+++ title = "Brhadaranyaka-Upanisad" +++ ## Intro Brhadaranyaka-Upanisad Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension with the commentary ascribed to Samkara Mula text extracted from the commented version Input by members of the Sansknet project (formerly: www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. The mula text has been checked against the ed. by V.P. Limaye and R.D. Vadekar (Eighteen Principal Upanisads, vol. 1, Poona 1958), and the electronic version available on TITUS. In cases of divergence, preference has usually been given to the printed edition. THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Unicode (UTF-8). (This file is to be used with a UTF-8 font and your browser's VIEW configuration set to UTF-8.) description:multibyte sequence: long a ā long A Ā long i ī long I Ī long u ū long U Ū vocalic r ṛ vocalic R Ṛ long vocalic r ṝ vocalic l ḷ vocalic L Ḷ long vocalic l ḹ velar n ṅ velar N Ṅ palatal n ñ palatal N Ñ retroflex t ṭ retroflex T Ṭ retroflex d ḍ retroflex D Ḍ retroflex n ṇ retroflex N Ṇ palatal s ś palatal S Ś retroflex s ṣ retroflex S Ṣ anusvara ṃ visarga ḥ long e ē long o ō l underbar ḻ r underbar ṟ n underbar ṉ k underbar ḵ t underbar ṯ Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: ## पाठः उषा वा अश्वस्य मेध्यस्य शिरः । सूर्यश् चक्षुर् वातः प्राणो व्यात्तम् अग्निर् वैश्वानरः संवत्सर आत्माश्वस्य मेध्यस्य । द्यौः पृष्ठम् अन्तरिक्षम् उदरं पृथिवी पाजस्यं दिशः पार्श्वे अवान्तरदिशः पर्शव ऋतवो ऽङ्गानि मासाश् चार्धमासाश् च पर्वाण्य् अहोरात्राणि प्रतिष्ठा नक्षत्राण्य् अस्थीनि नभो मांसानि । ऊवध्यं सिकताः सिन्धवो गुदा यकृच् च क्लोमानश् च पर्वता ओषधयश् च वनस्पतयश् च लोमानि । उद्यन् पूर्वार्धो निम्लोचञ् जघनार्धः । यद् विजृम्भते तद् विद्योतते । यद् विधूनुते तत् स्तनयति । यन् मेहति तद् वर्षति । वाग् एवास्य वाक् ॥ ब्र्हुप्_१,१।१ ॥ अहर् वा अश्वं पुरस्तान् महिमान्वजायत । तस्य पूर्वे समुद्रे योनिः । रात्रिर् एनं पश्चान् महिमान्वजायत । तस्यापरे समुद्रे योनिर् । एतौ वा अश्वं महिमानाव् अभितः सम्बभूवतुः । हयो भूत्वा देवान् अवहद् वाजी गन्धर्वान् अर्वासुरान् अश्वो मनुष्यान् । समुद्र एवास्य बन्धुः समुद्रो योनिः ॥ ब्र्हुप्_१,१।२ ॥ नैवेह किं चनाग्र आसीत् । मृत्युनैवेदम् आवृतम् आसीद् अशनायया । अशनाया हि मृत्युः । तन् मनो ऽकुरुतात्मन्वी स्याम् इति । सो ऽर्चन्न् अचरत् । तस्यार्चत आपो ऽजायन्त । अर्चते वै मे कम् अभूद् इति । तद् एवार्क्यस्यार्कत्वम् । कं ह वा अस्मै भवति य एवम् एतद् अर्क्यस्यार्कत्वं वेद ॥ ब्र्हुप्_१,२।१ ॥ आपो वा अर्कः । तद् यद् अपां शर आसीत् तत् समहन्यत । सा पृथिव्य् अभवत् । तस्याम् अश्राम्यत् । तस्य श्रान्तस्य तप्तस्य तेजोरसो निरवर्तताग्निः ॥ ब्र्हुप्_१,२।२ ॥ स त्रेधात्मानं व्यकुरुतादित्यं तृतीयं वायुं तृतीयम् । स एष प्राणस् त्रेधाविहितः । तस्य प्राची दिक् शिरो ऽसौ चासौ चेर्मौ । अथास्य प्रतीची दिक् पुच्छम् असौ चासौ च सक्थ्यौ । दक्षिणा चोदीची च पार्श्वे । द्यौः पृष्ठम् अन्तरिक्षम् उदरम् इयम् उरः । स एषो ऽप्सु प्रतिष्ठितः । यत्र क्व चैति तद् एव प्रतितिष्ठत्य् एवं विद्वान् ॥ ब्र्हुप्_१,२।३ ॥ सो ऽकामयत -- द्वितीयो म आत्मा जायेतेति । स मनसा वाचं मिथुनं समभवद् अशनाया मृत्युः । तद् यद् रेत आसीत् स संवत्सरो ऽभवत् । न ह पुरा ततः संवत्सर आस । तम् एतावन्तं कालम् अबिभर् यावान्त् संवत्सरः । तम् एतावतः कालस्य परस्ताद् असृजत । तं जातम् अभिव्याददात् । स भाण् अकरोत् । सैव वाग् अभवत् ॥ ब्र्हुप्_१,२।४ ॥ स ऐक्षत यदि वा इमम् अभिमंस्ये कनीयो ऽन्नं करिष्य इति । स तया वाचा तेनात्मनेदं सर्वम् असृजत यद् इदं किञ्च -- ऋचो यजूंषि सामानि छन्दांसि यज्ञान् प्रजां पशून् । स यद्-यद् एवासृजत तत्तद् अत्तुम् अध्रियत । सर्वं वा अत्तीति तद् अदितेर् अदितित्वम् । सर्वस्यात्ता भवति सर्वम् अस्यान्नं भवति य एवम् एतद् अदितेर् अदितित्वं वेद ॥ ब्र्हुप्_१,२।५ ॥ सो ऽकामयत -- भूयसा यज्ञेन भूयो यजेयेति । सो ऽश्राम्यत् । स तपो ऽतप्यत । तस्य श्रान्तस्य तप्तस्य यशो वीर्यम् उदक्रामत् । प्राणा वै यशो वीर्यम् । तत् प्राणेषूत्क्रान्तेषु शरीरं श्वयितुम् अध्रियत । तस्य शरीर एव मन आसीत् ॥ ब्र्हुप्_१,२।६ ॥ सो ऽकामयत -- मेध्यं म इदं स्याद् आत्मन्व्य् अनेन स्याम् इति । ततो ऽश्वः समभवत् । यद् अश्वत् तन् मेध्यम् अभूद् इति तद् एवाश्वमेधस्याश्वमेधत्वम् । एष ह वा अश्वमेधं वेद य एनम् एवं वेद । तम् अनवरुध्यैवामन्यत । तं संवत्सरस्य परस्ताद् आत्मन आलभत । पशून् देवताभ्यः प्रत्यौहत् । तस्मात् सर्वदेवत्यं प्रोक्षितं प्राजापत्यम् आलभन्ते । एष वा अश्वमेधो य एष तपति । तस्य संवत्सर आत्मा । अयम् अग्निर् अर्कः । तस्येमे लोका आत्मानः । ताव् एताव् अर्काश्वमेधौ । सो पुनर् एकैव देवता भवति मृत्युर् एव । अप पुनर्मृत्युं जयति । नैनं मृत्युर् आप्नोति । मृत्युर् अस्यात्मा भवति । सर्वम् आयुर् एति । एतासां देवतानाम् एको भवति ॥ ब्र्हुप्_१,२।७ ॥ द्वया ह प्राजापत्या देवाश् चासुराश् च ततः कानीयसा एव देवा ज्यायसा असुराः । त एषु लोकेष्व् अस्पर्धन्त । ते ह देवा ऊचुर् हन्तासुरान् यज्ञ उद्गीथेनात्ययामेति ॥ ब्र्हुप्_१,३।१ ॥ ते ह वाचम् ऊचुस् त्वं न उद्गायेति । तथेति तेभ्यो वाग् उदगायत् । यो वाचि भोगस् तं देवेभ्य आगायत् । यत् कल्याणं वदति तद् आत्मने । ते ऽविदुर् अनेन वै न उद्गात्रात्येष्यन्तीति । तम् अभिद्रुत्य पाप्मनाविध्यन् । स यः स पाप्मा यद् एवेदम् अप्रतिरूपं वदति । स एव स पाप्मा ॥ ब्र्हुप्_१,३।२ ॥ अथ ह प्राणम् ऊचुस् त्वं न उद्गायेति । तथेति तेभ्यः प्राण उदगायत् । यः प्राणे भोगस् तं देवेभ्य आगायत् । यत् कल्याणं जिघ्रति तद् आत्मने । ते ऽविदुर् अनेन वै न उद्गात्रात्येष्यन्तीति । तम् अभिद्रुत्य पाप्मनाविध्यन् । स यः स पाप्मा यद् एवेदम् अप्रतिरूपं जिघ्रति । स एव स पाप्मा ॥ ब्र्हुप्_१,३।३ ॥ अथ ह चक्षुर् ऊचुस् त्वं न उद्गायेति । तथेति तेभ्यश् चक्षुर् उदगायत् । यश् चक्षुषि भोगस् तं देवेभ्य आगायत् । यत् कल्याणं पश्यति तद् आत्मने । ते ऽविदुर् अनेन वै न उद्गात्रात्येष्यन्तीति । तम् अभिद्रुत्य पाप्मनाविध्यन् । स यः स पाप्मा यद् एवेदम् अप्रतिरूपं पश्यति । स एव स पाप्मा ॥ ब्र्हुप्_१,३।४ ॥ अथ ह श्रोत्रम् ऊचुस् त्वं न उद्गायेति । तथेति तेभ्यः श्रोत्रम् उदगायत् । यः श्रोत्रे भोगस् तं देवेभ्य आगायत् । यत् कल्याणं शृणोति तद् आत्मने । ते ऽविदुर् अनेन वै न उद्गात्रात्येष्यन्तीति । तम् अभिद्रुत्य पाप्मनाविध्यन् । स यः स पाप्मा । यद् एवेदम् अप्रतिरूपं शृणोति । स एव स पाप्मा ॥ ब्र्हुप्_१,३।५ ॥ अथ ह मन ऊचुस् त्वं न उद्गायेति । तथेति तेभ्यो मन उदगायत् । यो मनसि भोगस् तं देवेभ्य आगायत् । यत् कल्याणं सङ्कल्पयति तद् आत्मने । ते ऽविदुर् अनेन वै न उद्गात्रात्येष्यन्तीति । तम् अभिद्रुत्य पाप्मनाविध्यन् । स यः स पाप्मा । यद् एवेदम् अप्रतिरूपं सङ्कल्पयति । स एव स पाप्मा । एवम् उ खल्व् एता देवताः पाप्मभिर् उपासृजन् । एवम् एनाः पाप्मनाविध्यन् ॥ ब्र्हुप्_१,३।६ ॥ अथ हेमम् आसन्यं प्राणम् ऊचुस् त्वं न उद्गायेति । तथेति तेभ्य एष प्राण उदगायत् । ते ऽविदुर् अनेन वै न उद्गात्रात्येष्यन्तीति । तम् अभिद्रुत्य पाप्मनाविव्यत्सन् । स यथाश्मानम् ऋत्वा लोष्टो विध्वंसेतैवं हैव विध्वंसमाना विष्वञ्चो विनेशुः । ततो देवा अभवन्, परासुरा । भवत्य् आत्मना, परास्य द्विषन् भ्रातृव्यो भवति य एवं वेद ॥ ब्र्हुप्_१,३।७ ॥ ते होचुः -- क्व नु सो ऽभूद् यो न इत्थम् असक्तेति । अयम् आस्ये ऽन्तर् इति । सो ऽयास्य आङ्गिरसो ऽङ्गानां हि रसः ॥ ब्र्हुप्_१,३।८ ॥ सा वा एषा देवता दूर् नाम । दूरं ह्य् अस्या मृत्युर् । दूरं ह वा अस्मान् मृत्युर् भवति य एवं वेद ॥ ब्र्हुप्_१,३।९ ॥ सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युम् अपहत्य यत्रासां दिशाम् अन्तस् तद् गमयां चकार । तद् आसां पाप्मनो विन्यदधात् । तस्मान् न जनम् इयान् नान्तम् इयान् नेत् पाप्मानं मृत्युम् अन्ववायानीति ॥ ब्र्हुप्_१,३।१० ॥ सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युम् अपहत्याथैना मृत्युम् अत्यवहत् ॥ ब्र्हुप्_१,३।११ ॥ सा वै वाचम् एव प्रथमाम् अत्यवहत् । सा यदा मृत्युम् अत्यमुच्यत सो ऽग्निर् अभवत् । सो ऽयम् अग्निः परेण मृत्युम् अतिक्रान्तो दीप्यते ॥ ब्र्हुप्_१,३।१२ ॥ अथ प्राणम् अत्यवहत् । स यदा मृत्युम् अत्यमुच्यत स वायुर् अभवत् । सो ऽयं वायुः परेण मृत्युम् अतिक्रान्तः पवते ॥ ब्र्हुप्_१,३।१३ ॥ अथ चक्षुर् अत्यवहत् । तद् यदा मृत्युम् अत्यमुच्यत स आदित्यो ऽभवत् । सो ऽसाव् आदित्यः परेण मृत्युम् अतिक्रान्तस् तपति ॥ ब्र्हुप्_१,३।१४ ॥ अथ श्रोत्रम् अत्यवहत् । तद् यदा मृत्युम् अत्यमुच्यत ता दिशो ऽभवन् । ता इमा दिशः परेण मृत्युम् अतिक्रान्ताः ॥ ब्र्हुप्_१,३।१५ ॥ अथ मनो ऽत्यवहत् । तद् यदा मृत्युम् अत्यमुच्यत स चन्द्रमा अभवत् । सो ऽसौ चन्द्रः परेण मृत्युम् अतिक्रान्तो भाति । एवं ह वा एनम् एषा देवता मृत्युम् अतिवहति य एवं वेद ॥ ब्र्हुप्_१,३।१६ ॥ अथात्मने ऽन्नाद्यम् आगायत् । यद् धि किञ्चान्नम् अद्यते ऽनेनैव तद् अद्यते । इह प्रतितिष्ठति ॥ ब्र्हुप्_१,३।१७ ॥ ते देवा अब्रुवन् । एतावद् वा इदं सर्वं यद् अन्नम् । तद् आत्मन आगासीः । अनु नो ऽस्मिन्न् अन्न आभजस्वेति । ते वै माभिसंविशतेति । तथेति तं समन्तं परिण्यविशन्त । तस्माद् यद् अनेनान्नम् अत्ति तेनैतास् तृप्यन्ति । एवं ह वा एनं स्वा अभिसंविशन्ति भर्ता स्वानां श्रेष्ठः पुरएता भवत्य् अन्नादो ऽधिपतिर् य एवं वेद । य उ हैवंविदं स्वेषु प्रतिर् बुभूषति न हैवालं भार्येभ्यो भवति । अथ य एवैतम् अनुभवति यो वैतम् अनु भार्यान् बुभूर्षति स हैवालं भार्येभ्यो भवति ॥ ब्र्हुप्_१,३।१८ ॥ सो ऽयास्य आङ्गिरसो ऽङ्गानां हि रसः । प्राणो वा अङ्गानां रसः । प्राणो हि वा अङ्गानां रसः । तस्माद् यस्मात् कस्माच्चाङ्गात् प्राण उत्क्रामति तद् एव तच् छुष्यति । एष हि वा अङ्गानां रसः ॥ ब्र्हुप्_१,३।१९ ॥ एष उ एव बृहस्पतिः । वाग् वै बृहती । तस्या एष पतिस् तस्माद् उ बृहस्पतिः ॥ ब्र्हुप्_१,३।२० ॥ एष उ एव ब्रह्मणस्पतिः । वाग् वै ब्रह्म । तस्या एष पतिस् तस्माद् उ ब्रह्मणस्पतिः ॥ ब्र्हुप्_१,३।२१ ॥ एष उ एव साम । वाग् वै सामैष सा चामश् चेति तत् साम्नः सामत्वम् । यद् व् एव समः प्लुषिणा समो मशकेन समो नागेन सम एभिस् त्रिभिर् लोकैः समो ऽनेन सर्वेण तस्माद् व् एव साम । अश्नुते साम्नः सायुज्यं सलोकताम् । य एवम् एतत् साम वेद ॥ ब्र्हुप्_१,३।२२ ॥ एष उ वा उद्गीथः । प्राणो वा उत् प्राणेन हीदं सर्वम् उत्तब्धम् । वाग् एव गीथा । उच् च गीथा चेति । स उद्गीथः ॥ ब्र्हुप्_१,३।२३ ॥ तद् धापि ब्रह्मदत्तश् चैकितानेयो राजानं भक्षयन्न् उवाच । अयं त्यस्य राजा मूर्धानं विपातयताद् यद् इतो ऽयास्य आङ्गिरसो ऽन्येनोदगायद् इति । वाचा च ह्य् एव स प्राणेन चोदगायद् इति ॥ ब्र्हुप्_१,३।२४ ॥ तस्य हैतस्य साम्नो यः स्वं वेद भवति हास्य स्वम् । तस्य वै स्वर एव स्वम् । तस्माद् आर्त्विज्यं करिष्यन् वाचि स्वरम् इच्छेत । तया वाचा स्वरसम्पन्नयार्त्विज्यं कुर्यात् । तस्माद् यज्ञे स्वरवन्तं दिदृक्षन्त एव । अथो यस्य स्वं भवति । भवति हास्य स्वं य एवम् एतत् साम्नः स्वं वेद ॥ ब्र्हुप्_१,३।२५ ॥ तस्य हैतस्य साम्नो यः सुवर्णं वेद भवति हास्य सुवर्णम् । तस्य वै स्वर एव सुवर्णम् । भवति हास्य सुवर्णं य एवम् एतत् साम्नः सुवर्णं वेद ॥ ब्र्हुप्_१,३।२६ ॥ तस्य हैतस्य साम्नो यः प्रतिष्ठां वेद प्रति ह तिष्ठति । तस्य वै वाग् एव प्रतिष्ठा । वाचि हि खल्व् एष एतत् प्राणः प्रतिष्ठितो गीयते । अन्न इत्य् उ हैक आहुः ॥ ब्र्हुप्_१,३।२७ ॥ अथातः पवमानानाम् एवाभ्यारोहः । स वै खलु प्रस्तोता साम प्रस्तौति । स यत्र प्रस्तुयात् तद् एतानि जपेत् । असतो मा सद् गमय, तमसो मा ज्योतिर् गमय, मृत्योर् मामृतं गमयेति । स यद् आहासतो मा सद् गमयेति । मृत्युर् वा असत् सद् अमृतं मृत्योर् मामृतं गमयामृतं मा कुर्व् इत्य् एवैतद् आह । तमसो मा ज्योतिर् गमयेति । मृत्युर् वै तमो ज्योतिर् अमृतं मृत्योर् मामृतं गमयामृतं मा कुर्व् इत्य् एवैतद् आह । मृत्योर् मामृतं गमयेति । नात्र तिरोहितम् इवास्ति । अथ यानीतराणि स्तोत्राणि तेष्व् आत्मने ऽन्नाद्यम् आगायेत् । तस्माद् उ तेषु वरं वृणीत । यं कामं कामयेत् तम् । स एष एवंविद् उद्गातात्मने वा यजमानाय वा यं कामं कामयते तम् आगायति । तद् धैतल् लोकजिद् एव । न हैवालोक्यताया आशास्ति य एवम् एतत् साम वेद ॥ ब्र्हुप्_१,३।२८ ॥ आत्मैवेदम् अग्र आसीत् पुरुषविधः । सो ऽनुवीक्ष्य नान्यद् आत्मनो ऽपश्यत् । सो ऽहम् अस्मीत्य् अग्रे व्याहरत् । ततो ऽहन्नामाभवत् । तस्माद् अप्य् एतर्ह्य् आमन्त्रितो ऽहम् अयम् इत्य् एवाग्र उक्त्वाथान्यन् नाम प्रब्रूते यद् अस्य भवति । स यत् पूर्वो ऽस्मात् सर्वस्मात् सर्वान् पाप्मन औषत् तस्मात् पुरुषः । ओषति ह वै स तं यो ऽस्मात् पूर्वो बुभूषति य एवं वेद ॥ ब्र्हुप्_१,४।१ ॥ सो ऽबिभेत् तस्माद् एकाकी बिभेति । स हायम् ईक्षां चक्रे, यन् मद् अन्यन् नास्ति कस्मान् नु बिभेमीति । तत एवास्य भयं वीयाय । कस्माद् ध्य् अभेष्यत् । द्वितीयाद् वै भयं भवति ॥ ब्र्हुप्_१,४।२ ॥ स वै नैव रेमे । तस्माद् एकाकी न रमते । स द्वितीयम् ऐच्छत् । स हैतावान् आस यथा स्त्रीपुमांसौ सम्परिष्वक्तौ । स इमम् एवात्मानं द्वेधापातयत् । ततः पतिश् च पत्नी चाभवताम् । तस्माद् इदम् अर्धबृगलम् इव स्व इति ह स्माह याज्ञवल्क्यः । तस्माद् अयम् आकाशः स्त्रिया पूर्यत एव । तां समभवत् । ततो मनुष्या अजायन्त ॥ ब्र्हुप्_१,४।३ ॥ सो हेयम् ईक्षां चक्रे -- कथं नु मात्मन एव जनयित्वा सम्भवति । हन्त तिरो ऽसानीति । सा गौर् अभवद् वृषभ इतरः । तां सम् एवाभवत् । ततो गावो ऽजायन्त । वडवेतराभवद् अश्ववृष इतरः । गर्दभीतरा गर्दभ इतरः । तां सम् एवाभवत् । तत एकशफम् अजायत । अजेतराभवद् बस्त इतरः । अविर् इतरा मेष इतरः । तां सम् एवाभवत् । ततो ऽजावयो ऽजायन्त । एवम् एव यद् इदं किञ्च मिथुनम् आ पिपीलिकाभ्यस् तत् सर्वम् असृजत ॥ ब्र्हुप्_१,४।४ ॥ सो ऽवेद् अहं वाव सृष्टिर् अस्म्य् अहं हीदं सर्वम् असृक्षीति । ततः सृष्टिर् अभवत् । सृष्ट्यां हास्यैतस्यां भवति य एवं वेद ॥ ब्र्हुप्_१,४।५ ॥ अथेत्य् अभ्यमन्थत् । स मुखाच् च योनेर् हस्ताभ्यां चाग्निम् असृजत । तस्माद् एतद् उभयम् अलोमकम् अन्तरतः । अलोमका हि योनिर् अन्तरतः । तद् यद् इदम् आहुर् अमुं यजामुं यजेत्य् एकैकं देवम् एतस्यैव सा विसृष्टिः । एष उ ह्य् एव सर्वे देवाः । अथ यत् किञ्चेदम् आर्द्रं तद् रेतसो ऽसृजत । तद् उ सोम । एतावद् वा इदं सर्वम् अन्नं चैवान्नादश् च । सोम एवान्नम् अग्निर् अन्नादः । सैषा ब्रह्मणो ऽतिसृष्टिः । यच् छ्रेयसो देवान् असृजताथ यन् मर्त्यः सन्न् अमृतान् असृजत तस्माद् अतिसृष्टिर् । अतिसृष्ट्यां हास्यैतस्यां भवति य एवं वेद ॥ ब्र्हुप्_१,४।६ ॥ तद् धेदं तर्ह्य् अव्याकृतम् आसीत् । तन् नामरूपाभ्याम् एव व्याक्रियतासौ नामायम् इदंरूप इति । तद् इदम् अप्य् एतर्हि नामरूपाभ्याम् एव व्याक्रियत असौ नामायम् इदंरूप इति । स एष इह प्रविष्ट आ नखाग्रेभ्यो यथा क्षुरः क्षुरधाने ऽवहितः स्याद् विश्वम्भरो वा विश्वम्भरकुलाये । तं न पश्यन्ति । अकृत्स्नो हि सः प्राणन्न् एव प्राणो नाम भवति । वदन् वाक् पश्यंश् चक्षुः शृण्वञ् छ्रोत्रं मन्वानो मनः । तान्य् अस्यैतानि कर्मनामान्य् एव । स यो ऽत एकैकम् उपास्ते न स वेद । अकृत्स्नो ह्य् एषो ऽत एकैकेन भवति । आत्मेत्य् एवोपासीत । अत्र ह्य् एते सर्व एकं भवन्ति । तद् एतत् पदनीयम् अस्य सर्वस्य यद् अयम् आत्मा । अनेन ह्य् एतत् सर्वं वेद । यथा ह वै पदेनानुविन्देद् एवं कीर्तिं श्लोकं विन्दते य एवं वेद ॥ ब्र्हुप्_१,४।७ ॥ तद् एतत् प्रेयः पुत्रात् प्रेयो वित्तात् प्रेयो ऽन्यस्मात् सर्वस्माद् अन्तरतरं यद् अयम् आत्मा । स यो ऽन्यम् आत्मनः प्रियं ब्रुवाणं ब्रूयात् प्रियं रोत्स्यतीतीश्वरो ह तथैव स्यात् । आत्मानम् एव प्रियम् उपासीत । स य आत्मानम् एव प्रियम् उपास्ते न हास्य प्रियं प्रमायुकं भवति ॥ ब्र्हुप्_१,४।८ ॥ तद् आहुर् यद् ब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्या मन्यन्ते । किम् उ तद् ब्रह्मावेद् यस्मात् तत् सर्वम् अभवद् इति ॥ ब्र्हुप्_१,४।९ ॥ ब्रह्म वा इदम् अग्र आसीत् । तद् आत्मानम् एवावेत् । अहं ब्रह्मास्मीति । तस्मात् तत् सर्वम् अभवत् । तद् यो यो देवानां प्रत्यबुध्यत स एव तद् अभवत् । तथर्षीनाम् । तथा मनुष्याणाम् । तद् धैतत् पश्यन्न् ऋषिर् वामदेवः प्रतिपेदे ऽहं मनुर् अभवं सूर्यश् चेति । तद् इदम् अप्य् एतर्हि य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति । तस्य ह न देवाश् चनाभूत्या ईशते । आत्मा ह्य् एषां स भवति । अथ यो ऽन्यां देवताम् उपास्ते ऽन्यो ऽसाव् अन्यो ऽहम् अस्मीति न स वेद । यथा पशुर् एवं स देवानाम् । यथा ह वै बहवः पशवो मनुष्यं भुञ्ज्युर् एवम् एकैकः पुरुषो देवान् भुनक्ति । एकस्मिन्न् एव पशाव् आदीयमाने ऽप्रियं भवति किम् उ बहुषु । तस्माद् एषां तन् न प्रियं यद् एतन् मनुष्या विद्युः ॥ ब्र्हुप्_१,४।१० ॥ ब्रह्म वा इदम् अग्र आसीद् एकम् एव । तद् एकं सन् न व्यभवत् । तच् छ्रेयो रूपम् अत्यसृजत क्षत्रम्, यान्य् एतानि देवत्रा क्षत्राणीन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो मृत्युर् ईशान इति । तस्मात् क्षत्रात् परं नास्ति । तस्माद् ब्राह्मणः क्षत्रियं अधस्ताद् उपास्ते राजसूये । क्षत्र एव तद् यशो दधाति । सैषा क्षत्रस्य योनिर् यद् ब्रह्म । तस्माद् यद्य् अपि राजा परमतां गच्छति ब्रह्मैवान्तत उपनिश्रयति स्वां योनिम् । य उ एनं हिनस्ति स्वां स योनिम् ऋच्छति । स पापीयान् भवति यथा श्रेयांसं हिंसित्वा ॥ ब्र्हुप्_१,४।११ ॥ स नैव व्यभवत् । स विशम् असृजत । यान्य् एतानि देवजातानि गणश आख्यायन्ते वसवो रुद्रा आदित्या विश्वे देवा मरुत इति ॥ ब्र्हुप्_१,४।१२ ॥ स नैव व्यभवत् । स शौद्रं वर्णम् असृजत पूषणम् । इयं वै पूषा । इयं हीदं सर्वं पुष्यति यद् इदं किञ्च ॥ ब्र्हुप्_१,४।१३ ॥ स नैव व्यभवत् । तच् छ्रेयो रूपम् अत्यसृजत धर्मम् । तद् एतत् क्षत्रस्य क्षत्रं यद् धर्मः । तस्माद् धर्मात् परं नास्ति । अथो अबलीयान् बलीयांसम् आशंसते धर्मेण । यथा राज्ञैवम् । यो वै स धर्मः सत्यं वै तत् । तस्मात् सत्यं वदन्तम् आहुर् धर्मं वदतीति । धर्मं वा वदन्तं सत्यं वदतीति । एतद् ध्य् एवैतद् उभयं भवति ॥ ब्र्हुप्_१,४।१४ ॥ तद् एतद् ब्रह्म क्षत्रं विट् शूद्रः । तद् अग्निनैव देवेषु ब्रह्माभवद् ब्राह्मणो मनुष्येषु, क्षत्रियेण क्षत्रियः, वैश्येन वैश्यः, शूद्रेण शूद्रः । तस्माद् अग्नाव् एव देवेषु लोकम् इच्छन्ते ब्राह्मणे मनुष्येषु । एताभ्यां हि रूपाभ्यां ब्रह्माभवत् । अथ यो ह वा अस्माल् लोकात् स्वं लोकम् अदृष्ट्वा प्रैति स एनम् अविदितो न भुनक्ति यथा वेदो वाननूक्तो ऽन्यद् वा कर्माकृतम् । यदि ह वा अप्य् अनेवंविन् महत्पुण्यं कर्म करोति तद् धास्यान्ततः क्षीयत एव । आत्मानम् एव लोकम् उपासीत । स य आत्मानम् एव लोकम् उपास्ते न हास्य कर्म क्षीयते । अस्माद् ध्य् एवात्मनो यद्यत् कामयते तत्तत् सृजते ॥ ब्र्हुप्_१,४।१५ ॥ अथो अयं वा आत्मा सर्वेषां भूतानां लोकः । स यज् जुहोति यद् यजते तेन देवानां लोकः । अथ यद् अनुब्रूते तेन ऋषीणाम् । अथ यत् पितृभ्यो निपृणाति यत् प्रजाम् इच्छते तेन पितॄणाम् । अथ यन् मनुष्यान् वासयते यद् एभ्यो ऽशनं ददाति तेन मनुष्याणाम् । अथ यत् पशुभ्यस् तृणोदकं विन्दति तेन पशूनाम् । यद् अस्य गृहेषु श्वापदा वयांस्य् आ पिपीलिकाभ्य उपजीवन्ति तेन तेषां लोकः । यथा ह वै स्वाय लोकायारिष्टिम् इच्छेत् । एवं हैवंविदे सर्वदा सर्वाणि भूतान्य् अरिष्टिम् इच्छन्ति । तद् वा एतद् विदितं मीमांसितम् ॥ ब्र्हुप्_१,४।१६ ॥ आत्मैवेदम् अग्र आसीद् एक एव । सो ऽकामयत जाया मे स्याद् अथ प्रजायेय । अथ वित्तं मे स्याद् अथ कर्म कुर्वीयेति । एतावान् वै कामः । नेच्छंश् चनातो भूयो विन्देत् । तस्माद् अप्य् एतर्ह्य् एकाकी कामयते -- जाया मे स्याद् अथ प्रजायेयाथ वित्तं मे स्याद् अथ कर्म कुर्वीयेति । स यावद् अप्य् एतेषाम् एकैकं न प्राप्नोत्य् अकृत्स्न एव तावन् मन्यते । तस्यो कृत्स्नता । मन एवास्यात्मा । वाग् जाया । प्राणः प्रजा । चक्षुर् मानुषं वित्तम् । चक्षुषा हि तद् विन्दते । श्रोत्रं दैवम् । श्रोत्रेण हि तच् छृणोति । आत्मैवास्य कर्म । आत्मना हि कर्म करोति । स एष पाङ्क्तो यज्ञः । पाङ्क्तः पशुः । पाङ्क्तः पुरुषः । पाङ्क्तम् इदं सर्वं यद् इदं किञ्च । तद् इदं सर्वम् आप्नोति य एवं वेद ॥ ब्र्हुप्_१,४।१७ ॥ यत् सप्तान्नानि मेधया तपसाजनयत् पिता । एकम् अस्य साधारणं द्वे देवान् अभाजयत् । त्रीण्य् आत्मने ऽकुरुत पशुभ्य एकं प्रायच्छत् । तस्मिन् सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च न । कस्मात् तानि न क्षीयन्ते अद्यमानानि सर्वदा । यो वै ताम् अक्षितिं वेद सो ऽन्नम् अत्ति प्रतीकेन । स देवान् अपिगच्छति स ऊऋजम् उपजीवति । इति श्लोकाः ॥ ब्र्हुप्_१,५।१ ॥ यत् सप्तान्नानि मेधया तपसाजनयत् पितेति । मेधया हि तपसाजनयत् पितैकम् अस्य साधारणम् इति । इदम् एवास्य तत् साधारणम् अन्नं यद् इदम् अद्यते । स य एतद् उपास्ते न स पाप्मनो व्यावर्तते । मिश्रं ह्य् एतत् । द्वे देवान् अभाजयद् इति । हुतं च प्रहुतं च । तस्माद् देवेभ्यो जुह्वति च प्र च जुह्वति । अथो आहुर् दर्शपूर्णमासाव् इति । तस्मान् नेष्टियाजुकः स्यात् । पशुभ्य एकं प्रायच्छद् इति । तत् पयः । पयो ह्य् एवाग्रे मनुष्याश् च पशवश् चोपजीवन्ति । तस्मात् कुमारं जातं घृतं वैवाग्रे प्रतिलेहयन्ति स्तनं वानुधापयन्ति । अथ वत्सं जातम् आहुस् तृणाद् इति । तस्मिन् सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च नेति । पयसि हीदं सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च न । तद् यद् इदम् आहुः संवत्सरं पयसा जुह्वद् अप पुनर्मृत्युं जयतीति । न तथा विद्यात् । यद् अहर् एव जुहोति तद् अहः पुनर्मृत्युम् अपजयत्य् एवं विद्वान् । सर्वं हि देवेभ्यो ऽन्नाद्यं प्रयच्छति । कस्मात् तानि न क्षीयन्ते अद्यमानानि सर्वदेति । पुरुषो वा अक्षितिः । स हीदम् अन्नं पुनः पुनर् जनयते । यो वैताम् अक्षितिं वेदेति । पुरुषो वा अक्षितिः । स हीदम् अन्नं धियाधिया जनयते कर्मभिः । यद् धैतन् न कुर्यात् क्षीयेत ह । सो ऽन्नम् अत्ति प्रतीकेनेति । मुखं प्रतीकं मुखेनेत्य् एतत् । स देवान् अपिगच्छति स ऊर्जम् उपजीवतीति प्रशंसा ॥ ब्र्हुप्_१,५।२ ॥ त्रीण्य् आत्मने ऽकुरुतेति: मनो वाचं प्राणं तान्य् आत्मने ऽकुरुत । अन्यत्रमना अभूवं नादर्शम् अन्यत्रमना अभूवं नाश्रौषम् इति मनसा ह्य् एव पश्यति मनसा शृणोति । कामः सङ्कल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिर् अधृतिर् ह्रीर् धीर् भीर् इत्य् एतत् सर्वं मन एव । तस्माद् अपि पृष्ठत उपस्पृष्टो मनसा विजानाति । यः कश्च शब्दो वाग् एव सा । एषा ह्य् अन्तं आयत्तैषा हि न । प्राणो ऽपानो व्यान उदानः समानो ऽन इत्य् एतत् सर्वं प्राण एव । एतन्मयो वा अयम् आत्मा । वाङ्मयो मनोमयः प्राणमयः ॥ ब्र्हुप्_१,५।३ ॥ त्रयो लोका एत एव । वाग् एवायं लोको मनो ऽन्तरिक्षलोकः प्राणो ऽसौ लोकः ॥ ब्र्हुप्_१,५।४ ॥ त्रयो वेदा एत एव । वाग् एवर्ग्वेदो मनो यजुर्वेदः प्राणः सामवेदः ॥ ब्र्हुप्_१,५।५ ॥ देवा पितरो मनुष्या एत एव । वाग् एव देवा मनः पितरः, प्राणो मानुष्याः ॥ ब्र्हुप्_१,५।६ ॥ पिता माता प्रजैत एव । मन एव पिता वाङ् माता प्राणः प्रजा ॥ ब्र्हुप्_१,५।७ ॥ विज्ञातं विजिज्ञास्यम् अविज्ञातम् एत एव । यत् किञ्च विज्ञातं वाचस् तद् रूपम् । वाग् घि विज्ञाता । वाग् एनं तद् भूत्वावति ॥ ब्र्हुप्_१,५।८ ॥ यत् किञ्च विजिज्ञास्यं मनसस् तद् रूपम् । मनो हि विजिज्ञास्यम् । मन एनं तद् भूत्वावति ॥ ब्र्हुप्_१,५।९ ॥ यत् किञ्चाविज्ञातं प्राणस्य तद् रूपम् । प्राणो ह्य् अविज्ञातः । प्राण एनं तद् भूत्वावति ॥ ब्र्हुप्_१,५।१० ॥ तस्यै वाचः पृथिवी शरीरम् । ज्योतीरूपम् अयम् अग्निः । तद् यावत्य् एव वाक् तावती पृथिवी तावान् अयम् अग्निः ॥ ब्र्हुप्_१,५।११ ॥ अथैतस्य मनसो द्यौः शरीरम् । ज्योतीरूपम् असाव् आदित्यः । तद् यावद् एव मनस् तावती द्यौस् तावान् असाव् आदित्यः । तौ मिथुनं समैताम् । ततः प्राणो ऽजायत । स इन्द्रः । स एषो ऽसपत्नः । द्वितीयो वै सपत्नः । नास्य सपत्नो भवति य एवं वेद ॥ ब्र्हुप्_१,५।१२ ॥ अथैतस्य प्राणस्यापः शरीरम् । ज्योतीरूपम् असौ चन्द्रः । तद् यावान् एव प्राणस् तावत्य आपस् तावान् असौ चन्द्रः । त एते सर्व एव समाः सर्वे ऽनन्ताः । स यो हैतान् अन्तवत उपास्ते ऽन्तवन्तं स लोकं जयति । अथ यो हैतान् अनन्तान् उपास्ते ऽनन्तं स लोकं जयति ॥ ब्र्हुप्_१,५।१३ ॥ स एष संवत्सरः प्रजापतिष् षोडशकलः । तस्य रात्रय एव पञ्चदश कला । ध्रुवैवास्य षोडशी कला । स रात्रिभिर् एवा च पूर्यते ऽप च क्षीयते । सो ऽमावास्यां रात्रिम् एतया षोडश्या कलया सर्वम् इदं प्राणभृद् अनुप्रविश्य ततः प्रातर् जायते । तस्माद् एतां रात्रिं प्राणभृतः प्राणं न विच्छिन्द्याद् अपि कृकलासस्यैतस्या एव देवताया अपचित्यै ॥ ब्र्हुप्_१,५।१४ ॥ यो वै स संवत्सरः प्रजापतिः षोडशकालो ऽयम् एव स यो ऽयम् एवंवित् पुरुषः । तस्य वित्तम् एव पञ्चदश कलाः । आत्मैवास्य षोडशी कला । स वित्तेनैवा च पूर्यते ऽप च क्षीयते । तद् एतन् नभ्यं यद् अयम् आत्मा । प्रधिर् वित्तम् । तस्माद् यद्य् अपि सर्वज्यानिं जीयत आत्मना चेज् जीवति प्रधिनागाद् इत्य् एवाहुः ॥ ब्र्हुप्_१,५।१५ ॥ अथ त्रयो वाव लोका मनुष्यलोकः पितृलोको देवलोक इति । सो ऽयं मनुष्यलोकः पुत्रेणैव जय्यो नान्येन कर्मणा । कर्मणा पितृलोकः । विद्यया देवलोकः । देवलोको वै लोकानां श्रेष्ठः । तस्माद् विद्यां प्रशंसन्ति ॥ ब्र्हुप्_१,५।१६ ॥ अथातः सम्प्रत्तिः । यदा प्रैष्यन् मन्यते ऽथ पुत्रम् आह -- त्वं ब्रह्म त्वं यज्ञस् त्वं लोक इति । स पुत्रः प्रत्याहाहं ब्रह्माहं यज्ञो ऽहम् लोक इति । यद् वै किञ्चानूक्तं तस्य सर्वस्य ब्रह्मेत्य् एकता । ये वै के च यज्ञास् तेषां सर्वेषां यज्ञ इत्य् एकता । ये वै के च लोकास् तेषां सर्वेषां लोक इत्य् एकता । एतावद् वा इदं सर्वम् । एतन् मा सर्वं सन्न् अयम् इतो भुनजद् इति । तस्मात् पुत्रम् अनुशिष्टं लोक्यम् आहुः । तस्माद् एनम् अनुशासति । स यदैवंविद् अस्माल् लोकात् प्रैत्य् अथैभिर् एव प्राणैः सह पुत्रम् आविशति । स यद्य् अनेन किञ्चिद् अक्ष्णया कृतं भवति तस्माद् एनं सर्वस्मात् पुत्रो मुञ्चति तस्मात् पुत्रो नाम । स पुत्रेणैवास्मिल् लोके प्रतितिष्ठति । अथैनम् एते देवाः प्राणा अमृता आविशन्ति ॥ ब्र्हुप्_१,५।१७ ॥ पृथिव्यै चैनम् अग्नेश् च दैवी वाग् आविशति । सा वै दैवी वाग् यया यद् यद् एव वदति तत् तद् भवति ॥ ब्र्हुप्_१,५।१८ ॥ दिवश् चैनम् आदित्याच् च दैवं मन आविशति । तद् वै दैवं मनो येनानन्द्य् एव भवत्य् अथो न शोचति ॥ ब्र्हुप्_१,५।१९ ॥ अद्भ्यश् चैनं चन्द्रमसश् च दैवः प्राण आविशति । स वै दैवः प्राणो यः सञ्चरंश् चासञ्चरंश् च न व्यथते ऽथो न रिष्यति । स एष एवंवित् सर्वेषां भूतानाम् आत्मा भवति । यथैषा देवतैवं सः । यथैतां देवतां सर्वाणि भूतान्य् अवन्त्य् एवं हैवंविदं सर्वाणि भूतान्य् अवन्ति । यद् उ किञ्चेमाः प्रजाः शोचन्त्य् अमैवासां तद् भवति । पुण्यम् एवामुं गच्छति । न ह वै देवान् पापं गच्छति ॥ ब्र्हुप्_१,५।२० ॥ अथातो व्रतमीमांसा । प्रजापतिर् ह कर्माणि ससृजे । तानि सृष्टान्य् अन्यो ऽन्येनास्पर्धन्त । वदिष्याम्य् एवाहम् इति वाग् दध्रे । द्रक्ष्याम्य् अहम् इति चक्षुः । श्रोष्याम्य् अहम् इति श्रोत्रम् । एवम् अन्यानि कर्माणि यथाकर्मम् । तानि मृत्युः श्रमो भूत्वोपयेमे । तान्य् आप्नोत् । तान्य् आप्त्वा मृत्युर् अवारुन्ध । तस्माच् छ्राम्यत्य् एव वाक् । श्राम्यति चक्षुः । श्राम्यति श्रोत्रम् । अथेमम् एव नाप्नोत् यो ऽयं मध्यमः प्राणः । तानि ज्ञातुं दध्रिरे । अयं वै नः श्रेष्ठो यः सञ्चरंश् चासञ्चरंश् च न व्यथते ऽथो न रिष्यति । हन्तास्यैव सर्वे रूपं भवामेति । त एतस्यैव सर्वे रूपम् अभवन् । तस्माद् एत एतेनाख्यायन्ते प्राणा इति । तेन ह वाव तत् कुलम् आचक्षते यस्मिन् कुले भवति य एवं वेद । य उ हैवंविदा स्पर्धते ऽनुशुष्यति । अनुशुष्य हैवान्ततो म्रियत इत्य् अध्यात्मम् ॥ ब्र्हुप्_१,५।२१ ॥ अथाधिदेवतम्: ज्वलिष्याम्य् एवाहम् इत्य् अग्निर् दध्रे । तप्स्याम्य् अहम् इत्य् आदित्यः । भास्याम्य् अहम् इति चन्द्रमाः । एवम् अन्या देवता यथादेवतम् । स यथैषां प्राणानां मध्यमः प्राण एवम् एतासां देवतानां वायुः । म्लोचन्ति ह्य् अन्या देवता न वायुः । सैषानस्तमिता देवता यद् वायुः ॥ ब्र्हुप्_१,५।२२ ॥ अथैष श्लोको भवति -- यतश् चोदेति सूर्यो ऽस्तं यत्र च गच्छतीति । प्राणाद् वा एष उदेति प्राणे ऽस्तम् एति । तं देवाश् चक्रिरे धर्मं स एवाद्य स उ श्व इति । यद् वा एते ऽमुर्ह्य् अध्रियन्त तद् एवाप्य् अद्य कुर्वन्ति । तस्माद् एकम् एव व्रतं चरेत् प्राण्याच् चैवापान्याच् च । नेन् मा पाप्मा मृत्युर् आप्नवद् इति । यद्य् उ चरेत् समापिपयिषेत् तेनो एतस्यै देवतायै सायुज्यं सलोकतां जयति ॥ ब्र्हुप्_१,५।२३ ॥ त्रयं वा इदं नाम रूपं कर्म । तेषां नाम्नां वाग् इत्य् एतद् एषाम् उक्थम् । अतो हि सर्वाणि नामान्य् उत्तिष्ठन्ति । एतद् एषां साम । एतद् धि सर्वैर् नामभिः समम् । एतद् एषां ब्रह्म । एतद् धि सर्वाणि नामानि बिभर्ति ॥ ब्र्हुप्_१,६।१ ॥ अथ रूपाणां चक्षुर् इत्य् एतद् एषाम् उक्थम् । अतो हि सर्वाणि रूपाण्य् उत्तिष्ठन्ति । एतद् एषां साम । एतद् धि सर्वै रूपैः समम् । एतद् एषां ब्रह्म । एतद् धि सर्वाणि रूपाणि बिभर्ति ॥ ब्र्हुप्_१,६।२ ॥ अथ कर्मणाम् आत्मेत्य् एतद् एषाम् उक्थम् । अतो हि सर्वाणि कर्माण्य् उत्तिष्ठन्ति । एतद् एषां साम । एतद् धि सर्वैः कर्मभिः समम् । एतद् एषां ब्रह्म । एतद् धि सर्वाणि कर्माणि बिभर्ति । तद् एतत् त्रयं सद् एकम् अयम् आत्मा । आत्मो एकः सन्न् एतत् त्रयम् । तद् एतद् अमृतं सत्येन छन्नम् । प्राणो वा अमृतम् । नामरूपे सत्यम् । ताभ्याम् अयं प्राणश् छन्नः ॥ ब्र्हुप्_१,६।३ ॥ दृप्तबालाकिर् हानूचानो गार्ग्य आस । स होवाचाजातशत्रुं काश्यं -- ब्रह्म ते ब्रवाणीति । स होवाचाजातशत्रुः -- सहस्रम् एतस्यां वाचि दद्मः, जनको जनक इति वै जना धावन्तीति ॥ ब्र्हुप्_२,१।१ ॥ स होवाच गार्ग्यः -- य एवासाव् आदित्ये पुरुष एतम् एवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुर् -- मा मैतस्मिन्संवदिष्ठाः । अतिष्ठाः सर्वेषां भूतानां मूर्धा राजेति वा अहम् एतम् उपास इति । स य एतम् एवम् उपास्ते ऽतिष्ठाः सर्वेषां भूतानां मूर्धा राजा भवति ॥ ब्र्हुप्_२,१।२ ॥ स होवाच गार्ग्यः -- य एवासौ चन्द्रे पुरुष एतम् एवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुः -- मा मैतस्मिन्संवदिष्ठाः । बृहन् पाण्दरवासाः सोमो राजेति वा अहम् एतम् उपास इति । स य एतम् एवम् उपास्ते ऽहर्-अहर् सुतः प्रसुतो भवति । नास्यान्नं क्षीयते ॥ ब्र्हुप्_२,१।३ ॥ स होवाच गार्ग्यः -- य एवासौ विद्युति पुरुष एतम् एवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुः -- मा मैतस्मिन् संवदिष्ठाः । तेजस्वीति वा अहम् एतम् उपास इति । स य एतम् एवम् उपास्ते तेजस्वी ह भवति । तेजस्विनी हास्य प्रजा भवति ॥ ब्र्हुप्_२,१।४ ॥ स होवाच गार्ग्यः -- य एवायम् आकाशे पुरुष एतम् एवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुः -- मा मैतस्मिन् संवदिष्ठाः । पूर्णम् अप्रवर्तीति वा अहम् एतम् उपास इति । स य एतम् एवम् उपास्ते पूर्यते प्रजया पशुभिर् नास्यास्माल् लोकात् प्रजोद्वर्तते ॥ ब्र्हुप्_२,१।५ ॥ स होवाच गार्ग्यः -- य एवायं वायौ पुरुष एतम् एवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुः -- मा मैतस्मिन्संवदिष्ठाः । इन्द्रो वैकुण्ठो ऽपराजिता सेनेति वा अहम् एतम् उपास इति । स य एतम् एवम् उपास्ते जिष्णुर् हापराजिष्णुर् भवत्य् अन्यतस्त्यजायी ॥ ब्र्हुप्_२,१।६ ॥ स होवाच गार्ग्यः -- य एवायम् अग्नौ पुरुष एतम् एवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुः -- मा मैतस्मिन्संवदिष्ठाः । विषासहिर् इति वा अहम् एतम् उपास इति । स य एतम् एवम् उपास्ते विषासहिर् ह भवति । विषासहिर् हास्य प्रजा भवति ॥ ब्र्हुप्_२,१।७ ॥ स होवाच गार्ग्यः -- य एवायम् अप्सु पुरुष एतम् एवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुः -- मा मैतस्मिन्संवदिष्ठाः । प्रतिरूप इति वा अहम् एतम् उपास इति । स य एतम् एवम् उपास्ते प्रतिरूपं हैवैनम् उपगच्छति नाप्रतिरूपम् । अथो प्रतिरुपो ऽस्माज् जायते ॥ ब्र्हुप्_२,१।८ ॥ स होवाच गार्ग्यः -- य एवायम् आदर्शे पुरुष एतम् एवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुः -- मा मैतस्मिन् संवदिष्ठाः । रोचिष्णुर् इति वा अहम् एतम् उपास इति । स य एतम् एवम् उपास्ते रोचिष्णुर् ह भवति । रोचिष्णुर् हास्य प्रजा भवति । अथो यैः सन्निगच्छति । सर्वांस् तान् अतिरोचते ॥ ब्र्हुप्_२,१।९ ॥ स होवाच गार्ग्यः -- य एवायं यन्तं पश्चाच् छब्बो ऽनूदेत्य् एतम् एवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुः -- मा मैतस्मिन् संवदिष्ठाः । असुर् इति वा अहम् एतम् उपास इति । स य एतम् एवम् उपास्ते सर्वं हैवास्मिंल् लोक आयुर् एति । नैनं पुरा कालात् प्राणो जहाति ॥ ब्र्हुप्_२,१।१० ॥ स होवाच गार्ग्यः -- य एवायं दिक्षु पुरुष एतम् एवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुः -- मा मैतस्मिन् संवदिष्ठाः । द्वितीयो ऽनपग इति वा अहम् एतम् उपास इति । स य एतम् एवम् उपास्ते द्वितीयवान् ह भवति । नास्माद् गणश् छिद्यते ॥ ब्र्हुप्_२,१।११ ॥ स होवाच गार्ग्यः -- य एवायं छायामयः पुरुष एतम् एवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुः -- मा मैतस्मिन्संवदिष्ठाः । मृत्युर् इति वा अहम् एतम् उपास इति । स य एतम् एवम् उपास्ते सर्वं हैवास्मिंल् लोक आयुर् एति । नैनं पुरा कालान् मृत्युर् आगच्छति ॥ ब्र्हुप्_२,१।१२ ॥ स होवाच गार्ग्यः -- य एवायम् आत्मनि पुरुष एतम् एवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुः -- मा मैतस्मिन् संवदिष्ठाः । आत्मन्वीति वा अहम् एतम् उपास इति । स य एतम् एवम् उपास्त आत्मन्वी ह भवति । आत्मन्विनी हास्य प्रजा भवति । स ह तूष्णीम् आस गार्ग्यः ॥ ब्र्हुप्_२,१।१३ ॥ स होवाचाजातशत्रुः -- एतावन् नू३ इति । एतावद् धीति । नैतावता विदितं भवतीति । स होवाच गार्ग्यः -- उप त्वायानीति ॥ ब्र्हुप्_२,१।१४ ॥ स होवाचाजातशत्रुः -- प्रतिलोमं चैतद् यद् ब्राह्मणः क्षत्रियम् उपेयाद् ब्रह्म मे वक्ष्यतीति । व्य् एव त्वा ज्ञपयिष्यामीति । तं पाणाव् आदायोत्तस्थौ । तौ ह पुरुषं सुप्तम् आजग्मतुः । तम् एतैर् नामभिर् आमन्त्रयां चक्रे बृहन् पाण्दरवासः सोम राजन्न् इति । स नोत्तस्थौ । तं पाणिनापेषं बोधयां चकार । स होत्तस्थौ ॥ ब्र्हुप्_२,१।१५ ॥ स होवाचाजातशत्रुः -- यत्रैष एतत् सुप्तो ऽभूद् य एष विज्ञानमयः पुरुषः क्वैष तदाभूत् कुत एतद् आगाद् इति । तद् उ ह न मेने गार्ग्यः ॥ ब्र्हुप्_२,१।१६ ॥ स होवाचाजातशत्रुः -- यत्रैष एतत् सुप्तो ऽभूद् य एष विज्ञानमयः पुरुषस् तद् एषां प्राणानां विज्ञानेन विज्नानम् आदाय य एषो ऽन्तर् हृदय आकाशस् तस्मिञ् छेते । तानि यदा गृह्णाति । अथ हैतत् पुरुषः स्वपिति नाम । तद् गृहीत एव प्राणो भवति । गृहीता वाग् । गृहीतं चक्षुर् । गृहीतं श्रोत्रम् । गृहीतं मनः ॥ ब्र्हुप्_२,१।१७ ॥ स यत्रैतत् स्वप्न्यया चरति ते हास्य लोकाः । तद् उतेव महाराजो भवत्य् उतेव महाब्राह्मणः । उतेवोच्चावचं निगच्छति । स यथा महाराजो जानपदान् गृहीत्वा स्वे जनपदे यथाकामं परिवर्तेतैवम् एवैष एतत् प्राणान् गृहीत्वा स्वे शरीरे यथाकामं परिवर्तते ॥ ब्र्हुप्_२,१।१८ ॥ अथ यदा सुषुप्तो भवति । यदा न कस्य चन वेद । हिता नाम नाद्यो द्वासप्ततिः सहस्राणि हृदयात् पुरीततम् अभिप्रतिष्ठन्ते । ताभिः प्रत्यवसृप्य पुरीतति शेते । स यथा कुमारो अद्द्। वा महाराजो वा महाब्राह्मणो वातिघ्नीम् आनन्दस्य गत्वा शयीत । एवम् एवैष एतच् छेते ॥ ब्र्हुप्_२,१।१९ ॥ स यथोर्णवाभिस् तन्तुनोच्चरेद् यथा अग्नेः क्षुद्रा विष्फुलिङ्गा व्युच्चरन्त्य् एवम् एवास्माद् आत्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि व्युच्चरन्ति । तस्योपनिषत् सत्यस्य सत्यम् इति । प्राणा वै सत्यं तेषाम् एष सत्यम् ॥ ब्र्हुप्_२,१।२० ॥ यो ह वै शिशुं साधानं सप्रत्याधानं सस्थूणं सदामं वेद सप्त ह द्विषतो भ्रातृव्यान् अवरुणद्धि । अयं वाव शिशुर् यो ऽयं मध्यमः प्राणः । तस्येदम् एवाधानम् इदं प्रत्याधानं प्राणः स्थूणान्नं दाम ॥ ब्र्हुप्_२,२।१ ॥ तम् एताः सप्ताक्षितय उपतिष्ठन्ते । तद् या इमा अक्षंल् लोहिन्यो राजयस् ताभिर् एनं रुद्रो ऽन्वायत्तः । अथ या अक्षन्न् आपस् ताभिः पर्जन्यः । या कनीनका तयादित्यः । यत् कृष्णं तेनाग्निर् । यच् छुक्लं तेनेन्द्रः । अधरयैनं वर्तन्या पृथिव्य् अन्वायत्ता । द्यौर् उत्तरया । नास्यान्नं क्षीयते य एवं वेद ॥ ब्र्हुप्_२,२।२ ॥ तद् एष श्लोको भवति -- अर्वाग्बिलश् चमस ऊर्ध्वबुध्नस् तस्मिन् यशो निहितं विश्वरूपम् । तस्यासत ऋषयः सप्त तीरे वाग् अष्टमी ब्रह्मणा संविदानेति । अर्वाग्बिलश् चमस ऊर्ध्वबुध्न इति । इदं तच् छरीर एष ह्य् अर्वाग्बिलश् चमस ऊर्ध्वबुध्नः । तस्मिन् यशो निहितं विश्वरूपम् इति । प्राणा वै यशो विश्वरूपम् । प्राणान् एतद् आह । तस्यासत ऋषयः सप्त तीर इति । प्राणा वा ऋषयः । प्राणाण् एतद् आह । वाग् अष्टमी ब्रह्मणा संविदानेति । वाग् घ्य् अष्टमी ब्रह्मणा संवित्ते ॥ ब्र्हुप्_२,२।३ ॥ इमाव् एव गोतमभरद्वाजौ । अयम् एव गोतमो ऽयं भरद्वाजः । इमाव् एव विश्वामित्रजमदग्नी । अयम् एव विश्वामित्रो ऽयं जमदग्निः । इमाव् एव वसिष्ठकश्यपौ । अयम् एव वसिष्ठो ऽयं कश्यपः । वाग् एवात्रिः । वाचा ह्य् अन्नम् अद्यते । अत्तिर् ह वै नामैतद् यद् औत्रिर् इति । सर्वस्यात्ता भवति । सर्वम् अस्यान्नं भवति य एवं वेद ॥ ब्र्हुप्_२,२।४ ॥ द्वे वाव ब्रह्मणो रूपे । मूर्तं चैवामूर्तं च । मर्त्यं चामृतं च । स्थितं च यच् च । सच् च त्यं च ॥ ब्र्हुप्_२,३।१ ॥ तद् एतन् मूर्तं यद् अन्यद् वायोश् चान्तरिक्षाच् च । एतन् मर्त्यम् । एतत् स्थितम् । एतत् सत् । तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो य एष तपति । सतो ह्य् एष रसः ॥ ब्र्हुप्_२,३।२ ॥ अथामूर्तम् । वायुश् चान्तरिक्षश् च । एतद् अमृतम् । एतद् यत् । एतत् त्यम् । तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो य एष एतस्मिन् मण्डले पुरुषः । त्यस्य ह्य् एष रस । इत्य् अधिदैवतम् ॥ ब्र्हुप्_२,३।३ ॥ अथाध्यात्मम् । इदम् एव मूर्तं यद् अन्यत् प्राणाच् च यश् चायम् अन्तर् आत्मन्न् आकाशः । एतन् मर्त्यम् । एतत् स्थितम् । एतत् सत् । तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो यच् चक्षुः । सतो ह्य् एष रसः ॥ ब्र्हुप्_२,३।४ ॥ अथामूर्तं प्राणश् च यश् चायम् अन्तर् आत्मन्न् आकाशः । एतद् अमृतम् । एतद् यत् । एतत् त्यत् । तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो यो ऽयं दक्षिणे ऽक्षन् पुरुषः । त्यस्य ह्य् एष रसः ॥ ब्र्हुप्_२,३।५ ॥ तस्य हैतस्य पुरुषस्य रूपम् । यथा माहारजनं वासो यथा पाण्ड्वाविकं यथेन्द्रगोपो यथाग्न्यर्चिर् यथा पुण्डरीकं यथा सकृद्विद्युत्तम् । सकृद्विद्युत्तेव ह वा अस्य श्रीर् भवति य एवं वेद । अथात आदेशो नेति नेति । न ह्य् एतस्माद् इति नेत्य् अन्यत् परम् अस्ति । अथ नामधेयं सत्यस्य सत्यम् इति । प्राणा वै सत्यम् । तेषाम् एष सत्यम् ॥ ब्र्हुप्_२,३।६ ॥ मैत्रेयीति होवाच याज्ञवल्क्यः -- उद्यास्यन् वा अरे ऽहम् अस्मात् स्थानाद् अस्मि । हन्त ते ऽनया कात्यायन्यान्तं करवाणीति ॥ ब्र्हुप्_२,४।१ ॥ सा होवाच मैत्रेयी -- यन् नु म इयं भगोः सर्वा पृथिवी वित्तेन पूर्णा स्यात् कथं तेनामृता स्याम् इति । नेति होवाच याज्ञवल्क्यः । यथैवोपकरणवतां जीवितं तथैव ते जीवितं स्यात् । अमृतत्वस्य तु नाशास्ति वित्तेनेति ॥ ब्र्हुप्_२,४।२ ॥ सा होवाच मैत्रेयी -- येनाहं नामृता स्यां किम् अहं तेन कुर्याम् । यद् एव भगवान् वेद तद् एव मे ब्रूहीति ॥ ब्र्हुप्_२,४।३ ॥ स होवाच याज्ञवल्क्यः -- प्रिया बतारे नः सती प्रियं भाषसे । एह्य् आस्स्व । व्याख्यास्यामि ते । व्याचक्षाणस्य तु मे निदिध्यासस्वेति ॥ ब्र्हुप्_२,४।४ ॥ स होवाच -- न वा अरे पत्युः कामाय पतिः प्रियो भवत्य् आत्मनस् तु कामाय पतिः प्रियो भवति । न वा अरे जायायै कामाय जाया प्रिया भवत्य् आत्मनस् तु कामाय जाया प्रिया भवति । न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्त्य् आत्मनस् तु कामाय पुत्राः प्रिया भवन्ति । न वा अरे वित्तस्य कामाय वित्तं प्रियं भवत्य् आत्मनस् तु कामाय वित्तं प्रियं भवति । न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवत्य् आत्मनस् तु कामाय ब्रह्म प्रियं भवति । न वा अरे क्षत्रस्य कामाय क्षत्रं प्रियं भवत्य् आत्मनस् तु कामाय क्षत्रं प्रियं भवति । न वा अरे लोकानां कामाय लोकाः प्रिया भवन्त्य् आत्मनस् तु कामाय लोकाः प्रिया भवन्ति । न वा अरे देवानां कामाय देवाः प्रिया भवन्त्य् आत्मनस् तु कामाय देवाः प्रिया भवन्ति । न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्त्य् आत्मनस् तु कामाय भूतानि प्रियाणि भवन्ति । न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्य् आत्मनस् तु कामाय सर्वं प्रियं भवति । आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेयि । आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम् ॥ ब्र्हुप्_२,४।५ ॥ ब्रह्म तं परादाद् यो ऽन्यत्रात्मनो ब्रह्म वेद । क्षत्रं तं परादाद् यो ऽन्यत्रात्मनः क्षत्रं वेद । लोकास् तं परादुर् यो ऽन्यत्रात्मनो लोकान् वेद । देवास् तं परादुर् यो ऽन्यत्रात्मनो देवान् वेद । भूतानि तं परादुर् यो ऽन्यत्रात्मनो भूतानि वेद । सर्वं तं परादाद् यो ऽन्यत्रात्मनः सर्वं वेद । इदं ब्रह्मेदं क्षत्रम् इमे लोका इमे देवा इमानि भूतानीदं सर्वं यद् अयम् आत्मा ॥ ब्र्हुप्_२,४।६ ॥ स यथा दुन्दुभेर् हन्यमानस्य न बाह्याञ् छब्दाञ् छक्नुयाद् ग्रहणाय । दुन्दुभेस् तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः ॥ ब्र्हुप्_२,४।७ ॥ स यथा शङ्खस्य ध्मायमानस्य न बाह्याञ् छब्दाञ् छक्नुयाद् ग्रहणाय शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः ॥ ब्र्हुप्_२,४।८ ॥ स यथा वीणायै वाद्यमानायै न बाह्याञ् छब्दाञ् छक्नुयाद् ग्रहणाय वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो गृहीतः ॥ ब्र्हुप्_२,४।९ ॥ स यथार्द्रैधाग्नेर् अभ्याहितात् पृथग् धूमा विनिश्चरन्त्य् एव वा अरे ऽस्य महतो भूतस्य निःश्वसितम् एतद् यद् ऋग्वेदो यजुर्वेदः सामवेदो ऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्य् अनुव्याख्यानानि व्याख्याननि । अस्यैवैतानि निश्वसितानि ॥ ब्र्हुप्_२,४।१० ॥ स यथा सर्वासाम् अपां समुद्र एकायनम् । एवं सर्वेषां स्पर्शानां त्वग् एकायनम् । एवं सर्वेषां गन्धानां नासिके एकायनम् । एवं सर्वेषां रसानां जिह्वैकायनम् । एवं सर्वेषां रूपाणां चक्षुर् एकायनम् । एवं सर्वेषं शब्दानां श्रोत्रम् एकायनम् । एवं सर्वेषां सङ्कल्पानां मन एकायनम् । एवं सर्वासां विद्यानां हृदयम् एकायनम् । एवं सर्वेषां कर्मणां हस्ताव् एकायनम् । एवं सर्वेषाम् आनन्दानाम् उपस्थ एकायनम् । एवं सर्वेषां विसर्गाणां पायुर् एकायनम् । एवं सर्वेषाम् अध्वनां पादाव् एकायनम् । एवं सर्वेषां वेदानां वाग् एकायनम् ॥ ब्र्हुप्_२,४।११ ॥ स यथा सैन्धवखिल्य उदके प्रास्त उदकम् एवानुविलीयेत न हास्योद्ग्रहणायेव स्यात् । यतो-यतस् त्व् आददीत लवणम् । एवं वा अर इदं महद् भूतम् अनन्तम् अपारं विज्ञानघन एव । एतेभ्यो भूतेभ्यः समुत्थाय तान्य् एवानुविनश्यति । न प्रेत्य सञ्ज्ञास्तीत्य् अरे ब्रवीमि । इति होवाच याज्ञवल्क्यः ॥ ब्र्हुप्_२,४।१२ ॥ सा होवाच मैत्रेयी -- अत्रैव मा भगवान् अमूमुहन् न प्रेत्य सञ्ज्ञास्तीति । स होवाच -- न वा अरे ऽहं मोहं ब्रवीमि । अलं वा अर इदं विज्ञानाय ॥ ब्र्हुप्_२,४।१३ ॥ यत्र हि द्वैतम् इव भवति तद् इतर इतरं जिघ्रति तद् इतर इतरं पश्यति तद् इतर इतरं शृणोति तद् इतर इतरं जिघ्रति तद् इतर इतरम् अभिवदति तद् इतर इतरं मनुते तद् इतर इतरं विजानाति । यत्र वास्य सर्वम् आत्मैवाभूत् तत् केन कं जिघ्रेत् तत् केन कं जिघ्रेत् तत् केन कं पश्येत् तत् केन कं शृणुयात् तत् केन कम् अभिवदेत् तत् केन कं मन्वीत तत् केन कं विजानीयात् । येनेदं सर्वं विजानाति तं केन विजानीयात् । विज्ञातारम् अरे केन विजानीयाद् इति ॥ ब्र्हुप्_२,४।१४ ॥ इयं पृथिवी सर्वेषां भूतानां मधु । अस्यै पृथिव्यै सर्वाणि भूतानि मधु । यश् चायम् अस्यां पृथिव्यां तेजोमयो ऽमृतमयः पुरुषो यस् चायम् अध्यात्मं शारीरस् तेजोमयो ऽमृतमयः पुरुषो ऽयम् एव स यो ऽयम् आत्मा । इदम् अमृतम् इदं ब्रह्मेदं सर्वम् ॥ ब्र्हुप्_२,५।१ ॥ इमा आपः सर्वेषां भूतानां मधु । आसाम् अपां सर्वाणि भूतानि मधु । यश् चायम् आस्व् अप्सु तेजोमयो ऽमृतमयः पुरुषो यश् चायम् अध्यात्मं रैतसस् तेजोमयो ऽमृतमयः पुरुषो ऽयम् एव स यो ऽयम् आत्मा । इदम् अमृतम् इदं ब्रह्मेदं सर्वम् ॥ ब्र्हुप्_२,५।२ ॥ अयम् अग्निः सर्वेषां भूतानां मधु । अस्याग्नेः सर्वाणि भूतानि मधु । यश् चायम् अस्मिन्न् अग्नौ तेजोमयो ऽमृतमयः पुरुषो यश् चायम् अध्यात्मं वाङ्मयस् तेजोमयो ऽमृतमयः पुरुषो ऽयम् एव स यो ऽयम् आत्मा । इदम् अमृतम् इदं ब्रह्मेदं सर्वम् ॥ ब्र्हुप्_२,५।३ ॥ अयं वायुः सर्वेषां भूतानां मधु । अस्य वायोः सर्वाणि भूतानि मधु । यश् चायम् अस्मिन् वायौ तेजोमयो ऽमृतमयः पुरुषो यश् चायम् अध्यात्मं प्राणस् तेजोमयो ऽमृतमयः पुरुषो यम् एव स यो ऽयम् आत्मा । इदं अमृतम् इदं ब्रह्मेदं सर्वम् ॥ ब्र्हुप्_२,५।४ ॥ अयम् आदित्यः सर्वेषां भूतानां मधु । अस्यादित्यस्य सर्वाणि भूतानि मधु । यश् चायम् अस्मिन्न् आदित्ये तेजोमयो ऽमृतमयः पुरुषो यश् चायम् अध्यात्मं चाक्षुषस् तेजोमयो ऽमृतमयः पुरुषो ऽयम् एव स यो ऽयम् आत्मा । इदम् अमृतम् इदं ब्रह्मेदं सर्वम् ॥ ब्र्हुप्_२,५।५ ॥ इमा दिशः सर्वेषां भूतानां मधु । आसां दिशां सर्वाणि भूतानि मधु । यश् चायम् आसु दिक्षु तेजोमयो ऽमृतमयः पुरुषो यश् चायम् अध्यात्मं श्रौत्रः प्रातिश्रुत्कस् तेजोमयो ऽमृतमयः पुरुषो ऽयम् एव स यो ऽयम् आत्मा । इदम् अमृतम् इदं ब्रह्मेदं सर्वम् ॥ ब्र्हुप्_२,५।६ ॥ अयं चन्द्रः सर्वेषां भूतानां मध्व् । अस्य चन्द्रस्य सर्वाणि भूतानि मधु । यश् चायम् अस्मिन् चन्द्रे तेजोमयो ऽमृतमयः पुरुषो यश् चायम् अध्यात्मं मानसस् तेजोमयो ऽमृतमयः पुरुषो ऽयम् एव स यो ऽयम् आत्मेदम् अमृतम् । इदं ब्रह्मेदं सर्वम् ॥ ब्र्हुप्_२,५।७ ॥ इयं विद्युत् सर्वेषां भूतानं मधु । अस्यै विद्युतः सर्वाणि भूतानि मधु । यश् चायम् अस्यां विद्युति तेजोमयो ऽमृतमयः पुरुषो यश् चायम् अध्यात्मं तैजसस् तेजोमयो ऽमृतमयः पुरुषो ऽयम् एव स यो ऽयम् आत्मा । इदम् अमृतम् इदं ब्रह्मेदं सर्वम् ॥ ब्र्हुप्_२,५।८ ॥ अयं स्तनयित्नुः सर्वेषां भुतानां मधु । अस्य स्तनयित्नोः सर्वाणि भूतानि मधु । यश् चायम् अस्मिन्स्तनयित्नौ तेजोमयो ऽमृतमयः पुरुषो यश् चायम् अध्यात्मं शाब्दः सौवरस् तेजोमयो ऽमृतमयः पुरुषो ऽयम् एव स यो ऽयम् आत्मा । इदम् अमृतम् इदं ब्रह्मेदं सर्वम् ॥ ब्र्हुप्_२,५।९ ॥ अयम् आकाशः सर्वेषां भूतानां मधु । अस्याकाशस्य सर्वाणि भूतानि मधु । यश् चायम् अस्मिन्न् आकाशे तेजोमयो ऽमृतमयः पुरुषो यश् चायम् अध्यात्मं हृद्य् आकाशस् तेजोमयो ऽमृतमयः पुरुषो ऽयम् एव स यो ऽयम् आत्मा । इदम् अमृतम् इदं ब्रह्मेदं सर्वम् ॥ ब्र्हुप्_२,५।१० ॥ अयं धर्मः सर्वेषां भूतानां मधु । अस्य धर्मस्य सर्वाणि भूतानि मधु । यश् चायम् अस्मिन् धर्मे तेजोमयो ऽमृतमयः पुरुषो यश् चायम् अध्यात्मं धार्मस् तेजोमयो ऽमृतमयः पुरुषो ऽयम् एव स यो ऽयम् आत्मा । इदम् अमृतम् इदं ब्रह्मेदं सर्वम् ॥ ब्र्हुप्_२,५।११ ॥ इदं सत्यं सर्वेषां भूतानां मधु । अस्य सत्यस्य सर्वाणि भूतानि मधु । यश् चायम् अस्मिन् सत्ये तेजोमयो ऽमृतमयः पुरुषो यश् चायम् अध्यात्मं सात्यस् तेजोमयो ऽमृतमयः पुरुषो ऽयम् एव स यो ऽयम् आत्मा । इदम् अमृतम् इदं ब्रह्मेदं सर्वम् ॥ ब्र्हुप्_२,५।१२ ॥ इदं मानुषं सर्वेषां भूतानां मधु । अस्य मानुषस्य सर्वाणि भूतानि मधु । यश् चायम् अस्मिन् मानुषे तेजोमयो ऽमृतमयः पुरुषो यश् चायम् अध्यात्मं मानुषस् तेजोमयो ऽमृतमयः पुरुषो ऽयम् एव स यो ऽयम् आत्मा । इदम् अमृतम् इदं ब्रह्मेदं सर्वम् ॥ ब्र्हुप्_२,५।१३ ॥ अयम् आत्मा सर्वेषां भूतानां मधु । अस्यात्मनः सर्वाणि भूतानि मधु । यश् चायम् अस्मिन्न् आत्मनि तेजोमयो ऽमृतमयः पुरुषो यश् चायम् आत्मा तेजोमयो ऽमृतमयः पुरुषो ऽयम् एव स यो ऽयम् आत्मा । इदम् अमृतम् इदं ब्रह्मेदं सर्वम् ॥ ब्र्हुप्_२,५।१४ ॥॥ स वा अयम् आत्मा सर्वेषां अधिपतिः सर्वेषां भूतानां राजा । तद् यथा रथनाभौ च रथनेमौ चाराः सर्वे समर्पिताः । एवम् एवास्मिन्न् आत्मनि सर्वाणि भूतानि सर्वे देवाः सर्वे लोकाः सर्वे प्राणाः सर्व एत आत्मानः समर्पिताः ॥ ब्र्हुप्_२,५।१५ ॥ इदं वै तन् मधु दध्यङ्ङ् आथर्वणो ऽश्विभ्याम् उवाच । तद् एतद् ऋषिः पश्यन्न् अवोचत् -- तद् वां नरा सनये दम्स उग्रम् आविष् कृणोमि तन्यतुर् न वृष्टिम् । दध्यङ् ह यन् मध्व् आथर्वणो वाम् अश्वस्य शीर्ष्णा प्र यद् ईम् उवाचेति ॥ ब्र्हुप्_२,५।१६ ॥ इदं वै तन् मधु दध्यङ्ङ् आथर्वणो ऽश्विभ्याम् उवाच । तद् एतद् ऋषिः पश्यन्न् अवोचत् -- आथर्वणायाश्विनौ दधीचे ऽश्व्यं शिरः प्रत्य् ऐरयतम् । स वां मधु प्र वोचद् ऋतायन् त्वाष्ट्रं यद् दस्राव् अपिकक्ष्यं वाम् इति ॥ ब्र्हुप्_२,५।१७ ॥ इदं वै तन् मधु दध्यङ्ङ् आथर्वणो ऽश्विभ्याम् उवाच । तद् एतद् ऋषिः पश्यन्न् अवोचत् -- पुरश् चक्रे द्विपदः पुरश् चक्रे चतुष्पदः । पुरः स पक्षी भुत्वा पुरः पुरुष आविशद् इति । स वा अयं पुरुषः सर्वासु पूर्षु पुरिशयः । नैनेन किं चनानावृतम् । नैनेन किं चनासंवृतम् ॥ ब्र्हुप्_२,५।१८ ॥ इदं वै तन् मधु दध्यङ्ङ् आथर्वणो ऽश्विभ्याम् उवाच । तद् एतद् ऋषिः पश्यन्न् अवोचत् -- रूपंरूपं प्रतिरूपो बभूव तद् अस्य रूपं प्रतिचक्षणाय । इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्य् अस्य हरयः शता दशेति । अयं वै हरयो ऽयं वै दश च सहस्रणि बहूनि चानन्तानि च । तद् एतद् ब्रह्मापूर्वम् अनपरम् अनन्तरम् अबाह्यम् । अयम् आत्मा ब्रह्म सर्वानुभूः । इत्य् अनुशासनम् ॥ ब्र्हुप्_२,५।१९ ॥ अथ वंशः: पौतिमाष्यो गौपवनात् । गौपवनः पशुतिमाष्यात् । पशुतिमाष्यो गौपवनात् । गौपवनः कौशिकात् । कौशिकः कौण्डिन्यात् । कौण्डिन्यः शाण्डिल्यात् । शाण्डिल्यः कौशिकाच् च गौतमाच् च । गौतमः ॥ ब्र्हुप्_२,६।१ ॥ आग्निवेश्यात् । आग्निवेश्यः शाण्डिल्याच् चानभिम्लाताच् च । आनभिम्लात आनभिम्लातात् । आनभिम्लात आनभिम्लातात् । आनभिम्लातो गौतमात् । गौतमः सैतवप्राचीनयोग्याभ्याम् । सैतवप्राचीनयोग्यौ पाराशर्यात् । पाराशर्यो भारद्वाजात् । भारद्वाजो भारद्वाजाच् च गौतमाच् च । गौतमो भारद्वाजात् । भारद्वाजः पाराशर्यात् । पाराशर्यो वैजवापायनात् । वैजवापायनः कौशिकायनेः । कौशिकायनिः ॥ ब्र्हुप्_२,६।२ ॥ घृतकौशिकात् । घृतकौशिकः प्राशर्यायणात् । पारशर्यायणः पाराशर्यात् । पाराशर्यो जातूकर्ण्यात् । जातूकर्ण्य आसुरायणाच् च यास्काच् च । आसुरायणस् त्रैवणेः । त्रैवणिर् औपजन्धनेः । औपजन्धनिर् आसुरेः । आसुरिर् भारद्वाजात् । भारद्वाज आत्रेयात् । आत्रेयो माण्टेः । माण्टिर् गौतमात् । गौतमो वात्स्यात् । वात्स्यः शाण्डिल्यात् । शाण्डिल्यः कैशोर्यात् काप्यात् । कैशोर्यः काप्यः कुमारहारितात् । कुमारहारितो गालवात् । गालवो विदर्भीकौण्डिन्यात् । विदर्भीकौण्डिन्यो वत्सनपातो बाभ्रवात् । वत्सनपाद् बाभ्रवः पथः सौभरात् । पन्थाः सौभरो ऽयास्याद् आङ्गिरसात् । अयास्य आङ्गिरस आभूतेस् त्वाष्ट्रात् । आभूतिस् त्वाष्ट्रो विश्वरूपात् त्वाष्ट्रात् । विश्वरूपस् त्वाष्ट्रो ऽव्शिभ्याम् । अश्विनौ दधीच आथर्वणात् । दध्यङ्ङ् आथर्वणो ऽथर्वणो दैवात् । अथर्वा दैवो मृत्योः प्राध्वंसनात् । मृत्युः प्राध्वंसनः प्रध्वंसनात् । प्रध्वंसन एकर्षेः । एकर्षिर् विप्रचित्तेः । विप्रचित्तिर् व्यष्टेर् । व्यष्टिः सनारोः । सनारुः सनातनात् । सनातनः सनगात् । सनगः परमेष्ठिनः । परमेष्ठी ब्रह्मणः । ब्रह्म स्वयम्भु । ब्रह्मणे नमः ॥ ब्र्हुप्_२,६।३ ॥ जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे । तत्र ह कुरुपञ्चालानां ब्राह्मणा अभिसमेता बभूवुः । तस्य ह जनकस्य वैदेहस्य विजिज्ञासा बभूव -- कः स्विद् एषां ब्राह्मणानाम् अनूचानतम इति । स ह गवां सहस्रम् अवरुरोध । दशदश पादा एकैकस्याः शृङ्गयोर् आबद्धा बभूवुः ॥ ब्र्हुप्_३,१।१ ॥ तान् होवाच -- ब्राह्मणा भगवन्तो यो वो ब्रह्मिष्ठः स एता गा उदजताम् इति । ते ह ब्राह्मणा न दधृषुः । अथ ह याज्ञवल्क्यः स्वम् एव ब्रह्मचारिणम् उवाच -- एताः सौम्योदज सामश्रवा३ इति । ता होदाचकार । ते ह ब्राह्मणाश् चुक्रुधुः: -- कथं नु नो ब्रह्मिष्ठो ब्रुवीतेति । अथ ह जनकस्य वैदेहस्य होताश्वलो बभूव । स हैनं पप्रच्छ -- त्वं नु खलु नो याज्ञवल्क्य ब्रह्मिष्ठो ऽसी३ इति । स होवाच -- नमो वयं ब्रह्मिष्ठाय कुर्मो गोकामा एव वयं स्म इति । तं ह तत एव प्रष्टुं दध्रे होताश्वलः ॥ ब्र्हुप्_३,१।२ ॥ याज्ञवल्क्येति होवाच -- यद् इदं सर्वं मृत्युनाप्तं सर्वं मृत्युनाभिपन्नं केन यजमानो मृत्योर् आप्तिम् अतिमुच्यत इति । होत्रर्त्विजाग्निना वाचा । वाग् वै यज्ञस्य होता । तद् येयं वाक् सो ऽयम् अग्निः स होता सा मुक्तिः सातिमुक्तिः ॥ ब्र्हुप्_३,१।३ ॥ याज्ञवल्क्येति होवाच -- यद् इदं सर्वम् अहोरात्राभ्याम् आप्तं सर्वम् अहोरात्राभ्याम् अभिपन्नं केन यजमानो ऽहोरात्रयोर् आप्तिम् अतिमुच्यत इति । अध्वर्युणर्त्विजा चक्षुषादित्येन । चक्षुर् वै यज्ञस्याध्वर्युः । तद् यद् इदं चक्षुः सो ऽसाव् आदित्यः । सो ऽध्वर्युः सा मुक्तिः सातिमुक्तिः ॥ ब्र्हुप्_३,१।४ ॥ याज्ञवल्क्येति होवाच -- यद् इदं सर्वं पूर्वपक्षापरपक्षाभ्याम् आप्तं सर्वं पूर्वपक्षापरपक्षाभ्याम् अभिपन्नं केन यजमानः पूर्वपक्षापरपक्षयोर् आप्तिम् अतिमुच्यत इति । उद्गात्रर्त्विजा वयुना प्राणेन । प्राणो वै यज्ञस्योद्गाता । तद् यो ऽयं प्राणः स वायुः स उद्गाता । स मुक्तिः सातिमुक्तिः ॥ ब्र्हुप्_३,१।५ ॥ याज्ञवल्क्येति होवाच -- यद् इदम् अन्तरिक्षम् अनारम्बणम् इव केनाक्रमेण यजमानः स्वर्गं लोकम् आक्रमत इति । ब्रह्मणर्त्विजा मनसा चन्द्रेण । मनो वै यज्ञस्य ब्रह्मा । तद् यद् इदं मनः सो ऽसौ चन्द्रः स ब्रह्मा स मुक्तिः सातिमुक्तिर् इत्य् अतिमोक्षा । अथ सम्पदः ॥ ब्र्हुप्_३,१।६ ॥ याज्ञवल्क्येति होवाच -- कतिभिर् अयम् अद्यर्ग्भिर् होतास्मिन् यज्ञे करिष्यतीति । तिसृभिर् इति । कतमास् तास् तिस्र इति । पुरोनुवाक्या च याज्या च शस्यैव तृतीया । किं ताभिर् जयतीति । यत् किञ्चेदं प्राणभृद् इति ॥ ब्र्हुप्_३,१।७ ॥ याज्ञवल्क्येति होवाच -- कत्य् अयम् अद्याध्वर्युर् अस्मिन् यज्ञ आहुतीर् होष्यतीति । तिस्र इति । कतमास् तास् तिस्र इति । या हुता उज्ज्वलन्ति या हुता अतिनेदन्ति या हुता अधिशेरते । किं ताभिर् जयतीति । या हुता उज्ज्वलन्ति देवलोकम् एव ताभिर् जयति । दीप्यत इव हि देवलोको । या हुता अतिनेदन्ते पितृलोकम् एव ताभिर् जयति । अतीव हि पितृलोकः । या हुता अधिशेरते मनुष्यलोकम् एव ताभिर् जयत्यि । अध इव हि मनुष्यलोकः ॥ ब्र्हुप्_३,१।८ ॥ याज्ञवल्क्येति होवाच -- कतिभिर् अयम् अद्य ब्रह्मा यज्ञं दक्षिणतो देवताभिर् गोपायतीति । एकयेति । कतमा सैकेति । मन एवेति । अनन्तं वै मनो ऽनन्ता विश्वे देवाः । अनन्तम् एव स तेन लोकं जयति ॥ ब्र्हुप्_३,१।९ ॥ याज्ञवल्क्येति होवाच -- कत्य् अयम् अद्योद्गातास्मिन् यज्ञे स्तोत्रियाः स्तोष्यतीति । तिस्र इति । कतमास् तास् तिस्र इति । पुरोनुवाक्या च याज्या च शस्यैव तृतीया । कतमास् ताः । या अध्यात्मम् इति । प्राण एव पुरोनुवाक्यापानो याज्या व्यानः शस्या । किं ताभिर् जयतीति । पृथिवीलोकम् एव पुरोनुवाक्यया जयत्य् अन्तरिक्षलोकं याज्यया द्युलोकं शस्यया । ततो ह होताश्वल उपरराम ॥ ब्र्हुप्_३,१।१० ॥ अथ हैनं जारत्कारव आर्तभागः पप्रच्छ । याज्ञवल्क्येति होवाच -- कति ग्रहाः कत्य् अतिग्रहा इति । अष्टौ ग्रहा अष्टाव् अतिग्रहा इति । ये ते ऽष्टौ ग्रहा अष्टाव् अतिग्रहाः कतमे त इति ॥ ब्र्हुप्_३,२।१ ॥ प्राणो वै ग्रहः । सो ऽपानेनातिग्रहेण गृहीतः । प्राणेन हि गन्धाञ् जिघ्रति ॥ ब्र्हुप्_३,२।२ ॥ वाग् वै ग्रहः । स नाम्नातिग्रहेण गृहीतः । वाचा हि नामान्य् अभिवदति ॥ ब्र्हुप्_३,२।३ ॥ जिह्वा वै ग्रहः । स रसेनातिग्रहेण गृहीतः । जिह्वया हि रसान् विजानाति ॥ ब्र्हुप्_३,२।४ ॥ चक्षुर् वै ग्रहः । स रूपेणातिग्रहेण गृहीतः । चक्षुषा हि रूपाणि पश्यति ॥ ब्र्हुप्_३,२।५ ॥ श्रोत्रं वै ग्रहः । स शब्देनातिग्रहेण गृहीतः । श्रोत्रेण हि शब्दाञ् शृणोति ॥ ब्र्हुप्_३,२।६ ॥ मनो वै ग्रहः । स कामेनातिग्रहेण गृहीतः । मनसा हि कामान् कामयते ॥ ब्र्हुप्_३,२।७ ॥ हस्तौ वै ग्रहः । स कर्मणातिग्रहेण गृहीतः । हस्ताभ्यां हि कर्म करोति ॥ ब्र्हुप्_३,२।८ ॥ त्वग् वै ग्रहः । स स्पर्शेनातिग्रहेण गृहीतः । त्वचा हि स्पर्शान् वेदयत । इत्य् अष्टौ ग्रहा अष्टाव् अतिग्रहाः ॥ ब्र्हुप्_३,२।९ ॥ याज्ञवल्क्येति होवाच -- यद् इदं सर्वं मृत्योर् अन्नं का स्वित् सा देवता यस्या मृत्युर् अन्नम् इति । अग्निर् वै मृत्युः सो ऽपाम् अन्नम् । अप पुनर्मृत्युं जयति ॥ ब्र्हुप्_३,२।१० ॥ याज्ञवल्क्येति होवाच -- यत्रायं पुरुषो म्रियत उद् अस्मात् प्राणाः क्रामन्त्य् आहो नेति । नेति होवाच याज्ञवल्क्यः । अत्रैव समवनीयन्ते । स उच्छ्वयति । आध्मायति । आध्मातो मृतः शेते ॥ ब्र्हुप्_३,२।११ ॥ याज्ञवल्क्येति होवाच -- यत्रायं पुरुषो म्रियते । किम् एनं न जहातीति । नामेति । अनन्तं वै नामानन्ता विश्वे देवाः । अनन्तम् एव स तेन लोकं जयति ॥ ब्र्हुप्_३,२।१२ ॥ याज्ञवल्क्येति होवाच -- यत्रास्य पुरुषस्य मृतस्याग्निं वाग् अप्येति वातं प्राणश् चक्षुर् आदित्यं मनश् चन्द्रं दिशः श्रोत्रं पृथिवीं शरीरम् आकाशम् आत्मौषधीर् लोमानि वनस्पतीन् केशा अप्सु लोहितं च रेतश् च निधीयते क्वायं तदा पुरुषो भवतीति । आहर सौम्य हस्तम् आर्तभाग । आवाम् एवैतस्य वेदिष्यावो न नाव् एतत् सजन इति । तौ होत्क्रम्य मन्त्रयां चक्राते । तौ ह यद् ऊचतुः कर्म हैव तद् ऊचतुः । अथ ह यत् प्रशंसतुः कर्म हैव तत् प्रशशंसतुः । पुण्यो वै पुण्येन कर्मणा भवति पापः पापेनेति । ततो ह जारत्कारव आर्तभाग उपरराम ॥ ब्र्हुप्_३,२।१३ ॥ अथ हैनं भुज्युर् लाह्यायनिः पप्रच्छ -- याज्ञवल्क्येति होवाच -- मद्रेषु चरकाः पर्यव्रजाम । ते पतञ्चलस्य काप्यस्य गृहान् ऐम । तस्यासीद् दुहिता गन्धर्वगृहीता । तम् अपृच्छाम को ऽसीति । सो ऽब्रवीत् सुधन्वाङ्गिरस इति । तं यदा लोकानाम् अन्तान् अपृच्छाम । अथैनम् अब्रूम -- क्व पारिक्षिता अभवन्न् इति । क्व पारिक्षिता अभवन् । स त्वा पृच्छामि याज्ञवल्क्य । क्व पारिक्षिता अभवन्न् इति ॥ ब्र्हुप्_३,३।१ ॥ स होवाच -- उवाच वै सः । अगच्छन् वै ते तद् यत्राश्वमेधयाजिनो गच्छन्तीति । क्व न्व् अश्वमेधयाजिनो गच्छन्तीति । द्वात्रिंशतं वै देवरथाह्न्यान्य् अयं लोकः । तं समन्तं पृथिवी द्विस्तावत् पर्येति । तां समन्तं पृथिवीं द्विस्तावत् समुद्रः पर्येति । तद् यावती क्षुरस्य धारा यावद् वा मक्षिकायाः पत्त्रं तावान् अन्तरेणाकाशः तान् ऐन्द्रः सुपर्णो भूत्वा वायवे प्रायच्छत् । तान् वायुर् आत्मनि धित्वा तत्रागमयद् यत्राश्वमेधयाजिनो ऽभवन्न् इति । एवम् इव वै स वायुम् एव प्रशशम्स तस्माद् वायुर् एव व्यष्टिर् वायुः समष्टिः । अप पुनर्मृत्युं जयति य एवं वेद । ततो ह भुज्युर् लाह्यायनिर् उपरराम ॥ ब्र्हुप्_३,३।२ ॥ अथ हैनम् उषस्तश् चाक्रायणः पप्रच्छ । याज्ञवल्क्येति होवाच -- यत् साक्षाद् अपरोक्षाद् ब्रह्म य आत्मा सर्वान्तरस् तं मे व्याचक्ष्वेति । एष त आत्मा सर्वान्तरः । यः प्राणेन प्राणिति स त आत्मा सर्वान्तरः । यो ऽपानेनापानिति स त आत्मा सर्वान्तरः । यो व्यानेन व्यनिति स त आत्मा सर्वान्तरः । य उदानेनोदनिति स त आत्मा सर्वान्तरः । एष त आत्मा सर्वान्तरः ॥ ब्र्हुप्_३,४।१ ॥ स होवाचोषस्तश् चाक्रायणः -- यथा वै ब्रूयाद् असौ गौर् असाव् अश्व इत्य् एवम् एवैतद् व्यपदिष्टं भवति । यद् एव साक्षाद् अपरोक्षाद् ब्रह्म य आत्मा सर्वान्तरस् तं मे व्याचक्ष्वेति । एष त आत्मा सर्वान्तरः । कतमो याज्ञवल्क्य सर्वान्तरः । न दृष्टेर् द्रष्टारं पश्येः । न श्रुतेः श्रोतारं शृणुयाः । न मतेर् मन्तारं मन्वीथा । न विज्ञातेर् विज्ञातारं विजानीयाः । एष त आत्मा सर्वान्तरः । अतो ऽन्यद् आर्तम् । ततो होषस्तश् चाक्रायण उपरराम ॥ ब्र्हुप्_३,४।२ ॥ अथ हैनं कहोलः कौषीतकेयः पप्रच्छ -- याज्ञवल्क्येति होवाच । यद् एव साक्षाद् अपरोक्षाद् ब्रह्म य आत्मा सर्वान्तरस् तं मे व्याचक्ष्वेति । एष त आत्मा सर्वान्तरः । कतमो याज्ञवल्क्य सर्वान्तरः । यो ऽशनायापिपासे शोकं मोहं जरां मृत्युम् अत्येति । एतं वै तम् आत्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश् च वित्तैषणायाश् च लोकैषणायाश् च व्युत्थायाथ भिक्षाचर्यं चरन्ति । या ह्य् एव पुत्रैषणा सा वित्तैषणा या वित्तैषणा सा लोकैषणा । उभे ह्य् एते एषणे एव भवतः । तस्माद् ब्रामणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् । बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिः । अमौनं च मौनं च निर्विद्याथ ब्राह्मणः । स ब्राह्मणः केन स्याद् येन स्यात् तेनेदृश एव । अतो ऽन्यद् आर्तम् । ततो ह कहोलः कौषीतकेय उपरराम ॥ ब्र्हुप्_३,५।१ ॥ अथ हैनं गार्गी वाचक्नवी पप्रच्छ -- याज्ञवल्क्येति होवाच । यद् इदं सर्वम् अप्स्व् ओतं च प्रोतं च कस्मिन् नु खल्व् आप ओताश् च प्रोताश् चेति । वायौ गार्गीति । कस्मिन् नु खलु वायुर् ओतश् च प्रोतश् चेति । अन्तरिक्षलोकेषु गार्गीति । कस्मिन् नु खल्व् अन्तरिक्षलोका ओतश् च प्रोतश् चेति । गन्धर्वलोकेषु गार्गीति । कस्मिन् नु खलु गन्धर्वलोका ओताश् च प्रोताश् चेति । अदित्यलोकेषु गार्गीति । कस्मिन् नु खल्व् आदित्यलोका ओताश् च प्रोताश् चेति । चन्द्रलोकेषु गार्गीति । कस्मिन् नु खलु चन्द्रलोका ओताश् च प्रोताश् चेति । नक्षत्रलोकेषु गार्गीति । कस्मिन् नु खलु नक्षत्रलोका ओताश् च प्रोताश् चेति । देवलोकेषु गार्गीति । कस्मिन् नु खलु देवलोका ओताश् च प्रोताश् चेति । इन्द्रलोकेषु गार्गीति । कस्मिन् नु खल्व् इन्द्रलोका ओताश् च प्रोताश् चेति । प्रजापतिलोकेषु गार्गीति । कस्मिन् नु खलु प्रजापतिलोका ओताश् च प्रोताश् चेति । ब्रह्मलोकेषु गार्गीति । कस्मिन् नु खलु ब्रह्मलोका ओताश् च प्रोताश् चेति । स होवाच -- गार्गि मातिप्राक्षीः । मा ते मूर्धा व्यपप्तत् । अनतिप्रश्न्यां वै देवताम् अतिपृच्छसि । गार्गि मातिप्राक्षीर् इति । ततो ह गार्गी वाचक्नव्य् उपरराम ॥ ब्र्हुप्_३,६।१ ॥ अथैनम् उद्दालक आरुणिः पप्रच्छ -- याज्ञवल्क्येति होवाच । मद्रेष्व् अवसाम पतञ्चलस्य काप्यस्य गृहेषु यज्ञम् अधीयानाः । तस्यासीद् भार्या गन्धर्वगृहीता । तम् अपृच्छाम -- को ऽसीति । सो ऽब्रवीत् कबन्ध आथर्वण इति । सो ऽब्रवीत् पतञ्चलं काप्यं याज्ञिकांश् च -- वेत्थ नु त्वं काप्य तत् सूत्रं यस्मिन्न् अयं च लोकः परश् च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्तीति । सो ऽब्रवीत् पतञ्चलः काप्यो नाहं तद् भगवन् वेदेति । सो ऽब्रवीत् पतञ्चलं काप्यं याज्ञिकांश् च । वेत्थ नु त्वं काप्य तम् अन्तर्यामिणं य इमं च लोकं परं च लोकं सर्वाणि च भूतान्य् अन्तरो यमयति । सो ऽब्रवीत् पतञ्चलः काप्यो नाहं तं भगवन् वेदेति । सो ऽब्रवीत् पतञ्चलं काप्यं याज्ञिकांश् च । यो वै तत् काप्य सूत्रं विद्यात् तं चान्तर्यामिणम् इति स ब्रह्मवित् स लोकवित् स देववित् स वेदवित् स आत्मवित् स सर्ववित् । इति तेभ्यो ऽब्रवीत् । तद् अहं वेद । तच् चेत् त्वं याज्ञवल्क्य सूत्रम् अविद्वांस् तं चान्तर्यामिणं ब्रह्मगवीर् उदजसे मूर्धा ते विपतिष्यति । वेद वा अहं गौतम तत् सूत्रं तं चान्तर्यामिणम् इति । यो वा इदं कश्च ब्रूयाद् वेद वेदेति यथा वेत्थ तथा ब्रूहीति ॥ ब्र्हुप्_३,७।१ ॥ स होवच -- वायुर् वै गौतम तत् सूत्रम् । वायुना वै गौतम सूत्रेणायं च लोकः परश् च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्ति । तस्माद् वै गौतम पुरुषं प्रेतम् आहुर् व्यस्रंसिषतास्याङ्गानीति । वायुना हि गौतम सूत्रेण सन्दृब्धानि भवन्तीति । एवम् एवैतद् याज्ञवल्क्य । अन्तर्यामिणं ब्रूहीति ॥ ब्र्हुप्_३,७।२ ॥ यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीम् अन्तरो यमयत्य् एष त आत्मान्तर्याम्य् अमृतः ॥ ब्र्हुप्_३,७।३ ॥ यो ऽप्सु तिष्ठन्न् अद्भ्यो ऽन्तरो यम् आपो न विदुर् यस्यापः शरीरं यो ऽपो ऽन्तरो यमयत्य् एष त आत्मान्तर्याम्य् अमृतः ॥ ब्र्हुप्_३,७।४ ॥ यो ऽग्नौ तिष्ठन्न् अग्नेर् अन्तरो यम् अग्निर् न वेद यस्याग्निः शरीरं यो ऽग्निम् अन्तरो यमयत्य् एष त आत्मान्तर्याम्य् अमृतः ॥ ब्र्हुप्_३,७।५ ॥ यो ऽन्तरिक्षे तिष्ठन्न् अन्तरिक्षाद् अन्तरो यम् अन्तरिक्षं न वेद यस्यान्तरिक्षं शरीरं यो ऽन्तरिक्षम् अन्तरो यमयत्य् एष त आत्मान्तर्याम्य् अमृतः ॥ ब्र्हुप्_३,७।६ ॥ यो वायौ तिष्ठन् वायोर् अन्तरो यं वायुर् न वेद यस्य वायुः शरीरं यो वायुम् अन्तरो यमयत्य् एष त आत्मान्तर्याम्य् अमृतः ॥ ब्र्हुप्_३,७।७ ॥ यो दिवि तिष्ठन् दिवो ऽन्तरो यं द्यौर् न वेद यस्य द्यौः शरीरं यो दिवम् अन्तरो यमयत्य् एष त आत्मान्तर्याम्य् अमृतः ॥ ब्र्हुप्_३,७।८ ॥ य आदित्ये तिष्ठन्न् आदित्याद् अन्तरो यम् आदित्यो न वेद यस्यादित्यः शरीरं य आदित्यम् अन्तरो यमयत्य् एष त आत्मान्तर्याम्य् अमृतः ॥ ब्र्हुप्_३,७।९ ॥ यो दिक्षु तिष्ठन् दिग्भ्यो ऽन्तरो यं दिशो न विदुर् यस्य दिशः शरीरं यो दिशो ऽन्तरो यमयत्य् एष त आत्मान्तर्याम्य् अमृतः ॥ ब्र्हुप्_३,७।१० ॥ यश् चन्द्रतारके तिष्ठञ् चन्द्रतारकाद् अन्तरो यं चन्द्रतारकं न वेद यस्य चन्द्रतारकं शरीरं यश् चन्द्रतारकम् अन्तरो यमयत्य् एष त आत्मान्तर्याम्य् अमृतः ॥ ब्र्हुप्_३,७।११ ॥ य आकाशे तिष्ठन्न् आकाशाद् अन्तरो यम् आकाशो न वेद यस्याकाशः शरीरं य आकाशम् अन्तरो यमयत्य् एष त आत्मान्तर्याम्य् अमृतः ॥ ब्र्हुप्_३,७।१२ ॥ यस् तमसि तिष्ठंस् तमसो ऽन्तरो यं तमो न वेद यस्य तमः शरीरं यस् तमो ऽन्तरो यमयत्य् एष त आत्मान्तर्याम्य् अमृतः ॥ ब्र्हुप्_३,७।१३ ॥ यस् तेजसि तिष्ठंस् तेजसो ऽन्तरो यं तेजो न वेद यस्य तेजः शरीरं यस् तेजो ऽन्तरो यमयत्य् एष त आत्मान्तर्याम्य् अमृतः ॥ ब्र्हुप्_३,७।१४ ॥ अथाधिभूतम् । यः सर्वेषु भूतेषु तिष्ठन् सर्वेभ्यो भूतेभ्यो ऽन्तरो यं सर्वाणि भूतानि न विदुर् यस्य सर्वाणि भुतानि शरीरं यः सर्वाणि भूतान्य् अन्तरो यमयत्य् एष त आत्मान्तर्याम्य् अमृतः । इत्य् अधिभूतम् ॥ ब्र्हुप्_३,७।१५ ॥ अथाध्यात्मम् । यः प्राणे तिष्ठन् प्राणाद् अन्तरो यं प्राणो न वेद यस्य प्राणः शरीरं यः प्राणम् अन्तरो यमयति एष त आत्मान्तर्याम्य् अमृतः ॥ ब्र्हुप्_३,७।१६ ॥ यो वाचि तिष्ठन् वाचो ऽन्तरो यं वाङ् न वेद यस्य वाक् शरीरं यो वाचम् अन्तरो यमयत्य् एष त आत्मान्तर्याम्य् अमृतः ॥ ब्र्हुप्_३,७।१७ ॥ यश् चक्षुषि तिष्ठञ् चक्षुषो ऽन्तरो यं चक्षुर् न वेद यस्य चक्षुः शरीरं यश् चक्षुर् अन्तरो यमयत्य् एष त आत्मान्तर्याम्य् अमृतः ॥ ब्र्हुप्_३,७।१८ ॥ यः श्रोत्रे तिष्ठञ् छ्रोत्राद् अन्तरो यं श्रोत्रं न वेद यस्य श्रोत्रं शरीरं यः श्रोत्रम् अन्तरो यमयत्य् एष त आत्मान्तर्याम्य् अमृतः ॥ ब्र्हुप्_३,७।१९ ॥ यो मनसि तिष्ठन् मनसो ऽन्तरो यं मनो न वेद यस्य मनः शरीरं यो मनो ऽन्तरो यमयत्य् एष त आत्मान्तर्याम्य् अमृतः ॥ ब्र्हुप्_३,७।२० ॥ यस् त्वचि तिष्ठंस् त्वचो ऽन्तरो यं त्वङ् न वेद यस्य त्वक् शरीरं यस् त्वचम् अन्तरो यमयत्य् एष त आत्मान्तर्याम्य् अमृतः ॥ ब्र्हुप्_३,७।२१ ॥ यो विज्ञाने तिष्ठन् विज्ञानाद् अन्तरो यं विज्ञानं न वेद यस्य विज्ञानं शरीरं यो विज्ञानम् अन्तरो यमयत्य् एष त आत्मान्तर्याम्य् अमृतः ॥ ब्र्हुप्_३,७।२२ ॥ यो रेतसि तिष्ठं रेतसो ऽन्तरो यं रेतो न वेद यस्य रेतः शरीरं यो रेतो ऽन्तरो यमयत्य् एष त आत्मान्तर्याम्य् अमृतः । अदृष्टो द्रष्टाश्रुतः श्रोतामतो मन्ताविज्ञतो विज्ञाता । नान्यो ऽतो ऽस्ति द्रष्टा नान्यो ऽतो ऽस्ति श्रोता नान्यो ऽतो ऽस्ति मन्ता नान्यो ऽतो ऽस्ति विज्ञाता । एष त आत्मान्तर्याम्य् अमृतः । अतो ऽन्यद् आर्तम् । ततो होद्दालक आरुणिर् उपरराम ॥ ब्र्हुप्_३,७।२३ ॥ अथ ह वाचक्नव्य् उवाच -- ब्राह्मणा भगवन्तो हन्ताहम् इमं द्वौ प्रश्नौ प्रक्ष्यामि । तौ चेन् मे विवक्ष्यति । न वै जातु युष्माकम् इमं कश्चिद् ब्रह्मोद्यं जेतेति । पृच्छ गार्गीति ॥ ब्र्हुप्_३,८।१ ॥ सा होवाच -- अहं वै त्वा याज्ञवल्क्य यथा काश्यो वा वैदेहो वोग्रपुत्र उज्ज्यं धनुर् अधिज्यं कृत्वा द्वौ बाणवन्तौ सपत्नातिव्याधिनौ हस्ते कृत्वोपोत्तिष्ठेद् एवम् एवाहं त्वा द्वाभ्यां प्रश्नाभ्याम् उपोदस्थाम् । तौ मे ब्रूहीति । पृच्छ गार्गीति ॥ ब्र्हुप्_३,८।२ ॥ सा होवाच -- यद् ऊर्ध्वं याज्ञवल्क्य दिवो यद् अवाक् पृथिव्या यद् अन्तरा द्यावापृथिवी इमे यद् भूतं च भवच् च भविष्यच् चेत्य् आचक्षते कस्मिंस् तद् ओतं च प्रोतं चेति ॥ ब्र्हुप्_३,८।३ ॥ स होवाच -- यद् ऊर्ध्वं गार्गि दिवो यद् अवाक् पृथिव्या यद् अन्तरा द्यावापृथिवी इमे यद् भूतं च भवच् च भविष्यच् चेत्य् आचक्षत आकाशे तद् ओतं च प्रोतं चेति ॥ ब्र्हुप्_३,८।४ ॥ सा होवच -- नमस् ते ऽस्तु याज्ञवल्क्य यो म एतं व्यवोचो ऽपरस्मै धारयस्वेति पृच्छ गार्गीति ॥ ब्र्हुप्_३,८।५ ॥ सा होवाच -- यद् ऊर्ध्वं याज्ञवल्क्य दिवो यद् अवाक् पृथिव्या यद् अन्तरा द्यावापृथिवी इमे यद् भूतं च भवच् च भविष्यच् चेत्य् आचक्षते कस्मिंस् तद् ओतं च प्रोतं चेति ॥ ब्र्हुप्_३,८।६ ॥ स होवाच -- यद् ऊर्ध्वं गार्गि दिवो यद् अवाक् पृथिव्या यद् अन्तरा द्यावापृथिवी इमे यद् भूतं च भवच् च भविष्यच् चेत्य् आचक्षत आकाश एव तद् ओतं च प्रोतं चेति । कस्मिन् नु खल्व् आकाश ओतश् च प्रोतश् चेति ॥ ब्र्हुप्_३,८।७ ॥ स होवाच -- एतद् वै तद् अक्षरं गार्गि ब्राह्मणा अभिवदन्त्य् अस्थूलम् अनण्व् अह्रस्वम् अदीर्घम् अलोहितम् अस्नेहम् अच्छायम् अतमो ऽवाय्व् अनाकाशम् असङ्गम् अरसम् अगन्धम् अचक्षुष्कम् अश्रोत्रम् अवाग् अमनो ऽतेजस्कम् अप्राणम् अमुखम् अगात्रम् अनन्तरम् अबाह्यम् (वर् फ़ोर् अगात्रम्: अमात्रम्) । न तद् अश्नाति किं चन । न तद् अश्नाति कश् चन ॥ ब्र्हुप्_३,८।८ ॥ एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्यचन्द्रमसौ विधृतौ तिष्ठतः । एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठतः । एतस्य वा अक्षरस्य प्रशासने गार्गि निमेषा मुहूर्ता अहोरात्राण्य् अर्धमासा मासा ऋतवः संवत्सरा इति विधृतास् तिष्ठन्ति । एतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्यो ऽन्या नद्यः स्यन्दन्ते श्वेतेभ्यः पर्वतेभ्यः प्रतीच्यो ऽन्या यां यां च दिशम् अनु । एतस्य वा अक्षरस्य प्रशासने गार्गि मनुष्याः प्रशसन्ति यजमानं देवा दर्वीं पितरो ऽन्वायत्ताः ॥ ब्र्हुप्_३,८।९ ॥वा अक्षरस्य् यो वा एतद् अक्षरम् गार्ग्य् अविदित्वास्मिंल् लोके जुहोति यजते तपस् तप्यते बहूनि वर्षसहस्राण्य् अन्तवद् एवास्य तद् भवति यो वा एतद् अक्षरम् अविदित्वा गार्ग्य् अविदित्वास्माल् लोकात् प्रैति स कृपणः । अथ य एतद् अक्षरं गार्गि विदित्वास्माल् लोकात् प्रैति स ब्राह्मणः ॥ ब्र्हुप्_३,८।१० ॥ तद् वा एतद् अक्षरं गार्ग्य् अदृष्टं द्रष्ट्रश्रुतं श्रोत्रमतं मन्त्रविज्ञातं विज्ञातृ । नान्यद् अतो ऽस्ति द्रष्टृ । नान्यद् अतो ऽस्ति श्रोतृ । नान्यद् अतो ऽस्ति मन्तृ । नान्यद् अतो ऽस्ति विज्ञातृ । एतस्मिन् नु खल्व् अक्षरे गार्ग्य् आकाश ओतश् च प्रोतश् च ॥ ब्र्हुप्_३,८।११ ॥ सा होवाच -- ब्राह्मणा भगवन्तस् तद् एव बहु मन्यध्वं यद् अस्मान् नमस्कारेण मुच्येध्वम् । न वै जातु युष्माकम् इमं कश्चिद् ब्रह्मोद्यं जेतेति । ततो ह वाचक्नव्य् उपरराम ॥ ब्र्हुप्_३,८।१२ ॥ अथ हैनं विदग्धः शाकल्यः पप्रच्छ -- कति देवा याज्ञवल्क्येति । स हैतयैव निविदा प्रतिपेदे यावन्तो वैश्वदेवस्य निविद्य् उच्यन्ते । त्रयश् च त्री च शता त्रयश् च त्री च सहस्रेति । ॐ इति होवाच । कत्य् एव देवा याज्ञवल्क्येति । त्रयस्त्रिंशद् इति । ॐ इति होवाच । कत्य् एव देवा याज्ञवल्क्येति । षड् इति । ॐ इति होवाच । कत्य् एव देवा याज्ञवल्क्येति । त्रय इति । ॐ इति होवाच । कत्य् एव देवा याज्ञवल्क्येति । द्वाव् इति । ॐ इति होवाच । कत्य् एव देवा याज्ञवल्क्येति । अध्यर्ध इति । ॐ इति होवाच । कत्य् एव देवा याज्ञवल्क्येति । एक इति । ॐ इति होवाच । कतमे ते त्रयश् च त्री च शता त्रयश् च त्री च सहस्रेति ॥ ब्र्हुप्_३,९।१ ॥ स होवाच -- महिमान एवैषाम् एते । त्रयस्त्रिंशत् त्व् एव देवा इति । कतमे ते त्रयस्त्रिंशद् इति । अष्टौ वसव एकादश रुद्रा द्वादशादित्याः त एकत्रिंशद् ऐन्द्रश् चैव प्रजापतिश् च त्रयस्त्रिंशाव् इति ॥ ब्र्हुप्_३,९।२ ॥ कतमे वसव इति । अग्निश् च पृथिवी च वायुश् चान्तरिक्षं चादित्यश् च द्यौः च चन्द्रमाश् च नक्षत्राणि चैते वसवः । एतेषु हीदं सर्वं वसु हितं इति तस्माद् वसव इति ॥ ब्र्हुप्_३,९।३ ॥ कतमे रुद्रा इति । दशेमे पुरुषे प्राणा आत्मैकादशः । ते यदास्माच् छरीरान् मर्त्याद् उत्क्रामन्त्य् अथ रोदयन्ति । तद् यद् रोदयन्ति तस्माद् रुद्रा इति ॥ ब्र्हुप्_३,९।४ ॥ कतम आदित्या इति । द्वादश वै मासाः संवत्सरस्यैत आदित्याः । एते हीदं सर्वम् आददाना यन्ति । ते यद् इदं सर्वम् आददाना यन्ति तस्माद् आदित्या इति ॥ ब्र्हुप्_३,९।५ ॥ कतम इन्द्रः कतमः प्रजापतिर् इति । स्तनयित्नुर् एवेन्द्रो यज्ञः प्रजापतिर् इति । कतमः स्तनयित्नुर् इति । अशनिर् इति । कतमो यज्ञ इति । पशव इति ॥ ब्र्हुप्_३,९।६ ॥ कतमे षड् इति । अग्निश् च पृथिवी च वायुश् चान्तरिक्षश् चादित्यश् च द्यौश् चैते षट् । एते हीदं सर्वं षड् इति ॥ ब्र्हुप्_३,९।७ ॥ कतमे ते त्रयो देवा इति । इम एव त्रयो लोकाः । एषु हीमे सर्वे देवा इति । कतमौ तौ द्वौ देवा इति । अन्नं चैव प्राणश् चेति । कतमो ऽध्यर्ध इति । यो ऽयं पवत इति ॥ ब्र्हुप्_३,९।८ ॥ तद् आहुर् यद् अयम् एक इवैव पवते । अथ कथम् अध्यर्ध इति । यद् अस्मिन्न् इदं सर्वम् अध्यार्ध्नोत् तेनाध्यर्ध इति । कतम एको देव इति । प्राण इति । स ब्रह्म त्यद् इत्य् आचक्षते ॥ ब्र्हुप्_३,९।९ ॥ पृथिव्य् एव यस्यायतनम् अग्निर् लोको मनो ज्योतिर् यो वै तं पुरुषं विद्यात् सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यम् आत्थ । य एवायं शारीरः पुरुषः स एषः । वदैव शाकल्य तस्य का देवतेति । अमृतम् इति होवाच ॥ ब्र्हुप्_३,९।१० ॥ काम एव यस्यायतनं हृदयं लोको मनो ज्योतिर् यो वै तं पुरुषं विद्यात् सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यम् आत्थ । य एवायं काममयः पुरुषः स एषः । वदैव शाकल्य तस्य का देवतेति । स्त्रिय इति होवाच ॥ ब्र्हुप्_३,९।११ ॥ रूपाण्य् एव यस्यायतनं चक्षुर् लोको मनो ज्योतिर् यो वै तं पुरुषं विद्यात् सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यम् आत्थ । य एवासाव् आदित्ये पुरुषः स एषः । वदैव शाकल्य तस्य का देवतेति । सत्यम् इति होवाच ॥ ब्र्हुप्_३,९।१२ ॥ आकश एव यस्यायतनं श्रोत्रं लोको मनो ज्योतिर् यो वै तं पुरुषं विद्यात् सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यम् आत्थ । य एवायम् श्रौतः प्रातिश्रुत्कः पुरुषः स एष । वदैव शाकल्य तस्य का देवतेति । दिश इति होवच ॥ ब्र्हुप्_३,९।१३ ॥ तम एव यस्यायतनं हृदयं लोको मनो ज्योतिर् यो वै तं पुरुषं विद्यात् सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यम् आत्थ । य एवायं छायामयः पुरुषः स एषः । वदैव शाकल्य तस्य का देवतेति । मृत्युर् इति होवाच ॥ ब्र्हुप्_३,९।१४ ॥ रूपाण्य् एव यस्यायतनं हृदयं लोको मनो ज्योतिर् यो वै तं पुरुषं विद्यात् सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यम् आत्थ । य एवायम् आदर्शे पुरुषः स एषः । वदैव शाकल्य तस्य का देवतेति । सत्यम् इति होवाच ॥ ब्र्हुप्_३,९।१५ ॥ आप एव यस्यायतनं हृदयं लोको मनो ज्योतिर् यो वै तं पुरुषं विद्यात् सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यम् आत्थ । य एवायं अप्सु पुरुषः स एषः । वदैव शाकल्य तस्य का देवतेति । वरुण इति होवाच ॥ ब्र्हुप्_३,९।१६ ॥ रेत एव यस्यायतनं हृदयं लोको मनो ज्योतिर् यो वै तं पुरुषं विद्यात् सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यम् आत्थ । य एवायं पुत्रमयः पुरुषः स एषः । वदैव शाकल्य तस्य का देवतेति । प्रजापतिर् इति होवाच ॥ ब्र्हुप्_३,९।१७ ॥ शाकल्येति होवाच याज्ञवल्क्यः । त्वां स्विद् इमे ब्राह्मणा अङ्गारावक्षयणम् अक्रता३ इति ॥ ब्र्हुप्_३,९।१८ ॥ याज्ञवल्क्येति होवाच शाकल्यः । यद् इदं कुरुपञ्चालानां ब्राह्मनान् अत्यवादीः किं ब्रह्म विद्वान् इति । दिशो वेद सदेवाः सप्रतिष्ठा इति । यद् दिशो वेत्थ सदेवाः सप्रतिष्ठाः ॥ ब्र्हुप्_३,९।१९ ॥ किन्देवतो ऽस्यां प्राच्यां दिश्य् असीति । आदित्यदेवत इति । स आदित्यः कस्मिन् प्रतिष्ठित इति । चक्षुषीति । कस्मिन् नु चक्षुः प्रतिष्ठितम् इति । रूपेष्व् इति । चक्षुषा हि रूपाणि पश्यति । कस्मिन् नु रूपाणि प्रतिष्ठितानीति । हृदय इति होवाच । हृदयेन हि रूपाणि जानाति । हृदये ह्य् एव रूपाणि प्रतिष्ठितानि भवन्तीति । एवम् एवैतद् याज्ञवल्क्य ॥ ब्र्हुप्_३,९।२० ॥ किन्देवतो ऽस्यां दक्षिणायां दिश्य् असीति । यमदेवत इति । स यमः कस्मिन् प्रतिष्ठित इति । यज्ञ इति । कस्मिन् नु यज्ञः प्रतिष्ठित इति । दक्षिणायाम् इति । कस्मिन् नु दक्षिणा प्रतिष्ठितेति । श्रद्धायाम् इति । यदा ह्य् एव श्रद्धत्ते ऽथ दक्षिणां ददाति । श्रद्धायां ह्य् एव दक्षिणा प्रतिष्ठितेति । कस्मिन् नु श्रद्धा प्रतिष्ठितेति । हृदय इति होवाच । हृदयेन हि श्रद्धाम् । हृदये ह्य् एव श्रद्धा प्रतिष्ठिता भवतीति । एवम् एवैतद् याज्ञवल्क्य ॥ ब्र्हुप्_३,९।२१ ॥ किन्देवतो ऽस्यां प्रतीच्यां दिश्य् असीति । वरुणदेवत इति । स वरुणः कस्मिन् प्रतिष्ठित इति । अप्स्व् इति । कस्मिन् न्व् आपः प्रतिष्ठिता इति । रेतसीति । कस्मिन् नु रेतः प्रतिष्ठितम् इति । हृदय इति । तस्माद् अपि प्रतिरूपं जातम् आहुर् हृदयाद् इव सृप्तो हृदयाद् इव निर्मित इति । हृदये ह्य् एव रेतः प्रतिष्ठितं भवतीति । एवम् एवैतद् याज्ञवल्क्य ॥ ब्र्हुप्_३,९।२२ ॥ किन्देवतो ऽस्याम् उदीच्यां दिश्य् असीति । सोमदेवत इति । स सोमः कस्मिन् प्रतिष्ठित इति । दीक्षायाम् इति । कस्मिन् नु दिक्षा प्रतिष्ठितेति । सत्य इति । तस्माद् अपि दीक्षितम् आहुः सत्यं वदेति । सत्ये ह्य् एव दीक्षा प्रतिष्ठितेति । कस्मिन् नु सत्यं प्रतिष्ठितम् इति । हृदय इति होवाच । हृदयेन हि सत्यं जानाति । हृदये ह्य् एव सत्यं प्रतिष्ठितं भवतीति । एवम् एवैतद् याज्ञवल्क्य ॥ ब्र्हुप्_३,९।२३ ॥ किन्देवतो ऽस्यां ध्रुवायां दिश्य् असीति । अग्निदेवत इति । सो ऽग्निः कस्मिन् प्रतिष्ठित इति । वाचीति । कस्मिन् नु वाक् प्रतिष्ठितेति । हृदय इति । कस्मिन् नु हृदयं प्रतिष्ठितम् इति ॥ ब्र्हुप्_३,९।२४ ॥ अहल्लिकेति होवाच याज्ञवल्क्यः । यत्रैतद् अन्यत्रास्मन् मन्यासै । यद् ध्य् एतद् अन्यत्रास्मत् स्याच् छ्वानो वैनद् अद्युर् वयांसि वैनद् विमथ्नीरन्न् इति ॥ ब्र्हुप्_३,९।२५ ॥ कस्मिन् नु त्वं चात्मा च प्रतिष्ठितौ स्थ इति । प्राण इति । कस्मिन् नु प्राणः प्रतिष्ठित इति । अपान इति । कस्मिन् न्व् अपानः प्रतिष्ठित इति । व्यान इति । कस्मिन् नु व्यानः प्रतिष्ठित इति । उदान इति । कस्मिन् नूदानः प्रतिष्ठित इति । समान इति । स एष नेति नेत्य् आत्मा । अगृह्यो न हि गृह्यते । अशीर्यो न हि शीर्यते । असङ्गो न सज्यते । असितो न व्यथते । न रिष्यति । एतान्य् अष्टाव् आयतनान्य् अष्टौ लोका अद्द्। अष्टौ देवा अष्टौ पुरुषाः । स यस् तान् पुरुषान् निरुह्य प्रत्युह्यात्यक्रामत् तं त्वौपनिषदं पुरुषं पृच्छामि । तं चेन् मे न विवक्ष्यसि मूर्धा ते विपतिष्यतीति । तं ह न मेने शाकल्यस् । तस्य ह मूर्धा विपपात । अपि हास्य परिमोषिणो ऽस्थीन्य् अपजह्रुर् अन्यन् मन्यमानाः ॥ ब्र्हुप्_३,९।२६ ॥ अथ होवाच -- ब्राह्मणा भगवन्तो यो वः कामयते स मा पृच्छतु । सर्वे वा मा पृच्छत । यो वः कामयते तं वः पृच्छामि सर्वान् वा वः पृच्छामीति । ते ह ब्राह्मणा न दधृषुः ॥ ब्र्हुप्_३,९।२७ ॥ तान् हैतैः श्लोकैः पप्रच्छ -- यथा वृक्षो वनस्पतिस् तथैव पुरुषो ऽमृषा । तस्य लोमानि पर्णानि त्वग् अस्योत्पाटिका बहिः ॥ ब्र्हुप्_३,९।२८:१ ॥ त्वच एवास्य रुधिरं प्रस्यन्दि त्वच उत्पटः । तस्मात् तद् आतृण्णात् प्रैति रसो वृक्षाद् इवाहतात् ॥ ब्र्हुप्_३,९।२८:२ ॥ मांसान्य् अस्य शकराणि किनाटं स्नाव तत् स्थिरम् । अस्थीन्य् अन्तरतो दारुणि मज्जा मज्जोपमा कृता ॥ ब्र्हुप्_३,९।२८:३ ॥ यद् वृक्षो वृक्णो रोहति मूलान् नवतरः पुनः । मर्त्यः स्विन् मृत्युना वृक्णः कस्मान् मूलात् प्ररोहति ॥ ब्र्हुप्_३,९।२८:४ ॥ रेतस इति मा वोचत जीवतस् तत् प्रजायते । धानारुह इव वै वृक्षो ऽञ्जसा प्रेत्य सम्भवः ॥ ब्र्हुप्_३,९।२८:५ ॥ यत् समूलम् आवृहेयुर् वृक्षं न पुनर् आभवेत् । मर्त्यः स्विन् मृत्युना वृक्णः कस्मान् मूलात् प्ररोहति ॥ ब्र्हुप्_३,९।२८:६ ॥ जात एव न जायते को न्व् एनं जनयेत् पुनः । विज्ञानम् आनन्दं ब्रह्म रातिर् दातुः परायणम् ॥ ब्र्हुप्_३,९।२८:७ ॥ जात एव न जायते को न्व् एनं जनयेत् पुनः । विज्ञानम् आनन्दं ब्रह्म रातिर् दातुः परायणम् ॥ तिष्ठमानस्य तद्विद इति ॥ ब्र्हुप्_३,९।२८:८ ॥ जनको ह वैदेह आसां चक्रे । अथ ह याज्ञवल्क्य आवव्राज । तं होवाच -- याज्ञवल्क्य किम् अर्थम् अचारीः पशून् इच्छन् अण्वन्तानीति । उभयम् एव संराड् इति होवाच ॥ ब्र्हुप्_४,१।१ ॥ यत् ते कश्चिद् अब्रवीत् तच् छृणवामेति । अब्रवीन् मे जित्वा शैलिनिः -- वाग् वै ब्रह्मेति । यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात् तथा तच् छैलिनिर् अब्रवीद् वाग् वै ब्रह्मेति । अवदतो हि किं स्याद् इति । अब्रवीत् तु ते तस्यायतनं प्रतिष्ठाम् । न मे ऽब्रवीद् इति । एकपाद् वा एतत् सम्राड् इति । स वै नो ब्रूहि याज्ञवल्क्य । वाग् एवायतनम् आकाशः प्रतिष्ठा प्रज्ञेत्य् एनद् उपासीत । का प्रज्ञता याज्ञवल्क्य । वाग् एव सम्राड् इति होवाच । वाचा वै सम्राड् बन्धुः प्रज्ञायते । ऋग्वेदो यजुर्वेदः सामवेदो ऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्य् अनुव्याख्यानानि व्याख्यानानीष्टं हुतम् आशितं पायितम् अयं च लोकः परश् च लोकः सर्वाणि च भूतानि वाचैव संराट् प्रज्ञायन्ते । वाग् वै सम्राट् परमं ब्रह्म । नैनं वाग् जहाति । सर्वाण्य् एनं भूतान्य् अभिक्षरन्ति । देवो भूत्वा देवान् अप्येति । य एवं विद्वान् एतद् उपास्ते । हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः -- पिता मे ऽमन्यत नाननुशिष्य हरेतेति ॥ ब्र्हुप्_४,१।२ ॥ यद् एव ते कश्चिद् अब्रवीत् तच् छृणवामेति । अब्रवीन् म उदङ्कः शौल्बायनः । प्राणो वै ब्रह्मेति । यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात् तथा तच् छौल्बायनो ऽब्रवीत् प्राणो वै ब्रह्मेति । अप्राणतो हि किं स्याद् इति । अब्रवीत् तु ते तस्यायतनं प्रतिष्ठाम् । न मे ऽब्रवीद् इति । एकपाद् वा एतत् सम्राड् इति । स वै नो ब्रूहि याज्ञवल्क्य । प्राण एवायतनम् आकाशः प्रतिष्ठा । प्रियम् इत्य् एनद् उपासीत । का प्रियता याज्ञवल्क्य । प्राण एव सम्राड् इति होवाच । प्राणस्य वै सम्राट् कामायायाज्यं याजयति । अप्रतिगृह्यस्य प्रतिगृह्णाति । अपि तत्र वधाशङ्का भवति यां दिशम् एति प्राणस्यैव सम्राट् कामाय । प्राणो वै सम्राट् परमं ब्रह्म । नैनं प्राणो जहाति । सर्वाण्य् एनं भूतान्य् अभिक्षरन्ति । देवो भूत्वा देवान् अप्येति । य एवं विद्वान् एतद् उपास्ते । हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहह् । स होवाच याज्ञवल्क्यः -- पिता मे ऽमन्यत नाननुशिष्य हरेतेति ॥ ब्र्हुप्_४,१।३ ॥ यद् एव ते कश्चिद् अब्रवीत् तच् छृणवामेति । अब्रवीन् मे बर्कुर् वार्ष्णः । चक्षुर् वै ब्रह्मेति । यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात् तथा तद् वार्ष्णो ऽब्रवीच् चक्षुर् वै ब्रह्मेति । अपश्यतो हि किं स्याद् इति । अब्रवीत् तु ते तस्यायतनं प्रतिष्ठाम् । न मे ऽब्रवीद् इति । एकपाद् वा एतत् सम्राड् इति । स वै नो ब्रूहि याज्ञवल्क्य । चक्षुर् एवायतनम् आकाशः प्रतिष्ठा । सत्यम् इत्य् एतद् उपासीत । का सत्यता याज्ञवल्क्य । चक्षुर् एव सम्राड् इति होवाच । चक्षुषा वै सम्राट् पश्यन्तम् आहुर् अद्राक्षीर् इति । स आहाद्राक्षम् इति तत् सत्यं भवति । चक्षुर् वै सम्राट् परमं ब्रह्म । नैनम् चक्षुर् जहाति । सर्वाण्य् एनं भूतान्य् अभिक्षरन्ति । देवो भूत्वा देवान् अप्येति । य एवं विद्वान् एतद् उपास्ते । हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः -- पिता मे ऽमन्यत नाननुशिष्य हरेतेति ॥ ब्र्हुप्_४,१।४ ॥ यद् एव ते कश्चिद् अब्रवीत् तच् छृणवामेति । अब्रवीन् मे गर्दभीविपीतो भारद्वाजः । श्रोत्रं वै ब्रह्मेति । यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात् तथा तद् भारद्वाजो ऽब्रवीच् छ्रोत्रं वै ब्रह्मेति । अशृण्वतो हि किं स्याद् इति । अब्रवीत् तु ते तस्यायतनं प्रतिष्ठाम् । न मे ऽब्रवीद् इति । एकपाद् वा एतत् सम्राड् इति । स वै नो ब्रूहि याज्ञवल्क्य । श्रोत्रम् एवायतनम् आकाशः प्रतिष्ठानन्तम् इत्य् एनद् उपासीत । कानन्तता याज्ञवल्क्य । दिश एव सम्राड् इति होवाच । तस्माद् वै सम्राड् अपि यां काञ्च दिशं गच्छति नैवास्या अन्तं गच्छति । अनन्ता हि दिशः । दिशो वै सम्राट् श्रोत्रम् । श्रोत्रं वै सम्राट् परमं ब्रह्म । नैनं श्रोत्रं जहाति । सर्वाण्य् एनं भूतान्य् अभिक्षरन्ति । देवो भूत्वा देवान् अप्येति । य एवं विद्वान् एतद् उपास्ते । हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः -- पिता मे ऽमन्यत नाननुशिष्य हरेतेति ॥ ब्र्हुप्_४,१।५ ॥ यद् एव ते कश्चिद् अब्रवीत् तच् छृणवामेति । अब्रवीन् मे सत्यकामो जाबालः -- मनो वै ब्रह्मेति । यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात् तथा तज् जाबालो ऽब्रवीन् मनो वै ब्रह्मेति । अमनसो हि किं स्याद् इति । अब्रवीत् तु ते तस्यायतनं प्रतिष्ठाम् । न मे ऽब्रवीद् इति । एकपाद् वा एतत् सम्राड् इति । स वै नो ब्रूहि याज्ञावल्क्य । मन एवायतनम् आकाशः प्रतिष्ठानन्द इत्य् एनद् उपासीत । कानन्दता याज्ञवल्क्य । मन एव सम्राड् इति होवाच मनसा वै सम्राट् स्त्रियम् अभि हार्यति तस्यां प्रतिरूपः पुत्रो जायते । स आनन्दः । मनो वै सम्राट् परमं ब्रह्म । नैनं मनो जहाति । सर्वाण्य् एनं भूतान्य् अभिक्षरन्ति । देवो भूत्वा देवान् अप्येति । य एवं विद्वान् एतद् उपास्ते । हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः -- पिता मे ऽमन्यत नाननुशिष्य हरेतेति ॥ ब्र्हुप्_४,१।६ ॥ यद् एव ते कश्चिद् अब्रवीत् तच् छृणवामेति । अब्रवीन् मे विदग्धः शाकल्यः । हृदयं वै ब्रह्मेति । यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात् तथा तच् छाकल्यो ऽब्रवीद् धृदयं वै ब्रह्मेति । अहृदयस्य हि किं स्याद् इति । अब्रवीत् तु ते तस्यायतनं प्रतिष्ठाम् । न मे ऽब्रवीद् इति । एकपाद् वा एतत् सम्राड् इति । स वै नो ब्रूहि याज्ञवल्क्य । हृदयम् एवायतनम् आकाशः प्रतिष्ठा । स्थितिर् इत्य् एनद् उपासीत । का स्थितिता याज्ञवल्क्य । हृदयम् एव सम्राड् इति होवाच । हृदयं वै सम्राट् सर्वेषां भूतानाम् आयतनम् । हृदयं वै सम्राट् सर्वेषां भूतानां प्रतिष्ठा । हृदये ह्य् एव सम्राट् सर्वाणि भूतानि प्रतिष्ठितानि भवन्ति । हृदयं वै सम्राट् परमं ब्रह्म । नैनं हृदयं जहाति । सर्वाण्य् एनं भूतान्य् अभिक्षरन्ति । देवो भूत्वा देवान् अप्येति । य एवं विद्वान् एतद् उपास्ते । हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः -- पिता मे ऽमन्यत नाननुशिष्य हरेतेति ॥ ब्र्हुप्_४,१।७ ॥ जनको ह वैदेहः कूर्चाद् उपावसर्पन्न् उवाच -- नमस् ते ऽस्तु याज्ञवल्क्य । अनु मा शाधीति । स होवाच यथा वै सम्राण् महान्तम् अध्वानम् एष्यन् रथं वा नावं वा समाददीतैवम् एवैताभिर् उपनिषद्भिः समाहितात्मासि । एवं वृन्दारक आढ्यः सन्न् अधीतवेद उक्तोपनिषत्क इतो विमुच्यमानः क्व गमिष्यसीति । नाहं तद् भगवन् वेद यत्र गमिष्यामीति । अथ वै ते ऽहं तद् वक्ष्यामि यत्र गमिष्यसीति । ब्रवीतु भगवान् इति ॥ ब्र्हुप्_४,२।१ ॥ इन्धो ह वै नामैष यो ऽयं दक्षिणे ऽक्षन् पुरुषः । तं वा एतम् इन्धं सन्तम् इन्द्र इत्य् आचक्षते परोक्षेणैव । परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः ॥ ब्र्हुप्_४,२।२ ॥ अथैतद् वामे ऽक्षणि पुरुषरूपम् एषास्य पत्नी विराट् । तयोर् एष संस्तावो य एषो ऽन्तर् हृदय आकाशः । अथैनयोर् एतद् अन्नं य एषो ऽन्तर् हृदये लोहितपिण्डः । अथैनयोर् एतत् प्रावरणं यद् एतद् अन्तर् हृदये जालकम् इव । अथैनयोर् एषा सृतिः सञ्चरणी यैषा हृदयाद् ऊर्ध्वा नाड्य् उच्चरति । यथा केशः सहस्रधा भिन्न एवम् अस्यैता हिता नाम नाड्यो ऽन्तर् हृदये प्रतिष्ठिता भवन्ति । एताभिर् वा एतद् आस्रवद् आस्रवति । तस्माद् एष प्रविविक्ताहारतर इव भवत्य् अस्माच् छारीराद् आत्मनः ॥ ब्र्हुप्_४,२।३ ॥ तस्य प्राची दिक् प्राञ्चः प्राणाः । दक्षिणा दिग् दक्षिणे प्राणाः । प्रतीची दिक् प्रत्यञ्चः प्राणाः । उदीची दिग् उदञ्चः प्राणाः । ऊर्ध्वा दिग् ऊर्ध्वाः प्राणाः । अवाची दिग् अवाञ्चः प्राणाः । सर्वा दिशः सर्वे प्राणाः । स एष नेति नेत्य् आत्मा । अगृह्यो न हि गृह्यते । अशीर्यो न हि शीर्यते । असङ्गो न हि सज्यते । असितो न व्यथते । न रिष्यति । अभयं वै जनक प्राप्तो ऽसीति होवाच याज्ञवल्क्यः । स होवाच जनको वैदेहो ऽभयं त्वा गच्छताद् याज्ञवल्क्य यो नो भगवन्न् अभयं वेदयसे । नमस् ते ऽस्तु । इमे विदेहा अयम् अहम् अस्मीति ॥ ब्र्हुप्_४,२।४ ॥ जनकं ह वैदेहं याज्ञवल्क्यो जगाम । सम् एनेन वदिष्य इति । अथ ह यज् जनकश् च वैदेहो याज्ञवल्क्यश् चाग्निहोत्रे समूदाते । तस्मै ह याज्ञवल्क्यो वरं ददौ । स ह कामप्रश्नम् एव वव्रे । तं हास्मै ददौ । तं ह सम्राड् एव पूर्वः पप्रच्छ ॥ ब्र्हुप्_४,३।१ ॥ याज्ञवल्क्य किञ्ज्योतिर् अयं पुरुष इति । आदित्यज्योतिः सम्राड् इति होवाच । आदित्येनैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति । एवम् एवैतद् याज्ञवल्क्य ॥ ब्र्हुप्_४,३।२ ॥ अस्तमित आदित्ये याज्ञवल्क्य किञ्ज्योतिर् एवायं पुरुष इति । चन्द्रमा एवास्य ज्योतिर् भवतीति । चन्द्रमसैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति । एवम् एवैतद् याज्ञवल्क्य ॥ ब्र्हुप्_४,३।३ ॥ अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्य् अस्तमिते किञ्ज्योतिर् एवायं पुरुष इति । अग्निर् एवास्य ज्योतिर् भवतीति । अग्निनैव ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति । एवम् एवैतद् याज्ञवल्क्य ॥ ब्र्हुप्_४,३।४ ॥ अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्य् अस्तमिते शान्ते ऽग्नौ किञ्ज्योतिर् एवायं पुरुष इति । वाग् एवास्य ज्योतिर् भवतीति । वाचैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येति । तस्माद् वै सम्राड् अपि यत्र स्वः पाणिर् न विनिर्ज्ञायते ऽथ यत्र वाग् उच्चरत्य् उपैव तत्र न्येतीति । एवम् एवैतद् याज्ञवल्क्य ॥ ब्र्हुप्_४,३।५ ॥ अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्य् अस्तमिते शान्ते ऽग्नौ शान्तायां वाचि किञ्ज्योतिर् एवायं पुरुष इति । आत्मैवास्य ज्योतिर् भवतीति । आत्मनैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति ॥ ब्र्हुप्_४,३।६ ॥ कतम आत्मेति -- यो ऽयं विज्ञानमयः प्राणेषु हृद्य् अन्तर्ज्योतिः पुरुषः । स समानः सन्न् उभौ लोकाव् अनुसञ्चरति ध्यायतीव लेलायतीव । स हि स्वप्नो भूत्वेमं लोकम् अतिक्रामति अद्द्। मृत्यो रूपाणि ॥ ब्र्हुप्_४,३।७ ॥ स वा अयं पुरुषो जायमानः शरीरम् अभिसम्पद्यमानः पाप्मभिः संसृज्यते । स उत्क्रामन् म्रियमाणः पाप्मनो विजहाति ॥ ब्र्हुप्_४,३।८ ॥ तस्य वा एतस्य पुरुषस्य द्वे एव स्थाने भवतः । इदं च परलोकस्थानं च । सन्ध्यं तृतीयं स्वप्नस्थानम् । तस्मिन्सन्ध्ये स्थाने तिष्ठन् उभे स्थाने पश्यतीदं च परलोकस्थानं च । अथ यथाक्रमो ऽयं परलोकस्थाने भवति । तम् आक्रमम् आक्रम्योभयान् पाप्मन आनन्दांश् च पश्यति । स यत्र प्रस्वपित्य् अस्य लोकस्य सर्वावतो मात्राम् अपादाय स्वयं विहत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्वपिति । अत्रायं पुरुषः स्वयञ्ज्योतिर् भवति ॥ ब्र्हुप्_४,३।९ ॥ न तत्र रथा न रथयोगा न पन्थानो भवन्ति । अथ रथान् रथयोगान् पथः सृजते । न तत्रानन्दा मुदः प्रमुदो भवन्ति । अथानन्दान् मुदः प्रमुदः सृजते । न तत्र वेशान्ताः पुष्करिण्यः स्रवन्त्यो भवन्ति । अथ वेशान्तान् पुष्करिणीः स्रवन्तीः सृजते । स हि कर्ता ॥ ब्र्हुप्_४,३।१० ॥ तद् एते श्लोका भवन्ति -- स्वप्नेन शारीरम् अभिप्रहत्यासुप्तः सुप्तान् अभिचाकशीति । शुक्रम् आदाय पुनर् ऐति स्थानं हिरण्मयःपुरुष एकहंसः ॥ ब्र्हुप्_४,३।११ ॥ प्राणेन रक्षन्न् अवरं कुलायं बहिष्कुलायाद् अमृतश् चरित्वा । स ईयते ऽमृतो यत्रकामं हिरण्मयः पुरुष एकहंसः ॥ ब्र्हुप्_४,३।१२ ॥ स्वप्नान्त उच्चावचम् ईयमानो रूपाणि देवः कुरुते बहूनि । उतेव स्त्रीभिः सह मोदमानो जक्षद् उतेवापि भयानि पश्यन् ॥ ब्र्हुप्_४,३।१३ ॥ आरामम् अस्य पश्यन्ति न तं पश्यति कश् चनेति । तं नायतं बोधयेद् इत्य् आहुः । दुर्भिषज्यं हास्मै भवति यम् एष न प्रतिपद्यते । अथो खल्व् आहुर् जागरितदेश एवास्यैस इति । यानि ह्य् एव जाग्रत् पश्यति तानि सुप्त इति । अत्रायं पुरुषः स्वयञ्ज्योतिर् भवति । सो ऽहं भगवते सहस्रं ददामि । अत ऊर्ध्वं विमोक्षाय ब्रूहीति ॥ ब्र्हुप्_४,३।१४ ॥ स वा एष एतस्मिन् सम्प्रसादे रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्य् आद्रवति स्वप्नायैव । स यत् तत्र किञ्चित् पश्यत्य् अनन्वागतस् तेन भवति । असङ्गो ह्य् अयं पुरुष इति । एवम् एवैतत् याज्ञवल्क्य । सो ऽहं भगवते सहस्रं ददामि । अत ऊर्ध्वं विमोक्षायैव ब्रूहीति ॥ ब्र्हुप्_४,३।१५ ॥ स वा एष एतस्मिन् स्वप्ने रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्य् आद्रवति बुद्धान्तायैव । स यत् तत्र किञ्चित् पश्यत्य् अनन्वागतस् तेन भवति । असङ्गो ह्य् अयं पुरुष इति । एवम् एवैतत् याज्ञवल्क्य । सो ऽहं भगवते सहस्रं ददामि । अत ऊर्ध्वं विमोक्षायैव ब्रूहीति ॥ ब्र्हुप्_४,३।१६ ॥ स वा एष एतस्मिन् बुद्धान्ते रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्य् आद्रवति स्वप्नान्तायैव ॥ ब्र्हुप्_४,३।१७ ॥ तद् यथा महामत्स्य उभे कूले अनुसञ्चरति पूर्वं चापरं च । एवम् एवायं पुरुष एताव् उभाव् अन्ताव् अनुसञ्चरति स्वप्नान्तं च बुद्धान्तं च ॥ ब्र्हुप्_४,३।१८ ॥ तद् यथास्मिन्न् आकाशे श्येनो वा सुपर्णो वा विपरिपत्य श्रान्तः संहत्य पक्षौ संलयायैव ध्रियते । एवम् एवायं पुरुष एतस्मा अन्ताय धवति । यत्र सुप्तो न कं चन कामं कामयते न कं चन स्वप्नं पश्यति ॥ ब्र्हुप्_४,३।१९ ॥ ता वा अस्यैता हिता नाम नाड्यो यथा केशः सहस्रधा भिन्नस् तावताणिम्ना तिष्ठन्ति । शुक्लस्य नीलस्य पिङ्गलस्य हरितस्य लोहितस्य पूर्णाः । अथ यत्रैनं घ्नन्तीव जिनन्तीव हस्तीव विच्छाययति गर्तम् इव पतति । यद् एव जाग्रद् भयं पश्यति तद् अत्राविद्यया मन्यते । अथ यत्र देव इव राजेवाहम् एवेदं सर्वो ऽस्मीति मन्यते । सो ऽस्य परमो लोकः ॥ ब्र्हुप्_४,३।२० ॥ तद् वा अस्यैतद् अतिच्छन्दो ऽपहतपाप्माभयं रूपम् । तद् यथा प्रियया स्त्रिया सम्परिष्वक्तो न बाह्यं किं चन वेद नान्तरम् । एवम् एवायं पुरुषः प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किं चन वेद नान्तरम् । तद् वा अस्यैतद् आप्तकामम् आत्मकामम् अकामं रूपम् शोकान्तरम् ॥ ब्र्हुप्_४,३।२१ ॥ अत्र पितापिता भवति मातामाता लोका अलोका देवा अदेवा वेदा अवेदाः । अत्र स्तेनो ऽस्तेनो भवति भ्रूणहाभ्रूणहा चाण्ड्यालो ऽचण्ड्यालः पौल्कसो ऽपौल्कसः श्रमणो ऽश्रमणस् तापसो ऽतापसः । अनन्वागतं पुण्येनानन्वागतं पापेन । तीर्णो हि तदा सर्वाञ् शोकान् हृदयस्य भवति ॥ ब्र्हुप्_४,३।२२ ॥ यद् वै तन् न पश्यति पश्यन् वै तन् न पश्यति । न हि द्रष्टुर् दृष्टेर् विपरिलोपो विद्यते ऽविनाशित्वान् । न तु तद् द्वितीयम् अस्ति ततो ऽन्यद् विभक्तं यत् पश्येत् ॥ ब्र्हुप्_४,३।२३ ॥ यद् वै तन् न जिघ्रति जिघ्रन् वै तन् न जिघ्रति । न हि घ्रातुर् घ्रातेर् विपरिलोपो विद्यते ऽविनाशित्वात् । न तु तद् द्वितीयम् अस्ति ततो ऽन्यद् विभक्तं यज् जिघ्रेत् ॥ ब्र्हुप्_४,३।२४ ॥ यद् वै तन् न रसयति रसयन् वै तन् न रसयति । न हि रसयितू रसयतेर् विपरिलोपो विद्यते ऽविनाशित्वात् । न तु तद् द्वितीयम् अस्ति ततो ऽन्यद् विभक्तं यद् रसयेत् ॥ ब्र्हुप्_४,३।२५ ॥ यद् वै तन् न वदति वदन् वै तन् न वदति । न हि वक्तुर् वक्तेर् विपरिलोपो विद्यते ऽविनाशित्वात् । न तु तद् द्वितीयम् अस्ति ततो ऽन्यद् विभक्तं यद् वदेत् ॥ ब्र्हुप्_४,३।२६ ॥ यद् वै तन् न शृणोति शृण्वन् वै तन् न शृणोति । न हि श्रोतुः श्रुतेर् विपरिलोपो विद्यते ऽविनाशित्वात् । न तु तद् द्वितीयम् अस्ति ततो ऽन्यद् विभक्तं यच् छृणुयात् ॥ ब्र्हुप्_४,३।२७ ॥ यद् वै तन् न मनुते मन्वानो वै तन् न मनुते । न हि मन्तुर् मतेर् विपरिलोपो विद्यते ऽविनाशित्वात् । न तु तद् द्वितीयम् अस्ति ततो ऽन्यद् विभक्तं यन् मन्वीत ॥ ब्र्हुप्_४,३।२८ ॥ यद् वै तन् न स्पृशति स्पृशन् वै तन् न स्पृशति । न हि स्प्रष्टुः स्पृष्टेर् विपरिलोपो विद्यते ऽविनाशित्वात् । न तु तद् द्वितीयम् अस्ति ततो ऽन्यद् विभक्तं यत् स्पृशेत् ॥ ब्र्हुप्_४,३।२९ ॥ यद् वै तन् न विजानाति विजानन् वै तन् न विजानाति । न हि विज्ञातुर् विज्ञातेर् विपरिलोपो विद्यते ऽविनाशित्वात् । न तु तद् द्वितीयम् अस्ति ततो ऽन्यद् विभक्तं यद् विजानीयात् ॥ ब्र्हुप्_४,३।३० ॥ यत्र वा अन्यद् इव स्यात् तत्रान्यो ऽन्यत् पश्येद् अन्यो ऽन्यज् जिघ्रेद् अन्यो ऽन्यद् रसयेद् अन्यो ऽन्यद् वदेद् अन्यो ऽन्यच् छृणुयाद् अन्यो ऽन्यन् मन्वीतान्यो ऽन्यत् स्पृशेद् अन्यो ऽन्यद् विजानीयात् ॥ ब्र्हुप्_४,३।३१ ॥ सलिल एको द्रष्टाद्वैतो भवति । एष ब्रह्मलोकः सम्राट् । इति हैनम् अनुशशास याज्ञवल्क्यः । एषास्य परमा गतिः । एषास्य परमा सम्पत् । एषो ऽस्य परमो लोकः । एषो ऽस्य परम आनन्दः । एतस्यैवानन्दस्यान्यानि भूतानि मात्राम् उपजीवन्ति ॥ ब्र्हुप्_४,३।३२ ॥ स यो मनूष्याणां राद्धः समृद्धो भवत्य् अन्येषाम् अधिपतिः सर्वैर् मानुष्यकैर् भोगैः सम्पन्नतमः स मनुष्याणां परम आनन्दः । अथ ये शतं मनुष्याणाम् आनन्दाः स एकः पितॄणां जितलोकानाम् आनन्दः । अथ ये शतं पितॄणां जितलोकानाम् आनन्दाः स एको गन्धर्वलोक आनन्दः । अथ ये शतं गन्धर्वलोक आनन्दाः स एकः कर्मदेवानाम् आनन्दो ये कर्मणा देवत्वम् अभिसम्पद्यन्ते । अथ ये शतं कर्मदेवानाम् आनन्दाः स एक आजानदेवानाम् आनन्दः । यश् च श्रोत्रियो ऽवृजिनो ऽकामहतः । अथ ये शतम् आजानदेवानाम् आनन्दाः स एकः प्रजापतिलोक आनन्दः । यश् च श्रोत्रियो ऽवृजिनो ऽकामहतः । अथ ये शतं प्रजापतिलोक आनन्दाः स एको ब्रह्मलोक आनन्दः । यश् च श्रोत्रियो ऽवृजिनो ऽकामहतः । अथैष एव परम आनन्दः । एष ब्रह्मलोकः सम्राट् । इति होवाच याज्ञवल्क्यः । सो ऽहं भगवते सहस्रं ददामि । अत ऊर्ध्वं विमोक्षायैव ब्रूहीति । अत्र ह याज्ञवल्क्यो बिभयां चकार -- मेधावी राजा सर्वेभ्यो मान्तेभ्य उदरौत्सीद् इति ॥ ब्र्हुप्_४,३।३३ ॥ स वा एष एतस्मिन् स्वप्नान्ते रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्य् आद्रवति बुद्धान्तायैव ॥ ब्र्हुप्_४,३।३४ ॥ तद् यथानः सुसमाहितम् उत्सर्जं यायाद् एवम् एवायं शारीर आत्मा प्राज्ञेनात्मनान्वारूढ उत्सर्जं याति । यत्रैतद् ऊर्ध्वोच्छ्वासी भवति ॥ ब्र्हुप्_४,३।३५ ॥ स यत्रायम् अणिमानं न्येति जरया वोपतपता वाणिमानं निगच्छति । तद् यथाम्रं वोदुम्बरं वा पिप्पलं वा बन्धनात् प्रमुच्यते । एवम् एवायं पुरुष एभ्यो ऽङ्गेभ्यः सम्प्रमुच्य पुनः प्रतिन्यायं प्रतियोन्य् आद्रवति प्राणायैव ॥ ब्र्हुप्_४,३।३६ ॥ तद् यथा राजानम् आयन्तम् उग्राः प्रत्येनसः सूतग्रामण्यो ऽन्नैः पानैर् अवसथैः प्रतिकल्पन्ते ऽयम् आयात्य् अयम् आगच्छतीति । एवं हैवंविदं सर्वाणि भूतानि प्रतिकल्पन्त इदं ब्रह्मायातीदम् आगच्छतीति ॥ ब्र्हुप्_४,३।३७ ॥ तद् यथा राजानं प्रयियासन्तम् उग्राः प्रत्येनसः सूतग्रामण्यो ऽभिसमायन्ति । एवम् एवेमम् आत्मानम् अन्तकाले सर्वे प्राणा अभिसमायन्ति । यत्रैतद् ऊर्ध्वोच्छ्वासी भवति ॥ ब्र्हुप्_४,३।३८ ॥ स यत्रायम् आत्माबल्यं न्येत्य सम्मोहम् इव न्येति । अथैनम् एते प्राणा अभिसमायन्ति । स एतास् तेजोमात्राः समभ्याददानो हृदयम् एवान्ववक्रामति । स यत्रैष चाक्षुषः पुरुषः पराङ् पर्यावर्तते । अथारूपज्ञो भवति ॥ ब्र्हुप्_४,४।१ ॥ एकीभवति न पश्यतीत्य् आहुः । एकीभवति न जिघ्रतीत्य् आहुः । एकीभवति न रसयतीत्य् आहुः । एकीभवति न वदतीत्य् आहुः । एकीभवति न शृणोतीत्य् आहुः । एकीभवति न मनुत इत्य् आहुः । एकीभवति न स्पृशतीत्य् आहुः । एकीभवति न विजानातीत्य् आहुः । तस्य हैतस्य हृदयस्याग्रं प्रद्योतते । तेन प्रद्योतेनैष आत्मा निष्क्रामति । चक्षुष्टो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यः । तम् उत्क्रामन्तं प्राणो ऽनूत्क्रामति । प्राणम् अनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति । सविज्ञनो भवति । सञ्जानम् एवान्ववक्रामति । तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च ॥ ब्र्हुप्_४,४।२ ॥ तद् यथा तृणजलायुका तृणस्यान्तं गत्वान्यम् आक्रमम् आक्रम्यात्मानम् उपसंहरति । एवम् एवायम् आत्मेदं शरीरं निहत्याविद्यां गमयित्वान्यम् आक्रमम् आक्रम्यात्मानम् उपसंहरति ॥ ब्र्हुप्_४,४।३ ॥ तद् यथा पेशस्कारी पेशसो मात्राम् अपादायान्यन् नवतरं कल्याणतरं रूपं तनुते । एवम् एवायम् आत्मेदं शरीरं निहत्याविद्यां गमयित्वान्यन् नवतरं कल्याणतरं रूपं कुरुते । पित्र्यं वा गान्धर्वं वा दैवं वा प्राजापत्यं वा ब्राह्मं वान्येषां वा भूतानाम् ॥ ब्र्हुप्_४,४।४ ॥ स वा अयम् आत्मा ब्रह्म विज्ञानमयो मनोमयो प्राणमयश् चक्षुर्मयः श्रोत्रमयः पृथिवीमय आपोमयो वायुमय आकाशमयस् तेजोमयो ऽतेजोमयः काममयो ऽकाममयः क्रोधमयो ऽक्रोधमयो धर्ममयो ऽधर्ममयः सर्वमयः । तद् यद् एतद् इदम्मयो ऽदोमय इति । यथाकारी यथाचारी तथा भवति । साधुकारी साधुर् भवति । पापकारी पापो भवति । पुण्यः पुण्येन कर्मणा पापः पापेन । अथो खल्व् आहुः । काममय एवायं पुरुष इति । स यथाकामो भवति तत्क्रतुर् भवति । यत्क्रतुर् भवति तत् कर्म कुरुते । यत् कर्म कुरुते तद् अभिसम्पद्यते ॥ ब्र्हुप्_४,४।५ ॥ तद् एष श्लोको भवति -- तद् एव सक्तः सह कर्मणैति लिङ्गं मनो यत्र निषक्तम् अस्य । प्राप्यान्तं कर्मणस् तस्य यत् किञ्चेह करोत्य् अयम् । तस्माल् लोकात् पुनर् ऐत्य् अस्मै लोकाय कर्मणे । इति नु कामयमानः । अथाकामयमानो यो ऽकामो निष्काम आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्ति । ब्रह्मैव सन् ब्रह्माप्येति ॥ ब्र्हुप्_४,४।६ ॥ तद् एष श्लोको भवति -- यदा सर्वे प्रमुच्यन्ते कामा ये ऽस्य हृदि श्रिताः । अथ मर्त्यो ऽमृतो भवत्य् अत्र ब्रह्म समश्नुत इति । तद् यथाहिनिर्ल्वयनी वल्मीके मृता प्रत्यस्ता शयीत । एवम् एवेदं शरीरं शेते । अथायम् अशरीरो ऽमृतः प्राणो ब्रह्मैव तेज एव । सो ऽहं भगवते सहस्रं ददामीति होवाच जनको वैदेहः ॥ ब्र्हुप्_४,४।७ ॥ तद् एते श्लोका भवन्ति -- अणुः पन्था विततः पुराणो मां स्पृष्टो ऽनुवित्तो मयैव । तेन धीरा अपियन्ति ब्रह्मविदः स्वर्गं लोकम् इत ऊर्ध्वं विमुक्ताः ॥ ब्र्हुप्_४,४।८ ॥ तस्मिञ् शुक्लम् उत नीलम् आहुः पिङ्गलं हरितं लोहितं च । एष पन्था ब्रह्मणा हानुवित्तस् तेनैति ब्रह्मवित् पुण्यकृत् तैजसश् च ॥ ब्र्हुप्_४,४।९ ॥ अन्धं तमः प्रविशन्ति ये ऽविद्याम् उपासते । ततो भूय इव ते तमो य उ विद्यायां रताः ॥ ब्र्हुप्_४,४।१० ॥ अनन्दा नाम ते लोका अन्धेन तमसावृताः । तांस् ते प्रेत्याभिगच्छत्य् अविद्वांसो ऽबुधा जनाः ॥ ब्र्हुप्_४,४।११ ॥ आत्मानं चेद् विजानीयाद् अयम् अस्मीति पुरुषः । किम् इच्छन् कस्य कामाय शरीरम् अनु सञ्ज्वरेत् ॥ ब्र्हुप्_४,४।१२ ॥ यस्यानुवित्तः प्रतिबुद्ध आत्मास्मिन् सन्देह्ये गहने प्रविष्टः । स विश्वकृत् स हि सर्वस्य कर्ता तस्य लोकः स उ लोक एव ॥ ब्र्हुप्_४,४।१३ ॥ इहैव सन्तो ऽथ विद्मस् तद् वयं न चेद् अवेदिर् महती विनष्टिः । ये तद् विदुर् अमृतास् ते भवन्त्य् अथेतरे दुःखम् एवापियन्ति ॥ ब्र्हुप्_४,४।१४ ॥ यदैतम् अनुपश्यत्य् अत्मानं देवम् अङ्जसा । ईशानं भूतभव्यस्य न ततो विजुगुप्सते ॥ ब्र्हुप्_४,४।१५ ॥ यस्माद् अर्वाक् संवत्सरो ऽहोभिः परिवर्तते । तद् देवा ज्योतिषां ज्योतिर् आयुर् होपासते ऽमृतम् ॥ ब्र्हुप्_४,४।१६ ॥ यस्मिन् पञ्च पञ्चजना आकाशश् च प्रतिष्ठितः । तम् एव मन्य आत्मानं विद्वान् ब्रह्मामृतो ऽमृतम् ॥ ब्र्हुप्_४,४।१७ ॥ प्राणस्य प्राणम् उत चक्षुषश् चक्षुर् उत श्रोत्रस्य श्रोत्रम् मनसो ये मनो विदुः । ते निचिक्युर् ब्रह्म पुराणम् अग्र्यम् ॥ ब्र्हुप्_४,४।१८ ॥ मनसैवानुद्रष्टव्यं नेह नानास्ति किं चन । मृत्योः स मृत्युम् आप्नोति य इह नानेव पश्यति। ब्र्हुप्_४,४।१९ ॥ एकधैवानुद्रष्टव्यम् एतद् अप्रमयं ध्रुवम् । विरजः पर आकाशाद् अज आत्मा महान् ध्रुवः ॥ ब्र्हुप्_४,४।२० ॥ तम् एव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः । नानुध्यायाद् बहूञ् छब्दान् वाचो विग्लापनं हि तद् इति ॥ ब्र्हुप्_४,४।२१ ॥ स वा एष महान् अज आत्मा यो ऽयं विज्ञानमयः प्राणेषु । य एषो ऽन्तर् हृदय आकाशस् तस्मिञ् छेते । सर्वस्य वशी । सर्वस्येशानः । सर्वस्याधिपतिः । स न साधुना कर्मणा भूयान् । नो एवासाधुना कनीयान् । एष सर्वेश्वरः । एष भूताधिपतिः । एष भूतपालः । एष सेतुर् विधरण एषां लोकानाम् असम्भेदाय । तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन । एतम् एव विदित्वा मुनिर् भवति । एतम् एव प्रव्राजिनो लोकम् इच्छन्तः प्रव्रजन्ति ॥ ब्र्हुप्_४,४।२२ ॥ तद् एतद् ऋचाभ्युक्तम् -- एष नित्यो महिमा ब्राह्मणस्य न कर्मणा वर्धते नो कनीयान् । तस्यैव स्यात् पदवित्तं विदित्वा न लिप्यते कर्मणा पापकेनेति । तस्माद् एवंविच् छान्तो दान्त उपरतस् तितिक्षुः समाहितो भूत्वात्मन्य् एवात्मानं पश्यति । सर्वम् आत्मानं पश्यति । नैनं पाप्मा तरति । सर्वं पाप्मानं तरति । नैनं पाप्मा तपति । सर्वं पाप्मानं तपति । विपापो विरजो ऽविचिकित्सो ब्राह्मणो भवति । एष ब्रह्मलोकः सम्राट् । एनं प्रापितो ऽसीति होवाच याज्ञवल्क्यः । सो ऽहं भगवते विदेहान् ददामि माम् चापि सह दास्यायेति ॥ ब्र्हुप्_४,४।२३ ॥ स वा एष महान् अज आत्मान्नादो वसुदानः । विन्दते वसु य एवं वेद ॥ ब्र्हुप्_४,४।२४ ॥ स वा एष महान् अज आत्माजरो ऽमरो ऽमृतो ऽभयो ब्रह्म । अभयं वै ब्रह्म । अभयं हि वै ब्रह्म भवति य एवं वेद ॥ ब्र्हुप्_४,४।२५ ॥ अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुर् मैत्रेयी च कात्यायनी च । तयोर् ह मैत्रेयी ब्रह्मवादिनी बभूव । स्त्रीप्रज्ञैव तर्हि कात्यायनी । अथ ह याज्ञवल्क्यो ऽन्यद् वृत्तम् उपाकरिष्यन् ॥ ब्र्हुप्_४,५।१ ॥ मैत्रेयीति होवाच याज्ञवल्क्यः । प्रव्रजिष्यन् वा अरे ऽहम् अस्मात् स्थानाद् अस्मि । हन्त ते ऽनया कत्यायन्यान्तं करवाणीति ॥ ब्र्हुप्_४,५।२ ॥ सा होवाच मैत्रेयी -- यन् नु म इयम् भगोः सर्वा पृथिवी वित्तेन पूर्णा स्यात् स्यां न्व् अहं तेनामृताहो३ नेति । नेति होवाच याज्ञवल्क्यः । यथैवोपकरणवतां जीवितम् । तथैव ते जीवितं स्यात् । अमृतत्वस्य तु नाशास्ति वित्तेनेति ॥ ब्र्हुप्_४,५।३ ॥ सा होवाच मैत्रेयी -- येनाहं नामृता स्याम् किम् अहं तेन कुर्याम् । यद् एव भगवान् वेद तद् एव मे ब्रूहीति ॥ ब्र्हुप्_४,५।४ ॥ स होवाच याज्ञवल्क्यः -- प्रिया वै खलु नो भवती सती प्रियम् अवृधत् । हन्त तर्हि । भवत्य् एतद् व्याख्यास्यामि ते । व्याचक्षाणस्य तु मे निदिध्यासस्वेति ॥ ब्र्हुप्_४,५।५ ॥ स होवाच । न वा अरे पत्युः कामाय पतिः प्रियो भवत्य् आत्मनस् तु कामाय पतिः प्रियो भवति । न वा अरे जायायै कामाय जाया प्रिया भवत्य् आत्मनस् तु कामाय जाया प्रिया भवति । न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्त्य् आत्मनस् तु कामाय पुत्राः प्रिया भवन्ति । न वा अरे वित्तस्य कामाय वित्तं प्रियं भवत्य् आत्मनस् तु कामाय वित्तं प्रियं भवति । न वा अरे पशूनां कामाय पशवः प्रियं भवत्य् आत्मनस् तु कामाय पशवः प्रियं भवति । न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवत्य् आत्मनस् तु कामाय ब्रह्म प्रियं भवति । न वा अरे क्षत्रस्य कामाय क्षत्रं प्रियं भवत्य् आत्मनस् तु कामाय क्षत्रं प्रियं भवति । न वा अरे लोकानां कामाय लोकाः प्रिया भवन्त्य् आत्मनस् तु कामाय लोकाः प्रिया भवन्ति । न वा अरे देवानां कामाय देवाः प्रिया भवन्त्य् आत्मनस् तु कामाय देवाः प्रिया भवन्ति । न वा अरे वेदानां कामाय वेदाः प्रिया भवन्त्य् आत्मनस् तु कामाय वेदाः प्रिया भवन्ति । न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्त्य् आत्मनस् तु कामाय भूतानि प्रियाणि भवन्ति । न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्य् आत्मनस् तु कामाय सर्वं प्रियं भवति । आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेयि । आत्मनि खल्व् अरे दृष्टे श्रुते मते विज्ञात इदं सर्वं विदितम् ॥ ब्र्हुप्_४,५।६ ॥ ब्रह्म तं परादाद् यो ऽन्यत्रात्मनो वेदान् वेद । क्षत्रं तं परादाद् यो ऽन्यत्रात्मनः क्षत्रं वेद । लोकास् तं परादुर् यो ऽन्यत्रात्मनो लोकान् वेद । देवास् तं परादुर् यो ऽन्यत्रात्मनो देवान् वेद । वेदास् तं परादुर् यो ऽन्यत्रात्मनो वेदान् वेद । भूतानि तं परादुर् यो ऽन्यत्रात्मनो भूतानि वेद । सर्वं तं परादाद् यो ऽन्यत्रात्मनः सर्वं वेद । इदं ब्रह्मेदं क्षत्रम् इमे लोका इमे देवा इमे वेदा इमानि भूतानीदं सर्वं यद् अयम् आत्मा ॥ ब्र्हुप्_४,५।७ ॥ स यथा दुन्दुभेर् हन्यमानस्य न बाह्याञ् छब्दाञ् छक्नुयाद् ग्रहणाय । दुन्दुभेस् तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः ॥ ब्र्हुप्_४,५।८ ॥ स यथा शङ्खस्य ध्मायमानस्य न बाह्याञ् छब्दाञ् छक्नुयाद् ग्रहणाय । शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः ॥ ब्र्हुप्_४,५।९ ॥ स यथा वीणायै वाद्यमानायै न बाह्याञ् छब्दाञ् छक्नुयाद् ग्रहणाय । वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो ग्र्हीतः ॥ ब्र्हुप्_४,५।१० ॥ स यथार्द्रैधाग्नेर् अभ्याहितस्य पृथग् धूमा विनिश्चरन्त्य् एवं वा अरे ऽस्य महतो भूतस्य निःश्वसितम् एतद् यद् ऋग्वेदो यजुर्वेदः सामवेदो ऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्य् अनुव्याख्यानानि व्याख्याननीष्टं हुतम् आशितं पायितम् अयं च लोकः परश् च लोकः सर्वाणि च भूतानि । अस्यैवैतानि सर्वाणि निश्वसितानि ॥ ब्र्हुप्_४,५।११ ॥ स यथा सर्वासाम् अपां समुद्र एकायनम् । एवं सर्वेषां स्पर्शानां त्वग् एकायनम् । एवं सर्वेषां गन्धानां नासिके एकायनम् । एवं सर्वेषां रसानां जिह्वैकायनम् । एवं सर्वेषां रूपाणां चक्षुर् एकायनम् । एवं सर्वेषं शब्दानां श्रोत्रम् एकायनम् । एवं सर्वेषां सङ्कल्पानां मन एकायनम् । एवं सर्वासां विद्यानां हृदयम् एकायनम् । एवं सर्वेषां कर्मणां हस्ताव् एकायनम् । एवं सर्वेषाम् आनन्दानाम् उपस्थ एकायनम् । एवं सर्वेषां विसर्गाणां पायुर् एकायनम् । एवं सर्वेषाम् अध्वनां पादाव् एकायनम् । एवं सर्वेषां वेदानां वाग् एकायनम् ॥ ब्र्हुप्_४,५।१२ ॥ स यथा सैन्धवघनो ऽनन्तरो ऽबाह्यः कृत्स्नो रसघन एव । एवं वा अरे ऽयम् आत्मानन्तरो ऽबाह्यः कृत्स्नः प्रज्ञानघन एव । एतेभ्यो भूतेभ्यः समुत्थाय तान्य् एवानुविनयति । न प्रेत्य सञ्ज्ञास्तीत्य् अरे ब्रवीमि । इति होवाच याज्ञवल्क्यः ॥ ब्र्हुप्_४,५।१३ ॥ सा होवाच मैत्रेयी -- अत्रैव मा भगवान् मोहान्तम् आपीपदत् । न वा अहम् इमं विजानामीति । स होवाच -- न वा अरे ऽहं मोहं ब्रवीमि । अविनाशी वा अरे ऽयम् आत्मानुच्छित्तिधर्मा ॥ ब्र्हुप्_४,५।१४ ॥ यत्र हि द्वैतम् इव भवति तद् इतर इतरं पश्यति, तद् इतर इतरं जिघ्रति, तद् इतर इतरं रसयते, तद् इतर इतरम् अभिवदति, तद् इतर इतरं शृणोति, तद् इतर इतरं मनुते। तद् इतर इतरं स्पृशति, तद् इतर इतरं विजानाति । यत्र त्व् अस्य सर्वम् आत्मैवाभूत् तत् केन कं पश्येत् तत् केन कं जिघ्रेत् तत् केन कं रसयेत् तत् केन कम् अभिवदेत् तत् केन कं शृणुयात् तत् केन कं मन्वीत तत् केन कं स्पृशेत् तत् केन कं विजानीयात् । येनेदं सर्वं विजानाति तं केन विजानीयात् । स एष नेति नेत्य् आत्मा । अगृह्यो न हि गृह्यते । अशीर्यो न हि शीर्यते । असङ्गो न हि सज्यते । असितो न व्यथते न रिष्यति । विज्ञातारम् अरे केन विजानीयाद् इत्य् उक्तानुशासनासि मैत्रेयि । एतावद् अरे खल्व् अमृतत्वम् इति होक्त्वा याज्ञवल्क्यो विजहार ॥ ब्र्हुप्_४,५।१५ ॥ अथ वंशः । पौतिमाष्यो गौपवनात् । गौपवनः पौतिमाष्यात् । पौतिमाष्यो गौपवनात् । गौपवनः कौशिकात् । कौशिकः कौण्डिन्यात् । कौण्डिन्यः शाण्डिल्यात् । शाण्डिल्यः कौशिकाच् च गौतमाच् च । गौतमः ॥ ब्र्हुप्_४,६।१ ॥ अग्निवेश्यात् । अग्निवेश्यो गार्ग्यात् । गार्ग्यो गार्ग्यात् । गार्ग्यो गौतमात् । गौतमः सैतवात् । सैतवः पाराशर्यायणात् । पाराशर्यायणो गार्ग्यायणात् । गार्ग्यायण उद्दालकायनात् । उद्दालकायनो जाबालायनात् । जाबालायनो माध्यन्दिनायनात् । माध्यन्दिनायनः सौकरायणात् । सौकरायणः काषायणात् । काषायणः सायकायनात् । साकायनः कौशिकायनेः कौशिकायनिः ॥ ब्र्हुप्_४,६।२ ॥ घृतकौशिकात् । घृतकौशिकः पाराशर्यात् । पाराशर्यः पाराशर्यात् । पाराशर्यो जातुकर्ण्यात् । जातुकर्ण्य आसुरायणाच् च यस्काच् च । आसुरायणस् त्रैवणेः । त्रैवणिर् औपजन्धनेः । औपजन्धनिर् आसुरेः । आसुरिर् भारद्वाजात् । भारद्वाज आत्रेयात् । आत्रेयो माण्टेः । माण्टिर् गौतमात् । गौतमो गौतमात् । गौतमो वात्स्यात् । वात्स्यः शाण्डिल्यात् । शाण्डिल्यः कैशोर्यात् काप्यात् । कैशोर्यः काप्यः कुमारहरितात् । कुमारहरितो गालवात् । गालवो विदर्भीकौण्डिन्यात् । विदर्भीकौण्डिन्यो वत्सनपातो बाभ्रवात् । वत्सनपाद् बाभ्रवः पथः सौभरात् । पन्थाः सौभरो ऽयास्याद् अङ्गिरसात् । अयास्य आङ्गिरस आभुतेस् त्वाष्ट्रात् । आभुतिस् त्वाष्ट्रो विश्वरूपात् त्वाष्ट्रात् । विश्वरूपस् त्वाष्ट्रो ऽश्विभ्याम् । अश्विनौ दधिच आथर्वणात् । दध्यङ्ङ् आथर्वणो ऽथर्वणो दैवात् । अथर्वा दैवो मृत्योः प्राध्वंसनात् । मृत्युः प्राध्वंसनः प्राध्वंसनात् । प्राध्वंसनः एकर्षेः । एकर्षिर् विप्रजित्तेः । विप्रजित्तिर् व्यष्टेर् । व्यष्टिः सनारोः । सनारुः सनातनात् । सनातनः सनगात् । सनगः परमेष्टिणः । परमेष्टी ब्रह्मणः । ब्रह्म स्वयम्भु । ब्रह्मणे नमः ॥ ब्र्हुप्_४,६।३ ॥ पूर्णम् अदः पूर्णम् इदं पूर्णात् पूर्णम् उदच्यते । पूर्णस्य पूर्णम् आदाय पूर्णम् एवावशिष्यते । खं ब्रह्म । खं पुराणम् । वायुरं खम् । इति ह स्माह कौरव्यायणीपुत्रः । वेदो ऽयं ब्राह्मणा विदुः । वेदैनेन यद् वेदितव्यम् ॥ ब्र्हुप्_५,१।१ ॥ त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यम् ऊषुः । देवा मनुष्या असुराः । उषित्वा ब्रह्मचर्यं देवा ऊचुर् ब्रवीतु नो भवान् इति । तेभ्यो हैतद् अक्षरम् उवाच द इति । व्यज्ञासिष्टा३ इति । व्यज्ञासिष्मेति होचुः । दाम्यतेति न आत्थेति । ॐ इति होवाच व्यज्ञासिष्टेति ॥ ब्र्हुप्_५,२।१ ॥ अथ हैनं मनुष्या ऊचुर् ब्रवीतु नो भवान् इति । तेभ्यो हैतद् एवाक्षरम् उवाच द इति । व्यज्ञासिष्टा३ इति । व्यज्ञासिष्मेति होचुः । दत्तेति न आत्थेति । ॐ इति होवाच व्यज्ञासिष्टेति ॥ ब्र्हुप्_५,२।२ ॥ अथ हैनम् असुरा ऊचुर् ब्रवीतु नो भवान् इति । तेभ्यो हैतद् एवाक्षरम् उवाच द इति । व्यज्ञासिष्टा३ इति । व्यज्ञासिष्मेति होचुः । दयध्वम् इति न आत्थेति । ॐ इति होवाच व्यज्ञासिष्टेति । तद् एतद् एवैषा दैवी वाग् अनुवदति स्तनयित्नुर् द द द इति । दम्यत दत्त दयध्वम् इति । तद् एतत् त्रयं शिक्षेद् दमम् दानम् दयाम् इति ॥ ब्र्हुप्_५,२।३ ॥ एष प्रजापतिर् यद् धृदयम् । एतद् ब्रह्म । एतत् सर्वम् । तद् एतत् त्र्यक्षरं हृदयम् इति । हृ इत्य् एकम् अक्षरम् । अभिहरन्त्य् अस्मै स्वाश् चान्ये च य एवं वेद । द इत्य् एकम् अक्षरम् । ददत्य् अस्मै स्वाश् चान्ये च य एवं वेद । यम् इत्य् एकम् अक्षरम् । एति स्वर्गं लोकं य एवं वेद ॥ ब्र्हुप्_५,३।१ ॥ तद् वै तद् एतद् एव तद् आस । सत्यम् एव । स यो हैतं महद् यक्षं प्रथमजं वेद सत्यं ब्रह्मेति जयतीमांल् लोकान् -- जित इन् न्व् असाव् असत् -- य एवम् एतन् महद् यक्षं प्रथमजं वेद सत्यं ब्रह्मेति । सत्यं ह्य् एव ब्रह्म ॥ ब्र्हुप्_५,४।१ ॥ आप एवेदम् अग्र आसुः । ता आपः सत्यम् असृजन्त । सत्यं ब्रह्म । ब्रह्म प्रजापतिम् । प्रजापतिर् देवान् । ते देवाः सत्यम् एवोपासते । तद् एतत् त्र्यक्षरं स-ति-यम् इति स इत्य् एकम् अक्षरम् । तीत्य् एकम् अक्षरम् । यम् इत्य् एकम् अक्षरम् । प्रथमोत्तमे अक्षरे सत्यम् मध्यतो ऽनृतम् । तद् एतद् अनृतम् उभयतः सत्येन परिगृहीतम् । सत्यभूयम् एव भवति । नैवंविद्वांसम् अनृतं हिनस्ति ॥ ब्र्हुप्_५,५।१ ॥ तद् यत् तत् सत्यम् असौ स आदित्यः । य एष एतस्मिन् मण्डले पुरुषो यश् चायं दक्षिणे ऽक्षन् पुरुषस् ताव् एताव् अन्यो ऽन्यस्मिन् प्रतिष्ठितौ । रश्मिभिर् एषो ऽस्मिन् प्रतिष्ठितः प्राणैर् अयम् अमुष्मिन् । स यदोत्क्रमिष्यन् भवति शुद्धम् एवैतन् मण्डलं पश्यति । नैनम् एते रश्मयः प्रत्यायन्ति ॥ ब्र्हुप्_५,५।२ ॥ य एष एतस्मिन् मण्डले पुरुषस् तस्य भूर् इति शिरः । एकं शिर एकम् एतद् अक्षरम् । भुव इति बाहू । द्वौ बाहू द्वे एते अक्षरे । स्वर् इति प्रतिष्ठा । द्वे प्रतिष्ठे द्वे एते अक्षरे । तस्योपनिषद् अहर् इति । हन्ति पाप्मानं जहाति च य एवं वेद ॥ ब्र्हुप्_५,५।३ ॥ यो ऽयं दक्षिणे ऽक्षन् पुरुषस् तस्य भूर् इति शिरः । एकं शिर एकम् एतद् अक्षरम् । भुव इति बाहू । द्वौ बाहू द्वे एते अक्षरे । स्वर् इति प्रतिष्ठा । द्वे प्रतिष्ठे द्वे एते अक्षरे । तस्योपनिषद् अहम् इति । हन्ति पाप्मानं जहाति च य एवं वेद ॥ ब्र्हुप्_५,५।४ ॥ मनोमयो ऽयं पुरुषो भाःसत्यः । तस्मिन्न् अन्तर् हृदये यथा व्रीहिर् वा यवो वा । स एष सर्वस्येशानः सर्वस्याधिपतिः सर्वम् इदं प्रशास्ति यद् इदं किञ्च ॥ ब्र्हुप्_५,६।१ ॥ विद्युद् ब्रह्मेत्य् आहुः । विदानाद् विद्युत् । विद्यत्य् एनं पाप्मनो य एवं वेद विद्युद् ब्रह्मेति । विद्युद् ध्य् एव ब्रह्म ॥ ब्र्हुप्_५,७।१ ॥ वाचं धेनुम् उपासीत । तस्याश् चत्वारः स्तनाः । स्वाहाकारो वषट्कारो हन्तकारः स्वधाकारः । तस्यै द्वौ स्तनौ देवा उपजीवन्ति । स्वाहाकारं च वषट्कारं च । हन्तकारं मनुष्याः । स्वधाकारं पितरः । तस्याः प्राण ऋषभो मनो वत्सः ॥ ब्र्हुप्_५,८।१ ॥ अयम् अग्निर् वैश्वानरो यो ऽयम् अन्तः पुरुषे । येनेदम् अन्नं पच्यते । यद् इदम् अद्यते । तस्यैष घोषो भवति । यम् एतत् कर्णाव् अपिधाय शृणोति । स यदोत्क्रमिष्यन् भवति नैनं घोषं शृणोति ॥ ब्र्हुप्_५,९।१ ॥ यदा वै पुरुषो ऽस्माल् लोकात् प्रैति स वायुम् आगच्छति । तस्मै स तत्र विजिहीते यथा रथचक्रस्य खम् । तेन स ऊर्ध्व आक्रमते । स आदित्यम् आगच्छति । तस्मै स तत्र विजिहीते । यथा लम्बरस्य खम् । तेन स ऊर्ध्व आक्रमते । स चन्द्रमसम् आगच्छति । तस्मै स तत्र विजिहीते । यथा दुन्दुभेः खम् । तेन स ऊर्ध्व आक्रमते । स लोकम् आगच्छत्य् अशोकम् अहिमम् । तस्मिन् वसति शाश्वतीः समाः ॥ ब्र्हुप्_५,१०।१ ॥ एतद् वै परमं तपो यद् व्याहितस् तप्यते । परमं हैव लोकं जयति य एवं वेद । एतद् वै परमं तपो यं प्रेतम् अरण्यं हरन्ति । परमं हैव लोकं जयति य एवं वेद । एतद् वै परमं तपो यं प्रेतम् अग्नाव् अभ्यादधति । परमं हैव लोकं जयति य एवं वेद ॥ ब्र्हुप्_५,११।१ ॥ अन्नं ब्रह्मेत्य् एक आहुः । तन् न तथा । पूयति वा अन्नम् ऋते प्राणात् । प्राणो ब्रह्मेत्य् एक आहुः । तन् न तथा । शुष्यति वै प्रण ऋते ऽन्नात् । एते ह त्व् एव देवते एकधाभूयं भूत्वा परमतां गच्छतः । तद् ध स्माह प्रातृदः पितरम् । किं स्विद् एवैवं विदुषे साधु कुर्यां किम् एवास्मा असाधु कुर्याम् इति । स ह स्माह पाणिना मा प्रातृद । कस् त्व् एनयोर् एकधाभूयं भूत्वा परमतां गच्छतीति । तस्मा उ हैतद् उवाच वीति । अन्नं वै वि । अन्ने हीमानि सर्वाणि भूतानि विष्टानि । रम् इति । प्राणो वै रम् । प्राणे हीमानि सर्वाणि भूतानि रमन्ते । सर्वाणि ह वा अस्मिन् भूतानि विशन्ति । सर्वाणि भूतानि रमन्ते य एवं वेद ॥ ब्र्हुप्_५,१२।१ ॥ उक्थम् । प्राणो वा उक्थम् । प्राणो हीदं सर्वम् उत्थापयति । उद् धस्माद् उक्थविद् वीरस् तिष्ठति । उक्थस्य सायुज्यं सलोकतां जयति य एवं वेद ॥ ब्र्हुप्_५,१३।१ ॥ यजुः । प्राणो वै यजुः । प्राणे हीमानि सर्वाणि भूतानि युज्यन्ते । युज्यन्ते हास्मै सर्वाणि भूतानि श्रैष्ठ्याय । यजुषः सायुज्यं सलोकतां जयति य एवं वेद ॥ ब्र्हुप्_५,१३।२ ॥ साम । प्राणो वै साम । प्राणे हीमानि सर्वाणि भूतानि सम्यञ्चि । सम्यञ्चि हास्मै सर्वाणि भूतानि श्रैष्ठ्याय कल्पन्ते । साम्नः सायुज्यं सलोकतां जयति य एवं वेद ॥ ब्र्हुप्_५,१३।३ ॥ क्षत्रम् । प्राणो वै क्षत्रम् । प्राणो हि वै क्षत्रम् । त्रायते हैनं प्राणः क्षणितोः । प्र क्षत्रम् अत्रम् आप्नोति । क्षत्रस्य सायुज्यं सलोकतां जयति य एवं वेद ॥ ब्र्हुप्_५,१३।४ ॥ भूमिर् अन्तरिक्षं द्यौर् इत्य् अष्टाव् अक्षराणि । अष्टाक्षरं ह वा एकं गायत्र्यै पदम् । एतद् उ हैवास्या एतत् । स यावद् एषु त्रिषु लोकेषु तावद् ध जयति यो ऽस्या एतद् एवं पदं वेद ॥ ब्र्हुप्_५,१४।१ ॥ ऋचो यजूषि सामानीत्य् अष्टाव् अक्षराणि । अष्टाक्षरं ह वा एकं गायत्र्यै पदम् । एतद् उ हैवास्या एतत् । स यावतीयं त्रयी विद्या तावद् ध जयति यो ऽस्या एतद् एवं पदं वेद ॥ ब्र्हुप्_५,१४।२ ॥ प्राणो ऽपानो व्यान इत्य् अष्टाव् अक्षराणि । अष्टाक्षरं ह वा एकं गायत्र्यै पदम् । एतद् उ हैवास्या एतत् । स यावद् इदं प्राणि तावद् ध जयति यो ऽस्या एतद् एवं पदं वेद । अथास्या एतद् एव तुरीयं दर्शतं पदं परोरजा य एष तपति । यद् वै चतुर्थं तत् तुरीयम् । दर्शतं पदम् इति ददृश इव ह्य् एषः । परोरजा इति सर्वम् उ ह्य् एवैष रज उपर्य् उपरि तपति । एवं हैव श्रिया यशसा तपति यो ऽस्या एतद् एवं पदं वेद ॥ ब्र्हुप्_५,१४।३ ॥ सैषा गायत्र्य् एतस्मिंस् तुरीये दर्शते पदे परोरजसि प्रतिष्ठिता । तद् वै तत् सत्ये प्रतिष्ठितम् । चक्षुर् वै सत्यम् । चक्षुर् हि वै सत्यम् । तस्माद् यद् इदानीं द्वौ विवदमानाव् एयातम् अहम् अदर्शम् अहम् अश्रौषम् इति । य एवं ब्रूयाद् अहम् अदर्शम् इति । तस्मा एव श्रद्दध्याम । तद् वै तत् सत्यं बले प्रतिष्ठितम् । प्राणो वै बलम् । तत् प्राणे प्रतिष्ठितम् । तस्माद् आहुर् बलं सत्याद् ओगीय इति । एवं व् एषा गायत्र्य् अध्यात्मं प्रतिष्ठिता । सा हैषा गयांस् तत्रे । प्राणा वै गयाः । तत् प्राणास् तत्रे । तद् यद् गयांस् तत्रे तस्माद् गायत्री नाम । स याम् एवामूं सावित्रीम् अन्वाहैषैव सा । स यस्मा अन्वाह तस्य प्राणांस् त्रायते ॥ ब्र्हुप्_५,१४।४ ॥ तां हैताम् एके सावित्रीम् अनुष्टुभम् अन्वाहुः । वाग् अनुष्टुप् । एतद् वाचम् अनुब्रूम इति । न तथा कुर्यात् । गायत्रीम् एव सावित्रीम् आनुब्रूयात् । यदि ह वा अप्य् एवंविद् बह्व् इव प्रतिगृह्णाति न हैव तद् गायत्र्या एकं चन पदं प्रति ॥ ब्र्हुप्_५,१४।५ ॥ स य इमांस् त्रींल् लोकान् पूर्णान् प्रतिगृह्णीयात् सो ऽस्या एतत् प्रथमं पदम् आप्नुयात् । अथ यावतीयं त्रयी विद्या यस् तावत् प्रतिगृह्णीयात् सो ऽस्या एतद् द्वितीयं पदम् आप्नुयात् । अथ यावद् इदं प्राणि यस् तावत् प्रतिगृह्णीयात् सो ऽस्या एतत् तृतीयं पदम् आप्नुयात् । अथास्या एतद् एव तुरीयं दर्शतं पदं परोरजा य एष तपति । नैव केन चनाप्यम् । कुत उ एतावत् प्रतिगृह्णीयात् ॥ ब्र्हुप्_५,१४।६ ॥ तस्या उपस्थानम् । गायत्र्य् अस्य् एकपदी द्विपदी त्रिपदी चतुष्पदि । अपद् असि । न हि पद्यसे । नमस् ते तुरीयाय दर्शताय पदाय परोरजसे । असाव् अदो मा प्रापद् इति । यं द्विष्याद् असाव् अस्मै कामो मा समर्धीति वा । न हैवास्मै स कामः समृध्यते यस्मा एवम् उपतिष्ठते । अहम् अदः प्रापम् इति वा ॥ ब्र्हुप्_५,१४।७ ॥ एतद् ध वै तज् जनको वैदेहो बुडिलम् आश्वतराश्विम् उवाच -- यन् नु हो तद् गायत्रीविद् अब्रूथाः । अथ कथं हस्तीभूतो वहसीति । मुखं ह्य् अस्याः सम्राण् न विदां चकरेति होवाच । तस्या अग्निर् एव मुखम् । यदि ह वा अपि बह्व् इवाग्नाव् अभ्यादधति सर्वम् एव तत् सन्दहति । एवं हैवैवंविद् यद्य् अपि बह्व् इव पापं कुरुते सर्वम् एव तत् सम्प्साय शुद्धः पूतो ऽजरो ऽमृतः सम्भवति ॥ ब्र्हुप्_५,१४।८ ॥ हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् । तत् त्वम् पूषन्न् अपावृणु सत्यधर्माय दृष्टये । पूषन्न् एकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह तेजः । यत् ते रूपं कल्याणतमम् तत् ते पश्यामि यो ऽसाव् असौ पुरुषः सो ऽहम् अस्मि । वायुर् अनिलम् अमृतम् अथेदं भस्मान्तं शरीरम् । ॐ क्रतो स्मर कृतं स्मर क्रतो स्मर कृतं स्मर । अग्ने नय सुपथा राये ऽस्मान् विश्वानि देव वयुनानि विद्वान् । युयोध्य् अस्मज् जुहुराणम् एनो भूयिष्ठां ते नमौक्तिं विधेम ॥ ब्र्हुप्_५,१५।१ ॥ यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश् च श्रेष्ठश् च स्वानां भवति । प्राणो वै ज्येष्ठश् च श्रेष्ठश् च । ज्येष्ठश् च श्रेष्ठश् च स्वानां भवति । अपि च येषां बुभूषति । य एवं वेद ॥ ब्र्हुप्_६,१।१ ॥ यो ह वै वसिष्ठां वेद वसिष्ठः स्वानां भवति । वाग् वै वसिष्ठा । वसिष्ठः स्वानां भवति । अपि च येषां बुभूषति । य एवं वेद ॥ ब्र्हुप्_६,१।२ ॥ यो ह वै प्रतिष्ठां वेद प्रतितिष्ठति समे । प्रतितिष्ठति दुर्गे । चक्षुर् वै प्रतिष्ठा । चक्षुषा हि समे च दुर्गे च प्रतितिष्ठति । प्रतितिष्ठति समे प्रतितिष्ठति दुर्गे । य एवं वेद ॥ ब्र्हुप्_६,१।३ ॥ यो ह वै सम्पदं वेद सं हास्मै पद्यते यं कामं कामयते । श्रोत्रं वै सम्पत् । श्रोत्रे हीमे सर्वे वेदा अभिसम्पन्नाः । सं हास्मै पद्यते यं कामं कामयते । य एवं वेद ॥ ब्र्हुप्_६,१।४ ॥ यो ह वा आयतनं वेदायतनं स्वानां भवत्य् आयतनं जनानाम् । मनो वा आयतनम् । आयतनं स्वानां भवत्य् आयतनं जनानाम् । य एवं वेद ॥ ब्र्हुप्_६,१।५ ॥ यो ह वै प्रजातिं वेद प्रजायते ह प्रजया पशुभिः । रेतो वै प्रजातिः । प्रजायते ह प्रजया पशुभिः । य एवं वेद ॥ ब्र्हुप्_६,१।६ ॥ ते हेमे प्राणा अहंश्रेयसे विवदमाना ब्रह्म जग्मुः । तद् धोचुः -- को नो वसिष्ठ इति । तद् धोवाच -- यस्मिन् व उत्क्रान्त इदं शरीरं पापियो मन्यते स वो वसिष्ठ इति ॥ ब्र्हुप्_६,१।७ ॥ वाग् घोच्चक्राम । सा संवत्सरं प्रोष्यागत्योवाच -- कथम् अशकत मद् ऋते जीवितुम् इति । ते होचुः -- यथाकला अवदन्तो वाचा प्राणन्तः प्राणेन पश्यन्तश् चक्षुषा शृण्वन्तः श्रोत्रेण विद्वांसो मनसा प्रजायमाना रेतसैवम् अजीविष्मेति । प्रविवेश ह वाक् ॥ ब्र्हुप्_६,१।८ ॥ चक्षुर् होच्चक्राम । तत् संवत्सरं प्रोष्यागत्योवाच -- कथम् अशकत मद् ऋते जीवितुम् इति । ते होचुः -- यथान्धा अपश्यन्तश् चक्षुषा प्राणन्तः प्राणेन वदन्तो वाचा शृण्वन्तः श्रोत्रेण विद्वांसो मनसा प्रजायमाना रेतसैवम् अजीविष्मेति । प्रविवेश ह चक्षुः ॥ ब्र्हुप्_६,१।९ ॥ श्रोत्रं होच्चक्राम । तत् संवत्सरं प्रोष्यागत्योवाच -- कथम् अशकत मद् ऋते जीवितुम् इति । ते होचुः -- यथा बधिरा अशृण्वन्तः श्रोत्रेण प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश् चक्षुषा विद्वांसो मनसा प्रजायमाना रेतसैवम् अजीविष्मेति । प्रविवेश ह श्रोत्रम् ॥ ब्र्हुप्_६,१।१० ॥ मनो होच्चक्राम । तत् संवत्सरं प्रोष्यागत्योवाच -- कथम् अशकत मद् ऋते जीवितुम् इति । ते होचुः -- यथा मुग्धा अविद्वांसो मनसा प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश् चक्षुषा शृण्वन्तः श्रोत्रेण प्रजायमाना रेतसैवम् अजीविष्मेति । प्रविवेश ह मनः ॥ ब्र्हुप्_६,१।११ ॥ रेतो होच्चक्राम । तत् संवत्सरं प्रोष्यागत्योवाच -- कथम् अशकत मद् ऋते जीवितुम् इति । ते होचुः -- यथा क्लीबा अप्रजायमाना रेतासा प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश् चक्षुषा शृण्वन्तः श्रोत्रेण विद्वांसो मनसैवम् अजीविष्मेति । प्रविवेश ह रेतः ॥ ब्र्हुप्_६,१।१२ ॥ अथ ह प्राण उत्क्रमिष्यन् यथा महासुहयः सैन्धवः पड्वीशशङ्खून्त् संवृहेद् एवं हैवेमान् प्राणान्त् संववर्ह । ते होचुः -- मा भगव उत्क्रमीः । न वै शक्ष्यामस् त्वद् ऋते जीवितुम् इति । तस्यो मे बलिं कुरुतेति । तथेति ॥ ब्र्हुप्_६,१।१३ ॥ सा ह वाग् उवाच -- यद् वा अहं वसिष्ठास्मि त्वं तद् वसिष्ठो ऽसीति । यद् वा अहं प्रतिष्ठास्मि त्वं तत् प्रतिष्ठो ऽसीति चक्षुः । यद् वा अहं सम्पद् अस्मि त्वं तत् सम्पद् असीति श्रोत्रम् । यद् वा अहम् आयतनम् अस्मि त्वं तद् आयतनम् असीति मनः । यद् वा अहं प्रजातिर् अस्मि त्वं तत् प्रजातिर् असीति रेतः । तस्यो मे किम् अन्नं किं वास इति । यद् इदं किञ्चा श्वभ्य आ कृमिभ्य आ कीटपतङ्गेभ्यस् तत् ते ऽन्नम् । आपो वास इति । न ह वा अस्यानन्नं जग्धं भवति नानन्नं प्रतिगृहीतं य एवम् एतद् अनस्यान्नं वेद । तद् विद्वांसः श्रोत्रिया अशिष्यन्त आचामन्त्य् अशित्वाचामन्ति । एतम् एव तद् अन्नम् अनग्नं कुर्वन्तो मन्यन्ते ॥ ब्र्हुप्_६,१।१४ ॥ श्वेतकेतुर् वा आरुणेयः पन्चालानां परिषदम् आजगाम । स आजगाम जैवलिं प्रवाहणं परिचारयमाणम् । तम् उदीक्ष्याभ्युवाद कुमारा३ इति । स भो३ इति प्रतिशुश्राव । अनुशिष्टो न्व् असि पित्रेति । ॐ इति होवाच ॥ ब्र्हुप्_६,२।१ ॥ वेत्थ यथेमाः प्रजाः प्रयत्यो विप्रतिपद्यन्ता३ इति । नेति होवाच । वेत्थो यथेमं लोकं पुनर् आपद्यन्ता३ इति । नेति हैवोवाच । वेत्थो यथासौ लोक एवं बहुभिः पुनः पुनः प्रयद्भिर् न सम्पूर्यता३ इति । नेति हैवोवाच । वेत्थो यतिथ्याम् आहुत्यां हुतायाम् आपः पुरुषवाचो भूत्वा समुत्थाय वदन्ती३ इति । नेति हैवोवाच । वेत्थो देवयानस्य वा पथः प्रतिपदं पितृयाणस्य वा । यत् कृत्वा देवयानं वा पन्थानं प्रतिपद्यन्ते पितृयाणं वा । अपि हि न ऋषेर् वचः श्रुतं -- द्वे सृती अशृणवं पितॄणाम् अहं देवानाम् उत मर्त्यानाम् । ताभ्याम् इदं विश्वम् एजत् समेति यद् अन्तरा पितरं मातरं चेति । नाहम् अत एकं चन वेदेति होवाच ॥ ब्र्हुप्_६,२।२ ॥ अथैनं वसत्योपमन्त्रयां चक्रे । अनादृत्य वसतिं कुमारः प्रदुद्राव । स आजगाम पितरम् । तं होवाच -- इति वाव किल नो भवान् पुरानुशिष्टान् अवोच इति । कथम् सुमेध इति । पञ्च मा प्रश्नान् राजन्यबन्धुर् अप्राक्षीत् । ततो नैकं चन वेदेति । कतमे त इति । इम इति ह प्रतीकान्य् उदाजहार ॥ ब्र्हुप्_६,२।३ ॥ स होवाच -- तथा नस् त्वं तत जानीथा यथा यद् अहं किञ्च वेद सर्वम् अहं तत् तुभम् अवोचम् । प्रेहि तु तत्र । प्रतीत्य ब्रह्मचर्यं वत्स्याव इति । भवान् एव गच्छत्व् इति । स आजगाम गौतमो यत्र प्रवाहणस्य जैवलेर् आस । तस्मा आसनम् आहृत्योदकम् आहारयां चकार । अथ हास्मा अर्घ्यं चकार । तं होवाच -- वरं भगवते गौतमाय दद्म इति ॥ ब्र्हुप्_६,२।४ ॥ स होवाच -- प्रतिज्ञतो म एष वरः । यां तु कुमारस्यान्ते वाचम् अभाषथास् तां मे ब्रूहीति ॥ ब्र्हुप्_६,२।५ ॥ स होवाच -- दैवेषु वै गौतम तद् वरेषु । मानुषाणां ब्रूहीति ॥ ब्र्हुप्_६,२।६ ॥ स होवाच -- विज्ञायते हास्तिहिरण्यस्यापात्तं गोअश्वानां दासीनां प्रवाराणां परिधानस्य । मा नो भवान् बहोर् अनन्तस्यापर्यन्तस्याभ्यवदान्यो भूद् इति । स वै गौतम तीर्थेनेच्छसा इति । उपैम्य् अहं भवन्तम् इति । वाचा ह स्मैव पूर्व उपयन्ति । स होपायनकीर्त्योवास ॥ ब्र्हुप्_६,२।७ ॥ स होवाच -- तथा नस् त्वम् गौतम मापराधास् तव च पितामहाः । यथेयं विद्येतः पूर्वं न कस्मिंश् चन ब्राह्मन उवास । तां त्व् अहं तुभ्यं वक्ष्यामि । को हि त्वैवं ब्रुवन्तम् अर्हति प्रत्याख्यातुम् इति ॥ ब्र्हुप्_६,२।८ ॥ असौ वै लोको ऽग्निर् गौतम । तस्यादित्य एव समित् । रश्मयो धूमः । अहर् अर्चिः । दिशो ऽङ्गाराः । अवान्तरदिशो विष्फुलिङ्गाः । तस्मिन्न् एतस्मिन्न् अग्नौ देवाः श्रद्धां जुह्वति । तस्या आहुत्यै सोमो राजा सम्भवति ॥ ब्र्हुप्_६,२।९ ॥ पर्जन्यो वा अग्निर् गौतम । तस्य संवत्सर एव समित् । अभ्राणि धूमः । विद्युद् अर्चिः । अशनिर् अङ्गाराः । ह्रादुनयो विष्फुलिङ्गाः । तस्मिन्न् एतस्मिन्न् अग्नौ देवाः सोमं राजानं जुह्वति । तस्या आहुत्यै वृष्टिः सम्भवति ॥ ब्र्हुप्_६,२।१० ॥ अयं वै लोको ऽग्निर् गौतम । तस्य पृथिव्य् एव समित् । अग्निर् धूमः । रात्रिर् अर्चिः । चन्द्रमा अङ्गाराः । नक्षत्राणि विष्फुलिङ्गाः । तस्मिन्न् एतस्मिन्न् अग्नौ देवा वृष्टिं जुह्वति । तस्या आहुत्या अन्नं सम्भवति ॥ ब्र्हुप्_६,२।११ ॥ पुरुषो वा अग्निर् गौतम । तस्य व्यात्तम् एव समित् । प्राणो धूमः । वाग् अर्चिः । चक्षुर् अङ्गाराः । श्रोत्रं विष्फुलिङ्गाः । तस्मिन्न् एतस्मिन्न् अग्नौ देवा अन्नं जुह्वति । तस्या आहुत्यै रेतः सम्भवति ॥ ब्र्हुप्_६,२।१२ ॥ योषा वा अग्निर् गौतम । तस्या उपस्थ एव समित् । लोमानि धूमः । योनिर् अर्चिः । यद् अन्तः करोति ते ऽङ्गाराः । अभिनन्दा विष्फुलिङ्गाः । तस्मिन्न् एतस्मिन्न् अग्नौ देवा रेतो जुह्वति । तस्या आहुत्यै पुरुषः सम्भवति । स जीवति यावज् जीवति । अथ यदा म्रियते ॥ ब्र्हुप्_६,२।१३ ॥ अथैनम् अग्नये हरन्ति । तस्याग्निर् एवाग्निर् भवति । समित् समित् । धूमो धूमः । अर्चिर् अर्चिः । अङ्गारा अङ्गाराः । विष्फुलिङ्गा विष्फुलिङ्गाः । तस्मिन्न् एतस्मिन्न् अग्नौ देवाः पुरुषं जुह्वति । तस्या आहुत्यै पुरुषो भास्वरवर्णः सम्भवति ॥ ब्र्हुप्_६,२।१४ ॥ ते य एवम् एतद् विदुर् ये चामी अरण्ये श्रद्धां सत्यम् उपासते ते ऽर्चिर् अभिसम्भवन्ति । अर्चिषो ऽहः । अह्न आपूर्यमाणपक्षम् । आपूर्यमाणपक्षाद् यान् षण् मासान् उदङ्ङ् आदित्य एति । मासेभ्यो देवलोकम् । देवलोकाद् आदित्यम् । आदित्याद् वैद्युतम् । तान् वैद्युतान् पुरुषो मानस एत्य ब्रह्मलोकान् गमयति । ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति । तेषां न पुनर् आवृत्तिः ॥ ब्र्हुप्_६,२।१५ ॥ अथ ये यज्ञेन दानेन तपसा लोकाञ् जयन्ति ते धूमम् अभिसम्भवन्ति । धूमाद् रात्रिम् । रात्रेर् अपक्षीयमाणपक्षम् । अपक्षीयमाणपक्षाद् यान् षण् मासान् दक्षिणादित्य एति । मासेभ्यः पितृलोकम् । पितृलोकाच् चन्द्रम् । ते चन्द्रं प्राप्यान्नं भवन्ति । तांस् तत्र देवा यथा सोमं राजानम् आप्यायस्वापक्षीयस्वेत्य् एवम् एनांस् तत्र भक्षयन्ति । तेषां यदा तत् पर्यवैत्य् अथेमम् एवाकाशम् अभिनिष्पद्यन्ते । आकाशाद् वायुम् । वायोर् वृष्टिम् । वृष्टेः पृथिवीम् । ते पृथिवीं प्राप्यान्नं भवन्ति । ते पुनः पुरुषाग्नौ हूयन्ते ततो योषाग्नौ जायन्ते । लोकान् प्रत्युथायिनस् त एवम् एवानुपरिवर्तन्ते । अथ य एतौ पन्थानौ न विदुस् ते कीटाः पतङ्गा यद् इदं दन्दशूकम् ॥ ब्र्हुप्_६,२।१६ ॥ स यः कामयेत -- महत् प्राप्नुयाम् इत्य् उदगयन आपूर्यमाणपक्षस्य पुण्याहे द्वादशाहम् उपसद्व्रती भूत्वौदुम्बरे कंसे चमसे वा सर्वौषधं फलानीति सम्भृत्य परिसमुह्य परिलिप्याग्निम् उपसमाधाय परिस्तीर्यावृताज्यं संस्कृत्य पुंसा नक्षत्रेण मन्थं सन्नीय जुहोति -- यावन्तो देवास् त्वयि जातवेदस् तिर्यञ्चो घ्नन्ति पुरुषस्य कामान् । तेभ्यो ऽहं भागधेयं जुहोमि ते मा तृप्ताः सर्वैः कामैस् तर्पयन्तु स्वाहा । या तिरश्ची निपद्यसे ऽहं विधरणी इति । तां त्वा घृतस्य धारया यजे संराधनीम् अहं स्वाहा ॥ ब्र्हुप्_६,३।१ ॥ ज्येष्ठाय स्वाहा श्रेष्ठाय स्वाहेत्य् अग्नौ हुत्वा मन्थे संस्रवम् अवनयति । प्राणाय स्वाहा वसिष्ठायै स्वाहेत्य् अग्नौ हुत्वा मन्थे संस्रवम् अवनयति । वाचे स्वाहा प्रतिष्ठायै स्वाहेत्य् अग्नौ हुत्वा मन्थे संस्रवम् अवनयति । चक्षुषे स्वाहा सम्पदे स्वाहेत्य् अग्नौ हुत्वा मन्थे संस्रवम् अवनयति । श्रोत्राय स्वाहायतनाय स्वाहेत्य् अग्नौ हुत्वा मन्थे संस्रवम् अवनयति । मनसे स्वाहा प्रजात्यै स्वाहेत्य् अग्नौ हुत्वा मन्थे संस्रवम् अवनयति । रेतसे स्वाहेत्य् अग्नौ हुत्वा मन्थे संस्रवम् अवनयति ॥ ब्र्हुप्_६,३।२ ॥ अग्नये स्वाहेत्य् अग्नौ हुत्वा मन्थे संस्रवम् अवनयति । सोमाय स्वाहेत्य् अग्नौ हुत्वा मन्थे संस्रवम् अवनयति । भूः स्वाहेत्य् अग्नौ हुत्वा मन्थे संस्रवम् अवनयति । भुवः स्वाहेत्य् अग्नौ हुत्वा मन्थे संस्रवम् अवनयति । स्वः स्वाहेत्य् अग्नौ हुत्वा मन्थे संस्रवम् अवनयति । भूर् भुवः स्वः स्वाहेत्य् अग्नौ हुत्वा मन्थे संस्रवम् अवनयति । ब्रह्मणे स्वाहेत्य् अग्नौ हुत्वा मन्थे संस्रवम् अवनयति । क्षत्राय स्वाहेत्य् अग्नौ हुत्वा मन्थे संस्रवम् अवनयति । भूताय स्वाहेत्य् अग्नौ हुत्वा मन्थे संस्रवम् अवनयति । भविष्यते स्वाहेत्य् अग्नौ हुत्वा मन्थे संस्रवम् अवनयति । विश्वाय स्वाहेत्य् अग्नौ हुत्वा मन्थे संस्रवम् अवनयति । सर्वाय स्वाहेत्य् अग्नौ हुत्वा मन्थे संस्रवम् अवनयति । प्रजापतये स्वाहेत्य् अग्नौ हुत्वा मन्थे संस्रवम् अवनयति ॥ ब्र्हुप्_६,३।३ ॥ अथैनम् अभिमृशति -- भ्रमद् असि । ज्वलद् असि । पूर्णम् असि । प्रस्तब्धम् असि । एकसभम् असि । हिङ्कृतम् असि । हिङ्क्रियमानम् असि । उद्गीथम् असि । उद्गीयमानम् असि । श्रावितम् असि । प्रत्याश्रावितम् असि । आर्द्रे सन्दीप्तम् असि । विभूर् असि । प्रभूर् असि । अन्नम् असि । ज्योतिर् असि । निधनम् असि । संवर्गो ऽसीति ॥ ब्र्हुप्_६,३।४ ॥ अथैनम् उद्यच्छत्य् आमंस्य् आमं हि ते महि । स हि राजेशानो ऽधिपतिः । स मां राजेशनो ऽधिपतिं करोत्व् इति ॥ ब्र्हुप्_६,३।५ ॥ अथैनम् आचामति -- तत् सवितुर् वरेण्यम् । मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर् नः सन्त्व् ओषधीः । भूः स्वाहा । भर्गो देवस्य धीमहि मधु नक्तम् उतोषसो मधुमत् पार्थिवं रजः । मधु द्यौर् अस्तु नः पिता । भुवः स्वाहा । धियो यो नः प्रचोदयात् । मधुमान् नो वनस्पतिर् मधुमां अस्तु सूर्यः । माध्वीर् गवो भवन्तु नः । स्वः स्वाहा । सर्वां च सावित्रीम् अन्वाह । सर्वाश् च मधुमतीर् अहम् एवेदं सर्वं भूयासं भूर् भुवः स्वः स्वाहेति अन्तत आचम्य पाणी प्रक्षाल्य जघनेनाग्निं प्राक्शिराः संविशति । प्रातर् आदित्यम् उपतिष्ठते । दिशाम् एकपुण्डरीकम् असि । अहं मनुष्याणाम् एकपुण्डरीकं भूयासम् इति । यथेतम् एत्य जघनेनाग्निम् आसीनो वंशं जपति ॥ ब्र्हुप्_६,३।६ ॥ तं हैतम् उद्दालक आरुणिर् वाजसनेयाय याज्ञवल्क्यायान्तेवासिन उक्त्वोवाच -- अपि य एनं शुष्के स्थाणौ निषिञ्चेज् जायेरञ् छाखाः प्ररोहेयुः पलाशानीति ॥ ब्र्हुप्_६,३।७ ॥ एतम् उ हैव वाजसनेयो याज्नवल्क्यो मधुकाय पैङ्ग्यायान्तेवासिन उक्त्वोवाच -- अपि य एनं शुष्के स्थाणौ निषिञ्चेज् जायेरञ् छाखाः प्ररोहेयुः पलाशानीति ॥ ब्र्हुप्_६,३।८ ॥ एतम् उ हैव मधुकः पैङ्ग्यश् चूलाय भागवित्तये ऽन्तेवासिन उक्त्वोवाच -- अपि य एनं शुष्के स्थाणौ निषिञ्चेज् जायेरञ् छाखाः प्ररोहेयुः पलाशानीति ॥ ब्र्हुप्_६,३।९ ॥ एतम् उ हैव चूलो भागवित्तिर् जानकय आयःस्थूणायान्तेवासिन उक्त्वोवाच -- अपि य एनं शुष्के स्थाणौ निषिञ्चेज् जायेरञ् छाखाः प्ररोहेयुः पलाशानीति ॥ ब्र्हुप्_६,३।१० ॥ एतम् उ हैव जानकिर् आयस्थूणः सत्यकामाय जाबालायान्तेवासिन उक्त्वोवाच -- अपि य एनं शुष्के स्थाणौ निषिञ्चेज् जायेरञ् छाखाः प्ररोहेयुः पलाशानीति ॥ ब्र्हुप्_६,३।११ ॥ एतम् उ हैव सत्यकामो जाबालो ऽन्तेवासिभ्य उक्त्वोव -- अचापि य एनं शुष्के स्थाणौ निषिञ्चेज् जायेरञ् छाखाः प्ररोहेयुः पलाशानीति । तम् एतं नापुत्राय वानन्तेवासिने वा ब्रूयात् ॥ ब्र्हुप्_६,३।१२ ॥ चतुरौदुम्बरो भवति । औदुम्बरः स्रुव औदुम्बरश् चमस औदुम्बर इध्म औदुम्बर्या उपमन्थन्यौ । दश ग्राम्याणि धान्यानि भवन्ति । व्रीहियवास् तिलमाषा अणुप्रियङ्गवो गोधूमाश् च मसूराश् च खल्वाश् च खलकुलाश् च । तान् पिष्टान् दधनि मधुनि घृत उपसिञ्चति । आज्यस्य जुहोति ॥ ब्र्हुप्_६,३।१३ ॥ एषां वै भूतानां पृथिवी रसः । पृथिव्या आपः । अपाम् ओषधयः । ओषधीनां पुष्पाणि । पुष्पाणां फलानि । फलानां पुरुषः । पुरुषस्य रेतः ॥ ब्र्हुप्_६,४।१ ॥ स ह प्रजापतिर् ईक्षां चक्रे -- हन्तास्मै प्रतिष्ठां कल्पयानीति स स्त्रियं ससृजे । तां सृष्ट्वाध उपास्त । तस्मात् स्त्रियम् अध उपासीत । स एतं प्राञ्चं ग्रावाणम् आत्मन एव समुदपारयत् । तेनैनाम् अभ्यसृजत ॥ ब्र्हुप्_६,४।२ ॥ तस्या वेदिर् उपस्थः । लोमानि बर्हिश् । चर्माधिषवणे । समिद्धो मध्यतस् तौ मुष्कौ । स यावान् ह वै वाजपेयेन यजमनस्य लोको भवति तावान् अस्य लोको भवति । य एवं विद्वान् अधोपहासं चरत्य् आसां स्त्रीणां सुकृतं वृङ्क्ते । अथ य इदम् अविद्वान् अधोपहासं चरत्य् आस्य स्त्रियः सुकृतं वृञ्जते ॥ ब्र्हुप्_६,४।३ ॥ एतद् ध स्म वै तद् विद्वान् उद्दालक आरुनिर् आह । एतद् ध स्म वै तद् विद्वान् नाको मौद्गल्य आह । एतद् ध स्म वै तद् विद्वान् कुमारहारित आह -- बहवो मर्या ब्राह्मनायना निरिन्द्रिया विसुकृतो ऽस्माल् लोकात् प्रयन्ति य इदम् अविद्वांसो ऽधोपहासं चरन्तीति । बहु वा इदं सुप्तस्य वा जाग्रतो वा रेतः स्कन्दति ॥ ब्र्हुप्_६,४।४ ॥ तद् अभिमृशेद् अनु वा मन्त्रयेत -- यन् मे ऽद्य रेतः पृथिवीम् अस्कान्त्सीद् यद् ओषधीर् अप्य् असरद् यद् अपः । इदम् अहं तद् रेत आददे । पुनर् माम् ऐतु इन्द्रियं पुनस् तेजः पुनर् भगः । पुनर् अग्निर् धिष्ण्या यथास्थानं कल्पन्ताम् । इत्य् अनामिकाङ्गुष्ठाभ्याम् आदायान्तरेण स्तनौ वा भ्रुवौ वा निमृज्यात् ॥ ब्र्हुप्_६,४।५ ॥ अथ यद्य् उदक आत्मानं पश्येत् तद् अभिमन्त्रयेत -- मयि तेज इन्द्रियं यशो द्रविणं सुकृतम् इति । श्रीर् ह वा एषा स्त्रीणां यन् मलोद्वासाः । तस्मान् मलोद्वाससं यशस्विनीम् अभिक्रम्योपमन्त्रयेत ॥ ब्र्हुप्_६,४।६ ॥ सा चेद् अस्मै न दद्यात् कामम् एनाम् अवक्रिणीयात् । सा चेद् अस्मै नैव दद्यात् कामम् एनां यष्ट्या वा पाणिना वोपहत्यातिक्रामेत् । इन्द्रियेन ते यशसा यश आदद इति । अयशा एव भवति ॥ ब्र्हुप्_६,४।७ ॥ सा चेद् अस्मै दद्याद् इन्द्रियेण ते यशसा यश आदधामीति । यशस्विनाव् एव भवतः ॥ ब्र्हुप्_६,४।८ ॥ स याम् इच्छेत् -- कामयेत मेति तस्याम् अर्थं निष्ठाय मुखेन मुखं सन्धायोपस्थम् अस्या अभिमृश्य जपेत् -- अङ्गाद् अङ्गात् सम्भवसि हृदयाद् अधिजायसे । स त्वम् अङ्गकषायो ऽसि दिग्धविद्धाम् इव मादयेमाम् अमूं मयीति ॥ ब्र्हुप्_६,४।९ ॥ अथ याम् इच्छेन् न गर्भं दधीतेति तस्याम् अर्थं निष्ठाय मुखेन मुखं सन्धायाभिप्राण्यापान्यात् । इन्द्रियेण ते रेतसा रेत आदद इति । अरेता एव भवति ॥ ब्र्हुप्_६,४।१० ॥ अथ याम् इच्छेद् दधीतेति तस्याम् अर्थं निष्ठाय मुखेन मुखं सन्धायापान्याभिप्राण्यात् । इन्द्रियेण ते रेतसा रेत आदधामीति । गर्भिण्य् एव भवति ॥ ब्र्हुप्_६,४।११ ॥ अथ यस्य जायायै जारः स्यात् तं चेद् द्विष्याद् आमपात्रे ऽग्निम् उपसमाधाय प्रतिलोमं शरबर्हिः स्तीर्त्वा तस्मिन्न् एताः शरभृष्टीः प्रतिलोमाः सर्पिषाक्ता जुहुयात् । मम समिद्धे ऽहौषीः । प्राणापानौ त आददे ऽसाव् इति । मम समिद्धे ऽहौषीः । पुत्रपशूंस् त आददे ऽसाव् इति । मम समिद्धे ऽहौषीः । इष्टासुकृते त आददे ऽसाव् इति । मम समिद्धे ऽहौषीः । अशापराकाशौ त आददे ऽसाव् इति । स वा एष निरिन्द्रियो विसुकृतो ऽस्माल् लोकाद् प्रैति यम् एवंविद् ब्राह्मणः शपति । तस्माद् एवंवित्श्रोत्रियस्य दारेण नोपहासम् इच्छेत् । उत ह्य् एवंवित् परो भवति ॥ ब्र्हुप्_६,४।१२ ॥ अथ यस्य जायाम् आर्तवं विन्देत् त्र्यहं कंसे न पिबेत् । अहतवासाः । नैनां वृषलो न वृषल्य् अपहन्यात् । त्रिरात्रान्त आप्लुत्य व्रीहीन् अवघातयेत् ॥ ब्र्हुप्_६,४।१३ ॥ स य इच्छेत् -- पुत्रो मे शुक्लो जायेत वेदम् अनुब्रुवीत सर्वम् आयुर् इयाद् इति क्षीरौदनं पाचयित्वा सर्पिष्मन्तम् अश्नीयाताम् । ईश्वरौ जनयितवै ॥ ब्र्हुप्_६,४।१४ ॥ अथ य इच्छेत् -- पुत्रो मे कपिलः पिङ्गलो जायेत द्वौ वेदाव् अनुब्रुवीत सर्वम् आयुर् इयाद् इति दध्योदनं पाचयित्वा सर्पिष्मन्तम् अश्नीयाताम् । ईश्वरौ जनयितवै ॥ ब्र्हुप्_६,४।१५ ॥ अथ य इच्छेत् -- पुत्रो मे श्यामो लोहिताक्षो जायेत त्रीन् वेदान् अनुब्रुवीत सर्वम् आयुर् इयाद् इति उदौदनं पाचयित्वा सर्पिष्मन्तम् अश्नीयाताम् । ईश्वरौ जनयितवै ॥ ब्र्हुप्_६,४।१६ ॥ अथ य इच्छेद् -- दुहिता मे पण्डिता जायेत सर्वम् आयुर् इयाद् इति तिलौदनं पाचयित्वा सर्पिष्मन्तम् अश्नीयाताम् । ईश्वरौ जनयितवै ॥ ब्र्हुप्_६,४।१७ ॥ अथ य इच्छेत् -- पुत्रो मे पण्डितो विगीतः समितिङ्गमः शुश्रूषितां वाचं भाषिता जायेत सर्वान् वेदान् अनुब्रुवीत सर्वम् आयुर् इयाद् इति मांसौदनं पाचयित्वा सर्पिष्मन्तम् अश्नीयाताम् । ईश्वरौ जनयितवाइ । औक्षेण वार्षभेण वा ॥ ब्र्हुप्_६,४।१८ ॥ अथाभिप्रातर् एव स्थालीपाकावृताज्यं चेष्टित्वा स्थालीपाकस्योपघातं जुहोत्य् अग्नये स्वाहानुमतये स्वाहा देवाय सवित्रे सत्यप्रसवाय स्वाहेति । हुत्वोद्धृत्य प्राश्नाति । प्राश्येतरस्याः प्रयच्छति । प्रक्षाल्य पाणी उदपात्रं पूरयित्वा तेनैनां त्रिर् अभ्युक्षति -- उत्तिष्ठातो विश्वावसो ऽन्याम् इच्छ प्रपूर्व्याम् । सं जायां पत्या सहेति ॥ ब्र्हुप्_६,४।१९ ॥ अथैनाम् अभिपद्यते -- अमो ऽहम् अस्मि सा त्वम् । सा त्वम् अस्य् अमो ऽहम् । सामाहम् अस्मि ऋक् त्वम् । द्यौर् अहम् पृथिवी त्वम् । ताव् एहि संरभावहै सह रेतो दधावहै । पुंसे पुत्राय वित्तय इति ॥ ब्र्हुप्_६,४।२० ॥ अथास्या ऊरू विहापयति -- विजिहीथां द्यावापृथिवी इति । तस्याम् अर्थं निष्ठाय मुखेन मुखं सन्धाय त्रिर् एनाम् अनुलोमाम् अनुमार्ष्टि -- विष्णुर् योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु । आ सिञ्चतु प्रजापतिर् धाता गर्भं दधातु ते । गर्भं धेहि सिनीवालि गर्भं धेहि पृथुष्टुके । गर्भं ते अश्विनौ देवाव् आधत्तां पुष्करस्रजौ ॥ ब्र्हुप्_६,४।२१ ॥ हिरण्मयी अरणी याभ्यां निर्मन्थताम् अश्विनौ । तं ते गर्भं हवामहे दशमे मासि सूतये । यथाग्निगर्भा पृथिवी यथा द्यौर् ऐन्द्रेण गर्भिणी । वायुर् दिशां यथा गर्भ एवं गर्भं दधामि ते ऽसाव् इति ॥ ब्र्हुप्_६,४।२२ ॥ सोष्यन्तीम् अद्भिर् अभ्युक्षति -- यथा वायुः पुष्करिणीं समिङ्गयति सर्वतः । एवा ते गर्भ एजतु सहावैतु जरायुणा । इन्द्रस्यायं व्रजः कृतः सार्गलः सपरिश्रयः । तम् इन्द्र निर्जहि गर्भेण सावरां सहेति ॥ ब्र्हुप्_६,४।२३ ॥ जाते ऽग्निम् उपसमाधायाङ्क आधाय कंसे पृषदाज्यं सन्नीय पृषदाज्यस्योपघातं जुहोति -- अस्मिन्सहस्रं पुष्यासम् एधमानः स्वे गृहे । अस्योपसन्द्यां मा छैत्सीत् प्रजया च पशुभिश् च स्वाहा । मयि प्राणांस् त्वयि मनसा जुहोमि स्वाहा । यत् कर्मणात्यरीरिचम् यद् वा न्यूनम् इहाकरम् । अग्निष्टत् स्विष्टकृद् विद्वान् स्विष्टं सुहुतं करोतु नः स्वाहेति ॥ ब्र्हुप्_६,४।२४ ॥ अथास्य दक्षिणं कर्णम् अभिनिधाय वाग् वाग् इति त्रिः । अथ दधि मधु घृतं सन्नीयानन्तर्हितेन जातरूपेण प्राशयति । भूस् ते दधामि भुवस् ते दधामि स्वस् ते दधामि भूर् भुवः स्वः सर्वं त्वयि दधामीति ॥ ब्र्हुप्_६,४।२५ ॥ अथास्य नाम करोति वेदो ऽसीति । तद् अस्यैतद् गुह्यम् एव नाम भवति ॥ ब्र्हुप्_६,४।२६ ॥ अथैनं मात्रे प्रदाय स्तनं प्रयच्छति -- यस् ते स्तनः शशयो यो मयोभूर् यो रत्नधा वसुविद् यः सुदत्रः । येन विश्वा पुष्यसि वार्याणि सरस्वति तम् इह धातवे कर् इति ॥ ब्र्हुप्_६,४।२७ ॥ अथास्य मातरम् अभिमन्त्रयते -- इलासि मैत्रावरुणी वीरे वीरम् अजीजनत् । सा त्वं वीरवती भव यास्मान् वीरवतो ऽकरद् इति । तं वा एतम् आहुः -- अतिपिता बताभूः । अतिपितामहो बताभूः । परमां बत काष्ठां प्राप श्रिया यशसा ब्रह्मवर्चसेन । य एवंविदो ब्राह्मणस्य पुत्रो जायत इति ॥ ब्र्हुप्_६,४।२८ ॥ अथ वंशः । पौतिमाषीपुत्रः कात्यायनीपुत्रात् । कात्यायनीपुत्रो गौतमीपुत्रात् । गौतमीपुत्रो भारद्वाजीपुत्रात् । भारद्वाजीपुत्रः पाराशरीपुत्रात् । पाराशरीपुत्र औपस्वस्तीपुत्रात् । औपस्वस्तीपुत्रः पाराशरीपुत्रात् । पाराशरीपुत्रः कात्यायनीपुत्रात् । कात्यायनीपुत्रः कौशिकीपुत्रात् । कौशिकीपुत्र आलम्बीपुत्राच् च वैयाघ्रपदीपुत्राच् च । वैयाघ्रपदीपुत्रह् काण्वीपुत्राच् च कापीपुत्राच् च । कापीपुत्रः ॥ ब्र्हुप्_६,५।१ ॥ आत्रेयीपुत्रात् । आत्रेयीपुत्रो गौतमीपुत्रात् । गौतमीपुत्रो भारद्वाजीपुत्रात् । भारद्वाजीपुत्रः पाराशरीपुत्रात् । पाराशरीपुत्रो वात्सीपुत्रात् । वात्सीपुत्रः पाराशरीपुत्रात् । पाराशरीपुत्रो वार्कारुनीपुत्रात् । वार्कारुणीपुत्रो वार्कारुणीपुत्रात् । वार्कारुणीपुत्र आर्तभागीपुत्रात् । आर्तभागीपुत्रः शौङ्गीपुत्रात् । शौङ्गीपुत्रः सान्कृतीपुत्रात् । साङृतीपुत्र आलम्बायनीपुत्रात् । आलम्बायनीपुत्र आलम्बीपुत्रात् । आलम्बीपुत्रो जायन्तीपुत्रात् । जायन्तीपुत्रो माण्डूकायनीपुत्रात् । माण्डूकायनीपुत्रो माण्डूकीपुत्रात् । माण्डूकीपुत्रः शाण्डिलीपुत्रात् । शाण्डिलीपुत्रो राथीतरीपुत्रात् । राथीतरीपुत्रो भालुकीपुत्रात् । भालुकीपुत्रः क्रौञ्चिकीपुत्राभ्याम् । क्रौञ्चिकीपुत्रौ वैदभृतीपुत्रात् । वैदभृतीपुत्रः कार्शकेयीपुत्रात् । कार्शकेयीपुत्रः प्राचीनयोगीपुत्रात् । प्राचीनयोगीपुत्रः साञ्जीवीपुत्रात् । साञ्जीवीपुत्रः प्राश्नीपुत्राद् आसुरिवासिनः । प्राश्नीपुत्र आसुरायणात् । आसुरायण आसुरेः । आसुरिः। ब्र्हुप्_६,५।२ ॥ याज्ञवल्क्यात् । याज्ञवल्क्य उद्दालकात् । उद्दालको ऽरुणात् । अरुण उपवेशेः । उपवेशिः कुश्रेः । कुश्रिर् वाजश्रवसः । वाजश्रवा जीह्वावतो बाध्योगात् । जीह्वावान् बाध्योगो ऽसिताद् वार्षगणात् । असितो वार्षगणो हरितात् कश्यपात् । हरितः कश्यपः शिल्पात् कश्यपात् । शिल्पः कश्यपः कश्यपान् नैध्रुवेः । कश्यपो नैध्रुविर् वाचः । वाग् अम्भिण्याः । अम्भिण्य् आदित्यात् । आदित्यानीमानि शुक्लानि यजूंषि वाजसनेयेन याज्ञवल्क्येनाख्ययन्ते ॥ ब्र्हुप्_६,५।३ ॥ समानम् आ साञ्जीवीपुत्रात् । सञ्जिवीपुत्रो माण्डूकायनेः । माण्डूकायनिर् माण्डव्यात् । माण्डव्यः कौत्सात् । कौत्सो माहित्थेः । माहित्थिर् वामकक्षायणात् । वामकक्षायणः शाण्डिल्यात् । शाण्डिल्यो वात्स्यात् । वात्स्यः कुश्रेः । कुश्रिर् यज्ञवचसः राजस्तम्बायनात् । यज्ञवचा राजस्तम्बायनः तुरात् कावषेयात् । तुरः कावषेयः प्रजापतेः । प्रजापतिर् ब्रह्मणः । ब्रह्म स्वयम्भु । ब्रह्मणे नमः ॥ ब्र्हुप्_६,५।४ ॥