+++ title = "Katha-Upanisad" +++ ## Intro Katha-Upanisad Katha-Upanisad Based on Olivelle, Patrick: The Early Upaniṣads. Annotated Text and Translation. New York : 1998, pp. 374-402. Input and proofreading by the Vienna University Student Team (SoSe 2016) [GRETIL-Version vom 09.11.2016] STRUCTURE OF REFERENCES: KaU_n.nn = Kaṭhopaniṣat_Vallī.Verse/Section ADDITIONAL NOTE The distinction between anusvāra and anunāsika has been dropped in accordance with GRETIL's character list in order to ensure searchability across multiple files. THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Unicode (UTF-8). (This file is to be used with a UTF-8 font and your browser's VIEW configuration set to UTF-8.) description:multibyte sequence: long a ā long A Ā long i ī long I Ī long u ū long U Ū vocalic r ṛ vocalic R Ṛ long vocalic r ṝ vocalic l ḷ vocalic L Ḷ long vocalic l ḹ velar n ṅ velar N Ṅ palatal n ñ palatal N Ñ retroflex t ṭ retroflex T Ṭ retroflex d ḍ retroflex D Ḍ retroflex n ṇ retroflex N Ṇ palatal s ś palatal S Ś retroflex s ṣ retroflex S Ṣ anusvara ṃ visarga ḥ long e ē long o ō l underbar ḻ r underbar ṟ n underbar ṉ k underbar ḵ t underbar ṯ Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: ## पाठः कठोपनिषत् उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ । तस्य ह नचिकेता नाम पुत्र आस ॥ कउ_१।१ ॥ तं ह कुमारं सन्तं दक्षिणासु नीयमानासु श्रद्धाविवेश । सो ऽमन्यत ॥ कउ_१।२ ॥ पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः । अनन्दा नाम ते लोकास् तान् स गच्छति ता ददत् ॥ कउ_१।३ ॥ स होवाच पितरं तत कस्मै मां दास्यसीति । द्वितीयं तृतीयम् । तं होवाच मृत्यवे त्वा ददामीति ॥ कउ_१।४ ॥ बहूनाम् एमि प्रथमो बहूनाम् एमि मध्यमः । किं स्विद् यमस्य कर्तव्यं यन् मयाद्य करिष्यति ॥ कउ_१।५ ॥ अनुपश्य यथा पूर्वे प्रतिपश्य तथापरे । सस्यम् इव मर्त्यः पच्यते सस्यम् इवाजायते पुनः ॥ कउ_१।६ ॥ वैश्वानरः प्रविशति अतिथिर् ब्राह्मणो गृहान् । तस्यैतां शान्तिं कुर्वन्ति हर वैवस्वतोदकम् ॥ कउ_१।७ ॥ आशाप्रतीक्षे सङ्गतं सूनृतां च इष्टापूर्ते पुत्रपशूंश् च सर्वान् । एतद् वृङ्क्ते पुरुषस्याल्पमेधसो यस्यानश्नन् वसति ब्राह्मणो गृहे ॥ कउ_१।८ ॥ तिस्रो रात्रीर् यद् अवत्सीर् गृहे मे अनश्नन् ब्रह्मन्न् अतिथिर् नमस्यः । नमस् ते ऽस्तु ब्रह्मन् स्वस्ति मे ऽस्तु तस्मात् प्रति त्रीन् वरान् वृणीष्व ॥ कउ_१।९ ॥ शान्तसङ्कल्पः सुमना यथा स्याद् वीतमन्युर् गौतमो माभि मृत्यो । त्वत्प्रसृष्टं माभिवदेत् प्रतीत एतत् त्रयाणां प्रथमं वरं वृणे ॥ कउ_१।१० ॥ यथा पुरस्ताद् भविता प्रतीत औद्दालकिर् आरुणिर् मत्प्रसृष्टः । सुखं रात्रीः शयिता वीतमन्युस् त्वां ददृशिवान् मृत्युमुखात् प्रमुक्तम् ॥ कउ_१।११ ॥ स्वर्गे लोके न भयं किञ्चनास्ति न तत्र त्वं न जरया बिभेति । उभे तीर्त्वा अशनायापिपासे शोकातिगो मोदते स्वर्गलोके ॥ कउ_१।१२ ॥ स त्वम् अग्निं स्वर्ग्यम् अध्येषि मृत्यो प्रब्रूहि तं श्रद्दधानाय मह्यम् । स्वर्गलोका अमृतत्वं भजन्त एतद् द्वितीयेन वृणे वरेण ॥ कउ_१।१३ ॥ प्र ते ब्रवीमि तद् उ मे निबोध स्वर्ग्यम् अग्निं नचिकेतः प्रजानन् । अनन्तलोकाप्तिम् अथो प्रतिष्ठां विद्धि त्वम् एतं निहितं गुहायाम् ॥ कउ_१।१४ ॥ लोकादिम् अग्निं तम् उवाच तस्मै या इष्टका यावतीर् वा यथा वा । स चापि तत् प्रत्यवदद् यथोक्तम् अथास्य मृत्युः पुनर् आह तुष्टः ॥ कउ_१।१५ ॥ तम् अब्रवीत् प्रीयमाणो महात्मा वरं तवेहाद्य ददामि भूयः । तवैव नाम्ना भवितायम् अग्निः सृङ्कां चेमाम् अनेकरूपां गृहाण ॥ कउ_१।१६ ॥ त्रिणाचिकेतस् त्रिभिर् एत्य सन्धिं त्रिकर्मकृत् तरति जन्ममृत्यू । ब्रह्मजज्ञं देवम् ईड्यं विदित्वा निचाय्येमां शान्तिम् अत्यन्तम् एति ॥ कउ_१।१७ ॥ त्रिणाचिकेतस् त्रयम् एतद् विदित्वा य एवं विद्वांश् चिनुते नाचिकेतम् । स मृत्युपाशान् पुरतः प्रणोद्य शोकातिगो मोदते स्वर्गलोके ॥ कउ_१।१८ ॥ एष ते ऽग्निर् नचिकेतः स्वर्ग्यो यम् अवृणीथा द्वितीयेन वरेण । एतम् अग्निं तवैव प्रवक्ष्यन्ति जनासस् तृतीयं वरं नचिकेतो वृणीष्व ॥ कउ_१।१९ ॥ येयं प्रेते विचिकित्सा मनुष्ये अस्तीत्य् एके नायम् अस्तीति चैके । एतद् विद्याम् अनुशिष्टस् त्वयाहं वराणाम् एष वरस् तृतीयः ॥ कउ_१।२० ॥ देवैर् अत्रापि विचिकित्सितं पुरा न हि सुज्ञेयम् अणुर् एष धर्मः । अन्यं वरं नचिकेतो वृणीष्व मा मोपरोत्सीर् अति मा सृजैनम् ॥ कउ_१।२१ ॥ देवैर् अत्रापि विचिकित्सितं किल त्वं च मृत्यो यन् न सुज्ञेयम् आत्थ । वक्ता चास्य त्वादृग् अन्यो न लभ्यो नान्यो वरस् तुल्य एतस्य कश्चित् ॥ कउ_१।२२ ॥ शतायुषः पुत्रपौत्रान् वृणीष्व बहून् पशून् हस्तिहिरण्यम् अश्वान् । भूमेर् महद् आयतनं वृणीष्व स्वयं च जीव शरदो यावद् इच्छसि ॥ कउ_१।२३ ॥ एतत् तुल्यं यदि मन्यसे वरं वृणीष्व वित्तं चिरजीविकां च । महाभूमौ नचिकेतस् त्वम् एधि कामानां त्वा कामभाजं करोमि ॥ कउ_१।२४ ॥ ये ये कामा दुर्लभा मर्त्यलोके सर्वान् कामांश् छन्दतः प्रार्थयस्व । इमा रामाः सरथाः सतूर्या न हीदृशा लम्भनीया मनुष्यैः । आभिर् मत्प्रत्ताभिः परिचारयस्व नचिकेतो मरणं मानुप्राक्षीः ॥ कउ_१।२५ ॥ श्वोभावा मर्त्यस्य यद् अन्तकैतत् सर्वेन्द्रियाणां जरयन्ति तेजः । अपि सर्वं जीवितम् अल्पम् एव तवैव वाहास् तव नृत्यगीते ॥ कउ_१।२६ ॥ न वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे वित्तम् अद्राक्ष्म चेत् त्वा । जीविष्यामो यावद् ईशिष्यसि त्वं वरस् तु मे वरणीयः स एव ॥ कउ_१।२७ ॥ अजीर्यताम् अमृतानाम् उपेत्य जीर्यन् मर्त्यः क्वधःस्थः प्रजानन् । अभिध्यायन् वर्णरतिप्रमोदान् अतिदीर्घे जीविते को रमेत ॥ कउ_१।२८ ॥ यस्मिन्न् इदं विचिकित्सन्ति मृत्यो यत् साम्पराये महति ब्रूहि नस् तत् । यो ऽयं वरो गूढम् अनुप्रविष्टो नान्यं तस्मान् नचिकेता वृणीते ॥ कउ_१।२९ ॥ ॥ इति प्रथमा वल्ली ॥ अन्यच् छ्रेयो ऽन्यद् उतैव प्रेयस् ते उभे नानार्थे पुरुषं सिनीतः । तयोः श्रेय आददानस्य साधु भवति हीयते ऽर्थाद् य उ प्रेयो वृणीते ॥ कउ_२।१ ॥ श्रेयश् च प्रेयश् च मनुष्यम् एतस् तौ सम्परीत्य विविनक्ति धीरः । श्रेयो हि धीरो ऽभि प्रेयसो वृणीते प्रेयो मन्दो योगक्षेमाद् वृणीते ॥ कउ_२।२ ॥ स त्वं प्रियान् प्रियरूपांश् च कामान् अभिध्यायन् नचिकेतो ऽत्यस्राक्षीः । नैतां सृङ्कां वित्तमयीम् अवाप्तो यस्यां मज्जन्ति बहवो मनुष्याः ॥ कउ_२।३ ॥ दूरम् एते विपरीते विषूची अविद्या या च विद्येति ज्ञाता । विद्याभीप्सिनं नचिकेतसं मन्ये न त्वा कामा बहवो ऽलोलुपन्त ॥ कउ_२।४ ॥ अविद्यायाम् अन्तरे वर्तमानाः स्वयं धीराः पण्डितं मन्यमानाः । दन्द्रम्यमाणाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः ॥ कउ_२।५ ॥ न साम्परायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम् । अयं लोको नास्ति पर इति मानी पुनः पुनर् वशम् आपद्यते मे ॥ कउ_२।६ ॥ श्रवणायापि बहुभिर् यो न लभ्यः शृण्वन्तो ऽपि बहवो यं न विद्युः । आश्चर्यो वक्ता कुशलो ऽस्य लब्धा आश्चर्यो ज्ञाता कुशलानुशिष्टः ॥ कउ_२।७ ॥ न नरेणावरेण प्रोक्त एष सुविज्ञेयो बहुधा चिन्त्यमानः । अनन्यप्रोक्ते गतिर् अत्र नास्त्य् अणीयान् ह्य् अतर्क्यम् अणुप्रमाणात् ॥ कउ_२।८ ॥ नैषा तर्केण मतिर् आपनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ । यां त्वम् आपः सत्यधृतिर् बतासि त्वादृङ् नो भूयान् नचिकेतः प्रेष्टा ॥ कउ_२।९ ॥ जानाम्य् अहं शेवधिर् इत्य् अनित्यं न ह्य् अध्रुवैः प्राप्यते हि ध्रुवं तत् । ततो मया नाचिकेतश् चितो ऽग्निर् अनित्यैर् द्रव्यैः प्राप्तवान् अस्मि नित्यम् ॥ कउ_२।१० ॥ कामस्य आप्तिं जगतः प्रतिष्ठां क्रतोर् अनन्त्यम् अभयस्य पारम् । स्तोममहद् उरुगायं प्रतिष्ठां दृष्ट्वा धृत्या धीरो नचिकेतो ऽत्यस्राक्षीः ॥ कउ_२।११ ॥ तं दुर्दर्शं गूढम् अनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम् । अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति ॥ कउ_२।१२ ॥ एतच् छ्रुत्वा सम्परिगृह्य मर्त्यः प्रवृह्य धर्म्यम् अणुम् एतम् आप्य । स मोदते मोदनीयं हि लब्ध्वा विवृतं सद्म नचिकेतसं मन्ये ॥ कउ_२।१३ ॥ अन्यत्र धर्माद् अन्यत्राधर्माद् अन्यत्रास्मात् कृताकृतात् । अन्यत्र भूताच् च भव्याच् च यत् तत् पश्यसि तद् वद ॥ कउ_२।१४ ॥ सर्वे वेदा यत् पदम् आमनन्ति तपांसि सर्वाणि च यद् वदन्ति । यद् इच्छन्तो ब्रह्मचर्यं चरन्ति तत् ते पदं सङ्ग्रहेण ब्रवीमि ॥ ॐ इत्य् एतत् ॥ कउ_२।१५ ॥ एतद् ध्य् एवाक्षरं ब्रह्म एतद् ध्य् एवाक्षरं परम् । एतद् ध्य् एवाक्षरं ज्ञात्वा यो यद् इच्छति तस्य तत् ॥ कउ_२।१६ ॥ एतद् आलम्बनं श्रेष्ठम् एतद् आलम्बनं परम् । एतद् आलम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥ कउ_२।१७ ॥ न जायते म्रियते वा विपश्चिन् नायं कुतश्चिन् न बभूव कश्चित् । अजो नित्यः शाश्वतो ऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ कउ_२।१८ ॥ हन्ता चेन् मन्यते हन्तुं हतश् चेन् मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ कउ_२।१९ ॥ अणोर् अणीयान् महतो महीयान् आत्मास्य जन्तोर् निहितो गुहायाम् । तम् अक्रतुः पश्यति वीतशोको धातुप्रसादान् महिमानम् आत्मनः ॥ कउ_२।२० ॥ आसीनो दूरं व्रजति शयानो याति सर्वतः । कस् तं मदामदं देवं मद् अन्यो ज्ञातुम् अर्हति ॥ कउ_२।२१ ॥ अशरीरं शरीरेषु अनवस्थेष्व् अवस्थितम् । महान्तं विभुम् आत्मानं मत्वा धीरो न शोचति ॥ कउ_२।२२ ॥ नायम् आत्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यम् एवैष वृणुते तेन लभ्यस् तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥ कउ_२।२३ ॥ नाविरतो दुश्चरितान् नाशान्तो नासमाहितः । नाशान्तमानसो वापि प्रज्ञानेनैनम् आप्नुयात् ॥ कउ_२।२४ ॥ यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः । मृत्युर् यस्योपसेचनं क इत्था वेद यत्र सः ॥ कउ_२।२५ ॥ ॥ इति द्वितीया वल्ली ॥ ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे । छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः ॥ कउ_३।१ ॥ यः सेतुर् ईजानानाम् अक्षरं ब्रह्म यत् परम् । अभयं तितीर्षतां पारं नाचिकेतं शकेमहि ॥ कउ_३।२ ॥ आत्मानं रथिनं विद्धि शरीरं रथम् एव तु । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहम् एव च ॥ कउ_३।३ ॥ इन्द्रियाणि हयान् आहुर् विषयांस् तेषु गोचरान् । आत्मेन्द्रियमनोयुक्तं भोक्तेत्य् आहुर् मनीषिणः ॥ कउ_३।४ ॥ यस् त्व् अविज्ञानवान् भवत्य् अयुक्तेन मनसा सदा । तस्येन्द्रियाण्य् अवश्यानि दुष्टाश्वा इव सारथेः ॥ कउ_३।५ ॥ यस् तु विज्ञानवान् भवति युक्तेन मनसा सदा । तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥ कउ_३।६ ॥ यस् त्व् अविज्ञानवान् भवत्य् अमनस्कः सदाशुचिः । न स तत् पदम् आप्नोति संसारं चाधिगच्छति ॥ कउ_३।७ ॥ यस् तु विज्ञानवान् भवति समनस्कः सदा शुचिः । स तु तत् पदम् आप्नोति यस्माद् भूयो न जायते ॥ कउ_३।८ ॥ विज्ञानसारथिर् यस् तु मनः प्रग्रहवान् नरः । सो ऽध्वनः पारम् आप्नोति तद् विष्णोः परमं पदम् ॥ कउ_३।९ ॥ इन्द्रियेभ्यः परा ह्य् अर्था अर्थेभ्यश् च परं मनः । मनसस् तु परा बुद्धिर् बुद्धेर् आत्मा महान् परः ॥ कउ_३।१० ॥ महतः परम् अव्यक्तम् अव्यक्तात् पुरुषः परः । पुरुशान् न परं किञ्चित् सा काष्ठा सा परा गतिः ॥ कउ_३।११ ॥ एष सर्वेषु भूतेषु गूढो ऽत्मा न प्रकाशते । दृष्यते त्व् अग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ कउ_३।१२ ॥ यच्छेद् वाङ्मनसी प्राज्ञस् तद् यच्छेज् ज्ञान आत्मनि । ज्ञानम् आत्मनि महति नियच्छेत् तद् यच्छेच् छान्त आत्मनि ॥ कउ_३।१३ ॥ उत्तिष्ठत जाग्रत प्राप्य वरान् निबोधत । क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस् तत् कवयो वदन्ति ॥ कउ_३।१४ ॥ अशब्दम् अस्पर्शम् अरूपम् अव्ययं तथारसं नित्यम् अगन्धवच् च यत् । अनाद्य् अनन्तं महतः परं ध्रुवं निचाय्य तन् मृत्युमुखात् प्रमुच्यते ॥ कउ_३।१५ ॥ नाचिकेतम् उपाख्यानं मृत्युप्रोक्तं सनातनम् । उक्त्वा श्रुत्वा च मेधावी ब्रह्मलोके महीयते ॥ कउ_३।१६ ॥ य इमं परमं गुह्यं श्रावयेद् ब्रह्मसंसदि । प्रयतः श्राद्धकाले वा तद् आनन्त्याय कल्पते । तद् आनन्त्याय कल्पत इति ॥ कउ_३।१७ ॥ ॥ इति तृतीया वल्ली ॥ पराञ्चि खानि व्यतृणत् स्वयम्भूस् तस्मात् पराङ् पश्यति नान्तरात्मन् । कश्चिद् धीरः प्रत्यग् आत्मानम् ऐक्षद् आवृत्तचक्षुर् अमृतत्वम् इच्छन् ॥ कउ_४।१ ॥ पराचः कामान् अनुयन्ति बालास् ते मृत्योर् यन्ति विततस्य पाशम् । अथ धीरा अमृतत्वं विदित्वा ध्रुवम् अध्रुवेष्व् इह न प्रार्थयन्ते ॥ कउ_४।२ ॥ येन रूपं रसं गन्धं शब्दान् स्पर्शींश् च मैथुनान् । एतेनैव विजानाति किम् अत्र परिशिष्यते ॥ एतद् वै तत् ॥ कउ_४।३ ॥ स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति । महान्तं विभुम् आत्मानं मत्वा धीरो न शोचति ॥ कउ_४।४ ॥ य इमं मध्वदं वेद आत्मानं जीवम् अन्तिकात् । ईशानं भूतभव्यस्य न ततो विजुगुप्सते ॥ एतद् वै तत् ॥ कउ_४।५ ॥ यः पूर्वं तपसो जातम् अद्भ्यः पूर्वम् अजायत । गुहां प्रविश्य तिष्ठन्तं यो भूतेभिर् व्यपश्यत ॥ एतद् वै तत् ॥ कउ_४।६ ॥ या प्राणेन सम्भवति अदितिर् देवतामयी । गुहां प्रविश्य तिष्ठन्तीं या भूतेभिर् व्यजायत ॥ एतद् वै तत् ॥ कउ_४।७ ॥ अरण्योर् निहितो जातवेदा गर्भ इव सुभृतो गर्भिणीभिः । दिवेदिव ईड्यो जागृवद्भिर् हविष्मद्भिर् मनुष्येभिर् अग्निः ॥ एतद् वै तत् ॥ कउ_४।८ ॥ यतश् चोदेति सूर्यो अस्तं यत्र च गच्छति । तं देवाः सर्वे अर्पितास् तद् उ नात्येति कश्चन ॥ एतद् वै तत् ॥ कउ_४।९ ॥ यद् एवेह तद् अमुत्र यद् अमुत्र तद् अन्व् इह । मृत्योः स मृत्युम् आप्नोति य इह नानेव पश्यति ॥ कउ_४।१० ॥ मनसैवेदम् आप्तव्यं नेह नानास्ति किञ्चन । मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति ॥ कउ_४।११ ॥ अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति । ईशानो भूतभव्यस्य न ततो विजुगुप्सते ॥ एतद् वै तत् ॥ कउ_४।१२ ॥ अङ्गुष्ठमात्रः पुरुषो ज्योतिर् इव अधूमकः । ईशानो भूतभव्यस्य स एवाद्य स उ श्वः ॥ एतद् वै तत् ॥ कउ_४।१३ ॥ यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति । एवं धर्मान् पृथक् पश्यंस् तान् एवानु विधावति ॥ कउ_४।१४ ॥ यथोदकं शुद्धे शुद्धम् आसिक्तं तादृग् एव भवति । एवं मुनेर् विजानत आत्मा भवति गौतम ॥ कउ_४।१५ ॥ ॥ इति चतुर्थी वल्ली ॥ पुरम् एकादशद्वारम् अजस्यावक्रचेतसः । अनुष्ठाय न शोचति विमुक्तश् च विमुच्यते ॥ एतद् वै तत् ॥ कउ_५।१ ॥ हंसः शुचिषद् वसुर् अन्तरिक्षसद् धोता वेदिषद् अतिथिर् दुरोणसत् । नृषद् वरसद् ऋतसद् व्योमसद् अब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥ कउ_५।२ ॥ ऊर्ध्वं प्राणम् उन्नयति अपानं प्रत्यग् अस्यति । मध्ये वामनम् आसीनं विश्वे देवा उपासते ॥ कउ_५।३ ॥ अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः । देहाद् विमुच्यमानस्य किम् अत्र परिशिष्यते ॥ एतद् वै तत् ॥ कउ_५।४ ॥ न प्राणेन नापानेन मर्त्यो जीवति कश्चन । इतरेण तु जीवन्ति यस्मिन्न् एताव् उपाश्रितौ ॥ कउ_५।५ ॥ हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम् । यथा च मरणं प्राप्य आत्मा भवति गौतम ॥ कउ_५।६ ॥ योनिम् अन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुम् अन्ये ऽनुसंयन्ति यथाकर्म यथाश्रुतम् ॥ कउ_५।७ ॥ य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः । तद् एव शुक्रं तद् ब्रह्म तद् एवामृतम् उच्यते । तस्मिंल् लोकाः श्रिताः सर्वे तद् उ नात्येति कश्चन ॥ एतद् वै तत् ॥ कउ_५।८ ॥ अग्निर् यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव । एकस् तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश् च ॥ कउ_५।९ ॥ वायुर् यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव । एकस् तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश् च ॥ कउ_५।१० ॥ सूर्यो यथा सर्वलोकस्य चक्षुर् न लिप्यते चाक्षुषैर् बाह्यदोषैः । एकस् तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः ॥ कउ_५।११ ॥ एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः करोति । तम् आत्मस्थं ये ऽनुपश्यन्ति धीरास् तेषां सुखं शाश्वतं नेतरेषाम् ॥ कउ_५।१२ ॥ नित्यो ऽनित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान् । तम् आत्मस्थं ये ऽनुपश्यन्ति धीरास् तेषं शान्तिः शाश्वती नेतरेषाम् ॥ कउ_५।१३ ॥ तद् एतद् इति मन्यन्ते ऽनिर्देश्यं परमं सुखम् । कथं नु तद् विजानीयां किम् उ भाति विभाति वा ॥ कउ_५।१४ ॥ न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतो ऽयम् अग्निः । तम् एव भान्तम् अनु भाति सर्वं तस्य भासा सर्वम् इदं विभाति ॥ कउ_५।१५ ॥ ॥ इति पञ्चमी वल्ली ॥ ऊर्ध्वमूलो अवाक्शाख एषो ऽश्वत्थः सनातनः । तद् एव शुक्रं तद् ब्रह्म तद् एवामृतम् उच्यते । तस्मिंल् लोकाः श्रिताः सर्वे तद् उ नात्येति कश्चन ॥ एतद् वै तत् ॥ कउ_६।१ ॥ यद् इदं किञ्च जगत् सर्वं प्राण एजति निःसृतम् । महद् भयं वज्रम् उद्यतं य एतद् विदुर् अमृतास् ते भवन्ति ॥ कउ_६।२ ॥ भयाद् अस्याग्निस् तपति भयात् तपति सूर्यः । भयाद् इन्द्रश् च वायुश् च मृत्युर् धावति पञ्चमः ॥ कउ_६।३ ॥ इह चेद् अशकद् बोद्धुं प्राक्शरीरस्य विस्रसः । ततः सर्गेषु लोकेषु शरीरत्वाय कल्पते ॥ कउ_६।४ ॥ यथादर्शे तथात्मनि यथा स्वप्ने तथा पितृलोके । यथाप्सु परीव ददृशे तथा गन्धर्वलोके छायातपयोर् इव ब्रह्मलोके ॥ कउ_६।५ ॥ इन्द्रियाणां पृथग्भावम् उदयास्तमयौ च यत् । पृथग् उत्पद्यमानानां मत्वा धीरो न शोचति ॥ कउ_६।६ ॥ इन्द्रियेभ्यः परं मनो मनसः सत्त्वम् उत्तमम् । सत्त्वाद् अधि महानात्मा महतो ऽव्यक्तम् उत्तमम् ॥ कउ_६।७ ॥ अव्यक्तात् तु परः पुरुषो व्यापको ऽलिङ्ग एव च । यं ज्ञात्वा मुच्यते जन्तुर् अमृतत्वं च गच्छति ॥ कउ_६।८ ॥ न सन्दृशे तिष्ठति रूपम् अस्य न चक्षुषा पश्यति कश्चनैनम् । हृदा मनीषा मनसाभिकॢप्तो य एतद् विदुर् अमृतास् ते भवन्ति ॥ कउ_६।९ ॥ यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह । बुद्धिश् च न विचेष्टति ताम् आहुः परमां गतिम् ॥ कउ_६।१० ॥ तां योगम् इति मन्यन्ते स्थिराम् इन्द्रियधारणाम् । अप्रमत्तस् तदा भवति योगो हि प्रभवाप्ययौ ॥ कउ_६।११ ॥ नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा । अस्तीति ब्रुवतो ऽन्यत्र कथं तद् उपलभ्यते ॥ कउ_६।१२ ॥ अस्तीत्य् एवोपलब्धव्यस् तत्त्वभावेन चोभयोः । अस्तीत्य् एवोपलब्धस्य तत्त्वभावः प्रसीदति ॥ कउ_६।१३ ॥ यदा सर्वे प्रमुच्यन्ते कामा ये ऽस्य हृदि श्रिताः । अथ मर्त्यो ऽमृतो भवत्य् अत्र ब्रह्म समश्नुते ॥ कउ_६।१४ ॥ यदा सर्वे प्रभिद्यन्ते हृदयस्येह ग्रन्थयः । अथ मर्त्यो ऽमृतो भवत्य् एतावद् ध्य् अनुशासनम् ॥ कउ_६।१५ ॥ शतं चैका च हृदयस्य नाड्यस् तासां मूर्धानम् अभिनिःसृतैका । तयोर्ध्वम् आयन्न् अमृतत्वम् एति विष्वङ्ङ् अन्या उत्क्रमणे भवति ॥ कउ_६।१६ ॥ अङ्गुष्ठमात्रः पुरुषो ऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः । तं स्वाच् छरीरात् प्रवृहेन् मुञ्जाद् इवेषीकां धैर्येण । तं विद्याच् छुक्रम् अमृतं तं विद्याच् छुक्रम् अमृतम् इति ॥ कउ_६।१७ ॥ मृत्युप्रोक्तां नचिकेतो ऽथ लब्ध्वा विद्याम् एतां योगविधिं च कृत्स्नम् । ब्रह्मप्राप्तो विरजो ऽभूद् विमृत्युर् अन्यो ऽप्य् एवं यो विद् अध्यात्मम् एव ॥ कउ_६।१८ ॥ ॥ इति षष्ठी वल्ली ॥ ॥ इति कठोपनिषत् ॥