मालतीमाधवं नाम प्रकरणम् । सानन्दं नन्दिहस्ताहतमुरजरवाहूतकौमारबर्हित्रासान्नासाग्ररन्ध्रं विशति फणिपतौ भोगसङ्कोचभाजि । गण्डोड्डीनालिमालामुखरितककुभस्ताण्डवे शूलपाणेवैनायक्यश्चिरं वो वदनविधुतयः पान्तु चीत्कारवत्यः ॥ अपि च । चूडापीडकपालसङ्कुलगलन्मन्दाकिनीवारयो विद्युत्प्रायललाटलोचनपुटज्योतिर्विमिश्रत्विषः । पान्तु त्वामकठोरकेतकशिखासन्दिग्धमुग्धेन्दवो भूतेशस्य भुजङ्गवल्लिवलयस्रङ्नद्धजूटा जटाः ॥ (नान्द्यन्ते सूत्रधारः ।) अलमतिविस्तरेण । (पुरतोवलोक्य ।) अये उदितभूयिष्ठ एष भगवानशेषभुवनद्वीपदीपस्तपनः । तदुपतिष्ठे । (प्रणम्य ।) कल्याणानां त्वमसि महसां भाजनं विश्वमूर्ते धुर्यां लक्ष्मीमथ मयि भृशं धेहि देव प्रसीद । यद्यत्पापं प्रतिजहि जगन्नाथ नम्रस्य तन्मे भद्रं भद्रं वितर भगवन्भूयसे मङ्गलाय ॥ (नेपथ्याभिमुखमवलोक्य ।) मारिष सुविहितानि रङ्गमङ्गलानि सन्निपतितश्च भगवतः कालप्रियनाथस्य यात्राप्रसङ्गेन नानादिगन्तवास्तव्यो महाजनसमाजः । आदिष्टश्चास्मि विद्वज्जनपरिषदा यथा केनचिदपूर्वप्रकरणेन वयं विनोदयितव्या इति । तत्किमित्युदासते भरताः । (प्रविश्य पारिपार्श्वकः ।) भाव परिषन्निर्दिष्टगुणं प्रबन्धं नावगच्छामः । सूत्रधारः - मारिष कतमे ते गुणास्तत्र यानुदाहरन्त्यार्यविदग्धमिश्रा भगवन्तो भूमिदेवाश्च । नटः - भूम्ना रसानां गहनाः प्रयोगाः सौहार्दहृद्यानि विचेष्टितानि । औद्धत्यमायोजितकामसूत्रं चित्रा कथा वाचि विदग्धता च ॥ सूत्रधारः - स्मृतं तर्हि । नटः - भाव क इव । सूत्रधारः - अस्ति दक्षिणापथे विदर्भेषु पद्मनगरं नाम नगरम् । तत्र केचित्तैत्तिरीयिणः काश्यपाश्चरणगुरवः पङ्क्तिपावनाः पञ्चाग्नयो धृतव्रताः सोमपीथिन उदुम्बरनामानो ब्रह्मवादिनः प्रतिवसन्ति । ते श्रोत्रियास्तत्त्वविनिश्चयाय भूरि श्रुतं शाश्वतमाद्रियन्ते । इष्टाय पूर्ताय च कर्मणेर्थान्दारानपत्याय तपोर्थमायुः ॥ तदामुष्यायणस्य तत्रभवतः सुगृहीतनाम्नो भट्टगोपालस्य पौत्रः पवित्रकीर्तेर्नीलकण्ठस्यात्मसम्भवो भट्टश्रीकण्ठपदलाञ्छनो भवभूतिनामा जातूकर्णीपुत्रः कविर्निसर्गसौहृदेन भरतेषु स्वकृतिमेवम्प्रायगुणभूयसीमस्माकमर्पितवान् । यत्र खल्वियं वाचोयुक्तिः । ये नाम केचिदिह नः प्रथयन्त्यवज्ञां जानन्ति ते किमपि तान्प्रति नैष यत्नः । उत्पत्स्यतेस्ति मम कोपि समानधर्मा कालो ह्ययं निरवधिर्विपुला च पृथ्वी ॥ (अपिच ।) यद्वेदाध्ययनं तथोपनिषदां साङ्ख्यस्य योगस्य च ज्ञानं तत्कथनेन किं न हि ततः कश्चिद्गुणो नाटके । यत्प्रौढत्वमुदारता च वचसां यच्चार्थतो गौरवं तच्चेदस्ति ततस्तदेव गमकं पाण्डित्यवैदग्ध्ययोः ॥ अतो यदस्माकमर्पितं प्रियसुहृदात्रभवता भवभूतिनाम्ना प्रकरणं स्वकृतिर्मालतीमाधवं नाम तदेव तत्रभवतः कालप्रियनाथस्य पुरतः प्रयोगेण प्रख्यापयितुमुद्यताः । तत्सर्वे कुशीलवाः सङ्गीतप्रयोगेण मत्समीहितसम्पादनाय प्रवर्तन्ताम् । नटः - (स्मृत्वा ।) एवं क्रियते युष्मदादेशः किं तु या यस्य युज्यते भूमिका तां खलु तथैव भावेन सर्वे वर्ग्याः पाठिताः । सौगतजरत्प्रव्राजिकायास्तु कामन्दक्याः प्रथमां भूमिकां भाव एवाधीते तदन्तेवासिन्यास्त्वहमवलोकितायाः । सूत्रधारः - ततः किम् । नटः - ततः प्रकरणनायकस्य मालतीवल्लभस्य माधवस्य वर्णिकापरिग्रहः कथम् । सूत्रधारः - कलहंसमकरन्दप्रवेशावसरे तत्सुविहितम् । नटः - तेन हि तत्प्रयोगादेवात्रभवतः सामाजिकानुपास्महे । सूत्रधारः - बाढम् । एषोस्मि कामन्दकी संवृत्तः । नटः - अहमप्यवलोकिता । (इति परिक्रम्य निष्क्रान्तौ ।) (प्रस्तावना ।) (ततः परिवृत्य रक्तपट्टिकानेपथ्ये कामन्दक्यवलोकिते प्रविशतः ।) कामन्दकी - वत्से अवलोकिते । अवलोकिता - आणवेदु भअवदी । कामन्दकी - अपि नाम तयोः कल्याणिनोर्भूरिवसुदेवरातापत्ययोर्मालतीमाधवयोरभिमतः पाणिग्रहः स्यात् । (वामाक्षिस्पन्दनं सूचयित्वा सहर्षम् ।) विवृण्वतेव कल्याणमान्तरज्ञेन चक्षुषा । स्फुरता वामकेनापि दाक्षिण्यमवलम्ब्यते ॥ अवलोकिता - महन्तो क्खु भअवदीए एसो चित्तविक्खेवो । अच्चरीअं अच्चरीअं जं दाणिं चीरचीवरपरिच्छदं पिण्डवादमेत्तपाणअत्तं भअवदिं ईदिसे आआसे अमच्चभूरिवसू णिओएदि । तहिं अ उक्खण्डिदसंसारावग्गहो अप्पा तुम्हेहिं पि णिउञ्जीअदि । कामन्दकी - वत्से मा मैवं ब्रूहि । यन्मां विधेयविषये सभवान्नियुङ्क्ते स्नेहस्य तत्फलमसौ प्रणयस्य सारः । प्राणैस्तपोभिरथ वाभिमतं मदीयैः कृत्यं घटेत सुहृदो यदि तत्कृतं स्यात् ॥ अयि किं न वेत्सि यदेकत्र नो विद्यापरिग्रहाय नानादिगन्तवासिनां साहचर्यमासीत् । तदैव चास्मत्सौदामिनीसमक्षमनयोर्भूरिवसुदेवरातयोर्वृत्तेयं प्रतिज्ञावश्यमावाभ्यामपत्त्यसम्बन्धः कर्तव्य इति । तदिदानीं विदर्भराजमन्त्रिणा सता देवरातेन माधवं पुत्रमान्वीक्षिकीश्रवणाय कुण्डिनपुरादिमां पद्मावतीं प्रहिण्वता सु विहितम् । अपत्यसम्बन्धविधिप्रतिज्ञा प्रियस्य नीता सुहृदः स्मृतिं च । अलोकसामान्यगुणस्तनूजः प्ररोचनार्थं प्रकटीकृतश्च ॥ अवलोकिता - तदो किं त्ति मालदिं अमच्चो माहवस्स अप्पणा ण पडिवादेदि जेण चोरिआविवाहे भअवदिं तुवरावेदि । कामन्दकी - तां याचते नरपतेर्नर्मसुहृन्नन्दनो नृपमुखेन । तत्साक्षात्प्रतिषेधः कोपाय शिवस्त्वयमुपायः ॥ अवलोकिता - अच्चरिअं अच्चरिअं ण हु अमच्चो माहवस्स णामं पि जाणादि त्ति णिरवेक्खदाए लक्खीअदि । कामन्दकी - संवरणं हि तत् । विशेषतस्तु बालत्वात्तयोर्विवृतभावयोः । तेन माधवमालत्योः कार्यः स्वमतिनिह्नवः ॥ अपिच । अनुरागप्रवादस्तु वत्सयोः सार्वलौकिकः । श्रेयोप्यस्माकमेवं हि प्रतार्यौ राजनन्दनौ ॥ पश्य । बहिः सर्वाकारप्रगुणरमणीयं व्यवहरन्पराभ्यूहस्थानान्यपि तनुतराणि स्थगयति । जनं विद्वानेकः सकलमभिसन्धाय कपटैस्तटस्थः स्वानर्थान्घटयति च मौनं च भजते ॥ अवलोकिता - मए वि तुह्मवअणादो तेण तेण वअणोवण्णासेण भूरिवसुमन्दिरासण्णराअमग्गेण माहवो सञ्चारीअदि । कामन्दकी - कथितमेव नो मालतीधात्रेय्या लवङ्गिकया । भूयो भूयः सविधनगरीरथ्यया पर्यटन्तं दृष्ट्वा दृष्ट्वा भवनवलभीतुङ्गवातायनस्था । साक्षात्कामं नवमिव रतिर्मालती माधवं यद्गाढोत्कण्ठा ललितलुलितैरङ्गकैस्ताम्यतीति ॥ अवलोकिता - बाढं । ताए वि अत्तणो विणोदणिमित्तं माहवपडिच्छन्दअं आलिहिदं तं लवङ्गिआए अज्ज मन्दरिआए हत्थे णिहिदं दाव । कामन्दकी - (विचिन्त्य ।) सुविहितं लवङ्गिकया यतो माधवानुचरः कलहंसकस्तां विहारदासीं मन्दारिकां कामयते । तदनेन तीर्थेन घटेत तत्प्रतिच्छन्दकमुपोद्घाताय माधवान्तिकमुपेयादित्यभिप्रायः । अवलोकिता - माहवो वि कोदूहलमुप्पादिअ मए पौत्तमअणमहूसवं मअरन्दुज्जाणं पभादे अणुप्पेसिदो तत्थ किल मालदी गमिस्सदि तदो अण्णोण्णदंसणं भोदु त्ति । कामन्दकी - साधु वत्से साधु । अनेन मत्प्रियाभियोगेन स्मारयसि मे पूर्वशिष्यां सौदामिनीम् । अवलोकिता - भअवदि सा सोदामिणी अहुणा समासादिदअच्चरिअमन्तसिद्धिप्पहावा सिरीपव्वदे कावालिअव्वदं धारेदि । कामन्दकी - कुतः पुनरियं वार्ता । अवलोकिता - अत्थि एत्थ णअरीए महामसाणप्पदेसे कराला णाम चामुण्डा । कामन्दकी - अस्ति या किल विविधजीवोपहारप्रियेति साहसिकानां प्रवादः । अवलोकिता - तहिं क्खु सिरीपव्वदादो आअदस्स रत्तिविहारिणो णादिदूरारण्णवासिणो साहअस्स मुण्डधारिणो अघोरघण्टणामधेअस्स अन्तेवासिणी महाप्पभावा कवालकुण्डला णाम अणुसञ्ज्झं समाअच्छदि तदो इअं पौत्ती । कामन्दकी - सर्वं सौदामिन्यां सम्भाव्यते । अवलोकिता - अलं दाव एदिणा । भअवदि सो वि सहअरो माहवस्स बालमित्तं मअरन्दो णन्दणस्स वहिणिं मदअन्तिअं जै समुव्वहदि तं पि माहवस्स दुदीअं पिअं किदं भोदि । कामन्दकी - नियुक्तैव तत्र मया तत्प्रियसखी बुद्धरक्षिता । अवलोकिता - सु विहिदं भअवदीए । कामन्दकी - (विचिन्त्य ।) तदुत्तिष्ठ माधवप्रवृत्तिमुपलभ्य मालतीमेव पश्यावः । (उभे उत्तिष्ठतः ।) कामन्दकी - (विचिन्त्य ।) अत्युदारप्रकृतिर्मालती । तन्निपुणं निसृष्टार्थदूतीकल्पः सूत्रयितव्यः । सर्वथा शरज्ज्योत्स्ना कान्तं कुमुदमिव तं नन्दयतु सा सुजातं कल्याणी भवतु कृतकृत्यः स च युवा । वरीयानन्योन्यप्रगुणगुणनिर्माणनिपुणो विधातुर्व्यापारः फलतु च मनोज्ञश्च भवतु ॥ (इति निष्क्रान्ते विष्कम्भकः ।) (ततः प्रविशति गृहीतचित्रोपकरणः कलहंसः ।) कलहंसकः - कहिं दाणिं तुलिदमअरद्धआवलेअरूअविब्भमावक्खित्तमालदीहिअअमाहप्पं णाहमाहवं पेक्खिस्सं । (परिक्रम्य ।) परिस्सन्तोह्मि जाव इमस्सिं उज्जाणे मुहुत्तं विस्समिअ मअरन्दणन्दणं णाहमाहवं पेक्खिस्सं । (इति प्रविश्योपविशति ।) (प्रविशति मकरन्दः ।) मकरन्दः - कथितमवलोकितया मदनोद्यानं गतो माधव इति । भवतु तत्रैव गच्छामि । (परिक्रम्यावलोक्य च ।) दिष्ट्यायं वयस्य इत एवाभिवर्त्तते । (निरूप्य ।) अस्य तु गमनमलसं शून्या दृष्टिः शरीरमसौष्ठवं श्वसितमधिकं किं न्वेतत्स्यात्किमन्यदितोथ वा । भ्रमति भुवने कन्दर्पाज्ञा विकारि च यौवनं ललितमधुरास्ते ते भावाः क्षिपन्ति च धीरताम् ॥ (ततः प्रविशति यथानिर्दिष्टो माधवः ।) माधवः - (स्वगतम् ।) तामिन्दुसुन्दरमुखीं सुचिरं विभाव्य चेतः कथं कथमपि व्यपवर्तते मे । लज्जां विजित्य विनयं विनिवार्य धैर्यमुन्मथ्य मन्थरविवेकमकाण्ड एव ॥ आश्चर्यम् । यद्विस्मयस्तिमितमस्तमितान्यभावमानन्दमन्दममृतप्लवनादिवाभूत् । तत्सन्निधौ तदधुना हृदयं मदीयमङ्गारचुम्बितमिव व्यथमानमास्ते ॥ मकरन्दः - सखे माधव इत इतः । माधवः - (परिक्रम्य ।) कथं प्रियवयस्यो मम मकरन्दः । मकरन्दः - उपसृत्य । सखे ललाटन्तपस्तपति घर्मांशुः । तदस्मिन्नुद्याने मुहूर्तमुपविशावः । माधवः - यदभिरुचितं वयस्याय । (इत्युभावुपविशतः ।) कलहंसकः - (दृष्ट्वा ।) कधं मअरन्दसहअरो इदं ज्जेव्व बालवौलुज्जाणं अलङ्करेदि माहवो । ता दंसेमि से मअणवेअणाविज्झुरन्तमालदीलोअणसुहावहं अत्तणो पडिच्छन्दअं । अहवा विस्सामसोक्खं दाव अणुभोदु । मकरन्दः - तदस्यैव तावदुच्छ्वसितकुसुमकेसरकषायशीतलामोदवासितोद्यानस्य काञ्चनारपादपस्याधस्तादुपविशावः । (तथा कुरुतः ।) मकरन्दः - वयस्य माधव । अद्य किल सकलनगराङ्गनाजनप्रवर्तितमहोत्सवाभिरामकामदेवोद्यानयात्राप्रतिनिवृत्तमन्यादृशं भवन्तमवधारयामि । अपि नाम मनागवर्तीर्णोसि रतिरमणबाणगोचरम् । (माधवः सलज्जमधोमुखस्तिष्ठति ।) मकरन्दः - (विहस्य ।) तत्किमवनतमुग्धमुखपुण्डरीकः स्थितोसि । पश्य अन्येषु जन्तुषु रजस्तमसावृतेषु विश्वस्य धातरि समः परमेश्वरे च । सोयं प्रसिद्धविभवः खलु चित्तजन्मा मा लज्जया तव कथञ्चिदपह्नुतिर्भूत् ॥ माधवः - वयस्य किं न कथयामि श्रूयताम् । गतोहमवलोकिताजनितकौतुकः कामदेवायतनम् । तत्रेतस्ततः परिक्रम्यावलोक्य च परिश्रमादुल्लसितमदिरामोदमधुरपरिमलाकृष्टसकलमिलदलिपटलसङ्कुलाकुलितमुकुलावलीमनोहराभरणरमणीयस्याङ्गनभुवो बालबकुलस्यालवालपरिसरे स्थितः । तस्य च यदृच्छया निरन्तरनिपतितानि कुसुमान्यादाय विदग्धरचनामनोहरां स्रजमभिनिर्मातुमारब्धवानस्मि । अनन्तरं च सञ्चारिणीव देवस्य मकरकेतनस्य जगद्विजयवैजयन्तिकानिर्गत्य गर्भभवनादुज्ज्वलविदग्धमुग्धनेपथ्यविरचनाविभावितकुमारीभावा महानुभावप्रकृतिरत्युदारपरिजना कापि तत एवागतवती । सा रामणीयकनिधेरधिदेवता वा सौन्दर्यसारसमुदायनिकेतनं वा । तस्याः सखे नियतमिन्दुसुधामृणालज्योत्स्नादि कारणमभून्मदनश्च वेधाः ॥ अथ सा प्रणयिनीभिरनुचरीभिरविरलकुसुमसञ्चयावचयलीलादोहदिनीभिरभ्यर्थ्यमाना तमेव बकुलपादपोद्देशमागतवती । तस्याश्च कस्मिन्नपि महाभागधेयजन्मनि बहुदिवसोपचीयमानमिव मन्मथव्यथाविकारमुपलक्षितवानस्मि । यतोस्याः । परिमृदितमृणालीम्लानमङ्गं प्रवृत्तिः कथमपि परिवारप्रार्थनाभिः क्रियासु । कलयति च हिमांशोर्निष्कलङ्कस्य लक्ष्मीमभिनवकरिदन्तच्छेदपाण्डुः कपोलः ॥ सा पुनर्मम प्रथमदर्शनात्प्रभृत्यमृतवर्तिरिव चक्षुषोर्निरतिशयमानन्दमुत्पादयन्त्ययस्कान्तमणिशलाकेव लोहधातुमन्तःकरणमाकृष्टवती सर्वथा । किं बहुना । सन्तापसन्ततिमहाव्यसनाय तस्यामासक्तमेतदनपेक्षितहेतु चेतः । प्रायः शुभं च विदधात्यशुभं च जन्तोः सर्वङ्कषा भगवती भवितव्यतैव ॥ मकरन्दः - वयस्य माधव । स्नेहश्च निमित्तसव्यपेक्षश्चेति विप्रतिषिद्धमेतत् । पश्य । व्यतिषजति पदार्थानान्तरः कोपि हेतुर्न खलु बहिरुपाधीन्प्रीतयः संश्रयन्ते । विकसति हि पतङ्गस्योदये पुण्डरीकं द्रवति च हिमरश्मावुद्गते चन्द्रकान्तः ॥ ततस्ततः । माधवः - ततश्च तत्र । सभ्रूविलासमथ सोयमितीरयित्वा सप्रत्यभिज्ञमिव मामवलोक्य तस्याः । अन्योन्यभावचतुरेण सखीजनेन मुक्तास्तदा स्मितसुधामधुराः कटाक्षाः ॥ मकरन्दः - (स्वगतम् ।) कथं प्रत्यभिज्ञापि नाम । माधवः - अथ ताः सलीलमुत्तालकरकमलतालिकातरलवलयावलीकमुत्त्रस्तमत्तकलहंसीवभ्रमाभिरामचरणसञ्चरणझणझणायमानमञ्जीरमञ्जुरसितानुविद्धमेखलाकलापकलकिङ्किणीरणत्कारमुखरं परिवृत्य भर्तृदारिके दिष्ट्या वर्धामहे यदत्रैव कोपि कस्यापि तिष्ठतीति मामङ्गुलीदलविलासेनाख्यातवत्यः । मकरन्दः - (स्वगतम् ।) हन्त महतः प्रागनुरागस्योद्भेदः । कलहंसकः - आकर्ण्य । कधं सरसरमणीआणुबन्धिणी इत्थीअणकधा । मकरन्दः - ततस्ततः । माधवः - अत्रान्तरे किमपि वाग्विभवातिवृत्तवैचित्र्यमुल्लसितविभ्रममुत्पलाक्ष्याः । तद्भूरिसात्विकविकारमपास्तधैर्यमाचार्यकं विजयि मान्मथमाविरासीत् । ततश्च । स्तिमितविकसितानामुल्लसद्भ्रूलतानां मसृणमुकुलितानां प्रान्तविस्तारभाजाम् । प्रतिनयननिपाते किञ्चिदाकुञ्चितानां विविधमहमभूवं पात्रमालोकितानाम् । तश्चै । अलसवलितमुग्धस्निग्धनिष्पन्दमन्दैरधिकविकसदन्तर्विस्मयस्मेरतारैः । हृदयमशरणं मे पक्ष्मलाक्ष्याः कटाक्षैरपहृतमपविद्धं पीतमुन्मूलितं च ॥ एवमहं तु तस्याः सर्वाकारहृदयङ्गमायाः सम्भाव्यमानस्नेहरसेनाभिसन्धिना विधेयीकृतोपि पारिप्लवत्वमात्मनोपनिह्नोतुकामः प्राक्प्रस्तुतस्य बकुलदाम्नो यथाकथञ्चिदवशेषं ग्रथितवानेव । ततो मिलितवेत्रशस्त्रपाणिवर्षवरप्रायपुरुषपरिवारा गजवधूमारुह्य नगरगामिनं मार्गमिन्दुवदनालङ्कृतवती । तदा च । यान्त्या मुहुर्वलितकन्धरमाननं तदावृत्तवृन्तशतपत्त्रनिभं वहन्त्या । दिग्धोमृतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्षः ॥ ततः प्रभृति । परिच्छेदातीतः सकलवचनानामविषयः पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवान् । विवेकप्रध्वंसादुपचितमहामोहगहनो विकारः कोप्यन्तर्जडयति च तापं च कुरुते ॥ अपि च । परिच्छेदव्यक्तिर्भवति न पुरःस्थेपि विषये भवत्यभ्यस्तेपि स्मरणमतथाभावविरसम् । न सन्तापच्छेदो हिमसरसि वा चन्द्रमसि वा मनो निष्ठाशून्यं भ्रमति च किमप्यालिखति च ॥ कलहंसकः - दिढं क्खु एसो कए वि अवहरिदो । अवि णाम मालदिज्जेव्व सा भवे । मकरन्दः - (स्वगतम् ।) अहो अभिष्वङ्गः । तत्किं निषेधयामि सुहृदम् । अथवा । मा मूमुहत्खलु भवन्तमनन्यजन्मा मा ते मलीमसविकारघना मतिर्भूत् । इत्यादि नन्विह निरर्थकमेव यस्मात्कामश्च जृम्भितगुणो नवयौवनं च ॥ (प्रकाशम् ।) अपि वयस्येन विदिते तदन्वयनामनी । माधवः - सखे श्रूयताम् । अथ तस्याः करेणुकारोहणसमय एव महतः सखीकदम्बकादन्यतमा वारयोषिद्विलम्ब्य बालबकुलकुसुमावचयक्रमेण नेदीयसी भूत्वा प्रणम्य कुसुमापीडव्याजेन मामेवमुक्तवती । महाभाग सुश्लिष्टगुणतया रमणीय एष वः सुमनसां सन्निवेशः कुतूहलिनी च नो भर्तृदारिका वर्तते तस्यामभिनवो विचित्रःकुसुमेषुव्यापारः । तद्भवतु कृतार्थता वैदग्ध्यस्य । फलतु निर्माणरमणीयता विधातुः । समासादयतु सरस एष भर्तृदारिकायाः कण्ठावलम्बनमहार्घतामिति । मकरन्दः - अहो वैदग्ध्यम् । माधवः - तया च मदनुयुक्तया समाख्यातमियममात्यभूरिवसोः प्रसूतिर्मालती नामाहं च प्रसादभूमिर्भर्तृदारिकाया धात्रेयिका लवङ्गिका नामेति । कलहंसकः - (सहर्षम् ।) किं णाम मालदि त्ति । दिट्ठिआ विलसिदं क्खु भअवदा देवेण कुसुमाउहेण । जिदं अह्मेहिं । मकरन्दः - अमात्यभूरिवसोरात्मजेत्यपर्याप्तिर्बहुमानस्य । अपि च । मालती मालतीति मोदते भगवती कामन्दकी । (स्वगतम् ।) तां च किल राजा नन्दनाय प्रार्थयत इति किंवदन्ती श्रूयते । माधवः - तया चाहमनुरुध्यमानस्तां बकुलमालामात्मनः कण्ठावदतार्य दत्तवान् । असौ पुनरभिनिविष्टया दृशा मालतीमुखावलोकनविहस्ततया विषमविरचितैकभागान्तामेव बहु मन्यमाना महानयं प्रसाद इति गृहीतवती । अनन्तरं च यात्राभङ्गप्रचलितस्य महतः पौरजनस्य सङ्कुलेन विघटितायां तस्यामागतोस्मि । मकरन्दः - वयस्य मालत्या अपि स्नेहदर्शनात्सुश्लिष्टमेतत् । योपि हि कपोलपाण्डुतादिचिह्नसूचितः प्राक्प्रवृद्धस्तस्याः कामाभिष्वङ्गः सोपि त्वन्निबन्धन इति व्यक्तमेतत् । एतत्तु न ज्ञायते क्व दृष्टपूर्वस्तया वयस्य इति । न खलु तादृश्यो महाभागधेयाः कुमार्योन्यत्रासक्तचेतसो भूत्वापरत्र चक्षूरागिण्यो भवन्ति । अपि च । अन्योन्यसम्भिन्नदृशां सखीनां तस्यास्त्वयि प्रागनुरागचिह्नम् । कस्यापि कोपीति निवेदितं च धात्रेयिकायाश्चतुरं वचश्च ॥ कलहंसकः - (उपसृत्य ।) एदं च । (इति चित्रफलकं दर्शयति । उभौ पश्यतः ।) मकरन्दः - कलहंसक केनैतन्माधवस्य प्रतिच्छन्दकमभिलिखितम् । कलहंसकः - जेण जेव्व से हिअअं अवहरिदं । मकरन्दः - अपि मालत्या । कलहंसकः - अध इं । माधवः - वयस्य मकरन्द प्रसन्नप्रायस्ते वितर्कः । मकरन्दः - कलहंसक कुतोस्याधिगमः । कलहंसकः - मम दाव मन्दारिआहत्थादो ताए वि लवङ्गिआसआसादो । मकरन्दः - अथ किमाह मन्दारिका माधवालेख्यप्रयोजनं मालत्याः । कलहंसकः - उक्कण्ठाविणोदो त्ति । मकरन्दः - वयस्य माधव सर्वथा समाश्वसिहि । या कौमुदी नयनयोर्भवतः सुजन्मा तस्या भवानपि मनोरथबन्धबन्धुः । तत्सङ्गमं प्रति सखे न हि संशयोस्ति यस्मिन्विधिश्च मदनश्च कृताभियोगः ॥ द्रष्टव्यस्वरूपा च भवतो विकारहेतुस्तदत्रैव लिख्यतां मालती । माधवः - यदभिरुचितं वयस्याय । तदुपनय चित्रफलकं चित्रवर्तिकाश्च । (मकरन्द उपनयति ।) माधवः - (लिखन् ।) सखे मकरन्द वारं वारं तिरयति दृशोरुद्गमं वाष्पपूरस्तत्सङ्कल्पोपहितजडिम स्तम्भमभ्येति गात्रम् । सद्यः स्विद्यन्नयमविरतोत्कम्पलोलाङ्गुलीकः पाणिर्लेखाविधिषु नितरां वर्तते किं करोमि ॥ तथापि व्यवसितोस्मि । (चिरादालिख्य दर्शयति ।) मकरन्दः - (विलोक्य ।) उपपन्नस्तावदत्रभवतोभिष्वङ्गः । (सकौतुकम् ।) कथमचिरेणैव निर्माय लिखितः श्लोकः । (वाचयति ।) जगति जयिनस्ते ते भावा नवेन्दुकलादयः प्रकृतिमधुराः सन्त्येवान्ये मनो मदयन्ति ये । मम तु यदियं याता लोके विलोचनचन्द्रिका नयनविषयं जन्मन्येकः स एव महोत्सवः ॥ (प्रविश्य सत्वरं मन्दारिका ।) कलहंसअ पआणुसारेण उवलद्धोसि । (माधवमकरन्दौ विलोक्य सलज्जम् ।) कधं एदे वि महाणुभावा इध ज्जेव्व । (उपसृत्य ।) पणमामि । उभौ - मन्दारिके इत आस्यताम् । मन्दारिका - (उपविश्य ।) कलहंसअ उवणेहि मे चित्तफलअं । कलहंसकः - गृहीत्वा । गेह्ण एदं । मन्दारिका - (विलोक्य ।) कलहंसअ केण किण्णिमित्तं वा एत्थ मालदी आलिहिदा । कलहंसकः - जो ज्जेव्व जण्णिमित्तं मालदीए । मन्दारिका - (सहर्षम् ।) दिट्ठिआ दंसिदफलं दाणिं विण्णाणं पआवैणो । मकरन्दः - मन्दारिके यदत्र वस्तुन्येष ते वल्लभः कथयत्यपि तथा तत् । मन्दारिका - महाभाअ अध इं । मकरन्दः - क्व पुनर्मालती माधवं प्राग्दृष्टवती । मन्दारिका - लवङ्गिआ भणादि वादाअणगदत्ति । मकरन्दः - वयस्य नन्वमात्यभवनासन्नरथ्ययैव बहुशः सञ्चरावहे तदुपपन्नमेतत् । मन्दारिका - अणमण्णन्तु मं महाणुभाआ जाव एदं भअवदो देवस्स मअणस्स सुचरिदं पिअसहीए लवङ्गिआए णिवेदेमि । मकरन्दः - प्राप्तावसरमेतद्भवत्याः । (मन्दारिका चित्रफलकं गृहीत्वा निष्क्रान्ता ।) मकरन्दः - वयस्य खरतरकिरणोयं भगवान्सहस्रदीधितिरलङ्करोति मध्यमह्नस्तदेहि संस्त्यायमेव गच्छावः । (उत्थाय परिक्रामतः ।) माधवः - एवं हि मन्ये । घर्माम्भोविसरविवर्तनैरिदानीं मुग्धाक्ष्याः परिजनवारसुन्दरीणाम् । तत्प्रातर्विहितविचित्रपत्त्रलेखावैदग्ध्यं जहति कपोलकुङ्कुमानि ॥ अपि च । उन्मीलन्मुकुलकरालकुन्दकोशप्रश्च्योतद्घनमकरन्दगन्धबन्धो । तामीषत्प्रचलविलोचनां नताङ्गीमालिङ्गन्पवन मम स्पृशाङ्गमङ्गम् ॥ मकरन्दः - (स्वगतम् ।) अभिहन्ति हन्त कथमेष माधवं सुकुमारकायमनवग्रहः स्मरः । अचिरेण वैकृतविवर्तदारुणः कलभं कठोर इव कूटपाकलः ॥ तदत्र भगवती कामन्दकी नः शरणम् । माधवः - (स्वगतम् ।) आश्चर्यम् । पश्यामि तामित इतः पुरतश्च पश्चादन्तर्बहिः परित एव विवर्तमानाम् । उद्बुद्धमुग्धकनकाब्जनिभं वहन्तीमासक्ततिर्यगपवर्तितदृष्टि वक्त्रम् ॥ (प्रकाशम् ।) वयस्य मम हि सम्प्रति प्रसरति परिमाथी कोप्ययं देहदाहस्तिरयति करणानां ग्राहकत्वं प्रमोहः । रणरणकविवृद्धिं बिभ्रदावर्तमानं ज्वलति हृदयमन्तस्तन्मयत्वं च धत्ते ॥ (इति निष्क्रान्ताः सर्वे ।) इति मालतीमाधवे बकुलवीथी नाम प्रथमोङ्कः ॥ द्वितीयोङ्कः । (ततः प्रविशतश्चेट्यौ ।) प्रथमा - हला सङ्गीदसालापरिसरे अवलोइदादुदीआ तुमं किं मन्तअन्ती आसी । द्वितीया - सहि तेण किल माहवपिअवअस्सेण मअरन्देण सअलो जेव्व मअणुज्जाणवुत्तन्तो भअवदीए णिवेदिदो । प्रथमा - तदो किं । द्वितीया - तदो भट्टिदारिअं दट्ठुकामाए भअवदीए पौत्तिणिमित्तं अवलोइदा अणुप्पेसिदा । मए वि ताए कधिदं जधा लवङ्गिआदुदीआ विवित्ते भट्टिदारिआ वट्टदि त्ति । प्रथमा - हला लवङ्गिआ क्खु केसरकुसुमाइं अवचिणोमि त्ति मअणुज्जाणादो जेव्व णागदा ता किं सम्पदं सम्पत्ता । द्वितीया - अध इं । तं क्खु परावट्टन्तीं जेव्व हत्थे गेह्णिअ पडिसिद्धपरिअणा भट्टिदारिआ उअरिअलिन्दअं समारूढा । प्रथमा - णूणं तस्स महाणुभावस्स सङ्कधाए अत्ताणं विणोदेदि । द्वितीया - (निःश्वस्य ।) कुदो से आसासो । एदिणा अज्ज सविसेसदंसणेण अदिभूमिं क्खु ताए अहिणिवेसो गमिस्सदि । अण्णं च । णन्दणस्स कारणादो महाराओ भट्टिदारिअं पत्थअन्तो अमच्चेण विण्णत्तो । प्रथमा - किं त्ति । द्वितीया - पहवदि णिअस्स कण्णआजणस्स महाराओ त्ति । ता जादो आमरणं क्खु मालदीए हिअअसल्लं माहवाणुराओ त्ति तक्केमि । प्रथमा - अवि णाम भअवदी किं पि भअवदित्तणं एत्थ दंसैस्सदि । द्वितीया - ऐ असम्बद्धमणोरहे एहि । (इति परिक्रम्य निष्क्रान्ते । प्रवेशकः ।) (ततः प्रविशत्युपविष्टा सोत्कण्ठा मालती लवङ्गिका च ।) मालती - हुं सहि तदो तदो । लवङ्गिका - तदो तेण महाणुभावेण उवणीदा मे इअं बौलमाला । (इति मालामर्पयति ।) मालती - (गृहीत्वा सहर्षं निर्वर्ण्य ।) सहि एक्कपासविसमपडिबद्धा क्खु एसा विरअणा । लवङ्गिका - एत्थ दाव अरमणीअत्तणे तुमं जेव्व अवरज्झसि । मालती - कधं विअ । लवङ्गिका - जेण सो मुद्धदुव्वासामलङ्गो तधा विहत्थीकिदो । मालती - पिअसहि लवङ्गिए सव्वधा आसासणसीलासि । लवङ्गिका - सहि का एत्थ आसासणसीलदा । णं भणामि सो वि पिअसहीए मन्दमारुदुव्वेल्लन्तप्पफुल्लपुण्डरीअविब्भमेहिं पढमारद्धवौलावलीविरअणावदेससञ्जमिदबलामोडिअवित्थरन्तेहिं लोअणेहिं विअम्भमाणविम्हअत्थिमिददीहपेरन्तपरिअत्तणाविलासतण्डविदभूलदाविडम्बिदाणङ्गसारङ्गविब्भमविअड्ढं अवलोअअन्तो पच्चक्खीकिदो जेव्व । मालती - (लवङ्गिकां परिष्वज्य ।) अम्मो पिअसहि किं दाव तस्स महाणुभावस्स साहाविआ जेव्व मुहुत्तसण्णिधाइणो जणस्स विप्पलम्भैत्तआ विलासा आदु जहा पिअसही सम्भावेदि । लवङ्गिका - (विहस्य सासूयमिव ।) तुमं वि सहावेण जेव्व तस्सिं अवसरे असङ्गीदअं णच्चाविदासि । मालती - (सलज्जम् ।) हुं तदो तदो । लवङ्गिका - तदो पडिणिअत्तमाणजत्ताजणसङ्कुलेण अन्तरिदे तस्सिं मन्दारिआए घरं उवगदम्हि । ताए क्खु चित्तफलअं पभादे हत्थीकिदं आसी । मालती - किण्णिमित्तं । लवङ्गिका - तं क्खु माहवाणुअरो कलहंसओ णाम कामेदि सा तस्स दंसैस्सदि त्ति । तदो पिअणिवेदिआ मन्दारिआ संवुत्ता । मालती - (स्वगतम् ।) णूणं तेणावि कलहंसएण तं पडिछन्दअं अत्तणो पहुस्स दंसिदं भविस्सदि । (प्रकाशम् ।) सहि किं दाणिं दे पिअं । लवङ्गिका - एदं क्खु सन्दाविदस्स सन्दावआरिणो दुल्लहमणोरहावेसदूसहाआसदज्झन्तचित्तस्स क्खणमेत्तणिव्वावअं तुह पडिछन्दअं । (इति चित्रं दर्शयति ।) मालती - (सहर्षं निर्वर्ण्य ।) अहो दाणिं पि हिअअस्स मे अणासङ्गो जेण एव्वं पि आसासणं विप्पलम्भो त्ति सम्भावेमि । कधं अक्खराइं पि । (इति वाचयति ।) जगति जयिनस्ते ते भावा नवेन्दुकलादय (इत्यादि पूर्वोक्तं पठित्वा सानन्दम् ।) महाभाअ सरिसं क्खु दे णिम्माणस्स वअणं मधुरदाए लक्खीअदि । दंसणं उण तक्कालमणोहरं परिणामदीहसन्दावदारुणं । धण्णाओ क्खु ताओ अम्मकाओ जाओ तुमं ण पेक्खन्ति वा अत्तणो हिअअस्स पहवन्ति । (इति रोदिति ।) लवङ्गिका - सहि किं एव्वं पि दे णत्थि आसासो । मालती - सहि कधं । लवङ्गिका - जस्स कारणादो उक्खण्डिअबन्धणं विअ कङ्केल्लिपल्लवं किलम्मन्तणोमालिआकुसुमणीसहा परिखिज्जसि सो वि जाणाविदो भअवदा मम्महेण सन्दावस्स दूसहत्तणं त्ति । मालती - कुसलं दाणिं तस्स महाणुभावस्स भोदु मम उण दुल्लहो आसासो । (सास्रम् ।) विसेसदो अज्ज पिअसहि । (संस्कृतमाश्रित्य ।) मनोरागस्तीव्रं विषमिव विसर्पत्यविरतं प्रमाथी निर्धूमो ज्वलति विधुतः पावक इव । हिनस्ति प्रत्यङ्गं ज्वर इव गरीयानित इतो न मां त्रातुं तातः प्रभवति न चाम्बा न भवती ॥ लवङ्गिका - एव्वं जेव्व पच्चक्खसोक्खदाइणो परोक्खदुक्खदूसहा सज्जणसमाअमा होन्ति । अवि अ । जस्स वादाअणन्तरमुहुत्तदंसणेण सविसेससमिद्धहुदवहाअन्तपुण्णिमाचन्दोदआ णिक्करुणकामव्वावारसंसैदजीविदा दे सरीरावत्था तस्स जेव्व सम्पत्तसविसेसदंसणा भविअ अज्ज सन्तप्पसि त्ति किं एत्थ भणिदव्वं । ता पिअसहि सलाहणिज्जं दुल्लहमणोरहफलं जीअलोअस्स गुरुआणुराअसरिसं महाणुभाअवल्लहसमाअमो त्ति एत्तिअं जाणीमो । मालती - सहि दैदमालदीजीविदे साहसोवण्णासिणि अवेहि । (सास्रम् ।) अहवा अहं जेव्व वारं वारं पलोअअन्ती दुक्खव्ववत्थाविदधीरत्तणावट्ठम्भेण अत्तणो हिअएण दूरविज्जम्भमाणदुव्विणअलहुएण एत्थ अवरज्झामि । तधा वि पिअसहि । (भूयः संस्कृतमाश्रित्य ।) ज्वलतु गगने रात्रौ रात्रावखण्डकलः शशी दहतु मदनः किं वा मृत्योः परेण विधास्यति । मम तु दयितः श्लाघ्यस्तातो जनन्यमलान्वया कुलममलिनं न त्वेवायं जनो न च जीवितम् ॥ लवङ्गिका - स्वगतम् । एत्थ दाणिं को उवाओ । (अथ नेपथ्यार्धप्रविष्टा प्रतीहारी ।) एसा भअवदी कामन्दई । उभे - किं भअवदी । प्रतीहारी - भट्टिदारिअं दट्ठुकामा आअदा । उभे - तदो किं विलम्बीअदि । (प्रतीहारी निष्क्रान्ता । मालती चित्रं प्रच्छादयति ।) लवङ्गिका - स्वगतम् । सुसमीहिदं क्खु जादं । (ततः प्रविशति कामदक्यवलोकिता च ।) कामन्दकी - साधु सखे भूरिवसो साधु । प्रभवति निजस्य कन्यकाजनस्य महाराज इत्युभयलोकाविरुद्धं वचनमुपन्यस्तम् । अपि च । अद्य मन्मथोद्यानवृत्तान्तेन भगवतो विधेरनुकूलतामवगच्छामि । बकुलावलीचित्रफलकव्यतिकरसंविधानकौतुकमद्भुतं प्रमोदमुल्लासयति । इतरेतरानुरागो हि दारकर्मणि परार्ध्यं मङ्गलम् । गीतश्चायमर्थोङ्गिरसा यस्यां मनश्चक्षुषोरनुबन्धस्तस्यामृद्धिरिति । अवलोकिता - एसा मालदी । कामन्दकी - (निर्वर्ण्य ।) निकामं क्षामाङ्गी सरसकदलीगर्भसुभगा कलाशेषा मूर्त्तिः शशिन इव नेत्रोत्सवकरी । अवस्थामापन्ना मदनदहनोद्दाहविधुरामियं नः कल्याणी रमयति मनः कम्पयति च ॥ अपि च । परिपाण्डुपांसुलकपोलमाननं दधती मनोहरतरत्वमागता । रमणीयजन्मनि जने परिभ्रमल्लंलितो विधिर्विजयते हि मान्मथः ॥ नियतमनया सङ्कल्पनिर्मितः प्रियसमागमोनुभूयते । तथा ह्यस्याः नीवीबन्धोच्छ्वसनमधरस्पन्दनं दोर्विषादः स्वेदश्चक्षुर्मसृणमधुराकेकरस्निग्धमुग्धम् । गात्रस्तम्भः स्तनमुकुलयोरुत्प्रबन्धःप्रकम्पो गण्डाभोगे पुलकपटलं मूर्छना चेतना च ॥ (इत्युपसर्पति ।) (लवङ्गिका मालतीं चालयति । उभे उत्तिष्ठतः ।) मालती - भअवदि वन्दामि । कामन्दकी - महाभागे समीहितफलभाजनं भूयाः । लवङ्गिका - सुविहिदं आसणं । एत्थ उवविसदु भअवदी । (सर्वा उपविशन्ति ।) मालती - कुसलं भअवदीए । कामन्दकी - (निःश्वस्य ।) कुशलमिव । लवङ्गिका - (स्वगतम् ।) पत्थावणा क्खु एसा कवडणाडअस्स । (प्रकाशम् ।) गुरुअवाहत्थम्भमन्थरिदकण्ठपडिलग्गणीसासं अण्णारिसं जेव्व भअवदीए वअणं । ता किं दाणिं उव्वेअकारणं भविस्सदि । कामन्दकी - नन्वयमेव चीरचीवरविरुद्धः परिचयः । लवङ्गिका - कधं विअ । कामन्दकी - अयि त्वमपि किं न जानासि । इदमिह मदनस्य जैत्रमस्त्रं सहजविलासनिबन्धनं शरीरम् । अनुचितवरसम्प्रयोगशोच्यं विफलगुणातिशयं भविष्यतीति ॥ (मालती वैचित्यं नाटयति ।) लवङ्गिका - अत्थि एदं णरेन्दवअणाणुरोहिणा अमच्चेण णन्दणस्स पडिवण्णा मालदित्ति सअलो जणो अमच्चं जुगुच्छेदि । मालती - (स्वगतम् ।) कधं उवहारीकिदम्हि राइणो तादेण । कामन्दकी - आश्चर्यम् । गुणापेक्षाशून्यं कथमिदमुपक्रान्तमथ वा कुतोपत्यस्नेहः कुटिलनयनिष्णातमनसाम् । इदं त्वैदम्पर्यं यदुत नृपतेर्नर्मसचिवः सुतादानान्मित्रं भवतु स हि नो नन्दन इति ॥ मालती - (स्वगतम् ।) राआराहणं क्खु तादस्स गुरुअं ण उण मालदी । लवङ्गिका - एव्वं जधा भअवदीए आणत्तं । अण्णधा तस्सिं वरे दुद्दंसणे अदिक्कन्तजोव्वणे किं त्ति ण विआरिदं अमच्चेण । मालती - (स्वगतम् ।) हा हदम्हि समुत्थिदाणत्थवज्जपडणा मन्दभाइणी । लवङ्गिका - ता भअवदि पसीद परित्ताहि इमादो जीविदमरणादो पिअसहिं तवावि एसा दुहिदा जेव्व । कामन्दकी - अयि सरले किमत्र मया भगवत्या शक्यम् । प्रभवति प्रायः कुमारीणां जनयिता दैवं च । यच्च किल कौशिकी शकुन्तला दुष्यन्तमप्सराः पुरूरवसं चकम इत्याख्यानविद आचक्षते वासवदत्ता च सञ्जयाय राज्ञे पित्रा दत्तमात्मानमुदयनाय प्रायच्छदित्यादि तदपि साहसाभासमित्यनुपदेष्टव्य एवायमर्थः । सर्वथा राज्ञः प्रियाय सुहृदे सचिवाय कार्याद्दत्वात्मजां भवतु निर्वृतिमानमात्यः । दुर्दर्शनेन घटतामियमप्यनेन धूमग्रहेण विमला शशिनः कलेव ॥ मालती - (सास्रं स्वगतम् ।) हा ताद तुमं पि मम णाम एव्वं त्ति सव्वधा जिदं भोअतिह्णाए । अवलोकिता - चिराइदं भअवदीए । णं भणामि अस्सत्थसरीरो महाभाओ माहवो त्ति । कामन्दकी - इदं गम्यते । वत्से अनुजानीहि माम् । लवङ्गिका - (जनान्तिकम् ।) सहि मालदि सम्पदं भअवदीसआसादो तस्स महाणुभावस्स उग्गमं जाणीमो । मालती - सहि अत्थि मे कोदूहलं । लवङ्गिका - (प्रकाशम् ।) को एसो माहवो णाम जस्स भअवदी सिणेहगुरुअं अत्ताणं धारेदि । कामन्दकी - अप्रास्ताविकी महत्येषा कथा । लवङ्गिका - तधावि आचक्खदु भअवदी । पसादं करेदु । कामन्दकी - श्रूयताम् । अस्ति विदर्भाधिपस्य नरपतेरमात्यः समग्रधुर्यपुरुषप्रकाण्डचक्रचूडामणिर्देवरातो नाम यमशेषभुवनमहनीयपुण्यमहिमानमात्मनः सतीर्थ्यं पितैव ते जानाति योसौ यादृशश्चेति । अपि च । व्यतिकरितदिगन्ताः श्वेतमानैर्यशोभिः सुकृतविलसितानां स्थानमूर्जस्वलानाम् । अकलितमहिमानः केतनं मङ्गलानां कथमपि भुवनेस्मिंस्तादृशाः सम्भवन्ति ॥ मालती - (जनान्तिकम् ।) सहि तं क्खु भअवदीगहिदणामहेअं सव्वदा तादो सुमरेदि । लवङ्गिका - सहि समं किल विज्जाहिगमो किदो त्ति तक्कालवेदिणो मन्तअन्ति । कामन्दकी - तत उदयगिरेरिवैक एव स्फुरितगुणद्युतिसुन्दरः कलावान् । इह जगति महोत्सवस्य हेतुर्नयनवतामुदियाय बालचन्द्रः ॥ लवङ्गिका - (जनान्तिकम् ।) सहि अवि णाम माहवो भवे । कामन्दकी - असौ विद्याधारः शिशुरपि विनिर्गत्य भवनादिहायातः सम्प्रत्यविकलशरच्चन्द्रमधुरः । यदालोकस्थाने भवति पुरमुन्मादतरलैः कटाक्षैर्नारीणां कुवलयितवातायनमिव ॥ अत्र बालसुहृदा मकरन्देन सह विद्यामान्वीक्षिकीमधिगच्छति । एष माधवो नाम । मालती - (सानन्दं जनान्तिकम् ।) सहि सुदं तुए । लवङ्गिका - सहि कुदो वा महोदहिं वज्जिअ पारिजादस्स उग्गमो त्ति । (नेपथ्ये शङ्खध्वनिः ।) कामन्दकी - अहो कालातिपातः । सम्प्रति हि । क्षिपन्निद्रामुद्रां मदनकलहच्छेदसुलभामवाप्तोत्कण्ठानां विहगमिथुनानां प्रथमतः । दधानः सौधानामलघुषु निकुञ्जेषु घनतामसौ सन्ध्याशङ्खध्वनिरनिभृतः खे विचरति ॥ वत्से सुखं स्थीयताम् । (इत्युत्तिष्ठति ।) मालती - (अपवार्य ।) कधं उवहारीकिदम्हि राइणो तादेण राआराहणं क्खु तादस्स गुरुअं ण उण मालदी । (सास्रम् ।) हा ताद तुमं पि णाम मम एव्वं त्ति सव्वधा जिदं भोअतिह्णाए । (सानन्दम् ।) कधं महाकुलप्पभवो वि सो महाभाओ । सुभणिदं पिअसहीए कुदो वा महोदहिं वज्जिअ पारिजादस्स उग्गमो त्ति । अवि णाम तं पुणो वि पेक्खिस्सं । लवङ्गिका - अवलोइदे इदो इदो एदिणा सोवाणेण ओदरम्ह । कामन्दकी - (अपवार्य ।) साधुसम्प्रति मया तटस्थयैव मालतीं प्रति निसृष्टार्थदूतीवृत्तस्य लघूकृतो भारः । तथा हि । वरेन्यस्मिन्द्वेषः पितरि विचिकित्सा च जनिता पुरावृत्तोद्गारैरपि च कथिता कार्यपदवी । स्तुतं माहाभाग्यं यदभिजनतो यच्च गुणतः प्रसङ्गाद्वत्त्सस्येत्यथ खलु विधेयः परिचयः ॥ (इति निष्क्रान्ताः सर्वे ।) इति मालतीमाधवे धवलगृहो नाम द्वितीयोङ्कः ॥ तृतीयोङ्कः । (ततः प्रविशति बुद्धरक्षिता ।) बुद्धरक्षिता - (आकाशे ।) अवलोइदे अवि जाणासि कहिं भअवदित्ति । (प्रविश्य ।) अवलोकिता - (उपसृत्य ।) बुद्धरक्खिदे किं पमुद्धासि । को विअ कालो भअवदीए पिण्डवादवेलं वज्जिअ मालदिं अणुवट्टमाणाए । बुद्धरक्षिता - हुं तुमं उण कहिं पत्थिदासि । अवलोकिता - अहं क्खु भअवदीए माहवसआसं अणुप्पेसिदा । सन्दिट्ठं अ तस्स सङ्करघरसम्बद्धं कुसुमाअरं णाम उज्जाणं गदुअ कुज्जअणिउञ्जपेरन्तरत्तासोअगहणे चिट्ठ त्ति । गदो अ तत्थ माहवो । बुद्धरक्षिता - किं त्ति तहिं माहवो अणुप्पेसिदो । अवलोकिता - अज्ज कसणचौद्दसित्ति भअवदीए समं मालदी सङ्करघरं गमिस्सदि तदो एवं किल सोहग्गं वड्ढदि त्ति देवदाराहणणिमित्तं सहत्थकुसुमावचअं उद्दिसिअ लवङ्गिआदुदीअं मालदिं भअवदी जेव्व कुसुमाअरुज्जाणं आणैस्सदि तदो अण्णोण्णदंसणं भोदु त्ति । तुमं उण कहिं पत्थिदा । बुद्धरक्षिता - अहं क्खु सङ्करघरं जेव्व पत्थिदाए पिअसहीए मदअन्तिआए आमन्तिदा । तदो भअवदीए पाअवन्दणं कदुअ तहिं गच्छामि । अवलोकिता - तुमं क्खु भअवदीए जस्सिं पओअणे णिउत्ता तत्थ को वुत्तन्तो । बुद्धरक्षिता - मए क्खु भअवदीए समादेसेण तासु तासु वीसम्भकधासु ईरिसो तारिसो त्ति मअरन्दस्स उअरि पिअसहीए मदअन्तिआए दूरं आरोविदो परोक्खाणुराओ । एसो अ से मणोरहो अवि णाम तं पेक्खामि त्ति । अवलोकिता - साहु बुद्धरक्खिदे साहु । बुद्धरक्षिता - एहि गच्छम्ह । (इति परिक्रम्य निष्क्रान्ते । प्रवेशकः ।) (ततः प्रविशति कामन्दकी ।) कामन्दकी - तथा विनयनम्रापि मया मालत्युपायतः । नीता कतिपयाहेन सखीविस्रम्भसेव्यताम् ॥ सम्प्रति हि । व्रजति विरहे वैचित्यं नः प्रसीदति सन्निधौ रहसि रमते प्रीत्या वाचं ददात्यनुवर्तते । गमनसमये कण्ठे लग्ना निरुध्य निरुध्य मां सपदि शपथैः प्रत्यावृत्तिं प्रणम्य च याचते ॥ इदं च तत्र साधीयः प्रत्याशानिबन्धनम् । शाकुन्तलादीनितिहासवादान्प्रस्तावितानन्यपरैर्वचोभिः । श्रुत्वा मदुत्सङ्गनिवेशिताङ्गी चिराय चिन्तास्तिमितत्वमेति ॥ तदद्य माधवसमक्षमुत्तरमुपक्रमिष्ये । (नेपथ्याभिमुखम् ।) वत्से इत इतः । (ततः प्रविशति मालती लवङ्गिका च ।) मालती - कधं उवहारीकिदम्हि इत्यादि पूर्वोक्तं पठति । लवङ्गिका - सहि एसो क्खु महुरमहुरसोल्लोल्लमञ्जरीकवलणकेलिकलकोइलौलकोलाहलाकुलिदसहआरसिहरुड्डीणचडुलचञ्चरीअणिअरव्वैअरुद्दलिददलकरालचम्पआहिवासमणोहरो मरालमंसलजहणपरिणाहुव्वहणमन्थरोरुभरविसण्ट्ठुलक्खलिदचलणसञ्चारमसिणगमणोवणीदसेअसीअरसुहाबिन्दुइज्जन्तमुद्धमुहअन्दचन्दणाअमाणसीअलफंसो तुमं परिस्सअदि कुसुमाअरुज्जाणमारुदो ता पविसम्ह । (परिक्रम्य प्रविशतः ।) (ततः प्रविशति माधवः ।) माधवः - (सहर्षम् ।) हन्त परागता भगवती । इयं हि मम आविर्भवन्ती प्रथमं प्रियायाः सोच्छ्वासमन्तःकरणं करोति । सन्तापदग्धस्य शिखण्डियूनो वृष्टेः पुरस्तादचिरप्रभेव ॥ दिष्ट्या लवङ्गिकाद्वितीया मालत्यपि । आश्चर्यमुत्पलदृशो वदनामलेन्दुसान्निध्यतो मम मुहुर्जडिमानमेत्य । जात्येन चन्द्रमणिनेव महीधरस्य सन्धार्यते द्रवमयो मनसा विकारः ॥ सम्प्रति रमणीयतरा मालती । ज्वलयति मनोभवाग्निं मदयति हृदयं कृतार्थयति चक्षुः । परिमृदितचम्पकावलिविलासलुलितालसैरङ्गैः ॥ मालती - सहि इमस्सिं कुज्जअणिउञ्जे कुसुमाइं अवचिणुम्ह । माधवः - प्रथमप्रियावचनसंश्रवस्फुरत्पुलकेन सम्प्रति मया विडम्ब्यते । घनराजिनूतनपयःसमुक्षणक्षणबद्धकुट्मलकदम्बडम्बरः ॥ लवङ्गिका - सहि एवं करेम्ह । (पुष्पावचयं नाटयतः ।) माधवः - अपरिमेयाश्चर्यमाचार्यकं भगवत्याः । मालती - इदो वि अण्णस्सिं अवचिणुम्ह । कामन्दकी - मालतीं परिष्वज्य । अयि विरम निःसहासि जाता । तथाहि । स्खलयति वचनं ते स्रंसयत्यङ्गमङ्गं जनयति मुखचन्द्रोद्भासिनः स्वेदबिन्दून् । मुकुलयति च नेत्रे सर्वथा सुभ्रु खेदस्त्वयि विलसति तुल्यं वल्लभालोकनेन ॥ (मालती लज्जते ।) लवङ्गिका - सोहणं भअवदीए आणत्तं । माधवः - हृदयङ्गमः परिहासः । कामन्दकी - तदास्यतां किञ्चिदाख्येयमाख्यातुकामास्मि । (सर्वा उपविशन्ति ।) कामन्दकी - मालत्याश्चिबुकमुन्नमय्य । शृणु विचित्रमिदं सुभगे । मालती - अवहिदम्हि । कामन्दकी - अस्ति तावदेकदा प्रसङ्गतः कथित एव मया माधवाभिधाहः कुमारो यस्त्वमिव मामकीनस्य मनसो द्वितीयं निबन्धनम् । लवङ्गिका - सुमरामो । कामन्दकी - स खलु मन्मथोद्यानयात्रादिवसात्प्रभृति दुर्मनायमानः परवानिव शरीरोपतापेन । यदिन्दावानन्दं प्रणयिनि जने वा न भजते व्यनक्त्यन्तस्तापं तदयमतिधीरोपि विषमम् । प्रियङ्गुश्यामाङ्गप्रकृतिरपि चापाण्डुमधुरं वपुः क्षामं क्षामं वहति रमणीयश्च भवति ॥ लवङ्गिका - एदं पि तस्सिं अवसरे भअवदिं तुवरावन्तीए अवलोइदाए उदीरिदं आसी अस्सत्थसरीरो माहवो त्ति । कामन्दकी - यावदशृणवं मालत्येवास्य मन्मथोन्मादहेतुरिति । ममापि स एव निश्चयः । अनुभवं वदनेन्दुरुपागमन्नियतमेष यदस्य महात्मनः । क्षुभितमुत्कलिकातरलं मनः पय इव स्तिमितस्य महोदधेः ॥ माधवः - अहो उपन्यासशुद्धिः । अहो महत्त्वारोपणे यत्नः । अथवा शास्त्रेषु निष्ठा सहजश्च बोधः प्रागल्भ्यमभ्यस्तगुणा च वाणी । कालानुरोधः प्रतिभानवत्त्वमेते गुणाः कामदुघाः क्रियासु ॥ कामन्दकी - अतस्तेन जीवितादुद्विजमानेन दुष्करमपि न किञ्चिन्न क्रियते । असौ हि धत्ते चक्षुर्मुकुलिनि रणत्कोकिले बालचूते मार्गे गात्रं क्षिपति बकुलामोदगर्भस्य वायोः । दाहप्रेम्णा सरसबिसिनीपत्त्रमात्रान्तरायस्ताम्यन्मूर्तिः श्रयति बहुशो मृत्यवे चन्द्रपादान् ॥ माधवः - अन्य एवाक्षुण्णः कथाप्रकारो भगवत्याः । मालती - (स्वगतम् ।) अदिदुक्करं करेदि । कामन्दकी - तदेवं प्रकृत्या सुकुमारः कुमारः कदाचिदप्यन्यत्रापरिक्लिष्टपूर्वस्तपस्वी यतोधुना शक्यमनेन मरणमप्यनुभवितुम् । मालती - (जनान्तिकम् ।) सहि अत्तणो कारणादो तस्स सव्वलोआलङ्कारभूदस्स किं पि आसङ्कन्तीए भअवदीए भीदाविदम्हि । ता किं दाणिं एत्थ पडिवज्जिस्सं । माधवः - दिष्ट्यानुकम्पितोस्मि भगवत्या । लवङ्गिका - भअवदी एवंवादिणित्ति आचक्खीअदि । अम्हाणं पि भट्टिदारिआ भवणासण्णरच्छामुहमुहुत्तमण्डणस्स तस्स ज्जेव्व बहुसो अणुभूददंसणा भविअ रविकिरणासिलिट्ठमुद्धकमलिणीकन्दसुन्दरावअवसोहाविभाविदाणङ्गवेअणाधिअदररमणीआ वि परिअणं दुम्मेइ । णाभिणन्ददि केलिकलाओ केवलं कमलाअन्तकन्तहत्थपल्हत्थगण्डमण्डला दिअसं गमेदि । अवि अ । विअसिआरविन्दमअरन्दणीसन्दसुन्दरेण दरदलिदकुन्दमाअन्दमहुबिन्दुसन्दोहवाहिणा भवणुज्जाणपेरन्तमारुदेण उत्तम्मदि । जं च तस्सिं जत्तादिअहे णिअमहूसवाब्भुदअदंसणपडिवण्णरूवस्स भअवदो कामस्स विअ कामकाणणालङ्कारआरिणो तस्स विविहविब्भमाहिरामं अणुरूआणुराआणुबन्धमहग्घीकिदजोव्वणारम्भं अण्णोण्णदिट्ठिविणिवादवञ्चणावसरजूरविदचित्ततुवरन्तकोदूहलं समुल्लसिदसद्धसत्थम्भमन्थरावअवपडिलग्गसेअपुलऔक्कम्पसुन्दरं आणन्दिदसहीअणं पिअसहीए परप्परावलोअणसुहं समासादिदं तदो पहुदि सविसेसदूसहाआसविअम्भमाणुद्दामदेहदाहदारुणं दसापरिणामं अनुभवन्ती मुहुत्तमेत्तसम्पत्तपुण्णचन्दोदआ विअ बालकमलिणी पम्मलाअदि । तहावि अ मुहुत्तमेत्तहिअअविणिहिदणिम्माअन्तवल्लहसमाअमा निब्भरसलिलासारसिच्चमाणेव्व मेइणी सीदलाअदि त्ति जाणामि । जेण पप्फुरिदकन्तदसणच्छदुच्छलन्तदन्तमुत्तिआवलिकन्तिसविसेससोहिदं निरन्तरुल्लसिदपुलअपह्मलकन्तकवोलघोलन्तसन्तदाणन्दबाहत्थवअं ईसिविअसिअणिप्फन्दमन्दतारुत्ताणमसिणमौलाअन्तणेत्तणीलुप्पलं अविरलुब्भिण्णसेअजलबिन्दुसुन्दरललाटपट्टणवचन्दलेहामणोहरं मुद्धमुहपुण्डरीअं उव्वहन्ती विअड्ढसहअरीचित्तसंसैदकोमारभावा भोदि । किं अ । उद्दामससिमौहणिउरुम्बचुम्बिदपौत्तणीसन्दचन्दमणिहारधारिणी पौरकप्पूरसविसेससिसिरचन्दणरसच्छडासारणिअरदन्तुरिदबालकदलीवत्तसंवाहणादिव्वावारतुवरन्तसहअरीसत्थविरैदोवणीदकमलिणीदलजलद्दासअणीए उण्णिद्दा रअणीओ गमेदि । कधं वि उवलद्धणिद्दासुहा सेअपज्झरिदपादपल्लवुव्वन्तपिण्डालत्तअरसा थरथराअन्तपीवरोरुमूलविसंवदिदणीवीबन्धणा उक्खुब्भन्तहिअअन्तरुत्तरङ्गणीसासविसमुच्छसन्तपम्हलपओहरोवरिणिहिदवेवन्तभुअलदावेढबन्धणा झत्ति पडिबोधवेलाविसज्जिदुव्विण्णदिट्ठिविणिवादविण्णादसुण्णसअणिज्जसञ्जादमोहमीलन्तलोअणा ससम्भमसहीअणपअत्तपडिवण्णमुच्छाविच्छेअसमअसङ्गलिददीहणीसाससेसजीविदा किङ्कादव्वमूढदाए पढमप्पत्थिदणिअजीविदावसाणन्दुव्वारदेव्वविलसिदोवालम्भमेत्तव्वावारं अम्हारिसं जणं करेदि । ता पेक्खदु भअवदी इमेसु दाव लावण्णभूइट्ठणिम्माणपरिवेलवेसु अङ्गेसु दारुणविअम्भिदस्स किअच्चिरं कुसलावसाणदा मम्महस्स भविस्सदि कधं अ इमाइं रमणकेलिकलहकोवोवराअपल्लविअकेरलीकवोलकोमलुव्वेल्लन्तविमलचन्दचन्दिओद्दामदलिदतिमिरावरणाइं विहावरीमुहाइं । इमे अ उल्लसिददुद्धसिन्धुपूरधवलुज्जलजोण्हाजलप्पक्खालिदगअणङ्गणा परिमलिदपाडलावौलणिम्महणबहलपरिमलुग्गारसंवलणमसिणमंसलाअन्तमलअमारुदुद्धूमाविददहदिसामुहा वसन्तरअणीपरिणाहा अणत्थकारिणो भविस्सन्ति पिअसहीए त्ति । कामन्दकी - लवङ्गिके यदि तद्विषयोनुरागबन्धः स्फुटमेतद्धि फलं गुणज्ञतायाः । इति नन्दितमप्यवस्थयास्या हृदयं दारुणया विदीर्यते मे ॥ माधवः - स्थान एव हृदयोद्वेगो भगवत्याः । कामन्दकी - अहो प्रमादः । प्रकृतिललितमेतत्सौकुमार्यैकसारं वपुरयमपि सत्यं दारुणः पञ्चबाणः । चलितमलयवातोद्धूतचूतप्रसूनः कथमयमपि कालश्चारुचन्द्रावतंसः ॥ लवङ्गिका - अण्णं च जाणिदं भोदु भअवदीए । एदं माहवपडिछन्दअसणाहं चित्तफलअं । (मालत्याः स्तनांशुकमपनीय दर्शयति ।) एसा वि तस्स ज्जेव्व सहत्थविरैदत्ति कण्ठावलम्बिदा बौलमाला जीवणं पिअसहीए त्ति । माधवः - (सस्पृहम् ।) जितमिह भुवने त्वया यदस्याः सखि बकुलावलि वल्लभासि जाता । परिणतबिसकाण्डपाण्डुमुग्धस्तनपरिणाहविलासवैजयन्ती ॥ (नेपथ्ये कलकलः । सर्वे आकर्णय्नति ।) (पुनर्नेपथ्ये ।) रे रे सङ्करघराधिवासिणो जणवदा एसो क्खु जोव्वणारम्भगव्वसम्भरिददुव्विसहामरिसरोसवैअरबलामोडिअविहडिदुग्घाडिदलोहपञ्जरणिबद्धसिङ्खलाणिरोहपडिभङ्गसङ्कलिदणिअलीलाविलासुव्वेल्लन्तबहलुत्तुङ्गलङ्गूलविअडवेजअन्तिआडम्बरुद्दामसरीरसण्णिवेसो मडादो अवक्कमिअ तक्खणसतिण्हकवलिदाणेअदेहिदेहावअवमज्झणिट्ठुरट्ठिखण्डटङ्कारकडकडाअन्तकरवत्तकठिणदाढाकरालमुहकन्दरो पअण्डवज्जणिग्घाददारुणचवेडामोडणपाडिदाणेअणरतुरङ्गजङ्गलुग्गारभरिदगलगुहागब्भगम्भीरघग्घरोरल्लिगल्लूरणसद्दसन्दब्भपडिरवाभोअभीसाविदणट्ठविद्दाविदासेसजणणिवहो कठोरणहरकप्परक्कमणणिद्दअदारिदजन्तुगत्तावअवप्पौत्तरत्तकद्दमिअगैवहो दुट्ठसद्दूलो कुविअकअन्तलीलाइदं करेदि । ता रक्खध जधासत्ति पिअसहीए मदअन्तिआए जीविदं त्ति । (प्रविश्य बुद्धरक्षिता सत्रासम् ।) परित्ताअध परित्ताअध । एसा णो पिअसही अमच्चणन्दणस्स बहिणिआ मदअन्तिआ एदिणा दुट्ठसद्दूलेण विणिहदविद्दाविदासेसपरिअणा अभिभवीअदि । मालती - लवङ्गिए अहो पमादो । माधवः - (ससम्भ्रममुत्थाय ।) बुद्धरक्षिते क्वासौ । मालती - (माधवं दृष्ट्वा सहर्षसाध्वसमात्मगतम् ।) अम्महे एसो वि इहत्थो ज्जेव्व । माधवः - (स्वगतम् ।) हन्त पुण्यवानस्मि यदहमतर्कितोपनतदर्शनोल्लसितलोचनयानया अविरलमिव दाम्ना पौण्डरीकेण नद्धः स्नपित इव च दुग्धस्रोतसा निर्भरेण । कवलित इव कृत्स्नश्चक्षुषा स्फारितेन प्रसभममृतमेघेनेव सान्द्रेण सिक्तः ॥ बुद्धरक्षिता - महाभाअ उज्जाणबाहिरत्थामुहे । (माधवः साटोपं परिक्रामति ।) कामन्दकी - वत्स अप्रमत्तो भूत्वा विक्रमस्व । मालती - (जनान्तिकम् ।) लवङ्गिए हद्धी हद्धी संसओ क्खु जादो । (सर्वास्त्वरितं परिक्रामन्ति ।) माधवः - (अग्रे दृष्ट्वा सबीभत्सम् ।) अहह । संसक्तत्रुटितविवर्तितान्त्रजालव्याकीर्णस्फुरदपवृत्तरुण्डखण्डः । कीलालव्यतिकरगुल्फदघ्नपङ्कः प्राचण्ड्यं वहति नखायुधस्य मार्गः ॥ अहो प्रमादः । वयं बत विदूरतः क्रमगता पशोः कन्यका । सर्वाः - हा मदअन्तिए । कामन्दकीमाधवौ - (सहर्षाकूतम् ।) कथं तदभिपातितादधिगतायुधः पूरुषात् । कुतोपि मकरन्द एत्य सहसैव मध्ये स्थितः ॥ इतराः - साहु महाभाअ साहु । कामन्दकीमाधवौ - (सभयम् ।) दृढं च पशुना हतः । इतराः - अच्चाहिदं अच्चाहिदं । कामन्दकीमाधवौ - (सहर्षम् ।) प्रमथितश्च दंष्ट्रायुधः ॥ इतराः - (सानन्दम् ।) दिट्ठिआ पडिहदं दुज्जादं । कामन्दकी - (साकूतम् ।) कथं व्यालनखरप्रहारनिःसृतरक्तनिवहः क्षितितलनिषक्तखड्गलतावष्टम्भनिश्चलःसम्भ्रान्तमदयन्तिकावलम्बितस्ताम्यतीव वत्सो मे मकरन्दः । इतराः - हद्धी हद्धी गाढप्पहारदाए किलम्मदि महाभाओ । माधवः - कथं प्रमुग्ध एव । (कामन्दकीं प्रति ।) भगवति मां परित्रायस्व । कामन्दकी - अतिकातरोसि वत्स नन्वेहि तावत्पश्यामः । (इति परिक्रम्य निष्क्रान्ताः सर्वे ।) इति मालतीमाधवे शार्दूलविद्रावणो नाम तृतीयोङ्कः ॥ चतुर्थोङ्कः । (ततः प्रविशतो मदयन्तिकालवङ्गिकाभ्यामवलम्बितौ प्रमुग्धौ माधवमकरन्दौ सम्भ्रान्ता कामन्दकी मालती बुद्धरक्षिता च ।) मदयन्तिका - पसीद भअवदि परित्ताहि परित्ताहि मदअन्तिआणिमित्तसंसैदजीविदं विवण्णजणानुकम्पिणं महाभाअं । इतराः - हद्धी हद्धी किं दाणिं अम्हेहिं एत्थ पेक्खिदव्वं । कामन्दकी - उभौ कमण्डलूदकेन सित्त्का । ननु भवत्यः पटाञ्चलेन वत्सौ वीजयन्तु । (मालत्यादयस्तथा कुर्वन्ति ।) मकरन्दः - (समाश्वस्यावलोक्य च ।) वयस्य कातरोसि किमेतत् । ननु स्वस्थ एवास्मि । मदयन्तिका - (सहर्षम् ।) अम्महे पडिबुद्धं दाणिं मअरन्दपुण्णअन्देण । मालती - (माधवस्य ललाटे हस्तं दत्वा ।) सहि लवङ्गिए दिट्ठिआ वड्ढसि । णं भणामि पडिबुद्धो जेव्व दे पिअवअस्सो पडिवण्णचेअणो महाभाओ मअरन्दो त्ति । माधवः - (आश्वस्य ।) वयस्य साहसिक एह्येहि । (इत्यालिङ्गति ।) कामन्दकी - (उभौ शिरस्याघ्राय ।) दिष्ट्या जीवितवत्सास्मि । इतराः - पिअं पिअं णो संवुत्तं । (सर्वा हर्षं नाटयन्ति ।) बुद्धरक्षिता - (जनान्तिकम् ।) हला मदअन्तिए एसो जेव्व सो । मदयन्तिका - जाणिदं जेव्व मए जहा एस माहवो अअं पि सो जणो त्ति । बुद्धरक्षिता - अवि सच्चवादिणी अहं । मदयन्तिका - ण हु अण्णारिसेसु तुम्हारिसीओ पक्खवादिणीओ होन्ति । (माधवमवलोक्य ।) सहि मालदीए वि रमणिज्जो इमस्सिं महाणुहावे अणुराअप्पवादो । (पुनर्मकरन्दमेव सस्पृहमवलोकयति ।) कामन्दकी - (स्वगतम् ।) रमणीयोर्जितं हि मदयन्तिकामकरन्दयोर्दैवादद्य दर्शनम् । (प्रकाशम् ।) वत्स मकरन्द कथं पुनरायुष्मानस्मिन्नवसरे मदयन्तिकाजीवितत्राणहेतुर्भगवता दैवेन सन्निधापितः । मकरन्दः - अद्याहमन्तर्नगर एव काञ्चिद्वार्त्तामुपश्रुत्य माधवस्य चित्तोद्वेगमधिकमाशङ्कमानस्त्वरितमवलोकितानिवेदितकुसुमाकरोद्यानवृत्तान्तः परापतन्नेव शार्दूलावस्कन्दगोचरगतामेतामभिजातकन्यकामभ्युपपन्नवानस्मि । (मालतीमाधवौ विमृशतः ।) कामन्दकी - (स्वगतम् ।) वृत्तेन खलु मालतीप्रदानेन भवितव्यम् । (प्रकाशम् ।) वत्स माधव दिष्ट्या सुहृद्बुद्ध्या वर्धितोसि मालत्या तदयमवसरः प्रीतिदायस्य । माधवः - भगवति इयं हि यद्व्यालव्रणितसुहृत्प्रमोहमुग्धं सौजन्याद्विहितवती गतव्यथं माम् । तत्कामं प्रभवति पूर्णपात्रवृत्त्या स्वीकर्तुं मम हृदयं च जीवितं च ॥ लवङ्गिका - पडिच्छिदो क्खु णो पिअसहीए अअं पसादो । मदयन्तिका - (स्वगतम् ।) जाणादि महाभाअधेओ जणो अवसरे रमणिज्जं मन्तिदुं । मालती - (स्वगतम् ।) किं णाम मअरन्देण उव्वेअकारणं सुदं भविस्सदि । माधवः - वयस्य का पुनर्ममाधिकोद्वेगहेतुर्वार्ता । (प्रविश्य पुरुषः ।) वत्से मदयन्तिके भ्राता ते ज्यायानमात्यनन्दनः समादिशति । अद्य परमेश्वरेणास्मद्भवनमागत्य भूरिवसोरुपरि परं विश्वासमस्मासु च प्रसादमाविष्कुर्वता स्वयमेव प्रतिपादिता मालती तदेहि सम्भावयामः प्रमोदमिति । मकरन्दः - वयस्य सेयं वार्त्ता । (मालतीमाधवौ वैवर्ण्यं नाटयतः ।) मदयन्तिका - (मालतीं सहर्षमालिङ्ग्य ।) सहि मालदि तुमं क्खु एक्कणअरणिवासेण सहपंसुकीलणादो पहुदि मे पिअसही आसी वहिणिआ अ । सम्पदं उण घरस्स मण्डणं जादासि । कामन्दकी - वत्से मदयन्तिके दिष्ट्या वर्धसे भ्रातुर्मालतीलाभेन । मदयन्तिका - तुम्हाणं आसिसां पहावेण । सहि लवङ्गिए फलिदा णो मणोरहा तुम्हाणं लाहेण । लवङ्गिका - सहि अम्हाणं पि अत्थि मन्तिदव्वं । मदयन्तिका - सहि बुद्धरक्खिदे दाणिं विवाहमहूसवं सम्भावेम्ह । बुद्धरक्षिता - सहि एहि गच्छम्ह । (इत्युत्तिष्ठतः ।) लवङ्गिका - (जनान्तिकम् ।) भअवदि जहा एदे हिअअभरिदुव्वित्तविम्हआणन्दसुन्दरं अन्दोलाअन्तधीरत्तणमणोहरा पल्हत्थन्ति मदअन्तिआमअरन्दाणं दलिदकन्दोट्टदामसरिच्छा कडक्खविक्खेवा तहा तक्केमि मणोरहणिव्वुत्तसम्बन्धा एदे त्ति । कामन्दकी - (विहस्य ।) नन्विमौ विलोकनेन मानसं मुहुर्मुहुर्मोहनमनुभवतः । तथा हि । ईषत्तिर्यग्वलनविषमं कूणितप्रान्तमेतत्प्रेमोद्भेदस्तिमितलुलितं किञ्चिदाकुञ्चितभ्रु । अन्तर्मोदानुभवमसृणं स्तम्भनिष्कम्पपक्ष्म व्यक्तं शंसत्यचिरमनयोर्दृष्टमाकेकराक्षम् ॥ पुरुषः - वत्से इत इतः । मदयन्तिका - सहि बुद्धरक्खिदे अवि पुणो वि दीसै एस जीविदप्पदाई पुण्डरीअलोअणो । बुद्धरक्षिता - जै देव्वमणुऊलं भविस्सदि । (पुरुषेण निष्क्रान्ते ।) माधवः - (अपवार्य ।) चिरादाशातन्तुस्त्रुटतु बिसिनीसूत्रभिदुरो महानाधिव्याधिर्निरवधिरिदानीं प्रसरतु । प्रतिष्ठामव्याजं व्रजतु मयि पारिप्लवधुरा विधिः स्वास्थ्यं धत्तां भवतु कृतकृत्यश्च मदनः ॥ अथ वा । समानप्रेमाणं जनमसुलभं प्रार्थितवतो विधौ वामारम्भे मम समुचितैषा परिणतिः । तथाप्यस्मिन्दानश्रवणसमयेस्याः प्रविगलत्प्रभं प्रातश्चन्द्रद्युति वदनमन्तर्दहति माम् ॥ कामन्दकी - (स्वगतम् ।) एवमतिदुर्मनायमानः पीडयति मां वत्सो माधवो वत्सा मालती च दुष्करं निराशा प्राणिति । (प्रकाशम् ।) पृच्छामि तावदायुष्मन्तम् । अपि भवानमंस्त यथा भूरिवसुरेव मालतीमस्मभ्यं दास्यति । माधवः - (सलज्जम् ।) न हि न हि । कामन्दकी - न तर्हि प्रागवस्थायाः परिहीयसे । मकरन्दः - भगवति दत्तपूर्वेत्याशङ्क्यते । कामन्दकी - जानामि तां खलु वार्त्ताम् । इदं तु प्रसिद्धमेव यथा नन्दनाय मालतीं प्रार्थयमानं भूरिवसुर्नृपतिमुक्तवान्प्रभवति निजस्य कन्यकाजनस्य महाराज इति । मकरन्दः - अस्त्येतत् । कामन्दकी - अद्य च स्वयं राज्ञैव दत्ता मालतीति पुरुषेणावेदितम् । तद्वत्स वाक्प्रतिष्ठानि देहिनां व्यवहारतन्त्राणि वाचि पुण्यापुण्यहेतवो व्यवस्थाः सर्वेषां जनानामायतन्त इति । सा च भूरिवसोर्वागनृतात्मिकैव न खलु महाराजस्य मालती निजा कन्यका कन्यादाने च नृपतयः प्रमाणमिति नैवंविधो धर्माचारसमयस्तस्मादविमर्शितव्यमेतत् । कथं च वत्स मामनवधानां मन्यसे । पश्य । मा वा सपत्नेष्वपि नाम तद्भूत्पापं यदस्यां त्वयि वा विशङ्क्यम् । तत्सर्वथा सङ्गमनाय यत्नः प्राणव्ययेनापि मया विधेयः ॥ मकरन्दः - सुष्ठु युज्यमानमादिश्यते युष्माभिः । अपि च । दया वा स्नेहो वा भगवति निजेस्मिञ्शिशुजने भवत्याः संसाराद्विरतमपि चित्तं द्रवयति । अतश्च प्रव्रज्यासुलभसमयाचारविमुखः प्रसक्तस्ते यत्नः प्रभवति पुनर्दैवमपरम् ॥ (नेपथ्ये ।) भअवदि कामन्दै एसा भट्टिणी विण्णवेदि मालदिं घेऊण तुरिदं आअच्छदु त्ति । कामन्दकी - वत्से उत्तिष्ठ । (सर्व उत्तिष्ठन्ति ।) (मालतीमाधवौ सकरुणानुरागमन्योन्यमवलोकयतः ।) माधवः - (स्वगतम् ।) कष्टमेतावती लोकयात्रा मालत्या समं माधवस्य । अहो नु खलु भोः । सुहृदिव प्रकटय्य सुखप्रदः प्रथममेकरसामनुकूलताम् । पुनरकाण्डविवर्तनदारुणः प्रविशिनष्टि विधिर्मनसो रुजम् ॥ मालती - (स्वगतम् ।) महाभाअ लोअणाणन्द एत्तिअं दिट्ठोसि । लवङ्गिका - हद्धी हद्धी सरीरसंसअं जेव्व णो पिअसही आरोविदा अमच्चेण । मालती - (स्वगतम् ।) परिणदं मे दाणिं जीविदतिह्णाए फलं । णिव्वूढं अ णिक्करुणदाए तादस्स कावालिअत्तणं । पडिट्ठिदो दुट्ठदेव्वस्स दारुणसमारम्भसरिसो परिणामो । कं एत्थ उवालहामि मन्दभाइणी कं वा असरणा सरणं पडिवज्जामि । लवङ्गिका - सहि इदो इदो । (इति कामन्दक्या सह निष्क्रान्ते ।) माधवः - (स्वगतम् ।) नूनमाश्वासनमात्रमेतन्माधवस्य सहजस्नेहकातरा करोति भगवती । (सोद्वेगम् ।) हन्त सर्वथा संशयितजन्मसाफल्यः संवृत्तोस्मि । तत्किमिदानीं कर्तव्यम् । (विचिन्त्य ।) न खलु महामांसविक्रयादन्यमुपायं पश्यामि । (प्रकाशम् ।) वयस्य मकरन्द अपि भवानुत्कण्ठते मदयन्तिकायाः । मकरन्दः - अथ किम् । तन्मे मनः क्षिपति यत्सरसप्रहारमालोक्य मामगणितस्खलदुत्तरीया । त्रस्तैकहायनकुरङ्गविलोलदृष्टिराश्लिष्टवत्यमृतसंवलितैरिवाङ्गैः ॥ माधवः - सुलभैव बुद्धरक्षिताप्रियसखी भवतः । अपि च । प्रमथ्य क्रव्यादं मरणसमये रक्षितवतः परिष्वङ्गं लब्ध्वा तव कथमिवान्यत्र रमताम् । तथा च व्यापारः कमलनयनाया नयनयोस्त्वयि व्यक्तस्नेहस्तिमितरमणीयश्चिरमभूत् ॥ मकरन्दः - तदुत्तिष्ठ पारासिन्धुसम्भेदमवगाह्य नगरीमेव प्रविशावः । (उत्थाय परिक्रामतः ।) माधवः - अयमसौ महानद्योः सम्भेदः । य एषः जलनिबिडितवस्त्रव्यक्तनिम्नोन्नताभिः परिगततटभूमिः स्नानमात्रोत्थिताभिः । रुचिरकनककुम्भश्रीमदाभोगतुङ्गस्तनविनिहितहस्तस्वस्तिकाभिर्वधूभिः ॥ (इति निष्क्रान्ताः सर्वे ।) इति मालतीमाधवे शार्दूलविभ्रमो नाम चतुर्थोङ्कः ॥ पञ्चमोङ्कः । (ततः प्रविशत्याकाशयानेन भीषणोज्ज्वलवेशा कपालकुण्डला ।) कपालकुण्डला - षडधिकदशनाडीचक्रमध्यस्थितात्मा हृदि विनिहितरूपः सिद्धिदस्तद्विदां यः । अविचलितमनोभिः साधकैर्मृग्यमाणः स जयति परिणद्धः शक्तिभिः शक्तिनाथः ॥ इयमहमिदानीं नित्यं न्यस्तषडङ्गचक्रनिहितं हृत्पद्ममध्योदितं पश्यन्ती शिवरूपिणं लयवशादात्मानमभ्यागता । नाडीनामुदयक्रमेण जगतः पञ्चामृताकर्षणादप्राप्तोत्पतनश्रमा विघटयन्त्यग्रे नभोम्भोमुचः ॥ अपि च । उल्लोलस्खलितकपालकण्ठमालासङ्घट्टक्वणितकरालकिङ्किणीकः । पर्याप्तं मयि रमणीयडामरत्वं सन्धत्ते गगनतलप्रयाणवेगः ॥ तथा हि । विष्वग्वृत्तिर्जटानां प्रचलति निबिडग्रन्थिबद्धोपि भारः संस्कारक्वाणदीर्घं पटु रटति कृतावृत्तिखट्वाङ्गघण्टा । ऊर्ध्वं धूनोति वायुर्विवृतशवशिरःश्रेणिकुञ्जेषु गुञ्जन्नुत्तालः किङ्किणीनामनवरतरणत्कारहेतुः पताकाः ॥ (परिक्रम्यावलोक्य च ।) (गन्धमाघ्राय ।) इदं तावत्पुराणनिम्बतैलाक्तपरिभृज्यमानरसोनगन्धिभिश्चिताधूमैः पुरस्ताद्विभावितस्य महतः श्मशानवाटस्य नेदीयः करालायतनं यत्र पर्यवसितमन्त्रसाधनस्यास्मद्गुरोरघोरघण्टस्याज्ञया सविशेषमद्य पूजासम्भारो मया सन्निधापनीयः । कथितं च मे गुरुणा वत्से कपालकुण्डले अद्य भगवत्याः करालायाः प्रागुपयाचितं स्त्रीरत्नमुपहर्तव्यम् । तदत्रैव नगरे विदितमास्त इति तद्विचिनोमि । (सकौतुकमवलोक्य ।) तत्कोयमतिगम्भीरमधुराकृतिरुत्तम्भितकुटिलकुन्तलः कृपाणपाणिः श्मशानवाटमवतरति । य एषः कुवलयदलश्यामोप्यङ्गं दधत्परिधूसरं ललितविकटन्यासः श्रीमान्मृगाङ्कनिभाननः । हरति विनयं वामो यस्य प्रकाशितसाहसः प्रविगलदसृक्पङ्कः पाणिर्ललन्नरजाङ्गलः ॥ (निरूप्य ।) अये स एष कामन्दकीसुहृत्पुत्रो महामांसस्य पणायिता माधवः । तत्किमनेन । भवतु समीहितं सम्पादयामि । विगलितप्रायः पश्चिमसन्ध्यासमयः । तथा हि । सम्प्रति व्योम्नस्तापिच्छगुच्छावलिभिरिव तमोवल्लरीभिर्व्रियन्ते पर्यन्ताः प्रान्तवृत्त्या पयसि वसुमती नूतने मज्जतीव । वात्यासंवेगविष्वग्विततवलयितस्फीतधूम्याप्रकाशं प्रारम्भेपि त्रियामा तरुणयति निजं नीलिमानं वनेषु ॥ (परिक्रम्य निष्क्रान्ता । विष्कम्भकः । ततः प्रविशति यथानिर्दिष्टो माधवः ।) माधवः - (साशंसम् ।) प्रेमार्द्राः प्रणयस्पृशः परिचयादुद्गाढरागोदयास्तास्ता मुग्धदृशो निसर्गमधुराश्चेष्टा भवेयुर्मयि । यास्वन्तःकरणस्य बाह्यकरणव्यापाररोधी क्षणादाशंसापरिकल्पितास्वपि भवत्यानन्दसान्द्रो लयः ॥ किं च । अतिमुक्तमद्ग्रथितकेसरावली सतताधिवाससुभगार्पितस्तनम् । अपि कर्णजाहविनिवेशिताननं प्रियया तदङ्गपरिवर्तमाप्नुयाम् ॥ अथ वा । दूरे तावदेतत् । इदमेव प्रार्थये । सम्भूयेव सुखानि चेतसि परं भूमानमातन्वते यत्रालोकपथावतारिणि रतिं प्रस्तौति नेत्रोत्सवः । यद्बालेन्दुकलोच्चयादवचितैः सारैरिवोत्पादितं तत्पश्येयमनङ्गमङ्गलगृहं भूयोपि तस्या मुखम् ॥ यत्सत्यमधुना तत्सन्दर्शनेनातिस्वल्पोपि न विशेषः । मम हि सम्प्रति सातिशयप्राक्तनोपलम्भसम्भावितात्मजन्मनः संस्कारस्यानवरतप्रबोधात्प्रतायमानस्तिद्विसदृशप्रत्ययान्तरैरतिरस्कृतप्रवाहः प्रियतमास्मृतिप्रत्ययोत्पत्तिसन्तानस्तन्मयमिव करोत्यन्तर्वृत्तिसारूप्यतश्चैतन्यम् । तथा हि । लीनेव प्रतिबिम्बितेव लिखितेवोत्कीर्णरूपेव च प्रत्युप्तेव च वज्रलेपघटितेवान्तर्निखातेव च । सा नश्चेतसि कीलितेव विशिखैश्चेतोभुवः पञ्चभिश्चिन्तासन्ततितन्तुजालनिबिडस्यूतेव लग्ना प्रिया ॥ (नेपथ्ये कलकलः ।) माधवः - अहो सम्प्रति प्रगल्भमानकौणपनिकायस्य महती श्मशानवाटस्य रौद्रता । अस्मिन् हि पर्यन्तप्रतिरोधिमेदुरचयस्त्यानं चिताज्योतिषामौज्ज्वल्यं परभागतः प्रकटयत्याभोगभीमं तमः । संसक्ताकुलकेलयः किलकिलाकोलाहलैः सम्मदादुत्तालाः कटपूतनाप्रभृतयः सांराविणं कुर्वते ॥ भवत्वाघोषयामि तावत् । उच्चैः । भो भोः श्मशाननिकेतनाः कटपूतनाः । अशस्त्रपूतमव्याजं पुरुषाङ्गोपकल्पितम् । विक्रीयते महामांसं गृह्यतां गृह्यतामिदम् ॥ (पुनर्नेपथ्ये कलकलः ।) माधवः - कथमाघोषणानन्तरमेव सर्वतः समुच्चलदुत्तालवेतालमुक्ततुमुलाव्यक्तकलकलाकुलः प्रचलित इवाविर्भवद्भूतसङ्कटः श्मशानवाटः । आश्चर्यम् । कर्णाभ्यर्णविदीर्णसृक्कविकटव्यादानदीप्ताग्निभिर्दंष्ट्राकोटिविसङ्कटैरित इतो धावद्भिराकीर्यते । विद्युत्पुञ्जनिकाशकेशनयनभ्रूश्मश्रुजालैर्नभो लक्ष्यालक्ष्यविशुष्कदीर्घवपुषामुल्कामुखानां मुखैः ॥ अपि च । एतत्पूतनचक्रमक्रमकृतग्रासार्धमुक्तैर्वृकानुत्पुष्णत्परितो नृमांसविघसैराघर्घरं क्रन्दतः । खर्जूरद्रुमदघ्नजङ्घमसितत्वङ्नद्धविष्वक्ततस्नायुग्रन्थिघनास्थिपञ्जरजरत्कङ्कालमालोक्यते ॥ समन्तादवलोक्य विहस्य च । अहो प्रकारः पिशाचानाम् । एते हि ततपृथुरसनोग्रमास्यगर्तं दधति विदार्य विवर्णदीर्घदेहाः । ललदजगरघोरकोटराणां द्युतिमिह दग्धपुराणरोहिणानाम् ॥ (परिक्रम्य ।) हन्त बीभत्समेवाग्रे वत्तर्ते । उत्कृत्योत्कृत्य कृत्तिं प्रथममथपृथूच्छोफभूयांसि मांसान्यंसस्फिक्पृष्ठपिण्डाद्यवयवसुलभान्युग्रपूतीनि जग्ध्वा । आत्तस्नाय्वन्त्रनेत्रः प्रकटितदशनः प्रेतरङ्कः करङ्कादङ्कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्रमत्ति ॥ अपि च । निष्टापस्विद्यदस्थ्नः क्वथनपरिणमन्मेदसः प्रेतकायान्कृष्ट्वा संसक्तधूमानपि कुणपभुजो भूयसीभ्यश्चिताभ्यः । उत्पक्वस्रंसिमांसं प्रचलदुभयतः सन्धिनिर्मुक्तमारादेते निष्कुष्य जङ्घानलकमुदयिनीर्मज्जधाराः पिबन्ति ॥ (विहस्य ।) अहो प्रादोषिकः प्रमोदः पिशाचानाम् । तथा हि । अन्त्रैः कल्पितमङ्गलप्रतिसराः स्त्रीहस्तरक्तोत्पलव्यक्तोत्तंसभृतः पिनह्य सहसा हृत्पुण्डरीकस्रजः । एताः शोणितपङ्ककुङ्कुमजुषः सम्भूय कान्तैः पिबन्त्यस्थिस्नेहसुराः कपालचषकैः प्रीताः पिशाचाङ्गनाः ॥ (परिक्रम्य पुनरशस्त्रेति पठित्वा ।) कथं नाम प्रशान्तभीषणविभीषिकाप्रकारैर्झटित्यपक्रान्तं पिशाचैः । अहो निःसत्त्वता पिशाचानाम् । (परिक्रम्य दृष्ट्वा सनिर्वेदम् ।) विचितश्चैष समन्ताच्छ्मशानवाटः । तथाहि खल्वियं पुरत एव । गुञ्जत्कुञ्जकुटीरकौशिकघटाघूत्कारसंवल्गितक्रन्दत्फेरवचण्डडात्कृतिभृतप्राग्भारभीमैस्तटैः । अन्तःशीर्णकरङ्ककर्करपयःसंरोधकूलङ्कषस्रोतोनिर्गमघोरघर्घररवा पारेश्मशानं सरित् ॥ (नेपथ्ये ।) हा ताद निक्करुण एसो दाणिं दे णरेन्दचित्ताराहणोवअरणं जणो विवज्जै । माधवः - (साकूतमाकर्ण्य ।) नादस्तावद्विक्रलकुररीक्रूजितस्निग्धतारश्चित्ताकर्षी परिचित इव श्रोत्रसंवादमेति । अन्तर्भिन्नं भ्रमति हृदयं विह्वलत्यङ्गमङ्गं देहस्तम्भः स्खलयति गतिं कः प्रकारः किमतेत् ॥ करालायतनाच्चायमुच्चरन्करुणो ध्वनिः । विभाव्यते ननु स्थानमनिष्टानां तदीदृशाम् ॥ भवतु पश्यामि । (इति परिक्रामति ।) (ततः प्रविशतो देवार्चनव्यग्रौ कपालकुण्डलाघोरघण्टौ कृतवध्यचिह्ना मालती च ।) मालती - हा ताद णिक्करुण एसो दाणिं दे णरेन्दचित्ताराहणोवअरणं जणो विवज्जै । हा अम्ब सिणेहमअहिअए हदासि देव्वदुव्विलसिदेण । हा मालदीमअजीविदे मम कल्लाणसाहणेक्कसुहसअलव्वावारे भअवदि चिरस्स जाणाविदासि दुःखं सिणेहेण । हा पिअसहि लवङ्गिए सिविणआवसरमेत्तदंसणा अहं दे संवुत्ता । माधवः - हन्त सैवेयं हरिणेक्षणा । सम्प्रति निरस्त एव सन्देहः । तदहमपि नामैनां जीवन्तीं सम्भावये । (त्वरितं परिक्रामति ।) कापालिकौ - देवि चामुण्डे नमस्ते नमस्ते । सावष्टम्भनिशुम्भसम्भ्रमनमद्भूगोलनिष्पीडनन्यञ्चत्कर्परकूर्मकम्पविगलद्ब्रह्माण्डखण्डस्थिति । पातालप्रतिमल्लगल्लविवरप्रक्षिप्तसप्तार्णवं वन्दे नन्दितनीलकण्ठपरिषद्व्यक्तर्द्धि वः क्रीडितम् ॥ अपि च । प्रचलितकरिकृत्तिपर्यन्तचञ्चन्नखाघातभिन्नेन्दुनिःस्यन्दमानामृतश्च्योतजीवत्कपालावलीमुक्तचण्डाट्टहासत्रसद्भूरिभूतप्रवृत्तस्तुति श्वसदसितभुजङ्गभोगाङ्गदग्रन्थिनिष्पीडनस्फारफुल्लत्फणापीठनिर्यद्विषज्योतिरुज्जृम्भणोड्डामरव्यस्तविस्तारिदोःखण्डपर्यासितक्ष्माधरम् । ज्वलदनलपिशङ्गनेत्रच्छटाच्छन्नभीमोत्तमाङ्गभ्रमि प्रस्तुतालातचक्रक्रियास्यूतदिग्भागमुत्तुङ्गखट्वाङ्गकोटिध्वजोद्धूतिविक्षिप्ततारागणं प्रमुदितकटपूतनोत्तालवेतालतालस्फुटत्कर्णसम्भ्रान्तगौरीघनाश्लेषहृष्यन्मनस्त्र्यम्बकानन्दि वस्ताण्डवं देवि भूयादभीष्ट्यै च हृष्ट्यै च नः । (इत्यभिनयतः ।) माधवः - हा धिक् । प्रमादः । न्यस्तालक्तकरक्तमाल्यवसना पाखण्डचण्डालयोः पापारम्भवतोर्मृगीव वृकयोर्भीरुर्गता गोचरम् । सेयं भूरिवसोर्वसोरिव सुता मृत्योर्मुखे वर्तते हा धिक्कष्टमनिष्टमस्तकरुणः कोयं विधेः प्रक्रमः ॥ कपालकुण्डला - तं भद्रे स्मर दयितोत्र यस्तवाभूदद्य त्वां त्वरयति दारुणः कृतान्तः । मालती - हा दैअ माहव परलोअगदो वि सुमरिदव्वो तुम्हेहिं अअं जणो । ण हु सो उवरदो जस्स वल्लहो सुमरेदि । कपालकुण्डला - हन्त माधवानुरक्तेयं तपस्विनी । अघोरघण्टः - (शस्त्रमुद्यम्य ।) यदस्तु तदस्तु व्यापादयामि । चामुण्डे भगवति मन्त्रसाधनादावुद्दिष्टामुपनिहितां भजस्व पूजाम् ॥ (इति हन्तुमुपक्रान्तः ।) माधवः - (सहसोपसृत्य प्रकोष्ठे मालतीं विक्षिप्य ।) दुरात्मन् अपेहि । प्रतिहतोसि कपालिकापसद । मालती - सहसावलोक्य । परित्ताअदु परित्ताअदु महाभाओ । (इति माधवमालिङ्गति ।) माधवः - महाभागे न भेतव्यं न भेतव्यम् । मरणसमये त्यक्त्वा शङ्कां प्रलापनिरर्गलं प्रकटितनिजस्नेहः सोयं सखा पुर एव ते । सुतनु विसृजोत्कम्पं सम्प्रत्यसाविह पाप्मनः । फलमनुभवत्युग्रं पापः प्रतीपविपाकिनः ॥ अघोरघण्टः - आः क एष पापोस्माकमन्तरायः संवृत्तः । कपालकुण्डला - भगवन् स एवास्याः स्नेहभूमिः कामन्दकीसुहृत्पुत्रो महामांसस्य पणायिता माधवः । माधवः - (सास्रम् ।) महाभागे किमेतत् । मालती - (चिरादाश्वस्य ।) महाभाअ अहं वि ण आणामि । एत्तिअं उण जाणामि उवरिअलिन्दअं पसुत्ता इह पबुद्धम्हि । तुम्हे उण कहिं । माधवः - (सलज्जम् ।) त्वत्पाणिपङ्कजपरिग्रहधन्यजन्मा भूयासमित्यभिनिवेशकदर्थ्यमानः । भ्राम्यन्नृमांसपणनाय परेतभूमावाकर्ण्य भीरु रुदितानि तवागतोस्मि ॥ मालती - (स्वगतम् ।) कधं मम कारणादो एव्वं एदे अप्पणिरवेख्खा परिभमन्ति । माधवः - अहो नु खलु भोस्तदेतत्काकतालीयं नाम । सम्प्रति हि राहोश्चन्द्रकलामिवाननचरीं दैवात्समासाद्य मे दस्योरस्य कृपाणपातविषयादाच्छिन्दतः प्रेयसीम् । आतङ्काद्विकलं द्रुतं करुणया विक्षोभितं विस्मयात्क्रोधेन ज्वलितं मुदा विकसितं चेतः कथं वर्तताम् ॥ अघोरघण्टः - रे रे ब्राह्मणडिम्भ । व्याघ्राघ्रातमृगीकृपाकुलमृगन्यायेन हिंसारुचेः पाप प्राण्युपहारकेतनजुषः प्राप्तोसि मे गोचरम् । सोहं प्राग्भवतैव भूतजननीमृध्नोमि खड्गाहतिच्छिन्नस्कन्धकबन्धरन्ध्ररुधिरप्राग्भारनिःस्यन्दिना ॥ माधवः - दुरात्मन् पाखण्डचण्डाल । असारं संसारं परिमुषितरत्नं त्रिभुवनं निरालोकं लोकं मरणशरणं बान्धवजनम् । अदर्पं कन्दर्पं जननयननिर्माणमफलं जगज्जीर्णारण्यं कथमसि विधातुं व्यवसितः ॥ अपि च । रे पाप । प्रणयिसखीसलीलपरिहासरसाधिगतैर्ललितशिरीषपुष्पहननैरपि ताम्यति यत् । वपुषि वधाय तत्र तव शस्त्रमुपक्षिपतः पततु शिरस्यकाण्डयमदण्ड इवैष भुजः ॥ अघोरघण्टः - दुरात्मन् प्रहर प्रहर । नन्वयं न भवसि । मालती - पसीद णाह साहसिअ । दारुणो क्खु अअं हदासो । परित्तासु मं णिअत्तीअदु इमादो अणत्थसंसआदो । कपालकुण्डला - भगवन् अप्रमत्तो भूत्वा दुरात्मानं व्यापादय । (माधवाघोरघण्टौ मालतीकपालकुण्डले प्रति ।) अयि भीरु धैर्यं निधेहि हृदये हत एष पापः किं वा कदाचिदपि केनचिदन्वभावि । सारङ्गसङ्गरविधाविभकुम्भकूटकुट्टाकपाणिकुलिशस्य हरेः प्रमादः ॥ (नेपथ्ये कलकलः । सर्व आकर्णयन्ति ।) (पुनर्नेपथ्ये ।) भो भो मालत्यन्वेषिणः सैनिकाः इयममात्यभूरिवसुमाश्वासयन्त्यप्रतिहतप्रज्ञागतिर्भगवती कामन्दकी वः समादिशति । पर्यवष्टभ्यतामेतत्करालायतनम् । नाघोरघण्टादन्यस्य कर्मैतद्दारुणाद्भुतम् । न करालोपहाराच्च फलमन्यद्विभाव्यते ॥ कपालकुण्डला - भगवन् पर्यवष्टब्धाः स्मः । अघोरघण्टः - सम्प्रति विशेषतः पौरुषस्यावसरः । मालती - हा ताद हा भअवदि । माधवः - भवतु बान्धवसमाजसुस्थितां मालतीं विधाय तत्समक्षमेनं व्यापादयामि । (मालतीमन्यतः प्रेरयन्परिक्रामति ।) माधवाघोररघण्टौ - (अन्योन्यमुद्दिश्य ।) आः पाप कठोरास्थिग्रन्थिव्यतिकररणत्कारमुखरः खरस्नायुच्छेदक्षणविहितवेगव्युपरमः । निरातङ्कः पङ्केष्विव पिशितपिण्डेषु विलसन्नसिर्गात्रं गात्रं सपदि लवशस्ते विकिरतु ॥ (इति निष्क्रान्ताः सर्वे ।) इति मालतीमाधवे श्मशानवर्णनं नाम पञ्चमोङ्कः ॥ षष्ठोङ्कः ॥ (ततः प्रविशति कपालकुण्डला ।) कपालकुण्डला - आः दुरात्मन् मालतीनिमित्तं व्यापादितास्मद्गुरो माधवहतक अहं त्वया तस्मिन्नवसरे निर्दयं निघ्नत्यपि स्त्रीत्यवज्ञाता । (सक्रोधम् ।) तदवश्यमनुभविष्यसि कपालकुण्डलाकोपस्य विजृम्भितम् । शान्तिः कुतस्तस्य भुजङ्गशत्रोर्यस्मिन्नमुक्तानुशया सदैव । जागर्ति दंशाय निशातदंष्ट्राकोटिर्विषोद्गारगुरुर्भुजङ्गी ॥ (नेपथ्ये ।) हे राजानश्चरमवयसामाज्ञया सञ्चरध्वं कर्तव्येषु श्रवणसुभगं भूमिदेवाः पठन्तु । चित्रं नानावचननिवहैश्चेष्ट्यतां मङ्गलेभ्यः प्रत्यासन्नस्त्वरयतितरां जन्ययात्राप्रवेशः ॥ यावत्सम्बन्धिनो न परापतन्ति तावद्वत्सया मालत्या नगरदेवतागृहमविघ्नमङ्गलाय गन्तव्यमित्यादिशन्ति भगवतीनिदेशवर्तिनोमात्यदाराः । अन्यच्च यथा गृहीतसविशेषमण्डनः प्रतीक्ष्यतामानुयात्रिको जनः । कपालकुण्डला - भवत्वितो मालतीविवाहकर्मसत्वरप्रतीहारशतसङ्कुलात्प्रदेशादपक्रम्य माधवापकारं प्रत्यभिनिविष्टा भवामि । (इति निष्क्रान्ता । विष्कम्भकः ।) (ततः प्रविशति कलहंसकः ।) कलहंसकः - आणतोम्हि णअरदेवदागब्भघरट्ठिदेण समअरन्देण णाहमाहवेण जहा जाणाहि दाव जत्ताहिमुहं पौत्ता मालदी ण वेत्ति । ता जाव णं आणन्दैस्सं । (ततः प्रविशतो माधवमकरन्दौ ।) माधवः - मालत्याः प्रथमावलोकदिवसादारभ्य विस्तारिणो भूयःस्नेहविचेष्टितैर्मृगदृशो नीतस्य कोटिं पराम् । अद्यान्तः खलु सर्वथास्य मदनायासप्रबन्धस्य मे कल्याणं विदधातु वा भगवतीनीतिर्विपर्येतु वा ॥ मकरन्दः - वयस्य कथं भगवत्याः सुमेधसो नीतिर्विपर्येष्यति । कलहंसकः - (उपसृत्य ।) णाह दिट्ठिआ वड्ढसि पौत्ता क्खु एत्तो मुहं मालदित्ति । माधवः - अपि नाम सत्यम् । मकरन्दः - सखे किमश्रद्दधानः पृच्छसि । न केवलं प्रवृत्ता प्रत्यासन्ना च वर्तते । तथा हि । अस्माकमेकपद एव मरुद्विकीर्णजीमूतजालरसितानुकृतिर्निनादः । गम्भीरमङ्गलमृदङ्गसहस्रजन्मा शब्दान्तरग्रहणशक्तिमपाकरोति ॥ तदेहि जालमार्गेण पश्यामः । (तथा कुर्वन्ति ।) कलहंसकः - णाह पेक्ख पेक्ख । इमे दाव उप्पडिअराअहंसविब्भमाहिरामचामरसमीरणोव्वेल्लकदलिआवलीतरङ्गिदुत्ताणगअणङ्गणसरोवरनिरन्तरुद्दण्डपुण्डरीअविब्भमं वहन्तो धवलादवत्तणिवहा दीसन्ति । इमाओ सविलासकवलिदतम्बूलवीडिआपूरिदकवोलमण्डलाभोअव्वैअरक्खलिदमहुरमङ्गलुग्गीअबद्धकोलाहलेहिं विविहरअणालङ्कारकिरणावलीविडम्बिदमहिन्दचावखण्डविच्छेदविच्छुरिदणहत्थलेहिं वारसुन्दरीकदम्बेहिं अज्झासिआ ओक्कणन्तकणअकिङ्किणीजालझणझणझङ्कारिणीओ करिणीओ । (माधवमकरन्दौ सकौतुकं पश्यतः ।) मकरन्दः - स्पृहणीयाः खल्वमात्यभूरिवसोर्विभूतयः । तथा हि । प्रेङ्खद्भूरिमयूखमेचकचयैरुन्मेषिचाषच्छदच्छायासंवलितैर्विवर्तिभिरिव प्रान्तेषु पर्यावृताः । व्यक्ताखण्डलकार्मुका इव भवन्त्युच्चित्रचीनांशुकप्रस्तारस्थगिता इवोन्मुखमणिज्योतिर्वितानैर्दिशः ॥ कलहंसकः - कधं ससम्भमाणेक्कपडिहारमण्डलावज्जिदुज्जलकणअकलहौअवत्तविचित्तवेत्तलदापरिक्खित्तरेहारैदमण्डलो दूरदो जेव्व सण्ट्ठिदो परिअणो । एसा अ बहलसिन्दूरणिअरसञ्ज्झाराओवरत्तमुहघोलन्तकन्तणक्खत्तमालाभरणधारिणिं करेणुरअणिं अलङ्करन्ती इदो जेव्व कोदूहलुम्मुहसमत्थलोअदीसन्तमणुहरा पण्डुरपरिक्खामदेहसोहा पढमचन्दलेहाविब्भमं वहन्ती किञ्चि अन्तरं पसरिदा मालदी । मकरन्दः - वयस्य पश्य पश्य इयमवयवैः पाण्डुक्षामैरलङ्कृतमण्डना कलितकुसुमा बालेवान्तर्लता परिशोषिणी । वहति च वरारोहा रम्यां विवाहमहोत्सवश्रियमुदयिनीमुद्गाढां च व्यनक्ति मनोरुजम् ॥ कथं निषादिता गजवधूः । माधवः - (सानन्दम् ।) कथमवतीर्य भगवतीलवङ्गिकाभ्यां सममितः प्रवृत्तैव । (ततः प्रविशति कामन्दकी मालती लवङ्गिका च ।) कामन्दकी - (सहर्षमपवार्य ।) विधाता भद्रं नो वितरतु मनोज्ञाय विधये विधेयासुर्देवाः परमरमणीयां परिणतिम् । कृतार्था भूयासं प्रियसुहृदपत्योपयमने प्रयत्नः कृत्स्नोयं फलतु शिवतातिश्च भवतु ॥ मालती - (स्वगतम् ।) केण उण उवाएण सम्पदं मरणणिव्वाणस्स अन्तरं सम्भावैस्सं । मरणम्पि मन्दभाअधेआणं अहिमदं त्ति दुल्लहं होदि । लवङ्गिका - (स्वगतम् ।) अदिकिलम्मिदा क्खु पिअसही एदिणा अणुऊलविप्पलम्भेण । (प्रविश्य पेट्टालकहस्ता प्रतीहारी ।) भअवदि अमच्चो भणादि एदिणा णरिन्दाणुप्पेसिदेण विवाहणेवच्छेण देवदापुरदो अलङ्करिदव्वा मालदित्ति । कामन्दकी - युक्तमाहामात्यः । माङ्गलिकं तत्स्थानमतो दर्शय । प्रतीहारी - एदं दाव धवलपट्टंसुअचोलअं एदं च उत्तरीअं रत्तवण्णंसुअं इमे अ सव्वङ्गिआ आहरणसञ्जोआ अअं च मोत्तिआहारो चन्दणं सिदकुसुमापीडो अ । कामन्दकी - (अपवार्य ।) रमणीयं हि वत्समकरन्दमवलोकयिष्यति मदयन्तिका । (प्रकाशम् । गृहीत्वा ।) भवत्वेवमित्युच्यताममात्यः । प्रतीहारी - तथा । (इति निष्क्रान्ता ।) कामन्दकी - लवङ्गिके प्रविश त्वमभ्यन्तरं वत्सया सह । लवङ्गिका - अध भअवदी उण कहिं । कामन्दकी - अहमपि तावद्विविक्तेलङ्करणरत्नानां प्राशस्त्यं शास्त्रतः परीक्षिष्ये । (इति निष्क्रान्ता ।) मालती - (स्वगतम् ।) लवङ्गिआमेत्तपरिवारम्हि संवुत्ता । लवङ्गिका - एदं देवदामन्दिरदुवारं पविसम्ह । (इति प्रविशतः ।) मकरन्दः - वयस्य इतः स्तम्भापवारितौ तिष्ठावः । (तथा कुरुतः ।) लवङ्गिका - सहि अअं अङ्गराओ इमाओ कुसुममालाओ । मालती - तदो किं । लवङ्गिका - सहि इमस्सिं पाणिग्गहणमङ्गलारम्भे कल्लाणसम्पत्तिणिमित्तं देवदाओ पूजेहि त्ति अम्बाए अणुप्पेसिदासि । मालती - कीस दाणिं दारुणसमारम्भदेव्वदुव्विलासपरिणामदुक्खणिद्दद्धमाणसं पुणो पुणो मम्मच्छेददूसहं मं मन्दभाइणिं दूमावेसि । लवङ्गिका - अह किं सि वत्तुकामा । मालती - जं दाणिं दुल्लहाहिणिवेसमणोरहविसंवदन्तभाअधेओ जणो मन्तेदि । मकरन्दः - सखे श्रुतम् । माधवः - श्रुतमसन्तोषस्तु हृदयस्य । मालती - (लवङ्गिकां परिष्वज्य ।) परमत्थबहिणि पिअसहि लवङ्गिए एसा दाणिं दे पिअसही अणाहा मरणे वट्टमाणा आगब्भणिग्गमणिरन्तरोवआरोवरूढवीसम्भसरिसं परिस्सैअ पत्थेदि जै दे अहं अणुवट्टणीआ तदो मं हिअएण धारअन्ती समग्गसोहग्गलच्छीपरिग्गहेक्कमङ्गलं माहवसिरिणो मुहारविन्दं आणन्दमसिणं अवलोऐस्ससि । (इति रोदिति ।) माधवः - वयस्य मकरन्द म्लानस्य जीवकुसुमस्य विकासनानि सन्तर्पणानि सकलेन्द्रियमोहनानि । आनन्दनानि हृदयैकरसायनानि दिष्ट्या मयाप्यधिगतानि वचोमृतानि ॥ मालती - जहा तस्स जीविदप्पदाइणो जणस्स अवसिदत्ति मं सुणिअ सन्तप्पमाणस्स तं तहाविहं सरीररअणं ण परिहीअदि जधा अ लोअन्तरगदं पि मं उद्दिसिअ सो जणो सुमरणसङ्कधामेत्तपरिसेसं कालन्तरे लोअजत्तं ण सिढिलेदि तहा करेसु । एवं जेव्व पिअसहीए पसादादो मालदी किदत्था भोदि । मकरन्दः - हन्त अतिकरुणं प्रस्तुतम् । माधवः - नैराश्यकातरधियो हरिणेक्षणायाः श्रुत्वा निकामकरुणं च मनोहरं च । वात्सल्यमोहपरिदेवितमुद्वहामि चिन्ताविषादविपदं च महोत्सवं च ॥ लवङ्गिका - ऐ पडिहदं दाणिं दे अमङ्गलं । ण अदो वि अवरं सुणिस्सं । मालती - सहि पिअं क्खु तुम्हाणं मालदीजीविदं ण उण मालदी । लवङ्गिका - किं एव्वं भणिदं भोदि । मालती - (आत्मानं निर्दिश्य ।) जेण पच्चासाणिबन्धणेहिं वअणसंविहाणएहिं जीआविअ इमं महाबीभच्छारम्भं अणुभाविदम्हि । सम्पदं उण मणोरहो मे एसो जेव्व जं तस्स देवस्स परकेरअत्तणेण अणवरद्धं अत्ताणअं परिच्चैस्सं त्ति । ता इमस्सिं पओअणे पिअसही मे अपरिपन्थिणी होदु । (इति पादयोः पतति ।) माधवः - सैषा सीमा स्नेहस्य । (लवङ्गिका माधवं सञ्ज्ञया समाह्वयति ।) मकरन्दः - वयस्य उपसृत्य लवङ्गिकास्थाने तिष्ठ । माधवः - परवानस्मि साध्वसेन । मकरन्दः - इयमेव नेदीयसां प्रकृतिरभ्युदयानाम् । (माधवः स्वैरं लवङ्गिकास्थाने तिष्ठति ।) मालती - सहि करेहि अणुऊलदाए पसादं । माधवः - सरले साहसरागं परिहर रम्भोरु मुञ्च संरम्भम् । विरसं विरहायासं सोढुं तव चित्तमसहं मे ॥ मालती - अलङ्घणीओ दे मालदीप्पणामो । माधवः - (सहर्षम् ।) किं वा भणामि विच्छेददारुणायासकारिणि । कामं कुरु वरारोहे देहि मे परिरम्भणम् ॥ मालती - (सहर्षम् ।) कधं अणुगहीदम्हि । (उत्थाय ।) इअमालिङ्गामि । दंसणं उण पिअसहीए बाहुप्पीडेण णिरुद्धं ण लम्भीअदि । (आलिङ्ग्य सानन्दम् ।) सहि कठोरकमलगब्भपम्हलो अण्णारिसो जेव्व दे अज्ज णिव्वावेदि मं सरीरप्फंसो । (सास्रम् ।) किं च । मौलिविणिवेसिदञ्जली मह वअणेण विण्णवेहि तं जणं ण मए मन्दभाइणीए विअसन्तपुण्डरीअलच्छीविलासहारिणो मुहचन्दमण्डलस्स दे सच्छन्ददंसणेण सम्भाविदो चिरं लोअणमहूसवो । मुहामणोरहेहिं अ अविरदविअम्भमाणदुव्वारुव्वेअव्वैअरुव्वत्तमाणबन्धणं धारिअं हिअअं । गमिआ अ वारं वारं सविसेसदूसहारम्भदूमाविअसहीअणा सरीरसन्दावा । कधं वि अदिवाहिदा अ चन्दादवमलअमारुदप्पमुहा अणत्थपरम्परा । सम्पदं उण णिरासम्हि संवुत्तेति । तुए वि पिअसहि सव्वदा सुमरिदव्वम्हि । एसा अ माहवसिरीसहत्थणिम्माणमणुहरा वौलमाला मालदीणिव्विसेसं पिअसहीए दट्ठव्वा सव्वधा हिअए धारणीएत्ति । (स्वकण्ठादपनीय माधवस्य हृदि विन्यस्यन्ती सहसापसृत्य साध्वसोत्कम्पं नाटयति ।) माधवः - (अपवार्य ।) हन्त । एकीकृतस्त्वचि निषिक्त इवावपीड्य निर्भुग्नपीनकुचकुट्मलयानया मे । कर्पूरहारहरिचन्दनचन्द्रकान्तनिःस्यन्दशैवलमृणालहिमादिवर्गः ॥ मालती - (स्वगतम् ।) अहो लवङ्मिआए मालदी विप्पलद्धा । माधवः - अयि स्वचित्तवेदनामात्रनिवेदिनि परव्यथानभिज्णे इयमुपालभ्यसे । उद्दामदेहपरिदाहमहाज्वराणि सङ्कल्पसङ्गमविनोदितवेदनानि । त्वत्स्नेहसंविदवलम्बितजीवितानि किं वा मयापि न दिनान्यतिवाहितानि ॥ लवङ्गिका - सहि उवालम्भणिज्जेव उवालद्धासि । कलहंसकः - अहो सरसरमणीअदा संविहाणस्स । मकरन्दः - महाभागे एवमेतत् । त्वं वत्सलेति कथमप्यवलम्बितात्मा सत्यं जनोयमियतो दिवसाननैषीत् । आबद्धकङ्कणकरप्रणयप्रसादमासाद्य नन्दतु चिराय फलन्तु कामाः ॥ लवङ्गिका - महाणुभाव हिअए वि अप्पडिहदसअङ्गाहसाहसो अअं जणो किं दाणिं कङ्कणाभरणं करं विअरिदि । मालती - हा हदम्हि । कण्णआअणविरुद्धं किं पि एसा उवण्णस्सदि । (प्रविश्य कामन्दकी ।) पुत्रि कातरे किमेतत् । (मालती कम्पमाना कामन्दकीमालिङ्गति ।) कामन्दकी - (तस्याश्चिबुकमुन्नमय्य ।) पुरश्चक्षूरागस्तदनु मनसोनन्यपरता तनुग्लानिर्यस्य त्वयि समभवद्यत्र च तव । युवा सोयं प्रेयानिह सुवदने मुञ्च जडतां विधातुर्वैदग्ध्यं विलसतु सकामोस्तु मदनः ॥ लवङ्गिका - भअवदि कसणचौद्दसीरअणीमसाणसञ्चारणिव्वत्तिदविसमव्ववसाअणिव्वापिअचण्डपासण्डपअण्डदोद्दण्डसाहसो साहसिओ क्खु एसो । अदो पिअसही उक्कम्पिदा । मकरन्दः - (स्वगतम् ।) साधु लवङ्गिके साधु । अवसरे खल्वनुरागोपकारयोर्गरीयसोरुपन्यासः । मालती - हा ताद हा अम्ब । कामन्दकी - वत्स माधव । माधवः - आज्ञापय । कामन्दकी - इयमशेषसामन्तमस्तकोत्तंसपरागरञ्जितचरणाङ्गुलेरमात्यभूरिवसोरेकमपत्यरत्नं मालती भगवता सदृशसंयोगरसिकेन वेधसा मन्मथेन मया च तुभ्यं दीयते । (इति रोदिति ।) मकरन्दः - फलितं नस्तर्हि भगवतीपादप्रसादेन । माधवः - तत्किमिति बाष्पायितं भगवत्या । कामन्दकी - (चीवराञ्चलेन नेत्रे प्रमृज्य ।) विज्ञापयामि कल्याणिनम् । माधवः - नन्वाज्ञापय । कामन्दकी - परिणतिरमणीयाः प्रीतयस्त्वद्विधानामहमपि तव मान्या हेतुभिस्तैश्च तैश्च । तदिह सुवदनायां तात मत्तः परस्तात्परिचयकरुणायां सर्वथा मा विरंसीः ॥ (इति नन्तुमिच्छति ।) माधवः - (वारयन् ।) अहो वात्सल्यादतिक्रामति प्रसङ्गः । मकरन्दः - भगवति श्लाघ्यान्वयेति नयनोत्सवकारिणीति निर्व्यूढसौहृदभरेति गुणोज्ज्वलेति । एकैकमेव हि वशीकरणं गरीयो युष्माकमेवमियमित्यथ किं ब्रवीमि ॥ कामन्दकी - वत्स माधव । माधवः - आज्ञापय । कामन्दकी - वत्से मालति । मालती - आणवेदु भअवदी । कामन्दकी - प्रेयो मित्रं बन्धुता वा समग्रा सर्वे कामाः शेवधिर्जीवितं वा । स्त्रीणां भर्ता धर्मदाराश्च पुंसामित्यन्योन्यं वत्सयोर्ज्ञातमस्तु ॥ मकरन्दः - अथ किम् । लवङ्गिका - जधा तुम्हे आणवेध । कामन्दकी - वत्स मकरन्द त्वमनेनैव वैवाहिकेन मालतीनेपथ्येन प्रसाधितः परिणाययात्मानम् । (इति पेट्टालकमर्पयति ।) मकरन्दः - यथाज्ञापयति भगवती । यावदितश्चित्रजवनिकामन्तर्धाय नेपथ्यं धारयामि । (तथा करोति ।) माधवः - भगवति सुलभबह्वनर्थमतिसङ्कटमिदं वयस्यस्य । कामन्दकी - आः कस्त्वमस्यां चिन्तायाम् । माधवः - एवं भगवत्येव जानाति । (प्रविश्य मकरन्दः । विहसन् ।) वयस्य मालत्यस्मि । (सर्वे सकौतुकं पश्यन्ति ।) माधवः - (मकरन्दं परिष्वज्य सोपहासम् ।) भगवति कृतपुण्य एव नन्दनो यः प्रियामीदृशीं कामयिष्यते । कामन्दकी - वत्सौ मालतीमाधवौ इतो निर्गत्य वृक्षगहनेन गम्यतामुद्वाहमङ्गलार्थमस्मद्विहारिकायाः पश्चादुद्यानवाटः । सुविहितं तत्र वैवाहिकं द्रव्यजातमवलोकितया । भूयश्च गाढोत्कण्ठकठोरकेरलवधूगण्डावपाण्डुच्छदैस्ताम्बूलीपटलैः पिनद्धफलितव्यानम्रपूगद्रुमाः । कङ्कोलीफलजग्धिमुग्धविकिरव्याहारिणस्तद्भुवो भागाः प्रेङ्खितमातुलुङ्गवृतयः प्रेयो विधास्यन्ति वाम् । गत्वा च तत्रैव मकरन्दमदयन्तिकागमनं यावत्स्थातव्यम् । माधवः - (सहर्षम् ।) कल्याणावतंसा हि कल्याणसम्पदुपरिष्टाद्भवति । कलहंसकः - दिट्ठिआ एव्वं पि णो भविस्सदि । मकरन्दः - कथं सन्देह एवात्र भवतः । लवङ्गिका - सुदं पिअसहीए । कामन्दकी - वत्स मकरन्द भद्रे लवङ्गिके इत इतः प्रतिष्ठामहे । मालती - सहि तुए वि गन्तव्वं । लवङ्गिका - (विहस्य ।) सम्पदं क्खु अम्हे एत्थ उवराम । (इति निष्क्रान्ताः कामन्दकीलवङ्गिकामकरन्दाः ।) माधवः - अयमहमिदानीम् । आमूलकण्टकितकोमलबाहुनालमार्द्राङ्गुलीदलमनङ्गनिदाघतप्तः । अस्याः करेण करमाकलयामि कान्तमारक्तपङ्कजमिव द्विरदः सरस्याः ॥ (इति निष्क्रान्ताः सर्वे ।) इति मालतीमाधवे चोरिकाविवाहो नाम षष्ठोङ्कः ॥ सप्तमोङ्कः ॥ (ततः प्रविशति बुद्धरक्षिता ।) बुद्धरक्षिता - अम्महे सुसिलिट्ठमालदीणेवच्छलच्छीविप्पलद्धणन्दणकिदकरग्गहो अमच्चभूरिवसुमन्दिरे भअवदीवअणसंविहाणेहिं खेमेण गोवाइदो मअरन्दो । अज्ज अम्हे पि णन्दणावासं उवगदा । तदो भअवदी णन्दणमापुच्छिअ गदा आवसहं । अअं च णववहूघरप्पवेसविरैदाकालकोमुदीमहूसवप्पौत्तिपज्जाउलासेसपरिअणो पदोसो अणुऊलैस्सदि अज्ज णो ववसिदं । सम्पदं तुवरन्तकामो कामिणिं कामेदुं बहुसो सपादवन्दणं अब्भत्थिअ पुणो वि बलामोडिअ अहिद्दवन्तो मअरन्देण णिट्ठुरं पडिहदो जामादा । तदो सो क्खु अधिअवेलक्खखलन्तअक्खरो रोसणिब्भरदुःक्खिदो मदप्पप्फुरन्तणअणो ण मे सम्पदं तुए कोमारबन्धईए पओअणं त्ति ससवहं पैण्णं काउण वासभवणादो णिग्गदो त्ति । एदिणा पसङ्गेण मदअन्तिअं आणीअ मअरन्देण सह सञ्जोजैस्सं । (इति निष्क्रान्ता । प्रवेशकः ।) (ततः प्रविशति शय्यागतो मालतीवेशो मकरन्दो लवङ्गिका च ।) मकरन्दः - लवङ्गिके अपि नाम बुद्धरक्षितासङ्क्रान्ता भगवतीनीतिर्विजेष्यते । लवङ्गिका - को सन्देहो महाभाअस्स । किं बहुणा जहा एसो मञ्जीरसद्दो सुणीअदि तहा जाणामि तेण ववदेसेण आणीदा बुद्धरक्खिदाए मदअन्तिआ त्ति । ता उत्तरीआववारिदो पसुत्तलक्खणो चिट्ठ । (मकरन्दस्ततथा करोति ।) (ततः प्रविशति मदयन्तिका बुद्धरक्षिता च ।) मदयन्तिका - सहि सच्चं जेव्व परिकोविदो मे भादा मालदीए । बुद्धरक्षिता - अध इं । मदयन्तिका - अहो अच्चाहिदं । ता एहि वामसीलं मालदिं निब्भच्छेम्ह । परिक्रामतः । बुद्धरक्षिता - इदं वासभवणदुवारं । (प्रविशतः ।) मदयन्तिका - सहि लवङ्गिए जाणीअदि पसुत्ता दे पिअसही त्ति । लवङ्गिका - एहि मा णं पडिबोधेहि जदो एसा चिरं दुम्मणाअन्ती दाणिं जेव्व ईस मण्णुं उज्झिअ पसुत्तेत्ति । तदो सणिअं इध जेव्व सअणुद्धन्ते उवविस । मदयन्तिका - (तथा कृत्वा ।) सहि दुम्मणाअदि इअं वामसीला । लवङ्गिका - कहं णाम णववहूविस्सम्भणोवाअजाणुअं लडहं विअड्ढमहुरभासिणं ससिणेहं अरोसणं अ दे भादरं भत्तारं समासादिअ सही ण दुम्मणाइस्सदि । मदयन्तिका - बुद्धरक्खिदे पेक्ख विप्पदीअं अम्हे वि उवालम्भीआमो । बुद्धरक्षिता - विप्पदीअं ण वा विप्पदीअं । मदयन्तिका - कधं विअ । बुद्धरक्षिता - जं दाव चलणपडिदो भत्ता ण बहुमाणिदो एत्थ लज्जादोसेण एसो जणो उआलम्भणिज्जो । जं पिअसहि णववहूविरुद्धरहसोवक्कमक्खलणवेलक्खविच्छडिदमहाणुभावत्तणस्स भादुणो दे वाआगदं किं वि अपरिट्ठाणं तेण तुम्हेत्ति । किं च । कुसुमसधर्माणो हि योषितः सुकुमारोपक्रमाः । तास्त्वनधिगतविश्वासैः प्रसभमुपकम्यमाणाः सद्यः सम्प्रयोगविद्बेषिण्यो भवन्ति । एवं किल कामसुत्तआरा आमणन्ति । लवङ्गिका - (सास्रम् ।) घरे घरे पुरिसा अम्मकाओ समुव्वहन्ति ण क्खु को वि लज्जापराधीणं अणवरद्धं मुद्धलडहसहावं कुलकुमारीअणं पहवामि त्ति वाआणलेण पज्जालेदि । एदे क्खु दे हिअअसल्लणिक्खेवा आमरणं सम्भरिज्जन्तदूसहा पदिघरणिवासवेरग्गकारिणो महापरिभवा जाणं कदे इत्थिआजम्मलाहं जुगुच्छन्ति बान्धवा । मदयन्तिका - बुद्धरिक्खदे अदिदुम्मिदा पिअसही लवङ्गिआ । महन्तो को वि मे भादुणा वाआवराधो कदो । बुद्धरक्षिता - अध इं । सुदं अम्हेहिं जधा ण मम तुए सम्पदं कोमारबन्धईए पओअणं त्ति । मदयन्तिका - (कर्णौ पिधाय ।) अहो अदिक्कमो । अहो पमादो । सहि लवङ्गिए असमत्थम्हि दे मुहं पि सम्पदं दंसिदुं तधावि पहवामि त्ति किं पि मन्तैस्सं । लवङ्गिका - साधीणो दे अअं जणो । मदयन्तिका - चिट्ठदु जेव्व मह भादुणो दुस्सीलदा अवरिट्ठाणं अ । तुम्हेहिं ईदिसो वि सम्पदं जधाचित्तमणुवत्तणीओ जेण भत्ता एसो त्ति । अण्णं च । तुम्हे इमस्स अणहिजादक्खराहिक्खेवोवालम्भदूसणस्स जं मूलं तं ण आणध । लवङ्गिका - कधं वाआमन्तिदं वि ण जाणीमो । मदयन्तिका - जं दाणिं तस्सिं महाणुभावे माहवे किं पि किल मालदीए तारामेत्तअं आसी तहिं सव्वलोअस्स अदिभूमिं गदो पवादो । तं क्खु एदं विअम्भदि । ता पिअसहि जधा एस भत्तुणो अवक्खाहिणिवेसो णिरवसेसं हिअआदो उद्धरीअदि तधा करेध । अण्णधा महादोसो त्ति जाणिदं भोदु । णिक्कम्पदारुणा अम्मकाओ दूमावेन्ति हिअअं मणुस्साणं ईदिसादो दुरभिसङ्गादो त्ति । मा णं भणिस्सध मदअन्तिआए कधिदं त्ति । लवङ्गिका - ऐ असावधाणे असम्बद्धलोअप्पवादमोहिदे अवेहि ण तुए सह जम्पिस्सं । मदयन्तिका - सहि पसीद पसीद । अह वा ण तुम्हे अफुडं भणिदाओ चिट्ठध । किं च । अम्हे सच्चं जेव्व माहवेक्कमअजीअलोअं मालदिं जाणीमो । केण वा कठोरकेदईगब्भविब्भमावअवदोब्बल्लणिव्वहिदसुन्दरत्तणविसेसं माहवसहत्थणिम्माविदबौलावलीविरैदकण्ठावलम्बमेत्तसन्धारिदजीवणं मालदीए माहवस्स अ पभातचन्दमण्डलावाण्डुरपरिक्खामरमणीअदंसणं ण विभाविदं सरीरं । किं च । तद्दिअसे कुसुमाअरुज्जाणपरेन्तरच्छामुहसमागमे सविब्भमुल्लसिदकोदूहलुप्फुल्लपसरन्तणअणुप्पलबहलविलासमसिणसञ्चारचारुतारआविराअन्तविब्भमा अणङ्गणट्टाआरिअसव्वाआरोवदेसणिम्मविअविअड्ढमुद्धमहुरा तुए वि ण णिरूविदा इमाणं दिट्ठिसम्भेदा । किं अ । मम भादुणो दाणवुत्तन्तं सुणिअ तक्खणुच्छलिदगम्भीरावेअव्वैअरमिलाअन्तदेहसोहाणं उव्वत्तमाणमूलं विअ ण लक्खिदं हिअअं । किं अ । एदं पि अवरं सुमरिदं मए । लवङ्गिका - किं दाणिं अवरं । मदयन्तिका - जं मम तस्स जीविदप्पदाइणो महाणुभावस्स चेअणापडिलम्भपिअणिवेदिआए मालदीए भअवदीविअड्ढवअणोवण्णासबोधिदेण हिअअं जीविदं अ माहवेण पारितोसिअत्तणेण सअङ्गाहसाहसे णिउत्तं । अह अ लवङ्गिए तहिं तुए जेव्व भणिदं पडिच्छिदो क्खु णो पिअसहीए अअं पसादो त्ति । लवङ्गिका - कदमो उण महाभाओ त्ति विसुमरिदं मए । मदयन्तिका - सहि सुमर सुमर जेण तस्सिं दिअसे विअडदुट्ठसावदावदेसकालगोचरं गदा असरणा तक्कालसण्णिहिदेण जीविदप्पदाइणा पीअरभुअत्थम्भेण णिक्कारणबन्धवेण सअलभुवणेक्कसारणिअदेहोवहारसाहसं कदुअ परिरक्खिदम्हि । जेण अ दिढदाढाविदारिअविअडमंसलुत्ताणपरिणाहिवक्खत्थलेण जरढजज्जरिदजवापीडहारिणा करुणेक्कमणेण मम किदे विसहिदा अतिदुट्ठसद्दूलणहसिहावज्जप्पहारा मारिदो अ सो दुट्ठसावदमहारक्खसो त्ति । लवङ्गिका - हुं मअरन्दो । मदयन्तिका - (सानन्दम् ।) पिअसहि किं किं भणासि । लवङ्गिका - णं भणामि मअरन्दो त्ति । (सस्पृहं शरीरमस्याः स्पृशन्ती संस्कृतमाश्रित्य ।) वयं तथा नाम यथात्थ किं वदाम्ययं त्वकस्माद्विकलः कथान्तरे । कदम्बगोलाकृतिमाश्रितः कथं विशुद्धमुग्धः कुलकन्यकाजनः ॥ मदयन्तिका - (सलज्जम् ।) सहि कीस मं उवहससि । णं भणामि णिव्वावअन्ति मं तारिसस्स अप्पणिरवेक्खव्ववसाइणो किदन्तकवलिज्जन्तजीविदबलामोडिअपच्चाणअणगुरुओवआरिणो जणस्स सङ्कधासु णामग्गहणसुमरणाइं । तधा अ सो तुए वि गाढप्पहारवेअणारम्भविम्हारिदसरीरसङ्गलिदसेअसलिलुप्पीलो मोहमौलाअन्तणेत्तकन्दोट्टजुअलो भूमिविलग्गिदासिलदाविट्ठम्भधीरधारिदसरीरभारो पच्चक्खीकिदो जेव्व मदअन्तिआणिमित्तमेत्तविछड्डिअमहामहग्घजीवलोओ महाभाओ त्ति । (मदयन्तिका स्वेदादीन्विकारान्नाटयति ।) बुद्धरक्षिता - ववसिदं पिअसहीए सरीरेण । मदयन्तिका - (सलज्जम् ।) पिअसहि अवेहि । उब्भिण्णम्हि सहवासिणीए वीसम्भेण । लवङ्गिका - सहि मदअन्तिए अम्हे वि जाणिदव्वं जाणीमो । ता पसीद विरम ववदेसादो । एहि वीसम्भगब्भकधाबन्धसरिसं सुहं चिट्ठम्ह । बुद्धरक्षिता - सोहणं लवङ्गिआ भणादि । मदयन्तिका - विधेअम्हि सम्पदं पिअसहीणं । लवङ्गिका - जै एव्वं ता कहेहि कहं णु दे कालो गच्छदि त्ति । मदयन्तिका - णिसामेहि पिअसहि । मम बुद्धरक्खिदापख्खवादपच्चएण पढमं जेव्व तस्सिं जणे भरिदुव्वरन्तकोदूहलुक्कण्ठामणोरहं हिअअं आसी । तदो विहिणिओअणिव्वुत्तदंसणा भविअ दुव्वारदारुणाणङ्गदुक्खसन्दाविदकड्ढन्तचित्तविहडन्तजीविदा सम्भाविअम्हि । विअम्भिआपुव्वसव्वङ्गप्पज्जालिअमअणहुअवहुद्दामदूसहाआसदुम्मणाअन्तपरिअणा पच्चासाविमोक्खमेत्तसुलहमिच्चुणिव्वाणपडिऊलबुद्धरक्खिदावअणवड्ढिदावेअव्वैअरविसण्ठुला इमं जीअलोअपरिवत्तं अणुभवामि । सङ्कप्पसिविणअन्तरेसु अ मणोरहुम्मादमोहिदा पेक्खामि तं जणं । सो वि पिअसहि मुहुत्तणिव्वूढविम्हअविसण्ठुलुव्वेल्लवित्थरन्तललिदणेत्तपुण्डरीअतण्डवुब्भडप्परूढमेरेअदप्पं विअ चिरं णिज्झाअदि मं । किं अ । कवलिदारविन्दकेसरकसाअकण्ठकलहंसघोसघग्घरक्खलिदगम्भीरभारदीभरिदकण्णविवरं पिए मदअन्तिए त्ति वाहरदि । अध अ । पप्फुरन्तपओहरुच्छलदुत्तरीअञ्चलावलम्बणपरिभवेण ससम्भमुत्तरङ्गिधमधमाअन्तहिअअं मं समुत्तासेदि । सहसा विसज्जिअंसुअमोसरिअ तक्खणकठोरकमलदण्डाअमाणबाहुबन्धणाववारिअपओहरुग्गमं विहडन्तविअलमेहलावलअसन्दाणिज्जन्तपीवरोरुप्पडिसिद्धविप्पदीवगमणं पडिऊलवादिणिं पि अच्चाअरपअत्तणिव्वत्तिअमुहुत्तकोवोवराअदुक्खपरुसीकिदहिअअं सिणिद्धपुणरुत्तपह्लत्थलोअणविभाविदासेसचित्तसारं उवहसदि । दिउणबाहुदण्डावेढणणिअन्तिदं पिअसहि परूढसद्दूलकठोरकररुहोरम्फविअडपत्तावलीपसाहणुत्ताणवच्छत्थलणिट्ठुरणिवेसणीसहं कदुअ सावेअविहुअमत्थआविद्धकबरीणिहिदकरपरिग्गहोवग्गिदुण्णमिदणिच्चलमुहावअवसच्छन्दविआसविअड्ढवअणकमलो वामगण्डमूलचिरणिहिदपप्फुरन्तपुञ्जिदाहरसमुग्गअमणुहरप्फंसणिब्भरुब्भमाविदसरीरसोहं उल्लसिदसज्झसाणन्दविसमसम्भमवलणमोहमन्थरभमन्तलोअणं किं पि दुव्विणीदसाहसाणुरूवववसाओ मं अणब्भत्थणीअं अब्भत्थेदि । पिअसहि समक्खं सव्वं अणुभविअ झत्ति पडिबुद्धा सुण्णारण्णसण्णिहं पुणो वि मन्दभाइणी विभावेमि जीअलोअं त्ति । लवङ्गिका - (विहस्य ।) सहि मदअन्तिए फुडं आचक्खेहि । अध तस्सिं अवसरे सिणेहविब्भमुम्मीसहासविअसन्तबुद्धरक्खिदालोअणणिरूविदं परिअणादो गोवणिज्जं दे णिअम्बस्स मूलं सअणिज्जं पच्छदवडो वा भोदि किं ण वेत्ति । मदयन्तिका - ऐ असम्बद्धपरिहाससीले अवेहि । बुद्धरक्षिता - सहि मदअन्तिए मालदीपिअसही क्खु ईदिसाइं जेव्व मन्तिदुं जाणादि । मदयन्तिका - सहि मा क्खु एव्वं मालदिं उवहस । बुद्धरक्षिता - सहि मदअन्तिए पुच्छिस्सं दाणिं दे किं वि जै ण मे वीसासभङ्गं करेसि । मदयन्तिका - सहि किं पुणो वि पणअभङ्गेण कदावराहो अअं जणो जेण एव्वं मन्तेसि । पिअसहि तुमं लवङ्गिआ अ सम्पदं मे हिअअं । बुद्धरक्षिता - जै दे कधं वि मअरन्दो पुणो वि दंसणपहं ओदरदि तदो किं तुए कादव्वं । मदयन्तिका - एक्केक्कावअवणीसङ्गलग्गणिच्चले चिरं लोअणे णिव्वावैस्सं । बुद्धरक्षिता - जै सो वि मम्महबलक्कारिदो कन्दप्पजणणिं तुमं रुक्किणिं विअ पुरिसोत्तमो सअङ्ग्गाहसहधम्मचारिणिं करेदि तदो का पडिवत्ती । मदयन्तिका - (निःश्वस्य ।) कीस मं एत्तिअं आसासेसि । बुद्धरक्षिता - सहि कहेहि । लवङ्गिका - कधिदं जेव्व हिअआवेअसूअएहिं दीहणीसासेहिं । मदयन्तिका - सहि का अहं इमस्स तेण जेव्व अत्ताणअं पणीकदुअ दुट्ठसद्दूलकवलादो कड्ढिअस्स तस्स जेव्व केरअस्स अत्तणो सरीरस्स । लवङ्गिका - सरिसं महाणुभावदाए । बुद्धरक्षिता - सुमरेहि एदं वअणं । मदयन्तिका - कधं दुदीअपहरणाडिआविच्छेदपडहो ताडीअदि । ता जाव णन्दणं णिब्भच्छिअ सपादपडणं अब्भत्थिअ मालदीए उवरि अणुऊलैस्सं । (इत्युत्थाय गन्तुमिच्छति । मकरन्दो मुखमुद्घाट्य हस्तेन गृह्णाति ।) मदयन्तिका - सहि मालदि विबुद्धासि । (विलोक्य सहर्षसाध्वसम् ।) अम्मो अण्णं जेव्व किं पि एदं वट्टदि । मकरन्दः - रम्भोरु संहर भयं क्षमते विसोढुमुत्कम्पितं स्तनभरस्य न मध्यभागः । इत्थं त्वयैव कथितप्रणयप्रसादः सङ्कल्पनिर्वृतिषु संस्तुत एष दासः । बुद्धरक्षिता - (मदयन्तिकामुखमुन्नमय्य संस्कृतमाश्रित्य ।) प्रेयान्मनोरथसहस्रवृतः स एष सुप्तप्रमत्तजनमेतदमात्यवेश्म । प्रौढं तमः कुरु कृतज्ञतयैव भद्रमुत्क्षिप्तमूकमणिनूपुरमेहि यामः ॥ मदयन्तिका - सहि बुद्धरक्खिदे कहिं उण अम्हेहिं गन्तव्वं । बुद्धरक्षिता - जहिं जेव्व मालदी । मदयन्तिका - किं णिव्वुत्तसाहसा मालदी । बुद्धरक्षिता - अध इं । अण्णं च । तुमं भणासि का अहं इमस्स (इत्यादि पठति ।) (मदयन्तिकाश्रूणि पातयति ।) बुद्धरक्षिता - महाभाअ दिण्णो क्खु अत्ता पिअसहीए । मकरन्दः - अद्योर्जितं विजितमेव मया किमन्यदद्योत्सवः फलवतो मम यौवनस्य यस्य प्रसादसुमुखेन समुद्धृतेयं । देवेन बान्धवधुरा मकरध्वजेन ॥ तदनेन पक्षद्वारेण निर्गत्य साधयामः । (निभृतं परिक्रामन्ति ।) मकरन्दः - अहो निशीथनिःसञ्चाररमणीयता राजमार्गस्य । तथा हि सम्प्रति प्रासादानामुपरि वलभीतुङ्गवातायनेषु भ्रान्त्वावृत्तः परिणतसुरागन्धसंस्कारगर्भः । माल्यामोदी मुहुरुपचितस्फारकर्पूरवासो वायुर्यूनामभिनववधूसन्निधानं व्यनक्ति ॥ (इति निष्क्रान्ताः सर्वे ।) इति मालतीमाधवे नन्दनविप्रलम्भो नाम सप्तमोङ्कः ॥ अष्टमोङ्कः ॥ (ततः प्रविशत्यवलोकिता ।) अवलोकिता - वन्दिदा मए णन्दणावासपडिणिउत्ता भअवदी । ता जाव मालदीमाहवसआसं गच्छामि । (परिक्रम्य ।) एदे दे णिव्वत्तिदगिम्हदिअहावसाणमज्जणा दीहिआतडसिलादलं अलङ्करन्ति मालदीमाहवा । ता जाव उवसप्पिस्सं । (निष्क्रान्ता । प्रवेशकः ।) (ततः प्रविशत उपविस्टौ मालतीमाधवाववलोकिता च ।) माधवः - (सानन्दम् ।) वर्तते हि मन्मथप्रौढसुहृदो निशीथस्य यौवनश्रीः । तथाहि । दलयति परिशुष्यत्प्रौढतालीविपाण्डुस्तिमिरनिकरमुद्यन्नैन्दवः प्राक्प्रकाशः । वियति पवनवेगादुन्मुखः केतकीनां प्रचलित इव सान्द्रो माकरन्दः परागः ॥ (स्वगतम् ।) तत्कथं वामशीलां मालतीमुपावर्तये । भवत्वेवं तावत् । (प्रकाशम् ।) प्रिये मालति प्रत्यग्रसायन्तनस्नानसविशेषशीतलामत्रभवतीं निदाघसन्तापशान्तये विज्ञापयामि । तत्किमित्यद्यानिमित्तमन्यथैव सम्भावयसि । निश्चोतन्ते सुतनु कबरीबिन्दवो यावदेते यावन्मध्यः स्तनमुकुलयोर्नार्द्रभावं जहाति । यावत्सान्द्रप्रतनुपुलकोद्भेदवत्यङ्गयष्टिस्तावद्गाढं वितर सकृदप्यङ्कपालीं प्रसीद ॥ अयि निरनुरोधे जीवयन्निव समूढसाध्वसस्वेदबिन्दुरधिकण्ठमर्प्यताम् । बाहुरैन्दवमयूखचुम्बितस्यन्दिचन्द्रमणिहारविभ्रमः ॥ अथवा दूरे तावदेतत् । कथमालापसंविभागस्याप्यभाजनमयं जनो भवत्याः । दग्धं चिराय मलयानिलचन्द्रपादैर्निर्वापितं तु परिरभ्य वपुर्न नाम । आमत्तकोकिलरुतव्यथिता तु हृद्यामद्य श्रुतिः पिबतु किन्नरकण्ठि वाचम् ॥ अवलोकिता - (उपसृत्य ।) ऐ अणिव्वहणसीले जं दाणिं मुहूत्तन्तरिदमाहवा दुम्मणाअन्ती मम पुरदो भणासि चिराअदि अज्जौत्तो अवि णाम केच्चिरेण पेक्खिस्सं जेण विच्छडिआसेससज्झसा विसुमरिदणिमेसविग्घं आलोअअन्ती एव्वं भणिस्सं विउणवेढपरिरम्भेण सम्भावअसि त्ति तस्स दे सम्पदं अअं परिणामो । (मालती सासूयमिव तां पश्यति ।) माधवः - (स्वगतम् ।) अहो भगवतीप्रधानान्तेवासिन्याः सर्वतोमुखं वदैध्यमक्षयः सुभाषितरत्नकोषः । (प्रकाशम् ।) प्रिये सत्यमवलोकिता वदति । (मालती मूर्धानं चालयति ।) माधवः - शापितासि मम लवङ्गिकावलोकितयोश्च जीवितेन यदि वाचा न कथयसि । मालती - णाहं किं वि जाणामि । (इत्यर्धोक्ते लज्जां नाटयति ।) माधवः - अहो अनवसितार्थमन्थरस्य वचसश्चारुता । (सहसा निरूप्य ।) अवलोकिते किमेतत् । बाष्पाम्भसा मृगदृशो विमलः कपोलः प्रक्षाल्यते सपदि राजत एष यस्मिन् । गण्डूषपेयमिव कान्त्यमृतं पिपासुरिन्दुर्निवेशितमयूखमृणालदण्डः ॥ अवलोकिता - सहि किं दाणिं उच्छलिदबाहुप्पीलमन्थरं रोदिसि । मालती - सहि केच्चिरं पिअसहीए लवङ्गिआए असण्णिधाणदुःखं अणुभविस्सं । पौत्तिलम्भो वि से दुल्लहो । माधवः - अवलोकिते किं नाम । अवलोकिता - तुह जेव्व सवधोवण्णासेण एसा लवङ्गिअं सम्भरिअ ताए पौत्तिणिमित्तं उत्तम्मदि । माधवः - नन्विदानीमेव तत्र मया कलहंसकः प्रेषितः प्रच्छन्नमुपगम्य नन्दनावासप्रवृत्तिमुपलभस्वेति । (साशंसम् ।) अवलोकिते अपि नाम बुद्धरक्षिताप्रयत्नः सफलोदर्क एव मदयन्तिकां प्रति स्यात् । अवलोकिता - कुदो सन्देहो महाणुभाअस्स । महाभाअ पढमं जेव्व सद्दूलणहरालङ्किदस्स मअरन्दस्स मोहविराममहूसवं णिवेदअन्तीए भअवदीए णिउत्तेण भवदा मालदीए जीविदेण समं पसादीकिदं हिअअं । जै को वि तुमं सम्पदं मदअन्तिआलम्भेण वड्ढावेदि किं दाणिं तस्स पारितोसिअं भविस्सदि । माधवः - अनुयोक्तव्यमनुयुक्तोस्मि । (हृदयमवलोक्य ।) इयमस्ति मालतीप्रथमदर्शनाभिषङ्गसाक्षिणः कामकाननालङ्कारस्य लक्ष्मीवतः केसरतरोः प्रसवमाला । प्रेम्णा मद्ग्रथितेति या प्रियसखीहस्तोपनीतानया विस्तारिस्तनकुम्भकुड्मलभरोत्सङ्गेन सम्भाविता । सम्प्राप्ते त्वथ पाणिपीडनविधौ मां प्रत्यपेताशया या मय्येव लवङ्गिकेत्यवगते सर्वस्वदायीकृता ॥ अवलोकिता - सहि मालदि वल्लहा क्खु दे इअं वौलमाला । तदो अवहिदा भव मा दाणिं एसा सहसजेव्व परहत्थगदा भविस्सदि त्ति । मालती - पिअं पिअसही मे उवदिसदि । अवलोकिता - कधं पदसद्दो विअ । माधवः - (नेपथ्याभिमुखमवलोक्य ।) अये कलहंसकः प्राप्तः । मालती - दिट्ठिआ वड्ढसि मदअन्तिआलम्भेण । माधवः - सहर्षं परिष्वज्य । प्रियं प्रियं नः । आत्मनः कण्ठादवतार्य बकुलमालां ददाति । अवलोकिता - णिव्वूढो क्खु भअवदीए सम्भावणाभारो बुद्धरक्खिदाए । मालती - (सहर्षम् ।) अम्महे पिअसही लवङ्गिआ वि दीसै । उत्तिष्ठति । (प्रविश्य सम्भ्रान्ताः ।) कलहंसकमदयन्तिकाबुद्धरक्षितालवङ्गिकाः । लवङ्गिका - परित्ताअदु परित्ताअदु महाभाओ । अद्धमग्गे क्खु णअररक्खिपुरुसाभिओओ मअरन्दस्स जादो तदो तक्कालमिलिदेण कलहंसएण सहिदा अम्हे अणुप्पेसिदाओ त्ति । कलहंसकः - जधा इदोमुहागदेहिं पि महन्तो कलकलो सुदो अम्हेहिं तथा तक्केमि अण्णं पि पारक्कअं बलं उवगदं त्ति । मालत्यवलोकिते - हद्धी हद्धी समं जेव्व हरिसुव्वेअसम्भेदो उवणदो । माधवः - सखि मदयन्तिके स्वागतमेह्येहि । अनुगृहीतमस्मद्गृहं भवत्या । ननु स एवासौ किमित्यस्वस्था भवती । एकाकिनो बहुभिरभियोग इति यत्किञ्चिदेतद्वयस्यस्य । हरेरतुलविक्रमप्रणयलालसस्याहवे स एव भवति क्वणत्कररुहप्रचण्डः सखा । स्फुरत्करटकोटरस्खलितदानसिक्ताननद्विपेश्वरशिरःस्थितास्थिदलनैकवीरः करः ॥ तदहमपि विक्रान्तप्लुतं विलसतः प्रियसुहृदः प्रत्यनन्तरो भवामि । (इति विकटं परिक्रम्य कलहंसकेन सह निष्क्रान्तः ।) अवलोकितालवङ्गिकाबुद्धरक्षिताः - अवि णाम अणाहदा पडिणिअत्तिस्सन्ति एदे महाणुभावा । मालती - सहिओ अवलोइदाबुद्धरक्खिदाओ तुरिदं गदुअ भअवदीए एदं वुत्तन्तं कहेध । तुमं पि लवङ्गिए तुरिदं विण्णवेहि अज्जौत्तं जै दाव तुम्हाणं अम्हे अणुकम्पणीआ तदो अप्पमत्ता परिक्कमेध त्ति । (निष्क्रान्ता लवङ्गिकाबुद्धरक्षितावलोकिताः ।) मालती - हद्धी हद्धी ण आणीअदि कधं वेला गमिअदु त्ति । भोदु पिअसहीए लवङ्गिआए पडिणिवुत्तिमग्गं अवलोअअन्ती चिट्ठिस्सं । (परिक्रामति । सातङ्कम् ।) फुरिदं क्खु मे वामेदरेण लोअणेण । (उपविशति ।) (प्रविश्य कपालकुण्डला ।) आः पापे तिष्ठ । मालती - (सत्रासम् ।) हा अज्जौत्त । (इत्यर्धोक्ते वाक्स्तम्भं नाटयति ।) कपालकुण्डला - (सक्रोधहासम् ।) नन्वाक्रन्द । त्वद्वत्सलः क्व स तपस्विजनस्य हन्ता कन्याविटः पतिरसौ परिरक्षतु त्वाम् । श्येनावपातचकिता वनवर्तिकेव किं चेष्टसे ननु चिरात्कवलीकृतासि ॥ यावच्छ्रीपर्वतमुपनीय लवशो लवश एनां निकृत्य दुःखमरणां करोमि । (इति मालत्या सह निष्क्रान्ता ।) मदयन्तिका - अहं पि मालदिं जेव्व अणुगमिस्सं । (परिक्रम्य ।) सहि मालदि । (प्रविश्य लवङ्गिका ।) सहि मदअन्तिए लवङ्गिआ क्खु अहं । मदयन्तिका - अवि सम्भाविदो तुए महाभाओ । लवङ्गिका - णहि णहि सो क्खु उज्जाणवाडोवणिग्गमादो जेव्व कलअलं सुणिअ साधिक्खेवं दूरणिक्खेवाविद्धविअडोरुदण्डणिट्टुरं पधाविअ पराणीअं पविट्ठो । तदो पडिणिवुत्तम्हि मन्दभाइणी । सुणामि अ घरे घरे गुणाणुराअणिब्भरस्स पोरलोअस्स हा महाणुभाव माहव हा मअरन्द हा साहसिअ त्ति परिदेवणाओ । महाराओ वि किल मन्तिधीआणं विप्पलम्भवुत्तन्तं सुणिअ सञ्जादमच्छराधिक्खेवो तक्खणविसज्जिदाणेअप्पोढपाइक्कणिवहो चन्दादवेण सोहसिहरट्ठिदो पेक्खदि त्ति मन्तीअदि । मदयन्तिका - हा हदम्हि मन्दभाइणी । लवङ्गिका - सहि मालदी उण कहिं । मदयन्तिका - सा क्खु पढमं जेव्व दे मग्गं अवलोइदुं पसरिदा । पच्छादो अहं ण तं पेक्खामि । अवि णाम उज्जाणगहणं पविट्ठा भवे । लवङ्गिका - सहि तुरिदं अण्णेसम्ह । अदिकादरा मे पिअसही । उवट्ठिदाणत्थे इमस्सिं अवसरे सा ण धारेदि अत्ताणअं । (त्वरितं परिक्रम्य ।) सहि मालदि णं भणामि सहि मालदि त्ति । (इतस्ततः परिक्रामतः ।) (प्रविश्य प्रहृष्टः कलहंसकः ।) दिट्ठिआ कुसलेण अम्हे णिग्गदा सङ्घट्टदुग्गमादो । हीमाणहे पेक्खामि विअ णिम्मलणिरन्तरुद्धूदधोदतरवारिधारापरिप्फुरिदचन्दकिरणुज्जलविडुरिल्लदंसणं मदलीलाकलिदकामवालविअडभुअदण्डाविद्धहलहेलाविक्खुभिदुव्वेल्लिदतरङ्गकलिन्दतणआसोतसण्णिहं विअडविसङ्खलुप्पडिदणिद्दआमन्दमअरन्दव्वैअरक्खोहविअलपडिजोहपरिवत्तणुग्गदसमत्थगअणङ्गणावआसओसरन्तकलअलं पाइक्कसमूहं । सुमरामि अ भीसणभुअवज्जजज्जरिदपञ्जरोवसण्णसुहडहत्थावलुत्तविविहाउहोपमद्दसमोसारिअसेणिअणिअरं पाइक्करिक्कमग्गसञ्चारणिव्वत्तिदविसमसमरसाहसं णाहमाहवं । अहो गुणाणुराओ णरिन्दस्स जं दाणिं सोधसिहरन्तरिदावदिण्णपडिहारविणओवण्णासपडिसामिदविरोहसङ्कडो उवणीदमाहवमअरन्दमुहचन्दे वारं वारं सञ्चारिअसिणिद्धलोअणो कलहंसआदो अहिअणं जाणिअ णिव्वत्तिदमहग्घगुरुअबहुमाणो पप्फुरन्तमच्छरवेलक्खमसीमैलिदमुहे भूरिवसुणन्दणे महुरोवण्णासेण किं दाणिं तुम्हाणं भुअणाभोअभूसणेहिं महाणुभाएहिं णवदंसणगुणाहिरामेहिं जामादुकेहिं अपरितोसो त्ति पडिबोधिअ गदो अब्भन्तरं राआ । इमे वि माहवमअरन्दा आअच्छन्ति । अहं पि भअवदीए इमं वुत्तन्तं णिवेदेमि त्ति । (निष्क्रान्तः ।) (ततः प्रविशतो माधवमकरन्दौ ।) मकरन्दः - अहो प्रेयसः सर्वपुरुषातिशायि निर्व्याजमूर्जितं तेजः । तथा हि । दोर्निष्पेषविशीर्णसञ्चयदलत्कङ्कालमुन्मथ्नतः प्राग्वीराननुपत्य तत्प्रहरणान्याच्छिद्य विक्रामतः । उद्वेल्लद्घनरुण्डखण्डनिकराकीर्णस्य सङ्ख्योदधेर्द्वेधास्तम्भितपत्तिपङ्क्तिविकटः पन्थाः पुरस्तादभूत् ॥ माधवः - नन्वनुशयस्थानमेतत् । पश्य अद्यैवेन्दुमयूखखण्डखचितं पीतं निशीथोत्सवे यैर्लीलापरिरम्भदायिदयितागण्डूषशेषं मधु । सम्प्रत्येव भवद्भुजार्गलगुरुव्यापारभग्नास्थिभिर्गात्रैस्ते कथयन्त्यसारविधुरान्प्रायेण संसारिणः ॥ स्मर्तव्यं तु सौजन्यमस्य नरपतेर्यदपराधिनोरप्यनपराद्धयोरिव नौ साम्प्रतं चेष्टितवान् । तदेहि मालतीसमक्षमधुना मदयन्तिकाहरणवृत्तान्तं विस्तरतः कथ्यमानं श्रोतुमिच्छामि । तथा च कथयति त्वयि सस्मितमालतीवलितलोलकटाक्षपराहतम् । वदनपङ्कजमुल्लसितत्रपास्तिमितदृष्टि सखी नमयिष्यति ॥ (इति परिक्रामतः ।) अयमसावुद्यानवाटः । (प्रविशतः ।) माधवः - कथं शून्य एव दीर्घिकाप्रदेशः । मकरन्दः - वयस्य नूनमस्मद्व्यतिकरोद्वेगपर्याकुलत्वादितस्ततः परिभ्रमन्त्य आत्मनोत्रैवोद्यानगहने विनोदयन्त्यो भविष्यन्ति । तदेहि पश्यावः । (उभौ परिक्रामतः ।) लवङ्गिकामदयन्तिके - सहि मालदि । (सहसावलोक्य ।) दिट्ठिआ पुणो वि एदे अणाहदा महाणुभाआ दीसन्ति । माधवमकरन्दौ - भवत्यौ क्व मालती । उभे - कुदो मालदी पदसद्देण अम्हे विप्पलद्धाओ मन्दभाइणीओ । माधवः - भवत्यौ कथं कथमपि सहस्रधैव विध्वंसते नो हृदयमतः स्पष्टमभिधीयताम् । मम हि कुवलयाक्षीं प्रत्यनिष्टैकबुद्धेर्भृशमयमनुबद्धोत्कम्पएवान्तरात्मा । स्फुरति च खलु चक्षुर्वाममेतच्च कष्टं वचनमिह भवत्योः सर्वथा हा हतोस्मि ॥ मदयन्तिका - ताए इदो णिग्गदे महाणुभावे अवलोइदं बुद्धरक्खिदं अ भअवदीसआसं विसज्जिअ अप्पमादणिमित्तं विण्णवेहि अज्जौत्तं त्ति लवङ्गिआ अणुप्पेसिदा । तदो उत्तम्ममाणा एदाए मग्गं अवलोइदुं अग्गदो पसरिदा । पच्छादो अम्हे ण तं पेक्खामो । तदो अम्हेहिं जाव विडवन्तराइं विचिणिदाइं ताव तुम्हे दिट्ठत्ति । माधवः - हा प्रिये मालति किमपि किमपि शङ्के मङ्गलेभ्यो यदन्यद्विरमतु परिहासश्चण्डि पर्युत्सुकोस्मि । कलयसि कलितोहं वल्लभे देहि वाचं भ्रमति हृदयमन्तर्विह्वलं निर्दयासि ॥ उभे - हा पिअसहि कहिं सि । मकरन्दः - वयस्य किमित्यविज्ञाय वैक्लव्यमवलम्ब्यते । माधवः - सखे त्वमपि किं न जानासि माधवस्नेहदुःखितायास्तस्याः कातर्यचेष्टितानि । मकरन्दः - अस्त्येतत् । किं तु भगवतीपादमूलगमनमप्याशङ्क्यते । तदेहि तत्र तावत्पश्यावः । उभे - एवं पि सम्भावीअदि । माधवः - एवं नामास्तु । (परिक्रामन्ति ।) मकरन्दः - (विचिन्त्य स्वगतम् ।) याता भवेद्भगवतीभवनं सखी नो जीवन्त्युपेष्यति न वेत्युपशङ्कितोस्मि । प्रायेण बान्धवसुहृत्प्रियसङ्गमादि सौदामिनीस्फुरणचञ्चलमेव सौख्यम् ॥ (इति निष्क्रान्ताः सर्वे ।) इति मालतीमाधवे मालत्यपहारो नामाष्टमोङ्कः ॥ नवमोङ्कः ॥ (ततः प्रविशति सौदामिनी ।) सौदामिनी - एषास्मि सौदामिनी भगवतः श्रीपर्वतादुत्पत्य पद्मावतीमुपाश्रिता । तत्र मालतीविरहिणः संस्तुतप्रदेशदर्शनासहिष्णोः संस्त्यायं परित्यज्य सह सुहृद्वर्गेण बृहद्द्रोणीशैलकान्तारप्रदेशमधितिष्ठतो माधवस्याधुनान्तिकं प्रयामि । भोस्तथाहमुत्पतिता यथा सकल एष गिरिनगरग्रामसरिदरण्यव्यतिकरश्चक्षुषा परिक्षिप्यते । (पश्चाद्विलोक्य ।) साधु साधु । पद्मावती विमलवारिविशालसिन्धुपारासरित्परिकरच्छलतो बिभर्ति । उत्तुङ्गसौधसुरमन्दिरगोपुराट्टसङ्घट्टपाटितविमुक्तमिवान्तरिक्षम् ॥ अपि च । सैषा विभाति लवणा ललितोर्मिपङ्क्तिरभ्रागमे जनपदप्रमदाय यस्याः । गोगर्भिणीप्रियनवोलपमालभारिसेव्योपकण्ठविपिनावलयो विभान्ति ॥ (अन्यतोवलोक्य ।) अयमसौ भगवत्याः सिन्धोर्दारितरसातलस्तटप्रपातः । यत्रत्य एष तुमुलध्वनिरम्बुगर्भगम्भीरनूतनघनस्तनितप्रचण्डः । पर्यन्तभूधरनिकुञ्जविजृम्भमाणो हेरम्बकण्ठरसितप्रतिमानमेति ॥ एताश्च चन्दनाश्वकर्णकेसरपाटलाप्रायतरुगहनाः परिणतमालूरसुरभयोरण्यगिरिभूमयः स्मारयन्ति खलु तरुणकदम्बजम्बूवनावनद्धान्धकारगुरुनिकुञ्जगम्भीरगह्वरोद्गारगोदावरीमुखरितस्निग्धविशालमेखलाभुवो दक्षिणारण्यभूधरान् । अयं च मधुमतीसिन्धुसम्भेदपावनो भगवान्भवानीपतिरपौरुषेयप्रतिष्ठः सुवर्णबिन्दुरित्याख्यायते । (प्रणम्य ।) जय देव भुवनभावन जय भगवन्निखिलवरद निगमनिधे । जय रुचिरचन्द्रशेखर जय मदनान्तक जयादिगुरो ॥ (गमनमभिनीय ।) अयमभिनवमेघश्यामलोत्तुङ्गसानुर्मदमुखरमयूरीमुक्तसंसक्तकेकः । शकुनिशबलनीडानोकहस्निग्धवर्ष्मा वितरति बृहदश्मा पर्वतः प्रीतिमक्ष्णोः ॥ अपि च । दधति कुहरभाजामत्र भल्लूकयूनामनुरसितगुरूणि स्त्यानमम्बूकृतानि । शिशिरकटुकषायः स्त्यायते सल्लकीनामिभदलितविकीर्णग्रन्थिनिष्यन्दगन्धः ॥ (ऊर्द्व्हमवलोक्य ।) कथं मध्याह्नः । तथाह्यत्र सम्प्रति काश्मर्याः कृतमालमुद्गतदलं कोयष्टिकष्टीकते तीराश्मन्तकशिम्बिचुम्बिनमुखा धावन्त्यपः पूर्णिकाः । दात्यूहैस्तिनिशस्य कोटरवति स्कन्धे निलीय स्थितं वीरुन्नीडकपोतकूजितमनुक्रन्दन्त्यधः कुक्कुटाः ॥ तद्भवतु माधवमरकन्दावन्विष्य यथाप्रस्तुतं साधयामि । (इति निष्क्रान्ता । विष्कम्भकः ।) (ततः प्रविशतो माधवमकरन्दौ ।) मकरन्दः - (सकरुणं निःश्वस्य ।) न यत्र प्रत्याशामनुपतति नो वा रहयति प्रविक्षिप्तं चेतः प्रविशति च मोहान्धतमसम् । अकिञ्चित्कुर्वाणाः पशव इव तस्यां वयमहो विधातुर्वामत्वाद्विपदि परिवर्तामह इमे ॥ माधवः - हा प्रिये मालति क्वासि । कथमविज्ञाततत्त्वमद्भुतं झटिति पर्यवसितासि । नन्वकरुणे प्रसीद सम्भावय माम् । प्रियमाधवे किमसि मय्यवत्सला ननु सोहमेव यमनन्दयत्पुरा । स्वयमागृहीतकमनीयकङ्कणस्तव मूर्तिमानिव महोत्सवः करः ॥ वयस्य मकरन्द दुर्लभः पुनर्जगति तावतः स्नेहस्य सम्भवः । सरसकुसुमक्षामैरङ्गैरनङ्गमहाज्वरश्चिरमविरतोन्माथी सोढः प्रतिक्षणदारुणः । तृणमिव ततः प्राणान्मोक्तुं मनो विधृतं तया किमपरमतो निर्व्यूढं यत्करार्पणसाहसम् ॥ अपि च । मयि विगलितप्रत्याशत्वाद्विवाहविधेः पुरा विकलकरुणैर्मर्मच्छेदव्यथाविधुरैरिव । स्मरसि रुदितैः स्नेहाकूतं तथा व्यतनोदसावहमपि यथाभूवं पीडातरङ्गितमानसः ॥ (सावेगम् ।) अहो नु खलु भोः । दलति हृदयं गाढोद्वेगं द्विधा तु न भिद्यते ॥ वहति विकलः कायो मोहं न मुञ्चति चेतनाम् । ज्वलयति तनूमन्तर्दाहः करोति न भस्मसात्प्रहरति विधिर्मर्मच्छेदी न कृन्तति जीवितम् ॥ मकरन्दः - वयस्य निरवग्रहं दहति दैवमिव दारुणो विवस्वान् । इयं च ते शरीरावस्था । तदस्य पद्मसरसः परिसरे मुहूर्तमास्यताम् । अत्र हि उन्नालबालकमलाकरमाकरन्दनिष्यन्दसंवलनमांसलगन्धबन्धुः । त्वां प्रीणयिष्यति पुरःपरिवर्तमानकल्लोलशीकरतुषारजडः समीरः ॥ (परिक्रम्योपविशतः ।) मकरन्दः - (स्वगतम् ।) भवत्वेवं तावदाक्षिपामि । (प्रकाशम् ।) वयस्य माधव । एतस्मिन्मदकलमल्लिकाक्षपक्षव्याधूतस्फुरदुरुदण्डपुण्डरीकाः । वाष्पाम्भःपरिपतनोद्गमान्तराले दृश्यन्तामविरहितश्रियो विभागाः ॥ (माधवः सावेगमुत्तिष्ठति ।) मकरन्दः - कथं प्रतिपत्तिशून्यमुत्थायान्यतः प्रवृत्तः । (निःश्वस्योत्थाय च ।) सखे प्रसीद । पश्य पश्य वानीरप्रसवैर्निकुञ्जसरितामासक्तवासं पयः पर्यन्तेषु च यूथिकासुमनसामुज्जृम्भितं जालकैः । उन्मीलत्कुटजप्रहासिषु गिरेरालम्ब्य सानूनितः प्राग्भारेषु शिखण्डिताण्डवविधौ मेघैर्वितानाय्यते ॥ अपि च । जृम्भाजर्जरडिम्बडम्बरघनश्रीमत्कदम्बद्रुमाः शैलाभोगभुवो भवन्ति कुकुभः कादम्बिनीश्यामलाः । उद्यत्कन्दलकान्तकेतकभृतः कच्छाः सरित्स्रोतसामाविर्भूतशिलीन्ध्रलोध्रकुसुमस्मेरा वनानां ततिः ॥ माधवः - सखे पश्यामि किं तु दुरालोकरमणीयाः सम्प्रत्यरण्यगिरिभूमयः । तत्किमेतत् । (सास्रम् ।) अथवा किमन्यत् । उत्फुल्लार्जुनसर्जवासितवहत्पौरत्स्यझञ्झामरुत्प्रेङ्खोलस्खलितेन्द्रनीलशकलस्निग्धाम्बुदश्रेणयः । धारासिक्तवसुन्धरासुरभयः प्राप्तास्त एतेधुना घर्माम्भोविगमागमव्यतिकरश्रीवाहिनो वासराः ॥ हा प्रिये मालति तरुणतमालनीलबहुलोन्नमदम्बुधराः शिशिरसमीरणावधूतनूतनवारिकणाः । कथमवलोकयेयमधुना हरिहेतिमतीर्मदकलनीलकण्ठकलहैर्मुखराः ककुभः ॥ (शोकार्तिं नाटयति ।) मकरन्दः - कोप्यतिदारुणो दशाविपाकः सम्प्रति वयस्यस्य । (सास्रम् ।) मया पुनर्वज्रायमाणेन विनोद आरब्धः । (निःश्वस्य ।) एवं च पर्यवसितप्रायैव नो माधवप्रत्याशा । (सभयं विलोक्य ।) कथं प्रमुग्ध एव । (आकाशे ।) मालति मालति किमपरं निरनुक्रोशासि । अपहस्तितबान्धवे त्वया विहितं साहसमस्य तृष्णया । तदिहानपराधिनि प्रिये सखि कोयं करुणोज्झितक्रमः । कथमद्यापि नोच्छ्वसिति । हन्त मुषितोस्मि दैवेन । मातर्मातर्दलति हृदयं ध्वंसते देहबन्धः शून्यं मन्ये जगदविरतज्वालमन्तर्ज्वलामि । सीदन्नन्धेतमसि विधुरो मज्जतीवान्तरात्मा विष्वङ्मोहः स्थगयति कथं मन्दभाग्यः करोमि ॥ कष्टं भोः कष्टम् । बन्धुताहृदयकौमुदीमहो मालतीनयनमुग्धचन्द्रमाः । सोयमद्य मकरन्दनन्दनो जीवलोकतिलकः प्रलीयते ॥ हा वयस्य माधव गात्रेषु चन्दनरसो दृशि शारदेन्दुरानन्द एव हृदये मम यस्त्वमासीः । तं त्वां निकामकमनीयमकाण्ड एव कालेन जीवितमिवोद्धरता हतोस्मि ॥ (स्पृशन् ।) अकरुण वितर स्मितोज्ज्वलां दृशमतिदारुण देहि मे गिरम् । सहचरमनुरक्तचेतसं प्रियमकरन्द कथं न मन्यसे ॥ (माधवः सञ्ज्ञां लभते ।) मकरन्दः - (सोच्छ्वासं ।) अयमचिरधौतराजपट्टरुचिरमांसलच्छविर्नवजलधरस्तोयसीकरासारेण प्रियवयस्यं मे जीवयति । दिष्ट्या समुच्छ्वसितस्तावत् । माधवः - तत्कमत्र विपिने प्रियावार्ताहरं करोमि । (विलोक्य ।) साधु साधु । फलभरपरिणामश्यामजम्बूनिकुञ्जस्खलिततनुतरङ्गामुत्तरेण स्रवन्तीम् । उपरि विघटमानः प्रौढतापिच्छनीलः श्रयति शिखरमद्रेर्नूतनस्तोयवाहः ॥ (सरभसमुत्थायोन्मुखः कृताञ्जलिः ।) कच्चित्सौम्य प्रियसहचरी विद्युदालिङ्गति त्वामाविर्भूतप्रणयसुमुखाश्चातका वा भजन्ते । पौरस्त्यो वा सुखयति मरुत्साधुसंवाहनाभिर्विष्वग्बिभ्रत्सुरपतिधनुर्लक्ष्म लक्ष्मीं तनोति ॥ (आकर्ण्य ।) अयं प्रतिरवभरितकन्दरानन्दितोत्कण्ठनीलकण्ठकलकेकानुबन्धिना मन्द्रहुङ्कृतेन मामनुमन्यते । यावदभ्यर्थये । भगवन् जीमूत दैवात्पश्येर्जगति विचरन्निच्छया मत्प्रियां चेदाश्वास्यादौ तदनु कथयेर्माधवीयामवस्थाम् । आशातन्तुर्न च कथयतात्यन्तमुच्छेदनीयः प्राणत्राणं कथमपि करोत्यायताक्ष्याः स एकः ॥ (सहर्षम् ।) अये प्रचलितः । तदन्यतः सञ्चरामि । (परिक्रामति ।) मकरन्दः - (साकूतम् ।) कथमिदानीमुन्मादोपरागो माधवेन्दुमास्कन्दति । हा तात हा अम्ब हा भगवति परित्रायस्व परित्रायस्व । पश्य माधवस्यावस्थाम् । माधवः - धिक्प्रमादः । नवेषु लोध्रप्रसवेषु कान्तिर्दृशः कुरङ्गीषु गतं गजेषु । लतासु नम्रत्वमिति प्रमथ्य व्यक्तं विभक्ता विपिने प्रिया मे । हा प्रिये मालति । मकरन्दः - सुहृदि गुणनिवासे प्रेयसि प्राणनाथे कथमपि सहपांसुक्रीडनप्रौढसख्ये । प्रियजनविरहाधिव्याधिवेगं दधाने हतहृदय विदीर्य त्वं द्विधा न प्रयासि ॥ माधवः - सुलभानुकारः खलु जगति वेधसो निर्माणसन्निवेशः । भवत्वेवं तावत् । उच्चैः । अयमहं भोः प्रणिपत्य भूधरारण्यचारिणः सत्त्वान्विज्ञापयामि मां मुहूर्तमवधानदानेनानुगृह्वन्तु भवन्तः । भवद्भिः सर्वाङ्गप्रकृतिरमणीया कुलवधूरिहस्थैर्दृष्टा वा विदितमथ वास्याः किमभवत् । वयोवस्थां तस्याः शृणुत सुहृदो यत्र मदनः प्रगल्भव्यापारश्चरति हृदि मुग्धश्च वपुषि ॥ कष्टं भोः कष्टम् । केकाभिर्नीलकण्ठस्तिरयति वचनं ताण्डवादुच्छिखण्डः कान्तामन्तःप्रमोदादभिसरति मदभ्रान्ततारश्चकोरः । गोलाङ्गूलः कपोलं छुरयति रजसा कौसुमेन प्रियायाः कं याचे यत्र तत्र ध्रुवमनवसरग्रस्त एवार्थिभावः ॥ अयं च । दन्तच्छदारुणिमरञ्जितकान्तदन्तमुन्नम्य चुम्बति वलीवदनः प्रियायाः । काम्पिल्लकप्रसवपाटलगण्डपालि पाकारुणस्फुटितदाडिमकान्ति वक्त्रम् ॥ एष प्रियतमास्कन्धविश्रान्तकरः करी । कथमत्राप्यनवसरः । कण्डूकुड्मलितेक्षणां सहचरीं दन्तस्य कोट्या लिखन्पर्यायव्यतिकीर्णकर्णपवनैराल्हादिभिर्वीजयन् । जग्धार्धैर्नवसल्लकीकिसलयैरस्याः स्थितिं कल्पयन्धन्यो वन्यमतङ्गजः परिचयप्रागल्भ्यमभ्यस्यति ॥ (अन्यतोवलोक्य ।) अयं तु । नान्तर्वर्तयति ध्वनत्सु जलदेष्वामन्द्रमुद्गर्जितं नासन्नात्सरसः करोति कवलानावर्जितैः शैवलैः । दानज्यानिविषादमूकमधुपव्यासङ्गदीनाननो नूनं प्राणसमावियोगविधुरः स्तम्बेरमस्ताम्यति ॥ अलमनेनायासितेन । एष सानन्दसहचरीसमाकर्ण्यमानमधुरगम्भीरकण्ठगर्जितध्वनिरपरो मत्तमात्तङ्गयूथपालः प्रत्यग्रविकसितकदम्बसङ्घातसुरभिशीतलामोदबहलसङ्गलितमांसलकपोलनिष्यन्दकर्दमितकरटः समुद्दलितकमलिनीखण्डविप्रकीर्णपर्णकमलकेसरमृणालबिसकन्दकोमलाङ्कुरनिकरमनवरतप्रवृत्तकमनीयकर्णतालताण्डवप्रचलजर्जरितजलतरङ्गविततनीहारमुत्त्रस्तकुररसारसं सरोवगाह्य विहरति । भवत्वाभाषे । महाभाग नागपते श्लाघ्ययौवनः खल्वसि कान्तानुवृत्तिचातुर्यमप्यस्ति भवतः । किं तु । (सापवादम् ।) लीलोत्खातमृणालकाण्डकवलच्छेदेषु सम्पादिताः पुष्यत्पुष्करवासितस्य पयसो गण्डूषसङ्क्रान्तयः । सेकः सीकरिणा करेण विहितः कामं विरामे पुनर्न स्नेहादनरालनालनलिनीपत्त्रातपत्रं धृतम् ॥ कथमवधीरणानीरसं व्रजति । हन्त मूढ एवास्मि योस्मिन्वनेचरे वयस्यमकरन्दोचितं व्यवहरामि । हा प्रियवयस्य धिगुच्छ्वसितवैशसं मम यदित्थमेकाकिनो धिगेव रमणीयतां त्वदनुभावभावादृते । त्वया सह न याति योत्र दिवसोपि स ध्वंसतां प्रमोदमृगतृष्णिकां धिगपरत्र या जायते ॥ मकरन्दः - अये उन्मादमोहान्तरितोपि मां प्रति कुतश्चिद्व्यञ्जनात्प्रबुद्ध एवास्य सहजस्नेहसंस्कारः । तदसन्निहितमेव मां मन्यते । (पुरः स्थित्वा ।) एष पार्श्वचर एव ते मकरन्दो मन्दभाग्यः । माधवः - प्रियवयस्य सम्भावय परिष्वजस्व माम् । प्रियां तु मालतीं प्रति निराशः परिश्रान्तोस्मि । (इति मूर्छति ।) मकरन्दः - (सहर्षम् ।) एष सम्भावयामि जीवितेश्वरम् । (विलोक्य सकरुणं ।) हा कष्टम् । आविर्भूतमत्परिष्वङ्गोत्कण्ठ एव निश्चेतनः संवृत्तः । तत्कृतमिदानीमाशाव्यसनेन । सर्वथैव मे नास्ति वयस्य इति युक्तः परिच्छेदः । हा वयस्य यत्स्नेहसञ्ज्वरवता हृदयेन नित्यमाबद्धवेपथु विनापि निमित्तयोगात् । त्वद्व्यापदो गणयता भयमन्वभावि तत्सर्वमेकपद एव मम प्रशान्तम् ॥ सखे वरं त एवातिक्रान्ता मुहूर्तास्तथाविधमपि भवन्तं येषु चेतयमानमनुभूतवानस्मि । इदानीं तु भारः कायो जीवितं वज्रकीलं काष्ठाः शून्या निष्फलानीन्द्रियाणि । कष्टः कालो मां प्रति त्वत्प्रयाणे शान्तालोकः सर्वतो जीवलोकः ॥ (विचिन्त्य ।) तत्किं नु खलु माधवास्तमयसाक्षिणा मया भवितव्यमिति जीवामि । भवत्वमुष्माद्गिरिशिखरात्पाटलावत्यां निपत्य माधवस्य मरणाग्रेसरो भवामि । किञ्चित्परिक्रम्य सकरुणं निवृत्यावलोक्य च । कष्टं भोः कष्टम् । तदेतदसितोत्पलद्युति शरीरमस्मिन्नभून्ममातिदृढपीडनैरपि न तृप्तिरालिङ्गनैः । यदुल्लसितविस्मया बत निपीतवत्यः पुरा नवप्रणयविभ्रमाकुलितमालतीदृष्टयः ॥ आश्चर्यम् । एतस्यां तनावचरमे वयसि तावतो गुणसमाहारस्य सन्निवेशः कथमिवाभूत् । सखे माधव आपूर्णश्च कलाभिरिन्दुरमलो यातश्च राहोर्मुखं सञ्जातश्च घनाघनो जलधरः शीर्णश्च वायोर्जवात् निर्वृत्तश्च फलेग्रहिर्द्रुमवरो दग्धश्च दावाग्निना त्वं चूडामणितां गतश्च जगतः प्राप्तश्च मृत्योर्वशम् ॥ तत्परिष्वजे तावदेवं गतमपि वयस्यम् । अर्थितश्चानेन सम्प्रत्येवायमर्थः । (परिष्वज्य ।) हा वयस्य विमलविद्यानिधे गुणगुरो मालतीस्वयङ्ग्राहजीवितेश्वर कामन्दकीमकरन्दानन्दनमुखचन्द्र माधव अयमत्र ते जन्मन्यपश्चिमः पश्चिमावस्थाप्रार्थितो मकरन्दबाहुपरिष्वङ्गः । सखे सम्प्रति मुहूर्तमपि मकरन्दो जीवतीति मैव मंस्थाः । आजन्मनः सहनिवासितया मयैव मातुः पयोधरपयोपि समं निपीय । त्वं पुण्डरीकमुख बन्धुतया निरस्तमेको निवापसलिलं पिबसीत्ययुक्तम् ॥ (सकरुणं विमुच्य परिक्रम्य च ।) इयमधस्तात्पाटलावती । भगवति आपगे प्रियस्य सुहृदो यत्र मम तत्रैव सम्भवः । भूयादमुष्य भूयोपि भूयासमनुसञ्चरः ॥ (इति पतितुमिच्छति ।) प्रविश्य सहसा सौदामिनी । वारयित्वा । वत्स कृतं साहसेन । मकरन्दः - (विलोक्य ।) अयि कासि । किमहं त्वया प्रतिषिद्धः । सौदामिनी - आयुष्मन् किं त्वं मकरन्दः । मकरन्दः - मुञ्च स एवास्मि मन्दभाग्यः । सौदामिनी - वत्स योगिन्यस्मि मालत्यभिज्ञानं च धारयामि । (इति बकुलमालां दर्शयति ।) मकरन्दः - (सोच्छ्वासं सकरुणम् ।) आर्ये अपि जीवति मालती । सौदामिनी - अथ किम् । अपि च वत्स किमत्याहितं माधवस्य यदनिष्टं व्यवसितोसीत्याकम्पितास्मि । मकरन्दः - आर्ये तमहं प्रमुग्धमेव वैराग्यात्परित्यज्यागतस्तदेहि तूर्णं सम्भावयावः । (इति त्वरितं परिक्रामतः ।) माधवः - (आश्वस्य ।) अये प्रतिबोधित एवास्मि केनापि । (विचिन्त्य ।) नूनमस्यायमभिनवजीमूतजलबिन्दुवाहिनः प्रभञ्जनस्यानपेक्षितास्मदवस्थो व्यापारः । मकरन्दः - (विलोक्य ।) दिष्ट्या पुनः प्रत्यापन्नचेतनो वयस्यः । सौदामिनी - (विलोक्य ।) संवदत्युभयोर्मालतीनिवेदितः शरीराकारः । माधवः - भगवन् पौरस्त्यपवन । भ्रमय जलदानम्भोगर्भान्प्रमोदय चातकान्कलय शिखिनः केकोत्कण्ठान्कठोरय केतकान् । विरहिणि जने मूर्छां लब्ध्वा विनोदयति व्यथामकरुण पुनः सञ्ज्ञाव्याधिं विधाय किमीहसे ॥ मकरन्दः - सुवृत्तमखिलजन्तुजीवनेन मातरिश्वना । माधवः - देव वायो तथापि भवन्तमेवं प्रार्थये । विकसत्कदम्बनिकुरुम्बपांसुना सह जीवितं वह मम प्रिया यतः । अथ वा तदङ्गपरिवासशीतलं मयि किञ्चिदर्पय भवान्हि मे गतिः ॥ (कृताञ्जलिः प्रणमति ।) सौदामिनी - सुसमाहितः खल्वभिज्ञानार्पणस्यावसरः । (अञ्जलौ मालां मुञ्चति ।) माधवः - (साकूतविस्मयहर्षम् ।) कथमियमस्मद्विरचिता प्रियतमास्तनोन्नाहदुर्ललितमूर्त्तिरनङ्गमन्दिराङ्गनबकुलप्रसवमाला । (निरूप्य सहर्षम् ।) कः सन्देहः । तथा हि । स एवायमस्याः । मुग्धेन्दुसुन्दरतदीयमुखावलोकहेलाविशृङ्खलकुतूहलनिह्नवाय । दुर्न्यस्तपुष्परचितोपि लवङ्गिकायास्तोषं ततान विषमग्रथितोपि भागः ॥ (सहर्षोन्मादमुत्थाय ।) प्रिये मालति इयं वीक्ष्यसे । (सकोपमिव ।) अयि मदवस्थानभिज्ञे प्रयान्तीव प्राणाः सुतनु हृदयं ध्वंसत इव ज्वलन्तीवाङ्गानि प्रसरति समन्तादिव तमः । त्वराप्रस्तावोयं न खलु परिहासस्य विषयस्तदक्ष्णोरानन्दं वितर मयि मा भूरकरुणा ॥ (सर्वतो दृष्ट्वा सनिर्वेदं ।) कुतोत्र मालती । (बकुलमालामुद्दिश्य ।) अयि प्रियाप्रणयिनि बकुलमाले उपकारिण्यसि । अतः स्वागतं भवत्याः । निष्प्रत्यूहाः प्रियसखि यदा दुःसहाः सम्बभूवुर्देहोद्दाहव्यसनगुरवो मन्मथोन्माथवेगाः । तस्मिन्काले कुवलयदृशस्त्वत्समाश्लेष एव प्राणत्राणं प्रगुणमभवन्मत्परिष्वङ्गकल्पः ॥ (सकरुणं निर्वर्ण्य ।) आनन्दमिश्रमदनज्वरदीपनानि गाढानुरागरसवन्ति तदा तदा च । स्नेहाङ्कनानि मम मुग्धदृशश्च कण्ठे कष्टं स्मरामि तव तानि गतागतानि ॥ (इति हृदये निधाय मूर्छति ।) मकरन्दः - (उपसृत्य वीजयन् ।) सखे समाश्वसिहि समाश्वसिहि । माधवः - (आश्वस्य ।) मकरन्द किं न पश्यसि कुतोपि सहसैव मालतीस्नेहं वहतो बकुलदाम्नो लाभः । तत्कथं नु मन्यसे कुत एतदिति । मकरन्दः - वयस्य इयमार्या योगीश्वर्यस्य मालत्यभिज्ञानस्योपनेत्री । माधवः - (विलोक्य सकरुणं कृताञ्जलिः ।) आर्ये प्रसीद कथय जीवति मे प्रियतमा । सौदामिनी - वत्स समाश्वसिहि जीवति सा कल्याणी । माधवमकरन्दौ । (समुच्छ्वस्य ।) आर्ये यद्येवं तत्कथय क एष वृत्तान्त इति । सौदामिनी - पुरा किल करालायतने मालतीमुपहरन्नघोरघण्टः करवालपाणिर्माधवेन व्यापादितः । माधवः - (सावेगम् ।) आर्ये विरम विरम विज्ञातो वृत्तान्तः । मकरन्दः - सखे क इव । माधवः - सखे किमन्यत् । सकामा कपालकुण्डलेति । मकरन्दः - आर्ये अप्येवम् । सौदामिनी - एवं यथा विदितं वत्सेन । मकरन्दः - कष्टं भोः कष्टम् । कुमुदाकरेण शरदिन्दुचन्द्रिका यदि रामणीयकगुणाय सङ्गता । सुकृतं तदस्तु कतमस्त्वयं विधिर्यदकालमेघविततिर्व्ययूयुजत् ॥ माधवः - हा प्रिये मालति कष्टमतिबीभत्समापन्नासि । कथमिव तदाभवस्त्वं कमलमुखि कपालकुण्डलाग्रस्ता । उत्पातधूमलेखाक्रान्तेव कला शशधरस्य ॥ भगवति कपालकुण्डले निर्माणमेव हि तदादरलालनीयं मा पूतनात्वमुपगाः शिवतातिरेधि । नैसर्गिकी सुरभिणः कुसुमस्य सिद्धा मूर्ध्नि स्थितिर्नमुसलैरवताडनानि ॥ सौदामिनी - वत्स अलमावेगेन । अकरिष्यदसौ पापमतिनिष्करुणैव सा । नाभविष्यमहं तत्र यदि तत्परिपन्थिनी ॥ उभौ - (प्रणम्य ।) अतिप्रसन्नमार्यापादैः । तत्कथय का पुनस्त्वमस्माकमेवंविधा बन्धुः । सौदामिनी - ज्ञास्यथः खल्वेतत् । (उत्थाय ।) इयमहमिदानीं गुरुचर्यातपस्तन्त्रमन्त्रयोगाभियोगजाम् । इमामाक्षेपिणीं सिद्धिमातनोमि शिवाय वः ॥ (इति समाधवा निष्क्रान्ता ।) मकरन्दः - आश्चर्यमाश्चर्यम् । व्यतिकर इव भीमस्तामसो वैद्युतश्च क्षणमुपहतचक्षुर्वृत्तिरुद्भूय शान्तः । (विलोक्य सभयम् ।) कथमिह न वयस्यस्तत्किमेतत् । (विचिन्त्य ।) किमन्यत्प्रभवति हि महिम्ना स्वेन योगीश्वरीयम् ॥ (सवितर्कम् ।) किमयमर्थोनर्थ इति सम्प्रति प्रमुग्धोस्मि । अपि च । अस्तोकविस्मयमपस्मृतपूर्ववृत्तमुद्भूतनूतनभयज्वरजर्जरं नः । एकक्षणत्रुटितसङ्घटितप्रमोहमानन्दशोकशबलत्वमुपैति चेतः ॥ तदत्र कान्तारगहने सहास्मद्वर्गेण प्रविष्टां भगवतीमन्विष्य तस्या वृत्तान्तमेनं कथयामि । (इति निष्क्रान्तः ।) इति मालतीमाधवे मालत्यन्वेषणं नाम नवमोङ्कः ॥ दशमोङ्कः ॥ (ततः प्रविशति कामन्दकी लवङ्गिका मदयन्तिका च ।) कामन्दकी - (सकरुणं सास्रम् ।) हा वत्से मालति मदङ्कालङ्कारिणि क्कासि देहि मे प्रतिवचनम् । आ जन्मनः प्रतिमुहूर्तविशेषरम्याण्याचेष्टितानि तव सम्प्रति तानि तानि । चाटूनि चारुमधुराणि च संस्मृतानि देहं दहन्ति हृदयं च विदारयन्ति ॥ अपि च । पुत्रि अनियतरुदितस्मितं विराजत्कतिपयकोमलदन्तकुड्मलाग्रम् । वदनकमलकं शिशोः स्मरामि स्खलदसमञ्जसमुग्धजल्पितं ते ॥ इतरे - (सास्रम् ।) हा पिअसहि सुप्पसण्णमुहअन्दसुन्दरि कहिं गदासि को वा सिरीसकुसुमसुउमारस्स दे सरीरस्स देव्वदुव्विणअपरिणामो एक्कलिआए उवणदो । महाभाअ माहव उवत्थिदत्थमिदमहूसओ दे जीअलोओ संवुत्तो । कामन्दकी - (सविशेषखेदम् ।) हा वत्सौ । अभिनवरागरसोयं भवतोः कृतकौतुकः परिष्वङ्गः । लवलीलवङ्गयोरिव नियतिमहावात्ययाभिहतः ॥ लवङ्गिका - (सोद्वेगम् ।) हदास वज्जमअ सव्वहा णिसंसंसि हिअअ । (इति हृदयमाहत्य पतति ।) मदयन्तिका - सहि लवङ्गिए णं भणामि क्खणमेत्तअं वि दाव समस्सस । लवङ्गिका - सहि किं करेमि दिढवज्जलेवपडिवद्धणिच्चलं विअ जीविदं ण मं परिच्चअदि । कामन्दकी - वत्से मालति जन्मनः प्रभृति वल्लभा ते लवङ्गिका । तत्किमेनामुज्जिहानजीवितां वराकीं नानुकम्पसे । इयं हि । उज्ज्वलालोकया स्निग्धा त्वया त्यक्ता न राजते । मलीमसमुखी वर्तिः प्रदीपशिखया यथा ॥ कथं च कल्याणि कामन्दकीं परित्यजसि । नन्वकरुणे मदीयचीवरोष्मणैव ते प्रगुणीकृतान्यङ्गानि । स्तन्यत्यागात्प्रभृति सुमुखी दन्तपाञ्चालिकेव क्रीडायोगं तदनु विनयं प्रापिता वर्धिता च । लोकश्रेष्ठे गुणवति वरे स्थापिता त्वं मयैव स्नेहो मातुर्मयि समधिकस्तेन युक्तस्तवापि ॥ (सवैक्लव्यम् ।) चन्द्रमुखि सम्प्रति निराशास्मि । अकारणस्मेरमनोहराननः शिखाललाटार्पितगौरसर्षपः । तवाङ्कशायी परिवृत्तभाग्यया मया न दृष्टस्तनयः स्तनन्धयः । लवङ्गिका - भअवदि पसीद णीसहम्हि सम्पदं जीविदुव्वहणेण । साहं इमादो गिरिसिहरादो अत्ताणअं अवधुणिअ णिव्वुदा भविस्सं । तहा मे भअवदी आसिसं करेदु जेण जम्मन्तरे वि पिअसहिं पेक्खिस्सं । कामन्दकी - ननु लवङ्गिके कामन्दक्यपि नातः परं वत्सावियोगेन जीविष्यति समश्चायमुत्कण्ठावेग आवयोः । किं च । सङ्गमः कर्मणां भेदाद्यदि न स्यान्न नाम सः । प्राणानां तु परित्यागे सन्तापोपशमः फलम् ॥ लवङ्गिका - जहा तुम्हे आणवेध । (उत्तिष्ठति ।) कामन्दकी - (सदयं वीक्ष्य ।) वत्से मदयन्तिके । मदयन्तिका - किं आणवेध । अग्गेसरी होहि त्ति । अवहिदम्हि । लवङ्गिका - सहि पसीद विरम एत्तो अत्तणो वावादणादो । मा एदं जणं विसुमरेसि । मदयन्तिका - (सकोपमिव ।) अवेहि णम्हि दे वसङ्गदा । कामन्दकी - हन्त निश्चितं वराक्या । मदयन्तिका - (स्वगतम् ।) णाह मअरन्द णमो णमो दे । लवङ्गिका - भअवदि अअं जेव्व मधुमदीसोत्तसन्दाणिदपवित्तमेहलो महीहरविडङ्को । कामन्दकी - कृतमिदानीं प्रस्तुतान्तरायेण । (सर्वाः पतितुमिच्छन्ति । नेपथ्ये ।) आश्चर्यमाश्चर्यम् । ध्यतिकर इव भीमस्तामसो वैद्युतश्च क्षणमुपहतचक्षुर्वृत्तिरुद्भूय शान्तः । कामन्दकी - (विलोक्य । साद्भुतहर्षम् ।) कथमिह मम वत्सस्तत्किमेतत् । (प्रविश्य मकरन्दः ।) किमन्यत् प्रभवति हि महिम्ना स्वेन योगीश्वरीयम् ॥ (नेपथ्ये ।) कथमतिदारुणो जनसम्मर्दो वर्तते । मालत्यपायमधिगम्य विरक्तचेताः सांसारिकेषु विषयेषु च जीवितेषु । निश्चित्य वह्निपतनाय सुवर्णबिन्दुमभ्येति भूरिवसुरित्यधुना हताः स्मः ॥ मदयन्तिकालवङ्गिके - झत्ति मालदीमाहवाणं दंसणब्भुदओ झत्ति अच्चाहिदं । कामन्दकीमकरन्दौ - दिष्ट्या । हा धिक्कष्टम् । आश्चर्यमाश्चर्यम् । किमयमसिपत्रचन्दनरसच्छटासारयुगपदवपातः । अनलस्फुलिङ्गकलितः किमयमनभ्रः सुधावर्षः ॥ सञ्जीवनौषधिविषव्यतिकरमालोकतिमिरसम्भेदम् । अद्य विधिरशनिशशधरमयूखसंवलनमनुकुरुते ॥ (नेपथ्ये ।) हा ताद विरम विरम दंसणूसुअम्हि दे वअणकमलस्स । पसीद सम्भावेहि मं । कधं मम कारणादो समत्तलोआलोअन्तरालविक्खादणिम्मलकुलेक्कमङ्गलप्पदीवभूदं अत्ताणअं परिच्च असि । मए उण अणज्जाए णिरणुक्कोसा तुम्हे त्ति सम्भाविदं आसि । कामन्दकी - हा वत्से जन्मान्तरादिव पुनः कथमपि लब्धासि यावदयमपरः । उपराग इव शशिकलां कवलयितुमुपस्थितोनर्थः ॥ इतराः - हा पिअसहि । (ततः प्रविशति प्रमुग्धां मालतीं धारयन्माधवः ।) माधवः - कष्टं भोः कष्टम् । एषा प्रवासं कथमप्यतीत्य याता पुनः संशयमन्यथैव । को नाम पाकाभिमुखस्य जन्तोर्द्वाराणि दैवस्य पिधातुमीष्टे ॥ मकरन्दः - (सहसोपसृत्य माधवं प्रति ।) सखे अथ सा योगिनी क्व । माधवः - श्रीपर्वतादिहाहं सत्वरमपतं तयैव सह सद्यः । करुणवनेचरवचनादनन्तरं तां न पश्यामि ॥ कामन्दकीमकरन्दौ - (सप्रणयमाकाशे ।) महाभागे पुनस्त्रायस्व नः किमर्थमन्तर्हितासि । लवङ्गिकामदयन्तिके - सहि मालदि णं भणामि सहि मालदि त्ति । (सोत्कम्पम् ।) भअवदि परित्ताहि चिरणिरुद्धणीसासणिप्फुरं से हिअअं । हा अमच्च हा पिअसहि दुवे वि तुम्हे परप्परावसाणस्स कारणं जादा । कामन्दकी - हा वत्से मालति । माधवः - हा प्रिये । मकरन्दः - हा प्रियसखि । (सर्वे मोहमुपगम्य पुनः सञ्ज्ञां लभन्ते ।) कामन्दकी - (ऊर्ध्वमवलोक्य ।) तत्किमेष झटिति पाट्यमानादिवाम्बुदादम्बुनिवहः परिस्खलन्नस्मान्प्रीणयति । माधवः - (सोच्छ्वासम् ।) अये प्रत्यापन्नचेतना मालती । तथाह्यस्याः भवति विततश्वासोन्नाहप्रणुन्नपयोधरं हृदयमपि च स्निग्धं चक्षुर्निजप्रकृतौ स्थितम् । तदनु वदनं मूर्छाच्छेदात्प्रसादि विराजते परिगतमिव प्रारम्भेह्नः श्रिया सरसीरुहम् ॥ (नेपथ्ये ।) अविगणय्य नृपं सहनन्दनं चरणयोर्नतमग्निमुखे पतन् । सपदि भूरिवसुर्विनिवर्तितो मम गिरा गुरुसम्मदविस्मयः ॥ माधवमकरन्दौ - (ऊर्ध्वमवलोक्य सहर्षम् ।) भगवति दिष्ट्या वर्धसे । सा योगिन्यम्बरतो विघटितजलदाभ्युपैत्ययं यस्याः । वागमृतजलासारो जलदजलासारमतिशेते ॥ कामन्दकी - प्रियं नः प्रियं नः । मालती - दिट्ठिआ पच्चुज्जीविदम्हि । कामन्दकी - (सहर्षं सबाष्पं च ।) एह्येहि पुत्रि मालति । मालती - कधं भअवदी । (इति पादयोर्निपतति ।) कामन्दकी - (उत्थाप्यालिङ्ग्य मूर्ध्न्याघ्राय ।) जीव जीवितसमाय जीवितं देहि जीवतु सुहृज्जनश्च ते । अङ्गकैस्तुहिनसङ्गशीतलैः पुत्रि मां प्रियसखीं च जीवय ॥ माधवः - वयस्य मकरन्द सम्प्रत्युपादेयो माधवस्य जीवलोकः संवृत्तः । मकरन्दः - (सहर्षम् ।) एवमेतत् । मदयन्तिकालवङ्गिके - पिअसहि मणोरहातिक्कन्तदंसणे सम्भावेहि अम्हे परिस्सङ्गेण । मालती - हा पिअसहिओ । (उभे आलिङ्गति ।) कामन्दकी - वत्सौ किमेतत् । माधवमकरन्दौ - भगवति कपालकुण्डलाकोपदुर्जातजनितापदः । वयमभ्युद्धृताः कृच्छ्रान्निर्बन्धादार्ययानया ॥ कामन्दकी - कथमघोरघण्टवधविजृम्भितमेतत् । मदयन्तिकालवङ्गिके - अहो अच्चरीअं पुणरुत्तदारुणस्स परिणामरमणीज्जत्तणं विहिणो । (प्रविश्य सौदामिनी । उपसृत्य ।) भगवति कामन्दकि स एष वश्चिरन्तनोन्तेवासी जनः प्रणमति । कामन्दकी - अये भद्रा सौदामिनी । माधवमकरन्दौ - (सविस्मयम् ।) कथमियं भगवत्याः पक्षपातस्थानमाद्यशिष्या सौदामिनी । तत्सर्वमधुना सङ्गच्छते । कामन्दकी - एह्येहि भूरिजनजीवितदानपुण्यसम्भारधारिणि चिरादसि हन्त दृष्टा । दत्तप्रमोदमपि नन्दय मे शरीरमालिङ्ग्य सौहृदनिधे विरम प्रणामात् ॥ अपि च । वन्द्या त्वमेव जगतः स्पृहणीयसिद्धिरेवंविधैर्विलसितैरतिबोधिसत्त्वैः । यस्याः पुरापरिचयप्रतिबद्धबीजमुद्भूतभूरिफलशालि विजृम्भितं ते ॥ मदयन्तिकालवङ्गिके - इअं सा अज्जा सौदामिणी । मालती - बाढं । इमाए क्खु भअवदीसम्बन्धपक्खवादिणीए णिब्भच्छिअ कवालकुण्डलं अत्तणो आवसधं उवणीअ भअवदीसिणेहनिव्विसेसं समासासिदम्हि । किं च केसरावलीसाहिण्णाणहत्थाए इह आगत्तूण सव्वे तुम्हे सन्धारिदा । मदयन्तिकालवङ्गिके - सुप्पसण्णा णो कणिट्ठा भअवदी । माधवमकरन्दौ - अहो नु खलु भोः । अपि चिन्तामणिश्चिन्तापरिश्रममपेक्षते । इदं त्वचिन्तितं मन्ये कृतमाश्चर्यमार्यया ॥ सौदामिनी - (स्वगतम् ।) हन्त लज्जयति मामत्यन्तसौजन्यमेषाम् । (प्रकाशम् ।) भगवति एतत्प्रहृष्टनन्दनाभिनन्दितेन राज्ञा पद्मावतीश्वरेण भूरिवसोः प्रत्यक्षमभिलिख्य पत्रमायुष्मतो माधवस्य प्रेषितम् । (लेखमर्पयति ।) कामन्दकी - (गृहीत्वा वाचयति ।) स्वस्त्यस्तु वः । परमेश्वरः समाज्ञापयति यथा श्लाघ्यानां गुणिनां धुरि स्थितवति श्रेष्ठान्वये च त्वयि प्रत्यस्तव्यसने महीयसि परं प्रीतोस्मि जामातरि । तेनेयं मदयन्तिकाद्य भवतः प्रीत्यै तव प्रेयसे मित्राय प्रथमानुरागघटिताप्यस्माभिरुत्सृज्यते ॥ (माधवमुद्दिश्य ।) वत्स श्रूयताम् । माधवः - श्रुतम् । इदानीं सर्वतः कृतार्थोस्मि । मालती - दिट्ठिआ एत्ताहे अवहदं हिअअस्स आसङ्कासल्लं । लवङ्गिका - सम्पदं णिरवसेसं माहवसिरिणो मालदीए अ फलिदा मणोरहा । मकरन्दः - (पुरोवलोक्य ।) कथमवलोकिताबुद्धरक्षिते कलहंसकेन सह प्रमोदनिर्भरं नृत्यन्त्यावित एवागच्छतः । (ततः प्रविशतोवलोकिताबुद्धरक्षिते कलहंसकश्च ।) विविधं नृत्यं कृत्वा सर्व उपसृत्य सप्रणामं कामन्दकीं प्रति । जअ भअवदि कज्जणिहाणे । (माधवं प्रति ।) जअ मअरन्दणन्दण माहव पुण्णचन्द दिट्ठिआ वड्ढसि । (सर्वे सस्मितं पश्यन्ति ।) लवङ्गिका - को वा इमस्सिं सम्पूरिदसव्वप्पआरमहूसवे ण परिहाससम्पुण्णो होइ । कामन्दकी - एवमेतत् । अस्ति वा कुतश्चिदेवम्भूतमद्भुतं विचित्ररमणीयोज्ज्वलं महाप्रकरणम् । सौदामिनी - इदमत्र रमणीयतरं यदमात्ययोर्भुरिवसुदेवरातयोश्चिरात्पूर्णोयमितरेतरापत्यसम्बन्धात्मा मनोरथः । मालती - (स्वगतम् ।) कहं विअ । माधवमकरन्दौ - (सकौतुकम् ।) भगवति अन्यथा वस्तुवृत्तमन्यथा वचनमार्यायाः । लवङ्गिका - (जनान्तिकम् ।) भअवदि किं पडिवज्जिदव्वं । कामन्दकी - (स्वगतम् ।) सम्प्रति मदयन्तिकासम्बन्धान्नन्दनोपग्रहात्प्रत्यस्तशङ्काः खलु वयम् । (प्रकाशम् ।) वत्सौ न खल्वन्यथा वस्तुवृत्तं यतः श्रावकावस्थायामस्मत्सौदामिनीप्रत्यक्षमनयोर्वृत्तेयं प्रतिज्ञावश्यमावाभ्यामपत्यसम्बन्धः कर्तव्य इति । प्रधानप्रकृतिकोपस्त्वेवं परिहृतः । मालती - अहो संवरणम् । माधवमकरन्दौ - आश्चर्यम् । जयन्ति महतां संस्तुस्तापलापिन्यः कल्याणिन्यो नीतयः । कामन्दकी - वत्स यत्प्रागेव मनोरथैर्वृतमभूत्कल्याणमायुष्मतोस्तत्पुण्यैर्मदुपक्रमैश्च फलितं क्लेशोपि मच्छिष्ययोः । निष्णातश्च समागमोपि विहितस्त्वत्प्रेयसः कान्तया सम्प्रीतौ नृपनन्दनौ यदपरं प्रेयस्तदप्युच्यताम् ॥ माधवः - (सहर्षं प्रणमन् ।) भगवति अतःपरमपि प्रियमस्ति । तथापीदमस्तु भगवतीपादप्रसादात् । सन्तः सन्तु निरन्तरं सुकृतिनो विध्वस्तपापोदया राजानः परिपालयन्तु वसुधां धर्मे स्थिताः सर्वदा । काले सन्ततवर्षिणो जलमुचः सन्तु क्षितौ पुण्यतो मोदन्तां घनबन्धुबान्धवसुहृद्गोष्ठीप्रमोदाः प्रजाः ॥ (इति निष्क्रान्ताः सर्वे ।) मालतीमाधवे दशमोङ्कः ॥