+++ title = "०१ प्रवेशः" +++ आह्निकं मूलम् Source: [TW](https://archive.org/details/gopala-desika-ahnikam-ahnikartha-prakashika-ahnika-shesha-low/page/56/mode/2up?view=theater)
विश्वास-प्रस्तुतिः अखिल-भुवन-रक्षा-साधनायावतीर्णे कुमति-कलि-विलास-ध्वान्त-तिग्मांशु-जाले । निरवधि-करुणाब्धौ वेद-चूडा-गुरौ मे **भवतु परम-भक्तिः** [^१] श्री-निधौ **वेङ्कटेशे** ॥ [^१]: सर्वतन्त्रस्वतन्त्रे इति पाठान्तरम्
मूलम् अखिलभुवनरक्षासाधनायावतीर्णे कुमतिकलिविलासध्वान्ततिग्मांशुजाले । निरवधिकरुणाब्धौ वेदचूडागुरौ मे भवतु परमभक्तिः [^१] श्रीनिधौ वेङ्कटेशे ॥
आह्निकार्थप्रकाशिका आह्निकार्थप्रकाशिकाप्रारम्भः॥ **श्री-श्रीवास-मुनीन्द्र**+++(=पॆरियाण्डवन्)+++-रूपम् अनघं कल्याण-दिव्योदधिं जन्मोच्छेदक-जन्म-दायिनम् अघ-स्तोमापहं शेषिणम् । नित्यं सुस्थित-बन्धुता-विलसितं नित्यानृशंस्याश्रयम् दिव्य-ज्ञान-दम् आत्म-साम्य-जननं श्री-रङ्गिणं संश्रये ॥ १ ॥ [[1]] **गोपाल-देशिकेन्द्रं सेवे** यत्-सूक्ति-शर्करा-सङ्गात् । श्री-निगम-मौलि-देशिक- **सूक्ति-पयो भवति** सुमनसां **भोग्यम्** ॥+++(5)+++ **जयत्य्** आश्रित-सन्त्रास- निवारण-कृतोदयः । सर्व-तन्त्र-स्वतन्त्र-श्री- **निगमान्त-गुरूत्तमः** ॥ ३ ॥ श्री पाञ्चरात्र-रक्षा- निर्णीता या प्रपन्न-दिन-चर्या । तत्-क्रम-सङ्ग्रह-रूपश् श्रीमद्-गोपाल-देशिकेन्द्र-कृतः ॥ ४ ॥ आह्निक-संज्ञ-निबन्धश् श्री-पति-तद्-भक्त-नित्य-हृद्यो यः । तद्-उपरि केचिद् अमर्षाद् **दोषान्** आपाततो **ऽवदन्** कांश्चित् ॥ ५ ॥ तद्दोषनिरसनार्थं तदाह्निकार्थप्रकाशिका टीका । श्रीनिगमान्तगुरूत्तमनिबन्धनार्थानुसारिणी क्रियते ॥ ६ ॥ इह खलु श्री-निगमान्त-देशिकावतार इति प्रसिद्धः श्रीगोपालार्य-महा-देशिकः श्री-निगमान्त-देशिक-कृत--प्रपन्न-कर्तव्य-- भगवत्-परिचर्या-प्रकाशक--श्री-पाञ्च-रात्र-रक्षायाः प्रमाण-न्यायोपन्यास-विचार-बहुलतया पण्डितानाम् अपि दुर्-अधिगमतां पश्यतां तद्-अर्थ-तत्त्वाध्यवसाय-पूर्वकानुष्ठान-सौकर्याय चिकीर्षितस्य श्री-पाञ्चरात्र-रक्षोक्त-प्रपन्न-कर्तव्य--भगवत्-परिचर्या-क्रम-सङ्ग्रह-रूपस्य ग्रन्थस्याविघ्न-परिसमाप्ति-प्रचय-गमनार्थं समाचरितं श्रीनिगमान्त-देशिक-भक्ति-प्रार्थनात्मकं मङ्गलं शिष्य-शिक्षायै स्व-कृत-सङ्कीर्तनेन तेषां महिष्ठ-मङ्गलार्थं च ग्रन्थतो निबध्नाति **अखिले**ति। **वेङ्कटेशे परमभक्तिर् मे भवत्व्** इति सम्बन्धः । **भवत्व्** इत्य्-अनेनाशीरूपं, लोकोत्तर-गुण-विशिष्ट-वेङ्कटेशावताराचार्य-सङ्कीर्तनेन > जयति सकल विद्या- > वाहिनी-जन्म-शैलः। > जयत्य् आश्रित-सन्त्रास- > ध्वान्त-विध्वंसनोदयः, > "सा जयति सरस्वती देवी…" इति । श्री-सर्वार्थ-सिद्धि--रघुवीर-गद्य--वासव-दत्ता-मङ्गल-श्लोकवत् वस्तु-निर्देश-रूपं च मङ्गलं सूचितम् । “पाराशर्यवचस्सुधे"त्यत्र > "स्तुत्य्-आत्मक-गुरूपासन-रूप-मङ्गलाचारश् चार्थतः क्रियत” इति श्रुत-प्रकाशिकायाम् उक्तम् । [[2]] भजनौपयिक-गुण-विशेषान् आह - **अखिले**त्यादिना । **भुवन**-शब्दः क्षेत्रज्ञ-परः - 'त्रिभुवनं सम्प्रत्य् अनन्तोदयं' इति चतुश्-श्लोकी-स्थ-त्रिभुवन-शब्दवत्, **अखिल**-शब्दः ब्राह्मणादि-सर्व-जातीय-कार्त्स्न्य-परः, भगवद्-वाचकाकारोपक्रमत्व-सिद्धये निखिलेत्य् अनुक्तिः - अ-कारस्य भगवद्-वाचित्वं श्री-तत्व-टीका--श्रुत-प्रकाशिकादौ प्रदर्शितं, तेषां **रक्षा** अनिष्ट-निवृत्ति-पूर्वकेष्ट-प्रापण-पर्यन्तो व्यापारः, तत्-**साधनाय** तत्-सिद्धये **अवतीर्णे** स्वसङ्कल्प-कृत-विग्रह-वति **भक्तेः** त्रैवर्णिक-प्राज्ञ-शक्त-विलम्ब-क्षमाधिकारिकत्वेन तद्-अनधिकारिणां सर्व-जातीय-मुमुक्षूणाम्। अपेक्षित-समये सर्वानिष्ट-निवृत्ति-पूर्वक--परिपूर्ण-ब्रह्मानुभव-कैङ्कर्य-प्रयोजक-प्रपत्ति-विद्या- ऽङ्गाङ्ग्य्-आदि-प्रपन्न-कर्तव्य-कैङ्कर्यादि-निर्णयोपदेश--बहु-प्रबन्ध-निर्माण--तत्-स्थापनाद्य्-अर्थम् अवतीर्ण इति यावत् ॥ यथा श्रियःपतिः साधु-परित्राणार्थम् अवतरति, तथा ऽऽचार्यो ऽपीत्य् अवतीर्ण-पदेन व्यज्यते । ननु प्रपत्तेः स्वतन्त्रतया मोक्ष-साधनत्वं प्रपन्नाचारादिकं च बहूपपाद्य्-आक्षिप्तं, तत्-प्रमाण-जातम् अप्य् अन्यथा व्याख्यातं, तत् कथं स्व-तन्त्र-प्रपत्ति-मूलक--परम-पुरुषार्थ-लाभादिकम् इत्यत्राह -**कुमती**ति । कुमतयः सम्यज्-ज्ञान-हेतु--भगवद्-भक्त्य्-आदि--विरहिततया ऽनादि-पाप-वासना-दूषिताशेष-शेमुषीकतया च कुत्सित-बुद्धयः। तेषां **कलि-विलासः** सम्यङ्-न्याय-प्रमाणापेत-कु-युक्त्य्-उपन्यासः तस्य ध्वान्तत्व-रूपणेन सम्यक्-प्रकाश-विरोधित्वं द्योत्यते । तत्र **तिग्मांशु-जाले** अन्धकार-सम--कु-मति--कु-युक्त्य्-उपन्यास-निश्शेष-निरासक-- प्रपत्त्य्-अङ्गाङ्गि--प्रपन्न-धर्मादि--प्रमाण-न्याय-विचारात्मक-- श्री-रहस्य-त्रय-सार--निक्षेप-रक्षा--श्री-पाञ्चरात्र-रक्षा--सच्चरित्र-रक्षादि-- बहु-ग्रन्थ-रूप-तीक्ष्ण-किरण-वतीति यावत्। अनेन कुमत्य्-उपन्यासनाम् अभासता, ज्ञान-पूर्वक-सम्यङ्-न्याय-निरूपणाधीन-- प्रपत्त्य्-आदि-शास्त्रार्थ-सम्यङ्-निर्णय-सम्भवात् प्रपत्ति-हेतुक-परम-पुरुषार्थ-लाभः अत्रत्य-कैङ्कर्यादिकं च सर्व-सुलभम् इति फलितम् । [[3]] एतादृश-क्षेत्रज्ञोपकारे हेतुम् आह - **निरवधी**ति । प्रसिद्ध-समुद्रापेक्षया विशेष-परः निर्-अवधि-शब्दः, अनेन करुणाया अपारत्वम् अक्षयत्वम् ताप-हरत्वं वीची-तरङ्ग-सम-लोकोत्तर-बहु-ग्रन्थ-निर्माण-हेतुत्वं च व्यज्यते । एतादृश-महिम्नि प्रसिद्धं प्रमाणमाह - **वेदचूडे**ति‌ । प्रति-पक्ष-निरसन-सिद्धान्त-स्थापन-सन्तुष्ट--श्री-रङ्गनाथ-दत्तं "स्वकम् इति हरि-दत्तं तेन देवेन दत्तां वेदान्ताचार्यसंज्ञां" इति स्वेनैवोक्तं वेदान्ताचार्यत्वम् एवोक्त-महिम-निर्णायकम् इति भावः । प्रबन्ध-निर्माणौपयिक-सार्वज्ञम् आह - **श्रीनिधा**व् इति । “ऋचस्सामानि यजूंषि, सा हि श्रीर्" इति श्रुति-प्रतिपन्न-ऋग्-आदि-शब्दोपलक्षित-- सकल-वेद-तद्-उपबृह्मणादि-सर्व-विद्या-निधाव् इत्य् अर्थः । अनेन सर्व-तन्त्र--स्व-तन्त्रत्वं व्यज्यते, वेङ्कटेश इति श्री-नाम, तेन श्री-निवासावतार-रूपत्वं विवक्षितं, क्वचित् **सर्व-तन्त्र-स्व-तन्त्रे** इति पाठः, तद्-अर्थ-बोधक-**श्रीनिधि**-पद-युक्तः असाधारण-नामधेय-**वेङ्कटेश**-पद-सहितः पाठ एव युक्तः । **परमभक्ति**र् इति । भक्तिः - स्नेह-पूर्वकम् अनुध्यानं, 'स्नेह-पूर्वम् अनुध्यानं भक्तिर् इत्य् अभिधीयत' इति वचनात्। तत्र पारम्यम् अविच्छिन्न-स्मृति-सन्तति-प्रत्यक्ष-समानाकार-प्रीति-रूपत्वं, सा च > "यस्य देवे पराभक्तिः > यथा देवे तथा गुरौ" इति श्रुति-प्रसिद्धा **मे** प्रतिबन्धक-पाप-रहितस्य मम, शान्त-चित्तस्य हि क्षीर-स्वादुता-बुद्धिः भवत्व् इति तादृश-भक्ति-प्रीताचार्य-पाद-प्रसादेनोपदिष्ट- शास्त्रार्थ-सम्यक्-ज्ञान-प्रकाशः, ग्रन्थ-करणौपयिक-समीचीन-प्रतिभा-लाभः, ग्रन्थ-समाप्ति-प्रचय-गमनादिकं च सिध्यतीति हृदयम् । > "आचार्यस्य प्रसादेन > मम सर्वम् अभीप्सितम् । > प्राप्नुयाम् इति विश्वासः > यस्यास्ति स सुखी भवेत्" इत्यादिकम् इह भाव्यम् । श्री-भाष्ये भगवद्-भक्ति-प्रार्थनवत् अत्राचार्य-पाद-भक्ति-प्रार्थनेनाचार्यस्य भगवद्-अवतारत्वं द्योतितम् । [[4]] श्री-भाष्य-मङ्गल-श्लोकवद् अत्र 'न'गणारम्भात् “आयुः निदानत्वाद् अविघ्नायैव कल्पते" इति श्रीतत्त्व-टीकोक्त-रीत्या ऽध्येतॄणां चिरायुः-प्रदत्वं सिद्धम् । तदुक्तम् – छन्दोविद्भिः "मो भूमि-स्त्रि-गुरुश् शुभं वितनुते" इत्यारभ्य "न स्वश् चिरायुस्त्रिलः" इति । अत्राचार्य-पाद-भक्ति-प्रार्थनेन तद्-ग्रन्थ-यथावस्थितार्थज्ञानं तद्-भक्तस्यैव नान्यस्येत्य् अवगमात् आचार्य-पाद-ग्रन्थार्थ-सङ्ग्रह-रूपस्य प्रकृताह्निकस्य सर्वथा तद्-अभिप्रायानुसारित्वं देशिक-पाद-भक्ति-प्रार्थना-विरहिताह्निकान्तराणाम् अतथात्वं च सद्भिर् अनु-सन्धेयम् ॥ १ ॥
विश्वास-प्रस्तुतिः अत्र्य्-अन्ववाय-कलशोदधि-पूर्ण-चन्द्रं श्री-कृष्ण-देशिक-पितृव्य-दयैक-पात्रम् । श्रीवत्स-गोत्र-वरदार्य-विवृद्ध-बोधं श्री-कृष्ण-देशिकम् अहं **शरणं प्रपद्ये** ॥ २ ॥
मूलम् अत्र्यन्ववायकलशोदधिपूर्णचन्द्रं श्रीकृष्णदेशिकपितृव्यदयैकपात्रम् । श्रीवत्सगोत्रवरदार्यविवृद्धबोधं श्रीकृष्णदेशिकमहं शरणं प्रपद्ये ॥ २ ॥
आह्निकार्थप्रकाशिका अथ स्वस्य श्री-निगमान्त-देशिक-भक्ति-मूल-- तद्-ग्रन्थार्थ-सङ्ग्रहण-शक्तेः स्वाचार्यानुग्रहोपदेश-मूलत्वात् मङ्गल-भूयस्त्वार्थं स्वाचार्य-शरण-वरण-रूपं मङ्गलं निबध्नाति - **अत्र्यन्ववाये**ति ॥ श्री-स्तोत्र-भाष्ये “उक्तं च गुरोरपि प्राप्य-प्रापक-भावेन संश्रयणीयत्वं सात्वत-तन्त्र" इत्यादिना "उपायोपेय-भावेन तम् एव शरणं व्रजेत्” इत्य्-अन्तेनानुगृहीतं गुरु-विषय-शरण-वरणम् इह क्रियते । > देवताया गुरोश् चापि > मन्त्रस्यापि प्रकीर्तनात् । ऐहिकामुष्मिकी सिद्धिर् > द्विजस्यास्ते न संशयः इति तत्रत्य-वचनानुसारेण स्वाचार्य-स्तुत्य्-आत्मक-मङ्गलम् अप्य् अत्राभिप्रेतम् । अन्वयस्यात्रि-सम्बन्ध-कथनेन श्री-रामायणादौ 'ब्राह्मणं न हन्यात्', ‘आत्रेयं न हन्यात्' इत्यादौ च महा-भागवतातिमहिम--प्रसिद्ध-महर्षि--सम्बन्ध-रूपोत्कर्षस् सूचितः । [[5]] Source: [TW](https://archive.org/details/gopala-desika-ahnikam-ahnikartha-prakashika-ahnika-shesha-low/page/6/mode/2up?view=theater) अनुगृहीतं मीमांसा-पादुका-विवरणे "**वन्देयात्रेय-रामानुज-गुरुं**" इत्य्-अत्र - > परम-भागवतात्रि-कुल-सम्भवेन 'विष्णु-भक्त-कुल-धौरेयत्वम्’ इति। **कलशोदधित्व**-रूपणेन तस्य भगवद्-आचार्य--भक्ति-ज्ञानादि-विशुद्ध-+++(रामानुज-)+++यतीन्द्र--+++(भिक्षा-प्रद)+++माहानसिकाद्य्+++(=प्रणतार्तिहरादि)+++-आचार्य-मुखेनामृत-प्रदत्वं ताप-हरत्वं च व्यज्यते । तत्-**पूर्ण-चन्द्रं** - स्व-गुणेन तद्-अन्वयवताम् अतिशयाह्लाद-रूपाभिवृद्धिकरम् । तथा-विध-गुणवत्त्वे हेतुम् आह - **श्रीकृष्ण-देशिके**ति, **श्रीवत्स-वंश-वरदे**ति च । सद्-आचार्य-कृत-सद्-उपदेश--तद्-अनुग्रहाधीनं तादृश-गुणवत्त्वम् इति भावः । **श्री-कृष्ण-देशिकं** 'नास्याब्रह्मवित्कुले भवति'-इत्य्-उक्त-- स्व-ब्रह्म-वित्त्व-निदान--ब्रह्म-ज्ञान-युक्तं स्वतोऽनुग्रह-शीलं स्व-सत्ता-योग्यतापादक-संस्कार-मन्त्राद्य्-उपदेश-कृतं **पितृव्य**-चरणम् अन्धकार-निवर्तकम् । **अहं** तथाविधाचार्य-पुत्रत्व--तत्-समाश्रयणौपयिक-सुकृत-शाली **शरणं प्रपद्ये** - निरपेक्ष-रक्षकत्वेनाध्यवस्यामि । स्व-ग्रन्थ-निर्विघ्न-परिसमाप्ति-प्रचय-गमनौपयिक- सामग्री-विरह-रूपम् आकिञ्चन्यम् उत्तम-पुरुष-विवक्षितम् । उक्ताकिञ्चन्य-युक्तस् तथा-विधस् समाप्त्य्-आद्य्-उत्पादन-भरम् आचार्ये समर्पयामीति फलितम् । एतद्-अनुबन्धि-पदार्थ-प्रमाणादिकं श्री-द्वयाधिकारादाव् अनुसन्धेयम् ॥ २ ॥
विश्वास-प्रस्तुतिः वेदान्त-लक्ष्मण-मुनिं मम देशिकेन्द्रं वेदान्तरङ्ग-वचसं जगद्-एक-भाग्यम् । वेदान्त-देशिक-गिराम् अपि+++(धि)+++जीवनोक्तिं वेदान्त-युग्म-विहृतिं **शरणं प्रपद्ये** ॥ ३ ॥
मूलम् वेदान्तलक्ष्मणमुनिं मम देशिकेन्द्रं वेदान्तरङ्गवचसं जगदेकभाग्यम् । वेदान्तदेशिकगिरामपि(धि)जीवनोक्तिं वेदान्तयुग्मविहृतिं शरणं प्रपद्ये ॥ ३ ॥
आह्निकार्थप्रकाशिका अथ स्वस्य श्रीभाष्य-श्रीरहस्यत्रयसारादि-संप्रदाय-ग्रन्थोपदेशानुग्रहादिभिः श्रीनिगमान्तदेशिकगन्थार्थसङ्ग्रहकरणानुगुण-बुद्धिशक्त्याद्युत्पादनेन परमोपकारिणं श्रीदेशिकावतारस्य स्वस्य श्रीसङ्कल्पसूर्योदयानुसंहितप्रश्नोत्तरनिर्वहणार्थं श्रीभाष्यकारावतारस्य साक्षात्स्वामित्वेन तदैतिह्यवित्प्रशंसितस्य स्वश्रेष्ठतमाचार्यस्य शरणवरणं मङ्गलभूयस्त्वार्थमाचरन् निबध्नाति - **वेदान्तलक्ष्मणमुनिमि**ति । [[6]] वक्ष्यमाणगुणापेक्षया श्रीदेशिकचरण-भाष्यकारनामघटितनाम्नोतिभोग्यत्वव्यञ्जनाय प्रथमं समाख्यानिर्देशः, मम प्रतिबन्धकपापरहितस्य तादृशाचार्यसम्बन्धे हेतुमहत्तरभाग्यशालिनो मम देशिकेन्द्रं श्रीकृष्णदेशिक-श्रीपादुकासेवकरामानुजमहादेशिकयोः स्वाचार्यत्वेऽपि “साक्षान्मुक्तेरुपायान् यो विद्याभेदानुपादिशत्" इत्याचार्यपादोक्ताव्यवहितमोक्षोपाय-निर्वर्तकत्वादिभिर्देशिकश्रेष्ठं, सकलश्रेयस्साधन-तत्वहित-पुरुषार्थावबोधिवेदतत्वार्थोपदेशप्रकारमाह – **वेदान्तरङ्गवचसमि**ति । “यद्वै किञ्च मनुरवदत्” “क्रीडार्थमपि यद्रूयुः[[??]]" "சொல்லுமவுடு சுருதியாம்" इत्युक्तप्रक्रिययाऽऽचार्य-यादृच्छिकवचनमपि श्रुत्यन्तरङ्गमिति सूचनाय वचश्शब्दः, तथाविधाचार्योपदेशलब्धज्ञानमूलकः प्रकृतस्वग्रन्थः श्रुत्याद्यत्यन्तानुगुण इति भावः । तथाविधवचोवत्वे हेतुमाह - **जगदि**ति । तत्वहितादियथावत्प्रकाशनपूर्वकपूर्वाचार्यसम्प्रदायप्रवर्तनप्रबन्धनिर्माणाश्रितदुरितनिवारणापवर्गहेतुविद्यानिष्पादनादिना सुजनासदृशभाग्यातिशयमिव मूर्तिमन्तमित्यर्थः। प्रकृतग्रन्थनिर्माणोपयोगि श्रीदेशिकनिबन्धनार्थ-यथावस्थितज्ञानसम्पादकत्वमाह - **वेदान्ते**ति । श्रीवेदान्तदेशिकग्रन्थानां स्वतः सुभाषितत्वेऽपि कैश्चिदपार्थकल्पनेन विपरीतार्थताभ्रमविषयाणां यथावस्थित-निस्संशयार्थप्रकाशकप्रबन्धादिदिव्यसूक्तियुतमित्यर्थः । वेदान्तदेशिकगिरामधिजीवनोक्तिमिति पाठेऽप्ययमेवार्थो बोध्यः । आचार्यगुणपौष्कल्यज्ञापनाय मुख्यमुख्यगुणमाह - **वेदान्तयुग्मे**ति । “श्रोत्रियं ब्रह्मनिष्ठं’’ "अनघं श्रोत्रियं ब्रह्मनिष्ठं" इत्युपनिषदाचार्य-श्रीसूक्तिसिद्धप्रयोजनान्तरवैमुख्य-श्रुतवेदान्तत्वादिकमिहाभिप्रेतम् । विहृतिशब्देन वेदान्तद्वयप्रवचन-तद्विषयग्रन्थनिर्माणादावत्यन्तरुचिः आयासाभावश्च व्यज्यते । शरणं प्रपद्ये इति । पूर्ववदर्थः । एतादृशमहादेशिकोपदेशानुग्रह-विशेषलब्धविशुद्धज्ञान-तदनुग्रहादिमत्तया स्वस्य प्रकृतग्रन्थनिर्माणे निश्शङ्कप्रवृत्तिरिति हृदयम् ॥
[[7]]
विश्वास-प्रस्तुतिः श्रीपाञ्चरात्र-रक्षोक्तः प्रपन्नानां महात्मनाम् । भगवत्-परिचर्यायाः **क्रमस् सङ्गृह्यते** ऽधुना ॥ ४ ॥
मूलम् श्रीपाञ्चरात्ररक्षोक्तः प्रपन्नानां महात्मनाम् । भगवत्परिचर्यायाः क्रमस्सङ्गृह्यतेऽधुना ॥ ४ ॥
आह्निकार्थप्रकाशिका ननु पूर्वकालिकानेकाह्निकग्रन्थसत्त्वादयमपूर्वाह्निकग्रन्थः किमर्थ इत्यत्र तेषां श्रीपाञ्चरात्ररक्षाद्याचार्यनिबन्धनाननुसारविरोधादि-दोषग्रस्तत्वेन तदनादरेण प्रकृताह्निकनिर्माणं सार्थकमभिप्रयन् विषयप्रयोजनादिसूचनपूर्वकं चिकीर्षितं प्रतिजानीते **श्रीपाञ्चरात्रे**ति । प्रपत्त्यधिकाराङ्गाङ्ग्याद्यनुष्ठानादिकं यथाचाऽऽर्यपाद-बहुनिबन्धनविशोधितप्रकारेणानुष्ठीयते तथा प्रपन्नानुष्ठेयदिनचर्याप्रकारोपि तन्निबन्धनानुसारेणैवानुष्ठेय इति भावः । आचार्यपादप्रशिष्यघटिकाशतवरददेशिकशिष्य-शठकोपमहादेशिकैराचार्यपादानुगृहीतप्रपन्नदिनचर्याक्रम एव परिगृहीतः । सहस्रनामभाष्ये - “युधिष्ठिरश्शान्तनवं पुनरेवाभ्यभाषत" इत्येतद्व्याख्याने "पुनः प्रश्नश्च भीष्मेणात्मनीनतया स्वीकृतं मतं ज्ञातुं “को धर्मस्सर्वधर्माणां” इत्यनन्तरोक्तेः तच्च सदाचारप्रावण्यात्, > सन्तो ह्याचार्यनिष्ठाम् अन्विष्य > तद्-रुचि-परिगृहीतम् एव तत्त्वं हितं च रोचयन्ते। > न तु प्रामाणिकत्व-मात्रेण इत्याचार्यपरिगृहीतस्यैव ग्राह्यत्वोक्तेः । अतः श्रीशठकोपमहादेशिकाद्यभिमतमेव प्रकृताह्निककरणमिति बोध्यम् । श्री पाञ्चरात्ररक्षोक्तः तत्रैव प्रपन्नकर्तव्यभगवत्परिचर्यायाः क्रमः प्रमाणोपपत्तिभ्यां निर्णीतः । केवलधर्मशास्त्रतन्निबन्धनादिकं न तादृशमिति भावः । [[8]] महात्मनाम् अनन्यप्रयोजनत्वानन्यदेवताकत्वरूपपारमैकान्त्यव्यवसितधियां, प्रपन्नानां भगवत्परिचर्यायाः क्रमः, पाञ्चकालिकविधया अहोरात्रकृत्यरूपभगवत्कैङ्कर्य-तदवान्तरभेदक्रमः एकैक-कैङ्कर्यारम्भप्रभृति-तदवसानतदुत्तरकैङ्कर्योपक्रमावसनादितत्तदनुष्ठानक्रमः, अधुना, देशिकपादस्वाचार्यविषयमङ्गलनिबन्धनान्तरं, सङ्गृह्यते, संक्षेपेण कथ्यते, मयेत्यध्याहार्याम् । भगवत्परिचर्याक्रमो विषयः । तत् ज्ञानपूर्वककैङ्कर्यानुष्ठानं प्रयोजनम् । सम्बन्धश्च प्रतिपाद्यप्रतिपादकभावः । प्रपन्नोऽधिकारीत्यनुबन्धिचतुष्टयं प्रेक्षावत्प्रवृत्त्यङ्गं सूचितम् । दक्षस्मृत्यादिषु कालाष्टकादिविभागेन दिनचर्योपदेशेऽपि वैष्णवानां पञ्चकालविधयैव दिनचर्यानुष्ठानस्य दक्षाद्युक्तकालाविरोधस्य च श्रीपाञ्चरात्ररक्षायामनुगृहीतत्वात् पाञ्चकालिकप्रक्रिययैव दिनचर्याक्रमस्सङ्गृह्यत इति हृदयम् । ननु पाञ्चकालिकधर्मः भगवच्छास्त्रविहितचक्राब्जमण्डलदीक्षासंस्कृताधिकारिविषयः “अनेन विधिना यस्तु दीक्षितश्चक्रमण्डले" इत्यदिना “सूरिस्सुहृद्भागवतः सात्वतः पञ्चकालवित्" इत्यन्तेन पाद्मवचनेन > चक्राब्जमण्डले शुद्धे सर्वाभीष्टफलप्रदे । यस्माद्भगवता साक्षात् मया दीक्षाविधिः कृतः इत्यादिना "तस्मात्तु भगवद्वंश्याः पञ्चकालपरायणाः" इत्यन्तेन वामनसंहितावचनेन च तस्यैव पाञ्चकालिकत्वोपदेशादिति चेन्न । [[9]] उक्तदीक्षावत इव पञ्चसंस्कारदीक्षावतामपि पाञ्चकालिकधर्मस्य भगवच्छास्त्रादिसिद्धत्वात् । खगप्रश्नसंहितायां > दीक्षितः पञ्चसंस्कारैः पञ्चकालपरायणः । आत्मार्थं वा परार्थं वा नित्यं हरिमुपासते ॥ पराशरसंहितायां > दीक्षितः पञ्चसंस्कारैरर्थपञ्चकतत्ववित् । पञ्चकालपरो यस्तु वैष्णवो मन्त्र वित्तमः ॥ पौरुषेण विधानेन श्रीमदष्टाक्षरेण वा । मन्त्रद्वयेन वा कुर्यात् त्रिकालं पूजनं हरेः ॥ शेषशेषित्वसम्बन्धज्ञानभक्तिसमन्वितः । आत्मार्थं वा परार्थं वा न च देवलको भवेत् ॥ एवं भारद्वाजपरिशिष्टप्रथमाध्याये > अष्टमात् षोडशाब्दाद्वा कुर्याच्चक्रादिभूषणम् । प्रतप्तैरङ्कनं पश्चात् सदा वा भूषणं स्त्रियाः ॥ शिष्यपुत्रकलत्राणां भृत्यानां च गवामपि । कुर्यादचेतनानां च वैष्णवं नाम लक्ष्म च ॥ आमा ह्यतप्ततनवस्तप्ताङ्गा हरिलाञ्छनैः । श्रितास्सभोगतां प्राप्य भुञ्जते परमात्मना ॥ इत्यादिना तापोर्ध्वपुण्ड्रधारणं प्रतिपाद्य > क्रमात्तभगवन्मन्त्रः कल्पविच्छुद्धमानसः । धृतोर्ध्वपुण्ड्रश्चक्रादिलाञ्छितो हरिमर्चयेत् ॥ इति तापावलम्बनेन भगवदर्चनं विहितम् । एवं वासिष्ठसंहिताशाण्डिल्यस्मृतिवृद्धहारीतस्मृत्यादिषु पञ्चसंस्काररूपदीक्षावलम्बनेन पाञ्चकालिकविधिर्द्रष्टव्यः । श्रीसच्चरित्ररक्षाप्रथमाधिकारे - श्रुतिस्मृतिपाञ्चरात्रेतिहासपुराणवचनैरुक्तार्थस्स्थापितः । यद्यपि > परार्थयजनं कुर्युर्विप्रा मुख्यानुकल्पयोः । नैवाधिकारिणो गौणा दीक्षासंस्कारवर्जिताः ॥ अन्यैः कृता तु या पूजा दीक्षासंस्कारवर्जितैः । परार्थे निष्फला ज्ञेया सर्वदोषयुता भवेत् ॥ इत्यादिभिः पाद्मवामनसंहितादिवचनैश्चक्राब्जादिदीक्षाविरहिणां परार्थयजनं निषिद्धम् । तथापि खगप्रश्नपराशरसंहितादिवचनैः पञ्चसंस्कारवतामपि परार्थयजनस्य विहितत्वात् उदाहृतनिषेधवचसां नहिनिन्दान्यायेन चक्रादिदीक्षायुक्तप्राशस्त्यपरत्वमङ्गीकार्यम् । लोकेऽपि तथाऽनुष्ठानं दृश्यते । [[10]] आलये परार्थयजनं गृहे स्वार्थयजनमिति वामनसंहितात्रयस्त्रिंशाध्याये विस्तरेण प्रदर्शितम् । अतः प्रपन्नानां पाञ्चकालिकधर्मो निराबाध इति । ननु भट्टोजिकृततत्वकौस्तुभे, पञ्चरात्रप्रामाण्यं तप्तचक्रादिधारणं च निराकृतम् । तद्विषयप्रमाणानां वेदानधिकृतशूद्रादिविषयत्वं स्थापितम् । तत्कथं त्रैवर्णिकानां पञ्चरात्रविहितपञ्चसंस्कारपाञ्चकालिकधर्मपरिग्रह इति चेत्, अतिमन्दमेतत् पञ्चरात्रप्रामाण्यस्य महाभारतादिप्रमाणोपपत्तिभिः श्रीमदागमप्रामाण्य-श्रीभाष्यश्रुतप्रकाशिका-श्रीरङ्गराजस्तवाधिकरणसारावली-श्रीपाञ्चरात्ररक्षापरमतभङ्गन्यायपरिशुद्धिपरिकरविजयादिषु परपक्षप्रतिक्षेपपूर्वकं स्थापितत्वात् । पञ्चरात्रा-प्रामाण्यात्त्र्यैवर्णिक-विषयत्वबोधकवचनानां तामसपुराणस्थानां श्रुतिस्मृतिपञ्चरात्रेतिहाससात्त्विकपुराणवचनैर्भूयोभिर्भगवत्परत्रैवर्णिकपञ्चसंस्कारपाञ्चकालिकधर्मस्थापनेनाप्रमाण्यं स्वीकार्यम्। “अग्नौ प्रतप्य विधिवत् धारयेद्भक्तिसंयुतः" इति श्रीसच्चरित्र-रक्षोदाहृतसनत्कुमारसंहितावचनेन विधिपूर्वकचक्रादिधारणं विहितमिति निषेधवचसामविधिपूर्वाग्नितप्तचक्रादिधारणपरत्वं स्वीकार्यम् । वैकुण्ठदीक्षितीयेऽपि तथोक्तम् । शङ्करभाष्ये पञ्चरात्राधिकरणे > यदपि तस्य भगवतोभिगमनादिलक्षणमाराधनमजस्रमनन्यचित्ततयाऽभिप्रेयते तदपि न प्रतिषिध्यते । श्रुतिस्मृत्योरीश्वरप्रणिधानस्य प्रसिद्धत्वात् इत्यभिगमनादिरूपभगवद्भजनमङ्गीकृत्य जीवोत्पत्त्याद्यंशे पञ्चरात्राप्रामाण्यमुक्तम् अभिगमनाद्यङ्गीकारे तदङ्गसुदर्शनादिधारणमप्यङ्गीकृतमेव । भट्टोजिनाऽपि मध्वभाष्यदूषणप्रवृत्तेन तत्वकौस्तुभे उपक्रमे "शाङ्करादपि भाष्याब्धेस्तत्वकौस्तुभमुद्धरे" इति शङ्करभाष्यानुसारं प्रतिज्ञातवता भाष्याभिमताभिगमनादितदङ्गसुदर्शनादिधारण-निन्दनरूपाचार्याभिमतविपरीत-भाषणजनितपापभीतेन प्रथमपरिच्छेदान्ते अहृदयवचसामिति न्यायेन परं पिशाचभाषया पिशाचं बोधयितुं दिङ्मात्रं दर्शितं, न तु वास्तवाभिप्रायेणेति, क्षन्तव्यमिदं साहसिकत्वं गुणग्राहिभिस्सूरिभिरिति पञ्चरात्रप्रामाण्यसुदर्शनादिधारणनिन्दारूपं स्ववाक्यं साहसकृतमवास्तवं चेति स्पष्टमभिहितम् । [[11]] द्वितीयपरिच्छेदे मध्वभाष्यदूषणान्येव विस्तरेण प्रपञ्चितानि । परमतभङ्गे "இதுக்கு एकदेशविरोधं சொல்லுகிற अद्वैतिகளும் अभिगमनादयः क्रियन्तां नाम என்று अनुज्ञै பண்ணினார்கள்." इत्यनुगृहीतम् । अत एव पञ्चरात्राधिकरणे मध्यस्थेन कल्पतरुकारेण > पञ्चरात्रस्य पुराणेषु बुद्धादिदर्शनवत् व्यामोहनार्थमीश्वरप्रणिहितत्वाऽश्रवणात् इत्युक्तम् । अतः श्रीपाञ्चरात्रविहितपञ्चसंस्कारपाञ्चकालिकधर्मानुष्ठानादिकं प्रपन्नत्रैवर्णिकानां निराबाधमिति । वैखानसैरपि पञ्चसंस्कार कार्यः - श्रीसच्चरित्ररक्षायां श्रुतिस्मृतीतिहासपुराण-पञ्चरात्रैस्सुर्दनादिधारणस्थापनावसारे > ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्च कृतलक्षणैः । अर्चनीयश्च सेव्यश्च नित्ययुक्तैः स्वकर्मसु ॥ सात्वतं विधिमास्थाय गीतसङ्कर्षणेन यः इति भारतवचनमुदाहृत्य कृतलक्षणशब्दस्यकृतचक्रादिचिह्नपरत्वमेव नार्थान्तरपरत्वमिति सोपपत्तिकमनुगृहीतम् । तदेव वचनं श्रीपाञ्चरात्ररक्षायामुदाहृत्य ब्राह्मणसामान्यान्तःपाति-वैखानसैरपि चक्रादिधारणपूर्वकभगवच्छास्त्रविहिताराधनं कार्यमिति निर्णीतम् । [[12]] अत्यन्तानुष्ठापकतया वैखानसपरिगृहीते अर्चनानवनीते > पञ्चसंस्कारसंपन्ना वैखानसविधानतः । आकारत्रयसम्पन्ना अर्चेयुर्मन्दिरे हरिं इति वचनेन तेषां पञ्चसंस्कारवत्त्वं प्रतिपादितम् । मध्यस्थमाधवीयवैद्यनाथीयादि-धर्मशास्त्रनिबन्धनेष्वेकादशीनिर्णये > वैखानसाद्यागमोक्तदीक्षायुक्तो हि वैष्णवः ॥ परमापदमापन्नो हर्षे वा समुपस्थिते ॥ नैकादशीं त्यजेद्यस्तु यस्य दीक्षा तु वैष्णवी ॥ इति वचनमुदाहृत्य वैष्णवैकादशीव्यवस्था कृता तत्र दीक्षाशब्दः पञ्चसंस्काररूपदीक्षापरः । श्रीन्यायपरिशुद्धौ श्रीपाञ्चरात्रवैखानसयोर्भगवच्छास्त्रैककण्ठत्वं विखनस्सूत्रतदनुसारिभार्गवादिचतुष्कप्रामाण्यं स्थापयद्भिर्वैखानसा ब्राह्मण्यनिकृष्टजातित्वादिनिराकरणपूर्वकं सर्वोत्कृष्टब्राह्मण्यं स्थापितम् । > वर्णाश्रमधर्माणामनुकलं[[??]] नारायणपरत्वप्रतिपादनादेरपि सत्त्वमूलत्वेन प्रामाण्यैकहेतुत्वात् इति श्रीन्यायपरिशुद्ध्यनुगृहीतप्रकारेण नारायणपारम्यतदाराधनवर्णाश्रमधर्मविधिवादिना विखनसा तदनुसारि भृग्वत्र्यादिभिस्तदनुसार्यधिकारग्रन्थकारैश्च श्रुतिभगवच्छास्त्रस्मृतिपुराणविहिततापादिसंस्कारे अनङ्गीकारः केनापि वक्तुं न शक्यते । बहोः कालादारभ्याद्यापि परनिर्बन्धमन्तरा वैखानसेषु पञ्चसंस्काराचरणं तत्र तत्र दृश्यते । यदत्र वैखानसभूषणे भगवच्छास्त्रविद्वेषिणा श्रीनिवासदीक्षितेन पूर्वोक्तवैखानसशास्त्रनिबन्धनाद्यनुदाहृतान्यदृष्टमूलकानि पञ्चरात्रवचनतया कानिचिद्वचनानि चोदाहृत्य पुंसवनसीमन्तोन्नयनसमय एव चक्रादिलेखनयुक्तक्षीरप्रदानेन वैखानसानां चक्रादिधारणसिद्धिरित्युक्तं न तप्तचक्रादि-धार्यमिति, तत्पामरप्रतारणमात्रं तथा प्रमाणाभावात्, वैखानसभूषणग्रन्थमूलकमेवेदानीं वैखानसानां केषांचित् सुदर्शनाद्यधारणं, अतस्तद्ग्रन्थ आग्रहमूलकः अविश्वसनीय इति बोध्यम् । [[13]] श्रीपाञ्चरात्ररक्षापरमतभङ्गादिषु वैखानसे पञ्चरात्रनिन्दावचनवत् पञ्चरात्रे वैखानसनिन्दावचनानि सन्तीति तेषां नहिनिन्दान्यायेन स्वशास्त्रस्तुतिपरत्त्वमेव न निन्दापरत्वमित्यनुग्रहीतम् । वैखानसप्रशंसावचनसत्त्वे तत्प्रस्तावः कृतस्स्यात् । चतुर्णामाश्रमाणां तापसंस्कारे अधिकारः > स्वाग्नौ कुर्यात् ब्रह्मचारी तप्तचक्रादिधारणम् । पञ्चरात्रोक्तविधिना मन्त्ररूपं विधानतः ॥ स्वाग्नौ कुर्याद्गृही तद्वत् वानप्रस्थस्तथैव च । कुर्याद्देवालयाग्नौ च सन्यासी होममार्गतः इति पराशरसंहिता-चतुर्थाध्यायवचनसिद्धः सन्यासिनो देवालयाग्नौ होमविधानं ग्रामान्ते देवगृहे शून्यागारे इति यतिधर्मसमुच्चयस्थवसिष्ठवचनावगतदेवालयावास-दशाभिप्रायेण देवालयभिन्नदेशवासे तदन्याग्नितप्तसुदर्शनादिधारणानुष्ठानदर्शनात् होमश्च शिष्यगृहस्थेन कार्यः होळकाधिकरणन्यायानुगुणाविगीतशिष्टाचारात्पूर्वाचार्यसम्प्रदायाच्च । > यद्यप्येते श्रुतिस्मृत्यादयो न सन्दृश्येरन् तथाऽपि नेदमानुष्ठानं हेयम् । होलकाधिकरणन्यायात् । सर्वदेशवर्तिनोप्याचाराः सम्प्रतिपन्न श्रुत्याद्यविरुद्धाः सर्वेषामुपादेया इति निरणैषुः । > अयं खल्वनधीतवेदानामश्रुतमीमांसानामालापः अविगीतशिष्टाचारस्यैव मूलप्रमाणकल्पकत्वात् । तत एव चोदनालक्षणत्वसिद्धिः इति श्रीसच्चरित्ररक्षातत्त्वटीका-श्रीसूक्त्यनुगृहीतन्यायेन शिष्टाचारपूर्वाचार्यसम्प्रदायानुसाराच्च । एतेन यतेः धातुपरिग्रहनिषेधात् तापसंस्कारे अनधिकार इति मन्दमत्युक्तं परास्तम् । उत्सर्गापवादन्यायेन सामान्यनिषेधस्य विशेषशास्त्रविहितताप-संस्कारव्यतिरिक्तविषयत्वात् । सन्यासिनश्शिष्यपरिग्रहनिषेधोपि > शुश्रूषालाभपूजार्थं यशोऽर्थं वा परिग्रहः । शिष्याणां न तु कारुण्यात् स ज्ञेयश्शिष्यसङ्ग्रहः ॥ इति यतिधर्मसमुच्चयवचनेन करुणामूलक-शिष्यसङ्ग्रहव्यरिक्तिविषय इत्यवसीयते नच सोऽपि तुर्याश्रमप्रदानमात्रविषय इति वाच्यम् । [[14]] तथा विशेषानुपलम्भेन तस्य वचनस्य सर्वविषयशिष्टसङ्ग्रहपरत्वावसायात् । > अतश्शिष्टानुष्ठानबलादेव स्तुतिपरत्वमध्यवस्यामः > अनुष्ठानतस्तद्व्यवस्थापनात् अद्यापि सद्यश्शौचं व्रतादिषु शिष्टैरनुष्ठीयते इति श्रीपाञ्चरात्ररक्षाप्रथमतृतीयाधिकारानुगृहीतन्यायेन करुणामूलशिष्यसङ्ग्रहमन्त्र-वेदान्तार्थाद्युपदेशविषयपरत्वस्य स्वीकार्यत्वात् । अत एव यतिधर्मसमुच्चयादिषु > ब्रह्मनिष्ठे मृते पुत्रः खनेच्छिष्योथवा गृही इत्यादिभिर्वचनैश्शिष्यगृहस्थस्य यतिसंस्कारविधानमुपपन्नं न चोदाहृतवचनस्थसन्यासिपदमालयकर्माधिकृत-पाञ्चरात्रिकयतिविषयमित्यतस्तद्भिन्नयतेर्न तापाधिकार इति वाच्यम् । सन्यासीति सामान्योक्तेः स्मर्यते च > केशवार्चागृहे यस्य न तिष्ठति महीपते । तस्यान्नं नैव भोक्तव्यमभक्ष्येण समं हि तत् ॥ इति । > तत्र पक्वमन्नमपक्वं वा केशवार्चारूपनित्यधर्मरहिते गृहे न प्रतिग्राह्यम् उभयत्रान्नशब्दप्रयोगात् अन्यथा पक्वान्नमिति विशेषणप्रयोगानुपपत्तेः इति श्रीपाञ्चरात्ररक्षानुगृहीतन्यायेन विशेषविवक्षया यतयः पाञ्चरात्रिका इति जयाख्यसंहिताविंशपटलवचने पाञ्चरात्रिकत्वरूपविशेषणोपादानेनात्र सर्वसन्यासिविषयत्वावसायात् पाञ्चरात्रकियतिप्रकरणाद्यभावाच्च । अतः यतेस्तापाधिकारो निराबाधः । अत्र चतुर्वेदशतक्रतु-सुधानिधिकार-पाञ्चरात्ररक्षाहृदयकृद्-रङ्गनाथस्वामी- वात्स्यवेदान्ताचार्याः, तत्-तत्-कृताह्निक-हेयोपादेय-कथनावसरे क्रमेण एक, इतर, अन्य, पर, अपर, शब्दैर्व्यवह्रियन्ते । +++(5)+++ श्रीपाञ्चरात्ररक्षा-वाक्योदाहरणे ऊर्ध्व-पुण्ड्र--भगवन्-निवेदित-प्राशनादि-विषये श्रीसच्चरित्र-रक्षा-वाक्योदाहरणे च कर्तव्ये "तद् उक्तम्" इति प्रयुज्यते ।+++(5)+++ [[15]] तदुक्तम् - > अथोपक्रम्यते नित्य- कर्तव्य-क्रम-सञ्चयः । नाथयामुनपूर्णादि- सम्प्रदायसरित्पथे ॥ > > अत्र यदुक्तं भगवद्-यामुनाचार्यैश् श्रीमद्-गीतार्थसङ्ग्रहे - > >> ज्ञानी तु **परमैकान्ती** तद्-आयत्तात्म-जीवनः । तत्-संश्लेष-वियोगैक- सुख-दुःखस् तद्-एक-धीः ॥ भगवद्-ध्यान-योगोक्ति- वन्दन-स्तुति-कीर्तनैः । लब्धात्मा तद्-गत-प्राण- मनो-बुद्धीन्द्रिय-क्रियः ॥30॥ निज-कर्मादि भक्त्य्-अन्तं **कुर्यात्** प्रीत्यैव कारितः । उपायतां परित्यज्य न्यस्येद् देवे तु ताम् अभीः ॥31॥ > > इति +इदं तावद् > आप्रभाताद् आनिशान्तम् अनुष्ठीयमानेषु सर्वेषु कर्मसु > **न विस्मर्तव्यं**, > समयाचारनियमाध्याय-श्रीवैष्णव-धर्म-शास्त्रादि-कथितं > परमैकान्तिनां विशेषकर्तव्यं च > सर्वं यथावद् **अधिगन्तव्यम्** । > सर्वेषु च कर्मारम्भेषु भगवच्-छास्त्राद्य्-उक्तस् तत्-तन्-मन्त्रः, भगवानेवेत्य्-आदिकं भाष्यकारनित्योक्तं च वाक्यं **पठितव्यम्** । > अन्ते च स्वनियाम्येत्यादिक्रमेण समन्त्रकं भगवति समर्पणीयम् इति श्रीगीतार्थ-सङ्ग्रह-रक्षायाम् उदाहृत-श्रीयामुनेयश्लोकास् सम्यग्-व्याख्याताः - श्रीचरमश्लोकाधिकारे > स्वतन्त्रप्रपत्तिनिष्ठ ன் திறத்தில் இச் ஸ்லோகங்களை யோஜிக்கும் போது இவனா ज्ञानुज्ञै களாலே பண்ணும் கைங்கர்யம் எல்லாம் भक्तियोगादि களின் கட்டளை குலையாதிருந்தாலும் स्वामिसन्तोष மொழிய வேறோரு ரு स्व स्वर्गमोक्षादिप्रयोजन னத்துக்கு उपाय மாக அனுஷ்டிக்கிறானல்லாமையாலே இவனுக்கு अनन्योपाय தையும் अनन्यप्रयोजन னதையும் குலையாதிருக்கிறபடியையும் अकिञ्चन னான நான் இவனுக்கு ईश्वर ன் தானே उपायान्तरस्था னத்திலே நின்று फलं கொடுக்கிறபடியையும் சொல்லுகையிலே தாத்பர்யம். इत्य् अनुगृहीतत्वात्, > परमैकान्तिभिः प्रपन्नैः फल-सङ्ग-कर्तृत्वोपायत्व-त्याग-पूर्वक-- स्वयम्-अप्रयोजन--स्व-वर्णाश्रमादि-धर्म-- सचिवाभिगमनोपादानेज्या-स्वाध्याय-योग-रूप-भगवत्-सेवनं कार्यम् इति श्रीयामुनेय-श्रीसूक्त्य्-अर्थः । [[16]] एतद्-अर्थ-चिन्तनं सर्वकर्मसु कार्यम् इति यावत् । समयाचार-नियमाध्यायः, श्रीसात्त्वतैकविंशति-परिच्छेदः श्रीनिक्षेप-चिन्तामणाव् उदाहृतः, संहितान्तर-स्थास् समय-प्रतिपादकाध्यायाश्च, श्रीवैष्णव-धर्मशास्त्रम् आश्वमेधिके श्रीकृष्ण-कथित-श्रीवैष्णव-धर्मोपदेशरूपम्, आदिपदेन शाण्डिल्य-हारीतादि-स्मृतिसङ्ग्रहः, तद्-विहित-परमैकान्ति-विशेष-कर्तव्यम् अन्-अन्य-देवताक--स्वयं-प्रयोजनत्वादि-विशिष्टं कर्म सर्वं यथावद् अधिगन्तव्यं - सर्वेषु च कर्मारम्भेषु भगवच्-छास्त्राद्य्-उक्तस् तत्-तन्-मन्त्रः +++(=कान्य् उदाहरणानि??)+++ भगवच्-छास्त्रोक्त-बलमन्त्रश् च कर्मारम्भे पठितव्यः > कर्मारम्भेण मन्त्रेण > तत्-तत्-कर्म समाचरेत् इत्य्-आचार्य-पादानुगृहीतम् इह भाव्यम् । आदिपदार्थश् शाण्डिल्य-स्मृतिः । तत्र > प्रणवाद्येन मन्त्रेण कर्मारम्भे पुनर् जपेत् इत्युक्तम्। श्रीगीता-भाष्ये - > वैदिकस्य कर्मणः सामान्य-लक्षणं प्रणवान्वयः । तत्र मोक्षाभ्युदय-साधनयोर् भेदस् "तत्-सच्"-छब्द-निर्देश्यत्वेन इति, अन्यत्र > हरिर् ओम् इति निर्दिश्य यत् कर्म क्रियते बुधैः । अधीयते वा राजर्षे तद्धि वीर्योत्तरं भवेत् ॥ इति हरिशब्दनिर्देशश् च विहितः। एतत्सर्वमादौ निर्देश्यम् । अथ > निश्चयं शृणु मे तत्र > त्यागे भरतसत्तम इत्यादिभगवद्गीतानुसारेण श्रीभाष्यकारोक्त-सात्त्विक-त्याग-वाक्यं क्रियारम्भे पठितव्यम् इत्य् आह - **भगवानेवेति** । श्रीनित्योक्तम् एव सात्त्विक-त्याग-वाक्यं श्रीगीता-भाष्य--गीतार्थ-सङ्ग्रह-रक्षोक्त-वाक्यानुसारेण तत्-तत्-कर्मानुसारेण तत्-तत्-कर्मानुगुणोपयुक्तं पठितव्यम् इति भावः । [[17]] श्रीगीताभाष्यस्थसात्त्विकत्यागवाक्यं तात्पर्यचन्द्रिकायाम् एवं विवृतं > **स्वकीयेनात्मना कर्त्रे**ति । स्वशेषभूतेन जीवेन प्रयोज्य-**कर्त्रेत्यर्थः** । > > **स्वकीयैश् चोपकरणैर्** इति - यदासौ जीवः पर-शेष-भूतः तदा तस्य स्व-शेषतया प्राग्-अभिमतं हविर्-आदिकमपि परशेषभूतम् इति कैमुतिक-न्याय-सिद्धम् इति भावः । > > **स्वाराधनैकप्रयोजनाये**ति । शेषस्य शेषिण्य् +++(गर्भदासस्य स्वामिनीव)+++ अतिशयाधानम् एव प्रयोजनमिति भावः। आह च वेदार्थसङ्ग्रहे - "+++(गर्भदासस्य स्वामिनीव)+++ परगतातिशयाधानेच्छयोपादेयत्वम् एव यस्य स्वरूपं स शेषः, परः शेषी" इति। > > **स्वकीयेन** +इत्यादौ प्रमाण-सूचनाय सर्वशेषीत्य्-आद्य् उक्तम्। > > **स्वयम् एवेत्यादि**। आराध्यभूत एवाराधनं कारयतीति भावः। एवकारेण प्रवर्तकान्तरं च व्युदस्तम्। > > **कारयतीति** - सर्वेश्वरः सन्, स्वेष्टं सर्वं स्वयम् एव कर्तुं शक्तोऽपि स्वशेष-भूत-जीवानां शास्त्र-वश्यत्व--तत्-फल-भोक्तृत्वादि-सिद्ध्यर्थं तान् कर्तॄन् कारयतीति भावः। इति । नित्य-ग्रन्थ-स्थ-सात्त्विक-त्याग-वाक्यस्य परि-जन-परिच्छदान्वित-भगवद्-औपचारिकादि-भोग-विषयतया ऽन्यत्रासम्भवात्, क्रियान्ते नित्यान्त-स्थ-सात्त्विक-त्याग-वाक्य-पठन-पूर्वकं भगवति समर्पण-प्रकारम् आह - **अन्तेचे**ति । अत्राप्य् ऊह-विशेषो बोध्यः । अत्र मन्त्र-विशेषानुक्तेः "कृतं चे"त्यादिना "भगवान् प्रीयतां वासुदेव" इति प्रीणन-मन्त्रान्तेन समर्पणीयम् इति बोध्यम् । श्री-लक्ष्मी-तन्त्रे षट्-त्रिंशे ऽध्याये > पश्चात् स्व-नाम निर्दिश्य प्रीतिं पश्चात्-समाचरेत् । "प्रीयतां भगवान् पश्चाद् वासुदेवस् स्वतः परम् ॥ ओमों प्रीयतां भगवान् वासुदेव" इति ब्रुवन् इति । पारमेश्वरे त्रयोदशाध्याये - > अनेनोत्सव-योगेन योग-पूजादिकेन च । निर्वर्तितेन भगवन् त्वं मम प्रीयताम् इति । वचनतः प्रीणन-मन्त्रेण कर्म-समर्पणं विहितम् । - > देव-पादौ स्वहस्ताभ्यां गृहीत्वा शिरसा नमन् । प्रीणयेद् दत्त-भोगेन "प्रीयतां भगवान्" इति ॥ इति वङ्गिवंशेश्वरवाक्येनापि तथैवावगतम् । [[18]] श्रीपाञ्चरात्ररक्षायां > ब्राह्म-मुहूर्तादि-प्राप्तौ यत् कर्तव्यं तत् तावत् तच्-छिष्य-प्रशिष्य-ग्रन्थ-- तन्-मूल-भूत-संहिताद्य्-अनुसारेण सङ्गृह्यते इति श्रीसूक्त्या श्रीभाष्य-काराव्यवहित-शिष्य-वङ्गि-वंशेश्वरोक्त-प्रीणन-मन्त्रान्तेन स्व-नियाम्येत्यादि-श्री-भाष्य-कार-वाक्येन समर्पणम् एवाचार्यपादाभिमतम् इति ज्ञायते । सहस्र-नाम-भाष्ये “युधिष्ठिरश्शान्तनवं पुनरेवाभ्यभाषते’’त्य् एतद्-व्याख्याने > सन्तो ह्याचार्यनिष्ठाम् अन्विष्य > तद्-रुचि-परिगृहीतम् एव तत्त्वं हितं च रोचयन्ते। > न तु प्रामाणिकत्व-मात्रेण इत्य्-उक्तत्वेन पूर्वाचार्योपदेशानुष्ठान-पारम्पर्य-सिद्धं प्रीणन-मन्त्रान्त-वाक्य-करणकं तत्-तत्-कर्म-समर्पणं युक्तिम् इति हृदयम् - मूले उपदेशानुष्ठान-पारम्पर्यानुसारेण योगाभिगमनोपादानेज्या-स्वाध्यायान्तेषु तथैवोक्तेः । एतेन > स-मन्त्रकम् इति मूल-मन्त्रोऽभिप्रेत इत्य्-अन्योक्त-पक्षः प्रमाण-सम्प्रदायाननुगुण इत्य् उपेक्ष्यः - तद् उदाहृत-मूल-मन्त्र-योजन-विधायि-वचनानां पाञ्चरात्रिक-विषयित्वम् एव न तु तद्-भिन्न-त्रयी-निष्ठ-प्रपन्न-विषयत्वम् इति प्रमाण-सम्प्रदाय-प्रदर्शन-पूर्वकं सत्-पथ-रक्षायां नित्य-नैमित्तिक-विचारे सम्यक् स्थापितम् अस्माभिः । सर्वत्र शास्त्रीय-कर्मारम्भे स्वाचार्य-प्रभृति-भगवत्-पर्यन्त-गुरुपङ्क्ति-भजनं कार्यम् । तद् उक्तम् - > सर्वत्र च शास्त्रीयकर्मारम्भे स्वाचार्य-प्रभृति-भगवत्-पर्यन्त-गुरु-पङ्क्ति-प्रपदनं निश्रेयसाय भवति इति । न च भगवत्-प्रभृति-स्वाचार्य-पर्यन्तं तत्-क्रमेण गुरु-पङ्क्ति-भजनं कार्यं - “लक्ष्मीनाथ-समारम्भां” "कमप्याद्यं गुरुं वन्दे” इत्यादौ तथा दर्शनाद् आचाराच् चेति वाच्यम् । उक्त-तृतीयाधिकारे > गुरून् प्रपद्य प्रथमं तद्-गुरूंश् च ततो हरिम् >गुरुं देवं नमस्कृत्य इत्यादिप्रमाण-प्रदर्शन-पूर्वकं शास्त्रीय-सर्व-कर्मारम्भे भगवत्-पर्यन्त-गुरु-पङ्क्ति-प्रपदनं निश्रेयसाय भवतीत्युक्त्वा > उक्तं च रहस्याम्नाय-ब्राह्मणे > >> स चाचार्यवंशो ज्ञेयो भवति, >> आचार्याणाम् असाव् असाव् इत्य् आ भगवत्तः इति श्रुतेर् उदाहृतोपबृंहणैकार्थ्य-समर्थनात्, तत्र प्रपद्य प्रथमं तत इति श्रुत्यैव क्रमप्रतीतेः । [[19]] श्रीगुरुपरम्परासार-निक्षेपरक्षयोः - > முமுக்ஷவுக்காசார்ய வரம் பகவானளவுஞ் செல்ல வனுஸந்திக்க வேணுமென்றோதப்பட்டது > आरभ्य स्वगुरोरा च भगवत्तो यथागमम् । तदाचार्यस्य वंशस्यासावसाविति चिन्तनम् ॥ इत्युदाहृतश्रुत्यर्थविवरणात् । वाक्यश्लोकगुरुपरम्पराक्रमस्यैव “अस्मद्गुरुपरमगुरून्” “என்னுயிர் தந்தளித்தவரைச் சரணம் புக்கு” इत्याचार्यपादश्रीसूक्त्यङ्गीकृतत्वाच्च । “लक्ष्मीनाथसमारम्भाम्" इत्यत्र यथा प्रमाणं वन्दे इत्येवार्थो वाच्यः न तु प्रमाणमुल्लङ्घ्येति । “कमप्याद्यं गुरुम्" इत्यत्र न गुरुपङ्क्तिभजनक्रमविवक्षा, श्रीभाष्यकार एव भजनविश्रान्तेः । तच्छिष्यप्रभृति-स्वाचार्यपर्यन्तगुरुभजनानुक्तेः । > अत्रोपजीव्यप्रबन्धनिर्माणक्रमानुसारेण पराशरपराङ्कुशनमस्कारक्रमः इति श्रीस्तोत्रभाष्योक्तन्यायेन > प्रवक्ता छन्दसां वक्ता इति सर्वोत्कृष्टप्रमाणप्रवचननिर्माणरूपमहोपकारमुक्त्वा > आचार्योपसत्तेरपि भगवत्कटाक्षहेतुत्वावगमात् इत्यादिश्रुतप्रकाशिकोक्तप्रकारेणाचार्यप्राप्तेः भगवत्कटाक्षहेतुत्वज्ञापनाय "सहधर्मचरी’’मित्यादीन् “प्रमाणं लक्ष्मणमुनि"रित्यन्तान् गुरून् भजन् श्लोकांश्चकार । किं च कमप्याद्यमित्यादेः भगवत्प्रभृति गुरुवन्दनक्रमपरत्वं न सम्भवति । पाठक्रमापेक्षया श्रौतक्रमबलीयस्त्वस्य मीमांसान्यायसिद्धत्वेन, प्रदर्शितोपबृह्मणश्रौतक्रमापेक्षया दुर्बलत्वात् । >> न च भगवन्तमारभ्य स्वाचार्यपर्यन्तं गुरुपरम्परानुसन्धानक्रमोप्याचार्यपादसम्मतः தானிப்படிப் பெற்ற श्री रहस्यत्रयसारार्थ மான.. .... > > महाधन த்தை முன்னில் அதிகாரத்தில் उचितस्थानम சொன்னபடியே > > कथयामि यथापूर्वं दक्षाद्यैर्मुनिपुङ्गवैः । पृष्टः प्रोवाच भगवानब्जयोनिः पितामहः ॥ तैश्चोक्तं पुरुकुत्साय भूभुजे नर्मदातटे । सारस्वताय तेनापि मम सारस्वतेन च ॥ [[20]] > என்று श्रीपराशरब्रह्मर्षिमैत्रेयभगवा னுக்கு गुरुपरम्परैயை प्रकाशि ப்பித்துக் கொண்டு தன் कृतज्ञ கொண்டு தன் इति शिष्यकृत्याधिकारेऽनुगृहीतत्वादिति वाच्यं - तत्र गुरुपरम्परानुसन्धानक्रमस्याविवक्षितत्वात् । उक्तवाक्यं सारास्वादिन्यामेवं व्याख्यातं இப்படி असूयाग्रस्तं கையிலே காட்டிக் கொடாதே ரக்ஷித்துக் கொள்ளவுமென்று சொன்னது கூடுமோ? அப்போது सम्प्रदायोच्छित्तिप्रसङ्गि யாதோ पूर्वाधिकारोक्तरीत्या सच्छिष्यன் लब्धனாகில் उपदेशिகக வேண்டுகையாலே सम्प्रदायोच्छित्ति இல்லையென்றிலப் போது शिष्य னுக்கிவர் ஏடு பார்த்துச் சொல்லுகிறானோ வென்றும் வேரில்லாக் கொத்தானோ வென்றும் अतिशङ्कै प्रसङ्गि யாதோ ? स्वाचार्यप्रदर्शनपूर्वक முपदेशिकं க்க வேண்டுமென்னில் प्राचार्य னுக்கு अमूल அபுனமாக வந்துதோ வென்று अतिशङ्कै வாராதோ வென்ன அருளிச் செய்கிறார். தான் இப்படி பெற்ற रहस्य इति सारदीपिकायां > இனிरहस्यसम्प्रदायप्रवर्तनरूप மான शिष्यकृत्य த்தின் प्रकार ம் காட்டுகிறார். தானிப்படிப் பெற்றவிत्यादि सारप्रकाशिकायामप्येवमुक्तम् । श्रीभाष्यमहासिद्धान्ततच्छ्रुतप्रकाशिकयोः श्रीविष्णुपुराणप्रथमाध्याये मैत्रेयप्रश्नानां सङ्क्षेपेण प्रतिवचनं विष्णोस्सकाशादिति श्लोकेनोक्तमित्यभिधाय, द्वितीयाध्याये विशेषेण पुराणार्थं वक्तुं पुराणप्रतिपाद्यनमस्कारकथनादिकं कृतमित्यनुगृहीतम् । [[21]] श्रीविष्णुचित्तकृतपुराणरत्नव्याख्याने द्वितीयाध्यायोपक्रमे तदेवं संक्षेपत उक्तानां प्रतिवचनानां विवरणतयाऽवतार्यमाणस्य पुराणरत्नस्यारम्भमविकारायेत्यादिभिर्नवभिः श्लोकैः पुराणप्रतिपाद्यस्वाभिमतदेवतानमस्कारपूर्वकं प्रतिजानीते । तत्र कारणत्वाभिधानतः प्रसक्तं विकारित्वं निरस्य**त्यविकाराये**ति । अथ श्रोतॄणामादरार्थं स्वस्याप्ततमगुरुपारम्पर्यक्रममाह **कथयामीति द्वाभ्याम्** उदाहृतपूर्वाचार्यश्रीसूक्तितद्व्याख्यापरामर्शे आचार्योपदिश्यमानार्थे शिष्यस्यासाम्प्रदायिकत्वशङ्कापरिहारपूर्वकादरसिद्ध्यथं “कथयामि यथा पूर्वम्" इत्यादिविष्णुपुराणवाक्यप्रवृत्तिरित्यवगम्यते । सङ्ग्रहपुराणार्थोपदेशपुराणप्रतिपाद्यदेवतानमस्कारानन्तरं विस्तृतोपदेशसमये आप्ततमगुरुपारम्पर्यज्ञानाय “दक्षाद्यै”रिति वाक्यप्रवृत्तेः । बृहदारण्यकषष्ठाष्टमाध्यायान्तयोः ब्रह्मस्वरूपोपासनपुरुषार्थोपदेशानन्तरं "अथ वंशः पौति माहिष्यः" इत्यादिना गुरुपरम्परोपदेशाच्च उपदेशस्य मध्येऽवसाने वा सम्प्रदायक्रमोपदेशः कर्तुं शक्यत इत्यवगम्यते । अत एव सारास्वादिन्यामुदाहृत-शिष्यकृत्याधिकारव्याख्यावसरे रहस्यारम्भकर्तव्यशास्त्रीयगुरुपरम्परानुसन्धानक्रमः गुरुपरम्परासारोक्त एव ग्राह्यः, अमूलकत्वशङ्कानिरासपूर्वकसदाचारसम्प्रदायक्रमः शिष्यकृत्याधिकारवाक्योक्त इत्यनुगृहीतम् । अतः पूर्वोक्तस्वाचार्यादिभगवत्पर्यन्तगुरुपरम्परानुसन्धानक्रमो निराबाध एव । श्रीगुरुपरम्परासारगुरुव्याख्याने विस्तरोऽनुसन्धेयः । आचार्यपादप्रशिष्यवात्स्यवरददेशिकशिष्यशठकोपमहादेशिकानामाचार्यपादनिर्णीत-गुरुभजनक्रम एवाभिमत इत्यवश्यमङ्गीकार्यम् । [[22]] अतः श्रीदेशिकसम्प्रदायस्थैस्तदुक्तगुरुपरम्परानुसन्धानक्रम एवादरणीयः, नान्यः - > सम्प्रतिपन्नशास्त्रविरुद्धமான सम्प्रदायமும் भ्रमविप्रलम्भसम्भाவனை உண்டாகையாலே बाह्यतुल्यமாகையாலே अविश्वसनीयम् इति श्रीसम्प्रदायपरिशुद्धिवाक्यात्, > शास्त्रविरुद्धाचारो नाचारः इति सुधीविलोचनरत्नाकराद्युक्तम् । अतः अस्मदुक्तक्रमेणैव गुरुपङ्क्त्यनुसन्धानं युक्तमिति । सर्वकर्मस्वाचार्यपादप्रदर्शित-दक्षशौनकवचनविहितनारायणहरिस्मरणमपि कर्तव्यमित्यलम् ।
विश्वास-प्रस्तुतिः ब्राह्मे मुहूर्ते सम्प्राप्ते **निद्रां परित्यज्य**,
मूलम् ब्राह्मे मुहूर्ते सम्प्राप्ते निद्रां परित्यज्य,
आह्निकार्थप्रकाशिका अथ रात्रि-चरम-याम-प्रभृति--पर-दिन-रात्रि-याम-त्रय-पर्यन्त-कालेषु पञ्चधा विभक्तेषु कर्तव्य-कर्माणि विवक्षुः ब्राह्म-मुहूर्त-प्रबोधादिकम् आह **ब्राह्मे मुहूर्** इत्यादिना । ब्राह्मो मुहूर्तः - > रात्रेस्तु पश्चिमो यामो > मुहूर्तो ब्राह्मसंज्ञितः । इति रत्नाकर-स्थ-वचनावगतः । तत्र निद्रा त्याज्या । > ब्राह्मे मुहूर्त उत्थाय > धर्मम् अर्थं च चिन्तयेत् । > याम-द्वयं शयानस् तु > ब्राह्मे मुहूर्ते संप्राप्ते > निद्रां त्यक्त्वा प्रसन्नधीः । > ब्राह्मे मुहूर्ते सत्त्वस्थो > हरिर्हरिरिति ब्रुवन् । इत्याचार्यपादोक्तेः तत्र **निद्रात्यागः** अजीर्ण-दशा-व्यतिरिक्त-काल-विषयः । तद् उक्तम् - > तत्-तत्-पुरुष-शक्त्य्-अनुसारेणैव हि > नित्य-नैमित्तिक-काम्य-विषयाणां सर्वेषां शास्त्राणां प्रवृत्तिः । अत एव हि धर्म-साधनेषु प्रधान-तमं शरीरं रक्षितुं प्रवृत्ते > ब्रह्मा स्मृत्वा ऽयुषो वेदम् > उपवेदम् अथर्वाणाम् इत्य् अथर्वणवेदोपवेद-भूतायुर्वेदे > ब्राह्मे मुहूर्ते उत्तिष्ठेज् > जीर्णाजीर्णे निरूपयेत् । > अजीर्णे पुनर् आसन्ध्या- > ऽगमात् स्वापो विधीयते । इति । ईदृशं सर्वक्रोडीकारेणं हि > युक्तस् स्वप्नावबोधस्य इति गीतम् । तस्मात् सर्वेषु मानवेषु प्रायिकतयौत्सर्गिकौ निद्रा-प्रबोध-कालौ "याम-द्वयं शयान" इत्यादिभिर् उपदिश्यन्ते इति विषयव्यवस्था ।
[[23]]
विश्वास-प्रस्तुतिः सप्त-कृत्वो हरिर् हरिर् इति **शब्दं कीर्तयन्** तम् एव **चिन्तयंश् चोत्थाय**, > ग्राह-ग्रस्ते गजेन्द्रे रुवति, सरभसं तार्क्ष्यम् आरुह्य **धावन्** **व्यघूर्णन्** माल्य-भूषा-वसन-परिकरो मेघ-गम्भीर-घोषः । **आबिभ्राणो** रथाङ्गं शरम् असिम् अभयं शङ्ख-चापौ स-खेटौ+++(=वर्माणौ)+++ हस्तैः कौमोदकीम् अप्य् **अवतु** हरिर् असाव् अंहसां संहतेर् नः ॥ > > प्रातस् **स्मरामि** भव-भीति-महार्ति-शान्त्यै नारायणं गरुड-वाहनम् अञ्जनाभम् । ग्राहाभिभूत-मद-वारण-मुक्ति-हेतुं चक्रायुधं तरुण-वारिज-पत्र-नेत्रम् ॥ > > प्रातर् **नमामि** मनसा वचसा च मूर्ध्ना पादारविन्द-युगलं परमस्य पुंसः । नारायणस्य नरकार्णव-तारणस्य पारायण-प्रवण-विप्र-परायणस्य । > > प्रातर् **भजामि** भजताम् अभयङ्करन् तं प्राक्-सर्व-जन्म-कृत-पाप-भयापनुत्यै । यो ग्राह-वक्त्र-पतिताङ्घ्रि-गजेन्द्र-घोर- शोक-प्रणाशम् **अकरोद्** +धृत-शङ्ख-चक्रः । > > श्लोकत्रयम् इदं पुण्यं > प्रातर् उत्थाय **यः पठेत्** । > लोकत्रय-गुरुस् तस्मै > **दद्याद् आत्म-पदं** हरिः ॥ इति हरि-शब्दार्थतया प्रसिद्धं समस्त-पाप-हरं **भगवन्तम् अनुसन्धाय**,
मूलम् सप्तकृत्वो हरिर्हरिरिति शब्दं कीर्तयन् तमेव चिन्तयंश्चोत्थाय, > ग्राहग्रस्ते गजेन्द्रे रुवति सरभसं तार्क्ष्यमारुह्य धावन् व्यघूर्णन्माल्यभूषावसनपरिकरो मेघगम्भीरघोषः । आबिभ्राणो रथाङ्गं शरमसिमभयं शङ्खचापौ सखेटौ हस्तैः कौमोदकीमप्यवतु हरिरसावंहसां संहतेर्नः ॥ प्रातस्स्मरामि भवभीतिमहार्तिशान्त्यै नारायणं गरुडवाहनमञ्जनाभम् । ग्राहाभिभूतमदवारणमुक्तिहेतुं चक्रायुधं तरुणवारिजपत्रनेत्रम् ॥ प्रातर्नमामि मनसा वचसा च मूर्ध्ना पादारविन्दयुगलं परमस्य पुंसः । नारायणस्य नरकार्णवतारणस्य पारायणप्रवणविप्रपरायणस्य । प्रातर्भजामि भजतामभयङ्करन्तं प्राक्सर्वजन्मकृतपापभयापनुत्यै । यो ग्राहवक्त्रपतिताङ्घ्रिगजेन्द्रघोर- शोकप्रणाशन(म)करोद्धृतशङ्खचक्रः । श्लोकत्रयमिदं पुण्यं प्रातरुत्थाय यः पठेत् । लोकत्रयगुरुस्तस्मै दद्यादात्मपदं हरिः ॥ इति हरिशब्दार्थतया प्रसिद्धं समस्तपापहरं भगवन्तमनुसन्धाय,
आह्निकार्थप्रकाशिका सप्तकृत्वः हरिशब्दं कीर्तयन्निति । तदुक्तम् - > अत्र हरिशब्द-सङ्कीर्तनं सप्तकृत्व इति श्री-गृद्ध्र-सरो-मुनिभिर् नित्य-क्रम-सङ्ग्रहे निबद्धम् । उत्तिष्ठतश् च हरि-शब्द-पूर्वक-भगवद्-अनुस्मरणं श्रीविष्णु-धर्मे भगवता शौनकेनोक्तं > उत्तिष्ठंश् चिन्तय हरिं > व्रजंश् चिन्तय केशवं इत्यादिना, > पापं तद्-विपाक-रूपं सर्वं > हरतीत्य् अत्र हरिशब्दः > ब्रह्माणम् इन्द्रं रुद्रं च > यमं वरुणम् एव च । > प्रसह्य हरते यस्मात् > तस्माद्-धरिर् इतीर्यते ॥ इत्यादिभिस् तस्यैव निखिल-जगद्-उदय-विभव-लय-लीलस्य निरङ्कुश-स्वातन्त्र्यं चानुसन्धेयम् इत्य् अन्तेन ।
[[24]]
विश्वास-प्रस्तुतिः **निद्रान्ताचमनं** दक्षिण-श्रवण-स्पर्श-रूपं वा तदानीं शक्यं विधाय,
मूलम् निद्रान्ताचमनं दक्षिणश्रवणस्पर्शरूपं वा तदानीं शक्यं विधाय,
आह्निकार्थप्रकाशिका निद्रान्ताचमनं दक्षिण-श्रवण-स्पर्श-रूपं वेति, तद् उक्तम् +++(पाञ्चरात्ररक्षायाम्)+++ - > एवम् उत्थाय निद्रान्ताचमनं मुख्यं दक्षिण-श्रवण-स्पर्शरूपं वा तदानीं शक्यं विधाय इति । निद्रान्त-निमित्ततया उत्तर-कर्माङ्गतया चात्र तन्त्रेणाचमनम्। तु-शब्देन स्वशास्त्रोक्त-विशेषः तोयालाभ-दशायां दक्षिण-श्रवण-स्पर्शश् च व्यज्यते । ("तु शब्देने"ति, समाचम्य तु वारिणेति पूर्वोदाहृत-श्रीसात्त्वत-वचनस्थ-तु-शब्दार्थ-विवरणम्।) स्मरन्ति हि > सम्यग् आचमनाशक्ताव् > अभावे सलिलस्य च । पूर्वोक्तेषु निमित्तेषु दक्षिणं श्रवणं स्पृशेत् । इति।
[[25]]
विश्वास-प्रस्तुतिः तस्मिन्न् एव शयनय् **आसीनः**,
मूलम् तस्मिन्न् एव शयनय् आसीनः, अखिलहेयप्रत्यनीककल्याणैकतान, स्वानितरसमस्तवस्तुविलक्षणानन्तज्ञानानन्दैकस्वरूप, स्वाभिमतानुरूपैकरूपाचिन्त्यदिव्याद्भुतनित्यनिरवद्यनिरतिशयौज्वल्यसौन्दर्य-सौगन्ध्यसौकुमार्य-लावण्ययौवनाद्यनन्तगुणनिधिदिव्यरूप, वत्सल, स्वामिन्, सुशील, सुलभ, सर्वज्ञ, सर्वशक्ते, परमकारुणिक, कृतज्ञ, स्थिर, परिपूर्ण, परमोदार, एवं भूतमार्दवार्जवाद्यनन्तकल्याणगुणपरिपूर्ण, स्वोचितविविधविचित्रानन्ताश्चर्यनित्यनिरवद्यनिरतिशयसुगन्ध-निरतिशय-सुखस्पर्शनिरतिशयौज्वल्यकिरीटमकुटचूडावतंसमकरकुण्डलग्रैवेयकहारकेयूरकटकश्रीवत्सकौस्तुभ-मुक्तादामोदरबन्धनपीताम्बरकाञ्चीगुण-नूपुराद्यपरिमितदिव्यभूषण, स्वानुरूपाचिन्त्यशक्तिशङ्खचक्रगदासि शार्ङ्गाद्यसङ्ख्येयनित्यनिरवद्यनिरतिशयकल्याणदिव्यायुध, स्वाभिमतनित्यनिरवद्यानुरूपस्वरूपरूपगुणविभवैश्वर्य शीलाद्यनवधिकातिशयासङ्ख्येय कल्याणगुणगण-श्रीवल्लभ, एवंभूत भूमिनीला नायक, स्वच्छन्दानुवर्तिस्वरूपस्थितिप्रवृत्तिभेदाशेषशेषतैकरतिरूपनित्यनिरवद्य निरतिशयज्ञानक्रियैश्वर्याद्यनन्तकल्याणगुणगणशेषशेषाशनगरुडप्रमुख नानाविधानन्तपरिजनपरिचारिकापरिचरितचरणयुगल, परमयोगिवाङ्मनसा परिच्छेद्यस्वरूपस्वभाव, स्वाभिमतविविधविचित्रानन्तभोग्य भोगोपकरणभोगस्थानसमृद्धानन्ताश्चर्यानन्तमहाविभवानन्तपरिमाण नित्यनिरवद्यनिरतिशय श्रीवैकुण्ठनाथ, निखिलजगदुदयविभववलयलील, अनालोचितविशेषाशेषलोकशरण्य, आश्रितवात्सल्यैकजलधे, अनवरतविदितनिखिलभूतजातयाथात्म्य, सत्यकाम, सत्यसङ्कल्प, सकलेतरविलक्षण, अर्थिकल्पक, आपत्सख, श्रीमन्नारायण,
विश्वास-प्रस्तुतिः इति पूर्व-रात्र्य्-अनुसंहित-प्रकारेणानुसन्धाय
मूलम् इति पूर्वरात्र्यनुसंहितप्रकारेणानुसन्धाय
आह्निकार्थप्रकाशिका अपर-रात्र-योगम् आह - **तस्मिन्न् एव शयने आसीनः** "अखिल-हेये"त्यादिना "प्राप्यकश् चास्मी"ति **पूर्व-रात्र्य्-अनुसंहित-प्रकारेणानुसन्धाये**त्य्-अन्तेन । तद् उक्तम् - > तस्मिन्नेव शयने समासीनः। प्रतिसंहित-योगः इत्यादिना पूर्वम्+++(→क्व??)+++ अप्य् उक्तं - > एवं प्राप्त-कालम् अपनीत-निद्रा-तमस्कत्वेन > सत्त्वस्थः प्रसन्नधीश् च भवति । > > तेन पूर्व-यामानुसंहितम् अन्तःकरण-चित्र-भित्ति-गतं विचित्र-शुभाश्रय-विशिष्टं ध्येयं+++(~~ः~~)+++ > निद्रा-तमोन्तरितम् अपि > तत्-काल-समुन्मिषित-सत्त्व-सन्धुक्षित--सात्त्विक-ज्ञान-रूप-प्रदीप-प्रकाशेन > सम्यग्-अवलोक्येत, > तत एवापर-रात्र-योगो निष्पद्यते इति । **पूर्व-रात्र्य्-अनुसंहित-प्रकारेणानुसन्धाये**ति । तदुक्तम् +++(पाञ्चरात्ररक्षायाम्)+++ "योगं व्याख्यास्यामः" इत्य् उपक्रम्य, > यद्य् अप्य् अनन्य-प्रयोजनस्यापि > तत्र-तत्रोक्त-न्यास-विद्या-भेदात् > स्व-निष्ठा-विषय-तत्-तत्-संहितोक्त-प्रक्रिया-भेदाच् > चानुसन्धेय-रूप-गुण-विभूत्य्-आदिकं **नाना भवति**, > तथापि > स्व-रूप-निरूपकानन्दत्वादि-पञ्चक-निरूपित--स्व-रूपे सर्व-शेषिणि, > परस्मिन् ब्रह्मणि, श्रीमति, पुरुषोत्तमे > तत् तद् विद्योदित-रूपादि-विशेष-विशिष्ट-मनो-वृत्ति-नैरन्तर्य-रूपत्वं > योगस्याविशिष्टम् । > > अत एव > >> पृथग्-भूतेषु दृष्टेषु >> चतुर्ष्व् आश्रम-कर्मसु । >> समाधौ योगम् एवैकं >> शाण्डिल्यस् समम् उक्तवान् ॥ > > इति महाभारतवचनं सुसङ्गतं भवति।
विश्वास-प्रस्तुतिः > भगवान् एव > स्व-नियाम्य--स्वरूप-स्थिति-प्रवृत्ति--स्व-शेषतैक-रसेन मया > स्वकीयैश् चोपकरणैस् स्वाराधनैक-प्रयोजनाय > परम-पुरुषस् सर्व-शेषी > स्व-शेष-भूतम् इमं **योगं कारितवान्** । इति सात्त्विकत्यागं कृत्वा
मूलम् > भगवानेव स्वनियाम्यस्वरूपस्थितिप्रवृत्तिस्वशेषतैकरसेन मया स्वकीयैश्चोपकरणैस्स्वाराधनैकप्रयोजनाय परमपुरुषस्सर्वशेषी स्वशेषभूतमिमं योगं कारितवान् । इति सात्त्विकत्यागं कृत्वा
विश्वास-प्रस्तुतिः > कृतञ्च करिष्यामि +++(=??)+++ भगवन्, > नित्येन भगवत्-प्रीत्यर्थेन > महा-विभूति-चातुरात्म्य-भगवद्-वासुदेव-पादारविन्दार्चनेन > योगेन भगवत्न्-अकर्मणा > भगवान् प्रीयतां वासुदेवः । इति योगं समापयेत् ।
मूलम् > कृतञ्च करिष्यामि भगवन् नित्येन भगवत्प्रीत्यर्थेन महाविभूतिचातुरात्म्यभगवद्वासुदेवपादारविन्दार्चनेन योगेन भगवत्कर्मणा भगवान् प्रीयतां वासुदेवः । इति योगं समापयेत् ।
आह्निकार्थप्रकाशिका अत्र तु > भाष्यकाराद्य्-उक्त--नित्य-गद्य-स्तोत्रादिषु यथानुसन्धानम् उक्तं, तत् सम्प्रदाय-निष्ठैर् अनुसन्धेयम् । इत्यन्तेन प्रतिपादित--श्री-भाष्यकार--सम्प्रदायागत-योग-प्रकारेणानुसन्धायेत्य् अर्थः । अखिल-हेयेत्य्-आदीनां पदानाम् अर्था आचार्य-पाद-कृत--पृथु-गद्य-विवरणे ऽनुसन्धेयाः । अथ सात्त्विक-त्याग-पूर्वकं योग-समापनम् आह - भगवानेवेत्य्-आदिना > यामे तुरीये यत-वाग् रजन्यां विहाय शय्यां विहिताङ्घ्रि-शुद्धिः । यो ऽत्यादरेणास्थित-योग-शेषस् तं वेङ्कटेशं गुरुम् आनमाम इत्य् आचार्य-पाद-दिनचर्या-श्लोको ऽत्रानुसन्धेयः । पश्चिम-याम-कर्तव्य-वेदाभ्यास-पर्यन्तं योग इति इतरेषां परेषां च पक्ष आचार्य-पाद--श्री-सूक्त्य्-अनुष्ठान-विरोधाद् उपेक्ष्यः - "निर्वेदात् पूर्वम् एवापररात्र-योगो निष्पद्यते" इत्यनुगृहीतत्वात्। आचार्यपादैः 'तस्मिन्नेव शयने समासीनः', "प्रतिसंहितयोगः" इत्यादिना, "नियतेन्द्रियस् समाहितः, अतिक्रान्तम् अनन्तं कालं निरर्थकम् अवलोक्य निर्वेदं परं गच्छेत्" इत्यादिना च, अपर-रात्र-योग-समापनं, निर्वेद-गमनं, नारायण-मुनि--वङ्गिवंशेश्वर-प्रदर्शित-निर्वेद-प्रकारः, सात्त्विक-धृत्यालम्बनम्, इति क्रमः प्रतिपादितः - अत्र "प्रतिसंहितयोग" इत्यत्रातीतार्थक-निष्ठा-प्रयोगेण योगस्य निर्वेद-पूर्व-भावित्वं प्रतीयते - > दिनावसाने सम्प्राप्ते पूजां कृत्वा समभ्यसेत् । योगं निशावसाने तु विश्रमैरन्तरीकृतम् ॥ पञ्चमो योगसंज्ञोसौ कालांशो ब्रह्मसिद्धिदः । इत्याचार्यपादोदाहृतजयाख्यवचनतः सर्वव्यापारोपरतिसुभगनिद्रापूर्वापरकालयोस्तत्पूर्वापररात्रेषु युञ्जान इत्याद्युक्तावसरलब्धयत्नलभ्य इत्यादिकया श्रीपाञ्चरात्ररक्षाश्रीसूक्त्या > नीत्वैवं प्रथमं यामं जपहोमादिना सुधीः । योगस्थ एव तद्धीरः ततो यामद्वयं स्वपेत् । उत्थायापररात्रे तु पूर्वोक्तमनुसञ्चरेत् इति लक्ष्मीतन्त्राष्टाविंशाध्यायवचनेन चोत्थानानन्तरसमय एवापररात्रयोगविध्यवगमाच्च । [[28]] एतेन उत्थानदशायामेव पाञ्चकालिकसमुदायसङ्कल्पः; पश्चात् क्रमेणाभिगमनादिविशेषसङ्कल्पः - त्वय्याराधनकाम इति प्रतिबन्धकनिवृत्तिप्रार्थनामन्त्रानन्तरमपररात्रयोगः सन्ध्यायामासन्नायामित्युक्तकालपर्यन्तः इत्यन्यपक्षः, सन्ध्यायामासन्नायामभिगमनादिपाञ्चकालिकसमुदायसङ्कल्पः । ततः प्रत्येकं सङ्कल्प इति पञ्चकालक्रियादीपोक्तपक्षश्च निरस्तः । > आप्रभातं निशान्तं वै पञ्चधा परिकल्पना । पृथक्कर्मवशात् कार्या न काला बहवस्स्मृताः । आद्यं कर्माभिगमनमुपादानं ततः परम् । इज्या च पश्चात्स्वाध्यायस्ततो योगस्ततः परम् ॥ पञ्चैते विधयः प्रोक्ताः कालाः पञ्चैव ते क्रमात् । इत्याचार्यपादोदाहृतपाद्मवचनतः > शास्त्रविभक्तकालविशेषनियतமாய், उत्तरकैङ्कर्यத்துக் கவ सरलाभार्थமாக पूर्वकैङ्कर्य ந் தலைக்கட்ட வேண்டும்படி சங்கிலித் इत्युत्तरकृत्याधिकारश्रीसूक्त्या च पञ्चकाल[[??]] तद्विहितकर्मणामसङ्कीर्णतया भेदावगमात् पाञ्चकालिकसमुदायसङ्कल्पे मानाभावात् । सर्वेषु च कर्मारम्भेष्वित्यादिपूर्वोदाहृताचार्यपाद-श्रीसूक्त्या कर्मभेदेन सात्त्विकत्यागभेदावगमेन सङ्कल्पस्यापि तथैवौचित्यात्। अन्याह्निकोक्तयोगाभिगमनतन्त्रानुष्ठानमप्ययुक्तम् । अत्र योगासमर्थस्य तच्छेषभूतस्वाध्यायः समर्थस्य तु योग एवेति न समानकाल[[??]] तदुभयविधायकशास्त्रद्वयविरोधः - यामयामार्धविभागः, स्वाध्यायादिषु नातिदूरपूर्वापरन्यूनाधिकनाडिकाविभागादयस्तु मतभेदेन निर्वाह्या इत्येककाले कालद्वयकर्मविधायकवचनानामधिकारिभेदमतभेदाभ्यामाचार्यपादैर्व्यवस्थोक्तेः, तन्त्रानुष्ठानानुक्तेश्च । एतत्तत्वं श्रीनिक्षेपचिन्तामणौ स्पष्टम् ।
[[29]]