Skandapurāṇa Peter Pasedach Conversion from the original TeX-files NWO P. C. Bisschop SARIT: Search and Retrieval of Indic Texts

Distributed under a Creative Commons Attribution-ShareAlike 4.0 International licence.

2017
The Skandapurāṇa. Vol. I. Adhyāyas 1-25. Critically Edited with Prolegomena and English Synopsis Adriaensen, R., H.T. Bakker and H. Isaacson Egbert Forsten Groningen 1998 The Skandapurāṇa. Vol. IIA. Adhyāyas 26-31.14. The Vārāṇasī Cycle. Critical Edition with an Introduction, English Synopsis & Philological and Historical Commentary. Bakker, Hans T., and Harunaga Isaacson Egbert Forsten Groningen 2005 Used for Adhyāyas 26-30 The Skandapurāṇa. Vol. IIB. Adhyāyas 31-52. The Vāhana and Naraka Cycles. Critical Edition with an Introduction & Annotated English Synopsis Bakker, Hans T., Peter C. Bisschop and Yuko Yokochi Brill Leiden/Boston 2014 In cooperation with Nina Mirnig and Judit Törzsök. The Skandapurāṇa. Vol.III. Adhyāyas 34.1-61, 53-69. The Vindhyavāsinī Cycle. Critical Edition with an Introduction & Annotated English Synopsis. Yokochi, Yuko Brill & Egbert Forsten Leiden/Groningen 2013

The edition of the Skandapurāṇa is an ongoing project, so far the first 69 Adhyāyas have been covered. As further volumes are published this file will be extended. This file is based on the e-text generated on February 22, 2017 from the original TeX-files of the edition, available on the Skandapurāṇa Project Website, http://hum.leiden.edu/lias/skandapurana-project . Further converted to TEI on July 1, 2017. It contains only the accepted reading, the critical apparatus is not included.

File created.
नमः परमदेवाय त्रैगुण्याविजितात्मने | सर्वतो योगरूपाय संसाराभावहेतवे || १ || स्थितिसंरोधसर्गाणां हेतवे ऽन्तःप्रसारिणे | षड्विंशाय प्रधानाय महादेवाय धीमते || २ || प्रजापतेर्महाक्षेत्रे गङ्गाकालिन्दिसंगमे | प्रयागे परमे पुण्ये ब्रह्मणो लोकवर्त्मनि || ३ || मुनयः संशितात्मानस्तपसा क्षीणकल्मषाः | तीर्थसंप्लवनार्थाय पौर्णमास्यां कृताह्निकाः || ४ || पौराणिकमपश्यन्त सूतं सत्यपरायणम् | स्नात्वा तस्मिन्महातीर्थे प्रणामार्थमुपागतम् || ५ || दृष्ट्वा ते सूतमायान्तमृषयो हृष्टमानसाः | आशास्यासनसंवेशं तद्योग्यं समकल्पयन् || ६ || स प्रणम्य च तान्सर्वान्सूतस्तान्मुनिपुंगवान् | प्रदत्तमासनं भेजे सर्वधर्मसमन्वितः || ७ || तमासीनमपृच्छन्त मुनयस्तपसैधिताः | ब्रह्मसत्त्रे पुरा साधो नैमिशारण्यवासिनाम् || ८ || कथितं भारताख्यानं पुराणं च परं त्वया | तेन नः प्रतिभासि त्वं साक्षात्सत्यवतीसुतः || ९ || सर्वागमपरार्थज्ञः सत्यधर्मपरायणः | द्विजपूजारतो नित्यं तेन पृच्छां त्वमर्हसि || १० || भारताख्यानसदृशं पुराणाद्यद्विशिष्यते | तत्त्वा पृच्छाम वै जन्म कार्त्तिकेयस्य धीमतः || ११ || इमे हि मुनयः सर्वे त्वदुपास्तिपरायणाः | स्कन्दसंभवशुश्रूषासंजातौत्सुक्यमानसाः || १२ || एवमुक्तस्तदा सूतः संसिद्धैर्मुनिपुंगवैः | प्रोवाचेदं मुनीन्सर्वान्वचो भूतार्थवाचकम् || १३ || शृणुध्वं मुनयः सर्वे कार्त्तिकेयस्य सम्भवम् | ब्रह्मण्यत्वं समाहात्म्यं वीर्यं च त्रिदशाधिकम् || १४ || मुमुक्षया परं स्थानं याते शुकमहात्मनि | सुतशोकाभिसंतप्तो व्यासस्त्र्यम्बकमैक्षत || १५ || दृष्ट्वैव स महेशानं व्यासो ऽभूद्विगतव्यथः | विचरन्स तदा लोकान्मुनिः सत्यवतीसुतः || १६ || मेरुशृङ्गे ऽथ ददृशे ब्रह्मणः सुतमग्रजम् | सनत्कुमारं वरदं योगैश्वर्यसमन्वितम् || १७ || विमाने रविसंकाशे तिष्ठन्तमनलप्रभम् | मुनिभिर्योगसंसिद्धैस्तपोयुक्तैर्महात्मभिः || १८ || वेदवेदाङ्गतत्त्वज्ञैः सर्वधर्मागमान्वितैः | सकलावाप्तविद्यैस्तु चतुर्वक्त्रमिवावृतम् || १९ || दृष्ट्वा तं सुमहात्मानं व्यासो मुनिमथास्थितम् | ववन्दे परया भक्त्या साक्षादिव पितामहम् || २० || ब्रह्मसूनुरथ व्यासं समायातं महौजसम् | परिष्वज्य परं प्रेम्णा प्रोवाच वचनं शुभम् || २१ || दिष्ट्या त्वमसि धर्मज्ञ प्रसादात्पारमेश्वरात् | अपेतशोकः सम्प्राप्तः पृच्छस्व प्रवदाम्यहम् || २२ || श्रुत्वाथ वचनं सूनोर्ब्रह्मणो मुनिपुंगवः | इदमाह वचो विप्राश्चिरं यद्धृदये स्थितम् || २३ || कुमारस्य कथं जन्म कार्त्तिकेयस्य धीमतः | किंनिमित्तं कुतो वास्य इच्छाम्येतद्धि वेदितुम् || २४ || कथं रुद्रसुतश्चासौ वह्निगङ्गासुतः कथम् | उमायास्तनयश्चैव स्वाहायाश्च कथं पुनः | सुपर्ण्याश्चाथ मातॄणां कृत्तिकानां कथं च सः || २५ || कश्चासौ पूर्वमुत्पन्नः किंतपाः कश्च विक्रमः | भूतसंमोहनं ह्येतत्कथयस्व यथातथम् || २६ ||

सूत उवाच |

एवं स पृष्टस्तेजस्वी ब्रह्मणः पुत्रसत्तमः | उवाच सर्वं सर्वज्ञो व्यासायाक्लिष्टकारिणे | तच्छृणुध्वं यथातत्त्वं कीर्त्यमानं मयानघाः || २७ || इति स्कन्दपुराणे प्रथमो ऽध्यायः ||

सनत्कुमार उवाच|

प्रपद्ये देवमीशानं सर्वज्ञमपराजितम् | महादेवं महात्मानं विश्वस्य जगतः पतिम् || १ || शक्तिरप्रतिघा यस्य ऐश्वर्यं चैव सर्वशः | स्वामित्वं च विभुत्वं च स्वकृतानि प्रचक्षते || २ || तस्मै देवाय सोमाय प्रणम्य प्रयतः शुचिः | पुराणाख्यानजिज्ञासोर्वक्ष्ये स्कन्दोद्भवं शुभम् || ३ || देहावतारो देवस्य रुद्रस्य परमात्मनः | प्राजापत्याभिषेकश्च हरणं शिरसस्तथा || ४ || दर्शनं षट्कुलीयानां चक्रस्य च विसर्जनम् | नैमिशस्योद्भवश्चैव सत्त्रस्य च समापनम् || ५ || ब्रह्मणश्चागमस्तत्र तपसश्चरणं तथा | शर्वस्य दर्शनं चैव देव्याश्चैव समुद्भवः || ६ || सत्या विवादश्च तथा दक्षशापस्तथैव च | मेनायां च यथोत्पत्तिर्यथा देव्याः स्वयंवरम् || ७ || देवानां वरदानं च वसिष्ठस्य च धीमतः | पराशरस्य चोत्पत्तिर्व्यासस्य च महात्मनः || ८ || वसिष्ठकौशिकाभ्यां च वैरोद्भवसमापनम् | वाराणस्याश्च शून्यत्वं क्षेत्रमाहात्म्यवर्णनम् || ९ || रुद्रस्य चात्र सांनिध्यं नन्दिनश्चाप्यनुग्रहः | गणानां दर्शनं चैव कथनं चाप्यशेषतः || १० || कालीव्याहरणं चैव तपश्चरणमेव च | सोमनन्दिसमाख्यानं वरदानं तथैव च || ११ || गौरीत्वं पुत्रलम्भश्च देव्या उत्पत्तिरेव च | कौशिक्या भूतमातृत्वं सिंहाश्च रथिनस्तथा || १२ || गौर्याश्च निलयो विन्ध्ये विन्ध्यसूर्यसमागमः | अगस्त्यस्य च माहात्म्यं वधः सुन्दनिसुन्दयोः || १३ || निसुम्भसुम्भनिर्याणं महिषस्य वधस्तथा | अभिषेकश्च कौशिक्या वरदानमथापि च || १४ || अन्धकस्य तथोत्पत्तिः पृथिव्याश्चैव बन्धनम् | हिरण्याक्षवधश्चैव हिरण्यकशिपोस्तथा || १५ || बलिसंयमनं चैव देव्याः समय एव च | देवानां गमनं चैव अग्नेर्दूतत्वमेव च || १६ || देवानां वरदानं च शुक्रस्य च विसर्जनम् | सुतस्य च तथोत्पत्तिर्देव्याश्चान्धकदर्शनम् || १७ || शैलादिदैत्यसंमर्दो देव्याश्च शतरूपता | आर्यावरप्रदानं च शैलादिस्तव एव च || १८ || देवस्यागमनं चैव वृत्तस्य कथनं तथा | पतिव्रतायाश्चाख्यानं गुरुशुश्रूषणस्य च || १९ || आख्यानं पञ्चचूडायास्तेजसश्चाप्यधृष्यता | दूतस्यागमनं चैव संवादो ऽथ विसर्जनम् || २० || अन्धकासुरसंवादो मन्दरागमनं तथा | गणानामागमश्चैव संख्यानश्रवणं तथा || २१ || निग्रहश्चान्धकस्याथ युद्धेन महता तथा | शरीरार्धप्रदानं च अशोकसुतसंग्रहः || २२ || भस्मसोमोद्भवश्चैव श्मशानवसतिस्तथा | रुद्रस्य नीलकण्ठत्वं तथायतनवर्णनम् || २३ || उत्पत्तिर्यक्षराजस्य कुबेरस्य च धीमतः | निग्रहो भुजगेन्द्राणां शिखरस्य च पातनम् || २४ || त्रैलोक्यस्य सशक्रस्य वशीकरणमेव च | देवसेनाप्रदानं च सेनापत्याभिषेचनम् || २५ || नारदस्यागमश्चैव तारकप्रेषितस्य ह | वधश्च तारकस्योग्रो यात्रा भद्रवटस्य च || २६ || महिषस्य वधश्चैव क्रौञ्चस्य च निबर्हणम् | शक्तेरुद्धरणं चैव तारकस्य वधः शुभः || २७ || देवासुरभयोत्पत्तिस्त्रैपुरं युद्धमेव च | प्रह्लादविग्रहश्चैव कृतघ्नाख्यानमेव च | महाभाग्यं ब्राह्मणानां विस्तरेण प्रकीर्त्यते || २८ || एतज्ज्ञात्वा यथावद्धि कुमारानुचरो भवेत् | बलवान्मतिसम्पन्नः पुत्रं चाप्नोति संमतम् || २९ || इति स्कन्दपुराणे द्वितीयो ऽध्यायः ||

सनत्कुमार उवाच |

शृणुष्वेमां कथां दिव्यां सर्वपापप्रणाशनीम् | कथ्यमानां मया चित्रां बह्वर्थां श्रुतिसंमिताम् | यां श्रुत्वा पापकर्मापि गच्छेच्च परमां गतिम् || १ || न नास्तिकाश्रद्दधाने शठे चापि कथंचन | इमां कथामनुब्रूयात्तथा चासूयके नरे || २ || इदं पुत्राय शिष्याय धार्मिकायानसूयवे | कथनीयं महाब्रह्मन्देवभक्ताय वा भवेत् | कुमारभक्ताय तथा श्रद्दधानाय चैव हि || ३ || पुरा ब्रह्मा प्रजाध्यक्षः अण्डे ऽस्मिन्सम्प्रसूयते | सो ऽज्ञानात्पितरं ब्रह्मा न वेद तमसावृतः || ४ || अहमेक इति ज्ञात्वा सर्वांल् लोकानवैक्षत | न चापश्यत तत्रान्यं तपोयोगबलान्वितः || ५ || पुत्र पुत्रेति चाप्युक्तो ब्रह्मा शर्वेण धीमता | प्रणतः प्राञ्जलिर्भूत्वा तमेव शरणं गतः || ६ || स दत्त्वा ब्रह्मणे शम्भुः स्रष्टृत्वं ज्ञानसंहितम् | विभुत्वं चैव लोकानामन्तर्धे परमेश्वरः || ७ || तदेषोपनिषत्प्रोक्ता मया व्यास सनातना | यां श्रुत्वा योगिनो ध्यानात्प्रपद्यन्ते महेश्वरम् || ८ || ब्रह्मं च यो विदधे पुत्रमग्रे ज्ञानं च यः प्रहिणोति स्म तस्मै | तमात्मस्थं ये ऽनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम् || ९ || स व्यास पितरं दृष्ट्वा स्वदीप्त्या परया युतम् | पुत्रकामः प्रजाहेतोस्तपस्तीव्रं चकार ह || १० || महता योगतपसा युक्तस्य सुमहात्मनः | अचिरेणैव कालेन पिता सम्प्रतुतोष ह || ११ || दर्शनं चागमत्तस्य वरदो ऽस्मीत्युवाच ह | स तुष्टाव नतो भूत्वा कृत्वा शिरसि चाञ्जलिम् || १२ || नमः परमदेवाय देवानामपि वेधसे | स्रष्ट्रे वै लोकतन्त्राय ब्रह्मणः पतये नमः || १३ || एकस्मै शक्तियुक्ताय अशक्तिरहिताय च | अनन्तायाप्रमेयाय इन्द्रियाविषयाय च || १४ || व्यापिने व्याप्तपूर्वाय अधिष्ठात्रे प्रचोदिने | कृतप्रचेतनायैव तत्त्वविन्यासकारिणे || १५ || प्रधानचोदकायैव गुणिनां शान्तिदाय च | दृष्टिदाय च सर्वेषां स्वयं वै दर्शनाय च || १६ || विषयग्राहिणे चैव नियमस्य च कारिणे | मनसः करणानां च तत्रैव नियमस्य च || १७ || भूतानां गुणकर्त्रे च शक्तिदाय तथैव च | कर्त्रे ह्यण्डस्य मह्यं च अचिन्त्यायाग्रजाय च | अप्रमेय पितर्नित्यं प्रीतो नो दिश शक्वरीम् || १८ || तस्यैवं स्तुवतो व्यास देवदेवो महेश्वरः | तुष्टो ऽब्रवीत्स्वयं पुत्रं ब्रह्माणं प्रणतं तथा || १९ || यस्मात्ते विदितं वत्स सूक्ष्ममेतन्महाद्युते | तस्माद्ब्रह्मेति लोकेषु नाम्ना ख्यातिं गमिष्यसि || २० || यस्माच्चाहं पितेत्युक्तस्त्वया बुद्धिमतां वर | तस्मात्पितामहत्वं ते लोके ख्यातिं गमिष्यति || २१ || प्रजार्थं यच्च ते तप्तं तप उग्रं सुदुश्चरम् | तस्मात्प्रजापतित्वं ते ददानि प्रयतात्मने || २२ || एवमुक्त्वा स देवेशो मूर्तिमत्यो ऽसृजत्स्त्रियः | यास्ताः प्रकृतयस्त्वष्टौ विशेषाश्चेन्द्रियैः सह | भावाश्च सर्वे ते देवमुपतस्थुः स्वरूपिणः || २३ || तानुवाच ततो देवः पतिर्युक्तः स्वतेजसा | एतमद्याभिषेकेण सम्पादयत मा चिरम् || २४ || ताभिः स्वं स्वं समादाय भावं दिव्यमतर्कितम् | अभिषिक्तो बभूवेति प्रजापतिरतिद्युतिः || २५ || तत्रैवं योगिनः सूक्ष्मं दृष्ट्वा दिव्येन चक्षुषा | पुराणं योगतत्त्वज्ञा गायन्ति त्रिगुणान्वितम् || २६ || रुद्रः स्रष्टा हि सर्वेषां भूतानां तव च प्रभो | अस्माभिश्च भवान्सार्धं जगतः सम्प्रवर्तकः || २७ || स देवस्तोषितः सम्यक्परमैश्वर्ययोगधृक् | ब्रह्माणमग्रजं पुत्रं प्राजापत्ये ऽभ्यषेचयत् || २८ || यः कृत्वा बहुविधमार्गयोगयुक्तं तत्त्वाख्यं जगदिदमादराद्युयोज | †देवानां परममनन्तयोगयुक्तं† मायाभिस्त्रिभुवनमन्धमप्रसादम् || २९ || सर्वेषां मनसि सदावतिष्ठमानो जानानः शुभमशुभं च भूतनाथः | तं देवं प्रमथपतिं प्रणम्य भक्त्या नित्यं वै शरणमुपैमि सूक्ष्मसूक्ष्मम् || ३० || इति स्कन्दपुराणे तृतीयो ऽध्यायः ||

सनत्कुमार उवाच |

प्राजापत्यं ततो लब्ध्वा प्रजाः स्रष्टुं प्रचक्रमे | प्रजास्ताः सृज्यमानाश्च न विवर्धन्ति तस्य ह || १ || स कुर्वाणस्तथा सृष्टिं शक्तिहीनः पितामहः | सृष्ट्यर्थं भूय एवाथ तपश्चर्तुं प्रचक्रमे || २ || सृष्टिहेतोस्तपस्तस्य ज्ञात्वा त्रिभुवनेश्वरः | तेजसा जगदाविश्य आजगाम तदन्तिकम् | स्रष्टा तस्य जगन्नाथो ऽदर्शयत्स्वतनौ जगत् || ३ || स्वयमागत्य देवेशो महाभूतपतिर्हरः | व्याप्येव हि जगत्कृत्स्नं परमेण स्वतेजसा | शम्भुः प्राह वरं वत्स याचस्वेति पितामहम् || ४ || तं ब्रह्मा लोकसृष्ट्यर्थं पुत्रस्त्वं मनसाब्रवीत् | स ज्ञात्वा तस्य संकल्पं ब्रह्मणः परमेश्वरः | मूढो ऽयमिति संचिन्त्य प्रोवाच वरदः स्वयम् || ५ || आगतं पितरं मा त्वं यस्मात्पुत्रं समीहसे | मन्मूर्तिस्तनयस्तस्माद्भविष्यति ममाज्ञया || ६ || स च ते पुत्रतां यात्वा मदीयो गणनायकः | रुद्रो विग्रहवान्भूत्वा मूढ त्वां विनयिष्यति || ७ || सर्वविद्याधिपत्यं च योगानां चैव सर्वशः | बलस्याधिपतित्वं च अस्त्राणां च प्रयोक्तृता || ८ || मया दत्तानि तस्याशु उपस्थास्यन्ति सर्वशः | धनुः पिनाकं शूलं च खड्गं परशुरेव च || ९ || कमण्डलुस्तथा दण्डः अस्त्रं पाशुपतं तथा | संवर्तकाशनिश्चैव चक्रं च प्रतिसर्गिकम् | एवं सर्वर्द्धिसम्पन्नः सुतस्ते स भविष्यति || १० || एवमुक्त्वा गते तस्मिन्नन्तर्धानं महात्मनि | ब्रह्मा चक्रे तदा चेष्टिं पुत्रकामः प्रजापतिः || ११ || स जुह्वञ्छ्रमसंयुक्तः प्रतिघातसमन्वितः | समिद्युक्तेन हस्तेन ललाटं प्रममार्ज ह || १२ || समित्संयोगजस्तस्य स्वेदबिन्दुर्ललाटजः | पपात ज्वलने तस्मिन्द्विगुणं तस्य तेजसा || १३ || तद्धि माहेश्वरं तेजः संधितं ब्रह्मणि स्रुतम् | प्रेरितं देवदेवेन निपपात हविर्भुजि || १४ || क्षणे तस्मिन्महेशेन स्मृत्वा तं वरमुत्तमम् | प्रेषितो गणपो रुद्रः सद्य एवाभवत्तदा || १५ || तच्च संस्वेदजं तेजः पूर्वं ज्वलनयोजितम् | भूत्वा लोहितमाश्वेव पुनर्नीलमभूत्तदा || १६ || नीललोहित इत्येव तेनासावभवत्प्रभुः | त्र्यक्षो दशभुजः श्रीमान्ब्रह्माणं छादयन्निव || १७ || शर्वाद्यैर्नामभिर्ब्रह्मा तनूभिश्च जलादिभिः | स्तुत्वा तं सर्वगं देवं नीललोहितमव्ययम् || १८ || ज्ञात्वा सर्वसृजं पश्चान्महाभूतप्रतिष्ठितम् | असृजद्विविधास्त्वन्याः प्रजाः स जगति प्रभुः || १९ || सो ऽपि योगं समास्थाय ऐश्वर्येण समन्वितः | लोकान्सर्वान्समाविश्य धारयामास सर्वदा || २० || ब्रह्मणो ऽपि ततः पुत्रा दक्षधर्मादयः शुभाः | असृजन्त प्रजाः सर्वा देवमानुषसंकुलाः || २१ || अथ कालेन महता कल्पे ऽतीते पुनः पुनः | प्रजा धारयतो योगादस्मिन्कल्प उपस्थिते || २२ || प्रतिष्ठितायां वार्त्तायां प्रवृत्ते वृष्टिसर्जने | प्रजासु च विवृद्धासु प्रयागे यजतश्च ह || २३ || ब्रह्मणः षट्कुलीयास्ते ऋषयः संशितव्रताः | मरीचयो ऽत्रयश्चैव वसिष्ठाः क्रतवस्तथा || २४ || भृगवो ऽङ्गिरसश्चैव तपसा दग्धकिल्बिषाः | ऊचुर्ब्रह्माणमभ्येत्य सहिताः कर्मणो ऽन्तरे || २५ || भगवन्नन्धकारेण महता स्मः समावृताः | खिन्ना विवदमानाश्च न च पश्याम यत्परम् || २६ || एतं नः संशयं देव चिरं हृदि समास्थितम् | त्वं हि वेत्थ यथातत्त्वं कारणं परमं हि नः || २७ || किं परं सर्वभूतानां बलीयश्चापि सर्वतः | केन चाधिष्ठितं विश्वं को नित्यः कश्च शाश्वतः || २८ || कः स्रष्टा सर्वभूतानां प्रकृतेश्च प्रवर्तकः | को ऽस्मान्सर्वेषु कार्येषु प्रयुनक्ति महामनाः || २९ || कस्य भूतानि वश्यानि कः सर्वविनियोजकः | कथं पश्येम तं चैव एतन्नः शंस सर्वशः || ३० || एवमुक्तस्ततो ब्रह्मा सर्वेषामेव संनिधौ | देवानां च ऋषीणां च गन्धर्वोरगरक्षसाम् || ३१ || यक्षाणामसुराणां च ये च कुत्र प्रवर्तकाः | पक्षिणां सपिशाचानां ये चान्ये तत्समीपगाः | उत्थाय प्राञ्जलिः प्राह रुद्रेति त्रिः प्लुतं वचः || ३२ || स चापि तपसा शक्यो द्रष्टुं नान्येन केनचित् | स स्रष्टा सर्वभूतानां बलवांस्तन्मयं जगत् | तस्य वश्यानि भूतानि तेनेदं धार्यते जगत् || ३३ || ततस्ते सर्वलोकेशा नमश्चक्रुर्महात्मने || ३४ ||

ऋषय ऊचुः |

किं तन्महत्तपो देव येन दृश्येत स प्रभुः | तन्नो वदस्व देवेश वरदं चाभिधत्स्व नः || ३५ ||

पितामह उवाच |

सत्त्रं महत्समासध्वं वाङ्मनोदोषवर्जिताः | देशं च वः प्रवक्ष्यामि यस्मिन्देशे चरिष्यथ || ३६ || ततो मनोमयं चक्रं स सृष्ट्वा तानुवाच ह | क्षिप्तमेतन्मया चक्रमनुव्रजत मा चिरम् || ३७ || यत्रास्य नेमिः शीर्येत स देशस्तपसः शुभः | ततो मुमोच तच्चक्रं ते च तत्समनुव्रजन् || ३८ || तस्य वै व्रजतः क्षिप्रं यत्र नेमिरशीर्यत | नैमिशं तत्स्मृतं नाम्ना पुण्यं सर्वत्र पूजितम् || ३९ || तत्पूजितं देवमनुष्यसिद्धै रक्षोभिरुग्रैरुरगैश्च दिव्यैः | यक्षैः सगन्धर्वपिशाचसंघैः सर्वाप्सरोभिश्च दितेः सुतैश्च || ४० || विप्रैश्च दान्तैः शमयोगयुक्तैस्तीर्थैश्च सर्वैरपि चावनीध्रैः | गन्धर्वविद्याधरचारणैश्च साध्यैश्च विश्वैः पितृभिः स्तुतं च || ४१ || इति स्कन्दपुराणे चतुर्थो ऽध्यायः ||

सनत्कुमार उवाच |

तन्नैमिशं समासाद्य ऋषयो दीप्ततेजसः | दिव्यं सत्त्रं समासन्त महद्वर्षसहस्रिकम् || १ || एकाग्रमनसः सर्वे निर्ममा ह्यनहंकृताः | ध्यायन्तो नित्यमीशेशं सदारतनयाग्नयः || २ || तन्निष्ठास्तत्पराः सर्वे तद्युक्तास्तदपाश्रयाः | सर्वक्रियाः प्रकुर्वाणास्तमेव मनसा गताः || ३ || तेषां तं भावमालक्ष्य मातरिश्वा महातपाः | सर्वप्राणिचरः श्रीमान्सर्वभूतप्रवर्तकः | ददौ स रूपी भगवान्दर्शनं सत्त्रिणां शुभः || ४ || तं ते दृष्ट्वार्चयित्वा च मातरिश्वानमव्ययम् | आसीनमासने पुण्ये ऋषयः संशितव्रताः | पप्रच्छुरुद्भवं कृत्स्नं जगतः प्रलयं तथा || ५ || स्थितिं च कृत्स्नां वंशांश्च युगमन्वन्तराणि च | वंशानुचरितं कृत्स्नं दिव्यमानं तथैव च || ६ || अष्टानां देवयोनीनामुत्पत्तिं प्रलयं तथा | पितृसर्गं तथाशेषं ब्रह्मणो मानमेव च || ७ || चन्द्रादित्यगतिं सर्वां ताराग्रहगतिं तथा | स्थितिं सर्वेश्वराणां च द्वीपधर्ममशेषतः | वर्णाश्रमव्यवस्थानं यज्ञानां च प्रवर्तनम् || ८ || एतत्सर्वमशेषेण कथयामास स प्रभुः | दिव्यं वर्षसहस्रं च तेषां तदभियात्तथा || ९ || अथ दिव्येन रूपेण सामवाग्दिङ्निरीक्षणा | यजुर्घ्राणाथर्वशिराः शब्दजिह्वा शुभा सती || १० || न्यायश्रोत्रा निरुक्तत्वगृक्पादपदगामिनी | कालबाहूर्वर्षकरा दिवसाङ्गुलिधारिणी || ११ || कलादिभिः पर्वभिश्च मासैः कररुहैस्तथा | कल्पसाधारणा दिव्या शिक्षाविद्योन्नतस्तनी || १२ || छन्दोविचितिमध्या च मीमांसानाभिरेव च | पुराणविस्तीर्णकटिर्धर्मशास्त्रमनोरथा || १३ || आश्रमोरूर्वर्णजानुर्यज्ञगुल्फा फलाङ्गुलिः | लोकवेदशरीरा च रोमभिश्छान्दसैः शुभैः || १४ || श्रद्धाशुभाचारवस्त्रा योगधर्माभिभाषिणी | वेदीमध्याद्विनिःसृत्य प्रवृत्ता परमाम्भसा || १५ || तस्यान्ते ऽवभृथे प्लुत्य वायुना सह संगताः | तामपृच्छन्त का न्वेषा वायुं देवं महाधियम् || १६ || उवाच स महातेजा ऋषीन्धर्मानुभावितान् | शुद्धाः स्थ तपसा सर्वे महान्धर्मश्च वः कृतः || १७ || यस्मादियं नदी पुण्या ब्रह्मलोकादिहागता | इयं सरस्वती नाम ब्रह्मलोकविभूषणा || १८ || प्रथमं मर्त्यलोके ऽस्मिन्युष्मत्सिद्ध्यर्थमागता | नास्याः पुण्यतमा काचित्त्रिषु लोकेषु विद्यते || १९ ||

ऋषय ऊचुः |

कथमेषा महापुण्या प्रवृत्ता ब्रह्मलोकगा | कारणं किं च तत्रासीदेतदिच्छाम वेदितुम् || २० ||

वायुरुवाच |

अत्र वो वर्तयिष्यामि इतिहासं पुरातनम् | ब्रह्मणश्चैव संवादं पुरा यज्ञस्य चैव ह || २१ || यज्ञैरिष्ट्वा पुरा देवो ब्रह्मा दीप्तेन तेजसा | असृजत्सर्वभूतानि स्थावराणि चराणि च || २२ || स दृष्ट्वा दीप्तिमान्देवो दीप्त्या परमया युतः | अवेक्षमाणः स्वांल् लोकांश्चतुर्भिर्मुखपङ्कजैः || २३ || देवादीन्मनुष्यादींश्च दृष्ट्वा दृष्ट्वा महामनाः | अमन्यत न मे ऽन्यो ऽस्ति समो लोके न चाधिकः || २४ || यो ऽहमेताः प्रजाः सर्वाः सप्तलोकप्रतिष्ठिताः | देवमानुषतिर्यक्षु ग्रसामि विसृजामि च || २५ || अहं स्रष्टा हि भूतानां नान्यः कश्चन विद्यते | नियन्ता लोककर्ता च न मयास्ति समः क्वचित् || २६ || तस्यैवं मन्यमानस्य यज्ञ आगान्महामनाः | उवाच चैनं दीप्तात्मा मैवं मंस्था महामते | अयं हि तव संमोहो विनाशाय भविष्यति || २७ || न युक्तमीदृशं ते ऽद्य सत्त्वस्थस्यात्मयोनिनः | स्रष्टा त्वं चैव नान्यो ऽस्ति तथापि न यशस्करम् || २८ || अहं कर्ता हि भूतानां भुवनस्य तथैव च | करोमि न च संमोहं यथा त्वं देव कत्थसे || २९ || तमुवाच तदा ब्रह्मा न त्वं धारयिता विभो | अहमेव हि भूतानां धर्ता भर्ता तथैव च | मया सृष्टानि भूतानि त्वमेवात्र विमुह्यसे || ३० || अथागात्तत्र संविग्नो वेदः परमदीप्तिमान् | उवाच चैव तौ वेदो नैतदेवमिति प्रभुः || ३१ || अहं श्रेष्ठो महाभागौ न वदाम्यनृतं क्वचित् | शृणुध्वं मम यः कर्ता भूतानां युवयोश्च ह || ३२ || परमेशो महादेवो रुद्रः सर्वगतः प्रभुः | येनाहं तव दत्तश्च कृतस्त्वं च प्रजापतिः || ३३ || यज्ञो ऽयं यत्प्रसूतिश्च अण्डं यत्रास्ति संस्थितम् | सर्वं तस्मात्प्रसूतं वै नान्यः कर्तास्ति नः क्वचित् || ३४ || तमेवंवादिनं देवो ब्रह्मा वेदमभाषत | अहं श्रुतीनां सर्वासां नेता स्रष्टा तथैव च || ३५ || मत्प्रसादाद्धि वेदस्त्वं यज्ञश्चायं न संशयः | मूढौ युवामधर्मो वा भवद्भ्यामन्यथा कृतः | प्रायश्चित्तं चरध्वं वः किल्बिषान्मोक्ष्यथस्ततः || ३६ || एवमुक्ते तदा तेन महाञ्छब्दो बभूव ह | आदित्यमण्डलाकारमदृश्यत च मण्डलम् | महच्छब्देन महता उपरिष्टाद्वियत्स्थितम् || ३७ || स चापि तस्माद्विभ्रष्टो भूतलं समुपाश्रितः | हिमवत्कुञ्जमासाद्य नानाविहगनादितम् | व्योमगश्च चिरं भूत्वा भूमिगः सम्बभूव ह || ३८ || ततो ब्रह्मा दिशः सर्वा निरीक्ष्य मुखपङ्कजैः | चतुर्भिर्न वियत्स्थं तमपश्यत्स पितामहः || ३९ || स मुखं पञ्चमं दीप्तमसृजन्मूर्ध्नि संस्थितम् | तेनापश्यद्वियत्स्थं तं सूर्यायुतसमप्रभम् | आदित्यमण्डलाकारं शब्दवद्घोरदर्शनम् || ४० || तं दृष्ट्वा पञ्चमं तस्य शिरो वै क्रोधजं महत् | संवर्तकाग्निसदृशं ग्रसिष्यत्तमवर्धत || ४१ || वर्धमानं तदा तत्तु वडवामुखसंनिभम् | दीप्तिमच्छब्दवच्चैव देवो ऽसौ दीप्तमण्डलः || ४२ || हस्ताङ्गुष्ठनखेनाशु वामेनावज्ञयैव हि | चकर्त तन्महद्घोरं ब्रह्मणः पञ्चमं शिरः || ४३ || दीप्तिकृत्तशिराः सो ऽथ दुःखेनोस्रेण चार्दितः | पपात मूढचेता वै योगधर्मविवर्जितः || ४४ || ततः सुप्तोत्थित इव संज्ञां लब्ध्वा महातपाः | मण्डलस्थं महादेवमस्तौषीद्दीनया गिरा || ४५ ||

ब्रह्मोवाच |

नमः सहस्रनेत्राय शतनेत्राय वै नमः | नमो विवृतवक्त्राय शतवक्त्राय वै नमः || ४६ || नमः सहस्रवक्त्राय सर्ववक्त्राय वै नमः | नमः सहस्रपादाय सर्वपादाय वै नमः || ४७ || सहस्रपाणये चैव सर्वतःपाणये नमः | नमः सर्वस्य स्रष्ट्रे च द्रष्ट्रे सर्वस्य ते नमः || ४८ || आदित्यवर्णाय नमः शिरसश्छेदनाय च | सृष्टिप्रलयकर्त्रे च स्थितिकर्त्रे तथा नमः || ४९ || नमः सहस्रलिङ्गाय सहस्रचरणाय च | संहारलिङ्गिने चैव जललिङ्गाय वै नमः || ५० || अन्तश्चराय सर्वाय प्रकृतेः प्रेरणाय च | व्यापिने सर्वसत्त्वानां पुरुषप्रेरकाय च || ५१ || इन्द्रियार्थविशेषाय तथा नियमकारिणे | भूतभव्याय शर्वाय नित्यं सत्त्ववदाय च || ५२ || त्वमेव स्रष्टा लोकानां मन्ता दाता तथा विभो | शरणागताय दान्ताय प्रसादं कर्तुमर्हसि || ५३ || तस्यैवं स्तुवतः सम्यग्भावेन परमेण ह | स तस्मै देवदेवेशो दिव्यं चक्षुरदात्तदा || ५४ || चक्षुषा तेन स तदा ब्रह्मा लोकपितामहः | विमाने सूर्यसंकाशे तेजोराशिमपश्यत || ५५ || तस्य मध्यात्ततो वाचं महतीं समशृण्वत | गम्भीरां मधुरां युक्तामथ सम्पन्नलक्षणाम् | विशदां पुत्र पुत्रेति पूर्वं देवेन चोदिताम् || ५६ || संस्वेदात्पुत्र उत्पन्नो यत्तुभ्यं नीललोहितः | यच्च पूर्वं मया प्रोक्तस्त्वं तदा सुतमार्गणे || ५७ || मदीयो गणपो यस्ते मन्मूर्तिश्च भविष्यति | स प्राप्य परमं ज्ञानं मूढ त्वा विनयिष्यति || ५८ || तस्येयं फलनिष्पत्तिः शिरसश्छेदनं तव | मयैव कारिता तेन निर्वृतश्चाधुना भव || ५९ || तस्य चैवोत्पथस्थस्य यज्ञस्य तु महामते | शिरश्छेत्स्यत्यसावेव कस्मिंश्चित्कारणान्तरे | स्तवेनानेन तुष्टो ऽस्मि किं ददानि च ते ऽनघ || ६० ||

वायुरुवाच |

ततः स भगवान्हृष्टः प्रणम्य शुभया गिरा | उवाच प्राञ्जलिर्भूत्वा लक्ष्यालक्ष्यं तमीश्वरम् || ६१ || भगवन्नैव मे दुःखं दर्शनात्ते प्रबाधते | इच्छामि शिरसो ह्यस्य धारणं सर्वदा त्वया | ननु स्मरेयमेतच्च शिरसश्छेदनं विभो || ६२ || भूयश्चाधर्मकार्येभ्यस्त्वयैवेच्छे निवारणम् | तथा च कृत्यमुद्दिश्य पश्येयं त्वा यथासुखम् || ६३ || विज्ञप्तिं ब्रह्मणः श्रुत्वा प्रोवाच भुवनेश्वरः | स एव सुतसंज्ञस्ते मन्मूर्तिर्नीललोहितः | शिरश्छेत्स्यति यज्ञस्य बिभर्त्स्यति शिरश्च ते || ६४ || इत्युक्त्वा देवदेवेशस्तत्रैवान्तरधीयत | गते तस्मिन्महादेवे ब्रह्मा लोकपितामहः | सयज्ञः सहवेदश्च स्वं लोकं प्रत्यपद्यत || ६५ ||

वायुरुवाच |

य इमं शृणुयान्मर्त्यो गुह्यं वेदार्थसंमितम् | स देहभेदमासाद्य सायुज्यं ब्रह्मणो व्रजेत् || ६६ || यश्चेमं पठते नित्यं ब्राह्मणानां समीपतः | स सर्वपापनिर्मुक्तो रुद्रलोके महीयते || ६७ || नापुत्रशिष्ययोगिभ्य इदमाख्यानमैश्वरम् | आख्येयं नापि चाज्ञाय न शठाय न मानिने || ६८ || इदं महद्दिव्यमधर्मशासनं पठेत्सदा ब्राह्मणवैद्यसंसदि | कृतावकाशो भवतीह मानवः शरीरभेदे प्रविशेत्पितामहम् || ६९ || इति स्कन्दपुराणे पञ्चमो ऽध्यायः ||

सनत्कुमार उवाच |

ततः स भगवान्देवः कपर्दी नीललोहितः | आज्ञया परमेशस्य जग्राह ब्रह्मणः शिरः || १ || तद्गृहीत्वा शिरो दीप्तं रूपं विकृतमास्थितः | योगक्रीडां समास्थाय भैक्षाय प्रचचार ह || २ || स देववेश्मनि तदा भिक्षार्थमगमद्द्विजाः | न चास्य कश्चित्तां भिक्षामनुरूपामदाद्विभोः || ३ || अभ्यगात्संक्रमेणैव वेश्म विष्णोर्महात्मनः | तस्यातिष्ठत स द्वारि भिक्षामुच्चारयञ्छुभाम् || ४ || स दृष्ट्वा तदुपस्थं तु विष्णुर्वै योगचक्षुषा | शिरां ललाटात्सम्भिद्य रक्तधारामपातयत् | पपात सा च विस्तीर्णा योजनार्धशतं तदा || ५ || तया पतन्त्या विप्रेन्द्रा बहून्यब्दानि धारया | पितामहकपालस्य नार्धमप्यभिपूरितम् | तमुवाच ततो देवः प्रहस्य वचनं शुभम् || ६ || सकृत्कन्याः प्रदीयन्ते सकृदग्निश्च जायते | सकृद्राजानो ब्रुवते सकृद्भिक्षा प्रदीयते || ७ || तुष्टो ऽस्मि तव दानेन युक्तेनानेन मानद | वरं वरय भद्रं ते वरदो ऽस्मि तवाद्य वै || ८ ||

विष्णुरुवाच |

एष एव वरः श्लाघ्यो यदहं देवताधिपम् | पश्यामि शंकरं देवमुग्रं शर्वं कपर्दिनम् || ९ || देवश्छायां ततो वीक्ष्य कपालस्थे तदा रसे | ससर्ज पुरुषं दीप्तं विष्णोः सदृशमूर्जितम् || १० || तमाहाथाक्षयश्चासि अजरामर एव च | युद्धेषु चाप्रतिद्वन्द्वी सखा विष्णोरनुत्तमः | देवकार्यकरः श्रीमान्सहानेन चरस्व च || ११ || नारासु जन्म यस्मात्ते विष्णुदेहोद्भवासु च | नरस्तस्माद्धि नाम्ना त्वं प्रियश्चास्य भविष्यसि || १२ ||

वायुरुवाच |

तं तदाश्वास्य निक्षिप्य नरं विष्णोः स्वयं प्रभुः | अगमद्ब्रह्मसदनं तौ चाविविशतुर्गृहम् || १३ || य इदं नरजन्मेह शृणुयाद्वा पठेत वा | स कीर्त्या परया युक्तो विष्णुलोके महीयते || १४ || इति स्कन्दपुराणे षष्ठो ऽध्यायः ||

वायुरुवाच |

ब्रह्मलोकं समासाद्य भगवान्सर्वलोकपः | भैक्ष्यं भैक्ष्यमिति प्रोच्य द्वारे समवतिष्ठत || १ || तं दृष्ट्वा विकृतं ब्रह्मा कपालकरभूषणम् | ज्ञात्वा योगेन महता तुष्टाव भुवनेश्वरम् || २ || तस्य तुष्टस्तदा देवो वरदो ऽस्मीत्यभाषत | वृणीष्व वरमव्यग्रो यस्ते मनसि वर्तते || ३ ||

ब्रह्मोवाच |

इच्छामि देवदेवेश त्वया चिह्नमिदं कृतम् | येन चिह्नेन लोको ऽयं चिह्नितः स्याज्जगत्पते || ४ || तस्य तद्वचनं श्रुत्वा भगवान्वदतां वरः | सर्वश्रुतिमयं ब्रह्म ओमिति व्याजहार ह || ५ || शम्भोर्व्याहारमात्रेण वागियं दिव्यरूपिणी | निःसृता वदनाद्देवी प्रह्वा समवतिष्ठत || ६ || तामुवाच तदा देवो वाचा संजीवयन्निव | यस्मात्त्वमक्षरो भूत्वा मम वाचो विनिःसृता | सर्वविद्याधिदेवी त्वं तस्माद्देवि भविष्यसि || ७ || यस्माद्ब्रह्मसरश्चेदं मुखं मम समाश्रिता | तस्मात्सरस्वतीत्येव लोके ख्यातिं गमिष्यसि || ८ || इमं लोकं वराम्भोभिः पावयित्वा च सुप्रभे | सर्वांल् लोकांस्तारयित्री पुनस्त्वं नात्र संशयः || ९ || यज्ञभागं च देवास्ते दास्यन्ति सपितामहाः | पुण्या च सर्वसरितां भविष्यसि न संशयः || १० || ततः सा समनुज्ञाता शंकरेण विभाविनी | चक्रे ब्रह्मसरः पुण्यं ब्रह्मलोके ऽतिपावनम् || ११ || तोयामृतसुसम्पूर्णं स्वर्णपद्मोपशोभितम् | नानापक्षिगणाकीर्णं मीनसंक्षोभितोदकम् | ततो विनिःसृता भूयः सेमं लोकमपावयत् || १२ || तं गृहीत्वा महादेवः कपालममितौजसम् | इमं लोकमनुप्राप्य देशे श्रेष्ठे ऽवतिष्ठत || १३ || तत्र तच्च महद्दिव्यं कपालं देवताधिपः | स्थापयामास दीप्तार्चिर्गणानामग्रतः प्रभुः || १४ || तत्स्थापितमथो दृष्ट्वा गणाः सर्वे महात्मनः | अनदन्सुमहानादं नादयन्तो दिशो दश | क्षुब्धार्णवाशनिप्रख्यं नभो येन व्यशीर्यत || १५ || तेन शब्देन घोरेण असुरो देवकण्टकः | हालाहल इति ख्यातस्तं देशं सो ऽभ्यगच्छत || १६ || अमृष्यमाणः क्रोधान्धो दुरात्मा यज्ञनाशकः | ब्रह्मदत्तवरश्चैव अवध्यः सर्वजन्तुभिः | महिषश्छन्नरूपाणामसुराणां शतैर्वृतः || १७ || तमापतन्तं सक्रोधं महिषं देवकण्टकम् | सम्प्रेक्ष्याह गणाध्यक्षो गणान्सर्वान्पिनाकिनः || १८ || दैत्यो ऽयं गणपा दुष्टस्त्रैलोक्यसुरकण्टकः | आयाति त्वरितो यूयं तस्मादेनं निहन्यथ || १९ || ततस्ते गणपाः सर्वे समायान्तं सुरद्विषम् | भित्त्वा शूलेन संक्रुद्धा विगतासुं च चक्रिरे || २० || हते तस्मिंस्तदा देवो दिशः सर्वा अवैक्षत | ताभ्यः पिशाचा वृत्तास्याः पिशाच्यश्च महाबलाः | अभ्यगच्छन्त देवेशं ताभ्यस्तं विनिवेदयत् || २१ || स ताभिरुपयुक्तश्च विनियुक्तश्च सर्वशः | तमेव चाप्यथावासं देवादिष्टं प्रपेदिरे || २२ || भक्षयन्ति स्म महिषं मित्वा मित्वा यतस्तु ताः | कपालमातरः प्रोक्तास्तस्माद्देवेन धीमता || २३ || कपालं स्थापितं यस्मात्तस्मिन्देशे पिनाकिना | महाकपालं तत्तस्मात्त्रिषु लोकेषु गद्यते || २४ || स्थापितस्य कपालस्य यथोक्तमभवत्तदा | ख्यातं शिवतडागं तत्सर्वपापप्रमोचनम् || २५ || आगत्याथ ततो ब्रह्मा देवतानां गणैर्वृतः | कपर्दिनमुपामन्त्र्य तं देशं सो ऽन्वगृह्णत || २६ || अर्धयोजनविस्तीर्णं क्षेत्रमेतत्समन्ततः | भविष्यति न संदेहः सिद्धक्षेत्रं महात्मनः || २७ || श्मेति हि प्रोच्यते पापं क्षयं शानं विदुर्बुधाः | ध्यानेन नियमैश्चैव श्मशानं तेन संज्ञितम् | गुह्यं देवातिदेवस्य परं प्रियमनुत्तमम् || २८ || एवं तत्र नरः पापं सर्वमेव प्रहास्यति | त्रिरात्रोपोषितश्चैव अर्चयित्वा वृषध्वजम् | राजसूयाश्वमेधाभ्यां फलं यत्तदवाप्स्यति || २९ || यश्च प्राणान्प्रियांस्तत्र परित्यक्ष्यति मानवः | स गुह्यगणदेवानां समतां समवाप्स्यति || ३० ||

वायुरुवाच |

ततः स तत्र संस्थाप्य देवस्यार्चाद्वयं शुभम् | शूलेश्वरं महाकायं रुद्रस्यायतनं शुभम् || ३१ || तत्राभिगमनादेव कृत्वा पापस्य संक्षयम् | रुद्रलोकमवाप्नोति स प्राहैवं पितामहः || ३२ || यत्र चापि शिरस्तस्य चिच्छेद भुवनेश्वरः | कश्मीरः सो ऽभवन्नाम्ना देशः पुण्यतमः सदा || ३३ || ततो देवः सह गणै रूपं विकृतमास्थितः | पश्यतां सर्वदेवानामन्तर्धानमगात्प्रभुः || ३४ || गते च देवनाथे ऽथ कपालस्थानमव्ययम् | सर्वतीर्थाभिषेकस्य फलेन समयोजयत् || ३५ || तदद्यापि महद्दिव्यं सरस्तत्र प्रदृश्यते | महाकपालं विप्रेन्द्राः स्वर्गास्तत्राक्षयाः स्मृताः || ३६ || इदं शुभं दिव्यमधर्मनाशनं महाफलं सेन्द्रसुरासुरार्चितम् | महाकपालं प्रकृतोपदर्शनं सुरेशलोकादिविगाहने हितम् || ३७ || तपोधनैः सिद्धगणैश्च संस्तुतं दिविष्ठतुल्यद्विजराजमण्डले | पठेन्नरो यः शृणुयाच्च सर्वदा त्रिपिष्टपं गच्छति सो ऽभिनन्दितः || ३८ || इति स्कन्दपुराणे सप्तमो ऽध्यायः ||

वायुरुवाच |

एवमेषा भगवती ब्रह्मलोकानुसारिणी | युष्माकं धर्मसिद्ध्यर्थं वेदीमध्याद्व्यवर्तत || १ ||

सनत्कुमार उवाच |

एवं तेषां समाप्ते ऽथ सत्त्रे वर्षसहस्रिके | प्रवृत्तायां सरस्वत्यामगात्तत्र पितामहः || २ ||

ब्रह्मोवाच |

भूयो ऽन्येन ह सत्त्रेण यजध्वं देवमीश्वरम् | यदा वो भविता विघ्नं तदा निष्कल्मषं तपः || ३ || विघ्नं तच्चैव संतीर्य तपस्तप्त्वा च भास्वरम् | योगं प्राप्य महद्युक्तास्ततो द्रक्ष्यथ शंकरम् || ४ || तथेत्युक्त्वा गते तस्मिन्सत्त्राण्याजह्रिरे तदा | बहूनि विविधाकाराण्यभियुक्ता महाव्रताः || ५ || निःसोमां पृथिवीं कृत्वा कृत्स्नामेतां ततो द्विजाः | राजानं सोममानाय्य अभिषेक्तुमियेषिरे || ६ || अथ सो ऽपि कृतातिथ्यः अदृश्येन दुरात्मना | स्वर्भानुना हृतः सोमस्ततस्ते दुःखिताभवन् || ७ || ते गत्वा मुनयः सर्वे कलापग्रामवासिनः | पुरूरवसमानीय राजानं ते ऽभ्यषेचयन् || ८ || ऊचुश्चैनं महाभागा हृतः सोमो हि नः प्रभो | केनापि तद्भवान्क्षिप्रमिहानयतु मा चिरम् || ९ || स एवमुक्तो मृगयन्न तमासादयत्प्रभुः | उवाच स तदा विप्रान्प्रणम्य भयपीडितः || १० || परमं यत्नमास्थाय मया सोमो ऽभिमार्गितः | न च तं वेद्मि केनासौ क्व वा नीत इति प्रभुः || ११ || तमेवंवादिनं क्रुद्धा ऋषयः संशितव्रताः | ऊचुः सर्वे सुसंरब्धा इलापुत्रं महामतिम् || १२ || भवान्राजा कुतस्त्राता कृतो ऽस्माभिर्भयार्दितैः | न च नस्तद्भयं शक्तो विनाशयितुमाश्वपि || १३ || विषयेष्वतिसक्तात्मा योगात्तं नानुपश्यसि | तस्माद्विरोधमास्थाय द्विजेभ्यो वधमाप्स्यसि || १४ || वयमेव हि राजानमानयिष्याम दुर्विदम् | तपसा स्वेन राजेन्द्र पश्य नो बलमुत्तमम् || १५ || ततस्ते ऋषयः सर्वे तपसा दग्धकिल्बिषाः | अस्तुवन्वाग्भिरिष्टाभिर्गायत्रीं वेदभाविनीम् || १६ || स्तुवतां तु ततस्तेषां गायत्री वेदभाविनी | रूपिणी दर्शनं प्रादादुवाचेदं च तान्द्विजान् || १७ || तुष्टास्मि वत्साः किं वो ऽद्य करोमि वरदास्मि वः | ब्रूत तत्कृतमेवेह भविष्यति न संशयः || १८ ||

ऋषय ऊचुः |

सोमो नो ऽपहृतो देवि केनापि सुदुरात्मना | तमानय नमस्ते ऽस्तु एष नो वर उत्तमः || १९ ||

सनत्कुमार उवाच |

सा तथोक्ता विनिश्चित्य दृष्ट्वा दिव्येन चक्षुषा | श्येनीभूता जगामाशु स्वर्भानुमसुरं प्रति || २० || व्यग्राणामसुराणां सा गृहीत्वा सोममागता | आगम्य तानृषीन्प्राह अयं सोमो ऽभिषूयताम् || २१ || ते तमासाद्य ऋषयः प्राप्य यज्ञफलं महत् | अमन्यन्त तपो ऽस्माकं निष्कल्मषमिति द्विजाः || २२ || ततस्तत्र स्वयं ब्रह्मा सह देवोरगादिभिः | आगत्य तानृषीन्प्राह तपः कुरुत मा चिरम् || २३ || ते सह ब्रह्मणा गत्वा मैनाकं पर्वतोत्तमम् | सर्वैर्देवगणैः सार्धं तपश्चेरुः समाहिताः || २४ || तेषां कालेन महता तपसा भावितात्मनाम् | योगप्रवृत्तिरभवत्सूक्ष्मयुक्तास्ततस्तु ते || २५ || ते युक्ता ब्रह्मणा सार्धमृषयः सह देवतैः | महेश्वरे मनः स्थाप्य निश्चलोपलवत्स्थिताः || २६ || अथ तेषां महादेवः पिनाकी नीललोहितः | अभ्यगच्छत तं देशं विमानेनार्कतेजसा || २७ || तद्भावभाविताञ्ज्ञात्वा सद्भावेन परेण ह | उवाच मेघनिर्ह्रादः शतदुन्दुभिनिस्वनः || २८ || भो भो सब्रह्मका देवाः सविष्णुऋषिचारणाः | दिव्यं चक्षुः प्रयच्छामि पश्यध्वं मां यथेप्सितम् || २९ ||

सनत्कुमार उवाच |

अपश्यन्त ततः सर्वे सूर्यायुतसमप्रभम् | विमानं मेरुसंकाशं नानारत्नविभूषितं || ३० || तस्य मध्ये ऽग्निकूटं च सुमहद्दीप्तिमास्थितम् | ज्वालामालापरिक्षिप्तमर्चिभिरुपशोभितम् || ३१ || दंष्ट्राकरालवदनं प्रदीप्तानललोचनम् | त्रेताग्निपिङ्गलजटं भुजगाबद्धमेखलम् || ३२ || मृष्टकुण्डलिनं चैव शूलासक्तमहाकरम् | पिनाकिनं दण्डहस्तं मुद्गराशनिपाणिनम् || ३३ || असिपट्टिसहस्तं च चक्रिणं चोर्ध्वमेहनम् | अक्षसूत्रकरं चैव दुष्प्रेक्ष्यमकृतात्मभिः | चन्द्रादित्यग्रहैश्चैव कृतस्रगुपभूषणम् || ३४ || तमपश्यन्त ते सर्वे देवा दिव्येन चक्षुषा | यं दृष्ट्वा न भवेन्मृत्युर्मर्त्यस्यापि कदाचन || ३५ || तपसा विनियोगयोगिनः प्रणमन्तो भवमिन्दुनिर्मलम् | वियतीश्वरदत्तचक्षुषः सह देवैर्मुनयो मुदान्विताः || ३६ || प्रसमीक्ष्य महासुरेशकालं मनसा चापि विचार्य दुर्विसह्यम् | प्रणमन्ति गतात्मभावचिन्ताः सह देवैर्जगदुद्भवं स्तुवन्तः || ३७ || इति स्कन्दपुराणे अष्टमो ऽध्यायः ||

सनत्कुमार उवाच |

ते दृष्ट्वा देवदेवेशं सर्वे सब्रह्मकाः सुराः | अस्तुवन्वाग्भिरिष्टाभिः प्रणम्य वृषवाहनम् || १ ||

पितामह उवाच |

नमः शिवाय सोमाय भक्तानां भयहारिणे | नमः शूलाग्रहस्ताय कमण्डलुधराय च || २ || दण्डिने नीलकण्ठाय करालदशनाय च | त्रेताग्निदीप्तनेत्राय त्रिनेत्राय हराय च || ३ || नमः पिनाकिने चैव नमो ऽस्त्वशनिधारिणे | व्यालयज्ञोपवीताय कुण्डलाभरणाय च || ४ || नमश्चक्रधरायैव व्याघ्रचर्मधराय च | कृष्णाजिनोत्तरीयाय सर्पमेखलिने तथा || ५ || वरदात्रे च रुद्राय सरस्वतीसृजे तथा | सोमसूर्यर्क्षमालाय अक्षसूत्रकराय च || ६ || ज्वालामालासहस्राय ऊर्ध्वलिङ्गाय वै नमः | नमः पर्वतवासाय शिरोहर्त्रे च मे पुरा || ७ || हालाहलविनाशाय कपालवरधारिणे | विमानवरवाहाय जनकाय ममैव च | वरदाय वरिष्ठाय श्मशानरतये नमः || ८ || नमो नरस्य कर्त्रे च स्थितिकर्त्रे नमः सदा | उत्पत्तिप्रलयानां च कर्त्रे सर्वसहाय च || ९ || ऋषिदैवतनाथाय सर्वभूताधिपाय च | शिवः सौम्यश्च देवेश भव नो भक्तवत्सल || १० ||

सनत्कुमार उवाच |

ब्रह्मण्यथैवं स्तुवति देवदेवः स लोकपः | उवाच तुष्टस्तान्देवानृषींश्च तपसैधितान् || ११ || तुष्टो ऽस्म्यनेन वः सम्यक्तपसा ऋषिदेवताः | वरं ब्रूत प्रदास्यामि सुनिश्चिन्त्य स उच्यताम् || १२ ||

सनत्कुमार उवाच |

अथ सर्वानभिप्रेक्ष्य संतुष्टांस्तपसैधितान् | दर्शनेनैव विप्रेन्द्र ब्रह्मा वचनमब्रवीत् || १३ ||

ब्रह्मोवाच |

यदि तुष्टो ऽसि देवेश यदि देयो वरश्च नः | तस्माच्छिवश्च सौम्यश्च दृश्यश्चैव भवस्व नः || १४ || सुखसंव्यवहार्यश्च नित्यं तुष्टमनास्तथा | सर्वकार्येषु च सदा हितः पथ्यश्च शंकरः || १५ || सह देव्या ससूनुश्च सह देवगणैरपि | एष नो दीयतां देव वरो वरसहस्रद || १६ ||

सनत्कुमार उवाच |

एवमुक्तः स भगवान्ब्रह्मणा देवसत्तमः | स्वकं तेजो महद्दिव्यं व्यसृजत्सर्वयोगवित् || १७ || अर्धेन तेजसः स्वस्य मुखादुल्कां ससर्ज ह | तामाह भव नारीति भगवान्विश्वरूपधृक् || १८ || साकाशं द्यां च भूमिं च महिम्ना व्याप्य विष्ठिता | उपतस्थे च देवेशं दीप्यमाना यथा तडित् || १९ || तामाह प्रहसन्देवो देवीं कमललोचनाम् | ब्रह्माणं देवि वरदमाराधय शुचिस्मिते || २० || सा तथेति प्रतिज्ञाय तपस्तप्तुं प्रचक्रमे | रुद्रश्च तानृषीनाह शृणुध्वं मम तोषणे | फलं फलवतां श्रेष्ठा यद्ब्रवीमि तपोधनाः || २१ || अमरा जरया त्यक्ता अरोगा जन्मवर्जिताः | मद्भक्तास्तपसा युक्ता इहैव च निवत्स्यथ || २२ || अयं चैवाश्रमः श्रेष्ठः स्वर्णशृङ्गो ऽचलोत्तमः | पुण्यं पवित्रं स्थानं वै भविष्यति न संशयः || २३ || मैनाके पर्वते श्रेष्ठे स्वर्णो ऽहमभवं यतः | स्वर्णाक्षीं चासृजं देवीं स्वर्णाक्षं तेन तत्स्मृतम् || २४ || स्वर्णाक्षे ऋषयो यूयं षट्कुलीयास्तपोधनाः | निवत्स्यथ मयाज्ञप्ताः स्वर्णाक्षं वै ततश्च ह | समन्ताद्योजनं क्षेत्रं पवित्रं तन्न संशयः || २५ || देवगन्धर्वचरितमप्सरोगणसेवितम् | सिंहेभशरभाकीर्णं शार्दूलर्क्षमृगाकुलम् | अनेकविहगाकीर्णं लतावृक्षक्षुपाकुलम् || २६ || ब्रह्मचारी नियमवाञ्जितक्रोधो जितेन्द्रियः | उपोष्य त्रिगुणां रात्रिं चरुं कृत्वा निवेद्य च | यत्र तत्र मृतः सो ऽपि ब्रह्मलोके निवत्स्यति || २७ || यो ऽप्येवमेव कामात्मा पश्येत्तत्र वृषध्वजम् | गोसहस्रफलं सो ऽपि मत्प्रसादादवाप्स्यति | नियमेन मृतश्चात्र मया सह चरिष्यति || २८ || यावत्स्थास्यन्ति लोकाश्च मैनाकश्चाप्ययं गिरिः | तावत्सह मया देवा मत्प्रसादाच्चरिष्यथ || २९ || एवं स तानृषीनुक्त्वा दृष्ट्वा सौम्येन चक्षुषा | पश्यतामेव सर्वेषां तत्रैवान्तरधीयत || ३० ||

सनत्कुमार उवाच |

य इमं शृणुयान्मर्त्यो द्विजातीञ्छ्रावयेत वा | सो ऽपि तत्फलमासाद्य चरेन्मृत्युविवर्जितः || ३१ || जयति जलदवाहः सर्वभूतान्तकालः शमदमनियतानां क्लेशहर्ता यतीनाम् | जननमरणहर्ता चेष्टतां धार्मिकाणां विविधकरणयुक्तः खेचरः पादचारी || ३२ || मदनपुरविदारी नेत्रदन्तावपाती विगतभयविषादः सर्वभूतप्रचेताः | सततमभिदधानश्चेकितानात्मचित्तः करचरणललामः सर्वदृग्देवदेवः || ३३ || इति स्कन्दपुराणे नवमो ऽध्यायः ||

सनत्कुमार उवाच |

सा देवी त्र्यम्बकप्रोक्ता तताप सुचिरं तपः | निराहारा कदाचिच्च एकपर्णाशना पुनः | वाय्वाहारा पुनश्चापि अब्भक्षा भूय एव च || १ || तां तपश्चरणे युक्तां ब्रह्मा ज्ञात्वातिभास्वराम् | उवाच ब्रूहि तुष्टो ऽस्मि देवि किं करवाणि ते || २ || साब्रवीत् त्र्यम्बकं देवं पतिं प्राप्येन्दुवर्चसम् | विचरेयं सुखं देव सर्वअंल् लोकान्नमस्तव || ३ ||

ब्रह्मोवाच |

न हि येन शरीरेण क्रियते परमं तपः | तेनैव परमेशो ऽसौ पतिः शम्भुरवाप्यते || ४ || तस्माद्धि योगाद्भवती दक्षस्येह प्रजापतेः | जायस्व दुहिता भूत्वा पतिं रुद्रमवाप्स्यसि || ५ || ततः सा तद्वचः श्रुत्वा योगाद्देवी मनस्विनी | दक्षस्य दुहिता जज्ञे सती नामातियोगिनी || ६ || तां दक्षस्त्र्यम्बकायैव ददौ भार्यामनिन्दिताम् | ब्रह्मणो वचनाद्यस्यां मानसानसृजत्सुतान् || ७ || आत्मतुल्यबलान्दीप्ताञ्जरामरणवर्जितान् | अनेकानि सहस्राणि रुद्राणाममितौजसाम् || ८ || तान्दृष्ट्वा सृज्यमानांश्च ब्रह्मा तं प्रत्यषेधयत् | मा स्राक्षीर्देवदेवेश प्रजा मृत्युविवर्जिताः || ९ || अन्याः सृजस्व भद्रं ते प्रजा मृत्युसमन्विताः | तेन चोक्तं स्थितो ऽस्मीति स्थाणुस्तेन ततः स्मृतः || १० ||

देव उवाच |

न स्रक्ष्ये मृत्युसंयुक्ताः प्रजा ब्रह्मन्कथंचन | स्थितो ऽस्मि वचनात्ते ऽद्य वक्तव्यो नास्मि ते पुनः || ११ || ये त्विमे मानसाः सृष्टा महात्मानो महाबलाः | चरिष्यन्ति मया सार्धं सर्व एते हि याज्ञिकाः || १२ ||

सनत्कुमार उवाच |

अथ काले गते व्यास स दक्षः शापकारणात् | अन्यानाहूय जामातॄन्सदारानर्चयद्गृहे || १३ || सतीं सह त्र्यम्बकेन नाजुहाव रुषान्वितः | सती ज्ञात्वा तु तत्सर्वं गत्वा पितरमब्रवीत् || १४ || अहं ज्येष्ठा वरिष्ठा च जामात्रा सह सुव्रत | मां हित्वा नार्हसे ह्येताः सह भर्तृभिरर्चितुम् || १५ || क्रोधेनाथ समाविष्टः स क्रोधोपहतेन्द्रियः | निरीक्ष्य प्राब्रवीद्दक्षश्चक्षुषा निर्दहन्निव || १६ || मामेताः सति सस्नेहाः पूजयन्ति सभर्तृकाः | न त्वं तथा पूजयसे सह भर्त्रा महाव्रते || १७ || गृहांश्च मे सपत्नीकाः प्रविशन्ति तपोधनाः | श्रेष्ठांस्तस्मात्सदा मन्ये ततस्तानर्चयाम्यहम् || १८ || तस्माद्यत्ते करोम्यद्य शुभं वा यदि वाशुभम् | पूजां गृहाण तां पुत्रि गच्छ वा यत्र रोचते || १९ ||

सनत्कुमार उवाच |

ततः सा क्रोधदीप्तास्या न जग्राहातिकोपिता | पूजामसंमतां हीनामिदं चोवाच तं शुभा || २० || यस्मादसंमतामेतां पूजां त्वं कुरुषे मयि | श्लाघ्यां चैवाप्यदुष्टां च श्रेष्ठां मां गर्हसे पितः || २१ || तस्मादिमं स्वकं देहं त्यजाम्येषा तवात्मजा | असत्कृतायाः किं मे ऽद्य जीवितेनाशुभेन ह || २२ ||

सनत्कुमार उवाच |

ततः कृत्वा नमस्कारं मनसा त्र्यम्बकाय ह | उवाचेदं सुसंरब्धा वचनं वचनारणिः || २३ || यत्राहमुपपद्येयं पुनर्देहे स्वयेच्छया | एवं तत्राप्यसंमूढा सम्भूता धार्मिका सती | गच्छेयं धर्मपत्नीत्वं त्र्यम्बकस्यैव धीमतः || २४ || ततः सा धारणां कृत्वा आग्नेयीं सहसा सती | ददाह वै स्वकं देहं स्वसमुत्थेन वह्निना || २५ || तां ज्ञात्वा त्र्यम्बको देवीं तथाभूतां महायशाः | उवाच दक्षं संगम्य इदं वचनकोविदः || २६ || यस्मात्ते निन्दितश्चाहं प्रशस्ताश्चेतरे पृथक् | जामातरः सपत्नीकास्तस्माद्वैवस्वते ऽन्तरे | उत्पत्स्यन्ते पुनर्यज्ञे तव जामातरस्त्विमे || २७ || त्वं चैव मम शापेन क्षत्रियो भविता नृपः | प्रचेतसां सुतश्चैव कन्यायां शाखिनां पुनः | धर्मविघ्नं च ते तत्र करिष्ये क्रूरकर्मणः || २८ ||

सनत्कुमार उवाच |

तमुवाच तदा दक्षो दूयता हृदयेन वै | मया यदि सुता स्वा वै प्रोक्ता त्यक्तापि वा पुनः | किं तवात्र कृतं देव अहं तस्याः प्रभुः सदा || २९ || यस्मात्त्वं मामभ्यशपस्तस्मात्त्वमपि शंकर | भूर्लोके वत्स्यसे नित्यं न स्वर्लोके कदाचन || ३० || भागं च तव यज्ञेषु दत्त्वा सर्वे द्विजातयः | अपः स्प्रक्ष्यन्ति सर्वत्र महादेव महाद्युते || ३१ ||

सनत्कुमार उवाच |

ततः स देवः प्रहसंस्तमुवाच त्रिलोचनः | सर्वेषामेव लोकानां मूलं भूर्लोक उच्यते || ३२ || तमहं धारयाम्येको लोकानां हितकाम्यया | भूर्लोके हि धृते लोकाः सर्वे तिष्ठन्ति शाश्वताः | तस्मात्तिष्ठाम्यहं नित्यमिहैव न तवाज्ञया || ३३ || भागान्दत्त्वा तथान्येभ्यो दित्सवो मे द्विजातयः | अपः स्पृशन्ति शुद्ध्यर्थं भागं यच्छन्ति मे ततः | दत्त्वा स्पृशन्ति भूयश्च धर्मस्यैवाभिवृद्धये || ३४ || यथा हि देवनिर्माल्यं शुचयो धारयन्त्युत | अशुचिं स्प्रष्टुकामाश्च त्यक्त्वापः संस्पृशन्ति च || ३५ || देवानामेवमन्येषां दित्सवो ब्राह्मणर्षभाः | भागानपः स्पृशन्ति स्म तत्र का परिदेवना || ३६ || त्वं तु मच्छापनिर्दग्धो विपरीतो नराधमः | स्वस्यां सुतायां मूढात्मा पुत्रमुत्पादयिष्यसि || ३७ ||

सनत्कुमार उवाच |

एवं स भगवाञ्छप्त्वा दक्षं देवो जगत्पतिः | विरराम महातेजा जगाम च यथागतम् || ३८ || चन्द्रदिवाकरवह्निसमाक्षं चन्द्रनिभाननपद्मदलाक्षम् | गोवृषवाहममेयगुणौघं सततमिहेन्दुवहं प्रणताः स्मः || ३९ || य इमं दक्षशापाङ्कं देव्याश्चैवाशरीरताम् | शृणुयाद्वाथ विप्रान्वा श्रावयीत यतव्रतः | सर्वपापविनिर्मुक्तो रुद्रलोकमवाप्नुयात् || ४० || इति स्कन्दपुराणे दशमो ऽध्यायः ||

सनत्कुमार उवाच |

कदाचित्स्वगृहं प्राप्तं कश्यपं द्विपदां वरम् | अपृच्छद्धिमवान्प्रश्नं लोके ख्यातिकरं नु किम् || १ || केनाक्षयाश्च लोकाः स्युः ख्यातिश्च परमा मुने | तथैव चार्चनीयत्वं सत्सु तं कथयस्व मे || २ ||

कश्यप उवाच |

अपत्येन महाबाहो सर्वमेतदवाप्यते | मम ख्यातिरपत्येन ब्रह्मणो ऋषिभिश्च ह || ३ || किं न पश्यसि शैलेन्द्र यतो मां परिपृच्छसि | वर्तयिष्यामि तच्चापि यन्मे दृष्टं पुराचल || ४ || वाराणसीमहं गच्छन्नपश्यं संस्थितं दिवि | विमानं स्वनवद्दिव्यमनौपम्यमनिन्दितम् || ५ || तस्याधस्तादार्तनादं गर्तास्थाने शृणोम्यहम् | तानहं तपसा ज्ञात्वा तत्रैवान्तर्हितः स्थितः || ६ || अथागात्तत्र शैलेन्द्र विप्रो नियमवाञ्छुचिः | तीर्थाभिषेकपूतात्मा परे तपसि संस्थितः || ७ || अथ स व्रजमानस्तु व्याघ्रेणाभीषितो द्विजः | विवेश तं तदा देशं सा गर्ता यत्र भूधर || ८ || गर्तायां वीरणस्तम्बे लम्बमानांस्तदा मुनीन् | अपश्यदार्तो दुःखार्तानपृच्छत्तांश्च स द्विजः || ९ || के यूयं वीरणस्तम्बे लम्बमाना ह्यधोमुखाः | दुःखिताः केन मोक्षश्च युष्माकं भवितानघाः || १० ||

पितर ऊचुः |

वयं ते ऽकृतपुण्यस्य पितरः सपितामहाः | प्रपितामहाश्च क्लिश्यामस्तव दुष्टेन कर्मणा || ११ || नरको ऽयं महाभाग गर्तारूपं समास्थितः | त्वं चापि वीरणस्तम्बस्त्वयि लम्बामहे वयम् || १२ || यावत्त्वं जीवसे विप्र तावदेव वयं स्थिताः | मृते त्वयि गमिष्यामो नरकं पापचेतसः || १३ || यदि त्वं दारसंयोगं कृत्वापत्यं गुणोत्तरम् | उत्पादयसि तेनास्मान्मुच्येम वयमेकशः || १४ || नान्येन तपसा पुत्र न तीर्थानां फलेन च | तत्कुरुष्व महाबुद्धे तारयस्व पितॄन्भयात् || १५ || स तथेति प्रतिज्ञाय आराध्य च वृषध्वजम् | पितॄन्गर्तात्समुद्धृत्य गणपान्प्रचकार ह || १६ || स्वयं च रुद्रदयितः सुकेशो नाम नामतः | संमतो बलवांश्चैव रुद्रस्य गणपो ऽभवत् || १७ || तस्मात्कृत्वा तपो घोरमपत्यं गुणवत्तरम् | उत्पादयस्व शैलेन्द्र ततः कीर्तिमवाप्स्यसि || १८ ||

सनत्कुमार उवाच |

स एवमुक्तो ऋषिणा शैलेन्द्रो नियमे स्थितः | तपश्चकार विपुलं येन ब्रह्मा तुतोष ह || १९ || तमागत्य तदा ब्रह्मा वरदो ऽस्मीत्यभाषत | ब्रूहि तुष्टो ऽस्मि ते शैल तपसानेन सुव्रत || २० ||

हिमवानुवाच |

भगवन्पुत्रमिच्छामि गुणैः सर्वैरलंकृतम् | एतद्वरं प्रयच्छस्व यदि तुष्टो ऽसि नः प्रभो || २१ ||

ब्रह्मोवाच |

कन्या भवित्री शैलेन्द्र सुता ते वरवर्णिनी | यस्याः प्रभावात्सर्वत्र कीर्तिमाप्स्यसि पुष्कलाम् || २२ || अर्चितः सर्वदेवानां तीर्थकोटीसमावृतः | पावनश्चैव पुण्यश्च देवानामपि सर्वतः | ज्येष्ठा च सा भवित्री ते अन्ये चानु ततः शुभे || २३ ||

सनत्कुमार उवाच |

एवमुक्त्वा ततो ब्रह्मा तत्रैवान्तरधीयत | सो ऽपि कालेन शैलेन्द्रो मेनायामुपपादयत् | अपर्णामेकपर्णां च तथा चाप्येकपाटलाम् || २४ || न्यग्रोधमेकपर्णा तु पाटलं चैकपाटला | आश्रिते द्वे अपर्णा तु अनिकेता तपो ऽचरत् | शतं वर्षसहस्राणां दुश्चरं देवदानवैः || २५ || आहारमेकपर्णेन सैकपर्णा समाचरत् | पाटलेन तथैकेन विदधात्येकपाटला || २६ || पूर्णे पूर्णे सहस्रे तु आहारं तेन चक्रतुः | अपर्णा तु निराहारा तां माता प्रत्यभाषत | निषेधयन्ती ह्यु मेति मातृस्नेहेन दुःखिता || २७ || सा तथोक्ता तदा मात्रा देवी दुश्चरचारिणी | तेनैव नाम्ना लोकेषु विख्याता सुरपूजिता || २८ || एतत्तत्त्रिकुमारीणां जगत्स्थावरजङ्गमम् | एतासां तपसा लब्धं यावद्भूमिर्धरिष्यति || २९ || तपःशरीरास्ताः सर्वास्तिस्रो योगबलान्विताः | सर्वाश्चैव महाभागाः सर्वाश्च स्थिरयौवनाः || ३० || ता लोकमातरश्चैव ब्रह्मचारिण्य एव च | अनुगृह्णन्ति लोकांश्च तपसा स्वेन सर्वदा || ३१ || उमा तासां वरिष्ठा च श्रेष्ठा च वरवर्णिनी | महायोगबलोपेता महादेवमुपस्थिता || ३२ || दत्तकश्चोशना तस्याः पुत्रः स भृगुनन्दनः | असितस्यैकपर्णा तु देवलं सुषुवे सुतम् || ३३ || या तु तासां कुमारीणां तृतीया ह्येकपाटला | पुत्रं शतशलाकस्य जैगीषव्यमुपस्थिता | तस्यापि शङ्खलिखितौ स्मृतौ पुत्रावयोनिजौ || ३४ || उमा तु या मया तुभ्यं कीर्तिता वरवर्णिनी | अथ तस्यास्तपोयोगात्त्रैलोक्यमखिलं तदा | प्रधूपितं समालक्ष्य ब्रह्मा वचनमब्रवीत् || ३५ ||

ब्रह्मोवाच |

देवि किं तपसा लोकांस्तापयस्यतिशोभने | त्वया सृष्टमिदं विश्वं मा कृत्वा तद्विनाशय || ३६ || त्वं हि धारयसे लोकानिमान्सर्वान्स्वतेजसा | ब्रूहि किं ते जगन्मातः प्रार्थितं सम्प्रसीद नः || ३७ ||

देव्युवाच |

यदर्थं तपसो ह्यस्य चरणं मे पितामह | जानीषे तत्त्वमेतन्मे ततः पृच्छसि किं पुनः || ३८ ||

ब्रह्मोवाच |

यदर्थं देवि तपसा श्राम्यसे लोकभावनि | स त्वां स्वयं समागम्य इहैव वरयिष्यति || ३९ || सर्वदेवपतिः श्रेष्ठः सर्वलोकेश्वरेश्वरः | वयं सदेवा यस्येशे वश्याः किंकरवादिनः || ४० || स देवदेवः परमेश्वरेश्वरः स्वयं तवायास्यति लोकपो ऽन्तिकम् | उदाररूपो विकृताभिरूपवान्समानरूपो न हि यस्य कस्यचित् || ४१ || महेश्वरः पर्वतलोकवासी चराचरेशः प्रथमो ऽप्रमेयः | विनेन्दुना इन्दुसमानवक्त्रो विभीषणं रूपमिहास्थितो ऽग्रम् || ४२ || इति स्कन्दपुराणे एकादशो ऽध्यायः ||

सनत्कुमार उवाच |

ततः स भगवान्देवो ब्रह्मा तामाह सुस्वरम् | देवि येनैव सृष्टासि मनसा यस्त्वया वृतः | स भर्ता तव देवेशो भविता मा तपः कृथाः || १ || ततः प्रदक्षिणं कृत्वा ब्रह्मा व्यास गिरेः सुताम् | जगामादर्शनं तस्याः सा चापि विरराम ह || २ || सा देवी युक्तमित्येवमुक्त्वा स्वस्याश्रमस्य ह | द्वारि जातमशोकं वै समुपाश्रित्य संस्थिता || ३ || अथागाच्चन्द्रतिलकस्त्रिदशार्तिहरो हरः | विकृतं रूपमास्थाय ह्रस्वो बाहुक एव च || ४ || विभुग्ननासिको भूत्वा कुब्जः केशान्तपिङ्गलः | उवाच विकृतास्यश्च देवि त्वां वरयाम्यहम् || ५ || अथोमा योगसंसिद्धा ज्ञात्वा शंकरमागतम् | अन्तर्भावविशुद्धा सा क्रियानुष्ठानलिप्सया || ६ || तमुवाचार्घ्यमानाय्य मधुपर्केण चैव हि | सम्पूज्य ससुखासीनं ब्राह्मणं ब्राह्मणप्रिया || ७ ||

देव्युवाच |

भगवन्नस्वतन्त्रास्मि पिता मे ऽस्त्यरणी तथा | तौ प्रभू मम दाने वै कन्याहं द्विजपुंगव || ८ || गत्वा याचस्व पितरं मम शैलेन्द्रमव्ययम् | स चेद्ददाति मां विप्र तुभ्यं तद्रुचितं मम || ९ ||

सनत्कुमार उवाच |

ततः स भगवान्देवस्तथैव विकृतः प्रभुः | उवाच शैलराजं तमुमां मे यच्छ शैलराट् || १० || स तं विकृतरूपेण ज्ञात्वा रुद्रमथाव्ययम् | भीतः शापाच्च विमना इदं वचनमब्रवीत् || ११ || भगवन्नावमन्यामि ब्राह्मणान्भूमिदैवतान् | मनीषितं तु यत्पूर्वं तच्छृणुष्व महातपः || १२ || स्वयंवरो मे दुहितुर्भविता विप्रपूजितः | वरयेद्यं स्वयं तत्र स भर्तास्या भवेदिति || १३ ||

सनत्कुमार उवाच |

तच्छ्रुत्वा शैलवचनं भगवान्गोवृषध्वजः | देव्याः समीपमागत्य इदमाह महामनाः || १४ || देवि पित्रा तवाज्ञप्तः स्वयंवर इति श्रुतम् | तत्र त्वं वरयित्री यं स ते भर्ता किलानघे || १५ || तदापृच्छे गमिष्यामि दुर्लभा त्वं वरानने | रूपवन्तं समुत्सृज्य वृणीथा मादृशं कथम् || १६ ||

सनत्कुमार उवाच |

तेनोक्ता सा तदा तत्र भावयन्ती तदीरितम् | भावं च रुद्रनिहितं प्रसादं मनसस्तथा || १७ || सम्प्राप्योवाच देवेशं मा ते भूद्बुद्धिरन्यथा | अहं त्वां वरयिष्यामि नान्यद्भूतं कथंचन || १८ || अथ वा ते ऽस्ति संदेहो मयि विप्र कथंचन | इहैव त्वां महाभाग वरयामि मनोरथम् || १९ ||

सनत्कुमार उवाच |

गृहीत्वा स्तबकं सा तु हस्ताभ्यां तत्र संस्थितम् | स्कन्धे शम्भोः समादाय देवी प्राह वृतो ऽसि मे || २० || ततः स भगवान्देवस्तथा देव्या वृतस्तदा | उवाच तमशोकं वै वाचा संजीवयन्निव || २१ || यस्मात्तव सुपुष्पेण स्तबकेन वृतो ह्यहम् | तस्मात्त्वं जरया त्यक्तः अमरः सम्भविष्यसि || २२ || कामरूपः कामपुष्पः कामगो दयितो मम | सर्वाभरणपुष्पाढ्यः सर्ववृक्षफलोपगः || २३ || सर्वान्नभक्षदश्चैव अमृतस्रव एव च | सर्वगन्धश्च देव्यास्त्वं भविष्यसि दृढं प्रियः | निर्भयः सर्वलोकेषु चरिष्यसि सुनिर्वृतः || २४ || आश्रमं चैवमत्यर्थं चित्रकूटेति विश्रुतम् | यो ऽभियास्यति पुण्यार्थी सो ऽश्वमेधमवाप्स्यति | यत्र तत्र मृतश्चापि ब्रह्मलोकं गमिष्यति || २५ || यश्चात्र नियमैर्युक्तः प्राणान्सम्यक्परित्यजेत् | स देव्यास्तपसा युक्तो महागणपतिर्भवेत् || २६ ||

सनत्कुमार उवाच |

एवमुक्त्वा तदा देव आपृच्छ्य हिमवत्सुताम् | अन्तर्दधे जगत्स्रष्टा सर्वभूतप ईश्वरः || २७ || सापि देवी गते तस्मिन्भगवत्यमितात्मनि | तत एवोन्मुखी स्थित्वा शिलायां संविवेश ह || २८ || उन्मुखी सा गते तस्मिन्महेष्वासे प्रजापतौ | निशेव चन्द्ररहिता सा बभौ विमनास्तदा || २९ || अथ शुश्राव सा शब्दं बालस्यार्तस्य शैलजा | सरस्युदकसम्पूर्णे समीपे चाश्रमस्य ह || ३० || स कृत्वा बालरूपं तु देवदेवः स्वयं शिवः | क्रीडाहेतोः सरोमध्ये ग्राहग्रस्तो ऽभवत्तदा || ३१ || योगमायामथास्थाय प्रपञ्चोद्भवकारणम् | तद्रूपं सरसो मध्ये कृत्वेदं समभाषत | त्रातु मां कश्चिदेत्येह ग्राहेण हृतचेतसम् || ३२ || धिक्कष्टं बाल एवाहमप्राप्तार्थमनोरथः | यास्यामि निधनं वक्त्रे ग्राहस्यास्य दुरात्मनः || ३३ || शोचामि न स्वकं देहं ग्राहग्रस्तो ऽपि दुःखितः | यथा शोचामि पितरं मातरं च तपस्विनीम् || ३४ || मां श्रुत्वा ग्राहवदने प्राप्तं निधनमुत्सुकौ | प्रियपुत्रावेकपुत्रौ प्राणान्नूनं विहास्यतः || ३५ ||

सनत्कुमार उवाच |

श्रुत्वा तु देवी तं नादं विप्रस्यार्तस्य शोभना | उत्थाय प्रद्रुता तत्र यत्र तिष्ठत्यसौ द्विजः || ३६ || सापश्यदिन्दुवदना बालकं चारुरूपिणम् | ग्राहेण ग्रस्यमानं तं वेपमानमवस्थितम् || ३७ || सो ऽपि ग्राहवरः श्रीमान्दृष्ट्वा देवीमुपागताम् | तं गृहीत्वा द्रुतं यातो मध्यं सरस एव ह || ३८ || स कृष्यमाणस्तेजस्वी नादमार्तं तदाकरोत् | अथाह देवी दुःखार्ता बालं दृष्ट्वा महाव्रता || ३९ || ग्राहराज महासत्त्व बालकं ह्येकपुत्रकम् | विसृजैनं महादंष्ट्र क्षिप्रं भीमपराक्रम || ४० ||

ग्राह उवाच |

यो देवि दिवसे षष्ठे प्रथमं समुपैति माम् | स आहारो मम पुरा विहितो लोककर्तृभिः || ४१ || सो ऽयं मम महाभागे षष्ठे ऽहनि गिरीन्द्रजे | ब्रह्मणा विहितो नूनं नैनं मोक्ष्ये कथंचन || ४२ ||

देव्युवाच |

यन्मया हिमवच्छृङ्गे चरितं तप उत्तमम् | तेन बालमिमं मुञ्च ग्राहराज नमो ऽस्तु ते || ४३ ||

ग्राह उवाच |

मा व्ययं तपसो देवि कार्षीः शैलेन्द्रनन्दने | नैनं मोचयितुं शक्तो देवराजो ऽपि स स्वयम् || ४४ || मह्यमीशेन तुष्टेन शर्वेणोग्रेण शूलिना | अमरत्वमवध्यत्वमक्षयं बलमेव च || ४५ || स्वयंग्रहणमोक्षश्च ज्ञानं चैवाव्ययं पुनः | दत्तं ततो ब्रवीमि त्वां नायं मोक्षमवाप्स्यति || ४६ || अथ वा ते कृपा देवि भृशं बाले शुभानने | ब्रवीमि यत्कुरु तथा ततो मोक्षमवाप्स्यति || ४७ ||

देव्युवाच |

ग्राहाधिप वदस्वाशु यत्सतामविगर्हितम् | तत्कृतं नात्र संदेहो मान्या मे ब्राह्मणा दृढम् || ४८ ||

ग्राह उवाच |

यत्कृतं वै तपः किंचिद्भवत्या स्वल्पमन्तशः | तत्सर्वं मे प्रयच्छस्व ततो मोक्षमवाप्स्यति || ४९ ||

देव्युवाच |

जन्मप्रभृति यत्पुण्यं महाग्राह कृतं मया | तत्ते सर्वं मया दत्तं बालं मुञ्च ममाग्रतः || ५० ||

सनत्कुमार उवाच |

प्रजज्वाल ततो ग्राहस्तपसा तेन बृंहितः | आदित्य इव मध्याह्ने दुर्निरीक्ष्यस्तदाभवत् || ५१ || उवाच चेदं तुष्टात्मा देवीं लोकस्य धारिणीम् | देवि किं कृतमेतत्ते अनिश्चित्य महाव्रते | तपसो ह्यर्जनं दुःखं तस्य त्यागो न शस्यते || ५२ || गृहाण तप एतच्च बालं चेमं शुचिस्मिते | तुष्टो ऽस्मि ते विप्रभक्त्या वरं तस्माद्ददामि ते || ५३ || सा त्वेवमुक्ता ग्राहेण उवाचेदं महाव्रता | सुनिश्चित्य महाग्राह कृतं बालस्य मोक्षणम् | न विप्रेभ्यस्तपः श्रेष्ठं श्रेष्ठा मे ब्राह्मणा मताः || ५४ || दत्त्वा चाहं न गृह्णामि ग्राहेन्द्र विदितं हि ते | न हि कश्चिन्नरो ग्राह प्रदत्तं पुनराहरेत् || ५५ || दत्तमेतन्मया तुभ्यं नाददानि हि तत्पुनः | त्वय्येव रमतामेतद्बालश्चायं विमुच्यताम् || ५६ || तथोक्तस्तां प्रशस्याथ मुक्त्वा बालं नमस्य च | देवीमादित्यसद्भासं तत्रैवान्तरधीयत || ५७ || बालो ऽपि सरसस्तीरे मुक्तो ग्राहेण वै तदा | स्वप्नलब्ध इवार्थौघस्तत्रैवान्तरधीयत || ५८ || तपसो ऽथ व्ययं मत्वा देवी हिमगिरीन्द्रजा | भूय एव तपः कर्तुमारेभे यत्नमास्थिता || ५९ || कर्तुकामां तपो भूयो ज्ञात्वा तां शंकरः स्वयम् | प्रोवाच वचनं व्यास मा कृथास्तप इत्युत || ६० || मह्यमेतत्तपो देवि त्वया दत्तं महाव्रते | तेनैवमक्षयं तुभ्यं भविष्यति सहस्रधा || ६१ || इति लब्ध्वा वरं देवी तपसो ऽक्षय्यमुत्तमम् | स्वयंवरमुदीक्षन्ती तस्थौ प्रीतिमुदायुता || ६२ || इदं पठेद्यो हि नरः सदैव बालानुभावाचरणं हि शम्भोः | स देहभेदं समवाप्य पूतो भवेद्गणस्तस्य कुमारतुल्यः || ६३ || इति स्कन्दपुराणे द्वादशमो ऽध्यायः ||

सनत्कुमार उवाच |

विस्तृते हिमवत्पृष्ठे विमानशतसंकुले | अभवत्स तु कालेन शैलपुत्र्याः स्वयंवरः || १ || अथ पर्वतराजो ऽसौ हिमवान्ध्यानकोविदः | दुहितुर्देवदेवेन ज्ञात्वा तदभिमन्त्रितम् || २ || जानन्नपि महाशैलः समाचारक्रियेप्सया | स्वयंवरं ततो देव्याः सर्वलोकेष्वघोषयत् || ३ || देवदानवसिद्धानां सर्वलोकनिवासिनाम् | वृणुयात्परमेशानं समक्षं येन मे सुता || ४ || तदेव सुकृतं श्लाघ्यं ममाभ्युदयसंमतम् | इति संचिन्त्य शैलेन्द्रः कृत्वा हृदि महेश्वरम् || ५ || आब्रह्मकेषु लोकेषु देव्याः शैलेन्द्रसत्तमः | कृत्वा रत्नाकुलं देशं स्वयंवरमचीकरत् || ६ || अथैवमाघोषितमात्र एव स्वयंवरे व्यास महीध्रपुत्र्याः | देवादयः सर्वजगन्निवासाः समाययुर्दिव्यगृहीतवेषाः || ७ || प्रफुल्लपद्मासनसंनिविष्टः सिद्धैर्वृतो योगिभिरप्रमेयैः | विज्ञापितस्तेन महीध्रराज्ञा पितामहस्तत्र समाजगाम || ८ || अक्ष्णां सहस्रं सुरराट् स बिभ्रद्दिव्याङ्गहारस्रगुदात्तरूपः | ऐरावतं सर्वगजेन्द्रमुख्यं स्रवन्मदासारकृतप्रवाहम् | आरुह्य सर्वामरराट् स वज्रं बिभ्रत्समागात्पुरतः सुराणाम् || ९ || तेजःप्रतापाधिकदिव्यरूपः प्रोद्भासयन्सर्वदिशो विवस्वान् | हैमं विमानं सचलत्पताकमारुह्य आगात्त्वरितं जवेन || १० || मणिप्रदीप्तोज्ज्वलकुण्डलश्च वह्न्यर्कतेजःप्रतिमे विमाने | समभ्यगात्कश्यपविप्रसूनुरादित्य आगाद्भगनामधारी || ११ || पीनाङ्गयष्टिः सुकृताङ्गहारस्तेजोबलाज्ञासदृशप्रभावः | दण्डं समादाय कृतान्त आगादारुह्य भीमं महिषं जवेन || १२ || महामहीध्रोच्छ्रयपीनगात्रः स्वर्णादिरत्नाचितचारुवेषः | समीरणः सर्वजगद्विभर्ता विमानमारुह्य समभ्यगाद्धि || १३ || संतापयन्सर्वसुरासुरेशांस्तेजोधिकस्तेजसि संनिविश्य | वह्निः समभ्येत्य सुरेन्द्रमध्ये ज्वलन्प्रतस्थौ वरवेषधारी || १४ || नानामणिप्रज्वलिताङ्गयष्टिर्जगच्चरन्दिव्यविमानमग्र्यम् | आरुह्य सर्वद्रविणाधिपेशः स राजराजस्त्वरितो ऽभ्यगाच्च || १५ || आप्याययन्सर्वसुरासुरेशान्कान्त्या च वेषेण च चारुरूपः | ज्वलन्महारत्नविचित्ररूपं विमानमारुह्य शशी समागात् || १६ || श्यामाङ्गयष्टिः सुविचित्रवेषः सर्वस्रगाबद्धसुगन्धमाली | तार्क्ष्यं समारुह्य महीध्रकल्पं गदाधरो ऽसौ त्वरितं समेतः || १७ || तथाश्विनौ देवभिषग्वरौ तु एकं विमानं त्वरयाभिरुह्य | मनोहरावुज्ज्वलचारुवेषावाजग्मतुर्देवसदः सुवीरौ || १८ || शेषः सहस्रं स्फुरदग्निवर्णं बिभ्रत्स्फटानां ज्वलनार्कतेजाः | सार्धं स नागैरपरैर्महात्मा विमानमारुह्य समभ्यगाच्च || १९ || दितेः सुतानां च महासुराणां वह्न्यर्कशक्रानिलतुल्यभासाम् | वरानुरूपं प्रविधाय वेषं वृन्दं समागात्पुरतः सुराणाम् || २० || गन्धर्वराजः स च चारुरूपी दिव्यङ्गमो दिव्यविमानचारी | गन्धर्वसंघैः सहितो ऽप्सरोभिः शक्राज्ञया तत्र समाजगाम || २१ || अन्ये च देवास्त्रिदिवौकसेशाः पृथक्पृथक्चारुगृहीतवेषाः | आजग्मुरारुह्य विमानपृष्ठं गन्धर्वयक्षोरगकिंनराश्च || २२ || शचीपतिस्तत्र सुरेन्द्रमध्ये राजाधिकाराधिकलक्ष्यमूर्तिः | आज्ञाबलैश्वर्यकृतप्रमोहो वृथाधिकं यत्नमुपाचकार || २३ || हेतुस्त्रिलोकस्य जगत्प्रसूतेर्माता च तेषां ससुरासुराणाम् | पत्नी च शम्भोः पुरुषस्य धाम्नो गीता पुराणे प्रकृतिः परार्था | दक्षस्य कोपाद्धिमवद्गृहं सा कार्यार्थमागात्परमेशपत्नी || २४ || एवं यतस्तां न विदुः सुरेशा मोहस्ततस्तान्पर आविवेश | वरार्थमाजग्मुरतो विमूढा ईशेन यस्माद्वृडिताः कृतास्ते || २५ || ततः प्रनृत्ताभिरथाप्सरोभिर्गन्धर्वसंघैश्च सुगीतशब्दैः | स्थितैश्च नानाविधरूपवेषैर्देवासुरादित्रिदिवौकसंघैः || २६ || विमानपृष्ठे मणिहेमचित्रे स्थिता चलच्चामरवीजिताङ्गी | सर्वर्तुपुष्पां सुसुगन्धमालां प्रगृह्य देवी प्रसभं प्रतस्थे || २७ ||

सनत्कुमार उवाच |

मालां प्रगृह्य देव्यां तु स्थितायां देवसंसदि | शक्राद्यैरागतैर्देवैः स्वयंवरमुपागतैः || २८ || देव्या जिज्ञासया शम्भुर्भूत्वा पञ्चशिखः शिशुः | उत्सङ्गतलसंसुप्तो बभूव सहसा विभुः || २९ || अकस्मादथ तं देवी शिशुं पञ्चशिखं स्थितम् | ज्ञात्वा योगसमाधानाज्जहृषे प्रीतिसंयुता || ३० || अथ सा शुद्धसंकल्पा काङ्क्षितप्राप्तसत्फला | निर्वृतेव तदा तस्थौ कृत्वा हृदि तमेव तु || ३१ || ततो दृष्ट्वा शिशुं देवा देव्या उत्सङ्गवर्तिनम् | को ऽयमत्रेति संमन्त्र्य चुक्रुधुर्भृशमार्दिताः || ३२ || वज्रमाकारयत्तस्य बाहुमुत्क्षिप्य वृत्रहा | स बाहुरुत्थितस्तस्य तथैव समतिष्ठत || ३३ || स्तम्भितः शिशुरूपेण देवदेवेन शम्भुना | वज्रं क्षेप्तुं न शशाक बाहुं चालयितुं न च || ३४ || भगो नाम ततो देव आदित्यः काश्यपो बली | उत्क्षिप्य मुशलं दीप्तं क्षेप्तुमैच्छद्विमोहितः | तस्यापि भगवान्बाहुं तथैवास्तम्भयत्तदा || ३५ || शिरः प्रकम्पयन्विष्णुः सक्रोधस्तमवैक्षत | तस्यापि शिरसो देवः खालित्यं प्रचकार ह || ३६ || पूषा दन्तान्दशन्दन्तैः शर्वमैक्षत मोहितः | तस्यापि दशनाः पेतुर्दृष्टमात्रस्य शम्भुना || ३७ || यमस्य स्तम्भितो दण्डस्तेजो वह्नेः शशेः प्रभा | बलं वायोस्तथान्येषां तस्मिन्सर्वदिवौकसाम् | बलं तेजश्च योगं च तथैवास्तम्भयद्विभुः || ३८ || अथ तेषु स्थितेष्वेवं मन्युमत्सु सुरेषु तु | ब्रह्मा परमसंविग्नो ध्यानमास्थाय सादरम् | बुबुधे देवदेवेशमुमोत्सङ्गसमास्थितम् || ३९ || स बुद्ध्वा परमेशानं शीघ्रमुत्थाय सादरम् | ववन्दे चरणौ शम्भोरस्तुवच्च पितामहः | पौराणैः सामसंगीतैः पुण्याख्यैर्गुह्यनामभिः || ४० || अजस्त्वममरो देव स्रष्टा हर्ता विभुः परः | प्रधानपुरुषस्तत्त्वं ब्रह्म ध्येयं तदक्षयम् || ४१ || अमृतं परमात्मा च ईश्वरः कारणं महत् | ब्रह्मकृत्प्रकृतेः स्रष्टा सर्वसृक्परमेश्वरः || ४२ || इयं च प्रकृतिर्देवी सदा ते सृष्टिकारणम् | पत्नीरूपं समास्थाय जगत्कारणमागता || ४३ || नमस्तुभ्यं सदेशान देव्याश्चैव सदा नमः | प्रसादात्तव देवेश नियोगाच्च मया प्रजाः || ४४ || देवाद्यास्त इमे सृष्टा मूढास्त्वद्योगमोहिताः | कुरु प्रसादमेतेषां यथापूर्वं भवन्त्विमे || ४५ || तत एवं तदा ब्रह्मा विज्ञाप्य परमेश्वरम् | स्तम्भितान्सर्वदेवांस्तानिदमाह महाद्युतिः || ४६ || मूढाः स्थ देवताः सर्वे नैनं बुध्यत शंकरम् | देवदेवमिहायातं ममैवोत्पत्तिकारणम् || ४७ || अयं रुद्रो महादेवः शर्वो भीमः कपर्दिमान् | उग्र ईशान आत्मा च अजः शंकर एव च || ४८ || देवदेवः परं धाम ईशः पशुपतिः पतिः | जगत्स्रष्टा जगद्धर्ता जगत्संस्थितिकारणम् || ४९ || गच्छध्वं शरणं शीघ्रमेवमेवामरेश्वराः | सार्धं मयैव देवेशं परमात्मानमव्ययम् || ५० || ततस्ते स्तम्भिताः सर्वे तथैव त्रिदिवौकसः | प्रणेमुर्मनसा शर्वं भावशुद्धेन चेतसा || ५१ || अथ तेषां प्रसन्नो ऽभूद्देवदेवो महेश्वरः | यथापूर्वं चकाराशु देवतानां तनूस्तदा || ५२ || तत एवं प्रवृत्ते तु सर्वदेवनिवारणे | वपुश्चकार देवेशस्त्र्यक्षं परममद्भुतम् | तेजसा यस्य देवास्ते चक्षुरप्रार्थयन्विभुम् || ५३ || तेभ्यः परमकं चक्षुः स्ववपुर्दृष्टिशक्तिमत् | प्रादात्परमदेवेशः अपश्यंस्ते तदा प्रभुम् || ५४ || ते दृष्ट्वा परमेशानं तृतीयेक्षणधारिणम् | ब्रह्माद्या नेमिरे तूर्णं सर्व एव सुरेश्वराः || ५५ || तस्य देवी तदा हृष्टा समक्षं त्रिदिवौकसाम् | पादयोः स्थापयामास स्रग्मालाममितद्युतेः || ५६ || साधु साध्विति सम्प्रोच्य देवतास्ते पुनर्विभुम् | सह देव्या नमश्चक्रुः शिरोभिर्भूतलाश्रितैः || ५७ || अथास्मिन्नन्तरे व्यास ब्रह्मा लोकपितामहः | हिमवन्तं महाशैलमिदमाह महाद्युतिः || ५८ || श्लाघ्यः पूज्यश्च वन्द्यश्च सर्वेषां नस्त्वमद्य हि | शर्वेण सह सम्बन्धो यस्य ते ऽभूदयं महान् | क्रियतां चाशु उद्वाहः किमर्थं स्थीयते परम् || ५९ || ततः प्रणम्य हिमवांस्तं देवं प्रत्यभाषत | त्वमेव कारणं देव येन शर्वादयं मम || ६० || प्रसादः सहसोत्पन्नो हेतुश्चापि त्वमेव हि | उद्वाहं तु यथा यादृक्तद्विधत्स्व पितामह || ६१ || तत एवं वचः श्रुत्वा गिरिराज्ञः पितामहः | उद्वाहः क्रियतां देव इति देवमुवाच ह | तमाह शंकरो देवं यथेष्टमिति लोकपः || ६२ || तत्क्षणाच्च ततो व्यास ब्रह्मणा कल्पितं पुरम् | उद्वाहार्थं महेशस्य नानारत्नोपशोभितम् || ६३ || रत्नानि मणयश्चित्रा हेम मौक्तिकमेव च | मूर्तिमन्त उपागम्य अलंचक्रुः पुरोत्तमम् || ६४ || चित्रा मारकती भूमिः सौवर्णस्तम्भशोभिता | भास्वत्स्फटिकभित्तीभिर्मुक्ताहारप्रलम्बिता || ६५ || तस्मिञ्छिवपुरे रम्ये उद्वाहार्थं विनिर्मिते | शुशुभे देवदेवस्य महेशस्य महात्मनः || ६६ || सोमादित्यौ समं तत्र भासयन्तौ महामणी | सौरभेयं मनोरम्यं गन्धमाघ्राय मारुतः | प्रववौ सुखसंस्पर्श ईशे भक्तिं प्रसादयन् || ६७ || समुद्रास्तत्र चत्वारः शक्राद्याश्च सुरोत्तमाः | देवनद्यो महानद्यः सिद्धा मुनय एव च || ६८ || गन्धर्वाप्सरसः सर्वे नागा यक्षाः सराक्षसाः | गुह्यकाः खेचराश्चान्ये किंनरा देवचारणाः || ६९ || तुम्बुरुर्नारदो हाहा हूहू चैव तु सामगाः | रत्नान्यादाय वाद्यांश्च तत्राजग्मुस्तदा पुरम् || ७० || ऋषयः कृत्स्नशस्तत्र वेदगीतांस्तपोधनाः | पुण्यान्वैवाहिकान्मन्त्राञ्जेपुः संहृष्टमानसाः || ७१ || जगतो मातरः सर्वा देवकन्याश्च कृत्स्नशः | गायन्ति हृषिताः सर्वा उद्वाहे परमेष्ठिनः || ७२ || ऋतवः षट् समं तत्र नानागन्धसुखावहाः | उद्वाहः शंकरस्येति मूर्तिमन्त उपस्थिताः || ७३ || नीलजीमूतसंघातमन्द्रध्वानप्रहर्षितैः | केकायमानैः शिखिभिर्नृत्यमानैश्च सर्वशः || ७४ || विलोलपिङ्गलस्पष्टविद्युल्लेखावभासिता | कुमुदापीतशुक्लाभिर्बलाकाभिश्च शोभिता || ७५ || प्रत्यग्रसंजातशिलीन्ध्रकन्दला लताद्रुमाभ्युद्गतचारुपल्लवा | शुभाम्बुधाराप्रणयप्रबोधितैर्मदालसैर्भेकगणैश्च नादिता || ७६ || प्रियेषु मानोन्नतमानसानां सुनिश्चितानामपि कामिनीनाम् | मयूरकेकाभिरुतैः क्षणेन मनोहरैर्मानविभङ्गकर्त्री || ७७ || तथा त्रिवर्णोज्ज्वलचारुमूर्तिना शशाङ्कलेखाकुटिलेन सर्वतः | पयोदसंघातसमीपवर्तिना महेन्द्रचापेन भृशं विराजिता || ७८ || विचित्रपुष्पस्पर्शात्सुगन्धिभिर्घनाम्बुसम्पर्कतया सुशीतलैः | विकम्पयन्ती पवनैर्मनोहरैः सुराङ्गनानामलकावलीः शुभाः || ७९ || गर्जत्पयोदस्थगितेन्दुबिम्बा नवाम्बुसेकोद्गतचारुदूर्वा | निरीक्षिता सादरमुत्सुकाभिर्निश्वासधूम्रं पथिकाङ्गनाभिः || ८० || हंसनूपुरशब्दाढ्या समुन्नतपयोधरा | चलद्विद्युल्लताकाञ्ची स्पष्टपद्मविलोचना || ८१ || असितजलदवृन्दध्वानवित्रस्तहंसा विमलसलिलधारापातनम्रोत्पलाग्रा | सुरभिकुसुमरेणुक्.ल्प्तसर्वाङ्गशोभा गिरिदुहितृविवाहे प्रावृडागाद्विभूत्यै || ८२ || मेघकञ्चुकनिर्मुक्ता पद्मकोशोद्गतस्तनी | हंसनूपुरनिर्ह्रादा सर्वरम्यदिगन्तरा || ८३ || विस्तीर्णपुलिनश्रोणी कूजत्सारसमेखला | प्रफुल्लेन्दीवराभोगविलोचनमनोहरा || ८४ || पक्वबिम्बाधरपुटा कुन्ददन्तप्रहासिनी | नवश्यामालताश्यामरोमराजीपरिष्कृता || ८५ || चन्द्रांशुहारवर्येण सौधोरःस्थलसर्पिणा | प्रह्लादयन्ती चेतांसि सर्वेषां त्रिदिवौकसाम् || ८६ || समदालिकुलोद्गीतमधुरस्वरभाषिणी | चलत्कुमुदसंघातचारुकुण्डलशोभिनी || ८७ || रक्ताशोकाग्रशाखोत्थपल्लवाङ्गुलिधारिणी | तत्पुष्पसंचयमयैर्वासोभिः समलंकृता || ८८ || रक्तोत्पलाग्रचरणा जातीपुष्पनखावली | कदलीस्तम्भचारूरुः शशाङ्कवदना तथा || ८९ || पद्मकिञ्जल्कसम्पृक्तपवनाग्रकरैः सुरान् | प्रेम्णा स्पृशन्ती कान्तेव शरदागान्मनोरमा || ९० || निर्मुक्तासितमेघकञ्चुकपुटा पूर्णेन्दुबिम्बानना नीलाम्भोजविलोचनारविन्दमुकुलप्रोद्भिन्नचारुस्तनी | नानापुष्परजःसुगन्धिपवनप्रह्लादनी चेतसां तत्रागात्कलहंसनूपुररवा देव्या विवाहे शरत् || ९१ || अत्यर्थशीतलाम्भोभिः प्लावयन्तौ गिरेः शिलाः | ऋतू शिशिरहेमन्तावाजग्मतुरतिद्युती || ९२ || ताभ्यामृतुभ्यां प्राप्ताभ्यां हिमवान्स नगोत्तमः | प्रालेयचूर्णवर्षिभ्यां क्षिप्रं रौप्य इवाबभौ || ९३ || तेन प्रालेयवर्षेण घनेन स हिमाचलः | अगाधेन तदा रेजे क्षीरोद इव सागरः || ९४ || हिमस्थानेषु हिमवान्नाशयामास पादपान् | साधूपचारान्सहसा कृतार्थ इव दुर्जनः || ९५ || प्रालेयपटलच्छन्नैः शृङ्गैः स शुशुभे नगः | छत्रैरिव महाभोगैः पाण्डरैः पृथिवीपतिः || ९६ || पाण्डराणि विशालानि श्रीमन्ति सुभगानि च | तुङ्गानि चाद्रिशृङ्गाणि सौधानीव चकाशिरे || ९७ || तस्याचलेन्द्रस्य दरीष्वतीव विचित्रसारङ्गकुलाकुलासु | प्रालेयधाराः शशिपादगौरा गोक्षीरधारा इव संनिपेतुः || ९८ || बहुकुसुमरजोभिरुत्कराङ्गा हिमकणसङ्गसुशीतलाः समीराः | ववुरमरगणेश्वराम्बराणि प्रतनुतमानि शनैर्विकम्पयन्तः || ९९ || निर्धूतरूक्षानिलशीतदोषः प्रोद्भिन्नचूताङ्कुरकर्णपूरः | वसन्तकालश्च तमद्रिपुत्रीसेवार्थमागाद्धिमवन्तमाशु || १०० || तस्मिन्नृतावद्रिसुताविवाहसिषेवया तं गिरिमभ्युपेते | प्रादुर्बभूवुः कुसुमावतंसाः समन्ततः पादपगुल्मषण्डाः || १०१ || ववुः सुगन्धाः सुभगाः सुशीता विचित्रपुष्पाग्ररजोत्कराङ्गाः | मनोभवोद्रेककराः सुराणां सुराङ्गनानां च मुहुः समीराः || १०२ || स्वच्छाम्बुपूर्णाश्च तथा नलिन्यः पद्मोत्पलानां मुकुलैरुपेताः | ईषत्समुद्भिन्नपयोधराग्रा नार्यो यथा रम्यतमा बभूवुः || १०३ || ऋतोः स्वभावाच्च मदोद्भवाच्च फुल्लासु शाखासु निलीनपक्षाः | चेतोभिरामं त्रिदशाङ्गनानां पुंस्कोकिलाश्चातिकलं विनेदुः || १०४ || नात्युष्णशीतानि सरःपयांसि किञ्जल्कचूर्णैः कपिलीकृतानि | चक्राह्वयुग्मैरुपनादितानि पपुः प्रहृष्टाः सुरदन्तिमुख्याः || १०५ || प्रियङ्गूश्चूततरवश्चूतांश्चापि प्रियङ्गवः | तर्जयन्त इवान्योन्यं मञ्जरीभिश्चकाशिरे || १०६ || हिमशुक्लेषु शृङ्गेषु तिलकाः कुसुमोत्कराः | शुशुभुः कार्यमुद्दिश्य वृद्धा इव समागताः || १०७ || फुल्लाशोकलतास्तत्र रेजिरे शालसंश्रिताः | कामिन्य इव कान्तानां कण्ठालम्बितमूर्तयः || १०८ || समदालिकुलोद्गीतलताकुसुमसंचयाः | परस्परं हि मालत्यो भाषन्त्य इव रेजिरे || १०९ || नीलानि नीलाम्बुरुहैः पयांसि गौराणि गौरैश्च सनालदण्डैः | रक्तैश्च रक्तानि भृशं कृतानि मत्तद्विरेफार्धविदष्टपत्रैः || ११० || हैमानि विस्तीर्णजलेषु केषुचिन्निरन्तरं मारकतानि केषुचित् | वैदूर्यनालानि सरःसु केषुचित्प्रजज्ञिरे पद्मवनानि सर्वतः || १११ || वाप्यस्तत्राभवन्रम्याः कमलोत्पलभूषिताः | नानाविहगसंघुष्टा हेमसोपानपङ्क्तयः || ११२ || शृङ्गाणि तस्य तु गिरेः कर्णिकारैः सुपुष्पितैः | समुच्छ्रितान्यविरलैर्हैमानीव बभुर्मुने || ११३ || ईषदुद्भिन्नकुसुमैः पाटलैश्चापि पाटलाः | सम्बभूवुर्दिशः सर्वाः पवनाकम्पिमूर्तिभिः || ११४ || कृष्णाञ्जनाद्रिशृङ्गाभा नीलाशोकमहीरुहाः | गिरौ ववृधिरे फुल्लाः स्पर्धयेव परस्परम् || ११५ || चीरुवाकविघुष्टानि किंशुकानां वनानि च | पर्वतस्य नितम्बेषु सर्वेष्वेवाभिजज्ञिरे || ११६ || तमालगुल्मैस्तस्यासीच्छोभा हिमवतस्तदा | नीलजीमूतसंघातैर्निलीनैरिव सन्धिषु || ११७ || निकामपुष्पैः सुविशालशाखैः समुच्छ्रितैश्चम्पकपादपैश्च | प्रमत्तपुंस्कोकिलसम्प्रलापैर्हिमाचलो ऽतीव तदा रराज || ११८ || श्रुत्वा शब्दं ऋतुमदकलं सर्वतः कोकिलानां चञ्चत्पक्षाः सुमधुररुतं नीलकण्ठा विनेदुः | तेषां शब्दैरुपचितबलः पुष्पचापेषुहस्तः सज्जीभूतस्त्रिदशवनिता वेद्धुमङ्गेष्वनङ्गः || ११९ || पटुसूर्यातपश्चापि प्रायः सोष्णजलाशयः | देवीविवाहसेवार्थं ग्रीष्म आगाद्धिमाचलम् || १२० || स चापि तरुभिस्तत्र बहुभिः कुसुमोत्करैः | शोभयामास शृङ्गाणि प्रालेयाद्रेः समन्ततः || १२१ || तस्यापि च ऋतोस्तत्र वायवः सुमनोहराः | ववुः पाटलविस्तीर्णकदम्बार्जुनगन्धिनः || १२२ || वाप्यः प्रफुल्लपद्मौघाः केसरारुणमूर्तयः | अभवंस्तटसंघुष्टकलहंसकदम्बकाः || १२३ || तथा कुरवकाश्चापि कुसुमापाण्डुमूर्तयः | सर्वेषु जज्ञुः शृङ्गेषु भ्रमरावलिसेविताः || १२४ || बकुलाश्च नितम्बेषु विशालेषु महीभृतः | उत्ससर्जुर्मनोज्ञानि कुसुमानि समन्ततः || १२५ || इति कुसुमविचित्रसर्ववृक्षा विविधविहंगमनादरम्यदेशाः | हिमगिरितनयाविवाहभूत्यै षडुपययुरृतवो मुनिप्रवीर || १२६ || तत एवं प्रवृत्ते तु सर्वभूतसमागमे | नानावाद्यशताकीर्णे ब्रह्मा मम पिता स्वयम् || १२७ || शैलपुत्रीमलंकृत्य योग्याभरणसम्पदा | पुरं प्रवेशयामास स्वयमादाय लोकधृक् || १२८ || ततस्तु पुनरेवेशं ब्रह्मा व्यज्ञापयद्विभुम् | हविर्जुहोमि वह्नौ तु उपाध्यायपदे स्थितः | ददासि मह्यं यद्याज्ञां कर्तव्यो ऽयं क्रियाविधिः || १२९ || तमाह शंकरो देवं देवदेवो जगत्पतिः | यद्यदिष्टं सुरेशान तत्कुरुष्व यथेप्सितम् | कर्तास्मि वचनं सर्वं ब्रह्मंस्तव जगद्विभो || १३० || ततः प्रणम्य हृष्टात्मा ब्रह्मा लोकपितामहः | हस्तं देवस्य देव्याश्च योगबन्धे युयोज ह || १३१ || ज्वलनं च स्वयं कृत्वा कृताञ्जलिमुपस्थितं | श्रुतिगीतैर्महामन्त्रैर्मूर्तिमद्भिरुपस्थितैः || १३२ || यथोक्तविधिना हुत्वा सर्पिस्तदमृतं च हि | त्रिश्च तं ज्वलनं देवं कारयित्वा प्रदक्षिणम् || १३३ || मुक्त्वा हस्तसमायोगं सहितः सर्वदेवतैः | सुतैश्च मानसैः सर्वैः प्रहृष्टेनान्तरात्मना | वृत्ते उद्वाहकाले तु प्रणनाम वृषध्वजम् || १३४ || योगेनैव तयोर्व्यास तदोमापरमेशयोः | उद्वाहः स परो वृत्तो यं देवा न विदुः क्वचित् || १३५ || इति ते सर्वमाख्यातं स्वयंवरमिदं शुभम् | उद्वाहश्चैव देवस्य शृण्वतः परमाद्भुतम् || १३६ || इति स्कन्दपुराणे नाम त्रयोदशो ऽध्यायः ||

सनत्कुमार उवाच |

अथ वृत्ते विवाहे तु भवस्यामिततेजसः | प्रहर्षमतुलं गत्वा देवाः सहपितामहाः | तुष्टुवुर्वाग्भिरिष्टाभिः प्रणमन्तो महेश्वरम् || १ || नमः पर्वतलिङ्गाय पर्वतेशाय वै नमः | नमः पवनवेगाय विरूपायाजिताय च || २ || नमः क्लेशविनाशाय दात्रे च शुभसम्पदाम् | नमो नीलशिखण्डाय अम्बिकापतये नमः || ३ || नमः पवनरूपाय शतरूपाय वै नमः | नमो भैरवरूपाय विरूपनयनाय च || ४ || नमः सहस्रनेत्राय सहस्रचरणाय च | नमो वेदरहस्याय वेदाङ्गाय नमो नमः || ५ || विष्टम्भनाय शक्रस्य बाहोर्वेदाङ्कुराय च | चराचराधिपतये शमनाय नमो नमः || ६ || सलिलेशयलिङ्गाय युगान्तायतलिङ्गिने | नमः कपालमालाय कपालस्रग्मिणे नमः || ७ || नमः कपालहस्ताय दंष्ट्रिणे गदिने नमः | नमस्त्रैलोक्यवाहाय सप्तलोकरथाय च || ८ || नमः खट्वाङ्गहस्ताय प्रमथार्तिहराय च | नमो यज्ञशिरोहर्त्रे कृष्णकेशापहारिणे || ९ || भगनेत्रनिपाताय पूष्णो दन्तहराय च | नमः पिनाकशूलासिखड्गमुद्गरधारिणे || १० || नमो ऽस्तु कालकालाय तृतीयनयनाय च | अन्तकान्तकृते चैव नमः पर्वतवासिने || ११ || सुवर्णरेतसे चैव सर्पकुण्डलधारिणे | वाड्वलेर्योगनाशाय योगिनां गुरवे नमः || १२ || शशाङ्कादित्यनेत्राय ललाटनयनाय च | नमः श्मशानरतये श्मशानवरदाय च || १३ || नमो दैवतनाथाय त्र्यम्बकाय नमो नमः | अशनीशतहासाय ब्रह्मण्यायाजिताय च || १४ || गृहस्थसाधवे नित्यं जटिने ब्रह्मचारिणे | नमो मुण्डार्धमुण्डाय पशूनां पतये नमः || १५ || सलिले तप्यमानाय योगैश्वर्यप्रदाय च | नमः शान्ताय दान्ताय प्रलयोत्पत्तिकारिणे || १६ || नमो ऽनुग्रहकर्त्रे च स्थितिकर्त्रे नमो नमः | नमो रुद्राय वसवे आदित्यायाश्विने नमः || १७ || नमः पित्रे ऽथ साध्याय विश्वेदेवाय वै नमः | नमः शर्वाय सर्वाय उग्राय वरदाय च || १८ || नमो भीमाय सेनान्ये पशूनां पतये नमः | शुचये रेरिहाणाय सद्योजाताय वै नमः || १९ || महादेवाय चित्राय नमश्चित्ररथाय च | प्रधानाय प्रमेयाय कार्याय करणाय च || २० || पुरुषाय नमस्ते ऽस्तु पुरुषेच्छाकराय च | नमः पुरुषसंयोगप्रधानगुणकारिणे || २१ || प्रवर्तकाय प्रकृतेः पुरुषस्य च सर्वशः | कृताकृतस्य संवेत्त्रे फलसंयोगदाय च || २२ || कालज्ञाय च सर्वत्र नमो नियमकारिणे | नमो वैषम्यकर्त्रे च गुणानां वृत्तिदाय च || २३ || नमस्ते देवदेवेश नमस्ते भूतभावन | शिवः सौम्यः सुखो द्रष्टुं भव सोमो हि नः प्रभो || २४ ||

सनत्कुमार उवाच |

एवं स भगवान्देवो जगत्पतिरुमापतिः | स्तूयमानः सुरैः सर्वैरमरानिदमब्रवीत् || २५ || द्रष्टुं सुखश्च सौम्यश्च देवानामस्मि भो सुराः | वरं ब्रूत यथेष्टं च दातास्मि वदतानघाः || २६ || ततस्ते प्रणताः सर्वे ऊचुः सब्रह्मकाः सुराः | तवैव भगवन्हस्ते वर एषो ऽवतिष्ठताम् | यदा कार्यं तदा नस्त्वं दास्यसे वरमीप्सितम् || २७ || एवमस्त्विति तानुक्त्वा विसृज्य च सुरान्हरः | लोकांश्च प्रमथैः सार्धं विवेश भवनं ततः || २८ || यस्तु हरोत्सवमद्भुतमेतं गायति दैवतविप्रसमक्षम् | सो ऽप्रतिरूपगणेशसमानो देहविपर्ययमेत्य सुखी स्यात् || २९ ||

सनत्कुमार उवाच |

पाराशर्य स्तवं हीदं शृणुयाद्यः पठेत वा | स स्वर्गलोकगो देवैः पूज्यते ऽमरराडिव || ३० || इति स्कन्दपुराणे चतुर्दशमो ऽध्यायः ||

सनत्कुमार उवाच |

प्रविष्टे भवनं देवे सूपविष्टे वरासने | स बहिर्मन्मथः क्रूरो देवं वेद्धुमनाभवत् || १ || तमनाचारसंयुक्तं दुरात्मानं कुलाधमम् | लोकान्सर्वांस्तापयानं सर्वेष्वकरुणात्मकम् || २ || ऋषीणां विघ्नकर्तारं नियमानां व्रतैः सह | चक्राह्वयस्य रूपेण रत्या सह तमागतम् || ३ || अथाततायिनं व्यास वेद्धुकामं सुरेश्वरम् | नयनेन तृतीयेन सावज्ञं तमवैक्षत || ४ || ततो ऽस्य नेत्रजो वह्निर्ज्वालामालासहस्रवान् | संवृत्य रतिभर्तारमदहत्सपरिच्छदम् || ५ || स दह्यमानः करुणमार्तो ऽक्रोशत विस्वरम् | प्रसादयंश्च तं देवं पपात स महीतले || ६ || आशु सो ऽग्निपरीताङ्गो मन्मथो लोकतापनः | पपात भस्मसाच्चैव क्षणेन समपद्यत || ७ || पत्नी तु करुणं तस्य विललाप सुदुःखिता | देवं देवीं च दुःखार्ता अयाचत्करुणायती || ८ || तस्याश्च करुणां श्रुत्वा देवौ तौ करुणात्मकौ | ऊचतुस्तां समालोक्य समाश्वास्य च दुःखिताम् || ९ || दग्ध एष ध्रुवं भद्रे नास्योत्पत्तिरिहेष्यते | अशरीरो ऽपि ते काले कार्यं सर्वं करिष्यति || १० || यदा तु विष्णुर्भविता वसुदेवसुतः शुभे | तदा तस्य सुतो ऽयं स्यात्पतिस्ते स भविष्यति || ११ ||

सनत्कुमार उवाच |

ततः सा तं वरं लब्ध्वा कामपत्नी शुभानना | जगामेष्टं तदा देशं प्रीतियुक्ता गतक्लमा || १२ ||

सनत्कुमार उवाच |

एवं दग्ध्वा स कामं तु शंकरो मूढचेतसम् | प्रोवाच हिमवत्पुत्रीं भक्त्या मुनिवरस्य ह || १३ || वसिष्ठो नाम विप्रेन्द्रो मां कृत्वा हृदि तप्यते | तस्याहं वरदानाय प्रयास्यामि महाव्रते || १४ || एवमुक्त्वा स देवीं तु भक्तिप्रीत्या तदा विभुः | जगाम तप्यतो ऽभ्याशं वसिष्ठस्य मुनेर्विभुः || १५ || ततो मुनिवरश्रेष्ठं वरिष्ठं तपतां वरम् | वसिष्ठमृषिशार्दूलं तप्यमानं परं तपः || १६ || पूर्णे वर्षसहस्रे तु ज्वलमानमिवानलम् | उवाच भगवान्गत्वा ब्रूहि किं ते ददानि ते | ददामि दिव्यं चक्षुस्ते पश्य मां सगणं द्विज || १७ || दृष्ट्वा स तु तमीशानं प्रणम्य शिरसा प्रभुम् | शिरस्यञ्जलिमाधाय तुष्टाव हृषिताननः || १८ ||

वसिष्ठ उवाच |

नमः कनकलिङ्गाय वेदलिङ्गाय वै नमः | नमः सहस्रलिङ्गाय वह्निलिङ्गाय वै नमः || १९ || नमः पुराणलिङ्गाय श्रुतिलिङ्गाय वै नमः | नमः पवनलिङ्गाय ब्रह्मलिङ्गाय वै नमः || २० || नमस्त्रैलोक्यलिङ्गाय दाहलिङ्गाय वै नमः | नमः पर्वतलिङ्गाय स्थितिलिङ्गाय वै नमः || २१ || नमो रहस्यलिङ्गाय सप्तद्वीपोर्ध्वलिङ्गिने | नमः सर्वार्थलिङ्गाय सर्वलोकाङ्गलिङ्गिने || २२ || नमो ऽस्त्वव्यक्तलिङ्गाय बुद्धिलिङ्गाय वै नमः | नमो ऽहंकारलिङ्गाय भूतलिङ्गाय वै नमः || २३ || नम इन्द्रियलिङ्गाय नमस्तन्मात्रलिङ्गिने | नमः पुरुषलिङ्गाय भावलिङ्गाय वै नमः || २४ || नमः सर्वार्थलिङ्गाय तमोलिङ्गाय वै नमः | नमो रजोर्ध्वलिङ्गाय सत्त्वलिङ्गाय वै नमः || २५ || नमो गगनलिङ्गाय तेजोलिङ्गाय वै नमः | नमो वायूर्ध्वलिङ्गाय शब्दलिङ्गाय वै नमः || २६ || नमो ऋक्स्तुतलिङ्गाय यजुर्लिङ्गाय वै नमः | नमस्ते ऽथर्वलिङ्गाय सामलिङ्गाय वै नमः || २७ || नमो यज्ञाङ्गलिङ्गाय यज्ञलिङ्गाय वै नमः | नमस्ते ऽनन्तलिङ्गाय देवानुगतलिङ्गिने || २८ || दिश नः परमं योगमपत्यं मत्समं तथा | ब्रह्म चैवाक्षयं देव शमं चैव परं विभो | अक्षयत्वं च वंशस्य धर्मे च मतिमक्षयाम् || २९ ||

सनत्कुमार उवाच |

एवं स भगवान्व्यास वसिष्ठेनामितात्मना | स्तूयमानस्तुतोषाथ तुष्टश्चेदं तमब्रवीत् || ३० ||

भगवानुवाच |

तुष्टस्ते ऽहं ददान्येतत्तव सर्वं मनोगतम् | योगं च परमं सूक्ष्ममक्षयं सर्वकामिकम् || ३१ || पौत्रं च त्वत्समं दिव्यं तपोयोगबलान्वितम् | ददानि ते ऋषिश्रेष्ठ प्रतिभास्यन्ति चैव ते || ३२ || दमः शमस्तथा कीर्तिस्तुष्टिरक्रोध एव च | नित्यं तव भविष्यन्ति अमरत्वं च सर्वशः || ३३ || अवध्यत्वमसह्यत्वमक्षयत्वं च सर्वदा | वंशस्य चाक्षतिर्विप्र धर्मे च रतिरव्यया | ब्रूहि चान्यानपि वरान्ददामि ऋषिसत्तम || ३४ ||

वसिष्ठ उवाच |

भगवन्विदितं सर्वं भविष्यं देवसत्तम | न स्याद्धि तत्तथा देव यथा वा मन्यसे प्रभो || ३५ ||

देव उवाच |

भविष्यं नान्यथा कुर्यादिति मे निश्चिता मतिः | अहं कर्ता भविष्यस्य कथं कुर्यात्तदन्यथा || ३६ || तथा तन्नात्र संदेहो विहितं यद्यथा मया | तस्मात्ते ऽनुग्रहं कर्ता भूयः पुत्रस्तवाव्ययः || ३७ ||

सनत्कुमार उवाच |

एवमुक्त्वा ततो देवः कपर्दी नीललोहितः | पश्यतस्तस्य विप्रर्षेः क्षणादन्तरधीयत || ३८ || इति स्कन्दपुराणे पञ्चदशमो ऽध्यायः ||

व्यास उवाच |

वरान्स लब्ध्वा भगवान्वसिष्ठो ऽस्मत्पितामहः | कं पुत्रं जनयामास आत्मनः सदृशद्युतिम् || १ ||

सनत्कुमार उवाच |

तेनासौ वरदानेन देवदेवस्य शूलिनः | अरुन्धत्यामजनयत्तपोयोगबलान्वितम् | ब्रह्मिष्ठं शक्तिनामानं पुत्रं पुत्रशताग्रजम् || २ || तस्य बाल्यात्प्रभृत्येव वासिष्ठस्य महात्मनः | परेण चेतसा भक्तिरभवद्गोवृषध्वजे || ३ || स कदाचिदपत्यार्थमाराधयदुमापतिम् | तस्य तुष्टो महादेवो वरदो ऽस्मीत्यभाषत || ४ || अथ दृष्ट्वा तमीशानमिदमाहानताननः | केन स्तोष्यामि ते देव यस्त्वं सर्वजगत्पतिः | सर्वान्धारयसे लोकानात्मना समयाद्विभो || ५ || त्वमेव भोक्ता भोज्यं च कर्ता कार्यं तथा क्रिया | उत्पादकस्तथोत्पाद्य उत्पत्तिश्चैव सर्वशः || ६ || आत्मानं पुत्रनामानं मम तुल्यं गुणैर्विभो | इच्छामि दत्तं देवेश एष मे दीयतां वरः || ७ ||

सनत्कुमार उवाच |

तमेवंवादिनं देवः प्रहस्य वदतां वरः | उवाच वचसा व्यास दिशः सर्वा विनादयन् || ८ || त्वयाहं याचितः शक्ते स च ते संभविष्यति | त्वत्समः सर्ववेदज्ञस्त्वदीयो मुनिपुंगव || ९ || बीजात्मा च तथोद्भूतः स्वयमेवाङ्कुरात्मना | बीजात्मना न भवति परिणामान्तरं गतः || १० || एवं स आत्मनात्मा वः संभूतो ऽपत्यसंज्ञितः | स्वेनात्मना न भविता परिणामान्तरं गतः || ११ ||

सनत्कुमार उवाच |

एवमुक्त्वा तु तं देवः प्रहस्य च निरीक्ष्य च | जगाम सहसा योगी अदृश्यत्वमतिद्युतिः || १२ || तस्मिन्गते महादेवे शक्तिस्तव पितामहः | वचस्तत्परिनिश्चिन्त्य एवमेवेत्यमन्यत || १३ || अथ काले ऽतिमहति समतीते शुभव्रते | तपसा भावितश्चापि महताग्निसमप्रभः | अदृश्यन्त्यां महाप्रज्ञ आदधे गर्भमुत्तमम् || १४ || तस्यामापन्नसत्त्वायां राजा कल्माषपादृषिम् | भक्षयामास संरब्धो रक्षसा हृतचेतनः || १५ || इति स्कन्दपुराणे षोडशो ऽध्यायः ||

व्यास उवाच |

कस्मात्स राजा तमृषिं चखाद तपसान्वितम् | रक्षसा स किमर्थं च हृतचेताभवन्नृपः || १ ||

सनत्कुमार उवाच |

वसिष्ठयाज्यो राजासीन्नाम्ना मित्रसहः प्रभुः | सुदासपुत्रो बलवानिन्द्रचन्द्रसमद्युतिः || २ || तमागम्योचिवाञ्छक्तिश्चरिष्ये दीक्षितो व्रतम् | तत्र मे निशि राजेन्द्र सदैव पिशिताशनम् || ३ || इहागतस्य यच्छस्व शुचि सर्वगुणान्वितम् | अप्रतीकारसंयुक्तमेकदैकान्त एव च || ४ || एवमस्त्विति तेनोक्तो जगाम स महामनाः | अथास्यान्तर्हितं रक्षो नृपतेरभवत्तदा | नाज्ञापयत्तदा सूदं तस्यार्थे मुनिसत्तम || ५ || गते ऽथ दिवसे तात संस्मृत्य प्रयतात्मवान् | सूदमाहूय चोवाच आर्तवत्स नराधिपः || ६ ||

सौदास उवाच |

मयामृतवसो प्रातर्गुरुपुत्रस्य धीमतः | पिशितं सम्प्रतिज्ञातं भोजनं निशि संस्कृतम् | तत्कुरुष्व तथा क्षिप्रं कालो नो नात्यगाद्यथा || ७ || स एवमुक्तः प्रोवाच सूदो ऽमृतवसुस्तदा | राजंस्त्वया नो नाख्यातं प्रागेव नरपुंगव | साम्प्रतं नास्ति पिशितं स्तोकमप्यभिकाङ्क्षितम् || ८ || पिशितस्यैव चाल्पत्वाद्बहूनां चैव तद्भुजाम् | अमितस्य प्रदानाच्च न किंचिदवशिष्यते || ९ ||

राजोवाच |

जाने सर्वोपयोगं च जाने चादुष्टतां तव | जाने स्तोकं च पिशितं कार्यं चेदं तथाविधम् | मृग्यतां पिशितं क्षिप्रं लब्धव्यं यत्र मन्यसे || १० ||

सनत्कुमार उवाच |

एवमुक्तो ऽमृतवसुः प्रयत्नं महदास्थितः | पिशितं मृगयन्सम्यङ्नाप्यविन्दत कर्हिचित् || ११ || यदा न लब्धवान्मांसं तदोवाच नराधिपम् | गत्वा निशि महाराजमिदं वचनमर्थवत् || १२ || राजन्न पिशितं त्वस्ति पुरे ऽस्मिञ्छुचि कर्हिचित् | मृगयन्परिखिन्नो ऽस्मि शाधि किं करवाणि ते || १३ ||

सनत्कुमार उवाच |

स एवमुक्तः सूदेन तस्मिन्काले नराधिपः | नोवाच किंचित्तं सूदं तूष्णीमेव बभूव ह || १४ || तदन्तरमभिप्रेक्ष्य विश्वामित्रसमीरितः | राक्षसो रुधिरो नाम संविवेश नराधिपम् || १५ || रक्षसा स तदाविष्टो रुधिरेण दुरात्मना | उवाच सूदं शनकैः कर्णमूले महाद्युतिः || १६ || गच्छ यत्किंचिदानीय मांसं मानुषमन्ततः | गार्दभं वाप्यथौष्ट्रं वा सर्वं संस्कर्तुमर्हसि || १७ || किमसौ ज्ञास्यते रात्रौ त्वया भूयश्च संस्कृतम् | रसवद्गन्धवच्चैव क्षिप्रमेव समाचर || १८ ||

सनत्कुमार उवाच |

स एवमुक्तस्तेनाथ मानुषं मांसमाददे | राजापकारिणो व्यास मृतोत्सृष्टस्य कस्यचित् || १९ || अथार्धरात्रसमये भास्कराकारवर्चसम् | शतानलसमप्रख्यमपश्यन्मुनिसत्तमम् || २० || स तमर्घ्येण पाद्येन आसनाग्र्यवरेण च | समर्चयित्वा विधिवदन्नमस्योपपादयत् || २१ || स तदन्नं समानीतं समालभ्य महातपाः | चुकोप कुपितश्चाह पार्थिवं प्रदहन्निव || २२ ||

शक्तिरुवाच |

पार्थिवाधम विप्राणां भोजनं राक्षसोचितम् | न दीयते विधिज्ञेन त्वं तु मामवमन्यसे || २३ || यस्मात्त्वं राक्षसमिदं मह्यं दित्ससि भोजनम् | तस्मात्त्वं कर्मणा तेन पुरुषादो भविष्यसि || २४ ||

सनत्कुमार उवाच |

एवमुक्तस्तु तेजस्वी राजा संचिन्त्य तत्तदा | उवाच क्रोधरक्ताक्षो राक्षसाविष्टचेतनः || २५ || पुरुषादो भवेत्येवं मामवोचद्भवान्यतः | ततस्त्वां भक्षयिष्यामि भ्रातृभिः सहितं द्विज || २६ || भक्षयित्वा विशुद्ध्यर्थं मुक्तशापस्ततः परम् | चरिष्यामि तपः शुद्धं संयम्येन्द्रियसंहतिम् | पित्रा तवाभ्यनुज्ञातः स्वर्गे वत्स्ये यथेप्सितम् || २७ || इति स्कन्दपुराणे सप्तदशमो ऽध्यायः ||

सनत्कुमार उवाच |

ततः स राजा स्वं राज्यमुत्सृज्य सह भार्यया | वनं विवेश तत्राभूत्पुरुषादो महाबलः || १ || सो ऽभक्षयत तत्राग्रे शक्तिमेव महामुनिम् | ततो भ्रातृशतं तस्य वसिष्ठस्यैव पश्यतः || २ || ततः पुत्रवधं घोरं दृष्ट्वा ब्रह्मसुतः प्रभुः | नोत्ससर्ज तदा क्रोधं वसिष्ठः कौशिकं प्रति | पुत्रशोकेन महता भृशमेवान्वकीर्यत || ३ || स बद्ध्वा महतीं कण्ठे शिलां ब्रह्मसुतः प्रभुः | नद्यामात्मानमुत्सृज्य शतधा साद्रवद्भयात् | शतद्रूरिति तां प्राहुर्मुनयः संशितव्रताः || ४ || पुनः पाशैर्दृढैर्बद्ध्वा अन्यस्यामसृजद्वशी | तस्यां विपाशः संवृत्तो विपाशा साभवत्ततः || ५ || ततो ऽटवीं समासाद्य निराहारो जितेन्द्रियः | वायुभक्षस्तदा तस्थौ स्वं देहं परितापयन् || ६ || अथ शुश्राव वेदानां ध्वनिमेकस्य सुस्वरम् | अधीयानस्य तत्राशु ध्यानमेवान्वपद्यत || ७ || अथैनं चारुसर्वाङ्गी पीनोन्नतपयोधरा | उपतस्थे ऽग्रतः पत्नी शक्तेर्दीनाननेक्षणा || ८ || तामुवाच कुतस्त्वं वै कस्यैष श्रूयते ध्वनिः | सोवाच दीनया वाचा रुदती श्वशुरं तदा || ९ ||

अदृश्यन्त्युवाच |

यदैव सुतदुःखेन निर्गतो ऽस्याश्रमाद्गुरो | तदाप्रभृत्येवादृश्या भगवन्तमनुव्रता || १० || अधीयानस्य चैवायं ध्वनिः पुत्रस्य ते विभो | उदरस्थस्य ते सूनोर्मा दुःखे त्वं मनः कृथाः || ११ ||

सनत्कुमार उवाच |

इदानीमस्ति मे वत्से जीविताशेति सो ऽब्रवीत् | क्षान्तिं धृतिं च संस्थित्य प्रययावाश्रमं मुनिः || १२ || तदाश्रमपदं गच्छन्पथि राजानमैक्षत | वसारुधिरदिग्धाङ्गं सौदासं रक्तलोचनम् || १३ || अभिद्रवन्तं वेगेन मन्त्रैरस्तम्भयन्मुनिः | ततो ऽस्य निर्गतः कायाद्रक्षः परमदारुणः || १४ || उवाच चैनं दुष्टात्मन्दहेयं त्वां सबान्धवम् | दग्धेन च त्वया किं मे गच्छ मुक्तो ऽसि दुर्मते || १५ || ततः स मुक्तो दीनात्मा राक्षसः क्रूरकर्मकृत् | प्रणम्य शिरसा भीतो जगाम कुशिकान्तिकम् || १६ || गते निशाचरे राजा प्रणम्य शिरसा मुनिम् | प्रसादयामास तदा स चोवाचेदमर्थवत् || १७ || न दोषस्तव राजेन्द्र रक्षसाधिष्ठितस्य वै | कृतान्तेन हताः पुत्रा निमित्तं तत्र राक्षसः || १८ || प्रशाधि राज्यं राजेन्द्र पितृपैतामहं विभो | ब्रूहि किं वा प्रियं ते ऽद्य करोमि नरपुंगव || १९ ||

राजोवाच |

इच्छामि भगवन्पुत्रं त्वयोत्पादितमच्युत | देव्यामस्यां महासत्त्वं तत्कुरुष्व मम प्रियम् || २० ||

सनत्कुमार उवाच |

एवमस्त्वित्यथोक्त्वासौ तस्यां पत्न्यां महाव्रतः | पुत्रं च शोणकं नाम जनयामास निर्वृतः || २१ || तं शोणकं ततो राज्ये स्वं पुत्रमभिषिच्य सः | जगाम वनमेवाशु सभार्यस्तपसि स्थितः || २२ || वसिष्ठस्यापि कालेन शक्तेः पुत्रः प्रतापवान् | अदृश्यन्त्यां समभवत्पुत्रो नाम्ना पराशरः || २३ || वसिष्ठं तु तदा धीमांस्तातमेवाभ्यमन्यत | तात तातेति च मुहुर्व्याजहार पितुर्गुरुम् || २४ || ततः कदाचिद्विज्ञाय भक्षितं रक्षसा शुचिम् | पितरं तपसा मन्त्रैरीजे रक्षःक्रतौ तदा || २५ || तत्र कोटीः स पञ्चाशद्रक्षसां क्रूरकर्मणाम् | जुहावाग्नौ महातेजास्ततो ब्रह्माभ्यगाद्द्रुतम् || २६ || सुतमभ्येत्य सम्पूज्य वसिष्ठसहितः प्रभुः | ऋषिभिर्दैवतैश्चैव इदमाह पराशरम् || २७ ||

ब्रह्मोवाच |

†देवतास्ते पतन्ति स्म यज्ञैर्मन्त्रपुरस्कृतैः | अष्टमं स्थानमेतद्धि देवानामाद्यमीदृशम्† || २८ ||

पराशर उवाच |

सह देवैरहं सर्वांल् लोकान्धक्ष्यामि पावकैः | दग्ध्वान्यान्प्रथयिष्यामि तत्र लोकान्न संशयः || २९ ||

सनत्कुमार उवाच |

तस्यैवं गर्वितं वाक्यं श्रुत्वा देवः पितामहः | उवाच श्लक्ष्णया वाचा सान्त्वयंस्तमिदं वचः || ३० ||

पितामह उवाच |

कृतमेतन्न संदेहो यथा ब्रूषे महामते | क्षन्तव्यं सर्वमेतत्तु अस्मत्प्रियचिकीर्षया || ३१ || यैस्ते पिता महाभाग भक्षितः सह सोदरैः | त एवाग्नौ च होतव्या विश्वामित्रस्य पश्यतः | अन्येषां स्वस्ति सर्वत्र देवानां सह राक्षसैः || ३२ || †तस्य संकल्पसंतप्तो मन्युमूलमुदाहरत् | वसिष्ठस्य महाभाग त्वं निवारय पुत्रक† || ३३ || देवाः प्राञ्जलयः सर्वे प्रणेमुस्ते महामुनिम् | ऋषयश्चैव ते सर्वे वाग्भिस्तुष्टुविरे तदा || ३४ || ततस्तेषां महातेजा वचांसि प्रत्यपूजयत् | विश्वामित्रस्य मिषत इदं प्रोवाच सुस्वरम् || ३५ || य एषां ब्राह्मणो वापि क्षत्रियो वा दुरात्मवान् | रक्षसां पक्षमास्थाय प्रतीकारं करिष्यति || ३६ || तमप्यत्रापि संक्रुद्धस्तपोयोगबलान्वितः | विहत्य तपसो योगाद्धोष्ये दीप्ते विभावसौ || ३७ ||

सनत्कुमार उवाच |

ततो देवाः सगन्धर्वाः पितामहपुरःसराः | प्रभावं तस्य तं ज्ञात्वा पराशरमपूजयन् || ३८ || हुतेषु च ततस्तेषु राक्षसेषु दुरात्मसु | संजहार ततः सत्त्रं ब्रह्मणो ऽनुमते तदा || ३९ ||

सनत्कुमार उवाच |

य इमं श्राद्धकाले वा दैवे कर्मणि वा द्विजान् | श्रावयीत शुचिर्भूत्वा न तं हिंसन्ति राक्षसाः || ४० || पराशरस्येदमदीनसम्भवं विशुद्धवाक्कर्मविधानसम्भवम् | निशाम्य विप्रः कुलसिद्धिसम्भवं न राक्षसं गच्छति योनिसम्भवम् || ४१ || इति स्कन्दपुराणे ऽष्टादशमो ऽध्यायः ||

सनत्कुमार उवाच |

एवं तव पिता व्यास रक्षःसत्त्रं समाहरत् | समापयित्वा च पुनस्तपस्तेपे च भास्वरम् || १ || तमागत्य वसिष्ठस्तु तपसा भास्करद्युतिम् | उवाच प्रीतिसम्पन्नमिदमर्थवदव्ययः || २ ||

वसिष्ठ उवाच |

पितरः पुत्रकामा वै तपः कृत्वातिदुश्चरम् | पुत्रमुत्पादयन्ति स्म तपोज्ञानसमन्वितम् || ३ || अयं नः संततिं चैव ज्ञानवांस्तपसान्वितः | करिष्यति गतिं चैव इति वेदविदो विदुः || ४ || स त्वं तपोन्वितश्चैव ज्ञानवान्यशसान्वितः | पुत्रः पुत्रवतां श्रेष्ठो विहीनः प्रजया विभो || ५ || तस्मात्पितॄणामानृण्यं गच्छ व्रतवतां वर | सुतमुत्पादय क्षिप्रमधिकं सममेव वा || ६ ||

सनत्कुमार उवाच |

स एवमुक्तस्तेजस्वी वसिष्ठेनामितात्मना | मैनाकं पर्वतं प्राप्य तपस्तेपे सुदुश्चरम् || ७ || तस्य कालेन महता तपसा भावितस्य तु | उमापतिर्वरं प्रादात्स च वव्रे सुतं शुभम् || ८ || स लब्धवर आगम्य ययाचे पुत्रकारणात् | क्षेत्रं सुपरिशुद्धं च स्वपुत्रो यत्र सम्भवेत् || ९ || सम्भ्रमन्दाशराजस्य दुहितृत्वमुपागताम् | पितृकन्यां ततः कालीमपश्यद्दिव्यरूपिणीम् || १० || मत्सीगर्भसमुत्पन्नां वसोर्बीजाशनात्पुरा | अद्रिकामप्सरःश्रेष्ठां ब्रह्मतेजोमयीं शुभाम् || ११ || तस्यां स जनयामास वरं दत्त्वा महातपाः | भवन्तं तपसां योनिं श्रौतस्मार्तप्रवर्तकम् || १२ || तव पुत्रो ऽभवच्चापि शुको योगविदां वरः | तस्य पुत्राश्च चत्वारः कन्या चैका सुमध्यमा || १३ ||

व्यास उवाच |

कथं वैरं समभवद्विश्वामित्रवसिष्ठयोः | कथं चापगतं भूय एतदिच्छामि वेदितुम् || १४ ||

सनत्कुमार उवाच |

पराशरे तु गर्भस्थे विप्रत्वं गाधिजे गते | सरस्वत्यां कुरुक्षेत्रे द्वयोरप्याश्रमौ तयोः || १५ || तत्र वैरमनुस्मृत्य विश्वामित्रेण धीमता | मिषतस्तु वसिष्ठस्य हतं पुत्रशतं रुषा || १६ || मुनिरप्याह तत्रासौ विश्वामित्रः प्रतापवान् | सरस्वतीमथैकान्ते वसिष्ठं मे महापगे | स्रोतसा महताक्षिप्य स्नायमानमिहानय || १७ || सैवमुक्ता तु तं गत्वा वसिष्ठं प्राह दुःखिता | यदुक्तवांस्तु गाधेयः स चोवाच महानदीम् || १८ || एवं कुरु महाभागे मां नयस्व यथेप्सितम् | मा ते क्रूरः स गाधेयः शापं दद्यात्सुदुस्तरम् || १९ ||

सनत्कुमार उवाच |

गाधेयस्य ततः सा तु जुह्वतो ऽग्निं दिवाकरे | मध्यं प्राप्ते ऽनयद्वेगाद्वसिष्ठं स्रोतसा शुभा || २० || तं दृष्ट्वापहृतं व्यास स्रोतसा मुनिसत्तमम् | उवाच च्छद्मना यस्माद्वेगेनापहृतस्त्वया | तस्मात्त्वं कर्मणानेन सासृक्तोया भविष्यसि || २१ || विश्वामित्रेण सा शप्ता नदी लोकसुखप्रदा | अवहद्रुधिरं चैव मांसमेदस्तथैव च || २२ || अथ तीर्थप्रसङ्गेन मुनिभिः समुपागतैः | अनुग्रहः कृतस्तस्या येन स्वच्छजलाभवत् || २३ || महतस्तपसः शक्त्या कालेन महता तदा | वसिष्ठस्य च तां क्षान्तिं ज्ञात्वा स ऋषिपुंगवः || २४ || विश्वामित्रो महातेजा वसिष्ठे वैरमत्यजत् | एवं तौ वैरमन्योन्यं जहतुर्मुनिसत्तमौ || २५ ||

सनत्कुमार उवाच |

य इमं शृणुयान्नित्यं ब्राह्मणाञ्छ्रावयीत वा | स दुस्तराणि दुर्गाणि तरत्यश्रान्तपौरुषः || २६ || ह्रीपौरुषौदार्यविहारसत्त्वैः समन्वितः सोज्ज्वलचारुवेषः | भवेच्च सर्वामरराजतुल्यस्त्रिपिष्टपे क्रीडति चेच्छया स्वयम् || २७ || एवं तदभवद्व्यास विश्वामित्रवसिष्ठयोः | वैरं समाप्तं लोकानां हितार्थं पुनरेव च || २८ || इति स्कन्दपुराणे ऊनविंशतितमो ऽध्यायः ||

व्यास उवाच |

उमाहरौ तु देवेशौ चक्रतुर्यच्च संगतौ | तन्मे सर्वमशेषेण कथयस्व महामुने || १ ||

सनत्कुमार उवाच |

उमाहरौ तु संगम्य परस्परमनिन्दितौ | शालङ्कस्यान्वये विप्रं युयुजाते वरेण ह || २ || स चाप्ययोनिजः पुत्र आराध्य परमेश्वरम् | रुद्रेण समतां लब्ध्वा महागणपतिर्बभौ || ३ ||

व्यास उवाच |

कथं नन्दी समुत्पन्नः कथं चाराध्य शंकरम् | समानत्वमगाच्छम्भोः प्रतीहारत्वमेव च || ४ ||

सनत्कुमार उवाच |

अभूदृषिः स धर्मात्मा शिलादो नाम वीर्यवान् | तस्याभूच्छिलकैर्वृत्तिः शिलादस्तेन सो ऽभवत् || ५ || अपश्यल्लम्बमानांस्तु गर्तायां स पितॄन्द्विजः | विच्छिन्नसंततीन्घोरं निरयं वै प्रपेतुषः || ६ || तैरुक्तो ऽपत्यकामैस्तु देवं लोकेशमव्ययम् | आराधय महादेवं सुतार्थं द्विजसत्तम || ७ || तस्य वर्षसहस्रेण तप्यमानस्य शूलधृक् | शर्वः सोमो गणवृतो वरदो ऽस्मीत्यभाषत || ८ || तं दृष्ट्वा सोममीशेशं प्रणतः पादयोर्विभोः | हर्षगद्गदया वाचा तुष्टाव विबुधेश्वरम् || ९ || नमः परमदेवाय महेशाय महात्मने | स्रष्ट्रे सर्वसुरेशानां ब्रह्मणः पतये नमः || १० || नमः कामाङ्गनाशाय योगसम्भवहेतवे | नमः पर्वतवासाय ध्यानगम्याय वेधसे || ११ || ऋषीणां पतये नित्यं देवानां पतये नमः | वेदानां पतये चैव योगिनां पतये नमः || १२ || प्रधानाय नमो नित्यं तत्त्वायामरसंज्ञिणे | वरदाय च भक्तानां नमः सर्वगताय च || १३ || तन्मात्रेन्द्रियभूतानां विकाराणां गुणैः सह | स्रष्ट्रे च पतये चैव नमश्च प्रभविष्णवे || १४ || जगतः पतये चैव जगत्स्रष्ट्रे नमः सदा | प्रकृतेः पतये नित्यं पुरुषात्परगामिने || १५ || ईश्वराय नमो नित्यं योगगम्याय रंहसे | संसारोत्पत्तिनाशाय सर्वकामप्रदाय च || १६ || शरण्याय नमो नित्यं नमो भस्माङ्गरागिणे | नमस्ते ऽयोग्रहस्ताय तेजसां पतये नमः || १७ || सूर्यानिलहुताशाम्बुचन्द्राकाशधराय च | स्थिताय सर्वदा नित्यं नमस्त्रैलोकवेधसे || १८ || स्तोतव्यस्य कुतो देव विश्रामस्तव विद्यते | यदा हेतुस्त्वमेवास्य जगतः स्थितिनाशयोः || १९ || अशरण्यस्य देवेश त्वत्तश्च शरणार्थिनः | प्रसादं परमालम्ब्य वरदो भव विश्वकृत् || २० ||

सनत्कुमार उवाच |

यः स्तोत्रमेतदखिलं पठते द्विजन्मा प्रातः शुचिर्नियमवान्पुरतो द्विजानाम् | तं ब्रह्मराक्षसनिशाचरभूतयक्षा हिंसन्ति नो द्विपदपन्नगपूतनाश्च || २१ || ततः स भगवान्देवः स्तूयमानः सहोमया | उवाच वरदो ऽस्मीति ब्रूहि यत्ते मनोगतम् || २२ || तमेवंवादिनं देवं शिलादो ऽभ्यर्चयत्तदा | उवाच चेदं देवेशं स वाचा सज्जमानया || २३ || भगवन्यदि तुष्टो ऽसि यदि देयो वरश्च मे | इच्छाम्यात्मसमं पुत्रं मृत्युहीनमयोनिजम् || २४ || एवमुक्तस्ततो देवः प्रीयमाणस्त्रिलोचनः | एवमस्त्विति तं प्रोच्य तत्रैवान्तरधीयत || २५ || गते तस्मिन्महेष्वासे ऋषिः परमपूजितः | स्वमाश्रममुपागम्य ऋषिभ्यो ऽकथयत्ततः || २६ || तैः प्रशस्तस्ततश्चैव कालेन मुनिसत्तम | यियक्षुर्यज्ञभूमिं स्वां लाङ्गलेन चकर्ष ताम् || २७ || तस्यां तु कृष्यमाणायां सीतायां तत्समुत्थितः | संवर्तकानलप्रख्यः कुमारः प्रत्यदृश्यत || २८ || स तं दृष्ट्वा तथोद्भूतं कुमारं दीप्ततेजसम् | राक्षसो ऽयमिति ज्ञात्वा भयान्नोपससार तम् || २९ || कुमारो ऽपि तथोद्भूतः पितरं दीप्ततेजसम् | उपासर्पत दीनात्मा तात तातेति चाब्रवीत् || ३० || स तातेत्युच्यमानो ऽपि यदा तं नाभ्यनन्दत | ततो वायुस्तमाकाशे शिलादं प्राह सुस्वरम् || ३१ ||

वायुरुवाच |

शालङ्कायन पुत्रस्ते यो ऽसौ देवेन शम्भुना | अयोनिजः पुरा दत्तः स एष प्रतिनन्दय || ३२ || यस्मान्नन्दीकरस्ते ऽयं सदैव द्विजसत्तम | तस्मान्नन्दीति नाम्नायं भविष्यति सुतस्तव || ३३ ||

सनत्कुमार उवाच |

ततः स वायुवचनान्नन्दिनं परिषस्वजे | गृहीत्वा चाश्रमं स्वेन सो ऽनयत्तुष्टिवर्धनम् | चूडोपनयनादीनि कर्माण्यस्य चकार सः || ३४ || कृत्वा चाध्यापयामास वेदान्साङ्गानशेषतः | आयुर्वेदं धनुर्वेदं गान्धर्वं शब्दलक्षणम् || ३५ || हस्तिनां चरितं यच्च नरनार्योश्च लक्षणम् | शिल्पानि चैव सर्वाणि निमित्तज्ञानमेव च || ३६ || भूतग्रामचिकित्सां च मातॄणां चरितं च यत् | भुजंगानां च सर्वेषां यच्च किंचिद्विचेष्टितम् | अब्दैरधीतवान्सर्वं व्यास पञ्चभिरेव च || ३७ || दक्षः शुचिरदीनात्मा प्रियवागनसूयकः | सर्वलोकप्रियो नित्यं मनोनयननन्दनः || ३८ || तस्याथ सप्तमे वर्षे ऋषी दिव्यौ तपोधनौ | आश्रमं समनुप्राप्तौ शिलादस्य महौजसौ || ३९ || तावभ्यर्च्य यथान्यायं शिलादः सुमहातपाः | सुखासीनौ समालक्ष्य आसने परमार्चितौ || ४० || मित्रावरुणनामानौ तपोयोगबलान्वितौ | अभिज्ञौ सर्वभूतानां त्रैलोक्ये सचराचरे || ४१ || ताभ्यामनुज्ञातश्चैव निषसाद वरासने | उपविष्टस्ततः प्रीत इष्टाभिर्वाग्भिरस्तुवत् || ४२ || ताभ्यां पृष्टश्च कच्चित्ते पुत्रस्तुष्टिप्रदः शुभः | स्वाध्यायनियतः कच्चित्कच्चिद्धर्मस्य संततिः || ४३ || कच्चिन्न वृद्धान्बालो न गुरून्वाप्यवमन्यते | कच्चिन्नियमवांश्चैव कच्चित्तुष्टिप्रदः सताम् || ४४ || स एवमुक्तस्तेजस्वी शिलादः पुत्रवत्सलः | उवाच गुणवान्सम्यक्कुलवंशविवर्धनः || ४५ || तमाहूय स तुष्ट्या तु पुत्रं नन्दिनमच्युतम् | तयोः पादेषु शिरसा अपातयत नन्दिनम् || ४६ || तौ तु तस्याशिषं देवौ प्रयुङ्क्तो धर्मनित्यताम् | गुरुशुश्रूषणे भावं लोकांश्चैव तथाक्षयान् || ४७ ||

सनत्कुमार उवाच |

शिलादस्तामथालक्ष्य आशिषं देवयोस्तदा | विसृज्य नन्दिनं भीतः सो ऽपृच्छदृषिसत्तमौ || ४८ ||

शिलाद उवाच |

भगवन्तावृषी सत्यौ गतिज्ञौ सर्वदेहिनाम् | किमर्थं मम पुत्रस्य दीर्घमायुरुभावपि | प्रयुक्तवन्तौ सम्यक्तु नाशिषं मुनिसत्तमौ || ४९ ||

मित्रावरुणावूचतुः |

तवैष तनयस्तात अल्पायुः सर्वसंमतः | अतो ऽन्यद्वर्षमेकं वै जीवितं धारयिष्यति || ५० ||

सनत्कुमार उवाच |

ततः स शोकसंतप्तो न्यपतद्भुवि दुःखितः | विसृज्य ऋषिशार्दूलावेकाकी विललाप च || ५१ || तस्य शोकाद्विलपतः स्वरं श्रुत्वा सुतः शुभः | नन्द्यागात्तमथापश्यत्पितरं दुःखितं भृशम् || ५२ ||

नन्द्युवाच |

केन त्वं तात दुःखेन दूयमानः प्ररोदिषि | दुःखं ते कुत उद्भूतं ज्ञातुमिच्छाम्यहं पितः || ५३ ||

शिलाद उवाच |

पुत्र त्वं किल वर्षेण जीवितं सम्प्रहास्यसि | ऊचतुस्तावृषीत्येवं ततो मां कृच्छ्रमाविशत् || ५४ ||

नन्द्युवाच |

सत्यं देवऋषी तात न तावनृतमूचतुः | तथापि तु न मृत्युर्मे प्रभविष्यति मा शुचः || ५५ ||

शिलाद उवाच |

किं तपः किं परिज्ञानं को योगः कः श्रमश्च ते | येन त्वं मृत्युमुद्युक्तं वञ्चयिष्यसि कथ्यताम् || ५६ ||

नन्द्युवाच |

न तात तपसा मृत्युं वञ्चयिष्ये न विद्यया | महादेवप्रसादेन मृत्युं जेष्यामि नान्यथा || ५७ || द्रक्ष्यामि शंकरं देवं ततो मृत्युर्न मे भवेत् | नष्टे मृत्यौ त्वया सार्धं चिरं वत्स्यामि निर्वृतः || ५८ ||

शिलाद उवाच |

मया वर्षसहस्रेण तपस्तप्त्वा सुदुश्चरम् | महादेवः पुरा दृष्टो लब्धस्त्वं मे यतः सुतः || ५९ || भवांस्तु वर्षेणैकेन तपसा नातिभावितः | कथं द्रष्टा महादेवमेतदिच्छामि वेदितुम् || ६० ||

नन्द्युवाच |

न तात तपसा देवो दृश्यते न च विद्यया | शुद्धेन मनसा भक्त्या दृश्यते परमेश्वरः || ६१ || त्वया विसृष्टो गत्वाहमचिरेण त्रिलोचनम् | द्रष्टा तात न संदेहो विसृजाशु ततस्तु माम् || ६२ || तिष्ठन्तं मां यमो ऽभ्येत्य पश्यतस्ते ऽभिसंमतम् | न हिंसति तथा तस्मादितस्तात व्रजाम्यहम् || ६३ || तिष्ठन्तं वा शयानं वा धावन्तं पतितं तथा | न प्रतीक्षति वै मृत्युरिति बुद्ध्वा शमं व्रज || ६४ || अवतीर्य जलं दिव्यं भावं शुद्धं समास्थितः | अभ्यस्य रौद्रमध्यायं ततो द्रक्ष्यामि शंकरम् || ६५ || जपतश्चापि युक्तस्य रुद्रभावार्पितस्य च | न मृत्युकाला बहवः करिष्यन्ति मम व्यथाम् || ६६ ||

सनत्कुमार उवाच |

तमेवंवादिनं मत्वा ब्रुवाणं शुद्धया गिरा | व्यसर्जयददीनात्मा कृच्छ्रात्पुत्रं महातपाः || ६७ || अभिवन्द्य पितुः पादौ शिरसा स महायशाः | प्रदक्षिणं समावृत्य सम्प्रतस्थे ऽतिनिश्चितः || ६८ || अभिवाद्य ऋषीन्सर्वान्स दिदृक्षुरुदारधीः | मुनिः स देवमगमत्प्रणतार्तिहरं हरम् || ६९ || इति स्कन्दपुराणे विंशतितमो ऽध्यायः ||

सनत्कुमार उवाच |

निर्गतो ऽथ ततो नन्दी जगाम सरितां वराम् | भुवनामिति विख्यातां सर्वलोकसुखावहाम् || १ || तां प्रविश्य ततो धीमानेकाग्रो ह्रदमास्थितः | स जजाप तदा रुद्रान्मृत्योर्भीतः समाहितः || २ || जपता तेन तत्रैव तत्परेण तदाशिषा | कोटिरेका यदा जप्ता तदा देवस्तुतोष ह || ३ || तमागत्याह भगवाञ्छर्व उग्रः कपर्दिमान् | नन्दिंस्तुष्टो ऽस्मि भद्रं ते वरं वृणु यथेप्सितम् || ४ || उवाच प्रणतो भूत्वा प्रणतार्तिहरं हरम् | द्वितीयां जप्तुमिच्छामि कोटिं भगवतां विभो | एवमस्त्विति देवो ऽपि प्रोच्यागच्छद्यथागतम् || ५ ||

सनत्कुमार उवाच |

सो ऽवतीर्य ततो भूयः प्रयतात्मा तथैव ह | जजाप कोटिमन्यां तु रुद्रमेवानुचिन्तयन् || ६ || द्वितीयायां ततः कोट्यां सम्पूर्णायां वृषध्वजः | अभ्याजगाम तं चैव वरदो ऽस्मीत्यभाषत || ७ || स प्राह भगवन्कोटिं तृतीयामपि कालहन् | जप्तुमिच्छामि देवेश त्वत्प्रसादादहं विभो || ८ || एवमस्त्विति भूयो ऽपि भगवान्प्रत्युवाच ह | उक्त्वा जगाम स्वं वेश्म देव्या सह महाद्युतिः || ९ || ततस्तृतीयां रुद्राणां कोटिमन्यां जजाप ह | युगान्तादित्यसंकाशस्ततः समभवद्द्विजः || १० || तस्य कोटीत्रये व्यास समाप्ते ज्वलनत्विषः | सोमः सह गणैर्देवस्तं देशमुपचक्रमे || ११ || स तं करेण संगृह्य उद्धृत्य सलिलाच्च ह | संमृजानो ऽग्रहस्तेन नन्दिनं कालहाब्रवीत् || १२ ||

देव उवाच |

शैलादे वरदो ऽहं ते तपसानेन तोषितः | साधु जप्तं त्वया धीमन्ब्रूहि यत्ते मनोगतम् || १३ ||

शैलादिरुवाच |

जपेयं कोटिमन्यां तु भूयो ऽपि तव तेजसा | वरमेतं वृणे देव यदि तुष्टो ऽसि मे विभो || १४ ||

भगवानुवाच |

किं ते जप्तेन भूयो ऽपि तुष्टो ऽस्मि तव सर्वथा | यद्यत्त्वं वृणुषे कामं सर्वं तत्प्रददानि ते || १५ || ब्रह्मत्वमथ विष्णुत्वमिन्द्रत्वमथ वायुताम् | आदित्यो भव रुद्रो वा ब्रूहि किं वा ददानि ते || १६ ||

सनत्कुमार उवाच |

स एवमुक्तो देवेन शिरसा पादयोर्नतः | तुष्टाव पुरकामाङ्गक्रतुपर्वतनाशनम् || १७ ||

नन्द्युवाच |

नमो देवातिदेवाय महादेवाय वै नमः | नमः कामाङ्गनाशाय नीलकण्ठाय वै नमः || १८ || नमस्तुषितनाशाय त्रैलोक्यदहनाय च | नमः कालोग्रदण्डाय उग्रदण्डाय वै नमः || १९ || नमो नीलशिखण्डाय सहस्रशिरसे नमः | सहस्रपाणये चैव सहस्रचरणाय च || २० || सर्वतःपाणिपादाय सर्वतोक्षिमुखाय च | सर्वतःश्रुतये चैव सर्वमावृत्य तिष्ठते || २१ || नमस्ते रुक्मवर्णाय तथैवातीन्द्रियाय च | नमः कनकलिङ्गाय सर्वलिङ्गाय वै नमः || २२ || नमश्चन्द्रार्कवर्णाय योगेशायाजिताय च | पिनाकपाणये चैव शूलमुद्गरपाणये || २३ || गदिने खड्गिने चैव परश्वधधराय च | रथिने वर्मिणे चैव महेष्वासाय वै नमः || २४ || नमस्त्रिशूलहस्ताय उग्रदण्डधराय च | नमो गणाधिपतये रुद्राणां पतये नमः || २५ || नमः सहस्रनेत्राय शतनेत्राय वै नमः | आदित्यानां च पतये वसूनां पतये नमः || २६ || नमः पृथिव्याः पतये आकाशपतये नमः | नमः स्वर्लोकपतये उमायाः पतये नमः || २७ || नमो योगाधिपतये सर्वयोगप्रदाय च | ध्यानिने ध्यायमानाय ध्यानिभिः संस्तुताय च || २८ || मृत्यवे कालदण्डाय यमाय च महात्मने | देवाधिपतये चैव दिव्यसंहननाय च || २९ || यज्ञाय वसुदानाय स्वर्गायाजन्मदाय च | सवित्रे सर्वदेवानां धर्मायानेकरूपिणे || ३० || अमृताय वरेण्याय सर्वदेवस्तुताय च | ब्रह्मणश्च शिरोहर्त्रे यज्ञस्य च महात्मनः || ३१ || त्रिपुरघ्नाय चोग्राय सर्वाशुभहराय च | उमादेहार्धरूपाय ललाटनयनाय च || ३२ || महिषान्धकभेत्ताय स्रष्ट्रे वै परमेष्ठिने | ब्रह्मणो गुरवे चैव ब्रह्मणो जनकाय च || ३३ || कुमारगुरवे चैव कुमारवरदाय च | हलिने मुषलघ्नाय महाहासाय वै नमः || ३४ || मृत्युपाशोग्रहस्ताय तक्षकब्रह्मसूत्रिणे | सविद्युद्घनवाहाय तथैव वृषयायिने || ३५ || हिमवद्विन्ध्यवासाय मेरुपर्वतवासिने | कैलासवासिने चैव धनेश्वरसखाय च || ३६ || विष्णोर्देहार्धदत्ताय तस्यैव वरदाय च | सर्वभूतासमज्ञाय सर्वभूतानुकम्पिने || ३७ || अन्तर्भूताधिभूताय प्राणिनां जीवदाय च | मनसे मन्यमानाय अतिमानाय चैव हि || ३८ || बुध्यमानाय बुद्धाय द्रष्ट्रे वै चक्षुषे नमः | नमस्ते स्पर्शयित्रे च तथैव स्पर्शनाय च || ३९ || नमस्ते रसयित्रे च तथैव रसनाय च| नमो घ्राणाय घ्रात्रे च श्रोत्रे श्रोत्राय चैव हि | हस्तिने चैव हस्ताय तथा पादाय पादिने || ४० || नमो ऽस्त्वानन्दकर्त्रे च आनन्दाय च वै नमः | वाचे ऽथ वाग्मिने चैव तन्मात्राय महात्मने || ४१ || सूक्ष्माय चैव स्थूलाय सत्त्वाय रजसे नमः | नमश्च तमसे नित्यं क्षेत्रज्ञायाजिताय च || ४२ || विष्णवे लोकतन्त्राय प्रजानां पतये नमः | मनवे सप्तऋषये तप्यमानाय तापिने || ४३ || ब्रह्मण्यायाथ शुद्धाय तथा दुर्वाससे नमः | शिल्पिने शिल्पनाथाय विदुषे विश्वकर्मणे || ४४ || अत्रये भृगवे चैव तथैवाङ्गिरसे नमः | पुलहाय पुलस्त्याय क्रतुदक्षानलाय च || ४५ || धर्माय रुचये चैव वसिष्ठाय नमो ऽस्तु ते | भूताय भूतनाथाय कुष्माण्डपतये नमः || ४६ || तिष्ठते द्रवते चैव गायते नृत्यते ऽपि च | अवश्यायाप्यवध्याय अजरायामराय च || ४७ || अक्षयायाव्ययायैव तथाप्रतिहताय च | अनावेश्याय सर्वेषां दृश्यायादृश्यरूपिणे || ४८ || सूक्ष्मेभ्यश्चापि सूक्ष्माय सर्वगाय महात्मने | नमस्ते भगवंस्त्र्यक्ष नमस्ते भगवञ्छिव | नमस्ते सर्वलोकेश नमस्ते लोकभावन || ४९ || न मे देवाधिपत्येन ब्रह्मत्वेनाथवा पुनः | न विष्णुत्वेन देवेश नापीन्द्रत्वेन भूतप | इच्छाम्यहं तवेशान गणत्वं नित्यमव्ययम् || ५० || नित्यं त्वां सगणं साम्बं प्रसन्नं सपरिच्छदम् | द्रष्टुमिच्छामि देवेश एष मे दीयतां वरः || ५१ || त्वं नो गतिः पुरा देव त्वं चैवार्तायनं प्रभुः | शरणं च त्वमेवाथ नान्यं पश्यामि कर्हिचित् || ५२ || त्वया त्यक्तस्य चैवाशु विनाशो नात्र संशयः | अन्यां गतिं न पश्यामि यस्या आत्यन्तिकं शुभम् || ५३ || अनुरक्तं च भक्तं च त्वत्परं त्वदपाश्रयम् | प्रतीच्छ मां सदा देव एष मे दीयतां वरः || ५४ ||

सनत्कुमार उवाच |

य इमं प्रातरुत्थाय पठेदविमना नरः | स देहभेदमासाद्य नन्दीश्वरसमो भवेत् || ५५ || यश्चेमं शृणुयान्नित्यं श्रावयेद्वा द्विजातिषु | सो ऽश्वमेधफलं प्राप्य रुद्रलोके महीयते || ५६ || श्रुत्वा सकृदपि ह्येतं स्तवं पापप्रणाशनम् | यत्र तत्र मृतो व्यास न दुर्गतिमवाप्नुयात् || ५७ || यो ऽधीत्य नित्यं स्तवमेतमग्र्यं देवं सदाभ्यर्चयते यतात्मा | किं तस्य यज्ञैर्विविधैश्च दानैस्तीर्थैः सुतप्तैश्च तथा तपोभिः || ५८ || इति स्कन्दपुराण एकविंशतिमो ऽध्यायः ||

सनत्कुमार उवाच |

ततस्तु देवदेवेशो भक्त्या परमया युतम् | अश्रुपूर्णेक्षणं दीनं पादयोः शिरसा नतम् || १ || कराभ्यां सुसुखाभ्यां तु संगृह्य परमार्तिहा | उत्थाप्य नयने सोमः अश्रुपूर्णे ममार्ज ह || २ || उवाच चैनं तुष्टात्मा वचसाप्याययन्निव | निरीक्ष्य गणपान्सर्वान्देव्या सह तदा प्रभुः || ३ ||

देव उवाच |

जाने भक्तिं तव मयि जाने चार्तिं तवानघ | तस्य सर्वस्य शैलादे उदर्कं संनिशामय || ४ || अमरो जरया त्यक्तो नित्यं दुःखविवर्जितः | अक्षयश्चाव्ययश्चैव सपिता ससुहृज्जनः || ५ || ममेष्टो गणपश्चैव मद्वीर्यो मत्पराक्रमः | इष्टो मम सदा चैव मम पार्श्वगतः सदा | मद्रूपश्चैव भविता महायोगबलान्वितः || ६ || ऋद्धिमच्चैव ते द्वीपं क्षीरोदममृताकरम् | संवासं सम्प्रयच्छामि तत्र रंस्यसि सर्वदा || ७ || कुशेशयमयीं मालामवमुच्यात्मनस्ततः | आबबन्ध महातेजा नन्दिने दिव्यरूपिणीम् || ८ || स तया मालया नन्दी बभौ कण्ठावसक्तया | त्र्यक्षो दशभुजः श्रीमान्द्वितीय इव शंकरः || ९ || ततस्तं वै समादाय हस्तेन भगवान्हरः | उवाच ब्रूहि किं ते ऽद्य ददानि वरमुत्तमम् || १० || आश्रमश्चायमत्यर्थं तपसा तव भावितः | जप्येश्वर इति ख्यातो मम गुह्यो भविष्यति || ११ || समन्ताद्योजनं क्षेत्रं दिव्यं देवगणैर्वृतम् | सिद्धचारणसंकीर्णमप्सरोगणसेवितम् | सिद्धिक्षेत्रं परं गुह्यं भविष्यति न संशयः || १२ || कर्मणा मनसा वाचा यत्किंचित्कुरुते नरः | शुभं वाप्यशुभं वात्र सर्वं भवितृ तच्छुभम् || १३ || जाप्यं मानसं तुल्यं वै रुद्राणां तद्भविष्यति | यत्र तत्र मृता मर्त्या यास्यन्ति तव लोकताम् || १४ || ततो जटास्रुतं वारि गृहीत्वा हारनिर्मलम् | उक्त्वा नदी भवस्वेति विससर्ज महातपाः || १५ || सा ततो दिव्यतोया च पुण्या मणिजला शुभा | हंसकारण्डवाकीर्णा चक्रवाकोपशोभिता | पद्मोत्पलवनोपेता प्रावर्तत महानदी || १६ || स्त्रीरूपधारिणी चैव प्राञ्जलिः शिरसा नता | पद्मोत्पलदलाभाक्षी महादेवमुपस्थिता || १७ || तामुवाच ततो देवो नदीं स्वयमुपस्थिताम् | यस्माज्जटोदकाद्देवि प्रवृत्ता त्वं शुभानने | तस्माज्जटोदा नाम्ना त्वं भविष्यसि सरिद्वरा || १८ || त्वयि स्नानं तु यः कुर्याच्छुचिः प्रयतमानसः | सो ऽश्वमेधफलं प्राप्य रुद्रलोके महीयते || १९ ||

सनत्कुमार उवाच |

ततो देव्या महादेवो नन्दीश्वरमतिप्रभम् | पुत्रस्ते ऽयमिति प्रोच्य पादयोस्तं व्यनामयत् || २० || सा तमाघ्राय शिरसि पाणिभ्यां परिमार्जती | पुत्रप्रेम्णाभ्यषिञ्चत्तं स्रोतोभिः स्तनजैस्त्रिभिः | पयसा शङ्खगौरेण देवी देवं निरीक्षती || २१ || तानि स्रोतांसि त्रीण्यस्याः स्रुतान्योघवती नदी | नदीं त्रिस्रोतसीं पुण्यां ततस्तामवदद्धरः || २२ || त्रिस्रोतसं नदीं दृष्ट्वा वृषः परमहर्षितः | ननर्द नादात्तस्माच्च सरिदन्या ततो ऽभवत् || २३ || यस्माद्वृषभनादेन प्रवृत्ता सा महानदी | तस्माड्ढित्किरिकां तां वै उवाच वृषभध्वजः || २४ || जाम्बूनदमयं चित्रं स्वं देवः परमाद्भुतम् | मुकुटं चाबबन्धास्मै कुण्डले चामृतोद्भवे || २५ || तं तथाभ्यर्चितं व्योम्नि दृष्ट्वा मेघः प्रभाकरः | देवोपवाह्यः सिषिचे सनादः सतडिद्गुणः || २६ || तस्याभिषिक्तस्य तदा प्रवृत्ते स्रोतसी भृशम् | यस्मात्सुवर्णान्निःसृत्य नद्येका सम्प्रवर्तत | स्वर्णोदकेति नाम्ना तां महादेवो ऽभ्यभाषत || २७ || जाम्बूनदमयाद्यस्माद्द्वितीया मुकुटाच्छुभात् | प्रावर्तत नदी पुण्या ऊचुर्जम्बूनदीति ताम् || २८ || एतत्पञ्चनदं नाम जप्येश्वरसमीपगम् | व्याख्यातं फलमेतासां जटोदायां महात्मना || २९ || तच्च पञ्चनदं दिव्यं देवं जप्येश्वरं च तम् | त्रिरात्रोपोषितो गत्वा स्नात्वाभ्यर्च्य च शूलिनम् || ३० || ब्राह्मणांश्च तर्पयित्वा यत्र तत्र मृतो नरः | नन्दीश्वरस्यानुचरः क्षीरोदनिलयो भवेत् || ३१ || यस्तु जप्येश्वरे प्राणान्परित्यजति दुस्त्यजान् | नियमेनान्यथा वापि स मे गणपतिर्भवेत् || ३२ || नन्दीश्वरसमो नित्यः शाश्वतः अक्षयो ऽव्ययः | मम पार्श्वादनपगः प्रियः संमत एव च || ३३ || जप्येश्वरं पञ्चनदं च तद्वै यो मानवो ऽभ्येत्य जहाति देहम् | स मे सदा स्याद्गणपो वरिष्ठस्त्वया समः कान्तिवपुश्च नित्यम् || ३४ || इति स्कन्दपुराणे द्वाविंशतिमो ऽध्यायः ||

सनत्कुमार उवाच |

भगवान्देवदेवेशः सर्वभूतपतिर्हरः | देवीमुवाच वागीश उमां गिरिवरात्मजाम् || १ || देवि नन्दीश्वरं देवमभिषेक्ष्यामि भूतपम् | गणानावाहयिष्यामि किं वा त्वं मन्यसे ऽव्यये || २ ||

देव्युवाच |

सप्तलोकाधिपत्यं च गणेशानां तथैव च | सर्वमर्हति देवेश नन्दी पुत्रो ममाग्रजः || ३ ||

सनत्कुमार उवाच |

ततः स भगवान्देवः सुरशत्रुनिषूदनः | प्राङ्मुखः स गणेशानामाह्वानमकरोत्तदा || ४ || ततः सहस्रशस्तत्र गणाध्यक्षा मुदा युताः | सम्प्राप्ताः सर्वलोकेशास्तच्छृणुष्व महामुने || ५ || ततः करालदशनो भृकुटीभूषिताननः | शङ्खहाराम्बुगौरश्च दंष्ट्री स्रग्मी त्रिलोचनः || ६ || जटासहस्रोर्ध्वशिरा ज्वालाकेशो महाहनुः | अग्न्यङ्गारकनेत्रश्च भुजगाबद्धमेखलः || ७ || विद्युज्जिह्वो महाकायस्तथा चैवोर्ध्वमेहनः | सर्पयज्ञोपवीती च परश्वधधरस्तथा || ८ || भुजगाबद्धमौञ्जिश्च भुजगैरेव कङ्कणैः | अट्टहासान्सृजानश्च अशनीपातसंनिभान् | दिण्डिरित्येव विख्यातो गणपः समदृश्यत || ९ || आत्मनः सदृशानां च कोटीभिर्दशभिर्वृतः | गणपानां सुरेशानां योगिनां दीप्ततेजसाम् || १० || ततो ऽपरो महाकेशो महाकायोर्ध्वमेहनः | त्र्यक्षो ऽनलशतप्रख्यः अशनीपातनर्दनः || ११ || नृत्यन्गायंश्च चित्राणि कुर्वन्नाट्यान्यनेकशः | ज्वलदंष्ट्रो महाहासो बृहत्स्कन्धः पिनाकधृक् || १२ || कोटीभिर्दशभिः सार्धं द्विगुणाभिर्महात्मनाम् | गणानां चित्ररूपाणां युगपत्सम्प्रदृश्यत || १३ || सिंहास्यगजकोकास्यैर्द्वीपिशार्दूलकाननैः | सो ऽषाढिर्नाम गणपो व्यास तत्र समागतः || १४ ||

सनत्कुमार उवाच |

अथान्यो व्यास सम्प्राप्तो युगान्तादित्यसप्रभः | शतयोजनबाहुश्च दिग्वासाश्चोर्ध्वमेहनः || १५ || अतिदीर्घो ऽतिमेढ्रश्च लम्बभ्रूः स्थूलनासिकः | वृत्तास्यश्च महाक्षश्च भृकुटीसंहताननः || १६ || पञ्चयोजनविस्तीर्णो दीर्घो वै तावदेव च | दंष्ट्राश्चतस्रो वक्त्रेण बिभ्रच्छङ्खेन्दुपाण्डराः || १७ || पञ्चजिह्वोर्ध्वकर्णश्च पाशहस्तो मनोजवः | वृतः कोटीशतेनैव सदृशानामदृश्यत || १८ || भारभूतीति विख्यातो महायोगबलान्वितः | गणपो देवदेवस्य समीपं सो ऽभ्यगच्छत || १९ || ततः कुन्देन्दुशङ्खाभं हिमराश्यम्बुसंनिभम् | मृणालस्फटिकाभं च भस्मकक्षावलम्बनम् || २० || गृहीत्वा चाशनीहासं त्रिपादं चीरवाससम् | शतोदरं त्रिशिरसं त्रिनेत्रं चोर्ध्वमूर्धजम् || २१ || ज्वालामालाग्रकेशं च व्याघ्रचर्माजिनाम्बरम् | वायुवेगं महाहासं भुजगाबद्धमेखलम् || २२ || महोरगकृतापीडं शङ्कुकर्णोर्ध्वमेहनम् | भस्मप्रहरणं चैव महादंष्ट्रं महाहनुम् || २३ || महागणपतिं वीरं ज्वर इत्येव विश्रुतम् | कोटीशतवृतं तं च गणपं सो ऽन्वपश्यत || २४ || ततो ऽपरः सौम्यरूपो भस्मदिग्धाङ्ग एव च | त्रिशूलपाणिर्दिग्वासा महायोगबलान्वितः || २५ || बहुवेषधरश्चैव ध्यानयोगपरायणः | सोमवर्ण इति ख्यातः कोटीशतवृतः प्रभुः | तादृशानां गणाध्यक्षो देवेनाहूत आगतः || २६ || अथापरो महाकायः शूलपाणिर्महाबलः | युगान्तानलसंकाशः स्थिरः स्थिरयशोबलः || २७ || चन्द्रमौलिर्महाकेशश्चतुर्बाहुर्विलोहितः | एकपादैर्महाकायैस्त्र्यक्षैस्तैः शूलपाणिभिः || २८ || वृतः कोटीशतेनैव स्थाणुस्तत्राभ्यवर्तत | समहापार्षदो रुद्रः सर्वासुरनिबर्हणः || २९ || ततो ऽपरः पट्टिसेन ह्रस्वपादोदरः शुचिः | सहस्रबाहुचरणः सहस्राक्षः प्रतापवान् || ३० || करालदशनश्चैव कृष्णसर्पाम्बरच्छदः | त्र्यक्षश्चन्द्रकृतापीडः कण्ठमालाविभूषितः || ३१ || उग्रसेन इति ख्यातः कोटीशतवृतः स च | आगात्समीपं देवस्य आहूतः स्वयमीश्वरः || ३२ || ततो ऽपरः समापेदे देवं चन्द्रार्धधारिणम् | चतुर्वक्त्रो महातेजाश्चतुर्विंशेक्षणः प्रभुः || ३३ || सहस्रबाहुर्ज्वालास्यो महानेत्रोर्ध्वमेहनः | करालदशनश्चैव शङ्कुकर्णो महानखः || ३४ || असिपाणिर्महातेजाः शतपादः शतोदरः | विद्युत्केशो ऽतिहासश्च तथैवोभयतोगतिः || ३५ || अजैकपादिति ख्यातो वृतः कोटीशतेन सः | काञ्चनोपलवृक्षाढ्यः समेघ इव पर्वतः || ३६ ||

सनत्कुमार उवाच |

आगात्ततो ऽपरो व्यास गणपः सुमहाबलः | सर्वतोवदनः श्रीमान्सर्वतःपाणिपादधृक् || ३७ || ह्रस्वबाहूरुपादश्च अशनिं धारयञ्छुभम् | शतैर्वृतश्च कोटीनामष्टाभिस्त्वात्मनः समैः | निकुम्भ इति विख्यातः शतपादोदराननः || ३८ || आगात्ततो ऽपरश्चापि विद्युत्केशो महाबलः | चन्द्रमालाधरो घोरः प्रहसन्प्रविचालयन् || ३९ || दण्डधारी महावक्त्रः शङ्खकुन्देन्दुसप्रभः | गणकोटीशतवृतः परमं परतापनः || ४० || ततो ऽपरः सहस्रेण कोटीनां गणपो वृतः | सूर्यमालास्रजं बिभ्रदाजगाम महातपाः || ४१ || स सूर्याप्यायनो नाम देवस्य परमप्रियः | धनुष्पाणिर्महातेजा विश्रुतः समहाद्युतिः || ४२ || तथान्यः सर्पमालश्च चक्राभरण एव च | चक्रायुधो महातेजा ह्रस्वपादकटीकरः || ४३ || स नाम्ना विश्रुतो लोके ग्रहाप्यायन इत्युत | गणकोटिशतैः षड्भिर्वृतः समनुधावत || ४४ || शङ्कुकर्णो ऽभ्ययाच्चैव गणकोट्या महाबलः | नन्दिकश्चापि दशभिः पिङ्गाक्षो ऽष्टाभिरेव च | विनायकश्चतुःषष्ट्या कुष्माण्डो नाम विश्रुतः || ४५ || हिरण्यवर्णः षड्भिश्च एकपादस्तथैव च | धूम्रकेशो द्वादशभिः पताकी दशभिस्तथा || ४६ || सहस्रघण्टो ऽष्टादशभिस्तपः पञ्चभिरेव च | सहस्रशीर्षः षड्भिश्च भवः कोटिशतावृतः || ४७ || वरो दशभिरभ्यागात्कुम्भकर्णस्तथाष्टभिः | विष्वक्सेनः सहस्रेण अन्नदस्तु शतेन वै || ४८ || आवेशनी तथाष्टाभिः सप्तभिश्च प्रवर्तनः | महारवः सहस्रेण कोटीनां गणपो वृतः || ४९ || चतुर्मुखो द्वादशभिस्तथा बाहूपहारकः | महाकालः शतेनैव तथाग्निशिखरो गणः || ५० || आदित्यमूर्धा कोट्या च तथा चैव धनावहः | संनामश्च शतेनैव कुक्कुटो ऽष्टाभिरेव च || ५१ || कुन्दश्च पञ्चदशभिस्तथा संकोटको ऽपरः | अमोघभूतिः कोट्या च तथा द्वौ मेघभूतिकौ || ५२ || एकपादो ऽपरः षष्ट्या तथा सप्तशिरा गणः | महाबलश्च नवभिरपस्मारश्च विश्रुतः || ५३ || नीलो नवत्या देवेशः पूर्णभद्रस्तथैव च | निरृतिश्चैव सप्तत्या कोटीनामभ्यगात्सह || ५४ || कोटीकोटीसहस्राणां शतैर्विंशतिभिर्वृताः | ईतयस्तत्र चाजग्मुर्महायोगबलान्विताः || ५५ || भूताः कोटिसहस्रेण प्रमथाः कोटिभिस्त्रिभिः | वीरभद्रश्चतुःषष्ट्या वृषभश्च महाबलः || ५६ || मेघः सौदामनीमालो नवत्या संवृतो ऽभ्यगात् | प्रभाकरश्च विंशत्या विट्पतिश्च महाबलः || ५७ || गिरिको मेघनादश्च उदरो मणिरेव च | काष्ठकर्णश्च दिव्यात्मा बिल्वरूपश्च विश्रुतः || ५८ || शतमन्युस्तथा चैव पञ्चाक्षश्चैव वीर्यवान् | तालकेतुश्च षण्डश्च कापाली गजनाशनः || ५९ || संवर्तकस्तथा चैत्रस्त्रैलोक्यदहनस्तथा | लोकान्तकश्च दीप्तात्मा हेमकुण्डल एव च || ६० || मृत्युश्चैव यमश्चैव कालो विषहरस्तथा | शतमायो महामायः सर्वत्राशरणस्तथा | एकशृङ्गी च विख्यातस्तथा भृङ्गिरिटिश्च यः || ६१ || एते चान्ये च गणपा गुह्या ये च महाबलाः | तत्राजग्मुर्मुदा युक्ताः सर्वे चित्रास्त्रयोधिनः || ६२ || गायन्तश्च द्रवन्तश्च नृत्यन्तश्च महाबलाः | मुखाडम्बरवाद्यानि नादयन्तस्तथैव च || ६३ || रथैर्नागैर्हयैश्चैव वायुमर्कटवाहनाः | व्याघ्रसिंहबिडालैश्च सर्पैः पक्षिभिरेव च || ६४ || श्वापदैश्च तथानेकैरन्यैश्च विविधैः शुभैः | विमानेषु तथारूढा मनुष्येषु तथापरे || ६५ || भेरीशङ्खमृदङ्गैश्च पणवानकगोमुखैः | वादित्रैर्विविधैश्चैव पटहैरेकपुष्करैः || ६६ || भेरीझर्झरसंनादैराडम्बरकडिण्डिमैः | मड्डुकैर्वेणुवीणाभिर्विवृषैस्तुणवैरपि || ६७ || दर्दुरैस्तालघातैश्च कच्छपैः पणवैरपि | वाद्यमानैर्महायोगा आजग्मुर्देवसंसदम् || ६८ || ते विश्वकर्माणममित्रसाहा विश्वेशमेकाक्षरमव्ययं च | सहस्रनेत्रप्रतिमातिभास्वराः प्रणेमुरुच्चैरपि चाभिनेदुः || ६९ || इति स्कन्दपुराणे त्रयोविंशतिमो ऽध्यायः ||

सनत्कुमार उवाच |

ते गणेशा महासत्त्वाः सर्वे देवेश्वरेश्वराः| प्रणम्य देवं देवीं च इदं वचनमब्रुवन् || १ || भगवन्देवतारिघ्न देवदेवाम्बिकापते | किमर्थं वयमाहूता आज्ञापय कृतं हि तत् || २ || किं सागराञ्छोषयामो यमं वा सह किंकरैः | हन्मो मृत्युमुतामृत्युर्न भवत्वद्य पद्मजः || ३ || बद्ध्वेन्द्रं सह देवैश्च सविष्णुं सह वायुना | आनयामः सुसंक्रुद्धा दैत्यान्वा सह दानवैः || ४ || कस्याद्य व्यसनं घोरं करिष्यामस्तवाज्ञया | कस्य वाद्योत्सवं देव सर्वकामसमृद्धिमत् || ५ || तांस्तथावादिनः सर्वान्नमतो भक्तवत्सलः | उवाच देवः सम्पूज्य गणान्गणपतिर्भवः || ६ ||

देव उवाच |

शृणुध्वं यत्कृते यूयमिहाहूता जगद्धिताः | श्रुत्वा च प्रयतात्मानः कुरुध्वं तदशङ्किताः || ७ || नन्दीश्वरो ऽयं पुत्रो नः सर्वेषामीश्वरेश्वरः | प्रियो ऽग्रनायकश्चैव सेनानीर्वः समाहितः || ८ || तमिमं मम संदेशाद्यूयं सर्वे ऽभिसंमताः | सेनान्यमभिषिञ्चध्वं महायोगपतिं पतिम् || ९ || अद्यप्रभृति युष्माकमयं नन्दीश्वरः शुभः | प्रियो गौरवयुक्तश्च सेनानीरमरः प्रभुः || १० ||

सनत्कुमार उवाच |

एवमुक्ते भगवता गणपाः सर्व एव ते | एवमस्त्विति संमन्त्र्य सम्भारानाहरंस्ततः || ११ || तस्य रूपाश्रयं दिव्यं जाम्बूनदमयं शुभम् | आसनं मेरुसंकाशं मनोरममथाहरन् || १२ || शातकुम्भमयं चापि चारुचामीकरप्रभम् | मुक्तादामावलम्बं च मणिरत्नावभासितम् || १३ || स्तम्भैश्च वैडूर्यमयैः किङ्किणीजालसंवृतम् | चारुरत्नकसंयुक्तं मण्डपं विश्वतोमुखम् | कृत्वा चक्रुश्च तन्मध्ये तदासनवरं शुभम् || १४ || तस्याग्रतः पादपीठं नीलं वज्रावभासितम् | चक्रुः पादप्रतिष्ठार्थं कलशौ चास्य पार्श्वगौ | सम्पूर्णौ परमाम्भोभिररविन्दावृताननौ || १५ || अग्रतो ऽग्निं समाधाय वृषभं चापि पार्श्वतः | सवत्सां सुरभिं चापि तस्य पार्श्वे ऽथ दक्षिणे || १६ || छत्त्रं शतशलाकं च जाम्बूनदमयं शुभम् | शङ्खहाराम्बुगौरेण पृष्ठेनाभिविराजितम् || १७ || व्यजनं चन्द्रशुभ्रं च हेमदण्डं सुचारुमत् | मालां कुशेशयानां च भ्रमरावलिसेविताम् || १८ || आनिन्युस्तत्र गणपा नन्द्यावर्तांश्च काञ्चनान् | पुनर्वसुं च पुष्यं च द्वौ मत्स्यौ वरुणालयौ || १९ || स्वस्तिकं वर्धमानं च श्रीवत्सं चैव काञ्चनम् | कीचका वेणवश्चैव कन्या चैवाभिपूजिता || २० || ऐरावतं सुप्रतीकं गजावेतौ च पूजितौ | ध्वजं च पूजितं दिव्यं शङ्खं चैवेन्दुवर्चसम् || २१ || कलशानां सहस्रं च काञ्चनानां सुवर्चसाम् | राजतानां सहस्रं च पार्थिवानां तथैव च || २२ || ताम्राणामथ दिव्यानां सहस्रमनलत्विषाम् | वासोयुगं वृक्षजं च विरजः सूक्ष्ममेव च || २३ || मुकुटं काञ्चनं चैव सुकृतं विश्वकर्मणा | कुण्डले चामले दिव्ये वज्रं चैव वरायुधम् || २४ || पट्टिसं च महद्दिव्यं शूलं चाशनिमेव च | जाम्बूनदमयं सूत्रं केयूरद्वयमेव च || २५ || हारं च मणिचित्राङ्गं रोचनारुचकं तथा| †नलभां पारियात्रं च वर्षं कङ्कणिमेव च† || २६ || दर्भांश्च दिव्यां समिधमाज्यं धूपमथापि च | समन्तान्निन्युरव्यग्रा गणपा देवसंमताः || २७ || ततो दिशः समुद्राश्च वरुणः सधनेश्वरः | यमो ऽग्निर्वसवश्चैव चन्द्रादित्यौ ग्रहैः सह || २८ || तारारूपाणि सर्वाणि नक्षत्राणि ध्रुवस्तथा | रुद्रा रक्षांसि यक्षाश्च अश्विनौ दैत्यदानवाः || २९ || गन्धर्वाप्सरसश्चैव नारदः पर्वतस्तथा | पृथिवी च समुद्राश्च वर्षाणि गिरयस्तथा || ३० || वृक्षाश्च वीरुधश्चैव ओषध्यश्च महाबलाः | नद्यः सर्वाः समाजग्मुः पशवश्चैव सर्वशः || ३१ || लोकस्य मातरश्चैव पृथिवी स्वर्ग एव च | भूतानि प्रकृतिश्चैव इन्द्रियाणि च सर्वशः || ३२ || तीर्थानि चैव सर्वाणि दानानि विविधानि च | ऋचो यजूंषि सामानि अथर्वाङ्गिरसावपि || ३३ || यज्ञाश्च क्रतवश्चैव इष्टयो नियमास्तथा | छन्दांसि चैव सर्वाणि पिशाचा देवयोनयः | ब्रह्मा च ऋषयश्चैव विष्णुः सानुचरस्तथा || ३४ || तेष्वागतेषु सर्वेषु भगवान्गोवृषध्वजः | सर्वकार्यविधिं कर्तुमादिदेश पितामहम् || ३५ || एकैकं कलशं तत्र सर्वौषधिसमन्वितम् | कृत्वाद्भिः पूरयित्वा च कुशेशयमुखावृतम् || ३६ || जयां च विजयां चैव सिंहीं व्याघ्रीं तथैव च | सुवर्चलां शङ्खपुष्पीं विष्णुक्रान्तां पुनर्नवाम् || ३७ || कुमारीं चन्द्रकान्तां च मृतसंजीवनीमपि | आदित्यवर्चसं चैव अमृतां श्रीनिकेतनाम् || ३८ || तथा कुमुद्वतीं चैव प्राक्षिपंस्तेष्वथौषधीः | पार्थिवेषु तदा व्यास सर्वेष्वेव गणेश्वराः || ३९ || सौवर्णेषु तु सर्वेषु तीर्थानि विविधानि च | दानानि चैव सर्वाणि भगवान्संन्यवेशयत् || ४० || राजतेषु च कुम्भेषु मन्त्रांश्छन्दांसि चैव ह | क्रतूनन्यांश्च विविधा इष्टीः काम्यांस्तथेतरान् || ४१ || औदुम्बरेषु सर्वेषु सरितः सागरांस्तथा | तपांसि नियमांश्चैव भगवानभ्यविन्यसत् || ४२ || एकैकं कलशं तत्र अभिपूर्याभिमन्त्र्य च | वेष्टयित्वा च सूत्रेण देवेभ्यः प्रददौ विभुः || ४३ || स जग्राह तदा ब्रह्मा एकं कलशमात्मना | विष्णवे च ददावेकमेकमिन्द्राय धीमते | गणपेभ्यस्तथा चान्यानृषिभ्यश्च पितामहः || ४४ || ततस्तमासने तस्मिन्नुपवेश्य महामनाः| अर्चयित्वा ततो ब्रह्मा स्वयमेवाभ्यषिञ्चत || ४५ || ततो विष्णुस्ततः शक्रो ऋषयश्च सहामरैः | गणाधिपाश्च सर्वे ते अभ्यषिञ्चन्त नन्दिनम् || ४६ || वासोयुगं च तद्दिव्यं गन्धान्दिव्यांस्तथैव च | केयूरे कुण्डले चैव मुकुटं हारमेव च | पट्टिसं शूलवज्रे च अशनीं च ददौ स्वयम् || ४७ || छत्त्रं जग्राह देवेन्द्रो वायुर्व्यजनमेव च | ऋषयस्तुष्टुवुश्चैव पितामहपुरोगमाः || ४८ ||

विष्णुरुवाच |

नमः कुष्माण्डराजाय वज्रोद्यतकराय च | शालङ्कायनपौत्राय हलमार्गोत्थिताय च || ४९ || शिलादस्य च पुत्राय रुद्रजप्यकराय च | रुद्रभक्ताय देवाय नमो ऽन्तर्जलशायिने || ५० || गणानां पतये चैव भूतानां पतये नमः | उमापुत्राय देवाय पट्टिसायुधधारिणे || ५१ || नमो दंष्ट्राकरालाय ललाटनयनाय च | प्रमथाय वरेण्याय ईशानायार्पिताय च || ५२ || द्वाराध्यक्षाय शूराय सुयशापतये नमः | नमः प्रवरमालाय क्षीरोदनिलयाय च || ५३ || महागणाधिपतये महायोगेश्वराय च | दिण्डिमुण्डाय चण्डाय एकाक्षररताय च || ५४ || अक्षयायामृतायैव अजरायामराय च | पशूनां पतये चैव जेत्रे मृत्योस्तथैव च || ५५ || नमः पवनवेगाय सर्वज्ञायाजिताय च | अनेकशिरसे चैव अनेकचरणाय च || ५६ || किरीटिने कुण्डलिने महापरिघबाहवे | सर्वान्देवान्गणांश्चैव पाहि देव नमो ऽस्तु ते || ५७ ||

सनत्कुमार उवाच |

एवं स्तुत्वा ततो देवस्तस्मै व्यास महात्मने | प्राञ्जलिः प्रयतो भूत्वा जयशब्दं चकार ह || ५८ || ततो गणा जयेत्यूचुस्ततो देवास्ततो ऽसुराः | ततः सर्वाणि भूतानि ब्रह्मा शक्रस्तथैव च || ५९ || ततः शङ्खांश्च भेरींश्च पटहाडम्बरांस्तथा | वंशांश्च पणवांश्चैव कृकवान्गोविषाणिकान् || ६० || दिण्डिमान्वेणुकांश्चैव मर्दलांश्चैव सर्वशः | अवादयन्त गणपा हर्षयन्तो मुदा युताः || ६१ ||

सनत्कुमार उवाच |

नन्दीश्वरस्य य इमं स्तवं देवाभिनिर्मितम् | पठेत सततं मर्त्यः स गच्छेन्मम लोकताम् || ६२ || नमो नन्दीश्वरायेति कृत्वा यः स्वप्नमाचरेत्| तस्य कुष्माण्डराजेभ्यो न भयं विद्यते क्वचित् || ६३ || यत्रायं स्थाप्यते नित्यं स्तवः परमपूजितः | न भयं तत्र भवति ग्रहेभ्यो व्यास सर्वदा || ६४ || नन्दीश्वरं ये प्रणमन्ति मर्त्या नित्यं प्रसन्नेन्द्रियशुद्धसत्त्वाः | ते देवदेवस्य सहाद्रिपुत्र्या इष्टा वरिष्ठाश्च गणा भवन्ति || ६५ || इति स्कन्दपुराणे चतुर्विंशतिमो ऽध्यायः ||

सनत्कुमार उवाच |

ततस्तत्रागतान्देवान्देवताधिपतिर्भवः | मरुतः प्राह सम्पूज्य कन्यार्थं सदसत्पतिः || १ || मरुतो ये महावेगा महासत्त्वा महौजसः | आमन्त्र्य नाम्ना तानीशः सशक्रः सपितामहः || २ || युष्माकं सुयशा कन्या सुभगा दिव्यरूपिणी | दातुमर्हथ तां सुभ्रूं स्नुषां मह्यं महाबलाः || ३ ||

मरुत ऊचुः |

त्वमस्माकं च तस्याश्च सर्वस्य जगतस्तथा | प्रभविष्णुस्त्रिलोकेश न तु याचितुमर्हसि || ४ || त्वयैव देया ग्राह्या च त्वं नो गतिरनुत्तमा | मा नः परानिवेशान याचनेन विभावय || ५ || पिता नः कश्यपः श्रीमान्मरीचिश्च पितामहः | पितामहपिता ब्रह्मा तस्यापि त्वं पितामहः | स त्वं पितामहो ऽस्माकं न परान्कर्तुमर्हसि || ६ || स एवमुक्तो देवेशो मरुद्भिर्देवसत्तमैः | सुयशां मरुतां कन्यामानयामास तत्क्षणात् || ७ || स्वयं होतास्य तत्रासीद्ब्रह्मा लोकपितामहः | कश्यपश्च तथोद्गाता अत्रिः साम स्वयं जगौ | अथर्वाङ्गिरसौ देवौ ब्रह्मत्वमपि चक्रतुः || ८ || नारदः पर्वतश्चैव चित्रसेनश्च गायनः | विश्वावसू रुचिश्चैव हाहा हूहू तथैव च || ९ || तथा शालिशिरा यश्च विश्रुतो गण्डमण्डकः | ईतिश्चैवेन्द्रवाहश्च यज्ञवाहो ऽथ दक्षिणः | एते चान्ये च गन्धर्वा जगुर्मधुरकण्ठिनः || १० || उर्वशी चैव रम्भा च घृताची पूर्वचित्त्यपि | तिलोत्तमा च विश्वाची अन्याश्चाप्सरसः शुभाः | अनृत्यन्त महाभागा नृत्तं सुरमनोहरम् || ११ ||

सनत्कुमार उवाच |

स एवमभवद्व्यास विवाहस्तस्य धीमतः | नन्दिनो गणमुख्यस्य अनौपम्यो ह्यनिन्दितः || १२ || ततः स तु कृतोद्वाहो नन्दी गत्वा महामनाः | पादान्ववन्दे देवस्य देव्या ब्रह्मण एव च | शिलादस्य च लोकेशः श्रिया परमया युतः || १३ ||

देव उवाच |

वरं वृणीष्व पुत्र त्वं स्नुषा चेयं तव प्रिया | वरं ददामि ते वत्स अनया सहमीप्सितम् || १४ ||

नन्द्युवाच |

भगवन्यदि तुष्टो ऽसि त्वयि भक्तिर्दृढास्तु मे | सदा च तुष्टो भव मे साम्बः सह गणेश्वरैः || १५ || पितरं चैव मे देव उत्पादकमिमं प्रभो | अनुग्रहेण युक्तेन योक्तुमर्हसि कामद || १६ ||

देव उवाच |

सदाहं तव नन्दीश सुतुष्टः सगणेश्वरः | पार्वत्या सहितो धीमन्निदं च शृणु मे वचः || १७ || सदेष्टश्च वरिष्ठश्च परमैश्वर्यसंयुतः | महायोगी महेष्वासो महाबलपराक्रमः || १८ || अजय्यश्चैव जेता च पूज्येज्यश्च सदा भव | अहं यत्र भवांस्तत्र यत्र त्वं तत्र चाप्यहम् || १९ || अयं च ते पिता विप्रः परमैश्वर्यसंयुतः | भविष्यति गणाध्यक्षो महागणपतिर्मम || २० || पर्वतं चास्य वैभ्राजं कामगं सर्वकाञ्चनम् | उपेतं भवनैर्दिव्यैः प्रयच्छामि जनावृतम् | तेनायं सर्वलोकेषु चरिष्यति यथेप्सितम् || २१ || स्थानं श्रीपर्वते चास्य भविष्यति सुपूजितम् | भृगौ तस्मिंश्च यः प्राणांस्त्यक्ष्यते वै सुधार्मिकः | स कामचारी वैभ्राजे गणपो ऽस्य भविष्यति || २२ ||

सनत्कुमार उवाच |

ततो देवी महाभागा शैलादेरददद्वरम् | सो ऽब्रवीत्त्वयि भक्तिर्मे सदैवानपगा भवेत् || २३ || ततो मरुत्सुता चैव उभाभ्यामपि चोदिता | वरं वृणु यथेष्टं वै ताविदं प्रत्युवाच ह || २४ || युवयोरस्तु भक्तिर्मे तथा भर्तरि चैव हि | नित्यं चानपगा स्यान्मे धर्मे च मतिरुत्तमा | एतदिच्छामि देवेशौ वरं वरसहस्रदौ || २५ ||

सनत्कुमार उवाच |

ततस्तावेवमेतत्ते भवितेति शुचिस्मिते | ऊचतुर्मुदितौ देवौ स्नुषां तां वरवर्णिनीम् || २६ || गणाश्चास्य ततो ऽभ्येत्य सर्वे देवप्रियेप्सया | वरं ददुर्महासत्त्वाः स वव्रे काञ्चनप्रभः || २७ || युष्मासु मम भक्तिश्च ऐश्वर्यं चापि संमतम् | वश्याश्च यूयं सर्वे मे प्रियो युष्माकमेव च || २८ ||

गणा ऊचुः |

भवान्मन्तानुमन्ता च गतिरागतिरेव च | अस्माकमीशः सर्वेषां देवानामपि चेश्वरः || २९ || कुष्माण्डानां वरिष्ठश्च रुद्राणां त्वं महाबलः | ईतीनां द्वारपालश्च प्रमथानां तथैव च || ३० || महाबलो महायोगी सेनानीस्त्वं हि नो मतः | त्वं भूतो भूतनेता च नायको ऽथ विनायकः || ३१ || ग्रहाणामधिपश्चैव उग्रदण्डधरस्तथा | त्वमग्रयोधी शत्रुघ्नस्त्वं वीरस्त्वं दिवस्पतिः || ३२ || महानुभावस्त्वं चैव क्षीरोदनिलयश्च ह | जप्येश्वरनिकेतश्च जप्येश्वरविभावितः || ३३ || भावनः सर्वभूतानां वरदो वरदार्चितः | अस्माकं वरदश्चैव भव भूतेश्वर प्रभो || ३४ ||

सनत्कुमार उवाच |

स एवं गणपैः सर्वैः स्तुतो नन्दीश्वरो विभुः | उवाच प्रणतः सर्वान्ब्रूत किं करवाणि वः || ३५ || त एवमुक्ता गणपाः सर्व एव महाबलाः | ऊचुस्तं दिव्यभावज्ञा देवदेवस्य संनिधौ || ३६ || त्वमस्माकं गणाध्यक्षः कृतो देवेन शम्भुना | अस्माभिश्चाभिषिक्तस्त्वं नायको धर्मदायकः || ३७ || स त्वं शिवश्च सौम्यश्च गुणवानगुणेष्वपि | क्षमाशौचदमोपेतो भव नः प्रियकृत्सदा || ३८ ||

सनत्कुमार उवाच|

एवमुक्तस्तदा सर्वान्प्रणम्य बहुमानतः | शिरस्यञ्जलिमाधाय गणपानस्तुवत्तदा || ३९ ||

नन्द्युवाच |

नमो वः सर्वभूतेभ्यो नमो योगिभ्य एव च | नमश्चाप्यनिकेतेभ्यो योगीशेभ्यो नमस्तथा || ४० || नमः कामचरेभ्यश्च नम उग्रेभ्य एव च | मृत्युभ्यश्च यमेभ्यश्च कालेभ्यश्च नमो नमः || ४१ || नमः काञ्चनमालेभ्यः सर्वधर्मिभ्य एव च | नमो वो वधकेभ्यश्च अवध्येभ्यस्तथैव च || ४२ || नमः परमयोगिभ्यो जटिभ्यश्च नमो नमः | नमो वो ऽदृश्यरूपेभ्यो विकृतेभ्यस्तथैव च || ४३ || नमो वल्कलवासेभ्यः कृत्तिवासेभ्य एव च | नमः श्वेताम्बरस्रग्भ्यश्चित्रस्रग्भ्यो नमो नमः || ४४ || धावद्भ्यश्च द्रवद्भ्यश्च प्रस्थितेभ्यो नमो नमः | नमो मुनिभ्यो गायद्भ्यो जपद्भ्यश्च नमो नमः || ४५ || नमः शरभरूपेभ्यः शतरूपेभ्य एव च | नमः पर्वतवासेभ्यो व्याघ्ररूपेभ्य एव च || ४६ || नमो मार्जाररूपेभ्यः काककोकेभ्य एव च | नमो दैवतरूपेभ्यः पवनेभ्यस्तथैव च || ४७ || नमो ऽग्निभ्यस्तथाद्भ्यश्च वरुणेभ्यस्तथैव च | नमो धनेशरूपेभ्यः सर्वरूपिभ्य एव च || ४८ || नमश्चोदरवक्त्रेभ्यः सर्ववक्त्रेभ्य एव च | नमो वामनरूपेभ्यो वामरूपेभ्य एव च || ४९ || देवासुरमनुष्याणामाप्यायिभ्यो नमो नमः | नमो वः सर्वभूतानां नमो वः सर्वतः शुभाः || ५० || ग्रहेभ्यश्च नमो वो ऽस्तु मोक्षेभ्यश्च नमस्तथा | शुभेभ्यश्च नमो वो ऽस्तु अशुभेभ्यस्तथैव च | मम सौम्याः शिवाश्चैव भवन्तु गणनायकाः || ५१ || इति स्तुता गणपतयो महाबलाः शुभैर्वचोभिः सुरशत्रुनाशनाः | दिशन्तु मे सुखमतुलं सुखप्रदा बलं च वीर्यं स्थिरतां च संयुगे || ५२ || तपो ऽक्षयं स्थानमथातुलां गतिं यशस्तथाग्र्यं बहु धर्मनित्यताम् | दिशन्तु सर्वं मनसेप्सितं च मे सुरेश्वराः पुष्टिमनुत्तमां तथा || ५३ ||

सनत्कुमार उवाच |

इमौ नन्दिगणेन्द्राणां स्तवौ यो ऽध्येति नित्यशः | सो ऽश्वमेधावभृथवत्सर्वपापैः प्रमुच्यते || ५४ || सन्ध्यायामपरस्यां तु जपन्पापं दिवाकृतम् | पूर्वस्यां संत्यजेद्वापि सर्वरात्रिकृतं जपन् || ५५ ||

सनत्कुमार उवाच |

ततस्ते गणपाः सर्वे संस्तुतास्तेन धीमता | निसृष्टाश्च तदा जग्मुः प्रणिपत्य वृषध्वजम् || ५६ || देवाश्च सर्वलोकाश्च ततो देवः स्वयं प्रभुः | सृष्ट्वा नन्दीश्वरगृहं प्रदाय च महामनाः | ईप्सितं सह देव्या वै जगाम स्थानमव्ययम् || ५७ || य इमं नन्दिनो जन्म वरदानं तथैव च | अभिषेकं विवाहं च पठेद्वा श्रावयीत वा | ब्राह्मणः स मृतो याति नन्दीश्वरसलोकताम् || ५८ || यो नियतस्तु पठेत्प्रयतात्मा सर्वमिमं प्रणतो भवभक्त्या | सो ऽपि गतः परलोकविचारी नन्दिसमो ऽनुचरो हि मम स्यात् || ५९ || इति स्कन्दपुराणे पञ्चविंशतिमो ऽध्यायः ||

सनत्कुमार उवाच |

एवं नन्दीश्वरो व्यास उत्पन्नो ऽनुचरश्च ह | अभवद्देवदेवस्य सेनापत्ये ऽभिषेचितः || १ ||

व्यास उवाच |

देव्या सहाथ भगवानासीनस्तत्र कामदः | अकरोत्किं महादेव एतदिच्छामि वेदितुम् || २ ||

सनत्कुमार उवाच |

भगवान्हिमवच्छृङ्गे शर्वो देव्याः प्रियेप्सया | गणेशैर्विविधाकारैर्हासं संजनयन्मुहुः || ३ || देवीं बालेन्दुतिलको रामयच्च रराम च | महानुभावैः सर्वज्ञैः कामरूपधरैः शुभैः || ४ || अथ देव्याससादैका मातरं परमेश्वरी | आसीनां काञ्चने शुभ्रे आसने परमार्चिते || ५ || अथ दृष्ट्वा सतीं देवीमागतां तु सुरूपिणीम् | आसनेन महार्हेण सम्पादयदनिन्दिताम् || ६ || आसीनां तां च सोवाच मेना हिमवतः प्रिया | चिरस्यागमनं ह्यद्य तव पुत्रि शुभेक्षणे | दरिद्रक्रीडनैस्त्वं हि भर्त्रा क्रीडसि संगता || ७ || ये दरिद्रा भवन्ति स्म तथैव च निराश्रयाः | उमे त एवं क्रीडन्ति यथा तव पतिः शुभे || ८ ||

सनत्कुमार उवाच |

सैवमुक्ता तु मात्राथ नातिहृष्टमनाभवत् | महत्याक्षमया युक्ता न किंचित्तामुवाच ह || ९ || विसृष्टा सा तदा मात्रा गत्वा देवमुवाच ह | भगवन्देवदेवेश नेह वत्स्यामि भूधरे | अन्यं वृणु ममावासं भुवनेश महाद्युते || १० ||

देव उवाच |

सदा त्वमुच्यमाना वै मया वासार्थमीश्वरि | अन्यत्र रोचितवती नावासं देवि कर्हिचित् || ११ || इदानीं स्वयमेव त्वं वासमन्यत्र शोभने | कस्मान्मृगयसे देवि ब्रूहि तन्मे शुचिस्मिते || १२ ||

देव्युवाच |

गृहं गताहं देवेश पितुरद्य महात्मनः | दृष्ट्वा च मे तत्र माता विजने लोकभावनी || १३ || आसनादिभिरभ्यर्च्य सा मामेवमभाषत | उमे तव सदा भर्ता दरिद्रक्रीडनैः शुभे | क्रीडते न हि देवानां क्रीडा भवति तादृशी || १४ || यत्किल त्वं महादेव गणेशैर्विविधैः शुभैः | रमसे तदनिष्टं हि मम मातुर्वृषध्वज || १५ ||

सनत्कुमार उवाच |

ततो देवः प्रहस्याह देवीं हासयितुं प्रभुः | एवमेतन्न संदेहः कस्मान्मन्युरभूत्तव || १६ || कृत्तिवासा ह्यवासा वा श्मशाननिलयश्च ह | अनिकेतो ह्यरण्येषु पर्वतानां गुहासु च | विचरामि गणैर्नग्नैर्वृतो ऽम्भोजविलोचने || १७ || मा क्रुधो देवि मातुस्त्वं तथ्यं मातावदत्तव | न हि मातृसमो बन्धुर्जन्तूनामस्ति शोभने || १८ ||

देव्युवाच |

न मे ऽस्ति बन्धुभिः किंचित्कृत्यं सुरवरेश्वर | तथा कुरु महादेव यथान्यत्र वसामहे || १९ ||

सनत्कुमार उवाच |

स एवमुक्तो देवेशो देव्या देवेश्वरः प्रभुः | पार्श्वस्थं गणपं प्राह निकुम्भं नाम विश्रुतम् || २० || गणेश्वर निकुम्भ त्वं गत्वा वाराणसीं शुभाम् | शून्यां कुरु महाबाहो उपायेनैव मा बलात् || २१ || तत्र राजा निवसति दिवोदासः प्रतापवान् | धार्मिको मम भक्तश्च महायोगी महाबलः || २२ || स त्वं तथा गतः कुर्या यथास्मै नापराध्यसे | तस्यैव चापराधेन शून्यां वाराणसीं कुरु || २३ ||

सनत्कुमार उवाच |

स एवमुक्तस्तेजस्वी निकुम्भो गणसत्तमः | उवाच देवं प्रणतः प्राञ्जलिर्हृषिताननः || २४ || तथा करिष्ये देवेश यथा स हि नराधिपः | भविष्यत्यपराधीश त्वं च तुष्टो भविष्यसि | शून्या वाराणसी चैव भविष्यति न संशयः || २५ ||

सनत्कुमार उवाच |

एवमुक्त्वा निकुम्भो ऽसौ प्रणम्य शिरसा हरम् | जगाम पुण्यां लोकेषु पुरीं वाराणसीं प्रभुः || २६ || तत्रासौ दर्शनं स्वप्ने नापिताय ददौ गणः | मण्डूकाक्षाय रूपं च स्वं तस्यादर्शयत्तदा || २७ ||

निकुम्भ उवाच |

मण्डूकाक्ष निकुम्भो ऽहं गणपः शोकनाशनः | तवानुग्रहकृत्प्राप्तो यद्ब्रवीमि कुरुष्व तत् || २८ || दिवोदासगृहद्वारि कुरुष्व त्वं ममालयम् | स्थापयस्व च तत्रार्चां मद्रूपसदृशीं शुभाम् || २९ || वित्तं च ते प्रदास्यामि पुत्रान्सौभाग्यमेव च | प्रियत्वं चैव सर्वत्र गतिं चानुत्तमां पुनः || ३० ||

सनत्कुमार उवाच |

एवमुक्तो निकुम्भेन नापितो नृपतिं तदा | गत्वावदद्दिवोदासमिन्द्रवैवस्वतोपमम् || ३१ ||

नापित उवाच |

स्वामिंस्तव गृहद्वारि करिष्ये गणपालयम् | स्थापयिष्ये गणेशं च तन्मे ऽनुज्ञातुमर्हसि || ३२ || तथेति सो ऽप्यनुज्ञातश्चक्रे तत्र तदालयम् | प्रत्यस्थापयदर्चां च यादृशीं दृष्टवानसौ || ३३ || तस्य पूजां च महतीं प्रावर्तयत शोभनाम् | गणेशस्य महासत्त्वः स च तां प्रत्यगृह्णत || ३४ || स तस्मै कर्मणा तेन वित्तं यद्यत्समीहितम् | पशूंश्चैव हि पुत्रांश्च सौभाग्यं चाददत्प्रभुः || ३५ || तस्य तां वृद्धिमतुलां नापितस्याभिवीक्ष्य तु | आरिराधयिषुर्लोकस्तस्य पूजां चकार ह || ३६ || चक्रुर्यात्रास्तथा केचिदुपवासांस्तथापरे | होमं जप्यं तथैवान्ये पूजां चान्ये वरार्थिनः | उपहारांस्तथैवान्ये गीतनृत्तं तथापरे || ३७ || तेभ्यस्तथाभ्युपेतेभ्यो निकुम्भः स महायशाः | ददौ सर्वानभिप्रायान्ये ये तेषामभीप्सिताः || ३८ || एवं तं कामदं ज्ञात्वा दिवोदासो नृपस्तदा | उवाच महिषीं व्यास कदाचित्पुत्रलिप्सया || ३९ || देवि सर्वानभिप्रायाञ्जनेभ्यो ऽयं प्रयच्छति | गणेश्वरं त्वमप्येनमपत्यार्थं प्रसादय || ४० || सैवमुक्ता तदा गत्वा गणेशं प्राप्य शोभना | उवाच भगवन्देव अनपत्याहमीश्वर || ४१ || उपवासं करिष्यामि तव देवाभिराधने | तावन्न भोक्ष्ये यावन्मे वरो ऽदत्तस्त्वया प्रभो || ४२ || जाते च पुत्रे दास्यामि शतानां दशतीर्दश | त्वामुद्दिश्य द्विजातिभ्यो गोधेनूनां गणेश्वर || ४३ || तथा घटसहस्रेण दध्नश्चैव घृतस्य च| क्षीरस्य पञ्चगव्यस्य करिष्ये स्नपनं च ते || ४४ || ब्राह्मणानां सहस्राणां शतं चापि सुपूजितम् | पुरस्ताद्भोजयिष्ये ते पुत्रे जाते न संशयः || ४५ || बहून्दास्यति राजा च ग्रामान्दास्यस्तथैव च | सदा सत्त्रं च पूजां च करिष्यति तव प्रभो || ४६ ||

सनत्कुमार उवाच |

सा तमुक्त्वा तथा व्यास तस्थौ नियममास्थिता | सोपवासा तदा पूजां महतीं तस्य कुर्वती || ४७ || तां तथा तिष्ठतीं देवः प्रोवाच स गणेश्वरः | उत्तिष्ठ नास्ति ते पुत्रो मा खेदं त्वं वृथा कृथाः || ४८ || एवं तेन गणेशेन निकुम्भेन महात्मना | असकृत्प्रोच्यमाना सा नियमाद्विरराम ह || ४९ || ततो नराधिपं देवी प्रोवाच विमना तदा | आर्यपुत्र न मे पुत्रं गणपो ऽसौ प्रयच्छति | ब्रवीति नास्ति ते पुत्रो मा वृथा नियमं कृथाः || ५० ||

सनत्कुमार उवाच |

एवं महिष्या स प्रोक्तः स्वयमेव नराधिपः | सदा सनियमस्तस्थौ गणेशस्याग्रतो नृपः || ५१ || तमप्युवाच नृपतिं निकुम्भो नियमस्थितम् | मा स्था वृथेह नृपते न ते पुत्रं ददाम्यहम् || ५२ || एवमुक्तः स राजेन्द्रो निकुम्भेन महाबलः | क्रोधरक्तेक्षणः प्राह तमुत्थाय गणेश्वरम् || ५३ ||

राजोवाच |

गणो वा त्वं पिशाचो वा भूतो वा राक्षसो ऽपि वा | कृतघ्नस्त्वं न संदेहो न त्वं पूजामिहार्हसि || ५४ || मम चैव गृहद्वारि पौरैश्चैव समर्चितः | विषये मम वासी च न च पुत्रं प्रयच्छसि || ५५ || पूजार्हो न भवांस्तस्मान्मत्तो दण्डं त्वमर्हसि | नृशंसश्चावलिप्तश्च निष्ठुरो मत्सरान्वितः || ५६ || ततो ऽस्य भेदयामास निलयं गजयूथपैः | स्थण्डिलं च बभञ्जाशु ददाहार्चां च सुप्रभाम् || ५७ || निकुम्भो ऽपि कृतार्थः सन्नाकाशे संस्थितः प्रभुः | उवाच तं दिवोदासं प्रदहन्निव तेजसा || ५८ || यथेष्टं सम्प्रयच्छन्ति देवा वरमभीप्सितम् | न दत्तो यद्यसौ कोपः कस्तत्र भवतो ऽभवत् || ५९ || यस्मान्ममालयो भग्नस्त्वया निरपकारिणः | तस्माद्वर्षसहस्रं ते पुरी शून्या भविष्यति || ६० ||

सनत्कुमार उवाच |

स एवमुक्त्वा राजानं निकुम्भः परमात्मवान् | देवेशाय निवेद्यैवं तस्थौ पार्श्वगतः प्रभोः || ६१ || राजापि तस्य वाक्येन तथ्येनार्थेन चैव हि | व्रीडां परां समासाद्य गृहानभ्यागमत्तदा || ६२ || अथ सा तेन शापेन पुरी वाराणसी तदा | शून्या समभवत्क्षिप्रं विशुद्धा मृगसेविता || ६३ || तां तु शून्यां स विज्ञाय देव्या सह पिनाकधृक् | सगणो नन्दिना सार्धमाजगाम महाद्युतिः || ६४ || स तत्र मानसं दिव्यं विमानं सूर्यवर्चसम् | अनौपम्यगुणं देवो मनसैवाभिनिर्मिमे || ६५ || न मे प्रभवति प्रज्ञा कृत्स्नशस्तन्निरूपणे | एतावच्छक्यते वक्तुमनौपम्यगुणं हि तत् || ६६ || देवोद्यानानि रम्याणि नन्दनाद्यानि यानि तु | तेभ्यः श्रेष्ठतमं श्रीमदुद्यानमसृजत्प्रभुः || ६७ || तस्मिन्विमाने गिरिराजपुत्री सर्वर्द्धियुक्ते वचसामगम्ये | रेमे नवेन्दीवरफुल्लनेत्रा देवी न सस्मार वचश्च मातुः || ६८ || इति स्कन्दपुराणे षड्विंशो ऽध्यायः ||

सनत्कुमार उवाच |

अथ तस्मिन्सुखासीनौ शैलजावृषभध्वजौ | आसने काञ्चने दिव्ये नानारत्नोपशोभिते || १ || अथाचलसुता देवी सुखासीना विभावरी | सर्वलोकपतिं प्राह गिरीन्द्रतनया पतिम् || २ || भगवन्देवतारिघ्न चन्द्रावयवभूषण | कथयैतन्मम विभो यत्त्वां पृच्छामि मानद || ३ || किं फलं तव देवेश लभन्ते भक्तवत्सल | भक्ता ये फलमुद्दिश्य कुर्वते तव किंचन || ४ ||

सनत्कुमार उवाच |

स एवमुमया प्रोक्तः शूलपाणिर्वृषध्वजः | अवोचत्सर्वमव्यग्रो देवदेवः शुभाशुभम् || ५ ||

व्यास उवाच |

किं तत्स भगवान्देवः प्रीयमाणो महातपाः | प्रणयात्स तदा देव्या पृष्टो ऽकथयदव्ययः || ६ ||

सनत्कुमार उवाच |

मयाप्येतत्पुरा व्यास पृष्टो नन्दीश्वरः प्रभुः | यथोक्तवान्मयि ब्रह्मंस्तथा तत्कथयामि ते || ७ || गणेशानं महाभागं सूर्यायुतसमप्रभम् | अपृच्छमहमव्यग्रो नन्दीश्वरं महाद्युतिम् || ८ || ईशेन यत्पुरा देव्याः कथितं गणसत्तम | तन्मे ब्रूहि यथातत्त्वं परं कौतूहलं हि मे || ९ ||

नन्दीश्वर उवाच |

श्रूयतामभिधास्यामि पृच्छतस्ते महामुने | देवदेवेन पार्वत्या यत्पुरा कथितं हितम् || १० ||

देव उवाच |

श्रूयतामभिधास्यामि यन्मां पृच्छसि सुव्रते | हिताय देवि भक्तानां पृष्टस्ते कथयामि ते || ११ || प्रासादं यस्तु मे देवि शुभ्रं कुर्यादनिन्दिते | विदधाम्यर्जुनं तस्य गृहं शिवपुरे ऽक्षयम् || १२ || विधानेन यथोक्तेन लिङ्गं मे स्थापयेच्च यः | चरते स मया सार्धं नित्यमष्टगुणान्वितः || १३ || काञ्चनं तुटिमात्रं वा यो दद्याद्बहु वा मम | तस्य हैमवते शृङ्गे ददानि गृहमुत्तमम् || १४ || यो मे गास्तु हिरण्यं वा दद्यादविमनाः प्रिये | लोकान्ददान्यहं तस्मै सर्वकामसमन्वितान् || १५ || वृषभं यः प्रयच्छेत श्वेतं नीलमथापि वा | स कुलानामुभयतस्तारयेदेकविंशतिम् || १६ || गोचर्मद्वयसां वापि यो मे दद्याद्वसुन्धराम् | स मे पुरं समासाद्य गणेशैः सह मोदते || १७ || यो मे पुण्यफलं दद्यादात्मना पूर्वमार्जितम् | सो ऽनन्तफलमाप्नोति मोदते च त्रिविष्टपे || १८ || यो ऽनुयानं चतुर्दश्यां कृष्णस्य कुरुते मम | रथेन वृषयुक्तेन मम लोके स मोदते || १९ || †महिमानो†पचारैश्च यो मां जप्यैश्च पूजयेत्| ददानि ब्रह्मणो लोके वासं तस्य सुपूजितम् || २० || मनसा चिन्तयेद्यश्च पूजयेयमहं हरम् | अशक्तो नास्ति च द्रव्यं यस्य नित्यं सुमध्यमे || २१ || स तया श्रद्धया पूतो विमुक्तः सर्वपातकैः | मम लोकमवाप्नोति भिन्ने देहे न संशयः || २२ || स्नात्वा यः पूर्वसंध्यायां सदा मामुपगच्छति | स मित्रं यक्षराजस्य यक्षो भवति वीर्यवान् || २३ || संमार्जनं पञ्चशतं सहस्रमुपलेपनम् | गन्धाश्च दशसाहस्रा आनन्त्यं चार्चनं स्मृतम् || २४ || अभ्यङ्गो ऽष्टशतं चैव स्नपनं त्रिशतं भवेत् | गन्धोदकं पञ्चशतं पञ्चगव्यं तथैव च || २५ || क्षीरं पञ्चगुणं देवि तस्माद्भूयश्च कापिलम् | तस्माच्च सर्पिषा स्नानं भूयः पञ्चगुणं तथा || २६ || क्षमामि देवि चास्येह अपराधान्बहूनपि | भस्माभिषेकमानन्त्यं गुह्यं चैतन्ममेप्सितम् || २७ || अगरुं दशसाहस्रं षट्सहस्रं तु चन्दनम् | चतुर्दशसहस्राणि धूपः कालागरुः स्मृतः || २८ || अक्षतास्तण्डुलयवाः शालयो द्विशताः स्मृताः | आनन्त्यो गुग्गुलुश्चैव सहाज्येन सुधूपितः || २९ || द्वे सहस्रे पलानां तु महिषाक्षस्य यो दहेत् | देवि संवत्सरं पूर्णं स मे नन्दिसमो भवेत् || ३० || दक्षिणायां तु यो मूर्तौ पायसं सघृतं शुभे | निवेदयेद्वर्षमेकं स च नन्दिसमो भवेत् || ३१ || चरवो दशसाहस्रा यावकश्च चतुर्गुणः | शेषाश्च चरवः सर्वे यावकार्धेन संमिताः || ३२ || घृतपात्रमसंख्येयमिह प्रेत्य च शाश्वतम् | प्रीणाति च पितॄन्सर्वान्विमाने चैव मोदते | छत्त्रं दद्याच्च यः सो ऽपि दीप्यते तेजसा दिवि || ३३ || उभे पक्षे त्रयोदश्यामष्टम्यां चोपवासिकः | उपतिष्ठेत मां भक्त्या सोपहारमनिन्दिते | ददान्यस्य स्वकं लोकं तुष्टो ऽहं देवि शाश्वतम् || ३४ || रक्तपीतकवासोभिः पुष्पैश्च विविधैरपि | पूजितो ऽहं सदा भक्त्या पुत्रत्वे कल्पयामि तम् || ३५ || एकरात्रं च यो मर्त्यो दीपं धारयति स्थितः | सर्वयज्ञफलं तस्य ददानि श्रियमेव च || ३६ || मयैव मोहिताः सर्वे लोकाः सजडपण्डिताः | न मां पश्यन्ति रागान्धास्तमसा बहुलीकृताः || ३७ || ध्यानिनो नित्ययुक्ता ये सत्यधर्मपरायणाः | एकाग्रमनसो दान्तास्ते मां पश्यन्ति नित्यदा || ३८ || ये मे भक्ताः सदा चैव सांख्ययोगविशारदाः | सर्वं पश्यन्ति च मयि मां च सर्वत्र योगतः || ३९ || त्रींल् लोकान्समतिक्रम्य ब्रह्मलोकं तथैव च | गच्छन्ति मम ते लोकं तमो भित्त्वा सुदुर्भिदम् || ४० || न शक्यो ऽस्मि तपोयुक्तैर्द्रष्टुं मुनिगणैरपि | ध्यानिनो नित्ययुक्ताश्च देवि पश्यन्ति मां बुधाः || ४१ || यानि लोकेषु तीर्थानि देवतायतनानि च | पादयोस्तानि सुश्रोणि सदा संनिहितानि मे || ४२ || मय्यर्पितमना नित्यं तथा मद्भावभावितः | ममैव स प्रभावेन सर्वपापैः प्रमुच्यते || ४३ || सर्वथा वर्तमानो ऽपि देवि यो मां सदा स्मरेत् | कल्मषेण न युज्येत नरः कर्ता कदाचन || ४४ || सर्वावस्थो ऽपि पापात्मा ज्ञाननिष्ठेन चेतसा | यो ऽभ्यर्चयति मां नित्यं स ममात्मसमो भवेत् || ४५ || षडङ्गेन च योगेन यो मामर्चयते सदा | प्रविशेत स मां क्षिप्रमत्र नास्ति विचारणा || ४६ || यो ऽप्यसज्जनरतो वियोनिजः पातकैरपि समन्वितः सदा | सो ऽपि मद्गतमना मदर्पणो याति देवि गतिमप्रतर्किताम् || ४७ || इति स्कन्दपुराणे सप्तविंशतितमो ऽध्यायः ||

सनत्कुमार उवाच |

ततो व्यास पुनर्देवी पतिं व्रतपतिं शुभा | अपृच्छद्व्रतसम्बद्धं फलं फलशतार्चिता || १ || व्रतानां फलमल्पं वा महद्वा यत्त्रिलोकप | व्रतं भवति यादृग्वा तत्प्रब्रूहि महेश्वर || २ ||

देव उवाच |

महाफलं यद्भवति यच्चाप्यल्पफलं शुभे | व्रतं यादृक्च यत्प्रोक्तं तच्छृणुष्व-म्-अनिन्दिते || ३ || चतुर्दश्यां तथाष्टम्यामुभयोः पक्षयोः शुचिः | संवत्सरमभुञ्जानः शान्तो दान्तो जितेन्द्रियः || ४ || सत्त्रयाजिफलं यच्च सत्यवागृतुगामिनाम् | तच्चैव फलमाप्नोति यमं चैव न पश्यति || ५ || शय्यासनस्थः स्त्रीमध्ये रतिरक्तः सुखे रतः | स तप्यत्या नखाग्रेभ्यो नित्यं यो मां समाश्रितः || ६ || मद्भक्तस्तपसा युक्तो मामेव प्रतिपद्यते | लोकास्तस्याक्षया देवि यद्यपि स्यात्सुपापकृत् || ७ || पृथिवीभाजने भुङ्क्ते नित्यं पर्वसु यो नरः | स त्रिरात्रफलं देवि अहोरात्रेण विन्दति || ८ || संवत्सरं तु यो भुङ्क्ते नित्यमेव ह्यतन्द्रितः | निवेद्य पितृदेवेभ्यः पृथिव्यामेकराड्भवेत् || ९ || नवमी अष्टमी चैव पौर्णमासी त्रयोदशी | यो भुङ्क्ते देवि नैतेषु संयतस्तु नरः समाम् || १० || गाणपत्यं स लभते निःसपत्नमनिन्दिते | भूतानां दयितश्चैव दिव्यं रूपं बिभर्ति च || ११ || श्रीवत्सं यश्च पिष्टेन दद्याद्धेमफलं शुभम् | किरेत्कृष्णतिलांश्चात्र तण्डुलाक्षतमेव च | फलैश्च विविधाकारैर्यथालब्धै रसान्वितैः || १२ || स वै वर्षसहस्राणि द्विषष्टिं दिवि मोदते | दिव्यरूपधरः श्रीमान्देवतैः सह नित्यशः || १३ || हरिबेरमयीं यो मे दद्यात्प्रतिकृतिं स्वकाम् | सर्वगन्धरसैर्युक्तां निर्यासैश्च सुसंस्कृताम् || १४ || भक्ष्यभोज्यैश्च विविधैः कृष्णपक्षे चतुर्दशीम् | पूर्वदक्षिणयोश्चात्र पश्चिमोत्तरयोस्तथा || १५ || पार्श्वेषु हरितालं च कृष्णागरुमनःशिलाम् | चन्दनं चैव दद्याद्वै यथासंख्येन पूजितम् || १६ || तस्य पुण्यफलं देवि शृणु यन्मत्तकाशिनि | सर्वव्याधिविनिर्मुक्तस्तथा निष्कल्मषश्च ह || १७ || वर्षकोटिशतान्यष्टौ दिवि भुक्त्वा महत्सुखम् | इह लोके सुखी जातो मामेव प्रतिपद्यते || १८ || रत्नावलिं तु यो दद्याद्ब्राह्मणः क्षत्रियो ऽथ विट् | शूद्रः स्त्री वा स मे लोके मत्सौख्यं प्राप्नुते परम् || १९ || सिद्धार्थकैरथार्घार्थे दैवे पित्र्ये ऽथवा पुनः | त्रिंशद्वर्षसहस्राणि तर्पयेत्स पितॄनपि || २० || ऋषींश्च सर्वदेवांश्च रूपं चाप्नोति पुष्कलम् | मन्वन्तरं च गोलोके गोकन्याभिः स पूज्यते || २१ || सर्वे देवास्तथा विष्णुर्ब्रह्मा ऋषय एव च | कुर्वन्त्यर्घे हि सांनिध्यं तेभ्यस्तद्विद्धि निःसृतम् || २२ || गुह्यमेतत्परं देवि यो वेत्ति स महातपाः | तस्य प्रभावाज्जायेत धनवान्प्रियदर्शनः | प्रज्ञारूपगुणैर्युक्तः संवत्सरशतायुतम् || २३ || क्षीरेण यो मां सततं स्नापयेत त्रिरुद्यतः | अपराधसहस्रं तु क्षमे तस्याहमन्तशः || २४ || यश्च तत्स्नपनं पश्येत्सर्वपापैः प्रमुच्यते | मानसस्य च जाप्यस्य सहस्रस्य फलं लभेत् || २५ || संवत्सरं तु यः कुर्यात्क्षीरेण स्नपनं शुचिः | गाणपत्यं स लभते वल्लभत्वं च नित्यशः || २६ || सर्पिषा यो ममाभ्यङ्गं करोत्यविमना नरः | द्विसाहस्रस्य जाप्यस्य मानसस्य फलं लभेत् || २७ || अभिगम्यश्च देवानां स भवेत नरोत्तमः | निष्काणां च सुवर्णस्य सहस्रस्य फलं लभेत् || २८ || संमार्जनं च यः कुर्यात्संवत्सरमनुव्रतः | वितरामि शुभं लोकं नित्यं तस्य ध्रुवं शिवम् | सर्वलोकक्षये तस्य न क्षयो भवतीश्वरि || २९ || लिङ्गपूजां तु यः कुर्यान्मम देवि दृढव्रतः | शतं वर्षसहस्राणि दिव्यानि दिवि मोदते || ३० || चतुर्णां पुष्पजातीनां गन्धमाघ्राति शंकरः | अर्कस्य करवीरस्य बिल्वस्य च बुकस्य च | सुवर्णनिष्कं पुष्पे तु सर्वस्मिन्नेव कथ्यते || ३१ || सहस्रे त्वर्कपुष्पाणां दत्ते यत्कथ्यते फलम् | एकस्मिन्करवीरस्य दत्ते पुष्पे हि तत्फलम् || ३२ || करवीरसहस्रस्य भवेद्दत्तस्य यत्फलम् | तदेकस्य तु पद्मस्य दत्तस्य फलमुच्यते || ३३ || पद्मानां तु सहस्रस्य मम दत्तस्य यत्फलम् | तत्फलं लभते पत्त्रे दत्ते बिल्वस्य शोभने || ३४ || बिल्वपत्त्रसहस्रे तु दत्ते मे यत्फलं स्मृतम् | बुकपुष्पे तदेकस्मिन्मम दत्ते लभेत्फलम् || ३५ || बुकपुष्पसहस्रस्य मम दत्तस्य यत्फलम् | पुष्पे दत्ते तदेकस्मिंल् लभेद्धुत्तूरकस्य तु || ३६ || निर्माल्यं यो हि मे नित्यं शिरसा धारयिष्यति | अशुचिर्भिन्नमर्यादो नरः पापसमन्वितः || ३७ || स्वैरी चैव तथायुक्तो नियमैश्च बहिष्कृतः | नरके स पतेद्घोरे तिर्यग्योनौ च सम्भवेत् || ३८ || ब्रह्मचारी शुचिर्भूत्वा निर्माल्यं यस्तु धारयेत् | तस्य पापमहं शीघ्रं नाशयामि महाव्रते || ३९ || दीपमालां तु यः कुर्यात्कार्त्तिके मासि वै मम | अवसाने च दीपानां ब्राह्मणांस्तर्पयेच्छुचिः | गाणपत्यं स लभते दीप्यते च रविर्यथा || ४० || दद्यात्कृष्णतिलांश्चैव सह सिद्धार्थकांश्च ह | यो मे देवि सदा मूर्ध्नि स मे नन्दिसमो भवेत् || ४१ || ये हि सिद्धार्थकाः प्रोक्तास्तथा कृष्णतिलाश्च ये | सर्वे ते त्वन्मया देवि गुह्यमेतन्मयेरितम् || ४२ || चित्रो नाम गणो मह्यं तेन सार्धं स मोदते | सर्वसम्प्रलये चैव प्राप्ते त्रैलोक्यसंक्षये | त्यक्त्वा सर्वाणि दुःखानि मामेव प्रतिपद्यते || ४३ || न तुष्याम्यर्चितो ऽर्चायां तथा देवि नगात्मजे | लिङ्गे ऽर्चिते यथात्यर्थं परितुष्यामि पार्वति || ४४ || सर्वेन्द्रियप्रसक्तो वा युक्तो वा सर्वपातकैः | स प्रयाति दिवं देवि लिङ्गं यो ऽर्चयतीह मे || ४५ || त्यक्त्वा सर्वाणि पापानि निर्द्वन्द्वो दग्धकिल्बिषः | मदाशीर्मन्नमस्कारो मामेव प्रतिपद्यते || ४६ ||

सनत्कुमार उवाच |

ततो भगवती भूयः पतिं सर्वजगत्पतिम् | अपृच्छत्पुष्प्यमाणास्या केन त्वं देव तुष्यसि || ४७ || ततः प्रहसमानास्यः सर्वलोकेश्वरेश्वरः | वचः प्रोवाच भगवांल् लोकानां हितकाम्यया || ४८ ||

देव उवाच |

शृणु देवि यथातत्त्वं येन यान्ति शुभां गतिम् | त्रैलोक्ये जन्तवः सर्वे मद्भक्ता ये शुभानने || ४९ || यत्तत्परतरं गुह्यं तत्सर्वं त्वयि तिष्ठति | यो हि तत्त्वेन तद्वेद संसाराद्विप्रमुच्यते || ५० || न च प्रकाशयेद्गुह्यं नाम ते कीर्तयेन्नरः | सदा सर्वसहेत्येवं प्रातः प्राञ्जलिरुत्थितः || ५१ || तस्माच्च कीर्तनात्पापं सर्वमेव विनिर्दहेत् | यशः कीर्तिं च सम्प्राप्य रुद्रलोके महीयते || ५२ || सर्वमाल्यानि यो दद्यात्सर्वमूर्तिषु नित्यशः | मन्त्रेण विधिवच्चैव तस्य पुण्यफलं महत् || ५३ ||

मन्त्रः |

सर्वगाय सुरेशाय सर्वदेवमयाय च | नमो भगवते चैव गुह्यागुह्याय वै सदा || ५४ || सोमाय भूतनाथाय भावनाय भवाय च | सर्वगुह्याय वै स्वाहा देवगुह्यमयाय च || ५५ || सर्वगुह्यमयो मन्त्रः स्वाहा सोमाय चैव ह | कटंकटाय वै स्वाहा स्वाहा देवाय शुष्मिणे || ५६ || पुष्पाण्येतेन मन्त्रेण यो मे नित्यं निवेदयेत् | सहस्रं तेन जाप्यस्य मानसस्य कृतं भवेत् || ५७ || अथाञ्जलिममावास्यां सुसम्पूर्णां समाहितः | तिलानां चैव कृष्णानां सर्षपाणां च पार्वति | अर्चयित्वा यथान्यायं यथालाभं प्रयच्छति || ५८ || इदं च वचनं ब्रूयात् सूर्येति च ममेति च | सर्वपापविनिर्मुक्तः स्वर्गलोकं व्रजेन्नरः || ५९ || अर्चयित्वा च मां देवि यो मे नामानि कीर्तयेत् | चतुर्दश्यामथाष्टम्यां पक्षयोरुभयोरपि | सो ऽपि देवि प्रपश्येन्मां वियोनिं न स गच्छति || ६० || वामदेव सुदेवेति हर गुप्तेति वा पुनः | उमापते नीलकण्ठ शान्त श्रीकण्ठ गोपते || ६१ || शर्व भीम पशुपते शंकरोग्र भवेति च | महादेवेति चाप्यन्यन्नाम गुह्यं प्रकीर्तयेत् | सर्वपापैः प्रमुच्येत दिवि देवैश्च पूज्यते || ६२ || एतेषामेकमपि यः कथयेद्वा पठेत वा | स देहपद्धतिं भित्त्वा मामेव प्रतिपद्यते | एवं सर्वप्रणामेन यन्मया परिकीर्तितम् || ६३ || अमावास्यां तु यो नित्यं सघृतं गुग्गुलुं दहेत् | क्षीरेण चैव संमिश्रं गुह्यमेतन्मम प्रिये | सो ऽच्युतं स्थानमाप्नोति मत्प्रसादान्न संशयः || ६४ || इदं च परमं गुह्यं यो मे देवि निवेदयेत् | अर्कपर्णपुटं पूर्णं घृतस्य मधुना सह | निवेद्य विधिवद्भक्त्या सर्वपापैः प्रमुच्यते || ६५ || इमानि च महाभागे यो मे नामानि कीर्तयेत् | श्मशाननिलयो नग्नो भस्मशायी यतव्रतः || ६६ || वामदेवः प्रशान्तश्च स्तब्धशेफस्त्रिलोचनः | अवसव्यप्रियः सव्यो बहुरूपो ऽन्तकान्तकृत् || ६७ || पुराणः पुरुहूतश्च मृत्योर्मृत्युर्जितेन्द्रियः | अनिन्द्रियो ऽतीन्द्रियश्च सर्वभूतहृदि स्थितः || ६८ || संसारचक्री योगात्मा कापाली दिण्डिरेव च | महादेवो महादेवो महादेवेति चैव हि || ६९ || जपेदेतन्नियमवान् शृणुयाद्वापि नित्यशः | स देहभेदमासाद्य योगात्मा गणपो भवेत् || ७० ||

सनत्कुमार उवाच |

नाशुभाय न पापाय नानृताय कदाचन | श्रावयेद्भक्तिमान्पुण्यं नाव्रताय कदाचन || ७१ || धन्यं यशस्यमायुष्यं शान्तिवृद्धिकरं शुभम् | पूतं पवित्रं परमं मङ्गलानां च मङ्गलम् | श्रोतव्यं न च सर्वेण तथा देयं न कस्यचित् || ७२ || इति स्कन्दपुराणे ऽष्टाविंशतितमो ऽध्यायः |

व्यास उवाच |

एवं कालेन सम्प्राप्य वाराणस्यां निकेतनम् | जगतः पितरौ देवौ चक्रतुः किमतः परम् || १ ||

सनत्कुमार उवाच |

ततः स भगवान्देवो देवीं हिमवतः सुताम् | उवाच देवि पश्याम उद्यानं यदि रोचते || २ ||

देव्युवाच |

एवं भवतु देवेश यथात्थ त्वं वृषध्वज | न हि मे ऽन्यत्र गन्तव्यमुद्यानात्परतो हर || ३ ||

सनत्कुमार उवाच |

सह देव्या ततो व्यास वाराणस्यां वृषध्वजः | देवोद्यानदिदृक्षार्थं विचचार समन्ततः || ४ || पूर्वस्मिन्स दिशाभागे देव्या देवः पिनाकधृक् | उद्यानं दर्शयामास नानाकुसुमशोभितम् || ५ || चम्पकाशोकपुंनागप्रियङ्गूचूतसंकुलम् | बिल्वार्जुनकदम्बैश्च न्यग्रोधोदुम्बरैरपि || ६ || गन्धवद्भिश्च कुसुमैर्जातीकेसरकेतकैः | रम्यैः सुरभिपुष्पैश्च षट्पदव्रातसेवितैः | संयुक्तं सर्वतः श्रीमद्वनं वैभ्राजसंनिभम् || ७ || स तदुद्यानमासाद्य देवीमाह जगत्पतिः | अस्मिन्देशे पुरा देवि तिष्ठतो मम शोभने || ८ || ऊर्ध्वं गोलोकसंस्थानां गवां वत्सैः स्वयंभुवैः | पीयतीनां पयो वेगात्फेनं मूर्ध्नि समापतत् || ९ || ततो मयोर्ध्वं दृष्टास्तु गावस्ताः सोमपार्श्वगाः | ततस्ताः प्रेक्षितास्तत्र मया गावस्तदाभवन् | तेजसा दह्यमानास्तु नैकवर्णा भृशार्दिताः || १० || गावः पूर्वमिमा देवि आसन्कपिलवर्णजाः | नैकवर्णास्तदाभूवन्यदा सम्प्रेक्षिता मया || ११ || तासां शरण्यतां यात्वा ताभिर्मामेव शैलजे | आश्रितः सोम आगत्य सह गोभिर्न तास्त्यजत् || १२ || अर्दिताभिस्तदा गोभिर्ब्रह्मा मामब्रवीत्ततः | प्रसादं कुरु देवेश सुरभीस्तेजसा तव | न नश्यन्ति यथा सद्यस्तथा सर्वसुरार्चित || १३ || ततो ऽहमास्थितो देवि स्थाने ऽस्मिन्स्वयमेव तु | गोप्रेक्षक इति ख्यातः संस्तुतः सर्वदेवतैः || १४ || गोप्रेक्षेश्वरमागत्य दृष्ट्वा चार्च्य च मानवः | न दुर्गतिमवाप्नोति कल्मषैश्च विमुच्यते || १५ || ततस्ता दह्यमानास्तु प्रसन्ने सुरभीर्मयि | ह्रदे ऽस्मिन्पेतुरभ्येत्य शान्तास्ता विबभुस्तदा | कपिलाह्रद इत्येवं तदाप्रभृति कथ्यते || १६ || अत्रापि स्वयमेवाहं वृषध्वज इति श्रुतः | सांनिध्यं कृतवान्देवि स चायं दृश्यतां स्थितः || १७ || कपिलाह्रदतीर्थे ऽस्मिन्स्नात्वा नान्यमना नरः | वृषध्वजमिमं दृष्ट्वा सर्वयज्ञफलं लभेत् || १८ || सलोकतां मृतश्चापि अर्चयित्वा तु मामिह | लभते देहभेदे तु गणत्वं चातिदुर्लभम् || १९ || अस्मिन्नपि प्रदेशे तु ता गावो ब्रह्मणा स्वयम् | शान्त्यर्थं सर्वलोकानां सर्वा दुग्धाः पयोमृतम् || २० || तासां क्षीरेण संजातं ह्रदमेतन्मनोहरम् | भद्रदोहमिति ख्यातं पुण्यं देववनं शुभम् || २१ || सर्वैर्देवैरहं देवि अस्मिन्देशे प्रसादितः | गच्छोपशममीशेति उपशान्तशिवस्ततः || २२ || स्थितो भूत्वाहमत्रस्थः पुण्यमस्यापि दर्शनम् | दृष्ट्वैनं प्रयतो मर्त्यः स्वर्गलोकमवाप्नुयात् || २३ || अत्राहं ब्रह्मणानीय स्थापितः परमेष्ठिना | ब्रह्मणश्चापि संगृह्य विष्णुना स्थापितः पुनः || २४ || ब्रह्मणा स ततो विष्णुः प्रोक्तः संविग्नचेतसा | मयानीतमिदं लिङ्गं कस्मात्स्थापितवानसि || २५ || तमुवाच पुनर्विष्णुर्ब्रह्माणं कुपिताननम् | रुद्रदेवे ममात्यन्तं पुरा भक्तिर्महत्तरा || २६ || मयैष स्थापितस्तेन नाम्ना तव भविष्यति | हिरण्यगर्भ इत्येवं ततो ऽत्राहं समास्थितः | दृष्ट्वैनमपि देवेशं मम लोकं व्रजेन्नरः || २७ || पुनश्चापि ततो ब्रह्मा मम लिङ्गमिमं शुभे | स्थापयामास विधिवद्भक्त्या परमया युतः | स्वर्लीनेश्वर इत्येवमत्राहं स्वयमास्थितः || २८ || स्वस्मिन्परतरे लीनः प्रधाने मम कारणे | तस्मात्स्वर्लीन इत्येवं गुह्यं क्षेत्रं मम स्मृतम् || २९ || प्राणानिह नरस्त्यक्त्वा न पुनर्जायते क्वचित् | आनन्त्या सा गतिस्तस्य योगिनां चैव सा स्मृता || ३० || अस्मिन्नपि मया देशे दैत्यो देवतकण्टकः | व्याघ्ररूपं समास्थाय निहतो दर्पितो बली || ३१ || व्याघ्रेश्वरस्ततः ख्यातो नित्यमत्राहमास्थितः | न पुनर्दुर्गतिं याति दृष्ट्वैनममरेश्वरम् || ३२ || उत्पलो विदलश्चैव यौ दैत्यौ ब्रह्मणा पुरा | स्त्रीवध्यौ दर्पितौ सृष्टौ त्वयैव निहतौ शुभे | सावज्ञं गेन्दुकेनात्र तस्येदं चिह्नमास्थितम् || ३३ || आदावत्राहमागत्य आस्थितो गणपैः सह | ज्येष्ठं स्थानमिदं तस्मादेतन्मे पुण्यदर्शनम् || ३४ || दृष्ट्वेमं मम लिङ्गं तु ज्येष्ठस्थानसमाश्रितम् | न शोचति पुनर्मर्त्यः संसिद्धो मृत्युजन्मनी || ३५ || समन्ताद्देवतैः सर्वैर्लिङ्गानि स्थापितानि ह | दृष्ट्वा तु नियतो मर्त्यो देहभेदे गणो भवेत् || ३६ || इदानीमहमागत्य स्वयमस्मिन्व्यवस्थितः | न च मुक्तं मया यस्मादविमुक्तमिदं ततः | क्षेत्रं वाराणसी पुण्या मुक्तिदं सम्भविष्यति || ३७ || अविमुक्तेश्वरं मां वै यो ऽत्र द्रक्ष्यति मानवः | गाणपत्या गतिस्तस्य यत्र तत्र मृतस्य ह | प्राणानिह तु संन्यस्य यास्यते मुक्तिमुत्तमाम् || ३८ || पित्रा ते गिरिराजेन पुरा हिमवता स्वयम् | मम प्रियमिदं स्थानं ज्ञात्वा लिङ्गं प्रतिष्ठितम् || ३९ || शैलेश्वरमिति ख्यातं दृश्यतामिदमास्थितम् | दृष्ट्वेदं मनुजो देवि न दुर्गतिमनुव्रजेत् || ४० || नदी वाराणसी चेयं पुण्या पापप्रमोचनी | क्षेत्रमेतदलंकृत्य जाह्नव्या सह संगता || ४१ || स्थापितं संगमे चास्मिन्ब्रह्मणा लिङ्गमुत्तमम् | संगमेश्वरमित्येवं ख्यातं जगति दृश्यताम् || ४२ || संगमे देवनद्योस्तु यः स्नात्वा मनुजः शुचिः | अर्चयेत्संगमेशानं तस्य जन्मभयं कुतः || ४३ || इदमन्यन्महत्क्षेत्रं निवासं योगिनां परम् | क्षेत्रमध्ये च यत्राहं स्वयं भूत्वा समास्थितः | मध्यमेश्वर इत्येवं ख्यातः सर्वसुरासुरैः || ४४ || सिद्धानां स्थानमेतद्धि मदीयव्रतचारिणाम् | योगिनां मोक्षलिप्सूनां जन्ममृत्युजितात्मनाम् | दृष्ट्वेदं मध्यमेशानं जन्म प्रति न शोचति || ४५ || स्थापितं लिङ्गमेतच्च शुक्रेण तव सूनुना | नाम्ना शुक्रेश्वरं नाम सर्वसिद्धामरार्चितम् || ४६ || दृष्ट्वेदं मानवः सद्यो मुक्तः स्यात्सर्वकिल्बिषैः | मृतश्च न पुनर्जन्म संसारे तु लभेन्नरः || ४७ || पुरा जम्बुकरूपेण असुरा देवकण्टकाः | ब्रह्मणो ऽथ वरं लब्ध्वा गोमायुवधशङ्किताः || ४८ || निहता हिमवत्पुत्रि जम्बुकेशस्ततो ह्यहम् | अभवं जगति ख्यातः सुरासुरनमस्कृतः | दृष्ट्वैनमपि देवेशं सर्वकामानवाप्नुयात् || ४९ || ग्रहैः शुक्रपुरोगैश्च एतानि स्थापितानि हि | पश्य लिङ्गानि पुण्यानि सर्वकामप्रदानि तु || ५० || एवमेतानि पुण्यानि मन्निवासानि पार्वति | कथितानि तव क्षेत्रे गुह्यं चान्यदिदं शृणु || ५१ || क्रोशं क्रोशं चतुर्दिक्षु क्षेत्रमेतत्प्रकीर्तितम् | योजनं विद्धि चार्वङ्गि मृत्युकाले ऽमृतप्रदम् || ५२ || महालयगिरिस्थाने केदारे च व्यवस्थितम् | गणत्वं लभते दृष्ट्वा क्षेत्रे ऽस्मिन्मोक्ष-म्-आप्यते || ५३ || गाणपत्यपदात्तस्माद्यतः सा मुक्तिरुत्तमा | ततो महालयात्तस्मात्केदारान्मध्यमादपि | स्मृतं पुण्यतमं क्षेत्रमविमुक्तमिदं शुभे || ५४ || केदारमध्यमे स्थाने स्थानं चैव महालयम् | मम पुण्यानि भूर्लोके तेभ्यः श्रेष्ठतमं त्विदम् || ५५ || यतः सृष्टानि लोकानि ततः क्षेत्रमिदं शुभम् | कदाचिन्न मया मुक्तमविमुक्तं ततो ऽभवत् || ५६ || अविमुक्तेश्वरं लिङ्गं मम दृष्ट्वेह मानवः | सद्यः पापविनिर्मुक्तः पशुपाशैर्विमुच्यते || ५७ || शैलेशं संगमेशं च स्वर्लीनं मध्यमेश्वरम् | हिरण्यगर्भमीशानं गोप्रेक्षं सवृषध्वजम् || ५८ || उपशान्तशिवं चैव ज्येष्ठस्थाननिवासिनम् | शुक्रेश्वरं च विख्यातं व्याघ्रेशं जम्बुकेश्वरम् | दृष्ट्वा न जायते मर्त्यः संसारे दुःखसागरे || ५९ || एवमुक्त्वा महादेवो दिशः सर्वा व्यलोकयत् | विलोक्य संस्थिते पश्चाद्देवदेवे महेश्वरे || ६० || अकस्मादभवत्सर्वं तद्देशं ज्वलितं यथा | सविद्युत्स्तनिताघोषं सूर्यायुतशतोदितम् | तेजोभिरेकतः पूर्णं वह्निभास्करयोरिव || ६१ || ततः पाशुपताः सिद्धा भस्माभ्यङ्गसितप्रभाः | योगीश्वरा महात्मानस्तथा वैतानिकव्रताः || ६२ || अव्यक्तलिङ्गिनश्चैव शिवयोगोज्ज्वलप्रभाः | बहवः शतशो ऽभ्येत्य नमश्चक्रुर्महेश्वरम् || ६३ || पुनर्निरीक्ष्य देवेशं ध्यानयोगं च कृत्स्नशः | तस्थुरात्मानमाधाय लीयमाना इवेश्वरे || ६४ || स्थितानां स तथा तेषां देवदेव उमापतिः | संचिन्त्य परमां मूर्तिं बभूव पुरुषः प्रभुः || ६५ || षड्विंश ईश्वरो ऽव्यक्तः सूर्यायुतसमप्रभः | कृत्स्नं जगदिवैकस्थं कर्तुमन्त इवास्थितः || ६६ || तस्य तां परमां मूर्तिमास्थितस्य जगत्प्रभोः | न शशाक वपुर्द्रष्टुं हृष्टरोमा गिरीन्द्रजा || ६७ || ततस्तत्सृष्टमात्मानं बुद्ध्वा सा प्रकृतिस्थितम् | प्रकृतेर्मूर्तिमास्थाय योगेन परमात्मिका | तं शशाक वपुर्द्रष्टुं पुरुषस्य परात्मनः || ६८ || ततस्ते लयमाधाय योगिनः पुरुषस्य तु | विविशुर्हृदयं सर्वे दग्धसंसारबीजिनः || ६९ || अनुगृह्य ततः सर्वांस्तान्सिद्धान्यतिपुंगवान् | नीललोहितमूर्तिस्थं पुनश्चक्रे वपुः शुभम् || ७० || तं दृष्ट्वा शैलजा प्राह हृष्टसर्वतनूरुहा | स्तुन्वन्ती चरणौ गत्वा क इमे भगवन्निति || ७१ || तामुवाच सुरश्रेष्ठस्तदा देवीं गिरीन्द्रजाम् | मदीयं व्रतमाश्रित्य भक्तिमद्भिर्द्विजोत्तमैः | यैर्यैर्योग इहाभ्यस्तस्तेषामेकेन जन्मना || ७२ || क्षेत्रस्यास्य प्रभावेन भक्त्या च मम भावतः | अनुग्रहो मया ह्येवं क्रियते मुक्तिदः सदा || ७३ || तस्मादिदं महत्क्षेत्रं ब्रह्माद्यैः सेव्यते मम | श्रुतिमद्भिश्च विप्रेन्द्रैः संसिद्धैश्च तपस्विभिः || ७४ || प्रतिमासमथाष्टम्यां प्रतिमासं चतुर्दशीम् | उभयोः पक्षयोर्देवि वाराणस्यां ममास्पदे || ७५ || शशिभानूपरागे च कार्त्तिक्यां तु विशेषतः | सर्वपर्वसु पुण्येषु विषुवेष्वयनेषु च || ७६ || पृथिव्यां सर्वतीर्थानि वाराणस्यां तु जाह्नवीम् | उत्तरप्रवहां पुण्यां मम मौलिविनिर्गताम् || ७७ || पितुस्ते गिरिराजाच्च स्रुतां हिमवतः शुभाम् | भजन्ते सर्वतो ऽभ्येत्य ताञ्छृणुष्व वरानने || ७८ || संनिहित्या कुरुक्षेत्रं सार्धं तीर्थशतैस्तथा | पुष्करं नैमिशं चैव प्रयागं सपृथूदकम् || ७९ || सन्ध्या सप्तऋचं चैव सर्वा नद्यः सरांसि च | समुद्राः सप्त चैवात्र देवतीर्थानि कृत्स्नशः | भागीरथीं समेष्यन्ति सर्वपर्वसु काशिगाम् || ८० || अविमुक्तेश्वरं मां च काशीस्थमचलात्मजे | पृथिव्यां यानि पुण्यानि मह्यमायतनानि च | प्रविशन्ति सदाभ्येत्य पुण्यं पर्वसु पर्वसु || ८१ || केदारे चैव यल्लिङ्गं यच्च लिङ्गं महालये | मध्यमेश्वरसंस्थं च तथा पशुपतीश्वरम् || ८२ || शङ्कुकर्णेश्वरं चैव गोकर्णे च तथा ह्युभौ | द्रिमिचण्डेश्वरं चैव भद्रेश्वर तथैव च || ८३ || स्थानेश्वरमथैकाम्रं कालेश्वरमजेश्वरम् | भैरवेश्वरमीशानं तथा कारोहणास्थितम् || ८४ || यानि चान्यानि पुण्यानि स्थानानि मम भूतले | तानि सर्वाण्यशेषेण काशिपुर्यां विशन्ति माम् || ८५ || सर्वपर्वसु पुण्येषु गुह्यं चैतदुदाहृतम् | तेनेह लभ्यते जन्तोर्विपन्नस्यामृतं पदम् || ८६ || स्नातस्य चैव गङ्गायां दृष्टेन च मया शुभे | सर्वयज्ञफलैस्तुल्यमिष्टैः शतसहस्रशः | सद्य एव-म्-अवाप्नोति किं न्वतः परमस्ति वै || ८७ || सर्वायतनमुख्यानां दिवि भूमौ गिरिष्वपि | नातः परतरं देवि बुध्यस्वास्तीति कृत्स्नशः || ८८ || ब्रह्मार्कवैश्वानरशक्रचन्द्रैर्जलेशवित्ताधिपवायुभिश्च | गन्धर्वयक्षोरगसिद्धसंघैः सार्धं सदा सेवितमेतदग्र्यम् || ८९ || स्थानं ममेदं हिमशैलपुत्रि गुह्यं सदा क्षेत्रमिदं सुपुण्यम् | विमोक्षसंसिद्धिफलप्रदं हि तत्त्वप्रबुद्धा यतयो वदन्ति || ९० || क्षेत्रे ऽस्मिन्निवसन्ति ये सुकृतिनो भक्ताः सदा मां नराः पश्यन्तो ऽन्वहमादरेण शुचयः स्नाताः सदा मत्पराः | ते मर्त्या भयपापदुःखरहिताः संशुद्धकर्मक्रिया भित्त्वा सम्भवबन्धजालगहनं विन्दन्ति मोक्षं परम् || ९१ || एवमेतत्सरःकीर्णं नानाद्रुमलताकुलम् | जाह्नव्यालंकृतं पुण्यं क्षेत्रं गुह्यतमं मम || ९२ || भागीरथीमिहासाद्य वाराणस्यां ममास्पदे | अश्वमेधशतं प्राप्य ब्रह्मलोकं च गच्छति || ९३ || नातः पुण्यतमं देवि नातो गुह्यतमं क्वचित् | नातः शुभतरं किंचिन्नातः प्रियतरं मम || ९४ || क्षेत्रं ममेदं सुरसिद्धजुष्टं सम्प्राप्य मर्त्यः सुकृतप्रभावात् | ख्यातो भवेत्सर्वसुरासुराणां मृतश्च यायात्परमं पदं तम् || ९५ ||

सनत्कुमार उवाच |

उद्यानानि ततो देवः स्थानानि च तथात्मनः | आख्याय हिमवत्पुत्र्या विचचार तदा पुनः || ९६ || सो ऽपश्यत तदा विप्रं तप्यमानं परं तपः | पुत्रं शतशलाकस्य जैगीषव्यं तपोधनम् || ९७ || स लिङ्गं देवदेवस्य प्रतिष्ठाप्यार्चयत्सदा | भस्मशायी भस्मदिग्धो नृत्तगीतैरतोषयत् | जप्येन वृषनादैश्च तपसा भावितः शुचिः || ९८ || तमेवं वर्तमानं तु भक्त्या परमया युतम् | भगवान्सहसाभ्येत्य इदं वचनमब्रवीत् || ९९ || जैगीषव्य महाबुद्धे पश्य मां दिव्यचक्षुषा | तुष्टो ऽस्मि वरदश्चैव ब्रूहि यत्ते मनोगतम् || १०० || स एवमुक्तो देवेन सोमं दृष्ट्वा त्रिलोचनम् | प्रणम्य शिरसा पादाववन्दत्परया मुदा || १०१ ||

जैगीषव्य उवाच |

नमः सर्वार्थसिद्धाय योगसिद्धाय वै नमः | नमः पिनाकहस्ताय हिमवन्निलयाय च || १०२ || नमः पवनवेगाय ध्येयाय ध्यायिभिः सदा | नमः सोमाय हेम्ने च हेममालाधराय च || १०३ || नमो गणाधिपतये नमः शान्तेन्द्रियाय च | योगसाहाय्यकर्त्रे च साहसोपशमाय च || १०४ || नमो मृत्युहरायैव नमः शोकहराय च | नमः सिद्धिप्रदात्रे च सिद्धिसिद्धाय वै नमः || १०५ || धारिणे सर्वलोकानां सर्वलोकेश्वराय च | नमो दशार्धवर्णाय संसारापनुदाय च || १०६ || नमः संसारपाराय अपारपरमाय च | स्वयंमन्त्रे च मनसे दुर्विज्ञेयाय वै नमः || १०७ || नमः कालकलाज्ञाय सकलायाकलाय च | नमस्तत्त्वाधिवासाय प्रेताधिपतये नमः || १०८ || नमः क्रोधविहीनाय क्रोधाधिपतये नमः | नमः श्रमायाश्रमिणे श्रमापनयनाय च || १०९ || नमो ज्ञानरसज्ञाय ज्ञानिने ऽज्ञानहारिणे | सक्ताय चैव तपसि ऐश्वर्यनिरताय च || ११० || नमो ज्ञानाय बन्धाय अज्ञानविनिवर्तिने | नमः सर्वानुभावाय भावानुगतचेतसे || १११ || नमः शमदमाढ्याय मृत्युदूतापहारिणे | नमः शैलादिनाथाय शैलादिगणपाय च || ११२ || नमो योगरहस्याय योगदाय नमो नमः | मह्यं सर्वात्मना कामान्प्रयच्छ भगवन्प्रभो || ११३ ||

सनत्कुमार उवाच |

स एवं स्तूयमानश्च भक्त्या परमयापि च | तुष्टस्तुतोष भूयो ऽस्य इदं चैनमुवाच ह || ११४ ||

देव उवाच |

अजरश्चामरश्चैव सर्वशोकविवर्जितः | महायोगी महावीर्यो योगैश्वर्यसमन्वितः || ११५ || प्रभावाच्चास्य गुह्यस्य क्षेत्रस्य मम शाश्वतम् | योगे ऽष्टगुणमैश्वर्यं प्राप्स्यसे परमं महत् | भविष्यसि द्विजश्रेष्ठ योगाचार्यश्च विश्रुतः || ११६ || यश्चेमं त्वत्कृतं लिङ्गं नियमेनार्चयिष्यति | योनयः सप्त गत्वा तु योगं स समवाप्स्यति || ११७ || जैगीषव्यगुहां चेमां प्राप्य यो योक्ष्यते द्विजः | स सप्तरात्रं युक्तात्मा सर्वपापैः प्रमुच्यते || ११८ || मासेन पूर्वां जातिं च पूर्वाधीतं च वेत्स्यति | एकरात्रं गतिं शुद्धां द्वाभ्यां तारयते पितॄन् || ११९ || त्रिरात्रेण व्यतीतांश्च परान्सप्त च तारयेत् | अतो भूयश्च किं ते ऽद्य जैगीषव्य ददान्यहम् || १२० ||

जैगीषव्य उवाच |

भगवन्देवदेवेश यच्छ यन्मे मनोगतम् | अतो ऽहं नान्यदिच्छामि योगाक्षय्यात्परं हितम् || १२१ || त्वयि भक्तिश्च नित्यं स्यात्सोमे सगणपेश्वरे | अनुत्सेकं तथा क्षान्तिं शमं दममथापि च || १२२ || न चाप्यभिभवं कुर्यान्न च तेजोवमाननाम् | एतान्वरानहं देव सदेच्छामि महाद्युते || १२३ ||

देव उवाच |

एते तव भविष्यन्ति अजय्यत्वं च योगिभिः | इच्छतो दर्शनं चैव भविष्यति च ते मम || १२४ ||

सनत्कुमार उवाच |

ततः स भगवान्देवः पाराशर्योमया सह | सनन्दी सगणश्चैव भक्तानुग्रहलिप्सया || १२५ || तप्यतो यक्षराजस्य कृत्वा हृदि महेश्वरम् | वरदानाय देवेशो जगाम पुरतस्तदा || १२६ || अथ दृष्ट्वा त्रिपादं च ह्रस्वबाहूरुपादकम् | तप्यमानं तपो घोरं सुतं विश्रवसस्तदा || १२७ || दृष्ट्वोवाच ततो देवः कुबेरं दीप्ततेजसम् | तपसा भावितं व्यास त्वगस्थिपरिसंस्थितम् || १२८ ||

देव उवाच |

भो भो विश्रवसः पुत्र चक्षुर्दिव्यं ददानि ते | सोमं पश्य महासत्त्व मां त्वं दिव्येन चक्षुषा || १२९ || ततः स दृष्ट्वा देवेशं साम्बं नन्दिपुरःसरम् | प्रणम्य कर्षितः सम्यगुत्थातुं न शशाक ह || १३० || अबलं तं समालक्ष्य उत्थाने ऽशक्तमीश्वरः | उवाचोत्तिष्ठ भद्रं ते बलं पौराणमस्तु ते || १३१ || तत उत्थाय जानुभ्यां कुबेरो ह्यवतिष्ठत | पार्श्वगां चैव नेत्रेण देवीमालोकयन्स्थितः || १३२ || इयं सा पर्वतसुता सर्वलोकनमस्कृता | माता लोकत्रयस्यास्य महायोगबलान्विता || १३३ || अहो ऽस्यास्तपसो वीर्यमहो दीप्तिरहो बलम् | या प्रभोः सर्वलोकस्य पत्नीत्वं प्रजगाम ह || १३४ ||

सनत्कुमार उवाच |

तमेवंभूतमनसमीक्षमाणं च पार्वतीम् | बुबोध देवी बुद्ध्वा च चुकोप परमेश्वरी || १३५ || सा क्रुद्धा तु कुबेरस्य वाममक्षि सुदीप्तिमत् | विशुष्कं कक्षमादीप्ता ददाहाग्नेः शिखा यथा || १३६ || पुनश्चास्य विनाशाय कुबेरस्य शुभानना | मतिं दध्रे तपोयोनिरथैनामवदद्धरः || १३७ || मा क्रुधो देवि यक्षस्य भक्तस्यास्य तपस्विनः | यशस्वी धार्मिकश्चायं भक्तस्त्वां च विशेषतः || १३८ || कुतूहलतया ह्येष त्वां निरीक्षितवाञ्छुभे | प्रसादं कुरु बालस्य धनदस्य महेश्वरि || १३९ ||

देव्युवाच |

एषो ऽसकृन्मां देवेश वीक्षते ऽविनयात्प्रभो | मिनोति न गुणान्देव कस्मान्मम पुरः स्थितः || १४० || तेजसां यो ऽप्रमेयानां कुर्यान्मोहेन लङ्घनम् | सो ऽल्पवीर्यो विनश्येत पतङ्गो ऽग्निमिवागतः || १४१ ||

सनत्कुमार उवाच |

तामेवं क्रोधताम्राक्षीं क्रुद्धां सम्प्रेक्ष्य शंकरः | उवाच मधुरं श्लक्ष्णं गिरीन्द्रतनयां वचः || १४२ || ब्रवीमि त्वां महाभागे मा क्रुधो जगतो ऽरणि | त्वया सृष्टं जगत्सर्वं प्रकृतिस्त्वं सुरेश्वरि | पुत्रस्ते ऽयं यतो देवि तस्मान्न क्रोद्धुमर्हसि || १४३ || मातरं चैव पुत्रस्य वीक्षमाणस्य शोभने | न दोषो ऽस्ति न चैवास्य त्वयि चेतो विमोहितम् || १४४ || तस्मात्त्वमेव देव्यस्य प्रसन्नस्य नतस्य च | प्रसादं कुरु देवेशे कुबेरस्य यथेप्सितम् || १४५ ||

सनत्कुमार उवाच |

सा तथा देवदेवेन प्रोक्ता गिरिवरात्मजा | प्रसादमकरोत्तस्य प्रसन्ना चेदमब्रवीत् || १४६ ||

देव्युवाच |

कुबेर यत्ते दुरितं क्षान्तं तत्ते मयानघ | तुष्टास्मि मा कृथाश्चैव पुनस्तेजस्विलङ्घनम् || १४७ || यत्त्विदं ते मया दग्धमीक्षमाणस्य लोचनम् | वामं तथैव भवतु पिङ्गलं दीप्तिमच्च ह || १४८ || अनेन चाङ्कितो लोके भविष्यसि न संशयः | एकाक्षिपिङ्गलो नाम्ना ख्यातः सर्वत्र पूजितः || १४९ || चरितं यत्तपश्चेदमक्षयं तच्च ते ऽव्ययम् | सौभाग्यमुत्तमं चैव मत्प्रसादाद्भविष्यति || १५० ||

सनत्कुमार उवाच |

एवमुक्त्वा ततो देवी विरराम शुभानना | भगवान्वरदो ऽस्मीति कुबेरमवदत्ततः || १५१ || अथैवमुक्तो देवेन कुबेरो हृष्टमानसः | तुष्टाव देवं देवीं च शिरसा प्राञ्जलिर्नतः || १५२ ||

कुबेर उवाच |

नमः पट्टिसहस्ताय किरीटवरधारिणे | नमो वलयधारिण्यै धारिण्यै दर्पणस्य च || १५३ || नमः सर्वाङ्गकेशाय दीर्घकेश्यै नमो नमः | नमो मेखलधारिण्यै नमो मौञ्जीधराय च || १५४ || नमो नीलशिखण्डिन्यै नमः पिङ्गजटाभृते | नमो ज्ञानाय तनवे भूताधिपतये नमः || १५५ || नमस्ताराभिधारिण्यै सिंहोरस्काय वै नमः | नमो रत्नाग्र्यधारिण्यै नमश्चन्द्रार्धमौलये || १५६ || नमः प्रकृतये चैव नमो ऽस्तु पुरुषाय च | नमो ऽस्तु बुद्धये चैव अहंकाराय वै नमः || १५७ || नमो ऽस्तु रतये चैव सुखाय च नमो नमः | नमः कीर्त्यै कर्मणे च आरम्भाय समाप्तये || १५८ || नमो यज्ञाय मन्त्राय दक्षिणायै ऋचे नमः | नमः साम्ने ऽथ यजुषे छन्दसे चेष्टये नमः || १५९ || नमो ऽग्नये च वेद्यै च स्वाहायै हविषे नमः | नमो लक्ष्म्यै श्रियै चैव नमो धर्माय वेधसे || १६० || इच्छायै रतये चैव नमः सम्पद्विरागिणे | नमः सिद्ध्यै तथा पुष्ट्यै तुष्ट्यै क्षान्त्यै नमो नमः || १६१ || नमः स्वधायै कव्याय हव्याय च नमो नमः | नमो वेद्याय विद्यायै नमः शर्वाय भक्तये || १६२ || प्रलयोत्पत्तये चैव स्थित्यै संसारणाय च | मोक्षाय मुक्तये चैव नमः कालाय मृत्यवे || १६३ || नमस्ते भगवन्देव सह देव्या जगत्पते | दिश नो भूतभव्येश यन्मे मनसि संस्थितम् || १६४ ||

सनत्कुमार उवाच |

य इमं पठते नित्यं स्तवं प्रातः समुत्थितः | जपंश्च विप्रो वैश्यो वा शूद्रः क्षत्रिय एव वा || १६५ || तस्य तुष्टो धनेशस्तु प्रयच्छति महद्धनम् | सोमश्च भगवांस्तुष्टो गतिमिष्टां प्रयच्छति || १६६ ||

सनत्कुमार उवाच |

एवं स संस्तुतस्तेन कुबेरेण जगत्पतिः | उवाच वरदो ऽस्मीति ब्रूहि विश्रवसः सुत || १६७ ||

कुबेर उवाच |

त्वत्तः प्रसादः सततं भक्तिश्च त्वयि शाश्वती | भगवंस्त्वां च पश्येयं वर एषो ऽस्तु मे विभो || १६८ || एवमस्त्विति तत्सर्वं प्रदाय भगवाञ्छिवः | आत्मना सह सख्यं च ददावात्यन्तिकं तदा || १६९ ||

देव उवाच |

गृहाण चेमां शिबिकां नरयुक्तामसङ्गिनीम् | लोकान्यथेष्टं लोकेश यामारुह्य चरिष्यसि || १७० || इमां चैवाशनिं दिव्यामप्रतीघातलक्षणाम् | गृहाणायुधमेतत्ते भविष्यत्यरिदुःसहम् || १७१ || अस्त्रं च ते प्रयच्छामि तव नाम्ना भविष्यति | कौबेरमिति विख्यातं मोहनं सर्वदेहिनाम् || १७२ ||

सनत्कुमार उवाच |

ततः स देवस्तुष्टात्मा मालां स्वयमनिन्दिताम् | आबबद्धास्य शिरसि भास्कराकारवर्चसम् || १७३ || कुशेशयानां फुल्लानां स्रग्दामं च मनोरमम् | आबबद्धास्य कण्ठे वै प्रीयमाण उमापतिः || १७४ || प्रकामं दर्शनं चास्य दत्त्वा चैव धनेशताम् | जगाम भगवान्सोमस्ततो ऽन्यं देशमीप्सितम् || १७५ ||

सनत्कुमार उवाच |

य इमं तु कुबेरस्य वरदानमशेषतः | शृणुयाच्छ्रावयेद्वापि नित्यं विप्रान्समाहितः || १७६ || धनवान्रूपसम्पन्नः पुत्रपौत्रसमन्वितः | कुलज्ञानबलोपेतो जायते स मृतो नरः || १७७ || अथ देवी महाभागा सहिता शम्भुना तदा | संचिन्त्य पञ्चचूडास्तु तपन्त्यो ऽप्सरसः शुभाः || १७८ || कृशाङ्ग्यो भक्तिमत्यश्च तपसा दग्धकिल्बिषाः | कारुण्याहृतचेतस्का देवं वचनमब्रवीत् || १७९ || एतासां तप्यमानानां योषितां वरमुत्तमम् | ददानीप्सितमीशान तन्मे ऽनुज्ञातुमर्हसि | तस्या विज्ञप्तिमाकर्ण्य भगवानिदमब्रवीत् || १८० || एवं कुरु महाभागे भक्तानुग्रहमीप्सितम् | वैदिक्यो ऽप्सरसो ह्येताः पञ्चचूडा इति स्मृताः | त्वां कृत्वा हृदि तप्यन्ते वर आभ्यः प्रदीयताम् || १८१ || ततः सा देवदेवेन तथा समनुचोदिता | पञ्चचूडाः समागम्य वच एतदुवाच ह || १८२ || तुष्टास्म्यप्सरसः साक्षात्पश्यध्वं मां शुचिस्मिताः | ददानि वो वरानिष्टान्ये वो हृदयसंस्थिताः || १८३ ||

सनत्कुमार उवाच |

ता एवमुक्ताः पार्वत्या वैदिक्यो ऽप्सरसः शुभाः | देवीं दृष्ट्वा प्रणम्यैव शिरसा पादयोर्नताः || १८४ || अश्रुपूर्णेक्षणा दीनाः संस्तभ्यात्मानमात्मना | शिरस्यञ्जलिमाधाय तुष्टुवुः सहिताः समम् || १८५ || नमः कीर्त्यै नमः सत्यै उल्कजायै तथेष्टये || १८६ || नमः पृथिव्यै कल्याण्यै श्रियै लक्ष्म्यै नमो नमः | नमः सुधायै स्वाहायै स्वधायै दितये नमः || १८७ || नमो ऽस्तु तडिते चैव सौदामन्यै नमो नमः | सावित्र्यै चाथ गायत्र्यै वेदमात्रे नमो नमः || १८८ || नमः पर्वतकन्यायै मतये स्मृतये नमः | नमः पर्वतवासिन्यै रुद्राण्यै च नमो नमः || १८९ || नमः प्रकृतये चैव ज्योत्स्नायै ऋद्धये नमः | शोभायै दीप्तये चैव भास्करग्रहरश्मये || १९० || गत्यायै गतये चैव इन्द्राण्यै मुक्तये नमः | नियत्यै सरिते चैव गङ्गायै सूतये नमः || १९१ || हेतये प्रीतये चैव नमः करणवृत्तये | नमः संनतये चैव इरायै वृत्तये नमः || १९२ || वारुण्यै च शरण्यायै गौर्यै काल्यै नमो नमः | कौशिक्यै च नमस्ते ऽस्तु कात्यायन्यै नमो नमः || १९३ || नमः संनतये चैव महिम्ने च नमो नमः | अणिमायै नमस्ते ऽस्तु लघिमायै नमो नमः || १९४ || पूजायै ते नमस्ते ऽस्तु शितिबाह्वे च सृप्तये | संज्ञायै च नमस्ते ऽस्तु गिरे ऽथ स्मृतये नमः || १९५ || नमस्ते ऽस्तु सरस्वत्यै जिह्वायै दृष्टये नमः | नमो महिषघातिन्यै तथा सुम्भनिसुम्भयोः || १९६ || नमः सिंहरथिन्यै च शूलिन्यै च नमो नमः | नमो मुद्गरधारिण्यै कवचिन्यै नमो नमः || १९७ || नमस्तूणीरधारिण्यै धारिण्यै जगतो नमः | नमो धनुर्धरायै च खड्गिन्यै च नमो नमः || १९८ || नमः पिञ्च्छध्वजिन्यै च धारिण्यै पट्टिसस्य च | नमो ऽस्तु भूतमात्रे च स्कन्दस्य च नमो नमः || १९९ || विशाखशाखयोश्चैव नैगमेषस्य चैव हि | जात्यै सर्वरसानां च देवतायै वनस्य च || २०० || आर्यायै च नमो नित्यं शिखण्डिन्यै नमो नमः | नमो नीलशिखण्डिन्यै दीर्घवेण्यै नमो नमः || २०१ || नमो ऽस्तु तनुमध्यायै देवतायै धनस्य च | नमो धृत्यै नमश्चित्यै कीर्तये च नमो नमः || २०२ || स्त्रीणां सौभाग्यदायिन्यै धारिण्यै च नमो नमः | राकानुमतये चैव सिनीवाल्यै नमो नमः || २०३ || नमः क्रियायै श्रद्धायै मेधायै च नमो नमः | नमो ऽस्तु धारणायै च ऊहायै च नमो नमः || २०४ || अपोहायै नमस्ते ऽस्तु वषट्प्रकृतये नमः | नमः समाधये चैव स्पृहायै वित्तये नमः || २०५ || वेदनायै नमस्ते ऽस्तु बृहदुक्ष्यै नमो नमः | नमः प्रभायै शुद्धायै शुद्धये शुचये नमः || २०६ || नमस्त्र्यम्बकभार्यायै विद्यायै च नमो नमः | दीक्षायै दक्षिणायै च ज्वालायै च नमो नमः || २०७ || इन्द्रियाणां प्रवृत्त्यै च निवृत्त्यै चैव कर्मणाम् | श्रुतये सर्ववेदानां भवान्यै च नमो नमः || २०८ || दुर्गायै दुर्गतारिण्यै धारिण्यै सर्वदेहिनाम् | नमस्ते सर्वदेवत्यै नमस्ते लोकभावनि || २०९ || नमः शान्त्यै नमः कान्त्यै नमः पत्न्यै हरस्य च | नमो ऽस्त्वदित्यै दानव्यै विनतायै नमो नमः || २१० || नमः शिवायै कर्त्र्यै च प्रभावायै नमो नमः | मृकण्ड्वै मार्दबाह्वै च तथा सुरतये नमः || २११ || विनतायै तथा लक्ष्म्यै सुरसायै नमो नमः | नमस्ते शितिकण्ठिन्यै नमस्ते सर्वतः सदा | दिश नः सुमनाः सर्वं यत्किंचिद्धृदये स्थितम् || २१२ ||

सनत्कुमार उवाच |

य इदं पठते नित्यं नरः स्त्री वा समाहितः | स रात्रिषु कृतं पापं त्यजेत्सर्वमशेषतः || २१३ || शयानो जपते यश्च प्रयतो व्यास नित्यशः | दिवाकृतं स जह्यात्तु मृतश्च सुगतिं व्रजेत् || २१४ || यश्चैतच्छृणुयान्नित्यं द्विजान्वा श्रावयेत्सदा | स देहभेदमासाद्य पञ्चचूडाप्रियो भवेत् || २१५ || यश्चैनं प्रजहन्प्राणाञ्जपेन्मर्त्यः सुदुस्त्यजान् | विमाने सूर्यसंकाशे अप्सरोगणसेविते | सर्वपापविनिर्मुक्तो रमेद्वर्षायुतं समम् || २१६ || यश्च भक्त्या परमया तिथौ नियमवान्नरः | देवीमभ्यर्च्य जपते सर्वपापैः प्रमुच्यते || २१७ || जपनाद्देहतपनाद्देहे भिन्ने च भक्तिमान् | स भूत्वानुचरो देव्याः पुण्ये लोके महीयते || २१८ ||

सनत्कुमार उवाच |

ताभिरेवं स्तुता देवी स्थिता देवस्य संनिधौ | उवाच हर्षमाणास्या पञ्चचूडास्तदा वचः || २१९ || शृणुताप्सरसः सर्वास्तपसो ऽस्य महत्फलम् | यच्चापि परया भक्त्या मां प्रपन्नाः स्थ शोभनाः || २२० || अजराश्च विशोकाश्च नित्यं मुदितमानसाः | प्रियाश्च सर्वलोकस्य भविष्यथ ममाज्ञया || २२१ || ब्रूत यच्चापि किंचिद्वो हृदि स्थितमशङ्किताः | सर्वं दास्यामि तद्वो ऽहं मा चिराय तदुच्यताम् || २२२ ||

पञ्चचूडा ऊचुः |

देवि पुंसां स्त्रियः सर्वाः कार्यार्थं विदितं च ते | अर्थिनस्ते च नस्तावद्यावत्कार्यं समाप्यते | समाप्ते चैव तत्कार्ये परा इव भवन्ति नः || २२३ || तद्देवि यदि तुष्टासि यदि देयो वरश्च नः | सर्वस्त्रीणां महादेवि भवन्तु पुरुषा वशाः || २२४ ||

देव्युवाच |

अद्यप्रभृति लोकेषु सर्वस्त्रीणां नराः सदा | सर्वे वश्या भविष्यन्ति सर्वकार्यकराश्च ह || २२५ || आदौ पश्चाच्च सर्वाभ्यो हिरण्यं पशवः स्त्रियः | सर्वभोगांश्च दास्यन्तु वशगाः सर्वथापि च || २२६ || व्यलीकान्यपि कुर्वन्त्यो बहूनि विविधानि च | प्रिया एव भविष्यन्ति पापं न च भवेत्सदा || २२७ || मातरं पितरं भ्रातॄन्सुहृदो ऽथ सुतानपि | अकार्याणि करिष्यन्तु स्त्रीणां वश्यत्वमागताः || २२८ || पश्यन्तो ऽपि व्यलीकानि दोषान्वैकृत्यमेव च | नैव द्रक्ष्यन्ति ते पुंसो मद्वरान्मोहितेन्द्रियाः || २२९ ||

सनत्कुमार उवाच |

ततः सा देवदेवस्य पत्नी हिमवतः सुता | माल्यदामं गृहीत्वा तु भ्रामयन्ती शुभानना | भव नार्य इति प्राह हसन्ती प्रियमव्यया || २३० || भ्राम्यतस्तस्य दाम्नस्तु यान्यशीर्यन्त भूतले | कुसुमान्यभवंस्तानि नार्यः कमललोचनाः || २३१ || ता उवाचामरा यूयं जराक्षयविवर्जिताः | जगन्मोहकरा यूयं पुंसां हृदयबन्धनाः || २३२ || दृष्टिस्पर्शविलासेषु आविश्य जगति स्त्रियः | संमोहयिष्यथ नरान्स्त्रीवशांश्च करिष्यथ | नराः सर्वे च युष्मासु भविष्यन्ति सदा रताः || २३३ || वृत्तिः शुभा भवित्री च सर्वासां मम तेजसा | पुंसां स्त्रीभोगसिद्ध्यर्थं स्त्रीणां रत्यर्थमेव च || २३४ || क्रियाः शुभाङ्गसंस्कारा दिव्या ये मानुषाश्च ह | बहुरूपाश्च ता भूत्वा विविशुः सर्वदाङ्गनाः || २३५ ||

सनत्कुमार उवाच |

एवं देवी तदा व्यास सृष्ट्वा ता वै विसृज्य च | उवाचाप्सरसो ब्रूत किं वो भूयः करोम्यहम् || २३६ || तास्तुष्टमनसश्चापि ऊचुर्व्यास भवेमहि | देवानां मानुषाणां च अवध्याश्चैव रक्षसाम् | ता उवाच ततो देवी एवं लोके भविष्यतु || २३७ || ततः स सहितो देव्या सनन्दी परमेश्वरः | गणैः सर्वैश्च सहितो गृहान्स्वानाविशत्प्रभुः || २३८ || भगनयननिपाती दैत्यदर्पापहारी पुरकमलहिमौघः कामयज्ञेन्धनाग्निः | जलदवृषभयायी सर्वदुःखान्तकारी समरवृषभकेतुश्चन्द्रमौलिर्जगाम || २३९ || इति स्कन्दपुराणे ऊनत्रिंशो ऽध्यायः ||

व्यास उवाच |

भगवन्पिङ्गलः केन गणत्वं समुपागतः | अन्नदत्वं च सम्प्राप्तो वाराणस्यां महाद्युतिः || १ || क्षेत्रपालः कथं जातः प्रियत्वं च कथं गतः | एतदिच्छामि कथितं श्रोतुं ब्रह्मसुत त्वया || २ ||

सनत्कुमार उवाच |

शृणु व्यास यथा लेभे गणेशत्वं स पिङ्गलः | अन्नदत्वं च लोकानां स्थानं वाराणसीं च हि || ३ || पूर्णभद्रसुतः श्रीमानासीद्यक्षः प्रतापवान् | हरिकेश इति ख्यातो ब्रह्मण्यो धार्मिकश्च ह || ४ || तस्य जन्मप्रभृत्येव शर्वे भक्तिरनुत्तमा | तदाशीस्तन्नमस्कारस्तन्निष्ठस्तत्परायणः || ५ || आसीनश्च शयानश्च गच्छंस्तिष्ठन्ननुव्रजन् | भुञ्जानो ऽथ पिबन्वापि रुद्रमेवानुचिन्तयत् || ६ || तमेवं युक्तमनसं पूर्णभद्रः पिताब्रवीत् | न त्वा पुत्रमहं मन्ये दुर्जातो यस्त्वमन्यथा || ७ || न हि यक्षकुलीनानामेतद्वृत्तं भवत्युत | गुह्यका वत यूयं वै स्वभावात्क्रूरचेतसः | क्रव्यादाश्चैव किंभक्षा हिंसाशीलाश्च पुत्रक || ८ || मैवं कार्षीर्न नो वृत्तिरेवं दृष्टा महात्मनाम् | स्वयम्भुवा यथा सृष्टा सैव वृत्तिः प्रशस्यते || ९ ||

हरिकेश उवाच |

दुष्टा चैवाप्रशस्ता च गर्हिता साधुभिः सदा | वृत्तिः स्वयम्भुवा सृष्टा त्यक्तव्या यदि नो भवेत् | आश्रमान्तरजं कर्म न कुर्युर्गृहिणस्ततः || १० || हित्वा मनुष्यभावं च कर्मभिर्विविधैश्च ह | देवत्वं नो विमार्गेयुर्मानुष्यां जातिमेव च || ११ || अथ चेद्विहितं तेषां कर्म तत्प्राप्तिसंश्रितम् | ममापि विहितं पश्य कर्मैतन्नात्र संशयः || १२ ||

सनत्कुमार उवाच |

स एवमुक्तः पुत्रेण पूर्णभद्रः प्रतापवान् | उवाच निष्क्रम क्षिप्रं गच्छ त्वं यत्र रोचते || १३ || ततः स निर्गतस्त्यक्त्वा गृहसम्बन्धिबान्धवान् | वाराणसीं समासाद्य तपस्तेपे सुदुश्चरम् || १४ || स्थाणुभूतो ह्यनिमिषः शुष्ककाष्ठोपलोपमः | संनियम्येन्द्रियग्राममवातिष्ठत निश्चलः || १५ || अथ तस्यैवमनिशं तत्परस्य तदाशिषः | सहस्रमेकं वर्षाणां दिव्यमभ्यतिवर्तत || १६ || वल्मीकेन समाक्रान्तो भक्ष्यमाणः पिपीलिकैः | वज्रसूचीमुखैर्व्यास विध्यमानस्तथैव च || १७ || निर्मांसरुधिरत्वक्च कुन्दशङ्खेन्दुसप्रभः | अस्थिशेषो ऽभवत्सर्वो देवश्चैनममन्यत || १८ || एतस्मिन्नन्तरे देवी व्यज्ञापयत शंकरम् | उद्यानं पुनरेवेदं द्रष्टुमिच्छामि सर्वद || १९ || क्षेत्रस्य चैव माहात्म्यं श्रोतुं कौतूहलं हि मे | यतश्च प्रियमेतत्ते यच्चास्य फलमुत्तमम् || २० || इति विज्ञापितो देवः पार्वत्या भुवनेश्वरः | सर्वं पृष्टं यथान्यायमाख्यातुमुपचक्रमे || २१ || निर्जगाम च देवेशः पार्वत्या सह शंकरः | उद्यानं दर्शयामास देव्या देवः पिनाकधृक् || २२ || प्रफुल्लनानाविधगुल्मशोभितं लताप्रतानावनतं मनोहरम् | विरूढपुष्पैः परितः प्रियङ्गुभिः सुपुष्पितैः कण्टकितैश्च केतकैः || २३ || तमालगुल्मैर्निचितं सुगन्धिभिर्निकामपुष्पैर्बकुलैश्च सर्वशः | अशोकपुंनागवनैः सुपुष्पितैर्द्विरेफमालाकुलपुष्पसंचयैः || २४ || क्वचित्प्रफुल्लाम्बुजरेणुरूषितैर्विहंगमैश्चारुकलप्रणादिभिः | विनादितं सारसहंसनादिभिः प्रमत्तदात्यूहरुतैश्च वल्गुभिः || २५ || क्वचिच्च चक्राह्वरुतोपनादितं क्वचिच्च कादम्बकदम्बकायुतम् | क्वचिच्च कारण्डवनादनादितं क्वचिच्च मत्तालिकुलाकुलीकृतम् || २६ || मदाकुलाभिर्भ्रमराङ्गनाभिर्निषेवितं चारुसुगन्धिपुष्पम् | क्वचित्सुपुष्पैः सहकारवृक्षैर्लतोपगूढैस्तिलकैश्च गूढम् || २७ || प्रगीतविद्याधरसिद्धचारणं प्रनृत्तनित्यानुगताप्सरोगणम् | प्रहृष्टनानाविधपक्षिसेवितं प्रमत्तहारीतकुलोपनादितम् || २८ || मृगेन्द्रनादाकुलसन्नमानसैः क्वचित्क्वचिद्बद्धकदम्बकं मृगैः | प्रफुल्लनानाविधचारुपङ्कजैः सरस्तडागैरुपशोभितं क्वचित् || २९ || निविडनिचुलनीलं नीलकण्ठाभिरामं मदमुदितविहंगव्रातनादाभिरामम् | कुसुमिततरुशाखालीनमत्तद्विरेफं नवकिसलयशोभाशोभितप्रान्तशाखम् || ३० || क्वचिच्च दन्तिक्षतचारुवीरुत्क्वचिल्लतालिङ्गितचारुवृक्षम् | क्वचिद्विलासालसगामिनीभिर्निषेवितं किंपुरुषाङ्गनाभिः || ३१ || पारावतध्वनिनिकूजितचारुशृङ्गैरभ्रंकषैः सितमनोहरचारुरूपैः | आकीर्णपुष्पनिकरप्रविविक्तहासैर्विभ्राजितं त्रिदशदेवकुलैरनेकैः || ३२ || फुल्लोत्पलागरुसहस्रवितानयुक्तैस्तोयाशयैः समनुशोभितदेवमार्गम् | मार्गान्तरागलितपुष्पविचित्रभक्ति सम्बद्धगुल्मविटपैर्विहगैरुपेतम् || ३३ || तुङ्गाग्रैर्नीलपुष्पस्तबकभरनतप्रान्तशाखैरशोकैर् मत्तालिव्रातगीतश्रुतिसुखजननैर्भासितान्तं मनोज्ञैः | रात्रौ चन्द्रस्य भासा कुसुमिततिलकैरेकतां सम्प्रयातं छायासुप्तप्रबुद्धस्थितहरिणकुलालुप्तदर्भाङ्कुराग्रम् || ३४ || हंसानां पक्षवातप्रचलितकमलस्वच्छविस्तीर्णतोयं तोयानां तीरजातप्रविकचकदलीवाटनृत्यन्मयूरम् | मायूरैः पक्षचन्द्रैः क्वचिदपि पतितै रञ्जितक्ष्माप्रदेशं देशे देशे निलीनप्रमुदितविलसन्मत्तहारीतवृन्दम् || ३५ || सारङ्गैः क्वचिदुपसेवितप्रदेशं संछन्नं कुसुमचयैः क्वचिद्विचित्रैः | हृष्टाभिः क्वचिदपि किंनराङ्गनाभिः क्षीवाभिः सुमधुरगीतवृक्षषण्डम् || ३६ || संसृष्टैः क्वचिदुपलिप्तकीर्णपुष्पैर् आवासैः परिवृतपादपं मुनीनाम् | आ मूलात्फलनिचितैः क्वचिद्विशालैर् उत्तुङ्गैः पनसमहीरुहैरुपेतम् || ३७ || फुल्लातिमुक्तकलतागृहलीनसिद्धं सिद्धाङ्गनाकनकनूपुररावरम्यम् | रम्यप्रियङ्गुतरुमञ्जरिसक्तभृङ्गं भृङ्गावलीशबलिताम्रकदम्बपुष्पम् || ३८ || पुष्पोत्करानिलविघूर्णितपादपाग्रम् अग्रे सुरेभविनिपातितवंशगुल्मम् | गुल्मान्तरप्रसृतभीतमृगीसमूहम् ऊहावतां तनुभृतामपवर्गदातृ || ३९ || चन्द्रांशुजालधवलैस्तिलकैर्मनोज्ञैः सिन्दूरकुङ्कुमकुसुम्भनिभैरशोकैः | चामीकरप्रतिसमैरथ कर्णिकारैः पुष्पोत्करैरुपचितं सुविशालशाखैः || ४० || क्वचिदञ्जनचूर्णाभैः क्वचिद्विद्रुमसंनिभैः | क्वचित्काञ्चनसंकाशैः पुष्पैराचितभूतलम् || ४१ || पुंनागेषु द्विजशतविरुतं रक्ताशोकस्तबकभरनतम् | रम्योपान्तं क्लमहरपवनं फुल्लाब्जेषु भ्रमरविलसितम् || ४२ || सकलभुवनभर्ता लोकनाथस्तदानीं तुहिनशिखरिपुत्र्या सार्धमिष्टैर्गणेशैः | विविधतरुविशालं मत्तहृष्टान्यपुष्टम् उपवनमतिरम्यं दर्शयामास देव्याः || ४३ ||

देव्युवाच |

उद्यानं दर्शितं देव शोभया परया युतम् | क्षेत्रस्य तु गुणान्सर्वान्पुनर्वक्तुमिहार्हसि || ४४ || अस्य क्षेत्रस्य माहात्म्यमविमुक्तस्य तत्तदा | श्रुत्वापि न हि मे तृप्तिरतो भूयो वदस्व मे || ४५ ||

देव उवाच |

इदं गुह्यतमं क्षेत्रं सदा वाराणसी मम | सर्वेषामेव जन्तूनां हेतुर्मोक्षस्य सर्वदा || ४६ || अस्मिन्सिद्धाः सदा देवि मदीयं व्रतमाश्रिताः | नानालिङ्गधरा नित्यं मम लोकाभिकाङ्क्षिणः | अभ्यस्यन्ति परं योगं युक्तात्मानो जितेन्द्रियाः || ४७ || नानावृक्षसमाकीर्णे नानाविहगसेविते | कमलोत्पलपुष्पाढ्यैः सरोभिः समलंकृते || ४८ || अप्सरोगणगन्धर्वैः सदा संसेविते शुभे | रोचते मे सदावासो येन कार्येण तच्छृणु || ४९ || मन्मना मम भक्तश्च मयि सर्वार्पितक्रियः | यथा मोक्षमिहाप्नोति अन्यत्र न तथा क्वचित् || ५० || एतन्मम पुरं दिव्यं गुह्याद्गुह्यतरं महत् | ब्रह्मादयो विजानन्ति ये च सिद्धा मुमुक्षवः | अतः प्रियमिदं क्षेत्रमस्माच्चेह रतिर्मम || ५१ || विमुक्तं न मया यस्मान्मोक्ष्यते वा कदाचन | मम क्षेत्रमिदं तस्मादविमुक्तमिति स्मृतम् || ५२ || नैमिशे ऽथ कुरुक्षेत्रे गङ्गाद्वारे ऽथ पुष्करे | स्नानात्संसेवनाद्वापि न मोक्षः प्राप्यते यतः | इह सम्प्राप्यते येन तत एतद्विशिष्यते || ५३ || प्रयागे वा भवेन्मोक्ष इह वा मत्परिग्रहात् | प्रयागादपि तीर्थाग्र्यादिदमेव महत्स्मृतम् || ५४ || जैगीषव्यः परां सिद्धिं यो गतः स महातपाः | अस्य क्षेत्रस्य माहात्म्याद्भक्त्या च मम भावतः || ५५ || जैगीषव्यगुहा श्रेष्ठा योगिनां स्थानमिष्यते | ध्यायतस्तत्र मां नित्यं योगाग्निर्दीप्यते भृशम्| कैवल्यं परमं याति देवानामपि दुर्लभम् || ५६ || अव्यक्तलिङ्गैर्मुनिभिः सर्वसिद्धान्तवेदिभिः | इह सम्प्राप्यते मोक्षो दुर्लभो ऽन्यत्र कर्हिचित् || ५७ || तेभ्यश्चाहं प्रयच्छामि योगैश्वर्यमनुत्तमम् | आत्मनश्चैव सायुज्यमीप्सितं स्थानमेव च || ५८ || कुबेरः स महायक्षस्तथा सर्वार्पितक्रियः | क्षेत्रसंसेवनाद्देवि गणेशत्वमवाप ह || ५९ || संवर्तो भविता यश्च सो ऽपि भक्त्या ममैव तु | इहैवाराध्य मां देवि सिद्धिं यास्यत्यनुत्तमाम् || ६० || पराशरसुतो योगी ऋषिर्व्यासो महातपाः | धर्मवक्ता भविष्यश्च वेदसंस्थाप्रवर्तकः | रंस्यते सो ऽपि पद्माक्षि क्षेत्रे ऽस्मिन्मुनिपुंगवः || ६१ || ब्रह्मा देवर्षिभिः सार्धं विष्णुर्वायुर्दिवाकरः | देवराजस्तथा शक्रो ये ऽपि चान्ये दिवौकसः | उपासते महात्मानः सर्वे मामिह सुव्रते || ६२ || अन्ये च योगिनः सिद्धाश्छन्नरूपा महाव्रते | अनन्यमनसो भूत्वा मामिहोपासते सदा || ६३ || अलर्कश्च पुरीमेतां मत्प्रसादादवाप्स्यति | स चैनां पूर्ववत्कृत्वा चतुर्वर्णसमाकुलाम् || ६४ || स्फीतां जनपदाकीर्णां भुक्त्वा च सुचिरं नृपः | मयि सर्वार्पितप्राणो मामेव प्रतिपत्स्यते || ६५ || ततः प्रभृति चार्वङ्गि ये ऽपि क्षेत्रनिवासिनः | गृहिणो लिङ्गिनो वापि मद्भक्ता मत्परायणाः | मत्प्रसादाद्गमिष्यन्ति मोक्षं परमदुर्गमम् || ६६ || विषयासक्तचित्तो ऽपि त्यक्तधर्मरतिर्नरः | इह क्षेत्रे मृतः सो ऽपि संसारं न पुनर्विशेत् || ६७ || ये पुनर्निर्ममा धीराः सत्त्वस्था विजितेन्द्रियाः | व्रतिनश्च निरारम्भाः सर्वतो मयि भाविताः || ६८ || देहभेदं समासाद्य धीमन्तः सङ्गवर्जिताः | गता एव परं मोक्षं प्रसादान्मम सुव्रते || ६९ || जन्मान्तरसहस्रेषु युञ्जन्योगी यमाप्नुयात् | तमिहैव परं मोक्षं मरणादधिगच्छति || ७० || एतत्संक्षेपतो देवि क्षेत्रस्यास्य महत्फलम् | अविमुक्तस्य कथितं मया ते गुह्यमुत्तमम् || ७१ || अतः परतरं नास्ति क्षेत्रं गुह्यमितीश्वरि | एतद्बुध्यन्ति योगज्ञा ये च योगीश्वरा भुवि || ७२ || एतदेव परं ज्ञानमेतदेव परं शिवम् | एतदेव परं ब्रह्म एतदेव परं पदम् || ७३ || वाराणसीति भुवनत्रयसारभूता रम्या पुरी मम सदा गिरिराजपुत्रि | अत्रागता विविधदुष्कृतकारिणो ऽपि पापक्षयाद्विरजसः प्रतिभान्ति मर्त्याः || ७४ || एतत्स्मृतं प्रियतमं मम देवि नित्यं क्षेत्रं विचित्रतरुगुल्मनिकामपुष्पम् | अस्मिन्मृतास्तनुभृतः पदमाप्नुवन्ति मोक्षाख्यमेनसि रतापि न संशयो ऽत्र || ७५ || इति स्कन्दपुराणे त्रिंशत्तमो ऽध्यायः ||

सनत्कुमार उवाच |

एतस्मिन्नन्तरे देवो देवीं प्राह गिरीन्द्रजाम् | प्रयाम दातुं यक्षाय वरं भक्ताय भाविनि || १ || भक्तो मम वरारोहे तपसा हतकिल्बिषः | अर्हो वरमसौ लब्धमस्मत्तो भुवनेश्वरि || २ || एवमुक्त्वा तदा देवः सह देव्या जगत्पतिः | जगाम यक्षो यत्रास्ते कृशो धमनिसंततः || ३ || तं दृष्ट्वा प्रणतं भक्त्या हरिकेशं वृषध्वजः | दिव्यं चक्षुरदात्तस्मै येनापश्यत्स शंकरम् || ४ ||

सनत्कुमार उवाच |

अथ यक्षस्तदा व्यास शनैरुन्मील्य लोचने | अपश्यत्सगणं देवं वृषं चैव-म्-उपाश्रितम् || ५ ||

देव उवाच |

बलं ददानि ते पूर्वं त्रैकाल्यं दर्शनं तथा | सावर्ण्यं च शरीरस्य पश्य मां विगतज्वरः || ६ ||

सनत्कुमार उवाच |

ततः स लब्ध्वा तु वरं शरीरेणाक्षतेन च | पादयोः प्रणतस्तस्थौ कृत्वा शिरसि चाञ्जलिम् || ७ || उवाच स तदा यक्षो वरदो ऽस्मीति चोदितः | भगवन्भक्तिमग्र्यां तु त्वय्यनन्यां विधत्स्व मे || ८ || अन्नदत्वं च लोकानां गाणपत्यं तथाक्षयम् | अविमुक्ते च ते स्थाने पश्येयं सर्वदा यथा | एतदिच्छामि देवेश दत्तं वरमनुत्तमम् || ९ ||

देव उवाच |

जरामरणसंत्यक्तः सर्वशोकविवर्जितः | भविष्यसि गणाध्यक्षो वरदः सर्वपूजितः || १० || अजय्यश्चापि सर्वेषां योगैश्वर्यसमन्वितः | अन्नदश्चापि लोकेभ्यः क्षेत्रपालो भविष्यसि || ११ || महाबलो महासत्त्वो ब्रह्मण्यो ऽथ मम प्रियः | त्र्यक्षश्च दण्डपाणिश्च महायोगी तथैव च || १२ || उद्भ्रमः संभ्रमश्चैव गणौ ते परिचारकौ | तवाज्ञया करिष्येते लोकस्योद्भ्रमसंभ्रमौ || १३ ||

सनत्कुमार उवाच |

एवं स भगवान्व्यास यक्षं कृत्वा गणेश्वरम् | जगाम धाम देवेशः सह तेन सुरेश्वरः || १४ || अथ दृष्ट्वा ततो देवीं देवदेवो वृषध्वजः | तप्यतो मन्दरस्याशु वरदानार्थमब्रवीत् || १५ ||

देव उवाच |

देवि फुल्लारविन्दाक्षि गमिष्यामि सुमध्यमे | मन्दरं पर्वतश्रेष्ठमनुग्रहवरेप्सया || १६ || सभार्यः ससुतश्चैव स हि मां ससुहृज्जनः | प्रसन्नस्तपसा श्रेष्ठो मन्दरः पर्वतोत्तमः || १७ || अद्य वर्षसहस्राणि पञ्च दिव्यानि पार्वति | तप्यते तपसा श्रेष्ठो मयि सर्वात्मभावितः || १८ ||

देव्युवाच |

नय मामपि देवेश मन्दरं चारुकन्दरम् | न रंस्ये ऽहं विना देव त्वया सर्वजगत्पते || १९ || ततो देवः प्रहस्यैनामुवाच परमेश्वरः | अविमुक्तं न मोक्तव्यं कथं त्वं यातुमिच्छसि || २० ||

देव्युवाच |

इह चैव निवत्स्यामि गमिष्यामि च मन्दरम् | अविमुक्तमिदं स्थानं ततो देव भविष्यति || २१ ||

देव उवाच |

एवमेतद्वरारोहे यथा वदसि पार्वति | ऐश्वर्यात्सर्वगा हि त्वं यथाहं देवि सर्वगः || २२ ||

सनत्कुमार उवाच |

ततः स भगवान्देवो वृषमारुह्य सर्वगम् | सोमः सनन्दिः सगणो मन्दरं प्रययौ हरः || २३ || स गत्वा भुवनेशानस्तप्यमानं परं तपः | अपश्यन्मन्दरं तत्र दृष्ट्वा चैनमुवाच ह || २४ || वरदो ऽस्मि गिरीशाद्य तपसानेन ते भृशम् | वरं वृणु यथेष्टं त्वं सर्वं तत्प्रददानि ते || २५ ||

सनत्कुमार उवाच |

स एवमुक्तः शर्वेण दृष्ट्वा त्रिभुवनेश्वरम् | सोमं सनन्दिनं चैव प्रणम्य वृषवाहनम् || २६ || पुनः पुनर्हरं दृष्ट्वा देवीं चैव पुनः पुनः | पुनः पुनर्गणांश्चैव नन्दिनं च ननाम सः || २७ || तं तथा व्याकुलं दृष्ट्वा हर्षजास्राविलेक्षणम् | वरेण च्छन्दयामास भूय एव हरो गिरिम् || २८ ||

मन्दर उवाच |

भगवन्यदि तुष्टो ऽसि देवदेव जगत्पते | मयि ते वासमिच्छामि सोमस्य सगणस्य च || २९ || इच्छामि देवदेवेश पादस्पर्शेन ते सदा | पवित्रीकृतमात्मानं सोमेन सगणेन च || ३० || नान्यं वरमिहेच्छामि त्वत्तो देव जगद्गुरो | एष एव वरो मह्यं दीयतां भुवनेश्वर | एवमस्त्विति तं प्राह मन्दरं वरदस्तदा || ३१ ||

भगवानुवाच |

सनन्दी सह देव्या च निवत्स्यामि सदा त्वयि | त्वं चापि भूभृतां श्रेष्ठो जरामरणवर्जितः | अभेद्यश्चैव वज्रेण मत्प्रसादाद्भविष्यसि || ३२ || रम्यश्च सर्वभूतानां हेमरत्नविभूषितः | अप्सरोगणसंकीर्णः सुरसिद्धनिषेवितः || ३३ ||

सनत्कुमार उवाच |

सद्म-म्-एवासृजत्तत्र जम्बूनदमयं महत् | मनसातिगुणं व्यास न तेनास्ति समं क्वचित् || ३४ || न तादृग्ब्रह्मणो ऽप्यस्ति किमुतान्यस्य कस्यचित् | तेजसा वर्ष्मणा कान्त्या वृष नाम्नेति विश्रुतम् || ३५ ||

व्यास उवाच |

भगवन्ब्रह्मणः सूनो सर्वयोगेश्वरेश्वर | न मे तृप्तिस्त्वयाख्याते देवदेवस्य चेष्टिते || ३६ || अभवज्जलदः पूर्वं वाहनं रुद्रवल्लभम् | तत्कथं संपरित्यज्य वृषभे मतिमादधे || ३७ ||

सनत्कुमार उवाच |

पुरा वेदः सुतो जज्ञे ब्रह्मणः प्रथमो ऽद्भुतः | द्वितीयश्चैव यज्ञो ऽभूत्तं च लोके ऽभ्ययुञ्जत || ३८ || स लोकाप्यायनकरः प्रयुक्तो ब्रह्मणा स्वयम्| प्रजा विवर्धयिषता नावर्धयदशेषतः || ३९ || आत्मानमथ स ज्ञात्वा नातितेजसमच्युतः | तताप सुमहद्व्यास तपो यज्ञः सुदुश्चरम् || ४० || अथ तुष्टस्तदा देवः शर्वो यज्ञस्य सुव्रत | उवाच वरदो ऽस्मीति स वव्रे वरदं वरम् || ४१ ||

यज्ञ उवाच |

भगवंल् लोकसिद्ध्यर्थं प्रयुक्तो ऽहं स्वयम्भुवा | न च मे ऽस्ति तथावीर्यं तन्मे यच्छ नमस्तव || ४२ ||

देव उवाच |

जीमूतो भव लोकानां तव सिद्धिर्भविष्यति | ततो ऽमृताभिरद्भिस्त्वं लोकान्संवर्धयिष्यसि || ४३ ||

यज्ञ उवाच |

जीमूतत्वं यदि मम लोकसिद्धिकरं शुभम् | तस्माद्भवन्तं पृष्ठेन वहेयं विद्युतालयः || ४४ || यथाहं यज्ञभावे ऽपि वहामि त्वां महाप्रभम् | तथैव जलदत्वे ऽपि वहेयमहमव्ययम् || ४५ ||

सनत्कुमार उवाच |

एवमस्त्विति संप्रोच्य वाहनत्वे व्यकल्पयत् | जीमूतं व्यास भगवान्यज्ञमूर्तिमतिप्रभम् || ४६ || यदा तु यजतो व्यास दक्षस्य सुमहात्मनः | शिरश्छिन्नं शरेणाशु यज्ञस्यामिततेजसः | तदाशिरस्कं तं यज्ञं वाहनत्वादपानुदत् || ४७ ||

व्यास उवाच |

कथं यज्ञं स दक्षस्य भगवानाहनच्छुभम् | कारणं चात्र किं विप्र येन तं हतवान्प्रभुः || ४८ ||

सनत्कुमार उवाच |

शापः पूर्वं समाख्यातः कारणं मुनिसत्तम | इदं च शृणु मे भूयो विस्तरेण पुरातनम् || ४९ || पुरा हि ब्रह्मणो वक्त्रात्क्षुवतो ऽभिविनिःसृतः | बद्धगोधाङ्गुलित्रश्च शरी तूणी शरासनी || ५० || खड्गी किरीटमाली च कुण्डली कवची तथा | महोरस्को महोत्साहः पुरुषः काञ्चनप्रभः || ५१ || क्षुप इत्येव नाम्ना तं ब्रह्मा स्वयमभाषत | तमिन्द्रो वरयामास राजानं भुवि लोकपम् || ५२ || सो ऽब्रवीद्यदि मे वज्रमायुधं त्वं प्रयच्छसि | ततः स्यां भुवि राजाहं नान्यथा रोचते मम || ५३ ||

इन्द्र उवाच |

चिन्तितं करमेतत्ते वज्रमेष्यति नान्यथा | एवं भवतु भद्रं ते भव राजा प्रजाहितः || ५४ ||

सनत्कुमार उवाच |

स एवमुक्तस्तेजस्वी राजा भुवि बभूव ह | च्यावनिश्च दधीचो ऽस्य सखा समभवत्तदा || ५५ || स तेन सह संगम्य सुखासीनो वरासने | चक्रे कथा विचित्रार्थाः प्रीयमाणः पुनः पुनः || ५६ || अथाभवत्तयोर्व्यास रागो जातिकृतः प्रभुः | क्षत्रं श्रेष्ठं न वा श्रेष्ठं ब्रह्म श्रेष्ठं न वेति च || ५७ || क्षुपो ऽब्रवीत्क्षत्रमिति दधीचो ब्रह्म वेति च | अब्रूतां कारणे चोभे न व्यवर्तत कश्चन || ५८ || अथ तीक्ष्णतया चैव तपोधिकतया तथा | ब्राह्मणत्वस्य चाग्र्यत्वात्तथा दैवकृतेन च || ५९ || क्रुद्धो दधीचस्तं व्यास वामहस्तेन मूर्धनि | आजघान महातेजा वज्रेणाताडयत्स च || ६० || वज्रेण स द्विधा छिन्नः शक्रमाह्वयदव्ययः | सो ऽवदत्त्वं महायोगः शक्तः संधातुमात्मना || ६१ || स्वदेहं स तथा श्रुत्वा दधीचो योगमायया | संधयामास शर्वं च शरणं समपद्यत || ६२ || स सुरेश्वरमाराध्य प्राप्यावध्यत्वमुत्तमम् | वज्रास्थित्वमभेद्यत्वमजरत्वं च शंकरात् | सर्वभूतानुकम्पित्वं महायोगित्वमेव च || ६३ || पुनरागात्क्षुपं द्रष्टुं पुनः सख्यमभूत्तयोः | रागो जातिकृतो यश्च पूर्ववत्स बभूव ह || ६४ || वामपादेन चाप्येनं क्षुपं स समताडयत् | पुनश्च वज्रमादाय स चैनमहनत्तदा | न चार्तिं न व्यथां तस्य तद्वज्रमकरोन्मुने || ६५ || अवध्यत्वमथो ज्ञात्वा क्षुपस्तस्य महात्मनः | नारायणं समासाद्य वरार्थं समराधयत् || ६६ || वरदो ऽस्मीति तुष्टेन विष्णुना स च चोदितः| प्रोवाच प्रणतो विष्णुमिदं व्यास महामनाः || ६७ ||

क्षुप उवाच |

दधीचो नाम विप्रर्षिरवध्यो ऽक्षय एव च | सखा मम हृषीकेश स च मामाह नित्यदा || ६८ || बिभेम्यहं न देवस्य राक्षसस्यासुरस्य वा | पिशाचस्याथ यक्षस्य वयसो मानुषस्य वा | बिभेमीति यथा ब्रूयात्तथा त्वं कर्तुमर्हसि || ६९ || एवमुक्तो नरेशेन स विष्णुर्लोकभावनः | तथास्त्विति च तं प्रोच्य दधीचस्याश्रमं ययौ || ७० || स प्रविश्याश्रमं व्यास दधीचेनाभिपूजितः | अभिवाद्याञ्जलिं कृत्वा दधीचमिदमब्रवीत् || ७१ || भगवन्ब्राह्मणश्रेष्ठ पितामहसमद्युते | वरमेकं वृणे त्वत्तस्तद्भवान्दातुमर्हसि || ७२ || प्रसादितो ऽहं विप्रेन्द्र क्षुपेण शुभकर्मणा | वरदो ऽस्मीति चाप्युक्तो वरं वव्रे महामुने | प्रोक्तं त्वया बिभेमीति ब्रूहि तन्मदनुग्रहात् || ७३ || अभयं सर्वभूतेभ्यो ब्राह्मणस्य न संशयः | अवध्यश्चापि सर्वेषां महायोगबलान्वितः | अभीतस्त्वं तथाप्यद्य मदर्थं वद तत्प्रभो || ७४ || दधीचस्त्वेवमुक्तो वै विष्णुना मधुरं तदा | उवाच न बिभेमीति भूयो भूयो जनार्दनम् | नाहं वक्ष्ये बिभेमीति नोक्तं नाप्युच्यते मया || ७५ ||

सनत्कुमार उवाच |

एवमुक्तश्चक्रपाणिश्च्यावनिं क्रोधमूर्छितः | उवाच चक्रमुद्यम्य भयमस्य विदर्शयन् || ७६ || एवमेव हि कर्तव्या ये भूत्वा बलवत्तराः | अस्वामिन इव प्रेम्णा ब्रुवते दुर्बलं जनम् || ७७ || न चेद्वक्ष्यसि भीतो ऽस्मीत्येतच्चक्रं ततस्तव | सुनसं मुखमादाय महीं संप्रापयिष्यति || ७८ ||

च्यावनिरुवाच |

किं वृथा चक्रमुद्यम्य त्वं विष्णो क्लेशमर्छसि | नाहं चक्रस्य ते गम्यः प्रसादात् त्र्यम्बकस्य तु || ७९ || किं तु जिज्ञासया यामि लोकपालशरण्यताम् | तेषां निष्क्रियतां ज्ञात्वा ततो ध्यास्यामि शंकरम् || ८० || एवमुक्त्वा च्यावनिस्तु प्राद्रवद्वरुणं प्रति | शरणं तं प्रपन्नश्च स ददावभयं प्रभुः || ८१ || तत्र विष्णोश्च देवस्य वरुणस्य च धीमतः | युद्धं समभवद्घोरं बहूनब्दान्विभीषणम् || ८२ || निगृहीते तु वरुणे च्यावनिर्यममभ्यगात् | स चास्याभयदस्तस्मै विष्णुना निर्जितो युधि | ततो ऽग्निमभ्यगाद्व्यास सो ऽपि तेनाभिनिर्जितः || ८३ || ततः स मुष्टिमादाय कुशानां च्यावनिः शुभम् | स्वमाश्रममुपागम्य तिष्ठ तिष्ठेत्यभाषत || ८४ || जिज्ञासार्थं लोकपालानहं शरणमेयिवान् | अबलास्ते च सर्वे ऽपि मय्येव बलमुत्तमम् || ८५ || अद्य गर्वं च दर्पं च बलं यच्च तवाद्भुतम् | तत्सर्वं नाशयिष्यामि तिष्ठेदानीं जनार्दन || ८६ || ततो युद्धं समभवत्तुमुलं लोमहर्षणम् | नारायणस्य च व्यास च्यावनेश्च महात्मनः || ८७ || यान्यस्त्राणि शरा ये च नारायणकरच्युताः | योगेन तान्दधीचो ऽसौ कुशमुष्टौ न्यवेशयत् || ८८ || ततो विष्णोर्योगबलाद्गात्रेभ्यः संप्रजज्ञिरे | देवा युयुधिरे सर्वे विष्णुना सह दंशिताः || ८९ || तानप्यशेषतः सर्वान्सायुधान्सह वाहनैः | कुशमुष्टौ सुसंक्रुद्धो विष्णुवर्जं न्यवेशयत् || ९० || ततः सर्वामरैर्व्यास कुशमुष्टिं प्रवेशितैः | योगेन तेजसा चैव दधीचेन महात्मना || ९१ || विष्णुं संविग्नरूपं तु कोपावेशात्प्रमोहितम् | तत्रागम्य स्वयं ब्रह्मा तदा वचनमब्रवीत् || ९२ || किं तवानेन गोविन्द वृथा यत्नेन सद्द्विजे | कृतेनास्य दधीचस्य शर्वाल्लब्धवरस्य तु || ९३ || किं न वेत्सि यथा ह्येष प्रसादात्परमेश्वरात् | अवध्यत्वं सुयोगित्वं गुणैश्वर्यत्वमेव च | वज्रास्थिसारतां चैव लब्धवान्स्वयमीश्वरात् || ९४ || न चैवं त्वद्विधा देव ब्राह्मणेषु विकुर्वते | तस्मादाशु निवर्तस्व क्षमयैनं द्विजोत्तमम् || ९५ || ततो ब्रह्मवचः श्रुत्वा स विष्णुर्लोकभावनः | योगेन तद्बलं ज्ञात्वा दधीचस्य च शंकरात् | क्षमयामास विप्रेन्द्रं स्वं चावासमथाभ्यगात् || ९६ || ब्रह्मापि तमृषिं सान्त्व्य पूजयित्वा च लोकपः | जगामादर्शनं व्यास सह सर्वामरैस्तदा || ९७ || दधीचो ऽपि महातेजास्तपस्तेपे स्वके ऽश्रमे | महादेवप्रसादार्थमुग्रं वाय्वम्बुभोजनः || ९८ || अथास्य युक्तस्य तदा तपसा भास्करद्युतेः | तुतोष भगवांस्त्र्यक्षस्तुष्टश्चैवाब्रवीदिदम् || ९९ ||

देव उवाच |

च्यावने तपसानेन तव तुष्टो ऽस्मि सुव्रत | ब्रूहि यत्ते ऽभिलषितं कृतमेव हि तन्मया || १०० ||

दधीच उवाच |

भगवन्यदि तुष्टो ऽसि यदि देयो वरश्च मे | इच्छामि विष्णुना सार्धं सर्वान्देवांस्त्वया जितान् || १०१ ||

सनत्कुमार उवाच |

ततः प्रहस्य वरदो दधीचमृषिसत्तमम् | एवमस्त्विति तं प्राह प्रणतार्तिहरो हरः || १०२ || तस्मिन्दत्ते तदा तेन त्र्यम्बकेन वरे शुभे | अमन्यत स्थितं वैरं क्षुपेण सह वै ऋषिः || १०३ || ध्यायन्तं तं तथा दृष्ट्वा भगवान्गोवृषध्वजः | उवाच वरमन्यच्च ब्रूहि विप्र ददानि ते || १०४ ||

दधीच उवाच |

यस्मात्स्थितमिदं वैरं वरदानात्तव प्रभो | इह तस्मात्तव स्थानं नाम्नैतेन भवत्वज || १०५ ||

देव उवाच |

स्थानेश्वरमिति ख्यातं नाम्नैतत्स्थानमुत्तमम् | भवितृ क्रोशपर्यन्तं नानापुष्पलताकुलम् || १०६ || अत्र यो ऽभ्यर्चयेन्मां तु परं नियममास्थितः | त्रिरात्रोपोषितः सम्यक्स्नात्वा नद्यां तु मानवः || १०७ || ब्राह्मणं भोजयित्वा च चरुं धर्मेण संयुतः | सर्वपापविनिर्मुक्तो रुद्रलोकमवाप्नुयात् || १०८ || स्थाणुतीर्थं च भवितृ तवैव पापनाशनम् | अश्वमेधफलं ह्यत्र स्नातः प्राप्नोति पुष्कलम् || १०९ || अयं चापि वटः श्रीमान्स्थितो ऽहं यत्र साम्प्रतम् | वरं दातुं मदाख्यातो नाम्ना स्थाणुवटो महान् | भविष्यति न संदेहः फलं चास्यापि मे शृणु || ११० || यो ऽत्र तिष्ठेदहोरात्रं वाग्यतो नियताशनः | चीर्णं वर्षं भवेत्तेन स्थाणुव्रतमनुत्तमम् || १११ || सर्वपापविनिर्मुक्तो गणपः स भवेन्मम | अकम्पनो नाम महान्महायोगबलान्वितः || ११२ || यश्च प्राणान्नियमवान्यमवानथवा पुनः | परित्यजेत मनुजस्तस्य पुण्यफलं महत् || ११३ || सर्वपापविनिर्मुक्तः सर्वबन्धविवर्जितः | गणेश्वरो नन्दिसमः स मे भवति सर्वगः || ११४ || स्थानेश्वरे यस्त्विदमेकरात्रं स्थित्वा क्षपेत्सर्वमशेषतो हि | स सर्वपापप्रविमुक्तचेता गणेश्वरो मे भवितातिभीमः || ११५ || स्कन्दपुराण एकत्रिंशत्तमो ऽध्यायः ||

सनत्कुमार उवाच |

एतस्मिन्नेव काले तु व्यास दक्षः प्रजापतिः | अयजत्सो ऽश्वमेधेन राजा प्राचेतसात्मजः || १ || तत्र देवनिकायानां भागधेयानि सर्वशः | हव्यवाहस्तदा तत्र वहन्मन्त्रैः समीरितः || २ || वहन्तं तमपश्यच्च देवी गिरिवरात्मजा | अनुस्मरन्ती तद्वैरं शापकारणमेव च || ३ || उवाच चैनं गिरिजा बोधयन्ती पुरातनम् | श्लक्ष्णं मधुरया वाचा कारणेन समन्वितम् || ४ || त्वं देव सर्वदेवानां गतिश्च शरणं तथा | त्वया विना कथं यज्ञो वर्तते सर्वदेवप || ५ || देवानां भागधेयानि वहत्यग्निरयं भव | नायं तव महेशान किं कारणमतिद्युते || ६ || साम्ना सर्वसुराध्यक्ष विक्रमेण विना विभो | अयं मूढो ऽवलिप्तश्च राजा प्राचेतसात्मजः | अनुस्मरन्पूर्ववैरं नैव दास्यत्यशासितः || ७ || दधीचस्य वरश्चापि त्वया दत्तस्तदा प्रभो | तस्यायमागतः कालस्तदर्थेन विधीयताम् || ८ ||

सनत्कुमार उवाच |

एवमुक्तस्तदा व्यास भगवान्वृषभध्वजः | उवाच प्रहसन्देवीं पिता तव शुचिस्मिते | पूर्वजन्मनि सुश्रोणि प्रजापतिसुतः शुभे || ९ || मम त्वं भावविज्ञानं कुर्वती देवि भाषसे | न हि दुःखं पितुर्लोके कश्चिदिच्छति भामिनि || १० || ललाटे भृकुटीं कृत्वा ततो देव्यायतेक्षणा | क्रोधात्करेण नासाग्रं संममर्द शुचिस्मिता || ११ || तस्यां संमृद्यमानायां नासिकायामतिप्रभा | जज्ञे स्त्री भृकुटीवक्त्रा चतुर्दंष्ट्रा त्रिलोचना | बद्धगोधाङ्गुलित्रा च कवचाबद्धमेखला || १२ || सखड्गा सधनुष्का च सतूणीरा पताकिनी | द्वादशास्या दशभुजा तनुमध्या तमोनिभा || १३ || घनस्तनी पृथुकटी नागनासोरुरव्यया | भद्रकालीति तां प्राह देवीं देवी शुभानना || १४ || ततो ऽब्रवीत्तदा देवमेषा सृष्टा मया प्रभो | त्वमप्यन्यं सृज गणमनुरूपं नमो ऽस्तु ते || १५ || ततो देवस्तदा स्कन्धं स्वमैक्षत सुभास्वरम् | तस्माज्जज्ञे पुमान्दिव्यस्त्रैलोक्यं संहरन्निव || १६ || भृकुटीभूषितास्यश्च बद्धगोधाङ्गुलित्रवान् | कवची बद्धतूणीरः शरी खड्गी शरासनी | त्र्यक्षश्चतुर्भुजश्चैव वज्रसंहननो युवा || १७ || स सृष्टः प्रणतो भूत्वा हरिर्नाम्ना गणेश्वरः | उवाच प्राञ्जलिर्भूत्वा देवदेवं सहोमया | आज्ञापय सुरेशान यत्कर्तव्यं मया विभो || १८ || ततः स भगवानाह हरिं तं गणनायकम् | प्राचेतसात्मजस्येमं यज्ञं गच्छ विनाशय | भद्रकाल्या सहाशु त्वमेतत्कृत्यं गणेश्वर || १९ || ततो ऽस्य भगवान्देवो गणेशान्कामरूपिणः | - - - - - - - - - - - - - - - - || २० || पस्पर्श बाहुं सम्यक्तु तस्मिञ्जाता महाबलाः | कोट्यस्ता नवतिश्चैव शतं चैव तदा प्रभोः | सर्वांश्चोवाच भगवान्यज्ञं प्रमथतानघाः || २१ ||

सनत्कुमार उवाच |

ततस्तौ तेन सैन्येन महताभिसमावृतौ | जग्मतुः सागरोन्नादमेघाशनिविनादितौ || २२ || देवो ऽपि सह पार्वत्या रैभ्याश्रमसमीपतः | स्थित्वापश्यद्गणेशानां कर्म तद्यज्ञनाशनम् || २३ ||

सनत्कुमार उवाच |

वृक्षाः कनखला यत्र गङ्गाद्वारसमीपगाः | सुवर्णशृङ्गश्च गिरिर्मेरुपर्वतसंनिभः | तस्मिन्प्रदेशे दक्षस्य यज्ञो ऽयमभवत्तदा || २४ || गणेश्वरबलं चागाद्भीमं कालीपुरोगमम् | ते संप्राप्य महाभागाः सर्वे दीप्तानलप्रभाः | ऊचुस्तं यजमानं च ऋत्विजो ऽथ मुनीन्सुरान् || २५ || वयं ह्यनुचराः सर्वे शर्वस्य परमात्मनः | इहाभिलिप्सवः प्राप्ता भागान्यच्छध्वमीप्सितान् || २६ || तपसा यज्ञभागार्हा बलेन नियमेन वा | ऐश्वर्येणाथ योगेन येन तेन पुरो हि वः | सर्वं चास्मास्वपि हि तद्वयमप्यंशभागिनः || २७ || अथ चेत्स्वामिनो देवास्तेन भागार्हतां गताः | स्वामित्वे च बलं हेतुस्तपो वा नात्र संशयः | अस्मास्वेवोभयं तच्च स्वामित्वं तेन नो वरम् || २८ || अथ चेत्कस्यचिदियमाज्ञा मुनिसुरोत्तमाः | भागो भवद्भ्यो देयस्तु नास्मभ्यमिति कथ्यताम् | तं ब्रूत यो ज्ञापयति वेत्स्यामो हि वयं ततः || २९ || एवमुक्तास्तु हरिणा सर्वे देवपुरःसराः | ऊचुर्मन्त्राः प्रमाणं वो भागं प्रति गणेश्वराः || ३० || मन्त्राप्यूचुः सुरान्यूयं तमोपहतचेतसः | येन प्रथमभागार्हं न यजध्वं महेश्वरम् || ३१ || मन्त्रैस्ते प्रोच्यमानापि नैव भागान्ददुर्यदा | तदा यातास्ततो मन्त्रा ब्रह्मलोकं सनातनम् || ३२ || ततः शक्रादयो देवाः सर्वानूचुर्गणेश्वरान् | युष्मान्निहन्मो विक्रम्य सर्वानेवागतान्युधि || ३३ || तेषां सगर्वं तद्वाक्यं श्रुत्वा हरिरमित्रजित् | उवाच प्रहसन्सर्वानिदं वचनमूर्जितम् || ३४ || मन्त्राः प्रमाणं न कृता युष्माभिर्बलगर्वितैः | यस्मात्प्रसह्य तस्माद्वो नाशयाम्यद्य गर्वितम् || ३५ || ऋत्विग्भिर्भागधेयैश्च सह यज्ञेन चोद्यतः | येषां च बलवत्ता वस्तान्सर्वान्नाशयाम्यहम् || ३६ || एवमुक्त्वा स तेजस्वी हरिभद्रः प्रतापवान् | भद्रकाली च संक्रुद्धावभिदुद्रुवतुः सुरान् || ३७ || गणेश्वराश्च संक्रुद्धा यूपानुत्पाट्य चिक्षिपुः | प्रस्थात्रा सह होतारमश्वं चैव गणेश्वराः | गृहीत्वा कुपिताः सर्वे गङ्गास्रोतसि चिक्षिपुः || ३८ || यजमानं च पाशेन बद्ध्वा निन्युर्यथासुखम् | वेदीमध्ये कुशानन्ये स्रुचो ऽन्ये चमसानपि | व्यनाशयंश्चिक्षिपुश्च शालाश्चान्ये ऽभ्यदीपयन् || ३९ || हरिभद्रो ऽपि दीप्तात्मा शक्रस्योद्यच्छतः करम् | व्यष्टम्भयददीनात्मा तथान्येषां दिवौकसाम् || ४० || भगस्य नेत्रे पूष्णश्च दशनान्रुषिताननः | धनुष्कोट्या समाहत्य मिषतां स न्यपातयत् || ४१ || विष्णोश्चक्रं च तद्घोरं युगान्तादित्यवर्चसम् | व्यष्टम्भयददीनात्मा करस्थं न चचाल ह || ४२ || तुषितांश्च तथा देवानुद्युक्तान्युद्धलालसान् | वायव्यास्त्रेण संहत्य पृथिव्यां तान्न्यपातयत् || ४३ || अन्यांश्च देवान्देवो ऽसौ सर्वान्युद्धाय संस्थितान् | मोहनेनास्त्रवीर्येण संमोहयदनिन्दितः || ४४ || राजानश्चापि ये केचित्तत्रायाता दिदृक्षवः | तान्सर्वानस्त्रवीर्येण स्वगृहाननयद्बलात् || ४५ || तत्प्रविध्वस्तकलशं भग्नयूपं सतोरणम् | प्रदीपितमहाशालं दृष्ट्वा यज्ञो ऽभिदुद्रुवे || ४६ || तं तदा मृगरूपेण धावन्तं गगनं प्रति | हरिः शरं समाधाय विशिरस्कमथाकरोत् || ४७ || शरं चापरमादाय वीरभद्रः प्रतापवान् | पलायमानं तं यज्ञं ससार मृगरूपिणम् || ४८ ||

सनत्कुमार उवाच |

एवं ते निकृता व्यास गणैः काल्या तथैव च | हरिणा चैव देवेन सर्वे शरणमागताः || ४९ || तान्प्रपन्नांस्तदा सर्वान्देवान्समुनिलोकपान् | हरिः काल्या सहैवाह गच्छध्वं सोममव्ययम् | प्रसादयध्वं देवेशं ततो वो भविता शमः || ५० ||

सनत्कुमार उवाच |

त एवमुक्ता हरिणा जग्मुर्देवं प्रमन्यवः | प्रसादयितुमव्यग्रा दुःखशोकसमन्विताः || ५१ || ततस्ते नातिदूरे तु साम्बं सगणमीश्वरम् | अपश्यन्त महात्मानं सर्वे तद्गतमानसाः || ५२ || ते तं दृष्ट्वा प्रणम्योच्चैस्तुष्टुवुर्दीप्ततेजसम् | वाग्भिरावाहनीयाभिः कृत्वा ब्रह्माणमग्रतः || ५३ ||

देवा ऊचुः |

नमस्ते सुरशत्रुघ्न सुरयज्ञप्रवर्तक | महायज्ञ महासत्त्व महाक्रतुशतस्तुत || ५४ || नमो यज्ञविनाशाय वेदसर्वस्वदाय च | शिपिविष्टकृते विष्णोर्नरसिंहाभिघातिने || ५५ || मन्दराद्रिनिवासाय शुभसर्वस्वदाय च | महाविमानयानाय क्रतुविघ्नकराय च || ५६ || मन्त्रान्तःकरणायैव मन्त्रव्रतकराय च | पूष्णो दन्तविनाशाय भगनेत्रहराय च || ५७ || विष्टम्भनाय शक्रस्य विष्णोश्चक्रस्य चैव हि | नमो यज्ञप्रणेत्रे च यज्ञोत्पत्तिकराय च || ५८ || वरदानाधिगम्याय ब्रह्मणो जनकाय च | व्याघ्रचर्मभृते तुभ्यं कृष्णचर्माम्बराय च || ५९ || नमः स्रग्वरमालाय नरपित्रे तथैव च | उत्पादकाय विष्णोश्च जयाय विजयाय च || ६० || नमो मन्युविनाशाय वीरभद्रप्रजाय च | नमो हर्षाय कोपाय गणेश्वरसृजे नमः || ६१ || नमो देवानुतापाय मृगबाणार्पणाय च | नमस्ते भगवन्देव नमस्ते भगवञ्छिव || ६२ || नमस्ते सर्वलोकेश नमस्ते लोकभावन | त्वया सृष्टमिदं विश्वं यज्ञो देवाश्च यज्ञहन् | प्रसीद मा क्रुधो ऽस्माकं मा नः कृत्वा विनाशय || ६३ ||

सनत्कुमार उवाच |

य इमं पठते नित्यं नियतः प्रातरुत्थितः | न तस्य विघ्नरूपाणि कदाचित्संभवन्त्युत || ६४ ||

सनत्कुमार उवाच |

स एवमुक्तो देवेशस्तदा तान्स्तुवतः स्थितान् | उवाच प्रहसन्वाक्यं सर्वान्देवान्समागतान् || ६५ ||

देव उवाच |

नाहं क्रुद्धो भवन्तो मे नित्यमेवातिवल्लभाः | क्रुद्धे हि मयि युष्माकं न स्याज्जीवं क्षणान्तरे || ६६ || एवमुक्त्वा तदा देवः सुराणां हितकाम्यया | प्रावेशयत्सुरान्सर्वांस्ततस्तान्योगमायया | स्वे शरीरे महादेवो विस्मापयितुमोजसा || ६७ || ते प्रविष्टास्तदा देहमीश्वरस्य महात्मनः | सप्तलोकसमायुक्तमपश्यञ्जगदद्भुतम् || ६८ || ते परिभ्रम्य तांल् लोकान्कृत्स्नान्सर्वे भयान्विताः | पञ्चाक्षं गणपं वीरं तत्रापश्यन्समागताः || ६९ || तेन ते सुरशार्दूलाः सर्वे ह्यूर्ध्वमतन्द्रिताः | आक्षिप्तास्तन्मुहूर्तेन लोकमन्यमुपागताः || ७० || अपश्यंस्ते महाभागा नगरं सूर्यसंनिभम् | स्फाटिकेनातिमहता प्राकारेणाभिसंवृतम् | शृङ्गैश्च विविधैश्चित्रैर्मणिहेमोज्ज्वलैः शुभैः || ७१ || ततो ऽपरमपश्यंस्ते तन्मध्ये सुरसत्तमाः | सप्तयोजनकोटीकं समन्तान्नगरं शुभम् | राजतेनावृतं दिव्यं प्राकारेणेन्दुवर्चसा || ७२ || तस्य मध्ये ऽपरं चोच्चं षट्कोटीविस्तृतं पुरम् | जाम्बूनदमयेनैव प्राकारेणाभिसंवृतम् || ७३ || तस्य मध्ये पुनश्चान्यत्पञ्चकोटीप्रमाणतः | इन्द्रनीलोपलेनैव प्राकारेण समावृतम् || ७४ || तस्य मध्ये ह्यपश्यंस्ते विबुधा मुनिसत्तम | चतुर्योजनकोटीकं विस्तारायामतः समम् | वैडूर्योपलयुक्तेन प्राकारेणाभिसंवृतम् || ७५ || नगरं तस्य मध्ये च त्रिकोटीयोजनं शुभम् | सर्वरत्नविचित्रेण प्राकारेणाभिसंवृतम् || ७६ || तस्य मध्ये ऽपरं चान्यद्द्विकोटीविस्तृतं शुभम् | पद्मरागमयेनैव प्राकारेण परिष्कृतम् || ७७ || तेषां मध्ये जनपदाः सर्वदुःखविवर्जिताः | शुक्लाभिजनसंपन्नाः सर्वे च स्थिरयौवनाः || ७८ || क्षुत्पिपासाविनिर्मुक्ता रोगशोकविवर्जिताः | अमरा जरया त्यक्ता नित्यं मुदितमानसाः || ७९ || दीर्घिकाभिर्विचित्राभिर्वापीभिश्चाप्यलंकृताः | वृक्षैर्नानाविधैश्चित्रैः सदापुष्पफलोपगैः || ८० || सर्वभक्षान्प्रसूयन्ते वृक्षास्तत्रापरे शुभाः | अपरे चाप्यलंकारान्सर्ववासांसि चापरे || ८१ || अपरे सर्वपुष्पाणि सर्वाण्येव फलानि च | सर्वभावांस्तथा चान्ये मधु चामाक्षिकं शुभम् || ८२ || अपरे क्षीरिणस्तत्र वृक्षा व्यास महाप्रभाः | क्षीरं क्षरन्ति ते नित्यं सर्वगव्यसमन्वितम् || ८३ || सर्वा मणिमयी भूमिः शुभा काञ्चनवालुका | उद्भिदान्युदकान्यत्र गिरिप्रस्रवणानि च || ८४ || न तेषु क्रोधो लोभो वा युद्धं द्वेषो ऽथ मत्सरः | न मानो नैव च स्तम्भो न दोषास्तत्र चापरे || ८५ || ईदृशानि पुराणि स्म व्यतिक्रम्य सुरास्ततः | कोटीयोजनविस्तीर्णं समन्ताद्वह्निनावृतम् || ८६ || संवर्तकानलाकारं दुर्निरीक्ष्यं पुरं महत् | अद्वारं ददृशुर्दिव्यमनन्तं ते सुरोत्तमाः | दृष्ट्वा जग्मुः परं चैव विस्मयं भयमेव च || ८७ || तान्भीतवदनान्व्यास वेपमानान्सुरेश्वरान् | पञ्चाक्षो गणपः प्राह मा भीर्भवतु वः सुराः || ८८ || इदं तत्सुमहद्घोरं पुरं घोरानलावृतम् | द्रष्टव्यं वो महात्मानो यत्कृतेनागतास्त्विह || ८९ ||

सनत्कुमार उवाच |

एवमुक्त्वा स पञ्चाक्षः शूलेनानलवर्चसा | पश्यतां सुरसंघानां द्वारं चक्रे महाबलः || ९० || ते प्रविष्टा महात्मानः पञ्चाक्षसहिताः सुराः | दिव्यं ददृशिरे पूर्णं सिंहानां तत्पुरं महत् || ९१ || मेरुमन्दरकल्पानां नखदंष्ट्रावतां तथा | घोराणामग्निवर्णानां क्रुद्धानामतितेजसाम् || ९२ || तेषामेकस्तदा सिंहश्छित्त्वा बन्धनमूर्जितः | अन्वधावत संक्रुद्धः प्रलम्बितमहासटः || ९३ || तस्य सिंहस्य नादेन भैरवेण दिवौकसः | विषण्णवदनाः सर्वे पञ्चाक्षं शरणं ययुः || ९४ ||

पञ्चाक्ष उवाच |

न भेतव्यं सुरा देवं दर्शयाम्यधुना हि वः | इत्युक्ता ददृशुः शर्वं सहसा ते सहोमया | न चैव तत्पुरं व्यास न सिंहान्नापि किंचन || ९५ || वेपमाना भयेनेशं शरणं पर्युपागताः | ताञ्छरण्यः स भगवानुवाच प्रहसंस्तदा | आमन्त्र्य सर्वान्देवेशो भयार्तांस्तान्दिवौकसः || ९६ || दृष्टा हि वो मम क्रोधाः सिंहरूपा भयानकाः | एकेन तेषां रौद्रेण सर्वे यूयं विनिर्जिताः || ९७ || यदि सर्वानहं क्रोधाद्विसृजेयं कथंचन | न भवेयुरसंदेहात्सर्वे यूयं क्षणात्सुराः || ९८ || इयं तु देवी युष्माकं कुपिता पर्वतात्मजा | एतां प्रसादयत वै नाहं कुप्यामि वः सुराः || ९९ ||

सनत्कुमार उवाच |

एवमुक्तवति स्वामिन्युद्धता ताम्रलोचना | देवी देवीं मुखाद्घोरां ससृजे भयवर्धनीम् || १०० || दंष्ट्राकरालवदनां बहुपादकराङ्गुलिम् | धनुःपरशुखड्गेषुचक्रशूलासिधारिणीम् || १०१ || ज्वलदर्कसहस्रांशुतेजसा विश्वरूपिणीम् | दशयोजनसाहस्रस्तस्या देहः प्रकीर्तितः || १०२ || भयाभिभूतास्ते देवा वध्यमानाश्च सर्वशः | न शेकुः पुरतः स्थातुं व्याघ्रान्मृगगणा इव || १०३ || ततो व्यथितचित्तास्ते कालकर्ण्या भयात्सुराः | भस्मराशिं स्थितं पार्श्वे देवस्य विविशुर्भयात् || १०४ || तान्दृष्ट्वा भस्मकूटं तु प्रविष्टाञ्छरणार्थिनः | सुरान्भस्मविलिप्ताङ्गान्देवीं देवी न्यषेधयत् || १०५ ||

देव्युवाच |

कालकर्णि निवर्तस्व मा वधीः सुरसत्तमान् | एते पाशुपतीभूता भस्मना दिग्धमूर्तयः || १०६ || एतत्पशुपतिप्रोक्तं व्रतं पाशुपतं पुरा | यद्भस्मना पवित्रेण स्नानं स्नानेभ्य उत्तमम् || १०७ || एते भगवतो ऽवश्यमनुग्राह्याः सुरोत्तमाः | भस्म येन प्रविष्टास्तु तस्मान्मैतान्विनाशय || १०८ || रौद्राः पशव एते हि प्रवेशाद्भस्मनो ऽधुना | जाताश्च गणपाः सर्वे हन्तव्या न त्वयेश्वरि || १०९ || नैषां मृत्युः प्रभवति शंकरार्पितचेतसाम् | मया ह्येतद्व्रतं पूर्वं चरितं सार्वकामिकम् || ११० || इत्युक्ता कालकर्णी तु देव्या भैरवरूपिणी| न्यवर्तत सुरेभ्यस्तु कोपं तत्याज चोत्थितम् || १११ || कालकर्णीं निवृत्तां तु दृष्ट्वा ते ऽपि सुरास्ततः | शान्तं च भयमत्युग्रं तुष्टुवुर्हिमवत्सुताम् || ११२ ||

देवा ऊचुः |

हरवरमहिषीं महादेवपत्नीं प्रियां त्र्यम्बकस्याम्बिकां वाचमेकाक्षरां लोकसंहारकर्त्रीमुमां देवदेवस्य पत्नीं शुभां शङ्खकुन्देन्दुहाराम्बुगौरोग्रदंष्ट्रां जयामाहवे दुर्निरीक्ष्यामचिन्त्योग्रदृष्टिं विशालेक्षणां पीतकौशेयवस्त्रां महाशूलघण्टापताकाध्वजां दिव्यगन्धाज्यधूपप्रियां कालदण्डासिचर्माग्रहस्तां वपाशोणितान्त्रावसापूर्णभाण्डां दिशां दक्षिणां चारुचामीकराबद्धपट्टां युगान्तानलाभेक्षणामट्टहासान्सृजन्तीं यथाकामकर्त्रीमनङ्गायुधाविक्षतां शूरसेनानदीं विश्रुतां मन्दरावासनित्यां दिविष्ठां प्रपद्ये ऽहमेकानसीम् || ११३ || असुरमहिषदारणीं दारणीं दुन्दुभेः सुम्भमारीं निसुम्भस्य मृत्युं विभां सोमसूर्याग्निभासां सृजत्कान्तिमिष्टप्रदां शोकदुःखार्तिहर्त्रीं विशोकां सुघोरां वरामन्तकस्यान्तकर्त्रीं मुनेर्जामदग्न्यस्य चोर्जां तथा राजराज्ञीमनोज्ञां करालां ह्रियं दण्डनीतिं स्थितिं सिद्धिमिष्टां शुभां कालरात्रीमपर्णां समाधिं शरण्यां नगेन्द्राधिवासप्रियां क्षीरनद्यब्धिवासां शुभां किङ्किणीकां प्रकीर्णोर्ध्वकेशीं प्रदीप्ताग्निसन्ध्याभ्ररागत्विषां बद्धगोधाङ्गुलित्रां त्रिनेत्रां जटाकेशरक्ताम्बुजाबद्धमालां विशल्यामनङ्गारिनेत्रोल्कजां हेममालापिनद्धस्रजां दीर्घवेणीं यशःकीर्तियुक्तां मयूराङ्गजाबद्धचित्रध्वजां शान्तिकर्त्रीं प्रपद्ये ऽहमेकां सदा || ११४ || भुजगशतकृताङ्गदां दानवप्राणशौण्डां चिताभस्मरूक्षाङ्गकेशीं महाजानुलम्बोदरां सर्पयज्ञोपवीतार्धवक्त्रोद्धृताक्षार्धपादार्धहस्तावतंसां महामेखलादामलम्बद्विचित्रस्रजां मेघतूर्योग्रवादित्रनृत्यप्रियां गीतहास्यप्रलापप्रमोदप्रियां जप्यहोमोपवासाप्रवासाधिवासातिरक्तां महायोगविज्ञातसारानुसारोग्रसारां धृतिं ज्यानुघण्टावबद्धोग्रशब्दां महामेघवज्रप्रपातोदधिप्रख्यघोषक्रियां दीक्षितानां च दीक्षां विरूपाक्षभार्यां हरस्यार्धदेहाधिवासां प्रपद्ये मुखोल्कोद्भवां देवि-म्-आद्यां परां पार्वतीं सर्वविद्याधिदेवां गतिं || ११५ || यमनियमदमात्मभूतां पितॄणां च कन्यां शुभां पर्वतेन्द्रात्मजां दक्षयज्ञान्तकारीं भवस्यार्धदेहाश्रितादित्यदन्तावपातां सुरेन्द्राग्रहस्तप्रतिस्तम्भनीं विष्णुकेशापहर्त्रीं महासिंहयुक्तातिवाहां महाभैरवाभीषितां स्कन्दचन्द्रारणीं मातरं हस्तिवक्त्रस्य चाग्र्यां विशाखस्य जन्मारणीं नन्दिनो नैगमेषस्य चोत्पादनीं सर्वलोकस्य चाद्यारणीं मातरं योगिनां योगिनीं ध्यायमानां धृतिं देवविप्रैर्महायोगतर्कैरगम्यां विशिष्टेष्टशिष्टाधिवासां च लक्ष्मीं तरीं भूर्भुवःस्वर्जनःसत्यवैराजमाहात्म्यलोकारणीमिन्द्रियाणामहंकारतन्मात्रकर्त्रीं तमःसत्त्वरागप्रवृत्तिं परां च प्रवृत्तिं महेशस्य शक्तिं तथा चेतनां सर्वविज्ञानचिन्त्यां प्रपद्ये ऽम्ब देवीमुमां मातरम् || ११६ || दिश तु सुखमतः सुतुष्टा महादेवपत्नीं शुभां यां वयं चिन्तयामैकबुद्ध्या तथाध्यायमानाः सदा दारुणं चापि सर्वं कृतं यत्त्वया तच्च नो नाशयाम्बाद्य तुष्टा यथा वै तुषारं महासूर्यदेहोद्भवा यच्च नो जातिकोटीसहस्रेषु पूर्वं कृतं यत्करिष्याम यत्कुर्म तत्सर्वमेवं च दद्याश्च नः सर्वमर्थं सकामं तथारोग्यमूर्जां श्रियं ज्ञानविज्ञानमेधास्तथा धारणीं तर्कमूहामपोहां धृतिं चार्यभावं गतिं चैव दिव्यां तथा धर्मनित्यत्वमेतांश्च ये चाप्यतो ऽन्ये गुणास्तांश्च सर्वाञ्जुषस्वाद्य नो देवि तुभ्यं नमः || ११७ ||

सनत्कुमार उवाच |

एवं सा संस्तुता देवी देवैर्दिव्येन चेतसा | त्र्यम्बकानुग्रहाच्चैव देवांस्तुष्टाब्रवीदिदम् || ११८ ||

देव्युवाच |

गच्छध्वं विज्वराः सर्वे तुष्टाहं वो न संशयः | कोपेन नः पुनर्देवा मा विनाशो हि वो भवेत् || ११९ ||

सनत्कुमार उवाच |

ततः स देवः प्रहसन्कपर्दी नीललोहितः | प्रकृतिस्थान्सुरान्सर्वांश्चकार सुरशत्रुहा || १२० || उवाच चैतान्देवेशो गच्छध्वं विगतज्वराः | यज्ञैश्चैव यदा कृत्यं तदायं भविता हि वः | सशिरस्को ऽदितेः पुत्रा मन्त्रेणानेन संधितः || १२१ || ततः स्तोत्रं च मन्त्रं च संधानकरमव्ययम् | ददावाथर्वणं देवः प्रोवाचेदं च सुस्वरम् || १२२ ||

देव उवाच |

नक्षत्रसमतां यातु यज्ञो ऽयं सुरसत्तमाः | मृगानुसारी देवो ऽपि हरिरस्य भवत्वयम् || १२३ || भद्रकाली हरिश्चैव गणाश्चेमे महाबलाः | सर्वे भद्रा भविष्यन्ति युष्माकममराः सदा || १२४ ||

सनत्कुमार उवाच |

एवमुक्ता भगवता देवास्ते ब्रह्मणा सह | शिरोभिः प्रणताः सर्वे शर्वमूचुरिदं वचः || १२५ || एष तावत्क्रतुश्रेष्ठस्तवैव भवतु प्रभो | शर्वः सुरपते देव शतमभ्यर्च्यते ऽव्यय | भागानां सर्वयज्ञेषु तुभ्यं सर्वं ददामहे || १२६ || एवमुक्तो ऽथ देवेशः सुरैः सर्वैः सुरेश्वरः | चकार रूपं परमं सर्वदेवमयं शुभम् || १२७ || स्वात्मानं ते तदा देवा ह्यपश्यन्त महेश्वरे | शिरोबाहूरुपादेषु पार्श्वहस्तोदरादिषु | अवस्थितान्महात्मानो मुनींश्चैव तपोधनान् || १२८ || स तद्रूपं तदा कृत्वा देवान्प्रोवाच शंकरः | सर्वे यूयं महात्मानो मच्छरीरसमुद्भवाः | युष्माकं च शरीराणि मन्मयानि प्रपश्यत || १२९ || ततस्ते देवता व्यास सर्वं रुद्रात्मकं जगत् | आत्मनश्चाप्यपश्यन्त विस्मयापन्नचेतसः || १३० || एवं स तेषां देवेशो दर्शयित्वात्मनो बलम् | उवाच सुरशार्दूलान्दृष्टा ह्येता विभूतयः || १३१ || यो यां पूजयते मूर्तिं भक्त्या परमया युतः | तस्य तां मूर्तिमास्थाय पूजां गृह्णाम्यहं सुराः || १३२ || न भागधेयैः कृत्यं मे भागधेयानि वः सुराः | सर्वाण्येव ददान्यद्य यात सर्वे गतज्वराः || १३३ ||

देवा ऊचुः |

गुह्यमेतत्परं देव त्वयास्माकं निदर्शितम् | एवं यो वेत्स्यते मर्त्यः स लोकान्प्राप्स्यते ऽव्ययान् || १३४ || इदं च भगवन्स्थानं भद्रेश्वरमिति श्रुतम् | भविष्यति जगच्छ्रेष्ठं स्थानेभ्यः पुण्यकृत्तमम् || १३५ || समन्ताद्योजनं चैव रुद्रक्षेत्रं सनातनम् | मृतो ऽत्र गणपो देव वल्लभस्ते भविष्यति || १३६ || यश्चेमं कीर्तयेन्नित्यं कल्यमुत्थाय यज्ञहन् | श्रावयेच्चापि द्विजेभ्यः सर्वपापैः प्रमुच्यते || १३७ || भद्रकर्णह्रदे चास्मिन्स्नात्वा यो ऽभ्यर्चयेद्धरम् | साधयित्वा चरुं चैव भोजयेद्ब्राह्मणं शुचिः || १३८ || सर्वपापविनिर्मुक्तो यत्र तत्र मृतो नरः | मोदते ऽप्सरसां मध्ये दिवि देव इवापरः || १३९ || यत्र चोक्तं त्वया देव स्थितेन भगवन्प्रभो | हरिभद्रेति पुण्यो ऽयं त्वत्प्रसादाद्भवत्वज || १४० || अश्वमेधस्य यत्पुण्यं सम्यगिष्टस्य यज्ञहन् | तदत्र देव भवतु नरस्याभ्यर्च्य सर्वदा || १४१ || परित्यक्ष्यति यश्चात्र कश्चित्प्राणान्नरोत्तमः | हरिभद्रस्य स गणो भविष्यति महाबलः || १४२ || एवमस्त्विति स प्रोच्य मन्दरं चारुकन्दरम् | जगाम भगवाञ्छर्वः सोमो गणशतैर्वृतः || १४३ || देवापि राज्ञा सहितास्तस्मिन्स्थाने यथासुखम् | तस्थुर्ब्रह्मा च विष्णुश्च जग्मतुर्देवपृष्ठतः || १४४ || स गत्वा स्तोकमध्वानमुभाभ्यां सहितः प्रभुः | नातिदूरे ततः प्राह तिष्ठ विष्णो महाबल || १४५ || स प्रणम्य ततः पादौ हरस्य पुरुषोत्तमः | तस्थावाम्रं समालम्ब्य स कुब्जः समपद्यत || १४६ || यस्मादाम्रं समालम्ब्य तस्मिन्देशे स्थितो हरिः | निरीक्षमाणो देवेशं देशस्तस्मादभूदसौ || १४७ || कुब्जाम्रक इति ख्यातो विष्णोः क्षेत्रं समृद्धिमत् | पुण्यं निवर्तनान्यष्टौ गोसहस्रफलप्रदम् || १४८ || नातिदूरं ततो गत्वा भूयो देवः पितामहम् | निवर्तेत्यब्रवीद्व्यास गगनं च समाविशत् || १४९ || तस्मिन्वियद्गते देवे ब्रह्मा प्राञ्जलिरुन्मुखः | प्रदक्षिणं समावृत्य प्रणम्य प्रययौ ततः || १५० || यस्मात्तत्र हरं तेन कुर्वता वै प्रदक्षिणम् | आवर्तः स्वशरीरस्य प्रकृतः पुण्यकर्मणा | तस्मात्स देशो विख्यातो ब्रह्मावर्तेति शोभनः || १५१ || अश्वमेधफलं तत्र स्नातः प्राप्नोति मानवः | साधयित्वा चरुं चात्र भोजयित्वा तथा द्विजम् | प्राणान्परित्यज्य ततो ब्रह्मलोकमवाप्नुयात् || १५२ || ततो ऽभ्येत्य सुरैः सार्धं ब्रह्मा विष्णुपुरःसरम् | भद्रेश्वरे पशुपतेर्महिमानमथाकरोत् || १५३ || स लिङ्गं तत्र संस्थाप्य पूजां कृत्वातिभास्वराम् | भद्रकर्णह्रदे स्नात्वा सह देवैर्दिवं ययौ || १५४ || तं प्रयान्तं तदा दक्षो ब्रह्माणमिदमूचिवान् | कर्तव्यं किं मया देव मम तद्ब्रूहि पृच्छतः || १५५ ||

पितामह उवाच |

प्रसादय महेष्वासं शर्वमुग्रं कपर्दिनम् | ततो यज्ञसमाप्तिं च लोकांश्च प्राप्स्यसे ऽक्षयान् || १५६ || स एवमुक्तो देवेन ब्रह्मणा व्यास तत्त्वतः | लिङ्गं कनखले कृत्वा रुद्रमभ्यर्चयत्तदा || १५७ || तस्य संवत्सरशते पूर्णे दिव्ये प्रजापतेः | महादेवो ऽद्रिजां प्राह प्रहसन्गिरिमूर्धनि || १५८ || प्राचेतसात्मजो देवि स्थितस्तपसि संयतः | पश्यैनं मद्गतेनेशे चेतसा समवस्थितम् || १५९ || ततो दृष्ट्वा महादेवी वायुभक्षमवस्थितम् | लिङ्गं परमया भक्त्या पूजयन्तं महेश्वरम् || १६० || उवाच हृषिता देवी देवं सर्वसुरार्चितम् | कृताञ्जलिपुटा व्यास सर्वदेवपतिं पतिम् || १६१ ||

देव्युवाच |

क्षुद्रो ऽयं दुष्टचेताश्च स्तब्धो मानी च दुर्मतिः | दिष्ट्या त्वया विनिकृतस्त्वामेव शरणं गतः || १६२ || तदस्य दुष्टभावस्य प्रसन्नस्य महेश्वर | क्षन्तुमर्हसि भक्तस्य त्वामस्यार्थे प्रसादये || १६३ ||

देव उवाच |

त्वमेव देवि यच्छास्मै वरानिष्टान्यथासुखम् | अनुज्ञाता मया सुभ्रु त्वमेवास्य वरं दिश || १६४ ||

सनत्कुमार उवाच |

ततस्तौ देवदेवेशौ संगतौ सगणैर्वृतौ | ऊचतुः पश्य दक्षावां तुष्टौ दिव्येन चक्षुषा || १६५ || प्राचेतस महाभाग वरदौ स्व महातपः | शापशान्त्यर्थमेतत्ते वरं दद्मि तवेप्सितम् || १६६ || यस्ते यज्ञो गणैर्ध्वस्तः फलं तस्य त्वमाप्नुहि | कामरूपधरः श्रीमान्गणेशश्च भवस्व मे || १६७ || अक्षयश्चाव्ययश्चैव दुःखशोकविवर्जितः | भविष्यसि महाभाग मम चैव समीपगः || १६८ ||

देव्युवाच |

वृणुष्व भूयः किं चान्यत्प्रयच्छतु महेश्वरः | सुदुष्करमपि ह्येष वरं दद्यात्त्वयार्थितः || १६९ ||

सनत्कुमार उवाच |

एवमुक्तस्तदा दक्षो हिमवत्सुतया तया | प्राञ्जलिः प्रणतो भूत्वा इदमाह महाद्युतिः || १७० ||

दक्ष उवाच |

यो देवस्त्रिभुवनजन्मनाशकर्ता यं मूढा न विदुरनुक्तमेकमेव | भक्तानामशुभहरं पिनाकपाणिं तं देवं शरणगता वयं सभार्यम् || १७१ || यो ऽज्ञानादसुरतयातिमानमोहान्नास्माभिः सह खलु पूजितो ऽद्रिपुत्र्या | यः शापं मम रुषितो ददौ सुरेशस्तं देवं शरणगता वयं सभार्यम् || १७२ || यः स्रष्टा सुरगणयक्षराक्षसानां नागानां दितिसुतदानवेन्द्रनॄणाम् | भूतानां पशुमृगपक्षिपन्नगानां तं देवं शरणगता वयं सभार्यम् || १७३ || यः क्रोधान्महदसृजद्गणेश्वरेशं सिंहेन्द्रं हरिममितप्रभावरूपम्| पत्नीं चाप्यमितगुणप्रभावयुक्तां तं देवं शरणगता वयं सभार्यम् || १७४ || यो देवान्सहवरुणान्सवित्तगोपान्सब्रह्मान्सशतमखान्सविष्णुवायून् | इन्द्राग्र्यान्समुनिमहायुधान्विजिग्ये तं देवं शरणगता वयं सभार्यम् || १७५ || यत्किंचिन्मयि कलुषं कृतं च दुष्टं ह्यज्ञानादपि च हि रागदोषमोहात् | तत्सर्वं मम सह भार्ययाद्य शर्वो विश्वात्मा क्षमतु महानुभावभावात् || १७६ ||

सनत्कुमार उवाच |

तत एवं स देवेशं स्तुत्वा सास्राविलेक्षणः | प्रसार्य बाहू सर्वेण शरीरेणापतद्भुवि || १७७ || तं प्रपन्नं तदा देवो दक्षं सास्राविलेक्षणम् | सह देव्या महाभाग स्वयमुत्थापयद्बली || १७८ || तस्यास्रूण्यपतन्भूमौ बिन्दुभूतानि तत्र वै | तानि सम्प्रति विप्रेन्द्र नदी तु समपद्यत || १७९ || तामुवाच महादेवो नदीं वै पुण्यलक्षणाम् | अर्जुनादस्रुबिन्दोस्त्वं यस्मादेव विनिःसृता | तस्मात्ख्याता भवित्री त्वमर्जुना नामतः शुभा || १८० || पर्व पर्व समासाद्य वहिष्यसि महायशे | अश्वमेधफलं चापि त्वयि स्नातो ह्यवाप्स्यति || १८१ || मृतश्च तव तीरे ऽस्मिन्नियमेनेतरेण वा | न पुनर्जन्म मानुष्ये दुर्गतिं चोपलप्स्यते || १८२ || त्रिरात्रोपोषितो यश्च चरुं कृत्वा निवेद्य च | ब्राह्मणं भोजयेत्स्नातस्त्वयि सो ऽपि गमिष्यति | गवां लोकं महातेजा न च तस्मात्पतिष्यति || १८३ || एवं स सृष्ट्वा सरितं कृत्वा चैवाप्यनुग्रहम् | तमाश्वास्य सुरेशस्तु दक्षं प्राह नृपं तदा || १८४ || गतं तस्माद्भयं ते ऽस्तु गणेशो मे भव प्रियः | ब्रूहि किं ते पुनः साधो ददानि वरमीप्सितम् || १८५ ||

सनत्कुमार उवाच |

अथ दक्षस्तदोवाच प्रणम्य शुभया गिरा | भूयो भूयः समाश्वास्य निरीक्ष्य च पुनः पुनः || १८६ ||

दक्ष उवाच |

यदि तुष्टो ऽसि मे देव भवत्वत्र तवाव्यय | स्थानं पुण्यं पवित्रं च वर एषो ऽस्तु मे शिव || १८७ ||

देव उवाच |

एते च मुनिकन्ये द्वे तप आस्थाय दुष्करम् | कणैः संवत्सरे पूर्णे खलेन च यतो ऽशनम् | कृतवत्यौ महाभागे त्वं च दक्ष यतः स्थितः || १८८ || इदं कनखलं तस्मान्मम स्थानं भविष्यति | तीर्थं चैव महत्पुण्यं गङ्गासागरसंमितम् || १८९ || नात्र पापा न च शठा नास्तिका न च मानिनः | लप्स्यन्ते वै सदागन्तुं न च वस्तुं कथंचन | मृतो ऽत्र न पुनर्जन्म लप्स्यते मम तेजसा || १९० || अत्राभिगम्य स्नात्वा च चरुं कृत्वा तथैव व | सर्वपापविनिर्मुक्तः शक्रलोके महीयते || १९१ || ततो गणपतिं तत्र हरिभद्रमयोजयत् | कालीं चास्मै ददौ प्रीतो भार्यां सर्वगुणोदिताम् || १९२ || वरांश्च विपुलान्दिव्यान्द्वीपं चापि घृतोदकम् | बाहुजेभ्यश्च सुबहून्गणेभ्यः प्रददौ वरान् || १९३ ||

सनत्कुमार उवाच |

एवं स दक्षयज्ञो वै विध्वस्तो व्यास शम्भुना | यज्ञस्य च शिरश्छिन्नं यथैतत्कथितं तव || १९४ ||

व्यास उवाच |

सा देवीमुखजा दिव्या घोरा देवभयंकरी | क्व वा गता कथं वापि ह्येतदिच्छामि वेदितुम् || १९५ ||

सनत्कुमार उवाच |

स्तुता यदा भगवती प्रणतैः सुरसत्तमैः | तदास्यजाम्बिकां प्राह ब्रूहि किं करवाण्यहम् || १९६ || ततो ब्रह्मा महादेवीं प्रणम्य बहुमानतः | उवाच दुहितृत्वे मे भवत्वेषा सुरेश्वरि || १९७ || एवमस्त्वित्युमा प्रोच्य तां देवीं प्रददौ सुताम् | मृत्युस्त्वमिति सो ऽप्युक्त्वा घोरे कर्मण्ययोजयत् | सर्वप्राणभृतां देवीं प्राणापहरणे शुभाम् || १९८ || सापि तत्कार्यकरणे नियुक्ता ब्रह्मणा स्वयम् | † उद्ववाह सदेवेशा सदोद्युक्ता त्वया मया† || १९९ || - - - - - - - - - - - - - - - - | - - - - - - - - - - - - - - - - || २०० || य इमं दक्षयज्ञस्य विध्वंसनमनुत्तमम् | भद्रेश्वरप्रतिष्ठां च दक्षानुग्रहमेव च || २०१ || पठेत शृणुयाद्वापि श्रावयीत द्विजानपि | सर्वपापविनिर्मुक्तः स्वर्गलोके महीयते || २०२ || भगनयननिपातं दक्षयज्ञे दवाग्निं मदनपुरहुताशं चन्द्रलेखोज्ज्वलाङ्गम् | सुरगुरुमुखकालं सप्तलोकाधिपालं शरणमुपगतो ऽहं शंकरं शर्महेतोः || २०३ || इति स्कन्दपुराणे द्वात्रिंशो ऽध्यायः ||

सनत्कुमार उवाच |

यथा तु वृषभो देवमवहन्मुनिपुङ्गव | तत्ते ऽहं संप्रवक्ष्यामि नमस्कृत्वा वृषध्वजम् || १ || पूर्वमेव महासत्त्वो धर्मो यज्ञसहायवान् | तताप विपुलं व्यास तपः परमदुश्चरम् || २ || हिमवन्तं गिरिं प्राप्य वाय्वाहारौ बभूवतुः | वर्षाणां तु सहस्राणि दश द्वादश चैव हि | मानुषाणि ततो भूयः शाकाहारौ बभूवतुः || ३ || ततश्चिरात्तयोर्देवो गणैः सह महाद्युतिः | सर्वैः समानरूपैस्तैर्दर्शनं प्रददौ हरः || ४ || तांस्तौ महेश्वरान्दृष्ट्वा बहून्वै सदृशप्रभान् | परस्परममन्येतां को न्वेषामीश्वरो भवेत् || ५ || तौ तदा वीक्ष्य संमन्त्र्य स्मृत्वा चैव पुनः पुनः | मध्ये महेश्वरं तेषां मेनाते तेजसां निधिम् || ६ || तौ तं मध्ये भवं देवं प्रणम्य बहुमानतः | शिरसोरञ्जलिं कृत्वा तुष्टुवाते ऽमितौजसौ || ७ || नमस्त्रैलोक्यनाथाय दिग्वासायामृतात्मने | चतुष्पथनिवासाय चतुष्पथरताय च || ८ || चतुर्व्यूहाय देवाय त्रिनेत्राय भवाय च | चतुर्मुखाय शुद्धाय जलान्तरविचारिणे || ९ || इन्द्रानुग्रहकर्त्रे च ब्रह्मानुग्रहकारिणे | ऊर्ध्वलिङ्गाय देवाय मदनायामदाय च || १० || नमो हिरण्यवर्णाय सूर्याक्षाय तथैव च | नमः पवित्रकेशाय दीर्घजिह्वाय चैव हि || ११ || नमस्ते नैकपादाय एकाक्षाय नमो नमः | नमः सहस्रघण्टाय सहस्राक्षाय वै नमः || १२ || नमः पिनाकिने चैव ध्वजिने च नमो नमः | नमः सहस्रशीर्षाय संवर्ताय नमो नमः || १३ || नमः स्तव्याय वै नित्यं शत्रुघ्नाय नमो नमः | नमो भवाय भव्याय भावनाय नमो नमः || १४ || नमो वराय वै नित्यं वरदाय तथैव च | गोकर्णाय नमो नित्यमैश्वर्यपतये नमः || १५ || नमो ऽस्तु विष्वक्सेनाय प्रभासाय नमस्तथा | नमो ऽस्तु ते ऽन्नदायैव प्राणदाय नमो ऽस्तु ते || १६ || नमः प्रवर्तकायैव पद्ममालाय वै नमः | नमो महारवायैव भैरवाय नमो नमः || १७ || नमश्चतुर्मुखायैव महादेवाय वै नमः | नमो ऽस्तु ब्रह्मणे चैव ध्रुवायैवाचलाय च || १८ || नमो ऽस्तु नारीरूपाय सुभगाय नमो नमः | मध्यमाय नमस्ते ऽस्तु नमस्ते सर्वतस्तथा || १९ || नमो ऽनुमन्ता मन्ता त्वं सर्वभूतप्रवर्तकः | आवयोरीप्सितान्कामान्विधत्स्व भुवनेश्वर || २० ||

सनत्कुमार उवाच |

यो ऽनेन स्तौति वै नित्यं नियमेन समन्वितः | सर्वकामैः स संपन्नो यथेष्टां गतिमाप्नुयात् || २१ ||

सनत्कुमार उवाच |

अथ देवस्तु तान्सर्वाननयत्प्रकृतिं गणान् | नन्दिनं चैव देवीं च स्वयं चात्मानमच्युतम् | उवाच चैतौ तुष्टो ऽस्मि गृह्यतामीप्सितो वरः || २२ ||

देवावूचतुः |

यदि तुष्टो ऽसि देवेश यदि देयो वरश्च नौ | जात्यन्तरगतौ नित्यं वहेव त्वां सुरेश्वर || २३ || इदं च गुह्यं स्थानं नौ तपसातीव भावितम् | तव चैव प्रसादेन भवेत्पुण्यं सुरेश्वर || २४ ||

देव उवाच |

इदं मे परमं गुह्यं भवितृ स्थानमुत्तमम् | पञ्चेषुक्षेपमात्रं वै मृतो ऽत्र गणपो भवेत् || २५ || यस्मान्मध्ये भवो ऽस्मीति युवयोरर्चितः स्थितः | तस्मान्नाम्ना तु विख्यातमिदं भवतु मध्यमम् || २६ || युवां जात्यन्तरं प्राप्य पूजितौ बलवत्तरौ | वाहनत्वं समासाद्य लोकान्संधारयिष्यथः || २७ ||

सनत्कुमार उवाच |

तत एवं तदा देवस्तावुक्त्वा देवसत्तमौ | जगाम गणपैः सार्धं मन्दरं हेमकन्दरम् || २८ || गते ऽथ देवे सगणे कालेन बहुना ततः | मन्वन्तरे ऽस्मिन्सुरभी रुद्रमाराधयच्छुभा || २९ || तया वर्षसहस्रेण तपसा तोषितो भवः | जगाम दर्शनं व्यास वरदो ऽस्मीति चाब्रवीत् || ३० || सा वव्रे पुत्रमतुलं सर्वप्राणभृतां वरम् | पुत्रांश्चान्यान्महासत्त्वान्याज्ञियान्सुरसत्तमान् || ३१ || तथा दुहितरश्चान्या जगद्धात्र्यः सुशोभनाः | ततः सर्वं ददौ देवो ह्यदृश्यत्वं जगाम च || ३२ || तस्मिन्गते महादेवे सुरभी दीप्ततेजसम् | सर्वभूताग्रजं पुत्रं वृषभं समसूयत || ३३ || एकादश तथा रुद्रान्वृषभस्यानुजाञ्छुभान् | सप्त कन्याश्च ता गावो जगद्धात्र्यः प्रसूयत || ३४ || वृषभः स तु संगत्य नित्यं प्रातः कृताह्निकः | पितरं मातरं चैव तथैव च पितामहम् | अभिवाद्य ययौ शुभ्रश्चतुर्दिग्गजसेवितम् || ३५ || वनं सिद्धगणावासं यत्र सा ह्यमृतोद्भवा | दूर्वामृतरसा दिव्या छिन्नदग्धप्ररोहिणी || ३६ || स कदाचिद्वने तस्मिंश्चरंस्तप्तस्तृषार्दितः | जगाम सागरं पातुं वृषराट् सुरभीसुतः || ३७ || सो ऽवगाह्य महाग्रासः सागरस्य तदा महत् | मध्यं व्यादाय वदनं सझषं सतिमिंगिलम् | अपिबत्सागरजलं न च तृप्तिमुपागमत् || ३८ || तस्मिन्पीयति दैत्येन्द्राः संनद्धाः सासिमार्गणाः | सधनुष्पाणयः सर्वे सहस्राणि चतुर्दश || ३९ || निष्पेतुः शक्रसंकाशा यमकालानलोपमाः | मयपुत्रा महासत्त्वा वृषभं प्रति वेगिताः || ४० || तांस्तथा रुषितान्दैत्यान्सासिमुद्गरतोमरान् | सहैव सागराम्भोभिरपिबत्स महाबलः || ४१ || तान्पीतान्पीयमानांश्च दृष्ट्वा ह्यर्णववासिनः | वित्रेसुः सहसा सर्वे विनेदुश्चापि दुःखिताः || ४२ || ततः समुद्रो भगवान्पीयमानः सुदुःखितः | वडवामुखमागत्य संवर्तं शरणं ययौ || ४३ || स चानलः सुसंरब्धो दत्त्वा तस्मै महाबलः | अभयं वृषमागत्य प्रोवाचेदं कृताञ्जलिः || ४४ ||

संवर्त उवाच |

सर्वभूतशरण्यो ऽयं दैत्यानां चालयः शुभः | नैनं हीनं भवानद्भिः कर्तुमर्हसि वीर्यवान् || ४५ ||

वृष उवाच |

न मे मतिरभूदग्ने निःशेषं कर्तुमम्बुधिम् | भवांस्त्वस्य यतो मन्ता करिष्ये ऽहं ततो ऽद्य वै || ४६ || यस्ते दर्पश्च गर्वश्च यद्बलं यच्च पौरुषम् | तन्मे दर्शय हव्येश पिबाम्येनं तवाग्रतः || ४७ || एवमुक्त्वा वृषेन्द्रस्तु वडवामुखवासिनम् | संरब्धः सागरं पातुं निःशेषमुपचक्रमे || ४८ ||

अनल उवाच |

न मे त्वं प्रतिमः शत्रुर्न च वैरं त्वया हि मे | यत्तु कृत्यं समारब्धस्तत्करिष्ये तथा ह्यहम् || ४९ || न त्वं पास्यसि रक्षिष्ये सागरं मम संनिधौ | अहं त्वां वारयिष्यामि सुरभीसुत कत्थन || ५० ||

सनत्कुमार उवाच |

ततस्तं भगवान्वह्निरुपसृत्य महाद्युतिः | गले जग्राह बलवान्न चचाल ततः स च || ५१ || यत्पीतं छर्दयामास तत्तोयं दानवैर्विना | औदरेणाग्निना तस्य ते दग्धाः सर्व एव हि || ५२ ||

सनत्कुमार उवाच |

ततः संवर्तको वह्निर्निगृहीतं ककुद्मिनम् | विसृज्योवाच गच्छेति न त्वां हन्मि वृषेश्वर || ५३ || शक्तस्तवाहं दहने ह्यशक्तो मे भवान्वधे | तथाप्यहं न गर्जामि गर्जितैः किं बलीयसाम् || ५४ ||

सनत्कुमार उवाच |

विसृज्य वृषभं वह्निराशु यातः स्वमालयम् | वृषभो ऽपि जगामैव दुःखशोकाभिसंवृतः || ५५ || सो ऽवमानेन तेजस्वी महोक्षः सुरभीसुतः | दुःखेन चातिसन्नात्मा जगामैवं विचिन्तयन् || ५६ || अबलो ऽहं बली वह्निर्येनास्मि निकृतस्तथा | जीवितेशेन भूत्वा च नाहं प्राणैर्वियोजितः || ५७ || मोघं मम बलं सर्वं तथा चैवाभिगर्जितम् | शरज्जलधरस्येव विहीनस्याद्भिरम्बरे || ५८ || अद्य प्राणानहं त्यक्ष्ये नियतो व्रतमास्थितः | यथा न पुनरेवं मे मानभङ्गो भविष्यति || ५९ || शत्रूणां निगृहीतस्य दुर्बलस्य दुरात्मनाम् | जीवितान्मरणं मन्ये विशिष्टं जीवितेन किम् || ६० || स एवं चिन्तयन्नुक्षा वाचं शुश्राव खाच्छुभाम् | सौरभेय न भेतव्यं यद्ब्रवीमि कुरुष्व तत् || ६१ || रुद्रं सर्वसुरेशानं सर्वेभ्यो बलवत्तरम् | तं प्रपद्यस्व देवेशं ततो जेष्यसि पावकम् || ६२ || स स्रष्टा सर्वभूतानां ब्रह्मादीनां न संशयः | स ते दुःखमिदं सर्वं व्यपनेष्यति गोवृष || ६३ ||

सनत्कुमार उवाच |

एतच्छ्रुत्वा महातेजाः साध्यस्य सुमहात्मनः | हिमवन्तं गिरिं प्राप्य तताप विपुलं तपः || ६४ || तस्य वर्षसहस्रेण तत्परस्य तदाशिषः | भगवान्सर्वभूतेशः साम्बः सगण ऊचिवान् || ६५ ||

देव उवाच |

सौरभेय महाभाग तुष्टो ऽस्मि तव पुत्रक | इष्टान्ब्रूहि वरान्वत्स दास्ये तान्सुबहूनपि || ६६ ||

सनत्कुमार उवाच |

ततः स देवं संदृश्य साम्बं सगणमीश्वरम् | प्रणम्य शिरसा पादौ प्राञ्जलिः सुसमाहितः || ६७ || भूयो भूयो निरीक्ष्यैनं प्रणम्य च पुनः पुनः | उवाच तपसो ऽक्षय्यमिच्छेयं वै जगत्पते || ६८ || बलं चानुत्तमं देव योगैश्वर्यं तथाक्षयम् | त्वदीयो वाहनश्चाहमग्निनैवं विमानितः || ६९ || संवर्तकानलं चैव वडवामुखवासिनम् | द्रष्टुमिच्छामि देवेश निगृहीतं त्वयाव्यय || ७० ||

सनत्कुमार उवाच |

एवमुक्तस्तु तान्दत्त्वा वरान्सत्यवतीसुत | वामपार्श्वं तदामृज्य रुद्रमेकं ससर्ज ह || ७१ || किरीटमालिनं त्र्यक्षं कुण्डलाङ्गदभूषणम् | महोरस्कं कवचिनं धनुर्हस्तं महाबलम् | बद्धगोधाङ्गुलित्रं च खड्गदिव्यास्त्रधारिणम् || ७२ || तमाह रुद्रो गच्छेति वडवामुखवासिनम् | संवर्तकानलं बद्ध्वा विस्फुरन्तमिहानय || ७३ || वन्दित्वा चरणौ तस्य सोमस्य गणनायकः | जगाम सागरं वेगाद्ददर्श च हुताशनम् || ७४ || स युद्धं बलवान्कृत्वा सुघोरं रोमहर्षणम् | संवर्तकानलं बद्ध्वा देवपार्श्वमुपानयत् || ७५ ||

व्यास उवाच |

कीदृक्तद्युद्धमभवत्किरीटेः पावकस्य च | एतदिच्छामि विज्ञातुं वद त्वं वदतां वर || ७६ ||

सनत्कुमार उवाच |

स गत्वा गणपः क्रुद्धः संवर्तकमथानलम् | उवाच क्रोधरक्ताक्षस्तदा वचनमर्थवत् || ७७ || स्वामी सर्वस्य जगतो देवश्चन्द्रार्धभूषणः | आज्ञापयति वह्ने त्वं वृषमेवं प्रसादय || ७८ || प्रणतो ऽस्मीति तं ब्रूहि वृषभं ससुहृज्जनः | निदेशे तिष्ठ चैवास्य यत्कर्तव्यं च तत्कुरु || ७९ || एवमुक्तो ऽनलः श्रुत्वा देवदेवस्य तद्वचः | उवाच नातिसंहृष्ट इदं वचनमर्थवत् || ८० || नियोज्यो देवदेवस्य तस्यैवाहं सहानुगः | न च मां स नियुक्त्वेह योक्ष्यते ऽन्यत्र कर्हिचित् || ८१ || गच्छ मद्वचनाद्ब्रूहि भगवन्तं त्रिलोचनम् | यदि मां वक्ष्यति पुनः करिष्ये ऽहं ततस्तथा || ८२ ||

गणेश्वर उवाच |

बालिशा बत ये ऽप्राज्ञा बलज्ञानबहिष्कृताः | त एवमुक्ता गच्छन्ति यथा मां त्वं प्रभाषसे || ८३ || सकृदाज्ञा बलवतां सकृत्प्रभवतामपि| दूतश्चापि स वै श्रेष्ठो यो भवेदर्थसाधकः || ८४ || सो ऽहं बलवता तेन लोककर्त्रा पिनाकिना | दूतः सर्वार्थसिद्ध्यर्थं प्रहितो बलवानिह || ८५ || न चेद्वचो मे कर्तासि बद्ध्वा त्वाहं ततो ऽद्य वै | विस्फुरन्तं महापाशैर्नेष्यामि द्युभृतो ऽन्तिकम् || ८६ ||

सनत्कुमार उवाच |

स एवमुक्तस्तेजस्वी क्रोधदीप्तानलेक्षणः | गणपं प्रति दुद्राव तिष्ठ तिष्ठेति चाब्रवीत् || ८७ || तमापतन्तं वेगेन पर्जन्यास्त्रेण सो बली | ताडयामास बलवान्स प्रजज्वाल वेगवान् || ८८ || ज्वलन्तं तं तदाभ्यासमागतं क्रोधमूर्छितम् | अशन्यस्त्रेण महता स जघान स्तनान्तरे || ८९ || अभ्याहतस्ततो ऽस्त्रेण तेजोवानपि मूर्छितः | तस्थौ मुहूर्तं संविग्नो विधूमो दहनेश्वरः || ९० || ततस्तं रुद्रपाशेन बबन्ध करयोस्तदा | विस्फुरन्तं महावह्निं गणपः क्रोधमूर्छितः || ९१ || तं बद्धं पाशवर्येण पतितं वीक्ष्य चैव हि | तस्य पुत्रसुहृद्वर्गा विविधायुधपाणयः | दुद्रुवुर्गणपं क्रुद्धाः शतशो ऽथ सहस्रशः || ९२ || तानप्यसौ विनिर्जित्य गणपस्तं हुताशनम् | उपनिन्ये हरायाशु पशुं मेध्यमिवाध्वरे || ९३ || तमानीतं महादेवः संप्रेक्ष्यार्णवभोजनम् | उवाच वृषभं ब्रूहि किमस्य क्रियतामिति || ९४ || स तं कृपणमालक्ष्य महोक्षा दीनचेतसम् | प्रणम्य शिरसा पादाविदमाह कृताञ्जलिः || ९५ || भगवन्देवदेवेश सर्वलोकमहेश्वर | दृष्टमेतत्तव विभो माहात्म्यं सदसत्पते || ९६ || दीनो ऽयं कृपणश्चापि ह्यबलश्च महाबल | विसृज्यतां सुरश्रेष्ठ हत एष न संशयः || ९७ || पुत्रा ह्यस्य हताः सर्वे सुहृदश्चैव सर्वशः | दीनस्यास्य न मे देव वध इष्टो विमुच्यताम् || ९८ || एतद्वचो महेशो वै वृषभस्याभिभाषितम् | श्रुत्वा तुष्टः प्रहस्यैनं दहनं व्यसृजत्तदा || ९९ || रुद्रं तं च जराशोकजन्ममृत्युविवर्जितम् | गणेश्वरपतिं कृत्वा द्वीपमस्मै ददत्प्रभुः | मनोरमणमित्येव नाम्ना ख्यातं महर्द्धिमत् || १०० || दिव्यं कामगमं व्यास भवनैरुपशोभितम् | जाम्बूनदमयैः शुभ्रैः सर्वकामसमन्वितैः || १०१ || तस्मिन्काले तदा देवाः सर्वे ब्रह्मपुरःसराः | देवदेवं समागम्य वाक्यमूचुर्यथार्थवत् || १०२ || भगवन्देवतारिघ्न वृषो ऽयं देवसत्तम | त्वया ह्यध्यासितः पूर्वं नादेनापूरयद्बली | त्रैलोक्यमखिलं दर्पादस्वस्थं कृतवान्प्रभो || १०३ || वेगेन च दिशः सर्वा विमानैः सह भूतप | भ्रामयन्विवशं नादाद्गगने संचचार ह || १०४ || अधुना वरलब्धश्च अस्मान्भूयस्तथैव ह | यथा न कुरुते देव उपायः संविधीयताम् || १०५ || त्वं नो गतिश्च देवेश शरणं चैव भूतप | सदा भयाभिभूतानां त्वं त्राता सर्वशः प्रभो || १०६ ||

देव उवाच |

यथा भयं न भवति यथा स्वस्थाश्च नित्यशः | लोका भवन्ति सर्वे वै तथा हि विदधामि वः || १०७ || ततः स भगवान्व्यास देवदेवो महाद्युतिः | असृजद्वरदानार्थं गणेशं चारुकुण्डलम् || १०८ || आ कर्णाद्दारितास्यं च महाकायं महाबलम् | महापरिघबाहुं च वज्रसंहननं दृढम् || १०९ || महादंष्ट्रं महोरस्कं महाखड्गधनुर्धरम् | दीप्ताङ्गारकनेत्रं च त्रिनेत्रं कवचोज्ज्वलम् || ११० || बिभ्रन्तमक्षयौ ऽत्यर्थमिषुधी चर्मवाससम् | शरमेकेन हस्तेन धनुरेकेन चोद्वहन् || १११ || ग्रहनक्षत्रचित्रेण तडित्सूर्यवता तथा | उत्तरीयेण वियता भास्वन्तं मेरुकूटवत् || ११२ || प्रभाकरेति सुव्यक्तमामन्त्र्य भगवानिदम् | अब्रवीत्सर्वदेवानां समक्षं तं प्रभाकरम् || ११३ || प्रभाकर मयाज्ञाप्तस्त्वं देवानां गुणाकर | परमैश्वर्यसंयुक्तो वृषवेगं निवारय || ११४ || निवासार्थं च दिव्यं तमिन्द्रद्वीपं ददामि ते | ज्योत्स्ना भवित्री पत्नी ते तथा चैवाजरामरः | भविष्यसि मयाज्ञाप्तो महागणपतिर्मम || ११५ ||

सनत्कुमार उवाच |

ततस्तं देवताः सर्वाः प्रणम्य ब्रह्मणा सह | जग्मुः स्वानि क्षयानि स्म देवो ऽपि वृषवान्बभौ || ११६ || मुखतो ऽर्धं वृषो धर्मो जघनं यज्ञ उच्यते | चक्षुषी चन्द्रसूर्यौ च ब्रह्मा मूर्धानमाश्रितः || ११७ || जिह्वायां तस्य वरुणो वायुरन्तश्चरः स्वयम् | पादा विष्णुर्भगश्चैव पूषा शक्रश्च संस्थिताः || ११८ || जङ्घाः शेषास्तथादित्या ऊरूंश्चैव समाश्रिताः | रुद्राः कर्णौ च नासां च ग्रीवोष्ठौ हनुमेव च || ११९ || आयुधानि खुरास्तस्य चक्रवज्रे च शृङ्गयोः | अपाने च स्वयं मित्रः पुच्छं छन्दांसि सर्वशः || १२० || अस्थीनि पर्वताः सर्वे पुरीषं श्रीरभूच्छुभा | मूत्रं चास्याभवद्दिव्यममृतं व्यास पावनम् || १२१ || रोमाणि ऋषयः सर्वे नक्षत्राणि च सर्वशः | ग्रहास्तस्याभवन्व्यास सन्धयः शुभदर्शनाः || १२२ || इष्टयो वेदयज्ञाश्च मन्त्राः स्तोत्राः फलानि च | अभवंस्तस्य मांसानि रुधिरं सरिदर्णवाः || १२३ || सप्तलोकं मुखं ह्यासीत्तस्याप्रतिमतेजसः | दन्ता मरीचयश्चैव मज्जा औषध्य एव च || १२४ || अन्त्रभूताश्च पशवः सकृत्स्नायुश्च वीरुधः | वल्ल्यो ऽथ वृक्षगुल्माश्च तथैवान्ये नगाः शुभाः || १२५ || नागास्तस्याभवन्नाड्यो वसवः शुक्रसंचयः | आमपक्वाशयौ तस्य तौ देवावश्विनौ स्मृतौ | मेघास्तस्याभवंस्त्वक्च तडिन्मालाविभूषिताः || १२६ || पिशाचा राक्षसा यक्षा गन्धर्वाप्सरसस्तथा | शिरा धमन्यो ऽथ मदो दर्पश्चैवाभिजज्ञिरे || १२७ || मानुषा मातरश्चैव भूतानि विविधानि च | रोमकूपाणि तस्यासन्वृषस्य सुमहात्मनः || १२८ || एवं स भगवान्देवः परमैश्वर्यसंयुतः | सौरभेयो महादेवः सर्वदेवमयो ऽभवत् || १२९ || य इमं सौरभेयस्य जन्म कर्म च तत्त्वतः | माहात्म्यमखिलं चैव शृणुयाद्वा पठेत वा || १३० || नित्यं शुचिरदीनात्मा सर्वपापैः प्रमुच्यते | मृतश्च काले काले वा रुद्रलोकमवाप्नुयात् || १३१ || नेदं शठाय दातव्यं श्राव्यं वापि कथंचन | न नास्तिकाय दुष्टाय तथा वा पापकर्मिणे || १३२ || इदं पुत्राय शिष्याय धार्मिकाय महात्मने | देयं श्राव्यं च शुचये गुह्यमेतत्सनातनम् || १३३ || यो लोकदेवप्रभवेन तेन सर्वार्थसिद्धेन महाबलेन | यात्यम्बुदाम्भोनिधिगर्जितेन स वो ऽस्तु नित्यं सुमना महेशः || १३४ || इति स्कन्दपुराणे त्रयस्त्रिंशो ऽध्यायः ||

सनत्कुमार उवाच |

एवं स भगवान्व्यास मेघमुत्सृज्य देवपः | वृषवाहः समभवद्यथा ते कथितं मया || १ ||

व्यास उवाच |

कथं भगवती देवी कृष्णा गौरत्वमागता | कारणं तत्र किं चापि एतदिच्छामि वेदितुम् || २ ||

सनत्कुमार उवाच |

आसीनौ मन्दरप्रस्थे उमाकामाङ्गनाशनौ | रेमतुः प्रमथैः सार्धं नानारूपधरैस्तदा || ३ || अथ देवेन तत्रस्था क्रीडता सा कथान्तरे | कृष्णेत्युक्ता भगवती सा चुकोप मनस्विनी || ४ || कुपितां तां महादेवः परिष्वज्य महाद्युतिः | उवाचासकृदव्यग्रः सान्त्वयन्मधुरं वचः || ५ ||

देव उवाच |

देवि मा क्रोधमनघे कृथा विश्वसृगव्यये | हास्यं प्रकृतमेतन्मे कृष्णेति समुदाहृतम् || ६ || अद्यप्रभृति नानेन वचसाहं शुभानने | वक्ष्यामि त्वां त्यज क्रोधं तामुवाच पिनाकधृक् || ७ ||

सनत्कुमार उवाच |

तमेवंवादिनं देवं श्रुत्वा गिरिवरात्मजा | अगमत्परमां तुष्टिमिदं चोवाच सुस्वरम् || ८ ||

देव्युवाच |

त्वं गुरुः सर्वलोकस्य पूज्यो भर्ता ममैव च | - - - - - - - - - - - - - - - - || ९ || इति तेनेष्टवचसा तुष्टो देव्याः पिनाकधृक् | वरेण च्छन्दयामास तयैषो ऽभ्यर्थितो वरः || १० || यदा यदा वदसि मां कृष्णेति वदतां वर | तदा तदा मे हृदयं विदीर्यत इव प्रभो || ११ || एतदर्थमहं पादौ प्रणम्य तव शंकर | विज्ञापयामि सर्वेश गौरवर्णमनुत्तमम् | विज्ञापयामि पुत्रश्च यथा मम भवेदिति || १२ || यदि तुष्टो ऽसि मे देव यदि देयो वरश्च मे | तपश्चरितुमिच्छामि तदनुज्ञातुमर्हसि || १३ || ततो हरः प्रहस्यैनामुवाच तपसा हि किम् | तपसा काङ्क्षितं यत्ते तदद्यैव ददानि ते || १४ || इत्युक्ता गिरिजा प्राह तप्ते तपसि पुष्कले | त्वमेव दाता भगवन्वरान्मह्यं यथेप्सितान् || १५ || तदा विज्ञापितेनैवं सर्वकार्यार्थदर्शिना | अनुज्ञाता सती भक्त्या चकार त्रिः प्रदक्षिणम् || १६ || चरणौ च नमस्कृत्य शिरसामिततेजसः | प्रस्थिता वियदुत्पत्य गिरिं गिरिवरात्मजा || १७ || सा क्षणादागता देवी हिमवन्तं नगोत्तमम् | ददर्श ऋषिमुख्यानामाश्रमैरुपशोभितम् || १८ || सरो मानसमासाद्य तथा बिन्दुसरश्च तत् | दिव्यां पाण्डुशिलां चैव गङ्गाप्रभवमेव च || १९ || ततो महालयं प्राप्य देवदारुवनं तथा | अन्यानि च ततो ऽग्र्याणि वनान्यासाद्य सा सती || २० || तस्योत्तरेण शैलस्य गत्वा सातिमनोहरम् | अपश्यच्छिखरं दिव्यमेकमेकान्तमाश्रितम् | चामीकरमयं दिव्यं सर्वौषधिसमन्वितम् || २१ || इन्द्रनीलमहानीलनीलोपलतलैः शुभैः | वृक्षैर्मणिमयैश्चित्रैः सर्वतः परिसंवृतम् || २२ || क्वचिन्मनःशिलाशृङ्गं हरितालोपलं क्वचित् | क्वचिदञ्जनपुञ्जाभं स्फटिकोपलमेव च | क्वचिद्धेमोपलं दिव्यं क्वचिच्चित्रोपलं पुनः || २३ || सालतालतमालैश्च प्रियालाम्रातकैस्तथा | अशोकैश्चम्पकैर्लोध्रैः कदम्बाम्रातिमुक्तकैः || २४ || नागपुन्नागतिलकैः सुरभीचन्दनैरपि | धातकीकेतकीभिश्च तथैवोद्दालकैरपि || २५ || कदलीभिश्च चित्राभिः खर्जूरैः पनसैरपि | बकुलैर्नालिकेरैश्च पद्मषण्डैश्च शोभितम् || २६ || कपित्थैः खदिरैश्चैव भव्यैः पारावतैरपि | मृद्वीकामण्डपैश्चैव तथाङ्कोठैः समावृतम् || २७ || सदापुष्पफलोपेतैश्चारुचामीकरप्रभैः | तथा प्रस्रवणैश्चैव नदीभिश्चोपशोभितम् || २८ || पक्षिभिर्मधुरालापैः समन्ताच्चाभिनादितम् | मयूरचातकोपेतं हंसचक्राह्वसंकुलम् | सारसैः खञ्जरीटैश्च हारीतैश्चाभिनादितम् || २९ || जीवंजीवसमाकीर्णं महिषर्क्षसमाकुलम् | सिंहशार्दूलचरितं शरभेभसमाकुलम् || ३० || मेरुमन्दरसंकाशं सर्वपुष्पफलप्रदम् | रम्यं स्वर्गमिवागम्यं पापानां क्रूरकर्मिणाम् | श्रियाः स्वलंकृतावासमुद्यानमिव सत्कृतम् || ३१ || तत्र केचिन्मधुफला वृक्षाः सर्वत्र कामदाः | अपरे क्षीरिणो नाम वृक्षास्तत्र मनोरमाः || ३२ || अपरे सर्वपुष्पाणि फलानि च महीरुहाः | पुष्पन्ते च फलन्ते च काञ्चनाश्चापरे द्रुमाः || ३३ || फलन्ति भक्ष्याण्यपरे भोजनानि च सर्वदा | मानुषाण्यथ दिव्यानि षड्रसानि महाद्रुमाः || ३४ || वस्त्राण्यन्ये प्रसूयन्ते फलेष्वाभरणानि च | तथा बहुविधा अन्ये शय्याः स्वास्तरणा द्रुमाः || ३५ || अमाक्षिकं मध्वपरे अमृतप्रतिमं नगाः | भोगांश्च विविधानन्ये तथैवाभरणानि च | अन्ये स्त्रीः संप्रसूयन्ते मनुष्यांश्च तथापरे || ३६ || सर्वा मणिमयी भूमिर्दिव्ये तस्मिञ्छिलोच्चये | सुगन्धः पवनो वाति नात्यर्थं चोष्णशीतलः || ३७ || यावदेव महादेवी तं गिरिं नाभ्यगच्छत | प्रीत्यर्थं तावदेवासौ देव्या रुद्रेण निर्मितः || ३८ || तस्यैव च प्रसादेन नासौ गम्यः शिलोच्चयः | सर्वदेवनिकायानां भूतानां चैव सर्वशः || ३९ || तस्मिन्गिरिवरे देवी तपस्तेपे सुदुश्चरम् | वार्क्षे दधाना रुचिरे वाससी धर्मसाधने || ४० || कदाचित्सा फलाहारा कदाचित्पर्णभोजना | कदाचिदम्बुभक्षाभूत्कदाचिदनिलाशना || ४१ || कदाचिदेकपादेन सूर्यस्याभिमुखी स्थिता | निगृहीतेन्द्रियग्रामा सा बभूव वरानना || ४२ || महादेवनमस्कारा महादेवपरायणा | महादेवप्रिया देवी पुत्रार्थं च वरार्थिनी || ४३ || अजैकपादं रुद्रं च दिण्डिमुण्डेश्वरं तथा | कापालिनं भारभूतिमषाढिं चैव सानुगम् | निकुम्भं शतमन्युं च भूतमोहनमेव च || ४४ || कालदण्डधरं चैव मृत्युदण्डधरं तथा | ब्रह्मदण्डधरं चैव घोरचक्रधरं तथा || ४५ || एतान्गुह्यान्गणाध्यक्षानदृश्यान्सर्वतोमुखान् | प्रागेव तस्या रक्षार्थं महादेवो नियुक्तवान् || ४६ || उपरिष्टादधस्ताच्च तं गिरिं ते गणेश्वराः | अदृश्याः सर्वतश्चैव ररक्षुरमितौजसः || ४७ || न तस्य गिरिशृङ्गस्य रक्षमाणस्य तैस्तदा | देवदानवगन्धर्वाः शेकुर्गन्तुमुपान्तिकम् || ४८ || प्रागेव स्थापितवती यानि चारुशिलातले | भूषणानि नदी तेभ्यो जज्ञे पुण्यजलाश्रया || ४९ || तामलंकारधारेति विश्रुतां पापनाशनीम् | अद्यापि पश्यन्ति जनाः सर्वकालजलां शुभाम् || ५० || यस्मिन्नेव दिने देवी सा तथातिष्ठदद्रिजा | तस्मिन्नेव दिने व्यास शार्दूलो ऽपि जगाम ताम् || ५१ || महाकायमुखो भीमः पिङ्गलानललोचनः | नखदंष्ट्रायुधो भीमस्त्रासनः सर्वदेहिनाम् || ५२ || गुहामुखाद्विनिःसृत्य व्यजृम्भत महाबलः | जृम्भतस्तस्य वदनान्निष्पेतुरनलार्चिषः || ५३ || ततः स देवीमालोक्य भक्षार्थमुपचक्रमे | तपसा स्तम्भितस्तस्या एतदेवान्वचिन्तयत् || ५४ || नार्येषा दृष्टपूर्वा मे शर्वपार्श्वे सुशोभना | यादृशं तपसश्चास्या वीर्यं मन्ये न मानुषी || ५५ || अथवा नित्यमेवासौ महेश्वरमनुव्रता | मन्दरे सह देवेन रमते हिमवत्सुता || ५६ || तपसा किं तदा वास्या यस्या भर्ता पिनाकधृक् | तद्रूपिणीयं काप्यन्या तपोनियममास्थिता || ५७ || महता तेजसा युक्ता नेयं शक्या मया शुभा | हन्तुं भक्षार्थमद्येह ययाहं स्तम्भितः स्थितः || ५८ || तस्मादेनामुपासिष्ये यावत्कालस्य पर्ययः | स्वयमेतां मृतां पश्चाद्यथेष्टमबलामहम् | भक्षयिष्ये बुभुक्षार्तो मुनिः फलमिवाश्रमे || ५९ || विचिन्त्यैवं स शार्दूलो देव्यादूरे समास्थितः | स्तब्धदृक्कर्णलाङ्गूल उपविष्टो निरीक्ष्य ताम् || ६० || सापि देव्यूर्ध्वदृष्टिं तं दृष्ट्वा स्थितमसङ्गिनम् | अनुग्रहकरीं बुद्धिं चक्रे तस्मिन्सदैव हि || ६१ ||

व्यास उवाच |

तपश्चरणसक्तायां देव्यां देवस्त्रिलोचनः | किमकुर्वत्सुरेशान एतदिच्छामि वेदितुम् || ६२ ||

सनत्कुमार उवाच |

देव्यामदीनात्मतपोरतायां वर्णप्रसादं प्रति भावितायाम् | पुत्रार्थमासक्तमनोरथायां देवो ऽकरोद्यत्तदिदं शृणुष्व || ६३ || देव्यां तपसि सक्तायां भगवान्गोवृषध्वजः | जगामानुग्रहं कर्तुमुपमन्योर्महात्मनः || ६४ || स ऋषिर्मातुलगृहे कदाचित्क्षीरमुत्तमम् | होमशेषमतिस्वादु पीतवानग्निहोत्रगः || ६५ || तत्स्मृत्वा मातरं प्राह देहि मातः पयो मम | तस्मै पिष्टं ददौ माता तोयेनालोड्य दुःखिता || ६६ || क्षीरमित्युपनीतं तं दृष्ट्वा पिष्टं तदा मुनिः | नैतत्क्षीरमिति प्राह मातरं सा ततो ऽब्रवीत् || ६७ || वत्स क्षीरं कुतो ऽस्माकं कुतश्चान्नं तपस्विनाम् | आराधय महादेवं स ते सर्वं प्रदास्यति || ६८ || इत्युक्तः स तदा मात्रा दुःखशोकपरिप्लुतः | जगाम शरणं देवं सर्वभावेन शंकरम् || ६९ || आदित्याभिमुखो भूत्वा पादेनैकेन संयतः | मनसा चिन्तयन्नित्यं प्रणतार्तिहरं हरम् || ७० || सहस्रमेकं वर्षाणां तस्थौ दिव्यं फलाशनः | द्वितीयं शीर्णपर्णाशी तृतीयं चाम्बुभोजनः || ७१ || महादेवपरो भूत्वा चतुर्थं वै जितेन्द्रियः | तस्थौ सहस्रं वर्षाणामनिलाशन एव सः || ७२ || यदा चतुर्थं तत्पूर्णं सहस्रं शरदां मुने | तुष्टस्तदा ददौ शर्वः शक्ररूपेण दर्शनम् || ७३ ||

शक्र उवाच |

उपमन्यो महाभाग तपस्ते बहु संचितम् | तुष्टो ऽस्मि ते वरं ब्रूहि यद्यदिच्छसि पुत्रक || ७४ ||

उपमन्युरुवाच |

स्वागतं देवराजस्य त्रैलोक्याधिपतेरिह | अद्य निष्कल्मषं मन्ये तपश्चीर्णं मया महत् | यो ऽहं त्रैलोक्यदेवेशमिन्द्रं पश्यामि दिक्पतिम् || ७५ || इदं पाद्यमिदं चार्घ्यमिदमासनविष्टरम् | अयं च मधुपर्कस्ते गृह्यतां सदसत्पते || ७६ || किं करोमि तदाख्याहि प्रार्थयस्व महाबल | कृतमेव हि तद्विद्धि यदि स्यात्सुकरं मया || ७७ ||

शक्र उवाच |

भवतो मे पिता विप्र सखाभूत्परमः पुरा | तेन स्नेहेन दृष्ट्वाहं भवन्तं तपसि स्थितम् | क्लिश्यमानमिहायातो ब्रूहि किं ते ददाम्यहम् || ७८ ||

उपमन्युरुवाच |

देवराज्यमपि त्वत्तो नाहं कांक्षे सुरोत्तम | महादेवमहं भक्तस्तस्मादिच्छाम्यहं वरम् || ७९ ||

शक्र उवाच |

महादेवं न पश्यन्ति सुरापि सदसत्पतिम् | न तं द्रक्ष्यसि विप्रेन्द्र ब्रूहि यत्ते मनोगतम् || ८० || अहं पितुस्ते स्नेहेन इहायातो महाव्रत | धर्मतो हि सुतो मे त्वं ब्रूहि तस्माद्वरं वरम् || ८१ ||

उपमन्युरुवाच |

कृतं स्वजनकृत्यं ते पूजितो ऽस्मि त्वया प्रभो | गच्छ नाहमृते रुद्राद्वरं याचे नमस्तव || ८२ ||

सनत्कुमार उवाच |

एवमुक्तः स तेजस्वी शक्ररूपी महेश्वरः | उवाच तप्स्यसे पश्चात्किं ते रुद्रः करिष्यति || ८३ || गच्छामि स्वस्ति ते चास्तु निर्विघ्नस्ते भवत्वयम् | रुद्रं प्रति समारम्भः स्मरेथास्त्वं हि मां विभो || ८४ || गते तस्मिंस्तदा हीन्द्रे रुद्रः स्वं रूपमास्थितः | तस्यादर्शयदव्यग्र इदं चोवाच सुस्वरम् || ८५ ||

रुद्र उवाच |

उपमन्यो महाभाग पश्य मां विगतज्वरः | ब्रूहि निश्चिन्त्य मनसा वरं यावद्ददामि ते || ८६ ||

सनत्कुमार उवाच |

ततः स दृष्ट्वा देवेशं शिरसाभिप्रणम्य च | उवाच प्रणतो वाक्यं मनसा संप्रधारयन् || ८७ || भगवन्यदि तुष्टो ऽसि सदासुरगणार्चित | यद्ब्रवीमि तदीशान मह्यं यच्छ नमो ऽस्तु ते || ८८ || द्रव्यं किंचिदनाश्रित्य मानुषं दिव्यमेव वा | क्षीरोदनं समश्नीयामयाचितमुपस्थितम् || ८९ ||

देव उवाच |

अनाश्रित्येह नैवास्ति कस्यचिद्द्विजसत्तम | तृणमप्याश्रयं कृत्वा तस्माद्वद महामुने || ९० ||

उपमन्युरुवाच |

नैवाहमाश्रये किंचित्प्रसादाद्भगवंस्तव | तदर्थश्चायमारम्भस्तत्प्रयच्छ यथार्थितम् || ९१ ||

देव उवाच |

मुने किंचिदनाश्रित्य नास्ति क्षीरोदनं तव | इत्युक्त्वा तं महादेवस्तत्रैवान्तरधीयत || ९२ || अन्तर्धानं ततो गत्वा जिज्ञासार्थं पिनाकधृक् | ब्रह्मणो रूपमास्थाय भूय एनं ततो ऽब्रवीत् || ९३ ||

ब्रह्मोवाच |

उपमन्यो महाप्रज्ञ सुचीर्णं ते तपः शुभम् | तुष्टो ऽस्मि ते ब्रूहि वरं प्रयच्छामि तवानघ || ९४ ||

उपमन्युरुवाच |

भगवन्सर्वलोकेश नमस्ते सर्वसृक्प्रभो | सुचीर्णं मे तपो देव यस्त्वां पश्यामि लोकप || ९५ || महेश्वरमहं भक्तस्तदाशीस्तत्परायणः | तस्माद्वरं वृणे देव त्वत्तो नाहमसंशयम् || ९६ ||

ब्रह्मोवाच |

रुद्रस्ते नाददद्विप्र क्षीरोदनमदुर्लभम् | स ते ऽन्यत्कुत एवेह दास्यते वरमुत्तमम् || ९७ || प्राजापत्यं सुरत्वं वा अमरत्वमथापि वा | इन्द्रत्वमथ सोमत्वं विष्णुत्वं वा ददामि ते | लोकपालो भवानस्तु सर्वलोकाभिपूजितः || ९८ || ब्रूहि किं ते ददान्यद्य विसृजस्व महेश्वरम् | नासौ दाता तवेशानस्तृणमप्येकमक्षतम् || ९९ ||

उपमन्युरुवाच |

न गृहीतं प्रभो तेन मम किंचिन्महात्मना | ईश्वरः सर्वभूतानां न स्वामी तस्य कश्चन || १०० || इच्छया कुरुते देवः सर्वकार्याणि कार्यिणाम् | ददाति यदि लाभो मे न ददाति तथापि च || १०१ || बहुना किं प्रलप्तेन तेन दत्तमहं वृणे | नरकं वा पशुत्वं वा किं पुनर्यदतो ऽन्यथा || १०२ || त्वत्तो नेच्छामि विष्णुत्वं न शक्रत्वं पितामह | गच्छ सर्वसुरेशान मा वृथा क्लेशमाचर || १०३ ||

सनत्कुमार उवाच |

स एवमुक्तो देवेशस्तेन ब्रह्मर्षिणा तदा | तस्य तत्र पुनर्वाक्यं वरार्थमवदत्प्रभुः || १०४ || उपमन्युरपीशाने मनः संधाय निश्चलम् | तूष्णीं बभूव देवो ऽपि तत्रैवान्तरधीयत || १०५ || तस्य तां भावनां ज्ञात्वा पिनाकी स त्रिलोचनः | स्वमेव रूपमास्थाय दर्शयामास तत्क्षणात् || १०६ || त्र्यक्षो जटी विशालाक्षः कुण्डली दीप्तलोचनः | ज्वालामालाधरः श्रीमान्भुजगाबद्धमेखलः || १०७ || सर्पयज्ञोपवीती च व्याघ्रचर्माम्बरच्छदः | कृष्णाजिनोत्तरीयश्च कमण्डलुधरस्तथा || १०८ || दण्डी शूली महाहासो गणपैर्बहुभिर्वृतः | उवाच पुत्र पुत्रेति तुष्टो ऽस्मि तपसा तव || १०९ || अमरो जरया त्यक्तः सर्वदुःखविवर्जितः | कामरूपधरः श्रीमान्मत्प्रसादाद्भविष्यसि || ११० || द्वीपं चेमं गृहाण त्वं मया सृष्टं हि कामगम् | क्षीरोदेन समुद्रेण सर्वतः परिवारितम् || १११ || महायोगबलो भूत्वा सर्वज्ञः प्रियदर्शनः | भुङ्क्ष्व क्षीरोदनं वत्स बन्धुभिः सहितः सदा || ११२ || सप्त पूर्वाणि सर्वाणि कुलानि तव तापस | इदं चैव कुलं सर्वमनुगृह्णामि सुव्रत || ११३ || सर्वे भवन्तु विप्रर्षे य इमे तव बान्धवाः | मत्प्रसादान्महासत्त्वा नित्यं क्षीरोदवासिनः || ११४ ||

सनत्कुमार उवाच |

स तु तं वरमादाय प्रणम्य शिरसा भवम् | शिरस्यञ्जलिमाधाय अस्तौषीत्प्रयतात्मवान् || ११५ ||

उपमन्युरुवाच |

नमः सर्वामरेशाय विश्वेशाय नमो नमः | नमः सर्वार्तिहर्त्रे च नमः शोकहराय च || ११६ || नमः पवनवेगाय नमः पवनरूपिणे | नमः काञ्चनमालाय पद्ममालाय वै नमः || ११७ || नमः सुररिपुघ्नाय चण्डवेगाय वै नमः | नमः पितृसुरेशाय महिषघ्नाय वै नमः || ११८ || स्त्रीरूपाय नमस्तुभ्यं सर्वरूपधराय च | नमः स्कन्दविशाखाय विश्वक्स्रष्ट्रे नमो नमः || ११९ || नमो विश्वाय पाशाय नमो ऽचिन्त्याय चैव ह | त्वं नो गतिश्च श्रेयश्च त्वमेव हृदयं सदा || १२० ||

सनत्कुमार उवाच |

ततस्तं मूर्ध्न्युपाघ्राय समाश्वास्य विसृज्य च | जगाम भगवान्व्यास सुकेशं प्रति स प्रभुः || १२१ || उपमन्युं ज्वलितानलप्रकाशं शतमन्युं तपसा जिगीषमाणम् | स चकारावनतं हरोग्रमन्युं वरदानेन तदा व्यपेतमन्युम् || १२२ || स्कन्दपुराणे चतुस्त्रिंशत्तमो ऽध्यायः ||

सनत्कुमार उवाच |

ततः स भगवान्देवः सुकेशं गणपं पुनः | चकार ब्राह्मणं व्यास तपःसत्यपरायणम् || १ ||

व्यास उवाच |

कथं स ब्राह्मणः पूर्वं गणेशत्वमुपागतः | केनास्य तपसा तुष्टो गणपत्वं ददौ प्रभुः || २ ||

सनत्कुमार उवाच |

आसीद्वसिष्ठकुलजो ब्राह्मणः सत्यवाक्शुचिः | तीर्थयात्रास्वभिरत उपवासपरायणः || ३ || स कदाचिद्विदेशस्थो वने ऽपश्यत्पथि स्थितम् | व्याघ्रं व्यात्ताननं घोरं नखदंष्ट्रायुधं वरम् || ४ || दृष्ट्वा तं स तदा विप्रस्त्यक्त्वा पन्थानमाशुगः | विवेश महतीं घोरामटवीं प्राणिवर्जिताम् || ५ || तत्रापश्यत्स पुरतो वीरणस्तम्बमाश्रितान् | पुरुषांल् लम्बमानांश्च क्रन्दमानान्सुदुःखितान् || ६ || तानवाक्शिरसो दृष्ट्वा लम्बमानांस्तदा द्विजान् | के यूयमिति पप्रच्छ ते चैवमिदमूचिरे || ७ || तव स्मः पितरः सर्वे नरके ऽस्मिन्नधोमुखाः | वीरणे त्वयि लम्बामस्तव दोषेण दुर्मते || ८ || पुत्रानिच्छन्ति मनुजास्तारयिष्यन्ति नस्त्विमे | नरकादिति स त्वं नः पातयिष्यसि दुःखितान् || ९ ||

विप्र उवाच |

मया तीर्थाभिगमनात्तपो यत्समुपार्जितम् | जन्मप्रभृति यच्चापि मया किंचित्कृतं शुभम् | तेन यूयमितो गर्तादुद्धरध्वं पितामहाः || १० ||

पितर ऊचुः |

न वयं तपसा शक्या न यज्ञेनाप्यतो ऽन्यथा | गर्तादस्मात्समुद्धर्तुं यद्ब्रूमस्तत्कुरुष्व नः || ११ || अपत्यं गुणसंयुक्तमुत्पादय तपोयुतम् | ततो वयमितो गर्तान्मुच्येम यदि मन्यसे || १२ ||

विप्र उवाच |

ऊर्ध्वरेताहमित्येतन्मया व्रतमुदाहृतम् | न दारानाहरिष्यामि तारयिष्ये च वै पितॄन् || १३ || ततः स तांस्तदोत्सृज्य दुःखेन महता वृतः | जगाम रुद्रं शरणं पितरो ऽन्तर्हितास्ततः || १४ || पितृष्वन्तर्हितेष्वेवं वायुभक्षस्तदा द्विजः | काष्ठलोष्टोपलीभूतो निरुच्छ्वासो ऽवतिष्ठत || १५ || संधाय स मनो रुद्रे निश्चलं सुसमाहितः | हृदयेन जपन्रुद्रानाकाशे समतिष्ठत || १६ || तस्य पूर्णे तदा मासि वातवर्षमभून्महत् | सर्वसत्त्वप्रमथनं दुःसहं भीमशब्दवत् || १७ || तेन वर्षेण महता नैव तस्याभवत्तदा | दुःखं वाप्यथवा भङ्गः सम्यगेवावतस्थिवान् || १८ || अथ तं भगवान्देवो मासे वर्तति सप्तमे | विष्णुरूपधरो भूत्वा प्रोवाच द्विजसत्तमम् || १९ || तुष्टो ऽस्मि तव भद्रं ते तपसानेन सुव्रत | वरं वरय विप्रर्षे यस्ते मनसि वर्तते || २० || सुकेशस्तु ततो दृष्ट्वा नारायणमुपागतम् | अब्रवीच्छंकरादिच्छे वरं न भवतो ह्यहम् || २१ ||

विष्णुरुवाच |

अलमेतेन विप्रर्षे निर्बन्धेन हरं प्रति | देवैरपि न शक्यो ऽसौ द्रष्टुं किमुत मानुषैः || २२ ||

सुकेश उवाच |

शंकरादेव चक्रेश शुभं वा यदि वाशुभम् | वरं कांक्षे न च त्वत्तो न चान्यस्मात्कथंचन || २३ || भवन्तो ऽपि हि तं देवं यस्मात्सर्वे समाहिताः | अर्चयध्वं स्तुवध्वं च तस्माच्छ्रेष्ठः स उच्यते || २४ || तस्य तं निश्चयं ज्ञात्वा तुतोष भगवान्हरः | उवाच चैनं विप्रेन्द्र गणपो मे भवाक्षयः || २५ || अमरो जरया त्यक्तः सर्वदुःखविवर्जितः | ऐश्वर्येण च संयुक्तः प्रियो मम पुरःसरः || २६ || इदं च मत्कृतं दिव्यं त्रिकूटं नाम पर्वतम् | भवनैः काञ्चनैर्युक्तं कामगं ते ददाम्यहम् || २७ || येषां कृते च त्वं पुत्र मां तोषयितुमुद्यतः | ते चेमे पितरः सर्वे सुपुत्रेण त्वयानघ | तारिता नरकाद्घोराद्गणेशत्वमुपस्थिताः || २८ || किंकरास्ते भविष्यन्ति नित्यं दुःखविवर्जिताः | गणेश्वरास्तवैवेमे भविष्यन्ति वशानुगाः || २९ || सुकेश इति नाम्ना च प्रथितस्त्वं भविष्यसि | सदा चाष्टगुणैश्वर्यसमायुक्तश्चरिष्यसि || ३० ||

सनत्कुमार उवाच |

ततः स दृष्ट्वाथ पितॄन्नरकात्ससुहृज्जनान् | तीर्णान्गणेश्वरत्वेन पुनः पूज्येन संयुतान् || ३१ || महेश्वरं हृष्टमनाः शिरसा प्राञ्जलिर्नतः | उवाच हर्षमाणास्यस्तदा वचनकोविदः || ३२ ||

सुकेश उवाच |

भगवन्गणपत्वं च लब्धमैश्वर्यमेव च | अमरत्वं तथाक्षय्यं तथैवाजरता वरा || ३३ || पितरस्तारिताश्चेमे गणपाश्चैव मे कृताः | नगश्च कामगो ह्येष लब्धो मे त्वत्प्रसादतः || ३४ || इच्छामि त्वां महादेव सोमं सप्रवरेश्वरम् | सदा सुमुखमत्यर्थं सुदृश्यं चैव कामद || ३५ ||

सनत्कुमार उवाच |

स एवमुक्तो भगवान्सुकेशेन महात्मना | उवाचैवमिदं सर्वं भविष्यति गणेश्वर || ३६ || इमं गिरिं समाश्रित्य सहैभिः प्रवरैर्वरैः | गच्छ स्वेष्टां गतिं वत्स देवान्विप्रांश्च पालय || ३७ || विसृज्य तं महादेवः सुकेशं गणनायकम् | जगामादर्शनं सोमः सर्वेषामेव पश्यताम् || ३८ || सुकेशो ऽपि गिरौ तस्मिन्नगरे स्वर्गसंनिभे | नरकाणां स तत्त्वार्थं पितॄन्पप्रच्छ यत्नतः || ३९ ||

व्यास उवाच |

किमर्थं गणपो ब्रह्मंस्तान्पितॄन्पर्यपृच्छत | कथं च पितरस्तत्र आचख्युस्तस्य धीमतः || ४० || एतद्विस्तरशस्तात संक्षेपाद्वा यथातथम् | त्वत्तो ऽहं श्रोतुमिच्छामि हितं सर्वसुखावहम् || ४१ || स एवमुक्तः सुरसृक्सुतः प्रभुर्विमानकर्ता विगतप्रयोजनः | जगाद वाक्यं सुरलोकबन्धनं पुराकृतं दुष्कृतसर्वनाशनम् || ४२ || इति स्कन्दपुराणे पञ्चत्रिंशो ऽध्यायः ||

सनत्कुमार उवाच |

त्रिकूटशिखरे तस्मिन्नगरे देवनिर्मिते | आसीनः काञ्चने दिव्ये विमाने स्त्रीजनाकुले || १ || पितॄन्सर्वान्समाहूय संपूज्य विधिवत्तदा | सुखोपविष्टांस्तान्दृष्ट्वा इदं वचनमब्रवीत् || २ || युष्माकं तेजसा सर्वमिदमैश्वर्यमीदृशम् | भवद्भिस्तत्कृतं देवा येनास्मि सुखभाक्कृतः || ३ ||

पितर ऊचुः |

मैवं वदानृतं पुत्र माधर्मस्ते भवेदिह | नास्मत्प्रसादादैश्वर्यं तव पुत्र कदाचन || ४ || वयं तु निरये घोरे यात्यमानाः सुदारुणे | तव देवस्य वीर्येण सुखमापुः सुदुर्लभम् || ५ || त्वया वयं सुपुत्रेण तारिता निरयाद्यथा | तथा नान्यं प्रपश्याम धन्यानां त्वं सुतो हि नः || ६ || अद्य वर्षसहस्राणि बहूनि निरये वयम् | पच्येम घोरे दुर्वृत्ता बन्धुः स्यात्त्वं न नो यदि || ७ || बहवः प्राणिनः पुत्र यात्यन्ते तत्र संयताः | अतिघोरे सुदुर्वृत्तास्तपस्तेषां न विद्यते || ८ ||

सुकेश उवाच |

पितरो नोक्तपूर्वं मे मृषा न च वदामि वै | यथा प्रभावाद्युष्माकमैश्वर्यं मम तत्तदा || ९ || शृणुध्वं वदतः सम्यङ्मावमंस्था वचो मम | न चावमन्ये पितरो देवतान्को ऽवमन्यते || १० || पितरः कर्म कुर्वन्ति सतां यत्संमतं भुवि | नित्यं चाशासते तेन प्रजा नः सन्तु पुष्कलाः || ११ || धार्मिकाश्च कृतज्ञाश्च सत्कर्मरतयस्तथा | ये नो नरकगर्तस्थांस्तारयिष्यन्ति नित्यशः || १२ || तेषां तत्कार्यकरणात्स्वधर्माच्यवनेन च | स धर्मो ऽनुष्ठितः सम्यक्प्रजा जनयते शुभाः || १३ || धार्मिकाश्च वदन्याश्च कृतज्ञाः सत्पथि स्थिताः | पितृभक्ताश्च सर्वत्र पितॄणां तारणे रताः || १४ || सो ऽहं भवद्भिर्धर्मेण परेण च समाधिना | जनितस्तपसा युक्तो भवतामेव सर्वशः | देवमाराध्य नरकात्पितॄंस्तारितवान्पुनः || १५ || एष प्रभावो युष्माकं तपः सुचरितं च ह | ममात्र किं महाप्रज्ञा अनृतं वात्र किं वचः || १६ || इयं च वैदिकी शुभ्रा श्रुतिर्वेदविदां वराः | प्रमाणं यदि मन्यध्वमात्मना कृतमित्युत || १७ || अङ्गादङ्गात्संभवसि हृदयादधिजायसे | आत्मा वै पुत्रनामासि स जीव शरदः शतम् || १८ || अङ्गेभ्यो ऽहं समुत्पन्नो युष्माकं हृदयाच्च ह | आत्मनाहं तथात्मानं युष्मांस्तारितवांस्तथा || १९ || तस्माद्भवन्तो मन्यन्तु सर्व एव समाधिना | तस्माद्धि घोरनरकात्तारिताः स्वेन कर्मणा || २० || न चान्यकर्मणा कश्चिदन्यस्तरति दुर्गतिम् | स्वकर्मणा हि जन्तूनां फलपाको विधीयते || २१ ||

सनत्कुमार उवाच |

ततस्त एवं पितरस्तेन प्रोक्ता महात्मना | हर्षेण सास्रुनयना इदमूचुस्तदा वचः || २२ ||

पितर ऊचुः |

त्वदन्यः को वदेदेवं यो न स्यादीशसंमतः | युक्तमेतत्तव वचो धार्मिकस्य महात्मनः || २३ || यो न स्यादीदृशः पुत्र कथं तं सर्वदेवपः | इष्टैस्तु योजयेत्सम्यग्यथा त्वां गोवृषध्वजः || २४ || त्वं धाता त्वं हि नो बन्धुस्त्वं जनेता महामते | पिता त्वमेव पुत्रा हि वयं तव न संशयः || २५ || अत्र ते वर्तयिष्यामः पुरावृत्तं महामते | श्रुतौ स्मृतौ च यद्गीतं तन्नः संस्मर्तुमर्हसि || २६ ||

पितर ऊचुः |

पुत्रा हि ब्रह्मणा सृष्टा देवा यजत मामिति | ते ऽयजन्त तदात्मानं तेषां ब्रह्मा चुकोप ह | उवाच चैनान्संरब्धो नष्टसंज्ञा भविष्यथ || २७ || ते शप्तास्तं तदा देवं सर्व एव दिवौकसः | दुःखशोकसमायुक्ता ब्रह्माणं तुष्टुवुस्तदा || २८ || प्रसन्नं तं समालक्ष्य त ऊचुः शिरसा नताः | नष्टसंज्ञा वयं देव तन्नो यच्छ पुनः प्रभो | तत्क्षमस्व च देवेश अज्ञानाद्यत्कृतं हि नः || २९ || अथैवमुक्तो देवैस्तैर्ब्रह्मा लोकपितामहः | उवाच प्रणतान्देवान्सानुक्रोशमिदं वचः || ३० || प्रायश्चित्तं महासत्त्वाश्चरध्वं नियमेन ह | व्यभिचारकृतं सर्वं ततः पापं प्रहास्यथ || ३१ ||

देवा ऊचुः |

सैव संज्ञा न नो देव विद्यते सर्वसृक्प्रभो | यया ज्ञास्यामहे तानि प्रायश्चित्तानि लोकप || ३२ ||

ब्रह्मोवाच |

स्वान्पुत्रान्परिपृच्छध्वं ततः श्रेय अवाप्स्यथ | पुनः संज्ञां च धर्मज्ञा मा कुरुध्वमतो ऽन्यथा || ३३ ||

पितर ऊचुः |

ततस्ते सुरशार्दूलाः पप्रच्छुः स्वान्सुतांस्तदा | प्रायश्चित्तानि धर्मांश्च वेदान्साङ्गान्सुविस्तरान् || ३४ || ते च तेभ्यस्तदा पुत्रा आचख्युः प्रयताः शुभाः | याथातथ्येन तत्सर्वं परमेण समाधिना || ३५ || अथ ते लब्धसंज्ञाश्च लब्धकामास्तथैव च | स्वान्पुत्रानभ्यभाषन्त प्रीयमाना मुदा युताः || ३६ ||

देवा ऊचुः |

पुत्रा न यूयमस्माकं वयं पुत्रा हि वः सुताः | यैर्ज्ञानं नष्टसंज्ञानां कृतमस्माकमव्ययम् || ३७ || तैरेवमुक्ते तत्रागाद्ब्रह्मा लोकपितामहः | उवाच चेदं तान्देवान्सर्वानेव महायशाः || ३८ ||

ब्रह्मोवाच |

वदन्ति नानृतं देवाः सत्यं देवेषु वर्तते | सुताश्चोक्ता हि वः सर्वे पितरो नानृतं हि तत् || ३९ || तस्मात्पितृत्वं युष्माकं पुत्राणां नित्यमव्ययम् | भविष्यति न संदेहो यूयं पुत्राश्च सर्वशः || ४० || न ह्यशिष्याय कथ्यन्ते रहस्यानि कथंचन | एकार्थौ पुत्रशिष्यौ च तस्मात्पुत्राः स्थ सर्वशः || ४१ || तरन्ति पुत्रैः पितरः पुत्रांस्तांस्तारयन्ति च | तारयित्वा पितृत्वं च कर्मणा तेन यान्ति ते || ४२ || यूयं च तारिताः पुत्रैरज्ञानान्नरकात्तथा | तस्मादिमे हि पितरो यूयं पुत्राश्च सर्वशः || ४३ || पाति यस्मात्पिता तस्माज्जनयत्यपि वा पिता | पुत्रेषु चैतदुभयं पितरस्तेन वो मताः || ४४ || ततस्ते ब्रह्मणः श्रुत्वा याथातथ्येन तद्वचः | पितॄंस्तु तान्सुतान्मत्वा पुत्रत्वमुपपेदिरे || ४५ || ते पुत्रभावमासाद्य प्रीतात्मानो महाबलाः | पितरस्तान्वरैरिष्टैश्छन्दयामासुरव्यथाः || ४६ || पितरश्च ततो वव्रुरग्रे यजनमात्मनः | यो नो ऽनिष्ट्वा यजेद्देवान्न तत्फलमवाप्नुयात् || ४७ || एनसा चाभिसंयुक्तो महानिरयभाग्भवेत् | †अबुद्ध्वा† तेन देवाश्च तं हन्युः पापचेतसम् || ४८ || एवमस्त्विति तानुक्त्वा देवास्ते ऽतिगुणोदिताः | यथागतं ततो जग्मुर्ब्रह्मणा सह सर्वशः || ४९ ||

पितर ऊचुः |

तथा वयं त्वया पुत्र नरकान्नष्टचेतसः | तारिताश्चेतनावन्तः पुनश्च प्रवरीकृताः || ५० || पिता ततो भवान्पूज्यो यो नु पासि महाभयात् | पुत्रा वयं तवेशान ब्रूहि किं करवाम ते || ५१ ||

सनत्कुमार उवाच |

स एवमुक्तस्तेजस्वी सुकेशो गणसत्तमः | प्रणतः प्राञ्जलिर्भूत्वा पितॄन्वचनमब्रवीत् || ५२ || एवमेतद्यथोक्तं वो नानृतं वो वचः शुभम् | परस्परपितृत्वं हि सर्वेषां समुदाहृतम् || ५३ || वरं भूय इमं मह्यं प्रयच्छत गणेश्वराः | एतेन प्रश्नमिच्छामि कथितं द्विजसत्तमाः || ५४ ||

पितर ऊचुः |

नास्ति किंचिदविदितं भवतः प्रवरेश्वर | भवानस्मत्प्रमाणार्थं व्याख्यातत्वमिहेच्छसि || ५५ || ब्रूहि यद्विदितं नो ऽस्ति कथयिष्याम तद्धि ते | श्रुतं यदनुभूतं वा यथाशक्ति यथाबलम् || ५६ ||

सुकेश उवाच |

भवन्तो नरके घोरे परिक्लिष्टाः सुदारुणे | अतो गतिज्ञाः सर्वेषां नरकानां न संशयः || ५७ || तेषां सतत्त्वं योगं च कालभेदं तथा क्रमम् | तत्सर्वं श्रोतुमिच्छामि परं कौतूहलं हि मे || ५८ || कियन्तो नरकास्ते च किम्प्रमाणाः किमाश्रयाः | किंरूपाः के च यात्यन्ते कथं चैव सुदुःखिताः || ५९ || कथं च पतते जन्तुर्यात्यते च कथं तथा | कियता चैव कालेन नरकात्स विमुच्यते | मुक्तश्चोत्तिष्ठते केन कथं संतरते पुनः || ६० || एतत्सर्वमशेषेण विस्तरेण यथातथम् | कथयध्वं महाप्रज्ञाः परं कौतूहलं हि मे || ६१ || तमुपेन्द्रपितामहेश्वरेशप्रवरेशं विदितार्थतत्त्वकोशम् | दुरिताङ्कितपापयुक्तयोगं प्रतियोगं त्विदमाहुरग्रयोगम् || ६२ || स्कन्दपुराणे षट्त्रिंशत्तमो ऽध्यायः ||

सनत्कुमार उवाच |

ततस्ते पितरस्तस्य प्रतिष्ठां स्वसुतं प्रति | सुशर्माणमिति ख्यातं कथयामासुरव्ययाः || १ ||

पितर ऊचुः |

अयं ते जनकः पुत्र सुशर्मा लोकविश्रुतः | कथयिष्यति तत्त्वेन यत्त्वया समुदाहृतम् || २ ||

सनत्कुमार उवाच |

ततः सुशर्मा विप्रर्षे तमामन्त्र्य महामनाः | उवाचेदं महासत्त्वं सुकेशं गणसत्तमम् || ३ ||

सुशर्मोवाच |

गणेश्वरेश शृणुया नरका ये प्रकीर्तिताः | दुरासदा महादुर्गाः सर्वप्राणिभयंकराः || ४ || प्रथमो नरकस्तत्र विश्रुतो यमलाचलः | द्वितीयः शाल्मलो नाम तृतीयः कालसूत्रकः || ५ || कुम्भीपाकश्चतुर्थश्च असिपत्रवनो ऽपरः | तथा वैतरणी षष्ठः सप्तमश्चाप्ययोघनः || ६ || अष्टमः पद्म इत्येव महापद्मस्तथापरः | रौरवो दशमश्चैव महारौरव एव च || ७ || द्वादशश्च तमो नाम तमस्तमतरस्तथा | एते महान्तो नरका उच्छ्रयाश्च तथापरे || ८ || एकैकस्योच्छ्रया ह्यष्टौ नरकास्ते ऽपि कीर्तिताः | उच्छ्रयेषु सविश्रामा यातना भवतीश्वर | इतरेषु त्वविश्रामा विशेषो ह्येष कीर्तितः || ९ || तेषां सततदुःखं तु नॄणां पापेन कर्मणा | भेदः क्षयाच्च पापस्य क्रमस्तेषां प्रवक्ष्यते || १० || प्रमाणं तु गणेशेश न शक्यं वक्तुमेकशः | विभुत्वात्कर्मणस्तस्य क्षयादन्तं प्रपश्यति || ११ || नरको ऽतिततः सर्वो नान्तं तस्य प्रपश्यति | क्षीणपापाः प्रपश्यन्ति यथा तच्छृणु मे ऽव्यय || १२ || पतितो नरके घोरे दुष्कृती स्वेन कर्मणा | यात्यमानो ऽतिकरुणं दिशमेकां प्रपद्यते || १३ || स गत्वा शीघ्रमध्वानं बहुयोजनविस्तृतम् | बहूनब्दाननासाद्य तस्यान्तं विनिवर्तते || १४ || विनिवृत्य ततो भूयो यात्यमानो विचेतनः | अन्यां दिशं पुनर्गत्वा तथैव विनिवर्तते || १५ || एवं सर्वा दिशो गत्वा ह्यन्तमप्राप्य दुःखिताः | यात्यन्ते करुणं तत्र पापस्यान्ते ततः पुनः || १६ || प्रपश्यन्ते परिमितं परिच्छिन्नं च सर्वशः | द्वारेण महता युक्तं ततस्तस्माद्विमुच्यते || १७ || एवं हि नरकाः सर्वे ह्यनन्ताश्चाक्षयाव्ययाः | न तेषां परिसंख्यानं योजनैः संविधीयते || १८ || येन कालेन तु पुनर्जन्तुः पतति दुःखितः | यथा चैतच्छृणु विभो कथ्यमानं मयानघ || १९ || कृत्वा पापानि कर्माणि क्षयान्ते दुष्टचेतनः | व्याध्याधियुक्तः क्लेशेन त्यजति स्वां तनुं ततः || २० || यमदूतैर्महापाशैर्बद्ध्वा दुःखसमीरितः | विषमेण पथा देव नीयते विकृताकृतिः || २१ || अयोमयैः कण्टकैश्च विध्यमानस्ततस्ततः | केशामेध्यास्थिपङ्कैश्च दह्यमानः समन्ततः || २२ || विषमेषु च गर्तेषु प्रपतन्भिद्यते पुनः | क्वचिच्चोपलवर्षेण महता संनिकीर्यते || २३ || तत्र भिन्नशिरोजानुपादबाहूरुबन्धनः| कृष्यते यमदूतैश्च पुनः कण्टकिभिर्द्रुमैः | पाट्यते भिद्यते चैव वल्लीभिश्चावबध्यते || २४ || एवं बहुविधाकारैर्दुःखदैः पथिभिः प्रभो | नीयमानो ऽवशः क्लेशात्प्राप्नोति यमसादनम् || २५ || स ततो यममप्राप्य दूरादेव यमाज्ञया | चित्रगुप्तमुपागम्य श्राव्यते कर्म यत्कृतम् || २६ || सोमो ऽग्निर्वरुणो वायुः सूर्यश्चेति तदा नरम् | साक्षिणः सर्वजन्तूनां ब्रुवते कर्म यत्कृतम् || २७ || उक्तो विभावितश्चैव चित्रगुप्तेन चोदितः | नरके निपतत्यार्त्त ऊर्ध्वपादो ह्यधःशिराः || २८ || तोमरैश्चातितीक्ष्णाग्रैः शरैश्चाथ परश्वधैः | भिन्दिपालैर्मुद्गरैश्च असिभिर्दीर्घवेधनैः || २९ || परिघैः करपत्रैश्च वज्रैष्टङ्कैर्हुलोपलैः | कीलैश्च मुसलैश्चैव क्षारपिष्टेन चैव हि || ३० || प्रदीप्तैश्चायुधैर्घोरैरग्निवर्षेण चाप्युत | हन्यमानो दिवारात्रं विनदन्करुणं बहु | वर्षाणां तु सहस्रेण नरकं प्राप्नुते ऽशुभम् || ३१ || स तत्र पतितो भूयो यात्यमानः सुदुःखितः | वर्षकोटीमविश्राम्य निरयान्तं प्रपद्यते || ३२ || महानरकमुक्तश्च उच्छ्रयान्तरमाश्रितः | शीतेन वायुना स्पृष्टः सुखं तत्र स विन्दति || ३३ || स तं विश्राममासाद्य विस्मृतो यातनां तदा | मुहूर्तमाहृते स्वप्ने राक्षसेनापकृष्यते || ३४ || स तेन कृष्यमाणश्च भूयो दुःखेन चार्दितः| करुणं बहुधातीव प्रविलप्यावतिष्ठते || ३५ || ततो भूयः समाकृष्य यातनायां स राक्षसः | यातयत्येव तं जन्तुं सविश्रामं सचेतनम् || ३६ || तत्र वर्षसहस्रं वै यातितः पुनरेव सः | अन्यस्मिन्नुच्छ्रये घोरे यात्यते तावदेव हि || ३७ || एवं स उच्छ्रयान्प्राप्य अष्टौ पापेन कर्मणा | संसारं कृमिकीटादि जन्तुः संप्रतिपद्यते || ३८ || ये तु गच्छन्ति तं घोरं नरकं पुरुषाधमाः | तानहं संप्रवक्ष्यामि तव पुत्र समासतः || ३९ || प्रथमो यो मया प्रोक्तो नरको यमलाचलः | यात्यन्ते तत्र पुरुषा महानिरयगामिनः || ४० || पर्वतौ द्वौ महासत्त्व सिंहव्याघ्रसमाकुलौ | शरभेभसमाकीर्णौ बहुसर्पसमाकुलौ || ४१ || पक्षिभिर्विविधाकारैः पुरुषैश्चोद्यतायुधैः | वृक्षैरपर्णैः संयुक्तौ सूचिभिर्वज्रकण्टकैः || ४२ || तयोरन्तरमेकं वै समं सूचिभिरावृतम् | ऊर्ध्वाभिर्वज्रतुण्डाभिरभेद्याभिस्तथैव च | अन्यतः पुरुषैर्घोरैः शस्त्रपाणिभिरावृतम् || ४३ || प्राकारेण च लोहेन समन्तात्परिवारितौ | आकाशे चापि लोहेन तौ जालेन समावृतौ || ४४ || यात्यन्ते तत्र पुरुषा ये वै स्त्रियमनिच्छतीम् | आक्रमन्ति पराक्यां वै कन्यादूषक एव च || ४५ || न्यासापहारकश्चैव तथा मांसापहारकः | रसापहारकश्चैव यश्चापि परदूषकः || ४६ || इन्द्रियग्रामघाती च मिथ्यालिङ्गी तथैव च | मृगश्वापदहन्ता च पृष्ठमांसाशिनश्च ये || ४७ || वृथामांसाशिनो ये च विषं ये च प्रकुर्वते | एते नराधमाः पुत्र गच्छन्ति यमलाचलम् || ४८ || यमलेषु च जातेषु यो न कुर्यान्नराधमः | प्रायश्चित्तमशुद्धात्मा स च तं प्रतिपद्यते || ४९ || स प्रपन्नो यथोक्तैस्तैः पुरुषैः समभिद्रुतः | आयुधैश्छिद्यमानश्च पर्वतं तं प्रपद्यते || ५० || तत्र व्याघ्रैश्च सिंहैश्च शरभैः स तरक्षुभिः | सर्पैर्विडालैः पतगैरयस्तुण्डैश्च भक्ष्यते || ५१ || तैर्भक्ष्यमाणो यदि च वृक्षं समधिरोहते | तत्र तैः कण्टकैस्तीक्ष्णैर्भिद्यते पक्षिभिश्च ह || ५२ || अथ चेत्कन्दरांस्तस्य गुहां वा यातुमिच्छति | तत्रापि ह्यग्निना दग्धो दुःखार्तो विनिवर्तते || ५३ || अथ चेदन्तरं घोरं तयोः संप्रतिपद्यते | तत्र सूचीभिरुग्राभिः पादयोर्भिद्यते नरः || ५४ || भिन्नं च तं समालक्ष्य अशक्तमपसर्पणे | समागम्याचलौ क्षिप्रं पीडयेतामतीव हि || ५५ || पीड्यमानो ऽचलाभ्यां च यन्त्रेणेक्षुवदातुरः | करुणं क्रन्दमानस्तु यातनां तां समश्नुते || ५६ || भक्षितस्याथ भिन्नस्य विलुप्तस्य च पक्षिभिः | दग्धस्य च नवं भूयः शरीरमभिजायते || ५७ || एवं स यात्यमानो वै बहूनब्दान्सुदुःखितः | द्वारं लब्ध्वा विनिःसृत्य उच्छ्रयेषु निपात्यते || ५८ || यमलाचलमेतमुग्रवेगं बहुपापसमेतकर्मयोगम् | शृणुयाद्य अभीक्ष्णशो ऽतिवेगं स न याति तमुग्रपापयोगम् || ५९ || स्कन्दपुराणे सप्तत्रिंशो ऽध्यायः ||

सुशर्मोवाच |

अतः परं प्रवक्ष्यामि शाल्मलीनरकं पुनः | यात्यन्ते तत्र पुरुषाः सुभृशं पापकर्मिणः || १ || शाल्मलीनां सहस्राणि बहूनि प्रवरेश्वर | उच्चाः सर्वाश्च ता घोरा बहुयोजनविस्तृताः | महाशाखा महापत्रा महाकण्टकसंयुताः || २ || लोहेन महता चैव प्राकारेणाभिसंवृताः | जालेन महता सर्वा उपरिष्टात्समावृताः || ३ || पुरुषास्तत्र तिष्ठन्ति बहवो रुषिताननाः | वज्रटङ्कोपलधरा असिमुद्गरधारिणः || ४ || अन्यैश्च विविधाकारैरायुधैर्वृतपाणयः | यातयन्ति भृशं जन्तूनवशांस्ते सुदारुणाः || ५ || छिद्यमानश्च तत्रापि राक्षसैः क्रूरकर्मभिः | दिशः प्रपद्यते सर्वा वेदनार्तः सुदुःखितः | व्रजते यत्र यत्रासौ तत्र तत्राभिहन्यते || ६ || गर्तेषु पतितं चैव राक्षसाः प्राप्य सर्वशः | शस्त्रैर्नानाविधाकारैर्निकृन्तन्त्यतिदारुणाः || ७ || श्रावयन्तः पुरानेन कृतं पापं महाबलाः | भर्त्सयन्तश्च दुर्वृत्तं पतितं क्वचिदेव हि || ८ || तत उत्थाय भिन्नाङ्गः सो ऽनुबद्धश्च राक्षसैः | सूचीकण्टकसंयुक्तं देशमन्यं प्रपद्यते || ९ || तत्र सूचीभिरुग्राभिः कण्टकैश्चायसैः पुनः | भिद्यमानो नदन्दुःखान्निपतत्यतिदुःखितः || १० || तत्राप्येनं समासाद्य विविधायुधपाणयः | राक्षसाभिद्रवन्त्येव वैरिणो वैरिणं यथा || ११ || तस्मादुत्थाय वेगेन वृक्षं यद्यधिरोहति | तत्र तैः कण्टकैस्तीक्ष्णैर्भिद्यते छिद्यते ऽपि च | यन्त्रैश्च विविधाकारैरयस्तुण्डैश्च पक्षिभिः || १२ || हृतकर्णाक्षिनासोष्ठः पतितो धरणीतले | तत्र सूचीभिरुग्राभिः सर्वाङ्गेषु विभिद्यते || १३ || एवं बहुविधाकारा यातनास्तत्र दुःखिताः | प्राप्नुवन्ति दुराचारा ये तान्निगदतः शृणु || १४ || अग्निदो गरदाता च अयोनौ यश्च गच्छति | पुंसि योत्सृजते शुक्रं विषदो मांसविक्रयी || १५ || समुद्रयायी दुष्टात्मा यश्चैको मृष्टमश्नुते | अतिथिं नार्चयेद्यस्तु यस्तु मिथ्याव्रती भवेत् || १६ || ब्रह्मोज्झश्च विवासाश्च यो ऽपः प्रविशते द्विजः | घण्टिको ग्रामयाजी च शूद्राध्यापक एव च || १७ || तथा वार्धुषिको लुब्धो विक्रेता ब्रह्मणश्च यः | एते गच्छन्ति दुर्वृत्ताः कूटशाल्मलिसंज्ञकम् || १८ || कोटीद्वयेन तूत्तीर्णा वर्षाणां वै पुनश्च ते | उच्छ्रये पातिताः स्तोकं कालं विश्राम्य वै पुनः || १९ || पात्यन्ते नरके तस्मिन्यावत्क्षीणं तदेनसम् | एषैव विधिरन्येषां नरकाणां मुने स्मृता || २० || य इमं भृशदुःखितोपलम्भं सुकृतीनामतिदुर्गमाचलम् | शृणुयात्प्रयतः कुतूहलात्मा न स गच्छेन्निरयं हि शाल्मलम् || २१ || स्कन्दपुराणे ऽष्टत्रिंशत्तमो ऽध्यायः ||

सुशर्मोवाच |

अतः परं तृतीयस्तु नरकः कालसूत्रकः | समन्तान्महतोच्चेन प्राकारेण सुसंवृतः | लोहजालेन च तथा आकाशे ऽप्यभिसंवृतः || १ || यथैकश्च तथा सर्वे नरका अभिसंवृताः | सोच्छ्रयाश्चैव विज्ञेया न वक्ष्ये तदहं पुनः || २ || शोकद्रोहजनास्तत्र यात्यन्ते पुरुषाधमाः | ये हरन्ति स्त्रियं वाजिविक्रेता यस्तथा गवाम् || ३ || धर्मस्य चात्मनश्चैव ब्राह्मणानां च निन्दकाः | छद्मना यश्च शास्त्राणि गुरुभ्यो ऽपहरेत्पुनः || ४ || गुरुं निन्दति यश्चापि पितरं मातरं तथा | श्वशुरं भ्रातरं ज्येष्ठं तथा चान्यान्गरीयसः | आक्रोशते च यस्तान्वै तथा चाप्यवमन्यते || ५ || आश्रमाणां तथा भेत्ता रहस्यानां च सर्वशः | अदत्तं यः समादद्यात्स गच्छेद्द्विज तत्र वै || ६ || ते तत्र पतिता घोरे नरके पापचेतसः | तिस्रः कोट्यस्तु संपूर्णा वर्षाणां तु नराधमाः | यात्यन्ते मृत्युवचनात्क्रन्दमाना विचेतसः || ७ || कालसूत्रेण महता मित्वा मित्वा तु दुष्कृतम् | छिद्यन्त्यङ्गानि जन्तूनां कुण्ठाग्रैरायुधैर्भृशम् | किंकरैस्तैरविश्रान्तं दिवारात्रिमतन्द्रितम् || ८ || पूर्णे काले ततो जन्तुरुच्छ्रयान्प्रतिपद्यते | विश्राम्य स तदा जन्तुः पात्यते नरके पुनः | यावदस्य कृतं पापं क्षीणं सर्वमशेषतः || ९ || य इमं बहुपापकर्तृसूत्रं शृणुयात्सुरलोककर्मसूत्रम् | न स याति तमुग्रदुःखसूत्रं नरकं यमलोककालसूत्रम् || १० || स्कन्दपुराण एकोनचत्वारिंशत्तमो ऽध्यायः ||

सुशर्मोवाच |

अतः परं प्रवक्ष्यामि कुम्भीपाकं महाभयम् | श्रोतॄणामपि तत्कालं भयदं ह्यकृतात्मनाम् || १ || आयस्यस्तत्र बह्व्यश्च अञ्जनाचलसंनिभाः | कुम्भ्यस्तैलेन संपूर्णा वह्नितप्ताः सुदुःसहाः || २ || दुष्कृतींस्तासु तप्तासु बद्ध्वा बद्ध्वा भयावहाः | चरन्ति राक्षसा घोराः क्रन्दमानान्सुभैरवम् || ३ || वर्षकोटीश्चतस्रश्च पच्यन्ते तत्र जन्तवः | ये तानिमान्निबोध त्वमुच्यमानान्मया विभो || ४ || इष्टकापाककारी च कुम्भपाचक एव च | तौ विनाशयते यश्च अग्निदो यो गृहेषु च || ५ || वने खले ऽथ गोष्ठे वा अन्नपाकविनाशकः | भोजने विघ्नकारी च यज्ञहा यज्ञदाहकः || ६ || कूटकर्मकरो यश्च कूटसाक्षी तथैव च | मिथ्याग्निचयनी चैव मिथ्याग्न्याहरणी तथा || ७ || मिथ्यापाकप्रदाता च वेदानां यश्च दूषकः | हर्तोपकरणानां च शिल्पिनां यो नराधमः || ८ || एवं ते यातितास्तत्र विश्रामं पुनरुच्छ्रये | संप्राप्य नरके भूयो निपतन्ति क्षयान्तिकम् || ९ || य इमं बहुदुष्कृतान्तपाकं शृणुयान्मनुजो हि कर्मवासम् | न स गच्छति तं दुरात्मतापं नरकं कुम्भिसमाख्यमुज्झिताघः || १० || स्कन्दपुराणे चत्वारिंशो ऽध्यायः ||

सुशर्मोवाच |

अतः परं प्रवक्ष्यामि असिपत्रवनं पुनः | नरकं पापकृद्दुःखं सर्वसत्त्वभयंकरम् || १ || असिपत्र इति ख्याता वृक्षास्तत्र दुरासदाः | बहवः सुमहाशाखा घनाश्चोच्चाश्च ते भृशम् || २ || तेषां पत्राणि घोराणि तीक्ष्णान्यसिनिभानि च | आयसेभ्यो विशिष्टानि न च तान्यायसानि हि || ३ || तैक्ष्ण्यात्तानि विशिष्टानि छेदने च महामते | तैः पत्रैराचिताश्चैव तथा कण्टकिनश्च ते || ४ || जन्तवस्तत्र रक्षोभिः पापकर्मनिबन्धनाः | वध्यमानासिमुसलैस्तथैवान्यैर्महायुधैः | अग्निना दह्यमानाश्च वृक्षांस्तान्संश्रयन्ति ते || ५ || तानागतान्समीक्ष्यैव पर्णानि स्म पतन्त्युत | महागुरूणि तीक्ष्णानि विनिकृन्तन्ति तांश्च ह || ६ || ते निकृत्तशिरोग्रीवा देशात्तस्मात्प्रयान्ति वै | ते गता राक्षसैर्भूयो भूयो वृक्षैर्दुरासदैः || ७ || यात्यन्ते वर्षकोटीस्तु तत्र पञ्च सुदुःखिताः | ततो विमुक्तास्तेभ्यस्ते उच्छ्रयान्संविशन्ति ह || ८ || विश्रान्तास्तत्र ते गत्वा उच्छ्रयान्नरकं पुनः | पात्यन्ते विवशा मूढा यावत्पापं क्षयं गतम् || ९ || ये तु तं नरकं घोरं नरा गच्छन्ति पापिनः | तांस्ते ऽहं संप्रवक्ष्यामि शृणुष्वावहितो द्विज || १० || वृक्षं यः पुत्रकृतकं विनाशयति दुर्मतिः | आरामे वाथ ग्रामे वा विक्रीणति च दुर्मतिः || ११ || निष्पादितं तथा वृक्षमाश्रमे पथि वा पुनः | तडागे वा तथोद्याने देवतायतनेषु वा || १२ || गृहे प्रपायामथ वा नद्यास्तीरे चतुष्पथे | यत्र वा तत्र वा जातं यो नाशयति दुर्मतिः || १३ || पादपान्गुल्मवल्लीर्वा क्षुपानथ तृणान्यपि | छायापुष्पफलार्थं हि स्वकार्यकरणाय वा | विनाशयति यो मूढः स च तं प्रतिपद्यते || १४ || यश्चापहरते मूढः पुष्पाणि च फलानि च | आत्मार्थं कामसंमत्तो न देवपितृकारणात् || १५ || नदीर्यश्चावरुध्नीयात्कूपान्यश्च प्रपूरयेत् | यश्च पर्णत्वचामर्थे वृक्षं छिन्द्यान्नराधमः | विनाशयेद्वा तं वृक्षं स च तं प्रतिपद्यते || १६ || यश्च छायां समासन्नाञ्जन्तून्वै संप्रबाधते | स्वस्थानं च समासीनांस्त्रासयेद्वारयेदपि || १७ || सर्वे ते तं प्रपद्यन्ते सोच्छ्रयं नरकं महत् | उत्तीर्णाश्च ततो भूयः संसारं यान्ति ते ऽशुभाः || १८ || य इमं शृणुयादतन्द्रितात्मा नरकं पापकृतामशर्मभूतम् | न स तं समुपैति पुण्यकर्मा विदितात्मा ह्यसिपत्रनामधेयम् || १९ || स्कन्दपुराण एकचत्वारिंशो ऽध्यायः ||

सुशर्मोवाच |

अतः परं वैतरणीं नदीं पापप्रणाशनीम् | शृणु मे ऽवहितः पुत्र पापकर्मभयावहाम् || १ || नदी वैतरणी पुत्र टङ्कच्छिन्नतटाशुभा | केशास्थिरुधिरापूर्णा महाक्षाररसा तथा || २ || उल्लुम्पकैर्गर्दभकैर्मकरैः कच्छपैरपि | शिशुमारैश्च नक्रैश्च तन्तुकै राक्षसैरपि | महादंष्ट्रैर्महाकायैः पिशिताशैः समाकुला || ३ || असिपत्रैश्च तैर्वृक्षैस्तीरजातैः समावृता | शैवलेन च दीर्घेण वितानेनाभिसंवृता || ४ || तस्यास्तीरे वनं घोरं शरभर्क्षसमाकुलम् | व्याघ्रद्वीपिसमाकीर्णं सिंहेभनरसंकुलम् || ५ || तत्र दुष्कृतकर्माणस्तैर्व्याघ्रादिभिरर्दिताः | तां नदीं सुमहाघोरां पात्यन्ते दुःखितास्ततः || ६ || तत्र ते पतिता वत्स तन्तुकैः शैवलेन च | वितानेन च संबद्धा भक्ष्यन्ते तैर्झषादिभिः | क्षारोदकेन दह्यन्तो नादयन्तश्च दुःखिताः || ७ || वर्षकोटीर्भृशं तद्वै †यावत्पापस्य संक्षयः† | ततो मुक्तास्तूच्छ्रयेषु पात्यन्ते वै पुनः पुनः || ८ || विश्रान्तास्तत्र ते गत्वा उच्छ्रयान्नरकं पुनः | पात्यन्ते विवशा मूढा यावत्पापं क्षयं गतम् || ९ || उत्तीर्णः सोच्छ्रयानेतान्संसारं प्रतिपद्यते | तीर्णो ऽन्तमेषु च पुनर्नरकेषु पृथक्पृथक् || १० || कोटिरेका तु कालस्य वर्धते ह्युत्तरोत्तरम् | उच्छ्रयाणां तु सर्वेषामेकैकस्य पृथक्पृथक् | सहस्रं वर्धते पुत्र वर्षाणां वै समासतः || ११ || ये तु गच्छन्ति तं घोरं नरकं दुष्टचेतसः | शृणुष्व तानिमान्सम्यगुच्यमानान्मयानघ || १२ || सरितं यो ऽभिशपते यश्चैनामवमन्यते | यश्च नग्नः प्रविशति स्त्रियं यश्चात्र गच्छति | निष्ठीवेदथ मूत्रं वा पुरीषं वाप्यथोत्सृजेत् || १३ || आपश्च हरते यस्तु क्षेत्रारामजनोपगाः | अपां सेतुहरश्चैव तडागस्य च भेदकः || १४ || तथा पुष्करिणीनां च दूषको यश्च मानवः | दुष्टामदुष्टामथवा यश्च नारीं प्रदूषयेत् || १५ || पद्मिनीं यश्च हरति नाशयेद्वापि दुर्मतिः | पथिस्थो वा गृहे वापि सार्थानां वा भयंकरः | ते सर्वे नरकं घोरं प्रपद्यन्ते नराधमाः || १६ || य इमामशुभप्रणाशनीं शृणुयान्नित्यमशुद्धबाधनीम् | प्रयतः स न याति भावनीं सरितं वैतरणीमसङ्गिनीम् || १७ || स्कन्दपुराणे द्वाचत्वारिंशो ऽध्यायः ||

सुशर्मोवाच |

अतः परं प्रवक्ष्यामि नरकं पापनाशनम् | अयोघनमिति ख्यातं सर्वप्राणिभयंकरम् || १ || यत्र ते पुरुषा घोरा यमाभा यमकिंकराः | महाबला महासत्त्वाः सर्वे योगेश्वरास्तथा || २ || अयस्कारा यथा पिण्डमयसो ऽग्निप्रतापितम् | संदंशेनापि संगृह्य स्थापयित्वायसे घने || ३ || अभिघ्नन्ति घनैरन्यैस्तथा तत्रापि जन्तवः | हन्यन्ते राक्षसैर्घोरैस्तर्जयद्भिः सुदारुणम् || ४ || वर्षकोटीस्तथा सप्त यातिताः स्वेन कर्मणा | उच्छ्रयेषु तथा घोरां यातनां प्राप्नुवन्ति ते || ५ || एते ये यान्ति पुरुषाः सोच्छ्रयं नरकं महत् | तानहं संप्रवक्ष्यामि अनिर्देश्यान्नराधमान् || ६ || पादेन हन्यात्पितरं मातरं पूज्यमेव वा | अन्यं कंचित्स्त्रियं वापि हस्तेनाथ कशादिभिः | तथा प्रव्रजितं चैव अग्निं वाप्यथ लङ्घयेत् || ७ || बालमर्थकृते यश्च मृत्युना योजयेत्तथा | स्त्रियं वाथ पुमांसं वा क्लीबं वान्यं नराधमः || ८ || भ्रातॄन्यश्चातिसंधत्ते द्रव्ये कस्मिंश्चिदेव हि | पितरं वाथ दुर्बुद्धिर्मातरं भगिनीमपि || ९ || पतिर्यश्चैव भार्यां स्वां पुत्रांश्चैवातिसंधयेत् | भार्या पतिं वा पुत्रं वा तेषां सा गतिरुच्यते || १० || कीलयेद्यश्च देवार्चास्तीर्थानि च दुरात्मवान् | विद्याः शास्त्राणि दिव्यानि तेषां सा गतिरुच्यते || ११ || य इमं बहुपापयोगकारणं शृणुयान्नित्यमसौख्यसर्वदानम् | प्रणतः स न याति तं भयानकं नरकं दुर्गमयोघनावतानम् || १२ || स्कन्दपुराणे त्रयश्चत्वारिंशो ऽध्यायः ||

सुशर्मोवाच |

अतः परं पद्ममहं प्रवक्ष्यामि सुदुर्गमम् | सुकृतीनामलभ्यं च दुष्कृतीनां भयावहम् || १ || तत्राग्निस्तापनो नाम धम्यमान इव ज्वलन् | जन्तवस्तत्र ताप्यन्ते वह्निवर्णा भवन्ति च | पद्मपत्रनिभाः सर्वे धाम्यमानास्ततस्ततः || २ || तस्य मध्ये महास्तम्भो लोहः समवतिष्ठते | तं ते गत्वा प्रगृह्णन्ति सो ऽप्यग्निमति दारुणः || ३ || एवं तत्रानिशं घोरं यातितास्तूच्छ्रयेष्वपि | नरास्तं यान्ति निःसङ्गं ये तान्मे त्वं निशामय || ४ || गुरुभार्यां च यो गच्छेद्गुरुस्वं वा हरेत यः | देवद्रव्यं भक्षयेच्च नाशयेद्वाप्यभीक्ष्णशः || ५ || ब्राह्मणस्वं हरेद्यश्च बलाद्धारयते ऽपि वा | बालद्रव्यापहारी च स्त्रीधनस्य तथैव च || ६ || क्लीवांश्च त्यजते यश्च यो हन्याच्छरणागतम् | धनं चास्याभिमन्येत देवद्रव्यहरश्च यः || ७ || सर्वभक्षश्च यः स्याद्वै यश्च पानीयविक्रयी | सोमविक्रयिकश्चैव अग्न्युत्सादक एव च || ८ || अग्निप्रहरणो यश्च विषप्रहरणश्च यः | अशस्त्रं यश्च संग्रामे हन्याच्छस्त्रेण मानवम् | याचमानं तथा चैव उपविष्टमथापि वा || ९ || पराङ्मुखं च संसक्तमन्येन सहवादिनम् | एते सर्वे नरास्तत्र गच्छन्त्यकृतबुद्धयः || १० || य इमं शृणुयात्कृतान्तसद्मं प्रयतो नित्यमनेकदुःखसद्मम् | स न याति तमुग्रशोकपद्मं नरकं मृत्युमिवाति कालसद्मम् || ११ || स्कन्दपुराणे चतुश्चत्वारिंशो ऽध्यायः ||

सुशर्मोवाच |

महापद्मस्ततश्चान्यो निरयो रोमहर्षणः | यत्र ते किंकरा घोरा यमस्य यमसंनिभाः || १ || जन्तूनामायुधैः कुण्ठैर्निर्घृणाः पापकर्मिणाम् | उत्कृत्योत्कृत्य मांसानि तेभ्यो यच्छन्ति वै पुनः || २ || ते भक्षयित्वा मांसानि स्वानि दुष्कृतकारिणः | पद्मपत्रनिभा जाता धाम्यन्ते ऽग्नौ दिवानिशम् || ३ || अनलेन च घोरेण द्रवीकृतमयः पुनः | मुखे ऽपावृत्य यच्छन्ति दारुणा यमकिंकराः || ४ || अयोमय्यस्तथा नार्यो नराश्चाग्निसमप्रभाः | समाश्लिष्यन्ति संगत्य द्रवमाणास्ततस्ततः || ५ || वृक्षाश्च तत्र बहवः सुपुष्पफलपत्रिणः | तानाश्रयन्ति दुःखार्ता अग्निं वर्षन्ति ते ऽपि च || ६ || शिलाश्च बह्व्यस्तत्रान्यास्ताः श्लिष्यन्ति यदा च ते | तदा ताश्चाग्निवर्णाभा दहन्ते तान्भृशं नरान् | एवमेष महापद्मो नरकः संप्रकीर्तितः || ७ || सुवर्णहारी यश्चैव मातृयायी च यो नरः | माता पुत्रं च यो ऽभ्येति वेददोषावकीर्तकः || ८ || मत्सरी यश्च दुर्वृत्तः श्रवणानां च पूजकः | वृषलो यः श्रुतिं ब्रूयाच्छृणुयादपि वा पुनः | गृह्णीयाद्वापि दुर्बुद्धिर्ब्राह्मणान्वावमन्यते || ९ || ब्राह्मणेभ्यो रहस्यानि आश्रमान्तरजानि च | यस्मिन्नाधिकृतो यः स्याच्छृणुयाद्वा पठेत वा || १० || दुष्टश्रवणनिर्ग्रन्थास्तथैवाजीवकाश्च ये | भक्तस्तेभ्यो द्विजो यश्च नरकं संप्रपद्यते || ११ || योगं परिवदेद्यश्च पितॄनथ पितामहान् | योगेश्वरांश्च दुर्वृत्तो योगधर्ममथापि च | वेदवर्णाश्रमज्ञांश्च तन्निन्दाभिरतः शठः || १२ || हेतुको नास्तिवादी च सर्वस्तं प्रतिपद्यते | तथ्यमुक्तं मया सर्वमेवमेतन्न संशयः || १३ || एवं ते यातितास्तत्र स्वकर्मफलबन्धनाः | ततः शेषेण संबद्धा जायन्ते कीटकादिषु || १४ || शृणुयाद्य इमं विजित्य दोषान्मतिमान्नित्यमलोभमोहशोकः | स तु दैवविधिप्रवेरितात्मा दिवमेवैति न याति तं कदाचित् || १५ || स्कन्दपुराणे पञ्चचत्वारिंशो ऽध्यायः ||

सुशर्मोवाच |

अतः परं प्रवक्ष्यामि रौरवं नरकं पुनः | यत्र ते विवशा बद्धाः कर्मणा स्वेन जन्तवः | यात्यन्ते दुःखशोकार्ता महानिरयगामिनः || १ || रु इति प्रोच्यते शब्दस्तत्रासौ श्रूयते यतः | पुनः पुनर्वा भीमो हि रौरवस्तेन कीर्त्यते || २ || पूर्णस्तु सर्वः कारीष्या ज्वलत्या सो ऽतिदारुणः | मध्ये स्तम्भो ऽस्य लोहो वै तप्तकाञ्चनसप्रभः || ३ || तत्र जन्तुर्भृशं मग्नः प्रविशन्दह्यते भृशम् | आर्तनादान्प्रकुर्वाणो मूर्छितः पतितः पुनः || ४ || ततः क्लेशेन महता उद्धृत्यात्मानमात्मना | भूयो ऽन्यं देशमासाद्य तथैव प्रविशन्स हि || ५ || ततस्तस्मादुपोत्पत्य स्तम्भमाश्रयते यदि | तेनापि दह्यते भूयो विसृज्य प्रविशेत्पुनः || ६ || एवं स यात्यते तत्र बहूनब्दान्सुदुःखितः | ततो विसृष्टो भूयश्च उच्छ्रयान्प्रतिपद्यते || ७ || तं हि गच्छन्ति पुरुषाः सुरापा धर्मदेशकाः | पितृहा मातृहा चैव भ्रातृहा गुरुहा तथा || ८ || गोघ्नो ऽथ दमकश्चैव जन्तूनां भृशदारुणः | गलकर्त्ता कूटमानी कर्मणांश्च करोति यः || ९ || परिवित्तिः परिवेत्ता श्मशानरतिरेव च | पुनर्भूसुतसंयोगी यस्य चोपपतिर्गृहे | एते सर्वे ऽभिगच्छन्ति नरकं रौरवं नराः || १० || य इमं शृणुयाच्च रौरवं नरकं पापकृतां सुरौरवम् | नियतं प्रयतो ऽतिरौरवं न स गच्छेन्मनसापि रौरवम् || ११ || स्कन्दपुराणे षट्चत्वारिंशो ऽध्यायः ||

सुशर्मोवाच |

महारौरवमन्यच्च शृणु मे दुष्टयातनम् | यत्र धाराश्च तोयस्य तडागानि च पुत्रक | कारीषी कनकाभा च कुल्याश्चाग्निप्रपूरिताः || १ || आयसा बहवः स्तम्भा वृक्षाश्च बहुकण्टकाः | राक्षसा विविधाकारास्तीक्ष्णशस्त्रास्त्रधारिणः || २ || तत्र पापेन बहुना जन्तुः समभिपाशितः | निपतेद्विकृताकारः क्रन्दमानो मुहुर्मुहुः || ३ || स तत्र पतितः क्षिप्रं राक्षसैर्भिन्नमस्तकः | कारीष्यामग्निवर्णायां पच्यते भृशदारुणम् || ४ || ततः स तेन दाहेन दुःखितः परमार्तिमान् | दाहप्रशमनार्थाय तडागे ऽभिनिमज्जते || ५ || तत्र क्षारेण कष्टेन द्विगुणं वेदनार्दितः | वेगेनोत्थाय वृक्षं वा स्तम्भं वाप्यभिरोहति || ६ || तत्र तैः कण्टकैस्तीक्ष्णैरायसैश्चावतक्षितः | पतते ह्यग्निकुल्यायां करुणं बहुधा नदन् || ७ || एवं स यात्यमानस्तु तृषार्तो विलपन्बहु | धारामाश्रयते पातुं सापि तस्यायसं तदा | अग्निवर्णं वहत्यम्भस्ततो मूर्छार्दितो म्रियेत् || ८ || संपूर्णयातनश्चापि मुक्तस्तस्माद्भयावहात् | उच्छ्रयेषु तदा जन्तुर्यात्यते भृशदारुणम् || ९ || तत्र गच्छन्ति राजघ्नो राजभार्यावमन्यकः | आशां दत्त्वा न दद्याद्यो यश्च तीर्थावदूषकः || १० || मोषकः सूचकश्चैव स्त्रीभृतो यश्च पापकृत् | अग्नौ गवि च यो दानं ब्राह्मणे वापि वारयेत् || ११ || विक्रीणीयात्स्वभार्यां यो अपत्यं वा नराधमः | हरते चाग्निभाण्डानि योगिनां चैव किंचन || १२ || चोरग्राहश्च दुर्बुद्धिर्मनुष्यास्तस्य ये च ह | ब्राह्मणाधिकृतश्चैव धर्माधिकृत एव च || १३ || कपिला यस्य गौः स्याच्च अनग्नेर्ब्राह्मणस्य ह | मिथ्याग्निहोत्री यश्चैव नैत्यके ऽपरिवेषकः || १४ || राजपुत्रहरश्चैव दुर्भिक्षं यश्च चिन्तयेत् | राष्ट्रलोपं दारलोपं धनलोपं च यो नरः | देशस्य डामरं चैव सततं य इहेच्छति || १५ || य इमं शृणुयादभीक्ष्णशो नियतं धर्ममतिश्च तिष्ठति | न स गच्छति तं भयावहं नरकं रौरवमुग्ररौरवम् || १६ || स्कन्दपुराणे सप्तचत्वारिंशो ऽध्यायः ||

सुशर्मोवाच |

तमो नामापरो घोरो नरको ऽतिभयंकरः | तत्र सो ऽभिपतन्नेव राक्षसैरभिहन्यते || १ || असिमुद्गरशक्त्यग्रैर्गदामुसलपट्टसैः | भयदैः परिघैष्टङ्कैर्वज्रैरसिपरश्वधैः || २ || अन्यैश्च विविधाकारैर्हतः क्रुद्धैः सुनिर्दयैः | मूर्छितस्तमसा ग्रस्तो नरकं तं प्रपद्यते || ३ || स देहेन विनष्टेन तमसा मूर्छिताकृतिः | दुःखसंततिसंबद्धो यातनामश्नुते भृशम् || ४ || यस्मात्स तमसा ग्रस्त अनाश्वस्तो ऽतिदारुणम् | यातनामश्नुते जन्तुस्तमस्तस्मात्स उच्यते || ५ || सर्वा बहुविधाकारा यातना याः प्रकीर्तिताः | तास्तत्र समवाप्नोति स्वेन पापेन दुर्मतिः || ६ || समाप्तयातनश्चापि संतीर्णः स्वेन कर्मणा | उच्छ्रयेषु पुनर्जन्तुर्यात्यते कर्मबन्धनः || ७ || ब्रह्महा भ्रूणहा चैव सुरापो ब्राह्मणश्च यः | गवां निपाने यश्चैव पिपासूनां नराधमः || ८ || विघ्नं करोति मोहान्ध आहूय च कृशं तथा | ब्राह्मणं न ददात्यस्य अर्थिनं यश्च दूषयेत् || ९ || शास्त्राणि हरते यश्च गोघ्नो यश्च नरः स्मृतः | कपिलश्च वृथादृष्टिर्वेदधर्मार्थदूषकः | नास्तिकाश्च दुरात्मान इत्येते तं प्रयान्ति वै || १० || य इमं शृणुयात्तमोमयं तमसा नित्यमतन्द्रितेन्द्रियः | न स याति तमोमयं सदा नरकं दारुणजन्तुशोकदम् || ११ || स्कन्दपुराणे ऽष्टचत्वारिंशो ऽध्यायः ||

सुशर्मोवाच |

तमस्तमतरं घोरं नरकं शृणु मे पुनः | प्रकाशो यत्र नैवास्ति नैव दृष्टिः प्रवर्तते || १ || पतन्नेव नरस्तत्र विसंज्ञः क्रियते ऽशुभः | राक्षसैर्विकृताकारैस्तमस्तेन स चोच्यते || २ || तत्रासौ पतितो मूढो वह्निना दह्यते भृशम् | मृतो वेगादुत्थितश्च दृष्टिहीनो विचेतनः | छिद्यते भिद्यते चैव राक्षसैः क्रूरकर्मभिः || ३ || तस्मादपि तथैवार्तः सो ऽन्यं देशं प्रपद्यते | तत्रापि निगृहीतस्तैः पशुमारेण वध्यते || ४ || ततो भूयश्च कूपेषु क्षिप्तो दुर्गेष्वचेतनः | निमग्नश्चाग्निकारीष्यां निष्कूजन्सो ऽभिजायते || ५ || एवं स यातना बह्वीस्त्वनुभूय सुदुःखितः | नरकान्तमनुप्राप्य उच्छ्रयेष्वभिपात्यते || ६ || गर्भपातनकारश्च राज्यकामश्च यो भवेत् | इहैवानर्हमानो ऽसौ भृत्यो राजवधे रतः || ७ || अनाचार्यश्च यः कर्म आचार्याणां प्रपद्यते | शास्त्रविद्यौषधीनां च गदानामगदैः सह | यो विनाशयिता कश्चिद्यः प्रशंसति दानवान् || ८ || उपदेशं च यो द्वेषादाचार्यो न प्रयच्छति | स याति नरकं घोरं दुस्तरं तं तमोमयम् || ९ || कृतघ्नं तु समादाय नरकाः सर्व एव ते | यमं प्रणम्य ब्रुवते सह तैर्यमकिंकरैः || १० || भगवन्न वयं शक्ताः पापस्यास्य विनाशने | उपायमन्यं पश्यस्व प्रसादं कुरु नः प्रभो || ११ || स एवमुक्तो भगवान्यमः प्रेताधिपस्तदा | सर्वधर्मार्थकुशलान्पृच्छते ऋषिसत्तमान् || १२ || भगवन्तः कथं त्वस्य कृतघ्नस्य दुरात्मनः | निष्कृतिः सुमहाघोराद्भवेत्पापस्य कर्मणः || १३ || ततस्ते ऋषयः सर्वे दृष्ट्वा दीर्घेण चक्षुषा | यमं धर्मभृतां श्रेष्ठमिदं वै ब्रुवते वचः || १४ || ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा | निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः || १५ || ततः स भगवान्देवो मार्तण्डतनयो वरः | नरकेभ्यो ददात्याज्ञां सर्वे यूयमिमं नरम् | शोधयिष्यथ गच्छध्वं नैका ह्यस्य गतिः स्मृता || १६ || ततस्ते तस्य वचनान्नरकाः पापकर्मिणम् | सर्वेष्वेवानुपूर्वेण यातयन्त्यतिदारुणम् || १७ || भर्तृपिण्डापहर्ता च पितृपिण्डापहारकः | तस्माद्गृहीत्वा विद्यां च दक्षिणां यो न यच्छति || १८ || पुष्टश्च यः स्वं नान्वेति यश्च तं घातयेन्नरः | कृतस्य दोषं वदति सकामं न करोति च | न स्मरेच्च कृतं यस्तु आश्रमान्यश्च दूषयेत् || १९ || न पुष्णाति तथा वाहानाश्रितांश्चोपकारिणः | भृत्यांश्च कर्मनिरतांस्तथैव हितकारिणः | भार्याकर्मकरीणां च नर्माणि वदते च यः || २० || न दत्तं न हुतं किं चिदमुष्मिन्निति यो वदेत् | सर्वांस्तानृषिभिः सार्धं कृतघ्नानब्रवीन्मनुः || २१ || कृतघ्नश्च शठश्चैव नास्तिको ऽच्छिन्नसंशयः | एतान्सर्वे ऽभिगच्छन्ति य एते कीर्तिता मया || २२ || उत्पादकोपनेता च यश्च विद्यां प्रयच्छति | भयत्रातान्नदाता च पञ्चैते पितरः स्मृताः || २३ || यस्तेषां दोषवक्ता च अभ्यसूयक एव च | तथा द्रोहप्रवृत्तश्च संत्यजेत्तान्नराधमः || २४ || मित्रध्रुग्यश्च दुष्टात्मा तस्य रन्ध्रावकीर्तकः | कृतोपकारिणे पूर्वं न करोति प्रियं च यः || २५ || एते सर्वे नरा दुष्टाः सर्व एवाशुभे रताः | नरकान्संप्रपद्यन्ते बद्धाः पापेन कर्मणा || २६ || एते सर्वे मया प्रोक्ता महानिरयगामिनः | उच्छ्रयानेव गच्छन्ति ये ऽन्ये पापकृतो जनाः || २७ || य इमं तामसं घोरं शृणुयाद्वा पठेत वा | अधर्माच्च निवर्तेत स गच्छेद्ब्रह्मणः पदम् || २८ || स्कन्दपुराण एकोनपञ्चाशत्तमो ऽध्यायः ||

सुशर्मोवाच |

अतः परं प्रवक्ष्यामि संसारपरिवर्तनम् | यथा वै नरकात्तीर्णाः संसरन्ति समासतः || १ || प्रथमे नरके प्रोक्ता ये मया पापकर्मिणः | शेषेण कर्मणा ते तु जायन्ते कृमियोनिषु || २ || कृमियोनौ परावृत्ताः सहस्राणां शतं यदा | ततः पुनर्मर्कटास्ते जायन्ते ऽथ तरक्षवः || ३ || तत्र तावत्परावृत्ता जायन्ते गोषु ते यदा | तदा तत्र शतेनैव जन्मनां शेषतस्ततः | मानुषेषूपजायन्ते कुत्सितास्वेव योनिषु || ४ || तत्र ते कुर्वते भूयो यदि किंचिन्न किल्बिषम् | ततो विशुद्धां जातिं ते पुनरेव लभन्त्युत | न च भूयो ऽपि ते घोरं संसारं प्राप्नुवन्ति वै || ५ || द्वितीये ये मया प्रोक्तास्ते मुक्ताः शेषकर्मणा | कृमिकीटेषु जायन्ते सहस्राणां शतानि षट् || ६ || तथा शतसहस्रं च शतानां ते पुनर्गताः | मत्सयोनौ प्रसूयन्ते तावदेव न संशयः || ७ || ततो व्याघ्राश्च ऋक्षाश्च ततो गोत्वमवाप्यते | मानुषेषूपपद्यन्ते कुत्सिताः स्वेन कर्मणा || ८ || तृतीये त्वथ ये प्रोक्ता मया दुष्कृतकारिणः | ते मुक्ताः कर्मणस्तस्माच्छेषेण समवेष्टिताः | कृमिकीटेषु जायन्ते सहस्राणां शतानि षट् || ९ || तथैव दश चान्यानि पक्षिणस्तावदेव च | ततः सिंहाश्च सर्पाश्च गावः पश्चाच्च मानुषाः || १० || चतुर्थे त्वथ ये प्रोक्ता मया दुष्कृतकारिणः | ते सर्वे शेषवन्तस्तु जायन्ते कृमियोनिषु || ११ || सहस्राणां शतान्यष्टौ तथा चान्यानि षोडश | योनीनां हि ततो भूयो जायन्ते ते ततो मृगाः || १२ || मृगभावाद्विनिर्मुक्ता जायन्ते च पुनः खराः | ततो ऽजा गवयाश्चापि गावो मानुष्यतान्ततः || १३ || पञ्चमे ये मया प्रोक्तास्ते ऽपि शेषेण कर्मणा | कृमिकीटेषु जायन्ते जन्मनां कोटिमेव हि || १४ || हस्तियोनौ च तावद्धि उष्ट्रेष्वश्वेषु चैव हि | ततो गोत्वं समासाद्य मानुष्यं प्राप्नुवन्ति ते || १५ || षष्ठाच्चैव विनिर्मुक्तास्ततः शेषेण कर्मणा | जायन्ते कृमिकीटेषु जन्मनां द्विगुणेन हि || १६ || कोटिमेकां ततो यूका ततो मत्सो ऽथ सूकरः | महिषत्वं ततः प्राप्य गोत्वाज्जायेत मानुषः | मानुषत्वे कुत्सितश्च व्याधितश्चैव जायते || १७ || सप्तमाच्च विनिर्मुक्तः कृमिकीटेषु जायते | कोटित्रयं तावदेव वृक्षत्वमधिगम्य च || १८ || ततो लता ततो गुल्मस्ततो हस्ती च जायते | गोत्वं च समनुप्राप्य जायते मानुषस्ततः || १९ || अष्टमाच्च विनिर्मुक्तो बद्धः शेषेण कर्मणा | जायते कृमिकीटेषु द्वे कोटी द्विगुणे च सः || २० || ततश्चौषधिभावेन वीरुत्सु च कुशेषु च | ततो गोत्वाद्विनिर्मुक्तो जायते कुत्सितो नरः || २१ || नवमादपि चोत्तीर्णो बद्धः शेषेण कर्मणा | जायते कृमिकीटेषु पञ्चकोटीस्ततः खगः || २२ || ततो मत्सश्च तावद्वै तावदेव सरीसृपः | श्वा ततस्तावदेवाथ ततो भवति किंनरः || २३ || किंनरत्वाद्विनिर्मुक्तस्ततो गोषूपजायते | ततो गोयोनिनिर्मुक्तो मानुषेषूपजायते || २४ || दशमादपि चोत्तीर्णः षट्कोटीर्जन्मनां कृमिः | शेषेण कर्मणा जातस्ततो भवति वानरः || २५ || वानरस्तावदेवेह तावदेव च कुक्कुटः | तावदेव च काकस्तु जीवंजीवक एव च || २६ || वृक्षदारकमार्जारपिपिलीका च जायते | ततो गोषु प्रजातो ऽसौ मानुषेषूपजायते || २७ || महारौरवनिर्मुक्तः सप्तकोटीः सुदुःखितः | जन्मनां कृमिकीटेषु ततो मत्सत्वमश्नुते || २८ || ततः श्वा गर्दभश्चैव भैनाशी शुक एव च | ततो भवति गौश्चापि ततः षण्ढः प्रजायते || २९ || तमोनरकनिर्मुक्तस्त्वष्टकोटीः सुदुःखितः | जन्मनां प्राप्नुते जन्तुर्विष्ठायां कृमियोनिषु || ३० || ततः श्वा जायते भूयश्चक्राह्वश्च पुनः पुनः | ततो मण्डूकतां प्राप्य जायते मृगपक्षिषु || ३१ || जायते किंनरश्चापि द्वीपी शरभ एव च | ततो गोत्वं समासाद्य मानुषत्वमवाप्नुते || ३२ || तमोनरकनिर्मुक्तः शेषेणैव हि कर्मणा | जायते कृमिकीटेषु नवकोटीः स जन्मनाम् || ३३ || ततो भवति काकश्च भासश्चैव स जायते | वान्ताशी च ततः पक्षी उलूकश्च ततः पुनः || ३४ || पुनर्वृक्षश्च गुल्मश्च ततो भवति वै मृगः | ततो गौर्मनुजश्चापि तत्र गर्भे स वै मृतः || ३५ || पुनः पुनर्जायमानः सहस्राणां शतं स तु | व्याधितः कुत्सितश्चैव जायते स नरः पुनः || ३६ || यस्तु सर्वानिमान्प्राप्य नरकानिह जायते | स योनिषु समस्तासु सर्वसंसारमश्नुते || ३७ || यदि मानुष्यतां याति कदाचित्कालपर्ययात् | तत्रापि कुत्सितां योनिं भूयो भूयः प्रपद्यते || ३८ || अनिष्टः सर्वभूतानां दुःखितो व्याधितस्तथा | विकृतं रूपमाप्नोति कर्मणा स्वेन दूषितः || ३९ ||

सुशर्मोवाच |

एतत्ते कथितं सर्वं समासात्पुत्र सर्वशः | नरकाणां सतत्त्वं च क्रमभेदौ यथागति || ४० ||

सनत्कुमार उवाच |

य इमं शृणुयाद्युक्तः सदा पर्वसु पर्वसु | श्रावयेद्वा द्विजान्सम्यक्सर्वपापैः प्रमुच्यते || ४१ || धर्म्यं यशस्यमायुष्यं स्वर्ग्यं सर्वार्थसाधकम् | श्राव्यं च पठितव्यं च सततं भूतिमिच्छता || ४२ || इदं तु सर्वार्थसुखावहं ध्रुवं महानुभावं सुगतिप्रदं शुभम् | सदैव विप्रेण समाहितात्मना अधीत्य धार्यं श्रुतिसंमितं ध्रुवम् || ४३ || स्कन्दपुराणे पञ्चाशो ऽध्यायः ||

सनत्कुमार उवाच |

सुकेशस्तु ततो व्यास पितुः श्रुत्वा सुदीनवान् | दीनवच्चिन्तयामास जन्तूनां तां गतिं तदा || १ || चिन्तयाभिपरीतात्मा दुःखेन च समाहतः | जन्तूनां मोक्षणोपायं मूढचेता न जज्ञिवान् || २ || चिन्तापन्नः स तु यदा पितॄंस्तान्नाभ्यभाषत | तदा ते पितरः सर्वे सुकेशमिदमूचिरे || ३ ||

पितर ऊचुः |

अतीव किं चिन्तयसि कुतश्चिन्ता तवानघ | ईश्वरस्य सतः पुत्र नेदं तव विधीयते || ४ ||

सुकेश उवाच |

जन्तूनां कर्मजं क्लेशं श्रुत्वा युष्माभिरीरितम् | चिन्तयामि कथं तेषां मोक्षोपायो भवेदिति || ५ ||

पितर ऊचुः |

अनादृत्य क्षयं पुत्र मोक्षस्तेषां न विद्यते | कर्मणः स्वकृतस्येह स च भोगात्क्षयो मतः || ६ || भोगश्च नरके ऽवश्यं जन्तूनां स विधीयते | न च ते नरकाः शक्या हर्तुं कर्मक्षयं विना || ७ || अशक्याः खलु ये ह्यर्था न तान्प्राज्ञः समारभेत् | अर्णवस्य प्रतरणं यथा तन्मृत्युमर्छति || ८ ||

सनत्कुमार उवाच |

एवमुक्तः स तेजस्वी पितॄंस्तान्हृच्छयावृतः | उवाच प्रणतो भूत्वा मावमंस्थाः सुतं हि माम् || ९ || का शक्तिर्मम ताञ्जन्तून्बलात्तारयितुं सुताः | महादेवप्रसादात्तांस्तारयिष्यामि दुर्गतिम् || १० || यूयं यथैव तीर्णाः स्थ नरकस्था विचेतसः | तथा ते जन्तवः सर्वे तरिष्यन्ति न संशयः || ११ ||

सनत्कुमार उवाच |

ततस्तान्स तदामन्त्र्य महात्मा गणनायकः | संप्रविश्य समुद्राम्भो अन्तर्जलगतस्तदा | जजाप रुद्राञ्छुद्धात्मा निश्चलः सुसमाहितः || १२ || जपतस्तस्य योगेन युक्तस्य च महात्मनः | त्रैलोक्यमखिलं सर्वं तपसाभूत्प्रतापितम् || १३ || ततो देवास्तदा सर्वे पितामहमथाब्रुवन् | किमिदं भगवन्सर्वे तप्याम विवशा वयम् || १४ || कस्येदं तपसो वीर्यं कस्य योगो ऽयमीदृशः | क एष सुरशार्दूल तपस्तप्यति दारुणम् || १५ || यावदेवं न दहति यावच्चैव न कुप्यते | तावत्सर्वानभिप्रायांस्तस्य संपादय प्रभो || १६ || स एवमुक्तो देवैस्तैर्भगवान्देवसत्तमः | उवाच मा भयं वो ऽस्तु नायं कश्चिदसंमतः || १७ || एष रुद्रस्य देवस्य महात्मा गणनायकः | समुद्रान्तर्जलासीनो रुद्राञ्जपति योगवान् || १८ || न चास्य दुष्टाभिप्रायो लोकान्प्रति महाबलाः | नारकानेष नरकादुद्धर्तुमभिमन्यते || १९ || ते यूयं यदि मन्यध्वं गत्वा रुद्रं प्रणम्य च | अर्थयामो ऽस्य देवस्य क्रियतामीप्सितो वरः || २० || एवमस्त्विति ते सर्वे ब्रह्मणा सह संगताः | गता मन्दरमव्यग्रा नन्दिना संप्रवेशिताः | ते दृष्ट्वा देवमीशानं स्तुत्वेदमब्रुवन्विभुम् || २१ || सुकेशो भगवंस्तुभ्यं वल्लभो गणनायकः | कारुण्यं प्राणिनां कृत्वा तपस्तप्यति दुश्चरम् | तस्य कामं सकामं त्वं कुरुष्व भुवनेश्वर || २२ || तेषां विज्ञप्तिमाकर्ण्य देवदेवस्तदा भवः | ब्रह्माद्यैः सहितो ऽभ्यागात्सुकेशस्य तदान्तिकम् || २३ || समुद्रस्तत्र ये चान्ये मुनयः संशितव्रताः | अर्घ्यमादाय शतशो नेमुः शंकरमागतम् || २४ || तमसौ गणपश्रेष्ठं देवदेव इदं वचः | प्रोवाच मधुरं व्यास मनःश्रोत्रसुखावहम् || २५ || वत्सोत्तिष्ठ सुकेश त्वं प्रार्थयस्व यथेप्सितम् | सर्वं तत्संप्रदास्यामि त्वं हि नन्दिसमो मम || २६ || ततः सुकेश उत्थाय स्तुत्वा तं वृषभध्वजम् | प्रणिपत्य पुनर्वव्रे कामं पूर्वसमीहितम् || २७ || नरकेषु नरा देव यात्यन्ते पापकर्मिणः | तेषामुपरि चेतो मे दुःखेनार्दितमीश्वर || २८ || ते यथा प्रतिमुच्यन्ते सर्व एव जगत्पते | तथा कुरु ममाद्यैव वर एषो मयार्थितः || २९ || ये चाधुना नरा देव यात्यन्ते नरकेषु वै | तेषां तु प्रतिमोक्षार्थं याचयेयं सुरेश्वर || ३० || ततस्तदर्थितं देवः प्रयच्छन्निदमब्रवीत् | एवं भवतु ते वत्स मुक्ता नारकिणो नराः || ३१ || अनयापि च भक्त्या त्वं कारुण्येन च वल्लभः | सुतरां भव निर्व्यग्रः परमैश्वर्यसंयुतः || ३२ || ततस्ते नारकाः सर्वे विमानानि समाश्रिताः | देवदेवं ततो ऽभ्येत्य सुकेशं च प्रणेमिरे || ३३ || तमुवाच पुनर्देवः सुकेशं गणनायकम् | यो हि तारयते जन्तूनापदं किंचिदेव हि | तस्य धर्मो ऽमितो भूत्वा संसारं न प्रयच्छति || ३४ || मनसापि हि यः प्राणी क्लेशाज्जन्तून्सदेच्छति | विमोक्तुं सो ऽपि धर्मात्मा सर्वदुःखैः प्रमुच्यते || ३५ || यश्चोपार्ज्य स्वयं धर्मं जन्तुभ्यः संप्रयच्छति | सुखार्थं सो ऽपि सर्वेभ्यो दुःखेभ्यः संप्रमुच्यते || ३६ || स त्वं परेण योगेन ऐश्वर्येण च संयुतः | जन्तूनां तारणे युक्तस्त्वयान्यः कः समो भुवि || ३७ ||

सुकेश उवाच |

भगवंस्त्वत्प्रसादान्मे सर्वमेतद्भविष्यति | शक्तिर्मम कुतो देव त्वयैवैतत्कृतं विभो || ३८ || न चान्यदस्ति कर्तव्यं कृत्यं यन्मे मनोगतम् | तवास्मि किंकरो दासो नाश्चर्यं यन्ममेदृशम् || ३९ ||

सनत्कुमार उवाच |

ततः स भगवान्देवो विसृज्य गणनायकम् | अभ्यगान्मन्दरं व्यास वृतः सर्वामरैस्तदा || ४० || देवा अपि विमानस्थान्नारकान्वीक्ष्य सर्वशः | शान्तं च जगतो दुःखं दृष्ट्वा जग्मुर्यथागतम् || ४१ || य इमं नारकोत्तारं शृणुयाद्वा पठेत वा | स दुःखं समनुप्राप्य नावसीदति कर्हिचित् || ४२ || एतद्योगविधानसर्वसमयं श्रुत्वा नरो नित्यशः पापात्मापि सुनिर्घृणं प्रतिभयं नाभ्येति पापाश्रयम् | किं न्वेतं य इहाभ्युपेत्य सततं शौचान्वितः श्रावयेद् देवब्राह्मणवैद्यसंसदि दृढं भक्तः सदा शंकरम् || ४३ || स्कन्दपुराण एकपञ्चाशो ऽध्यायः ||

व्यास उवाच |

के पुनस्तं न गच्छन्ति नरकं शुभकर्मिणः | पापेष्वभिरता देव एतदिच्छामि वेदितुम् || १ || तथा स्त्रीणां च का युक्ता गतिः परमिका शुभा | केन कर्मविपाकेन एतदिच्छामि वेदितुम् || २ ||

सनत्कुमार उवाच |

न गच्छन्ति नरा ये तु नरकं तं सुदुःखिताः | पापकर्मण्यभिरतास्तानिमाञ्छृणु मानद || ३ || नाग्निचिन्नरकं याति न सत्पुत्री न गोव्रती | नाश्वमेधेन यो यष्टा गोसहस्रप्रदो न च || ४ || न च स्वाध्यायनित्यो यो रुद्रजापी च यो नरः| ब्राह्मणं तारयेद्यश्च आपदो मरणान्तिकात् || ५ || तमेव व्याधितं दीनमकर्मण्यं तथैव च | शुश्रूषेद्यावदर्थेन युक्तो धर्मेण मानवः || ६ || तथा गां चैव संभग्नां पतितां शक्तिवर्जिताम् | संरक्षति सुयुक्तात्मा स च तं नैव गच्छति || ७ || महेशं यश्च भावेन परेण च समाधिना | भक्तः समर्चयेन्नित्यं स च तं नैव गच्छति || ८ || ब्राह्मणास्तं न गच्छन्ति वेदवेदाङ्गपारगाः | षट्कर्मनिरता व्यास आत्मधर्मव्यवस्थिताः || ९ || तपःशौचसमायुक्ता दयावन्तो दृढव्रताः | प्रतिग्रहनिवृत्ताश्च ईशभक्ताश्च ये द्विजाः || १० || क्षत्रिया ये च रक्षार्थं प्रजानां नित्यमुद्यताः | त्यजन्ति समरे प्राणान्न ते नरकगामिनः || ११ || वैश्या वार्तासमायुक्ता न्यायधर्मव्यवस्थिताः | येषां वृत्तिरविच्छिन्ना देवब्राह्मणपूजने | नरकं ते न पश्यन्ति स्वर्गगास्ते प्रकीर्तिताः || १२ || भक्ता वर्णत्रयं ये च शूद्रा दर्पविवर्जिताः | ब्राह्मणांश्च विशेषेण ये नित्यं समुपासते | न ते पश्यन्ति नरकान्सुगतिं च मृता ययुः || १३ || चतुर्ष्वपि च वर्णेषु मनुजा भावतः शिवम् | शर्वार्पितक्रियावस्था भक्ता नित्यमनुव्रताः | न ते प्रयान्ति नरकान्प्राप्नुवन्ति परां गतिम् || १४ || प्रासादं ये च वै कृत्वा देवदेवमुपासते | अन्यानपि पितॄंस्ते तु नरकादुद्धरन्त्युत || १५ || खानिताः पुष्करिण्यश्च तडागानि ह्रदानि च | रोपितानि च षण्डानि ते ऽपि तानि न यान्ति हि || १६ || परित्राणां द्विजातीनामन्येषां चैव दुःखिनाम् | नित्यं प्रकुर्वते ये च ते ऽपि तान्न व्रजन्ति हि || १७ || अक्रोधनाश्च ये नित्यं देवब्राह्मणपूजकाः | नित्यं दानरताश्चैव न ते गच्छन्त्यधोगतिम् || १८ || सत्याभिधानसंयुक्ता दुष्कृतारम्भवर्जिताः| स्वधर्मकरणे सक्ताः पश्यन्ति नरकान्न ते || १९ || लिङ्गार्चनरतस्तस्मात्सर्वस्मात्परिमुच्यते | ध्यानी तु सर्वदा यो वै गणाञ्जपति वा शुचिः | योगी तु सर्वपापानि कुर्वन्नपि न लिप्यते || २० || स्त्रीणां तु परमो देवः पतिर्भवति सर्वदा | तस्मान्नान्यत्प्रपश्यन्ति ये केचिद्धर्मचिन्तकाः || २१ || कर्मणा मनसा वाचा यद्ददाति जुहोति वा | परित्यज्य पतिं नारी न तस्य फलमश्नुते || २२ || पतिशुश्रूषणे रक्ता त्रिविधेनापि कर्मणा | पतौ मृते ऽपि मनसा नान्यमिच्छति या नरम् || २३ || करोति पुण्यं यच्चापि पत्युः सर्वं प्रयच्छति | सा नारी नरकान्सर्वान्मनसापि न गच्छति || २४ || संसारं नैव सा घोरं सर्वं संप्रतिपद्यते | अन्यासां तु न संदेहो नरकं प्रति सुव्रत || २५ ||

सनत्कुमार उवाच |

सुकेशं त्वनुगृह्यैवं काष्ठकूटाश्रमं गतः | अनुजग्राह तं विप्रं काष्ठकूटं तपोधनम् || २६ ||

व्यास उवाच |

किं तपस्तस्य भगवन्ब्राह्मणस्य महात्मनः | कियता चैव कालेन वरं लेभे महेश्वरात् || २७ || कस्य पुत्रः कस्य नप्ता किंनामा स च सत्तमः | एतदिच्छामि कथितं भगवन्विस्तराच्छुभम् || २८ ||

सनत्कुमार उवाच|

गौतमस्यान्वये विप्रो नाम्ना कृष्ण इति प्रभुः | तस्य पुत्रो ऽभवत्ख्यातो भूमन्युरिति नामतः | तस्य पत्न्यभवत्सुभ्रूरात्रेयी नामतो यशा || २९ || स कदाचित्कृतोद्वाहो भूमन्युर्नाम गौतमः | नाविन्दत सुतं तस्या जरया चाभिसंवृतः || ३० || स भार्यामाह दुःखार्त इदं वचनकोविदः | पुत्रेणेच्छन्ति लोकांश्च अनृणाश्च भवन्त्युत | जरापरिणतश्चाहं न च मे दृश्यते सुतः || ३१ || सा त्वं कंचित्सगोत्रं मे अनुज्ञाता मया शुभे | अभिपद्यस्व पुत्रार्थं याचे त्वां प्राञ्जलिर्नतः || ३२ ||

यशोवाच |

न मया श्रुतमेतत्ते तथा नोक्तं त्वयानघ | मादृशी कथमेतद्धि मनसाप्यभिचिन्तयेत् || ३३ || अत्रीणां तु कुले जाता गौतमं कुलमागता | मद्विधा कथमेतद्धि कुर्यात्सद्भिर्विगर्हितम् || ३४ || तपसा धनमन्विच्छेज्जीवितानि सुखानि च | पुत्रान्कुलं च लोकांश्च तपः कुरु महामुने || ३५ || तपसा हि सुतो लब्धः शक्तिना स पराशरः | और्वश्च तपसा स्वेन च्यवनेन महामुनिः || ३६ || वसिष्ठेन कपिञ्जल्यामिन्द्रप्रमतिरेव च| शिलादो ऽजनयच्चैव तपसा नन्दिनं सुतम् || ३७ || तथा भवानपि तपः करोतु सुसमाधिना | लप्स्यसे त्वं सुतं श्रेष्ठं महायोगबलान्वितम् || ३८ || मां हि दृष्ट्वा पुरा प्राह अत्रिर्ब्रह्मसुतः स्वयम् | सत्पुत्रिणी भवित्रीयं न मिथ्या तद्भविष्यति || ३९ || तपो ऽस्ति मयि यत्किंचित्त्वत्प्रसादात्समार्जितम् | तेन स्वेन च संयुक्तो रुद्रमाराधय प्रभो || ४० ||

सनत्कुमार उवाच|

एवमुक्तः स तेजस्वी ह्रिया परमया युतः | तथैव समनुज्ञातो रुद्रं शरणमेयिवान् || ४१ || त्वरितं स समागम्य नर्मदां हर्षसंयुतः | तस्यास्तीरे तमुद्दिश्य तस्थौ वाय्वशनः समाः || ४२ || स तु नैवाभवद्विप्रः कृतार्थस्तेन कर्मणा | ततः स दुःखितो भूयः प्राणायामेन तस्थिवान् || ४३ || वर्षमेकं ततो देवस्तमुवाच तदा विभुः | किमेवं क्लिश्यसे विप्र न तवास्ति सुतः क्वचित् | व्यर्थस्ते ऽयं श्रमस्तावन्नास्ति पुत्रस्तवानघ || ४४ || स एवमुक्तो निर्विण्णो निराशः पुत्रजन्मनि | चिन्तयामास मरणं न गन्तुं स्वं गृहं प्रति || ४५ || स काष्ठकूटं संभृत्य गृहीत्वाग्निं च दुःखितः | विलप्य बहु दुःखार्त आत्मानं दग्धुमैच्छत || ४६ || तस्य रुद्रः समालक्ष्य व्यवसायं सुदुष्करम् | पुत्र पुत्रेति गम्भीरमदृश्य इदमब्रवीत् || ४७ || पुत्रस्ते भविता गच्छ मा च त्वं साहसं कृथाः | काष्ठकूटेति नाम्ना च भविष्यति स ते सुतः || ४८ || अथ हृष्टमना विप्रो गत्वा पत्न्यां महातपाः | उत्पादयामास सुतं काष्ठकूटं महामुनिम् || ४९ || संस्कृतस्य तु कालेन तस्य बुद्धिरभूत्ततः | अशक्तो ऽयं वृद्धभावान्मामध्यापयितुं पिता | तस्माद्यास्यामि चामन्त्र्य पितरं वेदकारणात् || ५० || स गत्वा मातरं विप्रः पितरं च महायशाः | प्रणम्य शिरसा पादौ इदं वचनमब्रवीत् || ५१ || सुतो युवाभ्यां जातो ऽहं धर्महेतोर्न कामतः | आवां तारयिता चायं तथैव च पितामहान् | संततिश्चाप्यविच्छिन्ना भविष्यति न संशयः || ५२ || इष्टांश्च लोकान्प्राप्स्याव सुपुत्रेणेति सर्वथा | पितॄणां चानृणौ स्याव इत्यभीष्टो ऽस्मि वां सुतः || ५३ || सो ऽहं धर्मेष्वकुशलः श्रुतिस्मृतिबहिष्कृतः | कर्ताज्ञानेन तत्कर्म पितरो येन दुःखिताः | भवांश्च निरये मग्नश्चिरं वत्स्यति दुष्टवत् || ५४ || भवान्नाध्यापने शक्तः स्थविरत्वाद्दिने दिने | पुत्रस्नेहाच्च कार्यं च न सम्यग्धारयिष्यति || ५५ || इयं च जननी नित्यमेकपुत्रो ऽयमित्युत | त्वया सम्यक्प्रशास्यन्तं नैव मामनुमंस्यते || ५६ || सो ऽहमन्यं तपोनित्यं निरनुक्रोशमेव च | आचार्यं मतिसंपन्नं संश्रयामीति मे मतिः || ५७ || न चापि तद्व्यवस्यामि युवयोर्नास्ति कश्चन | कुर्याद्यः पादयोर्नित्यं शुश्रूषामिति चिन्तयन् || ५८ || न च नाख्येयमेतद्वां मया चिन्ता कृता शुभम् | अशुभं वापि यत्किंचिद्युवां मम गतिः परा || ५९ || एवमुक्तौ तु पितरौ पुत्रेण सुमहात्मना | साश्रुपूर्णेक्षणौ स्थित्वा मुहूर्तमिदमूचतुः | आघ्रायालिङ्ग्य संमार्ज्य स्नेहात्प्रियसुतं तदा || ६० ||

भूमन्युरुवाच |

शुश्रूषा द्विविधा पुत्र पितॄणां धर्मसंहिता | या कर्तव्या प्रयत्नेन सुतेन सुमहात्मना || ६१ || ऐहिकी चाङ्गशुश्रूषा परत्रे या च धर्मदा | यया तरन्ति पितरः कामांश्चाप्नुवते ऽक्षयान् | तत्रैहिकं न नो हीष्टं यथा ह्यामुष्मिकं कृतम् || ६२ || तस्मादामुष्मिकं कर्म यद्भवेत्तत्समाचर | गच्छाधीष्व श्रुतिं चैव स्मृतिं चैव सुकर्मणाम् || ६३ ||

मातोवाच |

यथा ते ऽयं पिता पुत्र ब्रवीति विदितात्मवान् | तथा कुरु यथा देवो वरदस्ते भवेद्भवः || ६४ || उदरेण मया दुःखं धारितस्त्वं महामते | तथा च बहुभिः क्लेशैर्लब्धः सर्वार्थसिद्धये || ६५ || पित्रा च तपसोग्रेण प्राणांस्त्यक्त्वातिदुस्त्यजान् | महादेवाद्भवांल् लब्धस्तस्य युक्तं समाचर || ६६ || यथा तुष्टौ त्वया पुत्र जीवौ जीवेन संगतौ | आवामुभावपि स्याव तथा सम्यक्त्वमाचर || ६७ ||

सनत्कुमार उवाच |

ततस्ताभ्यामनुज्ञात आघ्रातश्चैव मूर्धनि | प्रदक्षिणमुपावृत्य जगाम सुकृतात्मवान् || ६८ || स जगाम तदा ताभ्यां विसृष्टश्च्यवनं प्रति | ऋग्यजुर्भ्यामिवोत्सृष्टा स्वाहुतिर्वरुणं प्रति || ६९ || स तमासाद्य तुष्टेन तेनासौ सफलः कृतः | भागधेयमिव प्राप्य देवैर्मन्त्रपुरःसरः || ७० || अथ पुत्रे गते तस्मिन्पिता दिष्टान्तमेयिवान् | काष्ठकूटस्ततो ऽभ्येत्य कृतविद्यः सुधार्मिकः | अपश्यन्मातरं दीनामतोयामिव पद्मिनीम् || ७१ || सोमहीनामिव निशामाज्ञाहीनामिव श्रियम् | रुदन्तीं सास्रुपूर्णाक्षीं विलपन्तीं सुदुःखिताम् || ७२ || काष्ठकूटस्तु तां दृष्ट्वा दुःखेन समभिप्लुताम् | जयन्त इव पौलोमीं शक्रे नष्टे ऽब्रवीदिदम् || ७३ ||

काष्ठकूट उवाच |

श्रुतं मयेदं प्रागेव कृता चैवोदकक्रिया | मा शोके मन आधत्स्व एष धर्मः सनातनः || ७४ || देवानां च ऋषीणां च योगिनां च महात्मनाम् | मर्त्यानां किं पुनर्मातर्मा रुदस्त्वं तपोधने || ७५ || अहं तेनात्मनात्मा वै सृष्टः स्वेनैव तेजसा | पश्य मां कृतकृत्यं त्वं गायत्रीवात्मनः सुतम् || ७६ || वेदाः सर्वे मयाधीताः साङ्गोपाङ्गाः सविस्तराः | तथोपवेदाः सर्वे च अध्यात्मं चैव कृत्स्नशः || ७७ || यत्किंचित्पुरुषैर्ज्ञेयं तत्सर्वं ज्ञातमेव च | श्रोतव्यं च श्रुतं सर्वमुपास्ताश्चापि योगिनः || ७८ || अनेन हि प्रकर्षेण हृष्यमाणा मुदान्विता | मां पालय महासत्त्वे गायत्रीव सदा क्रतुम् || ७९ ||

सनत्कुमार उवाच |

श्रुत्वा तस्य वचस्तद्वै माता तथ्यं महात्मनः| भूयस्तरेण दुःखेन रुदन्ती तमुवाच ह || ८० ||

यशोवाच |

पुत्र नैतद्धि दुःखं मे मृतः स इति संमतः | सर्वेषां प्राणिनामेतद्विहितं मर्त्यधर्मिणाम् || ८१ || स चापि कृतकृत्यश्च महात्मा तपसान्वितः | न तस्य शोच्यमस्माभिरिह किंचिद्धि विद्यते || ८२ || आत्मानं पुत्र शोचामि याहं तेन विना कृता | तमेवानुमृता नास्मि तवागमनकांक्षिणी || ८३ || नार्था न भोगस्वजना न पुत्रा नैव बान्धवाः | योषितां तत्र तिष्ठन्ति पतिर्यत्रावतिष्ठते || ८४ || पतिर्यदि ततः सर्वं नास्ति किंचित्पतिं विना | सर्वं हि दुःखदं तासां यासां नास्ति पतिः सुत || ८५ || इदं च मे पुनर्दुःखं यत्त्वां तेन सहाद्य वै | नाभिनन्दामि संहृष्टा सुखं श्रीरिव विष्णुना || ८६ || बहुशः स हि मामाह काष्ठकूट इहेष्यति | कृतविद्यस्ततस्तस्य वरयिष्ये स्नुषां शुभाम् || ८७ || काश्यपस्योदलस्येयं सुता गुणवती भृशम् | तामहं वरयिष्यामि काष्ठकूटस्य सुव्रताम् || ८८ || कदा द्रक्ष्यामि तं पुत्रं सपत्नीकं दृढव्रतम् | अग्निं चैवाहरिष्यामि पत्नीरत्नं समीक्ष्य ह || ८९ || पत्न्या कदाहं पुत्रस्य पादग्रहणतोषितः | शुभानि मनसा वाचा विधास्यामि बहून्यपि || ९० || एवं मनोरथवतस्तस्य पुत्रवतस्तथा | प्रियपुत्रस्य नैवाभूदेतद्दहति मां सुत || ९१ || मया त्वमुक्तः पूर्वं च गच्छन्वै तस्य सन्निधौ | जीवौ यथा त्वां पश्यावस्तन्न चैवाभवत्तथा || ९२ || वज्रसारमयं मे ऽद्य हृदयं यन्न दीर्यते | या त्वां पश्यामि पुत्रेह विना तेनासती पुनः || ९३ ||

सनत्कुमार उवाच |

ततः सा कुररी यद्वद्विना पत्या महायशा | विलप्य बहुदुःखार्ता पपात धरणीतले || ९४ || तां काष्ठकूटो दुःखार्तां पतितां गतजीविताम् | विसंज्ञामग्निना दग्ध्वा विललाप सुदुःखितः || ९५ || हा तात मम दुर्बुद्धेरधर्मज्ञस्य चैव हि | क्व गतो ऽसि न मे ऽद्य त्वं सभार्यः संप्रभाषसे || ९६ || ननु त्वयाहं निर्दिष्टो गच्छाधीष्वेति हृष्टवत् | सो ऽहमद्यागतो ऽधीत्वा कस्मान्मां नाभिभाषसे || ९७ || ननु ते तपसा लब्धः परेण च समाधिना | पुत्रो ऽहं देवदेवाद्वै रुद्रात्किं नाभिभाषसे || ९८ || किं मयापकृतं तात सहभार्यस्य ते ऽनघ | यन्मां सहाम्बयागत्वा दृढं नैवाभिनन्दसि || ९९ || हा हतो ऽसि मयैकेन दुष्पुत्रेण दुरात्मना | अराजकमिदं मन्ये पितृघ्नं मां न हन्ति यत् || १०० || एवं स विलपन्व्यास ऋषिभिर्बहुभिस्तथा | संस्थापितः समाश्वस्त अकरोदुदकक्रियाम् || १०१ || इमां प्रतिज्ञां चक्रे स ऋषिमध्ये महातपाः | दुष्करां सर्वभूतानामुपस्पृश्य कृताञ्जलिः || १०२ || अद्यप्रभृति नोच्छ्वासं करिष्यामि कथंचन | वायवो मे शरीरस्था न चरिष्यन्ति कर्हिचित् || १०३ || निमेषोन्मेषरहित एकपादोर्ध्वबाहुमान् | काष्ठलोष्टोपलीभूतो भविष्यामि न संशयः || १०४ || रुद्रं द्रष्टास्मि यावच्च यावच्च पितरं तथा | सभार्यं संप्रपश्यामि तावद्व्रतमिदं मम || १०५ ||

सनत्कुमार उवाच |

ततः स ऋषिभिस्तैस्तु दृश्यमानो महातपाः | महेश्वरं सदा ध्यायंस्तत्रैव समतिष्ठत || १०६ || तस्य देवस्थितस्यैवं पितृभक्त्या तयापि च | तुष्टो दिने ऽष्टमे व्यास स्वयमेवाह शंकरः || १०७ ||

देव उवाच |

काष्ठकूट प्रयच्छामि दिव्यं चक्षुस्तवानघ | पश्य मां त्वं सुविश्रब्धमदृश्यं योगिनामपि || १०८ || ब्रूहि पुत्र वरं चापि यस्ते हृदि समाहितः | प्रदास्यामि न संदेहः सुनिश्चिन्त्याभिधत्स्व तत् || १०९ ||

सनत्कुमार उवाच |

ततः स दृष्ट्वा देवेशमुद्यन्तमिव भास्करम् | पपात पादयोर्हृष्ट इदं चोवाच सुस्वरम् || ११० ||

काष्ठकूट उवाच |

भगवन्मृत्युना माता पिता च मम योजितौ | जीवेतां तावुभौ देव एतदिच्छाम्यहं वरम् || १११ ||

देव उवाच |

तौ मृतौ नरकं घोरं प्रपन्नौ मृत्युनार्दितौ | न तौ शक्यौ पुनर्जीवौ कर्तुमन्यद्वृणीष्व मे || ११२ ||

काष्ठकूट उवाच |

नाहमन्यं वरं देव कथंचिदपि कामये | पित्र्यर्थो ऽयं समारम्भस्तद्विधत्स्व नमस्तव || ११३ ||

देव उवाच |

शरीरं चेन्मृतस्यास्ति तच्छक्यं जीवितेन हि | संयोजयितुमन्येन दग्धस्यैतन्न विद्यते | तयोर्न चास्ति वै देहो न चान्यत्कारणं तथा || ११४ || यादृक्च स पिता तुभ्यं भवांस्तादृक्शरीरतः | शरीरमेतत्त्वं यच्छ ततो जीवौ भविष्यतः || ११५ ||

काष्ठकूट उवाच |

तुभ्यं वै नास्त्यकर्तव्यं कर्तव्यं चेन्मतं भवेत् | शरीरं च विना दृष्टमुत्थानं वै ध्रुवस्य तु || ११६ || न चापि मे शरीरेण विना ताभ्यां रतिः प्रभो | तस्माद्गृहाण देवेश शरीरं यदि मन्यसे || ११७ || तस्यैवेदं महादेव अङ्गादङ्गं समुत्थितम् | तस्माद्यच्छस्व देवेश न मे कार्यमनेन हि || ११८ ||

सनत्कुमार उवाच |

ततः स भगवान्देवः प्रहस्य ऋषिसत्तमम् | प्रीतात्मा प्रत्युवाचेदं युयुक्षुस्तं शुभेन हि || ११९ ||

देव उवाच |

परीक्षेयं कृता पुत्र तव धर्मभृतां वर | पितृभक्त्यानया सम्यक्तुष्टो ऽस्मि शृणु मे वचः || १२० || अक्षयश्चाव्ययश्चापि अजरो मृत्युवर्जितः | ऐश्वर्येण च संयुक्तः प्रियो मे गणपो भवान् || १२१ || काष्ठकूट इति ख्यातः सर्वयोगबलान्वितः | कामगेन विमानेन मत्कृतेन चरिष्यसि || १२२ || इमे च ऋषयः सर्वे आश्रमे ऽस्मिंस्तपस्विनः | तवैवानुचरा भूत्वा भविष्यन्ति गणेश्वराः || १२३ || अक्षयाश्चाव्ययाश्चैव महायोगबलान्विताः | ऐश्वर्येण च तुल्यास्ते भविष्यन्ति न संशयः || १२४ || अयं च ते पिता पुत्र भूमन्युः सह भार्यया | तवैवानुचरो भूत्वा त्वत्समः समुपस्थितः || १२५ || श्वेतं च पर्वतं दिव्यं विमानैरुपशोभितम् | कामगं संप्रयच्छामि निवासं स्वर्गसंनिभम् || १२६ ||

सनत्कुमार उवाच |

ततः स भगवान्देव अनुगृह्य तमूर्जितम् | जगाम मन्दरं भूयः सो ऽपीष्टं देशमाव्रजत् || १२७ || यावद्देवी तपोयुक्ता पितुः शिखरमाश्रिता | तावद्देव इदं सर्वं चकार कथितं हि यत् || १२८ || य इमं देवदेवस्य चेष्टितं शृणुयान्नरः | श्रावयीत द्विजान्वापि न स दुर्गतिमाप्नुयात् || १२९ || नित्यमेतदधीयंश्च शुचिः प्रयतमानसः | देहभेदं समासाद्य रुद्रलोकं स गच्छति || १३० || य इमं बहुपापनाशनं परमं रुद्रसमीपयोजनम् | पठते ऽतिगुणप्रसाधनं स मृतो याति न दीनसंभवम् || १३१ || इति स्कन्दपुराणे द्विपञ्चाशो ऽध्यायः ||

व्यास उवाच |

देवी भगवती सा हि हिमवत्तनयाव्यया | कियन्तं कालमचरत्तपः परमदुश्चरम् || १ || कथं लब्धवती चापि वरं वरशतारणी | एतदिच्छामि कथितं सर्वं वै विप्रसत्तम || २ ||

सनत्कुमार उवाच |

शृणु काले व्यतीते हि तपो देव्याः सुदुश्चरम् | प्रयता प्राञ्जलिर्भूत्वा समाधाय मनस्तथा || ३ || दिवाकरे ऽभिसंधाय चक्षुश्च मन एव च | तस्थौ वृक्षावबद्धेव दार्वर्चानिमिषेक्षणा || ४ || सुवर्चलेव सादित्यमीक्षती पर्यवर्तत | एकपादोर्ध्वबाहुश्च निरुच्छ्वासा बभूव ह || ५ || दिव्यं वर्षसहस्रं सा निश्चलोपलवत्स्थिता | व्याघ्रद्वितीया रुद्राणी तपोयुक्ता शुभव्रता || ६ || न चास्या ग्लानिरभवन्न बलक्षय एव वा | पूर्ववच्च हि सा देवी तपसैवावतिष्ठति || ७ || तस्यास्तपःप्रभावेन सर्वं सस्थाणुजङ्गमम् | अभावोपहतं यद्वज्जगदार्तं व्यतिष्ठत || ८ || नातिदीप्तो ऽभवत्सूर्यश्चन्द्रमा न प्रकाशते | ज्योतींषि तिमिराण्यासन्व्योम्नि सिद्धा न यान्ति च || ९ || मम्लुश्च देवमाल्यानि विमानानि च पेतिरे | स्वर्गे ऽपि न सुखं तेषामौत्सुक्यं चापि जायते || १० || धूमायन्ति दिशः सर्वास्त्रैलोक्यं चैव कृत्स्नशः | विद्याधृतां गतिर्भग्ना प्रज्वलन्त्यायुधानि च || ११ || मृगा व्याघ्राश्च सिंहाश्च विडालोलूकमूषिकाः | पन्नगा नकुलाश्चैव एकस्थाः संचरन्त्युत || १२ || ततो देवाः समागम्य ऊचुः सर्वे परस्परम् | विपर्ययो ऽयं त्रैलोक्ये अकस्मात्सम्प्रदृश्यते | कारणं महदत्रास्ति नेदं निष्कारणं भवेत् || १३ || तस्माद्वयमजानन्त एतं सर्वं विपर्ययम् | किं तिष्ठामः समुद्विग्ना गच्छामो ब्रह्मणो ऽन्तिकम् || १४ || इत्युक्त्वा ते सुराः सर्वे बृहस्पतिपुरोगमाः | वैराजभवनं गत्वा ब्रह्माणं सम्प्रणेमिरे || १५ || पूजिता ब्रह्मणा सम्यगुपविष्टा यथार्हतः | पृष्टास्तेनागमे हेतुमूचुर्हृच्छोकपीडिताः || १६ || भगवंल् लोकतत्त्वज्ञ सर्वप्रत्यक्षदृग्विभो | लोको ऽयं विपरीतो ऽद्य किमर्थं शंस नः प्रभो || १७ || तेषां तद्वचनं श्रुत्वा भीतानां सर्वयोगवित् | उवाच मधुरं श्लक्ष्णमिदं गम्भीरवद्वचः || १८ || एषा हैमवती देवी रुद्राणी लोकधारणी | तपश्चरति युक्तात्मा योगमास्थाय निश्चलम् || १९ || अद्य वर्षसहस्रं हि दिव्यं तस्याः समाधिना | वर्षाणां द्वे शते चैव तथान्यच्छरदां शतम् || २० || तपश्चरत्या योगेन तस्यैष तपसः सुराः | प्रभावो येन लोकानां विपरीतत्वमागतम् || २१ ||

देवा ऊचुः |

यदि तस्याः प्रभावेन महोत्पातभयं त्विदम् | अतो भूयो दहेल्लोकांस्तस्मात्तां संनिवारय || २२ || सा हि देवी तपोयुक्ता अतो भूयो विभावरी | लोकानिमान्सहास्माभिर्दहेदपि न संशयः || २३ || तस्माल्लोकहितार्थाय अस्माकं वचनादपि | तथा कुरु यथा साध्वी विनिवर्तति शोभना || २४ ||

ब्रह्मोवाच |

एवं भवतु गच्छध्वं निर्वृता भवतानघाः | वरप्रदानेनेष्टेन रुद्राणीं स्थापयाम्यहम् || २५ || गतेष्वथ तु देवेषु ब्रह्मा लोकपितामहः | विमानं काञ्चनं शुभ्रं वेदिकाशतसंकुलम् || २६ || किङ्किणीजालसंनद्धं मुक्तादामावभासितम् | इन्द्रनीलमयैः स्तम्भैर्जालैर्जाम्बूनदैस्तथा || २७ || घण्टाभिर्विश्वरूपाभिः समन्तात्परिवारितम् | वज्रनीलेन्द्रवैडूर्यमहानीलादिभासितम् || २८ || स्तूपिकाभिश्च योग्याभिः स्फटिकाङ्काभिरावृतम् | सर्वलोकमयं तद्वै स्वयं देवेन निर्मितम् || २९ || पञ्चभूतमयं तद्धि प्रकृतिस्थमथापि च | शब्दादिजालसम्बद्धं घण्टेन्द्रियसुशब्दवत् || ३० || मुक्तादामाष्टकैर्युक्तं किङ्किणीषोडशावृतम् | विंशतिर्वेदिकाश्चात्र विमानं तन्महाप्रभम् || ३१ || शतार्धलक्षणैर्दिव्यैर्मणिजातैस्तथाचितम् | आसनैर्बहुभिर्युक्तं लोकस्थानैः समन्ततः || ३२ || आरुरोह विमानं तं ब्रह्मा स मुनिभिः सह | वेदैः सह तथा चापि मन्त्रैः सर्वैस्तथैव च || ३३ || मध्ये तस्यासनं दिव्यं स्वर्णपद्मोपगं दृढम् | उपोपविष्टस्तत्रासौ ब्रह्मा लोकपितामहः || ३४ || तस्य पार्श्वे तु सावित्री गायत्री चैव सुप्रभा | ऋग्वेदो दक्षिणेनास्य यजुर्वेदश्च पश्चिमे | उत्तरे सामवेदस्तु अग्रतो ऽथर्वणस्तथा || ३५ || प्रायश्चित्तानि धर्माश्च तपांसि विविधानि च | दानानि च विचित्राणि क्रतवः सेष्टयस्तथा || ३६ || तथा व्याहृतयः पुण्यास्तथा लोकाश्च सर्वशः | पर्वताश्चैव नद्यश्च तथा लोकस्य मातरः || ३७ || लोकपालाः प्रजाध्यक्षा दक्षो धर्मस्तथैव च | भृगुरत्रिर्वसिष्ठश्च पुलस्त्यः पुलहः क्रतुः || ३८ || मरीचिरङ्गिराश्चैव रुचिश्चैव महायशाः | ऋभुः सनातनश्चैव विराजश्च महातपाः || ३९ || पितरश्चैव देवाश्च ब्रह्मणो ये प्रसूतयः | पृथिवी वायुराकाशमापो ज्योतिस्तथैव च || ४० || एते चैव यथोद्दिष्टाः सागरा दिश एव च | विद्याश्च धर्मकाराश्च अग्रतस्ते ऽवतस्थिरे || ४१ || ब्रह्मदण्डश्च दण्डश्च कलशः काञ्चनस्तथा | कमण्डलुश्च तस्यासीत्पार्श्वयोरुभयोरपि || ४२ || यज्ञोपवीतं श्रीमच्च ओंकारश्च तथाग्रतः | अक्षसूत्रं च योगं च जप्यं चैवाग्रतः स्थिताः | स्वाहा स्वधा वषट्चैव अग्निश्चैतानि पार्श्वतः || ४३ || यमाश्च नियमाश्चैव साधनानि बहूनि च | धर्मस्यैतानि सर्वाणि पार्श्वस्थान्यभवंस्ततः || ४४ || दया कृपाथ दानं च श्रद्धा चैव ह्रिया सह | ऋषीणां पार्श्वगाः सर्वा दक्षिणा यज्ञपार्श्वतः || ४५ || ततो देवाश्च ये केचिद्ब्रह्मलोकनिवासिनः | सर्वे समधिरुह्याशु समन्तादवतस्थिरे || ४६ || एवं तेषु विमानं तं समारूढेषु सर्वशः | सुखासीनेषु सर्वेषु ब्रह्मा समनुचोदयत् || ४७ || तच्चोदितं योगविदग्रगामिना महाविमानोत्तमसर्वगामिना | ययौ प्रभावेन मनोनुगामिना यथा मनः सर्वसृजेव हेतुना || ४८ || इति स्कन्दपुराणे त्रिपञ्चाशो ऽध्यायः ||

सनत्कुमार उवाच |

ततस्तेन विमानेन सर्वसृक्स चतुर्मुखः | जगाम मन्दरं धीमान्विचित्रोपलकन्दरम् || १ || स तमासाद्य विस्तीर्णमनौपम्यमतिप्रभम् | दूराद्दृष्टिसुखं दृष्ट्वा सभास्थानिदमब्रवीत् || २ || इदं रुद्रगृहं शुभ्रमदृश्यं सुकृतामपि | देवानामपि पश्यध्वं भास्कराकारवर्चसम् || ३ || इदं प्रविश्य देवानां यज्ञश्रीर्नापसर्पति | जयश्च नित्यं युद्धेषु धर्मश्च सुमहानपि || ४ || एतत्सृष्टं स्वयं तेन मनसानुपमद्युति | न ह्यस्य सदृशं किंचिदण्डे ऽस्मिन्विद्यते गृहम् || ५ || इदं प्रविश्य धर्मात्मा दुःखं भूयो न विन्दते | न चापि जन्म प्राप्नोति नित्यमैश्वर्यगो हि सः || ६ || अनिर्देश्यमिदं योगाद्योगिनामपि नित्यशः | अन्यस्तु कुत एवेदं वर्णयीत महानपि || ७ || एतदस्मद्विमानस्य वायुनाभ्याहतं रुषा | वर्धते गिरिणा सार्धं विन्ध्यस्य शिखरं यथा || ८ || एतदस्मद्विमानस्य मार्गमावृत्य विष्ठितम् | ऊर्ध्वं तिर्यगधस्ताच्च देवदेवस्य तेजसा || ९ || एतदन्धं तमः कृत्वा मेघो ऽसौ जीवनः स्वयम् | वज्रोद्यतकरः स्रग्मी प्रत्युद्यात्यभिनादयन् || १० ||

सनत्कुमार उवाच |

ततः स भगवान्देवो ब्रह्मा लोकपितामहः | विष्टभ्य तं विमानाग्र्यमवतस्थे कृताञ्जलिः || ११ || तुष्टाव च तदा देवं शर्वमुग्रं कपर्दिनम् | ते चैव ऋषयः सर्वे विमानस्थाः सुसंयताः || १२ || ततः स मेघः स्वं स्थानमगमद्वृष्टिसर्जनः | दिशश्च विमलाः सर्वाः प्रकाशश्चाभवद्भृशम् || १३ || तं जपन्तं विदित्वा च भगवान्गोवृषध्वजः | नन्दिनं द्वारदेशस्थमिदमाह सुरेश्वरः || १४ || एष ब्रह्मा विमानेन मामिह द्रष्टुमागतः | ब्रूहि येनागतो ऽसीह कार्येण विदितो ऽसि मे | कुरु तद्गच्छ शीघ्रं त्वं कालस्तस्यायमागतः || १५ ||

सनत्कुमार उवाच |

स एवमुक्तो रुद्रेण नन्दी प्रमथनायकः | द्वाःस्थ-म्-एव विमानस्थं ब्रह्माणमिदमब्रवीत् || १६ ||

नन्द्युवाच |

यूयं ज्ञाता भगवता येन कार्येण चागताः | कुरुध्वं किल तच्छीघ्रं कालो ऽयं तस्य वर्तते || १७ || ततः स कृत्वा मनसा नमस्कारं हि शम्भवे | प्रदक्षिणमुपावृत्य मन्दरं प्रजगाम ह || १८ || स मन्दरगिरिं सर्वं परिहृत्य महामनाः | शाकद्वीपस्य मध्येन जम्बूद्वीपमथागमत् || १९ || स दृश्यमानो देवैश्च मुनिभिश्च यतव्रतैः | हिमवन्तं गिरिश्रेष्ठमुपागम्येदमब्रवीत् || २० || एतद्धिमवतः शृङ्गमुच्छ्रितं कान्तिमत्स्थितम् | युगान्तादित्यसंकाशं दूरात्समभिलक्ष्यते || २१ || अत्र सा जगतो धात्री धात्री पुत्रमिवौरसम् | पालयन्ती जगत्सर्वं तपस्तप्यति शैलजा || २२ || अहो नु शिखरं पुण्यं भाग्यवच्चापि सर्वथा | यदेनं गिरिपुत्र्यर्थे वरैर्योक्ष्यति कामहा || २३ || पश्यध्वं तपसो वीर्यं देव्याः सुचरितस्य वै | यदेतच्छिखरं दृष्ट्वा न पश्याम पुनर्यमम् || २४ || स एवं कथयन्नेव विमानेन चतुर्मुखः | ऋषिभिः सहितः सर्वैः शिखरद्वारमागतः || २५ || तत्रैनं रुद्रसचिवा आयुधोद्यतपाणयः | भर्त्सयन्तो ऽभ्यवर्तन्त तिष्ठ तिष्ठेतिवादिनः || २६ || तान्ब्रह्मा श्लक्ष्णया वाचा सान्त्वपूर्वमुवाच ह | प्रशंसमानस्तान्सर्वान्प्राञ्जलिर्युक्तमानसः || २७ ||

ब्रह्मोवाच |

यूयं सर्वे महात्मान ऐश्वर्येण समन्विताः | अक्षया ह्यमराश्चैव तथाप्रतिहताश्च ह || २८ || महायोगबलोपेता अजय्या युधि केनचित् | को युष्मानभिवर्तेत शक्रो ऽपि प्रवरेश्वराः || २९ || देवदेवाज्ञया सो ऽहमायातो मन्दरादिह | देव्या वरप्रदानार्थमनुज्ञा क्रियतां मम || ३० ||

गणेश्वरा ऊचुः |

देव्या दाता स्वयं देवो वरानिष्टान्महामनाः | तानेव देवी त्वन्यस्मान्मनसापि न चिन्तयेत् || ३१ || शक्तो देवो ऽनुग्रहीतुं जगत्सर्वं महेश्वरः | त्वामप्यसौ ऽनुगृह्णाति किमु देवीं जगत्पतिः || ३२ ||

ब्रह्मोवाच |

अशक्तो न महादेवो वरं दातुं महामनाः | य एवं चिन्तयेद्देवं न भवेत्स कथंचन || ३३ || न देवी भगवत्पार्श्वादिच्छते किल पार्वती | वरानिष्टांस्ततो देवो मामिह प्रेषयच्छिवः || ३४ || अथ तं युक्तमनसो युक्तं प्रत्यक्षमीश्वराः | महेश्वरमपश्यन्त कृतानुज्ञं च लोकपम् || ३५ || नियुक्ताश्च पुनः सर्वे ब्रह्माणं लोककारणम् | ऊचुर्गणेश्वराः सर्वे विदितार्था महामुने || ३६ || प्रेषितो देवदेवेन ज्ञातो ऽस्माभिः पितामह | त्वं विशस्वाधुना देव पार्वत्या वरदित्सया || ३७ || अवतीर्य विमानात्तु ततः शीघ्रं पितामहः | निलिल्ये शिखरे तस्मिन्नानाधातुविचित्रिते || ३८ || अथ सोपलधातुनिर्झरो गिरिराजो ऽतिमहाशिलोच्चयः | विनिसृष्टदिवाकरामलः स गिरिर्दिव्य इवोदयाचलः || ३९ || इति स्कन्दपुराणे चतुष्पञ्चाशो ऽध्यायः ||

सनत्कुमार उवाच |

अथ तं सहसायातमपश्यत्साचलात्मजा | ऋषिभिस्तैर्महाभागैः समन्तात्परिवारितम् | रश्मिभिस्तेजसां योनिं मध्याह्न इव भास्करम् || १ || सा तमर्घ्येण पाद्येन मधुपर्केण चैव ह | पूजयामास रुद्राणी चतुर्वक्त्रमुपागतम् || २ ||

ब्रह्मोवाच |

लोकस्य जननी भूत्वा धारयित्वा जगत्तथा | किमिदं तपसा भूयो लोकं दग्धुमिहेच्छसि || ३ || मा सृष्ट्वा जगदेतत्त्वं तपस्यन्ती विनाशय | बुद्ध्वैवं धारयस्वेमं लोकं देवि नमस्तव || ४ || त्वत्तो रुद्रेण लोको ऽयमहं चैव पुरानघे | सृष्टाः स्म वरदे देवि मा नः कृत्वा विनाशय || ५ || तपसा तव रुद्राणि जगत्स्थावरजङ्गमम् | तप्यते ग्रीष्ममध्याह्ने जलात्पद्ममिवोद्धृतम् || ६ || किं वा ते हृदये देवि यद्यपि स्यात्सुदुष्करम् | वरं वृणीहि शर्वाणि दातास्मि हिमवत्सुते || ७ ||

देव्युवाच |

वरदो ऽसि यदीशान मम देव चतुर्मुख | अयं भक्तो ऽनुरक्तश्च मम नित्यं प्रियः प्रभो || ८ || व्याघ्रस्य तावद्यच्छस्व ततो दास्यसि मे वरम् | अद्य वर्षसहस्रं वै स्थितस्यास्य ममाग्रतः || ९ || ध्यायतो ऽनिमिषस्यैव स्तब्धकर्णस्य लोकप | अस्मै दत्स्व वरं देव नास्मि तावद्वरार्थिनी || १० ||

ब्रह्मोवाच |

एष तिर्यग्दुरात्मा च त्वां भक्षयितुमागतः | नास्य शुद्धं मनो देवि क्रूरो ऽयं पापचेतनः | पश्यैनं दुष्टमनसं नास्य श्रेयो मनस्त्वयि || ११ ||

सनत्कुमार उवाच |

अथ सा तद्वचः श्रुत्वा रुद्राणी लोकभावनी | दिव्येन चक्षुषापश्यदज्ञानात्कृतसाहसम् || १२ || अत्यन्तभक्तः पूर्वं मे जातिदोषेण दूषितः | विदितार्था ततो भूत्वा उवाच हिमवत्सुता || १३ || भगवन्को हि लोकेषु तिर्यक्त्वे सति निश्चलः | स्तब्धकर्णेक्षणो दिव्यमहो ऽप्येकमभोजनः || १४ || अवतिष्ठेत किं यो ऽयं सहस्रमवतिष्ठत | वर्षाणां सुमहातेजा नायं तिर्यक्सुसंस्कृतः || १५ || भवत्वयं दुष्टचेता अदुष्टो वा महाबलः | ममानुग्राह्य इत्येवं वरो ह्यस्मै प्रदीयताम् || १६ ||

सनत्कुमार उवाच |

ततः स भगवान्देवश्चतुर्वक्त्रः पितामहः | उवाच वचनं देवीमृषीणां शृण्वतां तदा || १७ || आर्याणां दस्यवो ऽपीह संसर्गात्सिद्धिमाप्नुयुः | यथायं क्रूरकर्मापि सिद्धिं यास्यत्यनुत्तमाम् || १८ || तस्मादार्याः सदा सेव्या नित्यं पापकृतापि हि | सिद्धिमेति नरः क्षिप्रमपापानां समीपगः || १९ || अनुग्राह्यस्तवानिन्द्ये पापो ऽयं दुष्टचेतनः | अतो ऽस्मै ब्रूहि देवेशे वरो यस्तव रोचते || २० ||

देव्युवाच |

अमरो जरया त्यक्त अक्षयश्चाव्ययस्तथा | महायोगबलोपेतो महदैश्वर्यसंयुतः | गणेश्वरो ममेष्टश्च भवत्वेष यदिच्छसि || २१ ||

ब्रह्मोवाच |

एवं भवतु भद्रं ते सर्वमेतद्भविष्यति | पञ्चालस्य च यक्षो ऽयं प्रतीहारो ऽभवत्पुरा || २२ || त्वया मया च यद्यस्य कृतेयं नन्दिरीदृशी | तस्माद्गमिष्यति ख्यातिं सोमनन्दीति नामतः || २३ || यश्चैनं कीर्तयेद्दुर्गे कान्तारेषु भयेषु च | शार्दूलसिंहद्वीपिभ्यो न भयं तस्य जायते || २४ || वद त्वमपि चेशानि यस्ते प्रियमनोरथः | यावद्ददानि सर्वं ते नियोगात्परमेश्वरात् || २५ ||

देव्युवाच |

इच्छामि भगवन्दिव्यं वर्णं कनकसप्रभम् | गौरीति लोके ख्याता च भवेयं कमलोद्भव || २६ ||

ब्रह्मोवाच |

एवमस्तु जगन्मातर्यदिच्छसि महामते | अन्यं वरय भद्रं ते वरं यत्प्रददानि ते || २७ || महद्धीदं तपस्तप्तं भवत्या लोकभावनम् | नानुरूपो वरस्तस्य तस्मादन्यो ऽपि मृग्यताम् || २८ ||

देव्युवाच |

इच्छामि भगवन्पुत्रं सर्वधर्मभृतां वरम् | महाबलं महोत्साहं सर्वलोकनमस्कृतम् || २९ ||

ब्रह्मोवाच |

पुत्रस्ते भविता देवि महायोगबलान्वितः | अजेयः सर्वभूतानामष्टैश्वर्यगुणान्वितः || ३० || जेता हन्ता तथादेष्टा अजरो ऽवध्य एव च | अनावेश्यश्च सततं सर्वेषां प्राणिनां वरः || ३१ || सदाबालो ऽथ सुभगो धर्मज्ञो धर्मवत्सलः | देवब्राह्मणगोप्ता च विद्वान्सर्वज्ञ एव च || ३२ || ब्रह्मण्यश्च शरण्यश्च देवद्विट्संघहा तथा | अयोनिजो महातेजा लोकानां सुखकृच्च हि | शनैरेतदुवाचासौ ततश्च विरराम ह || ३३ ||

सनत्कुमार उवाच |

वरान्स दत्त्वा देवेशः कृत्वा चाभिप्रदक्षिणम् | विमानं तं समारुह्य स्वं लोकमगमत्तदा || ३४ || रुद्राण्यपि गते तस्मिन्सोमनन्दिपुरःसरा | स्थिताकाशं समास्थाय रोहिणीव बुधानुगा || ३५ || मन्त्रानुगेव गायत्री जयन्तेन शची यथा | तथा सा भाति रुद्राणी सोमनन्दिपुरःसरा || ३६ || य इमं पठते सदा विपश्चित्पुरुषः प्रातरतन्द्रितो हि कश्चित् | कुरुते नभयं हि सोमनन्दी वरदस्तस्य हरश्च सोमनन्दी || ३७ || इति स्कन्दपुराणे पञ्चपञ्चाशो ऽध्यायः ||

व्यास उवाच |

भगवन्यत्त्वयाख्यातं पूर्वं नरकवर्णने | दुष्कृतं कर्म कृत्वा तु नरा नरकगामिनः | भवन्ति सुकृताः स्वर्गे सर्वसौख्यसमायुताः || १ || ब्राह्मणा दुष्कृतं कृत्वा गत्वा दुर्गतिमापदम् | कथं भूयः समायान्ति स्वर्गसौख्यफलं महत् || २ || योनीर्वा कथमागम्य बह्वीः संकरजातिषु | भूयः सुकृतिनो भूत्वा प्राप्नुवन्ति शुभां गतिम् || ३ ||

सनत्कुमार उवाच |

शृणु व्यास पुरावृत्तं दशार्णेषु तु यच्छुभम् | सप्तानां द्विजशिष्याणामशुभं शुभमेव च || ४ || आसीत्सुपर्वा विख्यातः कौशिको ब्राह्मणः शुचिः | धार्मिकश्च वदन्यश्च विद्वान्विप्रैः सुपूजितः || ५ || तस्य शिष्या बभूवुर्हि सप्त दुर्मेधसस्तु ते | गुरुशुश्रूषणे रक्ता नामतस्तान्निबोध मे || ६ || आत्रेयः कण्डरो नाम उपमन्युश्च दामनः | शाण्डिल्यश्चैव हालो ऽभूद्गार्ग्यश्च विदलस्तथा || ७ || शैशिरो गौतमश्चैव दण्डकीलश्च काश्यपः | विदर्भश्चैव हारीत इतीमे सप्त विश्रुताः || ८ || उपाध्यायो ऽथ तान्विप्रान्प्रोवाचेदं महातपाः | अचिराद्गामितो गत्वा याज्यदत्तां सुरूपिणीम् | गत्वानयत होमार्थे शीघ्रं माहिष्मतीं पुरीम् || ९ || त एवमुक्तास्तेनैव माहिष्मत्यास्त्वतन्द्रिताः | गामादाय निवर्तन्तो मृत्तिकावतिमन्ततः || १० || अनावृष्ट्या ततस्ते तु दुर्भिक्षे परिवर्तति | क्षुधापरिगताः सर्वे किंभक्षाः सम्बभूविरे || ११ || सप्तमे ऽहनि जाते च निराहाराः सुदुःखिताः | अमन्त्रयन्त गामेतां भक्षयाम किमास्यते || १२ || तेषां यः कण्डरो नाम आत्रेयकुलसम्भवः | स तानुवाच मा धेनुं भक्षयाम गुरोरिमाम् || १३ || गुरोरर्थे हि नः श्लाघ्यो मृत्युरप्यविचक्षणाः | मा गुरोः क्रोधनिर्दग्धा यास्याम निधनं वयम् || १४ || ते यदा तद्वचो नैव जगृहुः क्षुत्प्रपीडिताः | स तदोवाच भूयस्तानिदं वचनमर्थवत् || १५ || यदि वो ऽवधृतं विप्रा भक्षणे ऽस्यास्तपोधनाः | मा वृथा भक्षयामैनां पित्र्यर्थे प्रोक्षयामहे || १६ || मा नो दोषद्वयेनेह लोपो भवतु शोभनाः | एवं ह्यल्पेन दोषेण वयं योक्ष्याम सर्वथा || १७ || त एवमुक्ताः सम्यक्तु वचस्तस्यावधार्य च | प्रोक्षयामासुरव्यग्राः पित्र्यर्थे तां पयस्विनीम् || १८ || ततः संस्कृत्य विधिवन्निवेद्य च महामुने | हुताग्नयस्ततो भूत्वा प्रत्येकमुपयुज्य च | वत्समेकं गले बद्ध्वा आनिन्युर्गुरवे तदा || १९ || अथ दृष्ट्वा स तं वत्सं धेनुं पप्रच्छ तान्द्विजः | त ऊचुः पथि शार्दूलो ऽवधीत्तामिति निर्घृणाः || २० || अथ तेषां वचः श्रुत्वा शङ्कया च दुरात्मनाम् | दिव्येन चक्षुषापश्यद्भक्षितां तैर्महातपाः || २१ || ततः स रोषाद्रक्ताक्षो निर्दहन्निव तांस्तदा | उवाच वत्सं दृष्ट्वा च कृपया दुःखपीडितः || २२ || युष्माभिर्भक्षिता सा हि तथ्यं न कथितं च मे | कर्मणा तेन तस्माद्वो गतिः कष्टा भविष्यति || २३ || प्रसादितः स तैः शिष्यैर्ब्राह्मणः सुमहाद्युतिः | कृपया स च तानाह भूयः सर्वानिदं वचः || २४ || यदुक्तं तन्मया तथ्यं न तन्मिथ्या भविष्यति | येषां तु कृतवन्तः स्थ ते वो धास्यन्ति तच्छुभम् || २५ || मत्समीपे च न स्थेयमिदानीं वः कथंचन | दृष्ट्वा वत्समिमं बालं मा वो धक्ष्यामि गच्छत || २६ || अथ ते सहिताः सर्वे विसंज्ञा नष्टचेतसः | कालेन समयुज्यन्त चिन्तयन्तो गुरोर्वचः || २७ || दशार्णा नाम सा व्यास सरित्पुण्या सदाजला | तस्यास्तीरे वनं दिव्यं विश्रुतं तत्सुभास्वरम् || २८ || तत्र व्याधो ऽभवच्छूरः क्षुपको नाम वीर्यवान् | तस्य पुत्राभवंस्ते वै चितकायां महाबलाः || २९ || चितका सम्प्रसूता तु पुत्रांस्तान्सप्त संमतान् | व्याधाः सर्वे ऽभवंस्ते वै चैतका इति विश्रुताः || ३० || चरन्ति सधनुष्कास्ते घ्नन्तो वै मृगपक्षिणः | सिंहान्व्याघ्रान्गजांश्चैव वराहादींश्च सर्वशः || ३१ || तेषां नामानि यानि स्म व्याधत्वे तानि मे शृणु | काण्डरो ऽर्जुनको नाम दामनः सिंहको ऽभवत् | हालो ऽभूद्व्याघ्रकश्चैव विदलः शरभस्तथा || ३२ || शैशिरो हिमवांश्चैव हस्तिको दण्डकीलकः | विदर्भो वज्रकश्चैव नामान्येतानि तेषु हि || ३३ || एकतस्ते ऽटवीं घोरां चरन्ति पिशिताशनाः | हिंस्राः सत्त्वान्तकाः सर्वे योनिं दुष्टामुपागताः || ३४ || कदाचिद्विचरन्तस्ते मृगान्घ्नन्तस्तथैव च | उपाध्यायाश्रमं प्राप्ताः कर्मणा सुकृतेन ह || ३५ || तत्र तेषां भयोद्विग्नाः सर्व एवाभवन्मृगाः | मृगान्भीतान्समालक्ष्य स विप्रः सुमहातपाः | न्यवेक्षत दिशः सर्वा व्याधांश्चापश्यदागतान् || ३६ || स्वशिष्यांस्तान्परिज्ञाय ध्यानाद्व्याधत्वमागतान् | प्रोवाच करुणाविष्टस्तेषामेव शुभेप्सया || ३७ || शुश्रूषितः पुरा विप्रैर्युष्माभिरहमादरात् | कर्मणा तेन चेदानीम् - - - - - - - - || ३८ || - - - - - - - - गोवध्याकृतशापिताः | व्याधत्वमिह सम्प्राप्ताः कुत्सितं हिंस्रवृत्तिमत् || ३९ || सा च गौः पितृकार्येण भक्षिता वो न हिंसया | तस्माद्यूयमितो भ्रष्टा जातिस्मरणसंयुताः || ४० || मृगाः कालञ्जरे भूत्वा चक्रवाकाः पुनर्ह्रदे | भूयश्च मानुषा भूत्वा जातौ जातौ सचेतनाः || ४१ || योगयुक्ता महात्मानो मत्प्रसादादतन्द्रिताः | सर्वकिल्बिषनिर्मुक्ता ब्रह्मलोकमवाप्स्यथ || ४२ || एतच्छ्रुत्वा ततस्तेषां पूर्वा स्मृतिरजायत | उपाध्यायो ऽयमस्माकमिति बुद्धौ तदाभवत् || ४३ || ततः कर्म जुगुप्सन्तः पूर्वजातिकृतं च यत् | प्रदक्षिणमुपावृत्य दशार्णामभितो ययुः || ४४ || दशार्णातीरमासाद्य संमन्त्र्य च परस्परम् | जातिं पूर्वां स्मरन्तस्ते मृत्युमेव प्रवव्रिरे || ४५ || निश्चितानां ततस्तेषां काण्डरो यो ऽभवद्द्विजः | व्याधो ऽर्जुनकनामा स इदं वचनमब्रवीत् || ४६ || भवन्तो यन्मया पूर्वमुक्तास्तन्न कृतं हि वः | इदानीं समनुप्राप्तं मावमन्यत मे वचः || ४७ || श्रेयो वो ऽहं प्रवक्ष्यामि शृणुध्वं कुरुतैव च | जातिमेतां विमोक्ष्याम येन हास्याम न स्मृतिम् || ४८ || पुत्रानिच्छन्ति पितरः पुष्ट्यर्थं तारणाय च | वयं च जनितास्तेन व्याधेन सुमहात्मना || ४९ || संवर्धिताश्च क्लेशेन मात्रा पित्रा तथैव च | अनापृष्ट्वा कथं तौ तु मृत्युमिच्छामहे वयम् || ५० || ते यूयं यदि मन्यध्वमापृष्ट्वा तौ विसर्जिताः | योक्ष्यामः श्रेयसात्मानमेतद्वो हितमुत्तमम् || ५१ || न चेद्विसर्जयेतां तौ ताभ्यां शुश्रूषणे रताः | ततस्तावद्धि तिष्ठामो यावत्कालेन तौ मृतौ || ५२ || ततो वयं कृतात्मान अनृणाः सर्वथापि च | गमिष्यामो गतिं पुण्यामेतन्नः श्रेय उत्तमम् || ५३ || एवमस्त्विति ते सर्वे गृहीत्वा तस्य तद्वचः | चिन्तयन्तः पुराजन्म गृहानेवाभिजग्मिरे || ५४ || तानागतान्पिता दृष्ट्वा माता च चितका तदा | तुष्ट्या परमया युक्ता इदं तानूचतुर्वचः || ५५ || पुत्रकाः सुचिरादद्य यूयमभ्यागता गृहान् | अद्यावां सुदृढं मूढौ किं चिरं कृतमित्युत || ५६ ||

चितकोवाच |

क्षुधाविष्टः पिता वो ऽद्य पुत्रस्नेहेन पुत्रकाः | नात्ति मांसमिमं पक्वं सुरां च न पिबत्ययम् || ५७ || ते ऽपि जातिं जुगुप्सन्तः सर्वे वै पापयोनयः | इदमूचुः क्षुपं चैव चितकां च शुभं वचः || ५८ || भवन्तो ऽश्नन्त्वविघ्नेन पुष्टये शान्तये ऽपि च | नाश्नीम वयमद्याहः श्वो भोक्ष्यामो न संशयः || ५९ || ततस्तौ वृद्धभावेन नबुभुक्षासहौ तदा | आहारयेतामाहारं सुतुष्टौ च बभूवतुः || ६० || तौ तु तुष्टौ समालक्ष्य सर्वे ऽथ शिरसा नताः | ऊचुः प्रमनसो वाक्यमेकमत्येन ते तदा || ६१ || पितरौ परिनिर्विण्णा वयमेतेन जन्मना | इच्छामस्तं परित्यक्तुं तन्नः संमन्तुमर्हथः || ६२ || तेषां तद्वचनं श्रुत्वा पिता तानिदमब्रवीत् | परिष्वज्य सुतान्सर्वान्बाष्पपर्याकुलेक्षणः || ६३ || अहमासं पुरा पुत्रा ब्राह्मणः संशितव्रतः | दिवोदासस्य राजर्षेः सखा परमसंमतः || ६४ || स कदाचिद्वने रम्ये धनुषा कुरुते भृशम् | योग्यां तमहमाहेदं न त्वं वेत्सि धनुर्नृप | अजानन्किमिदं क्लेशं व्यर्थमेव करोषि च || ६५ || प्रोवाच राजा विप्राणां मन्त्रज्ञानं विधीयते | आमन्त्रणे भोजने च वाचा च कुशलाः सदा || ६६ || स मया हसता प्रोक्त आनयस्व धनुर्मम | यावत्क्षिपामि लक्षाय शरं यत्र ब्रवीषि माम् || ६७ || स तथोक्तस्तदा मह्यं सशरं धनुरर्पयत् | तेनोक्तं लक्षमुद्दिश्य शरः क्षिप्तो मया ततः || ६८ || तत्राभवत्स्थितो विप्रो मृगचारी दृढव्रतः | स तेन विद्धस्तेजस्वी ममार सहसैव च || ६९ || सो ऽहं तं मृतमालक्ष्य राज्ञा तेन विसर्जितः | ब्रह्मवध्याभयाद्घोरात्पितरं परिपृष्टवान् || ७० || प्रोवाच न भयं ते ऽस्ति ब्रह्मवध्या कुतस्तव | जात्यन्तरशतं गत्वा - - - - - - - - | - - - - - - - - दृष्टमेतत्स्वयम्भुवा || ७१ || ततो ऽहं परया भक्त्या पितृशुश्रूषणे रतः | अनया भार्यया सार्धं स्थितो वै बहुलाः समाः || ७२ || स कदाचित्पिता चापि मम कालेन संयुतः | अवतस्थे च तत्रैव अनयैव सहानघाः || ७३ || अथ कालेन महता गवाहं विनिपातितः | अग्निस्थं चावरूढैषा रुदन्ती मां शुभेक्षणा || ७४ || सो ऽहं गवा हतश्चेति मृगचारिवधेन च | व्याधजन्मनि विप्रत्वाद्भ्रष्टः पापेन जज्ञिवान् || ७५ || जातो ऽस्मि जन्मनां पुत्राः सहस्रं भृशदारुणम् | पितृभक्त्या च हि तया सम्यगाराधनेन च | नानशन्मे स्मृतिः पुत्रा ज्ञानं मे सम्प्रवर्तते || ७६ || जानामि ब्राह्मणान्भ्रष्टान्सर्वान्वै गोकृतेन वः | गुरोश्चैवानुशापेन भ्रष्टसंज्ञांस्तथैव च || ७७ || लब्धसंज्ञांस्तथा चैव सर्वानद्य महाबलाः | माता चेयं हि वो वेत्ति साध्वी नित्यं पतिव्रता || ७८ || यदहं वो ब्रवीम्यद्य तत्कुरुध्वं मम प्रियम् | अवाप्स्यथ ततः श्रेयः सर्वे यूयमतन्द्रिताः | अनामया विशोकाश्च न च संज्ञां प्रहास्यथ || ७९ || पुत्रा जन्मेदमन्त्यं मे मनुष्यत्वे न संशयः | इतो मृतेन गन्तव्यं मया ब्रह्मसदः शुभम् || ८० || ते यूयं मां प्रतीक्षध्वं किंचित्कालमतन्द्रिताः | स्वर्गते मयि यच्छ्रेयस्तत्करिष्यथ मा शुचः || ८१ || अवश्यं च सुतैर्माता पिता चैव सुखैधितैः | शुश्रूषितव्यौ नान्यो ऽस्ति धर्मो ऽस्माद्बलवत्तरः || ८२ ||

सनत्कुमार उवाच |

ततस्ते विस्मिता भूत्वा नष्टशोका विमत्सराः | तत्कालं पर्युपासन्त यावत्तौ जहतुस्त्वसून् || ८३ || तयोरतीतयोः सम्यक्कृत्वा ते ऊर्ध्वदेहिकम् | दशार्णायां महानद्यां विधिनानाशकेन ह || ८४ || असाधयन्त आत्मानं व्याधाः सप्तापि ते तदा | कालञ्जरे गिरौ भूयो मृगाः सप्तैव जज्ञिरे || ८५ || स्मरन्तस्तत्र ते जातिं मरुत्प्रपतनेन ह | साधयित्वा तदात्मानं चक्रवाकाश्च जज्ञिरे || ८६ || मृगत्वे यानि नामानि तेषां तानि निबोध मे | दीर्घजीवी अनाधृष्टो वायुवेगो ऽतिकम्पनः | श्रीपार्श्वः शङ्खपाच्चैव सोमलक्ष्यश्च सप्तमः || ८७ || जातिं स्मरन्तस्ते पूर्वामन्योन्यमभिमान्य च | सहिताः सहसा प्राणान्मरुत्प्रपतनाज्जहुः || ८८ || ते सप्तसंख्या व्याधेषु मृगेषु च तथा पुनः | जन्म प्राप्य पुनर्जाताः सरिद्वीपे खगास्ततः || ८९ || सरीद्वीप इति ख्यातं कम्पिल्ये वै सरः शुभम् | तत्रापि चक्रवाकास्ते सप्ताजायन्त सोदराः || ९० || मरुद्देवः शिखण्डी च रथनेमिस्वरस्तथा | शिखी जीवो ऽथ वृक्षश्च ध्वज इत्येव ते स्मृताः || ९१ || तेषां तत्रोपपन्नानां कदाचिदणुहः स्वयम् | कम्पिल्यको महातेजा राजा तं देशमागमत् || ९२ || स तत्सरः समासाद्य स्त्रीभिः सह मुदान्वितः | रेमे मन्दाकिनीं प्राप्य अप्सरोभिरिवामरः || ९३ || तं क्रीडमानं संदृश्य मरुद्देवस्य तत्र वै | चक्रवाकस्य तस्यासीत्स्पृहा तान्विषयान्प्रति || ९४ || यद्यस्याहं सुतः स्यां वै प्राप्नुयां राज्यमेव च | ततो ऽहं विषयानेतान्प्राप्नुयां नात्र संशयः || ९५ || तस्य तच्चिन्तितं ज्ञात्वा द्वितीयश्चक्रसाह्वयः | शिखण्डीति समाख्यातः स तमाह तदा हसन् || ९६ || भवता राजपुत्रत्वं राज्यं चैव विचिन्तितम् | तत्राहं ते पुरोधाः स्यां ममाप्येष मनोरथः || ९७ || ताभ्यां तच्चिन्तितं ज्ञात्वा रथनेमिस्वरस्ततः | अचिन्तयत तत्राहं सचिवः स्यां तव प्रभो || ९८ ||

सनत्कुमार उवाच |

तेषां तथा चिन्तयतां त्रयाणामितरे ततः | चक्राह्वयास्तदा क्रुद्धा इदं तानब्रुवन्वचः || ९९ || अचिन्तनीयं युष्माभिश्चिन्तितं विषयार्थिभिः | तस्माद्यूयमितो मुक्ता अवाप्स्यथ मनोरथम् || १०० || ताञ्छप्त्वा दीनमनसः समालक्ष्य पुनश्च ते | येन तद्राजपुत्रत्वं चिन्तितं राज्यमेव च || १०१ || कृपया तमिदं वाक्यमब्रुवन्नष्टचेतसम् | बहुसान्त्वगुणोपेतं स्वयं दुःखितवद्यथा || १०२ || वयं तव प्रभावेन तीर्णाः कृच्छ्रमिदं प्रभो | भवान्मतिप्रदो ऽस्माकं सेतुभूतो मतो हि नः || १०३ || भवान्यदि हि न ब्रूयात्पितॄणां गौर्निवेद्यताम् | शुश्रूषेमश्च न पितॄन्न स्म संज्ञा ततो भवेत् || १०४ || तव प्रभावादेतन्नो योगैश्वर्यप्रवर्तनम् | ततो वयं पुनः श्रेयस्तव ब्रूमः शृणुष्व नः || १०५ || तावत्त्वं सक्तहृदयो भविष्यसि नराधिपः | यावदस्मद्वचस्तथ्यं न श्रोष्यसि सहायवान् | योगज्ञानमवाप्यैनं प्राप्स्यसे च शुभां गतिम् || १०६ ||

सनत्कुमार उवाच |

ततस्ते सहिताः सर्वे युक्तात्मानो महाखगाः | खगत्वं सम्परित्यज्य योनिमन्यां प्रपेदिरे || १०७ || सर्वे ततस्ते मुनिकोपदग्धा व्याधा मृगाश्चक्रसमाह्वयाश्च | जाताः पुनर्मानुषविग्रहेषु योगेश्वरास्ते त्रय एव राज्ये || १०८ || इति स्कन्दपुराणे षट्पञ्चाशो ऽध्यायः ||

सनत्कुमार उवाच |

चत्वारस्ते तु शप्तारः खगाः स्वच्छन्दतः पुनः | यायावरस्य विप्रस्य सुता जज्ञे महात्मनः || १ || तेषु जातेषु विप्रो ऽसावक्लेशेन महातपाः | वृत्तिं समानयामास तेषां भाग्यपुरःसरः || २ || चीर्णवेदव्रतास्ते तु वेदान्साङ्गानधीत्य च | योगमेवाभ्यसेवन्त तन्निष्ठास्तत्परायणाः || ३ || इतरे ऽपि त्रयो व्यास कर्मणा स्वेन चोदिताः | प्रत्यपद्यन्त तज्जन्म यत्पुरा तैर्विचिन्तितम् || ४ || एको ऽणुहस्य पुत्रो ऽभूद्द्वितीयस्तत्पुरोधसः | तृतीयः सचिवस्याथ त्रयस्ते जन्म तद्गताः || ५ || त्रयो ऽग्नय इवासंस्ते लोकास्त्रय इवाथवा | अवर्धन्त महात्मानस्त्रयस्ते सागरा इव || ६ || तेषामवाप्तविद्यानां योग्यानां स्वे च कर्मणि | पितरः स्वानि कर्माणि प्रददुर्हृष्टमानसाः || ७ || अणुहः प्रददौ राज्यं ब्रह्मदत्ताय पुष्कलम् | कीर्तिमत्या च सहितस्ततो वनमगाच्च सः || ८ || पुरोधा धृतरातस्तु पुत्रं स्वे कर्मणि प्रभुः | स्थापयित्वा जगामाथ पञ्चालं संशितव्रतः || ९ || सचिवो ऽपि सुधन्वा तु ब्रह्मधन्वानमच्युतम् | पुत्रं स्वे कर्मणि स्थाप्य जगाम सह भार्यया || १० || गतेषु तेषु स्वांल् लोकान्ब्रह्मदत्तः प्रतापवान् | पञ्चालब्रह्मधन्वाभ्यां सह राज्यं चकार ह || ११ || प्रशासतस्तथा राज्यं यजतो भुञ्जतश्च ह | जग्मुः सुखेन बहुलाः समाः सुकृतिनस्तथा || १२ || अथ कालेन महता सभार्यः ससुहृज्जनः | तस्थौ स वेश्मनि सुखं कुबेर इव पुष्पके || १३ || ततः सर्वरुतं ज्ञात्वा पिपीलं कामकारणात् | पिपीलिकायाश्चाटूनि कुर्वाणं सो ऽनुपश्यत || १४ || स तु ज्ञात्वा विनिश्चिन्त्य कृमियोनावपीदृशम् | विवृतं शब्दवच्चैव हासमुत्सृजतानघः || १५ || तत्तस्य हसितं दृष्ट्वा पत्नी नीलोत्पलेक्षणा | चुकोप किमिदं मे ऽद्य विकृतं लक्षितं त्वया || १६ || तां स राजा समाविग्नः प्रियां प्राणैर्गरीयसीम् | प्रसादयन्न चैवास्य प्रसीदत शुभानना || १७ || सा यदा बहु तथ्यं च उच्यमाना न तुष्यति | तदा तस्याः प्रसादार्थे स विष्णुं सम्प्रसादयत् || १८ || देवं सालवनं गत्वा पञ्चालेन सहैव सः | ब्रह्मधन्वपुरोवाहो रथेन महता महान् || १९ || तत्रासौ सप्तमे अह्नि विष्णुनाभिविसर्जितः | जगाम नरशार्दूलः कम्पिल्यं स्वं पुरोत्तमम् || २० || एतस्मिन्नेव काले तु चत्वारो ब्राह्मणाः शुभाः | योगेन महता युक्ता इदमूचुः परस्परम् || २१ || वयं कृतार्थाः किंकार्यमिह तिष्ठाम मानुषे | गच्छाम ब्रह्मयोनिं स्वां मुच्यामो ऽस्मान्महाभयात् || २२ || अवसीदन्ति ते चैव त्रयो ऽस्माकं सहव्रताः | अवबोधयाम तांश्चैव यथा नेयुः पराभवम् || २३ || ततस्ते पितरं सर्वे प्रणम्योचुर्द्विजातयः | वयं योगेश्वरास्तात सिद्धा वै स्वेन कर्मणा || २४ || आपृच्छामो गमिष्यामः स्वां योनिं ब्रह्मनिर्मिताम् | त्यक्त्वेमान्मानुषान्देहान्विसर्जय नमस्तव || २५ ||

पितोवाच |

पुत्रानिच्छन्ति पितरस्तारयिष्यन्ति नो भयात् | भयं तच्चैहिकं पुत्राः परत्र च दुरासदम् || २६ || ते यूयमृणसंयुक्ता अमुक्त्वा स्वं निबन्धनम् | कथं गच्छथ भद्रं वो नाधर्मं परिपश्यत || २७ ||

सुता ऊचुः |

वयं योगेश्वरास्तात लोकांस्तुभ्यमनामयान् | प्रयच्छाम न संदेहो येषु गत्वा न शोचसि || २८ || अस्माभिस्त्वं कथं पुत्रैर्ब्रह्मत्वं नाप्नुयाः पितः | इहापि लोके द्रव्यं ते विधास्यामस्तथा शृणु || २९ || इमं त्वं पत्रमादाय ब्रह्मदत्तस्य दर्शय | स वाचयन्नेव नृपो वृत्तिं ते संविधास्यति || ३० ||

सनत्कुमार उवाच |

प्रभावज्ञस्ततस्तेषां पिता स मुनिपुंगवः | मेने तद्वै तथा सर्वमनुमेने च तान्पुनः || ३१ || अथासनानि बद्ध्वा ते युक्त्वा जग्मुस्तपोधनाः | ज्योतिर्भूतानपश्यच्च पिता तेषामतिद्युतिः || ३२ || स तु लेखं समादाय पुत्रान्स्वानभिचिन्तयन् | कम्पिल्यमगमत्तूर्णं दिदृक्षुर्नृपसत्तमम् || ३३ || स च राजा सालवनादागतः प्राविशत्पुरम् | ब्राह्मणो दूरतश्चास्य तं लेखं समदर्शयत् || ३४ || निमित्तानि च संलक्ष्य शुभानि स नराधिपः | लेखमानयतेत्युक्त्वा धारयामास तं रथम् || ३५ || स पुरद्वारसंस्थस्तु रथेन महता तदा | ब्रह्मधन्वधृतच्छत्रः पञ्चालावीजिताननः || ३६ || गृहीत्वा लेखमव्यग्र अवाचयत तं तदा | श्लोकद्वयं चाप्यभवत्तस्मिंल् लेखे शुभप्रदम् || ३७ || ये ते गुरुकृताच्छापाद्गोवधेनावपीडिताः | पितृभक्त्याहृतज्ञाना जाताः सर्वे शुभोदयाः || ३८ || सप्त व्याधा दशार्णेषु मृगाः कालञ्जरे गिरौ | चक्रवाकाः सरिद्वीपे यूयं तेभ्यो ऽवसीदथ || ३९ ||

सनत्कुमार उवाच |

श्लोकद्वयं तथा श्रुत्वा त्रयस्ते विषपीतवत् | मोहं तदानुसम्प्राप्य लब्धसंज्ञाविशन्पुरम् || ४० || ते प्रविश्य पुरं चैव वेश्म चैवाप्यतन्द्रिताः | इति चेति च संचिन्त्य वनाय दधिरे मनः || ४१ || सापि पत्नी महाभागा अभिगम्य नराधिपम् | इदमाह मुदा युक्ता राजानं ससुहृज्जनम् || ४२ || भवान्योगेश्वरो भूत्वा सक्तो भोगेषु सर्वशः | प्रबोधार्थं ततो ऽहं ते क्रोधमाहारयं तदा || ४३ || जानामि त्वां रुतज्ञं च जानामि त्वां खगं तथा | अतो ऽहं जानती राजन्प्रतिबोधार्थमुद्यता || ४४ || तस्माद्विप्रमिमं चैव तेषां पितरमव्ययम् | धनेन योजयस्वाद्य पुत्रं राज्ये ऽभिषिच्य च | श्वो गच्छावो वनं राजन्मा कालं प्रतिपालय || ४५ || राजा तत्सर्वमखिलं कृत्वा पत्न्या सहव्रतः | जगाम वनमुद्दिश्य योगेन च दिवं ययौ || ४६ || पञ्चालो ऽपि गते तस्मिंस्तपः कृत्वा सुदुश्चरम् | चकार पारणं चैव यक्षत्वं चाप्यवाप ह || ४७ || ब्रह्मधन्वा च कालेन सुमहात्मा दृढव्रतः | हिमवत्तनयां देवीं तपसा समपश्यत || ४८ || वरदां तां तदा दृष्ट्वा ब्रह्मधन्वाब्रवीच्छुभाम् | इच्छामि कामरूपित्वं त्वद्भक्तित्वं च नित्यदा || ४९ || कृच्छ्रं महच्च प्राप्तस्य त्वयैवोद्धरणं ततः | एवमस्त्विति सा चोक्त्वा जगामेष्टां गतिं तदा || ५० || ब्रह्मधन्वापि मत्तो ऽभून्मदनेन दुरात्मवान् | स भूत्वा धार्मिकः पूर्वमधर्मेणाभिपीडितः || ५१ || अभिमेने स कन्याश्च ऋषिपत्नीश्च सर्वशः | भर्तृरूपेण गत्वा च कामेन स विमोहितः | न च कश्चिद्विजानाति तथावर्तन्तमन्तशः || ५२ || अथ हाल इति ख्यातो मृगचारी महातपाः | तस्य पत्नी सुधर्माभून्नाम्ना रूपवती दृढम् || ५३ || कथयन्ति हि तां देवाः सिद्धाश्च सह चारणैः | असमा रूपतो ऽन्याभिस्त्रिषु लोकेषु भामिनी || ५४ || - - - - - - - - - - - - - - - - | न च तस्याः शुभापाङ्ग्या अन्तरं स बुबोध ह | यस्मिन्काले भवेत्तस्या विरहः पतिना सह || ५५ || स ब्रह्मधन्वा तां श्रुत्वा तथा रूपवतीं सतीम् | पत्यास्या विरहाकांक्षी व्याघ्ररूपं चकार ह || ५६ || कृत्वा च सुमहद्रूपं विकृतं भैरवं तदा | अत्रासयन्मृगान्व्यास दर्शनेन सुबालिशः || ५७ || तद्व्याघ्रभयसंत्रस्तं मृगयूथं तदा विभो | मनोनिलवदव्यग्रमदृश्यं सम्प्रपद्यत | मृगैः सह च हालो ऽपि जीवितैषी तदा गतः || ५८ || सुधर्मा ब्राह्मणी सापि भयाद्व्याघ्रस्य भामिनी | स्त्रीस्वभावाच्च पतिता नान्वगच्छन्मृगव्रजम् || ५९ || एकाकिनीं च तां दृष्ट्वा ब्रह्मधन्वा दुरात्मवान् | व्याघ्ररूपं समुत्सृज्य तामिदं प्रत्यभाषत | मृदुना सान्त्वयुक्तेन वचसा भयपीडिताम् || ६० || मा भीर्भवतु ते भद्रे पतिस्ते ऽहं सुमध्यमे | मृगराजो गतो ऽसौ च समाश्वस मम प्रिये || ६१ || तं समाश्वस्य सापश्यत्पतिरूपं महायशा | हृदा चाचिन्तयद्दृष्टो मयासौ तैर्मृगैः सह | जीवितैषी पलायन्वै कुतो ऽयं पुनरागतः || ६२ || देवेन्द्रो मां दुराचारः सदा धर्षत्यतन्द्रितः | सो ऽयं कामयितुं प्राप्तः किं न स्यादन्तरैषिवान् | तस्माद्द्रक्ष्याम्यहं सम्यग्दुष्टं दिव्येन चक्षुषा || ६३ ||

सनत्कुमार उवाच |

एतस्मिन्नन्तरे सो ऽथ ब्रह्मधन्वा करे ऽग्रहीत् | तामिदं चोचिवान्हृष्टः किं त्वं चिन्तयसे हृदा || ६४ || न मामालिङ्गसे ऽद्य त्वं मृत्योरास्याद्विनिर्गतम् | ननु ते ऽहं प्रियो भर्ता मा क्रुधो वरवर्णिनि || ६५ || ततस्तां स तदा दौष्ट्यात्कपोले समजिघ्रत | परिष्वज्य च दुष्टात्मा गात्रैर्गात्राण्यपीडयत् || ६६ || नीवीं विस्रंसयच्चैव अधरं चापिबद्बलात् | बुबुधे सा च तं दुष्टं कर्मणा तेन शोभना || ६७ ||

सुधर्मोवाच |

न त्वं मम पतिर्मूढ शक्रस्त्वं नात्र संशयः | उभयोर्मदनस्यास्ति विषमो ऽध्वा सुदुर्मते || ६८ || स तया त्वेवमुक्तस्तु अवधूतश्च सर्वशः | पपात धरणीपृष्ठे स्वं च रूपं प्रपद्यत || ६९ || ततः सा क्रोधताम्राक्षी धक्ष्यमाणेव चक्षुषा | निरीक्ष्य वदनं सुभ्रूरिदं वचनमब्रवीत् || ७० || ऋषिपत्न्यस्त्वया बह्व्यो व्यंसिता दुष्टचेतसा | न मादृशी त्वया काचिदन्या ह्यासादिता पुरा || ७१ || इदानीं कर्मणस्तस्य पूर्वमाचरितस्य ते | फलं प्राप्तमिदं पश्य मत्सकाशाद्दुरासदम् || ७२ || यदेव रूपं कृत्वा तु मृगानत्रासयद्बलात् | विचरिष्यसि तेनैव रूपेण बहुलाः समाः || ७३ || अशक्तश्चापि हन्तुं त्वं भविता मानुषं क्वचित् | षष्ठे च काले सम्प्राप्ते मृगं भक्ष्यमवाप्स्यसि || ७४ ||

सनत्कुमार उवाच |

अभिव्याहृत्य तत्क्रूरं शुभाचारा मनस्विनी | जगाम तान्मृगांस्तत्र ततः पतिमपश्यत || ७५ || सो ऽपि दुःखेन संतप्तो मन्वानस्तां हतेति च | विलपन्नेव तां दृष्ट्वा परिष्वज्येदमब्रवीत् || ७६ || दिष्ट्या त्वमसि सम्प्राप्ता मृत्योरास्याद्विनिःसृता | कच्चिन्न तेन दृष्टासि मृगराजेन शोभने || ७७ ||

सुधर्मोवाच |

नासौ मृगेन्द्रो दुर्बुद्धिः को ऽप्यसौ कामरूपवान् | मदर्थे समनुप्राप्तो मया दग्धः पतङ्गवत् || ७८ || स शापान्मम दुष्टात्मा शार्दूलप्रकृतिं गतः | राजेव शक्तिशापेन सौदासो राक्षसीं तनुम् || ७९ ||

सनत्कुमार उवाच

तस्यास्तद्वचनं श्रुत्वा हालो धर्मार्थतत्त्ववित् | दिव्येन चक्षुषापश्यद्ब्रह्मधन्वानमच्युतम् | तामुवाच सतीं भार्यामिदं स करुणात्मकः || ८० || कृतं दुष्टं त्वयात्रेयि सद्भिः सर्वविगर्हितम् | महतस्तपसस्ते ऽद्य क्षयो ऽयं सुमहान्कृतः || ८१ || न दुष्यन्ति स्त्रियः साध्वि नद्यो यद्वद्धि जन्तुभिः | न चैव शक्तो धर्मेण संगुप्तां त्वां प्रधर्षितुम् | यथा विषेण संछन्नमन्नं भोक्तुं हि मानवः || ८२ || अत्र ते वर्तयिष्यामि पुरावृत्तं महातपे | यत्पतिव्रतया पूर्वं कृतं दीप्तेन तेजसा || ८३ || आसीद्भलन्दलो नाम ऋषिः परमधार्मिकः | विद्वांश्चैव दयावांश्च पृथिवीवद्व्यवस्थितः || ८४ || ऋग्नामा तस्य भार्याभूद्वासिष्ठी पुण्यलक्षणा | रूपेणाप्रतिमा साध्वी न तस्याः स्त्री समा क्वचित् || ८५ || पतिव्रता महाभागा सर्वधर्मविदुत्तमा | तस्याः पतिमृते नान्यद्दैवतं भुवि विद्यते || ८६ || अपश्यन्हि कदाचिद्वै देवास्तां कमलेक्षणाम् | तस्या रूपगुणोन्मत्ता लेभुर्न धृतिमेकशः || ८७ || न शक्यते च सा प्राप्तुं न दूतीभिर्न कर्मणा | न दानेन न संमानैर्न बलान्न च सेवया || ८८ || वह्निस्तामग्न्यगारस्थः प्रविष्टामग्रहीच्छुभाम् | न चापि साहमस्मीति न च नास्मीत्यथाब्रवीत् || ८९ || न क्रोधो नापि दर्पो ऽस्या न च मानो न मत्सरः | तस्याः प्रियमभून्नान्यत्पतिमेवाभ्यचिन्तयत् || ९० || विभावसुरपि व्यक्तमियं मामिच्छतीति ह | अभ्युपेत्य नु दुष्टेति भावेन सुरसत्तमः | अथ हित्वा स्वकं देहमदेहः समपद्यत || ९१ || एवं वै भास्करो वायुर्वरुणश्चन्द्र एव च | सर्वे विदेहाः संवृत्तास्ततस्तां सम्प्रसादयन् || ९२ || सापि तान्नावदत्किंचित्पुरुषात्माभिशङ्कया | भर्तुश्चाकथयत्सर्वं स तानिदमुवाच ह || ९३ || इयं पत्नी महाभागा मम सर्वाङ्गसुन्दरी | नेयं कुप्यति युष्माकं जाने ह्यस्या व्रतं शुभम् || ९४ || मत्तो ऽपि वो भयं नास्ति नाहं कुप्ये कथंचन | मत्प्रसादाद्विदेहापि देहवन्तो भविष्यथ || ९५ || ततस्ते देहवन्तो वै तुष्टुवुस्तं भलन्दलम् | ऊचुर्वरं वृणीष्वाद्य तुष्टाः स्मस्तव सर्वथा || ९६ || सोवाच रजसा स्त्रीणां शुद्धिः स्यान्मदनुग्रहात् | मनोवाक्कर्मभिर्मुक्ता व्यवहार्या भवन्तु च | पवित्राः सर्वतः शुद्धा अदुष्टाः स्त्रिय एव हि || ९७ ||

हाल उवाच |

ततस्ते तं नमस्कृत्य सभार्यं ब्रह्मवादिनम् | जग्मुर्देवाः प्रशंसन्तः सर्वे वह्निपुरोगमाः || ९८ || एवं त्वमपि धर्मज्ञे नित्यं पतिमनुव्रता | कस्त्वां समर्थो देवो ऽपि स्प्रष्टुमन्यः कुतो जनः || ९९ || तीर्थभूताः स्त्रियश्चापि न दुष्यन्ति कथंचन | मद्रूपं कृतवान्यस्मात्तस्माच्छापं च नार्हति || १०० || तस्मात्करिष्ये तस्याहं दुष्टस्यापि हि शोभने | अनुग्रहं धर्मयुक्तं येन श्रेय अवाप्स्यति || १०१ || व्याघ्रस्यापि प्रिये तस्य स्मृतिर्नित्यं भविष्यति | सर्वकार्येषु धर्मेषु धर्मेण च करिष्यति || १०२ || यतो ऽस्य कामरूपित्वं येन मत्तः सदा ह्यभूत् | तत एव पुनः श्रेयः प्राप्स्यते मदनुग्रहात् || १०३ ||

सनत्कुमार उवाच |

स एष व्यास दुष्टात्मा विश्वामित्राश्रमे रतः | अग्रारण्ये सदा ह्यासीद्देव्या गणपतिः कृतः || १०४ || य इमं तस्य माहात्म्यं धारयेच्छ्रावयीत वा | सततं ब्राह्मणं व्यास योगैश्वर्यमवाप्नुयात् || १०५ || योगेश्वरत्वं कांक्षद्भिरेतदध्येयमन्तशः | जन्मान्तरं समासाद्य प्राप्नुवन्ति न संशयः || १०६ || शृणुयाद्य इमं सततं शुचिरेकमना मनुजः | स जहाति-म्-अधर्मकृतं स सुरेन्द्रपुरं व्रजते || १०७ || इति स्कन्दपुराणे सप्तपञ्चाशो ऽध्यायः ||

व्यास उवाच |

वरान्गृहीत्वा रुद्राणी तस्मिञ्छिखरसत्तमे | अकरोत्किमिति ब्रूहि सर्वं देव्या विचेष्टितम् || १ ||

सनत्कुमार उवाच |

स्वयम्भुवि गते देवी तपसो विरराम ह | सा तुष्टा वरदानेन चिन्तयन्ती तदा वरम् | न्यवेक्षत दिशः सर्वाः प्रसन्नवदनेक्षणा || २ || कस्यैनं कथयामीति देवं हित्वेति चाब्रवीत् | शास्त्रज्ञं कंचिदुद्दिश्य यथार्थं शास्त्रचिन्तकः || ३ || पुत्रलम्भकृतं हर्षं चिन्तयन्त्या मुहुर्मुहुः | अपतज्जलमत्यर्थं शीतलं सुसुगन्धि च || ४ || बह्वभूत्सरसि स्वच्छं तस्यास्तत्तेजसा जलम् | शिष्ये बुद्धिगुणेनेव गुरुणा ज्ञानमाहितम् || ५ || विगाहमाना सा देवी तत्सरो विमलोदकम् | रेजे वियन्मध्यगता दीप्तेव सवितुः प्रभा || ६ || विगाहमाना व्यजहत्कृष्णां कोशीं तदानघा | सा विरेजे तया मुक्ता कलेवेन्दोर्घनात्यये || ७ || तस्यां कोश्यां समभवत्कौशिकी लोकविश्रुता | विश्वं सिसृक्षतो धातुर्देहादिव पुरा निशा || ८ || बिम्बाधरा तीक्ष्णसितोस्रदंष्ट्रा प्रसन्नताराधिपचारुवक्त्रा | सुजातनीलाञ्चितदीर्घकेशी किंचित्समभ्युन्नतरोमराजी || ९ || सुसंस्थिताभ्यां चरणाम्बुजाभ्यां प्रदक्षिणावर्तनिमग्ननाभिः | विगूढजान्वस्थिशिरा सुगुल्फा विनाकृतेवाम्बुरुहेण लक्ष्मीः || १० || प्रसन्नरूपा प्रथमोद्गतस्तनी प्रफुल्लनीलाम्बुजचारुलोचना | सुसंस्कृतैर्वज्रमणिप्रवेकिभिर्विभूषिता चाभरणैः सुमध्यमा || ११ || साङ्गदा बद्धकेयूरा कटकोद्भासितत्विषा | बिभर्ति सा भुजानष्टौ सायुधानपराजिता || १२ || बद्धगोधाङ्गुलित्राणा कवचं बिभ्रती शुभम् | दुर्भेदं सहजं भास्वत्सेन्द्रैरपि सुरासुरैः || १३ || निबद्धतूणीरयुगा प्रगृहीतशरासना | वसाना पद्मकिञ्जल्करुचिरे वाससी तदा || १४ || जानुभ्यामवनिं गत्वा शिरस्याधाय चाञ्जलिम् | व्यज्ञापयत सा देवी ब्रूहि किं करवाणि ते || १५ || मूर्ध्न्युपाघ्राय तां देवीं परिष्वज्य च पीडितम् | भवानी प्राह संहृष्टा मूर्तिस्थानं ममाव्यये || १६ || जरामरणहीना त्वं शोकदुःखविवर्जिता | भविष्यसि महायोगा संयुगेष्वपराजिता || १७ || कौशिकीति च नाम्ना त्वं ख्यातिं लोके गमिष्यसि | अन्यैश्च नामभिः श्लाघ्यैर्गुणकर्माभिसंश्रयैः || १८ || तव भक्त्या स्मरिष्यन्ति ये ऽतिदुर्गेषु संस्थिताः | दुर्गाणि ते तरिष्यन्ति त्वत्प्रसादाद्वरानने || १९ || वरा वरेण्या वरदा दुर्गा सर्वार्थसाधनी | इत्थं त्वां नामभिर्दिव्यैः स्तोष्यन्ति मुनयः सदा || २० || जप्यैः प्रणतिभिर्होमैरुपहारैः पृथग्विधैः | प्राणिनः पूजयिष्यन्ति भवन्तीं भुवि सर्वदा || २१ || सिंहयुक्तं महद्दिव्यं रथमादित्यवर्चसम् | ससर्ज सपताकं च किङ्किणीजालमण्डितम् | विन्ध्यं गिरिवरं चास्या निवासाय समादिशत् || २२ || एवमुक्ता तदा देवी प्रणम्य भुवनेश्वरीम् | आरुरोह रथं दिव्यं कार्तस्वनमयं शुभम् || २३ || व्योमगेन रथेनाथ नानारत्नांशुमालिना | जगामाशु ततो विन्ध्यं नानाद्रुमलताचितम् || २४ || विहङ्गविरुतैर्विन्ध्यः स्वागतेनेव कौशिकीम् | अपूजयदमेयां तां तत्र प्राप्तां तदानघाम् || २५ || वारिभिर्विमलैः शीतैर्निर्झरोदकनिःसृतैः | सपुष्पनिकरैः पुण्यैरर्घं चास्यै ददन्निव || २६ || अथ मृगपतिनागत्रस्तपर्यन्तनागं चकितहरिणयूथक्षुण्णदर्भाङ्कुराग्रम् | वरमहिषविषाणच्छिन्नगुल्मावतानं गिरिवरमभिरम्यं कौशिकी साभ्यपश्यत् || २७ || व्यरोचयत सा देवी वासाय शिखरं गिरेः | उत्फुल्लपादपालीनविहङ्गगणनादितम् || २८ || निर्झरोदकसम्पर्कहरितोपलशाड्वलम् | नानाद्रुमलतापुष्पसुरभीकृतमारुतम् || २९ || तुहिननिकरशीतैर्निर्झराम्बुप्रवाहैर् निचितपृथुनितम्बोत्तुङ्गपर्यन्तसानुम् | गिरिवरशिखरं तत्साध्युवासाथ देवी कुसुमिततरुशाखाश्लिष्टमत्तद्विरेफम् || ३० || य इमं पठते नित्यं शृणुयाद्वा समाहितः | कौशिक्याः सम्भवं सम्यक्स याति परमां गतिम् || ३१ || स्कन्दपुराणे ऽष्टपञ्चाशो ऽध्यायः ||

सनत्कुमार उवाच |

ततस्तां कौशिकीं तत्र प्रस्थाप्य हिमवत्सुता | विरेमे तपसस्तीव्रात्सस्नौ च विधिवत्तदा || १ || वसाना वाससी शुक्ले दिव्यस्रगनुलेपना | पार्श्वस्थमथ संवीक्ष्य प्रोवाच वरदास्मि ते || २ || एवमुक्तवतीं देवीं शिखरं मूर्तिमत्तदा | प्रणिपत्य वरं वव्रे मयि सांनिध्यमस्तु ते || ३ || नाम चैव मम ख्यातिं तव नाम्नाभिलक्षितम् | यातु लोकेषु सर्वेषु त्वत्प्रसादान्महेश्वरि || ४ || अग्निश्च वरदां वव्रे मा गाः कोपं मयीश्वरि | सदापुष्पफलत्वं च वृक्षास्तां तत्र वव्रिरे || ५ || सुप्रसन्ना भवास्माकं त्वयि भक्तिश्च नो ऽस्त्विति | ततस्तां वव्रिरे देवीं सर्वाश्च परिचारकाः || ६ || उपास्यमाना बह्वीभिर्देवताभिर्गिरीन्द्रजा | अभिभूयान्यतेजांसि भानवीव बभौ प्रभा || ७ || हृदये ऽपि स्थिता पत्युः पतौ हृदयसंस्थिते | सा वै गिरीन्द्रतनया विमुक्तास्मीत्यमन्यत || ८ || अथ सा तेजसां धाम पतिं सर्वजगत्पतिम् | वरदा वरदं द्रष्टुं गमनायोपचक्रमे || ९ || नमस्कृता तद्वनदेवताभिः प्रदक्षिणीकृत्य समिद्धमग्निम् | ऋषींस्ततो वन्द्यतमाभिवन्द्य जनं च तेषां प्रतिपूज्य पूज्या || १० || उत्पपात ततो व्योम सा सार्धं सोमनन्दिना | सिंहेनेव जगद्धात्री गणैः परिजनेन च || ११ || वियति जलदवृन्दान्विक्षिपन्ती स्वधाम्ना हिमजलकणशीतैर्वीज्यमाना मरुद्भिः | गिरिवरतनया सा पत्युरेव स्मरन्ती मदनदहनमूर्तेराशु पार्श्वं जगाम || १२ || स्कन्दपुराण एकोनषष्टितमो ऽध्यायः ||
अथासौ ब्रह्मणः पुत्रं व्यासः प्राह कृताञ्जलिः | किमर्थं कौशिकी विन्ध्यं देव्या सम्प्रेषिता तदा || १ || एवमुक्तस्तदा धीमान्व्यासेन ब्रह्मणः सुतः | यथावृत्तं पुरा सर्वमाख्यातुमुपचक्रमे || २ || आरिराधयिषुर्देवीं विन्ध्यस्तेपे पुरा तपः | ततस्तुष्टाब्रवीद्विन्ध्यं पार्वती वरदास्मि ते || ३ || मयि वासो ऽस्तु ते नित्यमेवमादित्यरोधनः | वव्रे गिरीन्द्रतनयां प्राह सा च तथास्त्विति || ४ || स्वतनुं सा द्विधाभूतामग्नेर्दीप्तां शिखामिव | दाहाय दानवेन्द्राणां प्राहिणोत्कौशिकीमतः || ५ || अथ तं ब्रह्मणः सूनुमुवाच मुनिसत्तमः | गिरिर्विन्ध्यो महाप्रज्ञ कथमादित्यरोधनः || ६ || सनत्कुमारः प्रोवाच पृष्टो व्यासेन धीमता | शृणु यस्मादभूद्विन्ध्यो गिरिरादित्यरोधनः || ७ || पुरा विन्ध्यो ऽब्रवीत्सूर्यं कस्मात्त्वं न करोषि माम् | प्रदक्षिणं यथा मेरुं का ते ऽवज्ञा मयि प्रभो || ८ || प्रत्याख्यातः स सूर्येण विन्ध्यो गिरिरवर्धत | रुद्ध्वा तस्य स्थितो मार्गं तस्मादादित्यरोधनः || ९ || नष्टालोके ततो लोके देवाः संविग्नचेतसः | अगस्त्यमुपसंगम्य वाक्यमूचुः समाहिताः || १० || सवितुर्मार्गमावृत्य गिरिर्विन्ध्यो व्यवस्थितः | तं वारय महाप्राज्ञ गतिर्नः सर्वदा भवान् || ११ || तमगस्त्यो गिरिं गत्वा प्रोवाचेत्थं महातपाः | यास्यामि दक्षिणामाशां पन्थानं देहि पर्वत || १२ || यावत्प्रतिनिवर्तेयं तावच्च स्थातुमर्हसि | ततः प्रभृति चैवेह नाभूदागमनं मुनेः || १३ || अथ पप्रच्छ तं व्यासः पितामहसुतं प्रभुम् | कौशिकी प्रहिता विन्ध्यं दानवानां विनाशने || १४ || के ते कस्य किमर्थं वा कौशिक्या दानवा हताः | एतत्सर्वं समासेन प्रश्नं मे वक्तुमर्हसि || १५ || पितामहसुतो धीमान्व्यासेनैवं प्रचोदितः | प्रश्नमेतं समासेन व्याख्यातुमुपचक्रमे || १६ || देवासुरे पुरातीते संयुगे परमाद्भुते | सुन्दो निसुन्दश्च सुतौ निसुम्भस्य बभूवतुः || १७ || देवान्प्रति सुसंक्रुद्धौ गर्जन्तौ गोवृषाविव || १८ || सिंहाविव महासत्त्वौ हृतदंष्ट्रानखायुधौ | श्वसन्तौ सविषावुग्रौ भग्नदंष्ट्राविवोरगौ || १९ || अशक्तौ तौ सुरैर्योद्धुं हतपक्षौ महासुरौ | सुपर्णाविव संक्रुद्धौ छिन्नपक्षौ महाबलौ || २० || तपस्याधाय तौ चेतो गोकर्णं प्रति जग्मतुः | आरिराधयिषू देवं ब्रह्माणममितौजसौ || २१ || अथोवाच ततो व्यासो गोकर्णं कथयस्व मे | कस्मिन्देशे किमर्थं वा केन वोत्पादितं पुरा || २२ || प्रोवाच ब्रह्मणः सूनुर्व्यासेनैवं प्रचोदितः | शृणु वत्स समासेन पुण्यं गोकर्णसम्भवम् || २३ || हते त्रिशिरसि त्वष्टा पुत्रे ज्यायसि वज्रिणा | वृत्रं नाम पुनः पुत्रमसृजत्तपसां निधिः || २४ || प्रलम्बबाहुं वृत्तास्यं पीनविस्तीर्णवक्षसम् | सुश्लिष्टजानुं सुहनुं जलदध्वाननिस्वनम् || २५ || सुक्षिप्तपार्श्वं सुकटिं दीर्घरक्तान्तलोचनम् | समरे सर्वदेवानां जेतारमपराजितम् || २६ || स निर्जित्यामरान्सर्वाञ्जग्रासेन्द्रं महाद्युतिः | ततो महर्षिभिः सृष्टा जृम्भिका तं समाविशत् || २७ || तस्याथ जृम्भमाणस्य निर्जगाम शतक्रतुः | वदनादाशु संक्षिप्य स्वां तनुं योगमायया || २८ || तस्य योगबलं दृष्ट्वा वीर्यं शौर्यं च संयुगे | ततो भीताः सुराः सर्वे ब्रह्माणं शरणं ययुः || २९ || तान्दृष्ट्वा स तदा भीतानमरानमरद्विषः | प्रोवाचासौ प्रजेशानः पद्मयोनिः पितामहः || ३० || पराजितान्वो जानामि वृत्रेण रणमूर्धनि | उपायं तं न पश्यामि येनासौ जीयते युधि || ३१ || यास्याम सहिताः सर्वे देवं द्रष्टुमुमापतिम् | विश्वेश्वरं विधातारं वरदं भक्तवत्सलम् || ३२ || स नः प्रणामैर्भक्त्या च स्तुत्या चाराधितः प्रभुः | महादेवो महायोगी शम्भुः शान्तिं विधास्यति || ३३ || अथोत्तस्थुः सुराः सर्वे देवदेवं दिदृक्षवः | अपश्यन्तो विचेरुश्च महीं सोदधिपर्वताम् || ३४ || अथ विष्णुर्महायोगी देवीं हिमवतः सुताम् | अपश्यत्पांसुदिग्धाङ्गीमासीनां बालरूपिणीम् || ३५ || लेखामिव नवामिन्दोः प्रातःसूर्यप्रभामिव | हविषा हूयमानस्य तन्वीमग्नेः शिखामिव || ३६ || विज्ञाय स तदा योगान्महायोगां सुरेश्वरीम् | ईश्वरो जगतो विष्णुर्जिष्णुस्तुष्टाव पार्वतीम् || ३७ || त्वं स्रष्ट्री सर्वभूतानां संहर्त्री त्वं सुरेश्वरि | त्वमस्य जगतो धात्री नित्या प्रकृतिरव्यया || ३८ || त्वं प्रभा शर्वरी ज्योत्स्ना कीर्तिस्तुष्टिरुमा धृतिः | बुद्धिर्मेधा स्मृतिः प्रज्ञा सन्ध्या कान्तिः स्तुतिर्मतिः || ३९ || त्वमीशा देवि देवानां गणमाता गणाम्बिका | भद्रकाली महागौरी कौशिकी विन्ध्यवासिनी || ४० || दुर्गा ख्यातिर्महाविद्या गायत्री त्वं सरस्वती | स्वाहा स्वधा महामाया लक्ष्मी योगेश्वरेश्वरी || ४१ || उल्का सती गिरेः पुत्री मैनेयी ब्रह्मचारिणी | तापसी रेवती षष्ठी वरा वरसहस्रदा || ४२ || कुन्दकार्मुकसारङ्गकोकिलाशोकपल्लवैः | तुल्यासि दन्तभ्रूनेत्रस्वरपाणिभिरीश्वरि || ४३ || प्रमत्तोत्फुल्लसंपूर्णान्नागोत्पलनिशाकरान् | विशिनक्षि सदा देवि गतिलोचनकान्तिभिः || ४४ || शिरोभिर्माहिषैर्भ्रान्तरक्तपर्यन्तलोचनैः | नृभिः क्षितितलन्यस्तकरजानुभिरीज्यसे || ४५ || मत्तान्यपुष्टाकलवल्गुभाषिता द्विरेफमालासितचारुमूर्धजा | प्रफुल्लपुष्पस्तवकोद्गतस्तनी विराजसे कल्पलतेव पुष्पिता || ४६ || देवि देवीभिरनिशं भक्ताभिर्वन्द्यसे दिवि | ईज्यसे मुनिभिः शश्वद्गिरिजे गिरिमूर्धसु || ४७ || अर्च्यसे सिद्धगन्धर्वैर्गन्धपुष्पोत्करैः सदा | सदागतिपथप्राप्ता प्राप्त्या च स्तूयसे ऽनघे || ४८ || भासि सिंहं समारूढा चलत्पिङ्गलकेसरम् | दीप्ता प्रभेव सावित्री मेरोर्मूर्धानमास्थिता || ४९ || जिघांसती रणे दैत्याञ्छरौघैर्भास्यजिह्मगैः | रवेर्मूर्तिस्तमांसीव विकिरन्ती गभस्तिभिः || ५० || परशुं शितमुद्गृह्य देवदानवसंयुगे | भ्राजसे देवि संक्रुद्धा पाटयन्तीव रोदसी || ५१ || अथ सा शैशवं हित्वा तनुमन्यां समाददे | एकीकृतामिवाकाशे संहतिं सर्वतेजसाम् || ५२ || दीप्तामपि सुखालोकां शान्तामपि सविभ्रमाम् | बालामपि जगद्धात्रीं तन्वीमपि सुसंहताम् || ५३ || उवाचेदं च सुप्रीता वरदास्मि तव प्रभो | एवमुक्तस्तया सो ऽथ प्रोवाचाम्भोदनिस्वनः || ५४ || शरण्ये देवि भक्तानां शरणागतवत्सले | भवानि भव मे नित्यं सुप्रसन्ना महेश्वरि || ५५ || कथयस्व च देवेशं शाश्वतं स्थाणुमव्ययम् | विश्वात्मानं महादेवं सर्वयोगेश्वरेश्वरम् || ५६ || तथास्त्विति प्रतिज्ञाय कथयामास शंकरम् | मृगयूथस्य मध्यस्थं क्रीडन्तं मृगरूपिणम् || ५७ || एकशृङ्गं महाग्रीवमेकाक्षममितौजसम् | एकपादं सुसंश्लिष्टमापाण्डुकपिलोदरम् || ५८ || अथ विष्णुर्द्रुतं गत्वा शृङ्गे जग्राह तं प्रभुम् | तस्मिन्नेव ततो ब्रह्मा जग्राहेन्द्रश्च वीर्यवान् || ५९ || त्रिधा तदभवच्छृङ्गं चलिते दीप्ततेजसि | त्रयाणां सुरमुख्यानां पृथक्पाणिषु संस्थितम् || ६० || अथादृश्यस्तदा शर्वस्तानुवाच सुरोत्तमान् | यदर्थमागता यूयं तद्ब्रूत सुरसत्तमाः || ६१ || अथोवाच ततो ब्रह्मा परमेशं वृषध्वजम् | राज्यं पुनरवाप्नोतु हत्वा वृत्रं पुरंदरः || ६२ || ततस्तानमरांस्तत्र वृषकेतुः समागतान् | स्वरेण वारिदध्वानगम्भीरेणाब्रवीत्तदा || ६३ || वैष्णवं परमं तेजः फेनमावेक्ष्यते सुराः | शिरश्छेत्स्यति वृत्रस्य तदादाय शतक्रतुः || ६४ || हृषीकेशो ऽथ तत्खण्डमनयत्स्वं निकेतनम् | न्यवेशयत तत्रैव वारिजोदरसंभवः || ६५ || नीयमानं तृतीयं च खण्डमाखण्डलेन तु | रक्षसामधिपः श्रीमाञ्जग्राहाथ दशाननः || ६६ || चकार सन्ध्यामुदधौ दक्षिणे न्यस्य तत्तदा | न विचालयितुं शक्तः सन्ध्यामास्थाय रावणः || ६७ || तत्पुण्यं देवदेवस्य व्यास क्षेत्रं महाद्युतेः | गोकर्णमिति नामास्य चकार कमलासनः || ६८ || तत्र गत्वा नरो भक्त्या प्रणिपत्य महेश्वरम् | अश्वमेधमवाप्नोति सर्वपापैः प्रमुच्यते || ६९ || गोकर्णमुत्तरं व्यास स्थापितं पद्मयोनिना | उदन्वतः स्थितं तीरे स्वयमेव तु दक्षिणे || ७० || यः शृणोति नरो नित्यं पुण्यं गोकर्णसम्भवम् | सर्वपापविधूतात्मा स याति परमां गतिम् || ७१ || अथ तौ दानवौ व्यास गोकर्णमभिजग्मतुः | तत्र चेरतुरत्युग्रं तपो ऽम्बुपवनाशनौ || ७२ || कस्यचित्त्वथ कालस्य विदित्वोग्रं तयोस्तपः | आजगाम तयोः पार्श्वं ब्रह्मा सुरनमस्कृतः || ७३ || अथ तौ विश्वधातारं चतुर्वक्त्रं पितामहम् | अपश्यतां महाबाहू ब्रह्माणं पुरतः स्थितम् || ७४ || शुक्लाम्बरधरं दीप्तं शुक्लस्रगनुलेपनम् | एकीकृतमसम्प्रेक्ष्यं तेजो दिनकृतामिव || ७५ || प्रीतो ऽस्मि युवयोः पुत्रावथोवाच पितामहः | अनेन तपसोग्रेण वरं ब्रूतमभीप्सितम् || ७६ || अमरत्वं तु वव्राते तौ प्रणम्य पितामहम् | ब्रह्माहाथ विना देवानमरत्वं न विद्यते || ७७ || अवश्यमेष्यो युवयोर्मृत्युरेकेन केनचित् | अथामरत्वं वव्राते परस्परवधं विना || ७८ || एवमस्त्विति ताभ्यां तं वरं दत्त्वा पितामहः | हंसयुक्तेन यानेन जगाम स्वं निकेतनम् || ७९ || असुरावपि तौ तस्मात्तपसोग्राद्विरेमतुः | आजग्मतुर्निकेतं स्वं वरं लब्ध्वा पितामहात् || ८० || वरदानं ततो ज्ञात्वा दैत्याः पातालवासिनः | आजग्मुर्दानवाश्चैव तयोः पार्श्वं मुदान्विताः || ८१ || केशिर्मुरो मयः शम्भुः कार्तस्वरमहारवौ | इन्द्रशत्रुः कलिर्धुन्धुरिल्वलो नमुचिर्द्रुमः || ८२ || वातापी दुन्दुभिर्मेघः प्रभुरन्ये च दानवाः | सर्वे कवचिनः शूरा गदापरिघपाणयः || ८३ || ऊचुश्च शोकमग्नानामस्माकं शत्रुतापनौ | युवां प्लवाविवायातौ शोकसागरतारणौ || ८४ || पुरे ऽप्रतिभये रम्ये कान्तां नाम ततः सभाम् | आजग्मुस्तुष्टमनसो दानवेन्द्राः समागताः || ८५ || तस्यां प्रयस्ते विस्तीर्णे शातकौम्भे वरासने | आससाद महाबाहुः सुन्दो दानवसत्तमः || ८६ || निसुन्दो ऽन्यत्ततो भेजे हेमरत्नमयं शुभम् | आससाद ततो धीमान्कार्तस्वरमये मयः || ८७ || अन्ये च दानवा भेजुरासनानि तदा मुने | हेमरत्नविचित्राणि भास्वन्ति च महान्ति च || ८८ || विरेजे सा सभा तत्र दानवेन्द्रैः समागतैः | सबलाकैस्तडित्वद्भिः प्रलये द्यौरिवाम्बुदैः || ८९ || अथोन्नाम्य शिरो रत्नमरीचिपरिवेषवत् | सुन्दो वचनमाहेत्थमम्भोदरुचिरस्वनः || ९० || दानवेन्द्राः करिष्यामि सर्वेषामस्रुमार्जनम् | विजित्य देवतैः सार्धमिन्द्रमाहवमूर्धनि || ९१ || प्रयाम दंशिताः सर्वे सज्जीभवत दानवाः | त्रैलोक्यविजयं कर्तुमुद्यतायुधपाणयः || ९२ || तस्य तद्वचनं श्रुत्वा प्रभुः प्राहासुरेश्वरम् | यज्ञव्रततपोभिश्च नियमैश्चासुरद्विषः || ९३ || आप्याययन्ति संरब्धाः शश्वद्वर्णाश्रमा भुवि | तानेव प्रथमं हत्वा ततो जेष्याम देवताः || ९४ || तस्य तद्वचनं श्रुत्वा प्राहुर्दानवसत्तमाः | आयतिं प्रथमं हत्वा विजेष्यामस्ततो ऽमरान् || ९५ || अथोवाच ततो धुन्धुर्मेघदुन्दुभिनिस्वनः | राजानुगामी लोको ऽयमपापो वध्यते कथम् || ९६ || अस्मत्तो देवतै राज्यं लोकं हत्वा पुरा हृतम् | विक्रमेणैव निर्जित्य दैत्यराज्यं सुरैर्हृतम् || ९७ || तथा तेभ्यो वयमपि प्रोच्छ्रितध्वजसंकुले | आनेष्यामो रणे जित्वा श्रियमाविग्नलोचनाम् || ९८ || अपकारे सति समे स्वभावेन मनस्विनाम् | तेजो विजृम्भते दीप्तं शक्तिमत्स्वेव सर्वदा || ९९ || अथ धुन्धोर्वचः श्रुत्वा मुरो मुरजनिस्वनः | उच्चैरुत्क्षिप्य मूर्धानं प्रोवाच प्रहसन्निव || १०० || पुराभूवन्महात्मानो दानवेन्द्रा महाबलाः | हिरण्यकशिपुर्वृत्रः प्रह्लादो नमुचिर्बलिः || १०१ || कोटिशो दानवाश्चान्ये महासत्त्वा महाबलाः | यैः कृता प्रसभं लक्ष्मीः स्ववक्षःस्थलवासिनी || १०२ || अल्पावशेषैरधुना युष्माभिरसुरोत्तमाः | कथमानीयते राज्यं सुरान्निर्जित्य संयुगे || १०३ || इष्टार्थसाधकेनाशु देशकालाविरोधिना | उपायेन परीप्सध्वं राज्यमन्येन केनचित् || १०४ || एतच्छ्रुत्वा तदा वाक्यमंशुमाली महासुरः | प्रोवाच मधुरं श्लक्ष्णमर्थानुगमिदं वचः || १०५ || सापराधा बलीयांसो बद्धवैराश्च दानवैः | जयिनः श्रीमदोन्मत्ताः साम देवेष्वनर्थकम् || १०६ || सुरेषु मानसी सिद्धिर्विभुता भुवनत्रये | अणिमाद्यैर्गुणैर्योगस्तेषु दानमपार्थकम् || १०७ || एकार्थानर्थिनः सर्वे संहताश्चासुरद्विषः | न ते भेदयितुं शक्या दानवैर्दानवोत्तमाः || १०८ || मन्त्रप्रभावशक्तिभ्यामुत्साहेन परेण च | सम्पन्नाः सर्वथा देवा न युद्धं तैः सहेष्यते || १०९ || युक्तो दानवमुख्यानां हीनसन्धिः सुरैः सह | स्थानवृद्धिपरीप्सूनां क्षीणानामधुना भृशम् || ११० || अथाह तेजसा स्वेन तेजांसि सुरविद्विषाम् | अभिभूय सदस्युच्चैरंशुमानंशुमानिव || १११ || प्रणामपूर्वः क्रियते हीनसन्धिः कुराजभिः | न चक्रुर्दानवाः पूर्वं कुर्वते न च साम्प्रतम् || ११२ || शिरांसि दानवेन्द्राणां कथं यास्यन्ति नम्रताम् | सुमेरोरिव शृङ्गाणि भानुमन्त्युच्छ्रितानि च || ११३ || आदास्यामो ऽथवा राज्यं देवान्निर्जित्य संयुगे | प्राप्स्यामो वा गतिं पुण्यां निहताः समरे ऽमरैः || ११४ || इत्थमंशुमतः श्रुत्वा वाक्यं वाक्यार्थकोविदः | गम्भीरमर्थवत्प्राह महिषो वदतां वरः || ११५ || विदितं वः समस्तानां पूर्वजा भवतां यथा | हता दानवशार्दूला विक्रमैकरसाः सुरैः || ११६ || तदलं दानवश्रेष्ठा वृत्त्या वो ऽग्निपतङ्गयोः | संधाय देवतैः सार्धं वृत्तिं कुर्मः स्वकर्मभिः || ११७ || ज्यायोभिर्दानवा देवै रन्ध्रव्यसनवर्जितैः | विग्रहेण कथं सिद्धिमिच्छथ स्रस्तशक्तयः || ११८ || गुणातिशययुक्तानां यानमभ्युच्चये सति | मन्त्रोत्साहप्रभावानामवाप्तौ देशकालयोः || ११९ || अथ सम्भूययानेन मन्यध्वं सिद्धिमात्मनः | दंशिताः समरे यत्ताः समेता यक्षराक्षसैः || १२० || रक्षांसि हुतशेषाणि ज्वलने शक्तिसूनुना | श्रितानि देवतानेव भीतान्यबलवन्ति च || १२१ || आयत्ताः सर्वदा यक्षाः कुबेरे ऽसुरसत्तमाः | स चापि सुरमुख्यानां कुरुते कार्यमुद्यतः || १२२ || अन्यत्र दैत्यशत्रुभ्यो भुवनेषु बलीयसः | अभावादसुरश्रेष्ठा द्वैधीभावो न विद्यते || १२३ || महिषे सदसि स्वस्थमित्युक्तवति दानवे | विस्पष्टमर्थवद्वाक्यं द्रुमः प्राह महासुरः || १२४ || समरे ऽनिर्जिताः पूर्वमस्माभिरबलैः सह | जयिनः शक्तिसम्पन्नाः संधास्यन्ते कथं सुराः || १२५ || संविधायाशु दुर्गाणि पर्वतान्युदकानि च | विजये सततं युक्ता विगृह्यासनमास्महे || १२६ || नाशयन्तः सदा यज्ञान्व्रतानि नियमांस्तथा | वर्णाश्रमांश्च लोके ऽस्मिञ्जिघांसन्तः समन्ततः || १२७ || ततो लोकविनाशेन विच्छिन्ने सत्क्रियापथे | विदित्वापचितान्देवानभियास्याम दंशिताः || १२८ || अथ ते तस्य वचनं सर्व एवानुमेनिरे | आसन्नमृत्यवो ऽपथ्यमन्नं प्राणभृतो यथा || १२९ || उत्तस्थुर्लोकनाशाय मतिं कृत्वामरद्विषः | उदन्वन्त इवोद्वेलाः प्रलये मारुताकुलाः || १३० || जलद इव सुनीलः पीनवृत्तोन्नताङ्गो हिमकरकरशुभ्रां हारयष्टिं दधानः | उदपतदथ सुन्दः स्वासनात्स्वात्तदानीं जलधिरिव विघूर्णन्फेनमाली युगान्ते || १३१ || तदनु तदनुजो ऽम्बुवाहनीलः परिघभुजः पृथुरक्तदीर्घनेत्रः | अजहदविमनाः स्वमासनान्तं प्रतिभयकृद्द्विषतां तदा निसुन्दः || १३२ || इति स्कन्दपुराणे षष्टितमो ऽध्यायः ||

सनत्कुमार उवाच |

अथ दानवमुख्यानां लोकनाशाय निर्ययौ | मत्तवारणसम्बाधं रथाश्वकलिलं बलम् || १ || तत्तदा दानवानीकं विससार दिशो दिशः | प्रलये मारुतोद्धूतमुदन्वत इवोदकम् || २ || निजघ्नुर्ब्राह्मणान्केचित्केचिन्निष्पिपिषुर्विशः | सुसुभुः क्षत्रियानन्ये शूद्रानन्ये बभक्षिरे || ३ || जग्रसुर्लिलिहुर्नेदुर्बभञ्जुश्च समन्ततः | यज्ञेष्वन्नं हविर्नादान्यूपांश्चामरविद्विषः || ४ || स्वधीतवेदाध्ययनाभिनादितान्मुनिप्रवेकाचितगुल्मपादपान् | प्रभूतचीराजिनदर्भसंचयान्निकामपर्यन्तहिमाम्बुनिर्झरान् || ५ || उपान्तनीवारगवेधुकाचितान्प्रसुप्तविश्वस्तमृगर्क्षवानरान् | हविर्भुजो धूमवितानसंकुलान्विसृत्य चान्ये परिजघ्नुराश्रमान् || ६ || केचिन्मुनीनामसुरा जीर्णोरगसमत्विषः | जटाः संगृह्य लुलुचुः क्षालितास्तीर्थवारिणा || ७ || पातयित्वासुराः केचिच्चरणैः पिपिषुः क्षितौ | ऋषीनात्मविनाशाय हुताशाञ्ज्वलितानिव || ८ || शिरांसि मुनिपत्नीनां करैः केचित्तलत्रिभिः | पूतानि वारिभिः पुण्यैः पस्पृशुर्दानवाधमाः || ९ || अथ ते जगृहुर्यात्रां ज्ञात्वाभ्युदयमात्मनः | विक्षिप्तं लोकनाशाय बलमाहूय सर्वशः || १० || प्रशस्ते ऽहनि नक्षत्रे मुहूर्ते च जयान्विते | संनाहभेरीराहत्य क्रियाश्चक्रुर्जयावहाः || ११ || संनाह्यान्बलिनो मत्तानानाय्य वरवारणान् | सम्यगभ्यर्च्य वर्माणि बबन्धुर्विधिनासुराः || १२ || यन्त्राणि धौतैर्नाराचैः पूर्णान्यासनपार्श्वयोः | बबन्धुः शक्तिपूर्णांश्च वेणूंस्तिर्यगवस्थितान् || १३ || तोमरान्कणपाञ्छंकूञ्छूलचक्रपरश्वधान् | आबबन्धुर्नियुक्तांश्च मध्यमासनपार्श्वयोः || १४ || सज्जानि परमास्त्राणि बाणधींश्च सुसंस्कृतान् | सम्पूर्णान्गार्ध्रवासोभिर्निशिताग्रैः शिलीमुखैः || १५ || संनाह्यानङ्कुशांल् लोहान्बालेन्दुसदृशद्युतीन् | ग्रैवेयेषु सितांश्चक्रुर्मध्ये मस्तकपिण्डयोः || १६ || क्षुरप्रमालाः संयस्ताः शातकुम्भमयीः शुभाः | आबबन्धुश्च कुम्भेषु गजानां गजसादिनः || १७ || वैजयन्तीपताकाश्च विचित्राः स्वभिलक्षिताः | उच्छ्रयामासुरायत्ता दन्त्यनीकस्य दानवाः || १८ || घण्टा वारणमुख्यानामाससञ्जुर्महास्वनाः | चामराणि सुदीर्घाणि हंसांसरुचिराणि च || १९ || एकैकस्य चतस्रश्च करेण्वश्चारुदर्शनाः | स्थापिताः पुरतो दैत्यैः परवारणवारणाः || २० || यूनो युवभिरारूढाञ्छिक्षितानस्त्रकोविदैः | चक्रुरग्रेसरानश्वान्वर्मिणो लोहजालिनः || २१ || वर्मिणो बद्धकवचाञ्छितनिस्त्रिंशधारिणः | तेषां पुरःसरान्पत्तीननुयातांश्च धन्विभिः || २२ || दैत्ययोधास्ततश्चान्ये वर्मिणो लोहजालिनः | आरूढा बद्धनिस्त्रिंशाः स्नातपीतांस्तुरंगमान् || २३ || केचिद्विनीतैर्युवभिः स्नापितैः कृतमङ्गलैः | रथान्संयोजयामासुरश्वैरग्रजवैस्तदा || २४ || सायुधान्सपताकांश्च किंकिणीजालनादितान् | अधितस्थुस्तदा केचिद्रथान्हाटकसंस्कृतान् || २५ || एवं तत्कल्पितं श्रुत्वा सैन्यं सैन्यनमस्कृतः | सुन्दो दानवशार्दूलो निर्ययौ कृतमङ्गलः || २६ || स्वीषं सुकूबरं स्वक्षं शातकुम्भमयं वरम् | नानामणिमयैश्चित्रैर्भक्तिपुष्पमृगद्विजैः || २७ || युक्तं परमसंहृष्टैर्मनोवेगैस्तुरंगमैः | आरुह्याथ रथं दिव्यं पताकाध्वजशोभितम् || २८ || कवची बद्धनिस्त्रिंशो विधूतसितचामरः | अभितः स्तूयमानश्च सूतमागधवन्दिभिः || २९ || निसुन्दो ऽपि मदश्यामकपोलालीनषट्पदम् | आरुह्य निर्जगामाशु संग्रामिकमनेकपम् || ३० || अन्ये च दानवास्तत्र रथैरश्वैर्मतङ्गजैः | निर्ययुः परमप्रीत्या युद्धशौण्डाः सुदंशिताः || ३१ || बलस्याग्रेसरं कृत्वा तारकाक्षं महासुरम् | सहितं बहुभिः शूरै रथनागाश्वपत्तिभिः || ३२ || पृष्ठतः संविधायाशु बलोन्मत्तं महासुरम् | बलेन चतुरङ्गेन महिषं परिरक्षणम् || ३३ || पार्श्वयोरुभयोर्न्यस्य मेघस्वनमहास्वनौ | सैन्येन महता गुप्तौ दानवावरिसूदनौ || ३४ || मध्ये सुन्दो निसुन्दश्च मयः शम्भुः खरो मुरः | संनद्धा बलिनः शूराः परसैन्यनिवारणाः || ३५ || प्रतस्थिरे सुसंयत्ता दिवं दानवसत्तमाः | प्रलये मारुतोद्धूता घनाः संवर्तका इव || ३६ || तेषामागमनं ज्ञात्वा सह स्वर्लोकवासिभिः | अपसृत्य जगामाशु जनस्थानं शतक्रतुः || ३७ || मेरोः शिखरमारुह्य सर्वे ऽथ सहितास्तदा | सेनां निवेशयामासुर्नन्दने ते सुरद्विषः || ३८ || अथ सैन्यस्य दैत्येन्द्रा रक्षामाधाय सर्वतः | प्रविभक्तानसम्बाधानावासाञ्जगृहुस्ततः || ३९ || दत्तानुज्ञास्ततः सर्वे दानवा दानवोत्तमैः | संनाह्यमपनिन्युस्ते सर्वोपकरणं तदा || ४० || आरूढा गजकन्यासु वर्माणि मुमुचुः शनैः | आयुधान्यपनीयाशु सैनिका मत्तदन्तिनाम् || ४१ || संनाहानपनिन्युश्च मुमुचुः कवचानि च | तनुत्राणि विचित्राणि तदा दानवसैनिकाः || ४२ || अपेतकक्षान्मातङ्गान्स्नातपीतान्गतक्लमान् | बबन्धुः कल्पवृक्षेषु केचिद्दानवसैनिकाः || ४३ || केचित्कल्पद्रुमान्नागा मदसंलीनषट्पदाः | बभञ्जुर्बलिनस्त्रस्तमत्तोद्भ्रान्तविहङ्गमान् || ४४ || चकर्षुर्बलिनः केचिन्मदश्यामान्मतङ्गजाः | कपोलान्कल्पवृक्षेषु पुष्पालीनालिपङ्क्तिषु || ४५ || नागा जगाहिरे केचिन्मत्ता मन्दाकिनीं नदीम् | हैमवारिजकिञ्जल्कपिञ्जरोपान्तरोधसम् || ४६ || विमुक्तसांग्रामिकवर्मजालान्प्रसन्नचित्तान्परिघृष्टकायान् | निपीततोयानपनीतखेदान्बबन्धुरश्वान्पृथगश्वबन्धाः || ४७ || अथ सूक्ष्माणि वासांसि विचित्राः परमस्रजः | आनिन्युः कल्पवृक्षेभ्यः फलानि मधु चासुराः || ४८ || हैमानि केचित्पद्मानि तद्रजोरुणमूर्तयः | बभञ्जुर्दानवा हृष्टा गता मन्दाकिनीं नदीम् || ४९ || आनिन्युः सैनिकाः केचिन्मन्दारकुसुमोत्करान् | फलान्याजह्रिरे केचित्स्वादूनि च बहूनि च || ५० || तत्रोष्य रजनीमेकां भेरीराहत्य दानवाः | तेनैव विधिना यत्ताः प्रजग्मुरमरावतीम् || ५१ || ततस्तूर्यनिनादेन गजानां बृंहितेन च | सिंहनादैश्च दैत्यानां चचालेवामरावती || ५२ || अथ शून्यां समुद्वीक्ष्य पुरीं दानवसत्तमाः | इत्थमूचुः सुसंहृष्टा नदन्तो भैरवस्वनम् || ५३ || जयति विबुधशत्रुः सुन्ददैत्येन्द्रसिंहः कठिनरुचिरबाहुः पीनविस्तीर्णवक्षाः | शतमखपुरजेता चारुपृथ्वायताक्षः सजलघननिनादो मत्तनागेन्द्रगामी || ५४ || तदनु जयति चारुप्रान्तरक्तायताक्षो मृगपतिगतिलीलः संयुगेष्वप्रधृष्यः | त्रिदशवरविजेता दानवेन्द्रो निसुन्दः प्रहतमुरजनादः पीनदीर्घोरुबाहुः || ५५ || इति स्कन्दपुराण एकषष्टो ऽध्यायः ||

सनत्कुमार उवाच |

अथ निर्जित्य दैत्येन्द्रौ दिवं विक्रमशालिनौ | जग्मतुः सहितौ दैत्यैर्विन्ध्यं तुङ्गशिलोच्चयम् || १ || सम्पूज्य विधिवद्दैत्यान्प्रस्थाप्य भ्रातरौ तदा | रेमाते विन्ध्यपादेषु फुल्लपादपसानुषु || २ || दैत्याभ्यामथ विज्ञाय ब्रह्मा सुरपराभवम् | विचिन्त्यैकमनाः सम्यग्वधोपायं तयोस्तदा || ३ || तिलं तिलं समादाय रत्नेभ्यश्चारुदर्शनाम् | ससर्ज कमनीयाङ्गीमङ्गनां वल्गुनिस्वनाम् || ४ || तिलोत्तमेति तस्याश्च नाम चक्रे पितामहः | दिव्यानामपि सा स्त्रीणामुपमेव तदा बभौ || ५ || अतिसंपूर्णवक्त्रां तामतीन्दीवरलोचनाम् | अतिहंसस्वनालापामतिमत्तेभगामिनीम् || ६ || लक्ष्मी निरीक्ष्य सव्रीडा पङ्कजेनावृणोन्मुखम् | वपुर्भिः स्वैश्च चार्वङ्ग्यां त्रेपुरुद्यानदेवताः || ७ || तामुत्पाद्य ततो धाता पाकशासनमब्रवीत् | शम्भुना मदनः पूर्वं निर्दग्धो लोचनाग्निना || ८ || तस्य प्रोद्भूतये यामः सर्वे पार्श्वं पिनाकिनः | तमाराध्य तथा कुर्मो यथा स्यान्मदनः पुनः || ९ || अथ ते ब्रह्मणा सार्धं तया चासुरविद्विषः | जग्मुर्विन्ध्यगिरेः शृङ्गं यत्रास्ते भगवान्हरः || १० || तत्र शर्वमपश्यन्तो दध्युस्ते सुरसत्तमाः | गृणन्तः प्रणवं सर्वे शिवसंन्यस्तचेतसः || ११ || अथ लिङ्गं समुत्तस्थौ तेषां मध्ये दिवौकसाम् | सुसंहतं सुसंश्लिष्टं समूहस्तेजसामिव || १२ || उच्चचार तदा तस्मादुच्चैर्वाग्विशदाक्षरा | निर्दग्धो ऽयं मया पापस्तपस्विजनकण्टकः || १३ || युष्मदर्थे विमोक्ष्यामि कार्यं वो यः करिष्यति | करोतु परितश्चेयं मां प्रदक्षिणमङ्गना || १४ || एवमुक्ता महेशेन सा चकार प्रदक्षिणम् | संनिधायाञ्जलिं मूर्ध्नि रक्तेन्दीवरकोमलम् || १५ || नेमे मूर्तिं तदा पूर्वां निःससार ततो मुखम् | त्र्यक्षं प्रसन्नं बिम्बौष्ठममितद्युतिकान्तिमत् || १६ || अथ तेजो विनिःसृत्य वदनेन्दोः पिनाकिनः | तां विवेशाङ्गनामाशु शरद्भास्करभास्वरम् || १७ || अथ सा दक्षिणां मूर्तिं प्रणेमे चारुदर्शना | निर्जगाम तदा दीप्तं मुखं सुरगुरोस्ततः || १८ || वारिभारालसाम्भोदरुचिमद्भीमनिस्वनम् | करालदशनोद्भासि दीप्तरक्तान्तलोचनम् || १९ || अत्यादित्यं ततस्तेजो मुखान्निःसृत्य दक्षिणात् | दृश्यमानं सुरैः सर्वैर्विवेश प्रमदोत्तमाम् || २० || प्रणेमे सा ततस्तस्य पश्चिमां मूर्तिमञ्जसा | निश्चक्राम ततस्तस्या मुखं त्र्यक्षमनुत्तमम् || २१ || ततस्तेजो विनिःसृत्य मुखेन्दोर्मदनद्विषः | दीप्यमानं विवेशाशु तामेव प्रमदोत्तमाम् || २२ || उत्तरां मूर्तिमागम्य प्रणेमे सा कृताञ्जलिः | तस्या मुखं सुसंपूर्णं सुप्रसन्नं विनिर्ययौ || २३ || तस्मात्तेजो विनिःसृत्य सूर्यदीप्तानलप्रभम् | विवेश प्रमदामाशु तामेव वरवर्णिनीम् || २४ || मुखानि देवदेवस्य सुराणामर्थसिद्धये | चत्वारि निर्ययुर्दिक्षु न तस्या रूपविस्मयात् || २५ || आत्मसंस्थं पुरा तेजो दग्ध्वा यन्मदनं कृतम् | अनुजग्राह देवेशस्तेन तां प्रमदोत्तमाम् || २६ || अब्रवीच्च सुरान्सर्वांस्तत्रेदं वचनं शिवः | यस्मादियं मां यूयं च मण्डलेन प्रदक्षिणम् || २७ || चक्रे सर्वे सुरश्रेष्ठाः स्थानं तस्मादिदं मम | भविष्यति गिरौ विन्ध्ये मण्डलेश्वरसंज्ञितम् | सांनिध्यं सर्वदा ह्यस्मिन्करिष्यामि वरप्रदम् || २८ || मण्डलेश्वरमीशानं दृष्ट्वा तु प्रयतो नरः | अश्वमेधफलं प्राप्य मम लोकमवाप्स्यति || २९ || नैकसिद्धशताकीर्णं किंनरोरगसेवितम् | युष्माभिः सर्वदा युक्तं भविष्यति मम प्रियम् || ३० || एषा तिलोत्तमा चैव यदर्थं सुरसत्तमाः | सृष्टा युष्माभिरव्यग्रा तद्वः कार्यं करिष्यति || ३१ || एतामवेक्ष्य तौ दैत्यौ मोहितौ मदनार्दितौ | अन्योन्यं यास्यतो नाशमेषा चैव भविष्यति || ३२ || अजरा चामरा चैव सर्वाप्सरवरा शुभा | पूज्या चेह सदा स्थाने वन्द्या चैव भविष्यति || ३३ ||

सनत्कुमार उवाच |

एवमुक्ते महेशेन सुराः सुप्रीतचेतसः | तां स्त्रियं प्रेषयामासुर्वधार्थं दैत्ययोस्तदा || ३४ || सहायान्प्रददौ चास्यै ब्रह्मा कमलवाहनः | क्रोधं दर्पमृतून्सर्वान्रागं मदनमेव च | कालं मृत्युं च मोहं च विषादं चामितद्युतिः || ३५ || अथ सम्प्रेषयित्वा तु देवतास्तां तिलोत्तमाम् | आत्मानं पिण्डयामासुर्देवास्ते सर्व एव हि || ३६ || कः कः कतम आयात इहाद्येति सुरर्षभाः | ततो मध्ये स्थितं भूयस्ते ऽपश्यन्परमेश्वरम् || ३७ || पिण्ड्यमानेषु देवेषु यस्मान्मध्ये समास्थितः | पिण्डारेश्वर इत्येव तत्रासावभवत्ततः || ३८ || पिण्डारेश्वरमीशानं दृष्ट्वा भक्त्या तु मानवः | सर्वाशुभविनिर्मुक्तो देहभेदे गणो भवेत् || ३९ || ततस्ते देवताः सर्वे कृत्वा कार्यमतन्द्रिताः | प्रणम्य परमेशानं स्वानि सद्मानि भेजिरे || ४० || सापि चारुमुखापाङ्गी पीनोन्नतपयोधरा | आक्षिपन्तीव चेतांसि सुराणां विभ्रमैस्तदा | प्रतस्थे दक्षिणामाशामासाते यत्र दानवौ || ४१ || विन्ध्यपादेषु रम्येषु विहगोद्गीतसानुषु | भ्रमन्तावथ दैत्येन्द्रौ स्थितां ददृशतुस्तु ताम् || ४२ || अशोकशाखामुत्फुल्लामालम्ब्योन्मत्तषट्पदाम् | वसानामंशुकं चित्रमालम्ब्य मणिमेखलाम् || ४३ || गायन्तीं मधुरं रक्तं समं कलमनाकुलम् | तारमन्द्रातितारैश्च स्वरैः सम्यगलंकृतम् || ४४ || साक्षादिव तपःसिद्धिं श्रियं मूर्तिमतीमिव | प्राप्तामिव रतिं साक्षात्कान्तिं चान्द्रमसीमिव || ४५ || ममैवेयं ममैवेयमिति तौ दानवोत्तमौ | अभिसृत्य शुभां देवीं पाण्योर्जगृहतुः समम् || ४६ || अथ दर्पमदक्रोधमात्सर्याविष्टचेतसौ | तौ चुक्रुधतुरत्यर्थमन्योन्यस्यासुरोत्तमौ || ४७ || तयोर्गदे ऽन्तकः कालो मृत्युश्चाविविशुर्द्रुतम् | प्रगृह्याथ गदे क्रुद्धावन्योन्यमभिजघ्नतुः || ४८ || अथैकैकेन तौ तत्र प्रहारेणाभिताडितौ | विषण्णस्थितसर्वाङ्गौ शिवशापविमोहितौ | विसंज्ञौ पतितौ भूमौ छिन्नमूलाविव द्रुमौ || ४९ || अथ निर्ययतुस्तत्र कामोपहतचेतसोः | आत्मानौ सह शुक्रेण तयोर्दानवमुख्ययोः || ५० || तौ तदा निर्गतौ तत्र तयोर्जीवौ दुरात्मनोः | बलिनौ चारुसर्वाङ्गौ बालावाशु बभूवतुः || ५१ || एकस्तत्राब्रवीद्बालः सुम्भो ऽहं द्विषतामिति | निसुम्भो ऽप्यहमन्यस्तु बालस्तत्रावदत्तदा || ५२ || अथ विन्ध्यः समासाद्य बालौ तावमितद्युती | आदिदेशात्मनः पत्नीं पाहि त्वं बालकाविति || ५३ || ववृधाते ऽथ तौ तत्र दानवेन्द्रसुतावुभौ | कृष्णपक्षक्षये यद्वद्युगपच्छशिसागरौ || ५४ || बुद्ध्वा तौ च तदा जन्म दानवाभ्यामरिंदमौ | तपश्चेरतुरत्युग्रं पर्णाम्बुपवनाशनौ || ५५ || तपसाराधितस्ताभ्यां तत्रागत्याब्रवीत्प्रभुः | तुष्टो ऽस्मि युवयोः पुत्रौ वरं किं वा ददाम्यहम् || ५६ || वव्राते तौ वरं वीरावजय्यावध्यतां सदा | प्रार्थनां तां तयोः श्रुत्वा प्रत्युवाच पितामहः || ५७ || अवश्यं युवयोरेष्यं मरणं येन केनचित् | सुरेभ्यो ऽन्यत्र दैत्येन्द्रावमरत्वं न विद्यते || ५८ || इत्युक्तवन्तं ब्रह्माणं वव्राते दानवौ वरम् | उभावपि सुनिश्चिन्त्य सम्प्रहृष्टतनूरुहौ || ५९ || जगन्मातैव या कन्या विना तस्याः पितामह | मा भूतामावयोर्देव सदा मृत्युपराजयौ || ६० || एवमस्त्विति तौ प्रोच्य दैत्येन्द्रतनयावुभौ | विश्वस्य जगतः स्रष्टा तत्रैवान्तरधीयत || ६१ || अथ तौ तपसस्तीव्राद्विरम्य कृतमङ्गलौ | मौलिनौ बद्धकेयूरौ हाराङ्गदविभूषितौ || ६२ || हरिचन्दनदिग्धाङ्गौ पीतकौशेयवाससौ | विन्ध्यप्रस्थेषु रम्येषु चेरतुर्दानवोत्तमौ || ६३ || पितामहाद्वरप्राप्तिं श्रुत्वा सुम्भनिसुम्भयोः | आजग्मुर्दानवा हृष्टाः पातालतलवासिनः || ६४ || शम्भुर्मयो घनः केशिर्नरको नमुचिर्द्रुमः | अन्ये च कोटिशो दृप्ता हतशेषाः सुरद्विषः || ६५ || विन्ध्यप्रस्थे निषेदुस्ते समेताः सर्वदानवाः | नानाद्रुमलतागुल्मविकीर्णकुसुमोत्करे || ६६ || धन्विनो बद्धनिस्त्रिंशाश्चित्राभरणभूषिताः | सेन्द्रचापास्तडित्वन्तो नभसीव बलाहकाः || ६७ || अथोवाच मयस्तत्र दानवो दानवोत्तमौ | पितृभ्यां युवयोर्भुक्तं त्रैलोक्यमखिलं पुरा || ६८ || युवाभ्यामधुना दैत्यौ कस्मान्नादीयते पुनः | समेतानमरान्सर्वान्निर्जित्य रणमूर्धनि || ६९ || ये सहाया हि वां पित्रोर्बभूवुः सुरविद्विषः | त एवामी बलोन्मत्ताः सहाया युवयोर्युधि || ७० || इत्युक्तवति दैत्येन्द्रे मये सुम्भो महासुरः | निसुम्भस्य मुखं प्रेक्ष्य वाक्यमित्थं तदाब्रवीत् || ७१ || भूर्लोकमखिलं दैत्या युष्माभिः सह साम्प्रतम् | संविभज्य सुरान्सर्वाञ्जेष्यामो रणमूर्धनि || ७२ || जम्बूद्वीपं स्वयं सो ऽथ जग्राहासुरसत्तमः | शाकद्वीपं निसुम्भाय ददौ भ्रात्रे कनीयसे || ७३ || शाल्मलिद्वीपगोमेदौ दानवेभ्यो ददौ प्रभुः | क्रौञ्चद्वीपकुशद्वीपौ दैत्येभ्यः प्रददौ च सः | दैत्येन्द्रः पुष्करद्वीपं भार्गवाय न्यवेदयत् || ७४ || एवं प्रतिविभज्याशु भूर्लोकमखिलं तदा | इज्याञ्जलिनमस्कारान्यज्ञान्सर्वाश्च सत्क्रियाः | आच्छिद्य देवतेभ्यस्ते जगृहुर्दैत्यदानवाः || ७५ || बभूवाथ ततो यज्ञः कश्यपस्य महात्मनः | आगत्य तं तदा यज्ञं ममृदुः सुरशत्रवः || ७६ || आधिपत्यं हि नः कृत्स्ने भूर्लोके कश्यपाधुना | सर्वावस्थासु यज्ञे ऽस्मिन्नस्मांस्त्वं यष्टुमर्हसि || ७७ || एवमुक्तस्ततो दैत्यैर्मारीचः कश्यपस्तदा | गम्भीरमर्थवद्वाक्यमुवाचेत्थं स्मयन्निव || ७८ || त्रैलोक्यमात्मनः कृत्वा जित्वा सर्वामरान्रणे | यज्ञभागांस्ततो दैत्याः सर्वानादातुमर्हथ || ७९ || एवमुक्तास्तदा तेन दैत्यदानवसत्तमाः | बलं सर्वं समानाय्य कृत्वा संग्रामिकीः क्रियाः || ८० || प्रशस्तेषु कृताचारा मुहूर्तर्क्षदिनेषु ते | रथैर्नागैस्तुरंगैश्च निर्ययुर्दैत्यदानवाः || ८१ || पृष्ठतः पुरतः सम्यक्पार्श्वयोरुभयोरपि | विधाय रक्षां संयत्ता ययुर्देवाञ्जिगीषवः || ८२ || तेषामागमनं ज्ञात्वा द्विषतां पाकशासनः | संहतानां सुसंयत्तो युधा नाकं जिगीषताम् || ८३ || विधिं विधाय स्वपुरे समस्तं दौर्गकर्मिकम् | पुण्येषु तिथिनक्षत्रमुहूर्तकरणेषु सः || ८४ || मुनीन्विधिवदभ्यर्च्य नमस्कृत्वा पिनाकिने | सार्धं सुरगणैः सर्वैर्निर्ययौ कृतमङ्गलः || ८५ || हिमवच्छिखराकारं चतुर्दन्तमनेकपम् | आरुह्यैरावतं शश्वन्मदतोयौघवर्षिणम् || ८६ || महता हेमदण्डेन रत्नांशुपरिवेषिणा | उच्छ्रितेनातपत्रेण ध्रियमाणेन भास्वता || ८७ || वीज्यमानः शरच्चन्द्रकिरणोत्करनिर्मलैः | चामरै रत्नदण्डांशुसमूहखचितोदरैः || ८८ || आशीभिर्जयशब्दैश्च मुनिभिः परिवर्धितः | अभितः स्तूयमानश्च सूतमागधवन्दिभिः || ८९ || अथावकाशे विस्तीर्णे समे पादपवर्जिते | रचयामास देवानां पद्मव्यूहं बृहस्पतिः || ९० || मरुद्भिः सहितं कृत्वा कर्णिकायां शतक्रतुम् | पत्रेषु च वसून्रुद्रानादित्यांश्च न्यवेशयत् || ९१ || केसरेषु यमं कालं कुबेरवरुणावपि | अनन्तं सहितं नागैर्नाले गुरुरकल्पयत् || ९२ || देवानन्यान्समेतांश्च रक्षोगन्धर्वसेनया | पुरःसरान्स पद्मस्य परितः पर्यकल्पयत् || ९३ || अथ दानवतूर्याणां शब्दं श्रुत्वा दिवौकसः | आजघ्नुर्मुदिता भेरीर्नेदुर्नादांश्च सङ्घशः || ९४ || विमिश्रं तूर्यशब्देन श्रुत्वा नादं दिवौकसाम् | संयत्ताः सुतरां चक्रुः प्रयत्नं दानवेश्वराः || ९५ || अथ ते दानवा दृष्ट्वा पद्मव्यूहं दिवौकसाम् | पप्रच्छुर्भार्गवं तत्र तद्भेदममितौजसः || ९६ || स पृष्टो दानवश्रेष्ठैर्व्यूहभेदमनाकुलः | विचिन्त्य भार्गवो धीमानित्थमाहासुरांस्तदा || ९७ || विकीर्णाः परितः सर्वे तुषारनिकरा इव | पद्मव्यूहं सुरेन्द्राणां हत सम्यक्सुरद्विषः || ९८ || एवमुक्तास्ततो दैत्या भार्गवेण महात्मना | सिंहनादं विनद्याशु परितस्ते ऽभ्यसर्पत || ९९ || ततो युद्धं समभवद्देवदानवसैन्ययोः | आयुधैर्विविधैस्तीक्ष्णैः परस्परमभिघ्नतोः || १०० || सादिनः सादिभिः सार्धं नागा नागै रथा रथैः | पत्तयः पत्तिभिर्दृप्तैर्दृप्ताः संयुयुधुर्युधि || १०१ || केचिद्विभिन्ना नाराचैश्छिन्नाः केचित्परश्वधैः | निपेतुर्व्यसवो योधाः सेनयोरुभयोरपि || १०२ || छिन्धि भिन्धि सहेदानीं तिष्ठ मूढ क्व गच्छसि | इति वाचः समुत्तस्थुर्युधि योधैरुदीरिताः || १०३ || वसारुधिरसंसिक्तं तनुत्रावरणाचितम् | हतनागाश्वकलिलं तद्बभूव रणाजिरम् || १०४ || अथ ते दानवैस्तत्र पीड्यमाना दिवौकसः | सव्रणा हतभूयिष्ठाः शक्रमेवाभिसंश्रिताः | अनन्तं नागमुख्याश्च कुबेरं यक्षराक्षसाः || १०५ || भिन्ने व्यूहे ऽथ देवानां प्रहृष्टा दैत्यदानवाः | सिंहनादान्विनद्योच्चैस्तूर्याण्याहत्य भूयशः | अभ्यद्रवत संयत्ताः समरे पाकशासनम् || १०६ || अथोत्थाप्य गजं शक्रो वज्रेण शतपर्वणा | चूर्णयामास संक्रुद्धो दैत्यदानववाहिनीम् || १०७ || ददाह दानवानीकं परितः पाकशासनः | निदाघसमये दीप्तः शुष्ककक्षमिवानलः || १०८ || अथ सुम्भः समभ्येत्य समरे शक्रमब्रवीत् | दृष्टो ऽस्यद्य मया शक्र न जीवन्प्रतियास्यसि || १०९ || अथागत्य तदा ब्रह्मा प्राहेत्थं सुरसत्तमान् | न योद्धव्यं सुरा दैत्यैरवध्या वः सुरद्विषः || ११० || अन्तर्दधुस्ततस्तस्य वाक्यं श्रुत्वा दिवौकसः | विहाय समरं सर्वे क्षिप्रं सबलवाहनाः || १११ || अथ दैत्याः सुसंहृष्टास्तूर्याण्याहत्य सर्वशः | नेदुरुच्चैर्वचश्चेदमूचुः समरशालिनः || ११२ || तुरगखुरपुटान्तक्षुण्णरेण्वन्धकारे द्विरदरथनिनादत्रस्तपादातवृन्दे | विगतभयविषादः संयुगे सुम्भसिंहो जयति सुरविजेता वारिवाहोरुनादः || ११३ || तदनु जयति दीर्घः पीनबाहूरुपादः पृथुरुचिरसुवक्षा उन्नतांसः सुनेत्रः | मृगपतिसमगामी तोयदध्वाननादी अमरवरविजेता दैत्यनाथो निसुम्भः || ११४ || इति स्कन्दपुराणे द्विषष्टो ऽध्यायः ||

सनत्कुमार उवाच |

अथ निर्जित्य समरे देवान्देवद्विषस्तदा | आजग्मुः सहिता विन्ध्यं शिखरालीनतोयदम् || १ || प्रस्थाप्य विधिवत्सर्वांस्तौ तदा दैत्यदानवान् | रेमाते सहितौ विन्ध्ये किंनरोद्गीतकन्दरे || २ || आरक्षिकस्तयोस्तत्र मूको नाम महासुरः | अपश्यच्छिखरे देवीं ज्वलन्तीमिव तेजसा || ३ || पुण्यलक्षणसंपूर्णां दिव्याभरणभूषिताम् | आगतां तत्र तां सिद्धिं पुण्यानां कर्मणामिव || ४ || अथ मूकस्तदा देवीं विस्मयोत्फुल्ललोचनः | दृष्ट्वा जगाम मनसा सुम्भं दानवसत्तमम् || ५ || यथेयं चारुसर्वाङ्गी प्रधाना सर्वयोषिताम् | तथा पुंसां प्रधानो ऽसौ सुम्भो दैत्येन्द्रचन्द्रमाः || ६ || विस्तीर्णवक्षसस्तस्य विशालजघनस्थला | अनुरूपा भवेत्पत्नी दीर्घाक्षस्यासितेक्षणा || ७ || इति संचिन्त्य मनसा तामुवाच सुमध्यमाम् | का त्वं त्रस्तसमुद्भ्रान्तमृगशावविलोचने || ८ || कः पिता ते ऽनवद्याङ्गि का वा माता तवानघे | किमर्थं वा वसस्यत्र गिरौ दानवसेविते || ९ || एवमुक्ताथ मूकेन महायोगा सुरेश्वरी | विज्ञाय मनसा कालं प्राप्तं सुम्भनिसुम्भयोः || १० || स्मितपूर्वमिदं प्राह वाक्यं वाक्यविशारदा | मानुषीं मां विजानीहि गिरावस्मिन्कृतालयाम् || ११ || आत्रेयः स्वर्गतो विद्वान्पिता चक्रचरो मम | विहाय मां पुरा बालां माताप्यनुगता पतिम् || १२ || आज्ञाप्तास्मि तदा मात्रा प्रदायास्त्राणि दानव | वस विन्ध्ये गिरौ रम्ये योग्यां च कुरु सर्वदा || १३ || साहं वचनमार्यायाः पालयन्ती नगोत्तमे | वसामि सिंहशार्दूलमातङ्गमृगसेविते || १४ || इति देव्या वचः श्रुत्वा मूकः संहृष्टमानसः | जगाम दानवश्रेष्ठं सुम्भं द्रष्टुं कृतत्वरः || १५ || अथ सुम्भं समासाद्य हर्षेणोत्फुल्ललोचनः | आचचक्ष इवाकारैरपूर्वं रत्नदर्शनम् || १६ || तं दृष्ट्वा विस्मयोत्फुल्लरक्तायतविलोचनम् | मूकमाह तदा सुम्भः कस्मात्तुष्टो ऽसि दानव || १७ || एवमुक्तः स सुम्भेन मूको वचनमब्रवीत् | अपूर्वमद्य दृष्टं मे स्त्रीरत्नं शिखरे गिरेः || १८ || न तादृशा मनुष्येषु न देवेष्वस्ति सुन्दरी | न रक्षःसु न यक्षेषु न गन्धर्वपुरेषु वा || १९ || न नागेषु न सिद्धेषु न दैत्यपतिवेश्मसु | दृष्टपूर्वा मया राजन्यादृशा सा वराङ्गना || २० || का त्वं कस्य किमर्थं वा वससीह गिराविति | पृष्टाब्रवीन्मया वाक्यमात्रेयदुहिता ह्यहम् || २१ || वसामि चात्र विन्ध्यस्य शिखरे मातुराज्ञया | इति भर्तुः समाख्याय विरेमे मूकदानवः || २२ || अथ सुम्भस्य हृदये मूकस्य वचसा सह | कामो ऽवकाशमकरोद्विनाशाय सुरद्विषाम् || २३ || ततः प्रोवाच दैत्येन्द्रः कामाकुलितमानसः | गच्छ मूक मदर्थे तां प्रलोभय सुमध्यमाम् || २४ || एवमुक्तः स सुम्भेन द्रुतमुत्थाय दानवः | प्रययौ यत्र सा देवी प्रागनेनाभिलक्षिता || २५ || तं दृष्ट्वा दानवं देवी कृताञ्जलिमुपस्थितम् | किमर्थमागतो ऽसीति मूकं पृष्टवती तदा || २६ || एवं पृष्टो ऽथ कौशिक्या प्राहेत्थं मूकदानवः | आर्ये दूतो ऽस्मि सुम्भस्य त्वत्समीपमुपागतः || २७ || अथ देवी स्मितं कृत्वा प्रसन्नमभिवीक्ष्य तम् | इत्थमाहागतं दूतं किमाहासौ ऽसुरेश्वरः || २८ || इति पृष्टस्तदा देव्या प्राह मूकः कृताञ्जलिः | आर्ये दैत्येश्वरः सुम्भः पत्नीत्वेन वृणोति ते || २९ || तस्य दानवसिंहस्य जेतुः शक्रस्य संयुगे | भवाग्र्या सर्वपत्नीनां पत्नी मृगविलोचने || ३० || एवमुक्ता तदा तेन विहस्याहामरेश्वरी | स्वबाहूनवलोक्येत्थं युद्धशुल्कामवैहि माम् || ३१ || मां विनिर्जित्य दैत्यो ऽसौ पत्नीं वै कर्तुमर्हति | मया वा निहतो यातु काकगोमायुभोज्यताम् || ३२ || एवमुक्तवतीं देवीमाह मूको हसन्निव | पत्या दानवदैत्यानां किं ते युद्धेन भामिनि || ३३ || क्रुद्धस्य तस्य समरे न शशाक निरीक्षितुम् | मुखमैरावतस्कन्धगतो ऽपि वलवृत्रहा || ३४ || श्रुत्वा तद्वचनं तस्य प्राह देवी स्मयन्निव | तृणानि मम दैत्येन्द्राः सर्वे ऽपि रणमूर्धनि || ३५ || निवेदयस्व सुम्भस्य गच्छ त्वं दानवाधम | दौत्येनासि यतः प्राप्तो मयातो न विहन्यसे || ३६ || अथ प्रणम्य तां मूको ययौ पार्श्वं सुरद्विषः | अनुज्ञातश्च तेनासावाख्यातुमुपचक्रमे || ३७ || सा मया प्रार्थिता कन्या त्वदर्थे दानवोत्तम | उवाच युद्धशुल्कास्मि जित्वा मां नेतुमर्हति || ३८ || भूयश्चोक्तवती राजन्गर्वमालम्ब्य साङ्गना | तृणानि मम संग्रामे दैत्या इति सविस्मया || ३९ || तत्तदा वचनं तस्या मूकेनोक्तं निशाम्य सः | क्रोधाद्दर्पाच्च कामाच्च ममृषे नासुरोत्तमः || ४० || अथोत्थाय सभां रम्यामगच्छद्दानवाधिपः | स्फाटिकस्तम्भनिर्यूहां विचित्रमणितोरणाम् || ४१ || तस्यां सिंहासने हैमे स्वास्तीर्णे महति स्थिरे | निषसाद महाबाहुः सुखायां वरुणो यथा || ४२ || अनु तस्य निसुम्भो ऽपि निषसाद वरासने | रत्नाङ्गदांशुनिवहच्छुरितोरःस्थलस्तदा || ४३ || तयोरनु महासत्त्वा विविशुर्दैत्यदानवाः | दरीं हिमवतो रम्यां करिश्यामा इवाम्बुदाः || ४४ || अथ तेषूपविष्टेषु दैत्यदानवराजसु | प्रोवाच वचनं सुम्भो घनस्तनितनिस्वनः || ४५ || आरक्षिको गिरौ विन्ध्ये मदीयो मूकदानवः | विन्ध्यस्य शिखरे कन्यां दृष्टवांश्चारुरूपिणीम् || ४६ || युद्धशुल्काहमित्याह मदर्थे ऽनेन सा वृता | तृणानि मम दैत्येन्द्रा भूयश्चोक्तवती किल || ४७ || जित्वा तां प्रसभं कन्यां समरे गर्वशालिनीम् | विचेष्टमानामवशामद्यैवानेतुमुत्सहे || ४८ || अथ तस्य वचः श्रुत्वा शम्भुर्नाम महासुरः | प्रहस्योच्चैर्महाबाहुरित्थमाहासुरेश्वरम् || ४९ || वामप्रकृतयः सर्वाः स्वभावेन वराङ्गनाः | परिसान्त्व्यासकृद्राजंस्त्वं तामादातुमर्हसि || ५० || श्रुत्वाथ वचनं शम्भोर्मयो दानवसत्तमः | प्रोवाचाभिनवोत्फुल्लनीलनीरजलोचनः || ५१ || आकारः कः पुनस्तस्याः का वा चेष्टासुराधिप | पार्श्वस्थानि च कान्यस्याः सदोपकरणानि वा || ५२ || इत्युक्तवति दैत्येन्द्रे मये मत्तेभविक्रमे | अथ दैत्यपतिर्मूकं पार्श्वस्थं समचोदयत् || ५३ || यं प्रश्नं पृष्टवांस्तत्र मयो मतिमतां वरः | मूकस्तु तं तदा सर्वमाख्यातुमुपचक्रमे || ५४ || असौ सुसंस्थिता त्र्यक्षा करालदशनानना | अष्टबाहुर्घनश्यामा सुनसा वल्गुनिस्वना || ५५ || पार्श्वस्थानि सदा तस्याः सर्वप्रहरणानि च | तनुत्राणि च मुख्यानि चित्राण्याभरणानि च || ५६ || अत्यादित्यं वपुस्तस्याः कान्तिश्चातिनिशाकरा | इत्याख्याय तदा मूको विरेमे दैत्यसंसदि || ५७ || अथ दीर्घं विनिःश्वस्य तदा मयमहासुरः | प्रोवाच सदसि स्वन्तं वचो वचनकोविदः || ५८ || नूनमुत्पादिता देवैः कृत्या युधि पराजितैः | विन्ध्यं महीध्रमायाता विनाशाय सुरद्विषाम् || ५९ || तदलं ते तया राजन्सन्ति कन्याः सुमध्यमाः | दीर्घाक्ष्यश्चारुसर्वाङ्ग्यो दैत्यदानववेश्मसु || ६० || सम्यगाहृत्य ता राजन्ननुरूपाः कलस्वनाः | यथेष्टं क्रीड सततं प्रासादोदरसंस्थितः || ६१ || एवमुक्ते तदा वाक्ये मयेनासुरसंसदि | प्राह वाक्यं तदा सुम्भो विहस्येत्थं महासुरः || ६२ || यदि सा देवतैः सृष्टा कृत्या दानवशासने | अहत्वा दानवानाशु तदा सा न विरंस्यते || ६३ || यावदेव न कृत्यास्मानभियुङ्क्ते कृतोद्यमा | तावदेव प्रसह्याशु तां वशे कर्तुमर्हथ || ६४ || ततो ऽनुमेनिरे सर्वे दैत्यदानवसत्तमाः | वचनं दैत्यराजस्य कालेनाभिप्रचोदिताः || ६५ || अथ सदसि समस्तान्दैत्यसिंहांस्तदानीं त्रिदशपतिविजेता वाक्यमेतद्विवृत्य | उदपतदवलम्बस्वच्छशुभ्रोरुहारो नवजलभरनम्रः प्रावृषीवाम्बुवाहः || ६६ || इति स्कन्दपुराणे त्रिषष्टो ऽध्यायः ||

सनत्कुमार उवाच |

आहत्य भेरीः संनाह्या दितिजा दानवाश्च ते | तदा संनाहयामासू रथनागतुरंगमान् || १ || गृहीततोयानानीय दैत्या मत्तान्मतङ्गजान् | मदस्फातिकरान्दत्त्वा धूपांश्च कवलानि च || २ || बद्ध्वा कक्षाश्च संनाह्या ग्रैवेयांश्च सुसंस्कृतान् | अङ्कुशान्सर्वलोहांश्च हेमरत्नपरिष्कृतान् | करेणुषु समारूढाः समन्ताद्गजसादिनः || ३ || आबबन्धुर्विचित्राणि वर्माणि विधिवत्तदा | तिर्यगूर्ध्वमुखान्सम्यग्बबन्धुस्तोमरेषुधीन् || ४ || आयुधानि च सर्वाणि बबन्धुरुभयोरपि | पार्श्वयोरासनानां तु त्रयाणामपि भागशः | वैजयन्तीपताकाश्च समुच्छिश्रियिरे ततः || ५ || तुरंगान्स्नातपीतांश्च वर्मिणो बद्धवालधीन् | आरूढा बद्धनिस्त्रिंशा दानवा लोहजालिनः || ६ || आरूढा रथिनः केचिद्रथान्युक्ततुरंगमान् | सायुधान्सपताकांश्च प्रयस्तान्स्वक्षकूबरान् || ७ || अथ सुम्भो निसुम्भश्च भ्रातरौ दानवेश्वरौ | आरुह्य बद्धकवचौ बलोन्मत्तौ महासुरौ || ८ || संग्रामिकौ सुसंयत्तौ रथौ वल्गत्तुरंगमौ | सायुधौ सपताकौ च कार्तस्वरमयौ पृथक् || ९ || निर्जग्मतुर्महोरस्कौ प्रयुक्तजयमङ्गलौ | मागधैर्वन्दिभिः सूतैः स्तूयमानौ पुरःसरैः || १० || ततो यातुं समारब्धास्तूर्याण्याहत्य संघशः | यत्रास्ते कौशिकी देवी तं शैलमभितो ऽसुराः || ११ || अथ दानवसिंहानां ध्वजाः पेतुर्यियासताम् | अशिवं च शिवा नेदुर्दीप्तायां दिशि संस्थिताः || १२ || पपात नभसो रेणुः कपोतोदरधूसरः | उपरिष्टाच्च सेनाया बभ्रमुर्गृध्रवायसाः || १३ || प्रतीपं च ववौ तेषां रजोगर्भः समीरणः | ररास परुषं व्योम चचाल च वसुन्धरा || १४ || पराजयनिमित्तानि बुध्यमानाः सुरद्विषः | अभिजग्मुः कृतान्तेन कृष्यमाणा इवावशाः || १५ || आदिदेशाथ दैत्येन्द्रो मूकमारक्षिकं तदा | गृहाण शुल्कमिति तां ब्रूहि गत्वा सुमध्यमाम् || १६ || स गत्वा वचनात्तस्य प्रणम्योवाच कौशिकीम् | शुल्कं किल गृहाणार्ये दीयमानं सुरद्विषा || १७ || एवमस्त्विति सा प्रोच्य तं विसृज्य च दानवम् | व्यवर्धत महायोगा योगमास्थाय कौशिकी || १८ || अथ तस्याः समुत्पेदुर्गात्रेभ्यः प्रमदोत्तमाः | बद्धगोधाङ्गुलित्राणाः सायुधा भीमदर्शनाः || १९ || वायसी वायसास्यानां स्त्रीणां कोट्या समावृता | उपका कौशिकास्याभिस्तावतीभिर्महाबला || २० || प्रचण्डा सिंहवक्त्राभिर्देवीभिरभिसंवृता | उग्रा व्याघ्रमुखाभिश्च परितः परिरक्षिता || २१ || जया च गजवक्त्राभिर्जयन्ती च महाबला | देवीभिः शिखिवक्त्राभिरमेयाभिर्वृतानघा || २२ || जयमानाश्ववक्त्राभिर्हंसास्याभिः प्रभा वृता | प्रभावती च चक्राह्ववदनाभिर्महाबला || २३ || शिवा गोमायुवक्त्राभिरशिवा विद्विषां रणे | सरमा श्वमुखीभिश्च वृता परमदुर्जया || २४ || विजया श्येनवक्त्राभिः सर्वतः परिरक्षिता | कङ्कास्याभिर्वृता मृत्युर्हन्त्रीभिः समरे रिपून् || २५ || नियतिर्मद्गुवक्त्राभिर्दुर्जयाभिः परैर्युधि | अशनिः कुक्कुटास्याभिर्बह्वीभिरभिपालिता || २६ || रेवती वृषदंशा च पूतना कटपूतना | आलम्बा किंनरी षष्ठी शकुनिर्मुखमण्डिका || २७ || अलक्ष्मीरधृतिर्लक्ष्मी पोतकी वानरी स्पृहा | एताश्चान्याश्च कौशिक्याः संबभूवुर्महाबलाः || २८ || नानावेषधराभिश्च बह्वीभिः परितो वृताः | बिभ्रतीभिर्विचित्राणि कवचान्यायुधानि च || २९ || ससर्ज कौशिकी तूर्णं हैमान्सांग्रामिकान्रथान् | युक्तानश्वैर्मनोवेगैः सायुधानुच्छ्रितध्वजान् || ३० || वाजिनः सोपकरणान्मत्तोन्मत्तान्मतङ्गजान् | आयुधानि तनुत्राणि तूर्याणि विविधानि च || ३१ || उवाच च महायोगा ता देवीः पुरतः स्थिताः | देव्यः सुम्भो निसुम्भश्च भ्रातरौ देवकण्टकौ || ३२ || नेतुं मां किल संग्रामे विजित्य रणमूर्धनि | आगतौ तौ बलोन्मत्तौ सहितौ दैत्यदानवैः || ३३ || तावहं विनिहंस्यामि शेषान्हत सुरद्विषः | अजराश्चामराश्चैव भविष्यथ महाबलाः || ३४ || इति ताभ्यो वरं दत्त्वा समादिश्य च तास्तदा | देवीर्देवी महायोगा युद्धाय कृतनिश्चया || ३५ || अथ सा स्वरथं महारथा मनसाचिन्तयदच्युता तदा | तमुपस्थितमाशु चिन्तितं प्रददौ यं गिरिराजनन्दना || ३६ || ज्वलदग्निसमानवर्चसं परितो रत्नमयूखमालिनम् | पुरतः समवेक्ष्य कौशिकी सुकृतं हेममयं नभश्चरम् || ३७ || विविधायुधवर्मसंयुतं प्रचलत्पिङ्गसटाकलापिभिः | समरे जयिभिर्द्विषद्बलं युक्तं केसरिभिर्महाबलैः || ३८ || नृत्यन्मयूरेण विकीर्णभासा समुच्छ्रितेनातितरां दृढेन | हैमेन रत्नद्युतिभास्वरेण ध्वजप्रवेकेन विराजमानम् || ३९ || जग्राह विजया छत्त्रं सिंही सूता तदाभवत् | जयन्ती च जया चास्या दधतुश्चामराण्यथ || ४० || ततः सा बद्धकवचा विविधायुधधारिणी | आरुरोह रथं दिव्यं कृताशीर्जयमङ्गला || ४१ || संपूर्णचन्द्रद्युतिनाथ मूर्ध्नि समुच्छ्रितेनातपवारणेन | संवीज्यमाना च विचित्रदण्डैः सुचामरैरिन्दुमरीचिगौरैः || ४२ || ततस्तास्तूर्यमाहत्य नेदुर्नादान्पृथग्विधान् | देव्या देव्यः सुसंयत्ता बभूवुश्च पुरःसराः || ४३ || तेन नादेन दैत्यानां हृदयानि चकम्पिरे | विससर्ज शकृन्मूत्रं हस्त्यश्वं चासुरे बले || ४४ || चकम्प इव भूर्लोकश्चुक्षुभुः सागरा इव | विचेलुरिव शैलेन्द्राः पुस्फोटेव नभस्तलम् || ४५ || तदा तद्देवतानीकं पताकाध्वजशोभितम् | विरेजे विनदत्तूर्यं शितनिस्त्रिंशसंकुलम् || ४६ || बलाकापङ्क्तिशबलं सेन्द्रचापं महास्वनम् | नभस्ये मासि सतडिद्वृन्दं जलमुचामिव || ४७ || ततो जगाम संयत्तं दैत्येन्द्राभिमुखं तदा | जवेन देवतानीकं संक्षिप्येव दिशो दिशः || ४८ || अथ ददृशुरनीकमागतं सुररिपवो विविधोच्छ्रितध्वजम् | प्रतिभयजननं महास्वनं प्रलय इवाम्बुदवृन्दमुन्नतम् || ४९ || इति स्कन्दपुराणे चतुःषष्टो ऽध्यायः ||

सनत्कुमार उवाच |

अथ ता देवताः क्रुद्धा दैत्यानग्रेसरांस्तदा | निजघ्नुर्विविधैः शस्त्रैस्ते च ता बिभिदुर्युधि || १ || दैत्या नानायुधोपेता देवीर्जघ्नुस्तदाभयाः | अबला बलिनो धीराः समरे ऽमरविद्विषः || २ || तुरंगिणस्तुरंगस्थाः पदातीश्च पदातयः | रथिनो रथसंस्थाश्च गजस्था गजसादिनः || ३ || रथान्नागास्तुरंगाश्च रथी नागांस्तुरंगमान् | पदातीः सादिनः शूराः सादिनीश्च पदातयः || ४ || देव्यो ऽपि युधि संक्रुद्धाः पत्तिसादिरथद्विपान् | निजघ्नुर्दानवेन्द्राणां प्रासशक्तिपरश्वधैः || ५ || पादैश्च पिपिषुः शूरान्निपात्य युधि दानवान् | बिभिदुर्मुष्टिभिः काश्चिच्छिरांसि सुरविद्विषाम् || ६ || विदार्योरःस्थलं काश्चित्समरे दर्पशालिनाम् | पपुश्च रुधिरं देव्यः प्राणैः सह सुरद्विषाम् || ७ || छिन्नांश्च खण्डशः काश्चिद्धेतीनुत्सृज्य वेगिताः | निजघ्नुर्देवताः क्रुद्धा मुष्टिभिर्वज्रसंहतैः || ८ || केचिन्मदाम्बुविष्यन्दश्यामगण्डस्थला गजाः | पिपिषुः परमक्रुद्धाः समरे देवतारथान् || ९ || कपोलभित्तिसंलीनमत्तषट्पदपङ्क्तयः | हतारोहा गजाः केचिन्निजघ्नुर्दैत्यदेवताः || १० || वर्मिणः केचिदुद्भ्रान्तशितनिस्त्रिंशपाणयः | चिच्छिदुर्देवतानीकं देवता दानवानपि || ११ || मत्ताः प्रतिच्छन्नमुखाश्च केचिद्गन्धेन विज्ञाय गजं गजेन्द्राः | घ्रात्वा तु गन्धं सहसाभिजघ्नुराधोरणैरप्यतिसंगृहीताः || १२ || विस्फार्यमाणानि महाधनूंषि महाबलैर्दानवयोधमुख्यैः | तारं विरेसुः समराजिरेषु क्रौञ्चा इव व्योम शरन्निशान्ते || १३ || तूर्यस्वनैर्ज्यातलसंनिपातैर्नागाश्वनादै रथनेमिघोषैः | सम्पूर्णकुञ्जोदरकन्दरो ऽसौ विन्ध्यश्चचालेव तदा समग्रः || १४ || देव्यः समुत्सार्य रणे रिपूणामुच्चैर्विनेदुः प्रसभं बलानि | नेदुश्च नादान्परिहृष्टचित्ताः प्रोत्सार्य देवीर्युधि दैत्ययोधाः || १५ || बलानि किंचित्क्षतजोक्षितानि प्रचक्रिरे तत्र गतागतानि | महावनानीव समीरणेन समीरितान्युद्गतपल्लवानि || १६ || छिन्नानि वक्त्राणि पुरःसराणां विचित्रहेमाभरणोज्ज्वलानि | देवीभिराजौ पतितानि रेजुर्निकृत्तनालानि यथाम्बुजानि || १७ || प्रत्याहता विद्रुतभीतनागा सा देवताभिर्निहताश्वयोधा | दैत्येन्द्रसिंहैः प्रतिसंनिवृत्तैर्दोलायमानेव चमूर्बभूव || १८ || हता निपेतुः समरे नदन्तो देवद्विषामञ्जनशैलकल्पाः | देवीभिराबद्धविचित्रघण्टा मर्मातिगैर्बाणवरैर्गजेन्द्राः || १९ || बलानि तेषामभिसृत्य वेगादभ्याहतान्याश्वपसेरुराजौ | महोदधिं प्राप्य विवृद्धकाले प्रत्याहतानीव सरिज्जलानि || २० || देव्यश्च दैत्याश्च महासमाजे विरेजिरे ऽन्योन्यविषक्तबाणाः | संसक्तभासो ऽपगमे घनानामभ्रे समूहा इव तारकाणाम् || २१ || उद्घुष्य नामान्यथ दानवेन्द्रा निर्जग्मुराशु स्वबलाद्रथस्थाः | क्रुद्धाः सुयत्ता रथिनां वरिष्ठा विस्फार्य चित्राणि शरासनानि || २२ || देव्यो ऽपि संयत्ततरा रथस्थाः क्रुद्धा जवेनाथ तदाभिसस्रुः | मेघस्वनं प्रत्युदियाय षष्ठी कार्तस्वरं मृत्युरुदीर्णकोपा || २३ || द्रुमेण लक्ष्मीर्युधि संससञ्जे मयेन कान्तिः सरमा मुरेण | घनेन चण्डा नियतिः खरेण प्रभावती धुन्धुमयात्सरोषा || २४ || दैत्या युयुत्सोत्सुकमानसास्ते देवीः समायाः स्वभुजैः सशस्त्रैः | अभ्याययुः शीघ्रममृष्यमाणाः ख्यातावलेपाः स्वरथैः सुयत्ताः || २५ || ज्योतिःप्रकाशांस्तपनीयपुङ्खानाकर्णपूर्णायतचापमुक्तान् | सम्प्रेषयामासुरदीनसत्त्वा बाणप्रवेकान्युधि देवतानाम् || २६ || देव्यो ऽथ तेषां निशितान्सुपुङ्खान्मर्मच्छिदो दूरगमान्सुपत्रान् | आगच्छतां दानवयूथपानां बाणाननन्तान्ससृजुस्तथैव || २७ || ते बाणमुख्या विविधा विरेजुरन्योन्यमुक्ता व्यतिषज्यमानाः | ते पूर्णमास्यां विघने दिनान्ते भासां समूहा इव चन्द्रसौराः || २८ || छिन्ना निपेतुर्युधि देवताभिर्भुजाः सशस्त्रा दितिजाधिपानाम् | निरस्तभोगा निबिडा बृहन्तो निगीर्णजिह्वा इव पन्नगेन्द्राः || २९ || मेघस्वनस्याथ रणे तदानीं क्रुद्धा शरौघान्विससर्ज षष्ठी | आगच्छतस्तानभितः पृषत्कैश्चिच्छेद दैत्यः शतशो ऽन्तरिक्षे || ३० || बाणानथोद्वीक्ष्य तदा निकृत्तांल् लघ्वीयसो ऽन्यान्विससर्ज तूर्णम् | दैत्यो ऽपि तानापततः पृषत्कान्व्रातैः शराणां बहुशश्चकर्त || ३१ || निकृत्य बाणान्दितिजः पुरस्तांश्चिक्षेप षष्ठ्या दश रुक्मपुङ्खान् | तानाशु षष्ठी प्रतिवार्य दैत्यं विव्याध षष्ट्या तपनीयपुङ्खैः || ३२ || स तैर्विभिन्नो रुधिराक्तमूर्तिः प्रविह्वलः किंचिदवाङ्बभूव | अपाकरोत्तं समरात्स सूतो रथेन जाम्बूनदचित्रितेन || ३३ || कार्तस्वरः काञ्चनचित्रपुङ्खान्ससर्ज देव्याः समरे पृषत्कान् | चिच्छेद तान्मृत्युरुदारपुङ्खैरनागतानेव शराञ्छरौघैः || ३४ || छित्त्वा शरांस्तस्य शरैर्विचित्रैर्विव्याध तं वक्षसि पञ्चषष्ट्या | भिन्नः स तैराशु तथा विरेजे व्योम्न्यर्कपादैरिव वारिवाहः || ३५ || अश्वांश्च तस्याशु जघान मृत्युः पृथक्पृषत्कैस्तपनीयपुङ्खैः | आप्रुत्य दैत्यो ऽथ रथाद्धताश्वात्प्रगृह्य चर्मासिवरं च धौतम् || ३६ || क्रुद्धो नितान्तायतरक्तनेत्रो वेगेन देवीमभितः ससार | तच्चर्म तस्यापततः शरौघैश्चकर्त मृत्युः शतशः शिताग्रैः || ३७ || स कृत्तचर्मावरणो ऽसुरेन्द्रो निस्त्रिंशमुद्यम्य निशातधारम् | अभ्यद्रवन्मृत्युमृभूं तदानीं खे रोहिणीं मेघ इवाभिविद्युत् || ३८ || तमापतन्तं युधि कालकल्पं मृत्युः शरैरुग्रभुजंगतुल्यैः | जघान मर्मस्वभिलक्षितेषु व्ययोजयच्चासुभिरेनमाशु || ३९ || लक्ष्मी द्रुमं बाणवरैरजय्या समाकिरद्वारणराजलीलम् | कर्णान्तमुक्तैर्निशितैरजिह्मै रणाजिरे चारुसुवर्णपुङ्खैः || ४० || अजिह्मगास्ते विविधाः सुपत्रिता द्रुमस्य गात्रेषु निपेतुराहवे | स तैर्विचित्रैः शुशुभे विषक्तैर्महाद्रुमः पक्षिगणैरिवाश्रितैः || ४१ || लक्ष्मीं ततः किंपुरुषाधिपो ऽसौ विव्याध बाणैर्दशभिः सुपुङ्खैः | वक्त्रे सुपूर्णेन्दुसमानवक्त्रां बाह्वोः पृथक्चाष्टशतेन धीरः || ४२ || अचिन्तयित्वेषुवरान्वरास्या मुखे ऽस्य तीक्ष्णान्निचखान बाणान् | अन्यानसंख्यांश्च पृथक्शरीरे सुपत्रितान्हाटकमृष्टपुङ्खान् || ४३ || लक्ष्म्यास्ततो दैत्यपतिः शितेन भल्लेन चिच्छेद रथध्वजाग्रम् | अश्वांश्च तस्याश्चतुरश्चतुर्भिः सूतं च विव्याध शरेण तूर्णम् || ४४ || नाराचमादाय ततो ऽस्य लक्ष्मीर्जघान सूतं युधि देवशत्रोः | विव्याध वाहांश्च पृथक्पृषत्कैर्ध्वजं च चिच्छेद रथस्य तूर्णम् || ४५ || यन्त्रा विना तस्य रथं तदानीं ते सायकैरप्रतिमैः प्रतप्ताः | संग्रामभूमेरपनिन्युराशु प्राणानिवाश्वाः परिरक्षमाणाः || ४६ || कान्तिर्मयं बाणशतैरवाकिरन्मयश्च कान्तिं निशितैः शरौघैः | नीहारपातैरिव सान्धकारं तदा तयोरन्तरमास तत्र || ४७ || आदानसंधानविकर्षणेषु स्थानक्रमप्रग्रहतेजनेषु | शिक्षागुणैस्तावपरस्परेण विशेषयामासतुराजिमध्ये || ४८ || कान्तिर्मयास्तान्निचकर्त बाणान्मयश्च कान्त्या विशिखान्विसृष्टान् | छिद्रं समासेदतुरप्रधृष्यौ किंचिन्न तौ तत्र परस्परस्य || ४९ || अश्वेषु सूते सरथे ध्वजे च सर्वेषु गात्रावयवेषु चास्य | अजिह्मगान्हाटकमृष्टपुङ्खान्मयस्य कान्तिर्निचखान बाणान् || ५० || मयश्च कान्तिं सरथां ससूतां सचारुचित्रध्वजवाजिमुख्याम् | संछादयामास शितैः पृषत्कैर्वनस्थलीं मेघ इवाम्बुवर्षैः || ५१ || क्रुद्धाथ कान्तिः समरे मयस्य नाराचमुख्येन सुपत्रितेन | सूतं जघानाशु रिपोस्तदानीमष्टाभिरष्टौ तुरगांश्च बाणैः || ५२ || हताश्वसूतो विरथो मयो ऽथ निस्त्रिंशमादाय निशातधारम् | ज्ञात्वैव कान्त्याः समरे प्रभावं विहाय युद्धं वियदुत्पपात || ५३ || विव्याध तीक्ष्णैः सरमा रणाजिरे बाणैर्मुरं दानवदैत्ययूथपम् | दैत्यो ऽपि बाणैः सरमामजिह्मगैरभ्याहनद्गृध्रमयूरपत्रिभिः || ५४ || क्रुद्धाथ देवी निशितेन तस्य चिच्छेद भल्लेन धनुर्विचित्रम् | अन्यद्धनुः सो ऽथ तदा गृहीत्वा विव्याध देव्याश्चतुरस्तुरंगान् || ५५ || ते विह्वलाः शोणितमुद्वमन्तो दैत्येन्द्रबाणाभिहतास्तुरंगाः | भूमौ निपेतुः समरे श्वसन्तः प्राणाञ्जहुश्चाशु समं समस्ताः || ५६ || क्रुद्धाथ देवी सरमासुरस्य निस्त्रिंशमुद्यम्य सुपीतधारम् | उत्पत्य खं तस्य तदा जघान यन्तारमश्वांश्च महाप्रमाणान् || ५७ || मुरो ऽथ वेगेन तदान्तरिक्षमुत्पत्य कोपान्निहताश्वसूतः | विव्याध देवीं दशभिः शिताग्रैः शरैरुरस्युग्रभुजंगकल्पैः || ५८ || अचिन्तयित्वा सरमा शरांस्तान्धनुर्विचिच्छेद तदा मुरस्य | स कृत्तधन्वा वियतीन्द्रशत्रुरन्तर्दधे संयुगमाशु हित्वा || ५९ || विव्याध चण्डा घनमापतन्तं शरैः शिताग्रैर्युधि रुक्मपुङ्कैः | विद्धः स तैर्दैत्यपतिर्बभासे करैरिवेन्दोरसितः पयोदः || ६० || अभ्यद्रवत्तानविचिन्त्य बाणांश्चण्डां घनः सायकजालवर्षी | आगच्छतस्तस्य शरैः सुपत्रैर्विव्याध चण्डा रथवाजिमुख्यान् || ६१ || चिच्छेद दैत्यो ऽपि समुच्छ्रिताग्रं ध्वजं तुरंगांश्च जघान देव्याः | हित्वा रथौ ताववतीर्य भूमिं गृहीतचर्मासिवरौ प्रयत्तौ || ६२ || विचेरतुर्मण्डलमाजिमध्ये भूमिं तदाग्राङ्गुलिभिः स्पृशन्तौ | तांस्तांश्च मार्गांल् लघुपादचारौ छिद्रं न चान्योन्यमवापतुस्तौ || ६३ || अभिप्रुतोच्चप्रुतसिंहयातान्निवृत्तकाक्रीडितकोर्ध्वबाहून् | खगावलीनाभिहतापयातान्निषण्णकाविद्धशिरोभिघातान् || ६४ || उत्प्रुत्य वेगेन तदाथ तस्य शिरोधरामाशु चकर्त चण्डा | स कृत्तमूर्धा निपपात तस्यां संग्रामभूमावुरसाशु दैत्यः || ६५ || स शोणितादिग्धवपुस्तदानीं घनः परासुः पतितो धरित्र्याम् | रराज सन्ध्याच्छुरितोरुमूर्त्तिर्वियद्गतो नील इवाम्बुवाहः || ६६ || विव्याध तीक्ष्णैर्नियतिः सुपत्रैः खरं शरैर्वक्षसि हेमपुङ्खैः | आयोधने संमुखमापतन्तं भल्लेन चास्य ध्वजमुच्चकर्त || ६७ || विद्धः स तैरभ्यपतत्सरोषो देवीं जिघांसुः समरे ऽरिहन्ता | गुर्वीं गदां चाशु तदा गृहीत्वा चिक्षेप देव्या रुधिराक्तमूर्त्तिः || ६८ || सा दानवाग्र्येण गदा प्रमुक्ता विचित्रहेमोज्ज्वलचारुघण्टा | संचूर्णयामास रथं नियत्या यन्त्रीं ध्वजं चाशु समुच्छ्रिताग्रम् || ६९ || उत्पत्य तूर्णं नियतिः स्ववाहात्क्रोधेन संरक्तविलोलनेत्रा | अभ्येत्य तं दानवयोधमुख्यं खड्गेन मध्ये ऽस्य शिरः पफाल || ७० || स दानवो विस्फुटितोत्तमाङ्गः क्षितौ विरेजे स्रुतरक्तधारः | वज्रेण भिन्नः शिखराग्रदेशे गिरिर्यथा धातुरसप्रवाही || ७१ || प्रभावती धुन्धुमजिह्मयातैः शिलीमुखैरभ्यहनत्सुपत्रैः | उरस्युदारा दशभिः शिताग्रैर्घने घनव्रातसमानवर्णैः || ७२ || जघान सा षोडश देवतारेस्तुरंगमान्षोडशभिः पृषत्कैः | निहत्य चैकेन रथस्य सूतमेकेन चास्य ध्वजमुच्चकर्त || ७३ || धुन्धुर्गदां भारसहस्रगुर्वीं चिक्षेप कार्तस्वरचारुघण्टाम् | तामापतन्तीं शतशश्चकर्त प्रभावती दैत्यपतिप्रमुक्ताम् || ७४ || आदाय दैत्यः परिघं महान्तमाप्रुत्य वाहादभितः ससार | देवीमसावञ्जनशैलनीलो रणाजिरे काल इवात्तदण्डः || ७५ || अभ्यापतन्तं युधि दानवेन्द्रं देवी शरैरभ्यहनत्सुपत्रैः | देव्या समस्तानविचिन्त्य बाणानभ्येत्य तामाहवमूर्ध्नि रोषात् || ७६ || उद्भ्राम्य वैवस्वतदण्डकल्पं लौहं प्रयस्तं परिघोरुबाहुः | न्यपातयत्तं परिघं रथे ऽस्या गिरेर्नितम्बे कुलिशं यथेन्द्रः || ७७ || अचूर्णयत्तं रथमाशु देव्याः साश्वं ससूतध्वजहेमचक्रम् | कालायसो ऽसौ परिघो ऽसुरास्तो वेगेन तत्रापससार देवी || ७८ || दृष्ट्वा स तां तत्र तदापयातां तमेव लौहं परिघं गृहीत्वा | अभ्यद्रवद्दानवयोधमुख्यो दिवीव चित्रामसितः पयोदः || ७९ || उत्पत्य सा दिव्यवरास्त्रमुक्तैः क्षुरप्रमुख्यैः परिघं चकर्त | उद्यम्य मुष्टिं निबिडं ततो ऽस्या भूयो ऽथ दैत्यो वियदुत्पपात || ८० || तं मर्मगैर्मर्मसु बाणमुख्यैः साताडयद्दानवमाशु देवी | भिन्नः स तैर्मर्मगमैः सुपुङ्खैरन्तर्दधे दानवयोधमुख्यः || ८१ || अथ समरमपास्य योधमुख्यैर्विहतपराक्रमपौरुषैरुपेतैः | सुरपतिरिपवो विनद्य नादान्द्विरदवरानधितस्थुरात्तशस्त्राः || ८२ || इति स्कन्दपुराणे पञ्चषष्टो ऽध्यायः ||

सनत्कुमार उवाच |

देव्यो ऽपि तेषां विदितप्रयत्ना गजोत्तमानारुरुहुः समन्तात् | आविर्मदान्वर्ष्मवतः सुदन्तान्प्रशस्तगात्राम्बरहस्तपक्षान् || १ || सुपुष्करानुन्नतवृत्तकुम्भान्सुवालधीनञ्चितचारुकर्णान् | सुदन्तवेष्टान्कलविङ्कनेत्रान्सुवक्षसः स्वासनपृष्ठवंशान् || २ || संग्रामिकानग्रजवान्वयःस्थान्सुशिक्षितानुन्नतपूर्वकायान् | आबद्धवर्मायुधचित्रघण्टान्समुच्छ्रितोरुध्वजवैजयन्तीन् || ३ || तासां पताकाध्वजशोभितानि विचित्रनानायुधभूषणानि | मातङ्गवृन्दानि तदा बभूवुर्वने वनानीव समागतानि || ४ || दैत्यापि ते वारणमूर्ध्नि सन्ना विस्फारयन्तो विबभुर्धनूंषि | सेन्द्रायुधाः साशनिशब्दगर्भाः शैलेषु मेघा इव संनिलीनाः || ५ || सैन्यानि तान्याहनने गजानामाधोरणैराश्वभिचोदितानि | अन्योन्यमापेतुरभीरितानि वातेन वृन्दानि यथा घनानाम् || ६ || वेगेन नागानभिसृत्य नागा मदान्मदश्याममुखान्विषाणैः | लोहाभिनद्धैर्बिसकाण्डगौरैः शम्बूकदेशे-र्-अभिजघ्नुराजौ || ७ || प्रसार्य हस्तानभितश्च केचिद्दानानुगन्धं द्विरदाभिसेरुः | आधोरणैरङ्कुशपादवाग्भिराविध्यमानापि मदाभिदृप्ताः || ८ || छिन्नानि पेतुर्निशितैः क्षुरप्रैः समुच्छ्रितान्यातपवारणानि | चित्राः पताका विविधा ध्वजाश्च परस्परेणाहनने गजेभ्यः || ९ || योधा निपेतुः परिनिष्टनन्तो विद्धाः शरैर्मर्मसु देवताभिः | सफेनमास्यै रुधिरं वमन्तो धनूंषि सज्जानि करैर्दधानाः || १० || नागा निपेतुः परितो ऽभिपद्मा मर्मातिगैर्बाणवरैर्विभिन्नाः | देवीभिराजौ दितिजाधिपानां वाताभिनुन्ना इव गण्डशैलाः || ११ || मातङ्गमुख्यान्पतितान्परासून्रणाजिरे नीलगिरीन्द्रकल्पान् | गन्धेन नागाः समदाः परीत्य विनम्य किंचिद्वदनैर्विनेदुः || १२ || छिन्नानि वक्त्राणि सकुण्डलानि भुजाः सशस्त्राश्च सुचन्दनाक्ताः | पेतुर्गजेभ्यो ऽसुरयूथपानां देवीभिराजौ निशितैः क्षुरप्रैः || १३ || चुकूजुरुच्चैः परितो धनूंषि विनेदुराहत्य सुरारिमुख्याः | विपुस्फुरुर्ज्याः परिकृष्य मुक्ताः शराभिविद्धाश्च गजा निषेदुः || १४ || नागैः पतद्भिर्विशिखाभिविद्धैः समुच्छ्रितोरुध्वजचारुपृष्ठैः | आस्तीर्यते भूरनिलप्रनुन्नैः सतालवृक्षैरिव शैलपादैः || १५ || नागा गजानाहनने ऽभिजघ्नुर्दैत्याश्च देवीर्दितिजांश्च देव्यः | दैत्या गजेन्द्रान्द्विरदाश्च दैत्यान्क्रुद्धाः सरोषानभिसृत्य तत्र || १६ || शस्त्राभितप्तैः पतितैः समन्तान्मातङ्गवृन्दैर्गिरिसानुकल्पैः | संचारयोग्या न बभूव भूमिरायोधने देवतदानवानाम् || १७ || अभ्यर्दितानि स्वबलानि दृष्ट्वा देवीभिराजौ निहतद्विपानि | सुम्भो निसुम्भश्च समाजभूमिमाजग्मतुर्दैत्यपती रथस्थौ || १८ || अग्रेसरैः पत्तितुरंगनागैर्व्रातैश्च देवद्विषतामुपेतौ | विस्फारयन्तौ धनुषी विचित्रे युद्धाय यत्तौ परिघोरुबाहू || १९ || ज्ञात्वा तयोरागमनं तदानीं देवी चलत्पिङ्गलकेसराढ्यान् | संचोदयामास रथस्य सिंहान्विस्फारयन्ती समरे धनूंषि || २० || ज्यानिं जवस्याथ तुरंगमानां मदप्रमोषं च महाद्विपानाम् | चेतोविमोहं सुरविद्विषां च चापस्वनेनैव चकार देवी || २१ || आजौ समास्थाय परं प्रयत्नं शराः सुराणां रिपुभिः समस्ताः | अप्राप्य देवीं पतिताः पृथिव्यां पराजयं प्राहुरिवासुराणाम् || २२ || गभस्तिभिः स्थावरजङ्गमानि व्याप्नोति यद्वत्सविता दिनेषु | तद्वच्छरौघैर्दितिजाधिपानां रणाजिरे व्याप बलानि देवी || २३ || निपेतुराशु व्यसवस्तुरंगमा विचस्खलुर्मत्तगजाः क्षरन्मदाः | चकम्पिरे योधवराः सुरद्विषां समं समस्ताः समरे शराहताः || २४ || अर्चिर्भिरिद्धैर्ज्वलितो यथानलः कक्षाणि शुष्कानि दहत्यवारितः | दीप्तैः शरौघैः समरे ऽमरद्विषां सैन्यानि तद्वत्प्रददाह कौशिकी || २५ || छायां यथा स्थावरजङ्गमानां मध्यंदिने ऽल्पां कुरुते विवस्वान् | देवी तथा तां ध्वजिनीं रिपूणामल्पावशिष्टां समरे चकार || २६ || आहूय देवीमथ दानवाधिपौ विस्फार्य चापे महती ऽभिसेरतुः | तीक्ष्णैः सुपत्रैर्विशिखैश्च कौशिकीं संछादयामासतुराहवाजिरे || २७ || चापेषु यन्त्र्यां हरिषु ध्वजेषु महाभुजौ क्रोधपरीतचित्तौ | दैत्येश्वरौ संयति देवताया निचख्नतुर्बाणवरान्सुपत्रान् || २८ || दैत्येश्वरास्तानथ सायकौघानचिन्तयित्वा रिपुदर्पहन्त्री | विव्याध दैत्यौ युधि रुक्मपुङ्खैः सुपर्वभिर्बाणवरैः सुपत्रैः || २९ || दैत्यावपीषूनविचिन्त्य शूरौ गदे प्रगृह्योज्ज्वलचारुघण्टे | उद्भ्राम्य यत्नातिशयेन देव्या रणाजिरे चिक्षिपतुर्बृहत्यौ || ३० || ते व्योम्नि बाणैः शतशो निकृत्य सुपर्वभिर्हाटकचारुपुङ्खैः | चिच्छेद देवी कवचे विचित्रे तयोः क्षुरप्रैरपरैः शिताग्रैः || ३१ || जघान चाश्वानथ सारथी च ध्वजौ च चित्रौ रथयोश्चकर्त | चखान चान्यानपि सा पृषत्कान्सुरद्विषोर्मर्मसु हेमपुङ्खान् || ३२ || सुम्भो निसुम्भश्च रथावपास्य दैत्येश्वरौ बाणवराभितप्तौ | आदाय निस्त्रिंशवरौ तदानीमुत्पेततुर्व्योम शितासिनीलम् || ३३ || अथ नभसि विमेघे धौतनिस्त्रिंशनीले द्रुततरमभिसृत्य ग्रीवयोः सम्प्रगृह्य | दितितनयपती तौ निष्पिपेषाशु देवी विगतभयविषादैः स्तूयमाना मुनीन्द्रैः || ३४ || असृगथ वदनाभ्यामुद्वमन्तौ सफेनं सपदि विहतवीर्यौ पिष्टसर्वाङ्गसन्धी | असुभिरपगतैस्तौ रक्तपर्यन्तनेत्रौ क्षितितलमभितस्तौ पेततुर्दैत्यसिंहौ || ३५ || इति स्कन्दपुराणे षट्षष्टो ऽध्यायः ||

सनत्कुमार उवाच |

आजग्मुः कौशिकीं द्रष्टुमथ विन्ध्यं दिवौकसः | आदित्या वसवो रुद्रा मरुत्वान्मरुतो ऽश्विनौ || १ || धर्माङ्गिरोशनोदक्षवसिष्ठभृगुकश्यपाः | पुलस्त्यपुलहागस्त्यसनकात्रिसनन्दनाः || २ || अप्सरोयक्षगन्धर्वाः सिद्धा नागमहोरगाः | उपवेदाश्च यज्ञाश्च वेदा विद्याः सरस्वती || ३ || समुद्राः सरितः शैलास्तीर्थानि विविधानि च | मातरो लोकपालाश्च नक्षत्राणि ध्रुवो ग्रहाः || ४ || अथोचुर्देवता देवीं द्युतिमत्यो महाद्युतिम् | प्रहृष्टा हृष्टमनसामासीनामसुरद्विषः || ५ || दानवेन्द्रौ महासत्त्वौ त्वया त्रैलोक्यकण्टकौ | निघ्नत्या देवि लोकानां दुःखशल्यमपाकृतम् || ६ || ऋषयः पावनं देवि हविर्जुह्वन्ति साम्प्रतम् | छन्दांस्यधीयते चोच्चैराचरन्ति व्रतानि च || ७ || यज्ञो ऽयमधुना विप्रैरीज्यते बहुदक्षिणः | उटजेषु च विश्वस्ता मुनयः शेरते सुखम् || ८ || आसते निर्भया देवि सन्तः सन्मार्गमाश्रिताः | आविर्भूतः पुनर्लोके विच्छिन्नः सत्क्रियापथः || ९ || लोकपालाः शिरांस्युच्चैस्त्वत्प्रसादाच्च बिभ्रति | पृक्तः पुष्परजोभिश्च सुखो वाति समीरणः || १० || जलानि देवि सरितः स्वच्छानि शिशिराणि च | त्वत्प्रसादान्महायोगे वहन्ति विगतक्लमाः || ११ || इदानीं च पुनर्जाता गिरयो गिरिजात्मजे | विज्वराः शिशिरस्वादुनिर्झरोदकवाहिनः || १२ || फणान्स्वस्तिकचक्राङ्कानुच्चैर्दधति भोगिनः | उदन्वन्तश्च विश्वासादिदानीं सुखमासते || १३ || भ्रमन्त्यप्सरसो देवि त्वत्प्रसादाच्च साम्प्रतम् | सचेतो विमले व्योम्नि विलासालसलोचनाः || १४ || सिद्धाङ्गनाश्च सेवन्ते विश्वस्ता देवि साम्प्रतम् | शिखरेषु महीध्राणामुत्फुल्लांश्चन्दनद्रुमान् || १५ || स्वभावान्मधुपानाच्च रक्तलोलविलोचनाः | विचरन्त्यधुना यक्षा गन्धमादनसानुषु || १६ || सुखं बिभर्ति वसुधामिदानीं विगतक्लमः | शेषः फणैः स्वरत्नांशुवितानपरिवेषिभिः || १७ || माता त्वमसि लोकानां भीतानामभयप्रदा | वृणु देवि वरानिष्टानभिषिच्यस्व चाच्युते || १८ || एवमुक्ता सुरैर्देवी प्राह किंचित्स्मयन्निव | इच्छामि पितरं द्रष्टुमसमग्रेन्दुमौलिनम् || १९ || सुप्रसन्नं प्रसन्नां च जननीं शैलनन्दनाम् | पितृभ्यां चाभ्यनुज्ञातामभिषेक्ष्यथ मां ततः || २० || एवमुक्ताः सुरा दध्युरव्यग्रमनसा तदा | सपत्नीकं महादेवममितद्युतिपौरुषम् || २१ || अथ ते ददृशुर्देवा देवदेवमुमापतिम् | तेजसामिव सर्वेषां संघातं पुरतः स्थितम् || २२ || जटानां प्रान्तबभ्रूणां शिरसा भारमुन्नतम् | बिभ्राणं ज्वलितं वह्निं दीप्तानामर्चिषामिव || २३ || कर्पूरभङ्गगौरेण स्नातं पुण्येन भस्मना | प्रान्तहेमलताजालं रौप्यं गिरिमिवोच्छ्रितम् || २४ || तेजसा स्वेन तेजांसि तिरस्कुर्वन्दिवौकसाम् | मध्यंदिने प्रदीपानामर्चींसीव दिवाकरः || २५ || सुधाम्बुस्यन्दिनीं तन्वीमेकतः परिवेषिणीम् | दधानं मौलिना किञ्चित्कुटिलामैन्दवीं कलाम् || २६ || विजिह्मनखरां गुर्वीं धूसरां भस्मरेणुना | सैंहीं वसानमालम्बामीषद्भङ्गवतीं त्वचम् || २७ || छुरितोपान्तकायेन फणरत्नमरीचिभिः | महता भोगपतिना वक्षःस्थलविसर्पिणा || २८ || भवानीं चास्य पार्श्वस्थां दीप्यमानां स्वतेजसा | वसानामंशुकं रक्तं कल्पपादपसम्भवम् || २९ || मन्दारमालामुत्फुल्लां मत्तालिकुलसेविताम् | दधानामुत्तमाङ्गेन स्वरेणूत्करपिञ्जराम् || ३० || स्वःशिल्पिघटितैश्चित्रै रत्नांशुपरिवेषिभिः | शातकुम्भमयैः श्लाघ्यैर्भूषितां भूषणोत्तमैः || ३१ || बिभ्रतीं रुचिरां शुद्धां शरच्चन्द्रांशुनिर्मलाम् | शिरोधरण्या महतीमेकावलिमनुत्तमाम् || ३२ || अथोत्थाय सुराः सर्वे कौशिकी चानतानना | तयोश्चरणपद्मेषु निपेतुस्तुष्टमानसाः || ३३ || अथोद्वीक्ष्य महादेवः कौशिकीमिदमब्रवीत् | अजेया सर्वभूतानां महायोगा महाद्युतिः | विचरिष्यसि लोकांस्त्वं सर्वत्राप्रतिघातिनी || ३४ || इमाश्च देवताः सर्वास्त्वत्प्रसादादनिन्दिते | - - - - - - - - - - - - - - - - || ३५ || भक्त्या बल्युपहारैश्च पूजयिष्यन्ति मानवाः | वरदा चापि भक्तानां भविष्यसि सदानघे || ३६ || अभिषिच्यस्व च क्षिप्रं सुरैरसुरसूदनि | कृत्स्नं रक्ष च भूर्लोकं पूज्यमाना सदाव्यये || ३७ || शर्वाणी च परिष्वज्य मूर्ध्नि चाघ्राय कौशिकीम् | प्राह प्रीता महाभागा मत्प्रसादाद्भविष्यसि || ३८ || अर्चयन्ति यथा मां च सुरा यक्षा महोरगाः | गन्धर्वा मुनयः सिद्धास्तथा त्वामप्यनिन्दिते | अर्चयिष्यन्ति सर्वत्र भक्ताः स्तोष्यन्ति चाव्यये || ३९ || एवं तस्यै वरान्दत्त्वा गिरिजावृषभध्वजौ | नमस्कृतौ तदा देवैरन्तर्दधतुरव्ययौ || ४० || अथेन्द्रो विश्वकर्माणमादिदेश तदा प्रभुः | सुधर्मेव सभा दिव्या क्रियतामिह साम्प्रतम् || ४१ || ऋतूंश्च सर्वांस्तत्रेत्थमादिदेश शतक्रतुः | नानापुष्पोत्करैः क्षिप्रं भूमिः सम्यग्विभूष्यताम् || ४२ || क्षुपगुल्मलतावृक्षपुष्परेणुसुगन्धयः | आक्षिपन्तो मनांस्यत्र सुखा वान्तु समीरणाः || ४३ || सिञ्चन्तु वारिभिः पुण्यैर्विन्ध्यप्रस्थं पयोमुचः | तारं नदन्तु शिखिनः प्रहृष्टाः सर्वतोदिशः || ४४ || नृत्यन्तु परितश्चित्रा दर्शयन्तः पृथग्विधान् | रसान्भावान्विलासांश्च सर्वे चाप्सरसां गणाः || ४५ || प्रतिसार्याशु वीणाश्च गन्धर्वा मधुरस्वराः | लयतालसमं गेयं गायन्तु च समन्ततः || ४६ || आहन्यन्तां समन्ताच्च देवदुन्दुभयो भृशम् | पाणिभिः कठिनैस्तूर्णं चित्ररूपा महास्वनाः || ४७ || मन्दानिलसमुद्धूता लीनालिकुलपङ्क्तयः | पतन्त्वस्मिन्प्रदेशे च दिव्याः कुसुमवृष्टयः || ४८ || उच्छ्रयन्तां समन्ताच्च पताकाश्चित्रमूर्तयः | ध्वजाश्च विविधाकारा हेमदण्डाः सुसंस्कृताः || ४९ || अथाशु निर्मिमे तत्र विश्वकर्मा महाद्युतिः | नानारत्नोज्ज्वलस्तम्भां विचित्रमणिवेदिकाम् || ५० || वज्रस्फटिकनिर्यूहां जाम्बूनदमयीं शुभाम् | इन्द्रनीलोरुसोपानां मुक्तादामावलम्बिनीम् || ५१ || सध्वजां सपताकां च घण्टास्वननिनादिताम् | तपोनियमयज्ञानां साक्षात्सिद्धिमिवोद्गताम् || ५२ || भिन्नकालानि पुष्पानि ददृशुर्देवतास्तदा | समं सुपुण्यगन्धानि विचित्राणि बहूनि च || ५३ || पुष्पकिञ्जल्कगर्भाश्च सुखस्पर्शाः सुगन्धयः | नादयन्तो मुहुर्घण्टा ववुस्तत्र समीरणाः || ५४ || प्रगीताः सुरगन्धर्वा ननृतुश्चाप्सरोगणाः | ऋषयस्तुष्टुवुर्गीर्भिः पुण्याभिः कौशिकीं तदा || ५५ || सर्वरत्नौषधैर्गन्धैः पूर्णाः पुण्यैश्च वारिभिः | आनीतास्तत्र कलशा हेमरत्नमयाः शुभाः || ५६ || पद्मरागमयैः सिंहैश्चतुर्भिर्वज्रकेसरैः | उच्छ्वसद्भिरिव श्रीमदुह्यमानं हिरण्मयम् || ५७ || सर्वरत्नप्रभाजालखचितोपान्तमण्डलम् | कल्पयामास देव्याश्च विश्वकर्मा वरासनम् || ५८ || स्तुतिभिर्जयशब्दैश्च स्तूयमाना समन्ततः | ऋषिभिर्देवताभिश्च देवदेवसुता ततः || ५९ || तस्मिन्सिंहासने दिव्ये निषसादाथ कौशिकी | कृतस्वस्त्ययना विप्रैः सुहुते जातवेदसि || ६० || वसाना वाससी शुक्ले कल्पद्रुमसमुद्भवे | मुक्तादामावबद्धाङ्गी शुक्लस्रगनुलेपना || ६१ || ततः सप्तर्षयो विष्णुर्धर्मो यज्ञः प्रजापतिः | आदित्याः कश्यपो रुद्रा लोकपाला हुताशनाः || ६२ || शैलेन्द्राः पृथिवी गङ्गा चन्द्रमा मरुतो ऽश्विनौ | समुद्रा वसवो लक्ष्मी सन्ध्या कीर्तिः सरस्वती || ६३ || नागेन्द्रा विहगेशाश्च विविधाश्च सरिद्वराः | आदाय कलशान्सर्वानभ्यषिञ्चन्त कौशिकीम् || ६४ || पूर्णेन्दुबिम्बप्रतिमं रत्नदण्डं महाद्युतिम् | जग्राह च ततश्छत्त्रं स्वयमेव शतक्रतुः || ६५ || चामरैर्हेमदण्डैश्च दीर्घैश्चन्द्रांशुनिर्मलैः | वीजयामासुरायस्तैर्लोकपालास्तदाव्ययाम् || ६६ || उवाच च ततः श्रीमान्कौशिकीं पाकशासनः | पाहि कृत्स्नां भुवं देवि भगिनी त्वं ममाव्यये || ६७ || भक्ताननुगृहाणेशे जहि चामरकण्टकान् | विचरस्व समस्तांश्च लोकान्सिद्धगणार्चिता || ६८ || इति वचनमथोक्त्वा कौशिकीं देवराजः त्रिदशगणसमेतः शुभ्रलोलोरुहारः | उदपतदथ विन्ध्याद्विक्षिपन्व्योम्नि नीलान् सलिलभरविनम्रानम्बुवाहान्समन्तात् || ६९ || य इमं शृणुयान्नित्यं पठेद्वा सत्समागमे | इह लोके सुखं प्राप्य स याति परमां गतिम् || ७० || इति स्कन्दपुराणे सप्तषष्टो ऽध्यायः ||

सनत्कुमार उवाच |

अथ ता देवता देवी कौशिकी देहसम्भवाः | न्यवेशयन्महाभागा देशेषु नगरेषु च || १ || बहुपुत्रां प्रलम्बां च लङ्कायां संन्यवेशयत् | लम्बौष्ठीं वृषदंशां च किंनरीं चैव सिंहले || २ || गोकर्णे रेवतीं देवीं पाण्ड्येषु मुखमण्डिकाम् | आभीरेषु शिवां चैव शान्तिं च वरणातटे || ३ || वत्सगुल्मे प्रभां देवीं लक्ष्मीं कोलगिरावपि | उपकां पारसीकेषु वायसीं यवनेषु च || ४ || प्रचण्डां च तुखारेषु कौसलेषु च लम्बिकाम् | जयां च विजयां चैव स्वपुरे संन्यवेशयत् || ५ || प्रभावती कलिङ्गेषु जयन्ती नागसाह्वये | काश्मीरेषु स्थिता षष्ठी सरमा मलयेषु च || ६ || पूतनां च सुवीरेषु मृत्युं पिष्टपुरे तथा | कोटीवर्षे बहुमांसां पौण्ड्रेषु कटपूतनाम् || ७ || अस्पृष्टां मध्यदेशे तु किंनरीं बर्बरेषु च | वाराणस्यां निरायासां चित्रघण्टां च कौशिकी | महाकालीं महाकाले वानरीं शबरेषु च || ८ || शेषाश्च देवताः सर्वा ग्रामेषु नगरेषु च | कर्वटेषु महीध्रेषु कौशिकी संन्यवेशयत् || ९ || कस्यचित्त्वथ कालस्य स्वर्णाक्षे हि महातपाः | यत्र विष्णुर्वरांल् लेभे देवमाराध्य शंकरम् | चक्रं सुदर्शनं नाम द्विषतामन्तकोपमम् || १० || ऋषिरास्ते महाभागः शरद्वान्नाम गौतमः | तस्य यज्ञं जगामाथ देवी तेन निमन्त्रिता || ११ || तस्यास्तत्रागमं ज्ञात्वा सूनुः सुम्भस्य वीर्यवान् | आजगामाशु तं देशं महिषो नाम दानवः || १२ || सुसंहतः पृथूरस्को महाग्रीवः सुवालधिः | वक्रशृङ्गः पृथुखुरो विशालोच्छ्रितमस्तकः || १३ || बद्धवैराशयः क्रूरो महासत्त्वो ऽतिदुर्जयः | वज्रनिष्पेषपरुषं नर्दमानो महास्वनः || १४ || अञ्जनाद्रिसमप्रख्यो युयुत्सुर्बलदर्पितः | देव्याः पन्थानमावृत्य दानवेन्द्रसुतः स्थितः || १५ || विज्ञाय तस्यागमनं योगेशा विन्ध्यवासिनी | जगाम त्वरिता तत्र यत्रासौ दानवाधमः || १६ || अथ दृष्ट्वा स तां देवीं क्रोधाद्रक्ततरेक्षणः | अभ्याजगाम वेगेन यत्नमास्थाय दानवः || १७ || उद्वालधिस्तीक्ष्णविषाणकोटिः सुपीनवक्षाः कठिनोर्ध्वकर्णः | अभ्यापतद्गुग्गुलुताम्रनेत्रो जवेन देवीमसिताद्रिकल्पः || १८ || तं कौशिकी वीक्ष्य तदापतन्तं दैत्येन्द्रपुत्रं महिषं सरोषम् | चुक्रोध ताम्रायतचारुनेत्रा स्थिता धरण्यामसुरेन्द्रहन्त्री || १९ || अभ्येत्य तां दानवराजसूनुर्बलेन मत्तः परमेण देवीम् | अभ्याहनद्वक्षसि लोलहारे शृङ्गेण शक्रायुधकर्कशेन || २० || विषह्य तं तस्य तदा प्रहारं जग्राह शृङ्गे महिषं करेण | उद्भ्राम्य चोच्चैः परितः सरोषा न्यपातयद्भूमितले श्वसन्तम् || २१ || उद्गृह्य सा वालधिमिन्द्रशत्रोः कृत्वा च पादं शिरसि प्रसह्य | त्रिशूलमादाय बिभेद पृष्ठे व्ययोजयच्चासुभिराशु दैत्यम् || २२ || कुलिशकठिनशृङ्गं नीलजीमूतकल्पं महिषमथ निहत्य प्रौढदर्पं तदानीम् | विविधकुसुमवृष्ट्या सर्वतः कीर्यमाणा धरणिधरमगच्छत्कौशिकी स्वं निवासम् || २३ || इति स्कन्दपुराणे ऽष्टषष्टो ऽध्यायः ||

व्यास उवाच |

भगवन्सर्वलोकज्ञ पितामहसमद्युते | तपः कृत्वा तदा देवी पुष्कलं हिमवत्सुता || १ || वरं यथेप्सितं लब्ध्वा ब्रह्मणो गौरवर्णताम् | किमन्यदकरोद्विप्र तपसो ऽन्ते महामुने || २ || सोमनन्दी च शार्दूलः किमवाप वरं शुभम् | एतन्मे पृच्छतो ब्रूहि भक्ताय प्रणताय च || ३ ||

सनत्कुमार उवाच |

नमस्कृत्वा महादेवं परमं ब्रह्म शाश्वतम् | यं पठन्ति सदा सांख्याः पुरुषं पञ्चविंशकम् || ४ || योगिनश्चैव षड्विंशं ब्रह्माद्याश्च दिवौकसः | प्रणम्य परया भक्त्या शिरसा तं त्रिलोचनम् || ५ || गौर्या समागमो व्यास शंकरस्य यथाभवत् | तत्प्रवक्ष्यामि ते सर्वं शृणु योगविदां वर || ६ || तस्मिन्हिमवतः शृङ्गे तपः कृत्वा सुदुष्करम् | गौराङ्गी सा तदा भूत्वा शुद्धहेमसमप्रभा | दर्शने शंकरस्याथ शर्वाणी मतिमादधे || ७ || मन्दरं गिरिमागम्य सहिता सोमनन्दिना | अपश्यद्भवने भर्तुर्द्वारमूले समास्थितम् | नन्दिनं गणपं देवी दीप्तपट्टिसधारिणम् || ८ || ततो नन्दीश्वरं दृष्ट्वा भक्तं प्रेम्णा गिरीन्द्रजा | एहि वत्स चिराद्दृष्टस्त्वमित्युक्तवती तदा || ९ || नन्दी सम्प्रेक्ष्य तां चापि गौराङ्गीं हेमसप्रभाम् | हर्षेण महता युक्तः पादयोरपतद्भृशम् | प्रणम्य स तदा धीमानस्तुवत्पर्वतात्मजाम् || १० || नमः सिद्ध्यै महादेव्यै रतये गतये नमः | त्वं क्रिया कारणं त्वं च प्रकृतिर्मुक्तिरेव च || ११ || कान्तिर्द्युतिस्तथा तुष्टिः शान्तिः स्वस्त्ययनं परम् | दक्षिणा नियतिर्मृत्युः सन्ध्या विद्युदहः क्षपा || १२ || पृथिवी कौशिकी श्रीश्च शर्वाणी शर्ववल्लभा | गणमातादितिश्चैव पवित्रा विन्ध्यवासिनी || १३ || कृष्णा कात्यायनी गौरी भूतमाता तथेश्वरी | भव देवि प्रसन्ना मे भक्तस्य प्रणतस्य च || १४ || अथ देवी तदा दृष्ट्वा नन्दिनं पादयोर्नतम् | प्रोवाच वरदास्मीति स च वव्रे वरं शुभम् || १५ || प्रसन्ना नित्यमेव त्वमेषो ऽस्तु वर-म्-उत्तमः | एवमस्त्विति सा प्रोच्य प्रविवेशायतेक्षणा || १६ || अग्रतो ऽस्या ययौ नन्दी सोमनन्दी च पृष्ठतः | चन्द्रलेखा तयोर्मध्ये ग्रहयोरिव सा बभौ || १७ || दूरादेव समालोक्य देवदेवो मुदान्वितः | आजगाम महातेजाः संभ्रमोत्फुल्ललोचनः | पपात पादयोर्देवी देवदेवस्य धीमतः || १८ || अथ देवस्तदायातां देवीं गिरिवरात्मजाम् | तामुवाच सुरश्रेष्ठः समालोक्य मुहुर्मुहुः || १९ || दिष्ट्यासि प्रीतवदना दिष्ट्या च सफलं तपः | दिष्ट्या चेदं वरं वर्णं गौरं कनकसप्रभम् || २० || प्रियं नः सर्वथा देवि परमं यत्त्वमागता | प्रतिज्ञां पूरयित्वेह शार्दूलो ऽयं कुतश्च ते || २१ || एवमुक्ता तदा देवी भर्त्रा प्रणयपेशलम् | कथयामास देवाय सर्वं चरितमात्मनः || २२ ||

देव्युवाच |

प्रागहं यत्त्वया देव कृष्णवर्णेति भाषिता | तदा मन्युपरीताङ्गी गौरवर्णसमीप्सया || २३ || हिमवच्छिखरं गत्वा तपो ऽहं महदास्थिता | चिन्तयन्ती सदैव त्वामेकपादेन संस्थिता || २४ || यस्मिन्नेव दिने तत्र तपो ऽहं समुपाश्रिता | तस्मिन्नेवैष शार्दूलः सोमनन्दी ममाग्रतः | व्यतिष्ठत महादेव भक्त्या परमया युतः || २५ || दिव्यं वर्षसहस्रं तु तपोयुक्ताहमास्थिता | तावन्तं कालमेषो ऽपि ममातिष्ठत्समीपतः | स्तब्धलाङ्गूलनेत्रास्यो निराहारो विलोकयन् || २६ || आगतस्तपसश्चान्ते ब्रह्मा मह्यं वरप्रदः | तमहं पूर्वमस्यार्थे वरमप्रार्थयं विभो || २७ || तेनायममरो देव जराशोकविवर्जितः | ममैवानुचरः पार्श्वे कृतो योगी च शंकर | वर्णं चेदमदान्मह्यं तवादेशात्पितामहः || २८ ||

देव उवाच |

परितुष्टो ऽस्मि ते देवि वरं वृणु यथेप्सितम् | मृगेन्द्रो ऽयं गणश्रेष्ठः सोमनन्दी महाबलः || २९ || यादृशो मम नन्दीशस्तादृशस्ते भविष्यति | यदन्यद्ब्रूहि तत्सर्वं करिष्यामि तव प्रिये || ३० ||

देव्युवाच |

यस्मिन्देशे महादेव तपश्चरितमुत्तमम् | तं भूयो ऽपि त्वया सार्धं द्रष्टुमिच्छामि शंकर || ३१ || एवमुक्तः स पार्वत्या प्रोवाच परमेश्वरः | रोचते चारुसर्वाङ्गि गन्तुं तत्र ममाव्यये | रम्यं तद्धिमवच्छृङ्गं तप्तं यत्र तपस्त्वया || ३२ || नन्दिनं स तदाहूय गणपांश्च सहस्रशः | जगाम सहितो देव्या हिमवन्तं महागिरिम् || ३३ || देवैर्विद्याधरैः सिद्धैर्गन्धर्वैर्मुनिसत्तमैः | वन्द्यमानो ऽसकृद्देवः स्तूयमानश्च सर्वतः || ३४ || नादिनं वृषमारूढः प्रक्रीडितगणेश्वरः | हिमवद्गिरिमागम्य तं प्रदेशमुपागमत् || ३५ || स तं शिखरमासाद्य रम्यं धातुविभूषितम् | तुतोष परमप्रीतो रेमे च सगणेश्वरः || ३६ || आगतं तमथो दृष्ट्वा मूर्तिमानचलस्तदा | उपतस्थे महादेवं प्रणिपत्य कृताञ्जलिः || ३७ || कृत्वा तदर्घकुण्डं तु तस्मिञ्छिखरसत्तमे | वरदानेन शैलेन्द्रमनुगृह्णत्पिनाकधृक् || ३८ || अमरो जरया त्यक्तः सर्वदुःखविवर्जितः | अभेद्यश्चैव वज्रेण मत्प्रसादाद्भविष्यसि || ३९ || पुण्यस्त्वमचलश्रेष्ठ भविता पापमोचनः | गौरीशिखर इत्येव लोके ख्यातिं गमिष्यसि || ४० || दूरादेव नगश्रेष्ठ दृष्ट्वा त्वामुच्छ्रितं जनाः | सर्वपापैर्विमोक्ष्यन्ति यास्यन्ति च परां गतिम् || ४१ || त्रिरात्रमुषितो यस्त्वामभिरुह्य शुचिव्रतः | दृष्ट्वा गौरीमथाभ्यर्च्य ब्राह्मणं तर्पयिष्यति | नारी वाथ नरो वापि लोकं गौर्याः स यास्यति || ४२ || यश्चेह त्यक्ष्यते प्राणान्नियमेन समाहितः | स गाणपत्यं सम्प्राप्य मया सार्धं चरिष्यति | गौर्याश्चात्रैव सांनिध्यं सर्वदा ते भविष्यति || ४३ || तमित्युक्त्वा नगश्रेष्ठं देवदेवस्त्रिलोचनः | पार्वत्या सहितस्तत्र परिचक्राम सर्वतः || ४४ || अथापश्यच्छिलां व्यास सौवर्णां मणिभूषिताम् | कथयामास तां देव्यै शिलां पश्येति स प्रभुः || ४५ || तमाह देवी देवेशमिह तप्तं मया तपः | प्रियमेतन्मम स्थानं सोमनन्दिन एव च || ४६ || अथ तामनुजग्राह शिलां प्रीत्या भवस्तदा | शुचिरस्यां निराहारस्त्रिरात्रं यः करिष्यति | भवेत्तप्तं तपस्तेन लोकं च तव यास्यति || ४७ || एकपादेन यो मर्त्यस्तिष्ठेदेकमहः शुचिः | तपनाभिमुखो भूत्वा त्वद्भक्तस्त्वत्परायणः | सो ऽपि यास्यति ते लोकं गणपश्च भविष्यति || ४८ || प्राणान्परित्यजेद्यश्च शिलायामिह दुस्त्यजान् | सो ऽपि तप्ततपा भूत्वा ब्रह्मलोकं गमिष्यति || ४९ || इमं च पर्वतोद्देशमास्पदं सोमनन्दिनः | यो ऽभिगच्छेदहोरात्रं सो ऽपि नन्दिसमो भवेत् || ५० || अथापृच्छत्पुनर्देवः पार्वतीं विचरन्प्रभुः | कथमेतानि कुण्डानि बभूवुरिह शैलजे | एवं पृष्टा पुनर्देवी वाक्यमेतज्जगाद ह || ५१ || यदाहमागता देव तपस्तप्तुमिह प्रभो | स्तनयोः प्रस्रुते धारे महत्यौ मे तदासकृत् | एते ताभ्यां कृते कुण्डे सिततोये महाप्लवे || ५२ || तपस्तप्तुमलंकारानहं त्यक्तवती यदा | तदा तेभ्यः स्रुता देव जलधारापतद्द्रुतम् | तया हीदं महत्कुण्डं द्वितीयं मे कृतं शुभम् || ५३ || ब्रह्मणश्च यदा लब्धं गौरवर्णत्वमुत्तमम् | शरीरान्मे तदा देव कृष्णा कोशी व्यनिष्क्रमत् | तस्यां कोश्यां समुत्पन्नमेतत्कुण्डं तृतीयकम् || ५४ || अस्मिन्प्रदेशे देवेश त्वामभ्यर्च्य यथाविधि | हविर्भिर्मन्त्रयुक्ताभिरग्निकार्यं कृतं मया || ५५ || इमानि पादपस्थानि वल्कलानि समासते | इदं कृष्णाजिनं शुभ्रं स्थापितं तत्पुरा मया || ५६ || अथ श्रुत्वा महादेवः पार्वत्या वचनं प्रभुः | प्रत्युवाच तदा देवीं प्रीत्या परमया युतः || ५७ || स्तनतोयेन ये पूर्णे तव कुण्डे शशिप्रभे | स्तनकुण्डेति तेनैते यास्येते ख्यातिमुत्तमाम् || ५८ || उपवासी नरो यो ऽत्र स्नात्वाभ्यर्च्य च देवताः | तर्पयित्वा पितॄन्सर्वान्ब्राह्मणान्भोजयिष्यति | तद्भवेदक्षयं तस्य गणश्चैव भविष्यति || ५९ || अलंकारात्स्रुता धारा येयं तव वरानने | एषालंकारधारेति नाम्ना ख्यातिं गमिष्यति || ६० || अस्यां स्नात्वा नरो यस्तु पितॄन्संतर्पयिष्यति | अक्षयं तद्भवेच्छ्राद्धमश्वमेधं च विन्दति || ६१ || नीलतोयमिदं यत्ते महत्कुण्डं शुभोदकम् | नीलकुण्डमिति ख्यातिमेतत्सर्वत्र यास्यति || ६२ || यो ऽस्मिन्नियमवान्स्नात्वा तर्पयेत्पितृदेवताः | तस्याक्षयं भवेत्सर्वं पापेभ्यश्च प्रमुच्यते || ६३ || मृतश्च स नरो देवि यत्र तत्र यथा तथा | कौशिक्या विन्ध्यवासिन्या महागणपतिर्भवेत् || ६४ || अग्निकार्यमिह स्नात्वा यः कुर्याद्ब्राह्मणः शुचिः | अग्निहोत्रं हुतं तेन भवेद्द्वादशवार्षिकम् || ६५ || एवमुक्त्वा महादेवः प्रोत्थाय मुनिसत्तम | गृहीत्वा पादपस्थानि वल्कलानि तदा प्रभुः | नदी भवेति सम्प्रोच्य चिक्षेप प्रहसन्निव || ६६ || तान्यभूवंस्तदा व्यास नदी स्वच्छजला शुभा | तटजैर्विविधैर्वृक्षैर्हंसचक्राह्वशोभिता || ६७ || तामुवाच सुरश्रेष्ठः पुण्यतोयवहां नदीम् | चीरेभ्यः प्रसृता यस्मात्त्वमत्र सरितां वरा | लोके पुण्यतमा तस्मान्निश्चीरेति भविष्यसि || ६८ || त्वयि स्नात्वा नरः क्षिप्रं सर्वपापैर्विमुच्यते | पितॄन्संतर्पयेद्यस्तु श्राद्धं तस्याक्षयं भवेत् || ६९ || कपिलां चात्र यो दद्याद्ब्राह्मणाय समाहितः | गोसहस्रफलं तस्य भविष्यति वरानने || ७० || अग्रमारुह्य यस्मात्त्वमत्र तप्तवती तपः | अग्रारण्यमिति ख्यातिमेतद्यास्यति सर्वतः || ७१ || महत्फलं महापुण्यं सर्वसिद्धिप्रदं शुभम् | पञ्चयोजनसंख्यातं गौरीशिखरमुत्तमम् || ७२ || इहोपोष्य शुचिः स्नात्वा भक्त्या परमया युतः | देहभेदं समासाद्य विमानस्थो विराजते || ७३ || कृष्णाजिनं महापुण्यं सर्वपापहरं तव | इदं द्रक्ष्यति यो विप्रः स्वर्गस्तस्य न दुर्लभः || ७४ || यत्फलं नैमिशारण्ये पुष्करेषु च यत्फलम् | तदेव लभते देवि दृष्ट्वा कृष्णाजिनं द्विजः || ७५ || वत्स्यामि चैव सततं त्वया सार्धमिह प्रिये | आवामिह स्थितौ देवि यो ऽर्चयिष्यति मानवः | आवयोर्गणपो भूत्वा जगत्स विचरिष्यति || ७६ || एवं नगेन्द्रं स तदानुगृह्य मुनीन्द्र सार्धं गिरिराजपुत्र्या | देवैः ससिद्धैरनुगम्यमानः शर्वः पुनर्मन्दरमाजगाम || ७७ || इति स्कन्दपुराण एकोनसप्ततो ऽध्यायः ||