेह; क्षीणे वित्ते त्यज्यते मानवैर् हि तथा तत्र क्षीणपुण्यं मनुष्यं; त्यजन्ति सद्यः सेश्वरा देवसंघाः अष्टक उवाच कथं तस्मिन् क्षीणपुण्या भवन्ति; संमुह्यते मे ऽत्र मनो ऽतिमात्रम् किंविशिष्टाः कस्य धामोपयान्ति; तद् वै ब्रूहि क्षेत्रवित् त्वं मतो मे ययातिर् उवाच इमं भौमं नरकं ते पतन्ति; लालप्यमाना नरदेव सर्वे ते कङ्कगोमायुबलाशनार्थं; क्षीणा विवृद्धिं बहुधा व्रजन्ति तस्माद् एतद् वर्जनीयं नरेण; दुष्टं लोके गर्हणीयं च कर्म आख्यातं ते पार्थिव सर्वम् एतद्; भूयश् चेदानीं वद किं ते वदामि अष्टक उवाच यदा तु तान् वितुदन्ते वयांसि; तथा गृध्राः शितिकण्ठाः पतंगाः कथं भवन्ति कथम् आभवन्ति; न भौमम् अन्यं नरकं शृणोमि ययातिर् उवाच ऊर्ध्वं देहात् कर्मणो जृम्भमाणाद्; व्यक्तं पृथिव्याम् अनुसंचरन्ति इमं भौमं नरकं ते पतन्ति; नावेक्षन्ते वर्षपूगान् अनेकान् षष्टिं सहस्राणि पतन्ति व्योम्नि; तथा अशीतिं परिवत्सराणि तान् वै तुदन्ति प्रपततः प्रपातं; भीमा भौमा राक्षसास् तीक्ष्णदंष्ट्राः अष्टक उवाच यद् एनसस् ते पततस् तुदन्ति; भीमा भौमा राक्षसास् तीक्ष्णदंष्ट्राः कथं भवन्ति कथम् आभवन्ति; कथंभूता गर्भभूता भवन्ति ययातिर् उवाच अस्रं रेतः पुष्पफलानुपृक्तम्; अन्वेति तद् वै पुरुषेण सृष्टम् स वै तस्या रज आपद्यते वै; स गर्भभूतः समुपैति तत्र वनस्पतींश् चौषधीश् चाविशन्ति; अपो वायुं पृथिवीं चान्तरिक्षम् चतुष्पदं द्विपदं चापि सर्वम्; एवंभूता गर्भभूता भवन्ति अष्टक उवाच अन्यद् वपुर् विदधातीह गर्भ; उताहो स्वित् स्वेन कामेन याति आपद्यमानो नरयोनिम् एताम्; आचक्ष्व मे संशयात् प्रब्रवीमि शरीरदेहादिसमुच्छ्रयं च; चक्षुःश्रोत्रे लभते केन संज्ञाम् एतत् तत्त्वं सर्वम् आचक्ष्व पृष्टः; क्षेत्रज्ञं त्वां तात मन्याम सर्वे ययातिर् उवाच वायुः समुत्कर्षति गर्भयोनिम्; ऋतौ रेतः पुष्परसानुपृक्तम् स तत्र तन्मात्रकृताधिकारः; क्रमेण संवर्धयतीह गर्भम् स जायमानो विगृहीतगात्रः; षड्ज्ञाननिष्ठायतनो मनुष्यः स श्रोत्राभ्यां वेदयतीह शब्दं; सर्वं रूपं पश्यति चक्षुषा च घ्राणेन गन्धं जिह्वयाथो रसं च; त्वचा स्पर्शं मनसा वेद भावम् इत्य् अष्टकेहोपचितिं च विद्धि; महात्मनः प्राणभृतः शरीरे अष्टक उवाच यः संस्थितः पुरुषो दह्यते वा; निखन्यते वापि निघृष्यते वा अभावभूतः स विनाशम् एत्य; केनात्मानं चेतयते पुरस्तात् ययातिर् उवाच हित्वा सो ऽसून् सुप्तवन् निष्टनित्वा; पुरोधाय सुकृतं दुष्कृतं च अन्यां योनिं पवनाग्रानुसारी; हित्वा देहं भजते राजसिंह पुण्यां योनिं पुण्यकृतो व्रजन्ति; पापां योनिं पापकृतो व्रजन्ति कीटाः पतंगाश् च भवन्ति पापा; न मे विवक्षास्ति महानुभाव चतुष्पदा द्विपदाः षट्पदाश् च; तथाभूता गर्भभूता भवन्ति आख्यातम् एतन् निखिलेन सर्वं; भूयस् तु किं पृच्छसि राजसिंह अष्टक उवाच किं स्वित् कृत्वा लभते तात लोकान्; मर्त्यः श्रेष्ठांस् तपसा विद्यया वा तन् मे पृष्टः शंस सर्वं यथावच्; छुभांल् लोकान् येन गच्छेत् क्रमेण ययातिर् उवाच तपश् च दानं च शमो दमश् च; ह्रीर् आर्जवं सर्वभूतानुकम्पा स्वर्गस्य लोकस्य वदन्ति सन्तो द्वाराणि सप्तैव महान्ति पुंसाम् नश्यन्ति मानेन तमो ऽभिभूताः; पुंसः सदैवेति वदन्ति सन्तः अधीयानः पण्डितं मन्यमानो; यो विद्यया हन्ति यशः परेषाम् तस्यान्तवन्तश् च भवन्ति लोका; न चास्य तद् ब्रह्म फलं ददाति चत्वारि कर्माण्य् अभयंकराणि; भयं प्रयच्छन्त्य् अयथाकृतानि मानाग्निहोत्रम् उत मानमौनं; मानेनाधीतम् उत मानयज्ञः न मान्यमानो मुदम् आददीत; न संतापं प्राप्नुयाच् चावमानात् सन्तः सतः पूजयन्तीह लोके; नासाधवः साधुबुद्धिं लभन्ते इति दद्याद् इति यजेद् इत्य् अधीयीत मे व्रतम् इत्य् अस्मिन्न् अभयान्य् आहुस् तानि वर्ज्यानि नित्यशः येनाश्रयं वेदयन्ते पुराणं; मनीषिणो मानसमानभक्तम् तन् निःश्रेयस् तैजसं रूपम् एत्य; परां शान्तिं प्राप्नुयुः प्रेत्य चेह अष्टक उवाच चरन् गृहस्थः कथम् एति देवान्; कथं भिक्षुः कथम् आचार्यकर्मा वानप्रस्थः सत्पथे संनिविष्टो; बहून्य् अस्मिन् संप्रति वेदयन्ति ययातिर् उवाच आहूताध्यायी गुरुकर्मस्वचोद्यः; पूर्वोत्थायी चरमं चोपशायी मृदुर् दान्तो धृतिमान् अप्रमत्तः; स्वाध्यायशीलः सिध्यति ब्रह्मचारी धर्मागतं प्राप्य धनं यजेत; दद्यात् सदैवातिथीन् भोजयेच् च अनाददानश् च परैर् अदत्तं; सैषा गृहस्थोपनिषत् पुराणी स्ववीर्यजीवी वृजिनान् निवृत्तो; दाता परेभ्यो न परोपतापी तादृङ् मुनिः सिद्धिम् उपैति मुख्यां; वसन्न् अरण्ये नियताहारचेष्टः अशिल्पजीवी नगृहश् च नित्यं; जितेन्द्रियः सर्वतो विप्रमुक्तः अनोकसारी लघुर् अल्पचारश्; चरन् देशान् एकचरः स भिक्षुः रात्र्या यया चाभिजिताश् च लोका; भवन्ति कामा विजिताः सुखाश् च ताम् एव रात्रिं प्रयतेत विद्वान्; अरण्यसंस्थो भवितुं यतात्मा दशैव पूर्वान् दश चापरांस् तु; ज्ञातीन् सहात्मानम् अथैकविंशम् अरण्यवासी सुकृते दधाति; विमुच्यारण्ये स्वशरीरधातून् अष्टक उवाच कति स्विद् एव मुनयो मौनानि कति चाप्य् उत भवन्तीति तद् आचक्ष्व श्रोतुम् इच्छामहे वयम् ययातिर् उवाच अरण्ये वसतो यस्य ग्रामो भवति पृष्ठतः ग्रामे वा वसतो ऽरण्यं स मुनिः स्याज् जनाधिप अष्टक उवाच कथं स्विद् वसतो ऽरण्ये ग्रामो भवति पृष्ठतः ग्रामे वा वसतो ऽरण्यं कथं भवति पृष्ठतः ययातिर् उवाच न ग्राम्यम् उपयुञ्जीत य आरण्यो मुनिर् भवेत् तथास्य वसतो ऽरण्ये ग्रामो भवति पृष्ठतः अनग्निर् अनिकेतश् च अगोत्रचरणो मुनिः कौपीनाच्छादनं यावत् तावद् इच्छेच् च चीवरम् यावत् प्राणाभिसंधानं तावद् इच्छेच् च भोजनम् तथास्य वसतो ग्रामे ऽरण्यं भवति पृष्ठतः यस् तु कामान् परित्यज्य त्यक्तकर्मा जितेन्द्रियः आतिष्ठेत मुनिर् मौनं स लोके सिद्धिम् आप्नुयात् धौतदन्तं कृत्तनखं सदा स्नातम् अलंकृतम् असितं सितकर्मस्थं कस् तं नार्चितुम् अर्हति तपसा कर्शितः क्षामः क्षीणमांसास्थिशोणितः यदा भवति निर्द्वन्द्वो मुनिर् मौनं समास्थितः अथ लोकम् इमं जित्वा लोकं विजयते परम् आस्येन तु यदाहारं गोवन् मृगयते मुनिः अथास्य लोकः पूर्वो यः सो ऽमृतत्वाय कल्पते अष्टकः ययातिः सामान्यधर्मः सर्वेषां क्रोधलोभौ द्रुहाक्षमे विहाय मत्सरं स्तैन्यं दर्पं दम्भं च पैशुनम् क्रोधं लोभं ममत्वं च यस्य नास्ति स धर्मवित् नित्यस्नायी ब्रह्मचारी गृहस्थो वनगो मुनिः नाधर्मम् अशनात् प्राप्येत् कथं ब्रूहीह पृच्छतः अष्टौ ग्रासा मुनेर् भक्ष्याः षोडशारण्यवासिनः द्वात्रिंशतं गृहस्थस्य अमितं ब्रह्मचारिणः इत्य् एवं कारणं ज्ञेयम् अष्टकैतच् छुभाशुभम् अष्टक उवाच कतरस् त्व् एतयोः पूर्वं देवानाम् एति सात्म्यताम् उभयोर् धावतो राजन् सूर्याचन्द्रमसोर् इव ययातिर् उवाच अनिकेतो गृहस्थेषु कामवृत्तेषु संयतः ग्राम एव वसन् भिक्षुस् तयोः पूर्वतरं गतः अप्राप्य दीर्घम् आयुस् तु यः प्राप्तो विकृतिं चरेत् तप्येत यदि तत् कृत्वा चरेत् सो ऽन्यत् ततस् तपः पापानां कर्मणां नित्यं बिभियाद् यस् तु मानवः सुखम् अप्य् आचरन् नित्यं सो ऽत्यन्तं सुखम् एधते यद् वै नृशंसं तद् अपथ्यम् आहुर्; यः सेवते धर्मम् अनर्थबुद्धिः अस्वो ऽप्य् अनीशश् च तथैव राजंस्; तदार्जवं स समाधिस् तदार्यम् अष्टक उवाच केनासि दूतः प्रहितो ऽद्य राजन्; युवा स्रग्वी दर्शनीयः सुवर्चाः कुत आगतः कतरस्यां दिशि त्वम्; उताहो स्वित् पार्थिवं स्थानम् अस्ति ययातिर् उवाच इमं भौमं नरकं क्षीणपुण्यः; प्रवेष्टुम् उर्वीं गगनाद् विप्रकीर्णः विद्वांश् चैवं मतिमान् आर्यबुद्धिर् ममाभवत् कर्मलोक्यं च सर्वम् उक्त्वाहं वः प्रपतिष्याम्य् अनन्तरं; त्वरन्ति मां ब्राह्मणा लोकपालाः सतां सकाशे तु वृतः प्रपातस्; ते संगता गुणवन्तश् च सर्वे शक्राच् च लब्धो हि वरो मयैष; पतिष्यता भूमितले नरेन्द्र अष्टक उवाच पृच्छामि त्वां मा प्रपत प्रपातं; यदि लोकाः पार्थिव सन्ति मे ऽत्र यद्य् अन्तरिक्षे यदि वा दिवि श्रिताः; क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ययातिर् उवाच यावत् पृथिव्यां विहितं गवाश्वं; सहारण्यैः पशुभिः पर्वतैश् च तावल् लोका दिवि ते संस्थिता वै; तथा विजानीहि नरेन्द्रसिंह अष्टक उवाच तांस् ते ददामि मा प्रपत प्रपातं; ये मे लोका दिवि राजेन्द्र सन्ति यद्य् अन्तरिक्षे यदि वा दिवि श्रितास्; तान् आक्रम क्षिप्रम् अमित्रसाह ययातिर् उवाच नास्मद्विधो ऽब्राह्मणो ब्रह्मविच् च; प्रतिग्रहे वर्तते राजमुख्य यथा प्रदेयं सततं द्विजेभ्यस्; तथाददं पूर्वम् अहं नरेन्द्र नाब्राह्मणः कृपणो जातु जीवेद्; या चापि स्याद् ब्राह्मणी वीरपत्नी सो ऽहं यदैवाकृतपूर्वं चरेयं; विवित्समानः किम् उ तत्र साधु प्रतर्दन उवाच पृच्छामि त्वां स्पृहणीयरूप; प्रतर्दनो ऽहं यदि मे सन्ति लोकाः यद्य् अन्तरिक्षे यदि वा दिवि श्रिताः; क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ययातिर् उवाच सन्ति लोका बहवस् ते नरेन्द्र; अप्य् एकैकः सप्त सप्ताप्य् अहानि मधुच्युतो घृतपृक्ता विशोकास्; ते नान्तवन्तः प्रतिपालयन्ति प्रतर्दन उवाच तांस् ते ददामि मा प्रपत प्रपातं; ये मे लोकास् तव ते वै भवन्तु यद्य् अन्तरिक्षे यदि वा दिवि श्रितास्; तान् आक्रम क्षिप्रम् अपेतमोहः ययातिर् उवाच न तुल्यतेजाः सुकृतं कामयेत; योगक्षेमं पार्थिव पार्थिवः सन् दैवादेशाद् आपदं प्राप्य विद्वांश्; चरेन् नृशंसं न हि जातु राजा धर्म्यं मार्गं चेतयानो यशस्यं; कुर्यान् नृपो धर्मम् अवेक्षमाणः न मद्विधो धर्मबुद्धिः प्रजानन्; कुर्याद् एवं कृपणं मां यथात्थ धर्माधर्मौ सुविनिश्चित्य सम्यक् कार्याकार्येष्व् अप्रमत्तश् चरेद् यः स वै धीमान् सत्यसंधः कृतात्मा राजा भवेल् लोकपालो महिम्ना यदा भवेत् संशयो धर्मकार्ये कामार्थे वा यत्र विन्दन्ति सम्यक् कार्यं तत्र प्रथमं धर्मकार्यं यन् नो विरुद्ध्याद् अर्थकामौ स धर्मः कुर्याम् अपूर्वं न कृतं यद् अन्यैर्; विवित्समानः किम् उ तत्र साधु ब्रुवाणम् एवं नृपतिं ययातिं; नृपोत्तमो वसुमनाब्रवीत् तम् वसुमना उवाच पृच्छामि त्वां वसुमना रौशदश्विर्; यद्य् अस्ति लोको दिवि मह्यं नरेन्द्र यद्य् अन्तरिक्षे प्रथितो महात्मन्; क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ययातिर् उवाच यद् अन्तरिक्षं पृथिवी दिशश् च; यत् तेजसा तपते भानुमांश् च लोकास् तावन्तो दिवि संस्थिता वै; ते नान्तवन्तः प्रतिपालयन्ति वसुमना उवाच तांस् ते ददामि पत मा प्रपातं; ये मे लोकास् तव ते वै भवन्तु क्रीणीष्वैनांस् तृणकेनापि राजन्; प्रतिग्रहस् ते यदि सम्यक् प्रदुष्टः ययातिर् उवाच न मिथ्याहं विक्रयं वै स्मरामि; वृथा गृहीतं शिशुकाच् छङ्कमानः कुर्यां न चैवाकृतपूर्वम् अन्यैर्; विवित्समानः किम् उ तत्र साधु वसुमना उवाच तांस् त्वं लोकान् प्रतिपद्यस्व राजन्; मया दत्तान् यदि नेष्टः क्रयस् ते अहं न तान् वै प्रतिगन्ता नरेन्द्र; सर्वे लोकास् तव ते वै भवन्तु शिबिर् उवाच पृच्छामि त्वां शिबिर् औशीनरो ऽहं; ममापि लोका यदि सन्तीह तात यद्य् अन्तरिक्षे यदि वा दिवि श्रिताः; क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ययातिर् उवाच न त्वं वाचा हृदयेनापि विद्वन्; परीप्समानान् नावमंस्था नरेन्द्र तेनानन्ता दिवि लोकाः श्रितास् ते; विद्युद्रूपाः स्वनवन्तो महान्तः शिबिर् उवाच तांस् त्वं लोकान् प्रतिपद्यस्व राजन्; मया दत्तान् यदि नेष्टः क्रयस् ते न चाहं तान् प्रतिपत्स्येह दत्त्वा; यत्र गत्वा त्वम् उपास्से ह लोकान् ययातिर् उवाच यथा त्वम् इन्द्रप्रतिमप्रभावस्; ते चाप्य् अनन्ता नरदेव लोकाः तथाद्य लोके न रमे ऽन्यदत्ते; तस्माच् छिबे नाभिनन्दामि दायम् अष्टक उवाच न चेद् एकैकशो राजंल् लोकान् नः प्रतिनन्दसि सर्वे प्रदाय भवते गन्तारो नरकं वयम् ययातिर् उवाच यद् अर्हाय ददध्वं तत् सन्तः सत्यानृशंस्यतः अहं तु नाभिधृष्णोमि यत्कृतं न मया पुरा अलिप्समानस्य तु मे यद् उक्तं न तत् तथास्तीह नरेन्द्रसिंह अस्य प्रदानस्य यद् एतद् उक्तं तस्यैव दानस्य फलं भविष्यति अष्टक उवाच कस्यैते प्रतिदृश्यन्ते रथाः पञ्च हिरण्मयाः उच्चैः सन्तः प्रकाशन्ते ज्वलन्तो ऽग्निशिखा इव वैशंपायनः वसुमनाः माधवी वैशंपायनः माधवी ययातिः वैशंपायनः अश्वमेधे महायज्ञे स्वयंभुविहिते पुरा हयस्य यानि चाङ्गानि संनिकृत्य यथाक्रमम् होताध्वर्युर् अथोद्गाता ब्रह्मणा सह भारत अग्नौ प्रास्यन्ति विधिवत् समस्ताः षोडशर्त्विजः धूमगन्धं च पापिष्ठा ये जिघ्रन्ति नरा भुवि विमुक्तपापाः पूतास् ते तत्क्षणेनाभवन् नराः एतस्मिन्न् अन्तरे चैव माधवी सा तपोधना मृगचर्मपरीताङ्गी परिधाय मृगत्वचम् मृगैः परिचरन्ती सा मृगाहारविचेष्टिता यज्ञवाटं मृगगणैः प्रविश्य भृशविस्मिता आघ्रायन्ती धूमगन्धं मृगैर् एव चचार सा यज्ञवाटम् अटन्ती सा पुत्रांस् तान् अपराजितान् पश्यन्ती यज्ञमाहात्म्यं मुदं लेभे च माधवी असंस्पृशन्तं वसुधां ययातिं नाहुषं तदा दिविष्ठं प्राप्तम् आज्ञाय ववन्दे पितरं तदा तदा वसुमनापृच्छन् मातरं वै तपस्विनीम् भवत्या यत् कृतम् इदं वन्दनं पादयोर् इह को ऽयं देवोपमो राजा याभिवन्दसि मे वद शृणुध्वं सहिताः पुत्रा नाहुषो ऽयं पिता मम ययातिर् मम पुत्राणां मातामह इति स्मृतः पूरुं मे भ्रातरं राज्ये समावेश्य दिवं गतः केन वा कारणेनैवम् इह प्राप्तो महायशाः तस्यास् तद् वचनं श्रुत्वा स्वर्गाद् भ्रष्टेति चाब्रवीत् सा पुत्रस्य वचः श्रुत्वा संभ्रमाविष्टचेतना माधवी पितरं प्राह दौहित्रपरिवारितम् तपसा निर्जितांल् लोकान् प्रतिगृह्णीष्व मामकान् पुत्राणाम् इव पौत्राणां धर्माद् अधिगतं धनम् स्वार्थम् एव वदन्तीह ऋषयो धर्मपाठकाः तस्माद् दानेन तपसा चास्माकं दिवम् आव्रज यदि धर्मफलं ह्य् एतच् छोभनं भविता तव दुहित्रा चैव दौहित्रैस् तारितो ऽहं महात्मभिः तस्मात् पवित्रं दौहित्रम् अद्य प्रभृति पैतृके त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस् तिलाः त्रीणि चात्र प्रशंसन्ति शौचम् अक्रोधम् अत्वराम् भोक्तारः परिवेष्टारः श्रावितारः पवित्रकाः दिवसस्याष्टमे भागे मन्दीभवति भास्करे स कालः कुतपो नाम पितॄणां दत्तम् अक्षयम् तिलाः पिशाचाद् रक्षन्ति दर्भा रक्षन्ति राक्षसात् रक्षन्ति श्रोत्रियाः पङ्क्तिं यतिभिर् भुक्तम् अक्षयम् लब्ध्वा पात्रं तु विद्वांसं श्रोत्रियं सुव्रतं शुचिम् स कालः कालतो दत्तं नान्यथा काल इष्यते एवम् उक्त्वा ययातिस् तु पुनः प्रोवाच बुद्धिमान् सर्वे ह्य् अवभृथस्नातास् त्वरध्वं कार्यगौरवात् ययातिर् उवाच युष्मान् एते हि वक्ष्यन्ति रथाः पञ्च हिरण्मयाः उच्चैः सन्तः प्रकाशन्ते ज्वलन्तो ऽग्निशिखा इव अष्टक उवाच आतिष्ठस्व रथं राजन् विक्रमस्व विहायसा वयम् अप्य् अनुयास्यामो यदा कालो भविष्यति ययातिर् उवाच सर्वैर् इदानीं गन्तव्यं सहस्वर्गजितो वयम् एष नो विरजाः पन्था दृश्यते देवसद्मनः वैशंपायन उवाच ते ऽधिरुह्य रथान् सर्वे प्रयाता नृपसत्तमाः आक्रमन्तो दिवं भाभिर् धर्मेणावृत्य रोदसी अष्टकश् च शिबिश् चैव काशेयश् च प्रतर्दनः ऐक्ष्वाकवो वसुमनाश् चत्वारो भूमिपास् तदा सर्वे त्व् अवभृथस्नाताः स्वर्गताः साधवः सह अष्टक उवाच अहं मन्ये पूर्वम् एको ऽस्मि गन्ता; सखा चेन्द्रः सर्वथा मे महात्मा कस्माद् एवं शिबिर् औशीनरो ऽयम्; एको ऽत्यगात् सर्ववेगेन वाहान् ययातिर् उवाच अददाद् देवयानाय यावद् वित्तम् अविन्दत उशीनरस्य पुत्रो ऽयं तस्माच् छ्रेष्ठो हि नः शिबिः दानं तपः सत्यम् अथापि धर्मो; ह्रीः श्रीः क्षमा सौम्य तथा तितिक्षा राजन्न् एतान्य् अप्रतिमस्य राज्ञः; शिबेः स्थितान्य् अनृशंसस्य बुद्ध्या एवंवृत्तो ह्रीनिषेधश् च यस्मात्; तस्माच् छिबिर् अत्यगाद् वै रथेन वैशंपायन उवाच अथाष्टकः पुनर् एवान्वपृच्छन्; मातामहं कौतुकाद् इन्द्रकल्पम् पृच्छामि त्वां नृपते ब्रूहि सत्यं; कुतश् च कस्यासि सुतश् च कस्य कृतं त्वया यद् धि न तस्य कर्ता; लोके त्वद् अन्यः क्षत्रियो ब्राह्मणो वा ययातिर् उवाच ययातिर् अस्मि नहुषस्य पुत्रः; पूरोः पिता सार्वभौमस् त्व् इहासम् गुह्यम् अर्थं मामकेभ्यो ब्रवीमि; मातामहो ऽहं भवतां प्रकाशः सर्वाम् इमां पृथिवीं निर्जिगाय; प्रस्थे बद्ध्वा ह्य् अददं ब्राह्मणेभ्यः मेध्यान् अश्वान् एकशफान् सुरूपांस्; तदा देवाः पुण्यभाजो भवन्ति अदाम् अहं पृथिवीं ब्राह्मणेभ्यः; पूर्णाम् इमाम् अखिलां वाहनस्य गोभिः सुवर्णेन धनैश् च मुख्यैस्; तत्रासन् गाः शतम् अर्बुदानि सत्येन मे द्यौश् च वसुंधरा च; तथैवाग्निर् ज्वलते मानुषेषु न मे वृथा व्याहृतम् एव वाक्यं; सत्यं हि सन्तः प्रतिपूजयन्ति साध्व् अष्टक प्रब्रवीमीह सत्यं प्रतर्दनं चौपदश्विं तथैव सर्वे च देवा मुनयश् च लोकाः; सत्येन पूज्या इति मे मनोगतम् यो नः स्वर्गजितः सर्वान् यथावृत्तं निवेदयेत् अनसूयुर् द्विजाग्रेभ्यः स लभेन् नः सलोकताम् वैशंपायन उवाच एवं राजा स महात्मा ह्य् अतीव; स्वैर् दौहित्रैस् तारितो ऽमित्रसाहः त्यक्त्वा महीं परमोदारकर्मा; स्वर्गं गतः कर्मभिर् व्याप्य पृथ्वीम् यतः सर्वं विस्तरतो यथावद् आख्यातं ते चरितं नाहुषस्य वंशो यस्य प्रथितः कौरवेयो यस्मिञ् जातस् त्वं मनुजेन्द्रकर्मा एतत् पुण्यतमं राजन् ययातेश् चरितं महत् यच् छ्रुत्वा श्रावयित्वा च स्वर्गं यातीह मानवः जनमेजय उवाच भगवञ् श्रोतुम् इच्छामि पूरोर् वंशकरान् नृपान् यद्वीर्या यादृशाश् चैव यावन्तो यत्पराक्रमाः पुत्रं ययातेः प्रब्रूहि पूरुं धर्मभृतां वरम् आनुपूर्व्येण ये चान्ये पूरोर् वंशविवर्धनाः विस्तरेण पुनर् ब्रूहि दौःषन्तेर् जनमेजयात् संबभूव यथा राजा भरतो द्विजसत्तम न ह्य् अस्मिञ् शीलहीनो वा निर्वीर्यो वा नराधिपः प्रजाविरहितो वापि भूतपूर्वः कदा चन तेषां प्रथितवृत्तानां राज्ञां विज्ञानशालिनाम् चरितं श्रोतुम् इच्छामि विस्तरेण तपोधन वैशंपायन उवाच हन्त ते कथयिष्यामि यन् मां त्वं परिपृच्छसि पूरोर् वंशधरान् वीराञ् शक्रप्रतिमतेजसः पूरुर् नृपतिशार्दूलो यथैवास्य पिता नृपः धर्मनित्यः स्थितो राज्ये शक्रवीर्यपराक्रमः भूरिद्रविणविक्रान्तान् सर्वलक्षणपूजितान् प्रवीरेश्वररौद्राश्वास् त्रयः पुत्रा महारथाः पूरोः पौष्ट्याम् अजायन्त प्रवीरस् तत्र वंशकृत् मनस्युर् अभवत् तस्माच् छूरः श्येनीसुतः प्रभुः पृथिव्याश् चतुरन्ताया गोप्ता राजीवलोचनः सुभ्रूः संहननो वाग्मी सौवीरीतनयास् त्रयः मनस्योर् अभवन् पुत्राः शूराः सर्वे महारथाः अन्वग्भानुप्रभृतयो मिश्रकेश्यां मनस्विनः सुन्वन्तं वसुनाभं च गर्भरम्यौ यशस्विनौ शूरान् अभयदान् राजा जनयाम् आस वीर्यवान् यवीयान् सुन्वतः पुत्रो रथंतर्याम् अजायत शूरश् च दृढधन्वा च वपुष्मान् स नृपोत्तमः रुद्राश्वं पृषदश्वं च रथाश्वं च गयं मनुम् यवीयाञ् जनयाम् आस गन्धर्व्यां भीमविक्रमान् रौद्राश्वस्य महेष्वासा दशाप्सरसि सूनवः यज्वानो जज्ञिरे शूराः प्रजावन्तो बहुश्रुताः सर्वे सर्वास्त्रविद्वांसः सर्वे धर्मपरायणाः ऋचेपुर् अथ कक्षेपुः कृकणेपुश् च वीर्यवान् स्थण्डिलेपुर् वनेपुश् च स्थलेपुश् च महारथः तेजेपुर् बलवान् धीमान् सत्येपुश् चेन्द्रविक्रमः धर्मेपुः संनतेपुश् च दशमो देवविक्रमः अनाधृष्टिर् अभूत् तेषां विद्वान् अर्चेपुर् एकराट् ऋचेपुर् अथ विक्रान्तो देवानाम् इव वासवः अनाधृष्टिसुतास् तात राजसूयाश्वमेधिनः मतिनारस् ततो राजा विद्वांश् चर्चेपुतो ऽभवत् मतिनारसुता राजंश् चत्वारो ऽमितविक्रमाः तंसुर् महान् अतिरथो द्रुह्युश् चाप्रतिमद्युतिः एतान् वै सुषुवे साध्वी अन्तिनाराद् यशस्विनी तेषां तंसुर् महावीर्यः पौरवं वंशम् उद्वहन् आजहार यशो दीप्तं जिगाय च वसुंधराम् इलिनं तु सुतं तंसुर् जनयाम् आस वीर्यवान् सो ऽपि कृत्स्नाम् इमां भूमिं विजिग्ये जयतां वरः रथंतर्यां सुतान् पञ्च पञ्चभूतोपमांस् ततः इलिनो जनयाम् आस दुःषन्तप्रभृतीन् नृप दुःषन्तं शूरभीमौ च प्रपूर्वं वसुम् एव च तेषां ज्येष्ठो ऽभवद् राजा दुःषन्तो जनमेजय दुःषन्ताद् भरतो जज्ञे विद्वाञ् शाकुन्तलो नृपः दुःषन्ताल् लक्ष्मणायां तु जज्ञे वै जनमेजयः शकुन्तलायां भरतो दौःषन्तिर् अभवत् सुतः तस्माद् भरतवंशस्य विप्रतस्थे महद् यशः सो ऽश्वमेधशतैर् ईजे यमुनाम् अनु तीरगः त्रिंशता च सरस्वत्यां गङ्गाम् अनु चतुःशतैः दौःषन्तिर् भरतो यज्ञैर् ईजे शाकुन्तलो नृपः भरतस् तिसृषु स्त्रीषु नव पुत्रान् अजीजनत् नाभ्यनन्दन्त तान् राजा नानुरूपा ममेत्य् उत ततस् तान् मातरः क्रुद्धाः पुत्रान् निन्युर् यमक्षयम् ततो महद्भिः क्रतुभिर् ईजानो भरतस् तदा लेभे पुत्रं भरद्वाजाद् भुमन्युं नाम भारत धर्मे प्रणिहितात्मानं मत्वा तं पुरुषोत्तमम् ततः पुत्रिणम् आत्मानं ज्ञात्वा पौरवनन्दनः भुमन्युं भरतश्रेष्ठ यौवराज्ये ऽभ्यषेचयत् ततस् तस्य महीन्द्रस्य वितथः पुत्रको ऽभवत् ततः स वितथो नाम भुमन्योर् अभवत् सुतः सुहोत्रश् च सुहोता च सुहविः सुयजुस् तथा पुष्करिण्याम् ऋचीकस्य भुमन्योर् अभवन् सुताः चत्वारो भारते वंशे सुहोत्रस् तत्र वंशभाक् तेषां ज्येष्ठः सुहोत्रस् तु राज्यम् आप महीक्षिताम् राजसूयाश्वमेधाद्यैः सो ऽयजद् बहुभिः सवैः सुहोत्रः पृथिवीं सर्वां बुभुजे सागराम्बराम् पूर्णां हस्तिगवाश्वस्य बहुरत्नसमाकुलाम् ममज्जेव मही तस्य भूरिभारावपीडिता हस्त्यश्वरथसंपूर्णा मनुष्यकलिला भृशम् सुहोत्रे राजनि तदा धर्मतः शासति प्रजाः चैत्ययूपाङ्किता चासीद् भूमिः शतसहस्रशः प्रवृद्धजनसस्या च सहदेवा व्यरोचत ऐक्ष्वाकी जनयाम् आस सुहोत्रात् पृथिवीपतेः अजमीढं सुमीढं च पुरुमीढं च भारत अजमीढस् तु राजेन्द्र धर्मनित्यो यशस्सु च अजमीढो वरस् तेषां तस्मिन् वंशः प्रतिष्ठितः ऐक्ष्वाक्यां जनयद् राज्ञाम् अजमीढो यशस्विनः षट् पुत्रान् सो ऽप्य् अजनयत् तिसृषु स्त्रीषु भारत ऋक्षं धूमिन्य् अथो नीली दुःषन्तपरमेष्ठिनौ केशिन्य् अजनयज् जह्नुम् उभौ च जनरूपिणौ विदुः संवरणं शूरम् ऋक्षाद् राथंतरीसुतम् तथेमे सर्वपाञ्चाला दुःषन्तपरमेष्ठिनोः अन्वयाः कुशिका राजञ् जह्नोर् अमिततेजसः जनरूपिणयोर् ज्येष्ठम् ऋक्षम् आहुर् जनाधिपम् ऋक्षात् संवरणो जज्ञे राजन् वंशकरस् तव आर्क्षे संवरणे राजन् प्रशासति वसुंधराम् संक्षयः सुमहान् आसीत् प्रजानाम् इति शुश्रुमः व्यशीर्यत ततो राष्ट्रं क्षयैर् नानाविधैस् तथा क्षुन्मृत्युभ्याम् अनावृष्ट्या व्याधिभिश् च समाहतम् अन्वकीर्यन्त भरताः सपत्नैश् च महाबलैः अभ्यघ्नन् भारतांश् चैव सपत्नानां बलानि च चालयन् वसुधां चैव बलेन चतुरङ्गिणा अभ्ययात् तं च पाञ्चाल्यो विजित्य तरसा महीम् अक्षौहिणीभिर् दशभिः स एनं समरे ऽजयत् ततः सदारः सामात्यः सपुत्रः ससुहृज्जनः राजा संवरणस् तस्मात् पलायत महाभयात् ते प्रतीचीं पराभूताः प्रपन्ना भारता दिशम् सिन्धोर् नदस्य महतो निकुञ्जे न्यवसत् तदा नदीविषयपर्यन्ते पर्वतस्य समीपतः तत्रावसन् बहून् कालान् भारता दुर्गमाश्रिताः तेषां निवसतां तत्र सहस्रं परिवत्सरान् अथाभ्यगच्छद् भरतान् वसिष्ठो भगवान् ऋषिः तम् आगतं प्रयत्नेन प्रत्युद्गम्याभिवाद्य च अर्घ्यम् अभ्याहरंस् तस्मै ते सर्वे भारतास् तदा निवेद्य सर्वम् ऋषये सत्कारेण सुवर्चसे तं समाम् अष्टमीम् उष्टं राजा वव्रे स्वयं तदा पुरोहितो भवान् नो ऽस्तु राज्याय प्रयतामहे ओम् इत्य् एवं वसिष्ठो ऽपि भारतान् प्रत्यपद्यत अथाभ्यषिञ्चत् साम्राज्ये सर्वक्षत्रस्य पौरवम् विषाणभूतं सर्वस्यां पृथिव्याम् इति नः श्रुतम् भरताध्युषितं पूर्वं सो ऽध्यतिष्ठत् पुरोत्तमम् पुनर् बलिभृतश् चैव चक्रे सर्वमहीक्षितः ततः स पृथिवीं प्राप्य पुनर् ईजे महाबलः आजमीढो महायज्ञैर् बहुभिर् भूरिदक्षिणैः ततः संवरणात् सौरी सुषुवे तपती कुरुम् राजत्वे तं प्रजाः सर्वा धर्मज्ञ इति वव्रिरे महिम्ना तस्य कुरवो लेभिरे प्रत्ययं भृशम् तस्य नाम्नाभिविख्यातं पृथिव्यां कुरुजाङ्गलम् कुरुक्षेत्रं स तपसा पुण्यं चक्रे महातपाः अश्ववन्तम् अभिष्वन्तं तथा चित्ररथं मुनिम् जनमेजयं च विख्यातं पुत्रांश् चास्यानुशुश्रुमः पञ्चैतान् वाहिनी पुत्रान् व्यजायत मनस्विनी अभिष्वतः परिक्षित् तु शबलाश्वश् च वीर्यवान् अभिराजो विराजश् च शल्मलश् च महाबलः उच्चैःश्रवा भद्रकारो जितारिश् चाष्टमः स्मृतः शबलाश्वादयः सप्त तथैवान्ये महाबलाः एतेषाम् अन्ववाये तु ख्यातास् ते कर्मजैर् गुणैः जनमेजयादयः सप्त तथैवान्ये महाबलाः परिक्षितो ऽभवन् पुत्राः सर्वे धर्मार्थकोविदाः कक्षसेनोग्रसेनौ च चित्रसेनश् च वीर्यवान् इन्द्रसेनः सुषेणश् च भीमसेनश् च नामतः अश्वसेनश् च बलवान् कीर्तिताः सप्त नामतः जनमेजयस्य तनया भुवि ख्याता महाबलाः धृतराष्ट्रः प्रथमजः पाण्डुर् बाह्लीक एव च निषधश् च महातेजास् तथा जाम्बूनदो बली कुण्डोदरः पदातिश् च वसातिश् चाष्टमः स्मृतः सर्वे धर्मार्थकुशलाः सर्वे भूतहिते रताः धृतराष्ट्रो ऽथ राजासीत् तस्य पुत्रो ऽथ कुण्डिकः हस्ती वितर्कः क्राथश् च कुण्डलश् चापि पञ्चमः भीमसेनान् महेष्वासः प्रतीपः समपद्यत अतिराजश् च नहुषस् तथा शक्रपुरंजयौ ततो धर्मभृतां श्रेष्ठः पर्यश्रवस उच्यते ऋषिं पुण्यकृतां श्रेष्ठं तम् एव परमं विदुः धार्तराष्ट्रसुतान् आहुस् त्रीन् एतान् प्रथितान् भुवि प्रतीपं धर्मनेत्रं च सुनेत्रं चैव भारत प्रतीपः प्रथितस् तेषां बभूवाप्रतिमो भुवि हविःश्रवास् तथेन्द्राभः सुमन्युश् चापराजितः प्रतीपस्य त्रयः पुत्रा जज्ञिरे भरतर्षभ देवापिः शंतनुश् चैव बाह्लीकश् च महारथः देवापिस् तु प्रवव्राज तेषां धर्मपरीप्सया शंतनुश् च महीं लेभे बाह्लीकश् च महारथः भरतस्यान्वये जाताः सत्त्ववन्तो महारथाः देवर्षिकल्पा नृपते बहवो राजसत्तमाः एवंविधाश् चाप्य् अपरे देवकल्पा महारथाः जाता मनोर् अन्ववाये ऐलवंशविवर्धनाः भरतस्य महत् कर्म प्रथितं सर्वराजसु अश्वमेधसहस्रेण राजसूयशतेन च इष्टवान् स महाराज दौःषन्तिर् भरतः पुरा चक्रवर्तिर् अदीनात्मा जेता युद्धे ऽजितः परैः गङ्गातीरं समागम्य दीक्षितो जनमेजय अश्वमेधसहस्राणि वाजपेयशतानि च पुनर् ईजे महायज्ञैः समाप्तवरदक्षिणैः अग्निष्टोमातिरात्राणाम् उक्थानां सोमवत् पुनः वाजपेयेष्टिसत्राणां सहस्रैश् च सुसंभृतैः इष्ट्वा शाकुन्तलो राजा तर्पयित्वा द्विजान् धनैः पुनः सहस्रं पद्मानां कण्वाय भरतो ददौ जाम्बूनदस्य शुद्धस्य कनकस्य महायशाः यस्य यूपाः शतव्यामाः परिणाहे ऽथ काञ्चनाः सहस्रव्यामम् उद्वृद्धाः सेन्द्रैर् देवैः समुच्छ्रिताः स्वलंकृता भ्राजमानाः सर्वरत्नैर् मनोरमैः हिरण्यं द्विरदान् अश्वान् महिषोष्ट्रान् अजाविकान् दासीदासं धनं धान्यं सवत्सा गाः पयस्विनीः भूमिं यूपसहस्राङ्कां कण्वाय बहुदक्षिणाम् बहूनां ब्रह्मकल्पानां धनं दत्त्वा क्रतून् बहून् ग्रामान् गृहाणि क्षेत्राणि कोटिशो ऽयुतशस् तथा कृत्वा पैतामहे लोके वासं चक्रे महारथः जनमेजय उवाच श्रुतस् त्वत्तो मया विप्र पूर्वेषां संभवो महान् उदाराश् चापि वंशे ऽस्मिन् राजानो मे परिश्रुताः किं तु लघ्वर्थसंयुक्तं प्रियाख्यानं न माम् अति प्रीणात्य् अतो भवान् भूयो विस्तरेण ब्रवीतु मे एताम् एव कथां दिव्याम् आ प्रजापतितो मनोः तेषाम् आजननं पुण्यं कस्य न प्रीतिम् आवहेत् सद्धर्मगुणमाहात्म्यैर् अभिवर्धितम् उत्तमम् विष्टभ्य लोकांस् त्रीन् एषां यशः स्फीतम् अवस्थितम् गुणप्रभाववीर्यौजःसत्त्वोत्साहवताम् अहम् न तृप्यामि कथां शृण्वन्न् अमृतास्वादसंमिताम् वैशंपायन उवाच शृणु राजन् पुरा सम्यङ् मया द्वैपायनाच् छ्रुतम् प्रोच्यमानम् इदं कृत्स्नं स्ववंशजननं शुभम् पूरोर् वंशम् अहं धन्यं राज्ञाम् अमिततेजसाम् प्रवक्ष्यामि पितॄणां ते तेषां नामानि मे शृणु अव्यक्तप्रभवो ब्रह्मा शाश्वतो नित्य (!) अव्ययः तस्मान् मरीचिः संजज्ञे दक्षश् चैव प्रजापतिः मरीचेः कश्यपः पुत्रो दक्षस्य दुहितादितिः दक्षस्यादितिः अदितेर् विवस्वान् विवस्वतो मनुः मनोर् इला इलायाः पुरूरवाः पुरूरवस आयुः आयुषो नहुषः नहुषस्य ययातिः अङ्गुष्ठाद् दक्षम् असृजच् चक्षुर्भ्यां च मरीचिनम् ययातेर् द्वे भार्ये बभूवतुः उशनसो दुहिता देवयानी वृषपर्वणश् च दुहिता शर्मिष्ठा नाम अत्रानुवंशो भवति यदुं च तुर्वसुं चैव देवयानी व्यजायत द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी तत्र यदोर् यादवाः पूरोः पौरवाः पूरोर् भार्या कौसल्या नाम तस्याम् अस्य जज्ञे जनमेजयो नाम यस् त्रीन् अश्वमेधान् आजहार विश्वजिता चेष्ट्वा वनं प्रविवेश जनमेजयः खल्व् अनन्तां नामोपयेमे माधवीम् तस्याम् अस्य जज्ञे प्राचिन्वान् यः प्राचीं दिशं जिगाय यावत् सूर्योदयात् ततस् तस्य प्राचिन्वत्वम् प्राचिन्वान् खल्व् अश्मकीम् उपयेमे तस्याम् अस्य जज्ञे संयातिः संयातिः खलु दृषद्वतो दुहितरं वराङ्गीं नामोपयेमे तस्याम् अस्य जज्ञे अहंपातिः अहंपातिस् तु खलु कृतवीर्यदुहितरम् उपयेमे भानुमतीं नाम तस्याम् अस्य जज्ञे सार्वभौमः सार्वभौमः खलु जित्वाजहार कैकेयीं सुनन्दां नाम तस्याम् अस्य जज्ञे जयत्सेनः जयत्सेनः खलु वैदर्भीम् उपयेमे सुषुवां नाम तस्याम् अस्य जज्ञे अराचीनः अराचीनो ऽपि वैदर्भीम् एवापराम् उपयेमे मर्यादां नाम तस्याम् अस्य जज्ञे महाभौमः तस्याम् अस्य जज्ञे अरिहः | अरिहः खल्वाङ्गीम् उपयेमे | महाभौमः खलु प्रासेनजितीम् उपयेमे सुयज्ञां नाम तस्याम् अस्य जज्ञे अयुतनायी यः पुरुषमेधानाम् अयुतम् आनयत् तद् अस्यायुतनायित्वम् अयुतनायी खलु पृथुश्रवसो दुहितरम् उपयेमे भासां नाम तस्याम् अस्य जज्ञे अक्रोधनः अक्रोधनः खलु कालिङ्गीं करण्डुं नामोपयेमे तस्याम् अस्य जज्ञे देवातिथिः देवातिथिः खलु वैदेहीम् उपयेमे मर्यादां नाम तस्याम् अस्य जज्ञे ऋचः ऋचः खल्व् आङ्गेयीम् उपयेमे सुदेवां नाम तस्यां पुत्रम् अजनयद् ऋक्षम् ऋक्षः खलु तक्षकदुहितरम् उपयेमे ज्वालां नाम तस्यां पुत्रं मतिनारं नामोत्पादयाम् आस मतिनारः खलु सरस्वत्यां द्वादशवार्षिकं सत्रम् आजहार निवृत्ते च सत्रे सरस्वत्य् अभिगम्य तं भर्तारं वरयाम् आस तस्यां पुत्रम् अजनयत् तंसुं नाम अत्रानुवंशो भवति तंसुं सरस्वती पुत्रं मतिनाराद् अजीजनत् इलिनं जनयाम् आस कालिन्द्यां तंसुर् आत्मजम् इलिनस् तु रथंतर्यां दुःषन्ताद्यान् पञ्च पुत्रान् अजनयत् जनमेजयम् उत्पादयाम् आस | जनमेजयस् तु खलु लक्ष्मणां नाम भागीरथीम् उपयेमे | तस्यां दुःषन्तस् तु खलु लक्षणां नाम भागीरथीम् उपयेमे | तस्याम् अस्य जज्ञे जनमेजयः | दुःषन्तः खलु विश्वामित्रदुहितरं शकुन्तलां नामोपयेमे तस्याम् अस्य जज्ञे भरतः तत्र श्लोकौ भवतः माता भस्त्रा पितुः पुत्रो येन जातः स एव सः भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम् रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात् त्वं चास्य धाता गर्भस्य सत्यम् आह शकुन्तला ततो ऽस्य भरतत्वम् भरतः खलु काशेयीम् उपयेमे सार्वसेनीं सुनन्दां नाम तस्याम् अस्य जज्ञे भुमन्युः भुमन्युः खलु दाशार्हीम् उपयेमे जयां नाम तस्याम् अस्य जज्ञे सुहोत्रः सुहोत्रः खल्व् इक्ष्वाकुकन्याम् उपयेमे सुवर्णां नाम तस्याम् अस्य जज्ञे हस्ती य इदं हास्तिनपुरं मापयाम् आस एतद् अस्य हास्तिनपुरत्वम् हस्ती खलु त्रैगर्तीम् उपयेमे यशोधरां नाम तस्याम् अस्य जज्ञे विकुण्ठनः विकुण्ठनः खलु दाशार्हीम् उपयेमे सुदेवां नाम तस्याम् अस्य जज्ञे ऽजमीढः अजमीढस्य चतुर्विंशं पुत्रशतं बभूव कैकेय्यां नागायां गान्धार्यां विमलायाम् ऋक्षायां चेति पृथक् पृथग् वंशकरा नृपतयः तत्र वंशकरः संवरणः संवरणः खलु वैवस्वतीं तपतीं नामोपयेमे तस्याम् अस्य जज्ञे कुरुः कुरुः खलु दाशार्हीम् उपयेमे शुभाङ्गीं नाम तस्याम् अस्य जज्ञे विडूरथः विडूरथस् तु मागधीम् उपयेमे संप्रियां नाम तस्याम् अस्य जज्ञे ऽरुग्वान् नाम अरुग्वान् खलु मागधीम् उपयेमे ऽमृतां नाम तस्याम् अस्य जज्ञे परिक्षित् परिक्षित् खलु बाहुदाम् उपयेमे सुयशां नाम तस्याम् अस्य जज्ञे भीमसेनः भीमसेनः खलु कैकेयीम् उपयेमे सुकुमारीं नाम तस्याम् अस्य जज्ञे पर्यश्रवाः यम् आहुः प्रतीपं नाम प्रतीपः खलु शैब्याम् उपयेमे सुनन्दां नाम तस्यां पुत्रान् उत्पादयाम् आस देवापिं शंतनुं बाह्लीकं चेति देवापिः खलु बाल एवारण्यं प्रविवेश शंतनुस् तु महीपालो ऽभवत् अत्रानुवंशो भवति यं यं कराभ्यां स्पृशति जीर्णं स सुखम् अश्नुते पुनर् युवा च भवति तस्मात् तं शंतनुं विदुः तद् अस्य शंतनुत्वम् शंतनुः खलु गङ्गां भागीरथीम् उपयेमे तस्याम् अस्य जज्ञे देवव्रतः यम् आहुर् भीष्म इति भीष्मः खलु पितुः प्रियचिकीर्षया सत्यवतीम् उदवहन् मातरम् याम् आहुर् गन्धकालीति तस्यां कानीनो गर्भः पराशराद् द्वैपायनः तस्याम् एव शंतनोर् द्वौ पुत्रौ बभूवतुः चित्राङ्गदो विचित्रवीर्यश् च तयोर् अप्राप्तयौवन एव चित्राङ्गदो गन्धर्वेण हतः विचित्रवीर्यस् तु राजा समभवत् विचित्रवीर्यः खलु कौसल्यात्मजे ऽम्बिकाम्बालिके काशिराजदुहितराव् उपयेमे विचित्रवीर्यस् त्व् अनपत्य एव विदेहत्वं प्राप्तः ततः सत्यवती चिन्तयाम् आस दौःषन्तो वंश उच्छिद्यते इति सा द्वैपायनम् ऋषिं चिन्तयाम् आस स तस्याः पुरतः स्थितः किं करवाणीति सा तम् उवाच भ्राता तवानपत्य एव स्वर्यातो विचित्रवीर्यः साध्व् अपत्यं तस्योत्पादयेति स परम् इत्य् उक्त्वा त्रीन् पुत्रान् उत्पादयाम् आस धृतराष्ट्रं पाण्डुं विदुरं चेति तत्र धृतराष्ट्रस्य राज्ञः पुत्रशतं बभूव गान्धार्यां वरदानाद् द्वैपायनस्य तेषां धृतराष्ट्रस्य पुत्राणां चत्वारः प्रधाना बभूवुर् दुर्योधनो दुःशासनो विकर्णश् चित्रसेन इति पाण्डोस् तु द्वे भार्ये बभूवतुः कुन्ती माद्री चेत्य् उभे स्त्रीरत्ने अथ पाण्डुर् मृगयां चरन् मैथुनगतम् ऋषिम् अपश्यन् मृग्यां वर्तमानम् तथैवाप्लुतम् अनासादितकामरसम् अतृप्तं बाणेनाभिजघान स बाणविद्ध उवाच पाण्डुम् चरता धर्मम् इमं येन त्वयाभिज्ञेन कामरसस्याहम् अनवाप्तकामरसो ऽभिहतस् तस्मात् त्वम् अप्य् एताम् अवस्थाम् आसाद्यानवाप्तकामरसः पञ्चत्वम् आप्स्यसि क्षिप्रम् एवेति यो ऽकृतार्थं हि मां क्रूर बाणेनाहन् मृगव्रतम् त्वाम् अप्य् एतादृशो भावः क्षिप्रम् एवागमिष्यति स विवर्णरूपः पाण्डुः शापं परिहरमाणो नोपासर्पत भार्ये वाक्यं चोवाच स्वचापल्याद् इदं प्राप्तवान् अहम् शृणोमि च नानपत्यस्य लोका सन्तीति सा त्वं मदर्थे पुत्रान् उत्पादयेति कुन्तीम् उवाच सा तत्र पुत्रान् उत्पादयाम् आस धर्माद् युधिष्ठिरं मारुताद् भीमसेनं शक्राद् अर्जुनम् इति स तां हृष्टरूपः पाण्डुर् उवाच इयं ते सपत्न्यनपत्या साध्व् अस्याम् अपत्यम् उत्पाद्यताम् इति स एवम् अस्त्व् इत्य् उक्तः कुन्त्या ततो माद्र्याम् अश्विभ्यां नकुलसहदेवाव् उत्पादितौ माद्रीं खल्व् अलंकृतां दृष्ट्वा पाण्डुर् भावं चक्रे स तां स्पृष्ट्वैव विदेहत्वं प्राप्तः तत्रैनं चितास्थं माद्री समन्वारुरोह उवाच कुन्तीम् यमयोर् आर्ययाप्रमत्तया भवितव्यम् इति ततस् ते पञ्च पाण्डवाः कुन्त्या सहिता हास्तिनपुरम् आनीय तापसैर् भीष्मस्य विदुरस्य च निवेदिताः सर्ववर्णानां च निवेद्यान्तर्हितास् तापसा बभूवुः प्रेक्षमाणानाम् एव तेषाम् | तच् च वाक्यम् उपश्रुत्य भगवताम् अन्तरिक्षात् पुष्पवृष्टिः पपात देवदुन्दुभयश् च प्रणेदुः | प्रतिगृहीताश् च पाण्डवाः पितुर् निधनम् आवेदयन् | तस्यौर्ध्वदेहिकं न्यायतः कृतवन्तः | तांस् तत्र निवसतः पाण्डवान् बाल्यात् प्रभृति दुर्योधनो नामर्षयत् | पापाचारो राक्षसीं बुद्धिम् आश्रितो ऽनेकैर् उपायैर् उद्धर्तुं च व्यवसितो भावित्वाच् चार्थस्य न शकिताः समुद्धर्तुम् | ततश् च धृतराष्ट्रेण व्याजेन वारणावतम् अनु प्रहिता गमनम् अरोचयन् | तत्रापि जतुगृहे दग्धुं समारब्धा न शकिता विदुरमन्त्रितेन ततश् च हिडिम्बम् अन्तरा हत्वा एकचक्रां गताः तस्याम् अप्य् एकचक्रायां बकं नाम राक्षसं हत्वा पाञ्चालनगरम् अभिगताः तस्माद् द्रौपदीं भार्याम् अविन्दन् स्वविषयं चाजग्मुः कुशलिनः पुत्रांश् चोत्पादयाम् आसुः प्रतिविन्ध्यं युधिष्ठिरः सुतसोमं वृकोदरः श्रुतकीर्तिम् अर्जुनः शतानीकं नकुलः श्रुतकर्माणं सहदेव इति युधिष्ठिरस् तु गोवासनस्य शैब्यस्य देविकां नाम कन्यां स्वयंवरे लेभे तस्यां पुत्रं जनयाम् आस यौधेयं नाम भीमसेनो ऽपि काश्यां बलधरां नामोपयेमे वीर्यशुल्काम् तस्यां पुत्रं सर्वगं नामोत्पादयाम् आस अर्जुनः खलु द्वारवतीं गत्वा भगिनीं वासुदेवस्य सुभद्रां नाम भार्याम् उदवहत् तस्यां पुत्रम् अभिमन्युं नाम जनयाम् आस सो ऽर्जुनस् तु नागकन्यायाम् उलूप्याम् इरावन्तं नाम पुत्रं जनयाम् आस | मणलूरपतिकन्यायां चित्राङ्गदायाम् अर्जुनः पुत्रम् उत्पादयाम् आस बभ्रुवाहनं नाम | नकुलस् तु चैद्यां करेणुवतीं नाम भार्याम् उदवहत् तस्यां पुत्रं निरमित्रं नामाजनयत् सहदेवो ऽपि माद्रीम् एव स्वयंवरे विजयां नामोपयेमे तस्यां पुत्रम् अजनयत् सुहोत्रं नाम भीमसेनस् तु पूर्वम् एव हिडिम्बायां राक्षस्यां घटोत्कचं नाम पुत्रं जनयाम् आस इत्य् एते एकादश पाण्डवानां पुत्राः इत्य् एत एकादश पाण्डवानां पुत्रा मया ते कथिता नरेन्द्र तेषाम् अभूद् वंशकरो महात्मा वीरः सुभद्रातनयो ऽभिमन्युः विराटस्य दुहितरम् उत्तरां नामाभिमन्युर् उपयेमे तस्याम् अस्य परासुर् गर्भो ऽजायत तम् उत्सङ्गेन प्रतिजग्राह पृथा नियोगात् पुरुषोत्तमस्य वासुदेवस्य षाण्मासिकं गर्भम् अहम् एनं जीवयिष्यामीति स भगवता वासुदेवेनासंजातबलवीर्यपराक्रमो ऽकालजातो ऽस्त्राग्निना दग्धस् तेजसा स्वेन संजीवितः | वासुदेव उवाच | अहं जीवयामि कुमारम् अनन्तवीर्यम् | जात एवायम् अभिमन्योः | सत्येन चेयं पृथिवी धारयत्व् इति | वासुदेवस्य पादस्पर्शात् सजीवो ऽजायत | संजीवयित्वा चैनम् उवाच परिक्षीणे कुले जातो भवत्व् अयं परिक्षिन् नामेति परिक्षीणे कुले जात उत्तरायां परंतपः परिक्षिद् अभवत् तस्मात् सौभद्रात् तु यशस्विनः परिक्षित् तु खलु माद्रवतीं नामोपयेमे तस्याम् अस्य जनमेजयः जनमेजयात् तु वपुष्टमायां द्वौ पुत्रौ शतानीकः शङ्कुश् च शतानीकस् तु खलु वैदेहीम् उपयेमे तस्याम् अस्य जज्ञे पुत्रो ऽश्वमेधदत्तः इत्य् एष पूरोर् वंशस् तु पाण्डवानां च कीर्तितः पूरोर् वंशम् इमं श्रुत्वा सर्वपापैः प्रमुच्यते इतिहासम् इमं पुण्यम् अशेषतः श्रावयिष्यन्ति ये ब्राह्मणाः श्रोष्यन्ति वा नियतात्मानो विमत्सरा मैत्रा देवपरास् ते ऽपि स्वर्गजितः पुण्यलोका भवन्ति सततं देवब्राह्मणमनुष्याणां मान्याः संपूज्याश् च | परं हीदं भारतं भगवता व्यासेन प्रोक्तं पावनं ये ब्राह्मणादयो वर्णाः श्रद्दधाना विमत्सरा मैत्रा वेदव्रतसंपन्नाः श्रोष्यन्ति ते ऽपि स्वर्गजितः सुकृतिनो ऽशोच्याः कृताकृते भवन्ति | भवति चात्र श्लोकः इदं हि वेदैः समितं पवित्रम् अपि चोत्तमम् धन्यं यशस्यम् आयुष्यं श्रोतव्यं नियतात्मभिः वैशंपायन उवाच इक्ष्वाकुवंशप्रभवो राजासीत् पृथिवीपतिः महाभिष इति ख्यातः सत्यवाक् सत्यविक्रमः सो ऽश्वमेधसहस्रेण वाजपेयशतेन च तोषयाम् आस देवेन्द्रं स्वर्गं लेभे ततः प्रभुः यौवनं चानुसंप्राप्तं कुमारं वदतां वरम् संस्मरंश् चाक्षयांल् लोकान् विदितांश् च स्वकर्मणा ततः कदा चिद् ब्रह्माणम् उपासां चक्रिरे सुराः तत्र राजर्षयो आसन् स च राजा महाभिषः अथ गङ्गा सरिच्छ्रेष्ठा समुपायात् पितामहम् तस्या वासः समुद्धूतं मारुतेन शशिप्रभम् ततो ऽभवन् सुरगणाः सहसावाङ्मुखास् तदा महाभिषस् तु राजर्षिर् अशङ्को दृष्टवान् नदीम् अपध्यातो भगवता ब्रह्मणा स महाभिषः उक्तश् च जातो मर्त्येषु पुनर् लोकान् अवाप्स्यसि मनुष्येषु चिरं स्थित्वा लोकान् प्राप्स्यसि शोभनान् यया हृतमनाश् चासि गङ्गया त्वं सुदुर्मते सा ते वै मानुषे लोके विप्रियाण्य् आचरिष्यति यदा ते भविता मन्युस् तदा शापाद् विमोक्ष्यसे स चिन्तयित्वा नृपतिर् नृपान् सर्वांस् तपोधनान् प्रतीपं रोचयाम् आस पितरं भूरिवर्चसम् महाभिषं तु तं दृष्ट्वा नदी धैर्याच् च्युतं नृपम् तम् एव मनसाध्यायम् उपावर्तत् सरिद्वरा भावं मनसि वै कृत्वा जगाम नृपतिं पतिम् सा तु विध्वस्तवपुषः कश्मलाभिहतौजसः ददर्श पथि गच्छन्ती वसून् देवान् दिवौकसः तथारूपांश् च तान् दृष्ट्वा पप्रच्छ सरितां वरा किम् इदं नष्टरूपाः स्थ कच्चित् क्षेमं दिवौकसाम् सुखानि न प्रसन्नानि विवर्णानि कृतानि किम् किमर्थं मनुजा भूमौ निपतिष्यन्ति दुःखिताः ताम् ऊचुर् वसवो देवाः शप्ताः स्मो वै महानदि अल्पे ऽपराधे संरम्भाद् वसिष्ठेन महात्मना विमूढा हि वयं सर्वे प्रच्छन्नम् ऋषिसत्तमम् संध्यां वसिष्ठम् आसीनं तम् अत्यभिसृताः पुरा तेन कोपाद् वयं शप्ता योनौ संभवतेति ह न शक्यम् अन्यथा कर्तुं यद् उक्तं ब्रह्मवादिना त्वं तस्मान् मानुषी भूत्वा सूष्व पुत्रान् वसून् भुवि न मानुषीणां जठरं प्रविशेमाशुभं वयम् इत्य् उक्ता तान् वसून् गङ्गा तथेत्य् उक्त्वाब्रवीद् इदम् मर्त्येषु पुरुषश्रेष्ठः को वः कर्ता भविष्यति इत्य् उक्ता गङ्गया ते च ताम् ऊचुर् वसवस् तदा वसव ऊचुः प्रतीपस्य सुतो राजा शंतनुर् नाम धार्मिकः भविता मानुषे लोके स नः कर्ता भविष्यति गङ्गोवाच ममाप्य् एवं मतं देवा यथावदत मानघाः प्रियं तस्य करिष्यामि युष्माकं चैतद् ईप्शितम् वसव ऊचुः जातान् कुमारान् स्वान् अप्सु प्रक्षेप्तुं वै त्वम् अर्हसि यथा नचिरकालं नो निष्कृतिः स्यात् त्रिलोकगे गङ्गोवाच एवम् एतत् करिष्यामि पुत्रस् तस्य विधीयताम् नास्य मोघः संगमः स्यात् पुत्रहेतोर् मया सह वसव ऊचुः तुरीयार्धं प्रदास्यामो वीर्यस्यैकैकशो वयम् तेन वीर्येण पुत्रस् ते भविता तस्य चेप्सितः न संपत्स्यति मर्त्येषु पुनस् तस्य तु संततिः तस्माद् अपुत्रः पुत्रस् ते भविष्यति स वीर्यवान् वैशंपायन उवाच एवं ते समयं कृत्वा गङ्गया वसवः सह जग्मुः प्रहृष्टमनसो यथासंकल्पम् अञ्जसा सा तु विध्वस्तवपुषं कश्मलाभिहतं नृप वैशंपायन उवाच ततः प्रतीपो राजा स सर्वभूतहिते रतः निषसाद समा बह्वीर् गङ्गातीरगतो जपन् तस्य रूपगुणोपेता गङ्गा श्रीर् इव रूपिणी उत्तीर्य सलिलात् तस्माल् लोभनीयतमाकृतिः अधीयानस्य राजर्षेर् दिव्यरूपा मनस्विनी दक्षिणं शालसंकाशम् ऊरुं भेजे शुभानना प्रतीपस् तु महीपालस् ताम् उवाच मनस्विनीम् वाक्यं वाक्यविदां श्रेष्ठो धर्मनिश्चयतत्त्ववित् करवाणि किं ते कल्याणि प्रियं यत् ते ऽभिकाङ्क्षितम् स्त्र्य् उवाच त्वाम् अहं कामये राजन् कुरुश्रेष्ठ भजस्व माम् त्यागः कामवतीनां हि स्त्रीणां सद्भिर् विगर्हितः प्रतीप उवाच नाहं परस्त्रियं कामाद् गच्छेयं वरवर्णिनि न चासवर्णां कल्याणि धर्म्यं तद् विद्धि मे व्रतम् यः स्वदारान् परित्यज्य पारक्यां सेवते स्वयम् स संसारान् न मुच्येत यावद् आभूतसंप्लवम् स्त्र्य् उवाच नाश्रेयस्य् अस्मि नागम्या न वक्तव्या च कर्हि चित् भज मां भजमानां त्वं राजन् कन्यां वरस्त्रियम् प्रतीप उवाच मयातिवृत्तम् एतत् ते यन् मां चोदयसि प्रियम् अन्यथा प्रतिपन्नं मां नाशयेद् धर्मविप्लवः प्राप्य दक्षिणम् ऊरुं मे त्वम् आश्लिष्टा वराङ्गने अपत्यानां स्नुषाणां च भीरु विद्ध्य् एतद् आसनम् सव्यतः कामिनीभागस् त्वया स च विवर्जितः तस्माद् अहं नाचरिष्ये त्वयि कामं वराङ्गने स्नुषा मे भव कल्याणि पुत्रार्थे त्वां वृणोम्य् अहम् स्नुषापक्षं हि वामोरु त्वम् आगम्य समाश्रिता स्त्र्य् उवाच एवम् अप्य् अस्तु धर्मज्ञ संयुज्येयं सुतेन ते त्वद्भक्त्यैव भजिष्यामि प्रख्यातं भारतं कुलम् पृथिव्यां पार्थिवा ये च तेषां यूयं परायणम् गुणा न हि मया शक्या वक्तुं वर्षशतैर् अपि कुलस्य ये वः प्रस्थितास् तत्साधुत्वम् अनुत्तमम् स मे नाभिजनज्ञः स्याद् आचरेयं च यद् विभो तत् सर्वम् एव पुत्रस् ते न मीमांसेत कर्हि चित् एवं वसन्ती पुत्रे ते वर्धयिष्याम्य् अहं प्रियम् पुत्रैः पुण्यैः प्रियैश् चापि स्वर्गं प्राप्स्यति ते सुतः वैशंपायन उवाच तथेत्य् उक्त्वा तु सा राजंस् तत्रैवान्तरधीयत अदृश्या राजसिंहस्य पश्यतः साभवत् तदा पुत्रजन्म प्रतीक्षंस् तु स राजा तद् अधारयत् एतस्मिन्न् एव काले तु प्रतीपः क्षत्रियर्षभः तपस् तेपे सुतस्यार्थे सभार्यः कुरुनन्दन प्रतीपस्य तु भार्यायां गर्भः श्रीमान् अवर्धत श्रिया परमया युक्तः शरच्छुक्ले यथा शशी ततस् तु दशमे मासि प्राजायत रविप्रभम् कुमारं देवगर्भाभं प्रतीपमहिषी तदा तयोः समभवत् पुत्रो वृद्धयोः स महाभिषः शान्तस्य जज्ञे संतानस् तस्माद् आसीत् स शंतनुः तस्य जातस्य कृत्यानि प्रतीपो ऽकारयत् प्रभुः जातकर्मादि विप्रेण वेदोक्तैः कर्मभिस् तदा नामकर्म च विप्रास् तु चक्रुः परमसत्कृतम् शंतनोर् अवनीपाल वेदोक्तैः कर्मभिस् तदा ततः संवर्धितो राजा शंतनुर् लोकधार्मिकः स तु लेभे परां निष्ठां प्राप्य धर्मभृतां वरः धनुर्वेदे च वेदे च गतिं स परमां गतः यौवनं चापि संप्राप्तः कुमारो वदतां वरः दृष्ट्वा तु यौवनस्थं तं तत्प्रीत्या राजसत्तम यौवराज्ये ऽभिषिच्यैनं शंतनुं राजसत्तमः बभूव कर्मकृद् राजा शंतनुर् भरतर्षभ संस्मरंश् चाक्षयांल् लोकान् विजितान् स्वेन कर्मणा महाभिषः स संजज्ञे क्षेत्रे तस्य महात्मनः पुण्यकर्मकृद् एवासीच् छंतनुः कुरुसत्तम प्रतीपः शंतनुं पुत्रं यौवनस्थं ततो ऽन्वशात् पुरा मां स्त्री समभ्यागाच् छंतनो भूतये तव त्वाम् आव्रजेद् यदि रहः सा पुत्र वरवर्णिनी कामयानाभिरूपाढ्या दिव्या स्त्री पुत्रकाम्यया सा त्वया नानुयोक्तव्या कासि कस्यासि वाङ्गने यच् च कुर्यान् न तत् कार्यं प्रष्टव्या सा त्वयानघ मन्नियोगाद् भजन्तीं तां भजेथा इत्य् उवाच तम् एवं संदिश्य तनयं प्रतीपः शंतनुं तदा स्वे च राज्ये ऽभिषिच्यैनं वनं राजा विवेश ह स राजा शंतनुर् धीमान् ख्यातः पृथ्व्यां धनुर्धरः बभूव सर्वलोकस्य सत्यवाग् इति संमतः पीनस्कन्धो महाबाहुर् मत्तवारणविक्रमः अन्वितः परिपूर्णार्थैः सर्वैर् नृपतिलक्षणैः अमात्यसंपदोपेतः क्षत्रधर्मविशेषवित् वशे चक्रे महीम् एको विजित्य वसुधाधिपान् वेदान् आगमयत् कृत्स्नान् राजधर्मांश् च सर्वशः ईजे च बहुभिः सत्रैः क्रतुभिर् भूरिदक्षिणैः तर्पयाम् आस विप्रांश् च वेदाध्ययनकोविदान् रत्नैर् उच्चावचैर् गोभिर् ग्रामैर् अश्वैर् धनैर् अपि वयोरूपेण संपन्नः पौरुषेण बलेन च ऐश्वर्येण प्रतापेन विक्रमेण धनेन च वर्तमानं च सत्येन सर्वधर्मविशारदम् तं महीपं महीपाला राजराजम् अकुर्वत वीतशोकभयाबाधाः सुखस्वप्नप्रबोधनाः श्रिया भरतशार्दूल समपद्यन्त भूमिपाः शंतनुप्रमुखैर् गुप्तं राष्ट्राधिपतिभिर् जगत् नियमैः सर्ववर्णानां ब्रह्मोत्तरम् अवर्तत ब्राह्मणाभिमुखं क्षत्रं क्षत्रियाभिमुखा विशः ब्रह्मक्षत्रानुलोमाश् च शूद्राः पर्यचरन् विशः एवं पशुवराहाणां तथैव मृगपक्षिणाम् शंतनाव् अथ राज्यस्थे नावर्तत वृथा वधः असुखानाम् अनाथानां तिर्यग्योनिषु वर्तताम् स एव राजा सर्वेषां भूतानाम् अभवत् पिता स हस्तिनाम्नि धर्मात्मा विहरन् कुरुनन्दनः तेजसा सूर्यकल्पो ऽभूद् वायुना च समो बले अन्तकप्रतिमः कोपे क्षमया पृथिवीसमः बभूव राजा सुमतिः प्रजानां सत्यविक्रमः स वनेषु च रम्येषु शैलप्रस्रवणेषु च बभूव मृगयाशीलः सततं वनगोचरः स वनेषु वारण्येषु शैलप्रश्रवणेषु च स मृगान् महिषांश् चैव विनिघ्नन् राजसत्तमः नदीम् अन्वचरद् राजा शंतनुः परया मुदा गङ्गाम् अनुचचारैकः सिद्धचारणसेविताम् स कदा चिन् महाराज ददर्श परमस्त्रियम् सा च शंतनुम् अभ्यागाद् अलक्ष्मीम् अपकर्षती जाज्वल्यमानां वपुषा साक्षात् पद्माम् इव श्रियम् सर्वानवद्यां सुदतीं दिव्याभरणभूषिताम् सूक्ष्माम्बरधराम् एकां पद्मोदरसमप्रभाम् स्नातमात्राम् अधोवस्त्रां गङ्गातीररुहे वने प्रकीर्णकेशीं पाणिभ्यां संस्पृशन्तीं शिरोरुहान् रूपेण वयसा कान्त्या शरीरावयवैस् तथा हावभावविलासैश् च लोचनाञ्चलविक्रियैः श्रोणीभरेण मध्येन स्तनाभ्याम् उरसा दृशा कबरीभरेण पादाभ्याम् इङ्गितेन स्मितेन च कोकिलालापसंलापैर् न्यक्कुर्वन्तीं त्रिलोकगाम् वाणीं च गिरिजां लक्ष्मीं योषितो ऽन्याः सुराङ्गनाः स्नेहात् काङ्क्षेण राजानं वीक्षमाणां विलासिनीम् तां दृष्ट्वा हृष्टरोमाभूद् विस्मितो रूपसंपदा रूपेणाति च सा राजन् सर्वराजन्ययोषितः अधश् चकार रूपेण सर्वराजन्ययोषितः ताम् उवाच ततो राजा कामिनीं तु मनोरमाम् पिबन्न् इव च नेत्राभ्यां नातृप्यत नराधिपः सा च दृष्ट्वैव राजानं विचरन्तं महाद्युतिम् स्नेहाद् आगतसौहार्दा नातृप्यत विलासिनी गङ्गा काङ्क्षेण राजानं प्रेक्षमाणा विलासिनी चञ्चूर्यताग्रतस् तस्य किंनरीवाप्सरोपमा दृष्ट्वा प्रहृष्टरूपो ऽभूद् दर्शनाद् एव शंतनुः रूपेणातीत्य तिष्ठन्तीं सर्वा राजन्ययोषितः ताम् उवाच ततो राजा सान्त्वयञ् श्लक्ष्णया गिरा देवी वा दानवी वा त्वं गन्धर्वी यदि वाप्सराः यक्षी वा पन्नगी वापि मानुषी वा सुमध्यमे या वा त्वं सुरगर्भाभे भार्या मे भव शोभने त्वद्गता हि मम प्राणा वसु यन् मे ऽस्ति किं चन एतच् छ्रुत्वा वचो राज्ञः सस्मितं मृदु वल्गु च यशस्विनी च सागच्छच् छंतनोर् भूतये तदा सा च दृष्ट्वा नृपश्रेष्ठं चरन्ती तीरम् आश्रितम् प्रजार्थिनी राजपुत्रं शंतनुं पृथिवीपतिम् प्रतीपवचनं चापि संस्मृत्यैव स्वयं नृपम् कालो ऽयम् इति मत्वा सा वसूनां शापचोदिता अब्रवीच् छंतनुं गङ्गा भज मां त्वं नराधिप वसूनां समयं स्मृत्वा अभ्यगच्छद् अनिन्दिता उवाच चैव राज्ञः सा ह्लादयन्ती मनो गिरा भविष्यामि महीपाल महिषी ते वशानुगा ज्ञातो ऽसि मह्यं पित्रा ते भर्ता मे त्वं भव प्रभो ननु त्वं वा द्वितीयो वा ज्ञातुम् इच्छेः कथं चन यत् तु कुर्याम् अहं राजञ् शुभं वा यदि वाशुभम् न तद् वारयितव्यास्मि न वक्तव्या तथाप्रियम् एवं हि वर्तमाने ऽहं त्वयि वत्स्यामि पार्थिव वारिता विप्रियं चोक्ता त्यजेयं त्वाम् असंशयम् एष मे समयो राजन् भज मां त्वं यथेप्सितम् अनुनीतास्मि ते पित्रा भर्ता मे त्वं भव प्रभो तथेति राज्ञा सा तूक्ता तदा भरतसत्तम प्रहर्षम् अतुलं लेभे प्राप्य तं पार्थिवोत्तमम् प्रतिज्ञाय तु तत् तस्यास् तथेति मनुजाधिपः रथम् आरोप्य तां देवीं जगाम स तया सह सा च शंतनुम् अभ्यागात् साक्षाल् लक्ष्मीर् इवापरा आसाद्य शंतनुस् तां च बुभुजे कामतो वशी . . . . . . . . गान्धर्वेण विधानतः विवाहितां च राज्ञेन . . . . . . . . न प्रष्टव्येति मन्वानो न स तां किं चिद् ऊचिवान् स तस्याः शीलवृत्तेन रूपौदार्यगुणेन च उपचारेण च रहस् तुतोष जगतीपतिः स राजा परमप्रीतः परमस्त्रीप्रलालितः दिव्यरूपा हि सा देवी गङ्गा त्रिपथगा नदी मानुषं विग्रहं श्रीमत् कृत्वा सा वरवर्णिनी भाग्योपनतकामस्य भार्येवोपस्थिताभवत् शंतनो राजसिंहस्य देवराजसमद्युतेः संभोगस्नेहचातुर्यैर् हावलास्यैर् मनोहरैः राजानं रमयाम् आस यथा रेमे तथैव सः स राजा रतिसक्तत्वाद् उत्तमस्त्रीगुणैर् हृतः संवत्सरान् ऋतून् मासान् न बुबोध बहून् गतान् रममाणस् तया सार्धं यथाकामं जनेश्वरः दिविष्ठान् मानुषांश् चैव भोगान् भुङ्क्ते स्म वै नृपः आसाद्य शंतनुः श्रीमान् मुमुदे च परंतपः ऋतुकाले च सा देवी दिव्यं गर्भम् अधारयत् अष्टाव् अजनयत् पुत्रांस् तस्याम् अमरवर्णिनः जातं जातं च सा पुत्रं क्षिपत्य् अम्भसि भारत सूतके कण्ठम् आक्रम्य तान् निनाय यमक्षयम् प्रीणामि त्वाहम् इत्य् उक्त्वा गङ्गास्रोतस्य् अमज्जयत् तस्य तन् न प्रियं राज्ञः शंतनोर् अभवत् तदा न च तां किं चनोवाच त्यागाद् भीतो महीपतिः अमीमांस्या कर्मयोनिर् आगमश् चेति शंतनुः स्मरन् पितृवचश् चैव नापृच्छत् पुत्रकिल्बिषम् जातं जातं च वै हन्ति सा स्त्री सप्त वरान् सुतान् शंतनुर् धर्मभङ्गाच् च नापृच्छत् तां कथं चन अष्टमं तु जिघांसन्त्या चुक्षुभे शंतनोर् धृतिः अथ ताम् अष्टमे पुत्रे जाते प्रहसिताम् इव उवाच राजा दुःखार्तः परीप्सन् पुत्रम् आत्मनः आरभन्तीं तदा दृष्ट्वा तां स कौरवनन्दनः अब्रवीद् भरतश्रेष्ठो वाक्यं परमदुःखितः मा वधीः कासि कस्यासि किं हिंससि सुतान् इति पुत्रघ्नि सुमहत् पापं मा प्रापस् तिष्ठ गर्हिते स्त्र्य् उवाच पुत्रकाम न ते हन्मि पुत्रं पुत्रवतां वर जीर्णस् तु मम वासो ऽयं यथा स समयः कृतः अहं गङ्गा जह्नुसुता महर्षिगणसेविता देवकार्यार्थसिद्ध्यर्थम् उषिटाहं त्वया सह अष्टेमे वसवो देवा महाभागा महौजसः वसिष्ठशापदोषेण मानुषत्वम् उपागताः तेषां जनयिता नान्यस् त्वद् ऋते भुवि विद्यते मद्विधा मानुषी धात्री न चैवास्तीह का चन तस्मात् तज्जननीहेतोर् मानुषत्वम् उपागता वसवस् ते सुता जाता राजंल् लोकस्य कीर्तये जनयित्वा वसून् अष्टौ जिता लोकास् त्वयाक्षयाः देवानां समयस् त्व् एष वसूनां संश्रुतो मया जातं जातं मोक्षयिष्ये जन्मतो मानुषाद् इति तत् ते शापाद् विनिर्मुक्ता आपवस्य महात्मनः स्वस्ति ते ऽस्तु गमिष्यामि पुत्रं पाहि महाव्रतम् अयं तव सुतस् तेषां वीर्येण कुलनन्दनः संभूतो ऽति जनान् अन्यान् भविष्यति न संशयः एष पर्यायवासो मे वसूनां संनिधौ कृतः मत्प्रसूतं विजानीहि गङ्गादत्तम् इमं सुतम् तस्माद् देवव्रतश् चैव गङ्गादत्तश् च वीर्यवान् द्विनामा शंतनोः पुत्रः शंतनोर् अधिको गुणैः तेषां लोकान् अवाप्नोति वसूनां वसुधाधिप शंतनुर् उवाच आपवो नाम को न्व् एष वसूनां किं च दुष्कृतम् शशाप यस्मात् कल्याणि स वसूंश् चारुदर्शने यस्याभिशापात् ते सर्वे मानुषीं तनुम् आगताः अनेन च कुमारेण गङ्गादत्तेन किं कृतम् यस्य चैव कृतेनायं मानुषेषु निवत्स्यति ईशानाः सर्वलोकस्य वसवस् ते च वै कथम् मानुषेषूदपद्यन्त तन् ममाचक्ष्व जाह्नवि वैशंपायन उवाच सैवम् उक्ता ततो गङ्गा राजानम् इदम् अब्रवीत् भर्तारं जाह्नवी देवी शंतनुं पुरुषर्षभम् यं लेभे वरुणः पुत्रं पुरा भरतसत्तम वसिष्ठो नाम स मुनिः ख्यात आपव इत्य् उत तस्याश्रमपदं पुण्यं मृगपक्षिगणान्वितम् मेरोः पार्श्वे नगेन्द्रस्य सर्वर्तुकुसुमावृतम् स वारुणिस् तपस् तेपे तस्मिन् भरतसत्तम वने पुण्यकृतां श्रेष्ठः स्वादुमूलफलोदके दक्षस्य दुहिता या तु सुरभीत्य् अतिगर्विता गां प्रजाता तु सा देवी कश्यपाद् भरतर्षभ अनुग्रहार्थं जगतः सर्वकामदुघां वराम् तां लेभे गां तु धर्मात्मा होमधेनुं स वारुणिः सा तस्मिंस् तापसारण्ये वसन्ती मुनिसेविते चचार रम्ये धर्म्ये च गौर् अपेतभया तदा अथ तद् वनम् आजग्मुः कदा चिद् भरतर्षभ पृथ्वाद्या वसवः सर्वे देवदेवर्षिसेवितम् ते सदारा वनं तच् च व्यचरन्त समन्ततः रेमिरे रमणीयेषु पर्वतेषु वनेषु च तत्रैकस्य तु भार्या वै वसोर् वासवविक्रम सा चरन्ती वने तस्मिन् गां ददर्श सुमध्यमा या सा वसिष्ठस्य मुनेः सर्वकामधुग् उत्तमा सा विस्मयसमाविष्टा शीलद्रविणसंपदा दिवे वै दर्शयाम् आस तां गां गोवृषभेक्षण षडुन्नतां सुपार्श्वोरुं पृथुपञ्चसमायताम् अष्टायतशिरोग्रीवां पृथुस् तां समपद्यत स्वापीनां च सुदोग्ध्रीं च सुवालधिमुखां शुभाम् उपपन्नां गुणैः सर्वैः शीलेनानुत्तमेन च एवंगुणसमायुक्तां वसवे वसुनन्दिनी दर्शयाम् आस राजेन्द्र पुरा पौरवनन्दन द्यौस् तदा तां तु दृष्ट्वैव गां गजेन्द्रेन्द्रविक्रम उवाच राजंस् तां देवीं नृपोत्तम सुमध्यमां उवाच राजंस् तां देवीं तस्या रूपगुणान् वदन् एषा गौर् उत्तमा देवि वारुणेर् असितेक्षणे ऋषेस् तस्य वरारोहे यस्येदं वनम् उत्तमम् अस्याः क्षीरं पिबेन् मर्त्यः स्वादु यो वै सुमध्यमे दश वर्षसहस्राणि स जीवेत् स्थिरयौवनः एतच् छ्रुत्वा तु सा देवी नृपोत्तम सुमध्यमा तम् उवाचानवद्याङ्गी भर्तारं दीप्ततेजसम् अस्ति मे मानुषे लोके नरदेवात्मजा सखी नाम्ना जिनवती नाम रूपयौवनशालिनी उशीनरस्य राजर्षेः सत्यसंधस्य धीमतः दुहिता प्रथिता लोके मानुषे रूपसंपदा तस्या हेतोर् महाभाग सवत्सां गां ममेप्सिताम् आनयस्वामरश्रेष्ठ त्वरितं पुण्यवर्धन यावद् अस्याः पयः पीत्वा सा सखी मम मानद मानुषेषु भवत्व् एका जरारोगविवर्जिता एतन् मम महाभाग कर्तुम् अर्हस्य् अनिन्दित प्रियं प्रियतरं ह्य् अस्मान् नास्ति मे ऽन्यत् कथं चन एतच् छ्रुत्वा वचस् तस्या देव्याः प्रियचिकीर्षया पृथ्वाद्यैर् भ्रातृभिः सार्धं द्यौस् तदा तां जहार गाम् तया कमलपत्राक्ष्या नियुक्तो द्यौस् तदा नृप ऋषेस् तस्य तपस् तीव्रं न शशाक निरीक्षितुम् हृता गौः सा तदा तेन प्रपातस् तु न तर्कितः अथाश्रमपदं प्राप्तः फलान्य् आदाय वारुणिः न चापश्यत गां तत्र सवत्सां काननोत्तमे ततः स मृगयाम् आस वने तस्मिंस् तपोधनः नाध्यगच्छच् च मृगयंस् तां गां मुनिर् उदारधीः ज्ञात्वा तथापनीतां तां वसुभिर् दिव्यदर्शनः ययौ क्रोधवशं सद्यः शशाप च वसूंस् तदा यस्मान् मे वसवो जह्रुर् गां वै दोग्ध्रीं सुवालधिम् तस्मात् सर्वे जनिष्यन्ति मानुषेषु न संशयः एवं शशाप भगवान् वसूंस् तान् मुनिसत्तमः वशं कोपस्य संप्राप्त आपवो भरतर्षभ शप्त्वा च तान् महाभागस् तपस्य् एव मनो दधे एवं स शप्तवान् राजन् वसून् अष्टौ तपोधनः महाप्रभावो ब्रह्मर्षिर् देवान् रोषसमन्वितः एवं शप्तास् ततस् तेन मुनिना यामुनेन वै अष्टौ समस्ता वसवो मुने रोषेण सत्तम अथाश्रमपदं प्राप्य तं स्म भूयो महात्मनः शप्ताः स्म इति जानन्त ऋषिं तम् उपचक्रमुः प्रसादयन्तस् तम् ऋषिं वसवः पार्थिवर्षभ न लेभिरे च तस्मात् ते प्रसादम् ऋषिसत्तमात् चकार च न तेषां वै प्रसादं भगवान् ऋषिः आपवात् पुरुषव्याघ्र सर्वधर्मविशारदात् उवाच च स धर्मात्मा सप्त यूयं धरादयः अनु संवत्सराच् छापमोक्षं वै समवाप्स्यथ अयं तु यत्कृते यूयं मया शप्ताः स वत्स्यति द्यौस् तदा मानुषे लोके दीर्घकालं स्वकर्मणा नानृतं तच् चिकीर्षामि युष्मान् क्रुद्धो यद् अब्रुवम् प्रजा ह्य् अनृतवाक्येन हिंस्याम् अप्य् आत्मनस् तथा न प्रजास्यति चाप्य् एष मानुषेषु महामनाः भविष्यति च धर्मात्मा सर्वशास्त्रविशारदः पितुः प्रियहिते युक्तः स्त्रीभोगान् वर्जयिष्यति एवम् उक्त्वा वसून् सर्वाञ् जगाम भगवान् ऋषिः ततो माम् उपजग्मुस् ते समस्ता वसवस् तदा अयाचन्त च मां राजन् वरं स च मया कृतः जाताञ् जातान् प्रक्षिपास्मान् स्वयं गङ्गे त्वम् अम्भसि एवं तेषाम् अहं सम्यक् शप्तानां राजसत्तम मोक्षार्थं मानुषाल् लोकाद् यथावत् कृतवत्य् अहम् अयं शापाद् ऋषेस् तस्य एक एव नृपोत्तम द्यौ राजन् मानुषे लोके चिरं वत्स्यति भारत अयं कुमारः पुत्रस् ते विवृद्धः पुनर् एष्यति अहं च ते भविष्यामि आह्वानोपगता नृप एतद् आख्याय सा देवी तत्रैवान्तरधीयत आदाय च कुमारं तं जगामाथ यथेप्सितम् तस्माद् देवव्रतश् चैव गङ्गादत्तश् च सो ऽभवत् स तु देवव्रतो नाम गाङ्गेय इति चाभवत् द्विनामा शंतनोः पुत्रः शंतनोर् अधिको गुणैः शंतनुश् चापि शोकार्तो जगाम स्वपुरं ततः तस्य कीर्तिं च वृत्तिं च महतो नृपसद्गुणान् तस्याहं कीर्तयिष्यामि शंतनोर् अमितान् गुणान् महाभाग्यं च नृपतेर् भारतस्य यशस्विनः यस्येतिहासो द्युतिमान् महाभारतम् उच्यते वैशंपायन उवाच स एवं शंतनुर् धीमान् देवराजर्षिसत्कृतः धर्मात्मा सर्वलोकेषु सत्यवाग् इति विश्रुतः शंतनोः कीर्तयिष्यामि सर्वान् एव गुणान् अहम् दमो दानं क्षमा बुद्धिर् ह्रीर् धृतिस् तेज उत्तमम् नित्यान्य् आसन् महासत्त्वे शंतनौ पुरुषर्षभे एवं स गुणसंपन्नो धर्मार्थकुशलो नृपः आसीद् भरतवंशस्य गोप्ता साधुजनस्य च कम्बुग्रीवः पृथुव्यंसो मत्तवारणविक्रमः अन्वितः परिपूर्णार्थैः सर्वैर् नृपतिलक्षणैः तस्य कीर्तिमतो वृत्तम् अवेक्ष्य सततं नराः धर्म एव परः कामाद् अर्थाच् चेति व्यवस्थितः एतान्य् आसन् महासत्त्वे शंतनौ भरतर्षभ न चास्य सदृशः कश् चित् क्षत्रियो धर्मतो ऽभवत् वर्तमानं हि धर्मे स्वे सर्वधर्मविदां वरम् तं महीपा महीपालं राजराज्ये ऽभ्यषेचयन् वीतशोकभयाबाधाः सुखस्वप्नविबोधनाः प्रति भारतगोप्तारं समपद्यन्त भूमिपाः तेन कीर्तिमता शिष्टाः शक्रप्रतिमतेजसा यज्ञदानतपःशीलाः समपद्यन्त पार्थिवाः शंतनुप्रमुखैर् गुप्ते लोके नृपतिभिस् तदा नियमात् सर्ववर्णानां ब्रह्मोत्तरम् अवर्तत ब्रह्म पर्यचरत् क्षत्रं विशः क्षत्रम् अनुव्रताः ब्रह्मक्षत्रानुरक्ताश् च शूद्राः पर्यचरन् विशः स हास्तिनपुरे रम्ये कुरूणां पुटभेदने वसन् सागरपर्यन्ताम् अन्वशाद् वै वसुंधराम् स देवराजसदृशो धर्मज्ञः सत्यवाग् ऋजुः दानधर्मतपोयोगाच् छ्रिया परमया युतः अरागद्वेषसंयुक्तः सोमवत् प्रियदर्शनः तेजसा सूर्यसंकाशो वायुवेगसमो जवे अन्तकप्रतिमः कोपे क्षमया पृथिवीसमः वधः पशुवराहाणां तथैव मृगपक्षिणाम् शंतनौ पृथिवीपाले नावर्तत वृथा नृप धर्मब्रह्मोत्तरे राज्ये शंतनुर् विनयात्मवान् समं शशास भूतानि कामरागविवर्जितः चकोरनेत्रस् ताम्रास्यः सिंहर्षभगतिर् युवा गुणैर् अनुपमैर् युक्तः समस्तैर् अभिकामिकैः गम्भीरः सत्त्वसंपन्नः पूर्णचन्द्रनिभाननः देवर्षिपितृयज्ञार्थम् आरभ्यन्त तदा क्रियाः न चाधर्मेण केषां चित् प्राणिनाम् अभवद् वधः असुखानाम् अनाथानां तिर्यग्योनिषु वर्तताम् स एव राजा भूतानां सर्वेषाम् अभवत् पिता तस्मिन् कुरुपतिश्रेष्ठे राजराजेश्वरे सति श्रिता वाग् अभवत् सत्यं दानधर्माश्रितं मनः यज्ञार्थं पशवः सृष्टाः संतानार्थं च मैथुनम् स समाः षोडशाष्टौ च चतस्रो ऽष्टौ तथापराः रतिम् अप्राप्नुवन् स्त्रीषु बभूव वनगोचरः तपसा कर्षितोग्रेण जपध्यानरतः सदा तथारूपस् तथाचारस् तथावृत्तस् तथाश्रुतः गाङ्गेयस् तस्य पुत्रो ऽभून् नाम्ना देवव्रतो वसुः सर्वास्त्रेषु स निष्णातः पार्थिवेष्व् इतरेषु च महाबलो महासत्त्वो महावीर्यो महारथः स कदा चिन् मृगं विद्ध्वा गङ्गाम् अनुसरन् नदीम् भागीरथीम् अल्पजलां शंतनुर् दृष्टवान् नृपः तां दृष्ट्वा चिन्तयाम् आस शंतनुः पुरुषर्षभः स्यन्दते किं न्व् इयं नाद्य सरिच्छ्रेष्ठा यथा पुरा ततो निमित्तम् अन्विच्छन् ददर्श स महामनाः कुमारं रूपसंपन्नं बृहन्तं चारुदर्शनम् दिव्यम् अस्त्रं विकुर्वाणं यथा देवं पुरंदरम् कृत्स्नां गङ्गां समावृत्य शरैस् तीक्ष्णैर् अवस्थितम् तां शरैर् आवृतां दृष्ट्वा नदीं गङ्गां तदन्तिके अभवद् विस्मितो राजा कर्म दृष्ट्वातिमानुषम् जातमात्रं पुरा दृष्टं तं पुत्रं शंतनुस् तदा नोपलेभे स्मृतिं धीमान् अभिज्ञातुं तम् आत्मजम् न स्मृतिः शंतनोर् आसीद् अभिज्ञातुं स्वम् आत्मजम् स तु तं पितरं दृष्ट्वा मोहयाम् आस मायया संमोह्य तु ततः क्षिप्रं तत्रैवान्तरधीयत तद् अद्भुतं तदा दृष्ट्वा तत्र राजा स शंतनुः शङ्कमानः सुतं गङ्गाम् अब्रवीद् दर्शयेति ह शङ्कमानः सुतं प्राप्य गङ्गा वचनम् अब्रवीत् दर्शयाम् आस तं गङ्गा बिभ्रती रूपम् उत्तमम् गृहीत्वा दक्षिणे पाणौ तं कुमारम् अलंकृतम् अलंकृताम् आभरणैर् अरजोम्बरधारिणीम् दृष्टपूर्वाम् अपि सतीं नाभ्यजानात् स शंतनुः गङ्गोवाच यं पुत्रम् अष्टमं राजंस् त्वं पुरा मय्य् अजायिथाः स ते ऽयं पुरुषव्याघ्र नयस्वैनं गृहान्तिकम् . . . . . . . . सर्वास्त्रविद् अनुत्तमः गृहाणेमं महाराज मया संवर्धितं सुतम् आदाय पुरुषव्याघ्र वेदान् अधिजगे साङ्गान् वसिष्ठाद् एव वीर्यवान् स खिलान् सोपनिषदान् साङ्गोपाङ्गान् यथाविधि कृतास्त्रः परमेष्वासो देवराजसमो युधि सुराणां संमतो नित्यम् असुराणां च भारत उशना वेद यच् छास्त्रम् अयं तद् वेद सर्वशः तथैवाङ्गिरसः पुत्रः सुरासुरनमस्कृतः यद् वेद शास्त्रं तच् चापि कृत्स्नम् अस्मिन् प्रतिष्ठितम् तव पुत्रे महाबाहौ साङ्गोपाङ्गं महात्मनि ऋषिः परैर् अनाधृष्यो जामदग्न्यः प्रतापवान् सर्वशास्त्रार्थतत्त्वज्ञः स्मृतिमान् प्रतिभानवान् यद् अस्त्रं वेद रामश् च तद् अप्य् अस्मिन् प्रतिष्ठितम् महेष्वासम् इमं राजन् राजधर्मार्थकोविदम् मया दत्तं निजं पुत्रं वीरं वीर गृहान् नय वैशंपायन उवाच तयैवं समनुज्ञातः पुत्रम् आदाय शंतनुः भ्राजमानं यथादित्यम् आययौ स्वपुरं प्रति इत्य् उक्त्वा सा महाभागा तत्रैवान्तरधीयत पौरवः स्वपुरं गत्वा पुरंदरपुरोपमम् सर्वकामसमृद्धार्थं मेने आत्मानम् आत्मना पौरवेषु ततः पुत्रं यौवराज्ये ऽभ्यषेचयत् . . . . . . . . राज्यार्थम् अभयप्रदम् गुणवन्तं महात्मानं पौरवाञ् शंतनोः पुत्रः पितरं च महायशाः राष्ट्रं च रञ्जयाम् आस वृत्तेन भरतर्षभ तथावृत्तसमाचारस् तथाधर्मस् तथाश्रुतः पुत्रो देवव्रतो नाम शंतनोर् अधिको गुणैः सर्वास्त्रेष्व् अभ्यनुज्ञातः पार्थिवेष्व् इतरेषु च गुणैर् विशिष्टो बहुभिः पुत्रो देवव्रतो ऽभवत् स तथा सह पुत्रेण रममाणो महीपतिः वर्तयाम् आस वर्षाणि चत्वार्य् अमितविक्रमः स कदा चिद् वनं यातो यमुनाम् अभितो नदीम् महीपतिर् अनिर्देश्यम् आजिघ्रद् गन्धम् उत्तमम् तस्य प्रभवम् अन्विच्छन् विचचार समन्ततः स ददर्श तदा कन्यां दाशानां देवरूपिणीम् ताम् अपृच्छत् स दृष्ट्वैव कन्याम् असितलोचनाम् कस्य त्वम् असि का चासि किं च भीरु चिकीर्षसि साब्रवीद् दाशकन्यास्मि धर्मार्थं वाहये तरीम् पितुर् नियोगाद् भद्रं ते दाशराज्ञो महात्मनः रूपमाधुर्यगन्धैस् तां संयुक्तां देवरूपिणीम् समीक्ष्य राजा दाशेयीं कामयाम् आस शंतनुः स गत्वा पितरं तस्या वरयाम् आस तां तदा पर्यपृच्छत् ततस् तस्याः पितरं चात्मकारणात् इच्छामि दाशदत्तां मे सुतां भार्याम् अनिन्दिताम् स च तं प्रत्युवाचेदं दाशराजो महीपतिम् जातमात्रैव मे देया वराय वरवर्णिनी हृदि कामस् तु मे कश् चित् तं निबोध जनेश्वर यदीमां धर्मपत्नीं त्वं मत्तः प्रार्थयसे ऽनघ सत्यवाग् असि सत्येन समयं कुरु मे ततः समयेन प्रदद्यां ते कन्याम् अहम् इमां नृप न हि मे त्वत्समः कश् चिद् वरो जातु भविष्यति शंतनुर् उवाच श्रुत्वा तव वरं दाश व्यवस्येयम् अहं न वा दातव्यं चेत् प्रदास्यामि न त्व् अदेयं कथं चन दाश उवाच अस्यां जायेत यः पुत्रः स राजा पृथिवीपतिः त्वद् ऊर्ध्वम् अभिषेक्तव्यो नान्यः कश् चन पार्थिव वैशंपायन उवाच नाकामयत तं दातुं वरं दाशाय शंतनुः शरीरजेन तीव्रेण दह्यमानो ऽपि भारत स चिन्तयन्न् एव तदा दाशकन्यां महीपतिः प्रत्ययाद् धास्तिनपुरं शोकोपहतचेतनः ततः कदा चिच् छोचन्तं शंतनुं ध्यानम् आस्थितम् पुत्रो देवव्रतो ऽभ्येत्य पितरं वाक्यम् अब्रवीत् सर्वतो भवतः क्षेमं विधेयाः सर्वपार्थिवाः स कस्माद् राजशार्दूल शोचंस् तु परिदह्यसे तत् किमर्थम् इहाभीक्ष्णं परिशोचसि दुःखितः ध्यायन्न् इव च किं राजन् नाभिभाषसि किं चन न चाश्वेन विनिर्यासि विवर्णो हरिणः कृशः व्याधिम् इच्छामि ते ज्ञातुं प्रतिकुर्यां हि तत्र वै वैशंपायनः स तं कामम् अवाच्यं वै दाशकन्यां प्रतीदृशम् विवृतं नाशकत् तस्मै पिता पुत्राय शंसितुम् एवम् उक्तः स पुत्रेण शंतनुः प्रत्यभाषत असंशयं ध्यानपरं यथा मात्थ तथास्म्य् उत अपत्यं नस् त्वम् एवैकः कुले महति भारत शस्त्रनित्यश् च सततं पौरुषे धुर्य् अवस्थितः अनित्यता च मर्त्यानाम् अतः शोचामि पुत्रक कथं चित् तव गाङ्गेय विपत्तौ नास्ति नः कुलम् असंशयं त्वम् एवैकः शताद् अपि वरः सुतः न चाप्य् अहं वृथा भूयो दारान् कर्तुम् इहोत्सहे संतानस्याविनाशाय कामये भद्रम् अस्तु ते अनपत्यतैकपुत्रत्वम् इत्य् आहुर् धर्मवादिनः चक्षुर् एकं च पुत्रं च अस्ति नास्ति च भारत चक्षुर्नाशे तनोर् नाशः पुत्रनाशे कुलक्षयः अग्निहोत्रं त्रयो वेदा यज्ञाश् च सहदक्षिणाः सर्वाण्य् एतान्य् अपत्यस्य कलां नार्हन्ति षोडशीम् एवम् एव मनुष्येषु स्याच् च सर्वप्रजास्व् अपि यद् अपत्यं महाप्राज्ञ तत्र मे नास्ति संशयः अपत्येनानृणो लोके पितॄणां नास्ति संशयः एषा त्रयी पुराणानाम् उत्तमानां च शाश्वती अपत्यं कर्म विद्या च त्रीणि ज्योतींषि भारत यद् इदं कारणं तात सर्वम् आख्यातम् अञ्जसा त्वं च शूरः सदामर्षी शस्त्रनित्यश् च भारत नान्यत्र शस्त्रात् तस्मात् ते निधनं विद्यते ऽनघ सो ऽस्मि संशयम् आपन्नस् त्वयि शान्ते कथं भवेत् इति ते कारणं तात दुःखस्योक्तम् अशेषतः ततस् तत् कारणं ज्ञात्वा कृत्स्नं चैवम् अशेषतः देवव्रतो महाबुद्धिः प्रययाव् अनुचिन्तयन् सूतः वैशंपायनः अपत्यफलसंयुक्तम् एतच् छ्रुत्वा पितुर् वचः सूतं भूयो ऽपि संतप्त आह्वयाम् आस वै पितुः सूतस् तु कुरुमुख्यस्य उपयातस् तदाज्ञया तम् उवाच महाप्राज्ञो भीष्मो वै सारथिं पितुः त्वं सारथे पितुर् मह्यं सखासि रथधूर्गतः अभिजानासि यदि वै कस्यां भावो नृपस्य तु एतद् आचक्ष्व मे पृष्टः करिष्ये न तदन्यथा दाशकन्या नरश्रेष्ठ तत्र भावः पितुर् गतः वृतः स नरदेवेन तदा वचनम् अब्रवीत् यो ऽस्यां पुमान् भवेद् गर्भः स राजा त्वदनन्तरम् नाकामयत तं दातुं पिता तव वरं तदा स चापि निश्चयस् तस्य न च दद्याम् अतो ऽन्यथा एवं ते कथितं वीर कुरुष्व यद् अनन्तरम् ततः स पितुर् आज्ञाय मतं सम्यग् अवेक्ष्य च ज्ञात्वा विमनसं पुत्रः प्रययौ यमुनां प्रति अभ्यगच्छत् तदैवाशु वृद्धामात्यं पितुर् हितम् तम् अपृच्छत् तदाभ्येत्य पितुस् तच् छोककारणम् तस्मै स कुरुमुख्याय यथावत् परिपृच्छते वरं शशंस कन्यां ताम् उद्दिश्य भरतर्षभ ततो देवव्रतो वृद्धैः क्षत्रियैः सहितस् तदा अभिगम्य दाशराजानं कन्यां वव्रे पितुः स्वयम् तं दाशः प्रतिजग्राह विधिवत् प्रतिपूज्य च अब्रवीच् चैनम् आसीनं राजसंसदि भारत उच्चैःश्रवाः राज्यशुल्का प्रदातव्या कन्येयं याचतां वर अपत्यं यद् भवेद् अस्याः स राजास्तु पितुः परम् त्वम् एव नाथः पर्याप्तः शंतनोः पुरुषर्षभ पुत्रः पुत्रवतां श्रेष्ठः किं नु वक्ष्यामि ते वचः कुमारिकायाः शुल्केन किं चिद् वक्ष्यामि भारत को हि संबन्धकं श्लाघ्यम् ईप्सितं यौनम् ईदृशम् अतिक्रामन् न तप्येत साक्षाद् अपि शतक्रतुः अपत्यं चैतद् आर्यस्य यो युष्माकं समो गुणैः यस्य शुक्रात् सत्यवती प्रादुर्भूता यशस्विनी तेन मे बहुशस् तात पिता ते परिकीर्तितः अर्हः सत्यवतीं वोढुं सर्वराजसु भारत असितो ह्य् अपि देवर्षिः प्रत्याख्यातः पुरा मया सत्यवत्या भृशं ह्य् अर्थी स आसीद् ऋषिसत्तमः कन्यापितृत्वात् किं चित् तु वक्ष्यामि भरतर्षभ बलवत् सपत्नताम् अत्र दोषं पश्यामि केवलम् भूयांसं त्वयि पश्यामि तं दोषम् अपराजित यस्य हि त्वं सपत्नः स्या गन्धर्वस्यासुरस्य वा न स जातु सुखं जीवेत् त्वयि क्रुद्धे परंतप एतावान् अत्र दोषो हि नान्यः कश् चन पार्थिव एतज् जानीहि भद्रं ते दानादाने परंतप एवम् उक्तस् तु गाङ्गेयस् तद्युक्तं प्रत्यभाषत शृण्वतां भूमिपालानां पितुर् अर्थाय भारत इदं मे मतम् आदत्स्व सत्यं सत्यवतां वर नैव जातो न वाजात ईदृशं वक्तुम् उत्सहेत् एवम् एतत् करिष्यामि यथा त्वम् अनुभाषसे यो ऽस्यां जनिष्यते पुत्रः स नो राजा भविष्यति इत्य् उक्तः पुनर् एवाथ तं दाशः प्रत्यभाषत चिकीर्षुर् दुष्करं कर्म राज्यार्थे भरतर्षभ त्वम् एव नाथः पर्याप्तः शंतनोर् अमितद्युतेः कन्यायाश् चैव धर्मात्मन् प्रभुर् दानाय चेश्वरः इदं तु वचनं सौम्य कार्यं चैव निबोध मे कौमारिकाणां शीलेन वक्ष्याम्य् अहम् अरिंदम यत् त्वया सत्यवत्यर्थे सत्यधर्मपरायण राजमध्ये प्रतिज्ञातम् अनुरूपं तवैव तत् नान्यथा तन् महाबाहो संशयो ऽत्र न कश् चन नास्ति तस्यान्यथा भावस् त्वत्तो रिपुनिबर्हणः विद्यते पुरुषव्याघ्र त्वयि सत्यं महाव्रत तवापत्यं भवेद् यत् तु तत्र नः संशयो महान् तस्य तन् मतम् आज्ञाय सत्यधर्मपरायणः प्रत्यजानात् तदा राजन् पितुः प्रियचिकीर्षया देवव्रत उवाच दाशराज निबोधेदं वचनं मे नृपोत्तम ऋषयो वाथ वा देवा भूतान्य् अन्तर्हितानि च यानि तानीह शृण्वन्तु नास्ति वक्तास्य मत्समः इदं वचनम् आधत्स्व सत्येन मम जल्पतः शृण्वतां भूमिपालानां यद् ब्रवीमि पितुः कृते राज्यं तावत् पूर्वम् एव मया त्यक्तं नराधिप अपत्यहेतोर् अपि च करोम्य् एष विनिश्चयम् अद्य प्रभृति मे दाश ब्रह्मचर्यं भविष्यति अपुत्रस्यापि मे लोका भविष्यन्त्य् अक्षया दिवि न हि जन्मप्रभृत्य् उक्तं मया किं चिद् इहानृतम् यावत् प्राणा ध्रियन्ते वै मम देहं समाश्रिताः तावन् न जनयिष्यामि पित्रे कन्यां प्रयच्छ मे परित्यजाम्य् अहं राज्यं मैथुनं चापि सर्वशः ऊर्ध्वरेता भविष्यामि दाश सत्यं ब्रवीमि ते वैशंपायन उवाच तस्य तद् वचनं श्रुत्वा संप्रहृष्टतनूरुहः ददानीत्य् एव तं दाशो धर्मात्मा प्रत्यभाषत ततो ऽन्तरिक्षे ऽप्सरसो देवाः सर्षिगणास् तथा तं दृष्ट्वा दुष्करं कर्म प्रशशंसुश् च पार्थिवाः अभ्यवर्षन्त कुसुमैर् भीष्मो ऽयम् इति चाब्रुवन् ततः स पितुर् अर्थाय ताम् उवाच यशस्विनीम् अधिरोह रथं मातर् गच्छावः स्वगृहान् इति एवम् उक्त्वा तु भीष्मस् तां रथम् आरोप्य भामिनीम् आगम्य हास्तिनपुरं शंतनोः संन्यवेदयत् तस्य तद् दुष्करं कर्म प्रशशंसुर् नराधिपाः समेताश् च पृथक् चैव भीष्मो ऽयम् इति चाब्रुवन् तद् दृष्ट्वा दुष्करं कर्म कृतं भीष्मेण शंतनुः बभूव दुःखितो राजा चिररात्राय भारत स तेन कर्मणा सूनोः प्रीतस् तस्मै वरं ददौ स्वच्छन्दमरणं तस्मै ददौ तुष्टः पिता स्वयम् न ते प्रभविता मृत्युर् यावद् इच्छसि जीवितुम् त्वत्तो ह्य् अनुज्ञां संप्राप्य मृत्युः प्रभवितानघ स्वेन कामेन कर्तासि नाकामस् त्वं कथं चन वैशंपायन उवाच चेदिराजसुतां ज्ञात्वा दाशराजेन पोषिताम् विवाहं कारयाम् आस शास्त्रदृष्टेन कर्मणा ततो विवाहे निर्वृत्ते स राजा शंतनुर् नृपः तां कन्यां रूपसंपन्नां स्वगृहे संन्यवेशयत् ततः शांतनवो धीमान् सत्यवत्याम् अजायत वीरश् चित्राङ्गदो नाम वीर्येण मनुजान् अति अथापरं महेष्वासं सत्यवत्यां पुनः प्रभुः विचित्रवीर्यं राजानं जनयाम् आस वीर्यवान् अप्राप्तवति तस्मिंश् च यौवनं भरतर्षभ स राजा शंतनुर् धीमान् कालधर्मम् उपेयिवान् स्वर्गते शंतनौ भीष्मश् चित्राङ्गदम् अरिंदमम् स्थापयाम् आस वै राज्ये सत्यवत्या मते स्थितः स तु चित्राङ्गदः शौर्यात् सर्वांश् चिक्षेप पार्थिवान् मनुष्यं न हि मेने स कं चित् सदृशम् आत्मनः तं क्षिपन्तं सुरांश् चैव मनुष्यान् असुरांस् तथा गन्धर्वराजो बलवांस् तुल्यनामाभ्ययात् तदा त्वं वै सदृशनामासि युद्धं देहि नृपात्मज नाम वान्यत् प्रगृह्णीष्व यदि युद्धं न दास्यसि त्वयाहं युद्धम् इच्छामि त्वत्सकाशात् तु नामतः आगतो ऽस्मि वृथाभाष्यो न गच्छेन् नामतो मया इत्य् उक्त्वा गर्जमानौ तौ हिरण्यातीरम् आश्रितौ तेनास्य सुमहद् युद्धं कुरुक्षेत्रे बभूव ह तयोर् बलवतोस् तत्र गन्धर्वकुरुमुख्ययोः नद्यास् तीरे हिरण्वत्याः समास् तिस्रो ऽभवद् रणः तस्मिन् विमर्दे तुमुले शस्त्रवृष्टिसमाकुले मायाधिको ऽवधीद् वीरं गन्धर्वः कुरुसत्तमम् चित्राङ्गदं कुरुश्रेष्ठं विचित्रशरकार्मुकम् अन्ताय कृत्वा गन्धर्वो दिवम् आचक्रमे ततः तस्मिन् नृपतिशार्दूले निहते भूरिवर्चसि भीष्मः शांतनवो राजन् प्रेतकार्याण्य् अकारयत् विचित्रवीर्यं च तदा बालम् अप्राप्तयौवनम् कुरुराज्ये महाबाहुर् अभ्यषिञ्चद् अनन्तरम् विचित्रवीर्यस् तु तदा भीष्मस्य वचने स्थितः अन्वशासन् महाराज पितृपैतामहं पदम् स धर्मशास्त्रकुशलो भीष्मं शांतनवं नृपः पूजयाम् आस धर्मेण स चैनं प्रत्यपालयत् वैशंपायन उवाच हते चित्राङ्गदे भीष्मो बाले भ्रातरि चानघ पालयाम् आस तद् राज्यं सत्यवत्या मते स्थितः तथा विचित्रवीर्यं तु वर्तमानं सुखे ऽतुले संप्राप्तयौवनं पश्यन् भ्रातरं धीमतां वरम् भीष्मो विचित्रवीर्यस्य विवाहायाकरोन् मतिम् अथ काशिपतेर् भीष्मः कन्यास् तिस्रो ऽप्सरःसमाः शुश्राव सहिता राजन् वृण्वतीर् वै स्वयं वरम् ततः स रथिनां श्रेष्ठो रथेनैकेन वर्मभृत् जगामानुमते मातुः पुरीं वाराणसीं प्रति तत्र राज्ञः समुदितान् सर्वतः समुपागतान् ददर्श कन्यास् ताश् चैव भीष्मः शंतनुनन्दनः तासां कामेन संमत्ताः सहिताः काशिकोसलाः वङ्गाः पुण्ड्राः कलिङ्गाश् च ते जग्मुस् तां पुरीं प्रति कीर्त्यमानेषु राज्ञां तु नामस्व् अथ सहस्रशः वैशंपायनः एकाकिनं तदा भीष्मं वृद्धं शांतनुनन्दनम् सोद्वेगा इव तं दृष्ट्वा कन्याः परमशोभनाः अपाक्रामन्त ताः सर्वा वृद्ध इत्य् एव चिन्तया वृद्धः परमधर्मात्मा वलीपलितधारणः किंकारणम् इहायातो निर्लज्जो भरतर्षभः मिथ्याप्रतिज्ञो लोकेषु किं वदिष्यति भारत ब्रह्मचारीति भीष्मो हि वृथैव प्रथितो भुवि इत्य् एवं प्रब्रुवन्तस् ते हसन्ति स्म नृपाधमाः क्षत्रियाणां वचः श्रुत्वा भीष्मश् चुक्रोध भारत भीष्मः स्वयं तदा राजन् वरयाम् आस ताः प्रभुः उवाच च महीपालान् राजञ् जलदनिःस्वनः रथम् आरोप्य ताः कन्या भीष्मः प्रहरतां वरः आहूय दानं कन्यानां गुणवद्भ्यः स्मृतं बुधैः अलंकृत्य यथाशक्ति प्रदाय च धनान्य् अपि प्रयच्छन्त्य् अपरे कन्यां मिथुनेन गवाम् अपि वित्तेन कथितेनान्ये बलेनान्ये ऽनुमान्य च प्रमत्ताम् उपयान्त्य् अन्ये स्वयम् अन्ये च विन्दते आर्षं विधिं पुरस्कृत्य दारान् विन्दन्ति चापरे अष्टमं तम् अथो वित्त विवाहं कविभिः स्मृतम् स्वयंवरं तु राजन्याः प्रशंसन्त्य् उपयान्ति च प्रमथ्य तु हृताम् आहुर् ज्यायसीं धर्मवादिनः ता इमाः पृथिवीपाला जिहीर्षामि बलाद् इतः ते यतध्वं परं शक्त्या विजयायेतराय वा स्थितो ऽहं पृथिवीपाला युद्धाय कृतनिश्चयः एवम् उक्त्वा महीपालान् काशिराजं च वीर्यवान् सर्वाः कन्याः स कौरव्यो रथम् आरोपयत् स्वकम् आमन्त्र्य च स तान् प्रायाच् छीघ्रं कन्याः प्रगृह्य ताः ततस् ते पार्थिवाः सर्वे समुत्पेतुर् अमर्षिताः संस्पृशन्तः स्वकान् बाहून् दशन्तो दशनच्छदान् तेषाम् आभरणान्य् आशु त्वरितानां विमुञ्चताम् आमुञ्चतां च वर्माणि संभ्रमः सुमहान् अभूत् ताराणाम् इव संपातो बभूव जनमेजय भूषणानां च शुभ्राणां कवचानां च सर्वशः सवर्मभिर् भूषणैस् ते द्राग् भ्राजद्भिर् इतस् ततः सक्रोधामर्षजिह्मभ्रूसकषायदृशस् तथा सूतोपकॢप्तान् रुचिरान् सदश्वोद्यतधूर्गतान् रथान् आस्थाय ते वीराः सर्वप्रहरणान्विताः प्रयान्तम् एकं कौरव्यम् अनुसस्रुर् उदायुधाः ततः समभवद् युद्धं तेषां तस्य च भारत एकस्य च बहूनां च तुमुलं लोमहर्षणम् ते त्व् इषून् दशसाहस्रांस् तस्मै युगपद् आक्षिपन् अप्राप्तांश् चैव तान् आशु भीष्मः सर्वांस् तदाच्छिनत् आच्छिनच् छरवर्षेण महता लोमवाहिना ततस् ते पार्थिवाः सर्वे सर्वतः परिवारयन् ववर्षुः शरवर्षेण वर्षेणेवाद्रिम् अम्बुदाः स तद् बाणमयं वर्षं शरैर् आवार्य सर्वतः ततः सर्वान् महीपालान् प्रत्यविध्यत् त्रिभिस् त्रिभिः एकैकस् तु ततो भीष्मं राजन् विव्याध पञ्चभिः स च तान् प्रतिविव्याध द्वाभ्यां द्वाभ्यां पराक्रमी तद् युद्धम् आसीत् तुमुलं घोरं देवासुरोपमम् अस्यतां लोकवीराणां शरशक्तिसमाकुलम् स धनूंषि ध्वजाग्राणि वर्माणि च शिरांसि च चिच्छेद समरे भीष्मः शतशो ऽथ सहस्रशः तस्याति पुरुषान् अन्यांल् लाघवं रथचारिणः रक्षणं चात्मनः संख्ये शत्रवो ऽप्य् अभ्यपूजयन् अक्षतः क्षपयित्वान्यान् असंख्येयपराक्रमः आनिनाय स काश्यस्य सुताः सागरगासुतः तान् विनिर्जित्य तु रणे सर्वशस्त्रविशारदः कन्याभिः सहितः प्रायाद् भारतो भारतान् प्रति ततस् तं पृष्ठतो राजञ् शाल्वराजो महारथः अभ्याहनद् अमेयात्मा भीष्मं शांतनवं रणे वारणं जघने निघ्नन् दन्ताभ्याम् अपरो यथा वाशिताम् अनुसंप्राप्तो यूथपो बलिनां वरः स्त्रीकाम तिष्ठ तिष्ठेति भीष्मम् आह स पार्थिवः शाल्वराजो महाबाहुर् अमर्षेणाभिचोदितः ततः स पुरुषव्याघ्रो भीष्मः परबलार्दनः साल्वराजं सुसंक्रद्धो न्यवर्तत परंतपः तद्वाक्याकुलितः क्रोधाद् विधूमो ऽग्निर् इव ज्वलन् विततेषु धनुष्पाणिर् विकुञ्चितललाटभृत् दहन् यथा कृष्णगतिः कक्षं वातेरितः प्रभुः क्षत्रधर्मं समास्थाय व्यपेतभयसंभ्रमः निवर्तयाम् आस रथं शाल्वं प्रति महारथः निवर्तमानं तं दृष्ट्वा राजानः सर्व एव ते प्रेक्षकाः समपद्यन्त भीष्मशाल्वसमागमे तौ वृषाव् इव नर्दन्तौ बलिनौ वाशितान्तरे अन्योन्यम् अभिवर्तेतां बलविक्रमशालिनौ ततः क्रुद्धः शांतनवो दृष्ट्वा तं नृपम् आगतम् साल्वेश्वरं स राजानं हयान् क्रुद्धो ऽभ्यचोदयत् संस्पृशंश् च धनुःश्रेष्ठं सज्यं कृत्वा नरर्षभः समवस्थाय दुर्धर्षः सशरः सशरासनः अभ्यद्रवत् साल्वपतिं युद्धाय कुरुपुंगवः कवची बद्धनिस्त्रिंशस् तलबद्धः प्रतापवान् तिष्ठ तिष्ठेति राजानं साल्वं शांतनवो ऽब्रवीत् कन्यार्थं वै ततः साल्वं प्रावर्तत महाबलः ततस् तु युद्धम् अभवत् तदा राजन् स्वयंवरे भीष्मस्य चैव राजर्षेः साल्वस्यापि तथैव च आयोध नं महाघोरम् इन्द्रलेखारिणोर् इव भीरूणां भीतिजनकं शूराणां हर्षवर्धनम् सुराणां विस्मयकरं दुष्टानां प्रीतिवर्धनम् अदृष्टम् अश्रुतं कैश् चित् सर्वलोकभयंकरम् ततो भीष्मं शांतनवं शरैः शतसहस्रशः शाल्वराजो नरश्रेष्ठः समवाकिरद् आशुगैः विव्याध च तदा भीष्मं वामपार्श्वे स्तनान्तरे त्वरमाणस् त्वराकाले क्षत्रियर्षभसत्तमः पूर्वम् अभ्यर्दितं दृष्ट्वा भीष्मं शाल्वेन ते नृपाः विस्मिताः समपद्यन्त साधु साध्व् इति चाब्रुवन् लाघवं तस्य ते दृष्ट्वा संयुगे सर्वपार्थिवाः अपूजयन्त संहृष्टा वाग्भिः शाल्वं नराधिपाः क्षत्रियाणां तदा वाचः श्रुत्वा परपुरंजयः क्रुद्धः शांतनवो भीष्मस् तिष्ठ तिष्ठेत्य् अभाषत सारथिं चाब्रवीत् क्रुद्धो याहि यत्रैष पार्थिवः यावद् एनं निहन्म्य् अद्य भुजंगम् इव पक्षिराट् तद्वचः सारथिः श्रुत्वा यत्र शाल्वस् ततो ययौ न भेतव्यं त्वया सूत तस्मात् साल्वनृपात्मजात् पश्यतस् ते वधिष्यामि साल्वेशं पश्य मे बलम् पतेत् त्वयि शरः कश् चिन् नाहं साल्वस्य शंतनुः ततो ऽस्त्रं वारुणं सम्यग् योजयाम् आस कौरवः तेनाश्वांश् चतुरो ऽमृद्नाच् छाल्वराज्ञो नराधिप अस्त्रैर् अस्त्राणि संवार्य शाल्वराज्ञः स कौरवः भीष्मो नृपतिशार्दूल न्यवधीत् तस्य सारथिम् अर्धचन्द्रेण बाणेन धनुश् चिच्छेद जह्नुजः अस्त्रेण चाप्य् अथैकेन न्यवधीत् तुरगोत्तमान् साल्वस् तु विरथो राजन् हताश्वो हतसारथिः निक्षिप्य च धनुः श्रीमान् भूमौ तिष्ठद् अवाङ्मुखः कन्याहेतोर् नरश्रेष्ठ भीष्मः शांतनवस् तदा जित्वा विसर्जयाम् आस जीवन्तं नृपसत्तमम् ततः शाल्वः स्वनगरं प्रययौ भरतर्षभ स्वराज्यम् अन्वशाच् चैव धर्मेण नृपतिस् तदा राजानो ये च तत्रासन् स्वयंवरदिदृक्षवः स्वान्य् एव ते ऽपि राष्ट्राणि जग्मुः परपुरंजय ते वनानि च रम्याणि शैलांश् च सरितस् तथा अतिक्रम्य च राजानः स्वं स्वं राज्यं प्रचक्रमुः भीष्मः स्वयंवरे कन्या विजित्य कुरुसत्तमः एवं विजित्य ताः कन्या भीष्मः प्रहरतां वरः निहत्याजौ नृपान् कांश् चित् कश् चिद् विद्राव्य सैनिकान् यशः कीर्तिं बलं धैर्यं नृपाणाम् अपहृत्य च प्रययौ हास्तिनपुरं यत्र राजा स कौरवः . . . . . . . . भीष्मः शांतनवस् तदा अतिक्रम्य च राजानः स्वं स्वं राज्यं प्रचक्रमुः कुरुक्षेत्रं पुण्यतमं विचित्रवीर्यो धर्मात्मा प्रशास्ति वसुधाम् इमाम् यथा पितास्य कौरव्यः शंतनुर् नृपसत्तमः सो ऽचिरेणैव कालेन अत्यक्रामन् नराधिप वनानि सरितश् चैव शैलांश् च विविधद्रुमान् अक्षतः क्षपयित्वारीन् संख्ये ऽसंख्येयविक्रमः आनयाम् आस काश्यस्य सुताः सागरगासुतः स्नुषा इव स धर्मात्मा भगिन्य इव चानुजाः यथा दुहितरश् चैव प्रतिगृह्य ययौ कुरून् आनिन्ये स महाबाहुर् भ्रातुः प्रियचिकीर्षया ताः सर्वा गुणसंपन्ना भ्राता भ्रात्रे यवीयसे भीष्मो विचित्रवीर्याय प्रददौ विक्रमाहृताः सतां धर्मेण धर्मज्ञः कृत्वा कर्मातिमानुषम् भ्रातुर् विचित्रवीर्यस्य विवाहायोपचक्रमे सत्यवत्या सह मिथः कृत्वा निश्चयम् आत्मवान् विवाहं कारयिष्यन्तं भीष्मं काशिपतेः सुता ज्येष्ठा तासाम् इदं वाक्यम् अब्रवीद् ध सती तदा मया सौभपतिः पूर्वं मनसाभिवृतः पतिः तेन चास्मि वृता पूर्वम् एष कामश् च मे पितुः मया वरयितव्यो ऽभूच् छाल्वस् तस्मिन् स्वयंवरे एतद् विज्ञाय धर्मज्ञ ततस् त्वं धर्मम् आचर एवम् उक्तस् तया भीष्मः कन्यया विप्रसंसदि चिन्ताम् अभ्यगमद् वीरो युक्तां तस्यैव कर्मणः अन्यासक्ता त्व् इयं कन्या ज्येष्ठा क्षात्रे मया जिता वाचा दत्ता मनोदत्ता कृतमङ्गलवाचना निर्दिष्टा तु परस्यैव सा त्याज्या परचिन्तनी इत्य् उक्त्वा चानुमान्यैव भ्रातरं स्ववशानुगम् स विनिश्चित्य धर्मज्ञो ब्राह्मणैर् वेदपारगैः अनुजज्ञे तदा ज्येष्टाम् अम्बां काशिपतेः सुताम् अम्बिकाम्बालिके भार्ये प्रादाद् भ्रात्रे यवीयसे भीष्मो विचित्रवीर्याय विधिदृष्टेन कर्मणा तयोः पाणिं गृहीत्वा स रूपयौवनदर्पितः विचित्रवीर्यो धर्मात्मा कामात्मा समपद्यत विचित्रवीर्यः भीष्मः वैशंपायनः अम्बा वैशंपायनः अम्बा यज्ञसेनः वैशंपायनः अम्बा वैशंपायनः वैशंपायनः नैनाम् ऐच्छत् कथं चन अम्बाम् अन्यस्य कीर्त्यन्तीम् अब्रवीच् चारुदर्शनाम् प्रत्यक्षफल एवैष कामो ऽसाधुर् निरर्थकः परतन्त्रोपभोगे माम् आर्य नायोक्तुम् अर्हसि प्रतिष्ठितः शंतनोर् वै तात यस्य त्वम् अन्वयः अकामवृत्तो धर्मात्मन् साधु मन्ये मतं तव इत्य् उक्त्वाम्बां समालोक्य विधिवद् वाक्यम् अब्रवीत् विसृष्टा ह्य् असि गच्छ त्वं यथाकामम् अनिन्दिते नानियोज्ये समर्थो ऽहं नियोक्तुं भ्रातरं प्रियम् अन्यभावगतां चापि को नारीं वासयेद् गृहे अतस् त्वां न नियोक्ष्यामि अन्यकामासि गम्यताम् अहम् अप्य् ऊर्ध्वरेता वै निवृत्तो दारकर्मणि न संबन्धस् तद् आवाभ्यां भविता वै कथं चन इत्य् उक्ता सा गता तत्र सखीभिः परिवारिता निर्दिष्टा हि शनै राजन् साल्वराजपुरं प्रति अथाम्बा साल्वम् आगम्य साब्रवीन् मनसा वृता पुरा निर्दिष्टभावा त्वाम् आगतास्मि वरानन देवव्रतं समुत्सृज्य सानुजं भरतर्षभम् प्रतिगृह्णीष्व भद्रं ते विधिवन् मां समुद्यताम् तयैवम् उक्तः साल्वो ऽपि प्रहसन्न् इदम् अब्रवीत् निर्जितासीह भीष्मेण मां विनिर्जित्य राजसु अन्येन निर्जितां भद्रे विसृष्टां तेन चालयात् न गृह्णामि वरारोहे तत्र चैव तु गम्यताम् इत्य् उक्ता सा समागम्य भीष्मं पुनर् अथाब्रवीत् अम्बाब्रवीत् ततो भीष्मं त्वयाहं सहसा हृता क्षत्रधर्मम् अवेक्षस्व त्वं भर्ता मम धर्मतः यां यः स्वयंवरे कन्यां निर्जयेच् छौर्यसंपदा राज्ञः सर्वान् विनिर्जित्य स ताम् उद्वाहयेद् ध्रुवम् अतस् त्वम् एव भर्ता मे त्वयाहं निर्जिता यतः तस्माद् वहस्व मां भीष्म निर्जितां संसदि त्वया ऊर्ध्वरेता ह्य् अहम् इति प्रत्युवाच पुनः पुनः भीष्मं सा चाब्रवीद् अम्बा यथाजैषीस् तथा कुरु एवम् अन्वगमद् भीष्मं षट् समाः पुष्करेक्षणा ऊर्ध्वरेतास् त्व् अहं भद्रे विवाहविमुखो ऽभवम् तम् एव साल्वं गच्छ त्वं यः पुरा मनसा वृतः अन्यसक्तं किमर्थं त्वम् आत्मानम् अवदः पुरा अन्यसक्तां वधूं कन्यां वासयेत् स्वगृहे न हि नाहम् उद्वाहयिष्ये त्वां मम भ्रात्रे यवीयसे विचित्रवीर्याय शुभे यथेष्टं गम्यताम् इति भूयः साल्वं समभ्येत्य राजन् गृह्णीष्व माम् इति नाहं गृह्णाम्य् अन्यजिताम् इति साल्वनिराकृता ऊर्ध्वरेतास् त्व् अहम् इति भीष्मेण च निराकृता अम्बा भीष्मं पुनः साल्वं भीष्मं साल्वं पुनः पुनः गमनागमनेनैवम् अनैषीत् षट् समा नृप अश्रुभिर् भूमिम् उक्षन्ती शोचन्ती सा मनस्विनी पीनोन्नतकुचद्वन्द्वा विशालजघनेक्षणा श्रोणीभरालसगमा राकाचन्द्रनिभानना वर्षत्कादम्बिनीमूर्ध्नि स्फुरन्ती चञ्चलेव सा सा ततो द्वादश समा बाहुदामभितो नदीम् पार्श्वे हिमवतो रम्ये तपो घोरं समाददे संक्षिप्तकरणा तत्र तप आस्थाय सुव्रता पादाङ्गुष्ठेन सातिष्ठद् अकम्पन्त ततः सुराः तस्यास् तत् तु तपो दृष्ट्वा सुराणां क्षोभकारकम् विस्मितश् चैव हृष्टश् च तस्यानुग्रहबुद्धिमान् अनन्तसेनो भगवान् कुमारो वरदः प्रभुः मानयन् राजपुत्रीं तां ददौ तस्यै शुभां स्रजम् एषा पुष्करिणी दिव्या यथावत् समुपस्थिता अम्बे त्वच्छोकशमनी माला भुवि भविष्यति एतां चैव मया दत्तां मालां यो धारयिष्यति सो ऽस्य भीष्मस्य निधने कारणं वै भविष्यति अन्यपूर्वेति मां साल्वो नाभिनन्दति बालिशः साहं धर्माच् च कामाच् च विहीना शोकधारिणी अपतिः क्षत्रियान् सर्वान् आक्रन्दामि समन्ततः इयं वः क्षत्रिया माला या भीष्मं निहनिष्यति अहं च भार्या तस्य स्यां यो भीष्मं घातयिष्यति तस्याश् चङ्क्रम्यमाणायाः समाः पञ्च गताः पराः नाभवच् छरणं कश् चित् क्षत्रियो भीष्मजाद् भयात् अगच्छत् सोमकं साम्बा पाञ्चालेषु यशस्विनम् सत्यसंधं महेष्वासं सत्यधर्मपरायणम् सा सभाद्वारम् आगम्य पाञ्चालैर् अभिरक्षितम् पाञ्चालराजम् आक्रन्दत् प्रगृह्य सुभुजा भुजौ भीष्मेण हन्यमानां मां मज्जन्तीम् इव च ह्रदे यज्ञसेनाभिधावेह पाणिम् आलम्ब्य चेश्वर तेन मे सर्वधर्माश् च रतिभोगाश् च केवलाः उभौ च लोकौ कीर्तिश् च समूलौ सफलौ हृतौ क्रोशन्त्य् एवं न विन्दामि राजन्यं शरणं क्व चित् किं नु निःक्षत्रियो लोको यत्रानाथो ऽवसीदति समागम्य तु राजानो मयोक्ता राजसत्तमाः इक्ष्वाकूणां तु ये वृद्धाः पाञ्चालानां च ये वराः त्वत्प्रसादाद् विवाहे ऽस्मिन् मा धर्मो मा पराजयेत् प्रसीद यज्ञसेनेह गतिर् मे भव सोमक जानामि त्वां बोधयामि राजपुत्रि विशेषतः यथाशक्ति यथाधर्मं बलं संधारयाम्य् अहम् अन्यस्मात् पार्थिवाद् यत् ते भयं स्यात् पार्थिवात्मजे तस्यापनयने हेतुं संविधातुम् अहं प्रभुः न हि शांतनवस्याहं महास्त्रस्य प्रहारिणः ईश्वरः क्षत्रियाणां हि बलं धर्मो ऽनुवर्तते सा साधु व्रज कल्याणि न मां भीष्मो दहेद् बलात् न हि भीष्माद् अहं धर्मं शक्तो दातुं कथं चन इत्य् उक्ता स्रजम् आसज्य द्वारि राज्ञो व्यपाद्रवत् व्युदस्तां सर्वलोकेषु तपसा संशितव्रताम् ताम् अन्वगच्छद् द्रुपदः सान्त्वं जल्पन् पुनः पुनः स्रजं गृहाण कल्याणि न नो वैरं प्रसञ्जय एवम् एव त्वया कार्यम् इति स्म प्रतिकाङ्क्षते न तु तस्यान्यथा भावो दैवम् एतद् अमानुषम् यश् चैनां स्रजम् आदाय स्वयं वै प्रतिमोक्षते स भीष्मं समरे हन्ता मम धर्मप्रणाशनम् तां स्रजं द्रुपदो राजा कं चित् कालं ररक्ष सः ततो विस्रम्भम् आस्थाय तूष्णीम् एताम् उपैक्षत तां शिखण्डिन्य् अबध्नात् तु बाला पितुर् अवज्ञया तां पिता त्व् अत्यजच् छीघ्रं त्रस्तो भीष्मस्य किल्बिषात् इषीकं ब्राह्मणं भीता साभ्यगच्छत् तपस्विनम् गङ्गाद्वारि तपस्यन्तं तुष्टिहेतोस् तपस्विनी उपचाराभितुष्टस् ताम् अब्रवीद् ऋषिसत्तमः गङ्गाद्वारे विभजनं भविता नचिराद् इव तत्र गन्धर्वराजानं तुम्बुरुं प्रियदर्शनम् आराधयितुम् ईहस्व सम्यक् परिचरस्व तम् अहम् अप्य् अत्र साचिव्यं कर्तास्मि तव शोभने तं तदाचर भद्रं ते स ते श्रेयो विधास्यति ततो विभजनं तत्र गन्धर्वाणाम् अवर्तत तत्र द्वाव् अवशिष्येतां गन्धर्वाव् अमितौजसौ तयोर् एकः समीक्ष्यैनां स्त्रीबुभूषुर् उवाच ह इदं गृह्णीष्व पुंलिङ्गं वृणे स्त्रीलिङ्गम् एव ते नियमं चक्रतुस् तत्र स्त्री पुमांश् चैव ताव् उभौ ततः पुमान् समभवच् छिखण्डी परवीरहा स्त्री भूत्वा ह्य् अपचक्राम स गन्धर्वो मुदान्वितः लब्ध्वा तु महतीं प्रीतिं याज्ञसेनिर् महायशाः ततो बुद्बुदकं गत्वा पुनर् अस्त्राणि सो ऽकरोत् तत्र चास्त्राणि दिव्यानि कृत्वा स सुमहाद्युतिः स्वदेशम् अभिसंपेदे पाञ्चालं कुरुनन्दन सो ऽभिवाद्य पितुः पादौ महेष्वासः कृताञ्जलिः उवाच भवता भीष्मान् न भेतव्यं कथं चन अम्बायां निर्गतायां तु भीष्मः शांतनवस् तदा न्यायेन कारयाम् आस राज्ञो वैवाहिकीं क्रियाम् अम्बिकाम्बालिके चैव परिणीयाग्निसंनिधौ ते चापि बृहती श्यामे नीलकुञ्चितमूर्धजे रक्ततुङ्गनखोपेते पीनश्रोणिपयोधरे आत्मनः प्रतिरूपो ऽसौ लब्धः पतिर् इति स्थिते विचित्रवीर्यं कल्याणं पूजयाम् आसतुस् तु ते अन्योन्यं प्रीतिसक्ते च एकभावाव् इव स्थिते स चाश्विरूपसदृशो देवसत्त्वपराक्रमः सर्वासाम् एव नारीणां चित्तप्रमथनो ऽभवत् ताभ्यां सह समाः सप्त विहरन् पृथिवीपतिः विचित्रवीर्यस् तरुणो यक्ष्माणं समपद्यत सुहृदां यतमानानाम् आप्तैः सह चिकित्सकैः जगामास्तम् इवादित्यः कौरव्यो यमसादनम् धर्मात्मा स तु गाङ्गेयश् चिन्ताशोकपरायणः प्रेतकार्याणि सर्वाणि तस्य सम्यग् अकारयत् राज्ञो विचित्रवीर्यस्य सत्यवत्या मते स्थितः ऋत्विग्भिः सहितो भीष्मः सर्वैश् च कुरुपुंगवैः वैशंपायन उवाच ततः सत्यवती दीना कृपणा पुत्रगृद्धिनी पुत्रस्य कृत्वा कार्याणि स्नुषाभ्यां सह भारत समाश्वास्य स्नुषे ते च भीष्मं धर्मभृतां वरम् माता सत्यवती भीष्मम् उवाच वदतां वरम् धर्मं च पितृवंशं च मातृवंशं च मानिनी प्रसमीक्ष्य महाभागा गाङ्गेयं वाक्यम् अब्रवीत् दुःखार्दिता तु शोकेन मज्जन्तीव च सागरे शंतनोर् धर्मनित्यस्य कौरव्यस्य यशस्विनः त्वयि पिण्डश् च कीर्तिश् च संतानं च प्रतिष्ठितम् भ्राता विचित्रवीर्यस् ते भूतानाम् अन्तम् एयिवान् यथा कर्म शुभं कृत्वा स्वर्गोपगमनं ध्रुवम् यथा चायुर् ध्रुवं सत्ये त्वयि धर्मस् तथा ध्रुवः वेत्थ धर्मांश् च धर्मज्ञ समासेनेतरेण च विविधास् त्वं श्रुतीर् वेत्थ वेत्थ वेदांश् च सर्वशः व्यवस्थानं च ते धर्मे कुलाचारं च लक्षये प्रतिपत्तिं च कृच्छ्रेषु शुक्राङ्गिरसयोर् इव तस्मात् सुभृशम् आश्वस्य त्वयि धर्मभृतां वर कार्ये त्वां विनियोक्ष्यामि तच् छ्रुत्वा कर्तुम् अर्हसि मम पुत्रस् तव भ्राता वीर्यवान् सुप्रियश् च ते बाल एव गतः स्वर्गम् अपुत्रः पुरुषर्षभ इमे महिष्यौ भ्रातुस् ते काशिराजसुते शुभे रूपयौवनसंपन्ने पुत्रकामे च भारत धर्म्यम् एतत् परं ज्ञात्वा तयोर् उत्पादयापत्यं संतानाय कुलस्य नः . . . . . . . . संतानकुलवर्धनम् मन्नियोगान् महाभाग धर्मं कर्तुम् इहार्हसि राज्ये चैवाभिषिच्यस्व भारतान् अनुशाधि च दारांश् च कुरु धर्मेण मा निमज्जीः पितामहान् अग्निहोत्रं त्रयो वेदाः संतानम् अपि चाक्षयम् एषा त्रयी तु संप्रोक्ता स्वर्गमोक्षफलप्रदा तथोच्यमानो मात्रा च सुहृद्भिश् च परंतपः प्रत्युवाच स धर्मात्मा धर्म्यम् एवोत्तरं वचः असंशयं परो धर्मस् त्वया मातर् उदाहृतः त्वम् अपत्यं प्रति च मे प्रतिज्ञां वेत्थ वै पराम् राज्यार्थे नाभिषिच्येयं नोपेयां जातु मैथुनम् भवत्या मतम् आज्ञाय कृतम् एतद् व्रतं मया जानासि च यथावृत्तं शुल्कहेतोस् त्वदन्तरे स सत्यवति सत्यं ते प्रतिजानाम्य् अहं पुनः परित्यजेयं त्रैलोक्यं राज्यं देवेषु वा पुनः यद् वाप्य् अधिकम् एताभ्यां न तु सत्यं कथं चन त्यजेच् च पृथिवी गन्धम् आपश् च रसम् आत्मनः ज्योतिस् तथा त्यजेद् रूपं वायुः स्पर्शगुणं त्यजेत् प्रभां समुत्सृजेद् अर्को धूमकेतुस् तथोष्णताम् त्यजेच् छब्दं तथाकाशः सोमः शीतांशुतां त्यजेत् विक्रमं वृत्रहा जह्याद् धर्मं जह्याच् च धर्मराट् न त्व् अहं सत्यम् उत्स्रष्टुं व्यवसेयं कथं चन तन् न जात्व् अन्यथा कार्यं लोकानाम् अपि संक्षये अमरत्वस्य वा हेतोस् त्रैलोक्यसदनस्य वा एवम् उक्ता तु पुत्रेण भूरिद्रविणतेजसा माता सत्यवती भीष्मम् उवाच तदनन्तरम् जानामि ते स्थितिं सत्ये परां सत्यपराक्रम इच्छन् सृजेथास् त्रींल् लोकान् अन्यांस् त्वं स्वेन तेजसा जानामि चैव सत्यं तन् मदर्थं यद् अभाषथाः आपद्धर्मम् अवेक्षस्व वह पैतामहीं धुरम् यथा ते कुलतन्तुश् च धर्मश् च न पराभवेत् सुहृदश् च प्रहृष्येरंस् तथा कुरु परंतप आत्मनश् च हितं तात प्रियं च मम भारत लालप्यमानां ताम् एवं कृपणां पुत्रगृद्धिनीम् धर्माद् अपेतं ब्रुवतीं भीष्मो भूयो ऽब्रवीद् इदम् राज्ञि धर्मान् अवेक्षस्व मा नः सर्वान् व्यनीनशः सत्याच् च्युतिः क्षत्रियस्य न धर्मेषु प्रशस्यते शंतनोर् अपि संतानं यथा स्याद् अक्षयं भुवि तत् ते धर्मं प्रवक्ष्यामि क्षात्रं राज्ञि सनातनम् श्रुत्वा तं प्रतिपद्येथाः प्राज्ञैः सह पुरोहितैः आपद्धर्मार्थकुशलैर् लोकतन्त्रम् अवेक्ष्य च भीष्म उवाच जामदग्न्येन रामेण पितुर् वधम् अमृष्यता राजा परशुहस्तेन क्रुद्धेन च महाभागे हैहयाधिपतिर् हतः . . . . . . . . हेहयस्य महात्मनः शतानि दश बाहूनां निकृत्तान्य् अर्जुनस्य वै पुनश् च धनुर् आदाय महास्त्राणि प्रमुञ्चता निर्दग्धं क्षत्रम् असकृद् रथेन जयता महीम् एवम् उच्चावचैर् अस्त्रैर् भार्गवेण महात्मना त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा एवं निःक्षत्रिये लोके कृते तेन महर्षिणा ततः संभूय सर्वाभिः क्षत्रियाभिः समन्ततः उत्पादितान्य् अपत्यानि ब्राह्मणैर् नियतात्मभिः पाणिग्राहस्य तनय इति वेदेषु निश्चितम् धर्मं मनसि संस्थाप्य ब्राह्मणांस् ताः समभ्ययुः लोके ऽप्य् आचरितो दृष्टः क्षत्रियाणां पुनर्भवः ततः पुनः समुदितं क्षत्रं समभवत् तदा इमं चैवात्र वक्ष्ये ऽहम् इतिहासं पुरातनम् अथोतथ्य इति ख्यात आसीद् धीमान् ऋषिः पुरा ममता नाम तस्यासीद् भार्या परमसंमता उतथ्यस्य यवीयांस् तु पुरोधास् त्रिदिवौकसाम् बृहस्पतिर् बृहत्तेजा ममतां सो ऽन्वपद्यत उवाच ममता तं तु देवरं वदतां वरम् अन्तर्वत्नी अहं भ्रात्रा ज्येष्ठेनारम्यताम् इति अयं च मे महाभाग कुक्षाव् एव बृहस्पते औतथ्यो वेदम् अत्रैव षडङ्गं प्रत्यधीयत अमोघरेतास् त्वं चापि नूनं भवितुम् अर्हसि तस्माद् एवंगते ऽद्य त्वम् उपारमितुम् अर्हसि एवम् उक्तस् तया सम्यग् बृहत्तेजा बृहस्पतिः कामात्मानं तदात्मानं न शशाक नियच्छितुम् संबभूव ततः कामी तया सार्धम् अकामया उत्सृजन्तं तु तं रेतः स गर्भस्थो ऽभ्यभाषत भोस् तात कन्यस वदे द्वयोर् नास्त्य् अत्र संभवः अमोघशुक्रश् च भवान् पूर्वं चाहम् इहागतः अमोघरेताश् च भवान् न पीडां कर्तुम् अर्हति अश्रुत्वैव तु तद् वाक्यं गर्भस्थस्य बृहस्पतिः जगाम मैथुनायैव ममतां चारुलोचनाम् शुक्रोत्सर्गं ततो बुद्ध्वा तस्या गर्भगतो मुनिः पद्भ्याम् आरोधयन् मार्गं शुक्रस्य च बृहस्पतेः स्थानम् अप्राप्तम् अथ तच् छुक्रं प्रतिहतं तदा पपात सहसा भूमौ ततः क्रुद्धो बृहस्पतिः शशाप तं ततः क्रुद्ध एवम् उक्तो बृहस्पतिः उतथ्यपुत्रं गर्भस्थं निर्भर्त्स्य भगवान् ऋषिः यस्मात् त्वम् ईदृशे काले सर्वभूतेप्सिते सति एवम् आत्थ वचस् तस्मात् तमो दीर्घं प्रवेक्ष्यसि स वै दीर्घतमा नाम शापाद् ऋषिर् अजायत बृहस्पतेर् बृहत्कीर्तेर् बृहस्पतिर् इवौजसा जात्यन्धो वेदवित् प्राज्ञः पत्नीं लेभे स्वविद्यया तरुणीं रूपसंपन्नां प्रद्वेषीं नाम ब्राह्मणीम् स पुत्राञ् जनयाम् आस गौतमादीन् महायशाः ऋषेर् उतथ्यस्य तदा संतानकुलवृद्धये धर्मात्मा च महात्मा च वेदवेदाङ्गपारगः गोधर्मं सौरभेयाच् च सो ऽधीत्य निखिलं मुनिः प्रावर्तत तथा कर्तुं श्रद्धावांस् तम् अशङ्कया ततो वितथमर्यादं तं दृष्ट्वा मुनिसत्तमाः क्रुद्धा मोहाभिभूतास् ते सर्वे तत्राश्रमौकसः अहो ऽयं भिन्नमर्यादो नाश्रमे वस्तुम् अर्हति तस्माद् एनं वयं सर्वे पापात्मानं त्यजामहे इत्य् अन्योन्यं समाभाष्य ते दीर्घतमसं मुनिम् पत्नी भीष्मः पत्नी दीर्घतमाः भीष्मः पुत्रलाभाच् च सा पत्नी न तुतोष पतिं तदा प्रद्विषन्तीं पतिर् भार्यां किं मां द्वेष्टीति चाब्रवीत् पतिर् भार्यानुभरणाद् भर्ता चेति प्रकीर्त्यते अहं त्वां भरणं कृत्वा जात्यन्धं ससुता सदा नित्यकालं श्रमेणार्ता न भरेयं महातपः तस्यास् तद् वचनं श्रुत्वा ऋषिः कोपसमन्वितः प्रत्युवाच ततः पत्नीं प्रद्वेषीं ससुतां तदा नीयतां क्षत्रियकुले धनार्थी त्वं भविष्यसि त्वया दत्तं धनं विप्र नेच्छेयं दुःखकारकम् यथेष्टं कुरु विप्रेन्द्र न भरेयं यथा पुरा अद्य प्रभृति मर्यादा मया लोके प्रतिष्ठिता एक एव पतिर् नार्या यावज्जीवं परायणम् मृते जीवति वा तस्मिन् नापरं प्राप्नुयान् नरम् अभिगम्य परं नारी पतिष्यति न संशयः अपतीनां तु नारीणाम् अद्य प्रभृति पातकम् यद्य् अस्ति चेद् धनं सर्वं वृथाभोगा भवन्तु ताः अकीर्तिः परिवादश् च नित्यकालं भवन्तु वै तस्य तद् वचनं श्रुत्वा ब्राह्मणी भृशकोपिता गङ्गाम् आनीयताम् एष पुत्रा इत्य् एवम् अब्रवीत् लोभमोहाभिभूतास् ते पुत्रास् तं गौतमादयः काष्ठे समुद्गे प्रक्षिप्य गङ्गायां समवासृजन् न स्याद् अन्धश् च वृद्धश् च भर्तव्यो ऽयम् इति स्म ते कर्मण्य् अथ ततः क्रूरे तेषां बुद्धिर् अजायत चिन्तयित्वा ततः क्रूराः प्रतिजग्मुर् अथो गृहान् सो ऽनुस्रोतस् तदा राजन् प्लवमान ऋषिस् ततः जगाम सुबहून् देशान् अन्धस् तेनोडुपेन ह तं तु राजा बलिर् नाम सर्वधर्मविशारदः अपश्यन् मज्जनगतः स्रोतसाभ्याशम् आगतम् जग्राह चैनं धर्मात्मा बलिः सत्यपराक्रमः ज्ञात्वा चैनं स वव्रे ऽथ पुत्रार्थं मनुजर्षभ तं पूजयित्वा राजर्षिर् विश्रान्तं मुनिम् अब्रवीत् संतानार्थं महाभाग भार्यासु मम मानद पुत्रान् धर्मार्थकुशलान् उत्पादयितुम् अर्हसि एवम् उक्तः स तेजस्वी तं तथेत्य् उक्तवान् ऋषिः तस्मै स राजा स्वां भार्यां सुदेष्णां प्राहिणोत् तदा अन्धं वृद्धं च तं मत्वा न सा देवी जगाम ह स्वां तु धात्रेयिकां तस्मै वृद्धाय प्राहिणोत् तदा तस्यां काक्षीवदादीन् स शूद्रयोनाव् ऋषिर् वशी जनयाम् आस धर्मात्मा पुत्रान् एकादशैव तु काक्षीवदादीन् पुत्रांस् तान् दृष्ट्वा सर्वान् अधीयतः मुदा च तान् बली राजा दृष्ट्वा कक्षीवदादिकान् उवाच तम् ऋषिं राजा ममैत इति वीर्यवान् नेत्य् उवाच महर्षिस् तं ममैवैत इति ब्रुवन् शूद्रयोनौ मया हीमे जाताः काक्षीवदादयः अन्धं वृद्धं च मां मत्वा सुदेष्णा महिषी तव अवमन्य ददौ मूढा शूद्रां धात्रेयिकां हि मे ततः प्रसादयाम् आस पुनस् तम् ऋषिसत्तमम् बलिः सुदेष्णां भार्यां च तस्मै तां प्राहिणोत् पुनः तां स दीर्घतमाङ्गेषु स्पृष्ट्वा देवीम् अथाब्रवीत् भविष्यति कुमारस् ते तेजस्वी सत्यवाग् इति तत्राङ्गो नाम राजर्षिः सुदेष्णायाम् अजायत अङ्गो वङ्गः कलिङ्गश् च पुण्ड्रः सुह्मश् च ते सुताः तेषां देशाः समाख्याताः स्वनामकथिता भुवि अङ्गस्याङ्गो ऽभवद् देशो वङ्गो वङ्गस्य च स्मृतः कलिङ्गविषयश् चैव कलिङ्गस्य च स स्मृतः पुण्ड्रस्य पुण्ड्राः प्रख्याताः सुह्माः सुह्मस्य च स्मृताः एवं बलेः पुरा वंशः प्रख्यातो वै महर्षिजः एवम् अन्ये महेष्वासा ब्राह्मणैः क्षत्रिया भुवि जाताः परमधर्मज्ञा वीर्यवन्तो महाबलाः एतच् छ्रुत्वा त्वम् अप्य् अत्र मातः कुरु यथेप्सितम् भीष्म उवाच पुनर् भरतवंशस्य हेतुं संतानवृद्धये वक्ष्यामि नियतं मातस् तन् मे निगदतः शृणु ब्राह्मणो गुणवान् कश् चिद् धनेनोपनिमन्त्र्यताम् विचित्रवीर्यक्षेत्रेषु यः समुत्पादयेत् प्रजाः वैशंपायन उवाच ततः सत्यवती भीष्मं वाचा संसज्जमानया विहसन्तीव सव्रीडम् इदं वचनम् अब्रवीत् सत्यवती भीष्मः सत्यवती भीष्मः वैशंपायनः भीष्मस्य तु वचः श्रुत्वा धर्म्यं हेत्वर्थसंहितम् माता सत्यवती भीष्मं पुनर् एवाभ्यभाषत औचथ्यम् अधिकृत्येदम् अङ्गं च यद् उदाहृतम् पौराणी श्रुतिर् इत्य् एषा प्राप्तकालम् इदं कुरु त्वं हि पुत्र कुलस्यास्य ज्येष्ठः श्रेष्ठश् च भारत यथा च ते पितुर् वाक्यं मम कार्यं तवानघ मम पुत्रस् तव भ्राता यवीयान् सुप्रियश् च ते बाल एव गतः स्वर्गं भारतो भरतर्षभ इमे महिष्यौ तस्येह काशिराजसुते उभे रूपयौवनसंपन्ने पुत्रकामे च भारत धर्मम् एतत् परं ज्ञात्वा संतानाय कुलस्य च आभ्यां मम नियोगात् तु धर्मं चरितुम् अर्हसि असंशयं परो धर्मस् त्वया मातः प्रकीर्तितः त्वम् अप्य् एतां प्रतिज्ञां तु वेत्थ या परमा मयि जानीषे यत् तदा वृत्तं शुल्कहेतोस् त्वदन्तरे तत् सत्यवति सत्यं वै पुनर् एव ब्रवीमि ते तन् न जात्व् अन्यथा कार्यं लोकानाम् अपि संक्षये परित्यजेयं त्रैलोक्यं राज्यं देवेषु वा पुनः यद् वाभ्यधिकम् एताभ्यां न तु सत्यं परित्यजे त्यजेच् च पृथिवी गन्धम् आपश् च रसम् उत्तमम् ज्योतिश् च परमं रूपं वायुः स्पर्शगुणं त्यजेत् त्यजेच् च घोषम् आकाशः सोमः शीतत्वम् उत्सृजेत् प्रभां समुत्सृजेद् अर्को धूमकेतुर् अथोष्णताम् वृत्रहा विक्रमं जह्याद् धर्मं जह्याच् च धर्मराट् अमरत्वस्य वा हेतोस् त्रैलोक्यसदनस्य वा उत्सृजेयम् अहं प्राणान् न तु सत्यं कथं चन जानामि त्वयि धर्मज्ञ सत्यं सत्यवतां वर इच्छंस् त्वम् इह लोकांस् त्रीन् सृजेर् अन्यान् अरिंदम यथा तु वः कुलं चैव धर्मश् च न पराभवेत् सुहृदश् च सुहृष्टाः स्युस् तथा त्वं कर्तुम् अर्हसि त्वम् एव कुलवृद्धासि गौरवं तु परं त्वयि सोपायं कुलसंताने वक्तुम् अर्हसि नः परम् स्त्रियो हि परमं गुह्यं धारयन्ति कुले कुले पुरुषांश् चापि मायाभिर् बह्वीभिर् उपगृह्णते सा सत्यवति संपश्य धर्मं सत्यपरायणे यथा न जह्यां सत्यं च न सीदेच् च कुलं हि नः सत्यम् एतन् महाबाहो यथा वदसि भारत विश्वासात् ते प्रवक्ष्यामि संतानाय कुलस्य च वैशंपायनः एवम् उक्त्वा ततो भीष्मं तं माता प्रत्यभाषत रोचते मे वचस् तुभ्यं ममापि वचनं शृणु न ते शक्यम् अनाख्यातुम् आपद् धीयं तथाविधा त्वम् एव नः कुले धर्मस् त्वं सत्यं त्वं परा गतिः यत् त्वं वक्ष्यसि तत् कार्यम् अस्माभिर् इति मे मतिः यन् मे बाल्ये पुरा वृत्तं कुमार्यास् तच् छृणुष्व मे तस्मान् निशम्य वाक्यं मे कुरुष्व यद् अनन्तरम् शृणु भीष्म वचो मह्यं धर्मार्थसहितं हितम् न च विस्रम्भकथितं भवान् सूचितुम् अर्हति यस् तु राजा वसुर् नाम श्रुतस् ते भरतर्षभ तस्य शुक्लाद् अहं मत्स्या धृता कुक्षौ पुरा किल मातरं मे जलाद् धृत्वा दाशः परमधर्मवित् मां तु स्वगृहम् आनीय दुहितृत्वे ह्य् अकल्पयत् धर्मयुक्तस्य धर्मात्मन् पितुर् आसीत् तरी मम सा कदा चिद् अहं तत्र गता प्रथमयौवने अतारयं जनं तत्र पारगामिनम् अञ्जसा अथ धर्मभृतां श्रेष्ठः परमर्षिः पराशरः आजगाम तरीं धीमांस् तरिष्यन् यमुनां नदीम् स तार्यमाणो यमुनां माम् उपेत्याब्रवीत् तदा सान्त्वपूर्वं मुनिश्रेष्ठः कामार्तो मधुरं बहु उक्त्वा जन्मकुलं मह्यं नासि दाशसुतेति च तम् अहं शापभीता च पितुर् भीता च भारत वरैर् असुलभैर् उक्ता न प्रत्याख्यातुम् उत्सहे प्रेक्ष्य तांस् तु महाभागान् परे पारे ऋषीन् स्थितान् यमुनातीरविन्यस्तान् प्रदीप्तान् इव पावकान् पुरस्ताद् अरुणश् चैव तरुणः संप्रकाशते येनैषा ताम्रवस्त्रेव द्यौः कृता प्रविजृम्भिता उक्तमात्रो मया तत्र नीहारम् असृजत् प्रभुः पराशरः सत्यधृतिर् द्वीपे च यमुनाम्भसि अभिभूय स मां बालां तेजसा वशम् आनयत् तमसा लोकम् आवृत्य नौगताम् एव भारत मत्स्यगन्धो महान् आसीत् पुरा मम जुगुप्सितः तम् अपास्य शुभं गन्धम् इमं प्रादात् स मे मुनिः कन्यात्वं च ददौ प्रीतः पुनर् विद्वांस् तपोधनः तस्य वीर्यम् अहं दृष्ट्वा तथा युक्तं महात्मनः विस्मिता व्यथिता चैव प्रादाम् आत्मानम् एव च वसिष्ठेन समानीता याज्ञवल्क्यादयो द्विजाः कृत्वा विवाहं मे सर्वे प्रतिजग्मुर् यथागतम् ततस् तदा महात्मा स कन्यायां मयि भारत प्रहृष्टो ऽजनयत् पुत्रं द्वीप एव पराशरः हिमं चैवासृजद् धीमान् द्वीपं च यमुनाम्भसि ततः पिता वसुश् चैव पितरश् च तपोधनाः ततो माम् आह स मुनिर् गर्भम् उत्सृज्य मामकम् द्वीपे ऽस्या एव सरितः कन्यैव त्वं भविष्यसि एवम् उक्त्वा गतः सो ऽथ ऋषिः परमधर्मवित् ममापि प्रसवो जातस् तत्क्षणाद् एव भारत पाराशर्यो महायोगी स बभूव महान् ऋषिः कन्यापुत्रो मम पुरा द्वैपायन इति स्मृतः यो व्यस्य वेदांश् चतुरस् तपसा भगवान् ऋषिः लोके व्यासत्वम् आपेदे कार्ष्ण्यात् कृष्णत्वम् एव च सत्यवादी शमपरस् तपस्वी दग्धकिल्बिषः सद्योत्पन्नः स तु महान् सह पित्रा ततो गतः स नियुक्तो मया व्यक्तं त्वया च अमितद्युते भ्रातुः क्षेत्रेषु कल्याणम् अपत्यं जनयिष्यति स हि माम् उक्तवांस् तत्र स्मरेः कृत्येषु माम् इति तं स्मरिष्ये महाबाहो यदि भीष्म त्वम् इच्छसि तव चानुमते कामम् आभ्याम् उत्पादयेत् प्रजाः तव ह्य् अनुमते भीष्म नियतं स महातपाः विचित्रवीर्यक्षेत्रेषु पुत्रान् उत्पादयिष्यति इत्य् उक्तमात्रे भीष्मस् तु मूर्ध्न्य् अञ्जलिकृतो ऽहृषत् सर्ववित् सर्वकर्ता च यद्य् एतत् तत् करोति च महर्षेः कीर्तने तस्य भीष्मः प्राञ्जलिर् अब्रवीत् देशकालौ तु जानामि क्रियताम् अर्थसिद्धये धर्मम् अर्थं च कामं च त्रीन् एतान् यो ऽनुपश्यति अर्थम् अर्थानुबन्धं च धर्मं धर्मानुबन्धनम् कामं कामानुबन्धं च विपरीतान् पृथक् पृथक् शुभं शुभानुबंधं च तांश् चैव त्रिविधान् पुनः यो विचिन्त्य धिया सम्यग् व्यवस्यति स बुद्धिमान् पुनः पुनर् यो विचिन्त्य धिया सम्यग् व्यवस्यति स बुद्धिमान् मनुष्येषु स नरः कृत्स्नकर्मकृत् तद् इदं धर्मयुक्तं च हितं चैव कुलस्य नः उक्तं भवत्या यच् छ्रेयः परमं रोचते मम ततस् तस्मिन् प्रतिज्ञाते भीष्मेण कुरुनन्दन कृष्णद्वैपायनं काली चिन्तयाम् आस वै मुनिम् तस्याः स चिन्तितं ज्ञात्वा सत्यवत्या महातपाः स वेदान् विब्रुवन् धीमान् मातुर् विज्ञाय चिन्तितम् प्रादुर्बभूवाविदितः क्षणेन कुरुनन्दन तस्मै पूजां तदा दत्त्वा सुताय विधिपूर्वकम् परिष्वज्य च बाहुभ्यां प्रस्नवैर् अभिषिच्य च मुमोच बाष्पं दाशेयी पुत्रं दृष्ट्वा चिरस्य तम् ताम् अद्भिः परिषिच्यार्तां महर्षिर् अभिवाद्य च मातरं पूर्वजः पुत्रो व्यासो वचनम् अब्रवीत् भवत्या यद् अभिप्रेतं तद् अहं कर्तुम् आगतः शाधि मां धर्मतत्त्वज्ञे करवाणि प्रियं तव तस्मै पूजां ततो ऽकार्षीत् पुरोधाः परमर्षये स च तां प्रतिजग्राह विधिवन् मन्त्रपूर्वकम् पूजितो मन्त्रपूर्वं तु विधिवत् प्रीतिम् आप सः तम् आसनगतं माता पृष्ट्वा कुशलम् अव्ययम् आचचक्षे क्रमेणास्मै तदर्थम् अभिचिन्तितम् सत्यवत्य् अभिवीक्ष्यैनम् उवाचेदम् अनन्तरम् मातापित्रोः प्रजायन्ते पुत्राः साधारणाः कवे तेषां पिता यथा स्वामी तथा माता न संशयः विधातृविहितः स त्वं यथा मे प्रथमः सुतः विचित्रवीर्यो ब्रह्मर्षे तथा मे ऽवरजः सुतः यथैव पितृतो भीष्मस् तथा त्वम् अपि मातृतः भ्राता विचित्रवीर्यस्य यथा वा पुत्र मन्यसे अयं शांतनवः सत्यं पालयन् सत्यविक्रमः बुद्धिं न कुरुते ऽपत्ये तथा राज्यानुशासने स त्वं व्यपेक्षया भ्रातुः संतानाय कुलस्य च भीष्मस्य चास्य वचनान् नियोगाच् च ममानघ अनुक्रोशाच् च भूतानां सर्वेषां रक्षणाय च आनृशंस्येन यद् ब्रूयां तच् छ्रुत्वा कर्तुम् अर्हसि यवीयसस् तव भ्रातुर् भार्ये सुरसुतोपमे रूपयौवनसंपन्ने पुत्रकामे च धर्मतः तयोर् उत्पादयापत्यं समर्थो ह्य् असि पुत्रक अनुरूपं कुलस्यास्य संतत्याः प्रसवस्य च व्यास उवाच वेत्थ धर्मं सत्यवति परं चापरम् एव च यथा च तव धर्मज्ञे धर्मे प्रणिहिता मतिः तस्माद् अहं त्वन्नियोगाद् धर्मम् उद्दिश्य कारणम् ईप्सितं ते करिष्यामि दृष्टं ह्य् एतत् पुरातनम् भ्रातुः पुत्रान् प्रदास्यामि मित्रावरुणयोः समान् व्रतं चरेतां ते देव्यौ निर्दिष्टम् इह यन् मया संवत्सरं यथान्यायं ततः शुद्धे भविष्यतः न हि माम् अव्रतोपेता उपेयात् का चिद् अङ्गना न हि माम् अर्हतः प्राप्तुम् अशुद्धे कोसलात्मजे एवं सत्यवती धर्मं परमं ज्ञातुम् अर्हसि सत्यवत्य् उवाच यथा सद्यः प्रपद्येत देवी गर्भं तथा कुरु अराजकेषु राष्ट्रेषु नास्ति वृष्टिर् न देवताः . . . . . . . . प्रजानाथा विनश्यति नश्यन्ति च क्रियाः सर्वाः कथम् अराजकं राष्ट्रं शक्यं धारयितुं प्रभो तस्माद् गर्भं समाधत्स्व भीष्मस् तं वर्धयिष्यति व्यास उवाच यदि पुत्रः प्रदातव्यो मया क्षिप्रम् अकालिकम् विरूपतां मे सहताम् एतद् अस्याः परं व्रतम् यदि मे सहते गन्धं रूपं वेषं तथा वपुः अद्यैव गर्भं कौसल्या विशिष्टं प्रतिपद्यताम् तस्य चापि शतं पुत्रा भवितारो न संशयः गोप्तारः कुरुवंशस्य भवत्याः शोकनाशनाः वैशंपायन उवाच एवम् उक्त्वा महातेजा व्यासः सत्यवतीं तदा शयने त्व् अथ कौसल्या शुचिवस्त्रा स्वलंकृता समागमनम् आकाङ्क्षन्न् इति सो ऽन्तर्हितो मुनिः ततो ऽभिगम्य सा देवी स्नुषां रहसि संगताम् धर्म्यम् अर्थसमायुक्तम् उवाच वचनं हितम् कौसल्ये धर्मतन्त्रं यद् ब्रवीमि त्वां निबोध मे भरतानां समुच्छेदो व्यक्तं मद्भाग्यसंक्षयात् व्यथितां मां च संप्रेक्ष्य पितृवंशं च पीडितम् भीष्मो बुद्धिम् अदान् मे ऽत्र धर्मस्य च विवृद्धये अहं त्वाम् अद्य वक्ष्यामि बुद्ध्या निश्चित्य भामिनि श्रुत्वा तु तद्वचः सुभ्रु कर्तुम् अर्हसि नान्यथा सा च बुद्धिस् तवाधीना पुत्रि ज्ञातं मयेति ह नष्टं च भारतं वंशं पुनर् एव समुद्धर गर्भं धारय कल्याणि देवरस्य महात्मनः पुत्रं जनय सुश्रोणि देवराजसमप्रभम् स हि राज्यधुरं गुर्वीम् उद्वक्ष्यति कुलस्य नः एवम् उक्त्वा तु सा देवी स्नुषां सत्यवती तदा सा धर्मतो ऽनुनीयैनां कथं चिद् धर्मचारिणीम् भोजयाम् आस विप्रांश् च देवर्षीन् अतिथींस् तथा वैशंपायन उवाच ततः सत्यवती काले वधूं स्नाताम् ऋतौ तदा संवेशयन्ती शयने शनकैर् वाक्यम् अब्रवीत् कौसल्ये देवरस् ते ऽस्ति सो ऽद्य त्वानुप्रवेक्ष्यति अप्रमत्ता प्रतीक्षैनं निशीथे आगमिष्यति श्वश्र्वास् तद् वचनं श्रुत्वा शयाना शयने शुभे साचिन्तयत् तदा भीष्मम् अन्यांश् च कुरुपुंगवान् ततः सुप्तजनप्राये निशीथे भगवान् ऋषिः ततो ऽम्बिकायां प्रथमं नियुक्तः सत्यवाग् ऋषिः दीप्यमानेषु दीपेषु शयनं प्रविवेश ह सत्यवत्या नियुक्तस् तु सत्यवाग् ऋषिसत्तमः जगाम तस्याः शयनं विपुले तपसि स्थितः तस्य कृष्णस्य कपिला जटा दीप्ते च लोचने बभ्रूणि चैव श्मश्रूणि दृष्ट्वा देवी न्यमीलयत् तं समीक्ष्य तु कौसल्या दुष्प्रेक्ष्यम् अतथोचिता विरूपम् इति वित्रस्ता संकुच्यासीन् निमीलिता विरूपो हि जटी चापि दुर्वर्णः पुरुषः कृशः सुगन्धेतरगन्धश् च सर्वथा दुष्प्रधर्षणः संबभूव तया रात्रौ मातुः प्रियचिकीर्षया भयात् काशिसुता तं तु नाशक्नोद् अभिवीक्षितुम् ततो निष्क्रान्तम् आसाद्य माता पुत्रम् अथाब्रवीत् अप्य् अस्यां गुणवान् पुत्र राजपुत्रो भविष्यति इत्य् उक्तः सो ऽब्रवीन् मातः कुमारो मातृदोषतः अन्धो नागायुतप्राणो भविष्यत्य् अम्बिकोदरात् निशम्य तद् वचो मातुर् व्यासः परमबुद्धिमान् प्रोवाचातीन्द्रियज्ञानो विधिना संप्रचोदितः नागायुतसमप्राणो विद्वान् राजर्षिसत्तमः महाभागो महावीर्यो महाबुद्धिर् भविष्यति तस्य चापि शतं पुत्रा भविष्यन्ति महाबलाः किं तु मातुः स वैगुण्याद् अन्ध एव भविष्यति तस्य तद् वचनं श्रुत्वा माता पुत्रम् अथाब्रवीत् अलब्धलाभः पुत्रो ऽयं यद्य् अन्धो वै भविष्यति अस्य वंशस्य गोप्तारं सतां शोकविनाशनम् तस्माद् अवरजं पुत्रं जनयान्यं नराधिपम् भ्रातुर् भार्यापरा चेयं रूपयौवनशालिनी अस्याम् उत्पादयापत्यं मन्नियोगाद् गुणाधिकम् नान्धः कुरूणां नृपतिर् अनुरूपस् तपोधन ज्ञातिवंशस्य गोप्तारं पितॄणां वंशवर्धनम् द्वितीयं कुरुवंशस्य राजानं दातुम् अर्हसि स तथेति प्रतिज्ञाय निश्चक्राम महातपाः सापि कालेन कौसल्या सुषुवे ऽन्धं तम् आत्मजम् अम्बालिकां समाधाय तस्यां सत्यवती सुतम् भूयो नियोजयाम् आस संतानाय कुलस्य वै विषण्णाम्बालिका साध्वी निषण्णा शयनोत्तमे को न्व् एष्यतीति ध्यायन्ती नियता संप्रतीक्षते धृतराष्ट्र यतस् तेन धृतराष्ट्रस् ततो ऽभवत् पुनर् एव तु सा देवी परिभाष्य स्नुषां ततः ऋषिम् आवाहयत् सत्या यथापूर्वम् अनिन्दिता ततस् तेनैव विधिना महर्षिस् ताम् अपद्यत अम्बालिकाम् अथाभ्यागाद् ऋषिं दृष्ट्वा च सापि तम् विषण्णा पाण्डुसंकाशा समपद्यत भारत तां भीतां पाण्डुसंकाशां विषण्णां प्रेक्ष्य पार्थिव व्यासः सत्यवतीपुत्र इदं वचनम् अब्रवीत् यस्मात् पाण्डुत्वम् आपन्ना विरूपं प्रेक्ष्य माम् अपि तस्माद् एष सुतस् तुभ्यं पाण्डुर् एव भविष्यति नाम चास्य तद् एवेह भविष्यति शुभानने इत्य् उक्त्वा स निराक्रामद् भगवान् ऋषिसत्तमः ततो निष्क्रान्तम् आलोक्य सत्या पुत्रम् अभाषत अप्य् अस्य गुणवान् पुत्र राजपुत्रो भविष्यति कुमारो ब्रूहि मे पुत्र अस्त्य् अत्र भविता शुभः शशंस स पुनर् मात्रे तस्य बालस्य पाण्डुताम् तम् उवाच ततो माता अप्य् अत्र भविता शुभः कुमारो ब्रूहि मे तत्त्वम् ऋषिस् तां प्रत्युवाच ह भविष्यति सुविक्रान्तः कुमारो दिक्षु विश्रुतः पाण्डुत्वं वर्णतस् तस्य मातृदोषाद् भविष्यति तं माता पुनर् एवान्यम् एकं पुत्रम् अयाचत तथेति च महर्षिस् तां मातरं प्रत्यभाषत ततः कुमारं सा देवी प्राप्तकालम् अजीजनत् पाण्डुं लक्षणसंपन्नं दीप्यमानम् इव श्रिया तस्य पुत्रा महेष्वासा जज्ञिरे पञ्च पाण्डवाः तस्य पुत्रा महेष्वासा जनिष्यन्तीह पञ्च वै इत्य् उक्त्वा मातरं तत्र सो ऽभिवाद्य जगाम ह मुनौ याते ऽम्बिका पुत्रं महाभागम् असूयत धृतराष्ट्रं महाप्राज्ञं प्रज्ञाचक्षुषम् ईश्वरम् अनुजाम्बालिका तत्र पुत्रं काले व्यजायत पाण्डुं लक्षणसंपन्नं दीप्यमानं श्रियावृतम् तयोर् जन्मक्रियाः सर्वा यथावद् अनुपूर्वशः कारयाम् आस वै भीष्मो ब्राह्मणैर् वेदपारगैः अन्धं दृष्ट्वाम्बिकापुत्रं जातं सत्यवती सुतम् कौसल्यार्थे समाहूय पुत्रम् अन्यम् अयाचत अन्धो ऽयम् अन्यम् इच्छामि कौसल्यातनयं शुभम् एवम् उक्तो महर्षिस् तां मातरं प्रत्यभाषत नियता यदि कौसल्या भविष्यति पुनः शुभा भविष्यति कुमारो ऽस्यां धर्मशास्त्रार्थतत्त्ववित् तां समाधाय वै भूयः स्नुषां सत्यवती तदा ऋतुकाले ततो ज्येष्ठां वधूं तस्मै न्ययोजयत् सा तु रूपं च गन्धं च महर्षेः प्रविचिन्त्य तम् नाकरोद् वचनं देव्या भयात् सुरसुतोपमा ततः स्वैर् भूषणैर् दासीं भूषयित्वाप्सरोपमाम् प्रेषयाम् आस कृष्णाय ततः काशिपतेः सुता दासी ऋषिम् अनुप्राप्तं प्रत्युद्गम्याभिवाद्य च संविवेशाभ्यनुज्ञाता सत्कृत्योपचचार ह उपचारेण शीलेन रूपयौवनसंपदा वाग्भावोपप्रदानेन गात्रसंस्पर्शनेन च कामोपभोगेन तु स तस्यां तुष्टिम् अगाद् ऋषिः तया सहोषितो रात्रिं महर्षिः प्रीयमाणया उत्तिष्ठन्न् अब्रवीद् एनाम् अभुजिष्या भविष्यसि अयं च ते शुभे गर्भः श्रीमान् उदरम् आगतः धर्मात्मा भविता लोके सर्वबुद्धिमतां वरः स जज्ञे विदुरो नाम कृष्णद्वैपायनात्मजः धृतराष्ट्रस्य च भ्राता पाण्डोश् चामितबुद्धिमान् धर्मो विदुररूपेण शापात् तस्य महात्मनः माण्डव्यस्यार्थतत्त्वज्ञः कामक्रोधविवर्जितः कृष्णद्वैपायनो ऽप्य् एतत् सत्यवत्यै न्यवेदयत् प्रलम्भम् आत्मनश् चैव शूद्रायाः पुत्रजन्म च स धर्मस्यानृणो भूत्वा पुनर् मात्रा समेत्य च तस्यै गर्भं समावेद्य तत्रैवान्तरधीयत एवं विचित्रवीर्यस्य क्षेत्रे द्वैपायनाद् अपि जज्ञिरे देवगर्भाभाः कुरुवंशविवर्धनाः तेषु त्रिषु कुमारेषु जातेषु कुरुजाङ्गलम् कुरवो ऽथ कुरुक्षेत्रं सर्वं त्रयम् अवर्धत गन्धवत्या तथैवोक्तो धर्मरूपं सुतं प्रति नाहम् अस्मि पुनर् योक्तुं शक्तो मातः सुतं प्रति जनमेजय उवाच किं कृतं कर्म धर्मेण येन शापम् उपेयिवान् कस्य शापाच् च ब्रह्मर्षे शूद्रयोनाव् अजायत वैशंपायन उवाच बभूव ब्राह्मणः कश् चिन् माण्डव्य इति विश्रुतः धृतिमान् सर्वधर्मज्ञः सत्ये तपसि च स्थितः स तीर्थयात्रां विचरञ् जगाम च यदृच्छया संनिकृष्टानि तीर्थानि ग्रामाणां यानि कानि चित् तत्राश्रमपदं कृत्वा वसति स्म महामुनिः स आश्रमपदद्वारि वृक्षमूले महातपाः ऊर्ध्वबाहुर् महायोगी तस्थौ मौनव्रतान्वितः तस्य कालेन महता तस्मिंस् तपसि तिष्ठतः तम् आश्रमपदं प्राप्ता दस्यवो लोप्त्रहारिणः अनुसार्यमाणा बहुभी रक्षिभिर् भरतर्षभ ताम् एव वसतिं जग्मुस् तद्ग्रामाल् लोप्त्रहारिणः ते तस्यावसथे लोप्त्रं निदधुः कुरुसत्तम निधाय च भयाल् लीनास् तत्रैवान्वागते बले तेषु लीनेष्व् अथो शीघ्रं ततस् तद् रक्षिणां बलम् ततः शीघ्रतरं राजंस् तदा राजबलं महत् यस्मिन्न् आवसथे शेते स मुनिः संशितव्रतः आजगाम ततो ऽपश्यंस् तम् ऋषिं तस्करानुगाः तम् अपृच्छंस् ततो राजंस् तथावृत्तं तपोधनम् कतरेण पथा याता दस्यवो द्विजसत्तम तेन गच्छामहे ब्रह्मन् पथा शीघ्रतरं वयम् तथा तु रक्षिणां तेषां ब्रुवतां स तपोधनः न किं चिद् वचनं राजन्न् अवदत् साध्व् असाधु वा ततस् ते राजपुरुषा विचिन्वानास् तदाश्रमम् ददृशुस् तत्र संलीनांस् तांश् चोरान् द्रव्यम् एव च ततः शङ्का समभवद् रक्षिणां तं मुनिं प्रति संयम्यैनं ततो राज्ञे दस्यूंश् चैव न्यवेदयन् तं राजा सह तैश् चोरैर् अन्वशाद् वध्यताम् इति स वध्यघातैर् अज्ञातः शूले प्रोतो महातपाः ततस् ते शूलम् आरोप्य तं मुनिं रक्षिणस् तदा प्रतिजग्मुर् महीपालं धनान्य् आदाय तान्य् अथ शूलस्थः स तु धर्मात्मा कालेन महता ततः निराहारो ऽपि विप्रर्षिर् मरणं नाभ्युपागमत् धारयाम् आस च प्राणान् ऋषींश् च समुपानयत् शूलाग्रे तप्यमानेन तपस् तेन महात्मना संतापं परमं जग्मुर् मुनयो ऽथ परंतप दुःखिता ऋषयस् तत्र आश्रमस्थाश् च तं तदा ते रात्रौ शकुना भूत्वा संन्यवर्तन्त सर्वतः दर्शयन्तो यथाशक्ति तम् अपृच्छन् द्विजोत्तमम् भगवन् केन दोषेण गन्तासि द्विजसत्तम श्रोतुम् इच्छामहे ब्रह्मन् किं पापं कृतवान् असि येनेह समनुप्राप्तं शूले दुःखभयं महत् तत् ते द्विजवरश्रेष्ठ संशयः सुमहान् इह ईदृशस्य द्विजश्रेष्ठ उग्रे तपसि वर्ततः ततः स मुनिशार्दूलस् तान् उवाच तपोधनान् दोषतः कं गमिष्यामि न हि मे ऽन्यो ऽपराध्यति तं दृष्ट्वा रक्षिणस् तत्र तथा बहुतिथे ऽहनि न्यवेदयंस् तथा राज्ञे यथा वृत्तं नराधिप श्रुत्वा च वचनं तेषां शूलस्थम् ऋषिसत्तमम् राजा च तम् ऋषिं श्रुत्वा निष्क्रम्य सह मन्त्रिभिः प्रसादयाम् आस तदा शूलस्थम् ऋषिसत्तमम् यन् मयापकृतं मोहाद् अज्ञानाद् ऋषिसत्तम प्रसादये त्वां तत्राहं न मे त्वं क्रोद्धुम् अर्हसि एवम् उक्तस् ततो राज्ञा प्रसादम् अकरोन् मुनिः कृतप्रसादो राजा तं ततः समवतारयत् अवतार्य च शूलाग्रात् तच् छूलं निश्चकर्ष ह अशक्नुवंश् च निष्क्रष्टुं शूलं मूले स चिच्छिदे स तथान्तर्गतेनैव शूलेन व्यचरन् मुनिः कण्ठपार्श्वान्तरस्थेन शङ्कुना मुनिर् आचरत् पुष्पभाजनधारी स्याद् इति चिन्तापरो ऽभवत् स तेन तपसा लोकान् विजिग्ये दुर्लभान् परैः अणीमाण्डव्य इति च ततो लोकेषु कथ्यते स गत्वा सदनं विप्रो धर्मस्य परमार्थवित् आसनस्थं ततो धर्मं दृष्ट्वोपालभत प्रभुः किं नु तद् दुष्कृतं कर्म मया कृतम् अजानता यस्येयं फलनिर्वृत्तिर् ईदृश्य् आसादिता मया शीघ्रम् आचक्ष्व मे तत्त्वं पश्य मे तपसो बलम् धर्म उवाच पतंगकानां पुच्छेषु त्वयेषीका प्रवेशिता कर्मणस् तस्य ते प्राप्तं फलम् एतत् तपोधन स्वल्पम् एव यथा दत्तं दानं बहुगुणं भवेत् अधर्म एवं विप्रर्षे बहुदुःखफलप्रदः आणिमाण्डव्यः कस्मिन् काले मया तत् तु कृतं ब्रूहि यथातथम् तेनोक्तो धर्मराजो ऽथ बालभावे त्वया कृतम् अणीमाण्डव्य उवाच अल्पे ऽपराधे विपुलो मम दण्डस् त्वया कृतः शूद्रयोनाव् अतो धर्म मानुषः संभविष्यसि बालो हि द्वादशाद् वर्षाज् जन्मनो यत् करिष्यति न भविष्यत्य् अधर्मो ऽत्र न प्रज्ञास्यति वै दिशः मर्यादां स्थापयाम्य् अद्य लोके धर्मफलोदयाम् आ चतुर्दशमाद् वर्षान् न भविष्यति पातकम् परेण कुर्वताम् एवं दोष एव भविष्यति वैशंपायन उवाच एतेन त्व् अपराधेन शापात् तस्य महात्मनः धर्मो विदुररूपेण शूद्रयोनाव् अजायत धर्मे चार्थे च कुशलो लोभक्रोधविवर्जितः दीर्घदर्शी शमपरः कुरूणां च हिते रतः वैशंपायन उवाच सर्वतो बलवान् धर्मस् ततो ऽपि ब्राह्मणो महान् इतीह कथयाम् आस भगवान् बादरायणः वैशंपायन उवाच धृतराष्ट्रे च पाण्डौ च विदुरे च महात्मनि तेषु त्रिषु कुमारेषु जातेषु कुरुजाङ्गलम् कुरवो ऽथ कुरुक्षेत्रं त्रयम् एतद् अवर्धत ऊर्ध्वसस्याभवद् भूमिः सस्यानि फलवन्ति च यथर्तुवर्षी पर्जन्यो बहुपुष्पफला द्रुमाः वाहनानि प्रहृष्टानि मुदिता मृगपक्षिणः गन्धवन्ति च माल्यानि रसवन्ति फलानि च वणिग्भिश् चावकीर्यन्त नगराण्य् अथ शिल्पिभिः शूराश् च कृतविद्याश् च सन्तश् च सुखिनो ऽभवन् नाभवन् दस्यवः के चिन् नाधर्मरुचयो जनाः प्रदेशेष्व् अपि राष्ट्राणां कृतं युगम् अवर्तत दानक्रियाधर्मशीला यज्ञव्रतपरायणाः अन्योन्यप्रीतिसंयुक्ता व्यवर्धन्त प्रजास् तदा मानक्रोधविहीनाश् च जना लोभविवर्जिताः अन्योन्यम् अभ्यवर्धन्त धर्मोत्तरम् अवर्तत तन् महोदधिवत् पूर्णं नगरं वै व्यरोचत द्वारतोरणनिर्यूहैर् युक्तम् अभ्रचयोपमैः प्रासादशतसंबाधं महेन्द्रपुरसंनिभम् नदीषु वनखण्डेषु वापीपल्वलसानुषु काननेषु च रम्येषु विजह्रुर् मुदिता जनाः उत्तरैः कुरुभिः सार्धं दक्षिणाः कुरवस् तदा विस्पर्धमाना व्यचरंस् तथा सिद्धर्षिचारणैः नाभवत् कृपणः कश् चिन् नाभवन् विधवाः स्त्रियः तस्मिञ् जनपदे रम्ये बहवः कुरुभिः कृताः कूपारामसभावाप्यो ब्राह्मणावसथास् तथा बभूवुः सर्वर्द्धियुतास् तस्मिन् राष्ट्रे सदोत्सवाः स्वाहाकारैः स्वधाभिश् च संनिवासः कुरूषितः भीष्मेण शास्त्रतो राजन् सर्वतः परिरक्षिते बभूव रमणीयश् च चैत्ययूपशताङ्कितः स देशः परराष्ट्राणि प्रतिगृह्याभिवर्धितः भीष्मेण विहितं राष्ट्रे धर्मचक्रम् अवर्तत क्रियमाणेषु कृत्येषु कुमाराणां महात्मनाम् पौरजानपदाः सर्वे बभूवुः सततोत्सवाः गृहेषु कुरुमुख्यानां पौराणां च नराधिप दीयतां भुज्यतां चेति वाचो ऽश्रूयन्त सर्वशः धृतराष्ट्रश् च पाण्डुश् च विदुरश् च महामतिः जन्मप्रभृति भीष्मेण पुत्रवत् परिपालिताः वैदिकाध्ययने युक्तो नीतिशास्त्रेषु पारगः भीष्मेण राजा कौरव्यो धृतराष्ट्रो ऽभिषेचितः धनुर्वेदे ऽश्वपृष्ठे च गदायुद्धे ऽसिचर्मणि तथैव गजशिक्षायाम् अस्त्रेषु विविधेषु च अर्थधर्मप्रधानासु विद्यासु विविधासु च गतः पारं यदा पाण्डुस् तदा सेनापतिः कृतः धृतराष्ट्रस् त्व् अचक्षुष्ट्वाद् राज्यं न प्रत्यपद्यत अवरत्वाच् च विदुरः पाण्डुश् चासीन् महीपतिः अमात्यो मनुजेन्द्रस्य बाल एव यशस्विनः प्रणेता सर्वधर्माणां भीष्मेण विदुरः कृतः सर्वशास्त्रार्थतत्त्वज्ञो बुद्धिमेधापटुर् युवा भावेनागमयुक्तेन सर्वं वेदयते जगत् प्रनष्टः शंतनोर् वंशः भीष्मेण पुनर् उद्धृतः ततो निर्वचनं सत्सु तद् इदं परिपठ्यते कौसल्या वीरसूः स्त्रीणां देशानां कुरुजाङ्गलम् भीष्मो धर्मभृतां श्रेष्ठः पुराणां गजसाह्वयम् ते त्रयः कालयोगेन कुमारा जनमेजय अवर्धन्त महात्मानो नन्दयन्तः सुहृज्जनम् संस्कारैः संस्कृतास् ते तु व्रताध्ययनसंयुताः श्रमव्यायामकुशलाः समपद्यन्त यौवनम् धनुर्वेदे ऽश्वपृष्ठे च गदायुद्धे ऽसिचर्मणि तथैव गजशिक्षायां नीतिशास्त्रे च पारगाः इतिहासपुराणेषु नानाशिक्षासु चाभिभो वेदवेदाङ्गतत्त्वज्ञाः सर्वत्र कृतनिश्रमाः पाण्डुर् धनुषि विक्रान्तो नरेभ्यो ऽभ्यधिको ऽभवत् अत्य् अन्यान् बलवान् आसीद् धृतराष्ट्रो महीपतिः त्रिषु लोकेषु न त्व् आसीत् कश् चिद् विदुरसंमितः धर्मनित्यस् ततो राजन् धर्मे च परमं गतः अथ शुश्राव विप्रेभ्यो यादवस्य महीपतेः रूपयौवनसंपन्नां सुतां सागरगासुतः सुबलस्य च कल्याणीं गान्धाराधिपतेः सुताम् सुतां च मद्रराजस्य रूपेणाप्रतिमां भुवि प्रनष्टं शंतनोर् वंशं समीक्ष्य पुनर् उद्धृतम् ततो निर्वचनं लोके सर्वराष्ट्रेष्व् अवर्तत वीरसूनां काशिसुते देशानां कुरुजाङ्गलम् सर्वधर्मविदां भीष्मः पुराणां गजसाह्वयम् धृतराष्ट्रस् त्व् अचक्षुष्ट्वाद् राज्यं न प्रत्यपद्यत करणत्वाच् च विदुरः पाण्डुर् आसीन् महीपतिः कदा चिद् अथ गाङ्गेयः सर्वनीतिविशारदः विदुरं धर्मतत्त्वज्ञं वाक्यम् आह यथोचितम् ततः काले बहुतिथे भीष्मो विदुरम् अब्रवीत् भीष्म उवाच गुणैः समुदितं सम्यग् इदं नः प्रथितं कुलम् अत्य् अन्यान् पृथिवीपालान् पृथिव्याम् अधिराज्यभाक् रक्षितं राजभिः पूर्वैर् धर्मविद्भिर् महात्मभिः नोत्सादम् अगमच् चेदं कदा चिद् इह नः कुलम् मया च सत्यवत्या च कृष्णेन च महात्मना समवस्थापितं भूयो युष्मासु कुलतन्तुषु वर्धते तद् इदं पुत्र कुलं सागरवद् यथा तथा मया विधातव्यं त्वया चैव विशेषतः श्रूयते यादवी कन्या अनुरूपा कुलस्य नः सुबलस्यात्मजा चैव तथा मद्रेश्वरस्य च कुलीना रूपवत्यश् च नाथवत्यश् च सर्वशः उचिताश् चैव संबन्धे ते ऽस्माकं क्षत्रियर्षभाः मन्ये वरयितव्यास् ता इत्य् अहं धीमतां वर संतानार्थं कुलस्यास्य यद् वा विदुर मन्यसे विदुर उवाच भवान् पिता भवान् माता भवान् नः परमो गुरुः तस्मात् स्वयं कुलस्यास्य विचार्य कुरु यद् धितम् वैशंपायन उवाच अथ शुश्राव विप्रेभ्यो गान्धारीं सुबलात्मजाम् आराध्य वरदं देवं भगनेत्रहरं हरम् गान्धारी किल पुत्राणां शतं लेभे वरं शुभा इति श्रुत्वा च तत्त्वेन भीष्मः कुरुपितामहः ततो गान्धारराजस्य प्रेषयाम् आस भारत अचक्षुर् इति तत्रासीत् सुबलस्य विचारणा कुलं ख्यातिं च वृत्तं च बुद्ध्या तु प्रसमीक्ष्य सः ददौ तां धृतराष्ट्राय गान्धारीं धर्मचारिणीम् गान्धारी त्व् अपि शुश्राव धृतराष्ट्रम् अचक्षुषम् आत्मानं दित्सितं चास्मै पित्रा मात्रा च भारत ततः सा पट्टम् आदाय कृत्वा बहुगुणं शुभा बबन्ध नेत्रे स्वे राजन् पतिव्रतपरायणा नात्यश्नीयां पतिम् अहम् इत्य् एवं कृतनिश्चया ततो गान्धारराजस्य पुत्रः शकुनिर् अभ्ययात् स्वसारं परया लक्ष्म्या युक्ताम् आदाय कौरवान् तां तदा धृतराष्ट्राय ददौ परमसत्कृताम् भीष्मस्यानुमते चैव विवाहं समकारयत् ततो विवाहं चक्रे ऽस्या नक्षत्रे सर्वसंमते सौबलस् तु महाराजा शकुनिः प्रियदर्शनः दत्त्वा स भगिनीं वीरो यथार्हं च परिच्छदम् पुनर् आयात् स्वनगरं भीष्मेण प्रतिपूजितः गान्धार्य् अपि वरारोहा शीलाचारविचेष्टितैः तुष्टिं कुरूणां सर्वेषां जनयाम् आस भारत गान्धारी सा पतिं दृष्ट्वा प्रज्ञाचक्षुषम् ईश्वरम् अतिचाराद् भृशं भीता भर्तुः सा समचिन्तयत् सा दृष्टिविनिवृत्तापि भर्तुश् च समतां ययौ न हि सूक्ष्मे ऽप्य् अतीचारे भर्तुः सा ववृते तदा वृत्तेनाराध्य तान् सर्वान् पतिव्रतपरायणा वाचापि पुरुषान् अन्यान् सुव्रता नान्वकीर्तयत् तस्याः सहोदराः कन्याः पुनर् एव ददौ दश गान्धारराजः सुबलो भीष्मेण वरितस् तदा सत्यव्रतां सत्यसेनां सुदेष्णां च सुसंहिताम् तेजःश्रवां सुश्रवां च तथैव निकृतिं शुभाम् शंभुवां च दशार्णां च गान्धारीर् दश विश्रुताः एकाह्ना प्रतिजग्राह धृतराष्ट्रो जनेश्वरः ततः शांतनवो भीष्मो धनुष्क्रीतास् ततस् ततः अददाद् धृतराष्ट्राय राजपुत्रीः परः शतम् वैशंपायन उवाच शूरो नाम यदुश्रेष्ठो वसुदेवपिताभवत् तस्य कन्या पृथा नाम रूपेणासदृशी भुवि पैतृष्वसेयाय स ताम् अनपत्याय वीर्यवान् अग्र्यम् अग्रे प्रतिज्ञाय स्वस्यापत्यस्य वीर्यवान् अग्रजातेति तां कन्याम् अग्र्यानुग्रहकाङ्क्षिणे प्रददौ कुन्तिभोजाय सखा सख्ये महात्मने सा नियुक्ता पितुर् गेहे देवतातिथिपूजने उग्रं पर्यचरद् घोरं ब्राह्मणं संशितव्रतम् निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः तम् उग्रं संशितात्मानं सर्वयत्नैर् अतोषयत् दध्याज्यकादिभिर् नित्यं व्यञ्जनैः प्रत्यहं शुभा सहस्रसंख्यैर् योगीन्द्रं समुपाचरद् उत्तमा दुर्वासा वत्सरस्यान्ते ददौ मन्त्रम् अनुत्तमम् तस्यै स प्रददौ मन्त्रम् आपद्धर्मान्ववेक्षया अभिचाराभिसंयुक्तम् अब्रवीच् चैव तां मुनिः अभिचारायुतं तस्या आचष्ट भगवान् ऋषिः यं यं देवं त्वम् एतेन मन्त्रेणावाहयिष्यसि तस्य तस्य प्रसादेन पुत्रस् तव भविष्यति तथोक्ता सा तु विप्रेण तेन कौतूहलात् तदा रवेस् तस्य परीक्षार्थं कुन्ती कन्यापि भास्करम् कन्या सती देवम् अर्कम् आजुहाव यशस्विनी ततो घनान्तरं कृत्वा स्वमार्गं तपनस् तदा उपतस्थे स तां कन्यां पृथां पृथुललोचनाम् अवतीर्य स्वमार्गाच् च दिव्यमूर्तिधरः स्वयम् सा ददर्श तम् आयान्तं भास्करं लोकभावनम् विस्मिता चानवद्याङ्गी दृष्ट्वा तन् महद् अद्भुतम् कुन्त्य् उवाच सूर्य उवाच वैशंपायन उवाच तां समासाद्य देवस् तु विवस्वान् इदम् अब्रवीत् अयम् अस्म्य् असितापाङ्गे ब्रूहि किं करवाणि ते कश् चिन् मे ब्रह्मवित् प्रादाद् वरं विद्यां च शत्रुहन् यद् विजिज्ञासयाह्वानं कृतवत्य् अस्मि ते विभो तद् अस्मिन्न् अपराधे त्वां शिरसाभिप्रसादये योषितो हि सदा रक्ष्याः स्वपराद्धापि नित्यदा वेदाहं सर्वम् एवैतद् यद् दुर्वासा ददौ तव संत्यज्योभे मानभये क्रियतां संगमो मया अमोघं दर्शनं मह्यम् आहूतश् चास्मि ते शुभे वृथाह्वानाद् धि ते भीरु दोषो हि स्याद् असंशयम् सैवम् उक्ता बहुविधं सान्त्वं क्रूरं विवस्वता सा तु नैच्छद् वरारोहा कन्याहम् इति पार्थिव बन्धुपक्षभयाद् भीता लज्जया च तपस्विनी ताम् अर्कः पुनर् एवेदम् अब्रवीद् भरतर्षभ मत्प्रसादान् न ते राज्ञि भविता दोष इत्य् उत एवम् उक्त्वा तु भगवान् कुन्तिभोजसुतां तदा सूर्यः वैशंपायनः सूर्यः कुन्ती सूर्यः वैशंपायनः साब्रवीद् भगवन् कस् त्वं प्रादुर्भूतो ममाग्रतः आहूतोपस्थितं भद्रे ऋषिमन्त्रेण चोदितम् विद्धि मां पुत्रलाभाय देवम् अर्कं शुचिस्मिते पुत्रस् ते निर्मितः सुभ्रु शृणु यादृक् शुभानने आदित्ये कुण्डले बिभ्रत् कवचं चैव मामकम् शस्त्रास्त्राणाम् अभेद्यं च भविष्यति शुचिस्मिते नास्य किं चिद् अदेयं च ब्राह्मणेभ्यो भविष्यति चोद्यमानो मया चापि न क्षमं चिन्तयिष्यति दास्यते स हि विप्रेभ्यो मानी चैव भविष्यति एवम् उक्ता ततः कुन्ती गोपतिं प्रत्युवाच ह कन्या पितृवशा चाहं पुरुषार्थो न चैव मे यद्य् एवं मन्यसे भीरु किम् आह्वयसि भास्करम् यदि माम् अवजानासि ऋषिः स न भविष्यति मन्त्रदानेन यस्य त्वम् अवलेपेन दर्पिता कुलं च ते ऽद्य धक्ष्यामि क्रोधदीप्तेन चक्षुषा प्रसीद भगवन् मह्यम् अवलेपो हि नास्ति मे ममैव परिहार्यं स्यात् कन्याभावस्य दूषणम् व्यपयातु भयं ते ऽद्य कुमारं प्रसमीक्ष्यसे मया त्वं चाप्य् अनुज्ञाता पुनः कन्या भविष्यसि एवम् उक्ता ततः कुन्ती संप्रहृष्टतनूरुहा संगता च ततः सुभ्रूर् आदित्येन महात्मना प्रकाशकर्मा तपनस् तस्यां गर्भं दधौ ततः अजीजनत् ततो वीरं सर्वशस्त्रभृतां वरम् आमुक्तकवचः श्रीमान् देवगर्भः श्रियावृतः सहजं कवचं बिभ्रत् कुण्डलोद्द्योतिताननः अजायत सुतः कर्णः सर्वलोकेषु विश्रुतः मञ्जूषां रत्नसंपूर्णां कर्णनामाभिसंज्ञिताम् प्रादाच् च तस्याः कन्यात्वं पुनः स परमद्युतिः दत्त्वा च ददतां श्रेष्ठो दिवम् आचक्रमे ततः दृष्ट्वा कुमारं जातं सा वार्ष्णेयी दीनमानसा एकाग्रा चिन्तयाम् आस किं कृत्वा सुकृतं भवेत् गूहमानापचारं तं बन्धुपक्षभयात् तदा उत्ससर्ज जले कुन्ती तं कुमारं सलक्षणम् तम् उत्सृष्टं तदा गर्भं राधाभर्ता महायशाः पुत्रत्वे कल्पयाम् आस सभार्यः सूतनन्दनः नामधेयं च चक्राते तस्य बालस्य ताव् उभौ वसुना सह जातो ऽयं वसुषेणो भवत्व् इति स वर्धमानो बलवान् सर्वास्त्रेषूद्यतो ऽभवत् लोके चैव हि विख्यातः सर्वशस्त्रभृतां वरः आ पृष्ठतापाद् आदित्यम् उपतस्थे स वीर्यवान् यस्मिन् काले जपन्न् आस्ते स वीरः सत्यसंगरः नादेयं ब्राह्मणेष्व् आसीत् तस्मिन् काले महात्मनः कर्णः सूर्यः वैशंपायनः ततः काले तु कस्मिंश् चित् स्वप्नान्ते कर्णम् अब्रवीत् आदित्यो ब्राह्मणो भूत्वा शृणु वीर वचो मम प्रभातायां रजन्यां त्वाम् आगमिष्यति वासवः न तस्य भिक्षा दातव्या विप्ररूपी भविष्यति निश्चयो ऽस्यापहर्तुं ते कवचं कुण्डले तथा अतस् त्वां बोधयाम्य् एष स्मर्तासि वचनं मम शक्रो मां विप्ररूपेण यदि वै याचते द्विज कथं तस्मै न दास्यामि यथा चास्म्य् अवबोधितः विप्राः पूज्यास् तु देवानां सततं प्रियम् इच्छताम् तं देवदेवं जानन् वै न शक्नोम्य् अवमन्त्रणे यद्य् एवं शृणु मे वीर वरं ते सो ऽपि दास्यति शक्तिं त्वम् अपि याचेथाः सर्वशत्रुविघातिनीम् एवम् उक्त्वा द्विजः स्वप्ने तत्रैवान्तरधीयत कर्णः प्रबुद्धस् तं स्वप्नं चिन्तयानो ऽभवत् तदा तम् इन्द्रो ब्राह्मणो भूत्वा भिक्षार्थं भूतभावनः कुण्डले प्रार्थयाम् आस कवचं च महाद्युतिः एवम् उक्तस् तदा कर्णो ब्राह्मणेन महात्मनः कर्णः[तु] कुण्डले भित्त्वा प्रायच्छत् स कृताञ्जलिः उत्कृत्य विमनाः स्वाङ्गात् कवचं रुधिरस्रवम् कर्णस् तु कुण्डले छित्त्वा प्रायच्छत् स कृताञ्जलिः प्रतिगृह्य तु देवेशस् तुष्टस् तेनास्य कर्मणा कर्णः अहो साहसम् इत्य् आह मनसा वासवो हसन् देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् न तं पश्यामि यो ह्य् एतत् कर्म कर्ता भविष्यति प्रीतो ऽस्मि कर्मणा तेन वरं वृणु यद् इच्छसि इच्छामि भगवद्दत्तां शक्तिं शत्रुनिबर्हणीम् अमोघाम् अप्रतिहतां त्वत्तः सुरगणेश्वर शक्तिं तस्मै ददौ शक्रः विस्मितो वाक्यम् अब्रवीत् देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् यस्मै क्षेप्स्यसि रुष्टः सन् सो ऽनया न भविष्यति हत्वैकं समरे शत्रुं ततो माम् आगमिष्यति इत्य् उक्त्वान्तर्दधे शक्रो वरं दत्त्वा तु तस्य वै पुरा नाम तु तस्यासीद् वसुषेण इति श्रुतम् ततो वैकर्तनः कर्णः कर्मणा तेन सो ऽभवत् वैशंपायन उवाच रूपसत्त्वगुणोपेता धर्मारामा महाव्रता दुहिता कुन्तिभोजस्य कृते पित्रा स्वयंवरे तां तु तेजस्विनीं कन्यां रूपयौवनशालिनीम् नावृण्वन् पार्थिवाः के चिद् अतीव स्त्रीगुणैर् युताम् ततः सा कुन्तिभोजेन राज्ञाहूय नराधिपान् पित्रा स्वयंवरे दत्ता दुहिता राजसत्तम ततः सा रङ्गमध्यस्थं तेषां राज्ञां मनस्विनी ददर्श राजशार्दूलं पाण्डुं भरतसत्तमम् सिंहदंष्ट्रं गजस्कन्धम् ऋषभाक्षं महाबलम् पतिं वव्रे महेष्वासं पाण्डुं कुन्ती यशस्विनी आदित्यम् इव सर्वेषां राज्ञां प्रच्छाद्य वै प्रभाः तिष्ठन्तं राजसमितौ पुरंदरम् इवापरम् तं दृष्ट्वा सानवद्याङ्गी कुन्तिभोजसुता शुभा पाण्डुं नरवरं रङ्गे हृदयेनाकुलाभवत् ततः कामपरीताङ्गी सकृत् प्रचलमानसा व्रीडमाना स्रजं कुन्ती राज्ञः स्कन्धे समासृजत् तं निशम्य वृतं पाण्डुं कुन्त्या सर्वे नराधिपाः यथागतं समाजग्मुर् गजैर् अश्वै रथैस् तथा ततस् तस्याः पिता राजन्न् उद्वाहम् अकरोत् प्रभुः भूमिपालसहस्राणां मध्ये पाण्डुम् अविन्दत स तया कुन्तिभोजस्य दुहित्रा कुरुनन्दनः युयुजे ऽमितसौभाग्यः पौलोम्या मघवान् इव यात्वा देवव्रतेनापि मद्राणां पुटभेदनम् विश्रुता त्रिषु लोकेषु माद्री मद्रपतेः सुता सर्वराजसु विख्याता रूपेणासदृशी भुवि पाण्डोर् अर्थे परिक्रीता धनेन महता तदा विवाहं कारयाम् आस भीष्मः पाण्डोर् महात्मनः सिंहोरस्कं गजस्कन्धम् ऋषभाक्षं मनस्विनम् पाण्डुं दृष्ट्वा नरव्याघ्रं व्यस्मयन्त नरा भुवि कृतोद्वाहस् ततः पाण्डुर् बलोत्साहसमन्वितः गोप्ता भरतवंशस्य श्रीमान् सर्वास्त्रकोविदः जिगीषमाणो वसुधां ययौ शत्रून् अनेकशः वैशंपायन उवाच कुन्त्याः पाण्डोश् च राजेन्द्र कुन्तिभोजो महीपतिः कृत्वोद्वाहं तदा तं तु नानावसुभिर् अर्चितम् स्वपुरं प्रेषयाम् आस स राजा कुरुसत्तमम् ततो बलेन महता नानाध्वजपताकिना स्तूयमानः स चाशीभिर् ब्राह्मणैश् च महर्षिभिः संप्राप्य नगरं राजा पाण्डुः कौरवनन्दनः न्यवेशयत तां भार्यां कुन्तीं स्वभवने प्रभुः ततः शांतनवो भीष्मो राज्ञः पाण्डोर् यशस्विनः विवाहस्यापरस्यार्थे चकार मतिमान् मतिम् सो ऽमात्यैः स्थविरैः सार्धं ब्राह्मणैश् च महर्षिभिः बलेन चतुरङ्गेन ययौ मद्रपतेः पुरम् तम् आगतम् अभिश्रुत्य भीष्मं बाह्लीकपुङ्गवः प्रत्युद्गम्यार्चयित्वा च पुरं प्रावेशयन् नृपः दत्त्वा तस्यासनं शुभ्रं पाद्यम् अर्घ्यं तथैव च मधुपर्कं च मद्रेशः पप्रच्छागमने ऽर्थिताम् तं भीष्मः प्रत्युवाचेदं मद्रराजं कुरूद्वहः आगतं मां विजानीहि वरार्थिनम् अरिंदम श्रूयते भवतः साध्वी स्वसा माद्री यशस्विनी ताम् अहं वरयिष्यामि पाण्डोर् अर्थे यशस्विनीम् युक्तरूपो हि संबन्धे त्वं नो राजन् वयं तव एतत् संचिन्त्य मद्रेश गृहाणास्मान् यथाविधि तम् एवंवादिनं भीष्मं प्रत्यभाषत मद्रपः न हि मे ऽन्यो वरस् त्वत्तः श्रेयान् इति मतिर् मम पूर्वैः प्रवर्तितं किं चित् कुले ऽस्मिन् नृपसत्तमैः साधु वा यदि वासाधु तन् नातिक्रान्तुम् उत्सहे व्यक्तं तद् भवतश् चापि विदितं नात्र संशयः न च युक्तं तथा वक्तुं भवान् देहीति सत्तम कुलधर्मः स नो वीर प्रमाणं परमं च तत् तेन त्वां न ब्रवीम्य् एतद् असंदिग्धं वचो ऽरिहन् तं भीष्मः प्रत्युवाचेदं मद्रराजं महामतिः धर्म एष परो राजन् स्वयम् उक्तः स्वयंभुवा नात्र कश् चन दोषो ऽस्ति पूर्वैर् विधिर् अयं कृतः विदितेयं च ते शल्य मर्यादा साधुसंमता इत्य् उक्त्वा स महातेजाः शातकुम्भं कृताकृतम् रत्नानि च विचित्राणि शल्यायादात् सहस्रशः गजान् अश्वान् रथांश् चैव वासांस्य् आभरणानि च मणिमुक्ताप्रवालं च गाङ्गेयो व्यसृजच् छुभम् तत् प्रगृह्य धनं सर्वं शल्यः संप्रीतमानसः ददौ तां समलंकृत्य स्वसारं कौरवर्षभे स तां माद्रीम् उपादाय भीष्मः सागरगासुतः आजगाम पुरं धीमान् प्रविष्टो गजसाह्वयम् तत इष्टे ऽहनि प्राप्ते मुहूर्ते साधुसंमते जग्राह विधिवत् पाणिं माद्र्याः पाण्डुर् नराधिपः ततो विवाहे निर्वृत्ते स राजा कुरुनन्दनः स्थापयाम् आस तां भार्यां शुभे वेश्मनि भाविनीम् स ताभ्यां व्यचरत् सार्धं भार्याभ्यां राजसत्तमः कुन्त्या माद्र्या च राजेन्द्रो यथाकामं यथासुखम् ततः स कौरवो राजा विहृत्य त्रिदशा निशाः जिगीषया महीं पाण्डुर् निश्चक्राम पुरात् प्रभो स भीष्मप्रमुखान् वृद्धान् अभिवाद्य प्रणम्य च धृतराष्ट्रं च कौरव्यं तथान्यान् कुरुसत्तमान् आमन्त्र्य प्रययौ राजा तैश् चैवाभ्यनुमोदितः मङ्गलाचारयुक्ताभिर् आशीर्भिश् चाभिनन्दितः गजवाजिरथौघेन बलेन महतागमत् स राजा देवराजाभो विजिगीषुर् वसुंधराम् हृष्टपुष्टबलः प्रायात् पाण्डुः शत्रून् अनेकशः पूर्वम् आगस्कृतो गत्वा दशार्णाः समरे जिताः पाण्डुना नरसिंहेन कौरवाणां यशोभृता ततः सेनाम् उपादाय पाण्डुर् नानाविधध्वजाम् प्रभूतहस्त्यश्वरथां पदातिगणसंकुलाम् आगस्कृत् सर्ववीराणां वैरी सर्वमहीभृताम् गोप्ता मगधराष्ट्रस्य दार्वो राजगृहे हतः ततः कोशं समादाय वाहनानि बलानि च पाण्डुना मिथिलां गत्वा विदेहाः समरे जिताः तथा काशिषु सुह्मेषु पुण्ड्रेषु भरतर्षभ स्वबाहुबलवीर्येण कुरूणाम् अकरोद् यशः तं शरौघमहाज्वालम् अस्त्रार्चिषम् अरिंदमम् पाण्डुपावकम् आसाद्य व्यदह्यन्त नराधिपाः ते ससेनाः ससेनेन विध्वंसितबला नृपाः पाण्डुना वशगाः कृत्वा करकर्मसु योजिताः तेन ते निर्जिताः सर्वे पृथिव्यां सर्वपार्थिवाः तम् एकं मेनिरे शूरं देवेष्व् इव पुरंदरम् तं कृताञ्जलयः सर्वे प्रणता वसुधाधिपाः उपाजग्मुर् धनं गृह्य रत्नानि विविधानि च मणिमुक्ताप्रवालं च सुवर्णं रजतं तथा गोरत्नान्य् अश्वरत्नानि रथरत्नानि कुञ्जरान् खरोष्ट्रमहिषांश् चैव यच् च किं चिद् अजाविकम् तत् सर्वं प्रतिजग्राह राजा नागपुराधिपः तद् आदाय ययौ पाण्डुः पुनर् मुदितवाहनः हर्षयिष्यन् स्वराष्ट्राणि पुरं च गजसाह्वयम् शंतनो राजसिंहस्य भरतस्य च धीमतः प्रनष्टः कीर्तिजः शब्दः पाण्डुना पुनर् उद्धृतः ये पुरा कुरुराष्ट्राणि जह्रुः कुरुधनानि च ते नागपुरसिंहेन पाण्डुना करदाः कृताः इत्य् अभाषन्त राजानो राजामात्याश् च संगताः अभ्यनन्दन्त वै पाण्डुम् आशीर्वादैः पृथग्विधैः प्रतीतमनसो हृष्टाः पौरजानपदैः सह प्रत्युद्ययुस् तं संप्राप्तं सर्वे भीष्मपुरोगमाः ते नदूरम् इवाध्वानं गत्वा नागपुरालयाः आवृतं ददृशुर् लोकं हृष्टा बहुविधैर् जनैः नानायानसमानीतै रत्नैर् उच्चावचैस् तथा हस्त्यश्वरथरत्नैश् च गोभिर् उष्ट्रैर् अथाविकैः नान्तं ददृशुर् आसाद्य भीष्मेण सह कौरवाः सो ऽभिवाद्य पितुः पादौ कौसल्यानन्दवर्धनः यथार्हं मानयाम् आस पौरजानपदान् अपि प्रमृद्य परराष्ट्राणि कृतार्थं पुनरागतम् पुत्रम् आसाद्य भीष्मस् तु हर्षाद् अश्रूण्य् अवर्तयत् स तूर्यशतसंघानां भेरीणां च महास्वनैः हर्षयन् सर्वशः पौरान् विवेश गजसाह्वयम् वैशंपायन उवाच धृतराष्ट्राभ्यनुज्ञातः स्वबाहुविजितं धनम् भीष्माय सत्यवत्यै च मात्रे चोपजहार सः विदुराय च वै पाण्डुः प्रेषयाम् आस तद् धनम् सुहृदश् चापि धर्मात्मा धनेन समतर्पयत् ततः सत्यवतीं भीष्मः कौसल्यां च यशस्विनीम् शुभैः पाण्डुजितै रत्नैस् तोषयाम् आस भारत ननन्द माता कौसल्या तम् अप्रतिमतेजसम् जयन्तम् इव पौलोमी परिष्वज्य नरर्षभम् तस्य वीरस्य विक्रान्तैः सहस्रशतदक्षिणैः . . . . . . . . पाण्डोर् बाहुविनिर्जितैः असंख्येयैर् धनै राजा . . . . . . . . अश्वमेधशतैर् ईजे धृतराष्ट्रो महामखैः संप्रयुक्तश् च कुन्त्या च माद्र्या च भरतर्षभ जिततन्द्रीस् तदा पाण्डुर् बभूव वनगोचरः हित्वा प्रासादनिलयं शुभानि शयनानि च अरण्यनित्यः सततं बभूव मृगयापरः स चरन् दक्षिणं पार्श्वं रम्यं हिमवतो गिरेः उवास गिरिपृष्ठेषु महाशालवनेषु च रराज कुन्त्या माद्र्या च पाण्डुः सह वने वसन् करेण्वोर् इव मध्यस्थः श्रीमान् पौरंदरो गजः भारतं सह भार्याभ्यां बाणखड्गधनुर्धरम् विचित्रकवचं वीरं परमास्त्रविदं नृपम् देवो ऽयम् इत्य् अमन्यन्त चरन्तं वनवासिनः तस्य कामांश् च भोगांश् च नरा नित्यम् अतन्द्रिताः उपजह्रुर् वनान्तेषु धृतराष्ट्रेण चोदिताः अथ पारशवीं कन्यां देवकस्य महीपतेः रूपयौवनसंपन्नां स शुश्रावापगासुतः ततस् तु वरयित्वा ताम् आनाय्य पुरुषर्षभः विवाहं कारयाम् आस विदुरस्य महामतेः तस्यां चोत्पादयाम् आस विदुरः कुरुनन्दनः पुत्रान् विनयसंपन्नान् आत्मनः सदृशान् गुणैः वैशंपायन उवाच ततः पुत्रशतं जज्ञे गान्धार्यां जनमेजय धृतराष्ट्रस्य वैश्यायाम् एकश् चापि शतात् परः पाण्डोः कुन्त्यां च माद्र्यां च पञ्च पुत्रा महारथाः देवेभ्यः समपद्यन्त संतानाय कुलस्य वै जनमेजय उवाच कथं पुत्रशतं जज्ञे गान्धार्यां द्विजसत्तम कियता चैव कालेन तेषाम् आयुश् च किं परम् कथं चैकः स वैश्यायां धृतराष्ट्रसुतो ऽभवत् कथं च सदृशीं भार्यां गान्धारीं धर्मचारिणीम् आनुकूल्ये वर्तमानां धृतराष्ट्रो ऽत्यवर्तत कथं च शप्तस्य सतः पाण्डोस् तेन महात्मना समुत्पन्ना दैवतेभ्यः पञ्च पुत्रा महारथाः एतद् विद्वन् यथावृत्तं विस्तरेण तपोधन कथयस्व न मे तृप्तिः कथ्यमानेषु बन्धुषु वैशंपायन उवाच क्षुच्छ्रमाभिपरिग्लानं द्वैपायनम् उपस्थितम् तोषयाम् आस गान्धारी व्यासस् तस्यै वरं ददौ सा वव्रे सदृशं भर्तुः पुत्राणां शतम् आत्मनः ततः कालेन सा गर्भं धृतराष्ट्राद् अथाग्रहीत् गान्धार्याम् आहिते गर्भे पाण्डुर् अम्बालिकासुतः अगच्छत् परमं दुःखम् अपत्यार्थम् अरिंदम गर्भिण्याम् अथ गान्धार्यां पाण्डुः परमदुःखितः मृगाभिशापाद् आत्मानं शोचन्न् उपरतक्रियः स गत्वा तपसा सिद्धिं विश्वामित्रो यथा भुवि देहन्यासे कृतमना इदं वचनम् अब्रवीत् संवत्सरद्वयं तं तु गान्धारी गर्भम् आहितम् अप्रजा धारयाम् आस ततस् तां दुःखम् आविशत् श्रुत्वा कुन्तीसुतं जातं बालार्कसमतेजसम् उदरस्यात्मनः स्थैर्यम् उपलभ्यान्वचिन्तयत् अज्ञातं धृतराष्ट्रस्य यत्नेन महता ततः सोदरं पातयाम् आस गान्धारी दुःखमूर्च्छिता ततो जज्ञे मांसपेशी लोहाष्ठीलेव संहता द्विवर्षसंभृतां कुक्षौ ताम् उत्स्रष्टुं प्रचक्रमे अथ द्वैपायनो ज्ञात्वा त्वरितः समुपागमत् तां स मांसमयीं पेशीं ददर्श जपतां वरः ततो ऽब्रवीत् सौबलेयीं किम् इदं ते चिकीर्षितम् सा चात्मनो मतं सत्यं शशंस परमर्षये ज्येष्ठं कुन्तीसुतं जातं श्रुत्वा रविसमप्रभम् दुःखेन परमेणेदम् उदरं पातितं मया शतं च किल पुत्राणां वितीर्णं मे त्वया पुरा इयं च मे मांसपेशी जाता पुत्रशताय वै व्यास उवाच एवम् एतत् सौबलेयि नैतज् जात्व् अन्यथा भवेत् वितथं नोक्तपूर्वं मे स्वैरेष्व् अपि कुतो ऽन्यथा घृतपूर्णं कुण्डशतं क्षिप्रम् एव विधीयताम् स्वनुगुप्तेषु देशेषु रक्षा चैव विधीयताम् शीताभिर् अद्भिर् अष्ठीलाम् इमां च परिषिञ्चत वैशंपायन उवाच सा सिच्यमाना अष्ठीला अभवच् छतधा तदा अङ्गुष्ठपर्वमात्राणां गर्भाणां पृथग् एव तु एकाधिकशतं पूर्णं यथायोगं विशां पते ततः कुण्डशतं तत्र आनाय्य तु महान् ऋषिः मांसपेश्यास् तदा राजन् क्रमशः कालपर्ययात् ततस् तांस् तेषु कुण्डेषु गर्भान् अवदधे तदा स्वनुगुप्तेषु देशेषु रक्षां च व्यदधात् ततः शशास चैव कृष्णो वै गर्भाणां रक्षणं तदा शशास चैव भगवान् कालेनैतावता पुनः विघट्टनीयान्य् एतानि कुण्डानीति स्म सौबलीम् अह्नोत्तरा कुमारास् ते कुण्डेभ्यस् तु समुत्थिताः इत्य् उक्त्वा भगवान् व्यासस् तथा प्रतिविधाय च जगाम तपसे धीमान् हिमवन्तं शिलोच्चयम् एवं संदिश्य कौरव्य कृष्णद्वैपायनस् तदा जगाम पर्वतायैव तपसे संशितव्रतः जज्ञे क्रमेण चैतेन तेषां दुर्योधनो नृपः जन्मतस् तु प्रमाणेन ज्येष्ठो राजा युधिष्ठिरः तदाख्यातं तु भीष्माय विदुराय च धीमते यस्मिन्न् अहनि दुर्धर्षो जज्ञे दुर्योधनस् तदा तस्मिन्न् एव महाबाहुर् जज्ञे भीमो ऽपि वीर्यवान् स जातमात्र एवाथ धृतराष्ट्रसुतो नृप रासभारावसदृशं रुराव च ननाद च तं खराः प्रत्यभाषन्त गृध्रगोमायुवायसाः वाताश् च प्रववुश् चापि दिग्दाहश् चाभवत् तदा जातमात्रे सुते तस्मिन् धृतराष्ट्रो ऽब्रवीद् इदम् दुर्योधने जातमात्रे दिक्षु सर्वासु भारत क्रव्यादाः प्राणदन् घोराः शिवाश् चाशिवनिस्वनाः ववर्ष रुधिरं देवो भयम् आवेदयन् महत् एतस्मिन्न् अन्तरे राजा धृतराष्ट्रो ऽम्बिकासुतः समानीय बहून् विप्रान् भीष्मं विदुरम् एव च अन्यांश् च सुहृदो राजन् कुरून् सर्वांस् तथैव च युधिष्ठिरो राजपुत्रो ज्येष्ठो नः कुलवर्धनः प्राप्तः स्वगुणतो राज्यं न तस्मिन् वाच्यम् अस्ति नः अयं त्व् अनन्तरस् तस्माद् अपि राजा भविष्यति एतद् धि ब्रूत मे सत्यं यद् अत्र भविता ध्रुवम् अस्मिञ् जाते निमित्तानि शंसन्ति ह्य् अशिवं महत् अतो ब्रवीमि विदुर द्रुतं मां भयम् आविशत् वाक्यस्यैतस्य निधने दिक्षु सर्वासु भारत क्रव्यादाः प्राणदन् घोराः शिवाश् चाशिवशंसिनः लक्षयित्वा निमित्तानि तानि घोराणि सर्वशः ते ऽब्रुवन् ब्राह्मणा राजन् विदुरश् च महामतिः यथेमानि निमित्तानि घोराणि मनुजाधिप उत्थितानि सुते जाते ज्येष्ठे ते पुरुषर्षभ एष दुर्योधनो राजा श्यामः पिङ्गललोचनः न केवलं कुलस्यान्तं क्षत्रियान्तं करिष्यति व्यक्तं कुलान्तकरणो भवितैष सुतस् तव तस्य शान्तिः परित्यागे पुष्ट्या त्व् अपनयो महान् शतम् एकोनम् अप्य् अस्तु पुत्राणां ते महीपते त्यजैनम् एकं शान्तिं चेत् कुलस्येच्छसि भारत एकेन कुरु वै क्षेमं लोकस्य च कुलस्य च त्यजेद् एकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् स तथा विदुरेणोक्तस् तैश् च सर्वैर् द्विजोत्तमैः न चकार तथा राजा पुत्रस्नेहसमन्वितः ततः पुत्रशतं सर्वं धृतराष्ट्रस्य पार्थिव मासमात्रेण संजज्ञे कन्या चैका शताधिका गान्धार्यां क्लिश्यमानायाम् उदरेण विवर्धता धृतराष्ट्रं महाबाहुं वैश्या पर्यचरत् किल तस्मिन् संवत्सरे राजन् धृतराष्ट्रान् महायशाः जज्ञे धीमांस् ततस् तस्यां युयुत्सुः करणो नृप एवं पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः महारथानां वीराणां कन्या चैकाथ दुःशला युयुत्सुश् च महातेजा वैश्यापुत्रः प्रतापवान् धृतराष्ट्रस्य राजेन्द्र यथा ते कथितं मया जनमेजय उवाच वैशंपायन उवाच व्यास उवाच वैशंपायन उवाच धृतराष्ट्रस्य पुत्राणाम् आदितः कथितं त्वया ऋषेः प्रसादात् तु शतं न च कन्या प्रकीर्तिता वैश्यापुत्रो युयुत्सुश् च कन्या चैका शताधिका गान्धारराजदुहिता शतपुत्रेति चानघ उक्ता महर्षिणा तेन व्यासेनामिततेजसा कथं त्व् इदानीं भगवन् कन्यां जातां ब्रवीषि मे यदि भागशतं पेशी कृता तेन महर्षिणा न प्रजास्यति चेद् भूयः सौबलेयी कथं चन कथं तु संभवस् तस्या दुःशलाया वदस्व मे यथार्हम् इह विप्रर्षे परं मे ऽत्र कुतूहलम् साध्व् अयं प्रश्न उद्दिष्टः पाण्डवेय ब्रवीमि ते तां मांसपेशीं भगवान् स्वयम् एव महातपाः शीताभिर् अद्भिर् आसिच्य भागं भागम् अकल्पयत् यो यथा कल्पितो भागस् तं तं धात्र्या तदा नृप घृतपूर्णेषु कुण्डेषु एकैकं प्राक्षिपत् तदा एतस्मिन् नन्तरे साध्वी गान्धारी सुदृढव्रता दुहितृस्नेहसंयोगम् अनुध्याय वराङ्गना मनसाचिन्तयद् देवी एतत् पुत्रशतं मम भविष्यति न संदेहो न ब्रवीत्य् अन्यथा मुनिः ममेयं परमा तुष्टिर् दुहिता मे भवेद् यदि एका शताधिका बाला भविष्यति कनीयसी ततो दौहित्रजाल् लोकाद् अबाह्यो ऽसौ पतिर् मम अधिका किल नारीणां प्रीतिर् जामातृजा भवेत् यदि नाम ममापि स्याद् दुहितैका शताधिका कृतकृत्या भवेयं वै पुत्रदौहित्रसंवृता यदि सत्यं तपस् तप्तं दत्तं वाप्य् अथवा हुतम् गुरवस् तोषिता वापि तथास्तु दुहिता मम एतस्मिन्न् एव काले तु कृष्णद्वैपायनः स्वयम् विभज्य तां तदा पेशीं भगवान् ऋषिसत्तमः गणयित्वा शतं पूर्णम् अंशानाम् आह सौबलीम् पूर्णं पुत्रशतं त्व् एतन् न मिथ्या वाग् उदाहृता दैवयोगाद् अयं भाग एकः शिष्टः शतात् परः एषा ते सुभगे कन्या भविष्यति यथेप्सिता ततो ऽन्यं घृतकुम्भं तु समानाय्य महातपाः तं चापि प्राक्षिपत् तत्र कन्याभागं तपोधनः एतत् ते कथितं राजन् दुःशलाजन्म भारत ब्रूहि राजेन्द्र किं भूयो वर्तयिष्यामि ते ऽनघ जनमेजय उवाच ज्येष्ठानुज्येष्ठतां तेषां नामधेयानि चाभिभो धृतराष्ट्रस्य पुत्राणाम् आनुपूर्व्येण कीर्तय वैशंपायन उवाच दुर्योधनो युयुत्सुश् च राजन् दुःशासनस् तथा दुःसहो दुःशलश् चैव जलसंधः समः सहः विन्दानुविन्दौ दुर्धर्षः सुबाहुर् दुष्प्रधर्षणः दुर्मर्षणो दुर्मुखश् च दुष्कर्णः कर्ण एव च विविंशतिर् विकर्णश् च जलसंधः सुलोचनः चित्रोपचित्रौ चित्राक्षश् चारुचित्रः शरासनः दुर्मदो दुष्प्रगाहश् च विवित्सुर् विकटः समः ऊर्णनाभः सुनाभश् च तथा नन्दोपनन्दकौ सेनापतिः सुषेणश् च कुण्डोदरमहोदरौ चित्रध्वजश् चित्ररथश् चित्रबाहुर् अमित्रजित् चित्रबाणश् चित्रवर्मा सुवर्मा दुर्विमोचनः अयोबाहुर् महाबाहुश् चित्राङ्गश् चित्रकुण्डलः भीमवेगो भीमबलो बलाकी बलवर्धनः उग्रायुधो भीमकर्मा कनकायुर् दृढायुधः चित्रायुधो निषङ्गी च पाशी वृन्दारकस् तथा दृढवर्मा दृढक्षत्रः सोमकीर्तिर् अनूदरः दृढसंधो जरासंधः सत्यसंधः सदःसुवाक् उग्रश्रवा अश्वसेनः सेनानीर् दुष्पराजयः अपराजितः पण्डितको विशालाक्षो दुरावरः अजितश् च जयन्तश् च जयत्सेनो ऽथ दुर्जयः दृढहस्तः सुहस्तश् च वातवेगसुवर्चसौ आदित्यकेतुर् बह्वाशी नागदन्तोग्रयायिनौ कवची निषङ्गी पाशी च दण्डधारो धनुर्ग्रहः उग्रो भीमरथो वीरो वीरबाहुर् अलोलुपः भीमकर्मा सुबाहुश् च भीमविक्रान्त एव च अभयो रौद्रकर्मा च तथा दृढरथस् त्रयः अनाधृष्यः कुण्डभेदी विरावी दीर्घलोचनः प्रमथश् च प्रमाथी च दीर्घालातश् च वीर्यवान् दीर्घध्वजो दीर्घभुज अदीर्घो दीर्घ एव च दीर्घबाहुर् महाबाहुर् व्यूढोरुः कनकध्वजः महाकुण्डश् च कुण्डश् च कुण्डजश् चित्रजस् तथा कुण्डाशी विरजाश् चैव दुःशला च शताधिका एतद् एकशतं राजन् कन्या चैका प्रकीर्तिता नामधेयानुपूर्व्येण विद्धि जन्मक्रमं नृप सर्वे त्व् अतिरथाः शूराः सर्वे युद्धविशारदाः सर्वे वेदविदश् चैव राजशास्त्रेषु कोविदाः सर्वे संसर्गविद्यासु विद्याभिजनशोभिनः सर्वेषाम् अनुरूपाश् च कृता दारा महीपते धृतराष्ट्रेण समये समीक्ष्य विधिवत् तदा दुःशलां समये राजा सिन्धुराजाय भारत जयद्रथाय प्रददौ सौबलानुमते तदा इति पुत्रशतं राजन् युयुत्सुश् च शताधिकः कन्यका दुःशला चैव यथावत् कीर्तितं मया जनमेजय उवाच कथितो धार्तराष्ट्राणाम् आर्षः संभव उत्तमः अमानुषो मानुषाणां भवता ब्रह्मवित्तम नामधेयानि चाप्य् एषां कथ्यमानानि भागशः त्वत्तः श्रुतानि मे ब्रह्मन् पाण्डवानां तु कीर्तय ते हि सर्वे महात्मानो देवराजपराक्रमाः त्वयैवांशावतरणे देवभागाः प्रकीर्तिताः तस्माद् इच्छाम्य् अहं श्रोतुम् अतिमानुषकर्मणाम् तेषाम् आजननं सर्वं वैशंपायन कीर्तय वैशंपायन उवाच राजा पाण्डुर् महारण्ये मृगव्यालनिषेविते वने मैथुनकालस्थं ददर्श मृगयूथपम् ततस् तां च मृगीं तं च रुक्मपुङ्खैः सुपत्रिभिः निर्बिभेद शरैस् तीक्ष्णैः पाण्डुः पञ्चभिर् आशुगैः स च राजन् महातेजा ऋषिपुत्रस् तपोधनः भार्यया सह तेजस्वी मृगरूपेण संगतः मृगो ऋषिर् मृगी भार्या उभौ तौ तपसान्वितौ रेमाते विपिने भूत्वा निरङ्कुशरतेक्षणौ संसक्तस् तु तया मृग्या मानुषीम् ईरयन् गिरम् क्षणेन पतितो भूमौ विललापाकुलेन्द्रियः मृग उवाच काममन्युपरीतापि बुद्ध्यङ्गरहितापि च वर्जयन्ति नृशंसानि पापेष्व् अभिरता नराः न विधिं ग्रसते प्रज्ञा प्रज्ञां तु ग्रसते विधिः विधिपर्यागतान् अर्थान् प्रज्ञा न प्रतिपद्यते शश्वद्धर्मात्मनां मुख्ये कुले जातस्य भारत कामलोभाभिभूतस्य कथं ते चलिता मतिः पाण्डुर् उवाच शत्रूणां या वधे वृत्तिः सा मृगाणां वधे स्मृता राज्ञां मृग न मां मोहात् त्वं गर्हयितुम् अर्हसि अच्छद्मनामायया च मृगाणां वध इष्यते स एव धर्मो राज्ञां तु तद् विद्वान् किं नु गर्हसे अगस्त्यः सत्रम् आसीनश् चचार मृगयाम् ऋषिः आरण्यान् सर्वदैवत्यान् मृगान् प्रोक्ष्य महावने प्रमाणदृष्टधर्मेण कथम् अस्मान् विगर्हसे अगस्त्यस्याभिचारेण युष्माकं वै वपा हुता मृग उवाच न रिपून् वै समुद्दिश्य विमुञ्चन्ति पुरा शरान् न रिपूणां समाधानं परीप्सन्ते पुरातनाः रन्ध्र एषां विशेषेण वधकालः प्रशस्यते पाण्डुर् उवाच प्रमत्तम् अप्रमत्तं वा विवृतं घ्नन्ति चौजसा उपायैर् इषुभिस् तीक्ष्णैः कस्मान् मृग विगर्हसे मैथुनस्थं महाराज यत् त्वं हन्या(त्) ह्य् अकारणे मृग उवाच नाहं घ्नन्तं मृगान् राजन् विगर्हे आत्मकारणात् मैथुनं तु प्रतीक्ष्यं मे स्यात् त्वयेहानृशंसतः सर्वभूतहिते काले सर्वभूतेप्सिते तथा को हि विद्वान् मृगं हन्याच् चरन्तं मैथुनं वने अस्यां मृग्यां च राजेन्द्र हर्षान् मैथुनम् आचरम् पुरुषार्थफलं कान्तं यत् त्वया वितथं कृतम् पौरवाणाम् ऋषीणां च तेषाम् अक्लिष्टकर्मणाम् वंशे जातस्य कौरव्य नानुरूपम् इदं तव नृशंसं कर्म सुमहत् सर्वलोकविगर्हितम् अस्वर्ग्यम् अयशस्यं च अधर्मिष्ठं च भारत स्त्रीभोगानां विशेषज्ञः शास्त्रधर्मार्थतत्त्ववित् नार्हस् त्वं सुरसंकाश कर्तुम् अस्वर्ग्यम् ईदृशम् त्वया नृशंसकर्तारः पापाचाराश् च मानवाः निग्राह्याः पार्थिवश्रेष्ठ त्रिवर्गपरिवर्जिताः किं कृतं ते नरश्रेष्ठ निघ्नतो माम् अनागसम् मुनिं मूलफलाहारं मृगवेषधरं नृप वसमानम् अरण्येषु नित्यं शमपरायणम् त्वयाहं हिंसितो यस्मात् तस्मात् त्वाम् अप्य् असंशयम् द्वयोर् नृशंसकर्तारम् अवशं काममोहितम् जीवितान्तकरो भाव एवम् एवागमिष्यति अहं हि किंदमो नाम तपसाप्रतिमो मुनिः व्यपत्रपन् मनुष्याणां मृग्यां मैथुनम् आचरम् मृगो भूत्वा मृगैः सार्धं चरामि गहने वने गजाश्वमहिषादीनां लज्जा नास्ति चतुष्पदाम् लज्जाशङ्काभीतिहीनं मैथुनं परमं सुखम् तत् सुखं द्विपदां नास्ति विद्यते तच् चतुष्पदाम् नृपाणां मृगया धर्मस् तत्रापि न वधः स्मृतः मैथुनासक्तचित्तस्य मृगद्वन्द्वस्य भूमिप न तु ते ब्रह्महत्येयं भविष्यत्य् अविजानतः मृगरूपधरं हत्वा माम् एवं काममोहितम् अस्य तु त्वं फलं मूढ प्राप्स्यसीदृशम् एव हि प्रियया सह संवासं प्राप्य कामविमोहितः त्वम् अप्य् अस्याम् अवस्थायां प्रेतलोकं गमिष्यसि अन्तकाले च संवासं यया गन्तासि कान्तया प्रेतराजवशं प्राप्तं सर्वभूतदुरत्ययम् भक्त्या मतिमतां श्रेष्ठ सैव त्वाम् अनुयास्यति वर्तमानः सुखे दुःखं यथाहं प्रापितस् त्वया तथा सुखं त्वां संप्राप्तं दुःखम् अभ्यागमिष्यति वैशंपायन उवाच एवम् उक्त्वा सुदुःखार्तो जीवितात् स व्ययुज्यत मृगः पाण्डुश् च शोकार्तः क्षणेन समपद्यत वैशंपायन उवाच तं व्यतीतम् अतिक्रम्य राजा स्वम् इव बान्धवम् सभार्यः शोकदुःखार्तः पर्यदेवयद् आतुरः पाण्डुर् उवाच सताम् अपि कुले जाताः कर्मणा बत दुर्गतिम् प्राप्नुवन्त्य् अकृतात्मानः कामजालविमोहिताः शश्वद् धर्मात्मना जातो बाल एव पिता मम जीवितान्तम् अनुप्राप्तः कामात्मैवेति नः श्रुतम् तस्य कामात्मनः क्षेत्रे राज्ञः संयतवाग् ऋषिः कृष्णद्वैपायनः साक्षाद् भगवान् माम् अजीजनत् तस्याद्य व्यसने बुद्धिः संजातेयं ममाधमा त्यक्तस्य देवैर् अनयान् मृगयायां दुरात्मनः मोक्षम् एव व्यवस्यामि बन्धो हि व्यसनं महत् सुवृत्तिम् अनुवर्तिष्ये ताम् अहं पितुर् अव्ययाम् अतीव तपसात्मानं योजयिष्याम्य् असंशयम् तस्माद् एको ऽहम् एकाहम् एकैकस्मिन् वनस्पतौ चरन् भैक्षं मुनिर् मुण्डश् चरिष्यामि महीम् इमाम् पांसुना समवच्छन्नः शून्यागारप्रतिश्रयः वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः न शोचन् न प्रहृष्यंश् च तुल्यनिन्दात्मसंस्तुतिः निराशीर् निर्नमस्कारो निर्द्वन्द्वो निष्परिग्रहः न चाप्य् अवहसन् कं चिन् न कुर्वन् भ्रुकुटीं क्व चित् प्रसन्नवदनो नित्यं सर्वभूतहिते रतः जङ्गमाजङ्गमं सर्वम् अविहिंसंश् चतुर्विधम् स्वासु प्रजास्व् इव सदा समः प्राणभृतां प्रति एककालं चरन् भैक्षं कुलानि द्वे च पञ्च च असंभवे वा भैक्षस्य चरन्न् अनशनान्य् अपि अल्पम् अल्पं यथाभोज्यं पूर्वलाभेन जातु चित् नित्यं नातिचरंल् लाभे अलाभे सप्त पूरयन् अलाभे यदि वा लाभे समदर्शी महातपाः वास्यैकं तक्षतो बाहुं चन्दनेनैकम् उक्षतः नाकल्याणं न कल्याणं प्रध्यायन्न् उभयोस् तयोः न जिजीविषुवत् किं चिन् न मुमूर्षुवद् आचरन् मरणं जीवितं चैव नाभिनन्दन् न च द्विषन् याः काश् चिज् जीवता शक्याः कर्तुम् अभ्युदयक्रियाः ताः सर्वाः समतिक्रम्य निमेषादिष्व् अवस्थितः तासु सर्वास्व् अवस्थासु त्यक्तसर्वेन्द्रियक्रियः संपरित्यक्तधर्मात्मा सुनिर्णिक्तात्मकल्मषः निर्मुक्तः सर्वपापेभ्यो व्यतीतः सर्ववागुराः न वशे कस्य चित् तिष्ठन् सधर्मा मातरिश्वनः एतया सततं वृत्त्या चरन्न् एवंप्रकारया देहं संधारयिष्यामि निर्भयं मार्गम् आस्थितः नाहं श्वाचरिते मार्गे अवीर्यकृपणोचिते स्वधर्मात् सततापेते रमेयं वीर्यवर्जितः सत्कृतो ऽसक्तृतो वापि यो ऽन्यां कृपणचक्षुषा उपैति वृत्तिं कामात्मा स शुनां वर्तते पथि वैशंपायन उवाच एवम् उक्त्वा सुदुःखार्तो निःश्वासपरमो नृपः अवेक्षमाणः कुन्तीं च माद्रीं च समभाषत कौसल्या विदुरः क्षत्ता राजा च सह बन्धुभिः आर्या सत्यवती भीष्मस् ते च राजपुरोहिताः ब्राह्मणाश् च महात्मानः सोमपाः संशितव्रताः पौरवृद्धाश् च ये तत्र निवसन्त्य् अस्मदाश्रयाः प्रसाद्य सर्वे वक्तव्याः पाण्डुः प्रव्रजितो वनम् निशम्य वचनं भर्तुर् वनवासे धृतात्मनः तत्समं वचनं कुन्ती माद्री च समभाषताम् अन्ये ऽपि ह्य् आश्रमाः सन्ति ये शक्या भरतर्षभ आवाभ्यां सह संवस्तुं धर्मम् आश्रित्य चिन्तितः आवाभ्यां धर्मपत्नीभ्यां सह तप्त्वा तपो महत् शरीरस्य विमोक्षाय धर्मं प्राप्य महाफलम् त्वम् एव भविता सार्थः स्वर्गस्यापि न संशयः प्रणिधायेन्द्रियग्रामं भर्तृलोकपरायणे त्यक्तकामसुखे ह्य् आवां तप्स्यावो विपुलं तपः यदि आवां महाप्राज्ञ त्यक्ष्यसि त्वं विशां पते अद्यैवावां प्रहास्यावो जीतिवं नात्र संशयः पाण्डुर् उवाच यदि व्यवसितं ह्य् एतद् युवयोर् धर्मसंहितम् स्ववृत्तिम् अनुवर्तिष्ये ताम् अहं पितुर् अव्ययाम् त्यक्तग्राम्यसुखाचारस् तप्यमानो महत् तपः वल्कली फलमूलाशी चरिष्यामि महावने अग्निं जुह्वन्न् उभौ कालाव् उभौ कालाव् उपस्पृशन् कृशः परिमिताहारश् चीरचर्मजटाधरः शीतवातातपसहः क्षुत्पिपासाश्रमान्वितः तपसा दुश्चरेणेदं शरीरम् उपशोषयन् एकान्तशीली विमृशन् पक्वापक्वेन वर्तयन् पितॄन् देवांश् च वन्येन वाग्भिर् अद्भिश् च तर्पयन् वानप्रस्थजनस्यापि दर्शनं कुलवासिनाम् नाप्रियाण्य् आचरञ् जातु किं पुनर् ग्रामवासिनाम् एवम् आरण्यशास्त्राणाम् उग्रम् उग्रतरं विधिम् काङ्क्षमाणो ऽहम् आसिष्ये देहस्यास्य समापनात् वैशंपायन उवाच इत्य् एवम् उक्त्वा भार्ये ते राजा कौरववंशजः ततश् चूडामणिं निष्कम् अङ्गदे कुण्डलानि च मुकुटं हारसूत्रं च कटिबन्धं तथैव च वासांसि च महार्हाणि स्त्रीणाम् आभरणानि च वाहनानि च मुख्यानि शस्त्राणि कवचानि च हेमभाण्डानि दिव्यानि पर्यङ्कास्तरणानि च मणिमुक्ताप्रवालानि वसूनि विविधानि च आसनानि च मुख्यानि बहूनि विविधानि च प्रदाय सर्वं विप्रेभ्यः पाण्डुः पुनर् अभाषत गत्वा नागपुरं वाच्यं पाण्डुः प्रव्रजितो वनम् अर्थं कामं सुखं चैव रतिं च परमात्मिकाम् प्रतस्थे सर्वम् उत्सृज्य सभार्यः कुरुपुंगवः ततस् तस्यानुयात्राणि ते चैव परिचारकाः श्रुत्वा भरतसिंहस्य विविधाः करुणा गिरः भीमम् आर्तस्वरं कृत्वा हाहेति परिचुक्रुशुः उष्णम् अश्रु विमुञ्चन्तस् तं विहाय महीपतिम् ययुर् नागपुरं तूर्णं सर्वम् आदाय तद्वचः ते गत्वा नगरं राज्ञे यथावृत्तं महात्मने कथयां चक्रिरे सर्वं धनं च विविधं ददुः श्रुत्वा च तेभ्यस् तत् सर्वं यथावृत्तं महावने धृतराष्ट्रो नरश्रेष्ठः पाण्डुम् एवान्वशोचत न शय्यासनभोगेषु रतिं विन्दति कर्हि चित् भ्रातृशोकसमाविष्टस् तम् एवार्थं विचिन्तयन् राजपुत्रस् तु कौरव्यः पाण्डुर् मूलफलाशनः जगाम सह भार्याभ्यां ततो नागसभं गिरिम् स चैत्ररथम् आसाद्य वारिषेणम् अतीत्य च हिमवन्तम् अतिक्रम्य प्रययौ गन्धमादनम् रक्ष्यमाणो महाभूतैः सिद्धैश् च परमर्षिभिः उवास स तदा राजा समेषु विषमेषु च इन्द्रद्युम्नसरः प्राप्य हंसकूटम् अतीत्य च शतशृङ्गे महाराज तापसः समपद्यत वैशंपायन उवाच तत्रापि तपसि श्रेष्ठे वर्तमानः स वीर्यवान् सिद्धचारणसंघानां बभूव प्रियदर्शनः शुश्रूषुर् अनहंवादी संयतात्मा जितेन्द्रियः स्वर्गं गन्तुं पराक्रान्तः स्वेन वीर्येण भारत केषां चिद् अभवद् भ्राता केषां चिद् अभवत् सखा ऋषयस् त्व् अपरे चैनं पुत्रवत् पर्यपालयन् स तु कालेन महता प्राप्य निष्कल्मषं तपः ब्रह्मर्षिसदृशः पाण्डुर् बभूव भरतर्षभ वैशंपायनः ऋषयः वैशंपायनः अमावास्यां तु सहिता ऋषयः सशितव्रताः ब्रह्माणं द्रष्टुकामास् ते संप्रतस्थुर् महर्षयः संप्रस्थितान् ऋषीन् दृष्ट्वा पाण्डुर् वचनम् अब्रवीत् भवन्तः क्व गमिष्यन्ति ब्रूत मे वदतां वराः समवायो महान् अद्य ब्रह्मलोके महात्मनाम् देवानां च ऋषीणां च पितॄणां च महात्मनाम् वयं तत्र गमिष्यामो द्रष्टुकामाः स्वयंभुवम् पाण्डुम् उत्थाय सहसा गन्तुकामं महर्षिभिः तच् छ्रुत्वा वचनं तेषां पाण्डुर् वचनम् अब्रवीत् अहम् अप्य् आगमिष्यामि यत्र यूयं गमिष्यथ स्वर्गपारं तितीर्षन् स शतशृङ्गाद् उदङ्मुखः प्रतस्थे सह पत्नीभ्याम् अब्रुवंस् तत्र तापसाः उपर्य् उपरि गच्छन्तः शैलराजम् उदङ्मुखाः दृष्टवन्तो गिरेर् अस्य दुर्गान् देशान् बहून् वयम् विमानशतसंबाधां गीतस्वननिनादिताम् यक्षराक्षसगुप्तानि गन्धर्वचरितानि च आक्रीडभूतान् देवानां गन्धर्वाप्सरसां तथा उद्यानानि कुबेरस्य समानि विषमाणि च महानदीनितम्बांश् च दुर्गांश् च गिरिगह्वरान् सन्ति नित्यहिमा देशा निर्वृक्षमृगपक्षिणः सन्ति के चिन् महावर्षा दुर्गाः के चिद् दुरासदाः अतिक्रामेन् न पक्षी यान् कुत एवेतरे मृगाः वायुर् एको ऽतिगाद् यत्र सिद्धाश् च परमर्षयः गच्छन्त्यौ शैलराजे ऽस्मिन् राजपुत्र्यौ कथं त्व् इमे न सीदेताम् अदुःखार्हे मा गमो भरतर्षभ अप्रजस्य महाभाग न स्वर्गं गन्तुम् अर्हसि अप्रजात्वं मनुष्येन्द्र साधु मा पुष्करेक्षण पाण्डुर् उवाच अप्रजस्य महाभागा न द्वारं परिचक्षते स्वर्गे तेनाभितप्तो ऽहम् अप्रजस् तद् ब्रवीमि वः सो ऽहम् उग्रेण तपसा सभार्यस् त्यक्तजीवितः अनपत्यो ऽपि विन्देयं स्वर्गम् उग्रेण कर्मणा ऋणैश् चतुर्भिः संयुक्ता जायन्ते मनुजा भुवि पितृदेवर्षिमनुजदेयैः शतसहस्रशः एतानि तु यथाकालं यो न बुध्यति मानवः न तस्य लोकाः सन्तीति धर्मविद्भिः प्रतिष्ठितम् यज्ञैश् च देवान् प्रीणाति स्वाध्यायतपसा मुनीन् पुत्रैः श्राद्धैः पितॄंश् चापि आनृशंस्येन मानवान् ऋषिदेवमनुष्याणां परिमुक्तो ऽस्मि धर्मतः त्रयाणाम् इतरेषां तु नाश आत्मनि नश्यति पित्र्याद् ऋणाद् अनिर्मुक्त इदानीम् अस्मि तापसाः पित्र्याद् ऋणाद् अनिर्मुक्तस् तेन तप्ये तपोधनाः देहनाशे ध्रुवो नाशः पितॄणाम् एष निश्चयः पितॄणाम् ऋणनाशाद् धि न प्रजा नाशम् ऋच्छति इह तस्मात् प्रजाहेतोः प्रजायन्ते नरोत्तमाः यथैवाहं पितुः क्षेत्रे सृष्टस् तेन महात्मना तथैवास्मिन् मम क्षेत्रे कथं वै संभवेत् प्रजा तापसा ऊचुः अस्ति वै तव धर्मात्मन् विद्म देवोपमं शुभम् अपत्यम् अनघं राजन् वयं दिव्येन चक्षुषा दैवदिष्टं नरव्याघ्र कर्मणेहोपपादय अक्लिष्टं फलम् अव्यग्रो विन्दते बुद्धिमान् नरः तस्मिन् दृष्टे फले तात प्रयत्नं कर्तुम् अर्हसि अपत्यं गुणसंपन्नं लब्ध्वा प्रीतिम् अवाप्स्यसि वैशंपायन उवाच तच् छ्रुत्वा तापसवचः पाण्डुश् चिन्तापरो ऽभवत् आत्मनो मृगशापेन जानन्न् उपहतां क्रियाम् वैशंपायनः स समानीय कुन्तीं च माद्रीं च भरतर्षभ आचष्ट पुत्रलाभस्य व्युष्टिं सर्वक्रियाधिकाम् उत्तमाद् अवराः पुंसः काङ्क्षन्ते पुत्रम् आपदि अपत्यं धर्मफलदं श्रेष्ठाद् इच्छन्ति साधवः अनुनीय तु ते सम्यङ् महाब्राह्मणसंसदि ब्राह्मणं गुणवन्तं वै चिन्तयाम् आस धर्मवित् सो ऽब्रवीद् विजने कुन्तीं धर्मपत्नीं यशस्विनीम् अपत्योत्पादने योगम् आपदि प्रसमर्थयन् अपत्यं नाम लोकेषु प्रतिष्ठा धर्मसंहिता इति कुन्ति विदुर् धीराः शाश्वतं धर्मम् आदितः इष्टं दत्तं तपस् तप्तं नियमश् च स्वनुष्ठितः सर्वम् एवानपत्यस्य न पावनम् इहोच्यते सो ऽहम् एवं विदित्वैतत् प्रपश्यामि शुचिस्मिते अनपत्यः शुभांल् लोकान् नावाप्स्यामीति चिन्तयन् मृगाभिशापान् नष्टं मे प्रजनं ह्य् अकृतात्मनः नृशंसकारिणो भीरु यथैवोपहतं तथा इमे वै बन्धुदायादाः षट् पुत्रा धर्मदर्शने षड् एवाबन्धुदायादाः पुत्रास् ताञ् शृणु मे पृथे स्वयंजातः प्रणीतश् च परिक्रीतश् च यः सुतः . . . . . . . . तत्समं पुत्रिकासुतः स्वयंजातः क्षत्रियश् च . . . . . . . . पौनर्भवश् च कानीनः स्वैरिण्यां यश् च जायते दत्तः क्रीतः कृत्रिमश् च उपगच्छेत् स्वयं च यः सहोढो जातरेताश् च हीनयोनिधृतश् च यः पूर्वपूर्वतमाभावे मत्वा लिप्सेत वै सुतम् उत्तमाद् अवराः पुंसः काङ्क्षन्ते पुत्रम् आपदि अपत्यं धर्मफलदं श्रेष्ठं विन्दन्ति साधवः आत्मशुक्राद् अपि पृथे मनुः स्वायम्भुवो ऽब्रवीत् तस्मात् प्रहेष्याम्य् अद्य त्वां हीनः प्रजननात् स्वयम् सदृशाच् छ्रेयसो वा त्वं विद्ध्य् अपत्यं यशस्विनि या हि ते भगिनी साध्वी श्रुतसेना यशस्विनी उवाह यां तु कैकेयः शारदण्डायनिर् महान् शृणु कुन्ति कथां चेमां शारदण्डायनीं प्रति या वीरपत्नी गुरुभिर् नियुक्तापत्यजन्मनि पुष्पेण प्रयता स्नाता निशि कुन्ति चतुष्पथे अपत्यार्थे प्रजालाभे अन्वगच्छच् छुभव्रता वरयित्वा द्विजं सिद्धं हुत्वा पुंसवने ऽनलम् कर्मण्य् अवसिते तस्मिन् सा तेनैव सहावसत् तत्र त्रीञ् जनयाम् आस दुर्जयादीन् महारथान् तथा त्वम् अपि कल्याणि ब्राह्मणात् तपसाधिकात् मन्नियोगाद् यत क्षिप्रम् अपत्योत्पादनं प्रति वैशंपायन उवाच एवम् उक्ता महाराज कुन्ती पाण्डुम् अभाषत कुरूणाम् ऋषभं वीरं तदा भूमिपतिं पतिम् न माम् अर्हसि धर्मज्ञ वक्तुम् एवं कथं चन धर्मपत्नीम् अभिरतां त्वयि राजीवलोचन त्वम् एव तु महाबाहो मय्य् अपत्यानि भारत वीर वीर्योपपन्नानि धर्मतो जनयिष्यसि स्वर्गं मनुजशार्दूल गच्छेयं सहिता त्वया अपत्याय च मां गच्छ त्वम् एव कुरुनन्दन न ह्य् अहं मनसाप्य् अन्यं गच्छेयं त्वद् ऋते नरम् त्वत्तः प्रतिविशिष्टश् च को ऽन्यो ऽस्ति भुवि मानवः इमां च तावद् धर्म्यां त्वं पौराणीं शृणु मे कथाम् परिश्रुतां विशालाक्ष कीर्तयिष्यामि याम् अहम् व्युषिताश्व इति ख्यातो बभूव किल पार्थिवः पुरा परमधर्मिष्ठः पूरोर् वंशविवर्धनः तस्मिंश् च यजमाने वै धर्मात्मनि महात्मनि उपागमंस् ततो देवाः सेन्द्राः सह महर्षिभिः अमाद्यद् इन्द्रः सोमेन दक्षिणाभिर् द्विजातयः व्युषिताश्वस्य राजर्षेस् ततो यज्ञे महात्मनः देवा ब्रह्मर्षयश् चैव चक्रुः कर्म स्वयं तदा व्युषिताश्वस् ततो राजन्न् अति मर्त्यान् व्यरोचत सर्वभूतान्य् अति यथा तपनः शिशिरात्यये स विजित्य गृहीत्वा च नृपतीन् राजसत्तमः प्राच्यान् उदीच्यान् मध्यांश् च दक्षिणात्यान् अकालयत् अश्वमेधे महायज्ञे व्युषिताश्वः प्रतापवान् बभूव स हि राजेन्द्रो दशनागबलान्वितः अप्य् अत्र गाथां गायन्ति ये पुराणविदो जनाः व्युषिताश्वे यशोवृद्धे मनुष्येन्द्रे कुरूत्तम अप्रमेयम् अपर्यन्तं व्युषिताश्वो धनं ददौ व्युषिताश्वः समुद्रान्तां विजित्येमां वसुंधराम् अपालयत् सर्ववर्णान् पिता पुत्रान् इवौरसान् यजमानो महायज्ञैर् ब्राह्मणेभ्यो ददौ धनम् अनन्तरत्नान्य् आदाय आजहार महाक्रतून् सुषाव च बहून् सोमान् सोमसंस्थास् ततान च आसीत् काक्षीवती चास्य भार्या परमसंमता भद्रा नाम मनुष्येन्द्र रूपेणासदृशी भुवि कामयाम् आसतुस् तौ तु परस्परम् इति श्रुतिः स तस्यां कामसंमत्तो यक्ष्माणं समपद्यत तेनाचिरेण कालेन जगामास्तम् इवांशुमान् तस्मिन् प्रेते मनुष्येन्द्रे भार्यास्य भृशदुःखिता अपुत्रा पुरुषव्याघ्र विललापेति नः श्रुतम् भद्रा परमदुःखार्ता तन् निबोध नराधिप नारी परमधर्मज्ञ सर्वा पुत्रविनाकृता पतिं विना जीवति या न सा जीवति दुःखिता पतिं विना मृतं श्रेयो नार्याः क्षत्रियपुंगव त्वद्गतिं गन्तुम् इच्छामि प्रसीदस्व नयस्व माम् त्वया हीना क्षणम् अपि नाहं जीवितुम् उत्सहे प्रसादं कुरु मे राजन्न् इतस् तूर्णं नयस्व माम् पृष्ठतो ऽनुगमिष्यामि समेषु विषमेषु च त्वाम् अहं नरशार्दूल गच्छन्तम् अनिवर्तिनम् छायेवानपगा राजन् सततं वशवर्तिनी भविष्यामि नरव्याघ्र नित्यं प्रियहिते रता अद्य प्रभृति मां राजन् कष्टा हृदयशोषणाः आधयो ऽभिभविष्यन्ति त्वद् ऋते पुष्करेक्षण अभाग्यया मया नूनं वियुक्ताः सहचारिणः संयोगा विप्रयुक्ता वा पूर्वदेहेषु पार्थिव तेन मे विप्रयोगो ऽयम् उपपन्नस् त्वया सह विप्रयुक्ता तु या पत्या मुहूर्तम् अपि जीवति दुःखं जीवति सा पापा नरकस्थेव पार्थिव तद् इदं कर्मभिः पापैः पूर्वदेहेषु संचितम् दुःखं माम् अनुसंप्राप्तं राजंस् त्वद्विप्रयोगजम् अद्य प्रभृत्य् अहं राजन् कुशप्रस्तरशायिनी भविष्याम्य् असुखाविष्टा त्वद्दर्शनपरायणा दर्शयस्व नरव्याघ्र साधु माम् असुखान्विताम् दीनाम् अनाथां कृपणां विलपन्तीं नरेश्वर एवं बहुविधं तस्यां विलपन्त्यां पुनः पुनः तं शवं संपरिष्वज्य वाक् किलान्तर्हिताब्रवीत् उत्तिष्ठ भद्रे गच्छ त्वं ददानीह वरं तव जनयिष्याम्य् अपत्यानि त्वय्य् अहं चारुहासिनि आत्मीये च वरारोहे शयनीये चतुर्दशीम् अष्टमीं वा ऋतुस्नाता संविशेथा मया सह एवम् उक्ता तु सा देवी तथा चक्रे पतिव्रता यथोक्तम् एव तद् वाक्यं भद्रा पुत्रार्थिनी तदा सा तेन सुषुवे देवी शवेन मनुजाधिप त्रीञ् शाल्वांश् चतुरो मद्रान् सुतान् भरतसत्तम तथा त्वम् अपि मय्य् एव मनसा भरतर्षभ शक्तो जनयितुं पुत्रांस् तपोयोगबलान्वयात् वैशंपायन उवाच एवम् उक्तस् तया राजा तां देवीं पुनर् अब्रवीत् धर्मविद् धर्मसंयुक्तम् इदं वचनम् उत्तमम् एवम् एतत् पुरा कुन्ति व्युषिताश्वश् चकार ह यथा त्वयोक्तं कल्याणि स ह्य् आसीद् अमरोपमः अथ त्व् इमं प्रवक्ष्यामि धर्मं त्व् एतं निबोध मे पुराणम् ऋषिभिर् दृष्टं धर्मविद्भिर् महात्मभिः अनावृताः किल पुरा स्त्रिय आसन् वरानने कामचारविहारिण्यः स्वतन्त्राश् चारुलोचने तासां व्युच्चरमाणानां कौमारात् सुभगे पतीन् नाधर्मो ऽभूद् वरारोहे स हि धर्मः पुराभवत् तं चैव धर्मं पौराणं तिर्यग्योनिगताः प्रजाः अद्याप्य् अनुविधीयन्ते कामद्वेषविवर्जिताः पुराणदृष्टो धर्मो ऽयं पूज्यते च महर्षिभिः उत्तरेषु च रम्भोरु कुरुष्व् अद्यापि वर्तते स्त्रीणाम् अनुग्रहकरः स हि धर्मः सनातनः नाग्निस् तृप्यति काष्ठानां नापगानां महोदधिः नान्तकः सर्वभूतानां न पुंसां वामलोचनाः एवं तृष्णा तु नारीणां पुरुषं पुरुषं प्रति अगम्यागमनं स्त्रीणां नास्ति नित्यं शुचिस्मिते पुत्रं वा किल पौत्रं वा कासां चिद् भ्रातरं तथा रहसीह नरं दृष्ट्वा योनिर् उत्क्लिद्यते ततः एतत् स्वाभाविकं स्त्रीणां न निमित्तकृतं शुभे अस्मिंस् तु लोके नचिरान् मर्यादेयं शुचिस्मिते स्थापिता येन यस्माच् च तन् मे विस्तरतः शृणु बभूवोद्दालको नाम महर्षिर् इति नः श्रुतम् श्वेतकेतुर् इति ख्यातः पुत्रस् तस्याभवन् मुनिः मर्यादेयं कृता तेन मानुषेष्व् इति नः श्रुतम् कोपात् कमलपत्राक्षि यदर्थं तन् निबोध मे उद्दालकः ब्राह्मणः पाण्डुः श्वेतकेतोः पिता देवि तप उग्रं समास्थितः ग्रीष्मे पञ्चतपा भूत्वा वर्षास्व् आकाशगो ऽभवत् शिशिरे सलिलस्थायी सह पत्न्या महातपाः उद्दालकं तपस्यन्तं नियमेन समाहितम् तस्य पुत्रः श्वेतकेतुः परिचर्यां चकार ह अभ्यागच्छद् द्विजः कश् चिद् वलीपलितसंततः तं दृष्ट्वैव मुनिः प्रीतः पूजयाम् आस शास्त्रतः स्वागतेन च पाद्येन मृदुवाक्यैश् च भारत शाकमूलफलाद्यैश् च वन्यैर् अन्यैर् अपूजयत् क्षुत्पिपासाश्रमैर् आर्तः पूजितस् तु महर्षिणा विश्रान्तो मुनिम् आसाद्य पर्यपृच्छद् द्विजस् तदा उद्दालक महर्षे त्वं सत्यं मे ब्रूहि मानृतम् ऋषिपुत्रः कुमारो ऽयं दर्शनीयो विशेषतः तव पुत्रम् इमं मन्ये कृतकृत्यो ऽसि तद् वद मम पत्नी महाप्राज्ञ कुशिकस्य सुता मता माम् एवानुगता पत्नी मम नित्यम् अनुव्रता अरुन्धतीव पत्नीनां तपसा कर्शितस्तनी तस्यां जातः श्वेतकेतुर् मम पुत्रो महातपाः वेदवेदाङ्गविद् विप्र मच्छासनपरायणः लोकज्ञः सर्वलोकेषु विश्रुतः सत्यवाग् घृणी अपूर्वी भार्यया चार्थी वृद्धो ऽहं मन्दचाक्षुषः पित्र्याद् ऋणाद् अनिर्मुक्तः पूर्वम् एवाकृतस्त्रियः प्रजारणी तु पत्नी ते कुलशीलसमाधिनी सदृशी मम गोत्रेण वहाम्य् एनां क्षमस्व वै इत्य् उक्त्वा मृगशावाक्षीं चीरकृष्णाजिनाम्बराम् यष्ट्याधारः स्रस्तगात्रो मन्दचक्षुर् अबुद्धिमान् स्वव्यापाराम् अक्षमां ताम् अचित्ताम् आत्मनि द्विजः श्वेतकेतोः किल पुरा समक्षं मातरं पितुः जग्राह ब्राह्मणः पाणौ गच्छाव इति चाब्रवीत् ऋषिपुत्रस् ततः कोपं चकारामर्षितस् तदा मातरं तां तथा दृष्ट्वा नीयमानां बलाद् इव तपसा दीप्तवीर्यो हि श्वेतकेतुर् न चक्षमे संगृह्य मातरं हस्ते श्वेतकेतुर् अभाषत दुर्ब्राह्मण विमुञ्च त्वं मातरं मे पतिव्रताम् अयं पिता मे ब्रह्मर्षिः क्षमावान् ब्रह्मवित्तमः शापानुग्रहयोः शक्तस् तूष्णींभूतो महाव्रतः तस्य पत्नी दमोपेता मम माता विशेषतः पतिव्रतां तपोवृद्धां साध्वाचारैर् अलंकृताम् अप्रदानेन ते ब्रह्मन् मातृभूतां विमुञ्च मे एवम् उक्त्वा तु याचन्तं विमुञ्चेति मुहुर् मुहुः प्रत्यवोचद् द्विजो राजन्न् अप्रगल्भम् इदं वचः अपत्यार्थी श्वेतकेतो वृद्धो ऽहं मन्दचाक्षुषः पिता ते ऋणनिर्मुक्तस् त्वया पुत्रेण काश्यप ऋणाद् अहम् अनिर्मुक्तो वृद्धो ऽहं विगतस्पृहः मम को दास्यति सुतां कन्यां संप्राप्तयौवनाम् प्रजारणीम् इमां पत्नीं विमुञ्च त्वं महातपः एकया प्रजया पित्रोर् मातरं ते ददाम्य् अहम् एवम् उक्तः श्वेतकेतुर् लज्जया क्रोधम् एयिवान् क्रुद्धं तं तु पिता दृष्ट्वा श्वेतकेतुम् उवाच ह संगृह्य मातरं हस्ते मा तात कोपं कार्षीस् त्वम् एष धर्मः सनातनः अनावृता हि सर्वेषां वर्णानाम् अङ्गना भुवि यथा गावः स्थितास् तात स्वे स्वे वर्णे तथा प्रजाः तथैव च कुटुम्बेषु न प्रमाद्यन्ति कर्हि चित् ऋतुकाले तु संप्राप्ते भर्तारं न जहुस् तदा ऋषिपुत्रो ऽथ तं धर्मं श्वेतकेतुर् न चक्षमे चकार चैव मर्यादाम् इमां स्त्रीपुंसयोर् भुवि मानुषेषु महाभागे न त्व् एवान्येषु जन्तुषु तदा प्रभृति मर्यादा स्थितेयम् इति नः श्रुतम् व्युच्चरन्त्याः पतिं नार्या अद्य प्रभृति पातकम् भ्रूणहत्याकृतं पापं भविष्यत्य् असुखावहम् अद्याप्य् अनुविधीयन्ते कामद्वेषविवर्जिताः उत्तरेषु महाभागे कुरुष्व् एवं यशस्विनी भार्यां तथा व्युच्चरतः कौमारीं ब्रह्मचारिणीम् पतिव्रताम् एतद् एव भविता पातकं भुवि पत्या नियुक्ता या चैव पत्न्य् अपत्यार्थम् एव च न करिष्यति तस्याश् च भविष्यत्य् एतद् एव हि इति तेन पुरा भीरु मर्यादा स्थापिता बलात् उद्दालकस्य पुत्रेण धर्म्या वै श्वेतकेतुना तेन भूयस् ततो दृष्टं यस्मिन्न् अर्थे निबोध तत् नियुक्ता पतिना भार्या यद्य् अपत्यस्य कारणात् न कुर्यात् तत् तदा भीरु सैनः सुमहद् आप्नुयात् सौदासेन च रम्भोरु नियुक्तापत्यजन्मनि मदयन्ती जगामर्षिं वसिष्ठम् इति नः श्रुतम् तस्माल् लेभे च सा पुत्रम् अश्मकं नाम भामिनी भार्या कल्माषपादस्य भर्तुः प्रियचिकीर्षया अस्माकम् अपि ते जन्म विदितं कमलेक्षणे कृष्णद्वैपायनाद् भीरु कुरूणां वंशवृद्धये अत एतानि सर्वाणि कारणानि समीक्ष्य वै ममैतद् वचनं धर्म्यं कर्तुम् अर्हस्य् अनिन्दिते ऋताव् ऋतौ राजपुत्रि स्त्रिया भर्ता यतव्रते नातिवर्तव्य इत्य् एवं धर्मं धर्मविदो विदुः शेषेष्व् अन्येषु कालेषु स्वातन्त्र्यं स्त्री किलार्हति धर्मम् एतं जनाः सन्तः पुराणं परिचक्षते भर्ता भार्यां राजपुत्रि धर्म्यं वाधर्म्यम् एव वा यद् ब्रूयात् तत् तथा कार्यम् इति धर्मविदो विदुः विशेषतः पुत्रगृद्धी हीनः प्रजननात् स्वयम् यथाहम् अनवद्याङ्गि पुत्रदर्शनलालसः तथा रक्ताङ्गुलितलः पद्मपत्रनिभः शुभे प्रसादार्थं मया ते ऽयं शिरस्य् अभ्युद्यतो ऽञ्जलिः मन्नियोगात् सुकेशान्ते द्विजातेस् तपसाधिकात् पुत्रान् गुणसमायुक्तान् उत्पादयितुम् अर्हसि त्वत्कृते ऽहं पृथुश्रोणि गच्छेयं पुत्रिणां गतिम् तत् कुरुष्व महाभागे वचनं धर्मसंमतम् एवम् उक्ता ततः कुन्ती पाण्डुं परपुरंजयम् प्रत्युवाच वरारोहा भर्तुः प्रियहिते रता अधर्मः सुमहान् एष स्त्रीणां भरतसत्तम यत् प्रसादयते भर्ता प्रसाद्यः क्षत्रियर्षभ शृणु चेदं महाबाहो मम प्रीतिकरं वचः पितृवेश्मन्य् अहं बाला नियुक्तातिथिपूजने उग्रं पर्यचरं तत्र ब्राह्मणं संशितव्रतम् निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः तम् अहं संशितात्मानं सर्वयत्नैर् अतोषयम् स मे ऽभिचारसंयुक्तम् आचष्ट भगवान् वरम् मन्त्रग्रामं च मे प्रादाद् अब्रवीच् चैव माम् इदम् यं यं देवं त्वम् एतेन मन्त्रेणावाहयिष्यसि अकामो वा सकामो वा स ते वशम् उपैष्यति तस्य तस्य प्रसादात् ते राज्ञि पुत्रो भविष्यति इत्य् उक्ताहं तदा तेन पितृवेश्मनि भारत ब्राह्मणेन वचस् तथ्यं तस्य कालो ऽयम् आगतः अनुज्ञाता त्वया देवम् आह्वयेयम् अहं नृप तेन मन्त्रेण राजर्षे यथा स्यान् नौ प्रजा विभो कुन्ती यां मे विद्यां महाराज अददात् स महायशाः तयाहूतः सुरः पुत्रं प्रदास्यति सुरोपमम् अनपत्यकृतं यस् ते शोकं वीर विनेष्यति अपत्यकाम एवं स्यान् ममापत्यं भवेद् इति विप्रं वा गुणसंपन्नं सर्वभूतहिते रतम् अनुजानीहि भद्रं ते दैवतं हि पतिः स्त्रियः यं त्वं वक्ष्यसि धर्मज्ञ देवं ब्राह्मणम् एव च यथोद्दिष्टं त्वया वीर तत् कर्तास्मि महाभुज देवात् पुत्रफलं सद्यो विप्रात् कालान्तरे भवेत् आवाहयामि कं देवं ब्रूहि तत्त्वविदां वर त्वत्तो ऽनुज्ञाप्रतीक्षां मां विद्ध्य् अस्मिन् कर्मणि स्थिताम् पाण्डुः वैशंपायनः धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि त्वं नो धात्री कुलस्य हि नमो महर्षये तस्मै येन दत्तो वरस् तव न चाधर्मेण धर्मज्ञे शक्याः पालयितुं प्रजाः तस्मात् त्वं पुत्रलाभाय संतानाय ममैव च प्रवरं सर्वदेवानां धर्मम् आवाहयाबले पाण्डुना समनुज्ञाता भारतेन यशस्विना मतिं चक्रे महाराज धर्मस्यावाहने तदा पाण्डुर् उवाच अद्यैव त्वं वरारोहे प्रयतस्व यथाविधि धर्मम् आवाहय शुभे स हि देवेषु पुण्यभाक् अधर्मेण न नो धर्मः संयुज्येत कथं चन भीष्म उवाच यथासौ नीयते दण्डः सततं पापकारिषु दण्डस्य नयनात् सा हि दण्डनीतिर् इहोच्यते भूयं स भगवान् ध्यात्वा चिरं शूलधरः प्रभुः असृजत् सर्वशास्त्राणि महादेवो महेश्वरः दण्डनीतेः प्रयोगार्थं प्रमाणानि च सर्वशः विद्याश् चतस्रः कूटस्थास् तासां भेदविकल्पना अङ्गानि वेदाश् चत्वारो मीमांसा न्यायविस्तरः पुराणं धर्मशास्त्रं च विद्या ह्य् एताश् चतुर्दश आयुर्वेदो धनुर्वेदो गान्धर्वश् चेति निश्चयः अर्थशास्त्रं चतुर्थं तु विद्या ह्य् अष्टादशैव तु दश चाष्टौ च विख्याता एता धर्मस्य संहिताः एतासाम् एव विद्यानां व्यासम् आह महेश्वरः शतानि त्रीणि शास्त्राणाम् आह तन्त्राणि सप्ततिः व्यास एव तु विद्यानां महादेवेन कीर्तितः तन्त्रं पाशुपतं नाम पाञ्चरात्रं च विश्रुतम् योगशास्त्रं च सांख्यं च तन्त्रं लोकायतं तथा तन्त्रं ब्रह्मलुला नाम तर्कविद्या दिवौकसाम् सुखदुःखार्थजिज्ञासाकारकश् चेति विश्रुतम् तर्कविद्यास् तथा चाष्टौ सश्लोको नव विस्तरः दश चाष्टौ च विज्ञेयाः पौराणां यज्ञसंहिताः पुराणस्य प्रणीताश् च तावद् एवेह संहिता धर्मशास्त्राणि तद्वाचः एकार्था नीति नान्यथा एकार्थानि पुराणानि वेदाश् चैकार्थसंहिताः नानार्थानि च सर्वाणि ततः शास्त्राणि शंकरः प्रोवाच भगवान् देवः कालज्ञानानि यानि च चतुःषष्टिप्रमाणानाम् आयुर्वेदं च सोत्तरम् अष्टादशविकल्पान्तां दण्डनीतिं च शाश्वतीम् गान्धर्वम् इतिहासं च नानाविस्तरम् उक्तवान् इत्य् एताः शांकरप्रोक्ता विद्याः शब्दार्थसंहिताः पुनर् भेदसहस्रं च तासाम् एव तु विस्तरः ऋषिभिर् देवगन्धर्वैः सविकल्पः सविस्तरः शश्वद् अभ्यस्यते लोके वेद एव च सर्वशः विद्याश् चतस्रः संक्षिप्ताः वेदवादाश् च ते स्मृताः एतासां पारगो यश् च स चोक्तो वेदपारगः विदानां पारगो रुद्रो विष्णुर् इन्द्रो बृहस्पतिः शक्रः स्वायंभुवश् चैव मनुः परमधर्मवित् ब्रह्मा च परमो देवः सदा सर्वैः सुरासुरैः सर्वस्यानुग्रहश् चैव व्यासो वै वेदपारगः अहं शांतनवो भीष्मः प्रसादान् माधवस्य च शंकरस्य प्रसादाच् च ब्रह्मणश् च कुरूद्वह वेदपारग इत्य् उक्तो याज्ञवल्क्यश् च सर्वशः कल्पे कल्पे महाभागैर् ऋषिभिस् तत्त्वदर्शिभिः ऋषिपुत्रैर् ऋषिगणैर् भिद्यते ऽऽश्रमिकैर् अपि शिवेन ब्रह्मणा चैव विष्णुना च विकल्पिताः आदिकल्पे पुनश् चैव भिद्यन्ते साधुभिः पुनः इदानीम् अपि विद्वद्भिः भिद्यन्ते च विकल्पकैः पूर्वजन्मानुसारेण बहुधेयं सरस्वती लोकश् चायं वरारोहे धर्मो ऽयम् इति मंस्यते धार्मिकश् च कुरूणां स भविष्यति न संशयः दत्तस्यापि च धर्मेण नाधर्मे रंस्यते मनः धर्मादिकं हि धर्मज्ञे धर्मान्तं धर्ममध्यमम् अपत्यम् इष्टं लोकेषु यशःकीर्तिविवर्धनम् तस्माद् धर्मं पुरस्कृत्य नियता त्वं शुचिस्मिते उपचाराभिचाराभ्यां धर्मम् आराधयस्व वै वैशंपायन उवाच सा तथोक्ता तथेत्य् उक्त्वा तेन भर्त्रा वराङ्गना अभिवाद्याभ्यनुज्ञाता प्रदक्षिणम् अवर्तत वैशंपायन उवाच संवत्सराहिते गर्भे गान्धार्या जनमेजय आह्वयाम् आस वै कुन्ती गर्भार्थं धर्मम् अच्युतम् सा बलिं त्वरिता देवी धर्मायोपजहार ह जानती धर्मम् अग्र्यं वै मन्त्रैर् वशम् उपानयत् आहूतो नियमात् कुन्त्या सर्वभूतनमस्कृतः ददृशे भगवान् धर्मः संतानार्थाय पाण्डवे तस्मिन् बहुमृगे ऽरण्ये शतशृङ्गे नगोत्तमे पाण्डोर् अर्थे महाभागा कुन्ती धर्मम् उपागमत् ऋतुकाले शुचिस्नाता शुक्लवस्त्रा यशस्विनी शय्यां जग्राह सुश्रोणी सह धर्मेण सुव्रता जजाप जप्यं विधिवद् दत्तं दुर्वाससा पुरा आजगाम ततो देवो धर्मो मन्त्रबलात् ततः विमाने सूर्यसंकाशे कुन्ती यत्र जपस्थिता विहस्य तां ततो ब्रूयाः कुन्ति किं ते ददाम्य् अहम् सा तं विहस्यमानापि पुत्रं देह्य् अब्रवीद् इदम् संगम्य सा तु धर्मेण योगमूर्तिधरेण वै लेभे पुत्रं वरारोहा सर्वप्राणभृतां वरम् ऐन्द्रे चन्द्रसमायुक्ते मुहूर्ते ऽभिजिते ऽष्टमे दिवा मध्यगते सूर्ये तिथौ पुण्ये ऽभिपूजिते समृद्धयशसं कुन्ती सुषाव समये सुतम् जातमात्रे सुते तस्मिन् वाग् उवाचाशरीरिणी एष धर्मभृतां श्रेष्ठो भविष्यति न संशयः विक्रान्तः सत्यवाक् चैव राजा पृथ्व्यां भविष्यति युधिष्ठिर इति ख्यातः पाण्डोः प्रथमजः सुतः भविता प्रथितो राजा त्रिषु लोकेषु विश्रुतः यशसा तेजसा चैव वृत्तेन च समन्वितः धार्मिकं तं सुतं लब्ध्वा पाण्डुस् तां पुनर् अब्रवीत् प्राहुः क्षत्रं बलज्येष्ठं बलज्येष्ठं सुतं वृणु प्राहुः पुत्रा बहुतराः कर्तव्याः कर्मविद्द्विजाः ततः कुन्तीम् अभिक्रम्य शशासातीव भारत वायुम् आवाहयस्वेति स देवो बलवत्तरः अश्वमेधः क्रतुश्रेष्ठो ज्योतिःश्रेष्ठो दिवाकरः ब्राह्मणो द्विपदां श्रेष्ठो देवश्रेष्ठश् च मारुतः मारुतं मरुतां श्रेष्ठं सर्वप्राणिभिर् ईडितम् आवाहय त्वं नियमात् पुत्रार्थं वरवर्णिनि स नो यं दास्यति सुतं स प्राणबलवान् नृषु भविष्यति वरारोहे बलज्येष्ठा हि भूमिपाः ततस् तथोक्ता पत्या तु वायुम् एवाजुहाव सा ततस् ताम् आगतो वायुर् मृगारूढो महाबलः किं ते कुन्ति ददाम्य् अद्य ब्रूहि यत् ते हृदि स्थितम् सा सलज्जा विहस्याह पुत्रं देहि सुरोत्तम बलवन्तं महाकायं सर्वदर्पप्रभञ्जनम् द्वितीयेनोपहारेण तेनोक्तविधिना पुनः तैर् एव नियमैः स्थित्वा मन्त्रग्रामम् उदैरयत् आजगाम ततो वायुः किं करोमीति चाब्रवीत् लज्जान्विता ततः कुन्ती पुत्रम् ऐच्छन् महाबलम् तथास्त्व् इति च तां वायुः समालभ्य दिवं गतः तस्माज् जज्ञे महाबाहुर् भीमो भीमपराक्रमः तम् अप्य् अतिबलं जातं वाग् अभ्यवदद् अच्युतम् सर्वेषां बलिनां श्रेष्ठो जातो ऽयम् इति भारत जातमात्रे कुमारे तु सर्वलोकस्य पार्थिवाः मूत्रं प्रसुस्रुवुः सर्वे व्यथिताश् च प्रपेदिरे वाहनानि व्यशीर्यन्त विमुञ्चन्त्य् अश्रुबिन्दवः यथानिलः समुद्धूतः समर्थः कम्पने भुवः तथा मन्युपरीताङ्गो भीमो भीमपराक्रमः इदम् अत्यद्भुतं चासीज् जातमात्रे वृकोदरे यद् अङ्कात् पतितो मातुः शिलां गात्रैर् अचूर्णयत् जनमेजय उवाच वैशंपायन उवाच कथं स वज्रसंघातः कुमारो न्यपतद् गिरौ कथं तु तेन पतता शिला गात्रैर् विचूर्णिता एतद् इच्छामि भगवंस् त्वत्तः श्रोतुं द्विजोत्तम यथावद् इह विप्रर्षे परं मे ऽत्र कुतूहलम् साध्व् अयं प्रश्नम् उद्दिष्टः पाण्डवेय ब्रवीमि ते कुन्ती तु सह पुत्रेण यात्वा सुरुचिरं सरः स्नात्वा तु सुतम् आदाय दशमे ऽहनि यादवी दैवतान्य् अर्चयिष्यन्ती निर्जगामाश्रमात् पृथा शैलाभ्याशेन गच्छन्त्यास् तदा भरतसत्तम निश्चक्राम महाव्याघ्रो जिघांसुर् गिरिगह्वरात् तम् आपतन्तं शार्दूलं विकृष्य धनुर् उत्तमम् निर्बिभेद शरैः पाण्डुस् त्रिभिस् त्रिदशविक्रमः नादेन महता तां तु पूरयन्तं गिरेर् गुहाम् दृष्ट्वा शैलम् उपारोढुम् ऐच्छत् कुन्ती भयात् तदा त्रासात् तस्याः सुतस् त्व् अङ्कात् पपात भरतर्षभ पर्वतस्योपरिस्थायाम् अधस्ताद् अपतच् छिशुः स शिलां चूर्णयाम् आस वज्रवद् वज्रिचोदितः पुत्रस्नेहात् ततः पाण्डुर् अभ्यधावद् गिरेस् तटम् कुन्ती व्याघ्रभयोद्विग्ना सहसोत्पतिता किल नान्वबुध्यत संसुप्तम् उत्सङ्गे स्वे वृकोदरम् ततः स वज्रसंघातः कुमारो ऽभ्यपतद् गिरौ पतता तेन शतधा शिला गात्रैर् विचूर्णिता तां शिलां चूर्णितां दृष्ट्वा पाण्डुर् विस्मयम् आगमत् स तु जन्मनि भीमस्य विनदन्तं महास्वनम् ददर्श गिरिशृङ्गस्थं व्याघ्रं व्याघ्रपराक्रमः दारसंरक्षणार्थाय पुत्रसंरक्षणाय च सदा बाणधनुष्पाणिर् अभवत् कुरुनन्दनः मघे चन्द्रमसा युक्ते सिंहे चाभ्युदिते गुरौ दिवा मध्यगते सूर्ये तिथौ पुण्ये त्रयोदशीम् मैत्रे मुहूर्ते सा कुन्ती सुषुवे भीमम् अच्युतम् यस्मिन्न् अहनि भीमस् तु जज्ञे भरतसत्तम दुर्योधनो ऽपि तत्रैव प्रजज्ञे वसुधाधिप जाते वृकोदरे पाण्डुर् इदं भूयो ऽन्वचिन्तयत् कथं नु मे वरः पुत्रो लोकश्रेष्ठो भवेद् इति दैवे पुरुषकारे च लोको ऽयं हि प्रतिष्ठितः तत्र दैवं तु विधिना कालयुक्तेन लभ्यते इन्द्रो हि राजा देवानां प्रधान इति नः श्रुतम् अप्रमेयबलोत्साहो वीर्यवान् अमितद्युतिः तं तोषयित्वा तपसा पुत्रं लप्स्ये महाबलम् यं दास्यति स मे पुत्रं स वरीयान् भविष्यति अमानुषान् मानुषांश् च स संग्रामे हनिष्यति कर्मणा मनसा वाचा तस्मात् तप्स्ये महत् तपः ततः पाण्डुर् महातेजा मन्त्रयित्वा महर्षिभिः दिदेश कुन्त्याः कौरव्यो व्रतं सांवत्सरं शुभम् आत्मना च महाबाहुर् एकपादस्थितो ऽभवत् उग्रं स तप आतस्थे परमेण समाधिना आरिराधयिषुर् देवं त्रिदशानां तम् ईश्वरम् सूर्येण सह धर्मात्मा पर्यवर्तत भारत तं तु कालेन महता वासवः प्रत्यभाषत पुत्रं तव प्रदास्यामि त्रिषु लोकेषु विश्रुतम् देवानां ब्राह्मणानां च सुहृदां चार्थसाधकम् दुर्हृदां शोकजननं सर्वबान्धवनन्दनम् सुतं ते ऽग्र्यं प्रदास्यामि सर्वामित्रविनाशनम् इत्य् उक्तः कौरवो राजा वासवेन महात्मना कुन्तीं राजसुतां पाण्डुर् अपत्यार्थे ऽभ्यचोदयत् धर्मं बलं च निश्चित्य यथा स्याद् इति भारत उवाच कुन्तीं धर्मात्मा देवराजवचः स्मरन् उदर्कस् तव कल्याणि तुष्टो देवगणेश्वरः दातुम् इच्छति ते पुत्रं यथा संकल्पितं हृदा अतिमानुषकर्माणं यशस्विनम् अरिंदमम् नीतिमन्तं महात्मानम् आदित्यसमतेजसम् दुराधर्षं क्रियावन्तम् अतीवाद्भुतदर्शनम् पुत्रं जनय सुश्रोणि धाम क्षत्रियतेजसाम् लब्धः प्रसादो देवेन्द्रात् तम् आह्वय शुचिस्मिते वैशंपायनः जातेषु धृतराष्ट्रस्य कुमारेषु महात्मसु एवम् उक्ता ततः शक्रम् आजुहाव यशस्विनी ततः पर्यचरत् तेन बलिना भगवान् अपि अथाजगाम देवेन्द्रो जनयाम् आस चार्जुनम् उत्तराभ्यां तु पूर्वाभ्यां फल्गुनीभ्यां ततो दिवा जातस् तु फाल्गुने मासि तेनासौ फल्गुनः स्मृतः जातमात्रे कुमारे तु वाग् उवाचाशरीरिणी . . . . . . . . सर्वभूतप्रहर्षिणी सूतके वर्तमानां तां . . . . . . . . महागम्भीरनिर्घोषा नभो नादयती तदा शृण्वतां सर्वभूतानां तेषां चाश्रमवासिनाम् कुन्तीम् आभाष्य विस्पष्टम् उवाचेदं शुचिस्मिताम् कार्तवीर्यसमः कुन्ति शिबितुल्यपराक्रमः एष वीर्यवतां श्रेष्ठो भविष्यत्य् अपराजितः तथा दिव्यानि चास्त्राणि निखिलान्य् आहरिष्यति एष शक्र इवाजेयो यशस् ते प्रथयिष्यति अदित्या विष्णुना प्रीतिर् यथाभूद् अभिवर्धिता तथा विष्णुसमः प्रीतिं वर्धयिष्यति ते ऽर्जुनः एष मद्रान् वशे कृत्वा कुरूंश् च सह केकयैः चेदिकाशिकरूषांश् च कुरुलक्ष्म सुधास्यति एतस्य भुजवीर्येण त्रासिताः सर्वशत्रवः निवातकवचाः सर्वे प्रहास्यन्ति च जीवितम् हिरण्यपुरम् आरुज्य निहनिष्यति संयुगे पुलोमायास् तु तनयान् कालकेयांश् च सर्वशः गत्वोत्तरां दिशं वीरो विजित्य युधि पार्थिवान् धनरत्नौघम् अमितम् आनयिष्यति पाण्डवः एतस्य भुजवीर्येण खाण्डवे हव्यवाहनः मेदसा सर्वभूतानां तृप्तिं यास्यति वै पराम् ग्रामणीश् च महीपालान् एष जित्वा महाबलः भ्रातृभिः सहितो वीरस् त्रीन् मेधान् आहरिष्यति जामदग्न्यसमः कुन्ति विष्णुतुल्यपराक्रमः एष वीर्यवतां श्रेष्ठो भविष्यत्य् अपराजितः एष युद्धे महादेवं तोषयिष्यति शंकरम् अस्त्रं पाशुपतं नाम तस्मात् तुष्टाद् अवाप्स्यति निवातकवचा नाम दैत्या विबुधविद्विषः शक्राज्ञया महाबाहुस् तान् वधिष्यति ते सुतः तथा दिव्यानि चास्त्राणि निखिलान्य् आहरिष्यति विप्रनष्टां श्रियं चायम् आहर्ता पुरुषर्षभः एताम् अत्यद्भुतां वाचं कुन्तीपुत्रस्य सूतके उक्तवान् वायुर् आकाशे कुन्ती शुश्राव चास्य ताम् वाचम् उच्चारिताम् उच्चैस् तां निशम्य तपस्विनाम् बभूव परमो हर्षः शतशृङ्गनिवासिनाम् तथा देवऋषीणां च सेन्द्राणां च दिवौकसाम् आकाशे दुन्दुभीनां च बभूव तुमुलः स्वनः उदतिष्ठन् महाघोषः पुष्पवृष्टिभिर् आवृतः समवेत्य च देवानां गणाः पार्थम् अपूजयन् काद्रवेया वैनतेया गन्धर्वाप्सरसस् तथा प्रजानां पतयः सर्वे सप्त चैव महर्षयः भरद्वाजः कश्यपो गौतमश् च; विश्वामित्रो जमदग्निर् वसिष्ठः यश् चोदितो भास्करे ऽभूत् प्रनष्टे; सो ऽप्य् अत्रात्रिर् भगवान् आजगाम मरीचिर् अङ्गिराश् चैव पुलस्त्यः पुलहः क्रतुः दक्षः प्रजापतिश् चैव गन्धर्वाप्सरसस् तथा दिव्यमाल्याम्बरधराः सर्वालंकारभूषिताः ते च प्रकाशा मर्त्येषु सर्वोपस्कारसंभृताः उपगायन्ति बीभत्सुम् उपनृत्यन्ति चाप्सराः तथा महर्षयश् चापि जेपुस् तत्र समन्ततः ततो गन्धर्वतूर्येषु प्रणदत्सु विहायसि गन्धर्वैः सहितः श्रीमान् प्रागायत च तुम्बुरुः भीमसेनोग्रसेनौ च ऊर्णायुर् अनघस् तथा गोपतिर् धृतराष्ट्रश् च सूर्यवर्चाश् च सप्तमः युगपस् तृणपः कार्ष्णिर् नन्दिश् चित्ररथस् तथा त्रयोदशः शालिशिराः पर्जन्यश् च चतुर्दशः कलिः पञ्चदशश् चात्र नारदश् चैव षोडशः सद् वा बृहद् वा बृहकः करालश् च महायशाः ब्रह्मचारी बहुगुणः सुपर्णश् चेति विश्रुतः विश्वावसुर् भुमन्युश् च सुचन्द्रो दशमस् तथा गीतमाधुर्यसंपन्नौ विख्यातौ च हहाहुहू इत्य् एते देवगन्धर्वा जगुस् तत्र नरर्षभम् तथैवाप्सरसो हृष्टाः सर्वालंकारभूषिताः ननृतुर् वै महाभागा जगुश् चायतलोचनाः अनूना चानवद्या च प्रियमुख्या गुणावरा अद्रिका च तथा साची मिश्रकेशी अलम्बुसा मरीचिः शिचुका चैव विद्युत्पर्णा तिलोत्तमा अग्निका लक्षणा क्षेमा देवी रम्भा मनोरमा उर्वशी चैव राजेन्द्र ननृतुर् गीतनिस्वनैः असिता च सुबाहुश् च सुप्रिया सुवपुस् तथा पुण्डरीका सुगन्धा च सुरथा च प्रमाथिनी काम्या शारद्वती चैव ननृतुस् तत्र संघशः मेनका सहजन्या च पर्णिका पुञ्जिकस्थला क्रतुस्थला घृताची च विश्वाची पूर्वचित्त्य् अपि उम्लोचेत्य् अभिविख्याता प्रम्लोचेति च ता दश उर्वश्य् एकादशीत्य् एता जगुर् आयतलोचनाः धातार्यमा च मित्रश् च वरुणो ऽंशो भगस् तथा इन्द्रो विवस्वान् पूषा च त्वष्टा च सविता तथा पर्जन्यश् चैव विष्णुश् च आदित्याः पावकार्चिषः इत्य् एते द्वादशादित्या ज्वलन्तः सूर्यवर्चसः महिमानं पाण्डवस्य वर्धयन्तो ऽम्बरे स्थिताः मृगव्याधश् च शर्वश् च निरृतिश् च महायशाः अजैकपाद् अहिर्बुध्न्यः पिनाकी च परंतपः दहनो ऽथेश्वरश् चैव कपाली च विशां पते स्थाणुर् भवश् च भगवान् रुद्रास् तत्रावतस्थिरे अश्विनौ वसवश् चाष्टौ मरुतश् च महाबलाः नासत्यश् चैव दस्रश् च स्मृतौ द्वाव् अश्विनाव् इति तौ चाश्विनौ तथा साध्यास् तस्यासञ् जन्मनि स्थिताः क्रतुर् दक्षस् तपः सत्यः कालः कामो धुरिस् तथा कुरुमान् मधुमांश् चैव रोचमानश् च तेजसा विश्वेदेवास् तथा साध्यास् तत्रासन् परिसंस्थिताः कर्कोटको ऽथ शेषश् च वासुकिश् च भुजंगमः कच्छपश् चापकुण्डश् च तक्षकश् च महोरगः आययुस् तेजसा युक्ता महाक्रोधा महाबलाः एते चान्ये च बहवस् तत्र नागा व्यवस्थिताः महान् पितामहस् त्व् एनं वस्त्रेणारजसा तदा प्रतिजग्राह नप्तारं राजर्षिपरिवारितः सगरेणाम्बरीषेण नहुषेण ययातिना धीमता धुन्धुमारेण राज्ञोपरिचरेण ह मुचुकुन्देन मान्धात्रा शिबिनारिष्टनेमिना भरतेन दिलीपेन सर्वैश् च जनमेजय पूरुः सार्धं नृपतिभिर् जग्राह कुरुपुंगवम् अन्ये च बहवस् तत्र समासन् राजसत्तमाः एते चान्ये च बहवो नरलोकाधिपास् तथा देवलोकाद् इहागम्य प्रैक्षन्त भरतर्षभम् विद्योतमानं वपुषा भासयन्तं दिशो दश लक्षणैर् व्यञ्जितैर् युक्तं सर्वैर् माहात्म्यसूचकैः तांश् च देवगणान् सर्वांस् तपःसिद्धा महर्षयः विमानगिर्यग्रगतान् ददृशुर् नेतरे जनाः तार्क्ष्यश् चारिष्टनेमिश् च गरुडश् चासितध्वजः अरुणश् चारुणिश् चैव वैनतेया व्यवस्थिताः तद् दृष्ट्वा महद् आश्चर्यं विस्मिता मुनिसत्तमाः अधिकां स्म ततो वृत्तिम् अवर्तन् पाण्डवान् प्रति पाण्डुः प्रीतेन मनसा देवतादीन् अपूजयत् पाण्डुना पूजिता देवाः प्रत्यूचुर् नृपसत्तमम् प्रादुर्भूतो ह्य् अयं धर्मो देवतानां प्रसादजः मातरिश्वा ह्य् अयं भीमो बलवान् अरिमर्दनः साक्षाद् इन्द्रः स्वयं जातः प्रसादाच् च शतक्रतोः पितृत्वाद् देवतानां हि नास्ति पुण्यतरस् त्वया पितॄणाम् ऋणमुक्तो ऽसि स्वर्गं प्राप्स्यसि पुण्यभाक् इत्य् उक्त्वा देवताः सर्वा विप्रजग्मुर् यथागतम् पाण्डुस् तु पुनर् एवैनां पुत्रलोभान् महायशाः प्राहिणोद् दर्शनीयाङ्गीं कुन्ती त्व् एनम् अथाब्रवीत् नातश् चतुर्थं प्रसवम् आपत्स्व् अपि वदन्त्य् उत अतः परं चारिणी स्यात् पञ्चमे बन्धकी भवेत् स त्वं विद्वन् धर्मम् इमं बुद्धिगम्यं कथं नु माम् अपत्यार्थं समुत्क्रम्य प्रमादाद् इव भाषसे पाण्डुः एवम् एतद् धर्मशास्त्रं यथा वदसि तत् तथा वैशंपायन उवाच कुन्तीपुत्रेषु जातेषु धृतराष्ट्रात्मजेषु च मद्रराजसुता पाण्डुं रहो वचनम् अब्रवीत् न मे ऽस्ति त्वयि संतापो विगुणे ऽपि परंतप न तापो यौवनस्थायी पराभवं कथं च नः नावरत्वे वरार्हायाः स्थित्वा चानघ नित्यदा गान्धार्याश् चैव नृपते जातं पुत्रशतं तथा श्रुत्वा न मे तथा दुःखम् अभवत् कुरुनन्दन इदं तु मे महद् दुःखं तुल्यतायाम् अपुत्रता दिष्ट्या त्व् इदानीं भर्तुर् मे कुन्त्याम् अप्य् अस्ति संततिः यदि त्व् अपत्यसंतानं कुन्तिराजसुता मयि कुर्याद् अनुग्रहो मे स्यात् तव चापि हितं भवेत् स्तम्भो हि मे सपत्नीत्वाद् वक्तुं कुन्तिसुतां प्रति यदि तु त्वं प्रसन्नो मे स्वयम् एनां प्रचोदय पाण्डुर् उवाच ममाप्य् एष सदा माद्रि हृद्य् अर्थः परिवर्तते न तु त्वां प्रसहे वक्तुम् इष्टानिष्टविवक्षया तव त्व् इदं मतं ज्ञात्वा प्रयतिष्याम्य् अतः परम् मन्ये ध्रुवं मयोक्ता सा वचो मे प्रतिपत्स्यते वैशंपायन उवाच ततः कुन्तीं पुनः पाण्डुर् विविक्त इदम् अब्रवीत् अनुगृह्णीष्व कल्याणि मद्रराजसुताम् अपि कुलस्य मम संतानं लोकस्य च कुरु प्रियम् मम चापिण्डनाशाय पूर्वेषाम् अपि चात्मनः मत्प्रियार्थं च कल्याणि कुरु कल्याणम् उत्तमम् कुलस्य पिण्डवृद्धिश् च कुलस्य कुलसंततिः मम चेष्टस्य निर्वृत्तिस् तव चापि परं यशः यशसो ऽर्थाय चैव त्वं कुरु कर्म सुदुष्करम् प्राप्याधिपत्यम् इन्द्रेण यज्ञैर् इष्टं यशोर्थिना तथा मन्त्रविदो विप्रास् तपस् तप्त्वा सुदुष्करम् गुरून् अभ्युपगच्छन्ति यशसो ऽर्थाय भामिनि तथा राजर्षयः सर्वे ब्राह्मणाश् च तपोधनाः चक्रुर् उच्चावचं कर्म यशसो ऽर्थाय दुष्करम् तथा राजर्षयो धीरा मनुवैन्यादयः पृथक् यशो ऽर्थं धर्मयुक्तानि चक्रुः कर्माणि शोभने सा त्वं माद्रीं प्लवेनेव तारयेमाम् अनिन्दिते अपत्यसंविभागेन परां कीर्तिम् अवाप्नुहि धर्मं वै धर्मशास्त्रोक्तं यथा वदसि तत् तथा तस्माद् अनुग्रहं माद्र्याः कुरुष्व वरवर्णिनि एवम् उक्ताब्रवीन् माद्रीं सकृच् चिन्तय दैवतम् तस्मात् ते भवितापत्यम् अनुरूपम् असंशयम् कुन्त्या मन्त्रे कृते तस्मिन् विधिदृष्टेन कर्मणा ततो राजसुता स्नाता शयने संविवेश ह ततो माद्री विचार्यैव जगाम मनसाश्विनौ ताव् आगम्य सुतौ तस्यां जनयाम् आसतुर् यमौ नकुलं सहदेवं च रूपेणाप्रतिमौ भुवि तथैव ताव् अपि यमौ वाग् उवाचाशरीरिणी कर्मतो भक्तितश् चैव बलतो ऽपि नयैस् तथा रूपसत्त्वगुणोपेताव् एताव् अन्याञ् जनान् अति भासतस् तेजसात्यर्थं रूपद्रविणसंपदा नामानि चक्रिरे तेषां शतशृङ्गनिवासिनः भक्त्या च कर्मणा चैव तथाशीर्भिर् विशां पते ज्येष्ठं युधिष्ठिरेत्य् आहुर् भीमसेनेति मध्यमम् अर्जुनेति तृतीयं च कुन्तीपुत्रान् अकल्पयन् पूर्वजं नकुलेत्य् एवं सहदेवेति चापरम् माद्रीपुत्राव् अकथयंस् ते विप्राः प्रीतमानसाः अनुसंवत्सरं जाता अपि ते कुरुसत्तमाः पाण्डुपुत्रा व्यराजन्त पञ्च संवत्सरा इव अन्ववर्तन्त पार्थाश् च माद्रीपुत्रौ तथैव च महासत्त्वा महावीर्या महाबलपराक्रमाः पाण्डुर् दृष्ट्वा सुतांस् तांस् तु देवरूपान् महौजसः मुदं परमिकां लेभे ननन्द च नराधिपः ऋषीणाम् अपि सर्वेषां शतशृङ्गनिवासिनाम् प्रिया बभूवुस् तासां च तथैव मुनियोषिताम् कुन्तीम् अथ पुनः पाण्डुर् माद्र्यर्थे समचोदयत् तम् उवाच पृथा राजन् रहस्य् उक्ता सती सदा उक्ता सकृद् द्वन्द्वम् एषा लेभे तेनास्मि वञ्चिता बिभेम्य् अस्याः परिभवान् नारीणां गतिर् ईदृशी नाज्ञासिषम् अहं मूढा द्वन्द्वाह्वाने फलद्वयम् तस्मान् नाहं नियोक्तव्या त्वयैषो ऽस्तु वरो मम एवं पाण्डोः सुताः पञ्च देवदत्ता महाबलाः संभूताः कीर्तिमन्तस् ते कुरुवंशविवर्धनाः देवौजसः सत्त्ववन्तः सर्वशास्त्रविशारदाः दिव्यसंहननाः सर्वे सर्वे भास्वरमूर्तयः शुभलक्षणसंपन्नाः सोमवत् प्रियदर्शनाः सिंहदर्पा महेष्वासाः सिंहविक्रान्तगामिनः सिंहोरस्काः सिंहसत्त्वाः सिंहाक्षाः सिंहविक्रमाः सिंहग्रीवा मनुष्येन्द्रा ववृधुर् देवविक्रमाः विवर्धमानास् ते तत्र पुण्ये हैमवते गिरौ विस्मयं जनयाम् आसुर् महर्षीणां समेयुषाम् ते च पञ्च शतं चैव कुरुवंशविवर्धनाः सर्वे ववृधुर् अल्पेन कालेनाप्स्व् इव नीरजाः वैशंपायनः जातमात्रान् उपादाय शतशृङ्गनिवासिनः पाण्डोः पुत्रान् अमन्यन्त तापसाः स्वान् इवात्मजान् ततस् तु वृष्णयः सर्वे वसुदेवपुरोगमाः पाण्डुः शापभयाद् भीतः शतशृङ्गम् उपेयिवान् तत्रैव मुनिभिः सार्धं तापसो ऽभूत् तपश् चरन् शाकमूलफलाहारस् तपस्वी नियतेन्द्रियः योगध्यानपरो राजा बभूवेति च वादकाः प्रब्रुवन्ति स्म बहवस् तच् छ्रुत्वा शोककर्शिताः पाण्डोः प्रीतिसमायुक्ताः कदा श्रोष्याम सत्कथाः इत्य् एवं कथयन्तस् ते वृष्णयः सह बान्धवैः पाण्डोः पुत्रागमं श्रुत्वा सर्वे हर्षसमन्विताः सभाजयन्तस् ते ऽन्योन्यं वसुदेवं वचो ऽब्रुवन् न भवेरन् क्रियाहीनाः पाण्डोः पुत्रा महाबलाः पाण्डोः प्रियहितान्वेषी प्रेषय त्वं पुरोहितम् वसुदेवस् तथेत्य् उक्त्वा विससर्ज पुरोहितम् युक्तानि च कुमाराणां पारिबर्हाण्य् अनेकशः कुन्तीं माद्रीं च संदिश्य दासदासीपरिच्छदम् गावो हिरण्यं रूप्यं च प्रेषयाम् आस भारत तानि सर्वाणि संगृह्य प्रययौ स पुरोहितः तम् आगतं द्विजश्रेष्ठं काश्यपं वै पुरोहितम् पूजयाम् आस विधिवत् पाण्डुः परपुरंजयः पृथा माद्री च संहृष्टे वसुदेवं प्रशंसताम् ततः पाण्डुः क्रियाः सर्वाः पाण्डवानाम् अकारयत् गर्भाधानादिकृत्यानि चौलोपनयनानि च काश्यपः कृतवान् सर्वम् उपाकर्म च भारत चौलोपनयनाद् ऊर्ध्वं वृषभाक्षा यशस्विनः वैदिकाध्ययने सर्वे समपद्यन्त पारगाः शर्यातेः पृषतः पुत्रः शुको नाम परंतपः येन सागरपर्यन्ता धनुषा निर्जिता मही अश्वमेधशतैर् इष्ट्वा स महात्मा महामखैः आराध्य देवताः सर्वाः पितॄन् अपि महामतिः शतशृङ्गे तपस् तेपे शाकमूलफलाशनः तेनोपकरणश्रेष्ठैः शिक्षया चोपबृंहिताः तत्प्रसादाद् धनुर्वेदे समपद्यन्त पारगाः गदायां पारगो भीमस् तोमरेषु युधिष्ठिरः असिचर्मणि निष्णातौ यमौ सत्त्ववतां वरौ धनुर्वेदे गतः पारं सव्यसाची परंतपः शुकेन समनुज्ञातो मत्समो ऽयम् इति प्रभो अनुज्ञाय ततो राजा शक्तिं खड्गं तथा शरान् धनुश् च ददतां श्रेष्ठस् तालमात्रं महाप्रभम् विपाठक्षुरनाराचान् गृध्रपक्षान् अलंकृतान् ददौ पार्थाय संहृष्टो महोरगसमप्रभान् अवाप्य सर्वशस्त्राणि मुदितो वासवात्मजः मेने सर्वान् महीपालान् अपर्याप्तान् स्वतेजसा एकवर्षान्तरास् त्व् एवं परस्परम् अरिंदमाः अन्ववर्धन्त पार्थाश् च माद्रीपुत्रौ तथैव च पाण्डवानां तथायुस् त्वं शृणु कौरवनन्दन जगाम हास्तिनपुरं षोडशाब्दो युधिष्ठिरः भीमसेनः पञ्चदशे बीभत्सुर् वै चतुर्दशे त्रयोदशाब्दौ च यमौ जग्मतुर् नागसाह्वयम् तत्र त्रयोदशाब्दानि धार्तराष्ट्रैः सहोषिताः षट् च मासाञ् जतुगृहान् मुक्ता जातो घटोत्कचः षण्मासान् एकचक्रायां वर्षं पाञ्चालके गृहे धार्तराष्ट्रैः सहोषित्वा पञ्च वर्षाणि भारत इन्द्रप्रस्थे ऽवसंस् तत्र त्रीणि वर्षाणि विंशतिम् द्वादशाब्दान् अथैकं च विभ्रमद्यूतनिर्जिताः भुङ्क्त्वा षट्त्रिंशतं राज्यं सागरान्तां वसुंधराम् मासैः षड्भिर् महात्मानः सर्वे कृष्णपरायणाः राज्ये परिक्षितं स्थाप्य इष्टां गतिम् अवाप्नुवन् एवं युधिष्ठिरस्यापि आयुर् अष्टोत्तरं शतम् अर्जुनात् केशवो ज्येष्ठस् त्रिभिर् मासैर् महाभुजः कृष्णात् संकर्षणो ज्येष्ठस् त्रिभिर् मासैर् महाबलः वैशंपायन उवाच दर्शनीयांस् ततः पुत्रान् पाण्डुः पञ्च महावने तान् पश्यन् पर्वते रेमे स्वबाहुबलपालितान् सुपुष्पितवने काले कदा चिन् मधुमाधवे पूर्णे चतुर्दशे वर्षे फल्गुनस्य च धीमतः तदा उत्तरफल्गुन्यां प्रवृत्ते स्वस्तिवाचने रक्षणे विस्मृता कुन्ती व्यग्रा ब्राह्मणभोजने पुरोहितेन सह सा ब्राह्मणान् पर्यवेषयत् तस्मिन् काले समाहूय माद्रीं मदनमोहितः भूतसंमोहने राजा सभार्यो व्यचरद् वनम् पलाशैस् तिलकैश् चूतैश् चम्पकैः पारिभद्रकैः अन्यैश् च बहुभिर् वृक्षैः फलपुष्पसमृद्धिभिः कर्णिकारैर् अशोकैश् च केशरैर् अतिमुक्तकैः तदा कुरबकैश् चैव मत्तभ्रमरकूजितैः चूतैर् मञ्जिरिभिश् चैव पारिजातवनैर् अपि परपुष्टोपसंघुष्टसंगीतैः षट्पदैर् अपि जम्बूदुम्बरसैहुण्डैर् वटैर् आम्रातकैर् धवैः नीपार्जुनकदम्बैश् च बदरैर् नागकेसरैः तमालैर् बिल्वकैस् तालैः पनसैर् वनकिंशुकैः मत्तभ्रमरसंगीतकोकिलस्वनमिश्रितम् हिन्तालकदलीशालैः पनसैर् वनकिंशुकैः बकुलैस् तिलकैस् तालैः पनसैर् वनकिंशुकैः जलस्थानैश् च विविधैः पद्मिनीभिश् च शोभितम् नानाविहंगसंघुष्टं परपुष्टनिनादितम् समीक्ष्य च ततस् तत्र रम्यं कुसुमितं द्रुमम् पाण्डोर् वनं तु संप्रेक्ष्य प्रजज्ञे हृदि मन्मथः मत्तभ्रमरसंगीतं कोकिलस्वनमिश्रितम् गायमानैस् तु गन्धर्वैः पुरा नागपुरे यथा प्रहृष्टमनसं तत्र विहरन्तं यथामरम् तं माद्र्य् अनुजगामैका वसनं बिभ्रती शुभम् समीक्षमाणः स तु तां वयःस्थां तनुवाससम् तस्य कामः प्रववृधे गहने ऽग्निर् इवोत्थितः रहस्य् आत्मसमां दृष्ट्वा राजा राजीवलोचनाम् न शशाक नियन्तुं तं कामं कामबलात्कृतः अथ सो ऽष्टादशे वर्षे ऋतौ माद्रीम् अलंकृताम् आजुहाव ततः पाण्डुः परीतात्मा यशस्विनीम् तत एनां बलाद् राजा निजग्राह रहोगताम् वार्यमाणस् तया देव्या विस्फुरन्त्या यथाबलम् स तु कामपरीतात्मा तं शापं नान्वबुध्यत माद्रीं मैथुनधर्मेण गच्छमानो बलाद् इव जीवितान्ताय कौरव्यो मन्मथस्य वशं गतः शापजं भयम् उत्सृज्य जगामैव बलात् प्रियाम् तस्य कामात्मनो बुद्धिः साक्षात् कालेन मोहिता संप्रमथ्येन्द्रियग्रामं प्रनष्टा सह चेतसा स तया सह संगम्य भार्यया कुरुनन्दन पाण्डुः परमधर्मात्मा युयुजे कालधर्मणा क्षणेनाभ्यपतद् राजा राजधानीं यमस्य वै ततो माद्री समालिङ्ग्य राजानं गतचेतसम् मुमोच दुःखजं शब्दं पुनः पुनर् अतीव ह तं श्रुत्वा करुणं शब्दं सहसोत्पतितं तदा सह पुत्रैस् ततः कुन्ती माद्रीपुत्रौ च पाण्डवौ आजग्मुः सहितास् तत्र यत्र राजा तथागतः ततो माद्र्य् अब्रवीद् राजन्न् आर्ता कुन्तीम् इदं वचः एकैव त्वम् इहागच्छ तिष्ठन्त्व् अत्रैव दारकाः तच् छ्रुत्वा वचनं तस्यास् तत्रैवावार्य दारकान् हताहम् इति विक्रुश्य सहसोपजगाम ह दृष्ट्वा पाण्डुं च माद्रीं च शयानौ धरणीतले कुन्ती शोकपरीताङ्गी विललाप सुदुःखिता रक्ष्यमाणो मया नित्यं वीरः सततम् आत्मवान् कथं त्वम् अभ्यतिक्रान्तः शापं जानन् वनौकसः ननु नाम त्वया माद्रि रक्षितव्यो जनाधिपः सा कथं लोभितवती विजने त्वं नराधिपम् माद्री विधिना चोदितस्यास्य मां दृष्ट्वा विजने वने अचिन्तयित्वा तच् छापं प्रहर्षः समजायत कथं दीनस्य सततं त्वाम् आसाद्य रहोगताम् तं विचिन्तयतः शापं प्रहर्षः समजायत धन्या त्वम् असि बाह्लीकि मत्तो भाग्यतरा तथा दृष्टवत्य् असि यद् वक्त्रं प्रहृष्टस्य महीपतेः माद्र्य् उवाच विलोभ्यमानेन मया वार्यमाणेन चासकृत् आत्मा न वारितो ऽनेन सत्यं दिष्टं चिकीर्षुणा वैशंपायनः कुन्ती वैशंपायनः युधिष्ठिरः भीमः वैशंपायनः अर्जुनः वैशंपायनः यमौ वैशंपायनः तस्यास् तद् वचनं श्रुत्वा कुन्ती शोकाग्निदीपिता पपात सहसा भूमौ छिन्नमूल इव द्रुमः निश्चेष्टा पतिता भूमौ मोहे न तु चचाल सा तस्मिन् क्षणे कृतस्नानम् अमलाम्बरसंवृतम् अलंकारकृतं पाण्डुं शयानं शयने शुभे कुन्तीम् उत्थाप्य माद्री तु मोहेनाविष्टचेतनाम् एह्य् एहीति च तां कुन्तीं दर्शयाम् आस कौरवम् पादयोः पतिता कुन्ती पुनर् उत्थाय भूमिपम् रक्तचन्दनदिग्धाङ्गं महारजतवाससम् सस्मितेन तु वक्त्रेण गदन्तम् इव भारतीम् परिरभ्य तदा मोहाद् विललापाकुलेन्द्रिया माद्री चापि समालिङ्ग्य राजानं विललाप सा तं तथाशायिनं पाण्डुम् ऋषयः सह चारणैः अभ्येत्य सहिताः सर्वे शोकाद् अश्रूण्य् अवर्तयन् अस्तं गतम् इवादित्यं संशुष्कम् इव सागरम् दृष्ट्वा पाण्डुं नरव्याघ्रं शोचन्ति स्म महर्षयः समानशोका ऋषयः पाण्डवाश् च बुभूविरे ते समाश्वासिते विप्रैर् विलेपतुर् अनिन्दिते हा राजन् कस्य नौ हित्वा गच्छसि त्रिदशालयम् हा राजन् मम मन्दायाः कथं माद्रीं समेत्य वै निधनं प्राप्तवान् राजन् मद्भाग्यपरिसंक्षयात् युधिष्ठिरं भीमसेनम् अर्जुनं च यमाव् उभौ कस्मात् पुत्रान् प्रियान् हित्वा प्रयातो ऽसि विशां पते नूनं त्वां त्रिदशा देवाः प्रतिनन्दन्ति भारत यथा हि तप उग्रं ते चरितं विप्रसंसदि आवाभ्यां सहितो राजन् गमिष्यसि दिवं शुभम् आजमीढाजमीढानां कर्मणा चरितां गतिम् ननु नाम सहावाभ्यां गमिष्यामीति नस् त्वया प्रतिज्ञातं कुरुश्रेष्ठ यदासि वनम् आगतः आवाभ्यां त्व् एव सहितो गमिष्यसि विशां पते मुहूर्तं क्षम्यतां राजन्न् आरोक्ष्यावश् चितां तव विलपित्वा भृशं त्व् एवं निःसंज्ञे पतिते भुवि यथा विद्धे हते मृग्यौ लुब्धैर् वनगते तथा युधिष्ठिरमुखाः सर्वे पाण्डवा वेदपारगाः ते ऽप्य् आगत्य पितुर् मूले निःसंज्ञाः पतिता भुवि पाण्डोः पादौ परिष्वज्य विलपन्ति स्म पाण्डवाः हा विनष्टाः स्म तातेति हा विनाथा भवामहे त्वद्विहीना महाप्राज्ञ कथं वर्ताम बालकाः लोकनाथस्य पुत्राः स्मो न सनाथा भवामहे क्षणेनैव महाराज अहो लोकस्य चित्रता नास्मद्विधा राजपुत्रा अधन्याः सन्ति भारत त्वद्विनाशाच् च राजेन्द्र राज्यप्रस्खलनात् तथा बान्धवानाम् अथाज्ञानात् प्राप्ताः स्म व्यसनं वयम् किं करिष्यामहे राजन् कर्तव्यं नः प्रसीदताम् हित्वा राज्यं च भोगांश् च शतशृङ्गनिवासिना त्वया लब्धाः स्म राजेन्द्र महता तपसा वयम् हित्वा मानं वनं गत्वा स्वयम् आहृत्य भक्षणम् शाकमूलफलैर् वन्यैर् भरणं वै त्वया कृतम् पुत्रान् उत्पाद्य पितरो यम् इच्छन्ति महात्मनः त्रिवर्गफलम् इच्छन्तस् तस्य कालो ऽयम् आगतः अभुक्त्वैव फलं राजन् गन्तुं नार्हसि भारत इत्य् एवम् उक्त्वा पितरं भीमो ऽपि विललाप ह प्रणष्टं भारतं वंशं पाण्डुना पुनर् उद्धृतम् तस्मिंस् तपोवनगते नष्टं राज्यं सराष्ट्रकम् पुनर् निस्तारितं क्षत्रं पाण्डुपुत्रैर् महात्मभिः एतच् छ्रुत्वा तु मोदित्वा गन्तुम् अर्हसि कौरव इत्य् एवम् उक्त्वा पितरं विललाप धनंजयः दुःसंचयं तपः कृत्वा लब्ध्वा नौ भरतर्षभ पुत्रलाभस्य महतः शुश्रूषादिफलं त्वया न चावाप्तं किं चिद् एव राज्यं पित्रा यथा पुरा एवम् उक्त्वा यमौ चापि विलेपतुर् अथातुरौ कुन्त्य् उवाच अहं ज्येष्ठा धर्मपत्नी ज्येष्ठं धर्मफलं मम अवश्यं भाविनो भावान् मा मां माद्रि निवर्तय अन्वेष्यामीह भर्तारम् अहं प्रेतवशं गतम् उत्तिष्ठ त्वं विसृज्यैनम् इमान् रक्षस्व दारकान् वैशंपायनः अवाप्य पुत्रांल् लब्धात्मा वीरपत्नीत्वम् अर्थये मद्रराजसुता कुन्तीम् इदं वचनम् अब्रवीत् माद्र्य् उवाच अहम् एवानुयास्यामि भर्तारम् अपलायिनम् न हि तृप्तास्मि कामानां तज् ज्येष्ठा अनुमन्यताम् मां चाभिगम्य क्षीणो ऽयं कामाद् भरतसत्तमः तम् उच्छिन्द्याम् अस्य कामं कथं नु यमसादने मम हेतोर् गतो राजा दिवं राजर्षिसत्तमः न चैव तादृशी बुद्धिर् बान्धवाश् च न तादृशाः न चोत्सहे धारयितुं प्राणान् भर्तृविनाकृता तस्मात् तम् अनुयास्यामि यान्तं वैवस्वतक्षयम् न चाप्य् अहं वर्तयन्ती निर्विशेषं सुतेषु ते वृत्तिम् आर्ये चरिष्यामि स्पृशेद् एनस् तथा हि माम् त्वं तु मत्सुतयोर् नित्यं त्वत्सुतेषु समा सदा तस्मान् मे सुतयोः कुन्ति वर्तितव्यं स्वपुत्रवत् मां हि कामयमानो ऽयं राजा प्रेतवशं गतः अन्वेष्यामि च भर्तारं व्रजन्तं यमसादनम् राज्ञः शरीरेण सह ममापीदं कलेवरम् दग्धव्यं सुप्रतिच्छन्नम् एतद् आर्ये प्रियं कुरु दारकेष्व् अप्रमत्ता च भवेथाश् च हिता मम अतो ऽन्यन् न प्रपश्यामि संदेष्टव्यं हि किं चन तस्यास् तद् वचनं श्रुत्वा कुन्ती शोकाग्निदीपिता पपात सहसा भूमौ छिन्नमूल इव द्रुमः निश्चेष्टा पतिता भूमौ मोहेनैव चचाल सा तस्मिन् क्षणे कृतस्नानं महद् अम्बरसंवृतम् अलंकारकृतं पाण्डुं शयानं शयने शुभे कुन्तीम् उत्थाप्य माद्री तु मोहेनाविष्टचेतनाम् एह्य् एहि कुन्ति मा रोदीः दर्शयामि स्वकौतुकम् पादयोः पतिता कुन्ती पुनर् उत्थाय भूमिपम् रक्तचन्दनदिग्धाङ्गं महारजतवाससम् वैशंपायनः कुन्ती माद्री वैशंपायनः ऋषयस् तान् समाश्वास्य पाण्डवान् सत्यविक्रमान् ऊचुः कुन्तीं च माद्रीं च समाश्वास्य तपस्विनः सुभगे बालपुत्रे तु न मर्तव्यं कथं चन पाण्डवांश् चापि नेष्यामः कुरुराष्ट्रं परंतपान् अधर्मेष्व् अर्थजातेषु धृतराष्ट्रश् च लोभवान् स कदाचिन् न वर्तेत पाण्डवेषु यथाविधि कुन्त्याःश् च वृष्णयो नाथाः कुन्तिभोजस् तथैव च माद्र्याश् च बलिनां श्रेष्ठः शल्यो भ्राता महारथः भर्त्रा तु मरणं सार्धं फलवन् नात्र संशयः युवाभ्यां दुष्करं चैतद् वदन्ति द्विजपुंगवाः मृते भर्तरि साध्वी स्त्री ब्रह्मचर्ये व्यवस्थिता यमैश् च नियमैः श्रान्ता मनोवाक्कायजैः शुभैः भर्तारं चिन्तयन्ती सा भर्तारं निस्तरेच् छुभा तारितश् चापि भर्ता स्याद् आत्मा पुत्रैस् तथैव च तस्माज् जीवितम् एवैतद् युवयोर् विद्म शोभनम् यथा पाण्डोस् तु निर्देशस् तथा विप्रगणस्य च आज्ञा शिरसि निक्षिप्ता करिष्यामि च तत् तथा यद् आहुर् भगवन्तो हि तन् मन्ये शोभनं परम् भर्तुश् च मम पुत्राणां मम चैव न संशयः कुन्ती समर्था पुत्राणां योगक्षेमस्य धारणे अस्स्या हि न समा बुद्ध्या यद्य् अपि स्याद् अरुन्धती कुन्त्याश् च वृष्णयो नाथा कुन्तिभोजस् तथैव च नाहं त्वम् इव पुत्राणां समर्था धारणे तथा साहं भर्तारम् अन्विष्ये संतृप्ता न त्व् अहं तथा भर्तृलोकस्य तु ज्येष्ठा देवी माम् अनुमन्यताम् धर्मज्ञस्य कृतज्ञस्य सत्यसंधस्य धीमतः पादौ परिचरिष्यामि तथार्याद्यनुमन्यताम् एवम् उक्त्वा महाराज मद्रराजसुता शुभा ददौ कुन्त्यै यमौ माद्री शिरसाभिप्रणम्य च अभिवाद्य महर्षीन् सा परिष्वज्य च पाण्डवान् मूर्ध्न्य् उपाघ्राय बहुशः पार्थान् आत्मसुतौ तथा हस्ते युधिष्ठिरं गृह्य माद्री वाक्यम् अभाषत कुन्ती माता अहं धात्री युष्माकं तु पिता मृतः युधिष्ठिरः पिता ज्येष्ठश् चतुर्णां धर्मतः सदा वृद्धाद्युपासनासक्ताः सत्यधर्मपरायणाः तादृशा न विनश्यन्ति नैव यान्ति पराभवम् तस्मात् सर्वे कुरुध्वं वै गुरुवृत्तिम् अतन्द्रिताः ऋषीणां च पृथायाश् च नमस्कृत्य पुनः पुनः आयासकृपणा माद्री प्रत्युवाच पृथां ततः धन्या त्वम् असि वार्ष्णेयि नास्ति स्त्री सदृशी त्वया वीर्यं तेजश् च योगं च माहात्म्यं च यशस्विनाम् कुन्ति द्रक्ष्यसि पुत्राणां पञ्चानाम् अमितौजसाम् ऋषीणां संनिधौ यैषा मया वाग् अभ्युदीरिता दिदृक्षमाणया स्वर्गं न ममैषा वृथा भवेत् आर्या चाप्य् अभिवाद्या च मम पूज्या च सर्वतः ज्येष्ठा वरिष्ठा त्वं देवि भूषिता स्वगुणैः शुभैः अभ्यनुज्ञातुम् इच्छामि त्वया यादवनन्दिनि धर्मं स्वर्गं च कीर्तिं च त्वत्कृते ऽहम् अवाप्नुयाम् यथा तथा विधत्स्वेह मा च कार्षीर् विचारणाम् बाष्पसंदिग्धया वाचा कुन्त्य् उवाच यशस्विनी अनुज्ञातासि कल्याणि त्रिदिवे संगमो ऽस्तु ते भर्त्रा सह विशालाक्षि क्षिप्रम् अद्यैव भामिनि संगता स्वर्गलोके त्वं रमेथाः शाश्वतीः समाः ततः पुरोहितः स्नात्वा प्रेतकर्मणि पारगः हिरण्यशकलान् आज्यं तिलान् दधि च तण्डुलान् उदकुम्भं सपरशुं समनीय तपस्विभिः अश्वमेधाग्निम् आहृत्य यथान्यायं समन्ततः काश्यपः कारयाम् आस पाण्डोः प्रेतस्य तां क्रियाम् पुरोहितोक्तविधिना पाण्डोः पुत्रो युधिष्ठिरः तेनाग्निनादहत् पाण्डुं कृत्वा चापि क्रियास् तदा रुदन् शोकाभिसंतप्तः पपात भुवि पाण्डवः ऋषीन् पुत्रान् पृथां चैव विसृज्य च नृपात्मजान् वैशंपायन उवाच इत्य् उक्त्वा तं चिताग्निस्थं धर्मपत्नी नरर्षभम् मद्रराजात्मजा तूर्णम् अन्वारोहद् यशस्विनी आहताम्बरसंवीतो भ्रातृभिः सहितो ऽनघः उदकं कृतवांस् तत्र पुरोहितमते स्थितः अर्हतस् तस्य कृत्यानि शतशृङ्गनिवासिनः तापसा विधिवच् चक्रुश् चारणा ऋषिभिः सह तापसा विधिवत् कर्म कारयाम् आसुर् आत्मजैः वैशंपायन उवाच पाण्डोर् अवभृथं कृत्वा देवकल्पा महर्षयः ततो मन्त्रम् अकुर्वन्त ते समेत्य तपस्विनः हित्वा राज्यं च राष्ट्रं च स महात्मा महातपाः अस्मिन् स्थाने तपस् तप्तुं तापसाञ् शरणं गतः स जातमात्रान् पुत्रांश् च दारांश् च भवताम् इह प्रदायोपनिधिं राजा पाण्डुः स्वर्गम् इतो गतः तस्येमान् आत्मजान् देहं भार्यां च सुमहात्मनः स्वराष्ट्रं गृह्य गच्छामो धर्म एष हि नः स्मृतः तस्मात् कृत्यं परीक्षध्वम् इति होवाच धर्मवित् शुकः परमकल्याणो गिरा समभिभाषत ते परस्परम् आमन्त्र्य सर्वभूतहिते रताः धर्मं चैव पुरस्कृत्य श्रेष्ठां मतिम् अकुर्वत कुरुक्षेत्रम् इतः कुन्तीं तां सपुत्रां नयामहे पाण्डोः पुत्रान् पुरस्कृत्य नगरं नागसाह्वयम् उदारमनसः सिद्धा गमने चक्रिरे मनः भीष्माय पाण्डवान् दातुं धृतराष्ट्राय चैव हि तस्मिन्न् एव क्षणे सर्वे तान् आदाय प्रतस्थिरे पाण्डोर् दारांश् च पुत्रांश् च शरीरं चैव तापसाः आदाय प्रस्थिताः सर्वे शतशृङ्गान् नगोत्तमात् सुखिनी सा पुरा भूत्वा सततं पुत्रवत्सला प्रपन्ना दीर्घम् अध्वानं संक्षिप्तं तद् अमन्यत सा नदीर्घेण कालेन संप्राप्ता कुरुजाङ्गलम् वर्धमानपुरद्वारम् आससाद यशस्विनी द्वारिणं तापसा ऊचू राजानं च प्रकाशय ते तु गत्वा क्षणेनैव सभायां विनिवेदिताः तं चारणसहस्राणां मुनीनाम् आगमं तदा श्रुत्वा नागपुरे नॄणां विस्मयः समजायत मुहूर्तोदित आदित्ये सर्वे धर्मपुरस्कृताः सदारास् तापसान् द्रष्टुं निर्ययुः पुरवासिनः स्त्रीसंघाः क्षत्रसंघाश् च यानसंघान् समास्थिताः ब्राह्मणैः सह निर्जग्मुर् ब्राह्मणानां च योषितः तथा विट्शूद्रसंघानां महान् व्यतिकरो ऽभवत् न कश् चिद् अकरोद् ईर्ष्याम् अभवन् धर्मबुद्धयः तथा भीष्मः शांतनवः सोमदत्तो ऽथ बाह्लिकः प्रज्ञाचक्षुश् च राजर्षिः क्षत्ता च विदुरः स्वयम् सा च सत्यवती देवी कौसल्या च यशस्विनी राजदारैः परिवृता गान्धारी च विनिर्ययौ धृतराष्ट्रस्य दायादा दुर्योधनपुरोगमाः भूषिता भूषणैश् चित्रैः शतसंख्या विनिर्ययुः तान् महर्षिगणान् सर्वाञ् शिरोभिर् अभिवाद्य च स्वागतं वचनं चोक्त्वा पाण्डोर् भवनम् आविशन् उपोपविविशुः सर्वे कौरव्याः सपुरोहिताः तथैव शिरसा भूमाव् अभिवाद्य प्रणम्य च उपोपविविशुः सर्वे पौरजानपदा अपि तम् अकूजम् इवाज्ञाय जनौघं सर्वशस् तदा पूजयित्वा यथान्यायं पाद्येनार्घ्येण च प्रभो भीष्मो राज्यं च राष्ट्रं च महर्षिभ्यो न्यवेदयत् तेषाम् अथो वृद्धतमः प्रत्युत्थाय जटाजिनी महर्षिमतम् आज्ञाय महर्षिर् इदम् अब्रवीत् यः स कौरव्यदायादः पाण्डुर् नाम नराधिपः कामभोगान् परित्यज्य शतशृङ्गम् इतो गतः कामभोगान् परित्यज्य तपस्वी संबभूव ह स यथोक्तं तपस् तेपे तत्र मूलफलाशनः पत्नीभ्यां सह धर्मात्मा कं चित् कालम् अतन्द्रितः तेन वृत्तसमाचारैस् तपसा च तपस्विनः तोषितास् तापसास् तत्र शतशृङ्गनिवासिनः स्वर्गलोकं गन्तुकामं तापसा विनिवार्य तम् उद्यतं सह पत्नीभ्यां विप्रा वचनम् अब्रुवन् अनपत्यस्य राजेन्द्र पुण्यलोका न सन्ति ते तस्माद् धर्मं च वायुं च महेन्द्रं च तथाश्विनौ आराधयस्व राजेन्द्र पत्नीभ्यां सह देवताः तृप्ताः पुत्रान् प्रयच्छन्ति ऋणमुक्तो भविष्यसि तपसा दिव्यचक्षुष्ट्वात् पश्यामस् ते तथा सुतान् अस्माकं वचनं श्रुत्वा देवान् आराधयत् तदा कुन्ती संप्रेषयाम् आस देवरन्यायधर्मतः स्वानाम् अन्यतमैर् नार्यः पुण्यैर् आख्यायिकैर् अपि मुनेर् मन्त्रप्रभावेण शंकरांशाभियोगिनः आहूय धर्मं वायुं च महेन्द्रं च तथाश्विनौ असूत पुत्रान् कुन्ती च माद्री च द्वौ सुताव् अपि ब्रह्मचर्यव्रतस्थस्य तस्य दिव्येन हेतुना साक्षाद् धर्माद् अयं पुत्रस् तस्य जातो युधिष्ठिरः तथेमं बलिनां श्रेष्ठं तस्य राज्ञो महात्मनः मातरिश्वा ददौ पुत्रं भीमं नाम महाबलम् पुरुहूताद् अयं जज्ञे कुन्त्यां सत्यपराक्रमः यस्य कीरित्र् महेष्वासान् सर्वान् अभिभविष्यति अस्मिञ् जाते महेष्वासे देवाः सेन्द्रास् तथाब्रुवन् मत्प्रसादाद् अयं जातः कुन्त्यां सत्यपराक्रमः अजेयो युधि जेतारीन् देवतादीन् न संशयः स लङ्घयित्वा हरिणा भुवो भारान् नियोजितः नरो माम् आविशत् कुन्ति विष्णोर् अर्धं नरं विदुः सो ऽहं त्वाम् आविशं भद्रे जातो ऽहं फल्गुनाह्वयः तस्माद् अजय्यो भुवने चतुर्दशभिर् अप्य् असौ युधिष्ठिरो राजसूयं भ्रातृवीर्याद् अवाप्स्यति इन्द्रस्य वचनं श्रुत्वा पाण्डुः प्रीतिम् अवाप सः एष जेता मनुष्यांश् च सर्वान् गन्धर्वराक्षसान् एष दुर्योधनं कीर्त्या भारतांश् च विजेष्यति वीरस्यैकस्य विक्रान्तैर् धर्मपुत्रो युधिष्ठिरः यक्ष्यते राजसूयाद्यैर् धर्म एवापरः सदा विजित्य नृपतीन् सर्वान् कृत्वा च करदान् प्रभुः स्वयं भोक्ष्यति धर्मात्मा पृथिवीं सागराम्बराम् सुरासुरोरगांश् चैव वीर्याद् एकरथो जयेत् अजातशत्रुर् धर्मात्मा पृथ्वैश्वर्याभिपूजितः यौ तु माद्री महेष्वासाव् असूत कुरुसत्तमौ अश्विभ्यां मनुजव्याघ्राव् इमौ ताव् अपि तिष्ठतः नकुलः सहदेवश् च ताव् अप्य् अमिततेजसौ पाण्डवौ नरशार्दूलाव् इमाव् अप्य् अपराजितौ चरता धर्मनित्येन वनवासं यशस्विना एष पैतामहो वंशः पाण्डुना पुनर् उद्धृतः पुत्राणां जन्म वृद्धिं च वैदिकाध्ययनानि च पश्यतः सततं पाण्डोः शश्वत् प्रीतिर् अवर्धत वर्तमानः सतां वृत्ते पुत्रलाभम् अवाप्य च पितृलोकं गतः पाण्डुर् इतः सप्तदशे ऽहनि तं चितागतम् आज्ञाय वैश्वानरमुखे हुतम् प्रविष्टा पावकं माद्री हित्वा जीवितम् आत्मनः सा गता सह तेनैव पतिलोकम् अनुव्रता तस्यास् तस्य च यत् कार्यं क्रियतां तदनन्तरम् भीष्मं च धृतराष्ट्रं च विदुरं च महामतिम् पृथां च शरणं प्राप्तां पाण्डवांश् च यशस्विनः यथावद् अनुगृह्णन्तां धर्मो ह्य् एष सनातनः एतेषां भरणं भीष्म महान् धर्मस् तथैव च क्षत्तुश् च धृतराष्ट्रस्य गान्धार्याश् च विशेषतः इमे शरीरे च तयोः पृथां च शरणागताम् तस्य पुत्रांश् च धर्मज्ञान् सर्वान् सत्कर्तुम् अर्हथ इमे तयोः शरीरे द्वे सुताश् चेमे तयोर् वराः क्रियाभिर् अनुगृह्यन्तां सह मात्रा परंतपाः प्रेतकार्ये च निर्वृत्ते पितृमेधं महायशाः लभतां सर्वधर्मज्ञः पाण्डुः कुरुकुलोद्वहः एवम् उक्त्वा कुरून् सर्वान् कुरूणाम् एव पश्यताम् क्षणेनान्तर्हिताः सर्वे चारणा गुह्यकैः सह गन्धर्वनगराकारं तत्रैवान्तर्हितं पुनः ऋषिसिद्धगणं दृष्ट्वा विस्मयं ते परं ययुः कौरवाः सहसोत्पत्य साधु साध्व् इति विस्मिताः वैशंपायनः कुरवश् च तदा सर्वे पाण्डोः श्रुत्वा तथा विधिम् भीष्मप्रभृतयो मात्रा जगृहुस् तान् सुतान् सह धृतराष्ट्र उवाच पाण्डोर् विदुर सर्वाणि प्रेतकार्याणि कारय राजवद् राजसिंहस्य माद्र्याश् चैव विशेषतः पशून् वासांसि रत्नानि धनानि विविधानि च पाण्डोः प्रयच्छ माद्र्याश् च येभ्यो यावच् च वाञ्छितम् यथा च कुन्ती सत्कारं कुर्यान् माद्र्यास् तथा कुरु यथा न वायुर् नादित्यः पश्येतां तां सुसंवृताम् न शोच्यः पाण्डुर् अनघः प्रशस्यः स नराधिपः यस्य पञ्च सुता वीरा जाताः सुरसुतोपमाः स पाण्डुश् च न शोच्यः स्यात् प्रवरः पुण्यकर्मणाम् वैशंपायन उवाच विदुरस् तं तथेत्य् उक्त्वा भीष्मेण सह भारत पाण्डुं संस्कारयाम् आस देशे परमसंवृते ततस् तु नगरात् तूर्णम् आज्यहोमपुरस्कृताः निर्हृताः पावका दीप्ताः पाण्डो राजपुरोहितैः पलाशवृन्तकाष्ठैश् च कुशमुञ्जकबल्वजैः सूत्रोक्तेन विधानेन शरीरे चक्रुर् अञ्जसा अथ दर्भे तयोर् भूप कृत्वा प्रतिकृती तयोः शिबिकायाम् अथारोप्य शोभितायाम् अलंकृतैः अथैनम् आर्तवैर् गन्धैर् माल्यैश् च विविधैर् वरैः शिबिकां समलंचक्रुर् वाससाच्छाद्य सर्वशः मुक्ताप्रवालमाणिक्यहेमस्रग्भिर् अलंकृताम् तां तथा शोभितां माल्यैर् वासोभिश् च महाधनैः दर्पणाशोकपुन्नागमल्लिकाजातिचम्पकैः नालिकेरफलैः पुष्पैः पूगीफलसुनार्चितैः अमात्या ज्ञातयश् चैव सुहृदश् चोपतस्थिरे नृसिंहं नरयुक्तेन परमालंकृतेन तम् अवहन् यानमुख्येन सह माद्र्या सुसंवृतम् पाण्डुरेणातपत्रेण चामरव्यजनेन च सर्ववादित्रनादैश् च समलंचक्रिरे ततः रत्नानि चाप्य् उपादाय बहूनि शतशो नराः प्रददुः काङ्क्षमाणेभ्यः पाण्डोस् तत्रौर्ध्वदेहिकम् अथ छत्राणि शुभ्राणि पाण्डुराणि बृहन्ति च आजह्रुः कौरवस्यार्थे वासांसि रुचिराणि च याजकैः शुक्लवासोभिर् हूयमाना हुताशनाः अगच्छन्न् अग्रतस् तस्य दीप्यमानाः स्वलंकृताः ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् चैव सहस्रशः रुदन्तः शोकसंतप्ता अनुजग्मुर् नराधिपम् रुदन्तश् च तथा स्त्रियः विकीर्णमूर्धजाः सर्वे मूर्ध्नि विन्यस्तपाणयः उरस्ताडं रुदन्त्यश् च स्त्रियः सर्वा अनुव्रताः एकवस्त्रधराः सर्वे निराभरणभूषिताः नोष्णीषिणो महाराज निरानन्दा भृशातुराः पुरुषाश् च स्त्रियः सर्वा अयम् अस्मान् अपाहाय दुःखे चाधाय शाश्वते कृत्वानाथान् परो नाथः क्व यास्यति नराधिपः अनिधाय सुतान् राज्ये वने जातान् यशस्विनः अ . . पुत्रसंपत्तिं क्व यास्यसि महीपते क्रोशन्तः पाण्डवाः सर्वे भीष्मो विदुर एव च बाह्लीकः सोमदत्तश् च तथा भूरिश्रवा नृपः अन्योन्यं वै समाश्लिष्य अनुजग्मुः सहस्रशः रमणीये वनोद्देशे गङ्गातीरे समे शुभे न्यासयाम् आसुर् अथ तां शिबिकां सत्यवादिनः सभार्यस्य नृसिंहस्य पाण्डोर् अक्लिष्टकर्मणः आछिद्य वाससंवीतं देशशुद्धिं वितेनिरे ततस् तस्य शरीरं तत् सर्वगन्धनिषेवितम् शुचिकालीयकादिग्धं मुख्यस्नानाधिवासितम् पर्यषिञ्चज् जलेनाशु शातकुम्भमयैर् घटैः चन्दनेन च मुख्येन शुक्लेन समलेपयन् कालागुरुविमिश्रेण तथा तुङ्गरसेन च अथैनं देशजैः शुक्लैर् वासोभिः समयोजयन् आच्छन्नः स तु वासोभिर् जीवन्न् इव नरर्षभः शुशुभे पुरुषव्याघ्रो महार्हशयनोचितः हयमेधाग्निना सर्वे याजकाः सपुरोहिताः वेदोक्तेन विधानेन क्रियाश् चक्रुः समन्त्रकम् याजकैर् अभ्यनुज्ञातं प्रेतकर्मणि निष्ठितैः घृतावसिक्तं राजानं सह माद्र्या स्वलंकृतम् तुङ्गपद्मकमिश्रेण चन्दनेन सुगन्धिना सरलं देवदारुं च गुग्गुलुं लाक्षया सह रक्तचन्दनकाष्ठैश् च हरिबेरैर् उशीरजैः अन्यैश् च विविधैर् गन्धैर् अनल्पैः समदाहयन् घृताप्लुतैस् तथा वस्त्रैः प्रावारैश् च महाधनैः घृतपूर्णैस् तथा कुम्भै राजानं समदाहयन् ततस् तयोः शरीरे ते दृष्ट्वा मोहवशं गता हाहा पुत्रेति कौसल्या पपात सहसा भुवि तां प्रेक्ष्य पतिताम् आर्तां पौरजानपदो जनः रुरोद सस्वनं सर्वो राजभक्त्या कृपान्वितः क्लान्तानीवार्तनादेन सर्वाणि च विचुक्रुशुः मानुषैः सह भूतानि तिर्यग्योनिगतान्य् अपि सर्वाणि सहदुःखानि रुरुदुः सह तैर् जनैः तथा भीष्मः शांतनवो विदुरश् च महामतिः सर्वशः कौरवाश् चैव प्राणदन् भृशदुःखिताः चुक्रुशुः पाण्डवाः सर्वे धृतराष्ट्रश् च भारत ततो भीष्मो ऽथ विदुरो राजा च सह बन्धुभिः उदकं चक्रिरे तस्य सर्वाश् च कुरुयोषितः चुक्रुशुः पाण्डवाः सर्वे भीष्मः शांतनवस् तथा विदुरो ज्ञातयश् चैव चक्रुश् चाप्य् उदकक्रियाम् एककुण्डे पृथक् चैव पिण्डांश् चैव पृथक् पृथक् ददुर् धर्मोदकं सर्वे सर्वाश् च कुरुयोषितः कृतोदकांस् तान् आदाय पाण्डवाञ् शोककर्शितान् सर्वाः प्रकृतयो राजञ् शोचन्त्यः पर्यवारयन् यथैव पाण्डवा भूमौ सुषुपुः सह बान्धवैः तथैव नागरा राजञ् शिश्यिरे ब्राह्मणादयः तद् अनानन्दम् अस्वस्थम् आकुमारम् अहृष्टवत् बभूव पाण्डवैः सार्धं नगरं द्वादश क्षपाः वैशंपायन उवाच ततः क्षत्ता च राजा च भीष्मश् च सह बन्धुभिः ददुः श्राद्धं तदा पाण्डोः स्वधामृतमयं तदा पुरोहितसहायास् ते यथान्यायम् अकुर्वत एकपाके पृथक् चैव स्वशाखोक्तविधानतः कुरूंश् च विप्रमुख्यांश् च भोजयित्वा सहस्रशः रत्नौघान् द्विजमुख्येभ्यो दत्त्वा ग्रामवरान् अपि कृतशौचांस् ततस् तांस् तु पाण्डवान् भरतर्षभान् आदाय विविशुः पौराः पुरं वारणसाह्वयम् सततं स्मान्वतप्यन्त तम् एव भरतर्षभम् पौरजानपदाः सर्वे मृतं स्वम् इव बान्धवम् श्राद्धावसाने तु तदा दृष्ट्वा तं दुःखितं जनम् संमूढां दुःखशोकार्तां व्यासो मातरम् अब्रवीत् अतिक्रान्तसुखाः कालाः प्रत्युपस्थितदारुणाः श्वः श्वः पापीयदिवसाः पृथिवी गतयौवना बहुमायासमाकीर्णो नानादोषसमाकुलः लुप्तधर्मक्रियाचारो घोरः कालो भविष्यति कुरूणाम् अनयाच् चापि पृथिवी न भविष्यति ततः पुत्राश् च पौत्राश् च राजानः सर्व एव हि पाण्डवाः कौरवाश् चैव राज्यैश्वर्यमदान्विताः पृथ्वीनिमित्तम् अन्योन्यं घातयिष्यन्ति निर्घृणाः कुरुपाण्डवयोर् अर्थः पृथिवीक्षयकारणः अन्योन्यं घोरम् आसाद्य करिष्यन्ति महीम् इमाम् रुधिरौघनिमग्नां च बालवृद्धावशेषिताम् घोरम् एनम् अदृष्ट्वैव कालं सर्वक्षयावहम् दृष्ट्वानन्दसुखं प्रीत्या दृष्ट्या मातः शृणुष्व ह गच्छ त्वं त्यागम् आस्थाय युक्ता वस तपोवने मा द्रक्ष्यसि कुलस्यास्य घोरं संक्षयम् आत्मनः तथेति समनुज्ञाय सा प्रविश्याब्रवीत् स्नुषाम् अम्बिके तव पुत्रस्य दुर्नयात् किल भारताः सानुबन्धा विनङ्क्ष्यन्ति पौत्राश् चैवेति नः श्रुतम् तत् कौसल्याम् इमाम् आर्तां पुत्रशोकाभिपीडिताम् वनम् आदाय भद्रं ते गच्छावो यदि मन्यसे तथेत्य् उक्ते अम्बिकया भीष्मम् आमन्त्र्य सुव्रता वनं ययौ सत्यवती स्नुषाभ्यां सह भारत ताः सुघोरं तपः कृत्वा देव्यो भरतसत्तम देहं त्यक्त्वा महाराज गतिम् इष्टां ययुस् तदा अवाप्नुवन्त वेदोक्तान् संस्कारान् पाण्डवास् तदा अवर्धन्त च भोगांस् ते भुञ्जानाः पितृवेश्मनि धार्तराष्ट्रैश् च सहिताः क्रीडन्तः पितृवेश्मनि बालक्रीडासु सर्वासु विशिष्टाः पाण्डवाभवन् जवे लक्ष्याभिहरणे भोज्ये पांसुविकर्षणे धार्तराष्ट्रान् भीमसेनः सर्वान् स परिमर्दति हर्षाद् एतान् क्रीडमानान् गृह्य काकनिलीयने शिरःसु च निगृह्यैनान् योधयाम् आस पाण्डवः शतम् एकोत्तरं तेषां कुमाराणां महौजसाम् एक एव विमृद्नाति नातिकृच्छ्राद् वृकोदरः पादेषु च निगृह्यैनान् विनिहत्य बलाद् बली चकर्ष क्रोशतो भूमौ घृष्टजानुशिरोक्षिकान् दश बालाञ् जले क्रीडन् भुजाभ्यां परिगृह्य सः आस्ते स्म सलिले मग्नः प्रमृतांश् च विमुञ्चति फलानि वृक्षम् आरुह्य प्रचिन्वन्ति च ते यदा तदा पादप्रहारेण भीमः कम्पयते द्रुमम् प्रगृह्य वृक्षमूलं च पाणिभ्यां कम्पयन् द्रुमम् अग्रशाखाग्रसंलीनान् पातयाम् आस भूतले भग्नपादोरुपृष्ठाश् च भिन्नमस्तकपार्श्वकाः प्रहारवेगाभिहताद् द्रुमाद् व्याघूर्णितास् ततः सफलाः प्रपतन्ति स्म द्रुतं स्रस्ताः कुमारकाः के चिद् भग्नशिरोरस्काः के चिद् भग्नकटीतटाः निपेतुर् भ्रातरः सर्वे भीमसेनभुजार्दिताः न ते नियुद्धे न जवे न योग्यासु कदा चन कुमारा उत्तरं चक्रुः स्पर्धमाना वृकोदरम् एवं स धार्तराष्ट्राणां स्पर्धमानो वृकोदरः अप्रिये ऽतिष्ठद् अत्यन्तं बाल्यान् न द्रोहचेतसा ततो बलम् अतिख्यातं धार्तराष्ट्रः प्रतापवान् भीमसेनस्य तज् ज्ञात्वा दुष्टभावम् अदर्शयत् तस्य धर्माद् अपेतस्य पापानि परिपश्यतः मोहाद् ऐश्वर्यलोभाच् च पापा मतिर् अजायत अयं बलवतां श्रेष्ठः कुन्तीपुत्रो वृकोदरः मध्यमः पाण्डुपुत्राणां निकृत्या संनिहन्यताम् प्राणवान् विक्रमी चैव शौर्येण महतान्वितः स्पर्धते चापि सहितान् अस्मान् एको वृकोदरः तं तु सुप्तं पुरोद्याने गङ्गायां प्रक्षिपामहे अथ तस्माद् अवरजं ज्येष्ठं चैव युधिष्ठिरम् प्रसह्य बन्धने बद्ध्वा प्रशासिष्ये वसुंधराम् एवं स निश्चयं पापः कृत्वा दुर्योधनस् तदा नित्यम् एवान्तरप्रेक्षी भीमस्यासीन् महात्मनः ततो जलविहारार्थं कारयाम् आस भारत चेलकम्बलवेश्मानि विचित्राणि महान्ति च सर्वकामैः सुपूर्णानि पताकोच्छ्रयवन्ति च तत्र संजनयाम् आस नानागाराण्य् अनेकशः उदकक्रीडनं नाम कारयाम् आस भारत प्रमाणकोट्याम् उद्देशं स्थलं किं चिद् उपेत्य च भक्ष्यं भोज्यं च पेयं च चोष्यं लेह्यम् अथापि च उपाहृतं नरैस् तत्र कुशलैः सूदकर्मणि न्यवेदयंस् तत् पुरुषा धार्तराष्ट्राय वै तदा ततो दुर्योधनस् तत्र पाण्डवान् आह दुर्मतिः गङ्गां चैवानुयास्याम उद्यानवनशोभिताम् सहिता भ्रातरः सर्वे जलक्रीडाम् अवाप्नुमः एवम् अस्त्व् इति तं चापि प्रत्युवाच युधिष्ठिरः ते रथैर् नगराकारैर् देशजैश् च गजोत्तमैः निर्ययुर् नगराच् छूराः कौरवाः पाण्डवैः सह उद्यानवनम् आसाद्य विसृज्य च महाजनम् विशन्ति स्म तदा वीराः सिंहा इव गिरेर् गुहाम् उद्यानम् अभिपश्यन्तो भ्रातरः सर्व एव ते उपस्थानगृहैः शुभ्रैर् वलभीभिश् च शोभितम् गवाक्षकैस् तथा जालैर् जलैः सांचारिकैर् अपि संमार्जितं सौधकारैश् चित्रकारैश् च चित्रितम् दीर्घिकाभिश् च पूर्णाभिस् तथा पुष्करिणीभिर् हि (!) जलं तच् छुशुभे छन्नं फुल्लैर् जलरुहैस् तथा उपच्छन्ना वसुमती तथा पुष्पैर् यथर्तुकैः तत्रोपविष्टास् ते सर्वे पाण्डवाः कौरवाश् च ह उपच्छन्नान् बहून् कामांस् ते भुञ्जन्ति ततस् ततः अथोद्यानवरे तस्मिंस् तथा क्रीडागताश् च ते परस्परस्य वक्त्रेभ्यो ददुर् भक्ष्यांस् ततस् ततः ततो दुर्योधनः पापस् तद्भक्ष्ये कालकूटकम् विषं प्रक्षेपयाम् आस भीमसेनजिघांसया स्वयम् उत्थाय चैवाथ हृदयेन क्षुरोपमः स वाचामृतकल्पश् च भ्रातृवच् च सुहृद् यथा स्वयं प्रक्षिपते भक्ष्यं वक्त्रे भीमस्य पापकृत् प्रतीच्छितं च भीमेन तं वै दोषम् अजानता ततो दुर्योधनस् तत्र हृदयेन हसन्न् इव कृतकृत्यम् इवात्मानं मन्यते पुरुषाधमः ततस् ते सहिताः सर्वे जलक्रीडाम् अकुर्वत पाण्डवा धार्तराष्ट्राश् च तदा मुदितमानसाः क्रीडावसाने सर्वे ते शुचिवस्त्राः स्वलंकृताः सर्वकामसमृद्धं तद् अन्नं बुभुजिरे शनैः दिवसान्ते परिश्रान्ता विहृत्य च कुरूद्वहाः विहारावसथेष्व् एव वीरा वासम् अरोचयन् खिन्नस् तु बलवान् भीमो व्यायामाभ्यधिकस् तदा वाहयित्वा कुमारांस् ताञ् जलक्रीडागतान् विभुः प्रमाणकोट्यां वासार्थी सुष्वापारुह्य तत् स्थलम् शीतं वासं समासाद्य श्रान्तो मदविमोहितः निश्चेष्टः पाण्डवो राजन् सुष्वाप मृतकल्पवत् ततो बद्ध्वा लतापाशैर् भीमं दुर्योधनः शनैः प्रमाणकोट्यां संसुप्तं गङ्गायां बलिनां वरम् गम्भीरं भीमवेगं च स्थलाज् जलम् अपातयत् स निःसंज्ञो जलस्यान्तम् अथ वै पाण्डवो ऽविशत् आक्रामन् नागभवने तदा नागकुमारकान् ततः समेत्य बहुभिस् तदा नागैर् महाविषैः अदृश्यत भृशं भीमो महादंष्ट्रैर् विषोल्बणैः ततो ऽस्य दश्यमानस्य तद् विषं कालकूटकम् हतं सर्पविषेणैव स्थावरं जङ्गमेन तु ततः प्रबुद्धः कौन्तेयः सर्वं संछिद्य बन्धनम् उदतिष्ठज् जलाद् भूयो भीमः प्रहरतां वरः स विमुक्तो महातेजा नाज्ञासीत् तेन तत् कृतम् पुनर् निद्रावशं प्राप्तस् तत्रैव प्रास्वपद् बली अथ रात्र्यां व्यतीतायाम् उत्तस्थुः कुरुपाण्डवाः दुर्योधनस् तु कौन्तेयं दृष्ट्वा निर्वेदम् अभ्यगात् समासाद्य ततः कांश् चिन् ममर्द च शिरांसि च शिरोभिः शिरसा वीरः कृतवान् युद्धम् अद्भुतम् तथान्यदिवसे सुप्तं सर्पैर् घोराननैः पुनः कुपितैश् च महाकायैस् तीक्ष्णदंष्ट्रैर् महाविषैः सुप्तं चापि पुनः सर्पैस् तीक्ष्णदंष्ट्रैर् महाविषैः कुपितैर् दंशयाम् आस सर्वेष्व् एवाङ्गमर्मसु दंष्ट्राश् च दंष्ट्रिणां तेषां मर्मस्व् अपि निपातिताः त्वचं नैवास्य बिभिदुः सारत्वात् पृथुवक्षसः प्रतिबुद्धस् तु भीमस् तान् सर्वान् सर्पान् अपोथयत् वैशंपायन उवाच विदुर उवाच वैशंपायन उवाच हतावशेषा भीमेन सर्पा वासुकिम् अभ्ययुः ऊचुश् च सर्पराजानं वासुकिं वासवोपमम् अयं नरो वै नागेन्द्र अप्सु बद्ध्वा प्रवेशितः यथा च नो मतिर् वीर विषपीतो भविष्यति निश्चेष्टो ऽस्मान् अनुप्राप्तः स च दष्टो ऽन्वबुध्यत ससंज्ञश् चापि संवृत्तश् छित्त्वा बन्धनम् आशु नः पोथयन्तं महाबाहुं तं वै त्वं ज्ञातुम् अर्हसि ततो वासुकिर् अभ्येत्य नागैर् अनुगतस् तदा पश्यति स्म महाबाहुं भीमं भीमपराक्रमम् आर्यकेण च दृष्टः स पृथाया आर्यकेण च तदा दौहित्रदौहित्रः परिष्वक्तः सुपीडितम् सुप्रीतश् चाभवत् तस्य वासुकिः सुमहायशाः अब्रवीत् तं च नागेन्द्रः किम् अस्य क्रियतां प्रियम् धनौघो रत्ननिचयो वसु चास्य प्रदीयताम् एवम् उक्तस् तदा नागो वासुकिं प्रत्यभाषत यदि नागेन्द्र तुष्टो ऽसि किम् अस्य धनसंचयैः रसं पिबेत् कुमारो ऽयं त्वयि प्रीते महाबलः बलं नागसहस्रस्य तस्मिन् कुण्डे प्रतिष्ठितम् यावत् पिबति बालो ऽयं तावद् अस्मै प्रदीयताम् एवम् अस्त्व् इति तं नागं वासुकिः प्रत्यभाषत ततो भीमस् तदा नागैः कृतस्वस्त्ययनः शुचिः प्राङ्मुखश् चोपविष्टः सन् रसं पिबति पाण्डवः एकोच्छ्वासात् ततः कुण्डं पिबति स्म महाबलः एवम् अष्टौ स कुण्डानि ह्य् अपिबत् पाण्डुनन्दनः ततस् तु शयने दिव्ये नागदत्ते महाभुजः अशेत भीमसेनस् तु यथासुखम् अरिंदमः ततस् ते कौरवाः सर्वे विना भीमं च पाण्डवाः वृत्तक्रीडाविहारास् तु प्रतस्थुर् गजसाह्वयम् रथैर् गजैस् तथा चाश्वैर् यानैश् चान्यैर् अनेकशः ब्रुवन्तो भीमसेनस् तु यातो ह्य् अग्रत एव नः ततो दुर्योधनः पापस् तत्रापश्यन् वृकोदरम् भ्रातृभिः सहितो हृष्टो नगरं प्रविवेश ह युधिष्ठिरस् तु धर्मात्मा अविन्दन् पापम् आत्मनि स्वेनानुमानेन परं साधुं समनुपश्यति सो ऽभ्युपेत्य तदा पार्थो मातरं भ्रातृवत्सलः अभिवाद्याब्रवीत् कुन्तीम् अम्ब भीम इहागतः क्व गतो भविता मातर् नेह पश्यामि तं शुभे उद्यानानि वनं चैव विचितानि समन्ततः तदर्थं न च तं वीरं दृष्टवन्तो वृकोदरम् मन्यमानास् ततः सर्वे यातो नः पूर्वम् एव सः आगताः स्म महाभागे व्याकुलेनान्तरात्मना इहागम्य क्व नु गतस् त्वया वा प्रेषितः क्व नु कथयस्व महाबाहुं भीमसेनं यशस्विनि न हि मे शुध्यते भावस् तं वीरं प्रति शोभने यतः प्रसुप्तं मन्ये ऽहं भीमं नेति हतस् तु सः इत्य् उक्ता च ततः कुन्ती धर्मराजेन धीमता हा हेति कृत्वा संभ्रान्ता प्रत्युवाच युधिष्ठिरम् न पुत्र भीमं पश्यामि न माम् अभ्येति स प्रभो शीघ्रम् अन्वेषणे यत्नं कुरु तस्यानुजैः सह इत्य् उक्त्वा तनयं ज्येष्ठं हृदयेन विदूयता क्षत्तारम् आनाय्य तदा कुन्ती वचनम् अब्रवीत् क्व गतो भगवन् क्षत्तर् भीमसेनो न दृश्यते उद्यानान् निर्गताः सर्वे भ्रातरो भ्रातृभिः सह तत्रैकस् तु महाबाहुर् भीमो नाभ्येति माम् इह न च प्रीणयते चक्षुः सदा दुर्योधनस्य सः क्रूरो ऽसौ दुर्मतिः क्षुद्रो राज्यलुब्धो ऽनपत्रपः निहन्याद् अपि तं वीरं जातमन्युः सुयोधनः तेन मे व्याकुलं चित्तं हृदयं दह्यतीव च मैवं वदस्व कल्याणि शेषसंरक्षणं कुरु प्रत्यादिष्टो हि दुष्टात्मा शेषे ऽपि प्रहरेत् तव दीर्घायुषस् तव सुता यथोवाच महामुनिः आगमिष्यति ते पुत्रः प्रीतिं चोत्पादयिष्यति एवम् उक्त्वा ययौ विद्वान् विदुरः स्वं निवेशनम् कुन्ती चिन्तापरा भूत्वा सहासीना सुतैर् गृहे ततो ऽष्टमे तु दिवसे प्रत्यबुध्यत पाण्डवः तस्मिंस् तदा रसे जीर्णे सो ऽप्रमेयबलो बली तं दृष्ट्वा प्रतिबुद्धं तु पाण्डवं ते भुजंगमाः सान्त्वयाम् आसुर् अव्यग्रा वचनं चेदम् अब्रुवन् यस् ते पीतो महाबाहो रसो ऽयं वीर्यसंभृतः तस्मान् नागायुतबलो रणे ऽधृष्यो भविष्यसि गच्छाद्य च त्वं स्वगृहं स्नातो दिव्यैर् इमैर् जलैः भ्रातरस् ते नु तप्यन्ति त्वां विना कुरुपुंगव ततः स्नातो महाबाहुः शुचिः शुक्लाम्बरस्रजः ततो नागस्य भवने कृतकौतुकमङ्गलः ओषधीभिर् विषघ्नीभिः सुरभीभिर् विशेषतः भुक्तवान् परमान्नं च नागैर् दत्तं महाबलः पूजितो भुजगैर् वीर आशीर्भिश् चाभिनन्दितः दिव्याभरणसंछन्नो नागान् आमन्त्र्य पाण्डवः उदतिष्ठत् प्रहृष्टात्मा नागलोकाद् अरिंदमः उत्क्षिप्तः स तु नागेन जलाज् जलरुहेक्षणः तस्मिन्न् एव वनोद्देशे स्थापितः कुरुनन्दनः ते चान्तर्दधिरे नागाः पाण्डवस्यैव पश्यतः तत उत्थाय कौन्तेयो भीमसेनो महाबलः आजगाम महाबाहुर् मातुर् अन्तिकम् अञ्जसा ततो ऽभिवाद्य जननीं ज्येष्ठं भ्रातरम् एव च कनीयसः समाघ्राय शिरःस्व् अरिविमर्दनः तैश् चापि संपरिष्वक्तः सह मात्रा नरर्षभैः अन्योन्यगतसौहार्दाद् दिष्ट्या दिष्ट्येति चाब्रुवन् ततस् तत् सर्वम् आचष्ट दुर्योधनविचेष्टितम् भ्रातॄणां भीमसेनश् च महाबलपराक्रमः नागलोके च यद् वृत्तं गुणदोषम् अशेषतः तच् च सर्वम् अशेषेण कथयाम् आस पाण्डवः ततो युधिष्ठिरो राजा भीमम् आह वचो ऽर्थवत् तूष्णीं भव न ते जल्प्यम् इदं कार्यं कथं चन एवम् उक्त्वा महाबाहुर् धर्मराजो युधिष्ठिरः भ्रातृभिः सहितः सर्वैर् अप्रमत्तो ऽभवत् तदा सारथिं चास्य दयितम् अपहस्तेन जघ्निवान् धर्मात्मा विदुरस् तेषां पार्थानां प्रददौ मतिम् ताडितस् तेन सूतो ऽपि ययौ स यमसादनम् तथान्यदिवसे राजन् हन्तुकामो ऽत्यमर्षणः वललेन सहामन्त्र्य सौबलस्य मते स्थितः भोजने भीमसेनस्य पुनः प्राक्षेपयद् विषम् कालकूटं नवं तीक्ष्णं संभृतं लोमहर्षणम् वैश्यापुत्रस् तदाचष्ट पार्थानां हितकाम्यया तच् चापि भुक्त्वाजरयद् अविकारो वृकोदरः विकारं न ह्य् अजनयत् सुतीक्ष्णम् अपि तद् विषम् भीमसंहननो भीमस् तद् अप्य् अजरयत् ततः ततो ऽन्यदिवसे राजन् हन्तुकामो वृकोदरम् सौबलेन सहायेन धार्तराष्ट्रो ऽभ्यचिन्तयत् चिन्तयन् नालभन् निद्रां दिवारात्रिम् अतन्द्रितः एवं दुर्योधनः कर्णः शकुनिश् चापि सौबलः अनेकैर् अभ्युपायैस् ताञ् जिघांसन्ति स्म पाण्डवान् न जज्ञिरे तु तद् वृत्तं पाण्डवा मन्दचेतसः पाण्डवाश् चापि तत् सर्वं प्रत्यजानन्न् अरिंदमाः उद्भावनम् अकुर्वन्तो विदुरस्य मते स्थिताः कुमारान् क्रीडमानांस् तान् दृष्ट्वा राजातिदुर्मदान् गुरुशिक्षार्थम् अन्विच्छन् गौतमं तान् न्यवेदयत् शरस्तम्बसमुद्भूतं वेदशास्त्रार्थपारगम् राज्ञा निवेदितास् तस्मै ते च सर्वे ह्य् अधिष्ठिताः अधिजग्मुश् च कुरवो धनुर्वेदं कृपात् तु ते वैशंपायनः विदुरः वैशंपायनः ततस् ते मन्त्रयाम् आसुर् दुर्योधनपुरोगमाः प्राणहा विक्रमी चापि शौर्ये च महति स्थितः स्पर्धते चापि सततम् अस्मान् एको वृकोदरः तं तु सुप्तं पुरोद्याने जलशूले क्षिपामहे ततो जलविहारार्थं कारयाम् आस भारत चेलकम्बलवेश्मानि चित्राणि च शुभानि च तत्र संस्कारयाम् आसुर् नानागाराण्य् अनेकशः उदकक्रीडनार्थानि कारयाम् आस भारत प्रमाणकोट्याम् उद्देशे स्थले कृत्वा परिच्छदम् भक्ष्यं भोज्यं च पेयं च चोष्यं लेह्यं तथैव च उपार्जितं नरैस् तत्र तथा सूदकृतं च तत् न्यवेदयन्त पुरुषा धार्तराष्ट्रस्य तत् तथा ततो दुर्योधनस् त्व् आह पाण्डवांस् तु सुदुर्मतिः गङ्गां वै मानयामो ऽद्य उद्यानवनशोभिताम् सहिता भ्रातरः सर्वे जलक्रीडाम् अवाप्नुमः एवम् अस्त्व् इति तं चापि प्रत्युवाच युधिष्ठिरः ते रथैर् नगराकारैर् देशजैश् च हयोत्तमैः निर्ययुर् नगराद् वीराः कुरवः पाण्डवैः सह उद्यानवनम् आसाद्य संप्रसृज्य च वाहनम् प्राविशंस् तु महावीर्याः सिंहा इव गिरेर् गुहाम् उद्यानं स्माथ पश्यन्ति भ्रातरः सर्व एव ते उपस्थानगृहैः शुद्धैर् वलभीभिश् च शोभितम् गवाक्षकैस् तथा जालैर् जलसंसारकैर् अपि सूपस्थितं सुधाकारैश् चित्रकारैश् च शिल्पिभिः दीर्घिकाभिश् च पुण्याभिस् तथा कारण्डकैर् अपि जलं तु शुशुभे छन्नं फुल्लैर् जलरुहैस् तथा उपकीर्णा वसुमती तथा पुष्पैर् यथर्तुकैः उपविष्टास् तदा सर्वे पाण्डवाः कुरवस् तथा उपपन्नान् बहून् कामांस् ते ऽथ भुक्त्वा ततस् ततः अथोद्यानवने तस्मिंस् तथा क्रीडागताश् च ते परस्परस्य वक्त्रेषु ददुर् भक्ष्यांस् ततस् ततः ततो दुर्योधनः पापस् तद्भक्ष्ये कालकूटकम् विषं प्रक्षेपयाम् आस भीमसेनजिघांसया स्वयम् उत्थाय चैवाथ हृदयेन क्षुरोपमः सत्कृत्य भ्रातृवत् तत्र वाचा चामृतकल्पया प्राक्षिपद् वै स्वयं भक्ष्यं वक्त्रे भीमस्य पापकृत् प्रभक्षितं च भीमेन ह्य् अस्य दोषम् अजानता ततो दुर्योधनस् तत्र हृदयेन हसन्न् इव कृतकृत्यम् इवात्मानं मेने स पुरुषाधमः ततस् ते सहिताः सर्वे जलक्रीडाम् अकुर्वत दिवसान्ते परिश्रान्ता विहृत्य कुरुनन्दनाः विहारायतनेष्व् एव वीरा वासम् अरोचयन् भीमस् तु बलवान् भुक्त्वा व्यायामाभ्यधिकं जले वाहयित्वा कुमारांस् ताञ् जले क्रीडां महाबलः प्रमाणकोट्यां वासार्थी सुष्वापारुह्य तत् स्थलम् स हि तत् स्थलम् आसाद्य श्रान्तश् चाप्सु विशेषतः श्रमेण च परीताङ्गः सुष्वाप मृतकल्पवत् ततो बद्ध्वा लतापाशैर् भीमं दुर्योधनः स्वयम् शूलान्य् अप्सु निखान्याशु स्थलाज् जलम् अपातयत् सशेषत्वान् न संप्राप्तो जले शूलानि पाण्डवः पपात यत्र तत्रास्य शूलं नासीद् यदृच्छया स निःसंज्ञो जलस्यान्तम् अवाग् वै पाण्डवो ऽविशत् आक्रम्य नागभवने तथा नागकुमारकान् ततः समेत्य बहुभिस् तदा नागैर् महाविषैः दश्यते पाण्डवस् तत्र विषदिग्धो महाविषैः ततो ऽस्य दश्यमानस्य तद् विषं कालकूटकम् हतं सर्पविषेणाशु स्थावरं जङ्गमेन तु ततः प्रबुद्धः कौन्तेयः स तत् संछिद्य बन्धनम् पोथयाम् आस तान् सर्वान् कांश् चित् प्राणैर् व्ययोजयत् ते हन्यमानाः पार्थेन सर्पा वासुकिम् अभ्ययुः ऊचुश् च सर्पराजानं वासुकिं वासवोपमम् अयं नरो वै नागेन्द्र ह्य् अप्सु बद्ध्वा प्रवेशितः यथा च नो मतिर् वीर विषपीतो भविष्यति विनिविष्टो ऽन्तरं प्राप्तः स च दष्टो ह्य् अनेकशः ससंज्ञश् चापि संवृत्तश् छित्त्वा बन्धनम् आशु नः पोथयानो महाबाहुस् तं वै त्वं ज्ञातुम् अर्हसि ततो वासुकिर् अभ्येत्य नागैर् अनुगतस् तदा पश्यति स्म महानागो भीमं भीमपराक्रमम् आर्यकेण च दृष्टः सन् पृथायाश् चार्यकेण तु ततो दृष्टश् च तेनापि परिष्वक्तश् च पाण्डवः सुप्रीतश् चाभवत् तस्य वासुकिः सुमहायशाः अब्रवीत् तं च नागेन्द्रः किम् अस्य क्रियताम् इति प्रियं धनौघं रत्नानि यावद् अस्य प्रदीयताम् एवम् उक्तस् तदा नागो वासुकिं प्रत्यभाषत यदि नागेन्द्र प्रीतो ऽसि किम् अस्य धनसंचयैः रसं पिबेत् कुमारो ऽयं त्वयि प्रीते महाबलः बलं नागसहस्रस्य कुण्डे चास्मिन् प्रतिष्ठितम् यावत् पिबति बालो ऽयं तावद् अस्मै प्रदीयताम् एवम् अस्त्व् इति तं नागं वासुकिः प्रत्यभाषत ततो भीमस् तदा नागैः कृतस्वस्त्ययनः शुचिः प्राङ्मुखश् चोपविष्टः सन् रसं पिबति पाण्डवः एकोच्छ्वासात् तदा कुण्डं पिबति स्म महाबलः एवम् अष्टौ तु कुण्डानि सो ऽपिबत् पाण्डुनन्दनः ततस् तु शयने दिव्ये नागदत्ते महाभुजः शेते स्म च तदा भीमो दिवसान्य् अष्ट चैव तु दुर्योधनो ऽपि पापात्मा भीमम् आशीविषह्रदे प्रक्षिप्य कृतकृत्यं स्म आत्मानं मन्यते तदा प्रभातायां रजन्यां तु वनात् प्रविविशुः पुरम् वदन्तो भीमसेनस् तु यातो ह्य् अग्रत एव सः युधिष्ठिरस् तु धर्मात्मा चिन्तयन् पापम् आत्मनि स्वेनानुमानेन परं तदा तं स्मानुपश्यति उपगम्य ततः पार्था मातरं मातृवत्सलाः अभिवाद्याब्रुवंस् ते वै अम्ब भीम इहागतः नेति स्माह तदा कुन्ती ततस् ते व्यथिताभवन् द्रुतं गत्वा पुरोद्यानं विचिन्वन्ति स्म पाण्डवाः भीम भीमेति ते वाचं नित्यम् उच्चैर् उदीरयन् विचिन्वन्तो ऽथ ते सर्वे न स्म पश्यन्ति भ्रातरम् आगताः स्वगृहं भूय इदम् ऊचुः पृथां तदा न दृश्यते महाबाहुर् अम्ब भीमो वने चितः विचितानि च सर्वाणि उद्यानानि नदीस् तथा ततो विदुरम् आनाय्य कुन्ती सा स्वनिवेशनम् उवाच क्षत्तर् बलवान् भीमसेनो न दृश्यते उद्यानान् निर्गताः सर्वे भ्रातरो भ्रातृभिः सह तत्र ह्य् एको महाबाहुर् भीमो नाभ्येति माम् इह न च प्रीणयते चक्षुः सदा दुर्योधनस्य तु ततः प्रसुप्तं मन्ये ऽहं पापेन निहतं सुतम् मा मैवं वद कल्याणि शेषसंरक्षणं कुरु प्रत्यादिष्टो हि पापात्मा शेषेषु प्रहरेत ह दीर्घायुषः सुतास् तुभ्यं तथा ह्य् ऋषिर् अभाषत आगमिष्यति ते पुत्रः प्रीतिं ते वर्धयिष्यति एवम् उक्ता तदा कुन्ती निःश्वसन्ती मुहुर् मुहुः शय्यापरा महाभागा पुत्रैः परिवृता तदा ततो ऽष्टमे ऽथ दिवसे प्रत्यबुध्यत पाण्डवः तस्मिंस् तदा रसे जीर्णे ह्य् अप्रमेयबलो बली ओषधीभिर् विषघ्नीभिः सुरभीभिर् विभूषितः भुक्त्वा तु परमान्नं च नागैर् दत्तं महाभुजः उत्क्षिप्य च तदा नागैर् जलाज् जलरुहेक्षणः तस्मिन्न् एव वनोद्देशे स्थापितः पाण्डुनन्दनः अन्तर्दधुश् च ते नागाः पाण्डवस्यैव पश्यतः तत उत्थाय भीमस् तु आजगाम स्वकं गृहम् अभिवाद्य परिष्वक्तः समाघ्रातश् च मूर्धनि प्रणम्य धर्मपुत्राय सस्वजे फल्गुनं ततः अभिवादितश् च तैर् वीरैः सस्वजे च यमाव् अपि तच् च सर्वं यथावृत्तम् आख्याति स्म वृकोदरः यदा त्व् अवगमंस् ते वै पाण्डवास् तस्य कर्म तत् न त्व् एव बहुलं चक्रुः प्रयता मन्त्ररक्षणे धर्मात्मा विदुरस् तेषां प्रददौ मतिमान् मतिम् दुर्योधनो ऽपि तं दृष्ट्वा पाण्डवं पुनर् आगतम् निःश्वसंश् चिन्तयंश् चैव अहन्य् अहनि तप्यते एवं दुर्योधनः पापः शकुनिश् चापि सौबलः अनेकैर् अभ्युपायैस् ताञ् जिघांसन्ति स्म पाण्डवान् पाण्डवाश् चापि तत् सर्वं प्रत्यजानन्न् अरिंदमाः उद्भावनम् अकुर्वन्तो विदुरस्य मते स्थिताः अधिजग्मुश् च कुरवो धनुर्वेदं कृपात् तु ते जनमेजय उवाच कृपस्यापि महाब्रह्मन् संभवं वक्तुम् अर्हसि शरस्तम्भात् कथं जज्ञे कथं चास्त्राण्य् अवाप्तवान् वैशंपायन उवाच महर्षेर् गौतमस्यासीच् छरद्वान् नाम नामतः पुत्रः किल महाराज जातः सह शरैर् विभो न तस्य वेदाध्ययने तथा बुद्धिर् अजायत यथास्य बुद्धिर् अभवद् धनुर्वेदे परंतप अधिजग्मुर् यथा वेदांस् तपसा ब्रह्मवादिनः तथा स तपसोपेतः सर्वाण्य् अस्त्राण्य् अवाप ह धनुर्वेदपरत्वाच् च तपसा विपुलेन च भृशं संतापयाम् आस देवराजं स गौतमः ततो जालपदीं नाम देवकन्यां सुरेश्वरः प्राहिणोत् तपसो विघ्नं कुरु तस्येति कौरव साभिगम्याश्रमपदं रमणीयं शरद्वतः धनुर्बाणधरं बाला लोभयाम् आस गौतमम् ताम् एकवसनां दृष्ट्वा गौतमो ऽप्सरसं वने लोके ऽप्रतिमसंस्थानाम् उत्फुल्लनयनो ऽभवत् धनुश् च हि शराश् चास्य कराभ्यां प्रापतन् भुवि वेपथुश् चास्य तां दृष्ट्वा शरीरे समजायत स तु ज्ञानगरीयस्त्वात् तपसश् च समन्वयात् अवतस्थे महाप्राज्ञो धैर्येण परमेण ह यस् त्व् अस्य सहसा राजन् विकारः समपद्यत तेन सुस्राव रेतो ऽस्य स च तन् नावबुध्यत स विहायाश्रमं तं च तां चैवाप्सरसं मुनिः जगाम रेतस् तत् तस्य शरस्तम्बे पपात ह शरस्तम्बे च पतितं द्विधा तद् अभवन् नृप तस्याथ मिथुनं जज्ञे गौतमस्य शरद्वतः महर्षेर् गौतमस्यास्य आश्रमस्य समीपतः मृगयां चरतो राज्ञः शंतनोस् तु यदृच्छया कश् चित् सेनाचरो ऽरण्ये मिथुनं तद् अपश्यत धनुश् च सशरं दृष्ट्वा तथा कृष्णाजिनानि च व्यवस्य ब्राह्मणापत्यं धनुर्वेदान्तगस्य तत् स राज्ञे दर्शयाम् आस मिथुनं सशरं तदा स तद् आदाय मिथुनं राजाथ कृपयान्वितः आजगाम गृहान् एव मम पुत्राव् इति ब्रुवन् ततः संवर्धयाम् आस संस्कारैश् चाप्य् अयोजयत् प्रातिपेयो नरश्रेष्ठो मिथुनं गौतमस्य तम् गौतमो ऽपि तदापेत्य धनुर्वेदपरो ऽभवत् कृपया यन् मया बालाव् इमौ संवर्धिताव् इति तस्मात् तयोर् नाम चक्रे तद् एव स महीपतिः तस्मात् कृप इति ख्यातः कृपी कन्या च साभवत् निहितौ गौतमस् तत्र तपसा ताव् अविन्दत आगम्य चास्मै गोत्रादि सर्वम् आख्यातवांस् तदा चतुर्विधं धनुर्वेदम् अस्त्राणि विविधानि च निखिलेनास्य तत् सर्वं गुह्यम् आख्यातवांस् तदा कृपश् च सप्तरात्रेण धनुर्वेदपरो ऽभवत् सो ऽचिरेणैव कालेन परमाचार्यतां गतः कृपम् आहूय गाङ्गेयस् तव शिष्या इति ब्रुवन् पौत्रान् परिसमादाय कृपयाराधयत् तदा ततो ऽधिजग्मुः सर्वे ते धनुर्वेदं महारथाः धृतराष्ट्रात्मजाश् चैव पाण्डवाश् च महाबलाः वृष्णयश् च नृपाश् चान्ये नानादेशसमागताः कृपम् आचार्यम् आसाद्य परमास्त्रज्ञतां गताः वैशंपायन उवाच विशेषार्थी ततो भीष्मः पौत्राणां विनयेप्सया इष्वस्त्रज्ञान् पर्यपृच्छद् आचार्यान् वीर्यसंमतान् नाल्पधीर् नामहाभागस् तथानानास्त्रकोविदः नादेवसत्त्वो विनयेत् कुरून् अस्त्रे महाबलान् इति संचिन्त्य गाङ्गेयस् तदा भरतसत्तमः द्रोणाय वेदविदुषे भारद्वाजाय धीमते पाण्डवान् कौरवांश् चैव ददौ शिष्यान् नरर्षभ शास्त्रतः पूजितश् चैव सम्यक् तेन महात्मना स भीष्मेण महाभागस् तुष्टो ऽस्त्रविदुषां वरः प्रतिजग्राह तान् सर्वाञ् शिष्यत्वेन महायशाः शिक्षयाम् आस च द्रोणो धनुर्वेदम् अशेषतः ते ऽचिरेणैव कालेन सर्वशस्त्रविशारदाः बभूवुः कौरवा राजन् पाण्डवाश् चामितौजसः जनमेजय उवाच वैशंपायन उवाच कथं समभवद् द्रोणः कथं चास्त्राण्य् अवाप्तवान् कथं चागात् कुरून् ब्रह्मन् कस्य पुत्रः स वीर्यवान् कथं चास्य सुतो जातः सो ऽश्वत्थामास्त्रवित्तमः एतद् इच्छाम्य् अहं श्रोतुं विस्तरेण प्रकीर्तय गङ्गाद्वारं प्रति महान् बभूव भगवान् ऋषिः भरद्वाज इति ख्यातः सततं संशितव्रतः सो ऽभिषेक्तुं ततो गङ्गां पूर्वम् एवागमन् नदीम् महर्षिस् तु भरद्वाजो हविर्धाने चरन् पुरा ददर्शाप्सरसं साक्षाद् घृताचीम् आप्लुताम् ऋषिः रूपयौवनसंपन्नां मददृप्तां मदालसाम् तस्या वायुः समुद्धूतो वसनं व्यपकर्षत तद् गुह्यदर्शनाद् अस्या रागो ऽजायत चेतसि ततो ऽस्य रेतश् चस्कन्द तद् ऋषिर् द्रोण आदधे व्यपकृष्टाम्बरां दृष्ट्वा ताम् ऋषिश् चकमे ततः तत्र संसक्तमनसो भरद्वाजस्य धीमतः रम्यगुह्यस्थलां नृप पीनोत्तुङ्गकुचां दृष्ट्वा तस्मिन् समभवद् द्रोणः कलशे तस्य धीमतः अध्यगीष्ट स वेदांश् च वेदाङ्गानि च सर्वशः अग्नेर् अस्त्रम् उपादाय यद् ऋषिर् वेद काश्यपः अध्यगच्छद् भरद्वाजस् तद् अस्त्रं देवकारितम् अग्निवेश्यं महाभागं भरद्वाजः प्रतापवान् प्रत्यपादयद् आग्नेयम् अस्त्रं धर्मभृतां वरः अग्निष्टुज् जातः स मुनिस् ततो भरतसत्तम . . . . . . . . भ्राता भ्रातरम् अन्तिके अग्निवेश्यस् तदा द्रोणं . . . . . . . . भारद्वाजं तदाग्नेयं महास्त्रं प्रत्यपादयत् स वै युक्तो गुरुर् इह यदीच्छेत् कृपणः सुखम् भीष्मो ऽप्य् अलपद् एवं स भारद्वाजपरीप्सया भरद्वाजसखा चासीत् पृषतो नाम पार्थिवः तस्यापि द्रुपदो नाम तदा समभवत् सुतः स नित्यम् आश्रमं गत्वा द्रोणेन सह पार्षतः चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः ततो व्यतीते पृषते स राजा द्रुपदो ऽभवत् पाञ्चालेषु महाबाहुर् उत्तरेषु नरेश्वरः भरद्वाजो ऽपि भगवान् आरुरोह दिवं तदा तत्रैव च वसन् द्रोणस् तपस् तेपे महातपाः वेदवेदाङ्गविद्वान् स तपसा दग्धकिल्बिषः ततः पितृनियुक्तात्मा पुत्रलोभान् महायशाः शारद्वतीं ततो द्रोणः कृपीं भार्याम् अविन्दत अग्निहोत्रे च धर्मे च दमे च सततं रता अलभद् गौतमी पुत्रम् अश्वत्थामानम् एव च स जातमात्रो व्यनदद् यथैवोच्चैःश्रवा हयः तच् छ्रुत्वान्तर्हितं भूतम् अन्तरिक्षस्थम् अब्रवीत् अश्वस्येवास्य यत् स्थाम नदतः प्रदिशो गतम् अश्वत्थामैव बालो ऽयं तस्मान् नाम्ना भविष्यति सुतेन तेन सुप्रीतो भारद्वाजस् ततो ऽभवत् तत्रैव च वसन् धीमान् धनुर्वेदपरो ऽभवत् स शुश्राव महात्मानं जामदग्न्यं परंतपम् सर्वज्ञानविदं विप्रं सर्वशस्त्रभृतां वरम् ब्राह्मणेभ्यस् तदा राजन् दित्सन्तं वसु सर्वशः स रामस्य धनुर्वेदं दिव्यान्य् अस्त्राणि चैव ह श्रुत्वा तेषु मनश् चक्रे नीतिशास्त्रे तथैव च ततः स व्रतिभिः शिष्यैस् तपोयुक्तैर् महातपाः वृतः प्रायान् महाबाहुर् महेन्द्रं पर्वतोत्तमम् ततो महेन्द्रम् आसाद्य भारद्वाजो महातपाः क्षान्तं दान्तम् अमित्रघ्नम् अपश्यद् भृगुनन्दनम् ततो द्रोणो वृतः शिष्यैर् उपगम्य भृगूद्वहम् आचख्याव् आत्मनो नाम जन्म चाङ्गिरसः कुले निवेद्य शिरसा भूमौ पादौ चैवाभ्यवादयत् ततस् तं सर्वम् उत्सृज्य वनं जिगमिषुं तदा शस्त्रास्त्रेषु च निष्णातं श्रुत्वा तत्र समागतम् तम् अब्रवीन् महात्मा स सर्वक्षत्रियमर्दनः स्वागतं ते द्विजश्रेष्ठ यद् इच्छसि वदस्व मे एवम् उक्तस् तु रामेण भारद्वाजो ऽब्रवीद् वचः वनं तु प्रस्थितं रामं भारद्वाजस् तदाब्रवीत् भरद्वाजात् समुत्पन्नं तथा त्वं माम् अयोनिजम् आगतं वित्तकामं मां विद्धि द्रोणं द्विजर्षभम् रामं प्रहरतां श्रेष्ठं दित्सन्तं विविधं वसु अहं धनम् अनन्तं हि प्रार्थये विपुलव्रत राम उवाच हिरण्यं मम यच् चान्यद् वसु किं चन विद्यते ब्राह्मणेभ्यो मया दत्तं सर्वम् एव तपोधन तथैवेयं धरा देवी सागरान्ता सपत्तना कश्यपाय मया दत्ता कृत्स्ना नगरमालिनी शरीरमात्रम् एवाद्य मयेदम् अवशेषितम् अस्त्राणि च महार्हाणि शस्त्राणि विविधानि च अस्त्राणि वा शरीरं वा वरयैतन् मयोद्यतम् वृणीष्व किं प्रयच्छामि तुभ्यं द्रोण वदाशु तत् द्रोण उवाच अस्त्राणि मे समग्राणि ससंहाराणि भार्गव सप्रयोगरहस्यानि दातुम् अर्हस्य् अशेषतः एतद् वसु वसूनां हि सर्वेषां विप्रसत्तम राम उवाच प्रयच्छ भगवन् मह्यं वरम् एतन् मया वृतम् कृतार्थं च भविष्यामि वरं लब्ध्वा द्विजोत्तम प्रतिगृह्णीष्व विप्रेन्द्र द्रोण मत्तो यदीच्छसि वरं तव ददाम्य् अद्य यद् उक्तं ते द्विजोत्तम गृहाणास्त्राणि दिव्यानि धनुर्वेदं च मामकम् सपुत्रस्य ददाम्य् एतत् तव द्रोण महद् वरम् कृतार्थो गच्छ विप्रेन्द्र गच्छ चैव यथागतम् कृतास्त्रश् चैव शूरश् च सर्वशास्त्रविशारदः अश्वत्थामेति विख्यातो भविष्यति महारथः वैशंपायन उवाच तथेत्य् उक्त्वा ततस् तस्मै प्रादाद् अस्त्राणि भार्गवः सरहस्यव्रतं चैव धनुर्वेदम् अशेषतः प्रतिगृह्य तु तत् सर्वं कृतास्त्रो द्विजसत्तमः प्रियं सखायं सुप्रीतो जगाम द्रुपदं प्रति वैशंपायन उवाच ततो द्रुपदम् आसाद्य भारद्वाजः प्रतापवान् अब्रवीत् पार्षतं राजन् सखायं विद्धि माम् इति इत्य् एवम् उक्तः सख्या स प्रीतिपूर्वं जनेश्वरः भारद्वाजेन पाञ्चाल्यो नामृष्यत वचो ऽस्य तत् स क्रोधामर्षजिह्मभ्रूः कषायीकृतलोचनः ऐश्वर्यमदसंपन्नो द्रोणं राजाब्रवीद् इदम् द्रुपद उवाच अकृतेयं तव प्रज्ञा ब्रह्मन् नातिसमञ्जसी यन् मां ब्रवीषि प्रसभं सखा ते ऽहम् इति द्विज न हि राज्ञाम् उदीर्णानाम् एवं भूतैर् नरैः क्व चित् सख्यं भवति मन्दात्मञ् श्रिया हीनैर् धनच्युतैः सौहृदान्य् अपि जीर्यन्ते कालेन परिजीर्यताम् सौहृदं मे त्वया ह्य् आसीत् पूर्वं सामर्थ्यबन्धनम् न सख्यम् अजरं लोके जातु दृश्येत कर्हि चित् कामो वैनं विहरति क्रोधश् चैनं प्रवृश्चति कालेन संविहरति कालेनैव प्रणश्यति मैवं जीर्णम् उपासिष्ठाः सख्यं नवम् उपाकुरु आसीत् सख्यं द्विजश्रेष्ठ त्वया मे ऽर्थनिबन्धनम् न दरिद्रो वसुमतो नाविद्वान् विदुषः सखा शूरस्य न सखा क्लीबः सखिपूर्वं किम् इष्यते ययोर् एव समं वित्तं ययोर् एव समं कुलम् तयोः सख्यं विवाहश् च न तु पुष्टविपुष्टयोः नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा नाराज्ञा संगतं राज्ञः सखिपूर्वं किम् इष्यते त्वद्विधैर् मद्विधानां हि विहीनार्थैर् न जातु चित् सख्यं भवति मन्दात्मन् सखिपूर्वं किम् इष्यते एवम् एव कृतप्रज्ञ न राज्ञा विप्र ते क्व चित् नैव तीर्णम् उपातिष्ठ सख्यं नवम् उपाकृधि सखा राज्ञः कथं विप्र त्वद्विधश् च भविष्यति वैशंपायन उवाच द्रुपदेनैवम् उक्तस् तु भारद्वाजः प्रतापवान् मुहूर्तं चिन्तयाम् आस मन्युनाभिपरिप्लुतः स विनिश्चित्य मनसा पाञ्चालं प्रति बुद्धिमान् तां प्रतिज्ञां प्रतिज्ञाय यां कर्ता न चिराद् अपि शिष्यैः परिवृतः श्रीमान् पुत्रेणानुगतस् तदा जगाम कुरुमुख्यानां नगरं नागसाह्वयम् द्रोणः समुदितान् दृष्ट्वा कुरून् वृत्तिपरीप्सया आजगाम महातेजा विप्रो नागपुरं प्रति स तथोक्तस् तदा तेन सदारः प्राद्रवत् कुरून् स्यालस्यैव गृहं द्रोणः सदारः प्रत्युपस्थितः अश्वत्थाम्ना च पुत्रेण महाबलवता सह स नागपुरम् आगम्य गौतमस्य निवेशने भारद्वाजो ऽवसत् तत्र प्रच्छन्नं द्विजसत्तमः ततो ऽस्य तनुजः पार्थान् कृपस्यानन्तरं प्रभुः अस्त्राणि शिक्षयाम् आस नाबुध्यन्त च तं जनाः एवं स तत्र गूढात्मा कं चित् कालम् उवास ह कुमारास् त्व् अथ निष्क्रम्य समेता गजसाह्वयात् क्रीडन्तो वीटया तत्र वीराः पर्यचरन् मुदा तेषां संक्रीडमानानाम् उदपाने ऽङ्गुलीयकम् पपात कूपे सा वीटा तेषां वै क्रीडतां तदा ततस् ते यत्नम् आतिष्ठन् वीटाम् उद्धर्तुम् आदृताः तत् त्व् अम्बुना प्रतिच्छन्नं तारारूपम् इवाम्बरे दृष्ट्वा ते वै कुमाराश् च तं यत्नात् पर्यवारयन् न च ते प्रत्यपद्यन्त कर्म वीटोपलब्धये ततो ऽन्योन्यम् अवैक्षन्त व्रीडयावनताननाः तस्या योगम् अविन्दन्तो भृशं चोत्कण्ठिताभवन् ते ऽपश्यन् ब्राह्मणं श्यामम् आपन्नं पलितं कृशम् कृत्यवन्तम् अदूरस्थम् अग्निहोत्रपुरस्कृतम् ते तं दृष्ट्वा महात्मानम् उपगम्य कुमारकाः भग्नोत्साहक्रियात्मानो ब्राह्मणं पर्यवारयन् अथ द्रोणः कुमारांस् तान् दृष्ट्वा कृत्यवतस् तदा प्रहस्य मन्दं पैशल्याद् अभ्यभाषत वीर्यवान् स तान् कृत्यवतो दृष्ट्वा कुमारांस् तु विचेतसः ब्राह्मणः प्रहसन् मन्दं कौशलेनाभ्यभाषत अहो नु धिग् बलं क्षात्रं धिग् एतां वः कृतास्त्रताम् भरतस्यान्वये जाता ये वीटां नाधिगच्छत वीटां च मुद्रिकां चैव ह्य् अहम् एतद् अपि द्वयम् उद्धरेयम् इषीकाभिर् भोजनं मे प्रदीयताम् एवम् उक्त्वा कुमारांस् तान् द्रोणः स्वाङ्गुलिवेष्टनम् कूपे निरुदके तस्मिन्न् अपातयद् अरिंदमः ततो ऽब्रवीत् तदा द्रोणं कुन्तीपुत्रो युधिष्ठिरः कृपस्यानुमते ब्रह्मन् भिक्षाम् आप्नुहि शाश्वतीम् एवम् उक्तः प्रत्युवाच प्रहस्य भरतान् इदम् एष मुष्टिर् इषीकाणां मयास्त्रेणाभिमन्त्रितः अस्य वीर्यं निरीक्षध्वं यद् अन्यस्य न विद्यते वेत्स्यामीषीकया वीटां ताम् इषीकाम् अथान्यया ताम् अपीषीकया चैव अन्याम् अप्य् अन्यया पुनः ताम् अन्यया समायोगो वीटाया ग्रहणे मम ततो यथोक्तं द्रोणेन तत् सर्वं कृतम् अञ्जसा तद् अपश्यन् कुमारास् ते विस्मयोत्फुल्ललोचनाः अवेष्क्य चोद्धृतां वीटां वीटावेद्धारम् अब्रुवन् मुद्रिकाम् अपि विप्रर्षे शीघ्रम् एतां समुद्धर ततः स शरम् आदाय धनुर् द्रोणो महायशाः शरेण विद्ध्वा मुद्रां ताम् ऊर्ध्वम् आवाहयत् प्रभुः स शरं समुपादाय कूपाद् अङ्गुलिवेष्टनम् ददौ ततः कुमाराणां विस्मितानाम् अविस्मितः मुद्रिकाम् उद्धृतां दृष्ट्वा तम् आहुस् ते कुमारकाः अभिवादयामहे ब्रह्मन् नैतद् अन्येषु विद्यते को ऽसि कं त्वाभिजानीमो वयं किं करवामहे एवम् उक्तस् ततो द्रोणः प्रत्युवाच कुमारकान् द्रोण उवाच आचक्षध्वं च भीष्माय रूपेण च गुणैश् च माम् स एव सुमहाबुद्धिः सांप्रतं प्रतिपत्स्यते वैशंपायन उवाच तथेत्य् उक्त्वा तु ते सर्वे भीष्मम् ऊचुः पितामहम् ब्राह्मणस्य वचस् तथ्यं तच् च कर्मविशेषवत् भीष्मः श्रुत्वा कुमाराणां द्रोणं तं प्रत्यजानत युक्तरूपः स हि गुरुर् इत्य् एवम् अनुचिन्त्य च अथैनम् आनीय तदा स्वयम् एव सुसत्कृतम् अर्हणीयेन कामैश् च यथान्यायम् अपूजयत् परिपप्रच्छ निपुणं भीष्मः शस्त्रभृतां वरः हेतुम् आगमने तस्य द्रोणः सर्वं न्यवेदयत् महर्षेर् अग्निवेश्यस्य सकाशम् अहम् अच्युत अस्त्रार्थम् अगमं पूर्वं धनुर्वेदजिघृक्षया ब्रह्मचारी विनीतात्मा जटिलो बहुलाः समाः अवसं तत्र सुचिरं धनुर्वेदचिकीर्षया पाञ्चालराजपुत्रस् तु यज्ञसेनो महाबलः मया सहाकरोद् विद्यां गुरोः श्राम्यन् समाहितः स मे तत्र सखा चासीद् उपकारी प्रियश् च मे तेनाहं सह संगम्य रतवान् सुचिरं बत बाल्यात् प्रभृति कौरव्य सहाध्ययनम् एव च स समासाद्य मां तत्र प्रियकारी प्रियंवदः अब्रवीद् इति मां भीष्म वचनं प्रीतिवर्धनम् अहं प्रियतमः पुत्रः पितुर् द्रोण महात्मनः अभिषेक्ष्यति मां राज्ये स पाञ्चाल्यो यदा तदा भविष्यति च ते भोज्यं सख्युः सखि धनं यथा त्वद्भोज्यं भविता राज्यं सखे सत्येन ते शपे मम भोगाश् च वित्तं च त्वदधीनं सुखानि च मम राज्यं महाभाग त्वया भोक्तव्यम् इच्छता एवम् उक्तः प्रवव्राज कृतास्त्रो ऽहं धनेप्सया तच् च वाक्यम् अहं नित्यं मनसाधारयं तदा सो ऽहं पितृनियोगेन पुत्रलोभाद् यशस्विनीम् नातिकेशीं महाप्रज्ञाम् उपयेमे महाव्रताम् अग्निहोत्रे च सत्ये च दमे च सततं रताम् अलभद् गौतमी पुत्रम् अश्वत्थामानम् औरसम् भीमविक्रमकर्माणम् आदित्यसमतेजसम् पुत्रेण तेन प्रीतो ऽहं भरद्वाजो यथा मया गोक्षीरं पिबतो दृष्ट्वा धनिनस् तत्र पुत्रकान् अश्वत्थामारुदद् बालस् तन् मे संदेहयद् दिशः न स्नातको ऽवसीदेत वर्तमानः स्वकर्मसु इति संचिन्त्य मनसा तं देशं बहुशो भ्रमन् विशुद्धम् इच्छन् गाङ्गेय धर्मोपेतं प्रतिग्रहम् अन्ताद् अन्तं परिक्रम्य नाध्यगच्छं पयस्विनीम् अथ पिष्टोदकेनैनं लोभयन्ति कुमारकाः पीत्वा पिष्टरसं बालः क्षीरं पीतं मयापि च ननर्तोत्थाय कौरव्य हृष्टो बाल्याद् विमोहितः तं दृष्ट्वा नृत्यमानं तु बालैः परिवृतं सुतम् हास्यताम् उपसंप्राप्तं कश्मलं तत्र मे ऽभवत् द्रोणं धिग् अस्त्व् अधनिनं यो धनं नाधिगच्छति पिष्टोदकं सुतो यस्य पीत्वा क्षीरस्य तृष्णया नृत्यति स्म मुदाविष्टः क्षीरं पीतं मयाप्य् उत इति संभाषतां वाचं श्रुत्वा मे बुद्धिर् अच्यवत् आत्मानं चात्मना गर्हन् मनसेदं व्यचिन्तयम् अपि चाहं पुरा विप्रैर् वर्जितो गर्हितो भृशम् परोपसेवां पापिष्ठां न च कुर्यां धनेप्सया इति मत्वा प्रियं पुत्रं भीष्मादाय ततो ह्य् अहम् पूर्वस्नेहानुरागित्वात् सदारः सौमकिं गतः अभिषिक्तं च श्रुत्वैनं कृतार्थो ऽस्मीति चिन्तयन् प्रियं सखायं सुप्रीतो राज्यस्थं पुनर् आव्रजम् संस्मरन् संगमं चैव वचनं चैव तस्य तत् ततो द्रुपदम् आगम्य सखिपूर्वम् अहं प्रभो अब्रुवं पुरुषव्याघ्र सखायं विद्धि माम् इति उपस्थितं तु द्रुपदः सखिवच् चाभिसंगतम् स मां निराकारम् इव प्रहसन्न् इदम् अब्रवीत् अकृतेयं तव प्रज्ञा ब्रह्मन् नातिसमञ्जसी यद् आत्थ मां त्वं प्रसभं सखा ते ऽहम् इति द्विज ) संगतानीह जीर्यन्ति कालेन परिजीर्यतः ) सौहृदं मे त्वया ह्य् आसीत् पूर्वं सामर्थ्यबन्धनम् नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा साम्याद् धि सख्यं भवति वैषम्यान् नोपपद्यते ) न सख्यम् अजरं लोके विद्यते जातु कस्य चित् ) कालो वैनं विहरति क्रोधो वैनं हरत्य् उत मैवं जीर्णम् उपास्स्व त्वं सख्यं भवद् उपाकृधि आसीत् सख्यं द्विजश्रेष्ठ त्वया मे ऽर्थनिबन्धनम् न ह्य् अनाढ्यः सखाढ्यस्य नाविद्वान् विदुषः सखा न शूरस्य सखा क्लीबः सखिपूर्वं किम् इष्यते नाराजा पार्थिवस्यापि सखिपूर्वं किम् इष्यते न हि राज्ञाम् उदीर्णानाम् एवंभूतैर् नरैः क्व चित् सख्यं भवति मन्दात्मञ् श्रिया हीनैर् धनच्युतैः अहं त्वया न जानामि राज्यार्थे संविदं कृताम् एकरात्रं तु ते ब्रह्मन् कामं दास्यामि भोजनम् एवम् उक्तस् त्व् अहं तेन सदारः प्रस्थितस् तदा तां प्रतिज्ञां प्रतिज्ञाय यां कर्तास्म्य् अचिराद् इव आदत्स्वैनं द्विजश्रेष्ठ सौहार्दं ह्य् अर्थबन्धनम् नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा नाराजा पार्थिवस्यापि सखिपूर्वं किम् इष्यते द्रुपदेनैवम् उक्तो ऽहं मन्युनाभिपरिप्लुतः अभ्यागच्छं कुरून् भीष्म शिष्यैर् अर्थी गुणान्वितैः वैशंपायन उवाच भीष्म उवाच ततो ऽहं भवतः कामं संवर्धयितुम् आगतः इदं नागपुरं रम्यं ब्रूहि किं करवाणि ते एवम् उक्तस् तदा भीष्मो भारद्वाजम् अभाषत अपज्यं क्रियतां चापं साध्व् अस्त्रं प्रतिपादय भुङ्क्ष्व भोगान् भृशं प्रीतः पूज्यमानः कुरुक्षये कुरूणाम् अस्ति यद् वित्तं राज्यं चेदं सराष्ट्रकम् त्वम् एव परमो राजा सर्वे च कुरवस् तव यच् च ते प्रार्थितं ब्रह्मन् कृतं तद् इति चिन्त्यताम् दिष्ट्या प्राप्तो ऽसि विप्रर्षे महान् मे ऽनुग्रहः कृतः द्रोणस् तथोक्तो भीष्मेण पूजितो वसतिं नयन् कुरूणां सफलं कर्म द्रोणप्राप्तौ तदाभवत् अस्त्रं चतुर्विधं कृत्स्नं कुमारान् प्रत्यपादयत् तत्र क्षत्रस्य लोके ऽस्मिन् राजपुत्रा महाबलाः वैशंपायन उवाच ततः संपूजितो द्रोणो भीष्मेण द्विपदां वरः विशश्राम महातेजाः पूजितः कुरुवेश्मनि विश्रान्ते ऽथ गुरौ तस्मिन् पौत्रान् आदाय कौरवान् शिष्यत्वेन ददौ भीष्मो वसूनि विविधानि च गृहं च सुपरिच्छन्नं धनधान्यसमाकुलम् भारद्वाजाय सुप्रीतः प्रत्यपादयत प्रभुः प्रतिजग्राह तं भीष्मो गुरुं पाण्डुसुतैः सह पौत्रान् आदाय तान् सर्वान् वसूनि विविधानि च शिष्या इति ददौ राजन् द्रोणाय विधिपूर्वकम् स च शिष्यान् महेष्वासः प्रतिजग्राह कौरवान् पाण्डवान् धार्तराष्ट्रांश् च द्रोणो मुदितमानसः प्रतिगृह्य च तान् सर्वान् द्रोणो वचनम् अब्रवीत् रहस्य् एकः प्रतीतात्मा कृतोपसदनांस् तदा कार्यं मे काङ्क्षितं किं चिद् धृदि संपरिवर्तते कृतास्त्रैस् तत् प्रदेयं मे तद् ऋतं वदतानघाः तच् छ्रुत्वा कौरवेयास् ते तूष्णीम् आसन् विशां पते अर्जुनस् तु ततः सर्वं प्रतिजज्ञे परंतपः ततो ऽर्जुनं मूर्ध्नि तदा समाघ्राय पुनः पुनः प्रीतिपूर्वं परिष्वज्य प्ररुरोद मुदा तदा अश्वत्थामानम् आहूय द्रोणो वचनम् अब्रवीत् सखायं विद्धि ते पार्थं मया दत्तं प्रगृह्यताम् साधु साध्व् इति तं पार्थः परिष्वज्येदम् अब्रवीत् अद्य प्रभृति विप्रेन्द्र परवान् अस्मि धर्मतः शिष्यो ऽहं त्वत्प्रसादेन जीवामि द्विजसत्तम इत्य् उक्त्वा तु तदा पार्थः पादौ जग्राह पाण्डवः ततो द्रोणः पाण्डुपुत्रान् अस्त्राणि विविधानि च ग्राहयाम् आस दिव्यानि मानुषाणि च वीर्यवान् राजपुत्रास् तथैवान्ये समेत्य भरतर्षभ अभिजग्मुस् ततो द्रोणम् अस्त्रार्थे द्विजसत्तमम् वृष्णयश् चान्धकाश् चैव नानादेश्याश् च पार्थिवाः सूतपुत्रश् च राधेयो गुरुं द्रोणम् इयात् तदा स्पर्धमानस् तु पार्थेन सूतपुत्रो ऽत्यमर्षणः दुर्योधनम् उपाश्रित्य पाण्डवान् अत्यमन्यत अभ्ययात् स ततो द्रोणं धनुर्वेदचिकीर्षया शिक्षाभुजबलोद्योगैस् तेषु सर्वेषु पाण्डवः अस्त्रविद्यानुरागाच् च विशिष्टो ऽभवद् अर्जुनः तुल्येष्व् अस्त्रप्रयोगेषु लाघवे सौष्ठवेषु च सर्वेषाम् एव शिष्याणां बभूवाभ्यधिको ऽर्जुनः ऐन्द्रिम् अप्रतिमं द्रोण उपदेशेष्व् अमन्यत एवं सर्वकुमाराणाम् इष्वस्त्रं प्रत्यपादयत् कमण्डलुं च सर्वेषां प्रायच्छच् चिरकारणात् पुत्राय च ददौ कुम्भम् अविलम्बनकारणात् यावत् ते नोपगच्छन्ति तावद् अस्मै परां क्रियाम् द्रोण आचष्ट पुत्राय तत् कर्म जिष्णुर् औहत ततः स वारुणास्त्रेण पूरयित्वा कमण्डलुम् समम् आचार्यपुत्रेण गुरुम् अभ्येति फाल्गुनः आचार्यपुत्रात् तस्मात् तु विशेषोपचये पृथक् न व्यहीयत मेधावी पार्थो ऽस्त्रविदुषां वरः वैशंपायन उवाच अर्जुनस् तु परं यत्नम् आतस्थे गुरुपूजने अस्त्रे च परमं योगं प्रियो द्रोणस्य चाभवत् तं दृष्ट्वा नित्यम् उद्युक्तम् इष्वस्त्रं प्रति फाल्गुनम् ततो द्रोणो ऽब्रवीद् एनं राज्ञ एव निवेशने द्रोणेन तु तदाहूय रहस्य् उक्तो ऽन्नसाधकः अन्धकारे ऽर्जुनायान्नं न देयं ते कथं चन न चाख्येयम् इदं चापि मद्वाक्यं विजये त्वया ततः कदा चिद् भुञ्जाने प्रववौ वायुर् अर्जुने तेन तत्र प्रदीपः स दीप्यमानो निवापितः भुङ्क्त एवार्जुनो भक्तं न चास्यास्याद् व्यमुह्यत हस्तस् तेजस्विनो नित्यम् अन्नग्रहणकारणात् तद् अभ्यासकृतं मत्वा रात्राव् अभ्यस्त पाण्डवः योग्यां चक्रे महाबाहुर् धनुषा पाण्डुनन्दनः तस्य ज्यातलनिर्घोषं द्रोणः शुश्राव भारत उपेत्य चैनम् उत्थाय परिष्वज्येदम् अब्रवीत् प्रयतिष्ये तथा कर्तुं यथा नान्यो धनुर्धरः अस्त्रवान् नान्वियेषास्त्रं यथा त्वं नाद्य कश् चन धनुर्ग्रहे ऽपि मे शिष्यो भविष्यसि विशेषवान् एतद् हृदि तदा जिष्णोर् ववृधे द्रोणशासनम् परमं चाकरोद् यत्नं धनुर्वेदे परंतपः अर्जुनो नरशार्दूलः सर्वशस्त्रभृतां वरः सर्वक्रियाभ्यनुज्ञानात् तथा शिष्यान् समानयत् दुर्योधनं चित्रसेनं दुःशासनविविंशती अर्जुनं च समानीय अश्वत्थामानम् एव च शिशुकं मृण्मयं कृत्वा द्रोणो गङ्गाजले ततः शिष्याणां पश्यतां चैव क्षिपति स्म महाभुजः चक्षुषी वाससा चैव बद्ध्वा प्रादाच् छरासनम् शिशुकं विध्यतेमं वै जलस्थं बद्धचक्षुषः तत्क्षणेनैव बीभत्सुर् आवापैर् दशभिर् वशी पञ्चकैर् अनुविव्याध मग्नं शिशुकम् अम्भसि तस्य दृष्ट्वा क्रियाः सर्वा द्रोणो ऽमन्यत पाण्डवम् विशिष्टं सर्वशिष्येभ्यः प्रीतिमांश् चाभवत् तदा अथाब्रवीन् महात्मानं भारद्वाजो महारथम् अस्त्रं विशिष्टम् अन्येषु यन् न विद्येत पाण्डव ससंहारप्रयोगं च त्वम् अधीष्व व्रतं चर अस्त्रं ब्रह्मशिरो नाम दहेद् यत्पृथिवीम् अपि यावन् मन्त्रप्रयोगो ऽपि विनियोगे भविष्यति तावान् एव तु संहारे कर्तव्य इति चान्ततः न मानुषे प्रयोक्तव्यं ब्रह्मणो ऽस्त्रं कथं चन बाधते मानुषाञ् शत्रून् यदा वामानुषः क्व चित् तस्माद् एतत् प्रयोक्तव्यं ब्राह्मम् अस्त्रं सनातनम् तथेत्येव च बीभत्सुर् उवाच च कृताञ्जलिः चकार च तथा सर्वं यथोक्तं मनुजर्षभ अवाप्तास्त्रं तु बीभत्सुम् अनुज्ञाय महामतिः उवाच परमप्रीतो मत्समो ऽसीति पाण्डवम् त्वत्समो भविता लोके सत्यम् एतद् ब्रवीमि ते ततो द्रोणो ऽर्जुनं भूयो रथेषु च गजेषु च अश्वेषु भूमाव् अपि च रणशिक्षाम् अशिक्षयत् अस्त्रेषु सम्यक् चारेषु द्रोणशिष्यो व्यचारयत् गदायुद्धे ऽसिचर्यायां तोमरप्रासशक्तिषु द्रोणः संकीर्णयुद्धेषु शिक्षयाम् आस पाण्डवम् तस्य तत् कौशलं दृष्ट्वा धनुर्वेदजिघृक्षवः राजानो राजपुत्राश् च समाजग्मुः सहस्रशः तान् सर्वाञ् शिक्षयाम् आस द्रोणः शस्त्रभृतां वरः ततो निषादराजस्य हिरण्यधनुषः सुतः एकलव्यो महाराज द्रोणम् अभ्याजगाम ह न स तं प्रतिजग्राह नैषादिर् इति चिन्तयन् शिष्यं धनुषि धर्मज्ञस् तेषाम् एवान्ववेक्षया शिष्यो ऽसि मम नैषादे प्रयोगो बलवत्तरः निवर्तस्व गृहान् एव अनुज्ञातो ऽसि नित्यशः स तु द्रोणस्य शिरसा पादौ गृह्य परंतपः अरण्यम् अनुसंप्राप्तः कृत्वा द्रोणं महीमयम् तस्मिन्न् आचार्यवृत्तिं च परमाम् आस्थितस् तदा इष्वस्त्रे योगम् आतस्थे परं नियमम् आस्थितः परया श्रद्धया युक्तो योगेन परमेण च विमोक्षादानसंधाने लघुत्वं परम् आप सः लाघवं चास्त्रयोगं च नचिरात् प्रत्यपद्यत अथ द्रोणाभ्यनुज्ञाताः कदा चित् कुरुपाण्डवाः रथैर् विनिर्ययुः सर्वे मृगयाम् अरिमर्दनाः तत्रोपकरणं गृह्य नरः कश् चिद् यदृच्छया राजन्न् अनुजगामैकः श्वानम् आदाय पाण्डवान् तेषां विचरतां तत्र तत् तत् कर्म चिकीर्षताम् श्वा चरन् स वने मूढो नैषादिं प्रति जग्मिवान् तस्य रोरूयमाणस्य नष्टस्य विजने वने शब्दं शुश्राव नैषादिः शुनस् तस्य तु मारिष स कृष्णं मलदिग्धाङ्गं कृष्णाजिनधरं वने नैषादिं श्वा समालक्ष्य भषंस् तस्थौ तदन्तिके तदा तस्याथ भषतः शुनः सप्त शरान् मुखे लाघवं दर्शयन्न् अस्त्रे मुमोच युगपद् यथा वेगमज्जन . . . . . . . . ऌअं वनैः आयामपरिणामाभ्यां बभुस् ते तु शराङ्कुराः समप्रमाणिभिर् जिह्मा क्षिप्रैर् व्याभषतः शरैः यथा शैलं शिलोत्थाभिः सप्तार्चिभिर् अरिंदमैः स तु श्वा शरपूर्णास्यः पाण्डवान् आजगाम ह तं दृष्ट्वा पाण्डवा वीरा विस्मयं परमं ययुः लाघवं शब्दवेधित्वं दृष्ट्वा तत् परमं तदा प्रेक्ष्य तं व्रीडिताश् चासन् प्रशशंसुश् च सर्वशः श्वानं तु पाण्डवा दृष्ट्वा विस्मयोत्फुल्ललोचनाः तं ततो ऽन्वेषमाणास् ते वने वननिवासिनम् ददृशुः पाण्डवा राजन्न् अस्यन्तम् अनिशं शरान् न चैनम् अभ्यजानंस् ते तदा विकृतदर्शनम् अथैनं परिपप्रच्छुः को भवान् कस्य वेत्य् उत स श्रुत्वा वचनं तेषां पाण्डवानां महात्मनाम् एकलव्य उवाच निषादाधिपतेर् वीरा हिरण्यधनुषः सुतम् द्रोणशिष्यं च मां वित्त धनुर्वेदकृतश्रमम् वैशंपायन उवाच ते तम् आज्ञाय तत्त्वेन पुनर् आगम्य पाण्डवाः यथावृत्तं च ते सर्वं द्रोणायाचख्युर् अद्भुतम् कौन्तेयस् त्व् अर्जुनो राजन्न् एकलव्यम् अनुस्मरन् रहो द्रोणं समागम्य प्रणयाद् इदम् अब्रवीत् नन्व् अहं परिरभ्यैकः प्रीतिपूर्वम् इदं वचः भवतोक्तो न मे शिष्यस् त्वद्विशिष्टो भविष्यति अथ कस्मान् मद्विशिष्टो लोकाद् अपि च वीर्यवान् अस्त्य् अन्यो भवतः शिष्यो निषादाधिपतेः सुतः मुहूर्तम् इव तं द्रोणश् चिन्तयित्वा विनिश्चयम् सव्यसाचिनम् आदाय नैषादिं प्रति जग्मिवान् ददर्श मलदिग्धाङ्गं जटिलं चीरवाससम् एकलव्यं धनुष्पाणिम् अस्यन्तम् अनिशं शरान् एकलव्यस् तु तं दृष्ट्वा द्रोणम् आयान्तम् अन्तिकात् अभिगम्योपसंगृह्य जगाम शिरसा महीम् पूजयित्वा ततो द्रोणं विधिवत् स निषादजः निवेद्य शिष्यम् आत्मानं तस्थौ प्राञ्जलिर् अग्रतः ततो द्रोणो ऽब्रवीद् राजन्न् एकलव्यम् इदं वचः यदि शिष्यो ऽसि मे तूर्णं वेतनं संप्रदीयताम् एकलव्यस् तु तच् छ्रुत्वा प्रीयमाणो ऽब्रवीद् इदम् किं प्रयच्छामि भगवन्न् आज्ञापयतु मां गुरुः न हि किं चिद् अदेयं मे गुरवे ब्रह्मवित्तम तम् अब्रवीत् त्वयाङ्गुष्ठो दक्षिणो दीयतां मम यद्य् अवश्यं त्वया देयम् एकलव्य प्रयच्छ मे एकाङ्गुष्ठं दक्षिणस्य हस्तस्येति मतं मम बाढम् इत्य् एव नैषादिश् छित्त्वाङ्गुष्ठौ ददौ ततः एकलव्यस् तु तच् छ्रुत्वा वचो द्रोणस्य दारुणम् प्रतिज्ञाम् आत्मनो रक्षन् सत्ये च निरतः सदा तथैव हृष्टवदनस् तथैवादीनमानसः छित्त्वाविचार्य तं प्रादाद् द्रोणायाङ्गुष्ठम् आत्मनः अविषण्णश् च तौ प्रादाच् छित्त्वा द्रोणस्य वेतनम् सत्यसंधं च नैषादिं दृष्ट्वा प्रीतो ऽब्रवीद् इदम् मनीषितं त्वया वीर गुरोर् दत्तं ममोजसा एवं कर्तव्यम् इति वै एकलव्यम् अभाषत ततः परं तु नैषादिर् अङ्गुलीभिर् व्यकर्षत न तथा स तु शीघ्रो ऽभूद् यथा पूर्वं नराधिप ततो ऽर्जुनः प्रीतमना बभूव विगतज्वरः द्रोणश् च सत्यवाग् आसीन् नान्यो ऽभ्यभवद् अर्जुनम् एवं वृत्तं दृष्टवान् नो ऽथ कर्म प्रज्ञानित्यं खेचराश् चोचुर् एतौ द्रोणं पार्थं चात्र धी . . . . . . . त्या गच्छतां स्वं निवेशनम् वैशंपायनः द्रोणस् ततः परां पूजां कुरुषु प्राप्नुवन् धनम् चतुष्पादं कृत्स्नम् अस्त्रं कुमारान् प्रत्यवेदयत् पार्थिवस्य तु क्षत्रस्य राजपुत्रा महाबलाः अनुजग्मुस् ततो द्रोणं कुरुष्व् अस्त्रचिकीर्षया युधिष्ठिरो रथश्रेष्ठस् तोमरेष्व् अधिको ऽभवत् द्रोणस्य तु तदा शिष्यौ गदायोग्यां विशेषतः दुर्योधनश् च भीमश् च कुरूणाम् अभ्यगच्छताम् अश्वत्थामा रहस्येषु सर्वेष्व् अभ्यधिको ऽभवत् तथाति पुरुषान् अन्यान् त्सारुकौ यमजाव् उभौ स राधेयो महाबलः तोमरेष्व् अधिको ऽभवत् अर्जुनो जयतां श्रेष्ठः युधिष्ठिरो रथश्रेष्ठः सर्वत्र तु धनंजयः प्रथितः सागरान्तायां रथयूथपयूथपः बुद्धियोगबलोत्साहैः सर्वास्त्रेषु च पाण्डवः अस्त्रे गुर्वनुरागे च विशिष्टो ऽभवद् अर्जुनः तुल्येष्व् अस्त्रोपदेशेषु सौष्ठवेन च वीर्यवान् एकः सर्वकुमाराणां बभूवातिरथो ऽर्जुनः प्राणाधिकं भीमसेनं कृतविद्यं धनंजयम् धार्तराष्ट्रा दुरात्मानो नामृष्यन्त नराधिप तांस् तु सर्वान् समानीय सर्वविद्यासु निष्ठितान् द्रोणः प्रहरणज्ञाने जिज्ञासुः पुरुषर्षभ कृत्रिमं भासम् आरोप्य वृक्षाग्रे शिल्पिभिः कृतम् अविज्ञातं कुमाराणां लक्ष्यभूतम् उपादिशत् द्रोण उवाच शीघ्रं भवन्तः सर्वे वै धनूंष्य् आदाय सत्वराः भासम् एतं समुद्दिश्य तिष्ठन्तां संहितेषवः मद्वाक्यसमकालं च शिरो ऽस्य विनिपात्यताम् एकैकशो नियोक्ष्यामि तथा कुरुत पुत्रकाः वैशंपायन उवाच ततो युधिष्ठिरं पूर्वम् उवाचाङ्गिरसां वरः संधत्स्व बाणं दुर्धर्ष मद्वाक्यान्ते विमुञ्च च ततो युधिष्ठिरः पूर्वं धनुर् गृह्य महारवम् तस्थौ भासं समुद्दिश्य गुरुवाक्यप्रचोदितः ततो विततधन्वानं द्रोणस् तं कुरुनन्दनम् स मुहूर्ताद् उवाचेदं वचनं भरतर्षभ पश्यस्य् एनं द्रुमाग्रस्थं भासं नरवरात्मज पश्यामीत्य् एवम् आचार्यं प्रत्युवाच युधिष्ठिरः स मुहूर्ताद् इव पुनर् द्रोणस् तं प्रत्यभाषत अथ वृक्षम् इमं मां वा भ्रातॄन् वापि प्रपश्यसि तम् उवाच स कौन्तेयः पश्याम्य् एनं वनस्पतिम् भवन्तं च तथा भ्रातॄन् भासं चेति पुनः पुनः तम् उवाचापसर्पेति द्रोणो ऽप्रीतमना इव नैतच् छक्यं त्वया वेद्धुं लक्ष्यम् इत्य् एव कुत्सयन् ततो दुर्योधनादींस् तान् धार्तराष्ट्रान् महायशाः तेनैव क्रमयोगेन जिज्ञासुः पर्यपृच्छत अन्यांश् च शिष्यान् भीमादीन् राज्ञश् चैवान्यदेशजान् तथा च सर्वे सर्वं तत् पश्याम इति कुत्सिताः ततो धनंजयं द्रोणः स्मयमानो ऽभ्यभाषत त्वयेदानीं प्रहर्तव्यम् एतल् लक्ष्यं निशम्यताम् मद्वाक्यसमकालं ते मोक्तव्यो ऽत्र भवेच् छरः वितत्य कार्मुकं पुत्र तिष्ठ तावन् मुहूर्तकम् एवम् उक्तः सव्यसाची मण्डलीकृतकार्मुकः तस्थौ लक्ष्यं समुद्दिश्य गुरुवाक्यप्रचोदितः मुहूर्ताद् इव तं द्रोणस् तथैव समभाषत पश्यस्य् एनं स्थितं भासं द्रुमं माम् अपि वेत्य् उत पश्याम्य् एनं भासम् इति द्रोणं पार्थो ऽभ्यभाषत न तु वृक्षं भवन्तं वा पश्यामीति च भारत ततः प्रीतमना द्रोणो मुहूर्ताद् इव तं पुनः प्रत्यभाषत दुर्धर्षः पाण्डवानां रथर्षभम् भासं पश्यसि यद्य् एनं तथा ब्रूहि पुनर् वचः शिरः पश्यामि भासस्य न गात्रम् इति सो ऽब्रवीत् अर्जुनेनैवम् उक्तस् तु द्रोणो हृष्टतनूरुहः मुञ्चस्वेत्य् अब्रवीत् पार्थं स मुमोचाविचारयन् ततस् तस्य नगस्थस्य क्षुरेण निशितेन ह शिर उत्कृत्य तरसा पातयाम् आस पाण्डवः तस्मिन् कर्मणि संसिद्धे पर्यश्वजत फल्गुनम् मेने च द्रुपदं संख्ये सानुबन्धं पराजितम् कस्य चित् त्व् अथ कालस्य सशिष्यो ऽङ्गिरसां वरः जगाम गङ्गाम् अभितो मज्जितुं भरतर्षभ अवगाढम् अथो द्रोणं सलिले सलिलेचरः ग्राहो जग्राह बलवाञ् जङ्घान्ते कालचोदितः स समर्थो ऽपि मोक्षाय शिष्यान् सर्वान् अचोदयत् ग्राहं हत्वा मोक्षयध्वं माम् इति त्वरयन्न् इव तद्वाक्यसमकालं तु बीभत्सुर् निशितैः शरैः आवापैः पञ्चभिर् ग्राहं मग्नम् अम्भस्य् अताडयत् इतरे तु विसंमूढास् तत्र तत्र प्रपेदिरे तं च दृष्ट्वा क्रियोपेतं द्रोणो ऽमन्यत पाण्डवम् विशिष्टं सर्वशिष्येभ्यः प्रीतिमांश् चाभवत् तदा स पार्थबाणैर् बहुधा खण्डशः परिकल्पितः ग्राहः पञ्चत्वम् आपेदे जङ्घां त्यक्त्वा महात्मनः अथाब्रवीन् महात्मानं भारद्वाजो महारथम् गृहाणेदं महाबाहो विशिष्टम् अतिदुर्धरम् अस्त्रं ब्रह्मशिरो नाम सप्रयोगनिवर्तनम् न च ते मानुषेष्व् एतत् प्रयोक्तव्यं कथं चन जगद् विनिर्दहेद् एतद् अल्पतेजसि पातितम् असामान्यम् इदं तात लोकेष्व् अस्त्रं निगद्यते तद् धारयेथाः प्रयतः शृणु चेदं वचो मम बाधेतामानुषः शत्रुर् यदा त्वां वीर कश् चन तद्वधाय प्रयुञ्जीथास् तदास्त्रम् इदम् आहवे तथेति तत् प्रतिश्रुत्य बीभत्सुः स कृताञ्जलिः जग्राह परमास्त्रं तद् आह चैनं पुनर् गुरुः भविता त्वत्समो नान्यः पुमांल् लोके धनुर्धरः वैशंपायन उवाच कृतास्त्रान् धार्तराष्ट्रांश् च पाण्डुपुत्रांश् च भारत दृष्ट्वा द्रोणो ऽब्रवीद् राजन् धृतराष्ट्रं जनेश्वरम् कृपस्य सोमदत्तस्य बाह्लीकस्य च धीमतः गाङ्गेयस्य च सांनिध्ये व्यासस्य विदुरस्य च त्रयाणाम् इव लोकानां प्रजापतिम् इव स्थितम् राजन् संप्राप्तविद्यास् ते कुमराः कुरुसत्तम ते दर्शयेयुः स्वां शिक्षां राजन्न् अनुमते तव ततो ऽब्रवीन् महाराजः प्रहृष्टेनान्तरात्मना भारद्वाज महत् कर्म कृतं ते द्विजसत्तम यदा तु मन्यसे कालं यस्मिन् देशे यथा यथा तथा तथा विधानाय स्वयम् आज्ञापयस्व माम् स्पृहयाम्य् अद्य निर्वेदात् पुरुषाणां सचक्षुषाम् अस्त्रहेतोः पराक्रान्तान् ये मे द्रक्ष्यन्ति पुत्रकान् क्षत्तर् यद् गुरुर् आचार्यो ब्रवीति कुरु तत् तथा न हीदृशं प्रियं मन्ये भविता धर्मवत्सल ततो राजानम् आमन्त्र्य विदुरानुगतो बहिः भारद्वाजो महाप्राज्ञो मापयाम् आस मेदिनीम् प्रेक्ष्यागारं सुविपुलं शास्त्रदृष्ट्या यथाविधि समाम् अवृक्षां निर्गुल्माम् उदक्प्रवणसंस्थिताम् तस्यां भूमौ बलिं चक्रे तिथौ नक्षत्रपूजिते अवघुष्टं पुरे चापि तदर्थं वदतां वर रङ्गभूमौ सुविपुलं शास्त्रदृष्टं यथाविधि प्रेक्षागारं सुविहितं चक्रुस् तत्र च शिल्पिनः राज्ञः सर्वायुधोपेतं स्त्रीणां चैव नरर्षभ मनस्यमञ्चान् विपुलान् अकरोद् दर्शनेप्सया मञ्चांश् च कारयाम् आसुस् तत्र जानपदा जनाः विपुलान् उच्छ्रयोपेताञ् शिबिकाश् च महाधनाः तस्मिंस् ततो ऽहनि प्राप्ते राजा ससचिवस् तदा सान्तःपुरः सहामात्यो व्यासस्यानुमते तदा भीष्मं प्रमुखतः कृत्वा कृपं चाचार्यसत्तमम् बाह्लीकं सोमदत्तं च भूरिश्रवसम् एव च कुरून् अन्यांश् च सचिवान् आदाय नगराद् बहिः रङ्गभूमिं समासाद्य ब्राह्मणैः सहितो नृपः मुक्ताजालपरिक्षिप्तं वैडूर्यमणिभूषितम् शातकुम्भमयं दिव्यं प्रेक्षागारम् उपागमत् गान्धारी च महाभागा कुन्ती च जयतां वर स्त्रियश् च सर्वा या राज्ञः सप्रेष्याः सपरिच्छदाः हर्षाद् आरुरुहुर् मञ्चान् मेरुं देवस्त्रियो यथा ब्राह्मणक्षत्रियाद्यं च चातुर्वर्ण्यं पुराद् द्रुतम् दर्शनेप्सु समभ्यागात् कुमाराणां कृतास्त्रताम् क्षणेनैकस्थतां तत्र दर्शनेप्सु जगाम ह प्रवादितैश् च वादित्रैर् जनकौतूहलेन च महार्णव इव क्षुब्धः समाजः सो ऽभवत् तदा ततः शुक्लाम्बरधरः शुक्लयज्ञोपवीतवान् शुक्लकेशः सितश्मश्रुः शुक्लमाल्यानुलेपनः रङ्गमध्यं तदाचार्यः सपुत्रः प्रविवेश ह नभो जलधरैर् हीनं साङ्गारक इवांशुमान् स यथासमयं चक्रे बलिं बलवतां वरः ब्राह्मणांश् चात्र मन्त्रज्ञान् वाचयाम् आस मङ्गलम् सुवर्णमणिरत्नानि वस्त्राणि विविधानि च प्रददौ दक्षिणां राजा द्रोणस्य च कृपस्य च अथ पुण्याहघोषस्य पुण्यस्य तदनन्तरम् विविशुर् विविधं गृह्य शस्त्रोपकरणं नराः ततो बद्धतनुत्राणा बद्धकक्ष्या महाबलाः बद्धतूणाः सधनुषो विविशुर् भरतर्षभाः अनुज्येष्ठं च ते तत्र युधिष्ठिरपुरोगमाः रङ्गमध्ये स्थितं द्रोणम् अभिवाद्य नरर्षभाः चक्रुः पूजां यथान्यायं द्रोणस्य च कृपस्य च आशीर्भिश् च प्रयुक्ताभिः सर्वे संहृष्टमानसाः अभिवाद्य पुनः शस्त्रान् बलिपुष्पैः समर्चितान् रक्तचन्दनसंमिश्रैः स्वयम् अर्चन्त कौरवाः रक्तचन्दनदिग्धाश् च रक्तमाल्यानुधारिणः सर्वे रक्तपताकाश् च सर्वे रक्तान्तलोचनाः द्रोणेन समनुज्ञाताः गृह्य शस्त्रं परंतपाः धनूंषि पूर्वं संगृह्य तप्तकाञ्चनभूषिताः सज्जानि विविधाकाराः शरैः संधाय कौरवाः ज्याघोषतलघोषं च कृत्वा भूतान्य् अपूजयन् शस्त्रमार्गान् यथोत्सृष्टांश् चेरुः सर्वे नरर्षभाः चक्रुर् अस्त्रं महावीर्याः कुमाराः परमाद्भुतम् केषां चित् तरुमूलेषु शरा निपतिता नृप केषां चित् पुष्पमुकुटे निपतन्ति स्म सायकाः के चिल् लक्ष्याणि विविधैर् बाणैर् आहतलक्षणैः विव्यधुर् लाघवोत्सृष्टैर् गुरूणि च लघूनि च के चिच् छराक्षेपभयाच् छिरांस्य् अवननामिरे मनुजा धृष्टम् अपरे वीक्षां चक्रुः सविस्मयाः ते स्म लक्ष्याणि विविधुर् बाणैर् नामाङ्कशोभितैः विविधैर् लाघवोत्सृष्टैर् उह्यन्तो वाजिभिर् द्रुतम् तत् कुमारबलं तत्र गृहीतशरकार्मुकम् गन्धर्वनगराकारं प्रेक्ष्य ते विस्मिताभवन् सहसा चुक्रुशुस् तत्र नराः शतसहस्रशः विस्मयोत्फुल्लनयनाः साधु साध्व् इति भारत कृत्वा धनुषि ते मार्गान् रथचर्यासु चासकृत् गजपृष्ठे ऽश्वपृष्ठे च नियुद्धे च महाबलाः गृहीतखड्गचर्माणस् ततो भूयः प्रहारिणः त्सरुमार्गान् यथोद्दिष्टांश् चेरुः सर्वासु भूमिषु लाघवं सौष्ठवं शोभां स्थिरत्वं दृढमुष्टिताम् ददृशुस् तत्र सर्वेषां प्रयोगे खड्गचर्मणाम् अथ तौ नित्यसंहृष्टौ सुयोधनवृकोदरौ अवतीर्णौ गदाहस्ताव् एकशृङ्गाव् इवाचलौ बद्धकक्ष्यौ महाबाहू पौरुषे पर्यवस्थितौ बृंहन्तौ वाशिताहेतोः समदाव् इव कुञ्जरौ तौ प्रदक्षिणसव्यानि मण्डलानि महाबलौ चेरतुर् निर्मलगदौ समदाव् इव गोवृषौ विदुरो धृतराष्ट्राय गान्धार्यै पाण्डवारणिः न्यवेदयेतां तत् सर्वं कुमाराणां विचेष्टितम् वैशंपायन उवाच कुरुराजे च रङ्गस्थे भीमे च बलिनां वरे पक्षपातकृतस्नेहः स द्विधेवाभवज् जनः हा वीर कुरुराजेति हा भीमेति च नर्दताम् पुरुषाणां सुविपुलाः प्रणादाः सहसोत्थिताः ततः क्षुब्धार्णवनिभं रङ्गम् आलोक्य बुद्धिमान् भारद्वाजः प्रियं पुत्रम् अश्वत्थामानम् अब्रवीत् वारयैतौ महावीर्यौ कृतयोग्याव् उभाव् अपि मा भूद् रङ्गप्रकोपो ऽयं भीमदुर्योधनोद्भवः तत उत्थाय वेगेन अश्वत्थामा न्यवारयत् गुरोर् आज्ञा भीम इति गान्धारे गुरुशासनम् अलं योग्याकृतं वेगम् अलं साहसम् इत्य् उत ततस् ताव् उद्यतगदौ गुरुपुत्रेण वारितौ युगान्तानिलसंक्षुब्धौ महावेगाव् इवार्णवौ ततो रङ्गाङ्गणगतो द्रोणो वचनम् अब्रवीत् निवार्य वादित्रगणं महामेघनिभस्वनम् यो मे पुत्रात् प्रियतरः सर्वास्त्रविदुषां वरः ऐन्द्रिर् इन्द्रानुजसमः स पार्थो दृश्यताम् इति आचार्यवचनेनाथ कृतस्वस्त्ययनो युवा बद्धगोधाङ्गुलित्राणः पूर्णतूणः सकार्मुकः काञ्चनं कवचं बिभ्रत् प्रत्यदृश्यत फल्गुनः सार्कः सेन्द्रायुधतडित् ससंध्य इव तोयदः ततः सर्वस्य रङ्गस्य समुत्पिञ्जो ऽभवन् महान् प्रावाद्यन्त च वाद्यानि सशङ्खानि समन्ततः एष कुन्तीसुतः श्रीमान् एष पाण्डवमध्यमः एष पुत्रो महेन्द्रस्य कुरूणाम् एष रक्षिता एषो ऽस्त्रविदुषां श्रेष्ठ एष धर्मभृतां वरः एष शीलवतां चापि शीलज्ञाननिधिः परः एष कंसविमर्दस्य साक्षात् प्राणसमः सखा एष यत् प्रतिजानाति तस्य पारं गमिष्यति इत्य् एवम् अतुला वाचः शृण्वन्त्याः प्रेक्षकेरिताः कुन्त्याः प्रस्नवसंमिश्रैर् अस्रैः क्लिन्नम् उरो ऽभवत् तेन शब्देन महता पूर्णश्रुतिर् अथाब्रवीत् धृतराष्ट्रो नरश्रेष्ठो विदुरं हृष्टमानसः क्षत्तः क्षुब्धार्णवनिभः किम् एष सुमहास्वनः सहसैवोत्थितो रङ्गे भिन्दन्न् इव नभस्तलम् विदुर उवाच एष पार्थो महाराज फल्गुनः पाण्डुनन्दनः अवतीर्णः सकवचस् तत्रैष सुमहास्वनः धृतराष्ट्र उवाच धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि रक्षितो ऽस्मि महामते पृथारणिसमुद्भूतैस् त्रिभिः पाण्डववह्निभिः वैशंपायन उवाच तस्मिन् समुदिते रङ्गे कथं चित् पर्यवस्थिते दर्शयाम् आस बीभत्सुर् आचार्याद् अस्त्रलाघवम् आग्नेयेनासृजद् वह्निं वारुणेनासृजत् पयः वायव्येनासृजद् वायुं पार्जन्येनासृजद् घनान् भौमेन प्राविशद् भूमिं पार्वतेनासृजद् गिरीन् अन्तर्धानेन चास्त्रेण पुनर् अन्तर्हितो ऽभवत् क्षणात् प्रांशुः क्षणाद् ध्रस्वः क्षणाच् च रथधूर्गतः क्षणेन रथमध्यस्थः क्षणेनावापतन् महीम् सुकुमारं च सूक्ष्मं च गुरुं चापि गुरुप्रियः सौष्ठवेनाभिसंयुक्तः सो ऽविध्यद् विविधैः शरैः भ्रमतश् च वराहस्य लोहस्य प्रमुखे समम् पञ्च बाणान् असंसक्तान् स मुमोचैकबाणवत् गव्ये विषाणकोशे च चले रज्ज्ववलम्बिते निचखान महावीर्यः सायकान् एकविंशतिम् इत्य् एवमादि सुमहत् खड्गे धनुषि चाभवत् गदायां शस्त्रकुशलो दर्शनानि व्यदर्शयत् चक्रतोमरपाशानां भिण्डिपालपरश्वधाम् अन्येषां चापि शिक्षाणां दर्शयाम् आस लाघवम् ततः समाप्तभूयिष्ठे तस्मिन् कर्मणि भारत मन्दीभूते समाजे च वादित्रस्य च निस्वने द्वारदेशात् समुद्भूतो माहात्म्य बलसूचकः वज्रनिष्पेषसदृशः शुश्रुवे भुजनिस्वनः स शब्दः सुमहान् आसीत् पूरयन्न् इव रोदसी दीर्यन्ते किं नु गिरयः किं स्विद् भूमिर् विदीर्यते किं स्विद् आपूर्यते व्योम जलभारघनैर् घनैः रङ्गस्यैवं मतिर् अभूत् क्षणेन वसुधाधिप द्वारं चाभिमुखाः सर्वे बभूवुः प्रेक्षकास् तदा पञ्चभिर् भ्रातृभिः पार्थैर् द्रोणः परिवृतो बभौ पञ्चतारेण संयुक्तः सावित्रेणेव चन्द्रमाः अश्वत्थाम्ना च सहितं भ्रातॄणां शतम् ऊर्जितम् दुर्योधनम् अमित्रघ्नम् उत्थितं पर्यवारयत् स तैस् तदा भ्रातृभिर् उद्यतायुधैर्; वृतो गदापाणिर् अवस्थितैः स्थितः बभौ यथा दानवसंक्षये पुरा; पुरंदरो देवगणैः समावृतः वैशंपायन उवाच एतस्मिन्न् एव काले तु तस्मिञ् जनसमागमे दत्ते ऽवकाशे पुरुषैर् विस्मयोत्फुल्ललोचनैः विवेश रङ्गं विस्तीर्णं कर्णः परपुरंजयः सहजं कवचं बिभ्रत् कुण्डलोद्द्योतिताननः सधनुर् बद्धनिस्त्रिंशः पादचारीव पर्वतः कन्यागर्भः पृथुयशाः पृथायाः पृथुलोचनः तीक्ष्णांशोर् भास्करस्यांशः कर्णो ऽरिगणसूदनः सिंहर्षभगजेन्द्राणां तुल्यवीर्यपराक्रमः दीप्तिकान्तिद्युतिगुणैः सूर्येन्दुज्वलनोपमः प्रांशुः कनकतालाभः सिंहसंहननो युवा असंख्येयगुणः श्रीमान् भास्करस्यात्मसंभवः स निरीक्ष्य महाबाहुः सर्वतो रङ्गमण्डलम् प्रणामं द्रोणकृपयोर् नात्यादृतम् इवाकरोत् स सामाजजनः सर्वो निश्चलः स्थिरलोचनः को ऽयम् इत्य् आगतक्षोभः कौतूहलपरो ऽभवत् सो ऽब्रवीन् मेघधीरेण स्वरेण वदतां वरः भ्राता भ्रातरम् अज्ञातं सावित्रः पाकशासनिम् पार्थ यत् ते कृतं कर्म विशेषवद् अहं ततः करिष्ये पश्यतां नॄणां मात्मना विस्मयं गमः असमाप्ते ततस् तस्य वचने वदतां वर यन्त्रोत्क्षिप्त इव क्षिप्रम् उत्तस्थौ सर्वतो जनः प्रीतिश् च पुरुषव्याघ्र दुर्योधनम् अथास्पृशत् ह्रीश् च क्रोधश् च बीभत्सुं क्षणेनान्वविशच् च ह ततो द्रोणाभ्यनुज्ञातः कर्णः प्रियरणः सदा यत् कृतं तत्र पार्थेन तच् चकार महाबलः अथ दुर्योधनस् तत्र भ्रातृभिः सह भारत कर्णं परिष्वज्य मुदा ततो वचनम् अब्रवीत् स्वागतं ते महाबाहो दिष्ट्या प्राप्तो ऽसि मानद अहं च कुरुराज्यं च यथेष्टम् उपभुज्यताम् कर्ण उवाच कृतं सर्वेण मे ऽन्येन सखित्वं च त्वया वृणे द्वन्द्वयुद्धं च पार्थेन कर्तुम् इच्छामि भारत एवम् उक्तस् तु कर्णेन राजा दुर्योधनस् तदा कर्णं दीर्घाञ्चितभुजं परिष्वज्येदम् अब्रवीत् दुर्योधन उवाच भुङ्क्ष्व भोगान् मया सार्धं बन्धूनां प्रियकृद् भव दुर्हृदां कुरु सर्वेषां मूर्ध्नि पादम् अरिंदम वैशंपायन उवाच ततः क्षिप्तम् इवात्मानं मत्वा पार्थो ऽभ्यभाषत कर्णं भ्रातृसमूहस्य मध्ये ऽचलम् इव स्थितम् अनाहूतोपसृप्तानाम् अनाहूतोपजल्पिनाम् ये लोकास् तान् हतः कर्ण मया त्वं प्रतिपत्स्यसे कर्ण उवाच रङ्गो ऽयं सर्वसामान्यः किम् अत्र तव फल्गुन वीर्यश्रेष्ठाश् च राजन्या बलं धर्मो ऽनुवर्तते वाग्वीर्या ब्राह्मणाः प्रोक्ता वैश्याश् च धनवीर्यतः कर्मवीर्याः स्मृताः शूद्रा ब्रह्मणा परमेष्ठिना किं क्षेपैर् दुर्बलाश्वासैः शरैः कथय भारत गुरोः समक्षं यावत् ते हराम्य् अद्य शिरः शरैः वैशंपायन उवाच ततो द्रोणाभ्यनुज्ञातः पार्थः परपुरंजयः भ्रातृभिस् त्वरयाश्लिष्टो रणायोपजगाम तम् ततो दुर्योधनेनापि सभ्रात्रा समरोद्यतः परिष्वक्तः स्थितः कर्णः प्रगृह्य सशरं धनुः ततः सविद्युत्स्तनितैः सेन्द्रायुधपुरोजवैः आवृतं गगनं मेघैर् बलाकापङ्क्तिहासिभिः ततः स्नेहाद् धरिहयं दृष्ट्वा रङ्गावलोकिनम् भास्करो ऽप्य् अनयन् नाशं समीपोपगतान् घनान् मेघच्छायोपगूढस् तु ततो ऽदृश्यत पाण्डवः सूर्यातपपरिक्षिप्तः कर्णो ऽपि समदृश्यत धार्तराष्ट्रा यतः कर्णस् तस्मिन् देशे व्यवस्थिताः भारद्वाजः कृपो भीष्मो यतः पार्थस् ततो ऽभवन् द्विधा रङ्गः समभवत् स्त्रीणां द्वैधम् अजायत कुन्तिभोजसुता मोहं विज्ञातार्था जगाम ह तां तथा मोहसंपन्नां विदुरः सर्वधर्मवित् कुन्तीम् आश्वासयाम् आस प्रोक्ष्याद्भिश् चन्दनोक्षितैः ततः प्रत्यागतप्राणा ताव् उभाव् अपि दंशितौ पुत्रौ दृष्ट्वा सुसंतप्ता नान्वपद्यत किं चन ताव् उद्यतमहाचापौ कृपः शारद्वतो ऽब्रवीत् द्वन्द्वयुद्धसमाचारे कुशलः सर्वधर्मवित् अयं पृथायास् तनयः कनीयान् पाण्डुनन्दनः कौरवो भवता सार्धं द्वन्द्वयुद्धं करिष्यति त्वम् अप्य् एवं महाबाहो मातरं पितरं कुलम् कथयस्व नरेन्द्राणां येषां त्वं कुलवर्धनः ततो विदित्वा पार्थस् त्वां प्रतियोत्स्यति वा न वा वृथाकुलसमाचारैर् न युध्यन्ते नृपात्मजाः एवम् उक्तस्य कर्णस्य व्रीडावनतम् आननम् बभौ वर्षाम्बुभिः क्लिन्नं पद्मम् आगलितं यथा दुर्योधन उवाच आचार्य त्रिविधा योनी राज्ञां शास्त्रविनिश्चये तत्कुलीनश् च शूरश् च सेनां यश् च प्रकर्षति अद्भ्यो ऽग्निर् ब्रह्मतः क्षत्रम् अश्मनो लोहम् उत्थितम् तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति यद्य् अयं फल्गुनो युद्धे नाराज्ञा योद्धुम् इच्छति तस्माद् एषो ऽङ्गविषये मया राज्ये ऽभिषिच्यते ततो राजानम् आमन्त्र्य गाङ्गेयं च पितामहम् अभिषेकस्य संभारान् समानीय द्विजातिभिः गोसहस्रायुतं दत्त्वा युक्तानां पुण्यकर्मणाम् अर्हो ऽयम् अङ्गराज्यस्य इति वाच्य द्विजातिभिः वैशंपायन उवाच ततस् तस्मिन् क्षणे कर्णः सलाजकुसुमैर् घटैः काञ्चनैः काञ्चने पीठे मन्त्रविद्भिर् महारथः अभिषिक्तो ऽङ्गराज्ये स श्रिया युक्तो महाबलः समौलिहारकेयूरैः सहस्ताभरणाङ्गदैः राजलिङ्गैस् तथान्यैश् च भूषितो भूषणैः शुभैः सच्छत्रवालव्यजनो जयशब्दान्तरेण च उवाच कौरवं राजा राजानं तं वृषस् तदा सभाज्यमानो विप्रैश् च प्रदत्त्वा ह्य् अमितं वसु अस्य राज्यप्रदानस्य सदृशं किं ददानि ते प्रब्रूहि राजशार्दूल कर्ता ह्य् अस्मि तथा नृप अत्यन्तं सख्यम् इच्छामीत्य् आह तं स सुयोधनः एवम् उक्तस् ततः कर्णस् तथेति प्रत्यभाषत वैशंपायनः अङ्गराजस्य युक्तांश् च दत्त्वा राजपरिच्छदान् हर्षाच् चोभौ समाश्लिष्य परां मुदम् अवापतुः वैशंपायन उवाच ततः स्रस्तोत्तरपटः सप्रस्वेदः सवेपथुः विवेशाधिरथो रङ्गं यष्टिप्राणो ह्वयन्न् इव तम् आलोक्य धनुस् त्यक्त्वा पितृगौरवयन्त्रितः कर्णो ऽभिषेकार्द्रशिराः शिरसा समवन्दत ततः पादाव् अवच्छाद्य पटान्तेन ससंभ्रमः पुत्रेति परिपूर्णार्थम् अब्रवीद् रथसारथिः परिष्वज्य च तस्याथ मूर्धानं स्नेहविक्लवः अङ्गराज्याभिषेकार्द्रम् अश्रुभिः सिषिचे पुनः तं दृष्ट्वा सूतपुत्रो ऽयम् इति निश्चित्य पाण्डवः भीमसेनस् तदा वाक्यम् अब्रवीत् प्रहसन्न् इव न त्वम् अर्हसि पार्थेन सूतपुत्र रणे वधम् कुलस्य सदृशस् तूर्णं प्रतोदो गृह्यतां त्वया अङ्गराज्यं च नार्हस् त्वम् उपभोक्तुं नराधम श्वा हुताशसमीपस्थं पुरोडाशम् इवाध्वरे एवम् उक्तस् ततः कर्णः किं चित् प्रस्फुरिताधरः गगनस्थं विनिःश्वस्य दिवाकरम् उदैक्षत ततो दुर्योधनः कोपाद् उत्पपात महाबलः भ्रातृपद्मवनात् तस्मान् मदोत्कट इव द्विपः सो ऽब्रवीद् भीमकर्माणं भीमसेनम् अवस्थितम् वृकोदर न युक्तं ते वचनं वक्तुम् ईदृशम् क्षत्रियाणां बलं ज्येष्ठं योद्धव्यं क्षत्रबन्धुना शूराणां च नदीनां च प्रभवा दुर्विदाः किल सलिलाद् उत्थितो वह्निर् येन व्याप्तं चराचरम् दधीचस्यास्थितो वज्रं कृतं दानवसूदनम् आग्नेयः कृत्तिकापुत्रो रौद्रो गाङ्गेय इत्य् अपि श्रूयते भगवान् देवः सर्वगुह्यमयो गुहः क्षत्रियाभ्यश् च ये जाता ब्राह्मणास् ते च विश्रुताः विश्वामित्रप्रभृतयः प्राप्ता ब्रह्मत्वम् अव्ययम् जातान् आहुः क्षत्रियासु ब्राह्मणैः क्षत्रसंक्षये आचार्यः कलशाज् जातः शरस्तम्बाद् गुरुः कृपः द्रोणः शस्त्रभृतां वरः गौतमस्यान्ववाये च भवतां च यथा जन्म तद् अप्य् आगमितं नृपैः सकुण्डलं सकवचं दिव्यलक्षणलक्षितम् कथम् आदित्यसंकाशं मृगी व्याघ्रं जनिष्यति सूतो ऽमुं जनयिष्यति एवं क्षत्रगुणैर् युक्तं शरं समितिशोभनम् पृथिवीराज्यम् अर्हो ऽयं नाङ्गराज्यं नरेश्वरः अनेन बाहुवीर्येण मया चाज्ञानुवर्तिना यस्य वा मनुजस्येदं न क्षान्तं मद्विचेष्टितम् रथम् आरुह्य पद्भ्यां वा विनामयतु कार्मुकम् ततः सर्वस्य रङ्गस्य हाहाकारो महान् अभूत् साधुवादानुसंबद्धः सूर्यश् चास्तम् उपागमत् ततो दुर्योधनः कर्णम् आलम्ब्याथ करे नृप दीपिकाग्निकृतालोकस् तस्माद् रङ्गाद् विनिर्ययौ पाण्डवाश् च सहद्रोणाः सकृपाश् च विशां पते भीष्मेण सहिताः सर्वे ययुः स्वं स्वं निवेशनम् अर्जुनेति जनः कश् चित् कश् चित् कर्णेति भारत कश् चिद् दुर्योधनेत्य् एवं ब्रुवन्तः प्रस्थितास् तदा कुन्त्याश् च प्रत्यभिज्ञाय दिव्यलक्षणसूचितम् पुत्रम् अङ्गेश्वरं स्नेहाच् छन्ना प्रीतिर् अवर्धत दुर्योधनस्यापि तदा कर्णम् आसाद्य पार्थिव भयम् अर्जुनसांजातं क्षिप्रम् अन्तरधीयत स चापि वीरः कृतशस्त्रनिश्रमः; परेण साम्नाभ्यवदत् सुयोधनम् युधिष्ठिरस्याप्य् अभवत् तदा मतिर्; न कर्णतुल्यो ऽस्ति धनुर्धरः क्षितौ वैशंपायन उवाच ततः शिष्यान् समानीय द्रोणः सर्वान् अशेषतः पाण्डवान् धार्तराष्ट्रांश् च कृतास्त्रान् प्रसमीक्ष्य सः गुर्वर्थं दक्षिणाकाले प्राप्ते ऽमन्यत वै गुरुः कृतास्त्रांश् च ततः शिष्यांश् चोदयाम् आस वै गुरुः ततः शिष्यान् समानीय आचार्यार्थम् अचोदयत् अस्त्रशिक्षाम् अनुज्ञातान् गङ्गाद्वारम् उपागतान् भारद्वाजस् ततस् तांस् तु सर्वान् एवाभ्यभाषत इच्छामि दत्तां सहितैर् मह्यं परमदक्षिणाम् एवम् उक्तास् ततस् ते वै शिष्या द्रोणम् उपागमन् भगवन् किं प्रयच्छाम आज्ञापयतु नो गुरुः द्रोणः सर्वान् अशेषेण दक्षिणार्थं महीपते पाञ्चालराजं द्रुपदं गृहीत्वा रणमूर्धनि पर्यानयत भद्रं वः सा स्यात् परमदक्षिणा तथेत्य् उक्त्वा तु ते सर्वे रथैस् तूर्णं प्रहारिणः आचार्यधनदानार्थं द्रोणेन सहिता ययुः ततो ऽभिजग्मुः पाञ्चालान् निघ्नन्तस् ते नरर्षभाः अर्जुनः वैशंपायनः दुर्योधनश् च कर्णश् च युयुत्सुश् च महाबलः दुःशासनो विकर्णश् च जलसंधः सुलोचनः एते चान्ये च बहवः कुमारा बहुविक्रमाः अहं पूर्वम् अहं पूर्वम् इत्य् एवं क्षत्रियर्षभाः ततो रथपदात्योघाः कुञ्जराः सादिभिः सह प्रविश्य नगरं सर्वे राजमार्गम् उपाययुः तस्मिन् काले तु पाञ्चालः श्रुत्वा दृष्ट्वा महद् बलम् भ्रातृभिः सहितो राजा त्वरया निर्ययौ गृहात् ततस् तु कृतसंनाहा यज्ञसेनसहोदराः शरवर्षाणि मुञ्चन्तः प्रणेदुः सर्वतोदिशम् ततो रथेन शुभ्रेण समासाद्य तु कौरवान् यज्ञसेनः शरान् घोरान् ववर्ष युधि दुर्जयः पूर्वम् एव तु संमन्त्र्य पार्थो द्रोणम् अथाब्रवीत् दर्पोत्सेकः कुमाराणाम् अवार्यो द्विजसत्तम एषां पराक्रमस्यान्ते वयं कुर्याम साहसम् कुमारैर् अशक्यः पाञ्चालो ग्रहीतुं रणमूर्धनि एवम् उक्त्वा तु कौन्तेयो भ्रातृभिः सहितो ऽनघः अर्धक्रोशे तु नगराद् अतिष्ठद् बहिर् एव सः द्रुपदः कौरवान् दृष्ट्वा प्रधावत समन्ततः शरजालेन महता मोहयन् कौरवीं चमूम् तम् उद्यन्तं रथेनैकम् आशुकारिणम् आहवे अनेकम् इव संत्रासान् मेनिरे सर्वकौरवाः द्रुपदस्य शरा घोरा विचेरुः सर्वतोदिशम् ततः शङ्खाश् च भेर्यश् च मृदङ्गाश् च सहस्रशः प्रावाद्यन्त महाराज पाञ्चालानां निवेशने सिंहनादश् च संजज्ञे पाञ्चालानां महात्मनाम् धनुर्ज्यातलशब्दश् च संस्पृशन् गगनं महत् दुःशासनो विकर्णश् च सुबाहुर् दीर्घलोचनः दुर्योधनश् च संक्रुद्धः शरवर्षैर् अवाकिरन् सो ऽतिविद्धो महेष्वासः पार्षतो युधि दुर्जयः व्यधमत् तान्य् अनीकानि तत्क्षणाद् एव भारत दुर्योधनं विकर्णं च कर्णं चापि महाबलम् नानानृपसुतान् वीरान् सैन्यानि विविधानि च अलातचक्रवत् सर्वांश् चरन् बाणैर् अतर्पयत् ततस् तु नागराः सर्वे मुसलैर् यष्टिपाणयः अभ्यवर्षन्त कौरव्यान् वर्षमाणा घना इव सबालवृद्धाः काम्पिल्याः कौरवान् अभ्ययुस् तदा श्रुत्वा तु तुमुलं युद्धं नागराणां च भारत द्रवन्ति स्म नदन्ति स्म क्रोशन्तः पाण्डवान् प्रति पाण्डवास् तु स्वनं श्रुत्वा आर्तानां रोमहर्षणम् अभिवाद्य ततो द्रोणं रथान् आरुह्य पाण्डवाः युधिष्ठिरं निवार्याशु मा युद्धम् इति पाण्डव माद्रेयौ चक्ररक्षौ तु फल्गुनस् तु तदाकरोत् सेनाग्रगो भीमसेनो गदापाणिर् नदस्थितः तदा शङ्खध्वनिं कृत्वा भ्रातृभिः सहितो ऽनघः आयाज् जवेन कौन्तेयो रथघोषेण नादयन् पाञ्चालानां ततः सेनाम् उद्धूतार्णवनिःस्वनाम् भीमसेनो महाबाहुर् दण्डपाणिर् इवान्तकः प्रविवेश महासेनां सागरं मकरो यथा स्वयम् अभ्यद्रवद् भीमो नागानीकं गदाधरः सुयुद्धकुशलः पार्थो बाहुवीर्येण चातुलः अहनत् कुञ्जरानीकं गदया कालरूपधृक् ते गजा गिरिसंकाशाः क्षरन्तो रुधिरं बहु भीमसेनस्य गदया भिन्नमस्तकपिण्डकाः पतन्ति द्विरदा भूमौ वज्रघाताद् इवाचलाः गजान् अश्वान् रथांश् चैव पातयाम् आस पाण्डवः पदातीन् नागरांश् चैव नावधीद् अर्जुनाग्रजः गोपाल इव दण्डेन यथा पशुगणान् वने कालयन् रथनागाश्वान् संचचार वृकोदरः भारद्वाजप्रियं कर्तुम् उद्यतः फल्गुनस् तदा पार्षतं शरजालेन क्षिप्रं प्रच्छाद्य पाण्डवः हयौघांश् च गजौघांश् च रथौघांश् च समन्ततः पातयन् समरे राजन् युगान्ताग्निर् इव ज्वलन् ततस् ते हन्यमाना वै पाञ्चालाः सृञ्जयास् तथा शरैर् नानाविधैस् तूर्णं पार्थं प्रच्छाद्य सर्वशः सिंहनादरवान् कृत्वा समयुध्यन्त पाण्डवम् तद् युद्धम् अभवद् घोरं सुमहाद्भुतदर्शनम् सिंहनादस्वनं श्रुत्वा नामृष्यत धनंजयः ततः किरीटी सहसा पाञ्चालं समभिद्रवत् छादयन्न् इषुजालेन महता मोहयन्न् इव शीघ्रम् अभ्यस्यतो बाणान् संदधानस्य चानिशम् नान्तरं ददृशे किं चित् कौन्तेयस्य यशस्विनः न दिशो नान्तरिक्षं च तदा नैव च मेदिनी नादृश्यत महाराज तत्र किं चन संयुगे बाणान्धकारे बलिना कृते गाण्डीवधन्विना पाञ्चालानां कुरूणां च साधु साध्व् इति निःस्वनः ततस् तूर्यनिनादश् च शङ्खानां च महास्वनः सिंहनादश् च संजज्ञे साधुशब्देन मिश्रितः ततः पाञ्चालराजस् तु तथा सत्यजिता सह त्वरमाणो ऽभिदुद्राव महेन्द्रं शम्बरो यथा महता शरवर्षेण पार्थः पाञ्चालम् आवृणोत् ततो हलहलाशब्द आसीत् पाञ्चालके बले जिघृक्षति महासिंहे गजानाम् इव यूथपम् दृष्ट्वा पार्थं तदायान्तं सत्यजित् सत्यविक्रमः पाञ्चालं वै परिप्रेप्सुर् धनंजयम् अभिद्रवत् ततस् त्व् अर्जुनपाञ्चालौ युद्धाय समुपागतौ व्यक्षोभयेतां तौ सेने इन्द्रवैरोचनाव् इव ततः सत्यजितं पार्थो दशभिर् मर्मभेदिभिः विव्याध बलवद् राजंस् तद् अद्भुतम् इवाभवत् ततः शरशतैः पार्थं पाञ्चालः शीघ्रम् अर्दयत् पार्थस् तु शरवर्षेण छाद्यमानो महारथः वेगं चक्रे महावेगो धनुर्ज्याम् अवमृज्य च ततः सत्यजितश् चापं छित्त्वा राजानम् अभ्ययात् अथान्यद् धनुर् आदाय सत्यजिद् वेगवत्तरम् साश्वं ससूतं सरथं पार्थं विव्याध सत्वरः स तं न ममृषे पार्थः पाञ्चालेनार्दितो मृधे ततस् तस्य विनाशार्थं सत्वरं व्यसृजच् छरान् हयान् ध्वजं धनुर् मुष्टिम् उभौ तौ पार्ष्णिसारथी स तथा भिद्यमानेषु कार्मुकेषु पुनः पुनः हयेषु विनिकृत्तेषु विमुखो ऽभवद् आहवे स सत्यजितम् आलोक्य तथा विमुखम् आहवे वेगेन महता राजन्न् अभ्यधावत पार्षतम् तदा चक्रे महद् युद्धम् अर्जुनो जयतां वरः तस्य पार्थो ध्वजं छत्रं धनुश् चोर्व्याम् अपातयत् पञ्चभिस् तस्य विव्याध हयान् सूतं च सायकैः तत उत्सृज्य तच् चापम् आददानं शरावरम् खड्गम् उद्गृह्य कौन्तेयः सिंहनादम् अथाकरोत् पाञ्चालस्य रथस्येषाम् आप्लुत्य सहसानदत् पाञ्चालरथम् आस्थाय अवित्रस्तो धनंजयः विक्षोभ्याम्भोनिधिं तार्क्ष्यस् तं नागम् इव सो ऽग्रहीत् ततस् तु सर्वे पाञ्चाला विद्रवन्ति दिशो दश दर्शयन् सर्वसैन्यानां बाह्वोर् बलम् अथात्मनः सिंहनादस्वनं कृत्वा निर्जगाम धनंजयः आयान्तम् अर्जुनं दृष्ट्वा कुमाराः सहितास् तदा ममृदुस् तस्य नगरं द्रुपदस्य महात्मनः संबन्धी कुरुवीराणां द्रुपदो राजसत्तमः मा वधीस् तद् बलं भीम गुरुदानं प्रदीयताम् भीमसेनस् तदा राजन्न् अर्जुनेन निवारितः अतृप्तो युद्धधर्मेषु न्यवर्तत महारथः ममृदुस् तस्य नगरं द्रुपदस्य महौजसः ते यज्ञसेनं द्रुपदं गृहीत्वा रणमूर्धनि उपाजह्रुः सहामात्यं द्रोणाय भरतर्षभाः भग्नदर्पं हृतधनं तथा च वशम् आगतम् स वैरं मनसा ध्यात्वा द्रोणो द्रुपदम् अब्रवीत् प्रमृद्य तरसा राष्ट्रं पुरं ते मृदितं मया प्राप्य जीवन् रिपुवशं सखिपूर्वं किम् इष्यते एवम् उक्त्वा प्रहस्यैनं निश्चित्य पुनर् अब्रवीत् मा भैः प्राणभयाद् राजन् क्षमिणो ब्राह्मणा वयम् आश्रमे क्रीडितं यत् तु त्वया बाल्ये मया सह तेन संवर्धितः स्नेहस् त्वया मे क्षत्रियर्षभ प्रार्थयेयं त्वया सख्यं पुनर् एव नरर्षभ वरं ददामि ते राजन् राज्यस्यार्धम् अवाप्नुहि अराजा किल नो राज्ञां सखा भवितुम् अर्हति अतः प्रयतितं राज्ये यज्ञसेन मया तव राजासि दक्षिणे कूले भागीरथ्याहम् उत्तरे सखायं मां विजानीहि पाञ्चाल यदि मन्यसे द्रुपद उवाच अनाश्चर्यम् इदं ब्रह्मन् विक्रान्तेषु महात्मसु प्रीये त्वयाहं त्वत्तश् च प्रीतिम् इच्छामि शाश्वतीम् वैशंपायन उवाच एवम् उक्तस् तु तं द्रोणो मोक्षयाम् आस भारत सत्कृत्य चैनं प्रीतात्मा राज्यार्धं प्रत्यपादयत् माकन्दीम् अथ गङ्गायास् तीरे जनपदायुताम् सो ऽध्यावसद् दीनमनाः काम्पिल्यं च पुरोत्तमम् दक्षिणांश् चैव पाञ्चालान् यावच् चर्मण्वती नदी द्रोणेन वैरं द्रुपदः संस्मरन् न शशाम ह क्षात्रेण च बलेनास्य नापश्यत् स पराजयम् हीनं विदित्वा चात्मानं ब्राह्मणेन बलेन च पुत्रजन्म परीप्सन् वै स राजा तद् अधारयत् अहिच्छत्रं च विषयं द्रोणः समभिपद्यत एवं राजन्न् अहिच्छत्रा पुरी जनपदायुता युधि निर्जित्य पार्थेन द्रोणाय प्रतिपादिता वैशंपायनः पृषती याजः वैशंपायनः जनमेजयः वैशंपायनः वैशंपायनः द्रोणेन वैरं द्रुपदो न सुष्वाप स्मरंस् तदा क्षात्रेण च बलेनास्य नाशशंसे पराजयम् हीनं विदित्वा चात्मानं ब्राह्मणेन बलेन च द्रुपदस् त्व् अमर्षान् नृपतिः कर्मसिद्ध्यै द्विजोत्तमम् अन्विच्छन् परिचक्राम ब्राह्मणावसथान् बहून् नास्ति श्रेष्ठं ममापत्यं धिग् बन्धून् इति चाब्रवीत् निश्वासपरमो ह्य् आसीद् द्रोणाप्रियचिकीर्षया न सन्ति मम मित्राणि लोके ऽस्मिन् नास्ति वीर्यवान् पुत्रजन्म परीप्सन् वै पृथिवीम् अन्वियाद् इमाम् प्रभावशिक्षाविनयाद् द्रोणस्यास्त्रबलेन च कर्तुं प्रयतमानो ऽपि न शशाक पराजयम् अभितः सो ऽथ कल्माषीं गङ्गाकूले परिभ्रमन् ब्राह्मणावसथं पुण्यम् आससाद महीपतिः तत्र नास्नातकः कश् चिन् न चासीद् अव्रतो द्विजः तथैव तौ महाभागौ सो ऽपश्यच् छंसितव्रतौ याजोपयाजौ ब्रह्मर्षी श्राम्यन्तौ पृषतात्मजः संहिताध्ययने युक्तौ गोत्रतश् चापि काश्यपौ अरण्ये युक्तरूपौ तौ ब्राह्मणाव् ऋषिसत्तमौ स उपामन्त्रयाम् आस सर्वकामैर् अतन्द्रितः बुद्ध्वा तयोर् बलं बुद्धिं कनीयांसम् उपह्वरे प्रपेदे छन्दयन् कामैर् उपयाजं धृतव्रतम् गुरुशुश्रूषणे युक्तः प्रियकृत् सर्वकामदः पाद्येनासनदानेन तथार्घ्येण फलैश् च तम् अर्चयित्वा यथान्यायम् उपयाजो ऽब्रवीत् ततः केन कार्यविशेषेण त्वम् अस्मान् अभिकाङ्क्षसे कुतश् चायं समुद्योगस् तद् ब्रवीतु भवान् इति स बुद्ध्वा प्रीतिसंयुक्तम् ऋषीणाम् उत्तमं तदा उवाच छन्दयन् कामैर् द्रुपदः स तपस्विनम् येन मे कर्मणा ब्रह्मन् पुत्रः स्याद् द्रोणमृत्यवे अर्जुनस्य तथा भार्या भवेद् या वरवर्णिनी उपयाज चरस्वैतत् प्रदास्याम्य् अर्बुदं गवाम् एवम् उक्तस् तु तेनर्षिः प्रत्युवाच पुनश् च तम् नाहं फलार्थी द्रुपद यो ऽर्थी स्यात् तत्र गम्यताम् प्रत्याख्यातस् तु तेनैवं स वै सज्जनसंनिधौ आराधयिष्यन् द्रुपदः स तं पर्यचरत् ततः ततः संवत्सरस्यान्ते द्रुपदं द्विजसत्तमः उपयाजो ऽब्रवीद् वाक्यं काले मधुरया गिरा ज्येष्ठो भ्राता ममागृह्णाद् विचरन् वननिर्झरे अपरिज्ञातशौचायां भूमौ निपतितं फलम् तद् अपश्यम् अहं भ्रातुर् असांप्रतम् अनुव्रजन् विमर्शं च फलादाने नायं कुर्यात् कथं चन यो नापश्यत् फलं दृष्ट्वा दोषांस् तस्यानुबन्धिकान् विविनक्ति न शौचार्थं सो ऽन्यत्रापि कथं भवेत् संहिताध्ययनस्यान्ते पञ्च यज्ञान् निरूप्य च भैक्षम् उञ्छेन सहितं भुञ्जानस् तत् तदा ततः कीर्तयत्य् एव राजर्षे भोजनस्य रसं पुनः संहिताध्ययनं कुर्वन् वने गुरुकुले वसन् भैक्षम् उच्छिष्टम् अन्येषां भुङ्क्ते स्म सततं तदा कीर्तयन् गुणम् अन्नानाम् अथ प्रीतो मुहुर् मुहुः एवं फलार्थिनं तस्मान् मन्ये ऽहं तर्कचक्षुषा तं वै गच्छेह नृपते स त्वां संयाजयिष्यति जुगुप्समानो नृपतिः फलानां कलुषां गतिम् उपयाजवचः श्रुत्वा द्रुपदः सर्वधर्मवित् भृशं संपूज्य पूजार्हम् ऋषिं याजम् उवाच ह गोयुतानि ददाम्य् अष्टौ याज याजय मां विभो द्रोणवैरान्तरे तप्तं विषण्णं शरणागतम् ब्रह्मबन्धुप्रणिहितं न क्षत्रं क्षत्रियो जयेत् तस्माद् द्रोणभयार्तं मां भवांस् त्रातुम् इहार्हति भारद्वाजाग्निना दग्धं संह्लादयितुम् अर्हसि स हि ब्रह्मविदां श्रेष्ठः क्षत्रास्त्रे चाप्य् अनुत्तमः ततो द्रोणस् तु मा जैषीत् सखिविग्रहकारणात् क्षत्रियो नास्ति तुल्यो ऽस्य पृथिव्यां कश् चिद् अग्रणीः भारताचार्यमुख्यस्य भारद्वाजस्य धीमतः द्रोणस्य शरजालानि रिपुदेहहराणि च षडरत्नि धनुश् चास्य खड्गम् अप्रतिमं महत् स हि ब्राह्मणवेगेन क्षत्रवेगम् असंशयम् प्रतिहत्य चरत्य् एव भारद्वाजो महामनाः कार्तवीर्यसमो ह्य् एष खट्वाङ्गप्रतिमो ऽपि वा सहितं क्षत्रवेगेन ब्राह्मं वेगं हि सांप्रतम् उपपन्नं हि मन्ये ऽहं भारद्वाजं यशस्विनम् क्षत्रच्छेदपरायत्तं जामदग्न्यम् इवोद्यतम् नेषवस् तं पराकुर्युर् न च प्रासा न चासयः ब्राह्मं तस्य हरेत् तेजो मन्त्राहुतिहुतं यथा तस्य ह्य् अस्त्रबलं घोरम् अप्रसह्यं परैर् भुवि शत्रून् समेत्य जयति क्षत्रधर्मपुरस्कृतम् ब्रह्मक्षत्रे च सहिते ब्रह्मतेजो विशिष्यते सो ऽहं क्षत्रबलाद् धीनो ब्रह्मतेजः प्रपेदिवान् द्रोणाद् विशिष्टम् आसाद्य भवन्तं ब्रह्मवित्तमम् द्रोणान्तकम् अहं पुत्रं लभेयं युधि दुर्जयम् द्रोणमृत्युर् यथा मे ऽद्य पुत्रो जायेत वीर्यवान् तत् कर्म कुरु मे याज निर्वपाम्य् अर्बुदं गवाम् तथेत्य् उक्त्वा तु तं याजो याज्यार्थं वाक्यम् अब्रवीत् मा भैस् त्वं संप्रदातास्मि कर्मणा भवतः सुतम् क्षिप्रम् उत्तिष्ठ चाव्यग्रः संभारांश् चोपकल्पय एवम् उक्त्वा प्रतिज्ञाय कर्म चास्याददे मुनिः याजो द्रोणविनाशाय याजयाम् आस तं नृपम् गुर्वर्थं याजयन् कर्म याजस्यापि समीपगः ततस् तस्य नरेन्द्रस्य उपयाजो महातपाः आचख्यौ कर्म वैतानं तदा पुत्रफलाय वै स च पुत्रो महावीर्यो महातेजा महाबलः इष्यते यद्विधो राजन् भविता स तथाविधः भारद्वाजस्य हन्तारं सो ऽभिसंधाय भूमिपः आजह्रे तं तथा यज्ञं द्रुपदः कर्मसिद्धये ब्राह्मणो द्विपदां श्रेष्ठो जुहाव च यथाविधि कौकिलीं नाम तां तस्य चक्रे वै पुत्रगृद्धिनः सौत्रामणीं तु तं पत्नीं ततः काले ऽभ्ययात् तदा याजस् तु हवनस्यान्ते देवीम् आह्वापयत् तदा प्रैहि वै राज्ञि पृषति मिथुनं त्वाम् उपस्थितम् कुमारश् च कुमारी च पितृवंशविवृद्धये नालिप्तं वै मम मुखं पुण्यान् गन्धान् बिभर्मि च न पत्नी ते ऽस्मि सूत्यर्थं तिष्ठ याज मम प्रिये याजेन श्रपितं हव्यम् उपयाजेन मन्त्रितम् कथं कामं न संदध्यात् पृषति प्रैहि तिष्ठ वा एवम् उक्ते तु याजेन हुते हविषि संस्कृते उत्तस्थौ पावकात् तस्मात् कुमारो देवसंमितः ज्वालारूपो घोरवर्णः किरीटी वर्म धारयन् वीरः सखड्गः सशरो धनुष्मान् विनदन् मुहुः सो ऽध्यारोहद् रथवरं तेन च प्रययौ तदा जातमात्रे कुमारे च वाक् किलान्तर्हिताब्रवीत् एष शिष्यश् च मृत्युश् च भारद्वाजस्य जायते ततः प्रणेदुः पाञ्चालाः प्रहृष्टाः साधु साध्व् इति भयापहो राजपुत्रः पाञ्चालानां यशस्करः राज्ञः शोकापहो जात एष द्रोणवधाय हि इत्य् अवोचन् महद् भूतम् अदृश्यं खेचरं तदा द्वितीयायां च होत्रायां हुते हविषि मन्त्रिते कुमारी चैव पाञ्चाली वेदिमध्यात् समुत्थिता प्रत्याख्याते पृषत्या च याजके भरतर्षभ पुनः कुमारी पाञ्चाली सुभगा वेदिमध्यमा अन्तर्वेद्यां समुद्भूता कन्या सा सुमनोहरा श्यामा पद्मपलाशाक्षी नीलकुञ्चितमूर्धजा मानुषं विग्रहं कृत्वा साक्षाद् अमरवर्णिनी नीलोत्पलसमो गन्धो यस्याः क्रोशात् प्रवायति या बिभर्ति परं रूपं यस्या नास्त्य् उपमा भुवि देवदानवयक्षाणाम् ईप्सिता देववर्णिनी तां चापि जातां सुश्रोणीं वाग् उवाचाशरीरिणी सर्वयोषिद्वरा कृष्णा क्षयं क्षत्रं निनीषति सुरकार्यम् इयं काले करिष्यति सुमध्यमा अस्या हेतोः क्षत्रियाणां महद् उत्पत्स्यते भयम् तच् छ्रुत्वा सर्वपाञ्चालाः प्रणेदुः सिंहसंघवत् न चैनान् हर्षसंपूर्णान् इयं सेहे वसुंधरा तथा तु मिथुनं जज्ञे द्रुपदस्य महात्मनः कुमारश् च कुमारी च मनोज्ञौ भरतर्षभ श्रिया परमया युक्तौ क्षात्रेण वपुषा तदा तौ दृष्ट्वा पृषती राजन् प्रपेदे सा सुतार्थिनी न वै मद् अन्यां जननीं जानीयाताम् इमाव् इति तथेत्य् उवाच तां याजो राज्ञः प्रियचिकीर्षया तयोस् तु नामनी चक्रुर् द्विजाः संपूर्णमानसाः धृष्टत्वाद् अप्रधृष्यत्वात् धर्माद् द्युम्नभवाद् अपि धृष्टद्युम्नः कुमारो ऽयं द्रुपदस्य भवत्व् इति कृष्णेत्य् एवाब्रुवन् कृष्णां कृष्णाभूत् सा हि वर्णतः तथा तन् मिथुनं जज्ञे द्रुपदस्य महामखे वैदिकाध्ययने पारं धृष्टद्युम्नो गतस् तदा धृष्टद्युम्नं तु पञ्चाल्यम् आनीय द्रुपदात्मजम् उपाकरोद् अस्त्रहेतोर् भारद्वाजः प्रतापवान् अमोक्षणीयं दैवं हि भावितत्वान् महामतिः तथा तत् कृतवान् द्रोण आत्मकीर्त्यर्थरक्षणात् सर्वास्त्राणि तु स क्षिप्रम् आप्तवान् दृष्टमात्रया द्रुपदस्यापि ब्रह्मर्षे श्रोतुम् इच्छामि संभवम् कथं चापि समुत्पन्नः कथम् अस्त्राण्य् अवाप्तवान् एतद् इच्छामि भगवंस् त्वत्तः श्रोतुं द्विजोत्तम कौतुहलं जन्मसु मे कथ्यमानेष्व् अतीव हि राजा बभूव पाञ्चालः पुत्रार्थी पुत्रकारणात् वनं गत्वा महाराजस् तपस् तेपे सुदारुणम् आराधयन् प्रयत्नेन तस्यापत्यस्य कारणात् तस्य संतप्यमानस्य वने मृगगणायुते कालस् तु सुमहान् राजन् प्रत्ययात् सुतकारणात् स तु राजा महावीर्यस् तपस् तीव्रं समाददे किं चित् कालं वायुभक्षो निराहारस् तथैव च तस्यैवं तु महाबाहो वर्तमानस्य भारत कालस् तत्र महान् राजन् प्रत्ययान् नृपसत्तम ततः प्राप्ते महाराज वसन्ते कामदीपने फुल्लाशोकवने काले प्राणिनां सुमनोहरे नद्यास् तीरम् अथो गत्वा गङ्गायाः पद्मलोचनः नियमस्थः स राजासीत् तदा भरतसत्तम ततो नातिचिरात् कालाद् वनं तन् मनुजेश्वर संप्राप्ता सहसा राजन् मेनकेति परिश्रुता नद्यास् तीरे चरन्ती वै क्रीडन्ती च पुनः पुनः पुष्पद्रुमान् प्रभञ्जाना राज्ञो दर्शनम् आगमत् न ददर्श तु सा राजंस् तथा स्थानगतं नृपम् दृष्ट्वा चाप्सरसं तां तु शुक्लं राज्ञो ऽपतद् भुवि तच् च राजा तु राजेन्द्र लज्जया नृपतिः स्वयम् पद्भ्याम् आक्रमतायुष्मंस् ततस् तु द्रुपदो ऽभवत् ततस् तु तस्य तपसा राजर्षेर् भावितात्मनः पुत्रः समभवत् त्व् आर्द्रात् पादान्तस्यान्तरेण तु ते तस्य ऋषयः सर्वे समागम्य तपोधनाः नाम चक्रर् हि विद्वांसो द्रुपदो ऽस्त्व् इति भूमिप स तस्यैवाश्रमे राजन् भरद्वाजस्य भारत ववृधे च सुखं तत्र कामैः सर्वैर् नृपोत्तम पाञ्चालो ऽपि हि राजेन्द्र स्वराज्यं गतवान् प्रभुः भरद्वाजस्य शिक्षार्थं सुतं दत्त्वा महात्मनः स कुमारस् ततो राजन् द्रोणेन सहितो वने वेदांश् चाधिजगे साङ्गान् धनुर्वेदं च भारत परया स मुदा युक्तो विचचार वने सुखम् तस्यैवं वर्तमानस्य वने वनचरैः सह कालान् नातिचिराद् राजन् पिता स्वर्गम् उपेयिवान् स समागम्य पाञ्चालैः पाञ्चालेष्व् अभिषेचितः प्राप्तश् च राज्यं राजेन्द्र सुहृदां प्रीतिवर्धनः राज्यं ररक्ष धर्मेण यथा चेन्द्रस् त्रिविष्टपे एतन् मया ते राजेन्द्र यथावत् परिकीर्तितम् द्रुपदस्य जन्म राजर्षे धृष्टद्युम्नस्य चैव हि धृतराष्ट्रस् तु राजेन्द्र यदा पौरवनन्दनः युधिष्ठिरम् अजानाद् वै समर्थं राज्यधारणे यौवराज्ये ऽभिषेकार्थम् अमन्त्रयत मन्त्रिभिः ते तु बुद्ध्वान्वतप्यन्त धृतराष्ट्रात्मजास् तदा वैशंपायन उवाच ततः संवत्सरस्यान्ते यौवराज्याय पार्थिव स्थापितो धृतराष्ट्रेण पाण्डुपुत्रो युधिष्ठिरः धृतिस्थैर्यसहिष्णुत्वाद् आनृशंस्यात् तथार्जवात् भृत्यानाम् अनुकम्पाच् च तथैव स्थिरसौहृदात् ततो ऽदीर्घेण कालेन कुन्तीपुत्रो युधिष्ठिरः पितुर् अन्तर्दधे कीर्तिं शीलवृत्तसमाधिभिः असियुद्धे गदायुद्धे रथयुद्धे च पाण्डवः संकर्षणाद् अशिक्षद् वै शश्वच् छिक्षां वृकोदरः समाप्तशिक्षो भीमस् तु द्युमत्सेनसमो बले पराक्रमेण संपन्नो भ्रातॄणाम् अचरद् वशे प्रगाढदृढमुष्टित्वे लाघवे वेधने तथा क्षुरनाराचभल्लानां विपाठानां च तत्त्ववित् ऋजुवक्रविशालानां प्रयोक्ता फाल्गुनो ऽभवत् लाघवे सौष्ठवे चैव नान्यः कश् चन विद्यते बीभत्सुसदृशो लोके इति द्रोणो व्यवस्थितः ततो ऽब्रवीद् गुडाकेशं द्रोणः कौरवसंसदि अगस्त्यस्य धनुर्वेदे शिष्यो मम गुरुः पुरा अग्निवेश्य इति ख्यातस् तस्य शिष्यो ऽस्मि भारत तीर्थात् तीर्थं गमयितुम् अहम् एतत् समुद्यतः तपसा यन् मया प्राप्तम् अमोघम् अनिशप्रभम् अस्त्रं ब्रह्मशिरो नाम यद् दहेत् पृथिवीम् अपि ददता गुरुणा चोक्तं न मनुष्येष्व् इदं त्वया भारद्वाज विमोक्तव्यम् अल्पवीर्येष्व् अपि प्रभो यत् त्वयाप्तम् इदं वीर दिव्यं नान्यो ऽर्हति त्व् इदम् समयस् तु त्वया रक्ष्यो मुनिसृष्टो विशां पते आचार्यदक्षिणां देहि ज्ञातिग्रामस्य पश्यतः ददानीति प्रतिज्ञाते फाल्गुनेनाब्रवीद् गुरुः युद्धे ऽहं प्रतियोद्धव्यो युध्यमानस् त्वयानघ तथेति च प्रतिज्ञाय द्रोणाय कुरुपुंगवः उपसंगृह्य चरणौ स प्रायाद् उत्तरां दिशम् स्वभावाद् अगमच् छब्दो महीं सागरमेखलाम् अर्जुनस्य समो लोके नास्ति कश् चिद् धनुर्धरः गदायुद्धे ऽसियुद्धे च रथयुद्धे च पाण्डवः पारगश् च धनुर्युद्धे बभूवाथ धनंजयः नीतिमान् सकलां नीतिं विबुधाधिपतेस् तदा अवाप्य सहदेवो ऽपि भ्रातॄणां ववृते वशे द्रोणेनैव विनीतश् च भ्रातॄणां नकुलः प्रियः चित्रयोधी समाज्ञातो बभूवातिरथोदितः त्रिवर्षकृतयज्ञस् तु गन्धर्वाणाम् उपप्लवे अर्जुनप्रमुखैः पार्थैः सौवीरः समरे हतः न शशाक वशे कर्तुं यं पाण्डुर् अपि वीर्यवान् सो ऽर्जुनेन वशं नीतो राजासीद् यवनाधिपः अतीव बलसंपन्नः सदा मानी कुरून् प्रति वित्तलो नाम सौवीरः शस्तः पार्थेन धीमता दत्तमित्रम् इति ख्यातं संग्रामकृतनिश्चयम् सुमित्रं नाम सौवीरम् अर्जुनो ऽदमयच् छरैः भीमसेनसहायश् च रथिनो मरुधन्वसु अर्जुनः समरे प्राच्यान् सर्वान् एकरथो ऽजयत् तथैवैकरथो गत्वा दक्षिणाम् अजयद् दिशम् धनौघं प्रापयाम् आस कुरुराष्ट्रं धनंजयः एवं सर्वे महात्मानः पाण्डवा मनुजोत्तमाः परराष्ट्राणि निर्जित्य स्वराष्ट्रं ववृधुः पुरा ततो बलम् अभिख्यातं विज्ञाय दृढधन्विनाम् दूषितः सहसा भावो धृतराष्ट्रस्य पाण्डुषु स चिन्तापरमो राजा न निद्राम् अलभन् निशि वैशंपायन उवाच धृतराष्ट्र उवाच वैशंपायन उवाच कणिक उवाच धृतराष्ट्र उवाच कणिक उवाच जम्बुक उवाच कणिक उवाच व्याघ्र उवाच जम्बुक उवाच व्याघ्र उवाच जम्बुक उवाच नकुल उवाच कणिक उवाच वैशंपायन उवाच वैशंपायन उवाच जनमेजय उवाच वैशंपायन उवाच श्रुत्वा पाण्डुसुतान् वीरान् बलोद्रिक्तान् महौजसः धृतराष्ट्रो महीपालश् चिन्ताम् अगमद् आतुरः तत आहूय मन्त्रज्ञं राजशास्त्रार्थवित्तमम् कणिकं मन्त्रिणां श्रेष्ठं धृतराष्ट्रो ऽब्रवीद् वचः उत्सिक्ताः पाण्डवा नित्यं तेभ्यो ऽसूये द्विजोत्तम तत्र मे निश्चिततमं संधिविग्रहकारणम् कणिक मतम् आचक्ष्व करिष्ये ऽहं वचस् तव स प्रसन्नमनास् तेन परिपृष्टो द्विजोत्तमः उवाच वचनं तीक्ष्णं राजशास्त्रनिदर्शनम् शृणु राजन्न् इदं तत्र प्रोच्यमानं मयानघ न मे ऽभ्यसूया कर्तव्या श्रुत्वैतत् कुरुसत्तम नित्यम् उद्यतदण्डः स्यान् नित्यं विवृतपौरुषः अच्छिद्रश् छिद्रदर्शी स्यात् परेषां विवरानुगः नित्यम् उद्यतदण्डाद् धि भृशम् उद्विजते जनः तस्मात् सर्वाणि कार्याणि दण्डेनैव विधारयेत् नास्य च्छिद्रं परः पश्येच् छिद्रेण परम् अन्वियात् गूहेत् कूर्म इवाङ्गानि रक्षेद् विवरम् आत्मनः नासम्यक् कृतकारी स्याद् उपक्रम्य कदा चन कण्टको ह्य् अपि दुश्छिन्न आस्रावं जनयेच् चिरम् वधम् एव प्रशंसन्ति शत्रूणाम् अपकारिणाम् सुविदीर्णं सुविक्रान्तं सुयुद्धं सुपलायितम् आपद्य् आपदि काले च कुर्वीत न विचारयेत् नावज्ञेयो रिपुस् तात दुर्बलो ऽपि कथं चन अल्पो ऽप्य् अग्निर् वनं कृत्स्नं दहत्य् आश्रयसंश्रयात् अन्धः स्याद् अन्धवेलायां बाधिर्यम् अपि चाश्रयेत् कुर्यात् तृणमयं चापं शयीत मृगशायिकाम् सान्त्वादिभिर् उपायैस् तु हन्याच् छत्रुं वशे स्थितम् दया तस्मिन् न कर्तव्या शरणागत इत्य् उत निरुद्विग्नो हि भवति न हताज् जायते भयम् हन्याद् अमित्रं दानेन तथा पूर्वापकारिणम् हन्यात् त्रीन् पञ्च सप्तेति परपक्षस्य सर्वशः मूलम् एवादितश् छिन्द्यात् परपक्षस्य नित्यशः ततः सहायांस् तत्पक्षान् सर्वांश् च तदनन्तरम् छिन्नमूले ह्य् अधिष्ठाने सर्वे तज्जीविनो हताः कथं नु शाखास् तिष्ठेरंश् छिन्नमूले वनस्पतौ एकाग्रः स्याद् अविवृतो नित्यं विवरदर्शकः राजन् राज्यं सपत्नेषु नित्योद्विग्नः समाचरेत् अग्न्याधानेन यज्ञेन काषायेण जटाजिनैः लोकान् विश्वासयित्वा च ततो लुम्पेद् यथा वृकः अङ्कुशं शौचम् इत्य् आहुर् अर्थानाम् उपधारणे आनाम्य फलिनीं शाखां पक्वं पक्वं प्रशातयेत् फलार्थो ऽयं समारम्भो लोके पुंसां विपश्चिताम् वहेद् अमित्रं स्कन्धेन यादत् कालस्य पर्ययः ततः पर्यागते काले भिन्द्याद् घटम् इवाश्मनि अमित्रो न विमोक्तव्यः कृपणं बह्व् अपि ब्रुवन् कृपा तस्मिन् न कर्तव्या हन्याद् एवापकारिणम् हन्याद् अमित्रं सान्त्वेन तथा दानेन वा पुनः तथैव भेददण्डाभ्यां सर्वोपायैः प्रशातयेत् कथं सान्त्वेन दानेन भेदैर् दण्डेन वा पुनः अमित्रः शक्यते हन्तुं तन् मे ब्रूहि यथातथम् शृणु राजन् यथा वृत्तं वने निवसतः पुरा जम्बुकस्य महाराज नीतिशास्त्रार्थदर्शिनः अथ कश् चित् कृतप्रज्ञः शृगालः स्वार्थपण्डितः सखिभिर् न्यवसत् सार्धं व्याघ्राखुवृकबभृभीः ते ऽपश्यन् विपिने तस्मिन् बलिनं मृगयूथपम् अशक्ता ग्रहणे तस्य ततो मन्त्रम् अमन्त्रयन् असकृद् यतितो ह्य् एष हन्तुं व्याघ्र वने त्वया युवा वै जवसंपन्नो बुद्धिशाली न शक्यते मूषिको ऽस्य शयानस्य चरणौ भक्षयत्व् अयम् अथैनं भक्षितैः पादैर् व्याघ्रो गृह्णातु वै ततः ततो वै भक्षयिष्यामः सर्वे मुदितमानसाः जम्बुकस्य तु तद् वाक्यं तथा चक्रुः समाहिताः मूषिकाभक्षितैः पादैर् मृगं व्याघ्रो ऽवधीत् तदा दृष्ट्वा विचेष्टमानं तु भूमौ मृगकलेवरम् स्नात्वागच्छत भद्रं वो रक्षामीत्य् आह जम्बुकः शृगालवचनात् ते ऽपि गताः सर्वे नदीं ततः स चिन्तापरमो भूत्वा तस्थौ तत्रैव जम्बुकः अथाजगाम पूर्वं तु स्नात्वा व्याघ्रो महाबलः ददर्श जम्बुकं चैव चिन्ताकुलितमानसम् किं शोचसि महाप्राज्ञ त्वं नो बुद्धिमतां वरः अशित्वा पिशितान्य् अद्य विहरिष्यामहे वयम् शृणु मे त्वं महाबाहो यद् वाक्यं मूषिको ऽब्रवीत् धिग् बलं मृगराजस्य मयाद्यायं मृगो हतः मद्बाहुबलम् आश्रित्य तृप्तिम् अद्य गमिष्यति गर्जमानस्य तस्यैवम् अतो भक्ष्यं न रोचये ब्रवीति यदि स ह्य् एवं काले ह्य् अस्मिन् प्रबोधितः स्वबाहुबलम् आश्रित्य हनिष्ये ऽहं वनेचरान् खादिष्ये तत्र मांसानि इत्य् उक्त्वा प्रस्थितो वनम् एतस्मिन्न् एव काले तु मूषिको ऽप्याजगाम ह तम् आगतम् अभिप्रेक्ष्य शृगालो ऽप्य् अब्रवीद् वचः शृणु मूषिक भद्रं ते नकुलो यद् इहाब्रवीत् मृगमांसं न खादेयं गरम् एतन् न रोचते मूषिकं भक्षयिष्यामि तद् भवान् अनुमन्यताम् तच् छ्रुत्वा मूषिको वाक्यं संत्रस्तः प्राद्रवद् भयात् ततः स्नात्वा स वै तत्र आजगाम वृको नृप तम् आगतम् इदं वाक्यम् अब्रवीज् जम्बुकस् तदा मृगराजो हि संक्रुद्धो न ते साधु भविष्यति सकलत्रस् त्व् इहायाति कुरुष्व यद् अनन्तरम् एवं संचोदितस् तेन जम्बुकेन तदा वृकः वृकावलुम्पनं कृत्वा प्रयातः पिशिताशनः एतस्मिन्न् एव काले तु नकुलो ऽप्य् आजगाम ह तम् उवाच महाराज नकुलं जम्बुको वने स्वबाहुबलम् आश्रित्य निर्जितास् ते ऽन्यतो गताः मम दत्त्वा नियुद्धं त्वं भुङ्क्ष्व मांसं यथेप्सितम् मृगराजो वृकश् चैव बुद्धिमान् अपि मूषिकः निर्जिता यत् त्वया वीरास् तस्माद् वीरतरो भवान् न त्वयाभ्युत्सहे योद्धुम् इत्य् उक्त्वा सो ऽप्य् उपागमत् एवं तेषु प्रयातेषु जम्बुको हृष्टमानसः खादति स्म तदा मांसम् एकः सन् मन्त्रनिश्चयात् एवं समाचरन् नित्यं सुखम् एधति भूमिपः भयेन भेदयेद् भीरुं शूरम् अञ्जलिकर्मणा लुब्धम् अर्थप्रदानेन समं न्यूनं तथौजसा एवं ते कथितं राजञ् शृणु चाप्य् अपरं तथा पुत्रः सखा वा भ्राता वा पिता वा यदि वा गुरुः रिपुस्थानेषु वर्तन्तः कर्तव्या भूतिवर्धनाः शपथेनाप्य् अरिं हन्याद् अर्थदानेन वा पुनः विषेण मायया वापि नोपेक्षेत कथं चन उभौ चेत् संशयोपेतौ श्रद्धावांस् तत्र वर्धते गुरोर् अप्य् अवलिप्तस्य कार्याकार्यम् अजानतः उत्पथप्रतिपन्नस्य न्याय्यं भवति शासनम् क्रुद्धो ऽप्य् अक्रुद्धरूपः स्यात् स्मितपूर्वाभिभाषिता न चाप्य् अन्यम् अपध्वंसेत् कदा चित् कोपसंयुतः प्रहरिष्यन् प्रियं ब्रूयात् प्रहरन्न् अपि भारत प्रहृत्य च कृपायीत शोचेत च रुदेत च आश्वासयेच् चापि परं सान्त्वधर्मार्थवृत्तिभिः अथास्य प्रहरेत् काले यदा विचलिते पथि अपि घोरापराधस्य धर्मम् आश्रित्य तिष्ठतः स हि प्रच्छाद्यते दोषः शैलो मेघैर् इवासितैः यः स्याद् अनुप्राप्तवधस् तस्यागारं प्रदीपयेत् अधनान् दाम्भिकांश् चोरान् विष्ये स्वे न वासयेत् प्रत्युत्थानासनाद्येन संप्रदानेन केन चित् प्रतिविश्रब्धघाती स्यात् तीक्ष्णदंष्ट्रो निमग्नकः अशङ्कितेभ्यः शङ्केत शङ्कितेभ्यश् च सर्वशः अशङ्क्याद् भयम् उत्पन्नम् अपि मूलं निकृन्तति न विश्वसेद् अविश्वस्ते विश्वस्ते नातिविश्वसेत् विश्वासाद् भयम् उत्पन्नं मूलान्य् अपि निकृन्तति चारः सुविहितः कार्य आत्मनश् च परस्य च पाषण्डांस् तापसादींश् च परराष्ट्रेषु योजयेत् उद्यानेषु विहारेषु देवतायतनेषु च पानागारेषु रथ्यासु सर्वतीर्थेषु चाप्य् अथ चत्वरेषु च द्यूतेषु पर्वतेषु वनेषु च समवायेषु सर्वेषु सरित्सु च विचारयेत् वाचा भृशं विनीतः स्याद् हृदयेन तथा क्षुरः श्लक्ष्णपूर्वाभिभाषी स्यात् सृष्टो रौद्रेण कर्मणा अञ्जलिं शपथं सान्त्वं शिरसा पादवन्दनम् आशाकरणम् इत्य् एकं कर्तव्यं भूतिम् इच्छता सुपुष्पितः स्याद् अफलः फलवान् स्याद् दुरारुहः आमः स्यात् पक्वसंकाशो न च जीर्येत कर्हि चित् त्रिवर्गे त्रिविधा पीडा अनुबन्धास् तथैव च अनुबन्धाः शुभा ज्ञेयाः पीडास् तु परिवर्जयेत् धर्मं विचरतः पीडा सापि द्वाभ्यां नियच्छति अर्थः स्याद् अर्थलुब्धस्य कामस्यातिप्रवर्तिनः अगर्वितात्मा युक्तश् च सान्त्वयुक्तो ऽनसूयिता अवेक्षितार्थः शुद्धात्मा मन्त्रयीत द्विजैः सह कर्मणा येन तेनेह मृदुना दारुणेन वा उद्धरेद् दीनम् आत्मानं समर्थो धर्मम् आचरेत् न संशयम् अनारूढो नरो भद्राणि पश्यति संशयं पुनर् आरुह्य यदि जीवति पश्यति यस्य बुद्धिः परिभवेत् तम् अतीतेन सान्त्वयेत् अनागतेन दुर्बुद्धिं प्रत्युत्पन्नेन पण्डितम् यो ऽरिणा सह संधाय शयीत कृतकृत्यवत् स वृक्षाग्रे यथा सुप्तः पतितः प्रतिबुध्यते मन्त्रसंवरणे यत्नः सदा कार्यो ऽनसूयता आकारश् चात्मनो रक्ष्यश् चारेणाप्य् अनुपालितः नाच्छित्वा परमर्माणि नाकृत्वा कर्म दारुणम् नाहत्वा मत्स्यघातीव प्राप्नोति महतीं श्रियम् कर्शितं व्याधितं क्लिन्नम् अपानीयम् अघासकम् परिविश्वस्तमन्दं च प्रहर्तव्यम् अरेर् बलम् नार्थिको ऽर्थिनम् अभ्येति कृतार्थे नास्ति संगतम् तस्मात् सर्वाणि कार्याणि सावशेषाणि कारयेत् संग्रहे विग्रहे चैव यत्नः कार्यो ऽनसूयता उत्साहश् चापि यत्नेन कर्तव्यो भूतिम् इच्छता नास्य कृत्यानि बुध्येरन् मित्राणि रिपवस् तथा आरब्धान्य् एव पश्येरन् सुपर्यवसितानि च भीतवत् संविधातव्यं यावद् भयम् अनागतम् आगतं तु भयं दृष्ट्वा प्रहर्तव्यम् अभीतवत् दण्डेनोपनतं शत्रुम् अनुगृह्णाति यो नरः स मृत्युम् उपगृह्यास्ते गर्भम् अश्वतरी यथा अनागतं हि बुध्येत यच् च कार्यं पुरः स्थितम् न तु बुद्धिक्षयात् किं चिद् अतिक्रामेत् प्रयोजनम् उत्साहश् चापि यत्नेन कर्तव्यो भूतिम् इच्छता विभज्य देशकालौ च दैवं धर्मादयस् त्रयः नैःश्रेयसौ तु तौ ज्ञेयौ देशकालाव् इति स्थितिः तालवत् कुरुते मूलं बालः शत्रुर् उपेक्षितः गहने ऽग्निर् इवोत्सृष्टः क्षिप्रं संजायते महान् अग्निं स्तोकम् इवात्मानं संधुक्षयति यो नरः स वर्धमानो ग्रसते महान्तम् अपि संचयम् आशां कालवतीं कुर्यात् कालं विघ्नेन योजयेत् विघ्नं निमित्ततो ब्रूयान् निमित्तं चापि हेतुतः क्षुरो भूत्वा हरेत् प्राणान् निशितः कालसाधनः प्रतिच्छन्नो लोमवाही द्विषतां परिकर्तनः पाण्डवेषु यथान्यायम् अन्येषु च कुरूद्वह वर्तमानो न मज्जेस् त्वं तथा कृत्यं समाचर सर्वकल्याणसंपन्नो विशिष्ट इति निश्चयः तस्मात् त्वं पाण्डुपुत्रेभ्यो रक्षात्मानं नराधिप भ्रातृभ्यो बलिनो यस्मात् पाण्डुपुत्रा नराधिप ब्रवीमि तस्माद् विस्पष्टं यत् कर्तव्यम् अरिंदम सपुत्रः शृणु तद् राजञ् श्रुत्वा च भव यत्नवान् यथा भयं न पाण्डुभ्यस् तथा कुरु नराधिप पश्चात्तापो यथा न स्यात् तथा नीतिर् विधीयताम् एवम् उक्त्वा संप्रतस्थे कणिकः स्वगृहं ततः धृतराष्ट्रो ऽपि कौरव्यः शोकार्तः समपद्यत ततः सुबलपुत्रस् तु राजा दुर्योधनश् च ह दुःशासनश् च कर्णश् च दुष्टं मन्त्रम् अमन्त्रयन् ते कौरव्यम् अनुज्ञाप्य धृतराष्ट्रं नराधिपम् दहने तु सपुत्रायाः कुन्त्या बुद्धिम् अकारयन् तेषाम् इङ्गितभावज्ञो विदुरस् तत्त्वदर्शिवान् आकारेणैव तं मन्त्रं बुबुधे दुष्टचेतसाम् ततो विदितवेद्यात्मा पाण्डवानां हिते रतः पलायने मतिं चक्रे कुन्त्याः पुत्रैः सहानघः ततो वातसहां नावं यन्त्रयुक्तां पताकिनीम् ऊर्मिक्षमां दृढां कृत्वा कुन्तीम् इदम् उवाच ह एष जातः कुलस्यास्य कीर्तिवंशप्रणाशनः धृतराष्ट्रः परीतात्मा धर्मं त्यजति शाश्वतम् इयं वारिपथे युक्ता तरङ्गपवनक्षमा नौर् यया मृत्युपाशात् त्वं सपुत्रा मोक्ष्यसे शुभे तच् छ्रुत्वा व्यथिता कुन्ती पुत्रैः सह यशस्विनी नावम् आरुह्य गङ्गायां प्रययौ भरतर्षभ ततो विदुरवाक्येन नावं विक्षिप्य पाण्डवाः धनं चादाय तैर् दत्तम् अरिष्टं प्राविशन् वनम् निषादी पञ्चपुत्रा तु जातुषे तत्र वेश्मनि कारणाभ्यागता दग्धा सह पुत्रैर् अनागसा स च म्लेच्छाधमः पापो दग्धस् तत्र पुरोचनः वञ्चिताश् च दुरात्मानो धार्तराष्ट्राः सहानुगाः अविज्ञाता महात्मानो जनानाम् अक्षतास् तथा जनन्या सह कौन्तेया मुक्ता विदुरमन्त्रितात् ततस् तस्मिन् पुरे लोका नगरे वारणावते दृष्ट्वा जतुगृहं दग्धम् अन्वशोचन्त दुःखिताः प्रेषयाम् आसू राज्ञे च यथावृत्तं निवेदितुम् संवृत्तस् ते महान् कामः पाण्डवान् दग्धवान् असि सकामो भव कौरव्य भुङ्क्ष्व राज्यं सपुत्रकः तच् छ्रुत्वा धृतराष्ट्रश् च सह पुत्रेण शोचयन् प्रेतकार्याणि च तथा चकार सह बान्धवैः पाण्डवानां तथा क्षत्ता भीष्मश् च कुरुसत्तमः पुनर् विस्तरशः श्रोतुम् इच्छामि द्विजसत्तम दाहं जतुगृहस्यैवं पाण्डवानां च मोक्षणम् सुनृशंसम् इदं कर्म तेषां क्रूरोपसंहितम् कीर्तयस्व यथावृत्तं परं कौतूहलं मम शृणु विस्तरशो राजन् ब्रुवतो मे परंतप दाहं जतुगृहस्यैतत् पाण्डवानां च मोक्षणम् वैशंपायन उवाच प्राणाधिकं भीमसेनं कृतविद्यं धनंजयम् दुर्योधनो लक्षयित्व पर्यतप्यत दुर्मतिः ततो वैकर्तनः कर्णः शकुनिश् चापि सौबलः अनेकैर् अभ्युपायैस् ताञ् जिघांसन्ति स्म पाण्डवान् पाण्डवाश् चापि तत् सर्वं प्रत्यजानन्न् अरिंदमाः उद्भावनम् अकुर्वन्तो विदुरस्य मते स्थिताः गुणैः समुदितान् दृष्ट्वा पौराः पाण्डुसुतांस् तदा कथयां चक्रिरे तेषां गुणान् संसत्सु भारत राज्यप्राप्तिं च संप्राप्तं ज्येष्ठं पाण्डुसुतं तदा कथयन्ति स्म संभूय चत्वरेषु सभासु च प्रज्ञाचक्षुर् अचक्षुष्ट्वाद् धृतराष्ट्रो जनेश्वरः राज्यम् अप्राप्तवान् पूर्वं स कथं नृपतिर् भवेत् तथा भीष्मः शांतनवः सत्यसंधो महाव्रतः प्रत्याख्याय पुरा राज्यं नाद्य जातु ग्रहीष्यति विदुरः करणत्वाच् च पाण्डवस् त्व् अभिषिच्यताम् ते वयं पाण्डवं ज्येष्ठं तरुणं वृद्धशीलिनम् अभिषिञ्चाम साध्व् अद्य सत्यं करुणवेदिनम् स हि वृद्धान् अमात्यांश् च ज्ञातींश् चापि महायशाः सत्कृत्य नित्यं पूजार्हान् पाण्डवः पूजयिष्यति स हि भीष्मं शांतनवं धृतराष्ट्रं च धर्मवित् सपुत्रं विविधैर् भोगैर् योजयिष्यति पूजयन् तेषां दुर्योधनः श्रुत्वा तानि वाक्यानि भाषताम् युधिष्ठिरानुरक्तानां पर्यतप्यत दुर्मतिः स तप्यमानो दुष्टात्मा तेषां वाचो न चक्षमे ईर्ष्यया चाभिसंतप्तो धृतराष्ट्रम् उपागमत् ततो विरहितं दृष्ट्वा पितरं प्रतिपूज्य सः पौरानुरागसंतप्तः पश्चाद् इदम् अभाषत श्रुता मे जल्पतां तात पौराणाम् अशिवा गिरः तेषां श्रुत्वा तु वाक्यानि परितप्स्यामि भारत युधिष्ठिरानुरक्तानां पौराणाम् अशिवानि च आगतो ऽहं महाप्राज्ञ पादमूलं वचः शृणु त्वाम् अनादृत्य भीष्मं च पतिम् इच्छन्ति पाण्डवम् मतम् एतच् च भीष्मस्य न स राज्यं बुभूषति अस्माकं तु परां पीडां चिकीर्षन्ति पुरे जनाः पितृतः प्राप्तवान् राज्यं पाण्डुर् आत्मगुणैः पुरा त्वम् अप्य् अगुणसंयोगात् प्राप्तं राज्यं न लब्धवान् स एष पाण्डोर् दायाद्यं यदि प्राप्नोति पाण्डवः तस्य पुत्रो ध्रुवं प्राप्तस् तस्य तस्येति चापरः ते वयं राजवंशेन हीनाः सह सुतैर् अपि अवज्ञाता भविष्यामो लोकस्य जगतीपते सततं निरयं प्राप्ताः परपिण्डोपजीविनः न भवेम यथा राजंस् तथा शीघ्रं विधीयताम् अथ त्वम् अपि राजेन्द्र राजवंशो भविष्यसि अभविष्यः स्थिरो राज्ये यदि हि त्वं पुरा नृप ध्रुवं प्राप्स्याम च वयं राज्यम् अप्य् अवशे जने यदि त्वं च महाराज राजवंशाच् चरिष्यसि वयं चैव यतिष्यामो ह्य् अगाधे निरये ऽशुचौ स तथा कुरु कौरव्य रक्ष्या वंश्या यथा वयम् संप्राप्नुम स्वयं राज्यं मन्त्रयस्व सहानुगैः वैशंपायनः वैशंपायनः धृतराष्ट्रः दुर्योधनः धृतराष्ट्रस् तु पुत्रस्य श्रुत्वा वचनम् ईदृशम् प्राणाधिकं भीमसेनं कृतविद्यं धनंजयम् मुहूर्तम् इव संचिन्त्य दुर्योधनम् अथाब्रवीत् दुर्योधनो लक्षयित्वा पर्यतप्यत दुर्मतिः तथा वैकर्तनः कर्णः शकुनिश् चापि सौबलः धर्मवृत्तः सदा पाण्डुः सुवृत्तो मयि गौरवात् सर्वेषु ज्ञातिषु तथा मदीयेषु विशेषतः अनेकैर् अप्य् उपायैस् ते जिघांसन्ति स्म पाण्डवान् नात्र किं चन जानाति भोजनानि चिकीर्षति पाण्डवाश् चापि तत् सर्वं प्रतिचक्रुर् यथाबलम् उद्भावनम् अकुर्वाणा विदुरस्य मते स्थिताः निवेदयति धर्मस्थो मयि धर्मभृतां वरः गुणैः समुदितान् दृष्ट्वा पौराः पाण्डुसुतांस् तदा तस्य पुत्रो यथा पाण्डुस् तदा धर्मपरः सदा कथयां चक्रिरे तेषां गुणान् संसत्सु भारत गुणवांल् लोकविख्यातो नगरे च प्रतिष्ठितः स कथं शक्यते ऽस्माभिर् अपक्रष्टुं नरर्षभ राज्यप्राप्तिं च संप्राप्तं ज्येष्ठं पाण्डुसुतं तदा कथयन्ति स्म संभूय चत्वरेषु सभासु च राज्यम् एष हि नः प्राप्तः ससहायो विशेषतः भ्रातृभिः पाण्डुनामात्यं बलं च सततं धृतम् प्रज्ञाचक्षुर् अचक्षुष्मान् धृतराष्ट्रो जनेश्वरः राज्यं च प्राप्तवान् पूर्वं स कथं नृपतिर् भवेत् धृताः पुत्राश् च पौत्राश् च तेषाम् अपि विशेषतः ते तथा सत्कृतास् तात विषये पाण्डुना नराः तथा भीष्मः शांतनवः सत्यसंधो जितेन्द्रियः कथं युधिष्ठिरस्यार्थे न नो हन्युः सबान्धवान् प्रत्याख्याय तदा राज्यं नाद्य जातु ग्रहीष्यति ते वयं पाण्डवश्रेष्ठं तरुणं वृद्धशीलिनम् नैते विषयम् इच्छेयुर् धर्मत्यागे विशेषतः अभिषिञ्चाम साध्व् अत्र सत्यं करुणवेदिनम् ते वयं कौरवेयाणाम् एतेषां च महात्मनाम् स हि भीष्मं शांतनवं धृतराष्ट्रं च बुद्धिमान् कथं न वाच्यतां तात गच्छेम जगतस् तथा सपुत्रं विविधैर् भोगैर् योजयिष्यति पूजयन् मध्यस्थः सततं भीष्मो द्रोणपुत्रो मयि स्थितः यतः पुत्रस् ततो द्रोणो भविता नात्र संशयः तेषां दुर्योधनः श्रुत्वा तानि वाक्यानि भारत युधिष्ठिरानुरक्तानां पर्यतप्यत दुर्मतिः कृपः शारद्वतश् चैव यत एव वयं ततः संतप्यमानो दुष्टात्मा तेषां वाचो न चक्षमे भागिनेयं ततो द्रौणिं न त्यक्ष्यति कथं चन क्षत्तार्थबद्धस् त्व् अस्मासु प्रच्छन्नस् तु यतः परे ईर्ष्यया चापि संतप्तो धृतराष्ट्रम् उपागमत् न त्व् एकः स समर्थो ऽस्मान् पाण्डवार्थे प्रवाधितुम् ततो विरहितं दृष्ट्वा पितरं प्रतिपूज्य च सुविस्रब्धान् पाण्डुसुतान् सह मात्रा विवासय दृष्ट्वा पाण्डोः पुरावृत्तं पश्चाद् इदम् उवाच ह श्रुता मे जल्पतां वाचः पौराणाम् अशिवा गिरः वारणावतम् अद्यैव नात्र दोषो भविष्यति आगतो ऽहं महाप्राज्ञ पादमूलं वचः शृणु विनिद्राकरणं घोरं हृदि शल्यम् इवार्पितम् शोकपावकम् उद्भूतं कर्मणा तेन नाशय त्वाम् अनादृत्य भीष्मं च पतिम् इच्छन्ति पाण्डवम् सौम्ये मतिश् च भीष्मस्य न च राज्यं बुभूषति तस्य पुत्रो ध्रुवं प्राप्तस् तस्य तस्येति चापरः ते वयं राजवंशेन हीनाः सह सुतैर् अपि अविज्ञाता भविष्यामो लोकस्य जगतीपते सततं निरयं प्राप्ताः परपिण्डोपजीविनः न भवेम यथा राजंस् तथा शीघ्रं विधीयताम् अथ त्वम् अपि राजेन्द्र राजवंशो भविष्यसि यदि हि त्वं पुरा राज्ये भवान् आस्थापितो नृपः ध्रुवं लप्स्यामहे राज्यं वयम् अप्य् अवशेन ते स तथा कुरु कौरव्य रक्ष्या वंश्या यथा वयम् संप्राप्नुमः स्वयं राज्यं मन्त्रयस्व सहानुगैः दुर्योधनः वैशंपायनः धृतराष्ट्रस् तु वचनं श्रुत्वा सुमहद् अप्रियम् उवाच मतिमान् वाक्यं दुर्योधनम् अरिंदमम् जात्यन्धश् चाप्य् अहं तात पाण्डुना पूजितो भृशम् राजानो यद्य् अपि श्रेष्ठा धर्महेतोर् भवन्ति हि प्रज्ञाचक्षुर् अनेत्रत्वाद् अशक्तो राष्ट्रगोपने न चान्धः परचक्राणि प्रतिव्यूहति संगरे अर्थशास्त्रं मयाधीतं साङ्गा वेदाश् च पुत्रक धार्तराष्ट्र स्वयं राज्ञा योद्धव्यं धर्मकाङ्क्षिणा रणे च मृत्युः स्वर्गाय राजन्यस्य विधीयते पुत्रसंक्रामितश्रीर् वा वासाय वनम् आश्रयेत् ज्येष्ठो ऽयम् इति राज्ये च स्थापितो विकलो ऽपि सन् निर्जित्य परराष्ट्राणि पाण्डुर् मह्यं न्यवेदयत् कुलधर्मस्थापनाय ज्येष्ठो ऽहं ज्येष्ठभाङ् न च बहूनां भ्रातृणां (!) मध्ये श्रेष्ठो ज्येष्ठो हि श्रेयसा कनीयान् अपि स ज्येष्ठः श्रेष्ठः श्रेयान् कुलस्य वै तस्माज् ज्येष्ठश् च श्रेष्ठश् च पाण्डुर् धर्मभृतां वरः तस्य पुत्रा गुणैः ख्याता अर्थे च कृतनिश्चयाः कृतास्त्रा लब्धलक्षाश् च पाण्डुपुत्रा महारथाः धर्मे च नीतिशास्त्रे च तथा च निरताः सदा पौरजानपदानां च प्रीतिर् एषु विशेषतः कथं नामोत्सहे वत्स नगराच् च विवासितुम् पौरजानपदैः सार्धं विप्रा जल्पन्ति नित्यशः प्रज्ञाचक्षुर् अनेत्रत्वाद् अशक्तो राज्यरक्षणे ते वयं पाण्डवश्रेष्ठं तरुणं वृद्धशीलिनम् राजानम् अभिषिञ्चामः सत्यं करुणवेदिनम् स हि वृद्धान् अमात्यांश् च ज्ञातींश् चापि महायशाः सत्कृत्य नित्यं पूजार्हान् पाण्डवः पूजयिष्यति पितामहं शांतनवं धृतराष्ट्रं च धर्मतः सपुत्रं विविधैर् भोगैर् वासयिष्यति मानितः इत्य् एवं विलपन्ति स्म वदन्ति च जना मुहुः राजन् दुःखशताविष्टाः पौराः शतसहस्रशः तेषां श्रुत्वा तु वाक्यानि पौराणाम् अशिवानि च युधिष्ठिरानुरक्तानां परितप्स्यामि भारत धृतराष्ट्रस् तु पुत्रस्य श्रुत्वा वाक्यम् उवाच ह यथा न वाच्यतां पुत्र गच्छेम च तथा कुरु एवं तस्य वचः श्रुत्वा प्रविश्य च गृहं महत् वैशंपायन उवाच एवं श्रुत्वा तु पुत्रस्य प्रज्ञाचक्षुर् नराधिपः कणिकस्य च वाक्यानि तानि श्रुत्वा स सर्वशः धृतराष्ट्रो द्विधाचित्तः शोकार्तः समपद्यत दुर्योधनश् च कर्णश् च शकुनिः सौबलस् तथा दुःशासनचतुर्थास् ते मन्त्रयाम् आसुर् एकतः ततो दुर्योधनो राजा धृतराष्ट्रम् अभाषत पाण्डवेभ्यो भयं नः स्यात् तान् विवासयतां भवान् निपुणेनाभ्युपायेन नगरं वारणावतम् धृतराष्ट्रस् तु पुत्रस्य श्रुत्वा वचनम् ईदृशम् मुहूर्तम् इव संचिन्त्य दुर्योधनम् अथाब्रवीत् धर्मनित्यः सदा पाण्डुर् ममासीत् प्रियकृद् धितः सर्वेषु ज्ञातिषु तथा मयि त्व् आसीद् विशेषतः नास्य किं चिन् न जानामि भोजनादि चिकीर्षितम् निवेदयति नित्यं हि मम राज्यं धृतव्रतः तस्य पुत्रो यथा पाण्डुस् तथा धर्मपरायणः गुणवांल् लोकविख्यातः पौराणां च सुसंमतः स तथा वर्तमानो ऽसौ धर्मसूनुर् यथानुजः स कथं शक्यम् अस्माभिर् अपक्रष्टुं बलाद् इतः पितृपैतामहाद् राज्यात् ससहायो विशेषतः भृता हि पाण्डुनामात्या बलं च सततं भृतम् भृताः पुत्राश् च पौत्राश् च तेषाम् अपि विशेषतः ते पुरा सत्कृतास् तात पाण्डुना पौरवा जनाः कथं युधिष्ठिरस्यार्थे न नो हन्युः सबान्धवान् दुर्योधन उवाच एवम् एतन् मया तात भावितं दोषम् आत्मनि दृष्ट्वा प्रकृतयः सर्वा अर्थमानेन योजिताः ध्रुवम् अस्मत्सहायास् ते भविष्यन्ति प्रधानतः अर्थवर्गः सहामात्यो मत्संस्थो ऽद्य महीपते स भवान् पाण्डवान् आशु विवासयितुम् अर्हति मृदुनैवाभ्युपायेन नगरं वारणावतम् यदा प्रतिष्ठितं राज्यं मयि राजन् भविष्यति तदा कुन्ती सहापत्या पुनर् एष्यति भारत धृतराष्ट्र उवाच दुर्योधन ममाप्य् एतद् धृदि संपरिवर्तते अभिप्रायस्य पापत्वान् नैतत् तु विवृणोम्य् अहम् न च भीष्मो न च द्रोणो न क्षत्ता न च गौतमः विवास्यमानान् कौन्तेयान् अनुमंस्यन्ति कर्हि चित् समा हि कौरवेयाणां वयम् एते च पुत्रक नैते विषमम् इच्छेयुर् धर्मयुक्ता मनस्विनः ते वयं कौरवेयाणाम् एतेषां च महात्मनाम् कथं न वध्यतां तात गच्छेम जगतस् तथा दुर्योधन उवाच मध्यस्थः सततं भीष्मो द्रोणपुत्रो मयि स्थितः यतः पुत्रस् ततो द्रोणो भविता नात्र सांशयः कृपः शारद्वतश् चैव यत एते त्रयस् ततः द्रोणं च भागिनेयं च न स त्यक्ष्यति कर्हि चित् क्षत्तार्थबद्धस् त्व् अस्माकं प्रच्छन्नं तु यतः परे न चैकः स समर्थो ऽस्मान् पाण्डवार्थे प्रबाधितुम् स विश्रब्धः पाण्डुपुत्रान् सह मात्रा विवासय वारणावतम् अद्यैव नात्र दोषो भविष्यति विनिद्रकरणं घोरं हृदि शल्यम् इवार्पितम् शोकपावकम् उद्भूतं कर्मणैतेन नाशय वैशंपायन उवाच ततो दुर्योधनो राजा सर्वास् ताः प्रकृतीः शनैः अर्थमानप्रदानाभ्यां संजहार सहानुजः युयुत्सुम् अपनीयैकं धार्तराष्ट्राः सहोदराः धृतराष्ट्रप्रयुक्तास् तु के चित् कुशलमन्त्रिणः कथयां चक्रिरे रम्यं नगरं वारणावतम् अयं समाजः सुमहान् रमणीयतमो भुवि उपस्थितः पशुपतेर् नगरे वारणावते सर्वरत्नसमाकीर्णे पुंसां देशे मनोरमे इत्य् एवं धृतराष्ट्रस्य वचनाच् चक्रिरे कथाः कथ्यमाने तथा रम्ये नगरे वारणावते गमने पाण्डुपुत्राणां जज्ञे तत्र मतिर् नृप यदा त्व् अमन्यत नृपो जातकौतूहला इति उवाचैनान् अथ तदा पाण्डवान् अम्बिकासुतः अधीतानि च शास्त्राणि युष्माभिर् इह कृत्स्नशः अस्त्राणि च तथा द्रोणाद् गौतमाच् च शरद्वतः सो ऽहम् एवंगते तात चिन्तयामि समन्ततः रक्षणे व्यवहारे च राज्यस्य सततं हिताः ममेमे पुरुषा नित्यं कथयन्ति पुनः पुनः रमणीयतरं लोके नगरं वारणावतम् ते तात यदि मन्यध्वम् उत्सवं वारणावते सगणाः सानुयात्राश् च विहरध्वं यथामराः ब्राह्मणेभ्यश् च रत्नानि गायनेभ्यश् च सर्वशः प्रयच्छध्वं यथाकामं देवा इव सुवर्चसः कं चित् कालं विहृत्यैवम् अनुभूय परां मुदम् इदं वै हास्तिनपुरं सुखिनः पुनर् एष्यथ निवसध्वं च तत्रैव संरक्षणपरायणाः वैलक्षण्यं हि तत्रैव भविष्यति परंतपाः नगरं पुनर् एवेदम् उपयास्यथ पाण्डवाः धृतराष्ट्रस्य तं कामम् अनुबुद्ध्वा युधिष्ठिरः आत्मनश् चासहायत्वं तथेति प्रत्युवाच तम् ततो भीष्मं महाप्राज्ञं विदुरं च महामतिम् द्रोणं च बाह्लिकं चैव सोमदत्तं च कौरवम् कृपम् आचार्यपुत्रं च गान्धारीं च यशस्विनीम् . . . . . . . . भूरिश्रवसम् एव च मान्यान् अन्यान् अमात्यांश् च ब्राह्मणांश् च तपोधनान् पुरोहितांश् च पौरांश् च . . . . . . . . सर्वमातॄर् उपस्पृष्ट्वा (सिच्) विदुरस्य च योषितः युधिष्ठिरः शनैर् दीनम् उवाचेदं वचस् तदा रमणीये जनाकीर्णे नगरे वारणावते सगणास् तात वत्स्यामो धृतराष्ट्रस्य शासनात् प्रसन्नमनसः सर्वे पुण्या वाचो विमुञ्चत आशीर्भिर् वर्धितान् अस्मान् न पापं प्रसहिष्यति एवम् उक्तास् तु ते सर्वे पाण्डुपुत्रेण कौरवाः प्रसन्नवदना भूत्वा ते ऽभ्यवर्तन्त पाण्डवान् स्वस्त्य् अस्तु वः पथि सदा भूतेभ्यश् चैव सर्वशः मा च वो ऽस्त्व् अशुभं किं चित् सर्वतः पाण्डुनन्दनाः ततः कृतस्वस्त्ययना राज्यलाभाय पाण्डवाः कृत्वा सर्वाणि कार्याणि प्रययुर् वारणावतम् वैशंपायन उवाच एवम् उक्तेषु राज्ञा तु पाण्डवेषु महात्मसु दुर्योधनः परं हर्षम् आजगाम दुरात्मवान् ततः सुबलपुत्रश् च कर्णो दुर्योधनस् तथा दाहने सहपुत्रायाः कुन्त्या मतिम् अकुर्वत मन्त्रयित्वा स तैः सार्धं दुरात्मा धृतराष्ट्रजः स पुरोचनम् एकान्तम् आनीय भरतर्षभ गृहीत्वा दक्षिणे पाणौ सचिवं वाक्यम् अब्रवीत् ममेयं वसुसंपूर्णा पुरोचन वसुंधरा यथेयं मम तद्वत् ते स तां रक्षितुम् अर्हसि न हि मे कश् चिद् अन्यो ऽस्ति वैश्वासिकतरस् त्वया सहायो येन संधाय मन्त्रयेयं यथा त्वया संरक्ष तात मन्त्रं च सपत्नांश् च ममोद्धर निपुणेनाभ्युपायेन यद् ब्रवीमि तथा कुरु पाण्डवा धृतराष्ट्रेण प्रेषिता वारणावतम् उत्सवे विहरिष्यन्ति धृतराष्ट्रस्य शासनात् स त्वं रासभयुक्तेन स्यन्दनेनाशुगामिना वारणावतम् अद्यैव यथा यासि तथा कुरु तत्र गत्वा चतुःशालं गृहं परमसंवृतम् आयुधागारम् आश्रित्य कारयेथा महाधनम् शणसर्जरसादीनि यानि द्रव्याणि कानि चित् आग्नेयान्य् उत सन्तीह तानि सर्वाणि दापय बल्वजेन च संमिश्रं मधूच्छिष्टेन चैव हि सर्पिषा च सतैलेन लाक्षया चाप्य् अनल्पया मृत्तिकां मिश्रयित्वा त्वं लेपं कुड्येषु दापयेः यथाज्ञप्तं नृपतिना कौरवेण यशस्विना एषां तु पाण्डवेयानां गृहं रौद्रम् अकारयत् शणान् वंशं घृतं दारु यन्त्राणि विविधानि च तस्मिन् वेश्मनि सर्वाणि निक्षिपेथाः समन्ततः यथा च त्वां न शङ्केरन् परीक्षन्तो ऽपि पाण्डवाः आग्नेयम् इति तत् कार्यम् इति चान्ये च मानवाः वेश्मन्य् एवं कृते तत्र कृत्वा तान् परमार्चितान् वासयेः पाण्डवेयांश् च कुन्तीं च ससुहृज्जनाम् तत्रासनानि मुख्यानि यानानि शयनानि च विधातव्यानि पाण्डूनां यथा तुष्येत मे पिता यथा रमेरन् विश्रब्धा नगरे वारणावते तथा सर्वं विधातव्यं यावत् कालस्य पर्ययः ज्ञात्वा तु तान् सुविश्वस्ताञ् शयानान् अकुतोभयान् अग्निस् ततस् त्वया देयो द्वारतस् तस्य वेश्मनः दग्धान् एवं स्वके गेहे दग्धा इति ततो जनाः ज्ञातयो वा वदिष्यन्ति पाण्डवार्थाय कर्हि चित् तत् तथेति प्रतिज्ञाय कौरवाय पुरोचनः प्रायाद् रासभयुक्तेन नगरं वारणावतम् स गत्वा त्वरितो राजन् दुर्योधनमते स्थितः यथोक्तं राजपुत्रेण सर्वं चक्रे पुरोचनः वैशंपायन उवाच पाण्डवास् तु रथान् युक्त्वा सदश्वैर् अनिलोपमैः आरोहमाणा भीष्मस्य पादौ जगृहुर् आर्तवत् राज्ञश् च धृतराष्ट्रस्य द्रोणस्य च महात्मनः अन्येषां चैव वृद्धानां विदुरस्य कृपस्य च एवं सर्वान् कुरून् वृद्धान् अभिवाद्य यतव्रताः समालिङ्ग्य समानांश् च बालैश् चाप्य् अभिवादिताः सर्वा मातॄस् तथापृष्ट्वा कृत्वा चैव प्रदक्षिणम् . . . . . . . . यथार्हम् अमितौजसः शोचन्तः पाण्डवाः सर्वे . . . . . . . . सर्वाः प्रकृतयश् चैव प्रययुर् वारणावतम् विदुरश् च महाप्राज्ञस् तथान्ये कुरुपुंगवाः पौराश् च पुरुषव्याघ्रान् अन्वयुः शोककर्शिताः तत्र केच् चिद् ब्रुवन्ति स्म ब्राह्मणा निर्भयास् तदा शोचमानाः पाण्डुपुत्रान् अतीव भरतर्षभ विषमं पश्यते राजा सर्वथा तमसावृतः धृतराष्ट्रः सुदुर्बुद्धिर् न च धर्मं प्रपश्यति न हि पापम् अपापात्मा रोचयिष्यति पाण्डवः भीमो वा बलिनां श्रेष्ठः कौन्तेयो वा धनंजयः कुत एव महाप्राज्ञौ माद्रीपुत्रौ करिष्यतः तद् राज्यं पितृतः प्राप्तं धृतराष्ट्रो न मृष्यते अधर्मम् अखिलं किं नु भीष्मो ऽयम् अनुमन्यते विवास्यमानान् अस्थाने कौन्तेयान् भरतर्षभान् पितेव हि नृपो ऽस्माकम् अभूच् छांतनवः पुरा विचित्रवीर्यो राजर्षिः पाण्डुश् च कुरुनन्दनः स तस्मिन् पुरुषव्याघ्रे दिष्टभावं गते सति राजपुत्रान् इमान् बालान् धृतराष्ट्रो न मृष्यते वयम् एतद् अमृष्यन्तः सर्व एव पुरोत्तमात् गृहान् विहाय गच्छामो यत्र याति युधिष्ठिरः तांस् तथावादिनः पौरान् दुःखितान् दुःखकर्शितः उवाच परमप्रीतो धर्मराजो युधिष्ठिरः पिता मान्यो गुरुः श्रेष्ठो यद् आह पृथिवीपतिः अशङ्कमानैस् तत् कार्यम् अस्माभिर् इति नो व्रतम् भवन्तः सुहृदो ऽस्माकम् अस्मान् कृत्वा प्रदक्षिणम् आशीर्भिर् अभिनन्द्यास्मान् निवर्तध्वं यथागृहम् यदा तु कार्यम् अस्माकं भवद्भिर् उपपत्स्यते तदा करिष्यथ मम प्रियाणि च हितानि च ते तथेति प्रतिज्ञाय कृत्वा चैतान् प्रदक्षिणम् आशीर्भिर् अभिनन्द्यैनाञ् जग्मुर् नगरम् एव हि पौरेषु तु निवृत्तेषु विदुरः सर्वधर्मवित् बोधयन् पाण्डवश्रेष्ठम् इदं वचनम् अब्रवीत् प्राज्ञः प्राज्ञं प्रलापज्ञः सम्यग् धर्मार्थदर्शिवान् प्राज्ञश् च विप्रलापज्ञः सम्यग् धर्मार्थतत्त्ववित् प्राज्ञं प्राज्ञः प्रलापज्ञः प्रलापज्ञं वचो ऽब्रवीत् (!) यो जानाति परप्रज्ञां नीतिशास्त्रानुसारिणीम् विज्ञायेदं तथा कुर्याद् आपदं निस्तरेद् यथा अलोहं निशितं शस्त्रं शरीरपरिकर्तनम् यो वेत्ति न तम् आघ्नन्ति प्रतिघातविदं द्विषः कक्षघ्नः शिशिरघ्नश् च महाकक्षे बिलौकसः न दहेद् इति चात्मानं यो रक्षति स जीवति नाचक्षुर् वेत्ति पन्थानं नाचक्षुर् विन्दते दिशः नाधृतिर् भूतिम् आप्नोति बुध्यस्वैवं प्रबोधितः अनाप्तैर् दत्तम् आदत्ते नरः शस्त्रम् अलोहजम् श्वाविच् छरणम् आसाद्य प्रमुच्येत हुताशनात् चरन् मार्गान् विजानाति नक्षत्रैर् विन्दते दिशः आत्मना चात्मनः पञ्च पीडयन् नानुपीड्यते एवम् उक्तः प्रत्युवाच धर्मराजो युधिष्ठिरः विदुरं विदुषां श्रेष्ठं ज्ञातम् इत्य् एव पाण्डवः अनुशिष्ट्वानुगत्वा च कृत्वा चैनान् प्रदक्षिणम् अभिवाद्य ततः कुन्तीं रुदन् पाण्डुम् अचिन्तयत् पाण्डवान् अभ्यनुज्ञाय विदुरः प्रययौ गृहान् निवृत्ते विदुरे चैव भीष्मे पौरजने तथा अजातशत्रुम् आमन्त्र्य कुन्ती वचनम् अब्रवीत् क्षत्ता यद् अब्रवीद् वाक्यं जनमध्ये ऽब्रुवन्न् इव त्वया च तत् तथेत्य् उक्तो जानीमो न च तद् वयम् यदि तच् छक्यम् अस्माभिः श्रोतुं न च सदोषवत् श्रोतुम् इच्छामि तत् सर्वं संवादं तव तस्य च युधिष्ठिर उवाच विषाद् अग्नेश् च बोद्धव्यम् इति मां विदुरो ऽब्रवीत् पन्थाश् च वो नाविदितः कश् चित् स्याद् इति चाब्रवीत् जितेन्द्रियश् च वसुधां प्राप्स्यसीति च माब्रवीत् विज्ञातम् इति तत् सर्वम् इत्य् उक्तो विदुरो मया वैशंपायन उवाच अष्टमे ऽहनि रोहिण्यां प्रयाताः फल्गुनस्य ते वारणावतम् आसाद्य ददृशुर् नागरं जनम् वैशंपायन उवाच ततः सर्वाः प्रकृतयो नगराद् वारणावतात् सर्वमङ्गलसंयुक्ता यथाशास्त्रम् अतन्द्रिताः श्रुत्वागतान् पाण्डुपुत्रान् नानायानैः सहस्रशः अभिजग्मुर् नरश्रेष्ठाञ् श्रुत्वैव परया मुदा ते समासाद्य कौन्तेयान् वारणावतका जनाः कृत्वा जयाशिषः सर्वे परिवार्योपतस्थिरे तैर् वृतः पुरुषव्याघ्रो धर्मराजो युधिष्ठिरः विबभौ देवसंकाशो वज्रपाणिर् इवामरैः सत्कृतास् ते तु पौरैश् च पौरान् सत्कृत्य चानघाः अलंकृतं जनाकीर्णं विविशुर् वारणावतम् ते प्रविश्य पुरं वीरास् तूर्णं जग्मुर् अथो गृहान् ब्राह्मणानां महीपाल रतानां स्वेषु कर्मसु नगराधिकृतानां च गृहाणि रथिनां तथा उपतस्थुर् नरश्रेष्ठा वैश्यशूद्रगृहान् अपि अर्चिताश् च नरैः पौरैः पाण्डवा भरतर्षभाः जग्मुर् आवसथं पश्चात् पुरोचनपुरस्कृताः तेभ्यो भक्ष्यान्नपानानि शयनानि शुभानि च आसनानि च मुख्यानि प्रददौ स पुरोचनः तत्र ते सत्कृतास् तेन सुमहार्हपरिच्छदाः उपास्यमानाः पुरुषैर् ऊषुः पुरनिवासिभिः दशरात्रोषितानां तु तत्र तेषां पुरोचनः निवेदयाम् आस गृहं शिवाख्यम् अशिवं तदा तत्र ते पुरुषव्याघ्रा विविशुः सपरिच्छदाः पुरोचनस्य वचनात् कैलासम् इव गुह्यकाः तत् त्व् अगारम् अभिप्रेक्ष्य सर्वधर्मविशारदः उवाचाग्नेयम् इत्य् एवं भीमसेनं युधिष्ठिरः जिघ्रन् सोम्य वसागन्धं सर्पिर् जतुविमिश्रितम् कृतं हि व्यक्तम् आग्नेयम् इदं वेश्म परंतप मृद् एषा व्यक्तम् आग्नेयैर् द्रव्यैर् मिश्रस्य वेश्मनः शणसर्जरसं व्यक्तम् आनीतं गृहकर्मणि मुञ्जबल्वजवंशादि द्रव्यं सर्वं घृतोक्षितम् शणबल्वजकार्पासवंशदारुकटान्य् अपि आग्नेयान्य् अत्र क्षिप्तानि परितो वेश्मनस् तथा शिल्पिभिः सुकृतं ह्य् आप्तैर् विनीतैर् वेश्मकर्मणि विश्वस्तं माम् अयं पापो दग्धुकामः पुरोचनः तथा हि वर्तते मन्दः सुयोधनवशे स्थितः इमां तु तां महाबुद्धिर् विदुरो दृष्टवांस् तदा आपदं तेन मां पार्थ स संबोधितवान् पुरा आग्नेयं रुचिरं वेश्म कारितं दृश्यते शुभम् अस्माकं भागधेयेन विदुरेण महात्मना ते वयं बोधितास् तेन बुद्धवन्तो ऽशिवं गृहम् . . . . . . . . नित्यम् अस्मद्धितैषिणा पित्रा कनीयसा स्नेहात् . . . . . . . . आचार्यैः सुकृतं गूढैर् दुर्योधनवशानुगैः भीम उवाच यद् इदं गृहम् आग्नेयं विहितं मन्यते भवान् पुरोचनम् इमं दग्ध्वा गम्यते वारणावतान् तत्रैव साधु गच्छामो यत्र पूर्वोषिता वयम् दर्शयित्वा पृथग् गन्तुं न कार्यं प्रतिभाति मे अशुभं वा शुभं वापि तैर् वसाम सहैव तु अद्य प्रभृति चास्मासु गतेषु भयविह्वलः रूढमूलो भवेद् राज्ये धार्तराष्ट्रो जनेश्वरः तदीयं च भवेद् राज्यं तदीयाः स्युः प्रजा इमाः तस्मात् सहैव वत्स्यामो गलन्यस्तपदा वयम् अस्माकं कालम् आसाद्य राज्यम् आच्छिद्य शत्रुतः अर्धं पैतृकम् अस्माकं सुखं भोक्ष्याम शाश्वतम् धृतराष्ट्रवचो ऽस्माभिः किमर्थम् अनुमन्यते तेभ्यो भीत्यान्यथा गन्तुं दौर्बल्यं ते कुतो नृप आपत्सु रक्षितास्माकं विदुरो ऽस्ति महामतिः मध्यस्थ एव गाङ्गेयो राज्यभोगपराङ्मुखः बाह्लिकप्रमुखा वृद्धा मध्यस्था एव सर्वदा अस्मदीयो भवेद् द्रोणः फल्गुनप्रेमसंयुतः तस्मात् सहैव वस्तव्यं न गन्तव्यं पृथङ् नृप अथवास्मासु ते कुर्युः किम् अशक्ताः पराक्रमैः क्षुद्राः कपटिनो धूर्ता जाग्रत्सु मनुजेश्वर किं न कुर्युः पुरा मह्यं किं न दत्तं पुरा विषम् आशीविषैर् महाघोरैः सर्पैस् तैः किं न दंशितः प्रमाणकोट्यां संनह्य निद्रापरवशे मयि सर्पैर् दृष्टिविषैर् घोरैर् गङ्गायां शूलसंततौ किं तैर् न पातितो भूप तदा किं मृतवाहनम् आपत्सु च सुघोरासु दुष्प्रयुक्तासु पापिभिः अस्मान् अरक्षद् यो देवो जगद् यस्य वशे स्थितम् चराचरात्मकं सो ऽद्य यातः क्व नु नृपोत्तम यावत् सोढव्यम् अस्माभिस् तावत् सोढास्मि यत्नतः यदा न रक्ष्यते ऽस्माभिस् तदा पश्याम नो हितम् किं द्रष्टव्यं तदास्माभिर् विगृह्य तरसा बलात् सान्त्ववादेन दानेन भेदेनापि यतामहे अर्धराज्यस्य संप्राप्त्यै ततो दण्डः प्रशस्यते तस्मात् सहैव वस्तव्यं तन्मनोर्पितशल्यवत् दर्शयित्वा पृथग् वापि न गन्तव्यं सुभीतवत् युधिष्ठिर उवाच इह यत्तैर् निराकारैर् वस्तव्यम् इति रोचये इति किं त्व् अयम् एतावान् किम् अतः परम् आपतत् विचारयन्तो जाग्रन्तः प्राणिभिर् हितकाङ्क्षिभिः इहैव वस्तव्यम् इति मन्मनो रोचते ऽनुज नष्टैर् इव विचिन्वद्भिर् गतिम् इष्टां ध्रुवाम् इतः इतः परं ते किं कुर्युर् जिज्ञासद्भिर् अभीतवत् यदि विन्देत चाकारम् अस्माकं हि पुरोचनः शीघ्रकारी ततो भूत्वा प्रसह्यापि दहेत नः नायं बिभेत्य् उपक्रोशाद् अधर्माद् वा पुरोचनः तथा हि वर्तते मन्दः सुयोधनमते स्थितः अपि चेह प्रदग्धेषु भीष्मो ऽस्मासु पितामहः कोपं कुर्यात् किमर्थं वा कौरवान् कोपयेत सः अथवापीह दग्धेषु भीष्मो ऽस्माकं पितामहः धर्म इत्य् एव कुप्येत तथान्ये कुरुपुंगवाः उपपन्नं तु दग्धेषु कुलवंशानुकीर्तिताः कुप्येरन् यदि धर्मज्ञास् तथान्ये कुरुपुंगवाः वयं तु यदि दाहस्य बिभ्यतः प्रद्रवेम हि स्पशैर् नो घातयेत् सार्वान् राज्यलुब्धः सुयोधनः अपदस्थान् पदे तिष्ठन्न् अपक्षान् पक्षसंस्थितः हीनकोशान् महाकोशः प्रयोगैर् घातयेद् ध्रुवम् तद् अस्माभिर् इमं पापं तं च पापं सुयोधनम् वञ्चयद्भिर् निवस्तव्यं छन्नवासं क्व चित् क्व चित् ते वयं मृगयाशीलाश् चराम वसुधाम् इमाम् तथा नो विदिता मार्गा भविष्यन्ति पलायताम् भौमं च बिलम् अद्यैव करवाम सुसंवृतम् गूढोच्छ्वसान् न नस् तत्र हुताशः संप्रधक्ष्यति वसतो ऽत्र यथा चास्मान् न बुध्येत पुरोचनः पौरो वापि जनः कश् चित् तथा कार्यम् अतन्द्रितैः वैशंपायन उवाच विदुरस्य सुहृत् कश् चित् खनकः कुशलः क्व चित् विविक्ते पाण्डवान् राजन्न् इदं वचनम् अब्रवीत् प्रहितो विदुरेणास्मि खनकः कुशलो भृशम् पाण्डवानां प्रियं कार्यम् इति किं करवाणि वः प्रच्छन्नं विदुरेणोक्तः श्रेयस् त्वम् इह पाण्डवान् प्रतिपादय विश्वासाद् इति किं करवाणि वः कृष्णपक्षे चतुर्दश्यां रात्राव् अस्य पुरोचनः भवनस्य तव द्वारि प्रदास्यति हुताशनम् मात्रा सह प्रदग्धव्याः पाण्डवाः पुरुषर्षभाः इति व्यवसितं पार्थ धार्तराष्ट्रस्य मे श्रुतम् किं चिच् च विदुरेणोक्तो म्लेच्छवाचासि पाण्डव त्वया च तत् तथेत्य् उक्तम् एतद् विश्वासकारणम् उवाच तं सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः अभिजानामि सौम्य त्वां सुहृदं विदुरस्य वै शुचिम् आप्तं प्रियं चैव सदा च दृढभक्तिकम् न विद्यते कवेः किं चिद् अभिज्ञानप्रयोजनम् यथा नः स तथा नस् त्वं निर्विशेषा वयं त्वयि भवतः स्म यथा तस्य पालयास्मान् यथा कविः इदं शरणम् आग्नेयं मदर्थम् इति मे मतिः पुरोचनेन विहितं धार्तराष्ट्रस्य शासनात् स पापः कोशवांश् चैव ससहायश् च दुर्मतिः अस्मान् अपि च दुष्टात्मा नित्यकालं प्रबाधते स भवान् मोक्षयत्व् अस्मान् यत्नेनास्माद् धुताशनात् अस्मास्व् इह हि दग्धेषु सकामः स्यात् सुयोधनः समृद्धम् आयुधागारम् इदं तस्य दुरात्मनः वप्रान्ते निष्प्रतीकारम् आश्लिष्येदं कृतं महत् इदं तद् अशुभं नूनं तस्य कर्म चिकीर्षितम् प्राग् एव विदुरो वेद तेनास्मान् अन्वबोधयत् सेयम् आपद् अनुप्राप्ता क्षत्ता यां दृष्टवान् पुरा पुरोचनस्याविदितान् अस्मांस् त्वं विप्रमोचय स तथेति प्रतिश्रुत्य खनको यत्नम् आस्थितः परिखाम् उत्किरन् नाम चकार सुमहद् बिलम् चक्रे च वेश्मनस् तस्य मध्ये नातिमहन् मुखम् कपाटयुक्तम् अज्ञातं समं भूम्या च भारत पुरोचनभयाच् चैव व्यदधात् संवृतं मुखम् स वै स्वर्गाद् इहायातः इन्द्रस्यातिप्रियंकरः पाण्डवानां हितं कर्तुम् इन्द्रेण प्रेषितस् तदा नित्यमृद्भक्षणपरो दिनैर् दशभिर् एव च कृत्वा बिलं च सुमहत् पुनः स्वर्गम् इतो गतः सर्वम् इन्द्रे निवेद्याथ पुनः स्वर्गात् समागतः स तत्र च गृहद्वारि वसत्य् अशुभधीः सदा तत्र ते सायुधाः सर्वे वसन्ति स्म क्षपां नृप दिवा चरन्ति मृगयां पाण्डवेया वनाद् वनम् विश्वस्तवद् अविश्वस्ता वञ्चयन्तः पुरोचनम् अतुष्टास् तुष्टवद् राजन्न् ऊषुः परमदुःखिताः न चैनान् अन्वबुध्यन्त नरा नगरवासिनः अन्यत्र विदुरामात्यात् तस्मात् खनकसत्तमात् वैशंपायन उवाच तांस् तु दृष्ट्वा सुमनसः परिसंवत्सरोषितान् विश्वस्तान् इव संलक्ष्य हर्षं चक्रे पुरोचनः स तु संचिन्तयाम् आस प्रहृष्टेनान्तरात्मना प्राप्तकालम् इदं मन्ये पाण्डवानां विनाशने तद् अस्यान्तर्गतं भावं विज्ञाय कुरुपुंगवः चिन्तयाम् आस मतिमान् धर्मपुत्रो युधिष्ठिरः पुरोचने तथा हृष्टे कौन्तेयो ऽथ युधिष्ठिरः भीमसेनार्जुनौ चैव यमौ चोवाच धर्मवित् अस्मान् अयं सुविश्वस्तान् वेत्ति पापः पुरोचनः वञ्चितो ऽयं नृशंसात्मा कालं मन्ये पलायने आयुधागारम् आदीप्य दग्ध्वा चैव पुरोचनम् षट् प्राणिनो निधायेह द्रवामो ऽनभिलक्षिताः अथ दानापदेशेन कुन्ती ब्राह्मणभोजनम् चक्रे निशि महद् राजन्न् आजग्मुस् तत्र योषितः ता विहृत्य यथाकामं भुक्त्वा पीत्वा च भारत जग्मुर् निशि गृहान् एव समनुज्ञाप्य माधवीम् पुरोचनप्रणिहिता पृथां स्म किल सेवते निषादी दुष्टहृदया नित्यम् अन्तरचारिणी निषादी पञ्चपुत्रा तु तस्मिन् भोज्ये यदृच्छया पुराभ्यासकृतस्नेहा सखी कुन्त्याः समा सुतैः आनीय मधुमूलानि फलानि विविधानि च अन्नार्थिनी समभ्यागात् सपुत्रा कालचोदिता पापा च पञ्चपुत्रा सा पृथायाः सखिमानिनी सा पीत्वा मदिरां मत्ता सपुत्रा मदविह्वला सह सर्वैः सुतै राजंस् तस्मिन्न् एव निवेशने सुष्वाप विगतज्ञाना मृतकल्पा नराधिप अथ प्रवाते तुमुले निशि सुप्ते जने विभो तद् उपादीपयद् भीमः शेते यत्र पुरोचनः ततो जतुगृहद्वारं दीपयाम् आस पाण्डवः समन्ततो ददौ पश्चाद् अग्निं तत्र निवेशने ज्ञात्वा तु तद् गृहं सर्वम् आदीप्तं पाण्डुनन्दनाः सुरङ्गां (!) विविशुस् तूर्णं मात्रा सार्धम् अरिंदमाः पूर्वम् एव बिलं शोध्य भीमसेनो महामतिः पाण्डवैः सहितां कुन्तीं प्रावेशयत तद् बिलम् दत्त्वाग्निं सहसा भीमो निर्जगाम बिलेन सः गृहे तत्परितः सुधीः गृहस्थं द्रव्यसंजातं ततः प्रतापः सुमहाञ् शब्दश् चैव विभावसोः प्रादुरासीत् तदा तेन बुबुधे स जनव्रजः तद् अवेक्ष्य गृहं दीप्तम् आहुः पौराः कृशाननाः पौरा ऊचुः दुर्योधनप्रयुक्तेन पापेनाकृतबुद्धिना गृहम् आत्मविनाशाय कारितं दाहितं च यत् अहो धिक् पाण्डवाः सर्वे दह्यन्त इति चुक्रुशुः चक्रुश् च परमं यत्नं नरास् तेषां प्रमोक्षणे ततस् ते जातुषं वेश्म ददृशू रोमहर्षणम् पाण्डवानां विनाशाय विहितं क्रूरकर्मणा पुरोचनेन पापेन दुर्योधनहितेप्सया अहो धिग् धृतराष्ट्रस्य बुद्धिर् नातिसमञ्जसी यः शुचीन् पाण्डवान् बालान् दाहयाम् आस मन्त्रिणा दिष्ट्या त्व् इदानीं पापात्मा दग्धो ऽयम् अतिदुर्मतिः अनागसः सुविश्वस्तान् यो ददाह नरोत्तमान् वैशंपायन उवाच एवं ते विलपन्ति स्म वारणावतका जनाः परिवार्य गृहं तच् च तस्थू रात्रौ समन्ततः पाण्डवाश् चापि ते राजन् मात्रा सह सुदुःखिताः बिलेन तेन निर्गत्य जग्मुर् गूढम् अलक्षिताः तेन निद्रोपरोधेन साध्वसेन च पाण्डवाः न शेकुः सहसा गन्तुं सह मात्रा परंतपाः भीमसेनस् तु राजेन्द्र भीमवेगपराक्रमः जगाम भ्रातॄन् आदाय सर्वान् मातरम् एव च स्कन्धम् आरोप्य जननीं यमाव् अङ्केन वीर्यवान् पार्थौ गृहीत्वा पाणिभ्यां भ्रातरौ सुमहाबलौ बिलेन योजनं दूरं गत्वा सिद्धपदे शुभे निश्चेरुर् वटमूले ते निद्रामुद्रितलोचनाः बिलान् निर्गत्य सहसा भ्रातॄन् मातरम् एव च गङ्गातीरवनं प्राप्य वहन् प्रायात् स मारुतिः तरसा पादपान् भञ्जन् महीं पद्भ्यां विदारयन् स जगामाशु तेजस्वी वातरंहा वृकोदरः अव्यक्तवनमार्गः सन् भञ्जन् गुल्मलतागुरून् वैशंपायन उवाच एतस्मिन्न् एव काले तु यथासंप्रत्य् अयं कविः विदुरः प्रेषयाम् आस तद्वनं पुरुषं शुचिम् स गत्वा तु यथोद्देशं पाण्डवान् ददृशे वने जनन्या सह कौरव्य मापयानान् नदीजलम् विदितं तन् महाबुद्धेर् विदुरस्य महात्मनः ततस् तस्यापि चारेण चेष्टितं पापचेतसः ततः संप्रेषितो विद्वान् विदुरेण नरस् तदा पार्थानां दर्शयाम् आस मनोमारुतगामिनीम् सर्ववातसहां नावं यन्त्रयुक्तां पताकिनीम् शिवे भागीरथीतीरे नरैर् विस्रम्भिभिः कृताम् ततः पुनर् अथोवाच ज्ञापकं पूर्वचोदितम् युधिष्ठिर निबोधेदं संज्ञार्थं वचनं कवेः कक्षघ्नः शिशिरघ्नश् च महाकक्षे बिलौकसः न हन्तीत्य् एवम् आत्मानं यो रक्षति स जीवति तेन मां प्रेषितं विद्धि विश्वस्तं संज्ञयानया भूयश् चैवाह मां क्षत्ता विदुरः सर्वतो ऽर्थवित् कर्णं दुर्योधनं चैव भ्रातृभिः सहितं रणे शकुनिं चैव कौन्तेय विजेतासि न संशयः इयं वारिपथे युक्ता नौर् अप्सु सुखगामिनी मोचयिष्यति वः सर्वान् अस्माद् देशान् न संशयः अथ तान् व्यथितान् दृष्ट्वा सह मात्रा नरोत्तमान् नावम् आरोप्य गङ्गायां प्रस्थितान् अब्रवीत् पुनः विदुरो मूर्ध्न्य् उपाघ्राय परिष्वज्य च वो मुहुः अरिष्टं गच्छताव्यग्राः पन्थानम् इति चाब्रवीत् इत्य् उक्त्वा स तु तान् वीरान् पुमान् विदुरचोदितः तारयाम् आस राजेन्द्र गङ्गां नावा नरर्षभान् तारयित्वा ततो गङ्गां पारं प्राप्तांश् च सर्वशः जयाशिषः प्रयुज्याथ यथागतम् अगाद् धि सः पाण्डवाश् च महात्मानः प्रतिसंदिश्य वै कवेः गङ्गाम् उत्तीर्य वेगेन जग्मुर् गूढम् अलक्षिताः वैशंपायन उवाच अथ रात्र्यां व्यतीतायाम् अशेषो नागरो जनः तत्राजगाम त्वरितो दिदृक्षुः पाण्डुनन्दनान् निर्वापयन्तो ज्वलनं ते जना ददृशुस् ततः जातुषं तद् गृहं दग्धम् अमात्यं च पुरोचनम् नूनं दुर्योधनेनेदं विहितं पापकर्मणा पाण्डवानां विनाशाय इत्य् एवं चुक्रुषुर् जनाः विदिते धृतराष्ट्रस्य धार्तराष्ट्रो न संशयः दग्धवान् पाण्डुदायादान् न ह्य् एनं प्रतिषिद्धवान् नूनं शांतनवो भीष्मो न धर्मम् अनुवर्तते द्रोणश् च विदुरश् चैव कृपश् चान्ये च कौरवाः नावेक्षन्ते हतं धर्मं धर्मज्ञा अप्य् अहो विधे श्रुतवन्तो ऽपि विद्वांसो धनवद् वशगा अहो साधून् अनाथान् धर्मिष्ठान् सत्यव्रतपरायणान् नावेक्षन्ते महान्तो ऽपि दैवं तेषां परायणम् ते वयं धृतराष्ट्रस्य प्रेषयामो दुरात्मनः संवृत्तस् ते परः कामः पाण्डवान् दग्धवान् असि ततो व्यपोहमानास् ते पाण्डवार्थे हुताशनम् निषादीं ददृशुर् दग्धां पञ्चपुत्राम् अनागसम् इतः पश्यत कुन्तीयं दग्धा शेते यशस्विनी पुत्रैः सहैव वार्ष्णेयी हन्त पश्यत नागराः खनकेन तु तेनैव वेश्म शोधयता बिलम् पांसुभिः प्रत्यपिहितं पुरुषैस् तैर् अलक्षितम् इत्य् एव सर्वे शोचन्तः पृथक् चैव तथाब्रुवन् ततस् ते प्रेषयाम् आसुर् धृतराष्ट्रस्य नागराः पाण्डवान् अग्निना दग्धान् अमात्यं च पुरोचनम् श्रुत्वा तु धृतराष्ट्रस् तद् राजा सुमहद् अप्रियम् विनाशं पाण्डुपुत्राणां विललाप सुदुःखितः अन्तर्हृष्टमनाश् चासौ बहिर्दुःखसमाकुलः अन्तः शीतो बहिश् चोष्णो ग्रीष्मे ऽगाधह्रदो यथा अद्य पाण्डुर् मृतो राजा भ्राता मम सुदुर्लभः तेषु वीरेषु दग्धेषु मात्रा सह विशेषतः गच्छन्तु पुरुषाः शीघ्रं नगरं वारणावतम् सत्कारयन्तु तान् वीरान् कुन्तिराजसुतां च ताम् कारयन्तु च कुल्यानि शुभ्राणि च महान्ति च ये च तत्र मृतास् तेषां सुहृदो ऽर्चन्तु तान् अपि मम दग्धा महात्मानः कुलवंशविवर्धनाः एवंगते मया शक्यं यद् यत् कारयितुं हितम् पाण्डवानां च कुन्त्याश् च तत् सर्वं क्रियतां धनैः वैशंपायनः समेतास् तु ततः सर्वे भीष्मेण सह कौरवाः धृतराष्ट्रः सपुत्रश् च गङ्गाम् अभिमुखा ययुः एकवस्त्रा निरानन्दा निराभरणवेष्टनाः उदकं कर्तुकामा वै पाण्डवानां महात्मनाम् सपुत्रबान्धवामात्यास् त्यक्तमङ्गलवाहनाः अच्छत्राश् चान्तरा राजन् गङ्गाम् अभिमुखा ययुः एवम् उक्त्वा ततश् चक्रे ज्ञातिभिः परिवारितः उदकं पाण्डुपुत्राणां धृतराष्ट्रो ऽम्बिकासुतः चुक्रुशुः कौरवाः सर्वे भृशं शोकपरायणाः हा युधिष्ठिर कौरव्य हा भीम इति चापरे हा फाल्गुनेति चाप्य् अन्ये हा यमाव् इति चापरे कुन्तीम् आर्ताश् च शोचन्त उदकं चक्रिरे जनाः अन्ये पौरजनाश् चैवम् अन्वशोचन्त पाण्डवान् अहो रूपं तु लावण्यम् अथ विद्याबलं मुहुः औचित्यम् अथवा प्रेम किं किं शोचामहे वयम् इत्य् एवं बहु भाषन्तो रुरुदुर् नागरा भृशम् विदुरस् त्व् अल्पशश् चक्रे शोकं वेद परं हि सः वैशंपायनः भीष्मः वैशंपायनः विदुरः ततः प्रव्यथितो भीष्मः पाण्डुराजसुतान् मृतान् मात्रा सहेति ताञ् श्रुत्वा विललाप रुरोद च हा युधिष्ठिर हा भीम हा धनंजय हा यमौ हा पृथे सह पुत्रैस् त्वम् एकरात्रेण स्वर्गता मात्रा सह कुमारास् ते सर्वे तत्रैव संस्थिताः न हि तौ नोत्सहेयातां भीमसेनधनंजयौ तरसा वेगितात्मानौ निर्भेत्तुम् अपि मन्दिरम् परासुत्वं न पश्यामि पृथायाः सह पाण्डवैः सर्वथा विकृतं तत् तु यदि ते निधनं गताः धर्मराजः स निर्दिष्टो ननु विप्रैर् युधिष्ठिरः पृथिव्यां चरतां श्रेष्ठो भविता स धनंजयः सत्यव्रतो धर्मदत्तः सत्यवाक् शुभलक्षणः कथं कालवशं प्राप्तः पाण्डवेयो युधिष्ठिरः आत्मानम् उपमां कृत्वा परेषां वर्तते तु यः सह मात्रा तु कौरव्यः कथं कालवशं गतः परिपालितश् चिरं कालं फलकाले यथा द्रुमः भग्नः स्याद् वायुवेगेन तथा राजा युधिष्ठिरः यौवराज्याभिषिक्तेन पितुर् येनाहृतं यशः आत्मनश् च पितुश् चैव सत्यधर्मार्यवृत्तिभिः स ब्रह्मण्यः परप्रेक्षी हृदि शोकं निधाय मे कालेन स हि संभग्नो धिक् कृतान्तम् अनर्थदम् यच् च सा वनवासेन क्लेशिता दुःखभागिनी पुत्रगृध्नुतया कुन्ती न भर्तारं मृता त्व् अनु अल्पकालं कुले जाता भर्तुः प्रीतिम् अवाप या दग्धाद्य सह पुत्रैः सा असंपूर्णमनोरथा एतच् च चिन्तयानस्य बहुधा व्यथितं मनः अवधूय च मे देहं हृदये ऽग्निर् न दीर्यते पीनस्कन्धश् चारुबाहुर् मेरुकूटसमो युवा मृतो भीम इति श्रुत्वा मनो न श्रद्दधाति मे अतित्यागी च योगी च क्षिप्रहस्तो दृढायुधः प्रवृत्तिमांल् लब्धलक्ष्यो रथयानविशारदः दूरपाती त्व् असंभ्रान्तो महावीर्यो महास्त्रवित् अदीनात्मा नरव्याघ्रः श्रेष्ठः सर्वधनुष्मताम् येन प्राच्यास् तु सौवीरा दाक्षिणात्याश् च निर्जिताः ख्यापितं येन शूरेण त्रिषु लोकेषु पौरुषम् यस्मिञ् जाते विशोकाभूत् कुन्ती पाण्डुश् च वीर्यवान् पुरंदरसमो जिष्णुः कथं कालवशं गतः कथं तौ वृषभस्कन्धौ सिंहविक्रान्तगामिनौ मर्त्यधर्मम् अनुप्राप्तौ यमाव् अरिनिबर्हणौ तस्य विक्रन्दितं श्रुत्वा उदकं च प्रसिञ्चतः देशकालं समाज्ञाय विदुरः प्रत्यभाषत मा शोचस् त्वं नरव्याघ्र जहि शोकं महाव्रत न तेषां विद्यते पापं प्राप्तकालं कृतं मया तच् च तेभ्यः स उदकं विप्रषिञ्चतु भारत सो ऽब्रवीत् किं चिद् उच्चार्य कौरवाणाम् अशृण्वताम् क्षत्तारम् अनुसंगृह्य बाष्पोत्पीडकलस्वरः कथं ते तात जीवन्ति पाण्डोः पुत्रा महारथाः कथम् अस्मत्कृते पक्षः पाण्डोर् न हि निपातितः कथं मत्प्रमुखाः सर्वे प्रमुक्ता महतो भयात् जननी गरुडेनेव कुमारास् ते समुद्धृताः एवम् उक्तस् तु कौरव्यः कौरवाणाम् अशृण्वताम् आचचक्षे स धर्मात्मा भीष्मायाद्भुतकर्मणे धृतराष्ट्रस्य शकुनेः राज्ञो दुर्योधनस्य च विनाशे पाण्डुपुत्राणां कृतो मतिविनिश्चयः तत्राहम् अपि च ज्ञात्वा तस्य पापस्य निश्चयम् तं जिघांसुर् अहं चापि तेषाम् अनुमते स्थितः ततो जतुगृहं गत्वा दहने ऽस्मिन् नियोजिते पृथायाश् च सपुत्राया धार्तराष्ट्रस्य शासनात् ततः खनकम् आहूय सुरङ्गां वै बिले तदा सगुहां कारयित्वा ते कुन्त्या पाण्डुसुतास् तदा निष्क्रामिता मया पूर्वं मा स्म शोके मनः कृथाः ततस् तु नावम् आरोप्य सहपुत्रां पृथाम् अहम् दत्त्वाभयं सपुत्रायै कुन्त्यै गृहम् अदाहयम् तस्मात् ते मा स्म भूद् दुःखं मुक्ताः पापात् तु पाण्डवाः निर्गताः पाण्डवा राजन् मात्रा सह परंतपाः अग्निदाहान् महाघोरान् मया तस्माद् उपायतः मा स्म शोकम् इमं कार्षीर् जीवन्त्य् एव च पाण्डवाः प्रच्छन्ना विचरिष्यन्ति यावत् कालस्य पर्ययः तस्मिन् युधिष्ठिरं काले द्रक्ष्यन्ति भुवि मानवाः विमलं कृष्णपक्षान्ते जगच्चन्द्रम् इवोदितम् न तस्य नाशं पश्यामि यस्य भ्राता धनंजयः भीमसेनश् च दुर्धर्षो माद्रीपुत्रौ च भारत पाण्डवाश् चापि निर्गत्य नगराद् वारणावतात् नदीं गङ्गाम् अनुप्राप्ता मातृषष्ठा महाबलाः दाशानां भुजवेगेन नद्याः स्रोतोजवेन च वायुना चानुकूलेन तूर्णं पारम् अवाप्नुवन् जवेन प्रययू राजन् दक्षिणां दिशम् आश्रिताः विज्ञाय निशि पन्थानं नक्षत्रैर् दक्षिणामुखाः यतमाना वनं राजन् गहनं प्रतिपेदिरे ततः श्रान्ताः पिपासार्ता निद्रान्धाः पाण्डुनन्दनाः पुनर् ऊचुर् महावीर्यं भीमसेनम् इदं वचः इतः कष्टतरं किं नु यद् वयं गहने वने दिशश् च न प्रजानीमो गन्तुं चैव न शक्नुमः तं च पापं न जानीमो यदि दग्धः पुरोचनः कथं नु विप्रमुच्येम भयाद् अस्माद् अलक्षिताः पुनर् अस्मान् उपादाय तथैव व्रज भारत त्वं हि नो बलवान् एको यथा सततगस् तथा इत्य् उक्तो धर्मराजेन भीमसेनो महाबलः आदाय कुन्तीं भ्रातॄंश् च जगामाशु महाबलः वैशंपायन उवाच तेन विक्रमता तूर्णम् ऊरुवेगसमीरितम् वनं सवृक्षविटपं व्याघूर्णितम् इवाभवत् प्रववाव् अनिलो राजञ् शुचिशुक्रागमे यथा आवर्जितलतावृक्षं मार्गं चक्रे महाबलः स मृद्नन् पुष्पितांश् चैव फलितांश् च वनस्पतीन् आरुजन् दारुगुल्मांश् च पथस् तस्य समीपजान् स रोषित इव क्रुद्धो वने भञ्जन् महाद्रुमान् त्रिःप्रस्रुतमदः शुष्मी षष्टिवर्षी मतङ्गराट् तथा वृक्षान् भञ्जमानो जगामामितविक्रमः तस्य कक्षद्वयोद्भूतपवनध्वनिर् उत्थितः गुम्भिताशेषदिग्भागः शुश्रुवे ऽतिभयंकरः तस्य वेगेन पाण्डूनां मूर्च्छेव समजायत असकृच् चापि संतीर्य दूरपारं भुजप्लवैः उत्ततार नदीं गङ्गां विहंगासंगवाग्मिनीम् मातरं च वहन् भ्रातॄन् अश्रमेण समीरजः पथि प्रच्छन्नम् आसेदुर् धार्तराष्ट्रभयात् तदा कृच्छ्रेण मातरं त्व् एकां सुकुमारीं यशस्विनीम् अवहत् तत्र पृष्ठेन रोधःसु विषमेषु च आगमंस् ते वनोद्देशम् अल्पमूलफलोदकम् क्रूरपक्षिमृगं घोरं सायाह्ने भरतर्षभाः घोरा समभवत् संध्या दारुणा मृगपक्षिणः अप्रकाशा दिशः सर्वा वातैर् आसन्न् अनार्तवैः शीर्णपर्णफलै राजन् बहुगुल्मक्षुपैर् द्रुमैः भग्नावभुग्नभूयिष्ठैर् नानाद्रुमसमाकुलैः ते श्रमेण च कौरव्यास् तृष्णया च प्रपीडिताः नाशक्नुवंस् तदा गन्तुं निद्रया च प्रवृद्धया अतीव गहनं घोरं दुर्विज्ञेयपथं क्व चित् न्यविशन्त हि ते सर्वे निरास्वादे महावने ततस् तृषापरिक्षामा कुन्ती पुत्रान् अथाब्रवीत् माता सती पाण्डवानां पञ्चानां मध्यतः स्थिता तृष्णया हि परीतास्मि पुत्रान् भृशम् अथाब्रवीत् तच् छ्रुत्वा भीमसेनस्य मातृस्नेहात् प्रजल्पितम् कारुण्येन मनस् तप्तं गमनायोपचक्रमे रात्र्याम् एव गतास् तूर्णं चतुर्विंशतियोजनम् इतः परम् अहं शक्ता न गन्तुं च पदात् पदम् शयिष्ये वृक्षमूले ऽत्र धार्तराष्ट्रा हरन्तु माम् शृणु भीम वचो मह्यं तव बाहुबलात् पुरः स्थातुं न शक्ताः कौरव्याः किं बिभेषि वृथा सुत अन्ये ऽरयो न मे सन्ति भीमसेनाद् ऋते भुवि धार्तराष्ट्राद् वृथा भीरो न मां स्वप्तुम् इहेच्छसि भीमपृष्ठस्थिता चेत्थं दूयमानेन चेतसा साश्रुध्वनि रुदन्ती सा निद्रावशम् उपागता ततो भीमो वनं घोरं प्रविश्य विजनं महत् न्यग्रोधं विपुलच्छायं रमणीयम् उपाद्रवत् तत्र निक्षिप्य तान् सर्वान् उवाच भरतर्षभः पानीयं मृगयामीह विश्रमध्वम् इति प्रभो एते रुवन्ति मधुरं सारसा जलचारिणः ध्रुवम् अत्र जलस्थायो महान् इति मतिर् मम अनुज्ञातः स गच्छेति भ्रात्रा ज्येष्ठेन भारत जगाम तत्र यत्र स्म रुवन्ति जलचारिणः स तत्र पीत्वा पानीयं स्नात्वा च भरतर्षभ तेषाम् अर्थे च जग्राह भ्रातॄणां भ्रातृवत्सलः पङ्कजानाम् अनेकैश् च पत्रैर् बद्ध्वा जलाशयान् उत्तरीयेण पानीयम् आजहार तदा नृप गव्यूतिमात्राद् आगत्य त्वरितो मातरं प्रति शोकदुःखपरीतात्मा निशश्वासोरगो यथा भातॄंश् च मातरं चैव जलं शीतम् अपाययत् पीतोदकास् ते सर्वे ऽपि परिश्रमवशात् पुनः निद्रापहृतधैर्याश् च सुषुपुर् भृशविह्वलाः स सुप्तां मातरं दृष्ट्वा भ्रातॄंश् च वसुधातले महारौद्रे वने घोरे वृक्षमूले सुशीतले विक्षिप्तकरपादांश् च दीर्घोच्छ्वासमहारवान् ऊर्ध्ववक्त्रान् महाकायान् पञ्चेन्द्रान् इव भूतले अज्ञातवृक्षनिलयप्रेतराक्षससाध्वसान् भृशं दुःखपरीतात्मा विललाप वृकोदरः अतः कष्टतरं किं नु द्रष्टव्यं हि भविष्यति यत् पश्यामि महीसुप्तान् भ्रातॄन् अद्य सुमन्दभाक् शयनेषु परार्ध्येषु ये पुरा वारणावते नाधिजग्मुस् तदा निद्रां ते ऽद्य सुप्ता महीतले स्वसारं वसुदेवस्य शत्रुसंघावमर्दिनः कुन्तिभोजसुतां कुन्तीं सर्वलक्षणपूजिताम् स्नुषां विचित्रवीर्यस्य भार्यां पाण्डोर् महात्मनः प्रासादशयनां नित्यं पुण्डरीकान्तरप्रभाम् सुकुमारतरां स्त्रीणां महार्हशयनोचिताम् शयानां पश्यताद्येह पृथिव्याम् अतथोचिताम् धर्माद् इन्द्राच् च वायोश् च सुषुवे या सुतान् इमान् सेयं भूमौ परिश्रान्ता शेते ह्य् अद्यातथोचिता किं नु दुःखतरं शक्यं मया द्रष्टुम् अतः परम् यो ऽहम् अद्य नरव्याघ्रान् सुप्तान् पश्यामि भूतले त्रिषु लोकेषु यद् राज्यं धर्मविद्यो ऽर्हते नृपः सो ऽयं भूमौ परिश्रान्तः शेते प्राकृतवत् कथम् अयं नीलाम्बुदश्यामो नरेष्व् अप्रतिमो भुवि शेते प्राकृतवद् भूमाव् अतो दुःखतरं नु किम् इमौ नीलोत्पलश्यामौ नरेष्व् अप्रतिमौ भुवि अश्विनाव् इव देवानां याव् इमौ रूपसंपदा तौ प्राकृतवद् अद्येमौ प्रसुप्तौ धरणीतले ज्ञातयो यस्य नैव स्युर् विषमाः कुलपांसनाः स जीवेत् सुसुखं लोके ग्रामे द्रुम इवैकजः एको वृक्षो हि यो ग्रामे भवेत् पर्णफलान्वितः चैत्यो भवति निर्ज्ञातिर् अर्चनीयः सुपूजितः येषां च बहवः शूरा ज्ञातयो धर्मसंश्रिताः ते जीवन्ति सुखं लोके भवन्ति च निरामयाः बलवन्तः समृद्धार्था मित्रबान्धवनन्दनाः जीवन्त्य् अन्योन्यम् आश्रित्य द्रुमाः काननजा इव वयं तु धृतराष्ट्रेण सपुत्रेण दुरात्मना राज्यलुब्धेन मूर्खेण दुर्मन्त्रिसहितेन च दुष्टेनाधर्मशीलेन स्वार्थनिष्ठैकबुद्धिना विवासिता न दग्धाश् च कथं चित् तस्य शासनात् तस्मान् मुक्ता वयं दाहाद् इमं वृक्षम् उपाश्रिताः कां दिशं प्रतिपत्स्यामः प्राप्ताः क्लेशम् अनुत्तमम् सकामो भव दुर्बुद्धे धार्तराष्ट्राल्पदर्शन नूनं देवाः प्रसन्नास् ते नानुज्ञां मे युधिष्ठिरः प्रयच्छति वधे तुभ्यं तेन जीवसि दुर्मते नन्व् अद्य ससुतामात्यं सकर्णानुजसौबलम् गत्वा क्रोधसमाविष्टः प्रेषयिष्ये यमक्षयम् किं नु शक्यं मया कर्तुं यत् ते न क्रुध्यते नृपः धर्मात्मा पाण्डवश्रेष्ठः पापाचार युधिष्ठिरः एवम् उक्त्वा महाबाहुः क्रोधसंदीप्तमानसः करं करेण निष्पिष्य निःश्वसन् दीनमानसः पुनर् दीनमना भूत्वा शान्तार्चिर् इव पावकः भ्रातॄन् महीतले सुप्तान् अवैक्षत वृकोदरः विश्वस्तान् इव संविष्टान् पृथग्जनसमान् इव नातिदूरे च नगरं वनाद् अस्माद् धि लक्षये जागर्तव्ये स्वपन्तीमे हन्त जागर्म्य् अहं स्वयम् पास्यन्तीमे जलं पश्चात् प्रतिबुद्धा जितक्लमाः इति भीमो व्यवस्यैव जजागार स्वयं तदा वैशंपायन उवाच तत्र तेषु शयानेषु हिडिम्बो नाम राक्षसः अविदूरे वनात् तस्माच् छालवृक्षम् उपाश्रितः क्रूरो मानुषमांसादो महावीर्यो महाबलः प्रावृड्जलधरश्यामः पिङ्गाक्षो दारुणाकृतिः दंष्ट्राकरालवदनः पिशितेप्सुः क्षुधार्दितः लम्बस्फिग् लम्बजठरो रक्तश्मश्रुशिरोरुहः महावृक्षगलस्कन्धः शङ्कुकर्णो विभीषणः यदृच्छया तान् अपश्यत् पाण्डुपुत्रान् महारथान् विरूपरूपः पिङ्गाक्षः करालो घोरदर्शनः पिशितेप्सुः क्षुधार्तस् तान् अपश्यत यदृच्छया ऊर्ध्वाङ्गुलिः स कण्डूयन् धुन्वन् रूक्षाञ् शिरोरुहान् जृम्भमाणो महावक्त्रः पुनः पुनर् अवेक्ष्य च दुष्टो मानुषमांसादो महाकायो महाबलः आघ्राय मानुषं गन्धं भगिनीम् इदम् अब्रवीत् उपपन्नश् चिरस्याद्य भक्षो मम मनःप्रियः स्नेहस्रवान् प्रस्रवति जिह्वा पर्येति मे मुखम् अष्टौ दंष्ट्राः सुतीक्ष्णाग्राश् चिरस्यापातदुःसहाः देहेषु मज्जयिष्यामि स्निग्धेषु पिशितेषु च आक्रम्य मानुषं कण्ठम् आच्छिद्य धमनीम् अपि उष्णं नवं प्रपास्यामि फेनिलं रुधिरं बहु गच्छ जानीहि के त्व् एते शेरते वनम् आश्रिताः मानुषो बलवान् गन्धो घ्राणं तर्पयतीव मे हत्वैतान् मानुषान् सर्वान् आनयस्व ममान्तिकम् अस्मद्विषयसुप्तेभ्यो नैतेभ्यो भयम् अस्ति ते एषां मांसानि संस्कृत्य मानुषाणां यथेष्टतः भक्षयिष्याव सहितौ कुरु तूर्णं वचो मम भक्षयित्वा च मांसानि मानुषाणां प्रकामतः नृत्याव सहिताव् आवां दत्ततालाव् अनेकशः एवम् उक्ता हिडिम्बा तु हिडिम्बेन तदा वने आप्लुत्याप्लुत्य च तरून् अगच्छत् पाण्डवान् प्रति भ्रातुर् वचनम् आज्ञाय त्वरमाणेव राक्षसी जगाम तत्र यत्र स्म पाण्डवा भरतर्षभ ददर्श तत्र गत्वा सा पाण्डवान् पृथया सह शयानान् भीमसेनं च जाग्रतं त्व् अपराजितम् उपास्यमानान् भीमेन रूपयौवनशालिना सुकुमारांश् च पार्थांश् च व्यायामेन च कर्शितान् दुःखेन संप्रयुक्तांश् च सहज्येष्ठान् प्रमाथिनः रौद्री सती राजपुत्रान् दर्शनीयप्रदर्शनम् दृष्ट्वैव भीमसेनं सा शालस्कन्धम् इवोद्गतम् राक्षसी कामयाम् आस रूपेणाप्रतिमं भुवि अन्तर्गतेन मनसा चिन्तयाम् आस राक्षसी अयं श्यामो महाबाहुः सिंहस्कन्धो महाद्युतिः कम्बुग्रीवः पुष्कराक्षो भर्ता युक्तो भवेन् मम नाहं भ्रातृवचो जातु कुर्यां क्रूरोपसंहितम् पतिस्नेहो ऽतिबलवान् न तथा भ्रातृसौहृदम् मुहूर्तम् इव तृप्तिश् च भवेद् भ्रातुर् ममैव च हतैर् एतैर् अहत्वा तु मोदिष्ये शाश्वतिः समाः हिडिम्बी तु महारौद्रा तदा भरतसत्तम उत्सृज्य राक्षसं रूपं मानुषं रूपम् आस्थिता सा कामरूपिणी रूपं कृत्वा मानुषम् उत्तमम् उपतस्थे महाबाहुं भीमसेनं शनैः शनैः इङ्गिताकारकुशला ह्य् उपासर्पच् छनैः शनैः विनम्यमानेव लता सर्वाभरणभूषिता शनैः शनैः स तां भीमः समीपम् उपसर्पतीम् वीक्षमाणस् तदापश्यत् तन्वीं पीनपयोधराम् चन्द्राननां पद्मनेत्रां नीलकुञ्चितमूर्धजाम् कृष्णां सुपाण्डुरैर् दन्तैर् बिम्बोष्ठीं चारुदर्शनाम् दृष्ट्वा तां रूपसंपन्नां भीमो विस्मयम् आगतः उपचारगुणैर् युक्तां लालितैर् हास्यसंस्थितैः समीपम् उपसंप्राप्य भीमस्याथ वरानना वचो वचनवेलायाम् इदं प्रोवाच पाण्डवम् विलज्जमानेव लता दिव्याभरणभूषिता स्मितपूर्वम् इदं वाक्यं भीमसेनम् अथाब्रवीत् कुतस् त्वम् असि संप्राप्तः कश् चासि पुरुषर्षभ क इमे शेरते चेह पुरुषा देवरूपिणः केयं च बृहती श्यामा सुकुमारी तवानघ शेते वनम् इदं प्राप्य विश्वस्ता स्वगृहे यथा नेदं जानाति गहनं वनं राक्षससेवितम् वसति ह्य् अत्र पापात्मा हिडिम्बो नाम राक्षसः तेनाहं प्रेषिता भ्रात्रा दुष्टभावेन रक्षसा बिभक्षयिषता मांसं युष्माकम् अमरोपम साहं त्वाम् अभिसंप्रेक्ष्य देवगर्भसमप्रभम् नान्यं भर्तारम् इच्छामि सत्यम् एतद् ब्रवीमि ते एतद् विज्ञाय धर्मज्ञ युक्तं मयि समाचर कामोपहतचित्ताङ्गीं भजमानां भजस्व माम् त्रास्ये ऽहं त्वां महाबाहो राक्षसात् पुरुषादकात् वत्स्यावो गिरिदुर्गेषु भर्ता भव ममानघ इच्छामि वीर भद्रं ते मा मा प्राणान् विहासिषुः त्वया ह्य् अहं परित्यक्ता न जीवेयम् अरिंदम अन्तरिक्षचरा ह्य् अस्मि कामतो विचरामि च अतुलाम् आप्नुहि प्रीतिं तत्र तत्र मया सह एष ज्येष्ठो मम भ्राता नान्यः परमको गुरुः अनिविष्टश् च तं नाहं परिविद्यां कथं चन भीम उवाच मातरं भ्रातरं ज्येष्ठं कनिष्ठान् अपरान् इमान् परित्यजेत को न्व् अद्य प्रभवन्न् इव राक्षसि को हि सुप्तान् इमान् भ्रातॄन् दत्त्वा राक्षसभोजनम् मातरं च नरो गच्छेत् कामार्त इव मद्विधः राक्षसी भीमः एकं त्वां मोक्षयिष्यामि सह मात्रा परंतप सोदरान् उत्सृजैतांस् त्वम् आरोह जघनं मम नाहं जीवितुम् आशंसे भ्रातॄन् उत्सृज्य राक्षसि यथागतं व्रजैका त्वं विप्रियं मे प्रभाषसे राक्षस्य् उवाच यत् ते प्रियं तत् करिष्ये सर्वान् एतान् प्रबोधय मोक्षयिष्यामि वः कामं राक्षसात् पुरुषादकात् भीम उवाच सुखसुप्तान् वने भ्रातॄन् मातरं चैव राक्षसि न भयाद् बोधयिष्यामि भ्रातुस् तव दुरात्मनः न हि मे राक्षसा भीरु सोढुं शक्ताः पराक्रमम् न मनुष्या न गन्धर्वा न यक्षाश् चारुलोचने गच्छ वा तिष्ठ वा भद्रे यद् वापीच्छसि तत् कुरु तं वा प्रेषय तन्वङ्गि भ्रातरं पुरुषादकम् वैशंपायन उवाच तां विदित्वा चिरगतां हिडिम्बो राक्षसेश्वरः अवतीर्य द्रुमात् तस्माद् आजगामाथ पाण्डवान् लोहिताक्षो महाबाहुर् ऊर्ध्वकेशो महाबलः मेघसंघातवर्ष्मा च तीक्ष्णदंष्ट्रोज्ज्वलाननः तलं तलेन संहत्य बाहू विक्षिप्य चासकृत् उद्वृत्तनेत्रः संक्रुद्धो दन्तान् दन्तेषु निष्पिषन् न बिभेति हिडिम्बी च प्रेषिता किम् अनागता तम् आपतन्तं दृष्ट्वैव तथा विकृतदर्शनम् हिडिम्बोवाच वित्रस्ता भीमसेनम् इदं वचः आपतत्य् एष दुष्टात्मा संक्रुद्धः पुरुषादकः त्वाम् अहं भ्रातृभिः सार्धं यद् ब्रवीमि तथा कुरु अहं कामगमा वीर रक्षोबलसमन्विता आरुहेमां मम श्रोणीं नेष्यामि त्वां विहायसा प्रबोधयैनान् संसुप्तान् मातरं च परंतप सर्वान् एव गमिष्यामि गृहीत्वा वो विहायसा भीम उवाच मा भैस् त्वं विपुलश्रोणि नैष कश् चिन् मयि स्थिते हिंसितुं शक्नुयाद् रक्ष इति मे निश्चिता मतिः एतान् बाधयितुं शक्तो देवो वा दानवो ऽपि वा अहम् एनं हनिष्यामि प्रेक्षन्त्यास् ते सुमध्यमे नायं प्रतिबलो भीरु राक्षसापसदो मम सोढुं युधि परिस्पन्दम् अथवा सर्वराक्षसाः पश्य बाहू सुवृत्तौ मे हस्तिहस्तनिभाव् इमौ ऊरू परिघसंकाशौ संहतं चाप्य् उरो मम विक्रमं मे यथेन्द्रस्य साद्य द्रक्ष्यसि शोभने मावमंस्थाः पृथुश्रोणि मत्वा माम् इह मानुषम् हिडिम्बोवाच नावमन्ये नरव्याघ्र त्वाम् अहं देवरूपिणम् दृष्टापदानस् तु मया मानुषेष्व् एव राक्षसः वैशंपायन उवाच तथा संजल्पतस् तस्य भीमसेनस्य भारत वाचः शुश्राव ताः क्रुद्धो राक्षसः पुरुषादकः अवेक्षमाणस् तस्याश् च हिडिम्बो मानुषं वपुः स्रग्दामपूरितशिखं समग्रेन्दुनिभाननम् सुभ्रूनासाक्षिकेशान्तं सुकुमारनखत्वचम् सर्वाभरणसंयुक्तं सुसूक्ष्माम्बरवाससम् तां तथा मानुषं रूपं बिभ्रतीं सुमनोहरम् स ददर्शाग्रतस् तस्य भीमस्य पुरुषादकः पुंस्कामां शङ्कमानश् च चुक्रोध पुरुषादकः संक्रुद्धो राक्षसस् तस्या भगिन्याः कुरुसत्तम उत्फाल्य विपुले नेत्रे ततस् ताम् इदम् अब्रवीत् को हि मे भोक्तुकामस्य विघ्नं चरति दुर्मतिः न बिभेषि हिडिम्बे किं मत्कोपाद् विप्रमोहिता धिक् त्वाम् असति पुंस्कामे मम विप्रियकारिणि पूर्वेषां राक्षसेन्द्राणां सर्वेषाम् अयशस्करि यान् इमान् आश्रिताकार्षीर् अप्रियं सुमहन् मम एष तान् अद्य वै सर्वान् हनिष्यामि त्वया सह एवम् उक्त्वा हिडिम्बां स हिडिम्बो लोहितेक्षणः वधायाभिपपातैनां दन्तैर् दन्तान् उपस्पृशन् गर्जन्तम् एवं विजने भीमसेनो ऽभिवीक्ष्य तम् रक्षन् प्रबोधं भ्रातॄणां मातुश् च परवीरहा तम् आपतन्तं संप्रेक्ष्य भीमः प्रहरतां वरः भर्त्सयाम् आस तेजस्वी तिष्ठ तिष्ठेति चाब्रवीत् वैशंपायन उवाच भीमसेनस् तु तं दृष्ट्वा राक्षसं प्रहसन्न् इव भगिनीं प्रति संक्रुद्धम् इदं वचनम् अब्रवीत् किं ते हिडिम्ब एतैर् वा सुखसुप्तैः प्रबोधितैः माम् आसादय दुर्बुद्धे तरसा त्वं नराशन मय्य् एव प्रहरैहि त्वं न स्त्रियं हन्तुम् अर्हसि विशेषतो ऽनपकृते परेणापकृते सति न हीयं स्ववशा बाला कामयत्य् अद्य माम् इह चोदितैषा ह्य् अनङ्गेन शरीरान्तरचारिणा भगिनी तव दुर्बुद्धे राक्षसानां यशोहर त्वन्नियोगेन चैवेयं रूपं मम समीक्ष्य च कामयत्य् अद्य मां भीरुर् नैषा दूषयते कुलम् अनङ्गेन कृते दोषे नेमां त्वम् इह राक्षस हन्तुम् अर्हसि दुर्बुद्धे शूरश् चेत् संहर स्मरम् मयि तिष्ठति दुष्टात्मन् न स्त्रियं हन्तुम् अर्हसि मदर्थं कामबाणार्तां त्वाम् अहं हन्मि राक्षस समागच्छ मया सार्धम् एकेनैको नराशन अहम् एव नयिष्यामि त्वाम् अद्य यमसादनम् अद्य ते तलनिष्पिष्टं शिरो राक्षस दीर्यताम् शतधा भेदम् आयाति पूर्णकुम्भ इवाश्मनि कुञ्जरस्येव पादेन विनिष्पिष्टं बलीयसः अद्य गात्राणि क्रव्यादाः श्येना गोमायवश् च ते कर्षन्तु भुवि संहृष्टा निहतस्य मया मृधे क्षणेनाद्य करिष्ये ऽहम् इदं वनम् अकण्टकम् पुरस्ताद् दूषितं नित्यं त्वया भक्षयता नरान् अद्य त्वां भगिनी पाप कृष्यमाणं मया भुवि द्रक्षत्य् अद्रिप्रतीकाशं सिंहेनेव महाद्विपम् निराबाधास् त्वयि हते मया राक्षसपांसन वनम् एतच् चरिष्यन्ति पुरुषा वनचारिणः हिडिम्ब उवाच गर्जितेन वृथा किं ते कत्थितेन च मानुष शारदस्येव मेघस्य गर्जितं निष्फलं हि ते कृत्वैतत् कर्मणा सर्वं कत्थेथा मा चिरं कृथाः बलिनं मन्यसे यच् च आत्मानम् अपराक्रमम् ज्ञास्यस्य् अद्य समागम्य मयात्मानं बलाधिकम् न तावद् एतान् हिंसिष्ये स्वपन्त्व् एते यथासुखम् एष त्वाम् एव दुर्बुद्धे निहन्म्य् अद्याप्रियंवदम् पीत्वा तवासृग् गात्रेभ्यस् ततः पश्चाद् इमान् अपि हनिष्यामि ततः पश्चाद् इमां विप्रियकारिणीम् वैशंपायन उवाच एवम् उक्त्वा ततो बाहुं प्रगृह्य पुरुषादकः अभ्यधावत संक्रुद्धो भीमसेनम् अरिंदमम् तस्याभिपततस् तूर्णं भीमो भीमपराक्रमः वेगेन प्रहृतं बाहुं निजग्राह हसन्न् इव निगृह्य तं बलाद् भीमो विस्फुरन्तं चकर्ष ह तस्माद् देशाद् धनूंष्य् अष्टौ सिंहः क्षुद्रमृगं यथा ततः स राक्षसः क्रुद्धः पाण्डवेन बलाद् धृतः भीमसेनं समालिङ्ग्य व्यनदद् भैरवं रवम् पुनर् भीमो बलाद् एनं विचकर्ष महाबलः मा शब्दः सुखसुप्तानां भ्रातॄणां मे भवेद् इति हस्ते गृहीत्वा तद् रक्षो दूरम् अन्यत्र नीतवान् पुच्छे गृहीत्वा तुण्डेन गरुडः पन्नगं यथा अन्योन्यं तौ समासाद्य विचकर्षतुर् ओजसा राक्षसो भीमसेनश् च विक्रमं चक्रतुः परम् भङ्क्त्वा वृक्षान् महाशाखांस् ताडयाम् आसतुः क्रुधा सालतालतमालाम्रवटार्जुनविभीतकान् न्यग्रोधप्लक्षखर्जूरपनसान् अश्मकण्टकान् एतान् अन्यान् महावृक्षान् उत्खाय तरसाखिलान् उत्क्षिप्यान्योन्यरोषेण ताडयाम् आसतू रणे यदाभवद् वनं सर्वं निर्वृक्षं वृक्षसंकुलम् तदा शिलाश् च कुञ्जांश् च वृक्षान् कण्टकिनस् तथा ततस् तौ गिरिशृङ्गाणि पर्वतांश् चाभ्रलेलिहान् शैलांश् च गण्डपाषाणान् उत्खायादाय वैरिणौ चिक्षेपतुर् उपर्य् आजाव् अन्योन्यं विजयेषिणौ तद् वनं परितः पञ्च योजनं निर्महीरुहम् निर्लतागुल्मपाषाणं निर्मृगं चक्रतुर् भृशम् तयोर् युद्धेन राजेन्द्र तद् वनं भीमरक्षसोः मुहूर्तेनाभवत् कूर्मपृष्ठवच् छ्लक्ष्णम् अव्ययम् बभञ्जतुर् महावृक्षांल् लताश् चाकर्षतुस् ततः मत्ताव् इव सुसंरब्धौ वारणौ षष्टिहायनौ पादपान् उद्धरन्तौ ताव् ऊरुवेगेन वेगितौ स्फोटयन्तौ लताजालान्य् ऊरुभ्यां गृह्य सर्वशः वित्रासयन्तौ तौ शब्दैः सर्वतो मृगपक्षिणः बलेन बलिनौ मत्ताव् अन्योन्यवधकाङ्क्षिणौ भीमराक्षसयोर् युद्धं तदावर्तत दारुणम् ऊरुबाहुपरिक्लेशात् कर्षन्ताव् इतरेतरम् उत्कर्षन्तौ विकर्षन्तौ प्रकर्षन्तौ परस्परम् ततः शब्देन महता गर्जन्तौ तौ परस्परम् पाषाणसंघातनिभैः प्रहारैर् अभिजघ्नतुः अन्योन्यं तौ समालिङ्ग्य विकर्षन्तौ परस्परम् बाहुयुद्धम् अभूद् घोरं बलिवासवयोर् इव युद्धसंरम्भनिर्गच्छत् फूत्काररवनिस्वनम् पुरा देवासुरे युद्धे वृत्रवासवयोर् इव तयोः शब्देन महता विबुद्धास् ते नरर्षभाः सह मात्रा तु ददृशुर् हिडिम्बाम् अग्रतः स्थिताम् वैशंपायन उवाच प्रबुद्धास् ते हिडिम्बाया रूपं दृष्ट्वातिमानुषम् विस्मिताः पुरुषव्याघ्रा बभूवुः पृथया सह ततः कुन्ती समीक्ष्यैनां विस्मिता रूपसंपदा उवाच मधुरं वाक्यं सान्त्वपूर्वम् इदं शनैः कस्य त्वं सुरगर्भाभे का चासि वरवर्णिनि केन कार्येण सुश्रोणि कुतश् चागमनं तव यदि वास्य वनस्यासि देवता यदि वाप्सराः आचक्ष्व मम तत् सर्वं किमर्थं चेह तिष्ठसि हिडिम्बोवाच यद् एतत् पश्यसि वनं नीलमेघनिभं महत् निवासो राक्षसस्यैतद् धिडिम्बस्य ममैव च तस्य मां राक्षसेन्द्रस्य भगिनीं विद्धि भामिनि भ्रात्रा संप्रेषिताम् आर्ये त्वां सपुत्रां जिघांसता क्रूरबुद्धेर् अहं तस्य वचनाद् आगता इह अद्राक्षं हेमवर्णाभं तव पुत्रं महौजसम् ततो ऽहं सर्वभूतानां भावे विचरता शुभे चोदिता तव पुत्रस्य मन्मथेन वशानुगा ततो वृतो मया भर्ता तव पुत्रो महाबलः अपनेतुं च यतितो न चैव शकितो मया चिरायमाणां मां ज्ञात्वा ततः स पुरुषादकः स्वयम् एवागतो हन्तुम् इमान् सर्वांस् तवात्मजान् स तेन मम कान्तेन तव पुत्रेण धीमता बलाद् इतो विनिष्पिष्य व्यपकृष्टो महात्मना विकर्षन्तौ महावेगौ गर्जमानौ परस्परम् पश्यध्वं युधि विक्रान्ताव् एतौ तौ नरराक्षसौ युध्यन्तौ विजयाकाङ्क्षी राक्षसो मन्दबुद्धिमान् न वाञ्छे (ऽहं) जीवितं भ्रातुः कदा ये दुष्टकर्मणः वैशंपायन उवाच तस्याः श्रुत्वैव वचनम् उत्पपात युधिष्ठिरः अर्जुनो नकुलश् चैव सहदेवश् च वीर्यवान् तौ ते ददृशुर् आसक्तौ विकर्षन्तौ परस्परम् काङ्क्षमाणौ जयं चैव सिंहाव् इव रणोत्कटौ ताव् अन्योन्यं समाश्लिष्य विकर्षन्तौ परस्परम् दावाग्निधूमसदृशं चक्रतुः पार्थिवं रजः वसुधारेणुसंवीतौ वसुधाधरसंनिभौ विभ्राजेतां यथा शैलौ नीहारेणाभिसंवृतौ ते पश्यन्तो महद् युद्धं सर्वे व्यथितचेतसः राक्षसेन तथा भीमं क्लिश्यमानं निरीक्ष्य तु चिरप्रयुद्धौ तौ दृष्ट्वा त्वयोन्यवधकाङ्क्षया उवाचेदं वचः पार्थः प्रहसञ् शनकैर् इव भीम मा भैर् महाबाहो न त्वां बुध्यामहे वयम् समेतं भीमरूपेण प्रसुप्ताः श्रमकर्शिताः साहाय्ये ऽस्मि स्थितः पार्थ योधयिष्यामि राक्षसम् नकुलः सहदेवश् च मातरं गोपयिष्यतः भीम उवाच उदासीनो निरीक्षस्व न कार्यः संभ्रमस् त्वया न जात्व् अयं पुनर् जीवेन् मद्बाह्वन्तरम् आगतः भुजयोर् अन्तरं प्राप्तो भीमसेनस्य राक्षसः अमुक्त्वा पार्थ वीर्येण मृतो मा भूद् इति ध्वनिः अयम् अस्मान् न नो हन्याज् जातु वै पार्थ राक्षसः जीवन्तं न प्रमोक्ष्यामि मा भैषीर् भरतर्षभ अर्जुन उवाच पूर्वरात्रे प्रबुद्धो ऽसि भीम क्रूरेण रक्षसा क्षपा व्युष्टा न चेदानीं समाप्तो ऽसि महारणम् किम् अनेन चिरं भीम जीवता पापरक्षसा गन्तव्यं न चिरं स्थातुम् इह शक्यम् अरिंदम पुरा संरज्यते प्राची पुरा संध्या प्रवर्तते रौद्रे मुहूर्ते रक्षांसि प्रबलानि भवन्ति च त्वरस्व भीम मा क्रीड जहि रक्षो विभीषणम् पुरा विकुरुते मायां भुजयोः सारम् अर्पय माहात्म्यम् आत्मनो वेत्थ नराणां हितकाम्यया रक्षो जहि यथा शक्रः पुरा वृत्रं महावने वैशंपायन उवाच अर्जुनेनैवम् उक्तस् तु भीमो भीमस्य रक्षसः . . . . . . . . भीमो रोषाज् ज्वलन्न् इव बलम् आहारयाम् आस यद् वायोर् जगतः क्षये ततस् तस्याम्बुदाभस्य . . . . . . . . उत्क्षिप्याभ्रामयद् देहं तूर्णं गुणशताधिकम् इति चोवाच संक्रुद्धो भ्रामयन् राक्षसं तु सः भीमसेनो महाबाहुर् अभिगर्जन् मुहुर् मुहुः भीम उवाच वृथामांसैर् वृथा पुष्टो वृथा वृद्धो वृथामतिः वृथामरणम् अर्हस् त्वं वृथाद्य न भविष्यसि क्षेमम् अद्य करिष्यामि यथा वनम् अकण्टकम् न पुनर् मानुषान् हत्वा भक्षयिष्यसि राक्षस अर्जुन उवाच अथ वा मन्यसे भारं त्वम् इमं राक्षसं युधि करोमि तव साहाय्यं शीघ्रम् एव निहन्यताम् अथ वाप्य् अहम् एवैनं हनिष्यामि वृकोदर कृतकर्मा परिश्रान्तः साधु तावद् उपारम वैशंपायन उवाच तस्य तद् वचनं श्रुत्वा भीमसेनो ऽत्यमर्षणः निष्पिष्यैनं बलाद् भूमौ पशुमारम् अमारयत् अथैनम् आक्षिप्य बलात् पशुवच् चाप्य् अमारयत् स मार्यमाणो भीमेन ननाद विपुलं स्वनम् पूरयंस् तद् वनं सर्वं जलार्द्र इव दुन्दुभिः भुजाभ्यां योक्त्रयित्वा तं बलवान् पाण्डुनन्दनः समुद्भ्राम्य शिरश् चास्य सग्रीवं तद् उदावहत् मध्ये भित्त्वा शिरश् चास्य सुग्रीवं तद् उपाक्षिपत् तस्य निष्कर्णनयनं निर्जिह्वं रुधिरोक्षितम् प्रविद्धं भीमसेनेन शिरो विदशनं बभौ प्रसारितभुजोद्धृष्टो भिन्नमांसत्वगन्तरः कबन्धभूतस् तत्रासीद् अद्रिर् वज्रहतो यथा मध्ये भङ्क्त्वा स बलवान् हर्षयाम् आस पाण्डवान् हिडिम्बं निहतं दृष्ट्वा संहृष्टास् ते तरस्विनः हिडिम्बा चैव संप्रेक्ष्य निहतं राक्षसं रणे अदृश्याश् चैव ये स्वस्थाः समेता भूतवादिकाः पूजयन्ति स्म संहृष्टाः साधु साध्व् इति पाण्डवम् भ्रातरश् चापि संहृष्टा युधिष्ठिरपुरोगमाः अपूजयन् नरव्याघ्रं भीमसेनम् अरिंदमम् अभिपूज्य महात्मानं भीमं भीमपराक्रमम् पुनर् एवार्जुनो वाक्यम् उवाचेदं वृकोदरम् नदूरे नगरं मन्ये वनाद् अस्माद् अहं प्रभो शीघ्रं गच्छाम भद्रं ते न नो विद्यात् सुयोधनः ततः सर्वे तथेत्य् उक्त्वा सह मात्रा परंतपाः प्रययुः पुरुषव्याघ्रा हिडिम्बा चैव राक्षसी वैशंपायनः सा ततो न्यपतत् तूर्णं भगिनी तस्य रक्षसः अब्रुवाणा हिडिम्बा तु राक्षसी पाण्डवान् प्रति अभिवाद्य ततः कुन्तीं धर्मराजं च पाण्डवम् अभिपूज्य च तान् सर्वान् भीमसेनम् अभाषत अहं ते दर्शनाद् एव मन्मथस्य वशं गता क्रूरं भ्रातृवचो हित्वा सा त्वाम् एवानुरुन्धती राक्षसे रौद्रसंकाशे तवापश्यं विचेष्टितम् अहं शुश्रूषुर् इच्छेयं तव गात्रं निषेवितुम् भीम उवाच स्मरन्ति वैरं रक्षांसि मायाम् आश्रित्य मोहिनीम् हिडिम्बे व्रज पन्थानं त्वं वै भ्रातृनिषेवितम् युधिष्ठिर उवाच क्रुद्धो ऽपि पुरुषव्याघ्र भीम मा स्म स्त्रियं वधीः शरीरगुप्त्याभ्यधिकं धर्मं गोपय पाण्डव शरणागतगूह्या त्वं धर्मं गोपाय पाण्डव वधाभिप्रायम् आयान्तम् अवधीस् त्वं महाबलम् रक्षसस् तस्य भगिनी किं नः क्रुद्धा करिष्यति वैशंपायन उवाच हिडिम्बा तु ततः कुन्तीम् अभिवाद्य कृताञ्जलिः युधिष्ठिरं च कौन्तेयम् इदं वचनम् अब्रवीत् आर्ये जानासि यद् दुःखम् इह स्त्रीणाम् अनङ्गजम् तद् इदं माम् अनुप्राप्तं भीमसेनकृतं शुभे सोढं तत् परमं दुःखं मया कालप्रतीक्षया सो ऽयम् अभ्यागतः कालो भविता मे सुखाय वै मया ह्य् उत्सृज्य सुहृदः स्वधर्मं स्वजनं तथा वृतो ऽयं पुरुषव्याघ्रस् तव पुत्रः पतिः शुभे वरेणापि तथानेन त्वया चापि यशस्विनि तद् अर्हसि कृपां कर्तुं मयि त्वं वरवर्णिनि तथा ब्रुवन्ती हि तदा प्रत्याख्याता क्रियां प्रति भूम्यां दुष्कृतिनो लोकान् गमिष्ये ऽहं न संशयः त्वं मां मूढेति वा मत्वा भक्ता वानुगतेति वा भर्त्रानेन महाभागे संयोजय सुतेन ते तम् उपादाय गच्छेयं यथेष्टं देवरूपिणम् पुनश् चैवागमिष्यामि विश्रम्भं कुरु मे शुभे अहं हि समये लिप्से प्राग् भ्रातुर् अपवर्जनात् ततः सो ऽभ्यपतद् रात्रौ भीमसेनजिघांसया यथा यथा विक्रमते यथा रमति तिष्ठति तथा तथा समाधाय पाण्डवं काममोहिता न यातुधान्य् अहं त्व् आर्ये न चास्मि रजनीचरी ईशा रक्षःसु साध्व्य् अस्मि राज्ञी सालकटङ्कटी पुत्रेण तव संयुक्ता युवतिर् देववर्णिनी सर्वान् वो ऽहम् उपस्थास्ये पुरस्कृत्य वृकोदरम् अप्रमत्ता प्रमत्तेषु शुश्रूषुर् अनहंवदा अहं हि मनसा ध्याता सर्वान् नेष्यामि वः सदा वृजिने तारयिष्यामि दुर्गेषु च नरर्षभान् पृष्ठेन वो वहिष्यामि शीघ्रां गतिम् अभीप्सतः यूयं प्रसादं कुरुत भीमसेनो भजेत माम् उवाच सा तदा कुन्ती हिडिम्बां नाम राक्षसीम् आपदस् तरणे प्राणान् धारयेद् येन येन हि सर्वम् आदृत्य कर्तव्यं तद् धर्मम् अनुवर्तता आपत्सु यो धारयति धर्मं धर्मविद् उत्तमः व्यसनं ह्य् एव धर्मस्य धर्मिणाम् आपद् उच्यते पुण्यं प्राणान् धारयति पुण्यं प्राणदम् उच्यते येन येनाचरेद् धर्मं तस्मिन् गर्हा न विद्यते वैशंपायनः महतो ऽत्र स्त्रियं कामाद् बाधितां त्राहि माम् अपि धर्मार्थकाममोक्षेषु दयां कुर्वन्ति साधवः तं तु धर्मम् इति प्राहुर् मुनयो धर्मवत्सलाः दिव्यज्ञानेन पश्यामि अतीतानागतान् अहम् तस्माद् वक्ष्यामि वः श्रेय आसन्नं सर उत्तमम् अद्यासाद्य सरः स्नात्वा विश्रम्य च वनस्पतौ श्वः प्रभाते महद् भूतं प्रादुर्भूतं जगत्पतिम् व्यासं कमलपत्राक्षं दृष्ट्वा शोकं विहास्यथ धृतराष्ट्राद् विवासश् च दहनं वारणावते त्राणं च विदुरात् तुभ्यं विदितं ज्ञानचक्षुषा आवासे शालिहोत्रस्य स वो वासं विधास्यति वर्षवातातपसहः अयं पुण्यो वनस्पतिः पीतमात्रे तु पानीये क्षुत्पिपासे विनश्यतः तपसा शालिहोत्रेण सरो वृक्षश् च निर्मितः कादम्बाः सारसा हंसाः कुरर्यः कुररैः सह रुवन्ति मधुरं गीतं गान्धर्वस्वनमिश्रितम् तस्यास् तद् वचनं श्रुत्वा कुन्ती वचनम् अब्रवीत् युधिष्ठिरं महाप्राज्ञं सर्वशास्त्रविशारदम् त्वं हि धर्मभृतां श्रेष्ठ मयोक्तं शृणु भारत राक्षस्य् एषा हि वाक्येन धर्मं वदति साधु वै भावेन दुष्टा भीमं सा किं करिष्यति राक्षसी भजतां पाण्डवं वीरम् अपत्यार्थं यदीच्छसि युधिष्ठिर उवाच एवम् एतद् यथात्थ त्वं हिडिम्बे नात्र संशयः स्थातव्यं तु त्वया धर्मे यथा ब्रूयां सुमध्यमे नित्यं कृताह्निका स्नात्वा कृतशौचा सुरूपिणी स्नातं कृताह्निकं भद्रे कृतकौतुकमङ्गलम् भीमसेनं भजेथास् त्वं प्राग् अस्तगमनाद् रवेः अहःसु विहरानेन यथाकामं मनोजवा अयं त्व् आनयितव्यस् ते भीमसेनः सदा निशि वैशंपायनः प्राक् संध्यातो विमोक्तव्यो रक्षितव्यश् च नित्यशः एवं रमस्व भीमेन यावद् गर्भस्य वेदनम् एष ते समयो भद्रे शुश्रूष्यश् चाप्रमत्तया नित्यानुकूलया भूत्वा कर्तव्यं शोभनं त्वया युधिष्ठिरेणैवम् उक्ता कुन्त्या चाङ्के ऽधिरोपिता भीमार्जुनान्तरगता यमाभ्यां च पुरस्कृता तिर्यग् युधिष्ठिरे याति हिडिम्बा भीमगामिनी शालिहोत्रसरो रम्यम् आसेदुस् ते जलार्थिनः तत् तथेति प्रतिज्ञाय हिडिम्बा राक्षसी तदा वनस्पतितलं गत्वा परिमृज्य गृहं यथा पाण्डवानां च वासं सा कृत्वा पर्णमयं तथा आत्मनश् च तथा कुन्त्या एकोद्देशे चकार सा पाण्डवास् तु ततः स्नात्वा शुद्धाः संध्याम् उपास्य च तृषिताः क्षुत्पिपासार्ता जलमात्रेण वर्तयन् शालिहोत्रस् तदा ज्ञात्वा क्षुधार्तान् पाण्डवांस् तदा मनसा चिन्तयाम् आस पानीयं भोजनं महत् ततस् ते पाण्डवाः सर्वे विश्रान्ताः पृथया सह यथा जतुगृहे वृत्तं राक्षसेन कृतं च यत् कृत्वा कथा बहुविधाः कथान्ते पाण्डुनन्दनम् कुन्ती राजसुता वाक्यं भीमसेनम् अथाब्रवीत् यथा पाण्डुस् तथा मान्यस् तव ज्येष्ठो युधिष्ठिरः अहं धर्मविधानेन मान्या गुरुतरी तव तस्मात् पाण्डुहितार्थं मे युवराज हितं कुरु निकृता धार्तराष्ट्रेण पापेनाकृतबुद्धिना दुष्कृतस्य प्रतीकारं न पश्यामि वृकोदर तस्मात् कतिपयाहेन योगक्षेमं भविष्यति क्षेमं दुर्गम् इमं वासं वसिष्यामो यथासुखम् इदम् अद्य महद् दुःखं धर्मकृच्छ्रं वृकोदर दृष्ट्वैव त्वां महाप्राज्ञ अनङ्गेनाभिचोदिता युधिष्ठिरं च मां चैव वरयाम् आस धर्मतः धर्मार्थं देहि पुत्रं त्वं स नः श्रेयः करिष्यति प्रतिवाक्यं तु नेच्छामि ह्य् आवाभ्यां वचनं कुरु वैशंपायन उवाच तथेति तत् प्रतिज्ञाय हिडिम्बा राक्षसी तदा . . . . . . . . भीमसेनो ऽब्रवीद् इदम् शासनं ते करिष्यामि देवशासनम् इत्य् अपि समक्षं भ्रातृमध्ये तु भीमसेनो ऽब्रवीद् इदम् शृणु राक्षसि सत्येन समयं ते वदाम्य् अहम् यावत्कालेन भवति पुत्रस्योत्पादनं शुभे तावत्कालं गमिष्यामि त्वया सह सुमध्यमे विशेषतो मत्सकाशे मा प्रकाशय नीचताम् उत्तमस्त्रीगुणोपेता भजेथा वरवर्णिनि गताहनि निवेशेषु भोज्यं राजार्हम् आनयत् सा कदा चिद् विहारार्थं हिडिम्बा कामचारिणी भीमसेनम् उपादाय ऊर्ध्वम् आचक्रमे ततः शैलशृङ्गेषु रम्येषु देवतायतनेषु च मृगपक्षिविघुष्टेषु रमणीयेषु सर्वदा कृत्वा च परमं रूपं सर्वाभरणभूषिता संजल्पन्ती सुमधुरं रमयाम् आस पाण्डवम् तथैव वनदुर्गेषु पुष्पितद्रुमसानुषु सरःसु रमणीयेषु पद्मोत्पलयुतेषु च नदीद्वीपप्रदेशेषु वैडूर्यसिकतासु च सुतीर्थवनतोयासु तथा गिरिनदीषु च काननेषु विचित्रेषु पुष्पितद्रुमवल्लिषु हिमवद्गिरिकुञ्जेषु गुहासु विविधासु च प्रफुल्लशतपत्रेषु सरःस्व् अमलवारिषु सगरस्य प्रदेशेषु मणिहेमचितेषु च पत्तनेषु च रम्येषु महाशालवनेषु च देवारण्येषु पुण्येषु तथा पर्वतसानुषु गुह्यकानां निवासेषु तापसायतनेषु च सर्वर्तुफलपुष्पेषु मानसेषु सरःसु च बिभ्रती परमं रूपं रमयाम् आस पाण्डवम् वैशंपायनः गते भगवति व्यासे पाण्डवा विगतज्वराः ऊषुस् तत्र च षण्मासान् वटवृक्षे यथासुखम् शाकमूलफलाहारास् तपः कुर्वन्ति पाण्डवाः अनुज्ञाता महाराज ततः कमलपालिका यथा च सुकृती स्वर्गे मोदते ऽप्सरसा सह स तथा परमप्रीतस् तया रेमे महाद्युतिः शुभं हि जघनं तस्याः सुवर्णमणिमेखलम् न ततर्प मुदा मृद्नन् भीमसेनो मुहुर् मुहुः रमयन्ती ततो भीमं तत्र तत्र मनोजवा सा रेमे तेन संहर्षाद् अतृप्यन्ती मुहुर् मुहुः अहःसु विचरन्ती सा निशाकालेषु पाण्डवम् आनीय वै स्वके गेहे दर्शयाम् आस मातरम् भ्रातृभिः सहितो नित्यं स्वपते पाण्डवस् तदा कुन्त्याः परिचरन्ती सा तस्याः पार्श्वे ऽवसन् निशाम् कामांश् च मुखवासादीन् आनयिष्यति भोजनम् तस्यां रात्र्यां व्यतीतायाम् आजगाम महाव्रतः पाराशर्यो महाप्राज्ञो दिव्यदर्शी महातपाः ते ऽभिवाद्य महात्मानं कृष्णद्वैपायनं तदा तस्थुः प्राञ्जलयः सर्वे सस्नुषा चैव माधवी रमयन्ती तथा भीमं तत्र तत्र मनोजवा दिव्याभरणवस्त्राङ्गी दिव्यस्रगनुलेपना एवं भ्रातॄन् सप्त मासान् हिडिम्बावासयद् वने पाण्डवान् भीमसेनार्थं राक्षसी कामरूपिणी सुखं स विहरन् भीमस् तत्कालं पर्यणामयत् ततो ऽलभत सा गर्भं राक्षसी कामरूपिणी अतृप्ता भीमसेनेन सप्तमासोपसंगता प्रजज्ञे राक्षसी पुत्रं भीमसेनान् महाबलम् विरूपाक्षं महावक्त्रं शङ्कुकर्णं विभीषणम् भीमरूपं सुताम्रोष्ठं तीक्ष्णदंष्ट्रं महाबलम् महेष्वासं महावीर्यं महासत्त्वं महाभुजम् महाजवं महाकायं महामायम् अरिंदमम् दीर्घघोणं महोरस्कं विकटोद्बद्धपिण्डिकम् अमानुषं मानुषजं भीमवेगं महाबलम् यः पिशाचान् अतीवान्यान् बभूवाति स मानुषान् बालो ऽपि यौवनं प्राप्तो मानुषेषु विशां पते सर्वास्त्रेषु परं वीरः प्रकर्षम् अगमद् बली सद्यो हि गर्भं राक्षस्यो लभन्ते प्रसवन्ति च कामरूपधराश् चैव भवन्ति बहुरूपिणः प्रणम्य विकचः पादाव् अगृह्णात् स पितुस् तदा मातुश् च परमेष्वासस् तौ च नामास्य चक्रतुः घटभासोत्कच इति मातरं सो ऽभ्यभाषत अभवत् तेन नामास्य घटोत्कच इति स्म ह अनुरक्तश् च तान् आसीत् पाण्डवान् स घटोत्कचः विकीर्णकेशो घटते पित्रोर् अग्रे यतस् ततः पुरतः पाण्डवानां च तेन चासौ घटोत्कचः तेषां च दयितो नित्यम् आत्मभूतो बभूव सः वैशंपायनः घटोत्कचो महाकायः पाण्डवान् पृथया सह अभिवाद्य यथान्यायम् अब्रवीच् च प्रभाष्य तान् किं करोम्य् अहम् आर्याणां निःशङ्कं वदतानघाः तं ब्रुवन्तं भैमसेनिं कुन्ती वचनम् अब्रवीत् त्वं कुरूणां कुले जातः साक्षाद् भीमसमो ह्य् असि ज्येष्ठः पुत्रो ऽसि पञ्चानां साहाय्यं कुरु पुत्रक पृथयाप्य् एवम् उक्तस् तु प्रणम्येदं वचो ऽब्रवीत् यथा हि रावणो लोके इन्द्रजिद् वा महाबलः वर्ष्मवीर्यसमो लोके विशिष्टश् चाभवं नृषु संवाससमयो जीर्ण इत्य् अभाषत तं ततः हिडिम्बा पुनर् द्रक्ष्यसि राज्यस्थान् इत्य् अभाषत तां तदा यदा मे त्वं स्मरेः कान्त रिरंसू रहसि प्रभो तदा तव वशं भूय आगन्तास्म्य् आशु भारत इत्य् उक्त्वा सा जगामाशु भावम् आसज्य पाण्डवे हिडिम्बा समयं कृत्वा स्वां गतिं प्रत्यपद्यत ततस् तु पाण्डवाः सर्वे शालिहोत्राश्रमे तदा पूजितास् तेन वन्येन तम् आमन्त्र्य महामुनिम् कृत्यकाल उपस्थास्ये पितॄन् इति घटोत्कचः . . . . . . . . भवत्स्मरणमात्रतः महत्कृच्छ्रे वने दुर्गे . . . . . . . . आमन्त्र्य राक्षसश्रेष्ठः प्रतस्थे चोत्तरां दिशम् स हि सृष्टो मघवता शक्तिहेतोर् महात्मना कर्णस्याप्रतिवीर्यस्य विनाशाय महात्मनः वैशंपायन उवाच ते वनेन वनं वीरा घ्नन्तो मृगगणान् बहून् अपक्रम्य ययू राजंस् त्वरमाणा महारथाः मत्स्यांस् त्रिगर्तान् पाञ्चालान् कीचकान् अन्तरेण च रमणीयान् वनोद्देशान् प्रेक्षमाणाः सरांसि च जटाः कृत्वात्मनः सर्वे वल्कलाजिनवाससः सह कुन्त्या महात्मानो बिभ्रतस् तापसं वपुः क्व चिद् वहन्तो जननीं त्वरमाणा महारथाः नित्यकर्म प्रकुर्वन्तो वन्यमूलफलाशनाः क्व चिच् छन्देन गच्छन्तस् ते जग्मुः प्रसभं पुनः पथि द्वैपायनं सर्वे ददृशुः स्वं पितामहम् ब्राह्मं वेदम् अधीयाना वेदाङ्गानि च सर्वशः नीतिशास्त्रं च धर्मज्ञा ददृशुस् ते पितामहम् शालिहोत्रप्रसादेन लब्ध्वा प्रीतिम् अवाप्य च ते ऽभिवाद्य महात्मानं कृष्णद्वैपायनं तदा तस्थुः प्राञ्जलयः सर्वे सह मात्रा परंतपाः व्यासः तदाश्रमान् निर्गमनं मया ज्ञातं नरर्षभाः घटोत्कचस्य चोत्पत्तिं ज्ञात्वा प्रीतिर् अवर्धत व्यास उवाच मयेदं मनसा पूर्वं विदितं भरतर्षभाः यथा स्थितैर् अधर्मेण धार्तराष्ट्रैर् विवासिताः विवासिताश् च मात्रा वै पापैर् दुर्मन्त्रणैः सदा तद् विदित्वास्मि संप्राप्तश् चिकीर्षुः परमं हितम् न विषादो ऽत्र कर्तव्यः सर्वम् एतत् सुखाय वः सुहृद्वियोगजं कर्म पुरा कृतम् अरिंदमाः तस्य सिद्धिर् इयं प्राप्ता मा शोचत परंतपाः समाप्ते दुष्कृते चैव यूयं चैव न संशयः स्वराष्ट्रे विहरिष्यन्तो भविष्यथ सबान्धवाः समास् ते चैव मे सर्वे यूयं चैव न संशयः दीनतो बालतश् चैव स्नेहं कुर्वन्ति बान्धवाः तस्माद् अभ्यधिकः स्नेहो युष्मासु मम सांप्रतम् स्नेहपूर्वं चिकीर्षामि हितं वस् तन् निबोधत इदं नगरम् अभ्याशे रमणीयं निरामयम् वसतेह प्रतिच्छन्ना ममागमनकाङ्क्षिणः एतद् वै शालिहोत्रस्य तपसा निर्मितं सरः रमणीयम् इदं तोयं क्षुत्पिपासाश्रमापहम् कार्यार्थिनस् तु षण्मासं विहरध्वं यथासुखम् वैशंपायन उवाच एवं स तान् समाश्वास्य व्यासः पार्थान् अरिंदमान् एकचक्राम् अभिगतः कुन्तीम् आश्वासयत् प्रभुः स्नुषे मा रोद मा रोदेत्य् एवं व्यासो ऽब्रवीद् वचः पुनर् एव च धर्मात्मा इदं वचनम् अब्रवीत् व्यासः कुर्यान् न केवलं धर्मं दुष्कृतं च तथा नरः सुकृतं दुष्कृतं लोके न कर्ता नास्ति शोभने अवश्यं लभते कर्ता फलं वै पुण्यपापयोः दुष्कृतस्य फलेनैवं प्राप्तं व्यसनम् उत्तमम् तस्मान् माधवि मानार्हे मा च शोके मनः कृथाः जीवपुत्रि सुतस् ते ऽयं धर्मपुत्रो युधिष्ठिरः पृथिव्यां पार्थिवान् सर्वान् प्रशासिष्यति धर्मराट् धर्मेण जित्वा पृथिवीम् अखिलां धर्मविद् वशी पृथिवीम् अखिलां जित्वा सर्वां सागरमेखलाम् स्थापयित्वा वशे सर्वां सपर्वतवनां शुभाम् भीमसेनार्जुनबलाद् भोक्ष्यत्य् अयम् असंशयः पुत्रास् तव च माद्र्याश् च सर्व एव महारथाः स्वराष्ट्रे विहरिष्यन्ति सुखं सुमनसस् तदा यक्ष्यन्ति च नरव्याघ्रा विजित्य पृथिवीम् इमाम् राजसूयाश्वमेधाद्यैः क्रतुभिर् भूरिदक्षिणैः अनुगृह्य सुहृद्वर्गं धनेन च सुखेन च पितृपैतामहं राज्यम् इह भोक्ष्यन्ति ते सुताः स्नुषा कमलपत्राक्षी नाम्ना कमलपालिका वशवर्तिनी तु भीमस्य पुत्रम् एषा जनिष्यति तेन पुत्रेण कृच्छ्रेषु भविष्यथ च तारिताः एवम् उक्त्वा निवेश्यैनान् ब्राह्मणस्य निवेशने अब्रवीत् पार्थिवश्रेष्ठम् ऋषिर् द्वैपायनस् तदा इह मां संप्रतीक्षध्वम् आगमिष्याम्य् अहं पुनः देशकालौ विदित्वैव वेत्स्यध्वं परमां मुदम् स तैः प्राञ्जलिभिः सर्वैस् तथेत्य् उक्तो नराधिप जगाम भगवान् व्यासो यथाकामम् ऋषिः प्रभुः जनमेजय उवाच एकचक्रां गतास् ते तु कुन्तीपुत्रा महारथाः अतः परं द्विजश्रेष्ठ किम् अकुर्वत पाण्डवाः वैशंपायन उवाच एकचक्रां गतास् ते तु कुन्तीपुत्रा महारथाः ऊषुर् नातिचिरं कालं ब्राह्मणस्य निवेशने रमणीयानि पश्यन्तो वनानि विविधानि च पार्थिवान् अपि चोद्देशान् सरितश् च सरांसि च चेरुर् भैक्षं तदा ते तु सर्व एव विशां पते युधिष्ठिरं च कुन्तीं च चिन्तयन्त उपासते भैक्षं चरन्तस् तु सदा जटिला ब्रह्मचारिणः बभूवुर् नागराणां च स्वैर् गुणैः प्रियदर्शनाः नागराः दर्शनीया द्विजाः शुद्धा देवगर्भोपमाः शुभाः भैक्षार्हा न च राज्यार्हाः सुकुमारास् तपस्विनः सर्वलक्षणसंपन्ना भैक्षं नार्हन्ति नित्यशः कार्यार्थिनश् चरन्तीति तर्कयन्त इति ब्रुवन् बन्धूनाम् आगमान् नित्यम् उपचिन्त्य तु नागराः भोजनानि च पूर्णानि भक्ष्यभोज्यैर् अकारयन् मौनव्रतेन संयुक्ता भैक्षं गृह्णन्ति पाण्डवाः माता चिरगतान् दृष्ट्वा शोचन्तीति च पाण्डवाः त्वरमाणा निवर्तन्ते मातृगौरवयन्त्रिताः नैते यथार्थतो विप्राः सुकुमारास् तपस्विनः चरन्ति भूमौ प्रच्छन्नाः कस्माच् चित् कारणाद् इह दुःखाश्रुपूर्णनयना लिखन्त्यास् ते महीतलम् भिक्षित्वा द्विजगेहेषु चिन्तयन्तश् च मातरम् निवेदयन्ति स्म च ते भैक्षं कुन्त्याः सदा निशि सर्वसंपूर्णभैक्षान्नं मात्रा दत्तं पृथक् पृथक् तया विभक्तान् भागांस् ते भुञ्जते स्म पृथक् पृथक् अर्धं ते भुञ्जते वीराः सह मात्रा परंतपाः अर्धं भैक्षस्य सर्वस्य भीमो भुङ्क्ते महाबलः न चाशितो ऽसौ भवति कल्याणान्नभृतः पुरा स वैवर्ण्यं च कार्श्यं च जगामातृप्तिकारितम् आज्यबिन्दुर् यथा वह्नौ महति ज्वलिते यथा तथार्धभागं भीमस्य भिक्षान्नस्य नृपोत्तम तथा तु तेषां वसतां तत्र राजन् महात्मनाम् अतिचक्राम सुमहान् कालो ऽथ भरतर्षभ भीमो ऽपि क्रीडयित्वा तु मिथो ब्राह्मणबन्धुषु कुम्भकारेण संबन्धं लेभे पात्रं बृहत् तदा स ददाति महत् पात्रं भीमाय प्रहसन्न् इव तस्याद्भुतं कर्म कृत्वा महन् मृद्भारम् आददे तस्य भारः शतगुणः कुम्भकारम् अतोषयत् चक्रे चक्रे च मृद्भाण्डान् सततं भैक्षम् आहरन् तद् आदाय गतं दृष्ट्वा हसन्ति प्रहसन्ति च भक्ष्यभोज्यानि विविधान्य् आदाय प्रक्षिपन्ति च एवम् एष सदा भुक्त्वा मात्रे वदति वै रहः कुम्भकारो ऽददात् पात्रं महत् कृत्वा तु पात्रकम् प्रहसन् भीमसेनाय विस्मितस् तस्य कर्मणा इति पृष्टः सदा पौरैः क्षुधितः किल पाण्डवः ततः कदा चिद् भैक्षाय गतास् ते भरतर्षभाः संगत्या भीमसेनस् तु तत्रास्ते पृथया सह अथार्तिजं महाशब्दं ब्राह्मणस्य निवेशने भृशम् उत्पतितं घोरं कुन्ती शुश्राव भारत रोरूयमाणांस् तान् सर्वान् परिदेवयतश् च सा कारुण्यात् साधुभावाच् च देवी राजन् न चक्षमे मथ्यमानेव दुःखेन हृदयेन पृथा ततः उवाच भीमं कल्याणी कृपान्वितम् इदं वचः वसामः सुसुखं पुत्र ब्राह्मणस्य निवेशने अज्ञाता धार्तराष्ट्राणां सत्कृता वीतमन्यवः सा चिन्तये सदा पुत्र ब्राह्मणस्यास्य किं न्व् अहम् प्रियं कुर्याम् इति गृहे यत् कुर्युर् उषिताः सुखम् एतावान् पुरुषस् तात कृतं यस्मिन् न नश्यति यावच् च कुर्याद् अन्यो ऽस्य कुर्याद् अभ्यधिकं ततः तद् इदं ब्राह्मणस्यास्य दुःखम् आपतितं ध्रुवम् तत्रास्य यदि साहाय्यं कुर्याम सुकृतं भवेत् भीम उवाच ज्ञायताम् अस्य यद् दुःखं यतश् चैव समुत्थितम् विदिते व्यवसिष्यामि यद्य् अपि स्यात् सुदुष्करम् वैशंपायन उवाच तथा हि कथयन्तौ तौ भूयः शुश्रुवतुः स्वनम् आर्तिजं तस्य विप्रस्य सभार्यस्य विशां पते अन्तःपुरं ततस् तस्य ब्राह्मणस्य महात्मनः विवेश कुन्ती त्वरिता बद्धवत्सेव सौरभी ततस् तं ब्राह्मणं तत्र भार्यया च सुतेन च दुहित्रा चैव सहितं ददर्श विकृताननम् ब्राह्मण उवाच धिग् इदं जीवितं लोके ऽनलसारम् अनर्थकम् दुःखमूलं पराधीनं भृशम् अप्रियभागि च जीविते परमं दुःखं जीविते परमो ज्वरः जीविते वर्तमानस्य द्वन्द्वानाम् आगमो ध्रुवः एकात्मापि हि धर्मार्थौ कामं च न निषेवते एतैश् च विप्रयोगो ऽपि दुःखं परमकं मतम् आहुः के चित् परं मोक्षं स च नास्ति कथं चन अर्थप्राप्तौ च नरकः कृत्स्न एवोपपद्यते अर्थेप्सुता परं दुःखम् अर्थप्राप्तौ ततो ऽधिकम् जातस्नेहस्य चार्थेषु विप्रयोगे महत्तरम् यावन्तो यस्य संयोगा द्रव्यैर् इष्टैर् भवन्त्य् उत तावन्तो ऽस्य निखन्यन्ते हृदये शोकशङ्कवः तद् इदं जीवितं प्राप्य स्वल्पकालं महाभयम् त्यागो ऽप्य् अयं महान् प्राप्तो भार्यया सहितेन च न हि योगं प्रपश्यामि येन मुच्येयम् आपदः पुत्रदारेण वा सार्धं प्राद्रवेयाम् अनामयम् यतितं वै मया पूर्वं यथा त्वं वेत्थ ब्राह्मणि यतः क्षेमं ततो गन्तुं त्वया तु मम न श्रुतम् इह जाता विवृद्धास्मि पिता चेह ममेति च उक्तवत्य् असि दुर्मेधे याच्यमाना मयासकृत् स्वर्गतो हि पिता वृद्धस् तथा माता चिरं तव बान्धवा भूतपूर्वाश् च तत्र वासे तु का रतिः न भोजनं विरुद्धं स्यान् न स्त्री देशो निबन्धनम् सुदूरम् अपि कार्यार्थे व्रजेद् गरुडहंसवत् सो ऽयं ते बन्धुकामाया अशृण्वन्त्या वचो मम बन्धुप्रणाशः संप्राप्तो भृशं दुःखकरो मम उपस्थितं तु कल्याणि यथेष्टम् अनुभूयताम् ब्राह्मणी माम् एव प्रेषय त्वं तु बकाय करम् अद्य वै द्विजः त्यागो ऽयं मम संप्राप्तो मम वा मे सुतस्य वा तव वा तव पुत्र्याश् च अत्र वासस्य तत् फलम् न शृणोषि वचो मह्यं तत् फलं भुङ्क्ष्व भामिनि अथवाहं न शक्ष्यामि स्वयं मर्तुं सुतं मम एवं त्यक्तुं न शक्नोमि भवतीं न सुताम् अपि अथवा मद्विनाशो ऽयं न हि शक्ष्यामि कं चन परित्यक्तुम् अहं बन्धुं स्वयं जीवन् नृशंसवत् सहधर्मचरीं दान्तां नित्यं मातृसमां मम सखायं विहितां देवैर् नित्यं परमिकां गतिम् मात्रा पित्रा च विहितां सदा गार्हस्थ्यभागिनीम् वरयित्वा यथान्यायं मन्त्रवत् परिणीय च कुलीनां शीलसंपन्नाम् अपत्यजननीं मम त्वाम् अहं जीवितस्यार्थे साध्वीम् अनपकारिणीम् परित्यक्तुं न शक्ष्यामि भार्यां नित्यम् अनुव्रताम् कुत एव परित्यक्तुं सुतां शक्ष्याम्य् अहं स्वयम् बालाम् अप्राप्तवयसम् अजातव्यञ्जनाकृतिम् सुतां चैनां न शक्ष्यामि परित्यक्तुं कथं चन प्रार्थये ऽहं परां प्रीतिं यस्मिन् स्वर्गफलानि च दयितं मे कथं बालम् अहं त्यक्तुम् इहोत्सहे यस्य जातस्य पितरो मुखं दृष्ट्वा दिवं गताः पितॄणाम् ऋणनिर्मुक्तो यस्य जातस्य तेजसा तम् अहं ज्येष्ठपुत्रं मे कुलनिस्तारकं भुवि मम पिण्डोदकनिधिं कथं त्यक्ष्यामि पुत्रकम् कुत एव परित्यक्तुं पुत्रीं शक्ष्याम्य् अहं स्वयम् भर्तुर् अर्थाय निक्षिप्तां न्यासं धात्रा महात्मना यस्यां दौहित्रजांल् लोकान् आशंसे पितृभिः सह स्वयम् उत्पाद्य तां बालां कथम् उत्स्रष्टुम् उत्सहे मन्यन्ते के चिद् अधिकं स्नेहं पुत्रे पितुर् नराः कन्यायां नैव तु पुनर् मम तुल्याव् उभौ मतौ यस्मिंल् लोकाः प्रसूतिश् च स्थिता नित्यम् अथो सुखम् अपापां ताम् अहं बालां कथम् उत्स्रष्टुम् उत्सहे मेधाविनीम् अदोषां च शुश्रूषुम् अनहंकृताम् ताम् इमां मे सुतां बालां कथम् उत्स्रष्टुम् उत्सहे काङ्क्षमाणां रतिं चैव सुखानि च बहून्य् अपि उत्पादयन्त्य् अपत्यानि धर्मकामार्थहेतवे आत्मानम् अपि चोत्सृज्य तप्स्ये प्रेतवशं गतः स्वयं च न परित्यक्तुं शक्नोम्य् एतान् अहं यथा त्यक्ता ह्य् एते मया व्यक्तं नेह शक्ष्यन्ति जीवितुम् एषां चान्यतमत्यागो नृशंसो गर्हितो बुधैः आत्मत्यागे कृते चेमे मरिष्यन्ति मया विना स कृच्छ्राम् अहम् आपन्नो न शक्तस् तर्तुम् आपदम् अहो धिक् कां गतिं त्व् अद्य गमिष्यामि सबान्धवः सर्वैः सह मृतं श्रेयो न तु मे जीवितं क्षमम् ब्राह्मण्य् उवाच न संतापस् त्वया कार्यः प्राकृतेनेव कर्हि चित् न हि संतापकालो ऽयं वैद्यस्य तव विद्यते अवश्यं निधनं सर्वैर् गन्तव्यम् इह मानवैः अवश्यभाविन्य् अर्थे वै संतापो नेह विद्यते भार्या पुत्रो ऽथ दुहिता सर्वम् आत्मार्थम् इष्यते व्यथां जहि सुबुद्ध्या त्वं स्वयं यास्यामि तत्र वै एतद् धि परमं नार्याः कार्यं लोके सनातनम् प्राणान् अपि परित्यज्य यद् भर्तृहितम् आचरेत् तच् च तत्र कृतं कर्म तवापीह सुखावहम् भवत्य् अमुत्र चाक्षय्यं लोके ऽस्मिंश् च यशस्करम् एष चैव गुरुर् धर्मो यं प्रवक्षाम्य् अहं तव अर्थश् च तव धर्मश् च भूयान् अत्र प्रदृश्यते यदर्थम् इष्यते भार्या प्राप्तः सो ऽर्थस् त्वया मयि कन्या चैव कुमारश् च कृताहम् अनृणा त्वया समर्थः पोषणे चासि सुतयो रक्षणे तथा न त्व् अहं सुतयोः शक्ता तथा रक्षणपोषणे मम हि त्वद्विहीनायाः सर्वकामा न आपदः कथं स्यातां सुतौ बालौ भवेयं च कथं त्व् अहम् कथं हि विधवानाथा बालपुत्रा विना त्वया मिथुनं जीवयिष्यामि स्थिता साधुगते पथि अहंकृतावलिप्तैश् च प्रार्थ्यमानाम् इमां सुताम् अयुक्तैस् तव संबन्धे कथं शक्ष्यामि रक्षितुम् उत्सृष्टम् आमिषं भूमौ प्रार्थयन्ति यथा खगाः प्रार्थयन्ति जनाः सर्वे वीरहीनां तथा स्त्रियम् साहं विचाल्यमाना वै प्रार्थ्यमाना दुरात्मभिः स्थातुं पथि न शक्ष्यामि सज्जनेष्टे द्विजोत्तम स्त्रीजन्म गर्हितं नाथ लोके दुष्टजनाकुले मातापित्रोर् वशे कन्या ऊढा भर्तृवशे तथा अभावे चानयोः पुत्रे स्वतन्त्रा स्त्री विगर्ह्यते अनाथत्वं स्त्रियो द्वारं दुष्टानां विवृतं हि तत् वस्त्रखण्डं घृताक्तं हि यथा संकृष्यते श्वभिः दृष्ट्वा तथाबला नाथ प्रार्थितैश्वर्यगर्वितैः कथं तव कुलस्यैकाम् इमां बालाम् असंस्कृताम् पितृपैतामहे मार्गे नियोक्तुम् अहम् उत्सहे कथं शक्ष्यामि बाले ऽस्मिन् गुणान् आधातुम् ईप्षितान् अनाथे सर्वतो लुप्ते यथा त्वं धर्मदर्शिवान् आद्वादशाब्दं बालो ऽयं दुश्चरित्रं चचार ह मातापित्रोस् तु तत् पापम् इत्य् आहुर् धर्मवादिनः शिक्षये तत् पिता माता तत् पुत्रश् च चरित्रतः इमाम् अपि च ते बालाम् अनाथां परिभूय माम् अनर्हाः प्रार्थयिष्यन्ति शूद्रा वेदश्रुतिं यथा तां चेद् अहं न दित्सेयं त्वद्गुणैर् उपबृंहिताम् प्रमथ्यैनां हरेयुस् ते हविर् ध्वाङ्क्षा इवाध्वरात् को ऽस्याः कर्ता भवेद् इति पश्यन्त्या मे हरन्त्य् एव क्रोशन्त्याश् चापि निस्त्रपाः अनाथत्वात् सुतां विद्वन् संप्रेक्षमाणा पुत्रं ते नानुरूपम् इवात्मनः अनर्हवशम् आपन्नाम् इमां चापि सुतां तव अवज्ञाता च लोकस्य तथात्मानम् अजानती अवलिप्तैर् नरैर् ब्रह्मन् मरिष्यामि न संशयः ह्रीयमाणाम् अनागसाः अशक्तत्वाद् अनाथत्वान् मृते त्वयि मयावश्यं सहागमनम् इष्यते मृते भर्तरि नारीणां सुखलेशं न विद्यते तौ विहीनौ मया बालौ त्वया चैव ममात्मजौ विनश्येतां न संदेहो मत्स्याव् इव जलक्षये त्रितयं सर्वथाप्य् एवं विनशिष्यत्य् असंशयम् त्वया विहीनं तस्मात् त्वं मां परित्यक्तुम् अर्हसि व्युष्टिर् एषा परा स्त्रीणां पूर्वं भर्तुः परा गतिः न तु ब्राह्मण पुत्राणां विषये परिवर्तितुम् हरिद्राञ्जनपुष्पादिसौमङ्गल्ययुता सती मरणं याति या भर्तुस् तद् दत्तजलपायिनी भर्तृपादार्पितमनाः सा याति गिरिजापदम् गिरिजायाः सखी भूत्वा मोदते नगकन्यया मितं ददाति हि पिता मितं भ्राता मितं सुतः अमितस्य हि दातारं का पतिं नाभिनन्दति परित्यक्तः सुतश् चायं दुहितेयं तथा मया बान्धवाश् च परित्यक्तास् त्वदर्थं जीवितं च मे यज्ञैस् तपोभिर् नियमैर् दानैश् च विविधैस् तथा विशिष्यते स्त्रिया भर्तुर् नित्यं प्रियहिते स्थितिः आश्रमाश् चाग्निसंस्कारा जपहोमव्रतानि च स्त्रीणां नैते विधातव्या विना पतिम् अनिन्दितम् क्षमा शौचम् अनाहारम् एतावद् विदितं स्त्रियाः तद् इदं यच् चिकीर्षामि धर्म्यं परमसंमतम् इष्टं चैव हितं चैव तव चैव कुलस्य च इष्टानि चाप्य् अपत्यानि द्रव्याणि सुहृदः प्रियाः आपद्धर्मविमोक्षाय भार्या चापि सतां मतम् आपदर्थे धनं रक्षेद् दारान् रक्षेद् धनैर् अपि आत्मानं सततं रक्षेद् दारैर् अपि धनैर् अपि दृष्टादृष्टफलार्थं हि भार्या पुत्रो धनं गृहम् सर्वम् एतद् विधातव्यं बुधानाम् एष निश्चयः एकतो वा कुलं कृत्स्नम् आत्मा वा कुलवर्धन न समं सर्वम् एवेति बुधानाम् एष निश्चयः उभयोः को ऽधिको विद्वान्न् आत्मा चैवाधिकः कुलात् आत्मनो विद्यमानत्वाद् भुवनानि चतुर्दश विद्यन्ते द्विजशार्दूल आत्मा रक्ष्यः सदा त्वया आत्मन्य् अविद्यमाने चेत् तस्य नास्तीह किं चन एतज् जगद् इदं सर्वम् आत्मना न समं किल स कुरुष्व मया कार्यं तारयात्मानम् आत्मना अनुजानीहि माम् आर्य सुतौ मे परिरक्ष च किं चान्यच् छृणु मे नाथ यद् वक्ष्यामि हितं तव श्रुत्वावधार्यतां तन् मे ततस् ते तद् धितं कुरु अवध्याः स्त्रिय इत्य् आहुर् धर्मज्ञा धर्मनिश्चये धर्मज्ञान् राक्षसान् आहुर् न हन्यात् स च माम् अपि निःसंशयो वधः पुंसां स्त्रीणां संशयितो वधः अतो माम् एव धर्मज्ञ प्रस्थापयितुम् अर्हसि भुक्तं प्रियाण्य् अवाप्तानि धर्मश् च चरितो मया त्वच्छुश्रूषणसंभूता कीर्तिश् चाप्य् अतुला मम त्वत्प्रसूतिः प्रिया प्राप्ता न मां तप्स्यत्य् अजीवितम् जातपुत्रा च वृद्धा च प्रियकामा च ते सदा समीक्ष्यैतद् अहं सर्वं व्यवसायं करोम्य् अतः उत्सृज्यापि च माम् आर्य वेत्स्यस्य् अन्याम् अपि स्त्रियम् लभस्व कुलजां कन्यां धर्मस् ते भविता पुनः अनाश्रमी न तिष्ठेत क्षणमात्रम् अपि द्विजः ततः प्रतिष्ठितो धर्मो भविष्यति पुनस् तव न चाप्य् अधर्मः कल्याण बहुपत्नीकता नृणाम् स्त्रीणाम् अधर्मः सुमहान् भर्तुः पूर्वस्य लङ्घने एतत् सर्वं समीक्ष्य त्वम् आत्मत्यागं च गर्हितम् कुरु वाक्यं मम विभो नान्यथा मानसं कुरु आत्मानं तारय मया कुलं चेमौ च दारकौ वैशंपायन उवाच एवम् उक्तस् तया भर्ता तां समालिङ्ग्य भारत मुमोच बाष्पं शनकैः सभार्यो भृशदुःखितः ततो ऽनन्तरम् एवास्य दुहिता वक्तुम् उद्यता मैवं वद सुकल्याणि तिष्ठ गेहे सुमध्यमे न स्वां भार्यां त्यजेत् प्राज्ञः पुत्रान् वापि कदा चन विशेषतः स्त्रियं रक्षेत् पुरुषो बुद्धिमान् इह त्यक्त्वा तु पुरुषो जीवेन् न हातव्यान् इमान् सदा न वेत्ति धर्मम् अर्थं च कामं मोक्षं च तत्त्वतः वैशंपायन उवाच तयोर् दुःखितयोर् वाक्यम् अतिमात्रं निशम्य तत् भृशं दुःखपरीताङ्गी कन्या ताव् अभ्यभाषत किम् इदं भृशदुःखार्तौ रोरवीथो अनाथवत् ममापि श्रूयतां किं चिच् छ्रुत्वा च क्रियतां क्षमम् धर्मतो ऽहं परित्याज्या युवयोर् नात्र संशयः त्यक्तव्यां मां परित्यज्य त्रातं सर्वं मयैकया इत्य् अर्थम् इष्यते ऽपत्यं तारयिष्यति माम् इति तस्मिन्न् उपस्थिते काले तरतं प्लववन् मया इह वा तारयेद् दुर्गाद् उत वा प्रेत्य तारयेत् सर्वथा तारयेत् पुत्रः पुत्र इत्य् उच्यते बुधैः पुन्नाम्नो नरकात् त्राणात् तनयः पुत्र उच्यते आकाङ्क्षन्ते च दौहित्रान् अपि नित्यं पितामहाः तान् स्वयं वै परित्रास्ये रक्षन्ती जीवितं पितुः भ्राता च मम बालो ऽयं गते लोकम् अमुं त्वयि अचिरेणैव कालेन विनश्येत न संशयः ताते ऽपि हि गते स्वर्गं विनष्टे च ममानुजे पिण्डः पितॄणां व्युच्छिद्येत् तत् तेषाम् अप्रियं भवेत् पित्रा त्यक्ता तथा मात्रा भ्रात्रा चाहम् असंशयम् दुःखाद् दुःखतरं प्राप्य म्रियेयम् अतथोचिता त्वयि त्व् अरोगे निर्मुक्ते माता भ्राता च मे शिशुः संतानश् चैव पिण्डश् च प्रतिष्ठास्यत्य् असंशयम् आत्मा पुत्रः सखा भार्या कृच्छ्रं तु दुहिता किल स कृच्छ्रान् मोचयात्मानं मां च धर्मेण योजय अनाथा कृपणा बाला यत्रक्वचनगामिनी भविष्यामि त्वया तात विहीना कृपणा बत अथवाहं करिष्यामि कुलस्यास्य विमोक्षणम् फलसंस्था भविष्यामि कृत्वा कर्म सुदुष्करम् अथवा यास्यसे तत्र त्यक्त्वा मां द्विजसत्तम पीडिताहं भविष्यामि तद् अवेक्षस्व माम् अपि तद् अस्मदर्थं धर्मार्थं प्रसवार्थं च सत्तम आत्मानं परिरक्षस्व त्यक्तव्यां मां च संत्यज अवश्यकरणीये ऽर्थे मा त्वां कालो ऽत्यगाद् अयम् त्वया दत्तेन तोयेन भविष्यति हितं च मे किं न्व् अतः परमं दुःखं यद् वयं स्वर्गते त्वयि याचमानाः पराद् अन्नं परिधावेमहि श्ववत् त्वयि त्व् अरोगे निर्मुक्ते क्लेशाद् अस्मात् सबान्धवे अमृते वसती लोके भविष्यामि सुखान्विता इतः प्रदाने देवाश् च पितरश् चेति नः श्रुतम् इत्य् एतद् उभयं तात निशाम्य तव यद् धितम् तद् व्यवस्य तथाम्बाया हितं स्वस्य सुतस्य च मातापित्रोः पुनः पुत्रा भवितारो गुणान्विताः न तु पुत्रस्य पितरौ पुनर् जातु भविष्यतः एवं बहुविधं तस्या निशम्य परिदेवितम् पिता माता च सा चैव कन्या प्ररुरुदुस् त्रयः ततः प्ररुदितान् सर्वान् निशम्याथ सुतस् तयोः उत्फुल्लनयनो बालः कलम् अव्यक्तम् अब्रवीत् मा रोदीस् तात मा मातर् मा स्वसस् त्वम् इति ब्रुवन् प्रहसन्न् इव सर्वांस् तान् एकैकं सो ऽपसर्पति ततः स तृणम् आदाय प्रहृष्टः पुनर् अब्रवीत् अनेन तं हनिष्यामि राक्षसं पुरुषादकम् तथापि तेषां दुःखेन परीतानां निशम्य तत् बालस्य वाक्यम् अव्यक्तं हर्षः समभवन् महान् अयं काल इति ज्ञात्वा कुन्ती समुपसृत्य तान् गतासून् अमृतेनेव जीवयन्तीदम् अब्रवीत् कुन्त्य् उवाच कुतोमूलम् इदं दुःखं ज्ञातुम् इच्छामि तत्त्वतः विदित्वा अपकर्षेयं शक्यं चेद् अपकर्षितुम् ब्राह्मण उवाच उपपन्नं सताम् एतद् यद् ब्रवीषि तपोधने न तु दुःखम् इदं शक्यं मानुषेण व्यपोहितुम् तथापि तत्त्वम् आख्यास्ये एतद् दुःखस्य संभवम् शक्यं वा यदि वाशक्यं शृणु भद्रे यथातथम् समीपे नगरस्यास्य बको वसति राक्षसः इतो गव्यूतिमात्रे ऽस्ति यमुनागह्वरे गुहा तस्यां घोरः स वसति जिघांसुः पुरुषादकः बको नाम स नाम्ना वै दुष्टात्मा राक्षसाधमः ईशो जनपदस्यास्य पुरस्य च महाबलः प्रलम्बकः कामरूपी राक्षसो वै महाबलः तेनोपसृष्टा नगरी वर्षम् अद्य त्रयोदशम् पुष्टो मानुषमांसेन दुर्बुद्धिः पुरुषादकः रक्षत्य् असुरराण् नित्यम् इमं जनपदं बली नगरं चैव देशं च रक्षोबलसमन्वितः तत्कृते परचक्राच् च भूतेभ्यश् च न नो भयम् पुरुषादकेन रौद्रेण भक्ष्यमाणा दुरात्मना अनाथा नगरी नाथं त्रातारं नाधिगच्छति गुहायां वसतस् तत्र बाधते सततं जनम् स्त्रियो बालांश् च वृद्धांश् च यूनश् चापि दुरात्मवान् अत्र मन्त्रैश् च होमैश् च भोजनैश् च स राक्षसः ईडितो द्विजमुख्यैश् च पूजितश् च दुरात्मवान् यदा च सकलान् एवं प्रसूदयति राक्षसः अथैनं ब्राह्मणाः सर्वे समये समयोजयन् मास्मान् कामाद् वधी रक्षो दास्यामस् ते सदा वयम् पर्यायेण यथाकामम् इह मांसोदनं प्रभो अन्नं मांससमायुक्तं तिलचूर्णसमन्वितम् सर्पिषा च समायुक्त व्यञ्जनैश् च विभूषितम् स्रजश् चित्रास् तिलान् पिण्डांल् लाजापूपसुरासवान् शृताशृतान् पानकुम्भान् स्थूलमांसं शृताशृतम् सर्पिःकुम्भांश् च विविधान् अन्यांश् च विविधान् बहून् अद्य सिद्धैः समायुक्तैस् तिलचूर्णैः समाकुलान् कुलात् कुलाच् च पुरुषं बलीवर्दौ च कालकौ प्राप्स्यसि त्वम् असंक्रुद्धो रक्षोभागं प्रकल्पितम् तिष्ठेह समये ऽस्माकम् इत्य् अयाचन्त तं द्विजाः बाढम् इत्य् एव तद् रक्षस् तद्वचः प्रत्यगृह्णत परचक्रान् न बिभ्यंश् च रक्षणं स करोति च तस्मिन् भागे विनिर्दिष्टे चास्थितः समयं बली वेतनं तस्य विहितं शालिवाहस्य भोजनम् महिषौ पुरुषश् चैको यस् तद् आदाय गच्छति एकैकश् चैव पुरुषस् तत् प्रयच्छति भोजनम् स वारो बहुभिर् वर्षैर् भवत्य् असुतरो नरैः तद्विमोक्षाय ये चापि यतन्ते पुरुषाः क्व चित् सपुत्रदारांस् तान् हत्वा तद् रक्षो भक्षयत्य् उत वेत्रकीयगृहे राजा नायं नयम् इहास्थितः उपायं तं न कुरुते यत्नाद् अपि स मन्दधीः अनामयं जनस्यास्य येन स्याद् अद्य शाश्वतम् एतदर्हा वयं नूनं वसामो दुर्बलस्य ये विषये नित्यम् उद्विग्नाः कुराजानम् उपाश्रिताः पुरातनस्य वासस्य गृहक्षेत्रादिकस्य च परित्यागं नेच्छमाना वसामो नगरे ततः एकचक्रापि वसतिः स्ववाचो दुष्परित्यजः दीयमाने नरकरे सततं बकराक्षसे ब्राह्मणाः कस्य वक्तव्याः कस्य वा छन्दचारिणः गुणैर् एते हि वास्यन्ते कामगाः पक्षिणो यथा राजानं प्रथमं विन्देत् ततो भार्यां ततो धनम् राजन्य् असति लोके ऽस्मिन् कुतो भार्या कुतो धनम् त्रयस्य संचये चास्य ज्ञातीन् पुत्रांश् च धारयेत् विपरीतं मया चेदं त्रयं सर्वम् उपार्जितम् त इमाम् आपदं प्राप्य भृशं तप्स्यामहे वयम् सो ऽयम् अस्मान् अनुप्राप्तो वारः कुलविनाशनः भोजनं पुरुषश् चैकः प्रदेयं वेतनं मया न च मे विद्यते वित्तं संक्रेतुं पुरुषं क्व चित् सुहृज्जनं प्रदातुं च न शक्ष्यामि कथं चन गतिं चापि न पश्यामि तस्मान् मोक्षाय रक्षसः सो ऽहं दुःखार्णवे मग्नो महत्य् असुतरे भृशम् सहैवैतैर् गमिष्यामि बान्धवैर् अद्य राक्षसम् ततो नः सहितन् क्षुद्रः सर्वान् एवोपभोक्ष्यति दुःखमूलम् इदं भद्रे मयोक्तं प्रश्नतो ऽनघे कुन्त्य् उवाच न विषादस् त्वया कार्यो भयाद् अस्मात् कथं चन उपायः परिदृष्टो ऽत्र तस्मान् मोक्षाय रक्षसः नैव स्वयं सपुत्रस्य गमनं तत्र रोचये एकस् तव सुतो बालः कन्या चैका तपस्विनी न ते तयोस् तथा पत्न्या गमनं तत्र रोचये मम पञ्च सुता ब्रह्मंस् तेषाम् एको गमिष्यति त्वदर्थं बलिम् आदाय तस्य पापस्य रक्षसः ब्राह्मण उवाच नाहम् एतत् करिष्यामि जीवितार्थी कथं चन ब्राह्मणस्यातिथेश् चैव स्वार्थे प्राणैर् वियोजनम् न त्व् एतद् अकुलीनासु नाधर्मिष्ठासु विद्यते यद् ब्राह्मणार्थे विसृजेद् आत्मानम् अपि चात्मजम् आत्मनस् तु मया श्रेयो बोद्धव्यम् इति रोचये ब्रह्मवध्यात्मवध्या वा श्रेय आत्मवधो मम ब्रह्महत्या परं पापं श्रेयान् आत्मवधो मम ब्रह्मवध्या परं पापं निष्कृतिर् नात्र विद्यते प्रयोक्ता चानुमन्ता च हन्ता चेति त्रयः समाः अबुद्धिपूर्वं कृत्वापि श्रेय आत्मवधो मम न त्व् अहं वधम् आकाङ्क्षे स्वयम् एवात्मनः शुभे परैः कृते वधे पापं न किं चिन् मयि विद्यते अभिसंधिकृते तस्मिन् ब्राह्मणस्य वधे मया निष्कृतिं न प्रपश्यामि नृशंसं क्षुद्रम् एव च आगतस्य गृहे त्यागस् तथैव शरणार्थिनः याचमानस्य च वधो नृशंसं परमं मतम् कुर्यान् न निन्दितं कर्म न नृशंसं कदा चन इति पूर्वे महात्मान आपद्धर्मविदो विदुः श्रेयांस् तु सहदारस्य विनाशो ऽद्य मम स्वयम् ब्राह्मणस्य वधं नाहम् अनुमंस्ये कथं चन कुन्त्य् उवाच ममाप्य् एषा मतिर् ब्रह्मन् विप्रा रक्ष्या इति स्थिरा न चाप्य् अनिष्टः पुत्रो मे यदि पुत्रशतं भवेत् न चासौ राक्षसः शक्तो मम पुत्रविनाशने वीर्यवान् मन्त्रसिद्धश् च तेजस्वी च सुतो मम राक्षसाय च तत् सर्वं प्रापयिष्यति भोजनम् मोक्षयिष्यति चात्मानम् इति मे निश्चिता मतिः समागताश् च वीरेण दृष्टपूर्वाश् च राक्षसाः बलवन्तो महाकाया निहताश् चाप्य् अनेकशः न त्व् इदं केषु चिद् ब्रह्मन् व्याहर्तव्यं कथं चन विद्यार्थिनो हि मे पुत्रान् विप्रकुर्युः कुतूहलात् गुरुणा चाननुज्ञातो ग्राहयेद् यं सुतो मम न स कुर्यात् तया कार्यं विद्ययेति सतां मतम् वैशंपायन उवाच एवम् उक्तस् तु पृथया स विप्रो भार्यया सह हृष्टः संपूजयाम् आस तद् वाक्यम् अमृतोपमम् ततः कुन्ती च विप्रश् च सहिताव् अनिलात्मजम् तम् अब्रूतां कुरुष्वेति स तथेत्य् अब्रवीच् च तौ वैशंपायन उवाच करिष्य इति भीमेन प्रतिज्ञाते तु भारत आजग्मुस् ते ततः सर्वे भैक्षम् आदाय पाण्डवाः भीमसेनं ततो दृष्ट्वा आपूर्णवदनं तदा बुबोध धर्मराजस् तु हृषितं भीमम् अच्युतम् हर्षितुं कारणं यत् तन् मनसा चिन्तयन् गुरुः स समीक्ष्य तदा राजञ् श्रोतुकामो युधां पतिः आकारेणैव तं ज्ञात्वा पाण्डुपुत्रो युधिष्ठिरः रहः समुपविश्यैकस् ततः पप्रच्छ मातरम् किं चिकीर्षत्य् अयं कर्म भीमो भीमपराक्रमः भवत्य् अनुमते कच्चिद् अयं कर्तुम् इहेच्छति कुन्त्य् उवाच ममैव वचनाद् एष करिष्यति परंतपः ब्राह्मणार्थे महत् कृत्यं मोष्काय नगरस्य च बकाय कल्पितं पुत्र महान्तं बलिम् उत्तमम् भीमो भुनक्ति संपुष्टम् अप्य् एकाहं तपःसुत युधिष्ठिर उवाच किम् इदं साहसं तीक्ष्णं भवत्या दुष्कृतं कृतम् परित्यागं हि पुत्रस्य न प्रशंसन्ति साधवः कथं परसुतस्यार्थे स्वसुतं त्यक्तुम् इच्छसि लोकवृत्तिविरुद्धं वै पुत्रत्यागात् कृतं त्वया यस्य बाहू समाश्रित्य सुखं सर्वे स्वपामहे राज्यं चापहृतं क्षुद्रैर् आजिहीर्षामहे पुनः यस्य दुर्योधनो वीर्यं चिन्तयन्न् अमितौजसः न शेते वसतीः सर्वा दुःखाच् छकुनिना सह यस्य वीरस्य वीर्येण मुक्ता जतुगृहाद् वयम् अन्येभ्यश् चैव पापेभ्यो निहतश् च पुरोचनः यस्य वीर्यं समाश्रित्य वसुपूर्णां वसुंधराम् भोक्तुम् इच्छामहे मातः निःसपत्ना महामनः इमां मन्यामहे प्राप्तां निहत्य धृतराष्ट्रजान् कर्णं दुःशासनं चैव शकुनिं चापि सौबलम् तस्य व्यवसितस् त्यागो बुद्धिम् आस्थाय कां त्वया कच्चिन् न दुःखैर् बुद्धिस् ते विप्लुता गतचेतसः कुन्त्य् उवाच युधिष्ठिर न संतापः कार्यः प्रति वृकोदरम् न चायं बुद्धिदौर्बल्याद् व्यवसायः कृतो मया न च शोकेन बुद्धिर् मे विप्लुता गतचेतना इह विप्रस्य भवने वयं पुत्र सुखोषिताः अज्ञाता धार्तराष्ट्राणां सत्कृता वीतमन्यवः तस्य प्रतिक्रिया तात मयेयं प्रसमीक्षिता एतावान् एव पुरुषः कृतं यस्मिन् न नश्यति ब्राह्मणार्थे महान् धर्मो जानतीत्थं वृकोदरे यावच् च कुर्याद् अन्यो ऽस्य कुर्याद् बहुगुणं ततः दृष्ट्वा भीष्मस्य विक्रान्तं तदा जतुगृहे महत् हिडिम्बस्य वधाच् चैव विश्वासो मे वृकोदरे बाह्वोर् बलं हि भीमस्य नागायुतसमं महत् येन यूयं गजप्रख्या निर्व्यूढा वारणावतात् वृकोदरबलो नान्यो न भूतो न भविष्यति यो ऽभ्युदीयाद् युधि श्रेष्ठम् अपि वज्रधरं स्वयम् जातमात्रः पुरा चैष ममाङ्कात् पतितो गिरौ शरीरगौरवात् तस्य शिला गात्रैर् विचूर्णिता तथा हि दृष्टं स्वप्नं तु मया गतनिशे महत् भुक्त्वा भीमो बकं हत्वा नागरैः परिवारितः हृष्टः पुनर् इमं वासम् आयातो ऽलंकृतः शुभैः तद् अहं प्रज्ञया स्मृत्वा बलं भीमस्य पाण्डव प्रतीकारं च विप्रस्य ततः कृतवती मतिम् नेदं लोभान् न चाज्ञानान् न च मोहाद् विनिश्चितम् बुद्धिपूर्वं तु धर्मस्य व्यवसायः कृतो मया अर्थौ द्वाव् अपि निष्पन्नौ युधिष्ठिर भविष्यतः प्रतीकारश् च वासस्य धर्मश् च चरितो महान् यो ब्राह्मणस्य साहाय्यं कुर्याद् अर्थेषु कर्हि चित् क्षत्रियः स शुभांल् लोकान् प्राप्नुयाद् इति मे श्रुतम् क्षत्रियः क्षत्रियस्यैव कुर्वाणो वधमोक्षणम् विपुलां कीर्तिम् आप्नोति लोके ऽस्मिंश् च परत्र च वैश्यस्यैव तु साहाय्यं कुर्वाणः क्षत्रियो युधि स सर्वेष्व् अपि लोकेषु प्रजा रञ्जयते ध्रुवम् शूद्रं तु मोक्षयन् राजा शरणार्थिनम् आगतम् प्राप्नोतीह कुले जन्म सद्रव्ये राजसत्कृते एवं स भगवान् व्यासः पुरा कौरवनन्दन प्रोवाच सुतरां प्राज्ञस् तस्माद् एतच् चिकीर्षितम् युधिष्ठिर उवाच उपपन्नम् इदं मातस् त्वया यद् बुद्धिपूर्वकम् आर्तस्य ब्राह्मणस्यैवम् अनुक्रोशाद् इदं कृतम् ध्रुवम् एष्यति भीमो ऽयं निहत्य पुरुषादकम् सर्वथा ब्राह्मणस्यार्थे यद् अनुक्रोशवत्य् असि मन्वादिमुनिभिः प्रोक्तं वेदविद्भिर् महात्मभिः गवार्थे ब्राह्मणस्यार्थे सद्यः प्राणान् परित्यजेत् मुच्यते ब्रह्महत्याया गोप्तारो ब्राह्मणस्य च आगन्ता नगरं चैव तस्मात् पापाद् विमुच्यते यथा त्व् इदं न विन्देयुर् नरा नगरवासिनः तथायं ब्राह्मणो वाच्यः परिग्राह्यश् च यत्नतः वैशंपायनः युधिष्ठिरेण संमन्त्र्य ब्राह्मणार्थम् अरिंदम कुन्ती प्रविश्य तान् सर्वान् सान्त्वयाम् आस भारत वैशंपायन उवाच ततो रात्र्यां व्यतीतायाम् अन्नम् आदाय पाण्डवः भीमसेनो ययौ तत्र यत्रासौ पुरुषादकः वैशंपायनः भीमसेनः वैशंपायनः अथ रात्र्यां व्यतीतायां भीमसेनो महाबलः ब्राह्मणं समुपागम्य वाक्यं चेदम् उवाच ह आपदस् त्वां मोचयेयं सपुत्रं ब्राह्मणप्रिय मा भैषी राक्षसात् तस्मान् मां ददातु बलिं भवान् इह माम् आशितं कर्तुं प्रयतस्व द्विजोत्तम अथात्मानं प्रदास्यामि तस्मै घोराय रक्षसे त्वरध्वं किं विलम्बध्वं मा चिरं कुरुतानघाः व्यवस्येयं मम प्राणैर् युष्मान् रक्षितुम् अद्य वै एवम् उक्तस् तु भीमेन ब्राह्मणो भरतर्षभ सुहृदां तत् समाख्याय ददाव् अन्नं सुसंस्कृतम् पिशितोदनम् आजह्रुर् अथास्मै पुरवासिनः सघृतं सोपदंशं च सूपैर् नानाविधैः सह तद् अशित्वा भीमसेनो मांसानि विविधानि च मोदकानि च मुख्यानि चित्रोदनचयान् बहून् ततो ऽपिबद् दधिघटान् सुबहून् द्रोणसंमितान् तस्य भुक्तवतः पौरा यथावत् समुपार्जितम् उपजह्रुर् भूतभागं समृद्धमनसस् तदा ततो रात्र्यां व्यतीतायां सव्यञ्जनदधिप्लुतम् समारुह्यान्नसंपूर्णं शकटं स वृकोदरः प्रययौ तूर्यनिर्घोषैः पौरैश् च परिवारितः आत्मानम् एषो ऽन्नभृतो राक्षसाय प्रदास्यति तरुणो ऽप्रतिरूपश् च दृढ औदरिको युवा वाग्भिर् एवंप्रकाराभिः स्तूयमानो वृकोदरः चुचोद स बलीवर्दौ युक्तौ सर्वाङ्गकालकौ वादित्राणां प्रणादेन ततस् तं पुरुषादकम् अभ्यगच्छत् सुसंहृष्टः स तत्र मनुजैर् वृतः संप्राप्य स च तं देशम् एकाकी समुपाययौ पुरुषादभयाद् भीतस् तत्रैवासीज् जनव्रजः स गत्वा दीर्घम् अध्वानं दक्षिणाम् अभितो दिशम् यथोपदिष्टम् उद्देशे ददर्श विटपद्रुमम् केशमज्जास्थिमेदोभिर् बाहूरुचरणैर् अपि आर्द्रैः शुष्कैश् च संकीर्णम् अभितो ऽथ वनस्पतिम् गृध्रकङ्कबलच्छन्नं गोमायुगणसंकुलम् उग्रगन्धम् अचक्षुष्यं श्मशानम् इव दारुणम् तं प्रविश्य महावृक्षं चिन्तयाम् आस वीर्यवान् यावन् न दृश्यते रक्षो बकस् तु बलदर्पितः आचितं विविधैर् भोज्यैर् अन्नैर् गिरिनिभैर् इदम् शकटं सूपसंपूर्णं यावद् द्रक्ष्यति राक्षसः तावद् एव हि भोक्ष्ये ऽहं दुर्लभं वै पुनर् भवेत् विप्रकीर्येत सर्वं हि प्रयुद्धे मयि रक्षसा अभोज्यं च शवं स्पृष्ट्वा निगृहीते बके भवेत् स त्व् एवं भीमकर्मा तु भीमसेनो ऽभिलक्ष्य च उपविष्टः शनैर् अन्नं प्रभुङ्क्ते स्म परं वरम् ते ततः सर्वतो ऽपश्यन् द्रुमान् आरुह्य नागराः नारक्षो बलिम् अश्नीयाद् एवं बहु च मानवाः भुङ्क्ते ब्राह्मणरूपेण बको ऽयम् इति चाब्रुवन् स तं हसति तेजस्वी तदन्नम् उपयुज्य च आसाद्य तु वनं तस्य रक्षसः पाण्डवो बली आजुहाव ततो नाम्ना तदन्नम् उपयोजयन् ततः स राक्षसः श्रुत्वा भीमसेनस्य तद् वचः आजगाम सुसंक्रुद्धो यत्र भीमो व्यवस्थितः महाकायो महावेगो दारयन्न् इव मेदिनीम् लोहिताक्षः कराली च लोहितश्मश्रुमूर्धजः आकर्णाद् भिन्नवक्त्रश् च शङ्कुकर्णो विभीषणः त्रिशिखां भृकुटिं कृत्वा संदश्य दशनच्छदम् भुञ्जानम् अन्नं तं दृष्ट्वा भीमसेनं स राक्षसः विवृत्य नयने क्रुद्ध इदं वचनम् अब्रवीत् को ऽयम् अन्नम् इदं भुङ्क्ते मदर्थम् उपकल्पितम् पश्यतो मम दुर्बुद्धिर् यियासुर् यमसादनम् भीमसेनस् तु तच् छ्रुत्वा प्रहसन्न् इव भारत राक्षसं तम् अनादृत्य भुङ्क्त एव पराङ्मुखः ततः स भैरवं कृत्वा समुद्यम्य कराव् उभौ अभ्यद्रवद् भीमसेनं जिघांसुः पुरुषादकः तथापि परिभूयैनं नेक्षमाणो वृकोदरः राक्षसं भुङ्क्त एवान्नं पाण्डवः परवीरहा अमर्षेण तु संपूर्णः कुन्तीपुत्रस्य राक्षसः जघान पृष्ठं पाणिभ्याम् उभाभ्यां पृष्ठतः स्थितः तथा बलवता भीमः पाणिभ्यां भृशम् आहतः नैवावलोकयाम् आस राक्षसं भुङ्क्त एव सः भीमोदरगताः पिण्डाः सान्तरालाः परं शतम् रक्षःपाणिप्रहारेण संश्लिष्टा एकपिण्डवत् ततः स भूयः संक्रुद्धो वृक्षम् आदाय राक्षसः ताडयिष्यंस् तदा भीमं पुनर् अभ्यद्रवद् बली ततो भीमः शनैर् भुक्त्वा तदन्नं पुरुषर्षभः वार्य् उपस्पृश्य संहृष्टस् तस्थौ युधि महाबलः स्थित्वा मुहूर्तं विश्रम्य वीरासनम् उपाश्रितः भ्रामयन्तं महावृक्षम् आयान्तं भीमदर्शनम् दृष्ट्वोत्थायाहवे वीरः सिंहनादं व्यनादयत् वैशंपायनः भुजवेगं तथा स्फोटं क्ष्वेडितं च महास्वनम् कृत्वाह्वयत संक्रुद्धो भीमसेनो ऽथ राक्षसम् बहुकालं सुपुष्टं ते शरीरं राक्षसाधम मद्बाहुबलम् आश्रित्य न त्वं भूयस् त्व् अशिष्यसि अद्य मद्बाहुनिष्पिष्टो गमिष्यसि यमक्षयम् अद्य प्रभृति स्वप्स्यन्ति विप्रकीर्य निवासिनः निरुद्विग्नाः पुरस्यास्य कण्टके सूद्धृते मया अद्य युद्धे शरीरं ते कङ्कगोमायुवायसाः मया हतस्य खादन्तु विकर्षन्तु च भूतले एवम् उक्त्वा सुसंक्रुद्धः पार्थो बकजिघांसया उपधावद् बकश् चापि पार्थं पार्थिवसत्तम महाकायो महावेगो दारयन्न् इव मेदिनीम् विरूपरूपः पिङ्गाक्षो भीमसेनम् अभिद्रवत् त्रिशिखां भृकुटिं कृत्वा दष्ट्वा च दशनच्छदम् उवाचाशनिशब्देन ध्वनिना भीषयन्न् इव द्विपच्चतुष्पन्मांसैश् च बहुभिश् चौदनाचलैः शकटान्नं ततो भुक्त्वा रक्षसः पाणिना सह गृह्णन्न् एव महावृक्षं निःशेषं पर्वतोपमम् भीमसेनो हसन्न् एव भुक्त्वा त्यक्त्वा च राक्षसम् पीत्वा दधिघटान् पूर्णान् घृतकुम्भाञ् शतं शतम् तद्रक्षःप्रहितं वृक्षं महाशाखं वनस्पतिम् गृहीत्वा पाणिनैकेन सव्येनोद्यम्य चेतरम् रक्षोवदनम् उद्वीक्ष्य भृकुटीविकटाननम् दर्शयन् रक्षसे दन्तान् प्रजहासाशनिस्वनः क्षिप्तं क्रुद्धेन तं वृक्षं प्रतिजग्राह वीर्यवान् सव्येन पाणिना भीमः प्रहसन्न् इव भारत ततः स पुनर् उद्यम्य वृक्षान् बहुविधान् बली प्राहिणोद् भीमसेनाय तस्मै भीमश् च पाण्डवः सर्वान् अपोहयद् वृक्षान् स्वस्य हस्तस्थशाखिना तद् वृक्षयुद्धम् अभवन् महीरुहविनाशनम् घोररूपं महाराज बकपाण्डवयोर् महत् नाम विश्राव्य तु बकः समभिद्रुत्य पाण्डवम् भुजाभ्यां परिजग्राह भीमसेनं महाबलम् भीमसेनो ऽपि तद् रक्षः परिरभ्य महाभुजः विस्फुरन्तं महावेगं विचकर्ष बलाद् बली परिभ्रामणविक्षेपपरिरम्भावपातनैः उत्सर्पणावसर्पैस् ताव् अन्योन्यं प्रत्यरुन्धताम् उत्थापनैर् उन्नयनैश् चालनैः स्थापनैर् अपि जग्राह भीमः पाणिभ्यां गृहीत्वा चैनम् आक्षिपत् आक्षिप्तो भीमसेनेन पुनर् एवोत्थितो हसन् आलिङ्ग्यापीड्य चैवेनं न्यहनद् वसुधातले भीमो व्यसर्जयच् चैनं समाश्वसिहि चेत्य् अपि आस्फोटयाम् आस बली उत्तिष्ठेति च सो ऽब्रवीत् समुत्पत्य ततः क्रुद्धो रूपं कृत्वा महत्तरम् विरूपः सहसा तस्थौ तर्जयित्वा वृकोदरम् अहसद् भीमसेनो ऽथ राक्षसं भीमदर्शनम् भीमसेनस् तु जग्राह ग्रीवायां भीमदर्शनम् भुजाभ्यां जानुनैकेन पृष्ठे समभिपीडयत् ततः क्रुद्धो विसृज्यैनं स भीमस् तस्य रक्षसः स्वां कटीम् ईषद् उत्क्षिप्य बाहू चैव परामृशत् तस्य बाहू समादाय त्वरमाणो वृकोदरः उत्क्षिप्य चावधूयैनं पातयन् बलवान् भुवि तं तु वामेन पादेन क्रुद्धो भीमपराक्रमः उरस्य् एनं समाजघ्ने भीमस् तु पतितं भुवि स संक्रुद्धः समुत्पत्य भीमम् अभ्यहनद् भृशम् व्यात्ताननो दीप्तजिह्वो बाहुम् उद्यम्य दक्षिणम् तेनाभिद्रुत्य क्रुद्धेन भीमो मूर्ध्नि समाहतः मुष्टिना जानुना चैव वामपार्श्वे समाहतः एवं निहन्यमानः सन् राक्षसेन बलीयसा रोषेण महताविष्टो भीमो भीमपराक्रमः ततः क्रुद्धः समुत्पत्य भीमो जग्राह राक्षसम् ताव् अन्योन्यं पीडयन्तौ पुरुषादवृकोदरौ मत्ताव् इव महानागाव् अन्योन्यं विचकर्षतुः बाहुविक्षेपशब्दैश् च भीमराक्षसयोस् तदा वेत्रकीयपुरी सर्वा वित्रस्ता समपद्यत तयोर् वेगेन महता तत्र भूमिर् अकम्पत पादपान् वीरुधश् चैव चूर्णयाम् आसतुश् च तौ समागतौ च तौ वीराव् अन्योन्यवधकाङ्क्षिणौ अश्मभिः पादवेगैश् च चूर्णयाम् आसतुस् तदा अथ तं लोऌअयित्वा तु भीमसेनो महाबलः अगृह्णात् परिरभ्यैनं बाहुभ्यां भरतर्षभ जानुभ्यां परिजग्राह भीमसेनो बकं बलात् विस्फुरन्तं महाकायं विचकर्ष महाबलः विकृष्यमाणो भीमेन कर्षंश् च युधि पाण्डवम् समयुज्यत तीव्रेण श्रमेण पुरुषादकः स कृष्यमाणो भीमेन कर्षमाणश् च पाण्डवम् समयुज्यत तीव्रेण श्रमेण पुरुषादकः तयोर् वेगेन महता पृथिवी समकम्पत पादपांश् च महाकायांश् चूर्णयाम् आसतुस् तदा हीयमानं तु तद् रक्षः समीक्ष्य भरतर्षभ निष्पिष्य भूमौ पाणिभ्यां समाजघ्ने वृकोदरः ततो ऽस्य जानुना पृष्ठम् अवपीड्य बलाद् इव बाहुना परिजग्राह दक्षिणेन शिरोधराम् जानुन्य् आरोप्य तत्पृष्ठं महाशब्दं बभञ्ज ह निक्षिप्य भूमौ पाणिभ्यां धरण्यां निष्पिपेष ह सव्येन च कटीदेशे गृह्य वाससि पाण्डवः तद् रक्षो द्विगुणं चक्रे नदन्तं भैरवान् रवान् ततो ऽस्य रुधिरं वक्त्रात् प्रादुरासीद् विशां पते भज्यमानस्य भीमेन तस्य घोरस्य रक्षसः ब्राह्मण उवाच ज्ञानसागर उवाच ततः सा ववृधे बाला याज्ञसेनी द्विजोत्तम क्रमेण यौवनं प्राप्ता मन्मथानलदीपिका दृष्ट्वा ताम् अनवद्याङ्गीं द्रुपदो हृष्टमानसः यदृच्छया संचरन्तीम् आस्थाने समभाषत अर्जुनाय ददामीति हृदयं व्यावृणोत् तदा श्रुत्वा द्रुपदराजस्य वचनं व्यथितस् तदा मन्त्री वसुप्रदो नाम शनैर् इदम् अभाषत कुन्त्या सह महेष्वासाः पाण्डवा राजसत्तम दग्धा जतुगृहे सुप्ता दुर्योधनधिया रहः अर्जुनाय कथं दद्याः पाञ्चालीं पृषतात्मजाम् तस्य वाक्यं तु नृपतिः श्रुत्वा प्रव्यथितो ऽभवत् व्यथितं द्रुपदं दृष्ट्वा पुरोधा ज्ञानसागरः जानामि शकुनाद् राजन् न दग्धास् तेत्य् अभाषत हृष्टो ऽथ नृपतिः प्राह द्रष्टव्यास् ते कथं द्विज स्वयंवरेण द्रष्टासि तत् कुरुष्व नराधिप तच् छ्रुत्वा सर्वपाञ्चालाः साधु साध्व् इति चाब्रुवन् ततः संघोषयाम् आस दुहितुश् च स्वयंवरम् फाल्गुने मासि सप्तम्याम् इतः सप्तमिते ऽहनि मञ्चांश् च कारयाम् आस राजयोग्यान् बहून् नृप मेरुमन्दरसंकाशान् स्वर्णरत्नपरिच्छदान् द्रुपदश् च धनुश् चित्रं दुरानामं क्षितीश्वरैः कारयाम् आस शुल्कार्थम् अर्जुनस्य दिदृक्षया मत्स्ययन्त्रं च कृतवान् दूरे वर्णपरिष्कृतम् अनेन धनुषा यो वै शरेणेमं जलेचरम् पातयिष्यति यो जायां पाञ्चालीं स्वां करिष्यति इतस् तद् उत्सवदिनं समीपे वर्तते द्विजाः राजानो राजपुत्राश् च पृथिव्यां ये विलासिनः प्रयान्ति च तथा विप्राः सूतमागधबन्दिनः अहं तदुत्सवं द्रष्टुं यामि द्रव्यार्जनाय च भवतां गमने बुद्धिः प्रयतध्वं द्विजोत्तमाः इति वः सर्वम् आख्यातं यथादृष्टं यथाश्रुतम् ब्राह्मणः वैशंपायनः श्रुत्वा जतुगृहे वृत्तं ब्राह्मणाः सपुरोहिताः पाञ्चालराजं द्रुपदम् इदं वचनम् अब्रुवन् धार्तराष्ट्राः सहामात्या मन्त्रयित्वा परस्परम् पाण्डवानां विनाशाय मतिं चक्रुः सुदुष्कराम् दुर्योधनेन प्रहितः पुरोचन इति श्रुतः वारणावतम् आसाद्य कृत्वा जतुगृहं महत् तस्मिन् गृहे सुविश्वस्तान् पाण्डवान् पृथया सह अर्धरात्रे महाराज दग्धवान् स पुरोचनः अग्निना तु स्वयम् अपि दग्धः क्षुद्रो नृशंसवत् एतच् छ्रुत्वा तु संहृष्टो धृतराष्ट्रः सबान्धवः श्रुत्वा तु पाण्डवान् दग्धान् धृतराष्ट्रो ऽम्बिकासुतः अल्पशोकः प्रहृष्टात्मा शशास विदुरं तदा पाण्डवानां महाप्राज्ञ कुरु पिण्डोदकक्रियाम् एतावद् उक्त्वा करुणो धृतराष्ट्रस् तु मारिषः अद्य पाण्डुर् मृतः क्षत्तः पाण्डवानां विनाशने अहो विधिवशाद् एव गतास् ते यमसादनम् इत्य् उक्त्वा प्रारुदत् तत्र धृतराष्ट्रः ससौबलः श्रुत्वा भीष्मेण विधिवत् कृतवान् और्ध्वदेहिकम् पाण्डवानां विनाशाय कृतं कर्म दुरात्मना एवं कार्यस्य कर्ता तु न दृष्टो न श्रुतः पुरा एतद् वृत्तं महाराज पाण्डवान् प्रति नः श्रुतम् श्रुत्वा तु वचनं तेषां यज्ञसेनो महामतिः यथा तज्जनकः शोचेद् औरसस्य विनाशने तथातप्यत पाञ्चालः पाण्डवानां विनाशने समाहूय प्रकृतयः सहिताः सर्वबान्धवैः कारुण्याद् एव पाञ्चालः प्रोवाचेदं वचस् तदा अहो रूपम् अहो धैर्यम् अहो वीर्यं च शिक्षितम् चिन्तयामि दिवारात्रम् अर्जुनं प्रति बान्धवाः भ्रातृभिः सहितो मात्रा सो ऽदह्यत हुताशने किम् आश्चर्यम् इतो लोके कालो हि दुरतिक्रमः मिथ्याप्रतिज्ञो लोकेषु किं वदिष्यामि सांप्रतम् अन्तर्गतेन दुःखेन दह्यमानो दिवानिशम् याजोपयाजौ सत्कृत्य याचितौ तु मयानघाः भारद्वाजस्य हन्तारं देवीं चाप्य् अर्जुनस्य वै लोकस् तद् वेद यच् चैव तथा याजेन नः श्रुतम् याजेन पुत्रकामीयं हुत्वा चोत्पादिताव् उभौ धृष्टद्युम्नश् च कृष्णा च मम तुष्टिकराव् उभौ किं करिष्यामि ते नष्टाः पाण्डवाः पृथया सह इत्य् एवम् उक्त्वा पाञ्चालः शुशोच परमातुरः दृष्ट्वा शोचन्तम् अत्यर्थं पाञ्चालं चेदम् अब्रवीत् पुरोधाः सत्वसंपन्नः सम्यग् विद्याविशेषवान् वृद्धानुशासने युक्ताः पाण्डवा धर्मचारिणः तादृशा न विनश्यन्ति नैव यान्ति पराभवम् मया दृष्टम् इदं सत्यं शृणु त्वं मनुजाधिप ब्राह्मणैः कथितं सत्यं वेदेषु च मया श्रुतम् बृहस्पतिमतेनाथ पौलोम्यापि पुरा श्रुतम् नष्ट इन्द्रो बिसग्रन्थ्याम् उपश्रुत्या विसर्जितः उपश्रुतिर् महाराज पाण्डवार्थे मया श्रुता यत्र वा तत्र जीवन्ति पाण्डवास् ते न संशयः मया दृष्टानि लिङ्गानि इहैवैष्यन्ति पाण्डवाः यन् निमित्तम् इहायान्ति तच् छ्रुणुष्व नराधिप स्वयंवरः क्षत्रियाणां कन्यादाने प्रदर्शितः स्वयंवरस् तु नगरे घुष्यतां राजसत्तम यत्र वा निवसन्तस् ते पाण्डवाः पृथया सह दूरस्था वा समीपस्थाः स्वर्गस्था वापि पाण्डवाः श्रुत्वा स्वयंवरं राजन् समेष्यन्ति न संशयः तस्मात् स्वयंवरो राजन् घुष्यतां मा चिरं कृथाः श्रुत्वा पुरोहितेनोक्तं पाञ्चालः प्रीतिमांस् तदा घोषयाम् आस नगरे द्रौपद्यास् तु स्वयंवरम् पुष्यमासे तु रोहिण्यां शुक्लपक्षे शुभे तिथौ दिवसैः पञ्चसप्तत्या भविष्यति स्वयंवरः देवगन्धर्वयक्षाश् च ऋषयश् च तपोधनाः स्वयंवरं द्रष्टुकामा गच्छन्त्य् एव न संशयः तव पुत्रा महात्मानो दर्शनीया विशेषतः यदृच्छया तु पाञ्चाली गच्छेद् वा मध्यमं पतिम् को हि जानाति लोकेषु प्रजापतिविधिं शुभम् तस्मात् सपुत्रा गच्छेथा ब्राह्मणि यदि रोचते नित्यकालं सुभिक्षास् ते पाञ्चालास् तु तपोधने यज्ञसेनस् तु राजासौ ब्रह्मण्यः सत्यसंगरः ब्रह्मण्या नागराः सर्वे ब्राह्मणाश् चातिथिप्रियाः नित्यकालं प्रदास्यन्ति आगन्तॄणाम् अयाचितम् अहं च तत्र गच्छामि ममैभिः सह शिष्यकैः एकसार्थाः प्रयातास्मो ब्राह्मण्या यदि रोचते एतावद् उक्त्वा वचनं ब्राह्मणो विरराम ह वैशंपायन उवाच ततः स भग्नपार्श्वाङ्गो नदित्वा भैरवं रवम् शैलराजप्रतीकाशो गतासुर् अभवद् बकः तेन शब्देन वित्रस्तो जनस् तस्याथ रक्षसः निष्पपात गृहाद् राजन् सहैव परिचारिभिः ततस् तु निहतं दृष्ट्वा राक्षसेन्द्रं महाबलम् बाकाः परमसंत्रस्ता भीमं शरणम् आययुः बकस्य परिचारकाः आरामोद्यानचैत्यस्थाः क्षुद्रदेवालयाश्रिताः भीमं दृष्ट्वा शौर्यराशिं तान् भीतान् विगतज्ञानान् भीमः प्रहरतां वरः सान्त्वयाम् आस बलवान् समये च न्यवेशयत् न हिंस्या मानुषा भूयो युष्माभिर् इह कर्हि चित् हिंसतां हि वधः शीघ्रम् एवम् एव भवेद् इति तस्य तद् वचनं श्रुत्वा तानि रक्षांसि भारत एवम् अस्त्व् इति तं प्राहुर् जगृहुः समयं च तम् सगणस् तु बकभ्राता प्राणमत् पाण्डवं तदा तत्पुरोपवनोद्यानचैत्यारामान् विसृज्य ते बिभीतककपित्थार्कप्लक्षशाल्मलिकाननम् प्रपेदिरे भयत्रस्ता भीमसाध्वसकातराः यमुनातीरम् उत्सृज्य प्रपेदे पितृकाननम् ततः प्रभृति रक्षांसि तत्र सौम्यानि भारत नगरे प्रत्यदृश्यन्त नरैर् नगरवासिभिः ततो भिमस् तम् आदाय गतासुं पुरुषादकम् निष्कर्णनेत्रं निर्जिह्वं निःसंज्ञं कण्ठपीडनात् कुर्वन्तं बहुधा चेष्टां स नरादम् अकर्षत स एव राक्षसो नूनं पुनर् आयाति नः पुरीम् सबालवृद्धाः पुरुषा इति भीताः प्रदुद्रुवुः आच्छिद्य बाहू पादौ च शिरश् च स वृकोदरः द्वारेषु चतुर्षु क्षिप्त्वा पुनर् आगात् स मारुतिः द्वारदेशे विनिक्षिप्य जगामानुपलक्षितः दृष्ट्वा भीमबलोद्धूतं बकं विनिहतं तदा ज्ञातयो ऽस्य भयोद्विग्नाः प्रतिजग्मुस् ततस् ततः ततः स भीमस् तं हत्वा गत्वा ब्राह्मणवेश्म तत् बलीवर्दौ च शकटं ब्राह्मणाय न्यवेदयत् तूष्णीम् अन्तर्गृहं गच्छेत्य् अभिधाय द्विजोत्तमम् मातृभ्रातृसमक्षं च गत्वा शयनम् एत्य च आचचक्षे यथावृत्तं राज्ञः सर्वम् अशेषतः अशितो ऽस्म्य् अद्य जननि तृप्तिर् मे दशवार्षिकी ततो नरा विनिष्क्रान्ता नगरात् काल्यम् एव तु ददृशुर् निहतं भूमौ राक्षसं रुधिरोक्षितम् तम् अद्रिकूटसदृशं विनिकीर्णं भयावहम् दृष्ट्वा संहृष्टरोमाणो बभूवुस् तत्र नागराः एकचक्रां ततो गत्वा प्रवृत्तिं प्रददुः परे ततः सहस्रशो राजन् नरा नगरवासिनः तत्राजग्मुर् बकं द्रष्टुं सस्त्रीवृद्धकुमारकाः ददृशुस् ते बकं सर्वे विशिरःपाणिपादकम् निःशृङ्गवृक्षं निर्गुल्मं विनिकीर्णं गिरिं यथा ततस् ते विस्मिताः सर्वे कर्म दृष्ट्वातिमानुषम् विस्मयोत्फुल्लनयनास् तर्जन्यासक्तनासिकाः दैवतान्य् अर्चयां चक्रुः सर्व एव विशां पते ततः प्रगणयाम् आसुः कस्य वारो ऽद्य भोजने ज्ञात्वा चागम्य तं विप्रं पप्रच्छुः सर्व एव तत् एवं पृष्टस् तु बहुशो रक्षमाणश् च पाण्डवान् उवाच नागरान् सर्वान् इदं विप्रर्षभस् तदा आज्ञापितं माम् अशने रुदन्तं सह बन्धुभिः ददर्श ब्राह्मणः कश् चिन् मन्त्रसिद्धो महाबलः अद्य ते राक्षसो वारः पूर्वेद्युर् ज्ञापितो मम ग्रामसाधारणेनैव सूचकेन पुरौकसः परिपृच्छ्य स मां पूर्वं परिक्लेशं पुरस्य च अब्रवीद् ब्राह्मणश्रेष्ठ आश्वास्य प्रहसन्न् इव प्रापयिष्याम्य् अहं तस्मै इदम् अन्नं दुरात्मने मन्निमित्तं भयं चापि न कार्यम् इति वीर्यवान् स तदन्नम् उपादाय गतो बकवनं प्रति तेन नूनं भवेद् एतत् कर्म लोकहितं कृतम् ततस् ते ब्राह्मणाः सर्वे क्षत्रियाश् च सुविस्मिताः वैश्याः शूद्राश् च मुदिताश् चक्रुर् ब्रह्ममहं तदा ततो जानपदाः सर्वे आजग्मुर् नगरं प्रति तद् अद्भुततमं द्रष्टुं पार्थास् तत्रैव चावसन् श्रुत्वा बकवधं यस् तु वाचकं पूजयेन् नरः तस्य वंशे ऽपि राजेन्द्र न राक्षसभयं भवेत् नश्यन्ति शत्रवस् तस्य उपसर्गास् तथैव च महत् पुण्यम् अवाप्नोति श्रुत्वा भीमपराक्रमम् वेत्रकीयगृहे सर्वे परिवार्य वृकोदरम् विस्मयाद् अभ्यगच्छन्त भीमं भीमपराक्रमम् न वै न संभवेत् सर्वं ब्राह्मणेषु महात्मसु इति सत्कृत्य तं पौराः परिवव्रुः समन्ततः अयं त्राता हि नः सर्वान् पितेव परमार्थतः अस्य शुश्रूषवः पादौ परिचर्य उपास्महे पशुमद् दधिमच् चान्नं परं भक्तम् उपाहरन् तस्मिन् हते ते पुरुषा भीताः समनुबोधनाः ततः संप्राद्रवन् पार्थाः सह मात्रा परंतपाः आगच्छन्न् एकचक्रां ते पाण्डवाः संशितव्रताः वैदिकाध्ययने युक्ता जटिला ब्रह्मचारिणः अवसंस् ते च तत्रापि ब्राह्मणस्य निवेशने मात्रा सहैकचक्रायां दीर्घकालं सहोषिताः जनमेजय उवाच ते तथा पुरुषव्याघ्रा निहत्य बकराक्षसम् अत ऊर्ध्वं ततो ब्रह्मन् किम् अकुर्वत पाण्डवाः वैशंपायन उवाच तत्रैव न्यवसन् राजन् निहत्य बकराक्षसम् अधीयानाः परं ब्रह्म ब्राह्मणस्य निवेशने ततः कतिपयाहस्य ब्राह्मणः संशितव्रतः प्रतिश्रयार्थं तद् वेश्म ब्राह्मणस्याजगाम ह स सम्यक् पूजयित्वा तं विद्वान् विप्रर्षभस् तदा ददौ प्रतिश्रयं तस्मै सदा सर्वातिथिव्रती ततस् ते पाण्डवाः सर्वे सह कुन्त्या नरर्षभाः उपासां चक्रिरे विप्रं कथयानं कथास् तदा कथयाम् आस देशान् स तीर्थानि विविधानि च राज्ञां च विविधाश् चर्याः पुराणि विविधानि च स तत्राकथयद् विप्रः कथान्ते जनमेजय पाञ्चालेष्व् अद्भुताकारं याज्ञसेन्याः स्वयंवरम् धृष्टद्युम्नस्य चोत्पत्तिम् उत्पत्तिं च शिखण्डिनः अयोनिजत्वं कृष्णाया द्रुपदस्य महामखे तद् अद्भुततमं श्रुत्वा लोके तस्य महात्मनः विस्तरेणैव पप्रच्छुः कथां तां पुरुषर्षभाः कथं द्रुपदपुत्रस्य धृष्टद्युम्नस्य पावकात् वेदिमध्याच् च कृष्णायाः संभवः कथम् अद्भुतः कथं द्रोणान् महेष्वासात् सर्वाण्य् अस्त्राण्य् अशिक्षत धृष्टद्युम्नो महेष्वासः कथं द्रोणस्य मृत्युदः कथं प्रियसखायौ तौ भिन्नौ कस्य कृतेन च एवं तैश् चोदितो राजन् स विप्रः पुरुषर्षभैः कथयाम् आस तत् सर्वं द्रौपदीसंभवं तदा ब्राह्मण उवाच गङ्गाद्वारं प्रति महान् बभूवर्षिर् महातपाः भरद्वाजो महाप्राज्ञः सततं संशितव्रतः सो ऽभिषेक्तुं गतो गङ्गां पूर्वम् एवागतां सतीम् ददर्शाप्सरसं तत्र घृताचीम् आप्लुताम् ऋषिः तस्या वायुर् नदीतीरे वसनं व्यहरत् तदा अपकृष्टाम्बरां दृष्ट्वा ताम् ऋषिश् चकमे ततः तस्यां संसक्तमनसः कौमारब्रह्मचारिणः पश्यतो योनिसंस्थानम् अन्यावयवसौष्ठवम् हृष्टस्य रेतश् चस्कन्द तद् ऋषिर् द्रोण आदधे ततः समभवद् द्रोणः कुमारस् तस्य धीमतः अध्यगीष्ट स वेदांश् च वेदाङ्गानि च सर्वशः भरद्वाजस्य तु सखा पृषतो नाम पार्थिवः तस्यापि द्रुपदो नाम तदा समभवत् सुतः स नित्यम् आश्रमं गत्वा द्रोणेन सह पार्षतः चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः ततस् तु पृषते ऽतीते स राजा द्रुपदो ऽभवत् द्रोणो ऽपि रामं शुश्राव दित्सन्तं वसु सर्वशः वनं तु प्रस्थितं रामं भरद्वाजसुतो ऽब्रवीत् आगतं वित्तकामं मां विद्धि द्रोणं द्विजर्षभ राम उवाच शरीरमात्रम् एवाद्य मयेदम् अवशेषितम् अस्त्राणि वा शरीरं वा ब्रह्मन्न् अन्यतरं वृणु द्रोण उवाच अस्त्राणि चैव सर्वाणि तेषां संहारम् एव च प्रयोगं चैव सर्वेषां दातुम् अर्हति मे भवान् ब्राह्मण उवाच तथेत्य् उक्त्वा ततस् तस्मै प्रददौ भृगुनन्दनः प्रतिगृह्य ततो द्रोणः कृतकृत्यो ऽभवत् तदा संप्रहृष्टमनाश् चापि रामात् परमसंमतम् ब्रह्मास्त्रं समनुप्राप्य नरेष्व् अभ्यधिको ऽभवत् ततो द्रुपदम् आसाद्य भारद्वाजः प्रतापवान् अब्रवीत् पुरुषव्याघ्रः सखायं विद्धि माम् इति द्रुपद उवाच नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा नाराजा पार्थिवस्यापि सखिपूर्वं किम् इष्यते ययोर् एव समं वित्तं ययोर् एव समं श्रुतम् तयोर् विवाहः सख्यं च न तु पुष्टविपुष्टयोः ब्राह्मण उवाच स विनिश्चित्य मनसा पाञ्चाल्यं प्रति बुद्धिमान् जगाम कुरुमुख्यानां नगरं नागसाह्वयम् तस्मै पौत्रान् समादाय वसूनि विविधानि च प्राप्ताय प्रददौ भीष्मः शिष्यान् द्रोणाय धीमते द्रोणः शिष्यांस् ततः सर्वान् इदं वचनम् अब्रवीत् समानीय तदा विद्वान् द्रुपदस्यासुखाय वै द्रोणः गुरुशुश्रूषणं चैव तथैव गुरुदक्षिणाम् आचार्यवेतनं किं चिद् धृदि संपरिवर्तते कृतास्त्रैस् तत् प्रदेयं स्यात् तद् ऋतं वदतानघाः सो ऽर्जुनप्रमुखैर् उक्तस् तथास्त्व् इति गुरुस् तदा तथेत्य् उक्त्वा च तं पार्थः पादौ जग्राह बुद्धिमान् विद्यानिष्क्रयजं वित्तं किं देयं ब्रूहि मे गुरो यदा च पाण्डवाः सर्वे कृतास्त्राः कृतनिश्रमाः ततो द्रोणो ऽब्रवीद् भूयो वेतनार्थम् इदं वचः पार्षतो द्रुपदो नाम छत्रवत्यां नरेश्वरः तस्यापकृष्य तद् राज्यं मम शीघ्रं प्रदीयताम् धार्तराष्ट्रैश् च सहिताः पाञ्चालान् पाण्डवा ययुः यज्ञसेनेन संगम्य कर्णदुर्योधनादयः निर्जिताः संन्यवर्तन्त तथान्ये क्षत्रियर्षभाः ततः पाण्डुसुताः पञ्च निर्जित्य द्रुपदं युधि द्रोणाय दर्शयाम् आसुर् बद्ध्वा ससचिवं तदा महेन्द्र इव दुर्धर्षो महेन्द्र इव दानवम् महेन्द्रपुत्रः पाञ्चालं जितवान् अर्जुनस् तदा तं दृष्ट्वा तु महावीर्यं फल्गुनस्यामितौजसः व्यस्मयन्त जनाः सर्वे यज्ञसेनस्य बान्धवाः नास्त्य् अर्जुनसमो वीर्ये राजपुत्र इति ब्रुवन् द्रोण उवाच प्रार्थयामि त्वया सख्यं पुनर् एव नराधिप अराजा किल नो राज्ञः सखा भवितुम् अर्हति अतः प्रयतितं राज्ये यज्ञसेन मया तव राजासि दक्षिणे कूले भागीरथ्याहम् उत्तरे तथेति द्रुपदेनोक्ते वचने द्विजसत्तम संपूज्य द्रुपदं द्रोणो प्रेषयाम् आस तत्त्ववित् कन्याकुब्जे च काम्पिल्ये वसेथास् त्वं नरोत्तम ब्राह्मणैः सहितो राजन्न् अहिच्छत्रे वसाम्य् अहम् ब्राह्मण उवाच असत्कारः स सुमहान् मुहूर्तम् अपि तस्य तु न व्येति हृदयाद् राज्ञो दुर्मनाः स कृशो ऽभवत् एवम् उक्तो हि पाञ्चाल्यो भारद्वाजेन धीमता उवाचास्त्रविदां श्रेष्ठो द्रोणं ब्राह्मणसत्तमम् एवं भवतु भद्रं ते भारद्वाज महामते सख्यं तद् एव भवतु शश्वद् यद् अभिमन्यसे एवम् अन्योन्यम् उक्त्वा तौ कृत्वा सख्यम् अनुत्तमम् जग्मतुर् द्रोणपाञ्चाल्यौ यथागतम् अरिंदमौ निशम्य तस्य वचनं कृत्वा मनसि दुर्मनाः ब्राह्मण उवाच अमर्षी द्रुपदो राजा कर्मसिद्धान् द्विजर्षभान् द्रोणेन वैरं द्रुपदो न सुष्वाप स्मरंस् तदा अन्विच्छन् परिचक्राम ब्राह्मणावसथान् बहून् पुत्रजन्म परीप्सन् वै शोकोपहतचेतनः नास्ति श्रेष्ठं ममापत्यम् इति नित्यम् अचिन्तयत् जातान् पुत्रान् स निर्वेदाद् धिग् बन्धून् इति चाब्रवीत् निःश्वासपरमश् चासीद् द्रोणं प्रतिचिकीर्षया प्रभावं विनयं शिक्षां द्रोणस्य चरितानि च क्षात्रेण च बलेनास्य चिन्तयन् नान्वपद्यत प्रतिकर्तुं नृपश्रेष्ठो यतमानो ऽपि भारत अभितः सो ऽथ कल्माषीं गङ्गाकूले परिभ्रमन् ब्राह्मणावसथं पुण्यम् आससाद महीपतिः तत्र नास्नातकः कश् चिन् न चासीद् अव्रती द्विजः तथैव नामहाभागः सो ऽपश्यत् संशितव्रतौ याजोपयाजौ ब्रह्मर्षी शाम्यन्तौ पृषतात्मजः संहिताध्ययने युक्तौ गोत्रतश् चापि काश्यपौ तारणे युक्तरूपौ तौ ब्राह्मणाव् ऋषिसत्तमौ स ताव् आमन्त्रयाम् आस सर्वकामैर् अतन्द्रितः बुद्ध्वा तयोर् बलं बुद्धिं कनीयांसम् उपह्वरे प्रपेदे छन्दयन् कामैर् उपयाजं धृतव्रतम् पादशुश्रूषणे युक्तः प्रियवाक् सर्वकामदः अर्हयित्वा यथान्यायम् उपयाजम् उवाच सः येन मे कर्मणा ब्रह्मन् पुत्रः स्याद् द्रोणमृत्यवे अर्जुनस्य तथा भार्या भवेद् वा वरवर्णिनी उपयाज कृते तस्मिन् गवां दातास्मि ते ऽर्बुदम् यद् वा ते ऽन्यद् द्विजश्रेष्ठ मनसः सुप्रियं भवेत् सर्वं तत् ते प्रदाताहं न हि मे ऽस्त्य् अत्र संशयः इत्य् उक्तो नाहम् इत्य् एवं तम् ऋषिः प्रत्युवाच ह आराधयिष्यन् द्रुपदः स तं पर्यचरत् पुनः ततः संवत्सरस्यान्ते द्रुपदं स द्विजोत्तमः उपयाजो ऽब्रवीद् राजन् काले मधुरया गिरा ज्येष्ठो भ्राता ममागृह्णाद् विचरन् वननिर्झरे अपरिज्ञातशौचायां भूमौ निपतितं फलम् तद् अपश्यम् अहं भ्रातुर् असांप्रतम् अनुव्रजन् विमर्शं संकरादाने नायं कुर्यात् कथं चन दृष्ट्वा फलस्य नापश्यद् दोषा ये ऽस्यानुबन्धिकाः विविनक्ति न शौचं यः सो ऽन्यत्रापि कथं भवेत् संहिताध्ययनं कुर्वन् वसन् गुरुकुले च यः भैक्षम् उच्छिष्टम् अन्येषां भुङ्क्ते चापि सदा सदा कीर्तयन् गुणम् अन्नानाम् अघृणी च पुनः पुनः तम् अहं फलार्थिनं मन्ये भ्रातरं तर्कचक्षुषा तं वै गच्छस्व नृपते स त्वां संयाजयिष्यति जुगुप्समानो नृपतिर् मनसेदं विचिन्तयन् उपयाजवचः श्रुत्वा नृपतिः सर्वधर्मवित् अभिसंपूज्य पूजार्हम् ऋषिं याजम् उवाच ह अयुतानि ददान्य् अष्टौ गवां याजय मां विभो द्रोणवैराभिसंतप्तं त्वं ह्लादयितुम् अर्हसि स हि ब्रह्मविदां श्रेष्ठो ब्रह्मास्त्रे चाप्य् अनुत्तमः तस्माद् द्रोणः पराजैषीन् मां वै स सखिविग्रहे क्षत्रियो नास्ति तुल्यो ऽस्य पृथिव्यां कश् चिद् अग्रणीः कौरवाचार्यमुख्यस्य भारद्वाजस्य धीमतः द्रोणस्य शरजालानि प्राणिदेहहराणि च षडरत्नि धनुश् चास्य दृश्यते ऽप्रतिमं महत् स हि ब्राह्मणवेगेन क्षात्रं वेगम् असंशयम् प्रतिहन्ति महेष्वासो भारद्वाजो महामनाः क्षत्रोच्छेदाय विहितो जामदग्न्य इवास्थितः तस्य ह्य् अस्त्रबलं घोरम् अप्रसह्यं नरैर् भुवि ब्राह्मम् उच्चारयंस् तेजो हुताहुतिर् इवानलः समेत्य स दहत्य् आजौ क्षत्रं ब्रह्मपुरःसरः ब्रह्मक्षत्रे च विहिते ब्रह्मतेजो विशिष्यते सो ऽहं क्षत्रबलाद् धीनो ब्रह्मतेजः प्रपेदिवान् द्रोणाद् विशिष्टम् आसाद्य भवन्तं ब्रह्मवित्तमम् द्रोणान्तकम् अहं पुत्रं लभेयं युधि दुर्जयम् तत् कर्म कुरु मे याज निर्वपाम्य् अर्बुदं गवाम् तथेत्य् उक्त्वा तु तं याजो याज्यार्थम् उपकल्पयत् गुर्वर्थ इति चाकामम् उपयाजम् अचोदयत् याजस् तु यजतां श्रेष्ठो हव्यवाहम् अतर्पयत् याजो द्रोणविनाशाय प्रतिजज्ञे तथा च सः पाण्डोः स्नुषार्थं कन्या च भवेद् इति मतिर् मम तथेत्य् उक्त्वा तु तं राज्ञः पुत्रकामीयम् आरभत् ततस् तस्य नरेन्द्रस्य उपयाजो महातपाः आचख्यौ कर्म वैतानं तदा पुत्रफलाय वै यथोक्तं कल्पयाम् आस राजा विप्रेण तं क्रतुम् स च पुत्रो महावीर्यो महातेजा महाबलः इष्यते यद्विधो राजन् भविता ते तथाविधः भारद्वाजस्य हन्तारं सो ऽभिसंधाय भूमिपः आजह्रे तत् तथा सर्वं द्रुपदः कर्मसिद्धये याजस् तु हवनस्यान्ते देवीम् आह्वापयत् तदा प्रैहि मां राज्ञि पृषति मिथुनं त्वाम् उपस्थितम् कुमारश् च कुमारी च पतिवंशविवृद्धये देव्य् उवाच अवलिप्तं मे मुखं ब्रह्मन् पुण्यान् गन्धान् बिभर्मि च सुतार्थेनोपरुद्धास्मि तिष्ठ याज मम प्रिये राज्ञा चैवम् अभिहितो याजो राज्ञीम् उवाच ह तत् सर्वं सहमानश् च ब्रह्मतेजोनिधिः स्वयम् याज उवाच याजेन श्रपितं हव्यम् उपयाजेन मन्त्रितम् कथं कामं न संदध्यात् सा त्वं विप्रैहि तिष्ठ वा ब्राह्मण उवाच एवम् उक्ते तु याजेन हुते हविषि संस्कृते उत्तस्थौ पावकात् तस्मात् कुमारो देवसंनिभः ज्वालावर्णो घोररूपः किरीटी वर्म चोत्तमम् बिभ्रत् सखड्गः सशरो धनुष्मान् विनदन् मुहुः सो ऽध्यारोहद् रथवरं तेन च प्रययौ तदा ततः प्रणेदुः पाञ्चालाः प्रहृष्टाः साधु साध्व् इति हर्षाविष्टांस् ततश् चैतान् नेयं सेहे वसुंधरा भयापहो राजपुत्रः पाञ्चालानां यशस्करः राज्ञः शोकापहो जात एष द्रोणवधाय वै इत्य् उवाच महद् भूतम् अदृश्यं खेचरं तदा कुमारी चापि पाञ्चाली वेदिमध्यात् समुत्थिता सुभगा दर्शनीयाङ्गी वेदिमध्या मनोरमा श्यामा पद्मपलाशाक्षी नीलकुञ्चितमूर्धजा ताम्रतुङ्गनखी सुभ्रूश् चारुपीनपयोधरा मानुषं विग्रहं कृत्वा साक्षाद् अमरवर्णिनी नीलोत्पलसमो गन्धो यस्याः क्रोशात् प्रवायति या बिभर्ति परं रूपं यस्या नास्त्य् उपमा भुवि देवदानवयक्षाणाम् ईप्सिता देवरूपिणी सदृशी पाण्डुपुत्रस्य अर्जुनस्येति भारत ऊचुः प्रहृष्टमनसो राजभक्तिपुरस्कृताः तां चापि जातां सुश्रोणीं वाग् उवाचाशरीरिणी सर्वयोषिद्वरा कृष्णा क्षयं क्षत्रं निनीषति सुरकार्यम् इयं काले करिष्यति सुमध्यमा अस्या हेतोः क्षत्रियाणां महद् उत्पत्स्यते भयम् तच् छ्रुत्वा सर्वपाञ्चालाः प्रणेदुः सिंहसंघवत् पाञ्चालराजस् तां दृष्ट्वा हर्षाद् अश्रूण्य् अवर्तयत् परिष्वज्य सुतां कृष्णां स्नुषां पाण्डोर् इति ब्रुवन् अङ्कम् आरोप्य पाञ्चालीं राजा हर्षम् अवाप सः न चैतान् हर्षसंपूणान् इयं सेहे वसुंधरा तौ दृष्ट्वा पृषती याजं प्रपेदे वै सुतार्थिनी न वै मद् अन्यां जननीं जानीयाताम् इमाव् इति तथेत्य् उवाच तां याजो राज्ञः प्रियचिकीर्षया तयोश् च नामनी चक्रुर् द्विजाः संपूर्णमानसाः धृष्टत्वाद् अतिधृष्णुत्वाद् धर्माद् द्युत्संभवाद् अपि धृष्टद्युम्नः कुमारो ऽयं द्रुपदस्य भवत्व् इति कृष्णेत्य् एवाब्रुवन् कृष्णां कृष्णाभूत् सा हि वर्णतः निषण्णकर्षणाद् भूमे रसाच् च हविषो ऽभवत् तथा तन् मिथुनं जज्ञे द्रुपदस्य महामखे क्रियासु चैव सर्वासु कृतवान् द्रुपदेन ह वैदिकाध्ययने पारं धृष्टद्युम्नो गतः परम् धृष्टद्युम्नस् तु पाञ्चालान् सिंहनादेन नादयन् सो ऽध्यारोहद् रथवरं तेन संप्रययौ गृहम् कृष्णा च शिबिकां प्राप्य प्रविवेश निवेशनम् धृष्टद्युम्नं तु पाञ्चाल्यम् आनीय स्वं विवेशनम् द्रोणः संपूजयाम् आस सख्युः पुत्रम् उदारधीः द्रोणं संपूज्य विधिवद् गुरुर् इत्य् एव धर्मतः परिदाय तु तं शिष्यं धृष्टद्युम्नं तु सोमकः अहो राज्ञः प्रसीदेति प्राब्रुवन् प्रियवादिनः महाप्रभावो ब्रह्मर्षिर् ज्ञात्वा तस्य च संभवम् उपाकरोद् अस्त्रहेतोर् भारद्वाजः प्रतापवान् अमोक्षणीयं दैवं हि भावि मत्वा महामतिः तथा तत् कृतवान् द्रोण आत्मकीर्त्य् अनुरक्षणात् सर्वास्त्राणि स तु क्षिप्रम् आप्तवान् दृष्टमात्रतः वैशंपायन उवाच एतच् छ्रुत्वा तु कौन्तेयाः शल्यविद्धा इवाभवन् . . . . . . . . पाण्डवा भरतर्षभ मनसा द्रौपदीं जग्मुर् अनङ्गशरपीडिताः ततस् तां रजनीं राजन् . . . . . . . . सर्वे चास्वस्थमनसो बभूवुस् ते महारथाः ततः कुन्ती सुतान् दृष्ट्वा विभ्रान्तान् गतचेतसः युधिष्ठिरम् उवाचेदं वचनं सत्यवादिनी चिररात्रोषिताः स्मेह ब्राह्मणस्य निवेशने रममाणाः पुरे रम्ये लब्धभैक्षा युधिष्ठिर यानीह रमणीयानि वनान्य् उपवनानि च सर्वाणि तानि दृष्टानि पुनः पुनर् अरिंदम पुनर् दृष्टानि तान्य् एव प्रीणयन्ति न नस् तथा भैक्षं च न तथा वीर लभ्यते कुरुनन्दन ते वयं साधु पाञ्चालान् गच्छाम यदि मन्यसे अपूर्वदर्शनं तात रमणीयं भविष्यति सुभिक्षाश् चैव पाञ्चालाः श्रूयन्ते शत्रुकर्शन यज्ञसेनश् च राजासौ ब्रह्मण्य इति शुश्रुमः एकत्र चिरवासो हि क्षमो न च मतो मम ते तत्र साधु गच्छामो यदि त्वं पुत्र मन्यसे युधिष्ठिर उवाच भवत्या यन् मतं कार्यं तद् अस्माकं परं हितम् अनुजांस् तु न जानामि गच्छेयुर् नेति वा पुनः वैशंपायन उवाच ततः कुन्ती भीमसेनम् अर्जुनं यमजौ तथा उवाच गमनं ते च तथेत्य् एवाब्रुवंस् तदा तत आमन्त्र्य तं विप्रं कुन्ती राजन् सुतैः सह प्रतस्थे नगरीं रम्यां द्रुपदस्य महात्मनः वैशंपायन उवाच वसत्सु तेषु प्रच्छन्नं पाण्डवेषु महात्मसु आजगामाथ तान् द्रष्टुं व्यासः सत्यवतीसुतः तम् आगतम् अभिप्रेक्ष्य प्रत्युद्गम्य परंतपाः प्रणिपत्याभिवाद्यैनं तस्थुः प्राञ्जलयस् तदा समनुज्ञाप्य तान् सर्वान् आसीनान् मुनिर् अब्रवीत् प्रसन्नः पूजितः पार्थैः प्रीतिपूर्वम् इदं वचः अपि धर्मेण वर्तध्वं शास्त्रेण च परंतपाः अपि विप्रेषु वः पूजा पूजार्हेषु न हीयते अथ धर्मार्थवद् वाक्यम् उक्त्वा स भगवान् ऋषिः विचित्राश् च कथास् तास् ताः पुनर् एवेदम् अब्रवीत् आसीत् तपोवने का चिद् ऋषेः कन्या महात्मनः विलग्नमध्या सुश्रोणी सुभ्रूः सर्वगुणान्विता कर्मभिः स्वकृतैः सा तु दुर्भगा समपद्यत नाध्यगच्छत् पतिं सा तु कन्या रूपवती सती तपस् तप्तुम् अथारेभे पत्यर्थम् असुखा ततः तोषयाम् आस तपसा सा किलोग्रेण शंकरम् तस्याः स भगवांस् तुष्टस् ताम् उवाच तपस्विनीम् वरं वरय भद्रं ते वरदो ऽस्मीति भामिनि अथेश्वरम् उवाचेदम् आत्मनः सा वचो हितम् पतिं सर्वगुणोपेतम् इच्छामीति पुनः पुनः ताम् अथ प्रत्युवाचेदम् ईशानो वदतां वरः पञ्च ते पतयो भद्रे भविष्यन्तीति शंकरः एवम् उक्ता ततः कन्या देवं वरदम् अब्रवीत् प्रतिब्रुवन्तीम् एकं मे पतिं देहीति शंकरम् पुनर् एवाब्रवीद् देव इदं वचनम् उत्तमम् पञ्चकृत्वस् त्वया उक्तः पतिं देहीत्य् अहं पुनः देहम् अन्यं गतायास् ते यथोक्तं तद् भविष्यति द्रुपदस्य कुले जाता कन्या सा देवरूपिणी निर्दिष्टा भवतां पत्नी कृष्णा पार्षत्य् अनिन्दिता पाञ्चालनगरं तस्मात् प्रविशध्वं महाबलाः सुखिनस् ताम् अनुप्राप्य भविष्यथ न संशयः राज्यं चैवागतं पार्था इन्द्रप्रस्थं प्रविश्य ह एवम् उक्त्वा महाभागः पाण्डवानां पितामहः पार्थान् आमन्त्र्य कुन्तीं च प्रातिष्ठत महातपाः वैशंपायनः युधिष्ठिरः ब्राह्मणाः युधिष्ठिरः ते प्रयाता नरव्याघ्रा मात्रा सह परंतपाः ब्राह्मणान् गच्छतो ऽपश्यन् पाञ्चालान् सगणान् बहून् अथ ते ब्राह्मणा ऊचुः पाण्डवान् धर्मचारिणः क्व भवन्तो गमिष्यन्ति कुतो वागच्छतेति ह प्रयातान् एकचक्रायाः सोदर्यान् देवदर्शिनः भवन्तो नो ऽभिजानन्तु सहितान् मातृचारिणः गच्छतो नस् तु पाञ्चालान् द्रुपदस्य पुरीं प्रति इच्छामो भवतो ज्ञातुं महत् कौतूहलं हि नः एकसार्थं प्रयाताः स्म वयम् अप्य् अत्र गामिनः तत्राप्य् अद्भुतसंकाश उत्सवो भविता महान् ततस् तु यज्ञसेनस्य द्रुपदस्य महात्मनः यासाव् अयोनिजा कन्या स्थास्यते सा स्वयंवरे दर्शनीयानवद्याङ्गी सुकुमारी यशस्विनी धृष्टद्युम्नस्य भगिनी द्रोणशत्रोः प्रतापिनः जातो यः पावकाच् छूरः सशरः सशरासनः सुसमिद्धान् महाभागः सोमकानां महारथः तस्मिन् संजायमाने च वाग् उवाचाशरीरिणी एष मृत्युश् च शिष्यश् च भारद्वाजस्य जायते स्वसा तस्य तु वेद्याश् च जाता तस्मिन् महामखे स्त्रीरत्नम् असितापाङ्गी श्यामा नीलोत्पलं यथा तां यज्ञसेनस्य सुतां द्रौपदीं परमस्त्रियम् गच्छामस् तत्र वै द्रष्टुं तं चैवास्याः स्वयंवरम् राजानो राजपुत्राश् च यज्वानो भूरिदक्षिणाः स्वाध्यायवन्तः शुचयो महात्मानो धृतव्रताः तरुणा दर्शनीयाश् च बलवन्तो दुरासदाः महारथाः कृतास्त्राश् च समेष्यन्तीह भूमिपाः ते तत्र विविधं दानं विजयार्थे नरेश्वराः प्रदास्यन्ति धनं गाश् च भक्ष्यं भोज्यं च सर्वशः प्रतिलभ्य च तत् सर्वं दृष्ट्वा कृष्णां स्वयंवरे यं च सा क्षत्रियं रङ्गे कुमारी वरयिष्यति नटा वैतालिकाश् चैव नर्तकाः सूतमागधाः नियोधकाश् च देशेभ्यः समेष्यन्ति महाबलाः एतत् कौतूहलं तत्र दृष्ट्वा वै प्रतिगृह्य च सहास्माभिर् महात्मानो मात्रा सह निवर्त्स्यथ दर्शनीयांश् च वः सर्वान् एकरूपान् अवस्थितान् समीक्ष्य कृष्णा वरयेत् संगत्यान्यतमं पतिम् अयम् एकश् च वो भ्राता दर्शनीयो महाभुजः नियुध्यमानो विजयेत् संगत्या द्रविणं महत् परमं भो गमिष्यामो द्रष्टुं तत्र स्वयंवरम् द्रौपदीं यज्ञसेनस्य कन्यां तस्यास् तथोत्सवम् वैशंपायन उवाच गते भगवति व्यासे पाण्डवा हृष्टमानसाः ते प्रतस्थुः पुरस्कृत्य मातरं पुरुषर्षभाः आमन्त्र्य ब्राह्मणं पूर्वम् अभिवाद्यानुमान्य च समैर् उदङ्मुखैर् मार्गैर् यथोद्दिष्टं परंतपाः ते गच्छन्तस् त्व् अहोरात्रं तीर्थं सोमश्रवायणम् . . . . . . . . पाञ्चालनगरं प्रति अभ्याजग्मुर् लोकनदीं गङ्गां भागीरथीं प्रति चन्द्रास्तमयवेलायाम् अर्धरात्रे समागमे वारि चैवानुमज्जन्तः . . . . . . . . आसेदुः पुरुषव्याघ्रा गङ्गायां पाण्डुनन्दनाः उल्मुकं तु समुद्यम्य तेषाम् अग्रे धनंजयः प्रकाशार्थं ययौ तत्र रक्षार्थं च महायशाः तत्र गङ्गाजले रम्ये विविक्ते क्रीडयन् स्त्रियः ईर्ष्युर् गन्धर्वराजः स्म जलक्रीडाम् उपागतः शब्दं तेषां स शुश्राव नदीं समुपसर्पताम् तेन शब्देन चाविष्टश् चुक्रोध बलवद् बली स दृष्ट्वा पाण्डवांस् तत्र सह मात्रा परंतपान् विस्फारयन् धनुर् घोरम् इदं वचनम् अब्रवीत् संध्या संरज्यते घोरा पूर्वरात्रागमेषु या अशीतिभिस् त्रुटैर् हीनं तं मुहूर्तं प्रचक्षते विहितं कामचाराणां यक्षगन्धर्वरक्षसाम् शेषम् अन्यन् मनुष्याणां कामचारम् इह स्मृतम् लोभात् प्रचारं चरतस् तासु वेलासु वै नरान् उपक्रान्ता निगृह्णीमो राक्षसैः सह बालिशान् ततो रात्रौ प्राप्नुवतो जलं ब्रह्मविदो जनाः गर्हयन्ति नरान् सर्वान् बलस्थान् नृपतीन् अपि आरात् तिष्ठत मा मह्यं समीपम् उपसर्पत कस्मान् मां नाभिजानीत प्राप्तं भागीरथीजलम् अङ्गारपर्णं गन्धर्वं वित्त मां स्वबलाश्रयम् अहं हि मानी चेर्ष्युश् च कुबेरस्य प्रियः सखा अङ्गारपर्णम् इति च ख्यतं वनम् इदं मम अनु गङ्गां च वाकां च चित्रं यत्र वसाम्य् अहम् न कुणपाः शृङ्गिणो वा न देवा न च मानुषाः इदं समुपसर्पन्ति तत् किं समुपसर्पथ अर्जुन उवाच समुद्रे हिमवत्पार्श्वे नद्याम् अस्यां च दुर्मते रात्राव् अहनि संधौ च कस्य कॢप्तः परिग्रहः भुक्तो वाप्य् अथवाभुक्तो रात्राव् अहनि खेचर न कालनियमो ह्य् अस्ति गङ्गां प्राप्य सरिद्वराम् वयं च शक्तिसंपन्ना अकाले त्वाम् अधृष्णुमः अशक्ता हि क्षणे क्रूरे युष्मान् अर्चन्ति मानवाः पुरा हिमवतश् चैषा हेमशृङ्गाद् विनिःसृता गङ्गा गत्वा समुद्राम्भः सप्तधा प्रतिपद्यते गङ्गां च यमुनां चैव प्लक्षजातां सरस्वतीम् रथस्थां सरयूं चैव गोमतीं गण्डकीं तथा अपर्युषितपापास् ते नदीः सप्त पिबन्ति ये इयं भूत्वा चैकवप्रा शुचिर् आकाशगा पुनः देवेषु गङ्गा गन्धर्व प्राप्नोत्य् अलकनन्दताम् वङ्क्षुर् भद्रा चोत्तरगा हिमवत्पदनिःसृता तथा पितॄन् वैतरणी दुस्तरा पापकर्मभिः गङ्गा भवति गन्धर्व यथा द्वैपायनो ऽब्रवीत् असंबाधा देवनदी स्वर्गसंपादनी शुभा कथम् इच्छसि तां रोद्धुं नैष धर्मः सनातनः अनिवार्यम् असंबाधं तव वाचा कथं वयम् न स्पृशेम यथाकामं पुण्यं भागीरथीजलम् वैशंपायन उवाच अङ्गारपर्णस् तच् छ्रुत्वा क्रुद्ध आनम्य कार्मुकम् मुमोच सायकान् दीप्तान् अहीन् आशीविषान् इव उल्मुकं भ्रामयंस् तूर्णं पाण्डवश् चर्म चोत्तमम् व्यपोवाह शरांस् तस्य सर्वान् एव धनंजयः अर्जुन उवाच बिभीषिकैषा गन्धर्व नास्त्रज्ञेषु प्रयुज्यते अस्त्रज्ञेषु प्रयुक्तैषा फेनवत् प्रविलीयते मानुषान् अति गन्धर्वान् सर्वान् गन्धर्व लक्षये तस्माद् अस्त्रेण दिव्येन योत्स्ये ऽहं न तु मायया पुरास्त्रम् इदम् आग्नेयं प्रादात् किल बृहस्पतिः भरद्वाजस्य गन्धर्व गुरुपुत्रः शतक्रतोः भरद्वाजाद् अग्निवेश्यो अग्निवेश्याद् गुरुर् मम स त्व् इदं मह्यम् अददाद् द्रोणो ब्राह्मणसत्तमः वैशंपायन उवाच इत्य् उक्त्वा पाण्डवः क्रुद्धो गन्धर्वाय मुमोच ह प्रदीप्तम् अस्त्रम् आग्नेयं ददाहास्य रथं तु तत् विरथं विप्लुतं तं तु स गन्धर्वं महाबलम् अस्त्रतेजःप्रमूढं च प्रपतन्तम् अवाङ्मुखम् शिरोरुहेषु जग्राह माल्यवत्सु धनंजयः भ्रातॄन् प्रति चकर्षाथ सो ऽस्त्रपाताद् अचेतसम् युधिष्ठिरं तस्य भार्या प्रपेदे शरणार्थिनी नाम्ना कुम्भीनसी नाम पतित्राणम् अभीप्सती गन्धर्व्य् उवाच त्राहि त्वं मां महाराज पतिं चेमं विमुञ्च मे गन्धर्वीं शरणं प्राप्तां नाम्ना कुम्बीनसीं प्रभो दीनं वाक्यं तु तच् छ्रुत्वा युधिष्ठिर उवाच ह दृष्ट्वोवाच महाबाहुः फाल्गुनं वै युधिष्ठिरः दृष्ट्वानुग्रहभावाच् च पार्थः पार्थम् उवाच ह युधिष्ठिर उवाच युद्धे जितं यशोहीनं स्त्रीनाथम् अपराक्रमम् को नु हन्याद् रिपुं त्वादृङ् मुञ्चेमं रिपुसूदन अर्जुन उवाच अङ्गेमं प्रतिपद्यस्व गच्छ गन्धर्व मा शुचः प्रदिशत्य् अभयं ते ऽद्य कुरुराजो युधिष्ठिरः गन्धर्व उवाच जितो ऽहं पूर्वकं नाम मुञ्चाम्य् अङ्गारपर्णताम् न च श्लाघे बलेनाद्य न नाम्ना जनसंसदि साध्व् इमं लब्धवांल् लाभं यो ऽहं दिव्यास्त्रधारिणम् गान्धर्व्या मायया योद्धुम् इच्छामि वयसा वरम् अस्त्राग्निना विचित्रो ऽयं दग्धो मे रथ उत्तमः सो ऽहं चित्ररथो भूत्वा नाम्ना दग्धरथो ऽभवम् संभृता चैव विद्येयं तपसेह पुरा मया निवेदयिष्ये ताम् अद्य प्राणदाया महात्मने संस्तम्भितं हि तरसा जितं शरणम् आगतम् यो ऽरिं संयोजयेत् प्राणैः कल्याणं किं न सो ऽर्हति चक्षुषी नाम विद्येयं यां सोमाय ददौ मनुः ददौ स विश्वावसवे मह्यं विश्वावसुर् ददौ सेयं कापुरुषं प्राप्ता गुरुदत्ता प्रणश्यति आगमो ऽस्या मया प्रोक्तो वीर्यं प्रतिनिबोध मे यच् चक्षुषा द्रष्टुम् इच्छेत् त्रिषु लोकेषु किं चन तत् पश्येद् यादृशं चेच्छेत् तादृषं द्रष्टुम् अर्हति समानपद्ये षण्मासान् स्थितो विद्यां लभेद् इमाम् अनुनेष्याम्य् अहं विद्यां स्वयं तुभ्यं व्रते कृते विद्यया ह्य् अनया राजन् वयं नृभ्यो विशेषिताः अविशिष्टाश् च देवानाम् अनुभावप्रवर्तिताः गन्धर्वजानाम् अश्वानाम् अहं पुरुषसत्तम भ्रातृभ्यस् तव पञ्चभ्यः पृथग् दाता शतं शतम् देवगन्धर्ववाहास् ते दिव्यगन्धा मनोगमाः क्षीणाः क्षीणा भवन्त्य् एते न हीयन्ते च रंहसः पुरा कृतं महेन्द्रस्य वज्रं वृत्रनिबर्हणे दशधा शतधा चैव तच् छीर्णं वृत्रमूर्धनि ततो भागीकृतो देवैर् वज्रभाग उपास्यते लोके यत् साधनं किं चित् सा वै वज्रतनुः स्मृता वज्रपाणिर् ब्राह्मणः स्यात् क्षत्रं वज्ररथं स्मृतम् वैश्या वै दानवज्राश् च कर्मवज्रा यवीयसः वज्रं क्षत्रस्य वाजिनो अवध्या वाजिनः स्मृताः रथाङ्गं वडवा सूते सूताश् चाश्वेषु ये मताः कामवर्णाः कामजवाः कामतः समुपस्थिताः इमे गन्धर्वजाः कामं पूरयिष्यन्ति ते हयाः अर्जुन उवाच यदि प्रीतेन वा दत्तं संशये जीवितस्य वा विद्या वित्तं श्रुतं वापि न तद् गन्धर्व कामये गन्धर्व उवाच संयोगो वै प्रीतिकरः संसत्सु प्रतिदृश्यते जीवितस्य प्रदानेन प्रीतो विद्यां ददामि ते त्वत्तो ह्य् अहं ग्रहीष्यामि अस्त्रम् आग्नेयम् उत्तमम् तथैव सख्यं बीभत्सो चिराय भरतर्षभ अर्जुन उवाच त्वत्तो ऽस्त्रेण वृणोम्य् अश्वान् संयोगः शाश्वतो ऽस्तु नौ सखे तद् ब्रूहि गन्धर्व युष्मभ्यो यद् भयं त्यजेत् अर्जुन उवाच कारणं ब्रूहि गन्धर्व किं तद् येन स्म धर्षिताः यान्तो ब्रह्मविदः सन्तः सर्वे रात्राव् अरिंदम गन्धर्व उवाच अनग्नयो ऽनाहुतयो न च विप्रपुरस्कृताः यूयं ततो धर्षिताः स्थ मया पाण्डवनन्दन यक्षराक्षसगन्धर्वाः पिशाचोरगमानवाः धर्षयन्ति नरव्याघ्र न ब्राह्मणपुरस्कृतान् जानता च मया तस्मात् तेजश् चाभिजनं च वः इयम् अग्निमतां श्रेष्ठ धर्षितुं वै कृता मतिः को हि वस् त्रिषु लोकेषु न वेद भरतर्षभ स्वैर् गुणैर् विस्तृतं श्रीमद् यशो ऽग्र्यं भूरिवर्चसाम् विस्तरं कुरुवंशस्य श्रीमतः कथयन्ति ते नारदप्रभृतीनां च देवर्षीणां मया श्रुतम् गुणान् कथयतां वीर पूर्वेषां तव धीमताम् स्वयं चापि मया दृष्टश् चरता सागराम्बराम् इमां वसुमतीं कृत्स्नां प्रभावः स्वकुलस्य ते वेदे धनुषि चाचार्यम् अभिजानामि ते ऽर्जुन विश्रुतं त्रिषु लोकेषु भारद्वाजं यशस्विनम् सर्ववेदविदां श्रेष्ठं सर्वशस्त्रभृतां वरम् द्रोणम् इष्वस्त्रकुशलं धनुष्य् अङ्गिरसां वरम् धर्मं वायुं च शक्रं च विजानाम्य् अश्विनौ तथा पाण्डुं च कुरुशार्दूल षड् एतान् कुलवर्धनान् पितॄन् एतान् अहं पार्थ देवमानुषसत्तमान् दिव्यात्मानो महात्मानः सर्वशस्त्रभृतां वराः भवन्तो भ्रातरः शूराः सर्वे सुचरितव्रताः उत्तमां तु मनोबुद्धिं भवतां भावितात्मनाम् जानन्न् अपि च वः पार्थ कृतवान् इह धर्षणाम् स्त्रीसकाशे च कौरव्य न पुमान् क्षन्तुम् अर्हति धर्षणाम् आत्मनः पश्यन् बाहुद्रविणम् आश्रितः नक्तं च बलम् अस्माकं भूय एवाभिवर्धते यतस् ततो मां कौन्तेय सदारं मन्युर् आविशत् सो ऽहं त्वयेह विजितः संख्ये तापत्यवर्धन येन तेनेह विधिना कीर्त्यमानं निबोध मे ब्रह्मचर्यं परो धर्मः स चापि नियतस् त्वयि यस्मात् तस्माद् अहं पार्थ रणे ऽस्मिन् विजितस् त्वया यस् तु स्यात् क्षत्रियः कश् चित् कामवृत्तः परंतप नक्तं च युधि युध्येत न स जीवेत् कथं चन यस् तु स्यात् कामवृत्तो ऽपि राजा तापत्य संगरे जयेन् नक्तंचरान् सर्वान् स पुरोहितधूर्गतः तस्मात् तापत्य यत् किं चिन् नृणां श्रेय इहेप्सितम् तस्मिन् कर्मणि योक्तव्या दान्तात्मानः पुरोहिताः वेदे षडङ्गे निरताः शुचयः सत्यवादिनः धर्मात्मानः कृतात्मानः स्युर् नृपाणां पुरोहिताः जयश् च नियतो राज्ञः स्वर्गश् च स्याद् अनन्तरम् यस्य स्याद् धर्मविद् वाग्मी पुरोधाः शीलवाञ् शुचिः लाभं लब्धुम् अलब्धं हि लब्धं च परिरक्षितुम् पुरोहितं प्रकुर्वीत राजा गुणसमन्वितम् पुरोहितमते तिष्ठेद् य इच्छेत् पृथिवीं नृपः प्राप्तुं मेरुवरोत्तंसां सर्वशः सागराम्बराम् न हि केवलशौर्येण तापत्याभिजनेन च जयेद् अब्राह्मणः कश् चिद् भूमिं भूमिपतिः क्व चित् तस्माद् एवं विजानीहि कुरूणां वंशवर्धन ब्राह्मणप्रमुखं राज्यं शक्यं पालयितुं चिरम् अर्जुन उवाच तापत्य इति यद् वाक्यम् उक्तवान् असि माम् इह तद् अहं ज्ञातुम् इच्छामि तापत्यार्थविनिश्चयम् तपती नाम का चैषा तापत्या यत्कृते वयम् कौन्तेया हि वयं साधो तत्त्वम् इच्छामि वेदितुम् तत् सर्वं त्वम् अशेषेण तद् ब्रूह्य् अङ्गारपर्णक वैशंपायन उवाच एवम् उक्तः स गन्धर्वः कुन्तीपुत्रं धनंजयम् विश्रुतां त्रिषु लोकेषु श्रावयाम् आस वै कथाम् गन्धर्व उवाच हन्त ते कथयिष्यामि कथाम् एतां मनोरमाम् यथावद् अखिलां पार्थ धर्म्यां धर्मभृतां वर उक्तवान् अस्मि येन त्वां तापत्य इति यद् वचः तत् ते ऽहं कथयिष्यामि शृणुष्वैकमना मम य एष दिवि धिष्ण्येन नाकं व्याप्नोति तेजसा एतस्य तपती नाम बभूवासदृशी सुता विवस्वतो वै कौन्तेय सावित्र्यवरजा विभो विश्रुता त्रिषु लोकेषु तपती तपसा युता न देवी नासुरी चैव न यक्षी न च राक्षसी नाप्सरा न च गन्धर्वी तथारूपेण का चन सुविभक्तानवद्याङ्गी स्वसितायतलोचना स्वाचारा चैव साध्वी च सुवेषा चैव भामिनी न तस्याः सदृशं कं चित् त्रिषु लोकेषु भारत भर्तारं सविता मेने रूपशीलकुलश्रुतैः संप्राप्तयौवनां पश्यन् देयां दुहितरं तु ताम् द्व्यष्टवर्षां तु तां पश्यन् सविता रूपशालिनीम् नोपलेभे ततः शान्तिं संप्रदानं विचिन्तयन् अर्थर्क्षपुत्रः कौन्तेय कुरूणाम् ऋषभो बली सूर्यम् आराधयाम् आस नृपः संवरणः सदा अर्घ्यमाल्योपहारैश् च शश्वच् च नृपतिर् यतः नियमैर् उपवासैश् च तपोभिर् विविधैर् अपि शुश्रूषुर् अनहंवादी शुचिः पौरवनन्दनः अंशुमन्तं समुद्यन्तं पूजयाम् आस भक्तिमान् ततः कृतज्ञं धर्मज्ञं रूपेणासदृशं भुवि तपत्याः सदृशं मेने सूर्यः संवरणं पतिम् दातुम् ऐच्छत् ततः कन्यां तस्मै संवरणाय ताम् नृपोत्तमाय कौरव्य विश्रुताभिजनाय वै यथा हि दिवि दीप्तांशुः प्रभासयति तेजसा तथा भुवि महीपालो दीप्त्या संवरणो ऽभवत् यथार्चयन्ति चादित्यम् उद्यन्तं ब्रह्मवादिनः तथा संवरणं पार्थ ब्राह्मणावरजाः प्रजाः स सोमम् अति कान्तत्वाद् आदित्यम् अति तेजसा बभूव नृपतिः श्रीमान् सुहृदां दुर्हृदाम् अपि एवंगुणस्य नृपतेस् तथावृत्तस्य कौरव तस्मै दातुं मनश् चक्रे तपतीं तपनः स्वयम् स कदा चिद् अथो राजा श्रीमान् उरुयशा भुवि चचार मृगयां पार्थ पर्वतोपवने किल चरतो मृगयां तस्य क्षुत्पिपासाश्रमान्वितः ममार राज्ञः कौन्तेय गिराव् अप्रतिमो हयः स मृताश्वश् चरन् पार्थ पद्भ्याम् एव गिरौ नृपः ददर्शासदृशीं लोके कन्याम् आयतलोचनाम् स एक एकाम् आसाद्य कन्यां ताम् अरिमर्दनः तस्थौ नृपतिशार्दूलः पश्यन्न् अविचलेक्षणः स हि तां तर्कयाम् आस रूपतो नृपतिः श्रियम् पुनः संतर्कयाम् आस रवेर् भ्रष्टाम् इव प्रभाम् वपुषा वर्चसा चैव शिखाम् इव विभावसोः प्रसन्नत्वेन कान्त्या च चन्द्ररेखाम् इवामलाम् गिरिप्रस्थे तु सा यस्मिन् स्थिता स्वसितलोचना विभ्राजमाना शुशुभे प्रतिमेव हिरण्मयी तस्या रूपेण स गिरिर् वेषेण च विशेषतः स सवृक्षक्षुपलतो हिरण्मय इवाभवत् तां तु दृष्ट्वा स चार्वङ्गीं राजा राजीवलोचनाम् अवमेने च तां दृष्ट्वा सर्वप्राणभृतां वपुः अवाप्तं चात्मनो मेने स राजा चक्षुषः फलम् जन्मप्रभृति यत् किं चिद् दृष्टवान् स महीपतिः रूपं न सदृशं तस्यास् तर्कयाम् आस किं चन तया बद्धमनश्चक्षुः पाशैर् गुणमयैस् तदा न चचाल ततो देशाद् बुबुधे न च किं चन अस्या नूनं विशालाक्ष्याः सदेवासुरमानुषम् लोकं निर्मथ्य धात्रेदं रूपम् आविष्कृतं कृतम् एवं स तर्कयाम् आस रूपद्रविणसंपदा कन्याम् असदृशीं लोके नृपः संवरणस् तदा तां च दृष्ट्वैव कल्याणीं कल्याणाभिजनो नृपः जगाम मनसा चिन्तां काममार्गणपीडितः दह्यमानः स तीव्रेण नृपतिर् मन्मथाग्निना अप्रगल्भां प्रगल्भः स ताम् उवाच यशस्विनीम् कासि कस्यासि रम्भोरु किमर्थं चेह तिष्ठसि कथं च निर्जने ऽरण्ये चरस्य् एका शुचिस्मिते त्वं हि सर्वानवद्याङ्गी सर्वाभरणभूषिता विभूषणम् इवैतेषां भूषणानाम् अभीप्सितम् न देवीं नासुरीं चैव न यक्षीं न च राक्षसीम् न च भोगवतीं मन्ये न गन्धर्वीं न मानुषीम् या हि दृष्टा मया काश् चिच् छ्रुता वापि वराङ्गनाः न तासां सदृशीं मन्ये त्वाम् अहं मत्तकाशिनि दृष्ट्वैव चारुवदने चन्द्रात् कान्ततरं तव वदनं पद्मपत्राक्षं मां मथ्नातीव मन्मथः एवं तां स महीपालो बभाषे न तु सा तदा कामार्तं निर्जने ऽरण्ये प्रत्यभाषत किं चन ततो लालप्यमानस्य पार्थिवस्यायतेक्षणा सौदामिनीव साभ्रेषु तत्रैवान्तरधीयत ताम् अन्विच्छन् स नृपतिः परिचक्राम तत् तदा वनं वनजपत्राक्षीं भ्रमन्न् उन्मत्तवत् तदा अपश्यमानः स तु तां बहु तत्र विलप्य च निश्चेष्टः कौरवश्रेष्ठो मुहूर्तं स व्यतिष्ठत गन्धर्व उवाच अथ तस्याम् अदृश्यायां नृपतिः काममोहितः पातनः शत्रुसंघानां पपात धरणीतले तस्मिन् निपतिते भूमाव् अथ सा चारुहासिनी पुनः पीनायतश्रोणी दर्शयाम् आस तं नृपम् अथाबभाषे कल्याणी वाचा मधुरया नृपम् तं कुरूणां कुलकरं कामाभिहतचेतसम् उवाच मधुरं वाक्यं तपती प्रहसन्न् इव उत्तिष्ठोत्तिष्ठ भद्रं ते न त्वम् अर्हस्य् अरिंदम मोहं नृपतिशार्दूल गन्तुम् आविष्कृतः क्षितौ एवम् उक्तो ऽथ नृपतिर् वाचा मधुरया तदा ददर्श विपुलश्रोणीं ताम् एवाभिमुखे स्थिताम् अथ ताम् असितापाङ्गीम् आबभाषे नराधिपः मन्मथाग्निपरीतात्मा संदिग्धाक्षरया गिरा साधु माम् असितापाङ्गे कामार्तं मत्तकाशिनि भजस्व भजमानं मां प्राणा हि प्रजहन्ति माम् त्वदर्थं हि विशालाक्षि माम् अयं निशितैः शरैः कामः कमलगर्भाभे प्रतिविध्यन् न शाम्यति ग्रस्तम् एवम् अनाक्रन्दे भद्रे काममहाहिना सा त्वं पीनायतश्रोणि पर्याप्नुहि शुभानने त्वय्य् अधीना हि मे प्राणाः किंनरोद्गीतभाषिणि चारुसर्वानवद्याङ्गि पद्मेन्दुसदृशानने न ह्य् अहं त्वद् ऋते भीरु शक्ष्ये जीवितुम् आत्मना कामः कमलपत्राक्षि प्रतिविध्यति माम् अयम् तस्मात् कुरु विशालाक्षि मय्य् अनुक्रोशम् अङ्गने भक्तं माम् असितापाङ्गे न परित्यक्तुम् अर्हसि त्वं हि मां प्रीतियोगेन त्रातुम् अर्हसि भामिनि त्वद्दर्शनकृतस्नेहं मनश् चलति मे भृशम् न त्वां दृष्ट्वा पुनर् अन्यां द्रष्टुं कल्याणि रोचये प्रसीद वशगो ऽहं ते भक्तं मां भज भाविनि दृष्ट्वैव त्वां वरारोहे मन्मथो भृशम् अङ्गने अन्तर्गतं विशालाक्षि विध्यति स्म पतत्रिभिः मन्मथाग्निसमुद्भूतं दाहं कमललोचने प्रीतिसंयोगयुक्ताभिर् अद्भिः प्रह्लादयस्व मे पुष्पायुधं दुराधर्षं प्रचण्डशरकार्मुकम् त्वद्दर्शनसमुद्भूतं विध्यन्तं दुःसहैः शरैः उपशामय कल्याणि आत्मदानेन भाविनि गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरि विवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते तपत्य् उवाच नाहम् ईशात्मनो राजन् कन्या पितृमती ह्य् अहम् मयि चेद् अस्ति ते प्रीतिर् याचस्व पितरं मम यथा हि ते मया प्राणाः संगृहीता नरेश्वर दर्शनाद् एव भूयस् त्वं तथा प्राणान् ममाहरः न चाहम् ईशा देहस्य तस्मान् नृपतिसत्तम समीपं नोपगच्छामि न स्वतन्त्रा हि योषितः का हि सर्वेषु लोकेषु विश्रुताभिजनं नृपम् कन्या नाभिलषेन् नाथं भर्तारं भक्तवत्सलम् तस्माद् एवंगते काले याचस्व पितरं मम आदित्यं प्रणिपातेन तपसा नियमेन च स चेत् कामयते दातुं तव माम् अरिमर्दन भविष्याम्य् अथ ते राजन् सततं वशवर्तिनी अहं हि तपती नाम सावित्र्यवरजा सुता अस्य लोकप्रदीपस्य सवितुः क्षत्रियर्षभ गन्धर्व उवाच एवम् उक्त्वा ततस् तूर्णं जगामोर्ध्वम् अनिन्दिता तपती तपतीत्य् एवं विललापातुरो नृपः प्रास्खलच् चासकृद् राजा पुनर् उत्थाय धावति धावमानस् तु तपतीम् अदृष्ट्वैव महीपतिः स तु राजा पुनर् भूमौ तत्रैव निपपात ह अन्वेषमाणः सबलस् तं राजानं नृपोत्तमम् अमात्यः सानुयात्रस् तु तं ददर्श महावने क्षितौ निपतितं काले शक्रध्वजम् इवोच्छ्रितम् तं हि दृष्ट्वा महेष्वासं निरश्वं पतितं क्षितौ बभूव सो ऽस्य सचिवः संप्रदीप्त इवाग्निना त्वरया चोपसंगम्य स्नेहाद् आगतसंभ्रमः तं समुत्थापयाम् आस नृपतिं काममोहितम् भूतलाद् भूमिपालेशं पितेव पतितं सुतम् प्रज्ञया वयसा चैव वृद्धः कीर्त्या दमेन च अमात्यस् तं समुत्थाप्य बभूव विगतज्वरः उवाच चैनं कल्याण्या वाचा मधुरयोत्थितम् मा भैर् मनुजशार्दूल भद्रं चास्तु तवानघ क्षुत्पिपासापरिश्रान्तं तर्कयाम् आस तं नृपम् पतितं पातनं संख्ये शात्रवाणां महीतले वारिणाथ सुशीतेन शिरस् तस्याभ्यषेचयत् अस्पृशन् मुकुटं राज्ञः पुण्डरीकसुगन्धिना ततः प्रत्यागतप्राणस् तद् बलं बलवान् नृपः सर्वं विसर्जयाम् आस तम् एकं सचिवं विना ततस् तस्याज्ञया राज्ञो विप्रतस्थे महद् बलम् स तु राजा गिरिप्रस्थे तस्मिन् पुनर् उपाविशत् चिन्तयानस् तु तपतीं तद्रूपाकृष्टमानसः उन्मत्तक इवासंज्ञस् तदासीद् भरतर्षभः ततस् तस्मिन् गिरिवरे शुचिर् भूत्वा कृताञ्जलिः आरिराधयिषुः सूर्यं तस्थाव् ऊर्ध्वभुजः क्षितौ पूजयानो दिनकरं भक्तियुक्तो महीपतिः जगाम मनसा चैव वसिष्ठम् ऋषिसत्तमम् पुरोहितम् अमित्रघ्नस् तदा संवरणो नृपः नक्तंदिनम् अथैकस्थे स्थिते तस्मिञ् जनाधिपे अथाजगाम विप्रर्षिस् तदा द्वादशमे ऽहनि स विदित्वैव नृपतिं तपत्या हृतमानसम् दिव्येन विधिना ज्ञात्वा भावितात्मा महान् ऋषिः तथा तु नियतात्मानं स तं नृपतिसत्तमम् आबभाषे स धर्मात्मा तस्यैवार्थचिकीर्षया भद्रं ते राजशार्दूल तपती याचते ह्य् अहम् विवस्वतस् तदर्थे चेत्य् उक्त्वागाद् ऋषिसत्तमः स तस्य मनुजेन्द्रस्य पश्यतो भगवान् ऋषिः ऊर्ध्वम् आचक्रमे द्रष्टुं भास्करं भास्करद्युतिः योजनानां तु नियुतं क्षणाद् गत्वा तपोधनः सहस्रांशुं ततो विप्रः कृताञ्जलिर् उपस्थितः वसिष्ठो ऽहम् इति प्रीत्या स चात्मानं न्यवेदयत् तम् उवाच महातेजा विवस्वान् मुनिसत्तमम् महर्षे स्वागतं ते ऽस्तु कथयस्व यथेच्छसि गन्धर्वः वसिष्ठः सूर्यः योजनानां चतुःषष्टिं निमेषात् त्रिंशतं तथा अश्वैर् गच्छति नित्यं यस् तत्पार्श्वस्थो ऽब्रवीद् इदम् अजाय लोकत्रयभावनाय भूतात्मने गोपतये वृषाय सूर्याय सर्गप्रलयालयाय नमो महाकारुणिकोत्तमाय विवस्वते ज्ञानभृद् अन्तरात्मने जगत्प्रदीपाय जगद्धितैषिणे स्वयंभुवे दीप्तसहस्रचक्षुषे सुरोत्तमायामिततेजसे नमः स्तुतो ऽस्मि वरदस् ते ऽहं वरं वरय सुव्रत स्तुतिस् त्वयोक्ता भक्तानां जप्येयं वरदो ऽस्म्य् अहम् नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूतिस्थितिनाशहेतवे त्रयीमयाय त्रिगुणात्मधारिणे विरिञ्चिनारायणशंकरात्मने यद् इच्छसि महाभाग मत्तः प्रवदतां वर तत् ते दद्याम् अभिप्रेतं यद्य् अपि स्यात् सुदुर्लभम् एवम् उक्तः स तेनर्षिर् वसिष्ठः प्रत्यभाषत प्रणिपत्य विवस्वन्तं भानुमन्तं महातपाः वसिष्ठ उवाच यैषा ते तपती नाम सावित्र्यवरजा सुता तां त्वां संवरणस्यार्थे वरयामि विभावसो स हि राजा बृहत्कीर्तिर् धर्मार्थविद् उदारधीः युक्तः संवरणो भर्ता दुहितुस् ते विहंगम गन्धर्व उवाच इत्य् उक्तः सविता तेन ददानीत्य् एव निश्चितः प्रत्यभाषत तं विप्रं प्रतिनन्द्य दिवाकरः वरः संवरणो राज्ञां त्वम् ऋषीणां वरो मुने तपती योषितां श्रेष्ठा किम् अन्यत्रापवर्जनात् ततः सर्वानवद्याग्नीं तपतीं तपनः स्वयम् ददौ संवरणस्यार्थे वसिष्ठाय महात्मने प्रतिजग्राह तां कन्यां महर्षिस् तपतीं तदा वसिष्ठो ऽथ विसृष्टश् च पुनर् एवाजगाम ह यत्र विख्यतकीर्तिः स कुरूणाम् ऋषभो ऽभवत् स राजा मन्मथाविष्टस् तद्गतेनान्तरात्मना दृष्ट्वा च देवकन्यां तां तपतीं चारुहासिनीम् वसिष्ठेन सहायान्तीं संहृष्टो ऽभ्यधिकं बभौ रुरुचे साधिकं सुभ्रूर् आपतन्ती नभस्तलात् सौदामिनीव विभ्रष्टा द्योतयन्ती स्वतेजसा कृच्छ्रे द्वादशरात्रे तु तस्य राज्ञः समापिते आजगाम विशुद्धात्मा वसिष्ठो भगवान् ऋषिः तपसाराध्य वरदं देवं गोपतिम् ईश्वरम् लेभे संवरणो भार्यां वसिष्ठस्यैव तेजसा ततस् तस्मिन् गिरिश्रेष्ठे देवगन्धर्वसेविते जग्राह विधिवत् पाणिं तपत्याः स नरर्षभः वसिष्ठेनाभ्यनुज्ञातस् तस्मिन्न् एव धराधरे सो ऽकामयत राजर्षिर् विहर्तुं सह भार्यया ततः पुरे च राष्ट्रे च वाहनेषु बलेषु च आदिदेश महीपालस् तम् एव सचिवं तदा अथ दत्त्वा महीपाले तपतीं तां मनोरमाम् तिष्ठ सुश्रोणि यास्यामि त्वम् आश्रय पतिं शुभे नृपतिं त्व् अभ्यनुज्ञाय वसिष्ठो ऽथापचक्रमे सो ऽपि राजा गिरौ तस्मिन् विजहारामरोपमः ततो द्वादश वर्षाणि काननेषु जलेषु च रेमे तस्मिन् गिरौ राजा तयैव सह भार्यया तस्य राज्ञः पुरे तस्मिन् समा द्वादश सर्वशः न ववर्ष सहस्राक्षो राष्ट्रे चैवास्य सर्वशः ततस् तस्याम् अनावृष्ट्यां प्रवृत्तायाम् अरिंदम प्रजाः क्षयम् उपाजग्मुः सर्वाः सस्थाणुजङ्गमाः तस्मिंस् तथाविधे काले वर्तमाने सुदारुणे नावश्यायः पपातोर्व्यां ततः सस्यानि नारुहन् ततो विभ्रान्तमनसो जनाः क्षुद्भयपीडिताः गृहाणि संपरित्यज्य बभ्रमुः प्रदिशो दिशः ततस् तस्मिन् पुरे राष्ट्रे त्यक्तदारपरिग्रहाः परस्परम् अमर्यादाः क्षुधार्ता जघ्निरे जनाः तत् क्षुधार्तैर् निरानन्दैः शवभूतैस् तदा नरैः अभवत् प्रेतराजस्य पुरं प्रेतैर् इवावृतम् स्नाय्वस्थिशेषैर् निर्मांसैर् धमनीसंततैर् भृशम् ततस् तत् तादृशं दृष्ट्वा स एव भगवान् ऋषिः अभ्यपद्यत धर्मात्मा वसिष्ठो राजसत्तमम् तं च पार्थिवशार्दूलम् आनयाम् आस तत् पुरम् तपत्या सहितं राजन्न् उषितं द्वादशीः समाः ततः प्रवृष्टस् तत्रासीद् यथापूर्वं सुरारिहा तस्मिन् नृपतिशार्दूले प्रविष्टे नगरं पुनः प्रववर्ष सहस्राक्षः सस्यानि जनयन् प्रभुः ततः सराष्ट्रं मुमुदे तत् पुरं परया मुदा तेन पार्थिवमुख्येन भावितं भावितात्मना ततो द्वादश वर्षाणि पुनर् ईजे नराधिपः पत्न्या तपत्या सहितो यथा शक्रो मरुत्पतिः एवम् आसीन् महाभागा तपती नाम पौर्विकी तव वैवस्वती पार्थ तापत्यस् त्वं यया मतः तस्यां संजनयाम् आस कुरुं संवरणो नृपः तपत्यां तपतां श्रेष्ठ तापत्यस् त्वं ततो ऽर्जुन दश वर्षसहस्राणि विहृत्य स तया सह अभिषिच्य कुरुं राज्ये तपस् तप्त्वा तपोधनः आदित्यलोकं च ततो जगाम भरतर्षभ कुरूद्भवा यतो यूयं कौरवाः कुरवस् तथा पौरवा आजमीढाश् च भारता भरतर्षभ तापत्यम् अखिलं प्रोक्तं वृत्तान्तं तव पूर्विकम् पुरोहितमुखा यूयं भुङ्क्षध्वं पृथिवीम् इमाम् वैशंपायन उवाच स गन्धर्ववचः श्रुत्वा तत् तदा भरतर्षभ अर्जुनः परया प्रीत्या पूर्णचन्द्र इवाबभौ उवाच च महेष्वासो गन्धर्वं कुरुसत्तमः जातकौतूहलो ऽतीव वसिष्ठस्य तपोबलात् वसिष्ठ इति यस्यैतद् ऋषेर् नाम त्वयेरितम् एतद् इच्छाम्य् अहं श्रोतुं यथावत् तद् वदस्व मे य एष गन्धर्वपते पूर्वेषां नः पुरोहितः आसीद् एतन् ममाचक्ष्व क एष भगवान् ऋषिः सुभिक्षं राज्यं लब्धं वै वसिष्ठस्य तपोबलात् ब्रह्मणो मानसः पुत्रो वसिष्ठो ऽरुन्धतीपतिः गन्धर्व उवाच तपसा निर्जितौ शश्वद् अजेयाव् अमरैर् अपि कामक्रोधाव् उभौ यस्य चरणौ संववाहतुः इन्द्रियाणां वशकरो वशिष्ठ इति चोच्यते यथा कामश् च क्रोधश् च निर्जिताव् अजितौ नरैः जितारयो जिता लोकाः पन्थानश् च जिता दिवः यस् तु नोच्छेदनं चक्रे कुशिकानाम् उदारधीः विश्वामित्रापराधेन धारयन् मन्युम् उत्तमम् पुत्रव्यसनसंतप्तः शक्तिमान् अपि यः प्रभुः विश्वामित्रविनाशाय न मेने कर्म दारुणम् मृतांश् च पुनर् आहर्तुं यः स पुत्रान् यमक्षयात् कृतान्तं नातिचक्राम वेलाम् इव महोदधिः यं प्राप्य विजितात्मानं महात्मानं नराधिपाः इक्ष्वाकवो महीपाला लेभिरे पृथिवीम् इमाम् पुरोहितवरं प्राप्य वसिष्ठम् ऋषिसत्तमम् ईजिरे क्रतुभिश् चापि नृपास् ते कुरुनन्दन स हि तान् याजयाम् आस सर्वान् नृपतिसत्तमान् ब्रह्मर्षिः पाण्डवश्रेष्ठ बृहस्पतिर् इवामरान् तथा वसिष्ठेन सह सौदासः संगतस् तदा रक्षोभिर् विप्रयुक्तस् तु विश्वामित्रेण योजितैः तथा द्विजसहायाद् वै न गन्धर्वा न राक्षसाः शक्ताः प्रार्थयितुं वीर मनसापि महाबलाः तस्माद् धर्मप्रधानात्मा वेदधर्मविद् ईप्सितः ब्राह्मणो गुणवान् कश् चित् पुरोधाः प्रविमृश्यताम् क्षत्रियेण हि जातेन पृथिवीं जेतुम् इच्छता पूर्वं पुरोहितः कार्यः पार्थ राज्याभिवृद्धये महीं जिगीषता राज्ञा ब्रह्म कार्यं पुरःसरम् तस्मात् पुरोहितः कश् चिद् गुणवान् अस्तु वो द्विजः विद्वान् भवतु वो विप्रो धर्मकामार्थतत्त्ववित् अर्जुन उवाच किंनिमित्तम् अभूद् वैरं विश्वामित्रवसिष्ठयोः वसतोर् आश्रमे पुण्ये शंस नः सर्वम् एव तत् गन्धर्व उवाच इदं वासिष्ठम् आख्यानं पुराणं परिचक्षते पार्थ सर्वेषु लोकेषु यथावत् तन् निबोध मे कन्यकुब्जे महान् आसीत् पार्थिवो भरतर्षभ गाधीति विश्रुतो लोके सत्यधर्मपरायणः तस्य धर्मात्मनः पुत्रः समृद्धबलवाहनः विश्वामित्र इति ख्यातो बभूव रिपुमर्दनः स चचार सहामात्यो मृगयां गहने वने मृगान् विध्यन् वराहांश् च रम्येषु मरुधन्वसु व्यायामकर्शितः सो ऽथ मृगलिप्सुः पिपासितः आजगाम नरश्रेष्ठ वसिष्ठस्याश्रमं प्रति तम् आगतम् अभिप्रेक्ष्य वसिष्ठः श्रेष्ठभाग् ऋषिः विश्वामित्रं नरश्रेष्ठं प्रतिजग्राह पूजया पाद्यार्घ्याचमनीयेन स्वागतेन च भारत तथैव प्रतिजग्राह वन्येन हविषा तथा तस्याथ कामधुग् धेनुर् वसिष्ठस्य महात्मनः उक्ता कामान् प्रयच्छेति सा कामान् दुदुहे ततः बाष्पाढ्यस्यौदनस्यैव राशयः पर्वतोपमाः निष्ठान्नानि च सूपांश् च दधिकुल्यास् तथैव च कूपांश् च घृतसंपूर्णान् भक्ष्याणां राशयस् तथा भोजनानि महार्हाणि तत्र तत्र सहस्रशः इक्षून् मधु च लाजांश् च मैरेयांश् च वरासवान् वस्त्राणि च महार्हाणि कम्बलानि सहस्रशः ग्राम्यारण्या ओषधीश् च दुदुहे पय एव च षड्रसं चामृतरसं रसायनम् अनुत्तमम् भोजनीयानि पेयानि भक्ष्याणि विविधानि च लेह्यान्य् अमृतकल्पानि चोष्याणि च तथार्जुन रत्नानि च महार्हाणि वासांसि विविधानि च तैः कामैः सर्वसंपूर्णैः पूजितः स महीपतिः सामात्यः सबलश् चैव तुतोष स भृशं नृपः शिरो ग्रीवा सक्थिनी च सास्नापुच्छमहस्तनाः शुभान्य् एतानि धेनूनाम् आयतानि प्रचक्षते पृथुभिः पञ्चभी रङ्गैः समावृत्तां षडायताम् ललाटं श्रवणे चैव नयनद्वितयं तथा पृथून्य् एतानि शस्यन्ते धेनूनां पञ्च सूरिभिः मण्डूकस्यैवम् उच्छूने . . यस्याः षडायताम् षडायतां सुपार्श्वोरुं त्रिपृथुं पञ्च संवृताम् मण्डूकनेत्रां स्वाकारां पीनोधसम् अनिन्दिताम् सुवालधिं शङ्कुकर्णां चारुशृङ्गां मनोरमाम् पुष्टायतशिरोग्रीवां विस्मितः सो ऽभिवीक्ष्य ताम् सुपुष्टाङ्गीं सुयोनिकाम् संभृतोभयपार्श्वोरूं दीर्घवालां पृथूदराम् दृष्ट्वा गृष्टिम् ऋषेर् भूपो अभिनन्दति तां नन्दीं वसिष्ठस्य पयस्विनीम् अब्रवीच् च भृशं तुष्टो विश्वामित्रो मुनिं तदा अर्बुदेन गवां ब्रह्मन् मम राज्येन वा पुनः नन्दिनीं संप्रयच्छस्व भुङ्क्ष्व राज्यं महामुने वसिष्ठ उवाच देवतातिथिपित्रर्थम् आज्यार्थं च पयस्विनी अदेया नन्दिनीयं मे राज्येनापि तवानघ विश्वामित्र उवाच क्षत्रियो ऽहं भवान् विप्रस् तपःस्वाध्यायसाधनः ब्राह्मणेषु कुतो वीर्यं प्रशान्तेषु धृतात्मसु रत्नं हि भगवन्न् एतद् रत्नहारी च पार्थिवः अर्बुदेन गवां यस् त्वं न ददासि ममेप्सिताम् स्वधर्मं न प्रहास्यामि नयिष्ये ते बलेन गाम् क्षत्रियो ऽस्मि न विप्रो ऽहं बाहुवीर्यो ऽस्मि धर्मतः तस्माद् भुजबलेनेमां हरिष्यामीह पश्यतः अत्र हव्यं च कव्यं च प्राणयात्रा तथैव च आयत्तम् अग्निहोत्रं च आतिथ्यं च न संशयः बहुना किं प्रलापेन न दास्ये कामदोहिनीम् वसिष्ठ उवाच बलस्थश् चासि राजा च बाहुवीर्यश् च क्षत्रियः यथेच्छसि तथा क्षिप्रं कुरु त्वं मा विचारय रत्नद्वयं ब्राह्मणस्य नापहार्यं नृपैर् भुवि अग्निहोत्री च गौः पत्नी प्रजारणिर् अनुत्तमा गन्धर्व उवाच एवम् उक्तस् तदा पार्थ विश्वामित्रो बलाद् इव हंसचन्द्रप्रतीकाशां नन्दिनीं तां जहार गाम् सा तदा ह्रियमाणा च विश्वामित्रबलैर् बलात् कशादण्डप्रतिहता काल्यमाना ततस् ततः हम्भायमाना कल्याणी वसिष्ठस्याथ नन्दिनी आगम्याभिमुखी पार्थ तस्थौ भगवदुन्मुखी भृशं च ताड्यमानापि न जगामाश्रमात् ततः बलानि तेषां निर्धूय छित्वा पाशनिबन्धनम् आश्रमान् नैव गच्छन्ती हुम्भारावैर् ननाद च वसिष्ठ उवाच शृणोमि ते रवं भद्रे विनदन्त्याः पुनः पुनः बलाद् ध्रियसि मे नन्दि क्षमावान् ब्राह्मणो ह्य् अहम् विश्वामित्रेण नन्दिनि | किं कर्तव्यं मया तत्र अथैनां नन्दिनीं भूयो विश्वामित्रस्य सैनिकाः सर्वतः समकाल्यन्त कशापाषाणपाणयः गन्धर्व उवाच सा तु तेषां बलान् नन्दी बलानां भरतर्षभ विश्वामित्रभयोद्विग्ना वसिष्ठं समुपागमत् गौर् उवाच पाषाणदण्डाभिहतां क्रन्दन्तीं माम् अनाथवत् उपेक्षसे कथं ब्रह्मन् भक्तां पादाब्जसेविनीम् विश्वामित्रबलैर् घोरैर् भगवन् किम् उपेक्षसे गन्धर्व उवाच एवं तस्यां तदा पर्थ धर्षितायां महामुनिः न चुक्षुभे न धैर्याच् च विचचाल धृतव्रतः वसिष्ठ उवाच क्षत्रियाणां बलं तेजो ब्राह्मणानां क्षमा बलम् क्षमा मां भजते तस्माद् गम्यतां यदि रोचते गौर् उवाच किं नु त्यक्तास्मि भगवन् यद् एवं मां प्रभाषसे अत्यक्ताहं त्वया ब्रह्मन् न शक्या नयितुं बलात् वसिष्ठ उवाच न त्वां त्यजामि कल्याणि स्थीयतां यदि शक्यते दृढेन दाम्ना बद्ध्वैष वत्सस् ते ह्रियते बलात् येन केनाप्य् उपायेन त्वया वत्सो निवार्यताम् गन्धर्व उवाच स्थीयताम् इति तच् छ्रुत्वा वसिष्ठस्य पयस्विनी ऊर्ध्वाञ्चितशिरोग्रीवा प्रबभौ घोरदर्शना क्रोधरक्तेक्षणा सा गौर् हम्भारवघनस्वना विश्वामित्रस्य तत् सैन्यं व्यद्रावयत सर्वशः कशाग्रदण्डाभिहता काल्यमाना ततस् ततः क्रोधदीप्तेक्षणा क्रोधं भूय एव समादधे आदित्य इव मध्याह्ने क्रोधदीप्तवपुर् बभौ अङ्गारवर्षं मुञ्चन्ती मुहुर् वालधितो महत् असृजत् पह्लवान् पुच्छाच् छकृतः शबराञ् शकान् योनिदेशाच् च यवनाञ् छकृद्देशाच् छकांस् तथा मूत्रतश् चासृजच् चापि यवनान् क्रोधमूर्च्छिता बर्बरांश् चैव पार्श्वतः प्राणतः प्रासृजच् चेयं पुण्ड्रान् किरातान् द्रमिडान् सिंहलान् बर्बरांस् तथा चिबुकांश् च पुलिन्दांश् च चीनान् हूणान् सकेरलान् तथैव दरदान् म्लेच्छान् फेनतः सा ससर्ज ह तैर् विसृष्टैर् महत् सैन्यं नानाम्लेच्छगणैस् तदा नानावरणसंछन्नैर् नानायुधधरैस् तथा अवाकीर्यत संरब्धैर् विश्वामित्रस्य पश्यतः एकैकश् च तदा योधः पञ्चभिः सप्तभिर् वृतः अस्त्रवर्षेण महता काल्यमानं बलं ततः प्रभग्नं सर्वतस् त्रस्तं विश्वामित्रस्य पश्यतः तस्य तच् चतुरङ्गं वै बलं परमदुःसहम् प्रभग्नं सर्वतो घोरं पयस्विन्या विवर्जितम् न च प्राणैर् वियुज्यन्त के चित् ते सैनिकास् तदा विश्वामित्रस्य संक्रुद्धैर् वासिष्ठैर् भरतर्षभ सा गौस् तत् सकलं सैन्यं कालयाम् आस दूरतः विश्वामित्रस्य सैन्यं तु काल्यमानं त्रियोजनम् क्रोशमानं भयोद्विग्नं त्रातारं नाध्यगच्छत विश्वामित्रस् ततो दृष्ट्वा क्रोधाविष्टः स रोदसी ववर्ष शरवर्षाणि वसिष्ठे मुनिसत्तमे घोररूपांश् च नाराचान् क्षुरान् भल्लान् महामुनिः विश्वामित्रप्रयुक्तांस् तान् वैणवेन व्यमोचयत् वसिष्ठस्य तदा दृष्ट्वा कर्मकौशलम् आहवे विश्वामित्रो ऽपि कोपेन भूयः शत्रुनिपातनः दिव्यास्त्रवर्षं तस्मै स प्राहिणोन् मुनये रुषा आग्नेयं वारुणं चैन्द्रं याम्यं वायव्यम् एव च विससर्ज महाभागे वसिष्ठे ब्रह्मणः सुते अस्त्राणि सर्वतो ज्वाला विसृजन्तः प्रपेदिरे युगान्तसमये घोराः पतंगस्येव रश्मयः वसिष्ठो ऽपि महातेजा ब्रह्मशक्तिप्रयुक्तया यष्ट्या निवारयाम् आस सर्वाण्य् अस्त्राणि स स्मयन् ततस् ते भस्मसाद् भूताः पतन्ति स्म महीतले अपोह्य दिव्यान्य् अस्त्राणि वसिष्ठो वाक्यम् अब्रवीत् निर्जितो ऽसि महाराज दुरात्मन् गाधिनन्दन यदि ते ऽस्ति परं शौर्यं तद् दर्शय मयि स्थिते विश्वामित्रस् तथा चोक्तो वसिष्ठेन नराधिपः नोवाच किं चिद् व्रीडाढ्यो विद्रावितमहाबलः दृष्ट्वा तन् महद् आश्चर्यं ब्रह्मतेजोभवं तदा विश्वामित्रः क्षत्रभावान् निर्विण्णो वाक्यम् अब्रवीत् धिग् बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम् बलाबलं विनिश्चित्य तप एव परं बलम् स राज्यं स्फीतम् उत्सृज्य तां च दीप्तां नृपश्रियम् भोगांश् च पृष्ठतः कृत्वा तपस्य् एव मनो दधे स गत्वा तपसा सिद्धिं लोकान् विष्टभ्य तेजसा तताप सर्वान् दीप्तौजा ब्राह्मणत्वम् अवाप च अपिबच् च सुतं सोमम् इन्द्रेण सह कौशिकः एवंवीर्यस् तु राजर्षिर् विप्रर्षिः संबभूव ह अर्जुनः ऋष्योस् तु यत्कृते वैरं विश्वामित्रवसिष्ठयोः बभूव गन्धर्वपते ब्रूहि तत् सर्वम् एव च माहात्म्यं च वसिष्ठस्य ब्राह्मण्यं ब्रह्मतेजसः विश्वामित्रस्य च तथा क्षत्रियस्य महात्मनः न शृण्वानस् त्व् अहं तृप्तिम् उपगच्छामि खेचर आख्याहि गन्धर्वपते विचित्राणीह भाषसे माहात्म्यं च वसिष्ठस्य विश्वामित्रस्य भाषसे गन्धर्व उवाच कल्माषपाद इत्य् अस्मिंल् लोके राजा बभूव ह इक्ष्वाकुवंशजः पार्थ तेजसासदृशो भुवि नास्ति तत्र महाराज वैश्वानरसमद्युतेः स कदा चिद् वनं राजा मृगयां निर्ययौ पुरात् मृगान् विध्यन् वराहांश् च चचार रिपुमर्दनः तस्मिन् वने महाघोरे खड्गांश् च बहुशो ऽहनत् हत्वा च सुचिरं श्रान्तो राजा निववृते ततः अकामयत् तं याज्यार्थे विश्वामित्रः प्रतापवान् स तु राजा महात्मानं वासिष्ठम् ऋषिसत्तमम् तृषार्तश् च क्षुधार्तश् च एकायनगतः पथि अपश्यद् अजितः संख्ये मुनिं प्रतिमुखागतम् शक्तिं नाम महाभागं वसिष्ठकुलनन्दनम् ज्येष्ठं पुत्रशतात् पुत्रं वसिष्ठस्य महात्मनः अपगच्छ पथो ऽस्माकम् इत्य् एवं पार्थिवो ऽब्रवीत् तथा ऋषिर् उवाचैनं सान्त्वयञ् श्लक्ष्णया गिरा मम पन्था महाराज धर्म एष सनातनः राज्ञा सर्वेषु धर्मेषु देयः पन्था द्विजातये एवं परस्परं तौ तु पथो ऽर्थं वाक्यम् ऊचतुः अपसर्पापसर्पेति वागुत्तरम् अकुर्वताम् ऋषिस् तु नापचक्राम तस्मिन् धर्मपथे स्थितः नापि राजा मुनेर् मानात् क्रोधाच् चापि जगाम ह अमुञ्चन्तं तु पन्थानं तम् ऋषिं नृपसत्तमः जघान कशया मोहात् तदा राक्षसवन् मुनिम् कशाप्रहाराभिहतस् ततः स मुनिसत्तमः तं शशाप नृपश्रेष्ठं वासिष्ठः क्रोधमूर्च्छितः हंसि राक्षसवद् यस्माद् राजापसद तापसम् तस्मात् त्वम् अद्य प्रभृति पुरुषादो भविष्यसि मनुष्यपिशिते सक्तश् चरिष्यसि महीम् इमाम् गच्छ राजाधमेत्य् उक्तः शक्तिना वीर्यशक्तिना ततो याज्यनिमित्तं तु विश्वामित्रवसिष्ठयोः वैरम् आसीत् तदा तं तु विश्वामित्रो ऽन्वपद्यत तयोर् विवदतोर् एवं समीपम् उपचक्रमे ऋषिर् उग्रतपाः पार्थ विश्वामित्रः प्रतापवान् ततः स बुबुधे पश्चात् तम् ऋषिं नृपसत्तमः ऋषेः पुत्रं वसिष्ठस्य वसिष्ठम् इव तेजसा अन्तर्धाय तदात्मानं विश्वामित्रो ऽपि भारत ताव् उभाव् उपचक्राम चिकीर्षन्न् आत्मनः प्रियम् स तु शप्तस् तदा तेन शक्तिना वै नृपोत्तमः तस्थौ तत्र च राजा तु सविषादो बभूव ह शापान्तो द्वादशे वर्षे तव राजन् भविष्यति उक्तस् तु शक्त्रिणा राजा स तु तत्रैव संस्थितः जगाम शरणं शक्तिं प्रसादयितुम् अर्हयन् तस्य भावं विदित्वा स नृपतेः कुरुनन्दन विश्वामित्रस् ततो रक्ष आदिदेश नृपं प्रति स शापात् तस्य विप्रर्षेर् विश्वामित्रस्य चाज्ञया राक्षसः किंकरो नाम विवेश नृपतिं तदा रक्षसा तु गृहीतं तं विदित्वा स मुनिस् तदा विश्वामित्रो ऽप्य् अपक्रामत् तस्माद् देशाद् अरिंदम ततः स नृपतिर् विद्वान् रक्षन्न् आत्मानम् आत्मना बलवत् पीड्यमानो ऽपि रक्षसान्तर्गतेन ह ददर्श तं द्विजः कश् चिद् राजानं प्रस्थितं पुनः ययाचे क्षुधितश् चैनं समांसं भोजनं तदा तम् उवाचाथ राजर्षिर् द्विजं मित्रसहस् तदा आस्स्व ब्रह्मंस् त्वम् अत्रैव मुहूर्तम् इति सान्त्वयन् निवृत्तः प्रतिदास्यामि भोजनं ते यथेप्सितम् इत्य् उक्त्वा प्रययौ राजा तस्थौ च द्विजसत्तमः अन्तर्गतं तु तद् राज्ञस् तदा ब्राह्मणभाषितम् सो ऽन्तःपुरं प्रविश्याथ संविवेश नराधिपः ततो राजा परिक्रम्य यथाकामं यथासुखम् निवृत्तो ऽन्तःपुरं पार्थ प्रविवेश महामनाः ततो ऽर्धरात्र उत्थाय सूदम् आनाय्य सत्वरम् उवाच राजा संस्मृत्य ब्राह्मणस्य प्रतिश्रुतम् गच्छामुष्मिन्न् असौ देशे ब्राह्मणो मां प्रतीक्षते अन्नार्थी त्वं तम् अन्नेन समांसेनोपपादय एवम् उक्तस् तदा सूदः सो ऽनासाद्यामिषं क्व चित् निवेदयाम् आस तदा तस्मै राज्ञे व्यथान्वितः राजा तु रक्षसाविष्टः सूदम् आह गतव्यथः अप्य् एनं नरमांसेन भोजयेति पुनः पुनः तथेत्य् उक्त्वा ततः सूदः संस्थानं वध्यघातिनाम् गत्वा जहार त्वरितो नरमांसम् अपेतभीः स तत् संस्कृत्य विधिवद् अन्नोपहितम् आशु वै तस्मै प्रादाद् ब्राह्मणाय क्षुधिताय तपस्विने स सिद्धचक्षुषा दृष्ट्वा तदन्नं द्विजसत्तमः अभोज्यम् इदम् इत्य् आह क्रोधपर्याकुलेक्षणः यस्माद् अभोज्यम् अन्नं मे ददाति स नराधिपः तस्मात् तस्यैव मूढस्य भविष्यत्य् अत्र लोलुपा सक्तो मानुषमांसेषु यथोक्तः शक्तिना पुरा उद्वेजनीयो भूतानां चरिष्यति महीम् इमाम् द्विर् अनुव्याहृते राज्ञः स शापो बलवान् अभूत् रक्षोबलसमाविष्टो विसंज्ञश् चाभवत् तदा ततः स नृपतिश्रेष्ठो राक्षसोपहतेन्द्रियः उवाच शक्तिं तं दृष्ट्वा नचिराद् इव भारत यस्माद् असदृशः शापः प्रयुक्तो ऽयं त्वया मयि तस्मात् त्वत्तः प्रवर्तिष्ये खादितुं मानुषान् अहम् एवम् उक्त्वा ततः सद्यस् तं प्राणैर् विप्रयुज्य सः शक्तिनं भक्षयाम् आस व्याघ्रः पशुम् इवेप्सितम् शक्तिनं तु हतं दृष्ट्वा विश्वामित्रस् ततः पुनः वसिष्ठस्यैव पुत्रेषु तद् रक्षः संदिदेश ह स ताञ् शतावरान् पुत्रान् वसिष्ठस्य महात्मनः भक्षयाम् आस संक्रुद्धः सिंहः क्षुद्रमृगान् इव वसिष्ठो घातिताञ् श्रुत्वा विश्वामित्रेण तान् सुतान् धारयाम् आस तं शोकं महाद्रिर् इव मेदिनीम् चक्रे चात्मविनाशाय बुद्धिं स मुनिसत्तमः न त्व् एव कुशिकोच्छेदं मेने मतिमतां वरः स मेरुकूटाद् आत्मानं मुमोच भगवान् ऋषिः शिरस् तस्य शिलायां च तूलराशाव् इवापतत् न ममार च पातेन स यदा तेन पाण्डव तदाग्निम् इद्ध्वा भगवान् संविवेश महावने तं तदा सुसमिद्धो ऽपि न ददाह हुताशनः दीप्यमानो ऽप्य् अमित्रघ्न शीतो ऽग्निर् अभवत् ततः स समुद्रम् अभिप्रेत्य शोकाविष्टो महामुनिः बद्ध्वा कण्ठे शिलां गुर्वीं निपपात तदम्भसि स समुद्रोर्मिवेगेन स्थले न्यस्तो महामुनिः न ममार तदा विप्रः कथं चित् संशितव्रतः जगाम स ततः खिन्नः पुनर् एवाश्रमं प्रति गन्धर्व उवाच ततो दृष्ट्वाश्रमपदं रहितं तैः सुतैर् मुनिः निर्जगाम सुदुःखार्तः पुनर् एवाश्रमात् ततः सो ऽपश्यत् सरितं पूर्णां प्रावृट्काले नवाम्भसा वृक्षान् बहुविधान् पार्थ वहन्तीं तीरजान् बहून् अथ चिन्तां समापेदे पुनः पौरवनन्दन अम्भस्य् अस्या निमज्जेयम् इति दुःखसमन्वितः ततः पाशैस् तदात्मानं गाढं बद्ध्वा महामुनिः तस्या जले महानद्या निममज्ज सुदुःखितः अथ छित्त्वा नदी पाशांस् तस्यारिबलमर्दन समस्थं तम् ऋषिं कृत्वा विपाशं समवासृजत् उत्ततार ततः पाशैर् विमुक्तः स महान् ऋषिः विपाशेति च नामास्या नद्याश् चक्रे महान् ऋषिः सा विपाशेति विख्याता नदी लोकेषु भारत ऋषेस् तस्य नरव्याघ्र वचनात् तस्य धीमतः उत्तीर्य च ततो राजन् दुःखितो भगवान् ऋषिः शोके बुद्धिं ततश् चक्रे न चैकत्र व्यतिष्ठत सो ऽगच्छत् पर्वतांश् चैव सरितश् च सरांसि च ततः स पुनर् एवर्षिर् नदीं हैमवतीं तदा चण्डग्राहवतीं दृष्ट्वा तस्याः स्रोतस्य् अवापतत् मज्जयाम् आस शोकार्तो मरणे कृतनिश्चयः सा तम् अग्निसमं विप्रम् अनुचिन्त्य सरिद्वरा शतधा विद्रुता यस्माच् छतद्रुर् इति विश्रुता ततः स्थलगतं दृष्ट्वा तत्राप्य् आत्मानम् आत्मना मर्तुं न शक्यम् इत्य् उक्त्वा पुनर् एवाश्रमं ययौ स गत्वा विविधाञ् शैलान् देशान् बहुविधांस् तथा वध्वादृश्यन्त्यानुगत आश्रमाभिमुखो व्रजन् अथ शुश्राव संगत्या वेदाध्ययननिःस्वनम् पृष्ठतः परिपूर्णार्थैः षड्भिर् अङ्गैर् अलंकृतम् अनुव्रजति को न्व् एष माम् इत्य् एव च सो ऽब्रवीत् अहं त्व् अदृश्यती नाम्ना तं स्नुषा प्रत्यभाषत शक्तेर् भार्या महाभाग तपोयुक्ता तपस्विनी वसिष्ठ उवाच पुत्रि कस्यैष साङ्गस्य वेदस्याध्ययनस्वनः पुरा साङ्गस्य वेदस्य शक्तेर् इव मया श्रुतः अदृश्यन्त्य् उवाच अयं कुक्षौ समुत्पन्नः शक्तेर् गर्भः सुतस्य ते समा द्वादश तस्येह वेदान् अभ्यसतो मुने गन्धर्व उवाच एवम् उक्तस् ततो हृष्टो वसिष्ठः श्रेष्ठभाग् ऋषिः अस्ति संतानम् इत्य् उक्त्वा मृत्योः पार्थ न्यवर्तत ततः प्रतिनिवृत्तः स तया वध्वा सहानघ कल्माषपादम् आसीनं ददर्श विजने वने स तु दृष्ट्वैव तं राजा क्रुद्ध उत्थाय भारत आविष्टो रक्षसोग्रेण इयेषात्तुं ततः स्म तम् अदृश्यन्ती तु तं दृष्ट्वा क्रूरकर्माणम् अग्रतः भयसंविग्नया वाचा वसिष्ठम् इदम् अब्रवीत् असौ मृत्युर् इवोग्रेण दण्डेन भगवन्न् इतः प्रगृहीतेन काष्ठेन राक्षसो ऽभ्येति भीषणः तं निवारयितुं शक्तो नान्यो ऽस्ति भुवि कश् चन त्वद् ऋते ऽद्य महाभाग सर्ववेदविदां वर त्राहि मां भगवन् पापाद् अस्माद् दारुणदर्शनात् रक्षो अत्तुम् इह ह्य् आवां नूनम् एतच् चिकीर्षति वसिष्ठ उवाच मा भैः पुत्रि न भेतव्यं रक्षसस् ते कथं चन नैतद् रक्षो भयं यस्मात् पश्यसि त्वम् उपस्थितम् राजा कल्माषपादो ऽयं वीर्यवान् प्रथितो भुवि स एषो ऽस्मिन् वनोद्देशे निवसत्य् अतिभीषणः गन्धर्व उवाच तम् आपतन्तं संप्रेक्ष्य वसिष्ठो भगवान् ऋषिः वारयाम् आस तेजस्वी हुंकरेणैव भारत मन्त्रपूतेन च पुनः स तम् अभ्युक्ष्य वारिणा मोक्षयाम् आस वै घोराद् राक्षसाद् राजसत्तमम् स हि द्वादश वर्षाणि वसिष्ठस्यैव तेजसा ग्रस्त आसीद् गृहेणेव पर्वकाले दिवाकरः रक्षसा विप्रमुक्तो ऽथ स नृपस् तद् वनं महत् तेजसा रञ्जयाम् आस संध्याभ्रम् इव भास्करः प्रतिलभ्य ततः संज्ञाम् अभिवाद्य कृताञ्जलिः उवाच नृपतिः काले वसिष्ठम् ऋषिसत्तमम् सौदासो ऽहं महाभाग याज्यस् ते द्विजसत्तम अस्मिन् काले यद् इष्टं ते ब्रूहि किं करवाणि ते वसिष्ठ उवाच वृत्तम् एतद् यथाकालं गच्छ राज्यं प्रशाधि तत् ब्राह्मणांश् च मनुष्येन्द्र मावमंस्थाः कदा चन राजोवाच नावमंस्याम्य् अहं ब्रह्मन् कदा चिद् ब्राह्मणर्षभान् त्वन् निदेशे स्थितः शश्वत् पुजयिष्याम्य् अहं द्विजान् इक्ष्वाकूणां तु येनाहम् अनृणः स्यां द्विजोत्तम तत् त्वत्तः प्राप्तुम् इच्छामि वरं वेदविदां वर अपत्यायेप्सितां मह्यं महिषीं गन्तुम् अर्हसि शीलरूपगुणोपेताम् इक्ष्वाकुकुलवृद्धये गन्धर्व उवाच ददानीत्य् एव तं तत्र राजानं प्रत्युवाच ह वसिष्ठः परमेष्वासं सत्यसंधो द्विजोत्तमः ततः प्रतिययौ काले वसिष्ठसहितो ऽनघ ख्यातं पुरवरं लोकेष्व् अयोध्यां मनुजेश्वरः तं प्रजाः प्रतिमोदन्त्यः सर्वाः प्रत्युद्ययुस् तदा विपाप्मानं महात्मानं दिवौकस इवेश्वरम् अचिरात् स मनुष्येन्द्रो नगरीं पुण्यकर्मणाम् विवेश सहितस् तेन वसिष्ठेन महात्मना ददृशुस् तं ततो राजन्न् अयोध्यावासिनो जनाः पुष्येण सहितं काले दिवाकरम् इवोदितम् स हि तां पूरयाम् आस लक्ष्म्या लक्ष्मीवतां वरः अयोध्यां व्योम शीतांशुः शरत्काल इवोदितः संसिक्तमृष्टपन्थानं पताकोच्छ्रयभूषितम् मनः प्रह्लादयाम् आसा तस्य तत् पुरम् उत्तमम् तुष्टपुष्टजनाकीर्णा सा पुरी कुरुनन्दन अशोभत तदा तेन शक्रेणेवामरावती ततः प्रविष्टे राजेन्द्रे तस्मिन् राजनि तां पुरीम् तस्य राज्ञो ऽऽज्ञया देवी वसिष्ठम् उपचक्रमे ऋताव् अथ महर्षिः स संबभूव तया सह देव्या दिव्येन विधिना वसिष्ठः श्रेष्ठभाग् ऋषिः अथ तस्यां समुत्पन्ने गर्भे स मुनिसत्तमः राज्ञाभिवादितस् तेन जगाम पुनर् आश्रमम् दीर्घकालधृतं गर्भं सुषाव न तु तं यदा साथ देव्य् अश्मना कुक्षिं निर्बिभेद तदा स्वकम् द्वादशे ऽथ ततो वर्षे स जज्ञे मनुजर्षभ अश्मको नाम राजर्षिः पोतनं यो न्यवेशयत् गन्धर्व उवाच आश्रमस्था ततः पुत्रम् अदृश्यन्ती व्यजायत शक्तेः कुलकरं राजन् द्वितीयम् इव शक्तिनम् जातकर्मादिकास् तस्य क्रियाः स मुनिपुंगवः पौत्रस्य भरतश्रेष्ठ चकार भगवान् स्वयम् परासुश् च यतस् तेन वसिष्ठः स्थापितस् तदा गर्भस्थेन ततो लोके पराशर इति स्मृतः अमन्यत स धर्मात्मा वसिष्ठं पितरं तदा जन्मप्रभृति तस्मिंश् च पितरीव व्यवर्तत स तात इति विप्रर्षिं वसिष्ठं प्रत्यभाषत मातुः समक्षं कौन्तेय अदृश्यन्त्याः परंतप तातेति परिपूर्णार्थं तस्य तन् मधुरं वचः अदृश्यन्त्य् अश्रुपूर्णाक्षी शृण्वन्ती तम् उवाच ह मा तात तात तातेति न ते तातो महामुनिः रक्षसा भक्षितस् तात तव तातो वनान्तरे मन्यसे यं तु तातेति नैष तातस् तवानघ आर्यस् त्व् एष पिता तस्य पितुस् तव महात्मनः स एवम् उक्तो दुःखार्तः सत्यवाग् ऋषिसत्तमः सर्वलोकविनाशाय मतिं चक्रे महामनाः तं तथा निश्चितात्मानं महात्मानं महातपाः ऋषिर् ब्रह्मविदां श्रेष्ठो मैत्रावरुणिर् अन्त्यधीः वसिष्ठो वारयाम् आस हेतुना येन तच् छृणु वसिष्ठ उवाच कृतवीर्य इति ख्यातो बभूव नृपतिः क्षितौ याज्यो वेदविदां लोके भृगूणां पार्थिवर्षभः स तान् अग्रभुजस् तात धान्येन च धनेन च सोमान्ते तर्पयाम् आस विपुलेन विशां पतिः तस्मिन् नृपतिशार्दूले स्वर्याते ऽथ कदा चन बभूव तत्कुलेयानां द्रव्यकार्यम् उपस्थितम् ते भृगूणां धनं ज्ञात्वा राजानः सर्व एव ह याचिष्णवो ऽभिजग्मुस् तांस् तात भार्गवसत्तमान् भूमौ तु निदधुः के चिद् भृगवो धनम् अक्षयम् ददुः के चिद् द्विजातिभ्यो ज्ञात्वा क्षत्रियतो भयम् भृगवस् तु ददुः के चित् तेषां वित्तं यथेप्सितम् क्षत्रियाणां तदा तात कारणान्तरदर्शनात् ततो महीतलं तात क्षत्रियेण यदृच्छया खनताधिगतं वित्तं केन चिद् भृगुवेश्मनि तद् वित्तं ददृशुः सर्वे समेताः क्षत्रियर्षभाः अवमन्य ततः कोपाद् भृगूंस् ताञ् शरणागतान् निजघ्नुस् ते महेष्वासाः सर्वांस् तान् निशितैः शरैः आ गर्भाद् अनुकृन्तन्तश् चेरुश् चैव वसुंधराम् तत उच्छिद्यमानेषु भृगुष्व् एवं भयात् तदा भृगुपत्न्यो गिरिं तात हिमवन्तं प्रपेदिरे तासाम् अन्यतमा गर्भं भयाद् दाधार तैजसम् ऊरुणैकेन वामोरूर् भर्तुः कुलविवृद्धये तद्गर्भम् उपलभ्याशु ब्राह्मणी या भयार्दिता गत्वैका कथयाम् आस क्षत्रियाणाम् उपह्वरे ततस् ते क्षत्रिया जग्मुस् तं गर्भं हन्तुम् उद्यताः ददृशुर् ब्राह्मणीं तां ते दीप्यमानां स्वतेजसा अथ गर्भः स भित्त्वोरुं ब्राह्मण्या निर्जगाम ह मुष्णन् दृष्टीः क्षत्रियाणां मध्याह्न इव भास्करः ततश् चक्षुर्वियुक्तास् ते गिरिदुर्गेषु बभ्रमुः ततस् ते मोघसंकल्पा भयार्ताः क्षत्रियर्षभाः ब्रह्मणीं शरणं जग्मुर् दृष्ट्यर्थं ताम् अनिन्दिताम् ऊचुश् चैनां महाभागां क्षत्रियास् ते विचेतसः ज्योतिःप्रहीणा दुःखार्ताः शान्तार्चिष इवाग्नयः भगवत्याः प्रसादेन गच्छेत् क्षत्रं सचक्षुषम् उपारम्य च गच्छेम सहिताः पापकर्मणः सपुत्रा त्वं प्रसादं नः सर्वेषां कर्तुम् अर्हसि पुनर् दृष्टिप्रदानेन राज्ञः संत्रातुम् अर्हसि ब्राह्मण्य् उवाच नाहं गृह्णामि वस् तात दृष्टीर् नास्ति रुषान्विता अयं तु भार्गवो नूनम् ऊरुजः कुपितो ऽद्य वः तेन चक्षूंषि वस् तात नूनं कोपान् महात्मना स्मरता निहतान् बन्धून् आदत्तानि न संशयः गर्भान् अपि यदा यूयं भृगूणां घ्नत पुत्रकाः तदायम् ऊरुणा गर्भो मया वर्षशतं धृतः षडङ्गश् चाखिलो वेद इमं गर्भस्थम् एव हि विवेश भृगुवंशस्य भूयः प्रियचिकीर्षया सो ऽयं पितृवधान् नूनं क्रोधाद् वो हन्तुम् इच्छति तेजसा यस्य दिव्येन चक्षूंषि मुषितानि वः तम् इमं तात याचध्वम् और्वं मम सुतोत्तमम् अयं वः प्रणिपातेन तुष्टो दृष्टीर् विमोक्ष्यति गन्धर्व उवाच एवम् उक्तास् ततः सर्वे राजानस् ते तम् ऊरुजम् ऊचुः प्रसीदेति तदा प्रसादं च चकार सः अनेनैव च विख्यातो नाम्ना लोकेषु सत्तमः स और्व इति विप्रर्षिर् ऊरुं भित्त्वा व्यजायत चक्षूंषि प्रतिलभ्याथ प्रतिजग्मुस् ततो नृपाः भार्गवस् तु मुनिर् मेने सर्वलोकपराभवम् स चक्रे तात लोकानां विनाशाय महामनाः सर्वेषाम् एव कार्त्स्न्येन मनः प्रवणम् आत्मनः इच्छन्न् अपचितिं कर्तुं भृगूणां भृगुसत्तमः सर्वलोकविनाशाय तपसा महतैधितः तापयाम् आस लोकान् स सदेवासुरमानुषान् तपसोग्रेण महता नन्दयिष्यन् पितामहान् ततस् तं पितरस् तात विज्ञाय भृगुसत्तमम् पितृलोकाद् उपागम्य सर्व ऊचुर् इदं वचः और्व दृष्टः प्रभावस् ते तपसोग्रस्य पुत्रक प्रसादं कुरु लोकानां नियच्छ क्रोधम् आत्मनः नानीशैर् हि तदा तात भृगुभिर् भावितात्मभिः वधो ऽभ्युपेक्षितः सर्वैः क्षत्रियाणां विहिंसताम् आयुषा हि प्रकृष्टेन यदा नः खेद आविशत् तदास्माभिर् वधस् तात क्षत्रियैर् ईप्सितः स्वयम् निखातं तद् धि वै वित्तं केन चिद् भृगुवेश्मनि वैरायैव तदा न्यस्तं क्षत्रियान् कोपयिष्णुभिः किं हि वित्तेन नः कार्यं स्वर्गेप्सूनां द्विजर्षभ यद् अस्माकं धनाध्यक्षः प्रभूतं धनम् आहरत् यदा तु मृत्युर् आदातुं न नः शक्नोति सर्वशः तदास्माभिर् अयं दृष्ट उपायस् तात संमतः आत्महा च पुमांस् तात न लोकांल् लभते शुभान् ततो ऽस्माभिः समीक्ष्यैवं नात्मनात्मा विनाशितः एतस्य परिहारार्थं त्वं तु धर्मं समाचर न चैतन् नः प्रियं तात यद् इदं कर्तुम् इच्छसि नियच्छेदं मनः पापात् सर्वलोकपराभवात् न हि नः क्षत्रियाः के चिन् न लोकाः सप्त पुत्रक दूषयन्ति तपस् तेजः क्रोधम् उत्पतितं जहि और्व उवाच उक्तवान् अस्मि यां क्रोधात् प्रतिज्ञां पितरस् तदा सर्वलोकविनाशाय न सा मे वितथा भवेत् वृथारोषप्रतिज्ञो हि नाहं जीवितुम् उत्सहे अनिस्तीर्णो हि मां रोषो दहेद् अग्निर् इवारणिम् यो हि कारणतः क्रोधं संजातं क्षन्तुम् अर्हति नालं स मनुजः सम्यक् त्रिवर्गं परिरक्षितुम् अशिष्टानां नियन्ता हि शिष्टानां परिरक्षता स्थाने रोषः प्रयुक्तः स्यान् नृपैः स्वर्गजिगीषुभिः अश्रौषम् अहम् ऊरुस्थो गर्भशय्यागतस् तदा आरावं मातृवर्गस्य भृगूणां क्षत्रियैर् वधे सामरैर् हि यदा लोकैर् भृगूणां क्षत्रियाधमैः आगर्भोत्सादनं क्षान्तं तदा मां मन्युर् आविषत् आपूर्णकोशाः किल मे मातरः पितरस् तथा भयात् सर्वेषु लोकेषु नाधिजग्मुः परायणम् तान् भृगूणां तदा दारान् कश् चिन् नाभ्यवपद्यत यदा तदा दधारेयम् ऊरुणैकेन मां शुभा प्रतिषेद्धा हि पापस्य यदा लोकेषु विद्यते तदा सर्वेषु लोकेषु पापकृन् नोपपद्यते यदा तु प्रतिषेद्धारं पापो न लभते क्व चित् तिष्ठन्ति बहवो लोके तदा पापेषु कर्मसु जानन्न् अपि च यः पापं शक्तिमान् न नियच्छति ईशः सन् सो ऽपि तेनैव कर्मणा संप्रयुज्यते राजभिश् चेश्वरैश् चैव यदि वै पितरो मम शक्तैर् न शकिता त्रातुम् इष्टं मत्वेह जीवितम् अत एषाम् अहं क्रुद्धो लोकानाम् ईश्वरो ऽद्य सन् भवतां तु वचो नाहम् अलं समतिवर्तितुम् मम चापि भवेद् एतद् ईश्वरस्य सतो महत् उपेक्षमाणस्य पुनर् लोकानां किल्बिषाद् भयम् यश् चायं मन्युजो मे ऽग्निर् लोकान् आदातुम् इच्छति दहेद् एष च माम् एव निगृहीतः स्वतेजसा भवतां च विजानामि सर्वलोकहितेप्सुताम् तस्माद् विदध्वं यच् छ्रेयो लोकानां मम चेश्वराः पितर ऊचुः य एष मन्युजस् ते ऽग्निर् लोकान् आदातुम् इच्छति अप्सु तं मुञ्च भद्रं ते लोका ह्य् अप्सु प्रतिष्ठिताः कुरु तात वचो ऽस्माकं मा लोकान् हिंसि चाधुना आपोमयाः सर्वरसाः सर्वम् आपोमयं जगत् तस्माद् अप्सु विमुञ्चेमं क्रोधाग्निं द्विजसत्तम अयं तिष्ठतु ते विप्र यदीच्छसि महोदधौ मन्युजो ऽग्निर् दहन्न् आपो लोका ह्य् आपोमयाः स्मृताः एवं प्रतिज्ञा सत्येयं तवानघ भविष्यति न चैव सामरा लोका गमिष्यन्ति पराभवम् वसिष्ठ उवाच ततस् तं क्रोधजं तात और्वो ऽग्निं वरुणालये उत्ससर्ज स चैवाप उपयुङ्क्ते महोदधौ महद् धयशिरो भूत्वा यत् तद् वेदविदो विदुः तम् अग्निम् उद्गिरन् वक्त्रात् पिबत्य् आपो महोदधौ तस्मात् त्वम् अपि भद्रं ते न लोकान् हन्तुम् अर्हसि पराशर परान् धर्माञ् जानञ् ज्ञानवतां वर गन्धर्व उवाच एवम् उक्तः स विप्रर्षिर् वसिष्ठेन महात्मना न्ययच्छद् आत्मनः कोपं सर्वलोकपराभवात् ईजे च स महातेजाः सर्ववेदविदां वरः ऋषी राक्षससत्रेण शाक्तेयो ऽथ पराशरः ततो वृद्धांश् च बालांश् च राक्षसान् स महामुनिः ददाह वितते यज्ञे शक्तेर् वधम् अनुस्मरन् न हि तं वारयाम् आस वसिष्ठो रक्षसां वधात् द्वितीयाम् अस्य मा भाङ्क्षं प्रतिज्ञाम् इति निश्चयात् त्रयाणां पावकानां स सत्रे तस्मिन् महामुनिः आसीत् पुरस्ताद् दीप्तानां चतुर्थ इव पावकः तेन यज्ञेन शुभ्रेण हूयमानेन युक्तितः तद् विदीपितम् आकाशं सूर्येणेव घनात्यये तं वसिष्ठादयः सर्वे मुनयस् तत्र मेनिरे तेजसा दिवि दीप्यन्तं द्वितीयम् इव भास्करम् ततः परमदुष्प्रापम् अन्यैर् ऋषिर् उदारधीः समापिपयिषुः सत्रं तम् अत्रिः समुपागमत् तथा पुलस्त्यः पुलहः क्रतुश् चैव महाक्रतुम् उपाजग्मुर् अमित्रघ्न रक्षसां जीवितेप्सया पुलस्त्यस् तु वधात् तेषां रक्षसां भरतर्षभ उवाचेदं वचः पार्थ पराशरम् अरिंदमम् कच्चित् तातापविघ्नं ते कच्चिन् नन्दसि पुत्रक अजानताम् अदोषाणां सर्वेषां रक्षसां वधात् प्रजोच्छेदम् इमं मह्यं सर्वं सोमपसत्तम नैष तात द्विजातीनां धर्मो दृष्टस् तपस्विनाम् शम एव परो धर्मस् तम् आचर पराशर अधर्मिष्ठं वरिष्ठः सन् कुरुषे त्वं पराशर शक्तिनं चापि धर्मज्ञ नातिक्रान्तुम् इहार्हसि प्रजानां च ममोच्छेदं न चैवं कर्तुम् अर्हसि शापाद् धि शक्तेर् वासिष्ठ तत् तावद् उपपादितम् आत्मजेन सरोषेण शक्तिर् नीत इतो दिवम् न हि तं राक्षसः कश् चिच् छक्तो भक्षयितुं मुने आत्मनैवात्मनस् तेन सृष्टो मृत्युस् तदाभवत् निमित्तभूतस् तत्रासीद् विश्वामित्रः पराशर वासिष्ठा भक्षिताश् चासन् कौशिकोत्सृष्टरक्षसा शापं न कुर्वन्ति तदा वाक्शस्त्रा यत् परायणम् क्षमावन्तो ऽदहन् देहं देहम् अन्यं व्रजन्ति हि राजा कल्माषपादश् च दिवम् आरोढुम् इच्छति ये च शक्त्यवराः पुत्रा वसिष्ठस्य महामुनेः ते च सर्वे मुदा युक्ता मोदन्ते सहिताः सुरैः सर्वम् एतद् वसिष्ठस्य विदितं वै महामुने रक्षसां च समुच्छेद एष तात तपस्विनाम् निमित्तभूतस् त्वं चात्र क्रतौ वासिष्ठनन्दन स सत्रं मुञ्च भद्रं ते समाप्तम् इदम् अस्तु ते एवम् उक्तः पुलस्त्येन वसिष्ठेन च धीमता तदा समापयाम् आस सत्रं शाक्तिः पराशरः सर्वराक्षससत्राय संभृतं पावकं मुनिः उत्तरे हिमवत्पार्श्वे उत्ससर्ज महावने स तत्राद्यापि रक्षांसि वृक्षान् अश्मान एव च भक्षयन् दृश्यते वह्निः सदा पर्वणि पर्वणि गन्धर्वः पुनश् चैव महातेजा विश्वामित्रजिघांसया अग्निं संभृतवान् घोरं शाक्तेयः सुमहातपाः वासिष्ठसंभृतश् चाग्निर् विश्वामित्रहितैषिणा तेजसा वह्नितुल्येन ग्रस्तः स्कन्देन धीमता अर्जुन उवाच राज्ञा कल्माषपादेन गुरौ ब्रह्मविदां वरे कारणं किं पुरस्कृत्य भार्या वै संनियोजिता जानता च परं धर्मं लोक्यं तेन महात्मना अगम्यागमनं कस्माद् वसिष्ठेन महात्मना अधर्मिष्ठं वसिष्ठेन कृतं चापि पुरा सखे तत्र मे संशयो जातः कार्याकार्यविनिश्चये कृतं तेन पुरा सर्वं वक्तुम् अर्हसि पृच्छतः गन्धर्व उवाच धनंजय निबोधेदं यन् मां त्वं परिपृच्छसि वसिष्ठं प्रति दुर्धर्षं तथामित्रसहं नृपम् कथितं ते मया पूर्वं यथा शप्तः स पार्थिवः शक्तिना भरतश्रेष्ठ वासिष्ठेन महात्मना स तु शापवशं प्राप्तः क्रोधपर्याकुलेक्षणः निर्जगाम पुराद् राजा सहदारः परंतपः अरण्यं निर्जनं गत्वा सदारः परिचक्रमे नानामृगगणाकीर्णं नानासत्त्वसमाकुलम् नानागुल्मलताच्छन्नं नानाद्रुमसमावृतम् अरण्यं घोरसंनादं शापग्रस्तः परिभ्रमन् स कदा चित् क्षुधाविष्टो मृगयन् भक्षम् आत्मनः ददर्श सुपरिक्लिष्टः कस्मिंश् चिद् वननिर्झरे ब्राह्मणीं ब्राह्मणं चैव मैथुनायोपसंगतौ तौ समीक्ष्य तु वित्रस्ताव् अकृतार्थौ प्रधावितौ तयोश् च द्रवतोर् विप्रं जगृहे नृपतिर् बलात् दृष्ट्वा गृहीतं भर्तारम् अथ ब्राह्मण्य् अभाषत शृणु राजन् वचो मह्यं यत् त्वां वक्ष्यामि सुव्रत आदित्यवंशप्रभवस् त्वं हि लोकपरिश्रुतः अप्रमत्तः स्थितो धर्मे गुरुशुश्रूषणे रतः वैष्णवो ऽसि महीपाल रविवंशविवर्धन येन त्वया पुरा विष्णुस् तोषितः शुभकर्मणा आत्मनं तृणवत् कृत्वा जीवितं हरये ऽर्पितम् तदासि रक्षितस् त्वं वै विष्णुना प्रभविष्णुना शापं प्राप्तो ऽसि दुर्धर्ष न पापं कर्तुम् अर्हसि ऋतुकाले तु संप्राप्ते भर्त्रास्म्य् अद्य समागता अकृतार्था ह्य् अहं भर्त्रा प्रसवार्थश् च मे महान् प्रसीद नृपतिश्रेष्ठ भर्ता मे ऽयं विसृज्यताम् एवं विक्रोशमानायास् तस्याः स सुनृशंसकृत् भर्तारं भक्षयाम् आस व्याघ्रो मृगम् इवेप्सितम् तस्याः क्रोधाभिभूताया यद् अश्रु न्यपतद् भुवि सो ऽग्निः समभवद् दीप्तस् तं च देशं व्यदीपयत् ततः सा शोकसंतप्ता भर्तृव्यसनदुःखिता कल्माषपादं राजर्षिम् अशपद् ब्राह्मणी रुषा यस्मान् ममाकृतार्थायास् त्वया क्षुद्र नृशंसवत् प्रेक्षन्त्या भक्षितो मे ऽद्य प्रभुर् भर्ता महायशाः तस्मात् त्वम् अपि दुर्बुद्धे मच्छापपरिविक्षतः पत्नीम् ऋताव् अनुप्राप्य सद्यस् त्यक्ष्यसि जीवितम् तेन प्रसाद्यमाना सा प्रसादम् अकरोत् तदा यस्य चर्षेर् वसिष्ठस्य त्वया पुत्रा विनाशिताः तेन संगम्य ते भार्या तनयं जनयिष्यति स ते वंशकरः पुत्रो भविष्यति नृपाधम एवं शप्त्वा तु राजानं सा तम् आङ्गिरसी शुभा तस्यैव संनिधौ दीप्तं प्रविवेश हुताशनम् वसिष्ठश् च महाभागः सर्वम् एतद् अपश्यत ज्ञानयोगेन महता तपसा च परंतप न चाप्य् अत्र महाबाहो अधर्मः प्रतिपद्यते ब्राह्मणो यद् अपत्यं हि प्रार्थितः संप्रयच्छति यदा तु कामतो गच्छेत् परनारीं नरो नृप तदास्य परदारोक्तम् अधर्मस्य फलं भवेत् अपकल्कस् तु राजेन्द्र निस्तीर्यैतद् द्विजोत्तमः नान्यतो भरतश्रेष्ठ स हि लोकगुरुर् यतः मुक्तशापश् च राजर्षिः कालेन महता ततः ऋतुकाले ऽभिपतितो मदयन्त्या निवारितः न हि सस्मार नृपतिस् तं शापं शापमोहितः देव्याः सो ऽथ वचः श्रुत्वा स तस्या नृपसत्तमः तं च शापम् अनुस्मृत्य पर्यतप्यद् भृशं तदा एतस्मात् कारणाद् राजा वसिष्ठं संन्ययोजयत् स्वदारे भरतश्रेष्ठ शापदोषसमन्वितः यदा कल्माषपादस् तु राक्षसत्वम् अवाप सः तदा वसिष्ठः कुरुणा यज्ञार्थे संवृतो ऽभवत् यदा कल्माषपादस् तु राक्षसत्वं विसृष्टवान् तदा तेनैव राज्ञा तु वसिष्ठः संवृतो ऽभवत् एवं वसिष्ठो युष्माकं पुरोधाः संवृतो ऽभवत् अर्जुन उवाच अस्माकम् अनुरूपो वै यः स्याद् गन्धर्व वेदवित् पुरोहितस् तम् आचक्ष्व सर्वं हि विदितं तव गन्धर्व उवाच यवीयान् देवलस्यैष वने भ्राता तपस्यति धौम्य उत्कोचके तीर्थे तं वृणुध्वं यदीच्छथ वैशंपायन उवाच ततो ऽर्जुनो ऽस्त्रम् आग्नेयं प्रददौ तद् यथाविधि गन्धर्वाय तदा प्रीतो वचनं चेदम् अब्रवीत् त्वय्य् एव तावत् तिष्ठन्तु हया गन्धर्वसत्तम कर्मकाले ग्रहीष्यामि स्वस्ति ते ऽस्त्व् इति चाब्रवीत् ते ऽन्योन्यम् अभिसंपूज्य गन्धर्वः पाण्डवाश् च ह रम्याद् भागीरथीकच्छाद् यथाकामं प्रतस्थिरे तत उत्कोचकं तीर्थं गत्वा धौम्याश्रमं तु ते तं वव्रुः पाण्डवा धौम्यं पौरोहित्याय भारत तान् धौम्यः प्रतिजग्राह सर्ववेदविदां वरः पाद्येन फलमूलेन पौरोहित्येन चैव ह ते तदाशंसिरे लब्धां श्रियं राज्यं च पाण्डवाः तं ब्राह्मणं पुरस्कृत्य पाञ्चाल्याश् च स्वयंवरम् मातृषष्ठास् तु ते तेन गुरुणा संगतास् तदा नाथवन्तम् इवात्मानं मेनिरे भरतर्षभाः स हि वेदार्थतत्त्वज्ञस् तेषां गुरुर् उदारधीः तेन धर्मविदा पार्था याज्याः सर्वविदा कृताः वीरांस् तु स हि तान् मेने प्राप्तराज्यान् स्वधर्मतः बुद्धिवीर्यबलोत्साहैर् युक्तान् देवान् इवापरान् कृतस्वस्त्ययनास् तेन ततस् ते मनुजाधिपाः मेनिरे सहिता गन्तुं पाञ्चाल्यास् तं स्वयंवरम् वेदविच् चैव वाग्मी च धौम्यः श्रीमान् द्विजोत्तमः तेजसा चैव बुद्ध्या च रूपेण यशसा श्रिया मन्त्रैश् च विविधैर् धौम्यस् तुल्य आसीद् बृहस्पतेः स चापि विप्रस् तान् मेने स्वभावाभ्यधिकान् भुवि वैशंपायन उवाच ततस् ते नरशार्दूला भ्रातरः पञ्च पाण्डवाः ब्रह्मरूपधराः पार्था जटिला ब्रह्मचारिणः प्रययुर् द्रौपदीं द्रष्टुं तं च देवमहोत्सवम् ते प्रयाता नरव्याघ्रा मात्रा सह परंतपाः ब्राह्मणान् ददृशुर् मार्गे गच्छतः सगणान् बहून् तान् ऊचुर् ब्राह्मणा राजन् पाण्डवान् ब्रह्मचारिणः क्व भवन्तो गमिष्यन्ति कुतो वागच्छतेति ह युधिष्ठिर उवाच आगतान् एकचक्रायाः सोदर्यान् देवदर्शिनः भवन्तो हि विजानन्तु सहितान् मातृचारिणः ब्राह्मणा ऊचुः गच्छताद्यैव पाञ्चालान् द्रुपदस्य निवेशनम् स्वयंवरो महांस् तत्र भविता सुमहाधनः एकसार्थं प्रयाताः स्मो वयम् अप्य् अत्र गामिनः तत्र ह्य् अद्भुतसंकाशो भविता सुमहोत्सवः यज्ञसेनस्य दुहिता द्रुपदस्य महात्मनः वेदीमध्यात् समुत्पन्ना पद्मपत्रनिभेक्षणा दर्शनीयानवद्याङ्गी सुकुमारी मनस्विनी धृष्टद्युम्नस्य भगिनी द्रोणशत्रोः प्रतापिनः यो जातः कवची खड्गी सशरः सशरासनः सुसमिद्धे महाबाहुः पावके पावकप्रभः यस्मिन् संजायमाने च वाग् उवाचाशरीरिणी एष शिष्यश् च मृत्युश् च भरद्वाजस्य जायते स्वसा तस्यानवद्याङ्गी द्रौपदी तनुमध्यमा नीलोत्पलसमो गन्धो यस्याः क्रोशात् प्रवायति तां यज्ञसेनस्य सुतां स्वयंवरकृतक्षणाम् गच्छामहे वयं द्रष्टुं तं च देवमहोत्सवम् राजानो राजपुत्राश् च यज्वानो भूरिदक्षिणाः स्वाध्यायवन्तः शुचयो महात्मानो यतव्रताः तरुणा दर्शनीयाश् च नानादेशसमागताः महारथाः कृतास्त्राश् च समुपैष्यन्ति भूमिपाः ते तत्र विविधान् दायान् विजयार्थं नरेश्वराः प्रदास्यन्ति धनं गाश् च भक्ष्यं भोज्यं च सर्वशः प्रतिगृह्य च तत् सर्वं दृष्ट्वा चैव स्वयंवरम् अनुभूयोत्सवं चैव गमिष्यामो यथेप्सितम् नटा वैतालिकाश् चैव नर्तकाः सूतमागधाः नियोधकाश् च देशेभ्यः समेष्यन्ति महाबलाः एवं कौतूहलं कृत्वा दृष्ट्वा च प्रतिगृह्य च सहास्माभिर् महात्मानः पुनः प्रतिनिवर्त्स्यथ दर्शनीयांश् च वः सर्वान् देवरूपान् अवस्थितान् समीक्ष्य कृष्णा वरयेत् संगत्यान्यतमं वरम् अयं भ्राता तव श्रीमान् दर्शनीयो महाभुजः नियुध्यमानो विजयेत् संगत्या द्रविणं बहु आहरिष्यन्न् अयं नूनं प्रीतिं वो वर्धयिष्यति युधिष्ठिर उवाच परमं भो गमिष्यामो द्रष्टुं देवमहोत्सवम् भवद्भिः सहिताः सर्वे कन्यायास् तं स्वयंवरम् वैशंपायन उवाच एवम् उक्ताः प्रयातास् ते पाण्डवा जनमेजय राज्ञा दक्षिणपाञ्चालान् द्रुपदेनाभिरक्षितान् ततस् ते तं महात्मानं शुद्धात्मानम् अकल्मषम् ददृशुः पाण्डवा राजन् पथि द्वैपायनं तदा तस्मै यथावत् सत्कारं कृत्वा तेन च सान्त्विताः कथान्ते चाभ्यनुज्ञाताः प्रययुर् द्रुपदक्षयम् पश्यन्तो रमणीयानि वनानि च सरांसि च तत्र तत्र वसन्तश् च शनैर् जग्मुर् महारथाः स्वाध्यायवन्तः शुचयो मधुराः प्रियवादिनः आनुपूर्व्येण संप्राप्ताः पाञ्चालान् कुरुनन्दनाः ते तु दृष्ट्वा पुरं तच् च स्कन्धावारं च पाण्डवाः कुम्भकारस्य शालायां निवेशं चक्रिरे तदा तत्र भैक्षं समाजह्रुर् ब्राह्मीं वृत्तिं समाश्रिताः तांश् च प्राप्तांस् तदा वीराञ् जज्ञिरे न नराः क्व चित् यज्ञसेनस् तु पाञ्चालो भीष्मद्रोणकृतागसम् ज्ञात्वात्मानं तदारेभे त्राणायात्मक्रियां क्षमाम् अवाप्य धृष्टद्युम्नं हि न स द्रोणम् अचिन्तयत् सुतवैरप्रसङ्गाच् च भीष्माद् भयम् अचिन्तयत् कन्यादानात् तु शरणं सो ऽमन्यत महीपतिः जामातुर् बलसंयोगान् मेने ह बलवत्तरम् यज्ञसेनस्य कामस् तु पाण्डवाय किरीटिने कृष्णां दद्याम् इति सदा न चैतद् विवृणोति सः सो ऽन्वेषमाणः कौन्तेयान् पाञ्चाल्यो जनमेजय शंकरेण वरो दत्तः प्रीतेन च महात्मना स निष्फलः स्यान् न तु मे इति प्रामाण्यम् आगतः मया कर्तव्यम् अधुना दुष्करं लक्ष्यवेधनम् इति निश्चित्य मनसा कारितं लक्ष्यम् उत्तमम् दृढं धनुर् अनायम्यं कारयाम् आस भारत वैय्याघ्रपद्यसोग्रं वै सृञ्जयस्य महीपतेः तद् धनुः किंधुरं नाम देवदत्तम् उपानयत् आयसी तस्य ज्या चासीत् प्रतिबद्धा महाबला न तु ज्यां प्रसहेद् अन्यां तद् धनुःप्रवरं महत् यन्त्रं वैहायसं चापि कारयाम् आस कृत्रिमम् तेन यन्त्रेण सहितं राजा लक्ष्यं च काञ्चनम् द्रुपद उवाच इदं सज्यं धनुः कृत्वा सज्येनानेन सायकैः अतीत्य लक्ष्यं यो वेद्धा स लब्धा मत्सुताम् इति वैशंपायन उवाच इति स द्रुपदो राजा सर्वतः समघोषयत् तच् छ्रुत्वा पार्थिवाः सर्वे समीयुस् तत्र भारत ऋषयश् च महात्मानः स्वयंवरदिदृक्षया यादवा वासुदेवेन सार्धम् अन्धकवृष्णयः राजानो राजपुत्राश् च युवानो मृष्टकुण्डलाः नानाजनपदाधीशा यज्वानो भूरिदक्षिणाः मनोज्ञरूपलावण्या महेन्द्रसमविक्रमाः क्रोधेन चाग्निसदृशाः क्षमया पृथिवीसमाः स्थैर्ये मेरुसमा धीराः सूर्यवैश्वानरोपमाः पृथिव्यां ये च राजान ऋषयश् च तपोधनाः बालवृद्धान् ऋते सर्वे महीपालाः समागताः त्रयस्त्रिंशत् सुराः सर्वे विमानैर् व्योम्नि निष्ठिताः दुर्योधनपुरोगाश् च सकर्णाः कुरवो नृप ब्राह्मणाश् च महाभागा देशेभ्यः समुपागमन् ते ऽभ्यर्चिता राजगणा द्रुपदेन महात्मना ब्राह्मणैर् एव सहिताः पाण्डवाः समुपाविशन् वैतालिका नर्तकाश् च सूतमागधबन्दिनः उपोपविष्टा मञ्चेषु द्रष्टुकामाः स्वयंवरम् ततः पौरजनाः सर्वे सागरोद्धूतनिःस्वनाः शिशुमारपुरं प्राप्य न्यविशंस् ते च पार्थिवाः प्रागुत्तरेण नगराद् भूमिभागे समे शुभे समाजवाटः शुशुभे भवनैः सर्वतो वृतः प्राकारपरिखोपेतो द्वारतोरणमण्डितः वितानेन विचित्रेण सर्वतः समवस्तृतः तूर्यौघशतसंकीर्णः परार्ध्यागुरुधूपितः चन्दनोदकसिक्तश् च माल्यदामैश् च शोभितः कैलासशिखरप्रख्यैर् नभस्तलविलेखिभिः सर्वतः संवृतैर् नद्धः प्रासादैः सुकृतोच्छ्रितैः सुवर्णजालसंवीतैर् मणिकुट्टिमभूषितैः सुखारोहणसोपानैर् महासनपरिच्छदैः अग्राम्यसमवच्छन्नैर् अगुरूत्तमवासितैः हंसाच्छवर्णैर् बहुभिर् आयोजनसुगन्धिभिः असंबाधशतद्वारैः शयनासनशोभितैः बहुधातुपिनद्धाङ्गैर् हिमवच्छिखरैर् इव तत्र नानाप्रकारेषु विमानेषु स्वलंकृताः स्पर्धमानास् तदान्योन्यं निषेदुः सर्वपार्थिवाः तत्रोपविष्टान् ददृशुर् महासत्त्वपराक्रमान् राजसिंहान् महाभागान् कृष्णागुरुविभूषितान् महाप्रसादान् ब्रह्मण्यान् स्वराष्ट्रपरिरक्षिणः प्रियान् सर्वस्य लोकस्य सुकृतैः कर्मभिः शुभैः मञ्चेषु च परार्ध्येषु पौरजानपदा जनाः कृष्णादर्शनतुष्ट्यर्थं सर्वतः समुपाविशन् ब्राह्मणैस् ते च सहिताः पाण्डवाः समुपाविशन् ऋद्धिं पाञ्चालराजस्य पश्यन्तस् ताम् अनुत्तमाम् ततः समाजो ववृधे स राजन् दिवसान् बहून् रत्नप्रदानबहुलः शोभितो नटनर्तकैः वर्तमाने समाजे तु रमणीये ऽह्नि षोडशे मैत्रे मुहूर्ते तत् तस्या राजदाराः पुराविदः पुत्रवत्यः सुवसनाः प्रतिकर्मोपचक्रमुः स्वर्णपात्रं च कौशेयं दूर्वासिद्ध्यर्थसंयुतम् निधाय तैलं स्नानार्थं निन्युर् बाला हरिप्रियाः लोध्रकल्कहृताभ्यङ्गतैलं कालेयचन्दनम् चतुष्काभिमुखीं निन्युर् अभिषेकाय योषितः वैडूर्यमणिपीठेषु निविष्टां द्रौपदीं तदा सतूर्यं स्नापयां चक्रुः स्वर्णकुम्भस्थितैर् जलैः तां निवृत्ताभिषेकां च दुकूलद्वयधारिणीम् निन्युर् मणिस्तम्भयुतां वेदीं वै सुपरिष्कृताम् निवेश्य प्राङ्मुखीं हृष्टां विस्मिताक्षाः प्रसाधिकाः केनानुकारणेनेमाम् इत्य् अन्योन्यं व्यलोकयन् धूपोष्मणा च केशानाम् आर्द्रभावं व्यपोहयन् बबन्धुर् अस्या धम्मिल्लं माल्यैः सुरभिगन्धिभिः दूर्वामधूकरचितं माल्यं तस्या ददुः करे चक्रुश् च कृष्णागरुणा पत्रभङ्गं कुचद्वये रेजे सा चक्रवाकाङ्का स्वर्णदीर्घसरिद्वरा अलकैः कुटिलैस् तस्या मुखं विकसितं बभौ आसक्तभृङ्गं कुसुमं शशिबिम्बं जिगाय तत् कालाञ्जनं नयनयोर् आचारार्थं समादधुः भूषणै रत्नखचितैर् अलंचक्रुर् यथोचितम् माता च तस्याः पृषती हरितालमनःशिलाम् अङ्गुलीभ्याम् उपादाय तिलकं विदधे मुखे अलंकृतां वधूं दृष्ट्वा योषितो मुदम् आययुः माता न मुमुदे तस्याः पतिः कीदृग् भविष्यति सौविदल्लाः समागम्य द्रुपदस्याज्ञया ततः एनाम् आरोपयाम् आसुः करिणीं कुथभूषिताम् ततो ऽवाद्यन्त वाद्यानि मङ्गलानि दिवि स्पृशन् विलासिनीजनश् चापि प्रवरं करिणीशतम् माङ्गल्यगीतं गायन्त्यः पार्श्वयोर् उभयोर् ययुः जनापहरणे यत्ताः प्रतिहार्यः पुरो ययुः कोलाहलो महान् आसीत् तस्मिन् पुरवरे तदा धृष्टद्युम्नो ययाव् अग्रे हयम् आरुह्य भारत द्रुपदो रङ्गदेशे तु बलेन महता युतः तस्थौ व्यूह्य महानीकं पालितं दृढधन्विभिः तस्यां वराङ्ग्याम् आयन्त्यां मञ्चस्था नृपसत्तमाः तां दृष्ट्वा मन्मथाविष्टा विलासान् विदधुः किल कश् चिद् अभ्रामयद् भूयः कमलं सुमनोहरम् लोलपत्रं चलद् भृङ्गं परिवेष्टितकेसरम् कश् चिद् विलासी गलितं लग्नम् अङ्गदकोटिभिः प्रालम्बम् अकरोद् अंसे साचीकृतमुखाम्बुजम् लिलेख पीठं पादेन हैमं तिर्यङ् मुखत्विषा केतकीदलम् अन्यो ऽपि प्रियं कर्णविभूषणम् नखाग्रैः पाटयाम् आस कुशालेखविशारदैः कश् चित् कमलशोणेन नखेन स्वस्तिपाणिना रत्नाङ्गुलीयप्रभया विद्वान् अक्षान् अवासृजत् यथाभा तस्य विमला स्वस्थानाच् चलिता तथा कश् चिद् व्यापारयाम् आस कररत्नाङ्गुलीयकम् भूयान् एवंविधांस् तत्र द्रौपदी कमलेक्षणा नीलोत्पलमयं देशं कुर्वाणेवावलोकयत् आप्लुताङ्गी सुवसना सर्वाभरणभूषिता वीरकांस्यम् उपादाय काञ्चनं समलंकृतम् अवतीर्णा ततो रङ्गं द्रौपदी भरतर्षभ पुरोहितः सोमकानां मन्त्रविद् ब्राह्मणः शुचिः परिस्तीर्य जुहावाग्निम् आज्येन विधिना तदा स तर्पयित्वा ज्वलनं ब्राह्मणान् स्वस्ति वाच्य च वारयाम् आस सर्वाणि वादित्राणि समन्ततः निःशब्दे तु कृते तस्मिन् धृष्टद्युम्नो विशां पते कृष्णाम् आदाय विधिवन् मेघदुन्दुभिनिःस्वनः रङ्गमध्यगतस् तत्र मेघगम्भीरया गिरा वाक्यम् उच्चैर् जगादेदं श्लक्ष्णम् अर्थवद् उत्तमम् इदं धनुर् लक्ष्यम् इमे च बाणाः; शृण्वन्तु मे पार्थिवाः सर्व एव यन्त्रच्छिद्रेणाभ्यतिक्रम्य लक्ष्यं; समर्पयध्वं खगमैर् दशार्धैः एतत् कर्ता कर्म सुदुष्करं यः; कुलेन रूपेण बलेन युक्तः तस्याद्य भार्या भगिनी ममेयं; कृष्णा भवित्री न मृषा ब्रवीमि तान् एवम् उक्त्वा द्रुपदस्य पुत्रः; पश्चाद् इदं द्रौपदीम् अभ्युवाच नाम्ना च गोत्रेण च कर्मणा च; संकीर्तयंस् तान् नृपतीन् समेतान् धृष्टद्युम्न उवाच दुर्योधनो दुर्विषहो दुर्मुखो दुष्प्रधर्षणः विविंशतिर् विकर्णश् च सहो दुःशासनः समः युयुत्सुर् वातवेगश् च भीमवेगधरस् तथा उग्रायुधो बलाकी च कनकायुर् विरोचनः सुकुण्डलश् चित्रसेनः सुवर्चाः कनकध्वजः नन्दको बाहुशाली च कुण्डजो विकटस् तथा विन्दश् चाप्य् अनुविन्दश् च सजीवी विकलः करी एते चान्ये च बहवो धार्तराष्ट्रा महाबलाः कर्णेन सहिता वीरास् त्वदर्थं समुपागताः शतसंख्या महात्मानः प्रथिताः क्षत्रियर्षभाः शकुनिश् च बलश् चैव वृषको ऽथ बृहद्बलः एते गान्धारराजस्य सुताः सर्वे समागताः अश्वत्थामा च भोजश् च सर्वशस्त्रभृतां वरौ समवेतौ महात्मानौ त्वदर्थे समलंकृतौ बृहन्तो मणिमांश् चैव दण्डधारश् च वीर्यवान् सहदेवो जयत्सेनो मेघसंधिश् च मागधः विराटः सह पुत्राभ्यां शङ्खेनैवोत्तरेण च वार्धक्षेमिः सुवर्चाश् च सेनाबिन्दुश् च पार्थिवः अभिभूः सह पुत्रेण सुदाम्ना च सुवर्चसा सुमित्रः सुकुमारश् च वृकः सत्यधृतिस् तथा सूर्यध्वजो रोचमानो नीलश् चित्रायुधस् तथा अंशुमांश् चेकितानश् च श्रेणिमांश् च महाबलः समुद्रसेनपुत्रश् च चन्द्रसेनः प्रतापवान् जलसंधः पितापुत्रौ सुदण्डो दण्ड एव च पौण्ड्रको वासुदेवश् च भगदत्तश् च वीर्यवान् कलिङ्गस् ताम्रलिप्तश् च पत्तनाधिपतिस् तथा मद्रराजस् तथा शल्यः सहपुत्रो महारथः रुक्माङ्गदेन वीरेण तथा रुक्मरथेन च कौरव्यः सोमदत्तश् च पुत्राश् चास्य महारथाः समवेतास् त्रयः शूरा भूरिर् भूरिश्रवाः शलः सुदक्षिणश् च काम्बोजो दृढधन्वा च कौरवः बृहद्बलः सुषेणश् च शिबिर् औशीनरस् तथा पटच्चरनिहन्ता च कारूषाधिपतिस् तथा पाण्ड्यकेरलचोलेन्द्रास् त्रयस् त्रेताग्नयो यथा आसनेषु विराजन्ते आशाम् आगस्त्यम् आश्रिताः संकर्षणो वासुदेवो रौक्मिणेयश् च वीर्यवान् साम्बश् च चारुदेष्णश् च सारणो ऽथ गदस् तथा अक्रूरः सात्यकिश् चैव उद्धवश् च महाबलः कृतवर्मा च हार्दिक्यः पृथुर् विपृथुर् एव च विडूरथश् च कङ्कश् च समीकः सारमेजयः . . . . . . . . ये चान्ये यादवास् तथा आगतास् तव हेतोश् च कृष्णे जानीहि सत्वरम् कृतवर्मा च हार्दिक्यः (= च्) शङ्कुश् च सगवेषणः आशावहो ऽनिरुद्धश् च वीरो वातपतिश् चैव झिल्ली पिण्डारकस् तथा उशीनरश् च विक्रान्तो वृष्णयस् ते प्रकीर्तिताः भगीरथो बृहत्क्षत्रः सैन्धवश् च जयद्रथः बृहद्रथो बाह्लिकश् च श्रुतायुश् च महारथः उलूकः कैतवो राजा चित्राङ्गदशुभाङ्गदौ वत्सराजश् च धृतिमान् कोसलाधिपतिस् तथा कर्णश् च सह पुत्रेण वृषसेनेन वीर्यवान् बृहद्बलश् च बलवान् राजा चैवाथ दुर्जयः दमघोषात्मजश् चैव शिशुपालो महाबलः चेदीनाम् अधिपो वीरो बलवान् अन्तकोपमः प्राच्योदीच्याः प्रतीच्याश् च दाक्षिणात्याः क्षितीश्वराः शिशुपालश् च विक्रान्तो जरासंधस् तथैव च एते चान्ये च बहवो नानाजनपदेश्वराः त्वदर्थम् आगता भद्रे क्षत्रियाः प्रथिता भुवि एते वेत्स्यन्ति विक्रान्तास् त्वदर्थं लक्ष्यम् उत्तमम् विध्येत य इमं लक्ष्यं वरयेथाः शुभे ऽद्य तम् वैशंपायन उवाच ते ऽलंकृताः कुण्डलिनो युवानः; परस्परं स्पर्धमानाः समेताः अस्त्रं बलं चात्मनि मन्यमानाः; सर्वे समुत्पेतुर् अहंकृतेन रूपेण वीर्येण कुलेन चैव; धर्मेण चैवापि च यौवनेन समृद्धदर्पा मदवेगभिन्ना; मत्ता यथा हैमवता गजेन्द्राः परस्परं स्पर्धया प्रेक्षमाणाः; संकल्पजेनापि परिप्लुताङ्गाः कृष्णा ममैषेत्य् अभिभाषमाणा; नृपासनेभ्यः सहसोपतस्थुः ते क्षत्रिया रङ्गगताः समेता; जिगीषमाणा द्रुपदात्मजां ताम् चकाशिरे पर्वतराजकन्याम्; उमां यथा देवगणाः समेताः कन्दर्पबाणाभिनिपीडिताङ्गाः; कृष्णागतैस् ते हृदयैर् नरेन्द्राः रङ्गावतीर्णा द्रुपदात्मजार्थं; द्वेष्यान् हि चक्रुः सुहृदो ऽपि तत्र अथाययुर् देवगणा विमानै; रुद्रादित्या वसवो ऽथाश्विनौ च साध्याश् च सर्वे मरुतस् तथैव; यमं पुरस्कृत्य धनेश्वरं च दैत्याः सुपर्णाश् च महोरगाश् च; देवर्षयो गुह्यकाश् चारणाश् च विश्वावसुर् नारदपर्वतौ च; गन्धर्वमुख्याश् च सहाप्सरोभिः हलायुधस् तत्र च केशवश् च; वृष्ण्यन्धकाश् चैव यथा प्रधानाः प्रेक्षां स्म चक्रुर् यदुपुंगवास् ते; स्थिताश् च कृष्णस्य मते बभूवुः दृष्ट्वा हि तान् मत्तगजेन्द्ररूपान्; पञ्चाभिपद्मान् इव वारणेन्द्रान् भस्मावृताङ्गान् इव हव्यवाहान्; पार्थान् प्रदध्यौ स यदुप्रवीरः शशंस रामाय युधिष्ठिरं च; भीमं च जिष्णुं च यमौ च वीरौ शनैः शनैस् तांश् च निरीक्ष्य रामो; जनार्दनं प्रीतमना ददर्श अन्ये तु नानानृपपुत्रपौत्राः; कृष्णागतैर् नेत्रमनःस्वभावैः व्यायच्छमाना ददृशुर् भ्रमन्तीं; संदष्टदन्तच्छदताम्रवक्त्राः तथैव पार्थाः पृथुबाहवस् ते; वीरौ यमौ चैव महानुभावौ तां द्रौपदीं प्रेक्ष्य तदा स्म सर्वे; कन्दर्पबाणाभिहता बभूवुः देवाश् च सर्वे सगणाः समेतास् तां द्रष्टुकामा वसवो ऽश्विनौ च रुद्राश् च सोमो वरुणो यमश् च शक्रं पुरस्कृत्य धनेश्वरश् च विश्वावसुर् नारदपर्वतौ च देवर्षयश् चाप्सरसां गणाश् च देवर्षिगन्धर्वसमाकुलं तत्; सुपर्णनागासुरसिद्धजुष्टम् दिव्येन गन्धेन समाकुलं च; दिव्यैश् च माल्यैर् अवकीर्यमाणम् महास्वनैर् दुन्दुभिनादितैश् च; बभूव तत् संकुलम् अन्तरिक्षम् विमानसंबाधम् अभूत् समन्तात्; सवेणुवीणापणवानुनादम् समाजवाटोपरि संस्थितानां मेघैः समन्ताद् इव गर्जमानैः ततस् तु ते राजगणाः क्रमेण; कृष्णानिमित्तं नृप विक्रमन्तः सकर्णदुर्योधनशाल्वशल्य- द्रौणायनिक्राथसुनीथवक्राः कलिङ्गवङ्गाधिपपाण्ड्यपौण्ड्रा विदेहराजो यवनाधिपश् च अन्ये च नाना नृपपुत्रपौत्रा राष्ट्राधिपाः पङ्कजपत्रनेत्राः किरीटहाराङ्गदचक्रवालैर् विभूषिताङ्गाः पृथुबाहवस् ते अनुक्रमं विक्रमसत्त्वयुक्ता बलेन वीर्येण च नर्दमानाः तत् कार्मुकं संहननोपपन्नं; सज्यं न शेकुस् तरसापि कर्तुम् ते विक्रमन्तः स्फुरता दृढेन; निष्कृष्यमाणा धनुषा नरेन्द्राः विचेष्टमाना धरणीतलस्था; दीना अदृश्यन्त विभग्नचित्ताः गतौजसः स्रस्तकिरीटहारा विनिःश्वसन्तः शमयां बभूवुः पाञ्चालराजस्य सुता सखीभिः दृष्ट्वा धनुःक्षोभम् उदाररूपा जहास राज्ञां बहुवीर्यभाजां लीलाविलासाञ्चितलोचनान्ता हाहाकृतं तद् धनुषा दृढेन; निष्पिष्टभग्नाङ्गदकुण्डलं च कृष्णानिमित्तं विनिवृत्तभावं; राज्ञां तदा मण्डलम् आर्तम् आसीत् सर्वान् नृपांस् तान् प्रसमीक्ष्य कर्णो धनुर्धराणां प्रवरो जगाम उद्धृत्य तूर्णं धनुर् उद्यतं तत् सज्यं चकाराशु युयोज बाणान् दृष्ट्वा सूतं मेनिरे पाण्डुपुत्रा भित्त्वा नीतं लक्ष्यवरं धरायाम् धनुर्धरा रागकृतप्रतिज्ञम् अत्यग्निसोमार्कम् अथार्कपुत्रम् दृष्ट्वा तु तं द्रौपदी वाक्यम् उच्चैर् जगाद नाहं वरयामि सूतम् सामर्षहासं प्रसमीक्ष्य सूर्यं तत्याज कर्णः स्फुरितं धनुस् तत् एवं तेषु निवृत्तेषु क्षत्रियेषु समन्ततः चेदीनाम् अधिपो वीरो बलवान् अन्तकोपमः दमघोषात्मजो वीरः शिशुपालो महामतिः धनुर् आदायमानस् तु जानुभ्याम् अगमन् महीम् ततो राजा महावीर्यो जरासंधो महाबलः धनुषो ऽभ्याशम् आगत्य तस्थौ गिरिर् इवाचलः धनुषा पीड्यमानस् तु जानुभ्याम् अगमन् महीम् तत उत्थाय राजा स स्वराष्ट्राण्य् अभिजग्मिवान् ततः शल्यो महावीर्यो मद्रराजो महाबलः तद् अप्य् आरोप्यमाणस् तु जानुभ्याम् अगमन् महीम् ताडितः स धनुष्कोट्या पपातोर्व्यां वियन्मुखः संरंभात् क्रोशमात्रे तु राजानो ऽन्ये भयातुराः ततो वैकर्तनः कर्णो वृषा वै सूतनन्दनः धनुर् आरोप्यमाणं तु रोममात्रे ऽभ्यताडयत् कम्बुग्रीवः पृथुव्यंसो मत्तवारणविक्रमः मत्तवारणताम्राक्षो मत्तवारणवेगवान् धनुर् आरोप्यमाणं तु सर्षमात्रे ऽभ्यताडयत् त्रैलोक्यविजयी कर्णः सत्त्वे त्रैलोक्यविश्रुतः धनुषा सो ऽपि निर्धूत इति सर्वे भयाकुलाः एवं कर्णे विनिर्धूते धनुषान्ये नृपोत्तमाः चक्षुर्भिर् अपि नापश्यन् विनम्रमुखपङ्कजाः दृष्ट्वा कर्णं विनिर्धूतं लोकवीरा नृपोत्तमाः निराशा धनुषोद्धारे द्रौपदीसंगमे ऽपि च ततो दुर्योधनो राजा धार्तराष्ट्रः परंतपः मानी दृढास्त्रः संपन्नः सर्वैश् च नृपलक्षणैः उत्थितः सहसा तत्र भ्रातृमध्ये महाबलः विलोक्य द्रौपदीं हृष्टो धनुषो ऽभ्याशम् आगमत् स बभौ धनुर् आदाय शक्रश् चापधरो यथा स तदारोपयाम् आस तिलमात्रे ह्य् अताडयत् आरोप्यमाणस् तद् राजा धनुषा बलिना तदा मा स उत्थानम् अपतद् अङ्गुल्यग्रे स ताडितः स ययौ ताडितस् तेन व्रीडन्न् इव नराधिपः तम् अथारोप्यमाणं तु मुद्गमात्रे ऽभ्यताडयत् स पपात महीं रङ्गाद् अर्धयोजनदूरतः तथैवागात् स्वकं राज्यं पश्चाद् अनवलोकयन् ततो वैकर्तनः कर्णो वृषा वै सूतनन्दनः धनुर् अभ्याशम् आगम्य तोलयाम् आस तद् धनुः तं चाप्य् आरोप्यमाणं तद् रोममात्रे ऽभ्यताडयत् ततो वरिष्ठः सुरदानवानाम् उदारधीर् वृष्णिकुलप्रवीरः जहर्ष रामेण स पीड्य हस्तं हस्तं गतां पाण्डुसुतस्य मत्वा न जज्ञुर् अन्ये नृपवीरमुख्याः संछन्नरूपान् अथ पाण्डुपुत्रान् विना हि भीष्मं च यदुप्रवीरौ धौम्यं च धर्मं सहसोदरांश् च तस्मिंस् तु संभ्रान्तजने समाजे; निक्षिप्तवादेषु नराधिपेषु कुन्तीसुतो जिष्णुर् इयेष कर्तुं; सज्यं धनुस् तत् सशरं स वीरः वैशंपायन उवाच यदा निवृत्ता राजानो धनुषः सज्यकर्मणि तदा युधिष्ठिरो राजा संज्ञयार्जुनम् अन्वशात् गुरोर् इङ्गितम् आज्ञाय धर्मराजस्य धीमतः अथोदतिष्ठद् विप्राणां मध्याज् जिष्णुर् उदारधीः ततो ऽवतीर्णं रङ्गस्य मध्यं पाण्डवमध्यमम् उदक्रोशन् विप्रमुख्या विधुन्वन्तो ऽजिनानि च दृष्ट्वा संप्रस्थितं पार्थम् इन्द्रकेतुसमप्रभम् के चिद् आसन् विमनसः के चिद् आसन् मुदा युताः आहुः परस्परं के चिन् निपुणा बुद्धिजीविनः यत् कर्णशल्यप्रमुखैः पार्थिवैर् लोकविश्रुतैः नानतं बलवद्भिर् हि धनुर्वेदपरायणैः तत् कथं त्व् अकृतास्त्रेण प्राणतो दुर्बलीयसा बटुमात्रेण शक्यं हि सज्यं कर्तुं धनुर् द्विजाः सज्यं चेत् कृतवान् एष वेद्धुं लक्ष्यं कथं भवेत् अवहास्या भविष्यन्ति ब्राह्मणाः सर्वराजसु कर्मण्य् अस्मिन्न् असंसिद्धे चापलाद् अपरीक्षिते यद्य् एष दर्पाद् धर्षाद् वा यदि वा ब्रह्मचापलात् प्रस्थितो धनुर् आयन्तुं वार्यतां साधु मा गमत् नावहास्या भविष्यामो न च लाघवम् आस्थिताः न च विद्विष्टतां लोके गमिष्यामो महीक्षिताम् के चिद् आहुर् जयो ऽस्माकं जयो नास्ति पराजयः पराजयो जयो वा स्यात् कुर्यात् सज्यं धनुर् द्विजाः के चिद् आहुर् युवा श्रीमान् नागराजकरोपमः पीनस्कन्धोरुबाहुश् च धैर्येण हिमवान् इव सिंहखेलगतिः श्रीमान् मत्तनागेन्द्रविक्रमः संभाव्यम् अस्मिन् कर्मेदम् उत्साहाच् चानुमीयते शक्तिर् अस्य महोत्साहा न ह्य् अशक्तः स्वयं व्रजेत् न च तद् विद्यते किं चित् कर्म लोकेषु यद् भवेत् ब्राह्मणानाम् असाध्यं च त्रिषु संस्थानचारिषु अब्भक्षा वायुभक्षाश् च फलाहारा दृढव्रताः दुर्बला हि बलीयांसो विप्रा हि ब्रह्मतेजसा ब्राह्मणो नावमन्तव्यः सद् वासद् वा समाचरन् सुखं दुःखं महद् ध्रस्वं कर्म यत् समुपागतम् जामदग्न्येन रामेण निर्जिताः क्षत्रिया भुवि पीतः समुद्रो ऽगस्त्येन अगाधो ब्रह्मतेजसा तस्माद् ब्रुवन्तु सर्वे ऽत्र बटुर् एष धनुर् महान् आरोपयतु शीघ्रं वै तथेत्य् ऊचुर् द्विजर्षभाः वन्ध्यवृद्धिक्षयकरो वातापी भक्षितः पुरा सर्वभक्षकृतो वह्निर् भृगुणा च महात्मना धनुर्वेदे च वेदे च योगेषु विविधेषु च न तं पश्यामि मेदिन्यां ब्राह्मणाद् यो ऽधिको भवेत् मन्त्रयोगबलेनापि महतात्मबलेन वा जृम्भयेयुर् इमं लोकम् अमुं वा द्विजसत्तमाः एवं तेषां विलपतां विप्राणां विविधा गिरः अर्जुनो धनुषो ऽभ्याशे तस्थौ गिरिर् इवाचलः समवर्तत तान् सर्वाञ् शृण्वन् देवेन्द्रनन्दनः अर्जुनः पाण्डवश्रेष्ठो धृष्टद्युम्नम् अथाब्रवीत् एतद् धनुर् ब्राह्मणानां सज्यं कर्तुम् अलं नु किम् तस्य तद् वचनं श्रुत्वा धृष्टद्युम्नो ऽब्रवीद् वचः ब्राह्मणो वाथ राजन्यो वैश्यो वा शूद्र एव वा एतेषां यो धनुःश्रेष्ठं सज्यं कुर्याद् द्विजोत्तम तस्मै प्रदेया भगिनी सत्यम् उक्तं मया वचः तस्य तद् वचनं श्रुत्वा प्रययौ ब्राह्मणैर् वृतः ततः पश्चान् महातेजाः पाण्डवो रणदुर्जयः स तद् धनुः परिक्रम्य प्रदक्षिणम् अथाकरोत् प्रणम्य शिरसा हृष्टो जगृहे च परंतपः ईशानं वरदं प्रभुम् कृष्णं च मनसा कृत्वा यत् पार्थिवै रुक्मसुनीथवक्रै राधेयदुर्योधनशल्यशाल्वैः तदा धनुर्वेदपरैर् नृसिंहैः कृतं न सज्यं महतो ऽपि यत्नात् तद् अर्जुनो वीर्यवतां सदर्पस् तद् ऐन्द्रिर् इन्द्रावरजप्रभावः सज्यं च चक्रे निमिषान्तरेण; शरांश् च जग्राह दशार्धसंख्यान् विव्याध लक्ष्यं निपपात तच् च; छिद्रेण भूमौ सहसातिविद्धम् ततो ऽन्तरिक्षे च बभूव नादः; समाजमध्ये च महान् निनादः पुष्पाणि दिव्यानि ववर्ष देवः; पार्थस्य मूर्ध्नि द्विषतां निहन्तुः चेलावेधांस् ततश् चक्रुर् हाहाकारांश् च सर्वशः ननन्दुर् ननृतुश् चात्र धून्वन्तो व्यजनानि च नृत्यन्तो ऽभिमुखा राज्ञां दर्शयन्तो द्विजावलिम् क्ष्वेडन्तश् च हसन्तश् च विद्युत्पिङ्गजटाधराः न्यपतंश् चात्र नभसः समन्तात् पुष्पवृष्टयः शताङ्गानि च तूर्याणि वादकाश् चाप्य् अवादयन् सूतमागधसंघाश् च अस्तुवंस् तत्र सुस्वनाः तं दृष्ट्वा द्रुपदः प्रीतो बभूवारिनिषूदनः सहसैन्यश् च पार्थस्य साहाय्यार्थम् इयेष सः तस्मिंस् तु शब्दे महति प्रवृत्ते; युधिष्ठिरो धर्मभृतां वरिष्ठः आवासम् एवोपजगाम शीघ्रं; सार्धं यमाभ्यां पुरुषोत्तमाभ्याम् विद्धं तु लक्ष्यं प्रसमीक्ष्य कृष्णा; पार्थं च शक्रप्रतिमं निरीक्ष्य चिक्षेप कण्ठे मुदितार्जुनस्य तत् पश्यतो ऽनेकजनस्य देवी स्वभ्यस्तरूपापि नवेव नित्यं विनापि हासं हसतीव कान्त्या मदाद् ऋते ऽपि स्खलतीव भावैर् वाचं विना व्याहरतीव दृष्ट्या आदाय शुक्लं वरमाल्यदाम; जगाम कुन्तीसुतम् उत्स्मयन्ती तद् दाम पौष्पं क्षितिपालमध्ये न्यस्तं तया तस्य कण्ठे तदानीम् गत्वा तु पश्चात् प्रसमीक्ष्य कृष्णा पार्थस्य वक्षस्य् अविशङ्कमाना क्षिप्त्वा तु तत् पार्थिवसंघमध्ये वराय वव्रे द्विजवीरमध्ये शचीव देवेन्द्रम् अथाग्निदेवं स्वाहेव लक्ष्मीश् च यथाप्रमेयम् उषेव सूर्यं मदनं रतीव महेश्वरं पर्वतराजपुत्री रामं यथा मैथिलराजपुत्री भैमी यथा राजवरं नलं हि समेत्य तस्योपरि सोत्ससर्ज समागतानां पुरतो नृपाणाम् विन्यस्य मालां विनयेन तस्थौ विहाय राज्ञः सहसा नृपात्मजा स ताम् उपादाय विजित्य रङ्गे; द्विजातिभिस् तैर् अभिपूज्यमानः रङ्गान् निरक्रामद् अचिन्त्यकर्मा; पत्न्या तया चाप्य् अनुगम्यमानः वैशंपायन उवाच तस्मै दित्सति कन्यां तु ब्राह्मणाय महात्मने कोप आसीन् महीपानाम् आलोक्यान्योन्यम् अन्तिकात् अस्मान् अयम् अतिक्रम्य तृणीकृत्य च संगतान् दातुम् इच्छति विप्राय द्रौपदीं योषितां वराम् अवज्ञायेह वृद्धत्वं कालिका विनिपात्यते अवरोप्येह वृक्षं तु फलकाले निपात्यते अवज्ञायेत पृषतः कार्यं तेन महात्मना निहन्मैनं दुरात्मानं यो ऽयम् अस्मान् न मन्यते न ह्य् अर्हत्य् एष सत्कारं नापि वृद्धक्रमं गुणैः हन्मैनं सह पुत्रेण दुराचारं नृपद्विषम् अयं हि सर्वान् आहूय सत्कृत्य च नराधिपान् गुणवद् भोजयित्वा च ततः पश्चाद् विनिन्दति अस्मिन् राजसमावाये देवानाम् इव संनये किम् अयं सदृशं कं चिन् नृपतिं नैव दृष्टवान् न च विप्रेष्व् अधीकारो विद्यते वरणं प्रति स्वयंवरः क्षत्रियाणाम् इतीयं प्रथिता श्रुतिः अथ वा यदि कन्येयं नेह कं चिद् बुभूषति अग्नाव् एनां परिक्षिप्य याम राष्ट्राणि पार्थिवाः ब्राह्मणो यदि वा बाल्याल् लोभाद् वा कृतवान् इदम् विप्रियं पार्थिवेन्द्राणां नैष वध्यः कथं चन ब्राह्मणार्थं हि नो राज्यं जीवितं च वसूनि च पुत्रपौत्रं च यच् चान्यद् अस्माकं विद्यते धनम् अवमानभयाद् एतत् स्वधर्मस्य च रक्षणात् स्वयंवराणां चान्येषां मा भूद् एवंविधा गतिः इत्य् उक्त्वा राजशार्दूला हृष्टाः परिघबाहवः द्रुपदं संजिघृक्षन्तः सायुधाः समुपाद्रवन् तान् गृहीतशरावापान् क्रुद्धान् आपततो नृपान् द्रुपदो वीक्ष्य संत्रासाद् ब्राह्मणाञ् शरणं गतः न भयान् नापि कार्पण्यान् न प्राणपरिरक्षणात् जगाम द्रुपदो विप्राञ् शमार्थी प्रत्यपद्यत वेगेनापततस् तांस् तु प्रभिन्नान् इव वारणान् पाण्डुपुत्रौ महावीर्यौ प्रतीयतुर् अरिंदमौ ततः समुत्पेतुर् उदायुधास् ते; महीक्षितो बद्धतलाङ्गुलित्राः जिघांसमानाः कुरुराजपुत्राव्; अमर्षयन्तो ऽर्जुनभीमसेनौ ततस् तु भीमो ऽद्भुतवीर्यकर्मा; महाबलो वज्रसमानवीर्यः उत्पाट्य दोर्भ्यां द्रुमम् एकवीरो; निष्पत्रयाम् आस यथा गजेन्द्रः तं वृक्षम् आदाय रिपुप्रमाथी; दण्डीव दण्डं पितृराज उग्रम् तस्थौ समीपे पुरुषर्षभस्य; पार्थस्य पार्थः पृथुदीर्घबाहुः भीम उवाच रे भूभुजो यदि भुवोल्लसितं न किं चित् तत् किं स्पृहाजनि सुतां प्रति पार्षतस्य जज्ञे स्पृहाथ कथम् आगतम् आगतं वा प्राणाधिके धनुषि तत् कथम् आग्रहो ऽभूत् कस्य द्रोणो धनुषि न गुरुः स्वस्ति देवव्रताय मन्दाभ्यासः कुरुपतिर् अयं श्रीसमुत्थैर् विलासैः रे कर्णाद्याः शृणुत मधुरां ब्राह्मणस्याशु वाणीं राधा यन्त्रं रचयतु पुनर् विद्धम् अप्य् अस्त्व् अविद्धम् तदन्तरे धर्मसुतो ऽपि गत्वा विज्ञाय कुन्तीं कुशलां क्षणेन आगम्य तस्थौ सह सोदराभ्यां पुरुषर्षभाभ्यां सह वीरमुख्यः अथाब्रवीज् जिष्णुर् उदारकर्मा मा सिंहनादान् कुरु पूर्वजेह मा घोरतां दर्शय शत्रुमध्ये साधारणं योधय तावद् आर्य तत् प्रेक्ष्य कर्मातिमनुष्यबुद्धिर् जिष्णुः स हि भ्रातुर् अचिन्त्यकर्मा विसिष्मिये चापि भयं विहाय तस्थौ धनुर् गृह्य महेन्द्रकर्मा तत् प्रेक्ष्य कर्मातिमनुष्यबुद्धेर्; जिष्णोः सहभ्रातुर् अचिन्त्यकर्मा दामोदरो भ्रातरम् उग्रवीर्यं; हलायुधं वाक्यम् इदं बभाषे य एष मत्तर्षभतुल्यगामी; महद् धनुः कर्षति तालमात्रम् एषो ऽर्जुनो नात्र विचार्यम् अस्ति; यद्य् अस्मि संकर्षण वासुदेवः य एष वृक्षं तरसावरुज्य; राज्ञां विकारे सहसा निवृत्तः वृकोदरो नान्य इहैतद् अद्य; कर्तुं समर्थो भुवि मर्त्यधर्मा यो ऽसौ पुरस्तात् कमलायताक्षस्; तनुर् महासिंहगतिर् विनीतः गौरः प्रलम्बोज्ज्वलचारुघोणो; विनिःसृतः सो ऽच्युत धर्मराजः यौ तौ कुमाराव् इव कार्त्तिकेयौ; द्वाव् अश्विनेयाव् इति मे प्रतर्कः मुक्ता हि तस्माज् जतुवेश्मदाहान्; मया श्रुताः पाण्डुसुताः पृथा च तम् अब्रवीन् निर्मलतोयदाभो; हलायुधो ऽनन्तरजं प्रतीतः प्रीतो ऽस्मि दिष्ट्या हि पितृष्वसा नः; पृथा विमुक्ता सह कौरवाग्र्यैः आसे किमर्थं पुरुषोत्तमेह योद्धुं समागच्छ न धर्षयेयुः यथा नृपाः पाण्डवम् आजिमध्ये तम् अब्रवीच् चक्रधरो हलायुधः बलं विजानन् पुरुषोत्तमस् तदा न कार्यम् आर्येण च संभ्रमस् त्वया भीमानुजो योधयितुं समर्थ एको हि पार्थः स सुरासुरान् बहून् अलं विजेतुं किम् उ मानुषान् नृपान् साहाय्यम् अस्मान् यदि सव्यसाची स वाञ्छति स्म प्रयताम वीर पराभवं पाण्डुसुता न यान्ति वैशंपायन उवाच अजिनानि विधुन्वन्तः करकांश् च द्विजर्षभाः ऊचुस् तं भीर् न कर्तव्या वयं योत्स्यामहे परान् तान् एवं वदतो विप्रान् अर्जुनः प्रहसन्न् इव उवाच प्रेक्षका भूत्वा यूयं तिष्ठत पार्श्वतः अहम् एनान् अजिह्माग्रैः शतशो विकिरञ् शरैः वारयिष्यामि संक्रुद्धान् मन्त्रैर् आशीविषान् इव इति तद् धनुर् आदाय शुल्कावाप्तं महारथः भ्रात्रा भीमेन सहितस् तस्थौ गिरिर् इवाचलः तयोस् तत्राभवद् युद्धं विक्रान्तैः क्षत्रियर्षभैः दैत्यदानवसंघैश् च विष्णुवासवयोर् इव वृक्षपातैर् भीमसेनः शरजालैर् धनंजयः जघान नरमुख्यांस् तान् ये तत्र पुरतः स्थिताः पाणिनाथ गृहीतेन दक्षिणेन वृकोदरः जघान वीरान् वृक्षेण वामेनाद्भुतम् आचरन् हस्तिना हस्तिनं जघ्ने रथेन रथम् उत्तमम् अश्वेनाश्वं जघानाथ नरेण च तथा नरम् तद् अद्भुततमं दृष्ट्वा सर्वे ते दूरतः स्थिताः अथ शल्यो गदां वीक्ष्य न वृक्षसदृशीम् इति नियुद्धम् अकरोत् तेन बलिना स महाबलः ततः कर्णमुखान् क्रुद्धान् क्षत्रियांस् तान् रुषोत्थितान् संपेततुर् अभीतौ तौ गजौ प्रतिगजान् इव ऊचुश् च वाचः परुषास् ते राजानो जिघांसवः आहवे हि द्विजस्यापि वधो दृष्टो युयुत्सतः इत्य् एवम् उक्त्वा राजानः सहसा दुद्रुवुर् द्विजान् ततो वैकर्तनः कर्णो जगामार्जुनम् ओजसा युद्धार्थी वाशिताहेतोर् गजः प्रतिगजं यथा भीमसेनं ययौ शल्यो मद्राणाम् ईश्वरो बली दुर्योधनो धर्मराजं शकुनिं नकुलो ययौ दुःशासनः सहदेवं देवरूपप्रहारिणम् अगच्छज् जयतां श्रेष्ठं भस्मच्छन्नम् इवानलम् न कश् चिद् अश्वं न गजं रथं वाप्य् आरुरोह वै पदातयः सर्व एव प्रत्ययुध्यन्त ते परान् तत्र कर्णो ऽगमत् पार्थम् अर्जुनं गूढचारिणम् दुर्योधनादयस् त्व् अन्ये ब्राह्मणैः सह संगताः मृदुपूर्वम् अयत्नेन प्रत्ययुध्यंस् तदाहवे ततो ऽर्जुनः प्रत्यविध्यद् आपतन्तं त्रिभिः शरैः कर्णं वैकर्तनं धीमान् विकृष्य बलवद् धनुः बलेन सुव्यवच्छिन्नैर् अवार्यं तम् अवारयत् तेषां शराणां वेगेन शितानां तिग्मतेजसाम् विमुह्यमानो राधेयो यत्नात् तम् अनुधावति ताव् उभाव् अप्य् अनिर्देश्यौ लाघवाज् जयतां वरौ अयुध्येतां सुसंरब्धाव् अन्योन्यविजयैषिणौ कृते प्रतिकृतं पश्य पश्य बाहुबलं च मे इति शूरार्थवचनैर् आभाषेतां परस्परम् ततो ऽर्जुनस्य भुजयोर् वीर्यम् अप्रतिमं भुवि ज्ञात्वा वैकर्तनः कर्णः संरब्धः समयोधयत् अर्जुनेन प्रयुक्तांस् तान् बाणान् वेगवतस् तदा प्रतिहत्य ननादोच्चैः सैन्यास् तम् अभिपूजयन् कर्ण उवाच तुष्यामि ते विप्रमुख्य भुजवीर्यस्य संयुगे अविषादस्य चैवास्य शस्त्रास्त्रविनयस्य च किं त्वं साक्षाद् धनुर्वेदो रामो वा विप्रसत्तम अथ साक्षाद् धरिहयः साक्षाद् वा विष्णुर् अच्युतः आत्मप्रच्छादनार्थं वै बाहुवीर्यम् उपाश्रितः विप्ररूपं विधायेदं ततो मां प्रतियुध्यसे न हि माम् आहवे क्रुद्धम् अन्यः साक्षाच् छचीपतेः पुमान् योधयितुं शक्तः पाण्डवाद् वा किरीटिनः दग्धा जतुगृहे सर्वे पाण्डवाः सार्जुनास् तदा कस् त्वं वदार्जुनो विप्र पिनाकी स्वयम् एव वा अहं कर्णो द्विजश्रेष्ठ सर्वशस्त्रभृतां वरः ब्राह्मे चास्त्रे च वेदे च निष्ठितो गुरुशासनात् त्वाम् आसाद्य महाबाहो बलं मे प्रतिहन्यते इत्य् उक्त्वा चार्जुनम् इदं प्रत्याहन्तुम् अशक्नुवन् वैशंपायन उवाच तम् एवंवादिनं तत्र फल्गुनः प्रत्यभाषत न्यस्तहस्तो धनुष्कोट्यां मन्दस्मितमुखाम्बुजः नास्मि कर्ण धनुर्वेदो नास्मि रामः प्रतापवान् नाहं विष्णुर् न शक्रो ऽहं कश् चिद् अन्यो बलान्वितः ब्राह्मणो ऽस्मि युधां श्रेष्ठः सर्वशस्त्रभृतां वरः योद्धुं चेद् युध्यतां वीर नो चेत् प्रतिनिवर्तताम् ब्राह्मे पौरंदरे चास्त्रे निष्ठितो गुरुशासनात् स्थितो ऽस्म्य् अद्य रणे जेतुं त्वां वीराविचलो भव न त्वां संयोधयेद् विप्रो न मे जीवन् गमिष्यसि निर्जितो ऽस्मीति वा ब्रूहि ततो व्रज यथासुखम् एवम् उक्त्वा तु कर्णस्य धनुश् चिच्छेद पाण्डवः ततो ऽन्यद् धनुर् आदाय संयोद्धुं संदधे शरम् दृष्ट्वा तद् अपि कौन्तेयश् चिच्छेद सशरं धनुः पुनः पुनस् तु राधेयश् छिन्नधन्वा महाबलः शरैर् अतीव विद्धाङ्गः पलायनम् अथाकरोत् पुनर् आयान् मुहूर्तेन गृहीत्वा सशरं धनुः ववर्ष शरवर्षेण पार्थं वैकर्तनस् तदा छित्त्वास्य शरजालानि कौन्तेयो ऽभ्यहनच् छरैः ज्ञात्वा सर्वाञ् शरान् घोरान् कर्णो ऽथायाद् द्रुतं बहिः ततः कर्णविनाशाय संदधे शरम् अर्जुनः जितो ऽस्मीत्य् अब्रवीत् कर्णः संजहार ततो ऽर्जुनः अच्छिनद् धनुषां पार्थः शतं कर्णस्य संयुगे छित्त्वा धनूंषि कर्णस्य कर्णमर्मस्व् अताडयत् स छिन्नधन्वा बहुशश् छिन्नेषुधिनिषङ्गवान् व्यधमद् बाणजालेन सर्वाङ्गं फल्गुनस्य च हस्तावापं च संच्छिद्य विननाद महास्वनम् कौन्तेयो ऽपि भृशं क्रुद्धो भृशं कार्मुकम् आहवे अर्दयित्वा भृशं बाणैर् द्रावयाम् आस पाण्डवः मत्वासह्यान् बाणघातान् द्विजस्येव शचीपतेः इन्द्रो ऽयं विप्ररूपेण विष्णुर् वा शंकरो ऽपि वा रामो दाशरथिर् वापि रामो वा जमदग्निजः एवम् उक्तस् तु राधेयो युद्धात् कर्णो न्यवर्तत ब्रह्मं तेजस् तदाजय्यं मन्यमानो महारथः न जयेद् ब्राह्मणं संख्ये युद्धात् क्षत्रकुलोद्भवः इति मत्वा द्रुतं कर्णः शिबिराय जगाम ह युद्धं तूपेयतुस् तत्र राजञ् शल्यवृकोदरौ बलिनौ युगपन् मत्तौ स्पर्धया च बलेन च अन्योन्यम् आह्वयन्तौ तौ मत्ताव् इव महागजौ मुष्टिभिर् जानुभिश् चैव निघ्नन्ताव् इतरेतरम् प्रकर्षणाकर्षणयोर् अभ्याकर्षविकर्षणैः आचकर्षतुर् अन्योन्यं मुष्टिभिश् चाभिजघ्नतुः ततश् चटचटाशब्दः सुघोरो ह्य् अभवत् तयोः पाषाणसंपातनिभैः प्रहारैर् अभिजघ्नतुः मुहूर्तं तौ तथान्योन्यं समरे पर्यकर्षताम् ततो भीमः समुत्क्षिप्य बाहुभ्यां शल्यम् आहवे न्यवधीद् बलिनां श्रेष्ठो जहसुर् ब्राह्मणास् ततः परिरभ्योत्क्षिप्य बाहुभ्यां मध्ये भारतसत्तम तत्राश्चर्यं भीमसेनश् चकार पुरुषर्षभः यच् छल्यं पतितं भूमौ नाहनद् बलिनं बली ततो राजसमूहस्य पश्यतो वृक्षम् आरुजत् ततस् तु भीमं संज्ञाभिर् वारयाम् आस धर्मराट् आकारज्ञस् ततो भ्रातुः पाण्डवो ऽपि न्यवर्तत धर्मराजश् च कौरव्यं दुर्योधनम् अमर्षणम् एतस्मिन् नन्तरे ऽविध्यद् बाणेन नतपर्वणा दुर्योधनम् अमित्रघ्नं धर्मराजो युधिष्ठिरः ततो दुर्योधनः क्रुद्धो दण्डाहत इवोरगः प्रत्ययुध्यत राजानं यत्नं परमम् आस्थितः छित्त्वा राजा धनुः सज्यं धार्तराष्ट्रस्य संयुगे अभ्यवर्षच् छरोघैस् तं स हित्वा प्राद्रवद् रणम् दुःशासनस् तु संक्रुद्धः सहदेवेन पार्थिव युद्ध्वा च सुचिरं कालं धनुषा स महारथः विसृज्य च धनुः संख्ये वर्म चादाय भास्वरम् असिम् आकाशसंकाशम् अभिदुद्राव पाण्डवम् विकर्णचित्रसेनाभ्यां निगृहीतश् च कौरवः दुःषहो नकुलाच् चापि अपकृष्टश् च कौरवैः निवर्तन्तां भवन्तो वै कुतो विप्रेषु विग्रहः न चेमे केवलं विप्रा न चैषां मानुषं बलम् द्वाव् अत्र ब्राह्मणौ क्रूरौ द्वाव् इन्द्रसदृशौ बले ये वा के वा नमस् तेभ्यो गच्छामः स्वपुरं वयम् एवं संभाष्य ते वीरा विनिवर्तन्त कौरवाः प्रजहुर् ब्राह्मणास् तत्र समेतं राजमण्डलम् प्रयातास् ते ततस् तत्र क्षत्रिया रणमूर्धनि ब्राह्मणाश् च जयं प्राप्ताः कन्याम् आदाय निर्ययुः पातिते भीमसेनेन शल्ये कर्णे च शङ्किते दुर्योधने चापगते तथा दुःशासने रणात् शङ्किताः सर्वराजानः परिवव्रुर् वृकोदरम् ऊचुश् च सहितास् तत्र साध्व् इमे ब्राह्मणर्षभाः विज्ञायन्तां क्वजन्मानः क्वनिवासास् तथैव च को हि राधासुतं कर्मं शक्तो योधयितुं रणे अन्यत्र रामाद् द्रोणाद् वा कृपाद् वापि शरद्वतः कृष्णाद् वा देवकीपुत्रात् फल्गुनाद् वा परंतपात् को वा दुर्योधनं शक्तः प्रतियोधयितुं रणे तथैव मद्रराजानं शल्यं बलवतां वरम् बलदेवाद् ऋते वीरात् पाण्डवाद् वा वृकोदरात् वीराद् दुर्योधनाद् वान्यः शक्तः पातयितुं रणे क्रियताम् अवहारो ऽस्माद् युद्धाद् ब्राह्मणसंयुतात् ब्राह्मणा हि सदा रक्ष्याः सापराधापि नित्यदा अथैनान् उपलभ्येह पुनर् योत्स्यामहे वयम् तांस् तथा वदतः सर्वान् प्रसमीक्ष्य क्षितीश्वरान् अत्य् अन्यान् पुरुषांश् चापि कृत्वा तत् कर्म संयुगे तत् कर्म भीमस्य समीक्ष्य कृष्णः; कुन्तीसुतौ तौ परिशङ्कमानः निवारयाम् आस महीपतींस् तान्; धर्मेण लब्धेत्य् अनुनीय सर्वान् त एवं संनिवृत्तास् तु युद्धाद् युद्धविशारदाः यथावासं ययुः सर्वे विस्मिता राजसत्तमाः वृत्तो ब्रह्मोत्तरो रङ्गः पाञ्चाली ब्राह्मणैर् वृता इति ब्रुवन्तः प्रययुर् ये तत्रासन् समागताः ब्राह्मणैस् तु प्रतिच्छन्नौ रौरवाजिनवासिभिः कृच्छ्रेण जग्मतुस् तत्र भीमसेनधनंजयौ विमुक्तौ जनसंबाधाच् छत्रुभिः परिविक्षतौ कृष्णयानुगतौ तत्र नृवीरौ तौ विरेजतुः पौर्णमास्यां घनैर् मुक्तौ चन्द्रसूर्याव् इवोदितौ तेषां माता बहुविधं विनाशं पर्यचिन्तयत् अनागच्छत्सु पुत्रेषु भैक्षकाले ऽतिगच्छति धार्तराष्ट्रैर् हता न स्युर् विज्ञाय कुरुपुंगवाः मायान्वितैर् वा रक्षोभिः सुघोरैर् दृढवैरिभिः विपरीतं मतं जातं व्यासस्यापि महात्मनः इत्य् एवं चिन्तयाम् आस सुतस्नेहान्विता पृथा ततः सुप्तजनप्राये दुर्दिने मेघसंप्लुते महत्य् अथापराह्णे तु घनैः सूर्य इवावृतः ब्राह्मणैः प्राविशत् तत्र जिष्णुर् ब्रह्मपुरस्कृतः सहितैर् ब्राह्मणैस् तैस् तु वेदाध्ययनपण्डितैः आगतस् तु गृहद्वारि यत्र तिष्ठति वै पृथा वैशंपायन उवाच गत्वा तु तां भार्गवकर्मशालां; पार्थौ पृथां प्राप्य महानुभावौ तां याज्ञसेनीं परमप्रतीतौ; भिक्षेत्य् अथावेदयतां नराग्र्यौ प्राग् एव संप्रविष्टेषु भवनं भ्रातृषु त्रिषु अम्ब भिक्षेयम् आनीतेत्य् आहतुर् भीमफल्गुनौ कुटीगता सा त्व् अनवेक्ष्य पुत्रान्; उवाच भुङ्क्तेति समेत्य सर्वे पश्चात् तु कुन्ती प्रसमीक्ष्य कन्यां; कष्टं मया भाषितम् इत्य् उवाच साधर्मभीता हि विलज्जमाना; तां याज्ञसेनीं परमप्रतीताम् पाणौ गृहीत्वोपजगाम कुन्ती; युधिष्ठिरं वाक्यम् उवाच चेदम् इयं हि कन्या द्रुपदस्य राज्ञस्; तवानुजाभ्यां मयि संनिसृष्टा यथोचितं पुत्र मयापि चोक्तं; समेत्य भुङ्क्तेति नृप प्रमादात् कथं मया नानृतम् उक्तम् अद्य; भवेत् कुरूणाम् ऋषभ ब्रवीहि पाञ्चालराजस्य सुताम् अधर्मो; न चोपवर्तेत नभूतपूर्वः मुहूर्तमात्रं त्व् अनुचिन्त्य राजा; युधिष्ठिरो मातरम् उत्तमौजाः कुन्तीं समाश्वास्य कुरुप्रवीरो; धनंजयं वाक्यम् इदं बभाषे त्वया जिता पाण्डव याज्ञसेनी; त्वया च तोषिष्यति राजपुत्री प्रज्वाल्यतां हूयतां चापि वह्निर्; गृहाण पाणिं विधिवत् त्वम् अस्याः अर्जुन उवाच मा मां नरेन्द्र त्वम् अधर्मभाजं; कृथा न धर्मो ह्य् अयम् ईप्सितो ऽन्यैः भवान् निवेश्यः प्रथमं ततो ऽयं; भीमो महाबाहुर् अचिन्त्यकर्मा अहं ततो नकुलो ऽनन्तरं मे; माद्रीसुतः सहदेवो जघन्यः वृकोदरो ऽहं च यमौ च राजन्न्; इयं च कन्या भवतः स्म सर्वे एवंगते यत् करणीयम् अत्र; धर्म्यं यशस्यं कुरु तत् प्रचिन्त्य पाञ्चालराजस्य च यत् प्रियं स्यात्; तद् ब्रूहि सर्वे स्म वशे स्थितास् ते वैशंपायन उवाच जिष्णोर् वचनम् आज्ञाय भक्तिस्नेहसमन्वितम् दृष्टिं निवेशयाम् आसुः पाञ्चाल्यां पाण्डुनन्दनाः ते दृष्ट्वा तत्र तिष्ठन्तीं सर्वे कृष्णां यशस्विनीम् संप्रेक्ष्यान्योन्यम् आसीना हृदयैस् ताम् अधारयन् तेषां हि द्रौपदीं दृष्ट्वा सर्वेषाम् अमितौजसाम् संप्रमथ्येन्द्रियग्रामं प्रादुरासीन् मनोभवः काम्यं रूपं हि पाञ्चाल्या विधात्रा विहितं स्वयम् ते मन्यमानाः कौन्तेयाः सर्वभूतमनोहराम् चकमुः सत्त्वसंपन्ना विधात्रा च प्रचोदिताः बभूवाधिकम् अन्याभ्यः सर्वभूतमनोहरम् तेषाम् आकारभावज्ञः कुन्तीपुत्रो युधिष्ठिरः द्वैपायनवचः कृत्स्नं संस्मरन् वै नरर्षभ अब्रवीत् स हि तान् भ्रातॄन् मिथोभेदभयान् नृपः सर्वेषां द्रौपदी भार्या भविष्यति हि नः शुभा प्रत्यगृह्णंस् ततो वाणीं भ्रातुर् ज्येष्ठस्य पाण्डवाः अन्योन्यं चानुपघ्नन्तो धर्मार्थं कामम् ईप्सितम् जनमेजयः वैशंपायनः सतापि शक्तेन च केशवेन सज्जं धनुस् तन् न कृतं किमर्थम् विद्धं च लक्ष्यं न च कस्य हेतोर् आचक्ष्व तन् मे द्विपदां वरिष्ठ शक्तेन कृष्णेन च कार्मुकं तन् नारोपितं ज्ञातुकामेन पार्थान् परिश्रमाद् एव बभूव लोके जीवन्ति पार्था इति निश्चयो ऽस्य अन्यान् अशक्तान् नृपतीन् समीक्ष्य स्वयंवरे कार्मुकेणोत्तमेन धनंजयस् तद् धनुर् एकवीरः सज्यं करोतीत्य् अभिवीक्ष्य कृष्णः इति स्वयं वासुदेवो विचिन्त्य पार्थान् विवित्सन् विविधैर् उपायैः न तद् धनुः सज्यम् इयेष कर्तुं बभूवुर् अस्येष्टतमा हि पार्थाः वैशंपायन उवाच भ्रातुर् वचस् तत् प्रसमीक्ष्य सर्वे; ज्येष्ठस्य पाण्डोस् तनयास् तदानीम् तम् एवार्थं ध्यायमाना मनोभिर्; आसां चक्रुर् अथ तत्रामितौजाः वृष्णिप्रवीरस् तु कुरुप्रवीरान्; आशङ्कमानः सहरौहिणेयः जगाम तां भार्गवकर्मशालां; यत्रासते ते पुरुषप्रवीराः तत्रोपविष्टं पृथुदीर्घबाहुं; ददर्श कृष्णः सहरौहिणेयः अजातशत्रुं परिवार्य तांश् च; उपोपविष्टाञ् ज्वलनप्रकाशान् ततो ऽब्रवीद् वासुदेवो ऽभिगम्य; कुन्तीसुतं धर्मभृतां वरिष्ठम् कृष्णो ऽहम् अस्मीति निपीड्य पादौ; युधिष्ठिरस्याजमीढस्य राज्ञः तथैव तस्याप्य् अनु रौहिणेयस्; तौ चापि हृष्टाः कुरवो ऽभ्यनन्दन् पितृष्वसुश् चापि यदुप्रवीराव्; अगृह्णतां भारतमुख्य पादौ अजातशत्रुश् च कुरुप्रवीरः; पप्रच्छ कृष्णं कुशलं निवेद्य कथं वयं वासुदेव त्वयेह; गूढा वसन्तो विदिताः स्म सर्वे तम् अब्रवीद् वासुदेवः प्रहस्य; गूढो ऽप्य् अग्निर् ज्ञायत एव राजन् तं विक्रमं पाण्डवेयानतीत्य; को ऽन्यः कर्ता विद्यते मानुषेषु दिष्ट्या तस्मात् पावकात् संप्रमुक्ता; यूयं सर्वे पाण्डवाः शत्रुसाहाः दिष्ट्या पापो धृतराष्ट्रस्य पुत्रः; सहामात्यो न सकामो ऽभविष्यत् दिष्ट्या कृष्णा वीर्यम् आश्रित्य लब्धा दिष्ट्या भूयः शश्वद् एवं कृतार्थाः भद्रं वो ऽस्तु निहितं यद् गुहायां; विवर्धध्वं ज्वलन इवेध्यमानः मा वो विद्युः पार्थिवाः के चनेह; यास्यावहे शिबिरायैव तावत् सो ऽनुज्ञातः पाण्डवेनाव्ययश्रीः; प्रायाच् छीघ्रं बलदेवेन सार्धम् तत्रैवासन् पाण्डवाश् चाजघन्या मात्रा सार्धं कृष्णया चापि वीराः वैशंपायन उवाच धृष्टद्युम्नस् तु पाञ्चाल्यः पृष्ठतः कुरुनन्दनौ अन्वगच्छत् तदा यान्तौ भार्गवस्य निवेशनम् सो ऽज्ञायमानः पुरुषान् अवधाय समन्ततः स्वयम् आरान् निविष्टो ऽभूद् भार्गवस्य निवेशने जिज्ञासमानस् तु स तान् संदिदेश नृपात्मजः पुरुषान् द्रौपदीहेतोर् जानीध्वं के त्व् इमे द्विजाः साये ऽथ भीमस् तु रिपुप्रमाथी; जिष्णुर् यमौ चापि महानुभावौ भैक्षं चरित्वा तु युधिष्ठिराय; निवेदयां चक्रुर् अदीनसत्त्वाः ततस् तु कुन्ती द्रुपदात्मजां ताम्; उवाच काले वचनं वदान्या अतो ऽग्रम् आदाय कुरुष्व भद्रे; बलिं च विप्राय च देहि भिक्षाम् ये चान्नम् इच्छन्ति ददस्व तेभ्यः; परिश्रिता ये परितो मनुष्याः ततश् च शेषं प्रविभज्य शीघ्रम्; अर्धं चतुर्णां मम चात्मनश् च अर्धं च भीमाय ददाहि भद्रे; य एष मत्तर्षभतुल्यरूपः श्यामो युवा संहननोपपन्न; एषो हि वीरो बहुभुक् सदैव सा हृष्टरूपैव तु राजपुत्री; तस्या वचः साध्व् अविशङ्कमाना यथावद् उक्तं प्रचकार साध्वी; ते चापि सर्वे ऽभ्यवजह्रुर् अन्नम् कुशैस् तु भूमौ शयनं चकार; माद्रीसुतः सहदेवस् तरस्वी यथात्मीयान्य् अजिनानि सर्वे; संस्तीर्य वीराः सुषुपुर् धरण्याम् अगस्त्यशास्ताम् अभितो दिशं तु; शिरांसि तेषां कुरुसत्तमानाम् कुन्ती पुरस्तात् तु बभूव तेषां; कृष्णा तिरश् चैव बभूव पत्तः अशेत भूमौ सह पाण्डुपुत्रैः; पादोपधानेव कृता कुशेषु न तत्र दुःखं च बभूव तस्या; न चावमेने कुरुपुंगवांस् तान् ते तत्र शूराः कथयां बभूवुः; कथा विचित्राः पृतनाधिकाराः अस्त्राणि दिव्यानि रथांश् च नागान्; खड्गान् गदाश् चापि परश्वधांश् च तेषां कथास् ताः परिकीर्त्यमानाः; पाञ्चालराजस्य सुतस् तदानीम् शुश्राव कृष्णां च तथा निषण्णां; ते चापि सर्वे ददृशुर् मनुष्याः धृष्टद्युम्नो राजपुत्रस् तु सर्वं; वृत्तं तेषां कथितं चैव रात्रौ सर्वं राज्ञे द्रुपदायाखिलेन; निवेदयिष्यंस् त्वरितो जगाम पाञ्चालराजस् तु विषण्णरूपस्; तान् पाण्डवान् अप्रतिविन्दमानः धृष्टद्युम्नं पर्यपृच्छन् महात्मा; क्व सा गता केन नीता च कृष्णा कच्चिन् न शूद्रेण न हीनजेन; वैश्येन वा करदेनोपपन्ना कच्चित् पदं मूर्ध्नि न मे निदिग्धं; कच्चिन् माला पतिता न श्मशाने कच्चित् सवर्णप्रवरो मनुष्य; उद्रिक्तवर्णो ऽप्य् उत वेह कच्चित् कच्चिन् न वामो मम मूर्ध्नि पादः; कृष्णाभिमर्शेन कृतो ऽद्य पुत्र कच्चिच् च यक्ष्ये परमप्रतीतः; संयुज्य पार्थेन नरर्षभेण ब्रवीहि तत्त्वेन महानुभावः; को ऽसौ विजेता दुहितुर् ममाद्य विचित्रवीर्यस्य तु कच्चिद् अद्य; कुरुप्रवीरस्य धरन्ति पुत्राः कच्चित् तु मे यज्ञफलेन पुत्र भाग्येन तस्याश् च कुलं च वा मे कच्चित् तु पार्थेन यवीयसाद्य; धनुर् गृहीतं निहतं च लक्ष्यम् वैशंपायन उवाच ततस् तथोक्तः परिहृष्टरूपः; पित्रे शशंसाथ स राजपुत्रः धृष्टद्युम्नः सोमकानां प्रबर्हो; वृत्तं यथा येन हृता च कृष्णा यो ऽसौ युवा स्वायतलोहिताक्षः; कृष्णाजिनी देवसमानरूपः यः कार्मुकाग्र्यं कृतवान् अधिज्यं; लक्ष्यं च तत् पातितवान् पृथिव्याम् असज्जमानश् च गतस् तरस्वी; वृतो द्विजाग्र्यैर् अभिपूज्यमानः चक्राम वज्रीव दितेः सुतेषु; सर्वैश् च देवैर् ऋषिभिश् च जुष्टः श्यामो युवा वारणमत्तगामी कृत्वा महत् कर्म सुदुष्करं तत् विक्षोभ्य विद्राव्य च पार्थिवांस् तान् स्वतेजसा दुष्प्रतिवीक्ष्यरूपौ कृष्णा च गृह्याजिनम् अन्वयात् तं; नागं यथा नागवधूः प्रहृष्टा यः सूतपुत्रेण चकार युद्धं शङ्के ऽर्जुनं तं त्रिदशेशवीर्यम् अमृष्यमाणेषु नराधिपेषु; क्रुद्धेषु तं तत्र समापतत्सु ततो ऽपरः पार्थिवराजमध्ये; प्रवृद्धम् आरुज्य महीप्ररोहम् प्रकालयन्न् एव स पार्थिवौघान्; क्रुद्धो ऽन्तकः प्राणभृतो यथैव तं भीमसेनं परितर्कयामि यः पातयाम् आस रणे तु शल्यम् तौ पार्थिवानां मिषतां नरेन्द्र; कृष्णाम् उपादाय गतौ नराग्र्यौ विभ्राजमानाव् इव चन्द्रसूर्यौ; बाह्यां पुराद् भार्गवकर्मशालाम् तत्रोपविष्टार्चिर् इवानलस्य; तेषां जनित्रीति मम प्रतर्कः तथाविधैर् एव नरप्रवीरैर्; उपोपविष्टैस् त्रिभिर् अग्निकल्पैः तस्यास् ततस् ताव् अभिवाद्य पादाव्; उक्त्वा च कृष्णाम् अभिवादयेति स्थितौ च तत्रैव निवेद्य कृष्णां; भैक्षप्रचाराय गता नराग्र्याः तेषां तु भैक्षं प्रतिगृह्य कृष्णा; कृत्वा बलिं ब्राह्मणसाच् च कृत्वा तां चैव वृद्धां परिविष्य तांश् च; नरप्रवीरान् स्वयम् अप्य् अभुङ्क्त सुप्तास् तु ते पार्थिव सर्व एव; कृष्णा तु तेषां चरणोपधानम् आसीत् पृथिव्यां शयनं च तेषां; दर्भाजिनाग्र्यास्तरणोपपन्नम् ते नर्दमाना इव कालमेघाः; कथा विचित्राः कथयां बभूवुः न वैश्यशूद्रौपयिकीः कथास् ता; न च द्विजातेः कथयन्ति वीराः निःसंशयं क्षत्रियपुंगवास् ते; यथा हि युद्धं कथयन्ति राजन् आशा हि नो व्यक्तम् इयं समृद्धा; मुक्तान् हि पार्थाञ् शृणुमो ऽग्निदाहात् यथा हि लक्ष्यं निहतं धनुश् च; सज्यं कृतं तेन तथा प्रसह्य यथा च भाषन्ति परस्परं ते; छन्ना ध्रुवं ते प्रचरन्ति पार्थाः ततः स राजा द्रुपदः प्रहृष्टः; पुरोहितं प्रेषयां तत्र चक्रे विद्याम युष्मान् इति भाषमाणो; महात्मनः पाण्डुसुताः स्थ कच्चित् गृहीतवाक्यो नृपतेः पुरोधा; गत्वा प्रशंसाम् अभिधाय तेषाम् वाक्यं यथावन् नृपतेः समग्रम्; उवाच तान् स क्रमवित् क्रमेण विज्ञातुम् इच्छत्य् अवनीश्वरो वः; पाञ्चालराजो द्रुपदो वरार्हाः लक्ष्यस्य वेद्धारम् इमं हि दृष्ट्वा; हर्षस्य नान्तं परिपश्यते सः तद् आचड्ढ्वं ज्ञातिकुलानुपूर्वीं; पदं शिरःसु द्विषतां कुरुध्वम् प्रह्लादयध्वं हृदयं ममेदं; पाञ्चालराजस्य सहानुगस्य पाण्डुर् हि राजा द्रुपदस्य राज्ञः; प्रियः सखा चात्मसमो बभूव तस्यैष कामो दुहिता ममेयं; स्नुषा यदि स्याद् इति कौरवस्य अयं च कामो द्रुपदस्य राज्ञो; हृदि स्थितो नित्यम् अनिन्दिताङ्गाः यद् अर्जुनो वै पृथुदीर्घबाहुर्; धर्मेण विन्देत सुतां ममेति तद् वै श्रुत्वा पाण्डवाः सर्व एव राज्ञा यद् उक्तं द्रुपदेन वाक्यम् कुन्त्या सार्धं मानयां चापि चक्रुः पुरोहितं ते पुरुषप्रवीराः कृतं हि तत् स्यात् सुकृतं ममेदं यशश् च पुण्यं च हितं तद् एतत् तथोक्तवाक्यं तु पुरोहितं तं; स्थितं विनीतं समुदीक्ष्य राजा समीपस्थं भीमम् इदं शशास; प्रदीयतां पाद्यम् अर्घ्यं तथास्मै मान्यः पुरोधा द्रुपदस्य राज्ञस्; तस्मै प्रयोज्याभ्यधिकैव पूजा भीमस् तथा तत् कृतवान् नरेन्द्र; तां चैव पूजां प्रतिसंगृहीत्वा सुखोपविष्टं तु पुरोहितं तं; युधिष्ठिरो ब्राह्मणम् इत्य् उवाच पाञ्चालराजेन सुता निसृष्टा; स्वधर्मदृष्टेन यथानुकामम् प्रदिष्टशुल्का द्रुपदेन राज्ञा; सानेन वीरेण तथानुवृत्ता न तत्र वर्णेषु कृता विवक्षा; न जीवशिल्पे न कुले न गोत्रे कृतेन सज्येन हि कार्मुकेण; विद्धेन लक्ष्येण च संनिसृष्टा सेयं तथानेन महात्मनेह; कृष्णा जिता पार्थिवसंघमध्ये नैवंगते सौमकिर् अद्य राजा; संतापम् अर्हत्य् असुखाय कर्तुम् कामश् च यो ऽसौ द्रुपदस्य राज्ञः; स चापि संपत्स्यति पार्थिवस्य अप्राप्यरूपां हि नरेन्द्रकन्याम्; इमाम् अहं ब्राह्मण साधु मन्ये न तद् धनुर् मन्दबलेन शक्यं; मौर्व्या समायोजयितुं तथा हि न चाकृतास्त्रेण न हीनजेन; लक्ष्यं तथा पातयितुं हि शक्यम् तस्मान् न तापं दुहितुर् निमित्तं; पाञ्चालराजो ऽर्हति कर्तुम् अद्य न चापि तत् पातनम् अन्यथेह; कर्तुं विषह्यं भुवि मानवेन एवं ब्रुवत्य् एव युधिष्ठिरे तु; पाञ्चालराजस्य समीपतो ऽन्यः तत्राजगामाशु नरो द्वितीयो; निवेदयिष्यन्न् इह सिद्धम् अन्नम् दूत उवाच जन्यार्थम् अन्नं द्रुपदेन राज्ञा; विवाहहेतोर् उपसंस्कृतं च तद् आप्नुवध्वं कृतसर्वकार्याः; कृष्णा च तत्रैव चिरं न कार्यम् इमे रथाः काञ्चनपद्मचित्राः; सदश्वयुक्ता वसुधाधिपार्हाः एतान् समारुह्य परैत सर्वे; पाञ्चालराजस्य निवेशनं तत् वैशंपायन उवाच ततः प्रयाताः कुरुपुंगवास् ते; पुरोहितं तं प्रथमं प्रयाप्य आस्थाय यानानि महान्ति तानि; कुन्ती च कृष्णा च सहैव याते सुस्नापिताः साक्षतलाजधानैर् वरैर् घटैश् चन्दनवारिपूर्णैः स्त्रीभिः सुगन्धाम्बरमाल्यदामैर् विभूषिता आभरणैर् विचित्रैः माङ्गल्यगीतध्वनिवाद्यशब्दैर् मनोहरैः पुण्यवतां प्रवृद्धैः संगीयमानाः प्रययुः प्रहृष्टा दीपैर् ज्वलद्भिः सहिताश् च विप्रैः स वै तथोक्तस् तु युधिष्ठिरेण पाञ्चालराजस्य पुरोहिताग्र्यः यथोक्तं कुरुनन्दनेन निवेदयाम् आस नृपाय गत्वा श्रुत्वा तु वाक्यानि पुरोहितस्य; यान्य् उक्तवान् भारत धर्मराजः जिज्ञासयैवाथ कुरूत्तमानां; द्रव्याण्य् अनेकान्य् उपसंजहार फलानि माल्यानि सुसंस्कृतानि; चर्माणि वर्माणि तथासनानि गाश् चैव राजन्न् अथ चैव रज्जूर्; द्रव्याणि चान्यानि कृषीनिमित्तम् अन्येषु शिल्पेषु च यान्य् अपि स्युः; सर्वाणि कॢप्तान्य् अखिलेन तत्र क्रीडानिमित्तानि च यानि तानि; सर्वाणि तत्रोपजहार राजा रथाश्ववर्माणि च भानुमन्ति; खड्गा महान्तो ऽश्वरथाश् च चित्राः धनूंषि चाग्र्याणि शराश् च मुख्याः; शक्त्यृष्टयः काञ्चनभूषिताश् च प्रासा भुशुण्ड्यश् च परश्वधाश् च; सांग्रामिकं चैव तथैव सर्वम् शय्यासनान्य् उत्तमसंस्कृतानि; तथैव चासन् विविधानि तत्र कुन्ती तु कृष्णां परिगृह्य साध्वीम्; अन्तःपुरं द्रुपदस्याविवेष स्त्रियश् च तां कौरवराजपत्नीं; प्रत्यर्चयां चक्रुर् अदीनसत्त्वाः तान् सिंहविक्रान्तगतीन् अवेक्ष्य; महर्षभाक्षान् अजिनोत्तरीयान् गूढोत्तरांसान् भुजगेन्द्रभोग;प्रलम्बबाहून् पुरुषप्रवीरान् राजा च राज्ञः सचिवाश् च सर्वे; पुत्राश् च राज्ञः सुहृदस् तथैव प्रेष्याश् च सर्वे निखिलेन राजन्; हर्षं समापेतुर् अतीव तत्र ते तत्र वीराः परमासनेषु; सपादपीठेष्व् अविशङ्कमानाः यथानुपूर्व्या विविशुर् नराग्र्यास्; तदा महार्हेषु न विस्मयन्तः उच्चावचं पार्थिवभोजनीयं; पात्रीषु जाम्बूनदराजतीषु दासाश् च दास्यश् च सुमृष्टवेषाः; भोजापकाश् चाप्य् उपजह्रुर् अन्नम् ते तत्र भुक्त्वा पुरुषप्रवीरा; यथानुकामं सुभृशं प्रतीताः उत्क्रम्य सर्वाणि वसूनि तत्र; सांग्रामिकान्य् आविविशुर् नृवीराः तल् लक्षयित्वा द्रुपदस्य पुत्रो; राजा च सर्वैः सह मन्त्रिमुख्यैः समर्चयाम् आसुर् उपेत्य हृष्टाः; कुन्तीसुतान् पार्थिवपुत्रपौत्रान् वैशंपायन उवाच तत आहूय पाञ्चाल्यो राजपुत्रं युधिष्ठिरम् परिग्रहेण ब्राह्मेण परिगृह्य महाद्युतिः पर्यपृच्छद् अदीनात्मा कुन्तीपुत्रं सुवर्चसम् कथं जानीम भवतः क्षत्रियान् ब्राह्मणान् उत वैश्यान् वा गुणसंपन्नान् उत वा शूद्रयोनिजान् मायाम् आस्थाय वा सिद्धांश् चरतः सर्वतोदिशम् कृष्णाहेतोर् अनुप्राप्तान् दिवः संदर्शनार्थिनः ब्रवीतु नो भवान् सत्यं संदेहो ह्य् अत्र नो महान् अपि नः संशयस्यान्ते मनस्तुष्टिर् इहाविशेत् अपि नो भागधेयानि शुभानि स्युः परंतप कामया ब्रूहि सत्यं त्वं सत्यं राजसु शोभते इष्टापूर्तेन च तथा वक्तव्यम् अनृतं न तु श्रुत्वा ह्य् अमरसंकाश तव वाक्यम् अरिंदम ध्रुवं विवाहकरणम् आस्थास्यामि विधानतः युधिष्ठिर उवाच मा राजन् विमना भूस् त्वं पाञ्चाल्य प्रीतिर् अस्तु ते ईप्सितस् ते ध्रुवः कामः संवृत्तो ऽयम् असंशयम् वयं हि क्षत्रिया राजन् पाण्डोः पुत्रा महात्मनः ज्येष्ठं मां विद्धि कौन्तेयं भीमसेनार्जुनाव् इमौ याभ्यां तव सुता राजन् निर्जिता राजसंसदि यमौ तु तत्र राजेन्द्र यत्र कृष्णा प्रतिष्ठिता व्येतु ते मानसं दुःखं क्षत्रियाः स्मो नरर्षभ पद्मिनीव सुतेयं ते ह्रदाद् अन्यं ह्रदं गता इति तथ्यं महाराज सर्वम् एतद् ब्रवीमि ते भवान् हि गुरुर् अस्माकं परमं च परायणम् वैशंपायन उवाच ततः स द्रुपदो राजा हर्षव्याकुललोचनः प्रतिवक्तुं तदा युक्तं नाशकत् तं युधिष्ठिरम् यत्नेन तु स तं हर्षं संनिगृह्य परंतपः अनुरूपं ततो राजा प्रत्युवाच युधिष्ठिरम् पप्रच्छ चैनं धर्मात्मा यथा ते प्रद्रुताः पुरा स तस्मै सर्वम् आचख्याव् आनुपूर्व्येण पाण्डवः तच् छ्रुत्वा द्रुपदो राजा कुन्तीपुत्रस्य भाषितम् विगर्हयाम् आस तदा धृतराष्ट्रं जनेश्वरम् आश्वासयाम् आस च तं कुन्तीपुत्रं युधिष्ठिरम् प्रतिजज्ञे च राज्याय द्रुपदो वदतां वरः ततः कुन्ती च कृष्णा च भीमसेनार्जुनाव् अपि यमौ च राज्ञा संदिष्टौ विविशुर् भवनं महत् तत्र ते न्यवसन् राजन् यज्ञसेनेन पूजिताः प्रत्याश्वस्तांस् ततो राजा सह पुत्रैर् उवाच तान् गृह्णातु विधिवत् पाणिम् अद्यैव कुरुनन्दनः पुण्ये ऽहनि महाबाहुर् अर्जुनः कुरुतां क्षणम् ततस् तम् अब्रवीद् राजा धर्मपुत्रो युधिष्ठिरः ममापि दारसंबन्धः कार्यस् तावद् विशां पते तस्मात् पूर्वं मया कार्यं यद् भवान् अनुमन्यते द्रुपद उवाच भवान् वा विधिवत् पाणिं गृह्णातु दुहितुर् मम यस्य वा मन्यसे वीर तस्य कृष्णाम् उपादिश युधिष्ठिर उवाच सर्वेषां द्रौपदी राजन् महिषी नो भविष्यति एवं हि व्याहृतं पूर्वं मम मात्रा विशां पते अहं चाप्य् अनिविष्टो वै भीमसेनश् च पाण्डवः पार्थेन विजिता चैषा रत्नभूता च ते सुता एष नः समयो राजन् रत्नस्य सहभोजनम् न च तं हातुम् इच्छामः समयं राजसत्तम अक्रमेण निवेशे च धर्मलोपो महान् भवेत् निर्जिता चैव पार्थेन रत्नभूता च ते सुता सर्वेषां धर्मतः कृष्णा महिषी नो भविष्यति आनुपूर्व्येण सर्वेषां गृह्णातु ज्वलने करम् द्रुपद उवाच एकस्य बह्व्यो विहिता महिष्यः कुरुनन्दन नैकस्या बहवः पुंसो विधीयन्ते कदा चन सो ऽयं न लोके वेदे वा जातु धर्मः प्रशस्यते लोकवेदविरुद्धं त्वं नाधर्मं धार्मिकः शुचिः कर्तुम् अर्हसि कौन्तेय कस्मात् ते बुद्धिर् ईदृशी युधिष्ठिर उवाच सूक्ष्मो धर्मो महाराज नास्य विद्मो वयं गतिम् पूर्वेषाम् आनुपूर्व्येण यातं वर्त्मानुयामहे लोकधर्मविरुद्धो ऽयं धर्मो धर्मभृतां वर न मे वाग् अनृतं प्राह नाधर्मे धीयते मतिः एवं चैव वदत्य् अम्बा मम चैव मनोगतम् आश्रमे रुद्रनिर्दिष्टाद् व्यासाद् एतन् मया श्रुतम् एष धर्मो ध्रुवो राजंश् चरैनम् अविचारयन् मा च ते ऽत्र विशङ्का भूत् कथं चिद् अपि पार्थिव द्रुपद उवाच त्वं च कुन्ती च कौन्तेय धृष्टद्युम्नश् च मे सुतः कथयन्त्व् इतिकर्तव्यं श्वः काले करवामहे वैशंपायन उवाच ते समेत्य ततः सर्वे कथयन्ति स्म भारत अथ द्वैपायनो राजन्न् अभ्यागच्छद् यदृच्छया वैशंपायन उवाच ततस् ते पाण्डवाः सर्वे पाञ्चाल्यश् च महायशाः प्रत्युत्थाय महात्मानं कृष्णं दृष्ट्वाभ्यपूजयन् प्रतिनन्द्य स तान् सर्वान् पृष्ट्वा कुशलम् अन्ततः आसने काञ्चने शुभ्रे निषसाद महामनाः अनुज्ञातास् तु ते सर्वे कृष्णेनामिततेजसा आसनेषु महार्हेषु निषेदुर् द्विपदां वराः ततो मुहूर्तान् मधुरां वाणीम् उच्चार्य पार्षतः पप्रच्छ तं महात्मानं द्रौपद्यर्थे विशां पतिः कथम् एका बहूनां स्यान् न च स्याद् धर्मसंकरः एतन् नो भगवान् सर्वं प्रब्रवीतु यथातथम् व्यास उवाच अस्मिन् धर्मे विप्रलम्भे लोकवेदविरोधके यस्य यस्य मतं यद् यच् छ्रोतुम् इच्छामि तस्य तत् द्रुपद उवाच अधर्मो ऽयं मम मतो विरुद्धो लोकवेदयोः न ह्य् एका विद्यते पत्नी बहूनां द्विजसत्तम न चाप्य् आचरितः पूर्वैर् अयं धर्मो महात्मभिः न च धर्मो ऽप्य् अनेकस्थश् चरितव्यः सनातनः अतो नाहं करोम्य् एवं व्यवसायं क्रियां प्रति धर्मसंदेहसंदिग्धं प्रतिभाति हि माम् इदम् धृष्टद्युम्न उवाच यवीयसः कथं भार्यां ज्येष्ठो भ्राता द्विजर्षभ ब्रह्मन् समभिवर्तेत सद्वृत्तः संस् तपोधन न तु धर्मस्य सूक्ष्मत्वाद् गतिं विद्मः कथं चन अधर्मो धर्म इति वा व्यवसायो न शक्यते कर्तुम् अस्मद्विधैर् ब्रह्मंस् ततो न व्यवसाम्य् अहम् पञ्चानां महिषी कृष्णा भवत्व् इति कथं चन युधिष्ठिर उवाच न मे वाग् अनृतं प्राह नाधर्मे धीयते मतिः वर्तते हि मनो मे ऽत्र नैषो ऽधर्मः कथं चन श्रूयते हि पुराणे ऽपि जटिला नाम गौतमी तस्य पुत्री महाप्राज्ञा गौतमस्य यशस्विनी ऋषीन् अध्यासितवती सप्त धर्मभृतां वर तथैव मुनिजा वार्क्षी तपोभिर् भावितात्मनः संगताभूद् दश भ्रातॄन् एकनाम्नः प्रचेतसः गुरोश् च वचनं प्राहुर् धर्मं धर्मज्ञसत्तम गुरूणां चैव सर्वेषां जनित्री परमो गुरुः सा चाप्य् उक्तवती वाचं भैक्षवद् भुज्यताम् इति तस्माद् एतद् अहं मन्ये धर्मं द्विजवरोत्तम कुन्त्य् उवाच भुज्यतां भ्रातृभिः सार्धम् इत्य् अर्जुनम् अचोदयम् एवम् एतद् यथाहायं धर्मचारी युधिष्ठिरः अनृतान् मे भयं तीव्रं मुच्येयम् अनृतात् कथम् व्यास उवाच अनृतान् मोक्ष्यसे भद्रे धर्मश् चैष सनातनः न तु वक्ष्यामि सर्वेषां पाञ्चाल शृणु मे स्वयम् यथायं विहितो धर्मो यतश् चायं सनातनः यथा च प्राह कौन्तेयस् तथा धर्मो न संशयः वैशंपायन उवाच तत उत्थाय भगवान् व्यासो द्वैपायनः प्रभुः करे गृहीत्वा राजानं राजवेश्म समाविशत् पाण्डवाश् चापि कुन्ती च धृष्टद्युम्नश् च पार्षतः विचेतसस् ते तत्रैव प्रतीक्षन्ते स्म ताव् उभौ ततो द्वैपायनस् तस्मै नरेन्द्राय महात्मने आचख्यौ तद् यथा धर्मो बहूनाम् एकपत्निता यथा देवा ददुश् चैव राजपुत्र्याः पुरा वरम् धर्माद्यास् तपसा तुष्टाः पञ्चपत्नीत्वम् ईश्वराः व्यासः ऋषिः व्यासः नाऌआयनी व्यासः द्रुपदः व्यासः इन्द्रसेना ऋषिः व्यासः नाऌआयनी महेश्वरः नाऌआयनी महेश्वरः नाऌआयनी महेश्वरः व्यासः मा भूद् राजंस् तव तापो मनःस्थः; पञ्चानां भार्या दुहिता ममेति मातुर् एषा पार्थिव प्रार्थिता स्यात्; पञ्चानां भार्या दुहिता ममेति याजोपयाजौ धर्मरतौ तपोभ्यां; तौ चक्रतुः पञ्चपतित्वम् अस्याः सा धर्मतः पाण्डुपुत्रैर् अवाप्ता; भार्या कृष्णा मोदतां वै कुलं ते लोके नान्यो नाथवांस् त्वद् विशिष्टः; सर्वारीणाम् अप्रधृष्यो ऽसि राजन् भूयस् तु मे शृण्व् इदं त्वं विशोको; यथागमं पञ्चपतित्वम् अस्याः एषा नाऌआयनी पूर्वं मौद्गल्यं स्थविरं पतिम् आराधयाम् आस तदा कुष्ठिनं तम् अनिन्दिता त्वगस्थिभूतं कटुकं लोलम् ईर्ष्युं सुकोपनम् सुगन्धेतरगन्धाढ्यं वलीपलितधारिणम् स्थविरं विकृताकारं शीर्यमाणनखत्वचम् उच्छिष्टम् उपभुञ्जाना पर्युपास्ते महाव्रता ततः कदा चिद् अङ्गुष्ठो भुञ्जानस्य व्यशीर्यत अन्नाद् उद्धृत्य तच् चान्नम् उपायुङ्क्ताविशङ्किता तेन तस्याः प्रसन्नेन कामव्याहारिणा तदा वरं वृणीष्वेत्य् असकृद् उक्ता वव्रे वरं तदा नास्मि वृद्धो न कटुको नेर्ष्युर् नैवातिकोपनः न च दुर्गन्धवदनो न कृशो न च लोलुपः कथं त्वां रमयामीह कथं त्वां वासयाम्य् अहम् वद कल्याणि भद्रं ते यथा त्वं मनसेच्छसि सा तम् अक्लिष्टकर्माणं वरदं सर्वकामदम् भर्तारम् अनवद्याङ्गी प्रसन्नं प्रत्युवाच ह पञ्चबाणातिविद्धाहं मन्मथस्य महामते पञ्चधा मां विभक्तात्मा भगवांल् लोकविश्रुतः रमय त्वम् अचिन्त्यात्मन् पुनश् चैकत्वम् आस्थितः तां तथेत्य् अब्रवीद् धीमान् ब्रह्मर्षिर् वै महातपाः स पञ्चधानुभूत्वा तां रमयाम् आस सर्वशः नाऌआयनीं सुकेशान्तां मुद्गलश् चारुहासिनीम् आश्रमेष्व् अधिकं चापि पूज्यमानो महर्षिभिः विचचार यथाकामं कामरूपवपुः पुनः यदा ययौ दिवं चापि तत्र देवर्षिभिः सह सुधामृतरसाहारः सुरलोके चचार ह पूज्यमानस् तथा शच्या शक्रस्य भवनेष्व् अपि महेन्द्रसेनया सार्धं पर्यधावद् रिरंसया सूर्यस्य च रथं दिव्यम् आरुह्य भगवान् प्रभुः पर्युपेत्य पुनर् मेरुं मेरौ वासम् अरोचयत् आकाशगङ्गाम् आप्लुत्य तया सह तपोनिधिः अंशुजालेषु चन्द्रस्य उवास च यथानिलः गिरिरूपं यदा दध्रे स महर्षिस् तदा पुनः तत्प्रभावेन सा तस्य मध्ये जज्ञे महानदी यदा पुष्पाकुलः सालः संजज्ञे भगवान् ऋषिः लतात्वम् अथ संपेदे तम् एवाभ्यनुवेष्टती पुपोष च वपुर् यस्य तस्यानुगं पुनः सा पुपोष समं भर्तुः स्कन्धेनापि चचार ह ततस् तस्य च तस्याश् च तुल्या प्रीतिर् अवर्धत तथा हि भगवांस् तस्याः प्रसादाद् ऋषिसत्तमः विजज्ञुषी च सा तत्र दैवयोगेन भामिनी स च तां तपसा देवीं रमयाम् आस योगतः एकपत्नी पुरा भूत्वा सदैवाग्रे यशस्विनी अरुन्धतीव सीतेव बभूवातिपतिव्रता दमयन्त्याश् च मातुः सा विशेषम् अधिकं ययौ एतत् तथ्यं महाराज मा ते भूद् बुद्धिर् अन्यथा एषा नाऌआयनी जज्ञे दैवयोगेन केन चित् राजंस् तवात्मजा कृष्णा वेद्यां तेजस्विनी शुभा तस्मिंस् तस्या मनः सक्तं न शशाक कदा चन तथा प्रणिहितो ह्य् आत्मा तस्यास् तस्मिन् द्विजोत्तमे ब्रूहि तत् कारणं येन ब्रह्मञ् जाता तपस्विनी सुता ममाध्वरे कृष्णा सर्ववेदविदां वर शृणु राजन् यथा ह्य् अस्या दत्तो रुद्रेण वै वरः यदर्थं चैव संभूता तव यज्ञे यशस्विनी अहं ते कथयिष्यामि कृष्णायाः पौर्वदेहिकम् इन्द्रसेनेति विख्याता पुरा नाऌआयनी शुभा मौद्गल्यं पतिम् आसाद्य चचार विगतज्वरा मौद्गल्यस्य महर्षेश् च रममाणस्य वै तया संवत्सरगणा राजन् व्यतीयुः क्षणवत् तदा ततः कदा चिद् धर्मात्मा तृप्तः कामाद् व्यरज्यत अन्विच्छन् परमं ब्रह्म त्यागधर्मपरो ऽभवत् उत्ससर्ज स तां विप्रः सा तदा चापतद् भुवि मौद्गल्यो राजशार्दूल तपोभिर् भावितः सदा कामभोगातुराभ्येत्य वचनं चेदम् अब्रवीत् प्रसीद भगवन् मह्यं न माम् उत्स्रष्टुम् अर्हसि अवितृप्तास्मि ब्रह्मर्षे कामानां कामसेवनात् मारो मां बाधते ऽत्यर्थम् अनुगृह्णातु मां भवान् तर्पयस्व ममाक्षाणि गुह्यं मां बाधते ऽनिशम् यस्मात् त्वं मयि निःशङ्का ह्य् अवक्तव्यं प्रभाषसे आचरन्ती तपोविघ्नं तस्माच् छृणु वचो मम भविष्यसि नृलोके त्वं राजपुत्री यशस्विनी पाञ्चालराजस्य सुता द्रुपदस्य महात्मनः भवितारस् तु ते तत्र पतयः पञ्च विश्रुताः तैः सार्धं मधुराकारैश् चिरं रतिम् अवाप्स्यसि सैवं शप्ता तु विमना वनं प्राप्ता यशस्विनी भोगैर् अतृप्ता देवेशं तपसाराधयत् तदा निराशीर् मारुताहारा निराहारा तथैव च अनुवर्तमाना त्व् आदित्यं तथा पञ्चतपाभवत् तीव्रेण तपसा तस्यास् तुष्टः पशुपतिः स्वयम् वरं प्रादात् तदा रुद्रः सर्वलोकेश्वरः प्रभुः भविष्यति परं जन्म मानुषेषु वराङ्गने भविष्यन्ति च ते भद्रे पतयः पञ्च सुव्रताः महेन्द्रवपुषः सर्वे महेन्द्रसमविक्रमाः तत्रस्था च महत् कर्म सुराणां त्वं करिष्यसि एकः खलु मया भर्ता वृतः पञ्चापि मे कथम् भविष्यन्ति ममैकस्याः पतयस् तद् ब्रवीहि मे पञ्चकृत्वस् त्वया ह्य् उक्तः पतिं देहीत्य् अहं पुनः पञ्च ते पतयो भद्रे भविष्यन्ति सुखावहाः धर्म एकः पतिः स्त्रीणां पूर्वम् एव प्रकल्पितः बहुपत्नीकता पुंसां धर्मश् च पितृभिः कृतः स्त्रीधर्मः पूर्वम् एवायं निर्मितो मुनिभिः पुरा सहधर्मचरी भर्तुर् एका एकस्य चोच्यते एको हि भर्ता नारीणां कौमार इति लौकिकः आपत्सु च नियोगेन संतानार्थे परः स्मृतः गच्छेत या तृतीयं तु तस्या निष्कृतिर् उच्यते चतुर्थे पतिता धर्मात् पञ्चमे वर्धकी भवेत् एवं गते धर्मपथे न वृणे बहुपुंस्कताम् अलोकाचरितात् तस्मात् कथं मुच्येय संकरात् अनावृताः पुरा नार्यो ह्य् आसञ् शुध्यन्ति चार्तवे सकृद् उक्तं त्वया नैतान् नाधर्मस् ते भविष्यति यदि मे पतयः पञ्च वरम् इच्छामि तैर् मिथः कौमारं च भवेत् सर्वैः संगमे संगमे च मे पतिशुश्रूषया चैव सिद्धिः प्राप्ता पुरा मया भोगेच्छा च मया प्राप्ता स च भोगश् च मे भवेत् रतिश् च भद्रे सिद्धिश् च न भजेते परस्परम् अभोगा लप्स्यसे सिद्धिं योगेनापि महत्वताम् अन्यदेहान्तरे च त्वं रूपभाग्यगुणान्विता पञ्चभिः प्राप्य कौमारं महाभागा भविष्यसि गच्छ गङ्गाजलस्था च नरं पश्यसि यं शुभे तम् आनय ममाभ्याशं सुरराजं शुचिस्मिते इत्य् उक्ता विश्वरूपेण रुद्रं कृत्वा प्रदक्षिणम् जगाम गङ्गाम् उद्दिश्य पुण्यां त्रिपथगां नदीम् व्यास उवाच पुरा वै नैमिषारण्ये देवाः सत्रम् उपासते तत्र वैवस्वतो राजञ् शामित्रम् अकरोत् तदा ततो यमो दीक्षितस् तत्र राजन्; नामारयत् किं चिद् अपि प्रजाभ्यः ततः प्रजास् ता बहुला बभूवुः; कालातिपातान् मरणात् प्रहीणाः स तत्र दीक्षितस् तात यमो नामारयत् प्रजाः प्राणिनो ऽथ न मृताश् च . . . . . . . . ततस् तु शक्रो वरुणः कुबेरः; साध्या रुद्रा वसवश् चाश्विनौ च प्रणेतारं भुवनस्य प्रजापतिं; समाजग्मुस् तत्र देवास् तथान्ये ततो ऽब्रुवंल् लोकगुरुं समेता; भयं नस् तीव्रं मानुषाणां विवृद्ध्या तस्माद् भयाद् उद्विजन्तः सुखेप्सवः; प्रयाम सर्वे शरणं भवन्तम् ब्रह्मोवाच किं वो भयं मानुषेभ्यो यूयं सर्वे यदामराः मा वो मर्त्यसकाशाद् वै भयं भवतु कर्हि चित् देवा ऊचुः मर्त्या ह्य् अमर्त्याः संवृत्ता न विशेषो ऽस्ति कश् चन अविशेषाद् उद्विजन्तो विशेषार्थम् इहागताः ब्रह्मोवाच वैवस्वतो व्यापृतः सत्रहेतोस्; तेन त्व् इमे न म्रियन्ते मनुष्याः तस्मिन्न् एकाग्रे कृतसर्वकार्ये; तत एषां भवितैवान्तकालः वैवस्वतस्यापि तनुर् विभूता; वीर्येण युष्माकम् उत प्रयुक्ता सैषाम् अन्तो भविता ह्य् अन्तकाले; तनुर् हि वीर्यं भविता नरेषु व्यास उवाच ततस् तु ते पूर्वजदेववाक्यं; श्रुत्वा देवा यत्र देवा यजन्ते समासीनास् ते समेता महाबला; भागीरथ्यां ददृशुः पुण्डरीकम् दृष्ट्वा च तद् विस्मितास् ते बभूवुस्; तेषाम् इन्द्रस् तत्र शूरो जगाम सो ऽपश्यद् योषाम् अथ पावकप्रभां; यत्र गङ्गा सततं संप्रसूता सा तत्र योषा रुदती जलार्थिनी; गङ्गां देवीं व्यवगाह्यावतिष्ठत् तस्याश्रुबिन्दुः पतितो जले वै; तत् पद्मम् आसीद् अथ तत्र काञ्चनम् तद् अद्भुतं प्रेक्ष्य वज्री तदानीम्; अपृच्छत् तां योषितम् अन्तिकाद् वै का त्वं कथं रोदिषि कस्य हेतोर्; वाक्यं तथ्यं कामयेह ब्रवीहि स्त्र्य् उवाच त्वं वेत्स्यसे माम् इह यास्मि शक्र; यदर्थं चाहं रोदिमि मन्दभाग्या आगच्छ राजन् पुरतो ऽहं गमिष्ये; द्रष्टासि तद् रोदिमि यत्कृते ऽहम् व्यास उवाच तां गच्छन्तीम् अन्वगच्छत् तदानीं; सो ऽपश्यद् आरात् तरुणं दर्शनीयम् सिंहासनस्थं युवतीसहायं; क्रीडन्तम् अक्षैर् गिरिराजमूर्ध्नि तम् अब्रवीद् देवराजो ममेदं; त्वं विद्धि विश्वं भुवनं वशे स्थितम् ईशो ऽहम् अस्मीति समन्युर् अब्रवीद्; दृष्ट्वा तम् अक्षैः सुभृशं प्रमत्तम् क्रुद्धं तु शक्रं प्रसमीक्ष्य देवो; जहास शक्रं च शनैर् उदैक्षत संस्तम्भितो ऽभूद् अथ देवराजस्; तेनेक्षितः स्थाणुर् इवावतस्थे यदा तु पर्याप्तम् इहास्य क्रीडया; तदा देवीं रुदतीं ताम् उवाच आनीयताम् एष यतो ऽहम् आरान्; मैनं दर्पः पुनर् अप्य् आविशेत ततः शक्रः स्पृष्टमात्रस् तया तु; स्रस्तैर् अङ्गैः पतितो ऽभूद् धरण्याम् तम् अब्रवीद् भगवान् उग्रतेजा; मैवं पुनः शक्र कृथाः कथं चित् विवर्तयैनं च महाद्रिराजं; बलं च वीर्यं च तवाप्रमेयम् विवृत्य चैवाविश मध्यम् अस्य; यत्रासते त्वद्विधाः सूर्यभासः स तद् विवृत्य शिखरं महागिरेस्; तुल्यद्युतींश् चतुरो ऽन्यान् ददर्श स तान् अभिप्रेक्ष्य बभूव दुःखितः; कच्चिन् नाहं भविता वै यथेमे ततो देवो गिरिशो वज्रपाणिं; विवृत्य नेत्रे कुपितो ऽभ्युवाच दरीम् एतां प्रविश त्वं शतक्रतो; यन् मां बाल्याद् अवमंस्थाः पुरस्तात् उक्तस् त्व् एवं विभुना देवराजः; प्रवेपमानो भृशम् एवाभिषङ्गात् स्रस्तैर् अङ्गैर् अनिलेनेव नुन्नम्; अश्वत्थपत्रं गिरिराजमूर्ध्नि स प्राञ्जलिर् विनतेनाननेन; प्रवेपमानः सहसैवम् उक्तः उवाच चेदं बहुरूपम् उग्रं; द्रष्टा शेषस्य भगवंस् त्वं भवाद्य तम् अब्रवीद् उग्रधन्वा प्रहस्य; नैवंशीलाः शेषम् इहाप्नुवन्ति एते ऽप्य् एवं भवितारः पुरस्तात्; तस्माद् एतां दरिम् आविश्य शेध्वम् शेषो ऽप्य् एवं भविता वो न संशयो; योनिं सर्वे मानुषीम् आविशध्वम् तत्र यूयं कर्म कृत्वाविषह्यं; बहून् अन्यान् निधनं प्रापयित्वा शस्त्रैर् दिव्यैर् मानुषान् योधयित्वा शूरान् सर्वान् आहवे तान् विजित्य आगन्तारः पुनर् एवेन्द्रलोकं; स्वकर्मणा पूर्वजितं महार्हम् सर्वं मया भाषितम् एतद् एवं; कर्तव्यम् अन्यद् विविधार्थवच् च पूर्वेन्द्रा ऊचुः गमिष्यामो मानुषं देवलोकाद्; दुराधरो विहितो यत्र मोक्षः देवास् त्व् अस्मान् आदधीरञ् जनन्यां; धर्मो वायुर् मघवान् अश्विनौ च अस्त्रैर् दिव्यैर् मानुषान् योधयित्वा आगन्तारः पुनर् एवेन्द्रलोकम् व्यास उवाच एतच् छ्रुत्वा वज्रपाणिर् वचस् तु; देवश्रेष्ठं पुनर् एवेदम् आह वीर्येणाहं पुरुषं कार्यहेतोर्; दद्याम् एषां पञ्चमं मत्प्रसूतम् विश्वभुग् ऋतधामा च शिबिर् इन्द्रः प्रतापवान् शान्तिश् चतुर्थस् तेषां वै तेजस्वी पञ्चमः स्मृतः तेषां कामं भगवान् उग्रधन्वा; प्रादाद् इष्टं सन्निसर्गाद् यथोक्तम् तां चाप्य् एषां योषितं लोककान्तां; श्रियं भार्यां व्यदधान् मानुषेषु तैर् एव सार्धं तु ततः स देवो; जगाम नारायणम् अप्रमेयम् अनन्तम् अव्यक्तम् अजं पुराणं सनातनं विश्वम् अनन्तरूपम् स चापि तद् व्यदधात् सर्वम् एव; ततः सर्वे संबभूवुर् धरण्याम् नरं तु देवं विबुधप्रधानम् इन्द्रो जिष्णुं पञ्चमं कल्पयित्वा स चापि केशौ हरिर् उद्बबर्ह; शुक्लम् एकम् अपरं चापि कृष्णम् तौ चापि केशौ विशतां यदूनां; कुले स्त्रियौ रोहिणीं देवकीं च यो ऽसौ श्वेतस् तस्य देवस्य केशः तयोर् एको बलदेवो बभूव; कृष्णो द्वितीयः केशवः संबभूव केशो यो ऽसौ वर्णतः कृष्ण उक्तः ये ते पूर्वं शक्ररूपा निरुद्धास्; तस्यां दर्यां पर्वतस्योत्तरस्य इहैव ते पाण्डवा वीर्यवन्तः; शक्रस्यांशः पाण्डवः सव्यसाची एवम् एते पाण्डवाः संबभूवुर्; ये ते राजन् पूर्वम् इन्द्रा बभूवुः लक्ष्मीश् चैषां पूर्वम् एवोपदिष्टा; भार्या यैषा द्रौपदी दिव्यरूपा कथं हि स्त्री कर्मणो ऽन्ते महीतलात्; समुत्तिष्ठेद् अन्यतो दैवयोगात् यस्या रूपं सोमसूर्यप्रकाशं; गन्धश् चाग्र्यः क्रोशमात्रात् प्रवाति इदं चान्यत् प्रीतिपूर्वं नरेन्द्र; ददामि ते वरम् अत्यद्भुतं च दिव्यं चक्षुः पश्य कुन्तीसुतांस् त्वं; पुण्यैर् दिव्यैः पूर्वदेहैर् उपेतान् वैशंपायन उवाच ततो व्यासः परमोदारकर्मा; शुचिर् विप्रस् तपसा तस्य राज्ञः चक्षुर् दिव्यं प्रददौ तान् स सर्वान्; राजापश्यत् पूर्वदेहैर् यथावत् ततो दिव्यान् हेमकिरीटमालिनः; शक्रप्रख्यान् पावकादित्यवर्णान् बद्धापीडांश् चारुरूपांश् च यूनो; व्यूढोरस्कांस् तालमात्रान् ददर्श दिव्यैर् वस्त्रैर् अरजोभिः सुवर्णैर्; माल्यैश् चाग्र्यैः शोभमानान् अतीव साक्षात् त्र्यक्षान् वसवो वाथ दिव्यान्; आदित्यान् वा सर्वगुणोपपन्नान् तान् पूर्वेन्द्रान् एवम् ईक्ष्याभिरूपान्; प्रीतो राजा द्रुपदो विस्मितश् च शक्रात्मजं चेन्द्ररूपं निशम्य दिव्यां मायां ताम् अवाप्याप्रमेयां; तां चैवाग्र्यां श्रियम् इव रूपिणीं च दिव्यां साक्षात् सोमवह्निप्रकाशां योग्यां तेषां रूपतेजोयशोभिः; पत्नीम् ऋद्धां दृष्टवान् पार्थिवेन्द्रः स तद् दृष्ट्वा महद् आश्चर्यरूपं; जग्राह पादौ सत्यवत्याः सुतस्य नैतच् चित्रं परमर्षे त्वयीति; प्रसन्नचेताः स उवाच चैनम् व्यास उवाच आसीत् तपोवने का चिद् ऋषेः कन्या महात्मनः नाध्यगच्छत् पतिं सा तु कन्या रूपवती सती तोषयाम् आस तपसा सा किलोग्रेण शंकरम् ताम् उवाचेश्वरः प्रीतो वृणु कामम् इति स्वयम् सैवम् उक्ताब्रवीत् कन्या देवं वरदम् ईश्वरम् पतिं सर्वगुणोपेतम् इच्छामीति पुनः पुनः ददौ तस्यै स देवेशस् तं वरं प्रीतिमांस् तदा पञ्च ते पतयः श्रेष्ठा भविष्यन्तीति शंकरः सा प्रसादयती देवम् इदं भूयो ऽभ्यभाषत एकं पतिं गुणोपेतं त्वत्तो ऽर्हामीति वै तदा तां देवदेवः प्रीतात्मा पुनः प्राह शुभं वचः पञ्चकृत्वस् त्वया उक्तः पतिं देहीत्य् अहं पुनः तत् तथा भविता भद्रे तव तद् भद्रम् अस्तु ते देहम् अन्यं गतायास् ते यथोक्तं तद् भविष्यति सैव नाऌआयनी भूत्वा रूपेणाप्रतिमा भुवि मौद्गल्यं पतिम् आसाद्य शिवाद् वरम् अवाप्य च शृणु गुह्यं महीपाल वदतः सावधानतः संश्रद्धत्स्व वचो मह्यं ततः पश्यसि पाण्डवान् हत्वा वृत्रं सुरपतिस् त्वाष्ट्रं स्वर्गात् स ह च्युतः ब्रह्महत्याम् अवाप्याथ धर्मादिरहितस् तदा ऐन्द्रो धर्मो यमम् अगाद् बलं वायुम् अथाविशत् वीर्यं वरं ज्ञानरूपे नासत्याव् अभिजग्मतुः ह्रीश् च लक्ष्मीश् च कीर्तिश् च संनतिर् मतिर् एव च एता विनिर्गता इन्द्राद् वाग्देवीं ताः समाश्रिताः पूर्वेन्द्रवरदानाच् च महेशस्याज्ञया नृप धर्मादीन् पाण्डवान् विद्धि ह्रियाद् या द्रौपदीं तथा तद् इमे पाण्डवा राजन् इन्द्र एको न संशयः एकैव द्रौपदी राजन् पौलोमी ते न संशयः शृणु गुह्यतमं चान्यद् रहस्यं देवनिर्मितम् यच् छ्रुत्वा संशयस् ते ऽद्य शतधा विफलिष्यति सद्योजातमुखादीनि मुखानि च महेशितुः पाण्डवाः पञ्च यानि स्युः पार्वती द्रौपदी त्व् इयम् इदम् अन्यद् रहस्यं ते देवगुह्यं सनातनम् भवतः प्रत्ययार्थं च निःसंशयकरं महत् चत्वारश् च भुजा विष्णोः शङ्खचक्रादिलाञ्छिताः धर्मराजश् च भीमश् च यमौ च नृपसत्तम अर्जुनस् तु स्वयं विष्णुः पाञ्चाली कमलावती चतस्रो मूर्तयो विष्णोः स्वयं विष्णुश् च सिन्धुजा चतुरः पाण्डवाञ् जिष्णुं कृष्णां विद्धि महीश्वर चतुर्मूर्तिश् चतुर्व्यूहो वासुदेवादिभिः सह अवतीर्णो महीं विष्णुः पाञ्चाली कमला स्वयम् पञ्चायतनसंज्ञश् च पञ्चमूर्तिः सदाशिवः निवृत्तादिलयान् पञ्च पाञ्चालीं विद्धि भूमिप तस्मात् ते संशयो मा भूत् पाण्डवेभ्यः प्रदीयताम् कृष्णा तव सुता राजन् पञ्चभिः पूर्वसंभवात् पञ्चाग्नयः पाण्डवाः स्युः स्वाहा कृष्णा प्रकीर्तिता द्रुपदैषा हि सा जज्ञे सुता ते देवरूपिणी पञ्चानां विहिता पत्नी कृष्णा पार्षत्य् अनिन्दिता स्वर्गश्रीः पाण्डवार्थाय समुत्पन्ना महामखे सेह तप्त्वा तपो घोरं दुहितृत्वं तवागता सैषा देवी रुचिरा देवजुष्टा; पञ्चानाम् एका स्वकृतेन कर्मणा सृष्टा स्वयं देवपत्नी स्वयम्भुवा; श्रुत्वा राजन् द्रुपदेष्टं कुरुष्व व्यासः इदं चापि पुरावृत्तं तन् निबोध च भूमिप कीर्त्यमानं नृपर्षीणां पूर्वेषां दारकर्मणि नितन्तुर् नाम राजर्षिर् बभूव भुवि विश्रुतः तस्य पुत्रा महेष्वासा बभूवुः पञ्च भूमिपाः साल्वेयः शूरसेनश् च श्रुतसेनश् च वीर्यवान् तिन्दुसारो ऽतिसारश् च क्षत्रियाः क्रतुयाजिनः नातिचक्रमुर् अन्योन्यम् अन्योन्यस्य प्रियंवदाः एतान् नैतन्तवान् पञ्च शैब्या चात्र स्वयंवरे अवाप सा पतीन् वीरान् भौमाश्वी मनुजाधिपान् वीणेव मधुरारावा गान्धारस्वरमूर्च्छिता उत्तमा सर्वनारीणां भौमाश्वी ह्य् अभवत् तदा यस्या नैतन्तवाः पञ्च पतयः क्षत्रियर्षभाः बभूवुः पृथिवीपालाः सर्वैः समुदिता गुणैः तेषाम् एकाभवद् भार्या राज्ञाम् औशीनरी नृप भौमाश्वी नाम भद्रं ते तदा रूपगुणान्विता पञ्चभ्यः पञ्चधा पञ्च दायादान् सा व्यजायत तेभ्यो नैतन्तवेभ्यस् तु राजशार्दूल वै तदा पृथग् आख्याभवत् तेषां मत्स्यानां पञ्चधा भुवि यथावत् कीर्त्यमानांस् ताञ् शृणु मे राजसत्तम साल्वेयाः शूरसेनाश् च श्रुतसेनाश् च पार्थिवाः तिन्दुसारातिसाराश् च वंशा एषां नृपोत्तम एवम् एकाभवद् भार्या भौमाश्वी भुवि विश्रुता द्रुपद उवाच अश्रुत्वैवं वचनं ते महर्षे; मया पूर्वं यतितं कार्यम् एतत् श्रुत्वा वचस् तथ्यम् इदं महार्थं नष्टप्रमोहो ऽस्मि महानुभाव न वै शक्यं विहितस्यापयातुं; तद् एवेदम् उपपन्नं विधानम् दिष्टस्य ग्रन्थिर् अनिवर्तनीयः; स्वकर्मणा विहितं नेह किं चित् कृतं निमित्तं हि वरैकहेतोस्; तद् एवेदम् उपपन्नं बहूनाम् यथैव कृष्णोक्तवती पुरस्तान्; नैकान् पतीन् मे भगवान् ददातु स चाप्य् एवं वरम् इत्य् अब्रवीत् तां; देवो हि वेद परमं यद् अत्र यदि वायं विहितः शंकरेण; धर्मो ऽधर्मो वा नात्र ममापराधः गृह्णन्त्व् इमे विधिवत् पाणिम् अस्या; यथोपजोषं विहितैषां हि कृष्णा नायं विधिर् मानुषाणां विवाहे देवा ह्य् एते द्रौपदी चापि लक्ष्मीः प्राक् कर्मणः स्वकृतात् पञ्च भर्तॄन् अवाप्य् एषा देवदेवप्रसादात् नैषाम् एवायं विहितः सद्विवाहो यद् भार्यैषा द्रौपदी पाण्डवानाम् अन्ये ऽप्य् एवं स्युर् मनुष्याः स्त्रियश् च न धर्मः स्यान् मानवोक्तो नरेन्द्र वैशंपायन उवाच ततो ऽब्रवीद् भगवान् धर्मराजम्; अद्य पुण्याहम् उत पाण्डवेय अद्य पौष्यं योगम् उपैति चन्द्रमाः; पाणिं कृष्णायास् त्वं गृहाणाद्य पूर्वम् पाणिं गृहाण प्रथमं त्वम् अस्याः पाञ्चालराजस्य नरेन्द्र पुत्र्याः तत आजग्मतुस् तत्र तौ कृष्णद्रुपदाव् उभौ कुन्ती सपुत्रा यत्रास्ते धृष्टद्युम्नश् च पार्षतः ततो द्वैपायनः कृष्णो युधिष्ठिरम् अथाब्रवीत् अद्य पुण्यमहश् चन्द्रो रोहिण्या च समेष्यति क्रमेण मनुजव्याघ्राः पाणिं गृह्णन्तु पाण्डवाः द्रौपद्या धर्मतः सर्वे दृष्टम् एतत् पुरानघ ततो राजा यज्ञसेनः सपुत्रो; जन्यार्थ युक्तं बहु तत् तदग्र्यम् समानयाम् आस सुतां च कृष्णाम्; आप्लाव्य रत्नैर् बहुभिर् विभूष्य ततः सर्वे सुहृदस् तत्र तस्य; समाजग्मुः सचिवा मन्त्रिणश् च द्रष्टुं विवाहं परमप्रतीता; द्विजाश् च पौराश् च यथाप्रधानाः तत् तस्य वेश्मार्थिजनोपशोभितं; विकीर्णपद्मोत्पलभूषिताजिरम् महार्हरत्नौघविचित्रम् आबभौ; दिवं यथा निर्मलतारकाचितम् ततस् तु ते कौरवराजपुत्रा; विभूषिताः कुण्डलिनो युवानः महार्हवस्त्रा वरचन्दनोक्षिताः; कृताभिषेकाः कृतमङ्गलक्रियाः पुरोहितेनाग्निसमानवर्चसा; सहैव धौम्येन यथाविधि प्रभो क्रमेण सर्वे विविशुश् च तत् सदो; महर्षभा गोष्ठम् इवाभिनन्दिनः ततः समाधाय स वेदपारगो; जुहाव मन्त्रैर् ज्वलितं हुताशनम् युधिष्ठिरं चाप्य् उपनीय मन्त्रविन्; नियोजयाम् आस सहैव कृष्णया प्रदक्षिणं तौ प्रगृहीतपाणी; समानयाम् आस स वेदपारगः विप्रांस् तु संतर्प्य युधिष्ठिरो ऽन्नैर् गोभिश् च रत्नैर् विविधैर् अपूर्वैः जग्राह पाणिं नरदेवपुत्र्या धौम्येन मन्त्रैर् विधिवद् धुते ऽग्नौ ततो ऽन्तरिक्षात् कुसुमानि पेतुर् ववौ च वायुः सुमनोज्ञगन्धः ततो ऽभ्यनुज्ञाय तम् आजिशोभिनं; पुरोहितो राजगृहाद् विनिर्ययौ क्रमेण चानेन नराधिपात्मजा; वरस्त्रियास् ते जगृहुस् तदा करम् अहन्य् अहन्य् उत्तमरूपधारिणो; महारथाः कौरववंशवर्धनाः इदं च तत्राद्भुतरूपम् उत्तमं; जगाद विप्रर्षिर् अतीतमानुषम् महानुभावा किल सा सुमध्यमा; बभूव कन्यैव गते गते ऽहनि पतिश्वशुरता ज्येष्ठे पतिदेवरतानुजे मध्यमेषु च पाञ्चाल्याः त्रितयं त्रितयं त्रिषु कृते विवाहे द्रुपदो धनं ददौ; महारथेभ्यो बहुरूपम् उत्तमम् शतं रथानां वरहेमभूषिणां; चतुर्युजां हेमखलीनमालिनाम् शतं गजानाम् अभिपद्मिनां तथा; शतं गिरीणाम् इव हेमशृङ्गिणाम् शतं दशाश्वान् मणिहेमभूषणान् मनोजवान् द्वादशवार्षिकान् यथा तथैव दासीशतम् अग्र्ययौवनं; महार्हवेषाभरणाम्बरस्रजम् हैमानि शय्यासनभाजनानि द्रव्याणि चान्यानि महासनानि पृथक् पृथक् चैव दशायुतान्वितं; धनं ददौ सौमकिर् अग्निसाक्षिकम् तथैव वस्त्राणि च भूषणानि; प्रभावयुक्तानि महाधनानि कृते विवाहे च ततः स्म पाण्डवाः; प्रभूतरत्नाम् उपलभ्य तां श्रियम् विजह्रुर् इन्द्रप्रतिमा महाबलाः; पुरे तु पाञ्चालनृपस्य तस्य ह सर्वे ऽप्य् अतुष्यन् नृप पाण्डवेयास् तस्याः शुभैः शीलसमाधिवृत्तैः सा चाप्य् एषां याज्ञसेनी तदानीं विवर्धयाम् आस मुदं स्ववृत्तैः वैशंपायन उवाच पाण्डवैः सह संयोगं गतस्य द्रुपदस्य तु न बभूव भयं किं चिद् देवेभ्यो ऽपि कथं चन एवं विवाहं कृत्वा ते वीरा द्रुपदवेश्मनि ऊषुः सर्वे यथा पुण्यं कृतवन्तो ऽन्तरिक्षगाः कुन्तीम् आसाद्य ता नार्यो द्रुपदस्य महात्मनः नाम संकीर्तयन्त्यस् ताः पादौ जग्मुः स्वमूर्धभिः कृष्णा च क्षौमसंवीता कृतकौतुकमङ्गला कृताभिवादना श्वश्र्वास् तस्थौ प्रह्वा कृताञ्जलिः रूपलक्षणसंपन्नां शीलाचारसमन्विताम् द्रौपदीम् अवदत् प्रेम्णा पृथाशीर्वचनं स्नुषाम् यथेन्द्राणी हरिहये स्वाहा चैव विभावसौ रोहिणी च यथा सोमे दमयन्ती यथा नले यथा वैश्रवणे भद्रा वसिष्ठे चाप्य् अरुन्धती यथा दाशरथौ सीता यथा रुद्रे नगात्मजा लोपामुद्रा यथागस्त्ये यथा रामे च जानकी यथा नारायणे लक्ष्मीस् तथा त्वं भव भर्तृषु वाग्देवी चतुरानने गिरिजा गिरिशे यद्वद् उषा भानौ यथा स्थिरा स्थिरा च वल्लभा च त्वं जीवसूर् वीरसूर् भद्रे बहुसौख्यसमन्विता सुभगा भोगसंपन्ना यज्ञपत्नी स्वनुव्रता अतिथीन् आगतान् साधून् बालान् वृद्धान् गुरूंस् तथा पूजयन्त्या यथान्यायं शश्वद् गच्छन्तु ते समाः कुरुजाङ्गलमुख्येषु राष्ट्रेषु नगरेषु च अनु त्वम् अभिषिच्यस्व नृपतिं धर्मवत्सलम् पतिभिर् निर्जिताम् उर्वीं विक्रमेण महाबलैः कुरु ब्राह्मणसात् सर्वाम् अश्वमेधे महाक्रतौ पृथिव्यां यानि रत्नानि गुणवन्ति गुनान्विते तान्य् आप्नुहि त्वं कल्याणि सुखिनी शरदां शतम् यथा च त्वाभिनन्दामि वध्व् अद्य क्षौमसंवृताम् तथा भूयो ऽभिनन्दिष्ये सूतपुत्रां गुणान्विताम् ततस् तु कृतदारेभ्यः पाण्डुभ्यः प्राहिणोद् धरिः मुक्तावैडूर्यचित्राणि हैमान्य् आभरणानि च वासांसि च महार्हाणि नानादेश्यानि माधवः कम्बलाजिनरत्नानि स्पर्शवन्ति शुभानि च शयनासनयानानि विविधानि महान्ति च वैडूर्यवज्रचित्राणि शतशो भाजनानि च रूपयौवनदाक्षिण्यैर् उपेताश् च स्वलंकृताः राकाशशाङ्कवदनाः पद्मिनीजातिसंभवाः पद्मगन्धाः पद्ममुखाः पद्मपत्रनिभेक्षणाः मुक्तायुक्तसुकर्णाश् च सप्तबिन्दुललाटिकाः पीवरस्तनभारार्ताः शङ्खकण्ठ्यः सुनासिकाः कृष्णदीर्घसुकेशिन्यो मुष्टिग्राह्यसुमध्यमाः भृङ्गालिरोमलतिका ह्य् आवर्तनिभनाभिकाः विपुलश्रोणिफलका रम्भास्तम्भोरुयुग्मकाः प्रेष्याः संप्रददौ कृष्णो नानादेश्याः सहस्रशः गजान् विनीतान् भद्रांश् च सदश्वांश् च स्वलंकृतान् रथांश् च दान्तान् सौवर्णैः शुभैः पट्टैर् अलंकृतान् कोटिशश् च सुवर्णं स तेषाम् अकृतकं तथा वीतीकृतम् अमेयात्मा प्राहिणोन् मधुसूदनः तत् सर्वं प्रतिजग्राह धर्मराजो युधिष्ठिरः मुदा परमया युक्तो गोविन्दप्रियकाम्यया वैशंपायन उवाच ततो राज्ञां चरैर् आप्तैश् चारः समुपनीयत पाण्डवैर् उपसंपन्ना द्रौपदी पतिभिः शुभा येन तद् धनुर् आयम्य लक्ष्यं विद्धं महात्मना सो ऽर्जुनो जयतां श्रेष्ठो महाबाणधनुर्धरः यः शल्यं मद्रराजानम् उत्क्षिप्याभ्रामयद् बली त्रासयंश् चापि संक्रुद्धो वृक्षेण पुरुषान् रणे न चापि संभ्रमः कश् चिद् आसीत् तत्र महात्मनः स भीमो भीमसंस्पर्शः शत्रुसेनाङ्गपातनः यो ऽसाव् अत्यक्रमीद् युद्धे युध्यन् दुर्योधनं तदा स राजा पाण्डवश्रेष्ठः श्रेष्ठभाग् बुद्धिवर्धनः दुर्योधनाद् अवरजैर् यौ युध्येतां प्रतीतवत् तौ यमौ वृत्तसंपन्नौ संपन्नबलविक्रमौ चारैः प्रणिहिते चारे राजानो विगतज्वराः ब्रह्मरूपधराञ् श्रुत्वा पाण्डुराजसुतांस् तदा कौन्तेयान् मनुजेन्द्राणां विस्मयः समजायत सपुत्रा हि पुरा कुन्ती दग्धा जतुगृहे श्रुता सर्वभूमिपतीनां च राष्ट्राणां च यशस्विनाम् पुनर्जातान् इति स्मैतान् मन्यन्ते सर्वपार्थिवाः धिक् कुर्वन्तस् तदा भीष्मं धृतराष्ट्रं च कौरवम् कर्मणा सुनृशंसेन पुरोचनकृतेन वै वैशंपायनः शकुनिः वैशंपायनः वैशंपायनः धार्मिकान् वृत्तसंपन्नान् मातुः प्रियहिते रतान् यदा तान् ईदृशान् पार्थान् उत्सादयितुम् अर्हति ततः स्वयंवरे वृत्ते धार्तराष्ट्राः स्म भारत मन्त्रयन्ते ततः सर्वे कर्णसौबलदूषिताः कश् चिच् छत्रुः कर्शनीयः पीडनीयस् तथा परः उत्सादनीयाः कौन्तेयाः सर्वे क्षत्रस्य मे मताः एवं पराजिताः सर्वे यदि यूयं गमिष्यथ अकृत्वा संविदं कां चित् तद् वस् तप्स्यत्य् असंशयम् अयं देशश् च कालश् च पाण्डवोद्धरणाय नः न चेद् एवं करिष्यध्वं लोके हास्या भविष्यथ यम् एते संश्रिता वस्तुं कामयन्ते च भूमिपम् सो ऽल्पवीर्यबलो राजा द्रुपदो वै मतो मम यावद् एतान् न जानन्ति जीवतो वृष्णिपुंगवाः चैद्यश् च पुरुषव्याघ्रः शिशुपालः प्रतापवान् एकीभावं गता राज्ञा द्रुपदेन महात्मना दुराधर्षतरा राजन् भविष्यन्ति न संशयः यावत् त्व् अचलतां सर्वे प्राप्नुवन्ति नराधिपाः तावद् एव व्यवस्यामः पाण्डवानां वधं प्रति मुक्ता जतुगृहाद् भीमाद् आशीविषमुखाद् इव पुनर् यद् इह मुच्यन्ते महन् नो भयम् आविशेत् तेषाम् इहोपयातानाम् एषां च पुरवासिनाम् अन्तरे दुष्करं स्थातुं मेषयोर् महतोर् इव हलधृक्प्रगृहीतानि बलानि बलिनां स्वयम् यावन् न कुरुसेनायां पतन्ति पतगा इव तावत् सर्वाभिसारेण पुरम् एतद् विनाश्यताम् एतद् अत्र परं मन्ये प्राप्तकालं नरर्षभाः शकुनेर् वचनं श्रुत्वा भाषमाणस्य दुर्मतेः सौमदत्तिर् इदं वाक्यं जगाद परमं ततः प्रकृतीः सप्त वै ज्ञात्वा आत्मनश् च परस्य च तथा देशं च कालं च षड्विधांश् च नयेद् गुणान् स्थानं वृद्धिं क्षयं चैव भूमिं मित्राणि विक्रमम् समीक्ष्याथाभियुञ्जीत परं व्यसनपीडितम् ततो ऽहं पाण्डवान् मन्ये मित्रकोशसमन्वितान् बलस्थान् विक्रमस्थांश् च स्वकृतैः प्रकृतिप्रियान् वपुषा भुवि भूतानां नेत्राणि च मनांसि च श्रोत्रं मधुरया वाचा रमयत्य् अर्जुनो नृणाम् न तु केवलदैवेन प्रजा भावेन भेजिरे यद् बभूव मनःकान्तं कर्मणा स चकार तत् न ह्य् अयुक्तं न चासक्तं नामृतं न च विप्रियम् भाषितं चारुभाषस्य जज्ञे पार्थस्य भारती तान् एवं गुणसंपन्नान् संपन्नान् राजलक्षणैः न तान् पश्यामि ये शक्ताः समुच्छेत्तुं यथाबलात् प्रभावशक्तिर् विपुला मन्त्रशक्तिश् च पुष्कला तथैवोत्साहशक्तिश् च पार्थेष्व् अभ्यधिका सदा मौलमित्रबलानां च कालज्ञो वै युधिष्ठिरः साम्ना दानेन भेदेन दण्डेनेति युधिष्ठिरः अमित्रं यतते जेतुं न रोषेणेति मे मतिः परिक्रीय धनैः शत्रून् मित्राणि च धनानि च मूलं च सुदृढं कृत्वा हन्त्य् अरीन् पाण्डवस् ततः अशक्यान् पाण्डवान् मन्ये देवैर् अपि सवासवैः एषाम् अर्थे सदा युक्तौ कृष्णसंकर्षणाव् उभौ श्रेयश् च यदि मन्यध्वं मन्मतं यदि वो मतम् संविदं पाण्डवैः सार्धं कृत्वा याम यथागतम् गोपुराट्टालकैर् उच्चैर् उपतल्पशतैर् अपि गुप्तं पुरवरं श्रेष्ठम् एतद् अद्भिश् च संवृतम् तृणधान्येन्धनरसैस् तथा यन्त्रायुधौषधैः युक्तं ह्य् उरुकवाटैश् च द्रव्यागारतुषादिकैः भीमोच्छ्रितमहाचक्रं बृहदट्टालसंवृतम् दृढप्राकारनिर्यूहं शतघ्नीजालसंवृतम् ऐष्टको दारवो वप्रो मानुषश् चेति यः स्मृतः प्राकारकर्तृभिर् वीरैर् नृगर्भस् तत्र पूजितः तद् एतन् नरगर्भेण पाण्डरेण विराजते सालेनानेकतालेन सर्वतः संवृतं पुरम् अनुरक्ताः प्रकृतयो द्रुपदस्य महात्मनः दानमानार्चिताः सर्वे बाह्याश् चाभ्यन्तराश् च ये प्रतिरुद्धान् इमाञ् ज्ञात्वा राजभिर् भीमविक्रमैः उपयास्यन्ति दाशार्हाः समुदग्रोच्छ्रितायुधाः तस्मात् संधिं वयं कृत्वा धार्तराष्ट्रस्य पाण्डवैः स्वराष्ट्रम् एव गच्छामो यद्य् आप्तं वचनं मम एतन् मम मतं सर्वैः क्रियतां यदि रोचते एतच् च सुकृतं मन्ये क्षेमं चापि महीक्षिताम् सौमदत्तेर् वचः श्रुत्वा कर्णो वैकर्तनो वृषा उवाच वचनं काले कालज्ञः सर्वकर्मणाम् नीतिपूर्वम् इदं सर्वम् उक्तं वचनम् अर्थवत् वचनं नाभ्यसूयामि श्रूयतां मद्वचःस्थितिः द्वैधीभावो न गन्तव्यः सर्वकर्मसु मानवैः द्विधाभूतेन मनसा ह्य् अन्यत् कर्म न सिध्यति संप्रयाणासनाभ्यां तु कर्शनेन तथैव च नैतच् छक्यं पुरं हन्तुम् आक्रन्दो ऽस्याप्य् अशोभनः अवमर्दनकालो ऽत्र मतश् चिन्तयतो मम यावन् नो वृष्णयः पार्ष्णीं न गृह्णन्ति रणप्रियाः प्रभवन्तो हृष्टतुष्टाः स्वबाहुबलशालिनः प्राकारम् अवमृद्नन्तु परिघाः पूरयन्त्व् अपि प्रस्रावयन्तु सलिलं क्रियतां विषमं समम् तृणकाष्ठेन महता खातम् अस्य प्रपूर्यताम् घुष्यतां राजसैन्येषु परेषां यो हनिष्यति नागम् अश्वं पदातिं वा दानमानं स लप्स्यते नागे दश सहस्राणि पञ्च चाश्वपदातिषु रथे वै द्विगुणं नागाद् वसु दास्यन्ति पार्थिवाः यश् च कामसुखे सक्तो बालश् च स्थविरश् च यः अयुद्धमनसो ये च ते तु तिष्ठन्तु भीरवः प्रदरश् च न दातव्यो न गन्तव्यम् अचोदितैः यशो रक्षत भद्रं वो जेष्यामो वै वयं पुरम् अनुलोमाश् च नो वाताः सर्वतो मृगपक्षिणः अग्नयश् च विराजन्ते शस्त्राणि कवचानि च ततः कर्णवचः श्रुत्वा धार्तराष्ट्रप्रियैषिणः निर्ययुः पृथिवीपालाश् चालयन्तः परान् रणे न हि तेषां मनःसक्तिर् इन्द्रियार्थेषु सर्वशः यथा पुनर् अरिघ्नानां प्रसवो युद्ध एव च वैकर्तनपुरोवातः सैन्धवोर्मिमहास्वनः दुःशासनमहामत्स्यो दुर्योधनमहाग्रहः स राजसागरो भीमो भीमघोषप्रदर्शनः अभिदुद्राव वेगेन पुरं तद् अपसव्यतः तद् अनीकम् अनाधृष्यं शस्त्राग्निव्यालदीपितम् समुत्कूलितम् आज्ञाय चुक्रुशुर् द्रुपदात्मजाः ते मेघसमनिर्घोषैर् बलिनः स्यन्दनोत्तमैः निर्ययुर् नगरद्वारात् त्रासयन्तः परान् रणे धृष्टद्युम्नः शिखण्डी च सुमित्रः प्रियदर्शनः चित्रकेतुः सुकेतुश् च ध्वजसेनश् च वीर्यवान् पुत्रा द्रुपदराजस्य बलवन्तो जयैषिणः द्रुपदश् च महावीर्यः पाण्डरोष्णीषकेतनः पाण्डरव्यजनच्छत्रः पाण्डरध्वजवाहनः सपुत्रगणमध्यस्थः शुशुभे राजसत्तमः चन्द्रमा ज्योतिषां मध्ये पौर्णमास्याम् इवोदितः अथोद्धूतपताकाग्रम् अजिह्मगतिम् अव्ययम् द्रुपदानीकम् आयान्तं कुरुसैन्यम् अभिद्रवत् तयोर् उभयतो जज्ञे भैरवस् तुमुलः स्वनः बलयोः संप्रहरतोः स्रवन्त्योः सरितोर् इव प्रकीर्णरथनागाश्वैस् तान्य् अनीकानि सर्वशः ज्योतींषि विप्रकीर्णानि सर्वतः प्रचकाशिरे उत्कृष्टभेरीनिनदे संप्रवृत्ते महारवे अमर्षिता महात्मानः पाण्डवा निर्ययुस् ततः रथान् वै मेघनिर्घोषान् युक्तान् परमवाजिभिः धन्विनो ध्वजिनः शुभ्रान् आस्थाय भरतर्षभाः ततः पाण्डुसुतान् दृष्ट्वा रथस्थान् आत्तकार्मुकान् नृपाणाम् अभवत् कम्पो वेपथुर् हृदयेषु च निर्यातेष्व् अथ पार्थेषु द्रौपदं तद् बलं रणे आविशत् परमो हर्षः प्रमोदश् च जयं प्रति स मुहूर्तं व्यतिकरः सैन्यानाम् अभवद् भृशम् ततो द्वन्द्वम् अयुध्यन्त मृत्युं कृत्वा निवर्तनम् जघ्नतुः समरे तस्मिन् सुमित्रप्रियदर्शनौ जयद्रथश् च कर्णश् च पश्यतः सव्यसाचिनः अर्जुनः प्रेक्ष्य निहतौ सुमित्रप्रियदर्शनौ जयद्रथसुतं तत्र जघान पितुर् अन्तिके वृषसेनाद् अवरजं सुबाहुं वै धनंजयः कर्णपुत्रं महावीर्यं रथनीडाद् अपातयत् तौ सुतौ निहतौ दृष्ट्वा राजसिंहौ तरस्विनौ नामृष्येतां महाबाहू प्रहारम् इव सद्गजौ तौ जग्मतुर् असंभ्रान्तौ फल्गुनस्य रथं प्रति प्रतिमुक्ततलत्राणौ त्रायमाणौ परस्परम् संनिपातस् तयोर् आसीत् फल्गुनेन महामृधे वृत्रशम्बरयोः संख्ये वज्रिणेव महारणे त्रीन् हयाञ् जघ्नतुस् तत्र फल्गुनस्य नरर्षभौ ततः किलिकिलाशब्दः कुरूणाम् अभवत् तदा तान् हयान् निहतान् दृष्ट्वा भीमसेनः प्रतापवान् निमेषान्तरमात्रेण रथम् अश्वैर् अयोजयत् उपयातं रथं दृष्ट्वा दुर्योधनपुरःसरौ सौबलः सौमदत्तिश् च समेयातां परंतपौ तैः पञ्चभिर् अदीनात्मा भीमसेनो महाबलः अयुध्यत बलैर् वीरैर् इन्द्रियार्थैर् इवेश्वरः तैर् निरुद्धो न संत्रासं जगाम समितिंजयः पञ्चभिर् द्विरदैर् मत्तैर् निरुद्ध इव केसरी तस्य ते युगपत् पञ्च पञ्चभिर् निशितैः शरैः सारथिं वाजिनश् चैव निन्युर् वैवस्वतक्षयम् हताश्वात् स्यन्दनश्रेष्ठाद् अवरुह्य महारथः चचार विविधान् मार्गान् असिम् उद्यम्य पाण्डवः अश्वस्कन्धेषु चक्रेषु युगेष्व् ईषासु चैव ह व्यचरत् पातयञ् शत्रून् सुपर्ण इव भोगिनः विधनुष्कं विकवचं विरथं च समीक्ष्य तम् अभिपेतुर् नरव्याघ्रम् अर्जुनप्रमुखा रथाः धृष्टद्युम्नः शिखण्डी च यमौ च युधि दुर्जयौ तस्मिन् दाशरथे युद्धे प्रवृत्ते शरवृष्टिभिः रथा ध्वजाः पताकाश् च सर्वम् अन्तरधीयत तत् प्रवृत्तं चिरं कालं युद्धं समम् इवाभवत् रथेनाथ महाबाहुर् अर्जुनो ऽभ्यपतत् पुनः तम् आपतन्तं दृष्ट्वैव महाबाहुर् धनुर्धरः कर्णो ऽस्त्रविदुषां श्रेष्ठो वारयाम् आस सायकैः स तेनाभिहतः पार्थो वासविर् वज्रसंनिभान् त्रीञ् शरान् संदधे क्रुद्धो वधे कर्णस्य पाण्डवः तैः शरैर् आहतं कर्णं ध्वजयष्टिम् उपाश्रितम् अपोवाह रथेनाशु सूतः परपुरंजयम् ततः पराजिते कर्णे धार्तराष्ट्रान् महद् भयम् विवेश समुदग्रांश् च पाञ्चालान् प्रसमीक्ष्य च तत् प्रकम्पितम् अत्यर्थं दृष्ट्वा वै सौबलो बलम् गिरा गम्भीरया वीरः समाश्वासयतासकृत् धार्तराष्ट्रैस् ततः सर्वैर् दुर्योधनपुरःसरैः धृतं तत् पुनर् एवासीद् बलं पार्थप्रकम्पितम् ततो दुर्योधनं दृष्ट्वा भीमो भीमपराक्रमः अक्रुध्यत् स महाबाहुर् अगारं जातुषं स्मरन् ततः संग्रामशिरसि ददर्श विपुलद्रुमम् आयामभूतं तिष्ठन्तं स्कन्धपञ्चाशद् उन्नतम् महास्कन्धं महोत्सेधं शक्रध्वजम् इवोच्छ्रितम् चित्रमाल्याम्बरधरं पताकाशतशोभितम् सालम् उद्यम्य पाणिभ्याम् उद्धृत्य च रणे बली अभिपेदे परान् संख्ये वज्रपाणिर् इवासुरान् भीमसेनभयार्तानि फल्गुनाभिहतानि च न शेकुस् तान्य् अनीकानि धार्तराष्ट्राभिरक्षितुम् तानि संभ्रान्तयोधानि श्रान्तवाजिगजानि च दिशः प्राकालयद् भीमो दिवीवाभ्राणि मारुतः तान् निवृत्तान् निरानन्दान् हतवारणवाजिनः नानुसस्रुर् न चाजघ्नुर् नोचुः किं चिच् च दारुणम् स्वम् एव शिबिरं जग्मुः क्षत्रियाः शरविक्षताः परे ऽप्य् अभिययुर् हृष्टाः पुरं पौरसुखावहाः मुहूर्तम् अभवद् वैरं तेषां वै पाण्डवैः सह यावत् तद् युद्धम् अभवन् महद् देवासुरोपमम् सुवृत्तं चक्रिरे सर्वे सुप्राप्ताम् अब्रुवन् वधूम् कृतार्थं द्रुपदं चोचुर् धृष्टद्युम्नं च पार्षतम् शकुनिः सिन्धुराजश् च कर्णदुर्योधनाव् अपि तेषां तद् अभवद् दुःखं हृदि वाचा तु नाब्रुवन् ततः प्रयाता राजानः सर्व एव यथागतम् धार्तराष्ट्रा हि ते सर्वे गता नागपुरं तदा प्राग् एव पुररोधात् तु पाण्डवैर् अश्वसादिनः प्रेषिता गच्छतारिष्टान् अस्मान् आख्यात शौरये ते त्व् अदीर्घेण कालेन गत्वा द्वारवतीं पुरीम् ऊचुः संकर्षणोपेन्द्रौ वचनं वचनक्षमौ कुशलं पाण्डवाः सर्वान् आहुः स्मान्धकवृष्णयः आत्मनश् चाक्षतान् आहुर् विमुक्ताञ् जातुषाद् गृहात् समाजे द्रौपदीं स्माहुर् लब्धां राजीवलोचनाम् आत्मनः सदृशीं सर्वे शीलवृत्तसमाधिभिः तच् छ्रुत्वा वचनं कृष्णस् तान् उवाचोत्तरं वचः सर्वम् एतद् अहं जाने वधात् तस्य तु रक्षसः तत उद्योजयाम् आस केशवश् चतुरङ्गिणीम् सेवां समुपयात् तूर्णं पाञ्चालनगरं प्रति ततः संकर्षणश् चैव केशवश् च महाबलः यादवैः सह सर्वैश् च पाण्डवान् अभिजग्मतुः पितृष्वसारं संपूज्य द्रुपदं च यथाविधि द्रौपदीं भूषणैः शुभ्रैर् भूषयित्वा महाधनैः न्यायतः पूजिता राज्ञा द्रुपदेन महात्मना रेमिरे पाण्डवैः सार्धं पाञ्चालनगरे तदा वृत्ते स्वयंवरे चैव राजानः सर्व एव ते यथागतं विप्रजग्मुर् विदित्वा पाण्डवान् वृतान् अथ दुर्योधनो राजा विमना भ्रातृभिः सह अश्वत्थाम्ना मातुलेन कर्णेन च कृपेण च विनिवृत्तो वृतं दृष्ट्वा द्रौपद्या श्वेतवाहनम् तं तु दुःशासनो व्रीडन् मन्दं मन्दम् इवाब्रवीत् खिद्यच्छुष्यन्मुखो राजा दूयमानेन चेतसा यद्य् असौ ब्राह्मणो न स्याद् विन्देत द्रौपदीं न सः न हि तं तत्त्वतो राजन् वेद कश् चिद् धनंजयम् दैवं तु परमं मन्ये पौरुषं तु निरर्थकम् धिग् अस्मत्पौरुषं तात यद् धरन्तीह पाण्डवाः बद्ध्वा चक्षूंषि नः पार्था राज्ञां च द्रुपदात्मजाम् उद्वाह्य राज्ञां तैर् न्यस्तं पादं वामं पृथासुतैः विमुक्ताः कथम् एतेन जतुवेश्महविर्भुजा अस्माकं पौरुषं सत्त्वं बुद्धिश् चापि गता कुतः वयं हता मातुलाद्य विश्वस्य च पुरोचनम् अदग्ध्वा पाण्डवान् दग्ध्वा स्वयं दग्धो हुताशने मत्तो मातुल मन्ये ऽहं पाण्डवा बुद्धिमत्तराः तेषां नास्ति भयं मृत्योर् मुक्तानां जतुवेश्मनः एवं संभाषमाणास् ते निन्दन्तश् च पुरोचनम् पञ्चपुत्रां किरातीं च विदुरं च महामतिम् विविशुर् हास्तिनपुरं दीना विगतचेतसः त्रस्ता विगतसंकल्पा दृष्ट्वा पार्थान् महौजसः मुक्तान् हव्यवहाच् चैनान् संयुक्तान् द्रुपदेन च धृष्टद्युम्नं च संचिन्त्य तथैव च शिखण्डिनम् द्रुपदस्यात्मजांश् चान्यान् सर्वयुद्धविशारदान् मुखानि धार्तराष्ट्राणां दृष्ट्वा क्षत्ता मुदान्वितः विकसद्धृन्मुखाम्भोजः पद्मं दृष्ट्वेव भास्करम् विदुरस् त्व् अथ ताञ् श्रुत्वा द्रौपद्या पाण्डवान् वृतान् सर्वांस् तु बलिनो वीरान् संयुक्तान् द्रुपदेन च व्रीडितान् धार्तराष्ट्रांश् च भग्नदर्पान् उपागतान् ततः प्रीतमनाः क्षत्ता धृतराष्ट्रं विशां पते उवाच दिष्ट्या कुरवो वर्धन्त इति विस्मितः वैशंपायनः सर्वापद्भ्यो विमुक्ताश् च विमुक्ता राजसंगरात् कृष्णया संवृताश् चैव वीरलक्ष्म्या तथैव च विदुरोक्तं वचः श्रुत्वा सामान्यात् कौरवा इति उल्ललास स हर्षेण संतोषभरितो नृपः प्रहर्षहरितो राजा स्तम्भीभूत इव क्षणम् वैचित्रवीर्यस् तु नृपो निशम्य विदुरस्य तत् अब्रवीत् परमप्रीतो दिष्ट्या दिष्ट्येति भारत मन्यते हि वृतं पुत्रं ज्येष्ठं द्रुपदकन्यया दुर्योधनम् अविज्ञानात् प्रज्ञाचक्षुर् नरेश्वरः अथ त्व् आज्ञापयाम् आस द्रौपद्या भूषणं बहु पुत्राणां च तथा सर्वं विचित्राभरणं वरम् आनीयतां वै कृष्णेति पुत्रं दुर्योधनं तदा अथास्य पश्चाद् विदुर आचख्यौ पाण्डवान् वृतान् पुत्राभिवृद्धिसंतोषश्रवणानन्दनिर्भरम् कौरवा इति सामान्यान् न मन्येथास् तवात्मजान् वर्धिता इति मद्वाक्याद् वर्धिताः पाण्डुनन्दनाः कृष्णया संवृताः पार्था विमुक्ता राजसंगरात् सर्वान् कुशलिनो वीरान् पूजितान् द्रुपदेन च संकर्षणेन कृष्णेन सत्कृतान् पाण्डुनन्दनान् एतच् छ्रुत्वा तु वचनं विदुरस्य नराधिपः आकारच्छादनार्थं तु दिष्ट्या दिष्ट्येति चाब्रवीत् एवं विदुर भद्रं ते यदि जीवन्ति पाण्डवाः साध्वाचारा तथा कुन्ती संबन्धो द्रुपदेन च अन्ववाये वसोर् जातः प्रवरो मात्स्यके कुले वृत्तविद्यातपोवृद्धः पार्थिवानां धुरंधरः पुत्राश् चास्य तथा पौत्राः सर्वे सुचरितव्रताः न ममौ मे तनौ प्रीतिस् त्वद्वाक्यामृतसंभवा आलिङ्गस्वेति मां क्षत्तः पुनः पुनर् अभाषत दुर्भावगोपनार्थाय बाहू विस्तार्य दूरतः एह्य् एहि विदुर प्राज्ञ माम् आलिङ्गितुम् अर्हसि इत्य् उक्त्वाकृष्य विदुरं ज्ञात्वान्तर्भावम् आत्मनः आलिलिङ्गे दृढं दोर्भ्यां निरुच्छ्वासं दुरात्मवान् तेषां संबन्धिनश् चान्यान् बहून् बलसमन्वितान् समागतान् पाण्डवेयैस् तस्मिन्न् एव स्वयंवरे धृतराष्ट्र उवाच यथैव पाण्डोः पुत्रास् ते तथैवाभ्यधिका मम सेयम् अभ्यधिका प्रीतिर् वृद्धिर् विदुर मे मता या प्रीतिः पाण्डुपुत्रेषु न सान्यत्र ममाभिभो नित्यो ऽयं निश्चितः क्षत्तः सत्यं सत्येन ते शपे तेषां संबन्धिनश् चान्ये बहवः सुमहाबलाः तन् मे पुत्रा दुरात्मानो विनष्टा इति मे मतिः यत् ते कुशलिनो वीरा मित्रवन्तश् च पाण्डवाः मित्रवन्तो ऽभवन् पुत्रा दुर्योधनमुखाः सदा मया श्रुता यदा वह्नेर् दग्धाः पाण्डुसुता इति तदादह्यं दिवारात्रं न भोक्ष्ये न स्वपामि च असहायाश् च मे पुत्रा लूनपक्षा इव द्विजाः तत्त्वतः शृणु मे क्षत्तः सुसहायाः सुता मम अद्य मे स्थिरसाम्राज्यम् आचन्द्रार्कं ममाभवत् को हि द्रुपदम् आसाद्य मित्रं क्षत्तः सबान्धवम् न बुभूषेद् भवेनार्थी गतश्रीर् अपि पार्थिवः वैशंपायन उवाच तं तथा भाषमाणं तु विदुरः प्रत्यभाषत बुद्धिर् एषा महाराज रूढमूला च ते हृदि कर्मणा मनसा वाचा स्थिरा यदि जनेश्वर नित्यं भवतु ते बुद्धिर् एषा राजञ् शतं समाः इत्य् उक्त्वा प्रययौ राजन् विदुरः स्वं निवेशनम् इत्य् उक्त्वा निरगात् क्षत्ता स्वगृहाय महामते ततो दुर्योधनश् चैव राधेयश् च विशां पते धृतराष्ट्रम् उपागम्य वचो ऽब्रूताम् इदं तदा संनिधौ विदुरस्य त्वां वक्तुं नृप न शक्नुवः विविक्तम् इति वक्ष्यावः किं तवेदं चिकीर्षितम् सपत्नवृद्धिं यत् तात मन्यसे वृद्धिम् आत्मनः अभिष्टौषि च यत् क्षत्तुः समीपे द्विपदां वर अन्यस्मिन् नृप कर्तव्ये त्वम् अन्यत् कुरुषे ऽनघ तेषां बलविघातो हि कर्तव्यस् तात नित्यशः ते वयं प्राप्तकालस्य चिकीर्षां मन्त्रयामहे यथा नो न ग्रसेयुस् ते सपुत्रबलबान्धवान् वैशंपायनः दुर्योधनेनैवम् उक्तः कर्णेन च विशां पते पुत्रं च सूतपुत्रं च धृतराष्ट्रो ऽब्रवीद् इदम् धृतराष्ट्र उवाच अहम् अप्य् एवम् एवैतच् चिन्तयामि यथा युवाम् विवेक्तुं नाहम् इच्छामि त्व् आकारं विदुरं प्रति अतस् तेषां गुणान् एव कीर्तयामि विशेषतः नावबुध्येत विदुरो ममाभिप्रायम् इङ्गितैः यच् च त्वं मन्यसे प्राप्तं तद् ब्रूहि त्वं सुयोधन राधेय मन्यसे त्वं च यत् प्राप्तं तद् ब्रवीहि मे दुर्योधन उवाच अद्य तान् कुशलैर् विप्रैः सुकृतैर् आप्तकारिभिः कुन्तीपुत्रान् भेदयामो माद्रीपुत्रौ च पाण्डवौ अथ वा द्रुपदो राजा महद्भिर् वित्तसंचयैः पुत्राश् चास्य प्रलोभ्यन्ताम् अमात्याश् चैव सर्वशः परित्यजध्वं राजानं कुन्तीपुत्रं युधिष्ठिरम् अथ तत्रैव वा तेषां निवासं रोचयन्तु ते इहैषां दोषवद् वासं वर्णयन्तु पृथक् पृथक् ते भिद्यमानास् तत्रैव मनः कुर्वन्तु पाण्डवाः अथवा कुशलाः के चिद् उपायनिपुणा नराः इतरेतरतः पार्थान् भेदयन्त्व् अनुरागतः व्युत्थापयन्तु वा कृष्णां बहुत्वात् सुकरं हि तत् अथवा पाण्डवांस् तस्यां भेदयन्तु ततश् च ताम् भीमसेनस्य वा राजन्न् उपायकुशलैर् नरैः मृत्युर् विधीयतां छन्नैः स हि तेषां बलाधिकः तम् आश्रित्य हि कौन्तेयः पुरा चास्मान् न मन्यते स हि तीक्ष्णश् च शूरश् च तेषां चैव परायणम् तस्मिंस् तु निहते राजन् हतोत्साहा हतौजसः यतिष्यन्ते न राज्याय स हि तेषां व्यपाश्रयः अजेयो ह्य् अर्जुनः संख्ये पृष्ठगोपे वृकोदरे तम् ऋते फल्गुनो युद्धे राधेयस्य न पादभाक् ते जानमाना दौर्बल्यं भीमसेनम् ऋते महत् अस्मान् बलवतो ज्ञात्वा नशिष्यन्त्य् अबलीयसः इहागतेषु पार्थेषु निदेशवशवर्तिषु प्रवर्तिष्यामहे राजन् यथाश्रद्धं निबर्हणे दर्पं विदधतां तेषां के चिद् अत्र मनस्विनः द्रुपदस्यात्मजा राजंस् ते भिन्द्यन्तां ततः परैः अथवा दर्शनीयाभिः प्रमदाभिर् विलोभ्यताम् एकैकस् तत्र कौन्तेयस् ततः कृष्णा विरज्यताम् प्रेष्यतां वापि राधेयस् तेषाम् आगमनाय वै ते लोप्त्रहारैः संधाय वध्यन्ताम् आप्तकारिभिः एतेषाम् अभ्युपायानां यस् ते निर्दोषवान् मतः तस्य प्रयोगम् आतिष्ठ पुरा कालो ऽतिवर्तते यावच् चाकृतविश्वासा द्रुपदे पार्थिवर्षभे तावद् एवाद्य ते शक्या न शक्यास् तु ततः परम् एषा मम मतिस् तात निग्रहाय प्रवर्तते साधु वा यदि वासाधु किं वा राधेय मन्यसे कर्ण उवाच दुर्योधन तव प्रज्ञा न सम्यग् इति मे मतिः न ह्य् उपायेन ते शक्याः पाण्डवाः कुरुनन्दन पूर्वम् एव हि ते सूक्ष्मैर् उपायैर् यतितास् त्वया निग्रहीतुं यदा वीर शकिता न तदा त्वया इहैव वर्तमानास् ते समीपे तव पार्थिव अजातपक्षाः शिशवः शकिता नैव बाधितुम् जातपक्षा विदेशस्था विवृद्धाः सर्वशो ऽद्य ते नोपायसाध्याः कौन्तेया ममैषा मतिर् अच्युत न च ते व्यसनैर् योक्तुं शक्या दिष्टकृता हि ते शङ्किताश् चेप्सवश् चैव पितृपैतामहं पदम् परस्परेण भेदश् च नाधातुं तेषु शक्यते एकस्यां ये रताः पत्न्यां न भिद्यन्ते परस्परम् न चापि कृष्णा शक्येत तेभ्यो भेदयितुं परैः परिद्यूनान् वृतवती किम् उताद्य मृजावतः ईप्सितश् च गुणः स्त्रीणाम् एकस्या बहुभर्तृता तं च प्राप्तवती कृष्णा न सा भेदयितुं सुखम् आर्यवृत्तश् च पाञ्चाल्यो न स राजा धनप्रियः न संत्यक्ष्यति कौन्तेयान् राज्यदानैर् अपि ध्रुवम् तथास्य पुत्रो गुणवान् अनुरक्तश् च पाण्डवान् तस्मान् नोपायसाध्यांस् तान् अहं मन्ये कथं चन पाण्डवान् भरतश्रेष्ठ विक्रमस् तत्र रोचताम् इदं त्व् अद्य क्षमं कर्तुम् अस्माकं पुरुषर्षभ यावन् न कृतमूलास् ते पाण्डवेया विशां पते तावत् प्रहरणीयास् ते रोचतां तव विक्रमः अस्मत्पक्षो महान् यावद् यावत् पाञ्चालको लघुः तावत् प्रहरणं तेषां क्रियतां मा विचारय वाहनानि प्रभूतानि मित्राणि बहुलानि च यावन् न तेषां गान्धारे तावद् एवाशु विक्रम यावच् च राजा पाञ्चाल्यो नोद्यमे कुरुते मनः सह पुत्रैर् महावीर्यैस् तावद् एवाशु विक्रम सदा च वैरी द्रुपदः सततं निकृतस् त्वया यावन् न वर्धते मित्रै रोचतां तत्र विक्रमः यावन्न् आयाति वार्ष्णेयः कर्षन् यादववाहिनीम् राज्यार्थे पाण्डवेयानां तावद् एवाशु विक्रम वसूनि विविधान् भोगान् राज्यम् एव च केवलम् नात्याज्यम् अस्ति कृष्णस्य पाण्डवार्थे महीपते विक्रमेण मही प्राप्ता भरतेन महात्मना विक्रमेण च लोकांस् त्रीञ् जितवान् पाकशासनः विक्रमं च प्रशंसन्ति क्षत्रियस्य विशां पते स्वको हि धर्मः शूराणां विक्रमः पार्थिवर्षभ ते बलेन वयं राजन् महता चतुरङ्गिणा प्रमथ्य द्रुपदं शीघ्रम् आनयामेह पाण्डवान् न हि साम्ना न दानेन न भेदेन च पाण्डवाः शक्याः साधयितुं तस्माद् विक्रमेणैव ताञ् जहि तान् विक्रमेण जित्वेमाम् अखिलां भुङ्क्ष्व मेदिनीम् नान्यम् अत्र प्रपश्यामि कार्योपायं जनाधिप वैशंपायन उवाच श्रुत्वा तु राधेयवचो धृतराष्ट्रः प्रतापवान् अभिपूज्य ततः पश्चाद् इदं वचनम् अब्रवीत् उपपन्नं महाप्राज्ञे कृतास्त्रे सूतनन्दने त्वयि विक्रमसंपन्नम् इदं वचनम् ईदृशम् भूय एव तु भीष्मश् च द्रोणो विदुर एव च युवां च कुरुतां बुद्धिं भवेद् या नः सुखोदया तत आनाय्य तान् सर्वान् मन्त्रिणः सुमहायशाः धृतराष्ट्रो महाराज मन्त्रयाम् आस वै तदा भीष्म उवाच न रोचते विग्रहो मे पाण्डुपुत्रैः कथं चन यथैव धृतराष्ट्रो मे तथा पाण्डुर् असंशयम् गान्धार्याश् च यथा पुत्रास् तथा कुन्तीसुता मताः यथा च मम ते रक्ष्या धृतराष्ट्र तथा तव यथा च मम राज्ञश् च तथा दुर्योधनस्य ते तथा कुरूणां सर्वेषाम् अन्येषाम् अपि भारत एवं गते विग्रहं तैर् न रोचये; संधाय वीरैर् दीयताम् अद्य भूमिः तेषाम् अपीदं प्रपितामहानां; राज्यं पितुश् चैव कुरूत्तमानाम् दुर्योधन यथा राज्यं त्वम् इदं तात पश्यसि मम पैतृकम् इत्य् एवं ते ऽपि पश्यन्ति पाण्डवाः यदि राज्यं न ते प्राप्ताः पाण्डवेयास् तपस्विनः कुत एव तवापीदं भारतस्य च कस्य चित् अथ धर्मेण राज्यं त्वं प्राप्तवान् भरतर्षभ ते ऽपि राज्यम् अनुप्राप्ताः पूर्वम् एवेति मे मतिः मधुरेणैव राज्यस्य तेषाम् अर्धं प्रदीयताम् एतद् धि पुरुषव्याघ्र हितं सर्वजनस्य च अतो ऽन्यथा चेत् क्रियते न हितं नो भविष्यति तवाप्य् अकीर्तिः सकला भविष्यति न संशयः कीर्तिरक्षणम् आतिष्ठ कीर्तिर् हि परमं बलम् . . . . . . . . धर्मं कुरु कुलोचितम् (= ब्) कीर्तिस् तु परमं तेजो . . . . . . . . नष्टकीर्तेर् मनुष्यस्य जीवितं ह्य् अफलं स्मृतम् यावत् कीर्तिर् मनुष्यस्य न प्रणश्यति कौरव तावज् जीवति गान्धारे नष्टकीर्तिस् तु नश्यति तम् इमं समुपातिष्ठ धर्मं कुरुकुलोचितम् अनुरूपं महाबाहो पूर्वेषाम् आत्मनः कुरु दिष्ट्या धरन्ति ते वीरा दिष्ट्या जीवति सा पृथा दिष्ट्या पुरोचनः पापो नसकामो ऽत्ययं गतः यदा प्रभृति दग्धास् ते कुन्तिभोजसुतासुताः तदा प्रभृति गान्धारे न शक्नोम्य् अभिवीक्षितुम् अदाहयो यदा पार्थान् स त्व् अग्नौ जतुवेश्मनि लोके प्राणभृतां कं चिच् छ्रुत्वा कुन्तीं तथागताम् दुःखं न जायते राजन् भवान् सर्वस्य कारणम् न चापि दोषेण तथा लोको वैति पुरोचनम् यथा त्वां पुरुषव्याघ्र लोको दोषेण गच्छति तद् इदं जीवितं तेषां तव कल्मषनाशनम् संमन्तव्यं महाराज पाण्डवानां च दर्शनम् न चापि तेषां वीराणां जीवतां कुरुनन्दन पित्र्यो ऽंशः शक्य आदातुम् अपि वज्रभृता स्वयम् ते हि सर्वे स्थिता धर्मे सर्वे चैवैकचेतसः अधर्मेण निरस्ताश् च तुल्ये राज्ये विशेषतः यदि धर्मस् त्वया कार्यो यदि कार्यं प्रियं च मे क्षेमं च यदि कर्तव्यं तेषाम् अर्धं प्रदीयताम् द्रोण उवाच मन्त्राय समुपानीतैर् धृतराष्ट्रहितैर् नृप धर्म्यं पथ्यं यशस्यं च वाच्यम् इत्य् अनुशुश्रुमः ममाप्य् एषा मतिस् तात या भीष्मस्य महात्मनः संविभज्यास् तु कौन्तेया धर्म एष सनातनः प्रेष्यतां द्रुपदायाशु नरः कश् चित् प्रियंवदः बहुलं रत्नम् आदाय तेषाम् अर्थाय भारत मिथः कृत्यं च तस्मै स आदाय बहु गच्छतु वृद्धिं च परमां ब्रूयात् तत्संयोगोद्भवां तथा संप्रीयमाणं त्वां ब्रूयाद् राजन् दूर्योधनं तथा असकृद् द्रुपदे चैव धृष्टद्युम्ने च भारत उचितत्वं प्रियत्वं च योगस्यापि च वर्णयेत् पुनः पुनश् च कौन्तेयान् माद्रीपुत्रौ च सान्त्वयन् हिरण्मयानि शुभ्राणि बहून्य् आभरणानि च वचनात् तव राजेन्द्र द्रौपद्याः संप्रयच्छतु तथा द्रुपदपुत्राणां सर्वेषां भरतर्षभ पाण्डवानां च सर्वेषां कुन्त्या युक्तानि यानि च दत्त्वा तानि महार्हाणि पाण्डवान् संप्रहर्षय एवं सान्त्वसमायुक्तं द्रुपदं पाण्डवैः सह उक्त्वाथानन्तरं ब्रूयात् तेषाम् आगमनं प्रति संधीयतां यथाबुद्धिस् तत्त्ववेत्तृविदां वरः अनुज्ञातेषु वीरेषु बलं गच्छतु शोभनम् दुःशासनो विकर्णश् च पाण्डवान् आनयन्त्व् इह ततस् ते पार्थिवश्रेष्ठ पूज्यमानाः सदा त्वया प्रकृतीनाम् अनुमते पदे स्थास्यन्ति पैतृके एवं तव महाराज तेषु पुत्रेषु चैव ह वृत्तम् औपयिकं मन्ये भीष्मेण सह भारत कर्ण उवाच योजिताव् अर्थमानाभ्यां सर्वकार्येष्व् अनन्तरौ न मन्त्रयेतां त्वच्छ्रेयः किम् अद्भुततरं ततः दुष्टेन मनसा यो वै प्रच्छन्नेनान्तरात्मना ब्रूयान् निःश्रेयसं नाम कथं कुर्यात् सतां मतम् न मित्राण्य् अर्थकृच्छ्रेषु श्रेयसे वेतराय वा विधिपूर्वं हि सर्वस्य दुःखं वा यदि वा सुखम् कृतप्रज्ञो ऽकृतप्रज्ञो बालो वृद्धश् च मानवः ससहायो ऽसहायश् च सर्वं सर्वत्र विन्दति श्रूयते हि पुरा कश् चिद् अम्बुवीच इति श्रुतः आसीद् राजगृहे राजा मागधानां महीक्षिताम् स हीनः करणैः सर्वैर् उच्छ्वासपरमो नृपः अमात्यसंस्थः कार्येषु सर्वेष्व् एवाभवत् तदा तस्यामात्या बभूवुस् ते अन्योन्यसहितास् तदा तस्यामात्यो महाकर्णिर् बभूवैकेश्वरः पुरा स लब्धबलम् आत्मानं मन्यमानो ऽवमन्यते स राज्ञ उपभोग्यानि स्त्रियो रत्नधनानि च आददे सर्वशो मूढ ऐश्वर्यं च स्वयं तदा तद् आदाय च लुब्धस्य लाभाल् लोभो व्यवर्धत तथा हि सर्वम् आदाय राज्यम् अस्य जिहीर्षति हीनस्य करणैः सर्वैर् उच्छ्वासपरमस्य च यतमानो ऽपि तद् राज्यं न शशाकेति नः श्रुतम् किम् अन्यद् विहितान् नूनं तस्य सा पुरुषेन्द्रता यत् तस्य राज्यं सामात्यो न शक्नोत्य् अभिवर्धितुम् यदि ते विहितं राज्यं भविष्यति विशां पते मिषतः सर्वलोकस्य स्थास्यते त्वयि तद् ध्रुवम् अतो ऽन्यथा चेद् विहितं यतमानो न लप्स्यसे एवं विद्वन्न् उपादत्स्व मन्त्रिणां साध्व् असाधुताम् दुष्टानां चैव बोद्धव्यम् अदुष्टानां च भाषितम् द्रोण उवाच विद्म ते भावदोषेण यदर्थम् इदम् उच्यते दुष्टः पाण्डवहेतोस् त्वं दोषं ख्यापयसे हि नः हितं तु परमं कर्ण ब्रवीमि कुरुवर्धनम् अथ त्वं मन्यसे दुष्टं ब्रूहि यत् परमं हितम् अतो ऽन्यथा चेत् क्रियते यद् ब्रवीमि परं हितम् कुरवो विनशिष्यन्ति नचिरेणेति मे मतिः विदुर उवाच राजन् निःसंशयं श्रेयो वाच्यस् त्वम् असि बान्धवैः न त्व् अशुश्रूषमाणेषु वाक्यं संप्रतितिष्ठति हितं हि तव तद् वाक्यम् उक्तवान् कुरुसत्तमः भीष्मः शांतनवो राजन् प्रतिगृह्णासि तन् न च तथा द्रोणेन बहुधा भाषितं हितम् उत्तमम् तच् च राधासुतः कर्णो मन्यते न हितं तव चिन्तयंश् च न पश्यामि राजंस् तव सुहृत्तमम् आभ्यां पुरुषसिंहाभ्यां यो वा स्यात् प्रज्ञयाधिकः इमौ हि वृद्धौ वयसा प्रज्ञया च श्रुतेन च समौ च त्वयि राजेन्द्र तेषु पाण्डुसुतेषु च धर्मे चानवमौ राजन् सत्यतायां च भारत रामाद् दाशरथेश् चैव गयाच् चैव न संशयः न चोक्तवन्ताव् अश्रेयः पुरस्ताद् अपि किं चन न चाप्य् अपकृतं किं चिद् अनयोर् लक्ष्यते त्वयि ताव् इमौ पुरुषव्याघ्राव् अनागसि नृप त्वयि न मन्त्रयेतां त्वच् छ्रेयः कथं सत्यपराक्रमौ प्रज्ञावन्तौ नरश्रेष्ठाव् अस्मिंल् लोके नराधिप त्वन्निमित्तम् अतो नेमौ किं चिज् जिह्मं वदिष्यतः एतदर्थम् इमौ राजन् महात्मानौ महाद्युती इति मे नैष्ठिकी बुद्धिर् वर्तते कुरुनन्दन न चार्थहेतोर् धर्मज्ञौ वक्ष्यतः पक्षसंश्रितम् एतद् धि परमं श्रेयो मेनाते तव भारत दुर्योधनप्रभृतयः पुत्रा राजन् यथा तव तथैव पाण्डवेयास् ते पुत्रा राजन् न संशयः तेषु चेद् अहितं किं चिन् मन्त्रयेयुर् अबुद्धितः मन्त्रिणस् ते न ते श्रेयः प्रपश्यन्ति विशेषतः अथ ते हृदये राजन् विशेषस् तेषु वर्तते अन्तरस्थं विवृण्वानाः श्रेयः कुर्युर् न ते ध्रुवम् एतदर्थम् इमौ राजन् महात्मानौ महाद्युती नोचतुर् विवृतं किं चिन् न ह्य् एष तव निश्चयः यच् चाप्य् अशक्यतां तेषाम् आहतुः पुरुषर्षभौ तत् तथा पुरुषव्याघ्र तव तद् भद्रम् अस्तु ते कथं हि पाण्डवः श्रीमान् सव्यसाची परंतपः शक्यो विजेतुं संग्रामे राजन् मघवता अपि भीमसेनो महाबाहुर् नागायुतबलो महान् कथं हि युधि शक्येत विजेतुम् अमरैर् अपि राक्षसाणां क्षयकरो बाहुशाली महाबलः हिडिम्बो निहतो येन बाहुयुद्धेन भारत यो रावणसमो युद्धे तथा च बकराक्षसः स युध्यमानो राजेन्द्र भीमो भीमपराक्रमः उद्योगं त्वत्कृतं श्रुत्वा युद्धार्थं पाण्डवैः सह आगमिष्यन्ति सर्वे वै यादवाः शलभा इव तथैव कृतिनौ युद्धे यमौ यमसुताव् इव कथं विषहितुं शक्यौ रणे जीवितुम् इच्छता यस्मिन् धृतिर् अनुक्रोशः क्षमा सत्यं पराक्रमः नित्यानि पाण्डवश्रेष्ठे स जीयेत कथं रणे येषां पक्षधरो रामो येषां मन्त्री जनार्दनः किं नु तैर् अजितं संख्ये येषां पक्षे च सात्यकिः द्रुपदः श्वशुरो येषां येषां श्यालाश् च पार्षताः धृष्टद्युम्नमुखा वीरा भ्रातरो द्रुपदात्मजाः चैद्यश् च येषां भ्राता च शिशुपालो महारथः सो ऽशक्यतां च विज्ञाय तेषाम् अग्रेण भारत दायाद्यतां च धर्मेण सम्यक् तेषु समाचर इदं निर्दिग्धम् अयशः पुरोचनकृतं महत् तेषाम् अनुग्रहेणाद्य राजन् प्रक्षालयात्मनः तेषाम् अनुग्रहश् चायं सर्वेषां चैव नः कुले जीवितं च परं श्रेयः क्षत्रस्य च विवर्धनम् द्रुपदो ऽपि महान् राजा कृतवैरश् च नः पुरा तस्य संग्रहणं राजन् स्वपक्षस्य विवर्धनम् बलवन्तश् च दाशार्हा बहवश् च विशां पते यतः कृष्णस् ततस् ते स्युर् यतः कृष्णस् ततो जयः यच् च साम्नैव शक्येत कार्यं साधयितुं नृप को दैवशप्तस् तत् कार्तुं विग्रहेण समाचरेत् श्रुत्वा च जीवतः पार्थान् पौरजानपदो जनः बलवद् दर्शने गृध्नुस् तेषां राजन् कुरु प्रियम् दुर्योधनश् च कर्णश् च शकुनिश् चापि सौबलः अधर्मयुक्ता दुष्प्रज्ञा बाला मैषां वचः कृथाः उक्तम् एतन् मया राजन् पुरा गुणवतस् तव दुर्योधनापराधेन प्रजेयं विनशिष्यति धृतराष्ट्रः अजय्याः पाण्डवा युद्धे हरेण हरिणापि वा त्रैलोक्येनापि भूपाल किम् उ तैः खलु मानवैः दैवानुकूलाः कौन्तेया दैवं तेषां परायणम् प्रत्यक्षम् एतत् सर्वेषां मुक्ता जतुगृहानलात् जित्वा गन्धर्वराजानं धौम्यं प्राप्य पुरोहितम् पाञ्चालनगरं प्राप्य हत्वा लक्षम् अमानुषम् अनम्यं धनुर् आनाम्य शिरोभिः सह भूभृताम् चैद्यमागधकर्णाद्यैः किं कृतं तत्र भूमिपैः आरूढमूलाः पार्थाश् च दरिद्रा निर्धना इति जेतुं शक्या न मन्येथा अजय्याः पाण्डवाः सुरैः यावत् तिष्ठति लोके ऽस्मिन् कृष्णो यादववंशजः मुरारिः केशिहन्ता च लीलामानुषविग्रहः प्रणतार्तिहरो योगी केशवः क्लेशनाशनः भक्तानुवत्सलो भक्तस्वान्तवेश्मगृही तथा चतुःसागरपर्यन्तां केवलं पृथिवीं न हि धर्मात्मजो महाराज तावत् त्रैलोक्यम् अर्हति अलं कर्णानया बुद्ध्या नोत्साहय सुयोधनम् शकुने गच्छ मा गाधं निरयं कौरवैः सह पाण्डवाश् च वयं सर्वे भूमिपालाः सबान्धवाः वृष्ण्यन्धकपुरोगाश् च यादवाः सहकेशवाः सर्वे संभूय जीवाम सपुत्रपशुबान्धवाः बोधयध्वं तथा यूयं तथैव शरदां शतम् मा पुत्रवशगो भूप तव पुत्रः सुदुर्मतिः आनीय पाण्डवान् साधून् पुत्रांश् च सह सर्वशः अभेदेन निरीक्षस्व न भेदं चक्षुषोः कुरु मनसा स्नेहपूर्णेन निर्भेदो नखमांसवत् पार्थिवार्थे प्रियं ब्रूहि नाप्रियं सूतनन्दन पुत्र त्वं च न मे ब्रूहि पार्थानाम् अहितं क्व चित् दुर्योधनम् असन्मार्गान् निवर्तय महामते धृतराष्ट्र उवाच भीष्मः शांतनवो विद्वान् द्रोणश् च भगवान् ऋषिः हितं परमकं वाक्यं त्वं च सत्यं ब्रवीषि माम् यथैव पाण्डोस् ते वीराः कुन्तीपुत्रा महारथाः तथैव धर्मतः सर्वे मम पुत्रा न संशयः यथैव मम पुत्राणाम् इदं राज्यं विधीयते तथैव पाण्डुपुत्राणाम् इदं राज्यं न संशयः क्षत्तर् आनय गच्छैतान् सह मात्रा सुसत्कृतान् तया च देवरूपिण्या कृष्णया सह भारत दिष्ट्या जीवन्ति ते पार्था दिष्ट्या जीवति सा पृथा दिष्ट्या द्रुपदकन्यां च लब्धवन्तो महारथाः दिष्ट्या वर्धामहे सर्वे दिष्ट्या शान्तः पुरोचनः दिष्ट्या मम परं दुःखम् अपनीतं महाद्युते त्वम् एव गत्वा विदुर तान् इहानय माचिरात् वैशंपायन उवाच एवम् उक्तस् ततः क्षत्ता रथम् आरुह्य शीघ्रगम् अगात् कतिपयाहोभिः पाञ्चालान् राजधर्मवित् ततो जगाम विदुरो धृतराष्ट्रस्य शासनात् सकाशं यज्ञसेनस्य पाण्डवानां च भारत समुपादाय रत्नानि वसूनि विविधानि च द्रौपद्याः पाण्डवानां च यज्ञसेनस्य चैव हि आगतं विदुरं श्रुत्वा द्रुपदो राजसत्तमः स्वपुत्रैः सह धर्मात्मा पूजयाम् आस धर्मतः तत्र गत्वा स धर्मज्ञः सर्वशास्त्रविशारदः द्रुपदं न्यायतो राजन् संयुक्तम् उपतस्थिवान् स चापि प्रतिजग्राह धर्मेण विदुरं ततः चक्रे पूजां यथान्यायं विदुरस्य महात्मनः चक्रतुश् च यथान्यायं कुशलप्रश्नसंविदम् ददर्श पाण्डवांस् तत्र वासुदेवं च भारत स्नेहात् परिष्वज्य स तान् पप्रच्छानामयं ततः तैश् चाप्य् अमितबुद्धिः स पूजितो ऽथ यथाक्रमम् वचनाद् धृतराष्ट्रस्य स्नेहयुक्तं पुनः पुनः पाण्डवा विनयोपेता नत्वालिङ्ग्य विशां पते दृष्ट्वा मुहुर् मुहू राजन् हर्षाद् अश्रूण्य् अवर्तयन् पप्रच्छानामयं राजंस् ततस् तान् पाण्डुनन्दनान् प्रददौ चापि रत्नानि विविधानि वसूनि च पाण्डवानां च कुन्त्याश् च द्रौपद्याश् च विशां पते द्रुपदस्य च पुत्राणां यथा दत्तानि कौरवैः संकर्षणं वासुदेवं प्रणम्य विदुरस् ततः आसने काञ्चने शुभ्रे निषसाद महामतिः कृत्वा मिथस् तु संलापं मुदा पुनर् अभाषत भीष्मद्रोणाजमीढैश् च यद् उक्तं पाण्डवान् प्रति अवदत् तत्र तत् सर्वं सर्वेषाम् अनुशृण्वताम् प्रोवाच चामितमतिः प्रश्रितं विनयान्वितः द्रुपदं पाण्डुपुत्राणां संनिधौ केशवस्य च राजञ् शृणु सहामात्यः सपुत्रश् च वचो मम धृतराष्ट्रः सपुत्रस् त्वां सहामात्यः सबान्धवः अब्रवीत् कुशलं राजन् प्रीयमाणः पुनः पुनः प्रीतिमांस् ते दृढं चापि संबन्धेन नराधिप तथा भीष्मः शांतनवः कौरवैः सह सर्वशः कुशलं त्वां महाप्राज्ञः सर्वतः परिपृच्छति भारद्वाजो महेष्वासो द्रोणः प्रियसखस् तव समाश्लेषम् उपेत्य त्वां कुशलं परिपृच्छति धृतराष्ट्रश् च पाञ्चाल्य त्वया संबन्धम् ईयिवान् कृतार्थं मन्यते ऽऽत्मानं तथा सर्वे ऽपि कौरवाः त्रिदशैः सह संबन्धो न तथा प्रीतिकृत्तमः न तथा राज्यसंप्राप्तिस् तेषां प्रीतिकरी मता यथा संबन्धकं प्राप्य यज्ञसेन त्वया सह एतद् विदित्वा तु भवान् प्रस्थापयतु पाण्डवान् द्रष्टुं हि पाण्डुदायादांस् त्वरन्ते कुरवो भृशम् विप्रोषिता दीर्घकालम् इमे चापि नरर्षभाः उत्सुका नगरं द्रष्टुं भविष्यन्ति पृथा तथा कृष्णाम् अपि च पाञ्चालीं सर्वाः कुरुवरस्त्रियः द्रष्टुकामाः प्रतीक्षन्ते पुरं च विषयं च नः स भवान् पाण्डुपुत्राणाम् आज्ञापयतु माचिरम् गमनं सहदाराणाम् एतद् आगमनं मम विसृष्टेषु त्वया राजन् पाण्डवेषु महात्मसु ततो ऽहं प्रेषयिष्यामि धृतराष्ट्रस्य शीघ्रगान् आगमिष्यन्ति कौन्तेयाः कुन्ती च सह कृष्णया द्रुपद उवाच एवम् एतन् महाप्राज्ञ यथात्थ विदुराद्य माम् ममापि परमो हर्षः संबन्धे ऽस्मिन् कृते विभो गमनं चापि युक्तं स्याद् गृहम् एषां महात्मनाम् न तु तावन् मया युक्तम् एतद् वक्तुं स्वयं गिरा यदा तु मन्यते वीरः कुन्तीपुत्रो युधिष्ठिरः भीमसेनार्जुनौ चैव यमौ च पुरुषर्षभौ रामकृष्णौ च धर्मज्ञौ तदा गच्छन्तु पाण्डवाः एतौ हि पुरुषव्याघ्राव् एषां प्रियहिते रतौ युधिष्ठिर उवाच परवन्तो वयं राजंस् त्वयि सर्वे सहानुगाः यथा वक्ष्यसि नः प्रीत्या करिष्यामस् तथा वयम् वैशंपायन उवाच ततो ऽब्रवीद् वासुदेवो गमनं मम रोचते यथा वा मन्यते राजा द्रुपदः सर्वधर्मवित् द्रुपद उवाच यथैव मन्यते वीरो दाशार्हः पुरुषोत्तमः प्राप्तकालं महाबाहुः सा बुद्धिर् निश्चिता मम यथैव हि महाभागाः कौन्तेया मम सांप्रतम् तथैव वासुदेवस्य पाण्डुपुत्रा न संशयः न तद् ध्यायति कौन्तेयो धर्मपुत्रो युधिष्ठिरः यद् एषां पुरुषव्याघ्रः श्रेयो ध्यायति केशवः वैशंपायनः कुन्ती वैशंपायनः विदुरः पृथायास् तु तथा वेश्म प्रविवेश महाद्युतिः पादौ स्पृष्ट्वा पृथायास् तु शिरसा च महीं गतः दृष्ट्वा तु देवरं कुन्ती शुशोच च मुहुर् मुहुः वैचित्रवीर्य ते पुत्राः कथं चिज् जीवितास् त्वया त्वत्प्रसादाज् जतुगृहे त्राताः प्रत्यागतास् तव कूर्मश् चिन्तयते पुत्रान् यत्र वा तत्र वा गतः चिन्तया वर्धयेत् पुत्रान् यथा कुशलिनस् तथा तव पुत्रास् तु जीवन्ति त्वं त्राता भरतर्षभ यथा परभृतः पुत्रान् अरिष्टा वर्धयेत् सदा तथैव तव पुत्रास् तु मया तात सुरक्षिताः दुःखास् तु बहवः प्राप्तास् तथा प्राणान्तिका मया अतः परं न जानामि कर्तव्यं ज्ञातुम् अर्हसि इत्य् एवम् उक्त्वा दुःखार्ता शुशोच परमातुरा प्रणिपत्याब्रवीत् क्षत्ता मा शोच इति भारत न विनश्यन्ति लोकेषु तव पुत्रा महाबलाः अचिरेणैव कालेन स्वराज्यस्था भवन्ति ते बान्धवैः सहिताः सर्वैर् मा शोकं कुरु माधवि वैशंपायन उवाच ततस् ते समनुज्ञाता द्रुपदेन महात्मना पाण्डवाश् चैव कृष्णश् च विदुरश् च महामतिः आदाय द्रौपदीं कृष्णां कुन्तीं चैव यशस्विनीम् सविहारं सुखं जग्मुर् नगरं नागसाह्वयम् सुवर्णकक्ष्याग्रैवेयान् सुवर्णाङ्कुशभूषितान् जाम्बूनदपरिष्कारान् प्रभिन्नकरटामुखान् अधिष्ठितान् महामात्रैः सर्वशस्त्रसमन्वितान् सहस्रं प्रददौ राजा गजानां वरवर्मिणाम् रथानां च सहस्रं वै सुवर्णमणिचित्रितम् चतुर्युजां भानुमच् च पाञ्चालः प्रददौ तदा सुवर्णपरिबर्हाणां वरचामरमालिनाम् जात्यश्वानां च पञ्चाशत् सहस्रं प्रददौ नृपः दासीनाम् अयुतं राजा प्रददौ वरभूषणम् ततः सहस्रं दासानां प्रददौ वरधन्विनाम् हैमानि शय्यासनभाजनानि; द्रव्याणि चान्यानि च गोधनानि पृथक् पृथक् चैव ददौ स कोटिं; पाञ्चालराजः परमप्रहृष्टः शिबिकानां शतं पूर्णं वाहान् पञ्चशतं वरान् एवम् एतानि पाञ्चालो जन्यार्थे प्रददौ धनम् हरणं तत्र पाञ्चाल्या ज्ञातिदेयं तु सौमकिः धृष्टद्युम्नो ययौ तत्र भगिनीं गृह्य भारत नानद्यमानो बहुभिस् तूर्यशब्दैः सहस्रशः श्रुत्वा चोपस्थितान् वीरान् धृतराष्ट्रो ऽपि कौरवः प्रतिग्रहाय पाण्डूनां प्रेषयाम् आस कौरवान् विकर्णं च महेष्वासं चित्रसेनं च भारत द्रोणं च परमेष्वासं गौतमं कृपम् एव च तैस् ते परिवृता वीराः शोभमाना महारथाः नगरं हास्तिनपुरं शनैः प्रविविशुस् तदा पाण्डवान् आगताञ् श्रुत्वा नागरास् तु कुतूहलात् मण्डयां चक्रिरे तत्र नगरं नागसाह्वयम् मुक्तपुष्पावकीर्णं तु जलसिक्तं तु सर्वशः धूपितं दिव्यधूपेन मङ्गलैश् चाभिसंवृतम् पताकोच्छ्रितमाल्यं च पुरम् अप्रतिमं बभौ शङ्खभेरीनिनादैश् च नानावादित्रनिस्वनैः कौतूहलेन नगरं दीर्यमाणम् इवाभवत् यत्र ते पुरुषव्याघ्राः शोकदुःखविनाशनाः तत उच्चावचा वाचः प्रियाः प्रियचिकीर्षुभिः उदीरिता अशृण्वंस् ते पाण्डवा हृदयंगमाः अयं स पुरुषव्याघ्रः पुनर् आयाति धर्मवित् यो नः स्वान् इव दायादान् धर्मेण परिरक्षति अद्य पाण्डुर् महाराजो वनाद् इव वनप्रियः आगतः प्रियम् अस्माकं चिकीर्षुर् नात्र संशयः किं नु नाद्य कृतं तावत् सर्वेषां नः परं प्रियम् यन् नः कुन्तीसुता वीरा भर्तारः पुनरागताः यदि दत्तं यदि हुतं विद्यते यदि नस् तपः तेन तिष्ठन्तु नगरे पाण्डवाः शरदां शतम् ततस् ते धृतराष्ट्रस्य भीष्मस्य च महात्मनः अन्येषां च तदर्हाणां चक्रुः पादाभिवन्दनम् कृत्वा तु कुशलप्रश्नं सर्वेण नगरेण ते समाविशन्त वेश्मानि धृतराष्ट्रस्य शासनात् वैशंपायनः दुर्योधनस्य महिषी काशिराजसुता तदा धृतराष्ट्रस्य पुत्राणां वधूभिः सहिता तदा पाञ्चालीं प्रतिजग्राह द्रौपदीं श्रीम् इवापराम् पूजयाम् आस पूजार्हां शचीं देवीम् इवागताम् ववन्दे तत्र गान्धारीं माधवी कृष्णया सह आशिषश् च प्रयुक्त्वा तु पाञ्चालीं परिषस्वजे परिष्वज्य च गान्धारी कृष्णां कमललोचनाम् पुत्राणां मम पाञ्चाली मृत्युर् एवेत्य् अमन्यत सा चिन्त्य विदुरं प्राह युक्तितः सुबलात्मजा कुन्तीं राजसुतां क्षत्तः सवधूं सपरिच्छदाम् पाण्डोर् निवेशनं शीघ्रं नीयतां यदि रोचते करणेन मुहूर्तेन नक्षत्रेण तिथौ शुभे यथा सुखं तथा कुन्ती रंस्यते स्वगृहे सुतैः तथेत्य् एव तदा क्षत्ता कारयाम् आस तत् तदा पूजयाम् आसुर् अत्यर्थं बान्धवाः पाण्डवांस् तदा नागराः श्रेणिमुख्याश् च पूजयन्ति स्म पाण्डवान् भीष्मद्रोणौ तथा कर्णो बाह्लीकः ससुतस् तदा शासनाद् धृतराष्ट्रस्य अकुर्वन्न् अतिथिक्रियाम् एवं विहरतां तेषां पाण्डवानां महात्मनाम् नेता सर्वस्य कार्यस्य विदुरो राजशासनात् विश्रान्तास् ते महात्मानः कं चित् कालं महाबलाः आहूता धृतराष्ट्रेण राज्ञा शांतनवेन च धृतराष्ट्र उवाच भ्रातृभिः सह कौन्तेय निबोधेदं वचो मम पाण्डुना वर्धितं राज्यं पाण्डुना पालितं जगत् शासनान् मम कौन्तेय मम भ्राता महाबलः कृतवान् दुष्करं कर्म नित्यम् एव विशां पते तस्मात् त्वम् अपि कौन्तेय शासनं कुरु माचिरम् मम पुत्रा दुरात्मानः सर्वे ऽहंकारसंयुताः शासनं न करिष्यन्ति मम नित्यं युधिष्ठिर स्वकार्यनिरतैर् नित्यम् अवलिप्तैर् दुरात्मभिः पुनर् वो विग्रहो मा भूत् खाण्डवप्रस्थम् आविश न च वो वसतस् तत्र कश् चिच् छक्तः प्रबाधितुम् संरक्ष्यमाणान् पार्थेन त्रिदशान् इव वज्रिणा अर्धं राज्यस्य संप्राप्य खाण्डवप्रस्थम् आविश धृतराष्ट्रः वैशंपायनः श्रीवासुदेवः वैशंपायनः वैशंपायनः केशवो यदि मन्येत तत् कर्तव्यम् असंशयम् वासुदेवेन संमन्त्र्य पाण्डवाः समुपाविशन् अभिषेकस्य संभारान् क्षत्तर् आनय माचिरम् अभिषिक्तं करिष्यामि अद्यैव कुरुनन्दनम् ब्राह्मणा नैगमश्रेष्ठाः श्रेणिमुख्याश् च सर्वशः आहूयन्तां प्रकृतयो बान्धवाश् च विशेषतः पुण्याहं वाच्यतां तात गोसहस्रं तु दीयताम् ग्राममुख्याश् च विप्रेभ्यो दीयन्तां सहदक्षिणाः अङ्गदे मुकुटं क्षत्तर् हस्ताभरणम् एव च मुक्तावलीं च हारं च निष्कादीन् कुण्डलानि च कटिबन्धं च सूत्रं च तथोदरनिबन्धनम् अष्टोत्तरसहस्रं च ब्राह्मणाधिष्ठिता गजाः जाह्नवीसलिलं शीघ्रम् आनयन्तां पुरोहिताः अभिषेकोदकक्लिन्नं सर्वाभरणभूषितम् औपवाह्योपरिगतं दिव्यचामरवीजितम् सुवर्णमणिचित्रेण श्वेतच्छत्रेण शोभितम् जयेति द्विजवाक्येन स्तूयमानं नृपैस् तथा दृष्ट्वा कुन्तीसुतं श्रेष्ठम् आजमीढं युधिष्ठिरम् प्रीताः प्रीतेन मनसा प्रशंसन्तु पुरे जनाः पाण्डोः कृतोपकारस्य राज्यं दत्त्वा ममैव च प्रतिक्रिया कृतम् इदं भविष्यति न संशयः भीष्मो द्रोणः कृपः क्षत्ता साधु साध्व् इत्य् अभाषत युक्तम् एतन् महाराज कौरवाणां यशस्करम् शीघ्रम् अद्यैव राजेन्द्र यथोक्तं कर्तुम् अर्हसि इत्य् एवम् उक्त्वा वार्ष्णेयस् त्वरयाम् आस तं तदा यथोक्तं धृतराष्ट्रेण कारयाम् आस कौरव तस्मिन् क्षणे महाराज कृष्णद्वैपायनस् तदा आगम्य कुरुभिः सर्वैः पूजितः ससुहृद्गणैः मूर्धावसिक्तैः सहितो ब्राह्मणैर् वेदपारगैः कारयाम् आस विधिवत् केशवानुमते तदा कृपो द्रोणश् च भीष्मश् च धौम्यश् च व्यासकेशवौ बाह्लीकः सोमदत्तश् च चातुर्वेद्यपुरस्कृताः अभिषेकं तदा चक्रुर् भद्रपीठे सुसंयतम् जित्वा तु पृथिवीं कृत्स्नां वशे कृत्वा नरर्षभान् राजसूयादिभिर् यज्ञैः क्रतुभिर् भूरिदक्षिणैः स्नात्वा ह्य् अवभृथस्नानं मोदन्तां बान्धवैः सह एवम् उक्त्वा तु ते सर्वे आशीर्भिः प्रत्यपूजयन् मूर्धाभिषिक्तः कौरव्यः सर्वाभरणभूषितः जयेति संस्तुतो राजा प्रददौ धनम् अक्षयम् सर्वमूर्धावसिक्तैश् च पूजितः कुरुनन्दनः औपवाह्यम् अथारुह्य दिव्यच्छत्रेण शोभितः राज्ञाम् अनुगतो राजा महेन्द्र इव दैवतैः ततः प्रदक्षिणीकृत्य नगरं नागसाह्वयम् प्रविवेश तदा राजा नागरैः पूजितो भृशम् मूर्धावसिक्तं पाण्डुसुतम् अभ्यनन्दन्त पाण्डवाः गान्धारिपुत्राः शोचन्तः सर्वे ते सह बान्धवैः ज्ञात्वा शोकं तु पुत्राणां धृतराष्ट्रो ऽब्रवीन् नृपम् समक्षं वासुदेवस्य कुरूणां च समक्षतः अभिषेकं त्वया प्राप्तं दुष्प्रापम् अकृतात्मभिः गच्छ त्वम् अद्यैव नृप कृतकृत्यो ऽसि कौरव आयुः पुरूरवा राजन् नहुषश् च ययातिना तत्रैव निवसन्ति स्म खाण्डवाख्ये नृपोत्तम राजधानी तु सर्वेषां पौरवाणां महाभुज विनाशितं मुनिगणैर् लोभान् मुनिसुतस्य तु तस्मात् त्वं खाण्डवप्रस्थं पुरं राष्ट्रं च वर्धय ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् च कृतनिश्चयाः त्वद्भक्त्या जन्तवश् चान्ये भजन्त्य् एव पुरं शुभम् पुरं राष्ट्रं समृद्धं वै धनधान्यैः समावृतम् तस्माद् गच्छस्व कौन्तेय भ्रातृभिः सहितो ऽनघ रथैर् नागैर् हयैश् चापि सहितास् तु पदातिभिः वैशंपायन उवाच प्रतिगृह्य तु तद् वाक्यं नृपं सर्वे प्रणम्य च प्रतस्थिरे ततो घोरं वनं तन् मनुजर्षभाः पाण्डवैः सहिता गन्तुं नार्हतेति स नागरान् घोषयाम् आस नगरे धार्तराष्ट्रः ससौबलः अर्धं राज्यस्य संप्राप्य खाण्डवप्रस्थम् आविशन् ततस् ते पाण्डवास् तत्र गत्वा कृष्णपुरोगमाः मण्डयां चक्रिरे तद् वै पुरं स्वर्गवद् अच्युताः वासुदेवो जगन्नाथश् चिन्तयाम् आस वासवम् महेन्द्रश् चिन्तितो राजन् विश्वकर्माणम् आदिशत् विश्वकर्मन् महाप्राज्ञ अद्य प्रभृति तत् पुरम् इन्द्रप्रस्थम् इति ख्यातं दिव्यं भूम्यां भविष्यति महेन्द्रशासनाद् गत्वा विश्वकर्मा तु केशवम् प्रणम्य प्रणिपातार्हं किं करोमीत्य् अभाषत वासुदेवस् तु तच् छ्रुत्वा विश्वकर्माणम् अव्ययः कुरुष्व कुरुराजस्य महेन्द्रपुरसंनिभम् इन्द्रेण कृतनामानम् इद्रप्रस्थं महापुरम् ततः पुण्ये शिवे देशे शान्तिं कृत्वा महारथाः स्वस्ति वाच्य यथान्यायम् इन्द्रप्रस्थं भवत्व् इति नगरं मापयाम् आसुर् द्वैपायनपुरोगमाः ततस् तु विश्वकर्मा तु चकार पुरम् उत्तमम् सागरप्रतिरूपाभिः परिखाभिर् अलंकृतम् प्राकारेण च संपन्नं दिवम् आवृत्य तिष्ठता पाण्डुराभ्रप्रकाशेन हिमराशिनिभेन च शुशुभे तत् पुरश्रेष्ठं नागैर् भोगवती यथा द्विपक्षगरुडप्रख्यैर् द्वारैर् घोरप्रदर्शनैः गुप्तम् अभ्रचयप्रख्यैर् गोपुरैर् मन्दरोपमैः विविधैर् अतिनिर्विद्धैः शस्त्रोपेतैः सुसंवृतैः शक्तिभिश् चावृतं तद् धि द्विजिह्वैर् इव पन्नगैः तल्पैश् चाभ्यासिकैर् युक्तं शुशुभे योधरक्षितम् तीक्ष्णाङ्कुशशतघ्नीभिर् यन्त्रजालैश् च शोभितम् आयसैश् च महाचक्रैः शुशुभे तत् पुरोत्तमम् सुविभक्तमहारथ्यं देवताबाधवर्जितम् विरोचमानं विविधैः पाण्डुरैर् भवनोत्तमैः हर्म्यप्रासादसंबाधं नानापण्यविभूषितम् विस्पर्धयेव प्रासादा अन्योन्यस्योच्छ्रिताभवन् मण्डपाश् च सभाः शालाः प्रपाश् चैव समन्ततः तत् त्रिविष्टपसंकाशम् इन्द्रप्रस्थं व्यरोचत पुरीं सर्वगुणोपेतां निर्मितां विश्वकर्मणा पौरवाणाम् अधिपतिः कुन्तीपुत्रो युधिष्ठिरः कृतमङ्गलसत्कारो ब्राह्मणैर् वेदपारगैः द्वैपायनं पुरस्कृत्य धौम्यस्यानुमते स्थितः भ्रातृभिः सहितो राजन् केशवेन सहाभिभूः तोरणद्वारसुमुखां द्वात्रिंशद् द्वारसंयुताम् वर्धमानपुरद्वारां प्रविवेश महाद्युतिः शङ्खदुन्दुभिनिर्घोषाः श्रूयन्ते बहवो भृशम् जयेति ब्राह्मणगिरः श्रूयन्ते च सहस्रशः संस्तूयमानो बहुभिः सूतमागधबन्दिभिः औपवाह्यगतो राजा राजमार्गम् अतीत्य च कृतमङ्गलसत्कारं प्रविवेश गृहोत्तमम् प्रविश्य भवनं राजा सत्कारैर् अभिपूजितः पूजयाम् आस विप्रेन्द्रान् केशवेन यथाक्रमम् ततस् तु राष्ट्रं ववृधे नरनारीगणायुतम् गोधनैश् च समाकीर्णं सस्यवृद्धिस् तदाभवत् मेघवृन्दम् इवाकाशे वृद्धं विद्युत्समावृतम् तत्र रम्ये शुभे देशे कौरव्यस्य निवेशनम् शुशुभे धनसंपूर्णं धनाध्यक्षक्षयोपमम् पौरवाणाम् अधिपतिः कुन्तीपुत्रो युधिष्ठिरः कृतमङ्गलसत्कारो ब्राह्मणैर् वेदपारगैः द्वैपायनं पुरस्कृत्य धौम्यस्यानुमते स्थितः भ्रातृभिः सहितो राजन् केशवेन सहाभिभूः जयेति ब्रह्मणां वाचः श्रूयन्ते च सहस्रशः संस्तूयमानो बहुभिः सूतमागधबन्दिभिः औपवाह्यगतो राजा राजमार्गम् अतीत्य च कृतमङ्गलसंस्कारं प्रविवेश गृहोत्तमम् प्रविश्य भवनं राजा नागरैर् अभिपूजितः पूजयाम् आस विप्रेन्द्रान् केशवेन यथाक्रमम् ततस् तु राष्ट्रं ववृधे नरनारीगणैर् वृतम् तत्रागच्छन् द्विजा राजन् सर्ववेदविदां वराः निवासं रोचयन्ति स्म सर्वभाषाविदस् तथा वणिजश् चाभ्ययुस् तत्र देशे दिग्भ्यो धनार्थिनः सर्वशिल्पविदश् चैव वासायाभ्यागमंस् तदा उद्यानानि च रम्याणि नगरस्य समन्ततः आम्रैर् आम्रातकैर् नीपैर् अशोकैश् चम्पकैस् तथा नालिकेरैश् च लिकुचैः कदलीभिः समावृताः अशोकैस् तिलकैर् लोध्रैर् नीलाशोकैश् च चम्पकैः पुंनागैर् नागपुष्पैश् च लकुचैः पनसैस् तथा शालतालकदम्बैश् च बकुलैश् च सकेतकैः मनोहरैः पुष्पितैश् च फलभारावनामितैः प्राचीनामलकैर् लोध्रैर् अङ्कोलैश् च सुपुष्पितैः जम्बूभिः पाटलाभिश् च कुब्जकैर् अतिमुक्तकैः करवीरैः पारिजातैर् अन्यैश् च विविधैर् द्रुमैः नित्यपुष्पफलोपेतैर् नानाद्विजगणायुतम् मत्तबर्हिणसंघुष्टं कोकिलैश् च सदामदैः गृहैर् आदर्शविमलैर् विविधैश् च लतागृहैः मनोहरैश् चित्रगृहैस् तथा जगतिपर्वतैः वापीभिर् विविधाभिश् च पूर्णाभिः परमाम्भसा सरोभिर् अतिरम्यैश् च पद्मोत्पलसुगन्धिभिः हंसकारण्डवयुतैश् चक्रवाकोपशोभितैः रम्याश् च विविधास् तत्र पुष्करिण्यो वनावृताः वेश्ममध्ये शिवं दिव्यम् इन्द्रवासगृहोपमम् राज्ञो वासगृहं रम्यं विश्वकर्मा त्व् अकारयत् सुवर्णमणिसोपानं सर्वरत्नविचित्रितम् विहारभूम्यो विविधाः कारिताः स्युर् मनोहराः तथा प्रासादमालाश् च शोभन्ते स्म सहस्रशः निरन्तरा राजमार्गाः स्त्रीरत्नैः शोभिताः सिताः तडागानि च रम्याणि बृहन्ति च महान्ति च नदी च नन्दिनी नाम सा पुरीम् उपगूहते चातुर्वर्ण्यसमाकीर्णं माल्यैः शिल्पिभिर् आवृतम् उपभोगसमर्थैश् च सर्वैर् द्रव्यैः समावृतम् नित्यम् आर्यजनोपेतं नरनारीगणायुतम् मत्तवारणसंपूर्णं गोभिर् उष्ट्रैः खरैर् अजैः सर्वदाभिसृतं सद्भिः कारितं विश्वकर्मणा तेषां पुण्यजनोपेतं राष्ट्रम् आवसतां महत् पाण्डवानां महाराज शश्वत् प्रीतिर् अवर्धत सौबलेन च कर्णेन धार्तराष्ट्रैः कृपेण च तत्र भीष्मेण राज्ञा च धर्मप्रणयने कृते पाण्डवाः समपद्यन्त खाण्डवप्रस्थवासिनः पञ्चभिस् तैर् महेष्वासैर् इन्द्रकल्पैः समन्वितम् शुशुभे तत् पुरश्रेष्ठं नागैर् भोगवती यथा श्रीवासुदेवः वैशंपायनः कुन्ती वैशंपायनः ततस् तु विश्वकर्माणं पूजयित्वा विसृज्य च द्वैपायनं च संपूज्य विसृज्य च नराधिप वार्ष्णेयम् अब्रवीद् राजा गन्तुकामं कृतक्षणम् तव प्रसादाद् वार्ष्णेय राज्यं प्राप्तं मयानघ प्रसादाद् एव ते वीर शून्यं राष्ट्रं सुदुर्गमम् तवैव तत्प्रसादेन राज्यस्थास् तु भवामहे गतिस् त्वम् अन्तकाले च पाण्डवानां तु माधव मातास्माकं पिता देवो न पाण्डुं विद्महे वयम् ज्ञात्वा तु कृत्यं कर्तव्यं पाण्डवानां त्वयानघ त्वत्प्रभावान् महाभाग राज्यं प्राप्तं स्वधर्मतः पितृपैतामहं राज्यं कथं न स्यात् तव प्रभो धार्तराष्ट्रा दुराचाराः किं करिष्यन्ति पाण्डवान् यथेष्टं पालय महीं सदा धर्मधुरं वह धर्मोपदेशः संक्षेपाद् ब्राह्मणान् भर कौरव अद्यैव नारदः श्रीमान् आगमिष्यति सत्वरः आदृत्य तस्य वाक्यानि शासनं कुरु तस्य वै एवम् उक्त्वा ततः कुन्तीम् अभिवाद्य जनार्दनः उवाच श्लक्ष्णया वाचा गमिष्यामि नमो ऽस्तु ते जातुषं गृहम् आसाद्य मया प्राप्तं च केशव आर्येणापि तव ज्ञातं कुन्तिभोजेन चानघ त्वया नाथेन गोविन्द दुःखं प्राप्तं महत्तरम् किं पुनस् त्वम् अनाथानां दरिद्राणां विशेषतः सर्वदुःखानि शाम्यन्ति तव संदर्शनान् मम स्मरस्वैतान् महाप्राज्ञ तेन जीवन्ति पाण्डवाः करिष्यामीति चामन्त्र्य अभिवाद्य पितृष्वसाम् गमनाय मतिं चक्रे वासुदेवः सहानुगः तान् निवेश्य ततो वीरो रामेण सह केशवः ययौ द्वारवतीं राजन् पाण्डवानुमते तदा जनमेजय उवाच एवं संप्राप्य राज्यं तद् इन्द्रप्रस्थे तपोधन अत ऊर्ध्वं महात्मानः किम् अकुर्वन्त पाण्डवाः सर्व एव महात्मानः पूर्वे मम पितामहाः द्रौपदी धर्मपत्नी च कथं तान् अन्ववर्तत कथं वा पञ्च कृष्णायाम् एकस्यां ते नराधिपाः वर्तमाना महाभागा नाभिद्यन्त परस्परम् श्रोतुम् इच्छाम्य् अहं सर्वं विस्तरेण तपोधन तेषां चेष्टितम् अन्योन्यं युक्तानां कृष्णया तया वैशंपायन उवाच धृतराष्ट्राभ्यनुज्ञाताः कृष्णया सह पाण्डवाः रेमिरे पुरुषव्याघ्राः प्राप्तराज्याः परंतपाः प्राप्य राज्यं महातेजाः सत्यसंधो युधिष्ठिरः पालयाम् आस धर्मेण पृथिवीं भ्रातृभिः सह जितारयो महाप्राज्ञाः सत्यधर्मपरायणाः मुदं परमिकां प्राप्तास् तत्रोषुः पाण्डुनन्दनाः कुर्वाणाः पौरकार्याणि सर्वाणि पुरुषर्षभाः आसां चक्रुर् महार्हेषु पार्थिवेष्व् आसनेषु च अथ तेषूपविष्टेषु सर्वेष्व् एव महात्मसु आययौ धर्मराजं तु द्रष्टुकामो ऽथ नारदः तथा नक्षत्रजुष्टेन सुपर्णचरितेन च चन्द्रसूर्यप्रकाशेन सेवितेन महर्षिभिः नभःस्थलेन दिव्येन दुर्लभेनातपस्विनाम् भूतार्चितो भूतधरां राष्ट्रं नगरमालिनीम् अवेक्षमाणो द्युतिमान् आजगाम महातपाः सर्ववेदान्तगो विप्रः सर्वविद्यासु पारगः परेण तपसा युक्तो ब्राह्मेण तपसा वृतः नये नीतौ च नियतो विश्रुतश् च महामुनिः परात् परतरं प्राप्तो धर्मात् समभिजग्मिवान् भावितात्मा गतरजाः शान्तो मृदुऋजुर् द्विजः धर्मेणाभिगतः सर्वैर् देवदानवमानवैः क्षीणकर्मसु पापेषु भूतेषु विविधेषु च सर्वथा कृतमर्यादो देवेषु विविधेषु च शतशः सोमपा यज्ञे पुण्यकर्मकृद् अग्निचित् ऋक्सामयजुषां वेत्ता न्यायवृत्तान्तकोविदः ऋजुर् आरोहवाञ् शुक्लो भूयिष्ठपथिको ऽनघः श्लक्ष्णया शिखयोपेतः संपन्नः परमत्विषा अवदाते च सूक्ष्मे च दिव्ये च रुचिरे शुभे महेन्द्रदत्ते महती बिभ्रत् परमवाससी जाम्बूनदमये दिव्ये गण्डूपदमुखेन वै अग्न्यर्कसदृशे दिव्ये धारयन् कुण्डले शुभे राजतच्छत्रम् उच्छ्रित्य चित्रं परमवर्चसम् प्राप्य दुष्प्रापम् अन्येन ब्रह्मवर्चसम् उत्तमम् भवने भूमिपालस्य बृहस्पतिर् इवाप्लुतः संहितायां च सर्वेषां स्थितस्योपस्थितस्य च द्विपदस्य च धर्मस्य क्रमधर्मस्य पारगः गाथासामानुसामज्ञः साम्नां परमवल्गुनाम् आत्मना सर्वमोक्षिभ्यः कृतिमान् कृत्यवित् तथा योक्ता धर्मे बहुविधे मनो मतिमतां वरः विदितार्थः स्वसमयच्छेत्ता निगमसंशयान् अर्थनिर्वचने नित्यं संशयच्छिद् असंशयः प्रकृत्या धर्मकुशलो नानाधर्मविशारदः लोपेनागमधर्मेण संक्रमेण च वृत्तिषु एकशब्दांश् च नानार्थान् एकार्थांश् च पृथक् श्रुतीन् पृथग् अर्थाभिधानं च प्रयोगाणाम् अवेक्षिता प्रमाणभूतो लोकस्य सर्वाधिकरणेषु च सर्ववर्णविकारेषु नित्यं सकलपूजितः स्वरे स्वरे च विविधे वृत्तेषु विविधेषु च समस्थानेषु सर्वेषु समाम्नायेषु धातुषु उद्देश्यानां समाख्याता सर्वम् आख्यातम् उद्दिशन् अभिसंधिषु तत्त्वज्ञः पदान्य् अङ्गान्य् अनुस्मरन् कालधर्मेण निर्दिष्टं यथार्थं च विचारयन् चिकीर्षितं च यो वेत्ता यथा लोकेन संवृतम् विभाषितं च समयं भाषितं हृदयंगमम् आत्मने च परस्मै च स्वरसंस्कारयोगवान् एषां स्वराणां ज्ञाता च बोद्धा प्रवचनस्वरान् विज्ञाता उक्तवाक्यानां एकतां बहुतां तथा बोद्धा च परमार्थांश् च विविधांश् च व्यतिक्रमान् अभेदतश् च बहुशो बहुशश् चापि भेदतः वचनानां च विविधान् आदेशांश् च समीक्षिता नानार्थकुशलस् तत्र तद्धितेषु च कृत्स्नशः परिभूषयिता वाचां वर्णतः स्वरतो ऽर्थतः प्रत्ययांश् च समाख्याता नियतं प्रतिधातुकम् पञ्च चाक्षरजातानि स्वरसंज्ञानि यानि च नारदस् त्व् अथ देवर्षिर् आजगाम यदृच्छया तम् आगतम् ऋषिं दृष्ट्वा प्रत्युद्गम्याभिवाद्य च आसनं रुचिरं तस्मै प्रददौ स्वं युधिष्ठिरः कृष्णाजिनोत्तरे तस्मिन्न् उपविष्टो महान् ऋषिः देवर्षेर् उपविष्टस्य स्वयम् अर्घ्यं यथाविधि प्रादाद् युधिष्ठिरो धीमान् राज्यं चास्मै न्यवेदयत् प्रतिगृह्य तु तां पूजाम् ऋषिः प्रीतमनाभवत् आशीर्भिर् वर्धयित्वा तु तम् उवाचास्यताम् इति निषसादाभ्यनुज्ञातस् ततो राजा युधिष्ठिरः प्रेषयाम् आस कृष्णायै भगवन्तम् उपस्थितम् श्रुत्वैव द्रौपदी चापि शुचिर् भूत्वा समाहिता जगाम तत्र यत्रास्ते नारदः पाण्डवैः सह तस्याभिवाद्य चरणौ देवर्षेर् धर्मचारिणी कृताञ्जलिः सुसंवीता स्थिताथ द्रुपदात्मजा तस्याश् चापि स धर्मात्मा सत्यवाग् ऋषिसत्तमः आशिषो विविधाः प्रोच्य राजपुत्र्यास् तु नारदः गम्यताम् इति होवाच भगवांस् ताम् अनिन्दिताम् गतायाम् अथ कृष्णायां युधिष्ठिरपुरोगमान् विविक्ते पाण्डवान् सर्वान् उवाच भगवान् ऋषिः पाञ्चाली भवताम् एका धर्मपत्नी यशस्विनी यथा वो नात्र भेदः स्यात् तथा नीतिर् विधीयताम् सुन्दोपसुन्दाव् असुरौ भ्रातरौ सहिताव् उभौ आस्ताम् अवध्याव् अन्येषां त्रिषु लोकेषु विश्रुतौ एकराज्याव् एकगृहाव् एकशय्यासनाशनौ तिलोत्तमायास् तौ हेतोर् अन्योन्यम् अभिजघ्नतुः रक्ष्यतां सौहृदं तस्माद् अन्योन्यप्रतिभाविकम् यथा वो नात्र भेदः स्यात् तत् कुरुष्व युधिष्ठिर यथा च सर्वेषु समं तत् कुरुष्व महारथाः युधिष्ठिर उवाच सुन्दोपसुन्दाव् असुरौ कस्य पुत्रौ महामुने उत्पन्नश् च कथं भेदः कथं चान्योन्यम् अघ्नताम् अप्सरा देवकन्या वा कस्य चैषा तिलोत्तमा यस्याः कामेन संमत्तौ जघ्नतुस् तौ परस्परम् एतत् सर्वं यथावृत्तं विस्तरेण तपोधन श्रोतुम् इच्छामहे विप्र परं कौतूहलं हि नः नारद उवाच शृणु मे विस्तरेणेमम् इतिहासं पुरातनम् भ्रातृभीः सहितः पार्थ यथावृत्तं युधिष्ठिर महासुरस्यान्ववाये हिरण्यकशिपोः पुरा निकुम्भो नाम दैत्येन्द्रस् तेजस्वी बलवान् अभूत् तस्य पुत्रौ महावीर्यौ जातौ भीमपराक्रमौ सुन्दोपसुन्दौ दैत्येन्द्रौ दारुणौ क्रूरमानसौ ताव् एकनिश्चयौ दैत्याव् एककार्यार्थसंगतौ निरन्तरम् अवर्तेतां समदुःखसुखाव् उभौ सहान्योन्येन भुञ्जाते विनान्योन्यं न गच्छतः अन्योन्यस्य प्रियकराव् अन्योन्यस्य प्रियंवदौ एकशीलसमाचारौ द्विधैवैकं यथा कृतौ तौ विवृद्धौ महावीर्यौ कार्येष्व् अप्य् एकनिश्चयौ त्रैलोक्यविजयार्थाय समास्थायैकनिश्चयम् कृत्वा दीक्षां गतौ विन्ध्यं तत्रोग्रं तेपतुस् तपः तौ तु दीर्घेण कालेन तपोयुक्तौ बभूवतुः क्षुत्पिपासापरिश्रान्तौ जटावल्कलधारिणौ मलोपचितसर्वाङ्गौ वायुभक्षौ बभूवतुः ग्रीष्मे पञ्चाग्निसंयुक्ताव् एकी उत्थातपारतौ (सिच्) शयानौ तोयमध्ये तु वर्षाकाले युधिष्ठिर आत्ममांसानि जुह्वन्तौ पादाङ्गुष्ठाग्रधिष्ठितौ ऊर्ध्वबाहू चानिमिषौ दीर्घकालं धृतव्रतौ तयोस् तपःप्रभावेण दीर्घकालं प्रतापितः धूमं प्रमुमुचे विन्ध्यस् तद् अद्भुतम् इवाभवत् ततो देवाभवन् भीता उग्रं दृष्ट्वा तयोस् तपः तपोविघातार्थम् अथो देवा विघ्नानि चक्रिरे रत्नैः प्रलोभयाम् आसुः स्त्रीभिश् चोभौ पुनः पुनः न च तौ चक्रतुर् भङ्गं व्रतस्य सुमहाव्रतौ अथ मायां पुनर् देवास् तयोश् चक्रुर् महात्मनोः भगिन्यो मातरो भार्यास् तयोः परिजनस् तथा परिपात्यमाना वित्रस्ताः शूलहस्तेन रक्षसा स्रस्ताभरणकेशान्ता एकान्तभ्रष्टवाससः अभिधाव्य ततः सर्वास् तौ त्राहीति विचुक्रुशुः न च तौ चक्रतुर् भङ्गं व्रतस्य सुमहाव्रतौ यदा क्षोभं नोपयाति नार्तिम् अन्यतरस् तयोः ततः स्त्रियस् ता भूतं च सर्वम् अन्तरधीयत ततः पितामहः साक्षाद् अभिगम्य महासुरौ वरेण छन्दयाम् आस सर्वलोकपितामहः ततः सुन्दोपसुन्दौ तौ भ्रातरौ दृढविक्रमौ दृष्ट्वा पितामहं देवं तस्थतुः प्राञ्जली तदा ऊचतुश् च प्रभुं देवं ततस् तौ सहितौ तदा आवयोस् तपसानेन यदि प्रीतः पितामहः मायाविदाव् अस्त्रविदौ बलिनौ कामरूपिणौ उभाव् अप्य् अमरौ स्यावः प्रसन्नो यदि नौ प्रभुः पितामह उवाच ऋते ऽमरत्वम् अन्यद् वां सर्वम् उक्तं भविष्यति अन्यद् वृणीतां मृत्योश् च विधानम् अमरैः समम् करिष्यावेदम् इति यन् महद् अभ्युत्थितं तपः युवयोर् हेतुनानेन नामरत्वं विधीयते त्रैलोक्यविजयार्थाय भवद्भ्याम् आस्थितं तपः हेतुनानेन दैत्येन्द्रौ न वां कामं करोम्य् अहम् सुन्दोपसुन्दाव् ऊचतुः त्रिषु लोकेषु यद् भूतं किं चित् स्थावरजङ्गमम् सर्वस्मान् नौ भयं न स्याद् ऋते ऽन्योन्यं पितामह पितामह उवाच यत् प्रार्थितं यथोक्तं च कामम् एतद् ददानि वाम् मृत्योर् विधानम् एतच् च यथावद् वां भविष्यति नारद उवाच ततः पितामहो दत्त्वा वरम् एतत् तदा तयोः निवर्त्य तपसस् तौ च ब्रह्मलोकं जगाम ह लब्ध्वा वराणि सर्वाणि दैत्येन्द्राव् अपि ताव् उभौ अवध्यौ सर्वलोकस्य स्वम् एव भवनं गतौ तौ तु लब्धवरौ दृष्ट्वा कृतकामौ महासुरौ सर्वः सुहृज्जनस् ताभ्यां प्रमोदम् उपजग्मिवान् ततस् तौ तु जटा हित्वा मौलिनौ संबभूवतुः महार्हाभरणोपेतौ विरजोम्बरधारिणौ अकालकौमुदीं चैव चक्रतुः सार्वकामिकीम् दैत्येन्द्रौ परमप्रीतौ तयोश् चैव सुहृज्जनः भक्ष्यतां भुज्यतां नित्यं रम्यतां गीयताम् इति पीयतां दीयतां चेति वाच आसन् गृहे गृहे इति वाचः प्रहृष्टानां तत्र तत्र महात्मनाम् तत्र तत्र महापानैर् उत्कृष्टतलनादितैः हृष्टं प्रमुदितं सर्वं दैत्यानाम् अभवत् पुरम् तैस् तैर् विहारैर् बहुभिर् दैत्यानां कामरूपिणाम् समाः संक्रीडतां तेषाम् अहर् एकम् इवाभवत् नारद उवाच उत्सवे वृत्तमात्रे तु त्रैलोक्याकाङ्क्षिणाव् उभौ मन्त्रयित्वा ततः सेनां ताव् आज्ञापयतां तदा सुहृद्भिर् अभ्यनुज्ञातौ दैत्यवृद्धैश् च मन्त्रिभिः कृत्वा प्रास्थानिकं रात्रौ मघासु ययतुस् तदा गदापट्टिशधारिण्या शूलमुद्गरहस्तया प्रस्थितौ सहधर्मिण्या महत्या दैत्यसेनया मङ्गलैः स्तुतिभिश् चापि विजयप्रतिसंहितैः चारणैः स्तूयमानौ तु जग्मतुः परया मुदा ताव् अन्तरिक्षम् उत्पत्य दैत्यौ कामगमाव् उभौ देवानाम् एव भवनं जग्मतुर् युद्धदुर्मदौ तयोर् आगमनं ज्ञात्वा वरदानं च तत् प्रभोः हित्वा त्रिविष्टपं जग्मुर् ब्रह्मलोकं ततः सुराः ताव् इन्द्रलोकं निर्जित्य यक्षरक्षोगणांस् तथा खेचराण्य् अपि भूतानि जिग्यतुस् तीव्रविक्रमौ अन्तर्भूमिगतान् नागाञ् जित्वा तौ च महासुरौ समुद्रवासिनः सर्वान् म्लेच्छजातीन् विजिग्यतुः ततः सर्वां महीं जेतुम् आरब्धाव् उग्रशासनौ सैनिकांश् च समाहूय सुतीक्ष्णां वाचम् ऊचतुः राजर्षयो महायज्ञैर् हव्यकव्यैर् द्विजातयः तेजो बलं च देवानां वर्धयन्ति श्रियं तथा तेषाम् एवं प्रवृद्धानां सर्वेषाम् असुरद्विषाम् संभूय सर्वैर् अस्माभिः कार्यः सर्वात्मना वधः एवं सर्वान् समादिश्य पूर्वतीरे महोदधेः क्रूरां मतिं समास्थाय जग्मतुः सर्वतोमुखम् यज्ञैर् यजन्ते ये के चिद् याजयन्ति च ये द्विजाः तान् सर्वान् प्रसभं दृष्ट्वा बलिनौ जघ्नतुस् तदा आश्रमेष्व् अग्निहोत्राणि ऋषीणां भावितात्मनाम् गृहीत्वा प्रक्षिपन्त्य् अप्सु विश्रब्धाः सैनिकास् तयोः तपोधनैश् च ये शापाः क्रुद्धैर् उक्ता महात्मभिः नाक्रामन्ति तयोस् ते ऽपि वरदानेन जृम्भतोः नाक्रामन्ति यदा शापा बाणा मुक्ताः शिलास्व् इव नियमांस् तदा परित्यज्य व्यद्रवन्त द्विजातयः पृथिव्यां ये तपःसिद्धा दान्ताः शमपरायणाः तयोर् भयाद् दुद्रुवुस् ते वैनतेयाद् इवोरगाः मथितैर् आश्रमैर् भग्नैर् विकीर्णकलशस्रुवैः शून्यम् आसीज् जगत् सर्वं कालेनेव हतं यथा राजर्षिभिर् अदृश्यद्भिर् ऋषिभिश् च महासुरौ उभौ विनिश्चयं कृत्वा विकुर्वाते वधैषिणौ प्रभिन्नकरटौ मत्तौ भूत्वा कुञ्जररूपिणौ संलीनान् अपि दुर्गेषु निन्यतुर् यमसादनम् सिंहौ भूत्वा पुनर् व्याघ्रौ पुनश् चान्तर्हिताव् उभौ तैस् तैर् उपायैस् तौ क्रूराव् ऋषीन् दृष्ट्वा निजघ्नतुः निवृत्तयज्ञस्वाध्याया प्रणष्टनृपतिद्विजा उत्सन्नोत्सवयज्ञा च बभूव वसुधा तदा हाहाभूता भयार्ता च निवृत्तविपणापणा निवृत्तदेवकार्या च पुण्योद्वाहविवर्जिता निवृत्तकृषिगोरक्षा विध्वस्तनगराश्रमा अस्थिकङ्कालसंकीर्णा भूर् बभूवोग्रदर्शना निवृत्तपितृकार्यं च निर्वषट्कारमङ्गलम् जगत् प्रतिभयाकारं दुष्प्रेक्ष्यम् अभवत् तदा चन्द्रादित्यौ ग्रहास् तारा नक्षत्राणि दिवौकसः जग्मुर् विषादं तत् कर्म दृष्ट्वा सुन्दोपसुन्दयोः एवं सर्वा दिशो दैत्यौ जित्वा क्रूरेण कर्मणा निःसपत्नौ कुरुक्षेत्रे निवेशम् अभिचक्रतुः नारद उवाच ततो देवर्षयः सर्वे सिद्धाश् च परमर्षयः जग्मुस् तदा पराम् आर्तिं दृष्ट्वा तत् कदनं महत् ते ऽभिजग्मुर् जितक्रोधा जितात्मानो जितेन्द्रियाः पितामहस्य भवनं जगतः कृपया तदा ततो ददृशुर् आसीनं सह देवैः पितामहम् सिद्धैर् ब्रह्मर्षिभिश् चैव समन्तात् परिवारितम् तत्र देवो महादेवस् तत्राग्निर् वायुना सह चन्द्रादित्यौ च धर्मश् च परमेष्ठी तथा बुधः वैखानसा वालखिल्या वानप्रस्था मरीचिपाः अजाश् चैवाविमूढाश् च तेजोगर्भास् तपस्विनः ऋषयः सर्व एवैते पितामहम् उपासते ततो ऽभिगम्य सहिताः सर्व एव महर्षयः सुन्दोपसुन्दयोः कर्म सर्वम् एव शशंसिरे यथाकृतं यथा चैव कृतं येन क्रमेण च न्यवेदयंस् ततः सर्वम् अखिलेन पितामहे ततो देवगणाः सर्वे ते चैव परमर्षयः तम् एवार्थं पुरस्कृत्य पितामहम् अचोदयन् ततः पितामहः श्रुत्वा सर्वेषां तद् वचस् तदा मुहूर्तम् इव संचिन्त्य कर्तव्यस्य विनिश्चयम् तयोर् वधं समुद्दिश्य विश्वकर्माणम् आह्वयत् दृष्ट्वा च विश्वकर्माणं व्यादिदेश पितामहः सृज्यतां प्रार्थनीयेह प्रमदेति महातपाः पितामहं नमस्कृत्य तद्वाक्यम् अभिनन्द्य च निर्ममे योषितं दिव्यां चिन्तयित्वा प्रयत्नतः त्रिषु लोकेषु यत् किं चिद् भूतं स्थावरजङ्गमम् समानयद् दर्शनीयं तत् तद् यत्नात् ततस् ततः कोटिशश् चापि रत्नानि तस्या गात्रे न्यवेशयत् तां रत्नसंघातमयीम् असृजद् देवरूपिणीम् सा प्रयत्नेन महता निर्मिता विश्वकर्मणा त्रिषु लोकेषु नारीणां रूपेणाप्रतिमाभवत् न तस्याः सूक्ष्मम् अप्य् अस्ति यद् गात्रे रूपसंपदा न युक्तं यत्र वा दृष्टिर् न सज्जति निरीक्षताम् सा विग्रहवतीव श्रीः कान्तरूपा वपुष्मती पितामहम् उपातिष्ठत् किं करोमीति चाब्रवीत् प्रीतो भूत्वा स दृष्ट्वैव प्रीत्या चास्यै ददौ वरम् कान्तत्वं सर्वभूतानां स्वश्रियानुपमं वपुः सा तेन वरदानेन कर्तुश् च क्रियया तदा जहार सर्वभूतानां चक्षूंषि च मनांसि च तिलं तिलं समानीय रत्नानां यद् विनिर्मिता तिलोत्तमेत्य् अतस् तस्या नाम चक्रे पितामहः ब्रह्माणं सा नमस्कृत्य प्राञ्जलिर् वाक्यम् अब्रवीत् किं कार्यं मयि भूतेश येनास्म्य् अद्येह निर्मिता नारद उवाच ततस् तां चारुसर्वाङ्गीं मनःप्रह्लादिनीं शुभाम् उवाच भगवान् देवः कार्यम् एतत् प्रसाध्यताम् पितामह उवाच गच्छ सुन्दोपसुन्दाभ्याम् असुराभ्यां तिलोत्तमे प्रार्थनीयेन रूपेण कुरु भद्रे प्रलोभनम् त्वत्कृते दर्शनाद् एव रूपसंपत्कृतेन वै विरोधः स्याद् यथा ताभ्याम् अन्योन्येन तथा कुरु नारद उवाच सा तथेति प्रतिज्ञाय नमस्कृत्य पितामहम् चकार मण्डलं तत्र विबुधानां प्रदक्षिणम् प्राङ्मुखो भगवान् आस्ते दक्षिणेन महेश्वरः देवाश् चैवोत्तरेणासन् सर्वतस् त्व् ऋषयो ऽभवन् कुर्वन्त्या तु तया तत्र मण्डलं तत् प्रदक्षिणम् ब्रह्मा विष्णुश् च भगवान् तृणीकृत्यावतिष्ठताम् इन्द्रः स्थाणुश् च भगवान् धैर्येण प्रत्यवस्थितौ द्रष्टुकामस्य चात्यर्थं गतायाः पार्श्वतस् तदा अन्यद् अञ्चितपक्ष्मान्तं दक्षिणं निःसृतं मुखम् पृष्ठतः परिवर्तन्त्याः पश्चिमं निःसृतं मुखम् गतायाश् चोत्तरं पार्श्वम् उत्तरं निःसृतं मुखम् महेन्द्रस्यापि नेत्राणां पार्श्वतः पृष्ठतो ऽग्रतः रक्तान्तानां विशालानां सहस्रं सर्वतो ऽभवत् एवं चतुर्मुखः स्थाणुर् महादेवो ऽभवत् पुरा तथा सहस्रनेत्रश् च बभूव बलसूदनः तथा देवनिकायानाम् ऋषीणां चैव सर्वशः मुखान्य् अभिप्रवर्तन्ते येन याति तिलोत्तमा तस्या गात्रे निपतिता तेषां दृष्टिर् महात्मनाम् सर्वेषाम् एव भूयिष्ठम् ऋते देवं पितामहम् गच्छन्त्यास् तु तदा देवाः सर्वे च परमर्षयः कृतम् इत्य् एव तत् कार्यं मेनिरे रूपसंपदा तिलोत्तमायां तु तदा गतायां लोकभावनः सर्वान् विसर्जयाम् आस देवान् ऋषिगणांश् च तान् कृतं कार्यम् इति श्रीमान् अब्रवीच् च पितामहः नारद उवाच जित्वा तु पृथिवीं दैत्यौ निःसपत्नौ गतव्यथौ कृत्वा त्रैलोक्यम् अव्यग्रं कृतकृत्यौ बभूवतुः देवगन्धर्वयक्षाणां नागपार्थिवरक्षसाम् आदाय सर्वरत्नानि परां तुष्टिम् उपागतौ यदा न प्रतिषेद्धारस् तयोः सन्तीह के चन निरुद्योगौ तदा भूत्वा विजह्राते ऽमराव् इव स्त्रीभिर् माल्यैश् च गन्धैश् च भक्षैर् भोज्यैश् च पुष्कलैः पानैश् च विविधैर् हृद्यैः परां प्रीतिम् अवापतुः अन्तःपुरे वनोद्याने पर्वतोपवनेषु च यथेप्सितेषु देशेषु विजह्राते ऽमराव् इव ततः कदा चिद् विन्ध्यस्य पृष्ठे समशिलातले पुष्पिताग्रेषु शालेषु विहारम् अभिजग्मतुः दिव्येषु सर्वकामेषु समानीतेषु तत्र तौ वरासनेषु संहृष्टौ सह स्त्रीभिर् निषेदतुः ततो वादित्रनृत्ताभ्याम् उपातिष्ठन्त तौ स्त्रियः गीतैश् च स्तुतिसंयुक्तैः प्रीत्यर्थम् उपजग्मिरे नामापि तस्याः संहारं विकारं च करोति वै किं पुनर् दर्शनं तस्या विलासोल्लासितं प्रभो रहःप्रचारकुशला मृदुगद्गदभाषिणी किं नु नारी छलयति सुरक्ता तु सुलोचना मुनेर् अपि मनो वश्यं सरागं कुरुते ऽङ्गना प्रसन्नं कान्तिजननं संध्येव शशिमण्डलम् मनः प्रह्लायन्तीभिर् मर्दयन्तीभिर् अप्य् अलम् महान्तो ऽपि हि भिद्यन्ते स्त्रीभिर् अद्भिर् इवाचलाः ततस् तिलोत्तमा तत्र वने पुष्पाणि चिन्वती वेषम् आक्षिप्तम् आधाय रक्तेनैकेन वाससा नदीतीरेषु जातान् सा कर्णिकारान् विचिन्वती शनैर् जगाम तं देशं यत्रास्तां तौ महासुरौ तौ तु पीत्वा वरं पानं मदरक्तान्तलोचनौ दृष्ट्वैव तां वरारोहां व्यथितौ संबभूवतुः ताव् उत्पत्यासनं हित्वा जग्मतुर् यत्र सा स्थिता उभौ च कामसंमत्ताव् उभौ प्रार्थयतश् च ताम् दक्षिणे तां करे सुभ्रूं सुन्दो जग्राह पाणिना उपसुन्दो ऽपि जग्राह वामे पाणौ तिलोत्तमाम् वरप्रदानमत्तौ ताव् औरसेन बलेन च धनरत्नमदाभ्यां च सुरापानमदेन च तौ कटाक्षेण दैत्येन्द्राव् आकर्षन्ती मुहुर् मुहुः दक्षिणेन कटाक्षेण सुन्दं जग्राह भामिनी वामेनैव कटाक्षेण उपसुन्दं जिघूक्षती गन्धाभरणरूपैस् तौ व्यामोहम् उपजग्मतुः सर्वैर् एतैर् मदैर् मत्ताव् अन्योन्यं भ्रुकुटीकृतौ मदकामसमाविष्टौ परस्परम् अथोचतुः मम भार्या तव गुरुर् इति सुन्दो ऽभ्यभाषत मम भार्या तव वधूर् उपसुन्दो ऽभ्यभाषत नैषा तव ममैषेति तत्र तौ मन्युर् आविशत् तस्या रूपेण संमत्तौ विगतस्नेहसौहृदौ तस्या हेतोर् गदे भीमे ताव् उभाव् अप्य् अगृह्णताम् तौ प्रगृह्य गदे भीमे तस्याः कामेन मोहितौ अहं पूर्वम् अहं पूर्वम् इत्य् अन्योन्यं निजघ्नतुः तौ गदाभिहतौ भीमौ पेततुर् धरणीतले रुधिरेणावलिप्ताङ्गौ द्वाव् इवार्कौ नभश्च्युतौ ततस् ता विद्रुता नार्यः स च दैत्यगणस् तदा पातालम् अगमत् सर्वो विषादभयकम्पितः ततः पितामहस् तत्र सह देवैर् महर्षिभिः आजगाम विशुद्धात्मा पूजयिष्यंस् तिलोत्तमाम् वरेण छन्दिता सा तु ब्रह्मणा प्रीतिम् एव ह वरयाम् आस तत्रैनां प्रीतः प्राह पितामहः आदित्यचरितांल् लोकान् विचरिष्यसि भामिनि तेजसा च सुदृष्टां त्वां न करिष्यति कश् चन एवं तस्यै वरं दत्त्वा सर्वलोकपितामहः इन्द्रे त्रैलोक्यम् आधाय ब्रह्मलोकं गतः प्रभुः एवं तौ सहितौ भूत्वा सर्वार्थेष्व् एकनिश्चयौ तिलोत्तमार्थे संक्रुद्धाव् अन्योन्यम् अभिजघ्नतुः तस्माद् ब्रवीमि वः स्नेहात् सर्वान् भरतसत्तमान् यथा वो नात्र भेदः स्यात् सर्वेषां द्रौपदीकृते तथा कुरुत भद्रं वो मम चेत् प्रियम् इच्छथ यथा सुन्दोपसुन्दाभ्यां तथा न स्याद् युधिष्ठिर वैशंपायन उवाच एवम् उक्ता महात्मानो नारदेन महर्षिणा समयं चक्रिरे राजंस् ते ऽन्योन्येन समागताः समक्षं तस्य देवर्षेर् नारदस्यामितौजसः एकैकस्य गृहे कृष्णा वसेद् वर्षम् अकल्मषा द्रौपद्या नः सहासीनम् अन्यो ऽन्यं यो ऽभिदर्शयेत् स नो द्वादश वर्षाणि ब्रह्मचारी वने वसेत् कृते तु समये तस्मिन् पाण्डवैर् धर्मचारिभिः ततः स भगवांस् तत्र पाण्डवैर् अर्चितः प्रभुः नारदो ऽप्य् अगमत् प्रीत इष्टं देशं महामुनिः एवं तैः समयः पूर्वं कृतो नरदचोदितैः न चाभिद्यन्त ते सार्वे तदान्योन्येन भारत एतद् विस्तरतः सर्वम् आख्यातं ते नरेश्वर काले च तस्मिन् संपन्नं यथावज् जनमेजय वैशंपायन उवाच एवं ते समयं कृत्वा न्यवसंस् तत्र पाण्डवाः वशे शस्त्रप्रतापेन कुर्वन्तो ऽन्यान् महीक्षितः तेषां मनुजसिंहानां पञ्चानाम् अमितौजसाम् बभूव कृष्णा सर्वेषां पार्थानां वशवर्तिनी ते तया तैश् च सा वीरैः पतिभिः सह पञ्चभिः बभूव परमप्रीता नागैर् इव सरस्वती वर्तमानेषु धर्मेण पाण्डवेषु महात्मसु व्यवर्धन् कुरवः सर्वे हीनदोषाः सुखान्विताः अथ दीर्घेण कालेन ब्राह्मणस्य विशां पते कस्य चित् तस्कराः के चिज् जह्रुर् गा नृपसत्तम ह्रियमाणे धने तस्मिन् ब्राह्मणः क्रोधमूर्च्छितः आगम्य खाण्डवप्रस्थम् उदक्रोशत पाण्डवान् ह्रियते गोधनं क्षुद्रैर् नृशंसैर् अकृतात्मभिः प्रसह्य वो ऽस्माद् विषयाद् अभिधावत पाण्डवाः ब्राह्मणस्य प्रमत्तस्य हविर् ध्वाङ्क्षैर् विलुप्यते शार्दूलस्य गुहां शून्यां नीचः क्रोष्टाभिमर्शति अरक्षितारं राजानं बलिषड्भागहारिणम् तम् आहुः सर्वलोकस्य समग्रं पापचारिणम् ब्राह्मणस्वे हृते चोरैर् धर्मार्थे च विलोपिते रोरूयमाणे च मयि क्रियताम् अस्त्रधारणम् रोरूयमाणस्याभ्याशे तस्य विप्रस्य पाण्डवः तानि वाक्यानि शुश्राव कुन्तीपुत्रो धनंजयः श्रुत्वा चैव महाबाहुर् मा भैर् इत्य् आह तं द्विजम् आयुधानि च यत्रासन् पाण्डवानां महात्मनाम् कृष्णया सह तत्रासीद् धर्मराजो युधिष्ठिरः स प्रवेशाय चाशक्तो गमनाय च पाण्डवः तस्य चार्तस्य तैर् वाक्यैश् चोद्यमानः पुनः पुनः आक्रन्दे तत्र कौन्तेयश् चिन्तयाम् आस दुःखितः ह्रियमाणे धने तस्मिन् ब्राह्मणस्य तपस्विनः अश्रुप्रमार्जनं तस्य कर्तव्यम् इति निश्चितः उपप्रेक्षणजो ऽधर्मः सुमहान् स्यान् महीपतेः यद्य् अस्य रुदतो द्वारि न करोम्य् अद्य रक्षणम् अनास्तिक्यं च सर्वेषाम् अस्माकम् अपि रक्षणे प्रतितिष्ठेत लोके ऽस्मिन्न् अधर्मश् चैव नो भवेत् अनापृच्छ्य च राजानं गते मयि न संशयः अजातशत्रोर् नृपतेर् मम चैवाप्रियं भवेत् अनुप्रवेशे राज्ञस् तु वनवासो भवेन् मम सर्वम् अन्यत् परिहृतं धर्षणात् तु महीपतेः अधर्मो वा महान् अस्तु वने वा मरणं मम शरीरस्यापि नाशेन धर्म एव विशिष्यते एवं विनिश्चित्य ततः कुन्तीपुत्रो धनंजयः मुखम् आच्छाद्य निबिडम् उत्तरीयेण वाससा अनुप्रविश्य राजानम् आपृच्छ्य च विशां पते धनुर् आदाय संहृष्टो ब्राह्मणं प्रत्यभाषत ब्राह्मणागम्यतां शीघ्रं यावत् परधनैषिणः न दूरे ते गताः क्षुद्रास् तावद् गच्छामहे सह यावद् आवर्तयाम्य् अद्य चोरहस्ताद् धनं तव सो ऽनुसृत्य महाबाहुर् धन्वी वर्मी रथी ध्वजी शरैर् विध्वंसितांश् चोरान् अवजित्य च तद् धनम् ब्राह्मणस्य उपाहृत्य यशः पीत्वा च पाण्डवः ततस् तद् गोधनं पार्थो दत्त्वा तस्मै द्विजातये आजगाम पुरं वीरः सव्यसाची परंतपः सो ऽभिवाद्य गुरून् सर्वांस् तैश् चापि प्रतिनन्दितः धर्मराजम् उवाचेदं व्रतम् आदिश्यतां मम समयः समतिक्रान्तो भवत्संदर्शनान् मया वनवासं गमिष्यामि समयो ह्य् एष नः कृतः इत्य् उक्तो धर्मराजस् तु सहसा वाक्यम् अप्रियम् कथम् इत्य् अब्रवीद् वाचा शोकार्तः सज्जमानया युधिष्ठिरो गुडाकेशं भ्राता भ्रातरम् अच्युतम् उवाच दीनो राजा च धनंजयम् इदं वचः प्रमाणम् अस्मि यदि ते मत्तः शृणु वचो ऽनघ अनुप्रवेशे यद् वीर कृतवांस् त्वं ममाप्रियम् सर्वं तद् अनुजानामि व्यलीकं न च मे हृदि गुरोर् अनुप्रवेशो हि नोपघातो यवीयसः यवीयसो ऽनुप्रवेशो ज्येष्ठस्य विधिलोपकः निवर्तस्व महाबाहो कुरुष्व वचनं मम न हि ते धर्मलोपो ऽस्ति न च मे धर्षणा कृता अर्जुन उवाच न व्याजेन चरेद् धर्मम् इति मे भवतः श्रुतम् न सत्याद् विचलिष्यामि सत्येनायुधम् आलभे क्रियते स्वीकृते राजन् न हि चेद् आत्मना व्रतम् भिद्येत सेतुश् चाधर्मो ऽप्य् अयशः प्राप्नुयां महत् आज्ञा तु मम दातव्या भवता कीर्तिवर्धन भवदाज्ञाम् ऋते किं चिन् न कार्यम् इति निश्चयः वैशंपायन उवाच सो ऽभ्यनुज्ञाप्य राजानं ब्रह्मचर्याय दीक्षितः वने द्वादश वर्षाणि वासायोपजगाम ह वैशंपायन उवाच तं प्रयान्तं महाबाहुं कौरवाणां यशस्करम् अनुजग्मुर् महात्मानो ब्राह्मणा वेदपारगाः वेदवेदाङ्गविद्वांसस् तथैवाध्यात्मचिन्तकाः चौक्षाश् च भगवद्भक्ताः सूताः पौराणिकाश् च ये कथकाश् चापरे राजञ् श्रमणाश् च वनौकसः दिव्याख्यानानि ये चापि पठन्ति मधुरं द्विजाः एतैश् चान्यैश् च बहुभिः सहायैः पाण्डुनन्दनः वृतः श्लक्ष्णकथैः प्रायान् मरुद्भिर् इव वासवः रमणीयानि चित्राणि वनानि च सरांसि च सरितः सागरांश् चैव देशान् अपि च भारत पुण्यानि चैव तीर्थानि ददर्श भरतर्षभ स गङ्गाद्वारम् आसाद्य निवेशम् अकरोत् प्रभुः तत्र तस्याद्भुतं कर्म शृणु मे जनमेजय कृतवान् यद् विशुद्धात्मा पाण्डूनां प्रवरो रथी निविष्टे तत्र कौन्तेये ब्राह्मणेषु च भारत अग्निहोत्राणि विप्रास् ते प्रादुश्चक्रुर् अनेकशः तेषु प्रबोध्यमानेषु ज्वलितेषु हुतेषु च कृतपुष्पोपहारेषु तीरान्तरगतेषु च कृताभिषेकैर् विद्वद्भिर् नियतैः सत्पथि स्थितैः शुशुभे ऽतीव तद् राजन् गङ्गाद्वारं महात्मभिः तथा पर्याकुले तस्मिन् निवेशे पाण्डुनन्दनः अभिषेकाय कौन्तेयो गङ्गाम् अवततार ह तत्राभिषेकं कृत्वा स तर्पयित्वा पितामहान् उत्तितीर्षुर् जलाद् राजन्न् अग्निकार्यचिकीर्षया अपकृष्टो महाबाहुर् नागराजस्य कन्यया अन्तर्जले महाराज उलूप्या कामयानया गृहीत्वा स्वपितुर् वेश्म नीतो ऽयं पाण्डुनन्दनः ददर्श पाण्डवस् तत्र पावकं सुसमाहितम् कौरव्यस्याथ नागस्य भवने परमार्चिते तत्राग्निकार्यं कृतवान् कुन्तीपुत्रो धनंजयः अशङ्कमानेन हुतस् तेनातुष्यद् धुताशनः अग्निकार्यं स कृत्वा तु नागराजसुतां तदा प्रहसन्न् इव कौन्तेय इदं वचनम् अब्रवीत् किम् इदं साहसं भीरु कृतवत्य् असि भामिनि कश् चायं सुभगो देशः का च त्वं कस्य चात्मजा उलूप्य् उवाच ऐरावतकुले जातः कौरव्यो नाम पन्नगः तस्यास्मि दुहिता पार्थ उलूपी नाम पन्नगी साहं त्वाम् अभिषेकार्थम् अवतीर्णं समुद्रगाम् दृष्टवत्य् एव कौन्तेय कन्दर्पेणास्मि मूर्च्छिता तां माम् अनङ्गमथितां त्वत्कृते कुरुनन्दन अनन्यां नन्दयस्वाद्य प्रदानेनात्मनो रहः अर्जुन उवाच ब्रह्मचर्यम् इदं भद्रे मम द्वादशवार्षिकम् धर्मराजेन चादिष्टं नाहम् अस्मि स्वयंवशः तव चापि प्रियं कर्तुम् इच्छामि जलचारिणि अनृतं नोक्तपूर्वं च मया किं चन कर्हि चित् कथं च नानृतं तत् स्यात् तव चापि प्रियं भवेत् न च पीड्येत मे धर्मस् तथा कुर्यां भुजंगमे उलूप्य् उवाच जानाम्य् अहं पाण्डवेय यथा चरसि मेदिनीम् यथा च ते ब्रह्मचर्यम् इदम् आदिष्टवान् गुरुः परस्परं वर्तमानान् द्रुपदस्यात्मजां प्रति यो नो ऽनुप्रविशेन् मोहात् स नो द्वादशवार्षिकम् वने चरेद् ब्रह्मचर्यम् इति वः समयः कृतः तद् इदं द्रौपदीहेतोर् अन्योन्यस्य प्रवासनम् नारदस्याज्ञया तत्र कृतं धर्मरिरंसया एकः संवत्सरः पूर्णः पञ्चधा शकलीकृतः द्रौपद्याम् एव कौन्तेय नारदस्याभ्यनुज्ञया कृतं वस् तत्र धर्मार्थम् अत्र धर्मो न दुष्यति त्वया कामप्रचाराय प्रेरितं न हि यन् मनः तस्मात् तव प्रत्यवायो युज्यते न हि कुत्र चित् परित्राणं च कर्तव्यम् आर्तानां पृथुलोचन कृत्वा मम परित्राणं तव धर्मो न लुप्यते यदि वाप्य् अस्य धर्मस्य सूक्ष्मो ऽपि स्याद् व्यतिक्रमः स च ते धर्म एव स्याद् दात्त्वा प्राणान् ममार्जुन भक्तां भजस्व मां पार्थ सताम् एतन् मतं प्रभो न करिष्यसि चेद् एवं मृतां माम् उपधारय प्राणदानान् महाबाहो चर धर्मम् अनुत्तमम् शरणं च प्रपन्नास्मि त्वाम् अद्य पुरुषोत्तम दीनान् अनाथान् कौन्तेय परिरक्षसि नित्यशः साहं शरणम् अभ्येमि रोरवीमि च दुःखिता याचे त्वाम् अभिकामाहं तस्मात् कुरु मम प्रियम् स त्वम् आत्मप्रदानेन सकामां कर्तुम् अर्हसि वैशंपायन उवाच एवम् उक्तस् तु कौन्तेयः पन्नगेश्वरकन्यया कृतवांस् तत् तथा सर्वं धर्मम् उद्दिश्य कारणम् स नागभवने रात्रिं ताम् उषित्वा प्रतापवान् पुत्रम् उत्पादयाम् आस तस्यां स सुमनोहरम् इरावन्तं महाभागं महाबलपराक्रमम् प्रभाते ऽभ्युषितोलूप्या प्रापितः स्वं निवेशनम् उदिते ऽभ्युत्थितः सूर्ये कौरव्यस्य निवेशनात् आजगामार्जुनो धीमान् गङ्गाद्वाराश्रमं प्रति निश्चक्राम तदा पार्थः स्वम् एव भवनं शुभम् आगतस् तु पुनस् तत्र गङ्गाद्वारं तया सह परित्यज्य गता साध्वी उलूपी निजमन्दिरम् दत्त्वा वरम् अजेयत्वं जले सर्वत्र भारत साध्या जलचराः सर्वे भविष्यन्ति न संशयः वैशंपायन उवाच कथयित्वा तु तत् सर्वं ब्राह्मणेभ्यः स भारत प्रययौ हिमवत्पार्श्वं ततो वज्रधरात्मजः अगस्त्यवटम् आसाद्य वसिष्ठस्य च पर्वतम् भृगुतुङ्गे च कौन्तेयः कृतवाञ् शौचम् आत्मनः प्रददौ गोसहस्राणि तीर्थेष्व् आयतनेषु च निवेशांश् च द्विजातिभ्यः सो ऽददत् कुरुसत्तमः हिरण्यबिन्दोस् तीर्थे च स्नात्वा पुरुषसत्तमः दृष्टवान् पर्वतश्रेष्ठं पुण्यान्य् आयतनानि च अवतीर्य नरश्रेष्ठो ब्राह्मणैः सह भारत प्राचीं दिशम् अभिप्रेप्सुर् जगाम भरतर्षभः आनुपूर्व्येण तीर्थानि दृष्टवान् कुरुसत्तमः नदीं चोत्पलिनीं रम्याम् अरण्यं नैमिषं प्रति नन्दाम् अपरनन्दां च कौशिकीं च यशस्विनीम् महानदीं गयां चैव गङ्गाम् अपि च भारत एवं सर्वाणि तीर्थानि पश्यमानस् तथाश्रमान् आत्मनः पावनं कुर्वन् ब्राह्मणेभ्यो ददौ वसु अङ्गवङ्गकलिङ्गेषु यानि पुण्यानि कानि चित् जगाम तानि सर्वाणि तीर्थान्य् आयतनानि च दृष्ट्वा च विधिवत् तानि धनं चापि ददौ ततः कलिङ्गराष्ट्रद्वारेषु ब्राह्मणाः पाण्डवानुगाः अभ्यनुज्ञाय कौन्तेयम् उपावर्तन्त भारत स तु तैर् अभ्यनुज्ञातः कुन्तीपुत्रो धनंजयः सहायैर् अल्पकैः शूरः प्रययौ येन सागरम् स कलिङ्गान् अतिक्रम्य देशान् आयतनानि च धर्म्याणि रमणीयानि प्रेक्षमाणो ययौ प्रभुः शूर्पाकारम् अथाप्लुत्य सागरानूपम् आश्रितः महेन्द्रपर्वतं दृष्ट्वा तापसैर् उपशोभितम् गोदावर्यां ततः स्नात्वा ताम् अतीत्य महाबलः कावेरीं तां समासाद्य संगमे सागरस्य ह स्नात्वा संपूज्य देवांश् च पितॄंश् च ऋषिभिः सह समुद्रतीरेण शनैर् मणलूरं जगाम ह तत्र सर्वाणि तीर्थानि पुण्यान्य् आयतनानि च अथ त्रयोदशे मासे मणलूरेश्वरं प्रभुम् अभिगम्य महाबाहुर् अभ्यगच्छन् महीपतिम् मणलूरेश्वरं राजन् धर्मज्ञं चित्रवाहनम् सर्वशास्त्रेषु नेतारं सर्वास्त्रज्ञम् अकल्मषम् धर्मे सत्ये दमे शौचे शौर्ये चैव विशेषतः द्विजराजऋषीणां च धार्मिकाणां महीतले कीर्तने चोपमाभूतं क्षत्रधर्मविद् उत्तमम् स च तं प्रतिजग्राह विधिपूर्वेण पाण्डवम् तस्य चित्राङ्गदा नाम दुहिता चारुदर्शना तां ददर्श पुरे तस्मिन् विचरन्तीं यदृच्छया दृष्ट्वा च तां वरारोहां चकमे चैत्रवाहिनीम् अभिगम्य च राजानं ज्ञापयत् स्वं प्रयोजनम् देहि मे खल्व् इमां राजन् क्षत्रियाय महात्मने तच् छ्रुत्वा त्व् अब्रवीद् राजा कस्य पुत्रो ऽसि नाम किम् उवाच तं पाण्डवो ऽहं कुन्तीपुत्रो धनंजयः तम् उवाचाथ राजा स सान्त्वपूर्वम् इदं वचः राजा प्रभंकरो नाम कुले अस्मिन् बभूव ह अपुत्रः प्रसवेनार्थी तपस् तेपे स उत्तमम् उग्रेण तपसा तेन प्रणिपातेन शंकरः ईश्वरस् तोषितस् तेन महादेव उमापतिः स तस्मै भगवान् प्रादाद् एकैकं प्रसवं कुले एकैकः प्रसवस् तस्माद् भवत्य् अस्मिन् कुले सदा तेषां कुमाराः सर्वेषां पूर्वेषां मम जज्ञिरे कन्या तु मम जातेयं कुलस्योत्पादनी ध्रुवम् पुत्रो ममेयम् इति मे भावना पुरुषोत्तम पुत्रिका हेतुविधिना संज्ञिता भरतर्षभ तस्माद् एकः सुतो यो ऽस्यां जायते भारत त्वया एतच् छुल्कं भवत्व् अस्याः कुलकृज् जायताम् इह एतेन समयेनेमां प्रतिगृह्णीष्व पाण्डव स तथेति प्रतिज्ञाय कन्यां तां प्रतिगृह्य च मासे त्रयोदशे पार्थः कृत्वा वैवाहिकीं क्रियाम् उवास नगरे तस्मिन् कौन्तेयस् त्रिहिमाः समाः तस्यां सुते समुत्पन्ने परिष्वज्य वराङ्गनाम् आमन्त्र्य नृपतिं तं तु जगाम परिवर्तितुम् वैशंपायन उवाच ततः समुद्रे तीर्थानि दक्षिणे भरतर्षभः अभ्यगच्छत् सुपुण्यानि शोभितानि तपस्विभिः वर्जयन्ति स्म तीर्थानि पञ्च तत्र तु तापसाः आचीर्णानि तु यान्य् आसन् पुरस्तात् तु तपस्विभिः अगस्त्यतीर्थं सौभद्रं पौलोमं च सुपावनम् कारंधमं प्रसन्नं च हयमेधफलं च यत् भारद्वाजस्य तीर्थं च पापप्रशमनं महत् एतानि पञ्च तीर्थानि ददर्श कुरुसत्तमः विविक्तान्य् उपलक्ष्याथ तानि तीर्थानि पाण्डवः दृष्ट्वा च वर्ज्यमानानि मुनिभिर् धर्मबुद्धिभिः तपस्विनस् ततो ऽपृच्छत् प्राज्ञलिः कुरुनन्दनः तीर्थानीमानि वर्ज्यन्ते किमर्थं ब्रह्मवादिभिः तापसा ऊचुः ग्राहाः पञ्च वसन्त्य् एषु हरन्ति च तपोधनान् अत एतानि वर्ज्यन्ते तीर्थानि कुरुनन्दन वैशंपायन उवाच तेषां श्रुत्वा महाबाहुर् वार्यमाणस् तपोधनैः जगाम तानि तीर्थानि द्रष्टुं पुरुषसत्तमः ततः सौभद्रम् आसाद्य महर्षेस् तीर्थम् उत्तमम् विगाह्य तरसा शूरः स्नानं चक्रे परंतपः अथ तं पुरुषव्याघ्रम् अन्तर्जलचरो महान् निजग्राह जले ग्राहः कुन्तीपुत्रं धनंजयम् स तम् आदाय कौन्तेयो विस्फुरन्तं जलेचरम् उदतिष्ठन् महाबाहुर् बलेन बलिनां वरः उत्कृष्ट एव तु ग्राहः सो ऽर्जुनेन यशस्विना बभूव नारी कल्याणी सर्वाभरणभूषिता दीप्यमाना श्रिया राजन् दिव्यरूपा मनोरमा तद् अद्भुतं महद् दृष्ट्वा कुन्तीपुत्रो धनंजयः तां स्त्रियं परमप्रीत इदं वचनम् अब्रवीत् का वै त्वम् असि कल्याणि कुतो वासि जलेचरी किमर्थं च महत् पापम् इदं कृतवती पुरा नार्य् उवाच अप्सरास्मि महाबाहो देवारण्यविचारिणी इष्टा धनपतेर् नित्यं वर्गा नाम महाबल मम सख्यश् चतस्रो ऽन्याः सर्वाः कामगमाः शुभाः ताभिः सार्धं प्रयातास्मि लोकपालनिवेशनम् ततः पश्यामहे सर्वा ब्राह्मणं संशितव्रतम् रूपवन्तम् अधीयानम् एकम् एकान्तचारिणम् तस्य वै तपसा राजंस् तद् वनं तेजसावृतम् आदित्य इव तं देशं कृत्स्नं स व्यवभासयत् तस्य दृष्ट्वा तपस् तादृग् रूपं चाद्भुतदर्शनम् अवतीर्णाः स्म तं देशं तपोविघ्नचिकीर्षया अहं च सौरभेयी च समीची बुद्बुदा लता यौगपद्येन तं विप्रम् अभ्यगच्छाम भारत गायन्त्यो वै हसन्त्यश् च लोभयन्त्यश् च तं द्विजम् प्रेक्षणानि च कुर्वन्त्यो विवृतं कारयन्ति च अनिच्छन्त्य इवाङ्गानि हासभावविलासितैः बाहूरुमूलदन्तानां दर्शनं वै वराङ्गनाः कुर्वन्त्यो लोभयन्त्यश् च तं द्विजं परितः स्थिताः स च नास्मासु कृतवान् मनो वीर कथं चन नाकम्पत महातेजाः स्थितस् तपसि निर्मले सो ऽशपत् कुपितो ऽस्मांस् तु ब्राह्मणः क्षत्रियर्षभ ग्राहभूता जले यूयं चरिष्यध्वं शतं समाः वर्गोवाच ततो वयं प्रव्यथिताः सर्वा भरतसत्तम आयाम शरणं विप्रं तं तपोधनम् अच्युतम् रूपेण वयसा चैव कन्दर्पेण च दर्पिताः अयुक्तं कृतवत्यः स्म क्षन्तुम् अर्हसि नो द्विज एष एव वधो ऽस्माकं सुपर्याप्तस् तपोधन यद् वयं संशितात्मानं प्रलोब्धुं त्वाम् इहागताः अवध्यास् तु स्त्रियः सृष्टा मन्यन्ते धर्मचिन्तकाः तस्माद् धर्मेण धर्मज्ञ नास्मान् हिंसितुम् अर्हसि सर्वभूतेषु धर्मज्ञ मैत्रो ब्राह्मण उच्यते सत्यो भवतु कल्याण एष वादो मनीषिणाम् शरणं च प्रपन्नानां शिष्टाः कुर्वन्ति पालनम् शरणं त्वां प्रपन्नाः स्म तस्मात् त्वं क्षन्तुम् अर्हसि वैशंपायन उवाच एवम् उक्तस् तु धर्मात्मा ब्राह्मणः शुभकर्मकृत् प्रसादं कृतवान् वीर रविसोमसमप्रभः ब्राह्मण उवाच शतं सहस्रं विश्वं च सर्वम् अक्षयवाचकम् परिमाणं शतं त्व् एतन् नैतद् अक्षयवाचकम् यदा च वो ग्राहभूता गृह्णन्तीः पुरुषाञ् जले उत्कर्षति जलात् कश् चित् स्थलं पुरुषसत्तमः तदा यूयं पुनः सर्वाः स्वरूपं प्रतिपत्स्यथ अनृतं नोक्तपूर्वं मे हसतापि कदा चन तानि सर्वाणि तीर्थानि इतः प्रभृति चैव ह नारीतीर्थानि नाम्नेह ख्यातिं यास्यन्ति सर्वशः पुण्यानि च भविष्यन्ति पावनानि मनीषिणाम् वर्गोवाच ततो ऽभिवाद्य तं विप्रं कृत्वा चैव प्रदक्षिणम् अचिन्तयामोपसृत्य तस्माद् देशात् सुदुःखिताः क्व नु नाम वयं सर्वाः कालेनाल्पेन तं नरम् समागच्छेम यो नस् तद् रूपम् आपादयेत् पुनः ता वयं चिन्तयित्वैवं मुहूर्ताद् इव भारत दृष्टवत्यो महाभागं देवर्षिम् उत नारदम् सर्वा हृष्टाः स्म तं दृष्ट्वा देवर्षिम् अमितद्युतिम् अभिवाद्य च तं पार्थ स्थिताः स्म व्यथिताननाः स नो ऽपृच्छद् दुःखमूलम् उक्तवत्यो वयं च तत् क्व गच्छामो वयं सर्वा यत्र लप्स्यामहे पुनः श्रुत्वा तच् च यथावृत्तम् इदं वचनम् अब्रवीत् दक्षिणे सागरानूपे पञ्च तीर्थानि सन्ति वै पुण्यानि रमणीयानि तानि गच्छत माचिरम् तत्राशु पुरुषव्याघ्रः पाण्डवो वो धनंजयः मोक्षयिष्यति शुद्धात्मा दुःखाद् अस्मान् न संशयः इत्य् उक्त्वा नारदः सर्वास् तत्रैवान्तरधीयत तस्य सर्वा वयं वीर श्रुत्वा वाक्यम् इहागताः तद् इदं सत्यम् एवाद्य मोक्षिताहं त्वयानघ एतास् तु मम वै सख्यश् चतस्रो ऽन्या जले स्थिताः कुरु कर्म शुभं वीर एताः सर्वा विमोक्षय वैशंपायन उवाच ततस् ताः पाण्डवश्रेष्ठः सर्वा एव विशां पते तस्माच् छापाद् अदीनात्मा मोक्षयाम् आस वीर्यवान् उत्थाय च जलात् तस्मात् प्रतिलभ्य वपुः स्वकम् तास् तदाप्सरसो राजन्न् अदृश्यन्त यथा पुरा तीर्थानि शोधयित्वा तु तथानुज्ञाय ताः प्रभुः चित्राङ्गदां पुनर् द्रष्टुं मणलूरपुरं ययौ तस्याम् अजनयत् पुत्रं राजानं बभ्रुवाहनम् तं दृष्ट्वा पाण्डवो राजन् गोकर्णम् अभितो ऽगमत् चित्रवाहनम् अब्रवीत् चित्राङ्गदायाः शुल्कं च गृह्णेमं बभ्रुवाहनम् अनेन तु भविष्यामि ऋणान् मुक्तो जनाधिप चित्राङ्गदां पुनर् वाक्यम् अब्रवीत् पाकशासनिः इहैव भव भद्रे त्वं बभ्रुवाहनवर्धना इन्द्रप्रस्थनिवासं मे आगता तत्र रंस्यसे कुन्तीं युधिष्ठिरं भीमं भ्रातरौ मे कनीयसौ आगता तत्र पश्येथा अन्यान् अपि च बान्धवान् बान्धवैः सहिता भद्रे नन्दसे त्वम् अनिन्दिते धर्मे स्थितः सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः जित्वा तु पृथिवीं सर्वां राजसूयं करिष्यति तत्रागच्छन्ति राजानः पृथिव्यां नृपसंज्ञिताः बहूनि रत्नान्य् आदाय आगमिष्यति ते पिता एकसार्थं प्रयातासि चित्रवाहनसेनया द्रक्ष्यामि राजसूये त्वां पुत्रं पालय मा शुचः बभ्रुवाहननामा तु मम प्राणो बहिश्चरः तस्माद् भरस्व पुत्रं वै पूरुवंशविवर्धनम् चित्रवाहनदायादं धर्मात् पौरवनन्दनम् पाण्डवानां प्रियं पुत्रं तस्मात् पालय सर्वदा विप्रयोगेन संतापं मा कृथास् त्वम् अनिन्दिते चित्राङ्गदाम् एवम् उक्त्वा आद्यं पशुपतेः स्थानं दर्शनाद् एव मुक्तिदम् यत्र पापो ऽपि मनुजः प्राप्नोत्य् अभयदं पदम् वैशंपायन उवाच सो ऽपरान्तेषु तीर्थानि पुण्यान्य् आयतनानि च सर्वाण्य् एवानुपूर्व्येण जगामामितविक्रमः समुद्रे पश्चिमे यानि तीर्थान्य् आयतनानि च तानि सर्वाणि गत्वा स प्रभासम् उपजग्मिवान् सत्यभामा श्रीभगवान् वैशंपायनः चिन्तयाम् आस रात्रौ तु गदेन कथितां कथाम् सुभद्रायाश् च माधुर्यं रूपसंपद्गुणानि च प्राप्तुं तां चिन्तयाम् आस क उपायो भवेद् इति वेषवैकृतम् आपन्नः परिव्राजकरूपधृक् कुकुरान्धकवृष्णीनाम् अज्ञातो वेषधारणात् भ्रममाणश् चरन् भैक्षं परिव्राजकवेषवान् येन केनाप्य् उपायेन प्रविश्य च गृहं महत् दृष्ट्वा सुभद्रां कृष्णस्य भगिनीम् एकसुन्दरीम् वासुदेवमतं ज्ञात्वा करिष्यामि हितं शुभम् एवं विनिश्चयं कृत्वा दीक्षितस् तु तदाभवत् त्रिदण्डी मुण्डितः कुण्डी अक्षमालाङ्गुलीयकः योगभारं वहन् पार्थो वटवृक्षस्य कोटरम् प्रविशन्न् एव बीभत्सुर् वृष्टिं वर्षति वासवे चिन्तयाम् आस देवेशं केशवं क्लेशनाशनम् प्रणतार्तिहरं शंभुं मायारूपेण वञ्चकम् केशवश् चिन्तितं ज्ञात्वा दिव्यज्ञानेन दृष्टवान् शयानः शयने धन्ये सत्यभामासहायवान् केशवः सहसा राजञ् जहास च ननन्द च पुनः पुनः सत्यभामा चाब्रवीत् पुरुषोत्तमम् भगवंश् चिन्तयाविष्टः शयने शयितः सुखम् भवान् बहुप्रकारेण जहास च पुनः पुनः श्रोतव्यं यदि वा कृष्ण प्रसादो यदि चेन् मयि वक्तुम् अर्हसि लोकेश तच् छ्रोतुं कामये ह्य् अहम् पितृष्वसायाः पुत्रो मे भीमसेनानुजो ऽर्जुनः तीर्थयात्रां गतः पार्थः कारणात् समयात् तदा तीर्थयात्रासमाप्तौ तु निवृत्तो निशि भारतः सुभद्रां चिन्तयानस् तु तदर्थे चापि मां पुनः चिन्तयन्न् एव तां भद्रां यतिरूपधरो ऽभवत् यतिरूपप्रतिच्छन्नो द्वारकां प्राप्य माधवीम् येन केनाप्य् उपायेन दृष्ट्वा तु वरवर्णिनीम् वासुदेवमतं ज्ञात्वा प्रयतिष्ये मनोरथम् एवं व्यवसितः पार्थो यतिलिङ्गेन पाण्डवः छायायां वटवृक्षस्य वृष्टिं वर्षति वासवे योगभारं वहन्न् एव मानसं दुःखम् आप्तवान् ईदृशं मां विजानाति माधवो यदि मां स्मरन् भ्रातरं तव पश्येति सत्यभामाम् अदर्शयत् तत उत्थाय शयनात् प्रस्थितो मधुसूदनः प्रभासदेशं संप्राप्तं बीभत्सुम् अपराजितम् तीर्थान्य् अनुचरन्तं च शुश्राव मधुसूदनः चारणानां तु वचनाद् एकाकी स जनार्दनः ततो ऽभ्यगच्छत् कौन्तेयम् अज्ञातो नाम माधवः ददृशाते तदान्योन्यं प्रभासे कृष्णपाण्डवौ ताव् अन्योन्यं समाश्लिष्य पृष्ट्वा च कुशलं वने आस्तां प्रियसखायौ तौ नरनारायणाव् ऋषी ततो ऽर्जुनं वासुदेवस् तां चर्यां पर्यपृच्छत किमर्थं पाण्डवेमानि तीर्थान्य् अनुचरस्य् उत ततो ऽर्जुनो यथावृत्तं सर्वम् आख्यातवांस् तदा श्रुत्वोवाच च वार्ष्णेय एवम् एतद् इति प्रभुः तौ विहृत्य यथाकामं प्रभासे कृष्णपाण्डवौ महीधरं रैवतकं वासायैवाभिजग्मतुः पूर्वम् एव तु कृष्णस्य वचनात् तं महीधरम् पुरुषाः समलंचक्रुर् उपजह्रुश् च भोजनम् प्रतिगृह्यार्जुनः सर्वम् उपभुज्य च पाण्डवः सहैव वासुदेवेन दृष्टवान् नटनर्तकान् अभ्यनुज्ञाप्य तान् सर्वान् अर्चयित्वा च पाण्डवः सत्कृतं शयनं दिव्यम् अभ्यगच्छन् महाद्युतिः ततस् तत्र महाबाहुः शयानः शयने शुभे तीर्थानां दर्शनं चैव पर्वतानां च भारत आपगानां वनानां च कथयाम् आस सात्वते स कथाः कथयन्न् एव निद्रया जनमेजय कौन्तेयो ऽपहृतस् तस्मिञ् शयने स्वर्गसंमिते मधुरेण स गीतेन वीणाशब्देन चानघ प्रबोध्यमानो बुबुधे स्तुतिभिर् मङ्गलैस् तथा स कृत्वावश्यकार्याणि वार्ष्णेयेनाभिनन्दितः वार्ष्णेयं समनुज्ञाय ततो वासम् अरोचयत् तथेत्य् उक्त्वा वासुदेवो भोजनं वै शशास ह यतिरूपधरं पार्थं विसृज्य सहसा हरिः रथेन काञ्चनाङ्गेन द्वारकाम् अभिजग्मिवान् अलंकृता द्वारका तु बभूव जनमेजय कुन्तीसुतस्य पूजार्थम् अपि निष्कुटकेष्व् अपि दिदृक्षवश् च कौन्तेयं द्वारकावासिनो जनाः नरेन्द्रमार्गम् आजग्मुस् तूर्णं शतसहस्रशः क्षणार्धम् अपि वार्ष्णेया गोविन्दविरहाक्षमाः कौतूहलसमाविष्टा भृशम् उत्प्रेक्ष्य संस्थिताः अवलोकेषु नारीणां सहस्राणि शतानि च भोजवृष्ण्यन्धकानां च समवायो महान् अभूत् स तथा सत्कृतः सर्वैर् भोजवृष्ण्यन्धकात्मजैः अभिवाद्याभिवाद्यांश् च सर्वैश् च प्रतिनन्दितः कुमारैः सर्वशो वीरः सत्कारेणाभिवादितः समानवयसः सर्वान् आश्लिष्य स पुनः पुनः कृष्णस्य भवने रम्ये रत्नभोज्यसमावृते उवास सह कृष्णेन बहुलास् तत्र शर्वरीः कृष्णः स्वभवनं रम्यं प्रविवेश महाद्युतिः प्रवासाद् आगतं सर्वा देव्यः कृष्णम् अपूजयन् वैशंपायन उवाच ततः कतिपयाहस्य तस्मिन् रैवतके गिरौ वृष्ण्यन्धकानाम् अभवत् सुमहान् उत्सवो नृप तत्र दानं ददुर् वीरा ब्राह्मणानां सहस्रशः भोजवृष्ण्यन्धकाश् चैव महे तस्य गिरेस् तदा प्रासादै रत्नचित्रैश् च गिरेस् तस्य समन्ततः स देशः शोभितो राजन् दीपवृक्षैश् च सर्वशः वादित्राणि च तत्र स्म वादकाः समवादयन् ननृतुर् नर्तकाश् चैव जगुर् गानानि गायनाः अलंकृताः कुमाराश् च वृष्णीनां सुमहौजसः यानैर् हाटकचित्राङ्गैश् चञ्चूर्यन्ते स्म सर्वशः पौराश् च पादचारेण यानैर् उच्चावचैस् तथा सदाराः सानुयात्राश् च शतशो ऽथ सहस्रशः ततो हलधरः क्षीबो रेवतीसहितः प्रभुः अनुगम्यमानो गन्धर्वैर् अचरत् तत्र भारत तथैव राजा वृष्णीनाम् उग्रसेनः प्रतापवान् उपगीयमानो गन्धर्वैः स्त्रीसहस्रसहायवान् रौक्मिणेयश् च साम्बश् च क्षीबौ समरदुर्मदौ दिव्यमाल्याम्बरधरौ विजह्राते ऽमराव् इव अक्रूरः सारणश् चैव गदो भानुर् विडूरथः निशठश् चारुदेष्णश् च पृथुर् विपृथुर् एव च सत्यकः सात्यकिश् चैव भङ्गकारसहाचरौ हार्दिक्यः कृतवर्मा च ये चान्ये नानुकीर्तिताः एते परिवृताः स्त्रीभिर् गन्धर्वैश् च पृथक् पृथक् तम् उत्सवं रैवतके शोभयां चक्रिरे तदा वासुदेवो ययौ तत्र सह स्त्रीभिर् गुणान्वितः दत्त्वा दानं द्विजातिभ्यः परिव्राजम् अपश्यत तदा कोलाहले तस्मिन् वर्तमाने महाशुभे वासुदेवश् च पार्थश् च सहितौ परिजग्मतुः तत्र चङ्क्रम्यमाणौ तौ वासुदेवसुतां शुभाम् अलंकृतां सखीमध्ये भद्रां ददृशतुस् तदा दृष्ट्वैव ताम् अर्जुनस्य कन्दर्पः समजायत तं तथैकाग्रमनसं कृष्णः पार्थम् अलक्षयत् अथाब्रवीत् पुष्कराक्षः प्रहसन्न् इव भारत वनेचरस्य किम् इदं कामेनालोड्यते मनः ममैषा भगिनी पार्थ सारणस्य सहोदरा सुभद्रा नाम भद्रं ते पितुर् मे दयिता सुता यदि ते वर्तते बुद्धिर् वक्ष्यामि पितरं स्वयम् अब्रवीत् पुण्डरीकाक्षं प्रहसन्न् इव भारत अर्जुन उवाच दुहिता वसुदेवस्य वासुदेवस्य च स्वसा रूपेण चैव संपन्ना कम् इवैषा न मोहयेत् कृतम् एव तु कल्याणं सर्वं मम भवेद् ध्रुवम् यदि स्यान् मम वार्ष्णेयी महिषीयं स्वसा तव देववृन्दः सदा त्वां तु स्मृत्वा विजयते ऽसुरान् तव संदर्शनात् स्वामिन्न् अप्राप्यं न हि तत् किम् उ प्राप्तौ तु क उपायः स्यात् तद् ब्रवीहि जनार्दन आस्थास्यामि तथा सर्वं यदि शक्यं नरेण तत् वासुदेव उवाच स्वयंवरः क्षत्रियाणां विवाहः पुरुषर्षभ स च संशयितः पार्थ स्वभावस्यानिमित्ततः प्रसह्य हरणं चापि क्षत्रियाणां प्रशस्यते विवाहहेतोः शूराणाम् इति धर्मविदो विदुः स त्वम् अर्जुन कल्याणीं प्रसह्य भगिनीं मम हर स्वयंवरे ह्य् अस्याः को वै वेद चिकीर्षितम् यतिरूपधरस् त्वं तु यदा कालविपाकता वैशंपायन उवाच ततो ऽर्जुनश् च कृष्णश् च विनिश्चित्येतिकृत्यताम् शीघ्रगान् पुरुषान् राजन् प्रेषयाम् आसतुस् तदा धर्मराजाय तत् सर्वम् इन्द्रप्रस्थगताय वै श्रुत्वैव च महाबाहुर् अनुजज्ञे स पाण्डवः भीमसेनस् तु तच् छ्रुत्वा कृतकृत्यं स्म मन्यते इत्य् एवं मनुजैः सार्धम् उक्त्वा प्रीतिम् उपेयिवान् वैशंपायन उवाच ततः संवादिते तस्मिन्न् अनुज्ञातो धनंजयः गतां रैवतके कन्यां विदित्वा जनमेजय वैशंपायनः श्रीभगवान् वैशंपायनः वासुदेवः बलदेवः वैशंपायनः वैशंपायनः वैशंपायनः वैशंपायनः वैशंपायनः वैशंपायनः वैशंपायनः वैशंपायनः वैशंपायनः वैशंपायनः वैशंपायनः चिन्तयानस् ततो भद्राम् उपविष्टः शिलातले रमणीये वनोद्देशे बहुपादपसंवृते सालतालाश्वकर्णैश् च बकुलैर् अर्जुनैस् तथा चम्पकाशोकपुंनागैः केतकैः पाटलैस् तथा कर्णिकारैर् अशोकैश् च अङ्कोलैर् अतिमुक्तकैः एवमादिभिर् अन्यैश् च संवृते स शिलातले पुनः पुनश् चिन्तयानः सुभद्रां भद्रभाषिणीम् यदृच्छया चोपपन्नान् वृष्णिवीरान् ददर्श ह बलदेवं च हार्दिक्यं साम्बं सारणम् एव च प्रद्युम्नं च गदं चैव चारुदेष्णं विडूरथम् भानुं च निशठं चैव पृथुं विपृथुम् एव च तथान्यांश् च बहून् पश्यन् हृदि शोकम् अधारयत् ततस् ते सहिताः सर्वे यतिं दृष्ट्वा समुत्सुकाः वृष्णयो विनयोपेताः परिवार्योपतस्थिरे ततो ऽर्जुनः प्रीतमनाः स्वागतं व्याजहार सः आस्यताम् आस्यतां सर्वै रमणीये शिलातले इत्य् एवम् उक्ता यतिना प्रीतास् ते यादवर्षभाः उपोपविविशुः सर्वे सुस्वागतम् इति ब्रुवन् ततस् तेषु निविष्टेषु वृष्णिवीरेषु पाण्डवः आकारं गूहमानस् तु कुशलप्रश्नम् अब्रवीत् सर्वत्र कुशलं चोक्त्वा बलदेवो ऽब्रवीद् इदम् प्रसादं कुरु मे विप्र कुतस् त्वं चागतो ह्य् असि त्वया दृष्टानि पुण्यानि वदस्व वदतां वर पर्वतांश् चैव तीर्थानि वनान्य् आयतनानि च तीर्थानां दर्शनं चैव पर्वतानां च भारत आपगानां वनानां च कथयाम् आस यादवे ताः कथाः कथयन्न् एव कथान्ते जनमेजय कथां धर्मसमायुक्तां वृष्णिवीरे न्यवेदयत् श्रुत्वा धर्मकथां पुण्यां वृष्णिवीरो ऽभ्यपूजयत् ततस् तु यादवाः सर्वे मन्त्रयन्ति स्म भारत अयं देशातिथिः श्रीमान् यतिलिङ्गधरो द्विजः आवासं कम् उपाश्रित्य वसेत निरुपद्रवः इत्य् एवम् अब्रुवंस् ते वै रौहिणेयं तु यादवाः ददृशुः कृष्णम् आयान्तं सर्वे यादवनन्दनम् एहि केशव तातेति रौहिणेयो ऽब्रवीद् वचः यतिलिङ्गधरो विद्वान् देशातिथिर् अयं द्विजः वर्षरात्रनिवासार्थम् आगतो नः पुरं प्रति स्थाने यस्मिन् निवसति तन् मे ब्रूहि जनार्दन त्वयि स्थिते महाभाग परवान् अस्मि धर्मतः स्वयं तु रुचिरे स्थाने वसताम् इति मां वद सुप्रीतस् तेन वाक्येन परिष्वज्य जनार्दनम् बलदेवो ऽब्रवीद् वाक्यं चिन्तयित्वा महाबलः आरामे तु वसेद् धीमांश् चतुरो वर्षमासकान् कन्यापुरे सुभद्राया भुक्त्वा भोजनम् इष्टतः लतागृहेषु वसताम् इति मे धीयते मतिः लब्धानुज्ञास् त्वया तत्र मन्यन्ते सर्वयादवाः बलवान् दर्शनीयश् च वाग्विच् छ्रीमान् बहुश्रुतः कन्यापुरसमीपे तु न युक्तम् इति मे मतिः गुरुः शास्ता च नेता च शास्त्रज्ञो धर्मवित्तमः त्वयोक्तं न विरुध्ये ऽहं करिष्यामि वचस् तव शुभाशुभस्य विज्ञाने नान्यो ऽस्ति भुवि कश् चन अयं देशातिथिः श्रीमान् सर्वधर्मविशारदः धृतिमान् विनयोपेतः सत्यवाग् विजितेन्द्रियः यतिलिङ्गधरो ह्य् एष को विजानाति मानसम् त्वम् इमं पुण्डरीकाक्ष नीत्वा कन्यापुरं शुभम् निवेदय सुभद्रायै मद्वाक्यपरिचोदितः भक्ष्यैर् भोज्यैश् च पानैश् च अन्यैर् इष्टैश् च पूजय स तथेति प्रतिज्ञाय सहितो यतिना हरिः कृत्वा तु संविदं तेन प्रहृष्टः केशवो ऽभवत् पर्वते तौ विहृत्यैव यथेष्टं कृष्णपाण्डवौ तां पुरीं प्रविवेशाथ गृह्य हस्ते च पाण्डवम् प्रविश्य च गृहं रम्यं सर्वभोगसमन्वितम् पार्थम् आवेदयाम् आस रुक्मिणीसत्यभामयोः हृषीकेशवचः श्रुत्वा ते उभे ऊचतुर् भृशम् मनोरथो महान् एष हृदि नः परिवर्तते कदा द्रक्ष्याम बीभत्सुं पाण्डवं गृहम् आगतम् इति चिन्तयमानानां पार्थो दुःखम् अपानुदत् प्राप्तम् अज्ञातपूजाभिर् उत्तमाभिर् अपूजयत् स तं प्रियातिथिश्रेष्ठं समीक्ष्य यतिम् आगतम् सोदर्यां भगिनीं कृष्णः सुभद्राम् इदम् अब्रवीत् अयं देशातिथिर् भद्रे संयतो व्रतवान् ऋषिः प्राप्नोतु सततं पूजां तव कन्यापुरे वसन् आर्येण च परिज्ञातः पूजनीयो यतिः सदा तस्माद् भरस्व वार्ष्णेयि भक्ष्यैर् भोज्यैर् यतिं सदा एष यद् यद् ऋषिर् ब्रूयात् कार्यम् एव न संशयः सखीभिः सहिता भद्रे भवास्य वशवर्तिनी पुरापि यतयो भद्रे ये भैक्षार्थम् अनुव्रताः ते बभूवुर् दशार्हाणां कन्यापुरनिवासिनः तेभ्यो भोज्यानि भक्ष्याणि यथाकालम् अतन्द्रिताः कन्यापुरगताः कन्याः प्रयच्छन्ति यशस्विनि सा तथेत्य् अब्रवीत् कृष्णं करिष्यामि यथात्थ माम् तोषयिष्यामि वृत्तेन कर्मणा च द्विजर्षभम् एवम् एतेन रूपेण कं चित् कालं धनंजयः उवास भक्ष्यैर् भोज्यैश् च भद्रया परमार्चितः तस्य सर्वगुणोपेतां वासुदेवसहोदराम् पश्यतः सततं भद्रां प्रादुर् आसीन् मनोभवः गूहयन्न् इव चाकारम् आलोक्य वरवर्णिनीम् दीर्घम् उष्णं निशश्वास पार्थः कामवशं गतः न कृष्णां रूपतो मेने वासुदेवसहोदराम् प्राप्तां हृदीन्द्रसेनां वा साक्षाद् वा वरुणात्मजाम् अतीतसमये काले सोदर्याणां धनंजयः न सस्मार सुभद्रायाः कामाङ्कुशनिवारितः क्रीडारतिपरां भद्रां सखीजनशतैर् वृताम् प्रीयते स्मार्जुनः पश्यन् स्वाहाम् इव हुताशनः पाण्डवस्य सुभद्रायाः सकाशे तु यशस्विनः समुत्पत्तिः प्रभावश् च गदेन कथितः पुरा श्रुत्वा चाशनिनिर्घोषं केशवेनापि धीमता उपमाम् अर्जुनं कृत्वा विस्तरः कथितः पुरा क्रुद्धमत्तप्रलापश् च वृष्णीनाम् अर्जुनं प्रति पौरुषाण्य् उपमां कृत्वा प्रावर्धन्त धनुष्मताम् अन्योन्यकलहे चापि विवादे चापि वृष्णयः अर्जुनो ऽपि न मे तुल्यः कुतस् त्वम् इति ते ऽब्रुवन् जातांश् च पुत्रान् गृह्णन्त आशिषो वृष्णयो ऽब्रुवन् अर्जुनस्य समो वीर्ये भव तात धनुर्धरः तस्मात् सुभद्रा चकमे पौरुषाद् भरतर्षभम् सत्यसंधस्य रूपेण चातुर्येण च मोहिता चारणातिथिसंघानां गदस्य च निशम्य सा अदृष्टे कृतभावाभूत् सुभद्रा भरतर्षभे कीर्तयन् ददृशे यो यः कथं चित् कुरुजाङ्गलम् तं तम् एव सदा भद्रा बीभत्सुं स्माभिपृच्छति अभीक्ष्णशः परिप्रश्नाद् अभीक्ष्णश्रवणात् तथा प्रत्यक्ष इव भद्रायाः पाण्डवः समपद्यत भुजौ भुजगसंकाशौ ज्याघातेन किणीकृतौ पार्थो ऽयम् इति पश्यन्त्या निःसंशयम् अजायत यथारूपं हि शुश्राव सुभद्रा भरतर्षभम् तथारूपम् अवेक्ष्यैनं परां प्रीतिम् अवाप सा सा कदा चिद् उपासीनं पप्रच्छ कुरुनन्दनम् कथं देशाः कथं शैला नानाजनपदाः कथम् सरांसि सरितश् चैव वनानि च कथं यते दिशः काश् च कथं प्राप्ताश् चरता भवता सदा स तथोक्तस् तदा भद्रां बहुनर्मानृतं ब्रुवन् उवाच परमप्रीतस् तस्या बहु तथा कथाः निशम्य विविधं तस्य लोके चरितम् आत्मनः कथापरिगतो भावः कन्यायाः समपद्यत पर्वसंधौ च कस्मिंश् चित् सुभद्रा भरतर्षभम् रहस्य् एकान्तम् आसाद्य हृष्यमाणाभ्यभाषत यतिना चरता लोकान् खाण्डवप्रस्थवासिनी कच्चिद् भगवता दृष्टा पृथास्माकं पितृष्वसा भ्रातृभिः प्रयतैः सर्वैः कच्चिद् आर्यो युधिष्ठिरः कच्चिद् धर्मपरो भीमो धर्मराजस्य धीमतः निवृत्तसमयः कच्चिद् अपराधाद् धनंजयः नियमे कामभोगानां वर्तमानः प्रियेतरे क्व नु पार्थश् चरत्य् अद्य बह्वीर् दुर्वसतीर् वसन् सुखोचितो ह्य् अदुःखार्हो दीर्घबाहुर् अरिंदमः कच्चिच् छ्रुतो वा दृष्टो वा पार्थो भगवतार्जुनः निशम्य वचनं तस्यास् ताम् उवाच हसन्न् इव आर्ये पृथा च कुशला सपुत्रा च सहस्नुषा प्रीयते पश्यती पुत्रान् कुरुक्षेत्रं च पश्यती अनुज्ञातस् तु मात्रा च सोदर्यैस् तु धनंजयः द्वारकाम् आवसत्य् एको यतिलिङ्गेन पाण्डवः पश्यन्ती सततं कस्मान् नाभिजानासि माधवि निशम्य वचनं तस्य वासुदेवसहोदरा निःश्वासबहुला तस्थौ क्षितिं विलिखती तदा ततः परमसंहृष्टः सर्वशस्त्रभृतां वरः अर्जुनो ऽहम् इति प्रीतस् ताम् उवाच धनंजयः यथा तव गतो भावः श्रवणान् मयि भामिनि त्वद्गतः सततं भावस् तथा शतगुणो मम प्रशस्ते ऽहनि धर्मेण भद्रे स्वयम् अहं वृतः सत्यवान् इव सावित्र्या भविष्यामि पतिस् तव एवम् उक्त्वा ततः पार्थः प्रविवेश लतागृहम् ततः सुभद्रा ललिता लज्जाभावसमन्विता मुमोह शयने दिव्ये शयाना नतथोचिता कन्यापुरे च संवृत्तं ज्ञात्वा दिव्येन चक्षुषा शशास रुक्मिणीं कृष्णो भोजनादिकम् अर्जुने तदा प्रभृति तां भद्रां चिन्तयन् वै धनंजयः आस्ते स्म स तदारामे कार्येणैव सहाभिभूः सुभद्रापि न च स्वस्था पार्थं प्रति बभूव सा कृशा विवर्णवदना चिन्ताशोकपरायणा निःश्वासपरमा भद्रा मानसेन मनस्विनी न शय्यासनभोगेषु रतिं विन्दति केन चित् न नक्तं न दिवा शेते बभूवोन्मत्तदर्शना एवं शोकपरां भद्रां देवकी वाक्यम् अब्रवीत् मा शोकं कुरु वार्ष्णेयि धृतिम् आलम्ब शोभने निवेदयिष्ये त्वां रामे कृष्णे चैव नरर्षभे पश्चाज् जानामि ते वार्तां मा शोकं कुरु माधवि एवम् उक्त्वा च सा माता भद्रायाः प्रियकामिनी निवेदयाम् आस तदा भद्राम् आनकदुन्दुभेः रहस्य् एकासना तत्र भद्रास्वस्थेति चाब्रवीत् आरामे तु यतिः श्रीमान् अर्जुनः सो ऽथ नः श्रुतः अक्रूराय च कृष्णाय आहुकाय च सात्यके निवेद्यतां महाप्राज्ञ श्रोतव्यं यदि बान्धवैः वसुदेवस् तु तच् छ्रुत्वा अक्रूराहुकयोस् तदा निवेदयित्वा कृष्णाय मन्त्रयाम् आस नैकधा इदं कार्यम् इदं कृत्यम् इदम् एवं विनिश्चितम् अक्रूरश् चोग्रसेनश् च सत्यकश् च गदेन च पृथुश्रवाश् च कृष्णश् च सहिताः शिनिना सह रुक्मिणी सत्यभामा च देवकी रोहिणी तथा वासुदेवेन सहिताः पुरोहितमते स्थिताः विवाहं मन्त्रयाम् आसुर् द्वादशे ऽहनि भारत अज्ञातं रौहिणेयस्य उद्धवस्य च भारत विवाहं तु सुभद्रायाः कर्तुकामो गदाग्रजः महादेवस्य पूजार्थं महोत्सवम् इति ब्रुवन् चतुस्त्रिंशद् अहोरात्रं सुभद्रार्तिप्रशान्तये नगरे घोषयाम् आस हितार्थं सव्यसाचिनः इतश् चतुर्थे त्व् अहनि अन्तर्द्वीपं तु गम्यताम् सदारैः सानुयात्रैश् च सपुत्रैश् च सबान्धवैः गन्तव्यं सर्ववर्णैश् च गन्तव्यं सर्वयादवैः एवम् उक्तास् तु ते सर्वे तथा चक्रुश् च सर्वशः ततः सर्वदशार्हाणाम् अन्तर्द्वीपे तु भारत चतुस्त्रिंशद् अहोरात्रं बभूव परमोत्सवः कृष्णरामाहुकाक्रूरप्रद्युम्नशिनिसत्यकाः समुद्रं प्रययुर् हृष्टाः कुकुरान्धकवृष्णयः युक्तयन्त्रपताकाभिर् वृष्णयो ब्राह्मणैः सह समुद्रं प्रययुर् नौभिः सर्वे पुरनिवासिनः ततस् त्वरितम् आगम्य दाशार्हगणपूजितम् सुभद्रा पुण्डरीकाक्षम् अब्रवीद् यतिशासनात् कृत्यवान् द्वादशाहानि स्थाता स भगवान् इह तिष्ठतस् तस्य कः कुर्याद् उपस्थानविधिं प्रति ताम् उवाच हृषीकेशः कस् त्वद् अन्यो विशेषतः तम् ऋषिं प्रत्युपस्थातुम् इतो नार्हति मानवः त्वम् एवास्मन्मतेनास्य महर्षेर् वशवर्तिनी कुरु सर्वाणि कार्याणि कीर्तिं धर्मम् अवेक्ष्य च तस्य चातिथिमुख्यस्य सर्वेषां च तपस्विनाम् संविधानपरा भद्रे भव त्वं वशवर्तिनी एवम् आदिश्य भद्रां च रक्षां च मधुसूदनः ययौ शङ्खप्रणादेन भेरीणां च महास्वनैः ततस् तद् द्वीपम् आसाद्य दानधर्मपरायणाः उग्रसेनमुखाः सर्वे विजह्रुः कुकुरान्धकाः सप्तयोजनविस्तार आयतो दशयोजनम् बभूव स महाद्वीपः सपर्वतमहावनः सेतुपुष्करिणीजालैर् आक्रीडः सर्वसात्वताम् वापीपल्वलसंघैश् च काननैश् च मनोरमैः वासुदेवसमैर् द्वीपः स सर्वैः कुकुरान्धकैः बभूव परमोपेतस् त्रिविष्टप इवामरैः चतुस्त्रिंशद् अहोरात्रं दानधर्मपरायणाः उग्रसेनमुखाः सर्वे विजह्रुः कुकुरान्धकाः विचित्रमाल्याभरणाश् चित्ररूपानुलेपनाः विहाराभिमुखाः सर्वे यादवाः पानसंयुताः सुनृत्तगीतवादित्रै रममाणास् ततो ऽभवन् तत्र याते दशार्हाणाम् ऋषभे शार्ङ्गधन्वनि सुभद्रोद्वाहनं पार्थः प्राप्तकालम् अमन्यत वृष्ण्यन्धकपुरात् तस्माद् अपयानं च पाण्डवः विनिश्चित्य ततः पार्थः सुभद्राम् इदम् अब्रवीत् शृणु भद्रे यथाशास्त्रं यथार्थम् ऋषिभिः कृतम् कन्यायास् तु पिता भ्राता माता मातुल एव च पितृभ्राता गुरुश् चापि दाने तु प्रभुतां गतः महोत्सवं पशुपतेर् द्रष्टुकामः पिताहुकः अन्तर्द्वीपं गतो भद्रे पुत्रैः पौत्रैः सबान्धवैः मम चैव विशालाक्षि विदेशस्थास् तु बान्धवाः तस्मात् सुभद्रे गान्धर्वो विवाहः पञ्चमो भवेत् समागमे तु कन्यायाः क्रियाः प्रोक्ताश् चतुर्विधाः तेषां प्रवृत्तिं साधूनां शृणु माधवि तद् यथा वरम् आहूय विधिना पितृदत्ता यथार्थिने सा पत्नी तु बुधैर् उक्ता सा तु वश्या पतिव्रता भृत्यानां भरणार्थाय आत्मनः पोषणाय च दारे स्थिते गृहीता सा भार्या चेति बुधैर् मता धर्मतो वरयित्वा तु आनीय स्वं निवेशनम् न्यायेन दत्ता तारुण्ये दाराः पितृकृता भवेत् जनयेद् या तु भर्तारं जाया इत्य् एव नामतः दाराः पत्नी च भार्या च जाया चेति चतुर्विधाः चतस्र एवाग्निसाक्ष्याः क्रियायुक्तास् तु धर्मतः गान्धर्वेण विवाहेन रागात् पुत्रार्थकारणात् आत्मनानुगृहीता या सा तु वश्या प्रजावती गान्धर्वस् तु क्रियाहीनो रागाद् एव प्रवर्तते सकामायाः सकामेन निर्मन्त्रो रहसि स्मृतः मयोक्तम् अक्रियं चापि कर्तव्यं माधवि त्वया अयनं चैव मासश् च ऋक्षं पक्षस् तथा तिथिः करणं च मुहूर्तं च लग्नसंपद् यथाद्य वै विवाहस्य विशालाक्षि प्रशस्तं चोत्तरायणम् वैशाखश् चैव मासानां पक्षाणां शुभ्र एव च नक्षत्राणां तथा हस्तस् तृतीया च तिथिष्व् अपि लग्नो हि मकरः श्रेष्ठः करणानां बवस् तथा मैत्रो मुहूर्तो वैवाह्य आवयोः शुभकर्मणि सर्वसंपद् इयं भद्रे अद्य रात्रौ भविष्यति भगवान् अस्तम् अभ्येति तपनस् तपतां वरः नारायणो हि सर्वज्ञो नानुबुध्येत विश्वकृत् धर्मसंकटम् आपन्ने किं नु कृत्वा शुभं भवेत् मनोभवेन कामेन मोहितं मा प्रलापिनम् प्रतिवाक्यं तु मे देहि किं न वक्ष्यसि माधवि अर्जुनस्य वचः श्रुत्वा चिन्तयन्ती जनार्दनम् नोवाच किं चिद् वचनं बाष्पदूषितलोचना रागोन्मादप्रलापी स्याद् अर्जुनो जयतां वरः चिन्तयाम् आस पितरं प्रविश्य च लतागृहम् चिन्तयानं तु कौन्तेयं ज्ञात्वा शच्या शचीपतिः सहितो नारदाद्यैस् तु मुनिसिद्धाप्सरोगणैः अरुन्धत्या वसिष्ठेन आजगाम कुशस्थलीम् चिन्तितं च सुभद्रायाश् चिन्तयित्वा जनार्दनः निद्रयापहृतज्ञानं रौहिणेयं विना तदा सहाक्रूरेण शिनिना सत्यकेन गदेन च वसुदेवेन देवक्या आहुकेन च धीमता आजगाम पुरीं रात्रौ द्वारकां स्वजनैर् वृतः पूजयित्वा तु देवेशं नारदाद्यैर् महर्षिभिः कुशलप्रश्नम् उक्त्वा तु देवेन्द्रेणाभियाचितः वैवाहिकक्रियां कृष्णस् तथेत्य् एवम् उवाच ह आहुको वसुदेवश् च सहाक्रूरः ससात्यकिः अभिप्रणम्य शिरसा पाकशासनम् अब्रुवन् देवदेव नमस् ते ऽस्तु लोकनाथ जगत्पते वयं धन्याः स्म लोकेषु बान्धवैः सहिता विभो कृतप्रसादास् तु वयं तव वाक्येन विश्वजित् एवम् उक्त्वा प्रसाद्यैनं पूजयित्वा प्रयत्नतः महेन्द्रशासनात् सर्वे सहिताश् च महर्षिभिः विवाहं कारयाम् आसुः शक्रपुत्रस्य शास्त्रतः अरुन्धती शची देवी रुक्मिणी देवकी तथा दिव्यस्त्रीभिश् च सहिताः क्रियां भद्रां प्रयोजयन् महर्षिः काश्यपो होता सदस्या नारदादयः पुण्याशिषः प्रयोक्तारः सर्वे ह्य् आसंस् तदार्जुने अभिषेकं ततः कृत्वा महेन्द्रः पाकशासनिम् लोकपालैस् तु सहितः सर्वैर् देवैर् अभिष्टुतः किरीटाङ्गदहाराद्यैर् हस्ताभरणकुण्डलैः भूषयित्वा तु तं पार्थं द्वितीयम् इव वासवम् पुत्रं परिष्वज्य तदा प्रीतिम् आप पुरंदरः शची देवी तथा भद्राम् अरुन्धत्यादिभिस् तदा कारयाम् आस वैवाह्यं मङ्गल्यं यादवस्त्रियः सहाप्सरोभिर् मुदिता भूषणैश् चाभ्यपूजयन् पौलोमीम् इव मन्यन्ते सुभद्रां देवयोषितः ततो विवाहो ववृधे कृतः सर्वगुणान्वितः तस्याः पाणिं गृहीत्वा तु मन्त्रहोमपुरस्कृतम् यथा तस्यैव हि पिता शच्या इव शतक्रतुः सा जिष्णुम् अधिकं भेजे सुभद्रा चारुदर्शना पार्थस्य सदृशी भद्रा रूपेण वयसा तथा सुभद्रायाश् च पार्थो ऽपि सदृशो रूपलक्षणैः इत्य् ऊचुश् च तदा देवाः प्रीताः सेन्द्रपुरोगमाः एवं निवेश्य देवास् तु गन्धर्वैः साप्सरोगणैः आमन्त्र्य यादवान् सर्वे विप्रजग्मुर् यथागतम् यादवाः पार्थम् आमन्त्र्य अन्तर्द्वीपं गतास् तदा वासुदेवस् तदा पार्थम् उवाच यदुनन्दनः द्वाविंशद् दिवसान् पार्थ इहोष्य भरतर्षभ मामकं रथम् आरुह्य सैन्यसुग्रीवयोजितम् सुभद्रया सुखं पार्थ खाण्डवप्रस्थम् आविश यादवैः सहितः पश्चाद् आगमिष्यामि भारत यतिवेषेण निरतो वस त्वं रुक्मिणीगृहे एवम् उक्त्वा प्रचक्राम अन्तर्द्वीपं जनार्दनः कृतोद्वाहस् तदा पार्थः कृतकार्यो ऽभवत् तदा तस्यां चोपगतो भावः पार्थस्य सहसागतः स तया युयुजे वीरो भद्रया भरतर्षभः अभिनिष्पन्नया रामः सीतयेव समन्वितः स हि जिष्णुर् विजज्ञे तां ह्रीं श्रियं संनतिक्रियाम् द्वादशानां वरस्त्रीणां रूपेणासदृशीं सतीम् स प्रकृत्या श्रिया दीप्तः संदिदीपे तयाधिकम् उद्यत्सहस्रदीप्तांशुः शरदीव दिवाकरः सा तु तं मनुजव्याघ्रम् अनुरक्ता मनस्विनी कन्यापुरगता भूत्वा तत्परा समपद्यत वृष्ण्यन्धकपुरात् तत्र अपयानं धनंजयः विनिश्चित्य तया पार्थः सुभद्राम् इदम् अब्रवीत् द्विजानां गणमुख्यानां यथार्हं प्रतिपादय भक्ष्यैर् भोज्यैश् च कामैश् च प्रयच्छ प्रतियास्यताम् आत्मनश् च समुद्दिश्य महाव्रतसमापनम् गच्छ भद्रे स्वयं तूर्णं महाराजनिवेशनम् तेजोबलजवोपेतै रत्नैर् हयवरोत्तमैः सैन्यसुग्रीवसंयुक्तं रथं तूर्णम् इहानय क्रीडार्थम् इति भाषित्वा सखीभिः सुभगे सह क्षिप्रम् आदाय पर्येहि रथं सर्वायुधानि च अनुकर्षान् पताकाश् च तूणीरांश् च धनूंषि च सर्वान् रथवरे कुर्याः सोत्सेधाश् च महागदाः अर्जुनेनैवम् उक्ता तु सुभद्रा भद्रभाषिणी जगाम नृपतेर् वेश्म सखीभिस् त्वरिता सह क्रीडार्थम् इव तत्रस्थान् रक्षिणो वाक्यम् अब्रवीत् रथेनानेन यास्यामि महाव्रतसमापनम् सैन्यसुग्रीवयुक्तेन सायुधेन च शार्ङ्गिणः सुभद्रयैवम् उक्ते तु जनाः प्राञ्जलयो ऽब्रुवन् रथेनानेन भद्रे त्वं यथेष्टं क्रियताम् इति योजयित्वा रथवरं कल्याणैर् अभिभाष्य ताम् यथोक्तं सर्वम् आरोप्य सखीभिः सह भामिनी क्षिप्रम् आदाय कल्याणी सुभद्रार्जुनम् अब्रवीत् रथो ऽयं रथिनां श्रेष्ठ आनीतस् तव शासनात् स्वस्ति याहि यथाकामं कुरून् कौरवनन्दन निवेद्य तं रथं भर्तुः सुभद्रा भद्रसंमता ब्राह्मणेभ्यो ददौ हृष्टा तदा सा विविधं वसु स्नेहवन्ति च भोज्यानि प्रददाव् ईप्सितानि च यथाकामं यथाश्रद्धं वस्त्राणि विविधानि च तर्पिता विविधैर् भक्ष्यैस् तान्य् अवाप्य वसूनि च ब्राह्मणाः स्वगृहं जग्मुः प्रयुज्य परमाशिषः सुभद्रया तु विज्ञप्तः पूर्वम् एव धनंजयः रश्मिप्रग्रहणे पार्थ न मे ऽस्ति सदृशो भुवि तस्मात् सा पूर्वम् आरुह्य रश्मीञ् जग्राह माधवी सोदरा वासुदेवस्य कृतस्वस्त्ययना हयान् वर्जयित्वा तु तल् लिङ्गं समुच्छ्रितमहाधनुः आरुरोह रथश्रेष्ठं शुक्लवासा धनंजयः महेन्द्रदत्तमुकुटं तथा ह्य् आभरणानि च अलंकृत्य तु कौन्तेयः प्रयातुम् उपचक्रमे ततः कन्यापुरे घोषस् तुमुलः समपद्यत दृष्ट्वा रथगतं पार्थं खड्गपाणिं धनुर्धरम् अभीशुहस्तां सुश्रोणीं अर्जुनेन रथे स्थिताम् ऊचुः कन्यापुरे कन्या वासुदेवसहोदराम् सर्वे कामाः समृद्धास् ते सुभद्रे भद्रभाषिणि वासुदेवप्रियं लब्ध्वा भर्तारं वीरम् अर्जुनम् सर्वसीमन्तिनीनां त्वं श्रेष्ठा कृष्णसहोदरे यस्मात् सर्वमनुष्याणां श्रेष्ठो भर्ता तवार्जुनः उपपन्नस् त्वया वीरः सर्वलोकमहारथः स्वस्ति याहि गृहं भद्रे सुहृद्भिः संगमो ऽस्तु ते एवम् उक्ता प्रहृष्टाभिः सखीभिः परिनन्दिता भद्रा भद्रजवोपेतान् पुनर् अश्वान् अचोदयत् ततश् चामरहस्ता सा सखी कुब्जाङ्गनाभवत् ततः कन्यापुरद्वारात् सघोषम् अभिनिःसृतम् ददृशुस् तं रथश्रेष्ठं जना जीमूतनिःस्वनम् सुभद्रासंगृहीतस्य रथस्य महतो रवम् मेघस्वनम् इवाकाशे शुश्रुवुः पुरवासिनः सुभद्रया च संपन्ने तिष्ठन् रथवरे ऽर्जुनः प्रबभौ परयोपेतः कैलास इव गङ्गया पार्थः सुभद्रासहितो विरराज महारथः पार्थस्येव पिता शक्रो यथा शच्या समन्वितः सुभद्रां प्रेक्ष्य धर्मेण ह्रियमाणां यशस्विनीम् चक्रुः किलकिलाशब्दम् आसाद्य बहवो जनाः दाशार्हाणां कुलस्य श्रीः सुभद्रा भद्रभाषिणी अभिकामा सकामेन पार्थेन सह गच्छति अथापरे हि संक्रुद्धा गृह्णीत घ्नत माचिरम् इति संवार्यमाणानां स नादः सुमहान् अभूत् स तेन जनघोषेण वीरो गज इवार्दितः ववर्ष शरवर्षाणि न तु कं चन रोषयत् मुमोच निशितान् बाणान् दीप्यमानान् स्वतेजसा प्रासादवरसंघेषु हर्म्येषु भवनेषु च प्रासादपङ्क्तिस्तम्भेषु वेदिकासु ध्वजेषु च मुमोच निशितान् बाणान् न च कं चन रोषयत् क्षोभयित्वा पुरश्रेष्ठं गरुत्मान् इव सागरम् प्रेक्षन् रैवतकद्वारं निर्ययौ भरतर्षभः शासनात् पुरुषेन्द्रस्य बलेन महता बली गिरौ रैवतके नित्यं बभूव विपृथुश्रवाः प्रवासे वासुदेवस्य तस्मिन् हलधरोपमः संबभूव तदा गोप्ता पुरस्य पुरवर्धनः प्राप्य पाण्डवनिर्याणं निर्ययौ विपृथुश्रवाः निशम्य पुरनिर्घोषं स्वम् अनीकम् अचोदयत् सो ऽभिपत्य तदाध्वानं ददर्श पुरुषर्षभम् निःसृतं द्वारकाद्वाराद् अंशुमन्तम् इवाम्बुदात् सविद्युतम् इवाम्भोदं प्रेक्ष्य बाणधनुर्धरम् पार्थम् आसाद्य योधानां विस्मयः समपद्यत उदीर्णरथनागाश्वम् अनीकम् अभिवीक्ष्य तत् उवाच परमप्रीता सुभद्रा भद्रभाषिणी संग्रहीतुम् अभिप्रायो दीर्घकालकृतो मम युध्यमानस्य संग्रामे रथं तव नरर्षभ ओजस्तेजोद्युतिबलैर् आचितस्य महात्मनः पार्थस्य वै सारथित्वे भवेथा इत्य् अशिक्षयन् एवम् उक्तः प्रियां प्रीतः प्रत्युवाच नरर्षभः चोदयाश्वान् असंसक्तान् विशन्तु विपृथोर् बलम् बहुभिर् युध्यमानस्य तावकानां जिघांसतः पश्य बाहुबलं भद्रे शरान् विक्षिपतो मम एवम् उक्ता ततो भद्रा पार्थेन भरतर्षभ चुचोद चाश्वान् विस्रब्धा ततस् ते विविशुर् बलम् तदाहतमहावाद्यं समुदग्रध्वजायुतम् अनीकं विपृथोर् हृष्टं पार्थम् एवान्ववर्तत रथैर् बहुविधैर् हृष्टाः सदश्वैश् च महाजवैः किरन्तः शरवर्षाणि परिवव्रुर् धनंजयम् तेषाम् अस्त्राणि संवार्य दिव्यैर् अस्त्रैर् महास्त्रवित् आवृणोन् महद् आकाशं शरैः परपुरंजयः तेषां बाणान् महाबाहुर् मकुटान्य् अङ्गदान्य् अपि चिच्छेद निशितैर् बाणैः शरांश् चैव धनूंषि च युगानीषा वरूथानि यन्त्राणि विविधानि च अजिघांसन् परान् पार्थश् चिच्छेद निशितैः शरैः निर्धनुष्कान् विकवचान् विरथांश् च महारथान् कृत्वा पार्थः प्रियां प्रीतः प्रेक्ष्यताम् इत्य् अदर्शयत् सा दृष्ट्वा महद् आश्चर्यं सुभद्रा पार्थम् अब्रवीत् अवाप्तार्थास्मि भद्रं ते याहि पार्थ यथासुखम् संसक्तं पाण्डुपुत्रेण समीक्ष्य विपृथुर् बलम् त्वरमाणो ऽभिसंक्रम्य स्थीयताम् इत्य् अभाषत तत् तु सेनापतेर् वाक्यं नात्यवर्तन्त यादवाः सागरे मारुतोद्धूता वेलाम् इव महोर्मयः ततो रथवरात् तूर्णम् अवरुह्य नरर्षभः अभिगम्य नरव्याघ्रं प्रहृष्टः परिषस्वजे सो ऽब्रवीत् पार्थम् आसाद्य दीर्घकालम् इदं तव निवासम् अभिजानामि शङ्खचक्रगदाधरात् न मे ऽस्त्य् अविदितं किं चिद् यद् यद् आचरितं त्वया सुभद्रासंप्रयोगेन प्रीतस् तव जनार्दनः प्राप्तस्य यतिलिङ्गेन द्वारकां तु धनंजय विसृष्टा सर्ववृष्णीनाम् ऋषभेण च सोदरा त्वम् इमां वीर दाशार्हां शचीम् इव शचीपतिः भक्तां गुणवतीं भद्रां सदा सत्कर्तुम् अर्हसि बन्धुर् भव सुभद्राया गतिश् च त्वं धनंजय बन्धुमान् असि रामेण महेन्द्रावरजेन च माम् एव हि सदाकार्षीन् मन्त्रिणं मधुसूदनः अन्तरेण सुभद्रां च त्वां च तात धनंजय इमं रथवरं दिव्यं सर्वशस्त्रसमन्वितम् इदम् एवानुयात्रं च निर्दिश्य गदपूर्वजः अन्तर्द्वीपं तदा वीर यातो वृष्णिसुखावहः दीर्घकालावरुद्धं त्वां संप्राप्तं प्रियया सह पश्यन्तु भ्रातरस् तत्र वज्रपाणिम् इवामराः आगते तु दशार्हाणाम् ऋषभे शार्ङ्गधन्वनि भद्राम् अनुगमिष्यन्ति रत्नानि च वसूनि च अरिष्टं गच्छ पन्थानं सुखी भव धनंजय नष्टशोकैर् विशोकस्य सुहृद्भिः संगमो ऽस्तु ते ततो विपृथुम् आमन्त्र्य पार्थः प्रीतो ऽभिवाद्य च कृष्णस्य मतम् आस्थाय कृष्णस्य रथम् आस्थितः पूर्वम् एव तु पार्थाय कृष्णेन विनियोजितम् सर्वरत्नसुसंपूर्णं सर्वभोगसमन्वितम् वासुदेवाभ्यनुज्ञातः कथयित्वेतिकृत्यताम् कृष्णस्य मतम् आज्ञाय प्रययौ भरतर्षभः वृत्तैः सहोत्सवैर् एवं वृष्णयो ऽप्य् अगमन् पुरीम् रथेन काञ्चनाङ्गेन कल्पितेन यथाविधि सैन्यसुग्रीवयुक्तेन किङ्किणीजालमालिना सर्वशस्त्रोपपन्नेन जीमूतरवनादिना ज्वलिताग्निप्रकाशेन द्विषतां हर्षघातिना संनद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान् युक्तः सेनानुयात्रेण रथम् आरोप्य माधवीम् मृगयाव्यपदेशेन यौगपद्येन भारत सुभद्रा त्व् अथ शैलेन्द्रम् अभ्यर्च्य सह रैवतम् दैवतानि च सर्वाणि ब्राह्मणान् स्वस्ति वाच्य च प्रदक्षिणं गिरिं कृत्वा प्रययौ द्वारकां प्रति सुभद्रां कृष्णभगिनीं स्त्रीभिः परिवृतां तदा ताम् अभिद्रुत्य कौन्तेयः प्रसह्यारोपयद् रथम् सुभद्रां चारुसर्वाङ्गीं कामबाणप्रपीडितः ततः स पुरुषव्याघ्रस् ताम् आदाय शुचिस्मिताम् रथेनाकाशगेनैव प्रययौ स्वपुरं प्रति ह्रियमाणां तु तां दृष्ट्वा सुभद्रां सैनिको जनः विक्रोशन् प्राद्रवत् सर्वो द्वारकाम् अभितः पुरीम् ते समासाद्य सहिताः सुधर्माम् अभितः सभाम् सभापालस्य तत् सर्वम् आचख्युः पार्थविक्रमम् तेषां श्रुत्वा सभापालो भेरीं सांनाहिकीं ततः समाजघ्ने महाघोषां जाम्बूनदपरिष्कृताम् क्षुब्धास् तेनाथ शब्देन भोजवृष्ण्यन्धकास् तदा अन्तर्द्वीपात् समुत्पेतुः सहसा सहितास् तदा अन्नपानम् अपास्याथ समापेतुः सभां ततः ततो जाम्बूनदाङ्गानि स्पर्ध्यास्तरणवन्ति च मणिविद्रुमचित्राणि ज्वलिताग्निप्रभाणि च भेजिरे पुरुषव्याघ्रा वृष्ण्यन्धकमहारथाः सिंहासनानि शतशो धिष्ण्यानीव हुताशनाः तेषां समुपविष्टानां देवानाम् इव संनये आचख्यौ चेष्टितं जिष्णोः सभापालः सहानुगः तच् छ्रुत्वा वृष्णिवीरास् ते मदरक्तान्तलोचनाः अमृष्यमाणाः पार्थस्य समुत्पेतुर् अहंकृताः योजयध्वं रथान् आशु प्रासान् आहरतेति च . . . . . . . . नागान् अश्वांस् तथैव च कवचान् आहर क्षिप्रं . . . . . . . . धनूंषि च महार्हाणि कवचानि बृहन्ति च सूतान् उच्चुक्रुशुः केच् चिद् रथान् योजयतेति च स्वयं च तुरगान् के चिन् निन्युर् हेमविभूषितान् रथेष्व् आनीयमानेषु कवचेषु ध्वजेषु च अभिक्रन्दे नृवीराणां तदासीत् संकुलं महत् वनमाली ततः क्षीबः कैलासशिखरोपमः नीलवासा मदोत्सिक्त इदं वचनम् अब्रवीत् किम् इदं कुरुथाप्रज्ञास् तूष्णीं भूते जनार्दने अस्य भावम् अविज्ञाय संक्रुद्धा मोघगर्जिताः एष तावद् अभिप्रायम् आख्यातु स्वं महामतिः यद् अस्य रुचितं कर्तुं तत् कुरुध्वम् अतन्द्रिताः ततस् ते तद् वचः श्रुत्वा ग्राह्यरूपं हलायुधात् तूष्णीं भूतास् ततः सर्वे साधु साध्व् इति चाब्रुवन् समं वचो निशम्येति बलदेवस्य धीमतः पुनर् एव सभामध्ये सर्वे तु समुपाविशन् ततो ऽब्रवीत् कामपालो वासुदेवं परंतपम् त्रैलोक्यनाथ हे कृष्ण भूतभव्यभविष्यकृत् किम् अवाग् उपविष्टो ऽसि प्रेक्षमाणो जनार्दन सत्कृतस् त्वत्कृते पार्थः सर्वैर् अस्माभिर् अच्युत न च सो ऽर्हति तां पूजां दुर्बुद्धिः कुलपांसनः को हि तत्रैव भुक्त्वान्नं भाजनं भेत्तुम् अर्हति मन्यमानः कुले जातम् आत्मानं पुरुषः क्व चित् ईप्समानश् च संबन्धं कृतपूर्वं च मानयन् को हि नाम भवेनार्थी साहसेन समाचरेत् सो ऽवमन्य च नामास्मान् अनादृत्य च केशवम् प्रसह्य हृतवान् अद्य सुभद्रां मृत्युम् आत्मनः कथं हि शिरसो मध्ये पदं तेन कृतं मम त्वया चेन् नाभ्यनुज्ञातो धर्षयिष्यति माधव मर्षयिष्यामि गोविन्द पादस्पर्शम् इवोरगः अद्य निष्कौरवाम् एकः करिष्यामि वसुंधराम् न हि मे मर्षणीयो ऽयम् अर्जुनस्य व्यतिक्रमः तम् अहं भ्रातृभिः सार्धं निहन्मि कुलपांसनम् तं तथा गर्जमानं तु मेघदुन्दुभिनिःस्वनम् अन्वपद्यन्त ते सर्वे भोजवृष्ण्यन्धकास् तदा वैशंपायन उवाच उक्तवन्तो यदा वाक्यम् असकृत् सर्ववृष्णयः ततो ऽब्रवीद् वासुदेवो वाक्यं धर्मार्थसंहितम् मयोक्तं न श्रुतं पूर्वं सहितैः सर्वयादवैः अतिक्रान्तम् अतिक्रान्तं न निवर्तति कर्हि चित् शृणुध्वं सहिताः सर्वे मम वाक्यं सहेतुकम् नावमानं कुलस्यास्य गुडाकेशः प्रयुक्तवान् संमानो ऽभ्यधिकस् तेन प्रयुक्तो ऽयम् असंशयम् अर्थलुब्धान् न वः पार्थो मन्यते सात्वतान् सदा स्वयंवरम् अनाधृष्यं मन्यते चापि पाण्डवः प्रदानम् अपि कन्यायाः पशुवत् को ऽनुमंस्यते विक्रयं चाप्य् अपत्यस्य कः कुर्यात् पुरुषो भुवि एतान् दोषांश् च कौन्तेयो दृष्टवान् इति मे मतिः अतः प्रसह्य हृतवान् कन्यां धर्मेण पाण्डवः उचितश् चैव संबन्धः सुभद्रा च यशस्विनी एष चापीदृशः पार्थः प्रसह्य हृतवान् इति भरतस्यान्वये जातं शंतनोश् च महात्मनः कुन्तिभोजात्मजापुत्रं को बुभूषेत नार्जुनम् न च पश्यामि यः पार्थं विक्रमेण पराजयेत् वर्जयित्वा विरूपाक्षं भगनेत्रहरं हरम् अपि सर्वेषु लोकेषु सेन्द्ररुद्रेषु मारिष स च नाम रथस् तादृङ् मदीयास् ते च वाजिनः मम शस्त्राण्य् अशेषेण तूणी चाक्षयसायकौ योद्धा पार्थश् च शीघ्रास्त्रः को नु तेन समो भवेत् तम् अनुद्रुत्य सान्त्वेन परमेण धनंजयम् निवर्तयध्वं संहृष्टा ममैषा परमा मतिः यदि निर्जित्य वः पार्थो बलाद् गच्छेत् स्वकं पुरम् प्रणश्येद् वो यशः सद्यो न तु सान्त्वे पराजयः पितृष्वसायाः पुत्रो मे संबन्धं नार्हति द्विषाम् तच् छ्रुत्वा वासुदेवस्य तथा चक्रुर् जनाधिप वैशंपायनः उद्योगं कृतवन्तस् ते भेरीं संनाद्य यादवाः अर्जुनस् तु तदा श्रुत्वा भेरीसंनादनं महत् कौन्तेयस् त्वरमाणस् तु सुभद्राम् अभ्यभाषत आयान्ति वृष्णयः सर्वे ससुहृज्जनबान्धवाः त्वदर्थं योद्धुकामास् ते मदरक्तान्तलोचनाः प्रमत्तान् अशुचीन् मूढान् सुरामत्तान् नराधमान् वामिनो वाशिनादींस् तु करिष्यामि शरोत्तमैः उताहो वा मदोन्मत्तान् नयिष्यामि यमक्षयम् एवम् उक्त्वा प्रियां पार्थो न्यवर्तत महाबलः निवर्तमानं दृष्ट्वैव सुभद्रा त्रस्ततां गता एवं मा वद पार्थेति पादयोः पतिता तदा सुभद्रा नु कलिर् जाता वृष्णीनां निधनाय च एवं ब्रुवन्तः पौरास् ते जनवादं जनाः प्रभो मम शोकं विवर्धन्ति तस्मात् पापं न चिन्तय परिवादभयान् मुक्ता त्वत्प्रसादाद् भवाम्य् अहम् एवम् उक्तस् ततः पार्थः प्रियया भद्रया तदा गमनाय मतिं चक्रे पार्थः सत्यपराक्रमः स्मितपूर्वं तदाभाष्य परिष्वज्य प्रियां तदा उत्थाप्य च पुनः पार्थो याहि याहीति सो ऽब्रवीत् ततः सुभद्रा त्वरिता रश्मीन् संगृह्य पाणिना चोदयाम् आस जवनाञ् शीघ्रम् अश्वान् कृतत्वरा ततस् तु कृतसंनाहा वृष्णिवीराः समाहिताः प्रत्यानयार्थं पार्थस्य जवनैस् तुरगोत्तमैः राजमार्गम् अनुप्राप्ता दृष्ट्वा पार्थस्य विक्रमम् प्रासादपङ्क्तिस्तम्भेषु वेदिकासु ध्वजेषु च अर्जुनस्य शरान् दृष्ट्वा विस्मयं परमं गताः केशवस्य वचस् तथ्यं मन्यमानास् तु यादवाः अतीत्य शैलं रैवतकं श्रुत्वा तु विपृथोर् वचः अर्जुनेन कृतं श्रुत्वा गन्तुकामास् तु वृष्णयः श्रुत्वा दूरं गतं पार्थं न्यवर्तन्त नराधिपाः पुरोद्यानान्य् अतिक्रम्य विशालं च गिरिव्रजम् सानुं मुञ्जावतं चैव वनान्य् उपवनानि च पुण्येष्व् आनर्तराष्ट्रेषु वापीपद्मसरांसि च प्राप्य धेनुमतीतीर्थम् अश्वरोधसरः प्रति प्रेक्ष्यावर्तं ततः शैलम् अर्बुदं च नगोत्तमम् आराच् छृङ्गम् उपस्थाय तीर्त्वा कारवतीं नदीम् प्राप्य साल्वेयराष्ट्राणि निषधान् अभ्यतीत्य च देवापृथुपुरं पश्यन् सर्वतः सुसमाहितः तम् अतीत्य महाबाहुर् देवारण्यम् अपश्यत पूजयाम् आसुर् आयान्तं देवारण्यमहर्षयः स वनानि नदीः शैलान् गिरिप्रस्रवणानि च अतीत्य च तथा पार्थः सुभद्रासारथिस् तदा कौरवं विषयं प्राप्य विशङ्कः समपद्यत सोदर्याणां महाबाहुः सिंहाशयम् इवाशयम् दूराद् उपवनोपेतां दाशार्हप्रतिमां पुरीम् क्रोशमात्रे पुरस्यासीद् गोष्ठः पार्थस्य शोभनः तत्राभीयात् स बीभत्सुर् निविष्टो यदुकन्यया ततः सुभद्रां सत्कृत्य पार्थो वचनम् अब्रवीत् गोपालिकानां वेषेण गच्छ त्वं वृजिनं पुरम् कामव्याहारिणी कृष्णा रोचतां ते वचो मम दृष्ट्वा तु परुषं ब्रूयात् सह तत्र मया गताम् अन्यवेषेण तु गतां दृष्ट्वा सा त्वां प्रियं वदेत् यत् तु सा प्रथमं ब्रूयान् न तस्यास्ति निवर्तनम् तस्मान् मानं च दर्पं च व्यपनीय स्वयं व्रज तस्य तद् वचनं श्रुत्वा सुभद्रा प्रत्यभाषत एवम् एतत् करिष्यामि यथा त्वं पार्थ भाषसे सुभद्राया वचः श्रुत्वा सुप्रीतः पाकशासनिः गोपालान् स समानीय त्वरितो वाक्यम् अब्रवीत् तरुण्यः सन्ति यावन्त्यस् ताः सर्वा व्रजयोषितः आगच्छन्तु गमिष्यन्त्या भद्रया सह संगताः इन्द्रप्रस्थं पुरवरं कृष्णां द्रष्टुं यशस्विनीम् एतच् छ्रुत्वा तु गोपालैर् आनीता व्रजयोषितः ततस् ताभिः परिवृतां व्रजस्त्रीभिर् अनिन्दिताम् निवृत्तश् चार्जुनस् तत्र विवाहं कृतवांस् ततः उषित्वा तत्र कौन्तेयः संवत्सरपराः क्षपाः विहृत्य च यथाकामं पूजितो वृष्णिनन्दनैः पुष्करेषु ततः शिष्टं कालं वर्तितवान् प्रभुः पूर्णे तु द्वादशे वर्षे खाण्डवप्रस्थम् आविशत् अभिगम्य स राजानं विनयेन समाहितः अभ्यर्च्य ब्राह्मणान् पार्थो द्रौपदीम् अभिजग्मिवान् तं द्रौपदी प्रत्युवाच प्रणयात् कुरुनन्दनम् तत्रैव गच्छ कौन्तेय यत्र सा सात्वतात्मजा सुबद्धस्यापि भारस्य पूर्वबन्धः श्लथायते तथा बहुविधं कृष्णां विलपन्तीं धनंजयः सान्त्वयाम् आस भूयश् च क्षमयाम् आस चासकृत् सुभद्रां त्वरमाणश् च रक्तकौशेयवाससम् पार्थः प्रस्थापयाम् आस कृत्वा गोपालिकावपुः साधिकं तेन रूपेण शोभमाना यशस्विनी गोपालिकामध्यगता प्रययौ व्रजिनं पुरम् ततः पुरवरश्रेष्ठम् इन्द्रप्रस्थं यशस्विनी त्वरिता खाण्डवप्रस्थम् आससाद विवेश च भवनं श्रेष्ठम् आसाद्य वीरपत्नी वराङ्गना ववन्दे पृथुताम्राक्षी पृथां भद्रा यशस्विनी तां कुन्ती चारुसर्वाङ्गीम् उपाजिघ्रत मूर्धनि प्रीत्या परमया युक्ता आशीर्भिर् युञ्जतातुलाम् ततो ऽभिगम्य त्वरिता पूर्णेन्दुसदृशानना ववन्दे द्रौपदीं भद्रा प्रेष्याहम् इति चाब्रवीत् प्रत्युत्थाय च तां कृष्णा स्वसारं माधवस्य ताम् सस्वजे चावदत् प्रीता निःसपत्नो ऽस्तु ते पतिः वीरसूर् भव भद्रे त्वं भव भर्तृप्रिया तथा ओजसा निभृता बह्वीर् उवाच परमाशिषः तथैव मुदिता भद्रा ताम् उवाचैवम् अस्त्व् इति ततः सुभद्रां वार्ष्णेयीं परिष्वज्य शुभाननाम् अङ्के निवेश्य मुदिता वासुदेवं प्रशस्य तु ततः किलकिलाशब्दः क्षणेन समपद्यत हर्षाद् आनर्तयोधानाम् आसाद्य वृजिनं पुरम् देवपुत्रप्रकाशास् ते जाम्बूनदमयध्वजाः पृष्ठतो ऽनुययुः पार्थं पुरुहूतम् इवामराः गोभिर् उष्ट्रैः सदश्वैश् च युक्तानि बहुला जनाः ददृशुर् यानमुख्यानि दाशार्हपुरवासिनाम् ततः पुरवरे यूनां प्रहर्षः समजायत प्रभासाद् आगतं पार्थं दृष्ट्वा स्वम् इव बान्धवम् सो ऽभियाय पुरश्रेष्ठं दाशार्हगणसंवृतः पौरैः पुरवरैः प्रीत्या परया चाभिनन्दितः प्राप्य चान्तःपुरद्वारम् अवरुह्य धनंजयः ववन्दे धौम्यम् आसाद्य मातरं च धनंजयः स्पृष्ट्वा च चरणौ राज्ञो भीमस्य च धनंजयः यमाभ्यां वन्दितो हृष्टः सस्वजे ऽभिननन्द च ब्राह्मणप्रमुखान् सर्वान् भ्रातृभिः सह संगतः यथार्हं मानयाम् आस पौरजानपदान् अपि तत्रस्थान्य् अनुयात्राणि प्रदाय गुरवे वधूम् पूजयां चक्रुर् आसाद्य कुन्तीपुत्रं युधिष्ठिरम् पुरस्ताद् एव तेषां तु स महात्मा महायशाः पूजनार्हो ऽभवद् राजा यथैव गदपूर्वजः पाण्डवेन यथार्हं ते पूजार्हेण सुपूजिताः न्यविशन्ताभ्यनुज्ञाता राज्ञा तुष्टा यशस्विना ताम् अदीनाम् अदीनार्हां सुभद्रां प्रीतिवर्धिनीम् साक्षाच् छ्रियम् अमन्यन्त पार्थाः कृष्णसहोदराम् गुरूणां श्वशुराणां च देवराणां तथैव च सुभद्रा स्वेन वृत्तेन बभूव परमप्रिया ततस् ते हृष्टमनसः पाण्डवेया महारथाः कुन्ती च परमप्रीता बभूव जनमेजय युधिष्ठिरमुखाः प्रीता बभूवुर् जनमेजय कुन्ती च परमप्रीता कृष्णा च सततं तथा वैशंपायनः अथ शुश्राव निर्वृत्ते वृष्णीनां परमोत्सवे अर्जुनेन हृतां भद्रां शङ्खचक्रगदाधरः पुरस्ताद् एव पौराणां संशयः समजायत जानता वासुदेवेन वासितो भरतर्षभः लोकस्य विदितं ह्य् अद्य पूर्वं विपृथुना यथा सान्त्वयित्वाभ्यनुज्ञातो भद्रया सह संगतः दित्सता सोदरां तस्मै पतत्रिवरकेतुना अर्हते पुरुषेन्द्राय पार्थायायतलोचनाम् सत्कृत्य पाण्डवश्रेष्ठं प्रेषयाम् आस चार्जुनम् भद्रया सह बीभत्सुः प्रापितो व्रजिणः पुरम् श्रुत्वा तु पुण्डरीकाक्षः संप्राप्तं स्वपुरोत्तमम् अर्जुनं पाण्डवश्रेष्ठम् इन्द्रप्रस्थगतं तदा यियासुः खाण्डवप्रस्थम् आमन्त्रयत केशवः पूर्वं सत्कृत्य राजानम् आहुकं मधुसूदनः राजा विपृथुर् अक्रूरः संकर्षणविडूरथौ पित्रा च पुरुषेन्द्रेण पुरस्ताद् अभिमानितः संप्रीतः प्रीयमाणेन वृष्णिराज्ञा जनार्दनः अभिमन्त्र्याभ्यनुज्ञातो योजयाम् आस वाहिनीम् ततस् तु यानान्य् आसाद्य दाशार्हपुरवासिनाम् सिंहनादः प्रहृष्टानां क्षणेन समपद्यत योजयन्तः सदश्वांश् च यानयुग्यं रथांस् तथा गजांश् च परमप्रीताः समपद्यन्त वृष्णयः आजगाम विशुद्धात्मा सह रामेण केशवः वृष्ण्यन्धकमहामात्रैः सह वीरैर् महारथैः भ्रातृभिश् च कुमारैश् च योधैश् च शतशो वृतः सैन्येन महता शौरिर् अभिगुप्तः परंतपः तत्र दानपतिर् धीमान् आजगाम महायशाः अक्रूरो वृष्णिवीराणां सेनापतिर् अरिंदमः अनाधृष्टिर् महातेजा उद्धवश् च महायशाः साक्षाद् बृहस्पतेः शिष्यो महाबुद्धिर् महायशाः सत्यकः सात्यकिश् चैव कृतवर्मा च सात्वतः प्रद्युम्नश् चैव साम्बश् च निशठः शङ्कुर् एव च चारुदेष्णश् च विक्रान्तो झिल्ली विपृथुर् एव च सारणश् च महाबाहुर् गदश् च विदुषां वरः एते चान्ये च बहवो वृष्णिभोजान्धकास् तथा आजग्मुः खाण्डवप्रस्थम् आदाय हरणं बहु अन्वाहारं समादाय पृथग् वृष्णिपुरोगमाः प्रययुः सिंहनादेन सुभद्राम् अवलोककाः ते त्व् अदीर्घेण कालेन कृष्णेन सह यादवाः पुरम् आसाद्य पार्थानां परां प्रीतिम् अवाप्नुवन् ततो युधिष्ठिरो राजा श्रुत्वा माधवम् आगतम् प्रतिग्रहार्थं कृष्णस्य यमौ प्रास्थापयत् तदा ताभ्यां प्रतिगृहीतं तद् वृष्णिचक्रं समृद्धिमत् विवेश खाण्डवप्रस्थं पताकाध्वजशोभितम् सिक्तसंमृष्टपन्थानं पुष्पप्रकरशोभितम् चन्दनस्य रसैः शीतैः पुण्यगन्धैर् निषेवितम् दह्यतागुरुणा चैव देशे देशे सुगन्धिना गन्धोद्दामम् इवाकाशं बभूव जनमेजय सुसंमृष्टजनाकीर्णं वणिग्भिर् उपशोभितम् प्रतिपेदे महाबाहुः सह रामेण केशवः वृष्ण्यन्धकमहाभोजैः संवृतः पुरुषोत्तमः संपूज्यमानः पौरैश् च ब्राह्मणैश् च सहस्रशः विवेश भवनं राज्ञः पुरंदरगृहोपमम् युधिष्ठिरस् तु रामेण समागच्छद् यथाविधि मूर्ध्नि केशवम् आघ्राय पर्यष्वजत बाहुना तं प्रीयमाणं कृष्णस् तु विनयेनाभ्यपूजयत् भीमं च पुरुषव्याघ्रं विधिवत् प्रत्यपूजयत् तांश् च वृष्ण्यन्धकश्रेष्ठान् धर्मराजो युधिष्ठिरः प्रतिजग्राह सत्कारैर् यथाविधि यथोपगम् गुरुवत् पूजयाम् आस कांश् चित् कांश् चिद् वयस्यवत् कांश् चिद् अभ्यवदत् प्रेम्णा कैश् चिद् अप्य् अभिवादितः ततः पृथा च पार्थाश् च मुदिताः कृष्णया सह पुण्डरीकाक्षम् आसाद्य बभूवुर् मुदितेन्द्रियाः हर्षाद् अभिगतौ दृष्ट्वा संकर्षणजनार्दनौ बन्धुमन्तं पृथा पार्थं युधिष्ठिरम् अमन्यत ततः संकर्षणाक्रूराव् अप्रमेयाव् अदीनवत् भद्रवत्यै सुभद्रायै धनौघम् उपजह्रतुः प्रवालानि च वस्त्राणि भूषणानि सहस्रशः कुथास्तरपरिस्तोमान् व्याघ्राजिनपुरस्कृतान् विविधैश् चैव रत्नौघैर् दीप्तप्रभम् अजायत शयनासनयानैश् च युधिष्ठिरनिवेशनम् ततः प्रीतिकरो यूनां विवाहपरमोत्सवः भद्रवत्यै सुभद्रायै सप्तरात्रम् अवर्तत ततो ददौ वासुदेवो जन्यार्थे धनम् उत्तमम् हरणं वै सुभद्राया ज्ञातिदेयं महायशाः रथानां काञ्चनाङ्गानां किङ्किणीजालमालिनाम् चतुर्युजाम् उपेतानां सूतैः कुशलसंमतैः बाह्लीकसिन्धुजातानां काम्बोजानां शतं शतम् हरणार्थं ददौ कृष्णस् तुरगाणां जनेश्वर सहस्रं प्रददौ कृष्णो गवाम् अयुतम् एव च श्रीमान् माथुरदेश्यानां दोग्ध्रीणां पुण्यवर्चसाम् ददौ पार्थाय शुद्धात्मा सहस्राण्य् एकविंशतिम् वडवानां च शुभ्राणां चन्द्रांशुसमवर्चसाम् ददौ जनार्दनः प्रीत्या सहस्रं हेमभूषणम् गजानां नित्यमत्तानां सादिभिः समधिष्ठिताम् मेघाभानां ददौ कृष्णः सहस्रम् असितेक्षणः काम्बोजारट्टबाह्लीकसिन्धुजातांश् च भारत सुवर्णकृतसंनाहान् घण्टानादविनादितान् श्वेतचामरसंछन्नान् सर्वशस्त्रैर् अलंकृतान् जात्यश्वानां सहस्राणि पञ्चाशत् प्रददौ तदा हयानां चन्द्रसंकाशं श्यामकर्णान् ददौ शतम् तथैवाश्वतरीणां च दान्तानां वातरंहसाम् शतान्य् अञ्जनकेशीनां श्वेतानां पञ्च पञ्च च शिबिकानां सहस्रं च प्रददौ मधुसूदनः प्राच्यानां च प्रतीच्यानां बाह्लीकानां जनार्दनः ददौ शतसहस्रं वै कन्याधनम् अनुत्तमम् स्नापनोत्सादने चैव सुयुक्तं वयसान्वितम् . . . . . . . . भोजने पाचने तथा आधानोद्वासने चैव प्रेरणे यत्र यत्र च अनुलेपे च गन्धानां पेषणे च विचक्षणम् सर्वकर्मणि निष्णातं . . . . . . . . स्त्रीणां सहस्रं गौरीणां सुवेषाणां सुवर्चसाम् सुवर्णशतकण्ठीनाम् अरोगाणां सुवाससाम् परिचर्यासु दक्षाणां प्रददौ पुष्करेक्षणः पृष्ठ्यानाम् अपि चाश्वानां बाह्लिजानां जनार्दनः ददौ शतसहस्राख्यं कन्याधनम् अनुत्तमम् कृताकृतस्य मुख्यस्य कनकस्याग्निवर्चसः मनुष्यभारान् दाशार्हो ददौ दश जनार्दनः भूषणानां तु मुख्यानां शतभारं ददौ धनम् मुक्ताहाराणि शुभ्राणि शतसंख्यानि केशवः प्रवालानां सहस्रं च तथान्यान् अपि भारत सुवर्णपादपीठानां महार्हास्तरणांस् तथा पर्यङ्काणां सहस्रं च ददौ कन्याधनं तदा गजानां तु प्रभिन्नानां त्रिधा प्रस्रवतां मदम् गिरिकूटनिकाशानां समरेष्व् अनिवर्तिनाम् सुवर्णकक्ष्याग्रैवेयान् सुवर्णाङ्कुशभूषितान् कॢप्तानां पटुघण्टानां वराणां हेममालिनाम् हस्त्यारोहैर् उपेतानां सहस्रं साहसप्रियः स्थितानां बद्धघण्टानां गतानां गोचरं भुवः महिषीणाम् अदाद् भूरिपयसाम् अयुतद्वयम् प्रददौ वासुदेवस् तु वसुदेवाज्ञया तदा रामः पादग्राहणिकं ददौ पार्थाय लाङ्गली प्रीयमाणो हलधरः संबन्धप्रीतिम् आवहन् स महाधनरत्नौघो वस्त्रकम्बलफेनवान् महागजमहाग्राहः पताकाशैवलाकुलः पाण्डुसागरम् आविद्धः प्रविवेश महानदः पूर्णम् आपूरयंस् तेषां द्विषच् छोकावहो ऽभवत् प्रतिजग्राह तत् सर्वं धर्मराजो युधिष्ठिरः . . . . . . . . बलदेवस् ततो मधु दिवारात्रं च सततं सानुजैर् अधिकं मधु द्राक्षाप्रभवम् अत्यन्तं कापिशायनम् एव च दिव्यमाक्षिकसंमिश्रम् आसवं च मनोरमम् पद्मरागेन्द्रनीलादिभाजनेषु व्यवस्थितम् रौप्यसौवर्णमुख्येषु चषकेषु पपुः सुराम् पाण्डवो ऽपि च धर्मात्मा . . . . . . . . पूजयाम् आस तांश् चैव वृष्ण्यन्धकमहारथान् ते समेता महात्मानः कुरुवृष्ण्यन्धकोत्तमाः विजह्रुर् अमरावासे नराः सुकृतिनो यथा तत्र तत्र महापानैर् उत्कृष्टतलनादितैः . . . . . . . . आसवैश् च महाधनैः पीत्वा पीत्वा तु मैरेयान् . . . . . . . . यथायोगं यथाप्रीति विजह्रुः कुरुवृष्णयः एवम् उत्तमवीर्यास् ते विहृत्य दिवसान् बहून् पूज्य पार्थान् पृथां चैव भद्रां च यदुपुंगवाः केशवेनाभ्यनुज्ञाता गन्तुकामाः पुरीं प्रति पूजिताः कुरुभिर् जग्मुः पुनर् द्वारवतीं पुरीम् रामं पुरस्कृत्य ययुर् वृष्ण्यन्धकमहारथाः रामः सुभद्रां संपूज्य परिष्वज्य स्वसां तदा न्यासेति द्रौपदीम् उक्त्वा परिदाय महाबलः पितृष्वसायाश् चरणाव् अभिवाद्य ययौ तदा तस्मिन् काले पृथा प्रीता पूजयाम् आस तं तदा वृष्णिप्रवीराः पार्थैश् च पौरैश् च परमार्चिताः रत्नान्य् आदाय शुभ्राणि दत्तानि कुरुसत्तमैः वासुदेवस् तु पार्थेन तत्रैव सह भारत चतुर्विंशद् अहोरात्रं रममाणो महाबलः उवास नगरे रम्ये शक्रप्रस्थे महामनाः व्यचरद् यमुनाकूले पार्थेन सह भारत मृगान् विध्यन् वराहांश् च रेमे सार्धं किरीटिना ततः सुभद्रा सौभद्रं केशवस्य प्रिया स्वसा जयन्तम् इव पौलोमी द्युतिमन्तम् अजीजनत् दीर्घबाहुं महासत्त्वम् ऋषभाक्षम् अरिंदमम् सुभद्रा सुषुवे वीरम् अभिमन्युं नरर्षभम् अभीश् च मन्युमांश् चैव ततस् तम् अरिमर्दनम् अभिमन्युम् इति प्राहुर् आर्जुनिं पुरुषर्षभम् स सात्वत्याम् अतिरथः संबभूव धनंजयात् मखे निर्मथ्यमानाद् वा शमीगर्भाद् धुताशनः यस्मिञ् जाते महाबाहुः कुन्तीपुत्रो युधिष्ठिरः अयुतं गा द्विजातिभ्यः प्रादान् निष्कांश् च तावतः दयितो वासुदेवस्य बाल्यात् प्रभृति चाभवत् पितॄणां चैव सर्वेषां प्रजानाम् इव चन्द्रमाः जन्मप्रभृति कृष्णश् च चक्रे तस्य क्रियाः शुभाः स चापि ववृधे बालः शुक्लपक्षे यथा शशी चतुष्पादं दशविधं धनुर्वेदम् अरिंदमः अर्जुनाद् वेद वेदज्ञात् सकलं दिव्यमानुषम् विज्ञानेष्व् अपि चास्त्राणां सौष्ठवे च महाबलः क्रियास्व् अपि च सर्वासु विशेषान् अभ्यशिक्षयत् आगमे च प्रयोगे च चक्रे तुल्यम् इवात्मनः तुतोष पुत्रं सौभद्रं प्रेक्षमाणो धनंजयः सर्वसंहननोपेतं सर्वलक्षणलक्षितम् दुर्धर्षम् ऋषभस्कन्धं व्यात्ताननम् इवोरगम् सिंहदर्पं महेष्वासं मत्तमातङ्गविक्रमम् मेघदुन्दुभिनिर्घोषं पूर्णचन्द्रनिभाननम् कृष्णस्य सदृशं शौर्ये वीर्ये रूपे तथाकृतौ ददर्श पुत्रं बीभत्सुर् मघवान् इव तं यथा पाञ्चाल्य् अपि च पञ्चभ्यः पतिभ्यः शुभलक्षणा लेभे पञ्च सुतान् वीराञ् शुभान् पञ्चाचलान् इव युधिष्ठिरात् प्रतिविन्ध्यं सुतसोमं वृकोदरात् अर्जुनाच् छ्रुतकर्माणं शतानीकं च नाकुलिम् सहदेवाच् छ्रुतसेनम् एतान् पञ्च महारथान् पाञ्चाली सुषुवे वीरान् आदित्यान् अदितिर् यथा शास्त्रतः प्रतिविन्ध्यं तम् ऊचुर् विप्रा युधिष्ठिरम् परप्रहरणज्ञाने प्रतिविन्ध्यो भवत्व् अयम् सुते सोमसहस्रे तु सोमार्कसमतेजसम् सुतसोमं महेष्वासं सुषुवे भीमसेनतः श्रुतं कर्म महत् कृत्वा निवृत्तेन किरीटिना जातः पुत्रस् तवेत्य् एवं श्रुतकर्मा ततो ऽभवत् शतानीकस्य राजर्षेः कौरव्यः कुरुनन्दनः चक्रे पुत्रं सनामानं नकुलः कीर्तिवर्धनम् ततस् त्व् अजीजनत् कृष्णा नक्षत्रे वह्निदैवते सहदेवात् सुतं तस्माच् छ्रुतसेनेति तं विदुः एकवर्षान्तरास् त्व् एव द्रौपदेया यशस्विनः अन्वजायन्त राजेन्द्र परस्परहिते रताः जातकर्माण्य् आनुपूर्व्याच् चूडोपनयनानि च चकार विधिवद् धौम्यस् तेषां भरतसत्तम कृत्वा च वेदाध्ययनं ततः सुचरितव्रताः जगृहुः सर्वम् इष्वस्त्रम् अर्जुनाद् दिव्यमानुषम् देवगर्भोपमैः पुत्रैर् व्यूढोरस्कैर् महाबलैः अन्विता राजशार्दूल पाण्डवा मुदम् आप्नुवन् वैशंपायन उवाच इन्द्रप्रस्थे वसन्तस् ते जघ्नुर् अन्यान् नराधिपान् शासनाद् धृतराष्ट्रस्य राज्ञः शांतनवस्य च आश्रित्य धर्मराजानं सर्वलोको ऽवसत् सुखम् पुण्यलक्षणकर्माणं स्वदेहम् इव देहिनः स समं धर्मकामार्थान् सिषेवे भरतर्षभः त्रीन् इवात्मसमान् बन्धून् बन्धुमान् इव मानयन् तेषां समविभक्तानां क्षितौ देहवताम् इव बभौ धर्मार्थकामानां चतुर्थ इव पार्थिवः अध्येतारं परं वेदाः प्रयोक्तारं महाध्वराः रक्षितारं शुभं वर्णा लेभिरे तं जनाधिपम् चत्वार इव ते वर्णा रेमिरे तं जनाधिपाः अधिष्ठानवती लक्ष्मीः परायणवती मतिः बन्धुमान् अखिलो धर्मस् तेनासीत् पृथिवीक्षिता भ्रातृभिः सहितो राजा चतुर्भिर् अधिकं बभौ प्रयुज्यमानैर् विततो वेदैर् इव महाध्वरः तं तु धौम्यादयो विप्राः परिवार्योपतस्थिरे बृहस्पतिसमा मुख्याः प्रजापतिम् इवामराः धर्मराजे अतिप्रीत्या पूर्णचन्द्र इवामले प्रजानां रेमिरे तुल्यं नेत्राणि हृदयानि च रञ्जयाम् आस वै प्रीत्या प्रीतिदानैर् अनुत्तमैः न तु केवलदैवेन प्रजा भावेन रेमिरे यद् बभूव मनःकान्तं कर्मणा स चकार तत् न ह्य् अयुक्तं न चासत्यं नानृतं न च विप्रियम् भाषितं चारुभाषस्य जज्ञे पार्थस्य धीमतः स हि सर्वस्य लोकस्य हितम् आत्मन एव च राजते सकला पृथ्वी पाण्डवेन बलीयसा पुष्पितानि वनानीव धान्यलक्ष्म्या च भारत चिकीर्षुः सुमहातेजा रेमे भरतसत्तमः तथा तु मुदिताः सर्वे पाण्डवा विगतज्वराः अवसन् पृथिवीपालांस् त्रासयन्तः स्वतेजसा ततः कतिपयाहस्य बीभत्सुः कृष्णम् अब्रवीत् उष्णानि कृष्ण वर्तन्ते गच्छामो यमुनां प्रति सुहृज्जनवृतास् तत्र विहृत्य मधुसूदन सायाह्ने पुनर् एष्यामो रोचतां ते जनार्दन वासुदेव उवाच कुन्तीमातर् ममाप्य् एतद् रोचते यद् वयं जले सुहृज्जनवृताः पार्थ विहरेम यथासुखम् वैशंपायन उवाच आमन्त्र्य धर्मराजानम् अनुज्ञाप्य च भारत जग्मतुः पार्थगोविन्दौ सुहृज्जनवृतौ ततः विहरन् खाण्डवप्रस्थे काननेषु च माधवः पुष्पितोपवनां रम्यां ददर्श यमुनां नदीम् आलयं सर्वभूतानां खाण्डवं खड्गचर्मभृत् ददर्श स तु तं देशं सहितः सव्यसाचिना ऋक्षगोमायुसंघुष्टं हंससारसनादितम् शाखामृगगणैर् जुष्टं निकेतं सर्वरक्षसाम् द्वीपिगोमायुसिंहर्क्षवराहरुरुवारणैः नानामृगसहस्रैश् च पक्षिभिश् च समावृतम् माननार्हं च सर्वेषां देवदानवरक्षसाम् आलयं पन्नगेन्द्रस्य तक्षकस्य महात्मनः वेणुशाल्मलिमाल्याङ्गैर् उपेतं वेत्रसंवृतम् शाकपद्मकतालैश् च शतशाखैश् च रोहिणैः निरुद्देशतमप्रख्यम् आवृतं गजसंस्थितैः गुल्मैः कीचकवेणूनाम् आशीविषनिषेवितम् विगतार्कमहाभोगव्रततिद्रुमसंकटम् स्नुहिवेत्रकुलिङ्गाक्षैर् हिन्तालैश् च समावृतम् व्यालदंष्ट्रिगणाकीर्णं वर्जितं सर्वमानुषैः रक्षसां भुजगेन्द्राणां पक्षिणां च महालयम् भूतानां सर्वदेवेशः सर्वलोकविभागवित् पीताम्बरधरो देवस् तद् वनं बहुधा चरन् सद्रुमस्य सयक्षस्य सभूतगणपक्षिणः खाण्डवस्य विनाशं तं ददर्श मधुसूदनः विहारदेशं संप्राप्य नानाद्रुमवद् उत्तमम् गृहैर् उच्चावचैर् युक्तं पुरंदरगृहोपमम् भक्ष्यैर् भोज्यैश् च पेयैश् च रसवद्भिर् महाधनैः माल्यैश् च विविधैर् युक्तं युक्तं वार्ष्णेयपार्थयोः आविवेशतुर् आपूर्णं रत्नैर् उच्चावचैः शुभैः यथोपजोषं सर्वश् च जनश् चिक्रीड भारत स्त्रियश् च विपुलश्रोण्यश् चारुपीनपयोधराः मदस्खलितगामिन्यश् चिक्रीडुर् वामलोचनाः वने काश् चिज् जले काश् चित् काश् चिद् वेश्मसु चाङ्गनाः यथादेशं यथाप्रीति चिक्रीडुः कृष्णपार्थयोः वासुदेवप्रिया नित्यं सत्यभामा च भामिनी द्रौपदी च सुभद्रा च वासांस्य् आभरणानि च प्रयच्छेतां महार्हाणि स्त्रीणां ते स्म मदोत्कटे काश् चित् प्रहृष्टा ननृतुश् चुक्रुशुश् च तथापराः जहसुश् चापरा नार्यः पपुश् चान्या वरासवम् रुरुदुश् चापरास् तत्र प्रजघ्नुश् च परस्परम् मन्त्रयाम् आसुर् अन्याश् च रहस्यानि परस्परम् काश् चिन् माल्यानि चिन्वन्ति काश् चिन् माल्यानि दध्रिरे वेणुवीणामृदङ्गानां मनोज्ञानां च सर्वशः शब्देनापूर्यते ह स्म तद् वनं सुसमृद्धिमत् तस्मिंस् तथा वर्तमाने कुरुदाशार्हनन्दनौ समीपे जग्मतुः कं चिद् उद्देशं सुमनोहरम् तत्र गत्वा महात्मानौ कृष्णौ परपुरंजयौ महार्हासनयो राजंस् ततस् तौ संनिषीदतुः तत्र पूर्वव्यतीतानि विक्रान्तानि रतानि च बहूनि कथयित्वा तौ रेमाते पार्थमाधवौ तत्रोपविष्टौ मुदितौ नाकपृष्ठे ऽश्विनाव् इव अभ्यगच्छत् तदा विप्रो वासुदेवधनंजयौ सिंहासनसमीपे तौ वासुदेवधनंजयौ बृहच्छालप्रतीकाशः प्रतप्तकनकप्रभः हरिपिङ्गो हरिश्मश्रुः प्रमाणायामतः समः तरुणादित्यसंकाशः कृष्णवासा जटाधरः पद्मपत्राननः पिङ्गस् तेजसा प्रज्वलन्न् इव जगाम तौ कृष्णपार्थौ दिधक्षन् खाण्डवं वनम् उपसृष्टं तु तं कृष्णौ भ्राजमानं द्विजोत्तमम् दृष्ट्वा जगाम मनसा पावको ऽयम् इति प्रभुः अर्जुनो वासुदेवश् च तूर्णम् उत्पत्य तस्थतुः वैशंपायन उवाच सो ऽब्रवीद् अर्जुनं चैव वासुदेवं च सात्वतम् लोकप्रवीरौ तिष्ठन्तौ खाण्डवस्य समीपतः ब्राह्मणो बहुभोक्तास्मि भुञ्जे ऽपरिमितं सदा भिक्षे वार्ष्णेयपार्थौ वाम् एकां तृप्तिं प्रयच्छताम् एवम् उक्तौ तम् अब्रूतां ततस् तौ कृष्णपाण्डवौ केनान्नेन भवांस् तृप्येत् तस्यान्नस्य यतावहे एवम् उक्तः स भगवान् अब्रवीत् ताव् उभौ ततः भाषमाणौ तदा वीरौ किम् अन्नं क्रियताम् इति नाहम् अन्नं बुभुक्षे वै पावकं मां निबोधतम् यदन्नम् अनुरूपं मे तद् युवां संप्रयच्छतम् इदम् इन्द्रः सदा दावं खाण्डवं परिरक्षति तं न शक्नोम्य् अहं दग्धुं रक्ष्यमाणं महात्मना वसत्य् अत्र सखा तस्य तक्षकः पन्नगः सदा सगणस् तत्कृते दावं परिरक्षति वज्रभृत् तत्र भूतान्य् अनेकानि रक्ष्यन्ते स्म प्रसङ्गतः बहूनि घोररूपाणि उग्रवीर्याणि चैव हि तं दिधक्षुर् न शक्नोमि दग्धुं शक्रस्य तेजसा स मां प्रज्वलितं दृष्ट्वा मेघाम्भोभिः प्रवर्षति ततो दग्धुं न शक्नोमि दिधक्षुर् दावम् ईप्सितम् स युवाभ्यां सहायाभ्याम् अस्त्रविद्भ्यां समागतः दहेयं खाण्डवं दावम् एतद् अन्नं वृतं मया युवां ह्य् उदकधारास् ता भूतानि च समन्ततः उत्तमास्त्रविदो सम्यक् सर्वतो वारयिष्यथः जनमेजय उवाच वैशंपायन उवाच रुद्र उवाच वैशंपायन उवाच वैशंपायन उवाच किमर्थं भगवान् अग्निः खाण्डवं दग्धुम् इच्छति रक्ष्यमाणं महेन्द्रेण नानासत्त्वसमायुतम् न ह्य् एतत् कारणं ब्रह्मन्न् अल्पं संप्रतिभाति मे यद् ददाह सुसंक्रुद्धः खाण्डवं हव्यवाहनः एतद् विस्तरशो ब्रह्मञ् श्रोतुम् इच्छामि तत्त्वतः खाण्डवस्य यथा दाहः पुरा समभवन् मुने हन्त ते कथयिष्यामि पुराणम् ऋषिसंस्तुतम् कथाम् इमां नरश्रेष्ठ खाण्डवस्य विनाशिनीम् पौराणः श्रूयते तात राजा हरिहयोपमः श्वेतकिर् नाम विख्यातो बलविक्रमसंयुतः यज्वा दानपतिर् धीमान् यथा नान्यो ऽस्ति कश् चन ईजे स च महासत्रैः क्रतुभिश् चाप्तदक्षिणैः तस्य नान्याभवद् बुद्धिर् दिवसे दिवसे नृप सत्रे क्रियासमारम्भे दानेषु विविधेषु च तस्यैवं वर्तमानस्य कदा चित् कालपर्यये सत्रम् आहर्तुकामस्य संवत्सरशतं किल ऋत्विजो नाभ्यपद्यन्त समाहर्तुं महात्मनः स तु राजाकरोद् यत्नं महान्तं ससुहृज्जनः प्रणिपातेन सान्त्वेन दानेन च महायशाः ऋत्विजो ऽनुनयाम् आस भूयो भूयस् त्व् अतन्द्रितः ते चास्य तम् अभिप्रायं न चक्रुर् अमितौजसः स चाश्रमस्थान् राजर्षिस् तान् उवाच रुषान्वितः यद्य् अहं पतितो विप्राः शुश्रूषायां न च स्थितः आशु त्याज्यो ऽस्मि युष्माभिर् ब्राह्मणैश् च जुगुप्सितः तन् नार्हथ क्रतुश्रद्धां व्याघातयितुम् उत्तमाम् अस्थाने वा परित्यागं कर्तुं मे द्विजसत्तमाः प्रपन्न एव वो विप्राः प्रसादं कर्तुम् अर्हथ सान्त्वदानादिभिर् वाक्यैस् तत्त्वतः कार्यवत्तया प्रसादयित्वा वक्ष्यामि यन् नः कार्यं द्विजोत्तमाः अथवाहं परित्यक्तो भवद्भिर् द्वेषकारणात् ऋत्विजो ऽन्यान् गमिष्यामि याजनार्थं तपोधनाः एतावद् उक्त्वा वचनं विरराम स पार्थिवः यदा न शेकू राजानं याजनार्थं परंतप ततस् ते याजकाः क्रुद्धास् तम् ऊचुर् नृपसत्तमम् तव कर्माण्य् अजस्रं वै वर्तन्ते पार्थिवोत्तम ततो वयं परिश्रान्ताः सततं कर्मवाहिनः श्रमाद् अस्मात् परिश्रान्तान् स त्वं नस् त्यक्तुम् अर्हसि बुद्धिमोहं समास्थाय त्वरासंभावितो ऽनघ गच्छ रुद्रसकाशं त्वं स हि त्वां याजयिष्यति साधिक्षेपं वचः श्रुत्वा संक्रुद्धः श्वेतकिर् नृपः कैलासं पर्वतं गत्वा तप उग्रं समास्थितः आराधयन् महादेवं नियतः संशितव्रतः उपवासपरो राजा दीर्घकालम् अतिष्ठत कदा चिद् द्वादशे काले कदा चिद् अपि षोडशे आहारम् अकरोद् राजा मूलानि च फलानि च ऊर्ध्वबाहुस् त्व् अनिमिषस् तिष्ठन् स्थाणुर् इवाचलः षण्मासान् अभवद् राजा श्वेतकिः सुसमाहितः तं तथा नृपशार्दूलं तप्यमानं महत् तपः शंकरः परया प्रीत्या दर्शयाम् आस भारत उवाच चैनं भगवान् स्निग्धगम्भीरया गिरा प्रीतो ऽस्मि राजशार्दूल तपसा ते परंतप वरं वृणीष्व भद्रं ते यं त्वम् इच्छसि पार्थिव एतच् छ्रुत्वा तु वचनं रुद्रस्यामिततेजसः प्रणिपत्य महात्मानं राजर्षिः प्रत्यभाषत यदि मे भगवान् प्रीतः सर्वलोकनमस्कृतः स्वयं मां देवदेवेश याजयस्व सुरेश्वर एतच् छ्रुत्वा तु वचनं राज्ञा तेन प्रभाषितम् उवाच भगवान् प्रीतः स्मितपूर्वम् इदं वचः नास्माकम् एतद्विषये वर्तते याजनं प्रति त्वया च सुमहत् तप्तं तपो राजन् वरार्थिना याजयिष्यामि राजंस् त्वां समयेन परंतप समा द्वादश राजेन्द्र ब्रह्मचारी समाहितः सततं त्व् आज्यधाराभिर् यदि तर्पयसे ऽनलम् कामं प्रार्थयसे यं त्वं मत्तः प्राप्स्यसि तं नृप एवम् उक्तस् तु रुद्रेण श्वेतकिर् मनुजाधिपः तथा चकार तत् सर्वं यथोक्तं शूलपाणिना पूर्णे तु द्वादशे वर्षे पुनर् आयान् महेश्वरम् दृष्ट्वैव च स राजानं शंकरो लोकभावनः उवाच परमप्रीतः श्वेतकिं नृपसत्तमम् तोषितो ऽहं नृपश्रेष्ठ त्वयेह स्वेन कर्मणा याजनं ब्राह्मणानां तु विधिदृष्टं परंतप अतो ऽहं त्वां स्वयं नाद्य याजयामि परंतप ममांशस् तु क्षितितले महाभागो द्विजोत्तमः दुर्वासा इति विख्यातः स हि त्वां याजयिष्यति मन्नियोगान् महातेजाः संभाराः संभ्रियन्तु ते एतच् छ्रुत्वा तु वचनं रुद्रेण समुदाहृतम् स्वपुरं पुनर् आगम्य संभारान् पुनर् आर्जयत् ततः संभृतसंभारो भूयो रुद्रम् उपागमत् संभृता मम संभाराः सर्वोपकरणानि च त्वत्प्रसादान् महादेव श्वो मे दीक्षा भवेद् इति एतच् छ्रुत्वा तु वचनं तस्य राज्ञो महात्मनः दुर्वाससं समाहूय रुद्रो वचनम् अब्रवीत् एष राजा महाभागः श्वेतकिर् द्विजसत्तम एनं याजय विप्रेन्द्र मन्नियोगेन भूमिपम् बाढम् इत्य् एव वचनं रुद्रम् ऋषिर् उवाच ह ततः सत्रं समभवत् तस्य राज्ञो महात्मनः यथाविधि यथाकालं यथोक्तं बहुदक्षिणम् तस्मिन् परिसमाप्ते तु राज्ञः सत्रे महात्मनः दुर्वाससाभ्यनुज्ञाता विप्रतस्थुः स्म याजकाः ये तत्र दीक्षिताः सर्वे सदस्याश् च महौजसः सो ऽपि राजा महाभागः स्वपुरं प्राविशत् तदा ततो भगवतो वह्नेर् विकारः समजायत तेजसा विप्रहीणश् च ग्लानिश् चैनं समाविशत् स लक्षयित्वा चात्मानं तेजोहीनं हुताशनः जगाम सदनं पुण्यं ब्रह्मणो लोकपूजितम् तत्र ब्राह्मणम् आसीनम् इदं वचनम् अब्रवीत् तेजसा विप्रहीणो ऽस्मि बलेन च जगत्पते इच्छेयं त्वत्प्रसादेन स्वात्मनः प्रकृतिं स्थिराम् एतच् छ्रुत्वा तु वचनं भगवान् सर्वलोककृत् हव्यवाहम् इदं वाक्यम् उवाच प्रहसन्न् इव त्वया द्वादश वर्षाणि वसोर् धाराहुतं हविः उपयुक्तं महाभाग तेन त्वां ग्लानिर् आविशत् तेजसा विप्रहीणत्वात् सहसा हव्यवाहन मा गमस् त्वं व्यथां वह्ने प्रकृतिस्थो भविष्यसि पुरा देवनियोगेन यत् त्वया भस्मसात् कृतम् आलयं देवशत्रूणां सुघोरं खाण्डवं वनम् तत्र सर्वाणि सत्त्वानि निवसन्ति विभावसो तेषां त्वं मेदसा तृप्तः प्रकृतिस्थो भविष्यसि गच्छ शीघ्रं प्रदग्धुं त्वं ततो मोक्ष्यसि किल्बिषात् एतच् छ्रुत्वा तु वचनं परमेष्ठिमुखाच् च्युतम् उत्तमं जवम् आस्थाय प्रदुद्राव हुताशनः आगम्य खाण्डवं दावम् उत्तमं जवम् आस्थितः सहसा प्रज्वलत्य् अग्निः क्रुद्धो वायुसमीरितः प्रदीप्तं खाण्डवं दृष्ट्वा ये स्म तत्र निवासिनः परमं यत्नम् आतिष्ठन् पावकस्य प्रशान्तये करैस् तु करिणः शीघ्रं जलम् आदाय सत्वराः सिषिचुः पावकं क्रुद्धाः शतशो ऽथ सहस्रशः बहुशीर्षास् तथा नागाः शिरोभिर् जलवृष्टयः मुमुचुः पावकाभ्याशे सत्वराः क्रोधमूर्च्छिताः तथैवान्यानि सत्त्वानि नानाप्रहरणोद्यमैः विलयं पावकं शीघ्रम् अनयन् भरतोत्तम अनेन तु प्रकारेण भूयो भूयश् च प्रज्वलन् सप्तकृत्वः प्रशमितः खाण्डवे हव्यवाहनः स तु नैराश्यम् आपन्नः सदा ग्लानिसमन्वितः पितामहम् उपागच्छत् संक्रुद्धो हव्यवाहनः तच् च सर्वं यथावृत्तं ब्रह्मणे संन्यवेदयत् उवाच चैनं भगवान् मुहूर्तं स विचिन्त्य तु उपायः परिदृष्टो मे यथा त्वं धक्ष्यसे ऽनल खाण्डवं दावम् अद्यैव मिषतो ऽस्य शतक्रतोः नरनारायणौ यौ तौ पूर्वदेवौ विभावसो संप्राप्तौ मानुषं लोकं कार्यार्थं हि दिवौकसाम् अर्जुनं वासुदेवं च यौ तौ लोको ऽभिमन्यते ताव् एतौ सहितौ वह्ने खाण्डवस्य समीपतः तौ त्वं याचस्व साहाय्ये दाहार्थं खाण्डवस्य च ततो धक्ष्यसि तं दावं रक्षितं त्रिदशैर् अपि तौ तु सत्त्वानि सर्वाणि यत्नतो वारयिष्यतः देवराजं च सहितौ तत्र मे नास्ति संशयः एतच् छ्रुत्वा तु वचनं त्वरितो हव्यवाहनः कृष्णपार्थाव् उपागम्य यम् अर्थं त्व् अभ्यभाषत तं ते कथितवान् अस्मि पूर्वम् एव नृपोत्तम एवम् उक्ते प्रत्युवाच बीभत्सुर् जातवेदसम् अब्रवीन् नृपशार्दूल तत्कालसदृशं वचः दिधक्षुं खाण्डवं दावम् अकामस्य शतक्रतोः उत्तमास्त्राणि मे सन्ति दिव्यानि च बहूनि च यैर् अहं शक्नुयां योद्धुम् अपि वज्रधरान् बहून् धनुर् मे नास्ति भगवन् बाहुवीर्येण संमितम् कुर्वतः समरे यत्नं वेगं यद् विषहेत मे शरैश् च मे ऽर्थो बहुभिर् अक्षयैः क्षिप्रम् अस्यतः उपासंगौ च मे न स्तः प्रतियोद्धुं पुरंदरम् न हि वोढुं रथः शक्तः शरान् मम यथेप्सितान् अश्वांश् च दिव्यान् इच्छेयं पाण्डुरान् वातरंहसः रथं च मेघनिर्घोषं सूर्यप्रतिमतेजसम् तथा कृष्णस्य वीर्येण नायुधं विद्यते समम् येन नागान् पिशाचांश् च निहन्यान् माधवो रणे उपायं कर्मणः सिद्धौ भगवन् वक्तुम् अर्हसि निवारयेयं येनेन्द्रं वर्षमाणं महावने पौरुषेण तु यत् कार्यं तत् कर्तारौ स्व पावक करणानि समर्थानि भगवन् दातुम् अर्हसि वैशंपायन उवाच एवम् उक्तस् तु भगवान् धूमकेतुर् हुताशनः चिन्तयाम् आस वरुणं लोकपालं दिदृक्षया आदित्यम् उदके देवं निवसन्तं जलेश्वरम् स च तच् चिन्तितं ज्ञात्वा दर्शयाम् आस पावकम् तम् अब्रवीद् धूमकेतुः प्रतिपूज्य जलेश्वरम् चतुर्थं लोकपालानां रक्षितारं महेश्वरम् स ख्यातमात्रो वरुणः समायातो महाद्युतिः अथेमं नृपशार्दूल वह्निर् वचनम् अब्रवीत् सोमेन राज्ञा यद् दत्तं धनुश् चैवेषुधी च ते तत् प्रयच्छोभयं शीघ्रं रथं च कपिलक्षणम् त्वम् अस्मै सव्यसाचिने दिव्यैर् अश्वैः समायुक्तं कार्यं हि सुमहत् पार्थो गाण्डीवेन करिष्यति चक्रेण वासुदेवश् च तन् मदर्थे प्रदीयताम् ददानीत्य् एव वरुणः पावकं प्रत्यभाषत ततो ऽद्भुतं महावीर्यं यशःकीर्तिविवर्धनम् सर्वशस्त्रैर् अनाधृष्यं सर्वशस्त्रप्रमाथि च सर्वायुधमहामात्रं परसेनाप्रधर्षणम् एकं शतसहस्रेण संमितं राष्ट्रवर्धनम् चित्रम् उच्चावचैर् वर्णैः शोभितं श्लक्ष्णम् अव्रणम् देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः तद् दिव्यं धनुषां श्रेष्ठं ब्रह्मणा निर्मितं पुरा प्रादाद् वै धनुरत्नं तद् अक्षय्यौ च महेषुधी रथं च दिव्याश्वयुजं कपिप्रवरकेतनम् उपेतं राजतैर् अश्वैर् गान्धर्वैर् हेममालिभिः पाण्डुराभ्रप्रतीकाशैर् मनोवायुसमैर् जवे सर्वोपकरणैर् युक्तम् अजय्यं देवदानवैः भानुमन्तं महाघोषं सर्वभूतमनोहरम् ससर्ज यत् स्वतपसा भौवनो भुवनप्रभुः प्रजापतिर् अनिर्देश्यं यस्य रूपं रवेर् इव यं स्म सोमः समारुह्य दानवान् अजयत् प्रभुः नगमेघप्रतीकाशं ज्वलन्तम् इव च श्रिया सुरारियोषित्सौवर्णश्रुतिताटङ्कनाशनम् आश्रिता तं रथश्रेष्ठं शक्रायुधसमा शुभा तापनीया सुरुचिरा ध्वजयष्टिर् अनुत्तमा तस्यां तु वानरो दिव्यः सिंहशार्दूललक्षणः हनूमान् नाम तेजस्वी कामरूपी समीरजः नादेन च महारौद्रो भूतकोटिसमावृतः यः पुरा वायुसंभूतो रक्षोगणविनाशनः विनर्दन्न् इव तत्रस्थः संस्थितो मूर्ध्न्य् अशोभत ध्वजे भूतानि तत्रासन् विविधानि महान्ति च नादेन रिपुसैन्यानां येषां संज्ञा प्रणश्यति स तं नानापताकाभिः शोभितं रथम् उत्तमम् प्रदक्षिणम् उपावृत्य दैवतेभ्यः प्रणम्य च संनद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान् विष्णोर् आज्ञां गृहीत्वा तु फल्गुनः परवीरहा आरुरोह रथं पार्थो विमानं सुकृती यथा तच् च दिव्यं धनुःश्रेष्ठं ब्रह्मणा निर्मितं पुरा गाण्डीवम् उपसंगृह्य बभूव मुदितो ऽर्जुनः हुताशनं नमस्कृत्य ततस् तद् अपि वीर्यवान् जग्राह बलम् आस्थाय ज्यया च युयुजे धनुः मौर्व्यां तु युज्यमानायां बलिना पाण्डवेन ह ये ऽशृण्वन् कूजितं तत्र तेषां वै व्यथितं मनः लब्ध्वा रथं धनुश् चैव तथाक्षय्यौ महेषुधी बभूव कल्यः कौन्तेयः प्रहृष्टः साह्यकर्मणि वज्रनाभं ततश् चक्रं ददौ कृष्णाय पावकः आग्नेयम् अस्त्रं दयितं स च कल्यो ऽभवत् तदा अब्रवीत् पावकश् चैनम् एतेन मधुसूदन अमानुषान् अपि रणे विजेष्यसि न संशयः अनेन त्वं मनुष्याणां देवानाम् अपि चाहवे रक्षःपिशाचदैत्यानां नागानां चाधिकः सदा भविष्यसि न संदेहः प्रवरारिनिबर्हणे तवैतच् चक्रम् अस्त्रं यन् नामतश् च सुदर्शनम् तच् चास्मिन्न् अर्पय विभो दैत्यघाते यथा पुरा चक्रेण भस्मसात् सर्वं विसृष्टेन तु वीर्यवान् क्षिप्तं क्षिप्तं रणे चैतत् त्वया माधव शत्रुषु हत्वाप्रतिहतं संख्ये पाणिम् एष्यति ते पुनः वरुणश् च ददौ तस्मै गदाम् अशनिनिःस्वनाम् दैत्यान्तकरणीं घोरां नाम्ना कौमोदकीं हरेः तदाग्नेर् अनुमोदाय सखा सख्युः प्रियंकरः उवाच पार्थं वार्ष्णेयः प्रीयमाणो धनंजयम् अजितस् त्वम् अजेयश् च जेता त्वम् असि पाण्डव अजितः फाल्गुनेत्य् उक्त्वा रश्मीन् आदाय वीर्यवान् जितम् इत्य् एव बीभत्सुं प्रत्युवाच जनार्दनः प्रदक्षिणं परिक्रम्य करेण रथम् अस्पृशत् प्रीयमाणो रथे तस्मिन्न् अभवत् कृष्णसारथिः पावकाय नमस्कृत्य ववन्दे गाण्डिवं धनुः रथम् आस्थाय बीभत्सुश् चक्रे ऽधिज्यं महद् धनुः मौर्वी कृष्णस्य बाहुभ्यां विसृजद् भृशदारुणम् कूजन्ती सापतत् तूर्णं सिंहीव मृगगृद्धिनी ततः पावकम् अब्रूतां प्रहृष्टौ कृष्णपाण्डवौ कृतास्त्रौ शस्त्रसंपन्नौ रथिनौ ध्वजिनाव् अपि कल्यौ स्वो भगवन् योद्धुम् अपि सर्वैः सुरासुरैः किं पुनर् वज्रिणैकेन पन्नगार्थे युयुत्सुना अर्जुन उवाच चक्रम् अस्त्रं च वार्ष्णेयो विसृजन् युधि वीर्यवान् त्रिषु लोकेषु तन् नास्ति यन् न जीयाज् जनार्दनः गाण्डीवं धनुर् आदाय तथाक्षय्यौ महेषुधी अहम् अप्य् उत्सहे लोकान् विजेतुं युधि पावक स सुरासुरमानवान् किं पुनर् वज्रिणैकं तु सर्वतः परिवार्यैनं दावेन महता प्रभो कामं संप्रज्वलाद्यैव कल्यौ स्वः साह्यकर्मणि यदि खाण्डवम् एष्यति प्रमादात् सगणो वा परिरक्षितुं महेन्द्रः शरताडितखण्डकुण्डलानां कदनं द्रक्ष्यति देववाहिनीनाम् वैशंपायन उवाच एवम् उक्तः स भगवान् दाशार्हेणार्जुनेन च तैजसं रूपम् आस्थाय दावं दग्धुं प्रचक्रमे सर्वतः परिवार्याथ सप्तार्चिर् ज्वलनस् तदा ददाह खाण्डवं क्रुद्धो युगान्तम् इव दर्शयन् परिगृह्य समाविष्टस् तद् वनं भरतर्षभ मेघस्तनितनिर्घोषं सर्वभूतानि निर्दहन् दह्यतस् तस्य विबभौ रूपं दावस्य भारत मेरोर् इव नगेन्द्रस्य काञ्चनस्य महाद्युतेः वैशंपायन उवाच तौ रथाभ्यां नरव्याघ्रौ दावस्योभयतः स्थितौ दिक्षु सर्वासु भूतानां चक्राते कदनं महत् जनमेजयः वैशंपायनः किमर्थं भगवान् अग्निः खाण्डवं दग्धुम् इच्छति एतद् इच्छाम्य् अहं श्रोतुं वद ब्राह्मणसत्तम श्वेतो नाम महाराज आसीद् इक्ष्वाकुवंशजः यजतस् तस्य राज्ञस् तु सत्रं द्वादशवार्षिकम् निरन्तराज्यधारौघैर् हूयमानो विभावसुः तत्र पाण्डुच्छविर् अभूत् पाण्डुरोगेण धिष्ठितः नान्यस्य हविर् आदातुं शक्तो ऽभूद् धव्यवाहनः श्रान्तः श्रान्ततनुर् नित्यं ततो ब्रह्माणम् आगमत् गत्वा पितामहं देवं नमस्कृत्वा च पावकः विज्ञापयाम् आस तदा स्वशरीरस्य वेदनाम् ब्रह्मोवाच तदा ज्ञात्वा दग्ध्वा खाण्डवसत्रकम् अरोगः सिद्धतेजाश् च भविष्यसि न संशयः उक्तमात्रे तदा तेन ब्रह्मणा परमेष्ठिना खाण्डवं दग्धुकामः सन् गत्वा दग्धुं प्रचक्रमे वनपालैस् तदा देवैः शमितो वारिणागमत् सप्तकृत्वो विघातं च वहन् खाण्डवदाहकम् ततो ब्रह्माणम् अगमत् पुनर् ज्ञापितवान् प्रभुम् तेनापि च समादिष्टस् तद् धि पाण्डरविग्रहः नरनारायणौ यौ तु द्वापरे कृष्णफल्गुनौ भविष्यन्तौ महात्मानौ खाण्डवस्य समीपतः तौ प्रार्थय महाशूरौ साहाय्यं ते करिष्यतः यत्र यत्र हि दृश्यन्ते प्राणिनः खाण्डवालयाः पलायन्तस् तत्र तत्र तौ वीरौ पर्यधावताम् छिद्रं हि न प्रपश्यन्ति रथयोर् आशुविक्रमात् आविद्धाव् इव दृश्येते रथिनौ तौ रथोत्तमौ खाण्डवे दह्यमाने तु भूतान्य् अथ सहस्रशः उत्पेतुर् भैरवान् नादान् विनदन्तो दिशो दश दग्धैकदेशा बहवो निष्टप्ताश् च तथापरे स्फुटिताक्षा विशीर्णाश् च विप्लुताश् च विचेतसः समालिङ्ग्य सुतान् अन्ये पितॄन् मातॄंस् तथापरे त्यक्तुं न शेकुः स्नेहेन तथैव निधनं गताः विकृतैर् दर्शनैर् अन्ये समुत्पेतुः सहस्रशः तत्र तत्र विघूर्णन्तः पुनर् अग्नौ प्रपेदिरे दग्धपक्षाक्षिचरणा विचेष्टन्तो महीतले तत्र तत्र स्म दृश्यन्ते विनश्यन्तः शरीरिणः जलस्थानेषु सर्वेषु क्वाथ्यमानेषु भारत गतसत्त्वाः स्म दृश्यन्ते कूर्ममत्स्याः सहस्रशः शरीरैः संप्रदीप्तैश् च देहवन्त इवाग्नयः अदृश्यन्त वने तस्मिन् प्राणिनः प्राणसंक्षये तांस् तथोत्पततः पार्थः शरैः संछिद्य खण्डशः दीप्यमाने ततः प्रास्यत् प्रहसन् कृष्णवर्त्मनि ते शराचितसर्वाङ्गा विनदन्तो महारवान् ऊर्ध्वम् उत्पत्य वेगेन निपेतुः पावके पुनः शरैर् अभ्याहतानां च दह्यतां च वनौकसाम् विरावः श्रूयते ह स्म समुद्रस्येव मथ्यतः उपलभ्य समुत्पेतुः समुत्पेतुर् महीधरात् वह्नेश् चापि प्रहृष्टस्य खम् उत्पेतुर् महार्चिषः जनयाम् आसुर् उद्वेगं सुमहान्तं दिवौकसाम् तेनार्चिषा सुसंतप्ता देवाः सर्षिपुरोगमाः ततो जग्मुर् महात्मानः सर्व एव दिवौकसः शरणं देवराजानं सहस्राक्षं पुरंदरम् देवा ऊचुः किं न्व् इमे मानवाः सर्वे दह्यन्ते कृष्णवर्त्मना कच्चिन् न संक्षयः प्राप्तो लोकानाम् अमरेश्वर इत्य् आक्रोशम् अकुर्वंस् ते लोकाः सर्वे भयान्विताः वैशंपायन उवाच तच् छ्रुत्वा वृत्रहा तेभ्यः स्वयम् एवान्ववेक्ष्य च खाण्डवस्य विमोक्षार्थं प्रययौ हरिवाहनः महता मेघजालेन नानारूपेण वज्रभृत् आकाशं समवस्तीर्य प्रववर्ष सुरेश्वरः ततो ऽक्षमात्रा विसृजन् धाराः शतसहस्रशः अभ्यवर्षत् सहस्राक्षः पावकं खाण्डवं प्रति असंप्राप्तास् तु ता धारास् तेजसा जातवेदसः ख एव समशुष्यन्त न काश् चित् पावकं गताः ततो नमुचिहा क्रुद्धो भृशम् अर्चिष्मतस् तदा पुनर् एवाभ्यवर्षत् तम् अम्भः प्रविसृजन् बहु अर्चिर् धाराभिसंबद्धं धूमविद्युत्समाकुलम् बभूव तद् वनं घोरं स्तनयित्नुसघोषवत् वैशंपायन उवाच तस्याभिवर्षतो वारि पाण्डवः प्रत्यवारयत् शरवर्षेण बीभत्सुर् उत्तमास्त्राणि दर्शयन् शरैः समन्ततः सर्वं खाण्डवं चापि पाण्डवः छादयाम् आस तद् वर्षम् अपकृष्य ततो वनात् न च स्म किं चिच् छक्नोति भूतं निश्चरितुं ततः तद् दृष्ट्वा वारितं तोयं नाराचैः सव्यसाचिना आश्चर्यम् अगमन् देवा मुनयश् च दिवि स्थिताः संछाद्यमाने खगमैर् अस्यता सव्यसाचिना तक्षकस् तु न तत्रासीत् सर्पराजो महाबलः दह्यमाने वने तस्मिन् कुरुक्षेत्रे ऽभवत् तदा अश्वसेनस् तु तत्रासीत् तक्षकस्य सुतो बली स यत्नम् अकरोत् तीव्रं मोक्षार्थं हव्यवाहनात् न शशाक विनिर्गन्तुं कौन्तेयशरपीडितः मोक्षयाम् आस तं माता निगीर्य भुजगात्मजा तस्य पूर्वं शिरो ग्रस्तं पुच्छम् अस्य निगीर्यते ऊर्ध्वम् आचक्रमे सा तु पन्नगी पुत्रगृद्धिनी तस्यास् तीक्ष्णेन भल्लेन पृथुधारेण पाण्डवः शिरश् चिच्छेद गच्छन्त्यास् ताम् अपश्यत् सुरेश्वरः तं मुमोचयिषुर् वज्री वातवर्षेण पाण्डवम् मोहयाम् आस तत्कालम् अश्वसेनस् त्व् अमुच्यत तां च मायां तदा दृष्ट्वा घोरां नागेन वञ्चितः द्विधा त्रिधा च चिच्छेद खगतान् एव भारत शशाप तं च संक्रुद्धो बीभत्सुर् जिह्मगामिनम् पावको वासुदेवश् च अप्रतिष्ठो भवेद् इति ततो जिष्णुः सहस्राक्षं खं वितत्येषुभिः शितैः योधयाम् आस संक्रुद्धो वञ्चनां ताम् अनुस्मरन् देवराड् अपि तं दृष्ट्वा संरब्धम् इव फल्गुनम् स्वम् अस्त्रम् असृजद् दीप्तं यत् ततानाखिलं नभः सुभद्रजवम् आदीप्तं तदा वायुं विसर्ज ह ततो वायुर् महाघोषः क्षोभयन् सर्वसागरान् वियत्स्थो ऽजनयन् मेघाञ् जलधारामुचो ऽऽकुलान् ततो ऽशनिमुचो घोरांस् तडित्स्तनितनिःस्वनान् तद्विघातार्थम् असृजद् अर्जुनो ऽप्य् अस्त्रम् उत्तमम् वायव्यम् एवाभिमन्त्र्य प्रतिपत्तिविशारदः तेनेन्द्राशनिमेघानां वीर्यौजस् तद्विनाशितम् जलधाराश् च ताः शोषं जग्मुर् नेशुश् च विद्युतः क्षणेन चाभवद् व्योम संप्रशान्तरजस्तमः सुखशीतानिलगुणं प्रकृतिस्थार्कमण्डलम् निष्प्रतीकारहृष्टश् च हुतभुग् विविधाकृतिः सिच्यमानो वसौघैस् तैः प्राणिनां देहनिःसृतैः प्रजज्वालातुलार्चिष्मान् स्वनादैः पूरयञ् जगत् कृष्णाभ्यां रक्षितं दृष्ट्वा तं च दावम् अहंकृताः समुत्पेतुर् अथाकाशं सुपर्णाद्याः पतत्रिणः गरुडा वज्रसदृशैः पक्षतुण्डनखैस् तथा प्रहर्तुकामाः संपेतुर् आकाशात् कृष्णपाण्डवौ तथैवोरगसंघाताः पाण्डवस्य समीपतः उत्सृजन्तो विषं घोरं निश्चेरुर् ज्वलिताननाः तांश् चार्कसदृशैर् अस्त्रैः परपक्षसमाश्रितान् तांश् चकर्त शरैः पार्थः सरोषान् दृश्य खेचरान् विवशाश् चापतन् दीप्तं देहाभावाय पावकम् ततः सुराः सगन्धर्वा यक्षराक्षसपन्नगाः उत्पेतुर् नादम् अतुलम् उत्सृजन्तो रणार्थिणः अयःकणपचक्राश्मभुशुण्ड्युद्यतबाहवः कृष्णपार्थौ जिघांसन्तः क्रोधसंमूर्च्छितौजसः तेषाम् अभिव्याहरतां शस्त्रवर्षं च मुञ्चताम् प्रममाथोत्तमाङ्गानि बीभत्सुर् निशितैः शरैः कृष्णश् च सुमहातेजाश् चक्रेणारिनिहा तदा दैत्यदानवसंघानां चकार कदनं महत् अथापरे शरैर् विद्धाश् चक्रवेगेरितास् तदा वेलाम् इव समासाद्य व्यातिष्ठन्त महौजसः शेरते रुधिरक्लिन्ना इन्द्रगोपकसंनिभाः ततः शक्रो ऽभिसंक्रुद्धस् त्रिदशानां महेश्वरः पाण्डुरं गजम् आस्थाय ताव् उभौ समभिद्रवत् अशनिं गृह्य तरसा वज्रम् अस्त्रम् अवासृजत् हताव् एताव् इति प्राह सुरान् असुरसूदनः ततः समुद्यतां दृष्ट्वा देवेन्द्रेण महाशनिम् जगृहुः सर्वशस्त्राणि स्वानि स्वानि सुरास् तदा कालदण्डं यमो राजा शिबिकां च धनेश्वरः पाशं च वरुणस् तत्र विचक्रं च तथा शिवः स्कन्दः शक्तिं समादाय तस्थौ मेरुर् इवाचलः शक्तिं खड्गं यातुराजः समीरो ऽङ्कुशम् एव च ओषधीर् दीप्यमानाश् च जगृहाते ऽश्विनाव् अपि जगृहे च धनुर् धाता मुसलं च जयस् तथा पर्वतं चापि जग्राह क्रुद्धस् त्वष्टा महाबलः अंशस् तु शक्तिं जग्राह मृत्युर् देवः परश्वधम् प्रगृह्य परिघं घोरं विचचारार्यमा अपि मित्रश् च क्षुरपर्यन्तं चक्रं गृह्य व्यतिष्ठत पूषा भगश् च संक्रुद्धः सविता च विशां पते आत्तकार्मुकनिस्त्रिंशाः कृष्णपार्थाव् अभिद्रुताः रुद्राश् च वसवश् चैव मरुतश् च महाबलाः विश्वेदेवास् तथा साध्या दीप्यमानाः स्वतेजसा एते चान्ये च बहवो देवास् तौ पुरुषोत्तमौ कृष्णपार्थौ जिघांसन्तः प्रतीयुर् विविधायुधाः तत्राद्भुतान्य् अदृश्यन्त निमित्तानि महाहवे युगान्तसमरूपाणि भूतोत्सादाय भारत तथा तु दृष्ट्वा संरब्धं शक्रं देवैः सहाच्युतौ अभीतौ युधि दुर्धर्षौ तस्थतुः सज्जकार्मुकौ आगतांश् चैव तान् दृष्ट्वा देवान् एकैकशस् ततः न्यवारयेतां संक्रुद्धौ बाणैर् वज्रोपमैस् तदा असकृद् भग्नसंकल्पाः सुराश् च बहुशः कृताः भयाद् रणं परित्यज्य शक्रम् एवाभिशिश्रियुः दृष्ट्वा निवारितान् देवान् माधवेनार्जुनेन च आश्चर्यम् अगमंस् तत्र मुनयो दिवि विष्ठिताः शक्रश् चापि तयोर् वीर्यम् उपलभ्यासकृद् रणे बभूव परमप्रीतो भूयश् चैताव् अयोधयत् ततो ऽश्मवर्षं सुमहद् व्यसृजत् पाकशासनः भूय एव तदा वीर्यं जिज्ञासुः सव्यसाचिनः तच् छरैर् अर्जुनो वर्षं प्रतिजघ्ने ऽत्यमर्षणः विफलं क्रियमाणं तत् संप्रेक्ष्य च शतक्रतुः भूयः संवर्धयाम् आस तद् वर्षं देवराड् अथ सो ऽश्मवर्षं महावेगैर् इषुभिः पाकशासनिः विलयं गमयाम् आस हर्षयन् पितरं तदा समुत्पाट्य तु पाणिभ्यां मन्दराच् छिखरं महत् सद्रुमं व्यसृजच् छक्रो जिघांसुः पाण्डुनन्दनम् ततो ऽर्जुनो वेगवद्भिर् ज्वलिताग्रैर् अजिह्मगैः बाणैर् विध्वंसयाम् आस गिरेः शृङ्गं सहस्रधा गिरेर् विशीर्यमाणस्य तस्य रूपं तदा बभौ सार्कचन्द्रग्रहस्येव नभसः प्रविशीर्यतः तेनावाक्पतता दावे शैलेन महता भृशम् भूय एव हतास् तत्र प्राणिनः खाण्डवालयाः वैशंपायन उवाच तथा शैलनिपातेन भीषिताः खाण्डवालयाः दानवा राक्षसा नागास् तरक्ष्वृक्षवनौकसः द्विपाः प्रभिन्नाः शार्दूलाः सिंहाः केसरिणस् तथा मृगाश् च महिषाश् चैव शतशः पक्षिणस् तथा समुद्विग्ना विससृपुस् तथान्या भूतजातयः तं दावं समुदीक्षन्तः कृष्णौ चाभ्युद्यतायुधौ उत्पातनादशब्देन संत्रासित इवाभवन् ते वनं प्रसमीक्ष्याथ दह्यमानम् अनेकधा कृष्णम् अभ्युद्यतास्त्रं च नादं मुमुचुर् उल्बणम् तेन नादेन रौद्रेण नादेन च विभावसोः ररास गगनं कृत्स्नम् उत्पातजलदैर् इव ततः कृष्णो महाबाहुः स्वतेजो भास्वरं महत् स्वतेजोभास्वरं चक्रम् उत्ससर्ज जनार्दनः तेन ता जातयः क्षुद्राः सदानवनिशाचराः निकृत्ताः शतशः सर्वा निपेतुर् अनलं क्षणात् अदृश्यन् राक्षसास् तत्र कृष्णचक्रविदारिताः वसारुधिरसंपृक्ताः संध्यायाम् इव तोयदाः पिशाचान् पक्षिणो नागान् पशूंश् चापि सहस्रशः निघ्नंश् चरति वार्ष्णेयः कालवत् तत्र भारत क्षिप्तं क्षिप्तं हि तच् चक्रं कृष्णस्यामित्रघातिनः हत्वानेकानि सत्त्वानि पाणिम् एति पुनः पुनः तथा तु निघ्नतस् तस्य सर्वसत्त्वानि भारत बभूव रूपम् अत्युग्रं सर्वभूतात्मनस् तदा समेतानां च देवानां दानवानां च सर्वशः विजेता नाभवत् कश् चित् कृष्णपाण्डवयोर् मृधे तयोर् बलात् परित्रातुं तं दावं तु यदा सुराः नाशक्नुवञ् शमयितुं तदाभूवन् पराङ्मुखाः शतक्रतुश् च संप्रेक्ष्य विमुखान् देवतागणान् बभूवावस्थितः प्रीतः प्रशंसन् कृष्णपाण्डवौ निवृत्तेषु तु देवेषु वाग् उवाचाशरीरिणी शतक्रतुम् अभिप्रेक्ष्य महागम्भीरनिःस्वना न ते सखा संनिहितस् तक्षकः पन्नगोत्तमः दाहकाले खाण्डवस्य कुरुक्षेत्रं गतो ह्य् असौ न च शक्यौ त्वया जेतुं युद्धे ऽस्मिन् समवस्थितौ वासुदेवार्जुनौ शक्र निबोधेदं वचो मम नरनारायणौ देवौ ताव् एतौ विश्रुतौ दिवि भवान् अप्य् अभिजानाति यद्वीर्यौ यत्पराक्रमौ नैतौ शक्यौ दुराधर्षौ विजेतुम् अजितौ युधि अपि सर्वेषु लोकेषु पुराणाव् ऋषिसत्तमौ पूजनीयतमाव् एताव् अपि सर्वैः सुरासुरैः सयक्षरक्षोगन्धर्वनरकिंनरपन्नगैः तस्माद् इतः सुरैः सार्धं गन्तुम् अर्हसि वासव दिष्टं चाप्य् अनुपश्यैतत् खाण्डवस्य विनाशनम् इति वाचम् अभिश्रुत्य तथ्यम् इत्य् अमरेश्वरः कोपामर्षौ समुत्सृज्य संप्रतस्थे दिवं तदा तं प्रस्थितं महात्मानं समवेक्ष्य दिवौकसः त्वरिताः सहिता राजन्न् अनुजग्मुः शतक्रतुम् देवराजं तदा यान्तं सह देवैर् उदीक्ष्य तु वासुदेवार्जुनौ वीरौ सिंहनादं विनेदतुः देवराजे गते राजन् प्रहृष्टौ कृष्णपाण्डवौ निर्विशङ्कं पुनर् दावं दाहयाम् आसतुस् तदा स मारुत इवाभ्राणि नाशयित्वार्जुनः सुरान् व्यधमच् छरसंपातैः प्राणिनः खाण्डवालयान् न च स्म किं चिच् छक्नोति भूतं निश्चरितुं ततः संछिद्यमानम् इषुभिर् अस्यता सव्यसाचिना नाशकंस् तत्र भूतानि महान्त्य् अपि रणे ऽर्जुनम् निरीक्षितुम् अमोघेषुं करिष्यन्ति कुतो रणम् शतेनैकं च विव्याध शतं चैकेन पत्रिणा व्यसवस् ते ऽपतन्न् अग्नौ साक्षात् कालहता इव न चालभन्त ते शर्म रोधःसु विषमेषु च पितृदेवनिवासेषु संतापश् चाप्य् अजायत भूतसंघसहस्राश् च दीनाश् चक्रुर् महास्वनम् रुरुवुर् वारणाश् चैव तथैव मृगपक्षिणः तेन शब्देन वित्रेसुर् गङ्गोदधिचरा झषाः अप्सु न व्यचरंश् चैव तथान्ये मृगपक्षिणः विद्याधरगणाश् चैव ये च तत्र वनौकसः न ह्य् अर्जुनं महाबाहुं नापि कृष्णं महाबलम् निरीक्षितुं वै शक्नोति कश् चिद् योद्धुं कुतः पुनः एकायनगता ये ऽपि निष्पतन्त्य् अत्र के चन राक्षसान् दानवान् नागाञ् जघ्ने चक्रेण तान् हरिः ते विभिन्नशिरोदेहाश् चक्रवेगाद् गतासवः पेतुर् आस्ये महाकाया दीप्तस्य वसुरेतसः स मांसरुधिरौघैश् च मेदौघैश् च समीरितः उपर्य् आकाशगो वह्निर् विधूमः समदृश्यत दीप्ताक्षो दीप्तजिह्वश् च दीप्तव्यात्तमहाननः दीप्तोर्ध्वकेशः पिङ्गाक्षः पिबन् प्राणभृतां वसाम् तां स कृष्णार्जुनकृतां सुधां प्राप्य हुताशनः बभूव मुदितस् तृप्तः परां निर्वृतिम् आगतः अथासुरं मयं नाम तक्षकस्य निवेशनात् विप्रद्रवन्तं सहसा ददर्श मधुसूदनः तम् अग्निः प्रार्थयाम् आस दिधक्षुर् वातसारथिः देहवान् वै जटी भूत्वा नदंश् च जलदो यथा ज्ञात्वा तं दानवेन्द्राणां मयं वै शिल्पिनां वरम् जिघांसुर् वासुदेवश् च चक्रम् उद्यम्य विष्ठितः जिह्वया लेलिहानो ऽग्निर् मयं दग्धुं तम् अन्वगात् स चक्रम् उद्यतं दृष्ट्वा दिधक्षुं च हुताशनम् अभिधावार्जुनेत्य् एवं मयश् चुक्रोश भारत तस्य भीतस्वनं श्रुत्वा मा भैर् इति धनंजयः प्रत्युवाच मयं पार्थो जीवयन्न् इव भारत तं न भेतव्यम् इत्य् आह मयं पार्थो दयापरः तं पार्थेनाभये दत्ते नमुचेर् भ्रातरं मयम् न हन्तुम् ऐच्छद् दाशार्हः पावको न ददाह च वैशंपायन उवाच तद् वनं पावको धीमान् दिनानि दश पञ्च च ददाह कृष्णपार्थाभ्यां रक्षितः पाकशासनात् तस्मिन् वने दह्यमाने षड् अग्निर् न ददाह च अश्वसेनं मयं चापि चतुरः शार्ङ्गकान् इति जनमेजय उवाच किमर्थं शार्ङ्गकान् अग्निर् न ददाह तथागते तस्मिन् वने दह्यमाने ब्रह्मन्न् एतद् वदाशु मे अदाहे ह्य् अश्वसेनस्य दानवस्य मयस्य च कारणं कीर्तितं ब्रह्मञ् शार्ङ्गकानां न कीर्तितम् तद् एतद् अद्भुतं ब्रह्मञ् शार्ङ्गानाम् अविनाशनम् कीर्तयस्वाग्निसंमर्दे कथं ते न विनाशिताः वैशंपायन उवाच यदर्थं शार्ङ्गकान् अग्निर् न ददाह तथागते तस्मिन् वने दह्यमाने सर्वभूतभयंकरः तत् ते सर्वं यथावृत्तं कथयिष्यामि भारत धर्मज्ञानां मुख्यतमस् तपस्वी संशितव्रतः आसीन् महर्षिः श्रुतवान् मन्दपाल इति श्रुतः स मार्गम् आस्थितो राजन्न् ऋषीणाम् ऊर्ध्वरेतसाम् स्वाध्यायवान् धर्मरतस् तपस्वी विजितेन्द्रियः स गत्वा तपसः पारं देहम् उत्सृज्य भारत जगाम पितृलोकाय न लेभे तत्र तत् फलम् स लोकान् अफलान् दृष्ट्वा तपसा निर्जितान् अपि पप्रच्छ धर्मराजस्य समीपस्थान् दिवौकसः किमर्थम् आवृता लोका ममैते तपसार्जिताः किं मया न कृतं तत्र यस्येदं कर्मणः फलम् तत्राहं तत् करिष्यामि यदर्थम् इदम् आवृतम् आप्नोमि सफलांल् लोकांस् तत् कर्म ब्रूत माचिरम् फलम् एतस्य तपसः कथयध्वं दिवौकसः देवा ऊचुः ऋणिनो मानवा ब्रह्मञ् जायन्ते येन तच् छृणु क्रियाभिर् ब्रह्मचर्येण प्रजया च न संशयः तद् अपाक्रियते सर्वं यज्ञेन तपसा सुतैः तपस्वी यज्ञकृच् चासि न तु ते विद्यते प्रजा त इमे प्रसवस्यार्थे तव लोकाः समावृताः प्रजायस्व ततो लोकान् उपभोक्तासि शाश्वतान् पुन्नाम्नो नरकात् पुत्रस् त्रातीति पितरं मुने तस्माद् अपत्यसंताने यतस्व द्विजसत्तम वैशंपायन उवाच तच् छ्रुत्वा मन्दपालस् तु तेषां वाक्यं दिवौकसाम् क्व नु शीघ्रम् अपत्यं स्याद् बहुलं चेत्य् अचिन्तयत् स चिन्तयन्न् अभ्यगच्छद् बहुलप्रसवान् खगान् शार्ङ्गिकां शार्ङ्गको भूत्वा जरितां समुपेयिवान् तस्यां पुत्रान् अजनयच् चतुरो ब्रह्मवादिनः तान् अपास्य स तत्रैव जगाम लपितां प्रति बालान् सुतान् अण्डगतान् मात्रा सह मुनिर् वने तस्मिन् गते महाभागे लपितां प्रति भारत अपत्यस्नेहसंविग्ना जरिता बह्व् अचिन्तयत् तेन त्यक्तान् असंत्याज्यान् ऋषीन् अण्डगतान् वने नाजहत् पुत्रकान् आर्ता जरिता खाण्डवे नृप बभार चैतान् संजातान् स्ववृत्त्या स्नेहविक्लवा ततो ऽग्निं खाण्डवं दग्धुम् आयान्तं दृष्टवान् ऋषिः मन्दपालश् चरंस् तस्मिन् वने लपितया सह तं संकल्पं विदित्वास्य ज्ञात्वा पुत्रांश् च बालकान् महर्षिर् मन्दपालो ऽसौ वधात् स्तोतुं प्रचक्रमे सो ऽभितुष्टाव विप्रर्षिर् ब्राह्मणो जातवेदसम् पुत्रान् परिददद् भीतो लोकपालं महौजसम् मन्दपाल उवाच त्वम् अग्ने सर्वदेवानां मुखं त्वम् असि हव्यवाट् त्वम् अन्तः सर्वभूतानां गूढश् चरसि पावक त्वाम् एकम् आहुः कवयस् त्वाम् आहुस् त्रिविधं पुनः त्वाम् अष्टधा कल्पयित्वा यज्ञवाहम् अकल्पयन् त्वया सृष्टम् इदं विश्वं वदन्ति परमर्षयः त्वद् ऋते हि जगत् कृत्स्नं सद्यो न स्याद् धुताशन तुभ्यं कृत्वा नमो विप्राः स्वकर्मविजितां गतिम् गच्छन्ति सह पत्नीभिः सुतैर् अपि च शाश्वतीम् त्वाम् अग्ने जलदान् आहुः खे विषक्तान् सविद्युतः दहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हायनाः जातवेदस् तवैवेयं विश्वसृष्टिर् महाद्युते तवैव कर्म विहितं भूतं सर्वं चराचरम् त्वयापो विहिताः पूर्वं त्वयि सर्वम् इदं जगत् त्वयि हव्यं च कव्यं च यथावत् संप्रतिष्ठितम् अग्ने त्वम् एव ज्वलनस् त्वं धाता त्वं बृहस्पतिः त्वम् अश्विनौ यमौ मित्रः सोमस् त्वम् असि चानिलः ब्रह्मा भवान् समुत्तस्थौ स्थितिहेतुर् जनार्दनः प्रलये चैव कालाग्नी रुद्ररूपी विभावसुः जरायुणावृतं गर्भं पासि देव जगत्पते त्वम् आत्मा जगतः स्तुत्यो देवदेव नमो ऽस्तु ते मम पुत्रांश् च पौत्रांश् च पत्नीं रक्ष हुताशन गृहं क्षेत्रं पशून् रक्ष रक्ष मां सर्व सर्वदा वैशंपायन उवाच एवं स्तुतस् ततस् तेन मन्दपालेन पावकः तुतोष तस्य नृपते मुनेर् अमिततेजसः उवाच चैनं प्रीतात्मा किम् इष्टं करवाणि ते तम् अब्रवीन् मन्दपालः प्राञ्जलिर् हव्यवाहनम् प्रदहन् खाण्डवं दावं मम पुत्रान् विसर्जय भार्यां रक्ष गृहं रक्ष पशुं मे रक्ष सर्वदा पतन्तु हेतयः सर्वे स्वन्यद् अस्मत् तवाभिभो सर्वत्र सर्वदास्माकं शिवो भव हुताशन तथेति तत् प्रतिश्रुत्य भगवान् हव्यवाहनः खाण्डवे तेन कालेन प्रजज्वाल दिधक्षया वैशंपायन उवाच ततः प्रज्वलिते शुक्रे शार्ङ्गकास् ते सुदुःखिताः व्यथिताः परमोद्विग्ना नाधिजग्मुः परायणम् निशाम्य पुत्रकान् बालान् माता तेषां तपस्विनी जरिता दुःखसंतप्ता विललाप नरेश्वर अयम् अग्निर् दहन् कक्षम् इत आयाति भीषणः जगत् संदीपयन् भीमो मम दुःखविवर्धनः इमे च मां कर्षयन्ति शिशवो मन्दचेतसः अबर्हाश् चरणैर् हीनाः पूर्वेषां नः परायणम् त्रासयंश् चायम् आयाति लेलिहानो महीरुहान् अशक्तिमत्त्वाच् च सुता न शक्ताः सरणे मम आदाय च न शक्तास्मि पुत्रान् सरितुम् अन्यतः न च त्यक्तुम् अहं शक्ता हृदयं दूयतीव मे कथं प्रदीप्ताज् ज्वलनाद् विमुच्येरन् सुता मम मन्दभाग्या सपुत्राहं किं करिष्यामि शोचती कं नु जह्याम् अहं पुत्रं कम् आदाय व्रजाम्य् अहम् किं नु मे स्यात् कृतं कृत्वा मन्यध्वं पुत्रकाः कथम् चिन्तयाना विमोक्षं वो नाधिगच्छामि किं चन छादयित्वा च वो गात्रैः करिष्ये मरणं सह जरितारौ कुलं हीदं ज्येष्ठत्वेन प्रतिष्ठितम् सारिसृक्वः प्रजायेत पितॄणां कुलवर्धनः स्तम्बमित्रस् तपः कुर्याद् द्रोणो ब्रह्मविद् उत्तमः इत्य् एवम् उक्त्वा प्रययौ पिता वो निर्घृणः पुरा सहैव चरितुं बालैर् न शक्नोमि तपोवने कम् उपादाय शक्येत गन्तुं कस्यापद् उत्तमा किं नु कृत्वा कृतं कार्यं भवेद् इति च विह्वला नापश्यत् स्वधिया मोक्षं स्वसुतानां तदानलात् एवं ब्रुवन्तीं शार्ङ्गास् ते प्रत्यूचुर् अथ मातरम् स्नेहम् उत्सृज्य मातस् त्वं पत यत्र न हव्यवाट् अस्मासु हि विनष्टेषु भवितारः सुतास् तव त्वयि मातर् विनष्टायां न नः स्यात् कुलसंततिः अन्ववेक्ष्यैतद् उभयं क्षमं स्याद् यत् कुलस्य नः तद् वै कर्तुं परः कालो मातर् एष भवेत् तव मा वै कुलविनाशाय स्नेहं कार्षीः सुतेषु नः न हीदं कर्म मोघं स्याल् लोककामस्य नः पितुः जरितोवाच इदम् आखोर् बिलं भूमौ वृक्षस्यास्य समीपतः तद् आविशध्वं त्वरिता वह्नेर् अत्र न वो भयम् ततो ऽहं पांसुना छिद्रम् अपिधास्यामि पुत्रकाः एवं प्रतिकृतं मन्ये ज्वलतः कृष्णवर्त्मनः तत एष्याम्य् अतीते ऽग्नौ विहर्तुं पांसुसंचयम् रोचताम् एष वोपायो विमोक्षाय हुताशनात् शार्ङ्गका ऊचुः अबर्हान् मांसभूतान् नः क्रव्यादाखुर् विनाशयेत् पश्यमाना भयम् इदं न शक्ष्यामो निषेवितुम् कथम् अग्निर् न नो दह्यात् कथम् आखुर् न भक्षयेत् कथं न स्यात् पिता मोघः कथं माता ध्रियेत नः बिल आखोर् विनाशः स्याद् अग्नेर् आकाशचारिणाम् अन्ववेक्ष्यैतद् उभयं श्रेयान् दाहो न भक्षणम् गर्हितं मरणं नः स्याद् आखुना खादता बिले शिष्टाद् इष्टः परित्यागः शरीरस्य हुताशनात् अग्निदाहे तु नियतं ब्रह्मलोके ध्रुवा गतिः जरितोवाच अस्माद् बिलान् निष्पतितं श्येन आखुं जहार तम् क्षुद्रं गृहीत्वा पादाभ्यां भयं न भविता ततः शार्ङ्गका ऊचुः न हृतं तं वयं विद्मः श्येनेनाखुं कथं चन अन्ये ऽपि भवितारो ऽत्र तेभ्यो ऽपि भयम् एव नः संशयो ह्य् अग्निर् आगच्छेद् दृष्टं वायोर् निवर्तनम् मृत्युर् नो बिलवासिभ्यो भवेन् मातर् असंशयम् निःसंशयात् संशयितो मृत्युर् मातर् विशिष्यते चर खे त्वं यथान्यायं पुत्रान् वेत्स्यसि शोभनान् जरितोवाच अहं वै श्येनम् आयान्तम् अद्राक्षं बिलम् अन्तिकात् संचरन्तं समादाय जहाराखुं बिलाद् बली तं पतन्तम् अहं श्येनं त्वरिता पृष्ठतो ऽन्वगाम् आशिषो ऽस्य प्रयुञ्जाना हरतो मूषकं बिलात् नमो ऽस्तु ते श्येनराज रक्षिता राजवत् त्वया यो नो द्वेष्टारम् आदाय श्येनराज प्रधावसि भव त्वं दिवम् आस्थाय निरमित्रो हिरण्मयः यदा स भक्षितस् तेन क्षुधितेन पतत्रिणा तदाहं तम् अनुज्ञाप्य प्रत्युपायां गृहान् प्रति प्रविशध्वं बिलं पुत्रा विश्रब्धा नास्ति वो भयम् श्येनेन मम पश्यन्त्या हृत आखुर् न संशयः शार्ङ्गका ऊचुः न विद्म वै वयं मातर् हृतम् आखुम् इतः पुरा अविज्ञाय न शक्ष्यामो बिलम् आविशतुं वयम् जरितोवाच अहं हि तं प्रजानामि हृतं श्येनेन मूषकम् अत एव भयं नास्ति क्रियतां वचनं मम शार्ङ्गका ऊचुः न त्वं मिथ्योपचारेण मोक्षयेथा भयं महत् समाकुलेषु ज्ञानेषु न बुद्धिकृतम् एव तत् न चोपकृतम् अस्माभिर् न चास्मान् वेत्थ ये वयम् पीड्यमाना भरस्य् अस्मान् का सती के वयं तव तरुणी दर्शनीयासि समर्था भर्तुर् एषणे अनुगच्छ स्वभर्तारं पुत्रान् आप्स्यसि शोभनान् वयम् अप्य् अग्निम् आविश्य लोकान् प्राप्स्यामहे शुभान् अथास्मान् न दहेद् अग्निर् आयास् त्वं पुनर् एव नः समागमश् च भविता त्वं वै शोकं च मा कृथाः वैशंपायन उवाच एवम् उक्ता ततः शार्ङ्गी पुत्रान् उत्सृज्य खाण्डवे जगाम त्वरिता देशं क्षेमम् अग्नेर् अनाश्रयम् ततस् तीक्ष्णार्चिर् अभ्यागाज् ज्वलितो हव्यवाहनः यत्र शार्ङ्गा बभूवुस् ते मन्दपालस्य पुत्रकाः ते शार्ङ्गा ज्वलनं दृष्ट्वा ज्वलितं स्वेन तेजसा व्यथिताः करुणा वाचः श्रावयाम् आसुर् अन्तिकात् जरितारिस् ततो वाचं श्रावयाम् आस पावकम् जरितारिर् उवाच पुरतः कृच्छ्रकालस्य धीमाञ् जागर्ति पूरुषः स कृच्छ्रकालं संप्राप्य व्यथां नैवैति कर्हि चित् कथं नाम पितास्माकं दुःखापन्ना वशंत्विते (सिच्) यस् तु कृच्छ्रम् असंप्राप्तं विचेता नावबुध्यते स कृच्छ्रकाले व्यथितो न प्रजानाति किं चन सारिसृक्व उवाच धीरस् त्वम् असि मेधावी प्राणकृच्छ्रम् इदं च नः शूरः प्राज्ञो बहूनां हि भवत्य् एको न संशयः स्तम्बमित्र उवाच ज्येष्ठस् त्राता भवति वै ज्येष्ठो मुञ्चति कृच्छ्रतः ज्येष्ठश् चेन् न प्रजानाति कनीयान् किं करिष्यति द्रोण उवाच हिरण्यरेतास् त्वरितो ज्वलन्न् आयाति नः क्षयम् सप्तजिह्वो ऽनलः क्षामो लेलिहानोपसर्पति वैशंपायन उवाच एवम् उक्तो भ्रातृभिस् तु जरितारिर् विभावसुम् तुष्टाव प्राञ्जलिर् भूत्वा यथा तच् छृणु पार्थिव जरितारिर् उवाच आत्मासि वायोः पवनः शरीरम् उत वीरुधाम् योनिर् आपश् च ते शुक्र योनिस् त्वम् असि चाम्भसः ऊर्ध्वं चाधश् च गच्छन्ति विसर्पन्ति च पार्श्वतः अर्चिषस् ते महावीर्य रश्मयः सवितुर् यथा सारिसृक्व उवाच माता प्रपन्ना पितरं न विद्मः; पक्षाश् च नो न प्रजाताब्जकेतो न नस् त्राता विद्यते ऽग्ने त्वद् अन्यस्; तस्माद् धि नः परिरक्षैकवीर यद् अग्ने ते शिवं रूपं ये च ते सप्त हेतयः तेन नः परिरक्षाद्य ईडितः शरणैषिणः त्वम् एवैकस् तपसे जातवेदो; नान्यस् तप्ता विद्यते गोषु देव ऋषीन् अस्मान् बालकान् पालयस्व; परेणास्मान् प्रैहि वै हव्यवाह स्तम्बमित्र उवाच सर्वम् अग्ने त्वम् एवैकस् त्वयि सर्वम् इदं जगत् त्वं धारयसि भूतानि भुवनं त्वं बिभर्षि च त्वम् अग्निर् हव्यवाहस् त्वं त्वम् एव परमं हविः मनीषिणस् त्वां यजन्ते बहुधा चैकधैव च सृष्ट्वा लोकांस् त्रीन् इमान् हव्यवाह; प्राप्ते काले पचसि पुनः समिद्धः सर्वस्यास्य भुवनस्य प्रसूतिस्; त्वम् एवाग्ने भवसि पुनः प्रतिष्ठा त्वम् अन्नं प्राणिनां भुक्तम् अन्तर्भूतो जगत्पते नित्यं प्रवृद्धः पचसि त्वयि सर्वं प्रतिष्ठितम् द्रोण उवाच सूर्यो भूत्वा रश्मिभिर् जातवेदो; भूमेर् अम्भो भूमिजातान् रसांश् च विश्वान् आदाय पुनर् उत्सर्गकाले; सृष्ट्वा वृष्ट्या भावयसीह शुक्र त्वत्त एताः पुनः शुक्र वीरुधो हरितच्छदाः जायन्ते पुष्करिण्यश् च समुद्रश् च महोदधिः इदं वै सद्म तिग्मांशो वरुणस्य परायणम् शिवस् त्राता भवास्माकं मास्मान् अद्य विनाशय पिङ्गाक्ष लोहितग्रीव कृष्णवर्त्मन् हुताशन परेण प्रैहि मुञ्चास्मान् सागरस्य गृहान् इव वैशंपायन उवाच एवम् उक्तो जातवेदा द्रोणेनाक्लिष्टकर्मणा द्रोणम् आह प्रतीतात्मा मन्दपालप्रतिज्ञया ऋषिर् द्रोणस् त्वम् असि वै ब्रह्मैतद् व्याहृतं त्वया ईप्सितं ते करिष्यामि न च ते विद्यते भयम् मन्दपालेन यूयं हि मम पूर्वं निवेदिताः वर्जयेः पुत्रकान् मह्यं दहन् दावम् इति स्म ह यच् च तद् वचनं तस्य त्वया यच् चेह भाषितम् उभयं मे गरीयस् तद् ब्रूहि किं करवाणि ते भृशं प्रीतो ऽस्मि भद्रं ते ब्रह्मन् स्तोत्रेण ते विभो द्रोण उवाच त्वद्भक्तान् सर्वदेवेश जातवेदो महायशाः इमे मार्जारकाः शुक्र नित्यम् उद्वेजयन्ति नः एतान् कुरुष्व दंष्ट्रासु हव्यवाह सबान्धवान् वैशंपायन उवाच तथा तत् कृतवान् वह्निर् अभ्यनुज्ञाय शार्ङ्गकान् ददाह खाण्डवं चैव समिद्धो जनमेजय वैशंपायन उवाच मन्दपालो ऽपि कौरव्य चिन्तयानः सुतांस् तदा उक्तवान् अप्य् अशीतांशुं नैव स स्म न तप्यते स तप्यमानः पुत्रार्थे लपिताम् इदम् अब्रवीत् कथं न्व् अशक्ताः प्लवने लपिते मम पुत्रकाः वर्धमाने हुतवहे वाते शीघ्रं प्रवायति असमर्था विमोक्षाय भविष्यन्ति ममात्मजाः कथं न्व् अशक्ता त्राणाय माता तेषां तपस्विनी भविष्यत्य् असुखाविष्टा पुत्रत्राणम् अपश्यती कथं नु सरणे ऽशक्तान् पतने च ममात्मजान् संतप्यमाना अभितो वाशमानाभिधावती जरितारिः कथं पुत्रः सारिसृक्वः कथं च मे स्तम्बमित्रः कथं द्रोणः कथं सा च तपस्विनी लालप्यमानं तम् ऋषिं मन्दपालं तथा वने लपिता प्रत्युवाचेदं सासूयम् इव भारत न ते सुतेष्व् अवेक्षास्ति तान् ऋषीन् उक्तवान् असि तेजस्विनो वीर्यवन्तो न तेषां ज्वलनाद् भयम् तथाग्नौ ते परीत्ताश् च त्वया हि मम संनिधौ प्रतिश्रुतं तथा चेति ज्वलनेन महात्मना लोकपालो ऽनृतां वाचं न तु वक्ता कथं चन समर्थास् ते च वक्तारो न ते तेष्व् अस्ति मानसम् ताम् एव तु ममामित्रीं चिन्तयन् परितप्यसे ध्रुवं मयि न ते स्नेहो यथा तस्यां पुराभवत् न हि पक्षवता न्याय्यं निःस्नेहेन सुहृज्जने पीड्यमान उपद्रष्टुं शक्तेनात्मा कथं चन गच्छ त्वं जरिताम् एव यदर्थं परितप्यसे चरिष्याम्य् अहम् अप्य् एका यथा कापुरुषे तथा मन्दपाल उवाच नाहम् एवं चरे लोके यथा त्वम् अभिमन्यसे अपत्यहेतोर् विचरे तच् च कृच्छ्रगतं मम भूतं हित्वा भविष्ये ऽर्थे यो ऽवलम्बेत मन्दधीः अवमन्येत तं लोको यथेच्छसि तथा कुरु एष हि ज्वलमानो ऽग्निर् लेलिहानो महीरुहान् द्वेष्यं हि हृदि संतापं जनयत्य् अशिवं मम वैशंपायन उवाच तस्माद् देशाद् अतिक्रान्ते ज्वलने जरिता ततः जगाम पुत्रकान् एव त्वरिता पुत्रगृद्धिनी सा तान् कुशलिनः सर्वान् निर्मुक्ताञ् जातवेदसः रोरूयमाणा कृपणा सुतान् दृष्टवती वने अश्रद्धेयतमं तेषां दर्शनं सा पुनः पुनः एकैकशश् च तान् पुत्रान् क्रोशमानान्वपद्यत जरिता तु परिष्वज्य पुत्रस्नेहाद् अचुम्बत ततो ऽभ्यगच्छत् सहसा मन्दपालो ऽपि भारत अथ ते सर्व एवैनं नाभ्यनन्दन्त वै सुताः गुरुत्वान् मन्दपालस्य तपसश् च विशेषतः अभिवादयामहे सर्वे जातपक्षाः प्रसादतः एवम् उक्तवतां तेषां प्रतिनन्द्य महातपाः परिष्वज्य च तान् पुत्रान् मूर्ध्न्य् उपाघ्राय बालकान् पुत्रस्पर्शात् तु या प्रीतिस् ताम् अवाप स गौतमः गुरुत्वान् मन्दपालस्य इति पादान्तिकं गताः लालप्यमानम् एकैकं जरितां च पुनः पुनः नोचुस् ते वचनं किं चित् तम् ऋषिं साध्व् असाधु वा मन्दपाल उवाच ज्येष्ठः सुतस् ते कतमः कतमस् तदनन्तरः मध्यमः कतमः पुत्रः कनिष्ठः कतमश् च ते एवं ब्रुवन्तं दुःखार्तं किं मां न प्रतिभाषसे कृतवान् अस्मि हव्याशे नैव शान्तिम् इतो लभे एवम् उक्त्वा तु तां पत्नीं मन्दपालस् तथास्पृशत् जरितोवाच किं ते ज्येष्ठे सुते कार्यं किम् अनन्तरजेन वा किं च ते मध्यमे कार्यं किं कनिष्ठे तपस्विनि यस् त्वं मां सर्वशो हीनाम् उत्सृज्यासि गतः पुरा ताम् एव लपितां गच्छ तरुणीं चारुहासिनीम् मन्दपाल उवाच न स्त्रीणां विद्यते किं चिद् अन्यत्र पुरुषान्तरात् सापत्नकम् ऋते लोके भवितव्यं हि तत् तथा वैराग्निदीपनं चैव भृशम् उद्वेगकारि च स्त्रीणां सदा हि सापत्न्यं भवितव्यं हि तत् तथा सुव्रतापि हि कल्याणी सर्वलोकपरिश्रुता अरुन्धती पर्यशङ्कद् वसिष्ठम् ऋषिसत्तमम् विशुद्धभावम् अत्यन्तं सदा प्रियहिते रतम् सप्तर्षिमध्यगं वीरम् अवमेने च तं मुनिम् अपध्यानेन सा तेन धूमारुणसमप्रभा लक्ष्यालक्ष्या नाभिरूपा निमित्तम् इव लक्ष्यते अपत्यहेतोः संप्राप्तं तथा त्वम् अपि माम् इह इष्टम् एवंगते हित्वा सा तथैव च वर्तसे नैव भार्येति विश्वासः कार्यः पुंसा कथं चन न हि कार्यम् अनुध्याति भार्या पुत्रवती सती वैशंपायन उवाच ततस् ते सर्व एवैनं पुत्राः सम्यग् उपासिरे स च तान् आत्मजान् राजन्न् आश्वासयितुम् आरभत् मन्दपाल उवाच युष्माकं परिरक्षार्थं विज्ञप्तो ज्वलनो मया अग्निना च तथेत्य् एवं पूर्वम् एव प्रतिश्रुतम् अग्नेर् वचनम् आज्ञाय मातुर् धर्मज्ञतां च वः युष्माकं च परं वीर्यं नाहं पूर्वम् इहागतः न संतापो हि वः कार्यः पुत्रका मरणं प्रति ऋषीन् वेद हुताशो ऽपि ब्रह्म तद् विदितं च वः वैशंपायन उवाच एवम् आश्वास्य पुत्रान् स भार्यां चादाय भारत मन्दपालस् ततो देशाद् अन्यं देशं जगाम ह भगवान् अपि तिग्मांशुः समिद्धं खाण्डवं वनम् ददाह सह कृष्णाभ्यां जनयञ् जगतो ऽभयम् वसामेदोवहाः कुल्यास् तत्र पीत्वा च पावकः अगच्छत् परमां तृप्तिं दर्शयाम् आस चार्जुनम् ततो ऽन्तरिक्षाद् भगवान् अवतीर्य सुरेश्वरः मरुद्गणवृतः पार्थं माधवं चाब्रवीद् इदम् कृतं युवाभ्यां कर्मेदम् अमरैर् अपि दुष्करम् वरान् वृणीतं तुष्टो ऽस्मि दुर्लभान् अप्य् अमानुषान् पार्थस् तु वरयाम् आस शक्राद् अस्त्राणि सर्वशः अर्जुन उवाच देवराज उवाच अस्त्रं पाशुपतं देव वृणोमि वदतां वर दिव्यान्य् अस्त्राणि चान्यानि ददस्व हरिवाहन ऐन्द्रादीन् गृह्यतां पार्थ अस्त्राणि विधिपूर्वकम् अस्त्रं पाशुपतं दिव्यं त्र्यम्बकस् ते प्रदास्यति ग्रहीतुं तच् च शक्रो ऽस्य तदा कालं चकार ह यदा प्रसन्नो भगवान् महादेवो भविष्यति तुभ्यं तदा प्रदास्यामि पाण्डवास्त्राणि सर्वशः अहम् एव च तं कालं वेत्स्यामि कुरुनन्दन तपसा महता चापि दास्यामि तव तान्य् अहम् आग्नेयानि च सर्वाणि वायव्यानि तथैव च मदीयानि च सर्वाणि ग्रहीष्यसि धनंजय वासुदेवो ऽपि जग्राह प्रीतिं पार्थेन शाश्वतीम् ददौ च तस्मै देवेन्द्रस् तं वरं प्रीतिमांस् तदा दत्त्वा ताभ्यां वरं प्रीतः सह देवैर् मरुत्पतिः हुताशनम् अनुज्ञाप्य जगाम त्रिदिवं पुनः पावकश् चापि तं दावं दग्ध्वा समृगपक्षिणम् अहानि पञ्च चैकं च विरराम सुतर्पितः जग्ध्वा मांसानि पीत्वा च मेदांसि रुधिराणि च युक्तः परमया प्रीत्या ताव् उवाच विशां पते युवाभ्यां पुरुषाग्र्याभ्यां तर्पितो ऽस्मि यथासुखम् अनुजानामि वां वीरौ चरतं यत्र वाञ्छितम् गाण्डीवं च धनुर् दिव्यम् अक्षय्यौ च महेषुधी कपिध्वजो रथश् चायं तव दत्तौ महारथ अनेन धनुषा चैव रथेनानेन भारत विजेष्यसि रणे शत्रून् ससुरासुरमानुषान् एवं तौ समनुज्ञातौ पावकेन महात्मना अर्जुनो वासुदेवश् च दानवश् च मयस् तथा परिक्रम्य ततः सर्वे त्रयो ऽपि भरतर्षभ रमणीये नदीकूले सहिताः समुपाविशन् ततो ऽब्रवीन् मयः पार्थं वासुदेवस्य संनिधौ प्राञ्जलिः श्लक्ष्णया वाचा पूजयित्वा पुनः पुनः जनमेजय उवाच वैशंपायन उवाच ददाह भगवान् वह्निः किमर्थं खाण्डवं च तत् कस्य वा विप्रियं कुर्वन् कस्य वा प्रियकाम्यया न ह्य् अल्पे कारणे वह्निर् निर्बन्धं कर्तुम् अर्हति दहनं प्रति विप्रेन्द्र खाण्डवस्येति मे मतिः शृणु मे भावितो राजन् सर्वम् एव यथातथम् यन्निमित्तं ददाहाग्निः खाण्डवं पृथिवीपते बभूव राजा राजेन्द्र श्वेतकेतुर् इति श्रुतः इक्ष्वाकूणाम् अतिरथो यज्वा विपुलदक्षिणः जग्राह दीक्षां स नृपस् तदा वर्षसहस्रकीम् ऋत्विग्भिः सहितो धीमान् अयजज् जनमेजय तस्य सत्रे तदा तस्मिन् समागच्छन् महर्षयः वेदवेदाङ्गविद्वांसो ब्राह्मणाश् च सहस्रशः ततस् तु ऋत्विजस् तस्य धूमव्याकुललोचनाः कालेन महता खिन्नास् तत्यजुस् ते नराधिपम् ततः प्रसादयाम् आस ऋत्विजः स महीपतिः चक्षुर् विकलतां प्राप्ता न प्रसीदुश् च तस्य ते ततस् तेषाम् अनुमते विघ्नितस् तु नराधिपः सत्रं समापयाम् आस ऋत्विग्भिर् अपरैः सह सत्रेण महता चापि ययौ स्वर्गम् अभिष्टुतः ऋत्विग्भिः सहितः सर्वैः ससदस्यैः समन्वितः सत्रे पपौ हव्यवाहः सहस्रं परिवत्सरान् स तेन हविषा वह्निः परां तृप्तिम् अगच्छत न चैच्छद् अग्निर् आदातुं हविर् अन्यस्य कस्य चित् अरुचिश् चाविशत् तस्य ततो ऽगात् स पितामहम् स पितामहम् आसाद्य एतदर्थं न्यवेदयत् भगवन् परमा तृप्तिः कृता वै श्वेतकेतुना अरुचिश् चाविशत् तीव्रा तां न शक्नोम्य् अपोहितुम् तम् अब्रवीत् तदा वह्निं सर्वभूतपितामहः अरुचिं नाशयिष्ये ते समयं प्रतिपद्यसे ब्रवीतु तम् उवाचाथ ब्रह्माणं हव्यवाहनः अब्रवीत् तं ततो ब्रह्मा खाण्डवं त्वं दहेर् यदि तत्र ह्य् अनेके रिपवः सुराणां निवसन्त्य् उत मत्प्रसादाद् रुचिः सम्यक् तव वह्ने भविष्यति कालं च कं चित् क्षमतां ततस् तद् धक्ष्यते भवान् मानुष्ये ऽपि च संभूतौ नरनारायणाव् ऋषी ताभ्यां त्वं सहितो दावं धक्ष्यसे हव्यवाहन एवम् अस्त्व् इति तं वह्निर् ब्रह्माणं प्रत्यभाषत संभूतौ तौ विदित्वा तु नरनारायणाव् ऋषी तदस्य महतो राजंस् तच् च वाक्यं स्वयंभुवः अनुस्मृत्य जगामाथ दावं दग्धुं च हव्यवाट् एतत् ते कथितं राजन् यथैतद् अभवत् पुरा दहनाद् यत्र मुक्तो ऽसौ मयो नागो ऽथ शार्ङ्गकाः