## अर्थवणोपनिषत् भाष्यम् ।। आनन्दमजरं नित्यमजमक्षयमच्युतम् । अनन्तशक्तिं सर्वज्ञं नमस्ये पुरुषोत्तमम् ।। मनोर्वैवस्वतस्यादावथर्वा ब्रह्मणोजनि । मित्रश्च वरुणश्चाथो प्रहेतिर्हेतिरेव च ।। ब्रह्मणः प्रथमे कल्पे शिवः प्रथमजः स्मृतः । सनकाद्यास्तु वाराहे ब्रह्मा विष्णोः सुतोग्रजः ।। इति ब्रह्माण्डे ।। ऋगाद्या अपरा विद्या यदा विष्णोर्न वाचकाः । ता एव परमा विद्या यदा विष्णोस्तु वाचकाः ।। इति परमसंहितायाम् । ऋग्भिर्हौत्रेण शंसन्ति तथौद्गात्रैः स्तुवन्ति ये । विष्णुमेव तथा तस्मै यजुर्भिरपि जुह्वति ।। स्तुवन्त्यथर्वणैश्चैनं सेतिहासपुराणकैः । न विष्णुसदृशं किञ्चित् परमं वापि मन्वते ।। सर्वोत्तमं तं जानन्तस्ते हि भागवतोत्तमाः ।। वेदे रामायणे चैव पुराणे भारते तथा । आदावन्ते च मध्ये च विष्णुः सर्वत्र गीयते ।। एतदन्ते च मध्ये च ब्रह्मैवोक्त्वा विजानताम् । ऋगादि पञ्चधा संस्थं शब्दब्रह्म प्रशाम्यति ।। यं वाकेष्वनुवाकेषु निषत्सूपनिषत्सु च । स्तुवन्ति सत्यकर्माणं सत्यं सत्येन सामसु ।। सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति । यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ।। वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् । इति च भारते । चतुर्दश महाविद्यास्थानानि वेदितव्यानि भवन्ति इति मूलश्रुतिः । पञ्चरात्रमृगाद्याश्च सर्वमेकं पुराभवत् । मूलवेद इति ह्याख्या काले कृतयुगे तदा ।। नैवर्क्सामादिनामानि तदा वेदस्य चाभवत् । नैव चेन्द्रादिनामानि विष्णोरन्यत्र कुत्रचित् ।। ब्रह्मरुद्रेन्द्रपूर्वैस्तु नामभिः प्रोच्यते हरिः । देवतात्वेन चेज्यस्स ब्रह्माद्याः मनुनामकाः ।। वक्तृत्वेन पितृत्वेन कारित्वेनैव चादरात् । इज्यन्ते देवताः सर्वा न तु देवतया क्वचित् ।। अनन्ययाजिनस्ते तु तस्मात् कार्तयुगा जनाः । प्राप्नुवन्ति हरिं तं च तस्माद्वेदे न किञ्चन ।। पारावर्यं हरेर्यस्मादुत्थितास्तुरगाननात् । ऋगाद्या अनुव्याख्यान्तास्तस्मात् सर्वैर्हरिं यजेत् ।। तस्माद् ब्रह्मादयः सर्वे मनवो मानवास्तथा । यजन्ति सर्ववेदैस्तं जानन्ति च विनिश्चयात् ।। अशक्तः पञ्चरात्रेण ऋगाद्यैर्वाथ तं यजेत् । ऋगाद्यैरेव स त्रैतैर्भिन्नैरिष्टो जनैर्हरिः ।। द्वापरीयैर्जनैर्विष्णुः पञ्चरात्रैस्तु केवलैः । कलौ तु नाममात्रेण पूज्यन्ते भगवान् हरिः ।। एको वेदः कृते ह्यासीत् त्रेतायां स त्रिधाभवत् । स एव पञ्चधा जातो द्वापरं प्राप्यं वै युगम् ।। उत्सन्नः स कलिं प्राप्य वेदः प्रायेण सर्वशः । मुख्यो धर्मः कार्तयुगो वर्तितव्यः कलावपि ।। त्रेतादौ तदशक्त्या हि धर्मोन्यः सम्प्रकीर्तितः । कृते भागवताः सर्वे वेदाश्च पुरुषास्तथा ।। त्रेतायां भिन्नविषयास्ततस्त्रैविद्यतां गताः । तस्मादेकः सर्ववेदैर्ज्ञेयो विष्णुः सनातनः ।। पूज्यो यज्ञैः सोपचारैर्ध्येयो वन्द्यश्च सर्वदा ।। इत्यादि नारायणसंहितायाम् । वेदवादाश्चानुयुगं ह्रसन्तीति हि नः श्रुतिः ।। इति भारते। वेदैश्च पञ्चरात्रैश्च भक्त्या यज्ञैस्तथैव च । दृश्योहं नान्यथा दृश्यो वर्षकोटिशतैरपि ।। इत्यादि वाराहे । अत्रापि ‘तदेतत्सत्यं मन्त्रेषु कर्माणि कवयो यान्यपश्यन्' इत्यादिना कर्मविषयामपरविद्यामुक्त्वा ‘येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम्' इत्यारभ्याथर्वणानेव मन्त्रान् परविद्यात्वेनाह । चतुर्वेदसंस्कारवतामेव च विद्यायामधिकार उक्तः ‘तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम्' इति । शिरोव्रतमित्युपलक्षणम् । स्ववेदव्रतयुक्तस्य सर्ववेदगतास्वपि । अधिकारोस्ति विद्यासु नावेदव्रतिनः क्वचित् ।। इति व्यासस्मृतौ ।। एतद्ब्रह्म चतुर्मुखः ।।1।। तदेतत्सत्यं भगवान् । तत्कामाः कर्माण्याचरथ । तदा सापि परविद्या । अन्यथा ‘प्लवा ह्येते अदृढा यज्ञरूपाः' भगवद्विषयत्वेन कृते एष वः पुण्यः सुकृतो ब्रह्मलोकः । परब्रह्मलोकः । निष्कामं ज्ञानपूर्वं तु निवृत्तमिति चोच्यते । निवृत्तं सेवमानस्तु ब्रह्माप्येति सनातनम् ।। इति व्यासस्मृतिः । ‘स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयते' इति च श्रुतिः । ‘सहयज्ञाः प्रजाः सृष्ट्वा' इत्युक्त्वा एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः । अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ।। इति च । ‘यान्ति मद्याजिनोपि माम्' इति च । अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च । न तु मामभिजानान्ति तत्त्वेनातश्च्यवन्ति ते ।। इति च । ‘यस्त्वात्मरति' इत्युक्त्वापि ‘कुर्याद्विद्वांस्तथासक्तः' इत्येवोक्तत्वाच्च । ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् । सर्वज्ञानविमूढांस्तान् विद्धि नष्टानचेतसः ।। इति च । ‘लोकेस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ' इत्युक्तत्वाच्च नाश्रमान्तरविरोधः । त्रेतायां बहुधा सन्ततानि कृते त्वेकप्रकारेणैव सन्ततानि । अग्निष्टोमादिभिर्यज्ञैः सर्वदेवस्थितं हरिम् । यजन्ति तांश्च कारित्वाद्वसुस्तस्मात् तथायजत् ।। पृथक् पृथक् च त्रेतायां यजन्ते देवतागणान् । यथा कृते तथा प्राज्ञास्त्रेतायां बहुधा ततः ।। इति पाद्मे । ‘यमिन्द्रमाहुर्वरुणं यमाहुर्यं मित्रमाहुर्यमु सत्यमाहुः' ‘यो देवानां देवतमो जनित्रो वायोस्तस्मै सोममेभ्यो जुहोमि' एवं वायोः पितरं विष्णुमेव यजन्ति देवैः सह ये कृते जनाः । एवं त्रेतायां केचिदन्ये पृथक् तानिष्ट्वा विष्णावर्पयन्ते न चान्यैः ।। विष्णोः सर्वेभ्यः किञ्चिदुत्तमत्वं जानन्त इमं लोकमाविशन्ति । साम्यं हीनत्वं वा जानन्तो हीनतरं तम एवाविशन्ति ।। देवेभ्यः उत्तमं विष्णुं राजवद्यस्तु मन्यते । याजी स मानुषं याति साम्यहीनत्ववित्तमः ।। इति च । ‘त्रैविद्या माम्' इति तु ‘येप्यन्यदेवता भक्ताः' ‘तेपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम्' ‘अहं हि सर्वयज्ञानां भोक्ता' इत्युक्तत्वादज्ञानपूर्वयाजिनस्त्रैविद्याः ।। ।। इति प्रथमः खण्डः ।। अपरं त्वक्षरं या सा प्रकृतिर्जडरूपिका । अक्षरं परमं श्रीस्तु परतः परमक्षरम् ।। वासुदेवः परानन्दः इति त्रिविधमक्षरम् ।। इति च ।।2।। विष्ण्वङ्गानां हि नामानि द्युभ्वादीनि तु सर्वशः । क्रीडादिशक्तिरूपत्वात् तज्जत्वादन्यवस्तुषु ।। इति च ।।7।। वासुदेवः पुमान्नामा पूर्णत्वात् स स्वयोषिति । रमायां गर्भमदधात् प्रजास्तस्मात् प्रजज्ञिरे ।। इति च ।। सप्तर्चिषो वृत्तयः । होमाः सम्बन्धाः । लोकाः गोलकाः । गुहाशयां बुद्धौ । ‘लोपः समाने' इति सूत्रादेकयकारलोपः । प्रतिपुरुषं सप्त सप्त ।।3।। भगवतः कर्म चेष्टा तपो ज्ञानं च परामृतब्रह्माख्यः पुरुषो भगवानेव । यैषा चेष्टा भगवतो यच्च ज्ञां परात्मनः । तत्सर्वं भगवानेव ये च धर्मा बलादयः ।। इति च । ‘स्वाभाविकी ज्ञानबलक्रिया च' इति श्रुतिः । विज्ञानाद् ब्रह्मणः परम् । ‘नाभिह्रदादिह सतोम्भसि यस्य पुंसो विज्ञानशक्तिरहमासमनन्तशक्तेः' इति भागवते । प्राणः प्रणयनाद्विष्णुर्वक्तृत्वाद्वागुदीरितः । मनो मन्तृत्वतो विष्णुः सर्वजीवनियामकः ।। इति शब्दनिर्णये ।। इति प्रथमोध्यायः ।। अमृतस्य मुक्तस्य सेतुः । ‘मुक्तोपसृप्यव्यपदेशात्' ‘मुक्तानां परमा गतिः' इत्यादेः । हृदयस्था सदा विष्णुर्बहुधा चैकधा भवेत् । चरति स्वेच्छयैवान्तः सर्वजीवान्नियामयन् ।। इति प्रवृत्ते ।।6।। परा अप्यवरा यस्मात् स हि विष्णुः परावरः । ब्रह्माण्डमध्यगो नित्यं तपत्येष रवौ स्थितः ।। इति च ।।11।। सूर्यादयस्तं न भासयन्ति ।।13।। इदं ब्रह्मैव विश्वं पूर्णम् । इदमेव वरिष्ठं सर्वोत्तमम् । इदंशब्दानां बहुत्वाद् ब्रह्मविषय एवेदंशब्दः ।।4।। इति द्वितीयोध्यायः ।। स्वादुवत्सर्वदात्ति । न तु स्वाद्वेव । ‘तस्येदमाहुः पिप्पलं स्वाद्वग्रे तन्नोन्नशद्यः पितरं न वेद' इत्यज्ञानां स्वादुनिषेधात् । जीवाद्यमेव नाश्नाति भगवान् । न तु नाश्नात्येव । ‘तस्येदमाहुः पिप्पलं स्वादु' इत्युक्तत्वात् । स्वातन्त्र्येणैव भोक्तृत्वाद् दुःखाभोगाच्च सर्वदा । अभोक्ता चैव भोक्ता च भगवान् विष्णुरव्ययः ।। इति च तत्त्वसारे ।।1।। नास्तीशोस्या यतोन्यो हि ततोनीशा हरेर्मतिः । तथा मुह्यति जीवस्तमन्यं ज्ञात्वा विमुच्यते ।। जीवादन्यः स्वतन्त्रोयं यतोतः पुरुषोत्तमः ।। इति ब्रह्मसारे । पुण्यं चानिष्टं विधूय ।।3।। सत्यो हि भगवान् विष्णुः सद्गुणत्वात् प्रकीर्तितः । आसुरास्तद्विरुद्धत्वादनृताः परिकीर्तिताः । तस्य विष्णोर्निधानं तु वैकुण्ठो लोक उत्तमः ।। इति च ।।6।। सर्वगत्वात् दूरेन्तिके च । नान्यैर्देवैर्हरिं पश्येत् ज्ञानरूपेण वायुना । ब्रह्मणा परमज्ञानरूपेण हरिणा तथा ।। प्रसन्नेनैव तं पश्येदन्येनुज्ञाप्रदायिनः ।। इति च । षोडशकलाशरीरो न भवतीति निष्कलः । ‘यदा पश्यः पश्यते रुग्मवर्णम्' ‘आनन्दरूपममृतं यद्विभाति' इत्युक्तत्वात् ।।5।। ।। इति तृतीयोध्यायः ।। स आत्मज्ञार्चको ब्रह्मणो धाम प्राणं वेद । यत्र विश्वं पूर्णं ब्रह्म निहितम् । प्रधानं धाम विष्णोस्तु प्राण एव प्रकीर्तितः । उपायैर्यो विजानीयात् प्राणस्थं परमेश्वरम् ।। तस्य प्राणे हरिर्नित्यमाविष्टो भवति ध्रुवम् । नित्यं प्राणस्थितस्यैव विष्णोरावेश एव हि ।। प्राणद्वारेण यज्ज्ञानदीपनं ज्ञानिनः सदा । सन्निधानं यथा प्राप्ताः पिशाचाः पुरुषेष्वपि ।। तत्र स्थित्वापि भुञ्जन्त आविशेयुः पुनश्च ते । मन्त्रादिभिस्तथा विष्णुः सदा प्राणस्थितोपि सन् ।। ज्ञानदीप्त्यादिकं कुर्याज्ज्ञानिनः पुनरेव तु ।। इति च ।। एतच्छुक्रं प्रत्यन्यदतिवर्तन्ते ।।1।। सर्वतो देहादेर्मुक्ताः । सर्वगं भगवन्तं प्राप्य तमेवापियन्ति । देहादेः सर्वतो मुक्ताः सर्वगं पुरुषोत्तमम् । प्राप्य तस्मिन् प्रविश्याथ मोदन्तेन्तर्बहिस्तथा ।। इति च ।। ब्रह्मलोकेषु स्थित्वा परान्तकाले परिमुच्यन्ति ।।6।। अविरोधश्च सादृश्यमेकदेशस्थितिस्तथा । एकीभावस्त्रिधा प्रोक्तो नैकीभावः स्वरूपयोः ।। कुतोभूतस्य भवनं स्वरूपस्यैक्यमेव हि । अतो नदीनां जीवानां विरुद्धानां नृणामपि ।। अब्धिना हरिणा चैव तथैव च नरान्तरैः । एकीभावस्तु संश्लेषो विरोधस्य च वर्जनम् ।। स्वरूपैक्यं कुतस्तेषां नित्यभिन्नस्वरूपिणाम् । हरेरपि स्वरूपाणामेकीभावो यदोच्यते ।। संश्लेष एव सिद्धत्वात् स्वरूपैक्यस्य नो भवः ।। इति च । गताः मुक्ताः । प्राणादिपञ्चदशकलारूपा देवताः अन्ये च देवाः सर्वे प्रतिदेवतासु देवताप्रतिबिम्बभूतासु प्रजासु प्रति प्रति स्थिताः कर्माणि विज्ञानमयो जीवश्च परमात्मनि प्रविशन्ति । प्रतिबिम्बो हरेः प्राणस्तस्य चान्याः कलाः क्रमात् । कलानां देवता अन्या देवतानां नरा अपि ।। तस्मात् सर्वेषु मुक्तेषु नरेष्वपि नियामकाः । तिष्ठन्ति नात्र सन्देहः परमात्मनि चाखलिाः ।। इति मुक्तिविवेके ।। कलाभ्यश्चान्यदेवेभ्यः कर्म प्रत्यवरं यतः । कलाभ्यः पृथगुक्तं तत् पुष्करः कर्म चोच्यते ।। इति च । अन्यथा गता भविष्यन्तीत्यध्याहारो दोषः । न च मूलरूपाणि प्रतिदेवता इत्युच्यन्ते देवानाम् । प्रतिरूपशब्दवद्धइ प्रतिदेवताशब्दः । ‘विज्ञानात्मा सह देवैश्च सर्वैः प्राणा भूतानि सम्प्रतिष्ठन्ति यत्र' ‘इमाः षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति' इति ‘यथा सोम्येमाः समुद्रायणाः' इति नदीदृष्टान्तपूर्वकं पुरुषप्राप्तिकथनाच्च मुक्ता देवता एवोच्यन्ते । ‘स प्राणमसृजत' इत्यादेश्च पुरुषो भगवान् ।।7।। अगम्यनामरूपत्वादमुक्तैर्मुक्तिगा नराः । विहीननामरूपास्तु न हि तद्रहितत्वतः ।। अशरीरो यथा वायुः सामान्यागम्यदेहतः । एवं नद्यः समुद्रस्थाः सामान्यागम्यरूपतः ।। इति च । स्वकीयमुदकं नद्यः समुद्रे नैव जानते । वायुस्तु तत्पृथग्ज्ञात्वा मेघे कृत्वा प्रवर्षति ।। इति च । विमुक्त इत्यमुक्त इत्यर्थः । विप्रिय इतिवत् । अविहायेति च । ‘अनन्तं वै नाम' इति श्रुतेः ।।8।। परं ब्रह्म विदित्वा तु बृंहितः स्यात् स्वयोग्यतः । नायोग्यं किञ्चिदाप्नोति कुत एव हरेर्गुणान् ।। इति च । ब्रह्मत्वं बृंहितत्वं स्याज्जीवानां न परात्मता । अस्वतन्त्रस्य जीवस्य कुतो नित्यस्वतन्त्रता ।। इति स्कान्दे । ‘यत्रामृतः स पुरुषो ह्यव्ययात्मा' ‘यत्र तत्सत्यस्य परमं निधानम्' ‘अमृतस्यैष सेतुः' ‘शरवत् तन्मयो भवेत्' ‘ब्रह्म तल्लक्ष्यमुच्यते' ‘निरञ्जनः परमं साम्यमुपैति' इत्यादिना मुक्तस्य सर्वत्र भगवत्सकाशाद्भेदस्यैवोक्तत्वाच्च । ‘मुक्तोपसृप्यव्यपदेशात्' ‘जगद्य्वापारवर्जम्' ‘प्रकरणादसन्निहितत्वाच्च' इत्यादिना भगवतापि सर्वत्र भेदस्यैव सूचितत्वात् । न ते महित्वमन्वश्नुवन्ति । ‘सोश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता' ब्रह्मेशानादिभिर्देवैर्यत्प्राप्तुं नैव शक्यते । तद्यत्स्वभावः कैवल्यं स भवान् केवलो हरे ।। इत्यादेश्च । मुक्तेभ्योपि मनुष्येभ्यो देवा एव गुणाधिकाः । तेभ्यो वायुस्ततो विष्णुः परिपूर्णगुणः सदा ।। ये त्वेतदन्यथा विद्युस्ते हि यान्त्यधरं तमः । ये त्वेतदेवं जानन्ति ते यान्ति परमं हरिम् ।। इति च । देवानां सन्ततौ जाताः प्रायशो ज्ञानिनः कृते । बलवद्धेतुतश्चान्ये यस्माद् ब्रह्मविदः सुराः ।। न सन्ततौ ब्रह्मविदो नराणां ज्ञानिनामिप । प्रायशः स्युः सुराणां च नियमोयं कृते युगे ।। तस्मात् स भगवान् विष्णुर्ज्ञेयः सर्वोत्तमोत्तमः । सदा सर्वगुणैः पूर्णो योनन्तः पुरुषोत्तमः ।। इति च । प्रीयतां भगवान् मह्यं प्रेष्ठप्रेष्ठतमः सदा । मम नित्यं नमाम्येनं परमोदारसद्गुणम् ।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं आथर्वणोपनिषद्भाष्यम् ।। ## अथर्वणोपनिषत् ### १ ब्रह्मा देवानां प्रथमः सम्बभूव विश्वस्य कर्ता भुवनस्य गोप्ता । स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह ।।1।। अथर्वणे यां प्रवदेत ब्रह्माथर्वा तां पुरोवाचाङ्गिरे ब्रह्मविद्याम् । स भारद्वाजाय सत्यवहाय प्राह भारद्वाजोङ्गिरसे परावराम् ।।2।। शौनको ह वै महाशालोङ्गिरसं विधिवदुपसन्नः पप्रच्छ । कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति ।।3।। तस्मै स होवाच । द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदो वदन्ति । परा चैवापरा च ।।4।। तत्रापरा । ऋग्वेदो यजुर्वेदः सामवेदोथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति । अथ परा यया तदक्षरमधिगम्यते ।।5।। यत् तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादम् । नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः ।।6।। यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः सम्भवन्ति । यथा सतः पुरुषात् केशलोमानि तथाक्षरात् सम्भवतीह विश्वम् ।।7।। तपसा चीयते ब्रह्म ततोन्नमभिजायते । अन्नात् प्राणो मनः सत्यं लोकाः कर्मसु चामृतम् ।।8।। यस्सर्वज्ञः सर्ववित् यस्य ज्ञानमयं तपः । तस्मादेतद् ब्रह्म नाम रूपमन्नं च जायते ।।9।। ।। इति प्रथमखण्डः ।। तदेतत् सत्यम् । मन्त्रेषु कर्माणि कवयो यान्यपश्यंस्तानि त्रेतायां बहुधा सन्ततानि । तान्याचरथ नियतं सत्यकामा एष वः पन्थाः सुकृतस्य लोके ।।1।। यदा लेलायते ह्यर्चिः समिद्धे हव्यवाहने । तदाज्यभागावन्तरेणाहुतीः प्रतिपादयेत् ।।2।। यस्याग्निहोत्रमदर्शमपौर्णमासमनाग्रयणमतिथिवर्जितं च । अहुतमवैश्वदेवमविधिना हुतमासप्तमांस्तस्य लोकान् हिनस्ति ।।3।। काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा । स्फुलिङ्गिनी विश्वरुची च देवी लेलायमाना इति सप्त जिह्वाः ।।4।। एतेषु यश्चरते भ्राजमानेषु यथाकालं चाहुतयो ह्याददायन् । तं नयन्त्येताः सूर्यस्य रश्मयो यत्र देवानां पतिरेकोधिवासः ।।5।। एह्येहीति तमाहुतयः सुवर्चसः सूर्यस्य रश्मिभिर्यजमानं वहन्ति । प्रियां वाचमभिवदन्त्योर्चयन्त्य एष वः पुण्यः सुकृतो ब्रह्मलोकः ।।6।। प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येतु कर्म । एतच्छ्रेयो येभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापियन्ति ।।7 ।। अविद्यायामन्तरे वेष्ट्यमानाः स्वयं धीराः पण्डितम्मन्यमानाः । जङ्घन्यमानाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः ।।8।। अविद्यायां बहुधाः वर्तमाना वयं कृतार्था इत्यभिमन्यन्ति बालाः । यत् कर्मिणो न प्रवेदयन्ति रागात् तेनातुराः क्षीणलोकाश्च्यवन्ते ।।9।। इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः । नाकस्य पृष्ठे ते सुकृतेनुभूत्वा इमं लोकं हीनतरं वा विशन्ति ।।10।। तपःश्रद्धे येभ्युपवसन्त्यरण्ये शान्ता विद्वांसो भैक्षचर्यां चरन्तः । सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुरुषो ह्यव्ययात्मा ।।11।। परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात् नास्त्यकृतः कृतेन । तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ।।12।। तस्मै स विद्वानुपसन्नाय सम्यक् प्रशान्तचित्ताय शमान्विताय । येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् ।।13।। इति प्रथमाध्यायः ।। ### २ तदेतत् सत्यम् । यथा सुदीप्तात् पावकात् विष्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः । तथाक्षरात् विविधाः सोम्य भावाः प्रजायन्ते तत्र चैवापियन्ति ।।1।। दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः । अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात् परतः परः ।।2।। एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ।।3।। अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग् विवृताश्च वेदाः । वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा ।।4।। तस्मादग्निः समिधो यश्च सूर्यः सोमात् पर्जन्यौषधयः पृथिव्याम् । पुमान् रेतः सिञ्चति योषितायां बह्वीः प्रजाः पुरुषात् सम्प्रसूताः ।।5।। तस्मादृचः साम यजूंषि दीक्षा यज्ञाश्च सर्वे क्रतवो दक्षिणाश्च । संवत्सरश्च यजमानश्च लोकाः सोमो यत्र पवते यत्र सूर्यः ।।6।। तस्माच्च देवा बहुधा सम्प्रसूताः साध्या मनुष्याः पशवो वयांसि । प्राणापानौ व्रीहियवौ तपश्च श्रद्धा सत्यं ब्रह्मचर्यं विधिश्च ।।7।। सप्त प्राणाः प्रभवन्ति तस्मात् सप्तार्चिषः समिधः सप्त होमाः । इमे लोकाः येषु चरन्ति प्राणा गुहाशयां निहिताः सप्त सप्त ।।8।। सर्वे समुद्राः गिरयश्च सर्वेस्मात् स्यन्दन्ते सिन्धवः सर्वरूपाः । अतश्च सर्वा ओषधयो रसाश्च येनैव भूतैस्तिष्ठते ह्यन्तरात्मा ।।9।। पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम् । एतद् यो वेद निहितं गुहायां सोविद्याग्रन्थिं विकिरति ह सोम्य ।।10।। इति प्रथमः खण्डः ।। आविः सन्निहितं गुहाचरं नाम महत् पदम् । अत्रैतत् सर्वमर्पितमेजत् प्राणन्निमिषच्च यत् ।।1।। एतज्जानथ सदसद्वरेण्यं परं विज्ञानाद् यद्वरिष्ठं प्रजानाम् । यदचिमद् यदणुभ्योणु च यस्मिंल्लोका निहिता लोकिनश्च ।।2।। तदेतक्षरं ब्रह्म स प्राणस्तदु वाङ्मनः । तदेतत् सत्यं तदमृतं तद् वेद्धव्यं सोम्य विद्धि ।।3।। धनुर्गृहीत्वोपनिषदं महास्त्रं शरं ह्युपासानिशितं सन्दधीत । आयम्य तद्भावगतेन चेतसा लक्ष्यं तदेवाक्षरं सोम्य विद्धि ।।4।। प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते । अप्रमत्तेन वेद्धव्यं शरवत् तन्मयो भवेत् ।।5।। यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः । तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुः ।।6।। अरा इव रथनाभौ संहता यत्र नाड्यः । स एषोन्तश्चरते बहुधा जायमानः ।।7।। ओमित्येवं ध्यायत आत्मानं स्वस्तिवः पराय तमसः परस्तात् ।।8।। यः सर्वज्ञः सर्वविद् यस्यैष महिमा भुवि । दिव्ये ब्रह्मपुरे ह्येष व्योम्यात्मा प्रतिष्ठितः ।।9।। मनोमयः प्राणशरीरनेता प्रतिष्ठितोन्ने हृदयं सन्निधाय । तद् विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममृतं यद् विभाति ।।10।। भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ।।11।। हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् । तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः ।।12।। न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ।।13।। ब्रह्मैवेदममृतं पुरस्तात् पश्चात् ब्रह्म दक्षिणतश्चोत्तरेण । अधश्चोर्ध्वं च प्रसृतं ब्रह्मैवेदं विश्वमिदं वरिष्ठम् ।।14।। इति द्वितीयोध्यायः ।। ### ३ द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति ।।1।। समाने वृक्षे पुरुषो निमग्नोनीशया शोचति मुह्यमानः । जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः ।।2।। यदा पश्यः पश्यते रूग्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ।।3।। प्राणो ह्येष सर्वभूतैर्विभाति विजानन् विद्वान् भवते नातिवादी । आत्मक्रीड आत्मरतिः क्रियावानेष ब्रह्मविदां वरिष्ठः ।।4।। सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम् । अन्तःशरीरे ज्योतिर्मयो हि शुभ्रो यं पश्यन्ति यतयः क्षीणदोषाः ।।5।। सत्यमेव जयति नानृतं सत्येन विततो देवयानः । येनाक्रमन्त्यृषयो ह्याप्तकामा यत्र तत् सत्यस्य परमं निधानम् ।।6।। बृहच्च तद् दिव्यमचिन्त्यरूपं सूक्ष्माच्च तत् सूक्ष्मतरं विभाति । दूरात् सुदूरे तदिहान्तिके च पश्यस्त्विहैव निहितं गुहायाम् ।।7।। न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा । ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः ।।8।। एषोणुरात्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा संविवेश । प्राणैश्चित्तं सर्वमोतं प्रजानां यस्मिन् विशुद्धे विभवत्येष आत्मा ।।9।। यं यं लोकं मनसा संविभाति विशुद्धसत्त्वः कामयते यांश्च कामान् । तं तं लोकं जयते तांश्च कामांस्तस्मादात्मज्ञं ह्यर्चयेत् भूतिकामः ।।10।। इति तृतीयोध्यायः ।। ### ४ स वेदैतत् परमं ब्रह्मधाम यत्र विश्वं निहितं भाति शुभ्रम् । उपासते पुरुषं ये ह्यकामास्ते शुक्रमेतदतिवर्तन्ति धीराः ।।1।। कामान् यः कामयते मन्यमानः स कामभिर्जायते तत्र तत्र । पर्याप्तकामस्य कृतात्मनश्च इहैव सर्वे प्रविलीयन्ति कामाः ।।2।। नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् ।।3।। नायमात्मा बलहीनेन लभ्यो न च प्रमादात् तपसो वाप्यलिङ्गात् । एतैरुपायैर्यतते यस्तु विद्वांस्तस्यैष आत्मा विशते ब्रह्मधाम ।।4।। सम्प्राप्यैनमृषयो ज्ञानतृप्ताः कृतात्मानो वीतरागाः प्रशान्ताः । ते सर्वगं सर्वतः प्राप्य धीराः मुक्तात्मानः सर्वमेवापियन्ति ।।5।। वेदान्तविज्ञानसुनिश्चितार्थाः सन्यासयोगात् यतयः शुद्धसत्त्वाः । ते ब्रह्मलोकेषु परान्तकाले परामृतात् परिमुच्यन्ति सर्वे ।।6।। गताः कलाः पञ्चदश प्रतिष्ठा देवाश्च सर्वे प्रतिदेवतासु । कर्माणि विज्ञानमयश्च आत्मा परेव्यये सर्व एकीभवन्ति ।।7।। यथा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति नामरूपेविहाय । तथा विद्वान्नामरूपाद् विमुक्तः परात् परं पुरुषमुपैति दिव्यम् ।।8।। स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति नास्याब्रह्मवित् कुले भवति । तरति शोकं तरति पाप्मानं गुहाग्रन्थिभ्यो विमुक्तोमृतो भवति ।।9।। तदेष श्लोकः । क्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठाः स्वयं जुह्वत एकर्षीन् श्रद्धयन्तः । तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद् यैस्तु चीर्णम् ।।10।। तदेतत् सत्यमृषिरङ्गिराः पुरोवाच । नैतदचीर्णव्रतोधीते ।।11।। ॐ नमः परमऋषिभ्यो नमः परमऋषिभ्यः ।। इति चतुर्थोध्यायः ।। इति अथर्वणोपनिषत् ।।